The Asiatic Society, Kolkata

Ballal Charitam

Shasti, Haraprasad, Ed. · 2006/05/6

PDF Proofread

Front matter

988.6.75

25Www
COLLECTION OF ORIENTAL WORKS
PUBLISHED BY THE
ASIATIC SOCIETY OF BENGAL
NEW SERIES, No. 1070.
0317
ADE
(TATAY
Pets
TI
VILLĀLA CARITAM.
बम्लालचरितम् ।
ANANDA BILATTA
MAHAMA MOPĀDÄÝĀYA HARAPRASAD SHĀSTKI M.A.
FASCICULUS I. (Text only.)
CALCUTTA:
PRINTED BY UPENDRA NATHA CHAKRAVARTI, AT THE SANSKRIT PRESS.
AND PUBLISHED BY THE
ASIATIC SOCIETY, 67, PARK STREET.
1904.

LIST OF BOOMEROBA BI at Bengal No. 57, PARK STREET, CALCUTTA, AND OBTAINABLE FROM THE SOCIETY'S AGENTS, MESSRS. LUZAO & CO., 46, GREAT RUSSELL STREET, LONDON, W.C., AND MR. OTTO HARRASSOWITZ, BOOKSELLER, LEIPZIG, GERMANY. Complete copies of those works marked with an asterisk * cannot be supplied.-80 C of the Fusciculi bring out of stock, R 1 1. ... 7 . 0 01 1 0 1 . 1 1 BIBLIOTHECA INDICA. Sanskrit Series Advaita Bralıma Sildhi, (Text Fasc 1-4 @./6/ each Advaitachinta Kaustubhe, Fisc. 1 *Agni l'mūnn, (Text) Fase 4-11 (6) each Aitarēya Brāhmana, Vol. I, Finc. 1-5 and Vol. II, Fasc. 1-5 Vol III. Fasc. 1 5 Vol IV, FINO 1 5 10 Aņu Bhāşyam, 'TextFasc. 1 5 (1 , 6! each Aphorisms of Sīņdilyi, (English) Fase 1 Astarahasrihī Prajñā piramiti, (Text) Fasc 1.6 @ 16' Puch Açvavaidyaka, (Text) Fasc. 1-5 @/6) each Availana Kalpalatā, ( Sans. and Tibetan) Vol 1, Fase 1 -1 ; Vol II Faso 1-5 (@ 1/ each 10 Bal Bhatta Fase 1 @./6/ cach Bauhayir Banta Sutram Fase, 1 @./6/evel * Bhānnati, (Text) Fine 4-8 (a,0) each Bhūtta Dipikā Vol I, Hanc 1-4 Bphadoratū (Tvt) 7446, 1-4 @ /6/ each Byhavdharma Purāņa (Text) Fasc 1 6 2/6, cach Bodhicaryavatara of Cantidevi, Fasc 1, Catadusani Fase 1 Catalogue of Sanskrit Books and MSS, Fisc 1-4 ( 2' each Catapatha Brăhmaņa, Voll, Fa-c. 17, Vol II. Fase 1-2. :3 Catarāhasrikā Prajnājārumitā (Text) Fase I to 6 ® /6/ each *Caturvarga (hintīmaņi (Text) Vols. II, 1-25; III. Part I, Fase 1 18, Part II, Fasc 1-10 @ /6/ each 19 Clockavartika, (English i Fisc 1 4 3 Crāddha Kryä Kaumudi (Text Fase 1-5 @./6/ each *Granta Sūtra of Āpastamba (Text) l'ase 4-16 (! /6: each Ditto Çanklāyana, (Text) Vol 1, Fasc 1.7; Vol. II, Fase. 1 1, Vol III, tinc. 1-4@,6 each Cri Bhå-hyam. (Text Fase 1-3 (0 each Dana Kriyā kaum muli, Fase 1-20/61 Gadadhara Paddlr i Kālasāra Vol. 1, Fase 1-6 Kala Mälhava, (Text) . 'esc. 1 4 (a) /6/ each Kāla Viveka, Fasc 1-6 Katantra, (Text) Fasc 1-6 @ 114, cache Kathā Sarit Ságara, (English) Fasc. 1-14 /12/ each 10 Kūrma Purăņa, ('l'ext) Fa-c 1-9 (1/6/ each Lalita-Vistara, (English) Fasc 3-3 @ /12/ each... 2 Maulana Párijātil, (Text) Fasc 1-11 a /6/ each. 4 Maha-bhāsya-prulipõdyōta, (l'exti Vol 1, Fasc ! -9 I1, Faxc. 1.10 @ 6' each 7 Manutikā Sangraha, ('l exti Fasc. 1-3 @ /6/ each Märkaņdöya Puriņa, (English) Fisc. 1-7 @ /12 each 5 *Mimiinsa Darçana, (Text) Fasc. 7. 19 @ /6/ each 14 Náradia Smrti, (Text) Fase 1--3 @ 86/ Nyāyavārtika, (Texti Fasc. 1-4 @ /6/ Nirukta, (Text) Vol. III Fasc. 1-6 Vol. IV, Fasc. 1.8 @ /6) each 5 Nityācāra Paddhatiḥ ( Text ) Fasc. 1-7 10 Nityācirapradipaḥ ( Text ) Fasc 1-3 2 Nyayabindutika, (Text) 0 10 Nyâya Kusumāñjali Prukaraņa (Text) Vol. I, Fase. 1.-6; Vol. II, Fasc. 1--3 @ /6/ each Parlimawati Fasc. 1-3m2! 6 4 3 Ny 1 0 - 21 1 4 3 . 2 1 4 4 ܢܙ 1 1 2 brand ... !

बल्लालचरितमः को नमो विघ्नविनायकाय । प्रमामि जगाष्टि स्थिति महारकारणम्, विद्यावर विश्वधर विश्ल द विष तकम् । १ संमदीजंसलरूपं समाक्षिणमव्ययम् । सीनं सर्वभूतस्य सय मालिवरं विभुम् ॥ २ ॥ अहिणेभ्यो नमस्कृत्य नवहीपपाजाया। ब्राह्मणानां समुत्पत्ति-सफ़ेदादि समन्वितम् । राढ़ीयामा परे द्रा गोनगाजी-समन्वितम् । वल्लालचरिताख्यं तद्राजचरितमुच्यते ॥ ३ ॥ सिसक्षोब्रह्मणो जातः पुलहो वामकर्णतः । अङ्गिरा नासिकारन्ध्रादजायत मुखाद्रुचिः ॥ ४ ॥ मरौचिः स्कन्धदेशाच्च प्रचेता अधरोष्ठतः । एकादश चैव रुद्रा ललाटात् क्रोधसम्भवाः ॥ ५ ॥ पुलहस्य सुतो वास्यः शाण्डिल्यश्च रुचेः सुतः । वृहस्पतेराङ्गिरसो भरद्वाजः सुतः स्मृतः ॥ ६ ॥ ASIATIE 230m

मरीचर्मनसो जात:
'जापतिः।
प्रचेतसोपि मनसो गौतमी भाषिः ॥ ७॥
सावर्णिौतमाजने मुनिप्रवर एव सः ।
बभूवुः पञ्चगोत्राणि चैतेषां प्रवरा भवः ॥ ८ ॥
बभूवुब्रह्मणो ववादन्या ब्राह्मणजातयः
ताः स्थिताः देशभेदेन गोत्रशून्याश्च भूपति ॥ ८ ॥
अदित्यां हादशादित्यान् जनयामास क-अपः ।
अत्रेनेत्रमलाञ्चन्द्रः क्षीरोदे च बभूव ह।
चन्द्रादित्यमनूनाञ्च प्रवराः क्षत्रियाः स्मृताः ।
ब्रह्मणो वाहुदेशाच्चैवान्याः क्षत्रियजातयः ।
जरुदेशाच्च वैश्याश्च पादत: शूट्रजातयः ॥ ११ ॥
जन्मना जायते शूद्रः संस्कारैदिज उच्यते ।
वेदपाठाभवेदियो ब्राह्मणो ब्रह्मविद्यया ॥ १२ ॥
सारस्वताः कान्यकुआ गौड़ा मैथिलकोकलाः ।
पञ्चगौड़ा: समाख्याताः विन्ध्यस्योत्तरवासिनः ॥ १३ ॥
कर्णाटाश्चैव तैलङ्गाः गुजरा राष्ट्रवासिनः ।
अन्ध्राश्च द्रविड़ाः पञ्च विध्यदक्षिणवासिनः ॥ १४ ॥
सर्वे विजाः कान्यकुब्जाः माधुरं मागधं विना।
मागधो ब्रह्मणा पूर्व कल्पितो द्विज एव च ।
वराहस्य च धर्मण माथुरो जायते तथा ॥ १५ ॥
वेदवाणानशाके तु गौड़े विप्राः समागता: ।
हययानं समारय सर्वशास्त्रविशारदाः ॥ १६ ॥

३ मेधातिथि शितोपत्र बोलायसुषेणकी। सौभरि-रत्नगौं तथा विप्रः सुधानिधिः ॥ १७ ॥ तैरूढ़ा नृपतेर्वाकयात् सस सप्तशतात्मजा: । सहववशतो जातास्तासु मप्त सुता वराः । वरन्दरं गताः पञ्च कनिष्ठौ राढ़संस्थितौ ॥ १८ ॥ नृपेन्द्रनादिशूरण चानोतं विप्रपञ्चकम् । पञ्चगोत्रान्वितं तेषां नाम गोत्रञ्च कथ्यते ॥ १८ ॥ श्रीहर्षस्य भरद्वाजो दक्षस्य काश्यपः स्मृतः । वेदगर्भस्य सावर्णो वात्स्यश्च छान्दड़स्य च । शाण्डिल्यगोत्रः कथितो भट्टनारायणस्य च ॥ २० ॥ भट्टत: षोड़शोता दक्षतथापि षोड़श । चत्वारः श्रीहर्षजाता भरद्वाजकुलोदहाः । हादश वेदगर्भाच्च तथैकादश छान्दड़ात् ॥ २१ ॥ केचिद्विप्रा आगतान वैदिका वेदपारगाः । पाश्चात्या दाक्षिणात्याश्च शेषोता द्राविड़ाः स्मृताः ॥ २२ ॥ बल्लालविषये नूनं कुलीना देवताः स्वयम् । श्रोत्रिया मेरवो ज्ञेया घटकाः स्तुतिपाठकाः ॥ २३ ॥ प्राचारो विनयो विद्या प्रतिष्ठा तीर्थदर्शनम् । निष्ठावत्तिस्तपोदानं नवधा कुललक्षणम् ॥ २४ ॥ काममामरणात् तिष्ठेत् ग्राहे कन्यत्मत्यपि । न चैवैनां प्रयच्छेत्तु कुलहीनाय कर्हि चित् ॥ २५ ॥ (१) ख सौभरोरत्नगर्भश्च वहालचरितम्। एकां शाखा सकल्पां वा षड्भिरङ्गरधीत्य च । षटकम्म-निरतो विप्रः श्रोत्रियो नाम धर्मवित् ॥ २६ ॥ गुणानुसारतोऽकारि कुलौनश्चैव मौलिकः । वंशजश्च पुरा राज्ञा वल्लालेन सुनिश्चितम् ॥ २७ ॥ इति वल्लालचरिते वर्णानामुत्पत्तिकथनम् ॥ अथ प्रतिग्राहि-संता-कारण-कथनम् । धेनुं वर्णमयों यज्ञे विप्रेभ्यः प्रददौ नृपः । धेनोस्तस्याः स्वर्णमय्याश्छेदने पतितोऽभवत् ॥ २८ ॥ ततो निर्वासितो राजा कश्चन स्वर्णकारकः । विप्राः प्रतिग्रहाज्जाताः सर्वधर्मवहिष्कृताः ॥ २८ ॥ इति प्रतिग्राहिकारणम् । अथ प्रतिग्राहि-संज्ञकानां सग्रामि-नामानि । शङ्करः पौतमुण्डी च 'गड़ोपि च दिवाकरः । गुड़ो दाड़कनामा च दोकड़िश्चैव पिप्पली ॥ ३० ॥ वन्द्यो मार्तण्डनामा च ब्राह्मणो नाम नामतः । आयानिश्च गणायिश्च हाड़ो गोपी च वन्यजाः ॥ ३१ ॥ (१) ख पुस्तके गजो।

वजाबचरितम् । माषो दोकड़िनामा च रायौ च मधुसूदनः । कुशिको यवनामा च हड़ो नारायणोऽपि च ॥ ३२ ॥ महिन्ता दिविधो नाम दायारिश्चैव केशवः । चट्टः शकुनिनामा च तैलवाटीनयारिकः ॥ ३३ ॥ कुन्दो विश्वेखरो नाम वन्द्यजो 'विठुसंज्ञकः । घोषजौ भातरावेतौ मदनविखरूपको ॥ ३४ ॥ गाङ्गुलियस्यनामा च पूतिर्गौतमसंज्ञकः । पराशराख्यः शिम्ली च शङ्करो डिण्डिसंजकः ॥ ३५ ॥ अमी विप्रकुलोद्भूता गोदानं जगहुईिजाः । तेषां सम्बन्धमात्रेण पङ्गे गौरिव सौदति ॥ ३६ ॥ सम्बन्धे भोजने चैव दाने यन्ने तथैव च । विद्वद्भिः श्राद्धकाले च वज्जया एते पुनः पुनः ॥ ३७ ॥ इति प्रतिग्राहिणां नामादयः ॥ अथ प्रतिग्राहिमुतानां विवाहकथनम् । गणकन्या वशिष्ठेन टोटेन शकुनेः सुताः । हाड़कन्या दायिकेन कुवेरो हास्यजापतिः ॥ ३८ ॥ चक्रपाणिनापि कन्या गृहीता धनलोभतः । (१) क पुस्तके विध। (२, ख, भ्रातरौ शेयौ मदनो विश्वरूपकः ।

वल्लामचरितम् ।
विठुसुतापतिर्भूत्वा चट्टजः कुलभूषणः ।
प्रतिग्राहिसुतोहाहात् षड़ेते वंशजाः स्मृताः ॥ ३८ ॥
श्रोत्रियाय सुतां दत्त्वा कुलीनो वंशजः पुनः ॥ ४० ॥
ग्रामं लब्धा च वल्लालात् कौण्डिल्यस्तत्प्रचारितः ।
यवग्रामी कड़ारी च कौण्डिल्यो वैदुड़ीस्तथा ॥ 8१ ॥
इति प्रतिग्राहिसुतानां विवाहकथनम् ॥
अथ पञ्चगोत्रीयानां सग्रामि-नामादि-कथनम् ।
अथ शाण्डिल्यगोत्रस्य भट्टनारायणस्य वंश-
धराणां गाडूनामानि।
आदी वन्द्यो वराहः स्यात् रामो गड़गड़िस्तथा ।
नृपः स्यात् केशरश्चैव नान: कुसुमकौलिकः ॥ ४२ ॥
वाटुः स्यात् पारिहालोसौ कुलभिर्गुइनामकः ।
गणो घोषलिता प्राप्तः मेयुः शाण्डोखरीस्तथा ॥ ४३ ॥
वुडोमाश्चरकश्चैव, वटव्यालो विकर्तनः ।
वसुरायिस्तथा नीलः कद्यालो मधुसूदन: ॥ ४४ ॥
कुशी च कोयनामा च कुलिसा चैव वासुकः ।
आकाशो माधवो दीर्घग्रामौ चैव महामतिः ॥ ४५ ॥
एते षोड़श शाण्डिल्याः कथिता राजपूजिताः ।
ततः काश्यप-गोत्रीय-दक्ष-वंशश्च कथ्यते ॥ ४६ ॥

वलालचरितम् । अथ काश्यपगोत्रस्य दक्षस्य वंशधराणां गाइ- नामानि । धोरोऽभवत् गुड़ीग्रामी नीरः स्यादामरूलिकः । भूरिष्टालः शुभश्चैव शम्भुः स्यात्तैलवाटिकः ॥ ४७॥ कौतुकः पोतमुण्डी स्यात् चट्टग्रामी सुलोचनः । पलशायो पालुनामा हड़:काको मतस्तथा ॥ ४८ ॥ पोड़ारिः कृष्णसंज्ञोऽसौ पालधी रामनामकः । जननामा कोयारि: स्यात् पर्कटिवनमालिकः ॥ ४८ ॥ सिमलायो श्रीहरिः स्यात् जटः पूषलिकस्तथा । भट्टग्रामी शशिधरो मूलग्रामौ च केशवः । एते षोड़श भूदेवाः ज्ञेयाः काश्यपसंज्ञका: ॥ ५० ॥ अथ भरद्वाजगोवस्य थीहर्षस्य वंशधराणाम् गाइनामानि। पादुनामा मुखैटिः स्यात् जम: स्याद्दीनसायिकः । नानः साहरिको ज्ञेयो रायो च रामनामकः ॥ ५१ ॥ श्रीहर्षस्य सुता एते भरद्वाजकुलोद्भवाः । सर्बदेशेषु विदितमग्रवर्णचतुष्टयम् ॥ ५२ ॥ - -------- वल्लालचरितम् । अथ सावर्णगोबस्य वेदगर्भस्य वंशधराणां गाइनामानि। गाङ्गुली हलनामा च कुन्दो राज्यधरस्तथा । वशिष्ठः सिद्धलो जेयो दायो च मदनो भवत् ॥ ५३ ॥ विश्वरूपस्तथा नन्दी वालिग्रामो कुमारकः । योगी सियारिको जेयः पुंसिको रामनामकः ॥ ५४ ॥ दक्षः साकटसंज्ञो ऽसौ पारी च मधुसूदनः । घण्टाग्रामी माधवश्च नायारी च गुणाकरः । एते पुना महाप्राज्ञाः सावर्णा द्वादश स्मृताः ॥ ५५ ॥ अथ वात्स्यगोत्रस्य छान्दड़स्य वंशधराणां गाइनामानि। रविमहिन्ता सुरभिश्च घोषः कविः पृथिव्यां खलु शिम्बलालः । महायशा वापुलिकच पिप्ली' धीरच पूतिननु शङ्कराख्यः ॥ ५६ ॥ विश्वम्भरोऽभूत् खलु पूर्बग्रामी वात्स्याश्च तादर्थनिवासदेशाः (१) क, वापलिपिप्पली च ।

बल्लालचरितम् । श्रीश्रीधरोभूत् खलु काजिविल्ली नारायणो नाम च काञ्जियारी। चौत्खण्डिको नाम गुणाकरः स्यात् । मनो दीघालो भुवि रुद्रतुल्यः ॥ ५७ ॥ अथ गौण कुलीनानामुल्लेखनम् । दीर्घाङ्गो पारिः कुलभी पोड़ारी राइः केशरी । घण्टा डिण्डिः पौतमुण्डी महिन्ता गुडपिप्पलो। हड़श्च गड़गड़िश्चैव इमे गौणाः प्रकीर्तिताः । अतःपरं विशेष यदव वय॑ते मया ॥ ५८ ॥ एकदा राजवल्लालः कौलिन्य-स्थापनाय च। आमन्त्रयामास विप्रान् समारोहण'-कम्मणि ॥ ५८ ॥ नित्यकर्माणि निष्पाद्य ततस्तनिश्चितेऽहनि । आययुना॑ह्मणाः सर्व सभायां नृपसन्निधौ ॥ ६ ॥ केचित् प्रहरमध्ये च साईप्रहरमध्यतः । साईदिप्रहरे के वा ययुनृपति- सनिधिम् ॥ ६१ ॥ (१) स, वल्लालसेनः कौलिन्यादिप्रदत्तये। (२) स्व, शुभागमन | २ बलावचरितम्। ये ततस्तु मतिमान् राजा विविध हिज-चेष्टितान् । कोलोन्यादियथायोग्यं तेभ्यस्तत्र ददौ मुदा ॥ ६२ ॥ साईविप्रहरातोते सभायामागतास्तु ते सम्पूर्ण-धर्म-निष्ठाः कोलोन्यं लेभिर हिजाः ॥ ६३ ॥ ये साईप्रहरे प्राप्ताः श्रोत्रियास्ते प्रकीर्तिताः । बभूर्गौणकुलीनास्ते, यामान्तरगतास्तु ये ॥ ६४ ॥ कालेनादिश्रोत्रियेषु विशुद्धेषु निवेशिताः । आसन् गौणाश्च विख्याता: कष्टश्रोत्रियसंजया ॥ ६५ ॥ यथा गौणास्तथा कष्टा हेया एव समं सदा । इति राढ़ीयविप्राणां कथितः कुलनिश्चयः ॥ ६६ ॥ इति राढ़ीयविप्राणाम् कौलौन्यादिप्राप्तिकथनम् । अथ वरेन्द्रवंशकथनम् । काश्यपेऽष्टादश शेयाः पाण्डिल्येषु चतुर्दश 1 चतुर्विंशतिर्वाल्यानाम् भरवाजे तथाविधः ॥ १७ ॥ सावर्णे विंशतिःयाः कथिताः पञ्चगोत्रकाः । तेषां ग्रामी सविस्तार कथ्यते च यथाक्रमम् ॥ ६८ ॥ (१) ख, काल्पकर्मणी तेषां कर्मात्यल्पं विविच्य च । (२) ख, क्रमात् तैः प्रत्यपादयत् ।

वहालचरितम्। अथ काश्यपगोवस्य कृपानिधेशधराणाम् गाइनामानि। करजो भादुड़ी मैत्री बालयष्टिककेरलौ । मधुग्रामी बलोहारी मोयाली बीजकुञ्जकः ॥ ६८ ॥ कोटिः सर्वग्रामकोटिः परेशश्चैव धोसकः । भद्रग्रामी चाश्रुकोटि: शरग्रामी च विश्रुतः । वेलगामी चमग्रामी वंशजाच कपानिधः ॥ ७० ॥ अथ शाण्डिल्यगोत्रस्य दामोदरस्य वंशधराणां गाइनामानि। रुद्रयागची साधुवागची लाहिड़ी चम्पटिस्तथा । नन्दनावाटी कालिन्दी चट्टग्रामी च पूषणः ॥ ७१ ॥ शिहरिविशी मत्स्याशी वेलुड़ौश्चम्पसंज्ञकः । सुवर्णतोट: शाण्डिल्योदामोदरस्य वंशजाः ॥ ७२ ॥ अथ वात्स्यगोत्वस्य धराधरस्य वंशधराणां गानामानि । संयामिनी भीमकाली भदृशाली च कुड़मुड़िः ॥ ७३ ॥ (१) . सवर्णकोट।

वल्लालचरितम् ।
M
भाड़ियालः कामकाली वात्स्यग्रामी च लक्षकः ।
वोड़ग्रामी जामरूखी कालीग्रामी कलीहरः ॥ ७४ ।
शीतली धोसली चैव तालुड़ी कुक्कुटी तथा ।
निद्राली चाक्षुषग्रामी देउलि सिहरी तथा ॥ ७५ ॥
प्रौण्डीकाक्षि: श्रुतवटी चतुरान्दो तथा स्मृतः ।
कालिन्दी वात्स्यगोत्रस्य घराधरस्य वंशजाः ॥ ७६ ॥
अथ भरद्वाजगोत्रस्य गौतमस्य वंशधराणां
गाइनामानि ।
भादड़ो लाडडेल-झामा मामालो झम्पटी च वा।
उत्तिवाही उग्ररेखो आखु-रत्नाबली खनि: ॥ ७७ ॥
गोखाशिरायः पिस्वीनि चेङ्गा चाखुरि पिप्पली।
विशाला काञ्चनग्रामी असृक् शाकोटकस्तथा ॥ ७८ ॥
क्षेत्रगामी राजग्रामी नन्दीग्रामी च जध्यलः ।
पुक्तिवृहती गोत्रेषु भरद्वाजेषु गोतमात् ॥ ७८ ॥
अथ सावर्णगोवस्य पराशरस्य वंशधराणां
गाइनामानि।
सिंहडालक उन्दुड़ी शृङ्गो पाकड़ो लेधुड़ी।
धुन्धुड़ी तातोया सेतुः कपाली लोमपेटरौ॥ ८० ॥

n वल्लालचरितम् । पञ्चवटी खण्डवटी निकड़िश्च समुद्रकः । पुण्डरिको यशोग्रामो केतुग्रामो च विश्रुतः ॥ ८१ ॥ पुष्पपो भादुषी चैव वरेन्द्रा गाइसंज्ञकाः । मुनिकल्या अमी जाता सावर्णेषु पराशरात् ॥ २ ॥ अथ वैदिकानां कौलिन्यादिविहीनत्वकारणम् ।। वैदिका ब्राह्मणा आसन् वणिजां पक्षपातिण: । ततस्तान् सदसि क्रोधानाजुहाव महीपतिः ॥ ८३ ॥ नाकाअनभिहारं ते राजदत्तं तपोधनाः । ब्राह्मणाः ब्रह्मविहांसो वैदिका इति केचन ॥ ८४ ॥ इति वैदिकानां कौलोन्यादिराहित्यकथनम् । अथ कान्यकुजागत-कायस्थानां नामगोत्राणि । काश्यप गोत्रे सञ्जातो दक्षनामा महामतिः । तस्य दासो गौतमस्य गोत्रे दशरथो वसुः ॥ ८५ ॥ शाण्डिल्यगोत्रे सम्भूतो भट्टनारायणः कती। तस्य सौकालिनो दासो घोषजो मकरन्दकः ॥ ८६ ॥ भरद्वाजषु विख्यातः श्रीहर्षों मुनिसत्तभः । दासस्तस्य विराटाख्यः गुहकः काश्यपः स्मृतः ॥ ८७ ॥ (१) ख पुस्तके एतदधिकरणं नास्ति।

वल्लालचरितम् । सावर्णगोत्रो निर्दिष्टो वेदगर्भस्तपोधनः । तस्य दासो मित्रवंशो विखामित्रस्य गोत्रकः ॥ कालिदास इति ख्यातः शूद्रवंशसमुद्भवः ॥ ८८ ॥ वात्स्यगोत्रेषु सम्भूतः छान्दड़ इति संजितः । मौहल्यगोत्रकोदत्तः पुरुषोत्तमसंज्ञकः । एतेषां रक्षणार्थाय स्वागतो गौढ़मण्डलम् ॥ ८८ ॥ ये घोषवसुमित्रास्तु कुलीना:' सर्व एव ते । देव-दत्तौ सेनसिंघौ पालितश्च करो गुहः । दासश्च मध्यमा अष्टौ हिसप्ततिघरास्ततः ॥ २० ॥ अशीति मौलिका राजवल्लालसेन-सम्मताः । विसप्ततिर्घरा ये ते कायस्थेष्वधमाः स्मृताः ॥ ८१ ॥ अथ गुणवत्कायस्थप्रशंसा । शूद्रास्तु ये दानपरा भवन्ति व्रतान्विता विप्रपरायणाश्च । अन्नं हि तेषां सततं सुभोज्यं भवेत् द्विजैदृष्टमिदं पुरातनः ॥ ८२ ॥ इत्यानन्दभट्टप्रोक्ते वल्लालचरिते पूर्वखण्डं सम्पूर्णम् ॥ (१) ख पुस्तके वागतम् । (२) ख इति श्रीमदानन्दः ।

