Ramkrishna Mission Institute Of Culture, Golpark
Mitragoshthi Patrika (1905-06) Vol. 2, No. 1-12
Front matter
No text on this page.
No text on this page.
No text on this page.
"संहतिः कार्यसाधिका"। मित्रगोष्ठी-पत्रिका मासिकं संस्कृतपत्रम्। 340 सङ्गच्छध्वं संघद संबो मनांसि जानता "समानो मन्नः समितिः समानी समानं मनः सह चित्तमेषाम्" ऋग्वेदः । - . तीये वर्षे } १४२७ शकाब्दाः, वैशाखः। { प्रथम संख्या . मङ्गलम्। शं नो देवा विश्वदेवा भवन्तु, शं सरस्वती सह धीभिरस्तु १॥ शं नो मित्रः, शं वरुणः, शं विष्णुः, शं प्रजापतिः । शं नो इन्द्रो वृहस्पतिः, शं नो भवत्वयंमा ॥२॥ शं नो मित्रः, शं वरुणः, शं विवस्वांछमन्तकः । उत्पाताः पार्थिवान्तरीक्षाः, शं नो दिविचरा प्रहाः॥३॥ शं नो ग्रहाश्चान्द्रमसाः, शमादित्यश्व राहुणा । शं नो मृत्युधूमकेतुः, शं रुद्रास्तिग्मतेजसः ॥ ४ ॥ शं रुद्राः, शं वसवः, शमादित्याः, शमन्नयः । शं नो महर्षयो देवाः, शं देवाः, शं वृहस्पतिः॥५॥ ब्रह्म प्रजापतिर्धाता लोका वेदाः सप्तऋषयोऽग्नयः । तैमें कृतं स्वस्त्ययनमिन्द्रो मे शर्म यच्छतु, ब्रह्मा में शर्म यच्छतु ॥६॥ मयं नः * करत्वन्तरीक्षमभयं द्यावापृथिवी उभे इमे। भभयं पश्चादभयं पुरस्तादुत्तरादधरादयं मो मन करतु-कादित्यर्थः । LIBRARY . . . IASTI १ AN CULT JHA । मित्रगोष्ठी-पत्रिका। अभयं मित्राभयममित्रादभयं ज्ञातादभयं पुरो यः । अभयं नक्तमभयं दिवा नः, सर्वा आशा मम मित्रं भवन्तु ॥ ८ ॥ पृथिवी शान्तिरन्तरोक्षं शान्तिधौँ: शान्तिरापः शान्तिरोषधयः शा. न्तिवनस्पतयः शान्तिविश्वे मे देवाः शान्तिः, सर्वे मे देवाः शान्तिः, शान्तिः शान्तिः शान्तिभिः। ताभिः शान्तिभिः सर्वशान्तिभिः शमयामोह • यदिह घोरं यदिह क्रूर यदिह पापं तच्छान्तं, तच्छिवं सर्वमेव शमस्तु नः ॥ ९ ॥ :०: शुक्तिरजतम्। नूनं बहुभिरेव निरीक्षितं स्यात-चन्द्रमसः सुनिमलैः किरणक- लापै_लिते भुवनमण्डले पुर:पतितं शुक्तिकाखण्डम्, अथवा तादृश. मेषापरं किमपि समुज्ज्वलं वस्तु सपदि रजतरूपेणावभासते एवं क्षीणालोकमध्यवर्तिनो रज्जुप्रभृतयः सर्पादिरूपेण प्रतिभान्तोति । तदेतत् कथं भवतोत्यस्मदीयानां दार्शनिकानामतमनुसृत्य किञ्चित प्रदर्शयितु यतिप्यतेऽस्मिन् सन्दर्भ । एकस्मिन् घस्तुनि अपरस्य वस्तुन आरोपोऽध्यास इत्युच्यते । यस्मिन् आरोप्यते तदधिष्ठानम्, यत् पुनरारोप्यते तदारोप्यम् । यथा-शक्तिकायां रजतमारोप्यत इति शुक्तिका अधिष्ठानम्, रजत- मारोप्यम् । यद वस्तु प्राक् कथमपि न ज्ञातम्, न तदारोपयितु शक्यते, यो हि पूर्व रजतस्वरूपं नाजानात न तदा तस्य शक्तिका रजतवद अघ. भासेत। अत आरोपात् पूर्वम्, आरोग्यस्य ( रजतादेः ) ज्ञानमाव- श्यकम्। वयं शमयामः- अपगमयाम इत्यर्थः इति सायणः । एतत्सर्वम् अथर्वसंहिताया ऊनविंशकाडतः संगीतम् । .
शाक्तरजतम्। भारोपाधिष्ठान (शुक्तिकादि ) सामान्यविशेषरूपेण दूधा विभ. ज्यते । तत्र यदा सामान्यांशस्य ज्ञानम्, विशेषांशस्य चाज्ञानं स्यात् तदाध्यासो भवेत् । प्रकृते-"इयं शुक्तिकेति" ज्ञानविषयभूतायाः शु. क्तिकाया द्वौ अंशौ-इदन्त्वरूपः, शुक्तित्वरूपश्च, इदन्त्वांशः सामा न्यम् । ( अयं घटः, अयं पट इत्यादौ सर्वत्रैव इदन्यांशस्यानुगमनात,) शक्तिस्वरूपश्च विशेषः ( अन्यत्रास्याननुगमनात् । तत्र 'इदम् । (किञ्चित् ) इत्यस्य । इदन्त्वरूपस्य सामान्यांशस्य ज्ञाने, 'शुक्तिकेति' विशेषांशस्याज्ञाने च शुक्तिकायां रजतमध्यस्यते । यदि शक्तित्वरूपस्य विशेषांशस्यापि ज्ञानमेव स्यात; न त्वज्ञानं, न तदा अध्यासः सम्भ. घेत् । स्थाणुर्यदि स्थाणुत्वनैव विज्ञातः, न तर्हि तन कस्यचित् पि- शाचबुद्धिरुत्पद्यते। यथाच शुक्तित्वरूपस्य विशेषांशस्याज्ञानादेवाध्यासः, न तु ज्ञा- नात्, एवम् इदन्त्वरूपस्य सामान्यांशस्य ज्ञानादेवाध्यासः, न त्वज्ञा. नात अधिष्ठाने सामान्यतोऽप्यज्ञाते कुत्र, किमारोप्येत, किमिति शुक्ति. कायामेव रजतमारोप्यते, न तु तत्समीपस्थेऽप्यपरस्मिन् वस्तुनि । पुरोवत्तिन्यां शुक्तिकायां रजत आरोपिते इदंरजतम् इति ज्ञानं जायते। यावत किञ्चन लोके ज्ञानमस्ति अपश्यं तस्य स्यादेवेकेको विषयः, यथा-घटज्ञानपटज्ञानयोर्यथाक्रमं घटः पटश्च विषयः अतः 'इदं रज- तम्' इत्यस्यापि ज्ञानस्य अवश्यं कोऽपि विषयो वक्तव्य एव । तत्र न रजतं तस्य ज्ञानस्य विषयः सम्भवति, तस्यासद्भावात, न हि तदानों तन रजतमस्ति । यधु च्यते-मा नाम तत्र रजतमस्तु, देशान्तरे तु तदस्त्येव, तदेव तस्य ज्ञानस्य विषयो भवेदिति। तन्न सम्भवति; तदानों तस्य रजतस्य चक्षुरिन्द्रियेण सन्निकर्षाभावात;-नहि इन्द्रि- यानिकृष्टस्यापि पदार्थस्य प्रत्यक्षं ज्ञानं भवति-नहि " इदं लण्डन- नगरम्” इत्यस्माकं प्रत्यक्ष ज्ञानं जायते; कुतः? तेन नगरेण सह . • अन्न बहूगि मतान्तराणि सन्ति, तानि क्रमेण वाक्ती भविषान्ति ।
। मित्रगोष्ठी-पत्रिका। गरमचक्षुषः सम्बन्धाभावात् । अतो न देशान्तरस्थमपि रजतं सज ज्ञानविषयः। यदि पा कश्चित (ज्ञानलक्षणया) स्वीक्रियतेऽदि सत्रिकर्षः (चक्षुषा देशान्तरोयरजतस्य ), न तदा "इदं रजतम्' इति शानं भवेत, अपितु " तद रजतम्" इत्येव । अथोच्यते-शुक्तिकाया लोचनेन सन्निकर्षे सति तथाकचिक्या. दिदर्शनेन देशान्तरस्य रजतस्य "रजतम्' इति स्मृतिर्भवति, भवति च लोचनस्य अपाटवादिदोषेण पुरःस्थितायाः शुक्तः केवलम् इदम् इति इदन्त्वरूपसामान्यांश ज्ञानम् । तदुभयं ज्ञानं मिलितं सत् 'इवं. रजतम् ' इति भवतीति। नेदमपि शुक्तम्, तथाहि-शक्तिकादौ रज- ताद्यध्यासस्थले 'इदं रजतं पश्यामोति' प्रत्यक्षरूपमेव शानं जायते भवन्मते तु न तथा सम्भवति । देशान्तरस्य रजतस्य यदि स्मरणं स्यात, तहि 'रजतं स्मरामि' इत्येव ज्ञानं स्यात्, न तु 'रजतं पश्या- मोति' । वस्तुतस्तु रजतं पश्यामी' त्येतदेव भवति । अतो देशान्त- रस्थरजतस्य, स्मरणेन शुक्तिकाया इदन्वरूपसामान्यांशस्य शानेन च "इदंरजतम्" इति ज्ञानं न सम्भवति । यथा च घटज्ञानस्य विषयो न पटो भवति, न वा पटज्ञानस्य घटः, एवम् 'इदं रजतम्' इत्यस्यापि ज्ञानस्य विषयः पुरोपत्ति रजतं विना नान्यत् किमपि सम्भवति । अतएव केचिदाहुः-* काचादिदोषदूषिन नयनेन सार्द्ध पुरो- तिन्याः शक्तिकायाः संयोगे सति तस्याः सामान्यविशेषरूपः सर्वोs. प्यंशी न गृहोतो भवति, किन्तु इदन्त्वांशमात्रमेव गृह्यते, तेन चान्तः- करणे चाचिक्याकारा काचन वृत्तिर्जायते । तया वृत्त्या पूर्वदृष्टर- जतसंस्कारस्योदबोधो भवति अथ तादृशोबुद्धरजतसंस्कारसहितं यत शुक्तित्वरूपविशेषांशस्याशानम्, तदेव प्रातिभासिकरजतरूपेण परिणमते । . * काचो नेवरोगविशेषः ॥
. सौरकलकः। . :मत्रायमनुयोगः सम्भवति-यथा हि घटस्योत्पत्तो तदुपादानभूता मृत्तिकावश्यमपेक्ष्यते-नहि मृदभावे शिल्पिसहस्रेणापि घट उत्पाद- यितु शक्यते, एवं शुक्तिरजतस्थले यदि प्रातिभासिकरूपं किञ्चन रजतमुत्पद्यतयद्धि 'इदं रजतम् ' इति ज्ञानस्य विषयो भवेत, क नु खलु तस्योपादानमिति। इदमिहोच्यते-लोके हि विविधं घस्तु दृश्यते, तत्र प्रथमं 'व्य- वहारिकम, द्वितोयन्तु 'प्रातिभासिकम् ' । तत्र प्रथमं यथा घटपटा. दिकम् ; घटपटादिभिहिं अस्माकं संसारव्यवहारो निष्पद्यते, यावत संसारं च तत्सर्वमवतिष्ठते । द्वितीयं प्रतिभासिकम्,-द्धि प्रतोति- मात्रकालं तिष्ठति, विनश्यति चानन्तरमेव विशेषज्ञानोत्पत्तो, रज्जु सर्पादि । रज्ज्यां प्रतोयमानः 'अयं सर्प' इति ज्ञानविषयः सपं. स्तावदेव तिष्ठति, यावन् नायं सर्पः, रज्जुरियम् इति विशेषज्ञानं नो जायते । शुक्तिरजतमपि प्रातिभासिकम, शुक्तौ रजतबुद्धियंदा उत्पद्यते, रजतसत्तापि तत्र तदैवानुभूयते, अथ 'नेदं रजतम,-शुक्तिरियम् । इति विशेषाने जात एव न तस्मिन् रजतं भवति । यथा क्रमशः विधुशेखरशर्मा। :0- . सौरकलङ्कः। वियन्मण्डलवत्तिनामनन्तानां ज्योतिष्काणां चन्द्रमा एवैकः कल- कीति प्रसिद्धम् । भगवान् भास्करोऽप्यविमुक्तः कलङ्ककालिम्नेति न वयं तावत् प्रत्येतु प्रभवामः, युक्तमेवैतत; तथाहि यस्य खलु ज्योति- .षा सर्वमपोदं विश्वमण्डलं प्रतिभासते सोऽयं ज्योतिर्मयो ग्रहराजो. ऽपि यत स्वकीयांक तिमिरं पुष्णोयादिति वस्तुत एवेदं महश्चित्रम् । अथ ज्योतिर्विदां वचनं नाविश्वासार्ह तहि सूर्यस्यापि कलङ्कोऽस्तोति अनङ्गीकृत्य स्थातुन शक्यते । उभयैरपि प्राचोनाधुनिकैज्योतिस्त.
- यावत ६ मिनगोष्ठी-पत्रिका। स्वः स्पटमेव प्रदर्शितं यचन्द्रमस इव सूर्यस्यापि देहः कलकोपेत. इति । उभयोः कल योरेतावन्मानं पार्थक्यं यत् चन्द्रकलङ्कः स्थित र:,-चिरमप्येकस्मिन्नेव स्थाने घर्तते, सोरकलङ्कस्तु न तथा;- सूर्यमण्डलस्य यस्मिन्नशे स्थानं व्याप्यअद्य कलको दृश्यते, कियदिनानन्तरं न स तस्मिन्नेवांशे तावदेव स्थानं व्याप्य वा दृश्येत स खलु कदाचिद् विपुलावयवः, कदाचिदा स्वल्पाकारः संवृत्तः सू. य॑शरीरस्य नैकस्थानेषु कानिचिद्दिनानि विचरन अन्तर्धत्ते । कदा. चित्त भूयोऽपि सूर्यमण्डलस्थान्यस्मिन् अंशे नवोनस्य कलङ्कस्यावि. र्भावो दृश्यते। चान्द्र-सौर-कलङ्कयोराकारसादृश्यमपि नास्ति । नूनं श्रीमद्भिः पाठकैश्चन्द्रमण्डलस्य कृष्णस्थूलदीघरेखामयाः कलङ्का दृष्टाः । सौर- कलको न लेशतोऽपि तादृक् । सौरकलङ्का हि दूरवोक्षणयन्त्रेण सू- यंदेहस्य बहुषु स्थानेषु वृत्तकाराणि कृष्णचिह्नानीव दृश्यन्ते । यथा चन्द्रमसः कलङ्करेखा अन्योन्यं संश्लिष्टास्तिष्ठन्ति, सौरकलङ्कःस्तु न तथा-प्रायः खल्वेते सयंमण्डलस्य विभिन्न वंशेषु अन्योन्यं विश्लि- ष्टा दृश्यन्ते। साधारणसोरकलङ्कानामायतनं सूर्य देहापेक्षया नाधि. कमपि, पृथिव्यपेक्षया अत्यन्तं वृहत् । गणनया निर्णीतं यत् सौरक. लङ्कविशेषस्यायतनं कदाचित् ससागरपृथिवे तोऽपि चतुर्गणेन पञ्चगु- णेन वाऽधिकमिति । दृष्टं यत कैश्चिदोदृशेः कलङ्करधिकृतं स्थान विंशतिसहस्रवर्गक्रोशापेक्षयाप्यधिकमिति। साम्प्रतं कश्चित् ताहगेष सौरकलङ्कः परिदृष्टः। अयमेवं वृहत्तरो यदस्य परिदर्शने दूरवीक्ष. णमपि नापेक्षितम् वयं कियद्भिबन्धुभिः साकं केवलं केनापि कज्ज्वल- लिप्तेन काचखण्डेनैव तं कलङ्कमपश्याम । चन्द्रसूर्य्यादीनां ग्रहणादिमिव सौरकलङ्कस्याविर्भावतिरोभावों गणनया पूर्वमेव विशातु नाद्यापि कश्चिदुपायः केनाप्याविष्कृतः । असम्भवो हि तदाविष्कारः। यथा वत्सरस्य कस्मिन् दिवसे, कस्मिन स्थाने, झञ्झावायुर्वा वृष्टिपातो वा भवेदिति न निर्णेतु शक्यते, सू. .
पर- सौरकलङ्गः। र्यमण्डले सौरकलकाविर्भावतिरोभावनिर्णयोऽपि तदवस्थ एव । प. घिझगादिकं तवत्स्थानगतौ शीततापावपेक्षते,-कस्मिन् दिने प्रकृ. त्या कि नाम बर्द्धयिष्यते, किं वा हसयिष्यत इति पूर्वमशक्यनिर्णयम्, सौरकलकोत्पत्तिरपि तदेव प्रकृतिमपेक्षते । इति सापि पूर्व दुनिर्णया। सौरकालङ्कस्याविर्भावतिरोभावकालनियमो नास्तीति सत्यम्, न्तु ज्योतिर्विद्भिः बहुपर्यवेक्षणेन तत्प्राचुर्य्यस्य कश्चिन नियमोऽधि. गतः। प्रायः प्रत्येकादशवर्षे सूर्यमण्डले सौरकलङ्कस्य प्राचुर्य्य ह. श्यते, किन्त्वस्य समयव्यवधानस्य सौरकलङ्कन कीदृशः सम्बन्ध इति माद्यापि शायते । स्त्री० १६३७ तमाब्दे सूर्यमण्डले इयतः कलङ्कस्यो- स्पत्तिरासीत्, येन सूर्यस्य तापालोकयोरापेक्षिकं न्यूनत्वं सर्वैरनुभूत- म् । ईदृशोऽपि कश्चित् समयोऽसकृद दृश्यते यत्रेकस्मिन् वर्षे नैकवा- रमपि कल कोदयो भवति । कृतं कथनेन, सूर्यस्येयमवस्था प्रायः खलु कलङ्कप्राचुर्य्यकालानन्तरमेव एकादशस्य वर्षस्यानन्तरम् भवति । साम्प्रतं सौरकलङ्कस्योत्पत्तितत्त्वमालोच्यताम् । प्राचीनज्योति. षग्रन्थालोचने एतद्विषये नेकविधा अद्भुतकथाः श्रूयन्ते। केनापि पण्डितेन सिद्धान्तितम्-सौरकलको वस्तुतो न सूर्यमण्डलस्यान्त- तिम् कदाचिद वियति परिभ्रमतां ग्रहाणां केचित सूर्यपृथिव्योरन्त- राले आपतन्ति तदानों सौरालोकस्य पृथिव्यामाममने अवरोधप्राप्त सूर्यदहे कृष्णचिह्नानि दृश्यन्ते समुज्ज्यलदग्निपूर्णस्य कुण्डस्य पुरतः कस्मिश्चित् पत्रे धृते, यथा कुण्डस्य पत्रव्यवहितोऽशः अनुज्ज्वलो दृश्यत, तद्वत् क्षुद्रक्षुद्र ग्रहगणैव्यवहितः सूर्य्यदहः वस्तुतः समुज्ज्व- लोऽपि भूपृष्ठस्थेः कृष्णकलङ्कःकुलै रिव दृश्यते । प्राचीनेषु ज्योति:- शास्त्रेषु अपरेऽपि सिद्धान्ताः श्रू यन्ते । केनापि नितिम्-सौराका- शमण्डले प्रसपंन्तो मेघपंक्तिरेव से.रकलङ्क इति। अन्येन केनापि तत्प्रतिवदतोक्तम्,-सूर्य्यस्याभ्यन्तरम् अत्युज्ज्वलैद्रतैर्धातुभिः पूर्ण- म्, (प्राचीनमतमिदम, साम्प्रत न तथा स्वीक्रियते ) यदा कारण- ८ मित्रगोष्ठी-पत्रिका। विशेषेण कस्मिचिदंशे स धातुः शीतलत्वमापसः संहतो भवति, दहा स एवानुज्वलः शोतलोऽशोऽस्माभिः "सोरकलक" इत्युच्यते । कृतमुक्तेन साम्प्रतिकानां ज्योतिर्विदा कठोरपरीक्षया सर्वाण्यपि प्रा. चोनमतानि भ्रमसंकुलत्वेन प्रतिपादितानि । तदिह आधुनिकाः कि पदन्तीत्यालोच्यताम्। सौरकलङ्क साम्प्रतिक मतं जिज्ञासुभिः पूर्व किञ्चित् सूर्यस्य प्राकृतिकावस्थाशानमुपादेयम्। हार्शल- Herschel)लाप्लास्-(Laplace) प्रमुखाः भुवनविश्रु ताः पाश्चात्या वैज्ञानिकाब्र वन्ति-सूर्यमण्डलं नियतमेव केनापि विपुलेन बाष्पावरणेनावृतं तिष्ठति, भतः सूर्यमण्ड- लस्याभ्यन्तरं कोमिति ज्ञातुन कश्चिनुपायोऽस्ति, वस्तुतः सूर्य- स्तस्मिन् बाष्पावरणे निगूढोवर्तते । तदिदं बाप्पावगुण्ठनं ( Photo. shhere ) पृथिव्या बाष्पावरणमिव न स्वच्छ, न घा ज्योतिहीनम् । प्रज्वलद् वाष्पावगुण्ठनं महति शून्ये वर्तमानं तापालोको विकि- रति । तन्मन्ये, सूर्यस्य तापो न तस्य स्वकीय इति नान्युक्त भवेदिति सौराकाश एव हि तस्य महिमानं सम्पादयति। प्रागुक्तैनात्युज्यलेन बाष्पावगुण्ठनेनेव सौराकाशः सर्वथा न पूर्णः, तदबाष्पावरणस्योपरि नातिगभीरं बाष्पस्तरद्वयम् उपर्युपरि सजितमस्तीति दृष्टम् । किन्तु पूर्वोक्तप्रथमबाप्पावरणमिव अनन्तरोक्त तदद्वयं नात्युज्ज्व. लम । वैज्ञानिकेरुच्यते-एतयोर्वाष्पस्तरयोनिम्नवर्तिनः स्तरान् निय. तमेवैकः क्षीणलोहितालोको निर्गच्छति । एतदुपरिस्थः स्तरस्तु प्रायो निष्प्रभः । ज्योतिःशास्त्रे एतयोःस्तरयोः प्रथमः “वर्णावरणमिति ( Chromosphere ) द्वितोयस्तु तन्निम्नवत्ती “छटामुकुटम्" इति ( Corona ) आख्यायते । महता दूरवीक्षणेन सनैपुणं पर्यवेक्षितेऽपि सूर्यमण्डले, एतयोः सत्ता न तावत् स्पष्टमधिगम्यते यतः सूर्यपृष्ठ- . संलग्नस्य तस्य खलु प्रज्वलतो बाष्पावरणस्य ( Photosphere) उ- ज्ज्वलतया अपरावपि स्तरो समोज्ज्वलावेव दृश्यते, ततश्चान्योन्यं पृथक्त्वेन न निर्णयो भवति । अतएव पूर्णसूर्यग्रहणकाल एव वर्णा- सौरकला। धरणाच्छटामुकुटयोः सन्दर्शनस्यैकः सुलमयः। मस्मिन् समये चन्द्रण सूर्यमण्डले भावृते, बाप्पावरणमप्यावृतं भवति । अतो वर्णावरण. छटामुकुटयोरुज्ज्वलत्वं कीड शमिति परोक्षितु तदानी युक्तोऽवसरो. ऽधिगम्यते। साम्प्रतिकैः पण्डितैः प्रागुक्तस्य सौरबाष्पावरणस्य चाञ्चल्यमेव कलङ्कस्य निदानमिति सिद्धान्त्यते । एतैरुच्यते-कारणविशेषेण बा. पावरणे विच्छिन्ने यदा सूर्यस्यानुज्ज्वलो देह उन्मुक्तो भवति, तदा- नी सूर्यस्य तमुन्मुक्तमंशमेव वयं कलङ्काकारेण पश्यामः । बाष्पाव. रणं तु तत् कया महाशक्ता विच्छिन्नं भवतीति नाद्यापि केनचित् निःसंशयं सिद्धान्तितम् । कैश्चिदुच्यते यस्मिन् खलु सज्योतिकाकाशे बहुलक्षवत्सराणि यावत् समुज्ज्वलन् महान् बाष्पराशिस्तिष्ठति, तवा- काशं यप्रियतमेव शान्तस्तिमितं वर्तत इति न सम्भाव्यते । अस्याः क्षुद्रतरायाः पृथिव्या उपरिस्थिते तरलबाष्पमये वियन्मण्डले ताप. ख्यात्यधिकहासवृद्धिप्रभावेण अन्तरान्तरा झटिकावर्तादीनां कथमि. घोत्पत्तिर्भवतीति सर्वेषां प्रत्यक्षम् । अतः सौराकाशं यद अस्मदा- काशात् कोटिकोटिगुणाधिकागचाञ्चल्यपूर्णमिति लीलयैवानुमातु शक्यते । ज्योतिषिकरेतेनैवानुमानेन कथ्यते,-प्रायः खलु सौराकाशे प्रज्वलन् समन्तादागच्छन् बाष्पराशि: परस्पराभिघातेन झटिकाव- तमुत्पादयति; सोऽयमावतः काले काले इयतप्रबलो भवति, येनाव- संलग्नस्थानस्य वापराशिस्तत्स्थानभ्रष्टो भवति । एवं च तदानी सदबाष्पराशेरपगमात् सूर्यस्यानुज्वलोऽशोऽस्माभिः प्रत्यक्षीक्रियते । अन्येषां पण्डितानां मते बुधबृहस्पतिशुक्रादीनां ग्रहाणामाकर्षणमेव सौरबाष्पावरणस्य चाञ्चल्ये कारणमिति एते वदन्ति-ते खलु महा युगपदाकर्षणेन सौरबाप्पावरणे किमपि प्रबलमालोडनमुत्पाद पन्ति, तेनैव तद् विच्छिन्नं भवति । अन केषाश्चिज ज्योतिर्विदा मतं किश्चिद् भिन्नम् । एतैरुच्यते-प्रकामं तापविकिरणेन बाष्पा. वरणस्य यदा केचिदंशाः शीतलीभूय किञ्चिद गुरुभवन्ति, तदानी - .. .
१० मित्रगोष्टी-पत्रिका। ते स्वपाश्वसथेषु लघुतरेषु बाष्पेषु न प्लवमाना: स्थातु' प्रभवन्ति, अतः स गुरुः शीतलो बाष्पराशिरधस्तात् सूर्यदेहे प्रबलेन वेगेन निपतति सूर्यपृष्ठस्थस्तरलो बापस्तु ऊर्दू गन्तुचेष्टते "बल "महाशयमते एतयोरन्योन्यं विप्रतीपगाभिनोर्वाष्पयोः परस्परघातप्रतिघाताभ्यां सौराकाशवाप्यावरण विच्छिन्नं भवति अन्यच्च यद बाष्पं स्वभावस्व- च्छम्, तदपि प्रज्वलित सदस्वच्छं भवतीति स्पष्टमेवास्माभिः परी. क्षया दृश्यते । अतो 'बल'महाशयेनोक्तम्-अत्युष्णावस्थायां सौरवा- पावरणस्य योऽशः सूर्यपृष्टमावृणोत, तस्मिन्नेव किश्चित् शीतली- भूते अनुज्ज्वले, तेन यत् सूर्य पृष्ठ दृश्तेति किमनाद्भुतम् । यथा तथा वा भवतु सोरबाष्पावरणविच्छेदकारणनिर्णये सत्यपि मतभेदे खण्डितं बाप्पावरणमेव यत कलङ्कम् जनयति, नेहेदानी किमपि मतद्धमस्ति केवलं कुतूहलनिवृत्त्यर्थमेवेदं सौरकलङ्ककारणाद्यनुसन्धानमिति पाठकैनै मन्तव्यम् । एतेन सूर्यस्यावस्थाविषय मनेक तत्वमावि- भूतम् । मन्ये, पाठ कैनतिमेतद् यद् ज्योतिर्मात्रस्यैव गती विद्यते । तत्रैकया तत किमपि ज्योतिरमिता भ्रमति, अन्यया तु स्वस्वाक्षरेखया पूर्णति । पृथिव्यादिवत सूर्योऽपि कायापि निजाक्ष- रेखया घूर्णतीति प्राचीनैरपि ज्ञातम्, परन्तु किपरिमाणेयं गतिः, कियद्भिदिनैश्चैक पूणांवत्तनं सम्पद्यत इति ज्ञानस्य तदानी नोपाय- आसीत् । अयमुपायः सौरकलङ्क नोगावितः । सूर्यदेहस्य क्वापि कलङ्क समुत्पन्ने, दृश्यते, प्रायः खलु स न तत्स्थानं त्यजति, परन्तु पर्यवेक्षणेन ज्ञायते कलङ्कमात्रमेव सूर्यगोलके एकयैव दिशा गतिम- दिति । अतः स्वयं सूर्य एव यत् कलङ्कानावर्तयतीति प्रागुक्तव्यापा- रेण किश्चित् प्रतिभासते । एवं सूर्यमण्डलस्य प्रान्तवत्तिनः कलङ्कस्य सहसा तिरोधानानन्तरं पुनस्तद्विपरीतप्रान्तत आविर्भावः सूर्यस्य कक्षावर्त्तनगरस्तित्वं प्रतिपादयति । कलङ्कस्यास्या गतश्चिरं पर्य- वेक्षणेन निर्णीतम् यद् यथा चतुर्विंशतिघटिकाभिः पृथिव्याः स्वक- सौरकलङ्गः। ११ क्षया एक पूर्णावत्तनं भवति, सूर्यस्यापि तथा पूर्वपश्चिमाभिमुखं भ्रसतः प्रायः पञ्चविंशतिदिनैः पूर्णावर्तनमेकं सम्पद्यते। सूर्यस्या- क्षरेखाया अवसथानं, तस्य बाप्पावरणस्य गाम्भीर्य चानुमानिक कलङ्कपरीक्षया निणीतम् । सौरकलङ्कस्य सूर्यवाष्पावरणमेव कारणमिति अपरमप्येकं प्रमा- णमुपलब्धम् । आवसंमाने कस्मिंश्चिद गोलके तदुपरिस्था: सर्वेऽपि विन्दवः समेनैव कालेन पूर्णावर्तन सम्पादयन्ति न च तावता गोल- कस्य सर्वस्मिन्नपि स्थाने आवर्तनवेगः समानो भवति,-गोलकस्य मध्यस्थानात् बिन्दुविद मेरोः समीपवर्ती स्यात्, तावदेव तस्या- पत्तनवेगोऽल्पो भवेत् अतः पृथ्वी-सूर्यादिवत् आवर्तनशीले कस्मि- श्चिज् ज्योतिष्के विषुवरेखास्थस्य बिन्दोरावर्तनवेगः मेरुप्रदेशीय. विन्दोरावर्तनवेगादधिकः । ज्योतिष्कपृष्ठेषु नदीपर्वतसमुद्रादयो दृढसम्बद्धा इति तेऽपि ज्योतिर्भिः सार्द्ध समेनैव वेगेन घुर्णन्ति । बाप्पावरणस्य तु ज्योतिष्पृष्ठेन न ताहक किमपि बन्धनमस्ति । अतस्तत् ज्योतिः सर्वमपि बाप्पावरणं स्वगतिवेगेनाकष्टुं प्रभवति । अती वियुवरेखापरिस्थस्य मेरुसन्निहितस्य च बाप्पावरणस्यावर्तन- कालभेदः सम्भवत्येव । सौरमण्डलपर्यवेक्षणेन तदेव दृष्टम् । ज्योतिषिकविषुवरं खासमीपस्थानां मेरुसन्निहितानां च विविधानां कलङ्कानाम् आवत्तनकालतुलनया तदनैक्यमुपलब्धम् । यतः सूर्यस्य यमंशं वयं पश्याम:, स हि केवलं बाष्पमयः, बाष्पावरणस्य च तस्य विच्छेद पव कलङ्कस्योदयो भवतीत्यस्वीकारः साम्प्रतं न केनापि कत्तुं शक्यते । बुधबृहस्पत्यादिभिः सौरज्योतिभिरस्माकं क्षुद्रायाः पृथिव्याः . सम्बन्धोऽस्त्येव, परन्तु सूर्येणैवास्याः सम्बन्धः सन्निकृष्टतमः । सूर्य एवैकः सर्वान् ग्रहोपग्रहान् विविधैबन्धनैराबध्य परिचालयति । भयमत्र प्रश्नः सम्भवति-यदि नाम ग्रहपतेः सूर्यस्य देशे बहु. शत-योजनव्यापी एकैकः कलङ्क उत्पद्यत, तर्हि किं पृथिव्यां तत्फलं प्रभावः। १२ मित्रगोष्ठी-पत्रिका। किश्चिदधिगम्येत ? उक्तपूर्वमिदं कलकप्राचुर्येण सूर्यकिरणती. श्णत्वमप्यल्पं भवतीति परन्तु सौरकलङ्गस्य पृथिव्यां नायमेवैकः ज्योतिषिरालोच्य दृष्टम्-प्रायो त्यस्मिम् समये पृथिव्या. मवृष्टिः अतिवृष्टिवा अपरो वा कोऽप्युपप्लवो भवतीति । अपि चा. स्मिन् समये चौम्बकशपतेरपि ( Magnetism) किञ्चित् परिवर्तन- मुपजायते । पाठकैनूनं दृष्ट यद् दिग्दर्शनयन्त्रशलाका दक्षिणो- तराभिमुख्यन नियतं तिष्ठतीति, भूम्या अपि कापि शक्तिरस्ति पयेयं तां शलाका स्वां प्रत्याकर्षति । कलङ्कप्राचुर्य्यसमये चौम्बक- शक्त बहु परिवर्तनं दृश्यते तदानी' हि चुम्बकशलाकाया इयचा- श्वल्यं जायते, येन दिङनियमः कर्तुं न कथमपि शक्यते । अनेन चौम्यकपरिवर्तनेन सौरकलङ्कस्य कीरशः सम्बन्ध इति प्रयतमानरपि पण्डितै चापि निर्णेतु प्राभूयत। फांसदेशीयेन वैज्ञा- निकन बेकरल-( M. Becquerel ) महाशयेन उक्तम्-' वियति परिदृश्यमानाया विद्यु तः न केवलं पृथिवीत उत्पत्तिः। यथा सूर्यः पृथिव्या अपरासां सर्षासां शक्तजनकः, पवं चौम्यकवैद्यु तशक्त्यो. रपि स जनकः। सौरदे हे कलङ्कस्योदये तदधिकृतस्थामात महता वेगेन जलज- नक-( हाइड्रोजेन ) प्रभृतीनि लघुनि बाष्पजातानि विद्यु दरूपेण महति शून्ये विचरन्ति; तान्येव च भूपृष्ठसन्निधाने सति भूम्यों वैदुरत-चौम्बकशक्त्योः परिवर्त्तने कारणीभवन्तीति। अस्य मतस्य किमपि दृढं प्रमाणं नास्ति । कियदिनमतीतम्, फ्रान्सदेशीयेन सुप्रथितेन ज्योतिविंदा 'फेह' ( Feye ) महाशयेन प्रागुक्तसिद्धा- तस्य प्रतिवादे सप्रमाणं प्रतिपादितं यत् कलङ्कस्थाने जलजन.. क-(हाइट्रोजेन ) बाष्पोद्गमः सम्भवमपि न कथमपि पृथ्वीसमी- पमागन्तु महंतीति । तदेतत् तेन गणितसाहाय्येन प्रदर्शितम् । अतो वक्तव्यं यत् पृथिव्यां सौरकलस्य प्रभावं प्रति कि कारणमिति . A १३ व्रतपासनम् । निम्मणे साम्प्रतिकैरपि बैज्ञानिकः पराभवः स्वीकृत इति । श्रीजगदानन्दरायः, विज्ञानाध्यापकः, ब्रह्मचर्याश्रमः, (बोळपुर ) :०: व्रतपालनम्। षषु नवदीपमण्डलान्तर्गते सुप्रथितनामधेये कृष्णनगरे षषमे. कमतीतम् प्रमथनाथो नाम कश्चित् ब्राह्मणः स्वयमनिच्छन्नपि केवल .बहुतलयवियोगविधुरायाः सहधर्मिण्याः प्रियंवदाया निबंन्धातिशयेन विवाहोचिते पति अवर्तमानेनापि निजात्मजेन चन्द्रनाथेन इन्दु. मतीत्यभिधेयायाः कस्याश्चिद, अष्टवर्षीयायाःकन्यकायाः पाणिग्रहणं समपादयत् । लब्धं यल्लब्धव्यम्, दृष्ट च यद द्रष्टव्यमिति नववधू वि. लोकयन्ती प्रियंबदा प्रकामं प्रमोदस्रोतस्विन्यां प्लवमानेव सानन्द वर्षमेकमतिवाहितवती। निदाघसमये दिधक्षन्निव जगन्मण्डलं दहनशलाकिकासमूह रिव दुर्विषहस्तीक्ष्णतरैः किरणकलापैः : समुद्भासमानः मध्यमम्बरमधिरो. हन् सहस्रकिरणः काश्चिदभिनवाव मूर्ति धारयति । समग्रमपि भुवनं निष्प्राणमिव स्तिमितगम्भीरं कथं कथमिव तिष्ठति । कानिचिदि. • नानि कृष्णनगरं सुविषमेण विसूचिकाव्याधिनाक्रान्तमिति सर्वोऽपि नागरिकजनो भीतभीतो गृहमध्य एव वर्तते ते खलु नियतं पौरजन- संघातसम्म सङ्कलाः कृष्णनगरस्य पन्थानो जनशून्या निरुगं निद्राणा इव विद्यन्ते । मन्तरान्तरा भीतिविधुरहदयानां शववाहकानां गुदगदकण्ठास्फुटो हरिःहरि" रिति कातरस्वर उद्भवति । काका निकराश्च शुष्कपादपशिरसि कर्णकटु रदन्तो भीतानपि पौरान पुन -रुक्त भीषयन्ति, वायुरपि च कथं कमिव कठोरस्पों जनानां शुष्क दयं पुनरपि शोषयति । भस्मिन्नेव समये प्रमथनाथगहतो हाहा. ।
- - . पित्रगोष्ठी-पत्रिका। ध्यनिरुदतिष्टत; चन्द्रनाथो विसूचिंकयाक्रान्तः, प्रतिहता शक्तिश्चि- कित्सकानाम्, प्रतिबद्धः प्रभावो मणिमन्त्रौषधीनाम्, पश्यत .एष चन्द्रनाथः विषमामवस्थामापनः, भस्मीभूतः सुखभोगः प्रियंवदायाः । गतश्चन्द्रनाथः स्वस्थानं सफलयितुमिव स्वां दैवलिपिम्, पूर्णश्व कामः कुलिशकठोरस्य विधातृहतवस्य । अहो इन्दुमति, अनाथासि, मुषितासि हताशे। शुन्यं-जीर्णा रण्यं खल्वसौ ते जीवलोकः । चिराय हन्तास्तमितस्ते सुखरविः । साम्प्रतमन्धतमसाच्छन्न ते जीवनम् । इयं दुःखवेदनैव ते अद्यप्र. भृति प्रियसहचरी । फलितमिदानी देवेन । अहो प्रसादवैमुख्यं देवानाम्; कष्टमितिदारुणो ग्रहकोपः । मृतश्चन्द्रनाथः, मूढे, इन्दुमति, त्वमपि किं न मृतासि । अनात्मशे, कमिदानी कठोरामतिकठोरां यन्त्रणां सथा:? अहो सुखमयं शैशवम् । सर्वथा अलौकिकीयं सृष्टिभंगवतो वि. श्वसृजः । यत्न नातोतो न वा भविष्यन् दशाविपासो लेशतो जनान् पीडति । यत्न च न पादयो हृदयमाक्रम्य जनान् पशूक क्षमन्ते । न जानातीन्दुमती स्मर्तुमपिशोच्यमात्मनोऽप्रस्थान्तरम्, न सा क्षणमचिन्तयद---यद् देवचौरो जीवनमपि तस्या हृदयादचोरय- दिति । न वा सावबोद्भुमचेष्टतापि यत् कथं नु खल्वेते हाहाकार सीर- स्ताडं च रुदन्तीति । कथमिमे ' हा चन्द्रनाथ, हा इन्दुमति' इत्यस-. कृदा श्यानुशीचन्तीति ज्ञातुमसमर्थापीयं केवलं तेषां तादशीम- वस्थामवलोक्य तदेव रोदितुमारभत । क्षणेनैव इन्दुमत्या भागधेयेन सह वेशस्यापि परिवर्तनं जातम्; मृष्टः सीमन्तमूलादचिरारोपितो विन्दुः सिन्दूरस्य, उन्मुक्तानि सह शलायसवलयाभ्यां * सर्वाण्यपि समुल्लसन्ति अचिसर्पितान्याभरणानि, दूरीकृतो रक्तपटः; परिधापितन्तु नयनविषादावहमरक्त वासः । * बङ्गघु एतत् सर्व मभक्त कत्वलक्षणम् ॥
d .. व्रतपालनम्। सात्वनात्मज्ञा भनेनापि चिरंवहनीयेन दोर्भाग्यपिशुनेन सुदुइर्शन वेशपरिवत्तनेन नाबिभेत्, न व्यसीदत्, न वा लेशतोऽप्यकम्पत । प्रियंवदा तु 'हा चन्द्रनाथ, हा स्नेहसर्वस्व, हामातृवत्सल, हापुत्र' इति रानिन्दिवमाक्रन्दन्ती मूर्तिरिव करुणस्य दीनाद दीनतरामवस्था प्रतिपद्यमाना मुहुर्मुडविलपन्ती प्रतिपदिन्दुलेखेवातिक्षीणा कथञ्चिदु- च्छसिति। नगर्यो विसृचिकायाः प्रकोए उत्तरोत्तरं वद्धते; प्रतिगृहमेव स्वजनवियोगव्याकुलानां मर्मच्छेदोचितो हाहाध्वनिराकण्यते । सर्वथा अवितथमिदं यद विपद् विपदमनुसरतीति । यद हन्त ईदृशमपि दशाभोगं भुञ्जानेषु प्रमथनाथपरिवारेषु अपगपि विपत्तिरुद- पद्यत;+कप्टर इन्दुमत्यपि विचिकयाक्रान्ता । ज्ञात्वैवेदं सर्वे पर व्यसीदन् । व्याधिः क्रमादेव पद्धितुमारभत । निमेषादिव द्वित्रा अगदङ्कारा उपस्थिताः; व्यवस्थापितं तैभपजम् । परन्त्वही कष्ट, तेन क्रियताम् ? का खलु भेषजं पिवेत् ? अभितो ध्वनिरुद- निष्ठत्- 'अद्य हि तिथिरेकादशी नाम, इन्दुमती च विधवा, न साध भेषजं पातुमहंतीति''। विपमेयमवस्था आपतिता। परिपृष्टः पण्डि- तैः तदेव प्रत्युक्तम्-"न खलु धर्मशास्त्रम् ईदृशेष्वपि समयेषु विध- पानां जलविन्दुमात्रस्यापि पानं विदधातीति" । " ननु विपमोऽय- मामयः, दुर्लभा ह्यनेनाकान्तानां प्राणाः, तन्न तदर्थं भेपनं पिबन्ती विधवाप्येषा दृष्ये दिति" बहुशः प्रत्युक्तऽपिकश्चित् सहृदयैः, कस्तत् शृणुयात् ? नहि नश्वराणां प्राणानां कृते अविनश्वरो धर्मः परित्यक्तु शक्यते । रोगो द्विगुणमवर्द्धत । पिपासा च बलवदवाधत रोगिणीम् । जलम, जलम, जलम्, इत्यसकृत् सकरुणं सविनयं च जलं याचमान- स्तस्याः क्षीणशुष्कः कण्ठः पश्यत्स्वपि बहुषु न केनाप्यन्वकम्प्यत । न विन्दुरपि सलिलस्य पातितः केनापि तस्या ओष्ठाकरस्योपरि । को नु जनस्तया तदर्थ नाभ्यर्थितः? नक: करुणार्थिना तरलतरलेन लोच. किं नाम .. .
१६ मित्रगोष्ठी-पत्रिका। मयुगलेन निरीक्षितः ? कोऽथवा उस्थितपतितेन अतिदुबलेम करप. लवेन नाहूतः ? अहो न तथापि कस्यचिद हदयं व्यचलत् ? मालमते. ग्दुमती विन्दुमपि जलस्य, न वा पायिता सा भेषजम् । 'वत्से, सहस्व कथञ्चित् काश्चित क्षणान, कि कुा: ? निरी. क्षस्व भगवन्तं धर्मम्; समाह्वय देवं मधुसूदनम्। स ते सवीं बाधां निराकरिष्यति वत्से विधवासि, कथमेकादश्यां जलं प्रार्थयले ? तन्मैवं विक्लवा भूः अचिरादेव गच्छति रात्रिः, तूर्णमेवोदयति देवो विभावसुः; प्रभूतं ते जलं दास्यामि, तन्मयने निमील्य तूष्णीमास्स्व धर्मस्त्वां रक्षिष्यतीत्यादि' विविधं प्रबोधवचनमन्तरा न किञ्चिद- म्यत् तदानीम् इन्दुमतोभाग्यं तस्यै उपहर्तुं प्राभवत् । अहो प्रशस्यो धर्मरक्षणप्रकारः । नूनं तथापतितां तामालोक्य प्रावापि भिद्यत, लौहमपि विद्रवेत् वज्रमपि च शतधा विदीयंत परन्तु न तत्रत्यैर्मनागपि विचलितम् ! न विभाता विभावरी, न पा समुदितो भगवान् सहस्रकिरणः । इन्दुमती सुष्छु खलु बान्धवाना- मुपदेशवचनमनुसृतवती; निरीक्षितस्तया भगवान् धर्मः; आहूतो देवो मधुसूदनः; निमीलितं चिराय लोचनयुगलम्; अपलम्बितं च सुमहन्मौनम् । किञ्च जल जमिति न पुनस्तया बान्धवो जन जितः। कश्चिद् वङ्गीयः प्रकाशानन्द शर्मा। M -::- •लेखकेनाव सत्यमेवोक्तमिति मन्यामहे । वङ्गीयेषु केधाविदयमेवाचारः, अमरियतामह्या अपि एकादश्यां विसूचिकायाधिरभवत् । तद्दिने विन्दु मानमपि तया भेषनं न पौतम, दादयां, प्रातरेव सा पर लोकसयागत वती। बमि वस्तत एव 'धर्मशावं' तथा कथयति । . मि. प.स.
भारतभूमिः। मस्नेही गणितो न च स्मृतिपथं नीतस्तथासंस्तवो विसम्भो न विचारितः परिचितो नापेक्षितो वादरः । क्लशः पालनसम्भवः सविपुलो भ्रान्त्यापि नो चिन्तितो न स्निग्धं हायश्च बुद्धमथवा कालविरं जीवतु ॥ वत्सोरपिनामधेयमसकृद यस्याः समुत्कीर्तयन् कीर्मि कामपि साग्रहं जनगणैर्गयां समाश्लिष्यसि । या च त्वामतिवत्सला स्वहृदये धत्तेऽधुनाप्यादरात् तामेबाध न लजसेऽवगणयन्, विज्ञोऽसि पुनाथवा ॥ विधुशेखर शर्मा। साहित्यरत्नावलो। त्रिविक्रमः अयं शाण्डिल्यवंशजः श्रीधरात्मजदेवादित्यस्य पुत्रः। अधिकं न किंचिनिश्चितमस्यविषये ज्ञायते । एकमेव दमयन्तीकथापराख्यं नलचम्पूकाव्यमनेन प्राणायि । * अयमतिप्राचीनइति ज्ञायते । अस्य श्लोकानां कण्ठाभरणे उपलम्भोदृश्यते। 'पर्वतभेदि पवित्रं जैत्र नर. कस्य बहुमतङ्गहनम् । हरिमिव हरिमिव हरिमिव सुरसरिदम्भः पतन- मत'। अयं श्लोकः कण्ठाभरणे दर्पणे चोद्धृतः । अस्य काव्यं सभङ्ग- श्लेषप्रचुरं नचेदृशी सभङ्गश्लषे वाग्मिता कस्याप्यन्यस्य कवेष्टा । सभङ्गश्लेषप्रियतया च यथासंभवं सरलतायां कृतप्रयत्नस्याप्यस्य काव्यं प्रायोऽतीव गहनम् । यत्रकुत्रापि स्वभावोक्तिभ्रान्तिमदाद्यलंकारेप्वपि कौशलमद्भुतमस्य परिदृश्यते तथाचास्य 'कपाले मार्जार'इति भासपद्य. रुगनुकारि, दर्पणे उद्धृतस्याज्ञातकत कस्य- 'मुग्धा दुग्धधिया गवां विदधते कुम्भानधोवल्लया: कणे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि । : अयंबाणादाचीनः सहिकायोपक्रमेऽनेनवर्णितः। ३ १८ मित्रगोष्ठी-पत्रिका। ककन्धफलमुचिनोति शबरी मुक्ताफलाशङ्कया सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तम्रमं चन्द्रिका" ॥१॥ .इत्यस्य पयस्य सहशमस्य पधम्- सिन्दूरस्पृहया स्पृशन्ति करिणां कुम्भस्थमाधोरणा- भिल्ली पल्लवशङ्कया विचिनुते सान्द्रद्रुमद्रोणिषु । कान्ताः कुङ्कमकाया करतले मुदन्ति लग्नं च य- त्तत्तेजः प्रथमोद्भवं भ्रमकरं सौरं चिरं पातु वः॥१॥ मायो गद्य सुबन्धुवाणयोः शैलीमनुकृत्यायं प्रावर्तत । पद्यतूप- कमे बाणस्य हर्षचरितोपक्रममनुसरअपि पश्चात्स्वतन्त्रामेष प्रणाली प्रा- पतयत्। अस्य ग्रन्थश्वापूर्णएव देवाराणस्ये वावतस्थे इति समाप्तिद- शनाद्भिाव्यते । अन्यकषिभिरक्षुण्णामस्य पद्धति प्रदर्शयितुमत्र प्रब. न्धयमुपन्यस्यते । नलचम्पूः। १ आर्यावर्तवर्णनम् अस्ति समस्तविश्वम्भराभोगभास्वल्ललामलीलायमानः, समामः सेव्यतया नाकलोकस्य, ग्राम्यकविकथाबन्धइव नीरसस्यमनोहरः, भीम. इवभारतालङ्कारभूतः,अनधीतव्याकरणइवादृष्टप्रकृतिनिपातीपसर्गलो. पवर्णविकारः,पशुपतिजटाबन्धइव विकसितकमल कुवलयोछलितरजः पुअपिञ्जरितहंसावतंसया प्रचुरचलच्चकोरचक्रवाककारण्डवमण्डली- मण्डिततीरया भगीरथभूगालकीर्तिपताकया स्वगंगमनसोपानवीथीय. मानरिङ्गत्तरगया गया पुण्यलिलैः प्लावितश्चन्द्रभागालंकृतैकदेशच, धाम धर्मस्य,आश्रयः संपदाम, आचार्य भवनमार्यमर्यादोपदेशानामार्या- वर्तोनाम देश: यत्रकुष्ठयोगोगान्धिकापणेषु, स्फोटप्रवादोपैयाकरणेषु, संनिपातस्तालेषु, ग्रहसंक्रान्तिोतिःशास्त्रेषु, भूतविकारवादः साङ्- ख्येषु, क्षयस्तिथिषु,गुल्मवृद्धिवनभूमिषु,गलग्रहा मत्स्येषु गण्डकोत्थान पर्वतवनभूमिषु, शूलसंबन्धश्चण्डिकायतनेषु दृश्यते न प्रजासु । यत्र
-
साहित्यरत्रावली।
चतुरगोपशोभिताः संप्रामाइव प्रामाः, तुमसकलभवनामगाइव नगरप्र.
देशाः, सदाचरणमण्डनानिनूपुराणीव पुराणि, सदानभोगाः प्रभञ्जना-
इव जनाः, प्रियालपनसाराणि यौवनानीव वनानि, विटपिहिताश्चेटिका-
इव वाटिकाः, निवृतिस्थानानि सुकलनाणीवेक्षुक्षेत्रसत्राणि,जलाधिल-
क्षणाः पशुपुरुषाइयाप्रमाणा स्तडागभागाः, कुपितकपिकुलालिताल-
कश्वरकिंकराइव भग्नकुम्भकर्णधनस्वापा: कृपाः, पीवरोधसः सरित.
