Prakrit Bharati Academy, Jaipur

Kumarpal Charitra Mahakavyam

Vijayen, Chatur · 2009/12

PDF Proofread

Front matter

No text on this page.

450000000004 NYANVARVANNANANANANYANVANANVARIANVANVAAKAAVAK श्रीजैन-आत्मानन्द-ग्रन्थरत्नमाला-सप्तपञ्चाशत्तमं रत्नम् ( ५७) महोपाध्यायश्रीमच्चारित्रसुन्दरगणिविरचितं कुमारपालचरित्रमहाकाव्यम्। न्यायाम्भोनिधिश्नीमद्विजयानन्दसूरिशिष्यप्रवर्तकनीमत्कान्तिविजयमुनिशिष्यमुनिचतुरविजयेन संशोधितम् । पूज्यपादप्रवर्तकश्रीमत्कान्तिविजयान्तेवासिमुनिचतुरविजयोपदिष्ट-अणहिल्लपुरपत्तननिवासि- प्राग्वाटवंशीयश्चेष्ठि-उमेदचन्द्रात्मज-मगनचन्द्र-भाया-चन्दनवाइ-द्रव्यसाहाय्येन प्रकाशयित्री-भावनगरस्था-श्रीजैनआत्मानन्दसभा। इदं पुस्तकं मुम्बय्यां वल्लभदास-त्रिभुवनदास गांधी सेक्रेटरी श्रीजैन आत्मानन्दसभा भावनगर इत्यनेन निर्णयसागरमुद्रणालये कोलभाटवीथ्या २३ तमे गृहे, रामचंद्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम् । वीरसंवत् २४४३. विक्रमसंवत् १९७३. MMMMMMMMMMMMMMMMMMMMMMMMMMM आत्मसवत् २१.

anh Y4 Printol by Ramohanden Yogu Shodgo at the Nannya-sagar P1098, 33, Kolbhnt Lano, Bombay, l’ublishod by Vallabhadas Tribhuvandas Cundhi, Soci otniy, Jaina „Ltmananda Sabha, Bhuvanngar.

-- ॥ प्रास्ताविकनिवेदनम् ॥ अस्यैतिहासिकप्रधानस्य पद्यरचनावर्णविन्याससुललितस्य प्रत्येकसर्गनिवेशितवर्गस्य दशसर्गनिवद्धस्य भविकजनहृदयाल्हादकस्य कुमारपाल- चरित्रमहाकाव्यस्य रचयितारो मेदपाटभूमिपालविश्राणितसान्वर्थतपा इति बिरुदेन तपोगच्छनायकत्वेन प्रसिद्धि प्राप्ताना तपस्तेजस्तिरस्कृतमात- ण्डमण्डलाना श्रीमज्जगचन्द्रसूरीशाना द्वितीयशिष्यस्य वृहत्पौशालिकशाखाप्रकटननिमित्तभूतस्य श्रीमद्विजयचन्द्रसूरेरविच्छिन्नपट्टपरंपराया सजातस्य श्रीमद्रनसिहसूरेः शिष्या महोपाध्यायश्रीचारित्रसुन्दरगणय इति काव्यस्यास्य प्रत्येकसर्गप्रान्तोपनिवेशितपद्यानां प्रशस्तेस्तथैभिरेव महाशयैर्विरचितस्य महीपालचरितमहाकाव्यस्य प्रत्येकसर्गप्रान्तगतस्य- "श्रीरत्नसिंहगुरुपादसरोरुहालिश्चारित्रसुन्दरकविर्यदिदं ततान । तसिन्महीपचरिते भववर्णनाख्य सर्गः समाप्तिमगमस्किल पञ्चमोऽयम् ॥" इत्येतस्य पद्यस्य च विलोकनेन स्फुटमेव । अस्य काव्यस्य मुद्रणात्प्राग महोपाध्यायश्रीमजिनमण्डनगणिविरचितो गद्यपद्यात्मकः श्रीकुमारपालप्रबन्धो मयैव शोषितो मुद्रितश्च भाव- नगरस्थश्रीजैन-आत्मानन्दसभाया मन्त्रिभिः । तत्र स्थिताश्च सर्वेऽपि प्रबन्धाः प्रायशोऽत्र सक्षेपतो वर्णिताः, केचिच्च परित्यक्ता अपि दृश्यन्ते । अस्य महाकाव्यस्य प्रणेतृभिर्यद्यपि खसत्तासमयः प्रशस्त्यादौ वापि साक्षान्नोपनिबद्धस्तथाप्येतद्गच्छीयकृतवृहत्पौशालिकपट्टावलीगतानाम्- "चक्षुर्वाणमनुप्रमेयसमये १४५२ श्रीस्तम्भतीर्थ पुरे येन श्रीजयपुपदसूरिगुरुणा विश्वप्रसिद्धोत्सवम् । श्रीमत्सुरिपदं गणोदयपदं श्रीरत्नसिहप्रभोरद्यापि प्रसरत्प्रतापयशसः सविन्निधे कारितम् ॥ भ प्रासादं विमलाईदादिसकलनीतीर्थकृन्मण्डली प्रस्वष्टादतिशायिलब्धिनिलयः श्रीरतसिंहप्रभु ! नन्दाकाशतिथिप्रमेयसमये १५०९ श्रीविक्रमाद्वासरे पञ्चम्या सितमाघमासि वसुधाधीशार्चितारिद्वयम् ॥ तस्पाणिपभरजसा सुरभीकृताङ्गाः शिष्यालयः श्रुतधरा प्रथमस्तु तेषु । श्रीहेमसुन्दरगुरुगरिमाम्बराशिरासीजिनप्रवचनस्फुटसौधदीप. ॥ उदितभाग्यविधुप्रस्तोत्तमपुतिजितान्तरवैरितमस्तति । उदयवल्लभरिराथपर. परमसंयमवान् जयति क्षितौ ॥ केनोपमीयत इहाथ तृतीयसूरि. श्रीज्ञानसागर उदारगुणैकराशि । वार्द्ध सर' श्रयतु जातु किलोपमान वाद्धि कथ सरसमस्ततयापि लक्ष्म्या । : . :: . :: तथा श्रीरतसिहसूरीणां पण्डितप्रकाण्डपण्डितश्रीशिवसुन्दरगणिप्रभृतय. शिष्या अनि सप्रभावका बभूवुः । . : . :: :: तथा महोपाध्यायश्रीमदुदयधर्मगणयो वाक्यप्रकाशमन्थ विहितवन्तः । तथाऽन्येऽपि श्रीचारिनसुन्दरसूरिप्रमुखा शिष्या ये च महीपालकुमारपाला दिसंस्कृतचरितानि वितेनिरे ॥" इत्येतेषा पद्याना निवर्णनेन बृहत्तपागच्छान्तभूतवृहत्पौशालिकशाखाभट्टारकश्रीमद्तसिंहसूरिशिष्यत्वामहोपाध्यायश्रीमच्चारित्रसुन्दर- गणीना सत्तासमयोऽपि विकमार्कीयपञ्चदशषोडशयोः शतकयोर्मध्यवर्तीत्याविष्करणं सर्वथैव घटाकोटीमाटीकते । अस्य संशोधनसमये पुस्तकमेकं नातिशुद्धमष्टचत्वारिंशत्पत्रात्मकं चिरन्तनं वडोदराराजकीयपुस्तकालयाद् द्वितीयं चाशुद्धबहुलमष्टच- त्वारिंशत्पत्ररूपं नूतनं प्रवर्तकश्रीमत्कान्तिविजयमुनिपुङ्गवशाससंग्रहात्समासादितम् । एतत्पुस्तकद्वितयाधारण सावधानतया संशोधन विहितं तथापि दृष्टिदोषेणाक्षरयोजकदोषेण वा यन्त्र कचनाशुद्धिर्वाचकमहाशयाना दृष्टिगोचरमवतरेत तदा तत्र सशोध्य वाचनीयमित्याशास्ते- प्रवर्तकनीमत्कान्तिविजयचरणचञ्चरीकः :-चतुरविजयो मुनिः।

॥ अहम् ॥ ॥ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरेभ्यो नमः ॥ श्रीरनसिंहसूरिशिष्यमहोपाध्यायश्रीचारित्रसुन्दरगणिविरचितं कुमारपालमहाकाव्यम्। यत्पादसेवा सुरवृक्षलक्षाद्विशिष्यतेऽत्यद्भुतदानदक्षा । अचिन्त्यमाहात्म्यनिधिः स नित्यं जिनेश्वरो यच्छतु मङ्गलानि ॥ १॥ प्रसादपोतं समवाप्य यस्यास्तरन्ति सन्तोऽखिलवाङ्मयाब्धिम् । जाड्यान्धकारनजसूर्यरूपां सा शारदा मे वरदा सदास्तु ॥ २॥ मुधा मुधा धर्मविधि विधाय यो जैनधर्म विदधे विशुद्धम् । विधूततन्द्रो भविनां मुनीन्द्रस्तनोतु भद्राणि स हेमचन्द्रः ॥ ३ ॥ परोपकारकनिबद्धचित्तास्ते सन्तु सन्तो मम सुप्रसन्नाः । सुधाभयेह स्वगिरा समयं का- व्यस्य ये दोपविष हरन्ति ॥ ४॥ दोपान्धकारं सकलं निहत्य शास्त्रं च विश्वं रचयन्ति शुद्धम् । सदा समानन्दितसा- धुचक्रास्ते सज्जना मित्रसमा जयन्ति ॥ ५॥ मनोहरां सद्गुणहारहूरां हित्वाऽसती दोषलतां प्रयाति । इहातिवक्रस्य नितान्तलोला क्रमेलकस्येव खलस्य लोला ॥ ६॥ किं निन्द्यते सोऽपि खलः कठोरः कृष्णः कटुः स्नेहविवर्जिताङ्गः। गोमण्डलोचैरुपकारयोगात्संजायते गोरसवृद्धिकृधः ॥७॥ खरस्वभावेन खलेन किं वा मां सज्जनः स्वीकुरूतात् कृती 평원 चत् । निशीथिनीशेन विकाशितं यत्तद्वाध्यते किं कुमुदं तमोभिः ॥ ८॥ काव्यालङ्कृतिनाटकेषु रसिकस्वान्ताम्बुजाहा- दिनी नास्माकं पद्धतास्ति निर्मलतरा शाब्दे न मार्गे मतिः । नार्थेष्वप्यतिनिष्ठता परमिमां कर्तुं कृतार्थी गिरं चौलुक्यो- रुचरित्रकीर्तनविधौ धन्ये प्रवर्तामहे ॥ ९॥ महीमहेन्द्रानपरान् विहाय दयाश्रयेद्यं सुभगाश्यमन । कुमारपालः परमा- हतः स जीयाजगजन्तुपितामहाभः ॥ १०॥ विमलयति समस्तं या जगत्पीयमाना सुरसरिदिव तापं सन्ततं संहरन्ती। कथमवितथरूपा तत्कथा निर्व्यथां मे न गिरमिह रसान्या सा करिष्यत्यदोपाम् ॥ ११॥ श्रियां निवेशो वरिवर्ति देशः श्रीगुर्जराख्यो रुचिरप्रदेशः । कृतप्रवेशं सुकृतैनितान्तं न पापलेशोऽपि यमन भेजे ॥ १२॥ नदीषु गङ्गा त्रिदशेषु वज्री नगेषु मेरुः क्षितिपेषु चक्री । मतगजेविन्द्रगजः प्रधानो देशः स देशेषु तथाऽखिलेषु ॥ १३ ॥ दानेन मानेन नयेन धाच्यां यः सर्वदेशाभरणं बभूव । आसीत्सदाचारभरस्य सीमाम्बुधिजलानामिव सर्वदा यः॥ १४ ॥ यस्मिन् स्वकाले तरवः फलन्ति गलन्ति गर्दा नहि कामिनीनाम् । मिलन्ति वित्तानि धनानि पुंसां ज्वलन्ति नो जातु गृहा जनानाम् ॥१५॥ ग्रामा महाद्रगसमानरूपाः स्वर्धामरम्याणि पुराणि यत्र । लोकाः क्षितीशप्रतिमा विभान्ति महीभुजो यत्र सुरेन्द्रतुल्याः ॥ १६ ॥ अस्ति श्रीवनराजराजरचितप्रौढप्रतिष्ठं स्फुटं तत्र श्रीअणहिल्लपाटकमिति प्राप्तप्रतिष्ठं पुरम् । आतङ्कोज्झित- मानसाः प्रतिदिनं पूर्णाभिलापाः स्फुरझासो यत्र वसन्ति चित्रजनका देवोपमा मानवाः ॥ १७ ॥ अनंलिहा यत्र विलो- क्य सौधश्रेणीध्वजश्रेणिविराजमानाः । सूर्यो निजस्यन्दनभशशङ्काकुलो भवेदभ्रपथेऽपि गच्छन् ॥ १८॥ यदीयनारीन- यनाननाभ्यां सरोजचन्द्रौ विजितौ विशझे । अशिश्रिय स्तरवारिदुर्गमेकं भिया व्योमपथं तथान्यः ॥ १९॥ यस्मिन् 56 HMA न गवाक्षस्थितचारुनारीवनविभोझासितदिग्विभागैः । निशीन्दुविम्वप्रतिमैरजस्रं सहनचन्द्रं गगनं विभाति ॥ २० ॥ जिने- न्द्रचैत्यानि पराणि यत्र स्वलोकनिःश्रेणिसमानि भान्ति । वाताहतास्तत्र च वैजयन्त्यः सन्तर्जयन्त्यः स्वरिवोल्लसन्ति ॥२१॥ न राजहंसादपरः सरोगो दोपाकरश्चन्द्रमसः परो नो । विहाय भृङ्ग मधुपो न कश्चिद्यस्मिन्न सपादपरे द्विजिह्वः ॥२२॥ प्रदीपपात्राणि विहाय यत्र स्नेहक्षयोऽन्यत्र निरीक्ष्यते नो । न कण्टकाली वृतिमन्तरेण विलोक्यते तत्र पुरे परत्र ॥२३॥ दानेन मानेन कलाजेन रूपेण सौख्येन वलेन नित्यम् । यस्मिन् वसन्तसिदशान हसन्ति धर्मोज्झ्यमानान्निरताः स्वधर्मे ॥ २४ ॥ श्रीमूलराजान्वयमौलिरनं श्रीपत्तनेऽजायत निःसपनः । श्रीभीमदेवो वसुधाप्रधानं नृपः स्ववीर्यार्जितभूरि- मानः ॥ २५ ॥ तस्मिन् शासति पाकशासनसमे श्रीभीमदेवे भुवं नाकार्षः स्थितिमत्र भीतिततयो मुक्त्वारिहत्काननम् । तन्नारीनयनानि नित्यनिपतन्नीराणि हित्वा क्वचिन्नाभूवन्नतिवृष्टयो विघदितस्फीतेऽतिजाते नृपे ॥ २६ ॥ जाया जयन्ती वपुपा जयन्ती तस्याभवद्भूमिपतेर्जयन्ती । अगण्यलावण्यगुणेन पूर्णा सा प्रीतिपानं परमं बभूव ॥ २७ ॥ तया समं वैपयिक सुखं स भुञ्जन्ननैषीत्समयं महान्तम् । स्वधीसखे न्यस्तसमस्तभारो न राजकार्याणि विवेद किञ्चित् ॥ २८ ॥ नृपोऽन्यदा कामलताभिधानां स वारनारीमवलोक्य कल्याम् । चकार पली तरसा रसान्धः कामातुरः किं न नरः क- रोति ॥ २९ ॥ ताभ्यां रतिप्रीतिमनोहराभ्यां समं स्मराभो बुभुजे स सौख्यम् । योगीव लीनः परमात्मकृत्ये नृपोऽन्ध- भूदेप महाप्रमोदम् ॥ ३० ॥ कालेन सा कामलता पवित्रमसूत पुत्रं जितमित्रकान्तिम् । यो जातमात्रोऽपि जहार राज्ञो दुःख नितान्तं निरपत्यतायाः॥ ३१ ॥ अजीजनत्सूनुमनूनरूपं भूपप्रियान्यापि कुलानुरूपम् । पूर्वेव, सूर्य हतशत्रुशौर्य - चूलेव मेरोः किल कल्पवृक्षम् ॥ ३२ ॥ क्षेमं करिष्यत्यतुलं कुलस्य क्षमः क्षणादेप रिपून विजेतुम् । अतोऽभिधां पूर्वसुताय राजा श्रीक्षेमराजेति ददौ वदान्यः ॥ ३३ ॥ दानेन मानेन बलेन कर्णमयं स कर्णोऽनुकरिष्यतीति । श्रीकर्णराजेति स वर्णनीयं नृपोऽन्यपुत्रस्य ततान नाम ॥ ३४ ॥ तावाधिनेयाविव दिव्यरूपी परस्परं प्रीतिपरौ कुमारौ । निरीक्ष्य माता- पितरौ मनोऽन्तरतावविभूतां परमं प्रमोदम् ॥३५॥ वृद्धि बुद्धिमतीभिराशु गमितौ धानीभिरेतौ परांधात्रीनाथसुतावधीत- समसच्छासानभूतां क्रमात् । कामं काममरालमानससमं लावण्यलीलाननं नारीनेत्रचकोरचन्द्रसदृशं तावापतुर्यो- वनम् ॥ ३६ ॥ श्रीक्षेमराजो मरुराजपुत्री नामा सुतारां गुणवीजधानीम् । पितुर्नियोगान्महता महेन स पर्यणेपीदथ दक्षमुख्यः ॥ ३७॥ श्रियं जयन्त्या निजरूपकान्त्याः स्वर्ण स्ववर्णेन च तर्जयन्त्याः। कर्णोऽपि कर्णाटनृपाजायाश्च- कार पाणिग्रहणं जयायाः ॥ ३८ ॥ स दातुकामस्तनयाय राज्यमथापदन्तं नृपतिः क्षणेन । अन्यज्ञरश्चिन्तयति स्वचित्ते विधिविधत्ते द्रुतमन्यदेव ॥ ३९ ॥ ताते मृते राज्यधुरन्धरोऽपि श्रीक्षेमराजो वचनेन राज्ञः । पहाभिषेकं विदधे रयेण कर्णस्य वर्णप्रजपूजितस्य ॥ ४० ॥ निजाग्रजे जामददुनसत्त्वे स राज्यचिन्तां सकलं विमुच्य । कर्णो गतीकृतविज्ञ- चक्रश्चने स्वयं शासविचारमुथैः ॥ ४१ ॥ श्रीकर्णः किमु वर्ण्यते स कविभिः सद्वर्णचिन्तामणिविज्ञाम्भोजविकाशवास- रमणिभूमीशचूडामणिः । स्फूर्जत्कीर्तितरजिष्णीं दिशि दिशि प्रधनस्ततापां जना यस्य श्रोत्रपुटैः पिवन्ति विकटैरद्याप्यपू- र्णस्पृहाः ॥ ४२ ॥ गोपीपीनपयोधराहतमुरः सन्त्यज्य लक्ष्मीपतेर्मन्ये पङ्कजशगया नयनयोर्विश्राम्यति श्रीस्तव । श्रीम- कर्णनरेन्द्र ! यत्र चलति धूवलरीपटनरतन त्रुट्यति भीतिभझुरतया दारिशमुद्रा यतः ॥ ४३ ॥ इति कविकुलगोष्ठीह- 6- एचित्तो नितान्तं समयमयमनैपीत्कर्णराजो महान्तम् । प्रतिदिनघनदानैः प्रीणयन् लब्धवर्णान् परमभिमतदातुन कल्पवृक्षानजैपीत् ॥ ४४ ॥ ॥ इति श्रीकुमारपालचरिते महाकाव्ये वंशवर्णननामप्रथमसर्गे प्रथमो वर्गः ॥ ग्रन्थाग्रं० ६५ ॥ काय काश्मीरपतिः स्वपुत्रीं प्रैपीदथो मीणलदेविनाम्नीं । चकार पाणिग्रहणं महेन तस्याः स लोकोत्कृतविस्मयेन ॥ १॥ चिक्रीड निबीडतया तयालं समं कियत्कालमसौ नृपालः । श्यामा द्विधाप्यस्य बहुप्रियस्याऽप्रियाभवत्साथ विभा- ग्ययोगात् ॥ २॥ न प्रीतिहेतुः कथितो गुणौधः कस्यापि कोऽप्यन भवेदभीष्टः । धिनोति धत्तूरतरुमहेशं न केतकः सद्गुणसम्भृतोऽपि ॥ ३॥ विरक्तचित्तो नृपतिरततोऽस्या जग्राह नामापि न शीलवत्याः । धन्याभिरन्याभिरयं वधूभि- विधूतचिन्तो विललास सार्द्धम् ॥ ४ ॥ वालावलावालिशभूमिपाला नटा विटा वानरवारनार्यः । चौराश्चरा याचकवच- काश्च भवन्ति नूनं क्षणरागिणोऽमी ॥ ५॥ गवेपयन्नेष पुरं नरेशोऽन्यदा गवाक्षे निपसाद दक्षः । मातङ्गनारी मधुर- स्वरेण काचित्तदने विततान गानम् ॥ ६ ॥ अगण्यलावण्यगुणस्वरूपं रूपं तदीयं स निरूप्य भूपः । मरातुरस्तन पराः स्वनारीः सर्वा विसस्मार विचारहीनः ॥ ७ ॥ मुझे न भोगान्न रसान् भुनक्ति व्यनक्ति चिन्तां न न वक्ति किञ्चित् । शेतेऽपि नक्तं नहि तत्र रक्तो व्यक्तं नृपोऽशक्त इवाभवत्सः ॥ ८॥ विवेकदीपो हदि तावदेव स्फुरत्यहो ! दर्शितधर्म- मार्गः । उन्मूलिताचारविचारवृक्षो न वाति यावत्किल कामवायुः ॥९॥ अकार्यमेतन्नृपतिः स कार्यमत्रानुवन् कर्तुम- काम नार्ययोग्यम् । दिने दिने क्षीणशशीव कामं स्मरातुरः क्षामतनुर्वभूव ॥ १० ॥ चिन्तानिमित्तं सचिवो रहस्तं पप्रच्छ वात्सल्यकृदाग्रहेण । अनद्यमप्याख्यदिदं स्वरूपं भूपः खरूपप्रतिमाय तस्मै ॥ ११॥ मातङ्गपल्या सकलं स तस्या वेपं समानीय मनीपिमुख्यः । समर्पयन् मीणलदेविनाम्नया मन्त्रीश्वरस्तत्समरूपभाजः ॥ १२ ॥ वेपं वहन्ती तदशेपमेषा रात्रावगाद्भूमिपतेः सगीपं । तया समं वैपयिक सुखं स चिरं सिपेवे विपमेपुवश्यः ॥ १३ ॥ सा क्रीडतस्तस्य बहुप्रकारै- मुद्रामलान्मन्दमतेर्नृपस्य । उत्थाय तेनानुमता जगाम सम्पूर्णकामा निजधाम तूर्णम् ॥ १४ ॥ विधाय तद्धर्महरं स कर्म नृपो मनरतापमवाप कामम् । पापं विवेकी न करोति जातु कृत्वानुतापं परमं प्रयाति ॥ १५ ॥ अब्रह्मत छेदन- मिन्द्रियस्य नपुंराकत्वं बहुजन्मसु स्यात् । ततो विवेकी निजदारतुष्टो भूयाब्रुवं चापरदारवर्जी ॥ १६ ॥ प्रायः परती- गमनात्परत्र घोरे गतिः स्यानरके नराणाम् । यदन्त्यजतीगमनात्पुनः स्याद्वक्तुं न शक्नोति तदीश्वरोऽपि ॥ १७ ॥ अहो! मयाऽकारि विकारभाजा तहुष्कृतं धर्मपराङ्मुखेन । तीर्थे तपोभिर्बहुभिर्न दानः शुद्धिर्विधातुं किल यस्य शक्या ॥१८॥ जनझमीसङ्गमलीमसं खं जुहोमि देहं तदहं चिताग्नौ । कुसङ्गदोपाशुचि वझिरेव पात्रं पवित्रीकुरुतेऽत्र धान्याम् ॥ १९ ॥ संशोचते भूरि तदेति राज्ञे तदुष्कृतं जीवितनिस्पृहाय । विज्ञातवृत्तः सचिवः प्रपत्रं व्यजिज्ञपत्तं स्वकृतं समेत्य ॥ २० ॥ नृपः स गादानुशया मेने वचस्तदा तथ्यगिरोऽपि तस्य । स्वयं तु गत्वा निजगेहिनी तां पप्रच्छ सन्देहविनाशनाय ॥२१॥ मुद्रेक्षणात्तद्वचनाच तथ्यममन्यतासौ सचिवप्रपञ्चम् । त्रातारमेनोनिचयात्तथैनं प्रशंसयामास मुहुर्मुहुः सः ॥ २२ ॥ अथो रजन्या प्रहरे तुरीये श्रीमीणला साप्तसमाधिनिद्रा । स्वप्ने स्वतेजोर्जितवैरिपक्षं ददर्श सिंह स्वमुखे विशन्तम् N --55-25 ॥ २३ ॥ न्यवेदयद्भूपतये प्रसोदात् स्वप्नं तमेपोल्लसितानननीः । दधे च गर्भ निजभर्तृयोगात्समौक्तिकं शुक्तिरिवाप्तभोगा ॥ २४ ॥ वभार गर्भातिशयादुदभ्रान सा दोहदान् द्रोहकरानरीणाम् । पूर्णेऽथ काले सुपुत्रे तनूज चिन्तामणि रोहणभूमि केव ॥ २५ ॥ विधाय संप्रीणितसर्वलोकं जन्मोत्सवं तस्य निररतशोकम् । ददौ मुदा श्रीजयसिंहदेवेत्याख्यां तृपः स्वम- समां स तस्मै ॥ २६ ॥ स लाल्यमानो ललनाभिरासीदष्टाब्दिको भूपसुतः क्रमेण । नृपासनेऽसौ विचरन् सदन्तरुपा- विशञ्चान्यदिने निजेच्छम् ॥ २७ ॥ स्वविष्टरे शिष्टदिने निविष्टं दृष्ट्वा तमिष्टं नृपतिः प्रहष्टः । पट्टाभिपेकं स्वविशेषविज्ञ- श्चक्रेऽतिशकस्य महेन तस्य ॥ २८ ॥ स्यातामुभौ नैकपुरे नरेशौ कोशे यथाऽसी विपिने हरी च । चित्ते विचार्यति नृपः स आशापल्लीमगात्तत्र विमुच्य पुत्रम् ॥ २९ ॥ कर्णावतीति प्रथिताऽभवत्सा ततः पुरी कर्णनरेशनाम्ना । ख्यातिं परामु- त्तमसङ्गमेन प्राप्नोति को न क्षितिमण्डलेऽस्मिन् ॥ ३० ॥ स मालवं जेतुमना महीशो ममार दैवादथ शीघ्रमेव । विश्वे- ऽपि विश्वे सति दैववश्ये कः कर्तुमीष्टेऽखिलचिन्तितार्थम् ॥ ३१ ॥ कृत्वा पितुः कृत्यमकृत्यभीरुः सुमेरुधीरो जयसिंह- देवः । स्वामात्यविन्यस्तसमस्तचिन्तः स पालयामास जनाभयेन ॥ ३२ ॥ वालोऽप्यसौ मालवभूमिपालमियेष लेखेशसमो विजेतुम् । अहो ! सहन्ते नहि सत्त्ववन्तो महान्तमप्यत्र पितुपिं तम् ॥ ३३ ॥ श्रीआलिगाख्यं सचिवं विमुच्य स्वदे- शरक्षार्थमसौ कृतार्थः । नृपो विशालेन वलेन साकं स मालवं कालसमो जगाम ॥ ३४ ॥ कृत्वा विप्रहमुग्रमाग्रहवशाज्ज- ग्राह धारां धराधीशो द्वादशवत्सरैर्बहुतरं विधच्चिरं मत्सरम् । आलोक्यातुलविक्रम बहुवलं श्रीगूर्जरेशं पुनर्नवा माल- वपालकः स समयाभिज्ञोऽभजन्मण्डपम् ॥ ३५ ॥ अथ निजमभिमानं मालवेन्द्रः स हित्वा क्रमयुगमनमच्छ्रीसिद्धराज्ञः Karan ए समेत्य । शरणमिह महान्तो दूमितानां महद्भिर्धरणिनिपतितानां भूमिरेवावलम्बः ॥ ३६॥ प्रादाद्राज्यं प्रणतजनतावत्सलः सिद्धराजस्तस्मै श्रीमानुचितचतुरो मुक्तगर्वाय सर्वम् । वीरा वैरिष्वपि विरचयन्त्यानतेषु प्रसादं स्थानं नादाकिमु जल- निधिः स्वारये केशवाय ॥ ३७॥ कर्णाटलाटमगधाङ्गकलिङ्गावङ्गकाश्मीरकीरमरुमालवसिन्धुमुख्यान् । देशान् विजित्य तरणिप्रमितैः स वर्षेः सिद्धाधिपो निजपुरं पुनराससाद ॥ ३८ ॥ इति जितनिखिलाशः सर्वसम्पूरिताशः कृतसुकृतवि- काशः शत्रुकेतुप्रकाशः । कलितसकलदेशः सोत्सवं गुर्जरेशः स्वपुरमथनरेशः स्वर्गतुल्यं विवेश ॥ ३९ ॥ ॥ इति श्रीकुमारपालचरिते प्रथमसर्गे द्वितीयोवर्गः ॥२॥ अथ श्रीपूर्णतलाख्यगच्छस्वच्छेन्दुसुन्दराः । सूरयो देवचन्द्राह्रा दध्युरेवं हृदि स्वयं ॥ १॥ पादलिप्तवप्पभदिवज्रार्य- खपटादयः । प्रभावकाः पुराभूवन सूरयो दूरितारयः ॥ २॥ आचार्या बहवः सन्तीदानीमप्यस्मदादयः । न तेषु तादृशः कोऽपि शासनोन्नतिकारकः ॥ ३॥ उपद्रवन्त्यही जैनान् भृशं मिथ्यादशोऽधुना । धिगस्मानश्मसङ्काशान् येषु सत्सु समत्सराः॥४॥ध्यात्वेति सूरिमन्त्रस्याराधनं सूरयो व्यधुः । विधुतान्यप्रभावस्य शासनोन्नतिहेतवे ॥ ५॥ प्रत्यक्षी- भूय तत्पीठपूजिता शासनेश्वरी । मुमुक्षुमुख्यमाचष्ट स्पष्टवागिति तं मुदा ॥ ६॥ धन्धुकनगरे युष्मान् देववन्दनतत्प- रान् । यो निपद्य निपद्यायां वालो वन्दिप्यतेतराम् ॥ ७ ॥ मोढवंशावतंसाभः पाहिणीचाविगाङ्गभूः । चाङ्गदेवायो भावी साम्प्रतं स प्रभावकः ॥ ८॥ इत्यादिश्य प्रभून् प्रीता देवता सा तिरोऽभवत् । नगरं ते च धन्धुकं ययुस्तकार्यसि- - NRN द्धये ॥ ९॥ पयशकस्तवैर्देवान् वन्दन्ते यावदेव ते । करलग्नसुता तावदेका श्राद्धी समागमत् ॥ १० ॥ नत्वा नुत्वा च सा देवान् ववन्दे यतिसत्तमम् । विधिवत्कुशलोदन्तमपृच्छत्स्वच्छमानसा ॥ ११ ॥ उपविश्य निपटायां सुतोऽपि जन- नीगिरा । स भालस्पृष्टभूपीठोऽनमत्तं पञ्चवार्पिकः॥ १२ ॥ सोऽयमेवेति निश्चित्य मुदिताः सूरयोऽप्यदुः । धर्मलाभा- शिपं तस्मै पृष्ठस्पर्शनपूर्वकम् ॥ १३ ॥ सर्वलक्षणसम्पूर्ण सर्वावयवसुन्दरम् । तमालपन चिरं वालं तेऽतिकोमलया गिरा ॥ १४ ॥ ततस्ते मुदिता वाढमानमं द्राक स्वमानयन् । चित्तोत्साहो भविष्यन्त्याः कार्यसिद्धेहि लक्षणम् ॥ १५ ॥ वास- रेऽथ द्वितीयेऽस्मिन् । स्वयं सङ्घपरीवृताः । पाहिणीसदनं प्रापुः सूरयो दूरितांहसः ॥ १६ ॥ धन्यमन्या प्रभून् सापि सच्चकारासनादिभिः । मुान्ति स्वागताचारे न कदापि विवेकिनः ॥ १७ ॥ चाङ्गदेवस्तदागत्य गुरोरङ्कमभूषयत् । भव- न्ति भाविभावानां बालचेष्टा हि सूचकाः ॥ १८ ॥ प्रणम्य पाहिणी सूरीनिति भक्त्या व्यजिज्ञपत् । भवदागमनादद्य पवित्रमभव गृहम् ॥ १९ ॥ मिथ्यादृगपि भगवन् ! पति रित पुरेऽधुना । आवर्जयति यः सङ्घ भाग्यात्माप्तं स्वमन्दिरे ॥ २० ॥ आदिश्यतां तथाप्येतन्निजागमनकारणम् । यथा विधाय तत्कुर्वे गुरोः स्खं सफलं जनुः ॥ ११ ॥ रजितास्त- इनोमिस्तेऽवदनिति शुभे ! शृणु । समस्तवनितारतं जानामि भवती किल ॥ २२ ॥ त्रिजगत्तिलकः श्रीमांश्चक्रिलक्षण- लान्छितः । यस्याः कुक्षावयं जातः सुतो वंशविभूपणम् ॥ २३ ॥ अमीभिर्लक्षणैः प्राज्यं राज्यं राजकुले भवेत् । वणिग्ना- झणयोवैशे जातः स्यान्मन्त्रिपुङ्गवः ॥ २४ ॥ अथ चेद्रतमादत्ते भाग्येन भवदङ्गजः । तदायं कलिकालेऽपि प्रथमं युगमा- १ "मुनिपुङ्गवः' इत्यपि पाठः॥

- नयेत् ॥ २५ ॥ तदस्मभ्यममुं देहि तनयं तत्त्वकोविदे।। धन्यानामेव जायन्ते जाताश्चारित्रधारिणः ॥ २६ ॥ इत्याधु- कापि गुरुभिः पत्यादेशं विना सती । किं करोमीति चतुरा चिन्तयामास चेतसि ॥ २७ ॥ सुतं दत्त्वाधुना भद्रे ! निज- दोग निराकुरु । श्राद्धोऽभ्यधात्परः पश्चात्प्रमाणं वचनं पितुः ॥ २८ ॥ तथेति प्रतिपथाह पाहिणी तनयं रयात् । वत्स ! स्वच्छमतेऽमीपां भवान् शिष्यो भविष्यति ॥ २९ ॥ ओमित्युत्तेऽथ तेनापि सादात्तेभ्यः सुतं मुदा । उछायन्ति तत्त्वज्ञा गुरुवाक्यं न कर्हिनित् ॥ ३० ॥ ते चाजादेवमादाय यगुः कर्णावतीगथ । चाचिगः सुचिरादेहं कृतार्थो निजमा- गमत् ॥ ३१ ॥ प्रातिवेश्मिकतो ज्ञात्वा वृत्तान्तं ते विखिमधीः । सुतोहातुरः पनी प्रीतिवानप्यतर्जयत् ॥ ३२॥ त्य:- पानाशनः पुनदर्शनावधि वेगतः । कर्णावतीमगादेष क्रोधराशयो भृशम् ॥ ३३ ॥ क्रोधधूमध्वजस्तस्य ज्वलन्नतितरा मपि। गुरुवाक्यामृतैः सिक्को निर्ववौ तत्क्षणादपि ॥ ३४ ॥ श्रीमानुदयनो गन्त्री त निनायात्ममन्दिरम् । तत्र खेलन्तमा- लोक्य सुतं स मुमुदेतराम् ॥ ३५ ॥ समं सुतेन बुभुजे कृतदेवार्चन क्रियः । तुतोप च विवेकज्ञो निर्भरं राचिवादरात् ॥३६॥ द्रम्मलक्षवयं पर दुकूलानि सुतद्वयम् । ततस्तत्पुरतो मुक्त्वा सचिवो वाक्यमब्रवीत् ॥ ३७॥ विशात्मन एवेदं विद्धि वित्तगुतादिकम् । तथाप्येतत्कृपां कृत्वा गृहाणानुगृहाण माम् ॥ ३८ ॥ देहि मे चाजदेवाई सुतं तावकमे- तकम्। वाग्भटामभदाख्यौ मे सुतावेतौ गृहाण च ॥ ३९ ॥ पुनचानस्ति धन्योऽस्ति भवानेव महीतले । समीहन्ते निरीहा यत्सुतं श्रीगुरवोऽपि मे ॥ ४० ॥ इत्युक्तियुक्तिभिवादंबोधितो मंन्त्रिणापि सः । नादात्स्वतनयं तस्मै पुत्रस्नेहो हि दुस्त्य- जः ॥४१॥ चाङ्गदेवं समादाय तमाच्छय च मंत्रिणम् । नजालासौ पुरस्तावञ्चक्षुवे केनचित्फुटम् ॥ ४२ ॥ ततः

SCRrst-
RSSke
स चिन्तयामास खिन्नात्यो निजमानसे । अमीभिः शकुनैर्मन्दैः स्यादुःख मरणावधि ॥ ४३ ॥ कदाचिन्मन्दभाग्येन
सुतोऽयं म्रियतेऽध्वनि । द्वयोरपि भवेन्मृत्यु समं बजतोः पथि ॥ ४४ ॥ तदमुं मन्त्रिणे दत्त्वा ब्रजामि निजमन्दिरम् ।
भूयोऽपि भावि मेऽमुष्य दर्शनं जीवतः सतः ॥ ४५ ॥ व्यावृत्य स विचिन्त्येति तमदान्मन्त्रिणे मुदा । कुर्वन्ति नहि
शास्त्रज्ञाः कार्य शकुनवारितम् ॥ ४६॥ ततः प्रमुदितो मन्त्री गाढालिङ्गनपूर्वकम् । अवादीदुचितज्ञस्तं प्रशंसन् साधु
साध्विति ॥ ४७ ॥ सखे ! मह्यं वितीर्णोऽसावनोऽपि सुतस्तव । अपमानपदं भावी योगिमर्कटवन्नमन् ॥ ४८ ॥ गुरु-
भिः पुनराप्तोऽसौ ग्राहितः सकलाः कलाः । रत्नं वैकटिकेनेव नेप्यतेऽनय॑तापदम् ॥ ४९ ॥ गुरुभ्योऽथार्पयत्पुत्रं मन्त्रि-
णैवं स बोधितः । आनीय पाहिणी चके तत्र दीक्षोत्सवं परम् ॥ ५० ॥ गुरवश्वकिरे तस्य प्रशस्यगुणशालिनः । सोम-
चन्द्र इति ख्यातं नाम कामोपमाकृतेः ॥ ५१ ॥ वरिवस्यां गुरोस्तन्वंश्चिन्वन् पुण्यकणोत्करान् । क्रमेण सकलं शास्त्रं स
जग्राहोप्रधीनिधिः ॥ ५२ ॥ प्राप पारमपारस्य वाङ्मयाब्धेः स निःश्नमम् । अंशुमान् गगनस्येव सम्पदामिव चक्रभृत
॥ ५३॥ लघुरनुगुरुसंयोगं यद्गुरुतामावभार तद्युक्तम् । तत्याज नार्जवं यन्न वक्रतामार तच्चित्रम् ॥ ५४॥ धिया कुशा-
ग्रोपमयैकयैव पपावपारं किल वाङ्मयाब्धिम् । पिवन् समुद्र चुलुकैरगस्तिस्त्रिभिस्तु तैस्तत्सदृशः कथं स्यात् ॥ ५५ ॥
संसिद्धकार्या अथ सूरिवर्याः सङ्घाग्रहात्पत्तनमापुरार्याः । चक्रे प्रवेशोत्सवमत्युदारं तदा मुदा सङ्घजनोऽपि सारम् ॥५६॥
सूर्यागमेनाप सुदं समग्रो लोकस्तदा कोक इवोत्तमाग्यः । धर्मोन्नति तत्र परां वितेने जनुः कृतार्थ स्त्रमलं च मेने ॥५७॥
समागतं दिग्विजयं विधाय वर्षैस्तदा द्वादशभिर्महीशम् । समानमन् सर्वजनाः समेत्य स्वस्वोचितं प्राभृतकं प्रदाय ॥५॥

