Central Library, Jain Vishva Bharti University, Ladnun

श्रुतबोध

महाकवि कालिदास · 2009/09

PDF Proofread

Front matter

No text on this page.

YAYYYYYYY APR ॥ श्रीः॥ श्रुतबोधः। श्रीयुतमहामहोपाध्यायमहाकवि कालिदासविरचितः। आगरानगरस्थायिरामेश्वरमविरचित संस्कृतटीका-भाषाटीकाभ्यां परिशिष्टविवि प्रश्शशु संवलितः । AFTERS BEEEEEEEEEEEEEEEEEEEEEEEER सोऽयं क्षेमराज-श्रीकृष्णदासश्रेष्टिना मुम्बय्यां (खेतवाडी ७ वी गली खम्बाटा लैन) स्वकीये "श्रीवेङ्कटेश्वर" (स्टीम् )- मुद्रणयन्त्रालये मुद्रयित्वा प्रकाशितः। संवत् १९६८, शके १८३३, अस्य सर्वधिकाराः "श्रीवेङ्कटेश्वर" यन्त्राल- याध्यक्षाधीनाः सन्ति.

SHRUT BODH
BY
IAHA KAVI KALI DASS.
With Sanskrit and Hindi Commentaries,
Supplimentary portions and various
Questions for the use
of beginners
Бү
PANDIT RAMESHWAR BHATT,
Head Pandit, Mufid-i-Am High School, Agra,
and Translator of Sanskrit Hitopadesh, Meghduta,
Ritu Samhar, Chand Koushik, Ratnavali,
Shakuntala, and of Sereral Astrologicak
chief books.
PRINTED AND PUBLISHED
BY
KHEMRAJ SHRI KRISHNADASS
AT THE
SHRI VENKATESHWAR STEAM PRESS,
BOMBAY,
1911,
(All rights reserved.)

No text on this page.

भूमिका । विद्यार्थीको जव संस्कृत वाणीका इतना बोध हो जाता है कि साधा- रण गद्य पद्यका तात्पर्य स्वयं समझमें आने लगता है तो प्रत्येक छात्रको प्रत्येक छन्द जानने तथा रचना करनेकी उत्कण्ठा चित्तमें अवश्यही होती है, अतएव श्रुतबोधके अतिरिक्त ऐसा कोईभी छन्द ग्रन्थ नहीं जो विद्या- थियोंको सुगम -और लघु हो और जिसके पठनसे साधारण छन्दोंका यथायोग्य परिज्ञान होजाय । श्रुतबोधकी जितनी प्रशंसा कीजाय थोडी है कारण इसके रचयिता महाकवि कालिदासजी हैं कि जिनकी कुशाग्रबुद्धिका वर्णन भोजप्रबन्ध- सारसे प्रकट है। कविमहाशयने इसमें न्यूनाधिक चालीस छन्द ऐसे संग्रह किये हैं कि जो बहुंधा काव्यनाटकादिकौम पाये जाते हैं और एक यह औरभी सुग- मता की है कि जिस छन्दका वर्णन कियाहै उसको उसी छन्दमें रचकर विद्यार्थियोंके लिये दर्पणके समान कर दिया है कि पढ़नेसे तत्कालही सब आशय जहाँका तहां सुगमरीतिले समझमें आजाय ॥ कवीश्वरजीने जो इसे कामिनीके सम्बोधनोंसे अलंकृत कियाहै उसका कुछ तात्पर्य समझमें नहीं आताहै केवल इतनाही कहना ठीक है कि "निरंकुशाः कवयः" अर्थात् कविलोग स्वतंत्र होते हैं अथवा कौन जान सक्ताहै कि जिस समय यह ग्रन्थ रचाथा उस समय किस शृंगार रसमें मग्न थे। मैंने इसकी सरल संस्कृत व्याख्या तथा भाषाटीका छात्रोंके उपका- रार्थ कीहै और कुछ आवश्यकीय तात्पर्य वृत्तरत्नाकर तथा छन्दोमवरी- मेंसे लेकर अन्तमें कुछ प्रश्नभी लिखे हैं कि जिनका विचार करनेसे छात्र जन काशीपुरी आदिकी प्रथम परीक्षामें निस्सन्देह उत्तीर्ण होकर मेरे इस अल्प परिश्रमको सफल करेंगे। रामेश्वर भट्ट- भाद्रपद कृष्णा८ प्रथम संस्कृताध्यापक मुफीद' आम संवत् १९५२ हाइस्कूल आगरा गोकुलपुरा निवासी ( पश्चिमोत्तरदेश)

|| श्रीः ।।
श्रीगणेशाय नमः॥
श्रुतबोधः।
संस्कृतटीका-भाषाटीकासहितः।
छन्दसां लक्षणं येन श्रुतमात्रेण बुध्यते ।
तसहं संप्रवक्ष्यामि श्रुतबोधमविस्तरम् ॥ १॥
स्मारंस्मारं गुरोरुक्ति पार्वतीपरमेश्वरौ ।
प्रणम्य श्रुतबोधस्य व्याख्यां कुर्वं यथामति ॥ १ ॥
सं०टी०-छन्दसामिति । येन श्रुतमात्रेण छन्दसां अनुष्टु-
बादीनां लक्षणं बुध्यते विज्ञायते तम् अविस्तरं (न विद्यते
विस्तरो यस्मिन् सः तम् ) संक्षिप्तं श्रुतबोधनामकं छन्दोग्रन्थ-
महं संप्रवक्ष्यामि ॥१॥
भाषार्थ:-जिस ग्रन्थके श्रवण करनेहीले छन्दांका लक्षण जाना जाताहै
उस श्रुतबोध नाम अल्प विस्तारवाले ग्रन्थको कहूंगा ॥ १॥
संयुक्ताचं दीर्थ सानुस्वारं विसर्गसंमिश्रम् ।
विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन ॥२॥
सं०टी०-संयुक्ताद्यमिति । संयुक्तस्य संयोगीभूतस्प आद्यं
दीर्घ दीर्घस्वरयुक्तं सातुस्वारम् (अनुस्वारेण सह वर्तत इति
तत्) अनुस्वारयुतं विसर्गसंमिश्रं विसर्गसहितम् अक्षरं गुरु
दीर्घ विज्ञेयम् । पादस्य चरणस्य अन्ते स्थित विकल्पेन गुरु
विज्ञेयम् ॥२॥
भाषार्थ:-संयुक्तके आदिका, दीर्घ, अनुस्वारयुक्त और विसर्ग जिसके
अन्तमें हो ऐसा अक्षर गुरु कदाताहै और चरणके अन्तके अक्षरको
विकल्प करके गुरु जानना चाहिये ॥२॥

६) श्रुतबोधः। एकमात्रो भवेद्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रश्च प्लुतोज्ञेयो व्यञ्जनं चाईमात्रकम् ॥३॥ सं०टी०-एकमात्र इति। एकमात्रः ( एका मात्रा यस्य सः) वर्णः स्वः भवेत् , द्विमात्रः (द्वे मात्र यस्य सः) वर्णः दी: उच्यते, त्रिमात्रः (तिस्रः मात्रा यस्य सः) वर्णः प्लुतः ज्ञेयः, अर्द्धमात्रक व्यञ्जनं बोध्यमिति शेषः ॥ ३॥ भाषार्थ:-एकमात्रावाला अक्षर ह्रस्व, दो मात्राका दीर्घ, तीन मात्राका प्लुत और अर्द्धमात्रक व्यञ्जन कहाता है ॥३॥ यस्याः पादे प्रथमे द्वादश मात्रास्तथा तृतीयेऽ- पि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ॥४॥ सं०टी०-यस्या इति । यस्याः प्रथमे पादे तृतीयपादेऽपि द्वादशमात्राः स्युः तथा द्वितीये अष्टादश मात्राः चतुर्थके पादे पञ्चदश मात्रा: स्युः सा आर्या ॥४॥ भाषार्थः-जिस श्लोककै प्रथम और तीसरे चरणमें १२ मात्रा, दूसरेमें १८, और चतुर्थ, १५ मात्रा हों उसको आर्याछन्द कहते हैं इसमें केवल मात्रा प्रधान हैं ॥४॥ आऱ्यांपूर्वार्द्धसमं द्वितीयमपि भवति यत्र हंसगते । छन्दोविदस्तदानीं गीति तामभृत- वाणि भाषन्ते ॥५॥ सं०टी०-आर्येति ।हे हंसगते! (हंसस्य गतिर्गमनमिव गमनं यस्यास्तत्सम्बुद्धी) यत्र यस्मिन् वृत्ते आर्यायाः पूर्वार्द्धन समं तुल्यं द्वितीयं परार्द्धमपि भवति यथा आर्यायाः पूर्वार्द्र त्रिंशन्मात्रा भवन्ति तत्तुल्यमित्यर्थः।हे अमृतवाणि(अमृतमिव