इव गावः, सतीव्रतापदोषाःसूर्यधु तयइव कुलस्त्रियः। यत्र चमनोहारि-
सारसद्वन्दास्तत्पुरुषेण द्विगुना चाधिष्ठिताः कादम्बरीगद्यबन्धाइव
दृश्यमानबहुव्रीहयः केदाराः, किंबहुना ।
नास्ति सा नगरी यत्र नवापीनपयोधराः अपिच ।
दृश्यते न च यत्र स्त्री नवापीनपयोधरा ॥१॥
भवन्ति फाल्गुने मासि वृक्षायत्र विपल्लवाः ।
जायन्ते न तु लोकस्यकदापिच विपल्लवाः ॥ २ ॥
यत्र च सौराज्यरञ्जितमनसः सकलसमृद्विवद्धितमहोत्सबपरम्प-
रारम्भनिर्भराः सततमकुलीनं कुलीनाः प्राप्तविमानमप्राप्तविमानभङ्गाः
कतिपयवसुविराजितमनेकवसवः समुपहसन्ति स्वर्गवासिनं जनं
जनाः । कथंचासौ स्वगी न्न विशिष्यते यत्र गृहे गृहे गौर्य: स्त्रियः
महेश्वरोलोकः सश्रीका हरयः पदेपदे धनदाः सन्ति लोकपालाः ।
केवल न सुराधिपोराजा न च विनायकः कश्चित् । यत्र चलतोपसं-
बन्धः कलिकोपक्रमश्च पादपेषु दृश्यते न पुरुषेषु । यत्र चमरकवार्ता-
परमहिमोपघातश्च तुहिनाचलस्थलीषु श्र यते न प्रजासु । यश्च नीति-
मत्पुरुषाधिष्ठितोप्यनीतिः सवटोप्य वटसंकुलः कारूपगतोऽप्यगतरूप-
शोभः । यत्र च गुरुव्यतिक्रमं नक्षत्रराशयः, मात्राकलह लेखशालिकाः,
मित्रोदयषमुलूकाः, अपत्यत्यागं कोकिलाः, बन्धुजोवविघातं प्रीष्म-
दिवसाः कुर्वन्ति न जनाः । किं बना।
देशः पुण्यतमोइशः कस्यासौ न प्रियोभवेत् ।
युक्तो नुक्रोशसंपन्न योजनैरिय योजनैः ॥३॥
२० मित्रगोष्टी-पलिका २ नर्मदातीरभुवः एवमसौ क्रीडितानेकपामरागिरीन्प्राधि बहुतरङ्गीपशीमिताः सरितः सीमश्च व्यूढपत्ररथा-पथः पादपांच लवयन सालसाहिताः पु- रीनारीश्च सेवमानः पच्यमानगोधूमश्यामला: क्षेत्रभुवो भिल्लपल्लीश्च प. रिहरन विधवाः शत्रुसीमन्तिनीरटवीश्चातिकामन परिवारीणि बन्धुकु- लानि सरांसि च बहु मानयन नातिचिरेण रविरथतुरङ्ग परिहतविष- मशिर:शिखरसहस्रमजस्रममरगणगन्धर्वसिद्धरुद्धस्कन्धमध्यं विभ्या- चलमनुससार- ततश्च, दिशिदिशि किमिमानि प्रच्यवन्तन्तरीक्षा- दविरतमुत देवी भूतधात्री प्रसूते । इति शवरवधूभिस्तक्यमाणान्यवापुः सपदि विपुलविन्ध्यस्कन्धमध्यं बलानि ॥१॥ श्रु तशीलस्तु तुङ्गशृङ्गार ङ्गत्सारङ्गाङ्गग्नासु नक्षत्रासमाकाशावका- शविशदंशजालजटिलामु चलचित्रचित्रककरिकलभकदम्बसंचारश- पलासु हारिहरिताङ्कररमणीयासु वनस्थलोषु निक्षिप्तचक्षुषमवलोक्य राजानमिदमवादीत-- माद्यन्तिकपोलपालिविगलद्दानाम्बुसिक्तद्रुमाः क्रीडत्क्रोडकुलार्द्धचर्वितपतन्मुस्तारसामोदिताः । अन्तःसुस्थितपान्थमन्थरमरुल्लोलल्लतामण्डपाः कस्यैतान हरन्ति हन्त हृदयं विन्ध्यस्थलीभूमयः ॥२॥ इतश्च पश्यतु देव:- एषा सा विन्ध्यमध्यस्थलविपुलशिलोत्सगरगत्तरङ्गा- संभोगश्रान्ततीराश्रयशवरवधूशमंदा नर्मदा च । यस्याः सान्द्रद्रु माली ललिततलमिलत्सुन्दरीसंनिरुद्धः सिद्धः सेव्यन्तएते मृगमृदितदलत्कन्दलाः कूलकच्छाः ॥३॥ इतधास्यास्तीरे- . साहित्यरत्नावली। २१ अंसन'सिजलाई जर्जरजटाजूटममान्थरा- स्तिम्यत्तारवतन्तुनिर्मितकुथत्कौपीनमानच्छदाः । शीतोत्कण्टकितास्थिशेषतनवः सात्वोत्तरन्तः शनै. रेते पश्य पतन्ति पिच्छिलशिलाजाले जरत्तापसाः ॥४॥ पश्यैताः करिकुम्भसंनिभकुचदन्दोल्लसदीचयः क्रीडन्त्यजविकासभासि पयसि स्वर पुलिन्दाङ्गानाः। उन्मीलनवनीलनीरजधिया पक्ष्मान्तरे नेत्रयो- याला हस्तलताहताअपि परिभ्राम्यन्ति भृङ्गागनाः ॥५॥ कुररभरसहंसहसमालं मुदितमयूरचकोरचक्रवाकम् । क इह सुरुचिरं चिरं विलोक्य प्रवरमते रमते नरो न रोधः । तिध- वककृतनिनदं नदं नदम्भात्कृतसवनं सवनं भजन्तपते । निरुपमविभवं भवंस्मरन्तः प्रशमधनामुनयोनयोपपन्नाः ॥६॥ क्वचित्प्रवरगैरिकासमसमुल्लसत्पल्लवं लवङ्गलवलीलतातलचलच्चकोर क्वचित् ।. क्वचिदगिरिसरित्तटीतरुणविस्फुरत्कन्दल जलन्निचुलमञ्जरीमधुनिरुद्धभृङ्गकचित् ॥७॥ क्वचिञ्चटुलकोकिलाकलितनत्नचूताङ्करं कुरङ्गकुलसेवितप्रवरसालमूलम् क्वचित् । क्वचित्प्रवरसञ्चरत्सुरवधूपदैः पावनं घनं नयति विक्रियामिह मनोमुनीनामपि ।।८।। तदेवंविधेषन्मिषन्मु कुलविगलितवहलमकरन्दसीकरासारसुरभित- तल षु कूजत्कुररपरिवारितसर परिसरेषु चलच्चकोरसारसरवरम- येषु विहरतुदेवः सह सैन्येन नर्मदोमिमन्दानिलान्दोलितलतापल्ल- षु वनेषु। १0269 :0:- THE LANAKRISHINESSION ISTITUTE HUN पाश्चात्त्यदर्शनम्। मुख्यतः पाश्चात्यदर्शनस्य यदा सर्वस्या एव पाधास्यविद्यायालयो विभागा: समयत्रयविभागानुसारिणः। तेच समया यथा-१ यवन समयः, २ रोमकसमयः ३ माधुनिकसमयश्च । तत्र यथाऽस्मद- शेषत्तरोत्तर विद्यायाहानिर्जाता न तथा पाश्चात्त्येषु, तेषु तत्तरोत्तरं विद्यायावृद्धिरेवाभूत्साम्प्रतमपि च स एव वृद्धःक्रमः । यवनेषु चातिबुद्धिमान्सक्रतुनामा ( Socrates ) दार्शनिकोऽभूत तस्मात्पूर्वेषां दार्शनिकानामे कोवर्गः, द्वितीयः सकतुवर्गः तृतीयध तस्मात्परोवगइति यवनदर्शने धर्गत्रयम् । सक्रतुपूर्वजाः इतः प्रायोवर्षसहस्रनयात्पूर्व प्राग्यवनेषु • केऽपिप्रकृतिवादिनी दार्शनिकाः समभूवन् । तेषु 'मिलित' नगरे ( Miletus ) स्थलेश ( Thales ) नामा विद्वानभवद्यः किल यवनेषु सप्तबुद्धिमतामेकत्वेन विदितः । सर्वेषां वस्तूनां का खल्वेका प्रकृतिरिति विभाषयालमेधे. हशी प्रकृतिरित्ययं निश्चिकाय । पृथिवी तस्य मते जले एव प्लवमाना तत्रैव प्रतिष्ठिता वर्तते । ततः तस्मिन्नेव मिलितनगरे अनक्षिम 'द्रनामा ( Amaximander ) विधुधोभूत् । तस्यमते न सलिलादेनि. पतगुणादस्तुनो नवा गुणहीनात्कुतोपि परिमितानियतगुणस्य जगत- उत्पत्तिः सम्भाव्यतेइति किमप्यव्यक्त मनियतानेकगुणमवतंत यस्मा- ध्छीतोष्णशुष्कार्दादिभेदोऽभूत् । अस्मिन्नेवचाव्यक्त सर्व प्रलीयते । (गीतास्वषि-" अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे। राज्या- गमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके " । तदनन्तरंचानक्षिमणिनामकः ( Anaximenes ) कश्चिदपरो धीमानुदपद्यत । तेन च परिच्छिन्नस्या- । * वासस्थानभेदात्नयोयवनगणाः १ प्राग्यवनाः, यवनाः, पश्चिमयवनाच । + औपनिषदोमाकाशादिहरि भागाइदमनुकरोति नतु सर्वथा। किंचित्मान्यानुसारि।
पाश्चात्यदशनम् । स्य विश्वस्य सामान्य मपरिच्छिन्न किंतु नियतगुणमेव किंचिन्मूलं भ- वितुमर्हतीति विभावयता वायु * विश्वस्य प्रकृतिरिति निर्णीतम् । ततीदियोजनिनामा ( Diogenes ) कश्चिदार्शनिकोऽभूत् । स्पष्टमेवते- मोक्तमेकस्मादेवादिमातकस्माञ्चिदस्तुनः परिणामरूपं + सर्व जगत माभिनवस्य कस्य चिदद्रव्यस्योत्पत्तिः स्वीकार्या। नवा भात्मतत्वं स्वी- करोत्यसो तत्पूर्वजानां स्थलेशादीनामात्मानात्मनोभैदोनज्ञातासीत् दिवोजनिना तु भेदं ज्ञात्वापि नात्मनः स्थितिरङ्गीकृतेति विशेषः । ज्ञानं चेतनात्मकं न च तत्प्राणविना स्थातुशनोतीति वायुरेव जगतो. मूलम् सएव च ज्ञानस्यापिमूलम् । वायोरेव लघुत्वगुरुत्वादिगुणभे. दाजगतउद्भवः । पृथ्वीयं वायोर्गुरुरंशः तथैव तारका अपि। तारकाम पृथिवीतउत्गतर्वाष्पैः पोष्यन्ते। भयंचात संग्रहश्लोकः- जगन्मूल स्थलेशोऽपोऽव्यक्तंचानक्षिमन्द्रकः । पायुमाहानक्षिमणि स्तिका दिवोजनिः ॥ इतः सासहस्रयवर्षेभ्यःपूर्व समपासनगरे (Samos ) पृथुगौ. रनामा (Pythagorus) वैज्ञानिकोऽजनि अयं न प्रकृतिवादी कित्वात्म- वादिनामन्यतमः । (Jonia) यवनेषु ( Phenicia) फणीशेषु भजपुत्रेषु (Egypt) च भ्रमणं विधाय पश्चादयं पश्चिमयवनेषु (Greek Colonies in Italy) निवासं चकार । पृथुगौरोगणितज्ञआसीत्सर्वे च पृथुगौरोयाः संख्यायामेव जगतस्तत्त्वं प्रतिष्ठितमिति मेनिरे। संख्याया गणितशा. स्त्रस्य मूलत्वात्स्वरादिसाम्यस्य संख्यापेक्षत्वा नियमेन संख्याविशेषाणां प्राकृतेषु वस्तुषु दर्शनाचरित्थं निरूपितमित्यरिष्टोत्तरः (Aristotle) पृथुगौरीयाणां मते एकमनेकशून्यं परा देवता । ततएव सर्वे •दमपि तवक्रमेण सृष्टि किंचिदनुकरोति । +सारथाना परिणामोऽत्रानुसन्धयः । लोकायसादिमतमनुकरोति । एकमेवादितीय मिव्युपनिषदाक्यमत्रानुसन्ध यम् ।
मिनगटा-बानका। भेदाः समुद्भवन्ति । सत्ता स्थिरा भूतान्यसिकाणि । जमणिका ( Xenophanes ) अन्योवैज्ञानिकोऽभूत् । तस्य मते स्थिरा सदैव सबम् । भूतानि न किंचित् । साचैका सत्ता नित्या । बहुत्नमनियत- त्वंच तत्र नोपलभ्यते । परमानदाख्यः (Armenid) जनफणिनः शिष्य- आसीत् । तस्य मते नेन्द्रियकप्रत्यक्षेण किंतु विवेकसहकृतेन मानेन तरखं प्राप्यम् । सत्तैव च तत् तत्वम् । तदतिरिक्तंसर्पमसत् । ज्ञानस्वरुपैवेयं सत्ता सा च परिच्छिन्ना अपरिच्छिमाधेयादिन निणेतु शक्यते क्रमशः श्रीरामावतारशर्मा . :0:-- अदृष्टवाद-विचारः। 'दृष्टम्' इत्यस्य न केवलं चक्षुरिन्द्रियेण अपितु सर्वैरे बेन्द्रियैरनु- भूतमित्यर्थे प्रयोगो दृश्यते दर्शनादिषु, ततश्चादृष्टमिति लौकिकानाम- समाकं ज्ञानाविषयीभूतं किमप्यतीन्द्रियं वस्तु बोधयति । 'लौकिक' प्रहणमाविर्भूतज्योतिषामृषीणां व्यावृत्त्यर्थं । तेषां हि सर्वशत्वं प्रसिद्धमेव अदृष्ट जनानां ज्ञानास्तिक्ययोस्तारतम्यभावेन विविधार्थत्वेन गृ- होतं विविधैर्जनैः (Chance) तथा हि केचिद, व्याहरन्ति "यादृच्छिक घटनमदृष्ट दैवंवदइति उदाहरन्ति च ते तत्प्रमाणत्वेन- काष्ठं च काष्ठं च समेमातां महोदधौ । समेत्य च व्यपेमातां तद्वद भूतसमागमः" । “अनित्ये प्रियसंवास संसारे चक्रवदगतौ । पथि संगतमेवैतद भ्राता माता पिता सखा" | " का तव कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः। करूपत्वं चा कुत आयातस्तत्त्वं चिन्तय तदिदं भ्रातः ॥ इत्यादीनि वाक्यानि । केचिदपरे "जो- वानां जन्मसमकालमेव धावा लिखिता काचिद अखंडनीया लिपिर- - यथा शेषोक्तमेव मत- अष्टवाद-विचारः। पृष्टम्" इति विश्वसन्ति । प्रमाणान्यत्र-" यतक्षणात् पतितो विन्दु- तिगर्भे नियोजितः। तत्क्षणाल्लिखितं धात्रा यावत् कर्म शुभाशुभ- म" | "आयुः कर्म च वित्तं च विद्या निधनमेव च । पंचतान्यपि सृज्यन्ते गर्भस्थस्यैव देहिनाम्" ॥ "लिखितमपि ललाटे प्रोज्झितु कः समर्थः" “विधात्रा लिखितं कम प्राक्तनं केन वार्यते । ना भुक्त क्षीयते कम कल्पकोटिशतैरपि" ॥ इत्यादीनि। अपरे तु “जन्मा- तरीयकर्मजन्यसंस्कारविशेषएवादृष्ट"मिति व्याचक्षते । यथोक्तम- स्यपुराणे " स्वमेव कम दैवाख्यं विद्धि देहान्तरार्जितम्"। इति । एतेषां मतानां हेयत्वोपादेयत्वविचारे घयं पुनः मनुमोदामहे। कुतः, 'यादृच्छिकं घटनमदृष्टम्' इति लक्षणे स्वीकृते कारणभूतस्येश्वरस्य जगनियामकत्वमाक्षिप्यत कार्यकारणयोगनि- यमस्य व्याहतत्वापत्तेः। अथ यद्यखण्डनीया काचिद विधिलिपिरह- ष्टम् इति लक्षणं गृह्यत तर्हि विधातुरीश्वरस्य सृष्टिक्रियाणां वैषम्य- नैघृण्ये प्रसज्येयाताम् । किञ्च । एतयोलक्षणयोः स्वीकृतयोर्मानवाना सर्वथात्मानमनीशमात्मनो मन्यमानानां कर्तव्याकर्तव्यविचारोपेक्षास- म्भवात संसारे विविधाः शाः समुत्पद्यरन् । न पुनस्तथा 'जन्मा- तरीयकर्मजन्यसंस्कारोऽदृष्टम्' इति लक्षणे स्वीकृत । एतेन हि सर्व. षामेवोल्लिखितानां विभिगमतवादिभिः प्रमाणत्वेन गृहोतानां वचनाना निर्दोषार्थसंगतिप्रतिपादनं सुशकं भवेत् । एवं यादृच्छिकघटनविष- ये वक्तव्यं यत् पहियंदयादृच्छिकमिव प्रतिभाति तदपि पूर्वजन्मार्जि- तकमरूपादृष्टेन नियन्त्रितमिति । विधिलिपिविषयेऽपि वक्तव्यं यत् विधित कर्मफलस्य स्रष्टा अपितु कर्मणां यथाhण फलेन योजयिता। यथोक्त ब्रह्मवैवर्तपुराणे "कर्मानुरूपफलदः सर्वेषां कारणं विधिः । भवितव्यं कृतं कर्म तदमोघं श्रुतौश्रु तम्" । इति ननु 'पूर्वजन्मसु कृतानां कर्मणामिहजन्मनि कुतः संभवति फलम्, जन्मनः प्रागेव स्वगनरकादिभोगेन तेषां निःशेष क्षपितत्वाद* इति । *यथोक्त योगवासिष्ठे-"क्षीणे पुण्ये विशन्त्य सं मत्र्यलोकं च मानवाः" इति ।
. . . २६ मित्रगोष्ठी-पत्रिका। मनोच्यते- 'नवम्. तदभाषे पुनर्जन्मनोऽप्यसम्भवात्' इति । अथ 'जन्ममानापेक्षितमेव कर्म शिष्टमभूत्' इति चेत् । तदपि न । एवं सति जन्माव्यवहितपरमेव मृत्योः सम्भवाजीवानाम्' । अतो ब्रमः, यान्येव कर्माणि स्वगनरकभोगपराणि तान्येव भोगेन क्षपितानि न जन्मपराणि कर्माणि । अन्यथा सद्यः प्रस तस्य अप्राप्तशिक्षस्य शिशोः स्तन्यपा- नादिकं कार्य न व्याख्यातु शक्यम् । एतत्सर्वं हि पूर्वजन्मसंस्कारज- म्यम् इत्यत्रास्तिकदार्शनिकाः प्रमाणम् । अत्रापि पुनराशङ्कत, कथ- मयं संस्कार उपन्यस्यते । नैष कश्चिनियमो यदयं जातो मानवशिशु- रन्येष्वपि जन्मसु मानव एव आसीद यतोऽयं स्तन्यपानादिरूपः संस्कार आगतो भवेद' इति । - जीवस्यात्मन्यन्तर्निहिता कापि . शक्तिर्विद्यते। सा च शक्तिजन्मनियन्त्रितकर्मसम्पादनद्वारेण क्रमशो विकाशमधिगच्छति । तेन सह देहोऽपि क्रमशो विकाशस्यास्यानु- रूपकर्मसम्पादनानुकूल परिणामं व्रजतीति। अतश्चोपपद्यते मानव- देहस्यासु लभत्वं पुराणादिवर्णितं, विभिन्मजोवरूपेण बहुजन्मापेक्ष- त्वात परिणामस्यास्य। एतावता दृष्टं यत् दैवं नाम प्राक्तनं पूर्वजन्मार्जितं कर्म था। तदेव कर्म ऐहिकं सत् पुरुषकारसंज्ञितं भवति । यत् स्वलु अस्माभिरिह भुज्यते फलं तत् उभयक्रियाजन्यम् । अतोहि समपुरुषकारयोरपि पुरुषयोः फलवैषम्यमुपपद्यते अदृष्टवैषम्यस्वीकाराद इति । यद्धि महाभारतादिषु पौरुषं दैवात् बलीयः इति प्रतिपादितं त- स्यायमेवाशयो यददृष्टं शुभंवाशुभंवेति नासमाकं विदितमस्ति । अतो यदि जनः तनिरपेक्षं शुभफलदं कर्म कुर्यात् तर्हि कर्म कुर्यात् तर्हि तेन अशुभादृष्टस्य * अत्र केघांचिद् दार्शनिकाना मते जीवप्रवाहस्यानाद्यनन्तत्वाद् एक एव जीयो नैकवारमशेषयोनिषु परिश्रमन् तत्तनमस्कारं वदति । सप संस्कारः पूर्वानुभूतजन्मकाले पुनरात्मानं प्रकटयतीति । परममिन् मते अनवस्थादोषप्रसङ्गाहेतोः अन्या युक्तिरपाश्रियते।
कापुरषावदन्ति । . वार्ता सम्पादकाभिमायाश्च। नियमनेन शुभारष्टस्य च सम्पोषणेन शुभोदकः सम्भवेत् इति । मत एक शास्त्रकारैः पुतः पुन रुपदिष्टम् । "उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः, देवेन देयमिति दैवं निहत्य कुरुपौरुषमात्मशक्त्या, यत्न कृते यदि न सिध्यति कोऽत्रदोषः" । "यथा धेकेन चक्रेण न रथस्य गतिभवेत् । तथा पुरुषकारेण विनादेवं न सिध्यति"। इत्यादिभिः श्लोकैः । तत् किं "भाग्यं फलति सर्वत्र न विद्या न च पौरुषम्" 'अरक्षितं तिष्ठति देवरक्षितम्' इत्यादयो दैवप्रशंसनपराः श्लोका दुरभिप्राय- प्रणोदिताः ? नहि । पुरुषकारपराः श्लोकाः यथा जाड्यापनयनादि- श्रेयः साधनपराः एवं एतेऽपि देवपराः श्लोकाः आत्माभिमानित्वा- दियोविन्नप्रशमनपराः इति । सनातनश्चायं नियमो यत् न किमपि वस्तु तत्त्वतो हितं वाहितं वा। हितत्वमाहितत्वं च तस्य देशकाल- पात्रापेक्षमिति शम् । श्रीनीलकमल भट्टाचार्यः। :0:- वार्ताः सम्पादकाभिप्रायाश्च । नववर्षारम्भः-भगवतो विश्वम्भरस्य तत्रभवतां श्रीमतां ग्राहक- मित्राणांच पुष्कलेन प्रसादेनाद्य “मित्रगोष्ठी-पत्रिकाया" द्वितीयव- रिम्भो जातः । पुनरपि वर्षमेकं तेषां सेवनार्थ धृतपरिकरा षयम्- "...... मित्रस्य' मा चक्षुषा सर्वाणि भूतानि समीक्षन्ताम् । 'मित्रख्या' चक्षुषा सर्वाणिभूतानि समीक्षे, 'मित्रस्य' चक्षुषा समीक्षामहे"॥ इति सुधामधुरां वैदिकसूक्ति मसकृदुचारयन्तश्चिन्तयन्तश्च तदर्थ, -- २८ मित्रगोष्ठी-पत्रिका। पाठकमहोदयानपि क्षणं तत्स्मरणाय प्रार्थयामहे । आशामहे- भतीताद व इहापि पत्रिकेयं तेषां निग्धनयनपातमधिगच्छेदिति ।। बङ्गषु संस्कृतपरीक्षा-वङ्गषु गताब्दे सम्पन्नायाः तीर्थोपाधि- परीक्षायाः फलमवलोकयन्तो वयं मोदामहे । फलप्रकाशिकायां पत्रि- कायां प्रयश्छात्राः पूर्वमीमांसापरीक्षायामुत्तीर्णा इसि दृश्यते। अनन्त- रातीतेषु त्रिचतुरेषु ततोऽप्यधिकेषु वा वत्सरेषु तत्र नैकस्यापि तार- शस्य छात्रस्य नामधेयं केनापि दृष्टम् । पूर्वमीमांसादर्शनस्य पठनपा- उने पण्डितसमाजेषु प्रायो विलुप्त । तदधीयानाश्छात्रा अतिदुर्लभाः । दर्शनमिदमतिगम्भोरमिति न सन्देहः । पठनपाठन सम्प्रदायविच्छेद एव तस्यान्यतमं कारणम् । दर्शनेऽस्मिन् हृदयाहादोचिता बहवो- ऽर्थाः प्राक्तनैर्भाष्यकारादिभिनिरपेक्ष चिन्तिताः। आशास्महे क्रमेणैव षयं दर्शनस्यास्य अनुशीलनाभ्युदयं द्रश्याम इति । अन्यश्चेहास्माकं हर्षहेतुः-यदिह वेदपरीक्षामप्युत्तीर्णस्यैकस्य छात्रस्याभिधेयं द्रष्टु शक्यत इति । अहो अस्माकं दुर्भागधेयविलसितम्, यद वयं पण्डि- तपरिषत्सु अग्रामासनमधिगच्छन्तोऽपि न लेशतोऽपि वेदार्थ जानी- मः, वेदोऽखिलो धर्ममूलम् इति धर्ममूलत्वेनोद्घोषयन्तोऽपि वयं न जातु भ्रमेऽपि वेदाध्ययनमिच्छामः। यत्र कापि विप्रकीर्णानि दिवाणि समुद्धृतानि श्रुतिवचनानि ज्ञात्वैव वेदज्ञानं समन्नमिति कृतार्थम्मन्या भवामः । एतद्विषये विस्तरो वक्ष्यते । इत्थं दशाविपर्यासं भुञ्जाने- ध्वस्मासु पकस्यापि वेदतत्त्वानुशीलनाभिलाषुकस्य नामधेयाधिगमः कस्य नाम वेदार्थपक्षपातिन आर्यकुलसमुत्पन्नस्य भारतीयस्य नान- न्दाय भवेत् । वाराणसी-रामकृष्ण-सेवाश्रमः-वर्षपञ्चकप्रभृति भाश्रमोऽयं, जनानां कीदृशं महान्तमुपकारं साधयतीति सम्यक् प्रकाशयितु ना- स्मल्लेखन्याः शक्तिरस्ति। आश्रमस्यास्यापरं नाम “दरिद्रदुःखप्रती. कारसमिति"रिति । किमर्थमुत्पन्नोऽयमाश्रम इति तेनैव शक्यं पोछ- वार्ता सम्पादकाभिप्रायाश्च । । अस्ति कश्चिदाभाणक:-"निग्धे शिरसि सोऽपि तैल निषेक्तु भिवतीति'। वयमप्यत्र तत्समरामः, दुर्लभाः-अतिदुर्लभास्ते पुरु- ये नाम दरिद्राणां दुःखसन्दर्शनेन वस्तुतः खिद्यन्ते। वाराणसी. सिनां नैतद विदितं यत् कियन्तो नाम सत्रालयानमात्रैकजीविका तीना भिक्षवो नियतमेव "अन्नम्, अन्नम्" इति प्रतिमार्ग प्रतिद्वार सकरुणं प्रार्थयमानाः पर्यटन्ति । अन्नस्येव स्थानस्याप्येषामभा- ।। यत्र कापि यथा कश्चिदेते रात्रि यापयन्ति । व्याधिसमये य- योचित चिकित्सितमनधिगम्य प्रायेणैते विपद्यमाना राजपथेषु निप- तता अपि पावप्रचलितैरपि लोकनिवर्हन्त दृष्ट्वापि न पश्यन्ते । त्सत्यं केवलं चिकित्सितशुश्रूषणाभावादेव बहवः खल्वेते व्यापमा पवन्ति । अस्माकं रामकृष्णसेवाश्रमो देश-जाति-धीदिनैरपेक्ष्यण एतेषामेव व्याधिविधुराणां निःसहायानां मार्गनिपतितानां तपस्विना पथ्यभेषजप्रदानेन यावच्छक्यं सयलं स्वहस्तेन सेवनार्थमात्मलामम- धेगतः न केवल तन्मात्रमेव तकृत्यं;-वाराणसीयं विद्यास्थानमिति मुक्तिक्षेत्रमिति च भारतस्य सर्वेभ्योऽपि देशेभ्यः बहवो लोकाः समा. गत्येह निवसन्ति । अधिकएव तेषां निधना वृद्धतराध सत्रालये- भ्योऽपि भाग्यदोषादनसंग्रहाक्षमाः । एषां दौर्गत्यं स्वयमस्माभिः प्रत्यक्षीकृतम् । रामकृष्णसेवाश्रमः परोपकारबद्धपरिकरैः सविग्रहरिव दगारसैः स्वसेवकः नगर्यार्थी प्रतिगृहं भिक्षया संगृहीतेन तण्डुलादिना अनाहारोपहतानां तेषामपि यथाशक्ति साहायकं विधत्ते । आश्रमस्या. स्य चतुर्थवार्षिककार्यविवृति रस्मत्करतलमापतिता। तत्र दृश्यते त- स्मिन् वर्षे ६६५ जना आश्रमात साहायकमधिगताः । न केवलं हिन्दवो दरिद्राः, किन्तु महम्मदीया अपि खीष्टीया अपि चात्र निवि- हेषं सेव्यन्ते । उक्त षु जनेषु भारतस्य सर्वदेशीयानामेव नामान्युपल- भ्यन्ते। आश्रमोऽयं यत्सर्वेषामेव सिग्धष्टिं स्वस्वानुरूप साहायक चाहति न तत्र स्तोकोऽपि संशयः । क्रियते रामकृष्णसेवाश्रमेण यत्क- तव्यं मनुष्यनामधारिणां, दश्यते च यद द्रष्टव्यं नयनशालिभिः ।
. . । मित्रगोष्ठी-पत्रिका। अब यो यत्किमपि प्रदायाश्रमममूम् अनुजिघृक्षति, तेन तदाश्रमस्य सहकारिसम्पादकसमोपे प्रेषणीयम् । आश्रमगतपिस्तरोऽपि तत एवं शेयः । तत्स्थाननिर्देश इत्थम्-सहकारि सम्पादकः, रामकृष्णसेवा- श्रमः, वाराणसीनगरम् । Ram-Krishna Home of Service, Benares City. तन्त्रीवार्ता-कौशलम्- तन्त्रीवार्ताप्रेरणस्य साम्प्रतं किञ्चिद- द्भुतमिव यन्त्रमाविष्कृतं येन प्रति मिनिट'मानकालं ४०,००० शब्दान् तंच्या अपरप्रान्ते प्रेरयितु ततो ग्रहीतुच सुस्पष्टाक्षरं शक्यते । अमृतबाजारपत्रिका। १०268 अद्भुतघटिकायन्त्रम् - फान्सदेशे 'लेरो'-( Leroy ) नगरे एक महाश्वयंभूतं घटिकायन्त्रमुत्पन्नम्, यद्धि एकशतवर्षाणां दिनं, मास, वत्सरं तिथिम्, अयनं, महाविषुवं, सूर्यस्योदयम्, अस्तमयनं, समयं च पृथिव्यां प्रथिततमानां १२५ नगराणां प्रदर्शयेत् । - -सैव सौरकलङ्कः-एतनामकः कोऽपि प्रबन्धः पाठकः पत्रिकाया अन्यत्न दृश्यते । सौरकलङ्कप्रभावेण शीतातपन्यूनाधिकत्वं भवतीति तत्रोक्तम् । अतीतवर्षे माघादिमासे सर्वत्रैव शीतातिरेकः सात इति सर्व एव जानन्ति । तदा वैज्ञानिकैरुक्त तस्मिन्समये दृश्यमान: सौरकलङ्क एव तद्धतुरासीदिति । भूकम्पः- अतीते चैत्रे पश्चनदप्रदेशेषु महान् भूकम्पो जातः । प्राच्यामपि भारतस्य क्वचित कचित् तत्कम्पोऽन्वभूयत । पञ्चनदे लाहोरादिनगरे महती क्षतिरेतेनोत्पन्ना। भूकम्पस्य किं कारणमित्यत्र मतभेदोऽस्ति । अस्मच्छास्त्रेषु तावद वृहत्साहितायां ३२ अध्याये वराहमिहिरेणोक्तम्- “क्षितिकम्पमाहुरेके वृहदन्तजलनिवासिसत्त्वकृतम् । भूभारखिन्नदिग्गजविश्रामसमुद्भवं चान्ये ॥१॥ अनिलोऽनिलेन निहतः क्षितौ पतन् सस्वनं शब्दं करोत्येके । केचित्त्वष्टकारितमिदमन्ये प्राहुराचार्याः" ॥ २ ॥ ।
. भू. वार्ताः सम्पादकाभिप्रायाश्च । इत्युक्त्या वर्णितं यत्-पुराकिल पृथ्वी सपक्षैः पर्वतैः प्रपतनोत्प- तनाभ्यामाकम्पिता सती ब्रह्माणमात्मखेदं न्यवेदयत् । तन ब्रह्मा इन्द्र- मिदमाह- "मन्यु हरेन्द्र धाच्याः, लिप कुलिशं शैलपक्षमङ्गाय" । सोऽपि-"शक्रः कृतमित्युक्त्वा मा भैरिति वसुमतीमाह ॥ ६ ॥ किंत्वनिलदहनसुरपतिवरुणाः सदसत्फलावबोधार्थम् । प्रागद्वित्रिचतुर्भागेषु दिननिशोः कम्पयिष्यन्ति" ॥७॥ इति अतः परं वायव्यादि भूकम्पस्य कीदृशं लक्षणं फलं चेति वर्णित- म् । अद्भुतसागरे नाम अन्धेऽपि दिग्गजकूर्मपनगानां चलनादेव 'कम्पो जायत इत्युक्तम् । यथा- मेषे वृश्चिक गजः प्रचलति व्यासादिभिः कथ्यते, चापे मीनकुलीरभे च वृषभे सत्यं चलेत कच्छपः । यूके कुम्भधरे मृगेन्द्रमिथुने कन्यामृगे पन्नगः, तेषामेकतमो यदि प्रचलति क्षौणी तदा कम्पते ॥इति॥ पाश्चात्यानां मतं तु नातिचिरं सन्दर्भान्तरेणैव प्रकाशयिष्यते संस्कृतपरीक्षा-वाराणसीस्थराजकीय संस्कृतपाठशालायाः १९०५ ई० वर्षस्य प्रथममध्यमोत्तमपरीक्षाः मार्चमासस्य २७ सप्तविं- शतिदिवसमारभ्य निर्विघ्नन सम्पन्नाः । तत्र प्रायः त्रिशतपरिमिता: संस्कृतविद्यार्थिनः परीक्ष्या आसन् । युक्तप्रदेशेषु अयमेवैक: प्रधान- संस्कृतविद्यालयः। परीक्षोत्तीर्णैः छात्र राजकीयमुद्रांकित प्रशंसा- पवमधिगम्यते। सारनाथे आविष्कार:-पाठकैर्विदितमेव प्राक् यदन वाराणस्यां सारनाथनामकस्थाचे भूमध्यात्प्राचीनगृहादिकं प्राप्यतइति । साम्प्र- तम् प्रायएव तत्स्थानस्य खननकार्यसुसम्पन्नं जातम् । तत्र चव्ह्यः प्रा- चीना बौद्धमूर्तयः, विशालं गृहम्, प्रस्तररचितानि हस्त्यश्वध्वजातप- सान ३२ मित्रगोष्ठी-पत्रिका। बादीनि, अतिप्राचीनाः लेखाध प्राप्यन्ते । सर्वैरनुमीयते पुरा तत्र बौद्धानां विहार आसीदिति । अप्रे यद्भविष्यति तत् पाठकोभ्यो निवेदयिष्यामः। अद्भुतात्मग्लानिः-इतः पूर्व वाराणस्यां कस्यापि धनिनो वंश- करीरः कस्यामपि धारवनिताया मासक्तोऽभवत् । पारविलासिन्यपि केवल तद्गतप्राणाऽसीत् इति तु निश्चितमेव । परन्तु एकदा तेन सा अन्यस्मिनासक्तति समनुभूता । एतेन तस्य स्खलु महापुरु- षस्य मात्मग्लानिः समुदपद्यत ! तेनैव च क्षोभेण स चिराय संसार- ल्यासारे सुखभोगे जलांजलिं समर्पयन् आत्मनो हननमकरोत् । युक्तमेवैतत्तादृशानाम् । नास्त्यत्र किमप्यद्भुतत्वमिति मन्यामहे वयम् । वाराणस्यां ग्रन्थिविसर्पः (प्लेग)-महदेवाश्चर्यं यदधुनापि ना- वग्रीष्मः समापतितः । यत्र सौरचैवादेव नराः प्रोष्मर्तुं मनुभवन्ति । भगवान् पर्जन्यदेवोऽपि न खलु वर्षणादविरमति । मन्ये भारतस्य शोकेन तस्य नयनाश्रु विगलतीति । अन्यथा कथमकाले जलदोदयः सम्भवेत् ? एतेन प्रन्थिविसर्पस्यापि प्रकोपः समधिकएव संजातः । सर्वत्रैव दारुणो हाहाध्वनि रुत्पद्यते। न जाने परमपूरुषस्य कीग- भिलाषी वर्तते । न केवलं धाराणस्या मपितु सर्वत्रैव इयमेवदशा साता। एतावतापि कालहतकस्य दुरन्ता पिपासा न परितृप्ता । वमेवासमाकं विरुद्धमस्ति तत्कं खलु उपालभेमहि । ?
मित्रगोष्ठो-पत्रिका। ( मासिकं संस्कृतपत्रम् ।) साध्छध्वं संवदध्वं संवो मनांसि जानतम्"। ऋग्वेदः। द्वितीये वर्षे } १८२७ शकाब्दाः, ज्येष्ठः। } द्वितीयसंख्या संस्कृतभाषा। यद्यपि देववाणी उक्तपूर्वैरलौकिकै रनेकैर्गुणैः सम्पमा, पद्यपि सा घेदेशिकैरपि विद्वद्भिविशेषेणाद्रियते, यदि च सेदानीमपि जरादिभिर्दो- पैन विकृता, देवीव नित्यस्थिरयौवनाच, तथापि निदाघे गङ्गायाः स्रो- तसइव तस्या अध्ययनाध्यापनयोहांसः कलौ भवत्येव, तथाहि नवद्वी- पादिष्वपि विद्याया लीलाभवनेषु पञ्चविंशतेवर्षेभ्यःप्राक् यावन्तोविद्या- थिन आसन्, सम्प्रति तावतामद्धेऽपिच्छात्राः पठन्ति नवेति संशय्यते, एवं मिथिलासु, वाराणस्यामपि किमुतान्यत्र विद्यास्थाने । तदयम- भ्ययनाध्यापनयोसः कथंप्रवर्तते इतिचेत, उच्यते-संस्कृतपण्डिता- नां यथेष्ट धनार्जनं नास्ति, धनार्जनं विना जीविकापि दुष्करा भवति किमुत प्रयोजनान्यन्यानि तथाहि ब्राह्मणपण्डितानां धनार्जनोपाया: शु- चयस्त्रयएव शास्त्रकारैविहिताःते च उपाया याजनाध्यापनप्रतिग्रहाः । तेषांमध्ये याजनेनार्जनं विरलमेव क्रमेण जायते यजमानान् विना कंधा याजयेत् पुरोधाः न च कश्चिद यष्टुमिच्छति । अश्वमेधादयोषागास्तु सर्वथा नष्टाः । दुर्गापूजनादयोऽपि दिनेदिने लोकैस्त्यज्यन्ते। यस्य पिना वर्षेवर्षे दुर्गादेवी पूजिता तेन सम्प्रति दुर्गाप्रतिमा पुत्तलिकामा मत्वा तत्पूजनं निरर्थक क्षतिकरचेति ।
२४ मित्रगोष्ठी-पत्रिका। परित्यक्तम् । केनचिता “ अहंवैष्णवः । अन्यान् देवान् न भजेमिति रुत्वा परित्यक्ता पिनादिभिः कृतापि वार्षिकी दुर्गापूजा । पितृपिता- महान् अज्ञातवैष्णवधर्मान् कथयन् स प्रकारान्तरण पूर्वपुरुषान् मू- नि मन्यते । अन्ये च निधनाजाताः व्ययाशक्त्या पूजायचादिकं परि त्यजन्तोति यजमाना हसन्ति कं याजयित्वा पुरोधा धनमर्जयेत् । येऽपि यजन्ते तेपि पुरोधला दक्षिणां बहुमत्वा तां इसयन्ति; एक्ररजतस्थाने अचरजतं पादोनरजतं वा कुर्वन्ति एवंदक्षिणापि क्रमशोहसति । या. जनस्यैतावत्यवसथा जाता अध्यापनायाअपि अवस्था सम्यग् हीना, अ- पे एव विद्यार्थिनः संस्कृतं पठन्ति, स्वयं व्ययेन पठितु न शक्नुवन्ति द- रिद्रबालकाहि संस्कृतं पठन्ति येतु समर्थास्ते आङ्गालभाषामधीयते । सुतरां संस्कृतविद्यार्थिनः स्वव्ययेन भोक्नुमप्यसमर्थाः कथंकारं दक्षि- णां दधुः । यदिवा ददति तदा वित्राणि रजतान्येव इति अध्यापनाया अवस्था ज.ता। किं तया धमार्जनं कुर्युरध्यापकाः । प्रत्युत जीवि- कार्थ भैश्याणि उपार्जयितु धावन्तः क्वचिदन्दचन्द्र क्वचिद्वा तिरस्कार प्राप्नुवन्ति । पुरा दशसहस्राण्यपि विद्यार्थिनामभदानेन पुष्णन् मुनिः कुलपतिरासीत् । प्रतिग्रहोऽपि प्रायेण विरलएव यदि कश्चिद्ददाति सदा प्रतिग्रहःसम्भवेत् परन्तु दानमेवं कश्विन करोति कथं दानपात्र प्रतिगृह्णीयात् । तथाचोक कविना- दानं नो कुरुते करोति यदिवा श्रद्धाविहीनं तदा श्रद्धाद्य यदिवा करोति तदपि प्रायोऽनुतापावहम् । दत्त्वा नाप्यनुतापमृच्छति यदि श्लाघां विधत्ते तदा दाता दोषविनाकृतोन सुलभीयाज्ञालधुत्वेन किम् ।। सुतरां दोषशुन्यस्य दातुर्दुभत्वात् प्रतिग्रहोऽपि दुर्लभइति । अथ बङ्गषुधनिनोऽभ्युदयकाले अंत्येष्टिकाले वा ब्राह्मणपण्डितान् नि- मन्ध्य किञ्चित् किश्चिद्ददति परन्तु तदानमपि पूर्वापेक्षया अल्पतरं जातं क्रमेणाल्पतममपि भवेदिति शङ्कामहे धयम् । तथापि पुरानवदी- । पुरा संस्कृतभाषा। पाध्यापकानां विसर्जन द्विवशतान्यासीत् इदानोतु तत्र पञ्चाशदेष प्र. भूतं विसर्जनं मन्यन्ते दातारः। अपिच पूर्व यावन्तो ब्राह्मणपण्डिता निमन्त्रिता अभवन सम्प्रति तावता मद्धऽपि निमन्त्रितान भवन्तीति कष्टः खलु प्रतिग्रहः । इत्थं पण्डितानां जीविकाकष्टंविलोक्य विद्यार्थिनः सं- स्कृताध्ययनमवज्ञाय आङ्ग लोविद्यामधीयतइति । यद्यपीदानीमने के धनिनः संस्कृतविद्यार्थिनां भोजनादीनि दत्त्वा, अध्यापकेभ्यश्च वृत्ति दत्त्वा विद्यालयांश्च संस्थाप्य छात्रानध्यापयन्ति तथापि पण्डिता भूत्वा ते किंकुर्वन्तु इति कोऽपि न भावयति । तदहं मन्ये यदि पण्डिताना कश्चित् द्रव्यार्जनोपायो जायते तदा वहवएव छात्राः संस्कृतं पठेयु- रिति । स चोपायः पण्डितानां वृत्तिशालिनि कस्मिंश्चितकर्मणि नियोजनमेव हि हलायुधभट्टादयः पण्डिताः केचन साधिविग्र. हिकाः केचन गणनाध्यक्षाः अन्येचान्यस्मिन्नु मतपदेऽधिकृता आस- नितिन तादृशे कर्मणि दास्यशङ्का कर्तव्या । यद्यपीदानी तादृशा राजानी न सन्ति तथापियाशाधनिनो रा- जान उच्यन्ते तादृशैरेव निजामात्यपदेषु पण्डिता नियोजयितु शक्यन्ते । ये ये धनिनो विद्यालयान् संस्थाप्य संस्कृतविद्यामध्याप्य विद्यार्थिनः पण्डितान कुर्वन्ति ते यदि स्वतः परतोषा तेषां वृत्त्युपायं किञ्चित् कम तेभ्योदत्त्वा दापयित्वा वा तान् सुस्थितान् कुर्युस्तदा संस्कृतविद्याया उन्नतिः संस्कृतपण्डितानाञ्च स्थितिः सम्भवति । यदा पण्डिताः पञ्चदश विशति वारजतानि मासिकी वृत्तिं प्राप्य विद्यालयेषु शिक्ष- कत्वं कुर्वन्ति तदा धनिनः पञ्चदश विशति वा रजतानि तेभ्योदत्त्वा कम कारयितु न शक्नुवन्तीति दुरापेतमेतत् । परन्तु ते विद्यार्थिनः यथा गणनां विषयकर्माणिच विद्यालयेषु शि- क्षितु महन्ति तथाव्यवस्था कर्तव्या अपिचाङ्ग ल भाषा मपि यथा अध्येतु पारयेयुस्तथा यत्नोऽपि कर्तव्यः। आज लविद्या यदि सखीव संस्कृतविद्यायाः सहकारिणी स्यात् तदा मणिकाञ्चनयोगहव संस्कृत- .
. मित्रगोष्ठी-पत्रिका। विद्यापि परमशोमना भदित्यसमाकं मतम्। जीविका व तया संक. तविद्यया सुकरा भवेत्। (क्रमशः) श्रीमहेशचन्द्रतचूडामणिः। :0:-- मत्सुयामस्य मुकरः । * ( जापानीयोपकथा) बहुपूर्वम् ‘इचिगो' विषये 'मत्सुथाम' नगरे कश्चिदनुगुणः परि- वारोन्यवसत् तस्मिन्नेको भद्रो गृहपतिः, तत्सहधर्मिणी, तयोश्चैका शिशुटुंहिता भासन्। अयं खलु परिवारकर्ता कदाचित कस्मैचिदधजनीयाय कर्मणे तमगरं परित्यज्य गन्तुप्रयतोऽभवत् । साम्प्रतं तत्र पर्यटनस्य लौहवदियो बहवः सुखोपाया विद्यन्ते परन्तु पुरातनसमयेषु नैतादृशं पर्यटनसौकर्यमासीत् । तदानी किल 'इचिगो'-विषयात् तस्य तदानीन्तनी राजधानी क्योटो' नगरी बहुभिर्दिवसः पद्भ्यां गन्तव्याभूत् । अतो न केवलः पथिकः स एव, किन्तु तद्वियोगमापद्यमाना तस्य पत्नी कन्यका चेति सर्वेऽपि ते चित्तोगपरीता अभवन् । पतिरवोचत-"यथासम्भवं त्वरितमहं प्रत्यावतिष्ये, सर्वमे- पाहं ममास्यामनुपस्थितौ तुभ्यं विसृजामि आशंसेच-त्वं तथा प्रय- तिष्यसे, यथास्माकं बहुमतेयं वत्सा न क्लिश्यत इति"। दयिताया नयने अश्रु भिः प्लवमाने संवृत्ते । उक्त तया "प्रिय- स्यात्मनः कृते तया यावत् सम्भाव्यं यत्नः समास्थेयः, अन्यच कम्मणः सम्पत्त्यनन्तरं नैकमप्यधिक दिनं तत्र त्वयावस्थेयमिति'। . *"The Mirror of Matsuyama” ( Jwaya's Fairy Tales Old Japan. इत्यस्यानुवादः।
.. मत्मयामस्य मकरः। ३७ अथ तद्वियोगदुःखं सर्वथानवबुध्यमाना तयोः सा मुग्धस्वभाषा शिशुकन्यका अपरापरशिशुरिय पितुः परिच्छदान्तं गृहीत्वा परि- बजमाना तं तदानीमवदत-“तात, तवेह वियोगसमये काममा सुशीला तिष्ठेयं, तत् त्वया मदर्थ किञ्चिदुपायनमानेयम्' । पतिहादगन्तुमुदयुक्त। पत्नी तनयामक निधाय प्रवेशदारप- पंन्तं तमन्वगच्छत्, अपश्यञ्च यावत्तदुष्णीषं दूरकुहेलिकया नावियत । माताकथयत्-" भद्र वत्से, पिता तावत् ते प्रयातः, स्वमिदानी अनन्या सह सुशीलशिशुरिव गृहं रक्षिष्यसि"। "एवं, परन्तु प्रत्यावृत्ते ताते, उपायनमेकं में प्रदातुन त्वं जननि त प्रार्थयिष्यसे?" नूनमहं प्रार्थयिष्ये ; कांचिन्मनोरमां शालभञ्जिकामानेतु रद. सङ्कल्पार्थं माता ते पितरं याचितवती; स तां तत्कृते ध्रुवमानेष्यति'। अहो कमिदं शोभनं ! कथमिदं शोभनम् !" दुहिता विल. सत् स्ववदनमण्डलं पश्यन्त्या मातु द्विगणं मियासीत् । सा खल्यव. काशसमये सुतया सह कदाचित केलिपुत्रकेभ्यो भोजनोत्सवप्रदानेन कदाविद्वा तस्यै चेतोरञ्जनेन प्राचीनकथाकथनेन गच्छत्सु विप्रयो. गदिवसेषु आत्मानं विनोदयितु किञ्चिदालम्बन भिवाध्यगच्छत् । पतिः स्वकृत्यं सम्पाद्य 'क्योटो' नगरात् त्वरितं प्रत्यावर्तत । ठूरपर्यंटनेन तस्य पाणिपादं वदनं च सूर्यकिरणेन तथा दग्धमिवाभूद यथा यदा स प्रत्यागतः, तदा तत्सम्बन्धिनो जनान् विना नान्यः को- ऽपि प्रथमं तं प्रत्यभिज्ञातुमशक्कात् । तावन्तं दीर्घकालं सानुरागं चिन्तयन्ती तु तस्य पत्नी कन्यका च निसर्गतस्तत्क्षणमेव तमभ्यजा- नीताम् । स तयोरेका दक्षिणतः, अपरां च वामतः संस्थाप्य कुशल- प्रश्नमपृच्छत् । तेऽपि तस्मै तस्य स्वास्थ्य, विघ्नविरहं चाजिज्ञा- सताम् । अथ स ताभ्यां विश्रामगेहमविशत् । तत्र क्षणं विश्रम्य स समानीतां चर्मपेटिकामपावृत्य काश्चिद रुचिरां शालभजिका बहिरकरोत, अददाय कन्यकायै इन कथयि- .
. ३८ मित्रगोष्ठी-पत्रिका। त्या- वत्से, त्वदर्थमियमानीता; पुरस्कारोऽयं ते, यरवं मदनुप. स्थितौ गेहाथै शोगनं यत्नमास्थितवतीति' । तादृशीमुत्तमां पुत्तली तत्र तत्पूर्व जात्वपि अनालोकितवती सा कन्यका पितरं प्रत्यतितमा सन्तुष्यन्ती कराभ्यां तां गृहीत्वा तत्सौन्द- यंवशीकृतेव अभिष्यन्दमानेनेवानन्दरसेन तस्मिन, स्थाने उपाविशत् । ततः स तश्चमपटिकातो गृहीतकमुकुरः प्रियामुपसृत्य " तवाय- मुपहार'' इति समार्पयत् । सापि समुचितादरपूर्वक स्वीकृत्यैनमप. श्यत् । परन्तु सा खल्बजाताभ्युदयेषु दिवसेषु "इचिगो" प्रदेश ( अनुनते ) लालिताभवदिति नैतत्पूर्व मुकुरमिव पदार्थ कदाचिदै. क्षत । अतोऽत्यन्तमौत्सुक्येन किमेतेन क्रियत इति दयितमजिज्ञा. सत। हसन् स प्रत्यवोचत-" अयं मुकुरो नाम, लोकरयं स्वप्रति. विम्बदर्शनार्थ व्यवडियते; असिमन्निव प्रदेशे यावन्न किमेषोऽभिल- प्यताम्, परन्तु न कथमपि लभ्यते। नियतमहमश्रौषं यत् 'क्योटो प्रदेशेऽयं प्राप्यते; मचिन्तयं च तदानी तत्र वर्तमानोऽहं यत्तत्संग्र- हार्थं स एवावसर इति; तेन चाहमेनमानयम्, भाशंसे त्वमेतत्कृते यत्नमाधास्यसीति"। पत्नी मुकुरागमवृत्तान्तमाकण्यं परं प्रमोदमापना "यतोऽयं महाधः, ततोऽहमेनम् आत्मानमिवावधारयिष्यामि, तथा च करिष्यामि यथायं नक्षीयत" इत्युक्त्वा असकृन्मूद्धनि निधाय ( आचारोऽयं जापानी पानां कृतज्ञत्वप्रदर्शने ) सयत्नं तं पेटिकायामरक्षत् । अथास्मात्प्रख्यातात् पर्यटनात् कानिचिह्मण्यतीतानि, महार्घा मणिरिव चाद्रियमाणा तयोर्दुहिता बाल्यमत्यवर्सत । दुःखाकरभिदं वर्णयितु यत्तस्या जननी सपदि प्रकाम व्याधि- मापना। सा हि प्रकृत्या नितान्तं स्नेहशोलेति जनन्यां पीडिताया मतितमाम उत्कण्ठामभजत। दिवा वा रात्री पा न जातु सा मातुः शय्यापार्श्वमत्यजत् । सा हि मातरं भेषजपानार्थ प्रेरयन्ती, मन्दमन्द पृष्ठे करतलपरामर्शन व्याधिवेदनोपशमनार्थ प्रयतमाना, मन्यांच सर्व खलु मत्स्यामस्य मकरः। ३९ विविधान् स्नेहोचितानुपायान् अनुतिष्ठन्ती निद्रालाभार्थं सर्वथाऽसम- भिवत् । तथैवं यथाशक्ति कृतायामपि मातुः परिचर्यायां क्रमेणामयो मन्नतरो भवितुमारभत, भिषग्भिव्यवस्थापितं भेषजं च सम्यम् निष्फलमहश्यत । यदा ते प्रत्यक्षीकर्तुमारभन्त यत् चिकित्सकैर्विहिताः प्रतीकाराः, सर्वाध परिचर्यास्तयोः, -यौ हि रुमां तां नितरामाद्रि- येते, वैफल्यमभजन्त, तदैकस्मिन् दिवसे जननी कन्यकां स्वोपधान. समीपे माकृष्य, गृहीत्वा च तस्याः कर क्षणं निःस्पन्दमाना, निनिमे. पाभ्यां नयनाभ्यां तद्दनमण्डलमालोकयन्ती आसीत्, अथ सकष्टं निःश्वस्यावादीत्-"वत्से, जानेऽहं साम्प्रतं स्वल्पापि ममाशा नास्ति; उपरतायां मयि, अहमिच्छामि, स्वपितरं प्रीणयितु सुखयितु च यावत्सम्भाव्यं त्वमितोऽप्यधिक प्रयतिष्यस इति" । ततः सा का- श्चितक्षुद्रमञ्जूषां या हि नियतमेव तस्याः शिरः समीपेऽविद्यत, आ- कृष्य 'मया किञ्चित्ते देयमस्तीति' कथयन्ती पूर्वोक्त मुकुरं ततो प. हिष्कृत्यावदत्-“अहमिमं मुकुरम् उपहार इति पूर्व ते पितुः सका- शात् प्राप्तवम-यदा स 'क्योटो' नगरमगच्छत् । मह्यमेव समर्पयि- तुमनसा तेनेदं दुर्लभतरं वस्तु समानीयत। अहं ते पश्चिमदानत्वे- नेदं ददामि । यदि त्वं कदाचिन्मामालोकयितु बलवदिच्छेः तदेदं गृहीत्वा द्रष्टव्यम् एवं कृते नियतमेव त्वं मां यत्र कापि समये द्रष्टु शस्यसि"। एवमुक्त्वा सा तं मुकुरं दुहिने समापंयत्, अचिन्तयश्च यत् ना- यत् किञ्चित्तस्याः परित्यज्यमानेषु शोचनीयमस्तीति । एतदनन्तरमेष जावसीदन्ती अपरं किञ्चन कथयितुमसमर्थानियत । भर्तुः, विशेषतस्तु दुहितुस्तदुःखं व्यावृत्तमभवत् । कञ्चित् कालं शोकतापेनात्मानमप्यजानन्तौ । तच्छवोपरि अरुदताम् । अथ मेण हृदयं पर्यवस्थाप्य तौ तस्या अन्त्येष्टिसंविधान सम्पादयताम् । कालो गन्तुमारभत परन्तु बालिकाया अननी प्रत्यनुरागातिरेको .