bat तस्मै ददुर्दर्शनिनः समग्रा धर्माशिषं वेगवशादुपेत्य । अनागतान् जैनमुनीन् विभाव्य धर्मद्विषान्येन तदेत्यवादि ॥ ५९॥ जैना विदीनसयराजमाना नायान्ति राजन्निह राजगहम् । निन्दन्ति धर्मादपरान्नितान्तं वदन्ति कान्तं निज- मेव धर्मम् ॥ ६९ ॥ न्यवेदयन् मन्त्रिवरः स्वरूपं श्रीदेवचन्द्राभिधसूरये तत् । प्रस्तावविज्ञो गुरुचक्रवर्ती जगाद तं नाशितसज्जनातिः ॥ ६१ ॥ सदा सदाचारविचारदक्षा न साधवो राजगृहं ब्रजन्ति । निरीहचित्ता निजकृत्यवित्ता रङ्क नरेशं च समं विदन्ति ॥ १२ ॥ तथापि च श्राद्धसमाधिहेतोः सर्वे क्यं सम्प्रति राजगहम् । यास्याम आचार्यवरा मिलित्वा स्वधर्मकार्येण नयैकदेहम् ॥ ६३ ॥ सङ्गत्य सर्वेऽप्यथ सूरिवर्या ययुपद्वारि विचारिधुर्याः । धर्माशिष दास्यति कोऽत्र राज्ञे विचारयामासुरिदं मिथश्च ॥ ६४ ॥ तदा दशाब्दोऽपि निरस्तशङ्कः स सोमचन्द्रो मुनिराह हर्षात्।श्रीसिद्ध- भूपालपुरो निवेद्यं मया वचस्तत्समयानुरूपम् ॥ ६५ ॥ तथेति सर्वे प्रतिपद्य हृद्यां ते संसदं सूरिवरा अवापन् । श्रीमत्क्षि- तीशाय विहाय शङ्का सोऽदात्तदाशी पदमित्युदारम् ॥ ६६ ॥ जीव जीवसम! विद्यया सदा नन्द नन्दनसमान! समान!। नन्द नन्दसम! दाननिरस्तकर्ण! कर्णसुत! सिद्धनरेन्द्र ॥६७॥अस्ति वः सुखमखण्डितमङ्गे ते विनेयनिवहाः सुखभाजः। आस्यतां किमजनिष्ट विलम्बः स प्रणाममिति भूपतिराख्यत् ॥ ६८ ॥ वासरत्रयमियाय गतानां राजकार्यवशतोऽत्र यतीनाम् । तद्विधाय वयमुत्सुकचित्ता आगता स्म इति तं मुनिरूचे ॥६९ ॥ किं नृपे तदिति पृच्छति सोऽवक् त्वत्प्र- वेशमहमत्र विधातुम् । कामधेनुजलधीन्दुदिशेभामन्त्रणं वितिविधाय समेताः ॥ ७० ॥ भूमिं कामगवि ! स्वगोमयरसैरा- सिञ्च रत्नाकराः ! मुक्तास्वस्तिकमातनुध्वमुडुप ! त्वं पूर्णकुम्भीभव । छित्वा कल्पतरोर्दलानि सरलैदिग्वारणास्तोरणान्या- हूँ धत्त स्वकरैर्विजित्य जगतीं नत्वेति सिद्धाधिपः ॥ ७१ ॥ तदित्युदारं वचनं निशम्य चमत्कृतो भूपतिरात्मचित्ते । अहो- ऽद्भुता बुद्धिरहोऽनवद्या विद्येति धून्वन् स्वशिरः शशंस ॥ ७२ ॥ नीत्वा तमझे स्वपटेन हृष्टः स न्युञ्छनं भूमिपति- श्चकार । अहं करिष्येऽस्य पदाधिरोपमहोत्सवं चेति गुरून् ययाचे ॥ ७३ ॥ नानाचारविचारचारुरचनाप्रीतेन तेनाथ तेऽनुज्ञाता वसतिं महेन महता स्वां स्वामवापुः क्षणात् । आश्चर्यातिशयं दधार हृदये राजा द्विजौषः क्रुधं हर्ष सङ्घजनो गुरुगुरुगुणं शिष्यस्य चानुक्रमम् ॥ ७४ ॥ " ॥ इति श्रीकुमारपालचरित प्रथमसर्गे तृतीयो वर्गः ॥३॥ ----- अथो स सोमाख्यवणिग्वरस्य गृहं गतः सुकृतप्रियस्य । सार्द्ध गुणज्ञेन गणीश्वरेणाऽगात्सोमचन्द्रो विहरन् कदा- चित् ॥ १॥ अङ्गारपूर्णः पृथुताम्रकुम्भो विनिर्गतः श्रेष्ठिगृहे तदास्ति । क्षिप्वाङ्गणेऽङ्गारभरं च निन्ये स वित्तलोभाद्वि- धनेन तेन ॥ २॥ शुद्धान्नपानं स गणिस्तदर्थे जग्राह वह्वाग्रहमागमज्ञः । तस्याङ्गणे हेमगणं निरीक्ष्याख्यत्सोमचन्द्रो मुनिचन्द्रमेवम् ॥ ३ ॥ तादृग् न भोगो न च दानयोगो निरीक्ष्यते गेहमिदं न तादृग् । अहो ! गरीयोऽत्र गृहाजिरस्थं विलोक्यते वित्तमिदं तु यादृग्॥४॥ एते न भुञ्जन्ति मितंपचत्वादेतत्तु चौरा न हरन्ति कस्मात् । तुपौघवत्कोऽपिन वित्तजा- तं नरो जहातीह बहिः प्रदेशे ॥ ५॥ तस्येदमाकर्ण्य वचः सकर्णो वणिग्वरश्चेति चकार चर्चाम् । निरीक्षितं वित्तमनेन नूनं ममाङ्गणेऽभाग्यवतोऽप्यनूनम् ॥ ६॥ इति विचिन्त्य जगाद मृदुस्वरं किमिह जल्पसि साधुक ! कल्पितम् । अथ यदस्ति धनं धनमत्र चेत्तदिह दर्शय दर्शनिसत्तम ! ॥७॥ अदर्शयत्तत्स्वकरण साधुस्तथापि नापश्यदयं विभाग्यः । गृहाजिरस्थान्यपि नो धनानि पश्यन्ति भाग्यै रहिता मनुष्याः ॥ ८॥ प्रत्यक्षतामेति धनं यदीदं तत्कारयाम्यस्य पदा- धिरोपम् । भाग्योज्झित स्वं स विभाव्य धन्यः श्रेष्ठीति चित्ते नियमं चकार ॥ ९॥ तज्जातरूपं स्फुटजातरूपमालोकय- च्छ्रेष्ठिवरस्ततः सः। विलोकनाभाग्यवतां भवन्ति सर्वर्द्धयोऽत्र प्रकटाः क्षणेन ॥ १०॥ निशम्य वृत्तान्तममुं जहर्ष सूरी- श्वरः श्रेष्ठिमुखेन वाढम् । निरीक्ष्य शिष्यातिशयं लभेत गुरुः प्रमोदं परमं न कोऽत्र ॥ ११॥ अभ्यर्थ्य सूरीनध तस्य वर्षे चतुईशे हर्षितचित्तवृत्तिः। श्रीसिद्धराजो रचयाञ्चकार पदाधिरोपोत्सवमत्युदारम् ॥ १२ ॥ स्वर्लोकतां पत्तनमास- साद यच्छ्रीदतां सिद्धनृपः स तत्र । श्रीहेमचन्द्रो गुरुतां जनौघः सुपर्वतां तन्नहि चित्रमन ॥ १३ ॥ यद्विलोकनवशादु- पागतोऽजारभार इह चारुहेमताम् । हेमचन्द्र इति नाम निर्ममे निर्ममेण गुरुणा तदा मुदा ॥ १४ ॥ महोत्सवे तत्र सुवर्णलक्षं व्ययेऽकरोत्सिद्धनृपस्तदानीम् । चके कृतार्थ च निजाथसाथै सोमाभिधानः स धनिप्रधानः ॥ १५॥ अथै- कदा प्राप्य गुरोनिदेशं काश्मीरदेशं प्रति हेमचन्द्रः । चचाल सूरीश्वरवृन्दधुर्यः श्रीसारदाराधनबुद्धिवर्यः ॥ १६ ॥ गत्वा प्रयाणत्रितयं मुनीशः सोऽस्थात्वचिद्देवकुलेऽथ शून्ये । घने निशीथे च विहाय निद्रां सस्मार मन्त्रं हृदि सारदायाः ॥ १७ ॥ वाग्देवता तत्र तदीयभाग्याकृष्टेव दृष्टेर्मुदमादधाना । आविर्बभूवाशु वशीकृतेव पुण्यैरगणैर्गणनायकस्य ॥ १८॥ चम्चत्काञ्चनकुण्डलद्युतिभरैरापूरयन्ती दिशः सर्वाश्चन्द्रकलोज्ज्वला हरिहरब्रह्मादिभिः संस्तुता । ब्राह्मी ब्रह्मकपाटपाटन- पटुण्ड्यौघविध्वंसनी तन्वाना दशनप्रभाभिरवदत्सर्वान्धकारक्षयम् ॥ १९ ॥ अहं तवाराधनतुष्टचित्ता समीपमाप्तेह 156 सर R निरीहवर्य ! । विहाय सद्ध्यानभरं वरं त्वं वृणीष्व मायासमिमं कुरुष्व ॥ २० ॥ नानाविज्ञानरूपः शुचिरुचिरवचोरञ्जिता- नेकभूपः सद्विद्यायज्ञयूपो भवभवभयभित्पुण्यपानीयकूपः । आजन्मब्रह्मलीलाकलितकलतनो ! संस्मृता त्वत्समीपमेपैष्या- मीत्युदित्वा सपदि भगवती भारती सा तिरोऽभूत् ॥ २१ ॥ प्रातर्वलित्वा स जगाम वेगात् स्थानं गुरूणां गुरुसिद्धकार्यः । किमेतदित्युत्कलिकाकुलेन निरीक्ष्यमाणो गुरुणा गुणज्ञः ॥ २२ ॥ मुक्ताशुक्तिकमुद्रया गुरुपुरः स्थित्वा च कृत्वा नति नानावन्धसुबन्धुरध्वनिभरं स्तोत्रं चकार प्रभोः। नव्यं काव्यशतेन तेन गुरवोऽप्यानन्दिता निर्भरं प्रोचुर्वश्चितचित्त तमिति ते शिष्यं स्वशिक्षाक्षमम् ॥ २३ ॥ वत्स ! चारुरचनावचनानामातनोति तव नो हदि मोदम् । किन्त्वलीकलव- तोऽपि मरीचिर्दुस्सहं कमपि तापमवाप ॥ २४ ॥ यद्वदस्यनुदिनं निजविद्यागर्वितोऽत्र वितथानि वचांसि । तैवं परभवे तव दुःखं सम्भविष्यति चरित्रजुषोऽपि ॥ २५ ॥ इमां समाकण्यं गुरोः स शिक्षा दक्षस्तदन्ते नियमं चकार । अतः परं श्रीजिनवाविरुद्ध कार्य कवित्वं च मया न कार्य ॥ २६॥ विज्ञाय शिष्यं चरणैकदक्षं नृपप्रमोदाय विमुच्य तत्र । श्रीदे- वचन्द्राभिधसूरयस्ते चक्रुर्विहारं सुविहारनत्यै ॥ २७ ॥ श्रुत्वा पुराणानि पुराणराज्ञां श्रीकर्णसूः सोऽन्यदिने निदध्यौ । धन्या इमेऽद्यापि यशो यदीयं प्रवर्त्तते शास्त्रनिबद्धमुच्चैः॥ २८ ॥ ततः समभ्यर्थं स हेमचन्द्रसूरीन् श्रुतेशावरराजमानान् । श्रीसिद्धहेमाभिधशब्दशास्त्रमचीकरत्सिद्धनृपः खकीय ॥ २९॥ विधाय पूर्ण गुरुशब्दशास्र समाययंस्ते मुदिता नृपत्य । आकार्य सर्वान् विदुषः सहर्ष सोऽदर्शयद्बुद्धिनिधिनरेशः ॥ ३० ॥ सर्वोपधाशुद्धतमं तदा तद्विज्ञाय विज्ञाय नरेश्वराय । अनन्यसामान्यतमं समाख्युश्चमत्कृतास्ते ज्ञवराः समयाः ॥ ३१ ॥ शुभे मुहूर्त महता महेन दास्यामि सर्वेभ्य इदं सुधी- भ्यः । ध्यात्वेति गला निजकोशगने तत्पुरतर्फ भूगिपतिर्मुगोच ॥ ३२ ॥ नरेश ! नामापि न वर्तते ते शारोऽत्र चित्रे- ऽपि गुरुपयोगः । पकेऽमुनेदं निजफीर्तिदेतोरिदं पुरोधा निशि भूपगणे ॥ ३२ ॥ एवं तस्मात्मातरेतच्छारा विवन् ! सर्वसाक्षं करिष्ये । देशयागं सूरये साम्रगन्येसाम्येवं भूपतिः प्राह कोपात् ॥ ३४ ॥ रानी मन्त्री राजनाख्यो गुरुभ्यो वृत्तान्तं तं ज्ञागणागास सर्वम् । धार्या धीमशाधुतिर्मावि शव्यं रोऽवो वन् श्रीवीतरागासादात् ॥ २५ ॥ और्व- राणुसलमारुतसंज्ञा वैरिणो जगति कारणाहीनाः। गन्धिभानुराजगाम्नुधराणां विधवृन्दमनिशं जनयन्ति ॥ २६ ॥ चिन्त- यनिति निरं गुरुरुधौराशिराकृतिकृते स कृतज्ञः । वुःखवृक्षगहने वहनामा सारदा खवरदा हदि बध्यो ॥ ३७॥ तावत्स- मागत्य जवेन भारतीत्युवाच नाचंयमवर्यमेनम् । विमुगा सादं गज सुप्रसाद प्रभो ! विपादं वितथं कथा मा ॥ ३८ ॥ अनुज्ञया सूरिवरस्य गत्वा लेखेश्वरी तन तदा लिलेख । नौतुक्मभूपालफुलप्रशस्ति द्वारिंशता शरततरः कवित्वैः ॥ २९॥ प्रातः कृत्वावश्यक सूरिता यावत्स्पस्थाः सूरिमन्नं स्मरन्ति । तापगप्रेषितः कोऽपि दूतो नत्वा तस्यामजणं प्रत्युवाच ॥४०॥ धिर विप्रान्गुनिनिन्दकान जडधियो निष्कारणं वैरिणो हाहा! किं भवितेति लोकनिवरे तारस्वरं जल्पति । सूरीशा नृपसंसदं द्विजनाप्तामवापुः क्षणादासामासिर माशु पूर्वतदिगे श्रीसिद्धराज्ञा नताः ॥४१॥ सित्वोवान नराधिपो यतिपते ! किं नास्ति मवर्णनं ग्रन्थेऽसिगशिति सूरयो निजगदुः कस्मादिदं पृच्छगते । आदाय स्वयमेव पश्यतु भवान भ्रान्ति वृथा मा कृथा विद्धो दुर्जनवाक्शरैरतितरां किं चेतना प्रोज्झसि ॥ ४२ ॥ विलोक्य काव्यानि स कोमलानि स्वश्लोककारीणि तदेत्यवोचत् । समानतारी कलिपापहारी लं वा महेशोऽसि मुनीश ! लोके ॥ ४३ ॥ रे मिजिस ! वद रे पदहीन ! किं वृथा निजवचोविषभारः । लम्भितोऽस्मि विकृतिं भवतेति निप्रमाह भज धीजड ! दूरम् ॥ ४४ ॥ निर्वासितोऽगाजडधीः स दूर पूरं प हर्पस्य वभार सूरिः। श्रीभूपकोपप्रशमाय कश्चिजगाद विप्रः सदसीति वाक्यम् ॥ ४५ ॥ भ्रातः पाणिनि ! संवृणु प्रलपितं कातन्त्रकन्था वृथा। कष्टं भो ! कटुशाकटायनवचः क्षुद्रेण चान्द्रेण किम् । कि कण्ठाभरणादिभिठरयस्यात्मानमन्यैरपि शूयन्ते यदि तावदर्थमधुराः श्रीसिद्धहेमोक्तयः ॥४६॥ रुष्टस्तदातशपतिहिजेभ्यो नादाजडेभ्यो वरशब्दशासम् । सदानमानं यतिसत्तमेभ्यः समर्पयामास शुभे मुहूर्ते ॥ ४७ ॥ ततः समुत्थाय ययुः क्षयं ते द्विधापि विषा नृपतिप्रकोपात् । स्वमालयं प्रापुरपापचित्ता द्विधापि ते श्रीवतिनामधीशाः ॥ ४८ ॥सिद्धान्ते सिद्ध- बुद्धिधृतधृतिरनिशं कर्कशे तर्फवादे छन्दोवृन्देऽनवद्यः कुशनिशितमतिः सारसाहित्यशासे। दक्षः साहक्षणौधे स्फुटपटुवचनो नाटके पादिताधः श्रीमान् श्रीहेमचन्द्रो जगति विजयते वादिवशौघदावः ॥ ४९ ॥ दिवमिव सुरराजो धिष्ण्यराजो यथावं वनमिव मृगराजः साधुवत्सर्वजीवान् । राकलमतनिपीठं पालयन सिद्धराजो नयविनयविवेकैश्चारुराज्यं वितेने॥५०॥ ॥ इति श्रीकुमारपालचरिते प्रथमसर्गे चतुर्थो वर्गः ॥ ४ ॥ . -SS जयसिंहोऽथ भूपालो गुरुसिंहपराक्रमः । अनैपीत्स बहु कालं पालयनिखिलागिलाम् ॥ १॥ विवेद सकला विद्या कला द्वासप्ततिं तथा । द्वात्रिंशलक्षणान्युचैः पत्रिंशदायुधानि च ॥ २॥ संसिद्धसर्वविज्ञानः सिद्धमनचयः स्वयम् । सिद्धराज इति ख्यातिं स सिद्धामाप भूतले ॥ ३ ॥ दण्डमण्डितसद्धस्ते शाकुण्डलशोभिते । भस्मोद्धूलितसर्वाङ्गयौ जटा- 567 *3 r कारणम् । निर्णय जूटविराजिते ॥ ४ ॥ अथैकदा पुरे तत्र योगिन्यौ हे समीयतुः । निरीक्ष्यमाणे लोकेन विस्मयोत्फुल्लचक्षुषा ॥५॥ युग्मम् ॥ पश्यन्त्यौ पत्तनं ते द्राग जग्मतुर्नूपपर्षदम् । श्रीमत्सिद्धनरेशायाशिषं दत्त्वा च तस्थतुः ॥ ६ ॥ शृङ्गिके पूरि- यित्वाथ चूरयित्वाशु सम्भ्रमम् । चक्रतुः सर्व सभ्यानां विस्मयोत्तरलं मनः ॥ ७॥ कृतं कृत्येन केनाथ भवतीभ्या- मिहागतम् । इदं मे महदाश्चर्य नस्वेत्याख्यद्धराधवः ॥ ८॥ ज्येष्ठा जगाद श्रीकर्णसुताकर्णय कुरु वर्णेश! तज्ज्ञात्वा शीघ्रमावयोः ॥९॥ विद्यते कामरूपाख्यः कामरूपजनास्पदम् । देशो न यत्र लेशोऽपि पाप्मनां क्वापि दृश्यते ॥ १०॥ तत्र श्रीसिद्धनाथाख्यो यथार्थाख्योऽस्ति योगिराट् । शतायुः साधितानेकमन्नतन्त्रपवित्रधीः ॥ ११॥ मिथः सब्रह्मचारिण्यौ तच्छिष्यिण्याववेहि नौ। सिद्धिबुद्ध्यभिधासिद्धे योगिन्यौ राजसत्तम ! ॥ १२॥ सिद्ध- ऽराज इति ख्यातं त्वन्नाम महिमाकरः । तत्रास्माभिः समनावि विनाणितजगत्सुखम् ॥ १३ ॥ योऽत्ति दन्तैः सदा लोहं सिद्धः सोऽत्र निगद्यते । अस्मद्गुरुं विना नौ वा तन्न वेत्ति परो भुवि ॥ १४ ॥ इत्युक्त्वा कटकं लोहमयं जग्ध्वा च ते बलात् । चक्राते विस्मयं राज्ञः सत्यप्रत्ययदर्शनात् ॥ १५ ॥ गुरोरादेशतो राजन्नावां तज्ज्ञातुमागते । मुञ्च ख्यातिमिमां नौ वा लक्षणं दर्शय स्वकम् ॥ १६ ॥ आकर्ण्य कर्णसूस्तस्या वचनं वाग्मिनां वरः । चिन्तयामास चित्तेन देयं प्रत्युत्तरं कथम् ॥ १७ ॥ मत्वा कालविलम्बेन सिद्धिं क्षोणीपतिः क्षणात् । विसृज्य संसदं ते च ययावन्तःपुरं स्वयम् ॥ १८ ॥ रहस्यं मन्त्रिणे प्रोच्य रात्रावुत्तरलिप्सया। कौक्षेयककरो राजा निर्ययौ तत्सखो गृहात् ॥ १९ ॥ सुप्तेषु सर्वलोकेष्वालो- कयन् सकलं पुरम् । त्रिकचत्वररथ्यासु स बभ्राम भ्रमोज्झितः ॥ २० ॥ व्योमाङ्गणं तारकराजमानं पश्यन् पुरं शून्य. A 4-5 MAR मिव स्वकीयम् । चचाल चौलुक्यकुलावतंसः स आलिगाख्यं सचिवं समेत्य ॥ २१ ॥ बहुलनिशिनिशीथे शूचिभेद्येऽन्ध- कारे निजचरणसरोजैः सञ्चलन् सर्वमार्गे धवलगृहसमूहानापणौघांश्च पश्यन् । करकृतकरवालः सोऽभ्रमत्तत्र द्रङ्गे ॥२२॥ क्वचिद्भूकाघोपान क्वचिदपि शिवाफेत्कृतिरवान् क्वचिद्वेतालालीः क्वचिदपि चलभूतनिचयान् । क्वचित्क्रूराक्रन्दान् सुरत- निरताः क्वापि कुलटाः। स पश्यन् शृण्वन्नो नृपतिरभजनीतिरभसम् ॥ २३ ॥ दृष्ट्या पुरं सिद्ध इवैप पश्यन् केनाप्यदृष्टः स चकार सत्यम् । स्वं सिद्धराज गुरुसाधकौधैर्निरीक्ष्यमाणः क्वचिदेव यलात् ॥ २४ ॥ भ्रान्त्वा भ्रान्त्वा तत्र सर्वत्र राजा सौधश्रेणी शर्कराकारकाणाम् । प्रापत्तापव्यापहारी प्रजानामस्थाच्छुत्वा जम्पतीजल्पितं च ॥ २५ ॥ पत्नी प्रोचे रत्नसिंहाभिधानः प्रीत्या नित्यं शर्कराकृत्राधानः । अद्य प्रातयोगिनीभ्यामुभाभ्यां रुद्धो बुद्धया पलि ! यत्नात् नृपो नः ॥ २६ ॥ स्वामिन्नुपायः किमु नास्ति कश्चिद्विमुच्यते येन स सिद्धभूपः । सन्ति प्रपञ्चाः शतशः शुभाङ्गि! ते बुद्धि- गम्या न तु बालिशार्हाः ॥ २७ ॥ उपायमाख्याहि पते ! तमेनमिनो भवेद्येन गताधिवाधः । वृथा कृथा माग्रहमत्र मुग्धे! रात्रौ न मन्त्रः क्रियते कथञ्चित् ॥ २८ ॥ श्रुत्वालापं तं तयोः प्रीतिबद्धं मत्वा सिद्धिं तत्र कृत्यस्य तस्य । गत्वा द्वारि ज्ञापयामास तस्य वृत्तान्तं तं मन्त्रिणं प्रेष्य राजा ॥ २९ ॥ शुचिसचिववचोभिः प्राप्तमाकर्ण्य भूपं विततमतिरुदस्था- द्विस्सयोत्फुल्लचक्षुः । नरपतिपदपझं स प्रणम्यासनं द्राक् तदनु घनधनौघं ढोकयामास राज्ञे॥ ३० ॥ अद्य देव ! सफलं मम जन्म धन्यतां गृहमिदं च जगाम । राजराज ! निजपादसरोजैर्यत्पवित्रितमिदं भवतेश ! ॥ ३१ ॥ कथ्यतां स कतमोऽस्तु पदार्थो यो धिनोति तव मानसमुच्चैः। अर्चयामि चरणौ तव येन सार्थतां मम नयामि च वित्तम् ॥ ३२ ॥ इति विनय- तु न C विशिष्टैः तस्य वाक्यैः प्रमोदं कमपि परममुच्चैरासनं सोऽथ भेजे । निजचरितमशेषं सस्मितं विस्मिताय । स्वयमकथयदेव शर्कराकारिणे तत् ॥ ३३ ॥ सिताकरोऽवोचदियान् प्रयाशश्चक्ने कथं देव ! किलैतदर्थे । स्वल्पेषु कार्येषु महास्वरूपा नोपक्रमं यद्रचयन्ति भूपाः ॥ ३४ ॥ विधेहि मे बुद्धिनिधे ! समृद्धं यथा तथा कार्यमिदं विचार्य । निमजतामत्तिभरे नृपाणामालम्बनं मन्त्रिवरा भवन्ति ॥ ३५ ॥ इत्यर्थितोऽसौ बहुमानपूर्वमपूर्वबुद्धिप्रवरो नृपेण । व्यज्ञापयद्विज्ञवराय तस्मै कर्णेऽथ किञ्चिच्चिरमाविमृश्य ॥ ३६॥ ततोऽतिहष्टो नृपतिस्तदैव स्वमन्दिरं सुन्दरधीरियाय । ददौ न सेवावसरं परेभ्यः स मन्त्रजापोरुमिषान्नरेभ्यः ॥ ३७॥ सिताकरोऽश्वादि नरेशदत्तमादाय सद्वस्तु ययावुदीचीम् । उल्लन्ध्य मासेन धनं च मार्ग तस्थौ पुरे क्वापि वरेण्यबुद्धिः ॥ ३८ ॥ कङ्कलोहमयदण्डमण्डितं निर्ममे स सितया क्षुरीद्वयम् । यत्कथञ्चि- दपि सारसारतो भिद्यते न गुरुभाविभासुरम् ॥ ३९ ॥ अतीत्य मासान् षडसौ क्रमेण प्रापत्पुनः पत्तनमुत्तमाय्यः । काश्मीरदेशाधिपतिप्रधानच्छलावलौघेन विराजमानः ॥ ४० ॥ स पर्षदं हर्षवशादथैत्य श्रीसिद्धराजः समलञ्चकार । आगत्य वेगान्मुदितास्तदान्ये वितेनिरेऽस्मै क्षितिपाः प्रणामम् ॥४१॥ योगिन्यौ ते तुष्टचित्ते समेत्य दत्त्वा भूपायाशिषं तस्थतुर्द्राक् । कालक्षेपं सासहितॊ गुरुनौ स्वस्थानं तत्प्रेषयेत्यूचतुश्च ॥ ४२ ॥ ताववास्थावेदितो रत्नसिंहो हद्दम्भः संसदं प्राविशत्ताम् । अव्यग्रस्थाढौकयद्भरिवस्तून्यग्रे राज्ञः प्रौढबुद्धिः प्रमोदात् ॥ ४३ ॥ स्वर्णस्थालस्थापिते ते स दत्त्वा क्षुयौ हस्ते वेष्टिते सहुकूलैः । प्रोचे भूपं प्राणमन् दत्तशिक्षं पश्यत्स्वेवं सर्वसभ्येषु दक्षः ॥ ४४ ॥ अस्मत्स्वामी बालचन्द्राभिधा- नस्तत्रानोषीसिद्धराजाभिधा ते । तेन श्रीमंस्तत्परीक्षाकृते स एते तुभ्यं प्राहिणोत्कङ्कलोह्यौ ॥ ४५ ॥ सामान्यायो योऽत्ति R K सिद्धः स एव भुङ्क्ते कङ्क यः स सिद्धाधिराजः । जग्धवैते तत्प्रत्ययं दर्शय स्वं सत्यो राजश्चेद्भवान् सिद्धराजः ॥ ४६ ॥ योगिन्यावयेतदर्थे पुरैते एते स्तोऽत्रात्यन्तचित्रीयमाणे । अद्यैवैतजायतामुत्तरं वा मैवं भूपः संवदन्नाददे ते ॥ ४७ विद्युद्दीने ते स्वहस्तस्थिते सोऽन्येषां दक्षो दर्शयामास तत्र । दृष्ट्वा पूर्व तत्क्षुरीद्वन्द्वमिद्धं प्रापुः सर्वे विस्मयं स्मेरनेत्राः ॥४८॥ विपादहीनः स चखाद राजा क्षुरीयुगं पश्यति सर्वलोके । चण्डं पुनर्दण्डयुगं युगान्तकरं ददौ तत्र तयोस्तदा तत् ॥ ४९ ॥ ते विस्मिते ऊचतुरुच्चकीर्ते ! न जीर्यतेऽन्यस्य हि कङ्कलोहम् । हित्वा भवन्तं भुवि सिद्धराज नेरन्द्रसद्यो- गसमृद्धिमाजम् ॥ ५० ॥ दृष्टा परीक्षा भवतः क्षमायां त्वं सिद्धराजोऽसि महीमहन्द्र ! । स्वस्त्यस्तु ते देहि वचः स्वदेश यास्याव आवां गुरुसन्निवेशम् ॥ ५१ ॥ इत्युक्त्वा ते भूभुजा भूरिवित्तसन्मानायैः सत्कृते सत्कृतज्ञे । उल्लन्ध्योर्वी वीतशङ्के स्वदेशं दुर्गादेश्ये प्रापतुः स्तोककालात् ॥ ५२ ॥ छित्वा वंशान भूभृतां सोऽथ भूरीने छत्रं भूमिपीठे चकार । श्रीसि- द्धेशो वर्ण्यते कूटशिल्पिकल्पोऽतः सोऽनल्पधीभिः कवीन्द्रैः ॥ ५३ ॥ एवं सिताकरकृतोत्तमबुद्धियोगात्तद्योगिनीद्वयम- सावजयन्नरेशः । स स्वर्गनाथ इव जातसमीहितार्थ राज्यं चकार सुचिरं रुचिरं नयेन ॥ ५४ ॥ श्रीरत्नसिंहगुरुपादसरो- रुहालिस्तेने कुमारचरितं ललितं यदेतत्। चारित्रसुन्दरकृतस्य जगाम तस्य सर्गो निसर्गविशदः प्रथमः समाप्तिम् ॥ ५५ ॥ इतिभट्टारकश्रीरत्नसिंहसूरिशिष्योपाध्यायश्रीचारित्रसुन्दरगणिविरचिते श्रीकुमारपाल- चरिते महाकाव्ये वंशवर्णनो नामः प्रथमः सर्गः ॥१॥ ग्रन्थाग्रं ३५० ॥ 5696RSS * ॥ अथ द्वितीयः सर्गः॥ श्रीक्षेमराजनृपतेः सत्क्षेमविराजितस्य तस्याथ । देवप्रसादनामा कामाकारो भवत्पुत्रः ॥ १॥ तस्याभवत्तनूजस्त्रिभुव- नपालाभिधः समृद्धश्नीः । वसुधापालनचतुरः स्वकुलनभोभास्कराकारः॥२॥ तस्य त्रयस्तनूजा आसन्निनाशितारिदर्प- भराः। ते मूर्ता इव रेजुर्ब्रह्माच्युतशङ्कराः कुमराः ॥ ३ ॥ आधः कुमारपालः कमलाविमलानयोऽसुहृत्कालः । अनु- जोऽस्य महीपालाभिधोऽपरः कीर्तिपालश्च ॥ ४ ॥ नामलदेवी नाम्ना धाम्ना रम्भासमाऽभवत्पत्नी । पतिभक्तिनिरत- चित्ता कुमारपालस्य सत्सतीवित्ता ॥ ५॥ भगिनी प्रेमलदेवी देवीव मनोहरा बभूवात्य । कृष्णभटेनोदूढा मोढेरेशेन या हर्षात् ॥ ६॥ श्रीमत्सिद्धनरेशः पुत्र विहीनः पवित्रचरितोऽपि । चिन्तितवानिति चित्ते स मन्यमानोऽकृतार्थ स्वम् ॥ ७ ॥ पटुतटिनीतटवृक्षः सचिवविहीनं च भूपते राज्यम् । पुत्रविहीनो वंशो भवन्ति नैते चिरायुष्काः ॥ ८॥ लाला- विलमुखकमलाः बालाः खेलन्ति यत्र तत्र गृहे । तगृहमितरमरण्यं वदन्ति शून्यं सदा तज्ज्ञाः ॥ ९॥ जटिलं वसनवि- हीनं चटुलं बहुधूलीधूसरं पुत्रम् । पश्यन्ति पुण्यवन्तः शिवमिव निजकामचारपरम् ॥ १० ॥ राज्यं नाम च वंशः प्रभू- तमन त्रयं विना पुत्रम् । मामनुनाशं यास्थति सर्वघ्नोऽहं कथं जातः १ ॥ ११॥ आराधयामि तदहं तनयनिमित्तं महे- श्वरं देवम् । सन्तोपितोऽतिभत्त्या ददाति सर्व यतः स्वामी ॥१२॥ ध्यायन्नित्थं सोऽगात्प्रभासतीर्थ स्वपादचारेण । विधि- वच्छङ्करदेवं शङ्करमानर्च देवाच॑म् ॥ १३ ॥ कर्पूरागुरुधूपैरभ्यर्च्य सुरार्चितं महादेवम् । नानावन्धुरबन्ध स्तवनमका- पीन्नृपः शम्भोः ॥ १४ ॥ जय मदनदहन ! नित्यं जय भवभवचारवारक! स्वामिन् ! । नीलगल ! मङ्गलं ते पिनाकपाणे ! ha पिनाकेश !॥ १५ ॥ त्यक्तानपानकृत्यः शिवाग्रतः खरतरं स निर्माय । कुशमयममायचित्तः सुव्वाप क्ष्मातले क्षमापः ॥ १६ ॥ ध्यायन्विकल्पहीनः शिवमव्यक्तं नृपो दिवानक्तम् । तुर्यदिनतमीमध्ये ददर्श शम्भु यथारूपम् ॥ १७ ॥ तद्भ- क्तियुक्तितुष्टो महेश्वरोऽवोचदुच्चकैरेवम् । वद मदनसुन्दरतनो ! कस्मादाराधितो भवता ॥ १८ ॥ प्रणमन् पादौ भूपः स्तुतिपूर्व व्याजहार हरमेवम् । शशिधर ! राज्यधरं मे देहि दयालो ! कृपां कृत्वा ॥ १९ ॥ अस्ति पुरा राज्यधरः कुमा- रपालोऽग्रजात्मजाज्जातः । तत्त्वं विमुञ्च चिन्तामित्युक्त्वान्तर्दधे देवः ॥ २० ॥ व्यर्थारम्भो भूपो दध्यावेवं तदा हुदा स्वेन । जीवति कुमारपाले नूनं पुत्रो न मे भावी ॥ २१ ॥ तस्मिन् हते हरो मे दास्यति पुत्रं पवित्रगुणकलितम् । ध्याय- निति विविधतरं प्रापच्छ्रीपत्तनं वेगात् ॥ २२ ॥ तद्वधबुद्धिरथासौ जघान जनकं तदीयमात्मनः । तदंशं हन्तुमना घातकसई पुनः प्रैपीत् ॥ २३ ॥ श्रीमान कुमारपालो दुष्टं रुष्टं च भूपति मत्वा । तत्याज जन्मभूमि दधिस्थली समय- विदुरोऽसौ ॥ २४ ॥ धिप्राज्यलोमं धिगथार्थलोभं धिग्धिगूजन स्वार्थरतं नितान्तम् । येनान्धवत्पश्यति नो सनेत्रः णोति नो कर्णयुतोऽपि मर्त्यः ॥ २५ ॥ लोभेन यस्तिष्ठति सङ्कटौघे प्राप्नोति मृत्यु स नरः क्षणेन । मृतस्य सर्व ब्रजति प्रणाशं त्यजेत्ततः क्लेशकरं प्रदेशम् ॥ २६ ॥ अज्ञातवात्तै जनकं जघान हन्तुं समर्थो नहि मां नरेन्द्रः । विज्ञातवृत्तोऽनि- शमप्रमत्तं न शाकिनी हन्ति जनं यतोऽत्र ॥ २७ कूटं कुटुग्वं च विहाय सर्वं यात्वा प्रदेशं च विमुच्य देशम् । रक्षेत्स्वजी- वं मनुजोऽतियत्नात् जीवन्नवाप्नोति यतः समस्तम् ॥ २८ ॥ न लजां कामान्धो न गुणमगुणं शून्यहृदयो विवेकं न क्रोधी स्वजनमपि नो लोभवशगः। न कार्यार्थी दोपं न कुलमपि च स्त्रीवशगतो न राज्यार्थी पापं गणयति न मानी च विन- द्वि यम् ॥ २९ ॥ इत्थं चेतसि चिन्तयश्चिरतरं चौलुक्यचूडामणिः श्रीमान्मालवमण्डलं निजजनं लात्वा ययौ लीलया। सोऽवन्त्यां च विधाय धाम कतिचित्तस्थौ दिनानि स्वयं ज्ञातुं भूपमनः पुनः पितृपुरं छन्नोऽगमत्सत्वरम् ॥ ३० ॥ ॥ इति श्रीकुमारपालचरिते द्वितीयसर्गे प्रथमो वर्गः ॥१॥ comes जानाति मां भूमिपतिः कदाचित्तका गतिः स्यादिति सोऽवधार्य । कुवासरान् यापयितुं कुमारो दधार सद्भूतिक- वेपमेपः ॥ १॥ विवेद तं वेदविदो मुखेन कस्यापि भूपोऽपि तथास्वरूपम् । ततः पितुः श्राद्धदिने कुभावानिमन्त्रया- मास स तापसौधम् ॥ २॥ जटाधरं भस्मभरावलिप्तं तं वीक्ष्य नो निश्चयमाप भूपः । ज्ञानाय सम्यक् शचित्तवृत्तिः प्रक्षाल- यामास पदौ स तेपाम् ॥ ३ ॥ विलोक्य पझाक्षितपादमेनं धौतोत्तरीयाहरणच्छलेन । यावद्ययौ शलगृहं नरेशश्चकार चिन्तामिति सोऽपि तावत् ॥ ४ ॥ सर्वः प्रपञ्चोऽस्य ममैव हेतोहनिष्यति क्षमापतिरद्य मांहि । करोमि कि कं शरणं प्रया- मि रुद्धोऽमुना बुद्धिवलेन दैवात् ॥ ५ ॥ उत्पशबुद्धिर्वमनच्छलेन गृह्णन् स्वहस्तेन निजपानपात्रम् । याहीति सर्वैर्गदितः प्रकाममगादगारात्स ततो नृपस्य ॥ ६ ॥ आकार्य मध्ये बहु दक्षिणायै व्याजेन नेष्यामि तमन्तकान्तम् । श्राग भोज- नान्ते विमृशन् गृहान्ते तस्थाविति शोणिपतिः क्षणं सः ॥७॥ आकारणार्थं पुनरागतः स विवेद तं नष्टमथो नरेशः। वधाय पृष्टे घनदुष्टबुद्धिः स्वं प्राहिणोत्सैन्यमदीनवीर्यम् ॥ ८ ॥ गच्छन् कुमारोऽपि निरीक्ष्य पश्चात्समापतन्तं पृतनासमू. हम् । स हालिकं कर्मकरेषु मुख्यं मां रक्ष रक्षेति जजल्प दक्षः॥९॥ स च्छानाच्छाद्य स कण्टकोथै ररक्ष रक्षाकुशलःक्षणं 15546 तम् । विलोक्य सैन्यैर्ववले च पश्चादन्धा द्विषो जाग्रति कर्मणि स्युः ॥ १०॥ स्युः कण्टका भाग्यवतां गुणाय द्विषो भवन्ति स्वजना अभाग्यात् । रामस्य सेवां कपयोऽपि चक्रुर्वैरै दशास्यस्य च बन्धवोऽपि ॥ ११ ॥ ततो विनिर्गत्य जटां विहाय दधिस्थली प्राप स जन्मभूमीम् । अविन्दतानन्दममन्दमन्त्र स्वं लोकमालोक्य कुमारपालः ॥ १२ ॥ कालेन कापा- लिकवेषधारी सोऽगात्पुनः पत्तनमुत्तमर्द्धि । विलोकयल्लोकपतेश्छलौघं निनाय निर्मूढतया दिनानि ॥ १३ ॥ भूपेन बुद्धं स्वमवेत्य यावत्पलायितोऽसौ चपलायताक्षः । ददर्श तावन्निजपृष्ठदेशे प्रधावतो भूरितरान् पदातीन् ॥ १४ ॥ पश्यन् दिशो भीतिवंशात् स गच्छन् ग्रामं पुरोवर्तिनमाससाद । निवेशितं भाजनपाचनान्तरे ररक्ष तं सज्जनकुम्भकारः ॥१५॥ समं कुलालेन यशोधनाख्ये ग्रामे स्थितं वोशरिनामधेयः । भाण्डेषु निक्षिप्य ररक्ष दक्षो विप्रः कुमारं बहुरूपिणं तम् ॥१६॥ एकान्तदेशे विततान मित्रयुगेन सार्द्ध बहुशः स मन्त्रम् । तन्मन्त्रिणोद्विग्नमना द्विजस्य तावत्पिता वाक्यमिदं जगाद ॥ १७ ॥ अजातपुत्रस्य हि नाम तुल्यमालोच्यते किं बहुशो भवद्भिः । किं लाटदेशं किमु चित्रकूट राज्ये निजे दास्यति वां कुमारः ॥ १८ ॥ श्रुत्वा वचस्तत्परिपाकरम्यं मेने कुमारः शकुनं मनीपी । जगाद दास्यामि च वां यदुक्तमनेन सर्व तदहं स्वराज्ये ॥१९॥ भ्रमन्नथो वोशरिणा समं स संजग्मिवान् ग्रामयुगं समन्तात् । क्षुत्क्षामकुक्षिः कथमद्य भक्तं मध्यं- दिने विप्रमिदं जगाद ॥ २० ॥ ममास्ति भिक्षा जननी सहैव वदन्निति ग्राममसौ जगाम । निहृत्य पूर्ण स करम्बभाण्ड समागतोऽदात्कुमराय चान्यत् ॥ २१ ॥ सुप्ते कुमारे बुभुजे करम्बं स्वयं तदालोक्य हृदा स दध्यौ । हाहा जनान् स्वोद- १ 'मध्ये' इत्यपि । २ 'भरात्' इत्यपि । k २ P रपूरणार्थ घिर ये स्ववन्धूनपि वश्चयन्ति ॥ २२ ॥ भक्के जीर्णे भुज्यतामेतदेवं विप्रः प्रोचे श्रीकुमारं विहस्य । दत्तं पूर्व किं न तेनेति पृष्टः स्पष्टं सोऽवक् कारणं तत्पुरस्तात् ॥ २३ ॥ एकयेति जगदे घनिवध्वा लाहि भिक्षुवर! भक्ष्यमिदं त्वम्। द्वारमस्य पिहितं नहि रात्रौ दूषणं मम न चेदहिदष्टम् ॥ २४ ॥ भुक्तवानहमिदं प्रथमं तद्देव ! मा भवतु ते विपदोषः। तां निपीय सुहृदो मृदुवाचं सत्सुधामिव बुधो मुमुदेऽसौ ॥ २५ ॥ करम्बकग्राममिमं च तुभ्यं दास्यामि राज्ये सति सत्त- माय । इत्थं वदन् डागरिकाभिधानं ग्रामं ययौ तेन समं स मानी ॥ २६ ॥ माकन्दवृन्दं फलितं विलोक्य बुभुक्षितस्त- रफललिप्सयाऽयम् । तत्रारुरोहोच्चतरं स चूतमेकं कुमारश्चतुरो रयेण ॥ २७ ॥ सुवर्णवर्णानि पचेलिमानि फलानि लात्वो- तरति स्म यावत् । तावत्तदीशः कटुवाक् समेत्य जग्राह वेगेन पटीं सकोपः ॥२८॥ स्फुटचटुवननोधै! पर्टी प्राप तस्मात् सदयहृदयवृत्तिनिर्दयाच्छ्रीकुमारः । अहह महदभाग्यं साम्प्रतं वर्त्तते मे किमिह बहुभिरुक्तैश्चेति चिन्तां ततान ॥ २९ ॥ तदनु वोशरिविप्रसमर्पितां स परिवृत्य पटीमपरां पुरः । प्रतिनिवार्य तमादरतोऽचलत्सकलकौतुकदर्शनलालसः ॥ ३०॥ नगनगरसमूहान्वीक्षमाणः क्षमायां विविधविबुधवृन्दैः प्रीतिरीति वितन्वन् । अननियुवतिहारं प्राप सद्वस्तुसारं रुचिर- तरविहारं स्तम्भतीर्थ क्रमेण ॥ ३१ ॥ किमलका किमु नाकिपुरी कथं हरिपुरी किमु रावणपूरियम् । इति पुरं पुरमाकल- यन्नलं भ्रममवाप स पापपराङ्मुखः ॥ ३२॥ कतिचिदिह दिनानि स्थेयमेवं विमृश्याविशदतिविशदात्मा लोकयंलोकचक्रम् सुजनजनितहर्षा प्राप्तपुण्यप्रकर्पा सुमतिरथ विशाला पुण्यशालां विवेश ॥ ३३ ॥ श्रीहेमचन्द्राभिधसूरिराजं समा- १ 'सोऽवक् पश्चात्कारणं-' इत्यपि । ST- जभाज स ननाम तत्र । तस्मै ददौ सोऽपि च धर्मलाभाशिपं सुखेनोपविशेत्युवाच ॥ ३४ ॥ अवृजिनजिनपूजान- न्तरं तत्र तावदुदयन इति नाम्ना मन्त्रिमुख्यैसमेतः । गतवति जनजाते तं निरीक्ष्योपविष्टं सुतनुतनुमनोज्ञः कोऽयमेवं वभाषे ॥ ३५ ॥ कालाद्विक्रमभूपतेनवनवत्यौः शतैः शूलभृत्संख्यैरेप गर्भविष्यति महाराजाधिराजः क्षिती ज्ञात्वा ज्ञानबलेन लक्षणविदः श्रीहेमचन्द्रास्तदा मान्यः साम्प्रतमागतो निजगृहं मन्त्रिस्त्वयेदं जगुः ॥ ३६ ॥ इति गुरुवचनान्ते मानपूर्व गृहं स्वं तमनयदुदयाख्यः सोऽपि तस्थौ सुखेन । मुनिवरवरिवस्यां तन तन्वन्ननैपीत्क्षण- मिव बहुकालं श्रीकुमारो मुदालम् ॥ ३७ ॥ विज्ञातवानन्यदिने वधार्थ समागतान् भूपभटान् स तत्र । लोहेन सूरीनथ मुत्कलाप्याचलत्पुरो जीवितरक्षणार्थम् ॥ ३८ ॥ भीतस्ततोऽसौ वटपद्रके ययावस्थात्तदुद्यानतरोस्तले क्षणम् । तत्रैव ताव- निरियाय मूषको रन्ध्रान्मुखे रूपकटङ्ककं दधत् ॥ ३९ ॥ सविस्मयं पश्यति तत्र तस्मिन् मुक्त्वा तमन्यं पुनरानिनाय । दन्तप्रमाणा अभवन् क्रमेण ते टङ्कका रूप्यमया मनोज्ञाः ॥ ४० ॥ चुचुम्ब विस्तार्य मुखेन सर्वाल्लुलोठ तेपामुपरि प्रमो- दात् । स मूपको मोहवशात्क्षणेन कृत्वैकमास्ये प्रविवेश रन्ध्रम् ॥४१॥ आनीतवानेष बहिर्यथैतानन्तस्तथा नेष्यति मूढ- बुद्धिः । पाथेयहीनः किमहं वृथैव मुचे विचार्येति ललौ कुमारः ॥ ४२ ॥ आखुः समेतो न विलोकयंस्तान् वभ्राम दीनोऽनुभरं विमुञ्चन् । पपात भूमौ सहसा मुमूर्छ क्षणेन मृत्युं च जगाम मोहात् ॥ ४३ ॥ वित्ते गृहीते मयकायमाप मोहेन मृत्यु गतचेतनोऽपि । निरापराधक्षयकारिणं मां धिग् धिग् वदन्नित्थमसौ चचाल ॥ ४४ ॥ भ्रमन् क्षमायां स १ 'त्यजेऽयं चित्ते विचाथैति' इत्यपि ॥ ते -264,551 --- ---- पून धनेन तेन कालं कियन्तं गमयाम्बभूव । निःशम्बलोऽथ क्षुधया कृशाङ्गोऽगमत्पुरे क्वापि वरे कुमारः ॥ ४५ ॥ कस्यापि हट्टे वणिजः स तत्र मुक्त्वा कृपाणं निजमुत्तमस्य । पदातिकस्यासमनीतिविज्ञो जग्राह सायं चणकान् गुणज्ञः ॥ ४६॥ तमुत्तमं वीतधनं च मत्वा वणिग् जगौ खड्गमहो ! गृहाण । प्राप्तं हि मूल्यं चणका इमे ते कृता मया माङ्गलिके कृतज्ञे ॥४७॥ वाणीविवेकावसरोपकृत्योस्तस्य स्मरन् सिद्धपुरं जगाम । राज्यं कदा भावि ममेति भक्त्या स युक्तिवत् शाकु- निकं जगाद ॥ ४८ ॥ गतः प्रभाते शकुनेक्षणाय सार्द्ध सुधीः शाकुनिकः स तेन । श्रीजैनचैत्योपरिशान्तचेष्टां व्यलो. कयदक्ष्यमुखी कुमारीम् ॥ ४९ ॥ उड्डीय मौलौ चटिकावदन्ती स्वरत्रयं शोभनमुच्चचार । कुम्भोपरिष्टादुपविश्य हर्षान्न- नर्त रम्यं स्वरमुच्चरन्ती ॥ ५० ॥ सुखोपविष्टा विदधे कुमारी स्वरत्रयं भूजलवह्निसंज्ञम् । अवामपक्षं मुहुरुत्क्षिपन्ती तत्रैव भक्ष्यं च चखाद लब्धम् ॥५१॥ विलोक्य सर्व च विचार्य चित्ते प्रोवाच विज्ञः कुमरं मुदेति । मनीषितादप्य- धिकार्थसिद्धिः श्रीजैनधर्माद्भवतो भवित्री ॥५२॥ श्रीसिद्धभूपालभयादजसं भ्रमत्स कोलम्बपुरं जगाम । सर्वार्थसिद्धं बहुमन्त्रसिद्ध योगीश्वरं तत्र समारराध ॥ ५३॥ सन्तोषितोऽस्मै बहुविघ्नसाध्यं राज्यप्रदं मन्त्रमदात्स योगी । तत्साध- नोपायमपायहीनं दिदेश चादेशकराय तस्मै ॥ ५४ शवं समादाय ययौ श्मशाने भूतारजन्या स वलिबलिष्ठः । विधाय कुण्डं पुरतोऽमुचत्तं तत्रोपविष्टः स जजाप मन्त्रम् ॥ ५५ ॥ सहस्रसवं स विधाय जापं कुण्डेऽकरोद्धोममलं स्वमांसः। नाशाग्रचक्षुईढवद्धपद्मासनः पुनमन्त्रजपं वितेने ॥५६॥ पश्यन् सिंहव्याघ्रसादिदुष्टान् शृण्वन् शब्दान् दुःसहान् सत्त्व- हीनः । चित्तं कृत्वा निश्चलं निश्चयेन तन्वन् जापं नाप शङ्का कुमारः॥२७॥ उग्रव्याघ्रान् घुर्घररवान् दुःसहान सिंहसार्थान् र* -- लोलान् व्यालान् पटुकटुरवान् राक्षसान् साहासान् । घोरान् घूकानतिशितिशिवाः शाकिनीकूररूपाः पश्यन् शाहार- मपि मनाग नो प्रपेदे कुमारः ॥ ५८ ॥ सन्धुक्षन्तः स्फारफूत्कारवातैः कुण्डाग्निं द्राय वेष्टयामासुरेनम् । ध्यानस कर्तुमत्यन्तदुष्टाः श्यामाश्यामा दन्दशूका दशन्तः ॥ ५९॥ गात्रे सर्वेष्टितोऽसौ श्मशाने वासी भूतवातमध्योपविष्टः । आशावासा ध्वस्तकामो विरेजे तस्मिन् काले शम्भुवच्छ्रीकुमारः ॥ ६० ॥ रे रे दुष्टोत्तिष्ठ तिष्ठ क जापं धत्से तापं प्रा- प्यसि त्वं च मत्तः। शब्दं कुर्वशब्दवत्पूरिताशं तवायातः क्षेत्रपालः करालः ॥ ६१ ॥ क्षेत्राधीशं मामवज्ञाय मन्त्रसिद्धिं रे रे वाञ्छसि त्वं च मत्तः । करारावैशासयन् सत्वजातमागत्यास्थात्तत्पुरः क्षेत्रपालः ॥ ६२ ॥ विकृतवदनमुचैः कुकु- रारूढमेनं खरडमरकरावैः संभृताशासमूहम् । असिततमतमिश्नाकल्पमालोक्य भीति कलितविमलसत्त्वो नाभजच्छीकुमारः ॥६३॥ शुनकभसितशब्दैः कम्पयन् सत्त्वस दृढतरपदधातैः पातयन् भूधरान् । तदपि विगतशातकमेनं निरीक्ष्यो- स्कृतकलकलनादोऽन्तर्दधे क्षेत्रपालः ॥ ६४ ॥ गतवति विकराले रुण्डमालाविशाले विधृतनरकपाले श्यामले क्षेत्रपाले। तदनु सपदि तुष्टास्मीति नादं वदन्ती वदनविजितचन्द्रा प्रादुरासीन्महाश्रीः ॥ ६५ ॥ ध्यानं संवृणु लाहि साधकवरं तुष्टास्मि सत्त्वेन ते राज्यं प्राप्स्यसि गूर्जराबविषये त्वं वत्सरैः पञ्चभिः । इत्युक्त्वा सुधया विधाय विगतव्यालवणं ते क्षणादन्तर्धानमगात्प्रभातसमये सत्त्वैः समं सेन्दिरा ॥ ६६ ॥ मनसि स चिरकालाद्राज्यलाभ विभाव्य भुवमभिनवचित्रां वीक्षितुं सञ्चचाल । सुकलसकलदेशॉशयन कौतुकोको निखिलनगरकान्तामेप कान्तीमवाप ॥ ६७ ॥ पुरपरिसरे दृष्ट्या योपिज्जनवजमञ्जसा मिलितमतुलं तत्रागच्छद्विलोकनकौतुकी । निहतपुरुषं पश्यन्तीनां तदा किल योषितां सरसवचनं कर- -- श्रुत्वा चित्ते स विस्मयमादधे ॥ ६८ ॥ सुमुखि ! विरलदन्तं चारुकूर्चाभिरामं मुखमतिसुखमायुक् नित्यताम्बूलरागम् । श्रवणयुगममुष्यास्कन्धदीर्घ च वाले ! कलय कचकलापं चातिदीर्घ नरस्य ॥ ६९ ॥ एता विदन्ति कथमस्य विमस्तकस्य केशादिलक्षणमहो ! मम चित्रमेतत् । पृष्टाः स्वयं मृगदृशः कुमरेण तेन ताः प्रोचिरे शृणु नरोत्तम ! सर्वमेतत् ॥ ७० ॥ किणः पृष्ठे वेणी वदति सुतरामेष सरलां किणौ स्कन्धे कर्णाभरणवरलक्ष्मी निगदतः । उरः सर्व गौरं वदति नितरां कूर्च- विभवं सचूर्णश्चाङ्गुष्ठो वदति मुखरागं मतिमताम् ॥ ७१ ॥ प्रान्तारुणा विरलतां वदति द्विजानां लध्वजुलीतिवचनं स निशम्य तासाम् । पश्यन्ति सर्वमिह बुद्धिदशा महान्तो ध्यायन हुदीति सरसी सहसा जगाम ॥ ७२ ॥ सरससरसि पीत्वा पुष्करं वसपूतं श्रमहरमथ तेने मजनं सज्जनोऽसौ । सितकरकरवर्ण पालिदेशे स वयं ध्वजकलशमनोज्ञं चैत्यमेकं ददर्श ॥ ७३ ॥ कमपि परमदेवं तत्र नन्तुं स यातः सुकृतमतिरपश्यन्मस्तकं पूज्यमानम् । किमिदमिति च पृष्टः पूजकस्तेन तस्यासममकथयदेवं वृत्तमामूलचूलं ॥ ७४ ॥ ॥ इति श्रीकुमारपालचरिते द्वितीयसर्गे द्वितीयो वर्गः 1-26-- अन त्रासितशत्रुर्बभूव भूमिपतिः पुरा भीमः । स्थाम्ना नान्ना च सदा भीमसमो दानतः कर्णः॥१॥ निजयशसे शस्य- तमं सरोवरं वरसरोजराजियुतम् । सोऽखानयन्नरेशः परोपकारैकनिरतमतिः ॥ २॥ तस्मिन् भृते जलौघे राजा सपरि- च्छदो गयौ द्रष्टुम् । तरक्षीरसागराभं निरीक्ष्य पुगुदेतरामेषः ॥ ३ ॥ सर्वासु दिक्षु पश्यन् जलजालीसंस्थितं ददर्शकम् । ॥