संस्कृतटीका-भाषाटीकासमेतः ।
वाणी यस्यास्तत्संबुद्धौ) तदानी छन्दोविदः(छन्दांसि विदन्ति
जानन्तीति ते) छन्दशास्त्रतत्त्वज्ञातां गीति भाषन्ते ॥५॥
भाषार्थ:-हे हंसके समान चलनेवाली! जिस श्लोकमें पूर्वार्द्ध तथा
उत्तरार्द्ध आर्याक पूर्वार्द्धके समान ही तो हे अमृत के समान मिष्टभाषण
करनेवाली! छन्दःशास्त्र जाननेवाले उसे गीति छन्द कहते हैं इस श्लोकके
पूर्वार्द्ध तथा उत्तराईमें ३०1३० मात्रा होती हैं ॥५॥
आय्ोत्तराईतुल्य प्रथमार्दमपि प्रयुक्तं चेत् ।
कामिनि तामुपगीति प्रतिभाषन्ते महा-
कवयः॥६॥
संन्टी-आयति (हे कामिनि प्रथमार्द्धमपि आवृत्त-
स्य उत्तरार्द्धन तुल्यं प्रयुक्तं विरचितं चेत् यथा आर्योत्तराई
सप्तविंशतिमात्रा भवन्ति तत्तुल्यमित्यर्थः। महाकवयः (महा-
न्तश्च ते कवयः) तां उपगीतिं प्रतिभाषन्ते प्रकाशयन्ते ॥६॥
भाषार्थः हे कामिनि ! जिस श्लोकमें आाके उत्तरार्द्धके तुल्य पूर्वार्द्ध
भी हो, तो कवीधर लोग उसे उपगीति छंद कहतेहैं इसके पूर्वार्द्ध तथा
उत्तरार्द्ध में २७ । २७ मात्रा होतीहैं ॥६॥
आद्यचतुर्थं पञ्चमकं चेत् ।
यत्र गुरु स्यात्साक्षरपतिः ॥ ७॥
संटी० आयेति । यत्र यस्यां वृत्तों आद्यम् आदिभूतम्
अक्षरं चतुर्थ पञ्चमकं च गुरु स्यात् सा अक्षरपंक्तिविज्ञेया
इति शेषः ॥७॥
भावार्थ:-जिस छन्दमें प्रथम चतुर्थ तथा पश्चम अक्षर गुरु हों उले
अक्षरपंक्ति कहतेहैं ॥ ७॥
अगुरु चतुष्कं भवति गुरू द्वौ । वनकुचयुग्मे
शशिवदनासौ ॥८॥

(८)
श्रुतबोधः।
सं०टी०-अणुर्विति । हे घनकुचयुग्मे ! ( वनं कठिनं कुच-
युग्मं स्तनयुगलं यस्यास्तत्संबुद्धौ यत्र यस्यां वृत्ती अगुरु लघु.
चतुष्कं वर्णचतुष्टयं भवति द्वौ वौँ पञ्चमषष्ठौ इत्यर्थः गुरू
भवतस्तदाऽसौ शशिवदना बोध्येति शेषः ॥ ८॥
भाषार्थः-हे कठिन कुशेवाली ! जिस छन्दमें प्रथम चार अक्षर लघु
और दो गुरु ही उसे शशिवदना छन्द कहते हैं ॥ ८ ॥
तुर्य पञ्चमकं चेद्यत्र स्याल्लघु बाले । विद्वद्भिर्मू-
गनेत्रे प्रोक्ता सा मदलेखा ॥ ९॥
सं०टी०-तुर्यमिति । हे बाले ! नवयौवनवति ! यत्र यस्यां
वृत्तौ तुर्य चतुर्थकं पञ्चमकं च लघु स्वं स्यात् हे मृगनेत्रे !
(मृगस्य नेत्र इव नेत्रे यस्यास्तत्संबुद्धौ) विद्वद्भिः शास्त्रज्ञैः
सा मदलेखा प्रोक्ता कथिता ॥९॥
भाषार्थ:--हे बाले। जिसमें चतुर्थ और पञ्चम अक्षर लघु हों तौ हे
मृगनयने ! पंडित लोग उसे मदलेखा कहते हैं ।। ९ ॥
श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम् । द्विचतुः-
पादयो स्वं सप्तमं दीर्घमन्ययोः ।। १० ॥
सं०टी०-श्लोक इति । श्लोके अतुष्टुब्नामके पद्ये सर्वत्र
चतुषु चरणेप्रित्यर्थः षष्ठं गुरु पञ्चमं लघु ज्ञेयं बोध्यम् ।
द्विचतुःपादयो द्वितीयचतुर्थचरणयोः सप्तमं स्वम्, अन्ययोः
प्रथमतृतीयपादयोः सप्तमं दीर्घ ज्ञेयमिति शेषः॥१०॥
भाषार्थ:--जिस श्लोकके चारों चरणों में पञ्चम अक्षर लघु और छठा
अक्षर गुरु हो और द्वितीय चतुर्थ पादोंमें सप्तम अक्षर ह्रस्व और प्रथ
तृतीय पादोंमें सप्तम दीर्घ हो तो उसे अनुष्टुप् कहते हैं ॥ १० ॥
आदिगतं तुर्यगतं पञ्चमकं चान्त्यगतम् । स्या-
द्गुरु चेत्संकथितं माणवकाक्रीडमिदम् ॥११॥

।
संस्कृत टीका-भाषाटीकासमतः।
सं-टी-आदिगतमिति। आदिगतंप्रथम, तुर्यगतं चतुर्थ,
पञ्चमकम् अन्त्यगतम् अन्त्यस्थितम् अष्टममित्यर्थः चेद्गुरु
स्यात् तदिदं माणवंकाक्रीडं कथितं पण्डितरिति शेषः ॥१२॥
भाषार्थ:-जिसमें प्रथम, चतुर्थ, पञ्चम तथा अन्तका ( अष्टम ) अक्षर
गुरु हो उसे माणवकाक्रीड़ छन्द कहते हैं ।। ११ ।।
द्वितुर्यषष्टमष्टमं गुरु प्रयोजितं यदा । तदा निवे-
दयन्ति तां बुधा नगस्वरूपिणीम् ॥ १२ ॥
सं० टी०-द्वितुर्येति । यदा द्वितुर्यषष्ठं द्वितीयं चतुर्थ षष्ठम्
अष्टमं च गुरु प्रयोजितं रचितं तदा बुधाः पण्डितास्तां नग-
स्वरूपिणी निवेदयन्ति ॥ १२ ॥
भाषार्थः-जिसमें द्वितीय चतुर्थ षष्ठ अष्टम अक्षर दीर्घ हों उसे विद्वान्
लोग नगस्वरूपिणी छन्द कहते हैं ।। १२ ।।
सर्वे वर्णा दीर्घा यस्यां विश्रामः स्याद्वेदैवेदैः ।
विद्वन्दैर्वीणावाणि व्याख्याता सा विद्यु-
न्माला ॥ १३॥
सं० टी०-सर्व इति हे वीणावाणि ! (वीणायाः वाणी इव
वाणी यस्यास्तत्संबुद्धौ ) यस्यां सर्वे वर्णाः . दीर्घाः वेदैवेदैः
चतुर्भिश्चतुर्भिः विश्रामः यतिः स्यात् सा विद्वद्वृन्दैः पण्डित-
जनसमूह विवृन्माला व्याख्याता॥ १३ ॥
भाषार्थ:-हे वीणाके समान मधुर भाषण करनेवाली ! जिसमें सम्पूर्ण
वर्ण दीर्घ हों और चार २ अक्षरोंके ऊपर विराम अर्थात् ठहराव हो तो
पण्डित जनोंने उसे विद्युन्माला छंद कहा है ॥ १३ ।।
तन्वि गुरु स्यादाघचतुर्थं पञ्चमषष्ठं चान्त्यम-
पान्त्यम् । इन्द्रियबाणैर्यत्र विरामः सा कथनी-
या चम्पकमाला ॥१४॥

(१०)
श्रुतबोधः।
सं० टी०-तन्वीति । हे तन्वि ! हे कृशाङ्गि! यत्र यस्यां
वृत्तौ आधं चतुर्थ, पञ्चमं षष्ठम् अन्त्यम् अन्तिमं दशममित्यर्थः
उपान्त्यं (अन्त्यस्य समीपम् उपान्त्यं) नवममिति भावः गुरु
स्यात् । यत्र इन्द्रियबाणैः पञ्चभिःपञ्चभिरक्षरः विराम: विरतिः
स्थात् सा चम्पकमाला कथनीया ॥ १४ ॥
भाषार्थ:-हे कृश अङ्गवाली ! जिसमें प्रथम चतुर्थ पश्चम षष्ठ और अन्त-
का अर्थात् दशम तथा अन्त्यके पासका अर्थात् नवम अक्षर दीर्घ हो और
पांच पांच वर्णीपर विश्राम हो उसे चम्पकमाला छंद कहना चाहिये॥१४
चम्पकमाला यत्र भवेदन्त्यविहीना प्रेमनिधे।
छन्दसि दक्षाये कवयस्तन्मणिबंधं ते ब्रुवते ॥१६॥
सं० टी०-चम्पकमालेति। हे प्रेमनिधे ! यत्र यमिन्छन्दसि
चम्पकमाला अन्त्यविहीना दशमाक्षरविहीनेत्यर्थः भवेत् ।
छन्दसि दक्षाः चतुराः ये कवयस्ते तन्मणिबन्धं अवते
कथयन्ति ॥ १५॥
भाषार्थ:-हे प्रेमनिधे! अन्त्य अक्षरकरके रहित जहां चम्पकमालाका
पूर्ण लक्षण हो तौ छन्दःशास्त्रके जाननेवाले कवीश्वर उसे मणिबंध छन्द
कहते हैं ॥१५॥
सन्दाक्रान्तान्त्ययतिरहिता सालङ्कारे यदि-
भवति या । सा विद्वद्भिध्रुवमभिहिता ज्ञेया
हंसी कमलवदने ॥ १६ ॥
सं० टी०-मन्दानान्तेति । हे सालंकारे ! (अलंकारेण सह
वर्तमाना तत्संबुद्धौ ) हे आभूषणभूषिते ! या मन्दाक्रान्ता
यदि अन्त्ययतिरहिता भवति तदा हे कमलवदने (कमलवत्
वदनं मुखं यस्यास्तत्संबुद्धौ) विद्वद्भिः पण्डितः सा ध्रुवं
इंसी अभिहिता कथिता ज्ञेया त्वयेति शेषः॥ १६ ॥

