Svclrc
Sriman Nyadudha Vol - 1
Front matter
श्रीमट्टीकाकृत्पादाचार्य(जयतीर्थयति)विरचिता
श्रीमन्यायसुधा
सनाभिः
१) श्रीमद्विद्याधीशतीर्थयतिकृता
२) श्रीमत्सत्यव्रततीर्थयतिकृता
३) श्रीमद्राघवेन्द्रयतिकृतः
४) श्रीमद्यदुपत्याचार्यकृता
५) श्रीमछ्रीनिवासतीर्थकृतम्
६) श्रीमन्मन्नारी कृष्णाचार्यकृतः
वाक्यार्थचन्द्रिका
सुधाविवृतिः
परिमळः
सुधाटिप्पणी
टीकाऽधृतसुधावाक्यार्थविवरणम्
चपकः
इति टिप्पणीपटेन समलङ्कृता ।
तस्याश्चायम्
प्रथमो भागः
श्रीमन्मध्वाचार्यमूलमहासंस्थानश्रीमदुत्तरादिमठाधीशैः
श्री १००८ श्रीमत्सत्यप्रमोदतीर्थश्रीमच्चरणैः
नैकविद्वद्भिः संशोध्य
श्रीमन्मध्वसिद्धान्ताभिवृद्धिकारिणीसभातः
प्रकाशितः ।
शा.श. १९०३ ई.स. १९८१
उत्तरादिमठ, बसवनगुडी
बेङ्गळूर ५६०००४
प्रथममुद्रणम्
शा.स. १९०३
१००० प्रतयः
अस्य ग्रन्थस्य सर्वेऽधिकाराः प्रकाशकायत्ता:
मुद्रकः
वरखेडकरोपाहवाळाचार्यतनूजो धनञ्जयः
सुधामुद्रणमन्दिरम्
उत्तरादिमठीयावारः, बसवनगुडी,
बेङ्गळूर ५६०००४
।
..
सुखमुखगुणबिम्बः साधुमार्गावलम्बः
सुमतिजलजमोदो दूषितान्यप्रमोदः ।
भुवनविततमोहध्वान्तविध्वंसकेहो
दिशतु दृशमभीष्टी व्याससूर्यः स्खनिष्ठाम् ।।
प
393
808588
SON
जाज्वल्येने विष्णम्मदेखो वेदव्यासानन्दनीयानो।
सज्ज्ञानायानन्दविज्ञानमूर्ती प्राप्तौ पृथ्वीमाश्रमे तत्र तावत् ।
जाज्वल्येते विष्णुवायू स्म देवौ वेदव्यासानन्दतीर्थाभिधानौ ।
श्रीरामाजिगुहाश्रितस्सुगहने माध्वे वने सञ्चरन्
व्याख्यानादविदीर्णकुत्सितमृगवातान्तरङ्गो मुहुः ।
दक्षो दिक्षु विदिक्षु माध्ववचसामौत्तम्यसंस्थापने
वादीन्द्रेभविदारणो विजयते सन्मोदतीर्थो हरिः ।।
न हता
श्रीसन्मोदतीर्थस्य सुदीर्घायुरारोग्यप्रार्थना
श्रीसन्मोदमुनीश्वरस्य महितं षष्ठयब्दपूर्ति महं
सेयं न्यायसुधासमीरदयिता संस्मारयन्ती सदा ।
स्वस्याः प्राणपतेर्हदब्जनिलयश्रीमूलसीतापतेः
कारुण्येन गुरूत्तमस्य भवतादीर्घायुरारोग्यदा ॥१॥
षष्टयब्दानि कृतं समस्तसुकृतं प्रेष्ठस्य सीतापतेः
श्रेष्ठे पादयुगे समयं च पुनः शिष्टेन सुष्ट्वायुषा ।
यष्टीकार्यमुनेः कृतिप्रवचने निष्ठावहोऽस्मिन्गुरौ
तुष्टः स्याजयतीर्थपूज्यचरणः पुष्टायुरारोग्यदः ॥२॥
श्रीमन्न्यायसुधोपदेशनियमे यो नित्यबद्धादरः
टीकाकृत्पदसन्निधावकृत यो भव्य सुधामण्टपम् ।
एतस्मिन्निजवंशमण्डनपरे सन्मोदतीर्थे गुरौ
भूयाच्छीजयतीर्थपूज्यचरणो दीर्घायुरारोग्यदः ॥३॥
अद्वैतस्य सुधेति तत्वमिति वा नामापि नैवोचितं
किन्त्वत्यन्तविषायितं तदसुधेत्येवाभिधानोचितम् ।
इत्थं स्वीयसुधासुमण्डनकृतौ संसाधके सद्गुरौ
भूयाड्रीजयतीर्थपूज्यचरणो दीर्घायुरारोग्यदः ॥ ४ ॥
सूत्राख्यं श्वशुरं तथा निजपतिं कृत्वाऽनुभाष्यं पुरः
चेटीभिः सहिता प्रकाशमगमत् पट्टिप्पणीभिः सुधा ।
यत्षष्ठयब्दमहोत्सवे करुणया वाग्देवताऽस्मिन्गुरौ
भूयाच्छीजयतीर्थपूज्यचरणो दीर्घायुरारोग्यदः ॥५॥
This Book is published
with the financial assistance of
Tirumala Tirupati Devasthanams
under their scheme
"Aid to publish Religious books'
॥ श्रीशं वन्दामहे ।। ॥ श्रीमन्मूलराम-दिग्विजयराम-वंशराम-प्रसन्नविठ्ठला विजयन्तेतराम् ।। ॥ श्री भगवान् वेदव्यासो विजयतेतराम् ।। ॥ श्रीमदानन्दतीर्थ-भगवत्पादा विजयन्तेतराम् ॥ ॥ श्रीपद्मनाभादि: अस्मद्गुरुपर्यन्ता समस्तगुरुपरम्परा विजयतेतराम् ।। प्रास्ताविकम् यत्पदं वेदसंवेद्यं कटाक्षणापि वीक्षितुम् । न क्षमन्ते विमतयस्तमुपासे श्रियः पतिम् ।। कलत्रं कमला यस्य पुत्र: कमलसम्भवः । शिवाद्याः सेवकास्तस्मै नमो विश्वकुटुम्बिने । श्रीमदानन्दतीर्थभगवत्पादाचार्यै : निश्चलया भक्त्या निरन्तरेणादरेण च सातत्येन समाराध्यस्य करुणावरुणालयस्य लक्ष्मी-जानेः सर्वोतमस्य श्रीमूलरामादिरूपस्य नारायणस्य निस्सीमकारुण्यबलेन, श्रीमदानन्दतीर्थभगवत्पूज्यपादानामखर्वानुग्रहेण श्रीमज्जयतीर्थगुरुसार्वभौमानामाशीराशिना च सकल. विद्वन्मणिशिरोधार्येण टिप्पणीसप्तकेन सध्रीचीनां गुरुसार्वभौमश्रीमज्जयतीर्थमुनीन्द्रप्रणीतां श्रीमन्न्यायसुधाम् इदंप्रथमतया मुद्राप्य समस्तजिज्ञासुजनसुलभ्यां कर्तुं नितान्तं प्रमोमुद्यतेऽस्माकं मानसम् । करालेऽपि कलिकाले, अस्मिन् भव्ये कर्मभूभागे भारते कृतावताराः समीरस्वरूपाः श्रीमदानन्द- तीर्थभगवत्पादाचार्याः बहून् भूरिभव्यभावगभीरान् ग्रन्थान् प्राणैषुः । प्राचारयंश्च अनादिसत्सम्प्रदाय- परम्पराप्राप्त कालेन गभीररंहसा तिरोहितं वैदिकं श्रीमद्वैष्णवसिद्धान्तमासेतोराशीताचलम् । स्वीयान् सज्जनतल्लजसार्थान् समुदधारयंश्च संसृतिसहजमिथ्याज्ञानसन्तमससागरात् । इति विदितचरमेव सच्छास्त्र- शोधितशेमुषीकाणां विदुषाम् ।
2 तदेतैः श्रीमदाचार्यपूज्यपादैः विरचितं समग्रमपि ग्रन्थकदम्बकम् व्यासदेवहृदयातिवल्लभं वासुदेवमगणेयसद्गुणम् । साधयत्सकलदोषवर्जितं ज्ञानभक्तिदमनन्तसौख्यदम् ॥ उक्तमुक्तमभिधेयमुत्तमं वेदवाक्यमनुवादयन्मुहुः । व्यञ्जयत्स्मृतिकचोभिरञ्जसा तस्य चार्थमतियुक्तयुक्तिमत् ॥ बालसङ्घमपि बोधयद् भृशं दुर्निरूपवचनं च पण्डितैः । अप्रमेयहृदयं प्रसादवत् सौम्यकान्ति च विपक्षभीषणम् ।। अस्तदूषणमवन्ध्यभाषणं लक्षितं सकललक्षणैः समम् । माननीयमपि नाकिनायकै रूपमन्यदिव धन्यमात्मनः ॥ इत्यादिरीत्या कविकुलतिलकनारायणपण्डिताचार्योक्त-महामाहात्म्योपेतम् । अदसीयभाष्यगाम्भीर्य तद्भाष्यव्याचिख्यासुभिः वादिदन्तीन्द्रविद्रावकैः, प्रतिवादिपञ्चाननैः, सर्वशास्त्रमहासागरपाठीणैः, कविकुलतिलकैः त्रिविक्रमपण्डिताचार्यैरपि कवीन्द्रैन समाप्यन्ते सङ्गृह्यापि यतोऽनिशम् । न्यायरतानि भाष्याब्धेरस्य गाम्भीर्यमद्भुतम् ॥ इत्यादिशब्दसन्दर्भेः सन्तोष्ट्रयते । ग्रन्थेभ्य एभ्योऽगाधेभ्यो युक्तयो नो दुरुद्धराः । मनोमान्द्यात्ततो ग्रन्थं व्यक्ततर्कततिं कुरु ।। इत्येवं प्रकारेण कृतां तेषां सानुनयप्रार्थनामुररीकृत्य श्रीमदाचार्यचरणाः अनुव्याख्यानमुद्रन्थमकार्षुरिति विदितमेव समेषां प्रेक्षावताम् । साधूक्तं नारायणपण्डिताचार्यैः इत्यथितो व्यधान्मध्वः सोऽनुव्याख्यां सतां सुधाम् । दुर्वादिगर्वाद्रिपविं मायिध्वान्तरविद्युतिम् ॥ इति ।
प्रणीता श्रीमन्न्यायसुधा सुधां मुधाकुर्वती श्रुतिमनोहग, भावगीग, विज्ञानानन्वविद्याव्यवसाया-
ध्यवसायाद्यनुसारेण आनन्दसन्दोहं वितन्याना साक्षीकृतद्राक्षारसमक्षरझर्गसहोदरी प्रतिपादनपावन-
परिपाटीपाटवनिष्कपटाटोयम्फुटपुटकुटवाटाटवीसन्निभा निन्पमन्यायनैपुणीवानिश्रणानिभा नवनवोन्मेप-
निरतिशयसौन्दर्यवान्धुर्यमाधुर्यसमेधितगलीसनाथा प्रचकानीति विदितमेव सर्वेषां विधिदपश्चिमानाम् ।।
श्रीनन्न्यायसुधाया अगाधता च विद्वन्मण्डलमहनीय विद्वन्मान्यमहाग्रन्थनिनाणचणैः
श्रीव्यासराज-वादिराज-विजयीन्द्र-रघूत्तम-बंदेश-विद्याधीश-राघवेन्द्र-सत्यवत-सत्यनाथ-सत्यप्रिय
सत्यधर्मादि-श्रीमत्पूज्यचरणमहामुनीन्द्रः श्री विष्णुदासाचार्य-वादवाचाय-कंशवाचार्य-श्रीनिवासतीर्थ-
मन्नारि कृष्णाचार्य-गुर्जाल सुब्रह्मण्याचार्य-पुगेगमैः सहिभिः प्रवचनाचार्यैश्च सानन्दं समनुभूय
साञ्जलिवन्धं सम्मान्य ससम्भ्रमं सङ्घोप्यते ।
ग्रन्थगौरवभयात् कतिपयानां महानुभावानां कानिचिदेव पद्यानि समुदाहियन्ते । तानि एतानि
अधस्तनानि पद्यानि-
-
चित्रः पदेश्च गम्भीरवाक्यमानरखडितः ।
गुरुभावं व्यञ्जयन्ती भाति श्रीजयतीर्थवाक् ॥ १ ॥
श्रुतिक्षीराब्धिमामथ्य धीमन्दरमहीभृता ।
प्राप्ता न्यायसुधा येन तं जीन्द्रमहं भजे ॥२॥
प्रत्यक्षरं प्रतिपदं अनेकाकृतगर्भिता ।
प्रतिभाति सुधाऽथापि ग्रन्थाल्पवाय नोच्यते ॥ ३ ॥
धाटी श्रीजयतीर्थवर्यवचमा चेटीमवत्स्वधुनी
पारीरानिलफुल्लमल्लियुमनोवाटीलमद्वासना ॥
पेटीयुक्तिमणिश्रियां सुमतिभिः कोटीरकैः श्लाषिता
सा टीका निचयात्मिका मम चिरादाटीकतां मानमे ॥ ४ ॥
नववसुधालेखनतो बहुधान्यस्य जायते वृद्धिः ।
नववसुधालेखनतो बहुधान्यस्य जायते वृद्धिः ॥ ५ ॥
4. नो धत्त जडतां न भङ्गमयते नीचस्थलं नेहते । स्खालित्यं न च याति नैति कृशतां क्षोभं वचिन्नाचते ॥ मानं नोज्झति नो जहाति च पदं व्यर्थ न कोकूयते । कल्येयं जयतीर्थकोविदवच कल्लोलिनी सेव्यताम् ॥ ६ ॥ सुधा वा पठनीया वसुधा वा पालनीया ॥ ७ ॥ आमूलाग्रनिबद्धतर्कजटिलं शब्दैकजीवातुकम् । मीमांसानुनयं च शङ्करवचो हुङ्कारभङ्गप्रदम् ॥ शास्त्रं तन्त्रचतुष्टयात्मकमिदं निस्स्वप्नतन्त्रान्तराः । व्याख्यास्यन्ति पठन्ति वा कथमहो ( किं वा कलौ दुर्घटम् ) सौधाग्र्ययुक्त्यम्बुधिम् ॥ ८ ॥ जयतीर्थाख्यतरणिः भासतां मे हृदम्बरे । यद्वचोधीत्य सर्वज्ञा भवन्ति भुवने जनाः ॥९॥ अस्य महाग्रन्थस्य अद्य-यावदुपलब्धटिप्पणीकारेषु श्रीपादराजा: प्रथमे, श्रीमद्वादिराजश्रीपादाः गुर्वर्थदीपिकाकाराः द्वितीये, वाक्यार्थचन्द्रिकाकाराः श्रीमद्विद्याधीशतीर्थश्रीपादाः तृतीये । एषा वाक्यार्थचन्द्रिका अस्माभिः मुद्राप्य प्राकाश्यं नीयमाने अस्मिन् ग्रन्थे टिप्पणीषु मध्ये प्रथम स्थान लभते । (१) श्रीविद्याधीशतीर्थश्रीपादाः । एते महानुभावाः श्रीमद्रघूत्तमतीर्थशिष्याग्रेसराणां आनन्दभट्टारकाणां तनूजाः । नरसिंहप्रसाद- लब्धजनुष्ट्वात् नरसिंहशर्माणः इति पूर्वाश्रमे सर्वजनीन-प्रसिद्धिभाजः आसन् । एषाम् अवतारविषये ईदृशः उदन्तः दिगन्तप्रसिद्धशिष्टसम्प्रदायक्रमेण आगतः ।- प्राचेतसाचाराः प्राचार्याः आनन्दाचार्याः महाराष्ट्रमण्डलान्तर्गत-अहम्मदनगरविभागस्थ पुण्य- स्तम्भपुरीमध्यवात्सुः तत्रत्य गोदातीर-सुनीरसमुत्थ-समीरशोधितशरीरस्वान्ताः ।
5 एकदा भारतभूवलयस्थ-निखिलतीर्थक्षेत्रयात्रानिमित्तं दिग्विजयं कुर्वाणाः प्रतिवादिदिग्दन्ति- सम्भेदनसिंहविक्रमाः श्रीमद्वादिराजतीर्थश्रीमच्चरणाः पुण्यस्तम्भसमीपवर्ति प्रतिष्ठानगरमासेदिवांसः तत्रत्य- मायिमत्तमतङ्गजेन सह चिरकालं वादाहवव्यापृताः अबोभूयन्त । अत्रान्तरे श्रीकृष्णपूजापर्यायसमयः उपस्थितः । स्वामिपादाः श्रीकृष्णपर्यायपूजां विहातुं नेच्छन्ति स्म, न वा प्रारब्धं वादाहवं विरमयितुमपि सर्वथा अभिलपन्ति स्म । एवं स्वामिपादानां चित्ते कार्यद्वयाकुले वादावमहावीराः श्रीमन्तः आनन्दाचार्याः सधैर्य सप्रश्रयं च स्वामिपादान् समुपेत्य व्यजिज्ञपन्त- .. न मम "पूज्याः श्रीचरणाः, श्रीपादैः निश्चिन्तमनसा सुखेनैव पर्यायपूजामहोत्सवं निर्वर्तयितुं रजतपुरं प्रति अवश्यं दिग्विजयो विधेयः । मया खलु प्रकृतेन प्रतिवादिदिग्गजेन सह वादावली वितत्य, विक्रम्य, जयपत्रिका हस्तगतां कृत्वा भवच्चरणयोः समर्पयिष्यत इति समाश्वासयामासुः । एवं समाश्चा- सयन्ती सुदर्पपूर्णपदपाली श्रवणातिथीकृत्य दूरेह्यपास्तचिन्ता भूत्वा श्रीपादाः पर्यायपूजामहोत्सवं वैभवविशेषेण विधातुं रजतपुरं प्रत्याजग्मुः । आनन्दाचार्यमहोदयाः विपक्षिणं निरुत्तरं विधाय तेन दत्तां विजयपत्रिकां समादाय, रजतपुरं समासाद्य श्रीमद्वादिरानश्रीपादान् निशाम्य जयपत्रिकां स्वामिपादयोः समर्पयाम्बभूवुः । स्वामिपादानां अमितंपचः आनन्दः समजनीति न विस्मयास्पदम् । समासादितमहासन्तोषाः स्वामिपादाः अवोचन् "वयं कञ्चन महान्तं वरं श्रीमन्यः प्रदातुमभिलषामः । ब्रियतां यः कोऽपि अभीप्सिततमः वरः” इति । आनन्दाचार्यमहोदयाः प्रत्यब्रुवन्– किञ्चिदपि हरिवायुतृप्तिप्रदात् अन्यत् अभीप्सिततमम् । हरिवायुप्रीत्यर्थ प्रतिवादिजयः ईप्सिततमः आसीत् । स तु अस्मद्देशिकेन्द्राणां श्रीमद्रघूत्तमश्रीपादानां परमानुग्रहेण भवताम् अमानेन समनुक्रोशेन च प्राप्तः । इदानीं न कापि न कस्मिन्नपि नः स्पृहा विद्यते” इति । स्वामिपादाः आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः । वैष्णवोऽस्मत्कुले जातः स नः सन्तारयिप्यति ॥ सद्वैप्णवापत्योत्पत्या महान् आनन्दः सञ्जायेतैव, स्पृहाशून्यानां सद्वैष्णवांग्रेसराणामपि भवताम् अयमायन्दः सर्वेषां भागवतप्रबर्हाणां च सुतमामभीप्सितः, इष्टे इष्टसाधने च स्पृहा कथंकारं नो बोभूयेत ।
आनन्दाचार्याः निरुत्तरीभूय कतिपयक्षणपर्यन्तं मौनितां प्राप्ताः । पश्चात् प्रत्युत्तरं प्रोचुः- 'यद्येवं तर्हि श्रीमञ्चरणानां यादृशी योग्यता समस्ति तादृशयोग्यताशाली समीरसिद्धान्तसमुद्धारकः, तद्विरुद्धसिद्धान्तविध्वंसकः पुत्रः यदि श्रीमतां स्वामिपादानां अनुग्रहेण दिष्ट्या समुत्पद्येत तदा हन्त धनेशकोटितोऽपि अहं धन्यतरो बोभविष्यामि । स्वामिपादाः प्रत्यवोचन्– महान् आनन्दः । अयं वरः सद्य एव अस्माभिः दत्तः । यास्यस्य अव्याहतप्रसादात् जनिष्यमाण एष भवतां तनूजः सर्वशास्त्रार्थवेत्ता भूत्वा आर्यमठसिंहासनं समधिष्ठाय वेदान्तं साम्राज्यं निरतिशयवैभवेन शाशासीति । तथा प्रभूतप्रमेयपूर्ण महाग्रन्थं विरचय्य सर्वदूर्वादिव्यूहं निष्प्रत्यूहं पराभूय अन्ते हिमगिरीन्द्रगहरे भगवत्प्रीत्यर्थ सुबहुसंवत्सरपर्यन्तं अशन- वसनवासादिविगताशावासनः वीतविरामं चीर्णमहातपाः परमपदं प्रयास्यति । इदं सत्यं सत्यं सत्यमिति त्रिवारं सत्यापयामि ॥ अन्यच्च- आचार्यप्रवराः, भवद्भिः महती समीरसेवा कृता, सा सर्वजनश्रवण- पथातिथीभूता मां प्रेरयति एवम्- श्रीमतः वयं सन्तोषेण अनुपमेन स्पृहणीयेन भट्टारकउपाधिना सम्भाव्य सम्भूष्य च श्रीमताम् अन्यादृशवादाहववैचक्षण्यं सम्मानये महीति । सन्तोषेण अस्माभिः प्रदत्तं महानन्देन स्वीक्रियताम् , आचार्याः । इदानीमानन्दाचार्याः निरुत्तराः सन्तः भट्टारकपदवी स्वामिपादानुग्रहं मत्वा सप्रमोदमङ्गयकाए: श्रीपादेभ्यः प्रणतीनां ततीर्व्यतीतनन् । ततःप्रभृति श्रीमन्तः आनन्दाचार्याः आनन्दभट्टारकाः इति पण्डितमण्डले पामरपरिधौ च विख्यातिं गताः ॥ अचिरादेव समीरसिद्धान्तोद्धारकापत्यलब्ध्यर्थं आनन्दभट्टारकाणां मनसि नरसिंहोपासना कर्तव्या इति द्रढीयान् सङ्कल्पः समुत्पन्नः । दम्पतीम्यां बहुभक्तिभूषिताभ्यां सा आदरनरन्तर्येण कृता । गच्छता कालेन अद्भुतमपत्यं समुदपद्यत । कुलदैवतस्य नरसिंहस्य उपासनानन्तरमुत्पन्नत्वात् श्रीमतां वादिराजश्रीपादानामनुग्रहेण तेषामेव वचनानुसारेण आयति काले अस्य शिशोः नरेषु श्रेष्ठत्व- भवननिश्चयाच्च नरसिंहेति नामकरणं कृतम् । बाल्ये एव सुव्यक्तमहापुरुषलक्षणः, सर्वाणि शास्त्राणि समधीत्य तदात्वे विद्यमानानां महा- पण्डितानां नासीरदेशमधिवसन् विद्वच्छ्रेणीवेणीचूडामणिरिति सर्वैः शिरःसादरमवनमय्य भृशं सम्मा- नितोऽभूत् येषां षडङ्गसहितवेदचतुष्टय-सकलशास्त्रषण्डोद्दण्डपाण्डित्येन परितोषितस्वान्ताः विद्वत्सार्वभौमाः 7 श्रीमद्वेदव्यासतीर्थश्रीमच्चरणाः उचिते काले एनान् वेदान्तसाम्राज्ये सर्वज्ञमूलमहासंस्थानश्रीमज्जगद्गुरु- श्रीमदुत्तरादिपीठपट्टाभिषिक्तान् विधिवद् विधाय विद्याधीशतीर्थेति अन्वर्थनाम्ना सर्वासु दिक्षु घोषयामासुः । पारिवाज्यपरिग्रहानन्तरमेव सद्यः श्रीमद्विद्याधीशतीर्थश्रीमच्चरणाः निखिलेऽपि भारतभूमण्डले दिग्विजयं भूयो भूयो भावयित्वा शूर्पाक्षेत्रे सर्वान् पण्डितोद्धान् सम्मेल्य सुधादिग्रन्थपाठनप्रवचनप्रवाई प्राचालयन् ॥ सञ्चारक्रमेण इक्केरीपत्तने सङ्गतं वैयाकरणभूषणकार-कोण्डभट्टपितरं रङ्गोजीभट्ट मासत्रयदीर्घकाल- व्यापिवाग्युद्धे निर्जित्य समीरसिद्धान्तसर्वाङ्गसुन्दरसामञ्जस्यं अञ्जसा समर्थ्य स्वयशोधवलितदिगन्तप्रान्ताः अभूवन् । यथोक्तं जनार्दनसूरिभिः विद्याधीशविजयमहाकाव्ये- इत्थं रङ्गाभिधाख्यमाख्यातकीर्तिः निर्जित्य द्राक् सौगतैर्बद्धसख्यम् । प्रातर्धन्योऽपूजिराजन्यमुख्यैः सङ्ख्यावद्भिः सौख्यतीर्थार्थशिष्यः । किञ्चित्कालानन्तरं विस्मृतस्वात्मपराजयाः रङ्गोजीभट्टाः श्रीमद्विद्याधीशश्रीमच्चरणमहासन्निधिं समासेदिवांसः प्रणामपरम्परां व्यातेनिवांसः बहुवित्तादिदानेन सम्भाविताः सन्तोषिता बभूवुरित्यपि प्रोक्तमुपलभ्यते । एवं सत्यपि एतेषां पुत्रैः कोण्डभट्टैः वैयाकरणभूषणकारः भूषणान्ते धाष्टन स्वपित्रभिमानेन च विद्याधीशवडेरुसंज्ञकयतिं श्रीमाध्वभट्टारकं जित्वा केलदिवेङ्कटय्यसविधेप्यान्दोलिकां प्राप्तवान् ।। इत्यस्मिन् पद्ये प्रोक्तः विद्याधीशपराजयोदन्तः केवलं स्वकपोलकल्पितः इति मत्वा सर्वैः सत्यप्रियः समुपेक्षणीयः । अयमैतिहासिको महावादः येन केन च प्रकारेण, यस्मिन् कस्मिन् अपि काले, यस्मिन् कस्मिन् अपि स्थले इतरासाक्षिकतया न सम्बभूव, अपि तु भूयसां विद्वद्वराणां समक्षं तद्देशीयनृपस्य पुरतः मासत्रयपर्यन्तं प्रश्नोत्तरलेखनपुरःसरं समबोभूयत इत्यपि विद्याधीशविजये प्रतिपादितम् । , बथा चोक्तम्- इति तत्र यतीन्द्रमायिनोलिखितान्योन्यविचित्रपत्रिकम् । न्यगलत् प्रसभं विवादिनो: बत मासत्रितयं दिनोपमम् ।। अयं विद्याधीशविजयकर्ता महाकविः प्रकृतोभयवादिसमकालिकः । उभयोर्भूतले विद्यमानयोरेव इदं षोडशसर्गात्मकं सुन्दरं तन्महाकाव्यं प्राप्तप्रसिद्धिकमासीत् । व्यतीते बहुतिथे काले भूषणकारः कोण्डभट्टः विद्याधीशविजयप्रोक्तं पेठिवान् व्यथितमनाः स्वीयपितृमानसंरक्षणार्थ इमं श्लोकं स्वग्रन्थान्ते न्यभान्त्सीत् इति भाति ॥ इमे विद्याधीशतीर्थश्रीमच्चरणाः श्रीमन्न्यायसुधाटिप्पणीं वाक्यार्थचन्द्रिकानाम्नी व्यररचन् । इयं टिप्पणी नितान्तं रमणीया, भावगभीरा, विविधशास्त्रविचारव्यूहगर्भा, श्रीमन्न्यायसुधा- गूढभावार्थाविर्भावनकर्मणि प्रादुष्कृता, भूतपूर्वको शलवित्ता अवतरणिकाप्रणाल्या अवतार्यवाक्यविवक्षित- सर्वगूढाभिसन्धिसुविशदविशङ्कटविवरणपरायणा वरीवृत्यते इति विदाकुर्वन्तु विमर्शविवेकशालिनः विश्वे विद्वद्वरेण्याः । इमे स्वामिपादाः श्रीमन्न्यायसुधां पञ्चाधिकरणीपर्यन्तं व्याख्याय, दुरासदस्यापि रमणीयस्य हिमशैलेन्द्रस्य शीतलशिलासु निश्चलध्यानयोगानुष्ठानार्थ आम्नायशिरस्सु प्रोक्तानां मीमांसाशास्त्रेण निर्धारितानां स्वयोग्यगुणानाम् उपासनार्थ च गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसैः यत्र ते निर्विशङ्काः कण्डूयन्ते जरठ हरिणा: स्वाङ्गमङ्गे मदीये ।। इत्युक्तरीत्या दुर्धर्षेण रणरणकेन तात्वर्यमाणमानसाः स्वानुजान् स्वशिष्यान् विद्वदग्रेसरान् केशवाचार्यान् स्वाभिमतप्रणाल्या शेषव्याख्याने न्ययोक्षुः । स्वयं च हिमगिरीन्द्रमुपगम्य तत्रत्यदुर्गमगहरे विष्णुतीर्थ- महोदयाननुकुर्वन्तः दुप्करं तपः दीर्घकालं तप्यमानाः रमाधवमग्नमानसाः नैकसमात्मकमनेहसं क्षणमिव यापयन्तः अन्ततः एकचक्रानगरं समागत्य परमपदं प्रपेदिरे ॥
9 (२) केशवाचार्याः ( पाण्डुरङ्गी) मान्याः केशवाचार्याः गुरुनियोगं न केवलम् अशून्यम् अपि तु सर्वातसुन्दरतया पारं प्रापिपन् इत्यत्र न सन्देहगन्धोऽपि । इमे सर्वशास्त्रनिशितशेमुषीकाः विद्यावाराशयः आनन्दभट्टारकाणां भ्रात्रीया अपि तैः आत्मतनूजनिर्विशेष पालिताः पोषिताः अध्यापिता: प्रवचनाचार्यपदवी प्रापिताश्च । आनन्दभट्टारकाणां परलोकप्रयाणानन्तरं श्रीविद्याधीशश्रीमञ्चरणानामन्तेवासिनो भूत्वा तांस्तान् तत्तच्छास्त्रगतोद्रन्थान् समधीत्य पूर्वतोऽप्यधिकं निशितासिधारासमं निशातसमेधितशेमुषीकाः सम्पद्य गुरूपसत्तिपूर्वकं वेदान्तशास्त्रम् अन्ते अध्यगीषत । श्रीचरणाः अपि परमेण प्रेमभरेण अध्यजीगपन् स्वानुजान् केशवाचार्यान् । एभिः शेषवाक्यार्थचन्द्रिकाकारैः आत्मनः उपकारिषु कार्तश्यम् अधस्तनेषु श्लोकेषु निपुणम् आविप्क्रियते । तद्यथा- यद्धस्ताम्बुजसङ्गतोहमभवं देव्याः कटाक्षाश्रयो यव्याख्यानदिवाकरेण विदुषामन्तस्तमः संहृतम् ।। ये प्रीता भुवि चन्दनद्रुम इव स्वीयान् स्ववत् कुर्वते तान् व्याख्यानिरतान् भजे परगुरूनानन्दभट्टारकान् । यः श्रीनिवासमृगराट् सकलान्मदान्ध मायाविसिन्धुरसुकुम्भगिरीन् विदार्य । सतर्कतीक्ष्णनखरैर्विरराज मध्व- सिद्धान्तचारुविपिने तमलं भजेऽहम् ॥ इमे श्रीनिवासाचार्याः आनन्दभट्टारकाणामनुजाः केशवाचार्याणां तातपादाः । "श्रीमत्सुधाताम्भोधिविक्रीडनविशारदान् । श्रीमद्विद्याधीशतीर्थमुनीन् वन्दे गुरून्मम ॥ अथ यत्कृपयवाहं तत्सुशिक्षितमार्गतः । तेषामाज्ञां पुरस्कृत्य तत्प्रसादानुरञ्जितः ।।
तनूजाः केशवाचार्याः शिक्षितान् युक्तिनिचयान् स्मारं स्मारं यथामति । करोमि सौधगूढार्थशेषवाक्यार्थचन्द्रिकाम् ॥ इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां श्रीमत्सकलविद्वच्चक्रचूडामणीनां श्रीमद्विद्याधीशपूज्यपादानां निजशिष्यकेशवस्य कृतौ श्रीमद्गुरुराजोक्तमार्गानुवर्तिन्यां शेषवाक्यार्थचन्द्रिकायाम्" आभ्यः उक्तिभ्यः इदमवश्यं ज्ञायते यत् आनन्दभट्टारकाः, तेषामनुजाः श्रीनिवासाचार्याः, मानित- त्रयोऽपि पण्डितपुण्डरीका: वेदशास्त्रविहितपावनकर्मनिरताः प्रवचनाचार्याश्च, श्रीमद्विद्याधीशश्रीमच्चरणास्तु निखिलविद्वल्लोकललामायिताः निखिलमुनीन्द्रमालामण्डनायिताः आसन् । केशवाचार्यास्तु तेषामेव आदेशानुसारेण आत्मगुरुराजमार्गानुवर्तिनी शेषवाक्यार्थचन्द्रिको स्वामिपादैः शिक्षितान् युक्तिनिचयान् स्मारं स्मारं व्यररचन् इति । श्रीमद्विद्याधीशानां लोकोत्तरां पाण्डिती प्रविलोक्य "निष्कास्याद्भुतखण्डनत्रयमुखव्याख्यानरत्नोच्चगम् । दृष्ट्वाकुत्सितयुक्त्यरातिपिहितं श्रीव्यासतीर्थो बुधः ।। स्वोक्ति रक्षितुमत्र यः प्रतिपदं सम्यग्विशेषार्पको । विद्याधीशसुतीर्थसद्गुरुवरः किं नावतीर्णः स हि ॥" इति सुप्रसिद्धपद्ये श्रीमव्यासराजमुनीन्द्रा एव श्रीमद्विद्याधीशरूपेण पुनः कृतावताराः स्वग्रन्थानामुपरि आगतान् आक्षेपाधिक्षेपान् कणेहत्य अपाकार्षुः इति मम्मन्यन्ते केशवाचार्यमिश्राः इत्यलं पल्लवितेन । एषां महानुभावानां शेषवाक्यार्थचन्द्रिका अस्मिन् ग्रन्थे द्वितीयस्थानं लभते ।। (३) श्रीसत्यव्रततीर्थश्रीमच्चरणाः । क्यार्थचन्द्रिका-शेषवाक्यार्थचन्द्रिकाटिप्पणीद्वयानन्तरं तृतीया टिप्पणी श्रीमत्सत्यव्रततीर्थ- श्रीमच्चरणैः विरचिता मुद्राप्य प्राकाश्यं नीता । श्रीमत्सत्यव्रततीर्थश्रीमच्चरणाः श्रीमद्विद्याधीशतीर्थ- श्रीपादानां प्रशिष्याः,सुप्रसिद्धसत्यनाथतीर्थश्रीपादानां परमगुरवश्च । एतेषां वृन्दावनं सांगलीपत्तनान्ते पावने कृष्णातीरे वर्तते । इमेऽपि श्रीमद्वेदनिधितीर्थ-करकमलसञ्जातास्सन्तः सर्वज्ञमूलमहासंस्थान- श्रीमदुत्तरादिमठाधीशा आसन् , अन्यच्च एते महातपस्विनः पण्डिततल्लजाः, वाग्मिवरेण्याश्च आसन्निति विद्याधीशविजयादिकाव्यात् सम्प्रदायाच्च ज्ञायते । तथाचोक्तं श्रीजनार्दनसूरिणा- - 11 कटाक्षितोऽनेन यतीन्दुनैव निस्खोपि वस्वीश्वरहर्षमार्षीत् । अलक्षितो धिक्षिति लक्षपोऽपि साक्षादलक्षास्पदखेदमेव ।। व्याख्यासु निस्संशयमस्य देववाणीसमुच्चारणनैपुणीयम् । सुधारसासेचनमाचरन्ती धिनोति शब्दग्रहयोर्युगं नः ।। एषां टिप्पणी समेषां विद्वद्विदुषणामुपादेया भविष्यतीति द्रढीयान्नो विश्वासः । प्रसङ्गसङ्गत्या इदमुच्यते यत् एते श्रीपादाः तपःप्रकर्षोपेताः अपि आसन् इति प्राचीना अर्वाचीना च प्रसिद्धिः वेविद्यते । काश्चन अद्भुता: घटनाः एषां महानुभावानां योगसामर्थ्य घण्टाघोषं जोघुप्यन्ते । तदित्यम् - "सत्यव्रतव्रतिपतेरुपदेति सत्यवत्यात्मजाऽवनिसुतामलराममूर्तीः । भक्त्या प्रदर्य परमर्चति सत्यसन्धे वृन्दावनं चलति चित्रमतीव हर्षात्" "वृन्दावनं यदचलं प्रचचाल भूयः" "माध्वराद्धान्तसयाख्यां स्ववंशीयेन भाषिताम् । श्रुत्वा सत्यव्रतस्तोषात् शिर: कम्पयते मुहुः ॥" "वृन्दावनस्य चलनात्समसूचयन्नो ज्ञेयं ह्यचाल्यचलनं खलु सन्निधानात्" " इति महाकविना आनन्दाचार्यसूरिणा तृतीयसर्गे वर्णितमुपलभ्यते । एषां महानुभावानां सुधाविवृतिनाम्नी टिप्पणी अस्मिन् ग्रन्थे तृतीयस्थानं लभते । (४) श्रीमद्राघवेन्द्रतीर्थस्व मिपादाः । 'परिमलाचार्याः” इति सर्वजनीनप्रसिद्धिभाजः श्रीमद्राघवेन्द्रतीर्थश्रीमच्चरणाः भारते कोण कोणेषु सर्वजनसमादरणीयाः सविस्तरं प्रमाणपरिबृंहितं परिचयं नापेक्षन्ते । एषां परिमलग्रन्थः सरल: सुबोधः सूपयुक्तार्थबोधकः रुचिरार्थप्रतिपादकः सुधाभावं सम्यक् प्रकटीचरीकरन् सर्वेषां विदुषां समेषां व्युत्पन्न विद्यार्थिनामत्युपयुक्तः । सुधाग्रन्थगाम्भीर्यमेवं स्फोरयन्ति श्रीराघवेन्द्रतीर्थश्रीमच्चरणा:- प्रतिभाति सुधाऽथापि ग्रन्थाल्पत्वाय नोच्यत । इशत । श्रीपादाः बहून् ग्रन्थान् विरचय्य श्रीमदानन्दतीर्थभगवत्पादानां श्रीमट्टीकाकृत्पादानां महती सेवामन्वतेष्ठीयन्त । एषां टिप्पण्यादिग्रन्थाः प्रस्थानत्रयेऽपि वरीवृत्यन्ते । सर्वेऽपि ते सूपयुक्ताः विद्वन्मान्याः विद्यार्थिनां करदीपायमाना: संसन्तीति वचनं आनेडनपराहतं भवतीति नाधिकं वितन्यते । स्वामिपादाः महातपस्विनः आसन्निति सर्वे आविपालगोपालं जाज्ञायन्ते एव । परःसहस्रं जनाः तेषां सेवया सङ्कटशतेभ्यः समुद्धृताः वेविद्यन्ते । इतोऽप्यधिकं तेषां वैशिष्ट्यं तैः विरचितेषु ग्रन्थेषु दरीदृश्यते । अतः साधूक्तं "विद्वत्परिज्ञेय महाविशेषः" इति । स्वतः पण्डितचक्रवर्तिनः सन्तोऽपि श्रीमद्राघवेन्द्रस्वामिनः अन्याशविनयवैभवेन स्वीयवैदुप्यं भूषयन्ति । तथाचोक्तम् -- ज्ञानाब्धिरप्यवादीद्यत्स्खलत्त्वं स्वात्मनस्तदा । मादृशानां स्खलत्त्वं किं वाच्यं क्षाम्यन्तु तद्बुधाः ॥ इति परिमलान्तिमश्लोकेन तेषां विनयाढ्यत्वं स्पष्टीभवति । तेषां ग्रन्थनिर्माणपाटवम् एवं प्रपञ्च्यते- चित्तेनायुक्तमर्थ कलयति सहसा नाभिधत्ते न सद्भिः । साकं मीमांसते वा न लिखति वचसोद्धाटयत्याशयं स्वम् ।। उक्तं नो वक्ति भूयः क्वचिदपि लिखितं नैव निष्टि तस्मात् । अस्माभिः सत् प्रबन्धप्रणयनविषये स्तूयते राघवेन्द्रः ।। इति । तदेतेषां महानुभावानां परिमलाख्यटिप्पण्यपि अस्मिन् ग्रन्थे मुद्राप्य प्राकाश्यं नीता वर्तते । इयम् अस्मिन् ग्रन्थे चतुर्थ स्थानं लभते । (५) श्रीयादवार्याः । विद्वदग्रेसरा: यदुपत्याचार्याः "यादुपत्य' नामिकां टिप्पणी विरचय्य सौधार्थ असाधारण्या परिपाट्या वेत्रीयमाणाः भगवत्पादानां जयतीर्थश्रीमञ्चरणानां च अन्यादृशी सेवा व्यातेनिरे इत्यत्र नास्ति सन्देहगन्धोऽपि । श्रीमन्न्यायसुधाविराटग्रन्थे एतेषां महानुभावानां एतावान् विश्वासो वरीवर्ति यदेते 13 "सुधा वा पठनीया वसुधा वा पालनीया" इति सुधामाहात्म्यं घण्टाघोषं घोषयन्ति । यावद्बुद्धिबलोदयं सुधाध्ययनं मानवजनुष्मता अधिकारिणा अवश्यं कर्तव्यम् । तदसम्भवे अस्मिन् मानवजन्मनि वसुधापालनं मनूक्तसन्मार्गेण विधेयम् । सुधाध्ययनं प्रथमः कल्पः, वसुधापालनं द्वितीयः कल्पः अथवा अनुकल्पः इति यादवार्याणां द्रढीयसी निरन्तरा निष्ठा । यादुपत्यस्य सुधाया गूढाभिसन्धिज्ञानाय उपयोगः ईदृक्तया इयत्तया वा परिच्छेत्तुं न शक्यः । "सुधायाम् अद्वितीयोऽहं यादुपत्ये विशेषतः" इति प्राचाम् आचार्याणां दर्पोक्तिः यादुपत्यस्य सर्वाङ्गसुन्दरतामुपयुक्ततां च सत्यापयति । इयदेव न, यदुपत्याचार्याः नैकमहानिबन्धकर्तारः पण्डितमण्डलीषु महामान्याः वर्तन्ते । स्वीयभ्रातृचरणानां स्वात्मोद्धारकपूज्यगुरूणां वेदान्तशास्त्रपारावारपारीणानां वेदेशतीर्थश्रीमच्चरणानामाज्ञया परमानुग्रहेण च सदपि स्वीयमपि स्वायत्तमपि महेश्चर्य तृणमिव परित्यज्य वेदान्तादिशास्त्रचर्चामेव स्वजन्मनः प्रधान कर्तव्यमिति सम्प्रधार्य, यावदायुः सातत्येन तत्रैव मनाः सन्तः विद्वन्मचर्चिकाः समभूवन् इति सर्वे जानन्त्येव । तथाभूनार्थम् सद्देहिनोऽपि परमहंससदृक्षशुद्धसुचारुचरित्रचर्याः यदुपत्याचार्याः सुवर्णरत्न- व्यवहारकारिश्रीमत्-कुले लब्धजनुषोपि परमहंसा इव जगन्मान्या अभूवन् , इत्यनेनैव तेषां यादृशी पाण्डिती चासीत् यावच्च वैराग्यं यावती च भक्तिः यावांश्च भगवत्प्रसादः इत्यादिकं सर्व सर्वैः ऊहनीय सुधीशेखरैः ॥ एषां महानुभावानां टिप्पणी अस्मिन्ग्रन्थे पञ्चमं स्थानं लभते । (६) श्रीनिवासतीर्थाः। वंशपल्ली-श्रीनिवासतीर्थाः इमे यदुपत्याचार्याणां भ्रातृव्याः शिष्याग्रेसराः पण्डितप्राग्रेसरा: विरक्तशिखामणयः प्रभूतग्रन्थनिर्मातारश्च बभूवुः । तन्निर्मिताः द्विपञ्चाशत्सङ्ख्याकाः ग्रन्थाः इदानीमपि उपलभ्यन्ते । गहनार्थस्पष्टीकरणविषये तेषां कौशलं आजानसिद्धं विस्मयावहं च । सर्वप्रस्थानेषु तेषां ग्रन्थाः समुल्लसन्ति । विविधक्षेत्रेषु इमे पण्डितप्रकाण्डा: स्वलेखनी व्यापारयितुं नितान्तं पारयन्ति । गहनार्थमपि वाक्यं एभिः विवृतं सत् ललितकोमल परिपक्ककदलीफलमिव स्वास्वाद्यतमं भवति । एते वस्तुतः लौकिककुले समुत्पन्नाः यथासम्प्रदायं श्रीनिवासरायेति सर्वत्र प्रतीताः श्रीमद्राघवेन्द्रश्रीपादानाम् अनुग्रहेण श्रीनिवासतीर्थाः सञ्जाताः ।
14 अस्मिन् विषये इत्थंभूता कापि प्राचीनपत्रप्रमाणिता एका मनोज्ञा कथा वर्तते । तदाशयस्तु एवं वर्तते । - श्रीमद्राघवेन्द्रतीर्थश्रीमच्चरणाः एकदा सञ्चारक्रमेण तुङ्गातीरस्थ बिदरहळ्ळी ग्रामं प्राप्ताः । तत्रैव बहोः कालात् कृतवसतयः श्रीनिवासरायमहाशयाः एतान् महानुभावान् द्रष्टुमागताः । तदा दीर्घकाल- पर्यन्तं शास्त्रविषये मञ्जुलः वार्तालापः, चार्वी चर्चा, सौहार्दपूर्वकः वादः समजनि । श्रीराघवेन्द्रतीर्थस्वामिचरणा: श्रीनिवासरायकृताः टिप्पणी: सावधानं वाचयन्तः अनुपम सन्तोष लेभिवांसः तेषां नाम अपृच्छन् । 'श्रीनिवास' इति उत्तरम् अदात् श्रीनिवासार्यमहोदयः विनयभारा- बनतः बद्धाञ्जलिश्च । श्रीमन्तः लौकिका वा वैदिका वा इति प्रश्न पृष्टे अहं केवलं लौकिकः इति उत्तरं प्राप्तम् । स्वामिपादाः एतेषां विद्याविनयादिसम्पत्तिमध्यक्षीकुर्वन्तः नितान्तं सन्तुष्टचित्ताः इत्थं जगदुः।- "अद्यप्रभृति भवन्तः न श्रीनिवासनामधेयकाः नापि श्रीनिवासरावव्यवहारभाजः । भवन्तं गृहस्थं सन्तमपि श्रीनिवासतीर्थति परमहंसोचितपदव्या सम्भूषयन्तः वयं सन्तुष्यामस्तमाम् । तथाच अस्मात् क्षणादारभ्य श्रीमन्तः लोके विशिष्यपण्डितमण्डलीषु श्रीनिवासतीर्थाः इत्येव विख्याति प्राप्स्यथ" इतिरीत्या महानुभावैः अपरोक्षज्ञानिभिः राघवेन्द्रश्रीमच्चरणैः अनुगृहीताः स्वामिपादान् भक्तिभरेण प्रश्रयातिशयेन च साष्टाङ्गं प्रणेमुः, कृतार्थाश्च अभूवन् इति । तस्मात् कालात् अद्ययावत् ते महानुभावाः सर्वैः वैष्णववृन्दैः विनयाभरणभूषितैः श्रीनिवास- तीर्था इत्येव व्यपदिश्यन्ते न पुनः कदापि श्रीनिवासरायेति वा श्रीनिवासाचार्येति वा । आधुनिकाः केचन पण्डितंमन्या: आत्मानं श्रीराघवेन्द्रस्वामिभक्तत्वेन लोके समुद्घोषयन्तोऽपि श्रीराघवेन्द्रस्वामिविरोधं सोढ्वापि वैयात्येन श्रीनिवासतीर्थान् श्रीनिवासाचार्या इत्येव सातत्येन व्यवहार- विषयीकुर्वन्तः बरीवृत्यन्ते इति अस्माभिः परम्परया श्रूयते । "अहो वैयात्यस्य पराकाष्ठा, अहो पैशाचधाष्टर्यस्य निस्सीमता, अहो श्रीराघवेन्द्रस्वामिचरणानां गुणलुब्धता, अहो श्रीनिवासतीर्थानां विनयानुनयप्राग्भारः । श्रीराघवेन्द्रस्वामिपादसमाराध्यो भगवान् तानेतान् उद्धतान् विनयप्रदानेन अनुगृहातु इत्येव प्रार्थयामहे । अस्मिन् विषये अस्माभिः एतद्धटनां सत्यापयन्ती प्राचीना पत्रिका उपलब्धा । तामालम्ब्य एषा घटना यथातथम् अनूदिता तर्तते ।
15 (७) श्री मन्नारी कृष्णाचार्याः । श्री मन्नारी कृष्णाचार्याः अद्वैतिमौलिमहाकवि-श्यामभट्टारकसंस्तुत-महामहिमोपेत-विद्वत्सार्वभौम- सत्यप्रियतीर्थानां पूर्वाश्रमीयदत्तपुत्राणां श्रीनिवासाचार्याणां अग्रजतनूजाः, गालपाडवंशोत्तंसाः आसन् । एते बाल्ये एव विद्यानगरी वाराणसीं गत्वा द्वादशसंवत्सरान् न्यायव्याकरणादिशास्त्राणि समधीत्य काशीस्थपण्डितमण्डलीषु प्राग्रेसरतां प्राप्य जन्मभूमिं प्रत्यायाताः सन्तः श्रीमत्सत्यप्रियतीर्थ- श्रीमच्चरणान् द्रष्टुं गताः । श्रीमत्सत्यप्रियतीर्थश्रीपादाः श्रीकृष्णाचार्यप्रकटितं न्यायादिशास्त्रवैदुप्यं वीक्ष्य सन्तुष्टान्तरङ्गाः अपि कृष्णाचार्यान् एवं निर्भय॑ अवदन् ।- 'यथा सारमेयः अवकरे निपतितं आविलं अस्थिकूटं धायंधायं लेलिहानः चिरं नानन्दीति तथा न्यायादिशास्त्राणि समेधमानश्रद्धाजाड्येन समभ्यस्यन् अनुपमानन्दं अनुबोभूयमानः व्यर्थ सुदीर्घ- मनेहसं यापितवानसि । अतिशीघ्रमेव त्वत्-पितृव्यान् श्रीनिवाससूरीन् समुपसद्य सामीरं वेदान्तशास्त्रं श्रावं श्रावं, स्मारं स्मारं, ध्यायं ध्यायं, अध्येयं, अध्याप्यं, व्याख्येयम् ।" इत्युपालब्धाः श्रीकृष्णाचार्याः स्वपितृव्यचरणान् श्रीपादपुत्रान् श्रीनिवासाचार्यान् उपसद्य आहारनिद्रादिसर्व विस्मारं विस्मारं विस्मयावहं वैदुष्यं वश्यकार्युः । गच्छता कालेन वेदान्तशास्त्रे महाग्रन्थान् निर्माय जनुःसाफल्यं समासादयामासुः । एतैः विरचिताः अन्येऽपि ग्रन्थाः उपलभ्यन्ते । ते सर्वेऽपि गहनाः विद्वन्मान्याश्च वर्तन्ते । ते च अधोनिर्दिष्टयाः १) न्यायामृतमाधुरी २) चन्द्रिकाभावदीधितिः ३) तर्कताण्डवभावरत्नमण्डनम् ४.) तत्वोद्योतभावदर्पणम् इति । एतैः : स्वात्मगुरवः चषकग्रन्थे नामतो निर्दिष्टाः । तथाच तत्रत्यं पद्यम्- श्रीनिवासार्यहत्पद्ममन्दिरो हयकन्धरः । सुनन्दतात् सेवया मे भक्त्याऽलङ्कृतयाऽनया ।। एभिः श्रीनिवासार्यमहोदयैः सुधाभावप्रकाशिकानामकः ग्रन्थः विरचितः वर्तते इति अत्रत्यादेव श्लोकान्तराद् ज्ञायते । तद्यथा- धायं धायं सुधां सौधभावस्य हि प्रकाशिकाम् । योऽतानीत् श्रीनिवासार्यः श्रेयो मे तन्तनीतु सः ।।
16 एते कृष्णाचार्याः पण्डितपञ्चाननाः अपि स्वात्मानं बालिशशेखरत्वेन ख्यापयन्तो दृश्यन्ते । अहो विनयसम्पत्तिः पण्डितशेखराणाम् । तथाहि तैरेव निबद्धं चषकमङ्गलाचरणीयपद्यम्-- व्याचक्रिरे ये तु महानुभाविनस्तत्पादपाथोजरज:स्मृतिर्हि नौः । सुधां गभीरधुसरिन्निभामलं तितीर्षतो बालिशशेखरस्य मे ॥ एषां पण्डिततल्लजानां व्याख्या न्यायादिपरिभाषापरिप्लुता भवतीत्यतिरोहितं भवेत् विदुषाम् अधस्तनचषकग्रन्थप्रारम्भपंक्तीर्वाचयताम्- "वृद्धिसूत्रे एतदेकमाचार्यस्य मङ्गलार्थ मृप्यतां माङ्गलिक आचार्यो महतश्शास्त्रौघस्य मङ्गलार्थ वृद्धिशब्दमादितः प्रयुङ्क्ते” इति व्याख्यासमर्थनौपयिकतया “मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते वीरपुरुषकाणि भवन्त्यायुष्मत्पुरुषकाणि चाध्येतारश्च मङ्गलयुक्ता वृद्धियुक्ता यथा स्युः" इति पातञ्जलाभिधानाइन्थोऽयमित्यानुपूर्वीकभगवत्पादीयवचोधर्मिकप्रामाण्योपरक्तप्रतिसंहित्युत्पादनानुकूल- व्यापारविशेषितोऽनुव्याकृतिव्याकृतिमारिप्सुष्टीकाकृत्पूज्यचरणस्समीहितसमापनादिफलकश्रीजान्यभिष्टुत्या- दिरूपमङ्गलविधानोत्तरकालिकानभ्यर्णवृत्तिविनेयाधिकरणकतद्गोचरानुसंहितिप्रयोजनकं मङ्गलप्रत्यायकपदघट- कवर्णानुवादकरेखाविशेषरूपोपनिबन्धमादितो विधत्ते 'श्रियः पत्य' इत्यादि ।। इयं चषकनाम्नी एषां पण्डिताग्रेसराणां सुधाटिप्पणी अस्मिन् ग्रन्थे सप्तमं स्थानं लम्भते । एवं विख्यातटिप्पणीसप्तकसनाथोऽयं श्रीमन्न्यायसुधाख्यो ग्रन्थराजः सर्वेषां कूलंकषज्ञानलिप्सूनां विदुषां वैशद्यापेक्षिणां व्युत्पन्नविद्यार्थिनामत्युपयुक्तोऽत्युपादेयश्च बोभवीतीति द्रढीयान्नो विश्वासः । तमेनं विश्ववन्धप्रमेयगर्भ सन्न्यायमहारत्नाकरं माध्वसिद्धान्तव्यध्वममस्तमततततमस्ततिविध्वंसकं ग्रन्थराज महा- प्रयत्नैः आदरनैरन्तर्येण समभ्यस्य निर्मलं ज्ञानं सर्वे सुज्ञा अधिकारिणो लभन्तामिति अस्मत्समाराध्यस्य प्रसन्नविठ्ठल-वंशराम-दिग्विजयराम-सीतासमेतमूलरामपञ्चरूपात्मकव्यासादिरूपप्रपञ्चात्मकस्य लक्ष्मी- जानेर्नारायणस्य पादपद्मयोः प्रार्थयामहे । माध्वसिद्धान्तदुग्धाब्धेर्नाकीन्द्रजयिनोद्धृता । सुधा बोधाय मोदाय सम्भूयाच्छाश्वतीः समाः ॥ इति शम् । श्रीमज्जयतीर्थगुरुसार्वभौमश्रीमञ्चरणरेण्वेकशरणाः श्रीमत्सत्यप्रमोदतीर्थश्रीचरणाः ॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ।। जयतीर्थयतिकृता श्रीमन्यायसुधा टिप्पणीषट्कोपेता ॥ श्रीगुरुभ्यो नमः ॥ ॥ हरिः ॐ ॥ सुधा- श्रियः पत्ये नित्यागणितगुणमाणिक्यविशद- प्रभाजालोल्लासोपहतसकलावद्यतमसे । जगजन्मस्थेमप्रलयरचनाशीलवपुषे नमोऽशेषाम्नायस्मृतिहदयदीप्ताय हरये ॥१॥ वाक्यार्थचन्द्रिका- नित्यागण्यचलद्युतिप्रमितिससौख्यात्र्यवीर्यातुली. दार्यप्राभवधीरतामुखगुणवातात्मदिव्याकृतिम् । सन्तापादिसमस्तदोपविधुरं वेदैकवेद्यं जग- जन्मादिप्रदमिन्दिरेश(ममलं)मनिशं नारायणं नौम्यहम् वेदाम्भोधिसमुतातिविलसतसूत्रामृताम्भोलसद्धारावर्षणतुष्टसद्धृदबनिज्ञानाङ्कुराधायकम् ।। संसारातपशनं सुरमनःसच्चातकानन्ददं वेदव्यासविचित्रमेघमनिशं मच्छ्यसे संश्रये यद्वाग्विस्तररश्मिभिर्जगदिदं सन्मार्गमालम्बितं सत्सिद्धान्तवरारविन्दनिवहा विस्तारमासादिताः ।। दुःसिद्धान्तमहान्धकारनिकरा देशान्तमुल्लचिताः सोऽयं मध्वदिवाकरो भवतु सज्ज्ञानप्रकाशाय मे ॥ ३ सत्सूत्रान्वितमध्यभाष्यविलसद्गाण्डीवसंयोजितैः सन्मानेषुभिरर्दयन्कुसमयप्रत्यर्थिदुःस्यन्दनान् । श्रीकृष्णेरितवेदवाजिनियतश्रीमध्वशास्त्रोल्लसद्दिव्यस्यन्दनसंस्थितो जयमुनीशाख्यार्जुनः स्यान्मुदे ॥४ सच्छास्त्रामलभावबोधकिरणैः संवर्धयन्मध्वससिद्धान्ताब्धिमनन्तशिप्यकुमुवातं विकासं नयन् ।। उद्भूतो रघुवर्यतीर्थजलधेस्तापत्रयं त्रासयन्यस्तं नौमि रघूत्तमाख्यशशिनं श्रीविष्णुपादाश्रयम् श्रीमद्रामगिरीन्द्रपादनिरतं विद्रावयन्तं दिशो दुर्वादीन्द्रमहामृगान्निगमसद्व्याख्यालसन्नादतः ।। दुःशास्त्रेभकुतर्ककुम्भदलनप्रौढात्मविद्यानख वेदव्यासमृगेन्द्रराजमधिकं वन्देऽनिशं मद्गुरुम् || १ ॥ - S.T.1 वेदान्ताब्धिममन्दबोधगिरिना सब्रह्मसूत्राहिना दुस्तकेतरवानवामरगणैः सम्मथ्य यो लब्धवान् । सन्न्यायामृतचन्द्रिके युधि तथा तर्केऽकरोत्ताण्डवं सोऽयं व्यासमुनीन्द्रपूज्यचरणो नित्यं भवेन्मे मुदे ॥ ७ ॥ अनुत्र्यास्व्याधियुङ्न्यायसुधाऽगाधसुरापगाम् ॥ गुरूणां दयया शुद्धयै धियः सेवितुमुत्सहे ॥ ८ ॥ टीकाकारा ग्रन्थादौ मङ्गलमाचरन्ति ॥ श्रियः पत्य इति ॥ नारायणमिति प्रयमपद्यव्याख्यानरूपेऽत्र पद्ये नारायणपदस्थाने हरिपदप्रक्षेपेण प्रादुर्भूत इति श्लोकोक्तहरेरेव नारायणत्वादुत्तरश्लोकोक्तं तमेवेति समर्थितं भवति । अत्र श्रियः पत्य इत्युक्त्या नारा लक्ष्मीः तत्पतित्वेन तदयनमित्यभिप्रायव्यञ्जनेन आवश्यकसकलवाङ्मनसदेवतानमनाभावप्रयुक्तन्यूनताशङ्काऽपहस्तिता भवति । पूर्वविशेषणान्तर्गतनिखिल- पूर्णगुणत्वस्य तदुत्तरनिर्दोषत्वस्य च प्रयोज्यप्रयोजकभावोऽप्यस्तीत्यभिप्रेत्य गुणावद्ययोर्माणिक्यतमोभ्या- मुरमानम् । तदुपपादनायैव प्रभाजालोल्लासेति । गुणनिखिलत्वोक्तिलब्धोपहन्यमानदोषसाकल्यकथन सकलेति । गुणोपहतत्वयोनित्यत्वविशेषणेन तयोः कादाचित्कत्वशङ्कां व्यवच्छिनत्ति । अस्येति परामर्श- विषयमादिपदसंग्राह्यं च दर्शयन्नव प्रयोजनाभावान्नोद्भवादिदानं युक्तमित्याशङ्कां च परिहरति । जगदिति । अत्र स्थमशब्देनान्नदानादिनेव ज्ञानदानेनापि पालनस्याभिप्रेतत्वात्प्रलयशब्देन चाज्ञानबन्धमोक्षाणां रचना- शब्देन तन्त्रेण नियमनस्यापि ग्रहणसम्भवादुत्तरत्राष्टकसङ्ग्राहकत्वेन व्याख्यास्यमानादिपदसङ्ग्राह्यकथन- परत्वं नास्य युक्तमिति न शङ्कनीयम् । [अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः । स्थास्फाय्योष्ठि- लोपः । स्थिरं निश्चलम् । स्फिरं प्रभूतम् । तिष्ठतेर्बुक् ह्रस्वत्वं च । स्थविरः । खद स्थैर्ये हिंसायां च । खदिरः । खदिरी शाखभेदे स्त्री ना चन्द्रे दन्तधावने इति मेदिनी । बाहुलकाच्छीङो बुक्हस्वश्च । शिबिरम् । शेरतेऽस्मिन् राजबलानि । निवेश: शिबिरं शण्डमित्यमरः । अजगतिक्षेपणयोः अजे भा. वाभावः । अजिरमङ्गणम् अङ्गेयुटि अनादेशस्य बाहुलकाण्णत्वमित्येके । अन्ये तु विश्वकोशाधुपष्टम्भेन दन्त्यमेवेच्छन्ति । इह दशपादीवृत्तौ नर्वस्य जीर्यतेवर्णलोपो निपात्यत इत्युक्तं तदपि ग्राह्यम् । आशु दृतमजिरं प्रलमीड्यमित्यादौ न जीर्यतीत्यजिर इत्यर्थस्यानुगुणत्वात् । अजिरं प्राङ्गणे काये विषये दर्दुरेऽनिले । शशप्लुतगतौ । उपधाया इत्वम् । शिशिरं स्याहतोदे तुषारे शीतलेऽन्यवत् । शिशिरो ना हिमे न स्त्री ऋतुभेदे जडे त्रिषु । श्रथ मोचने । उपधाया इत्वं रेफलोपः प्रत्ययरेफस्य लत्वम् । शिथिलम् । ] अत्राजिरशिशिरशिथिलस्थिरेत्युणादिसूत्रेण (उगादीत्यादिपदेन प्यअन्त्वतला समावेशो बोव्यः) स्थाधातोः किरच्प्रत्यये आतो लोप इटि चेति धात्वाकारलोपे च निष्पन्नस्य दृढार्थस्थिरशब्दस्य दृढादित्वेन वर्णदृढादिभ्य (वर्णदृढादिभ्यः व्यञ्च । चादिमनिच् । शौक्यं शुक्लिमा । दाढयम् । पृथुमृदुभृशकृशदृढपरिवढानामेव रत्वम् । ढिमा पो ङीषर्थः । औचिती । यथाकामी । ब्राह्मणादे- राकृतिगणत्वाद्गुणवचनब्राह्मणादिभ्यः ष्यञ् कर्मणि चेति सूत्रेण प्यञ् । हलस्तद्धितस्येति यलोपः । ।
३ मङ्गलश्लोकाः) ॥ जिज्ञासाधिकरणम् ॥ चाद्भावे । जडस्य कर्म भावो वा जाड्यम् । मौढ्यम् । ब्राह्मण्यम् । अर्हतो नुम् चेति नुमर्थः पाठः । आर्हन्त्यम् । आर्हन्ती । एकभाव । अन्यभाव । त्रिभाव । एषां पाठः स्वार्थे विधानार्थः । आन्य- भावम् । ) इतीमनिचि ( पृथ्वादिभ्य इमनिज्वा । वावचनमणादिसमावेशार्थम् । रऋतो हलादेर्लघोः । इष्ठेमेयम्मु । टेः । टेर्लोप: स्यादिष्ठे मेयस्सु । पृथोर्भावः प्रथिमा । पार्थवम् । प्रदिमा । मार्दवम् । ) प्रियस्थिरेत्यादिना (प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवंबहिगर्वपित्रप्द्राधिवृन्दाः । प्रियादीनां क्रमात्प्रादयः म्युरिष्ठादिषु । प्रेष्ठः स्थेष्ठः स्फेष्ठः वरिष्ठः बंहिष्ठः गरिष्ठः वर्षिष्ठः त्रपिष्ठः द्राधिष्ठः । वृन्दिष्ट: । एवमीयम् । प्रियोरुबहुलगुरुदीर्घाणां पृथ्वादित्वात्प्रेमेत्यादि । ) स्थादेशे निष्पन्न- स्थमशब्दस्य दाढघे प्रसिद्धावपि 'अखिलभुवनजन्मस्थेमभङ्गादिलील' इति रामानुजभाष्यनान्दीश्लोके स्थित्यर्थत्वेन तव्याख्यानरूपश्रुतप्रकाशिकायामन्यत्र चाभियुक्तप्रयोगाणां बहुलमुपलम्भात्तिष्ठतीति स्थिरमिति व्युत्पत्तेः स्थितिमत्परत्वेऽप्युपपत्तेश्च स्थमशब्दस्य स्थितावत्र प्रयोग इति द्रष्टव्यम् । सुवाक्यरित्यत्र वाक्यानां शोभनत्वमात्ररूपसुष्टुत्वस्य प्रकृतानुपयोगादपौरुषेयत्वेन तन्मूलकाप्तवाक्यत्वेन वा शोभनत्वमुच्यत इत्यभिप्रेत्याप्यतममित्यत्र तमबर्थ चाह ॥ अशेषेति । ( द्वन्द्वे घि । द्वन्द्वे घिसंज्ञं पूर्व स्यात् । हरिश्च हरश्च हरिहरौ । अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे । हरिगुरुहराः । हरिहरगुरवः।) न च द्वन्द्वे धीत्यस्य पटुगुप्तावित्यत्राजाद्यन्तमित्यस्य ( अजाद्यन्तम् । इदं द्वन्द्वे पूर्व स्यात् । ईशकृष्णौ । बहुषु अनियमः । अश्वरथेन्द्राः । इन्द्राश्वरथाः । घ्यन्तादजाद्यदन्तं विप्रतिषेधेन । इन्द्रामी। ) चेशकृष्णौ इत्यत्र सावकाशत्वेनेन्द्रामी इत्यत्रेवान्नायम्मृतीत्यत्राप्युभयप्रसङ्गे विप्रतिषेधे परं कार्यमित्यजाद्यन्तत्वादा- नायशब्दस्य पूर्वनिपातसम्भवेऽप्यजाद्यन्तमित्यस्य पूर्वोक्तेऽल्पाच्तरमित्यस्य (अल्पान्तरम् । शिवकेशवौ।) प्लक्षन्यग्रोधावित्यत्र सावकाशत्वेन वागीशावित्यत्रेवात्राप्युभयप्रसङ्गे पूर्वन्यायेनाल्पाच्तरत्वास्मृतिशब्दस्यैव पूर्वनिपातः स्यादिति वाच्यम् । लक्षणहत्वोः क्रियायाः समुद्रानाद्ध इत्यादिषु यथायथं व्यभिचारं कुर्वता सूत्रकृतैतत्प्रकरणस्यानित्यत्वज्ञापनादल्पान्तरमित्यस्यानित्यत्वाच्छकुनिसूत्रयोरिति साविति वदता टीकाकृता तदनित्यत्वस्योक्तत्वाच्च । अल्पान्तरमिति लक्षणस्य व्यभिचारं कुर्वाणेनेति युक्तिपादीयटीकाका- रीयोक्तिश्च तन्नित्यत्वाभ्युपगमवादेन प्रवृत्तेति न विरोध इति द्रष्टव्यम् ॥ १ ॥ सत्यव्रततीर्थीया वेदव्यासं मूलरामं नत्वा दिम्विजयं तथा । गुरूनपि सुधावाक्यव्याख्यां कुर्मो यथामति ॥ १ ॥ अथ परमकारुणिको जयतीर्थश्रीचरणो 'ग्रन्थोऽयमपि वह्वर्थो भाष्यं चात्यर्थविस्तरम् । बहुज्ञा एव जानन्ति विशेषणार्थमेतयोरि'त्याचार्योक्तौ लोकानां विश्वासमुपजनयन् अनुव्याख्यानव्याख्यामारभ- माणोऽभीष्टसमाप्त्यादिप्रयोजनकं श्रीपतिनतिनुतिरूपं मङ्गलं कृत्वा शिप्यशिक्षायै ग्रन्थादौ निबध्नाति ॥
४ ॥ ४ ॥ ॥ न्यायसुधा ॥ (अ. १ पा. १ अ. १ श्रियः पत्य इति । अत्रानुव्याख्यानाद्यपद्यगतविशेषणचतुष्टयविवरणाय नित्यागणितेत्यादि विशेषणानि । तेन तेषां यद्वक्ष्यमाणं प्रयोजनं तदेतेप्वपि बोव्यम् ॥ १ ॥ २ ॥ परिमळ:- पूर्णा गण्यगुणोदारमूर्तये पुण्यकीर्तये । नमः श्री रतये भक्तदत्तम्वानन्दमूर्तये ॥ १ ॥ पूर्णीगण्यगुणोदारनित्यसुन्दरमूर्ति ने । श्रीब्रह्मवीन्द्रर्वेड्यकीर्ति ने ब्रह्मणे नमः ॥ २ ॥ विश्वं यस्य वशे सर्वमनिशं शङ्करादिकम् । तम्य वायोत्तृतीयांशमाश्रये शमबाप्तये सत्पद्मबन्धवो यस्य गावो विश्वतमोनुदः । स स्यात्तत्त्वप्रकाशाय जयतीर्थरविर्मम पदवाक्यप्रमाणज्ञो दुर्मत वान्तभास्करः । व्यासतीर्थमुनीन्द्रो मे भूयाज्ज्ञानसमृद्धये ॥ ५ ॥ अस्मदेशिकपादानां प्रणम्य चरणाम्बुजम् । श्रीमन्न्यायसुधावाक्यव्याख्यां कुर्या यथामति ॥ ६ ॥ आद्यपद्य विवृण्वानो ग्रन्थादौ नम्यन्दप्रयोजकविशिष्टत्वेष्टत्वाधिकृतत्वयुक्तदेवतानतिरूपं मङ्गल- माचरति ॥ श्रिय इति ॥ मूले अशेषविशेषतोऽपीत्यनेन सङ्कलय्य श्रीब्रह्माद्युत्तमत्वमुक्तम् । तत्र सकल- वाङ्मनसदेवतायाः देव्याः ग्रन्थारम्भेऽवश्यं वन्द्यत्वद्योतनाय श्रियः पत्य इति विशिप्योक्तिः । तदपि ईश्वरोपसर्जनतयेति ज्ञापनाय श्रिय इति पृथगुक्तिः । निखिलेति निर्दोषमिति च विशेषणद्वयस्य हेतुहेतु- मद्भावेन योजनाद्योतनाय नित्येत्याद्युक्तम् । 'प्रच्युतोऽशेषदोषैः सदा पूर्तित' इत्युक्तेः सर्वस्वातन्त्र्यसर्वज्ञान- सर्वशक्तिसर्वैश्वर्या देगुणसत्त्वे पारतन्त्र्य दिदोषाणामयोगात् । एतच्च ब्रह्मपदेन गुणर्तिवन्निर्दोपत्वस्यापि लाभाय । तेन नारायगशब्दस्य ब्रह्मशब्दसमानार्थत्वसूचनेन ब्रह्मतन्त्रे नारायणनतिः मूले न युक्तेति शङ्का परास्ता । यद्वा लोके गुणदोषयोरविनामावदृष्टेरिहापि गुणित्वे दोषित्वापत्तिरित्यतः मितगुणित्वे दोषित्वमत्रामितगुणित्वान्न दोषितेति सूचनायैवमुक्तिः । देहस्य ज्ञानादिगुणात्मकत्वे लोके ज्ञानादेरनित्य- त्वाद्देहोऽपि तथा स्यादिति शङ्कानिरासाय नित्येति गुणविशेषणम् । तेन मूले सदापदस्य निखिलेत्यत्रापि अन्वयः सूचितः । निर्दोषमित्यत्र दोपपदं अशेपदोपपरमिति ज्ञापनाय सकलावद्येत्युक्तिः । अस्योद्भवादि- दमित्यत्रास्येतिपदं प्रमितसर्वपरं सदपि नेश्वरपरमिति ज्ञापनाय जगज्जन्मेत्युक्तम् । अनेनास्य समस्तस्यो- द्भवादिदमित्यन्वयः सूचितः । स्थमा स्थैर्य रक्षेत्यर्थः । उक्तं हि श्रुतप्रकाशेऽपि । 'अखिलभुवनजन्म- स्थेमभङ्गादिलील' इति भाप्यव्याख्यानावसरे स्थमा स्थितिरिति । स्थिरशब्दादिमनिच्प्रत्यये प्रियस्थिरे- त्यादिसूत्रेग स्थिरशब्दस्य स्थादेशे आद्गुग इति गुणे च स्थेमेति रूपम् । यद्यपि बामनवृत्य दो मुग्धप्रौढ- स्थिरशब्दानां पृथ्वादिप्वपाठात्पृथ्वादिभ्य इमनिज्वेत्युक्तेमनिजप्राप्तेरिमनिजन्तप्रयोगोऽसाधुरिति उक्तम् । तथापि नैषधद्वादशसर्गस्थस्य 'यत्कस्यामपि भानुमान्न ककुभि स्थमानमालम्बत' इत्यस्य व्याख्याने 'वर्ण- दृढादिभ्यः प्यञ्चे'ति सूत्रे चकारेणेमनिजः समुच्चितत्वात्स्थिरशब्दस्य दृढादिषु पाठादिमनिजित्युक्तत्वा- त्साधुरेवायं ध्येयः । यद्वा तिष्ठतेरौणादिकेमनिचि गुणे रूपं स्थेमेति । स्थितिरित्यर्थः । उद्भवादिद- •.
मङ्गलश्लोकाः)
॥ जिज्ञासाधिकरणम् ॥
मित्यनेन सृष्ट्याद्यष्टकग्रणेऽपि वियदधिकरणन्यायेन ईशादन्यसर्वसम्बन्धिन्वाजन्मादित्यस्यैवात्रोक्तिः ।
नियतिरप्युपलक्ष्या । ईश्वरस्य जगज्जन्मादिना फलं नास्ति चेदस्योद्भवादिदमित्ययुक्तम् । प्रेक्षावतो
निप्पले प्रत्ययोगात् । अस्ति चेन्निखिलःणगुणेत्ययुक्तमित्यतः शीलेति। जन्मादिरचनास्वभावेत्यर्थः ।
फलाभावेऽपि स्वभावोऽयं सृष्ट्या दिव्यापारः । यथा चैतत्तथा नप्रयोजनाधिकरणे वक्ष्याम इति भावः ।
अनेन सदाऽम्योद्भवादिदमित्यप्यन्वयः सूचितः । मूले देहमित्युक्तिन केवलं ज्ञानादिगुणसत्त्वाद्युपपत्त्यर्थ
फित्वम्योद्भवादिदमिन्युक्तस्रष्टत्वाद्युपपत्त्यर्थं चेति सूचनाय वपुष इत्युक्तिः । अन्यथा पत्युरसामञ्जस्यादि-
त्यधिकरणे सम्बन्धानुपपत्तिश्चेति सूत्रेऽशरीरस्य जगता कर्तृकार्यभावरूपसम्बन्धानुपपत्तरिति वक्ष्यमाणदोषा-
पत्तरिति भावः । मुबाक्यरित्येतद्वेदवेदानुसारिसर्द पौरपेयापौरुषेयपरमिति भावेनोक्तम् अशेषाम्नाय-
स्मृतीति । आपाततो नोक्तगुणविशिष्टो हरिः प्रतीयत इत्यत उक्तम् हृदयेति । तात्पर्यप्रकाशितायेत्यर्थः ।
सदा प्रियतममित्यस्यार्थः हरय इति । नित्येत्यादिविशेषणद्वयेन विशिष्टत्वम् अशेपेत्यधिकृतत्वम् हरत्य-
शेषक्लेशानिति हरय इत्यनेनेष्टत्वमुक्तं ध्येयम् । 'हरि हरन्तमनुयन्ति देवा' इत्यादेः । यद्वा मूले तमे-
वेति श्लोके व्यासगुरोनारायणैवयमुच्यते । 'प्रादुभूतो हरियास' इति श्लोके च हर्येक्यम् । तत्कथमि-
त्यतस्तावेक एवेति ज्ञापनाय मूलोक्तनारायणविशेषणान्येवोक्त्वा हरय इति विशेप्यमुक्तम् । 'वेदाक्षराणि
यावन्ति पठितानि द्विजातिभिः । तावन्ति हरिनामानी'ति स्मृतिसूचनाय हरिपदप्रयोग इत्येके । अनेन
हरेनारायणानन्यत्वप्रतीत्या प्रादुर्भूतो हरिास इति व्यासस्य हर्यवतारत्वोक्तेर्नारायणानवतारत्वात्तमेवेति
तदभेदोक्तिरयुक्तेति शङ्काऽनवकाश इति । तमेव शास्त्रप्रभवमित्युपपत्त्यर्थमित्यन्ये । हरेर्नारायणविशेषण-
विशिष्टत्वोत्या हरिविशेषणानां कृत्यं मूलविशेपणकृत्यवद्वोव्यम् । निखिलेत्यादिविशेषणत्रये वेदादिरेव
मानमिति ज्ञापनाय मूलनमोलङ्घनेनाशेषाम्नायेत्यस्यान्ते निवेशः । नित्येति विशेषणेन पूर्वाध्यायद्वयस्य
अशेषेत्यादिविशेषणविशेप्याभ्यामुत्तरद्वयस्यार्थोक्तिः । 'नासिकास्तन्यो-माटो रिति निर्देशादल्पाच्तर-
मित्यस्य प्रायिकत्वाद्वाऽभ्यहितत्वाद्वा आम्नायशब्दस्य पूर्वनिपातः ॥ १ ॥
यादुपत्यम्- मुग्वमुखगुणबिम्बः साधुमार्गावलम्बः सुमतिजलजमोदो दूषितान्यप्रमोदः ।
भुवनविततमोह ध्वान्तविध्वंसकेहो दिशतु दृशमभीष्टां व्याससूर्यः स्वनिष्ठाम् ॥ १ ॥
पूर्णप्रज्ञजयार्यपूर्वकगुरूनानम्य विद्याप्रदान् वेदेशाभिधयोगिनोऽपि कृपया तेषां सुधाटिप्पणीम् ।
बालानां तनुते मितां यदुपतिर्बोधाय धीशुद्धये स्वस्यापि प्रविचिन्त्य सद्गुरुमुखात्सम्यक् श्रुतान्मुिहुः ॥ २ ॥
न पाण्डित्याभिमानेन नापि मत्सरतः कचित् ।
यत्नोऽयं किन्तु धीवाचौविशुद्धयै मम नान्यथा ॥३॥
६ ॥ध्यायसुधा ॥ (अ. १ पा. १ अ. १ अथ परमकारुणिको जयतीर्थश्रीचरणो 'ग्रन्थोऽयमपि वह्वर्थो भाष्यं चात्यर्थविस्तरम् । बहुशा एव जानन्ति विशेषेणार्थमेतयो'रित्याचार्योक्ती लोकानां विश्वासमुपजनयन्ननुव्याख्यानव्याख्यामारभमाणो अभीष्टसमाप्त्यादिप्रयोजनकं श्रीपतिस्तुतिप्रणामरूपं मङ्गलं कृत्वा शिप्यशिक्षायै ग्रन्थादौ तदुपनिबध्नाति । श्रियः पत्य इति । अत्राद्ये पद्ये अनुव्याख्यानाद्यपद्यगतविशेषणचतुष्टयविवरणाय नित्यागणितेत्यादि विशेषणानि । तेन तेषां विशेषणानां यक्ष्यमाणं प्रयोजनं तदेतेप्वपि बोव्यम् । गुणमाणिक्यविशद- प्रभाजालोल्लासोपहतसकलावद्यतमस इत्यनेन निखिलपूर्णगुणैकदेहं निर्दोषमित्येतयोर्हेतुहेतुमद्भावो विव- क्षित इति सूचितमिति ज्ञातव्यम् । यद्यपि स्थिरशब्दप्रकृतिकः स्थमशब्दो दाढघे रूढः तथापि स्थाधातु- निष्पन्नत्वाद्योगेन स्थितिवाच्यपि भवतीत्यभिप्रेत्य स्थेमेत्युक्तम् । अत एव 'अखिलभुवनजन्मस्थेमभङ्गादि- लील' इति प्राचां प्रयोगः । व्याख्यातं च तट्टीकायां स्थेमा स्थितिरिति । स्मृतिपदस्याल्पाच्तरत्वेऽपि आम्नायपदस्याभ्यर्हितत्वात्पूर्व प्रयोग इति ज्ञातव्यम् ॥ १ ॥ श्रीनिवासती या वेदव्यासं गुणावासं पुर्णबोधान्मुनीनपि । वन्देऽहं जयतीर्थायर्यास्तथा वेदेशयोगिनः वेदेशमुनिसत्पादसेवासंप्राप्तवैभवान् । यादवार्यान् न्यायसुधाटीकाकारानहं भजे ॥ २ ॥ तत्पादाराधकश्रीनिवासेन तदनुग्रहात् । टीकाऽगृहीतवाक्यार्थविवृतिः क्रियते मया ॥ ३ ॥ ग्रन्थादौ श्रीपतिनमनरूपं मङ्गलमाचरति ॥ श्रियः पत्य इति । ॥ १ ॥ D चषकः- पर्यष्कारि तनुर्गुणोघमणिभिस्तत्सौषुमोत्कर्षतो जवानीतरतन्त्रताधरतम:स्तोमः कदम्ब विदाम् । स्वामोमोदि च येन विश्वजननस्थेमादिहेतुर्गिरां सर्वस्वं मम तन्तनीतु स शिव श्रीशस्तुरङ्गास्यकः ॥ १ ॥ योऽश्रायि विद्येन्दिरया शुकेन्दुना तन्त्रादिरलैरपि भारतद्रुणा । सूत्रामृतेन श्रितकल्पपादपं तमद्य कानीनसुधानिधि श्रये ॥ २ ॥ यस्सूत्रपीयूषनिधि पृणाति गोभियविद्याख्यतमः कृणाति । पृणोतु स स्वान्तचकोरकेऽद्य त्विष्णाति वाच्येन दरीदृशाख्य:(ज्व:) ॥ ३ ॥ सूत्रज्यान्वितसौत्रभाष्यधनुषि प्रोतप्रमाणाशुगैश्छिन्दन्युक्तिशिरांसि मायिकसुधीसंसप्तकीयानि हि । कृष्णव्यापृतनैगमार्वकमहाशास्त्रोल्लसच्छ्यन्दनारूढस्सम्पदमाशु मे प्रदिशतात्पार्थो जयीशाभिधः ॥ ४ ॥ योऽनन्तविद्वद्रसमण्डनक्रियाहेतुं व्यधाद्रत्ननिभं कृतित्रयम् । सोऽलश्चिकीर्ष्यादथ संयमीन्द्रो मां व्यासराजस्त्रितयेन तेन मालश्लोकाः) ॥ जिज्ञासाधिकरणम् ॥ - व्याचक्रिरे ये तु महानुभाविनस्तत्पादपाथोजरज:स्मृतिहिँ नौः । सुधां गभीरघुसरिन्निभामलं तितीर्घतो बालिशशेखरस्म मे चमत्कृतं चर्करीते चकृतादी फणीतरैः । अचकृतमचर्कारि सत्यवयं तमाश्रये गीष्यति योऽदिधिषणदचिकीर्तकिरीटिनम् । व्यशश्राणनदादित्यं सत्यधर्मः स माऽवतात् ॥ ८॥ धायंधायं सुधा सौधभावस्य हि प्रकाशिकाम् । योऽतानीच्छीनिवासार्यः श्रेयो मे तन्तनीतु सः ॥ ९ ॥ अगाधेऽयं सुधा कातिगूढार्था मन्दशेमुषिः । क चाहमपवाक्यत्वं यास्याम्यन्ते सतामपि ॥ १० ॥ श्रीमन्न्यायसुधां भीमनिलिम्पानां सुधित्सताम् । सौधं चषकमुद्दीप्तं मुदे कृष्णोऽभिधास्यति ॥११॥ श्रीनिवासार्यहृत्पद्ममन्दिरो हयकन्धरः । सुनन्दताच्छेवया मे भक्त्याऽलंकृतयाऽनया ॥ १२॥ 'वृद्धिसूत्रे एतदेकमाचार्यस्य मङ्गलार्थ मृप्यतां माङ्गलिक आचर्यो महतश्शास्त्रौघस्य मङ्गलार्थ वृद्धिशब्दमादितः प्रयुक्त' इति व्याख्यासमर्थनोपयिकतया 'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते वीरपुरुषकाणि भवन्त्यायुष्मत्पुरुषकाणि चा-येतारश्च मङ्गलयुक्ता वृद्धियुक्ता यथा स्युरिति पातञ्जलाभिधानानन्थोऽयमित्यानुपूर्वीकभगवत्पादीयवचोवर्मिकप्रामाण्योपरक्तप्रतिसंहित्युत्पादनानुकूलव्या पारविशेषितोऽनुत्र्याकृतित्र्याकृतिमारिप्सुष्टीकाकृलूज्यचरणस्समीहितसमापनादिफलकश्रीजान्यभिषुत्यादि रूपमङ्गलविधानोत्तरकलिकानभ्पर्णवर्ति विनेयाधिकरणकतद्गोचरानुसंहितिप्रयोजनकं मङ्गलप्रत्यायकपदघटक- वर्णानुवादकरेखाविशेषरूपोपनिबन्धमादितो विधत्ते ॥ श्रियः पत्य इत्यादि । धिसंज्ञाविरुद्धत्वान्नगुणः । आदितम्समापनदशायां च श्रीमहालक्ष्मीपदयोहपादानेनातीवमाङ्गलिकतैतस्य ध्वन्यते । शैषिकषष्ठयन्तता- श्रयणेनेशशेषतयैव प्रगता श्रेयसे प्रभवतीति ज्ञापयति । स्वव्याख्येयाद्यपद्यगतचतुर्विशेषणीविवृतिफलिका नित्येत्यादिचतुर्थ्यन्तत्रयीत्यनिधास्यमानतत्फलेनैवैतस्याः फलवत्तत्यवसेयम् । अत्र श्रियः पत्य इत्युक्त्या नारा लक्ष्मीः पतित्वेन तदयनमित्यभिप्रायव्यञ्जनेनावश्यकवांङ्मनसदेवतानमनाभावप्रयुक्तन्यूनताशङ्काऽपह- स्तिता भवतीत्यायचतुर्थ्यन्तमपि विशेष्यवाचकपदविवृतिपरमित्यपि स्थितम् । श्रीपदप्रकृतिकया षष्ठ्या पतिपदार्थतावच्छेदकान्वयिनिरूपितत्वं प्रत्याप्यते । नमःस्वस्तीत्यादिना नम:पदसमभिव्याहारे चतुर्थ्यनुशि- प्यते । स्वापकबोधनानुकूलस्वीयव्यापाररूपनत्यात्मक नमःपदार्थतावच्छेदकघटकापकर्यान्वय्यवधित्वन्तया प्रत्याप्यते । स्वमुच्चारयिता । तथाच समानविभक्तिसविशेषणविशेष्यवाचकपदसमभिव्याहारस्थले विशे- पणपदोत्तरविभक्तरर्थराहित्यस्याभेदार्थकत्वस्य च मतभेदेन स्थिततया चतुर्थ्यन्तचतुष्टयीप्रतिपाद्याभिन्नहर्य- वधिकापकर्षबोधानुकूलष्टीकाकृव्यापार इति बोधाकारो द्रष्टव्यः । सुपो धात्वितिलुत्पयोल्लासपदोत्तरतृतीयया निरूपकतया धात्वन्धितकरणताप्रत्यायनान्माणिक्योपमितगुणैकदेहत्वध्वान्तोपमितदोषराहित्ययोर्हेतुहेतु- ।
। न्यायसुधा ॥ मद्भावो ध्वनित इत्यवधेयम् । अप्रौढप्रकाशकचाक्षुषादिरश्मिभिस्तमोनिवृत्तिप्रसञ्जनव्युदसनाय प्रौढप्रका- शकत्वस्य तन्निवर्तकतावच्छेदकघटकताज्ञापनायोल्लासपर्यन्तानुधावनम् । स च न तज्जालमन्तरेणोपपद्यत इति जालपदोपादानम् । अथोपो नसृष्टाद्धनेः कर्मसाधननिष्ठायामनुदात्तोपदेशेत्यनुनासिकलोपे निष्पन्न उपहतशब्नो नकुलेनाहिरुपहत इत्यादी नकुलकर्तृकध्वंसप्रतियोगितारूपकर्मताविशेषवचन इति नाजात एकोऽयं हन्ति नाप्यन्याधार इति न्य,येन तत्र स्वोपहन्तव्याहिसामानाधिकरण्यवत्प्रकृतेऽपि तथात्वप्रसङ्ग इति चेदत्र गुरुपादाः । प्रयोजकतासम्बन्धेन फलोत्पत्तिवैशिष्टयरूपफलोपहितत्वस्यैव तादृन्यायसञ्चार- बीजत्वात्प्रकृते च तादृगुल्लासवृत्तितेजस्त्यावच्छिन्नजनकतानिरूपितध्वंसवृत्तिजन्यतानिरूपितप्रतियोगिता- संसर्गवच्छिन्नावच्छेदकतावच्छेदकधर्मावच्छिन्नत्वात्मकस्वरूपयोग्यत्वरूपोपहतत्वस्यैवाभिप्रेतत्वात् । अन्यथा यादृशो राजपालितनकुलो न जातु भुजङ्गमवधीत्तत्रायमुपहतभुजङ्गो नैसर्गिकप्रौढप्रकाशकतेजः प्रतिहततमस्कस्सवितेत्याद्यभियुक्तप्रयोगाणां दुस्समधियतापत्तेः । अत एवोपघातकतावच्छेदकधर्मावच्छि- ननिरूपिताधारताया: कालत्रयावच्छिन्नतया तत्र नैकतरकालावच्छिन्नोपहन्तव्यनिरूपिताधारतेति ध्वन- यितुमुपघातकतावच्छेदकधर्मावच्छिन्ननिरूपिताधारतायां आधारतायाः कालत्रयावच्छिन्नत्वावबोधनतात्पर्यक- नित्यपदोपादानम् । अत्रैके नव्यसङ्ख्यावन्तः । प्रामाणिकप्रतियोगिताकात्यन्ताभावमुरीकृत्य तस्य टीकाक्षर- जनिताधिगतिविषयवसिद्धये प्रकृतोल्लासोपहतपदं ताहगुल्लाससमानाधिकरणात्यन्ताभावप्रतियोग्यर्थकमित्य- थापयन्ति । वयघातकभावापन्नगुणदेषाणां समसङ्ख्यतया तत्तवृत्तिव्यासज्यवृत्तिधर्मयोर्व-यघातकताव- च्छेदकत्यायोगेन सर्वज्ञानसर्वस्वातन्त्र्यसर्वशत्यादिरूपा यावन्तो घातकाभिमता गुणाः प्रत्येकं तत्तवृत्ति- धर्मावच्छिन्नजनकतानिरूपितजन्यताशालि-वंसप्रतियोगितावच्छेदकाभिमतवध्याभिमततत्तवृत्तिधर्मावच्छि- नत्वलाभाय सकल पदोपादानम् । सर्वनामरूपप्रकृतिप्रत्ययसङ्घातात्मकमौलास्येतिघटकप्रकृत्यंशजनितोप- स्थितिविषयतावच्छेदकावच्छिन्नगोचरजिज्ञासां तत्समभित्र्याहृततद्गुणसंविज्ञानाभिधेयस्य वा तदघटकोत्तरपद- लक्ष्यस्य वान्यपदार्थस्य च जिज्ञासां पूरयन्नुद्भवादिदातृताया नैसर्गिकतयोद्भवादेन फलराहित्यनिबन्धनवि- धित्सानुपपत्यवकाश इत्यभिदधाति । जगदिति । मौलादिपदस्याष्टकप्रत्यायकत्वेन व्याकरिष्यमाणतया प्रकृते त्रितयप्रमापकत्वोक्तिस्तव्यावृति विरोत्स्यतीतिशङ्का त्वेकतरपदस्यशिष्टोपलक्षकत्वाशयेन प्रवृत्तेति निरस- नीया । अत्राजिरशिशिरेत्युणादिसूत्रव्युत्पादितकिरच्प्रत्ययान्तस्य आतो लोप इति प्रत्ययकित्वनिबन्धन- धात्वाकारलोपकस्य दृढार्थनिरूपितसमुदायवृत्तिकस्य स्थिरशब्दस्य काशिकायां मुग्धप्रौढस्थिरशब्दानां पृथ्वादि-वपाठात्पृथ्वादिभ्य इत्यनेनेमनिचोऽप्राप्ते यमिमनिजन्तम्साधुरित्युक्तत्वेऽपि नैषधद्वादशसर्गगत 'यत्कस्यामपि भानुमान्न ककुभि स्थमानमालम्बत' इति श्लोकस्य व्याख्यायां वर्णदृढादिभ्यः प्यञ्चेति सूत्रे चकारेणेमनिजस्समुच्चितत्वात्स्थिरशब्दस्येमनिजन्तोऽयं साधुरित्यभिहिततया तादृशाद्भावार्थकेमनिचि प्रत्यये मङ्गलश्लोकाः) ॥ जिज्ञासाधिकरणम् ॥ २. प्रियस्थिरेतिविहितस्थादेशनिप्पन्नस्थेमशब्दस्य प्रकृतिजन्यवोधीयप्रकृत्यनिष्ठविशेष्यतानिरूपितप्रारना- पन्नभावभूतदाढर्थप्रत्यायकत्वेऽपि स्थाधातुप्रकृतिकतया स्थितिमन्निरूपितावयववृत्तिमानपि भवतीत्यागायेन 'अखिल भुवनजन्मस्थेमभङ्गादिलील' इति राभानुजभाप्यकृढमाषिष्ट । तादानान्दीश्लोकगतन्यमपदं स्थेमा स्थितिरिति श्रुतप्रकाशिकाकृपि व्याचव्यौ । एवमन्येऽपि चिरन्तनाः प्रकृतेऽपि स्थितिप्रीति- तात्पर्येण स्थेमपदप्रयोग इति व्याचक्षिरे । अपौरुषेयत्वेन तन्मूलत्वेन वाऽनाशङ्कितोयत्वादिना शोभनानि वेदादीनीत्यादिव्याख्यास्यमानमङ्गी प्रतिसन्दधानो वाक्यपदप्रकृतिकबडुवचनोपस्याप्य व्यासन्य वृत्ति- सङ्ख्याया असंकुचितायाः प्रकृत्यर्थेऽन्वयमुपगच्छन् कृत्यान्तप्रकृतिकतनवर्थम्नात्पर्यविषयतारूप इति च विभावयन् समुदिताशयं दर्शयति । अशेपेति । अष्टलक्षप्यां द्वितीयलक्षणे द्वितीयचरणे द्वन्द्वाधिकारे द्वन्द्वे घि 'अजाद्यदन्तं' अल्पाच्तरमिति त्रिसूत्री द्वन्द्वसमासे प्रावप्रयोज्यताविधात्री श्रूयते । तत्र व्यन्तम्या- सङ्कीर्णमुदाहरणं हरिहराविति । अजादीत्यस्य तादृशमीशकृष्णाविति । ह्यन्तादजाद्यन्तं विप्रतिपथैन इन्द्रामी इतिवदाम्नायस्मृतीत्यत्राम्नायशब्दस्य पूर्वप्रयोगनिर्वाहवत् अजाद्यवन्तमित्येतदर्शिततादृशेऽल्पाच्नमिन्यत- च्छिवकेशवावित्यत्र तादृशेऽजाद्यदन्तादल्यातरविप्रतिषधेन वागीशा विति यथा नद्वत्प्रकृतेऽप्याम्नाय- स्मृती इत्यत्र विप्रतिपेधेन स्मृतिशब्दस्य पूर्वनिपातम्स्यादितिशङ्का तु निर्दलैव । समानाधिकरणजातीय- योर्लक्षणहेत्वोः क्रियायास्समुद्रामाद्धः 'नासिकाम्तनयो विटो रित्यादिसूत्रकारीयनिर्दशेनेतन्प्रकरणस्यानि- त्यताज्ञापनात् । शकुनिसूत्रयोरित्यस्य साधु गासिसाधयिषय.ऽल्पान्तमित्यस्य टीकाकृत्पादैरप्यनित्यताभि- हितेश्च । तापस पर्वतावितिवदाम्नायम्य अभ्यर्हितत्वाद्वा तत्पदस्य पूर्वनिर्देश इति ॥ १ ॥ सु. येन प्रादुरभावि भूमिवलये व्यस्तारि गोमन्ततिः प्राबोधि श्रुतिपङ्कजं करुणया प्रकाशि तत्वं परम् । ध्वान्तं ध्वंसमनाथि साधुनिकरश्वाकारि सन्मार्गग- स्तेन व्यासदिवाकरण सततं मा त्याजि मे मानसम् ॥ २ ॥ -गुरुत्वोपपादकशास्त्रप्रभवत्योप(पादक तमेवेति द्वितीयपद्यव्याख्यानरूपे)पादनेन किञ्चिन द्वितीयस्य पद्यस्य व्याख्यानरूपे येनेति पधे वेदविभागो वेदार्थोपबृंहकेतिहासपुराणादिनिर्माणं तन्नि- यकब्रह्मसूत्रनिर्माग चेति त्रिविधोऽपि गोसन्ततिविस्तारोऽभिमतः । तत्राद्यस्य प्राबोधीत्युक्ते मन्दर येव- त्वरूपे प्रबोधे हेतुत्वम् । द्वितीयतृतीययोस्तु प्राकाशीत्याद्युक्तप्रकाशादि(तृतीयेऽपि) हेतुत्वमिति द्रष्टव्यम् । करुणयेत्येतत्प्रादुरभावीत्यादौ सर्वत्र सम्बध्यते । अनेन प्रादुर्भूत इति पद्यतात्पर्यमप्युक्तं भवति । लुङ्- प्रायपाठभङ्गपरिजिहीर्षयाऽऽह । मेति ॥ माङ्योगे लुङः कर्मलकारापवादकत्वान्न त्यज्यतामित्यर्थः ॥२॥ वा० S.T.2
(अ. १ पा. १ अ.१
ܪ ܀
॥ न्यायसुधा ॥
प०-प्रतिपाद्यं नत्वा द्वितीयपद्यस्थशास्त्रप्रभवत्वादि विवृण्वन्सूत्रकृतमभीष्टं याचते ।। येनेति ।
गोसन्ततिरित्यनेन भारतपुराणब्रह्मसूत्रादिग्रन्थसमूह: किरणसन्ततिश्चोच्यते । प्राबोधीत्यनेन वेदप्रभवत्वं
वेदव्यञ्जकत्वमेवेति दर्शितम् । गोपदश्रुतिपदयोरुक्त्या शास्त्रपदेन पौरुषेयापौरुषेयग्रन्थसंग्रह इति
मूचितम् । यद्वा गोसन्ततिनिसन्ततिरित्यादि ध्येयम् ॥ २ ॥
या० ----माङ्योगे लुङः सर्वलकारापवादकत्वेन मा त्याजीति लुङ् लोडर्थ इति ज्ञातव्यम् ॥ २ ॥
श्री०-व्याचिख्यासितानुव्याख्यानमूलभूतब्रह्मसूत्रकर्तृत्वोपाधिना श्रीवेदव्यासं दिवाकरसाम्येन
वर्णयन्मनसः सदा तद्विषयकत्वं प्रार्थयते । येनेति । भूमिवलये भूखण्डे यमुनाद्वीप इत्यर्थः । साधूनां
निकरः समूहश्च सन्मार्गगोऽकारि । मानसं मनः मा त्याजि सदा तद्विषयकमेव भवत्वित्यर्थः ॥२॥
।
च०-चतुर्लक्षणीप्रतिपाद्यविशेषणविशेषितप्रणामानन्तर्येण व्याख्येयद्वितीयपद्यप्रतिपादनीयगुरु-
त्वोपपादकशास्त्रप्रभवत्वादिकं स्फुटीकुर्वाणम्सूत्रकृत्सन्निहितिं स्वचेतसि प्रार्थयते । येनेति ॥ तन्त्रावृत्त्या-
द्याश्रयणेन चिणन्तषटकेनान्वेति । करुणयेत्यपि तथा । तत्राद्या चिण्प्रकृतिरकर्मिका शिष्टतत्प्रकृतयस्सक-
मिका इति । भवते वे लकारः शेषतत्सङ्गात्कर्मणि । 'लः कर्मणि च' 'चिणभावकर्मणोर'ति च स्मृतेः ।
अत्र भावो भावनोत्पादनक्रिया सा धातुत्वेन सकलधातुषु वाच्या भावार्थकलकारेणानूद्यते । युष्मदस्मन्यां
सामानाधिकरण्याभावात्प्रथमपुरुषः । तिङ्वाच्यभावनाया असत्वरूपत्वेन द्वित्वाद्यप्रतीतेन द्विवचनादि
किंत्वेकवचनमेव तस्वौत्सर्गिकत्वेन सङ्ख्यानपेक्षत्वात् । अनभिहिते कर्तरि तृतीया । आये यन्निष्ठकर्तृ.