रज्जुकरणे सजं घनशुनकडिम्भकोपेतम् । मुदिताश्चरितमुदित्वा दृष्ट्वाऽपृच्छन् स्वसंदेहम् ॥ १७ ॥ वृद्धो विमृश्य चित्ते । मस्तकमतिरुचिरतरं वरभूषाभूपित भूपः ॥ ४ ॥ पश्यति विस्मितचित्ते राज्ञि सलोके शिरस्तदा वाढम् । एकेन त्रुडति जगन्निगददिदं तत्तिरोदधे तत्र ॥ ५॥ आकर्ष्याश्रुतपूर्व वचस्तदीयं चमत्कृतो नेता । किमिदमिति वीतशङ्क विज्ञान पप्रच्छ तद्धेत्तुम् ॥ ६॥ नित्यं तद्वदति तथा बलिपूजाद्यैर्न शान्तिमायाति । स चकितचेता नेता विदुषः पप्रच्छ शान्त्य- थम् ॥ ७॥ ते सर्वशास्त्रनिपुणा न जज्ञिरेऽलं तदुत्तरं दातुम् । तदनु सकोपो भूपोऽभ्यधादिदं भीपणाकारः ॥ ८ ॥ रेरे भजत विदेशं देशं त्यजताशु मामकं सर्वे । वदतैतदुत्तरं वा विचार्य चित्ते चिरं यूयम् ॥ ९॥ कन्दर्पदपंकलिता ललितापि मतिर्न जायते यूनाम् । निपुणा दीर्घविचारे सारेतरगामिनी कामम् ॥ १० ॥ वेत्ति यदेकः स्थविरः स्थिरबु- द्धिस्तरुणकोटयस्तन्नो । यो हन्ति नृप लतया स पूज्यते वृद्धवाक्येन ॥ ११ ॥ इति तैविमृश्य सर्वैर्मरुदेशे दीर्घदर्शिनो वृद्धान् । तत्प्रष्टुं चतुरतराः प्रहिता उच्चैश्चतुर्विप्राः ॥ १२ ॥ तत्र गताः पश्यदं पुरुष क्षेत्रस्थितं दृढशरीरम् । दृष्ट्वा हृष्टा यावत्प्रश्नं कुर्वन्ति ते विप्राः ॥ १३ ॥ तावत्पिता पुरो मे तेनेति निवेदितं गतास्तत्र । तावदशीतिसमातिगवयसं वृद्धं पुरो ददृशुः ॥ १४ ॥ तमजाः प्रचारयन्तं काकेति वदन्ति यावता विप्राः । तावत्पितास्ति गेहे तद्वाक्यादिति दधुश्चिन्ताम् ॥ १५ ॥ किं विद्यते शताधिकमित्यायु दिनो ययुगेंहम् । अष्टोत्तरशतवयसं ते पश्यन्वाडवा वृद्धम् ॥ १६ ॥ तं मुज- विप्रान् प्राहेति भोजनं कृत्वा । उत्तरमुत्तममेतद्दास्येऽहं भुज्यतां तर्हि ॥ १८ ॥ इत्युक्तियुक्तिपूर्व तेनाभीरेण भोजिता विप्राः । स्वगृहे निषेधवाक्यं तैरपि नोक्तं स्वकार्येण ॥ १९ ॥ स्थविरपरिवेगितं ते तदाक्षिण्याग्निजार्थमित्यर्थम् । शुन- 부린 -- कोच्छिष्टं तकं संपपुरवमत्य दोपौधम् ॥ २० ॥ नो शूद्रभक्तदोषो न श्वस्पृष्टान्नपानदोपोऽपि । दोषज्ञैरपि गणितः स्वकार्य- लोभातुरैविप्रैः ॥ २१॥ विहिते भोजनकृत्ये स्थविरः प्रोवाच वाडवानेवम् । अध्वन्युत्तरमेतत्कथयिष्ये गम्यतां तस्मात् ॥ २२ ॥ अध्वव्ययोऽस्य मूल्यात् शुध्यति वो गृह्यतामिदं तस्मात् । इत्युक्त्वा लघुकुकुरचतुष्टयं दत्तवांस्तेभ्यः ॥ २३ ॥ चत्वारोऽपि च हस्ते लोभविहस्तास्तदैकक लात्वा । वृद्धानुगताश्चेलुः क्षिप्रं विप्राः प्रति स्वपुरं ॥२४॥ एत्य कियन्तं मार्ग वृद्धे वलितेऽवदन्निदं विप्राः । सन्देहोऽद्यापि तथा वदोत्तरं सत्तमामाकम् ॥ २५ ॥ श्रुत्वा वचस्तदीयं वृद्धोऽवददुत्तरं मया दत्तम् । तेऽवोचन्नस्माभिर्नावगतं न श्रुतं तत्किम् ॥ २६ ॥ वर्षीयान्पुनरूचे युष्माभिर्मद्गुहे कथं भुक्तम् । शुनकोच्छिष्टं तक पीतं कस्मादिदं ब्रूत ॥ २७ ॥ एतेऽतिपापरूपाः श्वानो विष्टाशिनः कथं स्पृष्टाः । युष्माभिर्विदितं नो किमेतदपि सर्वशासज्ञैः ॥ २८ ॥ शुनो गर्दभचण्डालमद्यभाण्डरजस्वलाः स्पृष्ट्वा देवलकं चैव सचेलं स्नानमाचरेत् ॥ २९ ॥ ज्ञात चेत्तर्हि कथं स्पृष्टास्तेनेति भाषितेऽवोचत् । लोभेनेदं सर्व विरुद्धमपि विहितमस्माभिः ॥ ३० ॥ इदमाकर्ण्य स कर्णो वर्णगुरूनाह सस्मितं वृद्धः । उत्तरदानाय मया विचेष्टितं सर्वमप्येतत् ॥ ३१ ॥ युष्मादृशेषु युक्त्या वक्तुं विज्ञेषु युज्यते विप्राः ! । सर्वप्रसिद्धमेतद्यद्विश्वं लोभतो ब्रुडति ॥ ३२ ॥ इत्युक्ते ते मुदिताः स्थविरमनुज्ञाप्य वाडवाः प्रययुः । निजवि- पयं दृग्विषयीकृतचित्राः स्तोककालेन ॥ ३३ ॥ तत्सर्वं भूपतये निवेदयामासुराशु ते तज्ज्ञाः । सोऽवक् शिरः पुनश्चेन्न निस्सरिष्यति तदा सत्यम् ॥ ३४ ॥ भूपो भूरिपरिच्छदयुतो गतः सरसि तत्परीक्षायै । तस्मिन्नर्थे कथिते शिरो निवृत्तं क्षणादेव ॥ ३५ ॥ भूपतिना रुचिरतरं चैत्यमिदं कारितं सरस्तीरे।एतच्छिरोऽस्य मध्ये प्रतिष्ठितं तत्प्रसिद्धयर्थम् ॥ ३६ ॥ -- इति श्रुत्वा वृत्तं श्रुतिसुखकरं तस्य शिरसो विशत्व द्रॉ कुमरनृपतिर्विस्मितमनाः । स तस्थौ स्वस्थात्मा कतिपयदि- नानि कमवशात् । भ्रमन् गुर्षीमुवीमसकृदगमन्मल्लिविषयम् ॥ ३७॥ श्रीमलिवालविषये विदितं दितांहाः कोलम्बप- तनमसौ तदवाप भूपः । यस्याग्रतो हरिपुरी स्वमवेत्य हीनमेका पपात जलधावपरा च शून्ये ॥ ३८ ॥ प्रातः स एष्यति भविष्यति गूर्जरायां यो भूपतिः स भवता भृशमर्चनीयः । कोलम्बपत्तननृपो जगदे शिवेन स्वप्मे तदेति वसुधावलयै- कसारः ॥ ३९ ॥ तमुपलक्ष्य निवेश्य निजासने शिववचः सकलं स निवेद्य च । अतितरां निजराज्यपदार्पणे तमथ सोऽर्थितवान् वसुधाधिपः ॥ ४० ॥ राज्यं निवार्य तरसा निजकीर्तिहेतोः सत्स्वाभिधानविदितं शिवचैत्यमेकम् । सोऽ- कारयन् नृपतिना निजनाणकं च प्रावर्तयत्प्रवरसिंहसमानवीयः ॥ ४१ ॥ प्राप्तः क्रमेण पुनरुज्जयिनी कुमार आमोदय- त्परिजनं सकलं स्वकीयम्। पश्यन् पुरीपरिसरं बहुचिनरम्य गाथामवाचयदिमां शिवचैत्यभित्तौ ॥ ४२ ॥ पुने वाससहस्से सयम्मि वरिसाण नवनवइअहिए । होही कुमरनरिन्दो तह विकमराय सारिच्छो ॥ ४३ ॥ गाथां लिलेख क इमामिह लेख- मान्यः पप्रच्छ निर्मलमतिर्मुनिमेकमेवम् । इत्थं जगाद स गुरुर्गुणगौरमेनमस्याः स्वरूपमखिलं शृणु हे कुमार ! ॥ ४४ ॥ शृणु शृणु कुमर ! त्वं सिद्धसेनो दिवाकृद्धनविदितचरित्रः पूर्वमासीत्पवित्रः । स इह लिखितवान् श्रीविक्रमार्केण पृष्टः स्फुटरुचिरविचारां चारुगाथामिमां च ॥ ४५ ॥ ॥ इति श्रीकुमारपालचरिते द्वितीयसर्गे तृतीयो वर्गः ॥ R पर ब- XX श्रीसिद्धसेनाभिधसूरिराजो बभूव मिथ्यात्वतमोजराजः। अद्यापि यन्नामविभाभिभूता न वादिघूकाः प्रकटीभवन्ति ॥ १॥ विद्यामदादन्यदिनेऽवदत्सः गुरोः पुररतादिति सङ्घसाक्षम् । भवन्निदेशात्करवाणि सर्वजिनागर्म संस्कृतभाषयाहम ॥२॥ तमुन्मदं वीक्ष्य गुरुर्वभाषे धिर मूर्ख ! गर्व कुरुपे किमेवम् । विज्ञान किं पूर्वधरा अभूवन यैः प्राकृतोऽयं वि- हितः कृतान्तः ॥ ३॥ सीणां नृणां तुच्छधियां शिशूनामनुग्रहार्थं विदधे गणेशैः । जिनागमः प्राकृतभापयाऽयं तदहया भूरि बभूव तेऽधम् ॥ ४ ॥ ततः स सूरिः स्वगुरोः पदान्ते विराधकं स्वं भृशमाशुशोच । विराधिता संसृतिहेतवेस्याच्छ्री- मजिनाज्ञेति विचार्य चित्ते ॥ ५॥ संयोज्य हस्तौ निजमस्तकेऽथ निरस्तगर्वः स्वगुरोः पुरस्तात् । शोधिं स सिद्धान्त- विराधनोत्थां ज्ञातार्थसार्थो विनयाद्ययाचे ॥ ६॥ पाराधिकाख्यं बहुसङ्घसाक्षं तपस्तदा द्वादशवर्पसाध्यम् । विराधिता. ज्ञाय गुरुगरिष्ठं तस्मै स्मयापोहकृते ददौ सः॥७॥ स्वच्छः स गच्छं सहसा विहायागच्छद्वनं गर्भितवेषधारी। तन्वं- स्तपस्तद्विधिना विशालं जगाम वर्षे नवमे विशालाम् ॥ ८॥ श्रीविक्रमार्क प्रतिबोध्य धर्मोन्नति करोमीति विचार्य चित्ते । गत्वा नृपद्वारि निवारितांहा न्यवेदयद्वाःस्थमुखेन चेति ॥ ९॥ हस्तन्यस्तचतुःश्लोको द्वारि तिष्ठति रक्षितः दिक्षुर्भिक्षुरायातः किमागच्छतु गच्छतु ॥ १० ॥ समागतं तमाकर्ण्य सुकविं परिभाज्य च । तेनैव विक्रमादित्यः समा- दिशदिदं मुदा ॥ ११ ॥ दीयन्ते दशलक्षाणि शासनानि चतुर्दश । दिक्षुर्भिक्षुरायातोऽथवागच्छतु गच्छतु ॥ १२ ॥ प्रभावनाचिकीरेप प्रभुभूमिपतेः राभाम् । विवेश विशदं श्लोकचतुष्टयमुवाच च ॥ १३ ॥ आहते तव निस्साने स्फुटितं रिपुहृददैः । गलिते तत्मियानेने राजश्चित्रमिदं महत् ॥ १४ ॥ अपूर्वयं धनुर्विद्या भवता शिक्षिता कुतः । मार्गणौघः H-6 TKE समभ्येति गुणो याति दिगन्तरम् ॥ १५ ॥ त्वकीर्तिर्जातजाज्येव चतुरंभोधिमजनात् । आतपाय महीनाथ ! गता मात- ण्डमण्डलम् ॥ १६॥ सर्वदा सर्वदोऽसीति मुधा संस्तूयसे बुधैः । नारयो लेभिरे पृष्ठिं न नक्षः परयोपितः ॥ १७ ॥ अनुच्छिप्टेन तेनोचैर्वचसा रन्जितो नृपः । दिशां चतसृणां राज्यं विहायान्तःपुरं ददौ ॥ १८ ॥ कुरु राज्यं महीनाथ ! निजं कृतमनेन नः । इत्युक्ते प्रभुभी राजा गमनार्थ स पृष्टवान् ॥ १९ ॥ विद्वगोष्ठीरसेनेति सूरिराचष्ट स स्फुटम् । निवेश्य वासने हृष्टस्ततो भूपोऽनमद्गुरुम् ॥ २० ॥ अतिकविकविचित्तानन्दकन्दाम्बुदाभं निजरादसि तदीयं हृद्यमापीय वाक्यम् । क्षरदमृतसमानं दत्तसन्मानदानं स्तुतिमिति मतिगग्यामेप रम्यां वितेने ॥ २१॥ असारे संसारे सुमतिशरणे काव्यकरणे यथेष्टं चेष्टन्ते कति न कवयः स्वस्वरुचयः । परं दुग्धस्निग्धं मधुररचनं यस्तु वचनं प्रसूते ते वा भवति विरलः कोऽपि सरलः ॥ २२ ॥ नृपतिविहितचित्रो मित्रवत्तन तस्थौ समयमयमपारं सारमुद्यद्विनोदैः । यतिपतिरथ भूपं तं समापृच्छय वाढं त्रिनयनगृहमागाच्चान्यमादाय देहम् ॥ २३ ॥ स सायं निर्मायः शिवभुवनमध्ये यतिपतिः प्रमीलामुन्मीलत्सकलकलविद्यः समकरोत् । गतः पूजाकारी तमुपसि तथा वीक्ष्य कुपितस्तुतोदासन्मारैस्तदपि स न निद्रामपि जहौ ॥ २४ ॥ नरपतिरपि तत्रोपाययौ चित्रितान्तर्यतिपरिवृढमेवं तं वभापे दृढाङ्गम् । रचयसि किमु भिक्षो। शङ्कराशातनां हे सृजति जगदशेष भस्मसादेप रुष्टः ॥ २५ ॥ स्तवं शम्भोर्नव्यं कुरु गुरुमतेऽङ्गो भज चिरं विरश्याद्या- देवा विदधति नुतिं यस्य सततम् । ददातीशस्तुष्टः स्फुटमिह जगद्राज्यमतुलं फलं मोक्षाधुचैर्वितरति परत्रायमभयम् ॥ २६ ॥ अवददिति मुनीशो दर्शितस्वोरुमूर्तिः तदनु वदनपझं तस्य पश्यन्नृपस्य । मदभिहितनुतिं नो सासहिः शङ्क- तं म 고업 बभूव । C542 रोऽयं तरणिकिरणमालां यदिद्धोऽपि घूकः ॥ २७ ॥ न दोषो मे विघ्नो यदि भवति कश्चित्पशुपतेर्गदित्वैवं सूरिः स्तव- नमथ नव्यं स विदधे । कथं सिद्धः कश्चित्किमुत धिषणः किं कविरसाविदं दध्यौ राजा मनसि स च शृण्वंस्तदमलम् ॥ २८ ॥ स्वयम्भुवं भूतसहस्रनेत्रमनेकमेकाक्षरभावलिङ्गम् । अव्यक्तमव्याहतमस्तदोषमनादिमध्यान्तमपुण्यपापम् ॥२९॥ एवं स्तवं वदति यावदसौ मुनीशस्तावत्खडत्खडतिशब्दभरो क्रुद्धः शिवो ननु विधास्यति भस्मसात्त्वासित्थं ज- गाद जनता सहितो नरेशः ॥ ३०॥ चकम्पे भूरुच्चैस्तदनु सह लोकेन नितरामहो ! किं भावीति प्रभुरपि वभूवोत्सुक- मतिः। ततो धूमश्रेणिः सह मुनिपदुःखेन निरगात् क्षणाक्षोणीपीठाअमरकुलनीलातिकुटिला ॥ ३१ ॥ अथ पशुपति- १ लिङ्गं तदृढाङ्गं चतुर्धा कजमिव वरभाभिस्तत्र प्रस्फोट विद्धम् । दधदधिकरयुग्मं पार्श्वनाथस्य विम्ब विमलमुरगराजः सप्रियः प्रादुरासीत् ॥ ३२ ॥ स्तोत्रं मदीयमिह यः सहते सुराही देवः स विश्वमहितः स्वयमाजगाम । तुष्टाव पार्श्व- जिनमेवमसावुदीर्य कल्याणमन्दिरमहास्तवनेन सूरिः ॥ ३३ ॥ संस्थाप्य तत्र जिनपं भुजगाधिराजो नत्वा गुरुं निजपुरं स जगाम वेगात् । श्रीसिद्धसेनगुरुदेशनया बभूव श्रीविक्रमः स जिनराजमतैकभक्तः ॥ ३४ ॥ एकदा स्वगुरुमादरादिदं पृष्टवान्नरपतिः स विक्रमः । मत्समः कलियुगे परो नृपः संभविष्यति विभो ! किमार्हतः ॥ ३५ ॥ कलियुगे भविता पर- मार्हतः कुमरभूपतिरत्र नराधिपः । गुरुभिरित्युदिते तदलेखयत्स इह पद्यमिदं मुदिताशयः ॥ ३६ ॥ गाथावृत्तमिदं निशम्य कुमरः कालस्य सम्पूर्णतां संज्ञायाः समतां विचिन्त्य च चिरं मेने मुनीन ज्ञानिनः । निन्ये तत्र दिनानि कानि- चिदपि प्रीतः कुटुम्वाग्रहाद्भूयो भूरिकलश्चचाल विपुलामालोकितुं कौतुकी ॥ ३७ ॥ स देशेषु भ्रान्त्वा वहुषु रसिको r - स योगिनिपुर विवेशाश्चर्याणामनणुवसतिः क्षमापतनयः । स्थितस्तत्राश्नौपीत्रिदिवगमनं सिद्धनृपतेस्ततो गन्तुं सज्जः समभ- वदयं च स्वविषयम् ॥ ३८ ॥ संययौ चर्मकारापणं यावतोपानदादानहेतोः प्रयाणोत्सुकः । तद्वयं न्यस्तवान् पादयोस्ता- वता बालचन्द्राभिधः शिल्पिमुख्यः स्वयम् ॥ ३९ ॥ चरणरक्षणयोरनयोरहं न किल दातुमलं समवेतनम् । इति जजल्प स शिल्पिनमुच्चकैः कलितकोमलवाग विमलाशयम् ॥ ४० ॥ इदं पदत्राणयुगं चकास्ति ते पदोः सदैवाम्बुजराजमानयोः। बज स्वदेशं भज राज्यमुज्ज्वलं तं जल्पति स्मेति स शिल्पिपुङ्गवः ॥४१॥कारुतर! त्वं गूर्जरदेशे भूमिपतिं परिभाव्य कुमा- रम् । मित्र ! समेया बीतविलम्ब सद्य इदं निगदन् स चचाल ॥ ४२ ॥ नगनगरसमूहालीलया लक्षायित्वा सकलनिज- कुटुम्ब सार्बमादाय दक्षः। अगमदगपधैर्यो वायुवेगेन वॉ स्फुरदुरुतररज सिद्धद्रङ्गं दृढाङ्गः ॥ ४३ ॥ समयमयं परिभाव्य समेत निजपरिवार तत्र विमुच्य । अगमदथासिकरो निशि गेहं स्वसुरवमत्य च तत्पतिभीतिम् ॥ ४४ ॥ शर्वरीमध्यदेशे विदेशागतो जामिमेपोऽनमच्छशवेपो भिया । सोदरं मन्दिरे भर्तृभीता सती सा सती स्थापयामास साशा रहः ॥ ४५ ॥ तिष्ठन् सुखं स्वभगिनीसदने स मेने स्वं दुर्जयं गतमिवाशुभकर्म धर्मी । सस्सार सूरिवचनस्य विचारसारः श्रीमान् कुमारनृपतिश्च तदा वदान्यः॥ ४६॥ श्रीरत्नसिंहगुरुपादसरोरुहालिश्चारित्रसुन्दरगणिर्यदिदं चकार । श्रीमत्कुमारचरि- तस्य गुरुस्वरूपः सर्गः समाप्तिमगमत्सुगमो द्वितीयः॥४७॥ ॥ इति भद्वारक-श्रीरवासिंहसूरिशिष्योपाध्यायश्रीचारित्रसुन्दरगणिविरचिते श्रीकुमारपाल- चरित महाकाव्ये हिण्डिवर्णनो नाम द्वितीयः सर्गः ॥ मन्था २८४ ॥ ॥

