Scl

Chandrapeeda Katha

Pandit_v_ananthacharya

PDF Proofread

Front matter

No text on this page.

चन्द्रापीडकथा
वे अनन्ताचार्येण, श्रीमद्भट्टबाणसूक्तिभिरेव
संकलिता
प्रयागनगरे
रामनारायण लाल
इत्येतेन प्रकाशिता
मूल्यं १॥

प्रकाशक
रामनारायण लाल
प्रयाग
१म१५३
मुद्रक
मुन्शी रमजानअली शा
नेशनल प्रेस,
प्रयाग

भूमिका भगवत्याः प्रभवः संस्कृतभाषामयेषु वाङमयेषु महाकविभट्टवाणसूक्त: माधुर्य- मन्यादृशम् । सरलसरलानि अतिमधुराणि सुखावबोधसुभगानि रसमयानि महाकविव्याहृतानि परिशीलयितुमपारयिष्णवः जनाःप्रायेण दुभंगा एव । अधुना हि काल एकतः पाश्चात्यभाषा- साम्राज्येन अपरतः नानाविधदेशभाषा-ताण्डवेन च गैर्वाण्याः सौभाग्यम् अस्तमितप्रायं दृश्यते । केचित् नवीनाः प्राचीनेषु महाकविग्रन्थेषु अपरिचयापराधादुद्भावितं काठिन्यदोषमध्यारोप्य, तान् परित्यज्य नवीनाः कृतीरुपलालयन्ति ततश्चानादिकालादारभ्य अविच्छिन्नेषु कविसंप्रदायेषु समागतानि शब्दप्रयोगवैदग्ध्यानि ( Idiomatic usages ) वर्णनानैपुण्यानि च प्रायेण अनुपयोगपराहतान्येव भवन्ति । तदेवं सर्वतः प्रसृतं दौस्थ्यमपनेतुमेक एवाभ्युपायः पण्डितानां पुरतः समप्यते तद्यथा -बाल्यादारभ्यैव व्युत्पित्सूनां महाकविसूक्तिषु परिचयसंपादनम- वश्यं कर्तव्यम्-तच्च प्रौढतरवर्णनानिबिडेषु तेषु लेशतः परिवर्त- नमन्तरा न शक्यते कर्तुम्-अस्यां पद्धतौ निक्षिप्तपदप्रसराः बहवः पण्डिताः श्रीमतो महाकवेः भट्टबाणस्य सूक्तिषु प्रधानभूतां कादम्बरीम् बहुधा पद्यरूपेण गद्यरूपेण नाटकरूपेण च संक्षिप्य परिवर्त्य च संग्रहरुचीनां व्युत्पित्सूनां यथोपयुज्येत तथा समुपस्था- पयामासुः । तामेव सरणिम् अवलम्ब्य कादम्बया वर्तमानान्

( २ )
वर्णनाभागान् अपसार्य यथा वा कथाभागमानं अनायासमवबुध्येत
तथा अन्थोऽयं प्रथितः कृतकोऽयं परिश्रमः न तु स्वाभाविक
सर्वथा मूलग्रन्थपठने सोपानमिव सौधाधिरोहणे सुबहु उपकरि-
व्यतीति कृत्वा सुधियः समादरिष्यन्ते इति शास्यते।
कृष्णापुरम्
वे अनन्ताचार्यः
P.0. Madras,
6th May, 1946.
अकबराबाद

चन्द्रापीडकथा आसीत् पुरा शूद्रको नाम राजा । तस्य विदिशाभि- धाना राजधान्यासीत् । स तस्याम्, असकृदालोचितनीति- शास्त्रैः निर्मलमनोभिः अमात्यैः परिवृतः, समानवयोविद्या- लङ्कारैः राजपुत्रैः सह रममाणः, प्रथमे वयसि वर्तमानोऽपि वनितामुखपराङ्मुखः सुखमतिचिरमुवास । एकदा तम्, आस्थानमण्डपगतम्, दक्षिणापथात् आगता काचित् चाण्डाल- कन्यका पत्रजरस्थं शुकम् आदाय, समुपसृत्य "देव ! विदित- सकलशास्त्रार्थः, राजनीतिकुशलः, पुराणेतिहासकथासु निपुणः, सकलभूतलरत्नभूतः, वैशम्पायनो नाम शुकोऽयम् आत्मीयः क्रियताम्" इत्युक्तवा, पञ्जरं पुरो निधाय, अपससार । अपमृतायां तस्याम् , स विहङ्गराजः, राजाभिमुखः भूत्वा, स्पष्टतरवर्णया गिरा कृतजयशब्दः राजानम् उद्दिश्य आर्याम् इमाम् पपाठ- "स्तनयुगमश्रुस्नातं समीपतरवर्तिहृदयशोकाग्नेः । चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥" राजा तु तां श्रुत्वा संजातविस्मयः तमेवमब्रवीत् । आवेदयतु भवानादितः प्रभृति कात्स्न्येन आत्मनो वृत्तम् ।

( २ ) जन्म कस्मिन् देशे ? का माता ? कस्ते पिता ? कथं शास्त्राणां परिचयः ? कियद्वा वयः ? कथं पञ्जरबन्धः ? कथं चाण्डाल- हस्तगमनम् ? इह वा कथमागमनमिति । एवं सबहुमानम् अवनिपतिना पृष्टः वैशम्पायनः मुहूर्तमिव ध्यात्वा सादरम् अब्रवीत्-देव ! महतीयं कथा । यदि कौतुकम्, आकर्ण्यताम् । अस्ति मध्यदेशालंकारभूता मेखलेव भुवः विन्ध्याटवी नाम । तस्यां च दण्डकारण्यान्तःपाति, गोदावर्या सरिता परिगतम्, आश्रमपदम् आसीत् । तस्य च नातिदूरे पम्पाभिधानस्य पद्मसरसः पश्चिमे तीरे महान् जीर्णः शाल्मलीवृक्षः । तत्र च शाखाग्रेषु कोटरोदरेषु विरचित- कुलायानि नानादेशसमागतानि शुकशकुनिकुलानि प्रतिवस- न्ति स्म । तत्र कस्मिन् जीर्णकोटरे जायया सह निवसतः पश्चिमे वयसि वर्तमानस्य पितुः अहमेवैकः सूनुरभवम् । अति- प्रबलया ममैव जायमानस्य प्रसववेदनया जननी मे लोकान्तर- मगमत् । तातस्तु मे सुतस्नेहान् अभिमतजायाविनाशशोकम् अन्तः निगृह्य, मत्संवर्धनपरः अभवत् । एकदा तु प्रभाते सहसैव नस्मिन् महावने मृगयाकोला- हलध्वनिरुदचलत् । आकर्ण्य च तमहं समीपवर्तिनः पितुः पक्षपुटान्तरमविशम् । अथ च शैशवात् किमिदम् इति संजात- कुतूहल: पितुरुत्सङ्गात् ईषदिव निष्क्रम्य, कोटरस्थ एव शिरोधरां प्रसार्य तामेव दिशं चक्षुः प्राहिणवम् । तस्मात् ( ३ ) वनान्तरात् अभिमुखम् आपतत् अतिभयजनकम् शवरसैन्यम- द्राक्षम् । मध्ये च तस्य, प्रथये वयसि वर्तमानम् आजानुलम्बेन भुजयुगलेन उपशोभितम्, अनेकवर्णैः श्वभिः अनुगम्यमानम्, मातङ्गकनामानं शबरसेनापतिमपश्यम् । सोऽयम् अटवी- प्रमणसमुद्भवं श्रमम् अपनिनीषुः आगत्य तस्यैव शाल्म- लीतरोः अधः छायायाम् उपाविशत् । अथ तस्मात् सरसः सलिलम् अत्यच्छम् कमलिनीपत्रपुटेन आदाय, आपीय, धौतपङ्काः निर्मला: मृणालिकाश्च अदशत् । अपगतश्रमश्चो- त्याय, सकलेन तेन शबरसैन्येन अनुगम्यमानः शनैः शनैः अभिमतं दिगन्तरम् अयासीत् । एकतमस्तु जरच्छबरः पिशि- वार्थी, तस्मिन्नेव तरुतले मुहूर्तमिव व्यलम्वत । अन्तरिते च शबरसेनापतौ स जीर्णशवरः पिबभिव अस्माकम् आयूंषि तं वनस्पतिं सुचिरम् आमूलात् अपश्यत् । अथ तं पादपम् आरुह्य शाखान्तरेभ्यः कोटरेभ्यश्च शुक- शावकान् गृहीत्वा अपगतासुंश्च कृत्वा क्षितौ अपातयत् । तातस्तु तं महान्तं प्राणहरम् उपप्लवम् आलोक्य, मरण- भयात् उद्घान्ततारकां दृशम् इतस्ततो दिक्षु विक्षिपन् स्नेह- परवशः मद्रक्षणाकुल: पक्षसंपुटेन आच्छाद्य क्रोडविभागेन माम् अवष्टभ्य तस्थौ । असावपि पापः क्रमेण शाखान्तरैः संचरमाणः कोटरद्वारमागत्य, भुजङ्गभोगभीषणं वामबाहुं प्रसार्य, तातम् आकृष्य अपगतासुम् अकरोत् । मां तु स्वल्पत्वात् ( ४ ) भयसंपिण्डिताङ्गत्वात् सावशेषत्वात् आयुषः पक्षसंपुटान्तर- गतं नालक्षयत् । उपरतं च तातम् अवनितले शिथिलशिरोधरम् अधोमुखम् अमुञ्चत् । अहमपि तच्चरणान्तराले निलीन: तेनैव सह अपतम् । अवशिष्टपुण्यतया तु महतः शुष्कपत्रराशेः उपरि पतितम् आत्मानम् अपश्यम् । अङ्गानि तेन मे नाशीयन्त। यावदसौ तस्मात् तरुशिखराद नावतरति तावत् अहं पितरम् उपरतम् उत्सृज्य, नातिदूरवर्तिनः तमालविटपिन: मूलदेशम् अविशम् । स तदानीम् • अवतीर्य क्षितितलविप्र- कीर्णान् संहृत्य तान् शुकशिशून् एकलतापाशसंयतान् आदाय, सेनापतिगतेनैव वर्त्यांना तामेव दिशम् अगच्छत् । अतिदूर- पातात् आयासितशरीरं मां बलवती पिपासा परवशम् अकरोत् । तस्मात् सरसः नातिदूरवर्तिनि तपोवने जावालिः नाम महातपाः मुनिः प्रतिवसति स्म । तत्तनयश्च हारीतनामा तदेव कमलसरः सिष्णासुः उपागमत् । स मां तदवस्थाम् आलोक्य, समुपजातदयः, समीपम् उपमृत्य, सरस्तीरम् आनीय, स्वयं माम् उत्तानितमुखम् अङ्गुल्या कतिचित् सलिलबिन्दून् आपाययत् । अम्भःक्षोदकृतसेकम् समुपजात- नवीनप्राणम् माम् उपतटारुढस्य नलिनीपलाशस्य जलशिशि- रायां छायायाम् निघाय, समुचितम् अकरोत् स्नानविविधिम् । अभिषेकावसाने च भगवते सवित्रे दत्वायम्, उदतिष्ठत् । आगृहीतधौतपवलवल्कलश्च मां गृहीत्वा तपोवनाभिमुखम् ( ५ ) अगच्छत् ॥ अनतिदूरमिव गत्वा सदासंनिहितकुसुमफलैः काननैः उपगूढम्, वेदाध्ययनमुखरवटुजनम्, उपचर्य- माणातिथिवर्गम्, व्याख्यायमानयज्ञविद्यम्, आलोच्यमान- धर्मशास्त्रम् , वाच्यमानविविधपुस्तकम्, विचार्यमाण- सकलशास्त्रार्थम् आश्रमम् अपश्यम् ॥ तस्य च एवंविधस्य मध्यभागे रक्ताशोकतरोः अधः छायायाम् उपविष्टम् , समन्तात् महनीयैः महर्षिभिः परिवृतम्, आयामिनीभिः जटाभिः उपशो- भितम्, आनाभिलम्बिकूर्चकलापम्, भगवन्तं जावालिम् अपश्यम् । हारीतस्तु मां तस्यामेव अशोकतरोः अधः छायायां स्थापयित्वा, पितुः पादौ उपगृह्य, कृताभिवादनः, नातिसमीप- वर्तिनि कुशासने समुपाविशत् । आलोक्य तु माम् ते सर्व एव मुनयः कुतोऽयम् आमा- दितः शुकशिशुः इति तम् आसीनम् अपृच्छन् ॥ असौ तु तान् अब्रवीत्-अयं मया स्नातुम् इतो गतेन कमलिनी- सरस्तीरे तरुनीडात् पतितः दूरनिपतनविह्वलतनुः आसादितः "तपस्विदुरारोहतया तस्य वनस्पतेः न शक्यते स्वनीडम् आरोपयितुम्" इति जातदयेन आनीतः ॥ अयम् इदानीम् अप्ररूढपक्षतिः, अक्षमोऽन्तरिक्षम् उत्पतितुम् ॥ तत् अत्रैव कस्मिंश्चित् आश्रमतरुकोटरे मुनिकुमारकैः अस्माभिश्च उपनीतेन नीवारकनिकरण फलरसेन च, संवर्यमानः धारयतु जीवितम् ।। अनाथपरिपालन हि धमः अस्मद्विधानाम्॥ .

( ६ ) उदिन्नपक्षतिस्तु गगनतलसंचरणसमर्थः यास्यति, यत्रास्मै रोचिष्यते । इहैव वा उपजातपरिचयः स्थास्यति" इति ।। इत्यस्मत्संवद्धम् आलापम् आकर्ण्य, भगवान् जाबालिक माम् अतिप्रशान्तया दृष्टया दृष्ट्वा, “स्वस्यैवाविनयस्य फलम् अनेनानुभूयते" इत्यवोचत् ॥ श्रुत्वैतत् सर्वैव सा तापस- परिषत् तं भगवन्तम् एवम् उपनाथितवती-आवेदय भगवन् कीदृशस्य अविनयस्य फलम् अनेन अनुभूयते ? कश्चाय- मासीत् जन्मान्तरे ? विहगजातो कथमस्य संभवः ? किम- मिधानो वा अयम् ? अपनय नः कुतूहलम् ॥ इति । एवमुक्तस्तु सः महामुनिः अवादी-श्रूयतां यदि कुतूहलम् ॥ अस्ति सकलभुवनललामभूता विजितामरलोकधुतिः अवन्तिषु उज्जयिनी नाम नगरी ॥ तस्यां च नलनहुष- ययातिपतिमः तारापीडो नाम राजा बभूव ॥ तस्य च राज्ञः नीतिशास्त्रपयोगकुशलः महत्स्वपि कार्यसंकटेषु अविषण्णधीः अमात्यः ब्राह्मणः शुकनासो नाम आसीत् ॥ स राजा बाल एव राजलक्ष्मीलीलोपधानेन वाहुना सप्तद्वीपवलयां वसुन्धरां विजित्य तस्मिन् शुकनासे राज्यभारम् आरोग्य, सुस्थिताः प्रजाः कृत्वा, सुखम् उवास ॥ शुकनासोऽपि महान्तं तं राज्य- भारम् अनायासेनैव प्रज्ञाबलेन बभार॥ एवं मन्त्रिनिवेशित- राज्यभारः यौवनसुखम् अनुभवन् स राजा महान्तं कालम् ( ७ ) अयापयत् ॥ भूयसापि कालेन सुतमुखदर्शनसुखं न छेभे ।। तस्य विलासवती नाम महिषी भगवन्तं महाकालम् अभ्याचतुं गता, तत्र महाभारते वाच्यमाने "अपुत्राणां न सन्ति लोकाः शुभाः" इति श्रुत्वा, नितरां परितप्यमाना, ततः प्रभृति, देवताराधनेषु ब्राह्मणपूजासु गुरुजनसपर्यासु च सुतराम् आदरवती बभूव ॥ एवं गच्छति काले कदाचित् राजा चरमे यामिनीयामे स्वप्ने विलासवत्याः वदने सकलकलापरिपूर्ण-- मण्डलं शशिनं प्रविशन्तम् अद्राक्षीत् ॥ प्रबुद्धश्चोत्थाय तस्मिन्नेव क्षणे समाहूय शुकनासाय तं स्वमम् अकथयत् ॥ स च समुपजातहर्षः प्रत्युवाच । देव ! संपन्नाः सुचिरात् अस्माकं प्रजानां च मनोरथाः ॥ कतिपयैरेवाहोभिः असंदेहम् अनुभवति स्वामी सुतमुखकमलावलोकनसुखम् ॥ अद्य खलु मयापि स्वप्ने दिव्याकृतिना शान्तमूर्तिना द्विजेन केनचित् विकचं पुण्डरीकम् उत्सङ्गे देव्याः मनोरमायाः निहितं दृष्टम् ॥ अवितथफलाश्च प्रायः निशावसानसमयदृष्टाः भवन्ति स्वप्नाः" इति । कतिपयदिवसापगमे च देवताप्रसादात् विवेश गर्दा विलासवतीम् ॥ शनैः शनैश्च प्रतिदिनम् उपचीयमानगर्भा सा पूर्ण प्रसवसमये प्रशस्तायां वेलायां सकललोकहृदयानन्द- कारिणं सुतम् अस्त ॥ अथ पार्थिवः मौहूर्तिकगणोपदिष्ट प्रशस्ते मुहूर्ते शुकनासद्वितीयः, मङ्गलकलशयुगलाशून्येन ( ८ ) द्वारदेशेन विराजमानम्, अविच्छिन्नपठयमाननारायणनाम- सहस्रम्, सूतिकागृहं प्रविश्य, विलासवत्याः प्रसवपरिक्षाम- पाण्डुमूतः उत्सङ्गगतम् महापुरुषलक्षणोपेतम् आत्मजम् ददर्श । विगतनिमेषेण निश्चलपक्ष्मणा चक्षुषा पिबन् इव सस्पृहम् ईक्षमाणः तनयाननम् अतितराम् मुमुदे ॥ तस्मिन्नेव समये शुकनासस्यापि ज्येष्ठायां ब्राह्मण्यां मनोरमायां तनयः जातः ॥ अथ नृपतिः अमृतवृष्टिप्रतिमम् तज्जननवृत्तान्तम् आकर्ण्य, "अहो कल्याणपरम्परा" इत्यभिधाय, शुकनासभवनं गत्वा, द्विगुणतरम् उत्सवम् अकारयत् ।। प्राप्ते च दशमेऽहनि पुण्ये मुहूर्ते स्वप्नानुरूपमेव राजा स्वसूनोः चन्द्रापीडः इति नाम चकार ॥ अपरेधुः शुकनासोऽपि ब्राह्मणोचिताः सकलाः क्रियाः कृत्वा, विप्रजनोचितम् आत्मजस्य वैशम्पायनः इति नाम चक्र ।। क्रमेण च कृतचूडाकरणादिवालक्रियाकलापस्य शैशवम् अतिचक्राम सवैशम्पायनस्य चन्द्रापीडस्य ॥ अथ तारापीडो बहिर्नगरात् अनुशिप्रम् अतिमहता सुधाघवलेन प्राकारमण्डलेन परिवृतम् विद्यामन्दिरम् अकारयत् ॥ तत्र शोभने दिवसे चन्द्रापीडम् वैशम्पायन- द्वितीयम् आचार्येभ्यः निखिलविद्योपादानार्थम् अर्पयाम्बभूव । प्रतिदिनम् सह विलासवत्या तत्रैव गत्वा एनम् आलोक- यामास ॥ चन्द्रापीडोपि अचिरेणैव कालेन, यथास्वम् आत्मकौशलं प्रकटयद्भिः पात्रवशात् उपजातोत्साहैः आचार्य: उपदिश्यमानाः सर्वाः विद्याः जग्राह ॥ तथा हि पदे, वाक्ये, प्रमाणे, धर्मशास्त्र, राजनीतिषु, व्यायामविद्यासु, सर्वेष्वायुध- विशेषेषु, रथचर्यासु, गजपृष्ठेषु, तुरङ्गमेषु, वीणावेणुप्रभृतिषु वायेषु,नृत्तशास्त्रेषु, गान्धर्वविद्यासु, शकुनिरुतज्ञाने, यन्त्र- प्रयोगे, विपापहरणे, सर्वलिपिपु, सर्वदेशभाषासु, अन्येष्वपि कलाविशेषेषुपरं कौशलम् अवाप । सहजा चास्य वृकोदरस्येव आविर्बभूव सर्वलोकविस्मयजननी महापाणता । एकैकन कृपाणप्रहारेण बालतरून् मृणालदण्डानिव लुलाव । दशपुरुष- संवहनयोग्येन अयोदण्डेन श्रमम् अकरोत् । ऋते च महापाण- सर्वाभिः अन्याभिः कलाभिः अनुचकार तं वैशम्पायनः । सः चन्द्रापीडस्य सर्वविसम्भस्थानम् द्वितीयमिव हृदयं परं मित्रम् आसीत् । निमेषमपि तेन विना स्थातुं न शशाक । वैशम्पायनोऽपि तं न क्षणमपि विरहयांचकार । अथ तस्य चन्द्रापीडस्य यौवनारम्भः प्रादुर्भवन् द्विगुणां रमणीयतां पुपोष । वक्षस्स्थलं वितस्तार । ऊरुदण्डद्वयम् अपूर्यत । मध्यभागः तनिमानम् अभजत् । नितम्बभागः प्रथिमानम् आततान । भुजयुगलं प्रलम्बताम् उपययौ । भुजशिखरदेशः गुरुः बभूव । स्वरश्च गम्भीरताम् आजगाम । तायाः ( १० ) एवं च क्रमेण समारुढयौवनारम्भम्, अधीताशेषविद्यम्- अनुमोदितम् आचार्यैः चन्द्रापीडम् आनेतुं राजा बलाधिकृतं बलाहकनामानं प्राहिणोत् ॥ स गत्वा विद्यागृहम् , द्वाःस्थैः समावेदितः प्रविश्य प्रणम्य व्यजिज्ञपत्-कुमार ! महाराजः समाज्ञापयति-पूर्णाः नः मनोरथाः॥ अधीतानि शास्त्राणि ॥ अनुमतोऽसि निर्गमाय सर्वाचायः ॥ अयम् अत्रभवतो दशमः वत्सरः विद्यागृहम् अधिवसतः ॥ प्रविष्टोऽसि पष्ठे वर्षे ॥ एवं संपिण्डितेन षोडशेन प्रवर्धसे ॥ तत् अद्य निर्गत्य यथासुखम् अनुभव राज्यसुखानि ॥ अयं च ते त्रिभुवनैकरत्नम् इन्द्रायुधनामा तुरङ्गमः महाराजेन प्रेषितः द्वारि तिष्ठति ॥ एष खलु देवस्य पारसीकाधिपतिना "जल- निधिजलात् उत्थितम् अयोनिजम् अश्वरत्नम् आसादितं मया महाराजाधिरोहणयोग्यम्" इति संदिश्य प्रहितः ॥ तदयम् अनुगृह्यताम् अधिरोहणेन इत्यभिधाय विरतवचसि वलाहके चन्द्रापीडः पितुः आज्ञा शिरसि कृत्वा, निर्जिगमिषुः अखिललक्षणोपेतम् अतिप्रमाणम् इन्द्रायुधम् अद्राक्षीत् । दृष्ट्वा च तम् अदृष्टपूर्वम् अश्वरूपातिशयम् नितरां चन्द्रापीडः विस्मितः बभूव । आसीचास्य मनसि-अतितेजस्वितया महापाणतया च सदैवतैव इयम् अस्य आकृतिः । यत् सत्यम् आरोहणे शङ्कामिव मे जनयति ॥ दैवतान्यपि हि शाप- वशात् शरीरान्तराणि अभ्यासत एव । असंशयम् अनेनापि