. मित्रगोष्ठी-पत्रिका। न ममागप्युपशाम्तः । यथा तथास्तु, सर्वावस्थायामेव सा प्रिया मृत मातरमस्मरत, स्मृत्वा चाविश्राममरोदीत् । एकदा सा सपदि स्वमनसि मातुश्वरमं वचनमस्मरत-पद यदो- तरदानत्वेन जननी मे त मुकुरमदात्, तयोक्तमासीत-यदानी मेवाह तां द्रष्टुमिच्छेयं, नियतमेव तन समर्था भवेयं यद्यस्य मुकुरस्याभ्य- स्तरमालोक्येत, दुःखाफ्रान्तहृदयया तु मया सर्वमेवेदं विस्मृतम् । पथास्तु, अहमेनं पहिष्कृत्य वारमेकं तत्र प्रयतिष्य इति । अथ सात पेटिकातो पहिरानीय निनिमेष मधालोकयत् । तत्र चाद्भुतं यत् तया तरुणे वयसि वर्तमानाया आत्मनो जनन्या पदनमण्डलं तस्यै किश्चित् कथयितुमुन्मुग्नमिवादश्यत। चित्रीयमाणापि साचिन्तयत् “ अस्मि- मादर्श मे मृताया मातुरात्मा विदरते, सा मदर्थ करुणामनुभवति; यदा यदाहं तां द्रष्टुन क्षमेयं, तदा मदिच्छया सैवमा द्रष्टुमागमि- यति महो, धन्यास्मि; गयमेवानन्द इति"। एवं सा प्रमोदस्य सी- मानमत्यगच्छत् । ततः प्रभृति प्रतिदिनं प्रभाते प्रदोषे च सा तन्मुकुरतलं विलोक- यन्ती स्वस्यैक विनोदनमवाप्नोत् । काले तन्मातुम॒त्योः सांवत्सरिको विधिः पर्यावर्तत। पिता च स्ववान्धवानामुपदेशमनुसरन् पुनरानग्रहीत; सापि तपस्विनी क- न्यैक विमातरमलमत । सपत्नोतनयापि मधुराकुटिलप्रकृतिः सा विमातरं प्रति नास्यामपुष्यत्, अपि तु आत्ममातेति तस्या निदेशानु. वर्तिनी मगलानुष्ठायिनी चाभूत । परिवारेषु न कश्चिद विसंवाद उस्थित इति पिता तस्याः परां निवृतिमलभत वस्तुतत्त्वानुसारेण तु तत् क्षणिकमेवाभवत् । स्त्रियः खलु नियमेन नोदारहदया भवन्ति । समयेन विमाता सा मपत्नीतनयायां दुर्व्यवहारमाचरितु प्रावर्त्तत; काले काले च भर्तुः सकाशे सर्वप्रकारेण तां प्रत्यभियोगमानयत् दयितस्तु विमातर्नैसर्गिकों बैरवृत्तिं पर्यालोच्य न तवावधानमदात, प्रत्युत दुहितर्यवात्मनोऽनु- .. मत्म्यामस्य मुखरः। ४१ कम्प प्रदर्शयन् पूर्वाधिकं तामाद्रियत । सोऽयं भर्तुव्यवहारो दपि. ताया नितान्तमसुखावहो जातः । वाचाऽकथितेऽपि तयेदृशे स्वहद- यभावे सेदमैच्छद यद यथाकथमप्यस्तु, सा कन्यका तस्याः स्वकीय- गृहेऽवस्थानादवश्यं विरमेदिति । कदाचिद् विमातासौ छमना नयनयुगलमार्जनपूर्व रुदती भार- मुपगम्य काम कातरावसन्नेन प्रकारेणावोचत्-"प्रार्थये, अदर प्रभृ- ति भवन्तं परिहातु मामनुजानीहीति"। तथेदमतर्कितमभूद यथा तदाकण्यं तस्या दयितः सर्वथा चकितः सवादोत्-"किं कथयसि-तथेदमनभिमतं नाम ते मगृहाव- स्थानं, येन त्वमेकमपि दिवसमविलम्ब्य मां परित्यक्तु मिच्छसि ?" प्रत्युक्त' तया "न तादृशं किञ्चित् " " त्वया सामवस्थान स्वप्नेऽपि मे नानभिमतम्, किन्तु पत्तमानाया यामवस्थायामस्मिन् निवासे विपन्नं मे जीवनम्, अतः सर्व विविच्य साम्प्रतत्त्वामापृच्छयगम नमेव युक्ततरमिति चिन्तितवती" उक्तिरियं रोदनाश्रु सलिलै- रनुगता; पतिश्च तामवज्ञातु नाक्षमत। सोऽकथयत्, “किं जीवनं ते विपन्नम् नन्वेतत् सर्व विवरीतु- महसि"। "एवं, विवृणुयामहम् ", तदानीमपि रुदती सावदत् “अहं ते दुहितुः केवलं विमातेति सा मामात्मनः सुखप्रतिबन्धं मन्यते । सा मां कदाचिदिनाशयिष्यति। तदर्थ च सा पूर्वप्रभृत्येव नियतमात्मनः प्रकोष्ठमध्यासीना तकस्मिन् दारुणि मन्मूर्तिमुत्कीय आभिचारिकान् मन्त्रान पठन्ती वर्तते । सम्भावयामि तदन्ते सा मां मजीवनतो वञ्चयिष्यत इति"। पतिः साभिनिवेशमिदमशृणोत् विद्वेषमूलकमेवेदमिति तदालो. चनमनिच्छतोऽपि तस्य सपदि मनस्युत्थितं यत् यतः कुतश्चित कारणाद भवतु-दुहिता तस्य सर्वदेव स्वमातुहे तिष्ठन्ती प्रायो नान्यं जनमवालोकयदिति । अतो विमातुर्वचनानि न निष्फलान्या- . . ६ २ मित्रगोष्ठी-पत्रिका। सन्. पितापि ततः प्रभृति कन्यां प्रति सन्दिग्धहृदयः सञ्जातः । अस्यामवस्थायां, यथा कथञ्चिदस्तु, तद्गृहसुपगम्य स्वयमेवन विषयं सम्यक् परीक्ष्य निश्चेतुमिच्छुः स यावत्सम्भाव्यं निःशम्द तत्रोपगन्तु समकल्पयत्। दुहिता तु सा तत्वतो विमातृत्वेऽपि मातरमेव वाममन्यत, ततध तयोर्मध्ये वैरोत्पत्त्यनुगुणं न किञ्चिदन्वतिष्ठत् । एवं तल्या विमातु: सनेहमभिलषन्त्यामपि, सा तु विमाता न तामदयत। नैतावदेव, परन्तु यदा साबुध्यत यद विमाता पितुः सकाशे तस्याः परीवादान् कीर्तयति, तदानी तस्या निर्दयत्वं चिन्तयन्ती दिवानिशमरोदीत् । एवं सर्वथा जननीस्नेहविनाकृता विषीदन्ती सा न केवलं प्रभाते प्रदोषे वा, किन्तु क्षणमवकाशे लब्ध एव स्वगृहमुपेत्य मुकरं गृहीत्वा हृदयेन निर्निमेषां दृष्टिं तत्र पातयन्त्यतिष्ठत् । कदाचिदेवमुन्मनायमाना सा यदा स्वस्थानमागत्य दर्पणतलं प. श्यन्त्यासीत्, तिरस्करणी तु गृहस्य भ्रमादपावृत्तवाभवत् तदा कश्चित् तदगृहं प्राविशत् । कोऽयमिति लोचने परावृत्य अतर्कितागमनेषु लोकेबु पितरमेवागतं विलोक्यासौ तु मुग्धहृदया मुकुरं तं स्वपरि- च्छदवाससा आच्छादयितुमत्वरत; :खावहेनाकारण "किं त्यमिह नियतमेकाकिनी करोषी' 'त्यब्रवीत् । तयोक्तम् "किमिति" अतिकठोरेण स्वरेण सोऽजिज्ञासत-"यत्तदस्तु, किं त्वमत्र घसनेनाच्छादयसि"? भोतिविधुरा सा न तावत् किञ्चित् प्रतिवक्तुमशक्नोत् । मौन तस्याः पितुः क्रोधमवद्धयत् । स च तां प्रकामं निरभसंयत् । अथो. च्चैः स तामवदत्-"पल्या मे वचनं सत्यमेव प्रतिभाति तन्मरण- साधनार्थ रहसि स्वमाभिचारिकी क्रियामनुतिष्ठसि । यद्यपीयं न ते वस्तुतो माता, परन्तु नियतमेवाहं त्वामवोचं यत्तसेष त्वमस्यामा- पिता च नयनदुः .
मत्स्यामस्य मुकुरः। देशानुवर्तनेम सम्मानप्रदर्शनेन च वर्तेथा इति । माः । मकाने, कथं त्वमीहशी दुतासि साता !!" सा तु तददुहिता अस्मिन् विषये सर्वथा निरपराधासीदिति म तूष्णी स्थातुमपारयत्। अग्निरिव पितास्याः क्रोधेनाज्वलत् सा तु करयुगलेन तश्चरणं गृहीत्वावादीत-"ननु तात, न मां निर्दयमधि- क्षेप्तुमर्हसि । यावत् किं नाहं मूढा भवेयं, परन्तु नाहं स्वप्नेऽपीडशं भीषणं वृत्तमचिन्तयम् । अयं मे निश्चयो यत् त्वं केनापि निर्मूलमेव किश्चित् कथयित्वा पञ्चितोऽसि" | नाङ्गीकृतमिदं तस्याः स्वापराध. क्षालन जनकेन । सोऽवदत् "तहिं किमिति त्वमेतावन्ति दिनानि स्वगृहे आत्मानं गोषयन्ती तिष्ठसि ? न चैतदेव । साम्प्रतमेव त्वं मामालोक्य, मन्ये, त्वरितं किञ्चिद वाससा प्रच्छादितवत्यसि; किं तद ? बहिष्कृत्य प्रदर्शय'। सा खलु तदानीमप्यात्मनि पितुःसंशयमवबुध्य विविच्य च यदा- मूलतः सर्ववृत्तान्तप्रकाशनमन्तरेण नान्यत् तन किमपि साहायकाया- स्तीति तदेव वरमति वसनमध्यान्मुकुरं वहिष्कृत्य पितुः पुरतः स्था- पयित्वाकथयत्-"तात, तदिदं यदालोकयन्ती यावददर सर्वान् कालानहमयापयम्"। पुत्वैतजनकस्तस्या विरुद्धतर इवाभवत् । उक्तं तेन-"तदयं मुकुरः, यो हि मया क्योटोनगरादानीय उपायनमिति त्वनमा सम- पितः। परमेतदालोकनेन कालातिवाहने ते किं कारणम् ! असत्येव तत्र कारणमिति" ला एकमपि वर्णमपरित्यज्य अम- म्युक्त सर्व वृत्तान्तं तस्मै अश्रावयत् । एवमप्यजातनिश्चयेन जनकेनोक्तम्-“सर्वधेदमप्रत्ययाई यत्ते मातुरात्मा मुकुरेऽस्मिन् वर्तते, त्वं च यदा यदेच्छसि, तदा तदैव तन्मुकरदर्शनेन तां द्रष्टुशकोषीति"। तात, अहं ते निश्चयेन दृढं कथयामि यन्नेह मया मिथ्यो- व्यते। मथास्मिंसते संशयः, ननु स्वयमेवायं दृश्यताम्" इत्युक्त्वा । " . । मित्रगोष्ठी-पत्रिका। ला मुकुरमात्मसाम्मुख्येन (यथा तनमुखप्रतिविश्वस्तात्र निपतेत् ) धार- यन्ती पुनरपि दादयनावदत-सेयं मे जननी, तोऽपि ते सं- शयः स्यात् ?" भाकण्र्येतद् आनन्दोल्लसितो जनकः करतालिकया भवदद-भद्र पत्से- अहं कथयामि भक्तिमता चारित्रेण त्वमत्यादरणीयासि । दर्प- णफलके प्रतिविम्बितं वदनन्तु तवैव, न पुनस्तव मातुः । स्पष्टमिद, ततश्च यज्जनन्या सह ते महत्सादृश्यमस्तीति; सा यदैवेच्छेः तदैवेह मुकुर मां पश्यरिति तुभ्यं कथयित्वा तथा कौशलमिदमारचितवती यथा त्वमद्यापि तत्र श्रहधाना मातुरेवेदं मुखं मुकुरे पश्यत इति सन्तुष्यन्ती दिवानिशं तदालोकनेन मातरं प्रत्यात्मनो गरीयसी' भक्ति प्रकाशयसि । वत्से, काममहं त्वां प्रशंसामि । विमातुस्ते वचस्यव- धानेन निष्कारणमेव त्वामवजानन्, अभियुञानश्वाहं नितान्त जिहू मि पत्से, प्रसन्ना त्वं पितरं क्षन्तुमर्हसि''उक्त्वेदं स स्त्रीजन इवारोदीत्। कियत्क्षणपूर्वमेव तत्र कथं तद वृत्तं सम्पद्यत इति दिक्षुर्विमाता गृहजवनिकावृतशरीरासीत् । सा तु तत्सर्व तथालोक्य नाहमिद पूर्वमज्ञासिषमिति चिन्तयित्वा द्रतपदं गृहाभ्यन्तरमुणगमत् । तत्र च करपुटं सबहुमानं दुहितुः पुरतः स्थापयित्वा सौत्सुक्यमवा- वोत्-“अहो वत्से काममहं घस्तुत एव लजितास्मि । अहं ते धर्म्या प्रकृतिमन्यथैवाजानाम् । असत्येव ते दुष्कृते, असत्यपि च दुरभिलाषे तथाहं त्वयि सासूयहृदयाभवं, यथा त्वां सम्यगवज्ञातव- त्यसिम। दर्पणफलके मायाविन्या इव ते स्थिरदृष्टिपातदर्शनेनैवाई तत्सर्व विरुद्ध चिन्तयन्ती पितुः सकाशे ते परीवादानुक्षुष्य तस्यापि चेतीविकृतिमनयम् । स्वीकरोमि -अहमेवास्मि दुवृत्तेति । परं- त्वितः : क्षणादारभ्य मे प्रकृतिः परिवत्र्तत । स्वात्मजा मिवातिप्रीत्या त्वामादरिष्ये । अतीतं वृत्तमिदं कृपया समुद्राम्भसि निक्षिप। स्व- कीयामिव मातरं मां मन्यस्व । अहमपि च ते तादृश्येव जननी स्यामिति"।
प्रतीच्यविज्ञानविन्दुः। पल्यास्तारशेन स्वापराधस्य मर्षणप्रार्थनेन पतिः समतुष्यत, पाता दुहिता च ततः प्रभृत्यन्योन्यमैकमत्यमवलम्ब्य एकस्मिन्नेव गृहे यवसताम्, परिवारश्च सोऽभ्युदयमध्यगच्छत् । - प्रतीविज्ञानविन्दुः । १॥ कुहेलिकाया निवृत्तिः-कुहेलिकाया घहयो दोषाः-शरी. (स्वास्थ्यहानिः, स्थले अश्यादिशकानामन्योन्यमाघातः, जले दि- ग्विभ्रमः,पोनिमजनं, लण्डनादिषु च स्थानेषु कदाचिन्मध्यन्दिने. ऽपि अतिनिविडत्वात्तस्या दीपालोक विना गतागतसौकाभावः । अतस्तस्याः प्रतीकाराय कानिचिद्वर्षाणि पण्डितः सविशेषं तत्त- वमन्विष्यते । तत्फलेनेदं ज्ञातं-जलीयः बाष्पः शैत्यसंयोगात् कुहे. लिका भवति । वायौ स्थिता धूमधूलिकणाः कुहेलिकोत्पत्तौ सहाया:- न्यूनशैत्यसंयोगेऽपि धूमधूलिकणाश्रयेण जलीयबाष्पं कुहेलिकारूपेण परिणमते। नगरापेक्षया प्रामपल्लीषु धूमधूली अल्पे इति तत्र कुहे. लिकापि नगरतोऽल्या भवति अमेरिकावासी पण्डितः 'लज '-महाशयः कुहेलिकानिवृत्तः कमप्युपायं निर्णांतवान् । पूर्व किल इलैण्डीयपण्डितेन “टिण्डाल"महाशयेन दृष्टम्-धू- लिमये वायौ, कुहेलिकायां वा रक्षितस्य अत्युष्णीकृतस्य वस्तुनश्चतुः पाश्र्वेषु धूलिवा कुहेलिका वा न तिष्ठतीति । अत्र हेतु निर्णतुन कश्चित् तदानी सम्यक् प्राभवत् । अनुमीय तु कैश्चिदुक्त यत् तद्- स्तु नस्तापेन सन्निकृष्टा धूलिः, कुहेलिका वा दश्यत इति । नातिचिर लड-रेले, 'लज्' च इत्येताभ्यां तत्कारण निर्णीतम्,- तप्त वस्तुनि समुत्पमा तडित् कुहेलिकां स्वसमीपादपसारयति । प्रसिद्धमेवेदं-सजातीयतडितपूर्ण वस्तुनी परस्परतो दूर गच्छत इति । एतत्परीक्षार्थ लधुरयमुपायः सर्वैः कत्तुं शक्यते-कौशेयष- .
४६ मित्रगोष्ठी पत्रिका। घर्षणेन लाक्षावसिकायां तडित्पद्यते । ईशशी कापि तडिदुरक्ता लाक्षावत्तिका क्षुद्रक्षुद्राणां पत्रादिखण्डानामुपरि धार्यते चेत्, पवन. ण्डानि तडित्प्रभावेण लाक्षायत्तिकायां संसक्तानि स्युः । इत्थं संसर्गेण पत्रखण्डायपि तडिदुवक्तानि भवेयुः । अथलाक्षावत्तिकातो. ऽपाकृत्य तानि पत्नखण्डानि पुनस्तदत्ति कासमीपे नीयेरंश्चेत् तर्डि दृश्येत-पत्रस्तण्डानि पतिकातो दूर एव स्थातु चेष्टन्त इति । एवं, धूलिः, कुहेलिका वा तस्य तप्तत्य वस्तुनः संसर्गेण तडितोऽश- मादाय ततश्च सजातीयतडिदयुक्ता सती तत्समीपाद दूरं गच्छति । अतएव ततस्तुसमीपे धूलिः, कुहेलिका वा स्थातुन शक्नोति । एतन्मूलमवलम्ब्य 'लज'-महाशयेन कुहेलिकानिवृत्त्यर्थं यन्त्र- मेकं निर्मितम् । एतेन शयनादिगृहतो धूलिकुहेलिकापसारणं सुष्टु सम्पद्यते । अमेरिकायां यन्त्र कार्यालयेषु नियतमुद्यतै मैः कार्य- निर्वाहकाणां स्वास्थ्यं नश्यतीति तेष्वपि त्रिचतुरेषु तदयन्त्रेण धूलि धूमधापसायते। - २। ज्योतिस्तत्त्वम्-अनन्तेऽस्मिन् वियन्मण्डले क्षुद्राणि च म- हान्ति च बहूनि नक्षत्राणि सन्ति, नैतानि गणयितु शक्यन्ते । मन. स्युदेति-किं तर्हि अम्बरस्यास्य सर्वत्रैव नक्षत्रं विद्यते ? पण्डितैः प्रत्युच्यते-नाकाशस्य सर्व स्थानं व्याप्य नक्षत्रमस्ति, तथा सति दूर-दूरतरस्थानस्थितैः असंख्यनक्षत्रैगंगनमण्डलं नियतमुज्वलितं ह- श्येत । यथा वने अन्योन्यव्यवधानसिथता अपि वृक्षाः दूरस्थस्य संहता इव दृश्यन्ते, तद्वत् । एभिनक्षत्रवियन्मण्डलस्य कियत्स्थानमधिकृतं 'निउकम्ब'-महाशयेन तनिर्दिष्टम् । तेनोच्यते-वत्सराणां निशद्भिर्वरालोको यावह रं गन्तु शक्नोति, तावत्स्थानं गगनस्य नक्षत्रमण्डलैरधिकृतमिति । आलोकः एक-'सेकेण्ड' समयेन (होरायाः षट्त्रिंशच्छततमभागमितेम)१३,००० कोशान् गच्छति । अतस्तत स्थान कियदिति चिन्तयन्तु भवन्तः ।
४७ - - प्रतीच्यविज्ञानविन्दुः। एतेनेदं ज्ञायते यदतिबहुत्वेऽपि नक्षत्राणां संख्या परिमिता, तद- धिकृतस्थानंच परिसितम्। अनायमनुयोगः सम्भवति–किं त्रिचतुराणि विना सर्वाण्येव नक्ष- बाणि स्थिराणि ? अनापि तेनैवोक्तम्- अम्बरमण्डले परिभ्रमत्सु नक्षत्रेषु केषांचिदपरैनक्षत्रैः प्रतिबन्धो नासंभाव्यः । कदाचिद्भवत्येवेदम् । दूरवीक्षणयन्त्रण स्वस्वकक्षासु भ्रमतां नक्षत्राणां गतिः, कदाचिच्च तेषु कयोधिदन्योन्यमाघातो दृश्येत एवेति । ३ । एन्-रे ( N-Rays ) फान्सदेशीयेन पण्डितेन धुंदलो-महा. शयेनोच्यते केभ्यश्चित प्रस्तरेभ्यो नियतमेव किमपि तेजो निगच्छति मृण्मये काचमये च पात्रेऽप्याहते तत्तेजो दृश्यते, किमधिकं पत्रखण्डे- ऽपि तत्तेजोलक्षणमालोक्यते । अस्यैव तेजसो नाम 'एन-रे'। एतत्सर्वमालोच्य ज्ञायते यत् पदार्थपरमाणूनामाघातेन चाञ्चल्ये सम्पादित एव तत्तेजो बहिर्गच्छतीति । एतेन किञ्चित् प्रयोजनं साधयितु केचिदरतन्ते। शरीरेषु मा. यूनां कृत्यं दुर्विज्ञेयम, कदा नाम सहसोहीप्ता का स्नायुः किं करो- तीति नादपि केनापि सम्यङ निर्णेतु शक्यते। कौश्चिदुच्यते यदि तेजस्त्यागं प्रति तत्पदार्थस्योत्तेजनमेव हेतुः, तहिं कथञ्चित् मायूनां चित्रे ( Photograph ) गृहीते सहैव ततेजस्त्यागप्रकारस्यापि चित्रं गृहीतं भवेत् । ततस्तश्चिनदर्शनेनैव का नाम स्नायुः कथं कियत्कृत्यं करोतीति विज्ञायत । 'एन्-रे'-तेजस इहैवोपयोगभिन्त्यते । जर्मनि-इलण्ड-देशीयः पण्डितैस्तु नैतत्सत्ता स्वीक्रियते । अत्र जमनि-पण्डिताः तत्तेजो दृष्ट्वापि कथयन्ति यन केवलं दर्शनेनै- वास्य सत्त्वं स्वीकतुं शक्यते, भ्रान्तमपि तद भवेत् कामं सम्भाव- यामः अस्मदृष्टिदोष एवास्य भ्रमस्य कारणमिति । श्रीजगदानन्दरायः। :0:-- यत् किश्चित् प्राप्तकालम् । विदितं सर्वैः साम्प्रतं खलु शिक्षासंस्कारमधिकृत्य कानिचिहि नानि जनानां चेतःसु कीदृशं महदस्थैर्यमुत्पन्नमिति । परन्त्विदति दुःखाकरं यत् तपस्विन्याः संस्कृतशक्षायः कृिते न कश्चित् किमा कुर्वन्नद्यापि केनचिनिरीक्ष्यते । ये हि संस्कृतभाषायाः प्रधानावलम्या भूताः तेषामेवास्मदीयानां पण्डितमहोदयानां परमौदासीन्यमत्रालो कयामः, अन्यतस्तु विस्मयावहं प्रमोदकरञ्चेदं यद यैः साद्धमस्य नवोनः संस्तवः, त एवास्या अभ्युनतये यतन्ते । किंबहुना सर्वथ अस्मत्कृत्यजातं विधिना तेषामेवोपरि विन्यस्तम् । वयन्तु केवलं व्यर्थे रभिमानैरापूरित हृदयकन्दराः चापलवचनप्रपञ्चैदिगन्तरं ध्वनयामः अध्ययनाध्यापनाभ्यां सर्वमप्यायुःकालं संस्कृतार्थ नियोजितव- द्भिरपि तत्रभवद्भिः पण्डितमहाशयैः केनोपायेन तच्छिक्षादानं पुष्क लाय पारलौकिकाय लौकिकाय वा लाभाय भवेदिति न मनागपि चिन्त्यते । साम्प्रतं जनानामायुह सति, विषयास्तु वेद्याः क्रमेणव पद्धन्ते । पूर्व यद्धि सूत्रस्वरूपन्यायादिदर्शनं कियदिनपाठयमासीत, तत्रैवेदानी पर:शता ग्रन्था उत्पन्नाः, उत्पदन्ते, काले चोत्पत्स्यन्ते। इत्थं निखिलेनाप्यायुः समयेन न्यायदर्शनमप्येकमामूलाग्रम अधिकर्तु कश्चित् न शक्नुयात्, किमुतान्यत् । अन्येषामपि शास्त्राणामियमेव गतिः किमन विधेमिति विचार्यम् । यदर कः स्वजीवितकालमेकस्यैव शास्त्रस्याधिगमायातिबाहयेत, न चापराणि शास्त्राण्यालोचयेत, तर्हि स वस्तुतः पण्डितपदमर्हन्ति न वेति बहव एव संशेरते। दृश्यते साम्प्रतं न्यायशास्त्रमधीयाना विदयार्थिनः, तद्धापयन्तः परां प्रति- ष्ठामधिगता अध्यापकाश्च, ये हि सर्वमायुायशास्त्रकृते यापयन्तोऽपि किंप्रयोजनकं न्यायशास्त्रमिति न सम्यग जानन्ति। नहि अनुमान- मात्रनिर्णय एवं प्रयोजनं न्यायशास्त्रस्य, न वा केवलं समितिसमरेषु सिंहनादोश्चारणम् प्रायो होदानी न्यायशास्त्राध्येतारो व्याप्तवादि.
. . यत् किश्चिस्मातकालम् । कतिपयपदार्थनिर्वाचनपूर्वम अनुमाननिर्णयमेव न्यायशास्त्रस्य पर पुरु- पार्थ मन्यमानाः, तन्मात्रज्ञानेनैव त्रिभुवनमेवास्माभिज्ञातमिति प्रौ- दाहङ्काराः सर्वमन्यच्छास्त्रं तृणमिवावगणयन्तो भ्रमेणाऽपि शास्त्रा- न्तरादानं कर्त्तव्यमिति नावबुध्यन्ते । कि बहुना कार्यकारणभावादि- साधनं यदनुमानस्यप्रयोजनं तदपि तैरसुलभम् । न हि ते कस्मिंश्चिद- द्भुतवस्तुनि हष्ट केन द्रव्येण कथं तनिर्मितमित्यादि पाश्चात्यविद्वा- सइवानुमातु शक्नुवन्ति महदद्भुतं-येषां हि तस्य शास्त्रस्य कृते जीवनमेवातिक्रान्तं तेऽपि तस्मिन् शास्त्रे कियन्तः, कीरशाः, किं- कत्तू काश्च प्रन्थाः सन्तीत्यपि न जानन्ति । अपरेषां शास्त्राणां तु कथैव नास्ति । शास्त्राध्यतृणामिमामेवावस्थामालोक्य साद्विशत वत्सरेभ्यः पूर्व मनखिना श्रीमता घेङ्कटाध्वरिणा विश्वगुणादर्श इशानु- मानोगन्धर्षस्य मुखेन नैयायिकान् प्रत्युक्तम्- न जिघ्रत्याम्नायं, स्पृशति न तदङ्गान्यपि सकृत; पुराणं नाधीते, न गणयति किञ्चित् स्मृतिगणम् । घवन् शुष्क तर्फ परपरिभवार्थोक्तिभिरसौ नयत्यायुः सर्व निहतपरलोकार्थमधनः" ॥ इति । भतपय चान्येनापि केनचिटुक्तम्- मीमांसा पठितान यैरुपनिषन्तव श्रुता तत्त्वतः, श्रीमच्छङ्करभाष्यतो भगवती गीताप्यधीता न यः सिद्धान्तापगतं शिरोमणिमतं ज्ञात्वापि किञ्चित्ततो भट्टाचार्यपदं गताः कथमहो लज्जा लभन्ते न ते"। जानीमो वयं न्यायगुणान् दुरपहवाश्च ते। पथा घेङ्गटाध्वरिणैव वि- भ्वावसुमुखेनोक्तम्- "मोहं रुणद्धि, विमलीकुरुते च बुद्धिम्, सूतच संस्कृतपदव्यवहारशक्तिम् । शास्त्रान्तराभ्यसनयोग्यतया युनक्ति, तर्कश्रमी म तनुते किमिहोपकारम्" ।
५० मित्रगोष्ठी-पत्रिका। परन्तु यदि निकममोहप्रसरया विमलया बुख्या कर्तव्यं न क्रियते, त किं तया प्रयोजनम् । समुहीतत्वेऽपि दीपस्य यद्यसौ पदार्थोद्रासनाय न विनियुज्यते, तर्हि किं तेन स्थितेनास्थितेन वा ? नास्माभिर्नैयायिका निन्धन्ते, अपितु प्रचलन्ती संस्कृतशिक्षाप- अतिरेवेति पाठकैन विस्मसंव्यम् । यथा नैयायिकाः, तदपरेऽपि दार्शनिकाः भन्येच वैयाकरणादयः। प्रायो येकदर्शनाध्यायी दर्शनान्तर नालोचति । सरस्वपि घेदान्तदर्शनस्य बहुषु भाष्येषु एकाधिकमा- ण्यानुशीलयिता विरलप्रचार एव तत्रापि बहवश्चतुःसूत्रीमात्राभ्यास- कृतिनः । बौद्ध-प्रत्यभिज्ञादिदर्शनकथा तु समुद्रोदरं प्रविष्टा । नास्ति. कत्वेन बौद्धजैनादिदर्शनमसेव्यमित्ययं पादस्तु बालप्रलाप इव सर्वथा विचारासहः। किंच जैनेभ्योषौद्धभ्योवा द्रव्यलाभे सर्वथा तेषां मत. मनुशीलनीयं नान्यथेति सांप्रतिकविदुषां सिद्धान्तः । लोके संस्कृतमेवैकं घेद्य नापरमिति की नाम वक्तु साहसमा- दध्यात्। अस्त्येवैतद् यत् संस्कृतभाषा भाषान्तराणां जननीभूता श्रीमता मोक्षमूलारभट्टादीनां मतेन लाटिनादिभाषाणां ज्यायसी स्व- लावेति । न तावता संस्कृतमात्राध्ययनेनैव सर्व विदितं भवति, तस्या एव वा वस्तुतो रसास्वादो जायते, तन्मुखेन च तस्याः श्रेयस्त्वं वा गम्यते । नहि दुग्धसम्भूतानामपि दधिधृतनवनीतादीनां रसनमन्तरेण तेभ्यो दुग्धस्य माधुर्य प्रशल्यतरं नवेति ज्ञायते; न पा केपलं दुग्धा- स्वादमात्रेणैवं दधिधृतनवनीतादीन्यवबुध्यन्ते । अतो यदि केनचित संस्कृतसाहित्यं कियन्मनोरममिति सम्यग् ज्ञातुमिप्यते, अवश्य तेनापरभाषीयमपि साहित्यमालोच्यम् उभयो हिं साहित्ययो विवेचने- नान्यतरस्य उत्कृष्टापकृष्टतरत्वं निश्चीयते । तवकृत्वापि भरमसाहित्य- मेव जगत्यां सर्वातिशायीति महाभिमानेन कथयन्तोऽपि वर्ष न जि- हीम इति चित्रमेतत्। आस्ता तावद भाषान्तरानुशीलनं, तेन च स्वसाहित्यस्योत्कर्षा- यत् किश्चित्माप्तकालम् । पकर्षविवेचनम्, बहुकालापेक्षं दुष्करं च तत् । पर प्रकाममिदमह. तं, .( यथा न्यायदर्शनमधिकृत्य पूर्वमेवोक्तम् ) यत् स्वसाहित्य- मपि सम्यड नालोचयामः । बहवः साहित्यप्रग्थाः संस्कृतभाषायां सन्ति, परं विद्यार्थिभिः कियन्तो नाम तेष्वालोच्यन्ते ? कियता क- वीना ते नामानि जानन्ति ? परीक्षायां ये प्रन्या निर्दिष्टाः, तेभ्यस्ति- चतुराण्यप्यधिकानि काव्यानि कधिदालोचति नतिसंशयास्पदम् । दृश्यते-प्रायेण हि विद्यार्थिनः परीक्ष्यकाव्यान्यधीयानाः, तेषां पद- पदाथालङ्कारनिर्णयमानेणैव तुष्यन्ति । वस्तुतः काव्यस्य कवैचित्र्य- मिति मातुमिच्छापि तेषां न जायते । अभिज्ञानशकुन्तलं सर्वोत्तम पश्चिति कर्णाकर्णिकाया कथञ्चिजानन्तोऽपि ते कथं तदित्यनु- युक्ता मौनमेव सेवन्ते । तत्रभवत आदिकवेर्वाल्मीके: श्रवणरसायनं रामायणं भगवतो व्यासस्य च अधरितामृतं महाभारतं साहित्यविद्या- थिभिः स्पृश्यते न वेति को ब्रवीतु । अस्मदधन्यतया तिसृणां (वारा- णसी-पञ्चनद-कलिकातास्थितानां) राजकीयानाम, अपरासां च (नवद्वीपादिस्थानीयानां) संस्कृतपरीक्षाणां नैकस्यापि साहित्यपरी- श्यपुस्तकेषु रामायणस्य वा महाभारतस्य वा नामधेयमधिगम्यते । धन्यवादाहीः काशिक-रणवीरसंस्कृतविद्यालयाध्यक्षाः यैः सर्वासु परीक्षासु रामायणभारतयोरंशाअध्येयत्वेन निर्णीताः। धर्मशास्त्राध्येतारः न्यायविवादबहुलान् रधुनन्दमशूलपाण्याच- चीनविदिरचितान् निबन्धानेव प्रायेणालोचयन्ति । अनधिका अपि मन्यादिसंहिताः, आश्वलायनादिश्रौतगृह्यसूत्राणि मीमांसाद- शनं च प्रायः बलु तैनाधीयन्ते । नवीनप्रन्यनिषष्टयस्ते प्राचीन- शास्त्रोक्तानविकृतान् धर्मान् वोडुन क्षमन्ते । तेषु तेषु समयेषु कथं केनाचारेण वा समाजेन पा तेऽसत्पूर्वपुरुषा उन्नतिमवनतिं पा प्रतिपेदिरे इति केवल तत्तच्छास्त्रपाठेनैव ज्ञातुं शक्यम्, न त्वी. वीननिबन्धपाठतः । धर्मशास्त्रवेत्तार एव केवलमपक्षपातमामूलं सर्व विवेध्य तत्तत्ल्यानेषु यथोचितं व्यवस्थापयितुमहन्ति न केवलं -- मित्रगोष्ठी-पत्रिका। पक्षरशुकैरिव केषाञ्चिदश्यस्तानामक्षराणामुधारणेनैव धर्मवेतृण कृतकृत्यत्वमिति मन्यामहे। "घेदोऽनिलो धर्ममूलम्" इत्यस्माकम् उच्चैराघोषः । तदभ्य- पनमिदानी विलुप्तम् । कालिदासेनोक्त " श्रुतौ तस्करता स्थिः तेति," अयन्त्वद्य ब्रमः " श्रुतौ घेदज्ञता स्थितेति" । समग्र भारतमन्विष्यताम्, पञ्चषा अपि वेदव्युत्पन्नाः पण्डिताः लभ्येरन् । बेति महान् संशयः । नानीमो वयं वाराणस्यादिषु घेदज्ञा दृश्यन्त- एषेति । परन्तु प्रायेणैव ते स्वरमा जानन्ति । सुदुलभा अर्थज्ञा नराः । भस्मनि हविविसर्जनमिव विनार्थज्ञानमध्ययनं निरर्थकमेष पतदेवोक्त यासकधृतया श्रुत्या- स्थाणुरयं भारहारः किलाभू- दधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थज्ञइत् सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा ॥ यदगृहीतविज्ञातं निगदेनैव शष्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति कहिचित्"॥. पस्पशायां पतञ्जलिनोक्त ब्राह्मणेन निष्कारणो धर्मः षडगोदो ऽध्येयो शेयश्चेति । भद्यत्वे तु घरमब्राह्मणा वेदमधीयानाः तदर्थ जान- न्तश्च बहव उपलभ्यन्ते, न 'तु धयं ब्राह्मणा अथवा प्राधणनुवाः । पूर्वम् + श्रीमदहिफेनानन्दविद्याम्बुधिना "यक्षयुधिष्ठिरसंवाद"-नामके प्रवन्धे उक्त यत् प्रतिशतकं नवतिरेव घेदविषये इयदनभिज्ञाः, येन ते धर्मशास्त्रवेत्तारः, संस्कृतज्ञा ब्राह्मणा इति विज्ञाय विस्मय एवोत्य. • इयं श्रुतिः पस्यशायामपि धता । +गतवर्षीयाश्चिममासीय पत्रिकाया। श्रोत्रियत्वं कथं भवतीति यक्षप- ने युधिष्ठिरसखेन "वेदाश्चत्वार इत्येतावन्मालज्ञानेनैव श्रोत्रियत्व भवतीति" प्रकाशितम् । पवितणमुक्त तेन । अयममविश्वासः निर्मूलक एव स्थाचचेत्, परं प्रमोदाष भवेत्। ।
- यत् किश्चित्माप्तकालम् । ५० यते । कोमन्त्रः, किं ग्रामणे, किमारण्यक, कोपनिषत्, कि श्रौतसून किं.धर्मसूत्रम्, कियती वैषां संख्येति प्रश्ने बहूनामेषाधरोष्ठो,निःस्पन्द तिष्ठति । किं तेषु वर्णितमित्यादिज्ञानस्य तु कथैव नास्ति । गुणगृह्याः पाश्चात्या विपश्चितो वेदार्थमालोचयन्तो गौरवमधिग- छन्ति, न तु षयं येषां वेदो नित्यमध्येय इति नियमः । धिक कष्टम्, पदद्य भारतीयाः पाश्चात्यानां वचनमाकण्यं वेदस्य गौरवमयबुध्यन्ते; न तु संस्कृतपण्डिताना, घेदपुस्तकान्यपि तैरेव प्रकाशितानि पश्य- न्ति । न स्वयमालस्येन ते लिखितु प्रकाशयितुवाशक्नुवन्ति ये हि समाजस्य संरक्षणाय तच्छिरस्थानमध्यारोहिताः । साधुवादास्तेभ्यः मोक्षमूलरप्रभृतिभ्यः प्रतीच्यसंस्कृतशेभ्यः, येषां प्रयत्नेन बहवो वैदि- कप्रन्थाः प्रकाशमापना दिशि दिश्याचार्याणां कीर्तिगाथामुदगायन्ति, श्रीमता मोक्षमूलरेण वेदार्थमधिगत्य भारताकृष्टहृदयेन सता भारतं प्रति निर्मूलकदुरभिप्राय पोषयतां प्रतीच्यानां हृदयस्था बुद्धिं तिर- स्कर्तुं कियान प्रयत्नः कृत इति “भारतं किमसमान शिक्षयितु शक्नो- तीति" ( India : What can it teach us. ) ग्रन्थे निबद्धस्तदीया- ख्यानैः प्रतीयते । एतद्विषये विस्तरं प्रकाशयिष्यामः । अत्र तु कीटै क्षणमेवपुस्तकस्यपरममुद्दश्यम् नविद्यार्थिभ्योपि तस्यप्रकाश- नम्। 'मून्धिकूपपतनादिवपुस्तकानां व्यर्थ गतं षत परोपकृति- .. घतत्वम् ' नैषधे। यथा चैतत्कर्मार्थ पाश्चात्या विद्वांसोऽस्माभिः प्रशस्याः, तथा घेदाधर्थविषये अस्मन्मतविरुद्धवादित्वात् नूनं ते निन्द्याइति ध्रुवं भवन्तो घदेयुः। पाश्चात्त्यानां शिक्षाप्रकारः साधीयस्त्वेन प्रसिद्ध- तरः। उत्तम पा अधर्म वा, यत् ते कुर्वन्ति, तत्रैव प्रायेण जनानां श्रद्धा जायते । भारतीया अपि तेषामेव मतं युक्तमिति स्वीकुर्वन्ति, तेन च भारतीयसंस्कृतक्षेषु शिथिलश्रद्धा जायन्ते । अत्र न तेषा मपराधः। वयमेव सर्वथापराध्यामः। सवयमेपास्माभिर्वेदार्थों नाव- बुध्यते, कथं नु खल्वत्र तेऽववोध्यन्ताम् पाश्चात्या यदन्ति, हेयमपि . मित्रगोष्ठी-पत्रिका। ज्याच्चेत्तत, तस्य प्रत्याश्यानायास्माकं शक्तिनास्ति । मतोऽस्मत्तः प्रतिवचनमलभमानास्ते किं कुर्वन्तु । पाश्चात्त्येषु रोथ- (Roth) नामकेन केनचिट प्राग्वेदल्य ब्याख्यान कृतम् । तन का रीतिरवलम्बितेति तद्धनमेव श्रूयताम- " Therefore we do not believe, as H. H. Wilson does that Sayana better understood the expressions of the Veda than any European exegete; on the contrary we believe that a con. scientious European exegete may understand the Veda much more correctly and better than Sayana." "विल्सन इव न वयं विश्वासमो यत् सायणः युरोपीयव्याण्या- कारापेक्षया वेदार्थ सुष्ठुतरमबुभ्यतेति । अयं चास्माकं विश्वासो यद विचारक्षमः कश्चिद युरोपीयव्याख्याकारः सायणादपि शुबतरम् उत्कृष्टतरं च वेदार्थ बोसुशनोतीति"। अन्यदपि अयताम-"We do not consider it the immediate purpose to obtain that understanding of the Veda which was current in India some centuries ago, but we search for the meaning which the poets themselves gave to their songs and phrases. We consequently hold that the writings of Sayana and of the other commentators must not be an authority to the exegete, but merely one of the means of which he has to avail himself in the accomplishment of his task."-Rudloph Roth's Preface to his great Sanskrit Wurterbuch. भारते किय द्वत्सरपूर्व घेदस्य योऽर्थः प्रचलितः, न वयं तं प्रार्थयामहे, परन्तु वैदिक ऋषिभिर्येनार्थेन वेदो विरचितः, स एषा- स्माभिरनुसन्धीयते । अतः सायणादिव्याख्याकाराणामुक्तिः प्रामाणि- कत्वेनावश्यं स्वीकार्येति मास्माभिप्रहीतु शक्यते । तास्तु व्याख्याः अरुमव्याख्याकाले केवलं किञ्चित् साहाय्यं करिष्यन्तीति"। अवितमिदं यदद्यत्वे आलोच्यामां शालाणां यादर्श माधुर्य जातं, तत्र तत्र च याग गम्भीरोऽध चिन्तितः, तेन एकसिमन् जन्म- नि सविशेष सर्वशास्त्राधिगमो न कस्यापि सम्मावयितु शक्यत- .
यद किश्चित्माप्तकालम् । इति । तथापि नैतावन्मा शास्त्रान्तरानधिगमे हेतुभंवितुमर्हति । इदमस्माभिरभिप्रेयते-सत्यं साम्प्रतम् एकैकस्मिाऽपि शास्त्रे बहवो अन्याः उत्पना उत्पदान्ते चेति परन्तु सर्वेऽपि ते प्रन्थाः सविशेष पठनीया इति न सम्भवति, कथमनाहत्य,वात्स्यायनपतअलिप्रभृतीन शिरोमणिनागेशादयआदर्तव्याः। अवश्यं हि प्रन्थेषु केचिदुत्तमाः के. केचिदा मधमाः सन्ति । ततोत्तमेभ्योऽधमा विभज्यानुपादेयाः । शि. प्टेषत्तमेषु पुस्तकेषु यदि सर्वाण्यपि सम्यगालोचयितु न शक्येरन्, तथापि तेषां साराकर्षणं नातिदुष्करं भवति । दुर्भधतीशानां परि- त्यागपूर्वकं सिद्धान्तापगमो नात्यायासकरो भवेदिति सम्भावयामः । कथं पठनीयमिति सांप्रतिकविज्ञानमूलप्रवर्तकेन पाश्चात्येन बेकन- मनीषिणोकम्- "Some books are to be tasted, others to be swallowed, and some few to be chewed and digested."-Bacon. 'कानिचित् पुस्तकानि आस्वादशानि, कानिचिद् गलाधःकरणीयानि, अन्यानि तु चयितव्यानि जीर्णीकर्तव्यानि च, सपष्टार्थस्तु कानिचित पुस्तकानि भागतः पठनीयानि, अपराणि पठनीयानि परंतु न तथा कौतूहलेन, अन्यानि तु सामप्रोण साभिनिवेशं सश्रमं च पठनीयानि"। अनाहते चास्मिन् प्रकारे ग्रन्थबहुले वर्तमाने किमिवान्यद् गत्य- न्तरमस्तीति न ज्ञायते। इदन्त्वन बोध्यम्-यदेकेन तावदेकतमं शा- स्त्रमवश्यं यथोचितमध्येयम्, तत्र च समीचीना व्युत्पत्तिः साधनीया, अपरापरं शास्त्रं तु यावच्छक्यमुपादेयमिति । परं पाठारम्भप्रभृत्ये- दमवश्यं सङ्कल्पनीयं यत् यथा न्यायाध कैकशास्त्रचिन्तनं, तथैषा- परशास्त्रालोचनमपि च अवश्यकर्त्तव्यमेवेति । इदं च लक्षणीयं यत् सर्वमायुरेकस्यैव शास्त्रस्यागमे नात्येतीति । निरर्थकशुष्कतक- प्रपञ्चेषु परित्यकोषु साम्प्रतं दुविगाहत्वेन प्रसिद्वानामपि शास्त्राणा. मधिगमः कामं सुगमो भवेदित्युकमेव । तथाच तदर्थमपि नातिबदु. कालस्यापेक्षा स्यात् ।
. ५६ मित्रगोष्ठी-पत्रिका। "दार्शनिका" इति प्रसिद्धरप्यसमाभिर्यदि दर्शनान्तरवार्सायामुप. स्थितायां तूष्णीमेव स्थोयेत न कि तहदिमसमाकम् अतितमां गौर. वहानाय भवेत् । वस्तुतो दर्शनान्तरतरवमजानद्भिरपि यस्माभिः केवलं प्रौढिवादमाश्रित्य सभामण्डवेषु तदर्शनाधिकारिणो वादिनो विजयाय प्रगलभ्यते, किं तमाम भवद्भिर्युक्ततमं विषिष्येत ? संस्कृत- विद्वांसो वयमिति सर्वेऽसमान् यथोचितं मानयन्ति । परन्तु कीडशी आर्याणां जीवविद्या आसीत्, कीदृशं तेषां रत्नतरवम्, किंविधा शिल्पविदया, का वस्तुविद्या, किं भाषाविज्ञान, किम्प्रकारम् मनो- विज्ञानमित्यादिकं पृष्टैरस्माभियदि न किञ्चित् प्रत्युत्तरयितु शक्यते हि किमस्माकं यावजीवं संस्कृतपाठेन ? प्रागुक्ता अपरे च बहवो हृदयविन्यालोचिता विषया अस्मदीयैःप्राचीनैराचार्यैः सुपरिशीलिता उपनिबद्धाश्च तेषु तेषु ग्रन्थेषु । केवलमनन्वेषणदोषादेष न तान् वयं ज्ञातु प्रभवामः । यथा वेदशाखासु विप्रकीर्णा धर्माः स्मृतिकारैः स्वस्वसंहितासु संगृहीताः, तद् इदानीमपि यदि तत्र तत्र निगमा. गमेषु विप्रकीर्णास्ते ते विषया इतिवृत्तरूपेणैकत्र संगृोरन् यदि वा साहित्यदर्शनधर्मशास्त्राणां नातिबहुसमालोचनपूर्वम् इतिवृत्तरूपेण संग्रहो विधीयते, यदि वा वैदिकग्रन्थानां तेषां तेषामवश्यविशेयानां विषयाणां सरलसन्दर्भण इतिवृत्तविधयैव संक्षेपो विरच्येत, तर्हि संस्कृतशिक्षायाः कियानुपकारो भवतीति भवन्त एव विचारयन्तु । याषच्चेत्थं न क्रियते, तावद् वस्तुतः संस्कृतभाषाया अभ्युदयाशंसा न कर्तुं शक्यते । श्रीमन्तः, इतोऽपि नामान्यत् श्रोतव्यमस्ति ? परन्तु किं केवल श्रवणेन । सकृदयनधीतसभाष्यऋग्वेदः कथं नाम कोपि भारतीयः शतशोऽभ्यस्तसमस्तवेदतन्त्रानालोचितानेकभाष्यनिरुक्तादीन्सर्वाङ्गी.. णधैदिककोशप्रणेतृनेतान्पाश्चात्यविदुषः किमपि प्रतिवक्तु प्रभवेत् । पाश्चात्या अस्माकं धर्मसमाजशास्त्रादिविषये यद यद्दन्ति प्रका- शयन्ति च वसुमत्येवेयं समग्रा तत्सर्वमाकर्णयति । तेन चास्माक पाश्चात्यदर्शनम् । साधुत्वमसाधुत्वं या नियते जनः । कः सन्देहः तेषामेव प्रमाण प्राचीनभारतगौरवमद्य दिगन्तेयपि श्रयते इति । दौर्भाग्यं चेदमतितमामस्माकं यत् घेदाथग्रहणाभिलाषे उत्पन्नेऽपि कैधित्, वेदप्रन्थ एव नोपलभ्यते । 'मुम्बई' नगरादिषु दिषु स्था- मेषु ऋग्वेदो मुद्रितः, श्रीमता मोक्षमूलरेणापि स प्रकाशितः । पर न स सर्वसुलभः । ६० षष्ठिरुप्यकव्ययं कर्तुं कियन्तो नामास्मासु शिते। सामादिवेदविषयेऽपि इयमेव वार्ता यावद प्रन्थसौलभ्यं न जायते, तावत् वेदानुशीलनाशा भारते पराहता । दृश्यते सर्वैः साम्प्रतं भगवदगीतालोचनं भारते कथं प्रसृतमिति । दशवत्सरपूर्व नेत्थमासीत् । विविधप्रकारेण गीताग्रन्थस्य मुद्रणं, तस्य सौलभ्य- सम्पादनम्, प्रथम किञ्चित्प्रयासेन लोकेषु तस्या उपादेयत्वबोधन- चेति त्रिभिः कारणैरेव गीताध्ययनमित्थं समृद्धप्रचारमिति सम्भा- वयामः । वेदविषयेऽपीयं पद्धतिरनुसरणीया। तथास्य सौलभ्यं वि. धातव्यं येन नितान्तं दरिद्राणामपि गृहं तेन खलु रत्नेनाल ङ्कतं भवेत्। विधुशेखरशर्मा। । पाश्चात्त्यदर्शनम् । समवासनगरे एव परमानदस्य शिष्योमालीशनामा (Melissus) ब- भूव। प्रकृतिवादिनां प्रत्याख्यानपरोऽस्य यत्नः । एकमखण्डममूर्तमचलं सदेव तत्त्वम्। अनेकप्रतीतिरिन्द्रियजन्योभ्रम इतिचास्य मतम् । ऐलेय (Elea)वासी जिनाख्यः (Zeno) कश्चिद्वीरोनीतिज्ञ आसीत् । अयं वाद- वित्सुप्रथमः।प्रतिवादिनांमते विरोध प्रदश्यं स्वमतं व्यवस्थापितवान् । बहुत्वस्य,भूतानां,गतश्च स्वीकारे व्याहतत्वं तेन दर्शितम्। बहुत्वस्य वा- स्तवत्वस्वीकारे एकमेव वस्तु परिच्छिन्नमपरिच्छिन्नं च स्यादिति वि- रोधः संख्ययाहि तदन्येभ्यः परिच्छिन्नं स्यात् असंख्यभागसमवेतत्वाचा. परिच्छिन्नम्। भूतानां भावस्य वास्तवत्वेऽपि स भाषः सदृशात्सदृशी- ५८ मित्रगोष्ठी-पत्रिका। स्पत्ति रूपोवा विसहशाद्विसदृशोत्पत्तिरूपोवा । प्रथमपक्षे कार्योद्भवो- भ्रममा सर्वथा सादृश्ये कार्यकारणयोर्भेदाभावात् । सादृश्ये त्यसभा. व्यस्यासत्कार्यवादस्य प्रसङ्गादभावाद्भावोत्पत्तिस्वीकार: । एवं गते. रपि वास्तवत्वासंभवः गच्छन्नपि हि वाणोवस्तुतः प्रतिविन्दु वियति स्थिर एव । किंचाकाशस्यैव गमनाधिकरणत्वं स्वीकार्यम् विनाह्याकाशं गतेरसंमवः तच्चाकाशमसिद्ध, किमधिकरणकं हि तदाकाशं स्यात् । आकाशान्तराधिकरणकं चेदनवस्थाप्रसङ्गः । अनाधारं च न संभवति तादृशस्य वस्तुन उत्प्रेक्षाया अप्यसंभवात् । एवं विभागस्य निरोधहेतूनामभावात्परमाण्वन्तो विभाग इत्यपि भ्रममानम् । परमाणूना- मपि परतोविभागस्यावश्यंभावित्वात विभागस्य चापरिच्छिन्नत्वात् । इत्थं द्रव्याद्रव्यविभागः पृथुगौरीयरेकानेकविभागरूपेण ऐलेयैश्च भावाभावरूपेण स्वीकृतोऽभूदिति स्फुटम् । अयमत्र संग्रहश्लोकः- संख्यां पृथुगौरीया जनफणिपरमानदौ सत्ताम् । प्रतिपेदाते तत्त्वं मालीशजिनौ सदैवैकम् ॥ इत्थं केपि यवनदार्शनिकाः प्रकृतिवादिनः परेचात्मवादिनइति व्या- ख्यातम् । ततोऽप्यन्ये यवनदार्शनिका बभूवुर्य उभयवादित्वेन द्वैतवा- वित्वेन वा प्रसिद्धाः । एषां प्रथमोहरकलिताख्य:( Heraclitus )सम- भूत् । कूटस्थसत्तावादिनामैलेयानां प्रतिपक्षीभूय परिवर्तनशील भावाभावस्वरूपं सकलं जगदिति प्रथयाम्बभूव प्रथमोऽयं द्वैतवादिना. म्। परस्परविरोधरूपं सर्वं जगत् । शान्तिः केवलं मृतौ संभाव्या। सूक्ष्माणां भेदानां विरोधानां चाप्रमेयत्वात् इन्द्रियजन्यं ज्ञानं हरकलित- स्य मते सर्वदाऽनिश्चित प्रायश्वाश्रद्धेयम् । काले सर्वं जगत्प्रतिष्ठित दाहशक्तिरैव च मुख्या जगति', त्यैव सकलपरिवर्तसंभवात् । अन्यश्च वैज्ञानिकः संपदाकराभिधानः Enpedocles) सुशैलप्रदेशेषु * मारयांनी वेदांतिनां च सहकार्यवाहपश्चोत्रानुसंधेयः । ।
MISSION INSTITUTE HUY HI CALCUTIA . पाश्चात्यदर्शनम् । ५९ ( Sicily) जातः । ऐलेयैः सममसौ कूटस्था सत्ता स्वीकरोति । किंतु बहुत्वं द्रव्यस्य, भावरूपत्वं च सत्तायाः प्रथयअयं कूटस्थानि चत्वारि तत्वान्यङ्गीचकारेति भेदः। मैत्रीविरोधाख्यशक्तिद्वयेन सर्व जगदे- भिरेव चतुभिस्तत्त्वैनिमितम् । नियत्या दैवेन वा तच्छक्तिद्वयमितरेत- रेण नियतसम्बद्धम् । प्रथममिदं सर्वं जगचक्रमेकं सद्रूपमासीत् अनेनैव चोपरिवर्णितेन शक्तिद्वयेनेदं वर्तमान रूपं प्रापितम् । सर्वथा द्रव्याभावश्चास्य मतेऽसंभाव्यः । सर्वं जगमित्यं द्रव्यमयं च । ततः परं केचित्परमाणुवादिनो दार्शनिकाबभूवुः । एषां प्रथमो- लवकृपाभिधानः ( Leucippus ) अभूत कि तु तस्य लेखादि नोपल- भ्यताति दामक्रीताभिधस्य ( Democritus ) तच्छिष्यस्यैव मतं प्रथ- ममुपन्यस्यते । अयं महता व्ययेन सर्वेषु शातप्रदेशेषु गत्वा तत्रत्यं वि. शानमादाय स्वदेशमेत्य महती प्रतिष्ठामासादितवान् । परमाणुवा. दिनां द्रव्यमविभाज्यैरखण्डैः सूक्ष्मपरिमाणैः परमाणुभिर्निर्मितम् । अनन्तमाकाशं सर्व जगाप्य तिष्ठति । अस्मिन्नाकाशे शून्यरूपे असं- ख्यानां जगतां स्थितिः । इमानि च जगन्ति वर्णैः पुस्तकानीव परमा- णुभित्रथितानि सन्ति । एषामणूनां मध्ये न गुणकृतः कोपि परस्परं- भेदः । केवलं परिमाणकृतआकृतिकृतश्च भेदोस्ति । शून्यं विना परि- घर्तस्यासंभवात् जगतो नित्यत्वापत्तेरेभिःपरमाणुवादिभिः शून्यरूप- माकाशं स्वीक्रियते । परिवर्ते हि संयोगविभागाभ्यामेव सर्वं जगत्प- रमाणुभ्यः समुद्भवति । एतौ च संयोगविभागौ नियत्या नियमितौ क्रमशः पाण्डेयः श्रीरामावतारशर्मा। OF RISHNA LIBRARY CULTURE ६ .. साहित्यरत्नावलो। माधवः । चतुर्दशशतके विजयनगरेश्वरस्य वीरयुक्नृपतेस्तदनन्तरं हरिहरस्य च सभायां समस्तवेदवेदाङ्गपारगोमाधवाचार्यभासीत् । तस्य भ्राता सायनाचार्यइति प्रसिद्धः उभयोबहवो ग्रन्था उपलभ्यन्ते । अयं सर्वज्ञ- विष्णोः शिष्यासीदिति सर्वदर्शनसंग्रहे दृश्यते । माधवस्य चतुर्था- श्रमे विद्यारण्यनाम्ना प्रसिद्धिः संजाता। अनेनैव माधवेन वेदान्त- गुरोभंगवतः शंकरस्य * चरितं शंकरविजयाभिधं प्राणायि । ग्रन्थ. शैलीसमालोचनेन शंकरविजयस्य प्रणेतामाधवः कोप्यन्य एवेति केचित् । अस्य ग्रन्थस्य प्रणयने माधवेन 'अभिनवकालिदास' नाम्ना स्वस्य व्यपदेशः कृतः । प्राधान्येन दार्शनिकत्वादस्य कवितायां बहवो दोषादृश्यन्ते तथापि विषयस्यापूर्ववाद बहूनां गुणानां च सद्भावादस्य काव्य प्रायोतीव मनोरमम् । अस्य ग्रन्थशैली च प्रायोनवीना । न क- स्याप्यनुकरणमस्य बहुमतम् । एकाक्षराणां खादिशब्दाना प्रयोगैः शंकरमण्डनयोः शास्त्रार्थेऽश्लीलादिदोषेण ईदृशैरन्यैश्च दोषैः क्वचि-- क्वचिन्नातिरम्येऽपि शंकरविजये प्रसादादिगुणैः प्रायोहृदयमाकृष्यते बलाञ्चपठितु प्रवृत्तिभवति । आनन्दज्ञानेन ( आनन्दगिरिणा) अन्यः शङ्करविजयाख्यःप्रबन्धःप्राणीयत । गद्यपद्योभयात्मकस्य तस्यैव प्रबन्धस्य विषयः केवलपद्यमधिवेन ग्रथितः । प्रायश्चानन्दगिरीय- प्रबन्धानुसार्येव सकलं माधवीयं काव्यम् । अत्र च शंकरमण्डनयो दिः परमरमणीयइति सएवात्र विनोदाय सहृदयानां विन्यस्यते । शङ्कारविजये- अथप्रतस्थे भगवान्प्रयागास मण्डनं पण्डितमाशु जेतुम् । गच्छनखसृत्या पुरमालुलोके माहिष्मती मण्डनमण्डितां सः ॥ अवातरद्रनविचित्र वां विलोक्य तो विस्मितमानसोसौ। * श्रीशंकराचार्यः केरलेष श्मशतके संजातः ॥
साहित्यरत्रावली। पुराणवत् पुष्करवर्तनीतः पुरोपकण्ठस्थवने मनोजे ॥ प्रफुलराजीववने,विहारी तरगरिजकणशीकराद्रः। रेवामरुत् कम्पितशालमालः श्रमापाहद्भाष्यकृतं सिषेवे ॥ तस्मिन्स विश्रभ्य कृताहिकः सन् खस्वस्तिकारोहणशालिनीने । गछमसौ मण्डनपण्डितौको दासोस्तदीयाः सददर्श मार्गे ॥ कुनालयो मण्डनपण्डितस्येत्येताः सपप्रच्छ जलाय गन्त्रीः । ताश्चापि दृष्ट्वाद्भुतशंकरं तं सन्तोषवत्यो ददुरुत्तरंरुवम् ॥ स्वतःप्रमाणं परतःप्रमाणं कीराङ्गनायत्र गिरः किरन्ति । द्वारस्थनीडान्तरसंनिरुद्धा भवेहि तन्मण्डनपण्डितौकः ॥ फलप्रदं कर्म फलप्रदोऽजः कीराङ्गनायत्र गिरः किरन्ति । द्वारस्थनोडान्तरसनिरुद्धा अवेहि तन्मण्डनपण्डितौकः ॥ जगदध्रुवं स्याजगदध्रु वस्यात् कीराङ्गनायत्र गिरः किरन्ति । द्वारस्थनीगन्तरसंनिरुद्धा अहि तन्मण्डनपण्डितौकः ।। पीत्वातदुक्तीरथतस्य गेहाङ्गत्वा यहिः सन्मकपाटगुप्तम् । दुवंशमालोक्य सयोगशक्त्या व्योमाधवनावातरदणाणान्तः । तदा सलेखेन्द्रनिकेतनाभं स्फुरन्मरुचञ्चलकेतनाभम् । समग्रमालोकत मण्डनस्य निवेशनं भूतलमण्डनस्य ॥ सौधाग्रसंछन्ननभोवकाशं प्रविश्य तत्प्राप्य कवेः सकाशम् । विद्याविशेषात्तयशःप्रकाशं ददर्श तं पाजसंनिकाशम् ॥ तपोमहिम्नैव तपोनिधानं सजैमिनि सत्यवतीतनूजम् । यथाविधि श्राद्धविधौ निमन्व्य तत्पादपमान्यवनेजयन्तम् ॥ अथोपसंस्पृश्य जलं सशान्तः स संभ्रम मण्डनपण्डितोपि । व्यासाज्ञया शास्त्रविदर्चयित्वा न्यमन्ध्ययद्भक्षकृते महर्षिम् ॥ सचाब्रवीत्सौम्य विवादभिक्षामिच्छन्भवत्संनिधिमागतोस्मि । सान्योन्यशिष्यत्वपणा प्रदेया नास्त्यादरः प्राकृतभक्तभैक्षे॥ मम न कि चिदपि ध्रु धमीप्सितं श्रुतिशिरःपथविस्तृतिमन्तरा। भवहितेन मखेष्ववधीरितः सभवता भवतापहि-दुपतिः ।।
मित्रगोष्ठी पत्रिका। जगति संप्रति तं प्रथयाम्यहं सममिभूय समस्तविषादिनः । त्वमपि संश्रय मे मतमुत्तमं विवद वा बद कास्मि जितस्त्विति इति यतिप्रवरस्य निशम्य तद्वचनमर्थवदागत विस्मयः । परिभवेन नवेन महायशाः सनिजगौ निजगौरवमास्थितः ॥ अपि कदाचिदुदेष्यति कोविदः सरसवादकथापि भविष्यति इति कुतूह लिनोमम सर्वदा जयमहोयमहो स्वयमागतः ॥ ततः समादिश्य सदस्यतायां समिणी मण्डनपण्डितोपि सशारदा नाम समस्तविद्याविशारदां वादसमुत्सुकोभूत् ॥ श्रीरामावतारशर्मा। उदानवर्गः उदानवर्गोहि भगवता बुद्धन कथितानां नीतिमालानां संग्रहर पोबौद्धोग्रन्थः । एषखलु भागचतुष्टयेन विभक्तः ऊननवत्यधिकन शतश्लोकमयश्च (९८९)- तद्यथा प्रथमभागे द्वादशाध्यायाः षष्ठयधि द्विशतश्लोकाः ( २६०)। द्वितीयभागे द्वादशाध्याया ऊनपञ्चाशः धिकद्विशतश्लोकाः ( २४९) तृतीयभागे षडध्यायाअष्टचत्वारिंशन धिकद्विशतश्लोकाः (२४८) चतुर्थभागे च द्वात्रिंशदधिकदिशतश्लोक ( २३२ ) वर्तन्ते । श्लोकोगाशवेति " उदान " इत्यस्य अभिधेयम क्वचित्तु स्तोत्र मित्यस्मिन्नर्थेऽपि पदमिदं व्यवहियते । प्रन्थेऽस्मि यारशाः श्लोका दृश्यन्ते, भगवता गौतमेन कथिताना मुपदेशमाला शेषभागे तादृशा एवावलोक्यन्ते, अनुमीयते चैतेन यदधर्मश्रोतृ प्रति कथितोपदेशानां स्थिरांशं बोधयितु लीलयैव स्मरणाः कति पयैः श्लोकैरुपदेशानां सारनीतीभंगवान् बुद्धः संग्रथितयानिति बौद्धधर्मप्रतिष्ठापयित्रा श्लोकानामेतेषामतीव प्रयोजनीयता शिष्य भ्योदर्शिता समर्थितश्च सविशेष लौकिकेषु कर्मसु तेषां प्रयोगः । तेनै तदनुमीयते पद बौद्धमनीषिणोयोधप्रकर्षोत्पादकान् बौद्धसम्प्रदाय स्याभिमततमांध बुद्ध कथितानुपदेशान् संकलयितु सोद्यमा आसन् इत्यमेव कालेन उत्तरमहायानदक्षिणमहायान (Northrn and Souther । .