तानिरूपकः प्रादुर्भाव इति बोधः । शेषेषु यत्कर्तृकविस्तृत्यादिक्रियाकर्मभूता गोसन्तत्यादय इति ।
द्विकर्मणां तु 'गौणे कर्मणि दुह्यादेः प्रधाने नीकृष्व हाम् । बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया
प्रयोज्यकर्मण्यन्येषां प्यत्तानां लादयो मता' इत्यनुशासनविषयतया चैत्रेण ग्राममजा नीयत इतिवन्मुख्य-
कर्मीभूतध्वान्तवृत्तिकमतैव चिणा प्रत्याप्यत इति तत्पदोत्तरा प्रथमेव । ग्रामस्वेव ध्वंसस्याप्रधानकर्मतया तदु-
त्तरा तन्निष्ठकर्मतावगमिका द्वितीयैव । क्षुब्धस्वान्तध्वान्तेत्यनिटकतया निपातितध्वनिप्रकृतिकभावनिष्ठांत-
रीयेग ध्वान्तशब्दस्य नपुंसकाधिकारीय भावे ल्युडन्त इति सूत्रोत्तरनिष्ठायां चेत्यनुशिष्ठनित्यक्लीबताकतया
क्लीबनिर्देश इति ज्ञातव्यम् । माङ् समभिव्याहारे लुङस्सर्वलकारापवादकतया लोडर्थभूताशीरर्थकोऽयम् ।
आशिषि लिङ् लोटाविति स्मृतेः । लोडप्रयोगबीजं तु लुङ् भूयः समभिव्याहारभङ्गापनिनीपैवेति
ध्येयम् । शिष्ठ निबन्धान्तरेषु व्यक्तम् ॥ २ ॥
मङ्गलश्लोकाः) ॥ जिज्ञासाधिकरणम् ॥ ११ चा० सु. व्याप्तिर्यस्य निजे निजेन महसा पक्षे सपक्षे स्थिति- व्यावृत्तिश्च विपक्षतोऽथ विषये सक्तिन वै बाधिते । नैवास्ति प्रतिपक्षयुक्तिरतुलं शुद्ध प्रमाणं स मे भूयात्तत्त्वविनिर्णयाय भगवानानन्दतीर्थो मुनिः ॥ ३॥ ---युक्तिप्रधानत्वादनुव्याख्यानस्य तदुबोधार्थ युक्तिश्लेषेण तन्प्रणेतन्प्रार्थयते । व्याप्तिरिति । अत्राचार्थपक्ष ब्यापनं स्वभावसामर्थेन । स्वसिद्धान्ते स्वसमानसिद्धार्थे दाढयम् अनभिमतिविरुद्धसिद्धा- न्ततः निषिद्धविषयास्नेहो विरोधिमतयोगश्च यथाक्रमं शब्दार्था द्रष्टव्याः । अत्र न वै नैवेत्युभयावधारण- प्रयोगेण व्याप्तिरेवेत्यादिः सर्वत्र सम्बन्धस्तस्य सूच्यते । तेन धूमस्य हृदपर्वतपक्षकानुमाने पक्षे व्याप्त्या स्थितेरभावात् हदे वह्निसाधनार्थ प्रयुक्तस्य पक्षे स्थित्यभावात् हृदृष्टान्तेन प्रयुक्तस्य सपक्षे स्थित्यभावात् वन्यभावसाधनाय प्रयुक्तस्य विपक्षतो व्यावृत्त्यभावात् वन्हिमति वन्यभावसाधनाय प्रयुक्तस्य (प्रत्यक्षादि)- बाधिते विषये सक्तेश्च स्थाल्यादिमत्वसाधनाय प्रयुक्तस्य पाषाणवत्वादिप्रतिपक्षयोगाच्च कचित्सत्या एव युक्तेः कचिदसत्त्ववन्नाचार्यस्य क्वचिदपि स्वसिद्धान्तस्थित्यभावादीत्यर्थसिच्याऽतुल्यत्वं सिद्धं भवतीति द्रष्टव्यम् । अत्र निजे पक्षे व्याप्तिः सर्वस्मिन्स्वीये पक्षे स्थितिरित्यन्वयो द्रष्टव्यः ॥ ३ ॥ .. स० ...आनन्दतीर्थपक्षे निजे पक्षे । सूत्रकारसिद्धान्ते । व्याप्तिः अशेषस्य तस्याङ्गीकारः । निजन महसा स्वसामर्थ्येन न तु तपःप्रभावाद्यासादितवरा दिनेत्यर्थः । सपक्षे तत्सजातीये वैशेषिकादि- सिद्धान्ते स्थितिस्तदेकदेशस्वीकारः । भेदसत्यत्वादिस्वीकारात् । विपक्षतो व्यावृत्तिः विरुद्धप्रमेयानङ्गी- कारः । सक्तिरासक्तिराग्रह इति यावत् । प्रतिपक्षयुक्तिः प्रतिवादियोगः । अनुमाने सर्वत्र कथञ्चित् प्रतिपक्षयोगः सम्भावितः । “उपाधिप्रतिरोयौ तु क नामातीवदुर्वचा'वित्युक्तेः । अस्य तु सर्वथा प्रतिपक्षयोगसम्भावनापि नास्तीत्यभिप्रायेण नैवेत्युक्तम् । अत एवातुलमित्याहेति योजना । यद्वा क्वचित्पञ्चरूपोपपन्नस्यापि धूमाद्यनुमानस्य हृदादिस्थलान्तरे पञ्चरूपोपपन्नत्वाभावात् तद्वैलक्षण्यप्रतिपादनाय सक्तिन वै इति नैवास्तीति चोक्तम् । तथाच व्याप्तिरित्यादावपि तदनुवृत्यातुलत्वोपपादकत्वं द्रष्टव्यम् । अनुमानपक्षे तु निजेन महसा व्याप्त्याख्यसामर्थेन । निजे पक्षे स्वसाध्यधर्मविशिष्टे धर्मिणि व्याप्ति- यात्या वर्तनम् । अन्यथा भागासियापत्तेरिति योज्यम् । शिष्ट स्पष्टम् । शुद्धं पञ्चरूपोपपन्नम् ।। ३ ।। प० ---भाप्यकर्तारमभीष्टं प्रार्थयते ।। व्याप्तिरिति ॥ तत्त्वविनिर्णयाय । इदमदो वाऽन्यदेव वा तत्वज्ञानमिति संशयविपर्ययानास्कन्दितनिर्णीतप्रामाण्यकनिश्चयरूपतत्वज्ञानायेति साध्योक्तिः । प्रमाण- ॥ न्यायसुधा ॥ (अ. १ पा. १ अ. १ रणे ल्युट् । इतरकरणवदस्य प्रमातृप्रयोज्यत्वाभावेऽपि सर्वप्रमितिकरणमनआदिशक्तिप्रबोधकतया न प्रमाहेतुत्वात् 'बृहत्तुलैरप्यतुलै'रित्यादाविवातुलमनुपममित्यर्थः । शुद्धं निर्दोषम् । पक्षवृत्तित्वं नत्त्वं विपक्षाब्यावृत्तिरबाधितविषयत्वं असत्प्रतिपक्षत्वं चेति अन्वयव्यतिरेकिणः पञ्चरूपाणीति तानि || व्याप्तिरित्यादिना । निजे भक्तवर्गाख्ये । पक्षे । भक्तवर्गस्य विष्णूत्कर्षादिज्ञानं वा तत्व- ते तत्वज्ञानगोवरसन्देहवत्त्वेन विष्णूत्कर्षादिज्ञानमेव तत्वज्ञानं नान्यदित्येवं तत्वनिर्णयरूपप्रमाण- तस्मिन्सिपाधयिषितत्वेन तस्य पक्षत्वात् । स्वमाहात्म्यस्य तत्र प्रकटितत्वेन तैरवगतमाहात्म्यत्वात्तत्र विशेषाद्वा निजेन महसा तं व्याप्नोतीति व्याप्तिपदेन पक्षे सर्वत्र वृत्तिरुक्ता। 'व्यावृत्तं यद्विपक्षेभ्यः व कृतान्वयि । व्याप्त्या पक्ष वर्तमानमन्वयव्यतिरेकिं तदि'त्युक्तेः । सपक्ष हरौ इदमदो वेति नास्कन्दितानुपचरिततत्वनिर्णयवति । स्थितिः निष्ठा न तु तत्र व्याप्तिः । हरिविषये कृत्स्नाविष- । ईशादन्यत्रैवालोचने सर्वविषयकत्वादिति भावः । विपक्षतः उक्तरूयतत्वनिर्णयहीनायोग्यजनेभ्यः : उपदेशादावप्रवृत्तिः । बाधिते निषिद्धे विषये सक्तिः सङ्गो नैवाम्तीति अवधारणे प्रसिद्धिद्योतको ब्दः भ्रान्तिशून्य इति वार्थः । ऋजुज्ञानस्य यथार्थैकस्वभावत्वात् । प्रतिपक्षयुक्तिः प्रतिवादि- स नैव, प्रतिभटशून्य इत्यर्थः । वेदभारतबौद्धादिग्रन्थाः पक्षसपक्षविपक्षा इत्येके ॥ ३ ॥ या० ...-आनन्दतीर्थपक्ष निजः पक्षो ब्रह्ममीमांसाशास्त्रम् । विप्रतिपत्त्या सन्दिग्धसाध्यार्थवत्त्वात् । प्तिनिष्ठा । न तु परभाप्य कारस्येवानादरः । तेन श्रुतिसूत्रयोः विरोधे सूत्राणां कथञ्चिद्योज्यत्व- त् । निजेन स्वाभाविकेनैव न वरादिलब्धेन । महसा स्वसाध्यज्ञापनसामर्थ्य नेत्यर्थः । सपने आर्थवत्तया निश्चिते वेदेतिहासादौ स्थितिनिष्ठा । विपक्षतो विरुद्धराद्धान्ततो व्यावृत्तिस्तत्रानादरः । सक्तिः । आग्रह इति यावत् । ऋजुयोगिनामदुष्टबुद्धित्वस्य वेदादिप्रसिद्धत्वादिति हेतुं वैशब्देन । प्रतिपक्षयुक्तिः प्रतिवादियोगः । अनुमाने सर्वत्र कथञ्चित्प्रतिपक्षयोगः सम्भावित 'उपाधि- | तु क नामातीवदुर्वचावि'त्युक्तेः । अस्य तु सर्वथा प्रतिपक्षयोगसम्भावनाऽपि नास्तीत्यभिप्रायेण म् । अत एवातुलमित्याहेति योजना द्रष्टव्या । अनुमानपक्षे तु निजेन महसा व्याप्त्याख्य- न निजे पक्षे स्वसाध्यधर्मविशिष्ट धर्मि णि व्याप्तिस्तत्र सर्वत्र वृत्तिः । अन्यथा भागासिद्ध्यापत्तेः । टम् । शुद्धं पञ्चरूपोपन्नम् । प्रमाणमनुमितिरूपप्रमाकरणम् । आनन्दतीर्थमुनेरपि सकलशे- मिकतयाऽस्मदाद्यनुमितिप्रमाकरणत्वमुपपादनीयम् ।। ३ ॥ श्री० ... व्याचिख्यासितानुव्याख्यानकर्तृत्वोपाधिना श्रीमदानन्दतीर्थमुनिमनुमानसाम्येन वर्णयन् यसाधनत्वं प्रार्थयते ॥ व्याप्तिरिति ।। ३ ।।
मङ्गलश्लोकाः)
॥ जिज्ञासाधिकरणम् ॥
१३
च०--व्याचिख्यासितानुव्याख्याया युक्तिमालाग्रथिततया तत्स्फुरणोपयिकतया तत्तादात्म्योपरक्त-
भाप्यकृदुपास्ति विधत्ते || व्याप्तिरित्यादि ॥ भगवत्पादकल्पे ब्रह्ममीमांसाशास्त्रं पक्षः निग्विलगुणपूर्व्य-
वद्यगन्धवैधुर्योभयविशेषितस्य स्वप्रतिपादकतासम्बन्धेन तत्र सिषाधयिपितत्वात् । तत्र व्याप्तिः प्रतिमूत्रं
प्रतिपदं प्रत्यक्षरमितरानधिगन्तव्यतत्तत्प्रतिपाद्याधिगन्तृता । निजेन नैसर्गिकेण महसा स्वसिषाधयि-
पितार्थानुमापनसामर्थेन । सपक्षे वेदेतिहासादौ अवधृतसा यकत्वात् । उभयानुगतहेतुताघटकसम्बन्धम्तु
स्वेतरानधिगन्तव्यस्वाधिगतार्थकत्वं हेत्वभिमतस्य । विपक्षतः प्रतीपसमयात् । बाधिते गर्हिते । सक्तिः
अभिनिवेश: । प्रतिपक्षयुक्तिः प्रत्यर्थिघटना । अनुमाने उपाध्यादिसम्भावनास्ति । प्रकृते तु तामपि
व्यवच्छेत्तुं नैवेत्युक्तिः । पर्वतादौ वन्ह्यादिकं धूमेनालोकेन भस्मना च साध्यत इति तानि साधनानि
सतुलानि प्रकृतसाधनाभिमतभगवत्पादातिरेकेण तादृशसा यानुमापनसमर्थ वैकल्यादिदमतुलमिति हृदयम् ।
अनुमानकल्पे तु मह: पदं तत्तत्मा-यनिरूपितव्याप्त्यवगमकं पक्षतावच्छेदकसामानाधिकरण्येनासिद्धि युद्-
सनाय व्याप्तिपदं तदवच्छेदेन हेतुतावच्छेदकघटकसम्बन्धप्रत्यायकम् । प्रमाणपदं करणसाधनल्युइन्तमि-
त्य तो भगवत्पादानामपि निखिलमनीषानेतृतया प्रकृतसा-यगोचरास्माधिकरणकानुमितिहेतुतोपपादनीया ।
भक्तवर्गाख्ये पक्षे विप्गूकर्षादिज्ञानधर्मिकतत्वज्ञानत्वतदभावकोटिकसन्देहयन्वात् । सपने हरो तादृश-
सन्देहानाम्कन्दितत्वात् । विपक्षतोऽयोग्य जनाव्यावृत्तिस्तदुपदेशादावप्रवृत्तिरित्यादिकं निवन्धान्तरे
स्थितम् ॥ ३ ॥
सु.-
भवति यदनुभावादेडमकोऽपि वाग्मी
जडमतिरपि जन्तुर्जायने प्राज्ञमौलिः ।
सकलवचनचेतोदेवता भारती मा
मम वचसि निधत्तां सन्निधिं मानसे च ॥ ४ ॥
वा०
-वाङ्मनसयोभरतीसन्निधिप्रार्थनानिमित्तं सहेतुकं वदन्नव तां प्रार्थयते ॥ भवति ।
'स्यादेडे बधिरः प्राज्ञे गडुलः कुकरे कुणिरि त्यभिधानादेडो बधिरश्चासौ मूकश्चति विग्रहः ॥ ४ ॥
स० ---यदनुभावाद्यदनुग्रहात् । यदनुभावाभावे वाग्म्यपि मूको भवतीति व्यतिरेकसमुच्चायको
अपि शब्दः । एवमग्रेऽपि । अनेन वाग्देवतात्वमुपपाद्य चेतोदेवतात्वमुपपादयति ॥ जडमतिरपीति ॥४॥५॥
प०-देवीं सरस्वतीं व्यासमिति शिष्टाचारशिक्षामनुसृत्य वायुपत्नीसन्निधिमर्थयते ॥ भवतीति ।
एडमूकः वक्तुं श्रोतुमशक्त: 'जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षित' इत्यमरोक्तेः । किम्वनीदृश इति
कैमुत्यार्थोऽपिशब्दः । वाग्मित्वभवने प्राज्ञमौलित्वभवने च हेतु: सकलवचनचेतोदेवतेति ॥ ४ ॥
अ. १ पा. १ अ. ॥ न्यायसुधा ॥ १ या०-यदनुभावाद्यदनुग्रहात् । यदनुभावाभावे वाग्म्यपि मूको भवतीति व्यतिरेकसमुच्चायको अपिशब्दः । एवमग्रेऽपि । अनेन वाग्देवतात्यमुपपाद्य चेतोदेवतात्वमुपपादयति ॥ जडमतिरपि इति ॥ ४ ॥ ५॥ श्री० o-ग्रन्धकरणस्य वाक्चेतोव्यापाररूपत्वेन तद्देवतां भारती प्रार्थयते ॥ भवर्तीति ॥ ४ ॥ च०-वाग्मित्वप्राज्ञमौलित्वयोः स्वानुग्रहव्यतिरेकप्रयुक्त यतिरेकप्रतियोगित्वस्वसमाधानकालीन- समवहितिकत्वरूपस्वनिरूपितान्वयव्यतिरेकविशेषिततया प्रत्यायितवाङ्मनसदेवतात्विकाया भारत्यारसन्नि- हिति स्वीयवाङ्मनसयोरर्थयते ॥ भवतीत्यादि ॥ अथ 'श्रिणीभुवोनुपसर्ग' इति सूत्रेऽनुपसर्गग्रहणात् प्रभव इतिवदनुभव इति भवितव्यतयाऽनूपसृष्टस्य भवतेप्रत्ययानवकाशे बानुग्रहवचनः कथमनुभावशब्दो निप्पद्यत इति चेन्मैवम् । कथं प्रभावो राज्ञ इत्यादिकमाशङ्कय प्रकृष्टो भाव इति प्रादिसमास इति पाणिनीयास्समादधुरिति तदिशाऽनुसमस्तस्यैव भावशब्दस्यानुग्रहप्रत्यायकत्वोपगतेः । एडो बधिरः स चासौं मूकश्चति विग्रहः ॥ ४ ॥ सु.- रमानिवासोचितवासभूमिस्सन्न्यायरत्नावलिजन्मभूमिः । वैराग्यभाग्यो मम पद्मनाभतीर्थामृताब्धिर्भवताद्विभूत्यै ॥ ५ ॥ -सन्न्यायरत्नावलिग्रन्थस्यात्रोपजीवन व्यञ्जयन्नमृताब्धिश्लेषेण तत्कर्तृन्प्रार्थयते ।। रमेति ॥ क्रमेण विशेषणत्रयेण भक्तिज्ञानवैराग्याणि व्यञ्जयन्ति । 'सर्व एव वान्नावादयोऽनन्वादेशे वा वक्तव्या' इत्युक्तेर्ममेति साधु । ( किञ्चित्कार्य विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । कार्य विधातुमपूर्व बोधयितुमित्यर्थः यथाऽनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेति । अन्यादेशे तु नित्यं स्युः । ) एवमुत्तरत्रापि द्रष्टव्यम् ॥ ५ ॥ प०-प्राचीनटीकाकारादभीष्टमाशास्ते ॥ रमेति ॥ सन्न्यायरत्नावल्याः अनुव्याख्यानटीका- ग्रन्थस्य जन्मभूमिः जनक इत्यर्थः । अब्धिपक्षे वैराग्यं शौक्ल्यं ध्येयम् ।। ५ ।। श्री०-अनुव्याख्यानस्य पूर्वटीका सन्न्यायरत्नावली । तत्कर्तृन् पद्मनाभतीर्थश्रीमच्चरणान् क्षीरस- मुद्रसाम्येन वर्णयन् ज्ञानाद्यैश्चर्यसाधनत्वं प्रार्थयते ।। रमानिवासेति ॥ ५ ॥ ६ ॥ वा० चिरन्तनटीकामुपजीवतीयमभिनवटीकेति ध्वनयितुममृतोदधितुल्यतया तत्प्रणेतॄन्समीहितं नाथते । रमेति ॥ पदस्य पदात् । अनुदात्तं सर्वमपादावित्यधिकृत्य युष्मदस्मदोः षष्ठीचतुर्थीद्वितीया-
यावानावा, बहुवचनस्य वस्नसौं । ते मयावेकवचनस्य । त्वामों द्वितीयाया इति चतुस्सूच्या विहिता.
शान्तर्गतमइत्यादेशस्य दत्तात्ते मेऽपि शर्म स इत्यादाविव प्रसङ्गेन ममेति निर्देशासाधुत्वशङ्का निर्दलैव ।
ञ्चित्कार्य विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानरूपान्वादेशस्थले दर्शितादेशानां नित्यत्वेऽपि
तेषां नावादय आदेशा अनन्वादेशे वा वक्तव्या' इत्यभिहिततया हरिर्मम सुखप्रद इत्यादिवत्साधुत्वो-
त्तिः ॥ ५ ॥
-dama-
पदवाक्यप्रमाणज्ञान्प्रतियादिमदच्छिदः ।
श्रीमदक्षोभ्यतीर्थाख्यानुपतिष्ठे गुरून्मम ॥ ६ ॥
-साधकोक्तौ बाधकपरिहारे च सामर्थेनासंशयः संशयच्छिदित्युक्ततम्वनिर्णायकतया
ख्यगुरुत्वं प्रतिपादयन्नेव साझाद्गुरूनुपतिष्ठते । पदेति ॥ अत्र पदार्थज्ञानोपायभूतं पद्यते शब्दार्थोऽनेनेति
त्परत्या व्याकरणं पदम् । वाक्यार्थज्ञानोपायन्यायसमर्पकप्रमेयमीमांसाशास्त्रं वाक्यम् । उद्देशलक्षण-
भागपरीक्षाभिः प्रमाणस्वरूपनिरिकं प्रमाणमीमांसाशास्त्र प्रमाणमुच्यत इति द्रष्टव्यम् ॥ उपतिष्ठ
ते ॥ उपान्मन्त्रकरण इत्याग्नेप्याऽग्नीध्रमुपतिष्ठत इत्याद्युपपादनाय वैवक्षिकमन्त्रकरणस्य विवक्षितत्वेऽपि
आदित्यमुपतिष्ठत इत्यादावमन्त्रकरणेऽप्यात्मनेपदोषपादनाय प्रवृत्ते 'उपादेवपूजासङ्गतिकरणमित्रकरणपथिषु
ते वक्तव्यमिति तत्सूत्रीयवार्तिके देवपूजादावप्युपपूर्वात्तिष्ठतेरात्मनेपदविधानाद्गुरोरपि देवप्रतिमात्वेन
वन्त्वात्तत्तत्पूजायामपि देवपूजास्वविवक्षयोपतिष्ठ इत्यात्मनेपदोपपत्तिरिति ध्येयम् । ( मन्त्रकरणे किं भर्तारं
तिष्ठति यौवनेन । आमेष्याऽमिदेवतऋचा । वार्तिकोदाहरणानि तु । आदित्यमुपतिष्ठते कथं तर्हि
त्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वतीति । देवतात्वारोपात् । नृपस्य देवतांशत्वाद्वा । गङ्गा यमुना-
तिष्ठते । उपश्लिप्यतीत्यर्थः । रथिकानुपतिष्ठते मित्रीकरोतीत्यर्थः । पन्थाः सुन्नमुपतिष्ठते प्राप्नोति
यर्थः । इति द्रष्टव्यानि ) ॥ ६ ॥
स० ----पदं व्याकरणम् । वाक्यं मीमांसा । प्रमाणं न्यायः ॥ ६ ॥
प०.---स्वगुरून्नमति ।। पदेति ॥ शब्दमीमांसान्यायशास्त्रज्ञानित्यर्थः । उपनिष्ठे मनसा
यामि । 'उपान्मन्त्रकरण' इति सूत्रे 'उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिग्विति वार्तिकेन पूजाया-
त्मनेपदम् ॥ ६ ॥
या०
-पदं व्याकरणम् । वाक्यं वार्तिकम् । प्रमाणं न्यायः । ॥ ६ ॥
च०-संशयराहित्यविशेषतोऽन्यदीयसंशयच्छेतृत्वरूपगुरुत्वोपयिकव्याकरणप्रमेयप्रमाणमीमांसा धिगन्तृत्वं विशदयन् चेतसा गुरूणां पूजां विधत्ते | पदेति ॥ 'उमान्मन्त्रकरण'इति सूत्रे 'उपाद्देवपूजा- सङ्गतिकरणमित्रकरण पथिप्विति वक्तव्यमिति बार्तिकादुपोपसृष्टतिष्ठतेः पूजायामात्मनेपदम् । गुरोरपि देवप्रतिमात्वेन देवपूजात्वविवक्षोपपत्तरिति ध्येयम् ॥ ६ ॥ वा० सु. श्रीमदानन्दतीर्थायसन्मनःसरमीमुवि । अनुच्याख्याननलिने चश्वरीकति मे मनः ॥ ७ ॥ स्वमनश्चञ्चरीकोपमोक्तिव्याजेन चिकीर्षितं व्यनक्ति ।। श्रीमदिति ॥ ७ ॥ स०-मङ्गलाचरणं कृत्वा चिकीषितं निर्दिशति । श्रीमदिति ॥ सरोवाचकः सरसीशब्दोऽपि प्रसिद्धः । भाषितपुंम्का वीति नलिनविशेषणमुपपन्नम् । चञ्चरीकतीति । रोलम्बश्चश्चरीकश्चेत्यभि- धानात् चञ्चरीको भ्रमरः तद्वदाचरतीत्यर्थः । अत्र चरतेर्यङ्लुगन्तात् चरफलोश्चत्यनेनाभ्यासस्य नुग्वि- धानेन तम्य चानुस्वारोपलक्षणत्वेनानुस्वारे ईकक्प्रत्यये चञ्चरीक इति जाते तस्मात्सर्वप्रातिपदिकेभ्यः किवाचार इत्यनेन क्विपि तल्लोपे 'सनाद्यन्ताधातव' इत्यनेन धातुसंज्ञायां तिङत्पत्तौ चञ्चरीकतीति रूप- सिद्धिरिति द्रष्टव्यम् ॥ ७ ॥ प० --स्वचिकीपितं व्यनक्ति ॥ श्रीमदिति ॥ सन्मनोरूपसरस्यां सरोवरे भुवि जात इत्यर्थः । 'तृतीया दिषु भाषितपुंस्कं पुंवदालवस्येति पुंबद्भावः । अनुत्र्याख्यानाख्यकमले चञ्चरीकति चचरीकवद्भ- मरवदाचरति । 'इन्दिन्दिरभ्रमरपट्पदचञ्चरीका' इत्या दिशब्दरत्नाकरोक्तेः । इन्दिन्दिरश्चश्चरीक इति क्वाचित्कामरपाठः प्रक्षिप्तः । अनेककोशेवदर्शनात् । तद्व्याख्यातृभिरस्पृष्टत्वाच्च । अनेकधा व्याख्यातुं मनः प्रवर्तत इत्यर्थः । आचारात्कियन्ताच्चञ्चरीकशब्हात्तिप्रत्ययः ॥ ७ ॥ -सरःशब्दपर्यायोऽयं सरसीशब्दः । 'कासारः सरसी सर' इत्यभिधानात् । भाषित-. पुंस्का वीति नलिनविशेषगमित्याहुः । वस्तुतस्तु 'मानयानाभिधानपुलिने'त्यादिपुल्लिङ्गानुशासनसूत्रेण नलिनशब्दस्य पुल्लिङ्गताऽभिधाना दिदं विशेषणमुपपन्नमिति ध्येयम् ॥ चञ्चरीकतीति ॥ चञ्चरीको भ्रमरः । 'इन्दिन्दिरश्चञ्चरीको रोलम्बश्चे'त्यभिधानात् । तद्वदाचरतीत्यर्थः ॥ ७ ॥ श्री०---सन्मनःसरसीभुवि । निर्दुष्टमनोलक्षणसरोवरोत्पन्नेनेत्यस्य नलिनविशेषणत्वेन भु भुनी भूनीति नपुंसकभूशब्दस्य सप्तमी भुनीति स्यात् । न तु भूः भुवौ भुवइति पुल्लिङ्गशब्दस्य सप्तमी भुवि इति । अतः कथमनयोः विशेषणविशेप्यभाव इति चेत् । उच्यते । भूशब्दस्य भाषितपुंस्कत्वात्तस्य च तृतीयादिषु 'भाषितपुंस्कं पुंवद्गालवस्येति सूत्रे टादिविभक्तिषु पुंवद्भावोक्तेः भु भुनी भूनीति नपुंस- या० .
मङ्गलश्लोकाः) ॥ जिज्ञासाधिकरणम् ॥ १७ च० कत्येऽपि तृतीयादिविभक्तिषु भुवा भूम्यामित्यादि पुल्लिङ्गवदेव भवति । अतो भुवीति युक्तम् । भाषि- तपुंस्कस्वरूपमुक्तम् । 'यन्निमित्तमुपादाय पुंसि शब्दः प्रवर्तते । नपुंसकेऽपि तच्चेत्स्याद्भाषितपुंस्कं तदुच्यत' इति । यदा हि सरसीभु नलिनं भेकश्च तदुभयत्रापि तच्छब्दप्रवृत्तौ सरसीभुत्वमेव निमित्त नान्यदिति भवति भाषितपुंस्कम् । अत एव भाषितपुंस्कम् । अत एव भाषितपुंस्कत्वाभावात् 'पीलुर्वृक्षः फलं पीलु पीलने न तु पीलवे । वृक्षे निमित्तं पीलुत्वं तज्जत्वं तत्फले पुनरि'ति प्रत्युदाहरणमभाणीति द्रष्टव्यम् ।। चञ्चरीकतीति । यथा हि भ्रमरः समग्रं पुप्परसं पातुमसमर्थस्तं विहायान्यत्र गन्तुमप्यसमर्थस्तत्रैव परिभ्रमति । तथा मदीयं मनो ग्रन्थोऽयमपि बह्वर्थः । अनुव्याख्यानगतैकवाक्यस्य समग्रार्थावगाहनं कर्तुमसमर्थ तद्विहायोत्तरानुव्याख्याव्याख्यानाय गन्तुमसमर्थ सत्तत्रैव परिभ्रमति । वैलक्षण्यं सतश्चापि, स्वभावाज्ञानवादस्य, प्रत्यक्षवच्च प्रामाण्यमित्यादिवाक्यानां बहुप्रकारेण व्याख्यानकरण एवासक्तं भवति इत्यर्थः ॥ ७ ॥ ८ ॥ चञ्चरीकस्यारविन्दगतगन्धाघ्रातृत्वशक्तेरिवात्मीयचेतसोऽनुव्याख्याव्याख्यौपयिकतत्प्रति- पाद्याधिगन्तृत्वशक्तिं स्फोटयन् चिकीर्पितं व्यनक्ति॥ श्रीमदिति ॥ तृतीयादिषु भाषितपुंस्कत्वात्पुंवद्भावेन भुवीतिनलिनविशेषणं सङ्गच्छते । 'मानयाना भिधाननलिनपुलिनोत्तानशयनासनस्थानचन्दनालानसमान- भवनवसनसंभावनविभावनविमानानि नपुंसके चेति पुल्लिङ्गाधिकारीये लिङ्गानुशासनसूत्रे चकारेण पुंस्वसमुच्चयाद्वा ॥ ७ ॥ सु. न शब्दाब्धौ गाढा न च निगमचर्चासु चतुरा न च न्याये प्रौढा न च विदितवेद्या अपि क्यम् । परं श्रीमत्पूर्णप्रमतिगुरुकारुप्यसरणिं प्रपन्ना मन्याः स्मः किमपि च वदन्तोऽपि महताम् ॥ ८ ॥ केवलं गुरुदेवताप्रसादलब्धैतद्वन्थप्रतिपादितपदस्वरूपप्रमाणप्रमेयोपपादकन्यायजाते न अनादरः कार्य इत्येतद्व्यञ्जयन्स्वगर्व परिहरति॥ न शब्देति ॥ न शब्दाब्धावित्यादिना क्रमेण पदवाक्य- प्रमाणज्ञत्वाभाव उच्यते । महतामित्येतच्चात्र व्यञ्जकं द्रष्टव्यम् । किमपि चेति लौकिककारणनिरपेक्ष- तामाह । अलौकिककारणभावान्नाकारणकार्योत्पत्तिरपीत्याह ॥ परमिति ।। अत्रास्मदोद्वयोश्चेति बहुव- द्भावाद्वयमिति बहुवचनम् । 'त्वं राजा वयमप्युपासित गुरुप्रज्ञाभिमानोन्नता' इत्यादावुन्नतत्वादे: विधेय- त्वेन व्यावृत्तावतात्पर्यादविशेषणत्वान्न शब्दाब्धौ गाढा इत्यादेरपि विधेयत्वेनाविशेषणत्वात्परं श्रीमदि- त्यादेश्वाविधेयत्वेऽपि हेतुपरतया व्यावृत्तावतात्पर्येणाविशेषणत्वान्नात्र ‘सविशेषणस्य प्रतिषेधो वक्तव्य' इति वा० S.T.3 ॥ न्यायसुधा॥ (अ. १ पा. १ अ. १ १८ प्रतिषेधम्य प्रसक्तिरिति द्रष्टव्यम् । ( प्रतिषेधस्येति । अस्मदो द्वयोश्चेत्युक्त बहुवद्भावप्रतिषेधस्येत्यर्थः । तथा चाहं पण्डितो ब्रवीमीतिवदहं प्रपन्नो मान्योऽस्मीति न प्रयुक्तमिति भावः ) ॥ ८ ॥ म० . -भगवत्पादकृपामात्रसाध्यत्वान्नानादरः कार्य इत्याह । न शब्दान्धाविति ॥ निगमचर्चा मीमांसा । वेद्यं परमपरं च तत्वम् । अन्ये तु शब्दाब्धौ गाढा नेति न, निगमचर्चासु चतुराश्च न्याये प्रौदाश्च नेति न । विदितवेद्याश्चापि यद्यपि तथापीति व्याचक्षते । अत्र च न परटीकाकाराणां व्याख्यानमिवाम्मयाग्ल्यानमशेषशास्त्रपरिज्ञानसाध्यं, अपि तु गुरूत्तमश्रीमध्वकृपासाध्यमतो नानादरः कर्तव्य इत्यवतारिका द्रष्टव्या । किमपि युक्तमयुक्तं वेत्यर्थः । आपाततोऽयुक्तार्थकमपि मदीयवचनं मवगुरुप्रसादसा यत्वाद्युक्तार्थ मान्यमेव महतामिति भावः । चोऽवधारणे । मान्या इत्यनेन सम्बन्धः । 'अम्मदो द्वयोश्च'तिसूत्रात् वयमिति बहुवचनम् । न च 'सविशेषणस्य प्रतिषेधो वक्तव्य' इति वचनात् बहुवचनायोग इति वाच्यम् । त्वं राजा वयमित्यादिप्रयोगदर्शनेन निषेधस्य प्रायिकत्वादिति ॥ ८ ॥ प० --चचरीकतीत्युक्त्या प्राप्तं स्वमहत्वं विनयेन भूषयितुं विनयप्रदर्शनं करोति ॥ न शब्देति । निगमचर्चासु वेदविचारेषु । क्वचिदपि चेन्न प्रौढिस्तर्हि किं बलं व्याख्यान इत्यत आह । परमिति ।। अन्यबलमम्तीत्यर्थः । तत्किं गुरुकारुण्यसरणिं प्रपन्ना इति यत्तदेव बलं अतो मान्या इत्यन्वयः । एतेन अग्रे वक्ष्यमाणं सर्व मुलाभिप्रेतमिति ध्वनितम् । किमपि साध्वसाधु वेत्यर्थः । विनयोक्तिरेवैषा । वस्तुतो मयि गुहकारुण्यसरणिप्रतिपत्तिलब्धशब्दाब्यवगाहादयो व्याख्यानप्रयोजकीभूता धर्माः सन्तीति स्वगतव्याख्योपयुक्तधर्मबाहुल्याभिप्रायेण बहुवचनोक्तिः । यद्वा गाढा इत्यादेः निषेधप्रतियोगितया प्रपन्ना इत्यस्य मान्यत्वोपपादकतयोपात्तत्वेन मान्यत्वादेः विधेयतया च वयमित्येतदविशेषणत्वेन सविशे- षणस्य तु नेति निषेधाप्रवृत्तेरस्मदो द्वयोश्चत्येकस्मिन्नपि बहुवचनं ध्येयम् । श्लोकानां च वक्त यबहुत्वेऽपि ग्रन्थगौरवभयात्सङ्ग्रेपः । प्रतिवाक्यं प्रतिपदमनेकाकूतगर्भिता । प्रतिभाति सुधाऽथापि ग्रन्थाल्यत्वाय नोच्यते ॥ ८ ॥ या०---भगवत्पादकृपामात्रमाध्यत्वान्नात्रानादरः कार्य इत्याह ॥ न शब्दाब्धावित्यादिना ॥ निगमचर्चा मीमांसा । वेद्यं परमपरं च तत्वम् । अत्र यद्यप्यस्मदो द्वयोश्चेत्यत्र सविशेषणस्य प्रतिषेधो वक्तव्य इत्युक्तत्वात् । अहं पण्डितो ब्रवीमीतिवत् अहं प्रपन्नो मान्योऽस्मीत्येव वक्तव्यम् । तथाऽपि बहुत्वारोपमात्रेण बहुवचनोपपत्तिः । अत एवोक्तं दुर्घटवृत्तिकारेण 'बहुत्वारोपान्न वयं वैय्याकरणा इत्या- दिकमुपपादनीयमिति । अन्ये तु शब्दाब्धी गाढा नेति न, निगमचर्चासु चतुरा नेति न, न्याये मूलायपद्यावतरणिका ) ॥ जिज्ञासाधिकरणम् ॥ १९ प्रौढाश्च नेति न । विदितवेद्या अपि यद्यपि तथाऽपीति व्याचक्षते । अत्र च न परटीकाकाराणां व्याख्यानमिवारमव्याख्यानमशेषशस्त्रपरिज्ञानमात्रमाध्यमपि तु गुरुतमश्रीमध्वकृपासाध्यमतो नात्रानादरलेशः अपि कर्तव्य इत्याहेत्यवतारिका द्रष्टव्या । किमपि युक्तमयुक्तं वेत्यर्थः । आपाततोऽयुक्तार्थकमदीयं वचनं मध्वगुरुप्रसादसाध्यत्वाद्युक्तार्थप्रमापकमेव सुधियामिति भावः । चोऽवधारणे । मान्या इत्यनेन सम्बध्यते ॥ ८ ॥ -आचारकिबन्तप्रकृतिककर्तृसाधनप्रत्ययान्तनिर्देशापादितामात्मनो महत्तां विनयातिशयेन संस्कुर्वन् भगवत्पादप्रसत्येकविहितप्रकृतग्रन्थनिरूपिनार्थजातं नावजानीयादिति च ध्वनयस्वावलेपकर्मक- मन्दाधिकरणकप्रतीतिमपनिनीषति ॥ न शब्देति ॥ अस्मदो द्वयोश्च । एकत्वे द्वित्वे च विवक्षितेऽस्मदो बहुवचनं वा स्यादिति विहितस्य 'सविशेषणस्य प्रतिषेधो वक्तव्य' इति प्रतिषेधात्पटुरहं ब्रवीमीतिवत् प्रपन्नोऽहं मान्योऽस्मीत्येव भवितव्यतया कथमयं बहुवचनान्तनिर्देश इति शङ्का 'त्वं राजा वयमप्युपासित गुरुपज्ञाभिमानोन्नता' इत्यादावोन्नत्यादेः विधेयतया व्यावृत्तिबोधनतात्पर्यविरहेण तद्वेतुत्वरूपविशेषणत्वा- भावेन व्यावृत्तिप्रतीतिजनकविशेषणावच्छिन्नविशेष्यकसमभिव्याहृतपदार्थान्तरप्रतीतिस्थल एव वार्तिकाव- तारात् प्रकृतेऽपि तदनवतारात्साधुतेव तयैवदिशा सोपपादनीयेति निरसनीयेति स्थितम् ॥ ८ ॥ सु.-- भगवता बादरायणेन प्राणिनां निःश्रेयसाय प्रणीतमपि ब्रह्ममीमांसाशास्त्रमसाधु- निबन्धान्धतमसाऽवकुण्ठितत्वेनाप्रणीतमिव मन्यमानो भगवानानन्दतीर्थमुनिर्यथाऽऽचार्याभिप्राय अस्य भाष्यं विधायानुभाष्यमपि करिष्यन्विलीनप्रकृतितया स्वयमन्तरायविधुरोऽप्यनवरतमी- श्वरप्रवणकायकरणवृत्तिरपि नारायणप्रणामादिकं प्रारिप्सितस्थानन्तरायपरिसमाप्तेः प्रचयस्य च हेतुतयाऽविगीतशिष्टाचारपरम्परादिनाऽवगतमवश्यं करणीयं शिष्यान् ग्राहयितुं ग्रन्थादौ निबध्नाति ॥ नारायणमिति । वा० -ननु प्रामाण्यविषयादिमत्त्वदुर्गमार्थत्वानां व्याख्येयत्वप्रयोजकतया प्रकृतशास्त्रे च तदमा- वात् तद्भावेऽपि वा भाष्यान्तराणां सत्त्वेनैतद्भाप्यानुभाष्ययोरेवाकर्तव्यत्वेन तदन्तरायपरिसमाप्त्यादे: प्रयोजनस्यासम्भवात् विलीनप्रकृतितयाऽनवरतमीश्वरप्रवणकायकरणतया भवदभ्युपेतभाष्यकारस्य ग्रन्थारम्भ एवान्तरायविरहोद्देशेन मङ्गलकृतस्त्वया वक्तुमशक्यत्वाचाचारपरम्पराया अन्धपरम्परात्वसम्भवेन प्रमाणा- भावाच्च नारायणप्रगामादेरकर्तव्यतया ग्रन्थे निवेशनस्य च प्रयोजनाभावेन सुतरामनुपपत्तेरसङ्गतमेतत्प्रथ- मपद्यमित्यत आह ॥ भगवतेति ।। अत्र ज्ञानवैराग्यैश्वर्यसमर्पकभगवच्छब्देन विवक्षार्थतत्त्वज्ञानविवक्षा- । न्यायसुधा.॥ (अ. १ पा. १ अ. १ करणपाटवानां लाभेन प्राणिनां निःश्रेयसायेति वक्तृप्रीतिविषयत्वतत्त्वज्ञानयोग्यत्वलाभेन वक्रानुकूल्य- श्रोत्रानुकल्ययोनिःश्रेयसाय प्रणीतमित्यनेनैव प्रसङ्गानुकूल्यस्य च सिद्धयाऽऽप्तोक्ततयाऽप्रामाण्यशङ्कायाः वेदार्थभूनपरब्रह्मनिर्णायकन्यायग्रथनपरेण ब्रह्ममीमांसाशास्त्रशब्देन वेदादीतिकर्तव्यतात्वलाभेन विषयादि- राहित्यशङ्कायाः निबन्धेति व्याख्यानरूपनिबन्धप्रवृत्त्युक्त्या दुर्गमार्थत्वाभावशङ्कायाः एतद्न्थयोर्भाष्या- नुभाप्यशब्दों प्रयुज्य यथाऽऽचार्याभिप्रायमिति तदर्थकथनेनान्यत्र नितरां बन्धकत्वार्थकनिबन्धशब्दं प्रयुज्याचार्याभिप्रायाननुसारित्वरूपासाधुत्वेन तद्विशेषणेनैतयोरन्येन गतार्थत्वशङ्काया: अविगीतशिष्टेत्यन्ध- परम्परात्वशङ्कायाः विलीनेत्यादिकायकरणवृत्तिरपि शिष्यान् ग्राहयितुमित्यन्तेन भाष्यकारस्य ग्रन्थारम्भ एवान्तरायविरहोद्देशककृत्यनुपपत्तिशङ्कायाः ग्रन्थनिवन्धनानुपपत्तिशङ्कायाश्च परिहारेण पद्यं सङ्गतमिति द्रष्टव्यम् । म० ----- नारायणम्याभिमतदेवतास्तुतिप्रणतिलक्षणस्य कर्तव्यतामकर्तव्यताशङ्कानिराकरणेनोपपाद- यति ॥ भगवतेत्यादिना निवनातीत्यन्तेन ग्रन्थेन । अकरणीयत्वशङ्कानिरासश्च श्लोकव्याख्यानप्रकारेण अवसेयः । नारायणप्रणामादिकम् अवश्यकरणीयं अवश्यकरणत्वेन विशिष्टम् नारायणप्रणामादिकं अवश्यं करणीयमिति शिष्यान् ग्राहयितुमित्यर्थः । नन्वस्तु निबन्धः शिष्यान् ग्राहयितुम् । स किं ग्रन्थारम्भसमये कृतस्य प्रणामस्याकृतस्य वा । न तावद् द्वितीयः । अकृतनिवेशने प्रतारकत्वप्रसंगात् । नापि कृतस्येति युज्यते । तस्य विलीनप्रकृतितया स्वत एवान्तरायविधुरत्वेन. तत्करणप्रयोजनाभावात् । न च परमास्तिकस्वभावत्वादारम्भसमये तत्करणमिति वाच्यम् । तेनानवरतमीश्वरप्रवणकायकरणवृत्तित्वम्यैव लाभेनारम्भसमये विशेषेण तत्करणे निमित्तालाभादित्यत उक्तम् । विलीनप्रकृतितयेत्यादिवृत्तिरपी- त्यन्तम् । आरम्भसमये कृतम्यैव नारायणप्रणामस्य निबन्ध इत्याद्यपक्ष एवाभिमतः । न च तदा विशेपेण तत्करणे प्रयोजनाभावः । सन्निहितशिष्यशिक्षाया एव प्रयोजनत्वसम्भवात् । तथाचान्तरायविधुरोऽप्य- नवरतमीश्वरप्रवणकायकरणवृत्तिरपि सन्निहितशिप्यान् ग्राहयितुं कृतं नारायणप्रणामं असन्निहित- शिप्यानपि ग्राहयितुं निबध्नातीति योजना द्रष्टव्या । प० भाष्यादिवैयर्थ्यशङ्कां निराह ॥ भगवतेत्यादिना ॥ असाविति ॥ असमीचीनग्रन्था- ख्यान्धतमसेन प्रतिबद्धतत्वज्ञानजननशक्तिकत्वेनाप्रणीतमिवेत्यर्थः । सूत्रकृतेः पूर्व विद्यमानयोः साधुजन- मनोगतसंशयविपर्यययोरनपगमादिति भावः । यथाचार्याभिप्रायं सूत्रकाराभिप्रायमनतिक्रम्य । अस्य ब्रह्ममीमांसाशास्त्रस्य । अनुभाष्यमपीति । तत्कृत्यमन्वपि चेत्यादावने व्यक्तम् । ग्रन्थादौ निबन्धनेन प्रणामादिकं कृतमिति तावदवगम्यते । अन्यथा तदयोगात् । तच्चतरजनकृतमिव विघ्नविघाताद्यर्थमिति इदानीमेव कृतमिति च प्रतीयते । तत्प्रतीतिद्वयं निरसितुं स्वयमित्याद्यप्यन्तं विशेषणद्वयम् । प्रणामादिकं प्रणामस्तवनादिकम् । अविगीतेति । अविप्रतिपन्नव्यासादिशिष्टानामाचारेण मन्वादिशिष्टानामाचार इत्येवमाचारपरम्परया तदनुमितश्रुत्यादिना चावगतमित्यर्थः । श्रुत्यनुमानप्रकारश्चाने तत्र तारेत्येतदवता- रिकायां व्यक्तः । या० -अनुव्याख्यानमङ्गलाचरणयोः कर्तव्यतामुपपादयन्नाद्यपद्यमवतारयति ॥ भगवतेत्या- दिना । विधायेत्यनन्तरं स्वयं कृताऽपि तद्व्याख्येत्यत्र वक्ष्यमाणप्रयोजनायेति शेषः । नारायणप्रणामा- दिकमवश्यं करणीयम् । अवश्यकरणीयत्वेन विशिष्ट नारायणप्रणामादिकमवश्यं करणीयमिति शिष्यान्याह- यितुमित्यर्थः । नन्वस्तु निबन्धः शिष्यान्ग्राहयितुं किन्तु ग्रन्थारम्भसमये कृतस्यैव नारायणप्रणामस्य अकृतस्य नमामीत्यादिरूपेण निवेशने प्रतारकत्वप्रसङ्गात् । न च तत्करणमत्र सम्भवति । आनन्दतीर्थ- मुनेविलीनप्रकृतितया जीवन्मुक्तत्वेन स्वत एवान्तरायविधुरत्वेन तत्करणे उक्तप्रयोजनाभावात् । न चः परमास्तिकस्वभाववत्त्वात्तत्करणमिति वाच्यम् । तेनानवरतमीश्वरप्रवणकायकरणवृत्तित्वस्यैव लाभेनारम्भ- समये विशेषेण तत्कारणालाभात् इत्याशङ्कयाह ॥ विलीनप्रकृतितयेत्यादि । शिष्यान्ग्राहयितुमित्यतः परं कृतमिति शेषः । प्रणामादिकमित्यत्रादिपदेन स्तुतिाया । निबध्नातीत्यत:पूर्व गुणप्रधानभावेनेति शेषः । तथा चान्तरायविधुरोऽप्यनवरतमीश्वरप्रवणकायकरणवृत्तिरपि सन्निहितशिष्यान्ग्राहयितुमारम्भ- समये विशेषेण कृतं नारायणप्रणामादिकमसन्निहितशिष्यानपि ग्राहयितुं गुणप्रधानभावेन निबध्नातीति योजना द्रष्टव्या । च० ---अथ प्रकृतशास्त्रव्याचिख्यासैव भाष्यकृतो नोपपद्यते । व्याख्येयाभिमतस्याप्रामाण्य- निर्विषयत्वानतिगूढार्थप्रतिपादकत्वरूपव्याख्यानकर्मतानिबन्धनव्यतिरेकित्वात् । तदुपगमेऽपि वृत्तिका- रान्तरप्रणीतवृत्यन्तरैरेवैतदर्थाधिगतेः स्वप्रणीतैकतरवृत्यैव निर्वाहे वृत्यन्तरानर्थक्यस्य दुष्परिहरत्वात् प्रति- योगिनमन्तरेण ध्वंसोत्पत्तेरयोगेन विलीनेतिविशेषणद्वयविशेषिततयोरीकृतभाष्यकृतः साधनाभावनियन्त्रि- तान्तरायांकुरोत्पादायोगनिबन्धनतद्ध्वंसोद्देश्यक तदारम्भकालावच्छिन्नमङ्गलकृतेरतिदुस्थत्वाच्च । प्रज्ञाचक्षुः- ध्वपारम्पर्यरूपतायाः सूपगमत्वात्तदाचारपारम्पर्यस्य । तस्यैवाकर्तव्यत्वं फलराहित्यायत्ततदुपनिबन्ध. चिकीर्षायोगेन दुःशकं प्रथमपद्योत्थानमित्यतस्तदवतारयति भगवतेत्यादिना । प्रणीतमित्यन्तेनाप्ति- नियन्त्रितप्रामाण्यस्य तद्विशेष्यवाचकपदेन विषयस्य निबन्धपदोपादानेनातिदुर्घटार्थत्वस्य च ध्वनिततया आद्यशङ्कायाः असाधुपदस्य यथेत्याद्यव्ययीभावस्य चोपादानेन द्वितीयस्याः अपिना प्रयोजनसद्धावद्योतनेन तृतीयस्यास्तुमनन्तेन चतुर्थ्या षष्ट्याश्च शिष्टेत्यनेन पञ्चम्याश्च समाहितत्वेनाद्यपद्य सङ्गच्छत इति ध्येयम् !
अनुव्याख्यानम्- नारायणं निखिलपूर्णगुणैकदेहं निर्दोपमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्धं सदा प्रियतमं मम सन्नमामि ॥ वा सु. अत्र नारायणं सन्नमामीत्यन्वयः । उत्तमपुरुषप्रयोगादेवाहमिति लभ्यते । समिति भक्त्याधतिशयसाहित्यलक्षणां प्रणामस्य सम्यक्तामाह । तथाविध एव हि नारायण- प्रणामो भवत्यमिमतसिद्धरङ्गम् । निखिलेत्यादीनां तु प्रणामकर्मणा नारायणेन विशेषणतया सम्बन्धः । प्रयोजनं च स्तुतिपदानां विशेष्यप्रशंसैव । तत्रार्थिकपुनरुक्तेः स्तुतित्वमेव समा- धानमवधातव्यम् । ----नन्यत्र नमनक्रियायाः सकर्मकत्वान्निखिलेत्यादीनामने केषां कर्मकारकाणां मिलिताना- मेकक्रियान्वयानुपपत्त्या प्रत्येकं क्रियान्वये च वाक्यभेदापत्त्या विशेषनियामकाभावेनैकस्यैव क्रियान्वया- सम्भवात्सन्निधानादन्त्यस्यैव क्रियान्वये विशिप्य नम्यत्वरूपनिर्धारणानापत्तेर्न कर्मक्रियान्वयोऽत्र युक्त इत्यत आह ॥ अत्रेति । अत्र चैकस्यैव नमनकर्मकतयोपपादनेन प्रत्येकमिलितपक्षोक्तदोषद्वयस्य रूढ- पदोपादानेन विशेषनियामकाभावरूपदोवस्य विष्णौ निरूढपदोपादानेनान्तिमदोषस्य च निवृत्तिरिति द्रष्टव्यम् । ननु नमामीति कर्तृतिङा कर्तृमात्रलाभेऽपि तस्य परकर्तृत्वेऽप्युपपत्त्या स्वमात्रकर्तृत्वसमर्पकाह- मित्यनुक्तेन्यूनतेत्यत आह ॥ उत्तमेति । अत्र यदोपपदनियमो युष्मद्युपपदे मध्यम एव न प्रथमोत्तमौ अस्मद्युपपदे उतम एव न प्रथमनध्यमौ शेषे प्रथम एव न मध्यमोत्तमावित्येवमाकारकनियमस्य तुल्यजातीयापेक्षत्वात् । तदा युष्मदो मध्यमेन शेषस्य च प्रथमेन नियमितत्वेन तयोरुत्तमंप्रत्यप्राप्तेरुत्तम प्रति स्वनियमितास्मद एवोपपदत्वमार्थिकमित्युत्तमप्रयोगादहमित्यस्याथिको लाभः । ( 'युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः' । तिवाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः स्यात् । स्थानिनीत्यस्य व्याख्यानमप्रयुज्यमान इति । 'अस्मद्युत्तमः' । तथाभूतेऽस्मद्युत्तमः स्यात् । 'शेपे प्रथमः' । मध्यमोत्तमयोरविषये प्रथमः स्यात् ) । उपपदनियमे युष्मदस्मदी नियते पुरुषः शेषश्चानियत इति प्रथम इत्येतावतैवोच्यमानेन नियमो विज्ञायते । अत्र नियम्यान्तराभावात् प्रथम एवं नियम्यः । यत्र च प्रथमाप्रथमप्रसङ्गस्तत्रैव चैवंविधो नियमः कर्तव्यः । शेष एव च तत्प्रसङ्ग इति तत्रैव नियमो विज्ञायत इति शेषग्रहणं व्यर्थम् । पुरुषनियमे तु मध्यमोत्तमौ नियतौ - मूलाद्यपद्यम् ) ॥ जिज्ञासाधिकरणम् ॥ २३ युप्मदस्मदी अनियते शेषश्च । तत्र युष्मदस्मदोरपि प्रथमप्रसङ्गे शेष एव प्रथम इति नियमः कर्तव्यः । न चान्तरेण शेषग्रहणमेवं शक्यते कर्तुमिति कर्तव्यं शेषग्रहणमिति शेषग्रहणं कुर्वतः सूत्रकारस्याभिमतो युष्मद्येव मध्यम अस्मद्येवोत्तमः शेष एवं प्रथम इत्येवमाकारपुरुषनियमो यदा तदोत्तमपुरुषस्यास्मदर्थ विनाऽसम्भवात्साक्षादेवोत्तमपुरुषप्रयोगादहमित्यस्य लाभो न तु पूर्ववदार्थिक इत्युभयथाऽप्यहमित्यस्य लाभान्न न्यूनतेत्याशयः । एवकार उभयथाऽर्थलाभसम्भवेऽपि लाघवमेतत्पक्षोहलकमिति सूचयति । अत्र विवक्षित समित्यस्यार्थमाह ॥ समिति । तद्विवक्षायां नियामकमाह || तथाविध इति । अनेनोत्तर- व्याख्याने विशिष्टेष्टाधिकृतत्वानां वन्द्यत्वप्रयोजकतयाऽभिमतानां मध्ये विशिष्टाधिकृतत्वयोः विशिष्य- वन्द्यत्वप्रयोजकत्ववदिष्टत्वस्य तदभावाद्भक्त्यादिसहकृतत्वरूपविशेषणद्वारैव तदिति यदभिप्रेतं तदपि समर्थितं भवति । ननु तथाऽपि निखिलेत्यादिभिर्विजातीयैर्व्यवधानान्नारायणमित्यस्य नमामीत्यनेनान्व- यानुपपत्तिः । नारायणस्यैव प्रणामकर्मत्वे निखिलेत्यादीनां तदभावात्तत्र द्वितीयानुपपत्तिश्च । न च निखिलेत्यादीनां प्रगामकर्मणा नारायणेन सम्बन्धान्न विजातीयव्यवधानं नापि द्वितीयानुपपत्तिरिति वाच्यम् । गुणानां च परार्थत्वादिति न्यायेन कारकाणां क्रियान्वितस्वार्थबोधकत्वव्युत्पत्त्या परस्पर- सम्बन्धस्यासम्भवात्तादृशसम्बन्धस्याभावात् । यादृशतादृशसम्बन्धस्य द्वितीयानुपपादकत्वाञ्चत्यतो विशे- षणानां पृथकारकत्वाभावाद्विशेष्यनिघ्नत्वाच्च विशेप्यविशेषणभावाभ्युपगमे न व्यवधानं नापि द्वितीयानुप- पत्तिरित्याह ॥ निखिलेत्यादीनां त्विति । ननु निखिलेत्यादीनां नारायणेन विशेषणतया सम्बन्धे तैः विशेप्यस्येतरव्यावृत्तिमात्रलाभेऽपि नारायणप्रगामादिकमित्यत्रादिपदसंग्राह्यतया भवदभिमतस्तुतिरूपार्थ- कत्वं तेषां न सिद्ध्येदित्यतो व्यावर्तकमात्रदण्डादिविशेषणानां तथात्वेऽपि स्तुतिसमर्पकविशेषणपदानां विशेप्यप्रशंसाप्रयोजनकत्वं नानुपपन्नमित्याह ॥ प्रयोजनं चेति ॥ विशेषणत्वाभ्युपगमेऽपि न पूर्वाभ्युपेत- तत्प्रशंसारूपप्रयोजनपरित्याग इत्येवशब्दः । ननु तथाऽपि निखिलेत्यादिविशेषणलब्धगुणपूर्णत्वस्य निर्दोषत्वस्य च प्रभाजालोल्लासोपहतेत्युक्तरीत्याऽविनाभावेनैकोक्तावप्यन्यसिद्धरन्यस्य प्रयोजनाभाव इत्यत आह ॥ तत्रेति । विशेषणत्वेऽपि सप्रयोजनवे हेतुतयोपन्यस्तस्तुतिपदम्यैवार्थिकपौनरुक्त्यपरिहारेऽपि हेतुत्वमित्येवशब्दः । यश्चार्थादर्थो न स चोदनार्थ इति न्यायेनार्था तल्लाभेऽपि शब्दात्तदलाभादार्थिक- पौनरुक्त्यस्य न दूषणत्वम् । दूषणत्वे वा प्रकृते सप्रयोज-नत्वान्न तस्य दूषणत्वमित्यभिप्रायेणैतत्समाधा- नमतो न वक्ष्यमाणविरोध इति हृदयम् । स० -व्यवहितत्वादन्वयं दर्शयति ॥ अत्र नारायणमिति । नन्वकर्तृकक्रियानुपपत्तेरगमकमेत- द्वाक्यमित्यत आह ॥ उत्तमपुरुषेति ॥ अस्मद्युत्तम इत्यप्रयुज्यमाने प्रयुज्यमानेऽप्यस्मद्युपपदे उत्तमपुरुष- २४ । ॥ न्यायसुधा ॥ अ.? पा. ? अ. १ विधानसामर्थ्यादिति भावः । ननु धातुनैव प्रह्रीभावविधानादुपसर्गो व्यर्थ इति चेन्न । तद्गतातिशय- विशेषद्योतकत्वादित्याह ॥ ममितीति । प्रणाममात्रेणाभिमतसिद्धेः किं भक्त्याद्यतिशयेनेत्यत आह ॥ तथाविध एवेति । नारायणं सन्नमामीत्यन्वये व्यर्थानेकपदव्यवधानेन सन्निध्यभावः । निखिलेत्यादि- द्वितीयान्तानां नमामीत्यनेनावर्तितेन साक्षादन्वये वाक्यभेदापत्तिरित्यत आह । निखिलत्यादीनामिति । तथाच साझाम्सम्बन्धाभावान्न वाक्यभेदापत्तिरिति भावः । प्रथमदोषं परिहरति । प्रयोजनं चेति । मप्रयोजनपदव्यवधानं न दोपायेति भावः । प्राञ्चन्तु प्रणामक्रियायां नारायणस्यैव कर्मत्वात् तस्य च नारायणमित्यनेनैव पूर्णत्वात् निखिलेत्याद्यानर्थक्यमाशङ्कय न तावत्सम्बन्धाभावात्तदित्याह । निखिले- त्यादीनां यिति । नापि प्रयोजनाभावादित्याह । प्रयोजनं चेतीत्याहुः । नन्वेवं विशेष्यप्रशंसारूपै- कार्थविषयकत्वात्यदानामर्थतः पौनरुक्त्यमित्यत आह । तत्रेति । तत्र तेषु स्तुतिपदेषु । आर्थिक- पुनरुक्तेः अर्थाद्वागतपुनरक्तेः एकार्थविषयत्वेन प्राप्तपुनरत्तेरित्यर्थः । न शब्दतः पुनरुक्तिरियमिति भावः । स्तुतित्यमेवेति । स्तुतिरूपार्थवादस्यायमेव स्वभावो यत्सर्वैरपि पदैः विशेष्यप्राशस्त्यप्रतिपादन- मिति भावः । केचित्तु तत्र निखिल पूर्णगुणैकदेहं निर्दोषमित्यनयोरार्थिकस्य गुणमाणिक्यविशदप्रभाजा- लोल्लासोपहतसकलावद्यतमस इत्युक्तिन्यायेन निखिलेत्यनेनार्था प्राप्तस्यागुणमदोषत्वस्य निर्दोषमिति पुनर्वचनात्पुनरुक्तिरित्याचक्षते । अपरे तु नारायणशब्देनैव गुणपूर्णतादेरभिधानात्पुनर्नि खिलेत्याद्यभिधाने पुनरुक्तिरित्यर्थ इत्याहुः । यद्वा निखिलेत्यादीनां न क्रियापदान्वयः । नाराययणपदस्यैव तेनान्वयात् । नापि नारायणमित्यनेन । तेनान्वयम्यैवानुपपत्तेरित्यतो विशेप्यविशेषणभावः सम्बन्ध इत्याह ॥ नारा- यणविशेषणतयेति । नन्वेतावता नतिस्तुत्युभयपरत्वमस्य श्लोकस्योक्तं भवति । तच्चायुक्तम् । तथात्वे वाक्यभेदापत्तरित्यत आह ॥ प्रणामकर्मणेति । समप्रधानतया नतिस्तुत्युभयपरत्व एव वाक्यभेदस्य दोपत्वम् । प्रकृते च गुणप्रधानभावेनोभयपरत्वान्न वाक्यभेददोष इति भावः । ननु निखिलपूर्णगुणैक- देहमित्यनेनानन्त गुणपूर्णत्वे उके तस्य दोषाभावव्याप्तत्वेन निदो रत्वस्यार्थतो लाभेन पुनस्तस्य निर्दोषमि- त्यभिधाने पोनरुत्यम् । एवं निर्दोषत्वस्य गुणपूर्णत्वव्याप्तत्वेन यत्किचिद्गुणाभावे तस्यैव दोषत्वेन सकलदोपराहित्यम्यैवासम्भवात् निर्दोषमित्यनेनैव तल्लाभात् निखिलपूर्णगुणैकदेहमित्यनेन तदभिधाने पौनरुक्त्यमित्यत आह ।। तत्रेति । स्तुतौ शब्दतोऽपि पौनरुत्तयं न दोषः । किं पुनस्त्वर्थत इति द्योतनार्थमेवशब्दः । यश्चादर्थो न स चोदनार्थ इति समाधाने स्थिते समाधानान्तरमेतदित्यदोषः । । । प०-द्वितीयान्तविशेषणानां विशेप्यद्वारा क्रियान्वयो न साक्षादिति वक्तुं वाक्यःयवहिततया अन्वयाप्रतीतेवी नारायणमित्यपि विशेषणमिति भ्रमनिरासाय विशेप्यमिति सूचनाय वाऽऽह । इत्यन्वय हात । कत्रनुक्तन्यूनतामाशय ममत्यस्यव विपारणामन कतृत्वभ्रमानरासाय वाऽह ॥ उत्तमात । अस्मद्युत्तम इति सूत्रेऽस्मच्छब्दे उपपदत्वेन श्रूयमाणेऽश्रूयमाणे वा तदर्थविवक्षायामुत्तमपुरुषो भवतीत्युक्त्या तदविनाभावादहमित्यस्येति भावः । नन्वेतावन्ति विशेषणानि व्यर्थानि । यदि विशेषम्तुत्यानि तथापि न कृत्यं पश्याम इत्यत आह । प्रयोजनं चेति । प्रशंसैवेत्युक्तस्तवनं च तत्प्रीत्यर्थमिति भावः । नन्वेवं गुणपदेन सार्वज्ञसर्वस्वातन्त्र्यादिगुणोक्त्याऽज्ञानपारतन्त्र्यादिदोषाभावलाभान्निर्दोषमिति पुनरुक्तम् । 'जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये । ब्रह्मणो लक्षणं प्रोक्त'मिति वक्ष्यमाणदिशाऽस्योद्भवादिदमित्यु- त्यैव गुणपूर्णतालाभान्निखिलपूर्णगुणेति च पुनरुक्तम् । उद्भवादिदमित्युक्त्या देहस्यापि लाभाहेहमिति च पुनरुक्तमित्यत आह् ॥ तत्रार्थिकेति । -- - व्यवहितत्वादन्वयं दर्शयति । अत्र नारायणमिति ।। नन्वकर्तृकक्रियानुपपत्तेरगमकमेत- द्वाक्यम् । न च तिप्रयोगादेव कर्तृलाभः । तथाऽप्युत्तमपुरुषापेक्षितस्य कर्तृविशेषस्यालाभादित्यत आह ॥ उत्तमपुरुषेति । 'अस्मद्युत्तम' इत्यत्र समानाधिकरणे स्थानिनीत्यस्यानुवृत्त्या प्रयुज्यमानेऽप्यस्मदि उत्तमपुरुषविधानादिति भावः । ननु नारायणं सन्नमामीत्यनयोयर्थानेकपदव्यवधानात्सान्निध्याभावः । निखिलेत्यादिद्वितीयान्तानां च नमामीत्यनेनावर्ति तेन साक्षादन्वये वाक्यभेदापत्तिरित्यत आह ॥ निखिलेत्यादीनां त्विति ॥ तथाच साक्षात्सम्बन्धाभावान्न वाक्यभेदापत्तिरिति भावः । प्रथमं दोष परिहरति ।। प्रयोजनं चेति । तथाच सप्रयोजनं व्यवधानं न दोषायेति भावः । नन्वेवं विशेप्य- प्राशस्त्यरूपैकार्थविपयकत्वात्पदानामर्थतः पौनरुत्यमित्यत आह ।। तत्रेति ॥ तत्र तेषु स्तुतिपदेषु । आर्थिकपुनरुक्तरिति । एकार्थविपयकत्वेन प्राप्तपुनरुक्तरित्यर्थः ॥ स्तुतित्वमेवेति । स्तुतिरूपार्थवादस्य अयमेव स्वभावो यत्सर्वैरपि स्वपदैलक्षणया स्तुत्या प्राशस्त्यप्रतिपादनमिति भावः । केचित्तु निखिलपूर्ण- गुणैकदेहं निर्दोमित्यनयोरार्थिकस्य गुणमाणिक्यविशदप्रभाजालोलासोपहतसकलावद्यतमसेत्युक्तन्यायेन निखिलेत्यनेनार्थात्प्राप्तस्य निर्दोषत्वस्य निर्दोषमिति पुनर्वचनात्पुनरुक्तिरिति व्याचक्षते । अपरे नारायणशब्देनैव वक्ष्यमाणरीत्या गुणपूर्णतादेरभिधानात्पुनर्नि खिलेत्याद्यभिधाने पुनरुक्तिरित्यर्थ इत्याहुः ॥ तु च० থা फलावच्छिन्नव्यापारबोधकतारूपसकर्मकतापन्नप्रकृतनमनक्रियायामेकत्र द्वयमितिरीत्या कर्मविभक्त्यन्तसप्तकोपस्थाप्यानामन्वयमुपेत्य तादृशविभक्त्यन्तोपस्थाप्यवृत्तयो यावत्यः प्रकारतास्तत्तन्निरूपकत्वकूटविशेषिता या प्रकृतक्रियानिष्ठविशेष्यता तन्निरूपकान्वयधीस्वीकारे क्रियाभेदस्य कर्मभेदनिबन्धनतासिद्धान्तविरोधप्रसङ्गेन तादृशविभक्त्यन्तोपस्थाप्य प्रातिस्विकरूपावच्छिन्नानामावर्तित- धातूपस्थाप्य तादृशरूपावच्छिन्नेप्वन्वयोपगमे न्यायनयदिशा चैत्रः पत्राणि पुष्पाणि फलानि चिनोती- S.T.4 । न्यायसुधा ॥ अ. १ पा. १ अ. १ त्यादौ तत्तत्कर्मकधातूपस्थाप्य क्रियान्विताख्यातार्थनिष्ठप्रकारतानिरूपितचैत्रनिष्ठनानाविशेप्यताशालिन्याः पाणिनीयदिशा प्रथमान्तार्थविशेप्यतापन्नाख्यातार्थनिष्ठप्रकारतानिरूपिततत्तत्कर्मकक्रियानिष्ठनानाविशेप्य- ताशालिन्या अन्वयबुद्धेः समुढयेनैतज्जनकतानिरूपवाक्यभेदस्येव प्रकृतेऽपि तदिशा तत्प्रसङ्गे कम्यैव कर्म- विभक्त्यन्तम्य क्रियानिरूपितविशेषणतापन्नं स तु तत्प्रकृत्यर्थविशेषिततत्प्रत्यायकत्वमितरेषां साधुत्वार्थ- विभक्त्यन्तानां कर्मविभक्त्यर्थविशेषणीभूतप्रकृत्यर्थनिष्ठविशेप्यतानिरूपिताभेदसंसर्गावच्छिन्नप्रकारतापन्ना- वगमकत्वमित्युपगमे च कर्मविभक्त्यन्तत्वात्तत्साधुत्वार्थविभक्त्यन्तत्वावधारणभावेनानिर्णयप्रसङ्गेन नमस्कार्य व्यक्तिगोचरानवधृतिप्रसङ्गेन सन्निहितेस्तढवधारकत्वासम्भवेन कर्मविभक्त्यन्तक्रियावाचकयोरन्वयो दुरुपपाद इत्यतोऽभिधत्ते ।। अत्रेति ।। नारायणपदे विष्णुनिरूपिता लोकवेदप्रत्यायितसमुदायवृत्तिरेवैतत्पदाभिधेयस्य द्वितीयान्तषट्कोपस्थाप्य निरूपितविशेप्यताप्रतीतिजनिका सती मिलितप्रातिस्विककल्पद्वयाभिहितक्षत्यप- मेप्वपि भवतीति सामञ्जस्यमबसेयम् । अथात्रयंगतसमभिव्याहृतनमतेस्तित्वाच्यकर्तृवाचकयुष्मदस्मच्छे- पान्यतमा समभिव्याहृततयान्वयबोधौपयिकतद्धर्मिकतदन्यतमनिरूपिता सति ज्ञानविरहनियन्त्रितान्वय- बोधानुपपत्तिप्रसञ्जनं दुर्वारमित्यत आह उत्तमपुरुषेति ।। युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः अस्मदुत्तमः शेपे प्रथमः । अत्र भाप्यकार: किलादेशविधानवाक्येनैकवाक्यत्वाद्विद्ध्यर्थमिदं अथ विहितेषु लादेशेषु नियमार्थमित्याशयेन किमर्थमिदमुच्यत इतिप्रश्नभाप्येण प्रश्नं कुर्वाणतत्रैकवाक्यतापक्ष इतरेतराश्रयदोपपरिहाराय भापिनी संज्ञा आश्रयितव्येति प्रतिपत्तिलाघवार्थ वाक्यभेदेन नियमपक्ष प्रदिदर्शयिषुर्युप्मच्छेषवचनं नियमार्थ नियमार्थोयमारम्भः अथैतस्मिन्नियमार्थे विज्ञायमाने किमयमुपपद- नियमः युष्मद्येव मध्यमः अस्मदि एवोत्तम आहोस्वित्पुरुषनियमः । युप्मदि मध्यम एव । अस्मदि उत्तम एव इति कल्पद्वयं प्रदर्श्य यदि पुरुषनियमः शेषग्रहणं कर्तव्यम् । शेषे प्रथम इति । किं कारणं मध्यमोत्तमौ नियतौ । युष्मदस्मदी अनियते । तत्र प्रथमोऽपि प्राप्नोति । तत्र शेषग्रहणं कर्तव्यं प्रथमनियमार्थ शेष एव प्रथमो भवतीति नान्यत्रेति । पुरुपनियमपक्षे निर्वाधं शेषग्रहणसार्थक्यमभिधाय अथाप्युपपदनियमः एवमपि शेषग्रहणं कर्तव्यम् । शेषे प्रथम इति । युष्मदस्मदी नियते मध्यमोत्तमा- वनियतौ । तौ शेपेऽपि प्राप्नुतस्तत्र शेषग्रहणं कर्तव्यम् । शेधे प्रथम एव भवति नान्य इति यथा श्रुते शेवग्रहणसार्थक्यमभिधाय उपपदनियमे शेषग्रहणं शक्यमकर्तुं कथं युष्मदस्मदी नियते मध्यमो- त्तमावनियतौ शेषे प्राप्नुतस्ततो वक्ष्यामि प्रथमो भवतीति तन्नियमार्थ भविष्यति । यत्र प्रथमश्चान्यश्च प्राप्नुतस्तत्र प्रथम एव भवतीति । शेषग्रहणमुपपदनियमपक्षे प्रत्याचख्याविति उपपदनियमपक्षे युप्मच्छे- षयोमध्यम प्रथमाभ्यां नियमिततया तयोरुत्तमं प्रत्युपपदत्वाप्राप्तेरुत्तमं प्रतिस्वनियमितास्मद एवोपपदत्वम- सिद्धमित्यार्थिकलाभेऽपि पुरुषनियम एव शेपग्रहणं कुर्वतः सूत्रकारस्य तथा भाप्यकृतश्चाभिप्रेत •.
मूलाद्यपद्यम् ) ॥ जिज्ञासाधिकरणम् ॥ इत्यस्मदर्थमन्तरेणोत्तमपुरुषस्यासम्भवेनोत्तमपुरुषस्य साक्षादेवास्मदाक्षेपकतेति न तदनिर्देशनिवन्धनन्यून- तेति भावः । ममेति पष्ठीविपरिणामेनैव प्रथमां कल्पयिष्यतीति तस्यैव कर्तृवाचकतां मन्दाः प्रतिपद्ये- रनिति वा आहेत्यप्यवतारितम् । अस्मद्युत्तम इत्यत्र समानाधिकरणे स्थानिनीत्यस्यानुवृत्त्या अप्रयुज्यमा- नेऽप्यस्मदि उत्तमपुरुषविधानादिति भाव इत्यपि स्थितम् । समितिह्यपसर्गध्वनितसम्यक्ताया नानात्वेन प्रकृतोपायिकीं तां दर्शयति ॥ भक्तीत्यादि । तथाविध इति ।। 'सङ्ख्याया विधार्थे वा' इति सूत्रव्या- ख्यानावसरे विधाशब्दो यत्रार्थे प्रसिद्धस्तत्रैव यथास्यात्तादृशश्चार्थः प्रकार एवेत्याकरोत्या प्रकारवचनो विधाशब्दस्तथापटेन कृतबहुव्रीहिर्वि शेप्यनिघ्न इति तादृशसम्यक्तारूपप्रकारविशिष्ठ इत्यर्थः । अभिमतेति प्रकृतनिष्ठाप्रकृत्यंशस्यावगत्यर्थकत्वेऽप्युपसर्गविशेषसमभिव्याहारादिनेच्छार्थकता हीयते निष्ठा च कर्मणि तथाच ग्रन्थप्रणेतृकर्तृकेच्छाविषयीभूतप्रारिप्सितसमापनप्रचयादिसिद्धेरित्यर्थः । कर्तृलङ्कारान्तकर्मविभ- त्यन्तयोर्योजनाप्रदर्शनेनैव ध्वनितमाशयमाविर्भावयति निखिलत्यादीनां त्विति ॥ असति विशेषानु- शासने विशेप्यविशेषणवाचकपदयोः समानलिङ्गवचनकतानियमस्य स्थिततयैकस्य कर्मविभक्त्यन्तत्वेऽपि तद्विशेषणवाचकपटकस्य साधुतानिर्वाहायैव तत्र द्वितीयान्ततोरीकृत्या न विजातीयव्यवधानायत्ता सति ज्ञानविरहनियन्त्रितान्वयबोधानुपपत्तिप्रसञ्जनावकाश इति भावः । सप्तम्यन्तोपादानफलं तु वरणः ग्राम- श्चञ्चाः पुरुषं यस्य वानिकाः पुरुषं पश्य सीता रामदारा इत्यादेः साधुतानिर्वाहः । ननूक्तदिशा पदपट्कोपस्थाप्यानां प्रणामकर्मीभावावनारायणविशेषणतयान्वयमानोपगतेः फलराहित्येन क्रियाकर्मवाच- कयोरासत्तिभञ्जकपदान्तरकृतव्यवहितिकतया तदुपागमस्य चानुपलम्भवाधिततयाऽसामञ्जस्यमित्याशङ्काया- ईशप्रीतिजनकस्तुतिफलत्वोपलब्धेनं क्षतिरिति समाधत्ते । प्रयोजनं चेति । एवकारस्तत्रोपलभ्यमानता- माचष्टे । अत एवैतदभिमापकनारायणप्रणामादिकाप्तत्यादिपदोपादानं सङ्गच्छत इति ध्येयम् । आर्थि- केति । पूर्णगुणत्वनिर्दोषत्वयोहे तुहेतुमद्भावेन हेतूक्त्यैव हेतुमतोऽपि लाभात् निर्दोषमिति पुनर्वचनमिति व्याकर्तारोऽर्थापयन्ति । विशेप्यप्राशस्त्यरूपैकार्थविषयकत्वात्पदानामर्थतः पौनरुक्त्यभिप्यर्थानं स्थितम् । अभिधास्यमानदिशा नारायणपदेनैव गुणपूर्णतादिरपत्स्यतीति पुनस्तदभिहितौ तदित्यपि मन्बतो गुणपदेन सार्वज्ञसर्वस्वातन्त्र्यादिगुणोक्त्या अज्ञानपारतन्त्र्याद्यभावलाभात् निर्दोषमिति पुनरुक्तम् । उद्भवादिदमि- त्युक्त्यैव गुणपूर्णता देहवत्तापि सेत्स्यतीति पूर्णगुणेति देहमिति तदिति च निबन्धान्तरे विन्यस्तम् । सु.--- अथवा । कुतो नारायणस्य नम्यत्वम् । तथात्वेऽपि कुतोऽन्यासु देवतासु सतीषु तस्यैव नमनमित्यत्रोक्तमशेषविशेषतोऽपि वन्द्यमिति । विशिष्यते वस्त्वेभिरिति विशेषा असाधारणधर्मा अशेषाश्च ते विशेषाश्च । अपिरभिव्याप्तौ । यावन्तो वन्द्यत्वनिमित्तभूता धाः ॥ न्यायसुधा॥ .. २८ (अ. १ पा. १ अ. १ तेभ्यो विशेषेभ्योऽपि हेतुभ्यो वन्द्यम् । तथाऽशेषाद्वन्द्यत्वेन समाशङ्कितात्पद्मापद्मभवादेर्जगतो विशेषोऽतिशयोऽशेषविशेषस्सर्वोत्तमत्वम् । ततो हेतोः सतीष्वन्यासु देवतासु वन्द्यमिति । एतदुभयं कथं नारायणस्येत्यतोऽभिहितं निखिलेत्यादि । त्रिविधा हि देवता वन्द्या भवति । विशिष्टाधिकृतेष्टा चेति । न हि देवतावन्दनं व्यसनितथा क्रियते । किन्तु विघ्नविघातादि- प्रयोजनापेक्षया । विशिष्टेव देवता तस्येष्टे । अधिकृता च स्वविषयग्रन्थप्रबोधादिकं सम्पादयति । वन्दनं खलु भक्त्याद्युपेतमेव सफलम् । तच्चेष्टायामेव देवतायामुपपद्यत इति । तत्र वैशिष्टयो- पपादनाय निखिलपूर्णगुणकदेहं निर्दोषमस्योद्भवादिदमिति विशेषणत्रयम् । निखिला निःशेषाः पूर्णाः प्रत्येकमप्यनवधिका गुणा आनन्दादयः । एकशब्दः केवलार्थः । त एव देहो यस्य न पुनः प्राकृतादिरिति तथोक्तः । निष्क्रान्तो दोषेभ्यः पारतन्व्यादिभ्य इति निर्दोषः । अस्य प्रत्यक्षादिप्रमाणसिद्धतया बुद्धिसन्निहितस्य स्वव्यतिरिक्तप्रपञ्चस्योद्भव उत्पत्तिरादिरस्ये- त्युझ्यादि जन्मायष्टकं तद्यथासम्भवं ददातीत्युद्भवादिदस्तम् । अस्येति सम्बन्धमात्रे षष्ठी । अशेषविशेषतोऽपीत्येतदस्योद्भवादिदमित्यनेनापि सम्बध्यते । वियदधिकरणादिव्युत्पाद्यसम- स्तावान्तरभेदसहितोद्भवादिदमिति । अधिकृतत्वप्रदर्शनायाप्यतममप्यखिलैः सुवाक्यैरिति । अपिशब्दो वन्द्यत्वे हेतुसमुच्चयार्थः । अभिव्याप्तौ वा । अपौरुषेयत्वेन तन्मूलत्वेन वाऽनाश- तिदोपत्यादिना शोभनानि वाक्यानि वेदादीनि ब्रह्मसूत्रादीनि च सुवाक्यानि तैरखिलेराप्य- तमम् । अतिशयेन प्रतिपाद्यम् । यदि व्याचिख्यासितेन ब्रह्ममीमांसाशास्त्रेण तन्निणेतव्यार्थेन वेदादिना च प्रतिपाद्य इति नारायणो वन्दनीयः । हन्त तर्हि तत एव धर्मादिकं प्राणादिकं वा वन्दनीयं स्यात् । न स्यात् । तस्य नारायणप्रतिपत्त्यङ्गतया वेदायेकदेशप्रतिपाद्यत्वात् । अस्य पुनरनन्यार्थतयाऽखिलवेदादिवेद्यत्वात् । तथाविधमेव चाधिकृतमुच्यत इत्याशयवताऽऽप्य- तममित्यखिलैरिति चोक्तम् । इष्टत्वप्रदर्शनं सदा प्रियतमं ममेति । अत्रापि पूर्ववत्सदापदस्य तमपश्च प्रयोजनमवधेयम् । वा० ---प्रणामकर्मनारायणविशेषणानां प्रणामोपयुक्तार्थप्रतिपादनेन प्रणामप्रयोजकत्वमेव स्वरसं न तु प्रयोजनान्तरार्थकस्तुतिपरत्वमित्यभिप्रेत्याह ॥ अथवेति । अत्र निखिलेत्यादिविशेषणत्रयस्य वन्द्यत्वप्रयोजकवैशिष्ट्योपपादकत्वस्य वन्द्यान्तरादतिशयप्रतिपादकत्वस्य च वक्ष्यमाणरीत्या स्पष्टत्वात्तदुप- पाद्यसमर्पकस्याशेषविशेषतोऽपीत्यस्य द्वेधा व्याख्यानमुचितमित्यभिप्रेत्य द्वेधा तन्निवां शङ्कां दर्शयति ॥ कुत इत्यादिना ॥ विशेषतोऽपीत्यपिशब्दस्य समुच्चायकत्वासम्भवात्सर्वकर्माण्यपि सदाकुर्वाण इति मेषां तत्प्रयोजकत्वेनोक्तिरित्यतो निखिलेत्यादिविशेषणत्रयस्य वन्द्यत्वप्रयोजकत्वेनान्यत्रोपलव्धवैशिष्टयोप- पादकतयाऽखिलैः सुवाक्यैराप्यतममिति सदा प्रियतमं ममेति प्रकृताधिकृतेष्टस्वरूपप्रदर्शकविशेषणयोश्च तत्प्रयोजकत्वेनान्यत्रोपलव्याधिकृतेष्टत्वरूपसामान्यमुखेन वन्द्यत्वप्रयोजकप्रतिपादकत्वसम्भवान्नानुपपत्तिरि- त्यभिप्रेत्याह । त्रिविधा हीति । अत एव वैशिष्टयोपपादनायेत्यधिकृतत्वप्रदर्शनायेतीष्टत्वप्रदर्शनमिति वैचित्र्यम् । विशिष्टाधिकृतत्वयोर्वन्द्यत्वनिमित्ततामुपपादयन्निष्टत्वस्य वन्द्यत्वविशेषणीभूतभक्त्यादिद्वारा विशिप्य वन्द्यत्वनिमित्ततामुपपादयति ॥ न हीत्यादिना । सर्वविशेषणानां वैशिष्टयादिसर्वप्रतिपादक- त्वप्रतीतिमपाकरोति ।। तत्रेत्यादिना । निखिलपूर्णगुणत्वपारतन्व्यादिराहित्यसकलजगज्जनकत्वादिना सर्व वैशिष्टये प्रतिपादिते गुणवत्त्वरागादिराहित्यबहुजनकत्वादिप्रयुक्तवैशिष्टयमुपपादितं भवतीति किमुते- त्याशयेन सम्मुग्धतया वैशिष्टयोपपादनायेत्युक्तमिति ध्येयम् । यद्वा । प्रकृते निखिलेत्यादि विशेषणानां वैशिष्ट्यं वन्द्यान्तरादतिशयश्चत्युभयोपपादकत्वाभिप्रायेण वैशिष्टयोपपादनायेत्युक्तमिति द्रष्टव्यम् । निखि- लानां पूर्णगुणा इति समासम्भ्रान्ति निःशेषपूर्णशब्दयोरेकार्थत्वेन द्वन्द्वानुपपत्तिशङ्कामेकशब्दस्य सङ्ख्या- थत्वेन पूर्वनिपातशङ्कां सत्वादिगुणैकदेहवत्त्वस्य जीवादिसाधारण्यापादकत्वाद्दोपशब्दस्य रागद्वेषमोहार्थ- त्वेन प्रसिद्धेस्तद्राहित्यस्य पद्मापद्मभवाद्यतिशयाहेतुत्वात्स्वपुत्राशुद्भवादिदत्वस्य सर्वसाधारण्यान्नैषां संववैशि- ष्टयोपपादकत्वमिति शङ्कां च परिहरति ॥ निखिल इत्यादिना ॥ एकशब्द केवलार्थ इति । सङ्ख्यार्थत्वे ह्येकशब्दस्य न तावदत्र पूर्वेण विशेषणसमासोऽङ्गीकर्तुं युक्तः । तस्य 'दिक्सङ्ख्ये संज्ञाया- मिति संज्ञायामेव नियमितत्वेन प्रकृते त्वेकशाठीत्यादाविव विशिष्टशब्दस्य संज्ञात्वाभावेन तदसम्भवात् । अतः सङ्ख्यार्थकैकशब्दस्य समानाधिकरणेन समासविधानार्थ प्रवृत्तेन पूर्वकालैकेति सूत्रेणैव स वाच्यः । ( सर्वजरत्पुराणनवकेवलाः समानाधिकरणेनेति सूत्रशेषो द्रष्टव्यः ) न चासौ वक्तुं शक्यः । तथा सति तस्य पूर्वकालैकेति समासशास्त्रे प्रथमानिर्दिष्टतया 'प्रथमानिर्दिष्टं समास उपसर्जनमि'त्युपसर्जनत्वेनोपसर्जन पूर्वमिति पूर्वनिपातप्रसङ्गात् । निखिलपूर्णगुणा एको देहो यस्येति बहुव्रीह्याश्रयणेऽपि 'बहुव्रीहौ सर्वना- मसङ्ख्ययोः प्रानिपातो वक्तव्य' इति सङ्ख्यायाः प्राङ्निपातनियमनादेकशब्दस्य पूर्वनिपातप्रसङ्ग एव । अत एवानित्यैकरूपा इत्यादावनित्यमेकं रूपं येषामिति त्रिपदबहुव्रीह्यनाश्रयणमभियुक्तानाम् । चतुर्थे च अनुमानमेकं शरणं यस्येति त्रिपदबहुव्रीह्यनाश्रयणं टीकाकाराणामपि । केवलार्थत्वे तु न तत्प्रसङ्ग इत्यु- क्तरीत्या समासद्वयमप्युपपन्नमिति भावः । यद्यप्यत्र टीकाकृदभिमते बहुव्रीहौ सङ्ख्यार्थत्वप्रयुक्तपूर्वनिपा- ॥ न्यायसुधा॥ (अ. १ पा. १ अ. १ नवारणऽप्येकशब्दम्य न सर्वनामत्यप्रयुक्तपूर्वनिपातवारणं सम्भवतीत्यनर्थकमेव केवलार्थत्वाश्रयणम् । न च केवलान्यासर्वनामन्यान्नोक्तद्रोप इति वाच्यम् । ‘एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा । माधारण नमानेऽल्प सङ्घयायां च प्रयुज्यत' इत्यभिधानात्सन्त्येकशब्दस्याष्टावर्थाः । तत्रैकशब्द: मायां नित्यकवचनान्तः । अन्येपु तु सप्तमु वचनान्तरमपि स्यादेव । एके एकेषामिति यथेत्यभि- युक्तव्याख्यानेन केवलार्थम्यापि तस्य सर्वनामत्वस्य स्थितेः । तथाऽप्येको देह एकदेहो निखिलपूर्णगुणा एकदेही बन्यति द्विपदबहुव्रीह्याश्रयणे न दोपः । एकदेहशब्दस्यासर्वनामतया पूर्वनिपाताभावसम्भवात् । न चमकं सापकरूपमनित्यमेकरूपं येषामित्यन्यत्र द्विपदबहुव्रीह्याश्रयणवदेकं शरणमेकशरणम् । अनु- नानीकारण यन्येति तथोक्त इत्युत्तरग्रन्थीयटीकाकारीयद्विपदवहुव्रीह्याश्रयणवच्च सङ्ख्यार्थत्वेऽप्येकशब्दस्य विपदबाह्याश्रयणेऽसङ्ख्यार्थत्वादेवैकदेहशब्दस्य पूर्वनिपाताभावसम्भवात्तस्य केवलार्थत्वाश्रयणं व्यर्थमिति वाच्यम् । अर्थाधिक्यलाभायैव तदाश्रयणात् । अत एव केवलार्थत्वविवक्षाव्यावर्त्य प्रदर्शनं न पुनः प्राकृनादीति जयम् । 'ननु कर्मणा यमभिप्रेति स सम्प्रदानमिति सूत्रे ( दानस्य कर्मणा यममिप्रैति स नप्रदानमंत्रः स्यात् । ) 'अनिराकरणात्कर्तुम्त्यागाङ्गं कर्मणेप्सितम् । प्रेरणानुमतिभ्यां च लभते सम्प्र- दानामि त्यत्र च कर्तुर्दानशेषभूतं दानकर्मणाप्तुमिष्टतममनिराकरणात्प्रेरणादनुमत्या वा सम्प्रदानतां लभन इन्युक्तवादीश्वरम्य दानकर्मणोद्भवादिनाऽस्तुमिष्टतमस्यानिराकुर्वतोऽस्येति निर्दिष्टस्य जगतः सम्प्र- दानन्याच्चतुझं भाव्यम् । ( अन्वर्थसंज्ञावलेनाह ॥ दानस्येति । तेनाजां नयति ग्रामं हस्तं निदधाति वृक्ष इत्यादी नातिप्रसङ्ग इति भावः । दानं चापुनर्ग्रहणाय स्वत्वनिवृत्तिपूर्वकं परस्वत्वापादानमतएव रजकम्य वनं ददातीत्यादौ न भवति । तत्र हि ददातिक्तिः । एतच्च वृत्तिमतम् । भाप्यमते तु नान्वर्थतायामाग्रहः । खण्डिकोपा' यायस्तम्मै चपेटां ढढ़ातीति प्रयोगात् । रजकस्य ददातीति शेपत्व- विवक्षायां बोयम् । न चैवमजां नयति ग्राममित्यत्रातिप्रसङ्गः । यमभिप्रैतीत्युक्त्या हि यमिति निर्दि- पृन्य शेपत्वं कर्मणश्च शेपत्वं लभ्यते ग्रामस्य चाजां प्रति शेषत्वं नास्ति ) । न च स्वसत्तापरित्यागेन पन्यत्तापादनम्य दानपदार्थस्य जगत उद्भवादिविषये ईश्वरेणाकरणान्न चतुर्थीति वाच्यम् । वृक्षाय जलं ददाति. ग्वण्डिकोवा-यायः शिप्याय चपेटिकां ददाति, न शूद्राय मतिं दद्यादित्यादौ चतुर्युपपत्त्यर्थ किश्चिदुद्दिश्यापुनर्ग्रहणाय स्वद्रव्यत्यागमात्रस्य दानशब्दार्थतया विवक्षणीयत्वेन पदमञ्जर्यामुक्तत्वात्प्रकृते मतिदानादिवद्यथाकथञ्चित्त्यागस्य प्रतिपादयितुं शक्यत्वात् भाष्यकारेण क्रियामात्राश्रयणेन ददाति कर्म- णेत्यम्यानाश्रितत्वाच्च सम्प्रदानचतुर्थ्या भवितव्यमित्यतो विवक्षातः कारकाणि भवन्तीत्युक्तेः सम्प्रदानस्य शेषत्वविवक्षायां युक्ताऽऽस्येति षष्ठीत्याह || अस्सेतीति । अत्रापिपदस्य यथास्थितस्य समुच्चयार्थतायाः एव वक्तव्यन्वात्साक्षाद्वन्द्यत्वहेतोरस्य वन्द्यत्वहेतुवैशिष्टयहेतुभिनि खिलेत्यादिभिः साक्षात्साध्येन समुच्चया- मूलाद्यपद्यम्) ॥ जिज्ञासाधिकरणम् ॥ सम्भवात्परमसाध्यसमुच्चयमभिप्रेत्याह ॥ अपीति । अत एवास्वरसाद्भिन्नक्रमत्वमभ्युपेत्यार्थान्तरं तस्याह ॥ अभीति । स्वर्गादेरनित्यत्वेन सदा प्रियत्वाभावाद्धर्मादेरन्यार्थतयैव प्रियत्वादस्य पुनः सदाऽनन्यार्थतया प्रियत्वात्तथाविधमेव चेष्टमुच्यत इत्याशयवानाह || अत्रापीति । स० एवं पढ़जातं सामान्यतो व्याख्याय विशेषतो व्याचक्षाण एव तव्यावर्त्यशंकासद्भावात् न पुनरुक्तिरिति प्रकारान्तरमाह ॥ अथवेत्यादिना । अपिरभिव्याप्ताविति । न चाशेपेत्यनेन गतार्थता तावन्तो वन्द्यत्वनिमित्तभूता धर्मा लोके प्रसिद्धास्तेषां प्रकृतेऽभिव्याप्तिरसंकोचेन वृत्तिरिति विवक्षितत्वात् । यथा च तेभ्यो विशेषेभ्योऽपि । तेभ्यः सर्वेभ्यः विशेषेभ्यः प्रकृते विद्यमानेभ्य इत्यर्थः । यावन्तो ब्राह्मणास्ते सर्वे आकार्या इत्यादाविवासंकोचव्यञ्जनमपिशब्दप्रयोजनमिति हृदयम् । एवमग्रेऽपि । तत्र वैशिष्टयोपपादनायेति । अनेनैव विशेषणत्रयेण सर्वोत्तमत्वमप्युपपादितमवगन्तव्यम् । अत एतदुभयं कथं नारायणस्येत्यवतार्य सर्वोतमत्वोपपादनमुतरत्र न कृतमतो स्यूनतेत्यपास्तम् ॥ एक शब्दः केवलार्थ इति । सङ्ख्यार्थत्वे पूर्वनिपातः स्यादिति भावः । ननु दानकर्मत्वेनास्य जगतोऽभिप्रेततया सम्प्रदान- त्वात्तत्र चतुर्थ्या भाव्यमस्येति पष्ठी कथमित्यत आह ॥ अस्येति । एवं च ' विवक्षातः कारकाणि भवन्ती'त्युक्तत्वेन सम्प्रदानत्वस्याविवक्षितत्वात् । शेपे पष्ठीति सम्बन्धमात्रे विहिता षष्ठ्येवेति भावः । अत्र यत्तु बदति । दानं हि स्वस्वत्वपरित्यागेन परस्वत्वापादनम् । तथाच सम्प्रदानत्वप्राप्तेरेवाभावा- व्यर्थमिदमिति ॥ तन्न । परम्वत्वापादनमात्रस्यापि दानशब्दार्थत्वेनाभियुक्तैाख्याततयाऽत्र सम्प्रदा- नत्वप्राप्तिसम्भवात् । अखिलैरित्यस्य तमपश्च प्रयोजनं वक्तुमाह ॥ यदि व्याचिख्यासितेनेत्यादिना । अधिकृतत्वमात्रं कर्मकाण्डप्रतिपाद्ये धर्मादौ ब्रह्मकाण्डप्रतिपाद्ये प्राणादौ च व्यभिचरतीति भावः । नन्वेतावताऽधिकृतत्वस्य व्यभिचारो नोद्धृत इत्याशङ्कायामाह । तथाविधमेवेति । अनन्यापेक्षया वेदा- दिवेद्यं सकलवेदादिवेद्यं चेत्यर्थः । इदं च हेतुद्वयमतो न वैय्यर्थ्यम् ॥ अत्रापि पूर्ववदिति । इष्टत्व- मात्रं स्रक्चन्दनादौ व्यभिचारि । अनन्यार्थतयेष्टत्वं च तमबर्थभूतं सुख व्यभिचारि अतः सदेति ॥ वैषयिक सुखं च न सदेष्टमिति भावः । नन्वेवमपि मध्यमाधिकारिस्वरूपसुखे व्यभिचारः । अतो ममेति ॥ तस्या अपि अन्यार्थतयैव प्रियत्वादिति । पूर्ववत् पूर्वन्यायेन । इयांस्तु विशेषः । अत्र विशिष्टो हेतुः पूर्वत्र हेतुद्वयमिति । प० अन्यथापि स्तुतिसम्भवादेतै रेव विशेषणैः स्तुती न किञ्चिद्वीजमित्यत आह ॥ अथवेति । आद्यचोद्यं निरसितुमाह ॥ विशिष्यत इति । व्यावर्त्यत इत्यर्थः । यावन्त इति । विशिष्टत्वेष्टत्वाधिकृतत्वरूपा इति भावः । द्वितीयचोद्यं निराह ॥ तथेत्यादिना । पद्मति । श्रीब्रह्मा- दारन्यथः । एतदुभयामात । वन्द्यत्वप्रयजिकासाधारणधमवत्व सवातमत्व चत्यतदुमयामत्यय निग्विलत्यादीति । विशेषणपञ्चकमित्यर्थः । तत्र विशेषणत्रयेण विशिष्टत्वमन्याभ्यामधिकृतत्वेष्टत्वे इति वक्तुं वन्द्यन्वप्रयोजकधम्तिावदाह । त्रिविधाहीत्यादिनोपपद्यत इत्यन्तेन । विशिष्टा बन्धेत्येत- अनन्ति ॥ न हीति । अधिकृता वन्येत्येतद्व्यनक्ति ॥ अधिकृता चेति । इटा बन्धेत्येतद्यनक्ति ॥ वन्दनमिति । इतिशब्दो हेन्यर्थः । इतिहेतोस्त्रिविधा बन्येति पूर्वणान्वयः । ततः किमित्यत वाह ।। नवनि । बंधा वन्द्यत्व सतीति वा विशेषणपञ्चकमव्य इति वाऽर्थः । एकशब्दस्य सङ्ख्यार्थत्वेन गुण- विशेषगन्य वकालकसर्वजरपुराणनवकेवला: समानाधिकरणेने'त्यनेनैकशब्दम्य प्रथमान्तनिर्देशेन समास- विधानात् 'प्रथमानिर्दिष्टं समास उपसर्जनमि'त्युपसर्जनसंज्ञायां उपसर्जनं पूर्वमिति पूर्वनिपातो निखिलेत्यनेन विरोधश्च प्रामोतीत्यत आह ॥ एकशब्द इति । एके मुख्यान्यकेवला इत्युक्तेः । 'दोपैकदृक्पुरोभागी दीर्घसूत्रश्विरक्रिय' इत्यमरे 'नियतिकृतनियमरहितां ह्रादैकमि'ति काव्यप्रकाशे च प्रयोगात्सङ्ख्यार्थस्यैवैक- शब्दस्य पूर्वकालैकेति सूत्रे निर्देशो न केवलार्थस्येति न दोघ इति भावः । केवलार्थैकशब्दस्य गुणवि- शेषणन्य लब्धार्थमाह । त एवेति । 'निरादयः क्रान्ताद्यर्थे पञ्चम्ये'त्युक्तेराह ॥ निष्क्रान्तो दोषेभ्य इति । पारतन्त्र्यादिभ्य इत्युक्त्या कथं सर्वोत्तमत्वं नारायणस्येत्येतदंशोऽप्युपपादितो ध्येयः । ईश्वरस्य जन्मलयाद्यभावोक्तिपरैः असम्भवमित्वत्याद्यधिकरणैरविरोधाय वा व्याघातपरिहाराय वाऽऽह । स्वव्यति- रिक्तति । एतेनापि सर्वोत्तमत्वमस्योपपादितं ध्येयम् ॥ जन्माधष्टकमिति । 'गुणव्यत्यय एतस्मिन्मा- यावत्वादधीशितुः । न पौर्वापर्यमिच्छन्ति नद्यां भ्राम्यद्रमेरिवेति तृतीयम्कन्धोत्या पौर्णमास्यमावास्या- तिथ्योरिव जन्मस्थित्या देरिदंप्राथम्याभावेऽपि लब्धजन्मन एव स्थितिलयादीति जन्मन आदित्वमुपेत्य जन्मादीन्युक्तम् ॥ यथासम्भवमिति । जन्मस्थितिलयनियमनानि सर्वस्य । ज्ञानाज्ञानबन्धमोक्षा:ब्रह्मा- दिचतनन्य । तत्रापि मोक्ष सतामेवेत्येवं रूपेणेत्यर्थः । चतुर्थीसम्प्रदान इति चतुर्थ्या भाव्यम् । कथ- मम्येति पष्ठीत्यत आह । सम्बन्धमात्र इति । न तु सम्प्रदानत्वमप्यत्र विवक्ष्यत इति मात्रपदार्थः । 'कर्मणा यमभिप्रेति स सम्प्रदानमिति सूत्रे अचोन्त्यादिटीत्यादाविव लघुसंज्ञायाः कार्यत्वेऽपि सम्प्रदान- मिति गुरुसंज्ञाकरणमन्वर्थत्वविज्ञानार्थम् । तेन बहुमानपूर्व स्वस्वत्वत्यागेन परस्वत्वापादनादिरूपदानं यत्र तत्रैव सम्प्रदानसंज्ञा नत्वन्यत्र रजकस्य वस्त्रं ददातीत्यादाविति वृत्त्यादावुक्तेरिहापि सम्प्रदानसंज्ञाऽभावात् 'पष्ठी शेष' इति षष्ठ्येवेति भावः। यद्वोद्भवादीतिपदस्य नित्यसापेक्षत्वात्समास इत्युपेत्य कर्मत्वसम्प्रदानत्व- विशेषौदासीन्येन सम्बन्धसामान्याश्रयेणोद्भवादीत्यनेन तद्दमिति ददातिना वाऽन्वय इति भावेनाह ॥ सम्बन्धमात्र इति । अथवास्येति षष्ठी कर्तरि चेत् आदिपदोक्तपालनादिनाऽनन्वयः । तस्य जगत्कर्म- कत्वात् । कर्मणि चेदुद्भवादिनाऽनन्वयः तस्य तत्कर्तृकत्वादत आह ॥ सम्बन्धमात्र इति ।