केनापि महात्मना शापभाजा भवितव्यम् ॥ आवेदयतीव
मदन्तःकरणम् अस्य दिव्यताम् ।।
इति विचिन्तयन्नेव आरुरुक्षुः तं तुरङ्गमम् उपसृत्य,
महात्मन् ! अर्वन् । योऽसि सोऽसि ॥ नमोऽस्तु ते ॥
मर्षणीयोऽयम् आरोहणातिक्रमः इति आमन्त्रयांवभूव ॥
विदिताभिप्राय इव सः तम् इन्द्रायुधः तिर्यक् चक्षुषा विलोक्य,
हेषारवम् अकरोत् ॥ अथानेन मधुरहेषितेन दत्ताभ्यनुज्ञ इव
इन्द्रायुधम् आरुह्य चन्द्रापीडः तुरगान्तरारूढेन वैशम्पायनेन
अनुगम्यमानः, प्रस्थाय सकुतूहलैः नगरलोकैः प्रणम्यमानः,
राजगृहद्वारम् आसाद्य तुरगात् अवततार ॥ अवतीर्य च
करतलेन करे वैशम्पायनम् अवलम्ब्य, सविनयं पुरः प्रस्थितेन
वलाहकेन उपदिश्यमानमार्गः, सप्तकक्षान्तराणि अतिक्रम्य,
इंसघवले शयनतले निषण्णम् पितरम् अपश्यत् ॥
दृष्ट्वा च तम् अतिदूरावनतेन शिरसा प्रणनाम ।
तारापीडस्तु तम् 'एहि एहि' इत्यभिदधानः दूरादेव
प्रसारितभुजयुगलः सुदृढम् आलिलिङ्ग ॥ आलिङ्गि-
तोन्मुक्तश्च चन्द्रापीड; पितुः चरणसमीपे क्षितितले एव
निषसाद ॥ मुहूर्तमिव स्थित्वा पित्रा विसर्जितः मातरम्
उपसृत्य प्रणम्य वैशम्पायनद्वितीय शुकनासं द्रष्टुम् अयासीत् ॥
द्वारदेश एव अवस्थाप्य तुरङ्गमम् उपदर्शितविनयः प्रविश्य
भवन दूरावनतेन मौलिना शुकनासं ववन्दे ॥ शुकनासः

( १२ ) ससंम्रमम् उत्थाय गाढम् आलिलिङ्ग ॥ अथ तेन सबहुमानम् आशीभिः अभिनन्ध विसर्जितः स्वभवनम् आजगाम ॥ तत्र स्नानादिकाः क्रियाः कृत्वा तं दिवसम् अत्यवाहयत् ॥ अपरेधुश्च प्रभाते सर्वान्तःपुराधिकृतः कैलासनामा कञ्चुकी रक्तांशुकेन रचितावकुण्ठनया महानुभावाकारया : कन्यकया अनुगम्यमानःसमुपसृत्य चन्द्रापीडं विज्ञापयामास ॥ कुमार, महादेवी विलासवती समाज्ञापयति-इयं खलु कन्यका, महाराजेन पूर्वम् कुलूतराजधानीम् अवजित्य, कुलूतेश्वरदुहिता पत्रलेखाभिधाना, बालिका सती बन्दीजनेन सह आनीय अन्तःपुरपरिचारिकामध्यम् उपनीता ॥ सा मया 'विगत- नाथा राजदुहिता' इति समुपजातस्नेहया दुहितृनिर्विशेषम् उपलालिता संबर्षिता च ॥ तदियम् इदानीम् 'उचिता भवतः ताम्बूलकरयाहिनी' इति कृत्वा मया प्रेषिता ॥ न चास्याम् ' आयुष्मता परिजनसामान्यदृष्टिना भवितव्यम् ॥ स्वचित्त- वृत्तिरिव चापलेभ्यः निवारणीया ॥ शिष्येव द्रष्टव्या ॥ अविदितशीलश्चास्याः कुमारः इति संदिश्यते ॥ सर्वथा तथा प्रयतितव्यम् यथेयम् अतिचिरम् उचिता परिचारिका ते भवति ॥ इत्यभिधाय विरतवचसि कैलासे; चन्द्रापीडः 'यथाज्ञापयत्यम्बा' इत्युक्त्वा तं प्रेषयामास ॥ पत्रलेखा तु, ततः प्रभृति समुपजातसे वारसा, सर्वदा राजसूनोः पार्श्वम् न मुमोच ॥

(१३) एवं समतिक्रामत्सुकेषुचित् दिवसेषु, राजा चन्द्रापोडस्य यौवराज्याभिषेकं चिकीर्षुः, प्रतीहारान् उपकरणसंभारसंग्र - हार्थम् आदिदेश ॥ अथ संपादितेषु सर्वोपकरणेषु, पुरोधसा राज्याभिषेकमङ्गलानि अशेषाणि निर्वर्त्य नरपतिः शुकनासेन सह स्वयम् उत्क्षिप्तमङ्गलकलशः, सर्वेभ्यः तीर्थेभ्यः समाहतेन मंत्रपूतेन वारिणा सुतम् अभिषिषेच ॥ अभिषेक- सलिलादेहः चन्द्रापीडः सभामण्डपम् उपगम्य, सवंतः 'जय जय' इति समुधुष्यमाणजयशब्दः सिंहासनम् आरुरोह ॥ अथ दिग्विजयाय प्रस्थितः चन्द्रापीडः महता बल- समूहेन वैशम्पायनेन च अनुगम्यमानः प्रदिक्षिणीकृत्य वसुधां परिम्रमन् , प्रथमं प्राचीम्, ततः त्रिशङ्कतिलकाम्, अनन्तरं सप्तर्षिताराशबलां दिशं विजग्ये ॥ तत्र तत्र शरणागतान् रक्षन् , उपायनानि प्रतीच्छन् देशव्यवस्थाः स्थापयन् , अग्रजन्मनः पूजयन् , यशः विस्तारयन्, पृथिवीं विचचार ॥ एवं क्रमेण अवजितसकल भुवनतला, कदाचित् किरातानां निवासस्थानं सुवर्णपुरं नाम पूर्वजलनिधेः नातिविप्रकृष्टं जित्वा जग्राह ॥ तत्र च निजवलस्य विश्रामहेतोः कतिपयान् दिवसान् अतिषुत् ॥ एकदा तु तत्रस्थ एव इन्द्रायुधम् आरुह्य, मृगयानिर्गतः विचरन् काननम् शैलशिखरात् यदृच्छया अवतीर्णम् किन्नरमिथुनम् अद्राक्षीत् ॥ अपूर्वदर्शनतया तु समुप- चं-२ .

( १४ ) जातकुतूहलः कृतग्रहणाभिलाषः तत्समीपम् उपसर्पन् , अदृष्टपूर्वपुरुषदर्शनत्रासात् पलायमानं तत् मुदूरम् अनुससार ॥ इदं गृहीतम्, इदं गृहीतम्, इति अतिरभसा- कृष्टचेताः महाजवतया तुरङ्गस्य तस्मात् प्रदेशात् असहायः पञ्चदशयोजनमात्रम् संमुखापतितम् अत्युच्छितम् अचलशिखरम् आरोह ।। 3 आरूढे च तस्मिन् शनैः शनैः ततः दृष्टिं निवर्त्य, प्रस्तर- प्रतिहतगतिप्रसरः, श्रमस्वेदाशरीरम् इन्द्रायुधम् आत्मानं च अवलोक्य, स्वयमेव विहस्य अचिन्तयत् ॥ अहो मे निरर्य- कव्यापारेषु अभिनिवेशः ॥ अहो मे मूर्खतायाः प्रकारः ; अहो मे वालिशचरिनेषु आसक्तिः किमनेन गृहीतेन किनरयुगलेन प्रयोजनम् ? कस्मात् अहम् आविष्टः इव निजपरिवारान् उत्सृज्य, भूमिम् एतावतीम् आयातः ॥ न जाने कियताध्वना विच्छिन्नम् इतः बलम् अनुयायि मे॥ न चागच्छता मया किन्नरमिथुने बदृष्टिना महावनेऽस्मिन् पन्थाः निरूपितः येन प्रतिनिहत्य यास्यामि ॥ न चास्मिन् प्रदेशे परिममता मया मर्त्यः कश्चित् आसाद्यते, यः सुवर्णपुरगामिनं पन्थानम् उपदेक्ष्यति ॥ श्रुतं च मया बहुशः कथ्यमानम्-“उत्तरेण सुवर्णपुरं निर्मानुषम् अरण्य, तच्चातिक्रम्य कैलासगिरिः इति" अयं च कैलासः ॥., .

( १५ ) तदिदानी प्रतिनिवृत्य एकाकिना स्वयम् उत्प्रेक्ष्योत्प्रेक्ष्य दक्षिणाम् आकां केवलम् अङ्गीकृत्य गन्तव्यम् ॥ आत्म- कृतानां हि दोषाणां नियतम् अनुभवितव्यं फलम् आत्मनैव ॥ अयम् अधुना अगवान् भानुः नभामध्यम् अलंकरोति ॥ परिश्रान्तश्चायम् इन्द्रायुधः ॥ तहेनम् आगृहीतकतिपयदूर्वा- प्रवालकवलय कस्मिश्चित् सरसि स्नातपोतोदकम् अपनीनश्रमं कृत्वा, स्वयं च सलिलं पीत्वा, कस्यचित् तरोः अधः छायायां मूहूर्तमानं विश्रम्य ततः गमिष्यामि ॥ इति चिन्तयित्वा सलिलम् अन्वेपमाणः, मुहूर्मुहुः इतस्ततः दत्तदृष्टिः पर्यटन, जलावगाहोत्थितस्य अचिरात् अपक्रान्तस्य महतः गिरिचरस्य वनगजयूथस्य चरणोत्थापितैः पक्पटलैः आकृतं मार्गम् अद्राक्षीन् ॥ उपजातजलाशयशङ्कश्च तं संनिति अनुसरन् कैलासतलेन कंचित् अध्वानं गत्वा, तस्यै कैलासशिखरिणः पूर्वोत्तरे दिग्भागे तरुषण्डमेकम् अत्यायतं प्रविश्य, तस्य मध्यभागे, स्वच्छसलिलतया, आपूर्णपर्यन्तमपि रिक्तमिव उपलक्ष्यमा गम्, अतिमनोहरम् अखिलेन्द्रियाह्नादनसमर्थन् अच्छोदं नाम सरो दृष्टवान् ॥ तदालोकनमात्रेणेव अपगतश्रमः तस्य दक्षिणं तीर- मासाद्य तुरगात् अवततार ॥ अवतीर्य च व्यपनीतपर्याणम् इन्द्रायुधं क्षितितललुठितोत्थितं गृहीतकतिपययवसग्रासम् सरोवतार्य पीतसलिलम् इच्छया स्नातं च उत्थाप्य समीप- वर्तिनः तरोः, मूलशाखायां कनकनय्या शृङ्खलया चरणौ वद्ध्वा, स्वयमपि सलिलम् अवतार ॥ प्रक्षालितकरयुगल: जलमयम् आहारं कृत्वा, सरः सलिलान् उदगान् ॥ प्रत्यग्र- भग्नः अतिशिशिरैः कमलिलीपलाशः लतामण्डपपरिक्षिप्ते शिलातले त्रस्तरम् आस्तीर्य, निषसाद ॥ मुहूर्त विश्रान्तश्च तस्य सरसः उत्तरे तीरे समुच्चरन्तम् श्रुतिसुभगं वीणातन्त्रीझारमिश्रम्, गीतशब्दम् अभृणोत् ॥ श्रुत्वा च " कुतोत्र गीतसंभूतिः इति समुपजातकुतूहल: दत्तपर्याणम् इन्द्रायुधम् आरुह्य, पश्चिमया सरस्तीरसरण्या संप्रतस्थ ॥ तत्र च शून्ये सिद्धायतने चतुस्तम्भस्फटिकमण्टाप- कातलप्रतिष्ठितस्य भगवतः चराचरगुरोः त्र्यम्बकस्य दक्षिणां मूर्तिम् आश्रित्य अभिमुखीम् आसीनाम् उपरचितब्रह्मासनाम् दक्षिणेन करेण वीणाम् उत्सङ्गगताम् आस्फालयन इक अनेकभावनानुविद्धया गीत्या देवं विरूपाक्षम् उपवोण- यन्तीम् , प्रतिपन्नपाशुपतव्रताम् अष्टादशवर्षदेशीयाम् कन्यकां ददर्श ॥ ततोऽवतीर्य तरुशाखायां तुरङ्गमं वया, उपमृत्य भगवते भक्त्या प्रणम्य त्रिलोचनाय, तामेव दिव्ययोषितम् अनिमेषपक्ष्मणा चक्षुषा निरूपयन् , तस्यामेव स्फटिकमण्ट- पिकायाम् अन्यतमं स्तम्भम् आश्रित्य, गीतसमाप्त्यवसरं प्रतीक्षमाणः तस्थौ॥ अथ गीतावसाने मूकीभूतवीणा सा कन्यका समुत्थाय .