. अदानवर्गः। inons ) नामकानि बहूनि पुस्तकानि समपद्यन्त। उत्तरमहायान- कलितेषु ग्रन्थेषु हिचत्वारिंशदध्यायात्मकं सूत्रम्, उदानवर्गः, कति- गन्यन्यानिच पुस्तकानि प्रसिद्धानि, दक्षिणमहायानसंग्रथिताना धानां च धर्मपदं (धम्मपद), सूत्रनिपातश्चंतिग्रन्थयं प्रख्यातम् । धर्मपदस्थैः श्लोकैरुदानवर्गस्य विशमिताना(३००)श्लोकानां प्राये- करूपता, सार्धशतस्यच समधिकं सादृश्यं लक्ष्यते । पुनरुदानवर्गस्य शतिःश्लोकाः सूत्रनिपाते दृश्यन्ते । मपिच प्रायसतत्संख्यकानामे- श्लोकानां सूत्रनिपातस्थेन श्लोकनिवहेन सह भागतो ऽभेदः सम- म्यते । तेनहि उदानवर्गस्य प्रायेणार्द्धसंख्यकाः श्लोकादक्षिणमहा- नान्तर्भूते धर्मपदे सूत्रनिपाते च प्राप्तव्याइति सिद्धान्तितम् । तेन पुनरेतदनुमीयते यत्स्थाविरगाथा-स्थाविरोदानप्रभृति- पुस्तकेषु परीक्षितेषु तिवतीयपुस्तकस्य (Tehd-du-brjod-pai tro- 2s नामकस्य ) बहवः श्लोकास्तेष्वेव प्राप्तव्या इति । भनूदिते तिवतीयग्रन्थे पालिपुस्तकेन तुलिते प्रथमपुस्तकस्य सर्वतएव पालिग्रन्थादीषत् प्रभेदोलक्ष्यते । अनुवादकस्य पालि- भाषायां सम्यग् व्युत्पत्तेरभाषएयास्य मूलमित्युपपन्नम् चीनदेशीय- पुस्तकेऽपि उदानवर्गस्य श्लोकाटश्यन्ते । उदानवर्गस्य संकलयिता धर्मनातोनामेति चीनग्रन्थस्य मतम् । भरि च धर्मत्रातोवसुमित्रस्य पितृव्यइति सएग्रन्थो वर्णयति कनिष्कस्य शासनसमये या बौद्धपरिषत् समाहूता, अयमेव वसु मित्रः परिषदस्तस्याः सभापतिश्चेद् भवेत् तदासौ खुष्टजन्मनः प्राक् प्रथमशताब्द्यामेव ( First Century B. C. ) वर्तमान मासोदि- यनायासेन स्थिरी क्रियते। तारानाथेन तु“वैभाषिकनायकानां कश्चित् स्थविरधर्मत्रातीनामाग्रणीरासीद, अयं स्थविरधर्मनात उदानवर्गस्य संकलयिता धर्मत्रातश्च द्वावेतौनाभिमपुरुषाविति" मतमुपन्यस्य सरलं तत समाधानं कुटिलीकृतम् । चन्द्रकीर्तिनारि “ स्थविर " "भदन्त" इति विशेषणयेनान्वितौ दावेव धर्मवातौ निर्णीतौ। सम्भाव्यं यद- - . ६४ मित्रगोष्ठी-पत्रिका। दावेतौ पुस्तकानि रचितवन्ताविति । पथावा भवतु परमेत मस्मन्मतं खी० पू० ७५ तमाब्दे उदामवाविरचित इति । लण्डदेशवासिना उलियम् रहिल माम्ना केनचित् बौद्यधा तत्वानुसन्धायिना स्वभाषाया मनूदितस्योदानवर्गख्य भूमिकायाः र क्षिप्तोनिष्कर्षोयम् । अतः पर मस्माभिः पाठकानां चित्तविनोदनाय आंगलभाषाय मनूदितेषु उदानवर्गलोकेषु केषांचित संस्कृतानुवादा इह लिख्यन्ते. (१) फलानां परिपकानां यथा पातभयं सदा । जाताना खलु जीवानां भयं मरणतस्तथा ॥ उ०५०३ पृ ११ श्लो (२) कामादुत्पद्यते दुःखं कामावुत्पद्यते भयम् । न जानाति भयं दुःखं, काममुक्तस्तु यो नरः॥ पृ०२ श्लो. (३) अप्रियैः सह संयोगाद वियोगाच प्रियैः समम् । यावजीवं जनो दुःखं जनयत्यात्मनो महत् ॥ २५ पृ० ६ श्लो० (४) कायेन मनसा वाचा धर्ममाचरतीह यः । स जनः सुखमाप्नोति परत्रेह च जन्मनि ॥ ३४ पृ० ६ श्लो. (५) भूतले गगने वापि सिन्धौ वा गिरिगह्वरे। न स्थानं, यत्र कर्तारं मागच्छेत् कर्मजं फलम् ॥ ४ पृ० ५ श्लो० (६) पुण्यं कर्माथवा पापं, यत् किञ्चित् कुरुते नरः । नैकमप्यनयोबन्ध्यं शुभाशुभकरं हि तत् ॥ ४० पृ० ८ श्लो. (७) धर्मे प्रवृत्तिः परमा च निष्ठा, वदान्यता लोभ-विहीनता च अमी गुणा यस्य जनस्य सन्ति, सर्वत्र सर्वैः खलु पूज्यते सः॥ (८) जयेत् कोपमकोपेन, शुभेन चाशुभं जयेत् । औदार्येण जयेल्लोभं सत्येन चानृतं जयेत् ॥ ८९ पृ० १८ श्लो० (8) वायंते मरणं येन मरणं च निषिध्यते संसारान्मुच्यते येन तज्ज्ञानं ज्ञानमुच्यते ॥ ४१ पृ० ३ श्लो. श्रीहरिचरणविद्याभूषणः, संस्कृताध्यापकः ब्रह्मचर्याश्रमः, ( बोलपुर ) ४४ पृ०८ श्लो
मित्रगोष्ठो-पत्रिका।
(मासिकं संस्कृतपत्रम् ।)
साध्वं संघदवं संघो मनांसि जानताम् ।
ऋग्वेदः।
OOR
द्वितीय वर्षे } १८२७ शकाब्दाः, आषाढः। { तृतीयमख्या
काव्यपरिमलः।
मानस्थापनयाय नम्रशिरसः शम्भोजटाप्रस्खलत-
सधीशशिरोमगिधु तिशिखानीराजनाराजितम् ।
देव्याः श्रीचरणारविन्दयुगलं त्वां पातु साधो विरम,
प्रातस्त्वारुणरागरशित मिव प्रह्वानुराग प्रदम् ॥१॥
महता विरहे क्षुद्रोऽप्युपास्यः कार्यसिदये।
निशायां मटसूयेन्दौ प्रदीपोऽपि तमोपहः ॥ २ ॥
कृष्ण पक्षो निशेयं घनतिभिरमुखो कापिलीनः शशा
शफ घान्तात् सशङ्कः शरणमुपगतः सूर्यदेवस्य पादान् ।
तारा निद्रालसा दोनयनदशशतीवावृतामेघपले-
पराभ्यो योऽयदीपावलति यदि मरुत सोऽपि लोयेत तहिं ॥३॥
उदये शतां याति पुष्टि गच्छति च क्षये।
छायव सवितुः पत्यु हिणी व्यभिचारिणी ॥४॥
जडाशयोऽप्येष तवानुवत्सर,
प्ररितोऽद्भिः परिरक्षति प्रजाः ।
पयोद तलिन् विमुखस्वमय चेत.
निरागस स्तहिताः शरीरिणः ॥५॥
६६ । मित्रगोष्ठी-पत्रिका मण्डूक मूकोभव लम्फझम्पम विमुञ्च, किञ्च व्यपयाहि तूर्णम् । एक्कयं लेलिहदुज्ज्वलाक्षः सोऽय मेति त्वयि बद्धलक्ष्यः ॥६॥ श्रीमहेशचन्द्र तकंचुडामणिः। दिनाजपुरम इत्-सिं। -- साम्प्रतं मि० ताकाकासुर्नाम "इत-सिं"-नामकस्य कस्यचिचीन. देशीयस्य पर्याटकस्य भ्रमणवृत्तान्तं प्रकाशितवान् । “फाहियान"- "हुयेन्-सां"-प्रभृतीमामिवास्य नाम नास्माभिः परिचितमासीत् । परन्त्वनेन भारतवर्षस्य तस्मिन् समये प्रचलितानां रीतिनीतिव्यवहा. रानुष्ठानादीनां यादृशमविकृत चित्रमङ्कितं तेन तद बौद्धकालस्ये. तिवृत्तसंग्रहार्थं महामूल्यम्। सुप्रथितस्य परिव्राजकस्य "हुयेन सां" इत्यस्य मरणानन्तरं खी० ६७३ तमेऽब्दे 'इत्-सिं'-महाशयो भारतमा. जगाम। तदानी सुप्रसिद्धायां भागीरथीतटवर्तन्यां 'ताम्रलिप्ति'-न. गया पोतादयतीक्यं बहुना क्लेशेन "नालन्द" नाना प्रख्यातं बौद्ध. विहारमुपागच्छत् । तदा भारते नालन्दविद्यालय एवैकः सर्वोत्कृष्ट आसीत् । प्रायो दश सहनाणि विद्यार्थिनोत्र घौद्धशास्त्रग्रहणाम. तिष्ठन् । न केवलं भारतस्य निखिलप्रदेशेभ्यः, अपितु चीनेभ्यो यव. सुमानादिभ्यो दोपेभ्यश्च बौद्धशास्त्राध्ययनायिनोऽत्रागच्छन् । 'इत्. सिं'-महाशयोऽस्मिन् षोडश वत्सरान् संस्कृतं पालिं च भाषामधोत्य 'विनयपिटक'-प्रभृतीनां बौद्धधर्मग्रन्धानां प्रायः ५०,००० पञ्चाशत सहस्राणि श्लोकान् संगृह्य स्वदेशमनयत् चीनभाषया च तेषामनुवाद. मकरोत् । अस्मिन् सन्दर्भ तेन स्वयं लिखिताद भ्रमणवृत्तान्तात् तत्कालप्रचलितं श्रमणानामतिथिसत्कारप्रकारमुद्धृत्य पाठकभ्य उप- शाक्तरजतम् । ६७ हियते। इत-सिं महाशयः समाजव्यवहारादौ भारतमेव भाव कृत्य प्रचलितव्यमिति स्वदेशीयान् शिक्षयितु भारतीयानामाचारादिप्रकार सविशेषमवर्णयत्। अस्मिन् प्रन्ये सर्वत्रैव भारत प्रत्येतस्य महाननु. रागी दृश्यते । सोऽयमस्माभिरुपजिहीर्षितस्तलिखितः अतिथिस. कारप्रकारो भारतस्य "परिचितो वा अपरिचितो वा, शियो वा विद्यार्थी घा, घयला ज्येष्ठो वा, कनिष्ठो वा, यः कोऽप्यस्तु, भागन्तु दृष्ट्वा भिक्षुरभ्युद्गम्य स्वागतं पृच्छेत् । समायाते अतिथौ भिक्षुः तत्करात् भिक्षापात्रं, जलपात्रं च गृहीत्वा नवदीक्षितं तं वापि निर्जने स्थाने, वृद्धन्तु बहिःस्थिते गेहे उपवेशयेत् । अभिवादनास्यातिथेः पादग्रहणं, देहे करतलपरामर्शनं च, अतादृशस्य कनीयसः पथक्लमाप. नोदनार्थ पृष्ठे मन्द मन्दं पाणितलेनाघातं च भिक्षुः कुर्य्यात् । सव- यसा सह व्यवहारे तु न कश्निनियमः । शिक्षार्थी आगन्तु को दूरीकृते पथश्रमे, पाणिपादं प्रक्षाल्य पूज- नीयस्य जनस्य पादग्रहणं कुर्यात् । सोऽपि विद्यार्थिनः पृष्ठे स्कन्धे च कर स्थापयित्वा कुशलं पृच्छेत् । विद्यार्थी तं प्रश्नमुत्तर यित्वा स. विनयं तदेकपाश्व उपविशेत् । घृतेन, मधुना अपश्चाहाय्यः पानीयैश्वातिथेः सत्कार: करणीयः । * * पथि जनसंघ वा साक्षात्कार मस्तकं मनागवनम्य 'वन्दे" इत्युश्चार्यमिति"। 'इत्-सिं'-वर्णिता भारतस्यापरेऽपि वृत्तान्ता यथाकालं प्रकाश- यिष्यन्ते । कश्चिद अध्यापकः, ब्रह्मचर्याश्रमः, (पोलपुर ) * शुक्तिरजतम्। ( पूर्वानुवृत्तम् ) किं नाम व्यावहारिक वस्तु किं वा प्रातिभासिकमिति पूर्वमुक्तम् । व्यावहारिकस्य पदार्थस्य याहशमुपादानं प्रातिभासिकस्य न ताशं . मित्रगोष्ठी-पत्रिका। भवति । समाने हि उपादाने, व्यावहारिकत्वेन प्रातिमासिकत्वेन म्योन्यं भेद एव न स्यात्, यदि घटस्येव पटस्यापि मृदेवोपादानं भवेत न सहि तौ अन्योन्यं भिद्य याताम् । अतो व्यावहारिकात् प्रातिभासि कस्य मित्रमेयोगदानं वक्तव्यम् । उक्कमधस्तात्-शुकिरजतस्थले बांकचिक्यादिसन्दर्शनसमुददो धित-पूदृष्टरजतसंस्कारसहित शुक्तित्वरूपरिशेषांशस्य अज्ञान रजतरूपेण परिणमत इति । अतः भज्ञान मेव प्र.भि.सिकस्य तरू (जतस्योपादानम् । यदि येनारमना परिणमते तदेव तस्योपादानम पथा घटरूपेण परिणममाना मृद घटस्योपादामम: यथा वा दधिरूपे परिणममानं दुग्धं वन उपादानम् । भज्ञानम्, भविघति नार्थान्तरम भविधा हि विविवशक्तिः-अघटनघटनपटीयसी। न किश्चित् तय दुष्कर नाम । तस्मात् प्रातिभासिकपदार्थोत्पत्तौ सर्वच अज्ञानम्- भविद्यवोपादानम् । अथ द्रष्टव्यं शुक्तिरजतस्य कतमस्मिन् पदार्थेऽन्तर्भाव इति । य दस्तु न जातु केनापि ज्ञानेन वाध्यते (विमाश्यते), तत् सत, यथा- संसारदशायर्या घटपटादिकम्, न हि संसारदशायामति निशि तारशं ज्ञानम, येन घटपटादिकं बाधेत । * न तावत शुक्तिरजत सदस्तु, 'इदं रजतम्' इति मानोत्तर भाविना 'नेदं रजतम्' इति शानेन तस्य माध्यमानत्वात् । नहि "ने रजतम्" इति शानोत्पती रजतस्य तव समोपलग्यते। पस्य खलु अतीतानागतवर्तमानरूपेषु कालत्रितयेषु न कापि स- रखम, तद् वस्तु असत, यथा-गगनकमल-वभ्यागुत्र-शशटडादयः, महि कदाचिद गगनकमलादय आसन्, सन्ति, भविष्यति वाम • यदापि एसम्मते व. नापरं किषित सध्वस्तु, तथायि संमारा. पण्यायो घटपटादीनामपि ज्ञानान्तरेण षाध्यत्वादर्शनात् । सेऽपि सदकस्तुत्व प्रयन्त एव घरदेटुम् अतएव अश्यावयाखानावका वाचस्पतिमिमाः- "परम, पतिकादो परमावती"याहुः । - - शुक्तिरजतम् । पामा शुक्तिरजत तथा, कियन्तं कालं तस्योपलम्मात् । अतोन तदसत। नापि सदसत् तेजस्तिमिरयोरिव सस्थासरवयोयुगपत् एकत्र विरोधात् । ये किल वदन्ति-'इदं रजतम्' इत्यादौ रजतत्वांशे देशान्तरीय. (जतस्य स्मृतिः, इदन्त्यांशे तु इन्द्रियादिदोषेण पुरोवर्तिपदार्थस्य सामान्यांशग्रहो भवतीति । तन्मतेऽपि शुक्तौ परिदृश्यमानं रजतं, शुक्तिर्वा भवेत, देशान्तर. स्थ रजतं वा भवेत्, नैतयोयोरन्यत् । यदि तावत् शुक्तिरेय स्यात्, तदा 'शुक्तिकेयम्' इत्येव इ.नं स्यात्, न तु 'इदं रजतम्' इति । भथ देशान्तरस्थं रजतमा हिँ 'देशान्तरे रजतम्' इति ज्ञानं स्यात्, न तु 'अस्मिन् रजतम्' इति । अथ कथयसि देशान्तरस्थितत्वेऽपि रजतस्य तद्देशान्तरं न मयंत इति । तथापि न युज्यते; तथा सति 'रजतम्' इत्येव मानं स्यात्, न तु 'अस्मिन् रजतमिति' । अतः शुकिरजतं न सहस्तुत्वेन, न असदस्तुत्वेन नापि सदसद् स्तुत्वेन निवपतु शक्यत इति तद् "मनिर्वचनीयम्'' एव किमपि पदार्थान्तरमिति नेयम् । . सम्भवतीह केषाञ्चित् संशयावकाशी यद यदि नामैतन्मते ब्रह्मैव सत्, तदभिन्नं तु निखिलमेव असत् स्यात् कथं तहि जगद 'भनिव. चनीय सम्भवतु इति। अत्र पञ्चगादिकायां श्रीपनपादाचार्येरेव प्र. त्युक्तम्-"ननु सबमेवेदम् असदिति भवतो मतम् ? ( उत्तरयति) • एतन्मते शुक्तिरजममिव निखिलोऽपि जगत्प्रपञ्चः 'अनिर्वचनीय' एष। यदि नाम जगत् सत् स्यात्, न तदा सस्य बाधा भवेत्; "तत्तुमसौ"त्यादि पास्योत्पन्न निर्विचिकित्सचामोदये तु तदपि बाध्यत एव । नापि जगदप- घद भवितुमर्हति, गगनकमलादिवद अत्यन्ताप्रतीत्यापत्तेः । न च वा सदसत सयोविरोधात् । तसा अनिर्वचनीयम् एवेति युक्तम्। अतएवेदं मतम "पनिर्वचनीयवाद" इत्युच्यते । अयमेव वेदान्तिना सिद्धान्तः ।
मिलगोष्ठी-पत्रिका क एपमाह अनिचनीयादरविवारमकम् इत्युद्धोषितमसाभिः । मा पुनविद्योदये विदनाया निरुपाख्यतामङ्गीकृत्य असत्वमुच्यते, काम मभिधीयताम् इति"। कथितम्-इन्द्रियेण पुरोवत्तिंपदार्थस्य सन्निकर्षे सति इन्द्रियदोष हेतुना अधिष्ठानस्य सामान्यांशमानं गृह्यतइति । भत्र बहवो बहुध विप्रतिपद्यन्ते । केचिद् अध्यासं प्रति अधिष्ठानज्ञानस्य कारणत स्वीकुर्वन्ति, अन्ये न । केचिद अधिष्ठानारोप्ययोः सादृश्यमपेक्षणीय मेषेति वदन्ति, अपरेन। इत्येवमन्येऽपि केचन किञ्चित् विभिन्नमेर स्वस्वाभिमतं पुरस्कुर्वन्ति । एतदपि समासतो दयिष्यते । उक्तपूर्व- शुक्तिरजतस्य अचानमेव उपादानमिति । शुक्त इद म्त्व-शुक्तित्वांशयोमध्ये इदन्त्यांशस्य शानात, तदंशस्यैवाशानं विनिध संते, न तु शुक्तित्वांशस्यापि । यद्विषयकं ज्ञानं, तद्विषयकमेषाशा नश्यति, न तु अन्यविषयकाद शानादन्यविषयकमज्ञानम् इति नियमः ततश्च शुक्तित्वांशस्य अशानमेव रजतस्योपादानकारणम्। अनुभव एवात्र प्रमाणम्, दृश्यते हि शुक्तिशाने न रजतमध्यस्यते, तदभावे तु अध्यसयत एवेति । अतः शुक्तित्वांशाशानमेव रजतोपादानम् इति युक्तम। भतएवामो बदन्ति- रजतस्य शुक्तियांशोऽधिष्ठानम् इदन्त्यार माधारः रजतादिसम्पादकस्य अशानस्य विषयः अधिष्ठानम् । यत पुनः रजतादिभिनमपि तदभेदरूपेण प्रतीयते, स आधारः। प्रकृते व तादृशस्य अशानस्य विषयः शुक्तियांश एवेति सोऽधिष्ठानम् । इदन्त्यांशस्तु भिन्नोऽपि रजतात् तदभेदरूपेण प्रतीयत इत्याधार इति केचित् । अस्ति तावत् शुक्तौ रजताध्यासे 'इदं रजतम्' इति लानं भवती ति। तस्मि शाने इदत्वांशे रजतत्वांशेन अभेदेन प्रतीयत इति इदं. स्वांशाशानमेव रजतस्योपादानकारणं वक्तव्यम् अनाऽयं बालस्यापि अनुयोगः सम्भवति-यदि प्रथमम् इदन्त्वांशस्य शानमेव उत्पन्नं, ७५ पोद्रानाम् आमेरिकाविष्कारः। कृतस्तदा तद्विषयकमज्ञानम् । नहि हानाहानयोः सामानाधिकरण्य भवति । भत्रेदं प्रतिवचनं-पुरोवर्तिनि पदार्थे नयनसन्निकर्षे सति अन्तःकरणे इदमाकारा काचन वृत्तिर्जायते। सा च वृत्तिरिदन्त्वांश. ज्ञानस्य आवरणशक्तिं विनाशययाप विक्षेपशक्ति विनायितुन प्र. भवति । ( नयनस्य काच-कामलादिदोष एवान कारणम् ।) मत इद- रवाशविषयकस्य अशानख्य विक्षेपशक्तिरेव रजतस्योपादान कारण- मत्यन्ये ।. क्रमशः। विधुशेखरशर्मा। :0: बौद्धानाम् आमेरिकाविष्कारः । यस्य खलु विविधयशोदुन्दुभिध्वानेनाध समग्रमपि दिगन्तराल. मापूर्यते, आमेरिकाभिधेयस्य तस्य महादेशस्य नामापि पञ्चशतवर्ष- केनापि नाज्ञायत । अथ स्त्री० १४९२ तमाब्दे अङ्गीकृतसमुद्रयात्रा- खेदेन श्रीमता 'कलम्बस्'-महाशयेन प्रथमं तमाविष्कृत्य तदरशोमा- लिकया स्वोरःप्रदेशः परिशोभित इति सर्वेऽपि जानन्ति । तिरोभूत- मिवेदानी तस्य तद गौरवम्। अध्यापकेन श्रीमता फायर-( Fryer ) महाशयेन आमेरिकायाः कमिश्रिन् मासिकपत्रे “यौद्धानामामेरिका. विष्कार" इति प्रयन्धे । सुष्टु प्रतिपादितं यत् कलम्बसतोऽपि बहुपूर्व-१४०० वत्सराणामपि प्राक बौद्धाचार्यैः उत्तरामेरिकाप्रदेश अज्ञानस्य हे शक्ती-यावरणशक्तिः विपशक्तिश्च । यथा रङ्गमषः वस्थितया प्रतीसौरया स्वाभ्यन्तरस्थम् अभिनेटगणम् प्राकृणोति तदपसा. णेन च स प्रकाशते; अज्ञानमय वं शक्ति विशेषदारा ज्ञानमारणोति प्रज्ञा स्य.यं शक्तिः 'यावरणशक्तिः' इति गीयते। अपरया च कयाचित् शक्तया ज्ञानस्य रजतत्वाभावेऽपि शुक्तिकायाः, सा रजवरूपेण प्रतीयते । अज्ञान- प्रयं शक्तिः 'विक्षेपशक्तिः' इति प्रसिद्वा । + " The Buddhist Discovery of America" Harper's magazine . मित्रगोष्ठी-पत्रिका। भाविष्कृतः । वृत्तान्तोऽयं पाठकानां चित्तं विनोदयेदिति “पौडधम नामके प्रन्ये संगृहीतस्तस्सार पदानोद धियते । विशेषतो दुभुत्व स्तत्पवमानीय द्रष्टव्यम्। पाठकैर्मानचित्रे दृष्टं स्याद 'मासिया' महादेशज्योत्तरपूर्वति तकामटकारका-( Kamatschaska) प्रदेशतः, मामेरिकायाः पश्चिम तरस्थित भालास्का-( Alaska) प्रदेशी वरि' ( Berhing strai प्रणाल्या व्यवधीयते। एतन्मध्ये 'एल्युसियादयः' दीपश्रेणयः ( AI utian Isles ) क्रमेणैता दीपश्रेणीरतिक्रम्य नातिक्लेशेन आसियार भागाद अमेरिकायां गन्तु शक्यत इति बहुभिः प्रमाणैतिं यत् प बौद्ध भिक्षवः प्रागुक्त न पथा प्रशान्तमहासागरमुत्तीयं आमेरिकामगा न् । मेक्सिको-( Mexico ) वासिनां तत्सनिहितामाञ्च प्राचीना वासिनाम् इतिवृत्तं, धर्मः, आचारः, प्राचीनकोतिचिह्नादिक तवृत्तस्य सत्यत्वं प्रमाणयति । पुरातनेषु चीनप्रन्येषु “फुसम मामकस्य कस्यापि पूर्वदिकस्थितस्य देशस्य नाम ज्ञायते, तह शोर मस्य वृक्षविशेषस्य नाम्ना तस्य देशस्य तदभिधेयम् । वर्णनतः 'प सम्' वृक्षस्य आमेरिकायां 'मेलिको'-प्रदेशीयस्य 'मागुये' -('मागु वा) नामकस्य वृक्षस्य भूयः सादृश्यमधिगम्यते । चीनेषु 'हुइसेन-भ्रमणवृत्तान्तो' नाम कधिर प्रन्थोऽस्ति त ज्ञायते हुइसेनः कावुल-नगर-( आफगानिस्थान )-वासी आसीत् ४९१ तमे खीष्टाब्दे 'यु-आन' नामकस्य सम्राजः साम्राज्यसमये । 'फुसं'-देशतः किञ्चेन राजधानीमगमत् । तेन 'फुसं'-देशतो या विधानि द्रव्याण्यानीतानि, तन किमपि क्षीमवस्त्रमासीन, तस्य सूब मतिदृढं बहुभारसहनं च । मेक्सिको प्रदेशस्य 'मागुये' वृक्ष सूत्रमपि तादृशमेष भवति । अपरेषु द्रव्येषु तेन कोऽपि दपंण आनी तः, यस्यानुरूपो दर्पण: मेकसिको-प्रदेश व्यवयिते । हुइसेना भ्रमणवृत्तान्ते अन्यदपि ज्ञायते ।
बौछानाम् आमेरिकाविष्कारः। किल 'फुसं'देशीया बौद्धधर्म नाजानन् । भथ खी० ४५८ तमाम् सुवंशीयस्य 'ता-मि' नामकस्य सम्राजः समये काचुलनगरात् पञ्चबौद्ध भिक्षय: 'फुसं'-देशमुपगम्य बौद्धधर्म प्रचारयामासुः । तम बहवस्तस्मिन् धर्मे दीक्षिता आसन् । तत्कालप्रभृति च तेषामाचा. रादिशुशिरारभत । ते खलु परिव्राजका भिक्षवः कामटकासकातः कथं केन पथा तत्रोपगताः तत्यानाञ्च कोडशो व्यवहारः, इत्येतत्सर्व तस्मिन् प्रन्थे वर्णितमस्ति । फुसं वृक्षस्य गुणदोषौ, तदकलतः सून- निमीणं, तेन च घसनवयनं, लिखनार्थ पत्ननिर्माणं चापि तन सम्य- ग्वर्णितम् । तस्मिन् देशे द्राक्षाफलस्य प्राचुर्यमिति च लिखितम् । किश्च तत्र ताम्र प्राप्यते, लौहस्त्रनिर्नासीत् स्वर्ण रूप्यकं च न व्यवा- हियत विक यद्रव्याणां मूल्यस्थैर्य च नाभवत् । तत्रत्यानां राज्यत- न्त्रम्, रीतिः, नीतिः, विवाहः, अन्त्येष्टिफिया, नगरम्, दुर्गम्, इत्येव- मादीनां विषयाणां यारशं वर्णनमस्ति, तेन तेषां प्राचीनामेरिकायाः, विशेषतस्तु-मेक्सिको-प्रदेशस्य तैस्तैद्रव्यैः सह विस्मयावहमैक्य- मुपलभ्यते। मेलिकोप्रद शे कापि जनश्रुतिरस्ति-कधित जनश्रु तिरस्ति-कश्चित् श्वेतकायः शुभ्र- वसनो दीर्घकाचुको वैदेशिकः पुरुषः तत्रागमत् । तेन तत्रत्येभ्यः पापपरिहाराय, न्यायसत्यव्यवहाराय, शिष्टमिताचाराय च धर्मोप- देशाः प्रवत्ताः । अथ कदाचित् स साधुः पुरुषः लोकैरुत्पीडितो जीवितभयेन सपदि कापि जगाम । नातः परं केनापि तत्र तदर्शनं लब्धम्। कस्यचित् पर्वतस्य पाषाणमण्डे तत्पदचिह्न निपतितमा- सीत् । तत्स्मृतिरक्षणार्थं 'भ्यागडालिना'-नामके प्रामे तस्यैका पाषा- गमूर्तिनिर्मिता। तमाम 'उइ-सि-पेकोको' । सम्भाव्यतेऽयं शब्दः 'हा-सेन-भिक्षुः' इत्यस्यापद्मशः । अन्येऽपि केचिद वैदेशिका भिक्षयः स्वानुचरैस्तत्र प्रशान्तमहासागरतीरमागमन् ।त एते,प्रागुक्ताः रश्च भिक्षव एव भवेयुः । तैभिक्षुभिस्तन यो धर्म उपविष्टः, भूयः ताम्यं तस्य बौद्धधर्मेण । 'स्पेन'-(Spain) देशीयैः भामेरिकाविज- । ० २ ७४ पाहाता । . पसमये तस्य देशस्य मध्ये भागे मेक्सिकोप्रदेशे च पो धर्मः, पन्मतं, याशं शिल्पं, गृहनिर्माणकौशलं, मासगणनपद्धत्यादीनि च निरीक्षितानि, तैः सार्थम् आसियादशवासिनो धर्मख्य, सभ्यत्वस्य पात्यन्तं विसमयावह सारश्यमुपलभ्यते। एतष तयोर्दशयोः परस्पर समागमं विना न कथञ्चित सम्भवति । अन्यदपि किञ्चित्प्रमाणमधिगम्यते-भाषाविषयकं हि तत्। भग- जान बुद्धदवः किञ्च 'गौतम' इति 'शाक्य' इति च नाना प्रसिद्ध गसीदिति सर्वेषां विदितम्। तावेतौ शब्दो, तदपभ्रंशश्च मेकसि- कोप्रदोशे प्रचलिताः सन्ति । तदेतदुपरिपात स्पष्टीभवति । तस्मिन् देशे 'ग्वातेमाला' 'हुयातामो' इत्यादयः शब्दाः, स्थान- वशेषबोधकाः । तत्र 'ग्यातमाला' शब्दः गौतमालय इति शब्दस्या. भ्रंश इति स्पष्टमेवावबुध्यते; 'हुयातमो' शब्दोऽपीडश एव । ल. त तत्र 'शाकाटापेक' 'ओयास्काका' 'जाकाटेकास' 'शाकापुलास' त्यादयः शब्दाः । एषां मध्ये "शाक्य" इति पदस्य भूयः सारश्यं श्यते। 'मिस्टेका स्थानीयस्य प्रधानपुरोहितस्य नामधेयम् - ताय-साका' इति, 'शाक्यमनुष्य' इति तदर्थः । पालेभ' नामके थाने बुद्धस्य मूतिरेका विद्यते; तमाम "शाक्-मोल" ( शाक्य- निः)। कोलोरोडा-नदीसमीपे कापि क्षुद्रद्वीपे कश्चित् पुरोहितो स्वसत्, तस्य नाम 'गौतु-शाक्का' (गौतम-शाक्यः ) आसीत् । कलिको-दशीयस्य पुरोहितस्य नाम 'स्लामा', तिब्बतदेशे बौद्ध- रोहितस्य नाम 'लामा', इत्येतयोः सारश्यम् । 'मेक्सिको' इति हे शस्य नाम तत्रत्यस्यैव कस्यचित् पादपस्य नाम्ना जातम् अतो दि 'हुइ-सेनः' तह शोपगतः स्यात्, तर्हि तस्यापि फुसं वृक्षस्य ना तहशस्य नामकरणमपि युज्या एव । अन्यच आमेरिकायां केचित्पदार्था उपलब्धाः, य: स्पष्टमेव तत्र जिधर्मप्रचारः प्रमीयते। यथा ध्यानस्थस्य बुद्धदवसय, समया- तनो बौद्ध भिक्षोः, हस्तिनध (न भामेरिकादशीयस्येव ) मूक्तिः । . .
७५ . बौद्धवृत्तान्तः । चीनदेशीय-'पागोडा' -( Pagoda-देवालयः) महशो देवालयः, प्राचीरगात्रेषु चिनम्, उदृङ्किता शिला, स्तूपो, विहारः मलकारा. दयध। एभिः प्रमाणैः श्रीमता फायर-महाशयेन प्रतिपादितं पत् १४०० उत्सराणामपि पूर्व बौद्ध भिक्षवः आमेरिकामगमन्निति । विधुशेखरशर्मा। - ::- बौद्धवृत्तान्तः । १ भूमिका। अद्यत्वे प्राच्यप्रतीच्यानामुभयेषामपि शिक्षितानां समाजेषु बौद्धानां धर्मस्य साहित्यदर्शनादीनां चानुशीलनं सविशेष प्रवृत्तम् । सहदया. नां हृदयरञ्जनसमर्थानि बहूनि तत्त्वानि तेनाविभूतानि आविभवन्ति च । अस्माकं संस्कृतपण्डितमहोदया नाद्यापीह तदनुशीलनमिच्छन्तो दृश्यन्ते अतोऽस्मिन् सन्दर्भ तान् प्रति समासतो दिवाणि वचनानि वक्तुमुचितानीति तत्र प्रवृत्ताः स्मः । किमितीहास्माभिरुदास्यत इति न वयं तत्कारणं जानीमः । साहसेनेदं शक्यते कथयितु यत् सन्ति खलु बौद्धग्रन्थेषु तादृशं साहित्यम्, तादृशो नीतिवादः, तादृशं दर्श- नतत्त्वं, तादृशानापरे शिक्षणीया विषयाः, यत्र तत्तदध्ययनशीलानां सर्वेषामेव मानसमतितां प्रीणितं स्यात् । बौद्धानां साहित्यमश्वघो. पप्रणीतं बुद्धचरित कालिदासकाव्यप्रतिस्पद्धि; एतद्ग्रन्थविषये कै. श्चिदिदमप्युच्यते यत् कालिदासेन वुद्धचरिताद बहवः श्लोकाश्चोरिता इति । तद्विचारस्य नेदंस्थानमिति यातु तत् । बौद्धानां दर्शनं कीटम् गम्भीरमिति अस्माकं दर्शनग्रन्थेषु तत्र तत्र कणशो विक्षिप्त क्षणभ- अचादं * शारीरकभाष्यादौ मात्रया विज्ञानवाद चालोच्यैव मास्मा. सर्वदर्शनसंग्रह, पात्मतत्तुविवेके, कुमारिलवार्तिके, प्रशस्तपादभाघमादौ च ।
७६ मित्रगोष्ठी-पत्रिका। कीनदर्शिनिकैरवबोचु शक्यते । प्रतिपक्षैरसदाचार्यैर्वोचदर्शनस दुबला भागा एव उद्धृत्य दूषिताः, तानेवावलोक्य बौद्ध दर्शनं न कि श्चिदिति वयं गणयामः, पर चित्रमिदं यत्तस्य तावतोऽपि चातुर्य: स्योपलम्भेऽपि न वयं तस्य अपरानंशानवलोकयितु भ्रमेऽपीच्छामः । तेषां नीतिवादोऽपि अस्मनीतिवादतो मापि नाम श्रयस्त्वं भजता परंतु स खलु नितान्तमानन्दमुत्पादयति, न तत्र लेशतोऽपि सन्दे. हः। धर्मपदादयो प्रन्थाः सुष्टु अत्र साक्ष्यं दद्यात् । श्रीशङ्करभगवत्पादानां विज्ञानवादेन शैद्धविज्ञानवादस्य कीदृश- मतिमहत् सादृश्यमस्तीति तदालोचयितॄणां नाविदितम् बौद्धानां ध. म्र्मेण अस्मधर्मस्य मात्र व विसंवादः । हिंसाप्रधानवैदिकयागादीना प्रत्याख्यानेन वेदप्रामाण्यास्वीकारादेव बौद्धधर्मास्योपरि कुमारिलभट्ट. पादैः श्रीशङ्करभगवत्पाभ भीषणो मुदगरी निपातितः। अथ भग- वता बुद्धेन वेदप्रामाण्यमङ्गीकृत्यैव साशयदर्शनवत् वैदिकयागादयो न्यषेधिष्यत, तहिं मन्यामहे, बौद्धधर्मस्य स्वोत्पत्तिस्थानाद भारतान् निर्वासनदण्डो नाभविष्यत् । वैदिकधर्मविषये अस्महाशनिकैय- दुक्त, वैदिकयामादिकं निषिध्यापि भगवता बुद्धदेवेन न किञ्चित ततोऽधिकं कथितम् । तथाहि-यदि ईश्वरतत्त्वस्यापलापकमपि, देवतानां मूर्त्तस्तिरस्कारकमपि मीमांसादर्शनम्, विशुद्धसत्वस्य केव. लं शानेनैव मोक्षः, न तस्य वैदिककापेक्षेति कचित् क्वचिद वैदिक- यागादीनामविधायकमपि शाङ्करदर्शनम्, स्पष्टमेव ईश्वरस्याभावं, वै. दिककर्मणामफलोपधायकत्वं च कथयदपि साड्यदर्शनम्, वेदपुराणे- तिहासप्रसिद्धम् इन्द्रस्य वृत्नासुरेण युद्धं न वास्तवम्, अपितु रूपक- मानम् इति कण्ठत एव प्रकाशयदपि निरक्तशास्त्रं च यदि नामास्मा. कं सादरं समालोचनीयं स्यात्, तर्हि बौद्ध शास्त्रं नात्यन्तमपराध्यति अस्माभिरेव स पन्थाः प्रदर्शितः। इदन्तु तदाविकारकेण स्खलितं यत्तेन स्वधर्मः वस्तु तो वेदमूलकोऽपि कण्ठतस्तत्प्रामाण्यम् अनङ्गी. कृत्य प्रतिष्ठापितइति । वस्तुतस्तु असमवर्मेण बौद्धधर्मस्य यार शं . .
७७ बौद्धवृत्तान्तः। भूयः सारश्वमस्ति, तेनासौ बहुष्वेवांशेषु भस्मधर्मस्य परिपोषक एव । जिशासवस्तत् स्वयं परीक्ष्य ज्ञातुमर्हन्ति । किञ्च यदि विषादपि अमृतम्, अमेध्यादपि काञ्चनम्, बालादपि सुभाषितं, अमिवादपि च सद्वृत्तं प्रायमिति यत् किञ्चिन्मनुरवदत, तद भेषजम्" इति श्रुतिप्रस्यापितमाहात्म्यस्य धर्मशास्त्रकारस्य भग- पतोमनोरादेशः ख्यात, * तर्हि तवभवतां कुमारिलभट्टानां श्लोकवात्ति. कोक्त पचनमिदमसमाभिः नयने निमील्यैव कथञ्चित् श्रोतव्यम, न त्वनुसरणीयम् । तद्यथा-मीमांसादर्शनकृता "शिष्टाकोपेऽविरुखम्", "न शास्त्रपरिमाणत्वात्", "अपि पा कारणाग्रहणे प्रयुक्तानि प्रतीयेर- न्” इति त्रीणि सूत्राणि ( मी० ए० १७० ३पा० ५-७ ) उक्तानि । भ. स्यार्थ भाष्यकारः शयरस्वामी माह-"वेदं कृत्वा वेदिं करोतीति" श्रूयते । इत्येवमादिषु स्थानेषु क्षुतादिनिमित्ते प्राप्ते “भाचान्तेन कत्तव्यम् ", "यज्ञोपवीतिना कर्त्तव्यम्", "दक्षिणाचारेण कत्र्तव्यम्" इत्येवमादीनि स्मृत्या विधीयन्ते । अत्र वेदं कृत्वा वेदिं करोतीति श्रु त्या वेदवेदिकरणयोरानन्तर्य प्रतीयते; यदि हि एतन्मध्ये पुनरा. चमनादिकमनुष्ठीयेत, तर्हि श्रुत्युक्तकालयाधः स्यात् । तस्मात् पूर्वो- दाहता स्मृतिः ('भाचान्तेने'त्यादिः) मप्रमाणम्-इति पूर्वपले प्राप्ते उच्यते-यथा वेदवेद्यादयः पदार्थाः श्रुत्युक्ताः एवमाचमनादयः समृ. त्युक्ताः । वेदवेदिकरणक्रमस्तु पदार्थ निष्ठो धर्मः । न च धमार्थ धर्मि-( आचमनादि ) बाधो युक्तः । तस्माद वेदवेदिकरणमध्ये क्षुता- दिनिमित्ते जाते कर्त्तव्यमेवाचमनम् । तस्मात् स्मृतिः प्रमाणमेव । * श्रद्दधानः शुभी विद्यामादहीतावरादपि । अन्यादपि परं धर्म स्वी. रनं दुधकुलादपि ॥ विषादप्यम्टतं ग्राह्य, बालादपि सभाषितम्। अमित्रा. दपि सदवृत्तम्, अमेध्यादपि कासनम् ॥ खियो रमान्यथो विद्या धम्मः शौ- चं सुभाषितम् । विविधानि च शिलपानि समादेयानि सर्वतः॥"मनुसंहिता। + "वेदो नाम दर्भमयं सम्मानसाधमम, वेदिः आहवनीयगाहपत्यम- ध्यवर्तिनी चतुरङ्ग लखाता भूमिरिति” ग्यायमालावितरे माधवाचार्य्याः ।
७८ मित्रगोष्ठी-पत्रिका वात्तिककार: कुमारिलभट्टस्तु तेषां सूबाणां तात्पर्यमित्थमाह- "ब्रह्मचर्यम्, महिला च, अपरिग्रहं च सत्यं च यत्नेन रक्षेत". इति श्रुत्या विधीयते । “बौद्धा" अपि ब्रह्मचर्याहिंसादीनि तथैव कत्त- व्यत्वेनामनन्ति। न च एताहश्या बौद्धस्मृत्याः श्रुतिविरोधः। त- सात को दोषस्तया बौद्धस्मृतेः प्रामाण्ये-इति पूर्वपक्षे प्राप्त आह यथाहि गणोदकं (केचित्तु गोक्षीरमित्याहुः ) पवित्रमपि पतिसचं (कुक्कुरचर्मपुटकमध्यगतम् ) अग्राह्यं भवति, एवमेव अहिंसादिक- मुपादेयमपि यौवस्मृतिसम्बन्धेन अग्राह्यमेव । न प्रमाणमस्ति बौखशा- स्त्रोक्तो धर्मः फलं साधदिति । अस्माकन्तु "वेदोऽनिलो धर्म. मूलम्" इत्यादि बहुप्रमाणमस्तीति । माधवाचार्यकृत-शङ्करदिग्विजयपाठकानां नैतदविदितं यद बौ- खानां समूलोन्मूलनार्थमेव कुमारिलभट्टस्यावतार इति । बौद्धान प्रत्य. त्य कीडशो विप आसीदिति प्रागुक्तमीमांसासूत्राणां शबरस्वामि- कृतस्य पतत्कृतस्य च व्याख्यानस्यालोचनादेव रूपष्टीभवति । बौद्ध- सिद्धान्तो महता प्रतापेन विचणितस्तेन । अतएव माधवाचार्य आह- 'कुमारिल मृगेन्द्रण हतेषु जिनहस्तिषु । निष्प्रत्यूहमवद्धन्त श्रुतिशाखाः सहस्रशः" ॥इति॥ कृतमतिविस्तरेण । बोद्ध शास्त्रमस्माकमनुशीलना न वेति मन्यामहे, एतद्विषयेऽस्माभिः संगृह्य क्रमेण प्रकाश्यमानः सन्दर्भः सचेतसोऽस- त्पाठकमहाशया पिशातु प्रभवेयुः । अथ बुद्धदेवस्य नीत्युपदेशः। - २ भगवता बुद्धदेवेन स्वानुचरान् प्रति कीदृशा नीत्युपदेशा: प्रद- ताः, तदेवाध समासतोऽस्मत्पाठकमहाशयेभ्य उपहर्तुमिच्छामः । तत्र पञ्च धम्मीदेशाः-("सूननिपात''स्य "म्मिकसूत्ते-सूवनि- पातस्यधार्मिकसूत्रे ) १ प्राणिहिंसा न कर्तव्या, २ अदत्तं द्रव्यं न प्रा- ह्यम्, ३ कामेषु मिथ्याचारात ( व्यभिचाराद ) विरमणीयम् , ४ भनृतं बौद्धवृत्तान्तः। न भाषणीयम्, ५ मव्यं न पेयम् एते पञ्च धम्मादेशाः “पशीलम्" यपि कथ्यन्ते । "पञ्चशील"मिदम् भविशेषेण भिक्षुकैगृहस्थैधा- दुष्ठेयम् । अत्रैव अपरस्मिन् नियमनये संयोजिते सर्व मिलितम् “भष्टशील- म" इति गीयते । अषमत्र विशेष:-पञ्चशीलमध्ये तृतीयनियमे व्य- भिचारो निषिद्धः। मन तु अष्टशीले तृतीयनियमे मैथुनं सर्वथा नि- षितम्-"अब्रह्मचरिया घेरमणी"-अब्रह्मचर्य्याद विरमाणीति । पतनियमवयं यावच्छक्यं सर्वैरनुष्ठातु यतनीयम् तद्यथा-१ विका. लभोजनं न भोक्तव्यम्, २ माल्यं गन्धद्रव्यं च न धायें, ८ उच्चशयने महाशयने वा ( उच्चपल्यंके, तूलग दिशय्यायां पा) न शेतव्यम् । अत्रापरे नियमद्वये योजिते, तत् सर्व “दशशीलम्" इति नाना- स्यायते । यथा-१ नृत्य-गीत-वादिवोत्सवदर्शनं न कर्त्तव्यम, २ स्वर्ण रजतं च न धायें । 'दशशीलम्' भिक्षुभिरवश्यानुप्ठेयम्, गृहसथाना ‘पञ्चशीलम् । एव अपश्यानुष्ठेयत्वेन विहितम्, अन्यत् सर्वं तु यथाशक्ति कर्त्तव्यम्* दुतियम्पि-(द्वितीयमपि ) अहं भन्ते, पञ्चसीलं धर्म याचामि, अनुगाहं कत्वा शीलं देथ मे भन्ते"। * ध्यान प्रसङ्गात पश्चमीमादिकं बौछः कया परियाच्या गृह्यत इति कि- भिदुच्यते । गृही भिक्षुसमीपं गत्वा त्रि: प्राथेयेत -अहं भन्त , तिथरणेन सह पञ्च- लोल धर्म याचामि । धनुगाई कत्या पोल देथ मे मन्त स.-छ प्रभो, त्रिशरणेन सह पञ्चशील धम्म याचामि । अनुग्रहं त्या शील देहि मे प्रभो। बौछ : प्रतिदिनं बुद्धस्य, बुद्धप्रवर्तितस्य धर्मस्य, तहम्मानुसारिणां च संध' इति प्रसिद्वाना स्तुतिः क्रियते। एतस्वयं “त्रिशरणम्" इति च गीयते । दिदयम्--बुद्ध शरणं गच्छामि, धर्म शरणं गच्छामि, संघं शरणं गच्छामि पत्र विस्तरो वक्षाते।
मित्रगोष्ठी-पत्रिका।
ततिम्पि-( तृतीयमपि ) अहं भन्ते, पश्चसील धर्म याचामि
अनुगाई कत्वा सीलं देथ मे भन्ते
अष्टशीलादिप्रार्थनासमयेऽपि इयमेव रीतिः। केवल "पश्चसील.