संस्कृतटीका-भाषाठीकासमेतः ।
भाषार्थ:-हे अलङ्कार धारण करनेवाली ! जो मन्दाक्रांताकी अन्त्य
यति (विश्राम ) रहित छल्द हो तो हे कमलमुखि ! पंडित जनीने उसे
हंसी छन्द कहाहै ॥ १६॥
मंदाकान्ता१७ अक्षर होतेहैं और ४ । ६.और ७ पर विश्राम है सो
देखो । परन्तु हंसी छन्दमें १० अक्षर हैं आदिकै ४ दीर्घ फिर ५ लघु
फिर १ दीर्घ और ४ तथा ६ अक्षरों पर विश्राम है। इसमें ७ अक्षरकी
पिछली यति नहीं है।
ह्रस्खो वर्णो जायते यत्र षष्ठः कम्बुग्रीवे तद्रदे-
वाष्टमान्त्यः । विश्रामः स्यात्तन्वि वेदैस्तुरंग-
स्तां भाषन्ते शालिनी छान्दसीयाः ॥ १७ ॥
सं० टी०-हस्व इति । हे कम्बुनीवे ! (कम्बुवत् ग्रीवा यस्या
स्तत्संबुद्धा ) यत्र यस्यां वृत्तौ षष्ठः वर्णः स्वः तद्वत् अष्ट-
मान्त्यः (अष्टमस्य अन्त्यः ) नवम इति भावः स्वः जायते
हे तन्वि ! वेदैश्चतुर्भिः तुरङ्गैः सप्तभिः विश्रामः स्यात् छान्द-
सीयाः छन्दशास्त्रतत्त्वज्ञास्तां शालिनी भाषन्ते कथयन्ति१७
भाषार्थ:-हे शंखके समान ग्रीवावाली ! जिसमें छठा और अष्टमान्त्य
अर्थात् नवम अक्षर लघु हों और ४ तथा ७ अक्षरांपर विश्राम हो तौ हे
कृश अंगवाली छन्दके ज्ञाता पुरुष उसको शालिनी छन्द कहतेहैं।।१७।।
आधचतुर्थमहीननितम्बे सप्तमकं दशमं च
तथान्त्यम् । यत्र गुरु प्रकटस्मरसारे । तत्क-
थितं ननु दोधकवृत्तम् ॥ १८॥
सं० टी-आद्येति । हे अहीननितम्बे ! ( अहीनों स्थूलो
नितम्बो कटिपश्चाद्भागौ यस्यास्तत्संबुद्धौ )हे प्रकटस्मरसारे!
(प्रकटः स्मरसारः कामस्य बलं यस्यास्तत्संबुद्धौ यत्र यस्मिन्
वृत्ते आधं चतुर्थ सप्तमकं दशमं च तथा अन्त्यम् एकादशमिति
आवा गुरु, तत् दोधकवृत्तं कथितम् ॥ १८ ॥

, श्रुतबोधः। भावार्थ:-है-स्थूलनितम्बवाली! हे कामदेवके बलको प्रकट करनेवाली! जिसमें प्रथम, चतुर्थ, सप्तम, दशम तथा अन्त्य अक्षर गुरु हों तो उसको दोधकवृत्त कहते हैं ॥ १८॥ यस्यास्त्रिषट्सप्तममक्षरं स्याद् ह्रस्वं सुगंधे ! नवमं च तद्वत् । गत्या विलजीकृतहंस- कान्ते तामिन्द्रवज्रां युवते कवीन्द्राः ॥ १९ ॥ सं० टी०-हे सुजंघे ! ( सुष्टु शोभने जंवे यस्यास्तत्संबुद्धौ) हे गत्या विलज्जीकृतहंसकान्ते ! (गत्या स्वगमनेन विलज्जी- कृता हंसस्य कान्तिः शोभा यया तत्संबुद्धौं) यस्याः विषट्- सप्तमं तृतीयं षष्ठं सप्तमं तद्वत् नवमं चाक्षरं हवं स्यात् कवीन्द्राः ( कविषु इन्द्राः) कविश्रेष्ठास्तां इन्द्रवजां ब्रुवते कथयन्ति ॥ १९॥ गषार्थ:-हे सुन्दर जंघावाली ! हे हंसकी गतिको लज्जित करनेवाली! जिसका तृतीय षष्ठ सप्तम नवम अक्षर ह्रस्व हों तो उसको कवीश्वर इन्द्र- वज्रा कहते हैं ॥ १९ ॥ यदीन्द्रवज्राचरणेषु पूर्वे भवन्ति वर्णा लघवः सुवणे । अमन्दमावन्मदने तदानीमुपेन्द्रवत्रा कथिता कवीन्द्रैः ॥ २० ॥ सं० टी०-यदीति । हे सुवर्णे ! यदि इन्द्रवजायाश्चरणेषु चतुषु पादेषु पूर्व वर्णाः लघवः भवन्ति (शेषमिन्द्रवज्रावत् ) तदानी हे अमन्दमाद्यन्मदने ! (अमन्द बहुलं माद्यन् भदं कुर्वन् मदनो यस्यां तत्संबुद्धौ ) कवीन्द्रैः कविश्रेष्ठैः उपेन्द्र- वत्रा कथिता ॥ २०॥ भावार्थ:-हे सुन्दरि ! जो इन्द्रवज्राके चारों चरणोंके पूर्वके अक्षर द्वस्व हों तौ हे अधिक कामवाली ! कवीश्वर लोग उसे उपेन्द्रवज्रा कहतेहैं२०॥

संस्कृतटीका-भाषाटीकासमेतः ।
यत्र द्वयोरप्यनयोस्तु पादा भवन्ति सीमन्तिनि
चन्द्रकान्ते । विद्भिरायैः परिकीर्तिता सा
प्रयुज्यतामित्युपजातिरेषा ॥२१॥
सं०टी०-यति । हे सीमन्तिनि ! (सीमन्तः केशवेशो
विद्यते यस्यास्तसंयुद्धौ) हे चन्द्रकान्त ( चन्द्रवत्कान्तिर्य-
स्वास्तत्संबुद्धी ) यत्र यस्यां वृत्तौ द्वयोरपि अनयोः इन्द्रवजो-
पेन्द्रवज्जयोः पादाश्चरणाः भवन्ति (यथा प्रथमतृतीयपादयोः
इन्द्रवजालक्षणं द्वितीयचतुर्थपादयोः उपेन्द्रवजालक्षणं) आद्यैः
भूतपूर्वैः विद्वद्भिः पण्डितैः उपजातिरिति परिकीर्तिता कथि-
ता। एषा सा प्रयुज्यताम् ॥ २१ ॥
भाषार्थ: है सुन्दर केशवाली ! जिसमें इन्द्रवज्रा और उपेन्द्रवज्रा
दोनोंक चरण ही अर्थात् प्रथम तृतीय चरण इन्द्रवज्रा और द्वितीय
चतुर्थ उपेन्द्रवज्राके तौ है चन्द्रके समान कान्तिवाली ! प्राचीन कवि-
'योने उसे उपजाति छन्द कहाहै ॥२१॥
आख्यानकी सा प्रकटीकृतार्थे यदीन्द्रवज्राच-
रणः पुरस्तात् । उपेन्द्रवज्राचरणास्त्रयोऽन्ये
मनीषिणोक्ता विपरीतपूर्वा ॥ २२ ॥
सं०टी०-आख्यानकीति।हे प्रकटीकृतार्थे ! (प्रकटीकृतः
अर्थः अभिप्रायः यया सा तत्संबुद्धा) यदि पुरस्तात प्रथमः
इन्द्रवजाचरणः स्यात् अन्ये त्रयः द्वितीयतृतीयचतुर्थाश्चरणा
इति भावः उपेन्द्रवजाचरणास्तदा सा मनीषिणा विद्वद्वरेण
विपरीतपूर्वा वा आख्यानकी उक्ता ॥२२॥
भाषार्थ: है अर्थ प्रकट करनेवाली! जो प्रथम चरण इन्द्रवज्राका हो
और शेष तीन चरण उपेन्द्रवन्नाके हो तो पण्डितीने उसे आख्यानकी
वा विपरीतपूर्वा कहाहै ॥ २२ ॥