वल्लालचरितम् marman उत्तरखण्डम् अथ प्रथमोऽध्यायः ।(१) वल्लालचरितं पूर्वखण्डीयं कथितं मया । थूयतामुत्तरे खण्डे विस्तरात् कथ्यतेऽधुना ॥ १ ॥ सेनवंशधरो राजा वल्लालो नाम विश्रुतः । पुरेमामभुनक् पृथ्वों प्रभावाक्षतशासनः ॥ २ ॥ प्रभुश्च यौवनस्थोऽपि तस्मिवासीदिवेकता। नाहारि ब्राह्मणी कन्या कदाचिदपि भुभता ॥ ३ ॥ कामाचारोऽपि दृप्तोऽपि स प्रियङ्करकिरः । कदाचिञ्च परस्त्रीणां जारत्वं नाकरोबृपः ॥ ४ ॥ असेवि चाण्डालकन्या राजा हादशवार्षिकी । नटीकन्या च सिद्धार्थ पाषण्डमतवर्तिना ॥ ५ ॥ याववासीत् भट्टपादैरुपदिष्टो महीपतिः । तावत् स कृतवान् कम्म तत्तत् सज्जनगर्हितम् ॥ ६ ॥ (१) क पुस्तके नास्ति।

वल्लालचरितम्। भट्टानुवतिना तेन ततो विमलबुद्धिना। किं किं नानुष्ठितं कम्मं ब्राह्मणानां प्रियङ्करम् ॥ ७ ॥ वङ्गवागड़िवारेन्द्रराढ़ाभूमिथिलापि च । तस्यासोद्दिपुलं राष्ट्रमेतद्दिषयंपञ्चकम् ॥ ८ ॥ 'वसतिस्म नृपः श्रीमान् पुरा गौड़े पुरोत्तमे । कदाचिदा यथाकाम नगरे विक्रमे पुरे ॥ ८ ॥ स्वर्णग्राम कदाचिद्दा प्रासादे सुमनोहरे। रममानः सह श्रीभिर्दिवीव त्रिदिवेखरः ॥ १० ॥ वैहारिकासु विद्यासु वाजिपृष्ठे च पण्डितः । शस्त्रास्त्रेषु परं दक्षो दाने कर्ण इवापरः ॥ ११ ॥ इत्यानन्दभप्रोक्ते वल्लालचरित वल्लालपरिचयो नाम प्रथमोऽध्यायः । (१) ख पुस्तके अधिकोऽयं लोको दृश्यते भसिंहगिरियस्य महाराजगुरुगुरुः । समर्थः स महातेजाः वैलोक्यमपि शामितम् ॥ (२) ख पुस्तके लोकोऽयमधिको दृश्यते म राजपुङ्गवो पत्थं वाईक्ये दानसागरम् । अनिरुद्धोपदेशेन प्रणिनाय श्रुतं मया। (३) ख इति श्रीमदानन्द उत्तरखण्डे ० गुणकीर्तणम् ।

अथ द्वितीयोऽध्यायः पुरोदन्सपुराधीशं जिगीषुरवनीपतिः । वित्ताढ्यादालभानन्दाविष्ककोटिं राहीतवान् ॥ १ ॥ 'वारं वारं जितो राजा यतो मणि पुराहवे । ततोऽभियानं घोरं स कर्तुमासीत्समुद्यतः ॥ २ ॥ वल्लभेऽदातुकामेऽपि दृष्ट्वा संवितिक्रमम् । प्रेषयामास दूतं स वणिजाय महात्मने ॥ ३ ॥ स दूतः सङ्गाकोटस्थं वल्लभं समुपागतः । विज्ञापयामास तदा वलालनपशासनम् ॥ ४ ॥ वल्लाल उवाच । यथास्माभि हि कर्त्तव्यं संयानं प्रति कोकटम् । विधाय सुमहोद्योगं षडङ्गबलसंयुतैः ॥ ५ ॥ ततो वल्लभचन्द्रः स ग्रहम् प्राणित्यलेखनम् । प्रेषयन् तु साईकोटिं सुवर्णमिति माचिरम् ॥ ६ ॥ वसभ उवाच। अमितव्ययिना राज्ञा कालिका पातिता सतत् । किं ब्रूमो मृपतिं नैवं मया दृष्टः सतां विधिः ॥ ७ ॥ (१) क, पुस्तके नास्ति। (२) ख, फणि .. (३) ख, बबभेऽसम्मते दातुं पुनः सम्बिातिक्रमात् । ३ वल्लालचरितम् । कस्माहा समरोद्योग: लब्धस्य परिपालनम् । राष्ट्रस्यैवोचितं कत्तुं युद्धमेतदकारणम् ॥ ८ ॥ त्यज्यताम् गाँवारबुद्धिः प्रजानां हितकाम्यया। प्रजाक्षयकरं युद्धमधम्म निरयप्रदम् ॥ ८ ॥ यदृच्छाचारो नृपतौ राजधम्मं न पश्यति । अरक्षणे महद्दोषः किं गुणो राष्ट्रवईमः ॥ ॥ १० ॥ क्षेत्रियं भगवद्भक्तमथवा मुषलं धनुः । न कोऽपि पुरुषः कत्तु कदाचिद्भवति प्रभुः ॥ ११ ॥ भरक्षित्वा प्रजा राजा केवलं वलिमाददत् । अयशो महदाप्नोति निरयञ्चैव गच्छति ॥ १२ ॥ इत्याहुः कोशातकिनः किं राजनयचर्चया। राजनीति हि विज्ञेयं शवणां परिमर्दनम् ॥ १३ ॥ अथवा विग्रहर्यस्मात् पौड्यन्तेऽस्मद्विधा जनाः । उलपा इव सामान्या ब्रवीमि तेन हेतुना ॥ १४ ॥ यदि स्यानृपति हृद्यात् करादानसमन्वितम् । आधित्वे हरिकेलोयं ऋणं दातुं तदोत्सहे ॥ १५ ॥ तस्य तद्भाषितं सब स दूतः थान्तवाहनः । विक्रमं पुरमागत्य वल्लालाय न्यवेदयत् ॥ १६ ॥ (१) क, यहच्छा हि भवेत्तस्य राजधर्ममवेक्षता। (२) क, मिरयञ्च प्रगच्छति पलालचरितम् । एतच्छ्रुत्वाथ सन्देशं वझालः पृथिवीपतिः । मन्युना स प्रजज्वाल कुटको वहिना यथा ॥ १७ ॥ तदास्य कोपताम्रास्यात् सुस्राव खेदशम्बरम् । अग्निसंयोगतः खिनदह्यमानधनाद यथा ॥ १८ ॥ वल्लभे जातसंरोषो निर्दोषेषु वणिक्ष्वपि । क्रुद्धो भूत्वा स वल्लालः चकार कदनं भृशम् ॥ १८ ॥ शुल्कादानमिषेणापि जहार वणिजां बलात् । व्यवहारे तं वस्तु केषाञ्चित् क्रोशतामपि ॥ २० ॥ असवर्णाविवाहस्तु निषिदोपि कलौ युगे । गोविन्दायस्य कन्यां स जहार वणिजो बलात् ॥ २१ ॥ नवोऽपि सौवर्णादनुदर्श चकार ह । कुलवृद्धैः सहागत्य नापि प्रत्यग्रहोच्च तम् ॥ २२ ॥ तत: स मन्त्रयन् राजा गूढं चाटुविटैः सह । पीडयामास वणिजो दूतञ्चेदमुवाच ह ॥ २२ ॥ : वल्लाल उवाच । सुवर्णा वणिजो राष्ट्रे दुःशोला धनगर्विताः । ब्राह्मणान् ते तूलयन्ति ब्रह्मक्षत्रञ्च मामपि ॥ २३ ॥ (१) ख, क्रोध ० । एवं । (२) ख, १३) ख, ब्रह्मचवियजञ्च माम् । " वसातचरितम् । वल्लभानन्दनामा च वणिग्गणमहत्तरः । अशिष्टः कुलजम्मन्यो दाम्भिकश्च विशेषतः ॥ २४ ॥ इत्यादीन् सुवहन् दोषानारोप्य 'पण्यजीविषु । वल्लभाय सङ्गकोटे राजा दूतं व्यसञ्जयत् ॥ २५ ॥ प्रासेधं विपुलं चके भयं भैत्रं च दर्शयन् । येन केन प्रकारेण तं वशीकरणेच्छया ॥ २६ ॥ तदाददे द्विगुणितमन्यायेन करं भरम् । माहादावाहरच्छुल्कमसक्कच्छौकिकश्छलात् ॥ २७ ॥ 'इत्यानन्दभप्रोक्त वल्लालचरिते वणिगाधर्षण नाम हितीयोऽध्यायः । (२) क, (१) ख, वाभानन्दचन्द्रःस। पणजीविषु। (२) ख, जछुः । (४) रस, घडादावाहरन् एल्क राज्ञोमाण्ड विकासलात् । (५) स, इति श्रीमहामन्द । (६) ख, उत्तरखण्डे। R- अथ टतीयोऽध्यायः१ । १ एकदारा जवनमखं राजा यदृच्छया । प्रययौ धवलेखास्तीरं रुचिरकाननम् ॥ १ ॥ 'उपकूलेषु रम्येषु वनेषु सैकतेषु च । भ्रममाणो ददर्शासौ नदीतीरविचारिणीम् ॥ २ ॥ वर्तुलौ स्फुटकैशोरौ दृढ़ावविरलौ कुचौ । लज्जया' वसनान्तेन छादयन्ती सुलोचनाम् ॥ ३ ॥ सुकेशां शुद्धदशनां बाला सरसिजाननाम् । तन्वगौं सुकोमलाङ्गों सुनासां मृदुहासिनीम् ॥ ४ ॥ वृहवितम्बविम्बाव्यां सुकपोलां मनोहराम् । सहितामेकया सख्या स्थलजामिव पद्मिनीम् ॥ ५ ॥ तस्याः परमकामिन्याः ललिताददनाम्बुजात् । अपिवल्लावण्यरसं राजो नयनषट्पदः ॥ ६ ॥ उन्मादनकटाक्षेण विविधागो महीपतिः । तां विलोक्य ययौ तूर्णं मन्मथस्य विधेयताम् ॥ ७ ॥ (१) कपुस्तके नास्ति । (२) ख, पया। (३) क, तहशोन्मादमेनेव । (४) ख. राजा कन्दर्पस्य ।

वल्लालचरितम्। उपप्रयाय सुयोणिं स तां पद्मनिभेक्षणाम् । पश्यन्नेव निर्निमेष तिष्ठन्तों वाक्यमब्रवीत् ॥ ८॥ राजोवाच । नेत्रेण नीलकमलं कमलं मुखेन कुन्देन दन्तमधरेण सुपक्वविम्बम् । गात्रेण चम्मकदलं परिभूय भासि का त्वं सरित्तटवने वनदेवतेव ॥ ८ ॥ सामन्त सङ्घपरिसेवितपादपद्मो वैधव्यकारणविधिः परसुन्दरीणाम् । वल्लालसेननृपतिस्तव कुन्ददन्ति यातो विधेयविषयः कुरु नेत्रपातम् ॥ १० ॥ तच्छ्रुत्वा जातरागा सा भावमावखती तदा। किञ्चिदवाङ्मुखी प्राह नृपतिं मृदुसुखना ॥ ११ ॥ कन्योवाच । पाचक्ष्व मैवमवनीश्वर मां कुमारीम् । वंशः क ते विधुभवः क्वच सम्भवो मे ॥ १२ ॥ चरिकोरितनया विदितास्मि लोके । नाहं त्वया ह्यकुलमा परिणेतुमर्हा ॥ १३ ॥ ॥ (१) ख, तन्मुखम् । १३) खपुस्तके, चम्पकुसुमम् । (३) ख, राजन्य 1 (8) ख, जानीहि नास्त्रि भवता ।

वल्लालचरितम् । राजोवाच । किं व्यामोहयसे बाले कोरिकन्येतिवादिनी। चर्मा- ईदृशं रूपं किं स्यात् भुवनमोहनम् ॥ १४ ॥ चारस्य नासि कन्या पालकः स तु केवलम् । राजकन्यासि भद्रे त्वं ध्रुवमेव न संशयः ॥ १५ ॥ को वा कापुरुषो लोके भवेदीदृक् वरानने । यस्त्वां निधिमिव प्राप्यामूल्यं करगतं त्यजेत् ॥ १६ ॥ कुलजाकुलजा वासि त्वमेव हृदयप्रिया । आयाहि त्वं मया साईं त्वां नयामि निजं पुरम् ॥ १७ ॥ तच्छ्रुत्वा वचनं तस्य राज्ञः साचीकृतेक्षणा | सा सखौं नोदयामास वक्तं तत्रोचितं तदा ॥ १८ ॥ सख्युवाच । यद्यस्याः पाणिं विधिना ग्रहीतुं कृतनिश्चयः । सदैनां नय ते साईमेषात्मानं ददाति ते ॥ १८ ॥ राजोवाच । गान्धवण विधानेन इयं प्राप्ता स्वयंवरा। पतित्वेन भवाम्यस्या इयं मे जीवितेश्वरी ॥ २० ॥ (१) ख, तल मे नास्ति संशयः । (२) कपुस्तके कुलजाकुलजेत्यादि २४पत्रस्थराजोवाचेत्यन्नस्य सन्दर्भस्य स्थाने यमेकः श्लोको दृश्यते । अस्तं याति दिवानाथः सायं संप्रति वर्तते। आयाहि त्वं मया साद्धं त्वां मयामि निजं पुरम् ॥

२४ वल्लालचरितम् । इत्युक्ला कोरिकन्यां स पुनरेव जगाद ताम् । सुमुखौं परमानन्दसन्दोहविकचाननः ॥ २१ ॥ राजोवाच । चल मम साकं भव मम भार्या स्वारोहेदं वरयानम् । अवरोध स्वामिनी च भव मम चैवान्तःपुराणाम् ॥ २२ । इत्युक्त्वा स्मयमानस्त्वां वेपमानां समग्रहीत् । ससखों याप्य यानेन निनाय विक्रमं पुरम् ॥ २३ ॥ ततस्तामनवद्यागौं स्वस्य गेहे न्यवेशयन् बुभुजे कामतो राजा राजक्कत्ये हतादरः ॥ २४ ॥ अत्यन्तं लालिता सातु राज्ञा चम्मारदारिका। सिषेवेऽवरोधमध्ये चलचामरमारुतम् ॥ २५ ॥ शुद्धान्तगतया साई विहरन् स तया सुखम् । नृपतिर्बुबुधे नैव कालातिक्रमणं महत् ॥ २६ ॥ इत्यानन्द भट्टप्रोक्त वल्लालचरिते सुन्दरीसमागमो नाम हतीयोऽध्यायः। - (१) स्ख, च पुरं नि। (३) ख, तेन (३) ख, इति श्रीमदानन्द । (8) ख, उत्तरखण्ड स्त्रीलामो नाम। - चतुर्थोऽध्यायः । ततः कालेन कियता कोड़ारत्नसमुत्सुकः । एकदान्तःपुरं राजा विवेश रजनीमुखे ॥ १ ॥ 'प्रविश्य शयनागारं दयितां भूमिशायिनीम् । ददृशे सुकुमाराङ्गौं कृत्तमूललतामिव ॥ २ ॥ वाससा मुखमाच्छाद्य रुदतों कमलेक्षणाम् । अदुःखाहीं प्रियतरामात्मनो जीवितादपि ॥ ३ ॥ तां दृष्ट्वा मलिनाकारां लुठन्तों धरणीतले । जुघूर्ण मस्तकं तस्य नेत्राभ्यां ददृशे तमः ॥ ४ ॥ विस्मयानो नरपतिस्तस्या नयनजं जलं । परिमृज्याकुलोभूतः सभयं वाक्यमब्रवीत् ॥ ५ ॥ राजोवाच । किंन्विदं मृगशावाक्षि नेत्राभ्यां स्रवते जलम् । अवामुखी किमर्थं त्वं भूमावेव विलुण्ठसे ॥ ६ ॥ नत्वहं विप्रियं किञ्चिदकाषं तव भामिनि । क्रन्दनेन दुःखयसे कथं मां तनुमध्यमे ॥ ७ ॥ कथं कोसुम्भवसनं सौवर्णम्बा शुचिस्मिते । नानुग्रह्लासि सुश्रोणि मणिवीजपयोधर ॥ ८ ॥ (१) आदर्शपुस्तकयो स्ति । (२) ख, रजन्यां प्रविवेश ह। ४ २६ वल्लालचरितम् । ॥ धम्मिल्लरचना सुभ्र मल्लौदाम्ना सुगन्धिना। कुचयोचन्द्रलेखेव, पत्राङ्का च न कारिता ॥ ८ ॥ पुरानितम्बसंसर्गात् यत्ते सारसनोत्तमम् । शोभितं नाधुना भूमौ पतितं तद्विराजते ॥ १० ॥ मुक्तावली भ्राजते न च्युता तव कुचद्दयात् । अवेयकं च्युतं कण्ठादनाभरणतां गतम् ॥ ११ ॥ पूर्णिमाकौमुदीकान्तिनिर्जितस्मितशोभिना। किं नो वदसि वक्तेन कुशेशयसुगन्धिना ॥ १२ ॥ सर्वथाम्बुजपत्राक्षि तवास्मि वचनङ्करः । प्रतीक्षन्ते तवादेशं मज्जनाश्च सदा प्रिये ॥ १३ ॥ कथं नादिशसे प्राग्वत् स्मितपूबा भिभाषिणि । प्रपन्नं प्रपदे प्राप्त दासं हिमकरानने ॥ १४ ॥ त्वत्त्वः प्रियतरा नान्या वर्तते मम सुन्दरि। त्वं हि मे जीवनं प्राणाः त्वं हि मे परमा गतिः ॥ १५ ॥ श्रवणामृतवाक्येन मां जीवय सुहासिनि । कायस्थञ्चाप्यकायस्थं स्फुरन्तमपि मां मृतम् ॥ १६ ॥ दास्ये प्रत्ययकारिण्याः कोटिं प्रत्ययकारिणि । रत्नालङ्कारभारं वा यते मनसि वर्तते ॥ १७ ॥ अप्यहं लक्ष्मणं जह्याम् त्वप्रियार्थं वरानने । गाहेयं सागरं बाले प्रविशेयम् हुताशनम् ॥ १८ ॥ (१) ख, लवणम् ।

बलालचरितम्। २७ किमाभीलकारणं ते जीवितेखरि कथ्यताम् । तप्रियं प्राकरिष्यामि शपे ते ललिताधिणा ॥ १८ ॥ निरीक्षसे किं न सुझ प्रेष्यं मां तव सुन्दरि । केनावमानितासि त्वमग्नी कः शलभायते ॥ २० ॥ अनाट्यः को भवेदाट्यः आन्यो यायादनाठ्यताम् । को वडो मुच्चतामद्य कोऽवध्यो वा निहन्यताम् ॥ २१ ॥ श्रुत्वैवं भाषितं तस्य कामस्य वशवर्तिनः । साभिमानवती रान: स्थिता नतमुखी तदा ॥ २२ ॥ व्यावृत्तवदनं रामा किञ्चित् साची कतेक्षणा। मकृविलोक्य नृपतिं तस्थौ नतमुखी पुनः ॥ २३ ॥ खामकम्पढ़ोरोजा स्फुरदिम्बाधरा ततः । परिमृज्याञ्चलेनासं बभाषे गहदखना ॥ ३४ ॥ पद्माक्ष्युवाच । यदि ते मत्प्रियं कायं मां प्रेषय पितुर्ग्रहम् । दुःखाही दुःखिनी नाथ काननान्तरचारिणीम् ॥ २५ ॥ भोगिनी कृपाणां मां मनामधेयञ्च विस्मर । राज्यं भुङ्ग महाराज मां विहाय सुखं सदा ॥ २६ ॥ प्राप्तोसि सुमहदुखं नृपते मम कारणात् । देशदेशान्तरे कान्त मद्देतोस्त्वं कलङ्गभाक् ॥ २० ॥ (१) ख, पुरः। (३) ख, दासी ते (२) क, सुन्द य्युवाच । (४) ख, ख, संप्राप्नोमि महदुखम् ।

वल्लालचरितम् । राज्ञां वा राजपुत्राणां प्राज्ञानामभिजन्मनाम् । पुरा नाजासिषं नाथ प्रकति वनचारिणी ॥ २८ ॥ अद्य लोकचरित्राणां जाताभिज्ञावनीपते । जीवेयं यदि पश्येयं तदा किं किं न किल्विषम् ॥ २८ ॥ धनादौ नहि मे कार्य किमलङ्करणादिना । पतित्वा धवलेखयां निमज्जेयमहं ध्रुवम् ॥ ३० ॥ एवं विलपमानां तां वलाल: क्षौणिपालकः । प्रवेशयन् वक्षसीव तां पुनर्वाक्यमब्रवीत् ॥ ३१ ॥ राजोवाच । मिरो मे घूर्णते जाये वदनञ्च विशुथति । किमु तत्कारणं यस्मात् त्वमेवं भृशमाकुला ॥ ३२ ॥ त्वं हि मे जीवनं पनि त्वं हि मे परमं तपः । त्वमेव मे राजधम्मः प्राणानामौखरी च मे ॥ ३३ ॥ त्वया होनं न कायं काञ्चीशत्वमपि प्रिये । त्वया सह विशालाक्षि वने वासो वरं मम ॥ ३४ ॥ प्राणा अपि मया शक्या क्यास्त्यक्तं न त्वां कदाचन । शकुयामसितापाङ्गि कलङ्केषु च का कथा ॥ ३५ ॥ . (१) ख, नदीं गत्वा मरिष्यामि निमज्जा जीवितेन किम् । (२) ख, पुस्तके नास्ति । (३) ख, मस्तकम्। (४) ख, मुखं में च। (५) क, ढिल्लीशत्व। ~

वल्लालचरितम् ।
पादानतं महादेवि किं नानुकम्पसे पतिम् ।
प्राणेम्मम शापितासि वद त्रैलोक्यसुन्दरि ॥ ३६ ॥
त्वमेव महिषी रानि भर्ताहं ते महागुरुः ।
आचक्ष्व हगतं भावमषोहं विहिताञ्जलिः ॥ ३७॥
पतामि त्वत्पदौ मूड़ा कस्मान्न दयसे पतिम् ।
भक्तमन्याजनासक्तं प्रसौदाम्बुजलोचने ॥ ३८ ॥
एवं तदा व्याहरन्तं राजानमुत्पलेक्षणा ।
उवाच दारुणं वाक्यमुच्छसन्ती मुहुर्मुहुः ॥ ३८ ॥
रायवाच ।
अवक्तव्यमपि स्वामिन् त्वां वदामि शृणु प्रभो।
आकण्यं च प्राणनाथ यत्कर्त्तव्यं तदाचर ॥ ४० ॥
भर्ता हि रक्षकः स्त्रीणां युवतीनां विशेषतः ।
भर्तारं यदि नो वच्मि कं वदामि सयौवना ॥ ४१ ॥
भर्ता गतिहि नारीनां भर्ती परमदेवता ।
ब्राह्मणस्य मुखात् पित्रालये देव मया श्रुतम् ॥ ४२ ॥
पातिव्रत्यं परो धम्मः श्रूयते योषितामिति।
नाहमत्याचरामि त्वां मनसापि कदाचन ॥ ४३ ॥
नाहं प्राकतनारीव पतिभक्तिविवर्जिता।
हृत्पद्मासनमास्थाप्य सदा त्वां पूजयाम्यहम् ॥ ४४ ॥
येनाहं सततं पूज्या प्रणिपातेन भक्तितः
तेनाहं नौचहत्तेन विमार्गेणावमानिता ॥ ४५ ॥

वल्लालचरितम् । धिक तं स किल्विषाचारः कामान्धो व्युत्थितेन्द्रियः । मातरं यः कामयते दुरात्मा मां पतिव्रताम् ॥ ४६ ॥ अद्य साहं गता नाथ पायुक्षालनमन्दिरम् । एकाकिनीमसौ दृष्ट्वा स्मयन ससार माम् ॥ ४७ ॥ भीतया यन्मयाइता सखो तत्र द्रुतं गता। ततो दुष्टात्मना नाथ न तेन मलिनौकता ॥ 8८ ॥ धर्माण रक्षिता साहं त्वाम् वदामि यथायथम् । कम्पन्ते मम गात्राणि स्मृत्वा तस्य कुचेष्टितम् ॥ ४८ ॥ भौतास्मि कुत्मिताचारात् तस्मादहमरक्षिता। विपत्स्ये निर्णायकेव चमूरायोधनं गता ॥ ५० ॥ इत्युक्त्वा दारुणं वाक्यं क्रूरा वल्लालवल्लभा । विररामोत्सृजन्त्यस्रं तदा वल्लभवक्षसि ॥ ५१ ॥ तच्छ्रुत्वा वचनं राजा प्रियास्यकमलच्युतम् । कोपेनासौ प्रजज्वाल दावेनेव धराधरः ॥ ५२ ॥ तदा क्रुद्धस्य म्लेच्छास्यसदृशास्यमहीक्षितः । स्फुरत् सर्बाङ्गस्य नेत्रयुगलं लोहितायते ॥ ५३ ॥ तां वारण वल्लभोरु वल्लालो वल्लभां ततः । पुत्रे दण्डं प्रतिज्ञाय सान्त्वयामास विक्लवाम् ॥ ५४ ॥ (१) ख, संकिल्विषाचारं कामान्धं व्युस्थितेन्द्रियम् । (२) क, सेयं।

o वल्लालचरितम् । पुत्रदुश्चेष्टितं ध्यायन् तल्पे कोपाकुलो नृपः । जाग्रदेव यामिनी तां कथञ्चिदत्यवाहयत् ॥ ५५ ॥ इत्यानन्द भट्टप्रोत वल्लालचरिते दयिताप्रसाधनं नाम चतुर्थोऽध्यायः। (१) ख, पुस्तके इति श्रीमदानन्द | (२) ख, उत्तरखण्डे इत्यधिकं पठति ।

अथ पञ्चमोऽध्यायः१ । उत्थायाहर्मुखे राजा क्रोधमाहारयन् भृशम् । घातुकानादिशद्धन्तुमुपांशु तनयं प्रियम् ॥ १ ॥ श्रुत्वा स्वस्य बधादेशं तपस्वी लक्ष्मण स्ततः । व्याकुलो मन्त्रयामास कान्तया सह निर्जने ॥ २ ॥ रजन्यां गाहमानायामामन्त्रा रहसि प्रियाम् । गुप्तां तरणिमारुह्य पलायत महाभयात् ॥ ३ ॥ प्रभातायां विभावयां ज्ञात्वा तस्य पलायनम् । दुर्गावाड़ी ययौ राजा चिन्ताजम्भविलोचनः ॥ ४ ॥ प्रविशन् मन्दिरं तत्र भित्तिकायां महीपतिः । खस्नुषालिखितं श्लोकं दृष्ट्वेममपठत् स्वयम् ॥ ५ ॥ पतत्यविरतं वारि नृत्यन्ति शिखिनो मुदा । अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति ॥ ६ ॥ श्लोकमेतं वाचयित्वा वल्लालो धरणीपतिः । पुत्रस्नेहचलचित्तः कैवर्तानाजुहाव ह ॥ ७ ॥ तान् प्राप्तानब्रवीद्राजा हंहो नौकर्मजीविनः । मत्प्रियं यदि कर्त्तव्यं श्रूयतां वचनं मम ॥ ८ ॥ (१) कपुस्तके, नास्ति । . (२) ख, लवणम्। (३) ख पुस्तके, श्रुत्वा । (8) स्ख, • वाटीम्।