मूलाधपद्यम्) ॥ जिज्ञासाधिकरणम् ॥ ३३ । ननु स्वव्यतिरिक्तप्रपञ्चस्येति व्याख्या न युक्ता । प्रकृतिजीवकालवेदादेनित्यस्य जन्माद्ययोगादित्यत आह ।। अशेषेति । तथात्वे कोऽर्थ इत्यत आह । वियदिति । विशेषत इति तृतीयार्थे तसिरित्युपे- त्यार्थमाह ॥ अवान्तरभेदसहितेति । 'न वियदश्रुतेः' । एतेन मातरिश्वा व्याख्यातः' । 'ज्ञोऽत एवेत्येतेष्वधिकरणेषु नित्यस्यापि पराधीनविशेषावाप्तिरूपजनिरुच्यते । प्रकृतेः जडस्य परिणामः । तदभिमानिश्रियः सिसूक्षुत्वम् । गगनस्य मूर्तसंयोगित्वम् । मातरिश्वादिजीवस्य देहयोगः । इन्द्रियाणा- मुपचय इत्यादिरूपेण व्युत्पाद्याशेषविशेषसहितो य उद्भवः । तथा जीवानां प्रकृतैतावत्वं हीत्यत्रोक्तदिशा अन्नादिदानेन । अन्येषां नित्यानामुत्तरकालसम्बन्धादिना स्थितिरित्यादि । तथा संहृतिरपि कार्यस्य जडस्य ध्वंस: । जीवानां देहलयः । श्रियोऽत्यन्तसामीप्यमित्यादि । तदादिदमित्यर्थः ।। हेतुसमुच्चयार्थ इति । न केवल विशिष्टत्वादधिकृतत्वादपि वन्द्यमिति समुच्चयार्थ इत्यर्थः । अखिलैरित्युक्तावपि तन्मध्ये किश्चिदपि नान्यपरमिति द्योतनाय यावदर्थकमप्यपिपदमिति भावेनाह ॥ अभिव्याप्ती वेति । अत एव आह । अखिलरपीति । पदवर्णस्वरादिरूपेणापि प्रतिपाद्यमित्यभिप्रेत्याभिव्याप्ती वेत्युक्तमित्यप्याहुः । तमप्प्रत्ययाखिलशब्दापिपदानां कृत्यं व्यनक्ति ॥ यदीत्यादिना ॥ तस्येति । धर्मादेः प्राणादेश्चत्यर्थः । 'अन्यार्थ तु जैमिनिरि'त्यादिना वक्ष्यमाणन्यायेन नारायणप्रतीत्यङ्गत्वं ज्ञेयम् । एतावता धर्मादेरधिकृतत्वं न निरस्तमिति वन्द्यत्वं प्राप्तमत आह ॥ तथाविधमेवेति । अनन्यार्थतयाऽखिलवेदादिवेद्यमेवेत्यर्थः ।। अखिलैरिति चोत्तमिति । अखिलैरपीतिचोक्तमित्यभिव्याप्त्यर्थकमपिपदं च ध्येयम् । अन्यथा धर्मादे- रखिलवेदाप्रतिपाद्यत्वेऽपि 'ता वा एताः सर्वा ऋच' इत्यत्रैतरेयभाप्ये सर्ववेदाभिधेयत्वं वायोरप्यस्तीत्युक्त्या प्राणस्याप्यखिलवेदप्रतिपाद्यत्वादखिलपदं तद्व्यावर्तकं न स्याव्यर्थ चाभिव्याप्त्यर्थकमपिपदं स्यात् । तस्मिन् सति तु 'पूर्वप्रसिद्धवर्ज तु शक्रान्ता देवता मता' इति ऋग्भाष्योक्तदिशा मन्त्रादिवद्वेत्यत्रोक्तन्यायेन च विष्णुसूक्तपुरुषसूक्तलक्ष्मीसूक्ताद्यन्यत्रैव प्रतिपाद्यत्वाद्भवति व्यावर्तकमखिलपदम् ।। पूर्ववदिति । पूर्वत्रा- नयोर्यत्प्रयोजनमुक्तं तदत्र ज्ञेयमिति नार्थः । किंतु यथा अन्यार्थतया वेदैकदेशप्रतिपाद्यस्य धर्मादेः प्राणादेश्च प्रियत्वमेव न तु प्रियतमत्वम् । तदपि धर्मादेर्भगवत्प्रतिपत्त्यङ्गत्वदशायाम् । काम्यतादशायां तु प्रियत्वमपि नास्ति । प्राणादेर्भगवदङ्गत्वेनैव प्रियत्वं न तु स्वतः । तथाच तयोः कदाचित्प्रियत्व- मात्रेऽपि न तयोनम्यत्वप्रयोजकेष्टत्वम् । अनाद्यनन्तकालमतिशयेनानन्यार्थतया प्रियत्वरूपनम्यत्वप्रयोज- कमिष्टत्वं नारायणस्यैव । अतस्तस्यैव नतिरिति द्योतनाय सदेति प्रियतममिति चोक्तमिति व्याख्येयमि- । त्यर्थः । या०. अपिरभिव्याताविति । न चाशेषेत्यनेन गतार्थता । यावन्तो वन्द्यत्वनिमित्तभूता धर्मा लोके प्रसिद्धास्तेषां सर्वेषां प्रकृतेऽभिव्याप्तिरसङ्कोचेन वृत्तिरिति यावत् । तथाच यावन्तो ब्राह्मणाः ।। न्यायसुधा ॥ (अ. १ पा. १ अ. ते सर्वेऽप्याकार्या इत्यादाविवासङ्कोचव्यञ्जनमपिशब्दप्रयोजनमित्याशयात् । एवमग्रेऽपि । तत्र विशिष्ट- त्वस्य वन्द्यत्वप्रयोजकत्वमुपपादयितुमाह ॥ न हीति ॥ अधिकृतत्वस्य तदुपपादयति ॥ अधिकृता चेति ॥ इष्टत्वस्यापि तदुपपादयितुमाह ॥ वन्दनं खल्विति ॥ तत्र वैशिष्टयोपपादनायेति । अत्र वैशिष्टयं तु सर्वोतमत्वरूपमेव विवक्षितम् । अत एतदुभयं कथं नारायणस्येत्यवतार्य सर्वोतमत्वप्रति- पादनमुत्तरत्र पृथङ् न कृतमित्यवधेयम् ॥ केवलार्थ इति ॥ सङ्ख्यार्थत्वे पूर्वनिपातः स्यादिति भावः । 'निरादयः क्रान्ताद्यर्थे पञ्चम्येति वचनादाह ॥ निष्क्रान्त इति । नन्वस्येति कथं षष्ठी । न तावत् कर्तरि षष्ठी भगवत एव कर्तृत्वात् । नापि कर्मणि उद्भवादेरेव कर्मत्वात् । हेत्वादिरूपार्थान्तरस्य च असम्भवादित्यत आह || सम्बन्धमात्र इति । तथाच 'पष्ठी शेष' इत्यनेनैवात्र पष्ठीति भावः । सौत्र- शेषशब्दार्थकथनाय सम्बन्धमात्र इत्युक्तम् । उक्तादन्यः शेष उच्यते । कर्मादयश्च प्रातिपदिकार्थपर्यन्ताः पूर्वमुक्ताः । अतस्तदन्यो यः सम्बन्धः स एव शेषशब्देन विवक्षित इति ॥ षष्ठ्यर्थ इति । पठ्यर्थ- भूतानां स्वस्वामिभावादिसम्बन्धानामनेकत्वात्सर्वेषां सामान्यरूपेण ग्रहणाय मात्रपदम् । केचित्तु ननु दानकर्मणोद्भवादिनाऽस्य जगतोऽभिप्रेततया सम्प्रदानत्वात्तत्र चतुर्थ्या भाव्यमस्येति पष्ठी कथमित्यत आह ।। अस्येतीति । एवंच विवक्षातः कारकाणि भवन्तीत्युक्तत्वेन सम्प्रदानत्वस्याविवक्षितत्वात् 'पष्ठी शेष' इति सम्बन्धमात्रे विहिता षष्ठ्येव युक्ता । यद्यप्युद्धवादी न स्वस्वत्वपरित्यागरूपदानकर्मत्वमीश्वरस्य सर्वदा सर्वेश्वरत्वात् तथाच न सम्प्रदानप्राप्तिः । तथाऽपि परस्वत्वापादनमात्रस्यापि दानशब्दार्थतया कन्यादानादौ प्रसिद्धयेनात्र कथञ्चित्सम्प्रदानत्वप्राप्तिसम्भव इत्याहुः ।। वियदधिकरणादीति । तत्र हि क्वचित्पराधीनविशेषावाप्तिः क्वापि देहलाभः कुत्रचित्स्वरूपलाम इत्यनेकप्रकारेणोद्भवः कथितः । लयोऽपि विपर्ययेणेत्यत्रोत्पत्तिक्रमवैपरीत्येन प्रतिपादित इत्यवधेयम् । अखिलैरित्यस्य तमपश्च प्रयोजनं वतुमित्यत आह । यदि व्याचिख्यासितेनेत्यादिना । अधिकृतत्वमात्रं कर्मकाण्डप्रतिपाद्ये धर्मादौ ब्रह्मकाण्डपति- पाद्ये प्राणादौ च व्यभिचारीति भावः । नन्येतावताऽप्यधिकृतत्वस्य व्यभिचारो नोद्धृत इत्याशङ्कायामाह ॥ तथाविधमेवेति । अनन्यापेक्षया वेदादिवेद्यं सकलवेदादिवेद्यं चेत्यर्थः । इदं च हेतुद्वयमतो न वैय- खंम् ।। अत्रापि पूर्ववदिति । इष्टत्वमानं स्रक्चन्दनादौ व्यभिचारि । अनन्यार्थतयेष्टत्वं च तमबर्थभूतं मुखे व्यभिचारि ॥ अतः सदेति । वैषयिकसुख च न सदेष्टमिति भावः । नन्वेवमपि ऋष्यादि- स्वरूपसुख व्यभिचारः । अतो ममेति । न चैवं मम सदा प्रियवादित्येवास्त्विति वाच्यम् । तथाच ममैकान्तिनः सदा प्रियत्वात् मम प्रियतमत्वात् इति हेतुद्वये तात्पर्यमतो न वैयर्थ्यशङ्का इति । भारत्या- दावपि गतत्वात् प्रियतमत्वादित्युक्ते च न तत्र व्यभिचारः । तस्या अन्यार्थतयैव प्रियत्वादिति ध्येयम् । एवंच पूर्ववदित्यस्य पूर्वन्यायेनेत्यर्थो वोध्यः । इयांस्तु विशेषः । अत्र विशिष्टो हेतुः । पूर्वत्र हेतुद्वयमिति ।
मूलाद्यपद्यम् ) ॥ जिज्ञासाधिकरणम् ॥ - श्री० एतदुभयमिति । वन्द्यत्वप्रयोजकीभूतधर्माणामत्र सत्वं पद्मापद्मभवादेर्जगतः सका- शात्सर्वोत्तमत्वरूपातिशयश्चत्युभयमित्यर्थः । 'निरादयः क्रान्ताद्यर्थे पञ्चम्येति वचनान्निष्क्रान्तो दोषेभ्य इत्युक्तम् । स्वव्यतिरिक्तप्रपञ्चस्य पद्मापद्मभवादिप्रपञ्चस्य । रमायामज्ञानबन्धयोरभावेन जन्माद्यष्टकस्य प्रत्येकं सर्वत्राभावाद्यथासम्भवमित्युक्तम् ॥ वियदधिकरणेति । 'तस्मात्तद्वशतैव हि उत्पत्तिरत्र कथिते'- त्येवं पराधीनविशेषावाप्तिरूपामुत्पत्तिमभिधाय तदवान्तरभेदाः पराधीनविशेषाः । 'सिसृक्षुत्वविशेषं तत् साक्षाद्भगवदिच्छया । प्राप्तैव सृष्टेत्युदिता प्रधानं विकृतेरपि । पुमांसो देहसम्बन्धात्सृष्टिमन्त इतीरिताः' । मूर्तसम्बन्धपरतन्त्रविशेषयुक् खमेवोत्पत्तिमन्नाम । वेदस्यापीश्वरेच्छया व्यक्तिर्नाम विशेषोऽस्तीत्यादिनोप- पादिता द्रष्टव्याः । पूर्ववदिति । सदापदस्य तमपश्च प्रयोजनं पूर्ववत् पूर्वन्यायेनावधेयम् । यथा अखिलराप्यतममित्यत्र धर्मादौ व्यभिचारपरिहारो विशेषणप्रयोजनमेवमत्रापि । भगवान्वन्धो भवितुमर्हति ममैकान्तिनः सदा प्रियतमत्वात् मम प्रियतमत्वादिति विवक्षिते हेतुद्वये व्यभिचारपरिहारायेदं विशेषण- द्वयमित्यर्थः । तत्प्रकारश्चाद्ये हेतौ वैषयिकसुखे व्यभिचारपरिहाराय सदेति विशेषणम् । द्वितीयहेतौ मम प्रियत्वस्य स्रक्चन्दनादौ व्यभिचारवारणाय प्रियतमत्वादित्युक्तम् । अनन्यार्थतयेष्टत्वस्य तमबर्थत्वान्न व्यभिचार इति । च० प्रकृतनमनक्रियाकर्मीभवन्नारायणे विशेषणषट्कप्रमापकतुल्यकक्षापन्नाखिलद्वितीयान्तानां फलान्तरोद्देश्यकस्तुतितात्पर्यकत्वाशयं प्रकाश्य संप्रति तदेकतरस्य बीजाभावनियन्त्रिततादृशक्रियाकर्मत्वा- नुपपत्तिशङ्कायास्तादृशव्यक्त्यन्तराप्रणतिपूर्वकैतत्प्रणतिकर्मत्वानुपपत्तिंशङ्कायाश्च व्युदसनतात्पर्यकतां शिष्ट- तत्पञ्चकस्य च तदभिहितार्थसमर्थनतात्पर्यकतां प्रकाशयति । अथवेत्यादि । विपूर्वकशिष्टः करणसाधन घान्ततामाश्रित्य व्यावर्तकधर्मप्रमापकतामभिधत्ते । विशिष्यन्त इति । अथ 'उपदेशेऽजनुनासिक इदिति सूत्रं व्याचक्षाणेन भाप्यकृता उपदेश इति घञ् अयं करणसाधनः न सिध्यति परत्वात् ल्युट प्राप्नोति न ब्रूमो कर्तरि च कारकसंज्ञायामिति किं तर्हि हलश्चेति संज्ञायामिति वर्तते । न चैषा संज्ञेत्यादिना एवं च कृत्वा घञ् न प्रामोतीत्यनेन करणे घनो दूषिततया करणसाधनधान्तता विशेषशब्दस्य न सङ्गच्छत इति चेत्सत्यम् । तत्रैव एवं तर्हि कृत्यल्युटो बहुलमित्येव घञ् भविष्यतीति उपदेशशब्दस्य करणसाधन- तया भाष्यवृत्त्यादिषु व्याख्याततया तद्वत्प्रकृतेऽपि सम्भवात् विशेषशब्दस्यापि परीक्षकव्यवहारादिना व्यावर्तकसंज्ञात्वावगमेन हलश्चत्यपि भविष्यति । ईश्वरं गुरुमपि भजस्वेत्यादाविव प्रातिस्विकधर्मद्वया- वच्छिन्ननानाकर्मताकैकधातूपस्थाप्यान्वयित्वरूपसमुच्चयबोधकत्वासम्भवेन गीतातात्पर्यनिर्णये सर्वकर्माण्यपि सदाकुर्वाण इति प्रतीकव्याख्यावसरे एकमपि कर्म तदनादरेण न कार्यमित्यादिना भगवत्पादैरभिव्याप्तिगम- कतया विवृततया यावन्तो ब्राह्मणास्ते सर्वेऽप्याकार्या इत्यादाविव समभिव्याहृताशेषपदार्थतावच्छेदकीभूत- S.T.5A व्यासन्यवृत्तिधर्मनिष्ठपर्याप्तिसम्बन्धावच्छिन्नावच्छेदकताकपदार्थान्तरान्वयितारूपाभिव्याप्त्यर्थतया व्याकुस्ते अपिरिति । तथाच न तादृशाशेपादिपदार्थतावच्छेदकीभूततादृशधर्मसामानाधिकरण्यमात्रविशेषितताग- न्वयिताम्यः सङ्कोच इति भावः । एवमुपरिष्टादपि बोव्यम् । यावन्त इत्यादि । विशेषपदोत्तरपञ्चम्या निरूपकतासम्बन्धन वन्द्यपदार्थतावच्छेदकान्वयि ज्ञापकत्वं प्रत्याय्यते । तथाच विशिष्टेष्टाधिकृतत्वादिरूप- यावद्धर्मनिष्ठा या व्यासज्यधर्मावच्छिन्ना ज्ञापकता तन्निरूपकवन्धत्वाश्रयीभूतमित्यर्थः । अथ कथमेतत् । नागय गरक्षकवन्यन्यसा यकदर्शितधर्मसम्बन्धकप्रयोगस्याभिप्रेततायां हेतुवाक्यघटकपदानां प्रयोजनाभावे प्रयुक्तनिग्रहासिद्धिप्रसङ्गेन प्रत्येकहेतुताकल्पस्याश्रयितव्यतया धूमालोकभस्मनिष्ठवन्हिनिरूपितज्ञापकतासु नत्तवृत्तिधमन्वादिरूपप्रातिस्विकधर्माणामेवावच्छेदकतावत्प्रकृतेऽपि वैशिष्टयादिवृत्तितथाविधधर्माणामेव नत्तद्वृत्तिज्ञापकतावच्छेदकतया व्यासज्यवृत्तिधर्मस्य तदनवच्छेदकतयाऽसामञ्जस्यमिति चेन्मैवम् । धूमा- लोकभस्मभ्यो वन्हिमानित्यादिनिर्देशानुरोधेन व्यासज्यवृत्तिधर्मावच्छिन्नत्वस्य पारिभाषिकतव्यापकतात्मक- तया अतिविरहात् । न च प्रातिस्विकज्ञापकतायां न धूमादित्रितयवृत्तिधर्मव्यापकतेति वाच्यम् । वन्हि. निरूपितत्रापकतान्वेन ब्यापकतायाः निर्बाधत्वादित्यलं सूक्ष्मेक्षिकया । एतदुभयं वन्द्यत्वप्रयोजकधर्म- साकल्यवन्द्यावधिकोत्तमत्वोभयम् । नारायणे धर्मिणि वन्द्यत्वसाधकनिखिलेत्यादिविशेषणानां पक्षीकृते- शान्यम्मिन्नभावन तत्र प्रकृतसाध्यनिरूपितव्याप्तेढुंहतया तैन सङ्गच्छत इति निदर्शनगृहीतसाव्यनिरू- पितव्याप्तिकविशिष्टत्वेष्टत्वाधिकृतत्वरूपप्रधानसाधनान्तर्गतोत्तमत्वरूपवैशिष्ठयानुमापकप्रमापकद्वितीयान्तत्रि- कम्य निखिलगुणपूर्णावद्यगन्धवैधुर्यविश्वोत्पादकत्वादिनियन्त्रितसर्वोत्तमत्वप्रतिपादने बहुगुणवत्वरागादिदोष- दूरधबहुजनकत्वादिनिबन्धनमुत्तमत्वं कैमुत्येन सेत्स्यतीत्याशयेन व्युत्पाद्यशिष्टद्विकस्य प्रधानसाधनद्वय- प्रत्यायकनां तत्रापीष्टत्वं वन्दनक्रियाविशेषणीभूतभक्त्यादिसाहित्यसम्पादन एवोपयोक्ष्यते न विशेष्यांश इत्याशयेनाद्यशङ्कां, सर्ववैशिष्टयसर्ववेदप्रतिपाद्यत्वानन्योद्देश्यकवेदकरणप्रतिपादनक्रियाकर्मत्वान्यतरात्मका- धिकृत बसार्वकालिकातिशयितभाप्यकारीयप्रीतिविषयत्वानामीशासाधारणानां प्रतिपादनेन द्वितीयशङ्का चापाचिकीर्घांकुरुते । त्रिविधा हीत्यादिनाऽवधेयमित्यन्तेन । एकशब्द इति । ह्रादैकमयीतिकाव्य- प्रकाशाद्युदाहरणानि टीकाकृद्भिरेवान्यत्रोपन्यस्तानीति सङ्ख्यार्थकताराहित्येन न पूर्वनिपातापत्तिरिति भावः । ननु 'कर्मणा यमभिप्रेति स सम्प्रदानमिति सूत्रे वृक्षाय जलं ददाति खण्डिकोपा-याय: शिप्याय चपेटिकां ददाति, रजकाय वस्त्रं ददाति, 'न शूद्राय मतिं दद्याद्विप्राय कन्यां ददाती'त्यादि गौणोदाह- रणाद्यनुरोधेन गौणइदात्यर्थविवक्षावश्यम्भावेन भाष्यकृता श्राद्धाय निगर्हते युद्धाय सन्नह्यते पत्ये शेत इत्याद्यनुरोधन क्रियाग्रहणमपि कर्तव्यमिति ददाति कर्मणेत्यस्यानाश्रयेण क्रियामात्रस्याश्रयणाच्च सम्प्रदानचतुझं भवितव्यमित्यतो 'विवक्षातः कारकाणि भवन्ती'त्युक्तेः सम्प्रदानस्य शेषत्वविवक्षायां युक्ताऽस्येति षष्ठीत्याह । अस्तीत्यवतारयन्ति । नन्वस्येति कथं षष्ठी । न तावत्कर्तरि । भगवत एव कर्तृत्वान्नापि कर्मणि उद्भवादेरेव कर्मत्वात् हेत्वादिरूपार्थान्तरस्य चासम्भवादत आह । सम्बन्धमात्र इतीत्यप्यवतार्य तथाच 'पष्ठी शेष' इत्यनेनैवात्र षष्ठीति भाव इत्यपि व्याकुर्वते । सम्बन्धमात्र इति । सम्प्रदानचतुर्थी कर्तृकर्मणोरित्यनुशिष्टा षष्ठी च सम्प्रदानत्वकर्तृत्वकर्मत्वरूपसम्बन्धत्वव्याप्यधर्मावच्छिन्न- प्रकारताशालिशाब्दधीप्रयोजिकेति तादृगन्वयवोधतात्पर्यविरहान्न क्षतिरिति सम्बन्धत्वरूपसामान्यधर्माव- च्छिन्ननिरूपकतासंसर्गावच्छिन्नप्रकारताशाल्यन्वयबोधोत्पादप्रयोजिका शैषिकी षष्ठ्येवेत्याशयः । सम्ब- ध्यत इति । तन्त्रावृत्त्याद्याश्रयणेनेति भावः । अवान्तरेति । विशेषावाप्तिदेहलाभस्वरूपलाभसिसृक्षु- त्वमूर्तसम्बन्धाद्यवान्तरवैचित्र्यसहितेत्यर्थः । समुच्चयार्थ इति । निखिलेत्यादिविशेषणत्रिकस्यापि वैशि- ष्टयद्वारा वन्द्यत्वसाधन एव तात्पर्योपगतेरिति भावः । दर्शितत्रिकस्य किञ्चिदद्वारकप्रधानसाध्यसाधनी- भूताधिकृतत्वतुल्यकक्ष्यापन्नताविरहात्समुच्चायकता न सूपपादेत्यरुचिं मन्वानः कल्पान्तरं श्रयते । अभीति । तमपोऽखिलैरित्यस्य च प्रयोजनमभिधित्सते । यदीत्यादि । स्ववृत्तिकर्मतानिरूपकत्यसंसर्गेण प्रकृत्यर्थ- प्रकथनविशेषितसन्प्रत्ययार्थच्छाविषयीभूतेनेत्यर्थः । कर्मब्रह्मकाण्डभेदेन व्यभिचारनिरूपकाधिकरणद्वयो- पादानम् । तथाविधमिति । अखिलवेदादिकरणकेतरप्रतीत्यनुद्देश्यकप्रतिपादनक्रियाकर्मत्वरूपसमुदिता- र्थस्य हेतुतायां हेतुतावच्छेदकघटकविशेषणयोर्वैकल्पिकफलकतया मतभेदेन निग्रहासिद्धिप्रसङ्गेनानन्योद्दे- श्यकतादृशक्रियाकर्मत्वस्य साकल्यांशवटिततादृशक्रियाकर्मत्वस्य च पार्थक्येनव तद्धेतुत्वोपगतेरुक्तक्षयनव- काशादिति हृदयम् । पूर्ववदिति । षष्ठयन्ताद्वतिरुपमेये षष्ठीदर्शनात् । स्वर्गादेरनित्यत्वेन सदाप्रिय. स्वाभावाद्धर्मादेरन्यार्थतयव प्रियत्वादस्य पुनः सदाऽनन्यार्थतया प्रियत्वात्तथाविधमेव चेष्टत्वमुच्यत इत्या- शयेनाह । अत्रापीतीति । ममेयंशस्य हेतुतावच्छेदकघटकतामनङ्गीकुर्वाणा एव व्याकुर्वते । इष्टत्व- मात्रं सचिन्दनादौ व्यभिचारि । अनन्यार्थतयेष्टत्वं च तमबर्थभूतं सुख व्यभिचारि अतः सदेति । वैषयिकमुख च न सदेष्टमिति भावः । नन्वेवमपि ऋप्यादिस्वरूपसुख व्यभिचारः । अतो ममेति । न चैवं मम सदा प्रियवादित्येवास्त्विति वाच्यम् । विपक्षे भारत्यादावपि गतत्वात् । प्रियतमत्वादित्युक्ते तु न तत्र व्यभिचारः । तस्या अप्यन्यार्थतयैव प्रियत्वादिति ज्ञेयम् । एवं च पूर्ववदित्यस्य पूर्वन्याये- नेत्यर्थो बोध्यः । इयांस्तु विशेषः । अत्र हि विशिष्टो हेतु: पूर्वत्र हेतुद्वयमित्यपि व्याचक्रिरे । पूर्ववदिति । पूर्वत्रानयोर्यत्प्रयोजनमुक्तं तदत्र ज्ञेयमिति नार्थः । किंतु यथा अन्यार्थतया वेदैकदेश- प्रतिपाद्यस्य धर्मादेः प्राणादेश्वाधिकृतत्ववारणाय आप्यतममिति तमपूप्रत्ययोऽखिलपदं च प्रयुक्तम् । तथाऽत्रापि धर्मादेः प्रियत्वमेव नतु प्रियतमत्वं तदपि धर्मादेर्भगवत्प्रतिपत्त्यङ्गत्वदशायां, काम्यतादशायां तु प्रियत्वमपि नास्तीति प्राणादेर्भगवदङ्गत्वेनैव प्रियत्वं न तु स्वतः तथाच तयोः कदाचित्प्रियत्वमात्र- || न्यायसुधा ।। सत्त्वंऽपि न नयोनम्यत्वप्रयो नकेष्टत्वम् । अनाद्यनन्तकालमतिशयेनानन्यार्थतया प्रियत्वरूपनम्यत्वप्रयोजक- मिष्टत्वं नारायणम्यैव नान्येषामिति द्योतनाय सदेति प्रियतममिति चोक्तमिति व्याख्येयमित्यर्थ इत्यपि निवघ्नन्ति । अत्र च सदाप्रियतमत्वं मम प्रियतमत्वं चेति स्वतन्त्रहेतुद्वयमेव सौधाक्षरानुपूर्वीसामञ्जस्यानु- रोधेनावसीयते । तत्र विपक्षभूतभारत्यादावाचार्यस्वरूपसुखे चेशोदेशेन प्रिये ऋप्यादिस्वरूपसुखस्य मुक्ति- दशायामनुभूयमानतया तत्कालीनातिशयितप्रीतिविषयतासत्त्वेऽपि संसारदशायामननुभूयमानतया तत्काली- नताशप्रीतिविषयत्वस्य दुरुपपादतया सार्वकालिकतादृशप्रीतिविषयत्वहेतोस्तत्र चानैकान्त्यानवकाशेन तघ्यावृत्तिफलकतया न ममेल्यंशस्याद्यहेतुतावच्छेदकघटकतयोपादानम् । किंतु वैषयिकसुखादावनैकान्त्य- व्युदसनाय द्वितीयहेतुशरीरघटकतयैव तदिति प्रतिसन्दधतां वाक्यार्थचन्द्रिकाकृतां परिमळकृतां च पन्था- नमनुसन्धाना: गुरुपादा अपि तदिशा प्रकृतेऽपि हेतुद्वयमेवाभिप्रेतं ग्रन्थकृतामिति न्यमांत्सुर्भावप्रकाशि- कायाम् । मु०--- यद्वा । नानिर्धारितस्वरूपस्य प्रणामो युक्तः । न चान्तरेण लक्षणं वस्तु- निधारणमित्यतो विभवादनेकानि नारायणस्य लक्षणान्यनेनोच्यन्ते । तत्र निखिलेत्यनेन निखिलगुणत्वं पूर्णगुणत्वं स्वतो गुणकदेहत्वं चेति विवक्षाभेदेन त्रीणि लक्षणान्युदितानि । निदोपमित्यनेनेकम् । आप्यतममित्यनेन वेदादिमुख्यार्थत्वमखिलवेदाद्यर्थत्वं चेति द्वयम् । अस्येत्यनेनाप्टौ । अशेपेत्यनेन मुख्यवन्द्यत्वमुक्तमशेषाद्विशेषेण वन्द्यमिति । सदेत्यनेन परम- प्रेमयोग्यत्वम् । तस्यानानुभाविकत्वादसम्भवमाशङ्कय सदा ममेत्युक्तम् । अन्येषामपि ज्ञानो- त्तरकालमिदमानुभाविकं मम तु सदेति । अपिशब्दो लक्षणसमुच्चये । अथवा । निखिलेत्या- युक्तलक्षणोपपन्नतया नारायणः केन प्रमाणेन प्रतिपत्तव्य इत्यतः सुवाक्यैराप्यमित्युक्तम् । ननु वेदायेकदेशेऽन्यथाऽप्युच्यते । न । तत्प्रतीतेरपरामर्शपूर्वकत्वादित्याशयेनाखिलैरित्यु- दितम् । तर्हि धर्माद्यसिद्धिः स्यात् । तस्य प्रमाणान्तरागोचरत्वात् । मैवम् । अमुख्यया वृत्त्या धर्मादेरपि वेदादिवेद्यत्वादित्याशयवताऽऽप्यतममित्यभिहितम् । अपिशब्दो वक्ष्यमाण- प्रमाणसमुच्चयार्थः । सकलजगन्निमित्तकारणत्वादिहेतुभिरप्युक्तलक्षणो नारायणः प्रत्येतव्य इत्यभिप्रेत्योक्तमस्येति । मा० एवं नमामीति क्रियासमभिव्याहृतद्वितीयाविभक्त्यर्थनम्यत्वोपपादकतया निखिलेत्यादीनि नारायणविशेषणानीति व्याख्याय प्रकृत्यर्थभूतनारायणस्वरूपनिर्धारणहेतुलक्षणपरतयाऽपि तानि व्याख्याति। यद्वेति । अत्र विशिष्टस्य लक्षणत्वे निखिलपूर्णपदयोरन्यतरवैयापातात्तद्धर्भलक्षणद्वयपरत्वे गुणानां मूलाग्रपद्यम् ) ॥ जिज्ञासाधिकरणम् ॥ देहविशेपणत्वेन नारायणविशेषणत्वाभावेन देहपदवैयर्थ्यशङ्काऽनुदयेऽप्येकपदवैयापाताद् गुणानां नारायणविशेषणत्वं गुणपदावृत्तिं तृतीयलक्षणे स्वातन्त्र्यं च विवक्षित्वा त्रीणि लक्षणानि ज्ञातव्यानीत्याहं ।। तत्रेति । ममेत्यनेन स्वं प्रत्यनुभवसिद्धत्वोक्ताव प्येकस्य प्रतिभातं तु कृतकान्न विशिष्यत' इत्युक्तरीत्या प्राप्तासम्भवशङ्कानिवृत्यर्थ सदापदाभिप्रायमाह । अन्येषामिति । प्रथमापिशब्दस्याभिव्याप्त्यर्थत्वमेवा- जीकृत्य द्वितीयोऽपिशब्द उक्तवक्ष्यमाणसमुच्चयार्थ इत्याह ।। अपीति । अपिशब्दो लक्षणसमुच्चय इति पाटे तूभयोरपि लक्षणसमुच्चयार्थत्वमेवेत्यर्थः । लक्षणेन व्यावृत्तस्वरूपस्य बुद्ध्यारूढत्वेऽपि मानाधीनत्वा- न्मेयसिद्धेर्लक्षणोक्तिमात्रपरत्वादपि लक्षणप्रमाणोभयपरत्वस्य ज्यायस्त्वादुभयपरतया श्लोकं योजयति ।। अथवेति ।। अन्यथाऽपीति । निर्गुणत्वदोषित्वादिनेत्यर्थः ॥ तहीति । निखिलवेदैरुक्तगुणविशिष्ट- नारायणस्यैव वचन इत्यर्थः । स० नारायणमिति द्वितीयाविभत्यर्थभूतनमनकर्मत्वरूपनम्यत्वोपपादकापेक्षया नारायण- प्रातिपादकार्थनिर्धारणार्थत्वमन्तरङ्गमित्याशयेनाह ॥ यद्वा नानिर्धारितेति ॥ स्वत इति ॥ स्वातन्त्र्येण इत्यर्थः । न चात्र स्वातन्व्यमात्रस्यैव लक्षणत्वे दोगाभावात् व्यर्थविशेष्यत्वमिति वाच्यम् । एकधर्मि- निष्ठत्वेन विशेषणविशेप्ययोहपस्थितावेव व्यर्थत्वादेश्चिन्तनीयत्वेन प्रकृते च स्वातन्त्र्यस्य गुणैकदेहत्व- निष्ठतया प्रतीयमानत्वेन तस्य च लक्ष्यनिष्ठतया प्रतीयमानत्यनकर्मिनिष्ठत्वेनाप्रतीतेन तन्न्यायविषयत्वम् । यथोक्तविशेषणविशेष्यभावे दोषाभावादिति भावः । अत एव समयचरणे नित्यपरिमाणत्वादित्यत्रापि न वैयर्थ्यमिति ध्येयम् । प० ननु नम्यत्वप्रयोजकवैशिष्ट्यस्याधिकृतत्वादेरिवैकेन विशेषणेनाप्युक्तिसम्भवाद्विशेषण- त्रयोक्तिर्निर्बीजेत्यत आह ॥ यद्वेति । वैयर्थ्यनिरासायोक्तं विभवादिति । ऐश्वर्याधिक्यादित्यर्थः । अनेनाद्यपधेन । स्वत इति श्रीमुक्तयोयुदासाय ।। अस्येत्यनेनेति । अस्योद्भवादिदमित्यनेनेत्यर्थः । सदे- त्यनेनेति । सदा प्रियतमं ममेत्यनेनेत्यर्थः । सदाममेतिपदयोर्लक्षणासम्भवपरिहारः फलमित्याह । तस्येति । परमप्रेमयोग्यत्वस्येत्यर्थः । तर्हि ममेत्येकमेवालमित्यत आह ॥ अन्येपामिति । अन्येषां जीवानां ज्ञानिनां भगवदपरोक्षानन्तरं भगवतः परमप्रेमयोग्यत्वमनुभवसिद्धम् । मम त्वनाद्यनन्तकालम् । अतो यावद्रव्यभावीदं हरेलक्षणं न कदाचिदागतमिति द्योतनाय सदेत्युक्तमित्यर्थः । प्रेमयोग्यत्वं च निरुपाधिकेप्टत्वम् । ननु विभवादनेकलक्षणोक्तावप्येवं रूपेणैव लक्षणानि वाच्यांनीत्यत्र न बीजमस्ती- त्यतः सर्वस्योपयोगमाह ॥ अथवेत्यादिना दुःखादिदोषरहितश्चेत्यन्तेन । तमपोऽये पृथक्कृत्यं वक्तु- माप्यमिति प्रतीकोक्तिः । वक्ष्यमाणप्रमाणेत्युक्तम् । तद्व्यनक्ति ॥ सकलेति । आदिपदाजगत्पालकत्व- ॥ न्यायसुधा॥ (अ. १ पा. १ अ. १ संहर्तृत्वनियन्तृत्वाद्यष्टौ हेतवो ग्राह्याः । उक्तं हि भागवते 'कर्तृत्वात्सगुणं ब्रह्मेति । वक्ष्यति च भाप्य- कारोऽप्यानन्दमयनये । 'जन्माद्यस्येतिसूत्रेण गुणसर्वस्वसिद्धये । ब्रह्मणो लक्षणं प्रोक्तमि'तीति भावः । नहि जगज्जन्मादिकर्तुद पाः सम्भवन्तीति जगत्कर्तृत्वादिनैव गुणसर्वस्ववन्निर्दोषताऽपि सिद्यतीति भावे- नोक्तलक्षण इत्युक्तम् । या० नारायगमिति द्वितीयाविभक्त्यर्थभूतकर्मत्वरूपनम्यत्वोपपादकतापेक्षया नारायणप्राति पदिकार्थनिर्धारणार्थत्वमन्तरङ्गमित्याशयेनाह ॥ यद्वा नानिर्धारितेति । ननु वस्तुनिर्धारणम्यैकेनैव लक्षणेन सम्भवाकिमनेकलक्षणोक्येत्यत आह ॥ विभवादिति । ल्यब्लोपनिमित्तेयं पञ्चमी विभवमैश्वर्य- मपेक्ष्येति । तज्ज्ञापनायेति यावत् । ततश्च प्रसङ्गान्नारायणम्यैश्वर्यमपि ज्ञापयितुमनेकलक्षणोक्तिरियमिति भावः । सुवाक्यैराप्यतममस्योद्भवादिदमित्येतल्लक्षणपरतया व्याख्याय लक्षणप्रतिपादकप्रमाणपरतयाऽपि व्याख्याति ॥ अथवेत्यादिना । श्री तदेव प्रमाणं दर्शयति ॥ सकलेति । च०- नारायणपदप्रकृतिकबहिरङ्गद्वितीयोपस्थापितप्रकृतनमन क्रियानिरूपितकर्मत्वनिर्वाहकगोच- रप्रतिपत्त्यनुकूलतया तद्वितीयान्तषट्कं व्याख्याय सम्प्रत्यन्तरङ्गतत्प्रकृत्यंशप्रतिपाद्यनारायणस्वरूपनि- रिकलक्षण तार्यकतया तव्याकतु कल्पान्तरमनुसरति । यद्वेति । नम्यत्वप्रयोजकवैशिष्टयस्याधिकृतत्वा- देरिवैकेन विशेषणेनाप्युक्तिसम्भवाद्विशेषणत्रयोक्तिनिर्बीजेत्यत आह यतीत्यपि निबन्धान्तरीयो विन्यासः । अनेकोक्तेः फलवत्ता व्यनक्ति । विभवादिति । अथ गुणैकदेहत्वं गुणानात्मकदेहशून्यत्वे सति गुणात्मकदेहवत्वरूपं पर्यवस्यति । सत्यन्तोपादानफलं तु मुक्तात्मस्वतिप्रसङ्गविधूननम् । समुदित- स्यापि रमायामनतिप्रसङ्गाय स्वत इत्युपादाने स्वत्वमात्रस्यैवेतरानतिप्रसक्तस्य तल्लक्षणत्वसम्भवेन शेषवैयर्थ्य दुर्वारमिति चेन्मैवम् । गुणकर्मान्यत्वे सति सत्त्वं द्रव्यलक्षणमित्यतः सामानाधिकरण्यप्रत्यासत्यान्यत्वान्त- विशिष्ठसत्त्वमिति प्रतीतिवद्भावप्रधानस्वशब्दप्रकृतिकसप्तम्यर्थतसिना स्वत्वे सति गुणैकदेहत्वमित्यत इव तादृशप्रत्यासत्या स्वत्वविशिष्टं तल्लक्षणमित्यर्थप्रतीत्या तत्र विशेष्यांशानुपादाने तादृशप्रत्यासत्या स्वत्व- वैशिष्ट्यरूपोर्वरितांशस्यासम्भवप्रसङ्गेन समुदितोपादानावश्यम्भावात् । न भविष्यक्रियेत्यनुव्याख्या- प्रतीकव्याख्यावसरे देवदत्त कृतः किं त्वया कटः क्रियते वेति पृष्टः प्रत्याह । न मया कृतो नापि क्रियते किंतु कार्य इति तेन प्राप्नोति मविष्यक्रियाकार्य भविष्यत्वावच्छिन्नक्रियात्वं क्रियागत- भविष्यत्वं वा कार्यतेतीति कार्यलक्षणनिरूपकसौधाक्षरविन्यासे क्रियात्वरूपविशेप्यांशानुपादाने दर्शित भंग्यनादरे सामानाधिकरण्यप्रत्यासत्या भविष्यत्वविशिष्टत्वरूपतदवच्छिन्नत्वस्य लक्ष्याभिमते प्रतीत्यसम्भ- मूलाद्यपद्यम् || जिज्ञासाधिकरणम् ॥ ........ ववारणातिरेकेण प्रयोजन यस्यादिति विभावनीयम् ।प्रकृतपद्यघटकपदद्वयीमुक्तलक्षणप्रमाणतात्पर्य- कतयाऽपि व्याकुरुते । अथवेत्यादिना । निरूपकतया प्रत्युपसृष्टपद्यर्थाधिगत्यन्वयिनी प्रकारता तलन्त- प्रकृतिकतृतीययोपस्थाप्यते । सु०- यद्वा नारायणस्य देहसद्भावे दुःखादिदोषानुषङ्गः । तदभावे ज्ञानादिगुणा- भावः । उभयथाऽपि जगजन्मादिकारणत्वासम्भव इत्याशङ्कयोक्तम् । निखिलपूर्णगुणैकदेहं निर्दोषमिति । देहवत्याज्ज्ञानादिगुणपूर्णः । तस्यापि निखिलपूर्णगुणमात्रत्वेन दुःखादिदोप- रहितश्चेति । अथवा नायं नारायण शब्दो डित्यादिशब्द इव भगवति साङ्केतिको घटादिशब्द इब वा रूढिमात्रप्रवृत्तः । किन्तु विशिष्टगुणानप्याचष्ट इति ज्ञापयंस्तदर्थमनेन कथयति । एतदपि स्तुत्यर्थमवगन्तव्यम् । तथा हि । अरा दोपास्तद्विरुद्धत्वाद्गुणा नारास्तदयनत्वान्नारा- यणः । अराणामयनं न भवतीति वा । उपकारित्यादिना नराणामिमे नारा वेदादयः प्रति- पाद्यतया तदयनत्वाद्वा । नराणामिदं नारमुद्भवादिदातृतया तस्यायनत्वाद्वा । नरसमूहो नारं वन्यतया तदयनत्वाद्वा । नराणामयमधिपतिनारो मुख्यवायुः परमप्रेमास्पदतया तस्यायनत्वा- द्वेति यथाक्रममवगन्तव्यम् । साधकवहाधकपरिहारस्याप्यावश्यकत्वेन लक्षणप्रमाणोक्तिमात्रपरत्वादपि विशेषणद्वयस्य बाधकपरिहारार्थवाभ्युपगमेऽर्थविशेषलाभं मन्वानः पक्षान्तरमाह ॥ यद्वति । एवं प्रकृत्यर्थनारायण- स्वरूपनिर्धारणहेतुलक्षणादिपरतया विशेषणानि व्याख्याय प्रकृत्यर्थकथनपरतयाऽपि तानि व्याचष्टे । अथवेति । अर्थगतप्रवृत्तिनिमित्तमनपेक्ष्य वऋभिप्रायेणार्थप्रत्यायकत्वं साङ्केतिकत्वमखण्डशक्ती रूढिः । वा० -- स० सुवाक्यैराप्यतममस्योद्भवादिदमित्येतल्लक्षणपरतया व्याख्यातम् । इदानीमसम्भवपरिहा- रार्थतयाऽपि व्याचष्टे । यद्वा नारायणस्य देहसद्भाव इति । पदार्थनिर्धारणापेक्षया व्याख्यानस्यान्त- रङ्गतामभिप्रेत्याह ॥ अथवा नायं नारायणशब्द इति । अर्थगतं प्रवृत्तिनिमित्तमनपेक्ष्य वक्तुरभिप्राय- मात्रेणार्थप्रत्यायकः शब्दः साङ्केतिक इत्युच्यते । तादृश एव वऋभिप्रायमन्तरेणार्थप्रत्यायको रूढः । नैवंविधो नारायणशब्दोऽपि तु रूढोऽप्यर्थगतप्रवृत्तिनिमित्तापेक्षित्वाद्यौगिकोऽपि भवति । 'अरो रथाङ्गे चक्राङ्के शीघ्रगामिनि किल्विष' इत्यभिधानं मनसि निधायाऽऽह || अरा दोषा इति । प०. ननु जन्मादिहेतुत्वमेवाशरीरस्यायुक्तमिति वादिन प्रति कथं तत्साधनम् । किञ्च जन्मा- दिहेतुत्वमेव जन्मादिसूत्रे लक्षणत्वेन प्रसिद्धमित्यतोऽस्त्विदमेव लक्षणम् । एतदुपपादकत्वेन निखिलेत्यादि S.T.6 ४२ ॥ न्यायसुधा ॥ (अ.१ पा. १ अ. १ प्राप्तमिति भावेनाह ॥ यद्वेति ॥ दुःखादिदोपेति । 'करणवच्चेन्न भोगादिभ्य' इत्यादिना सूत्रकृतैव पत्युरधिकरणे तथा वक्ष्यमाणत्वादिति भावः ॥ ज्ञानादिगुणाभाव इति । 'अन्तवत्त्वमसर्वज्ञता वे'ति वक्ष्यमाणसूत्रादिति भावः ॥ तस्यापीति । 'विकरणत्वान्नेति चेत्तदुक्तम् । आह च तन्मात्रमित्यादिषु सूत्रेषु वक्ष्यमाणत्वादिति भावः । नन्वमन्तु विशेषणानामर्थवत्त्वम् यदि नारायणनतिरेवात्र युक्ता स्यात् । सैवायुक्ता । ब्रह्मतन्त्रारम्ने ब्रह्मनतेरेव कार्यवादित्यतः । 'ओतत्यवाची ह्योङ्कारो वत्तयसो तद्गुणोतताम् । स एव ब्रह्मशब्दार्थो नारायणपदोदित' इति । 'दोषारच्छिदशब्दानां पर्यायत्वं यतस्ततः । गुणा नारा इति ज्ञेयास्तद्वान्नारायणः स्मृतः । ब्रह्मशब्दोऽपि हि गुणधूर्ति मेव वदत्ययमिति च वक्ष्यमाण- दिशा गुणपूर्तिवाचिब्रह्मशब्दसमानार्थवाचित्वान्नारायणशब्दस्य तदर्थो ब्रह्मैवातो ब्रह्मतन्त्रारम्भे नारायण- नतिर्युक्तेति भावेन प्रयोजनान्तरमाह ।। अथवेति ।। साङ्केतिक इति । अस्माच्छब्हादयमर्थो बोद्धव्य इतीच्छया नियमित इत्यर्थः ॥ विशिष्टगुणानपीति । न केवलं रूढः किन्तु निखिलपूर्णगुणत्वनिर्दोष- त्वादीनितरासाधारणान्गुणानप्याचष्ट इत्यर्थः ॥ तदर्थ नारायणशब्दार्थम् ॥ अनेन श्लोकेनेत्यर्थः ।। स्तुत्यर्थमित्युपलक्षणं ब्रह्मशब्दसमानार्थत्वसूचनार्थ चेत्यपि ध्येयम् ॥ निखिलेत्यनेनैव ब्रह्मपदसमानार्थत्व- लाभादितरनिरुक्तिसार्थक्याय स्तुत्यर्थमित्येवोक्तम् ॥ अराणामयनं न भवतीत्यत्रारविरुद्धा नारा इति पूर्वत्र चानरायण इति स्यादित्यादिचोधं तु 'दोपारच्छिद्रशदाना'मित्यादिव्याख्यावसरे अधिकरणान्ते निरसिप्यते ॥ तस्यायनत्वाद्वेतीति । परमप्रेमास्पदतया वाय्वयनोत्तयैव वायवक्तारत्वादाचार्यस्य मम प्रियतममित्येतन्नारायणमित्यनेन प्राप्तमेवेति भावः । । या. निखि सपूर्णगुणैकदेहं निदो पमिति विशेषणद्वयं लक्षणपरतया व्याख्यातमिदानीं तद- सम्भवपरिहारार्थतयाऽपि व्याचष्टे । यद्वा नारायणस्येति । पदार्थनिर्धारकलक्षणकथनात्मकता पेक्षया पदव्याख्यानरूपत्वस्यान्तरङ्गज्ञापकतामभिप्रेत्याह ।। अथवा नारायण इति ।। सालेतिक इति । शब्द- वृत्त्यभावेऽपीदमनेन शब्देन वाच्यमस्विति कस्यचिदिच्छामात्रेण बोधक इत्यर्थः ॥ विशिष्टगुणानिति अनन्यसाधारणान्धर्मानित्यर्थः । तेन महायोगोऽयमिति सूचयति । नराणामिमे नारा इत्यादिकं तस्येद- मित्यर्थे विहिताण्प्रत्ययव्याख्यानमित्यवगन्तव्यम् । ईयतेऽस्मिन्नित्यधिकरणे व्युत्पन्नस्य ल्युडन्तायनशब्दस्य नपुंसकत्वनियमाभावात्पुल्लिङ्गता न विरुध्यत इत्यग्रे विभावयिप्यति । श्री... विशिष्टगुणान् लोकविलक्षणगुणान् । बाधकव्युदसनतात्पर्यकतयाऽपि पदद्वयं व्याचिख्यासुः कल्पान्तरमुप्रेक्षते ॥ यद्वेति । विशेष्यवाचकपदोपस्थाप्यावधारकलक्षणप्रत्यायकतातस्तत्पदविवरणरूपता ज्यायसीत्यभिप्रेत्य भङ्गयन्तर- मूलाद्यपद्यम् ) ॥ जिज्ञासाधिकरणम् ॥ ४३ मनुसरति । अथवेति । साङ्केतिक: नदीवृद्ध्यादिशब्द इवार्थनिरूपितशक्तिलक्षणान्यतररूपवृत्तिमन्तरेणापि प्रणेतृपरिभाषयार्थप्रतीतिजनकः । रूढिमात्रप्रवृत्तः । प्रकृतिप्रत्ययसमुदायवृत्तिव्यासज्यवृत्तिधर्मावच्छिन्ना- धारताकाभिधावृत्तिनिबन्धनः ॥ विशिष्टेति । असाधारणेत्यर्थः । सु०– अथवा श्रोतृवुद्ध्यनुकूलनाय सकलशास्त्रार्थ सझेपतोऽनेनाचष्टे । विदितसङ्केपा हि प्रपञ्च जिज्ञासवो भवन्ति । तत्र सदा बन्यमिति प्रथमसूत्रार्थोक्तिः । मनोवृत्तेस्तत्प्रवणता हि वन्दनम् । जिज्ञासाऽपि तद्विशेष एव । तस्य जीवादिव्यावृत्तये यद्ब्रह्मेत्युक्तं तस्यार्थो निखि- लेति । तदुपपादनाय द्वितीयसूत्रे लक्षणममिहितम् । तदाह ॥ अस्येति । तृतीयसूत्रेण तत्र शास्त्रं प्रमाणमभिधाय तस्याध्यायशेपेण तद्विपयतोषपादिता । तत्कथनमाप्यतममिति । प्रथमा- ध्यायार्थे शङ्कितदोपनिरासो द्वितीयेऽभिहितस्तमाह ॥ निर्दोपमिति । एवं ब्रह्मस्वरूपे सिद्धे अधिकारिणस्तत्प्रसादसाधनोपायभूततत्साक्षात्कारजननाय वैराग्यभक्तिभ्यामखिलवेदार्थश्रवणादि तृतीये निरूपितम् । तस्यायं संग्रहोऽशेषविशेषतोऽपि प्रियतममाप्यतममिति । ल्यब्लोपनिमित्ता पञ्चमी । अशेपाविषयविशेपान्विहाय ज्ञातव्यतममिति । इयदामननादित्याद्यर्थसूचनं ममेति । प्रसन्नं च तबादृशं पुमर्थ प्रयच्छति तत्स्वरूपनिरूपणं चतुर्थेऽभिहितम् । तदभिधानमाप्यतम- मिति । आप्तिमात्रस्य नित्यसिद्धत्वात्तमपा तो विशिनष्टीति । -एवं शास्त्रार्थव्याख्यानहेतूक्तिपरतया श्लोको व्याख्यातः । इदानीं तु शास्त्रार्थमेवानेना- चष्ट इत्याह ।। अथवेति । श्रोतबुद्ध्यनुकूलनायेत्येतद्विशदयति ॥ विदितेति ॥ मनोवृत्तरिति । मनो. वृत्तिप्रावण्यपूर्वकायिकादिव्यापार एव लोकेऽपि वन्दनव्यवहारात्प्राप्ताप्राप्तविवेकेन तस्यैव वन्दनत्वमिति भावः । पञ्चमीविधाने 'ल्यब्लोपे कर्मण्यधिकरणे चोपसङ्ख्यानमि'त्यतो ल्यबन्तलोपेऽत्र कर्मणि पञ्चमी- त्याह । ल्यब्लोपेति । ( ल्यबन्तस्य गम्यमानार्थत्वादप्रयोगे इत्यर्थः । 'ल्यब्लोपे कर्मण्यधिकरणे चे'ति वार्तिकस्यायमर्थः । ल्यबन्ताप्रयोगे तदर्थे गम्यमाने ल्यबन्तं प्रति कर्मकारकेऽधिकरणकारके च पञ्चमी वाच्येति । प्रासादात्प्रेक्षते । आसनात्प्रेक्षते । प्रासादमारुह्य आसने उपविश्य प्रेक्षत इत्यर्थः । श्वशु- राजिन्हेति श्वशुरं वीक्ष्येत्यर्थः । गम्यमानापि क्रिया कारकविभक्तीनां निमित्तम् । कस्मात्त्वं । नद्याः । ) अत्र प्रथमे नतिस्तुतिरूपोभयविधस्यापि मङ्गलस्यानुष्ठानम् । द्वितीयादिचतुर्यु नतेरेवानुष्ठानं विशेषणानां च कण्ठोक्तनत्युपपादकत्वम् । तत्रापि प्रथमे विशेपणानां नतिप्रयोजकधर्मकथनपरत्वम् । द्वितीये नति- प्रयोजकस्वरूपनिर्धारणार्थकलक्षणपरत्वम् । तृतीये स्वरूपनिर्धारकलक्षणे साधककथनपरत्वम् । चतुर्थे तन्निर्धारके लक्षणे प्रमाणे वा बाधकपरिहारपरत्वम् । षष्ठे तूभयपरत्वेऽप्यस्य पद्यस्य विशेषणानां नारा- चा० ।
॥ न्यायसुधा॥ (अ. १ पा. १ अ. १ यणपदव्याख्यानद्वारैतत्पद्याभिप्रेतस्तुत्यर्थत्वम् । सप्तमे त्वेतत्पद्यतात्पर्यविषयीभूतनतिस्तुतिपरत्वाभावेऽप्येत- त्पद्योक्तनतिविशेप्यनारायणविशेषणानां नतेर्यच्छास्त्रार्थव्याख्यानार्थत्वं तच्छास्त्रार्थसफ़ेपकथनपरत्वमिति पूर्व- पूर्वप्राबल्यक्रमः पक्षाणां द्रष्टव्यः । (प्रथमे द्वितीये तृतीये चतुर्थे इति । द्वितीये तृतीये चतुर्थे पञ्चमे इति क्रमेणार्थो ज्ञेयः पूर्व द्वितीयादिषु चतुर्वितिद्वितीयस्य प्राथम्योक्तेः । ) यद्वा । नतिविशे- प्यनारायणविशेषणानां कण्ठोक्तनत्युपपादकतया सम्भवत्येकवाक्यत्वे न कण्ठतोऽनुक्तस्तुतिपरतया भिन्न- वाक्यत्वं युक्तमिति प्रथमापेक्षया द्वितीयादीनां प्रावल्यम् । तत्रापि नतिविशेप्यनारायणधर्मनस्यत्वप्रयो- जकपरत्वापेक्षया तत्स्वरूपनिर्धारकलक्षणपरत्वं ज्याय इति सर्वविशेषणानां लक्षणपरत्वपक्षस्य प्राबल्यम् । स्वरूपमात्रप्रदर्शकलक्षणमात्रपरत्वापेक्षया निखिलेत्यादिविशेषणचतुष्टयस्य लक्षणपरत्वम् । तल्लक्षणविशिष्टे आप्यतममस्योद्भबादिदमिति विशेषणद्वयस्य लक्षणविशिष्टे प्रमाणपरत्वमाद्यविशेषणद्वयस्य तत्र प्राप्तबाधक- परिहारपरत्वमित्यभिप्रेत्य प्रवृत्तस्य चतुर्थस्य पूर्वापेक्षयोपयुक्तबह्वर्थप्रतिपादकत्वात्ततोऽपि प्राबल्यम् । ( पञ्चमस्येत्यर्थः पूर्ववत् । ) एवमपि स्तुतेरलाभान्नम्यत्वोपपादकस्वरूपनिर्धारकलक्षणप्रमाणतबाधकपरि- हारकतत्तदर्थप्रतिपादकनारायणपदव्याख्यानेन स्तुतेरपि लाभात्तत्प्रतिपादकनारायणपदव्याख्यानेन स्तुतेरपि लाभात्तत्प्रतिपादकषष्ठस्य पूर्वतोऽपि प्राबल्यम् । नमामीत्याद्युक्त्यैव तदुपपादकानां सर्वेषामप्याक्षेपेण लाभसम्भवेन प्रपञ्चजिन सोपयुक्तसङ्गितसकलशास्त्रार्थाकथनप्रयुक्तन्यूनतापरिहाराय विशेषणानां तत्कथन. परन्वं सर्वतोऽपि ज्याय इत्यभिप्रेत्य प्रवृत्तस्यान्तिमस्य सर्वतोऽपि प्राबल्यमिति पक्षाणामुत्तरोत्तरप्राबल्यक्रमो द्रष्टव्यः । स० शास्त्रपरिसमाप्तिकारकमगलोपयुक्तार्थप्रतिपादनापेक्षया शास्त्रार्थकथनमतीवान्तरङ्गमित्या- शयेनाह ।। अथवा श्रोतबुद्धीति । ननु करशिरःसंयोगादेव वन्दनत्वात्कथं वन्द्यमित्यनेन प्रथम- सूत्रार्थजिज्ञासोक्ति रेत्यत आह ॥ मनोवृत्तरिति । कायिकादौ भगवद्विपयकमनोवृत्ति र्वकत्वाभावे न नमस्कारत्वमत आवश्यकत्वाद्भगवद्विषयकमनोवृत्तिरेव वन्दनमिति भावः ॥ तद्विशेष एवेति । तथाच सामान्यशब्दस्य विशेषे पर्यवसानेनो कार्थप्राप्तिरिति भावः । अखिलवेदार्थश्रवणाति । सर्ववेदान्त- प्रत्ययं चोदनाद्यविशेपादि'त्यादौ वेदार्थश्रवणादेरेव निरूपितत्वादेवमुक्तम् । अशेषविशेषतोऽपि प्रियतम- मिति भक्तिक्ता । अशेषात् स्वात्मीयसमस्तवस्तुनो विशेषेण प्रियतममिति । वैरायोक्तिः कथमागते- त्याकाङ्क्षायामाह । ल्यब्लोपेत्यादिना । 'ल्यब्लोपे कर्मण्यधिकरणे च पञ्चमी वक्तव्ये ति वार्तिकादिति भावः ॥ ममेति । इयदामननादित्यत्र प्राणस्य अधिकार्युत्तमत्वकथनाद्भाप्यकारस्य च तदंशावतारत्वात् मूलाधपद्यम् ) ॥ जिज्ञासाधिकरणम् ॥ १५ -- प० ननु बुद्धिचातुर्येण नानाप्रकारेण नारायणपदस्य निर्वचनसम्भवेऽप्येवंरूपेणैव तत्राप्ये- तावद्भिरेव निर्वचनैर्नारायणस्तुतौ न प्रबलहेतुं पश्यामः । श्रोतबुझ्यानुकूल्यादिप्रयोजकस्यैवादाववश्य- वक्तव्यादित्यतो वा 'व्याख्यां करोमी'तिवक्ष्यमाणवर्तमाननिर्देशघटनाय वा योजनान्तरमाह ॥ अथवेति । प्रपञ्चं जिज्ञासव इति । 'सनाशंसभिक्ष उरि'त्युप्रत्ययान्तजिज्ञासुपदप्रयोगे 'न लोकाव्ययनिष्ठाखलर्थ- तृनामिति पष्ठीनिषेधाद्वितीयोक्ता । प्रपञ्चविषयकजिज्ञासावन्तो भवन्तीत्यर्थः ॥ तत्र शास्त्रमिति ब्रह्मशब्दार्थरूपगुणपूर्णत्वे तदुपपादकजगज्जन्मादिहेतुत्वलक्षणे चेत्यर्थः । तेन भाप्ये आद्यद्वितीयसूत्रार्थयोः मध्ये तृतीयसूत्र,र्थोक्तिः । पूर्वो तरयोरन्वयेन द्वयोरपि शास्त्रप्रमाणकत्वसूचनायेत्युक्तं भवति । सन्न्याय- रत्नावली नयचन्द्रिकयोस्तु निखिलेत्यादिविशेपणचतुष्टयं क्रमादध्यायचतुष्टयाथोंक्तिपरमित्युक्तम् ॥ निर्दोषमितीति । एतदपि शास्त्रप्रमाणसिद्धमिति सूचनाय तृतीयसूत्रार्थोक्तेः पूर्व निवेशितमिति भावः । प्रियतमस्यैवाप्यतमत्वात्प्रियतममित्यस्यैवाप्यतममित्यर्थमुपेत्य वा आप्यतममित्यत्राप्यनुवर्तत इति भावेन वा प्रियतममाप्यतममित्युक्तम् । अनुवृत्तिपक्षे प्रियतमत्वाज्ञातव्यमिति हेतुगर्भ बोव्यम् । मनसाऽऽप्य- त्वस्य ज्ञातव्यत्वानतिरेकात् । ननु प्रियतममित्यनेन भक्तेला भेऽप्यशेषेत्यनेन कथं वैराग्यलाभ इत्यत आह् ॥ ल्यब्लोपेति । पञ्चमीविधाने 'ल्यब्लोपे कर्मण्युपसङ्ख्यानमिति वाति के ल्यबन्ताप्रयोगे तदर्थे गम्यमाने ल्यबन्तं प्रति कर्मकारके पञ्चमी वाच्येत्युक्तत्वादिति भावः । तीश्वरज्ञानस्य सर्वसदधिकारि- त्वान्ममेति व्यर्थमित्यत आह ॥ इयदिति । उपासनापादे 'इयदामनना'दित्यधिकरणे उपासनाधिकारिणा- मियदेतावन्मुख्यप्राणावधित्वमेव । 'प्राणो वाव सर्वेभ्यो भूयानि'त्यामननादिति प्राणस्य सर्वाधिकार्युत्तम- त्वोक्तेफ्रन्थकृतश्च प्राणावतारत्वान्ममेति युक्तमित्यर्थः । आदिपदेन 'त इन्द्रियाणि तव्यपदेशादन्यत्र श्रेष्ठा'- दित्यादेः प्राणोत्तमत्वपरस्य परिग्रहः । प्रियतममित्यस्य प्रागाप्यतममिति प्रतिपदं दत्तम् । तदेवानुवदति ॥ आप्यतममिति । नित्यसिद्धत्वादिति । 'अन्तर्वहिश्च तत्सर्व व्याप्य नारायणः स्थित' इत्यादेरिति भावः ॥ तमपेति । अतिशयार्थकतमप्प्रत्ययेन श्वेतद्वीपादिस्थरूपविशेषप्राप्तिरेवेहाप्तिशब्दार्थ इति भावेन तां प्राप्ति विशेषणयुक्तां करोतीत्यर्थः । इतिशब्द आद्यपद्यव्याख्यासमाप्तौ । या० शास्त्रो चादकमङ्गलोपयुक्तार्थप्रतिपादनापेक्षया शास्त्रार्थकथनमतीवान्तरङ्गमित्याशयेनाह ।। अथवा श्रोतृबुद्धीति । ननु करशिरःसंयोगादेरेव वन्दनत्वात्कथं वन्द्यमित्यनेन प्रथमसूत्रार्थजिज्ञासोक्ति- रित्यत आह ॥ मनोवृत्तरिति । तत्प्रवणतेति । मत्तस्त्वमुत्कृष्ट इति स्वावधिकमुत्कर्षविषयकतेत्यर्थः । ततश्च करशिर:संयोगादावुक्तभगवद्विषयकमनोवृत्तिविशेष एव वन्दनम् । तच्च सदा क्रियमाणमुपासना- रूपमेव पर्यवस्यति । अत एव सदेत्यस्यात्रोत्तरत्र चान्वय उक्त इति भावः । नन्वेवमपि बन्दनं न मननात्यजिज्ञासेत्यत आह ॥ जिज्ञासाऽपीति ॥ तद्विशेष एव मनोवृत्तेस्तत्प्रवणताविशेष एव । भग.
वदुत्कविषयकमननरूपमनोवृत्तिावशेष एवात्र विवक्षिताजज्ञासात यावत् । 'सापासना च द्विावध- त्यादिवचनादिति भावः । तथाच सामान्यवाचकेन वन्दनेन तद्विशेषरूपा जिज्ञासा लक्ष्यत इति भावः ।। अखिलवेदार्थश्रवणादीति । 'सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषादि'त्यादिनोपासनापादे सर्ववेदार्थश्रवण- मनननिदिध्यासनानि निरूपितानीत्यर्थः । नन्वशेषविशेषतोऽपि प्रियतममिति भक्तिरुक्ताऽस्तु । अशेषा- स्वात्मात्मीयसमस्तवम्तुनो विशेषेण प्रियतममिति वैराग्योक्तिस्तु कथमागतेत्यपेक्षायामाह ॥ ल्यब्लोपे- त्यादिना । 'ल्यव्लोपे कर्मण्यधिकरणे च पञ्चमी वक्तव्य'ति वार्तिकादिति भावः ॥ ममेतीति । 'इयदामननादि'त्यत्र प्राणस्याधिकार्युत्तमत्वकथनाद्भाप्यकारस्य च तदवतारत्वादिति भावः । श्री०-- श्रोतृबुद्ध्यनुकूलनाय वक्ष्यमाणग्रन्थार्थविषयीकरणाय । प्रपञ्चो विस्तारः ॥ तस्य- जीवादीति । मनोवृत्तिप्रवणतालक्षणजिज्ञासारूपवन्दनस्य जीवादिविषयकत्वव्यावृत्तय इत्यर्थः । ननु कथमनेन वैराग्यस्य साक्षात्कारसाधनत्वं सङ्ग्रहीतमित्यतोऽशेषविशेषत आप्यतममित्येतद्व्याचष्टे । अशेषा- निति । आप्यतममित्यस्यार्थो ज्ञातव्यतममिति । आप्तिरवगतिः । गत्यर्थानां ज्ञानार्थत्वात् । साक्षा- कर्तव्यतममित्यर्थः । प्रियतममिति प्रीतिविषयत्वकथनेन भक्तिरुक्तेति द्रष्टव्यम् । नित्यसिद्धत्वादिति । सुप्तावित्यर्थः । तामाप्तिम् । तमबर्थभूतोऽतिशयो लिङ्गशरीरभङ्गरूपो द्रष्टव्यः । तथा चापरोक्षज्ञाना- नन्तरमचिरादिमार्गेण कार्याकार्यब्रह्मसमीपं प्राप्तैः । कार्यात्यये तद-यक्षेण सह लिङ्गशरीरभङ्गवद्भिः प्राप्यमित्यर्थः । तथाच नाप्तेः सुप्तिसाधारण्यमिति भावः । इतिशब्दः प्रथमश्लोकव्याख्यानसमाप्तौ ।। च० शास्त्रार्थभूननारायणाभिधायकपदविवरणरूपतातः शास्त्रार्थाभिधायकता श्रेयसीत्याशयेन कल्पान्तरमनुधावति ।। अथवेति । स पप्रपञ्चशब्दौ कर्मसाधनधान्तौ सङ्क्षिप्तप्रपञ्चनीयार्थतात्पर्यकौ । भावसाधनघनन्ततामाश्रित्यापि सनाशंसेतिविहितो प्रत्ययान्तसमभिव्याहारे न लोकेति षष्ठी प्रतिषेधाल्सुपो धात्विति लुप्तद्वितीयोपस्थापिता या प्रपञ्चनक्रियाविशेषितकर्मता तन्निरूपकजिज्ञासाश्रया इति व्याचख्युः । कर्मसाधनकृत्यप्रत्ययान्तवदितिनिर्देशेन प्रथमसूत्रार्थाभिहिति सङ्घटयति ॥ मनोवृत्तेरिति । तत्प्रवणतेति स्वाबधिकभागवतोत्कर्षविषयकतेत्यर्थः । तथाच करशिर:संयोगादौ तादृशोत्कर्षविषयकमनोवृत्तिपूर्वकत्व- प्रतिसंधानाभावदशायां ल्युडन्तवन्दतिनिर्देशाभावेन 'नागृहीतविशेषणा धीर्वि शिष्टमवगाहत' इति न्यायेन विशेषणीभूतावश्यकतादृशमनोवृत्तिविशेष एव वन्दतिनिर्देश्यतोपेयत इति भावः । तद्विशेष एवेति । तथाच वन्दत्यभिधेयचेतोवृत्तिविशेषस्य यदुपादानं तदुपादेयत्वसम्बन्धाद्वन्दतिना जिज्ञासा लक्षणया प्रत्याय्यत इति भावः । तस्यासम्भाव्यसम्भावकतापन्नलक्षणद्वयवैशिष्टयस्य । अध्यायशेषेणेति । समन्वयनयमारभ्यान्यायसङ्गत्यूरीकृतेरिति भावः । तद्विषयता शास्त्रनिरूपितविषयता । वैराग्यावगम- गुरुप्रणामविचारः) ॥ जिज्ञामाधिकरणम् ॥ ८५ वा० -- कतामपि सङ्गमयति । ल्यब्लोपेत्यादि । श्वशुराज्जिहति प्रासादात्प्रेक्षन इत्याद्यनुरोधन ल्यब्लोपे कर्मण्यधिकरणे चोपसङ्ख्यातत्वात्पञ्चम्या इति भावः ॥ ममेति । तादृप्येण भाष्यकृतोऽवर्णिल्या- दिति भावः । सप्तकल्प्यां पूर्वपूर्वप्राबल्यक्रम उत्तरोत्तरप्राबल्यक्रमो वा निरन्धा-तरदिशाऽवसेयः । अनु. तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसेव ।। विशेषतो मे परमाख्यविद्याव्याख्या करोम्यन्वपि चाहमेव ॥ २ ॥ नारायणप्रणामस्येव गुरुप्रणामस्याप्यभिमतसिद्मङ्गतया कार्यारम्भेऽनश्यमनुष्ठेय- स्वात्तदाचरणपुरःसरं ब्रह्ममीमांसाशास्त्रव्याख्यानं समर्थयमानः पतिजानीते ॥ तमेवेति । तं पूर्वप्रणतं नारायणमेव । अन्धपि पुनरपि प्रणल्य भक्त्यायुपेततालक्षणेन प्रकर्येण नत्वाऽहं पर- माख्यविद्याया ब्रह्ममीमांसाशास्त्ररूपाया व्याख्या करोमीति सम्बन्धः । वर्तमानसामीप्यान- मानव्यपदेशः । सनेपतो व्याख्यानस्य प्रक्रान्तत्वाद्वा । द्वितीयपद्यस्य सूत्रव्याख्यानत्वभ्रान्ति वारयन्नेव तत्प्रतिपाद्यं सहेतुकमाह ॥ नारायणति । सूत्रव्याख्यानकरणस्य परमाख्यविद्याव्याख्यां करोमीति प्रतिज्ञानेनासङ्गतिशङ्कां निराकुर्वन्नन्वपीत्यस्योभयत्र सम्बन्धमभिप्रेत्य व्यवहितत्वात्सम्बन्धं च दर्शयति ॥ तमित्यादिना । वर्तमानेति । 'वर्तमानसामीप्ये वर्तमानवद्वे'तिसूत्रे चातुर्वर्ष्यादिसिद्ध्यर्थ स्वार्घिकप्यज्ञापकः प्यजन्तः सामीप्यशब्दः। ( 'वर्तमानसा- मीप्ये वर्तमानवद्वा' । समीयमेव सामीप्यम् । स्वार्थे प्यञ् । 'वर्तमाने लडि'त्यारभ्यो'णादयो बहुल. मिति यावत् येनोराधिना प्रत्यया उक्तास्तथैव वर्तमानसमीपे भूते भविप्यति च वा म्युः । कदा आगतोऽसि । अयमागच्छामि । अयमागमम् । कदा गमिप्यसि । एष गच्छामि । गमिप्यामि वा । येनोपाधिनेति । तथा हि । पूङ्यजोः शानन्विहितः स ताभ्यामेव न तु धात्वन्तरात् । तच्छीलादि. विशिटे कर्तर्यलंपूर्वत्कृञ इप्णुजुक्तः सोऽपि तस्मित्रुपाधौ सत्येवेत्यादि । कदाऽऽगतोऽसीति भूतकालेन प्रश्नवावयमुदाहरणे भूतकालाभिव्यक्तये । एवं कदा गमिप्यसीत्यत्राप्यूह्यम् । उदाहरणयोरयमेष इति पदाभ्यामागमनाविनाभूतं प्रस्वेदपरिकरबन्धादियुक्तं तप्रतिनिर्दिश्यते । इदानीमागमनमिति 'ध्वनयितुं तेन कदेति प्रश्न प्रत्यार्थिकमुत्तरं सङ्गच्छते । सामीप्यं च द्योतितं भवति । आक्षेपेणोपपत्तिमाश्रित्य प्रत्याख्यातमिदमाकरे। :) तथा च वर्तमानसमीपे भूते भविष्यति चार्थे वर्तमानााद्धातोर्वर्तमाने लडित्या- रभ्य यावदुणादयो बहुलमिति विभाषया वर्तमानवत्प्रत्यया भवन्तीति सूत्रार्थनिप्पत्त्या वर्तमानसमीपे भविष्यति करोमी.ते लडित्यर्थः । एतच्च प्रतिपत्तिविशेषानाश्रयणेनाद्यपद्यपूर्वव्याख्यानपटकपक्षे । अन्यथा गच्छामीत्यादेवर्तमानार्थत्वेऽपि कालान्तरस्य प्रश्नवाक्यबललभ्यत्वेन वाक्यकालस्य पद- ४८ ॥ न्यायसुधा ॥ (अ. १ पा. १ अ. १ । संस्कारेऽनुपयोगेन न तत्र वर्तमानवत्प्रत्यया इति विशेषप्रतिपत्तारं प्रत्येतत्समाधानस्यासम्भवात् । न च प्रकृते तादृशप्रश्नवाक्यस्याभावान्न तद्वलेन कालान्तरलाभ इति वाच्यम् । अत्रापि प्रश्नवाक्याहरणस्य वक्तर्यावश्यकत्वादिति द्रष्टव्यम् । अन्तिमव्याख्यानानुरोधेनाह ॥ सङ्केपत इति ॥ प्रक्रान्तत्वादिति । प्रारब्धत्वादित्यर्थः । प०-- गुरुनतिवैयर्थ्यमाशङ्कयाह ॥ नारायणेति ।। अभिमतेति । 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौं । तस्यैते कथिता द्यर्थी' इत्युक्तेरिति भावः । परमाख्यविद्येत्यस्य व्यर्थतां निराह । ब्रह्ममीमांसेत्यादि । नन्वोतत्ववाचीत्यादिनैव सूत्रव्याख्यानस्य करिष्यमाणत्वात्ततः पूर्वग्रन्थस्य शास्त्रस्य व्याख्येयतोपयुक्तप्रमेयप्रतिपादनपरत्वात्करिप्यामीत्येव प्रयोक्तव्यं न तु करोमीति । लडन्तस्य 'वर्तमाने लडि'ति सूत्रेण प्रारब्धापरिसमाप्तिक्रियोपलक्षिते काले विवक्षिते लट् भवतीत्युक्त्या भविष्यदर्थावाचित्वा- दित्यत आह ॥ वर्तमानेति । 'वर्तमानसामीप्ये वर्तमानवद्वे'ति सूत्रादिति भावः । वर्तमानव्यपदेशे हेत्वन्तरमाह ॥ सद्धेपत इति । श्रोतृवुझ्यनुकूलनायेत्यादिना पूर्वोक्तप्रकारेणेत्यर्थः ।। श्री० प्रक्रान्तत्वादिति । प्रथमश्लोकेनेत्यर्थः । सङ्केपतः सकलशास्त्रार्थनिरूपणतया प्रथमश्लोकस्य व्याख्यातत्वादिति भावः । ----- - -- च० अथाद्यसूत्रावयवव्याख्यारूपोतत्ववाचीत्यादिप्राक्तनग्रन्थस्य सूत्रव्याख्येयतासमर्थनीप- यिकप्रमेयप्रतिपादनतात्पर्यकतया भविष्यदर्थकप्रत्ययप्रयोगस्यैवौचिती न प्रारब्धापरिसमाप्तक्रियोपलक्षित- कालविवक्षानिबन्धनवर्तमानार्थलट्प्रयोगस्येत्यत आह । वर्तमानेति । बीजान्तरमभिधत्ते । सङ्केपत इति । श्रोतृवुद्धीत्यायुक्तदिशेति भावः । सु०- ननु प्रणतस्य पुनः प्रणामः किमर्थः । नहि प्रणामावृत्तिविनविघातादिहेतुरि- त्यत्र नियामकमस्ति । भावे वा पूर्वश्लोक एव बहुशः सन्नमामीति वक्तव्यम् । मैवम् । गुरु- त्वेनात्र प्रणामाचरणात् । कथं नारायणस्य गुरुत्वमित्यत आह ॥ शास्त्रप्रभवमिति । शास्त्र- शब्देन प्रकृतत्वाब्रह्ममीमांसाशास्त्रं वेदादिकं चोच्यते । प्रभवत्युत्पद्यते प्रथममुपलभ्यते वा यस्मात्सः प्रभवः । यथासम्भवं शास्त्रस्य प्रभवः शास्त्रप्रभवस्तम् । यो हि यच्छास्त्रे प्रवर्तते तस्य तत्प्रभवो गुरुरिति प्रसिद्धमेव । प्रकृतशास्त्रसम्प्रदायप्रवर्तकत्याच नारायणस्य गुरुत्वमित्याह ।। जगद्गुरूणामिति । जगत एतच्छास्त्रप्रवक्तृणां ब्रह्मादीनामञ्जसा मुख्यतया न तु क्योऽधिकत्वा- दिमात्रेण गुरुम् । अस्य शास्त्रस्य प्रवक्तारमिति यावत् । प्रकारान्तरेण गुरुत्वं नारायणस्य गुरुप्रणामविचारः) ॥ जिज्ञासाधिकरणम् ॥ समर्थयते ॥ विशेषत इति । गुरुमिति वर्तते । विशेषत इति साक्षादुपदेष्टुत्वेन न तु जगत इन परम्परया । अत्र यदि शास्त्रप्रभवमियायेवोच्येत तदा पृथक्प्रणामेन देवताया गुरोश्च पार्थक्यशङ्का स्यात् । तदर्थं तमेवेत्युक्तम् । न चैवं पृथक् प्रणामानुपपत्तिः । निमि- तद्वयसमावेशे नैमित्तिकविलोपनियमाभावात् । शिष्पशिक्षाथै चैतद्न्थे निवेशनम् । शिष्याणां चास्ति गुरुदेवताभेदः । तदपेक्षयैव जगद्गुरूणामित्युक्तम् । अन्यथा विशेषतो म इत्युक्तमयुक्तं स्यात् । वा० -- अत्र शास्त्रप्रभवमित्यादिविशेषणानां प्रणामप्रयोजकत्वं प्रतीयमानं साक्षान्न सम्भवतीति गुरुत्वमुखनैव तदित्यभिप्रेत्य गुरुत्वविवक्षाया आवश्यकत्वं दर्शयितुं शङ्कामुत्थापयति ॥ नन्निति । ननु श्रेयांसि बहुविघ्नानीत्यतो विघ्नानां बहुत्वाद्विघ्नसमसङ्ख्यमङ्गलस्यैवाभिमतसिद्ध्यङ्गत्वात्तदावृत्तियुक्तेत्यत आह । भावे वेति ।। प्रकृतत्वादिति । अखिलेः सुवाक्यरित्यनेनेत्यर्थः । उभयत्रोभयान्वयभ्र.न्ति निवारयति ॥ यथासम्भवमिति । अत्र प्रवर्तत इत्युक्ता प्रवृत्तिर्वक्ष्यमाणरीत्या पुरुषार्थसाधनेच्छाप्रयत्नलक्षणा द्रष्टव्या अतो न कश्चित्क्षुद्रोपद्रवः । सम्प्रदायप्रवर्तकत्वं यथैतद्विशेषणलब्धं तथाऽऽह ॥ जगत इत्यादिना ॥ निमित्तसमावेश इति । 'तत्र विप्रतिधाद्विकल्सः स्यादिति षष्ठाधिकरणे प्रतिहगात्रोयुगपदपच्छेदे प्रतिहत्रपच्छेदनिमित्तकसर्ववेतसदानस्योद्धात्रपच्छेदनिमित्तकस्यादक्षिणतद्यज्ञसमाप्त्यन तरानुष्ठीयमानपुर्यागे पूर्वदेयदानस्य चैकस्मिन्नव प्रयोगे विरुद्धतयाऽसम्भवादुगात्रपच्छेदनिमित्तकपुनर्यागे सर्ववेतसदानेनोभय- सम्भोऽपि प्रयोगान्तरे क्रियमाणे प्रायश्चित्तनिमित्तवत्प्रयोगसाद्गुण्यासम्भवेनाशवयतया विकल्पोक्तावपि 'प्रत्यक्षोपदेशाच्चमरिनामव्यक्तः शेष' इति तृतीयाधिकरणे समाख्याया वपटकारस्य होमाभिषदयोश्चेत्येषां भानिमित्तानां समवायेऽवयवशश्च सर्वैभक्षः प्रतिपत्तिसम्भवेन बाधायोगात्समुच्चय एवेत्याश्रितत्वाज्जीवना- दिनिमिरैपयेऽपि तदावृत्तिमात्रेण नैमित्तिकदर्शपूर्णमासाद्यावृत्तेस्तेषामौत्पत्तिकत्वादागमेन प्रवर्तेतेति षष्ठा- धिकरणे प्रतिपादितत्वेन निमित्तभेदे नैमित्तिकसमुच्चयस्य कैमुत्यसिद्धत्वाच्च प्रकृतेऽप्युभयसम्भवेन समुच्चयो युक्त इत्याशयः । एवं गुरुदेवतैक्येऽपि पृथक्प्रणाममुपपायेदानी शिष्याणां गुरदेवताभेदाद् अन्थे निवेशनस्य च तच्छिक्षेकप्रयोजनकत्वाद्युक्तं पृथग्गुरप्रणामस्य निवेशनमित्याह ॥ शिष्येति । अत्र शि-याणां गुरुदेवताभेदविवक्षायां भाप्यकारीयं ज्ञापकमाह ॥ तदिति । जगद्गुरूण मित्युक्त सम्प्रदाय- प्रवर्तकत्वं शिप्यानपेक्ष्यैव न स्वात्मानमित्यत्रापि तदीयं नियामकमाह ॥ अन्यथेति । स० यथासम्भव मिति । वेदस्योपलम्भकत्वेन मीमांसादेरुत्पादकत्वेन प्रभव. इत्यर्थः ।।. जगत इति । सज्जनसमुदायस्येत्यर्थः । न चैव पृथकप्रणामानुपपत्तिरिति । ननु कथमियमाशङ्का ।
॥ न्यायसुधा ।। (अ. १ पा. १. १ गुरुत्वेनात्र प्रणामाचरणादिति समाहितत्वादिति चेत् न । गुरुत्वदेवतात्वरूपनिमित्तद्वयसमावेशेऽपि न तन्निमित्तकप्रणामद्वयं युक्तम् । प्रतिहर्बुद्वात्रोर्युगपदपच्छेदे तन्निमित्तयोः सर्वत्रेतसदानादाक्षिण्ययागयो- विकल्पस्यैवोक्तेः । तथैकस्मिन्नेव दिने संक्रमणध्यतीपातसमावेशेऽपि तन्निमित्तकश्राद्धयाभावादिति शङ्कितुरभिप्रायात् । नैमित्तिकविलोपनियमाभावात् । प्रकृतेऽपि निमित्तद्वयप्रकृतप्रगामद्वयोपपत्तिरिति भावः । ननु यत्रोभयोरेकनिष्पाद्यस्यापरेण निप्पत्तिस्तत्र विलो नियमस्यैव यत्र चापरेणापरनिप्पाद्यस्या- निप्पत्तिस्तत्राविलोपनियमस्यैव सत्त्वेन प्रकृते देवताप्रणामनिष्पाद्यस्य गुरुप्रगामनिप्पाद्यस्य वाऽन्यतरेणा- निष्पत्तौ सर्वत्र पृथक्प्रणामस्यावश्यकत्वापत्या तन्निप्पत्तौ त्वेकत्रापि कर्तव्यत्वापत्या दृष्टान्तदाान्तिक- योवैषम्यमित्यतः युक्त्यन्तरेण गुरुप्रणामस्य पार्थक्येन कर्तव्यत्वं साधयितुमाह ॥ शिष्यशिक्षायै चेति । तथा च शिष्यापेक्षयैव मङ्गलस्य ग्रन्थे निवेशनात् शिष्याणां च गुरुदेवतयोर्भेदेन तइपेक्षया नारायण- प्रणामकरणपूर्वकं गुरुप्रगामकरणनिवेशनमुपपन्नमिति भावः । नन्तत्पृथक् गुरुप्रणामनिवेश, शिप्या- पेझयेत्यत्र किं भाष्यकारीयं ज्ञापकमित्यत आह ॥ तदपेक्षयैवेति । जगद्गुरूगां गुरुमिति उक्तम् । परम्परोपदेशक वस्यापि स्वापेक्षयैव सम्भवान्न शिप्यापेक्षाज्ञापकत्वमिति तत्राह ॥ अन्यथेति ॥ यदि जगद्गुरूणामप्युक्तपरम्परोपदेशकत्वं स्वापेक्षयैव स्यात्तदा विशेषतो मे गुरुमित्युक्तमयुक्तं स्यात् ॥ तद्विशे- पणेन स्वं प्रति साक्षादुपदेतृत्वेनैव गुरुत्वं न तु परम्परयेति परम्परया गुरुत्वस्य निवारणात् । अन्यथा विशेषणद्वयस्य परस्परविरोधापातादिति भावः । अन्ये तु पृथप्रणामनिमित्तान्तरमाह || शिष्यशिक्षायै चेति । तदपेक्षथैव ॥ शिष्याणां गुरुदेवताभेदप्रदर्शनापेक्षयैव ॥ अन्यथा स्वस्येव शिप्यागामपि गुरुदेवतयोरभेद(प्रसङ्ग) इत्याहुः ।। यद्वा ननु शिष्याणामित्र स्वात्मनोऽपि जगद्गुरूगामिति गुरुर्देवता- भिन्न एवोत्तम स्वस्यापि जगढन्तःपातित्वादतो विरोध इत्यत आह ॥ तदपेक्षयैवेति । शिप्यापेक्ष- यैवेत्यर्थः । स्वात्मापेक्षयापि किं न स्यादित्यत आह । अन्यथेति । अन्यथा जगच्छब्देन स्वात्मनोऽपि ग्रहणे विशेषतो मे गुरुमित्यनेन साक्षाद्गुरुत्वोक्तेः न स्वात्मापेक्षया तदिति भाव इत्याहुः ॥ प्रकृतत्वादिति । सुवाक्यरित्यनेनेति भावः । पौरुषेयानुरोधेनाह ।। उत्पद्यत इति । अनादिवेदाभिप्रायेणाह ॥ प्रथममिति । 'ऋदोरबि'तिसूत्रे ऋवर्णान्तादुवर्णान्ताच्चाप्प्रत्ययो भवति कर्तृ- भिन्नकारक इत्युक्तेरिति भावः । 'भुवः प्रभव' इति पञ्चमीविधानाद्यस्मादित्युक्तम् । कथं गुरुत्वमित्यस्य कथमनेन निरास इत्यत आहू || यो हीति । जगतः साधुवर्गस्य । मानस्तेनेभ्य इत्यादेः । गुरूगा- मित्यस्यार्थ एतच्छास्त्रप्रवक्तणामिति । उक्तं हि दशमतात्पर्ये । 'गुरुर्बाऽस्य जगतो दैवं विष्णु रित्यादि। वक्ष्यति चात्राप्युपासनापादे 'गुरुर्ब्रह्माऽखिलानां चेत्यादि । 'कर्तृकर्मणोः कृतीति कर्मणि षष्ठी । गुरु- मित्यस्यार्थः अस्येति । प्रागुक्तपौरुपयापौरुषेयग्रन्थस्येत्यर्थः ॥ साक्षादुपदेष्टुत्वेनेति । तथाचोक्तं मध्व- प०- - ।
H81.. गुरुप्रणामविचारः) ॥ जिज्ञासाधिकरणम् ॥ ५१ विजये । 'इतिहाससुन्दरपुराणसूत्रसत्प्रियपञ्चरात्रनिजभावसंयुतम् । अशृणोदनन्तहृदनन्ततोऽचिरादि'- त्यादि । परन्परया ब्रह्मादिद्वारा । गुरुत्येनात्र पुनर्नतिरिति पूर्व समाधाने उक्तेऽपि लोके क्वचिदेकत्र पितृत्वस्योक्तरूपगुरत्वस्य च सवेऽपि तदुभयनिमित्तका त्यादिक्रियाऽऽवृत्तरदर्शनाच्छङ्कते ॥ न चेति । अन्यथा पितृ-वस्वामित्वादिनिमितापि नतिः कार्येति शङ्काभिप्रायः । परिहारस्य तु, सत्यमेवम् तथापि क्वचिसत्रादौ ऋत्वि स्वयजमान योभयनिमितकक्रियानुष्ठानस्यापि हस्तथा ज्योतिराफाशादिशब्देप्वप्यन्य- प्रसिद्धत्वाद्यनेकनिमित्तकविचारक्रियायाश्च दर्शकीनामाग्नेयादीनां तिसृगामेककाले समावेशेन तन्निमि- त्तकानां प्रयाजा सकृदनुष्ठानेऽपि दर्श एव सांवत्सरिकप्राप्तौ दार्शिकस्य सांवत्सरिकस्य च श्राद्धस्य करण- वदिहाभ्यर्हितत्वाद्देवतात्वगुरुत्वरूपनिमित्तद्वयसमावेशेऽपि नैमित्तिकस्य नमजस्य तत्प्रीत्यतिशयार्थं पुनरनु- ष्ठानोपपत्तरिति भावः । तर्हि मनसैव कार्य किं ग्रन्थे निबन्धनेनेत्यत आह || शिष्येति । ग्रन्थे तन्नि- वेशः च शिप्यशिक्षार्थम् । अस्माभिरपि देवतानतिर्गुरुन्नतिश्च कार्येत्येवं शिष्याणां बुद्धयुत्पादनद्वारा तद- नुष्ठानाय । 'यद्यदाचरति श्रेष्ठ' इत्यादेः । नन्वस्तु तेषामपि देवतानतिरेव तस्या एव गुरुत्वादित्यत आह ॥ शिष्याणां चेति । शिष्याणां गुरुदेवता भेदात्तैः पृथङ्नतिः कार्येति शिष्यशिक्षार्थमे तन्निवेशन- मिति कथं ज्ञातव्यमित्यत आह ॥ तदपेक्षयैवेति । शिष्याणां गुरुदेवताभेदापेक्षयैवेत्यर्थः । जगद्गुरूणां गुमिन्युक्तावपि जगत्प्रति साक्षाद्गुरुत्वं किं न स्यादित्यत आह ॥ अन्यथेडि.V.ONEETogssed विशेषतः साक्षान्मे गुरमित्येतदयुक्तं स्यात् । साक्षात्वबोधकस्य विशेषत इति पदलातायावाभावात् । मे गुरुमित्येतावतैव सिद्धत्वात् । तेन ज्ञायते जगच्छब्दितशिप्याणां ब्रह्मादयो इति शिष्याणां गुरुदेवताभेदज्ञापनमस्य फलम् । तेन च तैः पृथङ्नतिः काति, शिक्षार्थमेव निवेदन- 25103 जगत इति । सज्जनसमुदायस्येत्यर्थः ॥ नचैवं पृथप्रणामति । ननु कथमिय- माशङ्का 'गुरुत्वेनात्र प्रणामाचरणादिति समाहितत्वादिति चेन्न । गुरुत्वदेवतात्वरूपनिमितद्वयसमावेशे अपि न तन्निमित्तकप्रणामद्वयं युक्तम् । प्रतिहदात्रोर्युगपदपच्छेदे तनिमित्तयोः सर्ववेतसदानादाक्षिण्ययोः विकल्पस्टै वोक्तत्वेनैकस्मिन्प्रयोगे तदुभयानुष्ठानाभावात् । तथैकस्मिन्नेव दिवसे सङ्क्रमणव्यतीपातरूप- निमित्तद्वयसमावेशे तन्निमित्तकश्राद्धद्वयाभाववदिति शङ्कितुरभिप्रायः ॥ नैमित्तिकविलोपेति । अमा- वास्यायाः सांवत्सरिकश्राद्धदिनत्वे तदुभयनिमित्तकश्राद्धद्रयस्यापि विहितत्वेन निमित्तद्वयसमावेशे नैमित्ति- कद्धयविलोपनियमाभावादित्यर्थः । तथाच तद्वत्प्रकृतेऽपि निमित्तत्तिरिति भावः । नन्वेवं पृथक् प्रणामस्य नावश्यंकर्तव्यतेत्यतस्तत्र निमितान्तरमाह शिष्यशिक्षाय घो। अत्र निवे- शनानुमितं प्रणामाचरणमपि ग्राह्यम् । तस्याप्युक्तरीत्या शिप्यरित्यासी नासरित्यवधेयम् । नाराण मिति । या ॥ न्यायसुधा ॥ च०. - तदपेक्षयैव । शिष्याणां गुरुदेवताभेदापेक्षयैव । अन्यथा । स्वस्येव शिष्याणामपि गुरुदेवतयोरभेदे । यद्वा ननु शिष्याणामिव स्वात्मनोऽपि जगद्गुरूगामिति गुरुर्देवताभिन्न एवोक्तः । स्वस्यापि जगदन्तःपातित्वात् । अतो विरोध इत्यत आह ।। तदपेक्षयैवेति । शिप्यापेक्षयैवेत्यर्थः । स्वात्मापेक्षयाऽपि किं न स्यादि- त्यत आह ॥ अन्यथेति । अन्यथा जगच्छब्देन स्वात्मनोऽपि ग्रहणे । श्री ननु न देवताप्रगामो व्यसनितया क्रियते । किन्तु विघ्नविघातादिप्रयोजनोदेशितया । न प्रणामावृत्तिरेव विघ्नविघातहेतुरतः प्रणतस्यापि पुनः प्रणामोऽयुक्त एवेत्यत आह ॥ न हीति ।। गुरुत्वेनेति । निरूपकतयाप्रणामान्वयि हेतुत्वं तृतीयाऽर्थः । यस्मात्स प्रभव इति 'ऋदोर बित्यनुशिष्टाप्प्रत्ययस्य कर्तृभिन्नकारकसामान्यार्थकत्वस्याकरे व्यक्ततया 'भुवः प्रभव' इति सूत्र- विहितपञ्चम्युपस्थाप्यापादानार्थताया निर्वाधत्वादिति भावः । जगतः योग्यचेतनसङ्घातस्य । प्रकृत्यर्थ- जगदन्धितषष्ठीप्रत्यायितसम्बन्धितापन्नानां लुप्ततत्वपदप्रकृतिकषष्ठ्यर्थकर्मतानिरूपको प्रदेशनक्रियाकर्तृणामिति अर्थः । परस्परविरहसमानाधिकरणतया प्रतीतपितृत्वस्वामित्वरूपनिमित्योरेकत्र समावेशेऽपि तनिमित्तक- नतिभेदाभावेन प्रतिहतुरुगातुश्च युगपदपच्छेदे तन्निमित्तकसर्ववेतसदानादाक्षिण्ययोरेकप्रयोगानुष्ठानासम्भवेन तद्विकल्पस्यैवो क्या प्रकृतेऽपि देवतात्वगुरुत्वरूपनिमित्तभेदेऽपि तन्निमित्ता नतिरेकैवास्त मित्याशयेनाशङ्कते।। न चैवमिति । समाधत्ते । निमित्तद्वयसमावेश इति । ज्योतिराकाशादिशब्देषु अन्यत्रोभयत्रान्यत्रव प्रसिद्धत्वरूपसमाविष्टनिमित्तभेदाधीनस्य प्रथमतृतीयतुरीयचरणनिवेशनस्य कचित्सत्रादौ ऋत्विन्यजमानो. भयनिमित्तकक्रियानुष्ठितेश्च दर्शनेन प्रकृतेऽपि देवतात्वगुरुत्वरूपनिबन्धनभेदनियन्त्रिततत्कार्यभूतप्रणामभेदः सङ्गच्छन इत्याशयः । गुरुदेवतानत्युभयधर्मिकस्वविधेयत्वप्रकारकासन्निहितविनेयाधिकरणकानुसंहित्युत्पा- दनफलितारूपबीजान्तरं दर्शयति ॥ शिष्येत्यादि । तदपेक्षया विनेयापेक्षया ।। अन्यथा । स्वात्मनोऽपि इतरतुल्यकक्ष्यापन्नतया गृहीते । सु०--स्यादेतत् । अथातो ब्रह्मजिज्ञासेत्यादिकं ग्रन्थं व्याख्यातुमयं देवतादिप्रणामः । न चायं व्याख्यातव्यः । अर्थविवक्षापूर्वकस्यैव पौरुषेयवाक्यस्य व्याख्यातव्यत्वात् । न हि मातृकामात्रव्याख्याने प्रेक्षावान्प्रवर्तते । न चास्यार्थविवक्षापूर्वकत्ये मानमस्ति । प्रणयन- मात्रस्य व्यभिचारित्वात् । प्रेक्षावत्प्रणयनस्य चानिश्चयात् । निश्चये वा विपहरमन्त्रस्येव जपा- दिनाऽभ्युदयसिद्धये निर्माणोपपत्तेः । गृहीतसङ्गतेरर्थप्रतिभासो हि विषहरमन्त्रेऽपि समानः । न चार्थविवक्षापूर्वकत्वमात्रेगोपादेयतया व्याख्यानं युक्तम् । विप्रलम्भकादिवाक्यव्याख्यान- प्रसङ्गात् । किं नाम याथार्थं च सति । न चास्य याथार्य मानमस्ति । तद्भावेऽपि तथाविध- वाक्यान्तरपरित्यागेनास्यैव व्याख्याने कारणं वक्तव्यमित्याशङ्कानिरासाय परमाख्यविधेत्युक्तम् ।