म्" इत्यत्र यथा प्रयोजनम् “अष्टशीलम्", "दशशीलम् " वेति
पाठनम् ।
भिक्षुः- यह वदामि, तं देहि। (स० पदहं वदामि, र
वद)। गृही-माम भन्ते
मां प्रभो।
भतः परं गृही भिक्षुमनु ववेत्-
१। पाणातिपाता वेरमणी सिक्खापदं समादियामि"।
स०-प्राणातिपाताद विरमाणीति शिक्षापदं समाददामि ।
२। “अदिनादाना रमणी सिक्खापदं समादियामि"।
स०-अदत्तादानाद विरमाणीत्यादि ।
३। "कामेसु मिच्छाचारा घरमणी सिक्खापदं समादियामि।
स-कामेषु मिथ्याचाराद-इत्यादि ।
४। "मुसायादा वेरमणी सिक्खापदं समादियामि"।
स०-मृषावादाद .... इत्यादि ।
५। “सुरा-मेरय-मज-पमाद छाना बेरमणी सिस्खापदं समादि-
यामि"।
स-सुरा-मरय-मद्य-प्रमादस्थानाद विरमाणीत्यादि ।
६। “विकालभोजना घेरमणी सिक्खापदं समादियामि"।
स०-विकालभोजनाद् ( असमयभोजनात-रात्रिभोजनात् ) विरमा-
णीत्यादि।
७। माला-मन्ध-विलेपन-धारण-मण्डन विभूसन-वाना-घेरमणी
सिक्खापदं समादियामि । ( रूपष्टम् )
८ । उचासयन-महासयना धेरमणी सिक्खापदं समादियामि ।
। नश्च-गीत-वादित-विसूक-दस्सना वेरमणी समादियामि ।
१०-नृत्य-गीत-वादिनोत्सवदर्शनाद विरमाणोति ... ।
--
पौत्तान्तः।
१.। "जातरूप-रजत-पटिपाहणा घेरमणी सिक्लाप समादियामि।
Ho-जातरूप-रजत-प्रतिग्रहणा विरमाणीत्यादि ।
मथ भिक्षुर्वदेत-"तिसरणेन सह पञ्चसील धम्म साधुकं .
रक्सितं कत्वा मप्पमादेन सम्पादेतत्त्वम् "-त्रिशरणेन सह पच.
शीलं ( एवमष्टशीलं दशशीलं वा) धर्म साधु सुरक्षितं कृत्वा अप्र.
मादेन सम्पादयितव्यम् ) गृही-"माम भन्ते"। (आं प्रभो।)
प्रागुक्तम् अष्टशीलं पश्यमाणाभ्यां पालिगायाभ्यां संगृहीतम् :-
"पाणं नहाने, म चादिनमादिये,
मुसान भासे, न च मञ्जपो सिया
मनमचरिया विरमेय्य मेथुना,
रतिं न भुजेच्य पिकालभोजनम् ।।
माल न धारे, म च गन्धमाचरे,
मचे उमार्य व सयेथ सन्यते। ..."॥
स-प्राणिनं न हन्यां, नचादत्तमादद्याम्, मृषा न भाषेय, मच
मद्यपःयाम्।
मम्रनचर्याद विरमेय मैथुनाद, रात्रौ न भुञ्जीय विकालभोजनम् ॥
मालां न धरेयं न च गन्धमाचरेयम्, मञ्चे क्षमायां वा शयीय
सन्ततायाम् ॥
शीलप्रशंसापरा बहवः श्लोका विद्यन्ते । तेभ्यो मनोरमतमा दिना
माहिगन्ते-
"नतं सजलदा वाता, न चापि हरिचन्दन ।
मेष हारा न मणयो न चन्द्रकिरणकरा ॥
समयन्तीह सत्तानं परिलाह, सुरवित्रतं ।
पं समेति इदं भरियं सीलं मचन्त सीतलम् ।।
स०-न तं सजलदा वाता, न चापि हरिचन्दनं ।
नैव हारा, न मणयो, म चन्द्रकिरणाराः।
शमयन्तीह सरवानां परिवाहं, सुरक्षितम् ।
यं शमयति सम्भार्य शीलमत्यन्तशीतकम् ॥
. मित्रगोष्ठी-पत्रिका। सुरक्षितमिदमायें शीलं जनानां यं दाहं शमयति, जलदपवमचन्द्र चन्दनहारादयो न तं शमयितुप्रभवन्तीति तदर्थः। एतदकरणे दो. पोऽपि प्रदर्शितो यथा- यो पाणमतिमापेति मुसापादं च भासति । लोके भदिन्न भादिपाति परदारं च गच्छति ।। सुरामेरयपानं च यो नरो अनुयुञ्जति । इधेऽवभेसो लोकसि मूल खनति अत्तनो ॥ स०-य: प्राणमतिपातयति मृषावावञ्चभाषते । लोके भदत्तमाददाति परदारांव गच्छति ॥ सुरामैरयपानञ्च यो नरो ऽनुयुनक्ति । इह एवमेष लोकेऽस्मिन् मूलं खनति मात्मनः ॥ धम्मपदं-मलवग्गो। लिगलोवद सूत्त"-नामके • (शृगालवादसूत्रे) प्रन्ये गृहस्था- नां बहयो नियमाः प्रपञ्चिताः । पित्रादीनां प्रति पुनप्रभृतिभिः कथं व्यवहर्तव्यम् इत्यादिकं तत्र सुष्ठु प्रदर्शितम्। तत एव किञ्चित्प्र- दश्यते।:- १। पितरौ पुत्रश्च । पितरौ-१। पुत्रान् पापेभ्यो रक्षेताम, २। तेभ्यो धम्मानुशासन कुर्य्याताम, ३ । तेभ्यो विर्धा विज्ञानं च शिक्षयेताम् ४ । अनुरूपया पत्न्या (कन्यापक्षे भर्चा) तेषां विवाह स- म्पादयेताम्, ५! तेभ्यः स्वधनादरुत्तराधिकारं दद्याताम् । पुप्रस्तु-प्रतिजानीयादिदम्- १। याभ्यां पोषितोऽस्मि तावहं पुष्णीयाम, २ । पारिवारिक बुद्धदेवो यदा राणयहान्तर्गते (राजगह मगधदेशस्य प्राचीना राज- धानी ) 'वणुपने' आमीत्, तहा कम्मिंश्चिदहनि भिक्षाटनार्थ गछन् पथि "शूगाल"नामानं कमपि दितु प्रणामेन पिट न तर्पयत रहस्य यानुपदेशान, प्रादात ते सर्वे 'शृगाल मूत्र' निवडा: सन्ति।
- बौदत्तान्तः। कृत्यं, यत् खलु तयोरुपरिस्थितं, तदहं सम्पादयेयम्; ३ । तयोः सम्पत्तिं ( धनादि ) रक्षेयम्; ४ । तयो यादीभवि- तुमहमात्मानं तदुचितं कुर्याम् ; ५। उपरतयोस्तयोः सम. रणानुबन्धेन तावहं सम्मानयेयम् ॥ २ । अध्यापकः, भन्तेसदश्र। भन्तेसदः स्वाध्यापकमित्थं सम्मानयेत्-१। अध्यापके समागते मा- सनादुत्थानेन, २ । तदपेक्षितसम्पादनेन, ३। तद्चनानु- पत्तनेन, ४। तदुपदेशे मनोऽभिनिवेशदानेन, ५। तस्य परिचयंया च। अयापकोऽपि अन्तसदाय स्वस्नेहमित्य प्रदर्शयेत- १। सर्वेषु साधुविषयेषु तस्यानुशासनेन, २ । त्वरित ज्ञान- मुपायितु तस्मै शिक्षाप्रदानेन, ३। ज्ञान-विज्ञानशिक्षया, ४। तस्य सुहृदनुचरादिसमीपे तस्य साधुवादकथनेन, ५। सर्वाभ्यो विपदभ्यस्तस्य रक्षणेन च । ३। पतिः, पत्नी च। पतिः पनी पालयेदित्यम्-१। ससम्मानव्यवहारण, २ । सदयव्य. पहारेण, ३। तां प्रत्यात्मनो विश्वास्यत्वेन (परदारागमनेन), ४। यथा तामन्येऽपिसम्मानयन्ति, तथा करणेन, ५ । तस्यै मनुरूपवस्त्राभरणदानेन च । पत्न्यपि पति प्रत्यात्मनोऽनुरागं प्रकाशयदित्यम्:-१ । गृहसामग्री यथास्थानं सनिवेशनेन, २। पातिव्रत्येन, ३। नात्यधि. कव्ययेन गृहकर्मसम्पादनेन, ४ । सर्वेषु गृहकृत्येषु श्रमाङ्गी. कारण कौशलप्रदर्शनेन च, ५। परिवारषु तदुचितसत्का- रविधानेन । ४। बन्धयः, सहचराश्च । पन्धुजनः स्वसहचरानित्यं लेघेत-१। उपहारप्रदानेन, २ । मधुर. सम्भाषणेन, २। तेषां कल्याणलाधनेन । तान् प्रत्या.
- . ८४ मिलगोष्ठी-पत्रिका। स्मसमामत्वेन व्यवहारेण, ५ तैः साई सौभाग्यभोगसेवन। छ । इमेऽपि तं प्रति स्वहरयानुरागमिस्यं प्रदर्शयेत्-१-२ सति तस्य प्रमादे तत्पर्यवेक्षणेन, तस्य धनसम्पत्तिरक्षणे. न च ३-४ । समागतायां विपत्तौ तस्मै माश्रयप्रदानेन, त. स्पक्षावलम्बनेन च, ५। तत्परिवारषु प्रीतिप्रदर्शनेन च । ५। प्रभुभृत्यश्च । प्रमुस्तदाश्रितानां भृत्यामा मालमित्थं साधयेत्-१ । तेषां तत्सा. मोचित कम्ने विनियोगेन, २। मनुआपाहार्यवेतन- प्रदानेन ।। व्याधिसमयेषु तेषामुपचरणेन, । तेभ्योऽ. मुलभस्वामभागप्रदानेन, ५। अन्तरातरा कर्मणोऽस- काशप्रदानेन च। सेऽपि प्रभुप्रति स्वानुरागमित्थं दर्शयेयुः-१। प्रभोः पूर्वमेव शय- नानुस्थामेन, २ । प्रभोः परं शयनेन, ३। यत्तेभ्यो पत्तं ते. नैव सन्तोषाधिगमेन, ४ । सानन्दं कर्मणां सभ्य सम्पा. दनेन, ५। प्रभोः प्रशंसापादेन च । ६ । गृहस्थः ( अदीक्षितः) सन्यासी च । गृहस्थो जनो भिनून् ग्रामांश्चेत्थं सेवेत-१ १-२.३ । कर्मणा मनसा वाचा च तेभ्यो भक्तिप्रदर्शितेन, ।। तेषां सद्यः स्वागतप्रश्नेन, ५ । जीवितार्थापेक्षितद्रव्यदानेन च । इमेऽपि तस्मै स्वानुरागमित्थं प्रकाशयेयुः-१। तस्य पापाधिवत्ततेन, २ । सदाचारे प्रेरणेन, ३ । तं प्रति करुणानुभवेन, ४ । ध- र्मोपदेशेन, ५ । संशयनिरसनपूर्व स्वर्गपथप्रदर्शनेन च । श्रीमन्तः पाउकाः, तत्रभवता बुखदेवेनोपविधान् गार्हस्थ्यधमी. नेतान् समालोच्य कस्य नाम हृदयं नानन्दस्फीतमुपजायते? पित्री- स्तनयस्य विद्या-धर्म-नीति-सुख-सम्पादनार्थ प्रयासः, पुत्रस्य च पिशोः परिपोषण, सम्माननं, स्मृतिसंरक्षणं च, मध्यापकान् प्रति भन्तेखदामा सबहुमानो व्यवहारः, मायापकानां च तान्प्रति स्नेहानु. . .
पार्ता सम्पादकाभिपाया। P: । पत्युः पल्यां ससम्मान:, सकरणः, सस्नेहधाचारः, पल्या- पि च तस्मिन् पातिव्रत्यं, रक्षानुरागः, गृहकर्मनैपुणादिकं च, धूनामन्योन्यं तारशः समुदारः सदाचारः, प्रभुभृत्ययोस्ताहक रस्परं सदयः सानुरागच व्यवहारः, गृहस्थप्रवजितयोश्च मिथस्तद- मनोखं वृत्तं न कस्य मानसमाकर्षेयुः। सर्वेऽप्यते मनोरमा आचा. भस्मधर्मशास्त्र भसकद इश्यन्ते । तत एवैते संगृहीता बौद- सिवपि इदं सर्वमवलोक्य मन्दमतिरपि बौद्धधर्मस्य दयाम- घेतु प्रभवति । ( शिष्टमग्रे) कचित् पत्रिकाप्रियः। वार्ताः सम्पादकाभिप्रायाश्च । श्री शिक्षा-कतिचिदिवसानि भारते शिक्षासंसकारालोचनेन नानां वितं ध्यावृतम् । न केवल विश्वविद्यालयशिव तदालोचन. अपयः, अपितु शिल्पविज्ञानशिक्षामप्यधिकस्य सर्वव भारते जनाना बन्तनं दृश्यते । मूनमिदं साम्प्रतं भारतस्य प्रमोदावहम् । भयं व हानानन्दो यत तनभवान् धर्माधिकरणिकः श्रीसारदाचरणमित्र- होदयः स्वचिन्तितं स्त्रीशिक्षाप्रकार पुरस्कृत्यास्मिन् क्षेने समुप. थत इति । कलिकातायां महाकाली पाठशालेति प्रसिद्धस्य पा- काविद्यालयस्य पालिकाभ्यः पुरसकारप्रदानावकाशे स्त्रीशिक्षा- 'पये स खलु मधुरं व्याख्यानमकार्षीत् । तचिन्तितः स्त्रीशिक्षा- कारः वर्तमानस्य समाजस्य समुचितः। भद्य यावत् यरषा स्त्रो- ना नाधिकतराणां जनानां यमाकष्टुं समर्था, इदमेव तस्य परणं यत् स्त्रीणां शिक्षया यजनैरभिलषितं, न तत्प्राप्यत इति । मर्माधिकरणिक महाशयेनाभिप्रेयते समाजस्य संमानायामवस्थायां वस्यैव देशप, अथवा अन्ततस्तु भारतस्य पुरुषाणां जीवनं स्त्रो. iजीवनावपश्यं भिनमेष भवेत् । एकसय कृत्यमपरस्य कृत्याद ६ मित्रगोष्ठी-पत्रिका मिद्यत एव । भतो बालकाना बालिकाना चाविशेषेण एकस्सिने पथि विचरणं भ्रममूलकमेवेति । तन्मते मलदीयाना बालिकाना पावद द्वादशं वर्षे साधारण विद्यालये पाउसमयः । तन पञ्चमात सप्तमं वर्ष यावत् साम्प्रतं प्रचलिते सामान्यप्रकारेण 'किग्डारगार्टेन' प्रभृतिना लिखन-पठन-चित्रानशिक्षा देया। अष्टमाद, दादर्श वर्ष यावतु पाठन देधा विभक्त भवेत्-एक विश्वविद्यालयशिक्षामि छछन्तीनाम्, अपरन्तु यासां प्रायो द्वादशे वर्षे विवाह एव पाठः समा- प्यते। एताभ्यः खल्वन्तिमाभ्यो बालिकाभ्यः भारतीयम् इतिवृतं, भारतीयं भूगोलं, प्राथमिक गणितम्. चित्राङ्कन, स्वास्थ्यतरथम, पाकविद्या,............च प्रदेयानि । यास्तु स्वल्पा बालिका विश्व विद्यालयशिक्षामिच्छन्ति, अष्टमवर्षप्रभृत्येव तासामपि पाठव्यवस्था कत्र्तव्येति। परिवारेषु परिवारकीणां गृहिणीनां समुचिता शिक्षा मन्तरेण कीदृशं महदानिष्टमुत्पद्यत इति कस्य नाम नापिदितम परिवारष्यमबालिका यथा सुष्टुतरं गृहिणोपदमधिगन्तु शक्नुयार तथावश्यं सर्वैयंतनीयम् । उक्त मनुना-"स्त्रियः श्रियश्च गेहेषु विशेषोऽस्ति कश्चनेति" ईदृश्यः स्त्रियश्चेदपेक्ष्यन्ते, तहिं ताभ शिक्षादानाद ऋते को नामापर उपायोऽस्तीति न जानीमः । श्रीमा मित्रमहोदयेन बालिकानां प्रथमशिक्षार्थ योऽयमुपाश्चिन्तितः, सर्वर स मनोरमः । वित्तवृत्तेरिख शरीरस्याप्युनतये शिक्षा आवश्यकी पितुरिव मातुरवि शरीरस्वास्थ्यदोषात् उत्पमस्य शिशोः स्वास विहन्यते । अतो बालकरिव बालिकाभिरपि शरीरोग्रतये कश्चिन्म दुर्व्यायामः सेवनीय एवेति प्रतिभाति । दृश्यत एवेयं रीतिर्देशान्तरेषु जापानस्योगतिः -वैदेशिक पत्रिकान्तरे जापानस्योन्नतिकारण विषये तस्यभूतपूर्वेण मन्त्रिणा कोऽपि प्रबन्धः प्रकाशितः । त बहुषु ज्ञातव्येषु दिना एवेह लिख्यन्ते । जापानस्य पूर्वमभिमान मा सीत् यत् तवत्यं सर्वमेव उत्तमम्, देशान्तरोयन्तु सर्वमेवापकृष्टम मतोऽनुपादयमिति । यावत् तस्यायं मिथ्याभिमान भातीत, न तेर ।
८७ वार्ता सम्पादकाभिप्रायाच । वित किश्चित् कत्तुं प्राभूयत । अथ यदा स निर्मूलकत्वेन तेनाषधा- तः, तदाप्रभृत्येव वैदोशिकेषु यद्यदुत्कृष्ट, तत्संप्रहाय जापानीयैः भ्यक प्रयतितम् । अस्सह शेऽपि बहुलमिवायमभिमानोऽस्ति तेन न्धाः सन्तः स्पष्टं प्रकाशमानमपि वैद शिकानां गुणमहिमानं क- प्रत् क्वचिदपि दृष्ट्वाप्यपश्यन्त इवापह्रोतुमिच्छामः। कदाचित् कि- त सर्वथा नूतनमेवाविष्कृतं तत्त्वं तैः, न तथात्वेनानीकत्तुंमभिल- मः । श्रूयते-विद्यु द्वात्तेयं न पाश्चात्यानां प्रथमा सृष्टिः, भारतीयै. वायः सृष्टपूर्वा सेति वैदिकवचनोपन्यासेन प्रमाणयितु केनापि दछु वेण किर्याहनपूर्व प्रायत्यत । मलमुक्त न स खलु पश्चादुपहसित वाभवदिति । अत ईदृशं दुरोदक वृथाभिमानं दूरतोऽपसायं यस्योत्कृष्टं, तदेव निकृष्टादपि तस्मादादेयम् । जापानोभतेरपर रणं तनत्या शिक्षा । अयं तस्मिन्नुपनिबद्धो नियमो यत् प्राप्ते षष्ठे बैं वयसि अविशेषेण सर्वेऽपि बालका बालिकाश्च साधारणविद्यालये सामधिगच्छेयुरिति । एतत्परिपाकेन हश्यते साम्प्रतं जापाने प्रति. तकं १३. ७८ बालकाः, ८१.८ बालिकाश्च विद्यागारेषु शिक्षा भिन्ते । भारते तु शिक्षमाणा बालकाः प्रतिशतकं २० विंशतिः, बा- हकास्तु प्रतिशतकं २ दे । सन्ति केचिदमदशे, ये हि प्रवत्तमानां होशिक्षापद्धति दूषयन्तोऽपि न तावत् स्वोद्भाषितामपि तामनुस- न्ति अन्यानेव वा तत्र प्रवर्तयन्ति । अस्मादपि शिक्षमाणेभ्यो बाल. भ्यो तासां बालिकानां संख्या न्यूना । उद्भिविद्यायाश्चरमोत्कर्ष:-आमेरिकायां कालिफर्णियानिवासि. | श्रीमता लुथार बरण्याङ्क-( Luther Burbank ) महाशयेन उद्भि द्याया इत्थमभिनवं तरसमाविष्कृतम्, माविष्क्रियते चाद्यापि, येन वेषामेव हृदयं वित्रीयने । मानवैरशक्यं नाम किश्चिदस्तीति न द विजानतश्चेतस्युदेति। आमेरिकामरुषु अस्मद शोयस्नुहीवृक्ष- । काण्डपनादिषु सर्वतः काटकाकीर्णः, अतएव च नरवत् पशुभि- न्यनुपादेयः कश्चित् 'क्याकटास' नामा ( Cactus ) पादपोऽसित ।
८८ मित्रगोष्ठी-पत्रिका। दश वर्षाणि परिश्रम्य पारल्याङ्कमहाशयेन तस्य पक्षस्य पवस्या सुस्वादुत्वं, पुष्टिकरत्वं च सम्पादितं, का कथा फलस्य । साम्प्रतं तर कण्टकसंपर्थोऽपि नास्ति । तेनोच्यते-यैरुपादानः क्याकटास् वृक्षस कण्टकादयोऽनुपदिया: मंशा उत्पदन्ते, तान्येव हि तत्प्रभावेण भो ज्यमंशमुत्पादयन्तीति । श्रीमता पारव्याङ्कन क्याकटास वृक्ष प्ल्याकबेरी-(Blackberry) वृक्षोऽपि निष्कण्टकीकृतः । साम्प्रतं ते पाटल-(गुलाब) वृक्षस्यापि कण्टकापाकरणाय यत्यते। भामेरिकायाः मेव कस्मिंश्चित् प्रदशे पादपाना पसन्तसमयशेषे तुषारपातेन महा नपचयो जायते । वारण्याचप्रमाणेदानी कुसुम मुकुलादिषु तुषारे संहतेष्वपि पुनः सूर्यकिरणसंयोगे तेभ्य एष फलोदगमो भवति। रालिया-( Dahlia ) कुसुमं दुर्गन्धं, तेनासिमन् म्याङ्गोलिया-(Mang olia) कुसुमस्य सौरभ सम्पादितम् । अनेन क्षुद् फलं बृहत् बृहा क्षुद्रं कर्तुं शक्यते । अष्ट्रेलियायाः नक्षत्र-कुसुमल्य-(Star-lower) तथाभ्युदयः सम्पादितः, येन सहाकारेण गुणोऽपि तस्यावत,- शुष्कस्यापि तस्य वर्ग-सौकुमार्यवैलक्षण्यं न जायते । बारम्याङ्कमहाश- येनापराण्यपि बहून्यगुतानि सम्पादितानि सम्पादयन्ते च । वार्षिकोत्सवः-मतीते 'ने' मासे प्रयागस्थिताया 'हिन्दुधर्म- प्रवद्धिनी सभाया' द्वितीयो धार्षिकोत्सवो महता प्रमोदन सम्पन्नः। तव काशिमहामहोपाध्यायैः श्रीराममिश्रशास्त्रिभिः, इटावावासिभिः पण्डितः श्रीलक्ष्मीप्रशानशमंभिध सभापतेपसनमलंकृतमासीत् । सभायां सुप्रसिद्धर्वाग्मिभिः पण्डितश्रीदीनदयालुशमव्याख्यानवाच. रूपतिभिः, पण्डितश्रीमदनमोहनमालवीयैः, 'सुदर्शन'-सम्पादकैः श्रीमहादेवप्रसाद मिश्रप्रभृतिभिश्च चेतोहरं व्याख्यानं कृतम् । सभार्थ सभास्थापितसंस्कृतपाठशालार्थ च तस्मिन्नेव स्थाने पञ्चसहस्राणि रूप्यकाणि संगृहीतानि ।
. मित्रगोष्ठो-पत्रिका (मासिकं संस्कृतपत्रम् ।) सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम्" ! ऋग्वेदः। द्वितीय वर्षे } १८२७ शकाब्दाः, श्रावणः { चतुर्थमंख्या काव्यपरिमलः। काव्यप्रशस्तिः। कीर्ति वढापि भावमहती स्थैर्य न धत्ते चिरम्, कालस्रोतसि लीयते रघुपतेरालीव पाथोनिधौ। साचेत् स्थेयसि वज्रकोषसह रामायणाभे कवे- ग्बिन्धे विनिधीयते नहि तदा स्याद यातयामा कचित् ॥१॥ द्रवत्वं पाषाणानपि नयति दीप्तानपि शमम्, मृतांनप्युच्चैर्यत् पुनरपि समुज्जीवयति च । कवीनां जिह्वान स्फुरति तदिदं किञ्चिदमृतम्, यदिन्दौ वा सिन्धा वमृतमिति तन्नूनमनृतम् ॥ २ ॥ सुरारीणां वारुण्यमृतममराणां हिमरुचि- दिरेफाणां पौष्पं मधुच हुतशेषः क्रतुमताम् । पिपासाक्षामाणामुदकमपवर्गश्च यतिनाम्, सचित्तानान्त्वेक परमममृतं सत्कविवचः ॥३॥ नोवीरैरसिपाणिभिनं करुणाशील नं दानव्रतै- नों वा धर्मधनै नै तर्कनिपुणैजय्यं जगन्मण्डलम् । सूक्ति युक्तिमती लसनवरसा कान्तेव तु प्रेयसी, वक्त्रं चुम्वति यस्य तेन कविना मन्ये त्रिलोकी जिता ॥४॥ श्री महेशचन्द्र शर्मणः। १ - संस्कृतभाषा। (पूर्वतोऽनुत्ता) भारतवर्षवासिभिस्तु संस्कृतशिक्षा अवश्यकत्र्तव्या । भारत- वर्षेहि यावत्यो भाषाः सन्ति, तावत्यः सर्वा एव संस्कृतादुत्पन्नाः, संस्कृतसदृश्यः, संस्कृतगाधयो वेति संस्कृतमूलकाः। संस्कृतश्च भारतवर्षस्य साधारणीभाषा, इत्यतः संस्कृतमेव भारतीत्युच्यते। तथाच "वामी तु भारतीभाषा गीर्वाग् वाणी सरस्वती" त्यमरः । भारतस्येयमित्यणप्रत्ययान्तभारतशब्दात् स्त्रीत्वात् नीष । भारतवर्ष- भुक्तौ याः प्राकृतभाषाः सन्ति तासां सर्वासामेव मूलं संस्कृतभाषा अतएव भारतवर्षभुक्ततत्तहेशवासिमिः स्वस्वमातृभाषासंशोधनाय संस्कृतमवश्यशिक्षणीयम् । संस्कृतज्ञा हि संस्कृतस्येव तत्तदंशभा. षाणामपि गुणदोषान् सूक्ष्माणुसूक्ष्माभियमांश्च जानन्ति संस्कृताध्य- यनं विना प्राकृतभाषाणामपि निखिलान् गुणदोषान् कृत्स्नानियमांश्च सम्यक ज्ञातु कोऽपि न शक्नोति । अतः प्राकृतानां प्राकृतभाषासु विविधा दोषा दृश्यन्ते । भाषादोषान् संशोधयितु भद्रवंश्यै रवश्यं संस्कृतं किञ्चिदध्वेतव्यम् । अन्यथा भद्राणां मुखे अशुद्धां भाषां श्रुत्वा पण्डिता उपहसन्ति तांश्च असभ्यान्मन्यन्ते । उच्चारणशुद्धिरपि संस्कृतमविदुषां भद्राणामपि प्रायेण न जायते, वहवी भद्राः कर्मेति वक्तव्ये कम्मेति, अग्रहायणेति वक्तव्य मघ्रान् इति, गौरवेति वक्तव्ये गैरवेति ब्रुवन्ति । दीर्घान् वर्णान् हस्वान्, हूस्वांच दीर्घानुञ्चारयन्ति, किंबहुना, अकुतोभयमिति वक्तव्ये, अ- कुतो साहसमिति उक्त्वा पण्डितानामुपहसनीया भवन्ति तदवश्यं भद्रः संस्कृतमध्येतव्यम् । अपि च धम्मों यथा ऐकमत्यस्थापनस्य उपाय स्तथा भाषापि ऐकमत्यस्थापनस्योपायइति यदि सर्वे भद्रः संस्कृतमधीयेत तदा एक- भाषा सूत्रेण घयं सर्वएव भारतवासिनो निबद्धा भवेम। इत्थं यदि अस्माकं शास्त्रार्थः। भारतवर्षे समस्तमव ऐकमत्येन निबद्धं भवेत् तदा कियानानन्दो ऽनु भूयेतेति वितयंता सहृदयै रित्यलं विस्तरणेतिशम् । श्रीमहेशचन्द्र शर्मा। दिनाजपुरम् । । - ::- - अस्माकं शास्त्रार्थः। शास्त्रार्थशब्देन किमुच्यत इति कसय खल्वविदितम् । सभायां समवेतेषु संस्कृतशेषु कैश्चित् पूर्वम्, अपरैरुत्तरम् अन्यैर्माध्यस्थ्यम्, इतरेश्च श्रोतृत्वमवलम्ब्य आयशास्त्रविषये यदालोच्यते स एव 'शास्त्रार्थो' नामेति वदन्ति । यया रीत्या तु साम्प्रतं तैस्तदनुष्ठोयते तेन तद् वस्तुतस्तदभिधेयमर्हति न वेति महान् सन्देहः । शास्त्रार्थों नाम न खल्वहन्तुदै निःसारैवंचनप्रपञ्चेः प्रतिपक्षस्य हृदय विदारणम्, न च सिंहनादपि तिरस्कुर्वाणैः कण्ठध्वनिभिदि. गन्तरालवाचालनम्, महाकाशोदरप्रपूरणम्, श्रोतृश्रवणविवरप्रस्फोटनं वा । अथेदृश एव स भवेत्, तहि किमिति शास्त्रविद एव तत्राधि- क्रियन्ते, किमपराद्धं प्राकृतः यत्र नानुसतव्यं शास्त्रम्, न कत्र्तव्यो विनयः, न रक्षितव्या महतां मर्यादा; म स्मरणीयं शीलम्, न द्रष्टव्यो धर्मः, न वापेक्षणीयो न्यायः अपि तु प्रकाश्यो दम्भः उच्चार्यो दुर्वादः, कर्तव्यः क्रोधः सेव्यो दुराग्रहः, प्रच्छाद्य सत्यं तिरस्कार्य तत्त्वम् व- कव्यं स्वेच्छामनुसृत्य न तु शास्त्रम् निर्णेयो वादिविजयो न तु शास्त्र. सिद्धान्तः, स्थापनीयं च यथाकञ्चित् स्वोक्तम् न तु शास्त्रोक्तम् । भाग्यवैभवमेवास्माक मीट- शम्, अन्यथा येषां हि प्रत्यक्षरमेव धर्मस्य रक्षणमरक्षणं वा सम्भवति, यान् खल्ववलम्ब्यावापि कथञ्चिद् सनाथोऽयं भगवान् धर्म इति शक्य- ते कथयितुम्, कथं हन्त त एवेह दुनिबन्धमात्र प्रणोदिताः सभामण्ड. ऐषु प्रागुक्त न प्रकारेण शास्त्रार्थंकरणकैतवेन वस्तुतोऽशास्त्रार्थकरण प्रियाः पाठकाः, कोऽपर उपालभ्यताम्, - - मित्रगोष्ठी-पत्रिका।। एव प्रवर्तन्ते । इमेऽपि चेत् तामेवासजनोचितां पद्धतिमाश्रयेरन्, तहि महाकवेर्वचनेन वक्तव्य मस्माभिः- "त्रिलोकनाथेन सदा मद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा । स चेत् स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः। को वैतादृशात् शास्त्रार्थादमीषां लाभो जायत इति न विद्मः। स्वप्रतिभाविष्करणमुखेन यशोध्वजाधिगम एव स इति चेदभिप्रेयते, तर्हि अत्रापि तावत पृच्छामः-किमङ्ग प्रतिभामाविष्कृत्य यशोऽधिः गमस्य नान्यः कश्चिद विशुद्धः पन्थाः पृथुतरायापस्यां पृथिव्यामुप- लब्धः, येन हन्ताधोऽपि स सेवनीय: स्यादिति ? कीदृशं कि. यद्वा तस्माद यशोऽधिगम्यत इत्यपि विविच्य द्रष्टव्यम् । कथयन्तु भवन्तः, कः स मनोषी "शास्त्रार्थ"-कारी यः खलु कश्चिद ग्रन्थादि. कार इत्र बहु पूर्व मृतोऽपि साम्प्रतं केवलं तद्यशोऽनुसन्धानेन केन- चिदपि स्मयंत इति । तदिदं प्रार्थयामहे-यदि वस्तुत एव केवलं कीर्तिपताकायै "शास्त्रार्थस्य' करणीयता, तहिं त्यज्यतां स दुरोदक प्रकारः, अवलम्ब्यतां च कश्चित्तदनुरूपोऽपर उपायः । अन्यथा की- तिलाभाद वरं तस्मादकीतिरेवोपाज्यंत इत्यन्यानपि तावत् शिक्षित. सम्प्रदायान् अनुयुज्य ज्ञायताम् । अथवा कोन्विदं नो विनयवचनमाकर्णयतु । नायं पूर्वैः क्षुण्ण; पन्थाः परित्यक्तु शक्यते । निधीयतां दृष्टिः प्राचीनेष्वपि ग्रन्धेषु, तेषामप्यनवद्यानि पृष्ठानि एताह तादृशस्यैव "शास्त्रार्थ" नामप्रसिद्धस्य अशास्त्रार्थस्य प्रकाशनसमवंचनकलापर्मालिन्योपहतानि संवृत्तानि । श्रीमच्छङ्कराचार्यभगवत्पादैः श्रीमण्डनमिश्रस्य प्रसिद्धः शास्त्रार्थः क. थमिव सम्पन्न इति श्रीमाधवाचार्येण शङ्करदिग्विजये वर्णितम् । तत्र वादिप्रतिवादिभ्यामन्योन्यं कथं सम्भाषणं कृतमित्यपि ज्ञातु शक्यतो तदिह तत एष किश्चिदुद्धृत्य प्रदश्यते - मण्डन:-स्थितोऽसि योषितां गर्भ ताभिरेव विवद्धितः । अहो कृतघ्नता “मर्स", कथं ता एव निन्दसि ॥
अस्माकं शास्त्रार्थः। शङ्कर:- यासां स्तन्यं त्वया पीतम, यासां यातोऽसि योनितः। तासु “पूर्वतम” स्त्रीषु पशुवद रमसे कथम् ॥ इति ॥ ८२४-२५ श्रीशङ्करमण्डनाविव विद्वद्वरेण्यावन्योन्यसंवादे मूर्खमूर्खतमादीनि पदानि प्रयुक्तवन्ताविति न तावदस्मश्चित्तं प्रत्येतुमिच्छति । न च तेषामिव पण्डितप्रकाण्डानामीशो जघन्यतमः शास्त्रार्थ प्रकार: कल्पयितुमपि शक्यते । सकलशास्त्राधिकारिणा दृष्टलोकमर्या. देन माधवाचार्येणेव च पण्डितेन कथमयं तत्रभवतां शङ्कराचार्यभग. उत्पादादीनां वसतुतोऽपकर्षप्रकाशकः तादृशदुर्वादकलङ्कितः 'शा- सार्थो' निबद्ध इति न ज्ञायते । एतेन स्पष्टमेव प्रकाशेत यदस्य सा- प्रतिकस्य शास्त्रार्थस्य माधवाचार्यादीनां समयेऽपि पूर्णैव मात्रासी- दिति । शास्त्रार्थे करणीये भगवन्तः श्रीशङ्कराचार्यभगवत्पादाः मण्डनमि- अमिव प्रतिवादिनं न जातु 'मूर्खतम' इति सम्भाषेतेति पूर्वमुक्तम् परन्तु महदिदमस्माकं हृदयं दुनोति यत् तेषामपि ग्रन्थेषु क्वचित् क- चिदपि प्रतिपक्षेषु दुर्विषहान्युपलम्भवचनान्यधिगम्यन्त इति । वेदा- तदर्शने शारीरके भाष्ये बौद्धान् प्रत्युक्तम्- "निरङ्क शत्वात् ते तुण्डस्यैवं ब्रवीषि, नतु युक्त्युपेतं ब्रवीषि" । इति । २०२पा। एवं बृहदारण्यकोपनिषद्भाष्ये तार्किकान् प्रति- "अहो अनुमानकौशलं दर्शितमपुच्छरस्तार्किकवलीवर्दै रि- ति" ॥ इति २० १ ब्राह्मणम् । श्रीमन्तः शङ्करभगवत्पादाः केन नामासमासु शिरसा नाच्च्यन्ते, कः खल्वकामेनापि तेषामद्भुततरमतिमहश्च शास्त्रवैशारद्य न स्वीकु -त्, परन्तु यत्तदस्तु, स्वग्रन्थषु तादृशानां दुर्वचनानामुपनिवन्ध- नेन युक्तमेव तैः कृतमिति न जातु वयं कथयितु प्रभवामः । दौर्भा- - - - मित्रगोष्ठी-पत्रिका। ग्यमेवेदमस्माकं यत्तेषामपि ग्रन्थेष्विदं द्रष्टव्यं भवतीति । अन्येष प्रन्थकृतां तु कथैव नास्ति । न वयं तदुदाहरणेन सन्दर्भस्य शरीर वृद्धिमिच्छामः । यदि दुर्वादैरेव प्रतिपक्षा विजेतव्याः, तर्हि शास्त्रे भ्यो, युक्तिभ्यस्तर्केभ्यश्च किमिति निवापाञ्जलयो न प्रदीयन्ते ? न युक्तितर्का अपि दुर्वांदसाराः स्युरिति केनापि मुनिना भाषितम् । अस्मदधन्यतया ब्राह्मणग्रन्थेष्वपि वर्तशनस्य शास्त्रार्थ प्रकार दोषकलङ्करूपर्शो दृश्यत इव । तदिदं वक्ष्यमाणाख्यायिकाती विज्ञा. येत । वृहदारण्यकोपनिषदि ३०१,१० प्रा०- जनको ह वैदेहो बहुदक्षिणेन यक्षेनेजे । तस्य ह जनकस्य वैदे. हस्य विजिज्ञासा बभूव-(१)कः स्विदेषां ब्राह्मणानामनूचानतम इति (२)। स ह गवां सहस्रमवरोध; दश दश (३) पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः।" "तान् होवाच ( जनकः)-'ब्राह्मणा भगवन्तः, यो वो ब्रह्मिष्ठः स एता गा उदजताम् ( उत्कालयतु स्वं गृहं प्रति नयतु ) इति” । इदमाकर्ण्य न तावत् कश्चिद ब्राह्मणेषु आत्मनो ब्राह्मष्टतां प्रख्या- पयितु शशाक । अथ तेषु तथाभूतेषु अप्रगल्भभूतेषु तिष्ठत्सु याज्ञव- ल्यः स्वान्तेवासिनं ता गाः स्वगृहं नेतुमकथयत, तेन चात्मनो ब- मिष्टत्वं प्रख्यापितवान् । याज्ञवल्क्यस्य तेन कृत्येन सर्वे ब्राह्मणाः चु- धुः। अथ तेषु जनकस्य होता आश्वलः त्वं नु खलु नो याज्ञवल्क्य, ब्रमिष्ठोऽसीति कथयित्वा तेन सह विदितुमारभत पर्याजीयत च। इत्थमेव आत्तंभागादिभिरपरैरपि कैश्चित् शास्त्रार्थे विजयमधिगम्य शाकल्यनामकेन केनापि पुनः पुनरनुयुक्तः प्रत्युत्तरयन् कोपमापनो याज्ञवल्क्यः तमपृच्छत- "तं त्वौपनिषदं पुरुषं पृच्छामि, तं चेन्मे न विवक्ष्यसि (कथयिष्य- (१) 'कः खित्'-को नु खलु । (२) अनचानः-साङ्गवेदविचक्षणः । (३) सुवर्णस्य पलचतुर्थभागः पादः । पञ्च पञ्च सुवर्ण पादा एककस्मिन शृङ्गे बद्धाः।
अस्माकं शास्त्रार्थः। सि ), मूर्द्धा ते विपतिष्यतीति" । "तं ह न मेने (विशातवान् ) शाकल्यः तस्य ह मूर्द्धा विपपात'! सम्पूर्णः शाकल्यस्य शास्त्रार्थः ! प्राणैरपि ततप्रभावात स तपस्वी वियुक्तः ! साम्प्रतिके शास्त्रार्थ कालवैभवादा, राजशासनमाहात्म्यादा प्राण- वियोगं विना सर्वमेवान्यदस्तीति केन न दृश्यते । यदि कश्चिदीदृशं शास्त्रार्थ स्वप्रतिभया विरचयितुमशक्तः स्यात्, तर्हि अवश्यं तदुपायं स बोधनीय इति कोऽपि महाजनो गुरुश्रम- पङ्गीकृत्य तमुपनिषद्धवान् । उक्त तेन- " ततः संरम्भसम्भारगम्भीरारम्भनिराम् । विपक्षं क्षिप्रमाक्षिप्य वाचमुचारयेदिमाम् ॥ यन्मया सह दुर्बुद्ध, वाग्युद्धं कत्तुमिच्छसि । तत्पङ्गःशृङ्गमुत्तुङ्ग मेरोरारोदुमिच्छसि ॥ सुप्तसिंहसटाकृष्टिमष्टापदपदच्छिदाम् । व्याघ्राय शीध्रमाघ्रातु शशकः सत्यमीहसे॥ शुकशावः शशादस्य चञ्चुचुम्वितुमिच्छसि । सर्प सदर्पमध्रिभ्यां निष्पेष्टु दुष्ट वाञ्च्छसि ॥ त्वया दुर्वचनैरव दुर्वासाः परिकोपितः। कालिका दंष्ट्रया कण्डूरपनेतुमिहेष्यते ॥ सुखसुप्तस्त्वया सिंहः पादाघातेन बोधितः । यदहं वादवचनाटोपेन परिकोपितः ॥ लक्षणे मम दक्षत्वं, साहित्ये संहता मतिः तर्के कर्कशतात्पर्य, व शास्त्र नास्ति में श्रमः ॥ इत्थं सुव्यथकैर्वाक्यरस्य दर्पाद्धमुद्धरेत् । अर्द्ध च शमयेद बादी युक्तियुक्तैर्वचःक्रमः ॥ इति ॥ कविकल्पलता, वादितजनम् । इतोऽपि किश्चिद गुरुभिः शिष्येभ्यः शिक्षणीयं सम्भाव्यते ! ईदृ. * * !