वल्लालचरितम् । इतोऽपक्रान्तस्तनयो लक्ष्मणः क्रोधलक्षणः । युमभ्यमीप्सितं दद्यामन्विथानयताजसा ॥ ८ ॥ नाविका जचुः। भूधर कन्दरे दुर्गे कान्तारे सलिलेखरे । पाताले वानयिष्यामस्तिष्ठन्तमपि माचिरात् ॥ १० ॥ इत्युका चाभिवाद्याथ राजानं नाविका मुदा । आनेतुं लक्ष्मण जग्मुः कृत्वा कोलाहलं भृशम् ॥ ११ ॥ अरित्राणां हिसप्तत्या वाहयन्तस्तरों द्रुतम् । आनिन्युर्लक्ष्मण दाभ्यामहोभ्यां जालजीविनः ॥ १२ ॥ ततस्तेभ्यो ददौ राजा सन्तोषविमलाननः । धनरत्नवस्त्रभारान् हालिक्यञ्चोपजीवनम् ॥ १३ ॥ इत्यानन्द भट्टप्रोक्त वल्लालचरित लक्ष्मणानयन नाम पञ्चमोऽध्यायः । (१) ख, लवणः। (२) ख, लवणम् । (३) ख, इति श्रीमदानन्द ० । (e) ख, उत्तरखण्डे लवणसेन । - अथ षष्ठोव्यायः१ । . अथास्ति शैवैः सकलैश्च शाक्तः सौरस्तथा वैष्णवगाणपत्यैः । उपासिकोपासकदण्डिभिय वन्दयः सदा भिक्षुकभिक्षुणीभिः ॥ विप्रैश्च क्षत्रैः वणिजैश्च शूद्रः सन्यासिभि मानुषमानुषीभिः । सर्वेश्च पूज्यो वरदः प्रसिद्ध उ माधवोग्रः किल देवदेवः ॥ २ ॥ अथानादिमहालिङ्गं पूर्वस्मिन् गौड़मण्डले । गताः स्म पूजितुं देवं मानवा उग्रमाधवम् ॥ ३ ॥ ब्राह्मणाः क्षत्रियाः सबै वैश्याश्च मनुजादयः । सत्शूद्राद्याच शूद्राश्च महास्थानमुपागताः ॥ ४ ॥ केचित् पुष्पाणि संग्टह्य धूपदीपानथापरे । केचित् गन्धञ्च नैवेद्यान् केचित् व्यजनचामरान् ॥ ५ ॥ कचिच्छत्राणि रत्नानि दाम्नश्च वसनानि च । इत्यादीनि समारह्य ते द्रयाणि समागताः ॥ ६ ॥ षड़ातवैः प्रसूनैश्च करवीरादिभिर्जनाः । स्वभुवं पूजयामासु धूपैश्च चन्दनादिभिः ॥ ७ ॥ (१) क, पुस्तके नास्ति । (३) ख, श्चैव । ।

वहालचरितम् । वारिभिस्तीर्थजैः स्वच्छः कुङ्कुमैः सह रञ्जितैः । शङ्करं नापयामासुः शीतलैश्च सुगन्धिभिः ॥ ८॥ ददु वृतप्रदीपान् च तैलदीपानथापरे । क्षीगर्घञ्च ददुस्तत्र पाद्यञ्चामलवारिभिः ॥८॥ गोपायसै गोहतैश्च मधुकुङ्कुमकर्पूरैः । पञ्चामृतैः केशरैश्च गुडैश्च शर्करैरपि ॥ १० ॥ चन्दनैश्च सुगन्धैश्च पञ्चगन्धे मुंदापरे । शङ्करं लेपयामासु निवा भक्तितत्पराः ॥ ११ ॥ शाल्यबमोदनैर्युक्तं परमानं ददु मुंदा। लड्डुकाञ्च पिष्टकाञ्च नैवेद्यान् विविधानपि ॥ १२ ॥ पताकान् स्थापयामासुश्चलच्चीनांशुकान तथा । ननृतश्च अगुः केचित् केचित् घण्टामवीवदन् ॥ १३ ॥ सुवर्ण रजतं तामं ददुः केचित् स्वयम्भुवे । ददुश्च पञ्चरत्नानि सह लाजाक्षत नराः ॥ १४ ॥ करोइतनताम्बूलमुखवासान् ददुस्तथा । देवस्यारूरुपन् मूईि दुळपुष्पाक्षतानि च ॥ १५ ॥ एवं पञ्चोपचारेण मानवा भूसुरादयः । शिवमोजु जपञ्चक्रुः प्रचक्रुश्च प्रदक्षिणाम् ॥ १६ ॥ नृत्यै गोते महोत्साहै: वाद्यैश्च मधुरखनैः । हां हुङ्कारः समुल्लासहियन्नुग्रमाधवम् ॥ १७ ॥ क, हा ओङ्कारः।

वहालचरितम् । केचित्पञ्चाङ्गयुक्तोन साष्टाङ्गेन तथापरे । प्रणमुश्चार्पयामासुः स्तोत्रञ्च मधुरखनैः ॥ १८ ॥ झलकै झल्लरीभिश्च मृदङ्गैमईलैस्तथा । मुरलीभिश्च तन्त्रीभिः केचिदीजुः स्वयम्भुवम् ॥ १८ ॥ जयमङ्गलगाथाभिधारणीभिश्च गीतिभिः । शङ्करं भिक्षुभिक्षुण्यरीजुर्गानैश्च भाषः ॥ २० ॥ सुस्खरै र्वेदपाठश्च विप्रा वेदविदां वराः । क्षत्रिया स्वर्णरत्नादिछत्रकैश्च महोत्तमैः ॥ २१ ॥ वणिकाचूड़ामणिभिः सौवर्ण विल्वपत्रकः । शूद्राश्च पूजयामासु विविधैश्च क्रियाफलैः ॥ २२ ॥ अथान्ये आगता ये च जातयो रजकादयः । ते सर्बे दूरतः स्थित्वा प्रणेमुश्च पुन: पुन: ॥ २३ ॥ इत्यानन्द भट्टप्रोते वल्लालचरिते उग्रमाधवपूजनं नाम षष्ठोध्यायः । (१) ख, इति श्रीमदानन्द । (२) ख, उत्तरखण्डे त्यधिकं पठति ।

अथ सप्तमोऽध्यायः१॥ कस्मिंश्चित् काले पद्माक्षी वल्लालदयिता पुरा। शङ्करं पूजितुं तत्र महास्थानमुपागता ॥ १ ॥ गृहीत्वा बहुद्रव्याणि हैमानि राजतानि च । आतपत्रच्च देवस्य देव्याश्च कर्णपालिकाम् ॥ २ ॥ प्रालम्बिकाञ्च कटक किरीटं कण्ठभूषणम् । अगदं कङ्गणं सारशनञ्च नूपुरादिकम् ॥ ३ ॥ वस्त्राणि च महार्हाणि पताकाश्च ध्वजानि च । यज्ञसूत्राणि गन्धानि नानोपकरणानि च ॥ ४ ॥ अच्चयामास देवं सा देवौं च स पुरोहितः । नैवेद्य स्तरलङ्कारैग्छत्रेण च परं मुदा ॥ ५ ॥ पूजयित्वा गता' देवी सारुह्य हयनं वरम् । पुरोहितः स्थितस्तत्र द्रव्याणामंशकाझ्या ॥ ६ ॥ स महान्तम् धर्मगिरिं वलदेव उवाच ह । भदन्त देहि मे भागम् मन्प्राप्यमचिरेण भोः ॥ ७ ॥ तच्छ्रुत्वा तद्दचः स्थानाधिपः स प्रत्युवाच तम् । अददाम न कस्मैचित् भागमेव कदाचन ॥ ८॥ . (१) कपुरखके, नास्ति । (२) ख, पूजयित्वा ययौ।

घल्लालचरितम् । अतो न दद्यां भवते गच्छ गच्छ एहं व्रज । इत्थं ताभ्यामभूत्तत्र वाक्पारुष्यं कियत्क्षणम् ॥ ८ ॥ वलदेवस्ततः क्रुद्दो देवलेशं शशाप ह । निपतध्वमरे मूढ़ न ते भद्रं भविष्यति ॥ १० ॥ श्रुत्वा तदेवलेशस्त्वं क्रोधम्लेच्छाननाननः । वलदेवं गण्डदेशे चपेटेन व्यतीतड़त् ॥ ११ ॥ आदिशत् व्यायतान् शिष्यान् एषोपसार्यतामिति । ततस्ते पुरुषाश्चक्रुः गुरोराज्ञाप्रपालनम् । वलदेवस्ततोऽगच्छद्रदनृपतिसन्निधिम् ॥ १२ ॥ आद्योपाम् यथावृत्तं नृपे सर्वमचीकथत् । पार्षद्या ब्राह्मणाश्चापि चक्रुस्तस्य समर्थनम् ॥ १३ ॥ वलदेवस्य वाक्यस्य प्रोचुश्च दण्डातां गिरः । एवं विज्ञाय राजासावपमानं पुरोधसः । मन्युना स प्रजज्वाल' वहिना पटलं यथा ॥ १४ ॥ निळस्यतां धर्मगिरी राष्ट्रान्मे स्वगणैः सह । इति राजा रुद्रनागमन्वशात् दण्डनायकम् ॥ १५ ॥ निधिर्गुणानां स्वजनकबन्धुः सत्यं विधातुहिजवयं वाक्यम् । - (१) ख, तदा क्रोधेन जवाल ।

वल्लालचरितम् ।
चकार राष्ट्रात् सवहिष्कतं तं
गणेन साईकिल राजसिंहः ॥
८
इत्यानन्द भट्टप्रोक्त वल्लालचरिते देवलानां निर्वासनं
नाम सप्तमोऽध्यायः ।
(१) ख, इति श्रीमहानन्द |
(२) ख, उत्तरखण्ड इत्यधिकः पाठः।

अथ अष्टमोऽध्यायः॥ ॐनमः शिवाय। नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् । देवौं खरस्वतों व्यासं ततोजयमुदीरयेत् ॥ १ ॥ ॐनमो भगवते वासुदेवाय । नमोऽस्तु सिंहगिरये प्रभवेऽद्भुतशक्तये । वल्लालभूपति निन्ये मार्गे येन सनातने ॥ २ ॥ अथ श्रीवल्लालसेनः पुरा गौड़े पुरोत्तमे । नानारत्नज्वलत्शोभा सभायां सुखमासते ॥ ३ ॥ नीलकुञ्चितकेशान्तव्यालोलचूर्णकुन्तलाः । सभा जनाक्षित्रमरैः पीयमानमुखाम्बुजाः ॥ ४ ॥ कञ्चुकितस्तनाभोगाः वनहलयकङ्कणाः । सुवस्वाश्चारुसोङ्गयः आरक्तदशनच्छदाः ॥ ५ ॥ आविष्कुर्चहाहुमूला नृत्यद्धस्ता इव स्त्रियः । सेवयन्ति नृपं तत्र चलच्चामरमारुतैः ॥ ६ ॥ राजन्या राजपुत्रान वावदूकविटादयः । उपासते स्म वल्लालं ब्राह्मणाश्च महौजसः ॥ ७ ॥ (१) बादशपुस्तकयो स्ति । (२) ख पुस्तके, नास्ति । (३) ख, • द्योतमान । (8) ख, प्रेचि ।

वल्लालचरितम् । गौतै हल्ली बस्यैश्व नव्यो हरिणलोचनाः । भ्रुकुंशाश्च वाद्यविदो वाद्यैश्च रमयन्ति तम् ॥ ८ ॥ कदाचिद्देदवेदाङ्गोपनिषद्धम्मशास्त्र वित् । इतिहासपुराणानां वेत्ता लोकनमस्कृतः ॥ ८ ॥ मेधावी नयवान् वाग्मी महाराजगुरुर्मुनिः । योगोखरी महाप्राज्ञः सर्वशास्त्र विशारदः ॥ १० ॥ भट्टः सिंहगिरि म शिष्यैः परिवृतस्तदा । उद्भासयन् दिशः सर्वाः श्रिया परमया ज्वलन् ॥ ११ ॥ सभास्थं राजवल्लालं द्रष्टुकामो मनोजवः । वदरिकाश्रमोद्देशं भ्रमन् तामगमत् सभां ॥ १२ ॥ जयाशीभि वर्ड यन्तं विलोक्य नृपति मुनिम् । प्रत्युत्पत्यासनात् तूर्ण बबन्दे चरणौ मुनेः ॥ १३ ॥ दत्त्वासनं ततस्तस्मै भक्त्या प्रोत्या च पार्थिवः । धनैः रत्नै यथाकामैः पूजयामास यत्नतः ॥ १४ ॥ वल्लालेनाञ्चितो राज्ञा मुनिः प्रीतमनास्तदा । अनामयञ्चाव्ययञ्च पर्यपृच्छज्जनेखरम् ॥ १५ ॥ वलदेवं समागम्य सस्मितो मुनिसत्तमः । प्रतिपूज्य यथान्यायं पप्रच्छ कुशलं तदा ॥ १६ ॥ स हृष्टमानसो राजा भट्टसिंहगिरि मुनिम् । उवाच परमप्रीतस्तापसं द्योतितप्रभम् ॥ १७ ॥ (३) ख, कुशलादिकम् । (१) ख, गुरुः। (२) ख, सुनिः ।

४२ वल्लालचरितम् । अद्य मे सफलं जन्म मदुग्रहच पविनितम् । भवदभ्यागमेनैव सुप्रभाता विभावरी ॥ १८॥ ततो विश्रान्तमालक्ष्य तं मुनि संशितव्रतम् । सुखासीनमुपासीन उवाच भुवनेश्वरः ॥ १८ ॥ राजोवाच । भगवन् सर्वशास्त्रज्ञः सर्वज्ञः सर्वतत्त्ववित् । भवतोऽविदितं किञ्चिन्नास्तीति कृपया वद ॥ २० ॥ चतुर्वर्णसमुत्पत्तिं गोत्रवंशादिकं शुभम् । वर्णानां शङ्करोत्पत्तिं कथयस्व च मे मुने ॥ २१ ॥ इति राज्ञो वचः श्रुत्वा सन्तोषविशदाननः । प्रत्युवाच महातेजा स्ततो नारायणात्मजः ॥ २२ ॥ सिंहगिरिरुवाच । शुश्रूषुभ्यो यथा राजन् राजर्षिभ्यस्तपोनिधिः । कृष्णद्वैपायण: प्राह तथाद्य कथयामि ते ॥ २३ ॥ वदरिकाश्रमे पुण्ये देवदारुवनालये । नानापक्षिमृगाकोणे शान्तिकान्तिनिकेतने ॥ २४ ॥ हुतहव्यं त्रिकालज्ञं महर्षि चिरजीविनम् । व्यासं राजर्षयः सुस्थं प्रणिपत्योपतस्थिरे ॥ २५ ॥ राजर्षय ऊचुः । गताः स्म नैमिषारण्यं पुरीं वाराणसीमपि । भवान् न च शुको दृष्टः सौति र्वा शौनकादयः । २६ ॥

वल्लालचरितम् । । दिध्या दृष्टोऽसि भगवं श्चिरेणाद्य गिराविह। सुधिरं मार्गमाणानां कृष्णो भक्तिमतामिव ॥ २७ ॥ विभाजितस्त्वया वेदः पुरा सत्यवतीसुत । इतिहासपुराणानि कथितान्यनुकम्पया ॥ २८ ॥ कथितं धम्मशास्त्रञ्च कलिः सम्प्रति वर्तते । कृष्णोऽपि पंलितेः केशः शुक्लतां गतवानसि ॥ २८ ॥ अतोद्य कथय ब्रह्मन् स्वयमेव महामुने । पुराणं धमतत्वज्ञ ह्यनुग्राह्या वयं तव ॥ ३० ॥ भवन्तं नहि त्यक्ष्यामः पुराणकथनं विना । बद्धोऽस्ति पदयो भक्तिदामभि स्त्ववशो भवान् ॥ ३१ ॥ इति तेषां वचः श्रुत्वा स किञ्चित् प्रहसन्निव । उवाच वाग्विदां श्रेष्ठः श्रूयतां कथयामि वः ॥ ३२ ॥ इति' वल्लालचरित व्यासपुराण अष्टमोऽध्यायः । (१) ख, श्रीमदानन्दभमोक्ने इत्यधिकः पाठः । (२) ख उत्तरखण्डे इत्यधिकः पाठः।

अथ नवमोऽध्यायः१। व्यास उवाच। सहस्रशौर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमि विश्वतो वृत्त्वा अत्यतिष्ठद्दशाडुलम् ॥ १ ॥ तस्मादिराड़जायत विराजोऽधिपूरुषः । ततोऽभिध्यायतो रुद्रो ललाटाच्च व्यजायत ॥ २ ॥ चन्द्रमा मनसो जातश्चक्षोः सूर्योऽजायत । मुखादिन्द्रश्च अग्निश्च प्राणादायुरजायत ॥ ३ ॥ मरीचिमनाङ्गिरसं पुलस्त्यं पुलहं क्रतुम् । वशिष्ठञ्च महातेजाः सोऽसृजत्सप्त मानसान् ॥ ४ ॥ लोकानान्तु विद्यार्थं मुखवाहरुपादतः । ब्राह्मणं क्षत्रियं वैश्यं शूद्रञ्च निरवर्तयत् ॥ ५ ॥ सृज्यमानाः प्रजा नैव विवई न्ते यदा यदा। विधा कृत्वात्मनो देहमईन पुरुषोऽभवत् । अर्द्धन नारौ तस्यां स ससृजे विविधाः प्रजाः ॥ ६ ॥ दिवञ्च पृथिवीञ्चैव महिना व्याप्य तिष्ठतः । पितृणान्तु गणाः सप्त पुराणे कथिता मया ॥ ७ ॥ वैराजा अग्निष्वात्ताश्च तथा वर्हिषदः स्मृताः । सुकालाश्च हविभन्तः सुखधाश्चैव सोमपाः ॥ ८॥ (१) क पुस्तके नास्ति।

वल्लालचरितम् । १५ एषामाद्यास्त्रयो भूपाः पितरोऽमूर्तयः स्मृताः । सुकालाद्याश्च चत्वारः सप्तैवैते गणाः स्मृताः ॥ ८ ॥ विराट्सुताः सोमसदः अग्निष्वात्ता मरीचिजाः । पौलस्त्याश्च वहिषदः सुंकालाश्च वशिष्ठजाः । सुखधाः पुलहाज्जाताः सोमपास्तु कवेः सुताः ॥ १० ॥ सुकालाञ्च हविष्यन्तान् सुखधाञ्चैव सोमपान् । ब्रह्मक्षत्रियविटशूद्रा भावयन्ति फलार्थिनः ॥ ११ ॥ यत्र ते तु गणा मुख्याः पितॄणां परिकीर्तिताः । तेषामपि ह विज्ञेयं पुत्रपौत्रमनन्तकम् ॥ १२ ॥ विश्वो विश्वभुगाराध्यो धर्मो धन्यः शुभाननः । भूतिदो भूतिकद्भूतिः पितृणाञ्च गणा नव ॥ १३ ॥ कल्याण कल्यताकर्ता कल्यः कल्यतराश्रयः । कल्यताहेतुरनघः षडिमे च गणाः स्मृताः ॥ १४ ॥ वरो वरेण्यो वरदः पुष्टिदस्तुष्टिदस्तथा । विश्वपाता तथा धाता सप्तवैते तथा गणाः ॥ १५ ॥ महान् महात्मा महितो महिमावान् महाबलः । गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ॥ १६ ॥ सुखदो धनदश्चान्यो धम्मंदो न्यश्च भूतिदः । पितॄणां कथ्यते चैतत् तथा गणचतुष्टयम् ॥ १७ ॥ इति वल्लालचरिते' व्यासपुराणे सृष्टिविसृष्टिकथनं नाम नवमोऽध्यायः । (१) ख, उत्तरखण्डे भट्ठमोके।

अथ दशमोऽध्यायः । व्यास उवाच। उवाच विराजमसृजत्कालः सोऽसृजत् पुरुषं विराट् । पुरुषं तं मनुं विद्धि विराज जरुसम्भवम् ॥ १ ॥ स सृष्ट्वा तु प्रजास्त्वेव आपवः स प्रजापतिः । लब्धवान् पुरुषः पत्नीम् शतरूपामयोनिजाम् ॥ २ ॥ वैराजात् पुरुषात् वीरं शतरूपा व्यजायत । प्रियव्रतोत्तानपादौ वीरात् काम्या व्यजायत ॥ ३ ॥ काम्या नाम महाभागा कमस्य प्रजापतेः । कन्या पुत्राश्च चत्वारः सम्राट् कुक्षि विराट प्रभुः ॥ ४ ॥ प्रियव्रतं समासाद्य पतिं सा जनयत् सुतान् । उत्तानपादं जग्राह पुत्वमत्रिः प्रजापतिः ॥ ५ ॥ उत्तानपादाच्चतुरः सुनृता सुषुवे सुतान् । धम्मस्य कन्या सुश्रीणी सुनृता नाम विश्रुता ॥ ६ ॥ उत्पन्ना वाजिमेधेन ध्रुवस्य ध्रुवञ्च कौर्तिमन्तञ्च आयुष्मन्तं वसुन्तथा । उत्तानपादोऽजनयत् सुत्तायां प्रजापतिः ॥ ७ ॥ जननी शुभा । (१) कपुस्तके नास्ति।

बल्लालचरितम् । ४७ सप्तर्षीणां पुरःस्थानं ध्रुवश्च तपसाप्तवान् । तस्मात् श्लिष्टिञ्च भव्यञ्च ध्रुवाच्छम्भुय॑जायत ॥ ८ ॥ लिटेराधत्त सुच्छाया पञ्चपुत्रानकल्मषान् । रिपुं रिपुञ्जयं रिप्रं वृकलं' वृकतेजसम् ॥ ८ ॥ रिपोराधत्त बहती चाक्षुषं सतेजसम् । अजीजनत् पुष्करिण्यां वोरण्यां चाक्षुषो मनुम् ॥ १० ॥ प्रजापतरात्मजायामरण्यस्य महात्मनः । मनोरजायन्त दश नडुलायां महौजसः ॥ ११ ॥ कन्यायां मानवश्रेष्ठा वैराजस्य प्रजापतः । अरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाक् कविः ॥ १२ ॥ अग्निष्टुरतिरात्रश्च सुद्युम्नश्चेत्यमो नव । अभिमन्युश दशमो नडुलायां महौजसः ॥ १३ ॥ ऊरोरजनयत् पुत्रान् षड़ाग्नेयी महाप्रभान् । अङ्गं सुमनसं स्वाति क्रतुमङ्गिरसं गयम् ॥ १४ ॥ अङ्गात् सुनीथकन्यायां वेण एको व्यजायत । वेणस्य मथित पाणौ सम्बभूव पृथुपः ॥ १५ ॥ पृथु वॆण्यस्तदा चेमां ररक्ष क्षत्रपूर्वजः । राजसूयाभिषिक्तानामाद्यः स पृथिवीपतिः ॥ १६ ॥ तस्माच्चैव समुत्पन्नौ निपुणौ सुतमागधी। पृथोः पुत्रौ तु धर्मज्ञो जज्ञातेऽन्तर्डिपालिनौ ॥ १७ ॥ (१) ख, कषम्। (२) ख, ख्यातिम् ।

४८
वल्लाखचरितम् ।
शिखण्डिनी हविर्धानमन्तर्वानाजायत ।
हविर्द्धानात् षड़ाग्नेयो धोषणा जनयत् सुतान् ॥ १८ ॥
प्राचीनवर्हिषं शुक्र गयं कृष्णं व्रजाजिनौ ।
प्राचीन भगवान् महानासीत् प्रजापतिः ॥ १८ ॥
समुद्रतनयायान्तु कतदारोऽभवत् प्रभुः ।
सुवर्णाधत्त सामुद्री दश प्राचीनवर्हिषः ॥ २० ॥
सबै प्रचेतसो नाम धनुर्वेदस्य पारगाः ।
प्रजापतित्वं सम्प्राप्य तुष्टाः प्राचीनवर्हिषः ॥ २१ ॥
भूः
खं व्याप्तं हि तरुभिस्तांस्तरूनदहश्च ते ।
द्रुमक्षयमथो बुवा किञ्चिच्छिष्टेषु शाखिषु ।
उपगम्याब्रवीदेतान् राजा सोमः प्रजापतोन् ॥ २२ ॥
कोपं यच्छत दास्यन्ति कन्यां वो मारिषां वराम् ।
तपखिनो मुनेः कण्डोः प्रम्लोचायां ममैव च ॥ २३ ॥
भविष्यं जानता सृष्टा भार्या वोऽस्तु कुलङ्करी ।
अस्यामुत्पत्स्यते दक्ष: प्रजाः संवई यिष्यति ॥ २४ ॥
प्रचेतसस्तां जराहु दक्षोऽस्याञ्च ततोऽभवत् ।
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ॥ २५ ॥
दक्षी जज्ञे महातेजाः सोमस्यांशेन भूमिपाः ।
पुत्रानुत्यादयामास शतशोऽथ सहस्रशः ।
हर्यश्य नाम दक्षस्य सहस्राणि च पञ्च च
पुत्राणां वेदितुं पृथयाः प्रमाणं हि गतादिश: ॥ २६ ॥

पल्लालचरितम् । ४४ ततोऽन्यपुत्र साहस्रं तेषामन्वेषणे गतम् । अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥ २७ ॥ इति वल्लालचरित व्यासपुराणे स्वायम्भुव वंशकथनं नाम दशमोऽध्यायः। (१) ख, उत्तरखण्डे भट्टपोते। (२) ख, पुस्तकहयेऽपि अत्र नवम इत्युक्तम् । तल्लिपिकर प्रमाद इत्या भाति । ७ एकादशोऽध्यायः । सिंहगिरिरुवाच । ब्रह्मणो मानसादत्रिः सोमस्तत्पुत्रतां गतः । तस्य वंशं प्रवक्ष्यामि यत्र जातोऽसि पार्थिव ॥ १ ॥ व्यास उवाच । कृत्वा सोमो राजसूयं बैलोक्यं दक्षिणां ददौ । सदस्येभ्यश्च मुख्येभ्यो ब्रह्मर्षिभ्यः परन्तपाः ॥ २ ॥ समाप्तेवभूध सोमं तद्रूपालोकनेसवः । कामवाणाभितप्तायो नवदेव्यः सिषेविरे ॥ ३ ॥ शिनोवाली कईमञ्च हविष्मन्तं क्रतुः स्वयम् । द्युतिर्विभावसुं त्यक्त्वा पुष्टिर्धातारमव्ययम् ॥ ४ ॥ प्रभा प्रभाकरं त्यक्त्वा वसुर्मारोचकाश्यपम् । कोर्तिजयन्तं भर्तारं नन्दौं त्यक्त्वा पतिं धृतिः । लक्ष्मो रावणं त्यक्ता सोममेवाभजत् तदा ॥ ५ ॥ सोमोऽपि कामयामास खकीया इव तास्तदा । वृहस्पतेः स वै भायां तारां नाम यशस्विनीम् ॥ ६ ॥ जहार तरसा सोमो ह्यवमत्याङ्गिरः सुतम् । स याच्यमानो देवैश्च सोमो देवर्षिभिः सह ॥ ७ 11) लिपिकरप्रमावशात् अयं मस्मि पिपुस्तके दशम रति पश्यते ।