५३ व्याख्यातव्यतासमर्थनम् ) ॥ जिज्ञासाधिकरणम् ॥ वा० व्याख्या समर्थयमान इत्युक्तं परमाख्यविधेत्यंशस्य व्याख्यासमर्थनरूपत्वं घटयितुं तन्निवां शङ्कामुत्थापयति ॥ स्यादेतदिति । नायं ग्रन्थो व्याख्यातव्योऽर्थावबोधोद्देश्यकत्वशून्यत्वान्मा- तृकादिवदिति विवक्षितानुमाने वेदवदस्याप्यर्थावबोधोद्देश्यकत्वादरि द्धिरित्याशङ्कायां वेदस्य फलवदर्थावबो- धपर्यन्तस्वाध्यायाध्ययनविधिनाऽर्थावबोधोद्देश्यकत्वसिद्धावपि पौरुपयेऽर्थावबोधोद्देश्यकत्वतदभावयोर्मन्वादि ग्रन्थमातृकामात्रयोईष्टत्वेन नात्र वेदवदर्थावबोधोद्देश्यकत्वसिद्धिरित्यभिप्रायेणोत्तरवाक्योक्तस्य पौरोय- वाक्येत्यंशस्य समर्थनाय प्रसक्तिमाह || अथात इति ॥ अथमिति । प्रकृतः पौरुषेय इत्यर्थः । अर्थ- विवक्षापूर्वकत्वं चार्थावबोधोद्देशकत्वं वेदादिसाधारणमभिमतं न तु तद्व्यावृत्तं ववतृविवक्षापूर्वकत्वम् । परिहारग्रन्थानानुगुण्यापत्तेः । अत्र व्यतिरेकदृष्टान्तो मन्वादिग्रन्थोऽभिमतः । विपक्ष बाधकमुखनान्वय- दृष्टान्तमाह ॥ न हीति । हेत्वसिद्धि परिहरति ॥ न चेति ॥ व्यभिचरितत्वादिति । वर्णसमा- नायरूपे मातृकामात्र इति शेषः ॥ अनिश्चयादिति । तथा च सन्दिग्धासिद्धिरिति भावः । ननु 'भगवान्पुरुषोत्तमः । अवतीर्णो महायोगी सत्यवत्यां पराशरात्' इत्याद्यागमादेव प्रणेतुः प्रेक्षावस्त्वनिश्चय इत्यतो विशिष्टहेतोरपि प्रेक्षावत्प्रणीतेऽर्थावबोधोद्देशशू ये विपहरमन्त्रे व्यभिचारः । तद्वदेव च प्रकृत- साध्याभावेऽपि जपादिनाऽभ्युदयसिद्धये प्रेक्षावन्प्रगयनोपपत्तेरन्यथासिद्धिश्चेत्याशयेाह ॥ निश्चये देति । ननु हेत्वन्तरासम्भवेऽपि प्रकृतग्रन्थादर्थावभासादेव तस्यार्थावबोबोद्देश्यकत्वरि-द्धिरित्यतो गृहीतसङ्गतेरर्थाव- भासाभावाद्गृहीतसङ्गतेरावभासस्य समवेतार्थाप्रतिपादकत्वेनार्थावबोधोद्देश्यकत्वशून्यतयोभयसम्प्रतिपन्ने विपहरमन्त्रेऽपि सत्त्वेन पूर्वोक्तदोवद्वयानतिवृत्तिरित्याशयेनाह ।। गृहीतसङ्गोरिति । एवं विद्याशब्दार्थ- तयाऽभिमतयथार्थज्ञानसाधनतान्तर्गतार्थज्ञानसाधनतांशनिवां शङ्कामुन्थाप्य ब्रह्मसूत्रेभ्यः उपयुक्तार्थप्रति- भासनेन विषहरमन्त्रवैषम्यात्पुनस्तस्यार्थवित्तय इत्याद्यागमाच्चादिबोवोद्देश्यकता स् िद्धिरित्याशङ्कायां तथापि सिद्धान्त्यभिमतमुपादेयतया व्याख्यानं तत्प्रयोजकाभावान्न सम्भवतीत्येवंरूपां विद्याशब्दार्थान्तर्गत- यथार्थाशनिवां शङ्कामुत्थापयति ॥ न चेति । बोधकस्य सतो बाधकाभावे प्रामाण्यस्य स्वतः सिद्ध- त्वारिक तत्र प्रमाणान्तरगवेषणयेत्यतः परशब्दव्यावर्त्याशङ्कामुत्थापयति ॥ तद्भावेऽपीति । स्यादेतदिति । प्रमाणभूतस्यैव व्याख्येयत्वात् ब्रह्मसूत्राणां पौरुषेयत्वेन वेदानपेक्ष- प्रामाण्याभावादित्याशयः । पौतयाणामपि प्रमाणत्वं व्याख्येयत्वं च दृष्टमित्यतो विमतमव्याख्येयं अर्थविवक्षापूर्वकल्वरहितत्वे सति पौरुषेयवावयत्वादित्यनुमानेन तत्साधयन् यदव्याख्येयं न भवति तत् विवक्षापूर्वकत्वरहितत्वविशिष्टपौरुषेयवाक्यत्वरहितं इति व्यतिरेकं मनसि निधाय तद्राहित्यस्य च पौरपेय- वाक्यत्वरूपविशेप्यराहित्येन वा अर्थविवक्षापूर्वकत्वराहित्यरूपविशेषणराहित्येन वा पर्यवसानमभिप्रेत्याचे वेद एव दृष्टान्त इति स्फुटत्वात्तद्नुक्त्वा द्वितीये मन्वादिवाक्यं दृष्टान्त इति भावेनाह ॥ अर्थविवक्षेति । स० - ॥ न्यायसुधा ॥ (अ. १ अ १ पा. १ अत्र व्याख्येयस्यार्थविवक्षापूर्वकत्वे सति पौरुषेयवाक्यत्वदर्शनादिति वक्तव्ये अध्याख्येयस्वरूपसा ययति- रेकस्य व्याख्येयत्वस्य व्यतिरेकिणि व्याप्यस्य उक्तहेतुव्यतिरेकरूपव्यापकायोगव्यवच्छेदसिध्या व्यभिचार- शङ्कानिरासार्थमियमुक्तिरिति ज्ञातव्यम् । आवश्यकं व्यतिरेकं प्रथममभिवाय यदर्थविवक्षापूर्वकत्वरहितत्वे सति पौरुपेयं वर्णसमूहरूपं तदव्याख्येयं यथा वर्णसमवायः केनचित् इत्यन्वयमाह ॥ न हीति । हेतोरसिद्धिमाशङ्कयाह । न चास्येति । विनतमर्थविवक्षापूर्वकं प्रगीत:वात्सम्मतवदिति चेन्न उन्मत्तवाक्ये व्यभिचारादित्याह ।। प्रणयनेति । प्रेक्षावद्विशेषणोपादाने व्यासस्य प्रेक्षावत्वे मानाभावात्सन्दिग्धासिद्धो हेतुरित्याह ।। प्रेक्षावदिति । अर्थविवक्षारहितेऽपि विषहरमन्त्रे प्रेक्षावत्प्रगीतत्वसद्भावादनैकान्तिको अन्यथासिद्धोऽप्रयोजकश्चेत्याह ॥ निश्चये वेति । विषहरमन्त्रे कथमर्थविवक्षापूर्वकत्वं नास्तीति चेत् न । समवेतार्थाप्रकाशनात् हुंफडादिवज्जपमात्रेणादृष्टसिद्ध्यर्थ प्रणयनात् । ननु सूत्राण्यर्थविवक्षापूर्वकाणि प्रतिभासमानार्थकत्वादिति चेन्नेत्याह ॥ गृहीतेति । बालस्यार्थाप्रतिभासात् । गृहीतसङ्गतेश्च प्रति- भासमानार्थोऽनुपयोगादविवक्षित इत्यर्थः । ननु ब्रह्मसूत्रेषु प्रतिभासमानार्थस्योपयुक्तत्वाद्विवक्षितार्थान्ये वेति चेत् किमेतावता व्याख्येयं किं वा याथार्थेऽपि । नैतावतेत्याह ॥ तद्भावेपीति । सर्वो:कर्षे सत्यत्येव व्याख्यानम् । न चाम्यान्यस्मात्कोऽप्युत्कों दृश्यत इति । परमाख्यविद्येत्येतदवतारयितुमाह ।। स्यादेतदिति । विद्याशब्दस्य व्यावय॑माह ।। अर्थ- विवक्षेति ॥ मातृकेति । कखगघङेत्यादिवर्णमात्रेत्यर्थः । व्याप्तिमुपपाद्योपनयनमाह ॥ न चास्येति । अथातो ब्रह्मजिज्ञासेत्यादिग्रन्थस्येत्यर्थः । तथा च प्रयोगः । अथात इत्यादिग्रन्थो न व्याख्येयः । अर्थविवक्षापूर्वकत्वाभावात् । मातृकाक्षरमात्रसन्दर्भवत् । यो व्याख्येयः सोऽर्थविवक्षापूर्वक इति व्यति. रेकव्याप्तौ काव्यादिदृष्टान्तः । न च हेतुरसिद्धः । विमतो ग्रन्थः अर्थविवक्षाशून्यः अर्थविवक्षा- वत्त्वसाधकमानहीनत्वादिति । ननु मानाभावोऽसिद्धः । प्रणीतत्वस्य वा प्रेक्षावत्प्रगीतत्वस्य वा व्युत्पन्न- प्रतीयमानार्थकत्वम्य वा मानत्वादित्यतः क्रमेण निराह ॥ प्रणयनेत्यादिना । हेतोरप्रयोजकत्वमाह ।। निश्चये वेति । विपहरमन्त्रे वर्णमालामात्रपाठेन कार्यकरत्वस्य लोके प्रसिद्धेरिति भावः । विद्यापदस्य व्यावान्तरं चाह ॥ न चेति । किं चेति चार्थः । ख्यात्यर्थमप्रमाणत्वेन निश्चितबौद्धादिग्रन्थ- व्याख्यानदर्शनेन व्यभिचारनिरासायोपादेयतयेत्युक्तम् । पुरुषार्थहेतुतयेत्यर्थः । न चास्येत्युपनयः । अत्रापि प्रयोगौं । विमतं नोपादेयतया व्याख्येयम् । अयथार्थज्ञानजनकत्वाद्विप्रलम्भादिवाक्यवत् । न चासिद्धो हेतुः । विमतं न यथार्थम् याथार्थ्यनिर्णायकमानशून्यत्वाद्विप्रलम्भादिवाक्यवदिति । परमाग्यपदव्यावत्यमाह ॥ तद्भावेऽपीति । याथार्थ्यभावेऽपीत्यर्थः । प०- व्याख्यातव्यतासमर्थनम् ) ॥ जिज्ञासाधिकरणम् ॥ या० ननु मीमांसाया वेद इवार्थविवक्षापूर्वकत्वाभावेऽपि व्याख्येयत्वमस्त्वित्यत आह । पौरुषेयवाक्यस्येति । अभ्युपेत्याह ॥ निश्चये वेति ॥ विपहरमन्त्रस्येवेति । तस्य हुं फडित्यादि- वजनैवाभिमतसिद्धये निर्माणमित्यर्थः । तथा चान्यथासिद्धिरिति भावः । ननु तथाऽपि प्रतिभासमा- नार्थत्वमर्थविवक्षापूर्वकत्वे हेतु विप्यतीत्यत आह ॥ गृहीतसङ्गतेरिति । तथाच व्यभिचार इति भावः । तुप्यत्विति न्यायेनाह ।। न चार्थविवक्षापूर्वकत्वेति ॥ श्री०-- मातृकामात्रेति । अर्थविवक्षापूर्वकत्वरहितककाराद्यक्षरमात्रयाख्यान इत्यर्थः । ननु इदं ब्रह्ममीमांसाशास्त्रमर्थविवक्षापूर्वकं प्रणीतत्वादित्यनुमानमेव मानमिति चेत्तत्राह ॥ प्रणयनमात्रस्येति । हुँ फडित्यादिविषहरमन्त्र इत्यर्थः । शुकबालादिवाक्ये व्यभिचारादित्यर्थः ॥ प्रेक्षाददिति । तादृश- मन्त्रप्रणयनकर्ता न प्रेक्षावानिति भावः । अनिश्चयादिति । ग्रन्थकर्तुर्व्यासस्य प्रेक्षावत्यानिश्चयादित्यर्थः ।। अर्थविवक्षापूर्वकत्वमङ्गीकृत्याप्याह ॥ न चार्थविवक्षेति । च० - परमाख्यविद्येयंशनिबर्तनीयाशङ्कामाविर्भावयति ॥ स्यादेतदिति । प्रकृतग्रन्थपक्षकव्या. ख्यातव्यत्वाभावसाध्यकार्थावबोधोदेश्यकतावैधुर्यलिङ्गकमातृकानिदर्शनकफलीभूतानुमानेऽसिद्धिशङ्कानिरस- नौ विकत यशकतादृशहेतुसाव्यकत प्रतियोगिग्राहकमानराहित्यरूपसाधनानुमाने प्रगीतत्वप्रेक्षावत्प्रणीतत्व- गृहीतशक्तिकप्रतिभासमानार्थकत्वानामनैकान्त्यादि-युत्पादनेनारि द्विशङ्कामपाकुर्वाणोऽर्थावबोधोद्देश्यकता मात्रेण तद्धर्मिण्युत्तरवादिना व्याख्येयतासाधनेऽ कान्त्यापत्या याथार्थस्य हेतुतावच्छेदककोटिनिवेशावश्य- म्भावेन तद्धटितहेतोहिकाभावनियन्त्रितारिद्धिमभ्युपगमवादाश्रयणेऽपि तोरप्रयोजकता विभावयति ।। अथात इत्यादि। सु०- अयमभिसन्धिः । अस्ति तावदस्मिन्ग्रन्थे 'द्वे विद्ये वेदितव्ये परा चैवापरा च' इत्यादौ परविद्याख्या । अत्र विद्याशब्देनार्थविवक्षा याथाय चास्यावगम्यते । यथार्थज्ञान- तत्साधनयोविद्याशब्दस्य योगरूढिभ्या प्रवृत्तत्वात् । 'संज्ञायां समजनिपद' इत्यत्र संज्ञाया- मित्यनुवृत्तेः । परशब्देन च यथार्थाद्वाक्यान्तरादुत्कर्षः । तदेवमागमेनास्य सर्वोत्तमप्रामाण्य- प्रतीतेर्गहनार्थत्वाचोपपन्नमन्यपरित्यागेनास्थैव व्याख्यानमिति । तथाऽप्यन्यैरेव व्याख्यात. त्वन पुनरिदं व्याख्यातव्यमियतो व्याख्य.मित्युक्तम् । विशिष्टाऽऽख्या व्याख्या । अनेन परकृतानामपव्याख्यानतामभिप्रेति । तथाच तत्र तत्र प्रदर्शयिष्यति । तथापि स्वप्रणीत- भाष्येणैव कृतव्युत्पादनमिदं शास्त्रमित किमनेन व्युत्पादनेनेत्यतोऽवपि चेत्याह । चशब्देन । न्यायसुधा ॥ (अ.१पा. १.१ अनुव्याख्याने प्रयोजनसद्भावं समुच्चिनोति । तच्च वक्ष्यते । प्रयोजनसद्भावे भाष्यदिशा शिष्या एवानुव्याकरिष्यन्तीत्यतोऽहमेवेत्यभिहितम् । एवशब्देनान्येषामसामर्थ्य सूचयति । बा० नन्वनेनार्थविवक्षापूर्वकत्वादौ न किमपि मानमुक्तमितिक थमनेनोक्तशङ्कापरिहार इत्यत आख्यापदसूचितं मानमुदाहृत्य तदुपपादयितुमाह ॥ अयमिति । ननु ज्ञानार्थकविदेर्भावे क्यपि निष्पन्न विद्याशब्दस्य ज्ञानगमकत्वेऽपि नार्थविवक्षायाथार्थ्यगमकत्वमित्यतो विद्याशब्दस्य भावकर गसाधनतया मोगेन ज्ञानस्येव तत्साधनत्वस्य रूट्या याथार्थ्यस्य च लाभादुभयगमकत्वं युक्तमित्यभिप्रेत्याह ॥ यथा- थेति । ननु 'संज्ञायां समजनिषद' इति सूत्रे 'बजयजो वे क्य' इत्यतो भावग्रहणानुवृत्तौ तद्भाव. ग्रहणस्य भावेऽनुपसर्गस्येत्यादाविव 'अकर्तरि च कारक' इत्येतन्निवृत्त्यर्थतया तत्साधनालाभ एव । न चात्र सूत्रे भाव इति न स्मयते इति वृत्तिकृतोक्तत्वान्न तद्भावाधिकार इति वाच्यम् । अत्र तदधिकारा- भावज्ञापकाभावात् 'स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिद्ध्यति' इत्युक्तविरोधाच्च भावाधिकारस्याव- श्यकत्वात् । तदधिकाराभावेन ज्ञानसाधनलाभेऽपि रूढिज्ञापकाभावेन याथार्थ्यालाभ एवेत्यतः 'संज्ञायां समज' इति सूत्रे संज्ञायामित्युक्तत्वाद्यस्मिन्नर्थे उत्पद्यमानेन क्यपा संज्ञा गम्यते तस्मिन्नर्थे क्यप् भवतीति सूत्रार्थनिष्पत्त्या संज्ञाग्रहणबलेनैव भावाधिकाराभावस्य ज्ञापितत्वात् । भृनश्च भाव एवो पाद्यमानेन क्यपा संज्ञा गम्यत इति भृत्याशब्दवाच्यत्वेन व्यापाररूपभावाधिकारस्य स्त्रियां भावाधिक रोऽस्तीत्यनेन उक्तावपि तेन स्वरितत्वनिबन्धनशास्त्रीयाधिकारानुक्त्या तद्विरोधाभावात्संज्ञाग्रहणेनैव रूढेरपि ज्ञापितत्वेन ज्ञानार्थकविदेश्च यथार्थज्ञानरूपभावे तत्साधने च विहितेन क्यपा संज्ञा गम्यत इति युक्तं तदुभयगमकत्वं विद्याशब्दस्येत्याह ॥ समजनिषदेत्यत्र संज्ञायामित्युक्तेरिति । (वजयजोर्भावे वयम् । व्रज्या । इज्या । 'संज्ञायां समजनिषदनिपतमनविदषुशीभृञिणः' । समजादिभ्यः स्त्रियां भावादौ क्यम् स्यात्स चोदात्तः संज्ञायाम् । 'अजे: क्यपि वीभावो नेति वाच्यम्' । समजन्त्यस्यामिति समज्या सभा । निषीदन्त्य- स्यामिति निषद्या आपणः । निपतन्त्यस्यामिति निपल्या पिच्छला भूमिः । मन्यतेऽनयेति मन्या गलपाश्च शिरा । तया हि क्रुद्धो ज्ञायत इति भावः । विदन्त्यनया विद्या । सुत्या । अभिषवः । शय्या । भृत्या । भरणम् । जीविका । 'कुमारभृत्या गर्भिण्या: परिचर्याऽभिधीयत' इति हारावली । 'कुमार- भृत्याकुशलैरधिष्ठित' इति रघु: । ईयतेऽनया इत्या शिविका । 'भावेऽनुपसर्गस्य' । अनुपसर्गस्य व्हयतेः सम्प्रसारणमप् च स्याद्भावे । हवः । 'अकीर च कारके संज्ञायाम्' । कर्तृभिन्नकारके घञ् स्यात् । 'पनि च भावकरणयोः' । रञ्जनलोप: स्यात् । रागः । अनयोः किम् । रजत्यस्मिन् रङ्गः । प्रास्यत इति प्रासः । संज्ञायामिति प्रायिकम् । को भवता लाभो लब्धः । इत उतरं भावे 'अकर्तरि , व्याख्यातव्यतासमर्थनम् ) || जिज्ञासाधिकरणम् ॥ च कारक' इति पदद्वयमप्यनुवर्तते 'कृत्यल्युटो बहुलम्' इति यावत् । एरजिति सूत्रव्याख्यानावसरे काशिकायां भावेऽकर्तरि च कारक इति प्रकृतमनुवर्तते यावत्कृत्यल्युटो बहुलमित्युक्तम् ) । संज्ञायां समजनिपदिन्युक्तेरिति पाठेऽप्ययमेवार्थः । समजनिषदेत्यत्र संज्ञायामित्यस्यानुवृत्तरिति पाठे तु व्रजयजो- ये क्यपित्यतोऽस्वरितत्वेन भावग्रहणानुवृत्त्या निवर्तकाभावादकर्तरि च कारके संज्ञायामित्यस्यानुवृत्ते- विद्याशब्दस्य योगरूढिग्यां यथार्थज्ञानसाधनबोधकत्वं युक्तमिति दर्शयितुं संज्ञायामित्यस्यानुवृत्तरित्येकदेशो- कीर्तनम् । अत्र च संज्ञाग्रहणेऽनुवर्तमाने पुनः संज्ञाग्रहगमकर्तरि च कारके संज्ञायामित्यत्र चशब्दस्य संज्ञायामित्यनेन सम्बन्धे संज्ञायामसंज्ञायां चेत्यर्थलाभात्तत्सूत्रीयसंशाशब्दस्य प्रायिकार्थतया व्याख्यातत्वा- तदनुवृतावप्यत्र नियमालामालल्लाभायेति द्रष्टव्यम् । अत्र परत्वस्य प्रकारान्तरेण विवक्षणे तद्भावेऽपीति शङ्कानिवर्तकत्वं न स्यादिति सभिधानाद्विद्याशब्दार्थयाथार्यनैव परत्वमित्यभिप्रेत्याह । रेति । गहना- र्थत्वस्य साक्षाद्भाप्येऽनुक्ततया तन्निवां शङ्कामनुक्त्वा व्याख्येयत्वमुपपादयितुं तत्प्रयोजकानि कथयतो भाप्यकारस्य व्याख्येयत्वप्रयोजकत्वाद्गहनार्थत्वमप्युपलक्षणतयाऽभिप्रेतमित्यभिप्रायेण भावकथनदशायां तदाह ।। गहनार्थत्वाचेति ॥ तच्च वक्ष्यत इति ॥ स्वयं कृताऽपीत्यत्रेत्यर्थः । --- स० एतावता कथमुक्तशङ्कानिरास इत्यत आह ॥ अयमिति ॥ ब्रह्मसूत्राणां पौरुषेयत्वेऽपि अर्थविवक्षापूर्वकत्वं यथार्थत्वं ग्रन्थान्तरादुकृष्टत्वं च 'द्वे विद्ये वेदितव्ये' इति श्रुत्याऽवगम्यत इति प्रदर्शनाय परमाख्यविद्येत्युक्तमित्यर्थः । 'वनयजो वे क्यवि'त्यसो भाव इव करणेऽपि विधानतत्सा- धनयोरित्युक्तम् । ज्ञानतत्साधनयोविद्याशब्दस्य योगरूढी समर्थयते ।। समजनिषदेत्यत्रेति । 'अकर्तरि च कारके संज्ञायाम् ' इति समग्रस्यानुवृतरित्यर्थः । इत्युक्तेरिति पाठे तु संज्ञानुवृत्तावपि पुनः संज्ञाया- मिन्युक्तरित्यर्थः । अयं भावः । एकसंज्ञाग्रहणे सति भावे रयपि संज्ञाप्रतीतेस्तत्रैव वयबिधानमात्रेण सूत्रं पर्यवस्येत् । अतः पुनः संज्ञाग्रहणेन प्रायिकी संज्ञा तद्विपयं सूत्रमिति ज्ञायते । तथाच भाव इव करणेऽपि संज्ञाऽवगमात् क्यप् प्रत्ययरि द्विरिति ॥ आगमेनेति । परविद्याख्ययेत्यर्थः । प्रदर्शयिप्यति बन्धमिथ्यात्वमित्यादौ ॥ तच्च वक्ष्यते । स्वयं कृतापीत्यनेन । ५०-कथमनेनोक्तशङ्कानिरास इत्यत आह ।। अयमभिसन्धिरिति । आद्य शङ्काद्वयं तावत् निराह ।। अस्तीत्यादिना ।। अस्मिन् ग्रन्थे । 'अथातो ब्रह्मजिज्ञासे'त्यादिब्रह्ममीमांसात्मकग्रन्थे । विषयसप्तमीयम् ॥ इत्यादौ । आथर्व गाद्युपनिषदि । ब्रह्मसूत्रसन्दर्भवाचितया परविद्यापदप्रयोगः श्रूयत इत्यर्थः ।। परविद्याशब्दस्य ब्रह्मसूत्रचाचित्रमने व्यक्तम् ।। अस्येति । व्याख्येयग्रन्थस्येत्यर्थः । कथ- मित्यत आह ॥ यथार्थति । यद्यपि यथार्थज्ञानसाधने विद्याशब्दस्येत्येवात्र प्रकृतसङ्गतत्वाद्वक्तव्यमथापि ॥ न्यायसुधा ॥ (अ. १ पा.१.१ ज्ञानसाधनमात्रोक्तो ज्ञानस्य विद्याशब्दार्थत्वं नेति स्यात् । तथाच 'विद्यैव तु निर्धारणात्' । 'विद्याकर्म- णोरिति तु प्रकृतत्वादिति सूत्रे 'विद्ययाऽमृतमश्नुत' इत्यादिश्रुतौ च विद्यापदप्रयोगो ज्ञाने गौण इति शङ्का स्यात्सा माभूदित्येतदर्थ ज्ञानपदमप्युपात्तम् । ज्ञान इवेति दृष्टान्तत्येन वा ज्ञानेत्युक्तिः ॥ योगरू- ढिभ्यामिति । ननु 'ब्रजयजोर्भाव क्यविति सूत्रेण भावे क्यव् विहितः । अत्र च पूर्वस्माद्भावे इत्यनु- वर्तमाने पुनः भावग्रहणं भाव एव व्रजयजोर्यथा क्यप्स्यान्न तु अकर्तरि च कारके संज्ञायां इत्यस्यापि अनुवर्तमानत्वात्कर्तृव्यतिरिक्तकारकेऽपि स्यादित्येतदर्थम् । तथाच व्रज्या इज्येतिव'त्संज्ञायां समजनिषद- निपतमनविदषुशीङ्मृजिग' इत्युत्तरसूत्रेऽपि तस्यैव क्यपोऽनुवर्तमानत्वाद्भाव एव क्यबिति विद्याशब्दो जान एव मुख्य इति प्राप्नोतीति चेन्मैवम् । व्रजयजो ये क्यबित्यत्रोक्तं भावग्रहणं संज्ञायां समजेति सूत्रे नानुवर्तते । क्यबेवानुवर्तत इति वृत्त्यादावुक्तत्वेन ततः पूर्व दूरे सामान्यतोऽधिकृतस्य भाव इत्यस्य अकर्तरि चेति सूत्रस्य च 'कृत्यल्युटो बहुल'मित्येतत्पर्यन्तमनुवर्तनेन समजनिषदेति सूत्रेऽपि सम्बन्धन भावे कर्तृभिन्न कारके च संज्ञायां विषये क्यप्प्रत्ययो भवतीत्युक्तयेन वेदनमित्यर्थे च विदेः क्यपि सति 'लशकतद्धित' इति ककारस्य 'हलन्त्यमिति' पकारस्य चेत्संज्ञायां लोपे 'पुगन्तलघूपधस्य चेति गुणस्य 'कृिति चेति निषेधे स्त्रीप्रत्यये टापि सति विद्येतिरूपनिप्पत्ते विद्याशब्दे अकर्तरीत्युक्तेः योगस्य संज्ञायामित्युक्तेः रूढेश्वोक्तत्वादिति भावः । अत एवैतावन्तमभिप्राय द्योतयितुं समजनिपदेत्यत्र संज्ञायामित्यनुवृत्तरित्युक्तम् । अकर्तरि च कारके संज्ञायामित्यस्यानुवृत्तेरित्यर्थः । तेन तत्सहनिविष्टभावपदानुवृत्तिरपि सूचिता । अन्यथा संज्ञायां समजेति सूत्र एव संज्ञायामित्यस्य सत्त्वादनुवृत्तरित्युक्तिरयुक्ता स्यात् । संज्ञायामित्यनु- वृत्तेरित्युक्तौ त्वन्यथानुपपत्त्या एकदेशद्वाराऽकतीर चेति सूत्रस्मरणे न तस्यैवानुवृत्तिं ज्ञास्यन्तीत्यभिप्रायः । ननु चाकर्तरीत्यतः संज्ञापदेऽनुवर्तमानेऽपीह संज्ञाग्रहणं किमर्थमिति चेत् उच्यते। अकर्तरि चेत्यत्रोपा संज्ञापदमव्यावर्तकम् । चशब्दस्य संज्ञायां चेत्यत्रान्वयेन संज्ञायामसंज्ञायां चेति व्याख्यानात् । एवं तर्हि तत्रत्यसंज्ञापदानुवृत्तिः किमर्थमुक्तेति चेन्न । तत्सूत्रस्यैवात्रानुवृत्यर्थत्वादित्युक्तत्वात् । तर्हि यथार्थ- ज्ञानसाधने विद्याशब्दस्य रूढिन ज्ञापिता स्यादिति चेन्न । समजनिपदेति सूत्रस्थसंज्ञापदस्यैव रूढि- ज्ञापकत्वात् । अत एव समजनिषदेत्यत्र प्रतिपदं संज्ञायामित्यनुवृत्तेरनुपङ्गादित्यप्यर्थ इत्यास्तां तावत् । संज्ञायां समजनिषदेत्युक्तरित्येव ऋचित्पाठः । तदा तु न क्लेशः । अर्थविशेषालामः । समर्थितं च ज्ञानतत्साधनयोर्मुख्यत्वं विद्याशब्दस्यादृश्यत्वनयचन्द्रिकायाम् । तद्भावेऽपीत्यादिना कृतं चोद्य निराह ।। परशब्देनेति ॥ उत्कर्ष आधिक्यम् ॥ आगमेनेति । 'द्वे विद्ये वेदितव्ये' इति प्रागुक्तवाक्येनेत्यर्थः ।। अस्य ब्रह्मतन्त्रादिशास्त्रस्य ॥ अनुव्याख्यान इति । पुनरपि विवरणकरण इत्यर्थः । वक्ष्यत इति । 'स्वयं कृताऽपि तद्व्याख्या क्रियते स्पष्टतार्थत' इत्यत्रेति भावः ।।
व्याख्यातव्यतासमर्थनम् ) ॥ जिज्ञासाधिकरणम् ॥ ५९. या० विद्याशब्दस्य योगरूढिभ्यामिति । वेद्यतेऽर्थोऽनयेति योगेन वा 'सा विद्या तन्मतिर्यया' इत्यादिप्रयोगदर्शनसिद्ध्या रूढ्या च प्रवृत्तत्त्वादित्यर्थः । न च रूढ्यैवोभयलाभे योगाश्रयणं व्यर्थमिति वाच्यम् । अर्थविवक्षाविधुरे यथार्थज्ञानेऽपि रूढेः सत्वेन तन्मात्रेणोभयलाभासम्भवात् । वेदनकरण:वरूपयौगिकार्थप्रापकक्यप्प्रत्ययस्य संज्ञायामेव विहितत्वेन रूढ्यभावे तदनुपपत्ते रूढेरप्यावश्य- कता । अत्र यथार्थज्ञाने वेदनं विद्येति योगस्य 'कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते' । 'विद्यैव तु निर्धारणा'दित्यादिप्रयोगमभिप्रेत्य रूडेश्च प्रदर्शन दृष्टान्ततयेति ज्ञातव्यम् । ननु 'एरजिति सूत्रव्या- ख्यानावसरे का शिकायां भावे 'अकर्तरि च कारक' इति च प्रकृतमनुवर्तते यावत्कृत्यल्युटो बहुलमित्यु- क्तत्वेन भवतु भावे करणे वा विदेः क्यपि विद्याशब्दादुक्तयोगेन ज्ञानतत्साधनलाभः । तत्र रूढिज्ञापकं तु न किश्चिदस्ति । उक्तप्रयोगाश्च योगेनाप्युपपन्नाः । संज्ञायामिस्यस्य तु भिन्नक्रमेण चकारेणासंज्ञाया- मपीत्यर्थलाभादनियतत्वाभिप्रायेणाननुवृत्तरक्तत्वादित्यत आह ।। संज्ञायामिति । सत्यमकर्तरि च कारके संज्ञायामित्यत: संज्ञायामित्यस्य नानुवृत्तिरुक्तेति । तथाऽप्यत्र सूत्रे पुनः संज्ञाग्रहणात्संज्ञायामित्यस्याप्य- त्रानुवृत्तिरभिप्रेतेति ज्ञायते । 'सिद्धे सत्यारम्भो नियमार्थ' इति न्यायादतो रूढिरप्युपपन्नति भावः । अत एव कचित्संज्ञायामित्यस्यानुवृत्तेरित्यपि पाठः । 'संज्ञायां समबनिषदनिपतमनविदपुत्रीभृमिण' इति सूत्रस्यायमर्थः । समजादिभ्यो धातुभ्यः स्त्रियां क्यप्प्रत्ययो भवति संज्ञायां विषय इति । उदाहरणं तु समजन्ति अस्यामिति समज्येत्यादि द्रष्टव्यम् ॥ तच्च वक्ष्यत इति । स्वयं कृताऽपि तव्याख्येत्यत्रेति शेषः॥ श्री०-- अस्मिन्ग्रन्थे 'अथातो ब्रह्मजिज्ञासे'ति ब्रह्ममीमांसात्मके ग्रन्थे । अस्य व्याख्येयग्रन्थस्य ।। विद्याशब्देनार्थविवक्षा याथाय चेति । शब्दानां यथावस्थितार्थप्रतिपादकत्वरूपयाथार्थ्य वक्तृ- विवक्षाधीनम् । वत्रा हि यथावस्थितमेवार्थप्रतिपादयिप्यामीतीच्छया शास्त्रं निर्मितं चेत्तदा तस्य निरक्तं याथार्थ्यं सम्पद्यते । नान्यथेत्येवमर्थविवक्षायाथार्थ्ययोः साध्यसाधनभावसद्भावाद्याथार्योग्या विवक्षा अपि लब्धा । कार्यो क्या कारणस्यापि लाभात् । अत एव हुं फडित्यादिमन्त्रेऽर्थविवक्षाया अभावादेव न तस्य यथावस्थितार्थप्रतिपादकत्वरूपं याथार्थ्यम् । याथार्थेऽर्थविवक्षायाः कारणत्वद्योतनायैव विवक्षा याथार्थ्यं चेति विवक्षाया आदित उपपादनं कृतम् । एवं च वेद्यते यथावस्थितमेव तत्त्वं ज्ञायतेऽनयेति निर्वचनेनास्य शास्त्रस्य यथावस्थितार्थप्रतिपादकत्वरूपं याथार्थ्यमवगम्यत इत्यर्थः । 'मुख्यामुख्ययोर्मुख्ये सम्प्रत्यय' इति न्यायेन यथावस्थितमेव वेद्यत इत्यर्थो लभ्यते । अत एव शिप्यते यथावस्थितमेव प्रतिपाद्यते तत्त्वमनेनेति शास्त्रमिति शास्त्रशब्देनैकार्थतां विद्याशब्दस्य 'चक्रे शास्त्रमनुत्तममिति वक्ष्यतीति द्रष्टव्यम् ॥ यथार्थज्ञानतत्साधनयोरिति । विद् ज्ञान इति धातो वे क्यप्प्रत्यये ककारलोपे कित्या- S.T.SA # न्यायसुधा ॥ (भ. १ पा. १ अ. १ द्गुणाभावे वेदनं विद्येति भावे व्युत्पन्नो विद्याशब्दो यथार्थज्ञाने रूढः । विद् धातोः करणे क्यप्प्रत्यये सति वेद्यतेऽथोंऽनयेति विद्येति करणे निप्पन्नो विद्याशब्दो यथार्थज्ञानसाधने यौगिकः । 'सा विद्या तन्मतिर्ययेति प्रयोगाद्यथार्थज्ञानसाधने विद्याशब्दो रूढ इति द्रष्टव्यम् । आगमेन 'द्वे विद्ये वेदितव्ये' इति प्रागुक्तेनेत्यर्थः । अनुव्याख्या करिष्यन्तीति । अनुव्याख्यानं करिष्यन्ति पुनरपि व्याख्यानं करिप्यन्तीत्यर्थः ।। च० तदंशस्य दर्शितनिधिलाशङ्कानिरासकता व्युत्पादयति ॥ अयमिति । ज्ञानार्थस्य विदेभ बकरणसाधनक्याप निप्पन्न विद्याशब्दस्यावयववृत्या ज्ञानतत्साधनयोरिवार्थविवक्षायाः ‘सा विद्या तन्मतिर्यये'त्यादिप्रयोगप्रत्यायितसमुदायवृत्या याथार्थ्यस्य गमकता सङ्गच्छत इत्यभिप्रेत्याह ॥ यथार्थेति । अतः समुदायवृत्त्यैवार्थविवक्षाऽपि सेत्स्यतीति तत्प्रत्यायनफलकयोगपदोपादानमप्रयोजननिमितिशङ्का तु अर्थावबोधोद्देश्यकताविनिर्मुक्तयथार्थज्ञानसाधारणयथावस्थितशेयविषयीकारित्वस्य समुदायवृत्या प्रत्या- य्यमानस्य प्रकृतानुपयोगेन यथावस्थितशेयविषयीकारिसाधनत्वेनैव याथार्थ न ज्ञान इव साक्षादिति ध्वयितुं तदुपादानावश्यम्भावान्निरसनीया । साधनमात्रे समुदायावयववृत्तिव्युत्पादनस्य चिकीर्षितत्वेऽपि 'विद्यया च विमुच्यते' 'विद्यैव तु निरिगादित्यादिप्रयोगप्रत्यायितसमुदायवृत्तवेदन विद्येत्यवयववृत्तेश्च यथार्थज्ञानेऽपि प्रदर्शन निदर्शनविधयेत्यवसेयम् । नन्वष्टलक्षण्याम् तृतीयलक्षणे तृतीयचरणे 'बजयजो: भावे क्यबिति सूत्रे भाव इत्यनुवर्तमाने पुनर्भावग्रहणमनयोर्भाव एव वयम् भवति नत्वकर्तरि च कारक इत्यस्याप्यनुवृत्या कर्तृव्यतिरिक्तकारकान्तर इति ध्वनयितुमिति स्थिततया 'संज्ञ.यां समजे'त्युत्तरसूत्रेऽपि तस्यैव क्यपोऽनुवर्तनेन व्रज्येत्यादिवत् भावमात्रसाधनक्यप्प्रत्ययान्तविद्याशब्दो ज्ञाप्तिप्रत्यायक एव न तत्सा- धनप्रमापक इति चेन्मैवम् । संज्ञायां समजेत्यत्र पूर्वस्मात् क्यबित्यंशत्यैवानुवृतिन तु भाव इत्यस्यापीति वामनो वृत्तावप्यभ्यधादिति तत्प्राक्तनयोर्भावे कर्तरि चेत्यनयोराकृत्यल्युटो बहुलमनुवर्तनेन संज्ञायां सम- जत्यत्रापि द्वयोरनुवृत्याभावे तादृशकारकान्तरे च सम्भवतीति भावकरणयो| बोपपादनेऽपि भिन्नविन्यासेन चकारेण संज्ञायामित्यस्यासंज्ञायामपीत्यर्थकतोरीकृत्यानिरवकाशरूढिज्ञापकं दुर्मिलमित्याशङ्कायामाह ।। संज्ञायामिति । 'सिद्ध सत्यारम्भो नियमार्थ' इति न्यायेन पुनः संज्ञाग्रहणेन संज्ञायामित्यनुवृत्तेपिनात् इति भावः ।। अनु. -- प्रादुर्भूतो हरियसो विरिश्चभवपूर्वकैः । अथितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ।। ३ ।।
परविद्याख्यं शास्त्रम्) ॥ जिज्ञासाधिकरणम् ॥ ६१ वा०. - सु.- यदुक्तं नारायणोऽस्य शास्त्रस्य प्रभव इति तदयुक्तम् । च्यासोपज्ञताप्रसिद्धि- विरोधात् । न च नारायण एव व्यासः। जननविरोधात् । कृतकृत्यस्य प्रयोजनाभावेन शास्त्रप्रणयनासम्भवाच्च । यच्चास्य श्रीत्या परविद्याख्यया सर्वोत्तमप्रामाण्य सिद्धिरिति तदप्य- युक्तम् । परशब्दस्यानेकार्थत्वेन विद्याशब्दस्यचार्थविवधाविरहिण्यपि मन्त्रे प्रयोगदर्शनेन परविद्याख्यायाः सर्वोत्तमप्रामाण्यानिश्चायकत्वात् । किश्वयं परविद्याख्थेतद्विषयेत्यत्र.पि न नियामकमस्तीत्यत आह ।। प्रादुर्भूत इति । अत्र कृतकृत्योऽपि हरिरात्मकृपास्पदैविरिश्चभव- पूर्वकैरमरैरर्थितो व्यासः प्रादुर्भूतो न तु जातो ग्रन्थ मि चक्र इत्यनेन नारायणस्य शास्त्रप्रभ- वत्वेऽनुपपत्तिः परिहता । दृश्यन्ते हि केवलं कृपापारवश्येन परोपकाराय प्रवर्तमानाः सुतरां तैरर्थिताः । अत एव परप्रयोजनमप्यात्नगामीत्र मन्यमानस्य भगदतः शास्त्रप्रणयन मिति ज्ञाए- यितुमात्मनेपदप्रयोगः । अत्र च नारयणाद्विनिष्पन्नमियाद्यागमः प्रमाणम् । परविद्याख्यया अस्य सर्वोत्तमप्रामाण्यसिद्धिं व्युत्पादयितुं परविद्या ख्यामित्यन्यानुत्तमं शास्त्रमिति व्याख्यातम् । नास्त्युत्तमं शास्त्रमस्मादित्यनुत्तमम् । शिष्यते यथास्थितं प्रतिपाद्यते तत्त्वमनेनेति शास्त्रम् । हािस इति सामानाधिकरण्येन प्रादुर्भून इत्यनेन विरिश्चादिभिरर्थित इत्यनेन परविद्याख्यमित्यनूद्यानुत्तमं शास्त्रमिति व्याख्यानेन बहुव्रीहिणा च व्यावाः शङ्काः क्रमेण दर्शयति ॥ यदुत्तमित्यादिना ॥ व्यासोपज्ञतेति । 'उपज्ञोपक्रमं तदाद्य चिख्यासायामिति सूत्रे उज्ज्ञायत इत्युपज्ञा । कर्मण्यातश्चोपसर्ग' इत्यङ् । उपक्रम्यत इत्युपक्रमः । कर्मणि घन् । उपशेयोपक्रम्ययोरादेराख्यानेच्छा. यामुशोपक्रमशब्दान्तस्तत्पुर.षो नपुंसकलिङ्गो भवत्येकवचेत्युक्तत्वात् व्यासोपति कर्तृषष्ठया समासे तदाद्याचिल्यासायां नपुंसके सति व्यासोपजमिति सिद्ध्यति । तथा च व्यासेन प्रथमं प्रणीतताप्ररि द्धि- विरोधादित्यर्थः । ( उपञोपक्रम तदाद्या चिख्यासायाम् । उपशान्त उपक्रमान्तश्च तत्पुर पो नपुंसकं स्यात्तयोरुपज्ञायमानो गक्रम्यमाणयोरा दिः प्राथम्यं चेदाख्यातुमिप्यते । पाणिनेरुपज्ञा पाणि-युपशं ग्रन्थः । नन्दोपक्रमं द्रोणः ) । अत्र कृतकृत्योऽपि हरिरित्यनुवादेन पूर्वपक्ष्यभिप्रेतकृतकृत्यत्वहेतोरप्रयोजकत्वस्य प्रादुर्भूत इति प्रादुर्भावाभिधानेन जननहेतोरसिद्धेश्च सूचनात् विरिञ्चभवपूर्वकैरिति सूचितकृपाया अर्थित इत्युक्तप्रार्थनस्य च प्रादुर्भावशास्त्रप्रणयनप्रयोजकत्वस्याभिप्रेततया युक्तः शङ्कापरिहार. इत्यभिप्रेत्य तथा वयं दर्शयन्नेवांश विशेष योजनं दर्शयति । अत्रेति । स्वायोजनशून्यानामपि कृपाप्रार्थनाग्यां प्रवृत्ति निदर्शयति ॥ दृश्यन्ते हीति । ननु परप्रयोजनोद्देशेन भगवतः प्रवृत्तौ 'स्वरितभितः कभिप्राये क्रियाफल ' इति (स्वरितेतो निश्च ध.तोरात्मनेपदं स्यात् । कर्तारमभिप्रेति गच्छति कञभिप्राय तस्मिन् ) कर्तृगामिक्रिया फलनिमित्तकात्मने दप्रयोगोऽनुपपन्न इत्यतः कृपापारवश्यादिना कर्तुः परप्रयो.
॥ न्यायसुधा ॥ (अ.१ पा. ११.१ जनस्यापि स्वात्मगामित्वानुसन्धानज्ञापकत्वात्तस्य नानुपपत्तिरित्याशयेनाह ॥ अत एवेति । अंशान्तर- प्रयोजनं दर्शयति ।। परेति । अनुत्तममित्यस्य न परशब्दव्याख्यानत्वं विरुद्धार्थत्वात् । नापि भाव- साधनशास्त्रशब्दस्य करणसाधनविद्याशब्दव्याख्यानत्वं युक्तमित्यत आह ॥ नास्तीत्यादिना । यद्वा परविद्याशब्दव्याख्यानार्थ प्रवृत्तेऽनुत्तमं शास्त्रमित्यत्र वक्ष्यमाणमनुपपत्तिपरिहारकत्वं यदभिप्रेतं तदुपयुक्त- तया व्याख्यानमिदमिति द्रष्टव्यम् । व्यासोपज्ञतेति । व्यासेन प्रथमं ज्ञाततेत्यर्थः । सर्वोत्तमप्रामाण्यप्रतिपादकस्य प्रमाणस्य ऋगादिविषयत्वात् नैतदित्याह ॥ किंचेति । अत एवेति । 'स्वरितजितः कभिप्राये क्रियाफल' इति वचनादित्यर्थः । सिद्धान्ती सर्वोतमप्रमाण्यं च सिध्यतीत्याह ॥ परविद्याख्ययेति । मध्ये ब्रह्मसूत्राणां व्यासप्रणीतत्वेन नारायणप्रणीतत्वाभावात् , व्यासस्य नारायणत्वे जन्माद्यनुपपत्ते- स्वाप्तकामत्वेन प्रयोजनानुद्देशिततया शास्त्रप्रणयनं व्यर्थम् । व्यासत्वेन नारायणस्यैव प्रादुर्भावादुत्पत्य- भावादाप्तकामत्वेऽपि कृपालुत्वेन परप्रयोजनार्थ शास्त्रप्रणयनमित्याक्षेपपरिहारौ देवतागुर्वभेदज्ञापनार्थक- श्लोकस्यानेकाक्षेपपरिहारकत्वात् प्रमाणेन च सहोक्ताविति द्रष्टव्यम् । अथवा तमेव शास्त्रप्रभवमिति शास्त्रस्य परमाप्तनारायणप्रगीतत्वेन प्रामाण्यं सूचितम् । तद्यदुक्तमित्यादिना आक्षिप्यात्रेत्यादिना समाधीयत इति । ५० ---- उत्तरश्लोकमवैयर्थ्यायावतारयति ॥ यदुक्तमिति । हरिास इत्यस्य व्यावत्य नारायण इत्यादि ।। व्यासोपज्ञतेति । व्यासेनोपज्ञायते प्रथमं ज्ञायत इत्यर्थः । आतश्चोपसर्गे इति प्राप्ताङ्- 'प्रत्ययान्तोपज्ञाशब्दास्योपज्ञोपक्रमं तदाद्याचिख्यासायामि'ति सूत्रेण नपुंसकलिङ्गत्वोक्तेः । व्यासप्रणीतेति यावत् । प्रादुर्भूनपदव्यावर्त्य न चेत्यादि । अर्थित इत्येतव्यावर्त्य कृतकृत्यस्येति । अनुत्तमपदव्यावर्त्य यञ्चत्यादि ॥ श्रौतयेति । श्रौत्येति पाठः साधुः । श्रौतयेति पाठे तु श्रुतिस्थेत्यर्थे श्रुत्युक्तेत्यर्थे वा तद्धिता इतिप्राप्तणप्रत्यये टापि श्रौतेति रूपम् । शास्त्रपदव्यावय विद्याशब्दस्य चेति ॥ किं चेति । मुक्तिहेतुज्ञानपरत्वेनोपपत्तेरिति भावः । नन्वेवं चक्र इत्ययुक्तम् । कृञः नित्वेन 'स्वरितत्रितः कभिप्राये क्रियाफल' इति क्रियाजन्यफलस्य कर्तृगामित्व एवात्मनेपदत्वोक्तेः । अत्र कर्तुः कृतकृत्यतया फलानपे- क्षित्वादित्यत आह || अत एवेति । परार्थप्रवृत्तिमत्त्वादेवेत्यर्थः ॥ अत्रेति । श्लोकोक्तार्थे । भाप्यो- तागमो मानमित्यर्थः । व्यासोपज्ञतेति । उपज्ञायत इति उपज्ञा । आतश्चोपसर्गे इति कर्मणि अङ् । व्यासस्योपज्ञा व्यासोपज्ञम् । 'उपज्ञोपक्रम तदाद्याचिख्यासायामिति नपुंसकताविधानात् । तस्य भावो या० परविद्याख्य शास्त्रम् ) ॥ जिज्ञासाधिकरणम् ॥ च०. व्यासोपशता । व्यासेनादावुपज्ञाततेत्यर्थः । तत्कृततेति यावत् ॥ आत्मकृपास्पदैरित्यनेन स्वप्रयोजनाभावे अपि परप्रयोजनाय प्रगयनमुपपन्नमिति दर्शितं भवति । अत एव कृपापारवश्येन प्रवर्तमानत्वादेव ॥ आत्मनेपदप्रयोग इति । 'स्वरितभितः कभिप्राये क्रियाफल' इति वचनादित्यर्थः । शास्त्रमेवेत्यत्र न मन्त्रमात्रमित्येव (न ज्ञानमित्येव) कारार्थो बोव्यः । श्री कृतकृत्यस्येति । प्राप्तप्राप्तव्यस्येत्यर्थः ॥ एतद्विपयेति । एतच्छास्त्रविषयिणी । परविद्याशब्देनेदं ब्रह्ममीमांसाशास्त्रमेवोच्यत इत्यत्र न नियामकमस्तीत्यर्थः । व्यासोपज्ञतेति । 'उपज्ञोपक्रम तदाद्याचिख्यासायामि'ति सूत्रे उपज्ञोपक्रमशब्दान्त- तत्पुरुषस्य क्लीबत्वैकवद्भावयोः विहिततया उपज्ञायत इत्युपज्ञा 'आतश्चो पसर्ग' इति कर्मण्यङ् तस्य कर्तरि पष्ठयन्तव्यासपदेन समासे व्यासोपामिति निष्पद्यते । व्यासकर्तृकप्रथमज्ञानविषयताप्रसिद्धिविरोधादित्यर्थः । व्यासकर्तृकप्रणयन क्रियाकर्मताप्रसिद्धिविरोधादिति फलिताशयः ॥ आत्मनेपदेति । स्वरितञित इति सूत्रादिति भावः । परप्रयोजनधर्मिकस्वात्मगामित्वोपरक्तानुसन्धानसमवधानादिति हृदयम् । सु० इदमुक्तं भवति । 'द्वे विद्ये वेदितव्ये परा चैवापरा च' इति विद्याद्वयमुद्दिश्य तत्रापरेत्यादिना साङ्गान्वेदानपरविद्यात्वेनोत्तवा 'अथ परा यया तदक्षरमधिगम्यत' इति परविद्या प्रदर्शिता । सा तावद्वेदादिशास्त्रप्रकरणात्परमाक्षराधिगतिकरणत्वलिङ्गाच शास्त्रमेव भवितुमर्हति अन्यथा सकृदुक्तविद्याशब्दस्यानेकार्थत्वकल्पनाप्रसङ्गाच्च । शास्त्रं चाप्रमाणं चेति विप्रतिपिद्धम् । तस्य च परत्वं नामान्यन्न सम्भवतीत्यनुत्तमत्वमेव । तदपि सन्धिानात् प्रमाणत्वेनैव । शब्दान्तरसमभिव्याहारवशेन सामान्यशब्दस्य विशेषार्थस्य कल्पनीयत्वात् । तद्यथा परमधार्मिक इत्यभिहिते परमत्वं धर्मणेति ज्ञायते । तच्चानुत्तमं शास्त्रमिदमेव विवक्षि- तम् । निर्गतव्यार्थानामृगादिपदोपलक्षितानामशेषशास्त्राणामपरविद्यात्वेनोक्तत्वात् । अन्यस्य अप्रसङ्गात्परत्वासम्भवाच । सम्भवति त्वस्य परत्वमनुग्राहकत्वात् । एतेनोपनिपदः परविद्येति व्याख्यानमिति परास्तम् । ऋगादिग्रहणेन तासामपि गृहीतत्वात् । ब्राह्मणपरिव्राजकन्यायश्च अगतिका गतिः । तजन्यं ज्ञानं परविधेत्यपि न युक्तम् । अधिगतिकरणत्वानुपपत्तेः । अनेकार्थताकल्पनापत्तेश्च । अतोऽजया परविद्याख्ययाऽस्य शास्त्रस्य सर्वोत्तमप्रामाण्यसाधन- मुपपन्नमिति । वा०--ननु परशब्दस्यानेकार्थत्वेन विद्याशब्दस्यार्थविवक्षाविरहिण्यपि मन्त्रे प्रयोगदर्शनेन न U न्यायसुधा ॥ मात्रेण न परिहारः । परा विद्येत्यत्र विद्याशब्देन शास्त्रोपादाने परशब्दस्यानुत्तमत्वातिरिक्तार्थत्वाभावे ध हेतोरनुक्तेस्तत्सद्भावेऽपि वा शास्त्रत्वेन प्रामाण्यसिद्धिप्रकारस्य परशब्दस्य स्वतन्त्रविशेषणत्वेनाप्युपपत्त्या प्रामाण्येऽनुत्तमत्वसिद्धिप्रकारस्य चानुक्त्या विवक्षितार्थासिद्धिरेव । तत्रापरेत्यादिनिर्दिष्टव्यतिरिक्तानामेव अर्थपरेत्यनेन ग्रहणसम्भवेन तेनास्यैव ग्रहणे विशेषहेतोरनुक्त्या न किञ्चेत्युक्त शङ्कापरिहारोऽपीत्यतः शास्त्रग्रहणेनैव तत्रापरेत्यादिशास्त्रप्रकरणस्य प्रतिपत्तिकरणार्थकशास्त्रपदोपादाने-व 'यया तदक्षरमधिगम्यत' इति वाक्यशेषो गत्तलिङ्गस्य च सूचनाद्विद्याशब्देन शास्त्रोपादाने साधकस्य प्रकरणस्य सूचनेनैवान्यथेन्युक्त विपक्षबाधकस्य च सूचनात्तत्त्वज्ञानकरणार्थकशास्त्रशब्दोपादानेन तादृशस्याप्यप्रामाण्यशङ्का व्याहतिग्रस्ततया नोदेतीत्यर्थस्य सूचनेन शास्त्रत्वेन प्रामाण्यसिद्धिप्रकारस्यापि सूचितत्वादनुत्तममित्यर्थविशेषकथनेनैव प्रकृते परशब्दार्थान्तरासम्भवस्य सामान्यविशेषपदसमभिव्याहारेण च परत्वस्य विद्यात्वेन सम्बन्धे सन्निधानरूप- हेतोश्च सूचनायुक्तः शास्त्रमनुत्तममिति व्याख्यानमात्रेण पूर्वशङ्कायरिहारः शास्त्रप्रकरणसूचकशास्त्रशब्देन परशब्दस्योत्तमत्वव्याख्यानेन च शास्त्राणामृगाद्यपेक्षया सम्भवपरत्वानां चानुपादानसूचनादुत्तमत्व- व्याख्यानेनैव तत्प्रयोजकस्य तत्प्रयोजकप्रयोज्यावधिभूतानां तत्रापरेत्यादिनोपलक्षणस्य च सूचनेनास्यैव ग्रहणे परिशेषसूचनात्किञ्चेत्यादिशङ्कापरिहारोऽपि युक्त इत्याशयेनाह ॥ इदमुक्तं भवतीति । अत्र द्वे विद्येत्यारभ्योपदिश्येत्यन्तमन्यथेत्युक्तवाधकस्य तत्रेत्याद्युक्त्वेत्यन्तं शास्त्रप्रकरणस्य ययेति वाक्यशेषश्च लिङ्गस्य सूचनायेति मन्तव्यम् || लिङ्गाचेति । अक्षराधिगतिकरणत्वस्य च तत्त्वज्ञानकरणे शास्त्र एव सम्भवादर्थविवक्षाविरहिणि मन्त्रादावसम्भवादिति भावः ॥ प्रसङ्गाचेति । चशब्द उक्तसाधकसमु- चयार्थः ॥ अन्यन्न सम्भवतीति । अन्यत्वारित्वपरमात्मत्वानामपरप्रतियोगितयोक्तविद्यायामसम्भव इत्यर्थः । एतदतिरिक्तं परविद्यात्वेन विवक्षित भवच्छास्त्रमृगादिकं तदतिरिक्तं वा । अतिरिक्तत्वेऽपि निर्गेतव्यमितिहासादिकं निर्णायकं धर्मदेवमीमांसारूपं वा बौद्धादि वेति विकल्यान्मनसि निधाय ऋगादि शब्दानां निर्णतव्येतिहासाद्युपलक्षणत्वमभिप्रेत्याद्यौ निराचष्टे ॥ निर्गतव्यार्थान.मिति । तदतिरिक्तत्व- पक्षे द्वितीयं शास्त्रशब्दसूचितयुक्त्या निराह ।। अन्यस्य चेति । स ब्रह्मविद्यामिति ब्रह्मशास्त्रात्यैव प्रकरणेन धर्मदेवमीमांसयोरप्रसङ्गादित्यर्थः । सर्वनिणेतव्यशास्त्रनिर्णायकस्यास्य परविद्यात्वेनाविवक्षाया- मेतदेकदेशामुख्यप्रतिपाद्यव्याख्यानरूपयोस्तयोः परविद्यात्वस्य सुतरामप्राप्तेरिति वाऽर्थः । बौद्धादेर्वेदादि- विरुद्धत्वेनायथार्थत्वाच्छास्त्रग्रहणसूचितप्रकरणेन निरास इत्यभिप्रेत्य द्वितीये तृतीयं निराकरोति ॥ अन्यस्येति । परशब्दार्थो तमत्वेनापि तव्यावृत्तिरित्याह ।। परत्वेति । परिशेपस्यानुत्तमत्वोक्त्या सूचित तत्प्रयोजकमाह ।। सम्भवतीति । उक्तन्यायं स्वोक्तप्रसक्तप्रतिषेधविरोव्यपव्याख्याननिरासेऽप्यतिदिशति ।। एतेनेति । 'सर्वे वेदा यत्पदभामनन्ति' 'वेदैश्च सर्वैरहमेव वेद्य' इत्यादिश्रुतिस्मृतिभिर्ऋगादीनामुपनिषदा -- परविद्याख्य शास्त्रम्) ॥ जिज्ञासाधिकरणम् ॥ ६५ स०- च ब्रह्मपरत्वावगमादुपनिषत्स्वपि ज्ञेयशुद्धब्रह्मविषयाणामुपासनादिव्याख्यानां बहूनां मन्त्रेप्वपि ज्योतिराद्य- धिकरणोक्तन्यायेन ब्रह्मपरभागस्य च दर्शनाच्चाविशेषादुपनिषदामृगादिभ्यः पृथक्करणं न युक्तमित्यभिप्रेत्य आह || ऋगादीति । ननु तथाऽपि ब्राह्मणपरिव्राजकन्यायेनोपनिषदां पृथकरण किं न स्यादित्यतः अस्मदुक्तरीत्या सति गत्यन्तरे ब्राह्मणपरिव्राजकन्यायमनुसृत्य रूपं द्विविधं नीलमनीलं चेत्या दिवद् द्वे विद्ये वेदितव्ये परा चैवापरा चेत्यत्र परापरशब्दयोविरुद्धार्थत्वप्रतीतेरपन्हवो न युक्त इति आह ।। ब्राह्मणेति । गत्यन्तररहिता गमनिकेत्यर्थः । स्वपक्षसाधकत्वेनोक्तं लिङ्गमेवापत्र्याख्यानान्तरनिरासेऽपि व्यापारयति ॥ अधीति । न चाधिगम्यत इत्यस्य प्राप्यत इत्यर्थः । अधिपूर्वस्य गमेाने प्रसिद्धेरिति भावः । अन्यथेत्युक्तबाधकमप्यपव्याख्याननिरासे व्यापारयति ॥ अनेकेति । सकृत् श्रुतविद्याशब्दस्य इति शेषः । ब्रह्मसूत्राणां परविद्यात्वेन सर्वोत्तमप्रामाण्यं वक्तुं विद्यायास्तावत्प्रामाण्यमाह ॥ इद- मुक्तमिति । ननु यथास्थिततत्वप्रतिपादकं हि शास्त्रम् । तदेव प्रमाणम् । न चेयं विद्या शास्त्ररूपा यतस्तस्याः प्रामाण्यं स्यादित्यत आह || सा तावदिति । शास्त्रशब्दार्थस्याभावे सति न प्रकरणमात्रात् मुख्यशास्त्रतेत्याशक्य परमेत्याद्युक्तम् । विपक्ष वाधकमाह ॥ अन्यथेति । सकृत् श्रुतस्य विद्याशब्दस्य अपरविद्यायां शास्त्रपरत्वं न परविद्यायामिति वैरूप्यं स्यादित्यर्थः । किमतो यद्येवमित्यत आह || शास्त्रं चेति । यदि शास्त्रत्वेऽप्यप्रामाण्यं तहिं ऋगादीनामपि प्रामाण्यं न स्यादिति भावः । ननु सर्वोत्तमत्वं कथं सिद्धयेत् । परशब्दादिति चेन् न । तस्यानेकार्थत्वादित्युक्तं तत्राह ॥ तस्य चेति । अपरप्रतियोगि- स्वेन परत्वोक्तेः अन्यार्थत्वेऽर्था भेदाढ़ेदव्यपदेशो न स्यात् ।। अपरशब्दस्याधमार्थत्वे परशब्दस्य निरतिश यार्थत्वमेव सिद्ध्यतीत्यर्थः । साधारणशब्दस्य समभिव्याहारादर्थविशेषनिष्ठत्वे दृष्टान्तः तद्यथेति । ननु 'द्वे विद्ये' इति श्रुतौ परविद्या श्रूयताम् । तस्याश्च विद्याशब्दादर्थविवक्षापूर्वकत्वं यथार्थत्वं चास्तु । शास्त्रत्वाच्च प्रामाण्यम् । तस्य परशब्दादुत्कृष्टत्वम् । ब्रह्मसूत्राणां किमायातमित्याशङ्कय ऋगादिशास्त्राणां अपरविद्यात्वात् ब्रह्मा वगतिकारणत्वेन तेषामेव परविद्यात्वे सर्वोकृष्टप्रामाण्यं लब्धमित्याह ॥ तच्चेति । ननु धर्मसूत्राणामपि वेदानुग्राहकत्वात्परविद्यात्वं स्यादिति चेत्तेषां ब्रह्मज्ञानार्थधर्मप्रतिपादकत्वेन अक्षरा- धिगतिकारणत्वाभावादित्याह । अन्यस्येति । ननु धर्मसूत्राणां कर्मप्रतिपादकत्वात्कर्मणां ब्रह्मज्ञानार्थत्वात् परम्परया तदस्तीत्यत आह ॥ परत्वेति । ननु कथं ब्रह्मसूत्राणां साक्षात्परत्वं वेदद्वारत्वादित्यत आह । सम्भवति त्विति । वेदद्वारा ब्रह्मावगतिहेतुत्येऽपि साक्षाझावगतिहेतुभूतवेदानुग्राहकत्वात्परत्वमित्यर्थः ।। एतेनेति । ऋगादिग्रहणेनोपनिषदामपि ग्रहणात् । गतिसम्भवे गोवलीवर्दन्यायानुपपत्तेः । उपनिपदा कर्मापेक्षितकर्तृप्रतिपादकत्वपक्षे ब्रह्मज्ञानसाधनत्वाभावात् परविद्यात्वाभावात् ब्रह्मशानसाधनत्वावलम्बनेन S.T.9 ६६ ॥ न्यायसुधा ॥ परविद्याध ऋगादीनामपि तथात्वेन विभागायोगादुपनिषदां ब्रह्मपरत्वमेव न कर्मापेक्षितकर्तृपरत्वमिन्युक्ते ऋगादीनानपि ब्रमणि तात्पर्य नान्यत्रेति तुल्यत्वादुपनिषदां स्वरसतो ब्रह्मपरत्वं न तथा ऋगादीनामिति एतावान विशेषः । तात्पर्य तु सर्वेषां ब्रह्मण्येवेति नोपनिषन्मात्रस्य परविद्यात्वमित्यर्थः । एकस्मिन्वाक्ये शब्दार्थसोचफलको गोवलीबईन्यायः । अनेकस्मिन्वाययेऽनुष्ठानापवादफलक: सामान्यविशेषभावन्यायः । यथा न हिस्यात् सर्वभूतानीति सामान्य अग्नीपोमीयं पशुमालभेतेति विशेपः । तजन्यमिति । ऋगा- दिजन्यज्ञानम्याधिगतिःचेन तत्करणबायोगात् सकृत् श्रुतस्य विद्याशब्दस्य शब्दज्ञानविषयत्वेनानेकार्थत्वा- पत्तन झानं परविद्येति । ब्रह्मसूत्राणां श्रुत्या सर्वोतमप्रामाण्यमुषपादितमुपसंहरति । अत इति । प० तावता नन्वतावता विद्याशब्दः शास्त्र पर इत्यत्र न नियामकमुक्तमित्यत आह ॥ इदमुक्तं भवति इति । 'ऐ विद्ये वंदिताये परा चैवापरा च तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वणवेदः शिक्षाकल्पो व्याकरण निरुक्तं च्छन्दोग्योतिषमिति । अथ परे त्यादिपाठमामः । अपरोक्षज्ञान परविद्याशब्दार्थ इति वादिनिरुक्तमदिति भावनोतं वेदादिशास्त्रेति । युक्तिन्तु चन्द्रिकायामुक्ता । वक्ति चात्रापि लेशतः ।। अन्यथेति । ज्ञानार्थव इत्यर्थः ।। सकृदुलेति । द्वे विधे वेदितव्ये इत्यत्र सकृत् श्रुतेत्यर्थः । परोक्ष- ज्ञानमारविद्या । अतो नानेकार्थत्वमिति तु तत्रापरेत्यादिविरोधादयुक्तमेवेति भावः । प्रामाण्यं सर्वोउमप्रामाण्यं वा कुतः । परशब्दस्यानेकार्थत्वादियुक्तरित्यत आह ॥ शास्त्रं चेति । अन्यन्न सन्भवतीति । अपरत्वप्रतिद्वन्द्रितया निर्देशादिति भावः । प्रमाणत्येनैव तत्वज्ञानकरणत्वेनैव उत्यर्थः । सामान्येति । अनेकार्थसाधारणपरशब्दार्थस्येत्यर्थः । किंचेयं परविद्येत्यनेमोक्ताहां निगह ॥ तच्चेति । इदमेव ब्रह्मतन्त्रमेव । अन्यस्य कर्मतन्त्रादेः । अझराख्यपरब्रमाप्रतिपादकत्वात् इति भावः ॥ परत्वेति । मुक्तिहेतुज्ञानजनकत्वादिति भावः ॥ अस्य ब्रह्म तन्त्रस्य ॥ मायावाद्युक्तं निगाह ।। एतेनेति । ब्रामणा आगताः परित्रा जकाश्चागता इतिवत्स्यादित्यत आह ॥ ब्राह्मणेति । अगतिकति भिन्नं पदम् । रामानुजोक्तं निराह || तजन्यमिति । अादिजन्यं उपनिपज्जन्यं वा । अनेकार्थनेति । द्वे विद्ये इत्यत्र ऋगादिकं तज्जन्यज्ञान चेत्यनेकार्थत्वं सकृत् श्रुतविद्याशब्दस्थेत्यर्थः । या० विप्रतिपिद्धमिति । शिष्यते यथा स्थितमेन वस्तु प्रतिपाद्यत इति शास्त्रशब्दस्य नित्तत्वादिति भावः ॥ अन्यन्न सम्भवति । परदस्यान्यत्वरूपोऽपरत्वस्यानन्यत्वरूपतापस्या तत्र ये कंदा यान्वङ्गानील्या दिभेदव्यपदेशो बाधितः स्यादित्यर्थः । अतोऽपरत्वमधमत्वं त प्रतियोगिकं च परत्वमुचमानमेव वक्तव्यमिति भावः ॥ सविधानादिति । विद्याशब्दे वोक्तरीत्या प्रामाण्यस्य प्रस्तुत- न्यादित्यर्थः ॥ सामान्यशब्दस्येति । अनेकप्रकारेण सम्भवदुतमःवार्थकपरशब्दस्येत्यर्थः । विशेषार्थस्य परविद्याख्यं शास्त्रम् ) ॥ जिज्ञासाधिकरणम् ॥ ६७ प्रामाण्येनोत्तमत्वस्य । परविद्येत्याख्या यस्य तत्परविद्याख्यमिति बहुव्रीहिलब्धमर्थ दर्शयति ।। तच्चानुत्तमं शास्त्रमिदमेवेति । नन्वन्यस्याप्रसङ्गः कथं धर्मादिमीमांसासद्धावादत आह ॥ परत्वेति ॥ अनेका- र्थताकल्पनेति । द्वे विद्ये इति सकृत् श्रुतस्य विद्याशब्दस्य शाब्दज्ञानरूपानेकार्थताकल्पनापत्तेरिति भावः । श्री०- शब्दान्तरेति । विद्याशब्देत्यर्थः । सामान्यशब्दस्य परशब्दस्य ॥ विशेषार्थस्य इति । अनुत्तमत्वरूपार्थस्येत्यर्थः । अगतिका गतिरिति भिन्न पदम् । तजन्यं ऋगादिजन्यम् उपनि- षजन्यं वा । - च०- शब्दान्तरसमभिव्याहारेति । विद्याशब्दसमभिव्याहारेत्यर्थः ॥ सामान्यशब्दस्य इति । उत्तमत्वरूपसामान्यधर्मावच्छिन्ननिरूपितशक्तिकस्येत्यर्थः । विशेपार्थकत्यस्येति । स्वसमभि- व्याहृतपदार्थतावच्छेदकावच्छिन्नव्यक्त्यन्तरावधिकत्वविशेषितोत्तमत्वरूपविशेपधर्मावच्छिन्ननिरूपकताक लक्षणोपगमादित्यर्थः । अन्यस्य । धर्ममीमांसादेः ॥ अनेकार्थतेति । द्वे विद्ये वेदितव्ये इति वाक्य- घटकविद्याशब्दस्य शब्दत्वशब्दजनितज्ञानरूपत्वनानाधर्मावच्छिन्ननिरूपकताकशक्तिद्वयकल्पनाप्रसङ्गात् इत्यर्थः । सु० -- यद्यपि विद्याशास्त्रशब्दौ शिष्याचार्यव्यापाराडबन्धिनौ तथाऽप्युभयानुगत- तत्त्वज्ञानकरणत्वमात्रमुपादाय द्वयोरैकार्थ्यमुक्तमित्यवगन्तव्यम् । 'ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः । ता एव परमा विद्या यदा विष्णोतु वाचकाः' इति भगवत्पाीयं व्याख्यानमप्येतमेवार्थ सूचयति । ब्रह्ममीमांसाशास्त्रव्युत्पादितन्यायानुपकृता हि वेदादयो विष्णोरवाचकास्तदुपकृताश्च तस्य वाचका भवन्तीति । तथापि केवलस्य न परविद्यात्वं लभ्यत इति चेत् । मा लामि । वेदादीतिकर्तव्यतारूपस्थास्य पृथक् प्रामाण्यानभ्युपगमात् । -- वा० ननु विद्याशास्त्रशब्दयोभिन्नविषयत्वान्न व्याख्यानव्याख्येयभावो युक्त इत्यतो गौणी वृत्तिमाश्रिय समाधत्ते ।। यद्यपीति । नन्धपव्याख्यानस्यायुक्तत्वेन प्रसक्तप्रतिषेधस्य तद्विरोधाभावेऽपि 'ऋगाद्या अपरा विद्येति भगवत्पादीयव्याख्यानविरोधः स्यादेवेत्यतो विकल्पेन भगवद्वाचकेष्वपि ऋगादिषु यदातदाशब्दप्रयोगादुपकारकविशेषसाहित्यतदभावविवक्षायाः सूचितत्वादुपकृतानां परविद्यात्वे परिशेषणीय उपकारकप्राधान्यविवक्षया प्रसक्तप्रतिषेधेन परिशेषो नानुपपन्न इत्याह || ऋगाद्या इति । नन्वेवं तहिं वस्तुत उपकृतस्य ऋगादेरनुपकृतऋगाद्यपेक्षया परविद्यात्वं सिद्ध्ये न् । न तूपकारकप्राधान्य- S.T.9A (अ.१ पा. १ अ. १ ६८ ॥ न्यायसुधा विवक्षामात्रेण भवदाभिमतमुपकारकस्यैव परविद्यात्वमित्याशङ्कां सयुक्तिकमनङ्गीकारेण परिहरति ॥ तथाऽपीति । म० ननु विद्याशास्त्रशब्दयो(न) व्याख्यानव्याख्येयभावः । वेत्त्यनया शिष्यस्तत्वमिति विद्यागन्दन्य शिप्यकर्तृकवेदनकरणत्वार्थकत्वेन शास्ति तत्वमनेनेति शास्त्रशब्दस्य गुरुकर्तृकशासनकरणा- कन्चन तयोभिन्नार्थकत्वादित्यत आह || यद्यपीति । तथाचाख्यातार्थभूतधात्वर्थानुकूलव्यापारभेदेऽपि नम्याविवक्षया धान्यर्थभूतज्ञानमात्रविवक्षया तत्करणत्वस्योभयत्रानुगतत्त्वात्तदैकार्थ्यमिति भावः । वस्तुतस्तु शिष्याचायव्यापारानुवन्धिनौ शिप्याचार्यकर्तृकव्यापारघटितप्रवृत्तिनिमित्तकौ । उभयानुगतं शिष्या- चावत्र्यापारद्वयानुगतम् । तत्वज्ञानकरणत्वं तत्वज्ञानकारणभूतव्यापारघटितप्रवृत्तिकत्वं विद्याशास्त्रशब्द- द्वयानुगतमितियावन् । मात्रशब्देन व्यापारद्वये शियाचार्यकर्तृकत्वविवक्षां व्यावर्तयतीति व्याख्येयम् । नन्येवमपि न परविद्यात्वं ब्रह्मसूत्राणाम् । ऋगाया इति । ऋगादीनां ब्रह्मविषयत्वनिर्णयो मीमांसायत्त इत्यर्थः । एवं तर्हि ब्रह्मसूत्राणामितिकर्तव्यतात्वेन पृथक् परविद्यात्वं प्रामाण्यं च न स्यादिति शङ्कते ।। तथाऽपीति । इष्टापत्त्या परिहरति ॥ मा लाभीति । । मापद्यते । ननु वेद्यते अनेन शिप्येण कळ वेदादिना करणेनेति विद्याशब्दः शिष्यप्रयत्न- जन्यज्ञानकरणवाची । शिप्यते प्रतिपाद्यते आचार्येण कळ वेदादिना करणेनेति शास्त्रशब्दः आचार्य- प्रयत्नमाध्यशासनकरणवाची । तथाच विद्याशब्दशास्त्रशब्दो भिन्नार्थाविति न व्याख्यानव्याख्येयभाव- अतः कथं परविद्याव्यमित्यनूद्यानुत्तमं शास्त्रमिति व्याख्यातमित्युक्तमित्याशङ्कय निगह ।। यद्यपीति । तथापीति ॥ वेदनशासनयोः शिप्याचार्यप्रयत्नसाध्यत्वेऽपि शिष्याचार्यव्यापारांश विहाय वेदनगासनयोस्तुल्यतत्वज्ञानत्वधर्ममात्रमुपादाय तजनकत्वमात्रेणैकार्थ्यमुक्तमित्यर्थः । उभयानु- गतेत्यम्य विद्याशास्त्रोभयानुगतेति वार्थः । नन्वेवमाथर्वणभाप्यविरोधः । तत्र ऋगादेख परविद्यात्वोक्तेः इत्यत आह ॥ ऋगाद्या इति । यदा विष्णोर्न वाचका इति मन्त्रब्राह्मणाभिप्रायम् । कर्मदेव नन्त्रोक्तन्यायानामपि कर्मकाण्डदेवकाण्डमात्रनिर्णायकत्वात् । उपनिषदां तु विष्ण्ववाचकत्वदशायाः अभावात् । उक्तं हि छान्दोग्यभाप्ये तृतीयेऽन्याये । आरण्यकमावर्तयेदारण्यकमावर्तयेदिति । अन्यथतरपरत्वे आवृत्तिविधानं व्यर्थ स्यात् । 'आरण्यकेप्वृते विष्णु नैवान्यत्किञ्चिदुच्यत' इति तत्रोक्त- म्मृतिविरोधश्च स्यात् । यदा वाचका इति तु त्रिरूपकृत्स्सवेदाभिप्रायम् । ब्रह्मतन्त्रस्य कृत्स्नवेदेति कर्तव्यतारूपत्वात् । यदेत्युक्तिरपि मन्त्रब्राह्मणरूपैकदेशाभिप्राया। आगमेन 'द्वे विद्ये वेदितव्ये ' इत्यागमेनेत्यर्थः ॥
41- प्रामाण्यमाने अनुमानम् " जिज्ञासाधिकरणम् ॥ या०- शिष्याचार्यव्यापारानुबन्धिनाविति । यथाक्रमं शिप्याचार्यव्यापारघटितार्थामि- धायिनावित्यर्थः । वेदनस्य विद्याशब्दबोध्यार्थान्तर्गतव्यापारस्य शिप्यकर्तृकत्वात् । प्रतिपादनस्य शास्त्र मानमिति पूर्वोक्तयोजनायां पूर्वार्धोक्तानां गुरूणां गुरुत्वादीनां पक्षीभूतशास्त्रनिष्ठतया प्रामाण्यरूप- साध्यार्थान्तर्गतव्यापारस्याचार्यकर्तृकत्वादिति भावः । नन्वेवं भगवत्पादीयव्याख्यानविरोधः । तत्र ऋक्शब्दबोव्यऋगादीनामेव परविद्यात्वोक्तेरित्यत आह ॥ ऋगाद्या अपरा इति । एतमेवार्थ एतत्- शास्त्रस्य परविद्यात्वरूपम् । केवलस्य ऋगाद्यननुग्राहकस्य ब्रह्ममीमांसाशास्त्रस्य ॥ पृथगिति । वेदाननु. ग्राहकत्वेनेत्यर्थः ।। च०- अनुकूलतासम्बन्धन शिष्यकर्तृकवेदनावच्छिन्नग्रन्थनिरूपितशक्तिकतया विद्यापदस्याचार्य- कर्तृकप्रतिपावनक्रियावच्छिन्नग्रन्थनिरूपितशक्तिकशास्त्रशब्दस्य च समानप्रवृत्तिनिमित्तकताविरहेण व्याख्या- नव्याख्येयभावो न सङ्गच्छत इत्याशङ्कय समाधित्सते ॥ यद्यपीत्यादि । ऐकार्थमिति । तत्तज्ज्ञान- करणत्वावच्छिन्ननिरूपकताका गौणीवृत्तिरुभयत्रोपेयत इति भावः । नन्वेवमाथर्वणभाप्यं विरोस्यतीति आशङ्कय तत्तात्पर्यप्रकाश्योभयोरैककण्ठ्यमुपपादयति ॥ ऋगाद्या इति । उपकारकप्राधान्यविवक्षयाऽयं परिशेष इति भावः । केवलस्य व्युत्पादकतासम्बन्धेन ऋगाद्युपकारकन्यायाविशेपितस्य ।। मा लाभीति । कर्मण्ययं चिण् । अनु० गुरुगुरूणां प्रभवः शास्त्राणां बादरायणः । यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ॥ सु० एवं तावदागमेनास्य शास्त्रस्यानुत्तमं प्रामाण्य प्रसाध्याधुनाऽनुमानतोऽपि तत् सिपाधयिपुरादौ तावत्प्रामाण्यमाने अनुमानं वक्तुमाह ॥ गुरुरिति । यतो यत्कारणं बादरायणो गुरूणां जगतस्तचोपदेशकानां ब्रह्मादीनां गुरुरुपदेष्टा । यतश्च शास्त्राणां वेदानां भारतादीनां च यथासम्भवं प्रभवो गुरूणामशेषार्थप्रतिपादकानां सविस्तराणां वेदादिशास्त्राणां गुरुर्मुख्य- प्रभवो न तु सम्प्रदायमात्रप्रवर्तक इति वा । यतश्चाजादिभ्यः श्रोतृभ्यस्तेषामों मोक्षस्तदर्थः तस्मै तदर्थतः । तदुदितं तेन बादरायणेनोपदिष्टमिदं शास्त्रमतो मानं भवितुमर्हति । ननु गुरुगुरूणामित्युत्तरश्लोके पूर्वश्लोकोक्तप्रमाणानुपपादनात्प्रमाणान्तरस्याप्यकथनात् तत्कथनपरत्वे वाऽनुत्तमत्वस्य सर्वथाऽकथनादुत्तरश्लोकोऽसङ्गत इत्यत आह ॥ एवमिति । 'पृटेनागम एवादी वक्तव्यः साध्यसिद्धय' इति न्यायमनुसन्धाय तावच्छन्दप्रयोगः । अत्र गुरुगुरुणामित्यादेर्मानम् -- वा० ॥ न्यायसुधा ॥ (भ. १ पा. १ म. १ इत्यन्य च साध्यसाधनभावाप्रतीतेस्तत्समर्पकत्वं यत इत्यस्य दर्शयितुं 'निमित्तकारणहेतुषु सर्वासां प्राय- दशनम्' इत्यनुसन्धाय यत इत्येतद्व्याख्याति ॥ यत्कारणमिति । ननु गुरुर्गुरूणामित्यादिहेतूनामित्यादि- वध्यमार्गत्या गुरुगुरुत्वादीनां हेतूनां वाद्यानुकूल्यान्येव साध्यानीति तावन्निष्टङ्कितम् । अत्र वक्रानु- कृल्यकदेशविवक्षितार्थतत्त्वज्ञानसाधकत्वेन भवदभिमतस्य गुरूणां गुरुत्वस्य न तत्साधकत्वं युक्तम् । उपदेगकानुपदेशकत्वेन वक्ष्यमाणरीत्या तदपेक्षया अधिकज्ञानसिद्धावपि तत्त्वज्ञानासिद्धेः । न च तत्त्वो- पदेशक एवं गुमशब्दम्य योगरूढिभ्यां प्रवृत्तत्वेन तत्सिद्धिरिति वाच्यम् । तावताऽपि तत्त्वोपदेशकान्त- रापक्षयाऽधिकतत्त्वज्ञानसिद्धावपि विवक्षितार्थतत्त्वज्ञानासिद्धेः । प्रभवः शास्त्राणामित्यस्य तु यत इत्यस्य गुगुम्णामित्यनेनान्विततया हेतुत्वसमर्पकाभावेन हेतुत्वमेव न प्रतिपन शक्यम् । न च यत इत्यस्य अवृत्त्या योन्यतया चशन्ना याहारेग तस्यापि हेत्वन्तरत्वं प्रतिपत्तुं शक्यमिति वाच्यम् । वेदानां भाग्नादीनां च प्रभवत्वेन तदर्थतत्त्वज्ञानसिद्धावपि विवक्षितार्थतत्वज्ञानालाभात् । न चात्रोभयत्र सर्वजन्यम्य साध्यतया विवक्षितत्वेन तन्मुखेन विवक्षितार्थतत्त्वज्ञानसिद्धिरिति वाच्यम् । उपदेशकान्तर- तत्वोदेिशक-वमात्रेण वेदभारतादिप्रभवत्वमात्रेण च सार्वज्ञासिद्धेः । वेदादिप्रभवत्वेऽप्यपटुकरणत्व- सम्भवेन तेन पटुकरणत्वासिद्धेश्च । यत इत्यस्य पूर्वार्धेऽन्वयेनोत्तरार्धे पक्षसाध्यमात्रोत्तया हेत्वभावेन वत्रानुकल्यैकदेशविवक्षाश्रोतृप्रसङ्गानुकूल्यासिद्धश्च । यतश्चत्यस्यावृत्त्याऽजादिभ्यस्तदर्थतस्तदुदितमित्यनेन अन्वयेऽपि ब्रह्मादिभ्यस्तज्ज्ञानार्थ बादरायणादुत्पन्नमित्युक्तिमात्रेण श्रोतृप्रसङ्गानुकूल्यालाभात् । अतो न वक्रानुकल्यादिहेतुसमर्पकत्वमस्य श्लोकस्येत्यतो जगद्गुरूणामजादिभ्य इत्येतत्सन्निधानादत्र गुरूणामित्यनेन जगत्तत्त्वोपदेशकब्रह्मादीनां सर्वज्ञकल्पत्वस्याभिप्रेततया सर्वज्ञकल्पोपदेशकत्वस्य च सार्वज्ञसाधकत्वोपपत्तेः वेदभारतादीनां चाशेषार्थप्रतिपादकत्वस्य विवक्षितत्वाद्गुरूणामित्यादेरावृत्त्या शास्त्रादिविशेषणत्वे च साक्षादेवाशेषार्थप्रतिपादकत्वलाभादशेषार्थप्रतिपादकशास्त्रप्रभवत्वस्य च सार्वज्ञसाधकत्वोपपत्त!भयत्रापि अनुपपत्तिः । सविस्तरत्वार्थकगुरूणामित्यस्य शास्त्रविशेषणत्वे तत्प्रभवत्वेन पटुकरणत्वसिद्धिः । गुरूणां इत्यनेन ब्रह्मादीनां तत्त्वोपदेशकत्वोक्तेरजादिभ्य इत्यनेन तेषां श्रोतृत्वस्यार्थपदेन मोक्षस्य तदुदितमिति बादरायणेनोपदिष्टत्वस्य च विवक्षिततया अजादिभ्यस्तदर्थतस्तदुदितमित्युक्तहेतुभिर्विवक्षादिसिद्धिरिति न काऽप्यनुपपत्तिरित्यभिप्रेत्याह || बादरायण इत्यादिना । म०-- यत इत्यस्यार्थो यत्कारणमिति । निमित्तकारणहेतुषु प्रयोगे सर्वासां प्रायदर्शनमित्युक्तेः यत्कारगमिन्युक्तम् । यस्मात्कारणादित्यर्थः । प०-- अनुमानत इति । 'आप्तवाक्यतया तेन श्रुतिमूलतया तथे'त्यादिग्रन्थेनाप्तवाक्यत्वादि- प्रमाणत्रयावगतत्वाद्ब्रह्मतन्त्रप्रामाण्यमनुत्तममित्यनुमानेनानुत्तमप्रामाण्यं सिपाधयिषुरित्यर्थः ॥ वक्तुमाह ॥ या०- च०- --- हेतूनां साक्षास्साध्यनिर्देशः) || जिज्ञासाधिकरणम् ॥ ७१ इति । एतच्छास्त्रं प्रमाण अनुकूलवक्तृश्रोतृप्रसङ्गवत्वाद्धारतवदित्यनुमानं अतो मानमिन्यंदोन बनुभनु- कूलवत्रादिमत्त्वरूपहेतुसाधकान्हेतूनाहेत्यर्थः । यत इति हेतौ पञ्चमीति भावेन प्रकृतिप्रत्यययोरर्थनाह ।। यत्कारणमिति । निमितकारणहेतुपु सर्वासामिष्टिरित्युक्तेः प्रथमोक्तिः । यस्मात्कारणादिन्युक्तावपि पञ्चम्योः शब्दसाधुत्वमात्रार्थत्वेनाधिकार्थत्वाभावात् । यद्वा यत इत्यस्य नेयमोंक्तिः किंतु यकारणं यस्य शास्त्रस्य कारणमिति बादरायणविशेषणम् । यत्कारणमित्युक्तयच्छन्नार्थसेदं शास्तमित्यन्वयः । पूर्वस्मा- दनुवृत्तिं मत्वाऽऽह ।। जगत इति । अर्थतः शव्दतश्च गुरुत्वमाह ॥ अशेपार्थति । आधादिभ्य उपसङ्ख्यानमिति सर्वविभक्त्यर्थे तसिप्रत्ययोक्तेश्चतुर्थ्यर्थे तसिरिति भावेनाह || तस्मै तदर्थत इति ।। आगमेनेति । परविद्याख्येत्यर्थः ॥ यतो यत्कारण,मिति । निमित्तकारणहेदपु सर्वासां प्रायदर्शनमिति कात्यायनस्मरणात् प्रथमा कृता यस्मात्कारणादित्यर्थः । प्रामाण्यमात्रे उत्तमत्याविशेषितम्रामाण्ये ॥ यत्कारणमिति । निमित्तकारणहेतुयु सर्वासां प्रायदर्शन मिति वार्तिककारोक्त्या तत्प्रकृतिकसकलविभक्तीनामेकार्थव तोगकृत्येह प्रथमा पञ्चदर्थ- प्रत्यायिकेति भावः । अत्र गुरुर्गुरूणामित्यादिहेतूनां वक्तृश्रोतृप्रसङ्गानामानुकूल्यान्येव साक्षात्ला- ध्यानि मानसिति तु परमसाध्यनिर्देश इति ज्ञातव्यम् । तथा हि । विनक्षितार्थतत्वज्ञानं करणपाटवं विवक्षा चेति त्रयं वक्तुरानुकूल्यं नाम । तत्वज्ञानयोग्यता वक्तप्रीतिविश्कता ऐति द्वथं श्रोतुः । श्रोतृप्रयोजनोद्देशः प्रसङ्गस्य । तत्र गुरूणां गुरुरिति वरदरायण,स्य विवक्षि- तार्थतत्वज्ञानसाधने हेतुः । यो हि यस्य तच्चोपदेष्टा स ततोषिकतत्वज्ञानवानुपलब्धः । उथ च सर्वज्ञकल्लानां ब्रह्मादीनां तत्वोपदेष्टा ब्रह्मद्रादिदेवेवित्याधागमादरतः । अतः सर्वको भवितुमर्हतीति । गुरूपा शास्त्राणां गुरुः प्रभव इत्यनेनापि तत्वज्ञानं करणपाटवं च साध्यते । यो हि यावदर्थप्रतिपादकत्यागमस्य प्रभवः स तावन्तमर्थं तवतो जाननवगतः । अयं चाशे- पार्थगतिपादकस्यागमस प्रभवोऽनुवं. पञ्चमिदरसमान्भगवान्दैदानित्यादिवचनादयतः । ततो भक्तिच्यमनेन सर्वझेन । यश्च वहोरागमस्य प्रभवः सोऽसति निमित्तान्तरे पकरणो दृष्टः । अयं चापारस्य वेदादेः प्रभवः कथमपटुकरणो भवेदिति । तदुरितमिति बचनेन कार्येण वार्विवक्षा कारणभूतोएफ.दिता । गुरुणामिति श्रोणां तच्चजागयोग्यतोपपादने हेतुः । न हि स्वयं तत्वज्ञानायोग्यः परेपो तचोपदेष्टा दृष्टः । अजादिभ्य इति वक्तप्रेमा- सदत्वोपपादनम् । ब्रह्मादयो हि परमेश्वरप्रेमविषयाः सुप्रसिद्धाः । तदर्थत इति प्रमशःडकू- ल्योपादनम् । अत्र सर्वत्राकारणकार्योत्पत्त्यादिप्रमङ्गो विपक्ष ब.धकतर्क उन्लेयः ।
