Svi-vmpl-machilipatnam
Kand-aisundarii
Front matter
No text on this page.
KAVYAMÁLA. 7.
THE
·KARNASUNDARÎ
OF
BIHLANA.
EDITED BY
PANDIT DURGÂPRASAD
AND
KÂS'INÂTH PÂNDURANG PARAB.
Second Revised Edition.
PRINTED AND PUBLISHED
BY
TUKÂRÂM JÁVAJÎ,
PROPRIETOR OF JÂVAJI DÂDÂJi's "NIRŅAYA-SÄGAR” PRESS.
BOMBAY:
1895.
Price 8 411201$.
(Registereil according to act XXV of 1867.) [ All rights reserved by the publisher. ] काव्यमाला. ७. महाकविश्रीबिलणविरचिता कर्णसुन्दरी। जयपुरमहाराजाश्रितेन पण्डितत्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्वापुरवासिना परबोपाव- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधिता । साच मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीता। द्वितीयं संस्करणम् । १८९५ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरयबालवाधिपते- रेवाधिकारः।) कूल्यं रूप्यकार्धम् ।
No text on this page.
ब्रिह्मणः। 4 अस्ति कश्मीरेष्वनेकगुणगुम्फित प्रवरपुर नाम नगरम्. वर्तते च ततः क्रोशत्रयान्तरे तक्षकनागाधिष्ठित विमलसलिलभरितकुण्डमण्डितस्य जयवनाख्यस्थलस्य समीपे द्राक्षा- कुड्डमक्षेत्रसमुल्लसितोभूयभागः पम्मरमणीयः खोनमुख(ष)नामको प्रामः. निवसन्ति स तत्र गोपादित्यमहीभुजा मध्यदेशात्सादरमानीय समावासिताः श्रौतस्मार्तधर्मानुष्ठाननि- ष्ठितचेतसो ब्रह्मचिन्तनैकतानवृत्तयः कौशिकगोत्रोत्पन्नाः केचन भूसुरसत्तमाः. तेषु निखि- लवेदवेदाङ्गवेत्ता मुक्तिकलशो नाम पण्डितरत्नमासीत्. तस्य वदान्यो विक्रान्तो विद्वांश्च राजकलशाभिधस्तनयो वभूव. तस्मान्महाभाष्यव्याख्याता ज्येष्ठकलशाख्यः सूनुरुदपद्यत, यो नागादेवीं नाम पतिव्रताग्रगण्यं भार्यामूढवान्. तयोविद्वन्मूर्धन्यो नानानरपति- परिषत्सु लब्धसंमानः सत्कविरिष्टरामाख्यः, काञ्चनगौराङ्गो वेदवेदाङ्गसाहित्यादिनिखि- लविद्याकुलगृहं जगल्ललामभूतो महाकविबिह्वणः, कवितानिवासस्थलमानन्दाख्यश्चेति पुत्रत्रयमुदपेदे. तेषु विह्नणो बाल्यमतिवाह्य यौवने नानादेशविलोकनकौतुकादनन्तदेव- सूनुकलशदेवराज्यसमये कश्मीरान्परित्यज्य मथुरा-वृन्दावन-कान्यकुब्ज(कनौज)-काशी- प्रयाग-अयोध्या-डाहल-धारानगर-गुर्जरदेश-सोमनाथपत्तन-सेतुबन्धादिस्थलेषुबम्भ्रम्य- माणस्तत्तद्देशीयविविधभूपालसभाजितः क्रमेण दक्षिणदिमण्डनायमानां चालुक्यवंश्यनरे- न्द्रराजधानी कल्याणाभिधां नगरीमाससाद. लब्धवांश्च तत्रैव चालुक्यवंशभूषणेन क- र्णाटदेशाधीशेन कुन्तलेन्दुना त्रैलोक्यमल्लापरनामधेयेनाहवमलेन तत्सूनुना विक्रमाङ्कदे- वेन वा सादरमर्पितां विद्याधिपतिरितिपदवीपुरस्कृतां भूयसी संपत्तिम्. प्रणिनाय च तत्रैव विक्रमाङ्कदेवचरिताभिधं महाकाव्यमिति विक्रमाङ्कदेवचरितादेवावगम्यते. १. राजधानीनगरम् , अधुना यस्य श्रीनगरनाम्ना व्यवहारः, २. अधुना यस्य 'खु. नमोह'नाम्ना प्रसिद्धिः. ३. ख्रिस्ताब्दप्रारम्भात्किंचिदूनचतुःशतवर्षपूर्व गोपादित्यमही पतिः कश्मीरेषु राज्यं कुर्वन्नासीत्. ४. 'कश्मीरेभ्यो विनिर्यान्तं राज्ये कलशभूपतेः। विद्यापतिं यं कर्णाटश्चक्रे पर्माडिभूपतिः॥९३६॥प्रसर्पतः करिरिभिः कर्णाटकटकान्तरे। राज्ञोऽने ददृशे तुङ्गं यस्यैवातपवारणम् ॥ ९३७ ॥ त्यागिनं हर्षदेवं स श्रुती सुकविबा- न्धवम् । बिह्नणो वञ्चनां मेने विभूति तावतीमपि ॥ ९३८ ॥ इति कह्नणराजतरङ्गेि- च्याः सप्तमे तरङ्गे समुपलभ्यते. ख्रिस्ताब्दीयैकादशशतकस्योत्तरार्धे कलशदेवराज्यसमय:, तदैव बिहणः कश्मीरान्परित्यक्तवान्. ५. विक्रमाङ्कदेवचरिते प्रतिसर्गसमाप्तौ 'त्रिभुव. नमल्लदेवविद्यापति' इति बिलणविशेषणं वर्तते. एतेन आहवमल्लापरनाम्ना त्रैलोक्यमलेनैव बिह्मणाय विद्यापतिरिति पदवी वितीर्णा स्यादित्यनुमीयते.
or काव्यमाला। बिह्नणचरिताभिधे खण्डकाव्ये तु "गुर्जरदेशे अनहिलपत्तनाभिधे नगरे वैरिसिंहा- -भिधो नरपतिः, सुताराभिधा अवन्तिभूपालदुहिता तन्महिषी चासीत् । तयोरेका शशिकलानान्नी कन्या समुत्पन्ना । सा च क्रमेण यौवनारूढाविरूपलावण्यवती पित्रो; सुतरामानन्ददायिनी बभूव । तत्पिता तु नित्यं तदध्यापनचिन्ताकुलस्तस्थौ । अ- स्मिन्नवसरे काश्मीरको बिह्वणकवितत्र समायातः । नीतश्च राजपुरोहितेनातिकौतु- कान्महीपतिसमीपम् । वैरिसिंहमहीपतिरपि निरुपमं तद्विद्याचमत्कारमतिमधुरां च तदीयकवितामाकर्ण्य बहुसंपत्तिसमर्पणपूर्वकं साभ्यर्थनं च नियोजितवान्खदुहितुः शशिकलायाः पाठने । सापि पितुराज्ञानुकूलं बाल्योचितां शुकशारिकादिक्रीडामपहाय निजगुरुं बिहणं शुश्रूषमाणा विद्याभ्यासं कुर्वती खल्पैरेव दिवसैः संस्कृतप्राकृतादि सर्वमधीतवती । एकदा चातिसुरभिगन्धसंचाररुचिरे पुष्पमालादिपरिष्कृते प्रासादे राजसुतां कामशास्त्रं पाठयन्कविरासीत् । तदा च रूपयौवनविद्याविनयादिगुणगणसंपन्ने तस्मिन्कविवरे बद्धभावा शशिलेखा नानाविधै वैस्तस्य चित्तमात्मायत्तं चकार । दैव- नोदितः काममोहितश्च कविरपि प्राग्जन्मजायायास्तस्या गूढं गान्धर्वविधिना पाणि जग्राह । रञ्जयामास च मन्मथतन्त्रप्रतिपादिताभिर्बहुविधाभिः केलिभिर्विविधाभिश्च बन्धक्रियाभिर्नरेन्द्रपुत्रीम् । एवं सुखमनुभवतोस्तयोरतिक्रान्ते कियत्यंप्यनेहसि रक्षापु- रुषा राजसुतायास्तप्ततपनीयकान्तीन्यङ्गानि म्लायमानशिरीषकुसुमोपमानि संभोग- चिह्नाङ्कितानि चालोक्य, विज्ञाय च कथमपि सर्वे गूढं चरितं राज्ञे निवेदयांचाः । रा- जापि वज्रनिपातोपमं तद्वृत्तमाकर्ण्य रोषेण प्रज्वलन्नादिदेश बिलणस्य शूलारोपणम् । तदैव धातुकपुरुषैः शूलाधिरोपणस्थलं नीतो बिलणः, उक्तश्च-'भो वध्य, संनिहित- स्तवाधुना मृत्युः । स्मर निजामाराध्यदेवताम्' इति । बिह्मणोऽपि राजसुतासकमना मृत्युभयमप्यगणयन् 'अद्यापि तां कनकचम्पकदामगौरी' इत्यादि शशिलेखास्मरण- रूपां पञ्चाशिकां समुदीरितवान् । अत्रान्तरे प्राणप्रियाया निजसुतायास्तस्मिन्गा: ढमनुरागं निजमहिषीमुखादाकर्ण्य किंचिच्छिथिलितकोपो बिह्नणगुणगणवशीकृतखा- न्तैः पौरैः परिजनैर्मतिभिर्बोधितश्च ब्राह्मणवधभीरुनरेन्द्रः परमेश्वरेच्छामेव तादृशीं मन्यमानो निवारयामास कविं शूलारोपणात् । समर्पितवांश्च तदैव तस्मै शशिले- खाम्, बहुअामगजतुरगसुवर्णरत्नादिसमृद्धिं च । एवं मृत्युमुखान्मुक्तो बिलणकवि- नृपतिप्रसादमासाद्य शशिलेखया समं चिरं सुखमनुबभूव ।" इति कथा वर्तते. पर- मियं कथा नातिविश्वासाही, यतो बिलण: ख्रिस्ताब्दीयैकादशशतकोत्तरार्धे कश्मी- रान्परित्यज्य समागतस्तदा अनहिलपत्तने चालुक्यवंशोद्भवो भीमदेवसूनुः कर्णराजी महीपतिरासीत्, न तु वैरिसिंह चापोत्कट(चावडा)वंशोद्भवो वैरिसिंहस्तु ९२० मिते १. बिलणचरितप्रणेतुर्नाम नोपलभ्यते. २. 'वीरसिंहः' इत्यपि नाम पुस्तके वर्तते. ३. पुस्तकान्तरे 'सुनारी' इति पाठोऽस्ति. ४. कर्णराजस्य राज्यसमयस्तु १०७२ मि- तानिस्ताब्दादारभ्य १०९४ मितनिस्तादपर्यन्तमासीत्.
बिहणः। ख्रिस्ताब्द एव समाप्तोऽभूदिति ऑनरेबल्. ए. के. फॉब्स्प्रणीत रासमाला'ख्यगुजरात- देशेतिहासग्रन्थे प्रसिद्धमेव. एकादशशतकोत्तरभागे गुर्जरदेशे विह्वणः समागत इति त्वसं. दिग्धम्. गुर्जरदेशे च ब्रिणेन कश्चन क्लेशोऽनुभूत इति 'कक्षाबन्धं विदधति न ये सर्व देवाविशुद्धास्तद्भाषन्ते किमपि भजते यज्जुगुप्सास्पदत्वम् । तेषां मार्गे परिचयवशाद. जितं गुर्जराणां यः संतापं शिथिलमकरोत्सोमनाथं विलोक्य ॥' अस्माद्विक्रमाङ्कदेवच. रितस्थ (१८९७)पद्यात्प्रतीयते. एवं कल्याणनगरेऽपि कुन्तलाधीशतो भूयांसमैश्वर्य- मधिगत्यापि कांचन विपत्तिं बिलणोऽनुभूतवानिति 'सर्वखं गृहवति कुन्तलपतिहातु तन्ने पुनर्भाण्डागारमखण्डमेव हृदये जागर्ति सारखतम् । रेक्षुद्रास्त्यजत प्रमोदमचिरा- देष्यन्ति मन्मन्दिरं हेलान्दोलितकर्णतालकरटिस्कन्धाधिरूमः श्रियः ॥', 'अयि कि- 'मनिशं राजद्वारे समुद्भुरकंधरे कुवलयदलस्निग्धे मुग्धे विमुञ्चसि लोचने। अमररमणी- लीलावल्गद्विलोचनवागुराविषयपतितो न व्यावृत्तिं करिष्यति विलण: ॥' अस्मात्क - श्मीरदेशीयचौरीसुरतपञ्चाशिका(चौरपञ्चाशिका पुस्तकप्रारम्भस्थलोद्याज्ज्ञायते. चौरपश्चाशिका, विक्रमाङ्कदेवचरितम् , कर्णसुन्दरीनाटिका चेति ग्रन्थत्रयमद्यावधि बिह्नणप्रणीतं समुपलब्धमस्ति. तत्र चौरपञ्चाशिका तावत्सुप्रसिद्धैव. विक्रमाङ्कदेवचरितं च जैसलमेरनगरात् डॉक्टबूलरेणासादितम्, प्रसिद्धिं च नीतम्. कर्णसुन्दरी तु ना- द्यापि प्राकाश्यमाप्तवती. पूर्ववर्षे ग्वाह्नेरनगरनिवासिपण्डितगङ्गाधरजोशीसकाशा- देकं कर्णसुन्दरीपुस्तकमस्मन्मित्रै राजगुरुपर्वणीकरोपाहुनारायणभट्टैः प्राप्तमस्मभ्यं सम- पितं च. एतत्पुस्तकं प्रायः शुद्धं केनचित्संशोधकेन क्वचिवचिदशुद्धतां नीतं शतत्रय- वर्षप्राचीनमिवोपलक्ष्यमाणमस्ति. अस्मिन्पुस्तके पञ्चाशन्मितांनि पत्राणि, प्रतिपृष्ठ षट्पतयः, प्रतिपहिं च षड्विंशत्यक्षराणि सन्ति. पत्राणि च षडङ्गलमितानि विस्तारे सार्धत्रयोदशाङ्गुलमितानि च दैर्ये वर्तन्ते. पश्चाशन्मितपत्रान्तिमपतिसमाप्तौ 'समाप्ता चैयं कर्णसुंद-' इत्यस्ति. एतेनापरमप्येकं पत्रमासीत् , तस्मिन्पुस्तकलेखनकालोऽपि क- दाचित्स्यादिति भाति. अन्यदप्येकं पुस्तकमस्मन्मित्रपण्डितज्येष्ठाराममुकुन्दजीशर्मणां साहाय्येन मुम्बईनगरमण्डनसत्कविपण्डितवरगट्टलालाजीशर्मणां पुस्तकसंग्रहादुपलब्ध- म्. किं त्वेतत्पुस्तकमयशुद्धं पत्रत्रयहीनं ग्वाह्नेरपुस्तकस्यैव प्रतिरूपकमिव प्रतीयमा- नमस्तीति नात्र तस्य कश्चिदुपयोगो जातः. केवलमेकस्मादू ग्वारपुस्तकादेवैतन्मुद्रण- मस्माभिविहितम्. कर्णसुन्दो चास्यां पूर्वोक्तश्चालुक्यवंशोद्भवो भीमदेवाल्मजः कर्ण- राज एव कथानायकः. अन्यदृत्तं तु प्रायः कविकल्पितमस्तीति भद्रम्. १. डॉक्टबूलरस्य कश्मीर रिपोर्ट पुस्तकं द्रष्टव्यम्. २. विक्रमाङ्कदेवचरितादि- ध्वनुपलभ्यमानाः केचन श्लोकाः शार्ङ्गधरपद्धति-सूक्तिमुक्तावल्यादिषु बिह्नणनाना समु- द्धृताः समुपलभ्यन्त इत्यस्ति कश्चिदन्योऽपि ग्रन्थो बिलणप्रणीत इति प्रतीयते.
No text on this page.