वहालचरितम् । आङ्गिरसे तदा तस्मै तारां नैव व्यवसञ्जयत् । स संरचस्ततस्तस्मिन् देवाचार्यो वृहस्पतिः ॥ ८ ॥ उशनास्तस्य जग्राह पार्णिमाङ्गिरसस्तदा । स हि शिष्यो महातेजाः पितुः पूर्वो बृहस्पतेः ॥ ८ ॥ तेन स्नेहन भगवान् रुद्रस्तस्य हस्पतेः । पाणिग्राहोऽभवद्देवः प्रग्टह्यायगवं धनुः ॥ १० ॥ तन ब्रह्मशिरो नाम परमास्त्रं महात्मना । उद्दिश्य दैत्यानुत्सृष्टं येनैषां नाशितं यशः ॥ ११ ॥ तत्र युद्धमभूवोरं प्रख्यातं तारकामयम् । देवानां दानवानाञ्च लोकक्षयकरं महत् ॥ १२ ॥ तत्र शिष्टास्तु ये देवा: तुषिताश्चैव पार्थिवाः । ब्रह्माणं शरणं जग्मुरादिदेवं सनातनम् ॥ १३ ॥ ब्रह्मा निवार्योशनसं तारामाङ्गिरसे ददौ । तामन्तःप्रसवां दृष्ट्वा गर्भ त्यजाब्रवीद्गुरुः ॥ १४ ॥ गर्भस्त्यतः प्रदीप्तोऽथ प्राहाहं सोमसम्भवः । एवं सोमादुधः पुत्रः पुत्रस्तस्य पुरूरवाः ॥ १५ ॥ उर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः । गन्धयां सुमहात्मानः आयुर्धीमानमावसुः ॥ १५ ॥ विश्वायुश्चैव धम्मात्मा श्रुतायुश्च तथापरः । दृढ़ायुश्च वनायुश्च शतायुश्चोर्वशीसुताः ॥ १६ ॥ वर्भानुतनयायां तु प्रभायां जज्ञिरे पुरा ।

५२
वल्लालचरितम् ।
सिंहगिरिरुवाच ।
तेषां वंशेषु वल्लाल महात्मानो महौजसः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा जाताः सहस्रशः ॥ १७ ॥
व्यास उवाच।
आयुषः नहुषः पुत्रो वृद्धशमा ततः परम् ।
रम्भी रजिरनेनाश्च रजेः पुत्रशतं ह्यभूत् ॥ १८ ॥
राजेयमिति विख्यातं विष्णुदत्तवरो रजिः ।
युद्धे देवासुर दैत्यानबधीत् सुरयाचितः ॥ १८ ॥
उत्पन्ना पिटकन्यायां विरजायां महौजसः ।
नहुषस्य सुताः सप्त षडिन्द्रोपमतजस: ॥ २० ॥
यतिययातिः संयाति रायाति: पाञ्चिको भवः ।
सुयातिः षष्टस्तेषां वै ययातिः पार्थिवोऽभवत् ॥ २१ ॥
यतिस्तु मोक्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः ।
तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम् ।
देवयानीमुशनसः सुतां भार्थ्यांमवाप सः ॥ २२ ॥
शम्मिष्ठामासुरौं चैव तनयां वृषपर्वणः ।
यदुञ्च तुर्बसुञ्चैव देवयानी व्यजायत ।
दुर्वा चानु पुरुञ्चैव शर्मिष्ठा वार्षपर्वणी ॥ २३ ॥
यदुः पुरुश्चाभवतां तेषां वंशविवई नौ।
शृणुताथ यदोस्तस्य वंशमद्भुतपौरूषम् ॥ २४ ॥
बभूवुम्तु यदोः पुत्राः पञ्च देवसुतोपमाः ।
सहस्रदः पयोदश्च कोष्टा नौलोऽञ्जिकस्तथा ॥ २५ ॥

वल्लालचरितम् ।
।
सहसदस्य दायादास्त्रयः परमधाम्मिकाः ।
हैहयश्च हयश्चैव राजा वेणुहयस्तथा ॥ २६ ॥
हैहयस्याभवत्पुत्रो धम्मनेत्र इति श्रुतः ।
धम्मनेत्रस्य कार्तस्तु साहजस्तस्य चात्मजः ।
साहजनी नाम पुरी तेन राज्ञा निवेशिता ॥ २७ ॥
साहञ्जस्य तु दायादो महिमानाम पार्थिवः ।
माहीमती नाम पुरी तेन राज्ञा निवेशिता ॥ २८ ॥
आसीन्महिमतः पुत्री भद्रश्रेण्यः प्रतापवान् ।
वाराणस्य धिपो राजा पुराणे परिकीर्तितः ॥ २८ ॥
भद्रशेण्यस्य दायादो दुईमो नाम विश्रुतः ।
दुईमस्य सुतो राजा कणको नाम विश्रुतः ॥ ३० ॥
कणकात् कृतवीय्यस्तु कताग्निः करवीरकः ।
कृतौजाश्च चतुर्थोऽभूत् कतवौयादथार्जुन: ॥ ३१ ॥
यः स बाहुसहस्रेण सप्तहोपेश्वरी भवत् ।
जिगाय पृथिवीमेको रथेनादित्यवर्चसा ॥ ३२ ॥
लङ्केशं मोहयित्वा तु सबलं रावणं बलात् ।
असौ बड्वा धनुज्याभि रुत्सितं पञ्चभिः शरैः ॥ ३३ ॥
निजित्यैव समानीय माहिष्मत्यां बबन्ध तम् ।
तस्य बाहुसहस्रन्तु युध्यतो भुवनेश्वराः ।
'योगाद्योगेश्वरस्यैव प्रादुर्भवति मायया ॥ ३४ ॥
अहो वत मृधे वीयं भार्गवोऽस्य यदाच्छिनत् ।
रानो बाहुसहस्रन्तु हैमतालवनं यथा ॥ ३५ ॥

वल्लालचरितम् ।
जामदग्नात्तदा रामात् बाहुजान् क्षत्रियान् नतः ।
कार्तवीर्यस्य महिषी पलायत सुदारुणात् ॥ ३६ ॥
अन्तर्वत्री तु सा देवी सुषुवे कौशिकाश्रमे ।
पुत्रं सुभौमनामानम् बालार्कमिव सुन्दरम् ॥ ३७ ॥
स मात्रा वर्द्धितः काले पुत्रः सरसिजाननः ।
कौशिकात् प्रतिजग्राह धनुर्वेदं महाभुजः ॥ ३८ ॥
ब्राह्मणं पिटहन्तारं श्रुत्वा माटमुखावा ।
जगाम ब्राह्मणान् हन्तुं दिक्षु क्रोधारुणेक्षणः ॥ ३८ ॥
एकविंशतिवारान् स महीमब्राह्मणामिमाम् ।
चकारातो न विद्यन्ते ब्राह्मणा मुखजाः कलौ ॥ ४० ॥
शवरान् कढुकैवर्तान् विलोक्य भार्गवस्ततः ।
अब्राह्मण्ये तदा देशे तेषां सूत्रमकल्पयत् ॥ ४१ ॥
तुष्यन्ति भूषणैर्नार्यो गावः स्वच्छन्दचारतः ।
कुञ्जराः पांशुवर्षेण किं त्वेते परनिन्दया ॥ ४२ ॥
जामदग्ना ततो युद्धे जघाना ननन्दनः ।
एवं स ब्राह्मणान् जित्वा सुभौमोऽभूज्जयध्वजः ॥ ४३ ॥
ततो विप्राः सुतार्थिन्यः क्षत्रियानुपस्थिरे ।
जातयो जज्ञिरे तासु कदम्बपल्लवादयः ॥ ४४ ॥
ब्रह्महत्या. पापविद्धो निर्वृतिं सोऽलभन्नृपः ।
अयष्ट वाजिमेधेन यज्ञं पापविनाशनम् ॥ ४५ ॥
तस्य ययोः प्रतिकतिरद्याप्यस्ति शिलामयो
माहिमतीपुरे रम्ये नर्मदातटिनीतटे ॥ ४६ ॥

वल्लालचरितम्। वै पराः । . तालजङ्घात् कार्तवीर्यस्य तु शतं पुत्राणाम् पञ्च शूरसेनश्च शूरश्च पृष्टोक्तः कृष्ण एव च । जयध्वज इति ख्यातः सुभौमश्च महावलः ॥ ४७ ॥ जयध्वजात् तातजव: शतं सुताः। तालजङ्घा इति ख्याताः शूरा उत्तमपौरुषाः ॥ ४८ ॥ तेषां कुलेऽतिविमले हैहयानां महात्मनाम् । वोतिहोत्राः स्वयं जाता: भोजाशावन्तयः स्मृताः ॥ ५८ ॥ तोण्डिकेयाश्च विख्यातास्तालजवास्तथैव च । भरताच सुजाताथ पुराणे कथिता मया ॥ ५० ॥ वृषप्रभृतयो वोराः यादवाः पुण्य कम्भिणः । वृषो वंशधरस्त त्र तस्य पुत्रोऽभवन्मधु: ॥ ५१ ॥ मधोः पुत्रशतं त्वासीत् वृषणस्तस्य वंशकृत् । वृषणात् वृष्णयः सर्वे मधोस्तु माधवाः स्मृताः ॥ ५२ ॥ यादवाश्च यदोर्जाता वहुत्वान्नानुकीर्त्यते । तुळसोर्यवना जाता भोजा द्रुह्योः सुताः स्मृताः । अनोर्लेच्छजातयस्तु पुरोस्तु पोरवाः स्मृताः ॥ ५७ ॥ इति वल्लालचरित व्यासपुराणे सोमवंशवर्णनं नाम एकादशोऽध्यायः । । (१) ख, उत्तरखण्डे भट्टप्रोत इत्यधिकः | अथ द्वादशोऽध्यायः। सिंहगिरिरुवाच । शृणु राजन् व्यासप्रोक्तं वंशमुत्तमपौरुषम् । विस्तरेणानुपूर्वा च यत्र जातोऽसि पार्थिव ॥ १ ॥ व्यास उवाच । पुरोः पुत्रो महावीर्यो राजासोज्जनमेजयः । प्रचिन्वांस्तु सुतस्तस्य यः प्राचीमजयद्दिशम् ॥ २ ॥ प्रचिन्वत: प्रवीरोऽभुत् मनस्युस्तस्य चात्मजः ॥ राजा चाभयदो नाम मनस्योरभवत् सुतः ॥ ३ ॥ तथैवाभयदस्यासीत् सुधन्वा नाम पार्थिवः । सुधन्वनो वहुगवः सम्पातिस्तस्य चात्मजः ॥ ४ ॥ सम्पातेस्तु रहम्पाती रौद्राखस्तस्य वै सुतः । रौद्रावस्य ताच्यां वै दशासरसि सूनवः ॥ ५ ॥ ऋचेयुः प्रथमस्तेषां ककनेयु हितोयकः । कक्षेयुः स्थण्डिलेयुश्च सन्नतेयुर्महामतिः ॥ ६ ॥ दशार्णेयुर्जलेयुश्च स्थलेयुश्च महाबलः । बलनित्यो बलेयुश्च रोद्राखसूनवो दश ॥ ७ ॥ (१) क पुस्तके, नास्ति ।

वल्लालचरितम् । कक्षेयोस्तनयास्त्वासन् त्रय एव महावलाः । सभानरश्चाक्षुषश्च परमन्युस्तथैव च ॥ ८ ॥ सभानरस्य पुत्वस्तु विहान् कालानलो नृपः । कालानलस्य धमनः संञ्जयो नाम वै सुतः ॥ ८ ॥ सृञ्जयस्याभवत् पुत्री वीरो राजा पुरञ्जयः । पुरचयात्मजः श्रीमान् राजाभूज्जनमेजयः ॥ १० ॥ महाशालस्तु राजर्षिर्जनमेजयदेहजः । देवेषु स परिजातः प्रतिष्ठितयशा भुवि ॥ ११ ॥ महामना नाम सुतो महाशालस्य धाम्मिकः । जज्ञे वीरः शूरगणैः पूजितः स महामनाः ॥ १२ ॥ महामनास्तु पुत्री हौ जनयामास सत्तमः । उशीनरञ्च धम्मज्ञं तितिक्षुञ्च महाबलम् ॥ १३ ॥ उशीनरस्य पत्नास्तु पञ्चराजर्षिवंशजाः । नृगा कमिनवा दर्जा पञ्चमी च दृषहती ॥ १४ ॥ उशीनरस्य पुत्रास्तु पञ्च तासु कुलोहहाः । तपसा चैव महता जाता वृद्धस्य चात्मजाः ॥ १५ ॥ नृगायान्तु तृगः पुत्रः कम्यां कृमिरजायत । नवायास्तु नवः पुत्रो दायाः सुव्रतोऽभवत् ॥ १६ ॥ दृषहत्यास्तु संजन्ने शिविरौशीनरो नृपः । शिवस्तु शिवयः ख्याताः यौधेयास्तु नृगस्य ह ॥ १७ ॥ () व पुस्तके, पुराय इत्यत्र परञ्जय इति पाठः ।

वसालचरितम्।
नवस्य नवराष्ट्रन्तु कमेस्तु कमिला पुरी।
सुव्रतस्य तथाम्बष्ठाः शिविपुत्रान् निबोधत ॥ १८ ॥
शिवस्तु शिवयः पुत्राश्चत्वारो लोकविश्रुताः ।
वृषदर्भः सुवीरश्च कैकेयो मद्रकस्तथा ॥ १८ ॥
तेषां जनपदाः स्फीता: कैकेया मद्रकास्तथा ।
हषदर्भाः सुवीराश्च तितिक्षोः शृणुत प्रजाः ॥ २० ॥
तैतिक्षवो भवद्राजा पूर्वस्यां दिशि पार्थिवाः ।
उषद्रथो महासत्वः फेणस्तस्य सुतोऽभवत् ॥ २१ ॥
फेणात्तु सुतपा जज्ञे सुतः सुतपसो वलिः ।
जातो मानुषयौनौ स नृपतिः काञ्चनेषुधिः ॥ २२ ॥
महायोगी स तु बलिबभूव नृपतिः पुरा ।
पुत्रानुत्पादयामास पञ्च वंशकरान् भुवि ॥ २३ ॥
अङ्गः प्रथमतो जन्ने वङ्गः सुह्मस्तथैव च ।
पुण्डः कलिङ्गश्च तथा बालेयं क्षत्रमुच्यते ॥ २४ ॥
बालेया ब्राह्मणाश्चैव तस्य वंशकरा भुवि ।
बलेस्तु ब्रह्मणा दत्तो वरः प्रीतेन धीमता ॥ २५ ॥
महायोगित्वमायुश्च कल्पस्य परिमाणतः ।
संग्राम चाप्यजेयत्वं धर्मे चैव प्रधानता ।
त्रैलोक्यदर्शनञ्चापि प्राधान्यं प्रसवे तथा ॥ २६ ॥
बले चाप्रतिमत्वं वै धम्मतत्त्वाभिदर्शनम् ।
चतुरो नियतान् वर्णान् त्वञ्च स्थापयितेति ह ॥ २७ ॥

वबालचरितम् ।
॥
इत्युक्ते विभुना राजा बलिः शान्तिं परां ययौ।
बलिस्तानभिषिच्येह पञ्चपुत्रानकल्मषान् ॥ २८ ॥
कृतार्थो योगयुतात्मा योगमाश्रित्य स प्रभुः ।
अष्थः सर्वभूतानाम् कालापेक्षी चरबृषिः ॥ २८ ॥
कालेन महता धीर: स्वञ्च स्थानमुपागमत् ।
तेषां जनपदलः पञ्च अङ्गा वङ्गा समुह्मका ॥ ३० ॥
कलिङ्गाः पुण्डकाश्चैव त्वङ्गस्य शृणुत प्रजाः ।
अङ्गापुत्रो महानासीत् राजेन्द्रो दधिवाहनः ॥ ३१ ॥
दधिवाहनपुत्रस्तु राजा दिविरथोऽभवत् ।
विहान् धर्मरथी नाम तस्य चित्ररथः सुतः ॥ ३२ ॥
तेन धम्मरथेनाथ तदा विष्णुपदे गिरी।
यजता सह शक्रेण सोमः पोतो महात्मना ॥ ३३ ॥
अथ चित्ररथस्यापि पुत्री दशरथोऽभवत् ।
लोमपाद इति ख्यातो यस्य शान्ता सुताभवत् ॥ ३४ ॥
तस्य दाशरथिर्वीर: चतुरङ्गो महायशाः ।
ऋष्यशृङ्गप्रसादेन जज्ञे कुलविवईन: ॥ ३५ ॥
चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति श्रुतः ।
पृथुलाक्षसुतो राजा चम्मो नाम महायशाः ॥ ३६ ॥
चम्पस्य तु पुरी चम्या या मालिन्यभवत्युरा।
पूर्णभद्रप्रसादेन हर्यक्षोस्य सुतोऽभवत् ॥ ३७ ॥
ततो वैभाण्डकिस्तस्य वारणं शत्रुवारणम् ।
भुन्यवतारयामास मन्त्रैर्वाहनमुत्तमम् ॥ ३८ ॥

बजासचरितम् । हर्यक्षस्य तु दायादो राजा भद्ररथः स्मृतः । पुत्रो भद्ररथस्यासीत् वृहत्कर्मा प्रजेखरः ॥ ३८ ॥ वृहदर्भः सुतस्तस्य यस्मात् यज्ञे वृहन्मनाः । बृहन्मनास्तु राजेन्द्रो जनयामास वै सुतम् ॥ ४० ॥ नाम्ना जयद्रथं वीरं यस्माहृढ़रथो नृपः । आसीत् दृढ़रथस्यापि विश्वजित् कुलनन्दनः ॥ ४१ ॥ दायादस्तस्य कर्णस्तु विकर्णस्तस्य चात्मजः । तस्य पुत्रशतन्त्वासौदङ्गानां कुलवर्द्धनम् ॥ ४२ ॥ वृहदर्भसुतो यस्तु राजा नाम्ना बृहन्मनाः । तस्य पत्नीहयं चासीत् वैनतेयसुते शुभे ॥ ४३ ॥ यशोदेवी च सत्या च ताभ्यां वंशस्तु विद्यते । जयद्रथस्तु राजेन्द्रो यशोदेव्यां व्यजायत ॥ ४४ ॥ सत्यायां विजयो नाम ब्रह्मक्षत्रोत्तरः स्मृतः । विजयस्य धृतिः पुत्रस्तस्य पुत्रो धृतव्रतः ॥ ४५ ॥ धृतव्रतस्य पुत्रस्तु सत्यकर्मा महायशाः । तस्य पुत्रस्त्वधिरथः सुत इत्यपराभिधः ॥ ४६ ॥ यः कर्ण प्रतिजग्राह तेन कर्णस्तु सूतजः । कर्णस्य वृषसेनस्तु पृथुसेनस्तदात्मजः ॥ ४७ ॥ पृथुसेनान्वये वोरो वीरसेनो भविथति । गौड़ब्राह्मणकन्यां यः सोमटामुद्दहिष्यति ॥ ४८ ॥ (१) क, सोमदा ब्राह्मणों कन्यां यो राजोदावहिष्यति । , वन्नालचरितम्। तदन्ववायजमानो राजानोऽमितपौरुषाः । सप्तदीपपतीन् वीराः करिष्यन्ति वशानुगान् ॥ ४८ ॥ तइंशे सामन्तसेनो भूत्वा पालयिता वली आविध्यादासेतुबन्धाद्धरित्री सागराम्बराम् ॥ ५० ॥ सिंहगिरिरुवाच । तस्माद्देमन्तसेनोऽभूद्राजन् तव पितामहः । धाम धानां महिनाञ्च दिषदलहुताशनः ॥ ५१ ॥ तस्माद्दिजयसेनोऽभूमोड़गङ्गसखो नृपः । योऽजयत् पृथिवीं कत्नां चतुःसागरमेखलाम् ॥ ५२ ॥ तस्य पुत्रोऽसि बल्लाल सार्वभौममहीक्षितः । प्रत्यर्थि-पृथिवीपाला यस्य ते शरणं गताः ॥ ५३ ॥ ब्रह्मक्षत्रस्य यो योनिब्वंशः क्षत्रियपूर्वजः । सेनवंशस्ततोजातः यस्मिञ्जातोऽपि पाण्डव ॥ ५४ ॥ हेष्टि यः पाण्डवं मूढ़ो दुर्बुद्धिश्च विनिन्दति । स विष्ठायां कमिभूत्वा पच्येत नरके चिरम् ॥ ५५ ॥ स वल्लभानन्दचन्द्रश्चन्द्रमायुतवल्लभः । तस्येदानी महाराज कायं भवति शासनम् ॥ ५६ ॥ तस्यास्ति कन्यकारत्नं रूपेणानुपमं भुवि । सुप्रभामिव नाभागस्ता कन्यां हर पौरव ॥ ५७ ॥ (१) ख, पाण्डव। .

६२ बबालचरितम् । उच्चन्द्र सा याति वाला गौरौं नातुं यदा यदा । तदा तदा त्वरयति द्रष्टुं तामरुणोऽरुणम् ॥ ५८ ॥ दण्डहयावशेषायां रजन्यामरुणोदयम् । विलोक्य परियारेषु विश्वसन्ति न नैगमाः ॥ ५८ ॥ इति वल्लालचरित व्यासपुराणे पुरवंशकीर्तनं नाम हादशोऽध्यायः । (१) ख पुस्तके, उत्तरखण्डे भमोले त्यधिकः पाठः ।

अथ त्रयोदशोऽध्यायः । . व्यास उवाच । वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक्संकल्पजः कामो धम्ममूलमिदं स्मृतम् ॥ अध्यापनञ्चाध्ययनं यजनं याजनं तथा। दानं प्रतिग्रहं कम्म ब्राह्मणानामुदाहृतम् ॥ २ ॥ श्रुतिस्मृती च विप्राणां चक्षुषो देवनिम्मिते । काणस्तत्रैकया हीनः हाभ्यामन्धः प्रकीर्तितः ॥ ३ ॥ वैवाहिकेग्नौ कुर्वीत राह्यकम्म यथाविधि । पञ्चयज्ञविधानञ्च पंक्तिञ्चान्वहिकी रही ॥ ४ ॥ अध्यापनं ब्रह्मयज्ञः पिटयनस्तु तर्पणम् । होमो देवो बलिभोतो नृयज्ञोऽतिथिपूजनम् ॥ ५ ॥ देवतातिथिभृत्यानां पितॄणामात्मनश्च यः । न निर्बपति पञ्चानामुच्छ्रसन्न स जीवति ॥ ६ ॥ एकरात्रं वसन् विप्रः क्षत्रियश्चातिथि: स्मृतः अनित्या हि स्थिति यस्मात्तस्मादतिथिरुच्यते ॥ ७ ॥ वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिम्मिणौ । भोजयेत् सहभृत्यै स्तावानृशंस्यं प्रदर्शयन् ॥ ८ ॥ (१) कपुस्तके मास्ति ।

e
वल्लालचरितम् ।
खदारनिरतो नित्यं परदारविवर्जितः ।
कृतहोमस्त भुञ्जीत सायंप्रातरुदारधीः ॥ ८ ॥
सर्चतः प्रतिटीयादवृत्त्या कर्षितो दिजः ।
न भवेद्दोषभाक् तेन ज्वलनासमो हि सः ॥ १० ॥
भूतानां रक्षणं दानमिज्याध्ययनमेव च ।
शिवार्चनं क्षत्रियाणां तथा नारायणाचनम् ॥ ११ ॥
नित्योद्युक्तो दस्युबधे रण कुर्यात् पराक्रमम् ।
नास्य कृत्यतमं किञ्चित् राज्ञो दस्युविनिग्रहात् ॥ १२ ॥
चाटभाटतस्करेभ्यो महासाहसिकादिभिः ।
पोद्यमानाः प्रजा रक्षेत् कायस्थैश्च विशेषतः ॥ १३ ॥
सम्मानदानसत्कारैः वैदिकान् वासयेत् सदा ।
राजन्यो धम्मक्लत्यञ्च कुयादेव प्रयत्नतः ॥ १४ ॥
पण्डितं नीतिशास्त्र नं नित्यञ्च प्रतिपालयेत् ।
नियोजयेत् सभामध्ये नित्यं सद्भिश्व संयुतः ॥ १५ ॥
संविशेत् तूयंघोषेण प्रतिबुध्येत्तथैव च ।
शास्त्राणि चिन्तयेबुड्या सर्वकर्त्तव्यतां तथा ॥ १६ ॥
दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्यात् गां काञ्चनं महीम् ।
निवेशिकानि च तथा श्रोत्रियाणां ग्टहानि च ॥ १७॥
य एव धर्मो नृपतेः स्वराष्ट्रप्रतिपालने ।
तमेव कत्नमानोति परराष्ट्रं वशं नयन् ॥ १८ ॥
देवब्राह्मणभक्तश्च पिट कार्यपरायणः ।
खभायानिरतो नित्यं षड्भागार्हः सदा नृपः ॥ १८ ॥

वल्लालचरितम्।
एकांशेन बलं धार्य दानमंशदयेन च ।
एकांशन प्रकृतय एकांशेनाधिकारिणः ॥ २० ॥
एकांशनात्मभोगश्च कुटुम्बादिप्रपालनम् ।
आयस्यैवं षड़ विभाग व्ययं कुर्यान्महीपतिः ॥ २१ ॥
मध्यामुपास्य कुरुते गौतं वाद्यं मनोहरम् ।
नृत्यगीतैश्च 'जग्धी वा स्त्रीभिर्निशि सुखावहाम् ॥ २२ ॥
गोरक्षां कृषिवाणिज्यं कुर्याद्देश्यो यथाविधि ।
दानं देयं यथाशक्त्या ब्राह्मणानाञ्च भोजनम् ॥ २३ ॥
दम्भमोहविनिर्मुक्तस्तथा वागन सूयकः ।
खदारनिरतो दान्तः परदारविवर्जितः ॥ २४ ॥
धनविप्रान् भोजयित्वा यज्ञकाले तु याजकान् ।
अप्रभुत्वञ्च वर्त्तत धर्मेष्वादेहपातनात् ॥ २५ ॥
यज्ञाध्ययनदानानि कुर्यानित्यमतन्द्रितः ।
पिटकार्य परश्चैव विष्णुशिवाचनापरः ॥ २६ ॥
वर्णत्रयस्य शुश्रूषां कुर्य्याच्छूद्रः प्रयत्नतः ।
दासवब्राह्मणानां च विशेषेण समाचरेत् ॥ २७ ॥
अयाचितप्रदाता स्यात् कृषि वृत्त्यर्थमाश्रयेत् ।
शुद्धा तु बत्तिस्तस्यैव कारु-चारण-कम्म च ॥ २८ ॥
पाकयज्ञविधानेन यजेहेवानतन्द्रितः ।
तस्य तु विजशुश्रूषा परो धम्मः प्रकीर्तितः ॥ २८ ॥
धारणं जीर्णवस्त्रस्य विप्रस्थोच्छिष्टभोजनम् ।
खदारेषु रतिश्चैव परदारविवजनम् ॥ ३० ॥