॥ न्यायसुधा ॥ ७२ (अ. १ पा. १ भ. १ अत्रैतच्छ्लोकोक्तं मानमित्येतदेतच्छ्लोकोक्तहेतून्प्रति न साक्षात्साध्यमपि तूत्तरश्लोकोक्त- वत्राद्यानुकृल्यादीन्येव साक्षात्मा यानि परमसाध्यनिर्देशत्वाच्च मानमित्यस्य न वैयर्थ्यमुपपत्तिं तूतरत्र वक्ष्याम इत्यभिप्रेत्य वक्राद्यानुकूव्यादेरे हेतुहेतुमद्भावं घटयितुं वत्राद्यानुकूल्यादिस्वरूपविवेचनाय प्रसक्ति आह ।। अत्रेत्यादिना । गुरुर्गुरूणामित्याद्युक्तहेतुत्रयस्य क्रमेणानुकूल्यत्रये हेतुत्वमिति भ्रान्ति वारयितुं यथायोग्यं हेतुमा ये विवेचयति ॥ तत्रेति । सार्वज्ञमुग्वन विवक्षितार्थतत्त्वज्ञानसिद्धरत्राभिप्रेतत्वात् बादगयणः सर्वज्ञः सर्वज्ञकल्पोपदेण्त्वादिति विवक्षितानुमाने हेतुसाम्ययोर्यथास्थितयोाप्तेर्लोके दृष्टान्ता- भावेन दुर्ग्रहत्वादुपदेश्याधिकतत्त्वज्ञानरूपसामान्यमुखेन व्याप्तिरनुसन्धेयेत्यभिप्रायेणाह ॥ यो हीति । हेतोः पक्षधर्मतामुपपादयति ॥ अयं चेति । गुरूणामित्यस्य पूर्वोक्तमर्थद्वयमभिप्रेत्याह । गुरूण मिति । बादरायणः सर्वज्ञोऽशेषार्थप्रतिपादकागमप्रभवत्वादिति विवक्षितानुमानेऽपि सामान्यव्याप्तिमेवाह ॥ यो हीति । वेदाद्यागमस्याशेपार्थप्रतिपादकत्वे तस्य च तत्प्रभवत्वे क्रमेण प्रमाणं वदन्नस्यापि पक्षधर्मतां आह ॥ अयं चेति । आदिपदेन 'व्यासो भूत्वा च तेन च । वेदादपि परं चक्रे पञ्चमं वेदमुत्तमम्' इत्यादेः सङ्ग्रहः । वादगयणः पटुकरणोऽपारवेदादिप्रभवत्वादिति विवक्षितानुमाने विशेषे व्यभिचार- शङ्काऽनवकाशात्पक्षधर्मताकथनावसरे विशेषणमनुपादाय बह्वागमप्रभवस्यापि दोषवशादपटुकरणत्वदर्शनात् सामान्यव्याप्तौ तदवकाशात्यावर्तकविशेषणप्रक्षेपण सामान्यव्याप्तिमाह ॥ यश्चेति । बादरायणो विवक्षावान् वचनवक्त्वादिति विवक्षितानुमाने व्याप्ति सूचयितुं कार्यकारणयोर्व्याप्यव्यापकभावस्य सुप्रसि- द्धत्वादनयोः कार्यकारणभावं सूचयति । तदिति । ब्रह्मादयः श्रोतारस्तत्त्वज्ञानयोग्या गुरुत्वादिति विवक्षितानुमाने व्यतिरेकव्यभिचारादर्शनप्रदर्शनमुखेन व्यतिरेकव्याप्ति सूचयति ॥ न हीति । विमताः श्रोतारो वक्तृप्रेमास्पदान्यजादित्वादिति विवक्षितानुमाने हेतोः सा येन व्याप्तिमागमप्रसिद्ध्या दर्शयति ।। ब्रह्मादय इति । प्रसङ्गः प्रयोजनोद्देशको मोक्षोद्देशकत्वादिति विशेषेण सामान्यानुमाने विवक्षिते मोक्षस्य प्रयोजनविशेषतया सर्वसिद्धत्वाद् व्याप्तिसिद्धिं शास्त्रस्य सूत्रे मोक्षसाधनत्वोक्त्या पक्षधर्मतासिद्धि चाभिप्रेत्य अनुपपाद्य प्रसङ्गानुकूल्योपपादकांशमेव दर्शयति ॥ तदिति । अत्र तत्त्वोपदेशस्योपदेश्यापेक्षया अधिकतत्त्वज्ञानसाभ्यन्वादागमप्रणयनस्य वक्तुस्तदर्थज्ञानसाव्यत्वा-हागमप्रणयनस्यासति निमित्तान्तरे पटुकरणत्वसाध्यत्वाचनस्य च विवक्षासाध्यत्वात्तत्वज्ञानायोग्यस्य तदनुत्पत्त्या तत्त्वोपदेशस्य ज्ञानद्वारा तत्त्वज्ञानयोग्यतासाध्यत्वादेषु हेतुप्वकारणकार्योत्पत्तिप्रसङ्गः । अन्त्ययोर्द्वयोश्चादिपदसंगृहीतागमप्रसिद्धि- विरोध: सामान्यविशेषभावविरोधश्च विपक्षे वाधका उन्नया इत्याह ।। अत्रेति । स० अत्र सर्वत्रेति । प्रथमानुमाने हेत्वर्थस्य तत्त्वोपदेतृत्वस्य विवक्षितार्थतत्वज्ञानकार्यत्वे तदभावेऽभावात्तत्त्वज्ञानाभावेऽपि तत्त्वोपदेशकत्वाङ्गीकारे अकारणकार्यो पत्तिरेव द्वितीयतृतीयचतुर्थेप्वपि : प० -- हेतूनां साक्षात्साध्यनिर्देशः) ॥ जिज्ञासाधिकरणम् ॥ अकारणकार्योत्पत्तिः द्रष्टव्या । पञ्चमे तु आदिशब्दोक्त आगमबाधो विपक्ष बाधकत्वेन ज्ञेय इति भावः । इति ज्ञातव्यमिति । अयं भावः । यत इति श्रवणाप्राप्तं अत इत्येतदावय॑म् । अत एतच्छास्त्रमनुकूलवक्तृकं शास्त्रप्रभवत्वादिविशिष्टेनोक्तत्वात् भारतादिवत् । विमतमनुकूलश्रोतृकं जगदुपदेष्ट्रन्यो अजादिभ्य उपदिष्टत्वात् । विमतमनुकूलप्रसङ्गोपेतं श्रोतृप्रयोजनोद्देशशब्दत्वात् भारतवत् एवेत्यतःशब्दोक्तहेतुत्रयपरामर्शेन साध्यत्रयम् । तथैतच्छास्त्रं मानं भवितुमर्हति अनुकूलवत्रादिमत्वात् भारतवदिति । अनुकूलवक्तृत्वादिरतःशब्दार्थ इति । अनुकूलवश्रादिमत्त्वमपि प्रामाण्ये साक्षान्न हेतुः । किंतु आप्तवावयत्वसाधनद्वारेत्यग्रे व्यक्तमिति परमसाध्यनिर्देश इत्येवोक्तम् । आद्यसाध्यत्रये हेतुत्रयं नाप्रयोजकमिति उपपादयति ॥ तथा हीत्यादिना ॥ श्रोतुरिति । आनुकूल्यमित्यनुषङ्गः । एवमने अपि । उपपादयति ।। इत्यागमादिति । 'ब्रह्मन्दादिदेवेषु मनुप्यपितृपक्षिषु । ज्ञान संस्थाप्य भगवान्' इति भाप्योक्तागमादित्यर्थः । 'अनुक्तं पञ्चभिदैन वस्त्वस्ति कुतश्चन' इत्येकं वाक्यम् । 'उत्सन्नान् भगवान्वेदानुज्जहार हरिः स्वयमि'ति अपरम् ॥ अत्र सर्वत्रेति । गुरुगा गुरुत्वात्तत्त्वज्ञानवन्त्वमित्यत्र गुरुशास्त्रप्रभवत्वात् सार्वज्ञ करणपाटवं चेत्यत्र वक्तृत्वाद्विवक्षावानित्यत्र गुरुत्वादजादयस्तत्त्वज्ञानयोग्या इत्यत्र अजादित्वात्प्रेमास्पदत्वमित्यत्र चेत्यर्थः । व्याघातप्रमाणबाधादिरादिपदार्थः । तेनाजादित्वात्प्रेमा- स्पदत्वमित्यत्रापि विपक्षे बाधकमुक्तं ध्येयम् । या०. अनुक्तं पञ्चभिः वेदैरित्येतद्वेदानामशेषार्थप्रतिपादकत्वांशे मानमिति बो-यम् । अजादित्वाद्वक्तप्रेमास्पदा(नि) इत्यत्राकारणकार्यो:पत्तिरूपप्रसङ्गो न सम्भवतीत्यत उक्तम् ॥ अजादिभ्य इतीति । तेन तत्रागमिकप्रसिद्धिबाधप्रसङ्ग एवं विपक्षे बाधक उन्नय इत्युक्तं भवति । अत एवं सुध सेद्धा इति पूर्वमुक्तं ज्ञातव्यम् ।। श्री० ----- प्रयोजनोद्देशो वक्तः । नन्वन्तु बादरायणस्य गुरूणां गुरुत्वम् । विवक्षितार्थतत्त्वज्ञानं मान्त्यित्याद्यप्रयोजकताशङ्काया बाधकमाह ।। अत्र सर्वत्रेति ।। च०- ---- बादरायणपक्षकसार्वज्ञसाधकब्रह्माद्युपदेष्टुत्ववेदादिशास्त्रप्रभवत्वलिङ्गकानुमानद्वये तथा तत्पक्षकविवक्षाकरणपाटवसाध्यकापारवेदादिप्रभवत्वहेतुकानुमाने च निदर्शनविरहेण विशेषव्याप्तेढुंहतया सामान्यमुखव्याप्तिमभिधित्समानोऽप्रयोजकताशंकां च अकारणकार्यो:पत्तिप्रसङ्गेनापाचिकीर्षुः कतिपयपदा. वृत्त्युपगमेन न्यूनतामपनिनीषुर्योजनां दर्शयति ।। बादरायण इत्यादिनोग्नेय इत्यन्तेन । ST. 10 चा (अ. १ पा. १ अ. १ ॥ न्यायसुधा॥ सुः नन्यत्र गुरुगुरूणामित्यादीनां शास्त्रप्रामाण्येन यथाश्रुत एव साध्यसाधनभावो व्यायायताम् । किं मध्ये माध्यान्तराध्याहारकल्पनया । यद्यपि यथाश्रुतानामेषां व्यधि- करणना ! नथापि नदिन मिति वचनाद्विभक्तिविपरिणामेन एकाधिकरणता भविष्यति । अत्र गुरुगुणामित्यादिहेतूनामिन्युक्तमुपपादयितुं शङ्कते ॥ नन्दति । गुरुगुरुत्वाशेप- मायाचनानां श्रृंनं मानमित्येव साध्यमस्तु किं सार्वज्ञमुखेन सिद्ध्यद्विवक्षितार्थतत्त्वज्ञानकरणपाटव- वर कचक्रानुकल्ययात्राश्रुतम्य साम्यत्वकल्पनया । एवं गुरुत्वाजादित्वयोर्मोक्षोद्देश्यकत्वस्य च श्रुत- मनमः यकन्चसम्भव नाश्रुतश्रोतृप्रसङ्गानुकृल्यसायकत्वमुपपन्नम् । श्रुताश्रुतपरित्यागकल्पनारूपदोषापत्तः न्यतः । नन्वत्र वक्तृश्रोतृप्रसङ्गानुकल्यानां साध्यत्वे वादरायणश्रोतृप्रसङ्गानां पक्षत्वाद्गुरुगुरुत्वाशेषशास्त्र- प्रचन्ननगन्यानादिवमोक्षोदेश्यकत्वानां पक्ष सत्त्वेन साध्यवैय्यधिकरण्याभावात्प्रामाण्यसाधने च "मय बनेपा च हेतूनां च तत्रासत्त्वेन सायवैय्यधिकरण्यापल्या बाधकवशात् श्रुतपरित्यागेन कारनायामपि न दोषः । यद्यपि व्याप्तिसत्त्वे वैय्यधिकरण्यं न दोषस्तथाऽपि समानाधिकरणयोरेव त्रयमिग्रहम्नत्र वैयधिकरण्यम्य व्याप्त्यभावसम्पादकन्वादोषत्वमेवेत्यतः स्यादेतदेवं यद्यत्र गुरुर्गुरूणा- भन्न वेन तदितमिति च श्रवणात् । तम्य च तेन बादरायणेनोदितमिति तृतीयातत्पुरुपत्वात्तेन दर्न बननादरायणपदविशेषणतया हेतुगरीरप्रविष्टानां गुरूणां गुररित्यादीनामपि विपरिणामसूचनात्तदु- दिनानियत्र नदिन्यन्य भिन्नपदत्वे वा पूर्वार्धोक्तप्रथमान्तानां तृतीयान्ततया विपरिणामे उदितमित्यनेन म हावादगमणोदितं तच्छा मानमिति सम्बन्धे सति गुरूणां गुरुणा बादरायणेनोदितत्वग्य दबावन बादरायणनोदितत्वम्य गुरुभ्योऽजादिश्य उदितत्वस्य तदर्थत उदितत्वस्य च लाभात्तस्य च नियमभवान्न व्यधिकरणता । यद्यप्यत्रापि श्रुताश्रुतपरित्यागकल्पने समाने तथाऽपि तत्र वाक्या- अंत्रिो ने अत्र तु विभक्त्यर्थमात्रविपये ते इति विशेष इति वाऽत्र तदुदितमिति विभक्तिविपरिणाम . माकन्द नत्र ज्ञापकम्याभाव इति वा विशेष इति नानुपपत्तिरित्यभिप्रेत्याह ॥ यद्यपीति । गुरूणां गुरुत्वादित्यादिहेतूनां साक्षाद्वकाद्यानुकूल्यमेव सायं, न प्रामाण्यमित्युक्त- मत : नन्वति । यदि सामान्यमेव साक्षात्सायं स्यात्ता व्यधिकरणता स्यात् , इदं शास्त्र प्रयासम्य गुरुगां गुरुत्वात् भारताचशेषशास्त्रप्रभवन्त्वा दितीत्यत आह ॥ यद्यपीति || एपी व्यधिकरणनेति । एषां म ये द्वयोय॑धिकरणतेत्यर्थः ॥ तदुदितमिति । तच्छब्देन पूर्वो विशेषण- टिटो वादमयमा परामृश्यते । उदितशब्दस्य भावप्रधानस्य पञ्चम्यन्ततया विपरिणामः । तेन मनानाधिकरायं भवति अन्यथा वक्राद्यानुकूल्यसाधनेऽपि वैयधिकरण्यताइवस्थ्यादित्याह । नधापीति ।
हेतूनां साक्षात्साध्यनिर्देशः) ॥ जिज्ञासाधिकरणम् ॥ प० सन्न्यायरत्नावल्यादावयोजितं पारम्पर्य किमिति योज्यत इत्याक्षिपति ॥ नन्वित्यादिना सत्यमित्यन्तेन ॥ विपरिणामेनेति । यः गुरूणां गुरुः शास्त्राणां प्रभवश्च तेनैतादृग्गुणकेनोदितत्वात इत्येवं रूपविपरिणामेनेत्यर्थः ।। या.. साध्यान्तराध्याहारेति । वत्राद्यानुकूल्यरूपसाध्यान्तरेत्यर्थः ॥ यथाश्रुतानामेषां इति । यतो यत्कारणं बादरायणो गुरूणां गुर्यतः शास्त्राणां प्रभवो यतश्च गुरूणां शास्त्राणां गुरुः प्रभवोऽतो मानमिति पूर्वोक्तयोजनायां पूर्वार्धोक्तानां गुरूणां गुरुत्वादीनां पक्षीभूतशास्त्रनिष्ठतया प्रामाण्यरूपसाध्यव्यधिकरणतेत्यर्थः ॥ तदुदिमिति ॥ वचनादिति । अत्र तदिति भिन्नपदं शास्त्र- परम् । नन्वेवमुदितपदस्य तृतीयान्तकर्तृपदसापेक्षस्य गुरुर्गुरूणामित्यादिप्रथमान्तैः कथमन्वय इत्यत उक्तम् ॥ विभक्तिविपरिणामेनेति । तथा च गुरूगां गुरुणा शास्त्राणां प्रभवेन बादरायणेन यतः तच्छास्त्रमुदितमतो मानमित्येकाधिकरणतोपपद्यत इत्यर्थः । न च तदुदितमित्यस्य समासत्वे यो बादरायणः पूर्वोक्तविशेषणविशिष्ट स्तेनेदमुदितमित्यर्थलाभादुक्तविभक्तिविपरिणामो नापेक्षित इति वाच्यम् । तथात्वे विशेप्यवाचकस्येदं शास्त्रमित्यस्या-याहारप्रसङ्गादित्यभिप्रायात् । केचित्तु तच्छब्देन पूर्वोक्तविशेषण- विशिष्टो बादरायणः परामृश्यते । उदितशब्दस्य भावप्रधानस्य पञ्चम्यन्ततया विपरिणामः । तेन सामानाधिकरण्यमित्याहुः ॥ च०- यथाश्रुतः श्रूयमाणपदसमभिव्याहाराधीनान्वयधीविषयः॥ साध्यान्तराध्याहारेति । प्रामाण्येतरवत्राद्यानुकूल्यत्रयरूपसाध्योपस्थापकपदप्रतीतिकल्पनयेत्यर्थः ॥ व्यधिकरणतेति । दर्शित- श्रयमाणपदयोजनाधीनान्वयधीविषयतापन्नगुरगुरुत्वशास्त्रप्रभवत्वगुरशास्त्रप्रभवत्वानां सिपाधयिषितप्रामा- ण्यनिरूपितानुमिन्युद्देश्यतारूपपक्षताश्रयीभूतप्रकृतशास्त्रनिरूपितवृत्तिताविरह इत्यर्थः ॥ वचनादिति । तदुदितमित्यत्र सर्वनाम्ना कर्मसाधननिष्ठान्तस्य समासे लुप्तान्तवर्तिकत्रर्थकतृतीयासर्वनामविशेषणपदता- निहाय गुरप्रभवबादरायणपदप्रकृतिकप्रथमा त्रिकं तृतीया त्रिकं कल्पयिप्यतीति वा तदित्यस्य व्यस्तता- मुपेत्य पक्षोपस्थापकतायां कर्तृबोधकपदनिर्वाहाय तत्रिकस्य तत्कल्पकत्वोपगमेन वा गुरुसम्बन्धिगुर्वभिन्न- सर्वनामार्थोदितत्वशास्त्रप्रभवाभिन्नतदुदितत्वादीनां गुरुगुरूदितत्वशास्त्रप्रभवोदितत्वादीनां वा प्रामाण्य- हेतुतोपगमेन न क्षतिरित्याशयः । तदुदितमित्यस्य समस्तताकल्पे सविशेषणानां वृत्तिन वृत्तस्य वा विशेषणयोगो नेति निषेधार-झेन 'रद्धस्य राजमातंगा' इत्यादाविवासामञ्जस्य दुर्वारम् । न च 'शरैः शातितपत्रौत्रस्य दासभार्ये'त्यादाविव निहि इति वाच्यम् । 'प्रतियोगिपदादन्यद्यदन्यत्कारकादपि । वृत्तिशब्दैकदेशेन न तस्यान्वय इप्यते' इति नियमेन तत्र निर्वाहेऽपि प्रकृते समासघटकसर्वनामार्थ प्रति S.T. 10A गने प्रभवन का प्रतियोगिन्धकारकत्वयोरभावेन तद्वचनाप्रवृत्त्या समस्तताकल्पादपि व्यस्तताकल्पो यमित येयम् । तच्छन्देन पूर्वोक्तविशेषणविशिष्टो बादरायणः परामृश्यते । उदितशब्दस्य मानन्य पजन्यन्तनया विपरिणामम्तेन सामानाधिकरण्यमित्यपि निबन्धान्तरे स्थितम् । मु यद्यपि चते प्रत्येकं बौद्धागमादौ मानतां व्यभिचरन्ति । तथापि मिलितानां हेनुनातु । भारताद्यशेयसच्छास्त्रप्रभवप्रणीतत्वांशस्य सपक्षाप्रवेशितत्वेनासाधारण्यं स्यादिति चेन्न । नेम्वेव हेनुवृत्तिसम्भवात् । तत्प्रामाण्यस्य महाजनपरिग्रहादिना निश्चितत्वात् । एवं नदि भाग्नादिग्रणयनविशिष्टेन तेपामप्रणीतत्वाद्वादरायणेन ब्रह्मादीन्प्रति तन्मोक्षार्थमुपदिष्टत्व- मात्र हेनुः म्यादिति चेद्राढम् । तावन्मात्रस्यैव व्यभिचाराभावात् । तथा सति गुरुर्गुरूणां प्रभवः यात्रण मिनि व्यर्थमापद्यत इति चेन्न । तस्य हेतुशरीराप्रवेशिनोऽपि दृष्टान्तोपदर्शना- दिना मार्थस्योपपतरिति । वा RA नन्वत्र गुरूणां गुरुणा बादरायणेनोदितत्वरूपे शास्त्रप्रभवेन बादरायणेनोदितत्वरूपे चन यादगवाणग्रहणम्य गुरुभ्योऽजादिभ्य उदितत्वरूपहेतावजादिग्रहणस्य च विवक्षितत्वे बादरायणस्य गन्यायभिचागत अजादीनां च गुरुत्वाव्यभिचारात् विशेपणवैयर्थ्यापातेन गुरूणां गुरुरित्यादीनां नुन्यो त्ये बादरायणाजादिग्रहणस्य प्रकृताभिप्रायेण प्रयोगेण हेतुशरीराप्रवेशस्य वक्तव्यत्वात् गुरूणां दिनन्यन्य शास्त्रप्रभवनोदितत्वस्य गुरुभ्यः श्रोतृभ्य उदितत्वम्यैव च हेतुत्वे वक्तव्ये प्रथमहेतुद्रयस्य औद्रानने तृतीयम्य जैनागमे तदर्थत उदितत्वस्य तदुभयत्रापि पूर्वहेतुत्रयस्य च नर्मादिवाक्ये मानता- चागत गुरुणां गुरुत्वादीनां च वक्रानुकल्यादिरूपाध्याहृतसाध्याव्यभिचारात् अव्याहृतसाथ्यान्वय- व युक्त इन्यतः प्रत्येकमेपां मानताव्यभिचारेऽपि गुरूणां गुरुणोदितत्वे सति शास्त्रप्रभवेनोदितत्वे मनि गुरुभ्यः श्रोतृभ्य उदितत्वे सति तदर्थत उदितत्वादिति विशिष्टहेतोः क्वचिद्विशेषणाभावेन कचित् बियाभाव तिथलेप्वभावान्नात्रापि व्यभिचारप्रसक्तिरित्याह ।। यद्यपि चेति । ननु विशिष्टहेतावपि चनमचन्नये गुरुणामिति ब्रह्मादीनां शास्त्रपदेन च वेदाद्यशेपसच्छास्त्रस्य विवक्षायामन्यतरेणैव जवाक्ये व्यभिचारपरिहारेण सत्यन्तद्वयम्य वैयर्थ्यापत्त्या विशेषविवक्षायां च सत्यन्त हयग्रहणेऽपि मन्त्र व्यभिचागपातात् । गुरुग्णां शास्त्राणां गुरुः प्रभव इति योजनानुसारेण भारतायशेषसच्छास्त्रप्रभव- प्रोनयन्येव हेतुविशेषणत्वं वक्तव्यम् । एवं च वेदप्रामाण्यसिद्धौ तन्मूलकतया भारतस्यैवैतच्छास्त्रस्या पि प्रामाप्यमिख्या तन्नाधनायोगेन वेदप्रामाण्यानिश्चयेन भारतप्रामाण्यानिश्चयस्यैव वक्तव्यत्वेन वेदभारतादेः मपक्षवामनभवात्प्रत्यक्षानुमानयोर्मन्वादिवाक्यम्यैव च सपक्षत्वेन वक्तव्यत्वात् प्रत्यक्षानुमानयोरुच्चारणरूप- प्रणयनासम्भवान्मन्वादिवाक्ये च गुरुभ्यः श्रोतृभ्यस्तदर्थत उदितत्वसत्त्वेऽपि भारताचशेषसच्छास्त्रप्रभव- प्रणीतत्वांशस्याभावादसाधारण्यापत्त्या न यथाश्रुतसाध्यसाधनभावो युक्त इत्याशङ्कते ॥ भारतादीति । माऽस्तु प्रत्यक्षानुमानमन्वादिवाक्यानां सपक्षत्वं वेदभारतादिष्वेव हेतुवृत्ते साधारण्यमित्याह ॥ तेष्वेव इति । ननु तस्य प्रामाण्यं न निश्चितमित्युक्तमित्यतो भारतस्य महाजनपरिग्रहेण वेदस्य चापौरुषेयतया प्रामाण्यनिश्चयेन वेदभारताद्यशेषशास्त्रस्य सपक्षत्वसम्भवेऽपि प्रकृतशास्त्रे वेदमूलकत्वस्याद्याप्यनिश्चयेन तत्प्रामाण्यसाधनासम्भवादित्यभिप्रेत्याह ॥ तदिति । नन्वेवं भारताद्यतिरिक्तस्य सपक्षत्वे भारतादिप्रण- यनविशिष्टन तत्प्रणयनसम्भवेऽपि भारतादेरेव सपक्षत्वे भारतादेर्भारताद्यन्तराभावेन भारताद्यशेषसच्छास्त्र- प्रभवप्रणीतत्वांशस्य तत्रासम्भवेन पुनरसाधारण्यापल्या भारतादेरेव सपक्षत्वं वदता तद्विशेषणाविवक्षा विशेप्यमात्रविवक्षा चाभ्युपेता स्यात् । तथा च बादरायणेन ब्रह्मादीन्प्रति तन्मोक्षार्थमुपदिष्टत्वमानं हेतुः स्यादिति गूढाभिसन्धिः शङ्कते ॥ एवमिति । तावन्मात्रस्य व्यभिचारत्वे हीदमनिष्टापादनं स्यान्न चैव- मित्यभिप्रेत्याभिप्रायमजानान इव गूढाभिसन्धिरेवोत्तरमाह । बाढमिति । तर्हि तस्य हेतुशरीरप्रवेशा- भावेन प्रयोजनान्तरस्याप्यभावाद्वैयर्थ्यमापद्येतेति शङ्किता स्वाभिप्रायमुद्धाटयति ॥ तथा सतीति । हेतुशरीराप्रवेशेऽपि प्रकारान्तरेण सार्थक्यमिति सिद्धान्ती स्वाशयमुद्धाटयति ॥ न तस्येति ।। दृष्टान्तेति । भारतादीनां दृष्टान्तत्वं दर्शयितु तत्प्रभवत्वमुच्यत इति भावः । स०-- यद्यपीति । गुरूणां गुरुणोदितत्वस्य शास्त्रप्रभवेणोदितत्वस्य बौद्धागमे सत्वेन तत्र प्रामाण्याभावेन श्रोतृप्रयोजनोद्देशेनोदितत्वस्यादिशब्दोक्तजैनागमे सत्वेन व्यभिचारादेत इत्युपपन्नमिति भावः ॥ मिलितानामिति । भारताद्यशेषसच्छास्त्रप्रभवप्रणीतत्वे सति श्रोतृप्रयोजनोद्देशेन प्रणीतत्वं हेतुरित्यर्थः । मन्वादिस्मृत्यादौ श्रोतृप्रयोजनोद्देशेनोपदिष्टत्वरूपांशान्तरस्य सत्वेन तदप्रदेशेनासाधारण्या. नुपपत्त्या भारताद्यशेपसच्छास्त्रप्रभवप्रणीतत्वांशस्येत्युक्तम् । न च गुरूणां गुरुणोदितत्वस्य तत्राभावेनापि असाधारण्यं किं नोच्यत इति वाच्यम् । गुरूणां शास्त्राणां गुरुः प्रभव इत्यनेनैव भारताचशेषसच्छास्त्र- प्रभवप्रणीतत्वलाभेन तस्य हेन्वन्तरत्वाभावादिति भावः । केचित्तु ॥ तथापि मिलितानामिति । भारताद्यशेषसच्छास्त्रप्रभवप्रणीतत्वे सति गुरूणां गुरुणा ब्रह्मादिभ्यस्तत्प्रयोजनोद्देशेोदितत्वादिति हेतोः इत्यर्थः ॥ भारतादीति । वेदे प्रणीतत्वमेव नास्ति । मन्त्रादिवाक्येषु प्रणीतत्वसत्त्वेऽपि व्यासप्रणीतत्वं नास्ति, भारतादीनां च प्रामाण्यमप्रसिद्धम् । भारताद्यशेषसच्छास्त्रप्रभवप्रणीतत्वरहिताद्वेदादितः सपक्षा- व्यावृत्तो, विपक्षाच्च बौद्धागमादेब्रह्माद्यर्थमुपदिष्टत्वरहितायावर्तमानो विशिष्टो हेतुरसाधारणानैकान्तिकः स्यात् । वेदे विशेषणाभावः । बौद्धागमादी विशेप्याभावः । मन्वादिवाक्ये विशिष्टाभाव इत्यर्थ इत्याहुः । असाधारण्यशङ्काकर्तुराशयं प्रकटयितुं गूढाभिसन्धिरेव समाधत्ते ॥ तेष्विति । भारतादीनां निणयत्वन महाजनपारग्रहात्प्रामाण्य (वद) निश्चित नेव निणायकस्य मामासाशास्त्रस्य यन सिद्धत्वन पक्षत्वं न स्यात् । मीमांसाशास्त्रमात्रप्रामाण्ये विप्रतिपद्यमानं प्रत्येतदुच्यत इत्यदोपः । पूर्वोक्तशङ्काशय- मुद्धाटयत् पुनर्गुढाभिसन्धिः शङ्कते ।। एवं तहीति । भारताचशेषसच्छास्त्रप्रभवप्रणीतत्वांशस्य विवक्षायां भारतादीनां भारताद्यन्तराभावात् तत्प्रणेत्रा प्रणीतत्वायोगादसाधारण्यं तदवस्थम् । अविवक्षायां वैयर्थ्य सर्वदा निवेशनस्येत्यर्थः । आशयमुद्घाटयति ॥ तथा सतीति । किं हेतुविशेषणत्वाभावाद् वैयर्थ्य, सर्वथा प्रयोजनराहित्यं वेति विकल्प्याद्यमिष्टापत्त्या समाधत्ते ॥ तस्येति । द्वितीये त्वाह ॥ दृष्टान्तोप- दर्शनादिनेति । शास्त्राणां प्रभव इत्यस्य भारतादिरूपदृष्टान्तप्रदर्शकत्वेन गुरूणां गुरुरित्यस्य भारतादा- वादिशब्दोक्तबादरायणेन ब्रह्मादीन्प्रति तन्मोक्षार्थमुपदिष्टत्वरूपहेतुसत्वप्रतिपादकत्वेन सार्थक्यादिति भावः । एत इति । गुरूणां गुरुणोदितत्वम् । अशेषशास्त्रप्रभवेनोक्तत्वम् । अजादीन् श्रोतृन् प्रत्युपदिष्टत्वं प्रयोजनोद्देशेनोक्तत्वमित्येते हेतब इत्यर्थः । नारायणावतारेण बुद्धेन कृतत्वाद्वौद्धागमस्य बुद्धस्य च ब्रह्मादिगुरुत्वात्तत्राद्यस्य सर्वशास्त्रप्रभवप्रणीतत्वस्य च वेदविरुद्धशैवादिपुराणभागे तृतीयस्य नर्मादौ चतुर्थस्य कापिलादावपि गतत्वादेकैकस्य व्यभिचारेऽपि अजादिप्रयोजनोद्देशेन उक्तत्वाभावात् तन्मिलितस्य हेतुत्वं भविष्यतीति भावः । अजादिमोक्षोदेशेनोक्तत्वमात्रस्यैव हेतुत्वमव्यभिचारायुक्तमित्ये- तदने व्यक्तम् । ननु विशिष्टस्यापि हेतोर्बोद्धागमादौ व्यभिचार एव । भारततात्पर्यनिर्णये द्वात्रिंशा- ध्यायोक्तदिशा बौद्धागमाभिप्रेतार्थस्य देवेभ्य उपदिष्टत्वादिति चेत् । न । तन्मोक्षार्थीद्देशेक्तित्वाभावात् अभिप्रेतार्थे प्रामाण्यसद्भावाचाशेषशास्त्रका व्यासेनाकृतत्वाञ्चेति भावः । शास्त्रप्रभवत्वं विशेपणं मत्वा भारतादिसपक्षे हेतुर्नति भावेन शङ्कते ॥ भारतादीति । उपलक्षणत्वाशयेनाह ॥ तेष्वेवेति । भारता. दिप्ववेत्यर्थः । ननु तत्राप्यनेनैव हेतुना मानत्वं साध्यमिति पक्षतौल्यान्न सपक्षत्वमित्यत आह ।। तदिति । 'इतिहासपुराणः पञ्चमो वेदानां वेद' इति श्रुतिपरिगृहीतत्वादिरादिशब्दार्थः । प्रामाण्ये परम्परया हेतु: अयमिति वादी शास्त्रप्रभवत्वस्य विशेषणत्वपक्षे विशिष्टहेतोरप्यसाधारण्याद्विशेष्येणैवालमिति भावेनाशङ्कते। एवं तहीति । बाढमित्यङ्गीकारे हेतुमाह || तावन्मात्रस्येति । परम्परया हेतुवादी शङ्कते ॥ तथा सतीति ॥ हेतुशरीरेति । यतः यतश्चेत्येवं हेतुशरीरप्रवेशितया प्रयोजनाभावेऽपि गुरूणां गुरुरित्यंशेन अजादिमोक्षोद्देशेनेत्यंशस्य शास्त्राणां प्रभव इत्यंशेन बादरायणेनोक्तत्वांशस्य महाजनपरिग्रहादिना सिद्ध- प्रामाण्ये भारतादौ लाभेन भारतादिदृष्टान्तः । तत्र साधनं चास्तीति प्रदर्शनेन सार्थक्योपपत्तरित्यर्थः ॥ या० एते प्रत्येकमिति । गुरुगुरूदितत्वशास्त्रप्रभवोदितत्वयोः बौद्धागमे शैवपुराणादौ च बादरायणोदितत्वस्यापि शैवपुराणादौ अजादीन्प्रत्युपदिष्टत्वस्य नर्मादौ मोक्षार्थमुपदिष्टत्वस्य गौतमप्रणीत- हेतूनां साक्षात्साध्यनिर्देशः ॥ जिज्ञासाधिकरणम् ॥ न्यायशास्त्रे च व्यभिचार इति भावः । गूढाभिसन्धिराह ॥ मिलितानामिति । मिलितानामित्यस्य वक्ष्यमाणमाशयमविद्वान्भ्रान्तः शङ्कते ॥ भारताद्यशेषेति ॥ इदं च सपक्षकदेशे भारतादौ न हेतोवृत्ति- रित्युपपादनाय भारतादिप्रणयनविशिष्टेन तेषामप्रणीतत्वादिति इति द्रष्टव्यम् । तथा च वेदे प्रत्यक्षादौ च प्रणीतत्वाभावेन प्रमाणभूतेऽस्मदीयवाक्ये वादरायणप्रणीतत्वाद्यभावेन बादरायणीये च प्रमाणभूते गामा- नयेत्यादिलौकिकवाक्ये अजादिमोक्षार्थमुदितत्वाभावेन भारतादौ चोक्तरीत्या हेत्वभावेन न कुत्रापि सपक्षे हेतुसत्त्वमिति भावः । गूढाभिसन्धिरेवोत्तरमाह ।। तेष्वेवेति । भारतादिप्वेवेत्यर्थः । अस्मदभिमत- वक्ष्यमाणमिलितहेतोस्तत्र सत्त्वादिति भावः ॥ ननु भारतादेरपि सूत्रकारकृतत्वेन सूत्रसमानयोगक्षेमतया कथं सपक्षत्वमिति तटस्थशङ्कायामाह || तत्प्रामाण्यस्येति । ब्रह्मसूत्रप्रामाण्यानङ्गीकर्तृभिरपि कापिल- गौतमीयादिभिर्भारतादिप्रामाण्यस्याङ्गीकृतत्वादिति भावः । आशयमुद्धाटयति ॥ बाढमिति । तथा च पूर्व मिलितानामित्यत्र द्वितीया|क्तानामेव मेलनमभिप्रेतं न पूर्वार्धोक्तानामपि । त्वया त्विममभिप्राय- मजानता पूर्वार्धोक्तानामपि मेलनं मत्वाऽसाधारण्यं शङ्कितमिति भावः ।। च०- अथ गुरुगुरुत्वविशेषितबादरायणोदितत्वस्य शास्त्रप्रभवत्वविशेपितबादरायणोदितत्वस्य गुरुत्वविशेपिताजाद्युद्देशेनोदितत्वस्य च हेतुत्वे विशेप्यांशवैयर्थ्यनिबन्धनमतभेदनियन्त्रितनिग्रहारिद्धि- प्रसङ्गेन हेतुतावच्छेदकघटकतया तदनिवेशेऽपि आद्यहेतुद्विकस्य बौद्धागमशैवपुराणयोस्तृतीयस्य जैनागमादौ मोक्षोपदेशेनोपदिष्टत्वस्य च गौतमीयेऽनैकान्त्यापत्या मानतायाः साम्यत्वस्य दुरुपगमतया वाद्यानुकृल्य- रूपसाध्यान्तरोगस्थापकपदाध्याहार आवश्यक इत्याशयेनाशङ्कते ॥ यद्यपि चैत इति । गूढाभिसन्धिः समाधत्ते ॥ तथापीति । स्फुटीकरिप्यमाणाभिसन्धिमननुसन्दधानः शङ्कते ॥ भारतेति । प्रमाणभूत- प्रत्यक्षानुमानयोः प्रणयनकर्मत्वाभावेन तादृशचैत्रादिवाक्ये बादरायणकर्तृकतत्कर्मत्वाभावेन बादरायणो- चरित एव घटभानयेत्यादिवाक्ये अजादिमोक्षोद्देश्यकतत्कर्मत्वस्य भारतादिप्रणेतृतावच्छेदककोटौ तन्प्रण- यनस्य कार्याव्यवहितपूर्वक्षणावच्छेदेन कारणतावच्छेदकावच्छिन्नसमवधानयोगनियन्त्रित तदनुत्पत्प्रिसङ्गेन दुरुपगमतया भारतादौ च हेल्वभावेन सपक्षसामान्यवृत्तिताविरहेण असाधारण्यमिति भावः । आशयम् आविष्करोति ॥ तावन्मात्रस्यैवेति । दलान्तराभिहितमात्रस्य हेतुत्वमुत्तरवा दिनाऽभिधिसितमिति तद- प्रतिसंहितिनियन्त्रितेयमसाधारण्यशङ्केत्याशयः । आद्यदलसार्थक्यं सम्पादयति ।। दृष्टान्तेति । सु० --- सत्यम् । तथाऽपि नैतदेवं विज्ञातुं शक्यम् । तथा सत्युत्तरवाक्ये वाद्यानु- कूल्यस्य साध्यसम्बन्धव्युत्पादनमसङ्गतं स्यात् । तदनुमानान्तरं भविष्यतीति चेन्न । तथात्वे प्रामाण्यं त्रिविधमिति वक्ष्यमाणविरोधात् । विजातीयसंवादत्वेनानयोरेक्यविवक्षया त्रित्वोक्तिः अ. १ पा. ॥ न्यायसुधा ॥ अम्बिनि छन् । एवं तर्हि वक्ष्यमाणश्रुतियुक्तिसंवादोऽपि सजातीयसंवादतयैक एव स्यात् । अर्धजा चरतीयानुपपत्तेः । तथा च पुनस्त्रित्वानुपपत्तिरेव । भवेदयं ग्रन्थकृतोऽभिप्रायः । नेनापीदं प्रयत्नगौरवं कम्मादाश्रितमिति चेन्न । उक्तसाधनत्योपपन्नेऽप्यस्तु भारतादीनां प्रामाप्यं मा भृञ्चाम्येति शङ्कायां वाद्यानुकूल्यसाधनस्यावश्याश्रयणीयत्वात् । अन्यथाऽप्रयो- जन्मापतन्ति । वा किं ग्रन्थकृतोऽयमेवाभिप्राय इति मनुषे आहोस्विदेतादृशि लघूपाये सति ग्रन्थकृतैवं प्रवनगौरवं नाश्रयणीयम् । नाद्य इत्याह ॥ तथाऽपीति ।। तथा सतीति । बादरायणेन ब्रह्मादीन्प्रति जन्मासाथमुपदिष्टन्वम्य हेतुतया ग्रन्थकृताऽभिप्रेतत्वे तस्यैव मानत्वरूपसाध्यसम्बन्ध उत्तरवाक्ये प्रतिपाद्यः न्यान । वाद्यानुकुल्यम्य मानत्वोपपादकाप्तवाक्यतया व्याप्तिपक्षधर्मतोयपादनद्वारा मानत्वरूपसाध्य- मम्बन्धकथनन्य न काऽपि सङ्गतिरित्यर्थः । वाद्यानुकूल्यस्यापि मानत्वहेतुत्वमित्यभिप्रायेणोत्तरवाक्य- मङ्गत नन्य बादरायणनेत्यादेर्मानवत्वहेतुत्वाभावज्ञापकत्वमित्याशयेन शङ्कते ।। तदिति । विजातीयेति । वाद्यानुल्या संवादम्य वादरायणेन तन्मोक्षार्थमुपदिष्टत्वस्य च ब्रह्मसूत्रसमानार्थकत्वाभावे सति तत्प्रा- मायग्राहकनया विजातीयसंवादत्वमित्यर्थः । श्रुतियुक्तिसंवादस्य तु ब्रह्मसूत्रसमानार्थतया तत्प्रामाण्य- माझकन्चन सजातीयसंवादत्वमिति द्रष्टव्यम् ॥ अर्धति । केनचित्पाशुपतेन सर्वजरत्या योषितोऽनुपभोग्य- घान्वनमायाश्च वृद्ध, मय्यरुचिप्रसङ्गादर्धजरत्यानयने दूतः प्रेषित इति लोकप्रवादोऽर्धजरतीशब्देनोच्यते । छप्रत्ययेन चोपनानोपमेयभावरूपः सम्बन्ध उच्यते । तथा च तत्प्रवादतुल्यप्रवादानुपपत्तेरित्यर्थः । अन्तु श्रुतियुक्तिसंवादस्य सजातीयसंवादितयैकत्वमित्यत आह || तथा चेति । द्वितीयं निराकरोति ।। भवेदेवमिति । अत्र ह्यप्रयोजकत्वशङ्कायां विपक्षे बाधकान्तरस्याभावात्प्रामाण्यानङ्गीकारे अस्य शास्त्रस्य वाद्यानुकल्योपेतत्वं न स्यादित्येव विपक्षे बाधकं वक्तव्यम् । तत्रेप्टापादनत्वशङ्कायां गुरूणां गुरुत्वादि- न्यादिहेनुभिर्वाधानुकल्यस्यावश्यं साधनीयत्वे प्रथमत एव तदस्त्विति ग्रन्थकृतोऽभिप्रायत्वान्न प्रयत्न- गौरवाश्रयगं तन्येत्याह || उक्तेति । म. .. - बक्तृश्रोतृप्रसक्तीनामित्युत्तरवाक्ये वक्राद्यानुकूल्यस्य प्रामाण्यहेतुत्वोक्तेः गुरूपदेशादि- प्रीतन्वं न प्रामाण्यसाधकहेतुः श्रुतियुक्तिभ्यां सह चतुष्वापत्त्या त्रित्वविरोधादिति समाधत्ते ।। मत्यमिति । ननूत्तरश्लोकोक्तस्यानुमानान्तरत्वेऽपि न प्रामाण्य त्रिवहानिः । अन्योरनुमानयोः प्रामाण्यग्राहकवेन विजातीयत्वेन रूपेणेकत्वसम्भवात् । अत्र च शास्त्रसमानार्थत्वाभावे सति प्रामाण्य- ग्राहकत्वं विजातीयत्वं विवक्षितम् । श्रुतिमूलत्वयुक्तिमूलत्वयोरपि शास्त्रसमानार्थत्वे सति प्रामाण्य- ग्राहकत्वरूपसजातीयत्वेनैकत्वसम्भवात्प्रमाणद्वित्वापत्त्या प्रमाणत्रित्वहानिरेवेत्यर्थः । केचित्तुं ब्रह्मसूत्राण अलौकिकवाक्ये सम्भवाद्विजातीयतर्कत्वाद्वेदानुकूला युक्तिरपि सजातीया । अनुकूलवत्रादिमत्वस्य युक्त्यात्मकत्वरहितेऽपि लौकिकवाक्ये भावाद्विजातीयत्वं श्रुतियुक्त्योस्तु सर्वोत्तमप्रामाण्यसाधकत्वात् तत् संवादस्य सजातीयत्वमित्याह ॥ अर्धजरतीयेति । अत्र जरतीशब्देन सर्वात्मना जरतीं त्यक्तुमशक्नुवतः प्रक्रिया लक्ष्यते । छप्रत्ययेन चोपमानोपमेयरूपः सम्बन्ध उच्यते । तथाच एतत्प्रक्रियातुल्यप्रक्रिया. नुपपत्तरित्यर्थः पर्यवस्यति । इत्थं तत्प्रक्रिया । अर्ध जरत्याः कामयते अर्ध न कामयते । मुख जरत्याः कामयते ॥ नाङ्गान्तरमिति । एवं च जरत्या एकदेशे कामना नैकदेशान्तरे इत्येतद्यथा जुगुप्सितं तथा एतदपीत्यर्थः । अर्धचरतीयेति पाठे चरतिश्चरणं भक्षणमिति यावत् । तेन तत्कर्तुः प्रक्रिया लक्ष्यते । छप्रत्ययेन च पूर्ववत्सम्बन्ध उच्यते तेनार्धभक्षणकर्तृप्रक्रियातुल्यप्रक्रियानुपपत्तरित्यर्थः पर्यवस्यति । इत्थं हि तत्प्रक्रिया । सगर्भा मत्स्यवधूं गृहीत्वा कश्चिदस्याः प्रसवे मत्स्यान्तरं भविष्यति । इदानी चेमाम- पक्त्वाऽनश्नन्नहं न स्थातुमुत्सह इति विचार्य वदति अस्या अर्ध पाकाया प्रसवायेति । एवं च तद्यथा जुगुप्सितमेवमेतदिति भाव इत्याहुः । अन्ये तु 'लम्बमानौ सुतौ दृष्ट्वा व्याधः परमबुद्धिमान् । सर्वनाशे समुत्पन्ने ह्यधं चरति पण्डित' इत्यस्य न्यायस्य प्रकृतेऽनुपपत्तरित्यर्थ इत्याहुः । गुरूपदेयाद्युपदिष्टत्वेनानु- कूलवत्रादिमत्वसाधनं तेन प्रामाण्यसाधनमिति परम्पराश्रयणे प्रश्नपूर्वकं प्रयोजनमाह ॥ भवेदिति । विपक्ष बाधकोपन्यासार्थमनुकूलवादिमत्त्वं साधनम् । यत्र प्रामाण्यं तत्राप्तवाक्यत्वमित्यस्य प्रत्यक्ष व्यभिचारात् । ब्रह्मसूत्राणामाप्तवाक्यत्वे मानाभावात् । कचिदाप्तस्य सर्वत्राप्तत्वनियमाभावादिति भावः || प० एवमिति । साक्षाद्धेतुत्वेनेत्यर्थः ।। साध्येति । आप्तिपदोक्ताप्तवाक्यरूपसाध्येत्यर्थः ।। तदनुमानान्तरमिति । विमतं शास्त्र मानं भवितुमर्हति ॥ अजादिमोक्षोदेशेन व्यासप्रोक्तत्वाद्भारता दि- वदिति पूर्वश्लोकोक्तानुमानाद्विमतं मानमाप्तवाक्यत्वादिति प्रामाण्ये अनुमानान्तरं भविष्यतीति आप्त- वाक्यत्वासिद्धिपरिहारार्थ वक्तृश्रोत्रित्यादिसार्थकं भविप्यतीत्यर्थः ॥ त्रिविधमितीति । आप्तिमूलत्व- श्रुतिमूलत्वयुक्तिमूलत्वरूपत्रैविध्यवदजादिमोक्षोद्देशेन प्रोक्तत्वरूपैकविधस्याधिकस्य प्राप्ततया प्रामाण्यं चतुर्विधं महदिति वक्तव्यं स्यादिति भावः ॥ विजातीयेति । शास्त्रप्रतिपाद्यार्थविषयकं सजातीय विजातीयं तु साक्षात्तदर्थाविषयकं तत्प्रामाण्यनिश्चायकम् । यथा सत्यरजते इदं रजतमिति ज्ञानस्य तादृशज्ञानान्तरं सजातीयम् । विजातीयं तु कटकाद्यर्थक्रियाकारित्वम् । प्रकृते च वक्ष्यमाणदिशा श्रुतियुक्त्योब्रह्मतन्त्रार्थसमानविषयकत्वमेव साक्षादिति सजातीयत्वम् । अजादिमोक्षोद्देशेनोक्तत्वरयाप्त- वाक्यत्वस्य च न साक्षात्तदर्थविषयकत्वं किं तु तत्प्रामाण्यविषयकतयेति विजातीयत्वम् । अतो विजा- S.T.11 ॥ न्यायसुधा ॥ (अ. १पा. १ अ. १ तीयसंवादित्वेन सजातीयसंवादतयेत्युक्तम् । तथा च द्वैविध्यमेव प्रामाण्यस्य प्राप्तं न त्रैविध्यमिति भावः ॥ अर्धचरतीयेति । सगर्भमत्स्यस्या भक्षणायाधै गर्भप्रसवायेति यथा न युक्तं तथेत्यर्धचरतीय न्याय इत्येके । अलाव्वादिफलादेरध भक्षणायाध बीजाभिवृद्धिद्वाराङ्कुरादिप्रसवाय यथा न युक्तं तथे- त्यर्थ इत्यन्ये ॥ इदमिति । शास्त्रप्रभवत्वादिना वाद्यानुकूल्यन्तेन च प्रामाण्यमिति प्रयत्नगौरव- मित्यर्थः । विमतं शास्त्रं प्रमाणं शास्त्रप्रभवत्त्वादिविशिष्टेन प्रोक्तत्वाद्भारतवदित्येवोक्तावप्रयोजकत्वशंका स्मात्तन्निवृत्त्यर्थमेवमाश्रितमिति भावेनाह ॥ उक्तसाधनेति । यथा हि क्षित्यादिकं सकर्तृकं सावयव- त्वादित्युक्ते हेतोरप्रयोजकत्वशङ्कानिरासाय मध्ये कार्यत्वं निवेश्यते तद्वदिति भावः ॥ वक्रादीति । तत्र च नाप्रयोजकत्वमिति भावः ॥ या० साध्यसम्बन्धेति । आप्तिद्वारा प्रामाण्यरुपसाध्यसाधकताव्युत्पादनमित्यर्थः ॥ तदनु- मानान्तरमिति । गुरुर्गुरूणामिति श्लोकोक्तप्रामाण्यसाधकानुमानापेक्षया वक्तृश्रोतृप्रसक्तीनामित्यनेन उच्यमानवत्राद्यानुकूल्यसिद्धमाप्तोक्तत्वं प्रामाण्यसाधकानुमानमपरमित्यर्थः ॥ विजातीयसंवादत्वेनेति । शास्त्रप्रामाण्यव्यवस्थापनद्वारा शास्त्रविषयव्यवस्थापकमानान्तरसंवादत्वेनेत्यर्थः । स्वप्रामाण्यव्यवस्थापनद्वारा स्वविषयव्यवस्थापकमानान्तरसंवादस्यैव विजातीयसंवादतया विवक्षितत्वात् ॥ सजातीयसंवादतयेति । साक्षाच्छास्त्रविषयविषयकमानान्तरसंवादतयेत्यर्थः । साक्षात्स्वविषयविषयकमानान्तरसंवादस्यैव सजातीय- संवादत्वेन विवक्षितत्वादित्याशयः । केचित्तु गुरूपदेष्ट्राद्युपदिष्टत्वस्यानुकूलवक्रादिमत्त्वसिद्धाप्तवाक्यत्वस्य च लौकिकवाक्यसाधारण्येन प्रामाण्यमात्रसाधकत्वात्संवादस्य विजातीयत्वम् । श्रुतियुक्तयोम्त्वलौकिकार्थ- त्वात्सर्वोत्तमप्रामाण्यमात्रसाधकत्वात्तत्संवादस्य सजातीयत्वमित्याहुः ॥ अर्धजरतीयानुपपत्तेरिति । अत्रार्धजरतीशब्देन सर्वात्मना जरतीं त्यक्तुमशक्नुवतः प्रक्रिया लक्ष्यते । छप्रत्ययेन चोपमानोपमेयरूपः सम्बन्ध उच्यते । तथा च तत्प्रक्रियातुल्यप्रक्रियानुपपत्तेरित्यर्थः पर्थवस्यति । इत्थं हि तत्प्रक्रिया । अर्ध जरत्याः कामयतेऽध न कामयते मुख जरत्याः कामयते नाङ्गान्तरमिति । एवं जरत्या एकदेशे कामना एकदेशे नेत्येतद्यथा जुगुप्सितमेवं प्रकृते साम्ये सम्भवे च सत्येकत्रैक्यविवक्षाऽन्यत्र तु नेत्येतत् जुगुप्सितमिति भावः । अर्धचरतीयानुपपत्तरिति पाठे तु चरतिश्चरणं भक्षणमिति यावत् । तेन तत्कर्तुः प्रक्रिया लक्ष्यते । छप्रत्ययेन च पूर्ववदुपमानोपमेयरूपः सम्बन्ध उच्यते । तेनार्धभक्षणकर्तुः प्रक्रिया- तुल्यप्रक्रियानुपपत्तरित्यर्थः पर्यवस्यति । इत्थं हि तत्प्रक्रिया । सगी मत्स्यवधूं गृहीत्वा कश्चिदस्याः प्रसवे मत्स्यान्तरं भविष्यति । एवं च तदपि भक्षणार्थ भविष्यति । इदानी चेमामपक्त्वाऽनश्नन्नहं न स्थातुमुत्सह इति विचार्य वदति । अस्या अर्धे पाकायाधं प्रसवायेति । तद्यथा जुगुप्सितमेवमेतदपीति भाव इत्याहुः । अन्ये तु 'लम्बमानौ सुतौ दृष्ट्वा व्याधः परमबुद्धिमान् । सर्वनाशे समुत्पन्नेऽध चरति साध्यान्तराध्याहारसमर्थनम् ) ॥ जिज्ञासाधिकरणम् ॥ ८३ पण्डित' इति न्यायस्य प्रकृतेऽनुपपत्तरित्यर्थ इत्याहुः ॥ उक्तसाधनोपपन्नत्वेऽपीति । बादरायणेन ब्रह्मादीन्प्रति तन्मोक्षार्थमुपदिष्टत्वरूपसाधनोपपन्नत्वेऽपीत्यर्थः ॥ वत्राद्यानुकूल्यसाधनस्येति । तथा च उक्तरीत्या नाप्रयोजकतेति भावः । .. श्री० तथात्व इति । गुरूणां गुरुत्वादिहेतुभिः प्रामाण्यानुमानमेकं वत्राद्यानुकृल्यसिद्धाप्त- वाक्यत्वेन तदनुमानपरं श्रुतिसंवादित्वेन तदनुमानं तृतीयं युक्तिवादित्वेन तदनुमानं चतुर्थमिति प्रामाण्यसाधकहेतूनां चतुष्प्राप्तेरित्यर्थः ॥ विजातीयसंकादित्वेनेति । ब्रह्मनीमांसाशास्त्रप्रामाण्य- व्यवस्थापनद्वाराऽर्थसत्तानिश्चायकत्वात्तत्संवादस्य विजातीयत्वम् । प्रामाण्यस्यार्थसत्ताघटितत्वादित्यर्थः ॥ अनयोरिति । प्रामाण्यसाधकयोर्गुरुगुरुत्वाप्तवाक्यत्वयोरित्यर्थः ॥ त्रित्वोत्तिरिति । श्रुतिसंवादो द्वितीयो युक्तिसंवादस्तृतीय इति त्रित्वोक्तिरित्यर्थः ॥ सजातीयेति । श्रुतियुः योः साक्षाह्ममीमांसा- शास्त्रप्रतिपाद्यार्थस्यैव प्रतिपादकत्वेन साक्षात्स्वविषयविषयकमानान्तरसंवादरूपत्वात्तदुभयसंवादस्य सजा- तीयत्वमित्यर्थः ॥ अर्धजरतीयेति । गुरुगुरूपदिष्टत्वाप्तवाक्य क्योर्विजातीयसंवादयं श्रुतियुक्ति- संवादद्वयस्य सजातीयसंवादत्वेनैवयमनङ्गीकृत्य पार्थक्योक्तेरयुक्तत्वादित्यर्थः ।। पुनरितोत्तिरिति । संवादद्वयस्यैव प्राप्तेरित्यर्थः ॥ इदमिति । शास्त्रप्रभवत्वादिना वक्राद्यानुकूल्यं तेन च प्रामाध्यमिति प्रयत्नगौरवमित्यर्थः ॥ ॥ च०–तथा सति । दलान्तरोदीरितमात्रस्य मानत्वनिरूपितप्रधानसाधनत्वोपगमे। साध्यसम्बन्ध. व्युत्पादनम् । मानत्वनिरूपितप्रधानसाधनतापन्नाप्तवाक्यतानिरूपितव्याप्तिक्षधर्मतोपपादनं हारीहत्य मानत्वरूपसाध्यसम्बन्धव्युत्पादनम् ॥ अनुमानान्तरमिति । दर्शितानुमानादतिरिच्यमानं वक्राद्यानुकृल्य- त्रयानुमापिताप्तोक्ततारूपं मानतानिरूपितप्रधानसाधनतापन्नमनुमानमित्यर्थः ॥ विजातीयसंवादत्वेनेति । शास्त्रधर्मिकस्वप्रतिपाद्यघटितप्रामाण्यविधेयकानुमितिजनकहेत्वन्तरकटनेनेत्यर्थः । स्वधर्मिकस्वप्रतिपाद्यघटित- प्रामाण्यावगाहिप्रमितिजनकमानान्तरकत्वस्यैव विजातीयसंवादपदाभिधेयत्वात् ।। सजातीयसंवादतयेति । शास्त्रजनितान्वयधीनिरूपितमुख्यविशेप्यतावच्छेदकावच्छिन्नतादृशक्शेिप्यताकप्रमितिजनकमानान्तरकत्वेन इत्यर्थः । स्वोत्पादिनीयप्रमितिनिरूपितमुख्यविशेप्यतावच्छेदका वच्छिन्नतादृशविशेप्यताकप्रमितिजनक- मानान्तरकत्वस्यैव सजातीयसंवादपदाभिधेयत्वादित्याशयः ॥ अर्धजरतीयानुपपत्तेरिति । जरत्याः मुख कामुकः कामयते नावयवान्तरमिति प्रक्रिया छप्रत्ययप्रकृत्यंशेन लक्षणयोपस्थाप्यते । तद्विषयादि'त्युपमार्थे विहिततत्प्रकृतिकप्रत्ययेन च प्रकृत्यर्थवृत्तिस्तादृश्यनिरूपकप्रक्रियेति तादृशप्रक्रियासह- शप्रक्रियानुपपत्तेरित्यर्थः। उक्तसाधनेत्यादि । प्रकृतसाध्यमन्तरेण हेतुरस्त्वित्यप्रयोजकत्वशङ्कानिरसनौपयि- 'समासाच्च - S.T. 11A ॥ न्यायसुधा॥ पा. कप्रामाण्याभावापादककवत्राद्यानुकूल्यत्रयाभावापाद्यकापत्तिहेतुभूतापाद्यव्यतिरेकनिर्णयरूपतत्रिकानुमित्या- त्मकफलोपधायकतन्त्रितयनिरूपितव्याप्त्यवच्छिन्नबादरायणोदितत्वादिहेतुवृत्तिप्रकारताशालिपरामर्शादिघटि- तसामग्रीसम्पादनमावश्यकमेवेति भावः ।। अनु वक्तश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता । आप्तवाक्यतया तेन श्रुतिमूलतया तथा । युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् । दृश्यते ब्रह्मसूत्राणामेकधाऽन्यत्र सर्वशः ।। सु०- ननु तीनेनेदमुदितं भवति । एतच्छास्त्रं प्रमाणमनुकूलचक्रादिमत्त्वाभारतादि- वन् । वाद्यानुकूल्यं चोक्तहेतुसिद्धमिति । एतदनुपपन्नम् । आप्तवाक्यतायास्तत्रोपाधित्वात् । न च प्रत्यक्षादौ सत्यपि प्रामाण्ये नास्त्याप्तवाक्यत्वमिति साध्याव्यापकत्वान्नायमुपाधिरिति वाच्यम् | वाक्यत्वावच्छिन्नसाध्यव्यापकत्वेनोपावित्योपपत्तेः । तथाऽप्यपौरुषेये वेदे तद- भावादनुपाधित्वमिति चेन्न । वेदापौरुपेयत्वस्यासम्मतत्वात् । सम्मतत्वे श साधनावच्छिन्ने पौरुषेयवाक्यत्वावच्छिन्ने वा साध्येऽस्योपाधित्वोपपत्तेरिति । मैवम् । अभिप्रायानवगमात् । न हि वयं वत्राद्यानुकूल्येन शास्त्रप्रामाण्यं साक्षात्साधयितुमुद्यताः । येनात्रोपाध्युद्धावन मङ्गच्छेत । अपि तद्यनुकूलवऋदिमत्त्वस्याप्तवाक्यतया व्याप्तत्वात्तेन तो प्रसाध्य तया प्रामाण्यं शास्त्रस्य साध्यत इत्याशयवानाह ॥ वक्तृश्रोतृप्रसक्तीनामिति । यद्यत्र वाक्ये वक्तृश्रोत- प्रसतीनामनुकूलता तत्राप्तिः । यद्ववाद्यानुकूल्योपेतं तदाप्तवाक्य मिति यावत् । यत एवं व्याप्तिर्यतश्चास्य शास्त्रस्यास्त्यनुकूलवत्रादिमत्त्वम् । तेन सिद्धयाऽऽप्तवाक्यतया मानमिदं शास्त्र- मिति पूर्वेण सम्बन्धः । नन्वेवं मानत्वस्य गुरुणां गुरुत्वा दित्यादिहेतून्प्रति परमसाध्यत्वेऽपि वाद्यानुकृत्यं प्रति तस्य साक्षान्साध्यत्वाद्वक्राद्यानुकूल्यस्याप्तवाक्यत्वेन व्याप्त्याद्युपपादनपुरःसरमाप्तवाक्यत्वस्य मानत्वसम्बन्ध- व्युत्पादकमुत्तरवाक्यमसङ्गतमेव । न चात्रापि सा परम्पराभिप्रेतेति वाच्यम् । तथात्वे उत्तरश्लोकवैयर्थ्या- पत्तेरिल्यतोऽत्र श्लोके आप्तवाक्यत्वबोधकशब्दाभावेन परम्परायाः स्पष्टमप्रतीतेर्यथाश्रुतस्य वक्राद्यानुकूल्य- मानत्वयोः साक्षात्साध्यसाधनभावाभिप्रायकत्वं प्रकल्प्य परोक्तदूषणस्य परिहाराय स्वाभिप्रायाविष्करणा- र्थत्वादुत्तरश्लोकस्य नासङ्गतिवैयर्थे इत्यभिप्रेत्य उत्तरवाक्यं सङ्गमयति ॥ नन्विति । यद्वा पूर्ववाक्या- भिप्रायदर्शक वक्तृश्रोतृप्रसक्तीनामित्युत्तरवाक्यं व्यर्थम् । अभिप्रायान्तराप्रतीत्याऽस्यैव सुज्ञानत्वात्प्रतीतौ वा० - ८५ आप्तवाक्यत्वं उपाधिः) ॥ जिज्ञासाधिकरणम् ॥ वा तस्याप्युपपत्तौ तत्परित्यागेनाभिप्रायान्तरप्रदर्शकोत्तरवाक्यवैय्यर्थ्यमेवेत्यतोऽभिप्रायान्तरप्रतीतितदनुप- पत्तिप्रदर्शनपूर्व स्वाभिप्रायस्वरूपं दर्शयन्नेव तदाशयप्रदर्शकतयोत्तरवाक्यमवतारयति ।। ननु तर्हि इति ॥ वाक्यत्वावच्छिन्नेत्यादि । यथाच पक्षधर्मसाधनधर्मावच्छिन्नयोरुपाधित्वं तथोपाधिपरीक्षायां वक्ष्यति । ननु वक्तृश्रोतृप्रसक्तीनामिति श्लोके वाद्यानुकूल्यस्याप्त्याऽभेदोक्तावपि व्याप्तेरनभिहितत्वात्पक्षधर्मतां विना तावन्मात्रस्य साधनत्वानुपयोगाच्च मानमित्यस्याश्रुतत्वाच्चापि तीत्यादिनोक्तमयुक्तमित्यतो यदित्यस्य यत्रेत्यर्थतां तत्सन्निधियोगेन तत्रेत्यस्य लाभं यदित्यस्यावृत्त्या यत इत्यर्थकत्वमस्येति योग्यतया सम्बन्ध वक्तृश्रोतृप्रसक्तीनामित्यस्यावृत्तिं तेनेत्येतद्वलेन सिद्ध्येत्यस्य लाभ पूर्वेण सम्बन्धं चाभिप्रेत्योक्तमुपपादयति । यद्यत्रेत्यादि । । स०-- साधनावच्छिन्न इति । अनुकूलवत्रादिमद्वाक्यत्वविशिष्टे इत्यर्थः । ननु साध्यस्य उपाधिव्यभिचारपरिहाराय कथं साधनावच्छिन्नसाध्ये उपाधिप्रसरः । कथं च साध्यविशेषणानां व्यभि- चारवारकत्वमिति । मैवम् । शब्दो न स्पर्शवद्विशेषगुण इत्यादौ साध्यविशेषणानां व्यभिचारवारकत्व- दर्शनात् । साधनावच्छिन्ने साध्ये उपाधिप्रसरं तूपपादयिष्यति ॥ पौरुषेयवाक्यत्वावच्छिन्न इति । 'सर्वपुरुषाभ्यां णढावितिसूत्रे पौरुषेयो बध इत्यादिरूपसियर्थ 'पुरुषाद्वयविक रसपूहते कृतेन्विति वक्तव्यमिति' वार्तिककृताऽन्यत्रापि ढोऽभ्यनुज्ञातत्वात् पौरपेयमित्यनेनैव वाक्यालाभात्पृथक्तदुपादान- मुपपन्नमिति द्रष्टव्यम् । तेन पौरुषेयपदेनैव वाक्यलाभात्पुनर्वाक्यपदमनर्थकमिति चोद्यानवकाशः । पौरुपेयपदविवरणरूपत्वाद्वाक्यपदस्य न वैयर्थमित्याहुः । ६० वक्राद्यानुकूल्यमपि प्रामाण्ये साक्षान्न हेतुः किंत्वाप्तवाक्यत्वानुमानद्वारैव । कुन एवम् । अन्यथा सोपाधिकत्वेन प्रामाण्यसाधकत्वानापत्तरिति भावेनाशङ्कोत्तराभ्यां मूलमवतारयति ॥ नन्वित्या- दिना । हेलिति । गुरुर्गुरूणामित्यादिनोक्तहेतुत्रयेण वक्राद्यानुकूल्यत्रयं सिद्धमित्यर्थः ॥ वाक्य- वारच्छिन्नेति । साध्यव्यापकत्वं हि द्वेधा । शुद्धसाध्यव्यापकत्वमवच्छिन्नसाध्यव्यापकत्वं चेति । तत्राा यागीयहिंसा पापसाधनं हिंसात्वादित्यत्र निपिद्धत्वस्य । द्वितीयं च द्वेधा । पक्षधर्मावच्छिन्नसाध्य- व्यापकत्वं साधनधर्मावच्छिन्नसाध्यव्यापकत्वं चेति । तत्राद्यं वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्र उद्धृतरूपवस्त्वोपाधेः बहिर्द्रव्यत्वावच्छिन्नसाध्यव्यापकत्वम् । द्वितीयं तु ध्वंसो विनाशी जन्यत्वादित्यत्र भाव-वोपर्धिजन्यत्वावच्छिन्नसाध्यव्यापकत्वम् । प्रकृतेऽस्योपाधेः शुद्धसाध्याव्यापकत्वेऽपि वावयत्वरूपेण वा पौरेयवाक्यत्वरूपेण वा पक्षधर्मेणानुकूलवत्रादिमत्त्वरूपसाधनेन वाऽवच्छिन्नसाध्यव्यापकत्वोपपत्तेः । न च स एव सत्प्रतिसाधन इति प्रमाणलक्षणोत्योपाध्यभावेनानुमीयमानोऽपि विशिष्टस्याभाव एव ८६ ॥ न्यायसुधा ॥ (अ. १ पा. १ अ. १ सिद्ध्यत् न तु अभिमतशुद्धसाध्यस्याभाव इति न प्राचीनहेतोः सत्प्रतिपक्षत्वमिति वाच्यम् । विशेषण- वतिविशिष्टाभावसिद्धेविशेप्याभावेनैव पर्यवसानादिति भावः ॥ उद्यता इति । उद्युक्तवन्त इत्यर्थः । तत्राप्तिरित्ययुक्तम् । आप्तेः पुंगतत्वादित्यतः सामानाधिकरण्याय फलितार्थमाह ॥ यद्वक्रादीति । यदित्यस्य पञ्चम्यंताव्ययत्वं आवृत्तिं आप्तिरित्यस्य व्याप्तिरिति चार्थमुपेत्याप्तवाक्यतया तेनेत्यन्तस्य योजनान्तरमाह ॥ यत एवमिति । या०. आप्तेः पुरुषगताया वाक्यनिष्ठत्वाभावाद्वक्ष्यमाणानुमानायोग इत्यतोऽभिप्रायमाह । यद्वक्रानुकूल्योपैतमिति । श्री०- उक्तहेतुसिद्धमिति । गुरुर्गुरूणामित्यादिनोक्तहेतुत्रयेण वक्राद्यानुकूल्यत्रयं सिद्ध- मित्यर्थः॥ च०. पौरुपेयवाक्यत्वावच्छिन्न इति । वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यादौ बहि- द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकोद्धृतरूपवत्वस्येव पक्षधमविच्छिन्नव्यापकस्य वोदासीनधर्मावच्छिन्नव्यापकस्य योपाधित्वसम्भवादिति हृदयम् ॥ यद्वक्रेति । आप्तेस्तदानुकृल्यत्रिकव्यधिकरणत्वेऽपि तद्वत्प्रणीतत्वस्य न तब्यधिकरणतेति भावः । मु०-एतदुक्तं भवति । विमतमाप्तवाक्यमनुकूलेन वाऽनुकूलान् श्रोतृन्प्रति तदीय- हितसाधनबोधायोपदिष्टत्वात्सम्प्रतिपन्नवत् । विमतं प्रमाणमाप्तवाक्यत्वात्सम्प्रतिपन्नवदिति । वक्तुरानुकूल्याभावाजैनाद्यनाप्तवाक्यम् । श्रोत्रानुकूल्यविरहाद्वौद्धादि । प्रसङ्गानुकूलतावैधुर्याद नर्मादि । ननु कोऽयमाप्तो नाम यद्वाक्यत्वं साध्यते । यथादृष्टार्थवादीति चेन्न । भ्रान्ति- दृष्टार्थवादिन्यपि प्रसङ्गात् । प्रमाणदृष्टेति विशेषणेऽपि प्रमाणदृष्टस्य प्रमादादिनाऽन्यथाकथके अपि प्रसङ्गात् । प्रमाणेन यथा दृष्टं तथा वादीति चेन्न । एकदेशे तथाभूतरादित्वेऽप्यंशान्तरे अतथाभूतवादिन्यपि प्रसङ्गात् । यावत्प्रमाणदृष्टं तावतो वक्तेति चेन्न । प्रायेणातथाभूतत्वादेव लक्ष्याणां तदव्याप्तेः । न हि केनापि यावत्प्रमाणप्रमितं तावदभिधीयते । यावत्प्रमाणदृष्टं तावत एव वक्तेति चेन्न । अज्ञातसन्दिग्धानुवादवाक्यप्रयोक्तुरनाप्तत्वप्रसङ्गात् । भीमाग्रजस्य अपि कदाचिच्चाटुवादित्वसम्भवेनानाप्तत्वापत्तेश्च । निर्दोष आप्त इति चेन । आप्तानामपि क्वचिद्रागादिदोपसम्भवात् । यत्र विषये निर्दोषस्तत्राप्त इति चेन्न । यत्तच्छब्दयोर्विशेषविषय- त्वेनासाधारण्यादव्याप्तेरिति ।
कोऽयमाक्षः) ॥ जिज्ञासाधिकरणम् ॥ वा० एवं च सिद्धमनुमानप्रयोगं दर्शयितुमाह ॥ एतदुक्तं भवतीति । प्रथमहेतौ विशेषण- त्रयव्यवच्छेद्यानि दर्शयति ॥ वक्तुरित्यादिना । नन्वस्तु वक्राद्यानुकूल्यं माऽस्तु चाप्तवाक्यत्वं विपक्ष बाधकामावादप्रयोजको हेतुरित्यतो व्याघातरूपं विपक्षे बाधकमेवं चेत्यादिना वक्तुं विवक्षितार्थतत्त्व- ज्ञानाविप्रलिप्साकरणपाटवविवक्षाणामाप्तिशब्दार्थत्वं व्यवस्थापयन् द्वितीयानुमाने नन्वाप्तेत्यादिना शङ्कि- प्यमाणव्यभिचारपरिहाराय यो यत्रेत्यंशस्याप्तिशब्दार्थान्तर्गतानां च व्यवस्थापयन् खण्डनोक्ताप्तिलक्षण- दूषणमनुवदति ॥ ननु कोऽयमिति । लोके प्रायशो यथादृष्टार्थवाद्यादिप्वाप्तत्वव्यवहारादेपा पक्षाणां प्रसक्तिरिति द्रष्टव्यम् । यथादृष्टार्थवादित्वमाप्तत्वं विवक्षित प्रमाणदृष्टार्थवादित्वं प्रमाणेन यथा दृष्टं तथा वादित्वं वा । अत्र प्रथम दृष्टानतिक्रममात्रं वादे विवक्षित दर्शनप्रामाण्ये त्वौदासीन्यम् । द्वितीये विपरीतं तृतीये तूभयं विवक्षितमिति द्रष्टव्यम् । तत्राद्यमुत्थाप्य तथात्वे देहात्मनोन्त्यैिकत्वं प्रतिपद्य देह एवात्मेति व्यवहरतोऽप्याप्तत्वं स्यादित्याह || भ्रान्तीति । द्वितीयमुत्थाप्य तथा सति प्रमाणेन इन्द्रियाणां प्राकृतत्वं प्रतिपद्य प्रमादादिना भौतिकानीन्द्रियाणीति वादिनः साङ्ख्यस्याप्तत्वं स्यादित्याह ।। प्रमाणेति । तृतीयेऽपि यथा प्रमाणेतिविशेषणद्वयस्यैव विवक्षा यावदित्यपि वा विवक्षितम् । नाद्यः । ग्रावाणः प्लवन्त इति वादिनोऽपि ग्रावाण इत्यंशे तथाभूतवादित्वात्प्लवन्त इत्यंशे चातथाभूतवादित्वात् आप्तत्वापत्तिरित्याह ॥ एकदेश इति । द्वितीयेऽपि यावदित्यवधारणं काार्थमुतान्ययोगव्यवच्छेदा- र्थम् । नाद्यः । आप्तत्वेनाभिमतानां प्रमाणदृष्टस्य कास्न्येनावक्तृत्वादव्याप्तिरित्याह || प्रायेणेति । असम्भवे प्रसञ्जनीयेऽव्याप्तिः कुतः प्रसज्यत इत्यतः प्रायेणेन्युक्तम् । तदेवोपपादयति ॥ न हीति ।। केनापीति । अस्मत्परिचितेनेत्यर्थः । द्वितीयमुत्थापयति ॥ यावदिति । भ्रान्तिदृष्टवादिनि लोके अनाप्तव्यवहारेऽप्यज्ञातवाक्यप्रयोक्तरि सन्दिग्धवाक्यप्रयोक्तयनुवादवाक्यप्रयोक्तरि च लोकेऽनाप्तत्वव्यव- हाराभावेन तेषामपि लक्ष्यत्वात्तत्र च लक्षणाभावेनात्याप्तिः स्यादित्याह ॥ अज्ञातेति ॥ भीमाग्रजस्य अपीति ।। प्रतिपक्षसेनानिविष्टानामप्याप्तत्वेन सम्भावितस्य युधिष्ठिरस्य कदाचिदनृतवादित्वदर्शनेन तत्रापि अध्याप्तिरित्यर्थः । एवं दृष्टिगर्भलक्षणानि निराकृत्य लक्षणान्तरं निराकरोति ॥ निर्दोष इति । अत्र निर्दोषत्वं सर्वथा विवक्षितम् । यत्र विषय इति विशेषितं वा । आये भीमाग्रजादावव्याप्तिरित्याह ।। आसान, मिति । द्वितीयं शङ्कते । यत्रेति । एतच्चोपलक्षणम् । प्रथमपक्षेऽप्येवं विवक्षायामेतदेव दूपणं स्यादित्यपि द्रष्टव्यम् । अत एवान्ते तस्य निवेशनम् । यत्तच्छन्दयोः सर्वनामत्वात्सर्वनाम्नां च घटदेवदत्तादिविषयिणीं शक्तिमहाविपयतया शाब्दज्ञाने विपयतयाऽप्रविष्टां ज्ञातां बुद्धिमुपधानीकृत्य घटत्यदेवदत्तत्वाद्यनेकप्रकारावच्छिन्नेषु देवदत्तादिषु शक्तिग्रहणेन यत्तदादीनां घटत्वादिप्रकारकघटाद्युप- स्थितिजनकत्वाल्लक्षणवाक्यस्य घटविषये निर्दोषो घटे आप्त इत्याद्यर्थप्राप्त्या तस्य चाप्तत्वावच्छिन्नेऽभावेन म०- ॥ न्यायसुधा ॥ (म. १ पा. १ अ. • १ अत्र्याध्यापत्त्याऽऽतमात्रे आप्त इत्यादिव्यवहारसम्पादनलक्षणस्वप्रयोजनासाधकत्वाच्च नेदं लक्षणं युक्तमि- त्यभिप्रेत्य दूपयति ॥ यत्तदिति । अव्याप्तेरिति । सार्वत्रिकव्यवहारानौपयिकत्वस्याप्युपलक्षणम् । अन एवोत्तन्त्र सामान्येनानूद्य विकल्पयिप्यतीति द्रष्टव्यम् । आप्तवाक्यल्वसाधकहेतुविशेषणानां व्यवच्छेद्यानि दर्शयति ॥ वक्तुरिति । उपदिष्ट- त्वमात्रम्य जनादिवाक्ये सत्यपि अनुकूलेन वनोपदिष्टत्वाभावान्न व्यभिचार इति भावः । अनुकूलान् श्रोतन्प्रति तदीयहितसाधनबोधायोक्तत्वादित्येवोक्ते प्रह्लादं प्रति शण्डामर्कवचने व्यभिचारस्तन्निवृत्त्यर्थमनु- कृलेन वक्रेति । दुर्योधनादीन्प्रति हितैपिपितृवाक्ये विशिष्टस्य हेतोर्व्यभिचारवारणायानुकूलानिति श्रोतृ- विशेषणमिति द्रष्टव्यम् ॥ ननु कोऽयमिति । किं यथार्थदृष्टार्थवादीति निर्दोषो वेति किंशब्दार्थः । आधमाशङ्कतं ।। यथेति । अत्र किं यथा शब्दो वदिक्रियाविशेषणं वाऽर्थविशेषणं वेति विकल्प्य क्रमेण दूषयति ॥ न भ्रान्तीति । तृतीयेऽप्येकदेशे प्रमाणेन यथादृष्टार्थवादित्वमुत सर्वत्रेति विकल्प्य आद्य दृपयति ॥ नकति । द्वितीयमुत्थाप्य दूषयति ॥ यावदिति । अत्र यावत्तावच्छब्दाभ्यामवधारणं प्रतीयते तन्किमयोगव्यवच्छेदार्थमन्ययोगव्यवच्छेदार्थ वा । आद्ये ज्ञातमात्रस्यानुसन्धानाभावाद्यत्किञ्चि- प्रनाणप्रतिपन्न तथावदतो नाप्तत्वमित्यव्याप्तिरित्युक्तम् । द्वितीयमुत्थाप्याऽव्याप्त्या दूषयति ॥ यावदिति । अनाने सन्दिग्धेऽनुवादे च यद्वाक्यं तत्प्रयोक्तुराप्तत्वं न स्यादित्यर्थः । द्वितीयं शङ्कते । निर्दोष इति । किमानत्वं सर्वत्रकमेवाहोम्विदनेकान्याप्तत्वानि । आद्ये अव्याप्तिमाह || न आप्तानामिति । द्वितीय- मागकय निषेधति ।। यत्रेति । प० वक्तृश्रोतृप्रसक्तीनामनुकूलतेत्यत्रास्येति शेषमुपेत्य फलितार्थमाह ॥ अस्येत्यादि । विमनमिति । ब्रह्मतन्त्रम् । आद्यप्रयोगे हेतुविशेषणकृत्यान्याह । वक्तुरिति । बौद्धादीत्यत्र नर्मादीत्यत्र चानामवाक्यमित्यनुषङ्गः । नर्मादौ अनृतोक्तावप्यदोषात् । 'न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानीति भारतोक्तेरिति भावः । विमतमाप्त- वाक्यमित्यादिप्रागुक्तप्रयोगे हेतुसाध्ययोर्व्याप्ति एवं च वस्तुरित्यादिना व्युत्पादयितुं मैवमित्यादिनैवं चेति अन्तैनात्र विवक्षिताप्नत्वं समर्थयमान आप्तत्वमाक्षिपति ॥ ननु कोऽयमित्यादिना मैवमित्यन्तेन । अज्ञानेनि । अज्ञातसन्दिग्धार्थकवाक्यानुवादरूपवाक्ययोः प्रयोक्तरित्यर्थः । तत्राज्ञानादिविषयस्यापि वक्तृत्वेन प्रमाणदृष्टस्यैव वक्तृत्वाभावादिति भावः ।। या०– आप्तवाक्यत्वसाधकहेतुविशेषणानां क्रमेण व्यवच्छेद्यान्निदर्शयति ॥ वक्तुरित्यादिना। आप्तवाक्यतासाधकाऽनुमानेऽप्रयोजकताशङ्कापरिहारायानुकूलतर्क वक्तुमाप्तस्वरूपं निर्धारयितुमाह ॥ ननु कोऽयमाप्तः) ॥ जिज्ञासाधिकरणम् ॥ ८९ कोऽयमाप्त इति ॥ तावत एव वक्तेति । प्रमाणदृष्टस्यैव वक्तेत्यर्थः ॥ अज्ञातसन्दिग्धेति । अनु- वादका यत्प्रमेयं स्वेन न ज्ञातं सन्दिग्धं वा तत्प्रतिपादकं यद्वाक्यं तदनुवादस्तावक्रियते । तस्य च आप्तत्वं वादविषये सुप्रसिद्धम् । न हि स प्रमितं वादमेव वदति । तदवच्छेदकतयाऽज्ञातस्य सन्दिग्धस्य वा विषयस्यापि वचनात् । अतो लक्षणस्य तत्राव्याप्तिरित्यर्थः । केचित्तु अज्ञाते सन्दिग्धेऽनुवादे च यद्वाक्यं तत्प्रयोक्तराप्तत्वं न स्यादित्यर्थ इत्याहुः ॥ भीमाग्रजस्यापीति । धर्मराजत्वात्प्रमितवस्तृतया प्रसिद्धस्यापीत्यर्थः । कदाचिद् द्रोणवधसमये नर्मादिसमये वा ॥ चाटुवादित्वसम्भवेनेति । अप्रमित- वादित्वसम्भवेनेत्यर्थः ।। श्री०- तावतो वक्तेति । तावतः सर्वस्य वक्तेत्यर्थः ॥ असाधारण्यादिति । सर्वानुगत- त्वाभावादित्यर्थः ॥ च०- आप्तवाक्यतासाधनदशायां हेतुतावच्छेदकघटकतद्विशेषणानां मतभेदनियन्त्रितनिग्रहा. सिद्धिप्रसञ्जनव्युदसनायानैकान्त्यनिरसनफलितां दर्शयति ।। वक्तुरित्यादि । तदानुकूल्यत्रिकघटितहेतुना आप्तवाक्यतासाधने अप्रयोजकताशङ्कानिरसनौपयिकानुकूलतर्कमभिधित्समान आप्तिस्वरूपं निर्णिनीषुः आशङ्कते । नुन कोऽयमिति । यथादृष्टार्थवादित्वं प्रमाणदृष्टार्थवादित्वं प्रमाणेन यथा दृष्टं तथा वादित्वं निर्दोपत्वं वा तदिति कल्पचतुष्टयी निराचिकीर्पिता प्रमाभ्रमोपसाधारणदर्शनत्वावच्छिन्ननिरूपक- ताकविपयतानापन्नावगमकशब्दाप्रयोक्तृत्वे सति तादृग्विषयतापन्नावगमकशब्दप्रयोक्तृत्वमाद्यं निर्गलितम् । प्रमाणजनितप्रतीतिविषयतापन्नगोचरावगतिहेतुभूतशब्दप्रणेतृत्वं द्वितीयं प्रमाणजनितप्रतीतिविषयता- नापन्नावगतिहेतुभूतशब्दाप्रयुञ्जानत्वे सति तदापन्नावगतिहेतुभूततत्प्रयुञ्जानत्वं तृतीयम् । तृतीयेऽप्युत्तर- दलनिविष्टताग्विपयतापन्ने कतिपयत्वं साकल्यं वा तावतो वक्तेत्यत्र सावधारणत्वं वेति कल्पत्रयी प्रत्याचिख्यासिता । तुरीये च विषयानुपहितसामान्यधर्मावच्छिन्नाभावः तदुपहितधर्मावच्छिन्नाभावो वेति कल्पद्वयी तादृशीत्यभिप्रेत्य क्रमेण प्रतिविधत्ते ॥ अव्याप्तेरित्यन्तेन ।। भ्रान्तिदृष्टार्थेति । भ्रान्तिविष- यीकृतेत्यर्थः । तथा चेदं रजतमित्युपदेष्टर्यतिप्रसङ्ग इति भावः ॥ अन्यथाकथक इति । प्रमाणजन्य- प्रमितिविशेप्यावृत्तिधर्मोपरागेण तादृशविशेष्यप्रतीतेरपि तथाविधत्यादिति भावः । तृतीयकल्पे प्रमाणदृष्टे कतिपयत्वं विशेषणमभिप्रेत्याह ॥ एकदेश इति । साकल्यं तद्विशेषणमित्यभिसन्धायअभिधत्ते ॥ प्रायेणेत्यादि । तावत एव वक्तेति सावधारणत्वाश्रयणेनाशङ्कते ॥ यावदिति ॥ अज्ञातेत्यादि । अज्ञातसन्दिग्धशब्दौ मत्वर्थीयाजन्ती आढ्यमिदं नगरमिति यथा । अज्ञाताद्यर्थकावित्यर्थः । तादृशयोर्य- दनुवादरूपवाक्यं तत्प्रयोक्तुरित्यर्थः । कृतद्वन्द्वानुवादान्तेन कृतैकशेषवाक्यपदस्य कर्मधारय इत्यपि स्थितम् ।। S.T. 12 (अ.१ पा. १ अ. १ ॥ न्यायसुधा ॥ भीमाग्रजस्थापीति । प्रतीपसैनिकानामपि प्रमितमात्रवक्तृत्वोपरक्तानुमतिविपयस्येत्यर्थः । चाटुवादित्वम- प्रमिनवक्तृत्वम् । तुरीये द्वितीयं प्रत्याख्याति ॥ यत्तदिति । सर्वनाम्नामन्वयधीविषयतानापन्नबुद्धिविषय- नावच्छंद्रकोपलक्षितधर्मावच्छिन्ने शक्त्युपगमेन निर्विशेषणघटत्वदेवदत्तत्वादिप्रकारकोपस्थितिजनकतादृश वतन्यदादिघटितलक्षणवाक्यादपि तादृश्येवान्वयधीरुदेप्यतीति प्रकृतलक्ष्यतावच्छेदकाभिमताप्तत्वावच्छेदेन लक्षणप्रतीतिविरहेण न तदवच्छेदेन तन्नियन्त्रितव्यावृत्तिव्यवहृतिप्रत्यापनसम्भव इति भावः । मु० -- मैवम् । विवक्षितार्थतत्त्वज्ञानमविप्रलिप्सा विवक्षा करणपाटवं चेतीयमाप्तिः । नद्वानाप्त इत्यङ्गीकारात् । आप्तत्वाभिमतेऽपि कदाचिदिदं नास्तीति चेन्मा भूत् । तदाऽसाव- नाम इत्यङ्गीकारात् । कालादिभेदेनाविरोधात् । एवं सति यो यत्रैवम्भूतः स तत्राप्त इत्युक्तं स्वादिति चेदम्तु को दोपः । यत्तच्छब्दार्थयोरननुगम इति चेत् । कोऽयमननुगमो नाम किं मार्वत्रिकव्यवहारानौपयिकत्वमुतैकस्यानेकवृत्तित्वाभावः । नाद्यः । यो यस्य सुतः स तदीयं धनं अहीत्यादौ सार्वत्रिकव्यवहारहेतुतोपलम्भात् । न द्वितीयः । अदोषत्वात् । यथा चाननु- गतस्यापि नाव्याप्तिः सार्वत्रिकव्यवहारहेतुता च तथा सामान्यपरीक्षायां वक्ष्यामः । वाक्याप्रामाण्यस्याबोधकत्वविपरीतबोधकत्वनिबन्धनत्वाद्विवक्षाभावेन वाक्यस्वरूपस्यैव अभावाद्वारपटुकरणल्वे चाबोधकत्वप्राप्तेस्तस्यैवाविवक्षितार्थविपरीतज्ञानविप्रलिप्साभ्यां विपरीतबोधकत्व- प्राप्तवाक्याप्रामाण्यप्रसञ्जकनिरासहेतुत्वाद्विवक्षितार्थतत्त्वज्ञानादेराप्तिशब्दार्थतया स्वविवक्षां दर्शयति । मवमित्यादिना । अत्र विवक्षितार्थतत्त्वज्ञानादिमत्त्वं सर्वथा वा किञ्चिद्विशेपितं वा विवक्षितमिति विकल्पं मनसि निधायाद्येऽजातसन्दिग्वेति भीमाग्रजस्यापीत्याप्तानामपीत्युक्तं पूर्वलक्षणयोर्दो शङ्कते ।। आमन्वेति । अलक्ष्यत्वान्न क्षतिरित्याह । मेति । तदेत्युक्तिप्रयोजनमाह ॥ कालेति । आप्तन्वा- नामवयोः समावेशस्य लक्षणस्याविशेषितत्वेऽनुपपत्त्या समावेशं कथयतो द्वितीयपक्षाभिप्रायं गूढाभिसन्धिः उद्घाटयति ॥ एवमिति । गूढाभिसन्धिरेव सिद्धान्ती तं पक्षमङ्गीकरोति ॥ अस्त्विति । पूर्वलक्षणोक्त- दोषो अत्रापि न निवृत्त इति पूर्ववादी स्वाशयमुद्धाटयति ॥ यत्तदिति । सिद्धान्ती स्वाशयमुद्धाटयति ।। कोऽयमिति । अनुगमशब्दस्य रूढिभावव्युत्पत्तिभ्यामेकस्यानेकवृत्तित्वे रूढिकरणव्युत्पत्तिभ्यां चानुगमके प्रवृत्तर्विकल्योपपत्तिः । अदोपत्वादिति । एकस्यानेकवृत्तिवाभावस्य स्वयं लक्षणदोपरूपत्वाभावादित्यर्थः । ननु लक्षणस्यानेकलक्ष्यवृत्तित्वाभाव एवाव्याप्तिरिति कथं नायं दोपः । कथं च 'यो यस्य सुत' इत्यादी उपलब्धिमात्रेण घटत्वपटत्वाद्यनन्ताननुगतधर्मेप्वदृष्टा सार्वत्रिकव्यवहारहेतुता विनोपपादकं निश्चेतुं शक्या । अन्यथा यावद्रव्यभाविरूपादिष्वभेदस्य धर्मधर्मिभावस्य चोपलब्धिमात्रेण स्वीकर्तव्यताऽऽपत्त्या वा० -- कोऽयमाप्तः) ॥ जिज्ञासाधिकरणम् ॥ ९१ तदुपपादकत्वेन विशेषोऽपि न तत्सिद्धान्ते कल्पनीयः स्यादित्यतो न लक्षणस्यानेकवृत्तित्वाभावमात्र- मव्याप्तिरपि तु लक्ष्यजातीये लक्षणजातीयस्यावृत्तिः । यद्यपि मन्मते जातेरप्यननुगतत्वान्न साजात्यमेक- जातीयत्वं तथाऽपि सदृशजात्याश्रयत्वरूपं तदुपपद्यत एव । यद्यपि मन्मते गवादिशब्दप्रवृत्तिनिमित्त- गोत्वादिजातीनां सादृश्ये विद्यमानेऽपि यत्तदादिशब्दप्रवृत्तिनिमित्तघटत्वदेवदत्तादीनां सादृश्याभावस्तथा अपि तदादिशब्दानां घटत्वाद्यवच्छिन्नघटादिशक्तिग्रहे वक्तृवुद्धरुपाधितया स्वीकृतत्वात्तस्याश्च सदृशत्वाद् बुद्धिद्वारकं तदादिशब्दप्रवृत्तिनिमित्तं घटत्यादौ सादृश्यं विवक्षित्वा सहशजात्याश्रयत्वं मयाऽपि वक्तुं शक्यत एव । तदेव सदृशजात्याश्रयत्वमुपपादकं विवक्षित्वा सार्वत्रिकव्यवहारहेतुत्वमपि सूपपादमित्या- शयेनाह || यथा चेति ॥ वक्ष्याम इति । 'व्युत्पत्तिरपि हि सादृश्येनैवे'त्याद्यनुव्याख्यानव्याख्या- ऽवसरे । एतेन कार्यकारणभावावधारणादिकमपि समाहितं वेदितव्यमित्यत्रादिशब्दसङ्गृहीतेऽव्याप्तिः सार्वत्रिकव्यवहारौपयिकत्वादी शक्तिग्रहप्रकारातिदेशेन वक्ष्याम इत्यर्थः । स०- आतिशब्दार्थान्तरमाह ॥ मैवमिति ॥ यो यस्येति । सर्वनाम्नां सर्वार्थपरामर्शार्थ- त्वाद्यत्तच्छन्दयोः विशेषविषयत्वेऽपि विशेषतः सर्वत्रानुगतिरस्तीत्यर्थः । अदोपत्वादिति । मा भूदेक- भनेकवृत्ति को दोष इत्यर्थः । नन्वेकमनेकानुगतं यदि न स्यात्तदा तस्य व्याप्तिसार्वत्रिकव्यवहारहेतुते न स्यातामिति तबाह |॥ यथा चेति । -.-me प० यत्तच्छब्दार्थयोरननुगम इति चेदिति । यस्त्वतस्त्वरूपजातेरभावेन व्यक्तिविशेष- ग्रहणे सति सर्वत्राननुगम इत्यर्थः । नन्वाप्तवाक्यत्वरूपहेतुशरीरप्रविष्टाप्तेरननुगमे सति यद्यदाप्तवाक्यं तत्सर्व प्रमाणमिति आप्तवाक्यत्वमात्रे व्याप्तिन स्यात् व्यक्तिविशेष एव व्याप्तिः स्यादित्यत आह ।। यथा चेति । अव्याप्तिाप्तिहीनता । यद्वाऽऽप्तत्वावच्छिन्नाप्तमात्रे अनुगतस्यैकस्याभावे तत्तव्यक्तिमात्र- निष्ठधर्मस्यैवाप्तलक्षणत्वेनोक्तावेकत्र व्यक्तौ विद्यमानस्यान्यत्र व्यक्तावभावेनाप्तलक्षणस्याव्याप्तिः । आप्त- त्वावच्छिन्नसर्व-यक्तिपु अयमाप्त इति व्यवहारश्च न स्यादित्यत आह ॥ यथा चेति । वैशेषिकाधिकरणे 'नरत्वादिकमप्येवं तत्तद्धर्मतयेप्यते । न सर्वधर्म एकोऽस्ति समुदायस्तु भिन्नग' इत्यादि सामान्यास्तित्व- विचारप्रकरणे । 'इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते । सर्वेषु युगपच्छन्दः सदृशेषु च वर्तत' इत्यादिना सादृश्येनैवाननुगतस्यापि धर्मस्य नाव्याप्त्यादिकमित्यादि वक्ष्याम इत्यर्थः । तत्र सादृश्येन सार्वत्रिकव्यवहारस्यैव स्फुटत्वेऽपि तुल्यन्यायतया लक्षणाव्याप्तेरपि सुपरिहरत्वादिति भावः । अत एव च तर्कताण्डवे सादृश्येनैव लक्षणाव्याप्तिं च निरस्य चतुर्णामपि पक्षाणामनुव्याख्यानोक्तं सादृश्यमेव जीवातरिति ग्रन स्वोतपशचातयं मलारुदतया दर्शितमिति जेयम् ।
॥ न्यायसुधा॥ या० (अ.१ पा. १ भ. १ यो यत्रयम्भूत इति । यत्र विषये एवम्भूतो विवक्षितार्थतत्त्वज्ञानादिमानित्यर्थः ॥ एकस्यनि । यत्तच्छब्दघटितम्यैव लक्षणस्येत्यर्थः ॥ यो यस्य सुत इति । अत्रापि कथमिति चेत् । इन्थम । विगविषययोरपि यत्तच्छब्दयोरपि प्रयोगोपाधिबुद्धिस्थत्वम् । तच्च प्रकृतसर्वसङ्ग्राहकम् । अनन्नयोः सार्वत्रिकव्यवहारहेतुतोपपद्यत इति । सर्वनाम्नां सर्वार्थत्वायत्तच्छब्दयोः विशेषविषयत्वेऽपि विपनः सर्वत्रानुगतिरम्तीत्यप्याहुः ॥ सामान्यपरीक्षायामिति । 'व्युत्पत्तिरपि हि सादृश्येनैव गम्यते' इत्यनुव्यायानव्याच्यावसर इत्यर्थः । तत्र यद्यपि सादृश्यस्य सार्वत्रिकव्यवहारहेतुतोक्ता न त्वनुगतस्य लक्षमन्ऽव्यात्यभावः । तथाऽपि सामान्यस्थानाभिषित्तेन सादृश्येनाव्याप्तिपरिहारोऽपि तत्र तत्रोप- लझ गया विवक्षित एव । लक्ष्यसदृशे लक्षणसदृशस्यावृत्तिरव्याप्तिन त्वेकस्य लक्षणस्य लक्ष्यैकदेशे येनानु- रनलगानामव्याप्ति गति ।। -memalver- च..... समाधत्त । मैवमिति । आप्तत्वाभिमते । आप्तत्वप्रकारकाभिमतिविषये अज्ञात- प्रत्यादिनाभिहित ॥ कालादीति । आप्तताया अव्याप्यवृत्तित्वोपगतेरिति भावः । यो यत्रैवम्भूतः । को यादगार्थविषयकतत्त्वज्ञानाविप्रलिप्साविवक्षाकरणपाटववान् स तादृशार्थविषयकाप्तिमान् । अनूपसृष्टस्य गनेत्र्यवहारार्थतां तदुत्तरप्रत्ययस्य करणसाधनतामभिप्रेत्य सार्वत्रिकव्यवहागैपयिकप्रत्यायकता तादृशगमेः मत श्रनां प्रत्ययस्य च भावसाधनतामाश्रित्यानेकवृत्तित्वप्रमापकताभिहितेति विकल्पोपपत्तिः । यो यस्य सुत इति । सर्वनामनिरूपितशक्यतावच्छेदकतापन्नदेवदत्तत्वादीनामन्वयधीविषयताविनिर्मुक्तबुद्धिविपयता- वडक वनोपलक्षितन्वाङ्गीकारात् सार्वत्रिकन्यवहृतिनिर्वाहकता सङ्गच्छत इत्याशयः ।। अदोपत्वादिति । न्यावनय इव सिद्धान्त स्वसमानाधिकरणलक्ष्यतावच्छेदकाभिमतधर्मसमानाधिकरणाभावप्रतियोगित्वस्य अध्यानिश्पन्चानङ्गीकारादित्यर्थः । यावन्तो लक्ष्यतावच्छेदकाभिमतधर्माः प्रत्येकं तत्तद्व्यक्तित्वावच्छिन्ना- अयीभूतकनिषयावृत्तिम्वसमानजातीयकत्वस्यैव सिद्धान्तेऽव्याप्तिरूपतोपगत्या गवादिशब्दप्रवृत्तिनिमित्त- गोवादिजातीनां मादृश्योपगमेन सदृशनात्याश्रयत्वम्यैव सार्वत्रिकव्यवहारनिर्वाहकतोपगमेन न क्षतिरिति अर्थन्य अविरोधलक्षणे 'व्युत्पत्तिरपि हि सादृश्येनैव गम्यत' इत्यनुव्याख्याव्याकृत्यवसरेऽभिधास्यमानतया मामजन्यनित्यभिधत्ते ॥ यथा चेति । मु. एतेन निदोपः प्रमितस्यैव वक्तेति लक्षणद्वयमपि समाहितं वेदितव्यम् । अनु- वाइन्य वादविषयत्वेन तत्प्रयोक्तुरप्याप्तत्याविरोधात् । एवं च वक्तुरानुकूल्यमाप्त्येकदेश एव । विप्रलिप्मा च श्रोतृप्रसङ्गाननुकूलतैकनिवन्धना तदभावे निवर्तत इति वक्रायानुकूल्यवत्ताया आप्तवाक्यतया सुस्थः प्रतिबन्धः । नन्वाप्तवाक्यता स्वकपोलकल्पितेषु मालतीमाधवादिपु कोऽयमाप्तः) ।। जिज्ञासाधिकरणम् ॥ ९३ प्रामाण्यं व्यभिचरति । न हि नाटकादिप्रवन्धं विरचयन्नपि कदाचिदुक्तलक्षणोपपन्नो न भवति भवभूतिरिति चेन्न । यो यत्रैवम्भूत इत्यनेनैवोक्तोत्तरत्वात् । आप्तिमूलवाक्यस्याप्त- वाक्यतया विवक्षितत्वाच्च । अबोधकं विपरीतबोधकं वा वाक्यमप्रमाणमित्युच्यते । तत्राबोधकं वक्तुरपटुकरणतया भवति । विपरीतबोधकं च विपरीतज्ञानादिनेत्याप्तिपूर्वकवाक्यत्वस्य प्रामाण्येन प्रतिबन्धसिद्धिः । अन्यथा कारणेन विना कार्योत्पत्तिप्रसङ्गादिति । वा० - निर्दोषः प्रमितस्यैव वक्तेति लक्षणद्वयेऽपि यत्र विषय इति विशेषणविवक्षामभ्युपेत्य एतद् दूषणपरिहारप्रकारमतिदिशति ॥ एतेनेति । मा भूत्तदाऽसावनाप्त इत्यङ्गीकारादित्यज्ञात- सन्दिग्धवाक्यप्रयोक्तुरपि अलक्ष्यत्वमनुमतमिति भ्रान्ति तस्य लक्ष्यत्वेऽपि लक्षणोयपादनेन परिहरति ।। अनुवादस्येति । ननु कोऽयमाप्तो नामेति प्रश्नपूर्व विवक्षितार्थतत्त्वज्ञानादीनां चतुर्णामाप्तिस्वरूपत्व- प्रतिपादनं यदर्थं कृतं तदाह ॥ एवं चेति । प्रतिबन्धो व्याप्तिः । एवं विवक्षिार्थतत्त्वज्ञानादीना चतुर्णामाप्तिशब्दार्थताविवक्षाप्रयोजनत्वेन प्रथमानुमाने व्याप्तिसिद्धिमुपपाद्य यो यत्रेत्यंशस्याप्तलक्षणे विन- क्षायाः प्रयोजनस्य प्रथमानुमाने अभावात् द्वितीयानुमाने व्यभिचारपरिहारलक्षणं तत्प्रयोजनमभिप्रेत्य तन्निवर्त्य व्यभिचारं शङ्कते ॥ नन्विति । स्वकपोलेति साध्याभावोपपादनम् । न हीति साधनसद्भावो- पपादनम् ॥ यो यत्रेति । आप्तलक्षणे यो यत्रेति विशेषणप्रक्षेपेण यो यद्विपये विवक्षितार्थतत्त्वज्ञाना- दिमांस्तद्विषये तद्वाक्यस्याप्तवाक्यताहेत्वर्थत्वेनोक्तत्वादित्यर्थः । एवमाप्तलक्षणे यो यत्रेति विवक्षितत्वात् तत्सामर्थ्यलब्धार्थानुसारेण व्यभिचारः परिहृतः । अधुना तु लक्षणे विवक्षितस्य यो यत्रेन्यंशस्य हेतु- शरीराप्रवेशेऽप्याप्तिमद्वाक्यत्वेनाप्तिमूलकत्वस्य विवक्षया व्यभिचारं परिहरति ।। आशीति । द्वितीयानुमाने अप्रयोजकत्वशङ्कायामकारणकार्योत्पत्तिरूपं (अप्रामाण्यरूपकार्येत्यर्थः) बाधकं वक्तुं करणाप्रामाण्यस्वरूपं विवृण्वन्नेव वाक्याप्रामाण्यकारणान्याह ॥ अबोधकामिति । स०. -- एतेनेति । व्याप्तिसार्वत्रिकव्यवहारहेतुत्वसम्भवेनेत्यर्थः । यदुक्तगजातसन्दिग्धानुवाद- वाश्यप्रयोकुरनाप्तत्वं प्रसज्येतेति ॥ तथाऽज्ञातसन्दिग्धवाक्यप्रयोक्तुरनाप्तत्वम् । अनुवादप्रयोकुन्तु नाना- तत्वं पुरावादविषयकत्वादनुवादस्येत्याह ॥ अनुवादस्येति । यदाऽप्तवाक्यत्वं श्रोतृप्राङ्गानुकल्यवत्वेन साधयितुं शक्यते, तदा न विप्रलिप्सानिबन्धनमप्रामाण्यम् । श्रोतृप्रसङ्गानुकूल्ये सति तदानुकलता- निबन्धनविप्रलिप्साऽभावादित्याह ॥ एवं चेति । ननु निर्दोषवाक्यत्वादेरेवाप्तवाक्यत्वायोजकत्वादनु- कूलवत्रादिमत्त्वेऽप्याप्तवाक्यत्वाभावे बाधकाभावात् निदर्शनादर्शनाच्च नायं हेतुः साध्यसाधनक्षम इत्या- शङ्याह ।। इतीति । निर्दोषवाक्यत्वादेराप्तवाक्यत्वानतिरिक्तत्वात् आप्तवाक्यत्वाभावे अनुकूलपका.