. ( १७ ) प्रदक्षिणीकृत्य कृतहरप्रणामा, परित्य चन्द्रापीडम् आवभाषे॥ "स्वागतम् अतिथये ॥ कथम् इमां भूमिम् अनुप्राप्तो महाभागः ? उत्थाय आगम्यताम् अनुभूयताम् अतिथिसत्कारः" इति ॥ एवम् उक्तस्तु तया संभाषण- मात्रणव अनुगृहीतम् आत्मानं मन्यमानः उत्थाय भक्त्या कृतप्रणामः "भगवति यथाज्ञापयसि" इत्यभिधाय शिष्य इव तां वजन्तीम् अनुवबाज ॥ पदशतमात्रमिव गत्वा, निरन्तरैः तमालतरुभिः अन्ध- कारितपुरोभागम् , 'अन्तःस्थापितमणिकमण्डलुमण्डलाम् , एकान्तावलम्बितयोगपट्टिकाम्, विशाखिकाशिखरनिबढेन नारिकेरफलवल्कलमयेन उपानधुगेन उपेताम् , वल्कल- शयनीयसनाथैकदेशाम् , शङ्खमयेन भिक्षाकपालेन अधिष्ठिताम्, संनिहितभस्मालाबुकाम् गुहाम् अद्राक्षीत् ॥ तस्याश्च द्वारि शिलातले समुपविष्टः वल्कलशयनशिरोभागविन्यस्तवीणया तया विरचिताम् अतिथिसपर्याम् सप्रश्रयं प्रतिजग्राह ॥ कृतातिथ्यया द्वितीयशिलातलोपविष्टया क्रमेण परिपृष्टः दिग्विजयादारभ्य, किचरमिथुनानुसरनप्रसङ्गेन आगमनम् आत्मनः सर्वम् आचचक्षे ।। अथ सा कन्यका समुत्थाय शङ्खमयं भिक्षाकपालम् आदाय, तरुतलेषु विचचार ॥ अचिरेण तस्याः स्वयं पतितः फलैः अपूर्यत भिक्षाभाजनम् ॥ आगत्य च तेषाम् उपयोगाय तथा ( १८ ) नियुक्तवती चन्द्रापीडम् ॥ चन्द्रापीडस्सु “चित्रमिदम् आलो- कितम् अस्माभिः अदृष्टपूर्वम् ; यत् व्यपगतचेतना अपि वन- स्पतयः सचेतना इव अस्यै भगवत्यै प्रयच्छन्ति फलानि" इति अधिकतरोपजातविस्मयश्चोत्थाय तमेव प्रदेशम् इन्द्रायुधम् आनीय, व्यपनीतपर्याणं नातिदूरे संयम्य, निर्भर- जलनिर्वतिस्नानविधिः, तान्यमृतरसस्वादून्युपभुज्य फलानि, पीत्वा च तुषारशिशिरं प्रस्रवणजलम् उपस्पृश्य एकान्ते तावत् अवतस्थे ॥ अथ च निर्वर्तितसन्थ्योचिताचाराम्, परिसमापिता- हागं, शिलातले विस्रब्धम् उपविष्टाम् तां कन्यकां सप्रश्रयम् उपमृत्य, नातिदूरे समुपविश्य अवादीत् ॥ भगवति ! भवदर्शनात् प्रभृति मम महत् कौतुकम् अस्मिन् विषये ॥ कतरन्मरुताम् ऋषीणां गन्धर्वाणां अपसरसां वा कुलम् अनुगृहीतं भगवत्या जन्मना ? किमर्थ वास्मिन कुसुमसुकुमारे नवे वयसि व्रतग्रहणम् ? किंनिमित्तं वा वनम् अमानुषम् एकाकिनी अधिवससि ? कदं वयः वयम् इन्द्रियाणाम् उपशान्तिः १ अद्भुतमिव मे प्रतिभाति ॥ तत् यदि नाति- खेदकरमिव, ततः कथनेन आत्मानम् अनुगृह्यमाणम् इच्छामि ॥ आवेदयतु भवती सर्वम् इति ॥ एवम् अभिहिता सा किमप्यन्तः ध्यायन्ती, दीर्घम् उष्णं च निःश्वस्य, प्रत्यवादीत्-राजपुत्र ! किमनेन मम मन्दभाग्यायाः ( १६ ) जन्मनः प्रभृति वृत्तान्तेन श्रुतेन ?॥ तयापि यदि महत् कुतूहलम् तत् कथयामि श्रूयताम् । एतत् प्रायेण भवतः श्रुतिविषयम् आपतितमेव यथा दक्षस्य प्रजापतेः अति- प्रभूतानां कन्यकानां मध्ये द्वे सुते मुनि: अरिष्टा च बभूवतुः ॥ तत्र अरिष्टायाः पुत्रः हंसो नाम गन्धर्वराजः सोममयूख- संभवात् अप्सरःकुलात् समुद्भूताम् हिमकरकिरणावदा- तवर्णाम् गौरी नाम कन्यकां प्रणयिनीम् अकरोत् ॥ तयोरहम् ईदृशी विगतलक्षणा दुःखसहस्रभाजनम् एकैव सुता समुत्पन्ना।। तातस्तु मे अनपत्यतया सुतजन्मातिरिक्तन महोत्सवेन मज्जन्म अभिनन्दितवान् ॥ प्राप्ते च दशमेऽहनि "महाश्वेता" इति यथार्थमेव नाम कृतवान् । साहं पितृभवने बालतया कलमधुरपलापिनी वीणेच गन्धर्वाणाम् अकादङ्क संचरन्ती शैशवम् अतिनीतवती । क्रमेण च कृतं मे वपुषि नवयौवनेन पदम् ॥ अथ सकल- जीवलोकहृदयानन्ददायकेषु मधुमासदिवसेषु एकदा अहम् अम्बया समम् इदम् अच्छोदं सरः स्नातुम् अभ्यागमम् ।। अत्र च रमणीये तीरतरुतले सखीजनेन सह विचरन्ती ज्ञटिति वनानिलंन उपनीतम् अभिभूतान्यकुसुमपरिमलम् अनाघात- पूर्वम् कुसुमगन्धम् अभ्यजिघ्रम् ॥ कुतोऽयम् इत्युपारूढ- कुतूहला चाहं कतिचित् पदानि गत्वा काममिवापरम् अति- मनोहराकृतिम् तापसकुमारेण सवयसा सह स्नानार्थम् ( २० ) आगतं मुनिकुमारकम् अपश्यन् ॥ तेन च कर्णावतंसीकृतां कुसुममञ्जरीम् अद्राक्षम् ॥ " अस्याः नन्वयं परिमलः" इति मनसा निश्चित्य, विस्मृतनिमेषेण चक्षुषा तं तपोधनयुवानम् अतिचिरं विलोकयन्ती रूपंकपक्षमातिना नवयौवनसुलभेन कुसुमायुधेन परवशीकृता अभवम् ॥ अशेषजनपूजनीया चेयं जातिः इति कृत्वा, तस्मै प्रणामन् अरवम् । कृतप्रणामायां मयि मद्विकारदर्शनापहृतधैय तमपि कुमारं तरलताम् अनयत् अनङ्गः॥ अथ च उपसृत्य तं द्वितीयम् अस्य सहचरम्. मुनिवालकं प्रणामपूर्वकम् अपृच्छम् ॥ भगवन् ! किमभिधानः ! कस्य वा अयं तपोधनयुवा ? किनान्नः तरोः इयम् अनेन अवतंसीकृता कुसुममञ्जरी ? इति ॥ स तु माम् ईषत् विहस्य अब्रवीत् ॥ बाले किम् अनेन पृष्टेन प्रयोजनम् ? कौतुकम् चेत् आवेदयामि श्रृयताम् । अस्ति सकलभुवनप्रख्यातकीर्तिः महामुनिः दिव्यलोक- निवासी श्वेतकेतुः नाम ॥ तस्य च भगवतः सकललोक- हृदयानन्दकरम् अतिशयितनलकूबरं रूपम् आसीत् ॥ तस्यायम् आत्मजः पुण्डरीको नाम ॥ सोऽयम् अद्य चतुर्दशी इति भगवन्तम् अम्बिकापति कैलासगतम् उपासितुम् नन्दनवनसमीपेन गच्छन् वनदेवतया समर्पिताम् इमाम् पारिजातकुसुममञ्जरीम् कर्णपूरीकृतवान् इति ॥ इत्युक्त- वति तस्मिन् सः तपोधनयुवा, “ अयि ! कुतूहलिनि ! अथ २१ ) किमनेन प्रश्नायासेन ? यदि रुचितसुरभिपरिमला गृह्यताम् इयम् ॥ इत्युक्त्वा समुपसृत्य श्रवणात् आत्मीयात् अपनीय, मदीये श्रवणपुटे ताम् अकरोत ॥ तदानीं मत्कपोलसर्श- सुखेन तरलीकृताङ्गुलिः करतलान् गलिताम् अक्षमाला नाज्ञासीन् ॥ अथाहं ताम् असंप्राप्तामेव भूतलम् गृहीत्वा सलीलं कण्ठाभरणताम् अनयम् ॥ इत्थंभूते च व्यतिकरे छत्रग्राहिणी माम् अवोचत् “भदारिके ! स्नाता देवी॥ प्रत्यासीदति गृहगमनकालः ॥ तत् क्रियतां मज्जनविधिः" इति । ततः अहं तन्मुखान् अतिकृच्छण दृष्टिम् आकृष्य, स्नातुम् उदचलम् ॥ उच्चलितायां च मयि सः द्वितीयः मुनिदारकः तथाविधं नस्य धैर्यस्खलितम् आलोक्य, किंचित् प्रकटितप्रणयकोपः प्रोवाच ॥ सखे पुण्डरीक ! नैतदनुरूपं भवतः ॥ क्षुद्रजन- क्षुण्ण एष मार्गः ॥ धैर्यधना हि साधवः ॥ कथं करतलात् गलिताम् अक्षमालामपि न लक्षपसि ? अहो विगतचेत- नत्वम्" इति ॥ इत्येवम् अभिधीयमानश्च तेन, किञ्चित् उपजातलज्ज इव प्रत्यवादीत् ॥ सखे कपिञ्जल ! कि माम् अन्यथा संभावयसि ? ॥ नाहम् अस्याः दुर्विनीतायाः मर्पयामि अक्षमालाग्रहणापराधम् इमम् ॥ इति उक्त्वा, अलीककोपकान्तेन मुवेन्दुना माम् अवदत् ॥ चपले ! अक्षमालाम् इमाम् अदत्वा, पदान् पदमपि न गन्तव्यम् ( २२ ) इति ॥ तच श्रुत्वा अहम् आत्मकण्ठात् उन्मुच्य एकावलीम् 'भगवन् ! गृह्यताम् अक्षमाला' । इति मन्मुखासक्तदृष्टेः तस्य प्रसारिते पाणी निधाय स्नातुम् अवातरम् ॥ उत्थाय च कथमपि सखीजनेन नीयमाना, तमेव चिन्त- यन्ती स्वभवनम् अम्बया समम् अयासिषम् ॥ गत्वा च प्रविश्य कन्यान्तःपुरम्, ततः प्रभृति तद्विरहविधुरा, सर्व व्यापारान् उत्सृज्य, विसृज्य सखीजनम् एकाकिनी गवाक्ष- निक्षिप्तमुखी, तामेव दिशम् ईक्षमाणा तामेवाक्षमालां कण्ठेनो- द्वहन्ती दिवसम् अत्यवाहयम् ॥ अथ लोहितायति सूर्य, छत्रग्राहिणी समागत्य माम् अकययत् ॥ भदारिके, तयोः मुनिकुमारयोः अन्यतरः द्वारि तिकृति, कथयति च "अक्षमालाम् उपयाचितुम् आगतोस्मि" इति ॥ अहं तु समाहूय कञ्चुकिनं गच्छ प्रवेश्यताम् इत्यादिश्य प्राहिणवम् ॥ अथ मुहूर्तादिव तं तस्य अनुरूपं सखायं मुनिकुमारकं कपिञ्जलनामानम् आगच्छन्तम् अपश्यम् ॥ उत्थाय च कृतप्रणामा सादरं स्वयम् आसनम् उपाहरम् ।। उपविष्टस्य तस्य प्रक्षाल्य चरणौ, उपमृज्य उत्तरीयांशुकाञ्चलेन अव्यवधानायां भूमावेव तस्यान्तिके समुपाविशम् ।। अथ मुहूर्तमिव स्थित्वा स तस्यां मत्समीपोपविष्टायां तरलिकायां चक्षुः अपातयत् ॥ अहं तु विदिताभिप्राया भगवन् !, अव्यतिरिक्तयम् अस्मच्छरीराद, अशङ्कितम् अभिधीयताम्" इत्यवोचम् ।। एवम् उक्तश्च मया कपिञ्जल: प्रत्यवादीन् ॥ राजपुत्रि !, किं ब्रवीमि ? किमारब्धं देवेन ?|| वागेव मे न प्रसरते त्रपया ॥ सर्वथा रक्षणीयाः सुहृदसरः इति कथयामि ॥ अस्ति खलु भवत्याः समक्षमेव स मया तया निष्ठुरम् अभिक्तिः । तथा चाभिधाय, परित्यज्य तम् उपजातमन्युः अन्यं प्रदेशम् अगमम् ।। अपगतायां भवत्यां मुहूर्तभिव स्थित्वा, एकाकी किमयम् इदानीम् आचरतीति संजातवितर्कः प्रतिनिवृत्य विटपान्त- रितविग्रहः तं प्रदेशं व्यलोकयम् ।। यावत् तत्र तं नाद्राक्षम् ; तेन तस्यादर्शनेन दूयमानः ; मनस्यचिन्तयम्-स कदाचित धैर्यस्खलनविलक्षः किश्चित् अनिष्टमपि समाचरेत् ॥ तत् न ‘युक्तम् एनम् एकाकिनं कर्तुम् ॥ इत्यवधार्य, अन्वेषमाणः निपुणम् इतस्ततो दत्तदृष्टिः तरुलतागहनानि वीक्षमाणः मुचिरं व्यचरम् ।। अथ एकस्मिन् सरस्समीपवर्तिनि लतागहने व्युपरतसकलव्यापारतया लिखितमिवावस्थितम्, मन्मथा- वेशस्य परां कोटिम् अधिरूढे करतलनिहितवामकपोलम् शिलातलोपविष्टम् तमहमद्राक्षम् ॥ उपमृत्य च तस्मिन्नेव शिलातलैकपाश्वें समुपविश्य, अंसदेशावसक्तपाणिः , “सम्वे पुण्डरीक, कथय किमिदं गुरु- भिरुपदिष्टम् ; उत धर्मशास्त्रेषु पठितम् ; उत मोक्षप्राप्ति- ( २४ ) युक्तिरियम् : कथमेतद्युक्तं भवतो मनसापि चिन्तयितुम् । धैर्यम् अवलम्ब्य निभयंताम् अयं दुराकारः कामः" इति अब्रवम् ॥ इत्येवं बढ़त एव मे वचनम् आक्षिप्य, करतलेन पाणी माम् अवलम्ब्य अबोचत् ।। सखे ! कि बहुना उक्तन ? सर्वथा स्वस्थोऽसि ॥ आशीविषविषवेगविषमाणां कुमुम- चापसायकानां पतितोऽसि न गोचरे ॥ सुखम् उपदिश्यते परस्य ; मम तु गत इदानीम् उपदेशकालः ॥ को वापरः त्वत्समः मे जगति वन्धुः ॥ किं करोमि ? न शक्नोमि निवारयितुम् आत्मानम् ॥ यावत् प्राणिमि तावदस्य मदन- संतापस्य प्रतिक्रियां कर्तुम् इच्छामि ॥ अत्र यत् प्राप्तकालं तत् करोतु भवान् ॥ इति ॥ एवम् उक्तोऽहम् अचिन्तयम्-अतिभूमिं गतोऽयं न शक्यते निवर्तयितुम् ; अकालान्तरक्षमश्चायमस्य मदन- विकारः ।। प्राणास्तावदस्य रक्षणीयाः ॥ अतिगहितेन अकृत्येनापि रक्षणीयान् सुहृदसून् मन्यन्ते साधवः ॥ तत् अतिहेपणम् अवश्यकर्तव्यम् आपतितम् ॥ किं करोमि ? कान्या गतिः ? प्रयामि तस्याः सकाशम् ॥ आवेदयामि एताम् अवस्थाम् ॥ इति चिन्तयित्वा, कदाचित् अनुचित- व्यापारप्रवृत्तं मां विज्ञाय, संजातलज्जः निवारयेत्" इति अनिवेद्यैव तस्मै, सव्याजम् उत्याय तस्मात् प्रदेशात् उपागतोऽहम् ॥ तदेवम् अवस्थिते, यदत्र अवसरमाप्तम् तत्र

प्रभवति भवती" इत्यभिधाय, किमियं वक्ष्यतीति
मन्मुखासक्तहष्टिः, तूष्णीमभवत् ।
अहं तु तत् आकय, दिष्ट्या अयम् अनङ्गः मामिव
तमपि अनुवनाति इति सर्वानन्दानाम् उपरि वर्तमाना
"इत्यंभूने किं मया प्रतिपत्तव्यम्" इति विचारयन्ती आसम् ।।
अत्रान्तरे प्रतीहारी ससंम्रमं प्रविश्य अकथयत् ॥ मत दारिके !
त्वम् अस्वस्थशरीरति परिजनात् उपलभ्य, महादेवी प्राप्ता,
इति ॥ तत् श्रुत्वा जनसंपर्दभीरुः कपिञ्जलः सत्वरम्
उत्थाय, राजपुत्रि ! भगवानयम् अस्तम् उपगच्छति
दिवसकरः॥ तद्गच्छामि ; सर्वथा सुहृत्पाणरक्षादक्षिणार्थम्
अयम् उपरचितोऽञ्जलिः ॥ इत्यभिधाय, प्रतिवचनकालम्
अप्रतीक्ष्येव प्रयया ॥
अम्बा तु मत्समीपम् आगत्य सुचिरं स्थित्वा स्वभवनम्
अयासीत् ॥ गतायां च तस्याम् अस्तम् उपगते भगवति
सवितरि, किंकर्तव्यतामूढा तरलिकाम् अपृच्छम् ॥ अयि
तरलिके! कथं न पश्यसि दृढमाकुलं मे हृदयम् ॥ उपदिशतु
मे भवती यत्र साम्पतम् ॥ अयमेवं त्वत्समक्षमेवाभिधाय
गतः कपिञ्जलः॥ यदि तावत् विहाय विनयम, विसृज्य
लज्जाम्, अचिन्तयित्वा जनापवादम्, अतिक्रम्य सदाचारम्
अननुज्ञाता पित्रा, अननुमोदिता मात्रा, स्वयम् उपगम्य,
पाणिं ग्राहयामि, तदा गुरुजनातिक्रमात् अधर्मो महान् ॥
१

( २६ ) अथ धर्मानुरोधेन इतरपक्षम् अङ्गीकरोमि, प्रथमं तावत् स्वयम् आगतस्य कपिञ्जलस्य प्रणयमङ्गः अपरम्-यदि कदाचित् तस्य जनस्य मत्कृतान् आशाभङ्गान् प्राणविपत्तिः उपजायते, तदपि मुनिजनवधजनितं महत् पातकं भवेत् ॥ इत्येवम् उच्चारयन्त्यामेव मयि अभिनवोदितेन रजनिकर- विम्वेन रमणीयतामनीयत यामिनी ॥ तदानीम्-दुर्विषह-मदन-वेदनातुरां, तथाविधं रजनि- करबिम्बं विलोकयन्तीम् मूर्छा मां निमीलितलोचनाम् अकार्षीत् ॥ अथ संम्रान्ता तरलिका, सरभसम् उपनीताभिः चन्दनचर्चाभिः तालवृन्तानिलैश्च लब्धसंज्ञां माम् आवद्धा- ञ्जलिः एवम् अवादीन् ॥ भदारिके ! किं लज्जया ? गुरुजनापेक्षया वा ? प्रसीद, प्रेषय माम, आनयामि ते हृदयदयितम् ; उत्तिषु, स्वयं वा तत्र गम्यताम्", इति ॥ एवं वादिनीम् ताम् , "उत्तिष्ठ, संभावयामि स्वयम् अभिगमन- हृदयदयितं जनम् । इति अभिदधाना कथंचित् तामेव अवलम्ब्य, उदतिष्ठम् ॥ उच्चलितायाश्च मे दुनिमित्त- निवेदकम् अस्पन्दत दक्षिणं चक्षुः॥ तेन उपजातशङ्का च अचिन्तयम् ॥ इदमपरं किमप्युपक्षिप्तं दैवेनेति ॥ अथ च गृहीतविविधकुसुमताम्बूलाङ्गरागया तरलिकया अनुगम्यमाना रक्ताँशुकेन कृतशिरोवगुण्ठना केनचित् आत्मीयेनापि परिजनेन अनुपलक्ष्यमाणा, प्रमदवनपक्षद्वारेण ( २७ ) निगत्य, तत्कालोचितैः आलापैः तम् उद्देशम् अभ्युपागमम् ।। नत्र च तस्मिन्नेव सरसः पश्चिमे तटे पुरुषस्येव रुदितध्वनिम् विप्रकर्षात् नातिव्यक्तम् उपालक्षयम् ॥ दक्षिणेक्षणस्फुरणेन प्रथममेव मनस्याहितशङ्का विषण्णन अन्तरात्मना तरलिके ? किमिदमिति सभयम् अभिदधाना, तदभिमुखम् अतित्वरितम् अगच्छम् ॥ अथ निशीथप्रभावात् दूरादेव विभाव्यमानस्वरम् उन्मुक्तातनादम् ; "हा हतोस्मि, हा किमिदम् आपतितम् ? हा दुरात्मन् ! मदन ! मदन निघृण! किमिदम् अकृत्यम् अनुष्ठितम् ॥ आः पापे दुर्बिनीते महाश्वेते ! किम् अनेन ते अपकृतम् ।। आः पाप · दुश्चरित! चन्द्र! चाण्डाल! कृतार्थोसि इदानीम् । हा भगवन् श्वेतकेतो ! न वेत्सि मुषितम् आत्मानम् । हा तपः ! निराश्रयमसि। हा सत्य ! अनाथमसि! हा सरस्वति! विधवाऽसि । सखे प्रतिपालय माम्। अहमपि भवन्तम् अनुयास्यामि । न शक्नोमि भवता विना क्षणमप्यवस्थातुम् एकाकी ॥ इत्येतानि अन्यानि च विलपन्तं कपिञ्जलम् अश्रौषम् ॥ तच श्रुत्वा दूरादेव मुक्तकताराक्रन्दा, त्वरितैः पाद- प्रक्षेपैः पदे पढ़े प्रस्खलन्ती, तं प्रदेशं गत्वा; सरस्तीरसमीप- वर्तिनि शशिमणिशिलातले विरचितं मृणालमयं शयनम् अधिशयानम् , तत्क्षणविगतजीवितं तं महाभागम् अद्राक्षम् ॥ उद्भूतमूर्छान्धकारा च तदा किमकरवम् ? किं व्यलपम् ?

( २८ ) इति सर्वमेव नाज्ञासिषम् ।। अथाहम् अतिचिरात् लब्धचेतना, हा हा किमिदम् उपनतम इति मुक्तार्तनादा, हा अम्ब, हा वात, हा सख्यः, इति व्याहरन्ती, हा नाथ ! क माम् एकाकिनीम् उत्सृज्य यासि ? हा हतास्मि मन्दभागिनी, घिङ मां दुप्कृतकारिणीम् ।। याहमेवंविधं भवन्तम् उत्सृज्य गृहं गतवती भवत्यः वनदेवताः! प्रसीदत प्रयच्छतास्य प्राणान् ॥ इत्येतानि अन्यानि च ग्रहगृहीतेव उन्मत्तेव व्यलपम् ॥ मुहुर्मुहुः तरलिकां कण्ठे गृहीत्वा पारुदम् ॥ भगवन् प्रसीद प्रत्युज्जीवयैनम् इति मुहुर्मुहुः कपिञ्जलस्य पादयोः अपतम् ॥ तथाभूते तस्मिन् अवस्थान्तरे मरणक- निश्चया तत्तत् बहु विलप्य, तरलिकाम् अव्रवम् ॥ “अयि उत्तिष्ठ, काष्ठान्याहृत्य विरचय चिताम् । अनुसरामि जीवितेश्वरम" इति ॥ अत्रान्तरे चन्द्रमण्डलात् विनिर्गत: दिव्याकृतिः पुरुषः गगनात् अवतीर्य, वाहुभ्यां तम उपरतम उक्षिपन् गभीरेण स्वरेण "वत्से महाश्वते ! न परित्याज्याः त्वया प्राणाः ।। पुनरपि तवानेन सह भविष्यति समागमः ।। आदृतः पितेव अभिधाय, सहैव अनेन गगनतलम् उदपतत् ॥ अहं तु तेन व्यतिकरण समया सविस्मया सकौतुका च सती किमिदम इति कपिञ्जलम अपृच्छम् ॥ असो तु ससंभ्रमम् अदत्वैवोत्तरम् , उत्थाय, “दुरात्मन् ! क मे " इति माम ( २६ ) वयस्यम् अपहृत्य गच्छसि ?" इत्यभिधाय सकोपः सवेगम् उत्तरीयवल्कलेन परिकरम् आवध्य, अन्तरिक्षम् उदपतन् । पश्यन्त्याः एव मे सर्व एव ते तारागण- तमेव अनुसरन् मध्यम् अविशन् । अहं तु कपिञ्जलगमनेन द्विगुणीकृतशोका, किंकर्तव्यता- मूढा तरलिकाम् अब्रवम् ॥ अयि न जानासि ? कथय किमेतदिति ॥ सा तु तत् अवलोक्य स्त्रीस्वभावकातरा विषण्णहृदया अवादीत् ॥ भर्तृ दारिके ! न जानामि, किन्तु महदिदम् आश्चर्यम् ॥ अमानुषाकृतिः एष पुरुषः ॥ समाश्वा- सिता च सानुकम्पं भर्ख दारिका ॥ तमनुसरन् गत एव कपिञ्जलः ॥ तन् कोऽयम् ? कुतोऽयम् ? किमर्थं वानेनायम् अपगतामुः उक्षिप्य नीतः ? क वा नोतः । इति सर्वम उपलभ्य जीवितं वा मरणं वा समाचरिष्यसि; कपिञ्जलस्य प्रत्यागमनकालावधि नियन्ताम् अमी प्राणाः ॥ इत्युक्त्वा पादयोः मे न्यपतत् ॥ अहमपि तदेव युक्तं मन्यमाना नोत्सृष्टवती जीवितम् ।। तस्मिन्नेव सरस्तीरे तरलिकाद्वितीया तां क्षपां क्षपितवती॥ प्रत्युषसि तु उत्थाय तस्मिन्नेव सरसि स्नात्वा, तमेव कमण्डलुम् आदाय, तामेव अक्षमालां गृहीत्वा, गृहीतब्रह्मचर्या वहुविधैः नियमैः शरीरं शोषयन्ती, देवम् शरणार्थिनी स्था गुम् आश्रिता ॥ अपरेधु श्च, कुतोऽपि समुपलब्धवृत्तान्तः ( ३० ) तातः, सहाम्वया, सह वन्धुवर्गेणागत्य, तेस्तैः उपदेशैः गृहगमनाय मे महान्तं यन्नम् अकरोत् ॥ अथ च दृढाध्यव- सायां मां विसृज्य सशांक एव गृहान् अयासीत् ।। साहम् एवंविधा, निर्लज्जा, निष्फलजीविता, निस्मुखा च इत्युक्त्वा वल्कलोपान्तेन वदनम् आच्छाद्य, मुक्तकण्ठं प्रारोदम् ॥ चन्द्रापीडश्च तस्याः विनयेन दाक्षिण्येन मधुरालापतया च प्रथममेव उपाख्ढगौरवः, तदानीम् अपरंण प्रदर्शितसद्भावेन स्ववृत्तान्तकयनेन नितरां प्रीता बभूव ॥ अभाषत च- भगवति ! क्लेशभीरुः कृत्स्नो लोकः स्नेहसदृशं कर्म अनुष्ठातुम् अशक्तः निष्फलेन अश्रुपातमात्रेण स्नेहम् उपदर्शयन् रोदिति ॥ त्वया तु सर्व प्रेमोचितम् आचेष्टितम् ॥ किमर्थं रोदिषि ? ॥ यदेतत् अनुमरणं नाम, तत् अति- निष्फलम् , अविद्वज्जनाचरित एष मार्गः॥ अज्ञानपद्धतिरियम् ।। मौर्यस्खलितमिदम् ॥ स्वयं चेत् न जहति, न परित्याज्याः प्राणाः ॥ अत्र हि विचार्यमाणे स्वार्थ एव प्राणपरित्यागः॥ असह्यशोकवेदनाप्रतीकारत्वात् ॥ उपरतस्य तु न कमपि गुणम् आवहति ॥ न तावत् तस्यायं प्रत्युज्जीवनोपायः, न नरकपतनप्रतीकारः, न धर्मोपचयकारणम् , न दर्शनोपायः, अन्यामेवासौ कर्मणा नीयते कर्मभूमिम् ॥ असावप्यात्म- घाती केवलम् एनसा संयुज्यते ॥ जीवंस्तु जलाञ्जलिदाना- दिना बहूपकरोत्युपरतस्यात्मनश्च ॥ मृतस्तु नोभयस्यापि ।।