श्रुतबोधः ।
आद्यमक्षरमतस्तृतीयकं सप्तमं च नवमं तथा-
न्तिमम् । दीर्घमिन्दुमुखि यत्र जायते तां
वदन्ति कवयो रथोद्धताम् ॥२३॥
सं०टी०-आद्यमिति । हे इन्दुमुखि ! (इन्दुश्चन्द्रः तद्वन्मुखं
यस्यास्तत्संबुद्धौ) यत्र यस्मिन् वृत्ते आद्यं प्रथमम् अतः परं
तृतीयकं सप्तमं नवमं च तथा अन्तिमम् एकादशमिति भावः ।
अक्षरं दीर्घ जायते कवयस्ता रथोद्धतां कथयन्ति ॥२३॥
भाषार्थः-है चन्द्रमुखि ! जिसमें प्रथम, तृतीय, सप्तम, नवम तथा
अन्त्य अक्षर दीर्च हों तौ कविजन उसे रथोद्धता छन्द कहते हैं ॥ २३ ॥
अक्षरं च नवमं दशमं च व्यत्ययाद्भवति यन्त्र
विनीते । प्राक्तनैः सुनयने यदि सैव स्वागतेति
कविभिः कथिताऽसौ ॥ २४॥
सं०टी०-अक्षरमिति। हे विनीते ! विनयवति! हे सुनयने
सुष्टु शोभने नयने नेत्रे यस्यास्तत्संबुद्धौ) यत्र यस्मिन् वृत्ते
(रथोद्धतायाः) नवमं दशमं चाक्षरं व्यत्ययात् विपर्ययात्
भवति चेत् (यथा रथोद्धतायाः नवममक्षरं गुरु दशममक्षरं
लघु भवति किन्त्वत्र स्वागतायां नवमाक्षरं लघु दशमञ्चाक्षरं
गुरु भवेत् ) तर्हि प्राक्तनः प्राचीनैः कविभिः सैव रथोद्धता
एव असौ स्वागतेति कथिता ॥ २४ ॥
भाषार्थ:-है विनयवाली ! हे सुन्दर नेत्रवाली ! जिसमें नवम और
दशम अक्षर विपरीत हो अर्थात् नवम दशमके सदृश और दशम नवम
के समान हो तौ कवियों ने उसे स्वागता छंद कहाहै रथोद्धतामें नवम
'दीर्घ दशम ह्रस्व है और इसमें दशम दीर्घ और नवम द्वस्व है इतनाही
भेद है ॥२४॥

संस्कृतटीका-भाषाटीकासमेतः । सतृतीयकपष्टमनगरते नवमं विरतिप्रभवं गुरु चेत् । धनपीनपयोधरमारनते ननु तोटक- वृत्तमिदं कथितम् ॥ २५॥ सं०टी०-सतृतीयकेति । हे अनङ्गरते ! ( अनङ्गे कामे रतिर्यस्यास्तत्संबुद्धौ ) चेद्यदि सतृतीयकषष्ठं तृतीयषष्ठाक्षर- सहितं नवमं विरतिप्रभवं (विरतो प्रभव उत्पत्तिर्यस्य तत्) द्वादशाक्षरमिति भावः गुरु भवेत् तदा हे धनयीनपयोधर- भारनते (घनौ पीनों च धनपीनो कठिनस्थूलौ तौ पयोधरौ स्तनी तयोर्भारेण नता या सा तत्सम्बुद्धा) नन्विदं तोटक- वृत्तं कथितम् ॥ २५॥ भावार्थ:-हे काममें रतिवाली ! जिसमें तीसरा छठा नवम और अन्त्य अक्षर गुरु हों तो है कठिन स्थूल स्तनोंके भारसे झुकी हुई ! उसको तोटकवृत्त कहते हैं ॥२५॥ यदि तोटकस्य गुरु पञ्चमकं विहितं विलासिनि तदक्षरकम् । रससंख्यकं गुरुन चेदबले प्रमिता- क्षरेति कविभिः कथिता ॥ २६ ॥ सं०टी०-यदीति।हे विलासिनि! यदि तोटकस्य पंचमकं तत् अक्षरकं गुरु विहितं प्रयोजितं तथा रससंख्यक षष्ठाक्षरं गुरु न चेत् अर्थात् लघु स्यात् तदा हे अवले! कविभिः प्रमिताक्षरा इति कथिता ॥ २६ ॥ भाषार्थ:-है विलास करनेवाली ! यदि तोटक छन्दका पश्चम अक्षर गुरु हो और छठा हुस्व हो तो है अचले ! कवियों ने उसे ममिताक्षरा कहा है ॥ २६ ॥ यदायं चतुर्थं तथा सप्तमं स्यात्तथैवाक्षरं ह्रस्व- श्रुतबोधः। मेकादशाघम् । शरच्चन्द्रविद्वेषिवक्त्रारविन्दे तदुक्तं कवीन्द्रर्भुजंगप्रयातम् ॥ २७ ॥ संन्टी०-यदेति । हे शरच्चन्द्रविद्वेषिववारविन्दे ! (शरदः चन्द्रः शरच्चद्रः तस्य विद्वेषि वक्त्रारविन्दं मुखकमलं यस्या- स्तत्संबुद्धौं) यदा आधं चतुर्थ सप्तमम् एकादशाद्यं दशममक्षरं वस्वं स्यात् तदा कवीन्द्रैः कविश्रेष्ठस्तद्भजङ्गप्रयातमुक्तं कथितम् ॥ २७॥ भाषार्थः हे शरदके चन्द्रमाको अपने मुखकमलले लजित करनेवाली! जिसमें प्रथम, चतुर्थ, सप्तम और दशम अक्षर द्वस्व ही तौ कवीश्वरोंने उसे भुजङ्गप्रयात छन्द कहाहै ॥ ७ ॥ अयि कृशोदरि यत्र चतुर्थकं गुरु च सप्तमक- दशमं तथा । विरतिगं च तथैव सुमध्यमे द्रुत- विलंबितमित्युपदिश्यते ॥ २८॥ सं०टी०-अयोति । हे कृशोदरि! (कृशमुदरं यस्यास्तत्स- म्बुद्धा)यत्र यस्मिन् वृत्ते चतुर्थकं सतमकं तथा दशमं पिरतिगं च द्वादशमितं च गुरु अन्ये अष्टौ लघवः इति शेषः तदा हे सुमध्यमे (शोभनं मध्यम यस्यास्तत्सम्बुद्धौ) द्रुतविलम्बि. तम् इति उपदिश्यते कथ्यते ॥ २८॥ भाषार्थ:-हे कृश अंगवाली! जिसमें चतुर्थ सप्तम दशम और अन्त्य भक्षर गुरु हों तौ पण्डित जन उसे द्रुतविलम्बित छन्द कहते हैं ॥ २८ ॥ प्रथमाक्षरमाद्यतृतीययोतविलंबितकस्य हि पादयोः। यदि नास्ति तदा कमलेक्षणे भवति सुन्दर सा हरिणीप्लुता ॥ २९ ॥ सं०टी०-प्रथमेति। हे कमलेक्षणे! (कमले इव ईक्षणे यस्या- स्तत्संबुद्धौद्रुतविलम्बितकस्य द्रुतविलम्बितच्छन्दसाआध- संस्कृतटीका-भाषाठीकासमेतः। (१७) तृतीययोः पादयोश्चरणयोः प्रथमाक्षरं यदि न चेत् तदा हे सुन्दरि ! सा हरिणीप्लुता छन्दो भवति ।। २९ ॥ भाषार्थ:-है कमलनयने ! यदि द्रुतविलम्वित छन्दके प्रथम और तृतीय पादोंमें आदिका अक्षर न हो तो हे सुन्दरि ! उसको हरिणीप्लुता कहते हैं ॥२९॥ उपेन्द्रवज्राचरणेषु सन्ति चेदुपान्त्यवर्णा लघवः परे कृताः । मदोल्लसद्भूजितकामका- सुके वदन्ति वंशस्थमिदं बुधास्तदा ॥ ३० ॥ सं०टी०-उपेन्द्रवजेति । हे मदोल्लसद्भूजितकामकार्मुके ! ( मदेन उल्लसन्त्यो भुवा ताभ्यां जितं कामस्य मदनस्य कार्मुकं धतुर्यया सा तत्संबुद्धौ) यदा उपेन्द्रवजाचरणेषु चतुर्ष पादेषु चेत् उपान्त्यवर्णाः अन्त्यस्य समीपस्था वर्णाः एकादश वर्णा इति भावः लघवः सन्ति परे द्वादश वर्णाः दीर्धाः कृताः तदा बुधाः पण्डिता इदं वंशस्थं वदन्ति ॥ ३०॥ भाषार्थः हे धुकुटीके विलाससे कामदेवके धनुषको जीतनेवाली! जो उपेन्द्रवज्राके चारों चरणों में उपान्त्य वर्ण अर्थात द्वादश अक्षरके पूर्वका एकादश अक्षर ह्रस्व हो, और बारहवां अक्षर गुरु होय तो पंडित लोग उसे वंशस्थ छन्द कहते हैं ॥ ३० ॥ यस्थामशोकांकुरपाणिपल्लव वंशस्थपादा गुरु- पूर्ववर्णकाः । तारुण्यहेलारतिरंगलालसे तामि- न्द्रवंशां कवयः प्रचक्षते ॥ ३३ ॥ सं०टी०-यस्यामिति । हे अशोकांकुरपाणिपल्लवे ! (अशो- कस्य अंकुरवत् पाणिपल्लवों यस्यास्तत्संबुद्धौ ) यस्यां वंशस्थ- पादाः गुरुपूर्ववर्णकाः चतुषु पादेषु पूर्व गुरुवर्णाः सन्ति हे तारुण्यहेलारतिरङ्गलालले ! (तरुणस्य भावः तारुण्यं तेन - (१८) श्रुतबोधः। या हेला विलासः तया रतिरने लालसा अभिलाषा यस्या- स्तत्संबुद्धी ) कवयस्ताम् इंद्रवंशां प्रचक्षते कथयन्ति ॥ ३१ ॥ भाषार्थः- हे अशोककै अङ्करके समान पाणिपल्लववाली ! जिसमें वंशस्थ छन्दके आदि अक्षर दीर्घ ही तौ हे तरुणताकै कारण रतिमें अभिलाषा करनेवाली! कविलोग उसे इन्द्रवंशा छन्द कहते हैं ॥ ३१ ॥ यस्यां प्रिये प्रथमकमक्षरद्वयं तुर्थ्य तथा गुरु नवमं दशान्तिकम् । सान्त्यं भवेद्यतिरपि चेधु- गग्रहैः सा लक्ष्यताममृतलते प्रभावती ॥३२॥ सं०टी०-यस्यामिति । हे प्रिये ! हे अमृतलते ! (अमृतस्य लता इव तत्संबुद्ध) यस्यां प्रथमकम् अक्षरद्वयं आधं द्वितीयं तथा तुर्य चतुर्थ नवमं दशान्तिकम् एकादशं सान्त्यं (अन्त्येन सह वर्तमानमिति सान्त्यम् ) त्रयोदशवर्णसहितमिति भावः गुरु भवेत् युगग्रहः चतुर्भिर्नवभिश्चाक्षरैश्चेत् विरतिः यतिः सा प्रभावती लक्ष्यताम् ॥ ३२ ॥ भाषार्थ:-हे ! प्रिये जिसमें दो अक्षर आदिके और चतुर्थ नवम एकादश तथा अन्त्य अक्षर दीर्घ हों और है अमृत लताके समान ! जहां चतुर्थ और विम अक्षरपर विराम हो तो उसे प्रभावती छन्द जानना ॥ ३२॥ आद्यं चेत्रितयमथाष्टमं नवान्त्यं द्वावन्त्यौ गुरु विरतौ सुभाषिते स्याताविश्रामो भवति महेश- नेत्रदिग्भिर्विज्ञेया ननु सुदति प्रहर्षिणी सा ॥३३॥ सं०टी०-आद्यमिति । हे सुभाषिते (सुठु शोभनं भाषितं यस्यास्तत्संबुद्धौ ) चेद्यदि आद्यं त्रितयं प्रथम द्वितीयं तृतीय मिति भावः अथेत्यनंतरम् अष्टमं नवान्त्यं दशमम् अन्त्यों द्वौ द्वादशत्रयोदशौ च गुरू विरतो दीर्घयुक्तौ स्यातां तथा महेश- नेवदिग्भिः त्रिभिर्दशभिश्च विश्रामःयति स्यात् तदा हेसुदति!