보였 ॥ अथ तृतीयः सर्गः॥ अथ प्रमीते जयसिंहदेवे सेनापतिः कृष्णभटः स यत्नात् । षण्मासमस्तारिबलो ररक्ष राज्यं कुमारागमनं प्रपश्यन् ॥१॥ व्यलोकयन्तं बहुधा स्वदूतैर्न क्वापि वार्तामपि तस्य लेभे । ततो मृतं तं परिभाव्य चित्ते जज्ञे निराशः पृतनापतिः सः ॥२॥ चिन्ताकुलं श्रान्तशरीरमेतं व्यलोक्य तं राजगृहात्समेतम् । आगत्य भक्त्यान्यदिनेऽन्ययुत चिन्तानिदानं कुम- रस्वसा सा ॥ ३ ॥ स प्राह भद्रे! शृणु कारणं तत् शून्योऽस्ति पट्टो नृपतेरभावात् । चिन्ता तदर्थं हृदये ममास्ति राज्यं गतप्रायमिदं च मन्ये ॥ ४ ॥ बभूव यो राजपदस्य योग्यः सोऽगात् कचिद्भपभयात्कुमारः । धर्तुं न राज्यं तमृते परो- डलं हित्वा हि राज्यं जगतीं यथान्यः ॥ ५॥ अथाविरासीत्कुमरः क्षणेन ज्ञात्वा मनस्तस्य मनीषिमुख्यः । अभीष्टयोस्तत्र मिथोऽतिसृष्टा गोष्ठी तयोः शिष्टतराजनिष्ट ॥ ६ ॥ त्रयः कुमाराः स्वगुणैरुदाराः सन्ति स्ववीर्या धृतभूमिभाराः । कस्मा इदं विस्मयकार्यमीषु वितीर्यते राज्यमहो ! महीयः ॥ ७ ॥ इति विचार्य जगाम स संसदं तदुरुधैर्यपरीक्षणहेतवे । गत- भयं सनयं कुमरत्रयं स्वयमजहवदूहविचक्षणः ॥ ८ ॥ महीपालनामा समागादथो तां सभामिभ्यवच्छोभमानः स्वमूर्त्या। सनाथः श्निया सैन्यनाथाय कृत्वा प्रणामं मुदोपाविशत्तत्पुरस्तात् ॥ ९॥ सेनापते ! यच्छ निदेशमेतो जगाद हर्षादिति कीर्तिपालः । मेने स मानी हृदि हीनसत्त्वौ तौ दीमवाक्येन विचारसारः ॥ १०॥ गुरुकृपाणकरः कुमरः क्षणादमरनाथ इवाप सभामभीः। विगणयंस्तृणवन्निखिलान्नृपान् स्वयमयं निषसाद नृपासने ॥ ११ ॥ कुरु गुरुमभिषेकं त्वं विवेकेन कृष्णभट ! सुभटसमूहान् रंहसाकार्य वर्यान् । कुरुत नृपतयो रे! किं प्रणामं न मह्यं धृतधृतिरिति सोऽवक् सिद्धराजा- ड सनस्थः ॥ १२ ॥ सत्त्वाधिक तं परिभाव्य वेगाचक्रेऽभिषेकं पृतनापतिः सः । सोपायना भूमिभुजः सममा वितेनिरेऽसी मुदिताः प्रणामम् ॥ १३ ॥ दधारातपनं पविन विचिन शिरस्पस्य शस्याशयः सैन्यनाथः । मुदा सोदरौ सादरं पार्श्वदेशे वरे चामरे नालयामासतुहौं ॥ १४ ॥ जगुर्मजलान्युज्वलान्यजनौघा ददुर्वेदवाफ्याशिर्ष भूमिदेवाः । नृपं तुष्टुवुर्भन्दिनो हृष्टचित्ताततं नृत्यमातेनिरे वारवध्वः ॥ १५ ॥ दानमानन्दितो मानपूर्व तदादादपूर्व स पूर्वापतुल्यस्तथा। बन्दिनामिन्दि- राया भरैमन्दिरेऽदारयहारुदारियपूरं यथा॥१६॥चरमाणे संस्थितं सुस्थिताश्चारुपौराजाना गौरदेहं मुदा।तं त्ववर्धापयन् वर्तमानं निया वर्द्धमानं विधायायतो मौक्तिकैः ॥ १७ ॥ पार्श्वगोश्वामरैवींज्यमानो भृशं धार्यमाणातपत्रसपावान्नृपः । राजराजीवृतो राजपाटी व्यधाद्वारणेन्द्रोपविष्टो विशिष्टोत्तमः ॥ १८ ॥ वर्षमेकं सहर्षप्रकर्षावृतो मण्डले दण्डमाखण्डला- भोऽभुचत् । बन्दिवन्दं च माकन्ददण्डं पुनर्निःसुतानां धनं मुक्तवान् सर्वदा ॥ १९ ॥ चित्रकूटस्य पार्टी पटिष्ठो ददौ सज्जनायाथ संसज्जनानन्दनः । लाटदेशं भृशं पाटितारिजो वोशिरेरणयद्भामयुग्मावृतम् ॥ २० ॥ अदादुपानयुगलं पुरा यस्तस्मै ददौ ग्रामयुगं गुणज्ञः । इहोपकारोऽवसरे कृतोन्यैनों विस्मृति याति सतां कदाचित् ॥ २१ ॥ तस्मै ददौ यश्वणकान् गुणज्ञः पुरा कुमाराय वणिग्वरेण्यः । अदान्मुदा वागडदेशसारं तस्मै पुरं श्रीवटपद्रसंज्ञम् ॥ २२ ॥ युक्तं कुमारोऽमरराजतुल्यः क्षमाभृतो यन्निखिलानजैपीत् । करेण पन्नं दधता निजेन जज्ञे च यगोत्रभिदन चित्रम् ॥ २३ ॥ कुमारः पुरा रक्षितः कण्टकौघैः समाच्छाद्य हद्याशयेनैप येन । तमेवापयित्वा वरं ग्राममस्मै नकाराशरक्षाकरं तं वरेण्यः ॥ २४ ॥ चारुचौलुक्यवंशाम्बरे भास्करः श्रीकुमारः स्वयं दिग्जयं फुप्तवान् । भूरिभूपालमालानिषेव्यक्रमः पालयामास ब राज्य क्रमेण कमी ॥ २५ ॥ अनुकलं कलयन्नवमगलं दलितवान् सबलं सकलद्विपम् । शकलयन् कलिकल्मषमुल्वणं निजकुलं विमलं विदधेऽधिकम् ॥ २६ ॥ उदयनमथ तेने मन्त्रिणं तन्त्रविज्ञो निजमनसि दधानस्तस्य पूर्वोपकारम् । अभि- विदितचरित्रे वाग्भटे मन्त्रिपुत्रे निहितविषयभारोऽसौ सिषेवे सुखौघम् ॥ २७ ॥ सततसुरवाशक्तश्नोत्रः सुदर्शनदर्शनोद्यत- मतिरसौ गन्धज्ञानेऽनिशं मधुपोपमः।ललितललनाभोगाभोगंभजन् सुभगाग्रणीविषयविषयं सौख्यं दक्षो नृपो बुभुजे मुदा२८॥ ॥ इति श्रीकुमारपालचरिते तृतीयसर्गे प्रथमो वर्गः ॥ S अथो सदा श्रीकुमरः सभायामारते निरस्तारिबलः सलीलम् । तत्पादसेवां रचयन्ति भूपाः सर्वेऽपि सेवावसरे समेत्य ॥ १॥ आस्थानसंस्थे नृपतौ स कृष्णो जायाग्रजे नर्म करोत्यजस्रम् । एकान्तदेशे बहुमानपूर्व निवारितः श्रीकुमरेण नास्थात् ॥ २॥ दोदूयते मद्वचसाधुनैष स्मरत्यवस्था न पुरातनी ताम् । सदा कुमारस्य स मर्तुकामश्चक्रेऽवहेलां निजली- लयेति ॥ ३ ॥ विवेद यन्नो वनिता हि भूपाः कस्यापि वश्या न भवन्त्यवश्यम् । श्रीमान् कुमारोऽप्यवहेलकं तं गूढाजि- तोऽस्थात्किल हन्तुमिच्छन् ॥ ४ ॥ सभास्थितस्याथ नृपस्य कश्चिल्लसन्महीशावलिशालितस्य । उपायनेऽपायविमुक्तमूर्ते- श्चके करालं करवालमेकम् ॥ ५॥ स्वपाणिना तज्जगृहे कृपाणं पश्यत्सु सर्वेषु जनेषु राजा । स्तम्भे सभायाः स ददत्प्रहार तस्थौ स्वयं यावदयं विमृश्य ॥ ६॥ तावत्समागत्य कुमारमूचे कालाहृतः कृष्णभटो विहस्य । कथं विलम्ब कुरुषे नरेश ! देहि प्रहारं जहि कातरत्वम् ॥ ७॥ जगाद भूपः स्थिररूप एप विरूपभीत्या निहतो मया नो । विरूपभीतिर्वणिजां न RS CC-* राज्ञां कृष्णः स्मितेनेति पुनर्जजल्प ॥ ८ ॥ अस्त्वेवमेवं निगदन्नरेशोऽलुनाच्छिरस्तस्य शितासिना सः। कृतान्ततुल्यं तम- वेत्य सर्वः सभाजनः क्षोभमवाप बाढम् ॥ ९॥ आज्ञाभऊं यः करिष्यत्यजनं तस्मै शिक्षामेप दास्याम्यजस्रम् । क्रूराकारः स्फाररोपारुणाक्षः संसद्येवं त्रासयामास भूपः ॥ १० ॥दृष्ट्वा धृष्टं मारित सैन्यनाथं जातातको राजवर्गो निसर्गात् । आज्ञा- लोपं कोपिनो कोऽपि नोऽरं तेने मेने शासनं चास्य नित्यम् ॥ ११॥ सभास्थितस्याथ नरेश्वरस्य सोलाभिधो गायनचक्र- वती । अदर्शयगीतकलां स्वकीयां कलाकलापाम्बुनिधिविधिज्ञः ॥ १२ ॥ तस्मै तदानन्दितचित्तवृत्तिः सपोडशं द्रम्मशतं ददौ सः । अवज्ञया तत्सकलं शिशुभ्यः स दत्तवान् सोलकविर्मदान्धः ॥ १३ ॥ विज्ञातवृत्तो नृपतिः क्षणेन व्यवासयत्तं निजदेशमध्यात् । गत्वा स काशी जयचन्द्रभूपं शिनाय निनागतविज्ञचक्रम् ॥ १४ ॥ सन्तोषितस्तत्कलया गजेन्द्रं ददौ नरेन्द्रः स विशोफयुक्तम् । उपायने तद्विदधे समेत्य सर्व कुमाराय स मुक्तगर्वः ॥ १५ ॥ तुष्टस्ततोऽसौ कुमरः स्वद्रझं तमानयद्गानविदं गतेय॑ः । पानीयरेखासदृशोऽत्र लोके सन्मत्सरः स्यात्क्षणदृएनष्टः ॥ १६ ॥ बम्बारव केऽपि विधाय बाढं तं गायनाः प्राहुरिदं सदन्तः । त्वदीयदेशे मुषिता इदानी वयं विशोध्यार्पय तन्नरेश ! ॥ १७ ॥ कैरेवमुक्ते कुमरेण भूयो राजन् ! मृगौधैरिति तेऽप्यवोचन् । गान्धर्वकौशल्यकिरो गिरस्ता मत्वा नृपः सोलमुखं त्वपश्यत् ॥ १८ ॥ अदोऽव- दत्सोलकविर्भवन्तस्तान् दर्शयध्वं निजतस्करानः । यथा समादाय वयं स्वशक्त्या समर्पयामस्तदिहाखिलं वः ॥ १९ ॥ ओमित्युदित्वा किल गायनास्तेऽगमन्नरण्यं सह तेन वेगात् । अदर्शयन्नस्य पुरो विलोलान्मृगान् हिरण्याभरणावृताङ्गान ॥ २०॥ प्रारब्धवांस्तत्र तथा स गातुं सोलः स्थिराङ्गो मधुरस्वरेण । आकर्णयन्तो हरिणा यथैयुः शनैः शनैस्तेऽतनुना- दलीनाः ॥ २१॥ गायन्नगादेप यथा यथा खं पुरं परं विस्मयमादधानः । मृगाः सुगीतामृतनादलीनास्तथा तथाजग्मु- रवश्यचित्ताः ॥ २२ ॥ मृगान् समानीय पुरे स मानी गायन्नगाद्राजसभा कमेण । आकर्णयन्तो विविदुर्न किञ्चित्ते गीत- मङ्गीकृतहृद्यनादाः ॥ २३ ॥ स विस्मयं प्राप समग्रपौरैः समं नरेशस्तदवेक्ष्य चित्रम् । ते तत्र तस्थुर्मधुरं पिबन्तो गीता- मृतं निश्चलसर्वगानाः ॥ २४ ॥ योगीश्वराणामिव निश्चलानां तेषां निरुद्धेन्द्रियवर्त्मनां सः। तद्भूषणं स्वर्णमयं रयेण जग्राह कण्ठादशठस्वभावः ॥ २५ ॥ यथागतं शीघ्रमगुर्मुगारते तस्मै ददौ दानममानमीशः । अहो ! कलागीतरसोऽय- मुच्चैरेचे प्रशंसां बहुधा व्यधाच ॥ २६ ॥ इतोऽधिकं किं वरिवत्ति किञ्चिन्नादस्य माहात्म्यमहो ! महीयः । स विस्मितस्त- कलया मलान्तः पप्रच्छ सोलं नृपतिर्विहस्य ॥ २७ ॥ ततः समानीय विशुष्कशाखां स चूतवृक्षस्य सभासमक्षम् । आरोपयन्नव्यमृदालवालं नृपाङ्गणे तत्र विधाय धन्यः ॥ २८ ॥ ततः सोलो गीतं सुगतिचतुरो ग्राममधुरं स्फुरत्तानामानं स्वरगुरुतरं तारमतनोत् । यदाकर्ण्य मापोऽमृतमतरसा स्वादसरसं परान्मेने प्रीतो विषमविषतुल्यान् स विषयान् ॥ २९ ॥ कथं क्षोणीचक्र भ्रमति किमु मेघोऽमृतरसैविधत्तेऽयं वृष्टिं किमुत रतिवेतो निजमदः । अतुच्छा मूछेयं किमुत किमयं मोहमहिमा चिरं निःस्पन्दाक्षः क्षितिपतिरभूच्चेति विमृशन् ॥ ३० ॥ निपीते गीतेऽस्मिन् श्रवण- सुखदे व्याप्तवपुपः स्फुरद्रोमाञ्चेनाजनिषत जना नाद्भुतमिदम् । विशुष्को यचूतश्चिततनुरभूत्पल्लवभरैः फलैः पूर्णश्चासी- त्तदिह ननु चित्रं महदिदम् ॥ ३१ ॥ माकन्दं फलितं विलोक्य मुदितस्तद्गीतगीतामृतस्तस्मै विस्मितमानसोऽद्भुततरं दानं कुमारो ददौ । दत्त्वा हस्तिवरं च चामरयुगं सम्मानपूर्वं तदा गन्धर्वाधिपतिं चकार चतुरः सोलं विशल्याशयः ॥३२॥ EG सङ्गीतनृत्यसुरतोत्सवविज्ञगोष्ठीदोलाधिरोहजलकेलिमुखैविनोदैः । सर्वार्थिसार्थसुरवृक्षसमानरूपी भूपो दिनानि स बहू- नि निनाय हृष्टः ॥ ३३॥ ॥ इति श्रीकुमारपालचरिते तृतीयसर्गे द्वितीयो वर्गः ॥ ग्रन्थागं ५९ ॥ अन्यदा कुमरभूपसभायां कुगुणेशमलिकार्जुनराज्ञः । मागधो नृपपितामहनाम विश्रुतं स्तुतिपदं निजगाद ॥ १॥ तन्निपीय नृपतिर्गुरुरोपात्सम्मुखं स्वसदसोऽथ ददर्श । तावतोदयनमन्त्रितनूज आम्बडस्तमवदन्नतिपूर्वम् ॥ २॥ किं नरेश ! कुरुषे गुरुरोपमेतदर्थमरिशोपिततोषम् । आदिश त्वमिह मामहितं तं यामि जेतुमतिगर्वितचित्तम् ॥ ३ ॥ तं स्तु- वन्नतितरां निजचित्तवेदिन दिनपतिप्रतिमः सः । प्राहिणोनिहतशत्रुसमूहं तत्र पुनसदृशं सह सैन्यैः ॥ ४॥ पूरयन् दश- दिशः स्ववलौघेथूरयन्नरिभरं पथि सोऽगात् । कुङ्कुणं विगणितापरशक्तिराम्वडः कृतनृपोत्तमयुक्तिः ॥ ५॥ तं समेतमव- गत्य समागात्सम्मुखं स मलिकार्जुनभूपः । मानिनो हि ददते निजदेशे न प्रवेशमिह वैरिजनस्य ॥ ६ ॥ सङ्गरं गुरुतरं वर- वाजिदन्तिपत्तिशतमारणमासीत् । सैन्ययोरुभययोरनुभग्नं मन्त्रिसैन्यमगमल्लघुदूरम् ॥ ७॥ नष्टमात्मकटकं स विलोक्या- पासरत्सचिवराट् समयज्ञः । तावता रणभुवं स विशोध्यागात्पुरं विजयवानरिभूपः ॥ ८॥ लजितः स्वकटकेन समं द्रागाम्बडो निजपुरोपवनान्ते । एत्य दुःस्थितमनाः स्थितवान् स दर्शयन्निजमुखं न जनानाम् ॥ ९॥ तस्य मानमसमा- नमवेत्य मानिनामधिपतिर्धरणीशः । भूरिवीरपरिवारसमेतं प्राहिणोत्पुनरिमं रिपुदेशे ॥ १० ॥ क्रान्त्वा सर्व कुङ्कुणं 5- - वाहिनीनां तीत्वा वृन्दं मन्दमन्दं स गच्छन् । सोपाराख्यं पत्तनं मन्त्रिराजो राजद्राजभ्राजितं स प्रपेदे ॥ ११॥ मन्त्री तस्थौ पत्तनोद्यानदेशे युक्त्या सैन्यं स्थापयित्वा स्वकीयम् । वीतातझं कुहाणेशाय तस्मै सद्यो दूतं प्रेपयामास दक्षम् ॥ १२ ॥ तं जगाद मृदुवाक् स्वसदःस्थं नीतिवित्स नृपतिं प्रणिपत्य । आगतं कुमरपालनिदेशात्तोपयैव सचिव नृप! भ- त्या ॥ १३ ॥ प्राग जितोऽयमिति चेतसि दर्प मा कृथा सुखविनाशनसर्पम् । निर्जितोऽपि मदनः किमु शम्भु रहसा निजवशं न चकार ॥ १४ ॥ नो महापुरुषविग्रहं जना मण्डयन्ति विबुधाः कदाचन । तं विधाय हतधीः सुयोधनो वंश- नाशमसृजन्मदान्धलः ॥ १५ ॥ तद्भवानपि विचार्य भूपते ! मन्त्रिणा सह विधेहि सौहृदम् । कोशदेशपृतनाधिकेन नो विग्रहं बुधजनाः प्रकुर्वते ॥ १६ ॥ इतीरयित्वा वचनं वदान्यो राज्ञः पुरस्ताद्विरराम दूतः । रोषारुणाक्षः क्षितिपस्तदानी दत्त्वापमानं विससर्ज तं च ॥ १७ ॥ जीवन्मुक्तोऽयं वराको मया प्राक् प्राप्तो भूयो निश्चितं मर्तुकामः । ध्यायन्नित्थं मा- नसे भूमिनाथो सोऽभ्युत्तस्थे भूपसार्थेन सार्द्धम् ॥ १८ ॥ श्रीपुजाख्यो देवदत्तोऽस्ति हारस्तस्य स्यान्नो कण्ठगे यत्र मृत्युः। गर्वावेशान्मन्त्रिणं जेतुकामः क्षोणीनाथस्तं विसस्मार सारम् ॥ १९ ॥ पटः पटिष्ठो वरिवर्ति देहरक्षाकरस्तस्य समुद्रदत्तः । रोषान्धलः क्षोणिपतिस्तदा तं जग्राह नो विग्रहवद्धबुद्धिः ॥ २० ॥ भज्यन्तेऽन्ये दन्तिनो यस्य गन्धात्तस्यारत्येको बन्धुरः सिन्धुरेशः । योढुं वाग्छन् मन्त्रिणा सार्द्धमिद्धं भूपोऽगच्छत्तं समारुह्य भद्रम् ॥ २१ ॥ संग्रामार्थ गच्छतस्तस्य राज्ञो भम्भारावाकारितः सारवीर्यः । अन्वागच्छन्निविलम्ब भटौघोऽकुण्ठोत्कण्ठोऽलं जयश्री वरीतुम् ॥ २२ ॥ निःसंख्येनोत्सं- ख्यकामेन विष्वक्सैन्येनासौ वेष्टितो भूमिपालः । स्फूर्जत्स्वोर्जस्त्रासितारातिजातस्तत्रायातोऽभात्कृतान्तोपमेयः ॥ २३ ॥ -562-6 -R . आलोक्यारान्मन्त्रिराट् तं समेतमारुयोचैर्हस्तिनं प्रत्यधावत् । विश्वां विश्वां व्यापयन्नात्मसैन्यैर्यद्वपात्पन्नगं वैनतेयः ॥ २४ ॥ पूर्ण पूर्ण काहलानां निनादैर्युद्धारम्भे व्योम सैन्यद्वयस्य । दुग्धं दुग्धान्तर्गतं लक्ष्यते नो यद्वत्तद्वत्सैन्ययुग्म तदासीत् ॥ २५ ॥ वाहो वाहं स्यन्दनी स्यन्दनस्थं नागो नागं पत्तिरेयाय पत्तिम् । अङ्ग्रेनाङ्गं साभजद्भरिरागादित्थं सेना स्वप्रियस्येव शत्रोः ॥ २६ ॥ मुव्यत्येके चाट्टहासान भटौघा नश्यन्त्येके कातरा राववन्तः । तन्वन्त्येके युद्धमिद्धोद्धताङ्गाः पश्यन्त्येके पातितानात्मनैव ॥ २७ ॥ नृत्यन्त्येके छिन्नशीपा रणोया धावन्त्येके सम्मुखं विद्विषां च । गच्छन्त्येके तत्र मूर्जामतुच्छां योधान् केचिन्नश्यतोऽथाह्वयन्ते ॥ २८ ॥ खशाखजि क्रोधतः केऽपि युद्धं मुष्टामुष्टि ध्वस्तशस्खास्तथैके । दन्तादन्ति छिन्नहस्ताश्च केचित्केशाकेशि द्वन्द्वमातेनुरन्ये ॥ २९ ॥ चः क्रीडां स्वक्रमोरक्षेपितेन शीणैके कन्दुकेनेव वीराः । केचित्खान्र्दन्तिदन्तानलग्नैर्दोलाकेलिं तत्र युद्धे वितेनुः ॥ ३० ॥ बाणैः प्राणान् केऽपि गृह्णन्ति तन कीलालो- घानुत्तुषोऽन्ये पिबन्ति । ऊर्च केचित्क्षेपिता दन्तिवृन्दैर्दिव्यत्रीणां त्रासमुत्पादयन्ति ॥ ३१ ॥ नष्टान् भट्टा वालयन्ति स्म तत्र कीर्तिस्फूर्त्या धीरतामादधानाः । केचिद्बाद हकिताः सैन्यनाथैर्भूयोऽकार्युः सद्धरं भग्नचित्ताः ॥ ३२ ॥ रक्तं व्यक्तं नीरतामाप भूरि कृत्तान्यापुर्मस्तकान्यजतां च । शस्त्राण्युच्चैमत्स्यतां तत्र केशाः शेवालत्वं सिन्धुतां युद्धभूमिः ॥ ३३ ॥ एवं युद्धे जायमानेऽसमाने घातैर्भिन्नं तद्दलं यावदासीत् । तावद्भूपं कालरूप पुरस्तात्प्राप्तं वीक्ष्यापासरन् मन्त्रिसैन्यम् ॥ ३४॥ कांश्चित्पादैमुष्टिघातेन कांश्चित्कांश्चिच्छौस्ताडयन्नाम्बडोऽथ । नष्टं दृष्ट्वा वैरिणो गन्धहस्तिगन्धात्सैन्यं सिंहनादं मुमोच ॥ ३५ ॥ श्रुते तस्मिन् नादे रिपुभदघटा दूरमगमद्दिगन्तं मातझा अगुरगसमाना अपि समाः। चकम्पे भूकम्प गुरुशिखरिणो . --- बाढगभजन निजैः सार्द्ध राजा समजनि तदा खिन्नवदनः ॥ ३६॥ निरीक्ष्य मानार्थ गतपरिकरं शोकविधुरं समेत्या- रादेवं सचिवतिलको वाक्यमवदत् । परित्यक्त्वा मानं कुमरनृपतेः पादयुगलं प्रणम्येदं राज्यं भज भज वृथा मा मृति- महो ! ॥ ३७ ॥ श्रुत्वा वाक्यं मन्त्रिणोऽतीवरुष्टो दष्टोष्ठो दाग भूपतिस्तं वभापे । इत्थं व्यर्थं जल्पतो रेऽधुना ते जिला- छेदेमाशु दण्डं करिष्ये ॥ ३८ ॥ रे रे नष्टं नास्ति तेऽद्यापि किञ्चिन्मुक्त्वा सर्च याहि देशं स्वकीयम् । मय्यत्यर्थ काल- रूपेऽद्य रुष्टे स्पर्धावृद्ध जीवितं ते विनष्टम् ॥ ३९ ॥ कोऽस्मिल्लोके वनपातं सहेत बाहुभ्यां वा लड्वयेत्को महाब्धिम् । तद्वदेवो दानवो मानवो वा का संग्रामे मत्प्रहारान् सहेत ॥ ४० ॥ आकण्येदं कर्णशूलोपमेयं राज्ञो वाक्यं स्फूर्तियुक्तं नितान्तम् । तन्वन हास्यं धन्विनामेप धुर्यो धुन्वन् शीर्प मनिराजो जगाद ॥४१॥ निःसारस्य स्याद्यथा वस्तुनो वै स्फूर्तिलोंके स्यात्तथा नेतरस्य । याहक कांस्येऽनिष्टवंशे निनादस्ताहक स्वर्णे वर्ण्यवर्णे न च स्यात् ॥ ४२ ॥ नाहं नाह नाहमित्यानतास्यो ब्रूते वाजी राजवाह्यः सुतेजाः । हहहहहमित्यूर्द्धवको गाढं गाढं रासभो रारदीति ॥ ४३ ॥ भूयो भूयः कल्पितैल्पितैः किं खोक्तं राजन् ! दर्शयास्माकमेतत् । इत्युक्तोऽसौ सिन्धुरस्कन्धसंस्थः क्रोधेनान्धो मन्त्रिणं प्रत्य- धावत् ॥ ४४ ॥ रुष्टः श्रीमानर्जुनः सोर्जुनाभो मुञ्चन् वाणान् प्राणसंहारिणोऽरम् । एकोऽनेकाकुल मन्त्रिसैन्यं चके वक्रं चापमुचैर्दधानः ॥ ४५ ॥ मुक्त्वा रोपान् कोपवान् मन्त्रिपुत्रश्चिच्छेदासौ वैरिणः पत्रिणस्तान् । कीर्त्या साकं कङ्कप- त्रेण धान्यां शत्रो छनं पातयामास पश्चात् ॥ ४६॥ वर्षन्वम्भिोदवन्मार्गणौधैर्भूयो भूयो व्यापयन स्वर्गमार्गम् । कृत्वा श्याम मानसं तस्य राज्ञस्तूर्णं पूर्णी वाहिनीमेष तेने ॥ ४७ ॥ अजनि जनितकम्पं द्वन्द्वयुद्धं तयोस्तदिति नवनवशस्त्रैरन- धारावलिप्तैः । असुरसुरनरेशा यन्निरीक्ष्योद्धताङ्गा अनणुरणरसौघा जिरे शौर्यवृत्तिम् ॥ ४८ ॥ तयोरेवं युद्धोद्धतमति- भृतोः शौर्ययुतयोर्वपुः पूर्ण स्वेदोदककणगणैर्दारुणरणात् । क्षणं क्षोणीनाथे क्षणमपि पुनर्मन्त्रिमुकुटे गतायातं तेने विज- यकमलात्यन्तचपला ॥ ४९ ॥ महामात्यस्येभं नृपतिरवधीतीक्ष्णविशिखैः पपातायं भूमौ सह सचिवहर्षेण सहसा । जितं भूपेनेदं मुदितमनसस्तत्सविधगा वदन्त्युच्चैांवत्सचिववधबुद्ध्युद्धरनराः ॥ ५० ॥ असमरसवशेनोत्पत्य तावत्स मन्त्री नृपतिगजमियाय प्रायसं रक्षिताङ्गः । अनणुरणरसात्तं पातयित्वा नरेशं निजकरकरवालेनैप चिच्छेद शीर्षम् ॥५१॥ निजभुजबलेनायं धूपं निहत्य मदोत्कटं स्फुटपट्ठरवान्वादित्रौपानवादयदञ्जसा । तदनु विषये संस्थाप्याज्ञां कुमारमहीप- तेर्नृपतिशिरसा सर्वं लात्वा सह स्वपुरे ययौ ॥ ५२ ॥ दददानं मन्त्री मुदितहृदयो मङ्गलमयं विवेशोच्चैः क्लृप्तोत्सववरतरं पत्तनमसौ । ततः प्रातः प्रौढां नृपशतयुतां भूपतिसभा पुरो मुक्त्वा शीर्ष प्रणतिमतनोदुत्तमतमः ॥ ५३॥ शिरो दृष्ट्वा राजा व्यथितहृदयः कुङ्कुणपतेः परित्यक्त्वा छत्रप्रभृतिकमलं शोकमतनोत् । पुनः शीपं प्रादात्स निजविषये तन सचिव । स्तदानीतं वित्तं नृपतिपुरतोऽढोकयदिदम् ॥ ५४॥ द्वात्रिंशत्स्वर्णकुम्भा अतिविशदरुचां मूढको मौक्तिकानां दिव्यो हार- श्व हेम्नां रुचिररुचिभृतां कोटयो विश्वसंख्याः। हस्ती श्वेतः परः स प्रकटमतिभृतां वारवध्वां शतानि पचोच्चैवाजिनां चायुतमतिरुचिरा दन्तिनां पष्टिरन्या ॥ ५५ ॥ तदखिलमपि दृष्ट्वा ढौकितं मन्त्रिणाग्रे कुमरनृपतिरापद्विस्मयं मानसान्तः। निखिलनृपसमक्षं मन्त्रिराजाय तस्मै द्विरदमथ तदीयं दत्तवान मानपूर्वम् ॥५६ ॥ विमलमङ्गलराजिविराजितः स्वसदनं स जगाम नृपैयुतः । स्वजननी च ननाम नयोज्ज्वला प्रमुदितः किल राजपितामहः ॥ ५७ ॥ श्यामास्यां तां मातरं मन्त्रि- राजो दृष्ट्वाऽपृच्छत्कारणं वारितारिः । शश्वच्छीलालङ्कृताङ्गी कुलीना स्वच्छा वत्सं सा जगादेति दक्षा ॥ ५८ ॥ निजक- लकुलतुल्यं कर्म किश्चित्त्वया नाचरितमचिरकालाज्जायते येन सिद्धिः । भवति नरकपातः कर्मणा येन लोके तदखिलमपि तेने तेन मे दुःखमेतत् ॥ ५९ ॥ अमृतरससमानं मातुराकर्ण्य वाक्यं तदनु स भृगुकच्छेऽचीकरच्चैत्यमुच्चैः । अनुदिनघ- नदानैः प्रीणयन् सर्वलोकं नृपतिपरशरीरं मन्त्रिराजो बभूव ॥ ६० ॥ इति नृपतिनिदेशादाम्बडो मन्त्रिराजो निजभुजवि- जितारिर्दिजयं द्रार वितेने । नतनृपशतमौलित्रातधौतक्रमानः सुखमतिसुखमायुक् श्रीकुमारः सिपेवे॥ ६१ ॥ श्रीरत्नसिं- हगुरुपादसरोरुहालिश्चारित्रसुन्दरकविर्यदिदं वितेनोश्रीमत्कुमारचरितस्य हि राज्यनामा सर्गः समाप्तिमगमत्सुगमस्तृतीयः ६२ इति भट्टारकश्रीरत्नसिंहसूरिशिष्योपाध्यायश्रीचारित्रसुन्दरगणिविरचिते श्रीकुमारपालचरिते महाकाव्ये राज्याभिषेकवर्णनो नाम तृतीयः सर्गः ॥ ग्रन्थानं ९२ समस्तसर्गे १८७ ॥ ॥ अथ चतुर्थः सर्गः॥ श्रीहेमचन्द्रसूरीन्द्रा अन्यदेन्द्रगुरूपमाः । स्वमात्रे पाहिणीनाम्य पत्तनेऽनशनं ददुः॥१॥ नानापुण्यधनं धन्यास्तस्यै शस्याशया ददुः । श्राद्धाः श्रद्धोद्धरास्तन्त्र विदधुर्विविधोत्सवान् ॥ २॥ तस्याः समाधिना पूर्णेऽनशने दिवसैस्त्रिभिः । विमानं रचयांचभव्यं भव्यजनास्तदा ॥ ३ ॥ विधिवत्सर्वकृत्येषु कृतेषु सुकृतोत्तमाः। चेलुः श्राद्धास्तदादाय महोत्सव- पुरस्सरम् ॥ ४॥ मठेति पुरुषस्याथ जटाधारिभिरुत्कटैः। श्राद्धानां गच्छतां मार्गे विवादः सुमहानभूत् ॥ ५॥ वण्ठमा- येर्जटाभूमिनिपुरैर्दुष्टचेष्टितैः । अभज्गत गिगानं रात्साभिधानं कुणोलतः ॥ ६ ॥ एतं श्रुतिकटु शुला तदवो दूनमानसाः। संजातात्यन्तसन्तापाः सूरयोऽचिन्तयमिदम् ॥ ७ ॥ जैनधर्मातियो दुप्पान सारिएनिधायिनः । जिनाशाराधकः साधुः स्वशत्या पारयेदिह ॥ ८ ॥ उपेक्षते खसामध्ये सति परतान् पुनर्नरः । पम्भगीति भने पोरे रा जिनाशानिराधकः ॥९॥ तदहं भूपरामरगा गयागतिविचक्षणः । रान गर्भरिपो वेगातार गिप्ये साशक्तितः ॥ १० ॥ आत्मप्रभुतया वा- मिप्रसादेनाथना नृणाम् । सिध्यन्ति सर्वकार्याणि नास्त्युपायः परः पुनः ॥ ११॥ उपकारोऽपकारो ना यस प्रजाति निस्मृतिम् । पापाणसुहदस्तस्प जीवतीत्यभिधा गुणा ।। १२ ॥ विचार्य मुनिरं चिते जानन्तः सिद्धिमायती । शासनोत्स- र्पणां कर्तुं तेऽगमनृपपर्पदम् ॥ १२ ॥ श्रीमानुदयनागालः पुरो गत्वातिसत्लरम् । मुनीशागगर्न राशे शापयामास तत्क्षा- णम् ॥ १४ ॥ स तान् समागतान्गला राज्यमाप्तिप्रकाशकान् । मुदितो मनिणं प्रेग्याकारयामास सादरम् ॥ १९ ॥ अगायेन समं देवामात्यतुल्यारतदैत्य ते । आशीर्वाद वदान्गाय नृपायेति ददुर्गदा ॥ १६ ॥ यो मारगन्मारमरं निभूति विनद्भवानीहितकारकथ। आदीश्वरो भूतपतिवृषानः स तामहीनाभरणः पुनातु ॥ १७ ॥ इलाशीनदिनेविन्याद्रजितो रसनापतिः । गास्पतामासनेऽमुष्मिमिति पूर्नगदोऽनयत् ॥ १८ ॥ उपाविशनृपादिष्टे विष्टरे गरिसत्तमाः । कुशप्रश्नमा- तेने मुदितो नृपतिस्ततः ॥ १९ ॥ क्षमापल्लोईयोः सेवां रनयन् रमिताड़ालिः । मध्यस्थोऽसौ द्विधा मनी तस्थावस्थ एव सः ॥ २० ॥ चिरं विचारचातुर्यरुचिरः परयोरायोः । अपूर्णरगृहयोजशे तदा गोठीरसो मिथः ॥ २१ ॥ सुधारखादा- धिक पीत्वा धुततापं गुरोर्वनः । अपूर्णेच्छो नृपो वाक्यं तदुझारगिवाराजत् ॥ २२ ॥ शुभवनिर्भवद्भिर्ने प्रसादः सादह- RE:- 中된 R- KC सदा । कार्यः स्वागमनेनेह श्रुत्वैवं सूरिरभ्यधात् ॥२३॥ भुञ्जीमहि वरं भैक्ष्यं जीर्ण वासो वसीमहि । शयीमहि महीपीठे कुर्वीमहि किमीश्वरैः ॥ २४ ॥ जगाद भूपतिर्भूयो युष्माभिः सह सर्वदा । मैत्री विधातुकामोऽस्मि परत्र हितवाञ्छया ॥ २५ ॥ एवमित्युदिते भूपः प्रभूणां दूयकं ददौ । अस्खलितप्रचारार्थ विचारार्थ च सर्वदा ॥ २६ ॥ तेन तत्त्वाश्रितां वाती कृत्वा कालं कियच्चिरम् । नमतानुमता जग्मुः स्वाश्रयं सूरिसत्तमाः॥ २७ ॥ कलावता सुवृत्तेन चन्द्रवृत्तेन सूरि- णा। मुमुदे स मुनीशेन सत्सत्त्वो वाहिनीपतिः ॥ २८ ॥ सदानभोगयुक्तेन तेन राज्ञोज्वलात्मना । बभार परमां प्रीति स गुरुर्विबुधाग्रणीः ॥ २९ ॥ शश्वद्गमागमे जाते तयोर्विद्वत्प्रधानयोः । अवर्द्धिष्टाधिक प्रीतिः सिन्धुचन्द्रमसोरिव ॥३०॥ गच्छन्तस्तेऽन्यदा भूपपार्थे वीक्ष्य पणाङ्गनाम् । प्रस्तावविदुरा वेगात्पश्चाद्ववलिरे स्वयम् ॥ ३१॥ स तावत्तद्गुणप्रीतस्त- द्वार्तारसिको नृपः । तां विसृज्य गुरुस्नेहाद्गुरूनाकारयद् द्रुतम् ॥ ३२ ॥ अत्रान्तरे तरत्क्रोधरुद्धबुद्धिः पुरः स्थितः। उपहासपरो बाढं पुरोधा वाक्यमब्रवीत् ॥ ३३ ॥ विश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशनास्तेऽपि स्त्रीमुखपङ्कजं सुल- लितं दृष्ट्वैव मोहं गताः । आहारं सघृतं पयोदधियुतं ये भुञ्जते मानवास्तेपामिन्द्रियनिग्रहो वत कथं दम्भः समालोक्य- ताम् ॥ ३४ ॥ तच्छ्रुत्वा सूरयोऽशंसन् क्रमोऽयमविवेकिनाम् । किन्तु सत्त्ववतां राजन्नुत्तमानामयं क्रमः ॥ ३५ ॥ सिंहो बली द्विरदशाम्बरमांसभोजी संवत्सरेण कुरुते रतमेकवारम् । पारापतः खरशिलाकणभोजनोऽपि कामी भवत्यनुदिनं ननु कोऽत्र हेतुः ॥ ३६ ॥ इत्युक्तियुक्तिकुन्तेन तेन भिन्नरतथा द्विजः । यथा निरस्त चैतन्यः स निरुत्तरतामगात् ॥३७॥ अमी सूर्य न मन्यन्त इत्यसौ पुनरुक्तवान् । अन्यदा तत्समाकर्ण्य सूरयोऽप्येवमूचिरे ॥ ३८ ॥ अधामधामधामेदं वय- मेव स्वचेतसि । यस्यास्तव्यसने प्राप्ते त्यजामो भोजनोदके ॥ ३९ ॥ पयोदपटलच्छन्ने नाश्नन्ति रविमण्डले । अस्तं गते तु भुजानाः अहो ! भानोः सुसेवकाः ॥ ४० ॥ शाखाभ्रष्टः कपिरिव विप्रोऽस्थादुत्तरोज्झितः । नृपो मेने प्रभून् सर्वोत्तरा- दानविचक्षणान् ॥ ४१ ॥ जगाद सादरं सूरीनन्यदा नृपतिर्मुदा । केनोपायेन जायेत यशो जगति मे स्थिरम् ॥ ४२ ॥ अवदन् सूरयो विश्वानृण्यतो विक्रमार्कवत् । महाचैत्योद्धृतेर्वापि श्रीमदरतचक्रिवत् ॥ ४३ ॥ ततो नरपतिर्वित्तं दत्त्वा देवकपत्तने । शिवचैत्योद्धतिकृते प्राहिणोनिजपूरुषान् ॥ ४४ ॥ स वर्षेः पञ्चभिः पूर्णे जाते शङ्करमन्दिरे । यात्रायै नृप- तिश्चक्रे सामग्री मुदिताशयः ॥४५॥ अन्यदा गुरुरागेण शशंस स गुरोर्गुणान्। असहिष्णुः प्रशंसां तां पुरोधाः प्रोचिवानिति ॥ ४६ ॥ राजन्नखण्डपाखण्डाः पटुचाटुपरायणाः । अमी स्वधर्म निन्दन्ति सदा मदभृताशयाः॥ ४७ ॥ नागमिष्यन्ति यात्रायामर्थिता अप्यमी भृशम् । भगवन्तं महादेवमेते नो मन्यते यतः ॥ ४८ ॥ प्रतारितमना भूपो विप्रैः सोऽथ प्रभून स्वयम् । यात्रार्थमर्थयामासात्यर्थमव्यर्थधर्मधीः ॥ ४९ ॥ ऊचुस्ते सोधमा राजन् ! यानार्थ यतयः सदा । इष्टं वैद्योप- दिष्टं चाजनिष्ट तदिदं हि नः ॥ ५० ॥ सार्थोऽयं गन्तुकामस्यामन्त्रणं क्षुधितस्य च । निर्ममे तीर्थयात्रार्थमस्माकं यन्नि- मन्त्रणम् ॥ ५१ ॥ नरयानादि किं यानं भवन्झ्यो दीयतामिह । पृष्टे नृपतिनाऽवोचन्निति ते विकसन्मुखाः ॥ ५२ ॥ निरारम्भास्त्यक्तदम्भा यात्रार्थ यतयः सदा । ब्रजन्ति पादचारेण प्राणिरक्षणहेतवे ॥ ५३ ॥ प्रयच्छादेशमद्यैव नन्तुं नश्चै- त्यमण्डलीम् । शत्रुञ्जयोज्जयन्तादितीर्थान्यानम्य निश्चितम् ॥ ५४ ॥ प्रवेशसमये देव ! तव देवकपत्तने । मिलिष्याम इत्युदीर्य विजहः प्रभवः क्षणात् ॥ ५५ ॥ युग्मम् ॥ महता सह सैन्येन ययौ तन नृपः क्रमात् । ते च कृत्वा तदाऽऽजग्मु- 5 १. 발법 -46- यात्रां शत्रुञ्जयादिकाम् ॥ ५६ ॥ जहर्ष भूपतिर्बादं वीक्ष्य सूरीन् समागतान् । चन्द्र सिन्धुर्घनं केकी चक्रवाको यथा रविम् ॥ ५७ ॥ अथ बहुविधदानैः प्रीणयन् याचकौघं शिवभुवनमवाप स्वाविचारेण भूपः । भवमभिनवभक्तिय॑क्तपूजो- पचारै रुचिरतरविचारोऽपूजयच्छ्रीकुमारः ॥ ५८ ॥ अमी जैनाः शम्भु स्वमतरतयो विश्वविदितं न वन्दन्ते विप्रो नृप- तिमिति कश्चिद्गदितवान् । तदुक्त्या सम्भ्रान्तो भ्रमभरहरं सूरिमवदत् प्रभो ! शंभोः पूजां कुरुत यदि दोषो न भव- ताम् ॥ ५९॥ तदुदितममृताभं ते निपीयेत्यवोचन् विदधति यवयो नो द्रव्यपूजां नरेन्द्र !। तदिह दलितकामस्या- भिरामस्य शम्भोर्भवतु भवसमूहच्छेदिनी भावपूजा ॥ ६० ॥ एवमेवमुदिते कुमरेण ते स्वरेण मधुरेण मुनीन्द्राः । इत्थ- मर्थबहुला नतिपूर्व सन्नुतिं विदधुरुन्नतिभाजः ॥ ६१ ॥ यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया। वीतदोषकलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते ॥ ६२ ॥ त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकितं साक्षायेन यथा स्वयं करतले रेखात्रयं साङ्गुलिम् । रागद्वेषभयामयान्तकजरालोलत्वलोभादयो नालं यत्पदलनाय स महा- देवो मया वन्द्यते ॥ ६३ ॥ भवबीजाङ्करजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नम- स्तस्मै ॥ ६४ ॥ गुरुरिति निरवधैर्हद्यपद्यैर्वितेने स्तवमभिनवमेवं शृण्वति श्रीकुमारे । तदनु मनुजनाथाकारितो वारि- तैना अभजदतिमनोज्ञं विष्टरं मण्डपान्तः ॥ ६५ ॥ श्रीमच्छ्रीकुमरोऽमरेशसदृशस्तत्रोपवेश्यासनेऽदादानन्दवशात्तुलाप्रभृ- तिकं दानं दयातत्परः । चञ्चत्पञ्चनिनादसुन्दरतरं पश्चादतुच्छोत्सवं चैत्येऽसावकरोच्चिरं नरपतिबातैर्वृतः सद्तः ॥ ६६ ॥ ॥ इति श्रीकुमारपालचरित प्रतिबोधसर्गे प्रथमो वर्गः ॥ C -RE- ८- अथो स कार्याण्यखिलानि कृत्वा तस्थौ क्षणं स्वस्थमना नरेशः । विचार्य किश्चित्सुचिरं हृदन्तर्जगाद सूरि मृदुना रवेण ॥ १॥ देवो महादेवसमोऽपरो नो भवत्समो नो भगवन्महर्षिः । न तत्समोऽन्यो नृपतिसयाणां संयोग एषो. sजनि सत्तमानाम् ॥ २॥ तदत्र तत्त्वं मुनिनाथ ! सार्थ प्रकाशय प्रापितमुक्तिसार्थम् । जायेत पुण्यैः प्रगुणैर्विना नो योगः सतां दत्तसमाधिभोगः ॥ ३॥ राज्ये परे सत्यपि यस्य बुद्धिः समीहते सिद्धिमहो ! नरेश ! । धन्योऽसि राज- निति तं स्तुवन् स जगाद सूरिर्मुदितो नितान्तम् ॥ ४ ॥ कृतं पुराणोक्तिभिरत्र राजन् ! प्रत्यक्षमेनं करवाणि शम्भुम् । जानातु तत्त्वं किल तन्मुखेन भवान् भवच्छेदकरं सुखेन ॥ ५॥ अहं करिष्येऽद्य हरस्य जापमुत्क्षेपणीयो भवता च धूपः । प्रत्यक्षमागत्य यथातितुष्टः पिपर्ति वाञ्छां तव तूर्णमीशः ॥६॥ क्षमापती ओमिति तौ भणन्तौ स्वस्वोपचारोपयुतौ रजन्याम् । पवित्रगात्रौ विजने प्रयातौ शम्भोहान्तः कृतसर्वकृत्यौ ॥ ७ ॥ प्राणाप्रसंयोजितदृष्टिरिष्टबद्धासनः कामरिपोः पुरस्तात् । शिक्षा समादिश्य नृपाय सर्वो ध्यानं वितेने बतिनामधीशः ॥ ८ ॥ उत्क्षेपयामास विशुद्धवासाः संवासिताशे- पदिशं विशङ्कः । कृष्णागुरु तन गुरोः पुरस्तात्कर्पूरपूरेण युतं क्षितीशः ॥ ९॥ प्रकुर्वतोः कृत्यमिति स्वकीयं तयोनि- शीथः स्थिरयोर्वभूव । लिङ्गोपरिष्टादतिदीप्यमानं तमोहरं ज्योतिरथाविरासीत् ॥ १० ॥ किमैन्दवं भानुभवं किमेत- ज्योतिर्जगलोचनदुनिरीक्ष्यम् । विचिन्तयन्नित्थमसौ नरेशस्तदन्तरेकं मुनिमैक्षतैषः ॥ ११ ॥ चन्द्रावतंसं भुजगोपवीतं तमर्द्धनारीवपुषं निरीक्ष्य । स्फुरजटाजूटविराजमानं विसिष्मियेऽसौ सहसा नरेशः ॥ १२ ॥ पश्यन् दृशानन्दमयैकमूर्ति मत्वा महेशं स्वयमागतं तम् । कुर्वन् प्रणाम मुदितो नितान्तं कृताञ्जलिः प्राह स साहसीशः ॥ १३ ॥ अहो ! कृतार्थे R-SAR SGE नयने अभूतां शम्भो ! भवद्रूपनिरूपणेन । तत्त्वं भवच्छेदकरं गदित्वा तत्त्वं कृतार्थे श्रवसी विधेहि ॥ १४ ॥ अथावि- रासीदिति गीरमूर्त्ता राजन्नयं देवमयो मुनीशः । अपारसंसारसमुद्रपारं त्वयाप्तुकामेन सदा निषेव्यः ॥ १५ ॥ कलौ युगे- ऽस्मिन्नयमेव धत्ते सर्वज्ञसाम्यं शमिनामधीशः । तत्त्वं भवच्छेदकरं रयेण तदस्य वाचा त्वमवेहि राजन् ! ॥ १६ ॥ आ- दिश्य राजानमिदं महेशस्तिरोऽभवत् स्वप्न इवैष वेगात् । पूर्ण विधायाथ जपं मुनीशः क्षणेन राजनिति वाक्यमूचे॥१७॥ जीवादिशेत्यादि वदन्महीशः संवाहयामास पदं स सूरेः । आजीवितं तत्र मुमोच मद्यमांसाद्यभक्षाणि स शम्भुसाक्षम् ॥ १८ ॥ क्रमात्समेतो नृपतिः पुरं स्वं श्रुत्वागमं सूरिमुखात्समग्रम् । व्रतानि सम्यक्त्वयुतानि सूर्यसंख्यानि जग्राह विशुद्धबुद्धिः १९ ॥ श्रीयोगशास्त्रप्रमुखान् प्रबन्धान् त्रिषष्टिपुंसां चरितानि चायम् । प्रभोर्मुखान्निश्चलचित्तवृत्तिः शुश्राव सुश्रावकचक्रचक्री ॥ २०॥ द्यूतं च मांसं च सुरा च वेश्या पापद्धि चौरी परदारसेवा । एतानि सप्त व्यसनानि राजन् ! घोरातिघोरं नरकं नयन्ति ॥ २१ ॥ श्रुत्वा स इत्थं व्यसनानि सप्त तत्याज निर्व्याजमतिः क्षितीशः । व्यवासयद्गुर्जरदे- शमध्याद् ज्ञात्वा च पापैकमयानि तानि ॥ २२ ॥ जीवादितत्त्वानि विवेद सम्यग् नवाप्यसौ तीक्ष्णमतिनरेशः । बुबोध धर्म दशधा व्यधाच्च रत्नत्रयाराधनमन्वहं सः ॥ २३ ॥ विज्ञातवानेष समग्रशास्त्रं प्रभोः प्रसादादचिरेण भूपः । करो- त्यभीष्टं विहिता न किं किं सत्सङ्गतिः कल्पलतेव पुंसाम् ॥ २४ ॥ दानं मानयुतं ददत्प्रतिदिनं शीलं सलीलं दध- द्वाह्याभ्यन्तरभेदभिन्नमसकृत्तीनं तपश्चाचरन् । सद्भाव भवनाशनाय स भजन जानंश्च धर्मस्थिति सिद्धान्तामृतपानलीन- हृदयो भूपोऽभवद्धार्मिकः ॥ २५ ॥ रुचिरतरविहारान् कारयन् श्रीकुमारो निजगुरुगुरुभक्तिं विभ्रदभ्रान्तचेताः । दुरि- तविजयसिंह जैनधम्मै सुकर्मोद्यतमतिरिति चक्रे चक्रिवत्सोऽद्वितीयम् ॥ २६ ॥ श्रीरत्नसिंहगुरुपादसरोरुहालिश्चारित्रसु- न्दरकविर्यदिदं ततान । तस्मिन् कुमारचरिते प्रतिबोधनाय सर्गः समाप्तिमगमत्सुगमस्तुरीयः ॥ २७ ॥ ॥ इति भट्टारकश्रीरत्नसिंहसूरिशिष्योपाध्यायश्रीचारित्रसुन्दरगणिविरचिते श्रीकुमारपाल- चरिते महाकाव्ये प्रतिबोधवर्णनो नाम चतुर्थः सर्गः ॥ ४ ॥ ग्रन्थाग्रं १२५ ॥ Sk ॥ अथ पञ्चमः सर्गः॥ नृपप्रबोधाय विमायचित्तः श्रीहेमचद्रः कृतनित्यमद्रः । श्रीपत्तने सत्तमचक्रवन्धस्तस्थौ स्थिरश्रीगुणवृन्दहृद्यः ॥ १॥ स तत्र संस्थोऽपि निजैर्यशोभिरुद्धासयामास जगत्समस्तम् । व्योमाङ्गणस्थोऽपि करोति भानुर्भाभिः प्रकाशं भुवने- ऽखिलेऽपि ॥ २॥ सन्देहसन्दोहमपाचकार गुरुगरिष्ठातिशयैः ससारः । तस्य प्रशस्य प्रससार लोके सर्वज्ञनामोत्तमधाम धाम ॥३॥ काशीनिवासी स्वकलाकलापदासीकृताशेषजनः प्रकाशी। तद्देवबोधः कृतवादिरोधः शुश्राव नामान्यकृ- तावबोधम् ॥ ४ ॥ श्रीहेमचन्द्रेण समं विवादं कर्तुं समागात समदेन तन्त्र । अहो ! सहन्ते नहि मानवन्तस्तेजः परेषाम- धिक समर्षाः ॥ ५॥ मरुञ्चलाभ्यां गगनस्थिताभ्यां वेविज्यमानो वरचामराभ्याम् । उत्पाट्यमानः शिशुभिस्त्रिवहर्षप्रक- पत्किदलीदलस्थः ॥ ६ ॥ जनेन चित्रं दधताखिलेन निरीक्ष्यमाणो बहुदत्तदानः । मदेन जानस्तृणवजगत्स जगाम भूमी- शसभामभीतः ॥ ७ ॥ युग्मम् ॥ चकोरसारङ्गमयूरकीरमरालकाकोत्कृकवाकुयानान् । शिष्यांस्तदीयान् शतशो निरीक्ष्य 2- 4- लोकः परं विस्मयमाससाद ॥ ८॥ आशी पदं सादविवर्जिताय नृपाय दत्त्वोदितवाक्प्रपञ्चः । उपाविशत्तत्पुरतो वरेण्यां पश्यन् सभा भूपतिवृन्दहृद्याम् ॥ ९॥ अहंद्वचोधौतमनोमलोऽपि भूपः स भानूपलनिर्मलोऽपि । तामद्भुतां शक्तिम- वेक्ष्य तस्य किञ्चिच्चमत्काररसं प्रपेदे ॥ १० ॥ शमस्ति वोऽङ्गे विदधे किमर्थं निवेद्यतां स्वागमनप्रयासः । जोङ्कारपूर्व नृप- तिर्जगाद संन्यासिनं नीतिविदां स मुख्यः ॥ ११॥ त्यक्तक्रम जैनमतानुरक्तं श्रुत्वा भवन्तं भवसन्निदेशात् । पुनर्वयं स्थापयितुं स्वधर्मे समागताः स्मः स तमित्युवाच ॥ १२ ॥ विधाय तद्देशगतामितैना वात विनोदेन चिरं नरेशः।। व्ययाय दत्त्वा द्रविणं क्षणेन सम्मानपूर्व विससर्ज साधुम् ॥ १३ ॥ संवासितं जैनमतेन बाढमुपायसाध्यं नृपतिं विचि- न्त्य । विनेयवृन्देन युतः स योगी शिवालयेऽस्थात् स्थिरधीरबुद्धिः ॥ १४ ॥ तं मन्त्रतन्त्रप्रभृतिप्रयोगैरखण्डपाखण्डभरं सृजन्तम् । प्रशंसयामास जनो नवीनरुचिः सदा चारुविचारहीनः ॥ १५ ॥ भूपः स्वरूपं सकलं गुरुभ्यो न्यवेदयद्वि- स्मितमानसस्तत् । वार्तामनाख्याय सुहृज्जनाय स्वहृद्भतामेति सुखं न कश्चित् ॥ १६ ॥ स्वयोगशत्या गुरवो विहाय भुवोऽन्तरं हस्तमितं ततस्ते । व्योमस्थिताः श्रोतृसुधोपमेयां व्याख्यां वितेनुर्विहितोरुचित्राः॥ १७ ॥ युक्त्या प्रयुक्ता गुरु- भिः स्वशक्तिरपाकरोत्तां किल योगिमायाम् । प्रभेव भानो रजनी जिनेन्द्रपूजेव संसारतति क्षणेन ॥ १८ ॥ तावद्भवे- त्स्यन्दनिकात्र गुर्वी न सागरो पथमेति यावत् । ज्येष्ठो विचिन्त्यश्चटको हि तावत्समेति यावन्न च वैनतेयः ॥ १९ ॥ वृथा प्रपञ्चैकमयानि तावन्मतान्तराणि प्रभवन्ति लोके । मायातमोऽपोहदिनेशतुल्यो यावन्न सर्वज्ञमतावबोधः ॥ २० ॥ १ "प्रयोजयामास'इत्यपि ॥ २ कमप्युपायं हृदये विचिन्त्य नृपप्रबोधाय विधाय मायाम् । आकारयत्सोऽन्यदिने कुमारं शिवालये प्रेष्य निजं विनेयम् ॥ २१ ॥ श्रीमान् कुमारः स्वपरिच्छदेन युतो ययौ तत्र सचिन्तचित्तः । उपाविशद्योगिपुरः प्रमोदाकिमर्थमाकारयमि- त्युदित्वा ॥ २२ ॥ यन्मुक्तवांस्त्वं कुलधर्ममत्र ततोऽतिघोरे नरके नरेन्द्र !। त्वदीयमातापितरावगातां तत्राधुना स्तो बहु- दुःखदग्धौ ॥ २३ ॥ वृथा प्रपश्चेन कृतं कृतं ते तौ दर्शयाम्येष तथास्वरूपौ । जानाति सर्वं किल तन्मुखेन यथा भवा- नित्यवदत्स भूपम् ॥ २४ ॥ सकौतुकं पश्यति भूमिनाथे स्थितेषु मौनेन जनेषु तत्र । महेशपूजा विधिवद्विधाय दृढास- नस्थः स जजाप मन्त्रम् ॥ २५ ॥ आक्रन्दशब्देन समं सशोकं भूमितलान्निर्गतमुग्रगन्धम् । पुंसीस्वरूपं मिथुनं क्षणेन दयाकरं तत्र ददर्श भूपः ॥ २६ ॥ दुर्गन्धरुद्धाखिलदिग्विभागौ कुठेन नष्टावयवौ कृशागौ । भृशं श्रवत्पूतिभरावलिप्तौ विकीर्णकेशावृतदीनवनौ ॥ २७ ॥ नानाप्रहारवणजर्जराङ्गौ पृष्ठिप्रदेशे दृढबद्धहस्तौ । दीनं रटन्तौ च निरीक्ष्य तौ ते शोकं च कुत्सां च दधुनूपाद्याः ॥ २८ ॥ युग्मम् ॥ किमेतदेवं चकितः स यावन्निरीक्षते भूमिपतिः पुनस्तौ । तावच्छरी- रावयवादिचिहैरमन्यतासौ पितरौ स्वकीयौ ॥ २९ ॥ करोति चची हृदये स यावत्तावत्सदुःखाश्रुभरं विमुश्चन् । पश्यन् कुमारस्य मुहुर्मुखानं सगद्दं वाक्यमिदं पिताह ॥ ३० ॥ निःसंख्यसौख्यात्रिदिवात्स्वकीयं हित्वा कुलाचारभरं त्वया- वाम् । वत्साधुना तुच्छधियातिघोरे किं पातितौ रौरवरन्ध्रमध्ये ॥ ३१ ॥ धूर्तेन तेन वतिनास्यवश्यं वशीकृतः कार्म- णकर्मभिस्त्वम् । यतोऽनिशं तद्गतचित्तवृत्तिर्गुणागुणं वत्स ! न वेत्सि किञ्चित् ॥ ३२॥ न श्राद्धपिण्डादि ददासि यन्नो न तर्पणाद्यं वितनोपि यच्च । क्षुत्तृड्भराक्रान्ततनुस्ततोऽहं स्वर्गे प्रवेशं न लभे नरेश ! ॥ ३३ ॥ वत्सावतीर्णेन कले कुले - -- नस्त्वया त्रयं निर्गमितं प्रभूतम् । त्यक्तस्वधर्मेण कुधर्मभाजा स्वर्गः सुखं पूर्वजनाम चेति ॥ ३४ ॥ श्वभ्रे सहन्ते यद- पूर्वदुःखं पतौ सुराणां न विशन्ति यच्च । विनाश्नमं यद्विचरन्ति पूर्व भवत्प्रसादस्तदयं समग्रः ॥ ३५ ॥ असद्धचोभिन- रकेऽति घोरे पूर्वैः समं पातय मा स्वमाशु । लसत्प्रबोधं भज देवबोधं यदीहसे मुक्तिसुखं क्षणेन ॥ ३६॥ तत्पुत्र त्यक्त्वा जिनधर्मरागं स्वधर्ममशीकुरु मुक्तिदं द्राक् । अदभ्ररन्ध्राद्धनदुःखदग्धानस्मान् धराधीश! समुद्धराशु ॥ ३७॥ भृशं गललोचनवारिवारं निवारयन्ती वसनाञ्चलेन । मुहुर्विलापाकुलिताखिलाङ्गी दीनानना तं जननी जगाद ॥ ३८ ॥ मनोरथाः पुत्र ! पुरा कृता ये मयोदरस्थे त्वयि दीर्घबुद्ध्या । व्यर्था अभूवन् खलु साम्प्रतं ते भवत्कदाचारवशेन सर्वे ॥ ३९॥ कथं न बन्ध्या किमु निःसुताहं निन्दुर्न जज्ञे किमु भाग्यहीना । जातेन जाता भवता भवेऽस्मिन् यतोऽधमा- नामपि हास्यहेतुः॥ ४० ॥ किञ्चिद्धितं वाञ्छसि चेत्स्वपित्रोः संन्यासिन पुत्र ! तदाश्रयैनम् । यत्पादसेवांरचयन्ति देवाः कल्पद्रुवञ्चिन्तितदानदात्रीम् ॥ ४१ ॥ मासान्मया यन्नवमध्यमध्ये दधे भवान् वृद्धिमनायि कायः। तन्निष्क्रयार्थ मम मानयेदं वचः सदा मानद ! दम्भहीनम् ॥ ४२ ॥ इत्थं वदन्ती परिदेवनं सा चकार कारुण्यरसावतारम् । आकर्णयन्तो निखिलाः क्षणान्ते सभासदः साश्रुदृशो बभूवुः ॥ ४३ ॥ स्वस्वोचितं वञ्चितसर्वशत्रोस्तदेत्युदित्वा बहुधा नृपस्य । पश्यत्सु सर्वेषु जनेषु तत्र क्रमादगातां च यथागतं तौ ॥ ४४ ॥ सितोऽपि सिद्धान्तजलेन नित्यं सुबद्धमूलोऽपि फलप्रदोऽपि । तद्वाक्यवात्यानिहतः समन्तात्किञ्चिच्चकम्पे नृपबोधिवृक्षः ॥ ४५ ॥ यः कर्म यादृग् विदधाति जन्तु ते स तादृक् सद- सद्भवेऽस्मिन् । अर्हद्वचांसीति मया श्रुतानि किमुक्तमाभ्यां वत ! तद्विरुद्धम् ॥४६॥ उदेति भानुर्यदि पश्चिमायां जहाति मा 49 ---- वर 6-*-55443 सीमामपि सागरोऽत्र । चलत्यथो मेरुगिरिः कदाचिदहद्वचः स्यान्न तथाप्यसत्यं ॥ ४७ ॥ किमिन्द्रजालं किमु दृष्टिबन्धः स्वमोऽथवा किं किमु देवमाया । विदन्ति तत्त्वं गुरवोऽत्र सम्यग् हृदा निगद्येत्युदतिष्ठतासौ ॥ ४८ ॥ साक्षाच्छिवोऽयं हरिरेष साक्षादयं स्वयम्भूरथ देवसूरिः । तमस्तवीदित्यखिलोऽपि लोकः संन्यासिनं वीक्ष्य तदाद्भुतं तत् ॥ ४९ ॥ मत्वा कुमार हदि संशयानं तत्कल्पितं तस्य यतेविचिन्त्य । श्रीवाग्भटाख्यः सचिवस्तदैव न्यवेदयत्तत्सकलं गुरुभ्यः ॥ ५० ॥ किमिदमिति कदाचित्सत्यतामेति किश्चिद्वितथमथ समस्तं भुज्यते कृप्तकर्म । अथ महदिह चित्रं दर्शितं तेन मन्ये नृपतिरिति स चित्ते चिन्तयामास भूरि ॥५१॥ ॥ इति श्रीकुमारपालचरिते विवादसर्गे प्रथमो वर्गः ॥ ग्रंथाग्रं ८०॥ योगिनः कपटकोटिभिरुच्चैस्तापितोऽपि नृपतिः प्रकृति स्वाम् । नात्यजद्विशदहेमवदेष प्राप कान्तिमधिकां च विशे- पात् ॥१॥ वन्दितुं निजगुरु नरनाथः सोऽगमत्स्वपरिवारसनाथः । नो धिनोति महिरादिह कोऽपि चक्रवाकमपरास्पृहमन्यः ॥ २॥ कालभावसदृशैरभिनन्ध तं वचोभिरुचितैश्चिरकालम् । तस्य संशयनिराकरणार्थं ध्यानमेष विदधेऽथ मुनीशः॥३॥ देवदुन्दुभिनिनाद उदारोऽभूत्क्षणेन गगने सुखसारः । किं किमेतदिति सर्वजनौघा यं निशम्य ययुरुन्मुखतां ते ॥ ४ ॥ वासयन् दशदिशो निजगन्धैरन्धयन्मधुकरान्मकरन्दैः । सम्पपात गगनादतिहद्यः कल्पवृक्षकुसुमप्रकरोऽथ ॥ ५॥ इत्य- नेकविधमुद्धतमन्धोभोजनागमनसूचकमुच्चैः । वीक्ष्य चिह्नमनिमेषगासीत्तत्र चित्रलिखितेव सभा सा ॥६॥ किङ्किणीक्वण- ॐ गणानणुशोभं भानुमण्डलमिवोज्वलरोचिः । अम्बरादवतरत्सुरयानं ते क्षणेन ददृशुर्वरमेकम् ॥ ७॥ भानुमण्डलमिदं किमु नव्यं वासरे किमुदयो हिमरश्मेः । पिण्डितं किमु महोऽथ मणीनामित्यचिन्तयदवेक्ष्य जनस्तत् ॥ ८॥ तद्विहायसि विहाय विमानं मानवस्थितिमियाय तदैकः । नाकिनायकसमोऽसमरूपो निर्जरः सुरवृतः स्ववधूयुक् ॥ ९॥ किं स्मरः किमु हरिः किमु शकः किं विधुः किमु विरञ्चिरथासौ । दिप्तिलुप्ततरणिस्तरुणोऽत्र कोऽयमेति जनतेति जगाद ॥ १० ॥ विजितविधुरुचिभ्यां पार्श्वयोश्चामराभ्यामतिललिततनुभ्यां वीज्यमानं सुरीभ्याम् । शिरसि विधृतचचच्छत्रमालोक्य लोकाः किमिदमिति मुहूर्त तेऽभवन्मोहवन्तः ॥११॥ इति विततवितर्कव्याकुले सर्वलोके सति विगतनिमेपं तत्पथं वीक्ष- माणे । सपदि नृपसमीपं प्राप्य साई स्ववध्वा निजजपलयभाजं सोऽस्तवीत्सूरिराजम् ॥१२॥ भविककमलहेले! कृत्तकन्द- पैकेले दलितसकलमोह ! ध्वस्तपापपरोह! भवजलनिधिसेतो! मोक्षतत्त्वैकहेतो! जय जय गततन्द्रा त्वं सदा हेमचन्द्रः॥१३॥ यतिपतिमभिनम्याष्टाङ्गसंस्पृष्टभूमी तदनु मिथुनमेतत्सम्यगासांबभूवे । नरपतिरपि बाढं वीक्ष्य तौ देहिचिहैर्निजजनकज- नन्यौ तब मेने समेतौ ॥ १४ ॥ कुमरनृपतिरास्ते यावदालोकयंस्तं मुदितहृदयवृत्तिस्तावदालिजय बाढम् । अवददिति स देवो हर्षबाष्पाणि मुध्यन्नुचितवचनदक्षः स्नेहवलीद्धवृक्षः ॥ १५ ॥ अयि मम घनकालात्सङ्गमस्तेऽद्य जज्ञे दिनमिदमतिहृद्यं तेन मन्ये नरेश!। जिनमतरुचिरेवं यस्य पुत्रस्त्वमासीस्तदहमपि च जाने धन्यमात्मानमत्र ॥ १६ ॥ जिनवचनरतेन त्यक्तामिथ्यात्रतेन तनय ! नरकमध्यादुद्भुताः पूर्वजाः स्वे । दधिविधुशिवशुभं स्वं यशो देवशस्यं कुलमपि भवतेदं निर्ममे निर्मलं च ॥ १७ ॥ सुत ! तव दिवि कीर्ति किन्नरीगीतगीतां वयमपि हृतचित्ताः सर्वदाकर्णयामः । मुदितमनस एवं 45 देवपतौ रमन्ते तनयनिखलपूर्वे त्वत्कृताज्जैनधर्मात् ॥ १८ ॥ प्रणयरचितचादुर्वाढमालिङ्गय पूर्वमवददिति विनीता तं ततः स्वर्वधूः सा । तव विरचितपुण्यात्पुत्र! पुण्यान्नितान्तं त्रिभुवनजनमान्य विश्नुता चाहमासम्॥१९॥ कृतसुकृतततिं त्वां पुत्ररत्नं प्रसूयाहमजनि जननीषु प्राप्तपुण्यप्रका । अथ च तनय ! कुक्षिं स्वं हि जानामि धन्यां त्वमतिविदितवृत्तो यत्र पुत्रोऽवतीर्णः ॥ २० ॥ इति विविधमुदित्वा स्नेहसम्मानपूर्वं सुरतरुकुसुमानां वृष्टिमामुच्य मोदात् । तदनु निजविमानं तत्समारुह्य हृद्यं निजभुवनमगातां दम्पती तौ च सद्यः ॥२१॥ तदतिशयसमृद्धं वीक्ष्य वृत्तं क्षितीशश्चिरतरमवतस्थे विस्म- यस्मेरचक्षुः । किमिदमिति मुहूर्त चिन्तयन्मानसान्तः स्थिरतनुनयनोऽस्थात्सर्वलोकेन सार्द्धम् ॥ २२ ॥ निविडनरकदुः- खोत्पीडितौ प्रागपश्यं स्वरतिसुखनिमग्नौ मातृताताविदानीम् । इदमृतमुत तत्किं संशयश्चेति वाढं नृपतिमनसि दोलाके- लिलीलां वितेने ॥ २३ ॥ इह निजनिजशक्त्या दर्शितं चित्रहेतोवितथमखिलमेतद्भूप ! जानीहि विज्ञ ! । अवददिति मुनीशस्तेन राज्ञा स पृष्टो जिनगदितमृतेऽन्यन्मोक्षदं नास्ति तत्त्वम् ॥ २४ ॥ स्पृशति तरणिसाम्यं न ग्रहः कश्चिदत्र भजति न समतां वै कोऽपि सिंहेन दंष्ट्री । कृतकृतकविचाराण्यत्र मिथ्यामतानि न जिनसमयसाम्यं तद्वदासादयन्ति ॥ २५ ॥ कुमरनृपतिरित्थं शुद्धसिद्धान्तवाक्यैर्विधुतसकलशङ्कोऽगाद्गृह स्वं क्षणेन । विहृतसमदवादिव्यूहद्पविलेपं सुरव- रगुरुतुल्यं सुरिराजं स मेने ॥ २६ ॥ इति स मुदितं दृष्ट्वा सूरिं निरस्ततमोबज रविमिव मुदं प्रापुः कोका इवोत्तममानवाः। निजमदमरं मुक्त्वा घूका इवाशु कुवादिनोऽजनिपत चिरं मूका भास्वद्विभाभरभासुरम् ॥ २७ ॥ ॥ इति श्रीकुमारपालचरिते विवादसर्गे द्वितीयो वर्गः॥ उसG KES पर स्वमन्नतन्त्रप्रभृतिप्रयोगैरजय्यमानार्यवरं विभाव्य।तं तर्कवादेन विजेतुमेप इथेप योगी जितवादिवृन्दः ॥१॥ अखर्व- गर्वेण नकार पत्रावलम्बनं द्वारि नृपस्य गत्वा । स सन्निपातीव च म कामो विरुद्धवाक्यान्यवदहनि ॥२॥ बाहुं स्वमुत्क्षिप्य दृढं ब्रवीमिवदन्तु ते शक्तिरिहास्ति येपाम् । समस्तवादिगुदवानलाभे मयि स्थिते कोऽपि न वेत्ति किचित् ॥ ३ ॥ बृहस्पतिः किं कुरुतां पराको ब्रामापि जिलो भवति क्षणेन । मयि स्थिते वादिकरीन्द्रसिंहे नैवाक्षरं वेत्ति महेश्व- रोऽपि ॥ ४॥ पदतर्कदक्षः क्षितवादिपक्षः समरतविद्वजनचक्रमुख्यः । निर्झटिताशेपलसद्विपक्षो मत्तः परो नारित कृतो- रुकक्षः ॥ ५॥ रे रे मदं वादिगणा विहाय यूयं मदाज्ञां शिरसा वहध्वम् । नो चेन्मदादेशवशं विहाय महीतलं यात दिग- न्तमाशु ॥ ६ ॥ ये शासनीराकरमेरुरूपाः कलाकलापामरनारिकूपाः । ये वादविद्यानिपुणा नितान्तं तेषां शिरस्येप स. पदोऽस्ति दत्तः ॥ ७ ॥ इत्यादिपद्यानि मदोद्धताः स्वोत्कर्पपोपप्रकराणि तेषु । लिलेख पत्रेषु विशेषविज्ञो हल्लेखवानेष मनीपिमुख्यः ॥ ८॥ सर्वाणि तद्र्वभरेण साकं छित्वाशु पत्राणि पवित्रबुद्धिः । अलीलिखत्सूरिरिमानि तत्र हृद्यानि पद्यान्यनवद्यविद्यः ॥ ९॥ पट्चक्रागमतर्ककर्कशलसद्वादीन्द्रमुद्रागुमश्रेणीदाहदवानलः कलिमलध्वंसी सरन् ह्रीमति । वेदाभ्यासनिविष्टदुष्टमनसां पदकर्मणां मर्मणां कन्दोत्पाटनलम्पटः सितपटः श्रीहेमचन्द्रो गुरुः ॥ १० ॥ कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं काहति कः कण्ठीरवकण्ठकेसरसटां लातुं सुधीर्वाञ्छति। कः सन्नयति पन्नगेश्वरशिरोरलावतंसः श्रिये कः श्रीमजिनशासनस्य कुरुते वन्यस्य निन्दामिमाम् ॥ ११ ॥ भकश्चपेटा फणिनः प्रदातुमयं समेतोऽद्भुतसाह- सेन । साई मया यत्किल तर्कवादं त्वमीहरो ध्वस्तसमस्तवुद्धे ! ॥ १२ ॥ क्रीडन्तु तावद्धरिणा यथेष्टं यावत्समायाति 554 A THIS वने न सिंहः । पुष्णन्तु धिष्ण्यानि विभां च तावदुदेति यावन्नहि चण्डरश्मिः ॥ १३ ॥ निरस्तशङ्का विचरन्तु भेका यावत्कणी नो स्फुरति स्फटावान् । वदन्तु तावद्भुवि वादिनोऽन्ये समेमि यावकिल नाहमत्र ॥ १४ ॥ ततो विवाद विदधुर्महान्तं संन्यासिना तेन समं मुनीशाः । सकौतुकं पश्यति सभ्यलोके राज्ञः सभायां भयहीनचित्ताः ॥ १५ ॥ अजय्यमेनं परिभाव्य सूरिं चकार योगी कुटिलं स भूरि । दोपं हि दोपज्ञवरो नरोऽपि न पश्यति खार्थपरः कदाचित् ॥ १६ ॥ सपान् स दर्पप्रवरान्मुमोच योगी गुरुं हन्तुमनास्तदानीम् । तन्निग्रहार्थ निजमन्त्रशस्या गुरुर्विचक्रे नकुलान् क्षणेन ॥ १७ ॥ अलीन्विलोलानमुचत्स योगी सूरि निहन्तुं हतबुद्धिवृद्धिः । तन्नाशकर्तनसृजन्मुनीशो घोरान्मयूरानुरु- राववन्तः॥ १८ ॥ स मूपकान दूपकचक्रमुख्यो महाविपास्तीक्ष्णमुखानमुम्चत् । मार्जारजातं कृतशीघ्रपातं स तज्जयार्थं विदधे मुनीशः॥१९॥ ववर्षचामभृतोऽग्निजालं स प्राप्तकालोऽथ गुरूपरिष्टात् । अकालधाराधरधारयन्तं निन्ये शमं सूरि- वरः सुखेन ॥ २० ॥ स देववोधो मशकान् शितास्यान मुमोच भूयो गुरुनिग्रहार्थम् । विधाय धूमं सह तत्स्मयेन निरा- करोत्तान्तिततान यतीन्द्रः ॥ २१ ॥ क्षणेन खिन्नो भ्रमरान भ्रमान्धो नाशाय सूरेरमुचत्स चण्डः। उपायविद्धस्तिमदौघ- वृष्टिं तस्योपरिष्टादतनोन्मुनीशः ॥ २२ ॥ तद्गन्धलोभेन तमेव सर्वे तेऽवेष्टयन्नाशु विलोकिताशम् । विधौ विरुद्ध सति जायतेऽत्र स्वमेव शस्त्रं निजघातहेतुः ॥ २३ ॥ शिलीमुखैस्तीक्ष्णमुखैरसंख्यैः शिलीमुखाभैः स कदीमानः। भूतात- वत्स्वं वपुरात्तकम्पोऽधुनादृशं भृङ्गनिवारणार्थम् ॥ २४ ॥ नृपाङ्गणे भृङ्गविदार्यमाणः स देववोधो नटवन्ननः । प्रदत्त- तालं समकालमेवाहसन् जनास्तं निखिला लिथाङ्गम् ॥ २५ ।। इत्यादि यद्यद्विदधे स योगी जयाय सूरेः कुटिलं स्वiii SA परभ 456 k R-56 शक्त्या । अजाकृपाणीविधिना स लेभे तेनैव घातं हतधीस्तदानीम् ॥ २६ ॥ तयोर्विवादो निजपक्षरक्षाकृतोऽकृतान्तो- द्यतचेतसोः सः। विपक्षपक्षक्षितितीक्ष्णबुद्ध्योः पण्मासमासीदिति दत्तचित्तः ॥ २७ ॥ सम्प्रेरितः सभ्यजनैनरेशोऽन्यदा प्रणम्येति जगाद सूरीन् । सीदन्ति कार्याण्यखिलानि तस्माद्विसृज्यतामेष विभो ! विवादः ॥ २८ ॥ अस्त्वेवमेवं निगद- न्मुनीशः संन्यासिनं प्राह महास्वरूपः । आद्यं बचो यस्य भवेदसत्यं तस्याजयः स्यादहनीह योगिन् ॥ २९ ॥ यदचो भवति सत्यमिदानीमाद्यमद्य विजयः खलु तस्य । किं वृथा प्रलपितेन घनेन निर्णयस्त्वरितमेव विधेयः ॥ ३० ॥ परा-g जयो यस्य भवेत्स नूनं निर्वास्यते गूर्जरदेशमध्यात् । विडम्बनां भूरितरां विधाय सभ्याः पणं तत्र वितेनुरेवम् ॥ ३१ ॥ स्थिरं समीरं चपलं च मेरुं शीतं हुताशं शशिनं तथोष्णम् । दिनं च रात्रिं रजनी च घस्रं विपर्ययेणेह वदामि सर्वम् ॥ ३२ ॥ तस्थुः प्रतिज्ञामिति ते विहाय सभासमक्षं वतिनामधीशाः । स्वमानसान्तः स विमृश्य किञ्चिद्योगी जजल्पेति तदा विहस्य ॥ ३३ ॥ कुहूदिनं सर्वसमक्षमद्य निवेदयन् जैनयतेऽहमस्मि । कुर्वन्यथा ते यदि शक्तिरस्ति हित्वाभिमानं बजे वा विदेशम् ॥ ३४ ॥ चिन्ताकुले च सकले सति सभ्यलोके ही किं भविष्यति कथं विजयश्च सूरेः । एवं विचिन्त- यति भूमिपतौ यतीशी जेतुं विवादमिदमाह मदेन तन ॥ ३५ ॥ रे रे कथं वदसि भूमिपतेः सभायां राकादिने कुहुदिनं गतसर्वबुद्धे ! । रोगाभिभूत इव भूतशतात्तवद्वारे त्वं वदन वद कथं न विलजसे धिक् ॥ ३६ ॥ अवददिति स योगी कालभोगीव दुष्टो भवति यदि कुहुर्नो छिद्यते तर्हि जिह्वा । वितथमवितथं वा ज्ञास्यते सर्वमेतत् निशि शशिरहितायां वा युतायां नितान्तम् ॥ ३७॥ सभ्याः प्रापुः निजनिजगृहं मानयित्वा वचस्तत् प्रान्तं वादं स्वगुरुविजयं चिन्तयन्तो (ECREC नयन्तः। सबैलोकैविदितवचनौ वादिनौ सादहीनौ स्व स्व स्थान निजजनयुतौ तावगातां क्षणेन ॥३८॥ कृष्ण पक्षे शशधर- धरा किं भवेत्पूर्णमानामावास्येयं ब्रजति विलयं किं कदाचिद्विचन्द्रा । एपाश्चर्य जनयतितरां चिन्त्यमानापि वार्ता चिन्तामित्थं मनसि विदधे तत्र सर्वोऽपि लोकः ॥ ३९ ॥ चिन्तापूर्णे सति समजने तज्जयार्थं यतीशो देवीं पझां भुवन- जननीमस्मरत्स्मेरचित्तः। आगत्याख्यत्सपदि विपदम्भोधियानाऽहियाना सादेशं मे वितर सुतरां मुञ्च चिन्तामिमां च ॥ ४० ॥ उद्यत्पूर्णमृगाङ्कमण्डलनिभं सा कुण्डलं स्वं गुरोरादेशेन मुमोच शोचिरुचिरं सायं नभोमण्डले । यदृष्ट्वा जिन- धर्मिणो मुदमगुर्गाडं चकोरा इव मिथ्याहजनतापतापमसतीव ध्वस्तसाता सती ॥४१॥ कैलाशाचलवन्नगाः सुरसरि- द्वनिम्नगा रेजिरे काका हंसवदाबभुः शुशुभिरे स्वर्दन्तिवद्दन्तिनः । सर्वे वारिधयोऽभवन् भुवि पयोऽकूपारपूरोज्ज्वला गुञ्जामौक्तिकसंनिभा विधुविभाभारैर्बभूवुस्तदा ॥ ४२ ॥ चञ्चच्चन्द्रमरीचिभिर्धवलिते लोके प्रणष्टं समं श्यामे संतमसं निलीय वदने संन्यासिनोऽस्थादिव । मन्येऽमानिव मानसे शुभदृशां हर्षप्रकर्षस्तदा विश्वेऽस्मिन् प्रससार चन्द्रकिरणव्या- जान्नितान्तोज्वलः ॥ ४३ ॥ ननु तिमिरभराव्या वर्ततेऽमावसीयं तदयमुदय आसीच्छीतरश्मेः किमेपः। भ्रममिममथ कश्चिचक्षुषोरेष दत्ते मम किमु मनसेदं चिन्तयामास भूपः ॥ ४४ ॥ चतुरतरचरौघान स्वांश्चतुर्दिक्षु दक्षो नृपतिरमित- वेगाद्वीक्षितुं प्राहिणोत्तत् । ब्यधिकदशमितं तं योजनानां प्रदेशं सपदि विपदपेतास्ते समीयुः समीक्ष्य ॥ ४५ ॥ राज- द्राजकलाकलापकलितां राकां वराकस्तदा दृष्ट्वा नष्टमतिः प्रणश्य स ययौ योगी विदेश रयात् । तत्कर्णाभरणं तमःप्रह- रणं प्रातः सुरी वं ललावादित्येन समं समापदुदयं सूरिविजित्य द्विषः ॥ ४६ ॥ तन्वन्नीरजराजिबोधमसकृदोषोत्करं - m संहरन्नाशोलासमलं दिशत् सुमनसा व्यूह जयन् लीलया। स्वाचारं रचयंश्चिरं गुरुकविज्ञानन्दवृन्दं दधत् शश्वद्विश्व- जनप्रकाशमसृजत्सूरिः स सूर्यप्रभः ॥४७॥ श्रीरलसिंहगुरुपादसरोरुहालिश्चारित्रसुन्दरगणियदिदं वितेने । श्रीमत्कुमारच- रितेऽत्र विवादसंज्ञः सर्गः समाप्तिमगमत्किल पञ्चमोऽयं ॥ ४८ ॥ इति भट्टारकीरतसिंहसूरिशिष्योपाध्यायश्रीचारित्रसुन्दरगणिविरचिते श्रीकुमारपालचरिते महाकाव्ये जयाले विवादनामा पञ्चमः सर्गः॥ ग्रन्थानं १९३ ॥ ॥ अथ पष्ठः सर्गः॥ अथो स देशेष्वखिलेषु हिंसां निवारयामास गुरूपदेशात् । सामर्थ्यसार्थे सति विश्वसारे पापं न को वारयति प्रवीणः ॥ १॥ कण्टेश्वरी नाम सुरी चकारित गोत्रेश्वरी तस्य जगसमस्या । समीहते सा नवरात्रमध्ये चौलुक्यवंशीयनरेशपू- जाम् ॥ २॥ शतं स्तभानां महिपस्तथैको निहन्यते पूर्वदिने पुरोऽस्याः । द्वितीयघने द्विगुणं तदेव क्रमानवेन्नन्दगुणं नवम्याम् ॥ ३ ॥ सगागतेऽस्मिन् समये नरेशस्तदुष्करं कार्यमतीव मत्वा । श्रीसूरये दूरितजीवहिंसो न्यवेदयलब्धजग- प्रशंसः ॥ ४ ॥ हिंसोपदिष्टापि ददाति रन्धं विझो न तद्विहिता तनोति । हित्वा दयां कामगवीनिभां कः करोति हिंसां सुखमाप्नुकामः ॥ ५॥ वाक्येन मातुः कृकवाकमेकं हत्वा पुरा पिष्टमयं नवम्याम् । यशोधरो दुःखभरं यमाप- जिनो विजानाति स एव वा तम् ॥ ६ ॥ स्वमन्त्रशक्त्या प्रकटां विधाय कण्टेश्वरी सूरिवरास्ततस्ते । हिंसानिवाराय दया- 45 प्रधानः सम्प्रार्थयंस्तां मधुरैर्वचोभिः ॥ ७॥ उक्तापि बाद गुरुभिर्ने देवी तुतोष सन्तोपविवर्जिता सा । हितोपदेशोऽपि विषायते वै दुष्टे जने दुग्धमिव द्विजिह्वे ॥ ८ ॥ देवीगृहान्तमहिषाम्मदाढ्या न मोचयंस्तेम च रोषपूर्णा । शतानि नन्दप्र- मितान्यजानां संस्थाप्य तस्या भुवनोपदेशे ॥ ९॥ कदर्थिता मूत्रमलश्रवैस्तैस्तस्या रजन्यां प्रतिमा लुलायैः । अभज्यताल निहता शिरोभिरितस्ततः सा रभसा भ्रमद्भिः ॥ १०॥ मूर्तेनिजाया महिषैः कृतां तामाशातनां गोत्रसुरी निरीक्ष्य । मदेन विश्वं तृणवद्विदन्ती चुकोप भूपाय गरिष्ठमाया ॥ ११ ॥ जिनानामन्तरमन्तरारिहरं नमस्कारजपं विधाय । स धौतवस्त्राङ्कितपूतदेहः सुष्वाप सौधेऽथ कुमारपालः ॥ १२ ॥ चक्र गदा शक्तिमथ त्रिशूलं भुजैश्चतुर्भिर्दधतीद्धरूपा । रक्ताक्षयाना रुधिरं पिबन्ती मुखेन वहिबजमुद्वमन्ती ॥१३॥ वेतालमालाकुलिता कराला ज्वालासमानोज्ज्वलदेहदीप्तिः। धोरेण हुङ्काररवेण कम्पं वितन्वती भूपगृहं जगाम ॥ १४ ॥ युग्मम् ॥ रे रे दुराचार ! विचारहीन ! किं भैरवीं वेत्ति न तुच्छबुद्धे ।। यन्मामविज्ञाय निरस्तशङ्कः सुखेन निद्रां कुरुपे त्वमित्थम् ॥ १५ ॥ एवं वदन्ती च भयं दिशन्ती सा यामिकानां यमतुल्यरूपा । तदा मदान्दोलितसर्वदेहा समीपमाप क्षितिनाथकस्य ॥ १६ ॥ तद्भर्जितं स्फूर्तियुतं नितान्तं श्रुत्वा नरेन्द्रोऽत्यजदाशु निद्राम् । उपद्रवं कर्तुमथागतां तां विवेद काली कलिकालरूपाम् ॥ १७ ॥ उनान्तचित्तोऽगु- तजातशः किमेतदेव विमृशन् शनैः सः । विनौघसङ्घातकरं हृदन्तः सस्मार सारं परमेष्ठिमन्त्रम् ॥ १८ ॥ मन्त्रप्रभावा- दशकन्न दातुं राज्ञः प्रहारं कुलदेवता सा । मुखेन दुर्वाक्यभरं किरन्ती कुष्ठीभवैवं प्रशशाप भूपम् ॥ १९ ॥ ततः श्रव- त्पूतिभरावलिप्तं कुठेन भूमीशशरीरमासीत् । भवन्ति वाचो वितथाः सुराणां लोके कदाचिद्यतिशापवन्नो ॥ २० ॥ तद्वे- रे ल- व्ये- दनाविहलसर्वदेहस्तदा नृपः स्थातुमलं न सोऽभूत् । अर्हदचोवासितसप्तधातुर्दथ्यौ मनस्येवमसेवितान्यः ॥ २१॥ सर्वे ऽपि मां कुष्ठविनष्टदेहं बहिर्मुखाः प्रातरवेक्ष्य लोकाः । दास्यन्ति दोपं जिनशासनस्य मालिन्यमुच्चै वि भावितेन ॥२२॥ यावन्न जानाति जनः स्वरूपमिदं हि तावन्निजदेहमेतत् । भस्मीकरोमीति विमृश्य सूरीनाकारयत्प्रेष्य स धीसखं स्वम् ॥२३॥ आगत्य वृत्तं तदवेत्य सम्यक् तस्माद्विधेस्तं नितरां निवार्य । आचार्यवर्या अभिमन्य मन्त्रैर्ददुर्जलं ते गदशान्ति- हेतु ॥ २४ ॥ अमृतममृतकल्पं तत्कुमारः पपौ द्रागजनि विगतरोगं तच्छरीरं च तेन । निजगुरुगुरुशक्तिं तामचिन्त्यां विलोक्याकलयदतुलचित्रं मानसेऽसौ स्मराभः ॥ २५ ॥ हुतहरिहरिरोचिः कामरुक् कृप्तशान्ति वपुरुपचितमासीद्यत्प्र- सादादसादम् । उपसि जिननमस्यामाशु कृत्वोत्कचित्तः क्षितिपततिवृतोऽगाद्वन्दितुं तं गुरुं सः ॥ २६ ॥ नरपतिरथ पश्चाद्वद्धहस्तां विहस्तामतिरुचिरशरीरामाश्रमद्वारि रम्याम् । अविरलकलकान्ति दीननादं नदन्ती युवतिमवनिदक्षो- ऽपश्यदेकां दयावान् ॥ २७ ॥ यतिवसतिपुरस्तादुःखिनी तां निरीक्ष्योत्कृतकरुणविलापां वाष्पसंसिक्तभूमिम् । किमिद- मिति विमृश्याश्वासनापूर्वमेवमवददवनिनाथोऽगण्यपुण्यैः सनाथः ॥ २८ ॥ विरम विरम वाले ! कामकुम्भीन्द्रशाले ! जहि जहि निजदुःखं भीरु ! धीरा भव त्वम् । अयि मयि सति भूपे पुण्यपानीयकूपे सति सति ! वद वाक्यं बाधते त्वां क एवम् ॥ २९ ॥ जय जय नरनाथेत्याशिषं सा ददाना युवतिरवददुच्चस्त्वद्गुरुर्बाधते माम् । अनृतमिति समस्तं चिन्त- यंस्तन्नरेशः स पुनरनुनयार्थ सस्मितं तां जगाद ॥ ३० ॥ अहह महदनयं वक्तुमेतन्न युक्तं कथमतिचतुरा तत्कल्पितं जल्प- सि त्वम् । किमसमशमदक्षा ज्ञातसिद्धान्तशिक्षा वद विदितविचारे ! साधवो नन्ति जन्तून् ॥ ३१ ॥ नृप ! तव कुल- A देवी दानवी वीतशङ्का निशि लसदपराधं ते तदाकार्पमेपा। तदिह मुनिवरेणानेन बद्धा स्वमन्त्रैर्नृपतिमुकुट ! मुक्तास्मीति सोचे पुनस्तम्॥३२॥ कृतकृतिजनहर्षी वीक्ष्य शक्ति महर्षेः क्षितिपतिरतिशक्तिं विस्मयं प्राप भूरि । सुविनयमयमात्तप्राणि- रक्षावतां तां सुदृढनियमनाच्चामोचयद्रोचमानः ॥ ३३ ॥ आनन्दोदकपूर्णचक्षुरवदद्देवी दयायाः फलं श्रुत्वा सूरिमुखेन मोक्षसुखदं संप्राप्तवोधा सती । संसारावटकोटरेऽतिविकटे मुग्धा पतन्ती धृता येनाहं त्रिजगद्गुरो ! जय जय श्रीहेमच- न्द्रानिशम् ॥ ३४ ॥ जय जय जय भद्रं तेऽस्तु भूपालचन्द्र ! त्रिभुवनजनरक्षाकारिणे वारितारे ! । अपि च जनपदान्त- मारिदुर्भिक्षमुख्यास्त्वयि विदधति राज्यं विप्लवा मा भवन्तु ॥३५॥ नत्वा सूरिवरस्य पादयुगलं दत्त्वाशिर्ष भूभुजे कृत्वा- तुच्छमहोत्सवं जिनमतं तत्वा महीमण्डले । अङ्गीकृत्य दयाधिकारकरणे साऽऽरक्षकत्वं तदा कृत्याकृत्यविचारिणी दिवि ययावन्तर्हितं देवता ॥ ३६ ॥ प्राप्योपप्लवमुक्तिमुज्ज्वलतरं कुर्वन् दिशां मण्डलं सद्वृत्तः स्वकलाबजेन कुमुदं बाढं विकाश नयन् । जीवानन्दपरो महाव्रतिपरो ध्वरतान्यतेजोभरो राजा राजसमश्चकार नितरां विश्वावनं पावनम् ॥ ३७॥ ॥ इति श्रीकुमारपालचरित महाकाव्ये पष्ठसर्गे प्रथमो वर्गः॥ प्रीत्या क्वचित् क्वापि स दोवलेन भत्त्या क्वचित् क्वापि नयेन दक्षः । महीतलेऽस्मिन्निखिले कुमारः प्रावर्त्तयजीवदयां दयावान् ॥ १॥ आनीय जालान्यखिलानि भस्मीचके पुरेऽस्योपवने नरेशः । स धीवराद्यान्निजदेशमध्यान्निर्वासयामास विनाशकर्तन् ॥ २॥ सर्वेषु देशेष्वपि बम्भ्रमीति तस्योत्तमं पञ्चकुलं सदैव । निवारयजीववधं धरायां संस्थापयज्जैनमतं समन्तात् ॥ ३॥ यो नाममात्रामपि जीवहिंसां करोत्यलं तेन निगृह्यते सः । यो हन्ति जन्तून सकलं गृहीत्वा निर्वा- AI १ स्यतेऽसौ द्रविणं स्वदेशात् ॥ ४॥ अथान्यदा श्रीजयचन्द्रराज्ञे विज्ञाय विज्ञातसमस्ततत्त्वः । स्वधीसखान् प्रेषितवान् सह हिंसानिवाराय स काशिदेशे ॥ ५॥ आस्थानसंस्थस्य नृपस्य दत्त्वा ते प्राभृतं लेखमदुः सुदक्षाः । विशेषविज्ञः स्वयमेष हर्षादवाचयत्काशिपतिहीत्वा ॥ ६ ॥ स्वस्ति शङ्करपुरे जयचन्द्रं भूपमिन्द्रसदृशं प्रणिपत्य । पत्तनात्कुमरपाल- नरेशः सादरं सविनयं वदतीति ॥ ७ ॥ क्षेममाकलय देव! सदाऽस्मास्वार्यवर्य समवेहि च कार्यम् । वर्जनीयमखिले निज- देशे प्राणिहिंसनमहो ! भवतीति ॥ ८ ॥ तदर्थमत्यर्थविचारदक्षो मुख्यः स राज्ञां बुबुधे सुधाभम् । काशीपतिस्तद्विनयेन तुष्टो न्यवारयज्जीववधं स्वदेशे ॥ ९ ॥ अमात्यवान् बहुमानपूर्वममानयत्तानसमानबुद्धिः । चतुर्दशक्रोशशतप्रमाणे प्राव- तयजीवदयां स्वदेशे ॥ १० ॥ जालानि लक्षप्रमितानि राज्ञे स प्राहिणोद्भरिधनेन सार्द्धम् । श्रीपत्तनोद्यानवने कुमारी भस्माकरोत्तानि सहाहसा सः॥११॥ सपादलक्षे विषये विदक्षः स्वजायया मस्तकतोपनीय । समपितां पाणितलेऽथ यूकाममारयत्कोऽपि वणिग्मदेन ॥१२॥ धृत्वा दृढं पायकुलेन राज्ञः समर्पितोऽसावपराधकारी। द्विलक्षसंख्येन धनेन तस्य यूकाविहारं समकारयत्सः ॥ १३ ॥ वित्ते हृते तेन पुराप मृत्युं यो मूपको मोहविमूढबुद्धिः । तदीयनाम्ना विदितं विहा- रमचीकरच्छ्रीकुमरः कृतज्ञः ॥ १४ ॥ आस्वाद्य मांसोपममन्यदा स्वस्वादेन भूपो घृतपूरपूरम् । किं युज्यते भोज्यमिदं नृपाणामतुच्छधीः सूरिमपृच्छदेवम् ॥ १५ ॥ तच्चित्तभावं प्रभवो विदित्वा वदन्निदं युज्यत एव भोज्यम् । राजन् ! वणिगब्राह्मणयोः सदापि न भुक्तमांसस्य च राजसूनोः ॥ १६ ॥ तच्छुद्धिहेतोधुतपापबुद्धिात्रिंशती चारुरुचीन विहा- रान् । अचीकरत सूरिगिरा नरेशः श्रीपत्तने सत्तमचक्रमुख्यः ॥ १७ ॥ वर्षात्रतौ जन्तुविराधनोत्थं दोपं महान्तं गम-! - नाद्विभाव्य । यास्यामि नो पत्तनतः परत्रेत्यभिग्रहं भूपतिराददे सः ॥ १८ ॥ सर्वत्र वार्ता प्रससार सारं कील् समं स्फूर्तिमती नृपस्य । वृत्तं सतां सूर्यमहः सुगन्धस्त्रयं स्वयं विस्तरमेतदेति ॥ १९ ॥ अभिग्रहं विग्रहबद्धबुद्धिर्निशम्य तं म्लेच्छपति छलेन । तं जेतुमागादथ गर्जिनेशो भयं जनानां जनयनितान्तम् ॥ २० ॥ स कम्पयन् सर्वदिशो वलौघैर- वाप सीमां कुमरस्य वेगात् । समीपमायातमवेत्य तं द्राक् सर्वो जनः क्षोभमवाप कामम् ॥ २१ ॥ श्रीम्लेच्छराजागमनं विदैन्यमुपर्युपर्येत्य चरास्तदानीम् । न्यवेदयन् भूपतयेऽथ सोऽभूचिन्ताकुलस्तच्छ्रवणेन शीघ्रम् ॥ २२ ॥ मामन्यथादुर्ज- यमेष मत्वाधुना छलं प्राप्य समाजगाम । स्युः शाकिनीव्यन्तरवैरिभूता नित्यं छलान्वेपणबद्धचित्ताः ॥ २३ ॥ उत्कटं स्वकटकं यदि बया यामि सम्मुखमहं यवनस्य । भजमेप लभते नियमस्तदन्यथा च विषयः सह कीा ॥ २४ ॥ इतो वन्दीकृत्वा ब्रजति जनतामेष यवन इतो भङ्गः स्यान्मे गमनविरते दुःखजनकः । इतो घोरो व्याघ्रः स्फुटमित इयं पर्व- ततटी बभूवैष न्यायस्तदिह किमु कुर्वेऽहमधुना ॥ २५॥ इति विविधविकल्पान कल्पयन्मानसान्तः स्तिमितमतिरगाच्छ्री- सूरिराजं प्रणन्तुम् । उभयमभयचित्तस्तद्विरुद्ध मिथोऽसावकथयदथ तस्मै मेरचक्षुर्नरेशः ॥ २६ ॥ चिन्तामेतां जहि नर- पते ! ते शुभं भावि सर्व नाशं यास्यत्यसुखमचिराच्छीजिनेशप्रसादात् । इत्युक्त्वा ते नृपहितकृते मन्त्रशत्त्या मुनीशा बद्धा निन्युर्यवनपमपाकर्तुमतिजनानाम् ॥ २७ ॥ लब्ध्वा छलं यः समियाय विगाजेतुं भवन्तं रिपुराजिकेतुम् । सोऽयं तुरुष्काधिपतिर्नरेशाशंसन्मुनीशो मुदितः स एवम् ॥ २८ ॥ कर्त्तः किं विदधे त्वयेति निगदन् दन्तैनिजोष्ठं दशन् पश्यन् सूरिमुखं स खण्डितसुखः प्रोचे तुरुष्काधिपः । मङ्गु र्नमिदं विहाय नृपते ! मां मोचयातः परं नान्यायं तक मण्डले ते खलु पुनर्जीवन करिष्याम्यहम् ॥ २९ ॥ क्षितिपततिषु मन्ये धन्यमेकं भवन्तं निजनियमममुञ्चद्यो न जातेऽपि कष्टे । विदधति धुतविघ्ना यस्य सान्निध्यमेते विततसुकृतकृत्यं कुर्वतः सूरयस्ते ॥ ३० ॥ कौन्तेयोऽत्यजदेकवारमतुलं सत्यव्रतं स्वं पुरा द्यूते हारितभूरभून्नलनृपः पुण्यैकनिष्ठोऽपि च । नात्याक्षीविपदर्णवेऽपि पतितो यः स्वं व्रतं साम्प्रतं नियाज सुकृतोद्यतस्त्वमिव नो जज्ञे परः पार्थिवः ॥३१॥ इति नुतिपरमेनं मेनकानाथतुल्योऽनयदनयविहीनो मन्दिरं स्वं कुमारः । तदनु सरसभोज्यभॊजयामास भक्त्या क्वचिदुचितविचारे नैव मुह्यन्ति सन्तः ॥ ३२ ॥ कुमरनृपतिरासामास एतः स तेन स्वसदसि दशदिग्भूपालसम्पूरितायाम्।सति सकलजनौघे विस्मिते विस्मयन्तौ निजसमयसमुत्थां चक्रतुः किंवदन्तीम् ॥ ३३ ॥ अपूर्ववस्तूनि ददौ कुमारस्तस्मै तदानन्दितचित्तवृत्तिः । पण्मासमेषोऽपि नरेशवाक्यादङ्गीचकाराझिदयां स्व- देशे ॥ ३४ ॥ सायं मायाविहीनः पुनरपि पृतनां प्रापितः सूरिवयैस्तन्त्रज्ञो मन्त्रशक्त्या पतिविरहमहादुःखदग्धां विदग्धैः । प्रोद्यद्वादित्रवृन्दोत्थितरवनिवहापूरिताशासमूहं चक्रे वक्रेतराशः समजनि जनितानन्दमुच्चैर्महं सः ॥ ३५ ॥ प्रेष्योपायन- मेष लेखसहित हल्लेखवान् भूभुजे म्लेच्छेशः स्वपुरं परारिमथनः प्रापत्ससैन्यो रयात् । सर्वस्मिन्निजमण्डले विहितवाना- खण्डलाभः श्रिया राजाऽतुच्छमहोत्सवं प्रमुदिते तस्मिन् गते वैरिणि ॥ ३६॥ कति कुमरनरेशं सुरिराजं च केचित्कति पुण्यमन्येऽप्यशंसन् । अजनिषत जनानामेकधर्मेऽपि चित्रं प्रमुदपरवशानां तत्र वाचो विचित्राः ॥ ३७॥ शान्ते तस्मिन् यवनजनितातङ्कपके विशङ्कमासीच्छक्यं सकलजनतामानसं तत्क्षणेन । मोदन्ते स्माखिलसुमनसो भूरभूद्रा- जमाना हर्षोत्कर्ष विशदमभवद्राजहंसः सपक्षः ॥ ३८ ॥ ॥ इति श्रीकुमारपालचरिते षष्ठसर्गे द्वितीयो वर्गः ॥२॥ गुरुगुरुशक्तिं रा-५२.