3 ( ३१ ) स्मर तावन् प्रियाम् एकपत्नी रतिम् धर्तरि मकरकेतौ मृतेऽपि अविरहिताम् अयुभिः । उत्तरां च विराटदुहितरं पञ्चत्वमभि- मन्यौ उपगतेऽपि धृतदेहाम् ; पृथां च पाण्डौ मृतेऽपि अपरित्यक्तजीविताम् । अतो नाहस्यनिन्धम् आत्मानं निन्दितुम् इत्येवंविधैः अन्यैश्च बहुभिः उपसान्त्वनैः संस्थाप्य ताम् अञ्जलिपुटोपनीतेन निर्भरजलेन प्रक्षालित- मुखीम् अकारयत् ॥ अथ क्षीणे दिवसे महाश्वेता मन्दं मन्दम् उत्थाय, पश्चिमां सन्ध्याम् उपास्य , वल्कलशयनीये सखेदम् उष्णं च निःश्वस्य निषसाद । चन्द्रापीडोऽपि उत्थाय कृतसन्ध्या- प्रणामः तस्मिन् द्वितीये शिलातले मृदुभिः लतापल्लवैः शय्याम् अकल्पयत् ॥ उपविष्टश्च तस्याम् पुनः पुनः तमेव महाश्वेतावृत्तान्तं मनसा भावयन् , पुनरेनां पप्रच्छ । भगवति ! सा तव परिचारिका तरलिका कगता ? इति ॥ अथ सा अकथयत् ॥ महाभाग ! श्रृयताम्-अमृतसंभवात् अप्सरः-कुलात् मदिरेति नाम्ना कन्यकाभूत् ॥ दक्षदुहितुः मुनेः तनयः चित्ररयो नाम गन्धर्वराजः तस्याः पाणिम् अग्रहीत् ।। तयोश्च परस्परप्रेमसंवर्षितानि यौवनसुखानि सेवमानयोः दुहितरत्नम् उदपादि कादम्बरी इति नाम्ना ॥ सा च मे जन्मनः प्रभृति द्वितीयमिव हृदयं बालमित्रम् ॥ सेयम् अमुनैव मदीयेन

वृत्तान्तेन सशोका निश्चयम् अकार्यान् ॥ "नाहं कथंचिदपि
सशोकायां महाश्वेतायान आत्मनः पाणिं ग्राइपिज्यामि" इति॥
तत् आत्मदुनिः निश्चयरचनं चित्ररथः शुश्राद ।।
गच्छति च काले समुपारुढयौवनाम् आलोक्य सः ताम्
एकापत्यतया अतिप्रियतया च, शिश्चिदपि तान् अनिधातुम
" वत्से ! महाश्वते ! त्वमेव शरणम् इदानीं
कादम्बरीन् अनुनेतुम् " इति संदिश्य, क्षीरोदनामानं
कञ्चुकिनम् अद्यैव प्रत्युपसि मत्समीपं प्रेषितवान् ॥ ततो
मया गुरुवचनगौरवण सखीप्रेन्या च, क्षीरोदेन साधु
सा तरलिका "सखि कादम्बरि : किं दुःखितमपि जनम्
अतितरां दुःखयसि ? जीवन्तीम् इच्छसि चेन्मां, तत् कुरु
गुरुवचनम् अवितथम्" इति संदिश्य विसर्शिता ॥ गतायां
च तस्याम् अनन्तरमेव इमां भूमिम् अनुमाप्तः महाभागः॥
इत्यभिधाय तूष्णीम् अभवत् ॥
क्रमेण च उद्गते कुमुदवान्यवे, चन्द्रापीडः सुप्तामालोक्य
महाश्वताम् , पल्लवशयने समुपाविशत् ॥
किं नु खल
अस्यां वेलायां मामन्तरेण चिन्तयति वैशम्पायनः" इति
चिन्तयन्नेव निद्रां ययौ ॥ अथ क्षीणायाम क्षपायाम् उपसि,
सन्ध्याम् उपास्य, शिलातलोपविष्टायां महाश्वेतायाम् ,
निवर्तितप्राभातिकविधा चन्द्रापीडे, तरलिका पोडशवर्षवयसा
केयूरकनाम्ना गन्धर्वदारकेण अनुगम्यमाना, प्रादुरासीत् ।।

( ३३ ) आगत्य च महाश्वेतायाः समीपम् उपसृत्य, कृतप्रणामा, सविनयम् उपारिशत् ।। महाश्वेता तु तां दृष्ट्वा, "किं त्वया दृष्टा कादम्बरी कुशलिनी ? करिष्यति वा तत् अस्मद्वचनम् ? इत्यपृच्छत् ॥ अथ सा तरलिका "भत दारिके, दृष्टा मया भत्दारिका कादम्बरी सर्वतः कुशलिनी : विज्ञापिता च निखिलं भत- दुहितुः सन्देशम् ॥ आकर्ण्य च यत् तया प्रतिसन्दिष्टम् , तदेषः तयैव विसर्जितः तस्या एव वीणावाहकः केयूरक: कथयिष्यति इति व्यजिज्ञपत् ॥ विरतवचसि तस्यां केयूरकः अब्रवीत्-भदारिके महाश्वेते ! देवी कादम्बरी वां विज्ञापयति-यदियम् आगत्य माम् अवदत् तलिका, किमिदं मच्चित्तपरीक्षणम् ? किं प्रेम विच्छेदाभिलाषः ? किं वा प्रकोपः ?; यत्र भविरहपिधुरा प्रियसखी महत् कृच्छम् अनुभवति । तत्राहम् , अविगणय्य एतत् कथम् आत्मसुखार्थिनी पाणिं ग्राहयिष्यामि ? ; कथं वा मम सुख भविष्यति ? ; तत् मा कृथाः स्वप्नेपि पुनरिममर्थ मनसि" इति ।। महाश्वेता तु तत् श्रुत्वा, मुचिरं विचार्य, " गच्छ, स्वयमेव अहम् आगत्य, यथार्थम् आचरिष्यामि " इत्युक्तवा केयूरक प्राहिणोत् ॥ गते च केयूरके चन्द्रापीडम् उवाच ।। राजपुत्र! रमणीयः हेमकूटः, चित्रा च चित्ररथराजधानी, पेशलो .. . .. .

, गन्धर्वलोकः; सरलहृदया महानुभावा च कादम्बरी ॥ तत इतः मयैव सह गत्वा हेमकूटम् , दृष्ट्वा च मन्निर्विशेषां कादम्बरीम् , अपनीय तस्याः मोहविलसितम् , एकम् अहः विश्रम्य, श्वोभूते प्रत्यागमिष्यसि" इत्युक्तवती चन्द्रापोडः, " भगवति दर्शनात प्रभृति, परवान् अयं जनः; कर्तव्येषु यथेष्टं नियुज्यताम् " इत्यभिधाय, तया सहैव उदचलत् ।। क्रमेण च गत्वा हेमकूटम् , आसाद्य गन्धवराजकुलम् ' समतीत्य सप्तकक्ष्यान्तराणि, प्रविश्य कन्यान्तःपुरम् , तत्र च कादम्बरीभवनं तन्मध्ये च श्रीमण्डपं ददर्श ॥ तत्र च मध्यभागे, अनेकसहस्रसङ्घयन कन्यकाजनेन परिवृताम् नीलपच्छदपटप्रावृतस्य नातिमहतः पर्यङ्कस्य आश्रये धवलो- पधानन्यस्तभुजलतावष्टम्भन अवस्थिताम् , सर्वरामणीयकानाम् एकनिवासभूताम् , कादम्बरीम् ददर्श ॥ सा तु समुत्थाय महाश्वेतां स्नेहनिर्भरं कण्ठे जग्राह ॥ महाश्वेतापि दृढतरदत्तकण्ठग्रहा, ताम् अवादीत् ॥ सखि कादम्बरि ! भारते वर्षे राजा तारापीडो नाम ॥ तस्यायम् आत्मजः चन्द्रापीडो नाम दिग्विजयप्रसङ्गेन अनुगतो भूमिमिमाम् ॥ एष च दर्शनात् प्रभृति मे निष्कारणबन्धुतां गतः ॥ कथिता चास्य बहुप्रकारं प्रियसखी ॥ तत् अपूर्व- दर्शनोऽयम् इति विमुच्य लज्जाम् , अविज्ञातशीलः इत्यपहाय शङ्काम् , यथा मयि तथा अत्रापि वर्तितव्यम्" इत्यावेदिते ( ३५ ) तया चन्द्रापीडः प्रणामम् अकरोत् ।। कादम्बर्यपि सचिम्रमकृत- प्रणामा महाश्वतया सह पर्या निषसाद ॥ ससंम्रमं परिजनोपनीतायां हेमपादाङ्कितायां पीठिकायां चन्द्रापीडः समुपाविशत् ॥ परिजनोपनीतेन सलिलेन कादम्बरी स्वयम् उत्थाय महाश्वेतायाः चरणौ प्रक्षाल्य उत्तरीयांशुकेन अपमृज्य, पुनः पर्यकम् आरुरोह ॥ चन्द्रापीडस्यापि कादम्बर्याः सखी मदलेखा प्रक्षालितवती चरणौ ॥ अथ महाश्वेता कादम्बरीम् अनामयं पप्रच्छ । सा सखोप्रेम्णा गृहनिवासेन कृतापराधेव लज्जमाना कृच्छादिव कुशलम् आचचक्षे ॥ मुहूर्तापगमे च महाश्वेता ताम्बूलदानो- घतां ताम् अभापत ॥ "सखि कादम्बरि, सर्वाभिरस्माभिः अयम् अभिनवागतः चन्द्रापीडः आराधनीयः । तदस्मै तावत् दीयताम्" इति । इत्युक्ता सा शनैः अव्यक्तमिव “सखि, लज्जेऽहम् अनुपजातपरिचया प्रागल्भ्येनानेन, गृहाण त्वमेव अस्मै प्रयच्छ" इत्युवाच । पुनः पुनः अभिधीयमाना च तया ग्राम्येव चिरात् दानाभिमुखं मनश्चक्रे । महाश्वेतामुखात् अनाकृष्टदृष्टिरेव वेपमानाङ्गयष्टिः प्रसारयामास ताम्बूलगर्भ हस्तपल्लवम् ॥ चन्द्रापीडस्तु स्वभावपाटलं धनुगुणाकर्षणकृत- किणश्यामलं पाणिं प्रसार्य ताम्बूलं प्रतिजग्राह । अथ सा गृहीत्वा अपरं ताम्बूलं महाश्वेतायै प्रायच्छत् ॥ अत्रान्तरे कञ्चुकी समागत्य महाश्वेताम् अवोचत्-

?
( ३६ )
"आयुष्मति, देवः चित्ररथः देवी च मदिरा त्वां द्रष्टुम्
आवयतः" इति । इत्येवम् अभिहिता गन्तुकामा महाश्वेता
"सखि ! चन्दापीडः कास्ताम् ? इति कादम्बरीम् अपृच्छत् ।
असौ तु, सखि महाश्वेते, किमेवम् अभिदधासि ? दर्शनादारभ्य
शरीरस्याप्ययमेव प्रभुः, किमुत भवनस्य विभवस्य परिजनस्य
वा १ यत्रास्मै रोचते प्रियसखीहृदयाय वा तत्र अयम्
आस्ताम्" इत्यवदत् । तत् श्रुत्वा महाश्वेता "तन् अत्रैव
त्वत्पासादसमीपवर्तिनि प्रमदवने क्रीडापर्वतकमणिवेश्मनि
आस्ताम्" इत्यभिधाय, गन्धर्वराजं द्रष्टुं ययौ ॥ चन्द्रापीडोपि
तयैव सह निर्गत्य, केयूरकेण उपदिश्यमानमार्गः, मणि-
मन्दिरम् अगात् ॥
गते च तस्मिन् गन्धर्वराजपुत्री, विसृज्य सकलं सखी-
जनम् , परिजनश्च, प्रासादम् आरुरोह ॥ तत्र च शयनीये
निपत्य, एकाकिनी एवं चिन्तयामास । अहो ! किमिदम्
आरब्धं चपलया मया । न परीक्षिता अस्य चित्तवृत्तिः ॥ परि-
त्यक्तः कुलकन्यकानां क्रमः ॥ गुरुजनात् न त्रस्तम्॥
लोकापवादात् नोद्विग्नम् ॥ आसन्नवर्ती सखीजनोऽपि
उपलक्षयतीति मन्दया मया न लक्षितम् ॥ तथा महाश्वेता-
व्यतिकरण प्रतिज्ञा कृता । श्रुत्वैतं वृत्तान्तं किं वक्ष्यति
अम्बा तातो वा ? किं करोमि ? केनोपायेन स्खलितम्
इदं प्रच्छादयामि ? पूर्वकृतापुण्यसंचयेनैवायम् आनीतो
-

मम विमलम्भकः चन्द्रापीडः इति संचिन्त्य गुर्वीम् लज्जाम् उवाह ॥ चन्द्रापीडोपि प्रविश्य मणिगृहम् , शिलातलास्तीर्णायाम् उभयतः उपर्युपरि निवेशितवहूपधानायां कुथायां निपत्य, केयूरकेण उत्सङ्गे गृहीतचरणयुगला, दोलायमानेन चेतसा चिन्तां विवेश । "किं तावत् अस्याः कादम्वर्याः सहभुवः एते विलासाः ? आहोस्वित् अनाराधितप्रसन्न न मकरकेतुना मयि नियुक्ताः १ येन मां सरागेण चक्षुपा तिर्यक् विलोकयति, आलोकिता च लज्जया आत्मानम् आवृणोति" इति-भूयश्चा- चिन्तयत्-"किमनेन वृथैव मनसा खेदितेन ? यदि सत्य- मेवेयं धवलेक्षणा मय्येवं जातचित्तवृत्तिः, न चिरात् स एवनाम् अप्रार्थितानुकूल: मन्मथः प्रकटीकरिष्यति, स एवास्य संशयस्य छेत्ता भविष्यति" इत्यवधार्य, विनोदार्थ कादम्बर्या प्रहिताभिः कन्यकाभिः सह, अक्षे. गेयैः, विपञ्चीवाद्य: स्वरसंदेहविवादैः सुभाषितगोपीभिः अन्यैश्च सरसालापैः क्रीडन् आसांचक्रे॥ एवं मुहूर्त स्थित्वा, कादम्बरीपरिजनेन निर्वर्तितस्नान- विधिः, अर्चिताभिमतदैवतः, क्रीडापर्वतके एव सर्वम् आहारा- दिकम् अहः कर्म चक्रे ॥ अथ क्रीडापवंतकस्य प्राग्भागे मनोहारिणि मरकतशिलातले ममुपविष्टः, दृष्टवान् सहसैव धवलेनालोकेन विलिप्यमानम् अम्बरतलम् ॥ अद्राक्षीच्च ( ३८ ) . . मदलेखाम् आगच्छन्तीम् , तस्याश्च समीपे तरलिकाम् , तया च सितांशुकोपच्छदे पटलके गृहीतं शरच्छशिनम् इव प्रभा- वर्पिणम् अतितारं हारम् ॥ दृष्ट्वा च अयम् अस्य धवलिन्नः कारणम् इति निश्चित्य, प्रत्युत्थानादिना समुचितेन उपचारेण मदलेखां प्रतिजग्राह ॥ सा तस्मिन्नेव मरकतग्राञ्णि मुहूर्तम् उपविश्य, स्वयम् उत्थाय, चन्द्रापीडं चन्दनेन अनुलिप्य, द्वे दुकले परिधाप्य, तैश्च मालतीकुसुमदामभिः आरचित- शेखरं कृत्वा, तं हारम् आदाय उवाच-कुमार ! शेषनामा हारोऽयम् भगवता अम्भसा पत्या गृहम् उपगताय प्रचेतसे दत्तः ॥ पाशभृतापि गन्धर्वराजाय, गन्धर्वराजेनापि कादम्ब तयापि त्वद्वपुः अनुरूपमिति विभावयन्त्या अनुप्रेषितः ॥ अतः अर्हति इयम् इमं बहुमानं त्वत्तः; महाश्वेतयापि कुमारस्य संदिष्टम् , न खलु महाभागेन मनसापि कार्यः कादम्वर्याः प्रथमप्रणयभङ्गः" इति उक्त्वा, तं तस्य वक्षःस्थले ववन्ध ॥ चन्द्रापीडस्तु, विस्मयमानः प्रत्यवादीत् “मदले वे निपुणासि। जानासि ग्राहयितुम् । उत्तरावकाशम् अपहरन्त्या कृतं वचसि कौशलम् ॥” इत्युक्त्वा कादम्बरीसंवद्धाभिरेव कथाभिः मुचिरं स्थित्वा,विसर्जयांवभूव मदलेखाम् ।। मथ अदर्शनम् उपगते भगवति गभस्तिमालिनि, चन्द्रा- पीडः गृहकुमुदिन्याः तीरे चन्दनरसैः क्षालितम् कादम्बरी- अस्य .