संस्कृतटीका-भाषाटीकासमेतः। (१९) (सुष्टु दन्ता यस्यास्तत्संबुद्धौ) सा प्रहर्षिणी नतु विज्ञेया ज्ञातव्या ।। ३३॥ भाषार्थ:-हे मृदु भाषण करनेवाली ! जिसमें तीन आदिके और अष्टम दशम द्वादश और त्रयोदश अक्षर दीर्घ हों और ३ और १० अक्षरों- पर विश्राम हो तौ है सुन्दर दांतवाली ! उसे प्रहर्षिणी छन्द जानना चाहिये॥३३॥ आद्यं द्वितीयमपि चेन्नरु तच्चतुर्थं यत्राष्टमं च दशमान्त्यमुपान्त्यमन्त्यम् । अष्टाभिरिन्दु- वदने विरतिश्च षड्भिः कान्ते वसन्ततिलका किल तां वदन्ति ॥ ३४॥ सं०टी०-आद्यमिति । हे इन्दुवदने । (इन्दुवद्वदनं यस्या- स्तत्संबुद्धौ) यत्र यस्मिन् वृत्ते आद्यं द्वितीयं चतुर्थम् अष्टमं दशमान्त्यम् एकादशम् उपान्त्यम् (अन्त्यस्य समीपम् ) त्रयोदशम् अन्त्यं चतुर्दशं चेत् गुरु दीर्घम् अष्टाभिः षड्भिश्च विरतिः विश्रामः स्यात् तदा हे कान्ते ! तां वसन्ततिलका वदन्ति किल पंडिता इति शेषः ॥ ३४ ॥ भाषार्थ:-हे चन्द्रमुखि ! जो प्रथम द्वितीय चतुर्थ अष्टम एकादश त्रयोदश तथा चतुर्दश अक्षर जिसमें दीर्घ हो और ८ और ६ पर विश्राम हो तौ है कामिनि ! उसको पंडितजन वसन्ततिलका कहते हैं ॥३४॥ प्रथममगुरु षट्कं विद्यते यस्य कान्ते तदनु च दशमं चेदक्षरं द्वादशान्त्यम् । गिरिभिरथ तुरंग- यंत्र कान्ते विरामः सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा ॥ ३५॥ सं०टी०--प्रथममिति। हे कान्ते! यत्र यस्मिन्वृत्ते प्रथम षटकं प्रथमतः षष्ठपर्यन्तं तदनु दशमं द्वादशान्त्यं त्रयोदर्श (२०, श्रुतबोधः। बाक्षरम् अगुरु लघु विद्यते चेत अथेत्यनन्तरं यत्र गिरिभिः अष्टभिः अथानन्तरं तुरङ्गैः सप्तभिः विरामः विश्राम: स्यात् ता सुकविजनमनोज्ञा श्रेष्ठकविजनमनोहारिणी मालिनी प्रसिद्धा ॥ ३५॥ भाषार्थ:कामिनि ! जिसमें प्रथमके ६ अक्षर तथा दशम और त्रयोदश अक्षर द्वस्व हों और आठ तथा सात अक्षरोंपर विश्राम हो तो हे सुन्दरि ! श्रेष्ठ कवि लोग उले मालिनी छन्द कहते हैं ॥ ३५ ॥ सुमुखि लघवः पञ्च प्राच्यास्ततो दशमान्ति- मस्तदनु ललितालापे वो तृतीयचतुर्थको प्रभवति पुनर्यत्रोपान्त्यः स्फुरत्कनकप्रभे यति- रपि रसैर्वेदैरश्वैः स्मृता हरिणीति सा ॥३६॥ सं०टी०-सुमुखीति । हे सुमुखि! (सुष्टु शोभनं सुखं यस्या- स्तत्संबुद्धौ) यत्र यस्मिन् वृत्ते प्राच्या पूर्वे पञ्च वर्णाः लघवः ततः दशमान्तिपः एकादशः तदनु पश्चात् तृतीयवतुर्थको वर्णी दशमाक्षरतः तृतीयचतुर्थो त्रयोदशचतुर्दशाविति भावः है ललितालापे (ललित आलापो यस्यास्तत्सम्बुद्धों) पुनः . उपान्त्यः षोडशश्च लघुः प्रभवति हे स्फुरत्कनकमभे ! (स्फुर- न्ती कनकप्रभा कांचनप्रभा यस्यास्तत्सम्बुद्धी) यत्र रसैः षड्भिः वेदैश्चतुर्मिः अश्वैस्सतभिश्च यतिः विश्रामः अपि स्यात् तदा सा हरिणी स्मृता कथिता ॥ ३६॥ भाषार्थ:--हे मधुर आलाप करनेवाली ! जिसमें आदिके ५ अक्षर तथा एकादश, त्रयोदश, चतुर्दश और षोड़श ये अक्षर द्वस्व हां और ६ । ४१७ अक्षरोंपर विराम हो तो हे चमकते हुए सुवर्णके समान प्रभावाली! वह हरिणी छन्द कहा गया है ॥ १६ ॥ यदि प्राच्यो इस्वः कमलनयने पञ्च गुरवस्त- तो वर्णाः पञ्च प्रकृतिसुकुमारांगि लघवः । त्र- संस्कृतटीका-भाषाटीकासमेतः । योन्ये चोपान्त्याः सुतनु जघनाभोगसुभगे रसै- रीशर्यस्यां भवति विरतिः सा शिखरिणी ॥३७॥ सं०टी०-यदीति । हे कमलनयने (कमलवन्नयने यस्या- स्तत्संबुद्धा) हे प्रकृतिसुकुमाराङ्गि ! (प्रकृत्या सुकुमारम अङ्गं यस्यास्तत्संबुद्धौ) यदि प्राच्यः पूर्वो वर्णः स्वः ततः पञ्च गुरवः ततः पञ्च वर्णाः लघवः ततश्चान्ये त्रयः उपान्त्याः अन्त्यस्य समीपस्थाः चतुर्दश पञ्चदश षोडश इति भावः लघवः तथा हे सुततु (सुष्टु तनुर्यस्यास्तत्संबुद्धौ) हे जवना- भोगसुभगे ! ( जघनस्य कटिपुरोभागस्याभोगेन सुभगा सौन्दर्यशालिनी तत्संबुद्धौ ) यस्यां रसः षभिः ईशः एकाद- शभिः विरतिः विश्रामः स्यात् सा शिखरिणी भवति ॥३७॥ भावार्थ:-हे कमलके समान नेत्रवाली ! यदि आदिका वर्णवस्व हो फिर ५अक्षर दीर्घ होय फिर ५अर्थात् । ७।८।९।१०।१२। और १५। १६ यह अक्षर लघु होय और है सुकुमार अंगवाली ! जिसमें ६ और ११ अक्षरपर विश्राम हो तो हे मुन्दरि ! है सुन्दर जवनवाली ! उनको शिखरिणी छन्द कहते हैं ।। ३.७ ॥ द्वितीयमलिकुन्तले गुरु पडटम द्वादशं चतु- देशमथ प्रिये गुरु गभीरनाभिह्रदे । सपञ्चद- शमन्तिमं तदनु यत्र कान्ते यतिगिरीन्द्रफण- भृत्कुलर्भवति सुश्रु पृथ्वीति सा॥३८॥ सं०टी०-द्वितीयमिति । हे अलिकुन्तले ! (अलिवत् ब्रम- रवत् असिताः कुन्तला अलकाः यस्यास्तत्संबुद्धा) हे प्रिये ! हे गभीरनाभिहदे ! ( गभीरः नाभिदः यस्यास्तत्संबुद्धी) यदि द्वितीयं पडष्टसं षष्ठम् अष्टमं द्वादशम् अथ चतुर्दशं तद्तु सपञ्चदशमन्तिमं ( पञ्चदशेन सह वर्तमानमन्तिमम् ) पञ्चदशं