॥ न्यायसुधा ॥ (म. १ पा. १ भ. १ दिमत्वायोगात् । यदनुकूलवादिमत् तदाप्तवाक्यं यथा भारतादि यन्नाप्तवाक्यं न तदनुकूलवत्रादिमत् यथा जैनादिवाक्यमिति व्याप्तेन दोष इत्यर्थः । व्याप्तेः सार्वत्रिकव्यवहारहेतुत्वसिद्ध्यर्थ यावद्वस्तुसत्व- माप्तत्वं मन्यमानश्चोदयति ॥ नन्विति । मालतीमाधवादयो नाटकग्रन्थविशेषाः । अननुगतस्यापि व्याप्तिसार्वत्रिकव्यवहारोपयोगित्वसम्भवान्न व्यभिचार इति परिहरति ॥ य इति । प्रकारान्तरेण व्यभिचारं वारयति ॥ आप्तीति । कथमाप्तिमूलवाक्यत्वस्य प्रामाण्येनाव्यभिचरिता व्याप्तिः । आप्ति- मूलवाक्यत्वेऽपि प्रामाण्याभावे किं बाधकमित्याशङ्कय आप्तिशब्दार्थपर्यालोचनया व्याप्ति विपक्षे बाधक चाह ॥ अबोधकमिति । प०-- आप्तेरुक्तरूपत्वे विमतमाप्तवाक्यमिति प्रागुक्तप्रयोगे हेतोर्वक्ष्यमाणदिशा कथञ्चित्साध्या- वैशिष्टयं मन्वानं प्रति लक्षणान्तरं समाधत्ते ॥ एतेनेति । यत्रैवम्भूत इत्यननुगमस्यादोपत्वकथनेनेत्यर्थः । द्वितीयलक्षणे प्रागुक्तदोपं निराह ॥ अनुवादस्येति । प्रतिबन्धोऽविनाभाव इत्यर्थः । बिमतं प्रमाण- माप्तवाक्यत्वादिति द्वितीयाऽनुमानेऽव्याप्तिमाक्षिप्य समाधत्ते ॥ नन्वित्यादिना कार्योत्पत्तिप्रसङ्गा- दित्यन्तेन । मालतीमाधवेति भवभूतिनामककवीश्वरकृतनाटकग्रन्थस्य नामधेयम् । आदिपदेन मेघसन्दे. शादेर्मानान्तरासिद्धकथाप्रतिपादकप्रबन्धस्य सङ्ग्रहः॥ उत्तोत्तरत्वादिति । मालतीमाधवादिग्रन्थविषये तस्यानाप्तत्वेन हेतोरेवाभावान्न व्यभिचार इति भावः । हेतोरप्रयोजकत्वनिरासाय विपक्ष बाधक व्यनक्ति ॥ अबोधकामित्यादिना ॥ अन्यथेति । अपटुकरणत्वादेरभावेऽप्यप्रामाण्ये इत्यर्थः । ॥ या०-- एतेनेति । एतेनेति । यो यत्रैवम्भूनः स तत्राप्त इति विवक्षितत्वेनेत्यर्थः । अज्ञातसन्दिग्धे- त्यादिनोक्तं दोषमप्यनयैव विवक्षया निराकरोति ॥ अनुवादस्येति ॥ आरत्याविरोधादिति । वादांश इति शेषः । यदर्थमाप्तस्वरूपं निरूपितं तदिदानीमाह ॥ एवञ्चेति । एवं निर्दोपः प्रमितस्यैव वक्तेति पक्षद्वयेऽप्यन्यथा निरुपाधिकः साध्यसम्बन्धो भज्येतेति विपक्षबाधकतर्को द्रष्टव्यः । एवमाद्यानुमाने अनुकूलतर्कोक्त्या व्याप्तिमुपपाद्य द्वितीयानुमानेऽपि तामुपपादयितुमाह ॥ नन्वाप्तवाक्यतेति ॥ यो यत्रैवम्भूत इत्यनेनैवेति । तथा च यो यत्र एवम्भूतः तद्वाक्यत्वमाप्तवाक्यत्वम् । इदं च न मालती- माधवादिषु । तत्प्रणयनकाले तस्यैवम्भूतत्वाभावस्य स्वकपोलकल्पितेविति वदता त्वयैवोक्तत्वादिति भावः । एवं व्यभिचारमपाकृत्याप्रयोजकतापरिहाराय विपक्षवाधकतर्क वक्तुमाह ॥ अबोधकमिति ।।
५ च० परम्पराक्षेपः) ॥ जिज्ञासाधिकरणम् ॥ एतेन । यत्र विषय इत्यंशस्य लक्षणवाक्यघटकल्बोपगमेन | अज्ञातेत्यादिनाभिहित- क्षतिं प्रतिविधत्ते ॥ अनुवादस्येति । वादविषयकतत्त्वज्ञानं तु क्षतमेवेति भावः । आप्तिस्वरूपनिरूपणं फलवतां नयति ॥ एवं चेति । भावसाधनधान्तप्रत्युपसृष्टबध्नात्युपस्थाप्य व्याप्त्यन्वयनिरूपितता तत्समभिव्याहृततलन्तप्रकृतिकतृतीययोच्यते। साधनानुमानेऽनुकूलतर्कसानाथ्याऽऽपादितनिरङ्कुशताकव्याप्ति उपपाद्य फलितानुमानेऽपि तादृशी प्रतिपिपादयिषुरनैकान्त्यमाशङ्कते ।। नन्वित्यादि । यो यत्रेत्यादि । ब्रह्ममीमांसाशास्त्रं स्वप्रतिपाद्यार्थविशेषघटितप्रामाण्यकं स्वप्रतिपाद्यगोचरतत्त्वज्ञानादिमत्प्रणीतत्वादित्यर्थ- विशेषघटितमूर्तिकयोरेव हेतुसाध्ययोराहततया यादृशार्थगोचरतत्त्वज्ञानादिमत्प्रणीतो यः स तादृशार्थ- घटितप्रामाण्यक इति सामान्यव्याप्तेरेवाश्रयितव्यतया भवभूत्यादौ मालतीमाधवादिप्रतिपाद्यगोचरतस्त्व- ज्ञानादिसत्ताराहित्येन तादृशनाटके तादृशार्थघटितहेतुमत्ताविरहेण तादृक्क्षत्यनवकाशादिति भावः । हेतुसाध्यशरीरघटकतयार्थविशेषानिवेशेऽपि हेतूकृताप्तवाक्यत्वस्याप्त्यवच्छिन्नकर्तृताकप्रणयनक्रियाकर्मत्व- रूपतया मालतीमाधवादिप्रणेतृतावच्छेदककोटावाप्तिनिवेशविरहनियन्त्रिततद्धटितहेतुमत्वाभावेन न क्षति- रित्याशयेनाह ॥ आप्तिमूलेति । एवमनैकान्त्यनिरसनानन्तर्येण प्रयोजकतां यदीदमप्रमाणं स्यात् तदा अप्रामाण्यनियामकाबोधकत्वविपरीतबोधकत्वान्यतरविशेषितं स्यात् यदि दर्शितान्यतरविशेपितं स्यात् तदा तन्नियामककरणापाटवविपरीतज्ञानादिपूर्वकं स्यादिति बाधकतर्कप्रदर्शनेन प्रतिविधित्सते ।। अबोधकामिति । सु० ननु चानुकूलवक्रादिमत्तया प्रामाण्यसाधनमेवात्र व्याख्यायताम् । किमाप्त- वाक्यतासाधनं मध्ये व्याख्यायते । व्याप्तिपक्षधर्मतयोरतुल्यत्वात् । न हि यद्यध्यापकस्य व्यापकं तत्तस्याव्यापकमिति सम्भवति । अनुकूलनकादिमत्तया आप्तवाक्यतासाधने वक्रानुकू- ल्यस्याप्त्येकदेशत्वेन साध्याविशिष्टता च स्यात् । वक्तृश्रोतृप्रसक्तीनामिति वाक्यं तु शङ्कितस्य उपाधेः साधनव्यापकताप्रदर्शनार्थ भविष्यति । मैवम् । आप्तयाक्यतया तेनेत्युत्तरवाक्यवैयर्थ्य- प्रसङ्गात् । उपाधेः साधनव्यापकताया वक्तृश्रोतृप्रसक्तीनामित्यनेनैवोपपादितत्वात् । न हि उपाधिं दूषयता साधनव्यापकता व्युत्पाद्य साधनेनोपाधेः पक्षे साधनं विधाय तेन साध्यं साधनीयमिति कुलधर्मः । बादरायणेन ब्रह्मादीन्प्रति मोक्षार्थमुपदिष्टत्वमानत्वयोः साक्षात्साध्यसाधनभावाभ्युपगमे अप्रयोजकत्वापातेन विपक्षबाधकत्वेन वत्राद्यानुकूल्योपेताभावस्यानिष्टत्वेनावश्याश्रयणीयत्वे तदुपपत्तये वाद्यानुकूल्यसाधनस्यावश्यकत्वेन तत्र परम्पराश्रयणवद्वत्राद्यानुकूल्यमानत्वयोः साक्षात्साध्यसाधनभावा- भ्युपगमे अप्रयोजकत्वपरिहाराय आप्तवाक्यत्वसाधनस्यावश्याश्रयणीयतया युक्तमत्रापि ग्रन्थकृतः परम्परा- वा० ८३ ॥ न्यायसुधा ॥ (भ. ११ पा. १ श्रयनिनि वतुं कुतोऽस्य ग्रन्थकृदभिप्रायत्वं येनेदं प्रयोजनाभिधानं सङ्गच्छेतेति शङ्कापरिहारायाभि- प्रायानवगमादिन्युक्तं परम्पराश्रयणस्य ग्रन्थकृदभिप्रेतत्वमुपपादयितुं ननु तीनेनेदमुक्तं भवतीति पूर्वपक्ष्यु- प्रेचिनाभिप्रायं मकामुम्बनोपपादयति ॥ नन्विति । अत्र गुरुर्गुरूणामिति श्लोके । गुरूणां गुरुत्वादि- न्यादिहतूप्रति बत्राद्यानुकल्यरूपसाध्याध्याहारस्योक्तरीत्या सिद्धत्वात्साक्षादेव तस्य मानत्वेन साध्य- माधनभा गुरुगुरुणामिति श्लोकाभिप्रेततया व्याख्यातुं शक्ये किमाप्तवावयतासाधनं तदभिप्रेततया मध्ये व्याख्यायत इत्यर्थः । व्याप्तिपक्षधर्मतयोः साधनाङ्गतया साक्षात्साध्यसाधनभावे तदसम्भवात्परम्पराश्रयण- निति शङ्का निवर्तयति ॥ व्याप्तीति । उभयसाधनेऽपि शास्त्रस्यैव पक्षत्वेन पक्षधर्मतायाः स्पष्टत्वात्ता- मनुपपाद्य व्यामिमेवोपपादयति ॥ न हीति । न केवलं व्याप्तिपक्षधर्मतयोस्तुल्यत्वेन परम्पराश्रयणमेव दोषोऽपि न्यनुकूलवत्रादिमत्त्वेनाप्तवाक्यतासाधने आप्तिवत्रानुकूल्ययोः साध्यसाधनानुप्रवेशात्रितयरूप- नुकृल्यस्य चतुष्टयरूपात्येकदेशन्वादंशतः साध्याविशिष्टता च स्यादित्याह ।। अनुकूलेति । ननु मायनेनीयाधः पक्ष साधनार्थमुत्तरवाक्यमिति न वैयर्थ्यम् । न च तस्यापि साधनव्यापकतार्थत्वात्तस्याश्च पूर्वयाक्येनैव सिद्धचात्पूर्ववाक्येन तां व्युत्पाद्य पुनस्तदर्थमुपाधेः पक्षे साधने पूर्वेणोत्तरस्योत्तरेण वा पूर्वस्य गनार्थनाया अनपाय एवंति वाच्यम् । उपाधेः पक्ष साधनस्य तेन पक्षे साध्यसिद्ध्यर्थतया साधनव्यापक- नार्थकचाभावादिल्यतः म्यादिदं यदि पक्षे साध्यसिद्ध्यर्थ प्रथम एव साधनतया स प्रयोजितः स्यात्तर्हि ददन्निद्धी तन्माधनं युक्तं स्यात् । न चैवम् । साध्यसिद्ध्यर्थ साधनान्तरे प्रयोजिते तत्रोपाधिशङ्कायां तं पवना नन्य साधनव्यापकत्वव्युत्पादनेनैव दूषितत्वात्तावन्मात्रमेव व्युत्पाद्य निरुपाधिकपूर्वप्रयुक्तसाधनेन व मायन्य माधनीयतया सायसाधनस्योपाधिना अकर्तव्यतया तदर्थ पक्ष तत्साधनं व्यर्थमेवेत्याशयेन बाद । न हानि । इदं च वक्तश्रोतृप्रसक्तीनामित्यस्य स्वकृत व्याख्यानानुसारेण दूपणम् । शङ्कि- त्रम मननयात्र्यानं तूपाधेः साधनाभेदमित्यादिना आशङ्कय निराकरिष्यतीति द्रष्टव्यम् । उक्तपरम्परामा क्षिपति ॥ ननु चेत्यादिना ॥ न हि यदिति । यत्प्रामाण्यं यद्या- पन्य वन्यानुकूलवत्रादिमत्वम्य व्यापकं आप्तवाक्यत्वं तस्य व्यापकं तत्प्रामाण्यं तस्यानुकूलवत्रादिमत्वस्य अध्यापकं न हीत्यर्थः । आप्तवाक्यत्वप्रामाण्ययोरिवानुकूलवत्रादिमत्वप्रामाण्ययोरपि भारतादौ व्याप्तिः दृदयते इति भावः । न केवलं व्याप्तिः परम्पराश्रयणे दोपश्चत्याह ॥ अनुकूलेति । साध्यवद्धेतोरपि मन्दियन्वेन मन्दिग्यासिद्धिहतुवत्सा यस्य सिद्धत्वेन सिद्धसाधनता वा स्यादिति भावः । यद्यप्यत्राविप्र- लिप्याऽपि साध्यते । सा च न वाद्यानुकूल्याभिन्नति न साध्यावैशिष्टयम् । तथापि सिद्धस्यासिद्धेन महाभिधानेऽप्यसिद्धत्वाभावादविशिष्टत्वमेवेति द्रष्टव्यम् । नन्वनुकूलवत्रादिमत्वस्याप्तवाक्यत्वं प्रत्यहेतुत्वे 'वनश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता' इत्ययुक्तं तत्राह || वक्रिति । अनुकूलवकादिमत्वस्य प्रामाण्य- स०-- परम्पराक्षेपः) ॥ जिज्ञासाधिकरणम् ॥ हेतुत्वे सुतरां त्रित्वविरोधादिति भावः । न चोपाधेः साधनव्यापकतोपपादनार्थमुत्तरवाक्यमित्याह ॥ उपाधेः इति । यदि साधनव्यापकतोपपादनार्थ ताप्तवाक्यतयेत्यनुकूलवत्रादिमत्वेनाप्तवाक्यत्वं प्रसाध्य तेन प्रामाण्यसाधनमयुक्तं स्यादित्याह ॥ न हीति । १०- वक्तृश्रोत्रित्यादित्रिपाद्याः स्वकृतव्याख्यानस्य दााय शङ्कोत्तराभ्यां परीक्षामारभते ।। ननु चेत्यादिना । को निवारयितेत्यन्तेन ॥ अत्रेति । वक्रित्यादित्रिपाद्यामित्यर्थः । व्याप्तिपक्ष- धर्मतयोरिति । पक्षीकृतशास्त्रनिष्ठप्रामाण्यरूपसाध्येनाप्तवाक्यत्वस्येव वत्राद्यानुकूल्यवत्त्वरूपहेतोरपि व्याप्तेः सत्त्वात्पक्षधर्मतायाश्च पूर्व श्लोकेनैव सिद्धत्वादिति भावः । व्याप्त्यंश स्पष्टयति ॥ न हीति । यत्प्रामाण्यमनुकूलवत्रादिमत्त्वव्यापकाप्तवाक्यत्वस्य व्यापकं तत्प्रामाण्यं तस्यानुकूलवत्रादिमत्त्वस्याव्यापकं न हीत्यर्थः । तथा व्याख्याने दोषोऽप्यस्तीत्याह । अनुकूलेति । आप्त्येकदेशत्वेनेति । विवक्षि- तार्थतत्त्वज्ञानमविप्रलिप्सा विवक्षा करणपाटवं चेति चतुष्टयस्याप्तित्वात् । अविप्रलिप्सां विनोर्वरितत्रयस्य वक्रानुकूल्यरूपत्वादंशतः साध्याविशिष्टतेति भावः । वक्रित्यर्धस्य व्यर्थतामाशङ्कयाह ॥ वक्रिति ।। शङ्कितस्येति । एतच्छास्त्रं प्रमाण अनुकूलवक्रादिमत्त्वादिति प्रयोगे शङ्कितस्याप्तवाक्यत्वरूपोपाधेः इत्यर्थः ॥ साधनव्यापकतेति । पूर्वोक्तव्याख्यानरीत्यैवेति भावः ॥ उत्तरवाक्येति । तत्र वत्राद्या- नुकूल्यस्याप्तवाक्यत्वरूपसाध्यसम्बन्धस्यैव प्रतीतेरिति भावः । ननु वक्राद्यानुकूल्येन हेतुना आप्तवाक्य. त्वस्योपाधेः पक्षे साधनार्थमाप्तवाक्यतया तेनेत्येतदर्थवदित्यत आह ॥ न हीति ॥ व्युत्पाद्येति । वक्रित्यर्धेनेत्यर्थः । अत्र व्याख्यायतामिति । गुरुगुरूणामिति श्लोक इत्यर्थः । गुरुगुरूणामिति हेतु- सिद्धावनुकूलवत्रा दिमत्त्वं साक्षात्प्रामाण्यानुमापकमेवास्तु । न त्वाप्तवाक्यतानुमितिद्वारेत्यर्थः ॥ शङ्कि- तस्योपाधेरिति । आप्तवाक्यत्वरूपस्योपाधेरित्यर्थः ॥ उत्तरवाक्येति । अत्र हि आप्तवाक्यत्वेनैव प्रामाण्यानुमानमवगम्यत इति भावः । ननु वक्तृश्रोतृप्रसक्तीनामित्यत्रोपाधेः पक्षे साधनव्यापकतां व्युत्पाद्य तेन सिद्धनाप्तवाक्यत्वरूपोपाधिना प्रामाण्यं साधयितुमाप्तवाक्यतयेति वाक्यमतो न वैयर्थ्यमित्यत आह ॥ न हि उपाधि दूपयतेति । तथा च कथकसम्प्रदायविरोध इति भावः ।। श्री. यद्ययापकस्य व्यापकमिति । यत् द्रव्यत्वं यध्यापकस्य घटत्वव्यापकपृथिवीत्वस्य व्यापकं तत् द्रव्यत्वं तस्य घटस्याव्यापकमिति न हि सम्भवति । किं नाम व्यापकमेवेति यावत् । एवं प्रामाण्यमनुकूलवकादिमत्त्वव्यापकीभूताप्तवाक्यत्वव्यापकमनुकूलवत्रादिमत्त्वव्यापकं भवत्येव । व्याप्य- या०- च०-- नन्विति । गुरुसम्बन्धिगुरुत्वाद्यनुमापितानुकूलवत्रादिमत्तायां प्रामाण्यनिरूपितप्रधान- साधनत्वमेवोपेयतां न त्वप्रधानसाधनत्वमिति भावः ।। तुल्यत्वादिति । अन्तरास्थितसा व्यनिरूपितव्याप्ती सत्यां प्रधानसाध्यनिझापितव्याप्तेः कैमुत्यसिद्धत्वादिति भावः । पक्षधर्मता प्रतिज्ञाताऽपि स्फुटप्रतिपत्ति- कनया नोपपादितति ध्येयम् । वाद्यनुकूल्यस्य विवक्षितार्थतत्त्वज्ञानविवक्षाकरणपाटवत्रिकरूपस्य । आत्येकदेशान्यन अविप्रलिप्सातन्त्रिकघटितचतुष्टयरूपाप्तिघटकत्वेन । साध्याविशिष्टता साध्यसिद्धि- सन्दिधासिध्यन्यतरापादिकत्यादिः ॥ शङ्कितस्येति । आप्तवाक्यतायास्तत्रोपाधित्वादित्यादिनेत्यर्थः ।। वैयध्यति । प्रामाण्यविधेयकानुमितेर्दर्शितसाधनेनैव निवृत्ततया तदेकफलकाप्तवाक्यतारूपसाधनान्तरस्य अनर्थकनेति भावः । दर्शितोपाधौ प्रकृतसाधननिरूपितव्यापकतां वक्तश्रोत्रितिदलेन निरूप्य तादृशोपा- धिना प्रामाण्यसिपाधयिपयोत्तरग्रन्थः प्रावर्तिष्ठ इति नानर्थकतेत्यत आह ॥ न हीति । कुलधर्मः कथक- मम्प्रदाय: । सु. -- उपाधेः साधनाभेदं प्रदर्श्य तेन साध्यं साध्यत इति चेन्न । आप्तेर्वक्तृमात्र- धर्मस्य साधनाभेदानुपपत्तेः । साध्याविशिष्टता तु नास्त्येव । वक्रादीनामानुकूल्येन वक्तुराप्ति- साधने खल्वंशनः सा स्यात् । अनुकूलवकादिमत्तया आप्तवाक्यता साध्यत इति चोक्तम् । तथाऽपि साध्यसाधनयोराप्त्येकदेशानुप्रवेशोऽस्तीति चेत् । सत्यम् । तथापि विशिष्टभेदेन अदोपत्वात् । अन्यथा यो धूमवानसावग्निमानिति व्याप्यव्यापकभावोऽपि न स्यात् । विशे- यांशस्योभयत्रानुप्रवेशान् । कृतकत्यानित्यत्ययोस्सत्तानुप्रवेशेऽपि परैव्याप्यव्यापकभावस्थ अङ्गीकृतत्वाच्च । यदा तु निर्दोषः प्रमितस्यैव वक्ता आप्त इत्याश्रितं तदा साध्याविशिष्टतायाः शव नास्ति । वा० -- ननु माऽस्तु वक्तृश्रोतृप्रसक्तीनामिति वाक्यस्योपाधिसाधनव्यापकाप्रदर्शनपरत्वमुत्तर- वाक्यवैयर्थ्यांपत्तेरपि तु साधनानुप्रविष्टवत्राद्यानुकूल्यस्योपाध्यनुप्रविष्टाप्तेश्चाभेददर्शनमुखन साधनोपा-यो- रभेदं प्रदर्य तेन सायसाधने तात्पर्याभ्युपगमेनोत्तरवाक्यवैयर्थ्यमिति प्रकारान्तरेणान्यथासिद्धिं शङ्कते ।। उपाधेरिति । वक्तृमात्रधर्मभूताप्तेर्वक्तृश्रोतृप्रसङ्गरूपत्रितयधर्मभूतानुकूल्यानामभेदानुपपत्त्या तटितोपा- धिमाधनयोरप्यभेदानुपपत्त्या तदभेदप्रतिपादने वाक्यार्थो बाधितः स्यादित्याह || आप्तेरिति । बाधका- धीनत्वात्साधकान्यथासिद्धः परेण साध्याविशिष्टत्वमुद्भाव्य साधकान्यथासिद्धावुक्तायामपि साधकाधीनत्वा- द्वस्तुसिद्धः स्वयमुत्तरवाक्यवैयर्थ्यप्रसङ्गेनान्यथासिद्धिं परिहृत्य साधके निरवकाशतामुपपायेदानीं बाधक परिहरति ॥ साध्येति । वक्राद्यानुकूल्यस्याप्त्येकदेशत्वेन साध्याविशिष्टतोद्भावनस्य वत्रादीनामानुकल्येन साध्याविशिष्टता) ॥ जिज्ञासाधिकरणम् ॥ वक्तुराप्तिसाधने सङ्गतत्वेऽप्यनुकूलवत्रादिमत्तया आप्तवाक्यतासाधने न कथमपि सङ्गतिरित्यसङ्गतिकथनं परोक्तस्य यथाश्रुताभिप्रायमादायेति द्रष्टव्यम् । स्वाभिप्रायं परः शङ्कते ॥ तथाऽपीति । साध्यसाधन- योरेकदेशप्रवेशेऽपि चतुष्टयविशिष्टवक्तृघटितत्वात्साध्यस्य त्रितयविशिष्टवक्तृघटितत्वाच्च साधनस्य विशि- टयोश्च भेदात्तस्यादोषत्वमित्याह ॥ सत्यमिति । यथाकथञ्चिदेकदेशानुप्रवेशमात्रेण साध्याविशिष्टत्वे बाधकमाह ॥ अन्यथेति ॥ कृतकत्वेति । कृतकत्वानित्यत्वयोः परस्परव्याप्यव्यापकभावमङ्गीकुर्वद्भिः परैर्वसप्रागभावव्यभिचारपरिहाराय प्रागभावध्वंसावच्छिन्नसत्तायोगित्वरूपत्वेन तयोरभ्युपगमादित्यर्थः । न च यस्य हेतुत्वं तदा व्यभिचारपरिहाराय हेतौ सत्ताप्रवेशेऽपि सा-ये न तत्प्रवेश इति न साध्या- विशिष्टतेति वाच्यम् । जन्यभावपक्षकानुमाने अव्यभिचाराय हेतावसाधारण्यपरिहाराय साध्येऽपि तत्प्रवेशस्यावश्यकत्वात् । एवं सत्तापरित्यागेन भावत्वादिविशेपणान्तरप्रक्षेपेऽपि तत्प्रयुक्त एवाविशेषो द्रष्टव्यः । सतावतो विनाशित्वमनित्यत्वं प्रागसतः सत्तासम्बन्धः कृतकत्वमिति कृतकत्वानित्यत्वनिरुक्त्या- श्रयणेनेदमुक्तम् । अत एव सकलसपक्षवृत्तित्वं कृतकत्वस्य भवति । अत एव न ध्वंसे व्यभिचारोऽपीति भावः । (उत्पत्तिर्नाम कारणाधीनसत्तालाभ इत्येतदध्यायान्त्यभागे वक्ष्यमाणदिशा वा पूर्वमसतः सत्ता- समवायवक्त्वं वा कृतकत्वम् । उत्तरकालमसतः पूर्व सत्तासमवायवक्त्वं वा सत्तासम्बन्धापगमो वा अनित्यत्वमित्येवं रूपेण सत्तानुप्रवेश इति भावः) । स० अन्यधर्मस्या-यतरधर्मत्वायोगान्नांशतोऽभेदमात्रेणोपाधिसाधनयोरभेदः येनोपाधिना साध्य साध्यत इत्याशङ्कामुखेनाह ॥ उपाधेरिति ॥ तथाऽपीति । विवक्षितार्थतत्त्वज्ञानादेराप्तिपदार्थत्वेन तस्यैव च वत्राद्यानुकूल्यशब्दार्थत्वनैकदेशात्साध्याविशिष्टता स्यादिति भावः ॥ विशिष्टभेदेनेति । विवक्षितार्थतत्त्वज्ञानं करणपाटवं विवक्षा अविप्रलिप्सा चेति चतुष्टयमाप्तिस्तद्वद्वावयत्वं वाऽऽप्तवाक्यत्वम् । अनुकूलेन वक्राऽनुकूलान् श्रोतृन् प्रति तदीयहितसाधनवोधायोपदिष्टत्वं वत्राद्यानुकूल्यम् । तथा च विशिष्टभेदेन न साध्यावैशिष्टयमिति भावः । विशिष्टभेदेऽप्येकदेशाभेदेन साध्याविशिष्टता स्यादित्यत्र आह ॥ अन्यथेति । वह्निविशिष्टधूमविशिष्टयोर्भेदेऽपि विशेप्यांशस्या भेदादिति भावः । पर्वतो वह्निमान् धूमवत्त्वादित्यत्र विशेप्यातिरिक्तविशेषणांशस्योभयत्रानुप्रवेशाभावेन दूषणान्तरमाह ॥ कृतक- स्वेति । कृतकत्वस्य प्रागभावप्रतियोगित्वरूपत्वात्प्रागभावस्य चानादित्वे सति सान्तत्वरूपत्वादनादित्वस्य चोत्पत्तिमत्वाभावरूपत्वादुत्पत्तेश्चासतः सत्तासम्बन्धरूपत्वात् कृतकत्वे सत्वप्रवेशः । एवमनित्यत्वस्य अपि ध्वंसप्रतियोगित्वरूपत्वात् ध्वंसस्य च सादित्वे सत्यनन्तत्वरूपत्वात्सादित्वस्य चोत्पत्तिमत्वरूपत्वात् उत्पत्तेश्चासतः सत्तासम्बन्धरूपत्वादनित्यत्वरूपसा येऽपि सत्ताप्रवेश इति भाव इत्याहुः । वस्तुतस्तु प्रागभावोग्लक्षितसत्ताकत्वं कृतकत्वं प्र-वंसोपलक्षितसत्ताकत्वमनित्यत्वमिति सत्ताप्रवेशेऽपीत्यर्थः ॥ यदा S.T. 13A ॥ न्यायसुधा॥ (भ. १ पा. १.१ विनि । न हि निर्दोगन्यं प्रमितवक्तृत्वं वा वक्राद्यानुकूल्येऽनुप्रविष्टमिति भावः । तस्माद्ब्रह्माद्युपदेष्ट्रोप- दिष्ट वनानुकुलबक्रादिमन्वं नेनाप्तवाक्यत्वं तेन च प्रामाण्यमिति स्थितम् । ननु बक्तृश्रोत्रित्यध भवव्याख्यानरीत्या यत् यत्रेत्याश्रित्योपाधेर्न साधनव्यापकत्वदर्शनार्थ प्रवृनम् । किन्धिदमेव ह्याप्तन्वं यद्वक्तृश्रोतृप्रसक्त्यानुकूल्यमिति सन्न्यायरत्नावल्युक्त्यानुकूलबत्रादिमत्त्व- कपसाधनन्यामवाक्यन्वरूयोपाधेश्चाभेदं दर्शयितुं आप्तवाक्यतया तेनेत्येतत्तु यस्मादभेदस्तेन कारणेनाप्त- वाक्यतया हेतुना मानमिति पूर्वेणान्विततया प्रवृत्तमित्येव योज्यत इत्याशङ्कयाह ॥ उपाधेरिति ।। नैननि । माधनाभिन्नोगाधिना प्रामाण्यरूपं साध्यमित्यर्थः । मूले आप्तिरित्येव श्रवणादाह ॥ आप्तेः इति । अत एव नवचन्द्रिकायां स वै बलं बलिनां चापरेषामि'त्यादाविव यदाप्तिरनुकूलतेति निमित्त- नैमिनिकोर भतव्यवहार इन्युक्तम् । ननु भवत्पक्षे साध्या विशिष्टतेत्युक्तमित्यत आह ॥ साध्येति ।। इनि चौतमिनि । वक्रित्यर्थावतारिकायामित्यर्थः ।। सत्तानुप्रवेशेऽपीति । उत्पत्तिर्नाम कारणाधीन- मनालाभ इन्यतन यायान्यभागे वक्ष्यमाणदिशा वा पूर्वमसतः सत्तासमवायवत्त्वं वा कृतकत्वम् । उन्रकालमननः पूर्व सत्तासमवायवक्त्वं वा सत्तासम्बन्धापगमो वा अनित्यत्वमित्येवंरूपेणेति भावः ॥ या माधनाभेदमिति । तथा च वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलतेति वक्तृश्रोतृप्रस- नीनामनुकूलना यद्यस्मादाप्तिम्तेन कारणेनाप्तवाक्यतया मानमित्येव योजनाऽत्राभिप्रेतेति द्रष्टव्या । न तु यद्यत्र वाक्य इत्यादिनोत्ता पूर्वयोजनेति भावः ॥ साधनभेदानुपपत्तरिति । श्रोतृप्रसङ्गानुकूलधर्मयोः आदि साधने प्रविष्टन्वादिति भावः । ननु यो धूमवानित्यादौ विशेष्यांशस्योभयत्रानुप्रवेशेऽपि न दोपः । टोपनांगम्येवोभयत्र प्रवेशस्योक्तदोषहेतुत्वादित्यत आह || कृतकत्वानित्यत्वयोरिति । इदं चासतः मनासम्बन्ध एव कृनकत्वम् । सतः सत्तासम्बन्धस्यापगमो अनित्यत्वमित्यभिप्रेत्योक्तमिति ज्ञातव्यम् । यदाह किग्णावलीकारः । 'कार्यन्वमभूत्वा भावित्वमिति । 'अनित्यत्वं, भूत्वा अभावित्वमि'ति । , श्री विशेष्यांशस्येति । पर्वतस्येत्यर्थः ॥ यदा विति । एतदर्थमेव निर्दोषः प्रमित- म्देव वनति लागद्वयमपि समाहितं वेदितव्यमिति प्रागुक्तमिति ज्ञातव्यम् ।। साधनाभेदमिति । आत्यनुकूलतापदयोरभेदान्वयबोधानुकूलसमानविभक्तिकतारूपा- कालाशालिताया यदित्यस्य लिङ्गविपरिणामेन स्त्रीरूपप्रथमान्तस्य तद्विशेष्यपदत्वोपपत्त्या या वक्रादीनाम् अनुकुलनाप्तिम्नादृशाप्तिमत्प्रणीतवाक्यतयेति योजनैवाभिप्रेयते न तु यदित्यस्य सप्तम्यर्थतामुपेत्य दर्शिता प्राचीनयोजनेति भावः । अनुपपत्तेरिति । श्रोतृप्रसक्त्यानुकूल्याघटिताप्तेस्तद्धटितसाधनाभेदानुपपत्तेः परम्परासमर्थनम् ) ॥ जिज्ञासाधिकरणम् ॥ १०१ इत्यर्थः । उक्तमिति । अनुकूलेन वक्राऽनुकूलान् श्रोतृन्प्रति तदीयहितसाधनबोधायोपदिष्टत्वादित्यादि- नोक्तमित्यर्थः । आप्त्येकदेशानुप्रवेश इति । आप्तिश्चैकदेशश्चति द्वन्द्वस्तयोरनुप्रवेशस्तत्र साध्यशरीरे आप्तेरेव प्रवेशः साधनशरीरे च तदेकदेशभूताविप्रलिप्साविनिर्मुक्तांशत्रिकस्य प्रवेश इत्यर्थः । न च द्वन्द्वस्याभिप्रेततायामाप्तितदेकदेशेति विन्यासेन भवितव्यमिति वाच्यम् । अनापत्यैकदेशपदस्यैव लक्षणया स्वीयान्यपक्षयोरित्यादाविवैतदेकदेशतात्पर्यकत्वोपगमात् ॥ विशिष्टभेदेनेति । चतुष्वरूपव्यासज्यवृत्ति- धर्मावच्छिन्नावच्छेदकताककर्तृताकप्रणयनक्रियाकर्मत्वस्य साध्यतया त्रित्वरूपतदवच्छिन्नावच्छेदकताकर्तृता- कप्रणयनक्रियाकर्मत्वस्य च हेतुतयाभिप्रेततया क्षत्यनवकाशादिति भावः । उभयत्र विशेषणांशनिवेशस्य असहिष्णुतायामभियुक्तकिरणावलीकारादिव्यवहारविरोध इत्याह ॥ कृतकत्वेति । कृतिनिर्वय॑त्वरूप- कृतकत्वेन ध्वंसप्रतियोगित्वरूपानित्यत्वसाधने ध्वंसे व्यभिचारवारणाय तथा तादृशानित्यत्वेन कृतकत्व- साधने प्रागभावे व्यभिचारवारणाय च हेतौ जन्यभावसामान्ये कृतकत्वेनानित्यत्वस्य सिषाधयिषिततायां प्रागभावपरिगृहीतिनियन्त्रितासाधारण्यव्युदसनाय युगपदुभयत्र च सत्तानुप्रवेश आहत इति ध्येयम् । सु०- ग्रन्थकृताऽपि कस्मादियं परम्पराऽऽश्रितेति चेन्न । वाद्यानुकूल्येन प्रामाण्यं साधयताऽप्यन्ततोऽस्यार्थस्याश्रयणीयत्वात् । अन्यथाऽस्तु वक्राद्यानुकूल्यं वक्तुर्विप्रलिप्सामूल- त्वेनाप्रामाण्यं च भवत्वित्याशङ्कायाः को निवारयिता । यद्यपि प्रामाण्यं स्वत एवेति बादरायणीयं मतम् । यद्वक्ष्यति 'न विलक्षणत्वादिति । जैमिनिरपि 'तत्प्रामाण्यं बादरायणस्य अनपेक्षत्वादिति । तथाऽप्यप्रामाण्यशङ्कानिरासार्थोऽयं प्रयत्न इत्यविरोधः । वा०. एवं ग्रन्थकृतः परम्पराश्रयणाभिप्रायमुपपाद्य तत्र निमित्तं शङ्कते ॥ ग्रन्थेति । वत्राद्यानुकूल्यस्य विवक्षितार्थतत्त्वज्ञानकरणपाटवविवक्षारूपत्वात्सति तस्मिन्विवक्षितार्थतस्त्वज्ञानविरोधि- प्रयुक्ताप्रामाण्यशङ्काया असम्भवेऽप्यविप्रलिप्साया वक्तृश्रोतृप्रसङ्गानुकूल्यरूपत्वाभावेन सत्यपि तस्मिंस्तद- भावप्रयुक्ताप्रामाण्यशङ्कायाः सम्भवेन तच्छङ्काया: श्रोतृप्रसङ्गानामानुकूल्यैकनिबन्धनत्वाद्विप्रलिप्सायास्तदा- नुकूल्याभावे प्रयोजकाभावेनानुपपत्तिरित्येवं श्रोतृप्रसङ्गानुकूल्येन वक्तर्यविप्रलिप्सानाश्रयणेऽनिवृत्तेरन्ततः तत्साधनाश्रयणे प्रथमत एव तदस्त्विति भावेन भाप्यकृतः परम्पराश्रयणं युक्तमेवेत्याह ॥ वक्रादीति ।। जैमिनिरपीति । 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाण बादरायणस्यानपेक्षत्वादिति सूत्रम् । तत्र चोपदेशो विधिवाक्यं तस्य धर्मस्य ज्ञानं ज्ञापकम् । तच्च प्रमाणमेव । प्रामाण्यस्य स्यतस्त्वेनाप्तिमूलत्वाद्यनपेक्षितत्वात् । न चैवमनाप्तवाक्यस्यापि प्रामाण्यापत्ति: इति वाच्यम् । स्वाभाविकस्यापि प्रामाण्यस्यानाप्तसंस्पर्शप्रयुक्तकरणदोषबाधकप्रत्ययज्ञातार्थकत्वैरपोदितत्वेन तत्र प्रामाण्याभावेऽपि स्वतस्त्वानपायादित्यभिप्रायेणोत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध इति । करणदोपा- भावम्याव्यतिरेक इति व्यतिरेको विपर्ययो वाधकप्रत्यय इति यावत् तदभावस्यानुपलब्धेऽर्थ इति ज्ञाता- थंकवाभावन्य चोक्याऽपवादकाभावाद्युक्तं प्रामाण्यमित्युपपाद्यते । तथा च प्रामाण्ये स्वतस्त्वं जैमिनि- ग्याहत्यर्थः । मूत्रावयवम्येव प्रकृतोपयोगितया तावत एवात्रोदाहरणमिति द्रष्टव्यम् ॥ तथाऽपीति । प्रामाण्यन्योलगिक वन बुद्धिदोपनिरासाय युक्त्यपेक्षायाः स्वतस्त्वाविघातकत्वादिति भावः । मा परम्पराश्रयणे प्रयोजनं प्रश्नपूर्वकमाह ॥ ग्रन्थेति । विपक्षे बाधकोपन्यासार्थमाप्त- वाक्यन्यन्नाधनमित्यर्थः ॥ यद्यपीति । युक्त्यादिपरिपक्षे प्रामाण्ये सति स्वतःप्रामाण्याभावः ॥ जैमिनिः अपीनि । अनपेक्षवलक्षणस्वतःप्रामाण्यं प्रमाणानां जैमिनिरपि वक्तीत्यर्थः । स्वतश्च प्रामाण्यमपवादाद् विषय इति बुनयादेवुद्धिदोषमात्रनिरासहेतुत्वान्मूलापेक्षत्वेऽपि स्मृत्यादीनां न स्वतःप्रामाण्यहानिरिति भावः । ननु सिद्धान्त करणप्रामाण्यस्य ज्ञप्तिस्वतस्त्वं नाभ्युपेयते यथोक्तमन्यन्त्र टीकाकारैः । 'ज्ञप्तिस्तु पग्न एव । इन्द्रियादिस्वरूपस्य यथायथं स्वप्रमाणवेद्यत्वाद्यथार्थज्ञानसाधनत्वस्यानुमानवेद्यत्वादिति । अत्रापि वध्यति । 'करणानां तु जप्तौं स्वतस्त्वं नास्त्येवेति । तत्कथमेवमाक्षेपपरिहाराविति चेन्न । परत एवेन्युक्त स्वाश्रयीभूतकरणग्राहकमात्रग्राह्यत्वरूपं स्वतस्त्वं नेत्यभिप्रेत्य प्रवृत्तत्वाद्वस्तुतस्तु करण- प्रामाण्येऽपि ज्ञानजनकत्वग्राहकमात्रग्राह्यत्वरूपं यथार्थज्ञानान्वयव्यतिरेकानुविधानातिरिक्तप्रमाणनिरपेक्ष- यरूपम्बनम्त्वमेव विवक्षितम् । अत एव वक्ष्यति । 'अथवा ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थ- ज्ञानजनकन्वस्य तदीयस्य ग्राह्यत्वं स्वतस्त्वमिति ॥ प० -- ग्रन्थकृता । भाप्यकृतेत्यर्थः ॥ अस्यार्थस्येति । आप्तवाक्यत्वद्वारकत्वस्येत्यर्थः ।। प्रामाण्यं स्वत इति । ननु कथमेतत् । पद्धतौ करणप्रामाण्यं ज्ञप्तौ परत इत्युक्तेरित्यत आह ॥ यद् वन्याति । तच्च विवरिप्यते 'प्रत्यक्षवच्च प्रामाण्यम्' इत्यत्र । पद्धत्युक्तिस्तु विवक्षाभेदेन युक्तेति प्रत्यक्षबच्चत्यत्रव व्यक्तीकरिप्यतीति भावः । नन्वेतच्छास्त्रं प्रमाणं प्रमितिजनकम् । आप्तवाक्यत्वादिति भावप्रामाण्यज्ञानाय न विजातीयसंवादरूपानुमानोक्तिरयुक्ता । शास्त्रस्य ज्ञानजननशक्ति: येन ज्ञायते नव तम्य प्रमाजननशक्तिरूपप्रामाण्यस्यापि ज्ञायमानत्वरूपस्वतन्त्वोपगमाविरोधात् । न चाप्तवाक्यत्व- रूपमनुमानं प्रमाजननशक्तिग्राहकं सत् ज्ञानजननशक्तिं न गृह्णातीति युक्तम् । तयोरभेदात् । भेदे वा इदं ज्ञानजनकमाप्तवाक्यत्वादिति प्रयोगसम्भवेन तस्या अपि ग्राहकत्वादिति चेन्न । पर्यायेण ग्राहकत्वे अपि ज्ञानं प्रमाणमितिवत् ज्ञानजनकमिदं प्रमाजनकमिति युगपदग्रहात् । ननु च ज्ञानजनकमिदं शान्त्र प्रमाजनकमाप्तवाक्यत्वादित्युक्तौ युगपदुभयग्राहकत्वमप्यस्तीति चेत् । एवं तर्हि वक्ष्यमाणश्रुति- न विल. न । परम्परासमर्थनम् ) ॥ जिज्ञासाधिकरणम् ॥ १०३ युक्तिसंवादेन प्रामाण्यग्रहस्योत्तरवाक्ये वक्ष्यमाणत्वात्तदपेक्षयैते शङ्कोत्तरे स्याताम् । अत एव क्षणत्वात्' इति सम्मत्युक्तिः सङ्गता । तत्र संवादनिरपेक्षेण प्रामाण्यग्रहस्य वक्ष्यमाणत्वात् । यद्वा मूले ब्रह्मसूत्राणां प्रामाण्यमित्यस्य ब्रह्मसूत्रज्ञानप्रामाण्यमित्यर्थः । आप्तवाक्यतयेत्यादेराप्तवाक्यजत्वेनेत्यादिरर्थः । एवं च तत्प्रामाण्यस्य साक्षिवेद्यतयाऽनुमानावेद्यत्वादाप्तवाक्यत्वादित्युक्तिरयुक्तेति शङ्काभिप्रायः । विलक्षणत्वात्' इत्यत्रापि तज्जन्यज्ञानप्रामाण्यस्वतस्त्वाशयेनैव सम्मत्युक्तिरिति ध्येयम् । अथवेदं शास्त्रं प्रमाजनकं झानजनकत्वे सति संशयविपर्ययाजनकत्वात्सम्मतवाक्यवदित्यनुमानमेव प्रामाण्यग्राहकम् । आप्तवाक्यत्वादिहेतुत्रयं चोक्तहेतोः विशेप्यासिद्धिवारकमिति शङ्कोत्तरे ध्येये । वस्तुतस्तु वाक्यश्रवणात् जायमानबोधरूपकार्यलिङ्गेन ज्ञानजननशक्तिरनुमीयते । तेनैव प्रमाजननशक्तिरपि न त्वाप्तवाक्यत्वादिनेति स्वतः प्रामाण्यमिति शङ्कार्थः ॥ नेति । 'न विलक्षणत्वादस्य तथात्वं च शब्दात्' इति युक्तिपादीय- द्वितीयाधिकरणे अस्य वेदादिशास्त्रस्य विलक्षणत्वात्संवादानपेक्षत्वरूपस्वतःप्रामाण्याख्यात् पाशुपताद्यागम- विलक्षणत्वान्न तथात्वं नाप्रामाण्यमिति वक्ष्यतीत्यर्थः ॥ जैमिनिरपीति । स्वत एव प्रामाण्यमिति बादरायणीयं मतमित्येतत्प्रमेयं 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थे अनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात्' इति सूत्रेणाद्याध्यायाद्यपादस्थेनाहेत्यर्थः । सूत्रार्थस्तु शब्दस्यार्थेन सम्बन्ध औत्पत्तिकः स्वाभाविकः उपदेशो वेदात्मा तस्य ज्ञानं ज्ञापकः अव्यतिरेको विपर्ययाजनकः चशब्दात्संशयाजनकश्च । बोधकत्वे सति संशयविपर्ययाजनक इति यावत् । तत्तस्मात् अनुपलब्धे मानान्तरानवगतेऽर्थे प्रमाणमनपेक्षत्वादन्यानपेक्षत्वादिति । बादरायणग्रहणं पूजार्थम् । बुद्धिदोपनिरासमात्रकारणत्वाद्युक्तीनामिति तत्वनिर्णयोक्तदिशा समाधिमाह ॥ तथाऽपीति ।। अन्ततोऽस्यार्थस्येति । विप्रलिप्साभावघटिताप्तिसाधनस्येत्यर्थः ॥ को निवारयिता इति । तथा च विपक्ष बाधकोपन्यासार्थमाप्तवाक्यत्वसाधनमावश्यकमित्यर्थः ॥ यद्यपीति । तथा च युक्त्या तत्साधनेऽपसिद्धान्त इति भावः ॥ न विलक्षणत्वादिति । 'न विलक्षणत्वादस्य तथात्वं च शब्दात्' इति सूत्रखण्डस्य न विलक्षणत्वादित्यस्य नैवं श्रुतेस्तदनुसारिस्मृतेश्च तदुक्तानुपलब्धेरप्रामाण्यं वाच्यम् । विलक्षणत्वात्तत्प्रामाण्यस्य संवादानपेक्षतया स्वतस्त्वादित्यर्थः ॥ तत्प्रामाण्य मिति । 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धरतस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धेस्तत्प्रामाण्यं बादरायणस्य अनपेक्षणात्' इति जैमिनिसूत्रखण्डस्य तत्प्रामाण्यमित्यादेस्तस्यापौरुषेयत्वेनानाशङ्कितदोपस्य वेदस्य स्वत एव प्रामाण्यं बादरायणस्यापि सम्मतम् । प्रामाण्यस्योत्पत्तावाप्तोक्तत्वादेजप्तौ संवादादेश्वानपेक्षणादित्यर्थो बोध्यः । 'बुद्धिदो निरासमात्रकारणत्वाद्युक्तीनाम्' इति भगवत्पादीयं वाक्यं मनसि निधाय आह ॥ तथाऽपीति । या० ॥ न्यायसुधा ॥ (म. १ पा. १.१ च० एवं सत्तापरित्यागेन भावत्वादिविशेषणान्तरप्रक्षेपिततत्प्रयुक्त एवाविशेषो द्रष्टव्य इत्यपि स्थितम् ॥ अस्यार्थस्येति । विप्रलिप्साभावघटिताप्तिसाधनस्येत्यर्थः । अन्यथा तादृशाप्तिसाधना- नभ्युपगमे । को निवारयितेति । विवक्षितार्थतत्त्वज्ञानविवक्षाकरणपाटवेति त्रितयरूपवानुकूल्यसमवधाने तद्धटकान्यतमाभावनिवन्धनाप्रामाण्यशङ्काया असम्भवेऽपि अविप्रलिप्साया उक्तानुकूल्यघटकताविरहेण श्रोतृप्रसङ्गानुकृल्यघटकत्वाभावेन च तादृशानुकूल्यत्रयघटितहेतूपगमेऽपि विप्रलिप्सानियन्त्रिताप्रामाण्यशङ्का सगच्छत एव । न च विप्रलिप्सायास्तादृशानुकूल्यत्रयघटकत्वाभावेऽपि श्रोतृप्रसङ्गानुकूल्यैकप्रयोज्यतया तत्प्रयोजकाभावदशायां कथं सा सङ्गच्छतामिति वाच्यम् । श्रोतृप्रसङ्गानुकूल्येन वक्तर्यविप्रलिप्साश्रयणस्य पतावन्तं पन्धानं प्रयातस्यावश्यतायामाहत एवं विप्रलिप्साभावघटिताप्तिसाधनौचित्यादित्याशयः । उत्तरवादिमते प्रामाण्यस्य स्वतस्त्वोपगत्या प्रकृतेऽनुमेयत्वोपगमेऽपसिद्धान्तमाशङ्कते ।। यद्यपीति ।। यद्वक्ष्याति । अविरोधलक्षण इति पूरणीयम् ॥ जैमिनिरपीति । 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धम्नस्य ज्ञानमुपदेशो व्यतिरेकश्चार्थेऽनुपलव्धेः तत्प्रामाण्यं बादरायणस्यानपेक्षत्वादिति जैमिनिसूत्रा- तत्प्रामाण्यमित्यादेस्तस्यापौरुषेयत्वापादिताप्रामाण्यतदभावकोटिकशङ्कानास्कन्दितताकवेदस्य प्रामाण्यं स्वत एवेति बादरायणस्यापि सम्मतम् । आप्तोत्तत्वादेः प्रामाण्योत्पत्तौ संवादादेस्तज्ज्ञप्तावनपेक्षि- तत्वादित्यर्थोऽवसेयः । भाप्यकारीयप्रयत्नस्याप्रामाण्यशङ्काव्युदसनफलत्वोपगमेन प्रामाण्याधिगतिफलत्वा- नुपगमान्न क्षतिरित्याशयः । वयवन्य सु० - एवं विजातीयसंवादेनास्य शास्त्रस्य प्रामाण्यमुपपाद्य तदनुत्तमतासिद्धये सजा- तीयद्वयसंवादमप्याह । श्रुतीति । तथाचशब्दो समुच्चयार्थौ । मानमित्यस्यानुकर्षणार्थी वा । यथा आप्तवाक्यतया तथा श्रुतिमूलतयाऽपीत्युपमार्थो वा तथाशब्दः । यद्यपि श्रुतियुक्तिमूल- शब्दौ श्रुतियुक्तिभ्यामर्थमुपलभ्य रचितस्य वाचकौ । तथाऽप्यत्र समानार्थतासाम्येन गौण्या वृत्त्या श्रुतियुक्तिसंवादितार्थों व्याख्येयौ । भगवतो बादरायणस्य स्वतः सर्वज्ञत्वेन मुख्यार्थी- सम्भवात् । यदि च श्रुतियुक्तिसंवादित्वादित्येवावक्ष्यत्तदा यादृच्छिकसंवादिताऽपि व्यज्ञास्यत । सा मा विज्ञायीति गौणप्रयोगः । एवं हि प्रयोगेऽङ्गाङ्गिभावोऽप्यधिको विज्ञायते । स च पक्षधर्मतोपपादको भविष्यति । ततश्चायमर्थः । यच्छतिसंवादि तत्प्रमाणम् । यथा मन्वादि- वाक्यम् । श्रुतिसंवादि चेदं शास्त्रम् । तदर्थविचारपरत्वात् । विसंवादे तदनुपपत्तेः । तच्च 'पुनस्तस्यार्थवित्तय' इत्याद्यागमसिद्धम् । यच्च युक्तिसंवादि तत्प्रमाणम् । यथा धूमवन्तं पर्वतमुद्दिश्य पर्वतोऽयमग्निमानित्युक्तं वाक्यम् । युक्तिसंवादि चेदम् । मीमांसारूपत्वात् ।
वा०. प्रामाण्य त्रिविधं महत्) ॥ जिज्ञासाधिकरणम् ॥ १०५ मीमांसायाश्च युक्त्यनुसन्धानात्मकत्वात् । तस्मात्प्रमाणम् । अन्यथा श्रुतेर्युक्तेश्थाप्रामाण्यप्रसङ्गः। अर्धवेशसासम्भवादिति । आदौ तावत्प्रामाण्य इति तावच्छब्दसूचितमाह ॥ तदनुत्तमतेति । वत्राद्यानुकूल्याप्त- वाक्यत्वयोरिव न श्रुतियुक्तिमूलत्वयोः पूर्वोक्तहेतुं प्रति साध्यत्वमपि तु मानत्वं प्रति स्वतन्त्रसाधकत्वमिति अभिप्रेत्य भाप्यकृता प्रयुक्तयोस्तथाचशब्दयोस्तदभिप्रायं विशदयति ॥ तथेति । तथा चशब्दयोर्हेतु- समुच्चयार्थत्वे तबलात्साध्यसम्बन्धलाभः । अनुक्तसाध्यसमुच्चयरूपसाध्यानुकर्षणार्थत्वे तु साक्षात्साध्य- सम्बन्धलाभात्परस्परहेतुसमुच्चयफलस्यापि लाभात्पक्षान्तरमाह || मानमिति । चशब्दस्योक्तरीत्या समु- च्चयार्थतामङ्गीकृत्य तथाशब्दस्योपमार्थतया प्रसिद्धत्वात्तदर्थत्वेऽपि समुच्चयफललाभात्तथाशब्दे प्रकारान्तरं आह ॥ यथेति । श्रुतियुक्तिमूलत्वशब्दयोर्मुख्यार्थत्वभ्रान्ति वारयति ॥ यद्यपीति । समानार्थता- साम्येनेति । श्रुतियुक्तिभ्यामर्थमुपलभ्य रचितवदस्यापि श्रुतियुक्तिसमानार्थत्वादिति भावः । मुख्यार्था- नुपपत्तिमभिधाय गौणप्रयोगे प्रयोजनं वक्तुं तदप्रयोगे तदसिद्धिमाह || यदि चेति । मूलस्याङ्गित्व- नियमेन तन्मूलकत्वोत या तदङ्गत्वसूचनोपपत्तिरित्याह ॥ एवं हीति । व्याप्तिपक्षधर्मतयोरुभयोरप्यनु- मानाङ्गत्वाद्भाप्यकारीयं पक्षधर्मतासूचनं व्याप्तेरप्युपलक्षणमित्यभिप्रेत्य व्याप्तिप्रदर्शनपूर्व कीदृशोऽङ्गाङ्गि- भावः कुतश्च स कथं च पक्षधर्मतोपपादक इत्याशङ्कां परिहरति ॥ ततश्चेति ॥ अर्धेति । समानार्थ- त्वाविशेषेऽप्येकप्रामाण्यस्यापराप्रामाण्यस्य चाधवैशसवदसम्भावितत्वादित्यर्थः । एवं हीति । मूलित्वेनाङ्गत्वदर्शनात् ब्रह्मसूत्राणामङ्गत्वेन श्रुतिसंवादार्थमूलित्वव्यपदेश इति भावः ॥ स चेति । श्रुतिसंवादित्वस्य यादृच्छिकश्रुतिसंवादित्वेन तस्य प्रामाण्यसाधकत्वाभावात् । नियतश्रुतिसमानार्थत्वस्यैव च तत्साधकत्वात्प्रामाण्यसाधनानुपपत्तिपरिहारार्थ मूलमिन्युक्तम् । तथा च मूलमूलिनोर्नियतसंवाददर्शनान्मूलपदेन तदभिधानात्तेन प्रामाण्यसाधनमुपपन्नमिति भावः ॥ अन्यथेति । न हि श्रुतियुक्त्योरपि कयोश्चित्प्रामाण्यं कयोश्चिन्नति वैरूप्यं सङ्गच्छत इत्यर्थः । विजातीयेति । आप्तवाक्यत्वरूपप्रमाणसंवादेनेत्यर्थः । तस्य श्रुतियुक्त्योरिव साक्षा- च्छास्त्रसमानार्थ विषयकत्वेन विजातीयत्वमिति भावः ॥ अनुत्तमतेति । सर्वोत्तमतेत्यर्थः । चक्र शास्त्रमनुत्तमम् ' इत्यत्र प्रागेव विग्रहः प्रदर्शितः । तदनुवादत्वादेतत्प्रयोगः ॥ अनुकर्षणार्थी वेति । श्रुतिमूलतया मानं युक्तिमूलतयाऽपि मानमिति प्रत्येकमनुकर्षणार्थावित्यर्थः । समानार्थतेति । मूल- मूलिभावापन्नयोर्यथैकार्थत्वं तथाऽत्रापीत्येकार्थतागुणसाम्येनेत्यर्थः । किं गौणप्रयोगे प्रयोजनमित्यत एक प्रयोजनमुक्त्वाऽन्यदप्याह ॥ एवं हि प्रयोग इति । श्रुतिमूलतयेति प्रयोगे हि तद्विचारपरत्वाच्छास्त्र- प०- S.T. 14 ॥ न्यायसुधा ॥ १०६ (अ. १ पा.१.१ मङ्गं अङ्गि तु श्रुतय इत्येवं विज्ञायते । मूलमूलिनोरङ्गाङ्गित्वस्य काव्यटीकादौ प्रसिद्धेः । न चाङ्गाङ्गि- भावज्ञापनं व्यर्थम् । शास्त्रं मानं श्रुतिसंवादित्वादित्यत्रासिद्धिशङ्कानिरासार्थत्वात् । मूलमूलितयाङ्गाङ्गि- भावापन्नयोरेकार्थत्वस्यान्यत्र दर्शनादित्येतत्प्रयोजनलाभाय च गौणप्रयोग इति भावः । यद्वोदाहरणादि- कानित्युक्तत्वादस्य मीमांसाशास्त्रत्वादुदाहरणावयवपूर्व प्रयोगमाह ॥ यछुतीति । उपनयमाह ॥ श्रुतीति । तत्र हेतुस्तदर्थेति ॥ तच्चेति । श्रुतिविचारणपरत्वम् । पुनस्तस्यार्थवित्तये । चकार ब्रह्मसूत्राणि ' इति भाप्योक्तस्मृतिसिद्धमित्यर्थः । तस्य वेदराशेरित्यर्थः । उभयत्र निगमनमाह ॥ तस्मादिति । श्रुतियुक्तिसंवाद धादित्यर्थः । अप्रयोजकत्वनिरासाय विपक्षे बाधकमाह ॥ अन्यथेति । शास्त्राप्रामाण्ये श्रुत्यादेः कुतोऽप्रामाण्यप्रसङ्ग इत्यत आह ।। अति । वैशसो हिंसा । अङ्गाङ्गिनोः एकशरीरापन्नत्वादिति भावः । विपूर्वाच्छमु हिंसायामित्यतः पचाद्यजन्तात्तस्येदमित्यणि वैशसेति रूप- निप्पत्तेः । या०- गौणप्रयोग इति । तथा च श्रुत्यादिनाऽर्थमुपलभ्य रचितं यद्वाक्यं तत्सादृश्य- नियमेन संवादित्वस्य लाभेन यादृच्छिकसंवादिताशङ्कया या व्यभिचारशङ्का तस्या निरास इति भावः । एवं प्रयोगे कृत्यान्तरमप्याह ॥ एवं हीति । श्रुतिमूलभूता विचार्यतयोपजीव्या यस्येत्यपि व्याख्यान- सम्भवेन विचार्यविचारकभावलाभादङ्गाङ्गिभावोऽपि ज्ञायत इत्यर्थः । एवं युक्तिमूलभूतोपजीव्या स्वार्थ- निर्णयायोपादीयमाना यत्रेति व्याख्याने विचाराङ्गयुक्तिग्रथनात्मकत्वलाभेनाङ्गाङ्गिभावो ज्ञायत इत्यर्थः । यद्वा यादृच्छिकसंवादितेत्यस्य विवक्षितस्य नियमेन श्रुत्यादिसंवादित्वस्य प्रामाण्यसाधकहेतोरसिद्धिराश- वितेत्यर्थः । ननु गौणप्रयोगे कथमुक्तशङ्कापरिहार इत्यत आह ॥ एवं हीति । तथा चाङ्गाङ्गिभावे सति श्रुत्यादिसंवादित्वस्य कर्ममीमांसादौ दर्शनात् अत्रापि तत्सादृश्यलाभ इति भावः । पक्षधर्मतोप- पादक इति । वक्ष्यमाणानुमानयोरिति शेषः ॥ अर्धवैशमासम्भवादिति । अर्धहिंसान्यायासम्भवात् इत्यर्थः । अर्थवैशसासम्भवादिति पाटेऽर्थवैशसाऽसम्भवाद्विरोधासम्भवात् । वस्तुनो द्वैरूप्यासम्भवादिति यावत् इति व्याख्यानं द्रष्टव्यम् । श्री० अन्यथेति । श्रुतियुक्तिसंवादिनो ब्रह्ममीमांसाशास्त्रस्याप्रामाण्य इत्यर्थः । कुत इत्यत आह || अर्धवैशसेति । ब्रह्ममीमांसाशास्त्रश्रुतियुक्तीनामेकार्थप्रतिपादकत्वे समाने ब्रह्ममीमांसाया अप्रामाण्यमितरयोस्तु प्रामाण्यमित्यर्धहिंसान्यायासम्भवादित्यर्थः । अर्थवैशसेति पाठे ब्रह्ममीमांसाशास्त्रस्य श्रुतियुक्तिसंवादे त्रयाणामेकार्थप्रतिपादकत्वं प्राप्तम् । तत्र श्रुतियुक्त्योः प्रामाण्ये तत्प्रतिपादितप्रमेयस्य सत्यत्वं प्राप्तम् । ब्रह्ममीमांसाशब्दस्याप्रामाण्ये तत्प्रतिपादितप्रमेयस्यासत्यत्वं प्राप्तमित्येकस्यैवार्थस्य सत्यत्वासत्यत्वरूपद्वैरूप्यासम्भबादित्यर्थः ।
१०७ शारीरकमीमांसा) ॥ जिज्ञासाधिकरणम् ॥ तदनुत्तमतासिद्धये । स्वावधिकोतमत्वविशेषितराहित्यसिद्धये ॥ अर्थमुपलभ्य रचितस्य । अर्थकर्मकोपलब्धिप्रयोज्यरचनक्रियाकर्मीभूतस्य ॥ गौणः प्रयोग इति । तादृशमन्वादि- वाक्यन्तस्य यथानियतश्रुतिसंवादित्वादिकं तथैतस्यापीति भावः । ईदृशविन्यासस्य फलान्तरमपि दर्शयति ।। एवं हीति ॥ पक्षधर्मतेति । अभिधास्यमानतदर्थविचारपरत्वमीमांसारूपत्वयोरित्यर्थः । वैशसशब्दो हिंसावचनः । सु० किमतो यद्येवमित्यत आह । एव प्रामाप्यमिति । एक्शब्दो ब्रह्मसूत्राणां इत्यनेन सम्बध्यते । त्रिविधमिति क्रियाविशेषणम् । ब्रह्म वेदस्तदर्थः परब्रह्म वा तस्य सूत्राणि ब्रह्मसूत्राणि । सकलवेदार्थभूतस्य परब्रह्मणो विष्णोः स्वरूपनिर्णयार्थानि सूत्राणीति यावत् । सूत्रशब्दार्थश्वाल्पाक्षरमित्याद्यागमाददगन्तव्यः । एतेनैतच्छास्त्रवाचिनः शारीरकशब्दस्य शरीरमेव शरीरकं तत्र भवः शारीरको जीवः । तमधिकृत्य कृतोऽयं ग्रन्थः शारीरक इति व्याख्यानं निरस्तं भवति । ब्रह्मसूत्रशब्दार्थेन विरुद्धत्वात् । त्वंपदाभिधेयस्य तत्पदाभिधेय- ब्रह्मरूपता मीमांसेति व्याख्यानादविरोध इति चेन्न । असम्भवात् । न हि जन्मादिसूत्राणि अभेदपराणि । प्रत्युत तन्निरासपराणीति वक्ष्यते । अतः शारीरकः परमात्मैव । यथोक्तम् । 'शारीरौ तावुभौ ज्ञेयौ जीवश्वेश्वरसंज्ञित' इति । तस्य सकलगुणपूर्णत्वादिमीमांसैव शारीरक- मीमांसा । तथा चोक्तं पुराणे 'सर्वदोषविहीनत्यम्' इत्यादि । यद्येवं श्रुतियुक्तिसंवादितया प्रामाण्यं लब्धमतोऽपि तदनुत्तमता सिद्धा किमित्याशङ्कते ॥ किमिति । यथाश्रुतान्वये एवशब्दस्य वैयर्थ्याद् ब्रह्मसूत्राणामित्यनेन सम्बन्धे प्रयोजनं कथयिप्याम इत्यभिप्रेत्य भिन्नक्रमतया तं व्याचष्टे ॥ एवशब्द इति । प्रामाण्यस्यैकविधत्वेन त्रैविध्यासम्भवात् स्वरूपेण त्रैविध्यस्यानुत्तमतानुपपादकत्वाच्च क्रियाविशेषणतायां बाधकामावाद्वक्ष्यमाणरीत्या अनुत्तमतोप- पादकत्वसम्भवाच्च तथा व्याचष्टे ॥ त्रिविधमितीति । साधनं परित्यज्य धात्वर्थमात्र विशेषणं हि क्रियाविशेषणमित्यर्थः । 'चक्रे शास्त्रमनुत्तमम्' इति प्रकृतशास्त्रस्यैव पूर्वत्रेवात्रापि प्रामाण्यसम्बन्धित्वेन लाभे सिद्धेऽपि यद् ब्रह्मसूत्राणामिति विशेषग्रहणं तस्य प्रयोजनं वक्तुं तस्य स्वाभिप्रेतयथास्थितोक्ति विनाऽसम्भवात्स्वाभिप्रेतार्थ तावदाह ॥ ब्रह्मेति । वेदपरब्रह्मणोरुभयोरपि ब्रह्मपदशक्यत्वेन ब्रह्मपदात्त्योः स्वातन्त्र्येणोपस्थितावपि प्रत्ययोपस्थितकर्तृत्वैकत्वयोरेकप्रत्ययश्रुत्या वा योग्यतावशाद्वा विवक्षाबलाद्वा यथा परस्परान्वयस्तथा प्रकृतेऽप्येकपदश्रुत्यादिना प्रतिपाद्यप्रतिपादकभावेन परस्परान्वय इत्यभिप्रेत्य तदर्थ इत्युक्तम् । न तु शक्यसम्बन्धाभिप्रायेण परब्रह्मणोऽपि शक्यत्वादिति बोध्यम् । एवं ब्रह्मसूत्र पर्ने व्याख्याय तद्रहेण पञ्चपायुक्तशारीरकमीमांसापदान्तर्गतशारीरकपदव्याख्यानं निरस्तमित्याह ॥ एतेनेति ।। वा० ॥ S.T. 14A ॥ न्यायसुधा ॥ (अ. १ पा. १.१ ब्रह्मति । जीवमधिकृत्य प्रवृत्ते ग्रन्थे परब्रह्मस्वरूपनिर्णयार्थसूत्रत्वाभावेन ब्रह्मसूत्रशब्दार्थविरुद्धत्वात् इत्यर्थः । ननु शारीरकस्य त्वंपदाभिधेयस्य जीवस्य तत्पदाभिधेयब्रह्मरूपताप्रतिपादकमीमांसाया अपि शारीरकजीवमधिकृत्य प्रवृत्तवाद् ब्रह्मविषयकसूत्रत्वसम्भवाच्च न विरोध इति शङ्कते ॥ त्वंपदेति । यद्वा । नन्वन्तु शारीरकं जीवमधिकृत्य कृतो ग्रन्थः शारीरकस्तद्रूपा मीमांसेति पञ्चपादीव्याख्यानस्येदं दुषणम् । शरीरमेव शरीरकम् । तत्र निवासी शारीरको जीवात्मा । तस्य त्वंपदाभिधेयस्य तत्पदा- भियेयपरमात्मरूपता मीमांसा तथोक्तेति भामतीव्याख्याने नेदं दूषणं सम्भवतीत्याशङ्कते ॥ त्वंपदेति । यद्वा व्याग्न्यानद्वयस्यानतिविशेषतया व्याख्यानद्वयमेतेनेत्यादिना सम्मुग्धतयाऽनूद्य ब्रह्मसूत्रशब्दार्थविरोधेन अपाकृत्य त्वंपदेत्यादिनोभयाभिप्रायाविष्करणपूर्वमसम्भवादिति दूषणाभिधानमिति द्रष्टव्यम् ॥ असम्भ- वादिति । एवं च जन्मादिसूत्रेषु त्वदुक्तब्रह्मसूत्रशब्दार्थाभावेन तस्य ब्रह्मसूत्रार्थशब्दतया वक्तुमशक्यत्वे अम्मदुतार्थकचे वक्तव्ये तद्विरोधस्तदवस्थ इति भावः । अत इति । परोक्तार्थस्यानुपपन्नत्वादित्यर्थः । ब्रह्मसूत्रशब्दार्थविरोधासम्भवयोः परपक्ष इव स्वपक्षेऽभावादिति भावः । न केवलं स्वपक्षेऽसम्भवाभावो अपि तु शारीरकमीमांसाशब्दार्थतयाऽस्मदुक्तार्थः प्रामाणिकश्चेत्याह ॥ तथा चेति । स०- ननु ब्रह्ममीमांसाशास्त्रस्य यथार्थज्ञानसाधनत्वरूपप्रामाण्यस्यैकविधत्वात् त्रिविधमिति अनुपपन्नमित्यतस्त्रिविधमित्यस्य दृश्यत इति क्रियाविशेषणत्वान्न दोष इत्याह ॥ त्रिविधमिति ॥ शारीराविति । भवार्थतद्धितानुपपत्तेः साध्वर्थतेत्यर्थः । 'सर्वदोषविहीनत्वं गुणैः सर्वैरुदीर्णता । अभेदः सर्वरूपेषु जीवभेदः सदैव च । विष्णोरक्तानि सूत्रेषु सर्ववेदेड्यता तथा' इति प्रमाणस्य प्रतीकं गृहाति ॥ सर्वदोपविहीनत्यमित्यादीति । प०-- प्रमाजनकत्वरूपप्रामाण्यस्यैकविधत्वेन त्रैविध्यायोगादाह ॥ क्रियाविशेषय, मिति । विवरिष्यते चैतत् । त्रिविधं दृश्यते । आप्तवाक्यत्वादिप्रमाणत्रयेण दृश्यत इति यावदिति ग्रन्थेन ।। ब्रह्मपदस्य तन्त्रतामुपेत्यार्थमाह || ब्रह्मवेद इत्यादि । वाशब्दः समुच्चये ।। एतेनेति । ब्रह्मसूत्रपदो- पादानेनेत्यर्थः ॥ त्वंपदेति । तत्त्वमसीतिवाक्यस्थेत्यर्थः ॥ यथोत्तमिति । सप्तमे गीताभाष्ये । 'शारीरी तावुभी शेयो जीवश्चश्वरसंज्ञित' इति । परमस्तथेति पाठो लेखकायत्तः ॥ सर्वदोपविहीनत्व- मिति । 'सर्वदोपविहीनत्वं गुणैः सर्वैरुदीर्णता । अभेदः सर्वरूपेषु जीवभेदस्सदैव च । विष्णोरुक्तानि सूत्रषु सर्ववेदेड्यता तथा । तारतम्यं च मुक्तानां विमुक्तिर्विद्यया तथा' इति भारततात्पर्यनिर्णयोक्त. पुराणे उक्तमित्यर्थः ।
ब्रह्मसूत्राणामेव अनुत्तमप्रामाण्यम् ) ॥ जिज्ञासाधिकरणम् ॥ १०९ या० ब्रह्ममीमांसाशब्दस्योक्तविरोधपरिहाराय व्याख्यानान्तरमाशङ्कते ॥ त्वंपदाभिधेयस्य इति ॥ शारीराविति । तद्धितस्य मानार्थकत्वानुपपत्त्या वासाद्यर्थता स्वीकार्येति भावः ॥ सर्वदोष- विहीनलमित्यादीति । 'सर्वदोपविहीनत्वं गुणैः सर्वैरुदीर्णता । अभेदः सर्वरूपेषु जीवभेदः सदैव च । विष्णोरक्तानि सूत्रेषु सर्वदेवेड्यता तथा' इत्यादिना पुराणेन सकलगुणपूर्णत्वादिमीमांसारूपत्वं सूत्राणामुक्तमित्यर्थः ॥ श्री०- प्रमाजनकत्वरूपप्रामाण्यस्यैकविधत्वेन त्रैविध्यायोगादाह ॥ क्रियाविशेषणमिति ।। च०- प्रामाण्ये त्रैविध्यस्य बाधिततया स्वावधिकोत्तमत्वविशेषितराहित्यानुपपादकतया च अभेदेन प्रामाण्यविशेषणीभूतकर्मप्रत्यायकलकारप्रकृतिभूतधातूपस्थाप्यानुमितिरूपदर्शनक्रियानिष्ठविशेप्य- तानिरूपिताभेदसंसर्गावच्छिन्नप्रकारतापन्नप्रत्यापकमित्याशयेनाभिधत्ते ॥ त्रिविधमिति । यत एवं ब्रह्मसूत्राणां प्रामाण्यं त्रिविधं दृश्यते । आसवाक्यत्वादिप्रमाणत्रयेण दृश्यत इति यावत् । अतस्तन्महदनुत्तमं मन्तव्यम् । आप्तवाक्यत्रयादिलिङ्गत्रयावसितं प्रामाण्यं अन्यत्रापि चेत्स्यात्तदा कथमेषां तदनुत्तममित्यतो ब्रह्मसूत्राणामेवेत्युक्तम् । तत्कथमित्यत आह॥ एकधेति । सर्वश इति वचनादेकवेत्युपलक्षणम् । तथा हि । क्वचिदेकधा । यथाऽऽप्ति- मूलतया लौकिकविषये पितृवाक्ये । श्रुतिसंवादेन धर्मादिविषये प्रतिवाद्युर्द रितवचने । तदुक्त एव पर्वतोऽग्निमानिति वाक्ये युक्तिसंवादेन । क्वचिद् द्वेधा । यथाऽऽतिश्रुतिभ्यां मन्वादि- वाक्ये । आप्तियुक्तिभ्यां पर्वतोऽग्निमानित्यादौ पितृवाक्ये । श्रुतियुत्तिभ्यामीश्वरः सर्वज्ञ इति प्रतिवायुदीरितवचसीति । जैमिन्यादिवाक्ये त्रेधाऽप्यस्तीति चेत् । सत्यम् । यथा ब्रह्मसूत्रेषु न तथा । निरवधिकं हि तत्राप्त्यादिकम् । एतदर्थमपि महदित्येतत्रिविमित्यनेनापि योजनीयम् । ननु प्रमाणैकत्वानेकत्वयोः प्रमेयतादवस्थ्यात् कथमेतत् । इत्थम् । न हि प्रमाणमात्रं निःशङ्कप्रवृत्तावुपयुज्यते । किं नाम प्रमाणतया प्रमितमेव । तच्च यावद्यावदधिकं प्रमीयते तत्तदनुसारिणीमविशङ्कां क्षिप्रप्रवृत्तिं प्रसूत इत्यनुभवसिद्धम् । ततः प्रामाण्यमेव स्वकार्यातिशयवशेनातिशयवदुच्यते । एवं विषयप्रयोजनातिशयवशेनाप्यतिशयो द्रष्टव्यः । एकधाऽन्यत्र सर्वश इत्यनेनातो नैतादृशमित्युपसंहारबलेन च लब्धं प्रामाण्यसाधक- प्रमाणे त्रैविध्यं तस्यानुत्तमत्त्वे हेतुत्वं च दर्शयितुं यत्तच्छब्दार्थाध्याहारेण वाक्यं व्याख्याति ॥ यत वा०.
११० । न्यायसुधा ॥ (भ. १ पा. १. १ इति । यद्वैवं पदार्थमुक्त्वा वाक्यार्थमाह ॥ यत इति । अन्यत्र द्वैविध्यस्य स्पष्टदृष्टत्वेऽपि सर्वश इति यद्वचनं तदेकधेत्यस्योपलक्षणत्वज्ञापकमित्याह ॥ सर्वश इतीति । आप्त्यादिकमित्यत्रादिपदेन श्रुतिमहा- लात्पर्यविषयसमानार्थत्वमिति निरवकाशयुक्त्यनुसन्धानात्मकत्वं च परिगृह्यते ॥ कथमेतदिति । प्रामाण्यज्ञापकत्रैविध्यात्प्रामाण्ये महत्त्वं नोपपन्नमित्यर्थः । न केवलं साक्षादाप्यकारोक्तो लिङ्गत्रयावसि- तत्वप्रयुक्तस्वकार्यातिशयवशादेव प्रामाण्येऽतिशयोऽपि तु फलवत्त्वे सति ज्ञानसाधनत्वोपाधिना यथास्थित- ज्ञेयविपयीकारित्वरूपवाक्यप्रामाण्यस्य प्रकृते सर्वोत्तमज्ञेयविषयीकारित्वरूपतया सर्वोतमफलसाधनज्ञान- साधनत्वोपाधिकत्वाच्चातिशयो भाष्यकाराभिप्रेतो द्रष्टव्य इत्याह ॥ एवमिति । भाष्यमुपलक्षणमिति अभिप्रेत्य चाह ॥ एवमिति । स० आप्तवाक्यत्वादिप्रमाणानां बाहुल्या प्रामाण्यमनुत्तममित्युक्तं तदनुपपन्नमिति शङ्कते ।। ननु प्रमाणैकत्वानेकत्वयोरिति ॥ इत्थमिति । एवं चाप्तवाक्यतया सिद्धेऽपि प्रामाण्ये सर्वोत्तम- प्रामाण्यसिद्धये श्रुतियुक्तिसंवादद्वयमित्यनेकप्रमाणानां निःशङ्कप्रवृत्तिहेतुत्वात्सार्थक्यम् । कर्ममीमांसा- सूत्रापेक्षया ब्रह्मसूत्राणामविशङ्कप्रवृत्तिलक्षणकार्यातिशयेन धर्माद्यपेक्षयातिशयितविषयेण ब्रह्मणा स्वर्गाद्यपे- क्षयातिशयितेनं फलेन मोक्षणातिशयवत्त्वात् प्रामाण्यस्यापि त्रिविधातिशयवत्वं प्रामाण्यं त्रिविधं महदि- त्यनेनोक्तमिति भावः ॥ .. १०- उपलक्षणत्वे बीजोक्तिः ॥ इति वचनादिति । सर्वशः सर्वत्रान्यत्रेत्युत्त यैकधेन्युक्तिः अयुक्ता । क्वचिद् द्वेधा त्रेधाऽपि सम्भवादत उपलक्षणं कार्यमिति भावः ॥ श्रुतियुक्तिभ्यामिति । यः सर्वज्ञः इत्यादिश्रुत्येश्वरः सर्वज्ञः सर्वकर्तृत्वादित्यादियुक्तया च मूलभूतयेत्यर्थः । प्रामाण्यमिति सर्वत्रानुपङ्गः ॥ एतदर्थम् । जैमिन्यादिवाक्यव्यावृत्तप्रामाण्यसिद्ध्यर्थमित्यर्थः ॥ त्रिविधमित्यनेनापि इति । त्रिविधमित्यस्य क्रियाविशेषणबादाप्तवाक्यत्वादिप्रमाणत्रयेणेति पूर्व तदर्थो दर्शितः । तत्र महदित्यस्य प्रामाण्येनेव तेनाप्यन्वये सति महदाप्तवाक्यत्वादिप्रमाणत्रयेणेत्यर्थः । महत्त्वं च प्रमाणस्य आप्तेः निरवधिकत्वेन । श्रुतियुक्त्योरनन्तत्वेनेत्यर्थो लग्यत इति कर्ममीमांसादेवमीमांसाव्यावृत्तप्रामाण्यं सिद्ध्यतीति भावः ॥ प्रमाणेति । प्रामाण्यज्ञापकप्रमाणैकत्वानेकत्वयोरित्यर्थः । एतदिति । उतमा- नुत्तमप्रामाण्ये इत्येतदित्यर्थः । ब्रह्मसूत्रपदप्रयोगसूचितं तदर्थत इति पदप्रयोगसूचितं च कार्यातिशयमपि आह || एवं विषयेति । यथा निःशङ्कक्षिप्रप्रवृत्तिजनकत्वेनातिशयः तथा कर्मदेवतादितोऽपि प्रागुक्त- दिशा सर्वदोषविहीनत्वादिगुणविशिष्टपरब्रह्माख्यातिशयितविषयप्रतिपादनेनानल्पस्थिरमोक्षाख्यातिशयित- प्रयोजनकत्वेन चैतच्छास्त्रप्रामाण्यस्यातिशयो द्रष्टव्य इत्यर्थः ।
या० तत्रेति । ब्रह्मसूत्रकर्तरि बादरायण इत्यर्थः ॥ च०- अनुत्तमं मन्तव्यमिति । ब्रह्मसूत्रप्रामाण्यमनुत्तमम् आप्तवाक्यत्वादिलिङ्गत्रयावसित- आदित्यनुमानाकारोऽवसेयः ॥ अनु०. अतो नैतादृशं किञ्चित्प्रमाणतममिष्यते । स्वयं कृताऽपि तव्याख्या क्रियते स्पष्टतार्थतः ।। सु०- तदेवं श्रुत्यनुमानाभ्यामिदमेव शास्त्रं प्रमाणतमं नान्यदेतादृशमस्तीत्युपसंहरति । त इति । इष्यते प्रामाणिकैरिति शेषः । तथा चान्यपरिहारेणास्यैव व्याख्यानं युक्तमिति दयम् । ननु भारतं सर्वशास्त्रेषुत्तममुच्यते । सत्यम् । विचार्येषु शास्त्रेषु तदित्यविरोधः । नु चास्य शास्त्रस्यारम्भणीयत्वं सूत्रकार एव प्रथमसूत्रे समर्थयते । तद्व्याख्यानेनैव सर्व [म्पद्यते । किमनेन । प्रथमसूत्र एव कथं प्रवृत्तिरिति चेत् । प्रथमभाष्येऽपि कथम् । न्देिहात्प्रवृत्तस्य पुनरुक्तप्रमाणैनिर्णय इति चेत् । समं प्रथमसूत्रेऽपि । मैवम् । विषयादि- म्पादनेनैव तत् । न च तावताऽऽरम्भणीयत्वम् । प्रामाण्ये हि सति काकदन्तपरीक्षाग्रन्थ- लक्षण्याथ विपयादिव्युत्पादनमुपयुज्यते । अतः सूत्राक्षिप्तमेवेदं शिष्याणां बुद्धिशुद्धये गष्यकृतोक्तमिति । नन्बत इत्युत्तरवाक्यस्य पूर्वोक्तार्थप्रतिपादकत्वात्पौनरुक्त्यमित्यतः परमाख्यविद्येत्यारभ्य स्कृतप्रमेयोपसंहारत्वान्न वैयर्थ्यमित्याह ॥ तदेवमिति । मयेत्यध्याहारस्य स्वतः सिद्धत्वेऽपि प्रमाण- मित्वेन स्वाङ्गीकारमात्रस्यानुपयुक्तत्वात्सर्वाङ्गीकारस्य च बाधितत्वात्प्रमाणानां चानुपदमेवोपपादितत्वात् माणिकैरित्येव शेषपूरणं युक्तमित्यभिप्रेत्याह || इष्यत इति । परमप्रमेयानुपसंहारेणोपसंहारभाप्य- यूनतां परिहर्तु भाष्यकाराभिप्रेतं परमप्रमेयं स्ययं दर्शयति ॥ तथा चेति । ननु श्रुत्यनुमानाभ्यामस्यैव प्रमाणतमत्वे भारतस्य सर्वशास्त्रपूत्तमत्वोक्तिया॑हन्येतेति शङ्कते ॥ नन्विति । 'भारतं सर्वशास्त्रेषु भारते गीतिका बरा' इति प्रमाणमनेनानुकरोति । 'द्वे विद्ये वेदितव्ये' इति श्रुतौ ऋगादिपदोपलक्षिताशेष- शास्त्राणामपरविद्यात्वेनोक्त्या लिङ्गत्रयावस्तित्वरूपस्य महत्त्वस्यात्रैव सम्भवेनास्यैव शास्त्रस्य भारतापेक्षया उत्तमत्वेऽपि भारतस्योत्तमत्वोक्तिः निर्णेतव्यान्तरापेक्षया सङ्कोचयितव्येत्याह ॥ सत्यमिति । नन्वियता पबन्धेन प्रतिपादितयोः प्रामाण्यतदनुत्तमत्वयोरुक्तरीत्या शास्त्रारम्भणीयतार्थत्वाच्छास्त्रारम्भणीयतायाश्च चूत्रकारेणैव प्रथमसूत्रे समर्थनात्तघ्याख्याने वारम्भणीयतौपयिकविषयादिवत्प्रामाण्यादेरपि सिद्धेस्तदेव वा०.
व्यायायता किमनन सूत्रानयतया प्रामाण्यादिव्युत्पादकन प्रामाण्यनिश्चयस्य प्रवृत्तिप्रयोजकत्वाच्छास्त्रप्रवृत्तिप्रयोजकप्रामाण्यनिश्चयाय प्रथमसूत्रगवेषणायां तत्र प्रवृत्तरपि प्रामाण्यनिश्चयाधीनतया तत्प्रामाण्येऽवश्यं प्रतिपाद्ये समानन्यायतया शास्त्रप्रामाण्योक्तिः प्रथमभाप्य इत्याशङ्कते ।। प्रथमेति । तर्हि प्रवृत्तेः प्रामाण्यनिश्चयसाध्यत्वादेव व्याख्यानप्रामाण्य. निश्चयस्य व्याख्येयप्रामाण्यनिश्चयाधीनतया तन्निश्चयाभावे प्रथमभाष्येऽपि न प्रवृत्युपपत्तिरिति समाधत्ते ।। प्रथमेति । मूत्रे प्रामाण्यानुक्त्या समाधत्ते ॥ विषयादीति । तत् शास्त्रस्यारम्भणीयत्वम् । सम्पादनेन व्युत्पादनेन मूत्रकारः प्रथमसूत्रे समर्थयत इति पूर्वेण सम्बन्धः । ननु सूत्रस्य विषयादिव्युत्पादनेनैव आरम्भणीयत्वसमर्थकत्वे तावतैवारम्भणीयत्वसिद्धौ भाप्यकारीयं प्रामाण्यव्युत्पादनं व्यर्थमेवेत्यत आह ॥ न चेति । तावता विषयादिव्युत्पादनेन आरम्भणीयत्वं सिद्धं भविष्यतीति शेषः । नन्वेवं प्रामाण्य. व्युत्पादनन्यावश्यकन्वे प्रमाणस्य सतो निर्विषयत्वादिप्रयुक्तानारम्भणीयत्वशङ्काया अप्रसक्तेविषयादि- व्युत्पादनं व्यर्थ मूत्रे । आवश्यकप्रामाण्याव्युत्पादनान्न्यूनता चेत्यतः काकदन्तपरीक्षाग्रन्थादौ सत्यपि याथार्थ्यख्यप्रामाण्ये निष्प्रयोजनत्वादिप्रयुक्तानारम्भणीयताया दृष्टत्वेन शङ्काप्रसञ्जकसद्भावात् । अप्रा- माण्ये च तेनैवानारम्भणीयत्वप्राप्तौ काकदन्तपरीक्षाग्रन्थसालक्षण्यशङ्काया अनवसरग्रस्ततया तद्वैलक्षण्याय सविषयकत्वादेरप्रतिपादनीयतया तत्प्रतिपादनेनैव प्रामाण्यव्युत्पादनस्य सूत्रकृदभिमततया सुज्ञानत्वाच्च न न्यूनताऽपीत्याशयेनाह ॥ प्रामाण्ये हि सतीति । नन्वस्तु सूत्रकारीयविषयादिव्युत्पादनस्य प्रामाण्ये सत्येवोपयोगस्तथाऽपि प्रामाण्यव्युत्पादकस्यास्य कथं भाप्यत्वमित्याशङ्कां परिहरन्नेव भाप्यकारीयतदुक्तेः प्रयोजनं चोपसंहारव्याजेन दर्शयति ॥ अत इति । न च याथायें मानमस्तीत्यादिशकापरिहारो वुद्धिशुद्धिः । श्रुत्यनुमानाम्यामिति । श्रुतिः परविद्याऽख्या । अनुमानमाप्तवाक्यत्वादि । विचार्येषु शास्त्रेष्विति । 'इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्' इत्यत्र भारतस्य निर्णायकत्वोक्तावपि युक्तिभिर निर्णायकत्वाद्विचार्यतुल्यत्वमेवेति भावः ॥ न विरोध इति । 'भारतं सर्ववेदाश्च'त्यादिना इति शेषः । न च तावता आरम्भणीयत्वमित्यतः परं किंस्वित्यध्याहार्यम् । ननु तर्हि प्रामाण्यमात्रेणैव आरम्भणीयत्वसिद्धेविषयादिकथनं व्यर्थमित्यत उक्तम् ॥ काकदन्तपरीक्षेति । ॥ प० -- एकधाऽन्यत्र सर्वश इत्युक्तमात्रोपसंहारपरत्वभ्रमनिरासाय व्याकुर्वन्नेवावतारयति ॥ तदेवमित्यादिना । अत इत्यस्यार्थः श्रुत्यनुमानाभ्यामिति । परविद्याख्यं चक्रे शास्त्रमित्यत्रोक्तया 'द्वे विद्ये वेदितव्ये' इत्यादिश्रुत्या । आप्तवाक्यत्वाद्यनुमानत्रयावगतप्रामाण्यकत्वरूपानुमानेन चेत्यर्थः ।
प्रामाण्याक्तिसमर्थनम् ) ॥ जिज्ञासाधिकरणम् ॥ ॥ शास्त्रपदमनुवर्त्य तेन प्रमाणतमपदस्यान्वयमुपेत्योक्तमिदमेवेत्यादि । प्रमाणतमत्वोक्तेः क उपयोग इत्यतः प्रागुक्तशङ्कानिरासः फलमित्याह ॥ तथा चेति । गीताभाप्ये प्रथमे 'वेदादपि परं चक्रे पञ्चमं वेदमु- त्तमम्' ॥ भारतमिति । 'भारतं सर्वशास्त्रेषु भारते गीतिका वरा' इत्यादिनोक्तभारतोत्तमत्वविरोध- माशङ्कय निराह ॥ नन्विति । प्रादुर्भूत इत्यादिश्लोकचतुष्टयस्योत्सूत्रितार्थत्वेन वक्ष्यमाणदिशा परमते अभ्यासभाप्यस्येव वैयर्थ्यदोषमाशङ्कय निराह ॥ ननु चेत्यादिना ॥ समर्थयत इति । तत्प्रकारोऽग्रे व्यक्तः ॥ किमनेनेति । श्लोकचतुष्टयकृतेनारम्भणीयतोपयुक्तप्रामाप्यसमर्थनेनेत्यर्थः ॥ कथं प्रवृत्तिः इति । आरम्भणीयत्वानिर्णये तत्प्रवृत्तरयोगात् प्रादुर्भूत इत्यादिभाप्येणारम्भणीयत्वसिद्धौ पश्चात्तत्र प्रवृत्तिरिति भावः ॥ कथमिति । प्रवृत्तिरित्यनुषङ्गः । सूत्रस्यैवारम्भणीयत्वानिर्णये तयाख्यारूपभाप्ये अपि प्रवृत्तरयोगादिति भावः । उत्तरं शङ्कते ॥ सन्देहादिति । आरम्भणीयत्वानारम्भणीयत्वसन्देहात् इत्यर्थः ॥ उत्तेति । आप्तवाक्यत्वादिरूपप्रमाणैः सूत्रप्रामाण्यसिद्धौ तद्व्याख्यानत्वयुक्त्या आरम्भणीयत्व- निर्णयो भविष्यतीत्यर्थः । सत्यम् । प्रथमसूत्रेऽप्यारम्भणीयत्वसन्देहात्प्रवृत्तस्य सूत्रस्थाथादिपदोक्त- प्रमाणैरारम्भणीयत्वनिर्णयो भवतीति । तथाप्यारम्भणीयत्वसन्देहो द्वधा । प्रामाण्यसन्देहनिमित्तको विषयप्रयोजनाधिकारिसम्बन्धसन्देहनिमित्तकश्च । तत्रान्त्यस्य सूत्रेण परिहारेऽपि आद्यस्य न परिहारः । अतो भाष्यमेतत्सार्थकमिति भावेनाह ॥ मैवमित्यादिना ॥ तदिति । प्रथमसूत्रे आरम्भणीयत्व- समर्थनमित्यर्थः । तावतैपालमित्यत आह || न चेति । बौद्धादावपि तत्सम्पादनस्य बौद्धादिग्रन्थकर्तृ. क्रियमाणत्वेन व्यभिचारादिति भावः । तर्हि सूत्रे विषयादिव्युत्पादनं व्यर्थम् । तावन्मात्रस्यारम्भानुप- योगादित्यत आह ॥ प्रामाण्ये हीति ॥ अत इति । प्रामाण्ये सत्येव विषयादिव्युत्पादनस्योपयोगात् इत्यर्थः ॥ सूत्राक्षिप्तमिति । विषयादिव्युत्पादनान्यथानुपपत्त्यैवाल्लिब्धं प्रामाण्यमित्यर्थः । आर्थिको अप्यर्थः सूत्रार्थ एवेति तु बन्धमिथ्यात्वमित्येतदवतारिकायां परमतानुवादप्रस्तावे निपुणतरमुपपादयिष्यत इति भावः । एतेन प्रामाण्ये हीत्यादिग्रन्थेनैव श्रीतार्थ प्रागनुक्त्वा आर्थिकार्थमेव प्राक्कथयन् भाप्यकारो अकुशल इति परास्तम् । प्रामाण्येन विना विषयादिव्युत्पादनस्यैव अयोगादिति । बुद्धिसिद्धये प्रवृत्ति- बुद्धयुत्पादनाय ॥ तदेवं श्रुत्यनुमानाभ्यामिति । श्रुतिः परविद्याख्यमित्यत्रोक्ता ॥ विषयादिसम्पा- दनेनैव तदिति । आरम्भणीयत्वमित्यर्थः । प्रथमसूत्रे समर्थयत इति पूर्वेणान्वयः । न प्रामाण्य- सम्पादनेनेत्यर्थः । अतो नास्य प्रामाण्यव्युत्पादनस्य प्रथमसूत्रेण गतार्थतेति भावः । ननु विषयादि- सम्पादनेनैव आरम्भणीयत्वसिद्धिसम्भवे प्रामाण्यव्युत्पादनं व्यर्थमित्याशङ्कय निराकरोति ॥ न चेति तावता तावतैवारम्भणीयत्वं समर्थयितुं शक्यमिति शेषः । कुतो नेत्यत आह । प्रामाण्ये हीति । । या S.T. 15 अन्यथाऽप्रामाण्येनैवानारम्भणीयत्वशङ्कायां प्रयोजनादिव्युत्पादनस्यावसर एव नेति भावः । ननु इदं प्रामाण्यसमर्थनं सूत्रोक्तं न चेत्तर्हि गुरुगुरूणामित्यादे प्यत्वव्याधातः । तदुक्तं चेद्धाप्यकारीयं तद् व्युत्पादनं व्यर्थमसङ्गतं स्यादित्याशङ्कां परिहरन्नुपसंहरति ॥ अत इति । प्रामाण्यसमर्थनाभावे विषयादिव्युत्पादनस्यावसर एव नेति विषयादिव्युत्पादकसूत्रेण तदाक्षिप्तमित्यर्थः ॥ बुद्धिशुद्धय इति । विषयादिव्युत्पादनप्रतिबन्धकाप्रामाण्यशङ्कानिरासायेत्यर्थः ।। च०-- श्रुत्यनुमानाभ्यामिति । श्रुतिः परविद्याख्यमित्यत्राभिहिता । विषयादिसम्पादनेनैव तदिति । आरम्भणीयत्वं विषयादिव्युत्पादनेन सूत्रकारः समर्थयत इत्यनुषक्तेनान्वयः । सूत्रकारीय- विषयादिव्युत्पादनमात्रेणैवारम्भणीयता सेत्सीदिति तन्मात्रफलकभाप्यकारीयप्रामाण्यतदुत्तमताव्युत्पादनं मन्दप्रयोजनमित्यत आह ॥ न चेति । तावता विषयादिव्युत्पादनमात्रेण । पूरणीयसिद्धमित्यंशेन प्रथमान्तमन्वेति । अथ सूत्रकारः कथमारम्भणीयतानिर्वाहकप्रामाण्यं न व्युदपीपदत् । तदनावश्यक. विषयादिमत्तां च प्रत्यपीपददित्यत: सौत्रप्रामाण्यतदनुत्तमत्वे सुदृढनिरूढे मन्वानः काकदन्तपरीक्षाग्रन्थ- सालक्षण्यशङ्कापादिततदनारम्भणीयताशङ्कापचिकीर्षयैव विषयादिमत्तामात्रमेव प्रत्यपीपदत् । भाष्यकार: तु सूत्रध्वनितमेव प्रामाण्यादिकं विनेयमतिशुशुत्सया प्रागभ्यधादिति सामञ्जस्यमित्याह ॥ प्रामाण्ये हीति । सु०- तथाऽपि नेदं व्याख्यातव्यं व्याख्यातत्यादित्यत्रान्वपि चेति यत् प्रयोजनान्तरं अस्तीति सूचितं तद्विवरणार्थमाह ।। स्वयमिति । यद्यपि तेषां ब्रह्मसूत्राणां व्याख्या स्वयं मयैव भाष्ये कृता तथाऽपि पुनरत्र स्पष्टतैवार्थः प्रयोजनं यस्य स्पष्टतार्थः । तस्मै स्पष्टतार्थतः । भाष्ये अस्पष्टीकृतमर्थ स्पष्टीकर्तुं क्रियते । स्पष्टीकरणं चानेकविधम् । क्वचिदनुक्तांशस्योक्तिः । क्वाप्यतिसङ्क्षिप्तस्य विस्तरणम् । क्वचिदतिविस्तृततया बुध्यनारूढस्य सङ्केपः । क्वापि विक्षिप्तस्य एकीकरणम् । कुत्राप्युक्तस्योपपादनम् । क्वचिदपव्याख्याननिरासेन दृढीकरणमित्यादि तत्र तत्र द्रष्टव्यम् । नन्वेकत्रैव सर्व वक्तव्यं वक्तव्यं किं प्रस्थानभेदेन । मैवम् । यतः सङ्केपविस्तराभ्यामुक्तं श्रोतॄणां सुग्रहं सप्रयोजनं च भवति । यथोक्तम् । ' सङ्केपविस्तराभ्यां तु कथयन्ति मनीषिणः । बहुवारस्मृतेस्तस्य फलबाहुल्यकारणात् ' इति । तत्र भाष्याद्यपद्यार्थों अत्र श्लोकत्रयेण विवृतः । तथा हि । सर्वगुणोदीर्णतोक्त्या प्राप्ता गुणगुणिभेदशङ्का निखिले- त्यादिना निराकृता । ज्ञेयत्वगम्यत्वयोरितरसाधारण्यात्कथं विशेषणत्वमित्याशङ्का आप्यतम- मित्यनेन परिहता । अपिशब्दो विशेषणान्तरसमुच्चयार्थः । तद्विवरणमस्येत्यादि । शास्त्रप्रभवं - .
वा० स्पष्टतार्थतः ॥ जिज्ञासाधिकरणम् ॥ ११५ इत्यादिभिर्बहुभिः प्रकारैर्यद्गुरुत्वोपपादनं तेन गुरूंश्चेति बहुवचनान्तं पदं विवृतम् । गुरुदेवतयोः भेदेऽपिपदेनारुचिः सूचिता । तद्विवृतिस्तमेवेति । सम्प्रशब्दाभ्यां नत्वेति विशेषितम् । निरूपपदसूत्रग्रहणेन यब्रह्मसूत्राणां सर्वोत्तमप्रामाण्यं सूचितं तदुपपादनं परमाख्येति । यद्वापर इत्यादिभाष्यं तदसङ्गतम् । सूत्रार्थवचनं प्रतिज्ञाय तदुत्पत्तिक्रमकथनखोपयोगा- दर्शनात् । मैवम् । यस्मादाप्सिमूलत्वादियुक्त्याऽपि ब्रह्मसूत्राणां सर्वोत्तमं प्रामाण्यं समर्थयितुं एतदिति दर्शयति गुरुर्गुरूणामित्यादिनेति । कृतस्य करणायोगात् । यद्यपि तथाऽपि पुनरित्यर्थकत्वमपिशब्दस्य दर्शयन्वाक्यं योजयति ।। यद्यपीति । ननु सर्वत्रानुव्याख्याने सङ्क्षिप्य भाप्योक्तविस्तरणादर्शनादयुक्तमेतदित्यत आह ॥ स्पष्टीकरणं चेति ॥ इत्यादि तत्र तत्रेति । आदिपदेनासङ्गतिपरिहारादिकं सङ्गृह्यते । अतःशब्दार्थतया बन्धसत्यत्वोक्तिप्रभृत्यनुपदं वक्ष्यमाणस्योद्भवादिदं शास्त्रप्रभवमित्यादि । एवमेवाविरोधेन प्रारब्धस्यैव कर्मणः । ज्ञानं दृष्टफलं प्रोक्तं मुक्तिश्चैवेह लग्यते । अतो जगद्व्या पृतिमन्त एवेत्यादि । वैराग्य तो भक्तिदाढ्य युक्तितो ज्ञातवेदार्थ इत्यादि परमाख्यविद्येत्यादि । आत्मेति नाम कथितमित्यारभ्य तस्माद्यथोक्तमार्गेणेत्यादि गुरुर्गुरूणामित्यादि च क्रमेण तत्र तत्र द्रष्टव्यमित्यर्थः । सूचितमिति । अन्वपि चेत्यत्र चशब्देनेति शेपः ॥ दृढीकरणमित्यादि इत्यादि- शब्देन शेपकरणं ग्राह्यम् । यथा 'प्रकृतैतावत्वं हि प्रतिधति ततो ब्रवीति च भूय' इति सूत्रपूर्वपक्ष- भाप्ये सृष्टिसंहारकर्तृत्वमेवारय न पालकत्वं स्वत:सिद्धेरित्यत्र पालनस्येति शेषकरणं कृतम् ॥ अपिशब्द इति । गुरुदेवताभेदे अरुचिसूचको भाप्यस्थापिशब्दो विशेपणान्तरसमुच्चयार्थोऽपीत्यर्थः । सूचितमिति । 'अन्वपि चाहमेव' इत्यत्रस्थचशब्देनेति भावः ॥ अनुक्तांशस्येति । सिद्धार्थे व्युत्पत्त्यादेः ॥ अतिसङ्गिति । व्यक्तमेतदनुपदं तत्र मा याद्यपद्यार्थ इत्यादौ ।। सङ्केप इति । 'एतद्भावाभिधं लिङ्गम्' इत्यादिविषयमालायाः पूर्वोतरपक्षयुक्तिमालादेश्च करणादिति भावः ।। एकीकरणमिति । आनन्दमयनयादौ ॥ कुत्रापीति । अन्तरादिनयेष्वभ्यधिकाशङ्का दिनोपपादनम् । अपव्याख्याननिरासरतत्र तत्र व्यक्त एव । इत्यादीत्यादिपदेन कचिद्वाधकोद्धारादिर्ग्राह्यः ॥ यथोक्तं इति । प्रथमम्कन्धतात्पर्ये । अतिसङ्क्षिप्तस्य विस्तरणमित्येतद्व्यनक्ति ॥ तत्रेति । निखिलेत्यादिना निराकृतेति । देहस्य गुणात्मकत्वोक्त्या देहदेहिनोरभेदस्य प्रमितत्वाद्गुणाभेद एवोत्तो भवतीति भावः ।। इतरेति । कर्मदेवतासाधारण्यादित्यर्थः । अपिशब्दरयारुचिसूचकत्ववदनुक्तसमुच्चयरूपान्तरमप्युपेत्य स०. --- --- S.T.15A ॥ न्यायसुधा ॥ (भ. १ भ १ पा. १ आह ॥ अपिशब्द इति ॥ सम्प्रेति । आद्यद्वितीयश्लोकस्थसम्प्रशब्दाभ्यां यथाक्रमं देवतानतिर्गुस्नतिश्च विशेषितेत्यर्थः । द्वापर इत्यादिभाप्यविवृतिपरं गुरुर्गुरूणामित्यादीत्याह । द्वापर इतीति । या०- अस्तीति सूचितमिति । अन्बपि चाहमेवेत्यत्र चशब्देनेति शेषः ॥ अनुक्तांशस्य इति । यथा प्रथमाधिकरणे भाप्यानुक्तानामत:शब्दार्थानामुक्तिरित्यादि ॥ अतिसङ्क्षिप्तस्येति । एतत् उदाहरणम् त्वपिशब्दो विशेषणान्तरसमुच्चयार्थः । तद्विवरणमस्येत्यादीति वक्ष्यमाणम् । तथा मान्त्र- वर्णिकसमाख्याया भाप्ये सङ्केपेणोदितायास्तत्र सत्यत्वं सृष्टयन्नप्राणयोरपीत्यादिनाऽत्र विवरणमित्यादिकं ज्ञेयम् ॥ सङ्केप इति । यथा प्रथमेऽध्याये तृतीयपादार्थस्य पूर्वपक्षसिद्धान्तन्यायोक्त्यादिमात्रेण सङ्केप इत्यादि । विक्षिप्तस्येति । यथा चतुर्थे शेषमार्गगरुडमार्गस्य वा भाष्ये विक्षिप्ततयोक्तस्यात्र 'सोमस्तु वारीशयुत ' इत्यादिनैकीकरणमित्यादि । उक्तस्योपपादनमित्यस्य 'चेष्टा हि चेतनानां सा सा भवेत्त. प्रसादत' इत्याद्यभ्यधिकाशङ्काप्रदर्शनादिनोपपादनमुदाहरणं ज्ञेयम् । अपव्याख्याननिरासेनेति । यथा 'बन्धमिथ्यात्वं नैवमुक्तिरपेक्षत' इत्यादि । इत्यादीत्यत्रादिपदेन द्वितीये प्रमाणलक्षणादेरुक्तिरनु- क्तांशेन्युक्तोपपादनयोः सूत्रार्थमात्रविषयत्वान्न ताभ्यामिदं गतार्थमित्यवधेयम् । श्री०- बहुवचनान्तं पदमिति । गुरुत्वोपपादकप्रकाराणां बहुत्वोपपादकप्रकाराणां बहुत्वात् बहुवचनम् । तथा च गुरूनित्यस्य बहुभिः प्रकारैरुपपाद्यं यद्गुरुत्वं तदुपेतानित्यर्थो द्रष्टव्यः । अनुक्तांशस्य । अतःशब्दार्थतया बन्धसत्यत्वादेः । अतिसङ्गितस्य । मान्त्रवर्णिक- समाख्योक्तार्थस्य विस्तरणं सृष्टयन्नप्राणयोरपीत्यादिना । सङ्केपः । समन्वयलक्षणे उभयत्रप्रसिद्धनामलिङ्गो. भयपादार्थस्य । अविरोधलक्षणे तुरीयपादार्थस्येत्यर्थः । विक्षिप्तस्येति । तुरीये भाप्ये विक्षिप्तोक्तशेष- गरुडमार्गादिरूपार्थस्य सोमस्तु वारीशेत्यादिना सङ्कलनम् । उक्तस्योपपादनं चेष्टाहीत्याद्यधिकाशङ्का- प्रदर्शनादिना । दृढीकरणं बन्धमिथ्यात्वनिरासेनेत्या दिकं तत्रतत्रावधेयम् । तत्र भाष्याद्यपद्यार्थ इति । अत्र व्याचक्षाणाः यद्यपि प्रादुर्भूत इति तृतीयश्लोके भाप्याद्यपद्यस्थस्य कस्यापिशब्दस्यार्थो न विवृतः । तथापि कृतकृत्यस्य व्यासस्य शास्त्रप्रभवत्त्वानुपपत्तिः । परविद्याख्याया एतच्छास्त्रविषयत्वेन नियामक- मस्तीत्याद्याशङ्कानिरासार्थप्रवृत्तेन तृतीयश्लोकेनापि व्यासस्य शास्त्रप्रभवत्वसमर्थनद्वारा गुरूनिति वहुवचनो- पेतगुरुत्वप्रकरणविवरणम् । परविद्याख्याया एतच्छास्त्रविषयत्वे समर्थनद्वारा निरुपपदसूत्रग्रहणसूचित- सर्वोत्तमप्रामाण्यविवरणं च कृतमिति द्रष्टव्यमिति व्याचक्षते । • .