( ३६ ) परिजनोपदिष्टम् शिलापट्टम् अघिशिश्ये ॥ कादम्बरी तु मदलेखया सह तत्र आगत्य, कंचित् कालं स्थित्वा, कृत- प्रस्तावा "कथं राजा तारापीडः ? कथं देवी विलासवती ? कथम् आर्यः शुकनासः ? कोशी च उज्जयिनी ? कियत्य- ध्वनि सा ? कीदृशं भारतं वर्षम ? इत्यशेषं पप्रच्छ । एवं विविधाभिश्च कथाभिः सुचिरं स्थित्वा उत्थाय, कादम्बरी, केयूरकं चन्द्रापीडसमीपशायिनम् आदिश्य, शयनसौधशिखरम् आरोह ॥ तत्र च सितदुकूलवितानतलास्तीर्णम् शयनम् अभजत॥ 1 चन्द्रापीडोपि तत्रैव शिलातले, निरभिमानताम् अति- गम्भीरतां च कादम्बर्याः, निष्कारणवत्सलतां महाश्वेतायाः, अतिसमृद्धिं च गन्धर्वराजलोकस्य, मनसा भावयन् , केयूरकेण संवाह्यमानचरणः, क्षणादिव क्षणदां क्षपितवान् ॥ अथ समुद्गते सवितरि, शिलातलात् उत्थाय चन्द्रापीडः प्रक्षा- लितमुखकमला, कृतसन्ध्यानमस्कृतिः गृहीतताम्बूलः "केयूरक ! विलोकय, देवी कादम्बरी प्रबुद्धा वा न वा ? क सा तिषुति ? इत्यवोचत् ॥ गतप्रतिनिवृत्तेन च तेन "देव ! मन्दरप्रासादस्य अधस्तात् , अङ्गणसौधवेदिकायां महाश्वतया सह अवतिष्ठते" इत्यावेदिते, ताम् आलोकितुम् आजगाम ॥ दृष्ट्वा च कादम्बरी समुपसृत्य, तस्यामेव सुधा- वैदिकायां विन्यस्तम् आसनं भेजे ॥

( ४० ) स्थित्वा च कंचिन् कालन् महाश्वेतायाः वदनं विलोक्य, मन्दस्मितम् अकरोत् ।। असो तु तावतैव विदिताभिप्राया काइन्वरीम् अब्रवीत् ॥ सखि ! जिगमिपति खलु कुमारः, पृठनः राजचक्रम् अविदिनवृत्तान्तंदुःखम् आस्ते ॥ युवयोः दूरस्थितयोरपि कमलिनीकमलवान्यवयोरिव स्थिरेयं प्रीतिः आमलयात् ॥ अतः अभ्यनुजानातु भवती" इति ॥ अथ कादम्बरी "स्वाधीनोऽयं जनः कुमारस्य, इत्यत्रानुरोधः? इत्यभिधाय, गन्धर्वकुमारान् आहूय, प्रापयत कुमारं स्वां भूमिम्" इति आदिदेश। चन्द्रापीडोऽपि उत्थाय प्रणम्य प्रथमं महाश्वेताम् ततः कादम्बरीम् , "देवि ! किं ब्रवीमि ? बहुभाषिणःन श्रद्दधातिलोकः ॥ स्मतव्योऽस्मि परिजनकथामु" इत्यभिधाय, कन्यकान्तः पुरात् निर्जगाम ।। कादम्बरीवजम् अशेषः कन्यकाजनः तं व्रजन्तम् आवहि- स्तोरणात् अनुवत्राज ॥ निवृत्ते च कन्यकानने, चन्द्रापोड: केयूरकेण उपनीतं वाजिनम् आरुह्य, गन्धर्वकुमारैः तैः अनुगम्यमानः, हेमकूटात् निर्गत्य, प्राप्य महाश्वेताश्रमम् , अच्छोदसरस्तीरे संनिविष्टम् संनिविष्टम् इन्द्रायुधखुरमुटानुसारेणैव आगतम् आत्मनः स्कन्धावारम् अपश्यत् ॥ निवर्तिताशेष- कुमारश्च, सानन्देन सकुतूहलेन सविस्मयेन च स्कन्धावारजनेन प्रणम्यमानः, स्वभवनं विवेश ।। तत्र च वैशम्पायनेन पत्रलेखया च सह, एवं महाश्वेता, ( ४१ ) एवं कादम्बरी. एवं मदलेखा, एवं केयूरकः, इत्यनयैव कथया दिवसम् अनैषीत् ॥ तामेव कादम्बरों चिन्तयतः जाग्रत एव सा जगाम रात्रिः ॥ अरेधुश्च समुत्थिते भगत रही, आस्थानमण्टपगतः सहसद प्रतीहारेण सह प्रविशन्तं केयूरक ददश। इरादेव कृनप्रणायम् एनम् , एहि एहि इत्युक्त्या, गाहम् आलिंग्य, आत्मनः समीपे एव समुपावेशयत् ॥ पप्रच्छ च केयूरक ! कथय, कचित् कुशलिनी ससखीजना देवी कादम्बरीभगवती महाश्वेता च" इति। असौ तु "अद्यकुशलिनी, याम् एवं देवः पृच्छति इत्यभिधाय, कादम्बरीपहितानि अभिज्ञानानि अदर्शयत्-परकतहरिन्ति, व्यपनीतत्वश्चि पूगीफलानि, शुककपालपाडूनि ताम्बूलीदलानि, मृगमदामोद- मनोहर-मलयजविलेपनं चेति ॥ अब्रवीच-अञ्जलिना देवम् अर्चयति कादम्बरी, महाश्वेता च कुशलवचसा ॥ नमस्कारेण च मदलेखा ।। संदिष्टं च तव महाश्वेतया-"धन्याः खलु ते येषां न गतोऽसि चक्षुषोविषयम् ॥ स्पृहयन्ति खलु जनाः सर्वे व्यतीतदिवसाय । त्वया वियुक्तं विनिवृत्तमहोत्सवमिव वर्तते गन्धर्वराजनगरम् । जानासि च मां कृतसकलपरित्यागाम् ॥ तयापि अकारणपक्षपातिनं भवन्तं द्रष्टुम् इच्छति में हृदयम् ॥ अपि च बलवत् अस्वस्थशरीरा कादम्बरी ॥ स्नरति च स्मेराननं स्मरकल्पं त्वाम् । अतः पुनरागमनेन अहमि इरा सन्यावयितुम् ॥ · वश्यं सोढव्या चेयं कदर्थना ( ४२ ) कुमारंग । भवननुजनता जनयति अनुचित संदेशप्रागरभ्यम्" इति, इत्युक्त्वा, एपः त्रस्य शयनीये विस्मृतः हारः प्रहितः" इन्युत्तरीयाटान्तसंवतं विमुच्य चामरग्राहिण्याः करे समर्पितवान् ॥ चन्द्रापोडस्तु नन् सर्व शिरसि कृत्वा, स्वयमेव जग्राह । नेन च विलेपनन विलिप्य, कण्ठे हारम् अकरोत् । आगृहीत- ताम्बूलश्च मुहूर्तादिव उत्थाय, केयूरकद्वितीय एव मन्दुरां प्रविवेश । प्रविश्य च लीलामन्दं सकुतूहलम् उवाच । केयूरक ! कथय, मनिगमादारभ्य को वा वृत्तान्तो गन्धर्व- राजकुले ? केन वा व्यापारण वासरम् अतिनीतवती गन्धर्व- राजपुत्री के वा अभवन् आलापाः परिजनस्य ? आसीद्वा कच्चित् अस्मदाश्रयिणी कथा ? इति ॥ केयूरकस्तु सर्वम् आचचक्षे–देव श्रृयताम्-निर्गते त्वयि, देवी कादम्बरी सौधशिखरम् आरुह्य, देवस्यैव गमनमार्गम् आलोकितवती । तिरोहितदर्शने च देवे, सखेदम् अवतीर्य, तमेव क्रीडापर्वतकम् आगतवती; यत्र स्थितवान् देवः ॥ तम् उपेत्य च देवेन अत्र स्थितम् , अत्र स्नातम् , अत्र भुक्तम् , अत्र सुप्तम् , इति देवस्यैव स्थानचिह्नानि पश्यन्ती क्षपितवती दिवसम् । दिवसावसाने च महाश्वेतायाः प्रयत्नात् तस्मिन्नेव मणिवेश्मनि आहारम् अकरोत् । अस्तमिते च भगवति रवौ, उदिते च चन्द्रमसि, तत्रैव कंचित् कालं स्थित्वा, शय्यागृहम् , ( ४३ ) अमान् तत्र श्वलया शिरोवेदनया दारुणेन दाहज्वरेण च अभिभूयमाना, दुःखदुःवेन क्षणदाम् अनैषीत् ।। उपसि च माम् आहूय, देवस्य वानपिसम्भार्थम् आदिष्टवती इति ॥ चन्द्रानीडः तत् आकर्ण्य जिगमिषुः अश्वः अश्वः इति वदन् भवलान् निर्यया ॥ आरोपितपर्याणम् इन्द्रायुधम् आरुह्य, पश्चात् आरोप्य पत्रलेखाम् , वैशम्यायनं स्कन्धावारे स्थापयित्वा, अन्यतुरगारूढेन केयूरकेण अनुगम्यमानः, हेमकूटं ययौ ॥ आसाद्य कादम्बरीभवनद्वारम् , अवतीर्य द्वारपालार्पित- तुरङ्गः, कादम्बरी प्रथमदर्शनकुतूहलिन्या पत्रलेखया अनुग- म्यमानः, प्रविश्य, “क देवी कादम्बरी तिष्ठति ? इति संमुखागतम् अन्यतमं वर्षवरम् अपाक्षीत् । कृतपणामेन च तेन, "देव-क्रीडापर्वतकस्य अपस्तात् कमलवनदीर्घिकातीरे विरचितं हिमगृहम् अध्यास्ते" इत्यावेदिते, केयूरकेण उपदिश्यमानवा, हिमगृहस्य मध्यभागम् आससाद ; तस्य च एकदेशे सखीकदम्बकपरिवृताम् , मृणालदण्डमण्टपिकायाः तले कुसुमशयनम् अधिशयानम् कादम्बरी व्यलोकयत् ॥ अथ सा सम्मुखम् आपतन्तं तं दूरादेव दृष्ट्वा कुसुम- शयनात् उत्तस्थौ॥ चन्द्रापीडस्तु समुपसृत्य पूर्ववदेव तां महाश्वेताप्रणामपुरस्सरं दर्शितविनयः प्रणनाम । कृतप्रतिप्रणा- मायां च तस्यां तस्मिन्नेव कुसुमशयने समुपविष्टायाम् , ( ४४ ) प्रतिार्या समुपनीतां जाम्बूनदययोम् आसन्दिका पादनेन उत्साय शितावंत्र उपाविशत् ।। अथ केयूरकः "ईवि ! देवस्य चन्द्रापीडस्य प्रसादभूमिः एषा पत्रलेखा नाम ताम्बूलकर वाहिनी" इत्यभिधाय , पत्रलेखाम् अदर्शयम् ॥ अथ कादम्बरी दृष्ट्वा तां, " अहो मानुपीयु पक्षपातः प्रजापतेः" इति चिन्तयांबभूव । कृतप्रणामां च तां, सादरम् “एरोहि" इत्याहूय, आत्मनः समीपे समुपावेश गन् । दशनादेव उपारूडप्रोत्यतिशया च मुहुमुहुरे- नाम् करनलेन पस्पर्श चन्द्रानोडस्तु तदवस्थां त्रिरथतनयाम् आलोक्य निपुणालापेन अपृच्छत् "देवि ! जानामि कामरति निमित्तीकृत्य प्रवृत्तोऽयं व्याधिः । कुसुमेपुपीडया पतितां त्वाम् अवेक्ष्य दूयते मे हृदयम् । इच्छामि देहदानेनापि स्वस्थाम् अत्र. भवतीम् कुर्तुम्" इति ॥ कादम्बरी तु तम् अशेषम् अस्य अव्यक्तव्याहारसूचितम् अर्थ मनसा गृहीत्वापि शालीनताम् अवलम्बमाना तूष्णीमेव आसीत् ॥ ततः मदलेखा प्रत्यवादीत् ॥ कुमार-किं कथ- यामि ? अस्याः खलु कुमारभावोपेतायाः दारुणोऽयम् अकथनीयः संतापः । मृगालिन्याः किसलयमपि हुताशनायते ॥ ज्योत्स्नापि आतपायते धीरत्वमेव प्राणसंधारणमस्याः इति ।।

घन्या ( ४५ ) चन्द्रापीडोपि उभयथा घटमानार्थतया संदेहदोलारुडेनैव चेतसा महाश्वेतया सह प्रीत्युपचयचतुराभिः कथाभिः महान्तं कालं स्थित्वा, महता यत्नेन मोचयित्वा आत्मानं स्कन्धावार- गमनाय कादम्बरीभवनात् निर्यो । निर्गतं च तम् तुरङ्गमम् आरुरुक्षन्तं पश्चात् आगत्य केयूरकः अभिहितवान् - "देव ! मदलेखा विज्ञापयति- देवी कादम्बरी प्रथमदर्शनजनितप्रीतिः पत्रलेखां निवर्त्यमानाम् इच्छति ॥ पश्चात् यास्यति" इति ॥ तदाकण्य चन्द्रापीडः ॥ पत्रलेखा ; यामेवम् अनुगृहाति दुर्लभा देवीप्रसादः प्रवेश्यताम्" इत्यभिधाय, स्कन्धावारम् आजगाम । प्रविशन्नेव पितुः समीपात् आगतं लेखहारकम् अद्राक्षीन् । धृततुरङ्गमश्च, प्रीतिविस्फारितेन चक्षुषा दूगदेव अपृच्छत् ॥ “अङ्ग ! कचित् कुशली तातः सह सर्वेण परिजनेन ? अम्वा च सर्वान्तःपुरैरिति ॥ अथासौ उपसृत्य प्रणामानन्तरम् “देव ! यथाज्ञापयसि" इत्यभिधाय, लेखद्वितयम् अर्पयाम्बभूव । युवराजस्तु शिरसि कृत्वा स्वयमेव तत् उन्मुच्य पपाठ-"स्वस्ति ! उज्जयिनीतः परममाहेश्वरः महाराजः तारापीडः सर्वसम्पदाम् आयतनम् चन्द्रापीडम् उत्तमाङ्गे चुम्बन नन्दयति । कुशलिन्यः प्रजाः । कियानपि कालः भवतः दृष्टस्य गतः । बलवत् उत्कण्ठितं नः चं०-४ ( ४६ ) हृदयम् । ततः लेखवाचनविरतिरेव प्रयाणकालतां नेतव्या" इति ॥ शुकनासप्रेषिते द्वितीयेऽपि अमुमेवाथन् अवाचवत् ॥ वैशम्पायनापि समुपसृत्य लेखद्वितयम् अपरस् आत्मीयम् अस्मात् अभिन्नार्थम् अदर्शयत् । अथ यथाज्ञापयति तातः इत्युक्त्वा, तथैव तुरगाधिरूहः प्रयाणपटहम् अवादयन् । समीपे स्थितं च महाबलाधिकृतं मेघनादनापानम् आदिदेश ॥ "भवता पत्रलेखया सह आगन्तव्यम् । नियतं च केयूरकः ताम् आदाय एतावती भूमिम् आगमिष्यति । तन्मुखेन च विज्ञाप्या देवी कादम्बरी । गरीयसी गुरोः आज्ञा" इति कृत्वा गतोऽस्मि इदानीम् उज्जयिनीम् । स्मतव्योऽस्मि परिजनकथासु । जीवन् पुनः देवीचरणारविन्दवन्दनानन्दम् अननुभूय न स्थास्यति चन्द्रापीडः" इति । इत्यादिश्य तम् वैशम्पायनं स्कन्धा- वारभरे नियुज्य स्वयं तथारुढ एव सैन्येनानुगम्यमानः तमेव लेखहारकम् उज्जयिनीमार्गम् पृच्छन् प्रतस्थे ॥ क्रमेण च अतिमद्धपादपया वनगजपातितपादपपरिहारेण वक्रीकृत- मार्गया पत्रसङ्करकषायगिरिनदीजलया शून्यया दिवसम् अटव्या गत्वा, परिणतरविबिम्बे सन्ध्यारुणातपे वासरे रक्तचन्दनतरोः उपरि बद्धं, सरसपिशितपिण्डनिभैः अलक्तकैः आर्दीकृतं महान्तं रक्तध्वनं दूरत एव ददर्श । तदभिमुखश्च कश्चिदध्वानं गत्वा, केतकीसूचिखण्डपाण्डुरेण वनद्विरद- -- दन्त-कवाटेन परिसृताम् , लोहतोरणेन सनायीकृतद्वारदेशाम् , लोहमहिषेण अध्यासितशिलावेदिकाम् , निस्संस्कारतया यत्किञ्चनकारिणा खञ्जतया मन्द-मन्दं संचारिणा, बधिर- तया संज्ञाव्यवहारिणा, लम्बोदरतया प्रभूताहारिणा, विस्फोटकवणबिन्दुभिः कल्मापितसकलशरीरेण क्षणमप्यमुक्त- कालकम्बलखण्डेन जरद्रविडधार्मिकेण अधिष्ठितां चण्डिकाम् अपश्यन् ।। तस्यामेव च आवासम् अरोचयत् ॥ अथावतीर्य तुरगात् प्रविश्य भक्तिप्रवणेन चेतसा तां प्रणनाम ॥ कृतप्रदक्षिणश्च पुनः प्रणम्य, प्रशस्तदेवतोदेश- दर्शनकुतूहलेन परिप्रमन् , तं द्रविडधार्मिकम् अपश्यत् । न्यवारयच तेन साधम् प्रारब्धकलहान् उपहसतः स्वसैनिकान् । उपसान्त्वनैश्च कथमपि तं प्रशमम् उपनीय, क्रमेण जन्म- भूमिम् , जातिम् विद्याम् कलत्रम् अपत्यानि विभवम् वय:- प्रमाणम् , प्रत्रयायाः कारणश्च स्वयमेव पप्रच्छ ॥ पृष्टश्चासौ अवर्णयन् आत्मानम् ॥ अतीतस्वशीयसौन्दर्य- विभववर्णनावाचालेन तेन सुतराम् अरज्यत राजपुत्रः । कादम्बरीविरहातुरस्य तस्य तच्चरितं मनोविनोदनताम् अगात् । अस्तम् उपगते च भगवति सप्तसप्तौ, शाखावसक्त- पर्याणेषु, पुरोनिखातकुन्तयष्टिसंयतेषु वाजिपु, दूरगमनखिने परिकल्पितयामिके. सुषुप्सति सैनिकजने, चन्द्रापीडः परिजनेन एकदेशे संयतस्य इन्द्रायुधस्य पुरः परिकल्पितं शयनीयम

( ४८ )
अगात् । निषण्णस्य चास्य पस्पर्श दुःखासिका हृदयम् ।
अनुपजातनिद्र एव ताम् अनयत् निशाम् ॥
उपसि च उत्थाय तस्य जरद्रविडधार्मिकस्य मनोरथं
धनविसरैः पूरयित्वा, रमणीयेषु प्रदेशेषु कृतवसतिः अल्पैरे-
वाहोभिः उज्जयिनीम् आजगाम । तत्र पौराणां नमस्कारा-
ञ्जलिसहस्राणि प्रतीच्छन् विवेश नगरीम् । दृष्ट्वा च पितरं
दूरादेव अवतीर्य वाजिनः मौलिना महीम् अगच्छत् । अथ
प्रसारितभुजेन “एोहि" इत्याहूय, पित्रा सुचिरं गाढम्
उपगूढः, करे गृहीत्वा विलासवतीभवनम् अनीयत राज्ञा ॥
तयापि तथैव प्रत्युद्गम्य अभिनन्दितागमनः दिग्विजयसं-
बद्धाभिरेव कथाभिः कंचित् कालं स्थित्वा, शुकनासं द्रष्टुम्
आययौ । तत्रापि अमुनैव क्रमेण सुचिरं स्थित्वा, निवेद्य
वैशम्पायनं स्कन्धावारवर्तिनं कुशलिनम् आलोक्य च
मनोरमाम् आगत्य विलासवतीभवने एव सर्वाः स्नानादिकाः
क्रियाः निरवर्तयत् ॥ अपराले निजमेव भवनम् अयासीत् ॥
तत्र च रणरणकखिद्यमानमानसः, कादम्बर्या विना न
केवलम् अवन्तिनगरम्, सकलमेव महीमण्डलम् शून्यम्
अमन्यत । ततः गन्धर्वराजपुत्रीवार्ताश्रवणोत्सुकः पत्र लेखा-
ऽऽगमनं प्रत्यपालयत् । कतिपयदिवसापगमे च मेघनादः
पत्रलेखाम् आदाय आगच्छत् ; कृतनमस्कारां च ताम् दूरादेव
स्मितेन प्रकाशितप्रीतिः अब्रवीत् पत्रलेखे ! कथय-तत्रभवत्या;

( ४६ ) महाश्वेतायाश्च देव्याः कादम्बाः कुशलम् ? कुशली वा सकलः परिजनः इति । साऽऽब्रवीत्-देव ! यथाज्ञापयसि, भद्रम्। त्वाम् अर्चयति शेखरीकृताञ्जलिना कादम्बरी । इत्येवम् उक्तवतीम् पत्रलेखाम् आदाय, मन्दिराभ्यन्तरं विवेश। उपविश्य च तत्र अप्राक्षीत् ॥ पत्रलेखे ! कथय-कथमसि स्थिता ? कियन्ति वा दिनानि ? कीदृशो वा देवीप्रसादः ? का वा गोष्टयः समभवन् ? को वा अतिशयेन अस्मान् स्मरति ? इति । इत्येवं पृष्टा व्यजिज्ञपत् । देव श्रृयताम्-ततः खल्वागते देवे केयूरकेण सह प्रतिनिवृत्याहम् तथैव कुसुमशयन- समीपे समुपाविशम् ॥ अतिष्ठम् च सुखं नवनवान् अनुभवन्ती देवीप्रसादान् ॥ अपराह्न च मामेव अवलम्ब्य संचरन्ती प्रमदवनवेदिकाम् अध्यारोहत् । तस्यां च मणि- स्थूणावष्टम्या स्थिता । स्थित्वा च मुहूर्तमिव किमपि व्याहर्तुम् इच्छन्ती निःस्पन्दपक्ष्मणा चक्षुषा मुखं मे सुचिरं व्यलोकयत् ॥ अथ मया विदिताभिप्रायया “आज्ञापय" इति विज्ञापिते, लज्जाकलितगद्गदा, कथमपि व्याहाराभिमुखम् आत्मानम् अकरोत् अब्रवीच माम् पत्रलेखे दर्शनात् प्रभृति प्रियासि । न जाने केन कारणेन त्वयि विश्वसिति मे हृदयम् अहं तावत् न संकल्पिता पित्रा ॥ न दत्ता मात्रा ॥ नानुमोदिता · गुरुभिः॥ बलात् अवलिप्तेन गुरुगर्हणीयतां ( ५० ) नीता कुमारेण चन्द्रापीडेन । कथय "महतां किमयम् आचारः" इति ॥ अहं तु अविदितवृत्तान्ततया भीतेव सविषादं विज्ञापित- वती। देवि ! श्रोतुम् इच्छामि; आज्ञापय किं कृतम् देवेन चन्द्रापीडेन ?॥ केन वा खलु अविनयेन खेदितम् देव्याः कुमुदकोमलं मनः ॥ इत्येवम् अभिहिता पुनरवदत् ॥ आवेदयामि ते; अवहिता शृणु। स्वप्नेषु प्रतिदिवसम् आगत्यागत्य मनोहरान् मदनलेखान् प्रेषयति ॥ उपवनेषु एकाकिन्याः मे परिष्वङ्गम् आचरति। शीतलैः मुखमारुतैः कपोलौ वीजयति। मन्मथमूढमानसश्च, कथय हे पत्रलेखे ! केन प्रकारेण निषिध्यते ! इति । ताम् एवं वादिनीम् आकर्ण्य, प्रहर्षनिर्भरा, "अहो चन्द्रापीडम् उद्दिश्य सुदूरम् आकृष्टा खलु इयं मकरकेतुना" इति विचिन्त्य विहस्य अब्रवम् । देवि ! यद्येवम् उत्सृज कोपम् प्रसीद ; नाहसि कामापराधैः देवं दूषयितुम् । अनाराधितप्रसन्नेन कुसुमशरेण भगवता ते वरः दत्तः । का चात्र गुरुजनवक्तव्यता! ॥ कति वा कथयामि ते, याः स्वयं वृतवत्यः पतीन् । यदि च नैवम् अनर्थक एव तर्हि धर्मशास्त्रोपदिष्टः स्वयंवरविधिः॥ तत् प्रसीद, संदिश, प्रेषय माम् , यामि आनयामि ते हृदयदयितम्" इत्येवं वादिनीं माम् पुनरवदत् । “पत्रलेखे ! हृदयात् अव्यतिरि- .