काव्यमाला। महाकविश्रीविहणविरचिता कर्णसुन्दरी। प्रथमोऽङ्कः । अर्हन्नार्हसि मामुपेक्षितुमपि क्षामां त्वदर्थे तनुं किं नालोकयसे भविष्यति कुतः स्त्रीघातिनस्ते सुखम् । अङ्गैः काञ्चनकान्तिभिः कुरु परिष्वङ्गं सुपर्वाङ्गना- लोकैरित्थमुदीरितः क्षितिधरस्थायी जिनः पातु वः ॥ १ ॥ .. अपि च । संतापं शमयन्तु वस्त्रिविधमप्युभूलनानन्तरं तिनस्ताः करतालिकाः पुररिपोनिर्विघ्नसंध्यार्चनाः । देव्याः शैलभुवः क्षणं मदयता दृष्टिं यदाकर्णना- कौमारेण शिखण्डिना निबिडितक्रीडारवं नृत्यते ॥२॥ अपि च । वक्वेन्दोः सदृशी भविष्यति लिपिः कण्ठे नु कण्ठोचिता लक्ष्मीः किं कुचमण्डले कुचभुवः संवादि मध्यं नु किम् । इत्यादि क्रमशः कुतूहलरसप्रेमालसा दृष्टयः । श्रीकान्तस्य जयन्ति दुग्धजलधेरभ्युल्लसत्यां श्रियि ॥ ३॥ (नान्द्यन्ते) सूत्रधार:-कथं प्रभातसमयः । अपरशिखरिचूडाचुम्बि बिम्ब हिमांशो- रिह हि विरहिणीनां याति शापैरिवास्तम् ।
काव्यमाला अपि कुपितचकोरीनेत्रसब्रह्मचारी भजति कर्कुममैन्द्रीं कोऽपि सांध्यो विलासः ॥ ४ ॥ दधति गृहचकोराश्चन्द्रिकाम्भःशिलोञ्छं कचन कनकशालाजालकाभ्यन्तरेषु । अपि रतिभवनानि व्यञ्जयन्ति प्रियाणां निधुक्नसुखनिद्रां मूकपारावक्तनि ॥ ५ ॥ विडम्बयति दाडिमीकुसुममत्र सौत्रामणी दरिद्रति वियद्रमे मुकुलकान्तयस्तारकाः। वपुस्तुहिनदीधितेरपि चकास्ति कस्तूरिका- कुरङ्गनयनारुणं वरुणलाञ्छिप्तायां दिशि ॥ ६ ॥ (नेपथ्याभिमुखम् ।) आयें, अपि सुसंगतानि रङ्गमङ्गलानि । (विमृश्य ।) परा ङ्मुखीवार्या । किं नु कारणं स्यात् । (स्मृतिमभिनीय ।) आस्थानावसरे नरेन्द्रतरणेः सा दाक्षिणात्या नटी नृत्यन्ती यददर्शि नूतनवयोविद्यानवद्या मया । तदोष्ठीरसनिर्भरेण किमपि स्वप्ने यदद्य स्थितं मन्ये मन्युकषायितेन मनसा तेन स्थिता मे प्रिया ॥ ७ ॥ (सप्रत्ययम् ।) इतस्तावत् । (प्रविश्य) नटी-इअलि । (क) सूत्रधार:-अलमसंभाव्यसंभावनया। परिणयविधिरासीदावयोः पांसुलीला- परिचयदृढरूढस्नेहयोर्खाल्य एव । स्मरसि किमपि तत्राप्यानुकूल्यात्परं य- त्सपदि पुनरसौ मे पञ्चबाणः प्रमाणम् ॥ ८ ॥ नटी-नामे कावि आसङ्का । आणवीयदु किं अणुचिट्ठीयंदु त्ति । (ख) (क) इयमस्मि । (ख) न मे काण्याशङ्का । आज्ञापयतु किमनुष्ठीयतामिति ।
१ अङ्कः] कणेसुन्दरी। सूत्रधारः--नन्वस्मिन्नणहिल्लपाटणकमुकुटमणौ श्रीशान्त्युत्सवदेवगृहे भगवतो नाभेयस्य महामात्यसंपत्करप्रवर्तिते “यात्रामहोत्सवे समुत्सुकः सामन्तजनः प्रत्यग्रप्रयोगदर्शनाय । (नेपथ्ये गीयते ।) णवमास्वीऍ दावीय सरसविलासाइँ परवसाइन्तो । मन्दीकअकुन्दलआचुम्बणतण्हो भमइ भमरो ॥ ९ ॥ (क) सूत्रधार:-(सहर्षम् ।) कथमुपक्षिप्तव नटैन टिका कर्णसुन्दरी । • अहो सुकृतानि सामाजिकजनस्य । हंहो भाग्यमहानिधिर्दयितया देवस्य दग्धुः पुरां पात्रं पुत्र इव स्वयं विरचितः सारवतीनां गिराम् । साहित्योपनिषन्निषण्णहृदयः श्रीविह्वणोऽस्यां कविः किं चैतत्किल भीमदेवतनयः साक्षात्कथानायकः ॥ १० ॥ स च कविरेवमुक्तवान्- औचित्यावहमेतदत्र तु रसः काष्ठामनेनार्हति . व्युत्पत्तेरिदमास्पदं पदमिदं काव्यस्य जीवातवे । एवं यः कवितुः श्रमः सहृदयस्तं पुस्तकेभ्यः पठ- न्सूक्तीरुत्पुलकः प्रमाटि निविडैरानन्दबाष्पोद्गमैः ॥ ११ ॥ अपि च । न विश्वासस्थानं प्रियमभिदधानोऽपि पिशुनो विषं प्राणान्हर्तुं धुरि मधुरमेव प्रभवति । परं शक्तः कर्तुं किमु मम वराकः कतिपये यदद्यापि ज्ञप्तौ सुकविवचसां केऽपि सुजनाः ॥ १२ ॥ (कर्ण दत्त्वा ।) किमात्थ । कोऽत्र कथासंबन्ध इति । श्रूयताम् । विद्याधरेन्द्रतनयां नयनाभिरामां लावण्यविभ्रंमगुणां परिणीय देवः । (क) नवमाधव्या दृष्ट्वा सरसंविलासान्परवशायितः । मन्दीकृतकुन्दलताचुम्बनतृष्णो भ्रमति भ्रमरः ॥.
काव्यमाला। चालुक्यपार्थिवकुलार्णवपूर्णचन्द्रः साम्राज्यमा भुवनत्रयगतमेति ॥ १३ ॥ (पुरोऽवलोक्य।) कथमयमस्मद्भाता महामात्यप्रणिधिभूमिकामाश्रित एवं तदेहि । अनन्तरकरणीयाय सज्जीभवावः । (इति निष्कान्तौ ।) प्रस्तावना। (ततः प्रविशति प्रणिधिः।) प्रणिधि:--अहो किमपि यौगन्धरायणप्रभृतिमहामात्यविजयिनो- ऽभ्यर्हिता मतिरमात्यसंपत्करस्य । तथा हि । वात्सल्यं न वहत्यपत्यविषये व्याक्षिप्यते न क्षणं दाक्षिण्येन समीहिते नववधूवर्गेऽपि धीराशयः । निष्णातः कुटिले नयाध्वनि चरन्नाचारपूतः प्रभो- १ःसाध्यानपि साधयत्यभिमतानर्थान्सुसाधानिव ॥ १४ ॥ अपि च। अस्याश्चर्यमयस्य मन्त्रगतयः खैरन्तरङ्गैरपि ज्ञायन्ते न विधेरिवातिकुटिला वैदग्ध्यसीमाभुवः । श्रूयन्ते प्रतिभूभृतां वसतयस्त्वङ्गत्तुरंगावली- विश्वोत्खेलखुरामखण्डितमणिक्षोणीतलाः केवलम् ॥ १५ ॥ किं च । शेषे प्रज्ञाविशेषः स्फुरति यदि किमु च्छद्मना पद्मनाभः संरम्भात्तेन तेन स्वयमसुरवधव्यग्रभावं दधार । वाचामीशोऽपि सत्यं यदि विपुलमतिः श्रूयते वज्रिणः किं दैत्यावस्कन्दवन्दिग्रहणपरिभवश्यामला शक्रलक्ष्मीः ॥ १६ ॥ संप्रति प्रेषिताश्च प्रतिदिश सेनापतय इति । (कर्ण दत्त्वा । आंकाशमवलोक्य ।) अमरसरिदुपान्तंभ्रान्तचक्रासचक्र- भ्रममुरसिजभारैः काश्चन व्यञ्जयन्त्यः ।
१ अङ्कः] कर्णमुन्दरी। ६ किमु विततनितम्बाभोगसंवाहवेग- स्खलनमुखरचञ्चत्काञ्चयः संचरन्ति ॥ १७ ॥ (अप्रतो विलोक्य । सविस्मयम् ।) तुलाकोटिक्वाणप्रणयिभिरवाप्तैरिव गते- विलासे शिष्यत्वं भवनकलहसैरनुगता। सुधामुग्भैरङ्गैः शशिन इव गर्भाद्विगलितर कुरङ्गाक्षी केयं तिलकयति लीलावत्रभुवम् ॥ १८ ॥ (पुनरवलोक्य ।) उच्चञ्चुपञ्जरचकोरकचर्यमाण- पूर्णेन्दुसुन्दरतराननचन्द्रिकेयम् । देव्याः कथं परिजनप्रमदाजनेन नीतैव मन्दिरममन्दकुतूहलायाः ॥ १९॥ (विचिन्त्य ।) एताः काश्चन निश्चलालकलताश्चिन्तातिरेकश्रम- विद्यद्भालतटा यदम्बरतले भ्राम्यन्ति वामभ्रवः । श्रीचालुक्यकुलोहहे कलयति व्यक्षोपचर्यामिह खस्ता काचन लिङ्गलङ्घनवशात्तद्वेद्मि विद्याधरी ॥ २० ॥ (सचमत्कारम् ।) सत्यस्वप्नः सांप्रतममात्यः । तेनैवंविधेन व्यतिकरण मां प्रति भर्तुश्चक्रवर्तित्वमभिहितमासीत् । तत्परिजनमुखेन जानीते निपुणा कथंचन मनाग्देवी च सीता यथा वारंवारमसौ तथा नरपतेः संदर्शनीया मया। अन्योन्यं हृदये तयोः स्पृहयतो वेऽतिभूमि मते पर्याप्तः कुसुमायुधः स भगवान्पारावताराय नः ॥ २१ ॥ तद्भवतु । सांप्रतमेव लीलोद्याने भवनवलभौ रत्नवातायनेषु क्रीडासौधे तदनु मदनोद्यानशालासु बालाम् । १. आदर्शपुस्तके 'संवाह-' इत्यस्य 'संबाध-' इति शोधनं कृतमस्ति. कर्ण० २ काव्यमाला। इन्दोर्गर्भे चिरमिक धृतैरङ्गकैस्तामनङ्ग- स्याङ्गावाप्तौ पुनरिव नवां सिद्धिमालेखयामि ॥ २२ ॥ (नेपथ्ये ।) जयति विश्रामावसरो देवस्य । संप्रति अन्योन्यं लज्जयेव प्रतिफलनमिषात्कुट्टिमान्तार्वेशन्तः पातालं भूमिपालाः किसलयितशिखाः पाणिव प्रणम्य । गच्छन्ति च्छत्रखण्डस्तबकितककुभश्चित्रवादित्रजैत्र- ध्वानाकृष्ट प्रहृष्टप्रचुरपुरवधूवीक्ष्यमाणा गृहाणि ॥ २३ ॥ अपि च। पञ्चास्त्रस्य त्रिलोकीहठविजयमहारम्भसंभारदीक्षा- माचक्षाणा इवोच्चै घनझणझणन्मेखलाचक्रवालैः । ध्वस्ताम्भोजैः सुभिक्षं दिशि दिशि विशदैर्दर्शयन्त्यश्च वन- श्चन्द्राणां सान्द्रलीलातिलकितगतयो निर्गता वाररामाः ॥ २४ ॥ किं च । विश्रान्तो मुरजध्वनिर्जलधरध्वानानुकारी गताः संगीताङ्गणतस्तरङ्गितमुखज्योत्स्नारसा लासिकाः । चण्डः केलिशिखण्डिनां न विरमत्यद्यापि नृत्योत्सव- श्चञ्चच्चञ्चव एव किं च विचरन्त्यन्तश्चकोराङ्गनाः ॥ २५ ॥ प्रणिधिः-यत्पुनर्देवो विश्राममण्डपमलंकृतवास्तन्नूनमेतदर्शनजन्मा मन्मथावेग एव विविक्तस्थानस्थितिमुपदिशति । तद्गत्वा यथोचितं विर- चयामि । (इति निष्क्रान्तः ।) शुद्धविष्कम्भकः। (ततः प्रविशति राजा विदूषकश्च।) राजा-(सौत्सुक्यम् ।) धातुस्तन्मुखवर्तनाकलहकः श्यामावधूक्लभ- स्तल्लेखोद्यततूलिकाग्रगलिकातास्ताराः सुधाविनुषः । १. 'किशलयितशिखाप्पाणि-' इत्यादर्शपाठः. २. 'छत्रषंड-' इत्यादर्शपाठः. ३. 'ज्य- णझण-' इत्यादर्शपुस्तकपाठः.
१ अङ्कः] कर्णसुन्दरी। तल्लावण्यरसस्य शेषममला सा शारदी कौमुदी तद्भनिर्मितिमानसूत्रपि तच्चापं मनोजन्मनः ॥ २६ ॥ अपि च । मज्जन्तीव दृशः कुरङ्गकदृशो लीलाविलासोर्मिषु भूलेखा सृजतीव विभ्रमशतैः कामाय दामावलिम् । लावण्यामृतस्नर्झरः स्नपयतीवाङ्गानि किं चाधर- स्तारां सिञ्चति पद्मरागकिरणोत्सेकैरिवैकावलीम् ॥ २७ ॥ अपि च । त्रिवलिवलितलीलालोलवेणीकलापं किमपि रसविभूतेस्तिर्यगाकेकराक्षम् । कलितकुटिलकण्ठं दर्शनोत्कण्ठयास्या लिखितमिव ममान्तस्तन्मुखं मन्मथेन ॥ २८ ॥ विदूषकः-भो, किं वि पुच्छामि । (क) राजा-(तदवधीरणेन ।) विधत्ते निःसेकं सहजरमणीयस्तरुणिमा वपुर्वल्ली चित्रैः कवचयति लीलाकिसलयैः । विलासव्यापारः किमपि कमलस्थो नयनयो- रनङ्गं तन्व्यङ्ग्यास्त्रिभुवनजिगीषू रचयति ॥ २९ ॥ विदूषकः-भो, का एसा लीलावणप्पवेसे पिअवअस्सेण दिवा। (ख) राजा- ध्यानान्ते विधिना प्रणम्य चरणौ चन्द्रार्धमौलेरहं कैश्चिजप्यपदैः प्रदक्षिणयितुं यावत्समभ्युद्यतः । (क) भोः, किमपि पृच्छामि । (ख) भोः, कैषा लीलावनप्रवेशे प्रियवयस्येन दृष्टा । १. 'अपि च' इत्यादर्श नास्ति.
काव्यमाला। तावत्काचिदनङ्गजङ्गमपुरीवाग्रे मनोग्राहिणी रम्भास्तम्भमनोहरोरुयुगला बोलाभवचक्षुषोः ॥ ३० ॥ खोऽसौ किमुतेन्द्रजालमपरं किं वा किमप्यद्भुतं यत्सा कान्तितरङ्गिताङ्गलतिका दृष्ट्वा कुरङ्गेक्षणा । उल्लेखः स नवीन एव सुमतेः कस्यापि रूपे विधेः संवादोऽमि न यस्य पङ्कजशशिज्योत्स्नामृणालादिभिः ॥ ३१ ॥ विदूषकः-भो, एदस्स उजाणप्पदेसस्स किं करीअदु अत्थ अ- जत्थो एरिसो समावडिदो । (क) राजा-मूर्ख, तदेकं देवस्य स्पृशतु मदनस्यास्पदपदं लतास्तास्तत्रत्याः स्तबकयतु चैत्रः प्रतिदिनम् । असौ दृष्टा यत्र क्षणममललावण्यसरसी जगन्नेत्राचम्यं किमपि दधती कान्तिसलिलम् ॥ ३२ ॥ विदूषकः-भट्टिणो संदावदाअणं ति भणामि । (ख) राजा-सखे, चान्द्री वर्तिनयनयुगले जीवलोकस्य सैका सा साम्राज्ये कुसुमधनुषः कीर्तिहेतुः पताका । तत्प्राप्त्याशाविवशमनसा केनचित्तप्यते चे- निःसंबन्धं कथयतु भवान्कस्तदीयोऽपराधः ॥ ३३ ॥ विदूषकः-(छोटिकां दत्त्वा ।) जइ एवं अत्थि विवेओ ता कीस ण विरज्जीअदि । (ग) राजा-अनभिज्ञोऽसि । कथ्यते । पश्य । रागः कस्यचिदेति चेतसि पदं यः काकतालीयतः कस्यांचिन्न विवेकवारिविसरैधौंतोऽपि निर्यात्यसौ । (क) भोः, एतस्योद्यानप्रदेशस्य किं क्रियते यत्रानर्थ ईदृशः समापतितः। (ख) भर्तुः संतापदायकमिति भणामि | (ग) यद्येवमस्ति विवेकस्तत्कुतो न विरज्यते । 1) १ अङ्कः] कर्णसुन्दरी। १ माञ्जिष्ठादपि सोऽन्य एव किमपि स्थैर्यास्पदं मन्मथे- नावयैव निजेन बाणशिखिना चित्तैक्यमापादितः ॥ ३४ ॥ विदूषकः-अध किं ति देवी दुम्मणायन्ति व्व मये लक्खिदा । (क) राजा-शृणु । निवेदयामि । अद्योद्याने मरकतमयीं वापिकामुत्तरेण खने दृष्टा प्रकृतिमधुरा माधवीमण्डपान्तः । काप्येणाक्षी रतिरिव मया विप्रयुक्ता स्मरेण सारं सारं किमपि दधती दुःसहां मोहनिद्राम् ॥ ३५ ॥ विदूषकः-तदो । (ख) राजा- अम्ब व्यम्बकपक्ष्मलाक्षि भगवन्विश्वैकवीर स्मर स्मर्तव्या जननान्तरेऽपि युवयोः कारुण्यलेशादहम् । अस्मिञ्जन्मनि तावदुन्मदसुरस्तम्बेरमाकृत्रिम- क्रीडामन्दगतिः स सुन्दरवपुर्नो नेत्रमैत्रीं गतः ॥ ३६ ॥ एवं पुनः पुनरुदीर्य विदीर्यमाणं वज्राग्रभिन्नमिव सा हृदयं दधाना । मोहं गता कुचतटे नयनाम्बुलेशै- रासूत्रितत्रिचतुरापरहारलेखा ॥ ३७ ॥ विदूषकः-हद्धी हद्धी पमादो । संकडे पडिदा महाणुभावा । तदो। (ग) राजा- अथ कथमपि संज्ञां प्राप्य दीर्घ श्वसन्ती कुचपरिसरनृत्यत्तारहारावलीका ! (क) अथ किमिति देवी दुर्मनायमानेव मया लक्षिता । (ख) ततः । (ग) हा धिक् हा धिक् प्रमादः । संकटे पतिता महानुभावा । ततः। -- काव्यमाला। विचकिलवनगुल्मे नूतनीभूतवल्ली- वलयनिगलिता सा पाशबन्धे प्रवृत्ता ॥ ३८ ॥ विदूषकः-(हस्तमुद्यम्य ।) अब्बह्मणं अब्बह्मण्णम् । (क) राजा-वैधेय, स्वप्नविधिरयम् । विदूषकः-तदो । (ख) विरम रमणि प्राणत्यागे धृता किमिति स्पृहा ननु भगवतः कंदर्पस्य त्वमुच्छसितान्तरम् । इति शशिमुखीमुक्त्वा यावद्विभर्मि पटाञ्चले चटुलरेशना तूर्णं तावद्गता कचिदेव सा ॥ ३९ ॥ अनन्तरमिदं जातम् । अस्ति च स्वप्नदृष्टजनस्य संवादः । तेन्न जाने कि भविष्यति । विदूषकः-कल्लाणपिसुणं एवं सव्वं भवदित्ति किं अण्णम् । अवि ण्णादं देवीए । (ग) राजा-अथ किम् । विदूषकः-परुखक्खरं आलविअ ण किं पि अण्णं आअरिदम् । (घ) राजा- नो किंचित्परुषाक्षरं निगदितं नो दर्शितः संभ्रमः कासावित्युपहासगर्भितरुषा प्रश्नोऽपि नाविष्कृतः । निःश्वासः परिवृत्त्य किं तु शनकैः श्यामीकृतप्रज्वल- नानारत्रमयप्रदीपकिरणश्रेणिविमुक्तस्तया ॥ ४० ॥ (क) अब्रह्मण्यमब्रह्मण्यम् । (ख) ततः। (ग) कल्याणपिशुनमेतत्सर्वं भवतीति किमन्यत् । अपि ज्ञातं देव्या । (घ) परुषाक्षरमालप्य न किमप्यन्यदाचरितम् । १. 'रसना' इत्यादर्शपाठः. २. 'तं न इत्यादर्शपाठः. ३. 'परुखस्वर' इत्यादर्शपाठः, १ अङ्कः] कर्णसुन्दरी। विदूषकः-एस जेव्व कराला गरलगाठी । अहवा तुज्झ किं जादम् । तुअं लुलुल्लरेहिं बोलेहिं पाअपडणेहिं पुणो पि अप्पवसं करेसि । अहं जेव्व एको णिभच्छिामि । एदस्स दुट्ठबह्मणस्स एवं खु सवं विलसिदं त्ति । (क) राजा-कथं न जातम् । न यस्मिन्दाक्षिण्यं परिणतमियत्त्वस्य विषये विकल्पाधिष्ठानं तदपि विहितं प्रेम सुदृशः। इतः शून्यं चेतः सरकितवसंचारचकित न जानीमो धातुः किमधिकरणः सूत्रणविधिः ॥ ४ १ ॥ • (नेपथ्ये।) सुखाय कुसुमसमयसमारम्भो देवस्य । संप्रति हि रक्ताशोकद्रुमाणां लसति किसलयश्रेणिरापराध- प्रेयः शौण्डीर्यपीतद्रविडवरवधूचारुबिम्बाधरश्रीः । उन्मेषश्चम्पकानामजरठमरठीगण्डपालीविलासः कर्णाटीहास्यलेशान्विचकिलमुकुलस्फूर्तयो वार्तयन्ति ॥ ४२ ॥ कान्ते नूतनचूतमञ्जरिधनुर्दण्डेऽधुना संदध- त्कंदर्पः कलकण्ठपञ्चमरवब्रह्मास्त्रमव्याहतम् । दोर्युग्मं वलयीकरोति युगपत्कर्तुं त्रिलोकोपरि स्वामाज्ञां रतिवक्रपत्रशबलं मौर्वीकिणाङ्काङ्कितम् ॥ ४३ ॥ विदूषकः-(अन्यतः ।) कावेरीणालिएरीतरलणनिउणा णम्मदाणम्मआरा कञ्चीए चुम्बणद्दा तुमुलिदमुरलालोलकल्लोलमाला । (क) एषैव कराला गरलग्रन्थिः । अथवा तव किं जातम् । त्वं मं- धुरैर्वचनैः पातपतनैः पुनरप्यात्मवशां करिष्यसि । अहमेवैको निर्भत्स्यै । एतस्य दुष्टब्राह्मणस्यैतत्खलु सर्व विलसितमिति । १. 'विदूषकः' इत्यादर्शपुस्तके नास्ति.