पल्लालचरितम। लवणं मधुतैलं च दधि तक्रं तं पयः । न दुष्येच्छूद्रजातीनां कुर्यात् सर्वस्य विक्रयम् ॥ ३१ ॥ क्रियाभेदैम्तु सर्वेषां भृतित्तिरनिन्दिता। मोरभेदैः कृषिः प्रोता मन्वायैाह्मणादिषु ॥ ३२ ॥ ब्राह्मणैः षोड़शगवं चतुरूनं तथापरैः । दिगवं वान्त्यजे: सौरं दृष्ट्वा भूमाईवं तथा ॥ ३३ ॥ भूमि भित्वौषधिं छित्वा हत्वा कोटपिपीलिकाम् । पुनन्ति खन्नु यन्तेन कर्षका देवपूजनात् ॥ ३४ ॥ वैदिकैः कम्मभिः पुण्यनिषेकादिईि जन्मनाम् । काय: शरीरमंस्कारः पावन: प्रेत्य चेह च ॥ ३५ ॥ गर्भाधानमृती पुंम: मवनं स्पन्दनात् पुग। तुर्थेष्टमे वा मीमन्तो जनने जातकम्म च ॥ ३६ ॥ निष्कमस्तृतीयमासि नाम व्युष्टे शताहनि । षष्ठेन्नप्राशनं चूड़ा जन्य ब्दे वा यथाकुलम् ॥ ३० ॥ कर्णवेधो व्रतादेशो वेदारम्भः क्रियाविधिः । के गान्तः स्नानमुद्दाहो विवाहाग्निपरिग्रहः ॥ ३८ ॥ त्रेताग्निमं ग्रहवेति संस्काराः षोड़श स्मृताः । नवताः कर्णधान्ताः मन्त्रवज्ज क्रिया स्त्रियाः ॥ ३८ ॥ विप्रो गर्भाष्टम वर्ष क्षत्र एकादर्श तथा। हादशे वैश्यजातिस्तु व्रतोपनयमहति ॥ ४० ॥ तस्य प्राप्तव्रतस्यायं कालः स्यादिगुणाधिकः । वेदव्रतच्युतो व्रात्यः म व्रात्यस्तोममर्हति ॥ ४१

बल्लाल चरितम् ।
.
।
ब्राह्मो देवम्तथैवार्षः प्राजापत्यस्तथासुरः ।
गान्धर्बो राक्षसश्चैव पैशाचशाष्टमोऽधमः ॥ ४२ ॥
एते धर्मास्तु चत्वारः पूर्व विप्रे प्रकीर्तिताः ।
गान्धर्बो राक्षस थैव क्षत्रियस्य प्रशस्यते ॥ ४३ ॥
अप्रार्थितः प्रयत्नेन ब्राह्मस्तु परिकीर्तितः ।
प्रार्थितार्थप्रदानेन प्राजापत्यः प्रकीर्तितः ॥ ४४ ॥
आसुरो द्रविणादानात् गान्धवः समयान्मिथः ।
राक्षसो युद्धहरणात् पैशाच: कन्यकाच्छलात् ॥ ४५ ॥
तिस्रस्तु भायाः क्षत्रस्य भायंका ब्राह्मणस्य तु ।
एकव भार्या वैश्यस्य शूद्रस्य च विधीयते ॥ ४६ ॥
क्षत्रिया वैश्या शूद्रा च क्षत्रियस्य प्रकीर्तिता
एकैव भार्या विप्रस्य ब्राह्मणी तु विधीयते ॥ ४७ ॥
वैश्यैव भार्या वैश्यस्य शूद्रा शूद्रस्य कीर्तिता।
ब्राह्मणो नोहहेत् कन्यामसवर्णां कदाचन ॥ ४८ ॥
ब्राह्मणाद्देश्यकन्यायामम्बष्ठो यो व्यजायत ।
स तु शूद्रत्वमापनी विवहेन ततो विशाम् ॥ ४८ ॥
शूद्राभार्यस्य पातित्यं राजन्यस्य यदुच्यत ।
नेतन्मम मतं ज्ञेयं सा तेनोबीयते यतः ॥ ५० ॥
पतत् विप्रय वैश्यश्च शूद्रां कन्यामुदावहन् ।
पातित्यं नास्ति क्षत्रस्य शूद्रदारोपमंग्रहात् ॥ ५१ ॥
विप्रकन्याविवाहोऽपि कृतो राजर्षिभिः पुरा ।
तेजीयसां न दोषाय वङ्गेः सर्वभुजो यथा ॥ ५२ ॥

वल्लालचरितम् । राजा नो नावमन्तव्यो नृबुद्धया मनुरब्रवीत् । महती देवता ह्येषा नररूपेण तिष्ठति ॥ ५३ ॥ अनुष्ठितन्तु यद्देवैर्मुनिभिर्यदनुष्ठितम् । नानुष्ठेयं मनुष्यैस्तदुक्तं कम्म समाचरेत् ॥ ५४ ॥ ऊढायां हि सवर्णायामविप्रां काममुहहेत् । तस्यामुत्पादितः पुत्रो न सवर्णात् प्रहीयते ॥ ५५ ॥ क्षत्राज्जातः क्षत्रियायां क्षत्रियः स्यात् न संशयः । वैश्यायां च तथैव स्यात् शूद्रायामपि चैव हि ॥ ५६ ॥ यावन्न विन्दते जायां तावद? भवेत्युमान् । नाई प्रजायते सव्वं प्रजायत इति श्रुतिः ॥ ५७ ॥ सकामायान्तु कन्यायां सङ्गमे नास्त्यतिक्रमः । किल्वलं कृत्य सत्कृत्व स एवैनां समुद्हेत् ॥ ५८ ॥ सवर्णामुहहेत् भायां प्रथमं धम्मसिद्धये । ततोह्यप्रतिलोमेन यथाकामं वहेन्नृपः ॥ ५८ ॥ विषाद्यथामृतं ग्राह्यममेध्यात् काञ्चनं यथा । नीचाद्यथोत्तमा विद्या स्त्रीरत्नं दुष्कुलात्तथा ॥ ६० ॥ 'स्त्रियोरत्नान्यथो विद्या धर्माः शौचं सुभाषितम् । विविधानि च शिल्पानि समादेयानि सर्व्वतः ॥ ६१ ॥ यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः । यौतास्तु न पूज्यन्ते सास्तत्राफलाः क्रियाः ॥ ६२ ॥ (8) अयं श्लोक: ख पुस्तके नास्ति।

वल्लालचरितम् । प्रजनाथ महाभागा पूजार्हा गृहदीप्तयः । स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥ ६३ ॥ उत्पादनमपत्यस्य जातस्य परिपालनम् । प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्री निबन्धनम् ॥ ६४ ॥ । अपत्यं दारकर्माणि शुश्रूषा रतिरुत्तमा । दाराधीनस्तथा स्वर्ग: पितॄणामात्मनश्च वै ॥ ६३ ॥ इति वल्लालचरिते व्यासपुराण वर्णधर्मादिकीर्तनं 'नाम त्रयोदशोऽध्यायः । (१) ख, उत्तर खण्डे भट्टप्रोके इधिकः पाठः।

अथ चतुर्दशोऽध्यायः१। व्यास उवाच । शस्ता स्त्री चारुसर्बाङ्गी मत्तमातङ्गगामिनी । गुरुरुजघना या च कृषणसारमृगक्षणा ॥ १ ॥ सुनीलकेशी तन्वङ्गी विलोमाङ्गी मनोहरा । समभूमिस्पृशौ पादी संहती च तथा स्तनी ॥ २ ॥ नाभिः प्रदक्षिणावर्ती गुह्यमवस्थपत्रवत् । गुल्फी निगूढी मध्येन नाभिरङ्गुष्ठमानिका ॥ ३ ॥ गण्डमधूकपुष्पाभैन शिराला न लोमशा। न संहतभृकुटिला पतिप्राणा पतिप्रिया ॥ ४ ॥ बाला खेलनक: काले दत्तदिव्यफलाशनै: मोदते युवती वस्त्रालङ्कारालिङ्गनादिभिः ॥ ५ ॥ हृष्येन्मध्यवया: प्रौढ़ा रतक्रीड़ासु कौशलैः । हडा तु मधुरालाप गौरवेण च युज्यत ॥ ६ ॥ षोड़शाब्दा भवेदाला त्रिंशताभूतयौवना । पञ्च पञ्चाशता प्रौढा वृद्धा स्त्री तदनन्तरम् ॥ ७ ॥ कामाधीना एव नार्यस्तदर्थ रत्नसंग्रहः । सेव्यास्ता नातिसेव्याश्च भूभुजा विषय षिणा ॥ ८ ॥ (११ क पुस्तके नास्ति ।

वल्लालचरितम् । का . स्त्रियां षोड़शवर्षायां चतुविंशतिहायनः । बुद्धिमानुद्यम कुर्यादिशि टसुखकाझ्या ॥ ८ ॥ तथा पूर्णाङ्गवीर्यौ तौ पुत्वं जनयतः परम् । मर्चेन्द्रियसमायुक्तं बलवन्तं शतायुषम् ॥ १० ॥ निदाघशरदोर्जाला हिता विषयिणी मता। तरुणी शीतसमये मध्या वर्षावसन्तयोः ॥ ११ ॥ नित्यं बाला सेव्यमाना नित्यं वईयत बलम् । युवती ह्रासयेच्छति मध्योद्भावयते जराम् ॥ १२ ॥ सद्यो मांमं च शाल्यन्नं बालास्त्रीसेवनं सृतम् । क्षीरमुष्णोदके स्नानं सद्यः प्राणकराणि षट् ॥ १३ ॥ सेवेत कामतः कामी बलात् वाजीकृतो हिमे । प्रकामं तु निषेवेत सुरतं शिशिरागमे ॥ १४ ॥ शीत रात्री दिने ग्रीष्मे वसन्ते च दिवानिशि। वर्षायामम्बुदध्वाने काले शरदि मस्मरः ॥ १५ ॥ अभिकामः समुल्लास्य पूर्व मालिङ्गनादिभिः । समेयात् प्रमदां युक्त्या वाजीकरणवृंहितः ॥ १६ ॥ नित्यमुष्णाम्भसा स्नानं पयःपानं नवा स्त्रियः । राजानः पथ्यमेतहः सुस्निग्धमल्पभोजनम् ॥ १७ ॥ कपिस्थचूर्णयोगेन तथा दना सृजा' तथा । घृतं सुगन्धि भवति दुग्धैः क्षिप्तैस्तथा यवैः ॥ १८ ॥ (१) सजा?

७२
वल्लालचरितम् ।
भोज्यस्य कल्पनैवं स्याङ्गन्धमुक्तिः प्रदर्श्यते ।
शौचमाचमनं सम्यक् तथैव च विरेचनम् ॥ १८ ॥
भावना चैव पाकश्च बोधनं धूपनं तथा ।
वासनञ्चैव निद्दिष्टं कम्माष्टकमिदं स्मृतम् ॥ २० ॥
कपित्थ विल्वजम्बाम-करवीरक-पल्लवैः ।
कृत्वोदकन्तु यद्रव्यं शोचितं शौचनन्तु तत् ॥ २१ ॥
तेषामभावे शौचन्तु मृगदम्भसा भवेत् ।
नखं कुष्ठं घनं मांसं स्पृक्का शैलेयजं जलम् ॥ २२ ॥
तथैव कुश्मं लाक्षा चन्दनागुरुनीरदम् ।
सरलं देवकाष्ठञ्च कपरं कान्तया सह ॥ २३ ॥
बाला कुन्दुरकश्चैव गुग्गुलुः श्रीनिवासकः ।
सह सर्जरसेनैव धूपद्रव्यैकविंशतिः ॥ २४ ॥
धूपद्रयगणादस्मादेकविंशायथेच्छया।
दे हे द्रव्ये समादाय सज्जभागैनियोजयेत् ॥ २५ ॥
नखपिण्याकमलयैः संयोज्य मधुना तथा ।
धूपयोगा भवन्तीह यथावत् खेच्छया कृताः ॥ २६ ॥
त्वचं नाडौं फलं तैलं कुमुमं ग्रन्थिपर्णकम् ।
शैलेयं तगरं कान्ताम् चोलकर्पूरमेव च ॥ २७ ॥
मासौं मुराञ्च कुष्ठञ्च स्नानद्रव्याणि निर्दिशेत् ।
एतेभ्यस्तु समादाय द्रव्यत्रयमथेच्छया ।
मृगदर्पयुतं स्नानं कार्य कन्दर्पवईनम् ॥ २८ ॥

वल्लालचरितम् । बङ्मुरानलदस्तुस्थैर्वासकाईसमायुतः । मानमुत्पलगन्धि स्यात् सतैलं कुश्मायते ॥ २८ ॥ जातिपुष्पसुगन्धि स्यात् तगरार्द्धन योजितम् । सदासकं स्याहकुलैस्तुल्यगन्धि मनोहरम् ॥ ३० ॥ रञ्जिष्ठा तगरं चोलं त्वचं व्याघ्रनखं नखम् । गन्धपत्रञ्च विन्यस्य गन्धलं भवेच्छुभम् ॥ ३१ ॥ मल्लीभिर्गन्धितात् तैलं तिलात् स्यात् प्रमदाप्रियम् । तैलं निपीडितं घानी तिलैः पुष्याधिवासितैः । वासनात् पुष्पसदृशं गन्धेन तु भवेद्बुवम् ॥ ३२ ॥ एला-लवङ्ग-ककोल-जातीफल-निशाकराः । जातिपत्रिकया साई स्वतन्त्रा मुखवासकाः ॥ ३३ ॥ कर्पूरं कुगुमं कान्ता मृगदपं हरेणुकम् । कक्कोलैलालवङ्गञ्ज जाती कोशकमेव च ॥ ३४ ॥ त्वपत्रं त्रुटिमुस्तौ च लतां कस्तुरिकं तथा । कण्टकानि लवङ्गस्य फलपत्रे च जातितः ॥ ३५ ॥ कुटकञ्च फलं गृह्य कार्षिकाण्युपकल्पयेत् । तचूर्णे खदिरं सारं दद्यात्तुर्य्यन्तु वासितम् ॥ ३६ ॥ सहकाररसेनास्मात् कर्त्तव्या गुटिकाः शुभाः । मुखे न्यस्ता सुगन्धास्ता मुखरोगविनाशकाः ॥ ३७ ॥ पूगं प्रक्षालितं सम्यक् पञ्चपल्लववारिणा । शतथा तु गुटिका द्रव्यैर्वासितं मुखवासकम् ॥ ३८ ॥ १० ७४ बल्लालचरितम् । कटुकं दण्डकाष्ठञ्च गोमूत्रवासितं त्राहम् । कतञ्च पूगवत् सम्यक् मुखसौगन्धिकारकम् ॥ ३८ ॥ त्वक्पथ्ययोः समावंशी शशिभागाईसंयुतौ। नागवल्लीसमो भाति मुखवासो मनोहरः ॥ ४० ॥ एवं कुर्यात् सदा स्त्रीणां रक्षणं पृथिवीपतिः । न चासां विश्वसेज्जातु पुत्रमातुर्विशेषतः ॥ ४१ ॥ इति वल्लालचरित व्यासपुराणे स्त्रीलक्षणादिकीर्तनं नाम चतुर्दशोऽध्यायः । (१) ख, उत्तरखण्डे भट्ठपोले त्यधिकः पाटः । (२) ख, ० कामशास्त्रम् ।

अथ पञ्चदशोऽध्यायः । व्यास उवाच । तपः परं कृतयुगे वेतायां ज्ञानमुच्यते । बापरे यानमेवाहुर्दानमेकं कलीयुगे ॥ १ ॥ दानधम्मात् परो धर्मों भूतानां नेह विद्यते । स्वर्गायुभूतिकामेन देयं पापोपशान्तये ॥ २ ॥ न दानादधिकं किञ्चिदृश्यते भुवनत्रये । दानेन प्राप्यते स्वर्ग: श्री ननैव लभ्यते ॥ ३ ॥ दानेन शत्रुञ्जयति व्याधिर्दानेन नश्यति । दानेन लभ्यते विद्या दानेन युवतीजनः ॥ ४ ॥ दानेन भोगानाप्नोति दानेनायुश्च विन्दति । धम्मार्थकाममोक्षाणां साधनं परमं स्मृतम् ॥ ५ ॥ दद्यात् पूर्वमुखो दानं गृह्णीयादुत्तरामुखः । आयुर्विवर्डते दातुर्ग्रहीतुः क्षीयते न तत् ॥ ६ ॥ मातुः शतगुणं दानं सहस्रं पितुरुच्यते । अनन्तं दुहितुर्दानं सोदर्ये दत्तमक्षयम् ॥ ७ ॥ अमनुष्थे समं दानं पाप ज्ञेयं महाफलम् । वर्णसङ्कर द्विगुणं शूटे दानं चतुर्गुणम् ॥ ८ ॥ (१) कपुस्तके नास्ति ।

बलालचरितम् ।
वैश्ये चाष्टगुणं क्षत्रे षोड़शत्वं हिजब्रुवे ।
वेदाध्याये शतगुणमनन्तं वेदबोधके ॥ ८ ॥
गुरौ पुरोहितादौ च दानमक्षयमुच्यते ।
श्रीविहीनेषु यहत्तन्तदनन्त यज्वनि ॥ १० ॥
अभयं सर्वदैवत्यं भूमि वै विष्णुदेवता ।
कन्या दासास्तथा दासी प्राजापत्याः प्रकीर्तिताः ॥ ११ ॥
प्राजापत्यो गजः प्रोक्त स्तुरगो यमदैवतः ।
तथा चैकशफाः सर्वे याम्यच महिषस्तथा ॥ १२ ॥
उष्नश्च नैऋतो धनू रौद्रीछागोनलस्तथा ।
आप्यो मेषो हरिः कोड़ः आरण्याः पशवो निलाः ॥ १३ ॥
जलाशयं वारुणं स्यात् वारिधानो घटादयः ।
समुद्रजानि रत्नानि हेमलीहानि चानलः ॥ १४ ॥
प्राजापत्यानि शस्यानि पक्कानमपि पार्थिवाः ।
गान्धर्ब गन्धमित्याहु वस्त्रं वाहस्पतं स्मृतम् ॥ १५ ॥
वायव्याः पक्षिण: सर्वे विद्या ब्राह्मी तथाङ्गकम् ।
सारस्वतं पुस्तकादि विश्वकर्मा तु शिल्पके ॥ १६ ॥
वनस्पति मादीनां द्रव्यदेवा हरेस्तनुः ।
छत्र कृष्णाजिनं शय्या रथ आसनमेव च ॥ १७॥
उपानही तथा यानमष्टावाङ्गिर ईरितम् ।
रथोपकरणं शस्त्र ध्वजाद्यं सर्वदैवतम् ॥ १८ ॥
गृहञ्च सर्वदैवत्यं सर्वेषां विष्णुदेवता।
शिवो वा न ततो व्यं व्यतिरिक्त यतोऽस्ति हि ॥ १८ ॥

वल्लालचरितम् । . शृणुताहं प्रवक्ष्यामि महादानानि षोड़श ॥ २० ॥ तुलापुरुष आद्यन्तु हिरण्यगर्भदानकम् । ब्रह्माण्डं कल्पवृक्षश्च गोसहस्रञ्च पञ्चमम् ॥ २१ ॥ हिरण्यकामधेनुश्च हिरण्याखश्च सप्तमम् । हिरण्यावरथस्तहडेमहस्तिरथस्तथा ॥ २२ ॥ पञ्चलाङ्गलकै तहदरादानं महाफलम् । हादशं विष्णुचक्रञ्च तत: कल्पलतात्मकम् ॥ २३ ॥ सप्तसागरदानञ्च रत्नधेनुस्तथैव च । महाभूतघटस्तहत् दानं शुभदिनेऽर्पयेत् ॥ २४ ॥ मण्डपे मण्डले दानं देवान् प्रार्पियेद्दिजे । द्रव्यस्य नाम ग्टहीयात् ददानि च तथा वदेत् ॥ २५ ॥ तोयं दद्यात्ततो हस्ते दाने विधिरयं स्मृतः । मनसा पात्रमुद्दिश्य जलं भूमौ विनिक्षपेत् ॥ २६ ॥ विद्यत सागरस्यान्तो दानस्यान्तो न विद्यते ॥ २७ ॥ यथानाम सगोत्राय प्रवरायामुकाय च । वेदवेदाङ्गयुताय पावाय सुमहात्मने ॥ २८ ॥ मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये । सर्वपापोपशान्त्यर्थं स्वर्गार्थ भुक्तिमुक्तये ॥ २८ ॥ यथानाम महाद्रव्यं विष्णुरुद्रादिदैवतम् । एतत्तुभ्यं सम्प्रददे प्रीयतां मे हरिः शिवः ॥ ३० ॥ एतद्दानप्रतिष्ठाथं सुवर्ण दक्षिणां ददे। अवन दानवाक्येन सर्वदानानि वै ददेत् ॥ ३१ ॥ ।

वल्लालचरितम।
सुवर्णे दीयमाने तु रजतं दक्षिणेष्यते ।
अन्येषामपि दानानां सुवर्ण दक्षिणा स्मृता ॥ ३२ ॥
सुवर्ण रजतं तामं तण्डुलं धान्यमेव च ।
नित्यबाई देवपूजा सर्वमेतददक्षिणम् ॥ ३३
रजत दक्षिणा पित्र धर्मकामार्थसाधनम् ।
सुवर्ण रजतं ता मणिमुक्तावमूनि च ॥ ३४ ॥
सर्वमेतत् महाप्राने ददाति वसुधां ददत् ।
पित श्च पिटलोकस्थान्देवस्थाने च देवता ॥ ३५ ॥
सन्तर्पयति शान्तामा यो ददाति वसुन्धराम् ।
खटं खेटकं वापि ग्रामं वा शस्यशालिनम् ॥ ३६ ॥
निवर्तनशतं वापि तदई वा ग्रहादिकम् ।
अप्याढावापमान वा दत्त्वोवी फलभाक् भवेत् ॥ ३७ ॥
इक्षुभिः सन्ततां भूमिं यवगोधूमशालिनीम् ।
ददाति वेदविदुषे स न भूयोभिजायते ॥ ३८ ॥
फालकृष्टां महीं दत्त्वा सवृक्षां शस्यशालिनीम् ।
यावत् सूर्यकरालोकास्तावत् स्वर्गे महीयते ॥ ३८ ॥
विप्राय दद्याच्च गुणान्विताय
तपोभियुक्ताय जितेन्द्रियाय ।
यावन्मही तिष्ठति सागरान्ता
तावत् फलं तस्य भवेदनन्तम् ॥ ४० ॥
यथा वीजानि रोहन्ति प्रकीर्णानि महीतले ।
एवं कामाः प्ररोहन्ति भूमिदानसमार्जिताः ॥ ४१ ॥

वल्लालचरितम् ।
यथाप्सु पतितः सद्यस्तैलविन्दुः प्रसर्पति ।
एवं भूमिकृतं दानं शस्ये शस्ये प्ररोहति ॥ ४२ ॥
अन्नदाः सुखिनो नित्यं वस्त्रदश्चैव रूपवान् ।
स नरः सर्व्वदो भूपा यो ददाति वसुन्धराम् ॥ ४३ ॥
यथा गौर्भरते वसं क्षीरमुत्सृज्य क्षीरिणी
एवं दत्ता महीपाला भूमिभरति भूमिदम् ॥ ४४ ॥
आदित्यो वरुणो विष्णुब्रह्मा सोमो हुताशनः ।
शूलपाणिश्च भगवानभिनन्दति भूमिदम् ॥ ४५ ॥
आस्फोटयन्ति पितरो वर्णयन्ति पितामहाः ।
भूमिदाता कुले जात: स नस्त्राता भविष्यति ॥ ४६ ॥
बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ ४७ ॥
भूमिं यः प्रतिग्टह्णाति यश्च भूमि प्रयच्छति ।
उभौ तौ पुण्यकाणी नियती स्वगंगामिणौ ॥ ४८ ॥
दद्याद्भूमिं निबन्ध वा कृत्वा लेख्यञ्च कारयेत् ।
आगामिभद्रतृपतिपरिज्ञानाय पार्थिवः ॥ ४८ ॥
पटे वा ताम्रपट्टे वा स्वमुद्रीपरिचिह्नितम् ।
अभिलेख्यात्मनो वंशानात्मानञ्च महीपतिः ॥ ५० ॥
प्रतिग्रहपरिच्छेददानाच्छेदोपवर्णनम् ।
स्वहस्तकालसम्पन्नं शासनं कारयेत् स्थिरम् ॥ ५१ ॥
सुवर्णदानं गोदानं भूमिदानञ्च पार्थिवाः ।
एतत् प्रयच्छमानस्तु सर्वपापैः प्रमुच्यते ॥ ५२ ॥

८० बबालचरितम् । स सर्व अग्नेरपत्यं प्रथमं सुवर्णम् भूवैष्णवी सूर्यसुताश्च गावः । यः काञ्चनं गाञ्च महीञ्च दद्यात् दत्तास्त्रयस्तेन भवन्ति लोकाः ॥ ५३ ॥ यस्तटाकं नवं कुर्यात् पुराणं वापि खानयेत् । कुलमुद्धृत्य स्वर्ग लोके महीयते ॥ ५४ ॥ कृत्वापि पापकम्माणि यो दद्यादन्नमर्थिने । ब्राह्मणाय विशेषेण स पापेन न लिप्यते ॥ ५५ ॥ त्रिसप्तकुलमुद्धृत्य कन्यादो ब्रह्मलोकभाक् । देवालयञ्च प्रतिमां कारयन् सर्वमाप्नुयात् ॥ ५६ ॥ दामोदम्तु विजेन्द्रेभ्यो एप्सरोलोकमाप्नुयात् । तस्य शिश्नेन्द्रियं भूपा नाग्निदहति कर्हि चित् ॥ ५७ ॥ सिंहगिरिरुवाच। स्वालमृता वसनभूषणगन्धपुष्पः कशोर्यरूपकमनीयवपुःसुभोग्याः । दासीः प्रदाय बहुशो बिजसत्तमभ्यः श्रीलादिशूरनृपतीरमतेऽप्सरोभिः ॥ ५८ ॥ इति वल्लालचरित व्यासपुराण दानमाहात्मादिकीर्तनं नाम पञ्चदशोऽध्यायः । (१) ख, नव्या हिमांशुवदना ग्टहकर्मदक्षाः । (२) उत्तरखण्डे भट्टप्रोक्ने इति ख पुस्तकेऽधिकः पाठः ।