मङ्गलवादः) ॥ जिज्ञासाधिकरणम् ॥ ११७ सु०- तथाऽपि नेदं शास्त्रं व्याकर्तव्यं मङ्गलाचरणरहितत्वात् । मङ्गलाचरणपुरः- सराणि खलु कर्माणि निरन्तरायं परिसमाप्यन्ते प्रचीयन्ते च । न चाकृतमङ्गलाचरणानामपि कार्यपरिसमाप्त्यादिदर्शनात्कृतमङ्गलाचरणानामपि तदभावोपलम्भान्न तद्धेतुत्वमस्येति साम्प्रतम् । तथा सति कारीर्यादेरपि वृष्टयादिहेतुत्याभावापत्तेः । स्यादेतदेवम् । यदि कारीयर्यादेव॒ष्टयादि- हेतुत्वं निष्प्रमाणकं स्यान्न चैवम् । श्रुतिनिश्चिते तु साध्यसाधनभावे तदभावेऽपि भावोऽनेक- कारणकत्वस्य कल्पको भवति । दर्शपूर्णमासाभ्यामिव त्रैवर्णिकपरिचर्यादिनाऽपि स्वर्गप्राप्तेः । भावेऽप्यभावस्तु कर्तकरणादिवैगुण्यनिमित्तो भवति । न हि सामग्रीवैकल्येन साध्यं व्यभिचरन् हेतुरहेतुः स्यात् । कादिसाद्गुण्ये वा प्रबलप्रतिबन्धकसद्भावः कल्प्यते । न हि प्रतिबद्धं कार्य अजनयत् कारणमकारणं भवति । वन्हेरपि स्फोटं प्रत्यकारणत्वप्रसङ्गात् । न चै सामग्री- वैगुण्यश्या प्रतिबन्धकशङ्कया वाऽस्याननुष्ठानम् । औत्सगिकी खलु प्राणभृतां प्रवृत्ति- निवृत्तिरत्वपवादात् । अन्यथैवंविधशङ्कायाः सर्वत्र सौलभ्येन सकलप्रवृत्तिविलयापातादिति । सममेतत्सकलं प्रकृतेऽपि । वा०– 'तत्र ताराथमूलत्वमि'त्यनुव्याख्याने ताराथयोर्माङ्गलिकत्वेनैतत्सूत्रनिवेशितयोः सर्व- शास्त्राङ्गतायाः कथयिष्यमाणत्वान्मङ्गलस्यैवाकर्तव्यत्वेऽनिवेशनीयत्वे वा माङ्गलिकत्वेन निवेशस्यं कथयितुं अशक्यतया तयोर्माङ्गलिकत्वेन निवेशं वक्तुं मङ्गलस्य कर्तव्यत्वं निवेशनीयत्वं च शङ्कामुखनोपपादयति ।। तथाऽपीति । मङ्गलाचरणरहितस्याप्यस्तु व्याकर्तव्यत्वमित्यप्रयोजकत्वशङ्कायां मङ्गलाचरणाभावेऽन्तराय- प्रसङ्गेन सत्साध्यनिरन्तरायसमाप्तिप्रचयाभावेनासमाप्तस्य स्वरूपाभावेन वीर्यवत्त्वायुष्मत्पुरुषकत्वप्रचयादि- हीनस्य च शिप्यानुपादेयत्वेनाकर्तव्यत्वात् । व्याकर्तव्यताऽङ्गीकारे समाप्तिप्रचयौ स्यातां तौ च कारणाभावादनुपपन्नाविति विपक्षबाधकं सूचयन्मङ्गलसमाप्त्यादेः कार्यकारणभावं प्रसिद्ध्या दर्शयति ॥ मङ्गलेति । उपलक्षणं चैतत् मङ्गलाभावे विघ्नोपसंसृष्टतया वाक्यार्थेऽप्रतिपत्त्यन्यथाप्रतिपत्त्यापत्त्या शिष्टाचारपरिपालनहीनतयाऽनाप्तप्रणीतत्वप्रसङ्गाच्चाव्याकर्तव्यत्वेन हेतोः प्रतिबन्धसिद्धिरिति द्रष्टव्यम् । अन्वयव्यतिरेकाभ्यां कार्यकारणभावग्रहोऽन्योरिति भ्रान्त्या तत्र व्यभिचारं शङ्कते ॥ न चेति । साम्प्रतं युक्तम् । प्रतिबन्दीमुखेन समाधातुं गूढाभिसन्धिरत्तरमाह ॥ तथा सतीति । श्रुतिसिद्धे कार्यकारणभावे व्यभिचारशङ्का नोन्मिपतीत्येतत्सहेतुकमुपपादयितुं प्रतिबन्दीमोचनव्याजेन शङ्कामुत्थापयति ॥ स्यादेत- देवमिति ॥ निष्प्रमाणकं स्यादिति । श्रुतिं विहायान्वयव्यतिरेकमात्रकल्प्यं स्यादित्यर्थः । श्रुति- सिद्धत्वेऽपि कार्यकारणभावे कुतो न व्यभिचारशङ्केत्यतोऽन्यथासिद्धत्वात्तत्र व्यमिचारस्यान्यथासिद्धान्वय- व्यतिरेकयोहेतुहेतुमद्भावप्रयोजकत्वाभावस्येवान्यथासिद्धव्यभिचारस्य तद्बाधकाभावादुत्पन्नाऽपि साऽप्रयो- ११८ ॥ न्यायसुधा ॥ (म. १ पा. १ १.१ जिकेत्याह ॥ श्रुतीत्यादिना । ननु तर्हि यत्प्रयुक्ता व्यभिचारस्यान्यथासिद्धिस्तच्छङ्काप्रतिबद्धः श्रुति- निश्चितोऽपि हेतुहेतुमद्भावः फलार्थिनो हेतौ न प्रवृत्तिप्रयोजक इत्याशङ्कते । न चैवमिति । तर्हि मङ्गलेऽप्ययं प्रवृत्तिप्रयोजको हेतुहेतुमद्भावनिश्चयादिप्रकारः समः । इयांस्तु विशेषः । कारीर्यादौ प्रत्यक्ष- श्रुतिर्मङ्गले त्वनुमितेति स्वाभिप्रायमाविष्कुर्वन् प्रतिबन्दीमुपपादयति ॥ सममिति । स०- एवं ब्रह्मसूत्राणामप्रामाण्याव्याख्येयत्वमाक्षिप्य श्रुत्यादिसंबादेन च प्रामाण्यसाधनात् साधितम् । इदानीं ग्रन्थे निवेशनमेव मङ्गलानुष्ठानमिति मन्वानः प्रकारान्तरेणा क्षिपति ॥ सूत्रकृतेति । विघ्नाद्यसम्भवेऽपि शिष्टाचारस्य पालनार्थ शिप्यशिक्षार्थ च मङ्गलाचारः कर्तव्यः । अन्यथा मोक्षफले महाशास्त्रे शिष्टाचारमुल्लङ्घय भगवान् सूत्रकारः प्रवृत्त इत्यन्येऽप्येवमेव प्रवर्तेरन् । ततश्च विघ्नादिमत्वं प्रसज्यतेति भावः । कुतो मङ्गलाचाराभावे विघ्नादिप्रसक्तिरित्यत आह || मङ्गलेति । अनेनान्वय- व्यतिरेकायुक्तौ तयोर्व्यभिचारमाशङ्कयाह || न चेति । तत्र हेतुः तथा सतीति । कारीर्याद्यनुष्ठानेऽपि कदाचिद्वृष्ट्यादिहेतुत्वं न स्यादतिप्रसङ्गादिति भावः ॥ स्यादेतदेवमिति । यत्रान्वयव्यतिरेकगम्यः साध्यसाधनभावः तत्र तयोर्व्यभिचारे स एवायुक्तः स्यात् । कारीर्यादिवृष्ट्यादीनां तु श्रुत्यैव साध्य- साधनभाव इत्याह ।। सममिति । प० तत्रेत्यादिमूलमवतारयति ॥ तथाऽपीत्यादिना । प्रामाण्ये सत्यपीत्यर्थः ॥ मङ्गलाचरणेति । मङ्गलाचारपूर्वमकृतत्वादित्यर्थः । हेतोरप्रयोजकत्वमाशङ्कय समाप्तिप्रचयभङ्गो विपक्ष बाधक इति भावेन तयोर्मङ्गलहेतुकत्वमाह ॥ मङ्गलाचरणपुरस्सराणीति । निरन्तरायं निर्विघ्नं यथा भवति तथेत्यर्थः । प्रचीयन्तेऽविच्छिन्नपारम्पर्यरूपसम्प्रदायवन्ति भवन्तीत्यर्थः । मङ्गलस्य हेतुत्वा- सिद्धिमाशय निराह ॥ न चेति । अकृतमङ्गलाचरणानां कृतमङ्गलाचरणानां चेति च बहुत्रीहिः । पुरुषाणामित्यर्थः ॥ कार्येति । भोजनपचनादिकार्यपरिसमाप्तिप्रचयदर्शनादित्यर्थः । परमुरेवन समाधि वाचयितुं प्रतिबन्दीमाह ॥ तथा सतीति । व्यतिरेकादिव्यभिचारेणा हेतुत्वे सतीत्यर्थः । कारीरी नाम 'शुप्यत्सस्यसंजीवनवृद्धिकामः कारीर्या यजेत' इत्युक्तेष्टिविशेषः । आदिपदेन च पुढेष्टयादिः । तत्र अपि उक्तव्यभिचारद्वयदर्शनादिति भावः । तत्र परेणैव समाधि वाचयित्वा समं मङ्गलाचरणेऽपीत्याह ।। स्यादेतदित्यादिना । एवं व्यभिचारादिना कारीर्यादेरहेतुत्वं स्यात् । यदि हेतुत्वं निष्प्रमाणकं स्यात् इति योजना । श्रुत्युक्तसाधनाभावेऽपि साध्यसत्त्वमनेककारणकत्वकल्पकमित्येतदृष्टान्तेन व्यनक्ति ।। दर्शति । दर्शो नामामावास्यायां क्रियमाणमाग्नेययागदधियागपयोयागरूपेष्टित्रयरूपकर्मविशेषः । पूर्णमासस्तु पौर्णमास्यां क्रियमाणमामेयोपश्चिमीषोमीयाख्येष्टित्रयाख्यं कर्म । ताभ्यां दर्शत्रिकपूर्णमास मङ्गलवादः) ॥ जिज्ञासाधिकरणम् ॥ ११९ त्रिकाभ्यां यथा 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति श्रुतिबलात्स्वर्गप्राप्तिः तथा 'परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् । स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः' इत्यष्टादशे गीतायामुक्तदिशा त्रैवर्णिकपरिचर्यातीर्थस्नानदानादिनाऽपि त्रैवर्णिकेतरस्य स्वर्गप्राप्तियथा तथैव · कारणान्तरेणाऽपि वृष्ट्यादिसम्भवादिति भावः । अन्वयव्यभिचारं निराह ॥ भावेऽपीति । साधनस्य भावेऽपि साध्यस्य अभाव इत्यर्थः । अस्येति । कारीर्यादिश्रौतसाधनस्येत्यर्थः । औत्सर्गिकी स्वाभाविकी । या०. ननु मङ्गलाचरणस्य शास्त्रपरिसमाप्तिहेतुत्वेऽपि न तव्याख्यानकरणेऽपि हेतुता येन तदभावेन तदभावसाधनं सङ्गतं स्यात् इत्यप्रयोजकताऽत्रेत्याह ॥ मङ्गलाचरणपुरस्सराणीति । व्यतिरेकस्याप्युपलक्षणमेतत् । तथा चानेनान्वयव्यतिरेको प्रदर्शिताविति ज्ञातव्यम् । अयमभिसन्धिः । शास्त्र ह्यनुष्ठितं मङ्गलाचरणं शास्त्रसमाप्तिमिव प्रचयरूपं तयाख्यानमपि सम्पादयति । अन्यथा मङ्गला- चरणरहितशास्त्रव्याख्याने प्रवर्तमानस्य विघ्नोपसंसृष्टतया शास्त्रार्थाप्रतिपत्तिविप्रतिपत्त्यादिप्राप्त्या शिष्टा- चारपरिपालनहीनतयाऽनाप्तप्रणीतत्वशङ्कया च व्याख्यानस्य कर्तुमशक्यत्वात् । अत एवाहुः । 'मङ्गलाचरणपुरःसराणि शास्त्राणि वीर्यवन्ति भवन्ति' इति । तथा च व्याख्येये मङ्गलाचरणस्य तत्प्रचयरूपव्याख्यानं प्रत्यपि हेतुतया कारणाभावे च कार्यस्य शङ्कितुमशक्यत्वान्नाप्रयोजकतेति । अत्र समाप्यन्त इत्येतत्प्रसङ्गदृष्टान्ततया मङ्गलस्य समाप्तिं प्रत्यपि हेतुतामुपपादयितुमिति ज्ञातव्यम् । प्रचयशब्दस्य प्रसिद्धिमात्रपरत्वेऽपि शास्त्राप्रचयो व्याख्यानरूप एवेति न कोऽपि दोष इति ध्येयम् । केचित्तु सूत्रकृतो विघ्नाद्यसम्भवेऽपि शिष्टाचारपरिपालनार्थ शिप्यशिक्षार्थ वा मङ्गलाचरणं कर्तव्यम् । अन्यथा मोक्षफलकमहाशास्त्र शिष्टाचारमुल्लङ्घय भगवान्प्रवृत्त इत्यन्येऽप्येवमेव प्रवर्तेरन् । ततश्च विघ्नादिमत्वं च प्रसज्येत । कुतो मङ्गलाचरणाभावे विघ्नादिप्रसक्तिरित्यत आह ॥ मङ्गलेति । अनेन अन्वयव्यतिरेकावुक्तावित्याहुः ॥ स्वर्गप्राप्तरिति । शूद्रस्येति शेषः । परिसमाप्त्यादीत्यत्रादिपदेन प्रचयादिपरिग्रहः । एवमग्रेऽपि ।। श्री० सिद्धान्ती शकते ॥ न चाकृतेति । पूर्वपक्षी प्रतिबन्दी गृहाति ॥ तथा सतीति । तत्र सिद्धान्ती समाधानमाशङ्कते ॥ स्यादेतदेवमिति ॥ श्रुतीति । ' वृटिकामः कार्या यजेत इत्यादिश्रुतीत्यर्थः ॥ स्वर्गप्राप्तेरिति । शूद्रस्येति शेषः । तस्य दर्शपूर्णमासानधिकारित्वात्तदभावेऽपि तस्य स्वर्गप्राप्तिसद्भावात्स्वर्गस्यानेककारणकत्वमेव कल्पनीयं न तयोर्व्यभिचारेणाकारणत्वमित्यर्थः । सर्वत्र कृष्यादौ । पूर्वपक्षी उत्तरमाह ।। सममेतदिति ।
१२० ॥ न्यायसुधा ॥ (भ. १ पा. १ म. १ च० 'वृद्धिरादैजि'तिसूत्रे वृद्धिशब्दस्येव प्रकृतांद्यसूत्रे ताराथशब्दयोर्माङ्गलिकतया कृत्स्न- शास्त्राङ्गतामभिधित्समानस्तदोपयिकमङ्गलकर्तव्यतां तन्निवेशनीयतां च व्यवतिष्ठापयिषुराशङ्कते ॥ तथा अपीति । परिसमाप्यन्ते प्रचीयन्ते । कर्मलकारौ परिसमापनप्रचयक्रियाकर्मीभूतानि भवन्ति । साम्प्रतं युक्तम् । - सु० मङ्गलाचरणस्याविनपरिसमाप्त्यादिहेतुत्वस्यापि अविगीतशिष्टाचारानुमितश्रुति- सिद्धत्वात् । न तावत्प्रेक्षावत्प्रवृत्तिविफला सम्भाविनी । नापि प्रयोजनान्तरार्था । दृष्टपरि- त्यागादृष्टकल्पनाप्रसङ्गात् । कार्यमारिप्सुः खलु तत्समाप्त्यादिकं कामयत इत्यनुभवसिद्धम् । न च फलान्तरानुसन्धाने प्रमाणमस्ति । न चैतेपामियं साध्यसाधनभावप्रतीतिभ्रान्तिः । तथा सत्यविगानानुपपत्तेः । न च प्रत्यक्षादेरत्रावकाश इति श्रुतिरेव शिष्टाचारमूलं कल्प्यते । न च विघ्नहेतुसद्भावानिश्चयादिदमननुष्ठेयम् । तत्सन्देहेऽप्यनुष्ठानस्य 'पाक्षिकोऽपि दोषः परिहर्तव्य' इति न्यायप्राप्तत्वात् । न च भगवतः सूत्रकारस्य विघ्ना एव न सन्तीति तत्परिहारार्थाननुष्ठानं न दोषायेति युक्तम् । शिष्यार्थमपि कर्तव्यत्वात् । यतो मङ्गलाचरण- पुरःसराणि शास्त्राणि वीर्यवन्ति भवन्त्यायुष्मत्पुरुषकाणि च । अन्यथा भारतादावपि न कुर्यात् । एतेन सूत्रकृता कृतमेव मङ्गलाचरणम् । किं नाम ग्रन्थादौ न निवेशितमित्यपि निरस्तम् । ग्रन्थे निवेशनस्यापि शिष्टाचारप्राप्तत्वात् । शिष्यार्थत्वाच्च । अत एवान्यत्किमपि विघ्नविघाताद्यर्थमनुष्ठितं सूत्रकारेणेति निरस्तम् । अत्रोच्यते । कर्तव्यमेव कार्यारन्भे मङ्गला- चरणम् । कृतं च भगवता सूत्रकारेण । निवेशितं च ग्रन्थादौ । यदयमोङ्काराथशब्दावादितः कृतवान् । तयोर्माङ्गलिकत्वात् । यथोक्तम् । ॐ कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ " इति । वा०. ननु तर्हि मङ्गलं श्रुतिबोधिताविघ्नसामाप्त्याद्युपायताकमविगीतशिष्टाचारविषयत्वादिति विवक्षितानुमाने अप्रयोजकत्वमित्यतो अविगीतशिष्टाचारविषयत्वेऽपि मङ्गलस्य श्रुत्यबोधिताविघ्नसमाप्त्या- धुपायताकत्वाभावे मङ्गलविषयकशिष्टप्रवृत्तवैफल्यं वा फलान्तरानुसन्धानपूर्वकत्वं वाऽविघ्नसमाप्तिसाधनत्व. भ्रान्तिपूर्वकत्वं वा प्रमाणान्तरबोधिताविघ्नसमाप्त्याद्युपायताकत्वं वा वक्तव्यम् । प्रकारान्तराभावात् । तत्र च वैफल्ये शिष्टाचारत्वरूपहेतूच्छेदापत्त्या फलान्तरानुसन्धानपूर्वकत्वे च दृष्टादृष्टपरित्यागकल्पना- प्रसङ्गात् । प्रान्तिपूर्वकत्वे चाविगीतशिष्टाचारत्वरूपहेतूच्छेदापत्त्या प्रत्यक्षस्य स्वतः साध्यसाधनभावा- गोचरत्वात् । अन्वयव्यतिरेकयोश्च व्यभिचारेण तत्सहकाराभावात्तत एवानुमानस्यापि प्रवृत्त्यनुपपत्तेः •. मङ्गलवादः) || जिज्ञासाधिकरणम् ॥ १२१ अतिप्रसङ्गपराहतेश्चास्यार्थस्यालौकिकत्वाच्च पौरुषेयवाक्यस्यापि मूलान्तरसापेक्षत्वात् श्रुतिमूलकत्वाभावे प्रेक्षावत्प्रवृत्तेः निर्मूलत्वापत्तिरूपविपक्षबाधकसत्वात् श्रुतिबोधिताविघ्नसमाप्त्याद्युपायकताकत्वसिद्धिरिति न अप्रयोजकत्वमित्याशयेनाह ॥ न तावदिति । दृष्टपरित्यागमुपपादयति ॥ कार्यमिति । अदृष्टकल्पनां उपपादयति ॥ न च फलान्तरेति । ननु तर्हि समाप्तिविशेषणतया विघ्नाभावस्य मङ्गलप्रवृत्त्युद्देश्यता- पत्त्या नाशार्थिप्रवृत्तौ नाश्यनिश्चयवतोऽधिकारस्य च प्रायश्चित्तादिस्थले क्लप्ततया विघ्ननिश्चयाभावेन अधिकाराभावादधिकारिशून्यत्वान्न मङ्गलं श्रुतिबोधिताभीष्टोपायताकमित्युक्तानुमाने प्रतिपक्षं शङ्कते ॥ न च विघ्नेति । न्यायप्राप्तविघ्नसन्देहवच्छिष्टानुष्ठानबलेन विघ्नज्ञानवत एव तत्राधिकारकल्पनाद्धेतुः अप्रसिद्ध इत्याह || तत्सन्देहेऽपीति । नन्वेवमप्यविघ्नसमाप्त्यादिहेतुत्वस्येत्ययुक्तम् । तावता विघ्न- ध्वंसस्य फलत्वोपपत्तावपि समाप्तेर्मङ्गलफलत्वानुपपत्तेः । यद्यपि श्रुतिनिश्चितसा यसाधनभावे मङ्गलाभावे अपि समाप्तिभावो मद्रीत्याऽनेककारणानामेकशक्तिमत्त्वकल्पको वा त्वद्रीत्या समाप्तिगतजातिविशेषनिमित्तो वेति न व्यतिरेकव्यभिचारः । अन्यथा गङ्गास्नानादिनाऽपि विघ्न वसभावेन तस्यापि मङ्गलव्यभिचार: प्रसज्येत । मङ्गलभावेऽपि समाप्त्यभावस्तु सामग्रीवैकल्यस्य वा प्रतिबन्धकसद्भावस्य वा कल्पको भविष्यतीति नान्वयव्यभिचारोऽपीति समाप्ति प्रत्युभयतो व्यभिचाराभावस्तुल्यस्तथाऽपि विघ्नध्वंस- विशिष्टसमाप्तः फलत्वे विशेपणीभूतविघ्नध्वंसफलत्वस्यावश्यकत्वाल्लाघवाच्च विघ्नसंशये तन्निश्चये वा शिष्टानां मङ्गलाचरणा द्विघ्नाभावस्यावश्यं कामनाविपयत्वेनोपस्थिततया पूर्वानुपस्थितापूर्वप्रतिबन्दीग्रहणा. सम्भवाच्च । समाप्यतामिति कामनास्थले विघ्नध्वंसस्य बुद्धिस्थत्वाच्च तस्यैव फलत्वसम्भवे समाप्तेरपि फलत्वे कल्पनागौरवं स्यादेव । किञ्च विघ्नध्वंसस्य समाप्तिपूर्ववृत्तित्वग्रहानन्तरं मङ्गलस्य तत्पूर्ववृत्तित्व- ग्रहानन्तरं मङ्गलस्य तत्पूर्ववृत्तित्वग्रहात्कुलालपितृवत्तस्यान्यथासिद्धत्वम् । अपि च प्रमत्तानुष्ठितसमाप्ती मङ्गलं विनैव विघ्नसंसर्गाभावो हेतुः । तथा च तत्र क्लप्तपूर्ववर्तिन एवान्यत्रापि समाप्तिसम्भवे तत्सह. भूतमङ्गलस्यान्यथासिद्धिरेवेति न समाप्तेरपि फलत्वं युक्तमिति चेन्मैवम् । तथा सति कार्यादेरप्यवग्रह- ध्वंसविशिष्टवृष्टिफलकत्वे विशेषणीभूतावग्रहध्वंसफलस्यावश्यकत्वाल्लाघवाचावग्रह निश्चय एव तदनुष्ठानेन अवग्रहध्वंसस्य कामनाविषयत्वेनावश्यमुपस्थितत्वात् । वृष्टिर्भूयादिति कामनायामप्यवग्रहध्वंसस्य बुद्धिस्थ- त्वादवग्रहध्वंसस्य वृष्टिपूर्ववृत्तित्वग्रहानन्तरं कारीर्यादेस्तत्पूर्ववृत्तित्वग्रहात्कुलालपितृवत्तस्यान्यथारिद्धत्वात् स्वत एव जायमानवृष्टाववग्रहसंसर्गाभावस्य हेतुतया तत्र क्लप्तनियतपूर्ववर्तिन एवान्यत्रापि वृष्टयुपपत्तौ तस्यान्यथासिद्धत्वाच्च कारीर्यादेरप्यवग्रहध्वंसविशिष्टवृष्टिफलकत्वं न स्यात् । न च कारीर्यादितोऽवग्रह- निवृत्तिमात्रं वृष्टिस्तु स्वकारणादेवेतीष्टापत्तिरिति वाच्यम् । सुख मे भूयादित्यविशेषण कामनाया । अपि सा-यसाधनभावः परित्यजेत । कार्यान्विते व्युत्पत्तिबललब्धसिद्धान्वितव्युत्पत्तेः पश्चादुपस्थिताया अपि लाघवेन गुरुभूतकार्यान्वितव्युत्पत्तेस्त्यागवत्पश्चादुपस्थितापूर्वस्यापि लाघवबलेन यागादिफलत्वं कल्प्येतेत्याद्यनेकातिप्रसङ्गापातेन श्रुतसाध्यसाधनभावपरित्यागस्यानिष्टत्वात् । तदिदमुक्तम् ॥ कारीयोदेः अपि वृष्टयादिहेतुत्वाभावापत्तेरिति । यदि च कारीर्यादेर्वृष्ट्यादिकं प्रति साधनत्वस्य श्रुतिसिद्धत्वात् श्रुतिसिद्धे च साध्यसाधनभावे न लाघवगौरवचिन्ता । श्रुत्या चावग्रह बसविशिष्टवृष्टिं प्रति साधनत्व- ग्रहणैकपूर्ववृत्तित्वग्रहानन्तरमन्यपूर्ववृत्तित्वग्रहाभावान्नान्यथासिद्धिश्च । श्रुतिसिद्धन्वादेव च नान्यत्र क्लप्तपूर्ववर्तिन एवेत्यादेरपि प्रसर इति कारीर्यादेव॒ष्ट्यादिहेतुत्वमुपपन्नमिति मन्यसे तर्हि मङ्गलेप्येतत्सर्व सममिति युक्तं मङ्गलस्यापि समाप्तिहेतुत्वमिति । तदेतदाह ॥ सममेतत्सकलं प्रकृतेऽपीति । ननु तथाऽपि मङ्गलाचरणाभावेऽपि सूत्रकारस्य स्वत एव विघ्नाभावसिद्धेः फलविघाताभावात्तद्राहित्यं न व्याकर्तव्यत्वाभावे प्रयोजकमित्यप्रयोजकत्वं शङ्कते ॥ न चेति । भगवत्वान्निरन्तरायसमाप्तिरूपफल- विघाताभावेऽपि मङ्गलाभावे प्रचयरूपफलविघातः स्यादेवेत्याह || शिष्येति । तदेवोपपादयति ।। थत इति । ननु न प्रचयस्तस्य फलं तथान्वे वा सूत्रकारस्य भगवस्त्वादेव तदिच्छामात्रेण मङ्गलाभावे अपि प्रचयसिद्धिरित्यत आह || अन्यथेति । अत्र मङ्गलाचरणरहितत्वादिति मङ्गलाचरणस्याकृतत्वं हेतुतयाऽभिप्रेतमनिवेशितत्वं वा । आद्येऽसिद्धिः । द्वितीये त्वप्रयोजकतेत्याशङ्कायामकृतत्वं तदुप- पादकतयाऽनिवेशितत्वं चाभिप्रेतम् । न चारि द्धिः । अनिवेशनस्य तत्साधकत्वात् । न चाप्रयोजकता पूर्वन्यायेन तत्परिहारादित्याशयेनाह ॥ एतेनेति । प्रकारान्तरेणाप्रयोजकताशङ्कामतिदेशेन दूषयति ।। अत एवेति । पूर्ववाद्युक्तं मङ्गलाचरणतन्निवेशयोः कर्तव्यतोपपादनप्रकारं सर्वमङ्गीकृत्याकृतत्वानिवेशित- त्वरूपपराभिप्रेतहेतोरसिद्धिमाह ॥ कर्तव्यमेवेत्यादिना ॥ माङ्गलिकत्वादिति । मङ्गलं प्रयोजन- मनयोरिति प्रयोजनमिति ठक् । (प्रयोजनम् । तदरयेत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । प्रयोजनं फलं कारणं च )। स० मातुलदुहितृपरिणयनादेः शिष्टापरिगृहीतव्यावृत्त्यर्थमविगीतेन्युक्तम् । 'आचारश्चैव साधूनाम्' इति शिष्टाचाराणां धर्मस्मरणादप्रमाणभूतानां तदयोगात्पौरुषेयत्वेन स्वतःप्रामाण्यरहितत्वेन प्रामाण्यार्थ वेदानुमापकत्वमिति भावः । अवयव्यतिरेको च कारीर्याद्यन्वयव्यतिरेकसमाविति सा-य- साधनभावं परिशेषादुपपादयति ॥ न तावदित्यादिना । यद्वा मङ्गलाचाररूपप्रवृत्तिः प्रारिप्सितपरि- समात्यादिफलिका तदितराफलकत्वे सति सफलत्वादित्यभिप्रेतानुमाने विशेप्यासिद्धिं तावत्परिहरति ।। न तावदिति । अभ्रान्तप्रवृत्ति भीष्टाफलिकेत्यर्थः । विशेषणासिद्धिं परिहरति ।। नाऽपीति । अत्र च । - मङ्गलवादः) || जिज्ञासाधिकरणम् ॥ १२३ तत्त्वसङ्ख्यानटीकोक्तो नियमेन ग्रन्थारम्भेऽनुष्ठानादिति हेतुरध्याहार्यः । तस्य च प्रारिप्सितपरिसमा- त्यादिव्यतिरिक्तोद्देशेनाननुष्ठानादित्यर्थः । तेन यथाश्रुते आमावैष्णवमेकादशकपालं निर्वपेद्दर्शपूर्णमासौ आरिप्समान इति श्रुतिबोधितायां दर्शारम्भे नियमेनानुष्ठीयमानायामारम्भणीयेष्टौ प्रारिप्सितसमाप्त्यादि. व्यतिरिक्तस्वर्गफलिकायां व्यभिचारः प्रारिप्सितसमाप्युद्देशेनानुष्ठानस्य विवक्षायां तत एव समाप्ति- फलकत्वसिद्धेः परिशेपवैयर्थ्यमिति निरस्तम् । हेतोरप्रयोजकत्वपरिहाराय विपक्षे बाधकमाह ॥ दृष्टपरित्यागेति । अन्यथेति शेषः । व्याख्येयत्वसिद्ध्यर्थ मङ्गलाचरणभावोपपादनाथ प्रतिजानीते ।। अत्रोच्यत इत्यादिना ॥ माङ्गलिकत्वादिति । माङ्गलिकत्वादिति मङ्गलं प्रयोजनमनयोरित्यर्थे ठक् । तयोर्भावस्तत्वं तस्मादित्यर्थः । प०- ननु सममित्ययुक्तम् । 'समाप्तिकामो मङ्गलमाचरेत' इति स्पष्टश्रुतेरभावादित्यत आह । मङ्गलेति । कर्मादौ शिष्टैः क्रियमाणो मङ्गलाचारः तत्कर्मसमाप्त्यादिहेतुत्वप्रमापूर्वकः तत्कामनयैव शिष्टैरनुष्ठीयमानत्वात् तृप्तिकामनया अनुष्ठीयमानभोजनवत् । तद्धेतृत्वप्रमा च श्रौती भवितुमर्हति प्रत्यक्षानुमानाजन्यत्वे सति जन्यप्रमात्वात् यदेवं तदेवं यथा सम्मतमित्येवंरूपेणानुमितश्रुतिसिद्धत्वात् इत्यर्थः । आद्यहेतुप्रयोगे फलकामनारूपविशेषणासिद्धिं निराह ॥ न तावदिति । तत्कामनयेत्यस्य असिद्धि निराह ॥ नाऽपीति । दृष्टत्यागादृष्टकल्पने क्रमेण व्यनक्ति ।। कार्यमिति । आरिप्सुः आरब्धुकामः । हेतोरप्रयोजकत्वं निराह ॥ न चैतेपामिति । द्वितीयप्रयोगे विशेपणासिद्धि निराह || न चेति । नन्वस्तु मङ्गलाचारस्याविघ्नपरिसमाप्त्यादिहेतुत्वम् । तथापि नास्य कर्तव्यत्वम् । विघ्न- सन्देहेन वा सूत्रकृतो निर्विघ्नत्वादेव वाऽननुष्ठानस्य । अनुष्ठानेऽपि वा फलाभावेन ग्रन्थे निवेशना- भावस्य वा सम्भवेन मङ्गलाचाररहितत्वादित्यस्यान्यथोपपत्तेरसिद्धत्वादित्यतः क्रमेण त्रयमपि निराह ॥ न चेत्यादिना ॥ भारतादाविति । 'नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च । त्रैगुण्यवजितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम्' इत्यादि भारते । 'जन्माद्यस्य यतो- ऽन्वयात्' इत्यादि भागवतादौ च न कुर्यादित्यर्थः ॥ एतेनेति । शिप्यार्थमपि ग्रन्थे निवेशनस्य कर्तव्यत्वकथनेनेत्यर्थः ॥ अत एवेति । आवश्यकस्य ग्रन्थे निवेशनस्याभावादेवेत्यर्थः ॥ अन्यदिति । ध्यानादिकमित्यर्थः । माङ्गलिकत्वान्मङ्गलप्रयोजनकत्वात् ।। 'तत्प्रयोजने टगिति ठक्प्रत्ययः । या० अविगीतशिष्टाचारेति । श्रुत्यनुमापनं च मङ्गलं श्रुतिप्रमापिताभीष्टपरिसमाप्त्यादि- हेतुताकं तदुद्देश्यकाविगीतशिष्टाचारविषयत्वात् यद्यदुद्देश्यकाविगीतशिष्टाचारविषयस्तत्तद्धेतुतया श्रुति- प्रमापितं यथा स्वर्गीद्देश्यकं दर्शादीति सामान्यव्याप्तिमूलकं द्रष्टव्यम् । ननु वेदनिषिद्धाचारस्याशिष्टा- S.T. 16A न्यायसुधा चारत्वेनागम्यागमनादौ शिष्टपदेनैव व्यभिचारवारणेऽविगीतपदं व्यर्थमिति चेन्न । वेदप्रामाण्यानभ्युप- गमासम्भाविताचारस्यैवान शिष्टाचारपदेन विवक्षितत्वात् तस्य च रात्रिश्राद्धादौ व्यभिचारबारणाय अविगीतपदम् । अविगीताचारत्वमात्रस्य च भोजनादौ व्यभिचारपरिहाराय शिष्टपदम् । भोजनादेश्च वेदप्रामाण्यानभ्युपगन्तरि बौद्धेऽपि सत्वेनोक्तरूपशिष्टाचारपरत्वाभावान्न व्यभिचार इति । ननूक्तहेतोः साध्यं विनाऽपि फलाभावेन वा समाप्तीतरफलकत्वेन वा तत्फलकत्वप्रतीते_न्तित्वेन वा प्रत्यक्षादि- मानान्तरजन्यत्वेन वोपपत्तेरप्रयोजकतेत्याशङ्कायामुक्तहेतूच्छित्तिरेवात्र बाधिकेत्यभिप्रेत्याह ॥ न तावत् प्रेक्षावत्प्रवृत्तिरित्यादिना । प्रारिप्सितपरिसमाप्त्यादिकामनया मङ्गले शिष्टानां या प्रवृत्तिः सेत्यर्थः । दृष्टपरित्यागमुपपादयति ॥ कार्यमारिप्सुरिति । अदृष्टकल्पनामुपपादयति ॥ न च फलान्तरेति ॥ न च प्रत्यक्षादेरिति । साव्यसाधनभावस्यातीन्द्रियत्वान्न प्रत्यक्षस्यान्धपरम्पराशङ्कावरुद्धत्वान्नानुमानस्य अत्रावकाश इति भावः । ननु नाशा थिप्रवृत्तौ नाश्यनिश्चयवानधिकारी दृष्टः । यथा पापनिश्चयवान् प्रायश्चित्ते । अत्र च नाश्यानां विघ्नहेतूनां प्रथमतोऽनिश्चयादनधिकारिकं मङ्गलं नानुष्ठेयमिति सत्प्रति- पक्षमाशङ्कयाह ।। न च विघ्नहेतुमद्भावेति ।। तत्सन्देहेऽपीति । तथा च विघ्नज्ञानवानेव अत्र अधिकारीति प्रतिपक्षानुमाने स्वरूपासिद्धिरिति भावः ॥ शिष्यार्थमपीति । अये गृणामायुरादि- प्रतिबन्धकविघ्नघातार्थमित्यर्थः । अत एवाह ॥ आयुष्मत्पुरुषकाणि चेति ।। शिष्यार्थत्वाच्चेति । शिष्यशिक्षार्थत्वाच्चेत्यर्थः । अत एवेति । ग्रन्थादौ निवेशनस्यावश्यकत्वादेवेत्यर्थः ।। अन्यत्किमपि इति । गङ्गास्नानादिकमित्यर्थः । माङ्गलिकत्वादिति । मङ्गलं प्रयोजनमनयोरित्यर्थे ठक्प्रत्ययः । तथा च श्रुत्या मङ्गलप्रयोजनकत्वादित्यर्थः ।। श्री० तदुपपादयति ॥ मङ्गलेति । श्रुत्यनुमानप्रकारं दर्शयति ॥ न तावदिति । प्रयोजनान्तरं स्वर्गादि । दृष्टं प्रयोजनमुपपादयति ॥ कार्यमिति ॥ अविगानेति । विगानं विप्रति- पत्तिः । अविगानं सर्वसम्मतिरित्यर्थः ॥ अनिश्चयादिति । विघ्ननिश्चयवत एवाधिकारित्वेनात्मनो विघ्नहेतुसद्भावस्यानिश्चिततया विघ्ननिश्चयाभावेन निरधिकारिकत्वप्राप्त्या मङ्गलस्याननुष्ठेयत्वमित्यर्थः । विघ्नज्ञानवानेवाधिकारी । ज्ञानं निश्चयः शङ्का चेत्याशयेनाह || तत्सन्देहेऽपीति । विघ्नहेतुसन्देहेन विघ्नसन्देहेऽपीत्यर्थः । श्रेयांसि बहुविनानि भवन्ति भवतामपि ' इति वचनादिति भावः । तथा च मङ्गलं नानुष्ठ्यं निरधिकारिकत्वादित्यत्र स्वरूपासिद्धिरिति हृदयम् ॥ - च०. शिष्टाचारानुमितशुतिसिद्धत्वादिति । मङ्गलं श्रुतिप्रत्यापितसमीहितसमाप्त्यादि- निरूपितसाधनताविशेषितम् । तदुद्देश्यकाविगीताशिष्टप्रवृत्तिगोचरत्वात् । यत्तादृशप्रवृत्तिगोचरतत्तत्प्रत्या- पितसमीहितसाधनताकमिति दर्शनिदर्शनकसामान्यव्याप्तिमूलकश्रुत्यनुमापकानुमानभङ्गी द्रष्टव्या । सगाधत्ते ॥ अत्रोच्यत इति । माङ्गलिकत्वात् श्रुत्या मङ्गलफलकत्वात् । अनु० तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते । सर्वत्रानुगतत्वेन पृथगोक्रियतेऽखिलैः ।। मु०...-- नन्वेतदनुपपन्नम् । तथा सत्येतयोर्विघ्नविघातादिहेतुत्वेन समस्तशास्त्राङ्गतया प्रथमसत्रावयवत्वाभावप्रसङ्गात् । तथात्वे च प्रथमसूत्रं न्यूनमापधेत । अधिकार्यादिप्रतिपादकस्य अन्यस्याभावात् । तत्प्रतिपादनस्य चावश्यकत्वात् । अन्यथाऽधिकारिविषयवैधुर्येण शास्त्रस्य अनारम्भणीयत्नशङ्का न निराकृता स्यादित्यनर्थक सूत्रमापयेतेत्यत आह ॥ तत्रेति । तरन्ति अनेन अनिष्टनित्रयमित्योङ्कारस्तारः । तारश्चाथश्च तयोर्मूलत्वं क्रमेणादित्वम् । आदौ प्रयुत्तौ ओझारायणब्दाविति यावत् । तत्र प्रथमसूत्रेऽवयवतया सर्वशास्त्रस्य चाङ्गतया चेप्यतेऽङ्गीक्रियते सबकनेनि शेपः । एतदुक्तं भवति । प्रथमसत्रेऽधिकार्यादिप्रतिपादनायोपात्तावोङ्काराथशब्दौ शाहकीणावेणुःवनिम्त् शुलितो माङ्गलिकत्वात्कृत्वमानस्यानन्तरायपरिसमाप्त्यादिकं कुर्वाते । अन्यार्थीनीयमानपूर्णकलशदर्शनवदिति । ताराथावित्येतावता पूर्ण यन्मूलत्वमित्याह तत्सूत्र- कारानङ्गीकालिङ्गसूचनम् । यत्पर्यायान्तरं विहायानयोरेव क्रमान्तरं विहायादावेयोपादानं तेन जानीमो ज्ञापकतयाऽऽदिसूत्रस्य कारकतया समस्तशास्त्रस्य चोपयोगित्वेनतौ सूत्रकृता विक्षनाविति । न चैतद्यादृच्छिकम् । मकलसूत्रकारैरेवमेव प्रयुक्तत्वात् । न चानवेषा प्रक्षावना सायकविधा प्रवृत्तिलपलब्धेति । अनेनाथशब्दो मङ्गलार्थ इत्यादिभाष्यं विकृतं भवति । वा एवं तत्र ताराथेति वाक्ये सर्वशास्त्रस्येत्यंशप्रतिपादनीयसर्वशास्त्राङ्गत्वप्रयोजकं ताराथयो: मा विशन गुपपाद्य तयोः सर्वगाम्नाङ्गन्वेऽनुपपत्तिग्तत्रैव वाक्ये तत्र चेत्यंशेनैव परिहियत इति निप्रायेण नागनुपपत्तिगागकते ।। नन्विति । अधिकार्यादीत्यादिशब्देन विषयग्रहणम् ॥ अन्यस्य अभावादिनि । यद्यप्रोकारम्य समग्रगाम्यान्वेऽपि ब्रह्मशब्दस्य विषयप्रतिपादकस्य सत्त्वान्नान्यस्यामाधः नकवलं. जिज्ञाग्ये 'तद्विजिज्ञासस्व तन्ने'त्यादी ब्रह्मपदश्रवणात्तस्य च जीवाद्भिन्नत्वेन जिज्ञास्यता firjोगित्येतदक्षरगुद्रीथमुपासीत'त्यादी जीवप्वसम्भावितगुणपूर्तिवाचकोङ्कारादिश्रवणादपीति युक्त्य- गम्बका ब्रमशासमकक्षतयोहारस्य विषयोपपादकतया कथयिप्यमाणत्वात् प्रत्यक्षादेरसम्भवाद्वेदस्य चावपयावागावादनप्राधप्रमाणाभाव इत्याशङ्कापरिहारकविपयशास्त्रासम्बन्धोपपादनस्य ओङ्कारमात्र- ॥ साध्यताया वक्ष्यमाणत्वाञ्च तथोक्तमिति ध्येयम् । अथशब्दप्रायपठिततारशब्दस्य तारशब्दार्थकत्वे तस्य च सूत्रादावप्यभाव इत्यतो योग्यताबलाचारशब्देन योगेन तत्पर्यायोङ्कारग्रहणमित्यभिप्रेत्य प्रकृतोपयोगितया तद्योगं दर्शयति ॥ तरन्तीति । (तृ प्लवनतरणयोरित्यस्मा दकर्तरि च कारके संज्ञायामि'ति करणे घभि 'अचो णिती'ति ऋकारस्याकाररूपवृद्धौ तस्य 'उरणपर' इति रपरत्वे च तारशब्दो निष्पन्नः)। उभयोः आदित्वस्यकत्रासम्भवादाह || क्रमेणेति । यद्वा । मूलत्वं नात्रादित्वमात्रमपि तु क्रमेणादित्वं विवक्षित विवक्षाप्रयोजनं चोत्तरत्र प्रदर्शयिप्याम इत्यभिप्रेत्याह || क्रमेणति । अत्रादिल्बमादौ प्रयुक्तत्वम् । तस्य चावयवत्वाङ्गत्वाभ्यां प्रथमसूत्रशास्त्राभ्यां नान्वयः सम्भवतीत्यतस्तात्पर्यमाह || आदाविति । ताराथयोः सूत्रशास्त्राभ्यामेकप्रकारेण सम्बन्धभ्रान्ति निवारयितु विवक्षितशेषाध्याहारेण वावयार्थमाह ॥ तत्रेति । सूत्रकृद्विवक्षा दर्शयितुं तथैव शेषं पूरयति ॥ सूत्रेति । ननु यदि विघ्नविघातादिहेतुत्वेन शास्त्राङ्गत्वं तस्य तदुपयुक्तार्थप्रतिपादकत्वेनाधिकार्यादिप्रतिपादकत्वाभावान्न प्रथम सूत्रावयवता । यदि च किञ्चिदर्थप्रतिपादकत्वेन नास्य शास्त्राङ्गता किन्तु श्रवणमात्रेण विनविघातादिसम्पादकतया तथा चाधिकार्यादिप्रतिपादकत्वाद्युक्ताऽवयवतेति मतं तर्हि श्रवणमात्रस्य तद्धेतुताया अदर्शनादन्यार्थप्रयुक्तस्य प्रयोजनान्तरार्थताया अदर्शनाच्च शास्त्राङ्गत्वं परित्यक्त स्यादित्यतोऽभिप्रायमाह || एतदुक्तं भवतीति । यद्वा । ननु कथमनेनोक्तशङ्कापरिहार इत्यतो विघ्नविधातादिहेतुत्वोक्त्या न प्रथमसूत्रावयवत्वत्यागोऽपि त्वधिकार्यादिप्रतिपादकत्वेन प्रथमसूत्रोपात्ताभ्यामेव ताभ्यां प्रयोजनान्तरस्यापि सिद्धिरित्येवाभिप्रेतमित्येतत् सहेतुकं दृष्टान्तपूर्व विवृणोति । एतदुक्तं भवतीति । अधिकार्यादिप्रतिपादकत्वेनानयोः सूत्रावयवत्वे सिद्धेऽप्येतत्पर्यायाभ्यामन्योरपि क्रमान्तरेणोपादानेन ब्रह्मशब्दवन्मध्ये ग्रहणेनाप्यधिकार्यादिलाभादनयोरेव अनेन क्रमेणैवादावेवोपादानं समस्तशास्त्राङ्गत्वस्य ज्ञापकमित्याह ॥ यदिति । ज्ञापकतयाऽऽदिसूत्रस्येति दृष्टान्ततयोपात्तम् । यद्वा स्पष्टज्ञापकतयाऽऽदिसूत्राङ्गत्वस्य पूर्ववादिनाऽप्यङ्गीकार्यत्वात्तत्र सूत्रकाराङ्गीकार- लिङ्गसूचनस्याकर्तव्यत्वादिति भावः । मङ्गलवाचक मङ्गलपदं विहायेत्यप्यत्र द्रष्टव्यम् । यत्पर्यायान्तरं विहायेत्येतदेव वा स्पष्टमङ्गलवाचकशब्दं विहाय तत्प्रयोजकयोरनयोरुपादानमिति व्याख्येयम् । अत्र च पक्षद्वये ज्ञापकतयाऽऽदिसूत्रस्येत्युपपादनीयतयैवोपात्तमिति द्रष्टव्यम् । कयोश्चिच्छन्न्योः केनचित्क्रमेण क्वचिदुपादानं कर्तव्यमिति क्रियते । तथा चान्यथासिद्धिरित्याशङ्कते ॥ न चेति ।। अनेनेति । मङ्गलार्थत्वव्याख्यानेन मङ्गलार्थत्वे प्रथमसूत्रावयवत्वानुपपत्तिपरिहारेण चेत्यर्थः । ( मङ्गलानन्तरारम्भ- प्रश्नकात्स्न्येष्वथोऽथेत्यमरः )। स०-- अधिकारिविषयवैधुयेति । 'तद्विजिज्ञासस्व तद्ब्रह्म' इति जिज्ञासाविधायकवाक्ये जिज्ञास्यजीवाभिन्नत्वेनाविषयत्वप्रयुक्तानारम्भणीयत्वशङ्कायाः जिज्ञास्यस्यानन्तगुणवत्त्वेन जीवभेदप्रति- । - ताराथमूलत्वम् ) | जिज्ञासाधिकरणम् ॥ १२७ पादकेन ब्रह्मशब्देन परिहारेऽपि तस्यैव विषयवाचकत्वाभावात् 'ओमित्येतदक्षरमुद्गीथमुपासीत' 'आत्मान- मेव लोकमुपासीत' इत्यादि जिज्ञासाविधायकवाक्येषु जिज्ञास्यस्य जीवाभिन्नटोनाविषयत्वशङ्कानिवारकस्य अन्यस्याभावेन ॐशब्देनैव गुणपूर्णत्वाभिधायिना परिहार्यत्वात् ॐशब्दस्य मङ्गलार्थत्वे तदनुपपत्त्याऽनार- म्भणीयत्वं स्यादेवेति भावः ॥ अथश्चति । आनन्तर्यरूपार्थविवक्षायामेवाथेत्यस्याव्ययत्वेनाथशब्दार्थत्वेन आनन्तर्यस्यानभिधानादथश्चत्युपपन्नमिति भावः ॥ प्रथमसूत्र इति । मीमांसानुग्राह्यप्रमाणप्रतिपादनद्वारा ॐकारस्य विषयदाार्थत्वादधिकार्यादिप्रतिपादनायोपात्तावोङ्काराथशब्दावित्युक्तम् ॥ यत्पर्यायान्तर- मिति । यद्योङ्काराथशब्दयोर्मङ्गलमेव प्रयोजनं स्यात्तर्हि विशिष्टार्थमङ्गलशब्दमेव प्रयुञ्जीत यदि च आनन्तर्यमेवार्थस्तदा तथैव शब्दान्तरं प्रयुञ्जीत । असाधारणशब्दप्रयोगेणेदं ज्ञायते कारकत्वेन शास्त्रोप- योगित्वं ज्ञापकतया प्रथमसूत्रावयवत्वमिति । आदावेवोपादानमपि कारकत्वेन शास्त्रोपयोगित्वज्ञापने हेतुः । क्रमाव्यत्यासेन चेदमवगम्यते अथशब्दस्य सूत्रासन्निकर्षात्तत्रस्थस्यैव ज्ञापकत्वेन शास्योपयोगित्वं ॐकारस्य प्रतिसूत्रमुच्चरितस्य कारकत्वेनेति । क्रमाव्यत्यासेनेत्यस्य कृत्यमाह || आदावुपादानमिति । न च विवक्षितावितीति योज्यम् । प० अधिकार्यादिप्रतिपादकस्यान्यस्येत्यत्रादिपदेन विचारशास्त्रानुग्राह्यविषयबोधकवेदरूप- प्रमाणप्रतिपादकस्यान्यस्याभावादिति ग्राह्यम् । ॐकारस्य तदर्पकत्वेनाग्रे व्याख्यानात्तस्य विषयार्पकपदत्वे अपीह न तदर्थग्रहणम् । तथात्वे ब्रह्मपदस्यापि विषयार्पकस्यात्र भावेनान्यस्याभावादित्ययोगात् । अधिकारिविषयेत्युत्तरवाक्यस्थविषयपदेन विषयसमर्पकवेदरूपप्रमाणं ग्राह्यम् । ॐकारप्रयोगलब्धस्य व्याहृतिगायत्रीपुरुपसूक्तद्वारा तव्याख्यानभूतसकलवेदरूपप्रमाणस्याभावे ब्रह्मपदमात्रस्या विचार्यत्वेनानुग्राह्य- प्रमाणाभावाभिप्रायेण विषयवैधुर्येणेत्येवोक्तम् । ब्रह्मपदेन विषयलाभेऽप्युपर्योङ्कारस्य विषयापकत्वेनापि व्याख्यानं तु चन्द्रिकोक्तदिशा अत्रापि 'नारायणपदोदित' इत्यत्र वक्ष्यमाणदिशा च युक्त्यन्तरसूचनायेति ध्येयम् ।। तरन्त्यनेनेति । तृ प्लवनतरणयोरिति धातोः 'अकर्तरि च कारके संज्ञायाम्' इति करणे धन्प्रत्यये 'अचो णिति' इति वृद्धौ रूपम् । यद्यपि तृ प्लवनतरणयोरित्यस्य धातोर्दीर्घऋवर्णान्तत्वेन 'ऋदोरबि'ति सूत्रेणाप्प्रत्यये तर इत्येव भाव्यम् । अप्प्रत्ययस्य घनपवादत्वात् । तथापि तृ प्लवन- तरणयोरिति ह्रस्वऋवर्णान्ताद्धात्वन्तराद्धप्रत्यये तार इति रूपं ध्येयम् । अन्यथा साम्पराये तर्तव्या- भावादिति प्रयोगोऽसाधुः स्यादिति भावः । यद्वा तु प्लवनतरणयोरित्यस्येव 'ऋदोरविति' अप्प्रत्यये तर इति रूपम् । तस्य 'प्रज्ञादिभ्यश्चति स्वार्थिकेऽण्प्रत्यये तार इति सिद्ध्यति । अथवा धातोर्ण्यन्तस्य 'एरजि'त्यच्प्रत्यये सति तार इति रूपम् । तारयति पुरुषाननिष्टनिचयमिति व्युत्पत्तिदर्शने कार्य स्पष्टार्थत्वाय करणत्वव्यक्तीकरणेन तरन्त्यनेनेत्यर्थकथनमात्रमेतदिति ज्ञेयम् । अत एव 'आसमन्तात तु ॥ भ्यायसुधा ॥ १२८ (अ. १ पा. १ अ.१ गमयति धर्माधर्मों परं पदम्' इत्युपासनापादीयानुव्याख्यानसुधादौ करणे कर्तृत्वोपचारेण गमयतीत्युक्तिः । गमेः करणार्थ एवाप्प्रत्ययविधानादित्यादिना तत्र तत्र व्युत्पत्तिप्रकारापेक्षया अन्यथाप्यर्थकथनं दृश्यते । तथा चाथर्वशिरसि श्रुतिः 'अथ कस्मादुच्यते तारं यस्मादुच्चार्यमाण एव गर्भजन्मजरामरणसंसारमहा- भयात्तारयति' इत्यादि । तत्रेत्यनुवादः प्रथमसूत्रे इति व्याख्या ॥ अवयवतयेति । अन्वयप्रतियोगि- समर्पकतयेत्यर्थः । ब्रह्मपदार्थस्य विशेषणीभूतं यद्गुगपूर्णत्वरूपमोतन्वं तदर्थकत्वात्तारस्येति भावः । यद्वा जिज्ञासायां कर्मकारकार्पणतयेति भावः ॥ अङ्गतयेति । अविघ्नपरिसमाप्तिप्रचयकारकत्वेनेत्यर्थः । तावता नन्वेतदनुपपन्नमिति कृतचोद्यस्य किमुत्तरमित्यत आह ॥ एतदुत्त मिति ।। ज्ञापकतयेति । अधिकार्यादिबोधकतयाऽऽद्यसूत्रस्योपयोगित्वेन निरन्तरायपरिसमाप्त्यादिजनकतया शास्त्रस्योपयोगित्वेन इत्यर्थः । अन्यथासिद्धिं निराह || न चैतदिति । ताराथमूलत्वमित्यर्थः ॥ सकलेति । अथातो धर्मजिज्ञासा' । 'अथातो दैवीमीमांसा' । 'अथातो दर्शपूर्णमासौ व्याख्यास्याम' इत्यादि कर्मतन्त्र- देवतन्त्र कल्पसूत्रकारादिभिरित्यर्थः । न च तत्रोङ्कारो न श्रूयते इति वाच्यम् । ‘स्रवत्यमोंकृतं ब्रह्म इति वक्ष्यमाणदिशा तत्रापि तस्यावर्जनीयतया प्राप्तत्वात् । तद्भाप्यकारादिभिस्तस्याव्याख्यानं त्वनुप- योगादज्ञानाद्वा । अथ शब्दमूलत्वस्य सर्वत्र प्रत्यक्षत्वेन तदभिप्रायाद्वा सकलेत्युक्तिः । एतेन सर्वशास्त्रस्य इत्येतत् सर्वेपी शास्त्रं सर्वशास्त्रं तस्येति प्रकारान्तरेण व्याख्यानं ध्येयम् । अनेनेति । तत्र तारेत्यर्धन ' इत्यर्थः ॥ या०- एवमग्रेऽपीति ॥ अधिकार्यादिप्रतिपादकस्येति । यद्यपि ब्रह्मशब्दो विषयप्रति- पादकोऽन्योऽस्ति तथाऽपि ॐकारस्य मीमांसानुग्राह्यप्रमाणप्रतिपादनाय वेदस्येश्वरविषयकत्वसमर्थनार्थत्वस्य वक्ष्यमाणत्वेन तदर्थकस्यान्यस्याभावादित्यभिप्रायात् ।। विषयवैधुर्येणेति । उक्तरीत्या वेदस्येश्वरविपय- कत्यसमर्थकवैधुर्येणेत्यर्थः । अनारम्भणीयत्वशङ्केत्युपलक्षणम् । मीमांसानुग्राह्यप्रमाणाभावशङ्का चेत्यपि द्रष्टव्यम् ॥ यन्मूलत्वमित्याहेति । क्रमेणादित्वमित्याहेत्यर्थः । कथमेवमुक्तेः सूत्रकाराङ्गीकारलिङ्ग- सूचकत्वमित्यतस्तदर्शयति ॥ यत्पर्यायान्तरमिति । मङ्गलवाचिशब्दान्तरमित्यर्थः । क्रमान्तरमन्ते निवेशनम् । अयं भावः । यदि कारकतया समग्रशास्त्राङ्गत्वमेवैतयोः सूत्रकारस्य विवक्षितं स्यात्तदा स्पष्टं मङ्गलवाचि मङ्गलमित्यादि शब्दान्तरमेव वक्तव्यं किमनयोर्मङ्गलप्रयोजनकयोर्वचनेन पर्यायान्तरं विहाय चानयोरेव यदोपादानं करोति तेन जानीमो मङ्गलप्रयोजनादन्यदप्यनयोरस्ति प्रयोजन तज्ज्ञापक- तया आदिसूत्राङ्गत्वमेवेति विवक्षित सूत्रकारस्येति । एवं यदि ज्ञापकतया आदिसूत्राङ्गत्वमेव विवक्षित स्यात्तदाऽन्ते निवेशनं किमर्थ न कृतं तद्विहायादावेव निवेशनं करोति । तेन जानीमः कारकतया समस्त- शास्त्राङ्गत्वमप्यभिमतं तस्येतीति । यदा ज्ञापकतयाऽऽदिसूत्रोपयोगित्वं पूर्वपक्षिणाऽङ्गीकृतमेवेति न तत्र । मङ्गलस्य वाक्यार्थसमन्वयाभावः) ॥ जिज्ञासाधिकरणम् ॥ १२९ सूत्रकाराङ्गीकारलिङ्गं सूचनीयं किन्तु कारकतया समस्तशास्त्रोपयोगित्वमेव । ततश्च पर्यायान्तरं विहाय इत्यस्याधिकार्यादिप्रतिपादकशब्दान्तरं विहायेत्यर्थः । क्रमान्तरमित्यस्य चान्ते निवेशनमित्यर्थः । तेन पर्यायान्तरपरित्यागोऽन्ते विहाय आदावेव निवेशनं चैतद्वयं मिलितं सत्कारकतया समस्तशास्त्राङ्गत्वं सूत्रकारेणाङ्गीकृतमित्यस्यैव सूचकं न तु ज्ञापकतयाऽऽदिसूत्राङ्गत्वस्यापि सूत्रकाराङ्गीकृतत्वस्य । ज्ञापकतया सूत्रस्येत्युक्तिस्तु दृष्टान्तकथनायानुवाद एवेति ज्ञातव्यम् ॥ सकलसूत्रे एक्मेवेति । अनेन सर्वशास्त्रस्य इत्येत प्रकारान्तरेण योजितमिति द्रष्टव्यम् ।। श्री०- ज्ञापकतयेति । प्रथमसूत्रवाक्यार्थोपयुक्तार्थप्रतिपादकतयेत्यर्थः ॥ कारकतयेति । निर्विघ्नपरिसमाप्त्यादिजनकतयेत्यर्थः ।। च०. एतयोः ताराथशब्दयोः । अधिकार्यादीत्यत्रादिशब्दो विषयपरिग्राहकः । यद्यपि ब्रह्मशब्दो विषयप्रत्यायकोऽस्ति तथापि ब्रह्मशब्दतुल्यकक्ष्यापन्नतयोङ्कारस्य विषयप्रत्यायकताया अनुग्राह्य- प्रमाणाभावशङ्काव्युदसनाय श्रुतीनाभीश्वरविषयकतासमर्थकतायाश्चाभिधास्यमानतया तथोक्तिरिति मन्त- व्यम् । विषयवैधुर्येण उक्तदिशा श्रुतीनामीश्वरविषयतासमर्थकराहित्येन । अनारम्भणीयत्वशङ्कापदस्य अनुग्राह्यप्रमाणर।हित्यशङ्कोपलक्षकताऽवसेया । करणसाधनघजङ्गतामभिप्रेत्य व्याचष्टे ॥ तरन्तीति ।। यन्मूलत्वमिति । आदित्वमित्यर्थः । पर्यायान्तरम् ताराथशब्दसमानार्थकशब्दान्तरम् । क्रमा- न्तरम् अतःशब्दाद्युत्तरविन्यासम् ॥ ज्ञापकतया आदिसूत्रस्येति । आदिसूत्रघटकपदार्थान्वितार्थ- प्रत्यायकतयेत्यर्थः ॥ कारकतयेति । कृत्स्नशास्त्रसमापनौपयिकान्तरायध्वंसप्रयोजकलयेत्यर्थः । यदि सूत्रकारः कारकतया कृत्स्नशास्त्राङ्गतामेवानयोरभिप्रेयात् तदा तादृशमङ्गलादिपदान्तरमेव प्रयुञ्जीत । तथा तु न प्रायुक्त । तेन जानीमोऽर्थप्रत्यायनरूपफलान्तरमप्यस्तीति । यदि चार्थप्रतीतिमेव फल- मनुसन्द-यात् तदा अतःशब्दाद्युत्तरं निर्दि शेत् तथा तु न निरदिक्षत्ततो जानीमहे अर्थप्रतीतितोऽति- रिच्यमानमन्तराय-वंसनिर्वर्तनादिरूपं फलमस्तीतीति भावः । अत्र यत्परेषां दूपणं 'मङ्गलस्य वाक्यार्थे समन्वयाभावादिति । 'तथा हि । पदार्थ एव हि वाक्यार्थ समन्धीयते । स च वाच्यो वा लक्ष्यो वा । न चेह मङ्गलमथशब्दस्य वाच्यं लक्ष्यं वा । किन्तु मृदङ्गध्वनिवदथशब्दस्य कार्यम् । न च कार्यज्ञाप्ययोक्यिाथ समन्वयः शाब्दे व्यवहारे दृष्टः' । 'अस्तु बा मङ्गलस्य पदार्थत्वम् । तथाऽपि न वाक्याथै समन्वयः । तथा हि । न तावन्मङ्गलं ब्रह्मजिज्ञासायाः कर्वकर्मकरणभावेन वाक्यार्थऽन्वेति । कर्नाद्यन्यतमभावे प्रमाणाभावात् । कारकान्तराणां विद्यमानत्वाच्च । नापि सामानाधिकरण्येन अन्वयः । जिज्ञासा मङ्गलमिति प्रशंसापरतया अर्थवादत्वप्रसङ्गात्' इति । तदेतेनापास्तं सु० S.T. 17 यसुधा वा०-- भवति । अस्माभिरप्यानन्तर्याभिधेयोऽथशब्दः श्रुत्या मङ्गलप्रयोजन इत्यङ्गीकारात् । नन्वत्र सूत्रादाबोङ्कार एव न विद्यते । तत्कथमुच्यते ताराथमूलत्वमिति । यद्यपि टैिरध्येभिः उच्चार्यमाणोऽध्यक्षसिद्धस्तथाऽपि नायं सूत्रावयवः । लक्षणान्तराभावे सत्यसंहिततया सम्पाठे अग्निलैः : पठ्यमानत्वात् । वेदाध्ययनोपक्रमे अध्येतृभिरुच्चार्यमाणोङ्कारवत् । अन्यथाऽथाब्द- वत्संहिततया निर्दिश्येत । न च दृष्टान्तः साध्यविकलः । अध्ययनोपक्रमविरतिवैचित्र्येण तत्तत्स्थानपरित्यागेनान्यान्यस्थानेऽग्विलैः पठ्यमानस्य वेदवाक्यानवयवतायाः सुप्रसिद्धत्वात् । अन्यथाऽध्ययनोपक्रमविरतिवैचित्र्येऽपि ॐ इति ब्रह्मेत्यादिवभियतस्थानतया पाठप्रगङ्गात् । पक्षसपक्षयोरादाबुञ्चारणं तु प्रामुखत्वादिवदध्ययननियमान्तर्गतमध्येभिरनुष्ठीयत इत्यरतु । एवं चायमोङ्कारः सूत्रकृता मङ्गलार्थतया मूत्रादावुपनिबद्ध इत्यनुपपन्नमित्यत आह ॥ सर्वत्र इति । अखिलैः सूत्रपाठकैः यत्पृथगसंहिततयोक्रियते तत्सर्वत्र मूत्रेष्वनुगतत्वेनाभिलाषितेन निमित्तेनोपपद्यते । मङ्गलस्येति परभाप्यस्य भामत्यभिप्रेतमर्थमाह ॥ पदार्थ एव हीति । विवरणाभि- प्रेतमर्थमाह ।। अस्तु वेति । किमथशब्दस्य वैयधिकरण्येनान्वय उत सामानाधिकरण्येनेति विकल्प मनसि निधायाद्यं निर।चष्टे । न तावदिति । देवदत्यादिपदार्थानां कादिभावेनान्वयवत्तस्यान्वयवत्वे प्रमाणाभावादित्यर्थः । आकाशाभावाञ्च न कादिरूपेणान्वय इत्याह ॥ कारकान्तरण.मिति । कारकशब्देन मुमुक्षुतर्कादयः सङ्गृह्यन्ते । द्वितीयं दूपयति ॥ नापीति । न चार्थवादत्वमास्थ्यं सूत्रस्य वाक्यार्थनिर्णयापेक्षितन्यायसूचकत्वादित्यर्थः ॥ तदनेनेति । यद्यप्यत्रापदार्थत्वहेतौ समन्वयाभावे अपदार्थत्वस्य हेतुत्वेऽन्योन्याश्रय इति भामतिमतदूषणं सधूमो गिरिः साग्निक इतिवदीक्षते शब्दमित्यत्र त्वत्पक्षेऽशब्दमितिवच्च मङ्गलत्वात्कर्तव्येत्यन्वयोपपत्तेर्नान्वयदोष इति विवरणमतदूषणं चन्द्रिकोक्तरीत्या सम्भवति । तथाऽपि यथाश्रुतभाप्यस्योपरि प्रसक्तदूषणस्य तत्र तारेति विवरणेन स्वाभिप्रेतमङ्गलार्थत्वे दूषणप्रसत्तेरभावलाभेन तावतैव दूपणासङ्गतिसिद्धौ किं तत्साधुत्वासाधुत्वचिन्तयेति मूलमेव परभाप्यदूषणे व्यापारयतो भावोऽनुसन्धेयः । ननु तत्र ताराथमूलत्वमिति ताराथयोः प्रथमसूत्रावयवत्वे सर्वशास्त्राङ्गत्वे चोक्ते ॐकारस्यासंहिततया निर्देशगतिकथनपरोत्तरवाक्यसङ्गतिन प्रतीयत इत्यतस्तत्सङ्गमयितुमुक्तेऽनुपपत्ति शङ्कते । नन्विति । सूत्रानुपात्तस्य न तदेकदेशत्वमित्यर्थः । नन्वोङ्कारः प्रथमसूत्रैकदेशः सूत्रोच्चारण- दशायां शिष्टैरध्यतृभिरुच्चार्यमाणत्वादथशब्दवत् । न चासिद्धो हेतुः । प्रथमसूत्रोच्चारणदशायां आदौ शिष्टानामोङ्कारोच्चारणस्य सर्वाध्यक्षसिद्धत्वादित्यनुमानमोङ्कारस्य सूत्रैकदेशत्वे प्रमाणमाशङ्कते ॥ यद्यपीति । अनुमानबोधेनैतन्निराकरोति ॥ तथाऽपीति । सामान्यव्याप्त्यभिप्राये यथास्थितसाध्यहेतौ वा संहिता.
मङ्गलस्य वाक्यार्थसमन्वयाभावः) ॥ जिज्ञासाधिकरणम् ॥ १३१ निर्दिष्टस्यापि भ्रान्त्या केनचिदसंहिततया पठ्यमाने तद्वाक्यावयवे पदे व्यभिचारवारणायाविगानसूचकं अखिलैरिति । पददशायां तथा पठ्यमाने तद्वारणाय सम्पाठ इति । अथशब्दादौ तद्वारणायासंहिततयेति सुकृतदुष्कृते एवेत्यादौ तद्वारणाय लक्षणान्तराभावे सतीति । सामान्यव्याप्तेरेव सम्भवात्तत्र दृष्टान्तमाह ।। वेदेति । विपक्षे वाधकमाह || अन्यथेति । वेदाध्ययनोपक्रमेऽध्येतृभिरुच्चार्यमाणत्वादेवोङ्कारस्य तदव- यवत्वमपीति दृष्टान्तः साध्यविकल इत्याशङ्कते ॥ न चेति । अध्ययनेत्यारभ्य पठ्यमानस्येत्यन्तं हेतुगर्म विशेषणम् । तथा च पठ्यमानतया वाक्यानवयवतायाः सुप्रसिद्धत्वादित्यर्थः । पूर्ववद्विपक्षे हेतूच्छित्तिं बाधकमाह ॥ अन्यथेति । स्वानुमानस्य सत्प्रतिपक्षवत्तां निराकर्तुमवयवत्वसाधकहेतोरन्यथासिद्धिमाह ॥ पक्षसपक्षयोरिति । प्राङ्मुखत्वादेरनवंयवत्वेन निश्चितस्याप्य ययननियमान्तर्गततया आवश्यकत्ववदस्य अप्य-ययननियमान्तर्गततया अनुष्ठानोपपत्तरन्यथासिद्धिरित्यर्थः । लौकिकवाक्यप्रयोवतृभिनवोक्रियत इत्यखिलैरित्यनुपपन्नमित्यत उक्तं सूत्रेति । अनुगतत्वेनेत्यसंहिततया पाठे निमित्तप्रदर्शनमित्यभिप्रेत्याह ।। निमित्तेनेति । स० लक्षणान्तरेति अविगानं दर्शयितुमखिलैरित्युक्तम् । गामानयेत्यादिवाक्यस्थगोशब्दस्य अखिलः पठ्यमानत्वात् व्यभिचारपरिहारायासंहिततयेत्युक्तम् । अतिशयितसन्निव्यभावेनेत्यर्थः । विलम्बेन शब्दोच्चारणे प्रसङ्गो मा भूदिति सम्पाट इत्युक्तम् । समाम्नाये सहोच्चारण इति यावत् । दूराद्धृतेत्यादौ व्यभिचारनिवृत्यर्थ लक्षणेत्याद्युक्तम् । दूराद्भतेचेत्यादिप्रकृतिभावविधायकसूत्राभाव इत्यर्थः ॥ अध्ययनेति ॥ उपक्रमोपसंहारवैचित्र्येणोङ्कारस्य वेदानवयवत्वं गम्यते । यदा यद्वाश्य- मुपक्रान्तं तस्यैवान्यदा मध्योच्चारितस्योङ्कारपूर्वकत्वाभावात् । न हि सर्वदा तस्यैव वाक्यस्यादावेवोच्चारणं तत्पूर्ववाक्य एव पर्यवसानं सम्भवतीति भावः ॥ ॐ इति ब्रह्मेत्यादिवन्नियतस्थानोच्चारणाभावेऽपि नियमेोच्चारणादेव अवयवत्वं भवेदत आह ॥ पक्षेति । ब्रह्मसूत्राध्ययनवेदाध्ययनयोरादावुच्चारण नियमार्थम् । अध्ययनस्याक्षरग्रहणद्वारा अदृष्टार्थत्वेऽपि ॐकारादिनियमपूर्वस्यादृष्टजनकत्वान्नैतावता अवयवत्वमिति भावः ॥ अप्रेति । अथपदस्य मङ्गलार्थत्व इत्यर्थः । परेपो मायिनाम् । परभाप्यवाक्यमाह । मङ्गलस्येति । कथं समन्वयाभाव इत्यतो वाचस्पत्युक्तव्याख्यानप्रकारमाह || पदार्थ एवेति ॥ मृदङ्ग- ध्वनिवदिति । मृदङ्ग वनेः यथा मङ्गलं फलं तथाऽथशब्दस्य फलमित्यर्थः । कार्यज्ञाप्ययोरिति । कार्य फलम् । ज्ञाप्यं द्योत्यमुच्यते । परभाष्यवाक्यस्य विवरणोक्तमर्थमाह || अस्तु वेति ॥ कारका- न्तराणामिति । मुमुक्षुरूपकर्तृकारकस्य । ब्रह्मरूपकर्मकारकस्य । न्यायादिरूपकरणकारकस्य च भावा- दित्यर्थः । इति यत्परेषां दूषणमिति पूर्वेणान्वयः ॥ तदेतेनेति । यद्वाचस्पतिना मङ्गलस्याथपदार्थत्वं -- S.T. 17A नेन्युपेत्य वाक्यार्थेऽनन्वयव्युत्पादनम् । यच्च विवरणकृता पदार्थत्वमुपेत्य वैयधिकरण्येन वा सामानाधि. करण्येन वाऽनन्वयव्युत्पादनं कृतं तदुभयं ताराथमूलत्वमिति कथनेन निरस्तमित्यर्थः । तद्यनक्ति ।। अम्माभिरिति । अथशब्देन मङ्गलस्याप्रतीतेरानन्तर्यमुखेनाधिकार्याधसूचनापातात् 'तस्मान्माङ्गलिकावुभौ' इति म्मृतेश्च मङ्गलप्रयोजकत्वमेव न वाचकत्वमिति भावः । श्रुत्या श्रवणेनेत्यर्थः । उत्तरार्धमवतारयति ।। नन्दित्यादिना ॥ अध्येतभिरिति । ब्रह्मसूत्राणामिति योज्यम् || सूत्रावयव इति । सूत्रेऽन्वय- प्रतियोगिसमर्पको नेति साध्यार्थः ॥ सम्पाठ इति । संहिताध्ययन इत्यर्थः । अथादिपदे व्यभिचार- वारणायोक्तमसंहिततयेति । असंश्लिष्टतयेत्यर्थः । 'परः सन्निकर्षम्संहिते'ति पाणिन्युक्तेः । 'हरी इहोप- वक्ष्यतः' । 'इन्द्रवायू इमे सुताः' । 'उभे अहनी सुदिने विवस्वतः' । 'अः इति ब्रह्म' । 'तमेवैकं जानथ आत्मानमि'त्यादौ हरी इहेत्यादिशब्देषु सामान्यतः प्रवृत्तव्याप्तेरव्यभिचाराय सत्यन्तम् । 'ईदूदेद्विवचनं प्रगृह्यम्' । विवृतावविसर्गः स्यात् । विश्लिष्टार्थे च विशिष्टमित्यादिलक्षणान्तराभावे सतीत्यर्थः । पदाध्ययनेऽसंहिततया पठ्यमानपदेवव्यभिचाराय सम्पाठ इति । य एवमुक्तहेतुयुक्तः स तदवयवो नेति सामान्यव्याप्तिमुपेत्याह ॥ वेदेति । विपक्षे हेतूच्छित्तिरूपबाधकतर्कमाह || अन्यथेति ।। अन्यान्यस्थान इति । एतेन विमत ॐकारो न वेदवाक्यावयवः अन्यान्यस्थाने पठ्यमानत्वात् साम्नि स्तोभाक्षरवत् । व्यतिरेकेण वेदगतपदवदिति सूचितम् । विपक्षे बाधकमाह ॥ अन्यथेति ॥ ॐ इति ब्रह्मेतीति । 'ॐ इति ब्रह्म, ॐ इतीदसर्व, ॐ इत्येतदनुकृति ह स्म वा' इत्यादितैत्तिरीयो- पनिषदीव ऋगादिशाखादावपि तत्र तत्रोङ्कारपाठप्रसङ्गादित्यर्थः । नन्वयमोङ्कारः सूत्रवेदयोरवयवो भवितुमर्हति । तदादावध्यतृमिनियमेन पठ्यमानत्वादथादिपदवदित्यवयवत्वेऽप्यस्ति मानमित्यतोऽस्य हेतोरन्यथोपपत्तिं सदृष्टान्तमाह ॥ पक्षसपक्षयोरिति । 'अथ स्वाध्यायविधिः प्राग्वोदग्या ग्रामान्निष्क्रम्य आप आप्लुत्य शुचौ देशे यज्ञोपवीत्याचम्याक्लिन्नवाससा दर्भाणां महदुपस्तीर्य प्राक्कूलानां तेषु प्राङ्मुख उपविश्ये त्याद्युक्त्या 'अधीयेते'त्याम्नाता आश्वलायनसूत्रे । ब्रह्मयज्ञेन यक्ष्यमाण इत्यादिना तैत्तिरीयादौ चोक्तदिशा पूर्वाभिमुखत्वशुचिदेशस्थत्वशुचित्वादिर्यथा अध्ययनाङ्गत्वेनोच्यते तथोङ्कारोऽप्यस्तु न तु सूत्रावयवत्वेनेत्यर्थः । मङ्गलार्थतया मङ्गलप्रयोजनकेनेत्यर्थः ।। अभिलषितेनेति शेषोक्तिः । अभिमतेन इत्यर्थः । अनुगतत्वेनेति हेतौ तृतीयेत्युपेत्य तदर्थमाह ॥ निमित्तेनेति ॥ अत्रेति । यथाश्रुतभाप्य इत्यर्थः ॥ वाच्यं लक्ष्यं वेति । वाक्यार्थेऽसमन्वयादिति भावः ॥ न च कार्यज्ञाप्ययोरिति । ज्ञाप्यमिहार्थात् ज्ञाप्यमेव विवक्षितम् । एवं च यथाऽर्थज्ञाप्यस्य न वाक्यार्थे समन्वयः । तथा कार्यस्याऽपीति दृष्टान्तार्थ ज्ञाप्यग्रहणमिति द्रष्टव्यम् । ननु मङ्गलमथ- शब्दार्थो न भवतीत्यत्र वाक्यार्थे समन्वयाभावो हेतुतयोपात्तः । तत्र च पदार्थ एव हि वाक्यार्थे या० मङ्गलस्य वाक्यार्थसमन्वयाभावः) ॥ जिज्ञासाधिकरणम् ॥ १३३ समन्वीयत इत्यादिना अथशब्दार्थत्वाभावस्यैव हेतुतयोक्तत्वादन्योन्याश्रय इत्यरुचेराह ।। अस्तु वेति । मङ्गलं जिज्ञासायां किं कादिभावेन वैयधिकरण्येनान्वेत्युत जिज्ञासा मङ्गलमिति सामानाधिकरण्येनेति विकल्पं मनसि निधायाद्यं तावद्रूषयति ॥ न तावन्मङ्गरमिति ॥ कांद्यन्यतमेति । मङ्गलस्येति शेषः ॥ कारकान्तराणामिति । मङ्गलापेक्षयाऽन्येषामेव कर्तृकर्मकरणरूपाणां कारकान्तराणां जिज्ञासायां सत्वादित्यर्थः । अधिकारिजीवस्यैव कर्तृत्वात्साक्षाद्वेदानामुद्देश्यफलसम्बन्धितया च ब्रह्मणः कर्मत्वात् युक्तीनामेव करणत्वादिति भावः ॥ अम्माभिरपीति । तथा च कार्यस्य वाक्याथै समन्वयाभावोपपादनं अस्माकमिष्टमेवेति भावः ॥ यद्यपि शिष्टैरध्यतृभिरिति । अनेन ॐकारः सूत्रावयवः शिरव्येतृभिः तदादावुच्चार्यमाणत्वादथगब्दवदिति स्थापनानुमानमाशङ्कय तथाऽपीत्यादिना तस्य सत्प्रतिपक्षतोच्यत इति द्रष्टव्यम् । अध्यक्षसिद्ध इति हेतुसिद्ध्यर्थमुक्तम् ॥ लक्षणान्तरमावे सतीति । असंहिताप्रापकसूत्रा न्तराभावे सतीत्यर्थः । सु-युपास्य इत्यादिवाक्यावयवे सुधीत्यादिपदेऽखिलैः पठ्यमाने व्यभिचारवारणाय असंहिततयेत्युक्तम् । कृष्ण एहीति वाक्यावयवे कृष्णेति पदे व्यभिचारदारणाय लक्षणान्तराभावे सति इति । तत्र हि 'प्लुत प्रगृह्याची'ति सूत्रमेवासंहिताप्रापकमस्तीति भावः । पदपाठकालेऽखिलैरसंहिततया पठ्यमानेषु पदेषु व्यभिचारवारणाय सम्पाठ इति । संहितापाठकाल इत्यर्थः । संहितापाठका लेऽपि प्रामादिकेषु असंहिततया पट्यमानपदेपु व्यभिचारवारणायारिलैरिन्युक्तम् । स्थापनानुमानस्यान्यथासिद्धि अपि आह || पक्षसपक्षयोरिति । श्री०- मङ्गलस्येति । अथशब्दस्य मङ्गलवाचकत्वे इति शेपः ॥ वाच्य इति । गङ्गायां मत्स्य इत्यादावित्यर्थः ॥ लक्ष्यो वेति । गङ्गायां घोप इत्यादावित्यर्थः । कार्यज्ञाप्ययोरिति । घटमालयेत्यादी घटकार्यस्य जलाहरणादेर्दिवाऽभुञ्जानः पीन इत्यादावर्थात्नाप्यस्य रात्रिभोजनादेवियार्थे समन्वयो न दृष्ट इत्यर्थः । कारकान्तराणामिति । ब्रह्मजिज्ञासायामधिकारिणः कर्तृत्वाद्वेदानां करण- त्वाब्रह्मणः कर्मत्वादित्यर्थः ॥ अर्थवादत्वेति । विधिवाक्ये सति तद्बोध्यार्थे प्रशंसापरत्वेनार्थवादानां सार्थक्यस्य 'वायव्यं श्वेतमालभेत' 'वायुर्वै क्षेपिष्ठा देवता' इत्यादौ दर्शनात्प्रकृते च जिज्ञासाकर्तव्येति विधेरभावेन केवलार्थवादस्यानुपयुक्तत्वेनादौ तत्कथनस्यासङ्गतत्वादिति भावः ॥ श्रुतेति । श्रवणमात्र इत्यर्थः ॥ असंहिततयेति । संहिता सन्निकर्षः । वर्णानामत्यन्तं सन्निधिः । यथोक्तम् । 'पर: सन्निकर्षः संहिता' इति । तथा च ॐ अथात इति निर्देशः स्यादित्यर्थः ।। - च० परभाष्यं दुदूषयिषुरनुवदति ॥ अत्रेति । भामतीदिशा तत्तात्पर्य व्यक्ति ॥ पदार्थ एव हीति । पदजनितोपस्थितिविषय इत्यर्थः । अत्र पक्षीकृतमङ्गले संसृष्टसंसर्गान्यतरलक्षणवाक्यार्थानु- ॥ न्यायसुधा ॥ (अ.११ पा. १ १३४ योगिकभेदाभेदान्यतरसंसर्गलक्षणसमन्वयाभावेन हेतुना अथपदनिरूपितशक्तिलक्षणान्यतररूपवृत्तिविषय- त्वात्मकाथपदार्थत्वाभावसाधने हेतोः स्वरूपासिद्धिशङ्कानिरसनाय तादृशपदार्थत्वाभावेन तादृशसमन्वया. भावस्य साधनीयतापत्त्या अन्योन्याश्रय इत्यरुचिं प्रतिसन्दधान आह ॥ अस्तु वेति । जिज्ञासा मङ्गलं स्वनिष्टकर्तृत्वकर्मत्वकरणत्वान्यतमनिरूपकतालक्षणभेदसंसर्गेण अभेदसंसर्गेण वान्वेतीति कल्पद्वयीं प्रतिसन्दधान आद्यं प्रतिविधत्ते ॥ न तावदिति । निराकरिप्यमाणकल्पान्तरावधिकप्राथम्यद्योतनार्थः तावच्छब्दः । मङ्गलस्येति पूरणीयम् || कारकान्तराणामिति । जिज्ञासायाः विशिष्टाधिकारिकर्तृकतया ब्रह्मकर्मकतया न्यायकरणकतया च मङ्गले तन्निरूपिततदन्यतमाभागादित्यर्थः ॥ अस्म.भिरणीति । अथशब्दो मङ्गलार्थ इत्यादिभाप्याक्षरतात्पर्यमप्रतिसन्दधानानामेयेयमाशङ्का । आद्यार्थपदस्य फललात्पर्य- कन्यादुत्तरस्य च प्रतिपाद्यतात्पर्यकन्वात्कार्यज्ञाप्ययोरन्वयस्यास्माकमनभिधित्सितत्वेनैव तदीयदूपणासङ्गत्य- मसत्सीदिति तत्साधुन्वासाधुत्वे नाचिचिन्तत् । चन्द्रिकाकृतम्तु तदुक्तिमप्यसहमाना भामतीमते अन्यो. न्याश्रयरूपं विवरणमते च हेतुमद्भावेनान्वयलक्षणं दूपणं व्यवीभवन् । सूत्रानिर्दिष्टस्य तद्धटकत्वायोग- माशङ्कते ॥ नन्विति । ॐकारः प्रथमसूत्रघटकः शिष्टभूता येतृकर्तृकप्रथमसूत्रोच्चारणकाली.ोच्चारण- विपयत्वादथशब्दवदित्यनुमान-मेवोङ्कारस्य तदवयवत्वे प्रमाणमाशङ्कते ॥ यद्यपीति । अनुमानवाधेनैत- प्रतिविधत्ते ॥ तथाऽपीति ॥ लक्षणान्तराभावे सतीति । सन्धिकार्याप्रवृत्तिज्ञापकसूत्रान्तराभावे सतीत्यर्थः ॥ असंहिततयेति । वर्णानामतिशयितसन्निधिरूपसंहिताभावेनेत्यर्थः ॥ सम्पाठ इति । संहितापाठकाल इत्यर्थः ॥ अखिलैरिति । निरूपकतया कर्मसाधनप्रत्ययप्रकृत्युपस्थाप्यान्वयि कर्तृत्वार्थिका तृतीया । प्रकृतिभावस्थलेनैकान्त्यव्युदसनाय सत्यन्तम् । सन्धिकार्यप्रवृत्तिस्थले तद्विधूननायासंहितयेति । पदपाठकाले तदपहस्तयितुं सम्पाठ इति । संहितास्थलेऽपि प्रमादेनासंहितायां कतिपयपठ्यमानपदेषु तन्निरसनाय अखिलैरिति । स्थापनायामप्रयोजकतामप्यभिधत्ते ॥ पक्षेति । सु०-- एतदुक्तं भवति । सर्वाणि हि सूत्राणि प्रत्येकमनेकवेदवाक्यविचारपरत्वादवा- न्तरब्रह्मविद्याः । 'स्रवत्यनोङ्कृतं ब्रह्म परस्ताच विशीर्यत' इति श्रौतार्थवादसामर्थ्यात्सर्वास्वपि ब्रह्मविद्यास्वाधन्तयोरोङ्कारस्योहः कर्तव्य इति गम्यते । न चोद्यमानं वाक्यात्पृथगिति शक्यते वक्तुम् । मन्त्रेष्वप्यूह्यमानस्यामन्त्रावयवत्वप्रसङ्गात् । ततश्च प्रतिसूत्रमाद्यन्तयोरुचारणे गौरवं स्यादित्यादावेवोङ्कारोऽधिकृतत्वेनोच्चार्यते । तस्य संहिततया निर्देशे प्रथमसूत्रावयव एवायं विज्ञायेत । तन्मा विज्ञायीति शिष्टैः पृथगोङ्क्रियते । न च व्याख्यानतोऽप्यधिकारो ज्ञायत इति व्यर्थ पृथक्करणमिति वाच्यम् । अन्तरङ्गज्ञापकाभाव एव बहिरङ्गस्यान्वेषणीयत्वादिति । तदनेनासंहिततया निर्देशे निमित्तान्तरं वदता हेतोरन्यथासिद्धिक्ता भवति ।
पृथगाहरणकारणम् ) ॥ जिज्ञासाधिकरणम् ॥ १३५ वा० ----- ननु सर्वसूत्रेप्वोङ्कारानुगतिरेव कुतो येनासंहिततया निर्देशं प्रति सा निमित्तं स्यात् । अस्तु वा सा तथाऽपि निमित्तान्तरेणासंहिततया निर्देशोपपत्तौ न तस्या निमित्तत्वमित्यत आह ॥ एतदुक्तं भवतीति । अवयवत्वोपपादकोहसाधकवाक्ये ब्रह्मपदप्रयोगादस्तु वेदविद्यायामाद्यन्तयोरूहात् ॐकारस्य तदवयवत्वम् । सूत्रेषु किमायातम् । तथात्वे वा सर्वसूत्राणां भिन्न विद्यात्वे वाक्यभेदापत्यैक. विद्यात्वात्कि सर्वसूत्रानुगमेनेत्याशङ्का परिहर्तुमनेकवेदवाक्यविचाररूपत्वात्सूत्राणामपि प्रत्येकं ब्रह्मविद्यात्वं उपोद्घातेनाह ॥ सर्वाणि हीति । अत्राद्यन्तयोरूह इति स्थानिरहिताद्यन्तप्रदेश ऊहोक्त्या नात्रोहशब्दः कर्मव्युत्पत्त्या प्राकृतस्थानपतितेत्यायुक्तविकृतप्रयोगपरोऽपि तु भावव्युत्पत्त्या याहारपर इति सूचनेन सूर्यायेत्यूहं प्रत्यग्नय इत्यादेरिव प्रकृते स्थानिनोऽभावान्नोहः सम्भवतीत्याशङ्का गर्भस्रावेणैव निरस्ता भवति । (प्राकृतस्थानपतितपदार्थान्तरकार्यतः । ऊहः प्रयोगो विकृत ऊह्यमानतयोदितः)। श्रीतार्थ- वादेत्येतदूहस्यार्थवादप्रमाणकत्वोक्त्या सप्रमाणकत्वमेवोहे नियामकं न तु लौकिकाकाङ्क्षवेत्यर्थसूचनात् संयज्ञपतिराशिषा इत्वेत्यादाविव साकाङ्त्वाभावान्नाध्याहारोऽप्यूहशब्दार्थ इत्यपि शङ्काऽसङ्गतेति द्रष्टव्यम् । अर्थवादे ब्रह्मविद्यास्वाद्यन्तयोरोङ्कारानुच्चारणेऽनिष्टकथनेऽप्यूहः कर्तव्य इत्यर्थस्य ततः शाब्द- मर्यादयाऽभावात्सामर्थ्यादित्युक्तम् । अत्र स्रवत्यनोकृतमित्यर्थवादस्वरूपविशेषोपादानेन स्रवणविशरण- परिहाररूपादृष्टफलार्थत्वबोधनादर्थप्रतीतेरादावेव प्रयोगेन चरितार्थत्वादन्ते प्रयोगवैयर्थ्यमनुषक्तस्योत्तर. सूत्रानन्वयदोषश्चति दोपद्वयमसङ्गतमिति द्रष्टव्यम् । अत्रोद्यमानस्य वाक्याबहिर्भूतत्वे श्रौतार्थवाद- सामर्थ्यात्प्रतिसूत्रमाद्यन्तयोरूहरिद्धावपि तस्य तदवयवत्वेन संहिततया निर्देशप्रसक्तेरेवाभावेनासंहिततया निर्देशस्य नाधिकारज्ञापकत्वमिति न स्वाभिमतान्यथासिद्धिसम्भव इत्यत उलमानत्वस्यावयवत्वाविनाभावं उपपादयति ॥ न चेति । यद्वा श्रौतार्थवादसामर्थ्येनाद्यन्तयोरोङ्कारोहसिद्धावपि तस्याध्ययननियमादिवत् बहिर्भूतस्य सकृदध्याहृतस्यैव सर्वसूत्रोपकारित्वसम्भवेन प्रतिसूत्रमुच्चारणारिया न प्रकृतरिद्धिरित्यतो अध्याहृतस्य वाक्यावयवत्वेनाध्ययननियमादिवैषम्यादर्थवादबलेन प्रतिसूत्रम याहारे सिद्ध तबलादेव अवयवत्वसिद्धाववयवानां च प्रतिसूत्रमुच्चारणस्यापि नियतत्वात्प्रकृतसिद्धिरित्याशयेनाह || न चेति । अत्रावयवत्वस्य प्रसङ्गेऽप्यमन्त्रत्वप्रसङ्गादिति वा मन्त्रानन्तर्गतत्वप्रसङ्गादिति चोक्त्या मन्त्रानवयवत्वला भे अपि तथाऽनुक्त्या मन्त्रानवयवत्वप्रसङ्गादित्युक्त्या च यद्यप्यनाम्नातेप्वमन्त्रत्वमानातेषु हि विभागः स्यादित्युक्तरीत्या मन्त्र इत्यभियुक्तप्रयोगविषयस्यैव मन्त्रत्वान्मन्त्रेपूह्यमानस्य न मन्त्रत्वम् । 'आम्नायमानं ह्यनुपज्यमानमन्तर्गतं मन्त्रविचारणायामि'त्युक्तरीत्या न वा मन्त्रान्तर्भूनत्वं न वा मन्त्रवाक्येन सहककार्थ- कारित्वेन मन्त्रवाक्यावयवत्वम् । रथघोपादेरपि महेन्द्र स्तोत्रावयवत्वप्रसङ्गात् । तथाऽप्यवदानादिविधी द्रवादिपदवद्विश्वजिदादौ फलपदवदूहादेरपि श्रुतार्थापत्त्यादिकल्प्यस्यार्थाद्वा कल्पनैकदेशत्वादिति वेदैक- १६ ॥ न्यायसुधा ॥ देगन्दोक्तदन्वाभ्युपगम इति तदभियुक्तैरक्तत्वेनोह्यमानस्यापि वेदत्वस्वीकाराद्वेदत्वे सति मन्त्रवाक्येन संहककार्यकारिन्वं वा वाक्यत्वे सति मन्त्रण सहैककार्यकारित्वं वा मन्त्रावयवत्वं तेषामपीष्टमेव । प्रकृतं च वाध्यत्वं सति ब्रह्मविद्ययककार्यकारित्वरूपमेव तदवयवत्वं विवक्षितम् । तावतैवोङ्कारस्य मङ्गलार्थतया मूत्रादावुपनिवन्धनरूपस्वप्रयोजनसिद्धरित्यर्थसूचनेन ऊहप्रवरनामधेयानाममन्त्रत्वस्य द्वितीये सिद्धान्नित चान्मन्त्रेयप्यूह्यमानस्य तदनवयवत्वापादन मिष्टमेवेति शङ्काऽसङ्गति ज्ञेयम् । नन्वेवम याहा- रम्यावश्यकन्येऽ-याहृतम्य छिनमीत्यादेः प्रयोगदशायामुच्चारणनियमवत्प्रतिसूत्रोङ्कारस्य नियतोच्चारणा- पत्योत्तरवाधिक राभावनासंहिततया निर्देशस्य तन्सूचकत्वं न सिद्ध्यदिति नान्यथारिद्धिरक्ता स्यादित्यत आह |॥ ततश्चेति । अत्र ततश्च गौरवं स्यादित्यधिकृतत्वेनोच्चार्यत इति लाघवतर्कसहकृतोहस्यानुषङ्ग- गधिकृतन्वेनोच्चारणे प्रयोजकत्वोक्त्या न ह्यनुगतिरूह: । आम्नायमानं ह्यनुपज्यमानमित्यनुपज्यमानस्य मन्त्रन्योन्याऽनातेप्वमन्त्रत्वमित्यूहस्यामन्त्रत्वोन्या चानुपङ्गोहयोर्भेदेन व्यवहारारद्विरोध इति कस्यचित् प्रलपनमज्ञानमूलमिति सूचित भवति । यदर्थमेतावदुक्तं तदिदानीमाह ॥ तस्येति । अधिकारे ज्ञापकान्तरं शङ्कते ॥ न चेति ॥ अन्तरङ्गेति । वाक्यस्य निर्देशापेक्षया व्याख्यानस्य बहिरङ्गत्वादिति भावः । अस्त्वयं वाक्याभिप्रायस्तावताऽप्यनुमाने दूषणं किमुक्तं भवतीत्यत आह ॥ तदनेनेति । स०- स्त्रवतीति । आदावनोकृतं ब्रह्मवेदादिकं स्रवति परस्तादनोवृतं तु विशीर्यते इत्यर्थः ।। अर्थवादसामर्थ्यादिति । निन्दारूपार्थवादसामर्थ्यादित्यर्थः ॥ ऊह इति अध्याहार इत्यर्थः । तेन अन्यभाव ऊह इति निरस्तम् । अध्याहारस्यान्यानपेक्षत्वात् न चाकामाविरहान्नाध्याहारोऽपीति वाच्यम् । ॐकाराभावे प्रतिपाद्यार्थम्थैर्याभावेन तत्स्थैर्यस्योङ्कारसाकाङ्गत्वेनाध्याहारसम्भवात् ॥ मन्त्रष्वपीति । न चेष्टापत्तिः उहप्रवरनामधेयानाममन्त्रत्वस्य द्वितीये सिद्धान्तितत्वादिति वाच्यम् । मन्त्रेण सहककार्यकारित्वं न स्यादित्यापादनात् । तर्हि उह्यमानस्य व्यर्थत्वमित्यत आह ॥ न चेति । ॐकारस्य पृथगुच्चारण एव सर्वत्राधिकृतत्वज्ञानादुच्चारणस्यान्तरङ्गत्वं व्याख्यानं तूचारणानन्तरभावित्वात् बहिरङ्गमिति भावः । प०- ननु सूत्रादावोङ्कार एव नेति वदन्तं प्रति पृथगुच्चारणस्य गत्युक्तिरयुक्ता । अ-येतृ- परम्परयोच्चार्यमाणत्वस्यापि निर्मूलत्वेनान्धपरम्परात्यानिवारणाच्चैत्यत आह ॥ एतदुत्तमिति । सप्तदश- गीतातात्पयोक्तश्रुतिमाह ।। स्त्रवतीति । ब्रह्मेति मन्त्र उच्यते ॥ अनोकृतं आदावोङ्कारशून्यतयोच्चारितं चेदामघटजलवस्त्रवति सुकृतजनकं नेत्यर्थः । परस्तादनोद्धृतं चेद्विशीर्यते हिंस्यते फलजनक नेत्यर्थः ।। श्रौतेति । श्रुत्युक्तनिन्दारूपार्थवादबलेन मन्त्रस्य स्रवणविशरणाभावकामः आद्यन्तयोरोकुर्यादिति पृथगोकरणकारणम् ) ॥ जिज्ञासाधिकरणम् । १३७ कल्पितविधिवाक्येन सर्वास्वपि सूत्रादिरूपब्रह्मविद्यास्वाद्यन्तयोरोङ्कारस्योहोऽध्याहारः कार्य इत्यर्थः । 'अध्याहाररतर्क उह' इत्यमरोक्तेः । न तु मीमांसकाभिमत ऊहः । तथैव चन्द्रिकोक्तः । ननु यद्यःयाहार एवोहशब्दार्थः तहिं यदयमोङ्काराथशब्दावादितः कृतवानित्यादिपूर्वतनसुधावावयविरोधः । प्रयुज्यमानस्याध्याह्रियमाणत्वायोगात् । अन्यथाऽथादिपदस्याध्याहार इति स्यादिति चेत् । अत्राहुः । आदितः कृतवानित्यादिपूर्वतनमुधावाक्यानामादितः द्वयोरपि सत्त्वादित्यर्थः । अथशब्दस्यादौ कृतत्व- मस्तीति वा श्रुतिप्राप्तत्वेन सूत्रकृदभिमततया कृतप्रायत्वाद्वा तदभिप्रायेण कृतवानित्यादिकृतनिवेशितादि- शब्दप्रयोगः । एवमग्रे प्रयुक्तत्वादितिशब्दप्रयोगोऽपि ध्येयः । सूत्रकृताऽथातो ब्रह्मजिज्ञासेत्येवोक्तादपि स्रवतीत्यादिनिन्दार्थवादबलेनाद्यन्तयोरोङ्कारमध्याहृत्याग्निमीळइत्यादाविवा-येताशे अधीयन्ते तदभिप्रायेणैव ताराथमूलत्वमिति पूर्वाध प्रवृत्तम् । न तु सूत्रकृताऽथादिपदसमानतयाऽप्योङ्कारस्य कृतत्वाभिप्रायेण । अत एव श्रीमद्भाप्येऽप्यथादिपदादेरेवार्थोक्तिः । अथातः शब्दपूर्वाणि सूत्राणि निखिलान्यपि ' इति 'तावेवादौ प्रयुञ्जत' इति चोपक्रमोपसंहारोपेतप्रमाणोदाहरणं चेति । यद्वा चन्द्रिकोक्तदिशाऽथादिपद- तुल्यतया 'ॐकारश्चाथशब्दश्च तस्मात्प्राथमिकौ क्रमात्' इति स्मृतिरिद्धोङ्कारपरोऽयं ग्रन्थः । न तु स्रवतीति श्रुतिप्राप्तसाधारणोङ्कारपरः । सवतीति श्रुन्युक्तिस्तूपलक्षणं ध्येयमिति । केचित्तु सूत्रकृतोत्राने ऽप्यादौ कृत एव । उह इत्युक्तिस्तु निन्दार्थवादरूपश्रुतिमूलत्वाभिप्राया । वस्तुतस्तूच्चान्तिोऽपि सूत्रकृताथादिशब्दवन्न सूत्रोपनिबद्ध इति । यत्तु 'ब्रह्मणः प्रवणं कुर्यादादावन्ते च सर्वदा' इत्यादि शिक्षावचनमिन्युक्तत्वाच्चेति तन्न । तत्र शिक्षावचनस्य स्रवतीति निन्दार्थवादमूलत्वेन स्पष्टार्थतया सावधिकतया शिक्षाग्रन्थकर्तृकृतयेनोपपत्तेः । नन्वस्त्वोङ्कारस्य सूत्रादौ वेदाध्ययनोपक्रमसाधारण्येन सत्वं निन्द्रार्थवादरिद्धम् । तावता कथमवयवत्वमित्यत आह ॥ न चेति । उह्यमानमध्याहियमाणम् ।। पृथगिति । वाक्यार्थतयाऽन्वयप्रतियोग्यसमर्पकं इत्यर्थः ॥ अमन्त्रावयवत्वेति । मन्त्रावयवत्वाभाव- प्रसङ्गादित्यर्थः । वचिन्मन्त्रानवयवत्लेति पाठः । संयज्ञपतिराशिपेत्यत्र गच्छतामित्यस्य इत्येत्यादौ छिनत्तीत्या देर याहृतस्यान्वयप्रतियोगिसमर्पकत्वरूपावयवत्वाभावप्रसङ्गात् । तथात्वे 'व्यवायान्नानुपज्यत' इत्यादिजैमिनिसूत्रकृतः 'व्यतिहारो विशिंपंति हि' इति ब्रह्मसूत्रकृतश्च तत्रतत्राध्याहारोक्तिरयुक्ता स्यात् इति भावः । अनवयवत्वसाधकप्रागुक्तहेतोः का गतिरित्यतोऽन्यथोपपत्तिमाह ॥ ततशेति । प्रथमसूत्रावयये सतीत्यर्थः । यद्वा प्रतिसूत्रमाद्यन्तयोरोङ्कर्तव्यत्वस्यावश्यकत्वे सतीत्यर्थः । प्रतिस्त्रम् । द्वितीयादिसर्वसूत्रेप्रित्यर्थः ।। आदावेदेति । प्रथमसूत्र एवेत्यर्थः । ॐकार इत्येकवचनेन प्रथमसू अपि आदावेवोच्चार्यमाण: न त्वन्तेऽप्युच्चार्यमाण इत्यवगम्यते । अन्तिमस्य सूत्रानवयवत्वेनादृष्टमात्रार्थतर पृथक्करणाभावेऽपि एतत्सूत्रमात्रसम्बन्धत्वशङ्कानुदयेनादिमोङ्कारस्यैव तथात्वे शकोदयात् । यद्वोङ्कार ह - S.T. 18 ॥ न्यायसुधा ॥ (म.१ पा. १ भ. १ आद्यन्तयोरप्युच्चार्यमाणो गृह्यते । केचित्तु प्रथमसूत्रेऽप्येक एवोङ्कार आदावुच्चार्यमाणः । अन्तिमस्तु सर्वसूत्रपारायणानन्तरमनावृत्तिःशब्दादिति सूत्रसमाप्त्यनन्तरमुच्चार्यमाण एव वेदाध्ययनवदेवेत्याहुः ॥ अधिकृतत्वेनेति । द्वितीयादिसूत्रेऽप्यनुवर्तमानत्वेनेत्यर्थः । इदं सर्वत्र द्वितीयादावप्यनुवर्त्यतामिति बुद्ध्योच्चार्यत इति यावत् । अस्त्वेवं पृथक्पाठन्तु कुत इत्यत आह ॥ तस्येति । संहिततया संश्लिष्टतया निवेशेऽध्ययने कृते सतीत्यर्थः । प्रथमसूत्रावयव एवेत्यत्रावयवशब्द उपकारमात्रपर: नत्वन्वयप्रतियोगि- समर्पकरूपावयवपरः । तथाल्वे सति तन्मा विज्ञायीत्युत्तरवाक्ये प्रथमसूत्रावयवत्वमात्रं विज्ञातं मा भूत् किन्तु द्वितीयादिसूत्रावयवत्वमपि व्यज्ञायीत्यर्थस्य वाच्यत्वेन द्वितीयादावदृष्टमात्रोपकारकतया अन्वय- प्रतियोगिसमर्पकत्वस्य बाधात् । यद्वा प्रथमसूत्रावयव एव विज्ञायेतेति द्वितीयादावदृष्टमात्रोपकारकन्येन अनुवृत्तिन ज्ञायतेत्येवं व्याख्येयम् ॥ पृथगोष्क्रियत इति । यथा पाणिनीये । 'प्रत्ययः' 'परश्च' 'धातो:' 'अङ्गस्ये'त्यादीन्यनेकसूत्रेप्वनुवृत्त्यर्थ पृथक्कृत्य निर्दि श्यन्ते न तूपरितनसूत्रसंश्लिष्टतया तथा इहापीति भावः । 'ढलोपे पूर्वस्य दीर्घोऽण' इत्यादौ पाणिनीये संहितया निर्दिष्टस्यापि दीर्घादिपदस्य अनेकसूत्रेष्वनुवृत्ति प्यवृत्तिकारादिव्याख्यानाद्यथाऽवसीयते तथेहापि भाप्यकारादिव्याख्यानादनुवृत्त्यव- गमसम्भवादनुवृत्त्यर्थ शिष्टानां पृथक्पाठ इत्ययुक्तम् । किंत्वनवयवत्वादेवेत्यत आह ॥ न चेति । अधिकार उत्तरसूत्रेप्वनुषज्यमानत्वमित्यर्थः ।। अन्तरङ्गेति । असंहितापाठोऽन्तरङ्गम् । व्याख्यानं बहिरङ्गमिति भावः । इतिपदस्यैतदुक्तमिति पूर्वेणान्वयः । तावताऽनवयवत्वसाधकहेतोः का गतिस्ता इत्यत आह ॥ तदनेनेति । सर्वत्र इत्यर्धेन ॥ अर्थवादो निन्दारूप: ।। उहः कर्तव्य इति । यद्यप्यत्र मन्त्रसामसंस्कारोह इत्यादा- विवोहशब्दो न कर्मव्युत्पत्त्योह्यमानपरः सूर्यायेत्याहं प्रति अमय इत्यादेरिव प्रकृते स्थानिको- ऽभावेन 'प्राकृतस्थानपतित पदार्थान्तरकार्यतः । ऊहः प्रयोगो विकृत उह्यमानतयोदित' इति तह. लक्षणाभावात् । तथाऽप्य याहारस्तर्क ऊह इति प्रसिद्धर्भावव्युत्पत्त्याऽध्याहारपरो विवक्षितः । न चेपेत्वेत्यादाविव वस्त्वाकाङ्क्षाभावाद याहारो व्यर्थ इति वाच्यम् । दृष्टार्थाभावेप्युदाहृतश्रुत्या स्त्रवण विशरणभावरूपादृष्टार्थसम्पादकतया सार्थकत्वात् ॥ अमन्त्रावयक्त्वप्रसङ्गादिति । अत्रापाद्यमानं मन्त्रानवयवत्वं मन्त्रेण सहककार्यकारित्वाभावरूपं विवक्षितम् । तेनोहप्रवरनामधेयानाममन्त्रत्वस्य द्वितीये सिद्धान्तितत्वादिष्टापादनमेतदिति दूषणानवकाश इति ध्येयम् ।। अधिकृतत्वेनेति । माप् प्रातिपदिकात्' इत्यादाविवोत्तरत्रानुषङ्गार्थत्वेनेत्यर्थः । न चैवमोङ्कारस्य तद्वदेवोत्तरसूत्रेप्वप्यन्वयप्रसङ्गः । अनन्वयेऽप्यदृष्टार्थमेवानुपङ्गस्योक्तश्रुतिसिद्धत्वात् ।। न च व्याख्यानत इति । श्रौतार्थवादानुसारि- व्याख्यानत इत्यर्थः ॥ अन्तरङ्गेति । पृथक्करणमेवात्रान्तरङ्गज्ञापकमिति भावः ।। या० मन्यथासिद्धिविचारः) ॥ जिज्ञासाधिकरणम् ॥ १३९ श्री० अधिकृतत्वेनेति । सर्वत्रानुगत्यर्थत्वेनेत्यर्थः ॥ व्याख्यानत इति । ॐ अथात ति संहिततया निर्देशेऽपीत्यर्थः । वाक्यान्तर्गतं पृथगुच्चारणमन्तरङ्गम् । व्याख्यातृपुरुषव्याख्यानं हिरङ्गम् ॥ अन्यथासिद्धिरिति । लक्षणान्तराभावे सत्यसंहिततया सम्पाठेऽखिलैः पठ्यमानत्वहेतोः नवयवरूपसाध्यं विना सर्वत्रानुगतिज्ञापनार्थत्वेनान्यथासिद्धिरित्यर्थः । च०. 'आद्यंतयोरोङ्कारस्योहः कर्तव्यः' इति । सूर्यायेत्यागृहं प्रति अमय इत्यादेरिव प्रकृते निनोऽभावेन 'प्राकृतस्थानपतितपदार्थान्तरकार्यतः ऊहः प्रयोगो विकृत उलमानतयोदित' इति लक्षण- क्षितत्वाभावेन मन्त्रसामसंस्कारोह इत्यादाविवोहशब्दस्य कर्मव्युत्पत्योह्यमानपरत्वाभावादध्याहारस्तर्क इ इत्यभिधानादूह वितर्क इत्यस्माद्भावसाधनघजा निष्पन्नऊहशब्दोऽ-याहारवाचकः । न च संयज्ञपति- शेषा इषेत्वेत्यादाविवासाकाङ्गत्वादध्याहारो व्यर्थ इति वाच्यम् । साकासताराहित्येऽपि श्रीतार्थवाद- प्रमाणप्रत्यापितस्त्रवणविशरणपरिहतिरूपादृष्टार्थान्तरसत्वेन तादृशप्रमाणसाहित्यस्यैव तन्त्रत्वात् । थमिकोङ्कारस्याभिधास्यमानदिशा साकाङ्क्षत्वापादितदृष्टार्थत्वस्यापि सत्वाच्च । मन्त्रानवयवत्व- [ङ्गादिति । मन्त्रनिर्वाह्यकार्यनिर्वाहकत्वाभावरूपमेवाबायाद्यमानममन्त्रत्वम् । तेनोहप्रवरनामधेयानां म्नातेप्वमन्त्रत्वमान्मातेषु हि विभागः स्यादित्युक्तदिशा मन्त्र इति अभियुक्तप्रयोगविषयत्वरूपमन्त्रत्वा- वरूपामन्त्रत्वस्य द्वितीये सिद्धान्तिततयेष्टापादनमेवैतदिति शङ्कानवकाशः ॥ अधिकृतत्वेनेति । पज्यमानत्वेनेत्यर्थः । न चानुपक्तस्य 'माप् प्रातिपादिकात्' इत्यादेरुत्तरत्रान्वयदर्शनात्प्रकृतेऽप्युत्तर- प्वन्वयोऽभिधातव्यः स चाशक्य इति वाच्यम् । अन्वयराहित्येऽपि दर्शितार्थवादप्रत्यापिता- थोद्देशेनैवानुषज्यमानत्वात् ॥ न च व्याख्यानत इति । अणिग्रहणेषु सन्देहादनिर्णयशङ्का- ननफलकतया 'व्याख्यानतो विशेषप्रतिपतिन हि सन्देहादलक्षणमितिपरिभापाया उपेततया प्रकृते गर्थवादानुसारिव्याख्यानेनैव निर्वाहादित्यर्थः ॥ अन्तरङ्गेति । वाक्यघटकपदसमभिव्याहारापेक्षया व्यानस्य बहिरङ्गत्वादिति भावः । निमित्तान्तरम् । उत्तरसूत्रेषु अधिकृतत्वसूचनरूपम् । हेतोः गान्तरेत्यादिनाऽभिहितस्य अन्यथासिद्धिरप्रयोजकता ॥ सु०-- ननु च श्रीतार्थवादबलेनाद्यन्तयोरोकारयोहो वा प्राङ्मुखत्यादियदहिभूतस्यैव रणं वा विधेयत्वेन कल्प्य मिति सन्दिह्यते । सत्यम् । सन्देहेऽपि तथा प्रणाड्यानुमानस्य इग्धान्यथासियाऽप्याभासत्वमेव । वक्ष्यमाणन्यायेनोङ्कारार्थस्य प्रथमसूत्रवाक्यार्थ समन्वयेन योपपत्तौ बाधितविषयं चानुमानमिति । अथवा दृष्टान्तदूषणमनेन क्रियते । तथा हि । लैवेदपाठकैः पृथग्रूपान्तरेण स्थानव्यत्यासेन यदोक्रियते तदुक्तन्यायेनादावुचारणेनैव 18A १४० ॥ न्यायसुधा ॥ (श. १पा. १ म. १ वा० लब्धेन सर्वत्रानुगतत्वेन कारणनैवोपपद्यत इत्यनेन दृष्टान्ते साधकस्य हेतोरन्यथासिद्धिरुता । तथा व दृष्टान्तस्य साध्यविकलतेति । एवमनुमाने निरस्त निरपवादेनादाछुच्चारणेनोकारस्य प्रथमसूत्रावयवतासिद्धायुक्तमुपपन्नम् । तदेवं सिद्धे शास्त्रव्याख्येयत्वे प्रेक्षावत्प्रवृत्तिविषयस्यैव आरम्भणीयत्मात्प्रयोजनाभिधेयसम्बन्धवत्येव च प्रेक्षावतां प्रवृत्तेरारम्भणीयतासिद्धये प्रेक्षावतः प्रवर्तयितुं प्रयोजनाधभिसम्बन्ध प्रतिपादयतः प्रथम मूत्रस्य व्याख्यामोतत्वाचीत्यादिना आरभते । ननु चार्थवादस्यादृष्टफलबोधक वेन वाक्यार्थे समन्वयरूपदृष्टफलासमर्पकत्वाभावेन ब्रह्मविद्योच्चारणदशायामोकारोच्चारणमात्रस्यार्थवादेन सिद्धावपि न नियमे..ोहसिद्धिः । अहेनेव रात्रिसत्र- न्यायेन प्राङ्मुग्वत्वादिवहिर्भूतस्योच्चारणस्य विधिकल्पनयाऽप्यर्थवादस्योपपत्तेः । एवं चार्थवादसाम- र्थ्यादित्युक्तमनुपपन्नमिति सामर्थ्यरूपान्यथानुपपत्तावन्यथासिद्धि शङ्कते ॥ ननु चेति । सन्देहेऽप्यूह पक्ष ऊयमानस्यावयवत्वात्प्रतिसूत्रं चोच्चारणे गौरवादधिकृतत्वेनादावुच्चारणे सिद्धेऽधिकारज्ञापकतयाऽसंहिततया निर्देशोपपत्तौ हेतोरन्यथासिद्धिः पक्षान्तरे तु नेति सन्दिग्धान्यथासिद्धिरप्यनुमानदूपणमेवेत्याह ॥ सन्देहेऽपीति । अङ्गीकृत्य चेदमुदितम् । वस्तुतस्त्वोङ्कारस्य विपयादिसमर्पकतया प्रथमसूत्रवाक्यार्थे समन्वयस्य वक्ष्यमाणत्वाद्वाक्यान्वितस्य च तद्बहिर्भावासम्भवादर्थवादो बहिभूतोच्चारणविधिकल्पनायां प्रवृत्तो वक्ष्यमाणन्यायानुसन्धानेन प्रथमसूत्र एव कुण्ठितः । तत्राप्रसराविधिकल्पनामार्ग परित्यज्योक्तरीत्या तदर्थानन्वितत्वेऽपि तदेककार्यकारित्वस्याध्याहृतेऽपि सम्भवेना याहारपक्षे दोपमनुपलभमानः सर्वसाधारण- म याहारमार्गमेवाश्रयताति निश्चितान्यथासिद्धिरेव । प्रथमसूत्रवाक्यार्थान्वयेनावयवत्वनिश्चयावाधित- विषयत्वं चानुमानस्येत्याशयेनाह || वक्ष्यमाणेति । यद्वा न केवलमर्थवादवलेन सन्दिग्धान्यशासिया अनुमानस्याभासत्वं वक्ष्यमाणन्यायेन बाधितविषयत्वाचेत्याशयेनाह ॥ वक्ष्यमाणेति ॥ उक्तन्यायेन इति । अर्थवादबलादूहे सिद्धे प्रतिवाक्यमुच्चारणे गौरवं स्यादित्युक्तन्यायेनेत्यर्थः । अर्थवादवक्ष्यमाण. न्याययोरवयवत्वसाधकत्वेनोक्तत्वेऽपि तयोः परानुमानदूपणे व्यापृतत्येनोपक्रमोक्तसाधकमेवाक्यवन्वसाधक- तयोपसंहरति । एवमिति । विस्तरन्तु चन्द्रिकायां द्रष्टव्यः । ओतत्ववाचीत्यादेरपि पूर्ववद्व्याख्येयतया उपयुक्तप्रमेयप्रतिपादकत्वं न तु व्याख्यानत्वमिति भ्रान्ति निवारयितुमोतत्ववाचीत्या दिव्याख्यानोपयुक्त- प्रमेयोपक्षपायोतत्ववाचीत्यादिभाप्यस्योपलक्षणत्वान्न सूत्रप्रतिपाद्यतत्फलानुक्त्या भाप्ये न्यूनतेत्यर्थसूचनाय च फलफलिभावोपपादनपुरःसरं परमावान्तरफले प्रतिपाद्यं च कथयन्नेव पूर्वग्रन्थासम्भिन्नतयोत्तरग्रन्थ- प्रतिपाद्यं कथयति ॥ तदेवमिति ।