काव्यमाला - एदे गोदावरीए लहरिपरिचिदा दिण्णसिप्पाकडप्पा कंदप्पोद्दीवणेच्छागहिदविहरणा दाहिणा एन्ति वाआ ॥४४॥(क) राजा- क्वचिदविषये सा सारङ्गीतरङ्गितलोचना हृदि कवचितः पञ्चेषुर्मे विकुश्चितकार्मुकः । अयमपि ब्रूत प्राप्तचूताङ्कुराकुलकोकिला- कलरवजयोद्घोषः कालः किमत्र समीहितम् ॥ ४५ ॥ (सनिवेदोत्कण्ठम् ।) आवासः किलकिञ्चितस्य दयिता- पार्थे विलासालसा कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः । गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः केषांचित्सुखयन्ति चात्र हृदयं चैत्रे विचित्रोत्सवे ॥ १६ ॥ संप्रति कुर्वन्ति कोकिलकलोपहतिं लतासु रुन्धन्ति वासभवनेषु समीरमार्गान् । किं तन्न यद्विरहिणीनिवहस्य सख्यः सावज्ञमाकुलतया कलयन्त्यजत्रम् ॥ ४७ ॥ (विचिन्त्य ।) तत्क्वायमात्मा विनोदयितव्यः । विदूषकः-भो अवस्स, अहिणवमहुरसतरङ्गिदललिदलदालिङ्गिद- कुसुमहमिदतरुणतरुमण्डलं कुण्डलिदकोदण्डचण्डप्पहारपड्डुमअणसुहडप- (क) कावेरीनालिकेरीतरलननिपुणा नर्मदानर्मकाराः कांच्याश्चुम्बनाद्रीस्तुमुलितमुरलालोलकल्लोलमालाः । एते गोदावर्या लहरिपरिचिता दत्तसिप्राकटप्राः कंदर्पोद्दीपनेच्छागृहीतविहरणा दक्षिणा आगच्छन्ति वाताः ॥
१ अङ्कः] कर्णसुन्दगी । - जलिजन्तसहआरङ्कुरसिलीमुहं रजन्तकण्ठकलझण्ठचारुपञ्चमस्सरमहुरि- जन्तं मअणुजाणं पेक्खन्तो णिव्वुई उबहिस्सर्दि भवं । (क) राजा-सहृदयो मे वयस्यः । यत्कोकिलाकलरवं कलयत्यनङ्ग- 'शूताङ्कुरं धनुषि यद्विजयास्त्रहेतोः। यच्च सितं सुमनलां स समित्प्रपञ्चो जीवातवे विरहपावकडम्बरस्य ॥ ४६॥ विदूषकः-भो, एत्थ कहिं पि भविस्सदि देव्ववसेण दसणगोअरे सा तेल्लोक्सुन्दरीति भणामि । (ख) रांजा-एवमस्तु । उपदिश पन्थानम् । विदूषकः-इदो सेवागदणरिन्दसहस्ससंकिणं विलाससंचिअतेल्लो- कसुन्दरजणं अत्थाणङ्गणं परिहरिअ चउक्किआए खिडिक्किआदोरअणदु- आरिआए णीसरीअ कहिं पि एदु भवं । (ग) (इति परिक्रामतः।) विदूषकः-इदं तं कोइलपढिजन्तचारुपञ्चमाभिहाणमअणमन्तसंमो- हनमढं संततट्ठाणं वसन्तसुहडस्स । ता पविसदु पिअवअस्सो । (घ) (इति तथा कुरुतः ।) (क) भो वयस्य, अभिनवमधुरसतरङ्गितललितलतालिङ्गितकुसुमहसितत- रुणतरुमण्डलं कुण्डलितकोदण्डचण्डप्रहारपटुमदनसुभटतीक्ष्णीक्रियमाणसह- काराङ्कुशिलीमुखं रज्यत्कण्ठकलकण्ठचारुपञ्चमस्वरमुखरीक्रियमाणं मदनो- यानं पश्यन्निवृतिमुद्वक्ष्यति भवान् । (ख) भोः, अत्र कुत्रापि भविष्यति दैववशेन दर्शनगोचरे सा त्रैलोक्यसु- न्दरीति भणामि । (ग) इतः सेवागतनरेन्द्रसहस्रसंकीर्णं विलाससंचितत्रैलोक्यसुन्दरजन- मास्थानाङ्गणं • परिहृत्य चतुष्किकायाः गवाक्षाद्रतद्वारिकाया निःसृत्य कुत्राप्येतु भवान् । (घ) इदं तत्कोकिलपठ्यमानचारुपश्चमाभिधानमदनमन्त्रसंमोहनमठं(1) सं- ततास्थानं वसन्तसुभटस्य । तत्प्रविशतु प्रियवयस्यः ।
काव्यमाला। विदूषकः-पिअवक्षस्स, पेक्ख । लाडीतण्डवकेलिखिन्नचलणच्छाआल पल्लवं कथेली पअडेदि पाडलितरू जादो पसूणश्चिदो । एवं कुङ्कुमसिक्ककीररमणीगण्डप्पहं चम्पर्क कम्पावेइ विओइणीओ बउलो फुल्लेहि सल्लेहि व ॥४९॥ (क) (इति संस्कृतमाश्रित्य ।) कुर्वाणाः प्राणनाथे प्रणयकलिरुषं जर्जरां गुर्जरीणां मिन्दानाः सान्द्रमानग्रहपटिममदं मेदपाटाङ्गनानाम् । उन्मीलन्मालवस्त्रीवदनपरिमलग्राहिणो हूणरामा- कामारम्भश्रमाम्भःकणहरणरसोल्लासिनो वान्ति वाताः ॥ ५० ॥ राजा-(सोपहासम् ।) अहो वर्णनाक्रमः । (इति निःश्वस्य समन्तादव- लोक्य च।) लीलोद्याने चलकिसलयाः शाखिनः खेललोला- श्लिष्यद्भृङ्गावलिवलयिता भान्ति यावन्त एते । कोपावेशाद्वलयितधनुर्बद्धगोधाङ्गुलित्र- स्तावन्योऽपि त्रिभुवनजयी धावतीवासमास्त्रः ॥ ११ ॥ एहि । तस्यास्तरङ्गशालाया अभ्यन्तरे क्षणमुपविशावः । (तथा कुरुतः।) (क) प्रियवयस्य, पश्य । लाटीताण्डवकेलिखिन्नचरणच्छायालवं पल्लवं कङ्केलि. प्रकटयति पाटलितरुर्जातः प्रसूनाञ्चितः। एतत्कुङ्कुमसिक्तकीररमणीगण्डप्रभं चम्पर्क कम्पयति वियोगिनीर्बकुलः पुष्पैः अल्यैरिव ॥ १. आदर्शपुस्तकेऽस्मिन्मन्दाक्रान्तावृत्ते 'श्लिष्यद्भुङ्गावलीभिर्वलयितलतिका भान्ति यावन्त एते' इति द्वितीयः पादः स्रग्धरानिबद्धः शोधकेन स्थापितः. आदर्शपाठस्तु न ज्ञातुं शक्यते.
१५ १ अङ्कः]] कणसुन्दरी । विदूषकः-(भित्तिमवलोक्य सचमत्कारम् ।) अए, का एसा पञ्चाएसो उव्वसीपमुहाणं अच्छराणं सव्वङ्गर्लडहा आलिहिंदा । (क) राजा-(अवलोक्योत्थाय च ।) एतत्तदेव सिलदेवतरुप्रसून- सौभाग्यमङ्गकमनङ्गविलासवेश्म । जैत्रः स एव च विलोचनयोर्विलासः सैवेन्दुसुन्दरमुखी लिखितेयमास्ते ॥ ५२ ॥ अपि च । सैवोन्मज्जत्कनककलशप्रेक्षणीयस्तनश्री- मूर्तिर्लोकत्रयविजयिनी राजधानी स्मरस्य । एतच्चक्षुस्तदपि विदलत्केतकीपत्रमित्रं छाया सेयं नियतमधरे विद्रुमोत्सेकमुद्रा ॥ १३ ॥ विदूषकः-भो, एसा चित्ते केण विलिहिदा । (ख) राजा-मम तावन्मकरकेतुना । इह तु न जाने । विदूषकः-भो, भणामि किं पि जइ मे वअणं करेसि । (ग) राजा-किं न कथयसि । विदूषकः-ओसरीयदु इमादो तरङ्गसालादो तुरिदम् । कदापि देवी एत्थ आअच्छेदि । (घ) राजा-कुपिता कथमागच्छति सौभाग्यामिमानखण्डनानुप्रवेशात् । (क) अये, कैषा प्रत्यादेश उर्वशीप्रमुखाणामप्सरसां सर्वाङ्गलटभा- लिखिता। (ख) भोः, एषां चित्रे केन विलिखिता । (ग) भोः, भणामि किमपि यदि मे वचनं करोषि । अपस्रियतामस्यास्तरङ्गशालायास्वरितम् । कदापि देव्यत्रागच्छति ।
काव्यमाला.॥ (ततः प्रविशति हारलतया सह देवी ।) देवी-हारलदे, तो कआपराध पेक्खिअ एहि सअं अणुसरन्ती अज्जउत्तेप केरिसी भणिआमि । (क) हारलता-भट्टिणि, महानुभाव ति किं अण्णम् । (ख) देवी-जदि दिद्विआ परुसत्तणमुव्वहामि, अज्नउत्तो आअसाआदे। अणुचिदकारिणी भवामि । (ग) हारलता-देवीए विणा अण्णो को एद मन्तेदि । विणा मअङ्कलेह कुदो जोह्राए बिसरो । (घ) देवी-अवि जाणासि किं उद्दिसिअ अज्जउत्तेण सिविणए प- लविदम् । (ङ) हारलता-तुज्झवसेक्कनीविदस्स णत्थि अण्णा वाणी। एवंविधा जेव्व सिविणा [अ] विप्पलम्भका होन्ति । ण किं पि आसङ्कणिज्जम् । (च) (इति परिकामतः ।) देवी-कण्णसुन्दरी अज्जउत्तस्स दंसणगोअरं गदा । (छ) हारलता--रविकिरणाणं वि अगम्मे त्ति कधं एदम् । (पुरोऽवलोक्य ।) एसो तरङ्गसालाए भट्टा वट्टदि । ता उपसप्पीअदि । (ज) (क) हारलते, तत्कृतापराधं प्रेक्ष्याधुना स्वयमनुसरन्त्यार्यपुत्रेण की- दृशी भण्ये। (ख) भट्टिनि, महानुभावेति किमन्यत् । (ग) यदि दिष्टया परुषत्वमुद्बहामि, आर्यपुत्र आयास्यते । अनुचितकारिणी भवामि । (घ) देव्या विनान्यः क एतन्मन्त्रयते । विना मृगाङ्कलेखां कुतो ज्यो- स्नाया विसरः। (ङ) अपि जानासि किमुद्दिश्यार्यपुत्रेण स्वप्ने प्रलपितम् । (च) त्वद्वशैकजीवितस्य नास्त्यन्या वाणी । एवंविधा एव स्वप्ना [च] विप्रलम्भका भवन्ति । न किमप्याशङ्कनीयम् । (छ) कर्णसुन्दर्यार्यपुत्रस्य दर्शनगोचरं गता। (ज) रविकिरणानामप्यगम्येति कथमेतत् । एष तरङ्गशालायां भर्ता व- तते । तदुपसर्ग्यते ।
१ अङ्कः] कर्णसुन्दरी। देवी-किं पि सुणन्तीओ उपसप्पा । (क) राजा-(बद्धाञ्जलिः।) आयासः किमय वृथैव धनुषो देव स्मर स्वीकृत- स्त्वत्पत्रिव्ययपात्रमत्र कतमः कात्यायनीकामुकः । एतां लोकविलक्षणेन विधिना केनापि येनासिषी(2) यायां() चित्रगतामपि प्रियतमां संजीव्य संप्रापय ॥ १४ ॥ देवी-कस्स कदै अज्जउत्तो एवं मन्तेदि । (ख) हारलता-कस्स अण्णस्स । भोदि जेव्व कुविदं जाणिअ चित्तप- डिबिम्बेण अप्पाणं विणोदेदि भट्टा । ता उपसप्पीअदु । (ग) (तथा विधत्तः ।) देवी-जेदु अजउत्तो । (घ) हारलता-जेदु जेदु भट्टा । (ङ) देवी-(सविनयम् ।) मए एव तदा किं पि खलिदं ति अज्जउत्तेण ण अण्णधा भणिदव्वम् । (च) राजा- त्रिजगति भवती परं ममैका दिशति मुदं कुमुदस्य कौमुदीव । प्रभुरसि कुरुषे रुषं कदाचिगनसि कदापि यथारुचि प्रसादम् ॥६॥ विदूषकः-महाणुभावा देवी जा एवं पतिच्छत्तणं धारेदि । (छ) (क) किमपि शृण्वत्य उपसर्पावः । (ख) कस्य कृते आर्यपुत्र एवं मन्त्रयते । (ग) कस्यान्यस्य । भवतीमेव कुपितां ज्ञात्वा चित्रप्रतिबिम्ब्रेनात्मानं वि- नोदयति भर्ता । तदुपसर्प्यताम् । (घ) जयत्वार्यपुत्रः । (ङ) जयतु जयतु भर्ता। (च) मयैव तदा किमपि स्खलितमित्यार्यपुत्रेण नान्यथा भणितव्यम् । (छ) महानुभावा देवी यैवं पत्यनुकूलत्वं धारयति । कर्ण. ३ ११ काव्यमाला । देवी-(चित्रमवलोक्यापवार्य च।) हारलदे, पेक्ख । कण्णसुन्दरि जेव आलिहिअ अप्पाणअं विणोदेदि । तुम तु मम ण पत्तिज्जसि । अहं जेव्व अविमिस्सकारिणित्ति किं भणीअदि । (क) हारलता-तथैव । देवी-(प्रकाशम् ।) अजउत्त, इदं णअणविणोदणं मए आगदुअ विनिवट्टिदं जेव्व । -संपदं पेक्खिदव्वम् । (इति सावेगमुत्तिष्ठति ।) (ख), राजा-अलमन्यथा संभावितेन । (इति वारयति ।) (देव्याक्षिप्य हारलतया सह निष्क्रान्ता ।) राजा-एहि तावत् । देवीप्रसादनाय प्रयतावहे । (इति निष्क्रान्ताः सर्वे ।) इति प्रथमोऽङ्कः। द्वितीयोऽङ्कः। (ततः प्रविशति सुप्तोत्थितो विदूषकः ।) विदूषकः-(अङ्गुलीभ्यामक्षिणी मृजन् ।) अज्ज पिअवअस्सेण दिग्ध- रोसं देवि पसादिअ मे किं पि समादिट्ठम् । तदादिद्वत्थदूणो मञ्जिहारुणेण अरुणसारहिमण्डलेण सान्दअन्तेण रअणि जगाविओसि । ण सक्क- णोमि सअणिज्जादो णिदाए बलामोडिमीलिजन्तदिही उद्विदुम् । पिअ- वअस्सचलणवडणसंतुट्ठदेवीपसादलद्धेहिं मोएदहिं पुट्ठभुइट्ट चिट्ठदि मे उअरम् । णिहुअं अववरअअन्तरे सुवामि । (स्मृतिमभिनीय ।) अहवा कहं सुविअदि । जं पिअवअस्सेण तीए विजाहरकण्णआए पउत्तिं जाणिदुं किं सा वि वअस्ससाणुराआ ण वेत्ति आणत्तमि । ता जाव गदुअ काए, वि अन्तेउरविलासिणीए सआसादो अण्णापदेसेण जाणिस्सम् । कहं उवलतरङ्गा तरङ्गवदित्तिणामहेआ इदो ज्जेव्व आअच्छदि । भोदु । एदाए (क) हारलते, पश्य । कर्णसुन्दरीमेवालिख्यात्मानं विनोदयति । त्वं तु मम न पलायसे । अहमेवाविमृश्यकारिणीति किं भण्यते । (ख) आर्यपुत्र, एतन्नधनविनोदनं मयागत्य विनिवर्तितमेव । सांप्रतं प्रेक्षितव्यम् ।
. २ अङ्कः] कर्णसुन्दरने । जेव्व मुहादो जाणिस्सम् । (पुनरवलोक्य ।) मं पेकितअ एदाए किं पि अप- च्छादिदम् । (निरूप्य सशिरःकम्पम् ।। अत्थि एत्थ वडे जक्खो। भोदु । सं- भाविअ जाणामि । (इति तथा करोति ।) (क) (ततः प्रविशति तरङ्गवती) तरङ्गवती (अप्रतोऽवलोक्य ।) एस दुट्ठवडू पेक्खिस्सदि एवं सि- सिरोवूआरम् । ता अण्णदो गच्छामि । (इति तथा गच्छति ।) (ख) विदूषकः-(सवरसुपसृत्य ।) भोदि, कीस अण्णदो गच्छीअदि । अहं तुह ससिलेहाए विअ मग्गं पलोएमि । तुमं राहुं व मं पलिहलसि । किं ण्णेदम् । (ग) तरङ्गवती-अन्ज, कज्जन्तरपज्जाउलहिअअत्तेण ण लक्खिदोसि । पसीददु भवं । (घ) । (क) अद्य प्रियवयस्येन दीर्घरोषां देवी प्रसाद्य मे किमपि समादि. ष्टम् । तदादिष्टार्थदूनो मञ्जिष्ठारुणेनारुणसारथिमण्डलेन सान्द्रायमाणेन रजनि जागरितोऽस्मि । न शक्नोमि शयनीयान्निद्रया हठान्मीलदृष्टिरुत्थातुम् । प्रियवयस्यचरणपतनसंतुष्टदेवीप्रसादलब्धैर्मोदकैः पुष्टभूयिष्ठं तिष्ठति मे उदरम्। निभृतमपवरकान्तरे स्वपिमि । अथवा कथं सुष्यते । यत्प्रियवयस्येन तस्या विद्याधरकन्यकायाः प्रवृत्तिं ज्ञातुं किं सापि वयस्यसानुरागा न वेत्याज्ञप्तो- ऽस्मि । तद्यावद्गत्वा कस्या अप्यन्तःपुरविलासिन्याः सकाशादन्यापदेशेन ज्ञास्यामि । कथमुत्पलतरङ्गा तरङ्गवतीतिनामधेया इत एवागच्छति । भवतु । अस्या एव मुखाज्ज्ञास्यामि । मां प्रेक्ष्यतया किमप्यपच्छादितम् । अस्त्यत्र वटे यक्षः। भवतु । संभाव्य जानामि । (ख) एष दुष्टबटुः प्रेक्षिष्यत एतच्छिशिरोपचारम् । तदन्यतो गच्छामि । (ग) भवात, कुतोऽन्यतो गम्यते । अहं तव शशिलेखाया इव मार्ग प्रलोकयामि । त्वं राहुमिव मां परिहरसि । किं न्वेतत् । (घ) आर्य, कार्यान्तरपर्याकुलहृदयत्वेन न लक्षितोऽसि। प्रसीदतु भवान् । १. एतावत्पर्यन्तमस्मिन्विदूषकवाक्येऽप्यत्यस्फडं प्राकृतमस्ति.