अथ षोडशोऽध्याय:। व्यास उवाच । उपाध्यायः पिता ज्येष्ठभ्राता चैव महीपतिः । भातुलः श्वशरस्त्राता मातामहपितामहौ ॥ १ ॥ बन्धुज्येष्ठः पिटव्यश्च पुंस्येते गुरवः स्मृताः । माता मातामही चैव पिटमाटष्वसादयः ॥ २ ॥ खः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियः । इत्युक्तो गुरुवर्गोऽयं मातः पिटतो नृपाः । अनुवर्तनमेतेषां मनोवाक्कायकम्मभिः ॥ ३ ॥ गुरु दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः । नैतैरुपविशेत् साई विवदेत् नात्मकारणात् ॥ ४ ॥ जीवितार्थमपि हेषात् गुरुभि व भाषणम् । उदितोऽपि गुणैरन्यै गुरुद्देषो पतत्यधः ॥ ५ ॥ गुरूणाच्चैव सर्वेषां पूज्याः पञ्च प्रयत्नतः । तेषामाद्यास्त्रयः श्रेष्ठास्तेषु माता गरीयसी ॥ ६ ॥ यो भावयति या सूते येन विद्योपदिश्यते । ज्येष्ठभाता च भर्त्ता च पञ्चैते गुरवः स्मृताः ॥ ७ ॥ आत्मनः सवयत्नेन प्राण त्यागेन वा पुनः । (१) कपुस्तके नास्ति । ११ पर वल्लालचरितम् । पूजनीया विशेषेण पञ्चैते भूतिमिच्छता । नास्ति पिटसमो देवो नास्ति माटसमो गुरुः ॥ ८॥ तयोनित्यं प्रियं कुर्यात् कम्मणा मनसा गिरा। न ताभ्यामननुज्ञातो धममन्यं समाश्रयेत् ॥ ८ ॥ गुरुरग्निहिजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥ १० ॥ ब्राह्मणं प्रणमेद् यस्तु विष्णुबुद्ध्या नरोत्तमः । आयुः पुत्रश्व कीर्तिश्च सम्पत्तिस्तस्य वईते ॥ ११ ॥ दुःशीलोऽपि हिजः पूज्यो न शूद्रो विजेतेन्द्रियः । विप्रा हि क्षत्रियात्मानो नावञयाः कदाचन ॥ १२ ॥ धर्मशास्त्ररथारूढ़ा वेदखगधरा हिजाः । क्रीड़ार्थमपि यद्व्युः स धम्मः परमः स्मृतः ॥ १३ ॥ इति वल्लालचरिते' व्यासपुराणे गुरुवर्ग-कीर्तनं नाम षोडशोऽध्यायः । (१) ख. उत्तरखण्डे भट्टप्रोक्ने इत्यधिकः पाठः ।

अथ सप्तदशोऽध्यायः१। व्यास उवाच । मानव्यश्च काश्यपश्च काङ्गायन-रहगणी। भरद्वाजो गौतमश्च कल्विषश्च सुकालिनः ॥ १ ॥ आर्टिषणोऽग्निवेशश्च कृष्णात्रेयवशिष्ठको विश्वामित्रो गालवश्च चन्द्रात्रेयश्च कौशिकः ॥ २ ॥ घृतकौशिक-मौहल्यौ लाभायन-पराशरी । सौपायनात्रिकुहलाः वासुको रोहितस्तथा ॥ ३ ॥ वायंखो वैयाघ्रपद्यो दर्भ:शालावतः कपिः । जमदग्निः काञ्चनश्च कात्यायन-वृहस्पती॥ ४ ॥ विष्णुवृद्धश्च साङ्कृत्यो गर्गः कौण्डिन्य-बंधुलो। सावर्णाङ्गिरसो मौन: कौश्यो यौगन-जैमिनी ॥ ५ ॥ शक्तिः कात्यायनो वात्स्यो लोगाक्षि: शुनकस्तथा । अगस्तिः सोमराजश्च सन्दानो माधवो भृगुः ॥ ६ ॥ मैत्रायणिश्च शाण्डिल्य उपमन्युर्धनञ्जयः । मधुकुल्यो हारितश्च विदलो गोभिलस्तथा ॥ ७ ॥ कास्कायनश्च यास्कच वार्णेयो ब्रह्मक्षत्रकः । युवनाश्वश्च वैण्यश्च जातूकर्णोऽघमर्षणः ॥ ८॥ (१) कपुस्तके नास्ति। (२) उभयत्रामि आदर्श पुस्तकहये काङ्कायनेत्यस्ति तेनैकः कास्कायनः कृतः ।

८४ वल्लालचरितम् । अम्बरीष इध्यवाही लौहित्य इन्द्रकौशिकः । अजश निध्रुवो रेभ ऋषयो गोत्रकारकाः ॥ ८ ॥ इति वल्लालचरिते व्यासपुराण गोत्रकीर्तनं नाम सप्तदशोऽध्यायः । (१) ख, उत्तरखगडे भट्टप्रोक्ने त्यधिकः पाठः ।

अथाष्टादशोऽध्यायः । राजर्षय ऊचुः । ब्राह्मणानां क्षत्रियाणां वैश्यानाञ्चान्त्यजन्मनाम् । भेदान् ब्रूहि महाप्रान्न श्रोतुं कौतुहलं परम् ॥ १ ॥ व्यास उवाच । सारस्वताः कान्यकुलाः गौड़ा मैथिलकोकलाः । पञ्च गौड़ा इति ख्याता विन्ध्यस्योत्तरवासिनः ॥ २ ॥ कर्णाटाश्चैव तैलङ्गा गुजरा राष्ट्रवासिनः । अन्धाश्च द्राविड़ाः पञ्च विध्यदक्षिणवासिनः ॥ ३ ॥ मगास्तु ब्राह्मणाः पूर्व निःसृताः सूर्यमण्डलात् । ज्वलदर्कप्रतीकाशाः शाकद्वीपमवातरन् ॥ ४ ॥ इति ब्रह्मवर्गाः। पाण्डवाः पौरवा बौधाः सहस्रार्जुनहहयाः । चन्द्रात्रेय-कलचुरि-रह-यादव-तोमराः ॥ ५ ॥ कौशिकाः कौकुराः कुश्या एते सौम्याः प्रकीर्तिताः । एक्ष्वाकवो निकुम्भाश्च मौयाश्च सागरास्तथा ॥ ६ ॥ (१) कपुस्तके नास्ति । (२) ख, मुने श्रोतमस्ति । (३) ख, निःसृत्य । (8) क, पुस्तके दूदं श्लोकाई नाति तत्स्थाने वराहस्य तु धर्मेण माथर जायते तथा इत्यमस्ति ।

वल्लालचरितम् । तथा कच्छपघाताश्च राघवा गोभिलास्तथा । तथा गाहड़वालाच एते सौराः प्रकीर्तिताः ॥ ७॥ चाहमानाच मल्लाच छिन्दाश्चापोत्कटास्तथा । चौलूक्याश्च सिलाराश्च इनाश्च ब्रह्मवाहुजाः ॥ ८ ॥ अग्निकुण्डसमुत्पन्नाः परमारा महाबलाः । शालुकिकाः सेन्ट्रकाश्च कावेया इति स्मृताः ॥ ८ ॥ वेणाःण्यः पृथु र्जातः पृथ्वीहारास्ततोऽभवन् । वैनतेयास्तु ताा वै पालास्तु क्षत्रियाधमाः ॥ १० ॥ इति क्षत्रियवर्गाः । उपकेशाश्व प्राक्वाटा रोहिताश्च महोत्सवाः । माहिमत्याश्च वैशाल्याः कौशाम्बयाः श्रावकास्तथा ॥११॥ आयोध्यिकाश्च वणिजो गुजरा भुवि विश्रुताः । उजानिकाच धनिनः सुवर्णा वणिजाधमाः ॥ १२ ॥ जेजातुतीया वणिजश्चन्द्ररश्मिसमुद्भवाः ॥ १३ ॥ इति वैखवर्गाः । इति वल्लालचरिते व्यासपुराणे वैवर्णिकवर्गकीर्तनं नामाष्टादशोऽध्यायः । (१) क, वेणो ; ख, वेपोर् । (२) कपुस्तके, श्रावका: वारणावताः। (३) इदं श्लोका खपुस्त के नास्ति । (8) ख, उत्तरखण्डे व्यासप्रोक्ने त्यधिकः पाठः।

अथोनविंशोऽध्यायः१ १॥ व्यास-उवाच । r सत्शूद्रश्चैव शूद्रश्च शूद्रस्तु हिविधो मतः । प्राद्यो विप्रविशोः शूद्रयां हितीयः पादजः स्मृतः ॥ १ ॥ ब्राह्मणात् क्षत्वकन्यायां मौलो नाम प्रजायते । ब्राह्मणात् वैश्यकन्यायामम्बष्ठस्तनयः स्मृतः ॥ २ ॥ अम्बष्ठाहश्यकन्यायां वैद्यो नाम प्रजायते । शूद्रायां करणो वैश्यात् करण्याञ्च ततः पुनः । स्थितः करणकायेषु ततः कायस्थ उच्यते । पादजाः सन्ति कायस्थास्तथैवाम्बष्ठजा अपि । ये तु किरातकायस्था ते सर्वे निन्दिताः स्मृता ॥ ३ ॥ निगमथ गन्धिकश्च वैश्यवंशसमुद्भवौ। शनैः शूद्रत्वमापनौ क्रियालोपादिहेतुना ॥ ४ ॥ . (१) कपुस्तके नास्ति। (२) श्लोकोऽयं खपुस्तके नास्ति । (३) अयं श्लोकः क, पुस्तके नास्ति । अस्य स्थाने चलविटशूद्रास विप्रा- मौलकाम्बवंशजाः इति लोकाईमस्ति (४) अष्टचरणस्य हतीयश्लोकस्य स्थाने क पुस्तके भूदायां करणो वैश्यात् राजकाये स्थितस्तु सः । करणश्च किरातच कायस्थो हिविधः स्मृतः । प्रथमः शूद्रकन्यायां द्वितीयः शूद्रवंशजः । इति षटचरणः श्लोको वर्त्तते ।

बल्लालचरितम्। रनकाराः स्वर्णकारा रूप्यकारलिपौकरी। ताम्रकारा लोहकाराः शङ्खकाराव तन्त्रिणः ॥ ५ ॥ तण्डुलिनो व्यञ्जनिनः सत्शूद्राश्च प्रकीर्तिताः । वैश्याद्रामकवैदेही ब्राह्मणोक्षत्रियासुतौ ॥ ६ ॥ रामकात् क्षत्रकन्यायामुग्रो नाम प्रजायते । ब्राह्मणादुग्रकन्यायामावतो नाम जायते ॥ ७ ॥ आभीरः शूद्रः शूद्रायां ब्रात्यक्षत्रविशोरपि । वैश्याईदेहकन्यायां कांसकारः प्रजायते ॥ ८ ॥ वैश्यादम्बष्ठकन्यायां गोपगोपालको सुतौ । जन्ने वैदेहकन्यायां लेषकारस्तु रामकात् ॥ ८ ॥ वैश्यायां जायते शूद्रात् तेलकार इति स्मृतः । अम्बष्ठायां स्वर्णकारात् शौचिको नाम जायते ॥ १० ॥ विश: कुविन्दकन्यायां कृषिको नाम जायते । कृषिकात्गोपकन्यायां ताम्बोलिरिति नःश्रुतम् ॥ ११ ॥ वणिजः शूटूकन्यायां कन्दुको नाम जायते । कन्दुकादिप्रकन्यायां कलुपालो'व्यजायत ॥ १२ ॥ शूद्रादायोगवो वैणचाण्डालश्चाधमो नृणाम् । वैश्यराजन्धविप्रासु जायन्ते वर्णसङ्कराः ॥ १३ ॥ कदाचिद्दोजमाहात्मात् क्षेत्रमाहात्मतः क्वचित् । नीचोत्तमलं भवति श्रेष्ठत्वं क्षेत्रवीजतः ॥ १४ ॥ (१) कम पालः।

वल्लामचरितम् । ८६ कदाचिदानुलोम्येन जातिर्माटसमा स्मृता । कम्मणोत्तमनीचत्वं कालतश्च भवेद्गुणैः ॥ १६ ॥ जातो ना-मना-यामायादा-भवे गुणैः । अनाऱ्याज्जात आयायामनार्य इति निश्चयः ॥ १७ ॥ अम्बष्ठायान्तु कृषिकाहाजायन्त कुटुम्बिनः । कुटुम्बिनस्तु गोपाल्यां कुम्भकारी व्यजायत ॥ १८ ॥ करण्या लोहकारात्तु वईकि नाम जायते । वईकस्तानकारियां वारकिर्नाम जायते ॥ १८ ॥ कुम्भकारेण शूद्रायां जनितः पलगण्डकः । शूद्रात् कुम्भकारनायां मालाकार: प्रजायते ॥ २० ॥ क्रयक्रोतासु कन्यासु भवन्ति दासजातयः । ब्राह्मणाच्छ्ट्रकन्यायां नापितो नाम जायते ॥ २१ ॥ अजायन्त च क्षेत्रेषु हतामां मुखजन्मनाम् । शूद्रविट क्षत्रैश्चण्डालाः किराता भरजातयः ॥ २२ ॥ किराता लोहकारियां करिः शस्त्रविक्रयो। ताम्रकुट्या तन्तुवायात् पट्टकारः प्रजायते ॥ २३ ॥ शूद्रादायोगवं वैश्या जनयामास वै सुतम् । कलुपालात् कुविन्दायां शोण्डिकोनाम जायते ॥ २४ ॥ (१) क, देवला। (२) क, हषलात् । (३) ख, कल्लपालात् । १२ ० बहालचरितम् । रङ्गाजीवस्तु शौण्डिक्यां सुतो वईकिसम्भवः । सङ्कराणान्तु साकासायाच्च पुनः पुनः ॥ २५ ॥ जात्यानन्त्यन्तु संप्राप्तं सब वक्तुं न शक्यते । पौण्डाः सुह्माश्च पल्हाच पुलिन्दाश्च किनारयः ॥ २६ ॥ कोला भूषारा वरटास्तुर्कानाः शवराः शकाः । पारदा दरदा व्याधा निषादाः पुक्का अमी ॥ २७ ॥ म्लेच्छवाचश्चार्य्यवाचो दस्यवः षोड़श स्मृताः ॥ २८ ॥ रजकश्चम्मकारश्च नटो वरुड़ एव च । कैवर्तमेदभिल्लाश्च सप्तते चान्त्यजाः स्मृताः ॥ २८ ॥ अन्त्यजानां रहे तोयं भाण्डे पर्युषितन्तु यत् । प्रायश्चित्तं यदा पोतं तदैव हि समाचरेत् ॥ ३० ॥ इति वल्लालचरिते व्यासपुराण शूद्रवर्गकथनं नाम जनविंशोऽध्यायः । (१) ख, पुस्तके उत्तरखण्ड भट्टमोक्ने इत्यधिकः पाठः ।

अथ विंशोऽध्यायः । व्यास उवाच । अतःपरं रुद्रगीता कथ्यते मनुजेश्वराः । शृणुतावहिता भूखा इमां गीतां सनातनीम् ॥ १ ॥ नमस्ते मन्यवे रुद्र उतीत इषवे नमः । नमामि तव वाहुभ्यां गिरिशन्त गिरीश्वर ॥ २ ॥ रुद्रस्तेऽपापकाशिन्या शिवया घोररूपया । तन्वानोऽभि चाकशीहि सुखं शन्तमया शिव ॥ ३ ॥ यामिषुमस्तवे हस्ते गिरिशन्त विभर्षि च । तां गिरित्र कुरु शिवां मा हिंसीः पुरुषं जगत् ॥ ४ ॥ शिवेन वचसाच्छत्वा वदामो गिरिश प्रभो। यथा यक्ष्मं सुमनसो जगत्सर्वमिदं भवेत् ॥ ५ ॥ अध्यवोचदधिवक्ता प्रथमो दैव्यको भिषक् । अहींश्च जम्भयन् सर्वान् यातुधानीः परासुव ॥ ६ ॥ असौ यस्ताम्र आदित्य उत वभूः सुमङ्गलः । ये चैनं रुद्रा अभितो दिक्ष्वेषां हेड़ईमहे ॥ ७ ॥ असाववसर्पति यो नीलग्रीवो विलोहितः । गोपाःस्त्रियोऽप्यदृश्यन् यं स दृष्टोमड़याति नः ॥ ८ ॥ (१) कपुस्तके नास्ति। (२) श्लोकऽयं क पुस्तके नास्ति ।

२२
वहालचरितम् ।
नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
सन्यथो येऽस्य सत्वा नस्तेभ्योऽहमकरं नमः ॥ ८ ॥
धन्वनस्त्वं प्रमुञ्चानो रुभयोामुमाधव ।
याश्च ते हस्त इषवो भगवन् ताः परा वप ॥
कपर्दिनो धनुर्विज्यं विशल्यो वाणवानुत ।
अनशविषवश्चास्य
चाभुरस्तु
निषङ्गधीः ॥ १० ॥
या मीढुष्टम ते हेतिहस्ते प्रविद्यते धनुः ।
अयक्षन् या तयास्मान् त्वं विश्वत: परिपालय ॥ ११ ॥
अस्मान् ते धन्वनो हेतिः परिवणक्त विखतः ।
अथो यश्चेषुधी रुटू अस्मदार निधेहि तम् ॥ १२ ॥
अवतत्य धनुः शल्यमुखानि विनिशोर्य च ।
शतेषुधे सहस्राक्ष शिवो नः सुमना भव ॥ १३ ॥
आयुधाय नमस्तेऽस्तु कृष्णवेऽनातताय च ।
उभाभ्यामुत वाहुभ्यां नमस्तेऽस्तु च धन्वने ॥ १४ ॥
मा नो महान्त मुत मा नो अर्भकम्
मा न उक्षन्तमुतमा न उक्षितम् ।
मा नो वधीः पितरम्मोत मातरम्
मा नः प्रियास्तन्वो रुद्र रीरिषः ॥ १५ ॥
मानस्तोके च तनये गवाखेषु च रीरिषः ।
आयूंषि भामिनो वीरान् मावधीस्त्वां हवामहे ॥ १६ ॥
मेनान्ये दिशाम् पतये नमो हिरण्यवाहवे।
वृक्षभ्यो हरिकेशेभ्यः पशूनाम्पतये नमः ॥ १७ ॥

यल्लालचरितम् ।
६२
शष्यिञ्जाय विषीमते पथीनाम्पतये नमः ।
सूत्रिणे हरिकेशाय पुष्टानाम्पतये नमः ॥ १८ ॥
वभ्लुशाय नमो व्याधिनेऽत्रानाम्पतये नमः ।
भवस्य हेत्यै जगताम् पंतये च नमो नमः ॥ १८ ॥
रुद्रायाततायिने च क्षेत्राणाम्पतये नमः ।
नमोस्त्वहन्त्र सूताय वनानाम्पतये नमः ॥ २० ॥
रोहिताय स्थपतये वृक्षाणाम्पतये नमः ।
भुवन्तये नमस्तस्मै वरिवस्यकताय च ॥ २१ ॥
मन्त्रिण वै वाणिजाय कक्षाणाम्पतये नमः ।
घोषायोच्चैः क्रन्दयते पत्तीनाम्पतये नमः ॥ २२ ॥
धावते कृत्स्नवीताय सत्वानाम्पतये नमः ।
नमोऽस्तु सहमानाय नमो निव्याधिने नमः ॥ २३ ॥
आव्याधिनीनाम्पतये ककुभाय निषङ्गिणे ।
निचेरवे नमस्तुभ्यं स्तेनानाम्पतये नमः ॥ २४ ॥
नमोऽरण्यानाम्पतये नमः परिचराय च ।
स्तायूनाम्पतये तुभ्यं वञ्चते परिवञ्चत ॥ २५ ॥
प्रणमामौषुधिमते नमस्तुभ्यं निषङ्गिण ।
तस्कराणान्ते पतये नमामि च पुनः पुनः ॥ २६ ॥
मृकायिभ्यो जिघांसद्ध्यो मुष्णताम्पतये नमः ।
असिमड्यो विकृन्तानाम् पतये ते नमोनमः ॥ २७ ॥
नक्तञ्चरेभ्यो रुद्रेभ्यो धावद्भाश्च नमोनमः ।
उष्णीषिणे कुलुञ्चानाम्पतये ते नमोनमः ॥ २८ ॥

६४
वल्लालचरितम् ।
धन्वायिभ्य इषुमड्यो नमो गिरिचराय ते ।
आतन्वाभ्यो वश्च प्रतिदधानभ्यो नमोनमः ॥ २८ ॥
आयच्छनमो नमोऽस्यमयो विसृजड्यो नमो नमः ।
विध्याथ स्वपाश्च जाग्राश्च नमोनमः ॥ ३० ॥
शयानभ्य आसीनभ्यस्तिष्ठयो वो नमो नमः ।
नमः सभापतिभ्यो वः सभाभ्यश्च नमोनमः ॥ ३१ ॥
अखेभ्योऽखपतिभ्यश्चाव्याधिनीभ्यो नमोनमः ।
विविध्यन्तीभ्यश्च नमः उगणाभ्यो नमोनमः ॥ ३२ ॥
तुंहतोभ्यो गणेभ्यश्च वातेभ्यश्च नमोनमः ।
नमो गणपति-व्रातपतिभ्यश्च नमोनमः ॥ ३३ ॥
एत्सपतिभ्यो यत्मेभ्यो विरूपेभ्यो नमोनमः ।
विखरूपेभ्यश्च नमः सेनाभ्यश्च नमोनमः ॥ ३४ ॥
सेनानीभ्यो रथिभ्यो वो अरथेभ्यो नमोनमः ।
क्षत्तृभ्यः संग्रहीटभ्यो महद्भाश्च नमोनमः ॥ ३५ ॥
अर्भकेभ्यस्तक्षकेभ्यो रथक्कयो नमोनमः ।
कम्मारभ्यः कुलालेभ्यो निषादेभ्यो नमोनमः ॥ ३६ ॥
पुञ्जिष्ठेभ्यः खनिभ्यश्च मृगयुभ्यश्च वो नमः ।
श्वभ्यश्च खपतिभ्यश्च रुद्राय च भवाय च ॥ ३७॥
नीलग्रीवाय माय पशूनाम्पतये नमः ।
नमस्ते शितिकण्ठाय नमस्तेस्तु कपर्दिने ॥ ३८ ॥
सहस्राक्षाय च व्युप्तकेशाय शतधन्वने ।
गिरिशाय नमस्तुभ्यं शिपिविष्टाय ते नमः ॥ ३८ ॥

वहालचरितम् ।
६५
मीढुष्टमायेषुमते इस्त्राय वामनाय च ।
वृहते च वर्षीयसे वृहाय सधे नमः ॥ ४० ॥
प्रथमाय नमोऽग्राय आशवे चाजिराय च ।
नमः शीघ्राय शोभ्याय अम्मायावस्वनाय च ॥ ४१ ॥
नादेयाय नमस्तुभ्यं होप्याय च नमोनमः ।
ज्येष्ठाय च कनिष्ठाय पूर्वजाय नमोनमः ॥ ४२ ॥
मध्यमायापगल्माय वुधपायापरजाय च ।
जघन्याय च सोभ्याय प्रतिसऱ्यांय ते नमः ॥ ४७ ॥
नमो याम्याय क्षेम्याय श्लोक्याय च नमोनमः ।
उर्वयायावसान्याय खल्याय च नमस्तु ते ॥ ४४ ॥
नमो वन्याय कक्ष्याय वाय च नमोनमः ।
प्रतिशवाय च नमः पाशुषेणाय ते नमः ॥ ४५ ॥
आशुरथाय च नमः शूराय चावभेदिने ।
विल्मिने च कवचिने वर्मिण च वरूथिने ॥ ४६ ॥
श्रुताय श्रुतसेनाय दुन्दुभ्याय नमोनमः ।
अहन्याय कृष्णवे च प्रमुषाय नमोनमः ॥४७॥
तीक्ष्णेषवे चायुधिने स्वायुधाय सुधन्वने ।
नमः स्रुत्याय पथ्याय काट्याय च नमोनमः ॥ ४८ ॥
नोप्याय च नमस्तुभ्यं कुल्याय च नमोनमः ।
सरस्याय नादेयाय वैशन्ताय नमोनमः ॥ ४ ॥
अवघ्याय च कुप्याय वौघ्राय च नमोनमः ।
आतप्याय च मेध्याय विद्युत्याय नमोनमः ॥ ५० ॥

वल्लालचरितम् ।
का
अवर्थाय च वर्षाय वात्याय च नमोनमः ।
नमो ब्रात्याय रेयाय वास्तव्याय नमोनमः ॥ ५१ ॥
वास्तुपाय च सोमाय रुद्राय च नमोनमः ।
अरुणाय च ताम्राय शङ्गवे च नमोनमः ॥ ५२ ॥
नम उग्राय भीमायाग्रेवधाय नमोऽस्तु ते ।
दूरवधाय हन्त्रे च नमो हनीयसे नमः ॥ ५३ ॥
सम्भवाय शङ्कराय मयोभवाय ते नमः ।
मयस्कराय च शिवतराय च शिवाय च ॥ ५४ ॥
अवार्य्याय च पायर्याय नमः प्रतरणाय च ।
उत्तरणाय तोयाय कुल्याय च नमोनमः ॥ ५५ ॥
नमः शष्याय फेण्याय सिकत्याय नमोनमः ।
प्रवाह्याय किंशिलाय क्षयणाय नमोनमः ॥ ५६ ॥
इरिण्याय प्रपथ्याय नमस्तुभ्यं पुलस्तये ।
नमो व्रज्याय गोष्ठाय तल्पाय च नमोनमः ॥ ५७ ॥
गेहाय च हृदय्याय निवेष्थाय च ते नमः ।
गह्वरेष्ठाय शुष्काय हरित्याय नमोनमः ॥ ५८ ॥
पांसव्याय रजस्थाय लोप्याय च नमोऽस्तु ते ।
उलप्याय च ऊवाय साय च नमोनमः ॥ ५८ ॥
पर्णशदाय पर्णाय नमश्वाभिघ्नते नमः ।
नम उद्गुरमाणाय नमः आखिदते नमः ॥ ६ ॥
इषुकद्भो धनुष्कृयो नमः प्रखिदते नमः ।
किरिकेभ्यश्च देवानां हृदयेभ्यो नमोनमः ॥ ६१ ॥