CHS गथो फुगारस किलारित शस्ताशया स्वसा देवलदेविनानी। अगण्यलालण्यगुणानुनके या रूपकान्या विदशेशका- न्ताय ॥ १॥ तामूलवान् प्रौदपराक्रमाक्ष्यः शाफम्गरीशोऽसगरूपरम्याम् । पिनो सतोरेव सतीवरेण्या पुरा सुतारामिन वानरेन्द्रः ॥२॥ पतिव्रता तस्स गृहे वसन्ती श्रिया इसन्ती भिगमन्वई सा । गिते सारन्ती निजमेव धन्याऽनैषीनं कालमलं सुखेन ॥ ३ ॥ निफीड निर्जीडतया तयारं सार्क स शाकम्भरिभूमिपालः । स्वकर्गसत्कार्मणयोगतः सा पति वितेने स्वपशं विदग्धा ॥ ४ ॥ परस्परं तौ कुरुतो नितान्त. रसाभिरागां गुरुगारफेलिम् । क्षणे क्षणे लब्धजयाजयौ धाक् हर्ष विपादं भजतश्च किश्चित् ॥ ५॥ जानोनृपः सोऽश हसनवादीन्मदेन साई प्रियया तयेति । पश्य प्रयाती तव सारि- मेतां रे ! मारयित्वैप निवर्तयामि ॥ ६॥ अत्युत्कदं वास्यमिदं निपीय तर्नु धुनाना तमुवान सापि । किं वारितां मारि- मिमां करोषि मत्सोदरेणादरतो नरेश ! ॥ ७ ॥ कृतातिवाक्येन ददाति रन्धमुग्रगेपा सलु जीवहिंसा । न्यवारयत्तां राकलागिलायामितो हितः श्रीकुमरो गरेशः ॥ ८॥ क्रीबारसेनापि न वाव्यमित्थं नाथ ! लया तथ्यविदा कदापि । कृतं हसेनापि कुकर्मजन्तु पो च दुःख बहुधा व्यनक्ति ॥ ९॥ पतिं निवाति विचारविज्ञा तेने पुनस्तेन समं खकेलिम् पलीत्यवशां रचयन् स तस्या भूयस्तथा जल्पितवानकल्पः ॥१०॥ विभषि पापागदि नो नरेश ! प्रदत्ततापाशितरां परत्र। स्फुरत्मतापात्सुगृहीतवापाटि शङ्करो नोऽन कुमारपालात् ॥ ११॥ सर्वामिरक्षा रणयचयं मे भाताप पर्जीवपितेति नाम । यो जीवहिंसां पचसापि कुर्यात्तविग्रह शीघ्रमसौ करोति ॥ १२ ॥ आनोनुगः खिश्चमनास्तदानी कोष वाक्या- नि निपीय तस्याः । परप्रशंसामसहिष्णुरुषैरताडयत्तां स्वपदेन दर्णात् ॥ १३ ॥ शिष्टाय दुष्टो विरताय कामी निरार्गतो ॥ سری toot जागरकाय चौरः। धार्थिने कुप्यति पापवृत्तिः शूराय भीरुः कवये कविश्च ॥ १४ ॥ आनन्दयन्तं सुजनं त्रिलोकी गुणैः खलः कुप्यति वीक्ष्य नूनम् । किं भूषयन्तं किरणैनितान्तमालोक्य चन्द्रं ग्रसते न राहुः ॥ १५ ॥ विचारयन्ती मन- सीति तज्ज्ञा निवारयन्ती श्रवदश्रुवारम् । सा मानिनी मानवनाथमेनं समन्युरुच्चै रुदती वदान्या ॥ १६ ॥ रे रे पामर ! मा मदान्निजपदा किं ताडयस्युच्चकैः श्रीमच्छ्रीकुमरे सुरेश्वरसमे सद्वान्धवे जीवति । नादोत्रासितकुञ्जरव्यतिकरे कण्ठी- रवे भैरवे सिंही कोऽत्र दुनोति निन्दितमना लोके वनं शासति ॥ १७ ॥ त्वचेष्टितं वेत्स्यति दुष्टबुद्धे ! मद्वान्धवस्तन्न भविष्यसि त्वम् । अज्ञातवृत्ता विचरन्ति चौरा ज्ञाता नृपैर्यान्ति यमालयं हि ॥ १८॥ याहि त्वं च निवेदय द्रुतमिदं वृत्तं च वृत्रद्विषा तुल्यस्याखिलमेव मे त्वदुदितै रण्डे ! प्रचण्डैरलम् । रे रे कः कुमरोऽमरोऽपि समरे स्थातुं न मेऽलंभवे- झूमीशः खररोपदूषितमनाः स प्रोचिवान् तामिति ॥ १९ ॥ तेनापमानेन कृतेन पत्योच्चैर्वायुनेवाप लतेव कम्पम् । निवारयन्ती श्रवदश्रुवारं सस्मार सारं च पितुर्गृहस्य ॥ २० ॥ सारं समादाय निजं रयेण सा बन्धुरं वान्धवगेहमागात् । धवे विरुद्ध सति सद्वधूनां पितुहं स्याच्छरणं हि शश्वत् ॥ २१॥ श्रीमान कुमारोऽपि ननाम कामं भक्त्या स्वसारं स्वयमागतां ताम् । विनानकं चागमनस्य हेतुमेतामपृच्छद्विपरिच्छदः सन् ॥ २२ ॥ सा स्वःश्रवन्तीसदृशी दृशाश्रुपूरं श्रवन्ती सुदती रुरोद । दीनानना तत्सकलं नृपाय निवार्यमाणाय शशंस वृत्तम् ॥ २३ ॥ तं तं तेन कृतं कृतान्तसदृशे- नागश्च यं शृण्वतो रोषेणारुणदारुणाक्षियुगलस्योोत्थरोमावलेः । शत्रूणामनिशं विनाशपिशुनः केतुस्ततानास्पदं तस्या- से भ्रकुटिच्छलेन विपुले व्योम्नीव भूमीपतेः ॥ २४ ॥ निवार्य चैतामुचितैर्वचोभिदीनं वदन्तीं तरसा स्वसारम् । दिदेश देशादेशगासारा हा सजलगतुरागस्थापलबन्द्रगिलम् । निफरपदान्टीगिसरक्षण ताधितागिरागरलो लोकगित MERO देशाधिपतीनशेषान स्वसैन्यसाजीकरणाय राजा ॥ २५ ॥ अथ जनपदरशाहेतये मन्नपूर्ण मतिततिसहित वं गमिण तत्र मुक्त्या । नृपतिशतसमेतः सैन्यमादाय सर्वगसलदारुवित्तसं विजेतुं स पात् ॥ २५ ॥ शेषो भुशशिरोगरः राम- भयझाराचकम्मे न भूः सैन्योलूतरजोभयानिहितमानिन्द्रो टगी निजम्। रस्ता दिकरिणो रजोगिरगितो व्यास नागो- मण्डलं तस्त्थं पलता बलेन निदो मैलोनगगगाकुलम् ॥ २७ ॥ निजविषयातील प्राण तापपदं तबारकगपाटिता रिदेश कगेण । गगिगुरागण गानी तसा शाकम्भरीशः प्रालालगुतो झागागली गालिराजी ॥ २८ ॥ अपनपतिनि. जनानाम् ॥ २९ ॥ अराक्षागालोक्य बलं नगला गरेरजग्गं परिगाग पौनम् । दानादिना मेदविदानभूगो रागी परामाणि- तवासुपौषम् ॥ २०॥ प्रातः सगादाग रागगरीन्गगनन्गशौगों निजगाहनोकम् । तपरिणं जेलुगनाः गुगार: संगाग- भूमि सहसा जगाम ॥ ३१ ॥ तत्राययौ सोऽपि रणोरकगितः शाकम्भरीशः पालेन शाकम् । सैन्याय गुन्द्रनिगातुति तीक्ष्य चुक्षोभ जगत्समरतम् ॥ ३२ ॥ पाभिर्नरगाजिनां प फरिणां राहंहितः रोहितः नीतकाररश निर्मिगतरण गियो- वादिननादै शम् । पत्तीनां चहुलैरकोगरतरः फोगालैशापि तप्रैलोक्य गिरीपकार राफलं सैन्यानगं तत्क्षणात ॥ २३ ॥ नृत्योधकवन्धरजगसुधं गुहं तदाशीतगोगायवीरनिनादवादितल राहणाणा क्षणम् । गस्थिर निस्गित- गागरा इव चरस्कूटाग्रदम्भात्तदा भुन्गन स्पानि शिरांसि गर्नतनया राम्रोयगाणा इन ॥ ३४ ॥ विकटफटकगुने सोर- पक्षुः कुगारो विघटितमश हीनो राजतं स्वं ददर्श । जहा किगिदगासीलिंक भने चिन्तगा ना गवति न खलु मिथ्या कर्ग- १-* RAKS . रेखेति दध्यौ ॥ ३५ ॥ ध्यायन्नेवं नृपतिरवदत्सादितं सादहीनो जेतुं शत्रु स्वयमिति पुरः सिन्धुरं प्रेरयेति । स्वाम्या- देशे सपदि विहिते तेन शाकम्भरीशं भूपः प्रापन्निजभुजवलैरिवार निहत्य ॥ ३६॥ तत्रासौ निजघान शत्रुनिचयं प्राणा- पहैः पत्रिभिः सूर्यैः स्वैः किरणोत्करैरिव तमोत्रात शितैस्तत्क्षणात्। तस्यैकस्य पुरोन तेऽलमभवत् स्थातुं समस्ता द्विषो वेगो- त्पाटितकुञ्जरस्य समरे वायोस्तृणौघा यथा ॥ ३७॥ यममिव तमुदीक्ष्येालवः क्षोणिपाला हरिमिव च शृगाला नाल- मासन्नियोद्धम् । सुभटमुकुटरत्नं छाहडस्तस्य मन्त्री ध्वनितसकलदिकं सिंहनादं मुमो च ॥३८॥ तस्मिन् श्रोत्रपथं गते हत- धियः सर्वेऽपि नेशुर्गजा यावत्तावदुपायविन्निजगजं कर्तुं स्थिरं श्रीनृपः। चिक्षेप श्रवसोरसौ निजपटी द्राक् पादयित्वा स्फुटं बाणौघेन च तं जघान सहसा सार्द्ध रिपोः स्वं मुदा ॥ ३९ ॥ दृष्ट्वा स्वं सचिवं हतं हतमतिः शाकम्भरीशो भृशं क्रोधान्धः स्वयमागमन्नरवरं हन्तुं हुताशप्रभः । शस्त्राशस्त्रि तयोर्वभूव सुचिरं युद्धं समृद्धं तदा मापत्योरजनिष्ट येन रजनीतुल्यं दिनं सर्वतः ॥ ४० ॥ श्रीमान् श्रीकुमरः स्वरोपनिकरासारेण सम्पुरयन् सर्वाशारिपुसिन्धुरं निहतवान् को- धोडुरो बन्धुरम् । मङ्गु च्छिन्नपलाशिवत् क्षितितले शाकम्भरीशोऽपतन्नेशुस्तत्पृतनाचराश्च निहतं मत्वा निजं स्वामि- नम् ॥ ४१ ॥ जितजितमिति बाढं सैनिकाः संवदन्तो नृपमथ परिवर्धिष्ण्यजाता इवेन्दुम् । युगपदजनि सैन्ये तत्र चै- कत्र राजा जयवति हतशेषेऽमावशी चापरस्मिन् ॥ ४२ ॥ एतस्मिन् समये कुमारनृपतिर्दत्त्वाशु जम्पां रिपुं जग्राहोग्ररु- पेत्युवाच चतुरः केशेषु चाक्रम्य तम् । रे रे किं विदधेऽपराधनिकर जामेर्ममारं भवान् मारिं किं च निवारितां वदसि रे त्वं नित्यदर्पातुरः ॥ ४३ ॥ आक्रान्तः कुमरेण रेणुसदृशं कृत्वा मुखं निःसखः सोऽस्थाद्दुःस्थमना निरस्तनिजदोर्दप १ सर R- ड प्रकर्षस्तदा । कान्तः केशरिणा करीव सकलं पश्यन् दिशां मण्डलं ताक्ष्येणेव भुजङ्गमः सममुचत् स्वाशां नरेशोऽखि- लाम् ॥ ४४ ॥ तावत्तन पवित्रशीलकलिता चित्रं सृजन्ती परं त्रस्तैणीनयना ययौ नययुता सा तस्य जाया रयात् । भ्रातर्देहि सदेहितप्रद ! परां मे भर्तृभिक्षामिमां धृत्वाऽग्रेऽचलमित्ययाचत सती तं रोचमाना हिया ॥४५॥ तमथ मथित- मानं जामिवाक्येन तेनामुचदुचितवचोज्ञोऽङ्गीकृताझं कुमारः । विदधति न महान्तः प्रार्थनाभङ्गमङ्गीकृतमपि विकृति नो याति तेषां कदाचित् ॥ ४६ ॥ रतानां निकरं चकार रजसा जित्वारियादोव्रजं स्वीचक्रे विजयश्रियं निजभुजैर्निर्म- थ्य युद्धार्णवम् । एक हारि विपं ददौ स रिपवे संहारिणे केवलं श्रीकान्तः पुरुषोत्तमो वनरुचिर्जिष्णुर्वभौ विष्णुवत् ॥४७॥ सैन्यस्थानमुपेयिवानथ नृपः संशोध्य युद्धाङ्गणं प्रारब्धोत्सवसुन्दरं निजचमूमादाय हर्षान्विताम् । पत्नी प्रेमवचोभिराद- रतया तां स प्रसाद्यागमभूमीपालनिदेशतो निजपुरी शाकम्भरीशः पुनः॥४८॥ कुर्वन्नुव/वलयमखिलं जैनधर्मानुरक्तं त्यक्ताकृत्यो निजभुजवलैभञ्जयन वैरिवर्गम् । स्वाज्ञां मान्यां नृपतिनिवहैः स्थापयन्पापहीनस्तेने मेनापतिमतिरसौ दिग्- जयं निर्विलम्बम् ॥४९॥ केचिद्वाजिचयं परे करिभरं केचिद्धिरण्योत्करं केचिद्रलपरम्परां कति स्थान केचिच शस्त्र- व्रजम् । तस्मै दिग्जयकारिणे नृपतयोऽदुः प्राभृते भक्तितस्तेभ्यो मानममानमेष च कृती तनिष्क्रये दत्तवान् ॥ ५० ॥ करिनिकरमिभारिर्भानुमानन्धकारं जयति समिरभारो यावता वा तृणौघम् । सकलरिपुसमूह तावतैवैष जित्वा निजपु- रममरर्द्धिस्पर्धिचागात्क्रमेण ॥ ५१ ॥ विशति नभसि यद्वच्चन्द्रमा धिष्ण्यपकौ हरिरमरपुरी वा शङ्करः शैलराजम् । स्वपु- रमपरिभूतो वैरिभिभूरिशोभमविशदतिमहेनासौ तथा मेदिनीशः ॥ ५२ ॥ आज्ञावर्तिषु मण्डलेषु विपुलेष्वष्टादशस्वाद- 56R96 रादब्दान्येव चतुर्दशप्रसमरां मार निवायाँजसा । कीर्तिस्तम्भनिभाँश्चतुर्दशशतीसंख्याविहारांस्तथा तृप्ता निर्मितवान् कुमारनृपतिजैनो निजैनोव्ययम् ॥ ५३ ॥ ॥ इति श्रीकुमारपालचरिते महाकाव्ये षष्ठसर्गे तृतीयो वर्गः॥३॥ 75- तस्मिन् सहस्रार्जुनवद्वलेन जितार्जुने शासति राज्ञि भूमीम् । चके न कश्चिन्त्रसजीवहिंसां स्फुरत्मतापानृपतेर्भयेन ॥१॥ अत्रान्तरे सुंसरनामधेयः सौराष्ट्रदेशाधिपतिस्तरस्वी । दुष्टः सुगुप्तं सुरपत्तनेशो जघान जिह्वावशगोऽजमेकम् ॥२॥ एनः कृतं छन्नमपि स्फुटं स्थान ज्ञातवानित्यतिमोहितः सः। विधौ विरुद्धे सति वानराणांशुद्धापि बुद्धिः खलु याति नाशम् ॥३॥ विज्ञातवास्तत्र शिरोवतंसस्तच्चेष्टितं श्रीकुमरः समग्रम् । हालाहलं पीतमिहातिगुप्तं चिह्नः स्वयं स्यात्प्रकटं क्षणेन ॥४॥ तन्निग्रहार्थं गुरुविग्रहेण प्रैपीस राजोदयनं ससैन्यम् । गच्छन्नदीपूर इवैष वेगात्क्रमाविषन्मण्डलमाससाद ॥ ५॥ अत्युद्धरे युद्धभरे भटानां नूनं भवेजीवितसंशयोऽत्र । वाञ्छन्ति यत्ते मरणं जयं वा स्वस्यारिसार्थान्न कदापि भङ्गम ॥ ६ ॥ तस्मादिहामुत्र च सौख्यहेतुं विधाय यात्रां विमलाचले द्राक् । सभाममुग्रं रिपुणा विधाये तत्रेति मन्त्री मनसा निदध्यौ ॥ ॥ सुधीरधीवीरपुरे विमुच्य निजां चमू वीरशताभिरामाम् । स्वयं ययावल्पपरिच्छदेन नरर्षभः श्रीऋषभ प्रणन्तुम् ॥ ८॥ सिद्धाचलं प्राप्य विशुद्धचित्तो भक्त्यानमत् स प्रथमं जिनेशम् । ददौ च हर्षाश्रुततिच्छलेन जलाञ्जलिं भूरिभवभ्रमाय ॥९॥ वासांसि वेगात्परिधाय मन्त्री धौतानि पूतानि धुतान्यचित्तः। रोमाञ्चितोऽर्चामृपभस्य हर्षादष्टप्रकारी m 56 रचयाञ्चकार ॥ १० ॥ कृत्वा कृतार्थ जिनपूजनेन जन्म स्वकीयं सुकृतैकचित्तः । निर्वातदेशस्थितदीपवत्स समाधिना निश्चलतामवाप ॥ ११ ॥ आगत्य गत्या द्रुतयाखुरेक इतस्ततस्तत्र चलन् जवेन । नक्षत्रमालास्थितदीपवर्तिमपाहरत्तस्कर- वत्तदानीम् ॥ १२ ॥ तद्वीक्ष्य खिन्नः स्वसमाधिभात्तां त्याजयामास स मूपकास्यात् । सुदर्शनो निश्चलदर्शनेन चित्तेन दध्याविति दीर्घदर्शी ॥ १३ ॥ अहो ज्वलन्ती यदि याति वर्तिरूई हृता मूपकसञ्चयेन । तदह्यते काष्ठमयं रयेण चिर- न्तनं चैत्यमिदं मुधैव ॥ १४ ॥ तद्राजकार्य हि विधाय कार्य चैत्यं मया शैलमयं रयेण । अभिग्रहानुग्रतरांस्तदर्थे जग्राह शीलप्रमुखान् वहून् सः ॥ १५ ॥ नुत्वा जिनेन्द्र सुनिरस्ततन्द्रः कृत्वोन्नतिं तत्र च शासनस्य । निजं समागाच्छिबिरं वरेण्यः स्मरन् स चैत्योद्धरणं मनोऽन्तः ॥ १६ ॥ वलेन साकं सकलेन कालविचक्षणस्तत्क्षणमेव सोऽगात् । हन्तुं द्विपं तं विषये तदीयेऽमेयप्रतापः सचिवाधिराजः ॥ १७ ॥ श्येनं समभ्येति च मर्तुकामो यथा वराकञ्चटकः प्रकोपात् । समा- गमन्मर्तुमनास्तथायं स्वयं वणिग् योद्धुमहो ! मयात्र ॥ १८ ॥ कुर्वन्नवज्ञामिति तस्य गाढं स्पर्धापरः सैन्यसमूहयुक्तः । श्रीसुंसरो मत्सरवान् स्वद्गादहिः सरङ्गात्स समाजगाम ॥ १९ ॥ चम्वोस्तयोर्युद्धमभूतपूर्वमभून्मिथो रोपभृतोरतीव । कृपाणसङ्क्रान्ततनुच्छलेन यद्वीक्षितुं कि रविराजगाम ॥२०॥ परस्परं सङ्गरमङ्गिभङ्गं तौ चक्रतुर्भूपतिमन्त्रिमुख्यौ । तूणी- रवत्प्राणहरैश्च वाणैः सम्पूरयामासतुराशु देहौ ॥ २१ ॥ भिन्नो वाणगणेन भूपतिरथो तत्याज जीवं रणे मन्त्री तस्य चकतै कतरिशितैः शस्त्रैः शिरस्तत्क्षणात् । लात्वा तेन समं जयं निजमयं वेगाद्विशोध्याहवं सैन्यस्थानमवाप तापरहितो भिन्नाखिलाङ्गः शरैः ॥ २२ ॥ शतं समा मे समभूत्किलायुर्विद्युल्लतालोलमपि प्रभूतम् । शिष्टानि कृत्यानि कृतानि तानि S श्रीजैनधर्मे गदितानि यानि ॥ २३ ॥ न मे विषादो निजनाथकार्ये प्राणैर्गतैरस्ति मनाग्मनोऽन्तः । गुरून्विना यन्मरणं रणेऽत्र तच्चित्रमेतन्नितरां दुनोति ॥२४॥ विचिन्तयन्मन्त्रिवरस्तदैव मूर्छामतुच्छामगमत्क्षणेन । पृष्टः प्रधानैर्निजदुःखहेतु- माचष्ट हृष्टः स पटिष्ठनादम् ॥ २५ ॥ वण्ठं तदा कारितसाधुवेषमानिन्यिरे तेऽन्यमनाप्य साधुम् । आनन्दितः साधुधिया ववन्दे सोऽदाच्च धर्माशिषमाशु तस्मै ॥ २६ ॥ आराधनादि निधनोत्तमकृत्यमेष तत्साक्षिकं सचिवराट् स्वयमेव चके सस्मार भूरिभववासहरं जिनानां मन्त्रं दुरन्तदुरितच्छिदुरं हृदन्तः ॥ २७॥ मन्त्रिन्नर्तिकरं परं मनसि ते किं वर्त्तते शल्य- वत् पृष्टस्तेन मुनीश्वरेण सचिवः प्रोचे स मन्दस्वरम् । जातं सर्वमपीप्सितं यतिपते ! निस्सङ्ग ! त्वत्सङ्गमाञ्चैत्योद्धारमनो- रथो मम परं पूर्णो न शीर्णायुपः ॥ २८ ॥ चिन्तामेतांजहि स हि सुतो वाग्भटोऽत्युटस्ते चैत्योद्धारं मम वचनतः कार- विष्यत्यवश्यम् । ते ते तावत्सचिव! नियमा मां भजन्तु त्वदीयारत्वं धर्मादीन भज च विसृजान्यत्तमोहेतु कृत्यम् ॥ २९ ॥ तच्छ्रुत्वा श्रमणोदितं श्रवणयोरानन्दसन्दोहदं तां चिन्तां धुतवान् समाधिविधिना धूताघसद्दो द्रुतम् । ध्यायन्पञ्चनम- स्कृतिं निजकृतं गर्हन् समं दुष्कृतं मन्त्रीशः स्वरियाय शर्मनिचयं कायं विहायाचिरात् ॥ ३० ॥ संस्कारं सारकाष्ठेरुद- यनवपुषो युक्तितोऽन्ये विधाय भूपाः प्रापू रयेण स्वनगरमखिलं तत्समादाय सैन्यम् । ज्ञात्वा वृत्तं कुमारो मृतमिति सचिवं शोचयन श्यामवनः प्रोत्फुल्लास्यो जयेनाजयदसिततमामष्टमी रात्रिमेवम् ॥ ३१॥ कुमरनृपतिरुच्चैः पत्तने वैरि- शीर्ष श्वपचकरगतं सोऽदर्शयत्तजनानाम् । सकलजनसमक्ष जीवरक्षानिमित्तमिति पटुपटहेनाघोषयचत्र रोषात् ॥ ३२ ॥ एवं जीवानलमिह मया पाल्यमानानिलायां दुष्टः स्पष्टं विगतकरुणो यो हनिष्यत्यशेषान् । पूर्व पीडां रिपुयमसमेन 왜 प्रदत्ता मया स भुक्त्वा भोक्ष्यत्यसुखमखिलं रौरवेऽतीवघोरे ॥ ३३ ॥ एवं सज्जयवाहिनीकृतसुखः स्फूर्जतप्रतापास्पदं श्रीमद्देवसमूहसेवितपदो रम्भाभिरामश्चिरम् । कामं नन्दनतत्परो वरतरं भुञ्जन् सुखं कामजं राज्यंप्राज्यमसौ चकार नृप- तिन्यायेन नाकीशवत् ॥ ३४ ॥ श्रीरतसिंहगुरुपादसरोरुहालिश्चारित्रसुन्दरकविर्यदिदं वितेने । तस्मिन् कुमारचरिते गुरु- मारिवारी सर्गः समाप्तिमगमत्किल पठसंख्यः ॥ ३५ ॥ ॥ इति भट्टारकीरतसिंहसूरिशिष्योपाध्यायनीचारित्रसुन्दरगणिविरचिते श्रीकुमारपाल- चरिते महाकाव्ये पष्ठः सर्गः समाप्तः॥६॥ ग्रन्था २६७ ॥ ॥ अथ सप्तमः सर्गः ॥ श्रीमान् कुमारोऽमलमानसाय श्रीवाग्भटायोटविक्रमाय । ददावुदारोत्सवपूर्वमुचिरो वरं मन्त्रिपदं प्रमोदात् ॥१॥ प्रचण्डचण्डांशुसमप्रतापं श्रीआम्बर्ड दण्डपतिं वितेने । विसादमासाद्य नृपप्रसादं तौ पुष्पदन्ताविव रेजतुः श्राक् ॥२॥ डिण्डीरपिण्डप्रतिमैर्गुणैः स्वैरेतावजेष्टां जनकस्य कीर्तिम् । दानादिना तौ जगतीं च पूर्णा द्रागाकृपातां सुकृतव्रजेन ॥ ३॥ तावन्धिनेयाविव दिव्यदीप्ती परस्परं प्रीतियुतौ कुमारौ । महीमहेन्द्रं स्वकलाबजेनारं रजयाञ्चक्रतुरुत्तमेन ॥ ४ ॥ मृतेऽप्यमात्ये नृप ! संयम नो तत्याज वण्ठोऽशठमानसः सः । प्राप्त प्रयासेन चिनापि चिन्तारलं त्यजेत्कः किल काम- दायि ॥ ५॥ तद्वासनावासितचित्तवृत्तिर्मुग्धोऽपि शुद्धं व्रतमावभार । चङ्गात्कथं चन्दनवृक्षसझान्न चन्दनाः स्युस्तरवः Pr رحمن ॐ५-62-664-65. परेऽपि ॥ ६॥ अभिग्रहैस्तैगर्लपिताझ्यष्टिर्मुमुक्षुवेषं स वहन्नशेषम् । अगादगारं सचिवस्य तस्य शस्याशयो वण्ठमुनिःक्रमेण ॥७॥ तौ मन्त्रिणौ पितृसमाधिहेतुं तं वन्दयामासतुरादरेण । विद्वान्न कस्तं मनुते मनुष्यममानयद्यं जनकः स्वकीयः ॥८॥ बभूव वण्ठोऽपि स भूपपूज्य इहास्ति यत्संयमसंगमेन । विद्धं न किं सिद्धरसेन ताममियत्ति सद्यस्तपनीयभावम् ॥ ९॥ तच्चैत्यकृत्यादिसमस्तवृत्तं न्यवेदयद्वाग्भटमन्त्रिणे सः। अलात्सलील दलितान्यचिन्तः स तांस्तदर्थे नियमान्म- नीषी ॥ १०॥ तदैव चैत्योद्धरणाय मन्त्री सोऽप्रेषयत्सूत्रभृतां शतानि । विनश्वरेऽस्मिन् जगति प्रमादं कुर्वन्ति तज्ज्ञा नहि पुण्यकृत्ये ॥ ११ ॥ कुर्वाणास्ते चैत्यकाण्यजन शिल्पिवातानश्रमं किञ्चिदापुः। तेभ्योऽमेयं स्वापतेयं स यच्छन् लेभे संख्यां स्थूललक्षो न मन्त्री ॥ १२ ॥ प्रासादोऽभूधर्मयुग्मेन पूर्णस्तस्मिन् शैले मन्त्रिहर्षेण साकम् । शश्वत्पुण्योपार्जनासक्त- चित्तैः प्रारब्धं किं नोत्तमैर्याति सिद्धिम् ॥ १३ ॥ प्रासादः समभून्मनोहरतरस्ते सिद्धशैलेऽखिलो दिष्ट्या दृष्टमनोभिरेत्य तदिहास्माभिर्द्धत वय॑से । एवं गेहसमाजभाजमतुलव्यापारिमालावृतं चत्वारश्चतुरास्तदा वरनरा मन्त्रीश्वरं प्रोचिरे ॥१४॥ तेभ्योऽदाद्वेमजिह्वाः स सचिवतिलकः पञ्च पञ्च प्रमोदादोमायेनाञ्चिताशः सदसि विरचयन् विस्मितं मानपूर्वम् । यच्छन् पर्यन्यवद्यः सति निजसमये नो विधत्ते हि संख्या विष्वक् सम्पूरिताशं तमिह सुमनसो दानशौण्डं वदन्ति ॥१५॥ प्रवर्त- माने सचिवस्य गेहे महोत्सवे स्फारवरे तदानीम् । दूतः समागत्य परोऽतिमन्दं प्राहेति चैत्यं निपपात वातात् ॥ १६ ॥ अकालविद्युत्पतनोपमेयं श्रुत्वा न चुक्षोभ वचस्तदा सः । कल्पान्तवातैरपि किं सुराद्रिडं कदाचिलभते प्रकम्पम् ॥ १७ ॥ दूताय पूर्वद्विगुणां सुवर्णजिहामदात्तीक्ष्णमतिः स मन्त्री । दुःखे सुखे वाप्यमलस्वरूपां त्यजन्ति न स्वां प्रकृति 567 तु महान्तः ॥ १८ ॥ ये धर्मधामात्र विलोकयन्ति स्वकारितं तानृषु वेद्मि धन्यान् । येषां तु तत्तिष्ठति दीर्घकालं ते वन्द- नीया जगतोऽपि मन्ये ॥ १९ ॥ पपात चैत्यं मयि विद्यमाने सत्सर्वशक्तौ तदभूद्वरेण्यम् । मृतेऽपतिष्यद्यदि कस्तदानी- मकारयिष्यत्क्षितिमण्डलेऽस्मिन् ॥ २० ॥ तत्तत्र गत्वा महतोद्यमेनाहं कारयिष्ये पुनरेव चैत्यम् । त्यजन्ति ये विघ्नहता निजानि कृत्यानि हीनाः खलु कीर्तितास्ते ॥ २१ ॥ आरभ्यते न खलु विघ्नभयेन नीचैरारभ्य विघ्ननिहता विरमन्ति मध्याः। विनैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजना न परित्यजन्ति ॥ २२॥ एवं विचार्य सचिवः सुचिरं मनोन्तरापृच्छय भूपमचलत्स्ववलेन साकम् । शत्रुञ्जयं कतिपयैरयमाप्य घनैरस्थापयन्निजपुरं तदुपत्यकायाम् ॥ २३ ॥ आकार्य सर्वानथ शिल्पिमुख्यान पप्रच्छ तचैत्यनिपातहेतुम् । अदोऽवदंरते भ्रमतीमुखेन वायुः प्रविष्टोऽन वहिर्न याति ॥ २४ ॥ श्रीपुण्डरीकाचलमौलिकल्पं पतत्यदश्चैत्यमितः क्षणेन । हीने भ्रमत्या विहिते विहारे निःसूनुता कारयितुः कृतं स्यात् ॥ २५ ॥ वचांसि तेषां सचिवो निपीय विचारयामास हृदा तदेति । अहो ! महीयो द्वयमेतदन मिथो विरुद्धं किमु तत्करोमि ॥ २६ ॥ कालेन वंशः कियतापि नाशं स्वयं समासादयतीह विश्वे । अहो ! इहामुत्र च सातहेतोने शाश्वतः कोऽप्यपरोऽस्ति धर्मात् ॥ २७ ॥ तद्वंशचिन्तामखिलां विहाय करोमि तीर्थ निरुपद्रवं द्राक् । नामास्तु श्रीभरतादि पसौ सनातनः स्तान्मम धर्मवंशः ॥ २८ ॥ ध्यात्वेति सोऽपूरयदन्तरालं भीतेर्धमत्याश्च शिलासमूहैः । यथा यशोभिर्भुवनं समस्तं चात्मानमत्युज्वलपुण्यपूरैः ॥ २९ ॥ बभूव वर्षत्रितयेन कुम्भावधीद्धरूपं जिनमन्दिरं तत् । विधी- यमानं खलु सत्त्ववृद्धैर्न याति सिद्धिं किमु कार्यमन्त्र ॥ ३० ॥ चतुर्विधं समथो हताघमजूवत्पतनतः स मन्त्री । श्रीम- 56-56 का स ॥ ब कुमारं गुरुणा च साकमाकारयद्दारितपापपतम् ॥ ३१॥ आगत्य त्वरितं कुमारनृपतिः श्रीवाग्भटाख्ये पुरे तस्थौ सुस्थ- मना बभूव नितरां तद्वीक्ष्य चैत्यं महत्। तत्रैक कलधौतकुम्भकलितं पुण्याय पित्रोः परं चैत्यं कारितवान्निवारिततमोभारं धरित्रीपतिः ॥ ३२ ॥ भूमीशः समहोत्सवं जिनगृहे तस्मिन्नमेयं प्रभं बामेयं समतिष्ठपच्छुभदिने सद्विष्टपश्रीपदम् । सन्तोऽन्यार्थपरायणा अपि भृशं स्वार्थ सदा कुर्वते तीर्थं प्राप्य परं करोति न कृती को वा कृतार्थ धनम् ॥ ३३ ॥ प्रासादे शरदिन्दुसुन्दरतरे तस्मिन्नवीने नवामादीशप्रतिमामनन्तमतिमान् संस्थापयन्मन्त्रिराट् । मम्माणीयखनीभवं परि- करं कर्पूरपूरोज्वलं दधे तत्र नवं यशश्चयमिव स्वं पिण्डतां सङ्गतम् ॥ ३४ ॥ वर्षे रुद्रार्कसंख्यैः स्वजनकवचसा विक्रमा- कत्प्रियातर्यातैनाः सिद्धशैले जिनपतिभुवनं वाग्भटः प्रोद्धार । कोटीस्तिस्रो विविच्याव्ययपदरसिकस्तत्र लक्षत्रयोनाः स्वर्णस्योपार्जयत्सोऽचलममलमलं धीसखः सिद्धिसौख्यम् ॥ ३५ ॥ जन्मव्याधिजरादिनीरनिभृते संसारनीराकरे सिद्धा- दिर्वरयानपात्रवदनात्सन्तारयन्नाश्रितान् । कूपस्तम्भनिभं बभौ जिनगृहं तस्मिन् स्थितं निश्चलं नेतुं तत्र शिवं बभार वृषभो निर्यामकत्वं कृती ॥ ३६ ॥मन्त्रीशः शरदिन्दुदीधितिनिभं चैत्योपरिष्टाद् ध्वजं स प्रादान्मुदितो विधाय विधिना पूर्व प्रतिष्ठामहम् । तस्मिन्नार्थललाटपट्टलिखितां दैवी लिपि निष्फलां चके दानगुणेन मानववरो दारिद्यमुद्राभिदा ॥ ३७॥ निखिलजनपदेभ्योऽभ्यागतैनाकितुल्यैर्विमलगिरिरजैषीत्स्वर्गिशैलं जनौधैः । सचिवपतिरपारं तत्र सारं स यच्छन् स्फुटमभिमतदातुन कल्पवृक्षान् जिगाय ॥ ३८ ॥ कणजितकलकण्ठ्यः कम्बुकण्ठ्यो नितान्तं गतिविजितमराल्यो व्यालपन्मङ्गलानि । अविरलकलशोभं नृत्यमातेनुरुच्चैरतिसुरवरवध्वो चारवध्वः सुबद्धम् ॥ ३९ ॥ कर्पूरागुरुमिश्रितः Rs कति जना हुन्नन्दनैश्चन्दनगन्धान्धीकृतपट्पदैर्जिनपति पुष्पैः परेऽपूजयन् । नैवेद्यैहृदयङ्गमैरगमयन्नाशं निजाहः परेऽगृह्णन् जन्मफलं फलैः कलतरैरन्ये पुरो ढोकितैः ॥ ४० ॥ राजा रैवतकाचलं निजवलं लात्वा ययौ मन्त्रिणा सार्द्ध नेमिजिनं विनन्तुमितरत्कृत्यं विधायाखिलम् । मार्ग दुर्गममेप वीक्ष्य तरसा पद्यां सुखारोहणां तत्रावन्धयदुच्चकैः परकृते कुर्वन्ति किं नोत्तमाः ॥४१॥ मत्वा सत्वरगत्वरं क्षितितले वित्तं समस्तं कृती सिद्धाद्रावतनोद्व्यये सचिवराडू धन्यः स एको ध्रुवम् । यद्वा यद्विषये भवन्ति भुवनस्यानन्ददायीन्यहो ! कृत्यानि स्तुतिभाजनं स कुमरः मापालचूडामणिः ॥ ४२ ॥ एवं वदन्तो मुदिताशयास्ते नत्वा जिनेशं जनतासमूहाः।जनुः कृतार्थं खलु मन्यमाना निजं निजं धाम ययुः प्रमोदात् ॥४३॥ ॥ इति श्रीकुमारपालचरिते सप्तमसमें प्रथमो वर्गः ।। Me श्रीरैवताद्रौ कुमरो विधाय यात्रामथो पत्तनमाजगाम । कुर्वत्सु कार्य किल सत्तमेषु स्पृहासमानो हि भवेद्विलम्बः॥१॥ अथाम्बडो वाग्भटकारितं तं शत्रुञ्जयोद्धारमवेक्ष्य दक्षः । उद्धर्तुकामः शकुनीविहारं ययौ पुरं श्रीभृगुकच्छसंज्ञम् ॥ २॥ किलास्य मातुर्वचनं न कालावहोर्विसस्सार बुधोत्तमस्य । अङ्गीकृतां विश्वजनाय वृष्टिं विस्मारयेत् िजलदश्चिरेण ॥३॥ शुभे मुहूर्ते सचिवः स गर्त्तमखानयत्पादकृते गरिष्ठम् । विलम्ब्यमानं खलु पुण्यकार्य न याति सिद्धिं घनविघ्नरुद्धम् ॥४॥ अपूरयन्मत्सरतो रजन्यां तत्सैन्धवा नाम सुरीषु रौद्रा । किमेतदेवं सचिवः प्रभाते स चिन्तयामास निरीक्ष्य तच्च ॥ ५॥ तच्छोधनार्थं सचिवः स भूयो दिदेश भृत्यानसमानसत्त्वः । सूरीकृतोत्पातवशेन तावत्ते द्राय व्यपद्यन्त विशोधयन्तः पाल- व्ये- 5 Rk ॥६॥ निवासपीठे शठदेवतानां चक्रेऽत्र केनापि सुरेण विघ्नः । ध्यात्वेति तत्प्रीतिकृते प्रभूतमकारयच्छान्तिकमेष तत्र ॥ ७॥ तस्मिन् कृते काचिददृश्यरूपा देवी जगादामृदुनादमेवम् । नारीनुरूपं मिथुनं यदीह निहंसि तत्कार्यमिदं भवेत्ते ॥ ८॥ निपीय तां वाचमवाच्यरूपां दधौ हृदीदं सचिवाधिराजः । मिथ्यादृशो देवजनङ्गमाभान् धिगीदृशान् दुष्टतरान् सुरान् हा ॥ ९॥ जुहोमि जीवान् जिनधर्मविज्ञोऽमीषां वचोभिः किमु निर्दयानाम् । विमानिताश्चैत्यममी विधातुं दास्यन्ति मह्यामिह नो हि मह्यम् ॥ १०॥ हत्वात्मानं तदिह निखिलान्निर्जरांस्तोषयित्वा कार्य सिद्धिं द्रुततरमिदं प्रापया- म्येष धर्मम् । नूनं प्राणागमनमनसोऽमी गमिष्यन्ति कालात्तस्मादेभिः स्थिरमतिचलैः पुण्यमत्रार्जयामि ॥ ११॥ गर्ने तस्मिन् यममुखसमे सानुकम्पः स झम्पां निष्कम्पान्तः सरभसमदाद्धार्यया सार्द्धमुच्चैः । हाहाकार खरतरगिरा चक्रिरे तत्र लोकाः प्रान्तं प्राप्ते सति सति नरे को न दुःखी भवेद्वा ॥ १२ ॥ समुद्यते साधुपरार्थमेव मित्रे गते तत्र तदास्तदेशम् । सच्चक्रमाक्रन्दपरं रुरोद तमोऽवलिप्तेव बभूव पृथ्वी ॥ १३ ॥ अथान्तरिक्षान्तरिता तमाह सा व्यन्तरी सत्त्वगुणेन तुष्टा । वरं वृणु त्राणनिधे ! विधेहि मा साहसं विस्मयकारि विश्वे ॥ १४ ॥ भवत्परीक्षार्थमकारि सर्वमेतन्मया मायितयात्र कर्म । त्वमेव देवासुरमानवानां सत्त्वेन मन्निन् ! वितनोषि चित्रम् ॥ १५ ॥ एवं वदन्ती च मुदं ददाना देवी तदा तं विदधेऽक्षताङ्गम् । स्यात्साहसं यस्य नरस्य शस्यं तस्यात्र सेवां रचयन्ति देवाः ॥ १६ ॥ विजेतव्या लङ्का चरणतरणीयो जलनिधिविपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्याजौ रामः सकलमवधीद्राक्षसकुलं क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ १७ ॥ भवाजेयः सर्वैरहितनिवहस्त्वं भुवि सदा कुरुष्व प्रासादं विसृज निजसादं पुनरिदम् । 158 सुरी प्रादुर्भूत्वा प्रवरमिति दत्त्वा निजवरं धुनाना शीर्ष स्वं सपदि दिवि सान्तर्हतिमगात् ॥ १८ ॥ अवन्धयत्तत्र स पीठ- वन्धं धर्मद्रुमस्थानमिव प्रमोदात् । अदाद्विहारोद्धरणाय वित्तमल्पेतरं शिल्पिगणाय मन्त्री ॥ १९ ॥ अचीकरच्छीशकु- नीविहारं दृषन्मयं वर्षयुगेन मन्त्री । भवेद्विलम्बः किमु तत्र कृत्ये यस्मिन् सुराः स्युर्वरदा नराणाम् ॥ २० ॥ चैत्यप्रतिष्ठां स विधातुकाम आकारयद्भूपमथो ससूरिम् । विधाय पुण्यानि धनानि सन्तस्तल्लोभवन्तो नहि यान्ति तृप्तिम् ॥ २१ ॥ अतिष्ठिपत्तन कृतप्रतिष्ठां श्रीसुव्रतस्य प्रतिमा लेप्याम्।वर्षश्च हर्षाद्धनवद्धनौधैर्विश्वाश्रितं तापमपाचकार ॥२२॥ महामहे तत्र समुज्ज्वलानि नार्यो जगुर्मञ्जुलमङ्गलानि । वादिनवृन्दोदिततारनादब्रह्माण्डभाण्डं भृतवद्ध्यराजत् ॥ २३ ॥ ननृतुर- मृतभोज्यस्त्रीसमा वारनार्यः सरभसमतितुष्टास्तुष्टुवुर्वन्दिनस्तम् । ददुरतिरुचिदानं याचकेभ्यो जनौघा विदधुरधिविहार हारिहल्लीसकानि ॥ २४ ॥ सचिवपतिरथो स्वं मन्दिरं मार्गणौधैरघरहितमनाः सोऽमोपयद्धोपपूर्वम् । तदपि वितरणेच्छा नास्य शान्ति प्रपेदे जगति न खलु चेतो जातु तुच्छं सतां स्यात् ॥ २५ ॥ ददौ पताकां कृतपातकान्तां चैत्योपरिष्टाद्वि- हितप्रतिष्ठाम् । व्याजेन तस्या भुवनोपरि स्वं चकार मन्त्री रचितोरुकृत्यम् ॥ २६ ॥ छलेन केनाप्यरिणा शिरोऽपि स्वं प्रार्थितो दास्यति दानशौण्डः । नृपो विशयेति तदा दधार तं वाहुदेशे बहुमानपूर्वम् ॥ २७ ॥ स्नानादिकृत्यानि विधाय कर्तुं नीराजनां यावदभूत्स सज्जः । वैतालिकः कालविदेत्य तावत्पपाठ कश्चित्पटुवागिति द्राक् ॥ २८ ॥ मुनिसुव्रत ! सुव्रतगरिष्ठ ! हरिवंशसमुद्भव ! सजलजलदसच्छायकाय ! सन्मृष्टपुनर्भव! जातापायकषायसैन्यदृढसर्प! परन्तप! । तप- सार्जितसज्ज्ञान ! रचितपरमात्मलसज्जप ! भृगुकच्छपुरस्थित ! विंशतितमतीर्थङ्कर ! मन्मथमथन! त्वं दुःखजलधिपारं 156 발엔 964 गमय भक्तजनानिह शुभकथन ! ॥ २९ ॥ यच्छन्तु तुभ्यं कलमङ्गलानि श्रीसुव्रताधिप्रभवा मयूखाः। पीयूषधामोज्झक- रादिधाम येषां पुरः शान्तिमियति कामम् ॥ ३० ॥ हिरण्यलक्षं विदुषे स तस्मै ददौ तदौचित्यविदामधीशः । दाता स किं योऽर्थिजनाभिलाषं तूर्णं प्रपूर्णीकुरुते न दानैः ॥ ३१ ॥ श्रीमान्राजपितामहो जिनपतेः कृत्वा स नीराजनां श्रीसङ्घ समभोजयन्निजगृहे भक्त्या वियुक्तोऽहसा । सद्वस्त्राभरणैरभूषयदिमं मान्यः सतामादराद् वित्तं पात्रनियोजनेन सुकृती चक्रे कृतार्थ निजम् ॥ ३२ ॥ सत्कोटिरसमः स्वकोटियुगलं स्वःकोटिमिच्छन्नयं मन्त्रीशस्त्वकरोययेऽव्ययमतिस्तस्मिन्महे हारिणि । दृष्ट्वा चेष्टितमेतदीयमखिलाः प्रापुर्जना विस्मयं को वा नाद्भुतदर्शनेन भुवने ग्रामोति चित्रं नरः॥ ३३ ॥ प्राप- च्छ्रीकुमरो महेन महता श्रीपत्तनं सत्तम चित्ते तचरितं चमत्कृतिकरं सर्व स्मरनजसा । तस्मिन्नेव दिने समेत्य नृपतिं प्रोचे चरोऽन्तःसभं प्राप्तः प्रान्तदशां स चास्ति सचिवः केनापि दोषेण हा ॥ ३४ ॥ श्रवणविषसमं सोऽचीकथत्तद्गुरुभ्यः शठसुरविहितं तेऽवूवुधन दोषमाशु। ययुरथ निजशक्त्या साधुनैकेन सार्द्ध सचिवहितकृते ते तत्र रात्रौ मुनीन्द्राः ॥३५॥ निखिलशठसुरीणामीश्वरीं तेऽनुनेतुमगुरनधचरित्राः सैन्धवां शुद्धचित्ताः । दलितसकलविघ्नं सूरिमन्त्रं स्मरन्तः सपदि विदधुरुच्चस्तत्पुरो ध्यानमुद्राम् ॥ ३६॥ हुङ्कारं दधती मुखेन सुखरा हुङ्कारपूरेण सा घोरां स्वां रसनां तदाविरकरोत्सुरे- विधातुं दरम् । भृङ्गानङ्गिसुदुस्सहान् सममुचट्यालान् विलोलांस्तथा नेत्रे शोणितलोहिते च विदधे शीर्ष च सेयापरम् ॥ ३७ ॥ दृष्ट्वा चेष्टितमेतदीयमखिलं दध्यौ गुरुर्मानसे मुग्धा भापयते मुधा किमधुना मां बालवद्वालिशा । नालीभिः सरलाशया वनचराः क्षुभ्यन्ति ते पक्षिणो निस्साणध्वनिभिन्नकर्णकुहरा नो चैत्यपारापताः ॥ ३८ ॥ प्रीति यान्ति जने परां सुमनसः सम्मानदानाब्रुवं स्पष्टं दुष्टनरा हठेन शठतां मुश्चन्ति नो शाम्यतः। पीयूपं भुजगः पिवन् वत विषं तीक्ष्णं त्यजेन्निर्भरं मन्त्रेणैष निपीडितः कमलवत्स्यात्कोमलः केवलम् ॥ ३९ ॥ सुरीं शिक्षायोग्यां स्वमनसि विदित्वोदितमति- विनेयेनानाय्य प्रवरमुशलोदूखलयुगम् । अखण्डान् पाखण्डानिव गुरुरुपाऽखण्डयदयं मदेनास्याः साकं गुरुरपदयं तन्दुल- गणान् ॥४०॥चित्रं तन्दुलसञ्चयेषु गुरुणा दत्ताः प्रहारास्तदा देवी खण्डितविग्रहा समभवत्सा सैन्धवा तत्क्षणम् । आकृष्टं मुशलं करेण निखिलाः सुर्यः समीयुः क्षणान् माहात्म्यं महतामचिन्त्यमहिमामन्त्रौषधीनामिव ॥४१॥ तुदसि सदयचेता दीननादं नदन्तीं किमिह युवतिमेतां मुञ्च कोपं मुनीश ! । इममसममपि त्वं मे सहस्वापराधं विदधति पितरौ नो जात्व- पत्ये प्रकोपम् ॥ ४२ ॥ इति सकलगुरीभिः सार्द्धमाभापयन्ती यतिपतिरवदत्तां सैन्धवां शान्तकोपः । विगतगदमिदं स्यान्मन्त्रिणञ्चेच्छरीरं तदहमपि च मुञ्चे बन्धनाद्वोऽधुनैव ॥४३॥ सार्द्ध व्यन्तरसुन्दरीभिरगमन्मन्त्रीशगेहं रयात् सूरीशः पतितं ददर्श मृतवत्तं नष्टचेष्टं भृशम् । तद्वाक्याद्विदधुः सुधाभिरभितस्तास्तद्वपुनीरुजं धीराणां वचनेन भीतिकलिताः कुर्वन्ति किं नो जनाः ॥ ४४ ॥ रेजे राजपितामहः स निहते दोपाभ्रपूरे तदा दूरं तेन महावलेन गुरुणा राजेव तेजो- वृतः। देव्यश्चान्यखगप्रभा इव भृशं ता निष्प्रभा जज्ञिरे लब्ध्वा स्वोदयमादरेण कुमुदं विस्तारयामास सः॥४५॥ नत्वा श्रीमुनिसुव्रतं व्रतिपतिः कृत्वाद्भुतं विक्रमं रात्रावेव स पत्तनं पुनरगादज्ञातवार्तः परैः । प्राता रोगगणातुरं स्वसचिवं संशो- चते निर्भरं वृत्तान्तं स जगाद भूमिपतये शिष्यो मनीष्यग्रणीः ॥ ४६॥ नित्यं पुण्यजनप्रवर्द्धनकरे दिव्यं दधाने वपुः स्वो|जासितशात्रवे सुरपतिर्यद्वज्जयन्ते मुदा । तस्मिन् पुत्रसमे स मन्त्रिणि नृपः स्वं राज्यभारं चिरं विन्यस्योत्तमधर्म- R-