२० काव्यमाला। विदूषकः-अह क्लेण वावारेण तत्तभोदी कण्णसुन्दरी वदृदि । (क) तरङ्गवती-णिअवावारे व्व सा पिअसही। (ख) विदूषकः-को उण णिअवावारो । (ग) तरङ्गावती–देवीए सआसे सिक्खद्वि लक्खणाणामणुसीलिणानि, अमअणाओ.बहुविहाओ लीलाओ वि । (घ) विदूषकः-(विहस्य ।) अवरो को विश्वावारो,ति सुणीअदि । (छ) तरङ्गवती-(साशङ्कम् ।) क इत्ति णिवेदेदु भवं । (च) विदूषकः-जत्थ एदाणं विणिओओ । (इत्यस्या अंशुकान्तरात्कदलीप- प्राणि मृणालिकाश्च लीलया गृह्णाति ।) (छ) तरङ्गवती-अज, ण किं पि सकिदव्वम् । एदेहिं मम किं पि कर्ज अस्थि । (ज) विदूषकः-अविस्सासिणि, अलं अवलावेण । णणु पिअवअस्सेण पउत्तिं जाणिदुं पेसिदोमि । ता उज्जु कहेसु । (झ) तरङ्गवती-अज, रक्खिव्वं रहस्सम् । (अ) (क) अथ केन व्यापारेण तत्रभवती कर्णसुन्दरी वर्तते । (ख) निजव्यापारैव सा प्रियसखी । (ग) कः पुनर्निजव्यापारः। (घ) देव्याः सकाशे शिक्षते लक्षणानामनुशीलनानि, अमदना बहुविधा लीला अपि। (ङ) अपरः कोऽपि व्यापार इति श्रूयते । (च) क इति निवेदयतु भवान् । (छ) यत्रैतेषां विनियोगः । (ज) आर्य, न किमपि शङ्कितव्यम् । एतैर्मम किमपि कार्यमस्ति । (झ) अविश्वासिनि, अलमपलापेन । ननु प्रियवयस्येन प्रवृत्तिं ज्ञातुं प्रे- पितोऽस्मि । तदृजुकं कथय । (ब) आर्य, रक्षितव्यं रहस्यर।
२ अङ्कः] कर्णसुन्दरी। २१ (इति संस्कृतमाश्रित्य) यत्तारारमणोऽपि निर्वृतिपदं नास्याश्चलच्चक्षुषो. यद्गात्रं शतपत्रपत्रशयनेऽप्युत्फालमुद्वेल्लति । शीतं यच्च कुचस्थलीमलयजं धूलीकदम्बायते किं वान्यत्तदनङ्गमङ्गलमयी भङ्गी कुरङ्गीदृशः ॥ १ ॥ (इत्युक्त्वापसरति ।) विदूषकः-(संपरितोषम् ।) भोदि, सणिओअं असुण्णं करेसु । अहं पि पिअवअस्सं वड्डावेमि । (क) (इति निष्क्रान्तौ।) प्रवेशकः। (ततः प्रविशति सोत्कण्ठो राजा विदूषकश्च ।) राजा- धूमश्यामलितेव तापनवशाच्चामीकरस्य च्छवि- श्चन्द्रो मुक्त इव श्रिया किसलया निधौंतरागा इव । निःसारेव धनुर्लता रतिपतेः सुप्तेव विश्वप्रभा तस्याः किं च पुरो विभान्ति कदलीस्तम्भा सदम्भा इव ॥२॥ अपि च । मुग्धाक्ष्याः कति नेन्दवः समुदिता वक्रे स्फुरत्कान्तयो विश्रान्तिः कियतां न लोचनयुगे नीलाम्बुजानां श्रियः । निष्पन्नः कियता न विद्रुमरुचां सारेण बिम्बाधरः पीताश्चारुभिरङ्गकैश्च कति न स्निग्धा मधूकत्विषः ॥ ३ ॥ (अनुसंधाय।) स्फुरल्लीलामालं किमपि रसयोगान्मृगदृशः क्षणं दीर्घापाङ्गप्रणयि यदभून्नेत्रयुगलम् । अहो ह्जन्मान्तः स्फुरति बत मे शल्यमिव त- द्यदावेगे मोहः परमयमविश्रामविषयः ॥ ४ ॥ (क) भवति, स्वनियोगमशून्यं कुरु । अहमपि प्रियवयस्यं वर्धयामि ।
२२ काव्यमाला। आभोगः कृत एव अहो, किमपि कमनीये गयसि वर्तते सुमध्यमा । तथा हिं कि तु न गतिस्त्यक्ता कुचाभ्यां द्वयी भ्रूलास्यैरवकीर्णमेव मिलितं नो किं तु सम्यग्दृशोः । लीलाभिः परिरब्धमेव गमनं तन्व्या नितम्बोद्गम- प्राग्भारेण न किं तु मन्थरपदन्यासस्तदा सूत्रितः ॥ ५ ॥ सखे, अपि सत्यं तरङ्गवत्या वचः । विदूषकः-एर्दै क्खु मअणमअतिहाविप्पलद्धा कामिणो उम्मत्ता' मह पडिहान्ति । जं पञ्चक्खे वि विप्पदिवत्तिं कुणन्ति । जदि सव्वधा ण पत्तिज्जसि ता अकरणिजं पि करोमि । बह्मणीए चलणेहिं सवामि.। (क) राजा-हृदय, दिष्टया वर्षसे। थस्यां रक्तं किल कलयसि क्लान्तिमत्यर्थमेवं नूनं वृन्तादिव सरसिजं मजदन्तर्हिमाम्भः । कृत्वा सद्यः श्रवणयुगलं लोलताटङ्करिक्तं सापि स्वैरं विशिखखुरली कल्पिता मन्मथेन ॥ ६ ॥ ('स्फुरल्लीला-(२।४) इत्यादि पठति ।) विदूषकः-(विहस्य ।) भो, किं पि पुच्छामि । (ख) राजा-किन पृच्छसि । विदूषकः-सिणिद्ध मुद्धपहाउडणमणुल्लसणमणोहरं हरसुप्फुल्लकवो- लमण्डलं संमुहपलोइदं अवगणिअ कण्णन्तिकगामिणिं वकं जेव्व दिkि कुविदाणं विअ कामिणीणं कामिणो कीस पसंसन्ति । (ग) (क) एते खलु मदनमृगतृष्णाविप्रलब्धाः कामिन उन्मत्ता मम प्रति- भान्ति । यत्प्रत्यक्षेऽपि विप्रतिपत्ति कुर्वन्ति । यदि सर्वथा न प्रत्ययसे तढ- करणीयमपि करोमि । ब्राह्मण्याश्चरणाभ्यां शपामि । (ख) भोः, किमपि पृच्छामि । (ग) स्निग्धमुग्ध...":"""मनोहरं हर्षोत्फुल्लकपोलमण्डलं संमुखप्रलो- कितमवगणय्य कर्णान्तिकगामिनी वक्रामेव दृष्टिं कुपितानामिव कामिनीनां कामिनः कुतः प्रशंसन्ति ।
२ अङ्कः] कर्णसुन्दरी। २३ राजा-अविदग्धोऽसि । पश्य । दीर्धापाङ्गतरङ्गितेन विगलन्नीरं विलोलेक्षणा यत्पश्यन्त्यवतंसनालनलिनच्छायामुश चक्षुषा । तुल्यं वाधिकमन्यदेक मदनस्यास्त्रं त्रिलोकीजयि- व्यापारोऽस्य न यत्र तत्र किमपि प्रेम्णो हि तल्लक्षणम् ॥७॥ विदूषकः-भो, अण्णं भणामि । जाए कारणादो महन्तेण दुःखेण सअलं जेव्व जामिणि देवी अब्भत्थिदा सा किं त्ति पुणो वि अणुसंधी- अदि । जदि तीए कजं ता कि त्ति देवी पीडन्ती अणुणीअदि । अह देवीए कजं ता कि त्ति सा अणुसंधीअदि त्ति । (क) राजा-अयि सखे, शृणु। जनिमुपगता विश्वप्रख्यातनाम्नि कुले पुनः प्रणयविशदा देवी मोक्तुं मया न हि पार्यते । कथमवितथलाध्यैरङ्गैरसावपि मुच्यतां रचितकवचः पक्षे यस्याः स्थितः कुसुमायुधः ॥ ८॥ तत्कथमयं विरहदाहो मया गमयितव्यः । विदूषकः-सव्वधा पिअवअस्सो असुहिदो त्ति करुणं उप्पाइन सत्थिवाअणपुन्वअं अणुणीअ सा समप्पीअदु त्ति देविं पुच्छेमि । (ख) राजा-मूर्ख, नैवं कथंचन कृतानुनयापि देवी मन्येत मन्युकलुषा मयि केवलं स्यात् । (क) भोः, अन्यद्भणामि । यस्याः कारणान्महता दुःखेन सकलामेव या- मिनी देव्यभ्यर्थिता सा किमिति पुनरप्यनुसंधीयते । यदि तया कार्य त- त्किमिति देवी, पीड्यमानानुनीयते । अथ देव्या कार्य तत्किमिति सानु- संधीयत इति । (ख) सर्वथा प्रियक्यस्योऽसुखित इति करुणामुत्पाद्य स्वस्तिवायनपूर्वक- मनुनीय सा समर्प्यतामिति देवीं पृच्छामि ।
२४ काव्यमाला। स्थातुं सुशक्यमनले पतितुं कृपाण- धारासु वा न तु जनं दयितं विमोच्नुम् ॥ ९ ॥ तत्वायमात्मा विनोदयितव्यः । विदूषकः-भो, तत्थ जेव्व उज्जाणे गृच्छीअदु । तत्थ तरङ्गसाल- ब्भन्तरे चित्तगदं पलोअन्तो सुहं पाविहिसि । (क) राजा-सखे, युक्तमुक्तम् । तदुपदिश पन्थानर । विदूषकः-इदो इदो । (इति परिक्रामति ।) एसा तरङ्गसाला अलंक- रीअदु । (ख) (उभौ तथा कुरुतः।) विदूषकः-(सर्वतोऽवलोक्य ।) भो, कहिं सा सामलङ्गी अणङ्गदेवदा आलिहिदा । अह वा अहं चम्मचक्खू ण पेक्खामि । (ग) राजा-(निःश्वस्य ।)कथमुत्प्रोञ्छितं तदनङ्गशस्त्रम्। अहो निर्दया देवी। सिद्धक्षेत्रमिवाङ्गनाकुलगुरोलावण्यसारोच्चय- श्रीसंकेत इव त्रिलोकनयनप्रीतेरिवैको निधिः । धातुश्चन्द्रसहस्रसंग्रह इव द्रष्टुं तदेणीहशो वकं चित्रनिविष्टमप्यसुलभं कोऽयं विरुद्धो विधिः ॥ १० ॥ (विचिन्त्य ।) विद्वांस्ततो लिखितुमिन्दुमुखीं विदग्धः कोऽन्यो विना कुसुमचापमनल्पशिल्पः । नूनं तदा तदनुबन्धिभिरिन्द्रजाल- मुन्मीलितं किमपि मे पुरतो विकल्पैः ॥ ११ ॥ (इति शोक नाटयति) (क) भोः, तत्रैवोद्याने गम्यताम् । तत्र तरङ्गशालाभ्यन्तरे चित्रस्त प्रलोकयन्सुखं प्राप्स्यसि । (ख) इतं इतः । एषा तरङ्गशालालक्रियताम् । (ग) भोः, कुत्र सा श्यामलाङ्गयनङ्गदेवतालिखिता । अथ वाहं चर्म चक्षुर्न पश्यामि ।
२ अङ्कः] कर्णसुन्दरी। विदूषकः--भो, किं एत्थ सुण्णदेउले। एहि । लीलावणब्भन्तरे परि- ब्ममामो । कदा वि कथं वि कुसुमाओ उचिणन्ती लदाओ सिञ्चन्ती वा सरसीजलम्मि हाणविधि करन्ती वा सा हुविस्सदि। (क) राजा-कुत एवंविधा भाग्यसंपदः । तथापि पश्चात्तापव्यपनय- नाय तदपि विधीयताम् । (हति तथा कुरुतः।) विदूषकः-(अंग्रतो विलोक्य 1) पेक्ख केलिकमलिणीसणुम्मि । विच्छोडन्तो णिअमुहगदं चक्कवाआण चक्कं देन्तो णिहारसमसमये सव्वदो पङ्कआणम् । (अप्रतोऽवलोक्य) तारं तीरप्फुरिदकिरणो लोअणानन्दवल्ली- कन्दो चन्दो रचअदि जले मज्जणुम्मज्जणाई ॥ १२ ॥ (ख) राजा-(विलोक्य ।) परं मैत्रीपात्रं त्रिभुवनजिगीषोः स्मृतिभुवः स एवायं यूनामविनयकथोन्मुद्रणगुरुः । (विचिन्त्य ।) गतः किं वा दैवाहत बत कलङ्कोऽस्य नियतं सुधामुग्धैधौतः कमलसरसीवीचिनिचयैः ॥ १३ ॥ (सोत्प्रेक्षम् ।) तस्याः कुरङ्गकदृशो युगपन्मुखेन दोषाकरश्च कमलानि च निर्जितानि । (क) भोः, किमत्र शून्यदेवकुले । एहि । लीलावनाभ्यन्तरे परिभ्रमावः कदापि कथमपि कुसुमान्युच्चिन्वती लताः सिञ्चन्ती वा सरसीजले स्नान- विधि कुर्वती वा सा भविष्यति । (ख) पश्य केलिकमलिनी....... । क्यिोजयन्निजमुखगतं चक्रवाकाणां चक्रं ददन्निद्रारसमसमये सर्वतः पङ्कजानाम् । तारं तीरस्कुरितकिरणो लोचनानन्दवल्ली- कन्दश्चन्द्रो रचयति जले,मज्जनोन्मजनानि ॥ ।
काव्यमाला। एतानि शातिकमप्यपहाय वैरं खैरं तदत्र रचयन्ति विधेयचिन्ताम् ॥ १४ ॥ विदूषकः- रोहिणिवअणालिङ्गणणिब्भरसंकन्तपरिमलुग्गारम् । ण मुअन्ति कुमुअबन्धवबिम्बं परिलम्बिआ भमरा ॥ १५ ॥ (क) राजा-(निपुणं-निरूप्य । सहर्षम् ।) सखे नायं खेलंस्तिलकयति चन्द्रः कुमुदिनी- मदः कंदर्पाज्ञास्फुरणगुरुवकं मृगदृशः । कुलं रोलम्बानामिदमपि न लग्नं परिमला- दयं वेणीदण्डः शिखिन इव बर्हस्तरलितः ॥ १६ ॥ अपि च । आभात्यमर्त्यतरुपत्रसगोत्रपाणिः सेयं मृगावदना मदनास्त्रमत्र । हेतोः कुतोऽपि कमला कमलान्तराला- निर्गत्य संयमवती पयसि स्थितेव ॥ १७ ॥ विदूषकः-(सकौतुकम् ।) ण वरकबरी गोरङ्गीए तरङ्गिदविब्भमा भमरणिवहो आमोदाणं ससिम्मि ण संगदो । अवि कमलिणीसंकन्तेणं विलासहरेण सा कणअकमलुक्किण्णा जादा मुहेण जलन्तरे ॥ १८ ॥ (ख (क) रोहिणीवदनालिङ्गननिर्भरसंक्रान्तपरिमलोद्गारम् । न मुञ्चन्ति कुमुदबान्धवबिम्बं परिलम्बिता भ्रमराः ।। (ख) न वरकबरी गौराङ्गयास्तरङ्गितविभ्रमा. भ्रमरनिवह आमोदेन शशिनि न संगतः । अपि कमलिनीसंक्रान्तेन विलासधरेण सा कनककमलोत्कीर्णा ज्ञाता मुखेन जलान्तरे | २ अङ्कः] कर्णसुन्दरी । १७ राजा- पुष्पेषोरभिषेकयोग्यमथ वा भर्गाग्निमनात्मनः प्रत्युजीवनमेतदम्वुनसरः कम्वुप्रसन्नच्छवि । यत्वानेडितशीतरश्मृिकिरणस्यन्दोपमेनामुना लावण्यामृतनिर्झरेण सुतनोर्यत्पात्रतां नीयते ॥ १९ ॥ अपि.च। आश्चर्य फलितं सरोरुहवने स्थित्वा चिरेण श्रियः कान्तिः कान्तिसुधाद्रवेण सुतनोर्याता यदत्राधुना। सान्द्रप्रेमवशीकृतस्य नियतं कौमोदकीलक्ष्मणः साप्यङ्गे गिरिजेव मन्मथरिपोः कामास्त्रमुत्स्रक्ष्यति ॥ २०॥ विदूषकः--वणाणिलवेल्लिदविडुमकिसलअसरिच्छपप्फुरिदाहरोट्टी अङ्गुलिविवत्तणमणोहरकरपल्लवा नासग्गलग्गअविसट्ठकन्दोट्टसलोणलो- अणा जादा । (क) राजा- स्फुरति यदयं दन्तज्योत्स्नाविलासधरोऽधरः करकिसलियौ मुद्रायोगाद्यदुच्चलिताङ्गुली । मुकुलनविधिर्यन्नीलाब्जद्विषोरपि चक्षुषो. स्तदियमबला ध्यायत्यन्तः किमप्यधिदैवतम् ॥ २१॥ विदूषकः-(सकौतुकम् ।) भो, कीस एसा सुण्णं पुणो पुणो पाणि शीरमज्झादो आअट्ठदि । (ख) राजा-(दृष्ट्वा ।) सुतनुरनवलोकयन्त्युपान्ते स्थितमपि काञ्चनकुम्भमम्बुपूर्णम् । क्वचिदपि गतमानसा करेण स्पृशति कुचप्रतिबिम्बमम्बुमध्ये ॥ २२ ॥ (क) वनानिलवेल्लितविद्रुमकिसलयसदृक्षप्रस्फुरिताधरोष्ठी अङ्गुलिविवर्त- नमनोहरकरपल्लवा नासाग्रलग्नाविस्पष्टनीलोत्पलसलावण्यलोचना जाता । (ख) भोः, कस्मादेषा शून्यं पुनः पुनः- पाणि नीरमध्यादाकर्षति ।
२८ काव्यमाला। (सस्पृहम् ।) ताम्बूलावरणोज्झिते विकसितं सगेण बिम्बाधरे मज्जत्कज्जलकालिकेन कलिता कापि च्छविश्चक्षुषा । श्रीरन्यैव निरङ्गरागसुभगेऽप्यने कुरङ्गीहशो विश्राम्यत्वधुना धनुर्विजयते कं नाम नैव स्मरः ॥ २३ ॥ विदूषकः-(विलोक्य ।) कहं एसा णि वत्तिदपव्वदीचरणसुस्सूसा इ- मादो कमलसरादो जिग्गदा रहसि सहीए सह लदागुम्मन्तरे पविट्ठा ।(क), - धूपांशुकेन शनकैः परिमृज्यमान- वेणीगुणा प्रणयपूर्वमुपेत्य सख्या । मध्ये मधुद्रुमवनं वनदेवतेव तन्वी विवक्षुरिव किंचिदिहोपविष्टा ॥ २४ ॥ (सहर्षम् ।) सखे, सुव्यक्तानि विरहचिह्नानि । तथा हि । दग्धासन्नलतावली किसलयः श्वासानिलानां चयो बाष्पाम्भःनुतिरालवालकलनायोग्या तरूणामधः । तापो निर्मुदिताब्जिनीदलचयः कोऽप्यङ्गकानां गुरु- र्दूर्वाकाण्डविडम्बिपाण्डिमघनं किं चाननं सुभ्रवः ॥ २५ ॥ विदूषकः-सुलक्खिदं पिअवअस्सेण । णीसासाहिणवप्पहारवलिदा कामस्स गूणं सरा । (ख) (क) कथमेष्म निर्वर्तितपार्वतीचरणशुश्रूषास्मात्कमलसरसो निर्गता रहसि सख्या सह लतागुल्मान्तरे प्रविष्टा । (ख) सुलक्षितं प्रियवयस्येन । निःश्वासाभिनवप्रहारवलिता कामस्य नूनं सरी १. आदर्शपुस्तकेऽस्य श्लोकस्य पादमात्रमेवास्ति.