(२२)
श्रुतबोधः।
सप्तदशं वेत्यर्थः गुरु तथा हे कान्ते! हे सुभु ! ( सुष्टुभ्रुवा
यस्यास्तत्सम्बुद्धौ) यत्र गिरीन्द्रफणभृत्कुलै गिरीन्द्रः अष्टभिः
फणभृत्कुलै नवभिश्च यतिः विश्रामः स्यात् सा पृथ्वी इति
छन्दः भवति ॥ ३८॥
भावार्थ:-हे भ्रमरोंके समान श्याम अलकवाली ! जो दूसरा अक्षर गुरु
हो और हे गंभीरनाभिवाली!६।८ । १२ । १४ । १५ । १७ ये अक्षर भी
दीर्व हो और हे कामिनि ! हे सुन्दर भृकुटीवाली अष्टम नवम अक्षरोंपर
विश्राम हो तो उसे पृथ्वी छन्द कहते हैं ॥ ३८॥
चत्वारः प्राक् सुतनु गुरवो द्वौ दशैकादशौ चे-
न्मुग्धे वर्णी तदनु कुमुदामोदिनि द्वादशान्त्यौ।
-तच्चान्त्यौ युगरसहयैर्यत्र कान्ते विरामो मन्दा
क्रान्तां प्रवरकवयस्तन्वि तां सङ्गिरन्ते ॥ ३९॥
सं० टी०-चत्वार इति। हे तन्वि ! हे मुग्धे ! यत्र यस्मिन्
वृत्ते प्राक् प्रथमं चत्वारो वर्णाः गुरवः तदत चेत् दशैकादशी
द्वौ दशमः एकादशश्च वर्णी ततः द्वादशान्त्यौ त्रयोदशचतुर्द-
शाविति भावः। तद्वत् अन्त्यों षोडशसत दशौ च गुरू तथा हे
कुमुदामोदिनि (कुमुदवत् आमोदः सुगन्धिर्यस्यास्तत्संबुद्धौं)
हे कान्ते ! यत्र युगरसहयैः युगैश्चतुर्भिः रसैः षभिः हयैस्तप्त-
भिश्च विरामः विश्रामः स्यात् तदा हे तन्वि ! प्रवरकवयः
श्रेष्ठकवयः तां मन्दाक्रान्तां सङ्गिरन्ते वदन्ति ॥ ३९ ॥
भाषार्थ:-हे कृश अंगवाली ! हे मुग्धावस्थावाली ! जो आदिके चार
अक्षर गुरु हों और दशम एकादश और द्वादशके अन्त्यके त्रयोदश चतु-
देश और अन्त्यके षोडश और सप्तदश गुरु हों और है कुमोदनीके
समान सुगन्धिवाली हे कामिनी! जिसमें ४।६।७ अक्षरोपर विश्राम हो
तो हे कृशाङ्गी ! कवीश्वर लोग उले मन्दाक्रान्ता छन्द कहते हैं ॥ ३९ ॥

संस्कृत टीका-भाषाटीकासमेतः । आयं यत्र गुरु त्रयं प्रियतमे षष्ठं ततश्चाष्टमं सन्त्येकादशतस्त्रयस्तदनुचेदष्टादशायान्तिमाः। मार्तण्डैर्मुनिभिश्च यत्र विरतिः पूर्णेन्दुबिंबा- नने तद्वृत्तं प्रवदन्ति काव्यरसिकाः शार्दूल- विक्रीडितम् ॥४०॥ संण्टी-आद्यमिति।हे प्रियतमे ! यत्र यस्मिन् वृत्ते आद्यं अयं, प्रथम द्वितीय तृतीयं तथा षष्ठं ततः अष्टमं गुरु तदनु एकादशतः चेत् त्रयः द्वादशत्रयोदशचतुर्दशाः गुरवः सन्ति तथा अष्टादशाद्यान्तिमाः षोडश सप्तदश ऊनविंशश्च गुरवः यत्र च हे पूर्णेन्दुबिंबानने ! (पूर्णेन्दोः पूर्णचन्द्रस्य विम्बवदा- ननं मुखं यस्यास्तत्सम्बुद्धौ ) मार्तण्डै द्वादशभिः मुनिभिः सप्तभिः विरतिः विश्रामः स्यात् तदा काव्यरसिकाः तद्वृत्तं शार्दूलविक्रीडितं प्रवदन्ति कथयति ॥ ४० भाषार्थ:-हे प्राणप्यारी! जिसमें आदिके तीन अक्षर तथा छठा आठवां तथा एकादशले ३ अर्थात् १२ । १३।१४ तथा अठारहके आदिके २ अर्थात् १६ । १७ और अन्तका १९ वां ये अक्षर गुरु ही और है पूर्णचन्द्र के समान मुखवाली ! जो १२ और सात अक्षरों पर विश्राम हो तौ काव्यकै रसिक उसे शार्दूलविक्रीडित कहतेहैं ॥ ४०॥ चत्वारो यत्र वर्णाः प्रथममलघवः पटकः सप्त- मोपि द्वौ तद्वत्षोडशायौ मृगमदतिलके पो- डशान्त्यो तथान्त्यौ । रम्भास्तम्भोरुकान्ते मुनिमुनिमुनिभिदृश्यते चेद्विरामो बाले वन्द्यैः कवीन्द्रः सुतनु निगदिता स्रग्धरा सा प्रसिद्धा ॥४१॥ इति श्रुतबोधः समाप्तः ।

(२४) श्रुतबोधः। सं०टी०-चत्वार इति । हे मृगमदतिलके ! (सुगमदस्य तिलकं यस्यास्तत्सम्बुद्धौ) यत्र यस्मिन् वृत्ते प्रथमं चत्वारो वर्णाः षष्ठकः सप्तमः तद्वत् षोडशाचौ द्वौ चतुर्दश पञ्चदशौ तथा षोडशान्त्यौ सप्तदशाष्टादशौ तथा अन्त्यों विश एकवि- शश्च अलघवः गुरव इत्यर्थः तथा हे रम्भास्तंभोरुकान्ते ! (रम्भायाः कदल्याः स्तम्भौ इव उवाः जंघयोः कान्तिर्यस्या- स्तत्संबुद्धौ) हे बाले ! मुनिमुनिमुनिभिः सप्तभिः सप्तभिः सप्तभिः विरामः विश्रामश्चेत् तदा हे सुतलु ! वन्यैः कवीन्द्रः श्रेष्ठकविभिः सा स्नग्धरा निगदिता कथिता ।। ४१ ।। द्विपञ्चनवभूवर्षे टीका छात्रोपकारिणी । छन्दसः श्रुतबोधस्य भाद्रे संपूर्णतामगात्॥ इति श्रीमदागरानगरनिवासिगुर्जरविप्रकुलोद्भवज्योतिर्विद्धाल- मुकुन्दभट्टसरिसूनुरामेश्वरभट्टविरचिता छात्रोपकारिण्या- ख्या श्रुतवोधसंस्कृतव्याख्या समाप्ता ।। भावार्थ:-हे कस्तुरीके तिलकवाली ! जिसमें ४ अक्षर आदिके गुरु हों तथा ६ । ७।१४। १५ । १७ । १८ । २० । २१ । ये अक्षर भी दीर्य हों और है केलेके खंभके समान सुन्दर जयावाली! जिसमें ७ ७७ । वर्णों- पर विश्राम हो तौ हे वाले! हे सुन्दरि ! उसको कवीश्वरोंने स्नग्धरा नामक छन्द कहां है॥४१॥ आगरानगरनिवासि पं० रामेश्वर भट्टकी बनायी हुई श्रुतबोध ग्रन्थकी भाषाटीका समाप्त हुई ।।