कुमारपाल
महाकाव्ये-
॥४५॥
कर्मनिरतः सौख्यं सिपेवे स्वयम् ॥ ४७ ॥ श्रीरलसिंहगुरुपादसरोरुहालिश्चारित्रसुन्दरकविर्यदिदं वितेने । तस्मिन् कुमार-
चरिते सचिवाधिकारी सर्गः समाप्तिमगमत्किल सप्तमोऽयम् ॥ ४८ ॥
॥ इति भट्टारक-श्रीरलसिंहसूरिशिष्योपाध्यायश्रीचारित्रसुन्दरगणिविरचिते श्रीकुमारपाल-
चरिते महाकाव्ये जयाङ्क सचिवाधिकारी सप्तमः सर्गः ॥ ग्रन्थानम् १५९ ॥
अ
सर
॥ अथाष्टमः सर्गः॥
अथ श्रीकुमरस्तन्वन् वरिवस्यां गुरोस्तदा । निनाय नयवान् कालं बहुलं लोकपालकः ॥ १॥ गुरुवाक्यामृतं तस्य
पिवतो मेदिनीपतेः । न तृप्तिरभवच्चित्रं तृष्णा भृशमवर्द्धत ॥ २ ॥ गङ्गाम्बुविमलं चेतस्तस्य नागात्कदाचन । विहाया.
न्मतं स्फीतं क्षीरार्णवसमुजवलम् ॥३॥ विना नमस्कृति वाणी शिरश्च गुरुवन्दनम् । मनो जिनं श्रवः शासं नाभजत्तस्य
निर्वृतम् ॥ ४॥ द्विारं स व्यधाद्धन्यः शश्वदावश्यकं नृपः । त्रिकालं जिनपूजां च चके वक्रेतराशयः ॥ ५॥ सूरिस्त-
दर्थं विदधे स्फुटार्थान् श्रीयोगशासप्रमुखान् प्रवन्धान् । पपाठ निष्कुण्ठमतिर्नुपस्तान् पटुप्रभावानशठस्वभावः ॥ ६ ॥
सुखेन शुश्राव गुरोमुखेन त्रिषष्टिपुंसां चरितानि राजा । क्रमेण जज्ञेऽखिलविज्ञमुख्यः सत्सङ्गतिः किं न कृता करोति
॥ ७ ॥ अन्यदा वन्दितुं सूरीन् भूरिभावेन सोऽगमत् । युक्त्या परिच्छदोपेतो नत्वोपाविशदग्रतः ॥ ८॥ यावत्समय-
वार्ताभिस्तेन वार्त्तयति प्रभुः । तावदेको द्विजस्तबाध्वनीनसहगागमत् ॥९॥ विदित्वा विदुरं भावैरपृच्छत्तं महीपतिः ।
-
॥४५॥