२ अङ्कः]] कर्णसुन्दरी । २९ ....................... .......॥ २६॥ राजा-सखे, अस्यैव लतागहनस्य पश्चात्स्थित्वा शृणुवस्तावदस्या विश्रम्भभाषितानि । (इति तथा कुरुतः।) (ततः प्रविशति प्रथानिर्दिष्टा नायिका सखी च।) सखी-किं एवं रोदिअदि । एसा भअवदी भवाणी पणदजणव- च्छला णिच्चिअं तुह इच्छं पूरइस्सदि । (क) नायिका- को जाणादि कदा हुविस्सदि फलं चन्दद्धचूडामणि प्पाणेसाचलणप्पसादतरुणो भत्तीअ सित्तस्स वि' । मुज्झन्ती मअणाणलेन बहलं साहं हदासा पुणो दाणिं जेव्व तहिं चरामि परमं जं जं अवत्थन्तरम् ॥ २७ ॥ - . अवि अ॥ आसण्णो मअलन्छणो ण वअणो दुद्धेण धोएव्व सा दिट्ठी सामलगोरमुद्धलडहं तं तस्स रूवं पड्ड । झाणे झत्ति जधा परिप्फुरदि मे कच्चाइणीणो तधा णो जाणे जदि जीवइस्सदि उमा कण्णा विपण्णेत्ति माम् ॥२८॥(ख) (क) किमेवं रुद्यते । एषा भगवती भवानी प्रणतजनवत्सला निश्चितं तवेच्छां पूरयिष्यति । (ख) को जानाति कदा भविष्यति फलं चन्द्रार्धचूडामणि- प्राणेशाचरणप्रसादतरोभक्या सिक्तस्यापि ।. मुह्यन्ती मदनानलेन बहुलं साहं हताशा पुन- रिदानीमेव तत्र चरामि परमं यद्यदवस्थान्तरम् ॥ अपि च। आसन्नो मृगलाञ्छनो न वदनं दुग्धेन धौतेव सा दृष्टिः श्यामलगौरमुग्धलटभं तत्तस्य रूपं पटु । १. 'वा' इत्यादर्शपुस्तकपाठः. कर्ण. ४ काव्यमाला। . सखी-णं तस्सि मि संणद्धो मअरद्धओत्ति कित्ति उत्तमीअदि । (क) नायिका-सहि, अलं आसासणसीलदाए । (ख) सखी-णं जो सो तस्स महाभाअस्स कदे पच्छावइदुमाढत्तो सि- लोओ ण किं विरइअदि । (ग) नायिका-तुमं जेव्व सक्का सिलोअजुअलं करेसु । मह मम्महरस- संकप्पविकप्पेहिं अन्तरिजदि पणिधाणदिट्ठीं। (घ)- सखी--(नातिचिंरात्स्थित्वा ।) सहि, अवधारेसु । (संस्कृतमाश्रित्य ।) (ङ) नीरागा मृगलाञ्छने मुखमपि स्वं नेक्षते दर्पणे खिन्ना कोकिलकूजितादपि गिरं नोन्मुद्रयत्यात्मनः । चित्रं दुःसहदाहदायिनि धृतद्वेषापि पुष्पायुधे मुग्धाक्षी सुभग त्वयि प्रतिपदं प्रेमाधिकं पुष्यति ॥ २९ ॥ अपि च। प्रोतेति प्रतिबिम्बितेति घटितेत्यास्थानशालामणि- स्तम्भन्यस्तभरामपि प्रियसखीवर्गो न जानाति ताम् । अङ्गेनोत्पुलकेन किं तु सुचिरं गीतं कुरङ्गीव सा तन्वङ्गी तव शृण्वती नयनरम्भोभिरुन्नीयते ॥ ३० ॥ ध्याने झटिति यथा परिस्फुरति मे कात्यायन्यास्तथा नो जाने यदि जीवयिष्यत्युमा कन्या विपन्नेति माम् ॥ (क) ननु तस्मिन्नपि संनद्धो मकरध्वज इति किमित्युत्ताम्यते । (ख) सखि, झलमाश्वासनशीलतया । (ग) ननु यः स तस्य महाभागस्य कृते प्रस्तावयितुमारब्धः श्लोको न किं विरच्यते। (घ) त्वमेव शक्ता श्लोकयुगलं कुरुष्व । मम मन्मथरसंसंकल्पविकल्पैर- न्तर्यते प्रणिधानदृष्टिः। (छ) सखि, अवधारय । ,
२ अङ्कः]
कर्णसुन्दरी।
नायिका-सहि, साह विरइदम् । सरसकइत्तणेण परभूमिमारोविदो
विप्पलम्भो । (क)
राजा-प्रिये, अन्तरङ्गासि काव्योपनिषदाम् ।
नायिका-सहि, मए नि विरइदो संदेसो । (ख)
सखी-कीरिसो। गण्डूसेहि सवणाइं रसदाणेण । (ग)
नायिका-
किं चन्दो तह चन्दणव्व सिसिरो कि वल्लईपञ्चमो
कण्णे वल्लहसंगमो मणसिजो किं वा सपक्खट्टिदो।
दिट्ठी किं कमलेसु रजदि मणं किं णाम मे दक्खिणो
सो वा दक्खिणमारुदो जइ तुए मज्झत्थमालम्बिदम् ॥ ३२ ॥(घ)
विदूषकः-भो, एण्हि पत्तिज्जसि । (ङ)
(राजा मोदते।
सखी-सहि, णिअदसाणिवेदणगब्भणिन्भरं दढं उपलद्धो भट्टा । (च)
नायिका-एवं सुणीअ किं पडिपज्जदि । (छ)
(क) सखि, साधु विरचितम्। सरसकवित्वेन परभूमिमारोपितो विप्रलम्भः
(ख) सखि, मयापि विरचितः संदेशः।
(ग) कीदृशः । गण्डूषय श्रवणे रसदानेन ।
(घ) किं चन्द्रस्तथा चन्दन इव शिशिरः किं वल्लकीपञ्चमः
कर्णे वल्लभसंगमो मनसिजः किं वा सपक्षास्थितः ।
दृष्टिः किं कमलेषु रज्यति मनाकिं नाम मे दक्षिणः
स वा दक्षिणमारुतो यदि त्वया माध्यस्थ्यमालम्बितम् ।।
(ङ) भोः, अधुना प्रत्याय्यसे ।
(च) सखि, निजदशानिवेदनगर्भनिर्भरं दृढमुपालब्धो भर्ता ।
(छ) एवं श्रुत्वा किं प्रतिपद्यते ।
me
काव्यमाला।
सखी-कि अण्णम् ।
जं जलरासिसुताए नवरसतण्हाउलेण कण्हेण ।
ससिहण्डमण्डणेण वि पडिवण्णं जं च गोरीए ॥ ३२ ॥ (क)
नायिका-अवि ण कहिं पि अवहीरस्सदि सखी । (ख)
सखी--(विहस्य।)
तुम्हारिसीओ परिहवविसअम्मि वहं व वज्जन्ति ।
किजउ कहं विअ फुडं णिअडाहि सुहाइदै दूरे ॥ ३३ ॥ (ग)
नायिका--(सोत्कलिक संस्कृतमाश्रित्य ।)
जाने सखि स्मरशिखिज्वलिता जनस्य
तस्य व्रजामि निकटं परिभूय लज्जाम् ।
पश्चाद्यथाभिरुचितं विदधातु देवी
किं दुःसहं विरहपावकतोऽपि वा स्यात् ॥ ३४ ..
विदूषकः-भो, ण जुत्तं दाणिं पडिवालणम् । उपसरीअदु । (घ)
राजा-मूर्ख, किं तरलोऽसि ।
सखी-सहि, किं उत्तावलासि । तारिसाई जेव्व तुह लक्खणाई
जेहिं किं ण संभावीअदि । (ङ)
नायिका-ईरिसाई मह भाअधेआई जेण मिचुसंभावणा ।
(इति संस्कृतमाश्रित्य ।) (च)
(क) किमन्यत् ।
यज्जलराशिसुताया नवरसतृष्णाकुलेन कृष्णेन ।
शशिखण्डमण्डनेनापि प्रतिपन्नं यच्च गौर्या ॥
(ख) अपि न कुत्राप्यवधीरयिष्यति (2) सखी ।
(ग) युष्मादृश्यः परिभवविषये कथमिव ब्रजन्ति ।
क्रियतां कथमिव स्फुटं निगडैः सुखायितं दूरे ॥
(घ) भोः, न युक्तमिदानी प्रतिपालनम् । उपस्रियताम् ।
(ङ) सखि, किमाकुलासि । तादृशान्येव तव लक्षणानि यैः किं न सं-
भाव्यते।
(च) ईदृशानि मम भागधेयानि यैर्मृत्युसंभावना ।
१३ २ अङ्कः] कर्णसुन्दरी। गुर्वी धुरं दुरभियोगनिधिमनोभू- रारूढनानविषये मनसोऽनुबन्धः । बन्धुर्न कश्चिदपि निघ्नतया स्थितिश्च हा निश्चितं मरणमेव ममेह जातम् ॥ ३५ ॥ (इति मोहमुपगच्छति ।) विदूषकः-भो, पमादो पमादो। मए पढमं जेटघ आअक्खिदं उ- प्रसप्पीअदु त्ति । (क) (राजा ससंभ्रममुपसर्पति ।) सखी-विजयताम् । विदूषकः -अब्बह्मण्णं अब्बह्मण्णम् । (ख) सखी-महाराअ, हत्थेण फंसीअदु जेण चेअणं पावेदि । (ग) राजा-(तथा कुर्वन् ।) विलोलत्वं चक्षुः स्पृशति मुकुलावस्थमपि य- दुरस्विद्यन्मध्यं कुचकलशयोरुच्छसिति यत् । प्रसीदत्युद्दामा यदपि वदनश्रीः सपुलकं तदेतस्याः संज्ञा ध्रुवमभिमुखी पक्ष्मलदृशः ॥ ३६ ॥ (पुनरवलोक्य ।) अहो सर्वावस्थाभिरव्यवधीयमानं रामणीयकमस्याः । तथा हि। भ्रूलेखा विनिवृत्तनृत्तरचना मुक्ताञ्चनोदञ्चन- व्यापारा कुसुमास्त्रकार्मुकलतामुष्याः सगोत्रीकृता । मीलल्लीलमुपैति लोचनयुगं निद्रालुनीलोत्पल- स्पधी श्वासकदर्थितोऽपि भजते बिम्बाधरः स्वां धुरम् ॥३७॥ विदूषकः-भोदी मम पिअवअस्सहत्थेण फंसिजन्ती कहं ण चे- अणं पडिवजदि । (घ) (क) भोः, प्रमादः प्रमादः । मया प्रथममेवाख्यातमुपसृप्यतामिति (ख) अब्रह्मण्यमब्रह्मण्यम् । (ग) महाराज, हस्तेन स्पृश्यतां येन चेतनां प्राप्नोति । (घ) भवती मम प्रियवयस्यहस्तेन स्पृश्यमाना कथं न चेतनां प्रतिपद्यते ।
काव्यमाला। राजा-(सानन्दमात्सगतम् ।) मग्नं मृगासरसीव सुधानिधाने गर्ने निषण्णमिव पङ्कजकैरवाणाम् । अप्यत्र यन्त्रविनिपीडितपारिजाल- निःस्यन्दधौतमिव निर्वृतिमेति चेतः ॥ ३८ ॥ सखी-सहि, एदेण हत्थफंसेण ण उच्छसस्तित्ति अहो दे कठि. णत्तणम् । (क) नायिका-(किंचित्समाश्वस्य ।) अम्मो, किंत्ति रसाअणसित्तेव्व णि- व्वुर्दि उठवहामि । एसो जिआअणो कङ्खिदो जणो । (इति किंचिदृष्ट्वा सल- नमास्ते ।) (ख) - वद सुवदने किं व्यामोहः समाश्वसिहि द्रुतं प्रणयिनि जने कि प्रत्याशाविरोधि विचेष्टितम् । नय नयनयोरातिथ्यं मा मनोभववागुरा परिचरतु मां नीलाम्भोजननः कलयान्विता ॥ ३९ ॥ विदूषकः-भोदि, किं ण अलिअणिद्दा विद्दावी अदि । पिअवअस्सो एव्वं दीणत्तणं दंसेदि । (ग) सखी--(सहासम् ।) कित्ति पडिपत्तिमूढदा अङ्गीकदेत्ति । (एनां बला- दानीय राजान्तिकमुपवेशयति ।) (घ) (क) सखि, एतेन हस्तस्पर्शेन नोच्छृसिसीत्यहो ते कठिनत्वम् । (ख) अहो, किमिति रसायनसिक्तेव निर्वृतिमुद्वहामि । एष जीवनः काङ्कितो जनः । (ग) भर्वति, किं नालीकनिद्रा विद्राव्यते । प्रियवयस्य एवं दीनत्वं द- र्शयति (घ) किमिति प्रतिपत्तिमूढता अङ्गीकृतेति ।
२ अङ्कः] कर्णसुन्दरी। ३६ नायिका-(सकृतककोपम् ।) अवेहि पडिहासशीले । (इति सासूयम- वलोकयति।) (क) राजा- इयं यदालोकयति मानता दृशा नवेन्दीवरदामदीर्घया। तदन्यदेवाभ्यधिक रसायनादवैमि पुष्पायुधदेहदोहदम् ॥ ४० ॥ (इति मटाञ्चले मृशन् ।) नायं जनः किमु परिच्छदमध्यमास्ते यल्लज्जया ननु तनूदरि मुद्रितासि । आलिङ्ग मां परिचितानि चिराद्भवन्तु देहे हरिन्ति हरिचन्दनपल्लवानि ॥ ४१ ॥ (इत्यालिङ्गितुमिच्छति।) नायिका-(स्वगतम् ।) हिअअ, मणोरहाणं वि उपरि वट्टसि । (ख) सखी-दिजउ एदाणं वीसम्भगोट्ठी । (इति शनकैः किंचिदपसरति।) (ग) विदूषकः-भोदि, एसा देवी आगदा । (घ) (सखी ससंभ्रमं निवर्तते । नायिका सभयमुत्तिष्ठति।) राजा-(सशक़ दिशोऽवलोक्य ।) मूर्ख, कासौ । विदूषकः-भो, तत्तभोदिं कण्णसुन्दरि उदिसिअ देवी उज्जाणमलं- करेदित्ति भणिदम् । (ङ) राजा-(अप्रतोऽवलोक्य ।) कथं सत्यमेवागता देवी । अहो ब्रह्मब- न्धोरमुष्य फलितमङ्गलेन । (क) अपेहि परिहासशीले । (ख) हृदय, मनोरथानामप्युपरि वर्तसे । (ग) दीयतामेतयोविनम्भगोष्ठी । (ब) भवति, एषा देव्यागता। (ङ) भोः, तत्रभवती कर्णसुन्दरीमुद्दिश्य देव्युद्यानमलंकरोतीति भणितम् । १. 'सास्त्रमवलोकयति' इत्यादर्शपुस्तकपाठः काव्यमाला। . नायिका--(विलोक्य । आत्मगतम् ।) अणब्भए इदं वजपडणं पेक्खि- दम् । (क) सखी-महाराअ, सुमरिदवो अ जणो । संपदं - अण्णदो ग- च्छम । (ख) विदूषकः-अह्मे वि एव्वं जेव्व करेम । (ग) (नायिका सख्या सह निष्क्रान्ता ।। राजा-(निश्वस्य । कथमपि दिवः पुञ्जीभूय च्युतामिव कौमुदी कुमुदसुहृदः प्राप्य प्राणाधिकां विधिकारणात् । अहरहरहो प्राप्तं लीलारसोर्मिषु मज्जता क्षणमपि मया न स्वातन्त्र्यं किमत्र विधीयताम् ॥ ४२ ॥ (ततः प्रविशति देवी हारलता च ।) हारलता-कहं भट्टावि इह जेव्व । (घ) देवी-राअकजविरहे इमस्सि काले इह जेव्व दिणं णिविण्णो विणोदइ अजउत्तो अत्ताणअं त्ति । (ङ) राजा-अपि विज्ञातोऽहं देव्या । विदूषकः-तधा कुविआ वअस्सेण अणुणीदा कधं विप्पदीवं पस- जिअ अनुसरिस्सदि । (च) (क) अनभ्रे इदं वज्रपतनं प्रेक्षितम् । (ख) महाराज, स्मर्तव्योऽयं जनः । सांप्रतमन्यतो गच्छावः । (ग) आवामप्येवमेव कुर्वः। (घ) कथं भर्तीपीहैव । (ङ) राजकार्यविरहेऽस्मिन्काले इहैव दिनं निर्विण्णो विनोदयत्यार्यपुत्र आत्मानमिति । (च) तथा कुपिता वयस्येनानुनीता कथं विप्रतीपं प्रसज्ज्यानुसरिष्यति। १. आदर्शपुस्तकसंशोधकेन हारलतास्थाने देवी, देवीस्थाने च हारलता इति पदं शोधितमस्ति.