वल्लालचरितम् । विचिन्वत्केभ्यो वो विक्षिणत्केभ्यश्च नमो नमः । आनिहतेभ्यो युमभ्यं नमामि च पुनः पुनः ॥ ६२ ॥ भो अन्धसस्पते ट्रापे दरिद्र नीललोहित। प्रजानां नः पशूनाञ्च मार्मारोक् कथञ्चन ॥ ६३ ॥ इमा नो रुद्राय मतीस्तवसे प्रभरामहे । ग्राम विखे यथा शंस्यादिपदे च चतुष्पदे ॥ ६४ ॥ या ते रुद्र शिवतनूः शिवविखाहभेषजी। रुद्रस्य भेषजो रुट्र तया नो मुड़ जीवसे ॥ ६५ ॥ रुद्रस्य हेतिः परितो वृणक्तु त्वेषस्य चास्मासु न दुम्मतिश्च । स्थिराणि रुद्र ह्यवतारय त्वम् । तोकाय पौत्राय सुखं यथा स्यात् ॥ ६६ ॥ मीढुष्टम शिवतम शिवो नः सुमना भव । निधाय परमे वृक्षे आयुधं तव शङ्कर ॥ ६७ ॥ कत्तिं वसान आगच्छ पिनाकं धारयन् शिवः । नमस्तुभ्यं भगवते विकिरिद्रविलोहित ॥ ६८ ॥ या हेतयः सहस्रन्तेऽस्मदन्यं निवपन्तु ताः । यास्तव हेतयो वाह्वोः सहस्राणि सहस्रशः ॥ ६८ ॥ तासामीशानो भगवन् पराचीना मुखाकृधि । असंख्याताः सहस्राणि ये रुद्रा पधि भूतले ॥ ७० ॥ तेषां सहस्रयोजने धन्वानि यवतन्मसि । अस्मिन्महत्यन्तरीक्षेऽर्णवे सन्ति भवास्तु ये ॥ ७१ ॥ १३

८
"
वल्लालचरितम् ।
तेषां सहस्रयोजने धन्वानि चावतन्मसि ।
नीलग्रीवाः खेतकण्ठाः दिवं रुद्रा उपश्रिताः ॥ ७२ ॥
तेषां सहस्रयोजने धन्वानि चावतन्मसि ।
नीलग्रीवाः खेतकण्ठाः अधः शवाः क्षमाचराः ।
तेषां सहस्रयोजन धन्वानि चावतम्मसि.॥ ७३ ॥
शष्पिञ्जरा वृक्षेषु ये नीलग्रीवा विलोहिताः ।
तेषां सहस्रयोजन धन्वानि चावतम्मसि ॥ ७४ ॥
ये च भूतानामधिपा विशिखासः कपर्दिनः ।
तेषां सहस्रयोजने धन्वानि चावतन्मसि ॥ ७५ ॥
ऐलदा आयुयुधो ये पथाम्पतिरक्षसः ।
तेषां सहस्रयोजने धन्वानि चावतन्मसि ॥ ७६ ॥
ये च चरन्ति तीर्थानि मृकाहस्ता निषङ्गिणः ।
तेषां सहस्रयोजने धन्वानि चावतन्मसि ॥ ७७ ॥
ये चावेषु विविध्यन्ति पात्रेषु पिवतो जनान् ।
तेषां सहस्रयोजने धन्वानि चावतन्मसि ॥ ७८ ॥
एतावन्तश्च भूयांसो दिशो रुद्रा वितस्थिरे ।
तेषां सहस्रयोजने धन्वानि चावतन्मसि ॥ ७८ ॥
नमो रुद्रेभ्यो दुःस्थेभ्यो येषां वर्षन्तु सायकाः ।
सर्वदिक्षु विदिक्षु च तेषां कुर्बे दशाङ्गुलीः ॥ ८० ॥
नमोऽस्तु तेभ्यो नोऽवन्तु तथास्मान् मृड़यन्तु ते ।
जम्भे दधस्तमेतेषां यन्दियो यश्च देष्टि नः ॥ ८१ ॥

बझालचरितम्। 22 नमस्तेभ्योऽन्तरिक्षे ये येषां वातस्तु सायकाः । सदिक्षु विदिक्ष्वेव तेषां कुर्वे दशाङ्गुलीः ॥ ८२ ॥ नमस्तु तेभ्यो नोऽवन्तु तथास्मान् मृड़यन्तु ते । जम्भे दध्मस्तमतेषां यंद्वियो यच हेष्टि नः ॥ ८३ ॥ नमो रुद्रेभ्यो ये पृथ्वयां येषामन्वन्तु सायकाः । सर्वदिक्षु विदिक्ष्वेव तेषां कुर्वे दशाङ्गुलीः ॥ ८४ ॥ नमस्तु तेभ्यो नोऽवन्तु तथास्मान् मृड़यन्तु ते । जम्भेदमस्तमैतषां यंदियो यच हेष्टि नः ॥ ८५ ॥ इमां गीतां नरो रौद्री पठंश्चापि श्रवन् स्मरन् । प्रयाति रुद्रसालोक्यं न चासो जायते पुनः ॥ ८६ ॥ इति वल्लालचरिते व्यासपुराणे रुद्रगीतोपनिषत्सु विंशोऽध्यायः । ॐ ॐ (१) ख, उत्तरखण्डे भट्टप्रोक्ने त्यधिकः पाठः। - एकविंशोऽध्यायः । सिंहगिरिरवाच । एतत्ते कथितं व्यासपुराणं मनुजेश्वर । राजर्षिभ्यो यथा प्राह पुरा व्यासो महामुनिः ॥ १ ॥ भुव भोगान् यथाकामं पितॄन् देवान् च तर्पय ब्राह्मणांश्च प्रजानाथ दानवहुविधैः सदा ॥ २ ॥ कुरुपिटपिण्ड्यज्ञं सह राज्ञया नवीनया। शिलादेव्या महीपाल तस्यां पुत्रो भविष्यति ॥ ३ ॥ तुलापुरुषदानञ्च यज्ञे तत्र परन्तप । विधत्व नियतः कच्छचरित्वा धरणोपते ॥ ४ ॥ खस्त्यस्तु ते गमिष्यामि जगन्नाथपुरीं प्रति । पुनरेवागमिष्यामि यदा मां संस्मरिष्यसि ॥ ५ ॥ शरणदत्त उवाच। आख्यायवं पार्थिवाय मुनिः सिंहगिरिस्ततः । जगाम तैर्वृतः शिथै यः स राजन् समागतः ॥ ६ ॥ गते सिंहगिरौ राजा चिन्तयन् मनसि क्षणम् । पिण्डयन्ते च दानेषु मनो दधे पुन: पुन: ॥ ७ ॥ (१) आदर्श पुस्तफयोनास्ति । (२) क पुस के नास्ति ।

वल्लालचरितम्। . यन्नादीनां फलं ध्यायन् मन्त्रिणा च पुरोधसा । वलदेवेन विप्रैश्च मन्त्रयामास पार्थिवः ॥ ८ ॥ मन्त्रयित्वा ततो राजा तदानों ब्राह्मणैः सह । यज्ञञ्च दानानि कत्तुं करणाण्युपचक्रमे ॥ ८ ॥ आज्ञापयत् ततो भूप आदिदेवं रहस्विनम् । मन्त्रिणं सगुणैर्युक्तं कर्त्तव्यानि च सर्वशः ॥ १० ॥ राजोवाच । आनयन्तु यथा प्रोक्तं वलदेवादिभिहिजैः । सवंद्रव्यं यथायोगं यन्ने चैव विहापिते ॥ ११ ॥ हरदासो विष्णुदासो दुर्गासिंहश्च सत्वरम् । अन्नादीनाञ्च सम्भारान् शकर्टश्च यथाक्रमम् ॥ १२॥ विधीयतां यज्ञवाटः पताकादिविभूषितः । कार्यन्तामुपकाऱ्यांश्च राजन्यानां महात्मनाम् ॥ १३ ॥ शतञ्च सूत्रकण्ठानां पाके च परिवेशने । वीणावादञ्च गायन्ताम् नृत्यन्तां नटनर्तकाः ॥ १४ ॥ प्रेक्षागृहाच कार्यन्तां सान्तःपुरयोषिताम् । आमन्त्रान्तां ब्रह्मक्षत्रवैश्यसत्शूद्रजातयः ॥ १५ ॥ अनादिसुसमृद्धानि कार्यन्तां शरणान्युत । ब्राह्मणा वेदवेत्तारो वसेर्येषु पूजिताः ॥ १६ ॥ (१) क, पुस्तके नास्ति ।

१०२ बल्लालचरितम् । आइय लक्ष्मणं राजा प्राहेदं वचनं ततः । आमन्त्रयस्व यज्ञाय गत्वा वं विक्रमं पुरम् ॥ १७ ॥ श्रीसुखसेनं पिटव्यं कुमारञ्च ध्रुवं तथा । आगच्छन्तु च सवाणि तयो रन्तःपुराणि च ॥ १८ ॥ शरणदत्त उवाच। . गत्वासौ विक्रमपुरं लक्ष्मणः परवीरहा। सुखमामन्त्रयाञ्चक्र अभिवाद्य कृताञ्जलिः ॥ १८ ॥ ध्रुवश्व सुखसेनश्च सत्कृत्यामन्त्रितो मुदा। यज्ञाय जग्मतुर्गोंडं गृहीत्वान्तःपुराणि तौ ॥ २० ॥ यज्ञं वल्लालसेनस्य संश्रुत्य वैदिका विजाः । जग्मुः प्रहृष्टमनसो यनं यज्ञविदस्तदा ॥ २१ ॥ अनाहता रवाहता ब्राह्मणश्च धनाशया। समापितुः सर्वदिग्भाः शतशोऽथ सहस्रशः ॥ २२ ॥ ययुः सामन्तराजानो गृहीत्वोपायनानि च । सानुगा विविधैर्यानरनुभोक्तुं महोत्सवम् ॥ २३ ॥ आवमथान् ददुस्तेषां नृपतेरधिकारिणः । सुवहन् शोभनाकारान् भक्ष्यभोज्यसमन्वितान् ॥ २४ ॥ वलालं ते ततो दृष्ट्वा तेनाथ प्रतिपूजिताः । यथोद्दिष्टानावसथान् जग्मुस्ते मण्डलेश्वराः ॥ २५ ॥ (१) ख, लवणं (२) क पुस्तके नास्ति ।

वल्लालचरितम्। संविश्रम्य ततः कामं राजराजन्यकादयः । ददृशुस्ते प्रजानाथं पाण्डवं तं सदोगतम् ॥ २६ ॥ ततो विप्रा यथाकाले वेदवेदाङ्गपारगाः । दीक्षयामासु पतिं वलालं मल्हनात्मजम् ॥ २७ ॥ सुखसेनं विष्णुमल्लं प्रत्युद्गम्य धरापतिः । अभिवाद्याभिवादाही इदं वचनमब्रवीत् ॥ २८ ॥ धरमेनं यज्ञसेनं धम्ममिंहं ध्रुवं तथा । प्रसीदन्तु भवन्तो मां यज्ञादिदानकमासु ॥ २८ ॥ एवमुत्वा ततस्तान् स धाम्मिको धरणीपतिः । यथायोग्याधिकारेषु युयोजाधिकृतान् तदा ॥ ३० ॥ भक्ष्यभोज्याधिकारेषु भीमसेनमयोजयत् । अयुजद्दानाधिकारी दानाचायं वृहस्पतिम् ॥ ३१ ॥ अन्येष्वप्यधिकारषु पुरुषान् संन्ययोजयत् । परिग्रहे ब्रह्मक्षत्रविशां लक्ष्मण मुक्तवान् ॥ ३२ ॥ राज्ञो यज्ञसभा गौड़े नानापादपशोभिता । भ्राजिष्णु विथामवेश्मवती रम्या सुरूपिणी ॥ ३३ ॥ नानारत्नैः कुप्यरत्नैः कुथैथित्रवितानकैः । पर्यॉश्च पताकाभिर्ध्वजैश्च पयंशोभत ॥ ३४ ॥ स्थानान्युपकल्पितानि सगणानां पृथक् पृथक् । ब्राह्मणानां क्षत्रियाणां वणिजाञ्चान्त्यजन्मनाम् ॥ ३५ ॥ (१) ख, लवण।

वहालचरितम् । ब्राह्मणाः क्षत्रिया वैश्यास्तथा सत्शूद्रजातयः । नृपेणामन्दिताः सर्वे तत्र रासे रसं गताः ॥ ३६ ॥ भोजका राजपुत्राश्च राजराजन्यकादयः । महामाण्डलिकाः सर्वे चान्तरङ्गा महापदाः ॥ ३७ ॥ यथायोग्येष्वासनेषु निषेदुः प्रतिपूजिताः । वल्लालेन सभायां ते दिवीव त्रिदिवौकसः ॥ ३८ ॥ भ्राजमानः सभामध्ये सुत्रामेव सुधम्मणि । देवान् पितुंश्च यज्ञेन पापघ्नेनायजन्नृपः ॥ ३८ ॥ अथ सखड्गः सोष्णीषः सर्वाभरणभूषितः । पुष्टिकामोऽकरोद्राजा दानं कर्ण इवापरः ॥ ४० ॥ तत्रात्मपरिमाणन काञ्चनेन धरामरान् । दानेन तोषयामास सहस्रदक्षिणावता ॥ ४१ ॥ अपवर्गेऽभिरूपान् स ब्राह्मणान् नृपतिस्ततः । अन्यांश्च भोजयामास शतशोऽथ सहस्रशः ॥ ४२ ॥ देवा वभूवुः पितरश्च तत्र हव्येच कव्यै नितरां सुटताः । भूदेव वर्गास्तपनीयदाने भॊज्यानपानैर्वहुदक्षिणाभिः ॥ ४३ ॥ इत्यानन्द भट्टप्रोक्त शरणदत्तीये वल्लालचरिते यज्ञोत्सवो- नाम एकविंशोऽध्यायः । (१) ख, श्रीमदानन्द | (२) ख, वल्लालचरिते उत्तरखण्ड इत्यधिकः पाठः।

अथ द्वाविंशोऽध्यायः । ज्ञातयश्व कुटुम्बाश्च मिलिताश्च ततोऽन्यदा । भोज्यशालां प्रविविशूराणका राजपुत्रका: ॥ १ ॥ आसनेषूपविष्टेषु ततस्तेषु महात्मसु । भुज्यमानेषु मर्वेषु वल्लालेन मुदा मह ॥ २ ॥ मत्शूद्राणां गणास्तवापरा भोजनशालिकाः । स्पईया विविशुभॊक्तं विशां न दृश्यते स्थली ॥ ३ ॥ तस्मिन्नवसरे वैश्या मन्त्रयन्त: परस्परम् । उत्तस्थु निर्यातुकामास्तदानीं राजसद्मनः ॥ ४ ॥ यदा केचिदहिर्याताः केचिदा गमनोद्यताः । तदा ताननुगत्याह भीमसेनो विनीतवत् ॥ ५ ॥ अनाहाराः किमर्थ भी निर्गच्छथ महाजनाः । अस्मासु वो यदाकूतं सर्वथार्हथ भाषितुम् ॥ ६ ॥ तच्छ्रुत्वा वणिजः प्राहुः श्रूयतां भो महाशय । स्पृष्टास्सृष्टिः समभवत् तदर्थ भोक्तुमक्षमाः ॥ ७ ॥ अनादृत्य यतस्तेषां भीमसेनोऽतिकोपनः । शूद्राणामोशी स्पर्दा इत्युबा तानवाक्षिपत् ॥ ८ ॥ (१) पुस्तके नास्ति। १४ वडामचरितम्। ततो वादातिवादाश्च बभूवुः कुपितस्तदा । भीमसेनोऽब्रवीदाक्यं परुषं राजवल्लभः ॥ ८ ॥ ततस्ते वणिजः सर्वे निर्ययूराजसद्मनः । प्राक्रोशन्तो विक्रोशन्तो वर्षान्ते वारिदा इव ॥ १० ॥ इत्यानन्दभप्रोक्ते शरणदत्तीये वल्लालचरिते वणिजावमाननं नाम हाविंशोऽध्यायः । (१) स, इति श्रीमहामन्दभमोन वल्लालचरिते उत्तरखराहे त्यधिकः पाठ अथ बयोविंशोऽध्यायः । अथान्येयुः सभासोनमभ्येत्य पृथिवीखरं । जचे भूमिन्यस्तजानुीमो नृपतिवल्लभः ॥ १ ॥ देव सर्वे शूद्रगणा भोजनैः परितोषिताः । सुवर्णा वणिजो दर्पादभुत्व विनिर्गताः ॥ २ ॥ वणिजोऽतिदुरात्मानोऽविनीताः कुलगविताः । ब्रह्मक्षत्रपंक्तिभोज्यं ते काहन्ति दुराशयाः ॥ ३ ॥ भोज्यभूमिं विलोक्यापि विहीनं वृषलजनैः । श्रीमन्तमवजानन्तो गतवन्तो यथागतम् ॥ ४ ॥ सर्वेषां वणिजां नेता वल्लभः स दुराशयः । पालहतो महाराज त्वया सह विरुध्यते ॥ ५ ॥ वर्णमानोऽस्य भवति जामाता मगधेखरः । धरां स मन्यते तेन शरावमिव गर्वितः ॥ ६ ॥ एतदाकर्ण्य नृपतिर्भीमसेनवचस्तदा । ज्वलनो हवनेनेव प्रजज्वाल स मन्युना ॥ ७ ॥ दन्तान् कटकटाय्यासौ राजा राजामनोपरि । चकाशे गगणरूढ़स्तडित्वानिव घोषवान् ॥ ८ ॥ पपात मस्तकात्तस्य किरौटं होरकोज्ज्वलम् । कम्पमानतनोः सायमुल्कापिण्ड मिवाम्बरात् ॥ ८ ॥ (१) कपुस्तके माक्ति।

वल्लालचरितम् ।
तदानीं राजवल्लालः क्रोधघूर्णहिलोचनः ।
वणिजां दर्पचूर्णा शपथं कृतवान् भृशम् ॥ १० ॥
राजोवाच ।
यदि दाभिकान् सुवर्णान् वणिजः शूद्रत्वे न पातयिष्यामि,
वल्लभचन्द्रसौदागिरस्य दुरात्मनो दण्डं न विधास्यामि, तदा गो-
ब्राह्मणघातन यानि पातकानि भवितव्यानि तानि मे भविष्य-
न्तीति । धार्तराष्ट्राणां विनाशाय भीमसेनेन यादृश: शपथः कृतः
एतेषां पातनाय शपथो मे तादृशो ज्ञातव्यः, अद्यावधि एते सर्च
शूद्रवद्ग्राह्याः। व्यर्थमेषां यज्ञसूत्रधारणमतःपरमेतेषां याजना-
ध्यापने प्रतिग्रहच ये ब्राह्मणाः करिष्यन्ति, ते ज्वलन्तोऽपि पति-
ष्यन्ति, नान्यथा ॥ ११ ॥
.
अचिरणायमादेशोऽभवद्राष्ट्र प्रचारितः ।
तच्छ्रुत्वा मन्त्रयामासु वणिजो मिलितास्तदा ॥ १२ ॥
अविचारात्ततो राज्ञः क्रोधकम्पत्कलेवराः ।
करुधुनगरागौड़ाद दासानां व्यवसायिनः ॥ १३ ॥
हिगुणं त्रिगुणं मूल्यं दामानां प्रददुर्विशः ।
दासाभावात्
महाकष्टं बभूव सर्वजातिषु ॥ १४ ॥
एवम्भत महाकष्टे प्रजावनिवेदितः ।
कर्तव्यं चिन्तयामास तदानीं भुवनेश्वरः ॥ १५ ॥
नान्योपायं तदा दृष्ट्वा ब्राह्मणानन्वशादिदम् ।
कार्या लोकहितार्थाय कैवर्ता दास्यकम्मसु ॥ १६ ॥

वहालचरितम् । अलीन् । कम्माराश्च दास्यकामास्तु कैवर्ता श्रुत्वा नृपतिशासनम् । आजग्मुस्ते राजकुलं शतशोऽथ सहस्रशः ॥ १७ ॥ तान् चाब्रवीत्ततो राजा गलवस्वकृताञ्ज वृत्तिर्वो दीयते सेवा गच्छध्वं व्यवहारताम् ॥ १८ ॥ महामाण्ड लिकं कृत्वा ततस्तेषां महत्तरं । महेशं दक्षिणाघाटे प्रेरयामास पार्थिवः ॥ १८ ॥ मालाकाराः कुम्भकाराः ततोऽन्यदा। युक्तहस्ता गलेवस्त्राः पुरस्तस्थुर्महीक्षितः ॥ २० ॥ सन्तुष्टः सेवया तेषां व्याजहार वचो नृपः । यूयं सत्शूद्रवद्वाह्या भवेत वचनान्मम ॥ २१ ॥ अशुचिर्वचनाद्यस्य शुचिर्भवति मानवः । शुचिश्चैवाशुचिः सम्यक् कथं राजा न दैवतम् ॥ २२ ॥ कालेन गच्छता राजा दासानां व्यवसायिनः । ब्रह्मत्वाच्चयावयामास ब्रह्मबन्धून् सुदुम्मतीन् ॥ १३ ॥ स्वसेवायां नियुक्तञ्च धावञ्चक्रे महत्तरम् । ठकुरं च चकारासौ प्रसन्नो राजनापितम् ॥ १४ ॥ (१) ख, कैवर्तानां प्रधानं यं पुराचक्रे महत्तरम् । महामाण्डलिकं चक्रे तमिदानों महीपतिः ॥ ततस्तं वृतं स्वगणैर्नानाप्रहरणायुतम् । महेशं दक्षिणाघाटे प्रेरयामास भूपतिः ॥ (२) ख, तस्मिनवमरे केचिन्मन्त्रयित्वा परस्परम् । अभ्येत्य काश्यपीकान्तं ब्राह्मणा वाक्यमब्रुवन् ।

बल्लाल चरितम् । ॥ अनाहतस्वधम्मान् स विलोक्य वणिजस्ततः । आदिशत् तान् नृप: सान् यज्ञ मूत्राणि वर्जितम् ॥१५॥ त्यजन्तु यज्ञसूत्राणि वणिजो राष्ट्रवासिनः । त्यजेद्यो न स दण्डयः स्यात् मेवकान्बृप इत्यशात् ॥ १६ ॥ आहत्य डिण्डिमान् भृत्या नगरे नगरे विशाम् । राजाज्ञां घोषयामासुश्चत्वरेषु च वीथिषु ॥ १७ ॥ राजाज्ञामवजानन्तो धर्माभीता महाजनाः । बरमाणा दिशो जग्मुः सदारादिपरिच्छदाः ॥ १८ ॥ ब्राह्मणा जचः। वयं श्रेष्ठा हि वर्णानां जात्या चैव कुलेन च । सुवर्णा वणिजो दर्पादेवं वदन्ति सर्वदा ॥ दामोवंशज इत्येवं वदन्तो मनुजेश्वर । ब्राह्मणान् महंशजातानमानुपहन्ति ते ॥ यज्ञोपवीतिनः सर्वे सुवर्णाः सौम्यदशनाः बाह्मणास्तान भ्रान्तबुधा नमस्कुर्वन्ति सर्वदा ॥ तेषां हि धर्महननं कर्तव्यं पृथिवीपते । सवयुन यथास्माभिविप्रैः सत्कु नजैः सह । ब्रह्मक्षवकले जातमायुमन्तं जनेश्वर । अवमत्य यहदन्ति वह्न तन्नेह माम्प्रतम् ॥ सान् यज्ञोपवीतेभ्यः तान् च्यावय महीयते । सर्व ते धर्महनमात् पतिष्यन्ति न संशयः ॥ एक मुक्का महीपालं विरेमुस्ते हिजोत्तमाः । ऋपतिमहताविष्टः क्रोधेनासो जगह।

वल्लालचरितम् । अयोध्यां प्रययुः केचित् केचिन्मुहगिरिं तथा । चन्द्रमायुतं पाट्लीञ्च ताम्रलिप्तीञ्च केचन ॥ १८ ॥ तथोदयं पुरं केचित् केचिन्मानगढ़ ययुः, विनीतञ्च पुरं केचिच्छ्रिङ्खलामपि केचन ॥ २० ॥ येन यातास्तु ते सर्वे राजदण्डभयाहिताः । तत्यजुर्यज्ञसूत्राणि हैमानि तान्तवाणि च ॥ २१ ॥ तत्रानेहसि वल्लालो विलोक्य व्याकुलं कुलम् । ब्रह्मणाञ्च क्षत्रियाणां मन्त्रयामास वैदिकैः ॥ २२ ॥ विविय वीजमाहात्मा तत: संस्कारयंश्च तान् । ब्रह्मत्वं क्षत्रियत्वञ्च कल्पयामास स प्रभुः ॥ २३ ॥ इत्यान्द भट्टप्रोक्त शरणदत्तीये वल्लालचरित जातीनां पातनोनयनादिनाम- त्रयोविंशोऽध्यायः ॥ .. (१) स्ख, विशः। (२) अयं श्लोकः कपुस्तके नास्ति । (३) ख, अक्षमा ये तु यातुं ते । (४) स्ख, इति श्रीमदानन्दभट्टप्रोने वलालचरिते उत्तरखराडे ।

अथ चतुर्विशोऽध्यायः पुरा श्रीराजवल्लालो वसन् गौड़े पुरोत्तमे। अर्हतामनुरूपाणामुपाचक्र पृथुप्रथः ॥ १ ॥ कारयित्वा मठं सौम्यं न्यस्तचित्रशिलातलम् । पक्केष्ट कामयं दिव्यं शयनासनसंयुतम् ॥ २ ॥ सुभीमं चित्रशालाम्यम् दृढ़स्तम्भम् मनोहरम् । न्यस्तग्रन्याधारभूतप्रत्यग्रनागदन्तकम् ॥ ३ ॥ नानापुष्पफलालोलरम्यारामविभूषितम् । अत्यच्छस्वादुपानीय-सम्पन्नसलिलाशयम् ॥ ४ ॥ हारवातायनोपेतं नानोपस्करसंयुतम् । सुधोपलिप्तम् खेताभम् सदनादिप्रपूरितम् ॥ ५ ॥ व्याख्यानध्यानहोमादिपठनस्थलशोभितम् । यतीनां पथिकानाञ्च वासवेश्मसमन्वितम् ॥ ६ ॥ गुद्यापचरकर्युक्तं प्रद्युम्नेश्वरसविधी। योगिनः श्रीसिंहगिरविधिनासौ न्यवेदयत् ॥ ७ ॥ कौपीनेन्धनवस्वादिवस्तूनां प्राप्तये तथा । प्रददौ विपुलां भूमि राजा श्रद्धासमन्वितः ॥ ८॥ (१) कपुस्तके नास्ति। (२) क. गुहापवरकैः।

वज्ञालचरितम्। ततः सर्वगुणोत्कर्षशद्धबुद्धि पोत्तमः । ताम्रपट्टे कारयित्वा शासमं परशासनः ॥ ८ ॥ सुवर्णभुक्तिकस्यान्तामं कासारकं ददौ । वर्षवृद्धी महाराजो गौतमानन्तशर्मपणे ॥ १० ॥ उपक्लृप्तभच्यभोज्यमबंधान्यसमन्वितम् । दासदासीसमायुक्त सोपस्करसंयुतम् ॥ ११ ॥ सुधावलिप्तं सुदृढ़ कपाटार्गलयन्त्रितम् । शुभप्रवेशनिष्काशं जालादिपरिशोभितम् ॥ १२ ॥ एवंविधं कारयित्वा बहुशो भवनं नृपः । दाक्षिणात्यान् ततस्तेषु वासयामास भूसुरान् ॥ १३ ॥ स्वर्णदानं रौप्यदानं गोदानञ्च धरापतिः । दानञ्च विविधचक्र नित्यनैमित्तिकादिकम् ॥ १४ ॥ नानोपभोगानुपभुजतः सत्- पात्रेषु दानं ददतश्च नित्यम् । जगाम कालः सुखतः समानो भूतो न कथिडवितास्ति चास्य ॥ १५ ॥ १। खपुस्तके स्वर्ण दानेत्यादिश्लोकस्थले अयं श्लोकः पद्यते । ततो लक्ष्मण सेनस्य राजा जन्ममहोत्सवे । ब्राह्मणान् धनिनचक्र मत्वा यज्ञ कतन्तु १५ वल्लालचरितम् । न येन भुक्ताः सुखदाः सभोगाः दानं न दत्तं धनिनाहताञ्च ॥ अवाप्यते तेन कठोरघोर दुःसह्यदुःखमधिकं परत्र ॥ १६ ॥ इत्यानन्द भट्टप्रोत वल्लालचरिते दानवम्मानुष्ठानं नाम चतुर्विशोऽध्यायः । (१) इति श्रीमदानन्द । (२) खपुस्तके उत्तरखण्डे इत्यधिकः पाठः।