अथ परिशिष्टम् ।
--
पy नाम चतुष्पदी।सा द्विविधा जातिः वृत्तं च ॥ मात्रासं-
ख्याता जातिः वर्णसंख्यातं वृतम् । वृत्तं विविधम् । समम्
अर्द्धसमं विषमं च ॥ तेषां निम्नलिखितानि लक्षणानि वृत्त-
रत्नाकरे निर्दिष्टानि ॥ यथा-
अङ्घयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः।
तच्छन्दःशास्त्रतत्त्वज्ञाः समवृत्तं प्रचक्षते ॥१॥
प्रथमानिसमो यस्य तृतीयश्चरणो भवेत् ।
द्वितीयस्तुर्यवदत्तं तदर्द्धसममुच्यते ॥ २ ॥
यस्य पादचतुष्केपि लक्ष्म भिन्नं परस्परम् ।
तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः॥३॥
भाषार्थ:--जिसमें चार पद ही उसे चतुष्पदी कहते हैं । वह २ प्रकारको
जाति और वृत्त । जिसमें मात्राकी संख्या हो उसको जाति कहते हैं।
जिसमें वों की गणना हो उसे वृत्त कहते हैं । वृत्त तीन प्रकारके हैं सम,
अर्द्धसम और विषम । उनके लक्षण वृत्तरत्नाकरमें इस प्रकार
जिसके चारों चरणों में समान लक्षण हों उसको छन्दःशास्त्रके ज्ञाता
लोग समवृत्त कहते हैं ॥ १ ॥ और जिसका प्रथम चरण और तीसरा
चरण तुल्य हो दूसरा और चतुर्थ तुल्य हो उसको अर्द्धसम कहते हैं ।
॥२॥ जिसके चारों चरण आपसम भिन्न लक्षणके हों उसको छन्द ज्ञाता
लोग विषमवृत्त कहते हैं ।। ३ ॥
गणलक्षणम् ।
मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरा-
दिलघुर्यः । जो गुरुमध्यगतो रलमध्यः सोन्त-
गुरुः कथितोन्तलघुस्तः ॥१॥

(२६) श्रुतबोध- गुरुरेको गकारस्तु लकारो लघुरेककः । क्रमेण चैषां रेखाभिः संस्थानं दाते यथा ॥ २ ॥ सं०टी०-छन्दशास्त्रेषु त्रिवर्णात्मकाः अष्टौ गणाः प्रभवन्ति यथा (मः) त्रिगुरुवर्णात्मकः (नः) त्रिलघुवर्णात्मकः (भः) आदिगुरुस्त्रिवर्णात्मकः (यः ) आदिलघुस्त्रिवर्णात्मकः (जः गुरुमध्यस्त्रिवर्णात्मकः ( रः) लघुमध्यस्त्रिवर्णात्मकः ( सः) अन्त्यगुरुस्त्रिवर्णात्मकः (तः) अन्त्यलधुत्रिवर्णात्मकः (गः) एको गुरुवर्णः। (ल.)एको लघुवर्णः । भाषार्थः-मगणमें ३ गुरु हैं जैसे 555 नगणमें ३ लघुहैं जैसे ॥, भगणमें आदिमें गुरु है जैसे su, यगणके आदिमें लघु है जैसे 155, जगणके मध्य में गुरु है जैसे !51, रगणके मध्यमें लघु है जैसे 515, सगणके अन्त्यमें गुरु है जैसे ॥5, तगणके अन्त्यमें लधु है जैसे 55। इस प्रकार छन्दःशास्त्रमें तीन तीन वर्णोंके आठ गण हैं, गकारका एक गुरु वर्ण है जैसे, लकारका एक लघु वर्णहै जैसे।॥ श्लोके चत्वारश्चरणा भवन्ति। प्रति पद्यस्य.आदी मकारा- क्षरादीनां प्रयोगाच्छुभाशुभफलनिर्णयः कथ्यते ॥ यथा-- मो भूमिः श्रियमातनोति यजलं वृद्धिं वह्नि- म॒तिं सो वायुः परदेशदूरगमनं तव्योमशून्यं फलम् । जः सूर्यो भयमाददाति विपुलं भेन्दु- यशो निर्मलं नो नागश्च सुखप्रदः फलमिदं प्राहुर्गणानां बुधाः ॥१॥ भाषार्थ:-श्लोकी चार चरण होते हैं प्रत्येक पद्यके आदिमें मकाराद्य- क्षरोंके प्रयोगमें शुभाशुभ फल का निर्णय और गणोंके देवता निम्नलिखित चकसे जानना ॥१॥ - परिशिष्टम् । (२७) स्वरूप SSS 155 515 CIRU ॥5 551 संख्या गणनाम देवता १ मगण भूमि लक्ष्मीलाभ यगण वरुण प्रारब्धोदय रगण अग्नि मृत्यु ধা वायु विदेशगमन तगण आकाश निष्फलतावा.राज्यलाभ जगण सूर्य भय भगण चन्द्र कीर्तिलाभ नगण सप सुख तथा स्वर्गलाभ संयोगाचं दीर्घ सानुस्वारं विसर्गसंमिश्रम् । विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन ॥१॥ विकल्पेनेति यथा-"तरुणं सर्वपशाकं नवौदनं पिच्छिलानि च दधीनि। अल्पव्ययेन सुन्दरि ग्राम्यजनो मिष्टमनाति॥" अत्र सुन्दरि इति पदस्य प्रास्यशब्दे परे विकल्पेन लघुत्वम् । तथाच-अच्युतचरिते ॥ रक्तेन केशिदशनक्षतसंभवेन रेजे समण्डिततरो हरिबाहुदण्डः। तद्दन्तसंदलितभीमभुजप्रताप- वह्नरिव स्फुटकणमकरण कीर्णः ॥२॥ अत्र प्रथमतृतीयपा- दान्तस्यापि लघोर्गुरुत्वम् । भाषार्थः-संयोगके आदिका, अनुस्वार तथा विसर्ग युक्त अक्षरको गुरु मानना चाहिये और पादके अन्तमें विकल्प करके दीर्घ मानना चाहिये जैसे "तरुणं सर्षपशाकं" इत्यादि श्लोकमें ग्राम्यशब्दके परे रहते सुन्दरि शब्दको विकल्प करके लघुत्व है और जैसा अच्युत चरि- तमें “रक्तेन केशिदशनक्षतसंभवेन" इस श्लोकके प्रथम तृतीय पादक अन्त्य लघु अक्षरको गुरुत्व है। प्रद्वेवेति पुनः पिङ्गलमुनेर्विकल्पविधायकं सूत्रम् । तथाहि कुमारसंभवे ॥ सा मंगलस्नानविशुद्धगात्री गृहीतप्रत्युद्गमनी- यवस्त्रा" । अत्र प्रशब्देपरे गुरोर्लघुत्वम् । तथाच माधकान्ये "प्राप्तनाभिहदमजनमाशु प्रस्थितं निवसनग्रहणाय" इत्यत्र

(२८)
श्रुतबोध-
वशब्दे परे गुरोर्लघुत्वम् । किन्तु तीव्रप्रयत्नोच्चारणेनात्र लघु.
त्वमिति कण्ठाभरणः । यदुक्तम्-यदा तीव्रप्रयत्नेन संयोगादे-
रगौरवम् ॥ न छन्दोमङ्ग इत्याहुस्तदा दोषाय सूरयः॥
भाषार्थ:-'प्रवेति' यह पिंगल सुनिका विकल्पविधायक सूत्र है अर्थात्
प्र और परे हों तो इनके पूर्वके अक्षरको विकल्प करके लघुत्व है जैसा
कुमारसंभवमें उदाहरण दिया है कि सा मंगलस्नानविशुद्धगात्री गृही-
तप्रत्युद्गमनीयवस्त्रा" यहां (प्र) अक्षर परे रहते (त) को गुरु मानना
चाहिये था तो लधु मानाहै । अब (ह) का उदाहरण मायकाव्यका
देखो कि "प्राप्तनाभिह्रदमजनमाशु " यहां अक्षर परे रहते (भि) को
गुरुत्व था परन्तु लघुत्वही रहा परन्तु शीत बोलनेले संयोगके आदिके
अक्षरको हस्व नोलने में कुछ दोष नहीं है क्योंकि कण्ठाभरणमें लिखा है
“यदा तीव्रप्रयत्नेन" इत्यादि अर्थात् शीघ्र बोलनेसे संयोगके आदिके गुरु
अक्षरको लघुता हो तो पण्डितलोग उसको छन्दोभ नहीं कहते हैं ।
यतिः ।
यतिर्जिएविश्रामस्थानं कविभिरुच्यते।
सा विच्छेदविरामायैः पंदेर्वाच्या निजेच्छया ॥१॥
भाषार्थ-जहां जिहाका नियत विश्राम स्थान हो उसको कषियोंने यति
कहाहै और उसीको अपनी इच्छानुसार विच्छेद वा विराम आदिभी
कहते हैं ॥ १॥
श्लोकस्य चतुर्थाशः पादो भवति । स च समवृत्ते एकाक्ष-
रादारभ्य षड्विंशत्यक्षरपर्यन्तमकैकाक्षरवर्द्धन उत्थादि संज्ञा
लभते यथा-
उक्थात्युक्था तथा मध्या प्रतिष्ठान्यासुपूर्विका ।
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥१॥
त्रिष्टुप् च जगती चैव तथातिजगती मता॥शक-
रीसातिपूर्वास्यादृष्टचत्यष्टी तथा स्मृते ॥२॥

परिशिष्टम् । धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः। वि- कृतिः सँस्कृतिश्चैव तथातिकृतिरुत्कृतिः ॥ ३॥ भाषार्थ:-लोकके चतुर्थाशको पाद कहते हैं । उसले समवृत्तमें एक अक्षरले आदिलेकर २६ अक्षरपर्यन्त एक २ अक्षरके बढानेसे उक्थादि छन्द बनते हैं उनके क्रमले निम्नलिखित नाम हैं। (१) उक्था (२) अत्युक्था (३) मध्या (४) प्रतिष्ठा (५)सुप्रतिष्ठा (६) गायत्री (७ ) उष्णिक (८) अनुष्टप् (९) वृहती (१०) पंक्तिः (११) त्रिष्टुप् (१२) जगती (१३) अतिजगती (१४) शकरी (१५) अतिशकरी (१६) अष्टिः ( १७ ) अत्यष्टिः (१८) धृतिः ( १९ ) अतिधृतिः (२०) कृतिः ( २१) प्रकृतिः (२३) आकृतिः (२३) विकृतिः (२४) संस्कृतिः (२५) अतिकृतिः (२६) उत्कृतिः !!