३ अङ्कः] कर्णसुन्दरी। ३७ ३ राजा-तदितोऽभ्यन्तरमेव बजावः । (इति निष्कान्ताः सर्वे ।) द्वितीयोऽङ्कः। तृतीयोऽङ्कः । (ताः प्रविशतश्चेट्यौ। एका-सहि बउलावलि, सो ण हु बन्धवो भणीअदि जस्ति हिअ- अम्मि विअ णीसङ्कए ण रहस्सं संचारीअदि । ता कहेसु कीसु तुअं देवीए वासे मन्तअन्ती आसि । (क) बकुलावली-सहि मन्दोअरि, ण अस्थि मम वीसासो । तुअं चा- वलभावेण विसुमरिअ कस्स पि पुरदो कहिस्ससि त्ति ण आवेदेमि । ज- दि कुप्पसि ता एवं णिवेदीअदि । परं मन्तभेदो रक्खियो । (ख) मन्दोदरी-अविस्सासिणि, कहेसु । (ग) बकुलावली-सहि, भट्टा विज्जाहरकण्णाए अणुरत्तचित्तो, परं दे- वीकारणेण किं पि कादं ण सक्कुणोदित्ति सव्वगदो पवादो। किं तु भ- दृदारिआए कलहाअन्तो अवलावं करेदि । अज्ज क्खु पिअन्तअकेण अजबादराअणेण अन्तेउरसालाए पच्छादो णिहुअं हुविअ अन्ज पओसे परिकलिअमअणुजाणए संकेदो गहिदो अवअं मन्तिदं ण वेत्ति विरह- लेहो अ णिअकरे कदो। देवीए सव्वं पि सुणिअ अहं भणिदा अज्ज मए कण्णसुन्दरीरूएण तुए तीअ सहीरूएण गदुअ अजउत्तो वञ्चिद- वो । ता एदाए वत्ताए रक्खणं कदुअ उअअरणं सज्जीकरेसु त्ति । (घ) (क) सखि बकुलावलि, स न खलु बान्धवो भण्यते यस्मिन्हृदय इव नि:- शङ्कतया न रहस्यं संचार्यते । तत्कथय कस्मात्त्वं देव्या वासे भन्त्रयन्ती आसीः। (ख) सखि मन्दोदरि, नास्ति मम विश्वासः । त्वं चापलभावेन विस्मृत्य कस्यापि पुरतः कथयिष्यसीति नावेदयामि । यदि कप्यसि तवं निवेद्यते । परं मन्त्रभेदो रक्षितव्यः । (ग) अविश्वासिनि, कथय । (घ) सखि, भर्ता विद्याधरकन्यायामनुरक्तचित्तः, परं देवीकारणेन कि- काव्यमाला। मन्दोदरी-अहो; संकडे पडिदो महाराओ । (इत्यप्रतोऽवलोक्य ।) एसो भट्टा लच्छीसणाहो णूणं एत्थ रमणपगीवएतंत्र जेव पडिपालअन्तो चिट्ठदि । ता एहि गच्छामो । जाव अझे पेक्खिअ ण.कि पि उप्पिस्सदि । (क) (इति निष्क्रान्ते ।। प्रवेशकः।। (ततः प्रविशति यथानिर्दिष्टो राजा ।) राजा- न स्वेच्छागतयोऽपि साचिवलनावैचित्र्यशून्या दृशो नाधौताधरकान्ति संस्तुतजनालापेऽपि लीलास्मितम् । वाचां विस्मरणेऽपि न व्यवहिता विच्छित्तिसंक्रान्तय- स्तात्पर्य मदनेन दर्शितमहो वैदग्ध्यदीक्षाविधौ ॥ १ ॥ अपि च । तद्वक्रेण विलुप्तकान्तिमहिमा वर्णोज्झितः शर्वरी- मब्रह्मण्यमिव प्रसारितकरः कृत्स्नां विधत्ते विधुः । अप्याविष्कृतपत्रमुत्पलवनं तल्लोचनेन्दीवर- च्छायारिक्थमिव द्विरेफपटलीवाचालमाकाङ्क्षते ॥ २ ॥ मपि कर्तुं न शक्नोतीति सर्वगतः प्रवादः । किं तु भर्तृदारिकया कलहाय- मानोऽपलापं करोति । अद्य खलु प्रिय"........."आर्यबादरायणेनान्त:- पुरशालायाः पश्चान्निभृतं भूत्वाद्य प्रदोषे परिकलितमदनोद्यानके संकेतो गृ हीतः......'मन्त्रितं न वेति विरहलेखश्च निजकरे कृतः । देव्या सर्वमपि श्रुत्वाहं भणिता अद्य मया कर्णसुन्दरीरूपेण त्वया तस्याः सखीरूपेण गवा- र्यपुत्रो वञ्चयितव्यः । तदस्या वार्ताया रक्षणं कृत्वोपकरणं सज्जीकुरुष्वेति । (क) अहो, संकटे पतितो महाराजः । एष भर्ता लक्ष्मीसनाथो नून- मत्र रमण...........एव प्रतिपालयस्तिष्ठति । तदेहि गच्छावः । यावदावां प्रेक्ष्य न किमपि............।
३ अङ्कः] कर्णसुन्दरी। (इति साङ्गभङ्गम् ।) तत्पादद्वितयस्य दास्यमपि न प्राप्नोति पङ्करहे तद्भूभङ्गविनिर्जितं सरधनुर्ननं सदा तिष्ठति । इन्दुः किं दुरतिक्रमस्य कुरुतां धातुः सुधासूतिर- प्यकं तन्मुखकिंकरत्वपिशुनं धत्ते सहोत्यं यतः ॥ ३ ॥ (स्मरणमभिनीय।) प्रायो दास्यति नो पयोधरतटी गन्तुं पुरस्ताविति ध्यानेनेव चकास्ति साचिगमने शिक्षारसश्चक्षुषोः । अन्तः स्थानमिव मरैकसुहृदः कस्यापि दातुं वहि- निर्गन्तुं हृदयादपि स्तनयुगं विस्तारि संनयति ॥ ४ ॥ अपि च । कान्तिः कापि कपोलयोः परिणमत्तालीदलस्पर्धिनी वर्धन्ते मधुपावलीवलयिनः श्वासानिलाः संततम् । कार्यस्यावरणं तरङ्गितर्गतेलावण्यमेवाङ्गके सारङ्गायतचक्षुषः किमथवा सर्व नवीनायते ॥ ५ ॥ अपि च। कंदर्पदैवतनिकेतनवैजयन्ती यान्ती विलासरसमन्थरमुत्पलाक्षी । दृष्टिं निवेदितवती मयि कालकूट- लेशान्धकारितसुधालहरीविचित्राम् ॥ ६ ॥ (सनिःश्वासम् ।) तत्किमद्यापि चिरयति वयस्यः । विज्ञातेङ्गितया तरङ्गितघनक्रोधानुषङ्गं धृतः किं देव्या प्रतिपालयन्परिजनं तस्याः क्वचित्सुनुवः । खेदं सैव सखेलवारणगतिर्न प्रापिता चेति मे चेतः सान्द्रसमुल्लसन्नवनवोल्लेखं मुहुस्ताम्यति ॥ ७ ॥ (प्रविश्य ।) विदूषकः--दिद्विआ बड्डसि कज्जसिद्धीए । (क) (क) दिष्टया वर्धसे कार्यसिद्धया १. 'वनस्पर्धिनी' इत्यादर्शपुस्तकपाठः. २. 'गतैर्' इत्यादर्श पाठः.
काव्यमाला। राजा-(सहर्षमालिङ्गुय ।) कथमिव । विदूषकः-(कर्णे ।) एव्वमेवम् । (क) राजा-(सानन्दम् ।) भूयोऽपि तावदिदमेव निवेदय त्वं चन्द्रांशुभिः कवलिता इव सूक्तयस्ते । अन्तर्बहिश्च हृदयेन किमप्यमन्द- निःसन्दमिन्दुमणिनेव विलीयते मे ॥ ८ ॥ (इति सोत्साहम् । आकाशे ।) भव भव शतयामा यामिनि स्वामिनि त्वं छुरय रजनिनाथ ज्योत्स्नया दिङ्मुखानि । अयि विरमय काम क्रेङ्कितं क्रूरवाण- व्ययपरिचयचञ्चत्कर्मणः कार्मुकस्य ॥ ९ ॥ (गगनमवलोक्य ।) सखे, समासन्नप्रायस्तत्र गमनसमयः । तथा हि । व्योमभ्रान्तिपरिश्रमेण तृषितैराकृष्यमाणो हयैः प्रस्खेदश्लथमानसारथिकरप्रभ्रष्टवल्गैरिव । अम्भोधेरधिकूलकच्छगहनं क्षीणच्छवि क्ष्माभृतः स्थित्वा मूर्धनि पश्चिमस्य विशति स्वैरं ग्रहग्रामणीः ॥ १० ॥ अपि च । दूरं भानुरुदञ्चितारुणचरः पाथोनिधौ पद्मिनी- स्पर्शासक्तरजोङ्गरागविगमत्रासादिवामज्जति । अन्तः कान्तिमिव प्रियस्य विरहोत्कण्ठाविनोदार्थिनी रोद्धं मुद्रयति स्वपङ्कजवनीकोषं च पाथोजिनी ॥ ११ ॥ विदूषकः-भो पिअवअस्स, अ अ तीए अवत्थाणिवेदओ वि- रहलेहो वाचीअदु । (ख) -(क) एवर्भवम् । (ख) भोः प्रियवयस्य, अयं च तस्या अवस्थानिवेदको विरहलेखो वा- च्यताम् ।
३ अङ्कः] कर्णसुन्दरी। (राजा वाचयति ।) एतां गृहाण सखि रत्नगृहप्रविष्टां ज्योत्स्नी पिधाय सहसैव गवाक्षमार्गान् । नीलीरसेन सह वर्तय पट्टके च चन्द्रः समेतु कियतापि परिक्षयेण ॥ १२ ॥ ज्योत्स्नानिर्गममार्गमुद्राविधिं धत्तोरुकुम्भे मुहू- स्ताराः कारयतान्यतो बत मुहुः संमार्जनीनां चयैः । पञ्चेषोर्भजताभिचारचरुतां विस्मार्यतां पञ्चमः किं चायं पिकमण्डलस्य मयि चेत्सख्यः सुखं वाञ्छथ ॥१३॥ अपि चं। कलयत दलबन्धं संधिषु न्यस्य सान्द्र ननु जतुरसपत पङ्कजेन्दीवराणाम् । इह विरहवतीनां जीवितं येन नायं हरति परिमलश्रीवान्धवो गन्धवाहः ॥ १४ ॥ नयनयुगलवल्गन्नीरसंक्षाल्यमान- स्तनमलयजलेपा सावलेपा कथासु । इति सुभग समग्रामेव रात्रि विधत्ते निरुजसुलभवस्तुप्रार्थनाभिः सखीनाम् ॥ १५ ॥ अपि च। धूर्तोऽयं सखि बध्यतामिति विधु रश्मिननैः कर्षति ज्योत्स्नाम्भः परतः प्रयात्विति रिपुं राहुं मुहुर्याचते। अप्याकाङ्क्षति सेवितुं सुवदना देवं पुरद्वेषिणं भूयो निग्रहवाञ्छया भगवतः शृङ्गारचूडामणः ॥ १६ ॥ विदूषकः-एहिं किं मण्णसि । (क) (क) अधुना किं मन्यसे । १. 'वरमुहुः' इत्यादर्शपाठः. २. 'चतुरा' इत्यादर्शपाठः. ३. 'विधू' इत्यादर्शपाठः. कर्ण. ५ काव्यमाला। राजा-(लेखं बहुलं प्रसार्य ।) कथमत्राप्यक्षराणि । (वाचयति ।) पश्यागच्छ कुतूहलादपि गृहनिस्साकमाकर्णय त्वं देवि च्छलिता न केनचिदिति प्रोक्तं शुकानामपि । सा नः कापि सखीषु नास्ति सुभग प्राप्तस्तदीयाङ्गक- स्पर्शीष्मग्लपितो न कामपि रुनं यस्याः किणांङ्कः करः॥१७॥ कथमपि हृदि कृत्वा त्वद्वियोगातिभारं सुभग निविडलज्जामज्जदारम्भमास्ते । पिशुनयति कृशाङ्गयाः केवलं मन्मथाग्निं श्वसितपवनधूमश्यामला चित्रशाला ॥ १८ ॥ विदूषकः- (पुरतोऽवलोक्य।) भो, तुह्माणं दुहुँ पि तारिसो सिणेहो जारिसो इमस्स चक्कवाअजुअलस्स । (क) राजा-(सस्पृहमवलोकयन् ।) रक्ताम्भोरुहचारुचञ्चपुटकेनोद्धर्तुमिच्छन्निव भ्रश्यत्पश्यति बिम्बमम्बरमणेश्चक्राह्वयो विह्वलः । साश्रुर्मुञ्चति चक्षुषी प्रतिदिशं कान्तास्य दीनानना मा भैषीस्त्वमिति स्वकालविरहत्राणार्थिनीवानिशम् ॥ १९ ॥ विदूषकः-मो, निरन्तरगोधनसहस्ससमुद्भूतधूलीसमुच्छाहिदतरु- णतरतिमिररिञ्छोलीलञ्छणे समए अणुसरीअदु संकेदट्ठाणम् । (ख) राजा-(अर्ध्वमवलोक्य ) संधत्ते धूपधूमच्छविमबहु तमः प्राप्यते तारकाभिः पुष्पस्रग्दामशोभा नभसि नवनिशाकामिनीतल्पकल्पे । (क) भोः, युवयो योरपि तादृशः स्नेहो यादृशोऽस्य चक्रवाकयुगलस्य (ख) भोः, निरन्तरगोधनसहस्रसमुद्भूतधूलीसमुत्साहिततरुणतरतिमिरप- तिलाञ्छने समयेऽनुलियती संकेतस्थानम् । १. 'लेखन' इत्यादर्शपाठः. २. 'श्वसिति' इत्यादर्शपाठः. ३. 'अवलोकयति' इत्यादर्शपाठः.