( ५१ ) तासि । जानामि ते गरीयसी प्रीतिम् । न खलु प्रियम् इति ब्रवीमि । त्वामेव पश्यन्ती संधारयामि जीवितम् । तथापि यद्ययं ते ग्रहः, तत् साधय समीहितम्" इत्यभिधाय मां व्यसर्जयत् इति ॥ चण्द्रापीडस्तु तथा विज्ञप्तः पत्रलेखया धीरप्रकृतिरपि नितरां पर्याकुलोऽभवत् । अत्रान्तरे प्रविश्य प्रतीहारी व्यज्ञापयत् -युवराज ! देवी विलासवती समादिशति । "श्रुतं मया पृष्ठतः स्थिता पत्र- लेखा पुनः परागता" इति। तवापि कापि महती वेला वतते दृष्टस्य, तत् अनया सहित एव आगच्छ” इति । चन्द्रापीडस्तु तत् आकर्ण्य, चेतस्यकरोत्-अहो संदेहदोलाधिरूढं मे जीवितम् ॥ एवम् अन्या निमेषमपि माम् अपश्यन्ती दुःख- मास्ते। एवम् आज्ञापितम् आगमनाय मे निष्कारणवत्सलया देव्या कादम्बर्या । बलवान् जननीस्नेहः । गरीयान् गन्धर्व- राजमुतानुरागः । दुस्त्यजा जन्मभूमिः ॥ परिग्राह्या कादम्बरी कालातिपातासहं मे मनः॥ विप्रकृष्टमन्तरं हेमकूटविन्ध्या- चलयोः इति। इत्येवं चिन्तयन्नेव प्रतीहार्या उपदिश्यमान- मार्गः, जननीसमीपम् अगात् ॥ तत्रैव च सोत्कण्ठं दिवसम् अनयत् ॥ एवमेव रात्री दिवा च अकृतनि तिः आयास्यमानोपि मनसिजेन मर्यादाक्शात् आत्मानं स्तम्भयन् , कथं कथमपि कतिपयेष्वतिक्रान्तेषु वासरेषु, एकदा निर्गत्य बहिर्नगर्याः, १ ( ५२ ) शिमातटानि अनुसरन् , अतित्वरया आगच्छतः दूरादेव अतिवहून् तुरङ्गमान् अद्राक्षीत् । दृष्ट्वा च समुत्पन्नकूतूहल: तेषां परिज्ञानाय पुरुषमन्यतमं प्राहिणोत् । आत्मनापि ऊरुदध्नेन पयसा उत्तीर्य शिवाम् भगवतः कार्तिकेयस्य आयतने तत्पतिवार्ताम् प्रतिपालयन् अतिष्ठत् ॥ तत्रस्थ एव दूरादेव अवतीर्य तुरङ्गमात् आपतन्तं विषादशून्येन मुखेन कष्टाम् अवस्थाम् अनक्षरम् आवेदयन्तं केयूरकम् अद्राक्षीत् ॥ दृष्ट्वा च दर्शितप्रीतिः एहि एहि इति आहूय दूरप्रसारिताभ्यां दोभ्यां पर्यध्वजत तम् ॥ अपमृत्य पुनः कृतनमस्कारे तस्मिन् , तेन सह स्वभवनम् अयासीत् ॥ तत्र निर्वर्तिताशेषदिवसकरणीयः पत्रलेखाद्वितीयः केयूरकम् आहूय अब्रवीत् ॥ " केयूरक ! कथय, देव्याः कादम्बर्याः महाश्वेतायाश्च सन्देशम्" इति ॥ केयूरकः पुरः सप्रश्रयम् उपविश्य अब्रवीत्॥ देव ! किं विज्ञापयामि॥ नास्ति मयि संदेशलवोऽपि देव्याः कादम्बर्याः महाश्वेताया वा॥ यदैव पत्रलेखां मेघनादाय समर्प्य, प्रति- निवृत्य मया अयम् देवस्य उज्जयिनीगमनवृत्तान्तः निवेदितः तदैव ऊर्ध्वम् विलोक्व, दीर्घम् उष्णञ्च निःश्वस्य सनिवेदम् उत्थाय महाश्वेता पुनः तपसे स्वमेव आश्रमम् अभजत ॥ देव्यपि कादम्बरी झटिति द्रुघणेनेव अभिहता निवारिता- शेषपरिजनप्रवेशा, शयनीये निपत्य, उत्तरीयवाससा उत्तमाङ्गम्

अवकुण्ट्य, सकलमेव तं दिवसम् अस्थात् ॥ परेधुश्च प्रातरेव
उपसृतं माम् "ध्रियमाणेष्वेव भवत्सु अहम् ईदृशीम् अवस्थाम्
अनुभवामि" इति उपालभमानेव पर्याकुलया दृष्टया सुचिरम्
विलोकितवती॥
तथा दृष्टश्च तया दुःखितया देव्या, आदिष्टमेव गमनाय
आत्मानं मन्यमानः, अहम् अनिवेद्यैव देव्यै देवपादमूलम्
उपागतोऽस्मि ।। देव ! भवतः प्रथमागमनसमय एव आरू-
ढवान् मकरकेतनः ताम् ॥ इदानीन्तु महान्तम् आयासम्
अनुभवति त्वदर्थे कादम्बरी ॥ तत् धैर्यम् अवलम्ब्य, गमनाय
यत्नः क्रियताम् इति ॥ इत्यावेदयन्तं केयूरकं चन्द्रापीडः
प्रत्युवाच ॥ केयूरक-सर्वमेवैतत् पत्रलेखया मय्याख्यातम् ।।
अधुना दिवसक्रमगम्ये अध्वनि किं करोमि ॥ तथापि देवी
संभावयितुं प्रयतामहे ॥ इति वदन् आदिदेश विश्रान्तये
केयूरकम् ॥
अत्रान्तरे भगवान् तिग्मदीधितिः संजहार करसहस्रम् ॥
उदयगिरिशिखरम् आरुढे भगवति चन्द्रमसि, गमनम् आत्मनः
समुद्दिश्य एवं चिन्तयामास ॥ तातेन खलु स्वभुजात्
अवरोप्य मय्येव राज्यभारः समारोपितः ॥ तत् अनाख्याय
पदमपि निर्गन्तुं न शक्यते ॥ स्कन्धावारोऽपि मे अद्यापि
न परापतति ॥ किं कारणं व्यपदिश्य आत्मानं मोचयामि ।।
कथं वा मुञ्चतु मां तातः अम्बा वा ॥ सुहृत्साध्येऽस्मिन् अर्थे

( ५४ ) किं करोमि एकाकी॥ वैशम्पायनोऽपि असंनिहितः पायें मे ॥ इत्येवं चिन्तयत एवास्य सा क्षपा क्षयम् अगात् ।। प्रातरेव किंवदन्ती शुश्राव -यथा किल दशपुरं यावत् परागतः स्कन्धावारः इति ।। तां च श्रुत्वा प्रहृष्टचेताः केयूरकम् अब्रवीत् ॥ केयूरक ! करतलवर्तिनी सिद्धिम् अवधारय । प्राप्तः वैशम्पायनः" इति ॥ स तु तदाकण्य, “देव ! किमपरं मया अत्र स्थितेन साधनीयम् ॥ अकालक्षमा देव्याः कादम्बर्या शरीरावस्था ।। सर्वो हि प्रत्याशया धार्यते ॥ तत् देवागमनोत्सवम् आवेद- यितुम् इदानीमेव गमनानुज्ञया प्रसादं क्रियमाणम् इच्छामि" इति व्यजिज्ञपत् । एवं विज्ञापिते केयूरकेण, परितुष्टः चन्द्रापीडः प्रत्युवाच । साधु चिन्तितम् ॥ कस्य वा अपरस्य ईदृशी देशकालज्ञता । गम्यतां देव्याः प्राणसन्धारणाय ॥ मदागमन- प्रत्ययार्थ च पत्रलेखाहि त्वयैव सह यातु देवीपादमूलम् ।। इत्युक्त्वा मेघनादम् आहूय आदिदेश-"मेघनाद ! यस्याम् भूमौ पत्रलेखानयनाय पूर्व मया त्वं स्थापितः तां भूमि यावत् पत्रलेखाम् आदाय केयूरकेण सह अग्रतः गच्छ । अहमपि वैशम्पायनम् आलोक्य अनुपदमेव ते तुरङ्गमैः परागतोऽस्मि" इति ॥ अथ च पत्रलेखाम् आहूय "पत्रलेखे! त्वयापि यान्त्या अध्वनि न मद्विरह-पीडा भावनीया। न शरीरसंस्कारे ( ५५ ) अनादरः करणीयः॥ न आहारवेला · अतिक्रमणीया ॥ न येन केनचित् अज्ञातेन पथा यातव्यम् ॥ मम जीवितमपि तवैव हस्ते वर्तते ॥ तत् नियतं त्वया आत्मा यत्नेन परिरक्षणीयः" ॥ इत्युक्त्वा केयूरकं पुनः तदवधानदानाय संविधाय "महाश्वेताश्रमं यावत् त्वयैव सहानया मन्नयनाय आगन्तव्यम्" इत्यादिश्य व्यसर्जयत् ॥ निर्गतायां केयूरकेण सह पत्रलेखायाम् , पितुः पादमूलं गत्वा शुकनासमुखेन वैशम्पायनप्रत्युद्गमनाय आत्मानं मोचयित्वा, जननीभवने निर्वर्तितशरीरस्थितिः तं दिवसं यामिन्याः यामद्वयञ्च सुहृदर्शनौत्सुक्येन जाग्रदेव नीत्वा अपररात्रवेलायाम् इन्द्रायुधम् आरुह्य, सुबहुना तुरङ्गमबलेन अनुगम्यमानः, नगर्याः निर्गत्य, शिक्षाम् उत्तीर्य, दशपुरगामिना मार्गेण प्रावर्तत गन्तुम् । तावत्यैव अपररात्र- वेलया योजनत्रितयम् अलङ्घयत् ॥ अथ च उदयगिरिशिखरम् आरूढे भगवति सप्तसप्तौ अग्रतः अर्थगव्यूतिमात्र एव आयातं स्कन्धावारम् अद्राक्षीत् । जवविशेषग्राहिणा इन्द्रायुधेन सत्वरम् आसाद्य, स्कन्धावारं प्रविश्य, "क वैशम्पायनः" इत्यपृच्छत् ॥ स्कन्धावारवर्तिनः सर्वे जनाः सममेव, “अस्मिस्तरुतले अवतरतु तावत् देवः, ततः यथावस्थितं विज्ञापयामः" इति न्यवेदयन् ॥ चन्द्रापीडस्तु तेन कष्टतरेण वचसा अन्तःशल्या ततः ते

-
( ५६ )
इव भूत्वा पुनः तान् अप्राक्षीत्-किं वृत्तम् अस्य ? येनासौ
नागतः, क वा स्थितः ? कथं वा तम् एकाकिनम् उत्सृज्य,
आयाताः भवन्तः ? इति॥
ते च एवं पृष्टाः व्यज्ञापयन् । देव ! श्रूयताम यथावृत्तम्-
पृतः स्कन्धावारम् अनुपालयद्भिः शनैः शनैः वैशम्पायनेन
सह भवद्भिरागन्तव्यम् इत्यादिश्य गतवति देवे, तस्मिन्
दिवसे न दत्तमेव प्रयाणं स्कन्धावारेण ॥ अन्यस्मिन् अहनि
आहतायां प्रयाणभेर्याम् प्रातरेव अस्मान् वैशम्पायनो
ऽभ्यधात् ॥ “अतिपुण्यं हि अच्छोदाख्यं सरः पुराणे
श्रूयते ॥ तत् अस्मिन् स्नात्वा प्रणम्य च अस्यैव तीरभाजि
सिद्धायतने भगवन्तं भवानीपति वजामः" इत्यभिधाय
चरणाभ्यामेव अच्छोदसरस्तीरम् अयासीत् ॥ तत्र च
अतिरम्यतया सर्वतः दत्तदृष्टिः संचरन् अतिरमणीयं
शीतलाभ्यन्तरशिलातलं तटलतामण्डपम्
अद्राक्षीत् ॥
अतिचिरान्तरितदर्शनं सुहृदमिव तं विस्मृतनिमेषेण चक्षुषा
विलोकयन् समुपविश्य भूमौ किमपि अन्तरात्मना स्मरन्निव
तूष्णीम् अधोमुखः तस्थौ॥
तथा अवस्थितं तम् अवलोक्य, जातचिन्ताः वयम् एवम
अवदाम ॥ दृष्टा दर्शनीयानाम् अवधिः एषा भूमिः ॥ तत्
उत्तिषु निर्वर्तय स्नानविधिम् ॥ प्रयाणाभिमुखः सकल:
स्कन्धावारः त्वां प्रतिपालयन् आस्ते इति ॥

( ५७ ) स तु एवम् उक्तोपि अस्माभिः अश्रुतास्मदीयालाप इव न किञ्चिदपि प्रत्युत्तरम् अदात् ॥ तमेव केवलं लतामण्टपं अनिमेषपक्ष्मणा चक्षुषा विलोकितवान् ॥ पुनः पुनश्चास्माभिः आगमनाय अनुरुध्वमानः परिच्छेदनिष्ठुरम् अस्मान् आह 'स्म ॥ "मया तु न यातव्यम् अस्मात् प्रदेशात् ॥ गच्छन्तु भवन्तः स्कन्धावारम् आदाय" इति । इत्युक्तवन्तं च तम् अकस्मादेवकिञ्चिदस्य वैराग्यकारणम् उत्पन्नम् इति आशङ्कय, सानुनयम् आगमनाय पुनः पुनः प्रतिबोध्य, तादृशासंबद्धानुष्ठानेन जातपीडाः निष्ठुरमपि अभिहितवन्तः वयम् ॥ स तु, "किमहम् एतावदपि न वेभि, यत् गमनाय मां भवन्तः प्रबोधयन्ति; अपि च, चन्द्रापीडेन विना क्षणमपि अहम् अन्यत्र न पारयामि स्थातुम् ।। तथापि किं करोमि ?; अनेनैव क्षणेन सर्वत्र विगलितं मे प्रभुत्वम् । स्मरदिव किमपि मनो नान्यत्र प्रवर्तते ॥ निगलिताविव अन्यत्र पदमपि दातुं न चरणौ उत्सहेते । तत् अलं निर्बन्धेन; गच्छन्तु भवन्तः" इति उक्त्वा तेषु तेषु तरुतलेषु लतागहनेषु सरस्तीरेषु किमपि नष्टमिव अन्विष्यन् बम्राम ॥ वयमपि तत् प्रतिबोधनप्रत्याशया दिनत्रयं स्थित्वा, किमेतदिति विस्मिता- न्तरात्मानः निष्पत्याशाः सुकृतशम्बलसंविधानम् तत्परिकरम् तत्र स्थापयित्वा परागताः वयम्" इति ॥ चन्द्रापीडस्तु स्वप्नेऽपि अनुत्प्रेक्षणीयम् वैशम्पायन- ( ५८ ) वृत्तान्तम् आकर्ण्य, युगपत् उद्वेगविस्मयाभ्याम् आक्रान्तहृदयो बभूव ॥ “किं पुनः ईदृशस्य वैराग्यस्य कारणं भवेत् " इति बहुधा विचिन्त्य, प्रकारान्तरेण गमनम् उत्पादयता कादम्बरी समीपगमनोपायचिन्तापर्याकुलमतेः उपकृतमेव पैशम्पायान- वृत्तान्तेन इति निश्चित्य, तत्कालकृतं वैशम्पायन वियोग- दुःखम् परिणामसुखम् औषधमिव बहुमन्यमानः परापतितवान् उज्जयिनीम् ॥ तत्र कृच्छे ण मात्रा पित्रा च विसर्जितः शुकनासं मनोरमां च प्रणम्य अग्रतः ढौकितमपि कृतापसर्पणम् अनाविष्कृतगमनोत्साहम् इन्द्रायुधम् आरुह्य, रयेणैव निरगा- नगर्याः॥ निर्गत्य च उत्ताम्यता हृदयेन किमपि किमपि चिन्तयन् , दिवा रात्रौ च अब इत् । एवं वहतोप्यस्य दवीयस्तया अध्वनः अधपथ एव आशुगमनविघ्नकारी बभूव जलदकाल: तादृशेऽपि प्राट्काले कलामपि अकृतपरिलम्बः धाराहति- विकूणिताक्षेण अपचीयमानबलजवोत्साहेन वाजिसैन्येन अनुगम्यमानः तदेव अच्छोदम् आससाद ॥ तत्र चतुर्वपि पार्श्वेषु तुरगगत एव विचिन्वन् समन्तात् बम्राम ॥ ग्राम्यंश्च न कचिदपि किञ्चित् अवस्थानचिह्नमपि नोपलक्षितवान् तदा महाश्वेता कदाचिदस्य वृत्तान्तस्य अभिज्ञा भवेदिति विचिन्त्य तदाश्रमम् उपजगाम ॥ प्रविश्य च गुहाद्वार एव धवलशिलातले समुपविष्टाम्