स० परिहरति ॥ सन्देहेऽपीति । प्रणाड्या परम्परया । न केवलमर्थवादबलादोङ्कारस्य प्रथमसूत्रावयवत्वं किन्तु समवेतार्थत्वादपीति न सन्देह इत्याह ॥ वक्ष्यमाणेति ॥ ओतत्ववाचीत्या- दिनेति शेपः । दृष्टान्तदूपणं साध्यवैकल्यलक्षणम् । एवं च मङ्गलाचारादप्युपपन्नं ब्रह्मसूत्राणां व्याख्येयत्वमिति सिद्धम् ॥ ५० ऊहो वेति । अवयवतयाऽध्याहारो वेत्यर्थः । उत्तरमाह ॥ सत्यं सन्देहेऽपीति ।। तया प्रणाडचेति । प्रागुक्तकोटिद्वयरूपप्रणाख्येत्यर्थः । यद्वा एतदुक्तं भवतीत्यादिनोक्तप्रणाड्येत्यर्थः ।। वक्ष्यमाणेति । ओतत्वबाचीत्यादिना वक्ष्यमाणेत्यर्थः । अनेन । सर्वत्रेत्यर्धेन । रूपान्तरेणेत्यस्यार्थः स्था नेति ॥ हेतोरिति । अन्यान्यस्थाने पट्यमानत्वरूपस्य वेदोपक्रमे पट्यमानोङ्काररूपदृष्टान्ते वेदानव- यवत्वसाधकहेतोरित्यर्थः । अग्निमीळ इत्यादौ स्रवणादिदोपपरिहारकतया अध्यापकैरुचार्यमाणस्य वेदवाक्यावयवत्वं च वेदबोधान्यादिरूपार्थे गुणपूर्णत्वादिविशेपणार्पकत्वानुसन्धानाभिप्रायेणेति ध्येयम् । तथैव चन्द्रिकोक्तेः ॥ साध्येति । अनवयवत्वरूपसाध्यविकलतेत्यर्थः । अनुमाने सूत्रानवयवत्व- साधका नुमान इत्यर्थः ॥ उक्तमिति । ताराथमूलत्वमिन्युक्तमित्यर्थः ।छ। उपोद्घातः समाप्तः छ।। ओतत्ववाचीत्यादेरप्युपोद्धातत्वभ्रमनिरासाय आह ॥ तदेवमिति । उक्तप्रकारेण प्रामाण्यमङ्गला- चाराभ्यां युक्तत्वात्सिद्धे व्याख्येयत्व इत्यस्य प्रथमसूत्रस्य व्याख्यामारभत इत्यनेनान्वयः । शङ्कोत्थापनाय वा वैयर्थ्यनिरासाय वा आद्यसूत्रतात्पर्यमाह ॥ प्रक्षावदिति ।। प्रयोजनेति । प्रयोजनविषयसम्बन्ध. वतीति वा ताभ्यां सम्भवतीति वाऽर्थः ॥ प्रयोजनाद्यमिसम्बन्धमिति । शास्त्रस्येत्यनुषङ्गः । मोक्षरूपप्रयोजनेन ब्रह्मरूपविषयज्ञानद्वारा जन्यजनकभावरूपसम्बन्धं ब्रह्मसूत्रसन्दर्भरूपशास्त्रस्य प्रतिपादयत इत्यर्थः । तद्ज्ञानाधीनत्वात्प्रवृत्तेरिति भावः । एतच्च जिज्ञासाद्वारेत्यग्रे व्यक्तम् । या० तया प्रमाउचेति । श्रौतार्थवादबलेनाद्यन्तयोरोङ्कारस्योह विधिकल्पने तेन चावयवत्व- कल्पनासिद्धौ प्रतिसूत्रमाद्यन्तयोच्चारणे गौरवं स्यादित्यादावेवोङ्कारोऽधिकृतत्वेनोचार्येह तस्य संहिततया निर्देशे प्रथमसूत्रादयव एकायं विज्ञायेत तन्मा विज्ञायीति शिष्टैः पृथगोङ्क्रियते । एवं च हेतोरन्यथा- सिद्धिरिति पूर्वो कया परम्परयेत्यर्थः ॥ प्रथम सूत्र वाक्यार्थ इति । न चात्रोङ्कारस्तु पृथगुच्चारितो वेदितव्यः । नाथशब्दवासूत्रोपनिबद्ध इति सन्न्यायरत्नावलीविरोधो वाच्यः । सन्न्यायरत्नावल्युक्तं पृथक्त्वमसंहिततयोच्चार्यमाणत्वं विवक्षित न वनवयवत्वरूपम् । अन्यथा 'ॐकारश्चाथशब्दश्च तस्मात् प्राथमिकौ क्रमात्' इति भाप्योदाहृतप्रमाणेन तत्र ताराथमूलत्वमित्यनुव्याख्यानेन च विरोधप्रसङ्गात् । अतो न कोऽपि विरोध इति । रूपान्तरेणेत्यन्यैव विवरणं स्थानव्यत्यासेनेति ॥ आदावुच्चारणेनेति ।
१४२ ॥ न्यायसुधा ॥ (म. १ पा. १ म. १ पूर्वोक्तस्थापनानुमानरूपेणेत्यर्थः ॥ प्रेक्षावत्प्रवृत्तिविषयस्यैवारम्भणीयत्वादिति । यद्यप्यत्रारम्भणीयत्वं मायावादखण्डनटीकोक्तं प्रेक्षावदुपादेयत्वरूपं ग्रहीतुं न शक्यम् । तस्य प्रेक्षावत्प्रवृत्तिविषयत्वरूपतया अत्रोक्तप्रयोज्यप्रयोजकभावानुपपत्तेः । तथाऽपि श्रोतव्यत्वादिरूपमन्यदेवेति द्रष्टव्यम् । श्री० उत्तरमाह || सन्देहेऽपीति । अनुमानस्याखिलः पठ्यमानत्वहेतोः ॥ उत्तन्यायेन इति । सर्वाणि वेदवाक्यानि प्रत्येकं परब्रह्मप्रतिपादकतया अवान्तरब्रह्मविद्याः । तत्र 'स्रवत्यनोवृतं ब्रह्म' इति वचनात्सर्वास्वपि ब्रह्मविद्यास्वाद्यन्तयोरोङ्कारस्योहः कर्तव्यः । प्रतिवाक्यमाद्य-तयोर.च्चारणे गौरवं स्यादित्यधिकृतत्वेनादावुच्चार्यत इत्येवमुक्तरीत्येत्यर्थः । दृष्टान्तसाधकहेतोरिति । वेदाध्ययनोपक्रमे अध्येतृभिरुच्चार्यमाणोङ्काररूपदृष्टान्ते वेदवाक्यानवयवत्वरूपसा यसाधकस्या-ययोपक्रमविरतिवैचित्र्येण तत्तत्स्थानपरित्यागेनान्यान्यस्थाने पठ्यमानत्वहेतोरनवयवत्वं विना सर्वत्रानुगतत्वेनान्यथासिद्धिः सर्वत्रानु- गतत्वेनेति मूलवाक्येनोक्ता भवतीत्यर्थः ॥ साध्यविकलतेति । तत्रापि स्रवणाभावसम्पादकतया पुण्यसम्पादकत्वेन वेदेन सहैककार्यकारित्वरूपावयवत्वस्य सत्वादिति भावः ।। उक्तमुपपन्नमिति । अयमोङ्कारः सूत्रकृता मङ्गलार्थतया सूत्रादावुपनिबद्ध इत्युपपन्न इत्यर्थः । अत्रोङ्कारस्य प्रथमसूत्रावयवत्वं नाम तदुपयुक्तार्थप्रतिपादकत्वम् । तथा हि । ब्रह्मजिज्ञासेत्यत्र निर्विषयत्वशङ्कापरिहाराय ब्रह्मपदेन वेदप्रतिपाद्यत्वरूपं विषयत्वमीश्वरस्योक्तम् । तत्कथमितिशङ्कायां वेदस्येश्वरप्रतिपादकतया तद्विपयकत्व- समर्थनार्थमोङ्कारः सूत्रकृता ब्रह्मणि प्रयुक्तः । तत्प्रकारश्च स एव ब्रह्मशब्दार्थो व्याहृतीनां च' इत्यादिना उत्तरत्र स्पष्टः । द्वितीयादिसूत्रेप्योङ्कारस्य तदवयवत्वं नाम तेन सहैककार्यकारित्वम् । स्रवणविशरणा- भावसम्पादकतया सूत्रेण सह पुण्यरूपैककार्यकारित्वात् । आद्यन्तयोरोङ्कारपूर्वकं सूत्रोच्चारणे पुण्यं सम्पद्यत इति यावत् । एतादृशादृष्टार्थत्वमोङ्कारस्य प्रथमसूत्रेऽप्यस्ति । तथाच प्रथमसूत्रे ॐकारस्य स्विष्टकृदादिवत् दृष्टादृष्टोभयार्थत्वम् | द्वितीयादिसूत्रे तु केवलादृष्टार्थत्वमेवेति मन्तव्यम् ॥ च०- तया प्रणाडयेति । श्रीतार्थवादमहिनोङ्कारस्योहविधेरवधृत्या तदवयवतानिीत्या प्रतिसूत्रमाद्यन्तयोरुच्चारणे गौरवं स्यादित्यादावेवोङ्कारोधिकृतत्वेनोच्चार्यते अस्य संहितया निर्देशे प्रथम- सूत्रावयव एवायं विज्ञायेत तन्मा विज्ञायीति शिष्टैः पृथगोक्रियते । तथाच हेहोरसिद्धिरक्ता भवतीति उक्तदिशेत्यर्थः । सन्दिग्धान्यथासिया । अप्रयोजकताशङ्कया । आभासत्वमेव । रत्नकोशकारान्यमते संशयात्मकानुमितेरनुपगमेन प्रकृतसाध्यविधेयकानुमित्यनुपपादकत्वमेव । वक्ष्यमाणन्यायेन । तदेता- वोङ्कारब्रह्मशब्दावपि यौगिको जिज्ञास्यमनन्तगुणपूर्ण प्रतिपादयन्तावित्यादिनोङ्कारस्याभिधास्यमानविषय- समर्पकत्वाश्रयन्यायेन । ॐकारार्थस्य । गुणपूर्णत्वस्य प्रथमसूत्रवाक्यार्थे विशिष्टाधिकारिकमोक्षफलक- जीवान्यभूतधर्मि विशेषितजिज्ञासालक्षणमि विशेषितत्वं विषयिताप्रत्यासत्या । समन्वयेन । प्रकारिता शास्त्रे प्रवृत्तिः) : # जिज्ञासाधिकरणम् । प्रत्यासत्याऽन्वयोपगमेन । अनुमानमनवयवैत्वसाध्यकम् । अत्र चोङ्कारस्तु पृथगुच्चरितो वेदितव्यः न अथशब्दवत्सूत्रोपनिबद्ध इति सन्न्यायरत्नावलीग्रन्थविरोधमाशङ्कमानाश्चन्द्रिकाकाराः पृथक्त्वमूह्यमानत्व. मसंहितयोचार्यमाणत्वरूपं 'ॐकारश्चाथशब्दश्च' इत्याद्यानुपूर्वीकभाप्योदाहृतप्रमाणेन तत्र ताराथेत्यनु- व्याख्यया च विरोधादित्यभिसन्दधाना समेदधुरिति सर्व समञ्जसम् । दृष्टान्तदूषणम् । सा-यवैकल्य- रूपम् । अनेन ग्रन्थेन क्रियते व्युत्पाद्यते । पृथगित्यनूद्य रूपान्तरेणेति व्याख्यातं तदपि विवृणोति ॥ स्थानव्यत्यासेनेति । ॐक्रियते ॐइत्युच्चार्यते । तदित्युपपद्यत इत्यनेनात्वेति ॥ आदावुच्चारणेति । दर्शितस्थापनानुमानरूपेणेत्यर्थः । अन्यथासिद्धिः साध्यमन्तरेणापि सत्वम् ॥ निरयवादेनेति । अपवादान्निष्क्रान्तेनेत्यर्थः । निरादय इत्यनुशासनात् । अपवादापादानकनिष्क्रान्तिविशेषितेनेति फलिता- शयः ॥ प्रेक्षावदिति । अत्र आरम्भणीयत्वप्रेक्षावत्प्रवृत्तिविषयत्वयोः प्रयोज्यप्रयोजकमावोक्तया तयोः परस्परतादात्म्यप्रत्यायकटीकान्तरं विरुध्यत इति शङ्कमाना व्याकर्तारः करणयोगत्वादिरूपमन्यदेव द्रष्टव्यमिति समादधति । सु०--- ननु ब्रह्मज्ञानस्य मोक्षहेतुता यदि शास्त्रप्रवृत्तेः प्रागेव प्रमाणान्तरसिद्धा व्यर्थ तदा तदभिधानं शास्त्रे । प्रमाणान्तरसिद्धे क्वचिदुपदेशानपेक्षणात् । अथेहैन र विश्वर रूदा प्रवृत्तौ प्रयोजनादिनिश्चयो निश्चिते च प्रयोजनादौ प्रवृत्तिरित्यन्योन्याश्यत्वम् । अथ प्रथम- सूत्रात्तनिश्चयः । तत्रैर कथं प्रवृत्तिः । तदर्थ च प्रयोजनान्तराभिधानेऽनदस्था । एवमेव तत्र प्रवृत्तावुत्तरत्रापि तथात्वप्रसङ्गादनर्थकं सूत्रे प्रयोजनाधमिधानमिति । उच्यते । त्रिविधा हि पुंसां चित्तवृत्तिः । अनुभव इच्छा प्रयत्नश्च । तत्र साधनगोचराविच्छाप्रयला प्रवृत्तिरिति उच्यते । न त्वनुभवो नापि फलगीचरेच्छा । येन तयोरपि प्रयोजननिश्चयापेक्षा स्यात् । न हि उपेक्षणीयं निष्प्रयोजनमिति नानुभूयते । नापि सुग्य प्रयोजनान्तररहित मिति नेष्यते । न च मुमुक्षुणा अनपेक्षिते स्वर्गे यागादिकं तत्साधनतया नानुभूयते । पुरुषार्थम.धने तु इच्छलक्षणा प्रयत्नलक्षणा वा प्रवृत्तिस्तथा न स्वरससिद्धा । न हि कश्चित्क्षुत्महणादिकमन्नु- सन्धाय भोक्तुमिच्छति प्रयतते वा । तस्माद्यो यत्र प्रवर्तनीयः स तत्त्रयोजनादिकं दर्शयित्वैव इति सार्थकं सूत्रे प्रयोजनाद्यभिधानम् । ननु प्रथमसूत्रस्य शास्त्रप्रवृत्तिप्रयोजकप्रयोजनादिप्रतिपादकत्वं वदता तस्य शास्त्रान्तर्भाव: अङ्गीक्रियते न वा । आद्येऽपि तस्य प्रमाणान्तरसिद्धब्रह्मज्ञानमोक्षसा-यसाधनभावबोधकत्वं तदनवगत- तबोधकत्वं वा। आद्ये वाक्यप्रामाण्यस्य फलनियतत्वेनावगतार्थबोधकत्वे प्रयोजनान्तरस्याप्यभावेन अप्रामाण्यापत्तेः । द्वितीयेऽपि फलाद्यध्यायैस्तन्निश्चयः प्रथमसूत्रं तु तत्प्रतिजारूपमिति वा शास्त्रैक देश- वा० प्रथमसूत्रेणैव तन्निश्चयो वा । आये शास्त्रप्रवृत्तिप्रयोजकप्रयोजनादिनिश्चयस्य शास्त्रप्रवृत्तिसाध्यत्वेन अन्योन्याश्रयतापत्तेः । शास्त्रान्तर्भावो नेत्याद्यद्वितीये शास्त्रैकदेशप्रथमसूत्रेणैव तन्निश्चय इति । अव्यव. हितद्वितीयेऽपि प्रथमसूत्रे प्रवृत्तिः प्रयोजनादिनिश्चयसाध्या न वा । आये तत्र प्रयोजनादिनिश्चायकस्य अभावे प्रवृत्त्यनुपपत्त्या तत्प्रवृत्तिप्रयोजकप्रयोजनादिनिश्चायकान्तराभिधाने तत्प्रवृत्तिप्रयोजकप्रयोजनादि- निश्चायकान्तरपरम्परयाऽनवस्थापत्तेः । नेति पक्षे न्यायसाम्येन शास्त्रप्रवृत्तेरपि तन्निश्चयाभावेऽप्युपपत्त्या प्रथमसूत्रे तदभिधानं व्यर्थ स्यादित्याशङ्कते ॥ नन्विति । अत्र शास्त्रस्य प्रयोजनहेतुतेति वक्तव्ये न्यायग्रथनात्मकशास्त्रस्य न्यायानुसन्धानफलकत्वस्य न्यायानुसन्धानरूपविचारस्य च विचार्यज्ञानहेतुताया लोकसिद्धत्वाल्लोकतोऽसिद्धब्रह्मज्ञानमोक्षसाच्यसाधनभावस्यैव सूत्रप्रमेयन्वमित्यभिप्रेत्य ब्रह्मज्ञानस्य मोक्षहेतुता इत्युक्तम् । प्रमाणान्तरसिद्धता च विचारस्य ज्ञानहेतुतैव प्रत्यक्षादिसिद्धता वा । अलौकिकन्वादस्यार्थस्य श्रुतिसिद्धता वेति द्रष्टव्यम् । सूत्रे प्रकृते शास्त्र इत्युक्तिः प्रथमसूत्रस्य शास्त्रान्तर्भावपक्षे दूपणन्वं सूचयितु तथा चेहैवेति शास्त्रपरामर्शादन्योन्याश्रयतोपपादनसौकर्यम् । प्रमाणान्तरसिद्ध कचिदुपदेशा- नपेक्षणादिति च श्रौतप्रयोजनादेयाये..ोपपादनार्थमिति वक्ष्यमाणव्यावर्त्यत्वेनेति द्रष्टव्यम् । विमता शास्त्रे प्रवृत्तिः प्रयोजनादिज्ञानसाध्या प्रवृत्तित्याद्वालस्य स्तनपानप्रवृत्तिवदित्यनुमानेन प्रवृत्तेः प्रयोजनादिज्ञान- साध्यत्वसिद्धेः सूत्रकारेण शास्त्र प्रवर्तनीयं प्रति प्रयोजनादि दर्शनीयमेवेति युक्तं सूत्रे तदभिधानमिति वक्तुं यत्किञ्चिदनुभवे फलेच्छायां स्वाल पेक्षितप्रयोजनसाधनानुभवे च प्रवृत्तित्वहेतोय॑भिचारादनुमानमेव अयुक्तमित्यतः साधनगोचरेच्छाप्रयत्नयोरेव प्रवृत्तित्येनोभयविधानुभवफलेच्छयोश्चित्तवृत्तित्वेऽपि प्रवृत्तित्वा- भावान्न व्यभिचार इत्याह || उच्यत इति ।। स्यादिति । अन्यथा व्यभिचारापत्तरिति भावः । ननु साध्यसत्त्वमेवाभ्युपगम्य व्यभिचारपरिहारसम्भवे एवं वैलक्षण्यमङ्गीकृत्य हेत्वभावव्युत्पादनमनुचित- मित्यतस्तत्र साध्याभ्युपगमस्यायुक्ततामाह ॥ न हीत्यादिना । उपेक्षणीयस्य स्वस्य प्रयोजनवाभावे सति प्रयोजनान्तरशून्यत्वं सुरवस्य तु प्रयोजनान्तरशून्यन्वमानं यागादेस्त्वनपेक्षितप्रयोजनवमिति विशेषः (भेदः) । ननु पक्षीभूतप्रवृत्तेरप्यनुभवादिवत्प्रयोजनादिनिरपेक्षत्वे बाधः स्या दित्यत आह || पुरुषार्थति । अत्रार्थसाधन इत्यंशेन सुखोपेक्षणीययोः पुरुषार्थत्यंशेनानपेक्षितप्रयोजनस्य व्यावृत्तिरिति द्रष्टव्यम् । तदेव उपपादयति ॥ न हीति । एवमाभासोद्धारे सिद्धमनुमानमित्यभिप्रेत्योपसंहरति ॥ तस्मादिति । यद्वा । यदि पक्षीभूतप्रवृत्तेः प्रयोजनादिनिश्चयसाध्यत्वं तर्हि ज्ञानफलेच्छयोरपि प्रवृत्तित्वाविशेषात् प्रयोजनादिनिश्चयसाध्यता स्यात् । अन्यथा पक्षीकृतप्रवृत्तरपि न स्यादिति पूर्वोक्तानुमाने तर्कपराहतो प्राप्तायां ज्ञानेच्छाप्रयत्नानां चित्तवृत्तित्वाविशेोऽपि प्रवृत्तित्वाविशेषोऽसिद्धः । साधनेच्छाप्रयत्नयोरेव प्रवृत्तित्वेन ज्ञानफलेच्छयोः प्रवृत्तित्वाभावात् । तदभावे तत्प्रयोज्यप्रयोजनादिनिश्चयसापेक्षताया अपि शास्त्रप्रवर्तकविधारः) ॥ जिज्ञासाधिकरणम् ॥ १४५ अभावात् पक्षीभूतप्रवृत्तेश्च प्रयोजकवत्वात् प्रयोज्यवत्त्वमिति व्याप्तिविकलोऽयं तर्काभास इत्यभिप्रेत्याह ।। उच्यत इति । ननु ज्ञानफलेच्छयोरपि प्रयोजकप्रयोज्ययोः प्रवृत्तित्वप्रयोजनादिनिश्चयसापेक्षत्दयोः स्वीकारेणैव तर्कस्येष्टापादनत्वे वक्तुं शक्ये व्याप्तिवैकल्योक्तौ किं बीजमित्यतः प्रयोजनादिनिश्चय- सापेक्षत्वस्य तत्रासम्भवित्वाद् युक्तं व्या तिवैकल्यकथनमित्यभिप्रेत्याह ॥ न हीत्यादिना । पक्षीकृतप्रवृत्तावपि प्रयोजनादिनिश्चयसाध्यत्वस्यासम्भवित्वे तत्साधनमशक्यमित्यत आह ॥ पुरुषार्थेति । एवं च तर्कपराहतेरभावाद् युक्तमनुमानमित्यभिप्रेत्य तत्फलमुपसंहारन्याजनाह ॥ तस्मादिति । अथवा प्रथमसूत्रप्रवृत्तेः प्रयोजनान्तराभिधानेऽनवस्था प्रसञ्जयन्प्रष्टव्यः । ज्योतिष्टोमेन स्वर्गकाम इत्यादि- वाक्यजनितमुमुक्ष्वन भिमतस्वर्गादिसाधनतानुभवस्येव प्रथम सूत्राज्जायमानफलसाधनतानुभवमात्रस्य प्रवृत्ति- शब्दार्थत्वमित्यभिप्रेत्य तदर्थ प्रयोजनान्तराभिधा नेऽनवस्थाप्रसङ्गं ब्रूपे आहोस्विन्प्रथमसूत्रसा-यजिज्ञासा- वाक्यविचाररूपपुरुषार्थसाधनेच्छाप्रयत्नरूपप्रथमसूत्रप्रवृत्तेःप्रयोजनादिनिश्चयसाध्यत्वेऽनवस्थाप्रसङ्गं ब्रूपे । नाद्यः । दृष्टान्तदान्तिकानुभवद्वयस्यापि प्रयोजनादिनिश्चयसा-यत्वानभ्युपगमात् । न च तāदमेव प्रवृत्तावित्युक्तदूषणप्रसङ्गः । अनुभवद्वयस्य चित्तवृत्तित्वेऽपि प्रवृत्तित्वाभावेन तद्रूपणाप्रवृत्रेरित्यभिप्रेत्य चित्तवृत्तिप्रवृत्तिस्वरूपं विवेचयति ।। उच्यत इति । न केवलं प्रवृत्तित्वाभावादनुभवादेः प्रयोजनादि- निश्चयसापेक्षत्वाभावोऽपि त्वसम्भावितत्वाछेत्याह ॥ न हीत्यादिना । अत्र पक्षे उपेक्षणीयानुभव- फलेच्छयोदृष्टान्ततयोपादानमिति मन्तव्यम् । द्वितीये तु प्रथमसूत्रप्रवृत्तेः प्रयोजनादिनिश्चयसापेक्षत्व. मनुमतमेव । अनवस्थां च परिहरिप्याम इत्यभिप्रेत्यानुभवादेवि प्रवृत्तेः प्रयोजनादिनिश्चयसापेक्षत्वं नासम्भावितमित्याह ॥ पुरुषार्थेति । फलितमाह ॥ तस्मादिति । शास्त्र प्रेक्षावत्प्रवृत्त्यर्थ प्रयोजनादिप्रतिपादकसूत्रार्थपरं भाषणं चानर्थकमिति आक्षिपति ।। ननु ब्रह्मज्ञानस्येति । किं प्रवृत्तिमात्रे प्रयोजनादिनिश्चयस्य कारणत्वमेतच्छास्त्रप्रवृत्तावेव । आयेऽपि किं प्रयोजना दिनिश्चयः प्रमाणान्तरेणोत प्रथमसूत्रेग । द्वितीयेऽपि किं प्रथमसूत्रं शास्त्रान्तभू नमुतवहिभूतमिति विकल्पान्मनसि निधाय प्रथमे प्रथममाशङ्कय परिहरति । यदि शास्त्रप्रवृत्तः प्रागेवेति । शास्त्रारम्भ- हेतुभूतप्रयोजनादिप्रतिपादकस्यापि यदि श्रुत्यादिसिद्धानुवादकत्वं तहिं तत एव तन्निश्चयात् सूत्रानर्थक्यम् । यद्यपि प्रमाणानां सम्प्लवोऽभिमतः तथापि शब्दस्यापेक्षितार्थबोधकत्वात् सिद्धे चोपदेशानपक्षणादिन्युक्तम् ।। क्वचिदिति । निष्प्रयोजनस्थल इत्यर्थः । तेन 'सौर्य चकै निर्वपेद्ब्रह्मवर्चसकाम' इत्यादौ द्रव्यदेवता- संयोगाद्यागपरत्वे अर्थप्राप्तनिर्वापानुवादकत्वेऽपि धातोर्यथा अर्थवत्वं तथाऽत्रेति निरस्तम् । तत्र निर्वापवानयं याग इति प्राशस्त्यरूपार्थबोधकत्वेन सार्थक्यादिति भावः ॥ प्रथमस्य द्वितीये प्रथममाशङ्कय पराचष्टे ।। अथेहैवेति । इह शास्त्रे | तस्यैव प्रयोजनाद्यभावात्प्रवृत्त्यनुपपत्तौ शास्त्रीयप्रवृत्तिप्रयोजकत्वं न स्यात् । S.T. 19 ॥ न्यायसुधा॥ (म. १ १ पा. १ तेनैव तत्प्रतिपादनेऽन्योन्याश्रयापनेरिति भावः ॥ तदर्थ चेति । प्रयोजनादिप्रतिपादकस्यापि प्रयोज. नादिरहितत्वे प्रवृत्त्यभावापत्तेः प्रयोजनादिमत्वं स्वत इत्युक्त आत्माश्रयात् , तदपेक्षया प्रथमसूत्राच्चेद- न्योन्याश्रयात् तस्यापि अन्यतश्चत्तस्याप्येवमित्यनवस्थेति भावः । आये द्वितीयं निराकरोति ॥ एवमेवेति । प्रयोजनादिमत्येव प्रवृत्तेः स्वारसिकत्वात् प्रथमसूत्रे प्रवृत्त्यभावे शास्त्रस्य प्रयोजनादिमत्त्वमेव न सिद्ध्येदिति भावः ॥ प्रवृत्तिनात्रस्य प्रयोजनादिनिश्चयसापेक्षत्वात् शास्त्रीयप्रवृत्तिप्रयोजनादिप्रतिपादकं प्रथमसूत्रं सार्थकमेव । ननु प्रवृत्तिमात्रस्य प्रयोजनादिनिश्चयसापेक्षत्वे अनुभवादेरपि प्रवृत्तित्वात्सापेक्षता स्यादित्यतो या प्रवृत्तिः सा प्रयोजनादिनिश्चयसापेक्षा या प्रयोजनादिनिश्चयापेक्षा न सा प्रवृत्तिरिति वक्तुं प्रवृत्तिविवेकार्थ चित्तवृत्तिविभागमाह ॥ त्रिविधा हीति । अत्र प्रवृत्तिमात्रे प्रयोजनादिनिश्चयो हेतुरिति प्रथमपक्षान्तर्गतः प्रमाणान्तरेण प्रयोजनादिनिश्चय इति पक्षः । प्रथमसूत्रेणेत्याद्यद्वितीयेऽपि प्रथमसूत्रं शास्त्रान्तर्भूतमिति प्रथमपक्षः शास्त्रीयप्रवृत्तावेव प्रयोजनादिनिश्चयो हेतुरिति ।। आधद्वितीयपक्ष इति । पक्षत्रयस्यानङ्गी कारपराहतत्वात् न तत्पक्षोक्तदोषावकाशः । प्रथमसूत्रेण तन्निश्चयपक्षोक्तदोषं तु 'अध्ययन- विध्यादिवदस्याप्यत एवारम्भणीयत्वसिद्धर्ना विस्थादिदोषोऽपि' इत्युत्तरत्र परिहरिप्यतीति द्रष्टव्यम् । अथवा तत्र तावद्विमता प्रवृत्तिः प्रयोजनादिनिश्चयसापेक्षा प्रवृत्तित्वाद्भोजनादिप्रवृत्तिवदिति शास्त्रविषय- प्रवृत्तेः प्रयोजनादिनिश्चयपूर्वकत्वनियमान्नै रमेव प्रवृत्तियुक्तेत्याह । उच्यत इति । इच्छाप्रयत्नानुभवानां एव प्रवृत्ति वात्सुखादिविषयेच्छानुभवयोः प्रयोजनान्तराभावात् प्रवृत्तित्व हेतोःर्यभिचार इत्यत आह || त्रिविधा हीति । तत्र तेषां मध्ये सुखादिविषयेच्छानुभवयोः प्रयोजनान्तराभावात्प्रवृत्तित्वहेतोयभिचार इत्यत आह ॥ प्रवृत्ती.ते । प्रवृत्ति .ब्दवाच्यत्र.भावान्न व्यभिचार इत्यर्थः ॥ न त्विति । तयोः प्रवृत्तित्वस्यै वाभावात्तन्निबन्धनं प्रयोजनान्तरवत्वमपि न.स्ति । यतः सपक्षत्वं स्यादित्यर्थः ।। न हीति । प्रमाणविरुद्धं च तयोः प्रयोजनान्तरवत्त्वम् । स्वर्गस्य सुख सत्येऽरक्षितत्वाभावाहिकामुमिकफल- वैराग्यवतेत्यभिप्रेत्य मुमुक्षुणेत्युक्तम् ।। पुरुषार्थेति । फलगोचरेच्छादेः प्रवृत्तिन्वमेव नास्तीन्युक्तम् । अस्तु वा तथापि न व्यभिचारः । अस्वारसिकप्रतित्वस्य हेतुत्वादिति भावः । अथवा न चै(नन्वे)वं तर्हि साधनगो वरेच्छादिकं न फलवत् इच्छ.दित्वात्तत्फर.गोचरेच्छावदिति फलस्यानर्थक्यम् । अत्रास्य स्वारसिकेच्छादित्वमुपाधिः न चोपेक्षणीये साध्याव्यापकता, साधनावच्छिन्ने साध्ये अस्योपाधित्वादित्याह ।। पुरुषार्थेति । ननु प्रवृत्तेरपि प्रयोजनादिपूर्वकन्वाभावे किं बाधकं तत्राह ॥ न हीति । प्रवृत्यनुपपत्तिः बाधिकेत्यर्थः । तस्मादिति व्याप्तिप्रदर्शनं इतीत्युपनयनिगमने । इति शब्दो हेतौ । यस्मादियं प्रवृत्तिः तस्मात्प्रयोजनाद्यभिधानपूर्विका इति । - शास्त्रप्रवर्तकविधारः ) जिज्ञासाधिकरणम् । १४७ ॥ प०- प्रयोजनाद्यभिसम्बन्धज्ञानं प्रवृत्तिहेतुरित्युक्तम् । तत्कि मानान्तरेणाथैतच्छास्त्रेणोताद्य- सूत्रेणेति विकल्पान्क्रमेण निराह || नन्वित्यादिना ।। ब्रह्मज्ञानस्य मोक्षहेतुतेति । ब्रह्मज्ञानद्वारा शास्त्रस्य मोक्षहेतुतेत्यर्थः । यद्यपि प्रयोजनाद्यभिसम्बन्ध प्रतिपादयतः प्रथमसूत्रस्येत्युक्तत्वान्न कोट्यन्तर- शङ्काऽवकाशः । शास्त्रे प्रवृत्त्यर्थ तस्य प्रयोजनाद्यभिसम्बन्धाभिधानमाद्यसूत्रे चेत्तत्रैव कथं प्रवृत्तिरित्येव शङ्कनीयम् । तथापि यदि कश्चिदन्यत एव तद्ज्ञानमिति ब्रूयात्तदा तं प्रत्युत्तरं वक्तुं परिशेषादाद्यसूत्रादेव तदिति दृढीकर्तुं प्रमाणान्तरसिद्धेत्यादिकोटेरप्युपन्यास इत्यदोषः ।। कथामिति । आद्यसूत्रजन्योक्तरूप- निश्चयस्यापि फलान्तरहेतुत्वानिश्चये तज्जनक आधसूत्रेऽपि प्रवृत्ययोगादिति भावः ॥ तदर्थमिति । यथा जन्माद्यस्येत्यादिशास्त्रप्रवृत्तिहेतुतया तज्जन्यब्रह्मज्ञानद्वारा तस्य प्रयोजनाद्यभिसम्बन्धज्ञानजननाय आद्यसूत्रमित्युच्यते । तथाऽऽद्यसूत्रेऽपि प्रवृत्त्यर्थमाद्यसूत्रस्यापि तज्जन्योक्तरूपज्ञानद्वारा तस्य प्रयोजना- द्यभिसम्बन्धं ज्ञापयितुं सूत्रान्तरं तत्राप्येवमित्यर्थः ॥ एवमेवेति । प्रयोजनहेतुत्वाननुसन्धानेनैवाद्यसूत्रे प्रवृत्तावित्यर्थः । तत्रैव कथं प्रवृत्तिरित्या दिनोक्तामनवस्था निरसितुं प्रवृत्तिशब्दार्थ तावन्निर्धारयति ।। त्रिविधा हीत्यादिना । प्रयत्नश्चेत्यनन्तरमितिशब्दोऽध्याहार्यः । इच्छा च द्वधा । साधनगोचरा फलगोचरा चेत्यपि योज्यम् ॥ नत्लनुभव इति । पुमर्थसाधनत्वप्रकारकसाधनगोचरानुभव इत्यर्थः । फलगोचरेच्छाऽपि न प्रवृत्तिरित्युच्यत इत्यन्वयः ॥ येनेति । प्रवृत्तिशरीरप्रवेशेन निमित्तेन साधनन्द- प्रकारकसाधनगोचरनिश्चयफलेच्छयोरपि स्वस्वविषयस्य स्वस्य वा फलहेतुत्वनिश्चयापेक्षा स्यात्तथा तन्निमित्ता. नवस्था च स्यादित्यपि योज्यम् ॥ एतच्चोपलक्षणम् । येन फलेच्छापि फलान्तराधीनेच्छा स्यात् । तथा तन्निमित्तानवस्था च स्यादित्यपि ध्येयम् ॥ प्रयोजननिश्चयापेक्षेत्यस्य प्रयोजनहेतुत्वनिश्चया पक्षेत्यर्थः । साधनानुभवफलेच्छयोः प्रयोजनापेक्षा नेत्येतत्क्रमेण व्यनक्ति । न हीति । ननूक्तरूपानुभवस्य फला- न्तरानपेक्षत्वेऽपि इच्छाप्रयत्नयोरेवं फलेच्छापेक्षत्वं तु स्यादित्यतस्तदपि नेत्याह ॥ न चेति । अनपेक्षितत्वे हेतु: मुमुक्षुणेति । 'ज्योतिष्टीमेन स्वर्गकामो यजेते'त्यादिवाक्यश्रवणे सति स्वर्गादौ विरागिणोऽपि व्युत्पन्नस्य वाक्यार्थबोधोदयानुभवादिति भावः । ननु यथाऽऽद्यसूत्राच्छास्त्रस्य पुमर्थहेतुत्वानुभवस्तस्य फलहेतुत्वज्ञानानपेक्षस्तथेच्छाप्रयत्नावपि तदनपेक्षी स्याताम् । एवं चाद्यसूत्रं व्यर्थमित्यत आह ॥ पुरुषार्थसाधने विति । शास्त्ररूप इति भावः । इच्छा प्रारम्भेच्छा ॥ प्रयत्लेति । श्रवणाद्यनुकूल- प्रयत्नेत्यर्थः ॥ न स्वरससिद्धेति । पुरुषार्थहेतुत्वज्ञानं विना फलेच्छां च विना न सिद्धेत्यर्थः । तद्व्यनक्ति ॥ न हीति । क्षुत्प्रहाणादिकं भोजनसाध्यत्वेनाननुसन्धायेत्यर्थः ॥ सार्थवामिति । एतेन आद्यपक्षे भाष्यकारीयं प्रयोजनाभिधेयसम्बन्धव्युत्पादनमपि समर्थितं ध्येयम् । S.T. 19A प्रथमसूत्रादक ब्रामज्ञानस्य माद प्रवृत्तिरिति वाच्यम् । तत्राप्रवृत्तस्यापि घनगर्जितन्यायेन प्रथमसूत्रश्रवणे व्युत्पन्नस्य मुमुक्षोर्ब्रह्मज्ञानं मोक्षहेतुरित्यनुभवोपपत्तरित्यभिप्रेत्य समाधानमाह ।। उच्यत इति । नन्वनुभवेच्छाप्रयत्नानां प्रवृत्तित्वात् प्रवृत्तित्वावच्छिन्ने च प्रयोजनादिनिश्चयस्यापेक्षितत्वात्तदभावे कथं ब्रह्मज्ञानं मोक्षहेतुरित्यनुभवरूपा प्रवृत्तिः प्रथमसूत्रात्स्यात् । कथं वा प्रयोजनाद्यनिश्चये मोक्षे इच्छारूपा प्रवृत्तियेन स पूर्व मुमुक्षुः स्यादित्यत आह । त्रिविधा हीति । ब्रह्मज्ञानं मोक्षहेतुरित्यनुभवस्य वा मोक्षरूपफलेच्छाया वा प्रवृत्तिशब्दा- वाच्यत्वेनाप्रवृत्तित्वेन विवक्षितत्वात् । प्रयोजनाद्यनिश्चयेऽप्युक्तरीत्या तयोः सम्भवान्न कोऽपि दोष इति भावः ! अनुभवस्य प्रयोजननिश्चयानपेक्षत्वं दर्शयति ॥ न हि उपेक्षणीयमिति । फलगोचरेच्छायाः तदनपेक्षत्वं दर्शयति ॥ नापि सुखमिति । ननूपेक्षणीयानुभवस्य प्रयोजननिश्चयापेक्षत्वेऽपि साधनानु- भवस्य प्रयोजननिश्चयापेक्षानियमादुक्तदोषस्तदवस्थ एवेत्यत आह ॥ न च मुमुक्षुणेति । तथा च न कोऽप्यनुभवः प्रयोजननिश्चयापेक्षः किन्तु स्वकारणापेक्ष एवेति भावः । नन्वेवं पुरुषार्थसाधने , ब्रह्मज्ञाने इच्छाप्रयत्नरूपप्रवृत्त्योरपि स्वकारणाधीनत्वसम्भवेन तदर्थ सूत्रे प्रयोजनाद्यभिधानं व्यर्थमापन्नमित्यत आह ।। पुरुषार्थसाधने विति । तथा च न स्वरससिद्धा यथाऽनुभवफलेच्छे प्रयोजनानिश्चयेऽपि स्वकारणादेव भवतस्तथेत्यर्थः । नन्वेवं व्युत्पन्नस्य मुमुक्षोः प्रथमसूत्र इवाग्रेऽपि प्रयत्नाद्यभावेऽपि कथञ्चित् श्रवणेन तदर्थानुभवसम्भवात्तदर्थकोक्तरूपप्रवृत्तिप्रयोजकं प्रयोजनाद्यभिधानं व्यर्थमापन्नमिति चेत् । न । आद्य- सूत्रमात्रे कथञ्चित् श्रवणस्योक्तन्यायेन सम्भावितत्वेऽप्यशेषशास्त्रे तथा श्रवणसम्भावनाया अनुभव- बाधितत्वात् मोक्षोपयोगिनो विमर्शसाध्यस्येदमित्थमित्येवेत्यवधारणरूपशास्त्रसाध्यानुभवस्योक्तरूपप्रवृत्त्यभावे कथञ्चित् श्रवणमात्रेणासम्भवाच्च ॥ प्रवर्तनीय इति । साधनगोचरेच्छाप्रयत्नवान्करणीय इत्यर्थः । केचित्तु विमता प्रवृत्तिः प्रयोजनादिज्ञानपूर्विका प्रवृत्तित्वात् भोजनादिप्रवृत्तिवदिति शास्त्रविषयप्रवृत्तेः प्रयोजनादिपूर्वकत्वनियमात् । नैवमेव प्रवृत्तिर्युक्तेत्याह ॥ उच्यत इति । इच्छाप्रयत्नानुभवानामेव प्रवृत्तित्वात्सुखादिविषयेच्छानुभवयोः प्रयोजनान्तराभावात् प्रवृत्तित्वहेतोर्व्यभिचार इत्यत आह ॥ त्रिविधा हीति । तत्र तेषां मध्ये सुखादिविषयेच्छानुभवयोः प्रवृत्ति शब्दवाच्यत्वाभावान्न व्यभिचार इत्यर्थ इत्याहुः । श्री० प्रयोजनान्तरेति । प्रथमसूत्रे प्रवृत्त्यर्थ सूत्रान्तरं कृत्वा तेन प्रयोजनान्तराभिधान इत्यर्थः । एवमेव प्रयोजनाद्यनभिधानेऽपि । तत्र प्रथमसूत्रे । उत्तरत्रापि शास्त्रेऽपि । अनुभवः साधनगोचरानुभवः ॥ नानुभूयत इति । किन्त्वनुभूयत एवेति अनुभवस्य प्रयोजननिश्चयापेक्षत्वं नास्तीति भावः । सुखं मुखरूपं फलम् ॥ नेष्यत इति । किन्त्विष्यत एवेति फलगोवरेच्छायाः -- ।। शास। प्रयोजननिश्चयापेक्षत्वं नास्तीति भावः ॥ नानुभूयत इति । मुमुक्षुत्वादेव स्वर्गेच्छा न हि । तस्यापि ज्योतिष्टोमेनेत्यादिवाक्यश्रवणानन्तरं यागः स्वर्गसाधनमित्यनुभवस्य जायमानत्वेन साधनगोचरानुभवस्यापि न प्रयोजननिश्चयापेक्षत्वमिति न कोऽप्यनुभवः प्रयोजननिश्चयापेक्ष इति भावः । नन्वनुभवफलगोचरे- च्छयोरिव प्रवृत्तित्वेनाभिमतयोः साधनगोचरेच्छाप्रयत्नयोरपि प्रयोजननिश्चयाधीनत्वाभावोपपत्तेः पुरुषार्थ- साधनभूतब्रह्मज्ञानगोचरेच्छाप्रयत्नरूपपुरुषप्रवृत्यर्थ सूत्रे प्रयोजनाभिधानं व्यर्थमेवेत्यत आह । पुरुषार्थति ॥ तथेति । अनुभवफलगोचरेच्छयोरिवेत्यर्थः ॥ स्वरसेति । प्रयोजनानिश्चयेऽपीत्यर्थः । ननु पुरुषार्थ- साधनेऽपीच्छाप्रयत्नलक्षणप्रवृत्योः प्रयोजननिश्चयानपेक्षत्वमेव किं न स्यादित्यत आह || न हीति । क्षुत्प्रहाणादिकं तद्रूपं पुरुषार्थ प्रयोजनमिति यावत् ॥ भोक्तुमिति । क्षुत्प्रहाणसाधनीभूतभोजनेच्छा- वान् भवति भोजने प्रयतते वा । न हीत्यर्थः ॥ च०- अथ शास्त्रप्रवृत्तिनिष्ठप्रवृत्तित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकीभूतेष्टसाधनता- निश्चयत्वावच्छिन्नधर्मिकप्रकृतशास्त्रान्यप्रमाणनिप्पन्नत्वप्रकृतशास्त्रनिवर्त्यत्वप्रथमसूत्रायत्तत्वोपरक्तकल्पत्रयी . घटितादिमकल्पमुपदेशानर्थक्येन द्वितीयमन्योन्याश्रयेण तृतीयं प्रथमसूत्रगोचरप्रवृत्तिदोस्थ्येन प्रतिविधि- समानः प्रथमसूत्रप्रवृत्तिर्मिकप्रयोजनान्तराभिधानायत्तत्वनिर्निबन्धनत्वोपरक्ततद्वयीघटकादिममनवस्थ या द्वितीयं सौत्रतदभिधानानर्थक्येन पराचिकीपुराशङ्कते ॥ नन्दित्यादि । प्रथमसूत्रगोचरेछ,प्रयत्नलक्षण- प्रवृत्तिविनिर्मुक्तस्यापि गृहीतशक्तिकतद्धटकपदजातस्य पुंसस्तत्सूत्रश्रवणाव्यवहितोत्तरक्षणावच्छेदेनेष्ट- साधनतानिश्चयोदयात्तदुदीच्येच्छाप्रयत्नयोरप्युत्पादनिर्वाह इत्यभिप्रेत्य समाधत्ते ।। उच्यत इति । तथा च विषयितासम्बन्धेन साधनविशेषितेच्छाप्रयत्नत्वयोरेव साधनानुभवफलेच्छाव्या वृत्त्योस्तादृग्निश्चयजन्यता. वच्छंदकत्वोपगमान्न क्षतिरित्याशयः ॥ पुरुषार्थसाधन इति । इच्छाप्रयत्नान्वयिविषयित्वार्थिका सप्तमी ।। स्वरससिद्धेति । इष्टसाधनतानिश्चयासमवधानकालीनस्वकारणायत्रोत्पत्तिके यथा साधनानुभव- फलेच्छे तद्वन्न तादृशहेत्वधीनोत्पत्तिकेत्यर्थः । प्रवर्तनीयः । साधनगोचरेच्छाप्रयत्नवत्त्या विधातव्यः । सु०- उक्तं च प्रयोजनादिकं श्रोता कथं श्रद्दधीताश्रद्दधानश्च कथं प्रवर्ततेति पुनरव- शिष्यते । स्त्रैके समाधानमाहुः । अवगतसूत्रकाराप्तभावस्तावत्तद्वचनादेव श्रद्धास्यति । यद्यपि आतत्वावधारणे प्रयोजनाधनभिधानेऽपि तत्सामान्यनिश्चयो भवत्येव प्रयोजनादिमदिदं शास्त्रं आप्तोत्तत्वादिति । तथाऽपि नासौ प्रवृत्यङ्गम् । न हि प्रयोजनादिमदित्येव प्रवर्तते । किं नामास्मदभिमतप्रयोजनादिमदिति । स च प्रयोजनादिविशेपो वचनादेवावसीयत इति सार्थक मतदभिधान । आतत्वानिश्चयेऽप्यर्थसन्देहादेव कृष्यादाविव प्रवृत्युपपत्तिः । ननु सन्देहः १५० ॥ म्यायसुधा ॥ (भ. १ पा. १ म. १ प्रयोजनाद्यवचनेऽपि साधकबाधकप्रमाणाभावे सति सुलभ एव । विशेपस्मृतिश्च तदर्थित्व- विशेषाद्भविष्यति । मैवम् । यो हि यद्वचनात्प्रवर्तते स तद्वचनादेव विशेषस्मृतिमपेक्षते । न तु स्वातन्त्र्येण । न हि रोगा? ममेदं रोगनिवृत्तिसाधनं न वेति यत्र तत्रोच्छृङ्खलः स्वयं उत्प्रेक्ष्य प्रवर्तते । किं नामानवधृताप्तभावस्यापि वैद्यस्यैव वचनात् । अन्यथा स्वयं प्रयोजना- भिधानमनधिगच्छन्ननथमप्याशङ्केत । किं निष्प्रयोजनमिदं काकदन्तपरीक्षाग्रन्थवदुताशक्य- साधनप्रयोजनं मृतिहरहिममहीधरोत्तरसानुसिद्धसञ्जीवनीकथनवत् । उत मदनभिमतप्रयोजन- मार्यावर्तवासिनं प्रति दाक्षिणात्यस्य मातुलकन्यापरिणयनप्रकारोपदेशवत् । अथवाऽभिमतस्यापि प्रयोजनस्य सत्यपि लघीयस्युपायान्तरे गरीयानयमुपायः । पिपासु प्रति गीर्वाणतरङ्गिणी- समीपकूपखननोपदेशवदित्यादि । एतासु चानर्थसम्भावनासु न प्रवर्तत । न च प्रयोजना- द्यभिधानेऽप्येतासामयकाशः । लोकव्यवहारोच्छेदप्रसङ्गात् । न हि कश्चिद्वैद्यवचनादावेव- माशङ्कथ निवर्तते । तस्मादुपपन्नमुभयथाऽपि प्रयोजनाद्यभिधानमिति । तदेतदनुपपन्नम् । तथा हि । यदि तावदाप्तवाक्यतया सूत्रमिदं प्रयोजनादेनिश्चायकं स्यात्तदाऽऽगमतया न्याय- सूत्रत्वहानिः । किञ्चासत्वं सूत्रकृतो येन वेदादिना प्रमाणेनावगन्तव्यं तेनैव प्रयोजनाद्यभि- सम्बन्धोऽपि शास्त्रस्यावगम्यत इति व्यर्थं तदभिधानमापयेत । आप्तत्वानिश्चयेऽप्यर्थसन्देहात् प्रवृत्तिरिति चातिस्थवीयः । न हि कश्चित्प्रयोजनादिसन्देहेऽतिमहायाससाध्ये प्रवर्तते प्रागुत्ता- नर्थपरम्पराश्च कथं न शङ्केत । तस्मान्नेदं प्रयोजनाद्युपदेशमात्रं किन्तु श्रौतस्य प्रयोजनादेः न्यायेनोपपादनार्थमित्येव परिहारः । आप्तत्वं तु न्यायस्योपोरलकमात्रमिति भाष्यकारीयं तद्व्युत्पादनमपि नानर्थकम् । अत एवास्य सूत्रस्य न शास्त्रबहिर्भावः । अध्ययनविध्यादि- बदस्याप्यतएवारम्भणीयत्वसिद्ध नवस्थादिदोषोऽपीति । शास्त्रीयविषयप्रयोजनादिसमर्पकत्वेन शास्त्रारम्भहेतोरस्य सूत्रस्य वेदार्थनिर्णायकन्याय- ग्रथनात्मकत्वाच्छास्त्रान्तर्भावोऽप्यस्तीति नानवस्थादोष इति वक्तुं कुतोऽस्य न्यायसूत्रत्वं येन नानवस्थेति आशङ्कायां न्यायसूत्रत्वाङ्गीकारनिवां शङ्का प्रकारान्तरेण केपाञ्चित्समाधानप्रकारं तद्रूषणप्रकारं च दर्शयति ॥ उक्तं चेत्यादिना । श्रौतस्य प्रयोजनादेयायेनोपपादनार्थमित्युक्त्या प्रमाणान्तरसिद्धार्थ- प्रतिपादकत्वेऽपि नास्य वैयर्थ्य पूर्वपक्षरीत्या श्रुतिप्रतिपादितेऽप्यर्थेऽनुपात्तौ प्राप्तायां न्यायेन तदर्थोप- पादकत्वेनोपदेशमात्रत्वाभावादिति सूचितं भवति ॥ आप्तत्वं त्विति । न्यायस्वरूपे न्यायसाध्यप्रमेये वाऽन्यथात्वशङ्कानिरासेन न्यायोपोबलकमित्यर्थः ॥ अत एवेति । वेदार्थनिर्णायकन्यायग्रथनात्मकस्यैव शास्त्रत्वादस्य च तथात्वादित्यर्थः । एवं चास्य शास्त्रबहिर्भावे शास्त्रारम्भसमर्थनेनैतदारम्भासिद्धरेतदार- वा० - शास्त्रप्रवर्तकौवचारः) ॥ जिज्ञासाधिकरणम् । . म्भोपपादकान्तरापेक्षायामनवस्थायामपि नेदानी सा । एतदारम्भायोपपादकान्तरानन्वेषणात् । नापि समन्वयाध्यायाद्यारम्भोपपादकैतदारम्भाय तदध्यायाद्यपेक्षा येनान्योन्याश्रयः स्यात् । नाप्येतदारम्भायै- तदपेक्षयामात्माश्रयः । स्वाध्यायोऽ-येतव्य इति वाक्यत्वरूपविशेषाकारेण सर्वस्वाध्यायाध्ययनविधायकस्य अप्यस्य वाक्यस्य स्वाध्यायत्वरूपसामान्याकारेण स्वविषयत्ववदेतत्सूत्रत्वेन शास्त्रारम्भहेतोरप्यस्य शास्त्रत्वेन स्वविषयत्वस्याप्युपपन्नत्वादित्याह ॥ अध्ययनेति । अत्र तस्मादित्यारभ्य दोषोऽपीत्यन्तेनैव ननु ब्रह्मज्ञानस्येत्यादिना शङ्कितस्य सर्वस्य परिहारः उच्यत इत्यादिपूर्वग्रन्थेन तु प्रसङ्गाच्छिप्यशिक्षायै प्रवृत्तेः प्रयोजनादिनिश्चयसापेक्षत्वं विविच्योपपादितमिति द्रष्टव्यम् । अथवा प्रवृत्तः प्रयोजननिश्चयसापेक्षत्व- नियमाच्छास्त्रप्रवृत्तिप्रयोजकतयाऽऽद्यारसूत्रेऽवश्यं प्रयोजनादिकमभिधेयम् । न चैवं प्रथमसूत्रप्रवृत्तिप्रयोजक- प्रयोजनाद्यभिधायकवावयान्तरानुसरणपरम्परयाऽनवस्थोक्तति वाच्यम् । पुरुषार्थसाधनगोचरेच्छाप्रयत्नरूप- चित्त्वृत्तः प्रवृत्तित्वेन प्रयोजननिश्चयसापेक्षत्वेऽपि यत्किश्चिदनुभवफलेच्छापुरुषानपेक्षितसाध्यसाधनभावानु- भवानां चित्तवृत्तिःवेऽपि प्रवृत्तित्वाभावात् । प्रथमसूत्रेण च साध्यसाधनभावानुभवमात्रस्य जायमानत्टेऽपि तस्य प्रयोजनादिनिश्चयानपेक्षतया वाक्यान्तराननुसरणेनानवस्थाऽभावात् । न च तानुभवस्यैव शास्त्र- फलत्वेन तदर्थप्रयोजनाद्यभिधायकप्रथमसूत्रवैयर्थ मिति वाच्यम् । प्रथमसूत्रतः साध्यसाधन भावानुभव.स्य अयत्नसाध्यत्वेन पुरुषार्थसाधनस्य द्वितीयसूत्रादिशास्त्राकलनस्य पूर्वापरपरामर्शतत्तदविरोधादवगम.स्य च अतिप्रयत्नमाध्यतया प्रयत्नसाध्ये प्रयोजनादिनिश्चयस्यावश्यापेक्षितत्वात् । न च आद्यसूत्रावधारणेऽपि विरोधाशङ्का नियता येन तन्निरासाय यलो युज्येत । सम्भावनामात्रस्याप्रयोजकत्वात् । न च शास्त्राव- धारणादिकमपि लोकोत्तरमतेः कस्यचित्सम्भाव्यत इति न तदर्थमपि प्रयोजनाद्यभिधेयमिति वाच्यम् । कस्यचित्प्रयोजनानपेक्षायामपि सर्वस्यातथात्वेन तदर्थमेव प्रयोजनाद्यभिधानादित्याशयेन चित्त्वृत्तिविभागं दर्शयन्नेव प्रवृत्त्यप्रवृत्ती विवेचयति ॥ त्रिविधा हीत्यादिना । ननु किमनेनार्धजरतीयेन सर्वचित् वृत्तः प्रवृत्तित्वमेव स्वीकृत्य प्रयोजननिश्चयसापेक्षत्वस्य सर्वत्र तन्निरपेक्षत्वस्य वा स्वीकार्यत्वेन वैविध्ये नियामकाभावादित्यतो यत्किञ्चिदनुभवफलेच्छासाध्यसाधनभावानुभवानां प्रयोजनादिनिश्चयसापेक्षत्वस्य बाधितत्वेन पुरुषार्थसाधनेच्छाप्रयत्नयोश्च प्रयोजनादिनिश्चयसापेक्षत्वस्यानुभवरि द्धतया वैचित्र्यकल्पनस्य आवश्यकत्वमित्याशयेनाह || न हीत्यादिना । तस्माद्या प्रवृत्तिस्तस्याः प्रयोजनादिनिश्चयसापेक्षत्वं यस्याश्च तन्नास्ति तस्याः प्रवृत्तित्वमेव नेति युक्तं प्रथमसूत्रे तदभिधानं नाप्यनवस्थेत्याशयेनाह ॥ तस्मादिति । एवं प्रथमसूत्रस्य शास्त्रोपोद्ध तत्वमभ्युपगम्यैवानवस्था परिहत्याधुना शास्त्रान्तर्भावमङ्गीकृत्य अपि तां परिजिहीपुः शास्त्रान्तर्भावप्रयोजकं वक्तुं तन्निवां शङ्कां प्रदर्श्य तत्र केषाश्चित्प्रकारेण परिहार दूषयि तुमनुवदति ।। उक्तं चेत्यादिना । न चैतदुभयमेकत्र विरुद्धमिति वाच्यम् । शास्त्रप्रवृत्तिहेतु- १५२ "न्यायसुधा । (म. १ पा. १. १ शास्त्रीयप्रयोजनादिप्रतिपादकत्वमात्रविवक्षयोपोद्धातत्वस्य न्यायेन श्रौतप्रयोजनादिनिश्चायकत्वविवक्षया च तदन्तर्भावस्य चोपपत्तेः । शास्त्रान्तर्भावे प्रयोजनादिनिश्चयसापेक्षतयाऽनवस्थातादवस्थ्यमित्यत आह ।। अध्ययनविध्यादिवदिति । स० प्रयोजनादिमत्वं प्रवृत्तौ प्रयोजकं तच्चाप्तत्वावधारणेन सामान्यतो भविष्यति किमभि- धानेनेत्यर्थः । तथाऽपीति । सामान्येन फलादिप्रतिपत्तावपि निश्शङ्कप्रवृत्तये प्रयोजनविशेषोक्तिः इत्यर्थः । यो हीति । विवक्षितफलालाभप्रसङ्गान्नोत्प्रेक्षामात्रेण फलविशेषप्रतिपत्तिरिति भावः । विशेषवचनाभावे न केवलं विवक्षितफलालाभः किन्तु विपरीतफलमप्यापद्यतेत्याह । अन्यथेति । सति तु विशेषवचने न विपरीतफलाशङ्का विवक्षितार्थलाभादित्याह । न चेति । परमतं अपाकरोति ।। तदेतदिति । आप्तवाक्यस्यागमत्वाद्युक्त्यनुसन्धानात्मकतर्कत्वव्याघात इति भावः । प्रागुक्तानर्थ- परम्पराशङ्कया निवृत्तौ अनवधृताप्तभावे वैद्यवचनेऽप्यनर्थपरम्पराशङ्कया निवृत्तिः स्यात्तथा च सकललोक- व्यवहारोच्छेद इति चेन्न । अल्पायाससाध्येऽनवधृताप्तभाववैद्यवचनेऽनर्थपरम्पराशङ्कया अनिवृत्तावपि महायाससाध्ये प्रागुक्तानर्थपरम्पराशङ्कया निवृत्तेरिष्टत्वेन सकललोकव्यवहारोच्छेदासम्भवादिति भावः ।। तस्मान्नेदमिति । एवं च श्रुतिसिद्धार्थप्रतिपादकत्वेऽपि न सूत्रानर्थक्यं संशयविपर्ययनिरासेन निर्णायक- त्यादिति भावः । यदुक्तं प्रयोजनादिमत एव शास्त्रत्वादाद्यसूत्रस्यातिरिक्तसूत्राणां प्रयोजनादिकं प्रतिपादयतस्तदयोगात् शास्त्रानन्तर्भाव इति तत्राह ।। अत एवेति । श्रुत्यर्थस्य न्यायेनोपपादकत्वादेव इत्यर्थः । श्रुत्यर्थनिर्णायकत्वात् सूत्राणाम् । तत्र यथा श्रुतिवाक्यस्य स्वव्यतिरिक्तवेदराशेः प्रयोजनादि. मत्वेनाध्येतव्यत्वं प्रतिपादयतो न वेदबहिर्भाव एवमत्रापीति भावः ॥ अध्ययनेति । स्वत एव प्रयोजनादिमत्वान्नानवस्था । न च कर्तृकर्मविरोधः । यथा स्वाध्यायोऽध्येतव्य इति विधिना अध्यय- नार्थसर्वविधायकविधियुज्यते स्वाध्यायपदोपात्तश्चात्मा यथोक्तं 'स्वाध्यायविधिना सर्वे नियुज्यन्ते विधायकाः । स्वाध्यायविधिरप्येवं न प्रतीमो विरुद्धताम्' इति तथेहापि अथातो ब्रह्मजिज्ञासा इत्येतत् जिज्ञासाद्वारा शास्त्रस्य । प०- -- प्रयोजनाद्यभिधानस्यार्थवत्त्वमङ्गीकृत्यापि प्रवृत्त्यसम्भवं शङ्कते ॥ उक्तं चेति । अवशिष्यते शङ्केति शेषः । स्वयं किन्तु श्रौतस्येत्यादिना समाधिं विवक्षुः प्रकारान्तरेण समाधिद्वयं तदेतदनुपपन्नमित्यादिना निरसितुमनुवदति ॥ तत्रैक इत्यादिना ॥ तद्वचनादेवेति । प्रथमसूत्ररूप- तद्वचनादेवेत्यर्थः । तथात्वे आद्यसूत्रानर्थक्यमित्याशङ्कय निराह ।। यद्यपीति ॥ असौ । सामान्य. निश्चयः ॥ वचनादेवेति । प्रथमसूत्रादित्यर्थः । मानान्तराभावादिति भावः ॥ तदभिधानमिति ।
आद्यसूत्र इति योज्यम् । समाधानान्तरमाह ॥ आतत्वेति । यथा कृण्यादाववश्यं फलं भवत्येवेत्य- निश्चयेऽपि फलोत्पत्तिसन्देहात्प्रवृत्तिरेवं शास्त्रेऽप्यस्तु प्रवृत्तिरित्यर्थः । अस्मिन्पक्षेऽप्याद्यसूत्रं व्यर्थमिति आशङ्कय समाधत्ते ॥ नन्वित्यादिना ॥ विशेषेति । मोक्षफलकं भवति न वा स्वर्गफलकं भवति न वेत्यादिरूपेण मोक्षादिकोटिविशेषस्मृतिरित्यर्थः । तदर्थमप्याद्यसूत्रं व्यर्थमिति भावः ॥ अन्यथेति । आद्यसूत्राभाव इत्यर्थः । अनर्थाशङ्कामेव व्यनक्ति ॥ किमित्यादिना । गीर्वाणतरङ्गिणी गङ्गा ।। येनेति । 'पाराशर्यश्च कपिलो वैकुण्ठो ऋषभस्तथा । यज्ञो धन्वन्तरिश्चैव स्त्रीरूपस्तापसो मनुः । नारायणो हरिः कृष्णः उपेन्द्रः सर्व एव च । एवमाद्या . हरेस्साक्षात्प्रादुर्भावाः प्रकीर्तिता' इति बृहद्भाप्योक्तपैङ्गिश्रुत्यादिरूपवेदेन । 'नारायणाद्विनिष्पन्नम्' इत्यादिप्रागुक्तस्मृत्या चेत्यर्थः ॥ तेनैवेति । 'गुणोत्कर्षे देवदेवस्य विष्णोः' । 'तमेवं विद्वानमृत इह भवति' इत्यादिना तज्जातीयवाक्येनैवेत्यर्थः ।। अतिस्थवीयः । अतिस्थूलतरं समाधानमित्यर्थः ॥ श्रौतस्येति । तद्विजिज्ञासस्वेत्यत्र विशब्द- तच्छब्दाभ्यां यस्य प्रसादादित्यादौ मुच्यत इत्यादिशब्दैः श्रुतस्येत्यर्थः ॥ न्यायेनेति । पूर्वपक्षिणा वक्ष्यमाणदिशा प्रयोजनाद्यभावशङ्कायां प्रयोजनस्य कर्माद्यजन्यत्वरूपन्यायेन । विषयब्रह्मणो जीवाद्भिन्न- त्वन्यायेनाधिकारिणः शूद्रादिव्यावृत्तत्वोपपादकाध्ययनादिमत्त्वरूपन्यायेनोपपादनार्थमित्यर्थः ॥ तद् व्युत्पादनमपीति । प्रादुर्भूत इत्यादिना कृतमिति भावः । अत एवेति । न्यायव्युत्पादकत्वादेव इत्यर्थः । प्रेक्षावतां शास्त्रारम्भसिद्धये यथैतत्सूत्रं तथैतदारम्भार्थमस्य प्रयोजनाद्यभिसम्बन्धबोधकस्यान्य- स्योक्तावनवस्थाऽऽत्माश्रयादिर्वा स्यादित्यत आह || अध्ययनेति । 'स्वाध्यायोऽध्येतव्य' इति वाक्यं स्वाध्यायमात्रस्याध्ययनं विदधदात्मनोऽपि तद्विधत्ते तद्वदित्यर्थः । आदिपदेन 'सर्वे वेदा यत्पदमामनन्ति' 'वाचा विरूप नित्यया' इत्यादेहः । अत एवेति । एतत्सूत्रादेवेत्यर्थः । न चैकस्य द्वैरूप्यविरोधः । अन्यसाहित्यकैवल्यरूपावच्छेदकधर्माभ्यामुपपत्तरिति भावः । एतेन शास्त्रे प्रवृत्तिहेतुप्रयोजनाद्यभि- सम्बन्धज्ञानायाद्यसूत्रं चेत्तत्र प्रवृत्त्यर्थ तस्य प्रयोजनाद्यमिसम्बन्धबोधकस्यान्यस्योक्तावनवस्थितिरिति निरस्तम् । स्वेनैव स्वस्यापि शास्त्रत्वेन रूपेण तद्बोधनादिति ।। या० प्रयोजनाद्यभिधानस्यार्थवस्त्वमङ्गीकृत्यापि प्रवृत्त्यभावं शङ्कते ।। उक्तं चेति ॥ वचना- देवावसीयत इति । आप्तोक्तत्वहेतोः प्रयोजनविशेष्यव्यभिचारित्वेनानुमानासम्भवादिति भावः ॥ सुलभ एवेति । तथा च सूत्रे प्रवृत्त्यर्थ प्रयोजनाद्यभिधानं व्यर्थमिति भावः । ननु सन्देहजनककोटिक- स्मृतिहेतुतया तदभिधानं सार्थकमेवेत्यत आह ॥ विशेषस्मृतिश्चेति । कोटिस्मृतिश्चेत्यर्थः । आप्त्य- निश्चयदशायामपि प्रथमसूत्रश्रवणानन्तरं ब्रह्मज्ञानं मोक्षसाधनं न वेति जायमाने मानसे संशये विधिकोटिप्रापकेऽप्यन्यन्न सम्भवतीति तदर्थ सूत्रे प्रयोजनाद्यमिधानमित्यभिप्रेत्य समाधत्ते ॥ यो हीति॥ ST. 20 ॥ न्यायसुधा 0 १५४ (म.पा. १. १ यद्वचनात्प्रवर्तत इति । यद्वचनश्रवणानन्तरभाविमानससंशयात्प्रवर्तत इत्यर्थः । वैद्यस्यैव वचनादित्य- नन्तरमिदं रोगनिवृत्तिसाधनमिति विधिकोटिमवगम्य मानसे संशये सतीति शेषः ॥ अन्यथेति । औत्प्रेक्षिककोटिम्मृत्यधीनमानससंशयेन प्रवृत्तावित्यर्थः । दाक्षिणात्यस्येति कर्तरि षष्ठी । परिणयनं विवाहः ॥ उभयथाऽपीति । आप्तत्वनिश्चयानिश्चयपक्षयोरित्यर्थः ॥ तदेतदिति । परिहारद्वयमपि इत्यर्थः । इत्येव परिहार इति । अनेन ब्रह्मज्ञानस्य मोक्षहेतुता शास्त्रप्रवृत्तेः प्रागेव प्रमाणान्तरसिद्धे- त्येतत्पक्षः समाहितो भवति । प्रमाणान्तरसिद्धेऽपि विप्रतिपत्त्यादिनिरासकन्यायग्रथनात्मकसूत्रोपदेश- सार्थक्यादिति ज्ञातव्यम् । अत एवास्य सूत्रस्येति । श्रौतस्य प्रयोजनादेायेनोपपादनार्थत्वादेव न श्रुत्त्यर्थनिर्णायकन्यायग्रथनात्मकशास्त्रबर्भािव इत्यर्थः । नन्वेवं यदि प्रथमसूत्रस्य विषयादिप्रतिपादनद्वारा शास्त्रारम्भोपपादकता तर्हि स्वस्यारम्भणीयता केनोपपादितव्या । न तावत्स्वेन । आत्माश्रयत्व- प्रसङ्गात् । अन्येन चेत्तस्याप्यारम्भणीयता पुनरन्येनेत्यनवस्थापात इत्यत आह ॥ अध्ययनविध्यादि- वदिति । यथा 'स्वाध्यायोऽध्येतव्य' इति विधिवाक्यं स्वाध्यायत्वावच्छिन्नस्याध्ययनं विदधत्स्वस्यापि तदवच्छिन्नत्वादध्ययनं विधत्ते । एवमिदं सूत्रं ब्रह्ममीमांसाशास्त्रत्वावच्छिन्नस्यारम्भणीयतोपपादकं सत् स्वस्यापि तदवच्छिन्नत्वात् आरम्भोपपादकं भवति । आत्माश्रयत्वं तु प्रामाणिकम् । अत एव न कर्तृकर्म- भावविरोधोऽपीति । आदिपदेनाभिधेयत्वावच्छेदेन प्रमेयत्वविधायकं लौकिकं वाक्यं यथा प्रमेयस्याप्य- भिधेयत्वावच्छिन्नत्वात्प्रमेयत्वविधायकं तथेत्यादिकं द्रष्टव्यम् ।। श्री०- प्रयोजनाद्यमिधानेऽपीति । तथा च तद्वचनादेव श्रद्धास्यतीत्ययुक्तमिति भावः ॥ अर्थसन्देहादेवेति । धनगर्जितन्यायेन सूत्रश्रवणानन्तरमिति शेषः ॥ स्वातन्त्र्येणेति । औत्प्रेक्षिक- कोटिस्मृत्यधीनमानसंशयेनेत्यर्थः ॥ दाक्षिणात्यस्येति । कर्तरि षष्ठी । दाक्षिणात्यकर्तृकोपदेशवदित्यर्थः । तहिं भाष्यकारीयं सूत्रकारस्याप्युपपादनं व्यर्थमापन्नमित्यत आह ॥ आतत्वं त्विति । च०- सौत्रप्रयोजनाभिहितेरर्थवत्तामूरीकृत्यापि प्रवृत्तिदौस्थ्यमाशङ्कते ॥ उक्तं चेति ॥ वचनादेव । आप्तवचनादेव ॥ अवसीयते । सूत्रे धर्मिणि प्रयोजनविशेषवैशिष्टयमनुमीयते । तस्य तद्व्याप्तत्वादिति भावः ॥ सुलभ एवेति । प्रतियोगिमता तदभाववत्तानिश्चयाभावसाधारणधर्म- दर्शनादिघटितसामग्रीमात्रनिष्पाद्यत्वात्सन्देहस्येति भावः । सन्देहजनककोटिद्वयोपस्थित्यौपयिकतया तदभिधानावश्यकतेत्यत आह ॥ विशेषेति । फलविशेषेच्छानिबन्धनेनैककोटिस्मृतिनं तदभिधान- निवाह्येति भावः । आप्तत्वानवधृतिदशायां प्रथमसूत्रश्रवणाव्यवहितोत्तररक्षणावच्छेदेनोत्पद्यमानब्रह्मज्ञान- धर्मिकमुक्तिसाधनत्वतदभावकोटिकसन्देहविषयतापन्नविधिकोट्युपस्थितिजनकस्यान्यस्य दुर्मि लिततया सौत्रं मादिसूत्रस्य प्रसङ्गः) ॥ जिज्ञासाधिकरणम् ॥ १५५ तदभिधानमेव तादृशमाश्रयणीयमित्यनुसन्दधानः समादधाति ॥ यो हीति ॥ यद्वचनात्प्रवर्तत इति । यद्वचनश्रवणोत्पद्यमानसन्देहाधीनप्रवृत्तिमान् भवतीत्यर्थः ॥ तद्वचनादेव विशेषस्मृतिम् । तत्प्रणीत- वाक्यघटकपदश्रवणाव्यवहितोत्तररक्षणजनितकोटिगोचरस्मृतिम् ॥ स्वातन्त्र्येण । तादृशपदश्रवणादति- रिच्यमानेन हेतुना ॥ उत्प्रेक्ष्य । संशय्य ॥ वैद्यस्यैव वचनादिति । तादृग्वचनश्रवणोत्तरक्षणभावि- स्मृतिविषयीभूतरोगनिवृत्तिसाधनत्वरूपविधिकोटि कोट्यन्तरं चावगाहमानो यः सन्देहस्तदधीनप्रवृत्तिमान् भवतीत्यर्थः ॥ अन्यथा । स्वाच्छंद्यायत्तकोटिस्मृतिनिबन्धनसन्देहाधीनप्रवृत्युपगमे । उभयथाऽपीति । आप्तत्वावधृत्यनवधृतिकल्पयोरित्यर्थः ॥ इतीति आप्तुरित्यनेनान्वयि । तदेतदिति । कल्पद्वयदिशा समाधानमित्यर्थः ॥ आगमतया । आप्तवाक्यतया ॥ न्यायसूत्रत्वहानिः । न्यायावबोधकपदघटित- सूत्रत्वहानिः ॥ इत्येव परिहार इति । शास्त्रप्रवृत्तेः प्रागेव प्रमाणान्तरेण ब्रह्मज्ञानस्य मुक्तिसाधनता सैत्सीदित्युपगमेऽपि विप्रतिपत्त्यादिव्युदासकन्यायावबोधकपदघटितसूत्रप्रणयनसफलत्वोपपत्तरिति मन्तव्यम् । अत एवास्य सूत्रस्येति । श्रुत्यभिहितप्रयोजनोपपादकन्यायावबोधकपदघटितत्वादेव न श्रुतिप्रतिपाद्य- गोचरानुमितिरूपनिर्णयजनकन्यायावबोधकपदघटितत्वलक्षणकशास्त्रबहिर्भाव इत्यर्थः । अथ प्रथमसूत्रस्य विषयाद्यनुबन्धचतुष्टयव्युत्पादनं द्वारीकृत्य शास्त्रारम्भणीयतासमर्थकताया आत्माश्रयताप्रसङ्गेन स्वस्य दुरुपगमतयाऽनवस्थाप्रसङ्गेनान्यस्यापि तस्यास्तादृशतयाऽसामञ्जस्यमित्यत आह । अध्ययनविध्यादिवत् इति । स्वाध्यायत्वावच्छेदेनाध्ययनकर्मतां विदधानः स्वस्यापि तादृशकर्मतावच्छेदकीभूतस्वाध्यायत्वा- क्रान्ततया स्वकर्मकाध्ययनक्रियामपि विदधाति यथा तद्वदिदं सूत्रं ब्रह्ममीमांसाशास्त्रत्वावच्छेदेनारम्भणीयता- समर्थकं स्वस्यापि तदवच्छेदकीभूततादृशधर्माकान्ततया स्वारम्भणीयतासमर्थकमपि भवत्येव । आत्माश्रय- त्वादिकमेकस्यैव धर्मस्योभयावच्छेदकत्वोपगम एव । प्रकृते तु सामान्यधर्मविशेषधर्मयोरेव तत्तदवच्छेद- कत्वोरीकृतेन तदवतारः । अत एवाभिधेयत्वादेः केवलान्वयिताविधायकवाक्यस्याप्यभिधेयत्वं सेधिप्यति इति सर्वं सुस्थम् । आत्माश्रयत्वं तु प्रामाणिकमत एव न कर्तृकर्मभावविरोधोऽपीत्यपि स्थितम् ।। सु०-- कः पुनरस्य सूत्रस्य प्रसङ्गः । उच्यते । प्रारिप्सिततया हि बुद्धिसन्निहितं शास्त्रं सूत्रकारस्य । तत्र संशयः किमिदमारम्भणीयं न वेति । उपलभ्यन्ते खलूभयविधान्यपि वाक्यानि । वाक्यं चेदम् । न च विशेपो दृश्यते । येनान्यतरपक्षनिश्चयः स्यात् । ननु कस्यायं संशयः । न तावत्सत्रकारस्य । अवगतविशेषत्वात् । अन्यथा निर्णायकसूत्रप्रणयना- नुपपत्तेः । नापि परस्य । परेणाद्यापि शास्त्रस्यानुपलब्धत्वात् । अनुपलब्धे च समानधर्म- दर्शनाद्ययोगेन संशयोत्पादानुपपत्तेः । मैवम् । यदीदं शास्त्रं परेणोपलभ्येत तदोक्तसन्देह- S.T. 20A १५६ ॥ न्यायसुधा ॥ (भ. १पा. १ भ. १ कारणोपपत्तौ प्रयोजनार्थित्वेन विशेषस्मृतिमतैवं सन्दिह्यतेति सूत्रकृत एव परकीयसम्भावित- संशयाहरणोपपत्तेः । वा० नन्वधिकरणस्य विषयसंशयपूर्वपक्षसिद्धान्तप्रयोजनरूपपञ्चाङ्गत्वादारम्भणीयतासिद्धये प्रक्षावतः प्रवर्तयितुमित्यादिपूर्वग्रन्थे शास्त्रारम्भणीयतासिद्धेः प्रयोजनत्वोक्तावपि शास्त्रस्य विषयत्वसम्भव एव तदारम्भणीयत्वसिद्धेः प्रयोजनत्वसम्भवात् सामान्यतो ज्ञातस्य विशेषतश्च सन्दिग्धस्यैव विषयत्वात् शास्त्रस्याद्याप्यनुत्पन्नत्वेन सामान्यतो ज्ञानासम्भवाद्धर्मिज्ञानाभावेनारम्भणीयत्वादिकोटिप्रापकस्याप्यभावेन विशेषतः सन्देहासम्भवाद्विषयसंशययोः सतोरेव सन्दिग्धेऽर्थे न्यायः प्रवर्तत इति न्यायेन विपरीतयुक्त्य- नुसन्धानात्मकपूर्वपक्षप्रवृत्तरवतारिकारूपपूर्वपक्षस्यैव च सिद्धान्तसूत्रप्रापकत्वादस्य च सिद्धान्तसूत्रत्वात् प्रसञ्जकाभावे कथमस्य सूत्रस्य प्रवृत्तिरित्याशङ्कते ॥ कः पुनरिति । केचित्तु कः पुनरिति विवरण- वाक्यस्य तत्त्वदीपनव्याख्यानमनुसृत्येदं वाक्यं व्याचक्षते । तत्तु विवरणपरिहारवाक्ये तादृगर्थप्रतीतेः तद्व्याख्यानसम्भवेऽपि प्रारिप्सिततयेत्यादिप्रकृतग्रन्थाननुसारित्वाद्विचारणीयम् ॥ उच्यत इत्यादि । अत्र प्रारिप्सिततया बुद्धिसन्निहितमिति विषयस्य सामान्यतो ज्ञानसमर्थनं सूत्रकारस्येति तदसम्भावना- परिहारः । उपलभ्यन्त इत्यादिना संशयप्रापकसमर्थनम् । नन्वित्यादिना च संशयानुपपत्ति परिहार इति द्रष्टव्यम् । --- स० कः पुनरिति । अयमर्थः । जिज्ञासासूत्रारम्भणीया जिज्ञासा च ज्ञाते । ज्ञानं च शास्त्रश्रवणमन्तरेण न सम्भवति । पाठकादिषु अदृष्टेरित्यसङ्गतिः । तथा प्रसज्यतेऽनेनेति प्रसङ्गः प्रसञ्जकः । स किमम्त्युत नास्ति । नाद्यः । वेदवाक्यविचारकर्तव्यतायाः प्रमाणान्तरागोचरत्वात् तद्विजिज्ञासस्व मन्तव्य इत्यादिकं वक्तव्यम् । न च तत्सम्भवति विकल्पासहत्वात् तत्किं नित्यमुत नैमित्तिकं, किं वा प्रायश्चित्तरूपमुत काम्यम् । नाद्यः । अकरणे प्रत्यवायाश्रवणात् । न द्वितीयः । गृहदाहेष्टयादिवदनिमित्तश्रवणात् । न तृतीयः । ब्रह्मचार्यवकीर्णी नैरऋतं गर्दभमालभेतेतिवद्दोपसंयोगे सत्यचोदितत्वात् । न चतुर्थः । विध्युद्देशे फलाश्रवणात् । न चरमः सूत्रस्य प्रमाणापेक्षितन्याय- सूचकत्वात् तदभावे सूत्रत्वस्यैवासङ्गतेः । तस्मात्प्रसञ्जकाभावाच्चासङ्गतिः । शास्त्रासङ्गतिश्च । समन्वया- दिप्रतिपादकं शास्त्रम् । न च समन्वयाद्यन्यतममनेन प्रतिपाद्यत इति आदौ चास्य सूत्रस्य प्रणयने प्रसञ्जकं न पश्याम इति ॥ उच्यत इति । अधिगतस्वाध्यायस्य निगमनिरुक्तादिना व्युत्पन्नपदपदार्थस्य भगवानेव सर्वशब्दार्थ इति ज्ञातवतः साल्विकप्रवृत्तवैराग्यादिसम्पन्नस्य मुमुक्षोः किं मया अनुष्ठेयं साधनं किं वा फलमित्यादि जिज्ञासमानस्यानुग्रहार्थमपेक्षितमागमिकमपि न्यायेन निर्णेतुं प्रारब्धवानिदं शास्त्रं प०. -- भगवान् सूत्रकारः । ततश्च श्रवणेनैव ज्ञाते वस्तुनि मननविधानात् ज्ञात एव जिज्ञासा । तद्विजिज्ञा- सस्वेत्यादीनां प्रसञ्जकत्वात् तस्य मननस्य काम्यत्वात् विध्युद्देशे फलाभावेऽपि 'प्रतितिष्ठन्ति ह वा एता रात्रीरूपयन्तीति अर्थवादेन चोदितेषु रात्रिसंज्ञकेषु कर्मसु आर्थवादिकप्रतिष्ठाफलवत् 'तरति शोकमात्म- विदि'त्यार्थवादिकबन्धनिवृत्तिफलोपपत्तेने प्रसञ्जकाभावः । शास्त्रारम्भासिद्धौ हि समन्वयादिकं नोपपद्यत इति शास्त्रारम्भसमर्थनपरस्य सूत्रस्य शास्त्रान्तर्भावः आद्यत्वं चेति न कश्चिद्दोप इति भावः ।। श्रौतस्य प्रयोजनादेायेनोपपादनार्थमिदं सूत्रमित्युक्तमयुक्तम् । श्रौतस्यान्यथात्व- प्रसक्तावेव न्यायावतारावसरादिति भावेन पृच्छति ॥ कः पुनरिति ।। अस्येति । श्रौतप्रयोजनादेः न्यायेनोपपादनपरस्य संशयादिरूपप्रसञ्जकमित्यर्थः । यद्वा 'जीवव्यतिरिक्तेश्वराभावात्तस्य च स्वप्रकाश- त्वान्न जिज्ञास्यतेति प्राप्त' इति न्यायविवरणोक्तमत्र वक्ष्यमाणदिशाऽनेकधा सौत्रपदार्थनिरूपणाननुरूप- मिति भावेन पृच्छति ॥ क इति । संशयबीजमाह ।। उपलभ्यन्त इति । काकदन्तपरीक्षादिरूप- वाक्यान्यनारभ्याणि इष्टगोष्ठिपरवाक्यान्यारभ्याण्युपलभ्यन्त इत्यनेन वाक्यत्वरूपधर्मस्यारभ्यत्वानारभ्यत्व- रूपकोटिद्वयसहचारो दर्शितः । पुरोवर्ति निष्ठतामाह ॥ वाक्यं चेति ।। उक्तेति । धर्मिज्ञानविशेषा- दर्शनरूपसन्देहकारणेत्यर्थः ॥ विशेषेति । आरम्भणीयत्वादिकोटिम्मृतिमतेत्यर्थः । तत्र हेतुः प्रयोजनेति । अस्मात्प्रयोजनं मया लब्धव्यमिति फलकामित्वेनेत्यर्थः । या० प्रसङ्ग इति । अत्र प्रसङ्गशब्देन प्रसज्यतेऽनेनेति व्युत्पत्त्या प्रसञ्जकमुच्यते । तथा चैतत्सूत्रप्रवृत्तौ कीदृशं संशयपूर्वपक्षादिकं निमित्तमिति प्रश्नार्थः । श्री. अनुपलब्धे शास्त्ररूपे धर्मिणि ॥ च०- प्रसङ्ग इति । करणसाधनघजन्तः प्रसक्तिहेतुमभिधत्ते । तथाच प्रकृतसूत्रप्रवृत्ति- बीजभूतं कीदृवसन्देहपूर्वमतादिकमिति प्रष्ठुराशयः ।। उच्यत इति । सन्देहजनकर्मिज्ञानसम्पादनाय सूत्रकारस्येत्यन्तम् । बुद्धिसन्निहितं विषयितासम्बन्धेन बुद्धौ वर्तमानम् । तत्र हेतु: प्रारिप्सिततया इति । तदधिगतेरेवाभावे तद्धेतुकतत्प्रारम्भेच्छाया अयोगादिति भावः ॥ अवगत विशेषत्वात् । निषेधकोटिव्यावर्तकधर्मदर्शनवत्वात् ।। समानधर्मदर्शनायोगेन । प्रकृतधर्मितावच्छेदकाभिमतधर्मा- वच्छिन्नविशेप्यानिरूपितकोटिद्वयनिरूपितसाहचर्यावच्छिन्नधर्मनिष्ठप्रकारताशालिदर्शनाद्ययोगेन । विशि- ष्ठानुयोगिकवैशिष्ट्यबोधे विशेप्यतावच्छेदकप्रकारकज्ञानस्य हेतुत्वादिति भावः ।
सु०-नन्विदं युक्त्यनुसन्धानात्मकविचारमीमांसामननापरनामकजिज्ञासाङ्गभूतन्यायनिवन्धनं जिज्ञासायाः कर्तव्यतायामारम्भणीयं भविष्यति । न हि विचारः कर्तव्यः तद्वारभूतन्याय- निवन्धनं च नारम्भणीयमिति सम्भवति । निःसाधनस्य विचारस्यैवानुत्थानात् । अन्यथा तु नेति जिज्ञासैव विचारणीया । सत्यम् । एतच्छास्त्रव्युत्पादनीयन्यायकरणिकायां जिज्ञासायां उभयविधव्यापारदर्शनाद्विशेषादर्शनाच संशयः किं कर्तव्या न वेति । ननु च तद्विजिज्ञासस्व इति जिज्ञासायाः श्रुतिविहितत्वात् कथं विशेषादर्शनम् । मैवम् । विना विचारेण श्रुत्यर्थस्य आद्याप्यनितित्वेन संशयास्पदत्वात् । तत्र तावजिज्ञासा न कर्तव्येति प्राप्तम् । कुतः । विषयप्रयोजनसम्बन्धाधिकारिलक्षणानुबन्धविधुरत्वात् । कर्तव्यता खलु विषयादिमत्तया व्याप्ता । कृष्यादिकं हि सति विषयभूते भूम्यादौ प्रयोजने च सस्याधिगमादावधिकारिणि च कृषीवलादौ कर्तव्यमुपलब्धम् । सा च व्यापिका व्यावर्तमानेतो व्याप्यामपि कर्तव्यतां व्यावर्तयतीति प्रतिबन्धसिद्धिः। विषयादिसद्भावो हि जिज्ञासायाः कारणम् । न च कारणा- भावे कार्यमुत्पत्तुमर्हति । विषयशून्यत्वाद्धि समनस्केन्द्रियसन्निकृष्टस्य स्फीतालोकमध्यवर्तिनो घटस्य न जिज्ञासा क्रियते । प्रयोजनविकलत्वात्खलु सन्दिग्धमपि वायसदशनादिकं न जिज्ञास्यते । सम्बन्धवैधुर्याद्धि सप्रयोजनं सविषयमपि शब्दज्ञानमर्थयमानो न वैद्यके प्रवर्तते । अधिकारविरहाच्च न मुमुक्षोर्वात्स्यायने प्रवृत्तिः । एवं सविषयचिन्तामुपपाद्य सूत्रोक्तकर्तव्यत्वकोटिकां सविषयां तदर्थचिन्तामुपपादयितुं तस्यास्तादर्थ्य शङ्कामुखेनोपपादयति ॥ नन्विति । यद्वा शास्त्रारम्भणीयत्वानारम्भणीयत्वयोर्जिज्ञासा- कर्तव्यत्वाकर्तव्यत्वे विहाय हेत्वन्तरेण प्राप्त्यभावात्तत्कर्तव्यत्वादौ च स्वत एव तत्सिद्धः सूत्रकारेण युक्तिभिजिज्ञासाकर्तव्यताया एव प्रतिपादनीयतया जिज्ञासाया एव विचारविषयत्वात्तद्धर्मिक एव संशये वक्तव्ये शास्त्रधर्मिकतत्कथनमयुक्तमित्याशङ्कते ॥ नन्विति । अत्र शास्त्रजिज्ञासयोः स्वरूपकथनं जिज्ञासाकर्तव्यत्वादेरारम्भणीयत्वादिसाधकत्वमुपपादयितुमिति द्रष्टव्यम् । अत्र मननापरनामकेत्युक्त्या जिज्ञासासूत्रस्य मनमविधिमूलत्वमेव न तु श्रवणविधिमूलत्वमित्यर्थम् । मीमांसापरनामिकेत्युक्त्या च विचारार्थकमान् धातोर्मान् बधेति स्वार्थसन्नन्तान्निष्पन्नस्य मीमांसाशब्दस्य विचाररूढेः सर्वसिद्धत्वात् जिज्ञासाशब्दस्यापि विचाररूढिं युक्त्यनुसन्धानात्मकेति विचारशब्दव्याख्यानपूर्व विचारशब्दपर्याय- त्वोक्त्या च तर्हि मान्धातोर्विचारार्थत्वेऽपि विचारस्य श्रवणरूपत्वान्मीमासापरनामकत्वं मननापरनामकत्वं च विरुद्धमिति शङ्कापरिहारं च सूचयति ॥ विचारणीयेति । ('गुप्तिक्किद्भ्यः सन्' । 'मान्बध- दान्शान्भ्यो दीर्घश्चाऽभ्यासस्य' । सूत्रद्वयोक्तेभ्यः सन्स्यान्मानादीनामभ्यासस्येकारस्य दीर्घश्च । मानो: वा० --- जिज्ञासाकर्तव्यत्वम्) । जिज्ञासाधिकरणम् । १५९ अः जिज्ञासायाम् । अभ्यासस्य विकार आभ्यासः स चेत्वमेव । तथा हि दीर्घश्रुत्याऽच इत्युपस्थितम् । न च मानादीनामभ्यासस्य विकारभूतोऽच् इकारादन्यः सम्भवति । यदि तु हस्व इत्येव गृह्येत तर्हि तद्धितनिर्देशो व्यर्थः स्यात् । सह्यभ्यासे ईकारश्रवणार्थ क्रियते । अन्यथाऽजन्तस्याभ्यासस्य विधीयमानो दी? हलादिशेषमात्रं प्रतीक्षतां न तु सन्वदित्वमपि । तदेवाह । इकारस्येति । सनाह्यन्ता इति धातुत्वम् । 'सन्यङोः' । सन्नन्तस्य यङन्तस्य च प्रथमस्यैकाचो द्वौस्तोऽजादेस्तु द्वितीयस्य । प्रत्ययात् ' । प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारप्रत्ययः स्यात् । मीमांसा । कर्मण्यनीयर्कर्मण्यनीय- रिति । 'तव्यत्तव्यानीयरः' । धातोरेते प्रत्यया भावकर्मणोः स्युः । तकाररेफौ स्वरार्थौ । एधितव्यम् । एधनीयं त्वया भावे औत्सर्गिकमेकवचनं क्लीबत्वं च । चेतव्यश्चयनीयो वा धर्मस्त्वयेत्याधुदाहरणानि)। तथा च तद्धर्मिक एव संशयः प्रदर्शनीय इति वाक्यशेषः । चिन्तासाफल्याय शास्त्रधर्मिकानारम्भणीय- त्वादिकोटिकसंशयप्रदर्शनेऽपि विचार्यत्वाज्जिज्ञासायास्तद्धर्मिक एव संशयः प्रदीत इत्याह ॥ सत्यम् इति । एतच्छास्त्रेत्यादिना जिज्ञासाया विषयत्वाय बुद्धिसन्निहितत्वोक्तिः । तद्विजिज्ञासस्वेति श्रुत्या जिज्ञासायाः कर्तव्यत्वे प्रतिपादितेऽपि ज्ञानेच्छयोश्च विधेयत्वासम्भवेन विचारविधानस्य च वस्तुतः सम्भवेऽपि प्रकृतब्रह्मविचारकर्तव्यत्वं श्रुत्युक्तमपि तस्य विषयादिमत्त्वे युक्तं तदभावे चायुक्तमिति सूत्रे वर्तिप्यमाणविषयादिमत्त्वविचारसाध्यस्य श्रुत्यर्थभूतविचारकर्तव्यताया युक्तत्वस्य सूत्रप्रवृत्तेः पूर्व विषया. दिसंशयदशायामनिश्चितत्वेन श्रुतेः विशेषदर्शनत्वासम्भव इत्याह । मैवमिति । श्रुत्यर्थस्य विचार- कर्तव्यत्वस्याद्यापि विषयादिसंशयदशायामप्यनिर्णीतत्वेन युक्ततयाऽनिश्चितत्वेन । अनेनास्मिन्नधिकरणेऽस्य विषयवाक्यत्वं सूचितमुपपादितं भवति । न चैवं तद्ब्रह्मत्यादिब्रह्मशब्द इत्याद्युत्तराधिकरणादाविव तद्विजिज्ञासस्वेति श्रुत्युक्तजिज्ञासा कर्तव्या न वेति सन्देह इति साक्षादेव तस्य विषयवाक्यत्वसूचन- सम्भवे सन्देहहेतुविशेषादर्शनोपपादनमुखेन तस्य विषयवाक्यत्वसूचनोपपादने कुत इति वाच्यम् । तद्विजिज्ञासस्वेति वाक्यार्थविचारपरस्याप्यस्य न तेन रूपेण प्रवृत्तिरपि तु शास्त्रव्यापारविचारकर्तव्यता- समर्थनद्वारेण शास्त्रारम्भणीयताप्रतिपादकत्वमुखेनेति दर्शयितुं तथा सूचनमिति द्रष्टव्यम् । तत्रोक्तरीत्या विषयसंशयसिद्धौ तस्यां न्यायविरोधाभावाद्युक्ता पूर्वपक्षप्राप्तिरित्याह ॥ तत्रेति । तद्विध्याप्रामाण्य. शास्त्रानारम्भणीयत्वप्राप्त्यपेक्षया तावच्छब्दः । यद्वा सिद्धान्तापेक्षया तावच्छब्द इति ध्येयम् ॥ विषयेति । तत्र विषयादीनां वैधुर्य प्रत्येकमेव हेतुन तु मिलितम् । प्रत्येकं व्यभिचाराभावादिति द्रष्टव्यम् । अनुबन्धग्रहणं च यत्र कर्तव्यता तत्र विषयादिकमनुबध्यत एवेति व्युत्पत्त्याऽनुबन्धशब्दस्य तत्र प्रसिद्धिसूचनद्वारा विषयादिमत्त्वस्य कर्तव्यताव्यापकत्वसूचनेन विपक्ष बाधकत्वं सूचयितुं न तु हेत्वन्तर्गतम् । अनुबन्धशब्दार्थमेव विशदयन् कृष्यादिकमत्र व्यतिरेकदृष्टान्त इति सूचयति ॥ ।
१६० न्यायसुधा ॥ (म.पा. १.१ कर्तव्यतेत्यादिना । स्यादेतदेवं यदि विषयादिमत्त्वस्य कर्तव्यताव्यापकत्वं स्यात् । न चैवम् । विपक्षबाधकाभावेन तदनिश्चयादित्यतः कर्तव्यतायां विषयादिमत्त्वस्याकारणत्वेऽपि कर्तव्यजिज्ञासां प्रति तत्कारणत्वस्यान्वयव्यतिरेकाभ्यां निश्चितत्वाद्विषयाद्यभावेऽपि कर्तव्यताऽङ्गीकारे कर्तव्यजिज्ञासायाः तदभावेऽपि प्रसक्त्याऽकारणकार्योत्पत्तिप्रसङ्गस्यैव विपक्षबाधकत्वाव्याप्तिसिद्धिरित्यभिप्रेत्याह ॥ विषया- दीति । अत्र कर्तव्यतामात्रस्य विषयादिप्राप्तावपि प्रकृतत्वाद् दृष्टान्तसौलभ्याच जिज्ञासाग्रहणम् । अन्वयस्य सौलभ्यात् कृप्यादिग्रहणेन सूचितत्वाच्च व्यतिरेकमेव कारणतोन्नाहकत्वेन दर्शयति ॥ विषयाभावादिति । अत्र पूर्वद्वये स्वरूपेण न जिज्ञास्यत्वमुत्तरद्वये तु स्वरूपेण जिज्ञास्यत्वेऽपि पुरुष- विशेषेणाजिज्ञास्यत्वमिति विशेषसूचनाय पूर्वत्र न जिज्ञास्यत इत्युत्त वोत्तरत्र न प्रवर्तत इत्याद्याह । स०- नन्विदमित्यादेरयमर्थः । जिज्ञासायाः कर्तव्यताऽकर्तव्यते विचार्ये न शास्त्रस्यारम्भ- णीयतानारम्भणीयते । तयोस्तदन्वयव्यतिरेकानुविधायित्वादिति । तत्र योग्यतां प्रदर्शयितुं न्यायनिब- न्धनमित्युक्तम् । न हीत्यादिनान्वयव्यतिरेको दर्शितौ । केचिजिज्ञासाशब्दस्य रूढ्या लक्षणया वा श्रवणार्थत्वमाहुः । तन्निरासार्थ युक्त्यनुसन्धानेत्यादिना जिज्ञासाशब्दार्थो दर्शितः । श्रवणादित्रयं जिज्ञासाशब्दार्थत्वेन प्रसक्तम् । प्रकृतिप्रत्ययार्थयोर्ज्ञानेच्छयोः साध्यसाधनभावानुपपत्तेः अस्य तदुपपाद. कत्वाच्च तत्र तत्र श्रवणस्योपदेशमात्रेण सिद्धेः निदिध्यासनस्य मननानन्तरं स्वत एव सिद्धत्वात् मननस्य असम्भावना विपरीतभावनाव्युदासार्थत्वेन न्यायनिबन्धनापेक्षत्वात्तदेव जिज्ञासाशब्दार्थ इत्यर्थः ॥ सत्यमिति । अस्माभिरपि जिज्ञासा कर्तव्यतैव विचार्यते । शास्त्रस्य आरम्भणीयत्वानारम्भणीयत्व- विचारस्तु फलभूत इत्यर्थः ॥ एतच्छास्त्रेति । पूर्वपक्षसिद्धान्तन्यायाभ्यां कर्तव्यताकर्तव्यतयोरुपस्थिति- सम्भवाद्विनिगमकाभावाच्च संशय इत्यर्थः । तत्र तावदित्यादि । जिज्ञासा न कर्तव्या विषयविधुरत्वात् समनस्केन्द्रियसन्निकृष्टस्यालोकमध्यमध्यासीनस्य घटस्य जिज्ञासावत् । प्रयोजनशून्यत्वात् सन्दिग्ध- वायसदशनजिज्ञासावत् । सम्बन्धरहितत्वाच्छब्दज्ञानार्थिनो वैद्यकजिज्ञासावत् । अधिकारिरहितत्वात् मुमुक्षोर्वात्स्यायनशास्त्रोक्तार्थवत् । सर्वत्र व्यतिरेके कृप्यादिवदिति दृष्टान्त इति भावः ॥ वात्स्यायनं भोगशंसनम् ॥ 31483 SRIVENKATESकिया जिज्ञासाकर्तव्यत्वोक्तिपरसूत्राननुरूपत्वभ्रमनिरासाय सौत्रजिज्ञासा- हात्मनाकर्तव्यत्माको शानिरिम्भारम्भौ फले इति शङ्कामुखेन दर्शयति ॥ नन्वित्यादिना । शास्त्र- निशब्दनि शब्दनिी भिन्ना त्वभ्रमनिरासायोक्तं युक्त्यनुसन्धानात्मकेत्यादि । श्रवणाद्यात्मकत्वे Aणास्त्रारम्भेण ...हेतुहेतुमद्भायायोगातुक्तं युक्त्यनुसन्धानेति । भाप्यटीकायां श्रवणादिरूपत्वोक्तेर्भावः Date TIRUPATI,