३ अङ्कः] कर्णसुन्दरी। ४३ मध्ये कस्तूरिकाक्षं दधदिव हरिणं किं च संध्यानुबन्धा- दिन्दुः सिन्दूरभिन्नस्फटिकमणिशिलावुघ्नलीलां तनोति ॥२०॥ तदादेशय तमुद्देशं यावन्नालम्बते जरठतां रजनीपरिवृढः । विदूषकः-इदो पिअवअस्सो । (क) (इंति परिक्रामतः।) विदूषकः-(अग्रतो दृष्ट्वा ) एदं तम् । पविसदु भनम् । उपविसदु पि- अवअस्सो । (ख) (तथा कुरुतः।) राजा-अहो रम्यः समयः । बध्यन्ते कुसुमगृहाणि धूपधूमै- स्तान्येव स्मरदयितानि संस्क्रियन्ते । धन्यानामपि च सुलोचनासमीपे रोचन्ते सपदि मनोलसद्विलासाः ॥ २१ ॥ विदूषकः-भो वअस्स, कीराणं पञ्जराणं सुरतकलरुओग्घुट्ठवादानुवाद- त्तासेणं किज्जमाणा मणिमयवलहीवाहिराई वडन्ति । सेजाठाणे कआणं फुरइ कलरवो केलिपारावआणं धण्णाणं हुन्ति कीलाजलकणहरणा संपदं चन्दपाआ॥२२॥(ग) राजा-(निःश्वस्य। उरसि सुरतनिद्रालीनकान्ते न मनं धवलगृहगवाक्षस्पन्दिभिश्चन्द्रपादैः । (क) इतः प्रियवयस्यः । (ख) एतत्तत् । प्रविशतु भवान् । उपविशतु प्रियवयस्यः । (ग) भो वयस्य, कीराणां.पञ्जराणां सुरतकलरुतोद्धृष्टवादानुवाद- त्रासेन क्रियमाणा मणिमयवलभीबहिर्भागेण पतन्ति । शय्यास्थाने...."स्फुरति कलरवः केलिपारावतानां धन्यानां भवन्ति क्रीडाजलकणहरणाः सांप्रतं चन्द्रपादाः ।।
काव्यमाला। श्रुतमपि भुजशाखापञ्जरे चारुलीला- मधुरमधरपीडाकूजितं नायताक्ष्याः ॥ २३ ॥ (इति सौत्सुक्यम् ।) सान्द्रश्रीखण्डपाण्डुस्तनकलशभरात्तारहारप्रकाण्ड- ज्योत्स्नापुञ्जाभिषेकद्विगुणपरिणमत्कौमुदीमग्नवत्रा । उत्कण्ठांकृष्यमाणा प्रगुणमनसिजादिश्वमानेन काचि- न्मार्गेण प्राणनाथप्रणयरभसतः सान्द्रलीला तनोति ॥ २४ ॥ यस्यै कुप्यति नूतनस्तरुणिमा लावण्यलक्ष्मीरियं.. यत्रापत्रपते न संवदति या प्रेमानुबन्धस्य न । श्रुत्वैतां च ततां गिरं चिरमसावेतत्किमित्याकुलो वैक्लव्यं च कुतूहलं च वदनं स्मेरं च धत्ते स्मरः ॥ २५ ॥ (ततः प्रविशति कर्णसुन्दरीवेषा देवी, बकुलावलिवेषा हारलता च ।) देवी-सहि हारलदे, अझे किं पि सुणन्तिओ चिट्ठह्म । (क) राजा-अये, कथं प्राप्तैव प्राणेश्वरी । (मुखमवलोक्य ।) अहह । जानामि विस्मृतिममन्यत पद्मयोनि- लावण्यसारमभिलिख्य मृगाङ्कबिम्बम् । तेनात्र काकपदकं हरिणच्छलेन दत्त्वा लिलेख मुखामायतलोचनं ते ॥ २६ ॥ विदूषकः-अहं पि दाव वण्णेमि । रइकलहविरोहे रोहिणीकज्जलंसु- प्पसरपरिगदो व्व ज्झामलो लञ्छणेण । निजवअणसवण्णं जामिणीडिम्भमेणं वहइ रअणिणाहो लालयन्तो व्व अङ्के ॥ २७ ॥ (ख) (क) सखि हारलते, आवां किमपि शृण्वत्यौ तिष्ठावः । (ख) अहमपि तावद्वर्णयामि । रतिकलहविरोधे रोहिणीकजलाश्रु- प्रसरपरिगत इव श्यामलो लाञ्छनेन ।
- ३ अङ्कः] कर्णसुन्दरी। देवी-(आत्मगतम् ।) हदास, तुज्झ एसो सव्वो एव्व परिप्फन्दो।(क) राजा-सखि बकुलावलि, किमियं वामता भवत्सख्याः, यदेव- मालोकनेनापि न कृतार्थयति । हारलता-णेहो एत्थ अवरज्झदि, णो उण वामदा । (ख) राजा- झटिति कुवलयानि वीडया पीडितत्वा- धतु कृतकनिद्रां चन्द्रिकासंगमेऽपि । अपि तरलय लीलामजदुन्मज्जदन्तः- स्फुरितकुसुमचापं चक्षुराकेकराक्षि ॥ २८ ॥ अपि च । सुतनु विसृज लज्जां वल्गु वल्गन्तु वाचः कवचयतु विपञ्चीपञ्चमः श्रोत्रयुग्मम् । अपि कुरु परिरम्भं चारु रम्भोरु गात्रे परिणमति कठोरः कैरवेशप्रकाशः ॥ २९ ॥ (इति समन्तादवलोक्य।आत्मगतम् ।) अहो निःसीमं रामणीयकम् । जयति धनुरधिज्यं भ्रूविलासः सरस्य स्पृशति किमपि जैत्रं तैक्ष्ण्यमक्ष्णोः प्रचारः । अपि च चिबुकचुम्बी श्यामलाझ्यास्तनोति स्तनकलशनिवेशः पेशलश्रीः पृथुत्वम् ॥ ३० ॥ (इत्यालिङ्गति ।) देवी-(प्रकटीभूय ।) साअदं अजउत्तस्स । (इति क्षिपति ।) (ग) निजवदनसवर्ण यामिनीडिम्भमेनं वहति रजनिनाथो लालयन्निवाङ्के । (क) हताश, तवैष सर्व एव परिस्पन्दः । (ख) स्नेहोऽत्रापराध्यति, न पुनर्वामता । (ग) स्वागतमार्यपुत्राय । १. 'पेशलश्रीपृथुत्वम्' इत्यादर्शपाठः.
Co काव्यमाला। राजा-(सबैलक्ष्यम् ।) स्वयं कृतेऽपराधे तु ज्ञातं धीर्यस्य जायते । पत्रपायां महती तद्वैलक्ष्यं वयं स्तुमः ॥ ३१ ॥ (विदूषको राज्ञः पक्षश्चाधोमुखस्तिष्ठति ।) राजा- त्वां प्रत्येव.मयापि नर्म कृतमित्युक्त कुतो मन्यसे निर्दोषोऽहमिति ब्रवीमि सहसा दृष्टव्येलीकः कथम् । क्षन्तव्यं मयि सर्वमित्यपि भवेदङ्गीकृतोऽयं विधिः किं वक्तुं मम युक्तमित्यनुगुणं देवि त्वमेवादिश ॥ ३२ ॥ (इति पादयोः पतितुमिच्छति ।) (देवी साक्षेपं हारलतया सह निष्क्रान्ता।) क्दूिषकः-भो, किं अरण्णरोदणेण । देवी एव्व अणुसरीअदु । (क) राजा-एवमिति । (इति निष्क्रान्ताः सर्वे । इति तृतीयोऽङ्कः। (नेपथ्ये।) अवन्ध्या भवतु प्रभातसंध्या देवस्य । संप्रति रवितुरगखुराप्रक्षुण्णपूर्वाद्रिधातु- क्षितिरज इव धत्ते धाम पौरंदरी दिक् । अपरजलधिवेलोद्भूतडिण्डीरपिण्ड- भ्रमममृतमरीचिः किं च दत्ते प्रतीच्याम् ॥ १ ॥ अपि च । चन्द्रालोकनरागजागरणतः श्रान्तेव कृत्स्नां निशां प्रालेयानिलसौहृदात्कुमुदिनी निद्रावृता घूर्णते । अस्येते विदितप्रबोधसमयाः प्रत्यूषभोगावली- यन्तीव कलस्वरा मधुलिहः पद्माकराणामितः ॥ २ (क) भोः, किमरण्यरोदनेन । देव्येवानुस्रियताम् ।
४ अङ्कः] कर्णसुन्दरी । अपि च । । उन्मृष्टा शयनेषु चित्रसुरतक्रीडाविधेः साक्षिणी लाक्षारागमयी लिपिः श्रमवशाः पारावताः शेरते । सर्व साधकमत्र तु प्रतिविधिं कुर्युः कुरङ्गीदृश- स्तादृश्यः प्रसरन्ति यद्गुरुजनस्याग्रे शुकानां गिरः ॥ ३ ॥ (ततः प्रविशति विदूषकः । विदूषकः-(सपरितोषम् ।) साहु अमञ्च, साहु । देवीए भाइणेयं कु- मारं कण्णसुन्दरीए समाणवअस्सं अप्पणो सआसे से वेसधारिणं आ- णअन्वेण तस्स व्व णिवासे कण्णसुन्दरी मुअन्तेण सव्वं साहिदम् । ता . पिअवअस्सस्स चक्कवट्टिभावः सवधा अहिमुहो संवुत्तो । अवरं देवीए परिहासादो रक्खिदो अज क्खु महाभावो अ । मए मन्दीअधेआए वामत्तणेण अजउत्तो किलिम्मिदो त्ति कण्णसुन्दरीपदिकिदिगब्भरूअं भाइणे परिणाइडं पिअवअस्सो पउत्तो । संपदं देवी एव विलक्खा हु- विस्सदि । ता दुस्सअसंगदनिवाहस्स तस्स परिवासवट्टी होमि। (इति निष्कान्तः ।) (क) (ततः प्रविशति राजा विदूषकश्च ।) राजा- निद्रां लम्भयता चिरं भगवता भालस्थलीलोचन- ज्वालापल्लवसंस्तरे पुरजिता पुष्पायुधं मन्मथम् । (क) साधु अमाय, साधु । देव्या भागिनेयं कुमारं कर्णसुन्दर्याः समान- वयस्कमात्मनः सकाशे तस्या वेषधारिणमानयता तस्यैव निवासे कर्णसुन्द- री-मुञ्चता सर्वं साधितम् । तत्प्रियवयस्यस्य चक्रवर्तिभावः सर्वथाभिमुखः सं- वृत्तः । अपरं देव्याः परिहासाद्रक्षितोऽद्य खलु महाभावश्च । मया मन्दभा- गधेयया वामत्वेनार्यपुत्रः क्लामित इति कर्णसुन्दरीप्रतिकृतिगर्भरूपं भागिनेयं परिणाययितुं प्रियवयस्यः प्रवृत्तः । सांप्रतं देव्येव विलक्षा भविष्यति । तदुः- सहसंगतनिवासस्य(१) तस्य परिपार्श्ववर्ती भवामि ।
काव्यमाला। - हा हानिर्महती कृता विरहिणां यद्वज्रसारान्सरः कोऽप्यन्यः क्षिपति प्रतिक्षणमयं मर्माविश्वः सायकान् ॥ ४ ॥ अपि च । न प्राप्तः प्रणयापराधसमये बाप्पाम्बुधौतोऽधर- श्चित्रं नात्र विपर्ययेण सुतनोदृष्टं भ्रुवोस्ताण्डवम् । निद्रामुद्वितचक्षुषः श्रुतमपि क्रीडावसाने मया- न प्रत्युत्तरमुत्कटाक्षरमहो वामः प्रकामं विधिः ॥ ५ ॥ विदूषकः-अहो, अन्ज वि किंति उत्तम्मसि । जं मसिविलित्तं क- दुअ पिसुणाणं वअणं संपण्णकप्पो जादो मणोरहो । (क) राजा- युक्त्या यद्यपि मुद्रितो विधिरयं चेतस्तथापि स्थिरा- माशामेति कुरङ्गशावकदृशः प्राप्तौ न तस्याः क्षणम् । अङ्कस्थेऽपि जने मनोहति किमप्युत्प्रेक्षते तत्क्षणा- ज्ज्ञेयं कापि सुलोचना पुनरसावायाति दूरे दृशोः ॥ ६ ॥ (नेपथ्ये ।) सुखाय ग्रीष्मसमयो महाराजस्य । संप्रति सत्पानीयमिति श्रुतेः स्वभवने पूर्व परीक्षाविधौ त्वद्वैरिक्षितिपालपक्ष्मलदृशस्तृष्णातुराः कानने । बाष्माम्भःकणचक्रवालरचनाचञ्चत्कपोलान्तरं मुक्तादाम विलोकयन्ति गमनव्यग्राः कुचाग्रस्थितम् ॥ ७ ॥ राजा--(मोत्कण्ठम् ।) सपदि दिवसमध्ये पुण्यभाजः सुजन्मा वितरति रतिलीलोल्लासिना मानसेन । (क) अहो, अद्यापि किमित्युत्ताम्यसि । यन्मषीविलिप्तं कृत्वा पिशुनानां वदनं संपन्नकल्पो जातो मनोरथः। १. 'अपि च' इत्यादर्श नास्ति.
४ अङ्कः] कर्णसुन्दी । वरयुवतिरमन्दं चन्दनम्यन्टसान्द्र- प्रसृतलवणिमाम्भःपाङ्कलामङ्कपालीम् ॥ ८ ॥ (मौत्सुक्यम्।) रम्भास्तम्भमनोभिरामसहजस्पर्शा यदूरुस्फिजः संपन्नागुरुधूपवासविधयो यन्मज्जनाः कचाः । यच्चाकैतवशीललाः कुचभुवः सा कान्तिरेणीदृशः पुष्पेषोस्तदहो निदाघसमयम्लानस्य जीवातवे ॥ ९ ॥ अपि च । 'ताम्बूलद्रवमुद्रणेन विधुरच्छायो न विम्बाधर- श्चक्षुः क्षालितकज्जलं जलभरैः पुष्यत्यभिख्यां निजाम् । कोऽप्यन्यः कबरीभरस्य विगलद्विन्दोरमन्दो रसः स्नानान्ते सपदि मरास्त्रमनघं किं वा न वामभ्रुवाम् ॥ १० ॥ तत्किमद्यापि चिरयति देवीसमाह्वानम् । विदूषकः-भो, मा उत्तम । देवीए एसो पडिहासो त्ति महन्तो अहिणिवेसो। (क) (प्रविश्य।) चेटी-जेदु जेदु भट्टा । एदाइं आहरणाई देवीए पेसिदाई विवाह- जोग्गाइं परिहाइअ विवाहभूमी तुरिदं अलंकरीअदु । (इत्याभरणानि समर्प- यति ।) (ख) राजा-एतत्त्वं गृहाणापरम् । मां समागतं देव्यै निवेदय । (इति कण्ठादवतार्य मुक्तादाम समर्पयति ।) (चेटी गृहीत्वा निष्क्रान्ता।)) (क) भोः, मा उत्ताम्य । देव्या एष परिहास इति महानभिनिवेशः । (ख) जयतु जयतु भर्ता । एतान्याभरणानि देव्या प्रेषितानि विवाहयो- ग्यानि परिधाय विवाहभूमिस्त्वरितमलंक्रियताम् ।
९० काव्यमाला। राजा-(आत्मीयानलंकारान्विदूषकाय दत्त्वा नाट्येनात्मानमलंकरोति । निःश्वस्य।) तद्वैवाहिकहोमधूमकलनामीलत्कपोलं मुखं . किं लज्जारसमजनादवनमज्जायेत दृग्गोचरम् । यत्पारिप्लवलोचनाञ्चलमिलढूर्वाङ्कमङ्के रतेः सुप्तस्यापि मनोभुवस्त्रिजगतां साम्राज्यदानक्षमम् ॥ ११ ॥ विदूषकः-किं तुहं विवाहविहीए अग्गिपज्जालूणेण वा करेसि । जधा तं समप्पइ देवी तथा सव्वधा गिलसु । (क) (नेपथ्ये ।) गीयन्तां मङ्गलानि स्फुरतु चतुरता ताण्डवे लासिकानां सिच्यन्तां बाह्यकक्षाः क्षितिपतिभिरपि क्षिप्यतां पुष्पवृष्टिः । संधैः स्वःकन्यकानां परिणयविधये मण्डपोद्देशमेति प्रेयश्चित्तानुवृत्तिव्रतनिहितमतिः सस्मिता येन देवी ॥ १२ ॥ विदूषकः--भो, णीसंदेहं जाणसु वञ्चिदा देवी । ता एहि । तुरिदं ग- च्छस । इदो इदो । (ख) (इति परिक्रामतः।) (ततः प्रविशति देवी चेटी च, विभवतश्च परिवारः।) देवी-सहि हारलदे, पजत्तं विप्पलम्भेण अजउत्तस्स । (इति पुरो- ऽवलोक्य ।) एसो संपत्तो भट्टा समं बम्भणविडेण । (ग) (इति सावरणं तिष्ठतः ।) विदूषकः-~-एसा देवी । उपसप्पदु भवम् । (घ) (इति तथा कुरुतः।) (क) किं त्वं विवाहविधयेऽग्निप्रज्वालनेन वा करोषि । यथा तां समर्प- याति देवी तथा सर्वथा गृहाण । (ख) भोः, निःसंदेहं जानीहि वञ्चिता देवी । तदेहि । त्वरितं गच्छादः । इत इतः। (ग) सखि हारलते, पर्याप्तं विप्रलम्भेनार्यपुत्रस्य । एष संप्राप्तो भर्ता समं ब्राह्मणविटेन । (घ) एषा देवी । उपसर्पतु भवान् । .