( ५६ )
अधोमुखीम् कथमपि तरलिकया विधृतशरीराम महाश्वेताम्
अपश्यत् ॥ दृष्ट्वा च किमेतदिति तरलिकाम् अपृच्छत् ॥ अथ
महाश्वेतैव प्रत्यवादीत्-महाभाग ! श्रूयताम्-केयूरकात्
भवद्गमनम् आकर्ण्य, विदीर्णमानसा समुत्पन्नानेकगुणवैराग्या
पुनः कष्टतरतपश्चरणाय अत्रैवाहम् आयाता, नावदत्र
महाभागस्यैव तुल्याकृति ब्राह्मणयुवानम् अपश्यम् । स तु
माम् उपमृत्य अदृष्टपूर्वोऽपि प्रत्यभिजानन्निव सुचिरम्
आलोक्य अब्रवीत् ॥ वरतनु-सर्वो जनो जगति वयसः
सदृशम् आचरति, तव पुनः विसदृशानुष्ठाने कोयं प्रयत्नः ?
यदियं मालतीमालेव कण्ठप्रणयैकयोग्या तनुः अनुचितेन
अनेन तपःकरणक्लेशेन ग्लानिम् उपनीयते ॥ इति-
अहं तु तं वदन्तमपि किञ्चिदपि अपृष्ट्वा, अन्यतः अगच्छम्
गत्वा च तरलिकाम् आहूय अब्रवम् ॥ तरलिके-योऽयं युवा
कोऽपि ब्राह्मणाकृतिः, अस्य अवलोकयतः वदतश्च अन्य
एव अभिप्रायः मया उपलक्षितः ॥ तत् निवार्यतामयम् ॥
यथा पुनरत्र नागच्छति ॥ अथ निवारितोप्यागमिष्यति,
तदा अवश्यमेव अस्य अभद्रकं भविष्यति इति ॥ स तु
निवार्यमाणोऽपि नात्याक्षीदेव अनुवन्धनम् ॥
अतीतेषु केचित् दिवसेषु, एकदा गाढायां यामिन्याम्
सः माम् उपसृत्य अब्रवीत-"चन्द्रमुखि ! हन्तुम् उद्यतः
अयं कुसमसायकः ॥ तत् शरणम् आगतोस्मि ॥ रक्ष
माम्

माम् आत्मप्रदानेन इति । अहं तु तदाकर्ण्य, क्रोधावेग रूक्षारम्
अवदम् । आः पाप ! कथम् एवं वदतः माम् उत्तमाङ्ग न
निपतितं बज्रम् । अवशीर्णा वा न सहस्रधा जिह्वा । इत्युक्त्वा
चन्द्राभिमुखी भूत्वा-भगवन् लोकपाल ! यदि मया देवस्य
पुण्डरीकस्य दर्शनात् प्रभृति, मनसापि अपरः पुमान् न
चिन्तितः, तदा अयम् अलीककामी अनिरूपितस्थानास्था-
नवादी शुकवत् प्रलपन् शुकजातो पततु" इति अवदम्
स च मे वचसोऽस्यानन्तरमेव छिन्नमूलः तरुरिव क्षिती
अपतत् ॥ अथ कृताक्रन्दात् तत्परिजनात्" महाभागस्यैव
मित्रम् असौ" इति श्रुतवती॥
चन्द्रापीडस्य तु तत् आकर्ण्य
आकर्ण्य स्वभावसरसहृदयम्
अस्फुटत् ॥ अथ तरलिका महाश्वेतायाः शरीरम् उत्सृज्य
ससंम्रमं प्रतिपन्नचन्द्रापीडशरीरा "हा देव चन्द्राकृते,
चन्द्रापीड, कादम्बरीमिय, केदानी गम्यते” इत्यार्तनाद
मुमोच । परिजनाश्च, आः पापे दुष्टतापसि! किमिदं त्वया
कृतम् ? तारापीडस्य कुलमुत्सादितम् ॥ अनाथीकृताः
प्रजाः ॥ हा देव चन्द्रापोड ! परित्यज्य सर्वान् एकाकी क
प्रस्थितोसि ? इति करुणम् आचुक्रुशुः ।
अत्रान्तरे पत्रलेखानिवेदितचन्द्रापीडागमना कादम्बरी
महाश्वेतादर्शनं व्याजीकृत्य, पत्रलेखाकरावलम्बिनी
मदलेखया सह तत्रैव आजगाम । तत्र च तत्क्षणोन्मुक्तजीवितं

( ६१ ) चन्दापीडं दृष्ट्वा हा हा किमिदम् इति अधोमुखी धरातलम् उपयान्ती मदलेखया अधार्यत ॥ चिरात् लब्धसंज्ञा कादम्बरी महाश्वेतां कण्ठे गृहीत्वा अवादीत् । प्रियसखि ! तवास्ति काचन प्रत्याशा, मम पुनः हताशायाः सापि नास्ति । तत् आमन्त्रये प्रियसखीम् पुनः जन्मान्तरसमागमाय ॥ अहं पुनः इममात्मानं देवस्य कण्ठलग्ना विभावसौ निर्वापयामि" इत्यभिदधानैव चन्द्रपीडचरणौ कराभ्याम् उपक्षिप्य अङ्कन धृतवती ॥ अथ तत्करस्पर्शेन उच्च्छवसत इव चन्द्रापीडदेहात् झटिति अव्यक्तरूपं चन्द्रधवलं ज्योतिः उज्जगाम-अनन्तरं च अन्तरिक्ष क्षरन्तीव अमृतम् अशरीरिणी वाक् अश्रूयत । वत्से महाश्वेते ! पुनरपि त्वं मयैव समाश्वासयितव्या वर्तसे । तत् ते पुण्डरीकशरीरम् मल्लोके मत्तेजसा आप्याय- मानम् अविनाशि भूयः त्वत्समागमाय विकृत्येव ॥ इदम् अपरं मत्तेजोमयम् स्वत एव अविनाशि विशेषतः अमुना कादम्बरीकरस्पर्शेन आप्यायमानम् चन्द्रापीडशरीरम् अन्त- रात्मना कृतशरीरान्तरसंक्रान्तेः योगिन इव शरीरम् अत्रैव भवत्योः प्रत्ययार्थम् आ-शापक्षयात् आस्ताम् यत्नतः परिपालनीयम् आ-समागमप्राप्तः इति ।। पत्रलेखातु मुहूर्तमिव निश्चेतना सती तस्य ज्योतिपः स्पर्शेन लब्धसंज्ञा उत्थाय आविष्टेव वेगात् धावित्वा, परिवर्धकहस्तात् इन्द्रायुधम् आच्छिद्य, तेनैव सह आत्मानम् , . ( ६२ ) अच्छोदसरसि ..अक्षिपत् । तयोः निमज्जनसमयानन्तरमेव, तस्मात् सरस्सलिला शिरसि जटाकलापम् उद्वहन् उद्विग्ना- कृतिः ताफ्सकुमारः सहसैव उदतिपुत् ॥ उत्थाय च दूरत एव विलोकयन्तीम् महाश्वेताम् उपसृत्य वभाषे ॥ गन्धर्व- राजपुत्रि ! जन्मान्तरात् आगतोऽपि प्रत्यभिज्ञायतेऽयं जनः न वा ? इति ॥ सा त्वेवं पृष्टा. शोकानन्दमध्यवर्तिनी ससंम्रमम् उत्थाय कृतप्रणामा प्रत्यवादीत् ॥ भगवन् कपिञ्जल, नाहम् एवंविधा अपुण्यवंती; या भवन्तमपि न प्रत्यमि- जानामि ॥ वत् कथय-केनासौ-उत्क्षिप्य- नीतः १ कि. वा तव उपजातम् ? येन एतावता कालेन वार्तापि न दत्ता॥ कुतो वा त्वम् एकाकी देवेन-विना समायातः ॥ इति । स तु प्रत्यवादी-॥ गन्धर्वराजपुरि श्रूयताम् अहं हि कृतार्तप्रलापामपि त्वाम् । एकाकिनीम् उत्सृज्य तं पुरुषम: अनुबनन् जवेन उदपतम् । स तु मे प्रतिवचनम् --अदत्वैव अतिक्रम्य तारागणम् चन्द्रलोकम् अगच्छत् । तत्र च महोदयाख्यायां सभायाम् इन्दुकान्तमये महति पर्यक तत् पुण्डरीकशरीरं स्थापयित्वा, माम् अवादीत् ।। कपिञ्जल! जानीहि मां चन्द्रमसम् ॥ अहं खलु अनेन ते प्रियवयस्येन कामापराधात् जीवितम् उत्सृजता निरपराधः संशतः ॥- दुरात्मन् ! इन्दुहतक ! यथाहं त्वया करैः संताप्य, प्राणैः वियोजितः, तथा त्वमपि भारते वर्षेऽस्मिन् जन्मनि जन्मन्येव * -

( ६३ )
उत्पन्नानुरागः असंप्राप्तसमागमसुखः तीव्रतरां, हृदयवेदनाम्
अनुभूय, जीवितम् उत्स्रक्ष्यसि" इति । अहं तु, किमनेन
अगणितात्मदोषेण निरागाः . शतोऽस्मि". ..इत्युत्पन्नकोपः
त्वमपि मत्तुल्यसुखदुःख एव भविष्यसि" इति प्रतिशापम्
अस्मै प्रायच्छम् ॥
अपगतामर्षः विमृशन् महाश्वेताव्यतिकरमस्य अधिगत
वानस्मि ॥ वत्सा हि महाश्वेता, मन्मयूखसंभवात् अप्सरः-
कुलात् लब्धजन्मनि. गौर्याम्.. उत्पन्ना ॥ तया चायं भर्ता
वयं वृतः ॥ अनेन च स्वयं कृतादेव दोषात् मया सह
मर्त्यलोके वारद्वयम् अवश्यम् उत्पत्तव्यम् । अन्यथा जन्मनि
जन्मनि इत्येषा वीप्सा न चरितार्था भवति । तत् यावदय
शापदोषात् अपैति वाव. अस्य शरीरस्य मा विनाशः भूत
इति मया इदम्.. उत्क्षिप्य -समानीतम् ।। वत्सा च. महाश्वेता
समाश्वासिताः ॥ अधुना...त्वं गत्वा एनं. वृत्तान्तम् श्वेतकेतवे
निवेदय ।। महाप्रभावोऽसौ कदाचित् अत्र प्रतिक्रियां. कांचित
करोति" इत्युक्त्वा मां व्यसर्जयत् ॥
अहं तु विना वयस्येन शोकावेगान्धः गीर्वाणवर्त्मनि
प्रधावन् अतिक्रोधनं वैमानिकम् एकम् अलङ्घयम् ॥ स तु
दहनिव निरीक्ष्य अब्रवीत् ॥ "दुरात्मन् ! यदेवम् अति-
विस्तीर्णे गगनमार्गे त्वया अहं तुरङ्ममेणेव उल्लसितः, तस्मात्
तुरङ्गम एव भूत्वा मर्त्यलोके अवतर" इति। अहं तु तं

- ( ६४ ) दम् । भगवन् ! वयस्यशोकान्धेन त्वं मया या। तत्प्रसीद । उपसंहर शापम् इमम् हात । स तु मां पुनः अवादीत्-"यन्मयोक्तं तत् नान्यथा भवितुमर्हति ॥ तदेतत् ते करोमि । कियन्तमपि कालं यस्य वाहनताम् उपयास्यसि, तस्यैव अवसाने स्नात्वा विगत- शापः भविष्यसि इति ॥ एवमुक्तस्तु तमहम् अवदम् भगवन् यद्यवम् ततः विज्ञापयामि ॥ तेनापि मत्प्रियवयस्येन पुण्डरीकेण चन्द्रमसा सह शापदोषात् मर्त्यलोक एव उत्पत्तव्यम् । तत् एतावन्तमपि भगवान् प्रसादं करोतु मे दिव्येन चक्षुषा अवलोक्य; यथा- तुरङ्गमत्वेपि मे प्रियवयस्येन सह अवियोगेन कालः याया" इति। स तु एवम् उक्तः मुहूर्वमिव ध्यात्वा पुनः माम् अवादी -उज्जयिन्याम् अपत्यहेतोः तपस्यतः तारापीडनाम्नः राज्ञः चन्द्रमसा तनयत्वम् उपगन्तव्यम् ॥ वयस्येनापि ते पुण्डरीकेण तन्मन्त्रिण एव शुकनासस्य ॥ त्वमपि तस्य चन्द्रात्मनः राजपुत्रस्य वाहनताम् उपयास्यसि" इति ॥ अहं तु तद्वचनानन्तरमेव अधः स्थिते महोदधौ न्यपतम् ॥ तस्माच्च तुरङ्गीभूयैव उदतिष्ठम् ॥ संज्ञा तु मे तुरङ्गमत्वेऽपि न व्यपगता" इति ॥ येन अयं मया अस्यैवार्थस्य कृते किं- नरमिथुनानुसारी भूमिम् एताम् आनीतः देवश्चन्द्रमसोऽवतारः ( ६५ ), चन्द्रापीडः ॥ योऽप्यसौ प्राक्तनानुरागसंस्कारात् अभिलषन् अजानन्त्या त्वया शापाग्निना निर्दग्धः स मे वयस्यस्य पुण्डरीकस्यावतारः इति ।। एतत् श्रुत्वा-हा देव पुण्डरीक ! जन्मान्वरेपि अविस्मृत- मदनुराग ! लोकान्तरगतस्यापि ते अहमेव राक्षसी विनाशायो- पजाता । इत्युन्मुक्तार्तनादां महाश्वेताम् कपिञ्जलः पुनरवादीद गन्धर्वराजपुत्रि ! कस्तवात्र दोषः १ यथा च शापदोषाद इदमुपनतम् भवत्योः द्वयोरपि दुःखम् ; तथा मया कथितमेव । चन्द्रमसोपि भारती भवतीभ्यां श्रुतैव ॥ यदेव भवत्या अङ्गीकृतं तपः; तदेव अनुबध्यताम् इति ॥ अथ कादम्बरी कपिञ्जलम् अपाक्षीत् । भगवन् ! पत्र- लेखया त्वया च अस्मिन् सरसि जलमवेशः कृतः॥ वत् किम् तस्याः संवृत्तम् १ इत्यावेदनेन प्रसादं करोतु भवान् ॥ इति ॥ स तु प्रत्यवादीत् ॥ राजपुत्रि! सलिलपाता- नन्तरम् न कश्चिदपि तवृत्तान्तः मया ज्ञातः॥ तत् अधुना "क चन्द्रापीडस्य जन्म १॥ वैशम्पायनस्य १ कि वास्याः पत्रलेखायाः वृत्तम् ? सर्वस्यास्य वृत्तान्तस्य अवगमनाय भगवतः श्वेतकेतोः पादमूले गमिष्यामि । इत्यभिदधान एव गगनम् उदपतत् ॥ अथ कादम्बरी तां निर्विकारवदनाम् चन्द्रापीडवनम् कस्मिंश्चित् शिलातले स्थापयित्वा स्नानशुचिः भूत्वा ( ६६ ) देवतोचिताम् अपचितिं संपाद्य, निराहारा दिवसम् अनयत् ।। यथैव दिवसम् , तथैव मेयोपरोषयीमाम् क्षपामपि समुपविष्टैव क्षपितवती ॥ अन्येधुश्च महाश्वेतया उपनीतानि फलानि तया सहैव उपभुक्तवती ॥ अथ च मदलेखाम् अवादीत्- प्रियंसखि ! देवस्य शरीरम् इदम् उपचरन्तीभिः अस्माभिः आ-शापक्षयात् अत्र स्थातव्यम् ॥ तत् इमम् अत्यद्भुतं वृत्तान्तम् तातस्य अम्बायाश्च गत्वा निवेदय। यथा माम् एवंविधाम् आगत्य न पश्यतः, तथा करिष्यसि ॥ इत्यभि- घाय ताम् व्यसर्जयत् ॥ गत्वा आगतया च तया, "प्रियसखि । सिद्धं ते अभिवाञ्छितम् । एवं सन्दिष्टम् तातेन अम्बया च-शापावसाने जामात्रा सहैव आनन्दवाष्पनिर्भरम् आननम् ते द्रक्ष्यावः। इति आवेदिते निवृतेन अन्तरात्मना अतिवृत्॥ अत्रान्तरे चन्द्रापीडः चिरयति इति उचाम्यता तारापीडेन वार्ताहराः पहिताः। ते च कादम्बरीमुखात् सर्व वृत्तान्तम् अधिगम्य प्रतिनिकृत्य तारापीडाय राज्ञ यथा दृष्टं यथा श्रुतं च सर्वम् निवेदयामासुः ॥ श्रुत्वा च विस्मयेन कुतूहलेन शोकेन चाविष्टम् तारापोडं शुकनासः प्रोवाच- देव विचित्रेस्मिन् संसारे किं किं न संभाव्यते। सर्वम् आगमप्रामाण्यात् अभ्युपगतमेव. ॥ , मुद्राबन्धात् ध्यानाद्वा विर्षभसुप्तस्य उत्यापनम् । अयस्कान्तस्य चायस्स- THAN "ME ARJum P अभ

( ६७ )
माकर्षणम् ॥ वैदिकैः अवैदिका मन्त्रैः कर्मसु सिद्धिः॥
आगमेषु व पुराणरामायणभारतादिषु बहुप्रकाराः शापवार्ताः
श्रूयन्ते । तद्यथा-नहुषस्य राजर्षेः अगस्त्यशापात् अजगरता
सौदासस्य वसिंधुसुतशापात् मानुषादत्वम् ॥ ययातः
असुरगुरुशापात् तारुण्य एव जरसा भङ्गः॥ त्रिशङ्कोः
पितृशापात् चाण्डालभाव इति। श्रूयते च स्वर्गलोकनिवासी
महाभिषः भूमौ शन्तनुः उत्पन्नः, गङ्गायाम् वसूनाम् अष्टानाम्
उत्पत्तिः॥ तिष्ठन्तु तावदन्ये ॥ अयमादिदेवः भगवान्
अज एव जमदग्नेः आत्मजताम् उपगतः ॥ पुनश्चतुर्धा
आत्मानं विभज्य राजर्षेः दशरथस्य तथैव मथुरायां वसुदेवस्य
तन्मनुग्येषु देवानाम् उत्पत्तिः नैवासंभाविनी ॥ अपि च ।
गर्भारम्भसंभवे देव्या वदने विशन् चन्द्रमा एवं दृष्टः तथा
ममापि स्वप्ने पुण्डरीकस्य दर्शनम् समुपजातम् विनष्टयोः
तयोः कथं पुनः जीवितपतिलम्भः? इत्यत्रापि अमृतमेव
कारणम् आवेदितम् ॥ तच चन्द्रमसि विद्यते ॥ तद् अस्मिन्
वस्तुनि न मनागपि शोकः कार्यः" इत्युक्तवति शुकनासे
संशोक एव राजा सद्य एव गमनसंविधानम् अकारयंत् ।।
अथ उत्ताम्यता हृदयेन राजा संततम् अविच्छिन्नः
प्रयाणकैः आससाद महाश्वेताश्रमम् । अथ सहसैव तत्
चन्द्रोपोंडगुरुजनागमनम् आकर्ण्य, धावित्वा हिया महाश्वेता
गुहाभ्यन्तरमविशत चित्ररथतनयापि लज्जावनम्रमुखी
MAP

( ६८ ) प्रविपत्तिमूढा परवत्येव मदलेखया यथाक्रमम् अकार्यत वन्दनं गुरूणाम् । नरपतिस्तु अनतिक्रमणीया नियतिरिति कृत्वा संनिहितान्यपि परित्यज्योसर्वसुखानि तपस्विजनोचिताः क्रिया कुर्वन् सपरिवारः समं देव्याः शुकनासेन च तत्रैव अतिष्ठत् । एवं कथयित्वा भगवान् जाबालि: स्मितं कृत्वा हारीत- प्रमुखान् सर्वान् अवादीत् दृष्ट कथारसस्य चित्ताने- पसामर्थ्यम् । यत् कथयितुं प्रवृत्तोऽस्मि तत् परित्यज्यैव कथारसात् अतिदूरम् अतिक्रान्तोऽस्मि ॥ यः स कामोप- हतचेताः स्वयं कृतादेव अविनयात् दिव्यलोकतः परिमेश्य, मर्त्यलोके वैशम्पायननामा शुकनाससूनुः अभवत्, स एवैष पुनः स्वयंकृतेन अविनयेन अस्यां शुकजातौ पतितः इति । एवं वदत्येव भगवति जाबालौ सुप्तप्रबुद्धस्येव मे पूर्वजन्मोपार्जिताः सर्वाः विद्याः जिहाग्रे अभवन् ॥ मनुजस्येव चेयं विस्पष्टा भारती समुत्पन्ना॥ मनुष्यशरीरात् ऋते सर्वमन्यत् महाश्वेतानुरागादिकम् उपगतम् ॥ अथ भगवान् जाबालि: "अहो प्रभातपाया रजनी" इत्युक्त्वा गोष्ठी भक्त्वा उदतिष्ठत् ॥ उत्थिते जावालौ समस्तैव सा परिषत् यथास्थानं जगाम ॥ हारीतस्तु माम् आत्मपर्णशाला नीत्वा स्वशय- नीयैकदेशे स्थापयित्वा माभातिकक्रियाकरणाय निर्ययौ ।