कुतः किमर्थमत्रागा विद्वन्नावेद्यतामिदम् ॥ १० ॥ इत्युक्तो भूभुजा युक्तिविज्ञस्तज्ज्ञो जगाद सः । कुर्वन् सभासदः सर्वान् विस्मयस्मेरचक्षुषः ॥ ११॥ शृणु सर्वजनाधार ! दुर्वारतमविक्रम !। शस्तस्मेरजने मेऽस्ति वासः काश्मीरमण्डले ॥ १२ ॥ एकदा शारदां देवी देवदानवसेविताम् । उद्युक्तः परया भक्त्या तत्राराधितवानहम् ॥ १३ ॥ सा तुष्टा मे ददौ विद्यां हृद्यामाकाशगामिनीम् । यया जगति जज्ञे मे गमागमसमर्थता ॥ १४ ॥ एकदाहमगां स्वर्ग निसर्गोज्वलमीक्षितुम् । तत्र चित्रभरं पश्यन्नाप देवेशसंसदम् ॥ १५॥ चञ्चच्चामरवीजितं धृतसितच्छत्रं पवित्रद्युतिं तत्रापश्यमदृश्यरूपमितरैलॊके- हरिं भासुरम् । तत्सेवावसरागतान् हरिहरब्रह्मादिदेवानहं दृष्ट्वा प्रापमथात्मलोचनफलं लभ्य शुभैः कर्मभिः ॥ १६ ॥ स्वर्लोकस्थितिमालोक्य तदा लोकोत्तरामहं । अन्वभूवं तमानन्दं यो हि वाचामगोचरः ॥ १७ ॥ सोमशर्मन्नयं लेखो देयः श्रीहेमसूरये । त्वया कुमारपालेन सहितायेत्युक्तिपूर्वकम् ॥ १८ ॥ पुनरागच्छते भूमी भवदाज्ञापवित्रिताम् । शक्राज्ञया लिखित्वामुं मह्यं लेखमदाद्गुरुः ॥ १९ ॥ युग्मम् ॥ ततोऽहं वाचिक लात्वाऽऽजग्मिवानत्र वेगतः । विलम्बः क्रियते कार्ये स्वाम्यादिष्टे न कहिचित् ॥ २० ॥ वार्तामत्यद्भुतां श्रुत्वाश्चर्य भेजुः सभासदः । विद्वानवाचयल्लेख लेखेशप्रहितं यथा ॥२१॥ स्वस्ति श्रीमति पत्तने नृपगुरुं श्रीहेमचन्द्रं मुदा स्व शकः प्रणिपत्य विज्ञपयति स्वामिस्त्वया सत्कृतम् । चन्द्रस्याङ्क- मृगे यमस्य महिपे यादःसु यादःपतेर्विष्णोर्मत्स्यवराहकच्छपकुले जीवाभयं तन्वता ॥ २२ ॥ श्रीमान् स्वर्गपतिः कुमार- नृपतिं सस्रोहमाभाषते राजंस्त्वं विजयस्व विश्वजनताजीमूततुल्यः सदा । प्रीतास्त्वञ्चरितामृतेन निखिला यस्मादिमे नाकिनो नो वाञ्छन्ति सुधामपीप्सितमिदं देयं त्वयैषामिति ॥ २३ ॥ उदारं नृपतिः पद्यद्वयं हृद्यं निपीय तत् । अहो ! । x4-05- बुद्धिरहो! व्याख्येत्यशंसत्तं मुहुर्मुहुः ॥ २४ ॥ दश लक्षाणि द्रम्माणां दश चोच्चैस्तुरजमान् । श्रीमान् कुमारपालोऽदादिन्द्र- लेखपदायिने ॥ २५ ॥ अनुज्ञाप्य नृपं विज्ञः स जगाम निजास्पदम् । कीर्ति स्फूर्तिमती तस्य तन्वानः क्षितिमण्डले ॥२६॥ नृपेऽन्यदा स्थिते सूरिसभायां सपरिच्छदे । आगमत्सुमनाः कश्चिदन्तेवासिवजावृतः॥ २७ ॥ पश्यन् स संसदं सर्वानि- त्याशीर्वादमादधे । पातु वो हेमगोपालः कम्बलं दण्डमुद्वहन् ॥ २८ ॥ चुकोप भूपतिर्थावत्प्रभूणां हीनवर्णनात् । बुबुधे तन्मनोभावं स बुधस्तावदिजिस्तैः ॥ २९ ॥ पुनर्नुपाननं पश्यन्नुत्तरार्द्धमुदाहरत् । षड्दर्शनपशुग्रामं चारयन् जैनगोचरे ॥ ३० ॥ अनुच्छिष्टेन सन्तुष्टस्तेन वाक्येन कोविदः । अदापयन्मुदा तस्मै द्रम्मलक्षद्वयं नृपः ॥ ३१ ॥ इति कोशाधिपो दानवहिकायामलीलिखत् । कविसार्थ विना कीर्तिः ख्याति नेयर्ति विष्टपे ॥ ३२॥ लक्ष्मीमिमां कति नराश्चपलामवाप्य संरक्षणाय बत भूमितले क्षिपन्ति । कारागृहे विनिहितं स्वमवेत्य तैः सा तेषांग्रहाद्वजति नाशमहो! क्षणेन ॥ ३३ ॥ उत्पा- दिता स्वयमियं यदि तत्तनूजा तातेन वा यदि तदा भगिनी खलु श्रीः। यद्यन्यसङ्गमवती च तदा परस्त्री तत्त्यागबुद्ध- मनसः सुधियस्ततोऽमी ॥ ३४ ॥ कामं रूपेण रामं निजनयविधिना धर्मजं सत्यवाचा कर्ण दानेन बुद्ध्या धिषणमनघया विक्रमं विक्रमेण । एकोऽप्यन्याननेकानसुरसुरनरान् श्रीकुमारो विजिग्ये भानुर्भासः समस्ता न हरति किमिह प्रोद्गतोऽन्य- ग्रहाणाम् ॥ ३५ ॥ एवं दानगुणेन भूमिवलयं कुर्वन् स पूर्ण भृशं क्षेत्राक्षेत्रविवेचनं रचितवान् पर्जन्यवन्नो नृपः । शश्व- न्मानवदेवदानवभुवैर्डिण्डीरपिण्डोज्ज्वलैविश्वं विश्वमपूरयन्निजयशःपूरैः कुमारस्तथा ॥ ३७॥ ॥ इति श्रीकुमारपालचरितेऽष्टमसर्गे प्रथमो वर्गः ॥ ON सर HA अत्यन्तसेवनाद्धर्ममाद्यमर्थेषु निर्ममे। कदाचित्सेवनात्कामं स जघन्यपदे व्यधात् ॥१॥ प्रापयत्परमा कोटिमर्थ सत्पा- पोषणात् । महान्तमाश्रितः को न विश्वकोटीरतां भजेत् ॥२॥अर्थेन सोऽर्थिनां कामान् नृपः काममपूरयत् । धर्मकृत्यै- निज काममपूरिष्ट निरन्तरम् ॥ ३ ॥ सभायामन्यदा तस्थौ कुमारो मारसुन्दरः । चतुर्दिशां महीपालास्तत्सेवार्थं तदाऽs- ययुः ॥ ४ ॥ दधार च्छत्रभृच्छत्रं तन्मूर्ध्नि विधुसंनिभम् । चालयांचक्रतुर्वारनायौं रुचिरचामरे ॥ ५॥ अहरत्सकलां शोभा स हरेपरिणीपतिः । जहार हारिणी छायां सद्धर्मायाः सभामिमाम् ॥ ६॥ नृत्यं पणस्त्रियस्तेनुर्गानं च वरगायनाः। द्वन्द्वयुद्धं तदा मला मागधा वंशवर्णनम् ॥ ७॥ कुर्वन् विचारं रुचिरं प्रमोदात् श्रीमान्कुमारो वरिवर्ति तत्र । शुश्राव तावच्छ्रुतिदुःखहेतुं बम्बारवं द्वारि निवारिताघः ॥ ८॥ श्रुतेन तेनाजनि भूमिनाथः किमेतदित्याकुलचित्तवृत्तिः। दृष्टे श्रुते वाथन को नवीने भजेत्परामुत्कलिकामिलायाम् ॥९॥ तन्निशम्य सभालोकाः सर्वे क्षोभं प्रपेदिरे। आतङ्ककारणं नास्ति परं बम्बारवं विना ॥ १० ॥ अहो ! नवीनमेतन्मे किं राज्ये श्रूयतेऽधुना । अथवा दूमितः कश्चिद्रावां कर्तुमिदं व्यधात् ॥ ११ ॥ विमृशन्निति भूपालस्तदाकारणहेतवे । दिदेश स्वप्रतीहारं स्वर्णकम्वाधरं तदा ॥ १२॥ द्वास्थनिर्देश्यमानाध्या तत्रैको द्विज आगमत् । आशीर्वादं नृपायासौ दत्त्वोपाविशदग्रतः ॥ १३ ॥ बम्बापातनहेतुं स पृष्टो नृपतिनाभ्यधात् । काश्यां दासीकृतारातेर्वसतिर्विद्यते मम ॥ १४ ॥ आगच्छन् गूर्जरां वीर ! वीक्षितुं क्षितिमण्डनम् । देशात्तव बहिर्यान्ती- मद्राक्षं स्त्रियमेककाम् ॥ १५ ॥ वक्रानना वक्रपदा वक्रोष्ठी वक्रनासिका। काऽरण्ये कर्णहीनेयमिति चिन्तामहं दधौ॥१६॥ कथं पिशाची किमु राक्षसीयं किं शाकिनी किल्विषिकप्रिया किम् । विचिन्तयन्नित्थमहं मनोऽन्तस्तामभ्यधां श्राग् रुदतीं B R-5- निरीक्ष्य ॥ १७ ॥ का त्वं पातकपुत्रिकास्म्यकमला पौत्री तथाहं कलेः कस्माद्रोदिषि वान्धवस्य निधनात् को वान्धवोऽयं तव । दारियं किमजायतास्य निहतः सोऽरं तमोवैरिणा श्रीमच्छ्रीकुमरेण कस्य शरणं तद्यासि तद्वेषिणाम् ॥ १८॥ एवमुक्त्वागमत्सा स्त्री राजस्ते यत्र शत्रवः । महता परिभूतानां तद्विषः शरणं यतः ॥ १९ ॥ अप्राप्नुवन् प्रवेशं ते द्वारि राजशतावृते । त्वदर्शनोत्सुकः सोऽहं बम्बामेतामपातयम् ॥ २० ॥ वचनेनामुना तस्य तुतोष क्षितिवासवः । कः सूक्तसु- धया सिक्तो व्यनक्ति न मुदङ्कुरम् ॥ २१ ॥ पञ्च लक्षाणि द्रम्माणां दश चोचैस्तुरङ्गमान् । विश्वेश्वराय कवये तुष्टः श्रीकुमरो ददौ ॥ २२ ॥ सार्द्ध नृपतिना सोऽथ विश्वेश्वरकविर्ययौ । श्रीहेमसूरिशालायां विद्वद्गोष्ठीरसेरितः ॥ २३ ॥ आलोक्य संसदं सूरेभूरिसूरिजनावृताम् । स ब्रह्मपरिपत्तुल्यामेनां मेने कवीश्वरः ॥ २४ ॥ सूरिशिष्यपरिक्षायै वे समस्ये समर्पयत् । व्याषिद्धेति प्रसिद्धाद्या शृङ्गाग्रेणेति चापरा ॥ २५॥ तामाद्यां निरवद्यपद्यरचनाहृयः कपीमहामात्यः पूर्वम- पूरयद्गुरुतरप्रज्ञाप्रकर्षोद्धरः । कुस्तन्मनसीति विस्मयभरं श्रीसूरिशिष्यः क्षणादन्यां मान्यतमोऽनिशं मतिमतां श्रीराम- चन्द्रोऽभ्यधात् ॥ २६ ॥ तस्याः प्रसृतिद्वयेन सरले शक्ये पिधातुं दृशौ सर्वत्रापि च लक्ष्यते मुखशशिज्योत्स्नावितान- रियम् । इत्थं मध्यगता सखीभिरभितो इग्मीलनात्केलिषु व्याषिद्धा नयने मुखं च रुदती स्वे गर्हते कन्यका ॥ २७ ॥ त्वं नो गोत्रगुरुस्तवेन्दुरधिपस्तस्यामृतं तत्करे तेन व्याधशरातुरां मम प्रियामेनां समुज्जीवय । इत्युक्ते मृगलाञ्छनस्य हरिणे कारुण्यमाजल्पतः शृङ्गाग्रेण मृगस्य पश्य पतितं नेत्राम्बु भूमण्डले ॥२८॥ स जहर्ष निजार्थेन ते निपीयाशु पूरिते। अहो! जानाति विश्वेऽस्मिन् कविरेव कवेः श्रमम् ॥ २९ ॥ शिष्या यस्येदृशाः सोऽत्र गुरुः केनोपमीयते । अन्धिना कः समस्तेन 9-4.२५ २-३ 156 456-6- २ यढेला अपि दुस्तराः॥३०॥ एवं विचिन्तयन् गोष्ठी सूरिभिः सह सोऽकरोत् । नहि सूक्तसुधास्वादसममस्त्यपरं भुवि ॥३२॥ स्वप्रज्ञया स्पर्द्धमानावन्योन्यं सूरिसंसदम्। अन्यदा चारणौ कौचिञ्चतुरावीयतुः परम् ॥ ३२ ॥ सभ्यान भूपादिकान् वीक्ष्य कोविदान् श्रीपतीनपि । अवोचच्चारणो वाक्यं तत्रैकः समयोचितम् ॥ ३३ ॥ लच्छिवाणिमुहकाणिए पइभागीमुहमरु । हेमसूरि अच्छाणि जे ईसर ते पण्डिया ॥ ३४ ॥ हृष्टो नरपतिस्तस्मै द्रम्मायुतमदापयत् । तुष्टामामथ रुष्टानामचिन्त्यं चरितं सताम् ॥ ३५ ॥ नृपाय वन्दमानाय पञ्चाङ्गस्पृष्टभूमये । गुरुणा स्वकरे पृष्ठे दत्तेऽवादीदिदं परः ॥ ३६ ॥ हेम तूं हालाकरमरकं जे इह उच्चन्भूयसिद्धि । जे चंपइ हिडा मुहा ते ऊपरीरिद्धि ॥ ३७॥ स प्रस्तावोपपन्नेन वचसा तेन तोषितः । भूयोऽप्यपाठयद्भूपः समये किं न संमतम् ॥ ३८ ॥ चारणेनोचिते पद्ये वारत्रयमुदीरिते । दक्षमुख्यःकुमारोऽदाद् द्रम्मलक्षत्रयं तदा ॥ ३९ ॥ इति विबुधविनोदैनन्दयन्मानसं स्वं प्रवरवितरणेनाह्रादयन् कोविदौषम् । सुरपतिरिव भुञ्जन् भूरिभोगाननैषीत् क्षणमिव बहुकालं श्रीकुमारो नृपालः ॥ ४० ॥ आइत्यादृत्य सर्वांस्त्यजति जगति या पण्यनारीव पुंसो यस्या मोहेन देही गणयति च गुणानो विवेकादिकांस्तान् । स्वासक्तानामजलं जनयति सुधियामप्यहो! या कुबुद्धि तामा- साद्य श्रियं को जललवचपलां मुह्यति ज्ञाततत्त्वः ॥४१॥ एवं स व्यसनापहो नरपतिमत्वा प्रतिज्ञापरः श्रीत्यागं विद- धेऽधिभूमिजनतां तेनानृणां चाकरोत् । मानुष्ये चपलाचले सति धने सन्ध्याचरागोपमे प्राज्ञः कोऽत्र परोपकारकरणा- गृह्णाति नो तत्फलम् ॥ ४२ ॥ त्यागः पाणितलं दया च हृदयं श्रीमजिनाज्ञाशिरः सच्छास्त्रं श्रवणद्वयं गुरुनतिर्भालं मुखं 5 RESS TY RSS सद्वचः । तस्याभूषयदस्तदूषणगणः सोऽलञ्चकाराखिलं विश्वं च स्वयशोभिराशु नृपतिर्भानुः प्रभाभिर्यथा ॥ ४३ ॥ ॥ इति श्रीकुमारपालचरितेऽष्टमसर्गे द्वितीयो वर्गः ।। श्रीमान् कुमारपालोऽथ जिनाज्ञापालकः सदा । सिद्धान्तामृतसंतृप्तस्वान्तश्चिन्तिवानिति ॥ १॥ अहो ! यद्दीयते दानं सनिदानमिहार्थिनाम् । वदत्यल्पफलं तज्ज्ञास्तत् कुक्षेत्रोप्तवीजवत् ॥२॥ त्यक्तसावद्यकृत्यानां सुकृतोद्यतचेतसाम् । विती- यते यतीनां यत्तदल्यं न फलप्रदम् ॥ ३ ॥ राजप्रतिग्रहं जैना गृह्णन्ति यतयो नहि । नास्ति तेभ्यः परं पात्रं तारणोत्तरण- क्षमम् ॥ ४ ॥ गृह्णन्ति ये न ते मह्यं रोचन्ते चरणोज्झिताः । रोचन्ते ये तु ते नैतद् गृह्णन्ति विगतस्पृहाः॥५॥धन्यास्ते कृतपुण्यास्ते पुमांसः श्लाध्यसम्पदः । कुर्वन्ति यतिदानेन ये कृतार्थ निजं धनम् ॥ ६॥ वणिजस्ते वरं मत्तः प्राप्तराज्या- न्महीतले । येषां वित्तं समायाति यतिकार्ये निरन्तरम् ॥ ७॥ यतिदानविहीनेनानेन राज्येन किं मम । शाल्मलीकुसुमेनेव विगन्धेन महीयसा ॥ ८॥ स शोचयन् स्वं यतिदानहीनमहीनभावो नृपतिस्तदर्थम् । गुरून् ययाचे रचिताञ्जलिः सन् श्रीसङ्घसाक्षं विनयावनम्रः ॥९॥ तमूचिरे ते चरणैकचित्ताः समग्रसिद्धान्तविचारचित्ताः। प्रतिग्रहो भूमिपतेर्यतीनां राजनिषिद्धोऽस्ति जिनेश्वरेण ॥ १० ॥ कथं जिनाज्ञां त्रिदशेशमान्यां विराधयन्तीह मुमुक्षवोऽमी । या मानिता यच्छति मुक्तिसौख्यं विमानिता संसृतिवासमुच्चैः ॥ ११ ॥ विहाय वाञ्छां तदिमां महीश ! विधेहि जैनाननृणांस्त्वमुक्म् । अवादि सुश्रावकनामधेयं पानं यतेरन्यदहो! जिनेन ॥१२॥ साधुरुत्तमपात्रं स्यान्मध्यमं श्रावको भवेत् । अविरतसम्यग- SC R 156 दृष्टिर्जघन्यं पात्रमुच्यते ॥ १३ ॥ ततो नरपते ! जैनान दानेनानृणतां नय । चक्रे श्रीभरतश्चक्री श्राद्धभुक्तिं पुरा पराम् ॥ १४ ॥ नृपतिर्गुरुवास्येन तेनासौ मुमुदे भृशम् । तदर्थमवृथारम्भस्तत्कालमुपचक्रमे ॥ १५॥ कोटीश्वरं नृकोदीरः स तदा कोविदोत्तमम् । व्यधादाभडनामानं नाद्वोद्धाराधिकारिणम् ॥ १६ ॥ प्रतिद्रङ्गं प्रतिग्राम प्रतिमार्ग गृहं प्रति । डिण्डिम वादयामास सादिताशेपकिल्बिपम् ॥ १७ ॥ भजध्वं भो जनाः ! पापनाशनं जिनशासनम् । त्यजतापारसंगारकर मिथ्या- मतागहम् ॥ १८ ॥ विहाय कुमतं योऽत्र जनो जैनो भविष्यति । तस्मै कुमारभूपालो दानं दास्यति वाञ्छितम् ॥ १९॥ जिनाज्ञापालकाः सर्वे समागच्छत सत्वरम् । करिष्यत्यनृणान् यत्तान् नृपो मुक्तकरानपि ॥ २० ॥ इतिपटहनिनादाका- रिता वारितापं जिनमतमितपापा भेजिरे भूरिलोकाः । कुमरनृपतिदेशादाभडोऽनल्पदानैर्मुदितहृदयवृत्तिस्तान्वितेने गतान् ॥ २१ ॥ अजनिषत जिनाज्ञापालकाः सर्वलोकाः कुमतततिरियाय कापि नाशं न जाने । उदितवति सुचण्डे मण्डले चण्डधाम्नः क्वचिदपि कुहुरस्थां वेत्ति कः कौशिकालीम् ॥ २२ ॥ पूर्व वर्षे कुमरनृपतिर्द्रम्मकोटीश्चतस्रः श्राद्धोद्धारे सुकृतरसिकोऽसौ व्यये स्वाश्चकार । एवं यच्छन् सततमकरोदद्वितीयं पृथिव्यां स्वं राज्यं श्रीजिनपतिमतं च प्रणटा- रिवारम् ॥ २३ ॥ सेवां चक्रुः परिहतमदा बाडवा हेमसूरेहित्वा हिंसाकरमतितरां वेदमार्ग समग्राः । पापः पापे नयवति नयी स्याजनो राज्ञि सर्वो वार्ता सत्येयमजनि तदा जैनधर्मेण विष्वग् ॥ २४ ॥ अस्मिन्नवसरे सर्वे मिलित्वा व्यवहा- रिणः । व्यजिज्ञपन्नृपं क्लुप्ताञ्जलयः सदसि स्थितम् ॥ २५ ॥ अत्रेग्या निःसुताः प्रापुः साम्प्रतं पञ्च पञ्चताम् । द्वासप्तति- लक्षमानं तद्धनं विद्यते प्रभो ! ॥ २६ ॥ तदादिश विशांनाथ ! यथा नीत्वाखिलं क्षणात् । क्षिपन्ति सचिवाः कोशे 5 स्थितिरेपाऽस्ति भूभुजाम् ॥ २७ ॥ इत्युक्त्वाऽदर्शयन् राज्ञे ते तत्संख्यापट स्फुटम् । नीत्वा तं भूपतिश्चित्ते दध्यौ सन्तो- पशालिने ॥ २८ ॥ अहो ! मे विद्यते वित्तं पुरा भाग्यार्जितं बहु । ततः किं मृतद्रव्येणानेनैनःकारिणा भृशम् ॥२९॥ध्याय- निति कराभ्यां तं नृपः पट्टमपाटयत् । तदीयगोत्रवर्गिभ्यो दीयतामिति चादिशत् ॥ ३० ॥ तस्य निर्लोभतां वीक्ष्य तदा श्रीहेमसूरयः । प्रशंसापूर्वमित्यूचू रोमाञ्चाञ्चितमूर्तयः ॥ ३१॥ यस्याज्ञां मन्वते विश्वे सुरासुरनरेश्वराः । लोभमेतं जयन् राजन् ! सत्यं विश्वेश्वरो भवान् ॥ ३२ ॥ अपुत्राणां धनं गृह्णन् पुनो भवति पार्थिवः । त्वं तु सन्तोपतो मुञ्चन् सत्यं राजपितामहः ॥ ३३ ॥ अथ श्रीसिद्धराजाप्तद्वादशग्रामनायकः । वामराशिर्द्विजस्तत्र वर्त्तते भूतिकप्रभुः ॥ ३४ ॥ विद्वान् स्वविद्यया विश्वं तृणवन्मन्यतेऽखिलम् । स्पद्धते प्रत्यहं सूरीन स दूरीकृतसन्मतिः ॥ ३५ ॥ अन्यदा बजतः सूरीन् दृष्ट्वा दुष्टाशयो भृशम् । भक्तोदार सृजन्नुच्चैरुवाचेति स्वसेवकान् ॥ ३६॥ यूकालिक्षशतावलीवलवलच्चोलश्चलत्कम्बलो दन्तानां मलमण्डलीपरिचयादुर्गन्धरुद्धाननः । नाशावंशविरोधनागिणगिणत्पाठप्रतिष्ठाविधिः सोऽयं हेमडसेवडः पिलपिलत्खलिः समागच्छति ॥ ३७॥ वाक्यं तत्परुपाक्षरं मुनिपतिः श्रुत्वा न कोपं दधौ किश्चित्तं मितधौतदन्तवसनः प्रोचे क्षमावा- निति । किं पद्ये प्रथमं विशेषणमिहाधीतं न धीवारिधे ! सोऽयं सेवडहेमडेति विदुपा वाच्यं त्वयातः परम् ॥ ३८ ॥ सावद्यं निजपद्यमुज्झितमदो मत्वा गुरोर्वाक्यतो लज्जानम्रमुखो जगाम सहसा पश्यन् दिशोऽसौ जटी । निन्दां तेन कृता- मवेत्य नृपतिः श्रीसूरिभक्त्या स्वयं तद्वृत्तिं सकलामलोपयदथो सद्दर्शनाराधकः ॥ ३९ ॥ भ्रष्टः स स्वपदाद्गृहीतसकल- द्रव्यो नृपेण च्छलात्क्षुत्क्षामो विदधाति तत्र नगरे भिक्षाटनं रङ्कवत् । विश्वोद्योतकर तमोभरहरं सूर्य द्विषन्निर्भरं तद्भा- रब भिनिहितप्रभो भवति नो कि कौशिकरतत्क्षणम् ॥ ४० ॥ दुष्पापां परिभाव्य वृत्तिमपरोपायैर्निजामातुरो मुक्त्वा मानभरं चकार सुचिरं श्रीसूरिसेवामयम् । शालायां सकलान् निरीक्ष्य पठतः श्रीयोगशास्त्रं जनान् प्रोवाचोचरवेण सोऽन्यदिवसे भूमीपतेः शृण्वतः ॥ ४१ ॥ आतङ्ककारणमकारणदारुणानां वक्रेण गालिगरलं निरगालि येपाम् । तेषां जटाधरफटाधर- मण्डलानां श्रीयोगशासरचनामृतमुज्जिहीते ॥ ४२ ॥ नादात्तथापि नृपतिर्दढगूढरोपो प्रासं तदीयमुदयो गुरुनिन्दके सः। आवश्यकादिकविधि समधीत्य तस्थौ तत्रैव स द्विजवरो गुरुसेवनाय ॥ ४३ ॥ पोढावश्यकतत्परः प्रतिदिनं कुर्वन् गुरू- पासनां चक्रे निर्विकृतितं स चतुरो मासान् दधानः शमम् । तस्यासीत्तपसा वपुः कृशतरं घोरेण तेनाधिकं पूर्णेऽथो नियमे निजे यतिपतिं सोऽवोचदेवं मुदा ॥ ४४ ॥ चतुर्मासीमासीत्ता पदयुगं नाथ ! निकपा कपायप्रध्वंसाद्विकृतिपरि- हारव्रतमिदम् । इदानीमभ्यूद्यन्निजचरणनिलोंठितकले ! जलक्लिनरन्नैर्मुनितिलक ! वृत्तिर्भवतु नः ॥ ४५ ॥ घोराभिग्रहधा- रिणं कृतशिरःक्षौरं क्षमाशालिनं दृष्ट्वा तं न विदाञ्चकार नृपतिः प्राप्तान्यजन्मोपमम् । सूरिस्तच्चरितं चमत्कृतिकरं तस्मै समस्त जगौ तद्वृत्तिं द्विगुणामदापयदयं धम्मैकचित्तो मुदा ॥ ४६॥ वृत्तिं स्वामधिकामवाप्य मुमुदे धर्मप्रभावात्तदा चक्रेऽवक्रमनाः सदा मुनिपतेः सेवां जिनाज्ञापरः । प्रत्यक्षं बहुपापपुण्यजनितं स प्राप विप्रः फलं तस्मिन्नेव कलौ भवे निजकृतं काथवा भुज्यते ॥४७॥ एवं सर्वजनांश्चकार कुमरो जैनान्महीमण्डले मेने वैरिसमानमानमहिमाऽसौ साधुनि- न्दाकरान् । सर्वान् बन्धुसमानमानयदयं नित्यं जिनाज्ञापरान् सम्यक्त्वं दृढतामलम्भयदलं प्रोन्मूल्य मिथ्यामतम् ॥ ४८ ॥ दृष्ट्वा तं बहुदायिनं स्वहृदये धातेति चिन्तां व्यधादू व्यर्थामर्थिदरिद्रगदां मम लिपि चक्रे किलायं नृपः । विष्वम् त जैनमतं वितत्य तविषं पूर्ण विधास्वत्यरं शून्यान्मे निरयान् करिष्यति कृतं पापं निवार्य क्षितौ ॥ ४९ ॥ जलनिधिजल- बिन्दून् यो मिमीते समग्रान् गणयति गगनस्थांस्तारकान् योऽखिलान्या । अथ रचयति संख्यां प्राणिनां यः समेषां कुम- रवितरणानां वेत्ति मानं स एव ॥५०॥ एवं श्रीकुमरो ददत्प्रतिदिनं दानं निदानोज्झितं शीलं चन्द्रकलोज्ज्वलंच कलयंस्तन्वन्विचिनं तपः । सद्भावं भवनाशनं स्वहृदयेऽसौ भावयन्नन्वहं दुर्जेयं कलिकालमल्लमजयत् क्षोणितलक्षोभिणम् ॥५१॥ श्रीरत्नसिंहगुरुपादसरोरुहालिश्चारित्रसुन्दरकविर्यदिदं चकार । तस्मिन् कुमारचरिते वरदानसंज्ञः सर्गः समाप्ति- मगमत्किल सप्तमायः॥५२॥ इति भट्टारकनीरत्नसिंहसूरिशिष्योपाध्यायश्रीचारित्रसुन्दरगणिविरचिते श्रीकुमारपालचरिते महाकाव्ये दानाधिकारोऽष्टमः सर्गः ॥ ग्रन्था १५८ ॥ ॥ अथ नवमः सर्गः अथो स सन्देहतमोहरं तं मेने गुरुं सर्वविदं नरेशः । प्रत्यक्षदृष्टे हि महत्प्रभावे स्यात्प्रत्ययः कस्य न दृश्यरूपे ॥१॥ तमन्यदापृच्छदतुच्छभत्त्या नत्वा नरेशः शमनीरराशिम् । पूर्वे भवे किं भगवन्नकार्ष कम्र्मेह येनाहमभूवमीहा ॥ २ ॥ तमाह माहात्म्यनिधिमुनीन्द्रो मनाय विहस्येति मृषानभिज्ञः । विना जिनं कोऽपि न वेत्ति पूर्वभवस्वरूपं किल भूप ! विश्वे ॥ ३॥ भवस्वरूपं किल पुद्गलानां विवर्त्तनं कर्मगतिं च सम्यक् । हित्वा जिनेन्द्र श्रुतधारिणं वा परो न जानाति NCCC 5 नरो धरायाम् ॥ ४॥ यस्मिन्विचारे श्रुतधारिणोऽपि शक्ता न के तत्र वयं नरेश !। नेतुं तमो यत्तनुतां न नेता सूर्यः कथं तद्धरति स्फुलिङ्गः ॥ ५॥ तस्मादमुष्माद्विरमस्व राजंस्त्वमाग्रहात्कालविचारविज्ञः। उपक्रमं यद्चयन्ति विश्वे साध्येषु कृत्येष्वसकृत्कृतज्ञाः ॥ ६॥ एवं निषिद्धोऽपि नृपः प्रकामं भूयोऽर्थयामास गुरूंस्तदर्थे । करोति विद्वानपि नो निजार्थपरः कदाचित्सदसद्विचारम् ॥ ७॥ मत्वाग्रहं तस्य दृढं मुनीशः किं कार्यमत्रेति विचारयन् सः । पद्मावती छद्मविहीनचित्तः सस्मार देवीं दितभक्तदुःखाम् ॥ ८ ॥ आविर्भूय जगाद सा भगवती कृत्येन केनाधुना नीतास्मि स्मृतिगोचरं द्रुततरं ध्यानाधिरूढं गुरुम् । का चिन्ता तव शासनोन्नतिकृतः सन्चक्रचूडामणे ! यच्छादेशमिमं नियोजय जनं कार्ये निजे सत्वरम् ॥ ९॥ प्रष्टुं पूर्वभवानगाद्भगवती श्रीसूरिवाक्येन सा पूर्वस्मिन्नथ वैरिवारदलनी क्षेत्रे विदेहाभिधे । तस्मिन्नाद्य- मनादिसंसृतिहरं श्रीविद्यमानार्हतां श्रीसीमन्धरनामधेयमनमद्भव्यावलीसेवितम् ॥ १० ॥ सद्देशनासझनि संस्थितासु कोटीषु देवासुरमानवानां । संसारसन्तापहरं दिदेश धर्म चतुर्दा भगवांस्तदानीम् ॥ ११ ॥ सा देशनान्तेऽवसरं निरीक्ष्य व्यजिज्ञपत्सूरिनतिं जिनाय । स्वामी स्वयं तं चरणैकनिष्ठं प्रशंसयामास समं नृपेण ॥ १२ ॥ अत्रान्तरे पूर्वभवान्नृपस्य पप्रच्छ देवी जगदेकनाथम् । ज्ञानेन विज्ञातसमस्तभावो जगद्गुरुस्तानवदद्दयावान् ॥ १३ ॥ जिनो यथा भूपभवान् दिदेश दधार तान् सा हृदये तथैव । रूपं पुरस्थं मुकुरे किमत्र महोज्ज्वले भाति न ताहगेव ॥ १४ ॥ ततोऽतिभक्त्या प्रणिपत्य देवी देवाधिदेवं पुनराजगाम । यञ्चिन्तनात्स्यादिह सर्वसिद्धिः स्वयं विलम्बः किमु जायतेऽस्याः ॥ १५ ॥ आख्याय वृत्त सकलं गुरुभ्यो जिनोपदिष्टं तदनिष्टहन्त्री । अन्तर्दधे दीधितिभिः प्रदीप्ता दिशः सृजन्ती सहसा सुरी सा ॥ १६ ॥ अथ ल- ज्ये- प्रभाते नृपतिः प्रणन्तुं प्रभून विमायः स इयाय भूयः । प्रणम्य तानिन्द्रगुरूपमेयानुपाविशच्छक्रसमः पुरस्तात् ॥ १७ ॥ स्थितेषु सर्वेषु जनेषु तत्र प्रश्नं वितेने स पुनस्तमेव । प्रारब्धसिद्धिं यदनाप्य विश्वे सन्तो भजन्ते न समाधिमुच्चैः॥१८॥ अथोऽवदत्सुरिवरो निरीक्ष्य भूपादिसभ्यान सकलान् स तत्र । काले गतज्ञानकलोऽत्र कश्चिजानाति नो पूर्वभवस्वरू- पम् ॥ १९ ॥ दिदेश देवीवचनेन यद्वत्सीमन्धरो मां जगदेकबन्धुः । निजान् भवान् मद्वचनेन सम्यक् तथा त्वमाकर्णय वर्णनीय ! ॥ २० ॥ अस्ति स्वस्तिविराजितं जयपुरं नाम्ना पुरं सुन्दरं श्रीमन्मालवमेदपाटविषयान्तर्ति भूविश्रुतम् । कोटीशालयकोटिषु स्फुटतरा यस्मिन् पताका भृशं वीक्ष्यन्ते पवनाहता इव दिवं सन्त यन्त्यः सदा ॥ २१ ॥ आराति- द्विपकेसरी नयवरः सल्लोकरक्षाकरस्तत्रासीजयकेसरी नरपतिनिःसीमशौर्योधुरः । अद्याप्येष रविः पलायनपरः स्थेमान- मालम्बते नो कस्यामपि यत्प्रतापविजितो विभ्यन्निवोच्चैर्दिशि ॥ २२॥ क्रमेण जज्ञे जयताभिधानस्तस्यात्मजो विक्रमिणां प्रधानः । स यौवनो नीचजनप्रसङ्गादभूव दुष्कर्मरतो नितान्तम् ॥ २३ ॥ जहार वित्तं धनिनां बलेन दारान्परेपामगम- च्छलेन । विनाऽपराधं निधनं निनाय स साधुलोकान् धुतसाधुसङ्गः ॥ २४ ॥ रुष्टस्ततस्तं नृपतिः स्वदेशाव्यवासयन्नाशि- तसाधुलोकम् । अहो ! सहन्ते नहि नीतिहीनं स्वपुत्रमप्यत्र महच्चरित्राः ॥ २५ ॥ निर्गत्य देशात्स वहिर्बभूव पल्लीपतिः कर्बुटकृन्निवासः। स्यात्कौशिकानामिव तस्कराणां वासो गुहायामिव शूरभीत्या ॥ २६ ॥ मनाति मार्गे व्रजतो जनौघान् गृह्णाति वित्तं सकलं तदीयम् । न शक्यते पर्वतमध्यवासी नृपेण केनापि स निग्रहीतुम् ॥ २७ ॥ पुलिन्दवृन्देन निषेव्य- माणो भृशं स चौरी विदधाति विष्वक् । अहो ! कपिवृश्चिकविद्धमूर्तिः करोति कां को चपलो न चेष्टाम् ॥ २८ ॥ SS- -बर सार्थोऽथ सार्थाधिपतेः समागात्तत्रार्थपूर्णो नरवीरनाम्नः । अमोपयत्तं प्रखरोऽतिलोभात् स नाहलव्यूहबलच्छलेन ॥ २९ ॥ दृष्ट्वा पुलिन्द्रान् बहुलान्प्रणश्य सार्थेश्वरोऽनर्थकरानगात्सः । जीवन समाप्नोति पुनर्यदर्थ प्राणांस्तदर्थे त्यजतीह कोऽज्ञः ॥ ३० ॥ सार्थं मुपित्वाशु स भिल्लनाथः पल्लीमगात्स्वामतिलाभहतः । रावां विधातुं नरवीरनामागमत्क्रमान्मालव- नाथमार्तः ॥ ३१ ॥ निवेद्य वृत्तं सकलं नृपायावदत्स दप्पादतिदीर्घरोपः । नरेश ! मे देहि बलं यथारिं निहत्य तं स्वं धनमानयामि ॥ ३२ ॥ तस्मै भूरिवलं ददौ नरपतिस्तन्निग्रहार्थं तदा सार्थेशः समवेष्टयल्लघुतरं पल्ली प्रसुप्तां सतीम् । विष्वग् वीक्ष्य बलं स नाहलपतिनैष्वाऽचटचौरवदेकाकी शिखरं गिरेः परिकरं तत्रैव मुक्त्वाऽखिलम् ॥ ३३ ॥ निनाथ समलुण्टयद् दृढहठात्तत्कचुटं दुष्टधीनपित्तं स विलोकयन्नपि रिपुं सार्थाधिपो मत्सरी । गच्छन्ती गुरुगर्भमन्थरगति भार्या तदीयां दयाहीनो दीनमुखामखण्डितमदो धृत्वाऽऽनयन्निर्नयः ॥ ३४ ॥ विदार्य तस्या उदरं स वैरादास्फालयद्वालमलं शिलायाम् । कुर्वन्त्यकृत्यानि महान्ति हन्त क्रोधान्धचित्ताः पुरुषाः क्षणेन ॥ ३५ ॥ सर्वस्वमादाय रिपोः स पल्लीमज्या- लयत्तां ज्वलनोग्रमूर्तिः । व्याघुय्य वेगादगमत्समीपं क्रमेण राज्ञः कृतकृत्यमानी ॥ ३६॥ मदोद्धतः स्वं चरितं सदोन्त- न्यवेदयभूमिभुजे स्वयं सः। तदारुणं स्त्रीशिशुमारणादि निशम्य भूपः सहसा चकम्पे ॥३७॥ करोति दुष्कर्म जनगमोऽपि न हीदृशं किं पुनरन्यजातिः। सभासदः कम्पितसर्वगात्रा धिगित्यवोचंश्चिरनिन्दयन्तः ॥ ३८ ॥ तत्कर्म निन्दन्नृपतिर्गृहीत्वा तहसारं नयविद्रवेण । कृत्वापमानं परमं दिदेश देशान्तरं तस्य विदृश्यमूर्तेः ॥ ३९ ॥ दुष्कर्मणा तेन स निन्द्यमानः सर्वत्र हीनस्तृणवद्वभूव । अत्युप्रयोः स्यात्फलमन्त्र लोके पुण्यैनसोरित्यजनिष्ट सत्यम् ॥ ४० ॥ स दुःखसंवेगवशात्प्रयागे गत्वा ततस्तापसतां वभार । प्रायो जनो ध्वस्तनिजाधिकारो निर्वेदमासादयति प्रभूतम् ॥ ४१ ॥ तत्रेशपूजानिरतश्चकार तीवाणि कृच्छ्राणि निरन्तरं सः । अनूनभावः स्वतनुं तपोभिरशोषयद्दोपविमोक्षणाय ॥ ४२ ॥ तन्वन्विशुद्धं शिवधर्ममेवं क्रमादभूभूतिकचक्रमुख्यः । सदा सदाचारपरः प्रयाति यतिः प्रतिष्ठां महतीं जनेषु ॥४३॥ कालेन मृत्वा स विशुद्धभा- वाच्छ्रीसिद्धराजोऽजनि पत्तनेऽन । विना निदानं विहितैस्तपोभिः किं नाप्यते तीव्रतरैरमुत्र ॥ ४४ ॥ नीत्वा सर्वधनं विधाय बहुधाभूपोऽपमानं पुरा सार्थेशं निजनीवृतेरितनयं निष्कासयामास यत्। तस्मान्मालवमण्डलं दृढहात्सिद्धाधिपोऽपी- डयल्लोकानस्तदयोऽतुदत्कृतपुरानिन्दान् स्वशत्रूनिव ॥४५॥ यत्कोपेन जघान मानसहितो बालं पुरा जन्मनि तेनायं जय- सिंहदेवनृपतिर्जज्ञेऽन पुत्रोज्झितः । भुते कर्म शुभाशुभं निजकृतं सर्वं भवेऽस्मिन् भवी नामुक्तं विलयं प्रयाति विषमा कर्मस्थितिवर्तते ॥ ४६॥ नीचैर्गोत्रावतारश्चरमजिनपतेर्मल्लिनाथेऽवलात्वमान्ध्यं श्रीवह्मदत्ते भरतनृपजयः सर्वनाशश्च कृष्णे । निर्वाणं नारदेऽपि प्रशमपरिणतिः स्याच्चिलातीसुतेऽपि त्रैलोक्याश्चर्यहेतुर्जयति विजयिनी कर्मनिर्माणशक्तिः ॥४७॥ एवं संसृतिनाटेकऽत्र नटवत्प्राणी चिरं चेष्टते कुर्वन् भूरितराणि कर्मवशगो रूपाणि मायामयः। योनि मुञ्चति याति वा न कतमां संवेदयन् वेदना यावत्सर्वतमोपहं न लभते सम्यक्त्वरत्नं पदम् ॥ ४९ ॥ ॥ इति श्रीकुमारपालचरिते नवमसर्गे प्रथमो वर्गः अथो गतद्धिर्जयताभिधानो जज्ञे तदा ध्वस्तसमस्तमानः । पराभव प्राप्य परं रिपुभ्यः को दीनतां हीनधनो न याति मुझ ॥ १॥ एकोऽपि चौरी विदधाति विष्वग् वित्तं हरत्यध्वनि दुर्वलानाम् । तनोति नित्यं मृगयां बनान्तर्बुभुक्षितः किं न करोति पापम् ॥ २॥ श्रीमद्यशोभद्र इति प्रसिद्धारतत्रान्यदा सूरिवराः समीयुः । तान्वीक्ष्य तूणीरकरः स चासौ जिघृ- क्षयाऽधावदभावितान्यः ॥ ३ ॥ कुर्वन्नधिज्यं स धनुः पुरस्ताद्यात्वा यतीनेवमवोचदुच्चैः । विमुञ्चत द्राग् वसनानि सर्वे नो चेद्धनिष्यामि मुमुक्षवो वः ॥ ४ ॥ तमुग्रमग्रस्थितमाकलय्य जगाद सूरिर्मूदुनादमेवम् । भुञ्जन्नसि प्राग्भवदुष्कृतानि । किं तानि भूयोऽपि करोपि भद्र ! ॥ ५॥ करोति तत्कर्म मदेन देही हसन स्वधर्म सहसा विहाय । रुदंश्चिरं रौरवरन्ध्र- मध्ये फलं यस्य किमप्यवाच्यम् ॥ ६ ॥ एकः समायाति भवेऽत्र जीवो भवान्तरं याति रा एक एव । एकः फलं कर्मभवं च भुक्ते शुभाशुभं पूर्वकृतं कृतं सः ॥ ७॥ हित्वा परसीगमनं परार्थादानं परप्राणविमोक्षणं च । परं परं नो वरिवर्ति पापं तत्त्यागतुल्यं नहि पुण्यमन ॥ ८॥ विद्युच्चलं जीवितमभ्रमालावञ्चञ्चलं यौवनमत्र जानन् । मत्तानापाश- चलं च वित्तं तज्ज्ञस्तदर्थं कुरुते किमहः ॥ ९॥ विहाय धर्म किमधर्ममेवं निपादवत्तत्कुरुपे त्वमार्य !। पुंसा कृतज्ञेन कदा- प्युदारा नोलचनीयाः कुलदेशधाः ॥ १० ॥ गुरुवचनसुधाभिस्ताभिरेवं प्रसिक्तो हृदयगहनवी निवौ कोपवह्निः । अलभत लघुवृद्धिं तस्य संवेगवृक्षो भवति सदुपदेशो नो वृथा जुत्तमेषु ॥ ११ ॥ अहो ! विरुद्धानि बहून्यका कर्माणि जन्मप्रभृतीतनीतिः। नाद्भिर्न मृद्भिर्न च भूरितीर्थैः शुद्धिर्ममास्तीति दधौ स चिन्ताम् ॥ १२ ॥ उवाच वाचंयमनाथमेप मुनीश ! सत्यं तव वाक्यमेतत् । दुष्कर्मणानेन विना परं मे विकर्मणो नोदरपूरणं स्यात् ॥ १३ ॥ अत्युजवले राजकुले प्रसूतिर्वभूव मे भूमितलप्रसिद्धे । अहं तु दुष्कर्मवशादिहैव यतीशजातोऽस्म्यतिशोचनीयः ॥ १४ ॥ कुलं च शीलं च यशः ------ SS 64 सुखं च विनाशितं नाथ ! मयाधमेन । अस्मादृशां केवलमेव जन्म भवे भवेदन विनाशनाय ॥ १५॥ संजातसंवेगगुण- स्तदानीमात्मानमेवं स मुहुर्निनिन्द । शुभेन भावेन विभाज्य भव्यं दयापरः सूरिवरोऽब्रवीत्तम् ॥ १६ ॥ नीचोचितां वृत्तिमिमां विहायास्माभिस्त्वमागच्छ सहोच्चबुद्धे । धर्मप्रभावेण भवद्वयं हि भवेदमोघं भवतो यथेह ॥ १७॥ गुरोगिरे तां गरिमाभिरामामाकर्ण्य कर्णामृतवृष्टितुल्याम् । शान्तस्वभावो भवभीलुकस्तैश्चचाल सार्द्ध जयतस्तदा सः॥ १८ ॥ सङ्गः सताम लवं कृतोऽपि क्षिणोति पायान्यखिलानि पुंसाम् । हन्त्येव तापं चिरकालजातं सुधाकणः स्फीतमपीह पीतः ॥ १९ ॥ गच्छन्नजस्रं गुरुभिः समन्तैः सर्वत्र सुश्रावकलन्धमानः । तिलङ्गदेशाभरणं जगाम पुरं स उलंगरनामधेयम् ॥ २० ॥ श्रेष्ठी श्रेष्ठतमः समस्तवणिजां तत्राययौ वन्दितुं सूरीन दूरितपातकानथ मुदा तत्रौढरः प्रौढधीः । श्रद्धावन्धुर- मानसं स जयतं दृष्ट्वोपविष्टं पुरोऽपृच्छत्कोऽयमिति स्फुटं निजविधिं कृत्वा समग्रं सुधीः ॥२१॥ ज्ञात्वा वृत्तं तदीयं निज- गुरुवचसा श्राद्धमुख्यः स दक्षस्तं गेहं भव्यदेहं स्वयमनयदयो साईचित्तो विनीतम् । कुर्वन् कर्माणि नित्यं सुत इव जयतस्तत्र तस्थौ सुखेन कः स्थानं मानकारि त्यजति ततमतिः प्राप्य सन्तापहारि ॥ २२ ॥ तदा सदाचारनिरीक्षणेन धर्मप्रियोऽसावभवत्क्षणेन । कठोरमप्येति कथं न लोहं हिरण्यतां शुद्धरसमसङ्गात् ॥ २३ ॥ पूजोपहारं सकलं गृहीत्वा सोऽगाद्विहारे सह श्रेष्ठिनाऽथ । श्रीधर्मपर्वण्यखिलान्विलोक्य लोकान् जिना निरतांश्च दध्यौ ॥ २४ ॥ धन्या इमे ये निजजन्म सार्थं कुर्वन्ति नित्यं जिनपूजनेन । इहोरुपर्वण्यपि पुण्यहीनान्मत्तः परो नो वरिवर्ति दीनः ॥ २५ ॥ पूर्वं भवेs- कारि मया न पुण्यं तेनान जन्मन्यहमीदृगासम् । अतोऽपि मे भाविभवे भवित्री हीनागतिः पुण्यविवर्जितस्य ॥ २६॥ ॐ -- में CR- एकेन केचिजनुपार्जयन्ति धन्याः प्रधानानि जनुशतानि । प्रमादवन्तः पुनरत्र तानि निष्पुण्यकाः केचन हारयन्ति ॥ २७ ॥ धर्मार्थकामोज्झितमूर्तिरत्र वर्ते वताहं पशुवन्नरोऽपि । सर्वोत्तमं मानुपजन्म लब्ध्वा मया मुधा धिग्गमितं मुधैव ॥ २८ ॥ दुष्प्रापमासाद्य मनुष्यजन्म यो मूढबुद्धिः कुरुते न धर्मम् । क्लेशैः स लब्धं बहुभिर्महान्धौ चिन्तामणिं पातयति प्रमादात् ॥ २९ ॥ स चिन्तयन्नेवमरं धरित्री सिञ्चन् स्वनेत्रश्रवदश्रुवारैः । दयालुना श्रेष्ठिवरेण तेन तदालुलोके जिनभ- क्तिभाजा ॥ ३० ॥ बहूपरोधं स विधाय पृष्टस्तस्मै तदाचष्ट निजं स्वरूपम् । भावोऽभवद्यस्य किलेदृशस्ते धन्यो भवानि- त्यवदत्स इभ्यः ॥ ३१॥ कर्पूरागुरुचन्दनादिकमिदं लात्वा त्वमी कुरु किं खेदं कुरुपे भविष्यति शुभं धर्मप्रभावात्तव । पूजैकापि जिनेशितुर्वितनुते साम्राज्यमल्पेतर कृप्ता श्रीमदशोकवन्निजमनोभावेन भव्यात्मनाम् ॥ ३२ ॥ यस्य स्वं तस्य पुण्यं भवति हि स चिरं चिन्तयित्वेति तज्ज्ञः पुष्पाणि प्रौढबुद्धिः सनयमयमलात्पञ्चभिः स्वैर्वरादैः । भक्तिः प्रोद्भूतरोमा- कुरनिकरचितस्तैः समानर्च युक्त्या धन्यंमन्यो जिनेन्द्र निखिलसुखकरं चानमन्मानहीनः ॥ ३३ ॥ अद्याभवत्सफलता न- यनद्वयस्य देव! त्वदीयचरणाम्बुजवीक्षणेन । अद्य त्रिलोकतिलक! प्रतिभासते मे संसारवारिधिरयं चुलुकप्रमाणः ॥३४॥ एवं नुत्वा च नत्वा जिनपतिमगमन्मन्दिरं सुन्दराशश्चके तत्रोपवासं सदहनि स महद्वासनावासितान्तः । तादृग् दृष्ट्वा विवेकं सुकृतमतिरलं श्रेष्ठिमुख्यः स हृष्टः तं मेने पुत्रतुल्यं ब्रजति निजगुणैर्मान्यतां वा न कोऽत्र ॥ ३५ ॥ स्तोकैरेव दिनैरनूनसुमनोभावोऽभजत्पञ्चतां स प्राप्तानशनः स्मरन् जिनवरं गर्हन्निजं दुष्कृतम् । श्रीमद्भूर्जरमण्डले त्रिभुवनाभि- ख्याङ्गजन्माऽभवन्नाम्ना श्रीकुमरः सुरोपमवपू राजन् ! भवेऽस्मिन् भवान् ॥ ३६॥ यत्पञ्चाशत्संख्यवर्षे वितेने श्रेयोऽमेयं SR 1 - -- प्राग्भवे श्रेष्ठिसङ्गात् । तावन्मात्रैर्वत्सरैरत्र यातैः प्राज्यं राज्यं तेन राजस्त्वयात्तम् ॥ ३७॥ चक्रे पापं यत्पुरा जन्मनि प्राग दुःखान्यासस्तेन तेऽस्मिन्भवे प्राक् । कर्मामुक्त क्षीयते नो नरेश ! रम्यारन्यं कल्पलक्षैरपीह ॥ ३८ ॥ स ऊढरः श्रेष्ठिवरो विपद्य मन्त्री बभूवोदयनाभिधानः । श्रीवाग्भटाख्याघभटाभिधानौ त्वमन्त्रिणौ तत्तनयावभूताम् ॥ ३९ ॥ पुरा- भवस्नेहवशादमीषां प्रीतिः पुरावत्समभूदिहापि । आराधितं जन्मनि प्राक्तने यत्तत्तेन भूयोऽपि नरेश ! लब्धम् ॥ ४०॥ आराध्य सम्यग जिनधर्ममत्र धर्मोन्नतिं भूरितरां विधाय । विषप्रयोगात्समवाप्य मृत्यु स्वर्द्धाम यातासि समाधिलीनः ॥४१॥ वयमपि चिरकालं संयम पालयित्वा स्वनशनविधिना च प्राप्य मृत्यु सुखेन। निखिलसुखमनोज्ञं देवलोकं तुरीयं निहतसकलशोकं सङ्गमिष्याम आर्य ! ॥ ४२ ॥ भरतभुवि नरत्वं प्राप्य भूयोऽपि भव्यं कृतसुकृतमनस्कौ त्यक्तभोगाभि- लाषौ । चरमवयसि शुद्धं संयम पालयित्वा शिवपदमपसादं भूप! यारयाव आवाम् ॥ ४३ ॥ श्रीमत्सीमन्धरनिगदितं जन्मवृत्तं निशम्य पद्मावक्रात्तव नृप ! मया शंसितं भूतभावि । अर्हत्सेवाफलमविकलं स्वानुभूतं पभूतं ज्ञात्वा चित्तं निज- मविचलं तत्र नित्यं विधेहि ॥ ४४ ॥ भूपः प्रोचे प्रभुमवितथं सर्वमेतत्तथापि कश्चिचिन्ताधृतिततिहरः प्रत्ययो वर्ततेऽत्र । अद्याप्येकोढरधनिगृहे विद्यते तत्र दासी पृष्टास्पष्टं गुरुरिति जगौ सा वदिष्यत्यशेषम् ॥ ४५ ॥ सम्प्रेष्य स्वनरांश्चकार नृपतिः शीघ्रं परीक्षां ततो वृत्ते तत्र सचिनमाप नितरां जातेयथार्थे हृदि । सूरिभ्यः कलिकालसर्वविदिति ख्यातं मुदा दत्तवान् नामासौ प्रससार भूमिवलये तत्सूर्यभावत् स्वयम् ॥ ४६॥ इत्थं सन्देहवृन्दं दलयनविमलज्ञानभानुप्रभाभि-(?) भिन्दन्मिथ्यामतानि त्रिदशनतपदः स्थापयन् जैनधर्मम् । सर्वज्ञोपज्ञमन्यद्विदधदधिध्रुवं वाङ्मयं नव्यमेवं सूरिः श्रीहेमचन्द्रो 4%-56 जगति विजयते सर्वविद्वद्युगेऽस्मिन् ॥ ४७ ॥ श्रीरतसिंहगुरुपादसरोरुहालिश्चारित्रसुन्दरकविर्यदिदं ततान । तस्मिन् कुमारचरिते भववर्णनाख्यः सर्गो निसर्गरुचिरो नवमः समाप्तः ॥४८॥ ॥ इति भट्टारकश्रीरलसिंहसूरिशिष्योपाध्यायनीचारित्रसुन्दरगणिविरचिते श्रीकुमारपाल- चरिते महाकाव्ये भववर्णनो नाम नवमः सर्गः ॥ ग्रन्थान १९२॥ 15 ॥ सर्गः॥ त ॥ अथ दशमः तन्वन्नथो सूरिवरस्य सेवां निनाय कालं स बहुं महेन । तयोवियोगासहयोर्वभूव स्नेहः सदा मांसनखोपमेयः ॥ १॥ प्रीतिः प्रतीतिः प्रभुता प्रतिष्ठा तस्याभवद्भूमिपतेः प्रकृष्टा । गुरौ च धर्मे वपुपि त्रिलोक्यां पक्षे सिते चन्द्रकलेव नित्यम् ॥२॥श्रीमूलराजान्वयभूपतीनां लूतामहाव्याधिरिहान्तकाले । संजायते लक्षनरेशमातुः शापात्सतीचक्रमणेः क्रमेण ॥ ३ ॥ सर्वाङ्गभङ्ग जनयन् स रोगो भोगापहः प्रादुरशूदथास्य । तद्वेदनाविह्वलसर्वगात्रो धात्रीधवः स्थातुमलं न सोऽभूत् ॥ ४ ॥ न मान्त्रिका नो गणका न वैद्या रोगं निहन्तुं तमलबभूवुः । शक्तोऽपि शक्नोति किमम्बुराशिं को लुप्तमर्यादमहो! निरोद्धम् ॥ ५ ॥ तद्यातनाबाधितमूर्तिरुच्चैः पप्रच्छ सूरिं गदशान्तिहेतुम् । दुर्भिक्षवाधाविधुराः स्मरन्ति विहाय लोका जलदं किमन्यम् ॥ ६॥ आयुर्घनं श्रीकुमरस्य वीक्ष्य ते दक्षमुख्या अवदन्विमृश्य । निवेश्यतेऽन्यो यदि कोऽपि राज्ये हित्वाऽमयस्त्वां तमयं प्रयाति ॥ ७ ॥ उवाच चातुर्यनिधिनरेशो वाचंयमेशं स चिरं विचार्य । हित्वापि सत्त्वं भगवंश्चि- 965 10 कुमारपाल- महाकाव्य ॥ ५५॥ रायुः श्रीविक्रमार्कोऽपि पुरा न जज्ञे ॥ ८॥ स्वदेहदानेन दयाईचित्तः पारापत मेघरथो ररक्ष । तत्याज राज्येन समं दयावान् राजीमती नेमिजिनो रजोवत् ॥ ९॥ धर्ममर्मविददानिजचर्मवर्म कर्णनृपतिर्वचनार्थम् । आयुरस्थिरतरं किल जानन दत्तवानिह निजास्थि दधीचिः ॥१०॥ निहन्म्यहं किं निजजीवितार्थ वराकमन्यं परमार्थविज्ञः। रङ्गस्य राज्ञोऽपि च मृत्युभीतिः स्याज्जीविताशापि समा क्षमायाम् ॥ ११॥ निवारिता मारिमिमां निजार्थे कुर्वन्नहं हास्यपदं जने स्याम् । कप्टेऽप्यनष्टोत्तमधर्मभावा न सत्तमाः स्वं नियमं त्यजन्ति ॥१२॥गिरः सुधासारसमा निपीय दयाकिरस्ता अवदद्यतीशः । निवेश्य राज्ये स्वयमेव दुःखं तत्ते हरिष्यामि नरेश्वराहम् ॥ १३ ॥ अवोचदुच्चैश्चकितो नरेशो भूयोऽपि पश्यन् प्रभुवक- पद्मम् । अनयमेतत्किमहं करोमि कार्य विचार्यादिशतार्यवर्याः ॥ १४ ॥ को देववृक्षं पिचुमन्दहेतोश्चिन्तामणि काचकृते निहन्ति । अजानिमित्तं सुरधेनुमत्र विनाशयेत्कः करिणं खरार्थे ॥ १५ ॥ सम्प्राप्तसंसारसमुद्रपारान् विश्वकसारान् हतमोहमारान् । जगद्धितांस्तद्विनिहत्य युष्मानवामि किं स्वं विगुणं गुणज्ञ ! ॥ १६ ॥ रोग निहन्तुं मम शक्तिरस्ति वाशागतं योगवलेन राजन् ! । अल विलम्बेन मदुक्कमेतद्विधेहि तत्सूरिरवोचदेवम् ॥ १७ ॥ ततः कुमारो महता महेन न्यवीविशत्सूरिवरं स्वराज्ये । सोपायनस्तं प्रणनाम मौलौ दधे पवित्रं स्वयमातपत्रम् ॥ १८ ॥ सप्राभृता भूपतयः परेऽपि समेत्य वेगादनमन्मुनीशम् । तत्पार्श्वयोर्मन्त्रिवरौ रयेण सच्चामरे चालयतः स हर्षात् ॥ १९ ॥ हित्वा कुमारं परिमुक्त- राज्यं समेतु मामेष गदोऽधुनैव । उवाच वाचंयमचक्रवर्ती तदा मुदैवं स सभासमक्षम् ॥ २० ॥ ततः कुमारं स रयेण हित्वा लूतामयः सूरिशरीरमार । क्रुद्धस्तृतीयज्वरवन्निजारिं गृह्णन्ति यद्वा छलमेव भूताः ॥२१॥ श्लिष्टं रुजा तत्र गुरोः शरीरमनीदृशं तत्सहसा बभूव । सङ्कान्तमन्तः किल कालकूटं भिनत्ति देहं निखिलं क्षणेन ॥ २२ ॥ रोगं हन्तुं निश्च- लाङ्गः स योगी प्राणायाम पूरकाख्यं वितेने । आकृप्योटै वायुमाधारपीठात्पुष्टं कोष्ठे धारयामास धृष्टः ॥२३॥ अास्यं श्राग नाभिपद्म विधाय नीत्वा वातं हृत्सरोजे दधार । भित्त्वा ग्रन्थिं वायुना मन्दमन्दं तन्द्राहीनोऽपूरयब्रह्मरन्ध्रम् ॥ २४ ॥ रुद्धा द्वाराण्येष शेषाणि दक्षः कृत्वा सम्यग् रेचकं स्वाननेन । अई नीत्वा तं वही रोगपिण्ड चिक्षेपाय लील- याऽलावुपात्रे ॥ २५ ॥ ऊर्दू नीते सूर्यविम्वे समन्ताचन्द्रस्तापाद्राक् सुधाभिर्ववर्ष । श्लिष्टं ताभिः सर्वरोगापहाभिर्वेगादनं चङ्गमासीदमुष्य ॥ २६ ॥ तुम्ब तद्राग मन्त्रशक्त्यैव नीत्वा स्पर्शानी सोऽन्धकूपे मुमोच । हित्वा धर्मद्वेषिणं नैप रोगो वंशेऽप्यस्मिंस्ते भविष्यत्यदोऽवक् ॥ २७ ॥ गुरुप्रसादाद्धतसर्वसादात् शान्ते गदे तत्र स मृत्युरूपे । मेने जनुः स्वस्य नवं नरेशस्तेने महं भूरितरं पुरे स्वे ॥ २८ ॥ विधाय यानां विमलाचलेऽहं नेमीश्वरं रैवतके च नत्वा । गृह्णाम्यहो ! मानव- जन्मसारमिदं स दध्यौ नृपतिर्हृदन्तः ॥ २९ ॥ शुद्धे मुहूर्ते गुरवो वितेनू राज्ञोऽस्य सद्देशललाममुच्चैः। तदा चरः कोऽपि समेत्य वेगाद्यजिज्ञपत्तं रचिताञ्जलिः सन् ॥ ३० ॥ साई नरेशैर्बहुभिः समेति कर्णो नृपस्त्वां प्रति डाहलेशः । धर्मान्त- रायं तमवेत्य वाढं गुरोः पुरः स्वं कुमरः शुशोच ॥ ३१ ॥ जातोऽन्तरायो मदभाग्ययोगादयं गरीयानिह धर्मकृत्ये । मनो- रथा भाग्यविवर्जितानां यद्वा न सिध्यन्ति निरुक्तमेतत् ॥ ३२ ॥ मितम्पचनीरधमोत्तमेच्छा सुरङ्गधूली कुसुमं वनस्य । छाया च कूपस्य विनाशमेते पश्चापि तत्रैव किल प्रयान्ति ॥ ३३ ॥ नीचा अपीच्छां रुचिरां कदाचित्कुर्वन्त्यहो ! सज्जन- सङ्गमेन । रुन्धन्ति तेपां सततार्जितानि तमांसि तां पुण्यविवर्जितानाम् ॥ ३४ ॥ स चिन्तयन्वमवादि तेन श्रीसूरिणा , कालविदा तदानीम् । भविष्यति द्वादशमे समाधिर्यामे स्वयं ते कुरु माऽधृति तत् ॥ ३५ ॥ तत्सूरिवाक्यं हृदये निधाय व्यधात्स यात्रोद्यममादरेण । चरो द्वितीयेऽहनि तावदेत्य न्यवेदयत्कर्णनरेशमृत्युम् ॥ ३६ ॥ सङ्घन साकं स चतुर्विधेन बुधेन सार्द्ध गुरुणा च तेन । नन्तुं जिनं श्रीविमलाचलेऽगाद् युतो नरेशैर्बहुभिः कुमारः ॥ ३७॥ पुण्डरीकगिरिराजमण्डनं पापतापनिखिलाधिखण्डनम् । तत्र नाभितनयं विनयाढ्योऽपूजयजिनपति मुदितोऽसौ ॥ ३८ ॥ पश्यंस्तीर्थ मन्यमानः कृतार्थ स्वं जन्मासौ मण्डपं द्रागुपेत्य । कृत्वा मुक्ताशुक्तिमुद्रां नरेन्द्रो मन्द्रारावं सोऽस्तवीच्छ्रीजिनेन्द्रम् ॥ ३९॥ कर्मरेणु- हरणैकसमीर ! मोहमल्लमदमनवीर ! । लब्धसंसृतिमहोदधितीर ! श्रीजिनेन्द्र ! जय मन्दरधीर ! ॥ ४० ॥ ये यजन्ति तव पादपङ्कजं तान् भजन्ति न जनुर्जरारुजः। आश्रयन्ति तव नाथ ! ये मतं सन्ततं भवति तन्मतं समम् ॥४१॥ नंनमीति तव यः पदौ मुदा तं नमन्ति निखिलाः सुराधिपाः। यत्तनोति तव पादयोनैतिं तच्छिरो नमति नापरं ॥ ४२ ॥ शासनस्य तव शासनान्तरैर्ये वदन्ति समतां जडाशयाः। ते विषेण सदृशं वतामृतं श्रीजिनेश ! गणयन्त्यचे- तनाः ॥ ४३ ॥ विहाय ये त्वां जगदैकनाथं श्रयन्ति देवानपरान् शिवाय । ते कल्पवृक्षं परिमुच्य मूढा गृहन्ति धत्तुरतरं फलार्थम् ॥ ४४ ॥ केऽपि रागनिभृता मयेक्षिताः क्रोधरुद्धवपुपः परे सुराः । वीतदोपकलुषोऽधुना भवानेक एव भगवन् ! विलोकितः ॥ ४५ ॥ नमोऽस्तु तुभ्यं जिन ! चिन्मयाय नमोऽस्तु तुभ्यं जगदीश्वराय । नमोऽस्तु ते सेवकशङ्कराय नमोऽस्तु ते प्राप्तमहोदयाय ॥ ४६॥ भ्रान्तोऽत्र तीर्थानि बहूनि नाथ ! तेष्वालुलोके किल तारकस्त्वम् । तत्तावकीने चरणेऽस्मि लग्नः कृत्वा कृपां तारय मां कृपालो ! ॥४७॥ ज्ञातात्र विश्वे भगवंस्त्वमेकस्त्वत्तः परो नास्ति कृपापरोऽपि । पुनः "5 te ॥ मत्तः कृपापात्रमिहापरोनो तत्किार स्वीकुरु मां शरण्य ! ॥४८॥ त्वं जीवितं त्वं जनकस्त्वमम्या त्वं मे पतिस्त्वं गति- रद्वितीया । सीदन्तमेनं निजकिङ्करं तत्स्वामिन् ! कृतार्थीकुरु वीक्षणेन ॥ ४९ ॥ स्तवीमि नान्यं न परं वदामि भजामि नान्यं न परं ब्रजामि । तन्मां पतन्तं भवसागरान्तः किं त्रायसे नो करुणासमुद्र ! ॥ ५० ॥ न चक्रिशकादिपदं समीहे त्वदाज्ञया हीनमहं निरीह ! । रत्वमप्यस्तु भवान्तरेऽपि स्वामिस्त्वदाज्ञावशवर्तिनो मे ॥५१॥ संसारनीरनिधितारक! चिन्तितार्थ ! श्रीरलसिंहगुरुसत्त्वविराजमान ! । मायादिदोपरहितां निहतान्तरारे ! चारित्रसुन्दरमति जिन ! देहि मह्यम् ॥५२॥ स्तवनमिदमुदारं भक्तिसारं विधत्ते जिन ! वृजिनहरं यस्तावकं कण्ठपीठे । सकलविपदपेतं नित्यसम्पत्समेतं भजति विमलभावोऽसौ महानन्दसौख्यम् ॥ ५३ ॥ ध्वस्तसर्ववृजिना जिनमूतीरयत्स निखिला अपि हर्षात् । सूरिरा- जवचनेन समग्रं सहनायकविधि विदधे च ॥ ५४ ॥ भूरिभूरिनिचयं प्रवितीर्य देवलोकमनृणं विदधेऽसौ । नो तथापि विरराम रसेन दानबुद्धिरसमा कुमरस्य ॥ ५५ ॥ अर्चयन्मधुमतीप्रमुखेषु श्रीजिनेन्द्रभुवनानि पुरेपु । स्थापयन् जिनमतं सुरदेशे रैवताद्रिमगमत्स नरेशः ॥ ५६ ॥ तत्र यादवकुलोदयसूर्यं ध्वस्तमोहमदनाखिलशौर्यम् । आनमद्भवलताऽतनुनेमि नेमिमेप विनिमेषगय॑म् ॥ ५७ ॥ सज्जनः सुजननः किल मन्येऽचीकरजिनविहारमिमं यः। चिन्तयन्निति चिरं स चकार चारुपुष्पनिवहेन जिनार्चाम् ॥ ५८ ॥ भरत इव कुमारस्तीर्थयात्रां स कुर्वन् जलद इव वितेने दानसापां न दक्षः। गुरुरिव नयवाक्यैः प्रीणयन् सर्वसचं हरिरिव निजद्रङ्गं भूरिरझं विवेश ॥ ५९ ॥ इति गुरुवरिवस्यां वश्यचित्तो वितन्वन् स - 5 प्रवचनजलराशेः सूक्तरत्नानि चिन्वन् । निखिलसुखनिधानं देवलोकोपमानं समयमयमनैषीच्छ्रीकुमारो महान्तम् ॥ ६॥ ॥ इति श्रीकुमारपालचरिते दशमसर्ग प्रथमो वर्गः ॥ (AI श्रीरामवनिर्मलनीतिधान्नि तस्मिन् धरां शासति दीप्तधाम्नि । नारातयो भीतय ईतयोऽपि जनेऽभवन् क्वापि सुधर्म- भाजि ॥१॥ श्रीवाग्भटाख्यानभटाभिधानौ तौ मन्त्रिणौ चक्रतुरन्यचिन्ताम् । स्वयं तु सद्धर्मपरः करोति सुरेशवद्राज्यमसौ नरेशः॥२॥ अथ सरणमगातां तावकस्मादमात्यावुदयनतनयो द्राग दैवयोगादलङ्घयात् । कलितविपुलशोकस्तत्र लोकोऽ- खिलोऽपि प्रकटितघनसादो दीननादं रुरोद ॥ ३॥ श्रीहेमचन्द्रगुरवोऽप्युरुभाग्यवन्तस्तेऽपालयश्चतुरशीतिसमा निजायुः। ज्ञात्वावसानसमयं समयैकविज्ञाः आराधनां विदधिरेऽनशनेन सार्द्धम् ॥ ४॥ स्वामिन् ! विमुच्य किमु मामिह देवलोकं गच्छेश ! गच्छसि वितुच्छकलानिधान!। पूर्णापि सर्वजनताभिरियं धरित्री शून्या भविष्यति मुनीश! विना भवन्तम् ॥५॥ एवं वदन्तमवनीपतिमाह सूरिा खेदमुबह नरेश ! विचारविज्ञ ! । षण्मासशेषमिह तेऽपि किलायुरस्ति गन्ता भवानपि ततः परलोकमाशु ॥ ६ ॥ भूपाय शोकविधुराय निवेद्य भावि राज्यादिवृत्तमखिलं प्रशमं दधानाः । श्रीवीतरागचरणस्म- रणैकचित्ताः सूरीश्वरा दिवमगुः कमलासनस्थाः ॥७॥ कर्पूरागुरुचन्दनप्रभृतिभिर्द्रव्यैः सुगन्धैर्विभोः संस्कारं वपुषश्चकार कुमरो यद्वजिनेन्दोहरिः।धातः किं कृतवानसीति च मुहुनिन्दन विधिं निर्भर स्मृत्वा तद्गुणसंचयं मृतिसमामानछे मूर्छा- मसौ ॥८॥ शीतोपचारकरणेन स जातसंज्ञस्तज्ज्ञोऽपि मोहविवशो विललाप भूपः । दृष्ट्वापि सूरिमरणं न विदीर्यते यद् k ही वनकर्कशमिदं हृदयं धिगस्तु ॥ ९॥ कण्टेश्वरी गुरुसुरीं प्रकटप्रभावां बद्धा निनाय लघु यो निजमन्त्रशक्त्या । सोऽयं सुरासुरनरेश्वरसेव्यपादः श्रीहेमसूरिरभजत्सुरलोकमद्य ॥ १० ॥ धिर धिर वलं परिजनं स्वजनं धिगस्तु धिग् वैभवं विषयसौख्यमहो ! धिगेतत् । यजन्तुरत्र निजकर्मवशः क्षणेन सर्व विहाय परलोकमयं प्रयाति ॥ ११ ॥ अहह सजसि धातर्विश्वविश्वावतंसं पुरुषमखिलविद्यावन्तमुद्यत्पशंसम् । तमपि यमसमीपं प्रापयन्नात्मनैव ब्रजसि बत ! विनाशं कि कृतघ्नेश ! न त्वम् ॥ १२॥ ये विश्वोरुपरोपकाररसिका ये सर्वसाधारणा ये दीनातिहराः स्फुरद्गणधरा ये शीलरता- कराः। ये विद्वज्जनमौलिमण्डननिभा ये सज्जनानन्दना धिक् सन्तः कृपणेन तेऽपि विधिना दीर्घायुपो नो कृताः ॥१३॥ संबोधितः स निपुणैरवलम्व्य सत्त्वमादाय भस्म गुरुदेहभवं ववन्दे । तच्चाददेऽखिलजनोऽप्यखिलामयनं गर्ताऽभवद्गुरुत- रात्र यथा क्रमेण ॥ १४ ॥ रक्षाकरामखिलरोगहरां विभूतिमारात्समेत्य बहुकालमलाजनौघः । गर्ता क्रमेण गुरुनामधरा बभूव सा श्रूयत यदणहिल्लपुरेऽधुनापि ॥ १५ ॥ ताम्बूलचन्दनविलेपनभोगहीनः सुष्वाप शोकविवशः स दशाहमुाम् । इत्यादि पण्डितवचोभिरमुञ्चदुच्चैः शोक कुमारनृपतिविदिताखिलार्थः ॥ १६ ॥ अम्भोधीनपि शोपयन्ति चतुरो येऽन- न्तवीर्यान्विता ये मेरु दलयन्ति वज्रकठिनैमुष्टिप्रहारैरपि। दण्डीकृत्य सुराचलं वसुमती छत्राकृतिं कुर्वते यावत्तेऽपि जिनाः कृतान्तवदने कालेन सर्वे गताः॥ १७ ॥ लुप्तं येनान्यतेजः परमपि निखिला वोधिता नीरजाली भाभिर्विश्व निजाभिः सकलमपि किलोझासितं येन वेगात् । आक्रान्तं भूमिखण्डं निखिलमपि पदैर्येन विध्वस्तशङ्ख संप्रत्यस्तं गतोऽसौ हतवि- धिवशतः शोचनीयो न भानुः ॥ १८ ॥ भूपः श्रीकुमरः स्मरन् गुरुगुणान् संवेगरुद्धाशयः पण्मासानिति सोऽनयद्वहुतरं 55 M ॥ तत्तत्कथाकर्णनैः। चैत्ये स्वं वलिमात्मनैव मुदितोऽथाढौकयत्प्रौढधीख़त्वा सूरिगिरावसानसमयं चौलुक्यचूडामणिः॥१९॥ भ्रातृव्यदत्तगरदोषविशोषिताङ्गः श्रीवीतरागचरणस्मरणैकचित्तः। आयुः प्रपाल्य षडशीतिसमाप्रमाणं शिश्राय देवभुवनं स कुमारभूपः ॥ २० ॥ याते तत्र परत्र सर्वजनतातातोपमे भूपतौ हाहारावपरः पराधृतिधरश्चक्रन्द लोकोऽखिलः । नागृह्णन्पशवोऽपि शोकविधुराः ! स्वाहारनीरादिकं नीलीकजलसान्द्रकर्दमभरैर्लिप्ता इवासन दिशः ॥२१॥ हा चौलुक्य- कुलावतंस ! वसुधाशृङ्गारसद्धार ! हा हा विश्वाभयदानदक्ष ! रमणीप्रत्यक्षकन्दर्प ! हा । हा लोकोत्तमतात ! दानदलि- तोद्दारिद्रसंदोह ! हा हा धर्मप्रिय ! हा कुमारनृपते ! वासि प्रतीक्षस्व नः ॥ २२ ॥ जीमूते त्वयि विश्वतापशमने दूरं प्रयाते दिवं पूर्ण शंवरराशिभिश्चिरतरं सम्मानसंमानसम् । तप्तं तीव्रकरैर्गमिष्यति विभो ! शोषंक्षणेनाधुना हंसस्तद्विरहासहः पुनरयं स्थानान्तरं यास्यति ॥ २३ ॥ बुद्धिर्देवगुरौ कला सितरुचौ गाम्भीर्यमम्भोनिधौ धैर्य देवगुरौ क्षमा भुवि रवौ प्राज्यः प्र तापस्तव । स्थानेष्वेव कलानिधान ! सकलान्येतानि यास्यन्त्यहो ! केयं जीवदया गते त्वयि पुनर्याता विचिन्त्या प्रभो! ॥ २४ ॥ सर्वानात्मजवत्त्वया प्रतिदिनं जन्तूनिमान्पालितान् प्रीत्या कः क्षितिपालमस्तकमणे ! तान् पालयिष्यत्यहो ! एवं वाष्पनिरुद्धकण्ठनयना वाग्भिर्निजाभिस्तदा प्रोचुः प्राणिगणा जलस्थलनभोयाना दधानाः शुचम् ॥ २५ ॥ धर्मात्मन् ! परमार्हत ! प्रियकर ! मापालचूडामणे ! विद्वच्छेखर ! मारिवारक ! मृतद्रव्यप्रमोक्तर्विभो ! । तद्भूयोऽवतरैकशोऽत्र करुणामाधाय भूमण्डले एते त्वद्विरहासहा बहुतरं विज्ञापयन्त्यशिनः ॥ २६ ॥ एवं सर्वे कुमारं प्रकटितकरुणाः प्राणिनः संस्तुवन्तः पीत्वा तत्कीर्तिगङ्गां निहतकलिमला निर्वृति लेभिरे ते । स्वारीभिः सहोच्चैः सुरगणमहितः पूर्णसर्वाभिलाषः ॥ 48 न -र श्रीमान् स्वर्धाम्नि नित्यं सुविषयविषयं सोऽपि सौख्यं सिपेवे ॥ २७ ॥ एवं ये जिनशासनोन्नतिततिं कुर्वन्ति भव्याङ्गि- नस्तेऽत्रामुत्र च सच्चरित्रविदिताः स्युः सम्पदामास्पदम् । भुक्त्वा दानफलं चिरं दिविपदावासेषु वाञ्छातिगं स्वच्छं शाश्वतमाश्रयन्ति विततं कैवल्यसौख्यं क्रमात् ॥ २८ ॥ ॥ अथ प्रशस्तिः॥ नित्यं सच्छुक्लपक्षस्थितिरतिविशदो नाशितश्यामपक्षो विध्वस्ताशेषदोषो बहुमुनिसहितो भूरिशोभामिरामः। विश्वाह्लादं ददानो हतनिखिलतमाः शश्वदाप्तोदयोऽन श्रीमान् श्रीचन्द्रगच्छोऽपरविधुवदयं राजते शुद्धवृत्तः॥ २९ ॥ कल्याणावलिशालितोऽत्र सुमन श्रेणीश्रितो विश्रुतः श्रीमान् वृद्धतपोगणो विजयतेऽयं मेरुवनिश्चलः। विश्वालङ्करणस्य विस्तृतिजुषः सन्नन्दनस्यान्वहं भान्ति स्फातियुतस्य यस्य पुरतः पादा इवान्ये गणाः ॥ ३० ॥ तस्मिन् विस्मयकारिचारुचरितश्चारित्रचूडामणिः श्रीमान् श्रीविजयेन्दुसूरिरभवद्भव्याङ्गिचिन्तामणिः । तत्पट्टे समभून्महीन्द्रमहितः श्रीक्षेमकीर्तिगुरुः कांस्कान्नो विबुधान् धिनोति नितरां यत्कल्पवृत्तिस्तता ॥ ३१ ॥ श्रीरत्नाकरसूरयः समभवन् ज्ञानाम्बुरनाकराः कीर्तिस्फूर्तिमनोहराः शुभगणश्रेणीलताम्भोधराः । यन्नाम्नान तपोगणोऽयमभजगत्ताकराख्यां परां ख्यातेन क्षितिमण्डलेऽपि सकले सत्यां तमोहारिणा ॥ ३२ ॥ Nag RS 4-5 Pr तस्यानुफ्रमपूर्नशैलतरणिः कामद्विपोचत्सृणिः सूरीशोऽभयसिंहप्रत्ययसिघू (प्रत्ययमभू-) धोगीन्द्रचूडामणिः । तत्पटे प्रकटप्रभावविदितो विध्वस्तवादि€निर्जज्ञे श्रीजयपुन्द्रसूरिरसमो भव्यात्मचिन्तामणिः ॥ ३२ ॥ कीर्तिर्यस्य निरस्ततापनिवहा सच्छीलदण्डस्थिता जयचन्द्रकलोज्वला दशदिशां घेतातपनायते । तत्पट्टे स्फुटवादिकुमारघटासिंहो हताहोनजः सूरीन्द्रो जयताधिरं गणधरः श्रीरलसिंहाभिधः ॥३४॥ तखानेकविनेयसेवितपदाम्भोजस्य भव्यावली वयक्षेत्र चकोरचन्द्रसदशस्यानमभूमिपतेः । शिष्याणू रचयायकार रसिकश्चारिनरम्याभिधो विश्वाधर्यकर कुमारचरितं नानाविचारोत्तरम् ॥ ३५ ॥ चके यदभ्यर्थनया पवित्रं चरिनमेतन्मयका विचित्रं । प्रवर्तिताशेषशुभः स नित्यं जीयाक्षणीशः शुभचन्द्रसंज्ञः ॥ २६ ॥ विना जिनेन्द्र श्रुतधारिणं वा सम्यक परो वेत्ति न शब्दशासम् । अतो बुधैः प्रेम विचिन्त्य शोध्यं नान्योऽस्ति धर्मो हि परोपकारात् ॥ ३७ ॥ ये मज्जाब्यतमोऽहरभिजवचोभाभिः प्रभावाशिता विश्वोझ्योतकराः प्रतापनिकरा दोषापहाः सूर्यवत् । ते मोदं ददताममन्दमुदितानन्दाः सदानन्दनाः श्रीमच्छीजयमूर्तिपाठकवरा योगीश्वराः सर्वदा ॥ ३८ ॥ श्रीरत्नसिंहगुरुपादसरोरुहालिश्चारित्रसुन्दरगणिर्यदिदं वितेने । तस्मिन् कुमारचरितेऽनशनाभिधानः सर्गः समाप्तिमगमहशमः शमान्यः ॥ ३९ ॥ -- 5655-56-55-4-55- SS HER 56RRERॐ६-र ॥ इति श्रीवृहत्तपागच्छनायकभट्टारकश्रीरमसिंहसूरिशिष्योपाध्यायश्रीचारित्रसुन्दरगणिविरचिते श्रीकुमारपालचरिते महाकाव्ये दशमः सर्गः ॥ ग्रन्थानं १६४ ॥ द्वात्रिंशदधिकं ज्ञेयं सहस्रद्वितयं बुधैः । चरित्रेऽत्र विचित्रेऽपि पचैहथैरनुष्टुभाम् ॥ १॥ सर्वग्रन्थानम् ॥ २०३२ ॥ ॥ समाप्तं कुमारपालचरितम् ॥ 15 ASRK55

HER
SDOG DOCTORGANISEDIEVE
समाप्तमिदं कुमारपालचरितमहाकाव्यम्
Monal
SESSISTED
र रा रा भेट ता
S
NPUR
SRARIABAR
Velavda

No text on this page.

Kumarpal Charitra Mahakavyam

Author
Vijayen, Chatur
Title
Kumarpal Charitra Mahakavyam
File name
Kumarpal Charitra Mahakavyam
Text
OCR done
Citation
1916
Published
2009/12
Publisher
Bhavnagar, Shreejainaatmanandsabha.
Language
Sanskrit
Pages
126
Library
Prakrit Bharati Academy, Jaipur
DLI number
318710
Barcode
99999990244910.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
Cu2W75qv1Op
Download PDF

Kumarpal Charitra Mahakavyam