१ ४ अङ्कः] कर्णसुन्दरी। २१ देवी-(उत्थाय ।) जेदु जेदु अजउत्तो । (क) (सर्वे यथोचितमुपविशन्ति ।) देवी-(अञ्जलिं बवा ।) जं मए किं पि विरुद्धं आअरिदं तम्म दण्ड कष्णसुन्दरी समप्पेमि । (ख) राजा-महानुभावप्रकृति सि । यदभिरुचितं तदाचर । (प्रविश्य ।) प्रतीहारी-अमची दुआरे चिट्टदि । (ग) राजा-तूणे प्रवेशय। (इति प्रतीहारी निष्क्रान्ता।) (ततः प्रविशत्यमात्यः प्रतीहारी च ।) प्रतीहारी-इदो इदो अमच्चो । (ब) (इति परिकामतः।) प्रतीहारी-एसो भट्टा । उपसप्पदु अमचो । (ङ) (अमात्यो यथोचितमुपसर्पति।) राजा-आसनमासनम् । (प्रतीहारी आसनं दत्त्वा निष्कान्ता।) देवी-सहि, आणेसु कण्णसुन्दार जेण अमच्चस्स पुरदो समप्पि निरवराहा होमि । (च) चेटी-णववहुत्ति जेव्व जवणिअन्तरे धरिदा सा । (इति निष्क्रम्य तां गृहीत्वा प्रविश्य च ।) देवि, पडिच्छसु एणम् । (छ) (क) जयतु जयत्वार्यपुत्रः । (ख) यन्मया किमपि विरुद्धमाचरितं तस्य दण्डं कर्णसुन्दरीं समर्पयामि । (ग) अमात्यो द्वारे तिष्ठति । (घ) इत इतोऽमात्यः। (उ) एष भर्ता । उपसर्पत्वमात्यः । (च) सखि, आनय कर्णसुन्दरी येनामात्यस्य पुरतः समप्ये निरप- राधा भवामि । (छ) नववधूरित्येव जवनिकान्तरे धृता सा.। देवि, प्रतीच्छैनाम् ।
काव्यमाला। देवी-(सलना नादिकामन्तिके निवेश्य स्वगतम् ।) अच्चरिअम् । पञ्चक्खं सेव्व एसा । अहो माहप्पं कवडनाडअस्स । (क) माञ्जिष्ठी लिपिरोष्ठयोः कवचितं चन्द्रस्य कान्त्या मुखं भ्रूयुग्मं मकरध्वजस्य धनुषा सर्वाङ्गमालिङ्गितम् । लावण्यं कुचयोः सुवर्णकलशीमानेन नूनं कृतं नो जाने कियती पपौ कुवलयच्छायां कटाक्षच्छविः ॥ १३ ॥ (विहस्य।) देवी निसर्गतरला तरलायताक्षी संवादमिच्छति मदीक्षणवञ्चनाय । प्रत्यन्तरेक्षणमपि क्षणमेतदीय- सादृश्यनिर्मितिविधौ विधिरप्यशक्तः ॥ १४ ॥ देवी-एसा मए तुज्झ समप्पिदा। भजसु णं चउसमुद्दपुहवीए रत्तम् । (इति हस्ते नायिकां समर्पयति ।) (ख) राजा-(गृहीत्वा ।) प्रसन्नं देव्या । देवी-अमच्च, जुत्तं कदम् । (ग) अमात्यः-किमुच्यते । वंशे तस्मिन्नननि भवती मौक्तिकोसिक्तकान्तिः कीर्तिर्यस्य च्छुरयति सुरक्ष्माधरेन्द्रस्य वक्षः । चालुक्यानां वसुमति गृहे किं च तेषां वधूस्त्वं यौनश्चिन्तः कलयति हरिः सागरे नाम शय्याम् ॥ १५ ॥ (क) आश्चर्यम् । प्रत्यक्षं सैवैषा। अहो माहात्म्यं कपटनाटकस्य । (ख) एषा मया तुभ्यं समर्पिता । भजैतच्चतुःसमुद्रपृथिव्या रत्नम् । (ग) अमात्य, युक्तं कृतम् । १. 'नायिकां सलनामन्तिके निवेशयति । स्वगतम्' इत्यादर्शपाठः, ४ अङ्कः] कर्णसुन्दरी। विदूषकः-संवुत्तो विवाहो । ता सोत्थिवाअणस्स अवसरो। (क) देवी-(स्वगतम् । हदास, पिक्खिस्ससि विआहम् । (ख) राजा-(स्वगतम् ।) मदन कनकपुङ्खाः सन्त्वसंख्याः पृषत्काः स्फुरतु विजयलक्ष्मीकर्मठं कार्मुकं ते । अपि च मुहचराणां कापि संपञ्चकास्तु प्रियजनविरहाधेरेष जातो यदन्तः ॥ १६ ॥ अमात्यः-(आत्मगतम् ।) अवसरः प्रकाशनस्य । (प्रकाशम् ।) का कोऽत्र। (प्रविश्य।) प्रतीहारी -आणवेदु अमच्चो । (ग) अमात्यः-देवीमागिनेयः कुमारः कौतुकेनानीत आसीन्मयां स्वम- न्दिरे । बन्धुसंगतो न वेति जानीहि । प्रतीहारी-संपदं जेव्व मए हिण्डन्तो दिह्रो । (इति निष्क्रान्ता।) (घ) देवी-(आत्मगतम् ।) हा, हदम्हि मन्दभाइणी । मए कधिदं जेव्व कैदवं त्ति पञ्चक्खं सेव्व एसा त्ति । ता वञ्चिदम्हि । किं कीरदि । (इति धैर्यमवलम्बते ।) (ङ) (प्रविश्य।) प्रतीहारी–गजणणअरं जेतुं गअस्स रुच्चिकस्स सआसादो पहाणो वीरसिङ्घो आअच्छदि । (च) (क) संवृत्तो विवाहः । तत्स्वस्तिवायनस्यावसरः । (ख) हताश, प्रेक्षिष्यसे विवाहम् । (ग) आज्ञापयत्वमात्यः । (घ) सांप्रतमेव मया हिण्डन्दृष्टः । (ङ) हा, हतास्मि मन्दभागिनी । मया कथितमेव कैतवमिति प्रत्यक्ष सैव एषति । तद्वञ्चितास्मि । किं क्रियते । (च) गर्जननगरं जेतुं गतस्य रुच्चिकस्य सकाशात्प्रधानो बीरसिंह आ- गच्छति ।
काव्यमाला। अमात्य:-अविलम्बितं प्रवेशय । (प्रतीहारी निष्क्रम्य वीरसिंहेन सह प्रविशति ।) वीरसिंहः-जयति देवः साम्राज्येन । अमात्यः-आसनम् । (प्रतीहारी आसनं दत्त्वा नि कान्ता।) राजा-वीरसिंह, निवेदय वृत्तान्तम् । वीरसिंहः---यथा तावदितो निर्गत्य गर्जनाधिपतिबलस्यासहल सिन्धो रोधसि मिलितम्, तथा देवाय निवेदितमेव । अनन्तरं महति सम- रसंमर्दे पांसूनां सूचिभेद्यः सकलमपि कुलक्ष्माभृतां छादनेच्छा- बद्धोत्साहैः प्रवाहैरसुषिरमभवद्वयोमसीमान्तरालम् । द्वारश्रेणीनिवेशश्रियमथ धरणीमण्डलं वीर्ययाता जातोर्वी तेऽनुवीर(?) विरचितविवरास्तत्र चाहो मुहूर्तम् ॥ १७ ॥ ततश्च। किं दोर्वीर्येण मौर्वी विरचय धनुषि त्वामहं न प्रहर्ता निःशङ्कस्त्वं रथस्थः प्रहर ननु यतः प्राक्प्रहारप्रियोऽहम् । वीराणामित्युदाराः सुचिरमुदचरन्नाककान्तानिकायैः स्निह्यत्कर्णा विमानप्रणिहितवदनै वितास्तत्र वाचः ॥ १८ ॥ राजा-ततः। वीरसेनः-क्रमेण नीरन्ध्र रुन्धते म त्रुटितमिव तडिज्योतिषा व्योमरन्ध्र शस्त्राणि त्रासताम्यदिनकरतुरगश्रेणिदूरेक्षितानि । तीक्ष्णासिच्छिन्नमुह्यद्भटवरवरणारम्भसंभारभाजां येन स्वःस्वैरिणीनामवतरणविधावप्यभून्नावकाशः ॥ १९ ॥ (देवी स्मयते। विदूषकः-उक्कम्पिदोन्हि । (क) (क) उत्कम्पितोऽस्मि ।
४ अङ्कः] कर्णसुन्दरी। - राजा-ततः। वीरसेनः- कबन्धस्कन्धेषु स्रवदतिघनम्त्यानरुधिर- स्थिरारम्भं गुह्यावनिधरशिरः श्रेणिमभितः । पुरो दृष्ट्वा दृष्ट्वा सुभयुवतयः किंनरकुल- क्षयाशङ्कातङ्कात्मभितमनसः क्षिप्रमभवने ॥ २० ॥ अपि च । - गायन्तीषु सुराङ्गनासु मधुरं सौगन्ध्यवत्तन्मुख- श्वासोल्लासिनि षट्पदावलिरवे वेणुध्वनिस्पर्धिनि । धीरं वैरिकवन्धताण्डवविधौ सङ्ग्रामरङ्गे लस- त्सेनानां गजगजितेन मुरजध्वानानुकारो धृतः : ॥ २१ ॥ राजा-ततश्च । वीरसेन:-तत्कृतं कर्म रुचिकेन येन विस्मिताः सुराः । राजा-ततश्च । वीरसेनः त्रातारं जगतां विलोलवलयश्रेणीकृतैकारवं सोन्मादामरसुन्दरीभुजलतासंसक्तकण्ठग्रहम् । कृत्वा गर्जनकाधिराजमधुना त्वं भूरिरत्नाकुर- च्छायाविच्छुरिताम्बुराशिरशनादानः पृथिव्याः पतिः ॥२२॥ (सर्वे मोदन्ते । विदूषको नृत्यति ।) अमात्यः-किं ते भूयः प्रियमुपकरोमि । राजा- दृष्टं देव्या किमपि भुवनाश्चर्यतत्त्वं महत्त्व लब्धा लक्ष्मीरिव मनसिजक्ष्माभुवः पक्ष्मलाक्षी । एकच्छत्रं समजनि महीमण्डलं तत्त्रियं मे किं स्यादस्मात्परमपि वरं यतु याचे भवत्तः ॥ २३ ॥ १. 'वरश्रेणि' इत्यादर्शपाठः. - ६६ काव्यमाला। - तथापीदमस्तु- हेलाभ्यस्तसमस्तशास्त्रगहनः साहित्यपाथोनिधि- क्रीडालोडनपण्डितः प्रियतमः शृङ्गारिणीनां गिराम् । एकैकेन दिनेन निर्मितमहाकाव्यादिरव्याहत- प्रागल्भ्यस्थितिविश्रुतः स्थिरमतिः सार्श्वे विदग्धः कविः ॥ २४ ॥ (इति निष्क्रान्ताः सर्वे ।) ग्रन्थकर्तुः प्रशस्तिः। भट्टश्रीबिहूणोऽस्याः कविरकलुषधीः सिद्धयः साहसानां स्रष्टुः शिष्टोपकारव्रतपरमगुरोः संमुखा यस्य तास्ताः । अर्धे चन्द्रार्धमौलेविरचितवसतिर्देवता सापि यस्मै शब्दब्रह्माम्यनुज्ञां सममुपनिषदा बाल्य एवादिदेश ॥ १ ॥ यन्मूलं करुणानिधिः स भगवान्वल्मीकजन्मा मुनि- यस्यैके कवयः पराशरसुतप्रायाः प्रतिष्ठां दधुः । सद्यो यः पथि कालिदासवचसां श्रीबिलणः सोऽधुना निर्व्याज फलितः सहैव कुसुमोत्तंसेन कल्पद्रुमः ॥ २ ॥ विन्दुद्वन्द्वतरङ्गिताग्रसरणिः कर्ता शिरोबिन्दुकं कर्मेति क्रमशिक्षितान्वयकथा ये केऽपि तेभ्यो नमः । ये तु ग्रन्थसहस्रशाणकषणत्रुट्यत्कलङ्कगिरा- मुल्लेखैः कवयन्ति बिहूणकविस्तेष्वेव संनयति ॥ ३ ॥ सहोदराः कुङ्कुमकेसराणां भवन्ति नूनं कविताविलासाः । न शारदादेशमपास्य दृष्टस्तेषां यदन्यत्र मया प्ररोहः ॥ ४ ॥ समाप्तेयं कर्णसुन्दरी नाम नाटिका । १. 'सान्दैवेदध्वनिभिरनभिव्यक्तमञ्जीरनादा मौजीबन्धात्प्रभृति वदने यस्य वाग्देव- तासीत्' इति विक्रमाङ्कदेवचरितेऽपि (१८८१) बिलणकविरात्मानं वर्णयति स्म. २. वि. क्रमादेवचरितस्य प्रथमसर्गेऽप्ययं श्लोकः समुपलभ्यते. ३. आदर्शपुस्तके 'समाप्ता चेयं कर्णसुंद' इत्येतावदेवास्ति.
कर्णसुन्दरीगतश्लोकानां सूची । ... ... ... ... ... ... ... ... अथ कथमपि संज्ञां प्राप्य १-३८ कान्ते नूतनचूतमञ्जरि ... १-४३ अद्योद्याने मरकतमयीं... १-३५ कावेरीणालिएरीतरल अन्योन्यं लजयेव प्रतिफलन १-२३ किं चन्दो तह चन्दणव्व सिसिरो २-३१ अपरशिखरिचूडाचुम्बि ... १-४ कि दोर्वीर्येण मौर्वी विरचय अमरसरिदुपान्तभ्रान्त १-१७ कीराणं पञ्जराणं सुरत .. ३-२२ अम्ब त्र्यम्बकपक्ष्मलाक्षि १-३६ कुर्वन्ति कोकिलकलेपहति अर्हन्नार्हसि मामुपोक्षतुमपि १-१ कुर्वाणाः प्राणनाथे प्रणय अस्याश्चर्यमयस्य मन्त्र १-१५ को जाणादि कदा हुविस्सदि २-२७ आभात्यमर्यतरुपत्र २-१७ क्वचिदविषये सा सारङ्गी आभोगः कृत एव किंतु २-५ गायन्तीषु सुराङ्गनासु मधुरं आयासः किमयं वृथैव... १-५४ गीयन्तां मगलानि स्फुरतु आवासः किलकिञ्चितस्य १-४६ गुर्वी धुरं दुरभियोगनिधि आश्चर्य फलितं सरोरुह २-२० चन्द्रालोकनरागजागरणतः आसण्णो मअलञ्छणो ण वअणो २-२८ चान्द्री वर्तिनयनयुगले १-३३ आस्थानावसरे नरेन्द्रतरणेः १-७, जं जलरासिसुताए नवरस २-३२ इयं यदालोकयति त्रपा २-४० जनिमुपगता विश्वप्रख्यात उच्चञ्चपञ्जरचकोरक १-१९ जयति धनुरधिज्यं भूविलासः ३-३० उन्मृष्टा शयनेषु चित्रसुरत ४-३ जानामि विस्मृतिममन्यत उरसि सुरतनिद्रालीन ... ३-२३ जानीते निपुणा कथंचन १-२१ एतत्तदेव सितदेवतरु ... ... १-५२ जाने सखि स्मरशिखिज्वलिता २-३४ एताः काश्चन निश्चला... १-२० ज्योत्स्नानिर्गममार्गमुद्रण एतां गृहाण सखि रत्नग्रह ३-१२ झटिति कुवलयानि वीडया एवं पुनः पुनरुदीर्य विदीर्य १-३७ णवमाहवीए दावीय औचित्यावहमेतदत्र १-११/ण वरकबरी गोरङ्गीए . कथमपि दिवः पुञ्जीभूय २-४२ णीसासाहिणवप्पहारवलिदा कथमपि हृदि कृत्वा त्वद्वियो ३-१८ तत्पादद्वितयस्य दास्यमपि कंदर्पदैवतनिकेतनवैजयन्ती ३-६ तदेकं देवस्य स्पृशतु मदन ... १-३२ कबन्धस्कन्धेषु स्रवदति ४-२० तद्वक्रेण विलुमकान्तिमहिमा ... कलयत दलबन्धं संधिषु ३-१४ नद्वैवाहिकहोमधूमकलना 'कान्तिः कापि कपोलयोः परि... ३-५ तस्या कुरङ्गकदृशो युग २-१४ ... ... ... ... ... ... ... ... ... .
२ . ... ... ... ... ... ... ... .... ... ... ... ... ... ताम्बूलद्रवमुद्रणेन विधुर ४-१० | परिणयविधिरासीदावयोः ... १-८ ताम्बूलावरणोज्झिते विकसितं २-२३ श्यागच्छ कुतूहलादपि गृहा तुम्हारिसीओं परिहवविस २-३३ पासूनां सूचिभद्यैः सकल ४-१७ तुलाकोटिक्काणप्रणयिमि ... १-१८ पुष्पेषोभिषेकयोग्य २-१९ त्रातारं जगतां विलोलवलय ४-२२ प्रायो दास्यति नो पयोधर ..: त्रिजगति भवती परं ममैका १-५५ प्रोतेति प्रतिबिम्बितेति... २-३० त्रिवलिवलितलीलालोल १-२८ वध्यन्ते कुसुमगृहाणि धूप त्वां प्रत्येव मयापि नर्म कुत ३-३२ बिन्दुद्वन्द्वतरङ्गिताग्रसरणिः ग्र० प्र०३ दग्धासन्नलतावलीकिसलयः २-२५ भदृश्रीबिलणोऽस्याः कवि ग्र० प्र०१ दधति गृहचकोराश्चन्द्रिका भव भव शतयामा यामिनि दीर्घापाङ्गतरङ्गितेन २-७ भूयोऽपि तावदिदमेव दूरं भानुरुदञ्चितारुणचरः ३-११ भ्रलेखा विनिवृत्तनृत्तरचना २-३७ दृष्टं देव्या किमपि भुवना ४-२३ मन्नं मृगासरसीव सुधा २-३८ देवी निसर्गतरला तरलाय ४-१४ मजन्तीव दृशः कुरङ्गक धातुस्तन्मुखवर्तनाफल... १-२६ मदन कनकपुङ्खाः सन्त्वसंख्या: ४-१६ धूपांशुकेन शनकैः परि २-२४ माञ्जिष्ठी लिपिरोष्ठयोः... ४-१३ धूमश्यामलितेव तापनवशा २-२ मुग्धाक्ष्याः कति नेन्दवः २-३ धूर्तोऽयं सखि बध्यतामिति ३-१६ यत्कोकिलाकलरवं कलय १-४८ ध्यानान्ते विधिना प्रणम्य १-३० | यत्तारारमणोऽपि निवृतिपदं नप्राप्तः प्रणयापराधसमये ४-५ यन्मूलं करुणानिधिः स ग्र०प्र० २ नयनयुगलवल्गन्नीरसंक्षाल्य ३-१५ यस्यां रक्तं किल कलयसि न यस्मिन्दाक्षिण्यं परिणत १-४१ यस्यै कुप्यति नूतनस्तर न विश्वासस्थानं प्रियमभि १-१२ युत्या यद्यपि मुद्रितो विधि न स्वेच्छागतयोऽपि साचिवलना ३-१ रइकलहविरोहे रोहिणी नायं जनः किमु परिच्छद २-४१ रक्ताम्भोरुहचारुचञ्चु ३-१९ निद्रा लम्भयता चिरं भगवता... ४-४ रक्ताशोकद्रुमाणां लसति नीरन्ध्र रुन्धते स्म त्रुटि ४-१९ रम्भास्तम्भमनोभिरामसहज नीरागा मृगलाञ्छने मुख ,... २-२९ रवितुरगखुराप्रक्षुण्णपूर्वी नैवं कथंचन कृतानुनया ... २-९ रागः कस्यचिदेति चेतर्सि नो किंचित्परुषाक्षरं निगदितं १-४० रोहिणिवअणालिङ्गण पञ्चास्त्रस्य त्रिलोकीहठ... १-२४ लाडीतण्डवकेलिखिन्न परं मैत्रीपात्रं त्रिभुवन ... १-१३ लीलोद्याने चलकिसलयाः १-५१. ... ... ... ... ... ... ... ... ... ... ...
३ ... ... ... ... ... ... ... लीलोद्याने भवनवलभी वंशे तस्मिन्नजनि भवती वकेन्दोः सदृशी भविष्यति वद सुवदने किं व्यामोहः वात्सल्यं न वहत्यपत्य विच्छोडन्तो णिअमुहगदं विज्ञातेतिया तरङ्गित विडम्बयति दाडिमीकुसुम विद्वांस्ततो लिखितुमिन्दु विद्याधरेन्द्रतनयां नयना विधत्ते निःसेकं सहज विरम रमणि प्राणत्यागे घृता विलोलत्वं विश्रान्तो मुरजध्वनिर्जल व्योमभ्रान्तिपरिश्रमेण दृषित शेषे प्रज्ञाविशेषः स्फुरति सखे नायं खेलस्तिलकयति १-२२ सत्पानीयमिति श्रुतेः स्वभवने ... ४-१५ संतापं शमयन्तु वस्त्रिविध १-३ संधत्ते धूपघूमच्छविमबहु २-३९ सपदि दिवसमध्ये पुण्यभाजः १-१४ सहोदराः कुङ्कुमकेसराणां प्र०प्र०४ २-१२ सान्द्रश्रीखण्डपाण्डुस्तून ... ३-२४ सिद्धक्षेत्रमिवाङ्गनाकुल २-१० सुतनुरनवलोकयन्त्युपान्ते २-२२ सुतनु विसृज लजां वल्गु १-१३ सैवोन्मजकनककलश... स्फुरति यदयं दन्तज्योत्स्ना १-३९ २-३६ स्फुरल्लीलामालं किमपि... स्वप्नोऽसौ किमुतेन्द्रजाल १-२५ ३-१० स्वयं कृतेऽपराधे तु ज्ञाते १-१६ हो भाग्यमहानिधिर्दयि २-१६ हेलाभ्यस्तसमस्तशास्त्रगहनः ... ... ... चक्षुः स्पृशति ...