अथ पञ्चविंशोऽध्यायः । ॐनमः शिवाय। आदित्यवर्णस्तमसः परस्तात् हिरण्यगर्भो जगदन्तरात्मा । त्वत्तोऽस्ति जातः पुरुषः पुराण: त्वत्तोऽपि वेदा जय देव देव ॥ १ ॥ त्वत्तः प्रसूता जगतः प्रसूतिः सर्वानुभूस्त्वं परमाणुभूतः। अनोरणीयान् महतो महीयान् आनन्दरुप जय देव शम्भो ॥ २ ॥ त्वमेव विष्णुश्चतुराननस्त्वम् त्वमेव रुद्रो भगवाम् महेशः । खं ब्रह्म शून्यं सगुणो गुणश्च चिन्मावरुपो जय देव सर्व ॥ ३ ॥ एकोरुद्रस्त्वं करोषीह विश्वम् लं पालयस्यखिलं विश्वरूपम् । बामेवान्ते निलयं विन्दतीदम् वन्दामहे जयदेवादिदेव ॥ ४ ॥ (१) कपुस्तके नास्ति। - (२) क, ख, सगुणागुणाच। (३) क, त्वां वन्दिम जयदेवदेव ।

१ वहानचरितम् । प्रमुञ्चमान अमृतस्य धारा समिहि तापं सुरमानुषाणाम् । अनन्तरुपं खलु बोधयन्ति त्वामेव वेदा जय विखनाथ ॥ ५ ॥ अधिमुक्तिविमुक्तिप्रदं भवम् महामुनिं ब्रह्मपरं पवित्रम् । शिरसा वन्दामहे जगद्गुरुम् स्वयम्भुवं देव जय लोकनाथ ॥ ६ ॥ त्रातामि दीप्तोसि परायणोसि नाथोसि लोके प्रणतोऽस्मि तुभ्यम् । वैद्योत्तमस्त्वं खलु गल्यहर्ता चिकित्सकस्त्वं जय देवदेव ॥ ७ ॥ अमलं विमलं रजताद्रिनिभम् भवपारकार जगदर्थकरम् । पञ्चधा विमोक्षवर चक्षुःप्रदम् वन्दामहे त्रिनयनं जय देव ॥ ८ ॥ सहस्रपादाक्षिशिरोभियुक्तम् सहस्रवाई परतः परस्तात्। वां ब्रह्मपारं प्रणमामि शम्भुम् पिनाकिनं त्वां जय देवदेव ॥ ८ ॥ (१) का वन्दिम वां। (२) क. पन्दामि त्वां।

वालचरितम् । उमाधवोग्राय भवोद्भवाय नमामि सर्वाय हराय तुभ्यम् । कालाय भर्गाय प्रभाकराय सर्वात्मने देव नमः शिवाय ॥ १० ॥ इति श्रीमदानन्दभट्टप्रोक्ते वल्लालचरिते कालिदासनन्दि- लिखित-श्रीजयमङ्गलगाथा-कीर्तनं नाम पञ्चविंशोऽध्यायः ।

अथ षड़ विंशोऽध्याय:। अथ निर्वासितः पूर्व गणेधम्मगिरिः सह । वृत्तिहीनो ययौ दूर देशाद्देशान्तरं भ्रमन् ॥ १ ॥ राजाज्ञया कृतं ध्यायनवमानं च पोड़नम् ।' वस्य भ्रष्टाधिकारञ्च न लेभे निर्वृति गिरिः ॥ २ ॥ वैरस्थान्तं चिन्तयान आवर्त्य वत्सरान् ततः । "वायादुम्बं ददर्शासौ म्लेच्छेशं स्वगणैर्वृतम् ॥ ३ ॥ वल्लालधनरत्नानां उत्थाप्य पणनात् स तम् । म्लेच्छेशं निशि तत् सैन्यैर्यरुणविक्रमं पुरम् ॥ ४ ॥ धूम्रवर्णो धनुर्धारी धनुभानिव वारिदः । वायादुम्बः सैन्यमध्ये जगज च ललम्फ च ॥ ५ ॥ कुद्दालपरशुग्राहं कुईनोमिमहास्वनम् । अट्टहासवारिहासं तत्सैन्यं सागरायते ॥ ६ ॥ पहातः कम्पयन् पृथ्वौं हुङ्कारैश्च दिशो दश । नादयन् पञ्चसाहस्रं म्लेच्छसैन्यं ननत ह ॥ ७ ॥ अथ भोगसुखाच्छन्नो राजान्तःपुरमध्यगः । कालेऽविदितवृत्तान्तश्विराय प्रत्यबुध्यत ॥ ८ ॥ (१) क, अपमानप्रपीड़नौ। (3) कपुस्तके नास्ति।

बल्लालचरितम्।
११६
प्रभाते पारायः श्रुत्वा महाहलहलारवम् ।
कान्ताभुजलतां हित्वा जग्राहासिलतां तदा ॥ ८ ॥
प्रशोधिताम्बुपरिखाञ्चाटयन्त्रविवर्जिताम् ।
चिन्तयन् पुरमात्मानममंत निहतं नृपः ॥ १० ॥
ततो विलोक्य राजानं युद्धयात्रासमुद्यतम् ।
सर्वा राजसीमन्तिन्यो वाष्याकुलविलोचनाः ॥ ११ ॥
शिलादेवी च पद्माक्षी सुभगा हेममालिका ।
सोनदेवा च चण्डेली तमुपेत्य वभाषिरे ।
माभूदभद्रं युद्धेऽस्मिन् भद्राभद्रं भवेद्यदि ॥ १२ ॥
अनाथाः किं करिष्यामो वद नाथ तदावलाः ।
तच्छ्रुत्वा वचनं तासां राजा वाष्याविलेक्षण: ॥ १३ ॥
परिष्यज्य क्रमात्ताश्च चुम्बित्वा वदनेषु च ।
प्रत्यूचे मुखपद्मानि तासां पश्यन् महीपतिः ॥ १४ ॥
पारावतयं याति प्रेयस्यः समराङ्गणम् ।
यदि तौ प्रत्यागच्छेताम् खगौ प्राकृत्तिकाविव ॥ १५ ॥
तदानी ज्ञास्यथास्माकं रणक्षेत्रे पराजयम् ।
रक्षितुं वो सतीधम्म यवनेभ्यो वराननाः ।
वङ्गिं प्रज्वालयिष्यन्ति भृत्या दत्ताज्ञया मया ॥ १६ ॥
इत्युत्वा पुनरालिय चुम्बित्वा च पुन: पुन: ।
सत्रहो युद्धयात्रा स चकार स्ववलैर्वृतः ॥ १७ ॥
तस्याभिषणनं रेजे नानाप्रहरणायुतम् ।
हस्त्याशेहरखवारै रथिभिश्च पदातिभिः ॥ १८ ॥

वहालचरितम् । ॥ ततोभूत्तुमुलं युद्ध म्लेच्छक्षयकरं महत् । हताहतयोडवर्ग-रक्तप्लावितभूतलम् ॥ १८ ॥ जज नष्टंबलं तत्र वायादुम्बम् महावलम् । रुरोध क्षमापतियुद्धे श्रीराम इव रावणम् ॥ २० ॥ ततस्तरसा विक्रम्य शीघ्रहस्तो महीपतिः । मस्तकं तस्य चिच्छेद नमूचेरिव वासवः ॥ २१ ॥ जयश्रीवरयामास दामहस्ता नृपं यदा । दामहस्तास्तदा दुम्बमवघ्नन् यमकिकराः ॥ २२ ॥ काले तस्मिन् भाग्यदोषात् पिञ्जरात्रिःसृती खगौ। उन्मुक्ती केनचिदा चेत् रामपाल'पुरं गतौ ॥ २३ ॥ तत्र पारावतौ दृष्ट्वा यमदूताविवागतौ । सर्वा ज्वलदह्निकुण्डे पेतुर्नृपतियोषितः ॥ २४ ॥ इति वल्लालचरिते श्रीमदानन्दभट्टकृतं खिलवल्लालचरितं नाम षड़विंशोऽध्यायः । (१) ख, वडालस्य ।

अथ सप्तविंशोऽध्यायः१ । पिञ्जरं शून्यमालक्ष्य रणक्षेत्रे महीपतिः । अत्यन्तमशुभाशङ्की त्वरया स परातत् ॥ १ ॥ वह्निध्वजं पश्यमानो दूरतः परमाकुलः । ततः खं प्राविशद्देश्म सर्वनाशं विलोकितुम् ॥ २ ॥ दृष्ट्वाईदग्धा ज्वलने स्वपत्नी रुम्मत्तरूपो नितरां बभूव । निवार्यमानोपि जन: प्रयत्नात् पपात राजा ज्वलदग्निकुण्डे ॥ ३ ॥ सहस्रेऽष्टविंशयुते शकाब्दे पृथिवीपतिः । स्त्रीभिः साई महाभाग उत्पपात दिवं प्रति ॥ ४ ॥ श्रूयतेऽत्र प्रवचनं पारम्पयंक्रमागतम् । वल्लालोऽनुययौ युद्धे पितरं शौर्यशालिनम् ॥ ५ ॥ मिथिलायां स्थितस्तत्र कश्चिद्योगी धृतव्रतः । वल्लालो युद्धयात्रायां तरसा तमलवयत् ॥ ६ ॥ । (१) कपुस्तके नास्ति । (२) क ख, सपत्री (३) ख, राज्याभिषेकमारभ्य चत्वारिंशतममा यदा मासदयं व्यतीतच स पञ्चषतिडायनः । इत्यधिकः लोकः । १६ बजान्न चरितम् । अश्वपादनाभिहती वलालमशपन्मुनिः । मकलत्रो वह्निकुण्डे पतित्वा त्वं मरिथसि ॥ ७ ॥ तत् स्मृत्वा ब्रह्मशापं स विजयं लब्धवानपि । चिन्तयामास मनसि मृत्युकाल उपस्थितः ॥ ८ ॥ तेनैव विवशो राजा ध्रुवं ज्वलनमाविशत् । ब्रह्मशापादृते नैव विपत्तिर्भवेदीदृशी ॥ ८ ॥ म ब्रह्मदण्डन पुग हतोऽभूत् दारैश्च माईमवनीश्वरः मः । कपोतप्रत्यागमनञ्च मृत्यो राजश्च शोको न हि मुख्यतुः ॥ १० ॥ राजन् जानासि भद्रं ते इयं शिवजला शुभा। कीर्तिशेष गतवतः कीतिं वदति दीर्घिका ॥ १ ॥ गज्ञो विनष्टीकतकीर्तिजाते गवाशनः कालवशाच्च पापः । कोल्नयासाविव विद्यमानः हाहा गतः क्वावनिनाथवंशः ॥ ४ ॥ आनन्दभट्टकविना कलितं प्रयत्ने- क्सास्यपसजविनिःसृतवागुपेतम् । वालालराजचरितम् नवचन्द्ररूपं सल्लोकट्टत्कुमुदिनी विकसीकरोतु ॥ ५ ॥ (१) ख, परन् रे मर दुम्म॑ते ।

वलालचरितम।
यद्याहृतं भट्टपादैरुक्तं यच्चान्यसूरिभिः ।
तत्तद्राजचरित्रेऽस्मिन् वाल्लाले प्रकटीकृतम् ॥ ६ ॥
निर्बाह्मण्यं पृयिवी सुभौमेन कृतति यत् ।
उक्तं तत्तु राजभयादिति मन्यामहे वयम् ॥ ७ ॥
तत्तु क्रीड़ार्थमथवा भट्टपादैरुदाहृतम् ।
मध्ये व्यासपुराणस्य भवेहा तन्निरर्थकम् ॥ ८ ॥
निःक्षत्रियेयं वसुधा भार्गवण कता पुरा ।
एवं हि भारत प्राह स्वयं व्यामो महामुनिः ॥ ८ ॥
क्षत्रायां ब्राह्मणाच्छेत्री राजपुत्रो य उच्यते ।
सुवर्णा नोपनयनाइणिजो व्रात्यतां गताः ॥ १० ॥
गोपो माली च ताम्बूली कांसारतन्त्रिशंखिकाः ।
कुलालः कम्मकारश्च नापितो नव शायकाः ॥ ११ ॥
तैलिको गान्धिको वैद्यः सत्शूद्राश्च प्रकीर्तिताः ।
सत्शूद्रानान्तु सर्वेषां कायस्थ उत्तमः स्मृतः ॥ १२ ॥
विष्णुपादोद्भवा गङ्गा पुनाति भुवनत्रयं
शतं जीव महाराज तस्याः महजवंशज ॥ १३ ॥
यद्यत् प्रियतमं लोके यस्मिंश ग्मत मनः ।
तत्तदच्युतमुद्दिश्य विप्रेभ्यः प्रतिपादय ॥ १४ ॥
नवदीपपतेः श्रीमबुद्धिमन्तस्य भूभुजः ।
सभासीनस्य सडु रग्रे पठनपूर्वकम् ॥ १५ ॥
शाके चतुर्दशशते मनुष्यरदनायुते ।
पौष शुक्ल द्वितीयायां तज्जन्मतिथिवासरे ॥ १६ ॥

वल्लालचरितम् । आनन्दभट्टविदुषा विदग्धकुलवेधसा वल्लालचरितं तस्मै मया दत्तं सहाशिषा ॥ १७ ॥ यस्येदं विद्यते गैहे वल्लालचरितं शुभम् । इह पुण्यं स लभते परत्र च पर गतिम् ॥ १८ ॥ इति दाक्षिणात्यद्राविडश्रीमदनन्तभदृवंशोद्भवत्रीमदानन्दभट्ट- महामहोपाध्यायकतखिलवल्लालचरितं समाप्तमिति । ॐ वल्लालचरितम् । १२५ क गुरवे नमः । शुभमस्तु शकाब्दाः १६२८ । कामदेवचक्रवर्तिण: आत्मज- श्रीलक्ष्मीनारायणदेवशम्मणः स्वाक्षरम् । श्रीरामजीवनरायस्य स्वीयपुस्तकमिति । साहारंदेवपञ्चत्वाब्दे समाप्तश्चायं ग्रन्थः । श्रीकृष्णाय नमः श्रीरस्तु मयि लेखके । गौरीशो जयति। नामान्यथा यदि पुनश्च कश्चित् मिथ्यानुवादं हरते च पुस्तिम् । नेत्रस्य हानि तनयस्य शोक साङ्गकुष्ठं लभते च नूनम् ॥ रुद्रशे"षसमायां च शुभमस्त्वेकमार्गनाः । ग्रह स्तु वसु ना साई प्रौष्ठपद्यां दिवा सिते । लेखको विष्णुपुत्रश्च ततः शाण्डिल्यवन्धकः । नाना प्रकीर्तयेल्लोकः श्रीमान् मुरलीधरः ॥ भाद्रे मासि सिते पक्षे एकादश्यां बुधवासरे। लिखितन्तु इदं यत्नात् वल्लालचरितं शुभम् । श्रीश्रीयुगाद्यायै नमोस्तु सततं मम ॥ श्रीमुरलीधरदेवशम्मण: पुस्तक मिदम् । ख THE ?IC SOCIETY. **LCUTTA

No text on this page.

No text on this page.

. ... .. ... ... 1 7 Shared 1 1 .. 14 1 1 0 5 ... 8 of Āzidi, (Text) Fisc. 1/6/ each ... Parvan Text) 'Faso 10@16) each Rs. 1 14. akrita-Paingålein, Faso: 1-7 @ /6/ each'. 2 10 ithivirăj Rása. (Text) Part II, Fasc. 1--6 @16) sach 1 14 Ditto (English) Part II, Fasc. 1 0 12 frākrta Lakşaņam, (Text) Fasc. 1 8. criçara Smști, (Text) Vol. I, Fasc. 1--8; Vol. II, l'asc. 1--6; Vol III, Fasc. 1.-6 @/6/ each 8 rāçara, Institutes of (English) 0 12 iband acintămaņi (English) Fasc. )--3 @/1.0/ each 2 4 5014 Võda Sainhitā, (Text) Vols 1, Fasc. 5--10; II, 1-6; III, 1-.7 ; IV, 1.-6; V, 1-8, @/6) cach Fasc. 12 6 pinkhya Sūtra Vștti, (l'ext) Fase 1-4 @ /6/cach 8 Ditto (English) Fas 1.3 ( 12/ each 2 4 uçruta Saribitá, (ing ) Fasc. 1 @ 112/ wach 0 12 radha kriyā kaumudi, Fasc 15 @ // J4 Taittereya Sainhita, (Text) Fasc. 14-45@16) each 2 'åndya Brāhmana, (l'exc) Fisc 1-19 @,/6/ euch 7 % antravarteka (English) F.l-c. 1 0 12 attva Cintamani, (Text) Vol. I, fue 1-9, Vol 11, Fase. 1-10, | Vol. III, Fasc. 1 2. Vol. IV, Fasc. 1, Vol. V, Fise 1-5, l'art IV', Vol. II, Fisc. 1.-12 @ 111 each 10 attvarthadhiyana Sutrım Fase 1 0 frikāņda-Mandanam, (Test) Fasc. 1-3 @ 16/ 2 Pul'si Sat'sai, (Text) Fus. 1-5 (1) // :h 14 pamita-lluva-prapanci-kathā (Text) Fisc. 1.6 m /6/ euch 2 4 Svāsagadasão ('lert and English) Fasc. 1-6 @/12/ 4 allāla Caritam Fasc ] -- Text only 8 Faraha Murāni, (Tert) Fusc. 1-11 W,/61 pach 4 Yarsi Krya Kammuli, F241 ) --5 W, 76/ each 1 14 Vāyu Puränı, (Text) Vol. I, Fasc.2.6 , Vol. II, Fase 1--7, @/6/ cach 8 TudharParijatud, Fisc. l-1 ?isņu Smrti, (Text) Fase 1-20/6/cach 0 12 Iivāılaratulud, (Text) lise 1-7 (@, 76/ each 2 Tphamnīra liya Piirāna, (Text) Fase 1-ti (@, 16/ 2 4 ?phit Svayain hū Pwani, Finse 1.-; ... 2 + Tiltan Surics. Pak Sam Thi S'iña, Finc 1.-4@11 mach sher-l'hyii, Vol. 1, F240 1.5.; Vol 11, Eve. 1-3; Vol III, Fasc. 1--5, () 1) euch 13 {toux brjord il pag lekhri S'in (Tib. & Saus. Vol. I, Faxe 1-5; Vol. II. Fasc. 1--5 @ 1/ each 10 0 trubic and Persian Series, Alamgirnāmal, with Inder, (lest, Kav 1. 13 W, 16; cach 4 11 Al-Muqaddesi (English) Vol 1, Fase 1--3 @/12/ 2 4 kinh-i- 1kb: tĩ, (Text) Else 1.22 (a 17 tell 2: 0 Ditto (English) Vol. I, Fase 1--7, Vol. II, Fisc. 1-5, Vul III, Fise 1.-5, @1/12/ each 29 12 Akbarnāmall, with Index, ('Text) Fase 1--37 @ 1/ cach :37 Ditto (Engli: l1) Fisc. 1-8 @ 1/ enchi 0) ibic Bibliography, by Dr. A. Sprenger 0 6 lshāhnānih, with Index, (Text) Fise 1.-19 @/6/ each talogue of Arabic Books and Manuscripts () talogne of the Persian Books and Manuscripts in the Library of the Asiatic Society of Bengal. Fac 1-3 @ 1/ each 3 ctionary of arabic technical Terms, in Appendix, Fisc. 1-21 @ 1/ each 21 0 rhang-i-Rashidi, (Text) Fuse 1-14 @ 1/ each - rrist-i-f'isi. or, Tūry's list of Shy'all Books, (Text) Filsc. 1.-4/12/ each 3 0) tūh-ush-Sham of Waqidi, (Text) Fanc 1-9 3 Ditto /6/ each ift Asman, History of the Persiun Masna vi, (Text) Fisc. 1 0) 12 story of the Caliphs, (English) Fasc. 1 -- @/12/ each 4 8 bằInămah-i-Jahăngiti, (Text) Fas. 1-3 @ // each 1 2 ibah, with Supplement, (Text) 51 Fasc. @/12/ each 38 4 Länsir-ul-Umară, Vol. I, Fisc. 1--9, Vol. II, Fasc. 1--9; Vol. III, 1.10; Index to Vol. I, Fasc. 10-11; Index to Vol. III, Fasc. 11-12; Index to Vol. II, Fasc 10-12 @ 16/ each 13 2 ghazi of Wänidi, (Text) l'asc. 1--5 @/6/ each 1 e other Fasciouli of these works are out of stock, and complete copies cannot be supplied 1 0 7 1 0) ... 1 8 12 7 2 0 . ... 1 1 2 Mintakliabn-t-Tawärtkl, (Text): Fxsc. 1-16-18/ Paoli Muutakhabu-t-Tawărikh, ( Engligh ; Vol. 1, Faso. 1-7; Vol. II, FNAC. 1--5 and. Index ; Vol. III, Fasc 1 /12/ each Muatakhabı1-l-Lubab, (Text) Fasc. 1. 19 @ 76/ each Ma'āşir-i.' Alamgiri, (Text), Fasc. 1-6 @ 18) each Nukhbat.-I-Fikr, (l'ext) Fasc. 1 Nigānis Kliradnámah-i-Iskandari, (Text) Fasc 1-2 @ 1121 each Riyagu-s-Salātin, (Text) Fiasc 1--5/6/ each Ditto (English) Fisc. 1-3 Tabaqät-i-Naziri, (Text) Fasc. 1.-5@/6/ each Ditta. (anglish) Fasc 1-14 @ /12/ each Ditto Iudex Tarikh-i-Firuz Shābi of Ziyāu-d-din Barni (Text) Fasc. 1--7 @/6/ cach ... Tarikh-i-Firīzshāhi, of Shams-i-Siraj Aif, (Text) Fasc. 1-6 @ /6/ each Ten Ancient Arabic Poems, Fasc 1-2 @ 1/8/ each Wis-o-Rāmin, (Text) Fase 1-5 @ /6) each Zafarnāınalı, Vol. I, F.140. 1--9, Vol II, Fisc 1-8 @ /6/ each Tuzuk-i-Jahangirl, (Eug) Fasc. 1 1 10 .. ܢܙ 14 83 0 10 4 2 2 .. ܢܝܝܙ 6 14 6 12 0 ... 0 0 0 ASIATIC SOCIETY'S PUBLICATIONS. 1. ASIATIC RISEARCHES, Vol. VII, Vols. XI and XVII, and Vole. XIX and XX @ 10/ each 50 2. PROCEEDINGS of the Asiatic Society fruin 1865 to 1869 (incl ) @ /6/ per No ; and from 1870 to date @18/ per No 3. JOURNAL of the Asiatic Society for 1843 (12), 1-44(12), 1845 (12), 1846 (5), 1847 (12), 1848 (12), 1861 (7), 1867 (6), 1868 16), 1869 18), 1170(8), 1871 (7), 1872 (8), 1873 (8), 1874 (8), 1875 (7), 1871 (7), 1877 (8), 1878 (81, 1879 (7, 1880 (8) 1881 (7), 1882 (6), 1883 (6), 1284 (6), 1885 (6), 1886 (81, 1887 (7), 1888 (7), 1889 (10), 1890 (11), 1891 (7), 1892 (8), 1893 (11), 1894 (8), 1895 (7), 1896 (8), 1897 (81, 1898 (8), 1899 (8), 1900 (7), '901 (7), @, 1/8 per No. to Members and @ 2/ per No. to Non-Members N. B.-The figures enclosed in brakets give the number of Nos in each Vilume. 4. Centenary Review of the Researches of the Society from 1784-1883 3 A sketch of the Turki language as spoken in Eastern Turkistan, by R. B Shaw (Extra No, J.ASB, 1878) 4 Theobald's Catalogue of Reptiles in the Museum of the Asiatic Society (Extra No., J.AS.B, 1868) 2 Catalogue of Mammills and Birds of Burmah, by E. Blyth (Extra No, J.A.S B., 1875) 4 Introduction to the Maithili Language of North Bihar, by G. A. Grierson, Part II, Chrestomathy and Vocabulary (Extra No., J.AS B, 1882) 4 5. Auis-ul-Musharrahin . 3 6. Catalogue of Fossil Vertebrata 3 7. Catalogue of the Library of the Asiatic Society, Bengal, by W. A. Bion 3 8. Ināyah, a Commentary on the lidayalı, Vold. II, and IV, @16/ each... 32 9. Jawāmlu-l-'ilm ir-riyāzi, 168 pages with 17 platus, 4to. Part I 2 30. Khizăpat11-l-'ilm 4 31. Mahābhārata, Vols. III and IV, @ 20/ each 40 12. Moore and Hewitson's Descriptions of New Indian Lepidoptera, Parts :-- III, with 8 coloured Plates, 4to. @ 61 each 18 13. Sharaya-ool-Islän 4 14. Tibetan Dictionary, by Csoma de Körös 10 15. Ditto Grammar 8 16. Kaçıniraçabdáurta, Parts I & II @ 1/8/ 3 17. A descriptive catalogue of the paintings, statues, &c., in the rooms of the Asiatic Society of Bengal by C. R. Wilson 1 18 Memoir on maps illustrating the Ancient Geography of Kasmir by M. A. Stein Ph.D., JI. Extra No. 2 of 1899... 4 0 0 .. 8 0 0 ... ... 0 0 ... 29 5 Notices of Sanskrit Manuscripts, Fasc. 1 --29 @ 1/ each .. Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra N.B.--All Cheques, Money Orders, &c., must be made payable to the "Treasurer, Asiatic Society," only. 3 3--04, Books are supplied by V.P.P. THE ASIATIC SOCIETY, CALCUTTA

No text on this page.

No text on this page.

No text on this page.

Ballal Charitam

Author
Shasti, Haraprasad, Ed.
Title
Fasciculus 1
File name
Ballal Charitam
Text
OCR done
Citation
1904
Published
2006/05/6
Publisher
Asiatic Society Of Bengal, Kolkata
Language
Sanskrit
Pages
136
Library
The Asiatic Society, Kolkata
Classification
Hinduism narrowly
Keywords
Sankrit Literature
DLI number
345096
Barcode
4990010220593.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
VMLT id
DI6cO9l0MfH
Download PDF

Ballal Charitam