. मित्रगोष्ठी-पत्रिका। शमेव शास्त्रार्थ वर्णयितु दूयमानहृदयेन केनचित् महात्मना गोतो. ऽयं श्लोकः- व्यासादीन् कविपुङ्गवाननुचिताक्यैः सलील हस. न्नुच्चैजल्प निमील्य लोचनयुगं, श्लोकान् सगर्व पठ । काव्य धिक् कुरु यत्परविरचितं, स्पद्धस्व साई बुधै- यंद्यभ्यर्थयसे श्रुतेन रहितः पाण्डित्यमाप्तु बलात् ॥ इति ॥ श्रीमता नीलकण्ठदीक्षितेन चैतद्विषये सुष्टु खल्वात्मनोऽभिप्रायः प्रकाशितः-“नभेतव्यं न बोद्धव्यं न श्राव्यवादिनोवचः । झटिति प्रतिवक्तव्य सभासु विजिगीषुभिः ॥ असंभ्रमो विलज्जत्वमवज्ञा प्रतिवादिनि । हासो राज्ञस्तवश्चेति पञ्चैते जयहेतवः ॥ उच्चैरुद्धोष्य जेतव्य मध्यस्थश्चेदपण्डितः । पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यताम् ।। लाभो हेतुर्धनं साध्य, दृष्टान्तस्तु पुरोहितः । आत्मोत्कर्षों निगमनमनुमानेष्वयं विधिः ॥ अलभ्यं लप्स्यमानेन, तत्त्व जिज्ञासुना चिरम् । जिगीषुणा हियं त्यक्त्वा कार्यः कोलाहलो महान्" ॥इति॥ कलिविडम्बनम्. १-५ श्लो० अतः परं नास्माकं किमपि वक्तव्यमवशिष्यते । एताशेन शा- स्त्रार्थन कियान् कश्चोपकारोऽपकारो वा सम्भाव्यत इति भवन्त एव विचारयन्तु भोः पाठकमहाशयाः, कुर्वन्तु च यत् खलु तनम- वयो रोचते । इदन्तु सविनयं सविस्रम्भं सनिर्वन्धं च प्रार्थयामहे यत् तथा कृपया कर्तव्य श्रीमद्भिः, यथा संस्कृतविदुषां न कश्चित तद्विषयकः कलङ्कारोऽस्माकं श्रवोरन्ध्र प्रविशेदिति। अतितमा खल्वनेन वयं दयामह इति शिवम् ॥ विधुशेखर शर्मा। - उत्त- नीतितत्त्वम्। (ETHICS ) प्रायेण खल्बमदेशे नीतितस्वस्थानुशीलनं न दृश्यते । पाश्चा- त्यैस्तु साम्प्रतमिदं सविशेषमालोच्यते । किं बहुना विज्ञानेष्ववेद- मत्युत्तमत्वेन तैः परिगृहीतम्। तत्र किमिदं “ नीतितत्त्वम् " नामेति संक्षेपेण किञ्चिदिह तत्परिचयः प्रदीयते । 'इदमुत्तमम्', 'इदमुत्कृष्टम्' इति किमुच्यत इति बुध्यत एवास्मा- भिः;-यदिष्टं तदेव तत; यस्मादनिष्टं जायते, न जातु तदुत्तमं भवतीति । 'स्वास्थ्यमुत्तमम्', 'अस्वास्थ्यमधमम्', 'धनं सत्', दारिद्रयमसद्' इति इष्टानिष्टपदार्थेषु अस्माभियंवहियते । परन्तु कथमेकमुत्तमम्, कथं चान्यदधममिति न सम्या विषिच्यते । मत्वम् अधमत्वं चेदमापेक्षिकं भवतीति पश्यामः; यथा-अनयोरि- दम् 'उत्तमतरम्', एषु 'इदमुत्तमतमम्' इत्यादि। भवति चेत्थं किञ्चिन्- निरपेक्षमपि उत्तमम्, उधमं.वा । यथा मुक्तिवादिनां मुक्तिनिरपेक्षो- तमा । अतो निरपेक्षापेक्षिकयोः उत्तमाधमत्वयोः ( Relative and absolute good ) कश्चिद भेदोस्तीति स्फुटम् । तन यदापेक्षि- म् उत्तमम् अधमं वोच्यते, वस्तुत एव तत्तथा भवेन्नवेति न हायते । तद्धि कदाचित् कस्यापि प्रयोजनस्य सिद्धये भवतीति हि त्तमं विविच्यते, न त्वन्यथा । स्वास्थ्येन वयं स्वकर्मसाधनाय 'भवाम इति हि 'स्वास्थ्यमुत्तमम्' इति बमः । निरपेक्षोत्तमं (absoite good) वस्तु तु नेटशम्, तद्धि स्वयमेव तथा । यधु च्यते सर्वमध्युतममापेक्षिकमेव, न तु किश्चिन्निरपेक्षमप्य- ति, तर्हि कोऽपि भ्रम आपतेत् । तथाहि-'इदमापेक्षिकमुत्त. ' इत्युक्त किमपेक्षया तदुत्तममित्यवश्यं वक्तव्यं भवेत्, एवं सयापि तस्यापीति पारिशेष्यान् निरपेक्षस्य कस्याप्यनङ्गीकारे अन- थापातः। ततश्च निरपेक्षस्य कस्याप्युत्तमत्वस्यास्वीकारे आपेक्षि- स्तिमत्वमपि न सिध्यतीति निश्रयः । अथ किं तभिरपेक्षमुत्तम- ३ मित्रगोष्ठी-पत्रिका मिति निर्णेतु पाश्चात्यैबंहून कालान् प्रयत्यते । तेषां प्रयत्नस्य संक्षि. समितिवृत्तं श्रीमतां पण्डितानां प्रीतिप्रदमेव भवेदिति सम्भावयामः। निरपेक्षोत्तममेकमेव, न तु द्वितीयम् । सर्वेषामपि मानवाना प्रयत्नस्य इच्छायाश्च स पर विषय इति व्यक्तिविशेषाणामिव व्यक्ति सामान्यानामपि तदुत्तमम् । तत्र सामान्यविशेषकृतः कोऽपि भेदो नास्ति। पाश्चात्यैदार्शनिकैरस्य खलु निरपेक्षोत्तमत्वस्य कीदृशं तरवमा. विष्कृतमिति लिख्यते सामान्यतो दार्शनिकानां मतानि धा विभक्तु शक्यन्ते । १प्रथम मतम्-सुखमेव निरपेक्षोत्तमम् ( Hedonism); २ द्वितीयम्-स्वा. भाविकेनैव ज्ञानेन नीतिनियमो ज्ञातुं शक्यते, तेन च यद्यथा, अवश्य तत्तथानुष्ठेयम्, तदनुष्ठानमेव च निरपेक्षोत्तमम्; यथा-दुःखमुत्पद्यते चेदुत्पद्यताम्, तदवश्यं सहनीयमिति ( Rigorism ), ३ तृतीयम्- यत्प्रवृत्या प्रायते, यच्च परमार्थज्ञानेन निवेद्यते, एतयोदयोः साम अस्यविधानमेव निरपेक्षोत्तममिति, ( Eudemonism) । समासतः प्रागुक्त मतत्रयमेव पाश्चात्यपण्डितेषु दृश्यते । एतद- पान्तरभेदा अपि बहवः सन्ति । 'स्व सुखमेव सुखमिति केचित ( egoistic Hedonism ); परसुखमेव सुखमित्यपरे, ( Altruistic He donism ) एवमन्येऽप्यन्यदेव वदन्ति । क्रमेण तत्सर्व प्रकाशयिष्यते। आलोच्यमानोऽयं विषयः (Ethics) नीतिविज्ञान मिति (Ethics Science) गीयते । परन्तु विज्ञानादस्य भेदोऽस्ति । “Ethics" ( नीतितत्त्वम् ) इयस्य न तथा कश्चिद् विग्योऽस्ति; परन्तु क इव स भवितुमर्हतीत्येव कश्चिद विषयत्वेन स्वीक्रियते । औचित्येन खलु यत्र सर्व विचार्यते, तत्र अपरापरविज्ञानेष्विव सर्वमेव श्रवण- नयनगोचरमानीयेत इति न सम्भाव्यम् । अतोऽस्य विषयस्य नीति. विज्ञानम् इत्यस्मात् " नीतितत्त्वम् " 'नीतिदर्शनम्" वा ( Ethics Philosophy ) इत्येव नामधेयं युक्तम् ।
ल्यात, 1, नीतितत्त्वम् । भत्रेदं धक्तु युज्यते 'बेन्थम्' ( Bentham ) प्रभृतिभिः पण्डितैः मोतितत्त्वे किमनुसन्धेयमिति विस्मृतम्, ते कथयन्ति “औचित्य- मिति" यत्किञ्चिदस्ति, नीतितत्त्वात् तदपाकियतामिति । इत्थं सति नीतितत्त्वम् किमवलम्ब्य तिष्ठतु ? यदि सुखमेव जीवनस्य प्रयोजनं तहि सर्व सुखं कामयन्त इति नीतितत्त्वेन न निर्मूतव्यम्, अपितु सुखं प्राप्तुमुचितम् इत्येतावदेव । इदं च द्रष्टव्यम्-नीतितत्त्वषन मनोविज्ञानेनापि (Psychology) मानवानां कर्त्तव्यमुपदिश्यते तत्र कस्तावदेतयोः सम्बन्ध इति । हद- पस्य, बुद्धिवृत्तेः, इच्छाशक्तपादेश्व नेकविधैर्दुविगाहै स्तत्वैः परिपू. त्यद्भिः पाश्चात्यैः पण्डितैर्विवानमिदं जनानां पुरत उपस्थापितम् । नीतितरसस्य मनोविज्ञानाद भेदोऽसित,-मनसि किं कथं पास्ति नास्तीत्येतावामात्रं मनोविज्ञानेन निर्णीयते, नीतिविज्ञानन्तु तत्कृतं नर्णयमेवावलम्ब्य स्वविषये प्रसरति। सत्यमिदं यन्मनोविज्ञानं विना नीतितत्त्वम् पदमपि गन्तु न शक्नोतीति । किं नाम मानवस्योत्तम- मेति ज्ञातव्ये प्रथमं हि मानवस्य मन एव किमित्यवश्यं यं भवति । नसश्च ज्ञातव्यत्वे तदीयाः प्रवृत्तयो ज्ञातव्या भवन्ति । प्रवृत्तिज्ञा- गानन्तरं च तदनुसरणेन 'इदमुत्तमम्, 'इदमधममिति' नीतिविमानेन नेरुप्यम् । आगामिसंख्यायां मनोविज्ञानविषये किश्चिन्मया कथनीयम् । तत्र वृत्तिसम्बन्धानि पञ्चषाण्यपेक्षितानि वाक्यान्यालोच्य नीतितत्त्वा- सोचनायां विशेषतः प्रवत्स्य॑ते । तावन्तं कालं भवतां किञ्चिद धैर्य्य गर्थयामहे । गम्भीरोऽयं हि विषय इति । श्रीअजितकुमार चक्रवर्ती, बि, ए, आंग्लोसाहित्याध्यापकः, ब्रह्मचर्याश्रमः, (बोलपुर )।
श्री प्रभावतोदेव्या लेखः । श्रीमन् सम्पादकमहाशय, अहमसिम काचिदन्तःपुरिका। नग- रतो दूरवतियां कस्याञ्चित् पल्ल्यांमस्माकं निवासः, यत्र नाद्यापि नागरिकभावो जनानां चेतःसु सम्यक् स्फुरणावकाशमलभत। अतो मादृश्याः कुलीनाङ्गनायाः वृत्तान्तपत्रिकासु किञ्चिलिखनं नाम अ. तितमा साहसमिति न खलु नाहमपि विजानामि, तथाप्यद्य कारण- गौरवादिह प्रवृत्तास्मि। मन्ये नेदं जातु श्रीमतामु गजनकं भवेत्। तपस्विनीषु स्त्रीयु अस्ति खलु तत्रभवतां कश्चित् पक्षपात इति भव. सम्पादितां पत्रिका गृहकोणावस्थानेन पठन्त्या मया नाविदितम्। अन्यश्च कन्यकानां विषये किञ्चिदद्य मया कथनीयम् । तत्र च पाषा- णकर्कशहदयानां वः पुरुषाणामेकान्तेनैव अनुत्साहमालोक्य श्रीमतां करुणाकणां कामयमानैः स्त्रोजनैरस्माभिः अगतिकगतित्वेन याव- च्छक्यं स्वयमेव किश्चिदनुक्ता किं नामापरं क्रियतामिति भवन्त एवं विचारयन्तु। सम्पादकमहाशय, यूयं खलु पूरुपा अस्माकमाश्रयाः, स्त्रियो वय. माश्रिताः यूयमुपजीव्याः, वयमुपजीविन्यः, कि बहुना सर्वथा युष्मा- कमेव करतलायत्तमस्माकं जीवनमपि । तथा सति यदेते यूयमस्मासु अनुचितमाचरथा-अवज्ञानदृष्ट्यास्मान् पश्यथ, अकथनीयमपिच कथथथ, तत् किमेतद् धर्मस्य वा, शिक्षाया घा विद्याया ज्ञानस्य वा, सभ्यत्वस्य वा विलसितमिति न ज्ञायते । सम्पादकमहाशय, किमस्माभिः स्त्रीभिः पुरुषाणां वो बदनविव- रादोदनकवलम् आच्छिद्य गृह्यते, आहोस्वित् पाकोन्मुखानां शालीक लमानां क्षेत्रषु पुनरप्यकाण्डे हलसञ्चारः क्रियते; यद हन्त आश्रिताः अपि वयं युष्माकं दहनदृष्टी निपतिताः । जीवानां पुरुषत्वेन स्त्री. त्वेन या जन्मग्रहणं नाम न जातु तदायत्तम्, कम वा ईश्वरी पात्र प्रभ. पति । एवञ्च कोऽयमस्माकमपराधो येन अपत्यत्वे समानेऽपि तनय -- श्री प्रभावती देव्या लेखः । व पितुः स्नेहसम्भारमधिकरोति, न तु कन्यका । पुत्रजन्मनि पितु- तिशयः शरीरेऽपि न मीयते, कन्योत्पत्त। तु वज्रणेव मस्तक गड्यमानं भवति, दिशः शून्याः प्रतिभान्ति, जगञ्च सर्व विषादपरि- रितमिव दृश्यते। पृथिव्यपि कन्यकाया भारेण सात्रिहस्तमधो- छतीति वदन्ति । किमुच्यते कन्यकाया मृत्युरपि पितुहर्षायैव स- पद्यत इत्यपि पश्यामः । अहो कष्ट, गृहपालितस्य कस्यचिद् विहङ्गा- ज्यापि मरणेन गृहाधिपतेः कातयं दृश्यते, न तु कन्यकानाम् ! तिर्य- भ्योऽपि कन्यकाया जोवनमतिहेयम् ! सम्पादकमहाशय, असमान प्रति पुरुषाणां यदतितमा विद्वपी- स्ति न तत्प्रमाणाभावः । शास्त्रमिदं सर्व तेषामेव वशंवदम् । यस्य स्याप्येकस्य तद्ग्रन्थस्य यत् किमप्येकं पत्नमुद्धाट्य दृश्यताम्, तत्र- समाकं हृदयमर्मभेदिनो निन्दावादा उपलभ्येरन् । आवेदमासाहित्य सर्वत्रैवास्माकं विगानम् ! क्षणं नेनमुन्मोल्य दृश्यताम्-ऐतरेय- । ह्मणे महता प्रबन्धेन पुत्राणां गुणराशिमुपवयं व्यर्थमेवास्माकं न्य कानां हृदये सपदि निशितं शूलं प्रवेशितम् । तद्यथा-महर्पि- रिदो हरिश्चन्द्रण " किंस्वित् पुत्रेण विन्दत" इत्याद्य कया गाथया यो दशभिर्गाथाभिः पुत्रगुणान् कथयन् अकाण्डे अवोचत्- "अन्नं ह प्राणः, शरणं ह वासो, रूपं हिरण्यं पशवो विवाहाः । सखा ह जाया, कृपणं ह दुहिता ज्योति पुत्रो परमे व्योमन्"। दृष्टं सम्पादकमहाशय, "कृपणं ह दुहिनेति,"-दुहिता हि केवल खकारित्वाद दुःखहेतुर्भवति । इत्थमेव तद्वाक्यस्यार्थ इति श्रीसा- 'णाचार्योऽभिप्रैति । दुहितॄणां दौर्भाग्य भन्यदपि स्मयंते- "सम्भवे स्वजनदुःखकारिका, सम्प्रादानसमयेऽर्थहारिका। यौवनेऽपि बहुदोषकारिका, दारिका हृदयदारिका पितुः॥इति॥ * ऐतरेयबामणम् टतीयेऽध्याये प्रथम खण्डम् । + अत्रैव सायणेन धृतोऽयं शोकः । * १०२ मित्रगोष्ठी-पत्रिका दुहितृणां पितृधनाधिकारोऽपहतो युष्माभिः शास्त्रानुशासनव्या जेन तावतापि श्रीमतांन सन्तोषः। यदस्माभिरन्तरान्तरा पितृसकार किञ्चित् प्राय॑ते, तत्रापि युष्माकमक्षमा। तदिदमवलम्ब्य उपहास तुमपि यूयं न विरमथ ! तेन हि “दुहित" पदस्यापि युष्माभिरमि नवोऽर्थ: कल्पितः । उक्त' यास्केन-“दुहिता-दुहिता-यूरेहिता दोग्धेति'।* तदिह दोग्धेरिति सूत्रमवलम्ब्य युष्माभि रुच्यते-"स हि ( दुहिता ) नित्यमेव पितुः सकाशात् द्रव्य दोग्धि, प्रार्थनापर. त्वात," + अतो दुहितेति । अहो ये खलु पितुः सर्वं धनमधिकुर्वन्ति न ते पितुर्दोग्धारः, परन्तु ता एव तपस्विन्यः, या हि सर्वधनवञ्चिता अन्तरान्तरा दिवं वसनखण्डादिकं प्रार्थयन्ते । जन्ममात्र एवास्माकं पिता गुरुणेष भारेण दूयमानो महाननः प्राप्त इति शङ्कमानः यथाकथमप्यस्तु, गेहतोऽस्मान्यहिष्कर्तुं मिच्छति। तेनैव हि तसय चेतसः प्रसत्तिः। तथा च जन्मदिनप्रभृत्येव कुत्रता नयामीति पिता नः खिद्यते । तेन चास्माकं कन्येति' मपरमेकमा भिधेयमुत्पन्नम् "कन्या-वयं नेतव्या भवतीति" युष्माभिरेवेद . निर्वचन कृतम् । अपरोऽपि कश्चिद युष्मासु कथयति- जातेति कन्या महती हि चिन्ता कस्मै प्रदेयेति महान् वितकः। दत्ता सुखं यास्यति वा नति कन्यापितृत्वं खलु नाम कष्टम् ॥ पार्वतीपरिणयकारेणाप्ययमेव प्रतिध्वनिः कृतः-"कन्यापितृत्वं बलु गृहमेधिनामधिकतरं दुःखमावहतीति"। नि. ०३ च.१पा.४ ख. । + निरुक्तम् ३ अ.१ पा., ४ ख. दुर्गाचार्य याया। + निरुक्तम् ४ च्य• २या. ३ ख.-कम्या कमनीया भवति, केयं मेतवाति वा कनतेर्वा स्यात् कान्तिकर्मणः।
. भी प्रभावती देव्या लेखः। १०३ सम्पादकमहाशय, विवाह एवास्माकं सर्वानर्थमूलम् । कन्यकानां रिलाभार्थमेव पितरो दूयन्ते । तेनैव चैषामस्मासु वैमनस्यं दृश्यते किन्तु पृच्छामि-किं नु खलु कन्यका धेवात्रापराध्यन्ति ? जानीयत्र कापि धनिकाय वा, विज्ञाय वा मूढाय ना, सुरूपाय वा कुलीनाय वा अनुमताय वा अननुमताय वा यस्मै कस्मैचिदपि प्रदीयमानापि न मातु युष्माकं कन्यका प्रकाशं किञ्चिदन्यथा ब्रवीति; न सा विवाह- समये इयद्धनं देयमिति निबन्धेनापि पितुर्धनमधिकर्तुमिच्छति, सा स्खलु युष्मन्नियोगेन भावाल्यं परिचितानि आत्मीयत्वेनाभिमतानि सर्वायपि वस्तूनि सपदि परिहाय कसिमंश्चिदचिन्तितपूर्व प्रदेशे सर्वथापरिचित रभिनवैजनैः चिरस्थातुमपि गच्छति । किं बहुना प्रदेव किञ्चिजनक इच्छति, तदेव कन्यका करोति । एवमपि न प्रसो. इति वो हृदयमिति सर्वथा दुःखसंवेदनायैवास्माकं जीवनम् । पति- एहे तावत् सुखं भवेन्नवेति दूरमास्ताम्, हन्त पितृगृहेऽव्यवस्थाने नास्माकं सुखम् । अस्मद्विवाहसम्पादनमारखिन्नानां विषादकलि- तवदनानां पित्रादीनां चिन्ताजनितांग्लानिमालोक्य कस्य नाम चेतास सुखमुदतु । सम्पादकमहाशय, ईदृश एव युष्माकमस्मासु अनुग्रह- प्रकारः । अथवा अलं विस्तरेणेति शिवम् श्रीमती प्रभावतीदेवी। श्री प्रभावती देव्या लेखे अस्मदभिप्रायः। कन्यकानां समाजे कीदृशं स्थानमिति श्रीमत्या प्रभावतीदेव्या बलु रूपष्टमेव लिखितम् । वस्तुत एव तत्तथैव । अन्येद्यु : कस्मिं- श्वत परिवार भकाण्डे तिस्रः कन्यका मसू रिकया मृताः इमां वार्ता- माकण्य कश्चिदस्मद्यस्येषु विस्मयरसमियानुभवन् सानन्दमवादीत-- केमुच्यते, एकस्मिम् गृहे तिस्रः कन्यका मृता इति परं भाग्यं तस्य गृहपतेः, अन्यथा कापि विवाहात्पूर्व युगपत् कन्यानयं म्रियत इति उत्सत्यं न दृष्टपूर्व मयेति । इदमन वक्त मुचित-सोऽयं वयस्यो मे - १०४ मित्रगोष्ठी-पत्रिका ।। चतसृणां कन्यकानां जनक इति । दृश्यतेऽपि च प्रायेण मृताद दुहितरि "शान्तं पाप, प्रतिहतममङ्गलम्" इति बुद्धिजनानां चेत स्युदेतीति । कन्यापितृत्वस्य कष्टावहत्वं द्वधा । प्रथमतः स्नेहसर्वस्वभूताया कन्याया अकाण्डे विच्छेदाता द्वितीयतस्तु तस्याः पाणिग्राहकसंग्रह- स्थासौकर्यात् । तत्न श्रीप्रभायतीदेव्या 'विवाह एवास्माकं सर्वान मूलमिति' पदन्त्या द्वितीयहतुप्रपञ्चनमुखेन पुरुषा आक्षिप्ताः। प्रथम- हेतुविषये तु तया गनिमीलनं कृतम् । अतस्तत्रास्माभिः किञ्चिद्वक्त- व्यम् । येन पुरुषाणामुपरि न्यस्तस्य दोषस्यांशतः क्षालनं भवेत् । अभिज्ञानशकुन्तले शकुन्तलायाः पतिगृहगमनसमये कण्बसय हृदय वृत्तिः कीदृशी आसीदिति "यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमु- कण्ठयेत्यादि" पठितवत्या देव्या प्रभावत्या नाविदितम् । तत्र च- "अर्थो हि कन्या परकीय एवेति" वचनमपि कण्वस्य कन्यवां प्रति नावशां प्रदर्शयति, प्रत्युत तथा खलु संसारसय स्थितिरिति दुःखमेव घोतयति । अतएव हर्षचरितेऽपि बाणभट्टेन तत्तथैव पणितम्। मनोरमः स ग्रन्थभाग इति पाठकेभ्य उपहियते-"कदाचित्तु राजा (हर्षस्यजनकः)......गीयमानामार्यामिमामशृणोत- उद्वेगमहावर्ते पातयति पयोधरोन्नमनकाले । सरिदिव तटमनुवर्ष विषधमाना सुता पितरम् ॥ तां च श्रुत्वा पार्श्व स्थितां महादेवीमुत्सारितपरिजनो जगाद---'देवि, तरुणीभूता वत्सा राज्यश्री; एतदीया गुणवत्तेव क्षणमपि हृदयाना- पयाति मे चिन्ता । यौवनारम्भ एव कन्यकानामिन्धनीभवन्ति पितरः सन्तापानलस्य ।............केनापि कृता धा नाभिमता मे स्थिति रियं-यदनसम्भूतानि, अङ्कलालितानि अपस्त्यिाज्यान्यपत्यानि अकाण्ड एवागत्य असंस्तुतै!यन्ते। एतानि तानि खल्वङ्कनस्था- नानि संसारस्य। सर्वाभिभाविनी शोकाग्ने दहशक्तिः -यदप.
- अस्मदभिप्राया। त्यत्वे समानेऽपि जातायां पुहितरि ड्यन्ते सन्तः। एतदर्थ जन्म- काळे एव कन्यकाभ्यः प्रयच्छन्ति सलिछमश्रुभिः साधवः। एत- द्यादकृतदारपरिग्रहाः परिहतगृहवसतयः शून्यारण्यायधिशेरते मु- नयः। को नाम सहते विरहमपत्यानामिति" . उ०। अतएव भट्टनारायणेनाप्युक्तम्- "यास्यति सजनहस्तं रमयिष्यति तं भवेच्च निर्दोषा । उत्पादितयापि कविस्ताम्यति कथया दुहित्रैवेति' ॥ मन्यामहे पूर्वोदाहतवचनदर्शनेन श्रीमती प्रभावतीदेवी निवि- चिकित्समवगच्छेद या स्वभावतः पुरुषाणां कन्यकाःप्रति हृदयं वि. दिष्टम्, प्रत्युतातितमा स्निग्धमेव; कथं नु मलु कन्यकानां सत्परिग्र- हीतृलाभेन सुखं भवेदित्येव चिन्तया ते खिद्यन्ते, खिद्यमाना अपि च नानुरूप पात्रं लभन्त इति हि ते कन्यापितृत्वं कष्टकरमिति वदन्तीति। श्रीमत्या प्रभावतीदेव्या ऐतरेयब्राह्मणस्य " कृपणं ह दुहितेति," "सम्भवे स्वजनदुःखकारिका, सम्प्रदान समयेऽर्थहारिकेत्यादि'' वचनं चोदाहृत्य दैन्यहेतुत्वात् कन्यकानामनादरास्पदत्वमुक्तम् । सर्वथा वयमिदं स्वीकुमः । एतदर्थं च यदमी वयं पुरुषा नितान्तं गहणीयाः, न तन स्तोकोऽपि सन्देहः। स्वयमेव वयं स्वदैन्यमुत्पादयामः । न हि कन्यकाः पुरुषान् शिक्षयन्ति यद भवद्भिः पाणिग्रहणकृते कन्यापित. सकाशात् सहस्राणि रूप्यकाणि शुल्कत्वेन ग्रहणीयानि । स्वस्वनि- कत्वसाधनार्थ स्वयमेव धयममुमुपायमुद्भावितवन्तः। नान स्त्रियो- ऽपराध्यन्ति । परन्त्वहो कष्ट दुर्विपाकः पुनरस्य तासामपि परा पीडा प्रशस्योऽस्माकं प्रज्ञाप्रकर्षो, यतः स्वबुद्ध्यपराधेन दिनादिनं जामातुः शुल्कपरिमाणं वयन्तो मूर्तामिव स्नेहरसवल्ली स्वां स्वां कन्यका दैन्यहेतु विवेचयामः, तेन च हन्त मृत्युमपि तस्याः श्लाध्यमेव गणयामः । सत्यमेवोक्त बाणभट्टन-"अपत्यत्वे समानेऽपि जातायां दुहितरि दूयन्ते सन्त' इत्यादीनि । परन्तु तन्मते तत्कारणं विरहशोकाग्निरा- ३ जनयति । १४ . । । १०६ मित्रगोष्ठी-पत्रिका।। सीत् । अधत्वे तु न विरहभयात् पितरोऽश्रुभिः कन्यकाभ्यः मलिक प्रयच्छन्ति । भिन्नमिदानी तत्कारणम् । साम्प्रतं हि केवल जामात शुल्कसंग्रहाक्षमस्वमेव कम्पापितॄणां मयनयोर धारामुत्पादयति ।। प्टं भोः कष्टमिदानी सुशिक्षितस्य जामातुरनुग्रहेण वासगृहमप्युच्छि घते श्वशुरस्य ! दिनाहिनं ब्रह्माण्डकटाहसहोदरं जामातृपितुग्दरवि परमियता धेगेन वर्धते, येन सर्व विक्रीयापि कन्याजनकः तदमि लषितशुल्कार्थप्रदानेन न तत्पूरयितुं शक्यते । न च तावन्तमर्थ विन पुत्रजनकः स्वपुत्रं विवाहेऽनुमन्येत। सोऽयं साम्प्रतं शिक्षाया अहः एचरः प्रभावः प्रादुर्भूतः। सर्वे खल्विदानी शिक्षिताभिमानिनः सं. हत्य देशाभ्युदयार्थ विविधान् प्रयासानातिष्ठन्ति । परं प्रतिदिन स्वयमेवेदमनुतिष्ठन्तोऽपि जानन्तोऽपि चास्य न्यायधर्मविहितस्व नैतस्माद विरमन्तीति धिगेतेषां शिक्षाम् । पूर्व कन्यापितर एव वरेभ्यः शुल्कग्राहिण भोसन्, भद्यत्वेऽपि तिष्ठतामप्येषां संख्या प्रतिदिनमेव क्रमेण इसति । परं तु लोऽयं शुल्कग्रहोऽद्य बहुगौरवबुद्ध्या पुत्रपितृभिरङ्गीकृतः समुद्रसलिलपूर इव सिते पक्षे महारंहसा घर्धते इति यत्सत्यं सर्वदा सनाथोऽयं शुल्क- प्रहः । अस्य महानर्थकारित्वं पर्यायेण सर्व एवानुभवन्ति । अनुभूय च न्यायमर्यादारक्षणायेव अन्तरान्तरा कनिचित् तदपाकरणार्थ व्या. ख्यानैः सन्दर्भश्च यत्नमपि मनागारचयन् । अन्ये च किञ्चित्प्रयस्य फलमनधिगच्छन्तो राजकीयशासनसहायतामैच्छमित्यपि दृष्टम् । तदिदमालोच्य कस्य मामार्यधर्मश्रद्धालोहदयं न येत। यछि अनु- चितमिति धर्मश्च न्यायश्च कमत्येन कथयतः, बुद्धिरपि च यत् तथा. त्वेनैव गृह्णाति, हन्त तस्यैवानुष्ठानार्थमिदानीमस्माकं राजकुलं शरण भवेदिति महदिदमद्भुतम् ! कथं न्वहो चिन्तनेऽप्यस्य न वयं जिहीम इति को ब्रवीतु । अथवा भारतीयानां सर्वमेव सम्भाव्यते । इत्थं चास्माकं समाजस्थितौ कन्यापितृत्वं नाम यदतितमा दुः- बापह, कः खलु तम स्वीकृति ? हन्त न जानीमः कदा खल्लम १०७ भट्टशिवस्वामी। पस्विन्यः कन्यकाः पुत्रैः सह समानमासनमथितिष्ठेयुः, कदा पा पारतीयानां "कन्यापितृत्वं खलु नाम कष्टम्" इतीदं वचनं केवल हन्यकानां विरहम् लकमेव भवेत्, न तु विवाहसम्पादनालौकर्यमूक- मिति। समाजस्य नियमनभारः पुराकिलास्माकं धर्मशास्त्रविदां पण्डित- महोदयानामेवोपरि आसीत्। इदानीमपि च समाजव्यवस्थार्थ तानेष जना आश्रयन्ति । सम्प्रत्यपि च तेषां प्रभाषः समाजस्य सर्वत्रैवानुभूयत वि-यद्यप्ययं क्रमेण हसति । तथदीह सामाजिकानामधये अन्याय्य प्राचारे समाजशीर्षस्थानमधाप्यधितिष्ठन्तः पण्डितमहाशयाः सर्वे मलु सम्भूय प्रत्यवतिष्ठेरन्, मनागिप च यद्यमी विषयेऽस्मिन् घेतली ढमवलम्बेरन् तचंयमस्माकं द्रढ़ीयान् विश्वासः-पश्यत एष वच्छिमानविलायं विलीयेतैष दुरोदकः शुल्कग्रहव्याधिः । श्रीमन्तो पारतीयसंस्कृतविद्वांसः, सर्वथा भवन्त एवास्मिनगदकाराः। कत. मतोऽपि कालातिपातेन, प्रसीदन्तु, चिन्तयन्तु कृपया भवतामेघेवं त्यमिति, विरचयन्तु च यथोचितं प्रयत्नमिति सविनयं सबहुमान निबन्धं च तत्रभवतः समारयामः । अन्यथा हन्त, इतो हतोऽयं पिस्वी कन्यकाजनः इति समवितथमुक्त श्रीमत्या प्रभावतीदेव्या ति। :: भट्टशिवस्वामी। औचित्यविचारचचादिषु प्राचीननिबन्धेषु शिवस्वामिकतत्वेनो- हताः श्लोका अनेके समुपलभ्यन्ते । तत्र कः शिवस्वामी, कनत्यः, वा बभूव, का चास्य कृतिः इत्यादिकं यथामति किंचिदिषिच्य वि- झाप्यते मित्रगोष्ठी-पत्रिका-पाठकमहाशयेभ्यः। मुक्काकणः शिवस्वामी कविरामन्दवर्धनः । प्रथा रनाकरधागात्साम्राज्ये ऽवन्तिवर्मणः ॥ .
-- । १०८ मित्रगोष्ठी-पत्रिका। इति राजतरङ्गिणी-श्लोकात् (५ त ॥ ३४ श्लो॥) अयमन्तिा मणः सभाभूषणमिति ज्ञायते । अवन्तिवर्मा च विस्ताब्दीयनवमशर कोत्तरार्धे ( ८५५-८८५) काश्मीरापालयामालेति राजतरङ्गिणीपन मतरजादवसीयते । तत्सभाभूषणस्यास्य कवेरपि तावेव देशकालौ। भस्य च कृतिः कप्फणाभ्युदय इति महाकाव्य विंशतिसार कम् अस्यादिमः श्लोको यथा- सर्वज्ञतादिगुणगोचरमाययौ यो ध्येयो यतोऽपि यतिबन्धुर..बोधिः । मानाय निश्चितचतुर्विधवित्तमूर्तिः मूर्तिदिशा दिशतु दाशवलिः शिवं नः ॥ दशवलनमस्कारात्मकाद एतन्मजालश्लोकात ग्रन्थोपसंहारश्लो केभ्यश्चायं कविर्घाखो बुद्धमताचार्यस्य चन्द्रमित्रस्य शिष्य इति । स्पष्ट प्रतीयते। कोसलाधीशं श्रावस्तीनगरवासिनं प्रसेनजितं जेतु प्रस्थित पक्षिणापथाधीशस्य लीलावतीपत्तनवासिनः कफणस्य दण्डयात्राः विस्तरेण वर्णिता। एकाक्षरश्लोक-बन्धश्लोक-संस्कृतप्राकृतसमावेशादिकं चान पष्ठ सगैकोनविंशसगयोस्समीचीनरीत्या निबद्ध मिति प्रौढ़ोयं महाकविः मन्तिमेचविशे सर्गे कफणस्य बौद्धसिद्धान्ते मास्था जातेति अभ्यु क्यलाभ इति भवर्णयत् । पथाक्रमं तत्सत्सर्गीयप्रमेयज्ञानार्थ तत्तत्सर्गविषया लिख्यन्ते । ५ था-१ नगरीनरेन्द्रवर्णना, २ चारविक्षेपविन्यासः, ३ सभासंक्षोभः ४ राजवाक्यं, ५ दूतीसंप्रेषणम्, ६ पर्वतवर्णना, ७ शिविरसंनिधेशः ८ सतुवर्णना, ९ कुसुमावचायः,१० जलक्रीडा, ११ दिनान्तवर्णनम् १२ चन्द्रोदय प्रसाधनम्, १३ मधुपानवर्णनम्, १५ सम्भोगवर्णनम् १५ प्रदोषवर्णनम्, १६ सैम्यप्रस्थानम्, १७ संकुलयुचम्, १८ युद्ध- वर्णनम्, १९ प्राकृतसमावेशः, २० अभ्युदयलाभः ।
भट्टशिवस्वामी। कवित्वशैलीपरिज्ञानार्थ काफणाभ्युदयात्केचन श्लोकाउदाहियन्ते- 'अपलदसि समस्तायस्तु भूपालचक्र प्रकटितगुरुकोपारभ्मसंरम्भजृम्भे । वहति विलसितानि प्रस्तुतानि प्रचण्ड- प्रलय-जळद-जालाडम्बरै रभ्यरन्धि ॥१॥ इत्थं तास्ताः माधरवस्तुस्तुतिगर्भाः श्रुत्वा श्राव्या विश्रु तविद्याधरवाचः । शैलोत्सङ्गाश्रीपरिभोगस्पृहयालुः स प्रास्तावीसंस्तुतिमाक्रीडविहारम् ॥ २ ॥ मथ वनगहनागिरीय पृथ्वी- तलबिलनिगंतनागनायिकाभाः । अभिनव दिनकृत्करालताप- लमवशमन्थरमन्थरं ययुस्ताः ।।३।। भथसुशां प्रियप्रणयविभ्रमभावनया सममुदियाय शनैः सुरतोत्सवसस्पृहता। रविरपिसञ्जहार करडम्बरमम्बरतः फलमभिवाञ्छितानुपदभावि हि भव्यधियाम् ॥ ४॥ संलापयन्त्या दयितस्य दूती पवा विभूषां च निवेशयन्त्याः । प्रसन्नता कापि मुखस्य जसे षश्रिया नु प्रियवार्तया नु॥५॥ मनोविकीर्ण निभृतप्रणयादिवाक्य- पुष्पाञ्जलिः सरलविभ्रमसूत्रधारः । प्रस्तावनां दयितसन्धिरसैः समाप्य सिद्धिव्यधत्त रमणीरतनाटकस्य ॥६॥ घदननिहिते तांबूलांशेश्रितेरति बीजता कुवलयरशः प्रत्याजचे सरागतरुस्तदा ।
-- ११ मित्रगोष्ठी-पत्रिका। किसलयरुचो यस्य च्छायामुपाश्रितयोस्तयोः विषमविषमः कान्ये नास्तातो विरहक्लमः॥७॥ समजनिन तत्प्रेम त्यक्त यदीषदपीयंया स्मरसुखसखी नासावीयांविना कलहेन या । न खलु कलहः सोऽन्योऽन्यं यः प्रसादनवर्जितः प्रसदनविधि सौबाला नयेन विलिलियरे ॥८॥ गुणमयोऽपि स दोष इव कचित् भवति यत्कमलाकरसारसाः। समुदये ऽम्बुमुचामभवागत क्लमनुदामनुदारमनो मुदः ॥ ९ ॥ रसरभसया रागस्थित्यामुहुः प्रियलालसं चिरपणितयामाना वृन्त्यामुहुः पिहितस्पृहम् । मधुमदमुदालेभेलभ्यं न दुर्लभवल्लभो निधुवनविधि क्रीडालम्बं नितम्बवती जनः ॥ १० ॥ गणरत्नमहोदधिव्याख्यायां 'वामनभोजमुख्याः' इति श्लोकव्या ख्याने मुख्यशब्दस्यादिवचनत्वाच्छिवस्वामि-पतअलिकात्यायन-प्रभू तयोलभ्यन्ते इतिवधमानः । धातुवृत्तौ यमधातुव्याख्याने उपायच्छतेकन्यकामिति प्रघट्टके अत्र पृत्तिकारशिवस्वामिभ्यामिदं भाष्योक्त" इति, 'पाणिग्रहणविशिष्ट स्वकरणंशिवस्वामि जयादिति च माधवः । एवं माधववर्धमानाभ्यां प्रामाणिकत्वेनोदाहृतः शिवस्वामी काफ णाभ्युदयकतुभिन्नएकोवेति कालान्तरे विमर्शमति । वेंकटरङ्गनाथस्वामी विशाखापत्तनम् । ( भिजागापटम् ) ।.
मश्न:। साम्मल कीहशीसंस्कृतशिक्षा अपेक्ष्यते ? उत्तरम्। शिक्षा हि नाम मानवस्य दैहिकं मानसिक सामाजिकं च श्रेय वहति । सा च गीर्वाणवाण्या आपांशुलपादहालिकात् सर्वस्यापि निस्य धा भवितुमर्हति । तत्र आध्यात्मिकी शिक्षा विधातुमिच्छु: ववाणीमेव प्रायेण शरणं प्रयाति; गौड़ीयादिषु दर्शनशास्त्र-ग्रन्था- नाम् इदानीमपि वहुलप्रचाराभावात् । वाह्यप्रयोजनादिकं सम्पाद्य त गौडीयादिनापि कथं कथमपि अभिलषिसिद्धिः स्यादेव । स्तुतस्तु जड़विज्ञानादिषु आधुनिकगणित प्रभृतिषु पुरावृत्तप्रभृतौ प्रवेशमिच्छुः सर्वथा आंगलभाषामेव सरणिं कुर्वीत । अशक्तश्चेत् डीयादिकेनापि समीहितसिद्धि रीषत्करी, संस्कृतेन तु कथमपि विज्ञानादिषु प्रवेशो न भवति । अतएव कस्मै अर्थाय अधुना स्कृतं पठाते इत्यस्य अनिर्धारणे "कीशी संसकृतशिक्षा अपेक्ष- या" इत्यस्य किमपि न सम्यगुत्तरं सम्भवति । धार्थ पठयते चेत् ? वेदादिकं गुरोविधिवध्ययनीयम् । तद- क्षिततया षड़जानि मीमांसे च पठनीयानि । सूत्रभाष्याधात्मक- य-वैशेषिक-सांख्य-पातंजलानि च अध्येतव्यानि । नात्र नव्यन्या. ल्य तदुद्भावितरीतिमवलम्ब्य निबद्धस्य वा अपरदर्शनस्य काचिद- क्षा वर्तते। प्रत्नतत्त्वाधिगमाय अध्यवसाय इति चेत् सर्वएव संस्कृत निबद्ध न्थाः यूरोपप्रदर्शितदिशा मध्येयाः। सा च रीतिः किंस्वरूपा इति श्ने, बदामः प्रथमंतावत् कस्यायं प्रन्थः? कोऽस्य प्रणयनकालः? इतः म् अस्मिन् विषये कानि पुस्तकानि आसन् ? तैः सहास्य कः स. न्धः? अस्मिन् हि प्रतिपादितो विषयः ग्रन्थकारेण स्वमतिमहिना दावितः उत पूर्वतनेभ्यो प्रन्थेभ्य उद्धृतः। पदि उद्भावितः कियदु- वितं कियदा पूर्वाचार्येभ्यो गृहीतमिति । मत्रोदाहरणत्वेन काव्य.
११२ मित्रगोष्ठी-पत्रिका प्रकाशो गृह्यते कुत्रत्योऽयं मम्मटः ? तत्पूर्वम् के अलकारप्रन्थकारा आसन् ? तेषां प्रन्थेभ्यः कोऽर्थः किश्च वाक्यं उद्धृतम् ? दृष्टान्तत्वेन गृहीताश्च श्लोकाः केन प्रणीताः । काव्य प्रकाशस्य साहित्यदर्पणा- दिना सह कः सम्बन्धः ? इत्यादिकमपि सम्यग् बोद्धव्यम् । केवल सटीककाव्यप्रकाशार्थावगमे कृतकृत्यता न स्यादेव। काव्यप्रकाश पाठयः तट्टीका अपेक्षिता चेत्पाठया । किन्तु एतदेव न पर्याप्तम्। अलङ्कारस्य इतिहासादिकमपि अलङ्कारशास्त्रपाठस्यान्तर्भवति किम पिशास्त्रं न नित्यम् अपितु सर्वमेव उत्पत्तिमत्, वृद्धिमच्चेति पाश्चा- स्यानां सिद्धान्तः अत एव ते मन्वादि-शास्त्राणामपि प्रणयन काला- विष्कारे सर्वथा सयत्नाः । बुद्धिसौम्यसम्पादनाय परिश्रम इतिचेत नव्यन्याय शास्त्रमे पाठयम् । किञ्च नव्यन्याये न्यायदर्शनप्रतिपाद्यविषयस्य तादृशगौर. घाभावेऽपि तदेव भाषामहिना करटदन्तानुधावनेन च सर्वेषां दर्शना. नां दुर्योधतम मिव प्रतिभाति । अपरञ्च वेदान्तिनोऽपि अर्वाचीना मधुसूदनादयः नव्यन्यायोद्भावितामेव भाषामवलम्ब्य मतसि- झ्यादिकं प्रणिन्युः । अतएव अधुना नव्यन्यायमद्वारीकृत्य अन्ये दर्शनेषु सम्यग् व्युत्पत्तिदुलभा । अतश्च सर्वथा सः अध्येतव्यः। किञ्च अधुनापि नैयायिकवराः पञ्चषाः प्राणन्ति । नवीनाश्च अन्तेवा- सिनः सर्वेऽपि तावत् सुकरणोपायेन विद्या प्रसिसादयिषवो नव्य न्यायं च दीर्घकालनैरन्तयंसेवापेक्षं मन्यमानाः तध्ययनात्पराजय न्ते। गौड़ीयानां नव्यन्याय एव पाण्डित्यमस्खलितं पुनयंथा भवति तथा यतनीयम् । इयं हि विद्या गौड़ीयानामेव मतिपाटवेन ईदृशी परिपुष्टिं गताऽपि यदधुना ते न सेव्यते तदतीव दुःखाकरम् । महामहोपाध्यायेषु न्यायपारगतषु जीवत्सु एव अध्यापकेषु अध्यापन समर्थेषु यथास्यशास्त्रस्य पुनः प्रचारोभवेत् तथा सर्वै यतितव्यम पञ्चषा अध्यापकाः यदि परलोकभाजो भवेयु स्तदा न्यायशास्त्रम लोपं गच्छेत् । समासेनायं मदभिप्रायः- अतो ।
। पाश्चात्यदर्शनम्। 'ततः परं कोचिहर्शनभृतका विद्वांसोऽभवन् ये किल बेतनमगी. कृत्य दर्शनाध्यापनादिकार्य विदधिरे । वेषां प्रथमः प्रोतगोरः k Protagoras ) दामक्रीतस्य मित्रमासीत् । श्यमानं सर्व जगत् परिवति, इन्द्रियाणि च प्रत्यक्षगोचराण्येव वस्तूनि दर्शयितुं शक्नुवन्ति माप्रमेयां शाश्वती सत्तामिति हरकलितः। मनोपीन्द्रियविषयमात्र- गोचरं नातीन्द्रिये प्रवर्ततइति दामक्रीतः। ततश्चातीन्द्रियतया दाम- तीतोताः परमाणवः संपदाकरीतानि तवानि वस्त्वन्तराणि घा जग- मूलत्वेन दार्शनिकान्तरैः सिद्धान्तितानि कल्पनामात्राण्येव । नाती. द्रयं किमप्यस्तीतिवक्तुं शक्यते। इन्द्रियजन्यंच ज्ञानमत्यन्तं मिथ्येति. वितुयुक्त,शुक्ल हि वस्तु कैश्चिद्विभाषितं पीत्तोपहतस्य पीतमाभाति, म्यमे कस्यारम्यमन्यस्य जायते इत्यादिवैषम्यदर्शनादेकस्य यादृशं यद्- प्रतिभाति, तादृशं तस्यैव, तन्नान्यस्य नच वस्तूनां किंचित्सा- न्यं रूपादि वसंते । दर्शनानि मिथ्यावादपराणि । तथाच दार्शनिका- प्रश्नान्विहाय न्यायनीत्यल कारादितत्त्वाभ्यासपरैः सर्वैर्भवितव्यमिति तगौरस्य मतम् । इदमहम्प्रत्ययगोचरयोविषयविषयिणो दः प्रथम श्चिात्येषु प्रोतगौरेणैव सूचितः । प्रोतगौरस्यैव समये सुक्रतुनामा (Socrates) पाश्चात्येषु प्रसिद्ध- मो विद्वान्बभूव । आस्थाननगरे ( Athens ) रथ्यासु भ्रमन्यं कंचि. संभाषणायाहूय दर्शनतत्त्वानि धादद्वाराऽयमुपदिशतिस्म। स्ववाद- कौशलेनच मृषा पण्डितंमन्यानां मूर्खतामुद्भाव्य, जगन्मूलाधन्वेषण मसु रमफलंचेति प्रमाणैः प्रतिपाद्य, निजाचारशोधने एव सर्वैयतः का- इत्ययं सर्वान् शिक्षयामास । कोन्यायः, किं सत्यं, किं वास्तवसुत्रम्, :: सदाचारइत्यादिनेवप्रश्नाभरश्चिन्तयेदित्युपदिश्य प्रथमोयं नीतिमः भात्येष्वभवत् । प्रतिव्यक्ति सुखादे वादेकरूपं नीतितत्वं नेतरेषु भाव्य मिति प्रोतगौरादयः । सुक्रतोस्तु व्यक्तिभेदे दृश्यमानेपि सत्यa ।
११४ मित्रगोष्ठी-पत्रिका। ज्ञानसुखादेर्वास्तवमैकरूप्यमेवेतिमतम् । शारीरतुःखादिकमनुभूय न सर्वथा निर्वेदः कार्य:, लेन्द्रियं हि शरीरमेव निगृहीतं सच्छ यसेकल्पते। हृदयमेव नराणां धर्माधर्मादौ प्रमाण । शुभाशुभं सर्वेषां वस्तुतएकरूप हृदयसाक्षिकंच केवलं कामक्रोधाधु परागारकस्यचिच्छुभमशुभमिवा- शुभंच शुभमिव प्रतिभाति । सुक्रतोरेवमतांशानवलम्ब्य सुखमेवपुरुषार्थति कैरोणदेशीयो. ऽरिष्टपः ( Aristippus of Cyrene ) सुखेषु शारीरेभ्यो मानससुरू प्रशस्यतरम्। निगृहीतेन्द्रियैनरैः क्षणिकेषु सुखेषु वीतस्पृहैधिरकालय भ्य: सुखेभ्यः स्पृहणीयमिडशान्सुखवादाननुसरन्तः केचिदार्शनिकार संसारमुखस्य क्षणिकत्वं सुनान्तरसयचानुपलम्भं पश्यन्तो जीवनान्म रणमेववरमितिनिर्वेदपरा बभूवुः । अन्तस्थानाख्यः ( Antisthanes ) अपरः सुक्रतुमतानुसारी धर्मो धर्मार्थमेव सेव्यः स एवच परमः पुरुषार्थो न सुखेन बुद्धिमत कार्यमितिमेने । तस्यशिष्यास्तु न केवलं सुखेन पुरुषार्थः किंतु महद नर्थमूलमिति कायिकवाचिकमानसानां त्रिविधानां सुखानां सर्वथ परित्यागमुपादिशन् । उत्कलिताभिधः ( Uclides ) परोदार्शनिकस्तु परमानदमतमन सृत्य सत्तामेकामङ्गीकुवन् निःश्रेयसं सद्र पं मेने । इत्थंजगन्मूलान्वे पणादिप्रश्ना स्तिरस्कृत्य यवनदार्शनिकाः सुक्रतुमनुसृत्याध्यात्मतत्त्वा न्वेषणपरा बभूवुरिति सूचितम् । तेषुच केचित्संविदादिनः, परे द्रव्यवादिनः, इतरेच कर्मवादिनोऽभवन् एषां पृथक् कीदृशानि मता नीत्यनुपदं स्फुटीभविष्यति ॥ . क्रमशः पाण्डेय श्रीरामावतार शर्मा।
वातीः सम्पादकाभिप्रायाश्च । (श्रीमन्तः पाठकमहोदयाः सविनयनिधन्धं प्रायन्ते यत्ते अनुग्र- हबुड्या स्वस्वावगतं प्रकाशोचितं संस्कृतभाषा-समिति-विद्यालया- विगतवृत्तान्त संगृह्य पत्रिकायां प्रेषयितु महन्तीति ।) पण्डितसभा-न्यायविरविहारनिकेतने नवद्वीपे महामहोपा- ध्याय-श्रीराजकृष्णतकंपञ्चानन-महाशय-प्रमुखानां तत्रत्यानां पण्डिताना नवद्वीपाधिदैवतायाः श्रीमत्या विदग्धजननी-देव्याः पुरतोऽतिचिरं किमपि सम्मेलनं संवृत्तम् । कायस्था यज्ञोपवीतं ग्रहीतुमर्हन्ति न घेति' तन विचार्यमासीत् । तत्रभवद्भिविद्वद्भिरैकमत्येन सिद्धान्तितं पत् कायस्था न क्षत्रिया अपितु शूद्राः, ततश्च न तेषां यज्ञोपवीत- धारणेऽधिकार इति। विधवोद्वाहः-उत्कलेषु पार्वतीपुरनामके जनपदे श्रीमतः श्रीव. सपाण्डेयस्य ( B. A.) समुद्योगेन कश्चिद विधवोद्वाहः सम्पन्नः, यत्न धूवरावुभावपि ब्राह्मणजातीयौ। उत्कलप्रदेशे ब्राह्मणापश्चजातिषु विधवोदाहस्यायमेव प्रथमोऽवतारः । विवाहोत्सवे तनत्यानां शिक्षि- पानामपि जनानामुपस्थितिरासीत् । विधवाश्रमः-श्र यते तस्मिन्नेव स्थाने विधवानां कृते आश्रमiकं स्थापयितु 'प्रजाबन्धु'-पत्रिका-सम्पादकेन यत्यते । तदर्थ प्रीमद्भिर्मयूरभञ्जमहाराजैः १५०० रूप्यकाणि, श्रीमता श्रीवत्सपाण्डेय- हाशयेन च १०० रूप्यकाणि दातु प्रतिश्रु तानि । स्मारकवृत्तिः-परलोकमुपगतानां तत्रभवतां महामहोपाध्याय. दवीभाजां श्रीमतां समरचन्द्रशेखरसिंह महोदयानां स्मारकत्वेन उत्क- सम्मिलन्या चत्वारिंशद्र प्यकरूपैका मासिकवृत्तिः स्थापिता । हत्ति- प्यमाङ्गलोविद्यार्थिनामेव महोत्सवाय सम्पन्ना । संस्कृतविद्यार्थिनां तेऽस्याःस्थापने तु युक्ततरमभविष्यदिति विवेचयामः, कस्यचित् स्कृतस्य हि स्मृत्यर्थ लोत्पन्नेति ।
११३ मित्रगोष्ठी-पत्रिका। अभिनवा संस्कृत साप्ताहिकपत्रिका-वृत्तान्तोऽयं पाठकानां चे. तसः परां प्रीतिमुत्पादयिष्यति यत् प्रथिततमः संस्कृतचन्द्रिकायाः सहकारिसम्पादकः श्रीअप्पाशास्त्रि-विद्यावाचस्पतिमहाशयः आगामि. विजयादशमीमारभ्य ‘सूनृतवादिनीति' कांचित् साप्ताहिकी वृत्तान्तः पत्रिका संस्कृतभाषया प्रकाशयितुमिच्छतीति । श्रीमता विद्यावाच- स्पतिना सम्पादिता सा खलु पत्रिका चारुतमा भविष्यतीति सुदृढी. ऽस्माकं विश्वासः । योग्येनैव जनेनेदं प्रस्तुतम् । इदन्तु तेन स्वप. त्रिकायां प्रकाशितं यद यावन्यूनतः शतचतुष्टयमपि ग्राहकाणां न सम्पद्यते न तावत्ता प्रकाशयिष्यत इति अतो ये खलु सचेतसस्ता पत्रिका जिक्षन्ति, तेनच संस्कृतभाषायां भूयांसं प्रचारमभिल. ष्यन्ति, तेन तत् त्वरितत्वरितं श्रीमान् विद्यावाचस्पतिमहाशयो वि. सापनीयः । अस्याश्च वार्षिक मूल्यम् प्रेरणव्ययेनसह रूप्यकत्रयम् । दातुः कर्णस्य चरमं दानम्-आमेरिकावासिनः प्रसिद्धस्य दान- वीरस्य कर्णस्य ( Mr. Andrew Carnejie ) दानगौरवेण पूर्वमेव जग- दीदं चमत्कृतम् । साम्प्रतम् पुनरप्येतेन महाभागेन यहानं कृतं तेन तस्य विवेचकत्वं सुष्टु खलु प्रतीयते । ये हि अध्यापका वृद्धत्वेन शरीरास्वास्थ्यतया वा अध्यापनाद विरमन्ति, वृत्त्यन्तरग्रहणालम- तया धनहीनैस्तैीवनधारणार्थ महान् क्लेशोऽनुभूयत इति दयाद्रह- दयेन श्रीमता कर्णेन तत्प्रतीकारार्थ ३,१२,५०००० रूप्यकाणि प्रद. तानि । 'इउनाइटेड-इष्टेट्' 'क्यानेडा' 'निउफाउण्डलण्ड' इत्येतेषु स्थानेषु तादृशेभ्योऽध्यापकेभ्यः तदरूप्यकतः साहायकं दीयतेति तस्य स्खलु बदान्यधुरन्धरस्याभिप्रायः । श्रू यतामिदमस्माभिर्भारतीयैः । अध्यापकानां श्रमः-इलैण्डप्रभृतिषु स्थानेषु अध्यापकैः प्रति- सप्ताहं छात्राध्यापनाय प्रायेण १५ घटिकाः परिश्रम्यते । अनासन्तु टैस्तत्रत्यैः तत्प्रतीकाराय फाम्स-जर्मणि-प्रभृतिदेशस्थानाम् मध्याः पकानां पाठनकालपरिमानमुदाहृत्य प्रयत्यते । फान्सादिदेशीया अध्या - । वात्ताः सम्पादकाभिमायाश्च । ११७ प्रकाः प्रतिसप्ताह पश्चघटिकामात्र छात्रानध्यापयन्ति । शिष्टस्तु काल एतस्तत्तद्विषयाणां गवेषणानुशीलनाद्यर्थं नियोज्याध्याप्यो विषयश्छा- भ्यो यावत्सभाव्यं वित्रियते। अस्महे शे अध्यापकानां विशेषतस्तु संस्कृताध्यापकानां प्रतिसप्ताहं कियान कालो गच्छतीति प्रत्यक्षमेव सर्वेषाम् । 'कलेज' संज्ञकेषु विद्यालयेषु अध्यापकः प्रतिसप्ताहमन्यूनां प्रतुर्विशति घटिका अध्यापयन्ति । ये पुनरध्यापकाः स्वगृहएव छात्रान् पाठयन्ति प्रतिसप्ताहं तदर्थ तेषां प्रायेण चत्वारिंशतोऽप्य- धिका घटिका अपेक्ष्यन्ते। इत्थं च भूयसां कालाना मित्थमेव विनि- पोगान्नैते तद्विषये नवनवं तत्त्वमनुशीलयितु क्षमन्ते, न च तेन पाठयमपि यथोचितं परिष्कर्तुं शक्नुवन्ति । ये तु केवलमेकमेव शास्त्रं सर्वदाध्यापयन्ति, तेषां विषये पूर्वोक्त न युक्तियुक्तमिति वयमपि प्रमः । परन्तु अभिनवरहस्याद्यनुशोलने तैरपि दुर्लभ एव काल इति निश्चितमेव । अन्यस्मिंश्व पक्षे ये खल्वध्यापका बहुषु शास्वेषु अध्या- पनी कुर्वन्ति, प्रायेण ते न सर्वत्रैव सर्वथा व्युत्पाः। अतोऽध्या- न्यानां तत्सविषयाणां सम्यगवयोधनार्थमवश्यं तैः स्वयं साधुतरमध्ये- तव्यम् । अध्यापनमात्रे च तावति कालेऽतीते कुतः कथं वाधीय. नाम् । ततश्च येऽध्यापका कापि विद्यालयेऽधपापयन्ति, तेषां श्रमला- अवाय विद्यालयाधिकारिभिः अधिकतराध्यापकविनियोगेन यतनी- स, बहुशास्त्राधापकैश्च वृथाकीर्तिलाभमानं पुरुषार्थं परित्यज्य स्वशक्त्यनुसारेण) एकं व त्रीणि वा शास्त्राध्यापनीयानि तत्त- देषयं सर्वथा बोधयितु विद्यार्थिनः शक्यन्ते न वेति स्वयमेवा- तरात्मानं पृष्ट्वा अध्यापकमहाशया ज्ञातु प्रभवन्ति। छात्राणां यथा स्तक न चयंते तथावश्यमेव विद्यादानाधिकारिभिः कर्तव्यमिति तो न जानाति । शिक्षार्थ दाने भारतीयः पाश्चात्याश्च-अतीते आंग्लीशतके ारतीयैः शिक्षार्थ यद्यत् दानं प्रधानतया कृतम्, तत्सर्वं निर्दिश्यते,- ।
११८ मित्रगोष्टी-पिनका। ... ... ... ... २ लक्षे ... ... ६ लक्षाणि ... ... ... दाता दत्तंधनम् १ तातामहाशयः २० लक्षाणि २ प्रेमचाद-रायचादः ३ मुन्सी कालीप्रसादः ५ लक्षाणि ४ पं० गदाधरशास्त्री अग्राकालेजार्थ वार्षिक द्वाविंशति सहनायो. चिता सम्पत्तिः। ५ पाचेइयाप्पा मुदालियरः ६ महम्मदमोहसीनः (प्रतिवर्षम् ) ५१ सहस्राणि ७ भूदेवमुखोपाध्यायः १,६०,००० षष्टिस- हस्राधिकमेकं लक्षम् ८ सार मङ्गलदास नाथु भाइ ३॥ लक्षाणि। ९ सार दयालसिंहः भारते उक्तेभ्योऽपरं किमपि प्रधानं दानं विगते शतके जात. मिति नास्माभिज्ञायते; भवेदपि वा कदाचित् । साम्प्रतं पाश्चात्येषु अमेरिका-युक्तप्रदेशस्य एकवर्षेऽधिगतं शिक्षाविषयकं दानमुदाहिय. ते,-१८१८ तमेऽन्दे तद्देशीयधनिकै विद्यालयाथै यद्धनं प्रदत्तं, तत्सं. ख्या-२०,८९,००,००० रूप्यकाणि । एतदिना पुस्तकालय-चित्रप्रदर्श. नगृहाद्यर्थं धनं चत्वारिंशल्लक्षाधिकैकादशकोटितोऽप्यधिकमासीत् । साम्प्रतमपि वैदेशिकपत्रेषु अमेरिकास्थानां धनिकानां शिक्षादिविषये कीदृशं दानमिति सर्वेषामपि नयनसरणिमापतति । सत्यमिदमस्म- हशेषु न तथा निनः सन्तीति; परं तु ये सन्ति तेषामपि कि जातु स्वप्नेऽपि ईदृशं किञ्चिन्महत् कृत्यमस्तीति चेतस्युदति उदियादा ? १५ लक्षाणि . :0: शोकस्थानम्-शोकाकुलितचेतसो वयं प्रकाशयामो यद् आपा- दस्य अतीतायां पूर्णिमायां कलिकाता-राजकीय-संस्कृतविद्यामन्दि- रभूषण' महामहोपाध्यायपदवीलाऊछनः श्रीमत्पण्डितप्रकाण्डो गोवि. न्दशास्त्रिमहोदयःपृष्ठव्रणरोगाक्रान्तो हन्त ! अकाण्डे एव चिरपरि.