( ६६ ) अथ कपिञ्जलः मम पितुः श्वेतकेतोः पादमूलात् आगत्य, हारीते नतेन प्रवेशितः करद्वयेन उत्क्षिप्य माम् भूयसा मन्युवेगेन अरोदीत् ॥ अहं तु तम् अवदम्-सखे कपिञ्जल ! धन्योसि बालोपि त्वं न स्पृष्ट एव अमीभिः संसारदोषैः ॥ उपविश्य वावत् कथय यथावृत्तम् । अपि कुशलं तातस्य मद्वृत्तान्तम् आकर्ण्य किमुक्तवान् ॥ कुपितो वा न वा इति ।। स त्वेवम् आख्यातवान् ॥ सखे ! कुशलं तातस्य, अयं च अस्मद्वृत्तान्तः प्रथमतरमेव तातेन दिव्येन चक्षुषा द्रष्टः । दृष्ट्वा च प्रतिक्रियायै कर्म मारब्धम् ॥ समारब्धे एव कर्मणि तुरगभावात् विमुक्तः गतोस्मि तस्य पादमूलम् ॥ गत्वा च भयात् अनुपसर्पन्तं माम् आहूय आज्ञापितवान्-"वत्स कपिञ्जल! परित्यज्यतां स्वदोषशङ्का । बलवती हि भवितव्यता ॥ शुकजातौ इदानीं सुहृद ने पतितः ॥ तत् गत्वापि तम् अघ नैवं वेत्सि ॥ नाप्य- सौ त्वां वेत्ति । मया तु वत्सस्य कृते समारब्धम् आयुष्करं कर्म ॥ अधुना सिद्धमायमेवेदम् ॥ तत् अत्रैव तावत् स्थीयताम्" इति ।। अथ च प्रातरेव आहूय माम् आशा- पितवान् ॥ वत्स कपिञ्जल ! महामुनेः जाबाले. आश्रमं सुहृत् ते प्राप्तः ॥ जन्मान्तरस्मरणं चास्योपजातम् ॥वद गच्छ संप्रति तं द्रष्टुम् ॥ मदीयया च आशिषा अनुरक्ष वक्तव्योऽसौ ॥" वत्स! यावदिदं कर्म परिसमाप्यते ताव त्वया अस्मिन्नेव जाचालेराश्रमे स्थातव्यम् इति।

( ७० ) इत्युक्त्वा कपिञ्जलः क्षणमिव स्थित्वा " सखे व्रजामि" इत्युक्त्वा अन्तरिक्षम् अतिक्रम्य कापि अदर्शनम् अगात् ।। गते च तस्मिन् , हारीतेन प्रतिदिनम् आहारादिभिः उपचारैःसंवध्यमानः संजातपक्षोऽभवम् ॥ उत्पनोत्पतनसामर्थ्य श्च गमनक्षमस्तु संवृत्तोऽस्मि ॥ नास्ति चन्द्रापीडोत्पत्ति- परिज्ञानम् ॥ महाश्वेता पुनः सैवास्ते ॥ भवतु, तत्रैव गत्वा तिन्ठामि" इति निश्चित्य एकदा प्रातर्विहारनिर्गत एव उत्तरां ककुभं गृहीत्वा अवहम् ॥ अनभ्यस्तगमनतया स्तोकमेव गत्वा शिथिलितपक्षतिः कस्यचित् सरस्तीरतरुनिकुञ्जस्योपरि आत्मानम् अमुञ्चम् ॥ ततश्च अध्वश्रमसुलभविनिद्राम् अगच्छम् ॥ चिरादिव लब्धप्रबोधः बद्धम् आत्मानम् अपश्यम् । अग्रतश्च कालपुरुषमिव परुषं पुरुषम् अद्राक्षम् । आलोक्य च तम् आत्मनः उपरि निष्प्रत्याश एव अपृच्छम्- भेद्र ! कस्त्वम् १ 'किमर्थं वा त्वया बद्धोऽस्मि ? इति ॥ से माम् उक्तवान् --महात्मन् ! अहं खलु जात्या चाण्डालः ॥ मम खलु स्वामी पकणाधिपतिः इतः नातिदूरे कृतावस्थानः ।। तस्य दुहिता प्रथम वयसि वर्तते ॥ तस्याः त्वं केनापि दुरात्मना कथितः ।। तया च कौतुकात् त्वद्ग्रहणायं बहवः मादृशाः समादिष्टीः ॥ तत् अध पुण्यैः मया आसादितोऽसि ।। तदहं तत्पादमूल स्वा.प्रापयामि ॥ बन्धे मोंक्षे वा सा प्रभवति" इति । अह तत् श्रुत्वा चेतस्यकरवम् ॥ अहो मे Na4m PRAISA मया । आ: ( ७१ ) मन्दपुण्यस्य दारुणः कर्मणां विपाकः ॥ येन जगत्रयनमस्यस्यं भगवतः श्वेतकेतोः स्वहस्तसंवर्धितेन भूत्वा, अधुनापक्कणमपि प्रवेष्टव्यम् ॥ चाण्डालैः सह एकत्र स्थातव्यम् । चाण्डालबालजनस्य क्रीडनीयकेन भवितव्यम् ॥ जरन्मातङ्गाङ्ग- नाफरोपनीतैः कवलैः आत्मा पोषगीयः ॥ इत्येतान्यन्यानि व चेतसा विलपन्तं माम् आदाय स चाण्डालः सर्वपापानाम् आवासभूतम् . अतिभयंकरसंनिवेशं पक्कणं प्रविश्य, तस्यै चाण्डालदारिकायै दर्शितंवान् ॥ सा तु प्रहृष्टवदना स्वकरयुगेन आदाय माम पुत्रक ! प्राप्तोऽसि" इत्यभिदधानैव मनाक् उद्घाटितद्वारे दारुपञ्जरे माम् आक्षिप्य अर्गलितद्वारा, "अत्रैव नित ति" इत्यभिधाय तूष्णीम् अस्थात् ॥ अहं तु तथा संरुद्धः वेवस्यकरवम् - अहो महासंकटे पतितोऽस्मि ॥ सर्व एवायम् अंनियतेन्द्रियत्वस्य दोषः। तत् सन्द्रियाण्येव नियमयामि ॥ इति निश्चित्य मौनग्रहणम् अकार्षम् ॥. अथ च तया स्वपाणिनोपनीतेषु फलपानीयादिषु क्षुत्पिपासोपशमाय अशनक्रियाम अङ्गीकृतवान् अस्मि । एवम् अतिक्रामति काले, एकदा प्रभातायां यामिन्याम् उन्मीलितलोचनः अद्राक्षमस्मिन् कनकपञ्जरे स्थितम् आत्मानम् ॥ सापि चाण्डालदारिका देबेनापि दृष्टैव ॥ सकलमेव च ते पकणम् अमरपुरसदृशम् औलोक्य, किमेतदिति WU Me ( ७२ ) पष्टुकामं माम् आदाय झटिति देवपादमूलम् आयाता। तत् केयम् ? किमर्थं वाहं बद्धः १ किमर्थम् इह आनीतः ? इत्यत्र अहमपि देव इव अनपगतकुतूहल एव" इति ॥ राजा तु तत् श्रुत्वा, समुपजाताभ्यधिककुतूहल: तदाहानाय प्रतीहारीम् आदिदेश ॥ न चिरादेव प्रविश्य सा पुरस्तात् ऊर्ध्वस्थितैव बभाषे-भुवनभूषण, रोहिणीपते, कादम्बरीलोचनानन्दकर, सर्वस्त्वयास्य दुर्मतेः आत्मनश्च पूर्वजन्मवृत्तांतः श्रुत एव । अहमस्य दुरात्मनः जननी॥ तया पितुः आज्ञाम् उल्लङ्घय वधूसमीपं प्रस्थितम् , एनम् दिव्येन चक्षुषा दृष्ट्वा अस्य पित्रा अहम् आदिष्टास्मि ॥ अयं ते तनयः कदाचित् अस्या अपि तिर्यग्जातेः अधस्ताद पतति ॥ तद्यावदिदं कर्म न परिसमाप्यते; तावदेनं मर्त्यलोके एव बध्वा धारय ॥ तदस्य विनयायेदं विनिर्मित मया ॥ सर्वमधुना तत्कर्म परिसमाप्तम् ॥ शापावसानसमयो वर्तते ॥ शापावसाने च युवयोः सममेव सुखेन भवितव्यम् इति त्वत्समीपमानीतो मयायम् ॥ अत्रापि यचाण्डालजातिः ख्यापिता तत् लोकसंपर्कपरिहाराय ॥ तत् अनुभवतं संप्रति द्वावपि सममेव जन्मजरादिदुःखबहुले तनू परित्यज्य इष्टजनसमागमसुखम् इत्यभिदधानैव सा गमनम् उदपतन अथ राज्ञः तद्वचनम् आकर्ण्य, संस्मृतजन्मान्तरस्य मकरकेतुः जीवितापहरणाय पदं चकार । तामेव कादम्बरीम- ( ७३ ) भिध्यायतः विमुक्तसर्वान्यक्रियस्य सद्यः काष्ठीभूतम् तस्य शरीरम् परांकोटिमधिरूढः कामानलो ददाह । एवमेव महाश्वेतोत्कण्ठया राज्ञा तुल्यावस्थस्य पुण्डरीकात्मनो वैशम्पायनस्य च ॥ तस्मिन्नेव चान्तरे दक्षिणानिलं प्रवर्तयन् मन्मथोल्लासकारी परावर्तत सुरभिमासः ॥ तेन च पर्याकुलित- हृदया कादम्बरी साया स्नात्वा निवर्तितकामदेवपूजा चन्द्रापीडम् सुरभिशीतलैः स्नपयित्वाम्भोभिः विलिप्य हरिचन्दनेन पुष्पैः अलंकृत्य भावाया दृशा सुचिरम् आलोक्य निर्भरं कण्ठे जग्राह ॥ तेन कादम्बरीकण्ठग्रहेण, चन्द्रापीडस्य कण्ठस्थानं पुनर्जीवितं प्रत्यपद्यत ॥ सध एव उच्छ्वसितं हृदयम् ॥ उदमीलचक्षुः एवं च सुप्तमतिबुद्ध इव प्रत्यापन- सर्वाङ्गचेष्टा चन्द्रापीडः कादम्बरी दोाम् आवघ्नन् अवादी-भीरु ! परित्यज्यतां भयम् ॥ प्रत्युज्जीवितोऽस्मि तवैव अमुना कण्ठग्रहेण । त्वं खलु अमृतसंभवात् अप्सरसा कुलात् उत्पन्ना। अद्य स मे व्यपगतः शापः । परित्यक्ता सा शूद्रकाख्या तनुः ॥ अपि च-प्रियसख्या अपि ते महाश्वेतायाः प्रियतमो ममैव सह विगतशापः संवृत्तः । इति अभिदधत्येव चन्द्रापीडशरीरान्तरितवपुषि चन्द्रमास, तथैव कण्ठेन एकावलीम् धारयन् अम्बरतलात् अवतरन् अदृश्यत कपिञ्जलकरावलम्बी समुत्सृष्टशुकशरीरः पुण्डरीकः॥

( ७४ ) चन्द्रापीडस्तु तं कण्ठे गृहीत्वा अब्रवीत्-सखे पुण्डरीक, प्राग्जन्मसंवन्धात् जामातासि ॥ अनन्तरजन्माहितेन सौहृदेन मया सह वर्तितव्यं भवता इति ॥ अथ मदलेखा धावमाना निर्गत्य मृत्युंजयज़पव्यग्रस्य तारापीडस्य विलासवत्याश्च...पादयोः पतित्वा “देव ! दिष्टया वर्धसे ; प्रत्युज्जीवितः युवराजः समं वैशम्पायनेन, इत्युच्चैर्जगाद । राजा तु तत् श्रुत्वा हर्षपरवशः विलासवत्या शुकनासेन च सह. तत्रैव आगच्छत् । चन्द्रापीडस्तु पितरम् आलोक्य चरणयोः . अपवत् । स तु सत्वरांपसृतः तथा प्रणवम् उन्नमय्य तम् तारापीडोऽभ्यधात् ॥ पुत्र, यद्यपि पिता अहं तव शापदोषात् संजातः, तथापि जगद्वन्दनीयः लोकपाल: त्वम् ॥ मय्यपि. नमस्यो योशः, सोऽपि मया ... त्वय्येव संक्रामितः । तत् उभयथापि त्वमेव नमस्कार्यः इत्युक्त्वा प्रतीपरस्य पादयोः अपतत् । विलासवती तु-तं पुनः शिरसि पुनर्ललाटे पुनश्च कपोलयोः चुम्बित्वा गाढतरम् आलिलिङ्ग ॥ जन्मुक्तश्च मात्रा उपमृत्य पुनः पुनः कृतनमस्कारः शुकनासं प्रणनाम ॥ ..आशीस्सहस्राभिवर्धितश्च तेन, आत्मनोपमृत्य यथानुक्रम पित्रोःशुकनासस्य. मनोरमायाश्च एष बो. वैशम्पा- यनः इति पुण्डरीकम् अदर्शयत् ॥ तस्मिन्नेव च प्रस्तावे समुपसृत्य कपिञ्जलः शुकनासम् अब्रवीत् एवं संदिष्टम् आर्यस्य भगवता श्वेतकेतुना ॥

( ७५ )
" अयं खलु पुण्डरीकः संवर्धित एव केवलं मया ॥ आत्मजः
पुनस्तव । अस्यापि भवत्स्वेव लग्नः स्नेहः ॥ तद वैशम्पायन
एवायम् इत्यवगत्य अविनयेभ्यः निवारणीयः ॥ : परोऽयम्
इति कृत्वा. नोपेक्षणीयः" इति ॥ .. शुकनासश्च तथेति.
प्रत्यग्रहीद ॥
अथ केयूरकेण विदितवृत्तान्तौ चित्ररथहंसौ. मदिरा-
गौरीभ्यां समं तत्रैवाजग्मतुः ॥ आगतयोश्च तयोः
तारापीडशुकनासाभ्यां सम्बन्धकोचितकथया सहस्रगुण इव
महोत्सवः प्रावर्तत ॥ अथ ते सर्वेपि हेमकूटं गत्वा दंपत्योः
उभयोरपि विवाहक्रियाः यथाविधि निरवर्तयन् ॥ चित्ररथः
कादम्बर्या सह समग्रमेव स्वं राज्यं चन्द्रापीडाय न्यवेदयत् ॥
पुण्डरीकायापि समं महाश्वेतया निजपदं हंसः॥ कादम्बरी
तु हृदयवल्लभलाभेऽपि विषण्णमुखी चन्द्रापीडम् अप्राक्षीत् ।
आर्यपुत्र ! सर्वे खलु वयं मृताः प्रत्युज्जीविताः पुनः
सङ्घटिताश्च ।। सा पुनः वराकी पत्रलेखा अस्माकं मध्ये न
दृश्यते ॥ न विद्मः किम् तस्याः वृत्तम् ? इति ॥ स तु
प्रत्यवादी-सा हि रोहिणी शतं माम् उपश्रुत्य " कथं त्वम्
एकाकी मर्त्यलोकनिवासदुःखम् अनुभवसि ?" इत्यभिधाय,
निवार्यमाणापि मया मत्परिचर्याय मर्त्यलोके जन्माग्रहीत् ॥
इतश्च जन्मान्तरं गच्छता मया पुनः आत्मलोकं विसर्जिता"
इति ॥ तत्र पुनः तां द्रक्ष्यसि इति ॥

एवं च चन्द्रापोडः तत्र दशरात्रं स्थित्वा परितुष्टहृदयाभ्यां
श्वशुराभ्यां विसर्जितः पितुः पादमूलम् आजगाम । आगत्य
च पुण्डरीके समारोपितराज्यभारः, कदाचित् उज्जयिन्याम् ,
कदाचित् हेमकूटे, कदाचित् चन्द्रलोके, कदाचित् अपरेष्वपि
रम्यतरेषु स्थानेषु निवसन् सुखम् अनुबभूव । एवं चन्द्रापीडः,
कादम्बरी, पुंडरीकः महाश्वेता इत्येते सर्वेऽपि परस्परावि-
योगेन परां कोटिम् आनन्दस्य अभ्यगच्छन् ।
अनन्ताचार्यनामासौ
नल्लानभिजनः सुधीः ॥
जग्रन्थ बाणभट्टस्य
वाक्यैरेव कथामिमाम्॥
इति चन्द्रापीडकथा
संपूर्णा ।

GLOSSARY 1 " " . कात्स्न्येन 7 l'age. Line Words Meanings. 2 असकृत् Repeatedly. 5 पराङ मुखः Disinclined towards. 6 आस्थानमण्टप Assembly hall, दक्षिणापथात् From southern region. 13 आर्याम् Arya metre 17 Fully 2 in Danka- दण्डकारण्यान्तः- Included पाति ranys. 8 परिगतम् Encircled. 10 शाल्मलीवृक्षः Silk cotton tree. कोटर Hollow of a tree. 18 उदचलत् Arose 5 अपनिनीषुः Desiring to remove. 8 मृणालिकाः Lotus-stalks. 17 उद्भ्रान्ततारकां ( Eyes) with pupils whirling around. 4 उपरतम् Dead ". " " 3 7 ( २ ) म " -- Page. Line. Words. Meanings. 4 8 विप्रकीर्णान् Lying scattered. 9 पिपासा Thirst. 10 सिष्णासुः Desiring to bathe. 7 आयामिनीभिः Extended; long. 8 कूर्चकलापम् Beard. 6 उद्भिन्नपक्षतिः When wings grow. 6 उपनाथितवती Requested. 15 अविषण्णधी: Unfaltering mind. 7 2 महाकालम् God Siva. 15 अवितथफलाः Proving true. 20 मौहर्तिक Astrologer. 16 अनुशिप्रम् Near the river Sipra. 9 6 शकुनिरुतज्ञाने In the science of the language of birds. 9 महाप्राणता Strength. 10 2 बलाधिकृतं An army-officer. संपिरिडतेन Enumerated, all told. 19 सदैवतैव- With divine personality. 12 9 बन्दीजनेन Along with prisoners. 15 चापलेभ्यः From fickleness " " 00 8 " " ( ३ ) " " " 6 आविष्ठः इव Page. Line Words. Meanings. 13 त्रिशंकु तिलकां South. वरुणलाञ्छनां West. 17 सप्तर्षिताराशवलां North. 14 अत्युच्छ्रितम् Very high. 13 As if possessed by a suirit. 15 विच्छिन्नम् Separated. 15 13 प्रतीपम् Opposite direction. 16 5 स्त्रस्तरम् A couch. 17 10 एकान्तावलम्बित Hanging in one corner. विशाखिका An iron rod 15 सप्रश्रय With regard 21 6 व्यतिकर Nappening. 14 तुराण Practised. 22 एकावलीम् A single string of pearls. 25 15 किंकर्तव्यतामूढः Not Knowing what to do. 26 2 प्रणयभङ्गः Ignoring a request. 27 17 एकताराक्रन्दा Weeping aloud COIL tinuously 28 18 आहतः Affectionate. 30 दृढाध्यवसायां Firm in her decision 31 . संस्थाप्य Consoled. 1 6 ( ४ ) Page. Line. Words. 33 21 पेशल: 35 14 प्रागल्भ्येन 38 5 मरकतग्राब्णि Meanings. Clever ; charming. By daring. On the Green Stone ( emerald'). Royal retinue. With smiling face. Trouble. 40 4 41 20 41 21 43 12 Chamberlain. राजचक्रम् स्मेरानन कदर्थना वर्षवरम् आसन्दिका विस्फोटव्रण सप्तसप्तिः धनविसरैः 44 10 47 5 18 48 4 48 16 रणरणक 49 13 प्रमदवन A small cane chair Marks of Small.pox The sun. By throwing some money. Mental anxiety. Royal garden for the ladies attached to private apartments of the palace. Reproachable Status. Love letter. Liability to be blamed. Perseverance. 21 गर्हणीयता मदनलेख 50 8 17 " वक्तव्यता 51 3 ग्रहः " ऊरुदन्नन " " ( ५ ) Paye. Line. Words. Meanings. 20 मर्यादावशात् By Keeping of Morality. 52 4 Thigh deep. द्रुघण Hammer. 54 4 परागतः Returned. 18 अनुपदम् Closely behind. 4 परिच्छेदनिष्ठुरम् In a conclusively harsh manner. 19 शम्बल Stock of Provisions for travelling. 58 8 ढौकितम् Driven. 12 दवीयस्तया Owing to being very distant. 59 19 अनुबन्धनम् Porsuasion. 60 6 स्थानास्थान Proper or improper. 61 21 परिवर्धक A Groom. 63 6 व्यतिकर Contact. 64 2 उपसंहर Withhold. 19 संज्ञा Recollection of birth. 65 1 प्राक्तन Relating to former birth. 110 अनुबध्यताम् Let be continued. " " " ( ६ ) 20 निर्विकार Unchanged. Page. Line. Words. Meanings. 66 1 अपचिति Worship. 20 आगमप्रामाण्य Authenticity of traditions. 67 14 प्रतिलम्भ Getting back 68 7 चित्ताक्षेपसामर्थ्यम् Power of entliralment of mind. 12 भवितव्यता Fate, 70 9 शिथिलित Being tired. 71 4 क्रोडनीयक 74 12 नमस्य Venerable. 75 2 Attached. A toy. मुद्रक-मुन्शी रमजान अली शाह, नेशनल प्रेस प्रयाग १ म २५३

No text on this page.

Chandrapeeda Katha

Author
Pandit_v_ananthacharya
Other authors
Ccl
Title
Chandrapeeda Katha
File name
Chandrapeeda Katha
Text
OCR done
Citation
1946
Publisher
Ram_narainlal
Language
Sanskrit
Pages
88
Library
Scl
DLI number
326172
Barcode
2020010004644.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
DOLP8IkoKsX
Download PDF

Chandrapeeda Katha