श्री। अथ श्रुतबोधप्रश्नाः १-पद्य कतिविधम् । २-पद्यस्य लक्षणं सोदाहरणं लिख्यताम् । ३-वृत्तं कतिविधम् । -विषमवृत्तस्य लक्षणं लिख्यताम् । ५-जातिच्छन्दस्तु कति मात्राः कतिगणाः भवन्ति तेषामुदाहरणानि देयानि । ६-यतिः का भवति कैरन्यैः पदैश्च सा अभिधीयते । ७-पादः को भवति । ८-यस्मिन् छन्दसि इन्द्रवज्रोपेन्द्रवज्राछन्दसोः द्रौ २ चरणौ भवेतां तच्छन्दसः किन्नाम किश्च तल्लक्षणम् । ९-चम्पकमालाछन्दसः अंत्याक्षरविहीनत्वात् किमपि छन्दो भवति न वा भवति चेत्तस्योदाहरणं देहि । १०-उपजातिविपरीतपूर्वयोः को भेदः । १५-इंद्रवज्रोपेंद्रवज्राच्छंदसोः परस्परं को विशेषः । १२--चम्पकमालामणिबंधच्छंदसोः परस्परं को भेदः । १३- माणवकच्छंदसः किं लक्षणम् । १४--यत्र रथोद्धतायाः नवमाक्षरं दशमवत् दशमं नवमवत् भवेत्तदा किं छन्दो भवति सलक्षणं लिख्यताम् । १५--तोटकवृत्तस्य किं लक्षणम् । यदि तोकवृत्तस्य पश्चमवर्णो दीर्घः स्यात् षष्ठाक्षरं च लधु भवेत. तच्छंदः उदाहियताम् । १६--यदि स्वागतावृत्तस्य दशमाक्षरं नवमवत् भवेत् नवमाक्षरं दशमवत् क्रियते किनाम तच्छन्दसः । लक्षणसहितमुदाहरणं दीयताम् । १७--आर्योपगीत्योः को भेदः । १८--यदि उपेंद्रवज्जावृत्तस्योपांत्यवर्णाः लघवः भवेयुस्तदा किं छन्दो भवितुमर्हति । १९- यस्मिन् वृत्ते आद्यास्त्रयः अष्टमः दशमः द्रादशस्त्रयोदशश्च गुरवः किनामधेयं तवृत्तस्य । २०- यत्र सप्तमदशमाक्षरे परित्यज्य गुरवः भवेयुः पञ्चमसप्तमाक्षरैः विश्रामः स्पात किन्नाम तच्छन्दस इत्युच्यताम् ।

श्रुतबोधप्रश्नाः। (३१) २१-जात्युपजात्योः परस्परं को भेदः । २२-यदि कस्मिंश्चिदेकादशाक्षरवृत्ते द्वितीयचतुर्थपञ्चमषष्ठाष्टमाक्षराणि लवूनि तदा किं छन्दो भवति । सलक्षणं ब्रूहि । २३-मन्दाक्रान्तायाः अन्त्ययतिराहित्ये किमपि छन्दो भवति न वा। भवति चेकिन्नामधेयन्तवृत्तस्य । २४-यदि वंशस्थवृत्तस्य पादेषु पूर्ववर्णा गुरुवः स्युस्तदो किमपि छन्दो भवितुं शक्यते न वा शक्यते चेत्तन्नामलक्षणश्च देयम् । २५-यत्राचं वर्णचतुष्टयं लघु स्यात् ततो पञ्चमषष्ठौ वर्णो दी स्यातां तर्हि किं छन्दो भवति तस्योदाहरणं लेखनीयस् । २६-आद्यं चतुर्थ पञ्चमकमपि यस्मिन् वृत्ते गुरु तवृत्तस्य किन्नामधेय- मिति सलक्षणं ब्रूहि । २७-यस्मिन् छंदसि तुर्य पञ्चमकञ्च लघू स्यातां तर्हि किन्नाम तच्छन्दसः। २८-यत्र वृत्ते द्वितीयचतुर्थषष्ठाष्टमाक्षराणि गुरूणि सन्ति तवृत्तं सल- क्षणमुदाहियताम् । २९-मन्दाकान्ताहंसीछन्दसोः को भेदः । ३०-दोधकवृत्तस्य किं लक्षणं सोदाहरणं लेख्यम् । ३१-Qतबोध इति नामान्वर्थमनन्वर्थ वा । अन्वर्थ चेत् कथं "पादान्तस्थं विकल्पेन" साध्याहारं व्याख्यायतामुदाह्रियताश्च । ३२- यस्मिन् वृत्ते षष्टो नवमश्च लवू वो स्याताश्चतुर्भिस्लप्तभिश्च विश्रामः स्यात् किनामधेयन्तच्छन्दतः । सलक्षणं व्याख्यायताम् । ३३-गुरुसंज्ञा केषां भवतीति लिख्यताम् । २४-यस्मिन् वृत्ते त्रिषट्सप्तमनवमाक्षराणि स्वानि स्युः किनाम तच्छन्दसः । ३५-शार्दूलविक्रीडितस्य किं स्वरूपम् । ३६-विपरीतपूर्वायाः किं लक्षणम् तस्य पृथगुदाहरणं देहि । ३७-मणिबन्धस्यान्ते एकगुरुयोजने किं छन्दो भवति । २८-प्रहर्षिण्याः वसन्ततिलकायाश्च लक्षणं लिख्यताम् । ३९-यस्यां वंशस्थपादानां पूर्ववर्णाः गुरुवस्सन्ति सा कि छन्दः कथ्यते व्याख्येयमुदाहियताश्च । ४०-यस्मिन् तृतीयषणनवमद्धादशाक्षराणि परित्यज्य अन्याक्षराणि लवूनि चेत् किन्नाम तद्वत्तस्य किश्च तल्लक्षणम् । ४१-मालिनीहरिणीशिखरिणीपृथ्वीछन्दसां लक्षणानि लिख्यन्ताम् ।

(३२) श्रुतबोधप्रश्नाः। ४२-त्रयोदशाक्षरवृत्ते यदि तृतीयपञ्चमषष्ठसप्तमाष्टमदशमद्वादशवर्णा लघवश्चतुर्भिर्नवभिश्चाक्षरैः विरतिः स्यात् तदा कि छन्दः कथ्यते । ४३-यदि तोटकवृत्तस्य पञ्चमवर्णों दीर्घः स्यात् षष्ठो वर्णः स्वः स्यात् तहिकिमाख्यं छन्दो भवितुं शक्यते सलक्षणमुदाहरणं देहि । ४४-भुजङ्गप्रयातवृत्ते चतुर्थसप्तमदशमलघुवर्णस्थाने द्वादशाक्षरस्थानेच यदागुरुवर्णाः क्रियन्ते तदा किं छन्दो भवतीति सलक्षणमुत्तरं देयम् । ४५-यापेंद्रवज्राछन्दसः प्रतिचरणे एकादशवर्णा द्वस्वास्तन्नामलक्षणो- पेतमुदाहरणश्च दीयताम् । ४६-यस्मिन् वृत्ते प्रथमचतुर्थसप्तमदशमाक्षराणि हस्वानि स्युः नामधेय- धनीयं तच्छंदसः! ४७--मंदाक्रांताशार्दूलविक्रीडितस्नग्धराछन्दसां लक्षणानि व्याख्यायंताम्। ४८-यदिद्रुतविलंवितछन्दसः आद्यतृतीययोः पादयोः प्रथमाक्षरं चेन्न स्यात् तदा किन्नाम छन्दो भविष्यति तस्य पृथग उदाहरणं लेख्यम् । ४९- निम्नलिखितानि कानिश्छन्दांसि तेषां नामानिलक्षणान्यपि लेख्यानि। हैमवते कटकतटे शशाङ्कचूडामणिस्तपस्तनुते । यत्नेन येन केनचिदस्तु प्रणयी स पार्वत्याम् ॥ १ ॥ सुभव्यता विधायकः समस्त सिद्धिदायकः । विनायकप्रणायकः करोतु शं विनायकः ॥२॥ विरचितसमरोचितांगभूषः, परिहितभूपित्तवेश एष भाति । जलधरनिकरोपरोधशून्यो रविरिव राजसुतः शरत्प्रचण्डः ॥ ३॥ ५०-आर्याऽनुष्टुप्छन्दोद्वयं साधारणरीत्या विरच्यताम् ॥ इति ॥ पुस्तक मिलनेका ठिकाना- खेमराज श्रीकृष्णदास, "श्रीवेङ्कटेश्वर” स्टीम् प्रेस-वंबई,

No text on this page.

श्रुतबोध

Author
महाकवि कालिदास
Title
????????
File name
श्रुतबोध
Text
OCR done
Citation
1911
Published
2009/09
Publisher
श्रीवेंकेटेश्वर स्टीम मुद्रणालय, बॉम्बे
Language
Sanskrit
Pages
34
Library
Central Library, Jain Vishva Bharti University, Ladnun
DLI number
322492
Barcode
99999990253044.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
DOCptqiyu3g
Download PDF

श्रुतबोध