.. वर्ताः सम्पादकाभिमायाश्च । चितान् चिराय परित्यज्य परलोक मुपागमत् । आषाढ़पुर्णिमे, सुद- नापि दुर्दर्शनासि सवृत्ता ! अहह ! अपहृतं खलु दुरन्तेन काल- इतकेन भारतस्य किमपि रत्नम् । भयि मातर्भारति प्रस्थितं भवत्याः केनापि सुपुत्रेणेति किं न इयसे ? साम्मतं कीशो संस्कृतशिक्षा अपेक्ष्यते ? इत्यनविषये भारतस्य तत्तत्प्रदेशवासिना पण्डितधौरेयाणां मतानि असमाभिः संगृह्मन्त; प्रकाश्यन्तेच यथासमय पत्रिकाया मस्याम् । अतः प्राध्यन्ते पण्डित- मकाण्डा यसे स्वसवमतमस्मिन् विषये प्रकाश्य भस्मत्समीपे प्रष- पन्विति । किञ्च तन्मतं यथापत्र नयादूई न भवेत् तथा लेखक पतितव्यम। भूकम्पादभयम्-जापानीयो भूतत्त्ववित् श्रीमान् भोमटि म पञ्च. नदेषु भूकम्पतत्त्वज्ञानार्थमागतः । तेनोच्यते साम्प्रतं द्विशतवर्षमध्ये उत्तरभारते भूकम्पाद विशेषभयं नास्ति; अन्तारान्तरा नु क्वचित् किमपि स्थानं मनाग विचलेदपि । इदानी पारस्यदेशे महान् भूकम्पो भवेदिति सम्भाव्यत इति । अहो कौशलम्; लण्डनगरे कस्याञ्चित् प्रथितायां सभायां स्त्री- शिक्षाविषयकालोचने प्रसङ्गन " लेडि इलियट"-नाम्न्या कयापि सभ्यया स्त्रीस्वाधीनत्वमवलम्ब्य इदमुक्तम्-भारतीयान्तः पुरिकाणा- भवरोधदूरीकरणाथै नास्माभिस्तावान् आयासः स्वीकर्तव्यः; अस्मा- कमध्यापनगुणेन यदा खलु ताः सुशिक्षिताः स्युः, तदानीमेव गृहद्वार निरर्गलं भवेत, धीरपदक्षेपं च ता बहिरागच्छेयुः क्व तदानीमवरोध. बन्धनं तिष्ठेदिति। परासीकानां शवसत्कारः-पारसीकैमृतदेहो नाग्निसात् कि- यते, न वा भूमौ निखन्यते, अपितुयमदुर्गाभिधेये(Tower of Silence) कस्मिंश्चित स्थाने निक्षिप्यते । शवमांसं गृध्राणाम् महोत्सवं साध- पति । अथास्थिसञ्चया जले क्षिप्यते । साम्प्रतमीडशे शवसंस्कार १२० मित्रगोष्ठी-पत्रिका। पारशीकेषु वैमत्यमुत्पमम् । केचित् शवाना दाहमिच्छन्ति, अपरे पूर्वामेवपद्धति सनिबन्धं रक्षन्ति । समालोचनम् । जयपुरनगरात् " संसकृतरत्नाकर" इति कापि संसकृतभाषामयी मासिकपत्रिका वतसरात प्रभृति प्रकाश्यते इति अस्माकं महान प्रमोदविषयः । भारतेषु यत्र यत्र वाहुल्येन संस्कृतभाषाया-मालो- चनं भवति, जयपुरं तेषु अन्यतमम्, तत्रत्या पत्रिका विशेषेण उत्कर्ष- पदवीं गमिष्यति इत्यत्र कः सन्देहः । परन्तु दुःखाकरमेतत् वर्षे ऽतिकान्तेऽपि अस्याः कलेवरपुष्टिः न भवतीति, अथवा संस्कृतभा- रत्या एवं दौर्भाग्यमेतद यत् तत् सेविनः पोषयितु तत्-सन्तानेषु नास्ति कोऽपीति। प्रहेलिका। अपि स्वभावान्मलिना स्पर्शऽपि बहुदोषकृत् । सद्भिः का गृह्यते पाणी पात्रेऽपि प्रतिपादिता ॥ प्रश्नकर्ता श्रीमहेशचन्द्र शर्मा। केषाश्चिदाग्रहेणेतः प्रभृति पत्रिकायामन्तरान्तरा प्रहेलिका प्रका- शयिष्यते । कुतूहलिभिः पाठकमहाशयै यथासमयं तदुत्तरं देयमिति प्रार्थयामहे । उत्तरप्रदातृणां नामान्यपि प्रकाशयिष्यन्तइति कृतमुक्तेन। मि. प.स.
मित्रगोष्ठो-पत्रिका। (मासिकं संस्कृतपत्रम् ।) " सनाच्छध्वं संवदध्वं सं वो मनांसि जानताम्" । ऋग्वेदः। । द्वितीय वर्षे } १८२७ शकाब्दाः, भाद्रः { पश्चम संख्या शुक्तिरजतम्। ( पूर्वानुवृत्तम् ) शुक्तिरजतस्योपादानकारणम् अज्ञानमेवेति प्रतिपादितम् । निमि- सकारणं तु अस्पष्टालोकः, दूरत्वम्, नयनदोषः, भारोप्याधिष्ठानयोः सादृश्यज्ञानमित्येवमादिकम् । अधिष्ठानारोप्ययोः सादृश्यशानं वस्तुतः कारणं न वेति वहवोऽत्र पिप्रतिपद्यन्ते । तत्र ये तत्कारणतां स्वी- कुर्वन्ति, तेषामयमभिप्रायः (१)- आरोप्याधिष्ठानयोः सादृश्यशानं न चेदध्यासं प्रति कारणं स्यात, कथं तर्हि शुक्तिकायामेव रजतमध्यस्यते न पुनवंटादौ, कथं वा रज्ज्वा- मेव सर्प आरोप्यते न तु घटादो। क्रिमन वीजम् ? फिञ्च यदि साह- न्यज्ञानमध्यासे नापेक्ष्येत, अङ्गारेऽपि रजताध्यास: प्रसज्येत । अथो- च्यते-आरोप्याधिष्ठानयोः सादृश्यमेव कारणमस्तु, न पुनस्तज्ज्ञान- मषिअतएव नाङ्गार रजताध्यासः प्रलज्येत, तत्र सारश्यस्यैवाभावात, शुक्तिकायां च सादृश्यसद्भावादेव रजताध्यास इति । नेदं युक्तम् । तथाहि-यदि सादृश्यमात्रस्य कारणता, न. पुनस्तानस्यापि, तहि जलधिजले नीलशिलाध्यासो न स्यात् (२)। नहि अधिष्ठानभू- (१) एतन्मते पुरोवत्तिपदार्थ नयनसंयोगानन्तरम् इदमंशस्य अधिष्ठाना- रोप्ययोः सादृश्यस्य च ज्ञानमुत्पद्यते; पश्चादधद्यासः । (२) समुद्रतीरमधितिष्ठतो दूरस्थ स्थिरगम्भोरं समिलं नौमशिलेव १ १२२ मत्रगोष्ठी-पत्रिका। सेन जलेन सह भारोप्यस्वरूपाया नीलशिलाया मनागपि सारश्य- मस्ति । अतो न सादृश्यमात्र कारणम् अपि तु तज्ज्ञानमपि। एवञ्च न तदोषावकाशः । तथाहि सादृश्यज्ञानं भ्रमप्रमारूपेण धापि सम्भवति। तत्र (समुद्रोदके नीलशिलाध्यासस्थले ) प्रमाणसादृश्य ज्ञानाभावेऽपि भ्रमरूपं सादृश्यज्ञानं सम्भवत्येव । तथा च न किश्चि- दसमञ्जसम् । ननु दृश्यते हि-अतिशुभ्ररजतपात्रस्थे स्वच्छे सलिले, मुक्ता- फले च, योरपिस्थानयोः समानेऽपि नीलिमसादृश्याभावे, रजतपा- प्रस्थसलिल एवं नीलिमाध्यस्यते न तु मुक्ताफल इति; तत् किमेतस्य कारणमिति चेत् ? अत्र केचित्,-अस्ति खलु रजतपात्रस्थसलिलस्य तादृशः कशिदनन्यसाधारणः स्वभावो, येत तत्रैव नीलिमाध्यस्येत, न तु मुक्ताफलादौ। एवं शुक्तिकाया अपि स्वभावविशेषसद्भावादेव तत्र रजताध्यासः, न तु अङ्गारादिषु, तेषां तादृशस्वभावविशेषविर- हात्। तस्मात न सादृश्यं, न वा सादृश्यज्ञानम् अध्यासकारणम, अपि तु अधिष्टानगत: स स स्वभावविशेष एवेति । घस्तुतस्तु नेदमपि युक्तम् । सादृश्यज्ञानस्य अध्यासकारणता अन्वयव्यतिरेकाभ्यामेव प्रमीयते । पश्यामः खलु-न तावत् पुरोनि- पतिते वसनखण्डे कमलकोरकबुद्धिर्जायते। अथ यदि तदेव वसन- खण्डं यथोवितं निकृत्य मुकुलाकारं क्रियते, सद्य एव तस्मिन्मुकुल- कलिकाज्ञानं समुत्पद्यते । तस्मात् कथमुच्यते सादृश्यज्ञानं नाध्यासे कारणमिति । यदि नाम वस्तुनः स्वभाव एवाध्यासकारणं स्यात्, कर्थ तहि कतनादिना वसनखण्डस्य मुकुलाकारकरणात् प्रागेव पुण्डरीकि- मुकुलाध्यासो न जात इस्यपरे अन्येत्वाहुः,-अध्यासो द्विविधः, विशेषज्ञाननिवर्तनीयः, तदनि- पत्तनीयश्च, तत्र प्रथमे अधिष्ठानतत्त्वज्ञानोदये अध्यस्तं वस्तु निव- प्रतिभाति । सवैध पि रघु मतेषु सजिलस्य रूपं धवलम् । अतो म तेग नौल. पिलायाः किमपि मादृश्यम् । .
. । शुक्तिरजतम् । १२२ ते। यथा शुक्तिरजते-शुक्तितवहाने सति मध्यस्तं रजतं निव- संते,-यावच शुक्तितरवज्ञानं नो जायते, तावदेव रजतमुपलभ्यते, म तु ततःपरमपि । द्वितीये अधिष्ठानतरवशानोदयेऽगि अध्यस्तं न निवत्तंते; यथा स्फटिके लौहित्याध्यासः, कस्यचिनिमलस्य सफटि- कोपलस्य सनिधौ जवाकुसुमे गृहीते तत्प्रतिविम्वेन लोहितः स्फ- टिक' इति स्फटिके लौहित्याध्यासो भवति। तत्र अयं स्फटिकः धेत इति सत्यपि विशेषज्ञाने, अध्यस्तं लौहित्यं नापगच्छति, भवति हि तदानीमपि शानम्-स्फटिकोऽयं लोहित इति। पीतः शमः, तितो गुड इत्यादावपीत्थमेव बोध्यम् । नयने पित्तदोषे समुत्पन्ने श्वेतोऽपि शरः पीतः प्रतिभाति । तदानीम् 'अयं शकः श्वेत' इति सत्यामपि बुद्धौ शाऽध्यस्तः पीतिमा न निवर्त्तते। जिह्वायां पित्तेन दूषितायो मधुरोऽपि गुडस्तिको भाति । तदा च 'गुडो मधुर' इति बानोत्पत्तावपि तदध्यस्त तिक्तत्वं नापगच्छति तस्मात् सारश्यशानस्य अध्यासं प्रति सत्यपि कारणत्वे, न सर्व- वरि अध्यासेषु तत्कारणम्, अपितु शुकिरजतरज्जुसत्यादिषु विशे- पज्ञाननिवत्तनीयेष्वेव । 'तितो गुड़:', 'पीतः शङ्क' इत्यादिषु विशेष. मानानिवत्तंनोयेषु अध्यासेषु तु सादृश्यशानस्य कारणत्वं वक्तुन युज्यते । न हि 'पीतःशा' इत्यादौ शङ्कगेतिम्नोरस्ति किञ्चित् सादृश्यम् । (१) शुक्तौ रजताध्यासे शुकितत्त्वज्ञानम् यथा प्रतिबन्धकम, एवं शुविज्ञानसामग्यपि प्रतिबन्धिका। शुक्तो रजताद ये किल केचन विशेषाः (नीलपृष्ठत्वप्रभृतयः ) सन्ति, त एव शुकिज्ञानस्य सामग्री तथाच सादृश्यज्ञानस्य अध्यासे कारणत्वास्वोकारेऽपि न क्षतिः । (१) अस्मिन हिमते दुष्टेन्द्रियसंयोग एवं अधाासकारणम् । काचादि- दोघदू घितेन नयनेन शुक्तिकादिसनिकर्षे सत्येव 'इदं रक्तमिति' ज्ञानमुत्य- हाते। तितो गुडः, 'पोत. शाः' इत्यादावपि न कश्चिमाधः, तबापि पित्ता. दिरोषाषितरपने नियमनिकमत्येव । .
मित्रगोष्ठी-पत्रिका। मनु सादृश्यज्ञानस्य कारणत्वास्वीकारे कथम् अङ्गारे ऽपि रजतं नाय. सयतामित्युक्तम् इति चेत् ? न বগৰি अङ्गारस्य नैल्यादिरूपविशेष- दर्शनसानग्य व रजताध्यासस्य प्रतिबन्धकतां करोति । क्रमशः श्रीविध शेखर शर्मा। :0: बौद्धवृत्तान्तः। बुद्धदेवस्य नीत्युपदेशाः । साम्प्रतं बोद्धानामाचारपरम्पराप्रदर्शनतो विरम्य बुद्धदेवस्याप- रानपि काश्चिदुपदेशवादान प्रदर्शयामः । उक्त भगवता बुद्धन- "अकोधन जिले कोधं, असाधु साधुना जिने । जिने करियं दानेन सच्चेन अतिकवादिनम्।। घम्मपद, कोधवग्गो३ १०-अक्रोधेन जयेत् क्रोधम्, असाधु साधुना (मुकर्मणा) जयेत् । जयेत् कदS ( कृपणं ) दानेन, सत्येनालीकवादिनम् ।। सुसुखं वत जीवाम वेरिनेषु अवेरिनो । घेरिनेषु मनुस्सेतु विहराम अवैरिनो'।। धम्मपन, सुखवग्गो.१. स-सुसुखं वत जीवाम वैरिषु मवैरिणः ( सन्तः ।। बैरिषु मनुष्येषु अवैरिणः ( सन्तः ) विहरामः ।। "न हिवरेन वरानि सम्मन्तीध कदाचन । भवरेन च सम्मन्ति एस धम्मो सनातनो।।५।।यमकवगो धम्मपद * . • बुद्धदेवस्य निर्वागा लाभानन्तरमेव राजगृहे बौद्धाना महत सम्मेलनमा- सीत् । तस्मिन्नेव समये 'धम्मपदं रचितमिति वदन्ति । 'धम्मपदस्य टीका. कारः खो पञ्चमशतकोत्पमो बुद्धोधो नाम स्वटी कायामवोचत्-यद् भग- वसो वृद्धस्योक्तिरेव धम्मपदे मंगृहीतेति । बुडघोघेण प्रतिशोकं याख्याया- मेकेका कथापि संयोजिता। इयमपि कथा वद्धदेवनेव वर्णितेति तदुक्तिः !
बौद्धवृत्तान्तः। १२५ स.-नहि पैरेण वैराणि शाम्यन्तीह कदाचन । मवैरेण'तु शाम्यन्ति एष धर्मः सनातनः ।। श्रूयते युद्धदेवेनेदं दृष्टान्तेनापि दृढीकृतम् । अत्रेयं कथा-कदा- विद भिक्षूणां मध्ये मिथो महान् विसंवाद उत्थितः। तन्मीमांसाथै ते सर्वे श्रावस्तीनगरमधितिष्ठन्तं बुद्धदेवमुपजग्मुः । अथ स भगवान् तेषां विवादनिरासायेमां कथामारभत-पुरा फिल वाराणस्यां ब्रह्म- दत्तो नाम महाधनसम्पनो विपुलसैन्यसहितो महीपतिरासीत् । कोशलप्रदेशे च दीर्घतिर्नामापरः कोपि क्षीणशक्तीराजाऽभवत् । प्रायो यथा बलीयान दुर्बलं बाधते, तथा काशीराजोऽपि दीर्घते राज्यमत्र- रुरोध । तेन साकं योद्धमसमर्थो दोघंतिः स्वराज्यात् सह महिष्या अपमृत्य गुप्तवेशेन बहुस्थानं परिभ्रम्य वाराणस्यां कस्यचित्कुम्भकारस्य गृहमाश्रयत् । राश्या तत्रैकः सुतः प्रसूतः । तस्य “दीर्घायु" रित्यभि- धानं जातम् । अथ वाले बद्धिते सति तदनिष्टाशङ्कया दीर्घतिस्तं दूर प्रेषयत् । इतो वाराणसोश्वरोऽज्ञासोद यत्तदीयो वैरी तमगर एव तस्य कुम्भकारस्य गृहमधिवसतीति । ज्ञात्वैवेद स दीर्घतेस्तत्पत्न्याश्च पधदण्डमादिदेश। दैववशात्तु दीर्घायुः पिनो मरणसमये तत्समी- पमागमत् । स्व जोषितोत्क्रमणकाले जनकः पुनमुपदिदेश-" वत्स, नाधिक पश्यः, नाल्पं पश्यः, किञ्च- नहि वेरेन वरानि सम्मन्तीध कदाचन । अवेरेन तु शम्मन्ति एस धम्मो सनातनो" ॥ भिक्षवः, अथ स दीर्घायुर्वनमुपेत्य पित्रोः कृते कानिचिदिनानि रोदनेन यापयित्वा वाराणप्लीपतेव दत्तस्य हस्तिरकन्यं स्वीचकार परेधुः स प्रत्यूष एव शयनादत्थाय वीणया अतिमधुरं फिश्चि- वगायत । तस्य खलु तद्गीतिमाधुर्यमित्थं मनोरमतरमासीद येन स महीपतिरपि मुग्धचित्तः कः स इत्यजिज्ञासत । तदनुज्ञया तत्समीप नीतो दीर्घायुः प्रीणितेन तेन स्वपाश्वचरत्वेन न्ययुज्यत । " . १२६ मित्रगोष्ठी-पत्रिका कदाचिन्नरपतिव्र प्रदत्तो मृगयार्थ सह दीर्घायुषा नगराद दूरम- गमत् । तथास्थितस्य तु तस्य दोर्घायुषं विना नान्यः कश्चिन पाय- चास्त हानी तबाभूत् । अब स श्रान्तशरीरो दीर्घायुगोऽक शिरो- देशं संनिवेश्य निद्रां सिषेवे। अचिन्तयद दीर्घायु:-नरेन्द्र गानेन असमासु महदनिष्टमाचरि- तम्-पितरो पिनाशितो, तदाज्यं चापहृतम्। तस्यं प्रतिवराव- सर इति । ततश्च तदनुष्ठानार्थ करवाल कोषत उन्मुच्याधारयत् । परन्वस्मिन्नेव क्षगे दीर्घायुषः स्वजनकेन मरणकाले प्रस्तं तत् बलु वचनं स्मृतिपथमारूढम्- "वत्स, नाधिकं पश्य, नाल्पं पश्य- नहि वेरेन बेरानि सम्मन्तीह कदाचन । अवरेन तु सम्मन्ति एस धम्मो सनातनो" ॥ इति ॥ नरपतिरपि कमप्यतिघोरंदुःस्वन विलोक्योदयुध्यत, दीर्घायुषा तत्कारणं पृष्टोऽकथयञ्च-"न जातु मे सुख स्वापो जायते, सर्वदेव स्वमसमावेशे दृश्यते मया-यदहं दीर्घायुगेऽङ्क शिरः संस्थाप्य स्वपीमि, स तु सहसा मां करवालेन छेत्तुमुपक्रमते" इति स तु दीर्घायुत्तदाकण्यं वामेन पागिना राशो मस्तकं दक्षिणेन च खड्गं धारयन्नवोचत्-"पश्य राजन् , अपमेवालि स दीर्घायुः । यहव- ज्ययासमाकमपकारा:कताः। तदयं तस्यावकाशः प्रतिहिंसानलस्यति। असहायो महीपतिः सभयमवादीत्.-" ननु दीर्घायुः स्वप्राणान- हमद्य त्वां प्रार्थये, प्रसीद, न मामिह प्राणैर्वियोजय,-त्वं मां रक्षेति"। प्रत्युक्तं तेन-“राजन् कथभिदं सम्भाव्यते, ननु यन ममापि प्राणा विपन्नाः? अथ त्वं मेऽभयवचनं प्रयच्छेः, अहमपि ते प्राणान् रशेयमिति, राज्ञा तदङ्गीकृत्योक्तम्--" त्वं मे प्राणान् रक्ष महमपि तेऽभय- वचनं ददामीति"। ।
बौद्धवृत्तान्तः। १२७ भथ तयोरन्योन्यं शपथपूर्व सम्पन्ने मैत्रीयन्धने दीर्घायुः; मात्मनः सर्व वृतान्तं प्रकाशयामास । ब्रह्मदत्तस्तदाकर्योवाच-" दीर्घायुः, पित्रा ते मरणसमये तुभ्यं “नाधिकंपश्य, नाल्पं पश्य;-नहि वैरण- वैराणोत्यादि यदुक्त तस्य कोऽर्थः"? सोऽवदत्-" नाधिकं पश्य"-दीर्घकालं यावद वैरवृत्तिमनसि न रक्षणीयेति;-नाल्पं पश्य"-नालाकारणेन मैत्रीविच्छेदः कत्र्तव्यः, नहिवैरणे' त्यादेरयमर्थ:-त्वया मे पितरो विनाशितो, तद यद्यह- मपि तदर्थ त्वां हन्यां, तर्हि त्वदीया जना मामपि प्रतिहन्तु योर- मिति पश्य, न वैरं चरेण शाम्यति । त्वया साम्प्रत मे प्राणा रक्षिताः, मयापि च तवेति पश्य, अधैरेणैव वैरं शान्तमिति । ब्रह्मदत्तस्तदाकण्यं दीर्घायुषे वृतपुर्व तपितृराज्यं सर्वमेव समा- र्पयत्, स्वदुहितरच तस्मै परिणयविधिना सम्प्रादात् । हे भिक्षवो यदिनामेदशं वृत्तं धृतदण्डास्त्राणां राज्ञामपि सम्भा- व्यते, तहि भिवो, ये खलु यूयं धर्म जीवितमपलम्बितवन्तः, तैस्तु अश्यनवेयं क्षमा समाश्रयणीया । अन्योन्य विनयप्रणयप्रदर्शनेन यूय निकलत, नान्योन्यं विच्छेदं जनयत, अयमेव ममोपदेशः । आ- शंसे-गृहस्था अपि भिभूगां वः शीलसरणिमनुसरन्तः सुखिनो भवन्त्वीति। ( महावग्गो-१०.२०)* मन्यापीदृशी काचिन्मनोरमा कथा श्रयते-- कदाचित् कोऽपि श्रावस्तीनगरादरस्थ -प्रणन्दपुर'-वास्तव्यो धी- वाः कुतोऽगिच्छन्नध्धनि नद्या ‘अविरवत्या'स्तीर कानिचित् कच्छ- पाण्डानि प्राप्य श्रावस्यां कस्यापि स्वसुहृदो गेहे केवलमेकं विना . * कथेयं भागत: Civilization in Ancient India नामकाद्, भागतच 'वं. धम्म' नामका वङ्गभाषाग्रन्थात् संगृहीता।
१२८ मित्रगोष्ठी-पत्रिका सर्वाण्यण्डानि बन्धुपरिवारैः सहाभक्षयत् । शिष्टन्तु तत् तद् हिने प्रदत्तम् । सा बलु कन्यका तदण्डरसास्वादेन विरसमियान्य भोज्यं परित्यज्य ततः प्रभृति स्वगृहस्थितायाः कुक्कुट्या भण्डं प्रतिदिनं स्वयमेव पक्त्वा भोक्तुमारभत । सा तु कुक्कुटी प्रत्यहमेव निजाण्डानां घंसमालोक्य तस्यै कन्य- कायै असूयन्ती भगवन्तमभ्यर्थयत यत्सा त्वरित प्रेत्य मांसाशि जन्तु- खेनोत्पद्य तस्याः कन्यकायाः पुत्रादीन् विनाशयेदिति । कुक्कुटी मृत्वा तलिन्नेव गृहे विडालरूपेणाजायत। कन्यका च स्वमातुरेव गृहे मरणानन्तरं कुक्कुटीत्वेनोदपद्यत। कुक्कुट्या प्रसू. सान्यण्डानि विडालोऽनुदिनमेव खादितुमारभत । अथेत्यमेव गच्छति काले सा कुक्कुटी देवं प्रार्थयत-यद भविष्यजन्मनि सा तस्य विडा- लस्य सन्ततिं विनाशयदिति। कुक्कुटीरूपा कन्यका सा उपरम्प चित्रव्याधरूपेण विडालश्च स हरिणरूपेणोदभवताम् । हरिणेन शाव: प्रसूतः, व्याघ्रस्तु तमग्रसत् । इत्थमेव पञ्चशतवत्सराणि यावत्तयो. धैरं प्राचलत् । तयोरन्तिमे जन्मनि ऐको पिलूम'. रूपेण अन्यस्तु मानवकन्या. स्वरूपेण श्रावस्त्यां सम्भूतौ । बुद्धदेवस्त हानी 'जेतवन'--विहारे ताभ्या-मिदमुपदिदेश “अनेन मे क्षतिरुत्पादिता, अनेनाहं विजितो. ऽस्लि, अनेनाहं प्रहितोऽस्मि, अनेन वाह मुषितोऽस्मीति न कश्चिद- न्यस्मै दुधेत, यदि तथा कुर्यात्, तर्हि तयोर्वैरमुत्तरोत्तरजन्मस्व- प्यावरूयते । अथ न तत क्रियेत, वैरं शाम्यदिति"। इदमाकण्यं 'विलूम्' 'शरणगमनम्' । उच्चार्य्य आश्रिय च पञ्चमहादेशान शब्दोऽयंब्रह्मदेशीयः मांसाशिजन्तुविशेषस्त्रीति तदर्षः। + 'सरणगमनम'-विशरणम्-बुद्धशरणं गच्छामि, धर्म भरणं ग कामिघं शरणं गच्छामीति प्रागुक्तम् ।
विवाह कन्यायाः पराक्षा। १२९ ( पञ्चशीलरूपान् पूर्वोक्तान ) वैरदुःखादमुच्यत । कन्यका च सा 'सीतापत्ति'-मार्गमभजतेति । बुद्धदेवेनेदशा मनोरमाः परःशता उपदेशाः प्रदत्ताः । कश्चित् पत्रिकाप्रियः। :0:- न केवलं विवाहे कन्यायाः परीक्षा साम्प्रतमध्यसह शेषु लक्षणेन कन्यायाः शुभाशुभत्वं विविच्य विवाह्यत्वं निर्णीयत इति दृश्यत एव । प्राचीनग्रन्थालोचनेन ज्ञायते यत् सेयं प्रथा बहुतियादेव कालात् प्रचलितास्तीति । मन्वादिप्रणीतासु संहितासु, किन्तु एतेभ्योऽप्यतिप्राचीनतमेषु गृह्य- सूत्रेषु तत्परिचय उपलभ्यते । कीदृशीव सा परीक्षासीदिति पाठ- कानां कुतूहलविनिवृत्तये तत्तदग्रन्थेभ्यः संगृह्येह उपहियते । सोऽयं परीक्षाविधिहुष्वेव गृह्यसूत्रेषु दृश्यते, अस्माभि- स्त्विह गोभिलगृह्यसूत्रादुद्धियते । तत्र द्वितीयप्रपाठकस्य प्रथमका- ण्डकायामुक्तम् :- "पुण्यनक्षत्र दारान कुर्वीतेति" ॥१॥ कीरशान् दारानित्यत आह- लक्षणप्रशस्तान कुशलेनेति" ॥२॥ ' 'सीतापत्ति'-बौद्धशास्त्र क्रमेण निर्वाणप्रापकाश्चत्वारोमार्गाः कथान्ते था 'सोवापत्तिमम्गो' (सोत आपत्तिमार्ग: ), मकदागामिमगगो सक्कदा. मि मार्गः ), 'अनागामिमग्गो' ( अनागामिमार्गः ), 'अरहत्तमगगो अहन्मार्ग:) च। विस्तर उपरिधात्प्रकाशयिपाते। । बुद्धघोघेण धम्मपदयाख्याने या कथा निबद्धाः, तास काश्चिद् ब्रह्मा- शीय भाषातोऽनुदा आंगभाषया Buddhaghosha's Parables नाना ग्य न Capt. T. Rogers महाशयम प्रकाशिताः । तत एवेयं कथा मंग- না। २ मित्रगोष्ठी-पत्रिका। कुशलेन स्त्रीलक्षणविदा लक्षणदर्शनेन ये प्रशंसिताः, तानित्यर्थः मथ कदाचिल्लक्षणज्ञो न लभ्यते, तदा कि कार्यामति सूत्रकारस्तदुपार कथयति- "तदलाभे पिण्डान् इति " ॥ ३ ॥ कुशलस्य स्त्रीलक्षणविदोऽलाभे कांश्चिन् मृत्पिण्डान कुर्यादित्यर्थः मृदस्तु वक्ष्यमाणेभ्यः स्थानेभ्यः संग्राद्याः- वेद्याः, सीताया, हूदाद, गोष्ठाच, चतुष्पथाद, आदेवनाद आदहनाद, ईरिणात् " ॥४॥ ( वेद्याः यज्ञवेदितः सीतायाः-लागलपद्धतितः,-कृष्टक्षेत्रादि. त्येके, आदेवनाद-आदहनात्-श्मशानात्, ईरिणात्-उपरभृमितः इत्यर्थः।) तथाचैतेभ्योऽष्टाभ्यः स्थानेभ्यो दमाहृत्य पृथक्त्वेन भष्टौ समानाः पिण्डा निर्मातव्याः, सर्वाभ्यो मृभ्योऽल्पाला संगृह्य अपरश्चैक इति नव पिण्डाः स्युः । ते च पिण्डास्तथा चिह्निताः कर्तव्या, यथा दृष्ट्वा विज्ञायेत यदयं पिण्डो यज्ञवेदिनिर्मितः, अयं च सीतामृदुत्पन्न इति, एषमपरापरोऽपीति शेयम् । तदुक्तम् "सर्वेभ्यः संगृह्य नवमम्" ॥५॥ समानकृतलक्षणानिति" ॥६॥ अथ तान् पिण्डान वक्ष्यमाणेन मन्त्रेण कुमारो मुपनयेत् :- "ऋतमेव प्रथमम् ऋतं नात्येति कश्चन । ऋत इयं पृथिवी श्रिता, सर्वमिदमसौ * भूयात ॥इति॥ अथ कुमारी यादेषामेकं गृहाणेति । सा चेत पिण्डेषु आद्यान चतुर्णामेकतमं गृह्णीयात, तर्हि तामुपयच्छेत् । नवमस्यापि पिण्डस्य (सर्वमृनिर्मितस्य) ग्रहण कन्या विवाह्या भवतीति केचित् तदुक्तम्:- 'पूर्वेषां चतुर्णा गृह्णन्तीमुपयच्छेत् ' ॥ ८ ॥ अत “असो" इत्यत कन्याया नाम निवश्यम् । * । यथा:- क्विा कन्याया: परीक्षा। "सम्भार्यमित्येके" ॥ ९॥ इति गोभिलपुत्रकृतस्य गृह्मासंग्रहस्य द्वितीय प्रपाठके कुमार्या एकै. कपिण्डग्रहणे कीडशं शुभाशुभत्वं प्रकाशत इति पणितम् । तद्यथा:- वेदिपिण्डात क्रियावती, सीतायाः फलते कृषिः । अक्षोभ्या च हूदे शेया, गोष्ठे भवति गोमती ॥ २१ ॥ चतुष्पथे प्रकीणा : स्याद धूतस्थाने कलिप्रियो । श्मशाने म्रियते भर्ती बन्ध्या भवति चोषरे ॥ २२ ॥ नवमे सर्व एवैते कन्यायाः परिगृह्यते" ॥ २३ ॥ शाखान्तरेत्वयं फलवादः (विनाष्टमं पिण्डम् ) कन्याया अपत्य- गत्यत्वेनोपलभ्यते "गृहाना वेदि पिण्डं च प्रसूते याज्ञिकान् सुतान् । सीतापिण्डन्तु गृह्णाना सुतान् सूते कृषीवलान् ॥ सर्वकामसमृद्धांश्च तृतीयस्य परिग्रहात् । गोष्ठपिण्डग्रहाचापि गोमिनः सुखिनस्तथा ॥ इतश्चेतश्च गन्तारः पञ्चमेनास्थिताः सुताः । पष्ठेन तु गृहीतेन भवन्ति धू तसेविनः ।। श्मशानपिण्डग्रहणात् विधवा जायते ध्रुवम् । बन्ध्या या विधवा सास्यादष्टमग्रहणादपि ॥ मिश्रमेतद्भवेत् सर्वं यतः पूर्वोदितं फलम् । नवमस्य ग्रहस्तस्मात् शुभो वा यदि वाऽशुभः" इति॥ विधुशेखर शर्मा। * - तैत्तिरीय गृह्यसूत्रेऽप्ययं विधिः ईघद् भेदेन दृश्यते । यथा-"शक्ति विषये दयाणि प्रतिच्छमानि उपनिधाय ब्र यादुपस्पति” । “नाना विधानि महानि वेद्याः पासून इत्योदि"। पूर्वधामुयस्मर्णने यथालिङ्गम्टविरिति” । ३ ख. १५-१७ सू.। + वाभिचारिणी।
१३२ भारतस्य वर्णमाला वर्णलिपिश्च । । कलिकाताविश्वविद्यालयपत्रिकायाः आंग्लवर्षीय-'जुलाइ' सं- ख्यायां प्रकाशित कस्मिंश्चित् प्रबन्धे साधूक्त मे प्रियसुहृदा सुविदुषा पण्डितश्रीसतीशचन्द्रविद्याभूषण एम. ए.-महोदयेन-"भारते व्यव- हृतानां विभिमानां भाषाणां संख्या पृथिव्या अवशिष्टांशेषु प्रचलिताना भाषाणां संख्यातो गरीयसी। कश्चिद यूरोपीयः आंग्लवर्णमालाज्ञान- साहाय्येन नातिल शेन यूरोपामेरिकादेशयोः सर्वतः पर्यटितु प्रभवति, परं कस्यचिद भारतवासिनः पक्षे प्रादेशिकभाषाविशेषस्य लिपि. ज्ञानसाहाय्येन प्रदेशान्तरे गमनं बह्वायाससाध्यम् । यदि कश्चिद् वङ्गवासी विहारभूमिं गच्छेत, तहि स तत्र निलिपिप्रकारादभिन्न नूतनमेव कंचित् लिखनादर्श पश्येत् । एवमेव स्याद् यद्यसौ उत्कले दाक्षिणात्ये वा भ्रमणं कुर्यात्' । इति । लेखकेनानेन आदौ वर्णमालानां विशेषतोभारतप्रचलितानां विभिमानां लिपिप्रकाराणां संक्षिप्त स- म्पूर्ण च इतिवृत्तं दत्तं, पश्चात मन्तव्यत्वेनोक्त यत् काले देवनागर- वर्णलिपिरेव निखिलहिन्दूनां साधारणलिपिर्भविष्यति इयत्र सम्भा- व्यता विद्यतइति । अस्मिन् प्रबन्धे अहमिदमेवमतं विशदीकर्तु, दृष्टान्तेन च स्पष्टीकर्तुमस्यैव च अवश्यस्वीकार्यान् उपसिद्धान्तान् तत्र भवतां पाठकमहोदयानां पुरतः स्थापयितु प्रतिष्ये । नाहं प्रनतस्ववित्, नचाहं भारतस्य पहिरन्तः प्रचलिताना वर्तमानानां विभिन्नलिपिप्रकाराणाम् इतिवृत्त-विकाशसंबन्धिगवेष- णाफलानां पुनरुक्त्या भवतां धैर्यच्युति जनयितुमिच्छामि । ज्ञान सर्व दैव हितम्। काठिन्यसंशयाभ्यामुपहतमपि च तत् मनोहारि भवितु महति। परं व्यवहाराजीवित्वेन प्राकृतनागरिकत्वेन चाहं केवल उल्लिखितपण्डितवरप्रदर्शिताया एव , अवस्थायाः प्रयोगजविधान अपाकरणोपायाविष्काराय यतिष्य। विश्वविद्य लयशिक्षामधिजग्मुषो मे कलिकाता-प्रधानविद्यामन्दि भारतस्य वर्णमाला वर्णलिपिश्च । (त्यागात कतिपयवर्षानन्तरं भारतीयभाषासु रोमकलिपेः ( Roman character ) बहुलप्रेचारसंसाधनार्थ काचित् समितिः प्रतिष्ठापिता। आंग्ल-फरासि-शर्मण्यदेशनयप्रकाशितेषु प्रन्थेषु रोमकाक्षरैलिखि- तानां संस्कृत-पालि-जेन्दभाषामयविषयाणां पाठस्य नवीनत्वं तदापि मनसि अम्लानमेवासीत् । तदाहं सेमिटिक-( Semitic) लिपी प्रत्नतत्त्वविदो मते तु 'फिनीशीय'-( Phoenician ) मूलकवर्णमाला- लिप्योः) मुद्रितस्य पारसीकस्य पाठाय भृशं यतमानासम् । भसम्पूणीयाः पुनरुक्तिदोषदुष्टायाश्च रोमकवर्णमालायाः स्वरूपाणां idiosynerains ) व्युत्पत्तिलाभायकृतोद्यमेन मया भृशं काठिन्यमनु- मृतम् । देवनागरवणैः संजातपरिचयेषुभारतवासिषु इयं वर्णमाला केवलं कतिपयदिन्दुसमष्टिरिव प्रतिभायात् । अहन्तु आशैशवम् भांग्लवर्णमालायां सुपरिचित आसम् । अतोऽहं तदानीन्तना बहवो घुवान इव अमन्ये यद भारतीयभाषासु सर्वासु प्राच्यभाषासु च रोमकलिपिप्रवर्सनेन बहवो वाह्याः असौकर्यप्रकारा अपगताः स्युरिति अतश्चाहं ब्राउन-ग्रियासनमहोदयाभ्याम् आमन्त्रितः सपदि तत्समिति गविशम्। तदाहं संस्कृतवर्णमालाया मूल्यं सौन्दर्यं च, भारतीय. पापासु देवनागरलिपिपद्धते रुपयोगित्वं च न सम्यग उपलब्धवान् भासम् इति कृतं कथनेन । तदा मया न ज्ञातं यद एषैव लिपिः वभिन्नैराकारैः सिंहल-तिब्बतब्रह्म-श्यामप्रभृतिषु भारतप्रान्तस्थितेषु शेयु अन्येषु च सुद्रप्राच्येषु व्यवहियते इति । समितेः केचित् ग्यतराः सभ्या इव अहमपि कंचित् कालं रोमकवर्ण लिपिप्रवर्तनाय ठोरम् यतमानोऽभवम् । प्रभुमण्डलं ( Government ) विषयस्यास्य सम्पादनमारमग्रहीत भारतस्य विभिन्न प्रदेशेषु रोमकलिपेः प्रवर्तने महान् यत्नः आधीयत जनैः । विगतशतकस्य प्रथमाशीतिवर्षषु चिनद-प्रभुमण्डलं अस्याःप्रचाराय प्रायतत, खीष्टधर्मप्रचारकाश्च पत्र यत्र अन्यस्याः कस्या अपि लिऐः सुप्रचलनं तैर्न परिलक्षितं तत्र पत्र एतां प्रावर्तयन् । परं पञ्चनद-प्रभुमण्डलं न सफलकाममभवत् मित्रगोष्ठी-पत्रिका। रोमकलिपिप्रचारसमितिरपि तत्स्वतो न किंचित संसाधितपत समितिरसौ अचिरञ्जीवा विस्मृतिसागरेनिमग्ना मन्ये भूयसां पाठ, महोदयानां श्रुतिपथमपि नागतवतीति । 'ए'-'बी'-'सी'-'डी'-त्यादिवर्णमालासमेता रोमकलिपिः तया परिचितैः यूरोपीयैः भामेरिकावासिभिश्व स्पृहणीया भवेदेव । पर आधुनिकीनां यूरोपीयभाषाणां पक्षे यद् भवतु तद भवतु, भारतीय भाषाणां पक्षे तु एषा पुनरुक्तिदोषदुष्टा विकलाङ्गो चेति नोपादेय अपिच तस्याः रचना न विज्ञानसम्मता, फिनीशीयमूलकस्य मौलिक- रूपस्य ( crudencss ) अद्यापि तत्र दर्शनात् । संस्कृतवर्णमालायां यद विज्ञानसौष्ठवं बाहुल्येन विद्यते न तत् कदापि प्रागुक्तायां लिपी अविद्यत । आधुनिक भाषाविज्ञान संस्कृतव्याकरणमूलकमेव । योहि “Grimm's Law"-(प्रीम्स् ल ) इति प्रसिद्धो ग्रन्थः स संस्कृतव्याकरणीय- शिवसूत्र 'स्यैव यूरोपीयवेशेनविपरिणमनम् । अन्यच संस्कृतवर्णमाला स्वतः पूर्णा । शीतप्रधानदेशप्रभवाणां भाषाणामन्तभूतान् ऊष्म-वर्णोच्चारान् ( hissing sounds )विहाय अन्ये यतिविधाः मानवस्वराः सम्भवन्ति ते सर्वे एव संस्कृतवर्णेषु अभि. व्यञ्जिताः । अतः सर्वथा निरवकाशेयं कल्पना यद भारतीयाः संस्कृ- तलिपिस्थाने रोमकलिपिं गृह्णीरन इति । अतः स्वाभाविकमेतत् यत् ब्राउन-प्रियासन महोदयाभ्यां प्रतिष्ठापिता समितिः विलोपं गता इति परं रोमकलिपिप्रवर्तनकल्पना न सम्यग् विलुप्ता। ग्धुनापि तस्याः समर्थकाः विद्यन्ते। सत्यपि तस्याः सम्पूर्ण अनुपयोगित्वे, सत्स्वपि च तस्य वहुषु सुस्पष्टेषु दोषेषु, यत तेषां निजस्वं तस्मिन् तेषां ध्रुवो विश्वासो वर्तते । परम् एतत ते विस्मरन्ति यत् रोमक- लिपेः आंग्लभाषायां व्यवहारोपयोगित्वापादनाय कानिचिद रूपान्त. राणि स्वरगतपरिवर्तनानि च साधितानि, भारतीयभाषानिकराणाम उपयोगित्वापादनाय पुनः केषांचिद वर्णानां परिवजनम्, अपरेषां . भारतस्यवर्णमाला वर्णलिपिश्च । १३५ नवानां प्रवर्तनमपि प्रयोजनीयं स्यात् । अयमपि रोमकवर्णमाला प्रच- लने अपरोऽन्तराया। किंच वर्ण-(letter) स्थाने पदांश-(Syllable ) व्यवहारकलाना मे सम्मता । तथा कृते 'ख'-इति एक वर्ण व्यवहर्तव्ये 'Kha' इति प्रणत्रयं व्यवाहियेत, 'ख'-'घौ'- इति महाप्राणवर्णद्वयस्थले तालव्य 'श' इतिसंयुक्तध्वनिस्थले च द्वौ रोमकवौँ भपेक्ष्येताम् । विसर्गस्येव अचमहाप्राणवर्णस्य ध्वनिः 'h' व्यतिरिक्तेन भन्येन केनापि वर्णेन न प्रदर्शयितु शक्यः स्यात् । रोमकवर्णमालायां पताः वाधा स्फुटा एव । सत्यमेतत् प्राच्यभाषातत्त्वविदः पाश्चात्याः रोमकवर्णमालायाः दोषाणां दूरीकरणाय काश्चिद वर्णान् कल्पितवन्तः (coined) भूयिष्ठं कृतकार्याश्च बभूवुः। परं पाश्चात्यविदुषामनुसरणम् किमेकान्ततः प्रयोजनीयम् ? लिखितभाषामपेक्षमार्णा सभ्यतावस्थाम् मनारूढवताम् आदिमवासिनां मध्ये खीष्टधर्मप्रचारकैःसंसाधितेन रोमक-वर्णमालाप्रवर्तनेन तस्या उपयोग: उत्कर्षो वा न प्रमाणीकृतो भवति । यत् खासियापवंत- पालिषु सान्तालवासिषु च रोमकलिपेः प्रचलनं जातं तत् शिक्षका- णामेव अनभिज्ञतायाः जाति स्वभावस्य वा फलम् । यत्र यत्र रोमक- लिपिः प्रवर्तिता तन तत्र तत्स्थाने भारतमूला कापि वर्णमाला अनाया- सेनैव प्रयोक्तु शक्या। भारतीयभाषासु रोमकलिपिव्यवहार अपरा विद्यते महती आप- तिरस्माकं जातीयगर्वमूला। इयं हि भावप्रधाना । ( sentimental ) परमस्माकं बहुषु कार्येषु भावस्य (sentiment) महान प्रभावः दृश्यते । अतः स भावः कथमपि न उपेक्षणीयः । सत्यपि हितवाद-(Utihtarianism ) पक्षे बहु समर्थिते, विशुद्धस्य उपयोगस्य ज्ञानं न सर्वदा कर्मणि प्रवर्तयति। अस्माकं जातीयगर्यो वैदेशिकवर्णमालान- हणप्रतिफूलः। अधुना तु भारते वैदेशिकभाव-शब्द-रीतीनां महान उत्कर्षों दृश्यते । परं सर्वस्यैव वस्तुनः कश्चिद अवधिः वर्तते। जनान मित्रगोष्ठी-पत्रिका। । एतन्मया निश्चितं यद बहव एव मे स्वदेशवासिनो यथा कारणा न्तरात तथा जातीयभावातोश्च भारतीयलिपीनां स्थाने रोमक लिपिप्रवर्तनं प्रतिकूलमिष्यन्तीति । इष्टं मया विगतवर्षस्य सेप्टे म्बरमासस्य सप्तदशदिवसे प्रकाशिते 'पाइओनियर'-( Pioneer ) पो पञ्चनदप्रदेशे रोमकलिपेः प्रवर्तनसमर्थनम् । अयं च हेतुःप्रदर्शितस्तत्र यत प्रतिशतं त्रय एव नराः वर्णप्रयोगं जानन्ति । न च तेषां काचित निर्दिष्टा वर्णलिपिर्वतते । परं यः सिद्धान्तः कृतः स न अपरिहार्य त्वेन कल्पनीयः ( necessary) एको हि प्रबलः अंशस्तत्र उपेक्षितः। स च विदेशीयलिपिप्रतिकूलो भावो जनानाम्, यो मया जातीयभाव इत्यभिहितः। या तु विप्रतिपत्तिः ( Contest ) उत्थापिता तन, म उर्दु-रोमकयोः एकतरस्य उत्कर्षप्रतिष्ठापनविषयिणी । अहं तु र पश्यामि कथम् उर्दुमुपेक्ष्य रोमकम् अवलम्बितव्यम् इति । उभावेव समप्रभवौ । उभावेव च सर्वथा अविशानमूलो समदोषयुक्तौ च । आई तु 'अ'कारोच्चारणाभिशापने 'ए'-(a) आलिफ-(alif ) इतिवर्णव्यतः अकारस्यैव श्रयस्त्वं स्वीकरोमि सुगमतरत्वात् युक्ततरत्वात् यथार्थ- स्वाञ्च अकारस्य । किं च 'ए'-(a) वर्णस्य एतावन्ति उच्चारणानि वि. धन्ते यत् तेषां प्रदर्शनार्थ बहूनां शब्दानां प्रयोजनं भवति । एवं रोमकलिपिप्रवर्तनप्रस्तावः सर्वथा निरस्तः। एतेन, रोम- केण सह एकमूलकं तैरेव दोषैर्युक्त तयैव च अविज्ञानमूलया रचनया ( arrangement ) समन्वितम् आरवीय-पारसीकेतिभाषायमपि नि- रस्तम् । भारतीयसम्प्रदायस्थेषु केषुचित् पारसीक प्रवर्तने रोमक- विर्षायणी जातीपभावरूपा आपत्तिनं प्रयुज्यत । परं बहुप्वेव आर. वीय-पारसीकेषु रोमकेणैव तुल्यविरोधविषयः। अपि च भूयसामेव मतं सर्वत्र जयेत, संस्कृतवर्णमाला च सर्वाभ्यो योग्यतरा। अतः साधारण-मते गृहीते, तस्या एव अनुकूलं मतं प्रभविष्यति इत्यत्र नास्ति मे संशयः। अहं तु संस्कृतलिपेरेव पक्षं दृढ़ समर्थये इति कृतं कथनेन । इयमेव वर्णमाला प्राचीनचीनवासिनोवजयित्वा अन्यत्र मारतस्यषणमाकावणालापश्च। हेतोः बि. ए. अमन पूर्व-(एशिया-) भूभागे प्रचलिता । संस्कृतवर्णमालायाः श्रेष्ठ पक्षे नाह बहु प्रपञ्चयितुमुत्सहे। परमेतद्विषये कांचिद घटना माख्यातुमिच्छामि । एतत्तु प्रवादत्वेन परिणतम् यद् बालुक्ये जना पहुभाषिणः किंचित् आत्मश्लाधिनश्च भवन्ति । अहमपि एतस्य व्य- मिचारत्वेन न मन्तव्यः । १८७० तमे आंग्लवर्षे अहं कलिकाताविश्व. विद्यालयस्य एम. ए. परीक्षायामुत्ता! भूत्वा उपाधि लब्धवान । पतन्दु मया अध्यापकसाहाय्यं पिनैव साधितम् । कस्माश्चिदनुकूलात् कालगणनाप्रमादात परीक्षायाः आगमपत्न-(Certificate) प्राप्तः पूर्व वाहं एम. ए. उपाधिना भूपितोऽभवम् । मदीयः कश्रिद बन्धुश्च मदशापन्नो ऽभूत् । तस्य च बन्धो: अकालमृत्यु गतस्य कति- पवर्षाणि समतीतानि । उभावेव आयां १८७० वर्षे कलिकातवि- ध्वविद्यालयस्य तदानीन्तनानाम् भाधुनिकानां च विषयाणां सुगमतमे विपय आंग्ल साहित्ये परीक्षार्थिनी अभवाव । परीक्षायाः प्रथमचतुपुं दनेषु उभावेव आवां शोभनं लिखितवन्तौ । अधुना इव तदापि पञ्च- दि से परीक्षाविषयो भाषाविज्ञानमासीत् । परीक्षामन्दिरमुभी एका गच्छेच इति मे बन्धुः नियतकालात् प्रागेव मत सकाशमा- छत । अहं तम् ईशस्य अकालागमनस्य कारणमपृच्छम् । स च वणवदनो रुदन्निव उवाच । नाहं - Grimms' Lau' ('नीम्स ल') चार ग्रन्थं सम्यक् अधीतु मपारयम, अतोऽहम् अद्यतनमीक्षा- ताम् उपस्थितो भवितु नेच्छामि इति । दौर्भाग्यवशात् यि.ए. परी- समये, सत्यपि तदानी संस्कृतभाषायाः अवश्यपठनीयपिपर पु रिगणितत्वे, नासो व्याकरणं साभिनिवेशम अधीतवान् । सत्यमती भाशैशवं संस्कृतमपठत्। परं संस्कृतवर्णमालायाः वैज्ञानिकी भित्तिं संस्कृतव्याकरणस्य च शिवसूत्रं न तत्त्वतः उपलब्धवान् । सुषि- यातैः शर्मण्य-(German) पण्डितैः प्रदर्शितं वर्णविनिमयतत्त्वं स्मै albiacadabra ( वर्णसमावेशप्रकारविशपः ) इव दुर्बोध प्रला- आत् । अहं तु त नैराश्यपरिहारायोपदिष्टवान्, अस्माकं वर्णमालाया: . ८ ८ मित्रगोष्ठी-पत्रिका। शिवसूत्रस्य च रचना ( arrangement ) तं स्मारितवान् । मुहूर्तपर. मेष स 'क्लाक'-( Clarke ) महोदयकृत-व्याकरण-तत्वविचार-( Comparative Grammar) नामकग्रन्थे मोक्षमूलरप्रणीत-भाषाविज्ञानग्रन्थे. ( Science of Languages ) व उपनिबद्धं स्वरविनिमयतखम् अव- बोचु कण्ठस्थं कर्तुं च समर्थोऽभूत् । अधंघटिकान्यूनकाले एव च तस्य वदनमण्डल प्रीतिप्रफुल्लमजायत नैराश्यंच अपगतम् । एषम् 'Grimm's Law' 'प्रीमस् ल'-ग्रन्थस्य वाद्यकाठिन्यबहुलत्षेसत्यपि उभावेषावा परीक्षायामुत्तीणी अभवाव । मधुना सब्रह्म-सिंहलस्य विशालस्यास्य भारतमहादेशस्य का नाम एकाकारा ( Uniform ) वर्णमाला भवितुमर्हति इत्येतत् निर्णेतव्यम् । (क्रमशः) श्रीसारदावरण मिनः। कृषिविज्ञानम्। साम्प्रतं पुरुषार्थतया ये ये विषया मानवैः प्रायन्ते, तेषु को गरिष्ठ इति प्रश्ने अर्थएव स इति सर्वे ऐकमत्या उत्तरयन्ति । तदुपार्जनं हि अधुना मानवानां मूलं मन्त्र, तेनैव जीवनमतिवाहयितु केऽपि कुण्ठिता न भवन्ति। यतोऽधुना अस्माकं सुखं, दुःखं, जातीया दैशिकी च उमतिरनेनैव परिचालिता भवन्ति । तदधुना विचार्य्य कोनाम गरी. यानुपायोऽस्माभिग्रहणीयो येनास्माकं जातीयदरिद्रता अचिरादेव पिलीयेत । तत्र प्रधानतो मूलंधनं श्रमः क्षेत्रं च यथा दारिद्रहानाय भवति न तथा किमपि । प्राचीनकालात् सर्वएव जानन्ति रत्नप्रसुः पृथ्वीति' । परिश्रमेण धमितिसुत्रस्य प्राधान्येन भूमिभूमिरेष, अत्रैवहि परिश्रमस्यफलं ति. ष्ठति । भयं खलु सिद्धान्तस्य निष्कर्षः यतोऽपि धनागमो भवतु । कृषिविज्ञानम् । १३९ सर्व पृथिव्याएव आयाति इति । प्राक्तनाः भल्या माहात्म्यं सम्यग- वगतवन्त भासन् । सभ्यतायाः प्रथमोदयाच कृषिः साधुतरमालो. विता आसीत् । कृषिरेव भारतीयानां प्रधानतमा उपजीविकासीदिति आवेदेभ्यः सर्वाण्यपि शास्त्राणि प्रतिपादयन्ति । अपिच भस्य भारतवर्षस्य प्रकृति समालोच्य इदमेव प्रतिभाति, कृषिका-य यथा तापादिकमपेक्षते तत्सर्वमत्रैव अनायासलभ्यमिति । सर्वएव मानवाः प्रकृतिमनुसृत्यैव जीवनोपायान भन्विच्छन्ति । प्रकृति:भारते एव कृषे रनुकूलां शक्ति बहुतरं ददाति अत: पूर्वतएव भारतीयाः कृषि- व जीविकानुकूलत्वेन आश्रितवन्तः । परन्तु महहु :खाकरमिदं यत तथैव प्रधानावलम्वत्वेन निर्दिष्टा. मपि कृषिविद्यां वानरः कण्ठापितां मुक्तावलीमिय सर्वेवयमधुनाऽ- नादरचक्षुषा पश्यामः । अस्यच महदनिटकर फलं पश्यतामपि म. हमाकं चक्षु षि नोन्मील्यन्ते नवाऽस्माकं चैतन्यं समुदेति । प्रतिवर्ष भिक्षेण रत्नप्रसोर्भारतस्य बहु सहस्र मानवा: जठरज्वालाभिर्दग्धाः रामनातिथित्वं भजन्ते, वयन्तु तेषां वक्षःषु लीलयैव साहंकारंपदं नि. क्षिप्य उच्चैःकण्ठं घोषयामः -राज्ञः मनियतकरभारप्रपीड़िताएव एते वृत्युपथं गता इति । अस्मिन् हि दौर्भाग्यसङ्घलेदेशे प्रतिशतं सप्त- 'तेरेव कृषकाः,अपिच यत्र पृथ्वी प्रकृत्यैव उर्वरा प्रकृतिश्च सर्वथासर्व- शस्यानुकूला तन दुर्भिक्षं नित्यमेव आयाति, किन्तु यत्र मार्किनप्रदेशे कृषकाणांसंख्या प्रतिशतं पञ्चदशतोऽपि न्यूना भूमिश्च नीरसतमा त्रि कोपि दुर्भिक्षस्य नामापि न जानाति। मन्ये अत्र मृत्तिकाया उर्व- तैव दुर्भिक्षवृक्षस्य सम्यकपुष्टेः कारणं भवति । अस्यकारणं-भारते तिशतं सप्ततिः कृषका यावन्ति शस्यानि उत्पादयन्ति मार्किन् शिीयाः पञ्चदशसंख्यका अपि ततो द्विगुणंफलं लभन्ते । इतोऽपि पसंतृप्तास्तेन्क्रमशः कृषकसंख्यां वर्द्धयितु यत्नवन्तो दृश्यन्तइति । १८७० स्वीष्टीयादे तत्र ३४ लक्षपरिमिताःकृषीवला आसन अधुनातु पां संख्या कोटिपरिमिता । दृष्ट्वा चैतत् कृषिकर्मणि उदासीनानां ।
१४० मित्रगोष्ठी-पत्रिका। इलण्डीयानामपि चेतश्चिन्तासङ्कलं जातम् । किंचाधुना अध्यापक 'मूरो' गावितां रीतिमवलम्ब्य अमेरिका समधिकशस्यशालिनो भी प्यतीत्या नास्तिमन्दहस्य लेशोऽपि । पथमस्माकंदेशे उर्वरतमेऽ पिक्षेत्र समधिकसंख्यकाअपि कृपका न नयाशस्यान्युत्पादयितु पारयन्ति कथं वा शस्यश्यामलेभारतप्रान्त दुशिक्लियानां मानवानामाविर्भाव इति सुनिपुणं चेद विचाय्यं तदा एतदेव अस्मान प्रतिभाति यदत्र कृषिकार्य्यस्य प्रणाली न समी चांना यतः श्रमानुरूपं फलं न प्राप्यते । एतत्तु पाश्चात्यकृषिविज्ञान पच्या लोचनयापि विस्पष्ट भवति । अतोऽस्माकं कृषिप्रथा आमूलत संशोधनमहंतीतिघ्र वम् यः खलु कृषिकायंदेव विशेषतो धनागमं वाञ्छति तेन प्राक्क्षे. चल्य मृत्तिका सम्यक् परीक्ष्या, तत्र उद्भिन्मलं अनायासन अन्तः प्रयेटु शक्नोति नवा सा च तत्र दृढमूलाभविष्यति नवेति । अप्रवि. टमा भूमीपतिता च उद्भित कदापि न फलदायिनी भवति इयतः सैफते प्रस्तरमयेच स्थाने शस्योत्पत्ति सम्भवति । मृत्तिकायाः शस्य. शामित्वे जलावरोधक वशतिरपिविशेषतोऽक्षते परन्तु कठिनक- मात् (I Hard clay) जलेन वयुना च अनतिक्रममा मृत्तिका शस्योत्पा. द कदाचिदुपयोगिनी न भवति । यतो जलं वायुश्च उद्भिदामाहारस्य सनिजपदार्थविशेषस्य च संग्रहकर्ता । एवं घायुना जलेन शिशिरेणच तिका स्वभावतः कृष्टा भवति उर्वरतांच गच्छति सा चेदवर्षणाधि- पदेन सम्यग धोताभवेत् । अतएव जलवायुनञ्चारार्थ क्षेत्रं वर्पणम- क्षो। कर्पणहि शस्य लाभे मुख्य निदानम् । उनि म वृत्तिकातोरसमाध्य देहल्य सर्वत्र विकिरति ततो- ऽसय सारं स्वप्ट्यर्थमादाय असारोज कीयांशः पवतो बाप्पाकारण परित्यजति । अगर सा सूर्यकिर साहाय्यन अम्लजं ( Oxyzen ) प.परित्यज्य अङ्गारक संगृध स्वपटि विशति । खनिज वस्तु या कि उद्भिदृशते नत् मूलैरेव मृतिकात आकृष्टम् । वृक्षस्य कृषिविज्ञानम् । १४१ पत्रमेव प्रायः पाककृत्ये सम्पादयति, अतपय अत्यत उत्तोल्य रोपि- तस्य वृक्षकस्य आदौ पत्राण्येव शुष्कतां व्रजन्ति तस्मात्तदा पाकाग्ने- पत्यर्थ आवरणेन तानि यत्नतः संरक्ष्याणि । पत्रहीना उद्भित् पाक- स्थलीहीनजी ववत् कदापि जीवितु न शक्नोति । वृक्षस्य नाशे अय- मेव सुगमोपायः । उत्पत्तिकाले एव पुनःपुनः पत्रस्य शुङ्गकस्य छेदनेन अहितकारिणं यं कमपि वृक्षं नाशयितु सर्वएव शक्नुवन्ति । यत्न यस्य वृक्षस्याहार्म्य पत्तते सा भूमिस्तस्यैव उपयोगिनी । वृक्षस्य खाद्य प्रायः अम्लज यवक्षारजं अङ्गारकमिश्रञ्च जलजं वाय ( (Oxyzen, Nitrozen, Hydrozen Compound of Carbon ) एतत्तु प्रायः जठाद वायोश्च संगृहीतंभळी । वृक्ष य विंशतितमोशः खनि- अपदार्थः । क्षेत्रञ्चेत् प्रजालकाम् लक्षारचणकादिभिः ( Phosphoric Acid, Patesh, Lime ) खनिजपदार्थ विरहितमपि कर्षणयोग्यं स्यात, तदाधुना मानयोऽनायासेनैव क्षेत्रं तद्युक्त कृत्वा तयोवरतां वयितु शझोति । प्रायः सुधया सुधाकारणकपदार्थनच भूमेः सारोभवति । यद्यपि तथाविधलारप्रयोगस्य आनन्त्यं सम्भवति, तथापि मन 'मर' महोदयेनोदभावितः सारो जनानां नितरामाश्चर्य मावहति । शस्य- वाजेन सह विकीणे तस्मिन्सारे भूमिः स्वतएव वायुतः प्राचुर्याण आहायं संगृह्य प्रायः षोडशरणाधिकानि शस्यानि उत्पादयति । पोन मृतिकायाः पूर्वश्चितस्य सारस्य कापि हानिनं भवति अपितु नतोऽपि तस्या उर्वरता बद्धतएव । यद्यपि कतिभिः शस्यधीजैः सह अल्य प्रयोगात् फलं न भवति,तथापि तानि वीजानि अव्यवहित द्वितीये म. मम्पक फलप्रदानि भवन्ति । तद गया--गोधूमेन चेदस्य लारभ्य ला प्रमेऽवसरे वर्नु लाथे स सार: प्रयोज्यः द्वितीयेऽ- वानरे विनानारेणैव गोधूमे उपो साधिकाललाभो भविष्यतीति । दोध जलं यावद कृष्ट क्षेलं प्रौर उर्वरभवतीति प्रागेवोहम् । यो पद्वीजस्पागुपोति तत् तदुपयोगिमृत्तिकया प्रणेन सम्यक मित्रगोष्ठी-पत्रिका। तत फलप्रभवेदित्यत्र नास्तिसन्दहः । यथा मानवः एवं विधनाने पायैः क्षेत्रस्य उर्वरता सम्पाद्य यथेष्ट शस्यं लन्धु शक्नोति, तर पत्नेकृते एकजातीयवृक्षस्य फलं विभिमास्वादविशिष्ट विभिभावय धं च कत्तुं शक्नोति । मन्ये अस्माकं देशे एवं परिवर्तनविद्यया ' Hy brid, Grafting etc.) परिचिता बहवएव आसन् । श्र यते च विश्वा मितादीनां नूतनतरफलोद्भावनम् । मन्ये नारिकेलगुवा कादय एकजा तियोद्भिदपि तयोः फलस्यैव विभिन्ना परिणतिः, परन्त्वेतत् सर्वच ध्येयम् । अत्रतु नास्ति सन्देहो यदस्माभिव्यवहतः पुष्पफलादिमा यशो वन्यावस्थायाः चरमं संस्करणम् । धन्यं पनसं आम्रव समीक्ष एतत् सवंएव विवेचयितु प्रभवन्ति । यत्ने कृते पलपरिमितं फल मादकपरिमितं कर्तुं अनेके प्रभवः। यस्याः क्षुद्रतराया भण्टाक्या व्यासपरिमाणं भद्धहस्तमपि न गच्छति तस्याएव व्यासः अमेरिका- युक्तप्रदेशे हस्तपरिमितमभूत् । तत्रापितु कृषकैरेतदवश्यं स्मर्तव्यं-परिमितेक्षेत्रे तदनुरूपेणार्थन तत्परिमितेन च श्रमेण यथा लामो भवति तत्र अत्यधिकव्ययेन परिमि. तातिरिक्तश्रमेण च न ततोऽपि अधिकतरलाभो भवतीति, प्रयोजना- नुसारेण द्रव्यमुत्पामितिच । एतयोनियमयोः सम्यक् प्रतिपाल- नेनापि सम्पूर्णफललाभो भवतीति न नियमः, अस्ति हि तन शस्यान महानन्तरायः क्षुद्रः कीटः। तथाच “एपिस्' नामा क्षुद्रकीटो यथा शस्यस्य अनिष्ट साधयति न तथाऽन्यत् किमपि । एतन्तु रक्तवीज- मिव न कदापि कोऽपि आमूलतोनायितु शक्नोति । एकोहि कीट; अशीतिकोटि परिमितानि अण्डानि प्रस्ते तथानवमपुरुषपर्यन्तं एके- नैव संसर्गेण सर्वषामधस्तनकीटानां प्रसवकार्य मव्याहत चलति । भतएव भाधुनिकप्रथया तनिवारणचेष्टा सर्वथा कर्तव्या एतदर्थंच कोटविज्ञानम् ( Entromology ) अवश्यमध्येतव्यम् । भारतीगा अधुना नानाविधकारणपरम्पराभिः दरिद्राः, भन्नाभा- बेनन क्षोणसामर्थ्याः, भतः कृषिकाव्य चलोवद एव तेषां प्रधान- .
कृषिविज्ञानम् । तुपकरणम् । परन्त्वहो ! मधुना पथायुक्तपालनाभावेन प्राचां भार- तीयानां तत् प्रधानतमा सम्पत्तिः गो-कुलं जीर्ण शीर्ण कथमपि कृषि- हार्योपयोगि भवति अतः का नाम माशान कृषरुपयुक्तफललाभस्य ? मपिच या धेनुरव शरावपरिमितदुग्धदाने कातरा, सैव पाश्चात्यैः लनप्रणालीविशेषैः 'वेल्जियम्' देशे द्रोणपरिमितं पयो दुह्यते । येतु थानमाहात्म्यात् तथाभवतीति प्रतिवदन्ति तैरितान्तर्भूत हिसार- गरे गत्वा द्रष्टव्यं भस्माकं देशेऽपि पालनकोशलेन गो पयोधिः सम्भवति नवेति। । अन्यच कृषकैः पशुचिकित्सा सम्यगध्येतव्या । पुरा या विद्या हदेवादिभिः राजकुमारैः सम्यगधीतासीत् । यदिच साधुना भारते वलुप्ता तथापि पाश्चात्येषु वर्तते, ततएव शिक्षणीया अन्यथा पीडिते शौ संक्रामकरोगाक्रान्ते पशुपाले बहुतरा क्षतेः सम्भावना विद्यते । कंच कृषकस्य कृषियन्वसंस्कारेऽपि पटुत्वमपेक्षत एव । तदधुना प्रेयांसो भारतीया भ्रातरः, पश्यत यूयं; पदविज्ञान स्माभिः निरक्षरस्य पाशुलपादिकरुय हालिकस्य स्कन्धे निक्षिप्त च्चेत् भारतीयाना मवलम्वनं उअतेभ कारणं द्रष्टु मसमाभिरियेत दा पाश्चात्यानामुद्भिविद्यायो ( Botany ) भूमिविज्ञाने ( Geology ) efaffierat (Veterinary science ) geslagtià (Zoology) सायने ( Chemitary ) कीटविज्ञाने ( Entromology ) क्षेत्रविद्यायां I ( Survey ) कृषकाणां प्रवेशः सर्वथा अपेक्ष्यते । श्रुत्वाचेदं नासिका. कुच्य येस्खलु कथयिष्यन्ति महो कलेर्माहात्म्यं ! यदधुना ब्राह्मणत- योऽपि एतावदविज्ञानमधिगत्य हालिकोभविष्यति इति तान्प्रतिष- व्यं नैतत् कलेमहिमा यत् हालिकस्यापि विज्ञानपाण्डित्यमपेक्ष्यते रन्तु काल-महिमवशादेव निरक्षरस्यैव हस्ते भस्माकमुन्नतः प्रथम पानवर्तते । मासीच पुरा शिक्षितानामेव इयं कृषिविद्या, ये स्थल दाधिकारिणः येच भङ्कादिशास्त्रवेसारः वानिज्यकर्मकुशलाः तएव मित्रगोष्टी-पत्रिका। वैश्या:कृषिकर्म क्वन्तिरम नतु तदानोन्तना मसभ्या निरक्षराः शुद्रा. इति । तदधुना वृथा जाभिमानं परित्यज्य 'सर्वएव शिक्षिता, हालिका भवेयुश्चेत् तदा यथार्थोन्नतेः स्वल्पा भाशा भवेत् । श्री भीमचन्द्र शर्मा। :0: वार्ताः सम्पादकाभिप्रायाश्च । संस्कृतविद्वांसः भारतीयद्रव्यव्यवहारश्व-वर्तमानेन भारतशाः सकेंन वङ्ग यो जनपदरूपाणि तहीयानि कानिचिदङ्गान्याच्छिद्य साद्ध. मासामभूखण्डः " पूर्ववङ्गासाम” नाम्नः कश्चिन्नूतनो विभागः प्रजानां हितकाम्यया विनिर्मितः । वङ्गायैस्तु सर्वैरै कमत्येन तस्य निकाम दुरोदकत्वम् विविध कृतोऽपि महान् प्रतिवादो नाद्यापि किमपि फलं प्रस्ते । एतेन नितान्तं विमनायमानेस्तैभरि तस्य दिनादिनम- द्भवन्ती दुर्विपहां भबकरीमपनतिमालोक्य विद्यमानेन चेतसा इद सङ्कलियां यत् क्रियतां नाम स्वैरमधेनेवास्मद दुःखमपश्यता भारत- शासकेन तरधीनानां निग्रहः, किमस्माभिः कन्तुं शक्यम् । परन्त्व नो निश्चयः, भवतु नाम यद्भवेत, न वर्यामतः प्रभृति आत्मोदर पूरयितु वैदशिकानां करुणाकटाक्षं वीक्षेमहि; अवश्यमेचास्माभिः साम्प्रतं यावल्लभ्यं स्वदेशोत्पन्नान्येव द्रव्याणि संग्रहीतव्यानि । वैदे. शिकद्रव्याणामावश्यकत्वेऽपि इलैण्डीयं तु न कथमप्यादे मिति । न केवलं वडीयैः, अपित्वपरापरप्रदेशवासिभिाप्ययं सङ्कल्पः सबहु- मानमङ्गीकृत:--अङ्गीक्रियते, तदुचितं चेप्स्यते च । परिपाकरमणीयोऽयं सङ्कल्पः कथं नाम दरिद्राणां साधारणजनाना चेतःसु स्वल्पव्ययन स्थिरं पदमादध्यादिति देशहिताभिलाषुकरि- दानी रानिन्दिवं चित्त्यते । एप्वव सुगृहीतनाम्ना राजनीतिज्ञधुर- धरण श्रीमता सुरेन्द्रनाथ वाद्योपाध्यायमहाशयन कस्यापि लखकस्य . .
वात्तोः सम्पादकाभिमायाश्च । १४५ मुखेन स्वसम्पादितायां पत्रिकायां यदुक्त, तदस्माकं विशेषालोचन- महतीति उपरिष्टाद विन्यस्यतेः अस्मत्समाजे निकस्य वा निधनस्य वा, ब्राह्मणस्य वा शूद्रस्य वा कस्यचिद हिन्दोरुपरि प्रभावं विस्तारयितु विद्यते खलु द्वो समर्थों सम्प्रदायौ । तो हि विद्भिश्च, निरक्षरैश्च, पुरुषैश्च स्त्रीभिश्च समं पूज्यते, वचनं च तयोस्तैद्यते । तौ खलु सम्प्रदायावस्मदीयानां पवित्राणां गुरूणां पुरोहितानां च । एकैको गुरुः, एकैकश्च पुरोहितो व्यवस्थापनाणां दानसमये तेभ्यो वैदेशिकानि द्रव्याणि बहिष्करोतु । एकै कस्तयोः शिष्ययजमानै सन्दर्शनसमये मातरं जन्मभूमि प्रति पुरुषाणां स्त्रीणां घा कत्र्तव्यानि, स्वदेशीयानां द्रव्याणां व्यवहारोपयो- गित्वम्, ऐक्यस्य शक्तित्वं, नियमविरोधस्य हेयत्वं, सुरापानस्य च पापत्वं कीर्तयतु। उपदेष्टव्या च तेन शान्तिः, ऐकमत्यं चेति" मन्यामहे, पाठकानां स्मृतिपथमागच्छेत, उक्तपूर्वमेवेदमसमाभिः पत्रिकाया अतीतायां संख्यायां - " समाजस्य नियमनभारः पुरा किलास्माकं धर्मशास्त्रविदां पण्डितमहोदयानामेवोपरि आसीत् । or There are yet, two most powerful sections in our community who wield grcat influence upon a Hindu, be he rich or poor, Brahmin or Sudra. They are respected and hard by the ducated and illeterate and by men and women alike. They tre our Spiritual gurus and Purohits. Let cvery Guru very Purohit when giving Vyavasta-Patras rigidly exclude rom them all articles of foreign inake. Let every Guru and very Purohit when he visits and on every occasion he visits 215 Shisyas or yajaınanas recite the duties of a man and a woman to his or her mother Country, the utility at the use of country made articles, that unity is strength, litigation in an vil and drinking is a sin. lle should also preach peace and narinony". --The Bengalee, September 6. 1905. (Bi-wekly . Edition) - मित्रगोष्ठी-पत्रिका। इदानी मपि च समाजव्यवस्थार्थ ताने जमा माश्रयन्तीति" । मना प्युपन्यस्तसन्दर्भलेखकेन तदेवाभिहितम्। सर्वथा भवितमिदम् पदि सम्प्रत्यपि पूर्वमिव प्रभूतेनोत्साहेनास्मदीयैः गुरुभि'गुंकणा मे कृत्यं क्रियेत, पुरोहितैश्च 'पुरोहिताना'मेव, व्यवस्थापकैश्च पण्डि 'व्यवस्थापकामामेव, तहि मुक्तकण्ठं बाहूत्क्षेपश्चोद्घोषयामः, नातिथि रमेवासमाकं समाजस्य देवस्य च स्फुरन्ती भूयसी कल्याणपरम्परा- मालोकयेम । यद्यप्यमी इदानी स्वबुद्धिदोषेण घा, स्वकर्मापराधक वा, प्रसादपराडमुखाया भगवत्या भवितव्यतायाः कोपेन वा जनान "much neglected class" (तत्रैव, अत्यन्तमवज्ञाता श्रेणी) तथापि, न केवलं तेषु निसर्गपक्षपातिनो वयमेव, गपि तु यैः खलु तेऽयज्ञायन्ते, तेऽपि सम्भावयन्ति, ससाहसं प्रकाशयन्ति च यद वा. प्रणपण्डितै रतस्य महोपकार आशास्यत इति । यावत् किं नालो. ज्यतां जनैस्तेषां विरुद्धम्, परन्तु दुर्लभ एष सः, यो हि प्राप्ते काले तेषां प्रभुत्वं नाङ्गीकुर्यात, तेषामादेशं न गृह्णीयात, तेषां मतं वा ना- नुसरेदिति। ईशा हि नरा मनसि कुप्यन्तोऽपि राजनियमिववा- नतेन माद्यापि तेषामनुशासनं वहन्त्येव अतः साम्प्रतं तेषां जनाना- मसन्तोषकारणं, युक्त चेत् परित्यज्य, अयुक्त चेत्, तदुपादेयत्व तेभ्यः प्रतिबोध्य पुनरपि प्रागिव देशस्य समाजस्य च स्थितये देश- कालाद्यनुरूपं ब्राह्मणपण्डितैरैकमत्येनोद युज्यताम् । त एवात्र विशे- घेणाधिक्रियन्ते । धर्मप्राणा हि भारतीयाः । क्षीणोऽपि नाद्यापि विन- एस्तेषां चेतःसु धींकरः। धर्मोपदेशककथास्वबैते निकामं श्रदध- ते। तत्प्रदर्शितमेव हि पन्थानं ते भक्तिपूर्वमाश्रयन्ते तेषामेव हि पचनेन प्राणा अप्येतैस्तृणाय मन्यन्ते । मतो महदगौरव मधिष्ठिताना तत्रभवतां पण्डितानां गुरुणां, पुरोहितानां च वचनेन जनैः स्वदेशा. नुरागस्य, स्वदेशीय द्रव्यव्यवहारोपयोगादेः, समाजप्रविष्टानां तत्तेची दोषाणां संस्कारस्य च शिक्षा यनितान्तं सुकरा भवेत, कस्तत्र स्तो- कमपि संशयमाशङ्कत । भसमाकं देशस्य समाजस्य च वर्तमाना- पार्ता सम्पादकाभिमापाथ। स्था यदि निपुर्ण भिन्त्येत, तर्हि तस्य चिन्तयितुश्चेतसि ध्रुमिद- दियाद यद ब्राह्मणपण्डितानां समाजादिव्यवस्थापनभारम् अन्य शरःसु निःक्षिप्प निभिन्तं द्राधीयोनिद्रासेवनस्य नायमवकाश इति । नवद्वीपे पण्डितसमाजः, 'न्यायसिन्धु'थ-मनतिचिरं नवदीप- औः संस्कृतपण्डितः पङ्गीय लेफ्टनाण्ट-गवर्णर-महाशयाय 'न्याय- सन्धु'रित्युपाधिरत्नं प्रदत्तम् । भत्रासन्तोषमादधानः कैघिद घड़ी- वृत्तान्तपत्रः नवदीपपण्डितेभ्यः सुदुःसहा दुर्वादा उक्ताः, विगानो. पादिका गाथाश्च काश्चिद विरचिताः । संस्कृतभाषाया भाश्रयभू- नां पण्डितमहोदयाना मीहशैनिन्दावादैः साधारणानां जनानां स्कृतभाषां प्रत्येव क्रमेण वैमनस्य मुदेति। प्रायः खलु सामाजिकैः ह मिथः संवादसमये ईप्लतामपि गुणश्रवणं, दुर्भागधेयानामस्माक वोविवरं पण्डिा नां दोषवादध्वनिरेव प्रविशतीत्यही महत् कष्ठम् । नाशासकेन प्रवत्तितां वङ्गानामुपागतामवस्थां पर्यालोच्य नवद्वीपी- : पण्डितैस्तस्य खलु महात्मनः को नु नाम 'न्यायो' विलोकितः, न स सपदि तादृशस्योपाधेभोज.नतामुपेत इति तेषां पत्राणामभि. यः। यदि वस्तुत एव घनशासकस्य कोऽपि ताग गुणः स्यात, हिं तस्य प्रकाशनेन नवदीपस्थाः पण्डिता आरोपितात् कलङ्कादा- बान' मोचयितुमर्हन्ति । अन्यथा अतिरभसतानां ईदृशां कर्मणां ल्यतुल्येन विपाकेन सह तैरस्माकमपि हृदयं बलवविध्यते । किञ्च पाधिदानमपि तैः किञ्चिदविविच्य वस्तुतस्तद्योग्यायैव कर्तव्यमिति विनयं सविनम्भं च निवेदयामः । दृष्टः खलु पूर्वमपि तेषामपात्रेऽपि विविनियोगः संस्कृत शिक्षार्थ दानम्-अन्येषु : कलिकातायाः प्रधानन्याया- करणे धर्माधिकरणिकस्य पुरतः केनापि व्यवहाराजीविना इदं थितं यत्-बलाइचांददत्ताभिधेयेन केनापि धनिकेन स्वगृहे को- पसंस्कृत विद्यालयः स्थापनीय इति स्वदानपने उक्तम्, परन्तु कथं उय व्ययनिर्वाही भवेदिति नोक्तमासीत् । एतत्परमेष स मृतः, ।
सहधर्मिण्यपि तस्य महात्मनः श्रीमती निस्तारिणो दासी नामा '१४८ मित्रगोष्ठी पत्रिका। प : संस्कृत पतिलोकमुपागात्। अन्या तु महाभागया समादिष्टं-५१,५०, रूप्यकाणि संस्कृतशिक्षार्थ देयानि मे सम्पत्तिकार्यकारकैरिति । विनियोगस्तु यया रीत्या समीचीनः स्यात् तदपि कार्यनिर्वाह कर्तव्यमिति च । एतैमहाशयः प्रतिमासं १५० रूप्यकव्ययेन विंशत: संस्कृतविद्यार्थिनां भोजनव्ययः समपाद्यत, साम्प्रतं तेषां सम्मत्या तानि ५१,५००, रूप्यकाणि श्रीमत्या निस्तारिणीदास्याः को. पात पङ्गीशिक्षाविभागाध्यक्षसमीपं पञ्चविंशविद्यार्थिनां भोजन. व्ययार्थ गच्छन्विति । साधुवादास्तस्मै पूतशीलाय दत्तमहाशयाय, तस्यचानुरूपायै सहधर्मिण्ये महाभागायै निस्तारिण्यै । दातुरिच्छाया विरोधेन न वयं किमपि विवक्षामः । परन्तु यदीयद्भिधनः विद्यार्थिनां कृते दे गवेषणावृत्ती ( Rescarch Scholarship ) स्था. प्टे तां, तदा वरं भवेदिति सम्भावयामः । एतदर्थं संस्कृतोत्साहि- भिधीनजनैः प्रयतनीयम् । वङ्गविभागशिक्षाध्यक्षेण कीदृशाय डा. प्राय भोजनार्थयुक्ता वृत्तिदास्यत इति दिक्षामहे । वेदज्ञस्य गौरवम् । जम्बू-काश्मीराधिपतेमहाराजस्य 'रघुनाथ- पाठशालायां' कतिचिदध्यापकाः अपेक्ष्यन्ते । तत्र काव्यव्याकरणाध- ध्यापकानां मालिक वेतनं त्रिंशद रूप्यकाणि, चतुगी वेदाध्यापकानां तु एकैकं पञ्चविंशतिरिति निर्धारितम् । युक्तमेवेदं पाठशालाध्यक्षेण कृतम् । जडानां छान्दसानां तदेव बहु ! हा भगवति वेद विद्य', हतासि। वृत्तिस्थापनम् – ज्ञायते साम्प्रतं चीनेषु प्रोषितैः श्रीमद्भिः जे. मी. दत्त-प्रमुखः कैश्चित स्वदेशहितैषिभिर्भारतीयैः भारतीयानां शि- दिक्ष साहायकाय स्वामि-श्रीदयानन्दसरस्वती प्रभृतीनां केषाञ्चित सुप्रथितानां पुरुषाणां नाम्ना कतिचिद वृत्तयः स्थापिता इति । प्रश- स्थतरोऽयमेषां महाभागानां समुदयोगः । .. । ।
वार्ताः सम्पादकाभिप्रायाश्च । १४९ अनावृष्टिः-अस्मिन् वर्षे पञ्जाव प्रभृतिषु देशेषु अवापि वृष्टे- मापि न श्रुतं तद्देशवासिभिः । कैच कथा शत्योत्पत्तेः ? हाहा. वनिरपि समन्ततः श्रयते। किञ्च बङ्गाषु प्रायः सर्वत्र एतावज्जल. भावनं सनातं येन यावन्ति शस्यानि नष्टप्रायाणि । अहो। विचित्रा बलु ऐश्वरोकी लीला । भारतवर्षे पब एकत्र जलाभावेन मानवाः कण्ठगतप्राणाः अपरत्रच प्रभूतजलेनोदिग्नाः॥ वैदेशिकं लवणम्-कलिकातास्थ 'हितवादि' नामके साप्ताहिक- वृत्तान्तपत्रे केनचित् लवणव्यवसायि-कार्याध्यक्षेणेदं विज्ञापितं यत् तेन कदाचित् स्वोचितकार्याय 'शालिखा' नामकस्थाने ( यत्र विदे. शेभ्यो लक्षणपूर्ण-धूमयानान्यायान्ति ) गत्वा तेभ्यो लवणनिष्काशनं प्रत्यक्षीतम् । अथ तन लवणाभ्यन्तरे कोऽपिपदार्थः लवणविज- ड़ितो दृष्टः पर मनुभवितुनशक्त तत्किमिति । साभिनिवेशं निरूप्य पत् तेनावलोकितं तत्तु प्रकाशयितुमपि अस्माकं लेखनी वेपमाना अग्रतोनक पदमपि उपसर्पति ! अहो ! स खलु लवणविजड़ितः पदार्थः कस्यचिद् गोः पाददेश आसीत् । तदवलोक्य स खलु महाशयः पोताध्यक्षं अपृच्छत् किमिति । तेनोक्त-अनेनैव प्रकारेण भस्माभिर्यापतीयपशुमास माहारार्थमस्माकं आनीयते । लवणमिश्रित मांसादिकं कालविलम्वेन नष्ट न भवतीत्यतएवास्माभिरेषः पन्थाः समाश्रित इति । अहह । इतः परमपि किं श्रोतव्यमस्ति ? कथं नास्माकं श्रवण विवरं षधीर जातम्, यस्य नामाप्यस्माभि नोंचायते तन्मिश्रितं लवणं वैदेशिक प्रभावात् असमाकमुदत्तिं भगति ? धिगस्मान् ? सत्यपि देशीय सैन्धवे कथं अस्माभि स्तत् अपवित्रतम घस्तु व्यवहियते । न केवलं हिन्दूनां महम्मदीयाना मपि तत् सई था परित्यज्यम्। शूकरमांसस्यापि तत्र सत्त्वमस्त्येव । अतः प्राथये ज्ञात्वा कदापि एवं विध मनुचितं कर्म नानुष्ठेमिति । মাঙ্গানদু-মঘাষ মলি বাদাজিলামিস্কার:
१५० मित्रगोष्ठी पत्रिका। सम्पादक: स्वत्त्वाधिकारीच भीमान योगेन्द्र चन्द्र वसुः विराय मानि. ठत इति मितगं दुनोत्यस्माकं चेतः। स खलु महोदयः वङ्गमाः पायाः महर्मतिः संसाधिता। भपि च संस्कृत ग्रन्थानां यथा साधा. रणेषु प्रकाशो विहित स्तेन न तथा केनाप्यन्येन । एतादृशस्य महो. दयस्य स्वर्गमने वसुन्धरायाः वजभाषायाश्च महतीक्षतिः सञ्जाता। सन्धिः-श्रू यते कस-जापानयोः सन्धिः संजातंति सुखाकरमेव अल्पशक्ति सम्पन्ना अगि जापान-देशीयाः या विक्रमं प्रदर्शित वन्त स्ताशं न कुत्रापि केऽपि दृष्टवन्तः । जापानानां पराक्रम वि. लोक्य सबै एवं यूरोपोया वजहता इव संजाताः । यातु, वयं शान्ति- प्रियाः अतः शान्तिमेव प्रार्थयामः । जयगरे गीर्वाणवाण्यालयः-उग्न सर्वप्रकाराणि संस्कृतभाषा- मयानि पुस्तकानि मुद्रितानि हस्तलिखितान्यपि संगृहीतानि वर्तन्ते । साधुः खलु संकल्पोऽस्य प्रवर्तकस्य । वय मस्य सर्वथा समर्थका। आशास्महे च अनुदिनमेवायं उन्नति गमिष्यतीति नतनं संस्कृतपत्रम्-श्रूयते मथुरात: 'संस्कृतभास्करे ति नाम्ना किमपि पाक्षिक संस्कृतपत्रं आगामि-बसन्तपञ्चमीमारभ्य प्रचलिष्य तीति । परं यावदस्य ग्राहकाणाम साहनं न सम्पद्यते ताव अ प्रच. लिता भवेत् अत स्तदलिकः तूर्णं तस्य सम्पादकः पण्डितश्रीराम- लालशर्मा विज्ञापनीयः। पत्रादि प्रेषणस्थानम-सतघरा, मथुरा- नगरम् । अस्यच वार्षिक मूल्यम् सार्द्धयरूप्यकं भविष्यति । प्रचार दोपो नास्ति परं स्थायित्वे सन्दिान्ते बहवः । घर संस्कृतपत्रिकाणां बहुलप्रचार सदैव अभिलषामः । सनातनधर्ममहासभा-श्रीमन्मदनमोहनमालवीय श्रीकृष्णजोषी स्येताभ्यां महोदयाभ्याम् आगामिति माघमासे कुम्भमेलायसरे श्रीप्र यागधाम्नि "सनातनधर्ममहासभा'' इति काचित् हिन्दुधर्मविषयिण परिषदाता भविष्यति ।
- वार्ताः सम्पादकाभिमायाथ। एतानिक्षेपेण तस्या महासभाया उद्देश्यानि- (क) हिन्दुधर्मस्याधुनिकी शोचनीयामवस्थाप्रति हिन्दुसाधार- पानाम् ( हिन्दूनाम् ) अवधानाकर्षणम् येन च तेषां धर्मस्य स्वार्थी पक्षुण्णाः तिष्ठेयुः तद्विषये समवेतयत्नस्यावश्यकत्वप्रदर्शनम् । (ख) भारतस्य विभिन्नांशेषु हिन्दूनाम् आचार-सम्प्रादायाते पा- क्ये सत्यपि धर्मविश्वासः अभिन्न एव इत्यस्यप्रदर्शनम् । (ग) हिन्दूनां शास्त्रग्रन्थेभ्यो भारतस्य निखिलप्रदेशवास्तव्याना पण्डितप्रवराणां साहाय्येन प्रसिद्धानां धर्मसमाजाध्यक्षाणां श्रुति-स्मृ- तिपुराणमतानुसारिणाञ्च विभिन्नसम्प्रदायानांसम्मतान् इहा मुत्रपरम- कल्याणसाधकान् तत्वोपदेशसारान् संगृह्य कस्यचित् लघुग्रन्थस्य प्रणयनं परिग्रहणं च। (घ) तस्य प्रन्थस्य संस्कृते भारतस्य प्रधानासु देशभाषासुच काश्य वितरणार्थम, आधुनिक्या उदारशिक्षया सह धर्मग्रन्थज्ञा- स्य संयोजनकुशलानां धर्मशिक्षकाणां विनयनार्थच कस्याधित जमितेः स्थापनम् । इदं प्रस्तावितं यत् अस्याः परिषदः माघकृष्णैकादशीमारभ्य मा- शुक्लपञ्चमी यावत् ( आंलजानुयारीमासस्य विंशदिवसात् ऊन- शदिवसं यावत् ) दशदिनानि प्रयाग गङ्गातीरे अधिवेशनं भवेत् । तस्यां महासभायां ये खलु पण्डिता, मठस्वामिनश्च आहूताः भवि. पन्ति तेभ्यः सभाया न्यून्यतो मासपूर्व कश्चिद लघुग्रन्थः वितरिष्यते। सभायाः उद्दश्यं महत् । अस्माकमपि तस्याः सहानुभावो विद्यते।
मित्रगोष्ठी-पत्रिका। काशोस्थ रणधोर संस्कृतपाठशालोयपरोक्षाफलम्- १८२७ शकाब्दे निम्नलिखिता श्छात्रा: काशिक-रणवीर- -पाठशाल वैभागिकीपरीक्षाया मुत्तीर्णा:- शास्त्रि-परीक्षायाम् न्याये--२ य विभागे द्वारिकानाथ काव्यतीर्थः। घेदे-प्रथम विभागे- विद्याधर गौड़ः॥ .. साधारण द्वितीयविभागे मध्यमपरीक्षायां पा-३ य विभाग- सिद्धेश्वर भट्टाचार्य:. टीकाराम पाण्डेयश्च । साधारण प्रथविभागे प्रथमपरीक्षायां वारय विमागे.-. विद्यादत्त भट्टः। ३य विभागे- १। पूर्णानन्द त्रिपाठी। २। धर्मदत्त त्रिपाठी। ३ । पुरुषोत्तम त्रिपाठी। बेदे प्रथम परीक्षायां २ य विभागे- खुसीराम गौड़ः।
मित्रगोष्ठो-पत्रिका। (मासिकं संस्कृतपत्रम् ।) सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम्" । ऋग्वेदः। तीये वर्षे } १८२७ शकाब्दाः, आश्विनः { षष्ठ संख्या वैदिककालः। मित्रगोष्ठीपत्रिकायाः पञ्चमसंख्यायां वैदिककालनिर्णये नाना- विधानि मतान्युलिख्य अस्मद्देशीयसंस्कृतपण्डितानां मतानां शु. प.पि विज्ञापिता मित्रगोष्ठीसभ्यः। अतस्तत्र विषये यथामति किश्चितुमिच्छामः। अन्यथा "नापृष्टः कस्यचिद व या " दिति निषेधस्य उल्लंघन स्याद् विशेषतश्च तादृशि गहने विषयेऽस्माक- लामतीनाम् अनुचितएव लेखनी प्रयोगः । गरीयसां मीमांसकादीनां केषाञ्चित् प्राचां मते वेदानामुत्पत्ति रेव स्ति । सुतरां तस्याः कालनिर्णयोऽसङ्गत एष । परन्तु वेदान्तभा- पकाराणां शङ्कराचार्य पादानां नैयायिकानाच मते वेदाना मुत्पत्ति- स्ति सातत्पत्तिः संसारसृष्टेः प्रागेव बभूव । भगवान् हिरण्यगर्भो हि दिद्वारा कार्याकार्य मुपदिश्य संसारं ससति तेषां मते युक्तिः । गि सा युक्ति रस्माकं शिरसा धार्या तथापि हृदयङ्गमा न भवति षामित्यतो लौकिकी युक्ति मनुसरामः । घेदप्रकाशस्य बहवः कालाः श्र यन्ते, बहुकृत्वो हि वेदानां सम्प्र. योऽलुप्यत । एकदा पुरा लुप्ते वेद सम्प्रदाये अत्रि-वंशजो 'दत्त' मा मुनिरुत्पद्य स्मृत्वा लुप्तान् वेदान् प्रकाशयामासेति शिशुपालवधे हाकाव्ये चतुहशसर्गे ७९ श्लोकेन महाकविना माघनोक्तम्-यथ -यथा- . - १५४ मित्रगोष्ठी-पत्रिका। " सम्प्रदाय निगमा दुपेयुपी रंप नाशमविनाशिनिग्रहः । मर्नुमतिहनस्मृतः श्रुती- दत्त इत्यभवदनिगोनजः ॥ इति । एतेन दत्तात्रेय समयेऽपि वेदानां लिपिवद्धाग्रन्था नामक सम्भाव्यते अन्यथा अ तीः स्म तुमभाव' दित्युक्ति नं सङ्गच्छते श्र यते आचार्या दिति व्युत्पत्या अतिशब्दोऽपि श्रवणेन ज्ञातत्वको धको भवति। भागवतेऽपि दत्तात्रेयोपाख्याने लुप्तानां वेदानां पुन सम्प्रदायप्रवर्तकत्वात दत्तात्रेयो विष्णो रवतार इत्युक्तम् । तस्मात दत्तात्रेयम्य कालो वेदप्रकाशस्य काल इति ज्ञायते । स दत्तात्नेयः कदा जन्म लेभे कदावा वेदान् सस्मारेति पण्डितैनिीयतां स समयः। तदनन्तरं पुनरपि वेदसम्प्रदायोऽलुप्यत । लुप्ने वेदसम्प्रदाये भग- वान् कृष्णद्वैपायनो नानास्थानेभ्यः संगृह्य श्रु तीः सहस्रण शाखाभि विभेजे इत्यत एव वेदव्यासेति' तस्य ख्यातिबभूव । ततः प्रभृति वेदा लिपिवद्धा वभूति सम्भाचयामः । इत्थं ततः प्रभृति वेदानां लिपिवद्धा ग्रन्था अजायन्तति निर्णयता पण्डितैवदव्यासस्य वेद विभागसमयः। ततः पुनर पि वेदानां सम्प्रदायोऽलुप्यत, शिष्योग- शिष्येभ्यो मिथः प्रदानम् अर्थात् शब्दोच्चारणपूर्वमुपदेशः सम्प्र- दायः। लुप्ते तस्मिन् वदसम्प्रदाये 'बाजिरावपेशवा'' नामकः सुगृ. हीननामा कश्चिन् महाराष्ट्रीयो राजा वेदसम्प्रदायम् पुनः प्रयतया- मास, स एव सम्प्रदायो विस्तीणः सन्नद्यापि तत्र तत्र देशे वत्तते। अतः स समयी निर्णायतां पण्डितः। एवं त्रयः काला वेदसम्प्रदा. यस्य प्रवत्तका इति । एकविधी वेदकाल निर्णयः । यदि च वेदसम्प्रदायप्रवृत्तिकाला इत्थं नियन्ते तथापि वेदो- त्पत्तेः कालः क इति प्रश्नस्तदवस्थ एवास्ति, न तस्य किश्चिदुत्तरं जातमिति चं दुच्यते-यदिच ब्रह्मैव वेदान् प्रणिनाय उपदिदेश वा तथापि वेदद्रष्टुन ऋषीनेव वयं वेदप्रणेतुन मन्यामहे । ऋषयो हि .
शुक्तिरजतम् । १५५ श्वामित्रादयः परोक्षेण दिव्येन ( ज्ञानमयेन) चक्षुषा ब्रह्मणः सका- ॥त् वेदान् ददृशः ततस्ते तान् वेदान् मनुष्येषु प्रकाशयामासुरिति भ्य ऋषिभ्यो वयं ऋणिनः । तदृणश्च वेदोपदेशग्रहणमेव, स्वा- चायन तस्म दणाद वयं मुक्ति लभामहे इति तानेव ऋषीन वेदक- वयं व मः। एवञ्च वेदानां कर्तारो बहब पब ऋषयः न तु क- धदेकः । यस्य मन्त्रस्य यः ऋपिः तस्य मन्त्रस्य तमेव कारं प्रणे- गरं वा जानीमः । यथा ग.यच्या विश्वामित्रऋषि रिति गायत्रीम- प्रस्य विवामित्रमेव प्रणेतारं कर्तारं वा कथयामः । गायत्री च च्छन्दसा ( वेदानां ) माता। श्रीमहेशचन्द्र शर्मा। O .. शुक्तिरजतम्। ( पचताऽनुवर्तते ) न च रजतमपि शुक्तिकायाः सपनघप्यंशष्वध्यस्यते; न हि श- तकाया नालादिभ.गऽपि नयनस योगे रजत मारोपते;--याः शुक्ति- स्वरूपविशेषज्ञानसामग्री नीलपुष्टादिस्तत्र रजताध्यासे प्रतिवन्धकता करोनि ! अथ शुक्तश्वाचिक्यादिविशिष्टे भागे चक्षुः सयुज्यते, भवदेव ध्यासः, नहि तद्भागे तदाना' शुक्तित्वरूपविशेषज्ञानसाम- स्ति । ननु चाकचिक्यादिवशिष्टभाग यदा नयनं सन्निकृप्यते, तदापि शुक्तिनानविशेषसामग्यूस्ति ततश्च यथा नोलादिभाग नयन- सम्बन्धे नाध्यासः, तदिहाती मास्तु-इति चेत् ? इदमन समाधा- नम्-यदि च तत्र चाकवियादिक न शुकिज्ञानस्य प्रतिबन्धकार, अपितु तत्सामग्यव--भवति हि तादृश वाकचिक्यसद्भाव एव शक्ति- ज्ञानम्, तथगि दूरत्यास्पष्ट लोकादिदोषेण शुक्तित्वाभिव्यञ्जकनी - पृष्टांश नयनासंयोगन च, न तादृश चाकविक्यादिमात्रं शुक्तिज्ञानप्ता- मग्री; ततश्च रजताध्यासे न कोऽपि बाध इति । .
१५६ मित्रगोष्ठी-पत्रिका। अयमेव न्यायः समुद्रोदके नीलशिलाध्यासस्थले । तत्रापि यो दकस्य शुक्लरूपात्मकं जलराशित्वादिरूपं च विशेषदर्शनं नीलशिला तलाध्यासस्य प्रतिबन्धकम, एवं शुक्लरूपदर्शनसामग्री जलराशिवा पविशेषदर्शनसामग्री च प्रतिबन्धिके । जलराशित्वरूप विशेष दर्श सामग्री च तरङ्ग दिरेव । तन दूरवादिना इन्द्रियदोषादिना तरङ्गादिनं गृह्यते । अतो जलराशित्वादिरूपविशेषदर्शनसामग्यभाः वात् नीलशिलाद्यध्यासे न कश्चिद विरोधः विस्तृतवस्त्रखण्डे वस्त्र- विस्तारसंपविशेषदर्शनसामग्री-सद्भावादेव न प्रथम पुण्डरीकमुकुला- ध्यासः । अथ कर्तनादिना तदेव वस्त्रखण्ड मुकुलाकारं क्रियते, ततः प्रतिबन्धकाभावाद' भवेदेव पुण्डरीकाध्यासः । पूर्वोक्तेषु निखिलेयपि मतेषु अविद्यापरनामकाद् अज्ञानादेष जगदुत्पद्यत इति स्थितम् । एतादृशं रजतं प्रातिभासिकनाम्ना ख्यायते। यावद्धि 'नेदं रजनिति' ज्ञानं नोदेति, तावत् सत्यरजतात् तस्य रजतस्य न कोऽपि भेद उपलभ्यते। यथा सत्यरजतदर्शनेन हर्षगल- कादय आरिभवन्ति, प्रातिभासिकरजतदर्शनेऽपि तथैव भवन्ति । श्यांस्तु तयोर्भेदः-प्रातिमासिकस्थले त्वरितमेव विशेषज्ञानेन अ ज्ञानं निवत्तंते, अजाननिवर्तनाच तत् कार्य रजतमपिनिवर्तते, नच चिर प्रतिभासिकेन पदार्थनास्माकं व्यवहारः सिध्यति । सत्यरजत- स्थले तु (व्यावहारिके ) न तथा शीघ्र तत्वज्ञानोदयः अत एव तेना. धिककालपर्यन्तं व्यवहारः क्रियते । वस्तुतस्तु यथा प्रातिभासिक रजतं मिथ्या-अनिर्वचनोयम्, सत्यरजतमपि ताशमेव । भेद. स्त्वयं यदेकस्य किञ्चित् पूर्वम् अपरस्य तु किञ्चित्परं निवृत्तिरिति। अयमेव अनिर्वचनीयवादिनां वेदान्तिनामभिप्रायः । मीमांसकास्त्वाहुः-'इदं रजतम्' इति नेदमेकं ज्ञानम्, অবিন্ত ज्ञानद्वयमात्र वर्तते । एक स्मृतिरूपम्, अपरमनुभवरूपम् । अत्रापि 'इदमंशो'ऽनुभवः, 'रजतांश'स्तु स्मृतिः । काचकामलादिनयनदोषेण पुरोमिनि शुक्तिपदार्थे चक्षुःसंयोगे सति शुक्तिकाया इदन्त्वांश- RRIORAJARSHIN RSMOM शुक्तिरजतम् । नं गृह्यते, न तु शुक्तित्वांशोऽपि । तस्मिंश्च गृहीते शुक्तिकाया रज- 1 सादृश्यसद्भावात् रजतविर्षायणी स्मृतिर्जायते । यद्विषयिणी तिः, तत्खलु पूर्वमनुभूतमित्यवश्थं सा स्मृतिः प्रकाशयेदेष तारश व हि तस्याः स्वभावः प्रकृ तु नयनादिदोषप्रभावेण स्मृतिनं तथा काशयितुं शक्नोति । अतो रजतत्वांशे वस्तुतः स्मृतिरूपमणि ज्ञानं पृतित्वेनाप्रकाश्य अनुभवरूपेण प्रकाशते । ततश्च इदन्त्वांशज्ञानम् अनुभवः ) रजतत्वांशज्ञानं (स्मृतिः) चान्योन्यं भिन्नपि उक्तेन कारण न भिन्नमिव भाति । भतो युज्यत एव 'इदं रजतमिति' अनु. वरूपं ज्ञानम् । स्थूलतोऽयं खल्वेषामाशयः-शुक्तिकायां चक्षुःसंयोगे सति, पनदोषवशेन शुक्तिरूपविशेषांशस्य ज्ञानं नोदेति, किन्तु इदन्त्वांश- त्रिस्यैव । तेन च ज्ञानेन रजतस्य स्मृति जर्जायते । रजतस्य ज्ञान तृतिरूपमपि दोषादेव न तथात्वेन प्रकाशते, अपि त्वनुभवरूपमेष ति । तारशं ज्ञानं च सम्मिलितं सत् 'इदं रजतम्' इत्याकारक पति । ततधोपपन्न एव ततो निखिलो व्यवहारः । अयमेव ख्यातिवाद' इत्युच्यते। नैयायिकास्तु ब्रुनन्ति-न किञ्चित् प्रातिभासिकं रजतमुत्पद्यते, पि रजतस्य स्वृतिः न वा तस्याः स्मृते दोषवशेनाभानम्, किन्तु निकायां नयनसंयोगे सति नयनदोषदरवास्पटालोकाद्यपराधेन क्तिकायाः शुक्रित्वरूपो धर्मो न गृह्यते, कल्पते च तत्र तत्र साह- गदरजतत्वरूपं धर्मान्तरम् । तथाच शुक्तिकैव रजतत्वरूपेण कल्प्यते ते। अयमेव 'अन्यथा ख्यातिवादः'। भवापराण्यपि मतान्तराणि यथावकाशं प्रदर्शयिष्याम इति । विपोखर शर्मा। । LIBRARY SULTUR W8 mrit न तु गौ . नामपदानामुत्पत्तिः। गौरव: पुरुषो हस्तीत्यादीनां नामपदानां पूर्व कथमुत्पत्तिांता कथं न गोगारुच्यते, नवश्व:, कथं वावः अश्वएपोच्यते, रिति विदुषां कश्रिा सविशेषानुशीलनविषयो भवितुमर्हति । तेन प्रथमं तत्तत्पदप्रयोक्तृणां तत्तद्वस्तुविपये किं कियद्वा चिन्तनमासी दिति बोद्ध शक्यते । आरब्धे सन्दर्भे तदेव किञ्चिदालोचयिष्यते नेयं चिन्ता नवीना, नैरुकायाकरणश्च बहुपूर्वमेवायं विपर्याय न्तितः। तंपामेव मतानीह प्रदश्यन्ते । आचार्यस्य शाकटायनस्य यास्कादीनां नैरुक्तानां च मते नामान विशेषेण आख्यातपदोत्पन्नानि । तथाच "भावप्रधानमाख्यातम्" इति यास्कोक्तेः क्रियाप्रधानानि पचतीत्यादीनि पदानि आख्यातानि । पते आख्यातेभ्य एव सर्वेषां नाम्नामुत्पत्तिः । एवं च यस्मिन् वस्तुनि या क्रिया दृष्टा, तक्रियानुसरणेन तयैव क्रियया तस्य वस्तुनो नाम क्रियते, यथा पचतीति पचनक्रियया तत्कतुः पाचक इति नाम। यथाचेदं तथापराण्यपि सर्वाणि नामानि तादृशरीत्या आख्यातजा- तानीति तेपामभिप्रायः । अयं च सिद्धान्तो वैयाकरणेष्वपि केषाञ्चित् सम्मनः, अपरैस्नु वैयाकरणः, नेकोनापि सता गार्येण च न तन्मतमाद्रियते । एतन्मने नामपदानां कानिचिदेव आख्यातजानि, न तु सर्वाण्याप अतएवै. भिरुच्यते: सत्यं, तानि खल नाम पदानि युष्माकमिव अस्माकमपि मते माख्यातजानि, यंपां वक्ष्यमाण लक्षणमस्ति । तथाहि- विविधानि खलु नामानि दृगन्ते-कानिचित प्रत्यक्षक्रियाणि, यथा--कारको, हारका इति; अपराणि प्रकल्प्यक्रियाणि, यथा-डि- स्थो, डवित्थः, अरविन्दोऽर्वाङ, इति । एवं सति, येषु नामसु उदा. तादिः स्वरः, प्रतिप्रययौ च लक्षणेशास्त्रविहितया उपपत्त्या युक्ताः, धातुना चानुगताः, तानि नामानि आख्यातजानि न त्वेभ्योपराण्यपि । . .
. न तु , । . नामपदानामत्पत्तिः। थाविशेषेण सर्वषामेव नाम्नामाख्यातजत्वं स्वीरिकीष्यते, तर्हि स दी तत्पक्षऽस्माभिः प्रदर्शितान् दोपानुद्धरतु । १ । सर्वपां नाम्नामाख्यातजस्व-यया क्रियया एकस्य वसतुनी म क्रियते, यदि सैव क्रिया अन्याय कस्यापि स्यात, तहि तस्यापि तयैव क्रियया नामकरणमापद्यते । एवं च यदि · अध्वानम- स्तुनः त' इति तत्कः प्राणिनः · अश्व' इति नाम स्थान, ताम अनश्वो- प यदि कश्चित्प्राणी अध्वानमश्नवीत, तदा सोऽपि 'अश्व' इति थनीयः स्यात् । कथ्यते । इत्थं, यदि तदन क्रियायोगात् णस्य 'तृण' नाम, तर्हि यः कश्चित तृन्यात स एव तृणपदवाच्यो वतु न तु भवति । तथा च एकक्रियायोगादनेकेषाम् एकनामधयत्व. सङ्ग इत्येको दोषः। २ । अन्यञ्च, क्रियाहेतु हि नामधेयप्रतिलम्भे यावतीभिः क्रि. भिरेक द्रव्यं संयुक्तं स्यात्, तावाभिरेव क्रियाभिस्तस्य नाम (त् । तथा च येयं गृहस्य स्थूणा, सा खलु दरे ( गत्तं ) शेते' इति या “दरशति' नाम भवितु युक्तम् । एवमस्यां वंशः सज्यत 'त सानाति नाम धेयं भवतु । न तु भवति । तथाच अगक्रिया- गाद कस्य अनेकनामधेयप्राप्तिप्रसङ्ग इत्यादीपः । ३ । किञ्च, पुरुषावादीनां नामपदानां यो खलु प्रकृतिप्रत्ययो पायलक्षणानुगतो, ताभ्यामेव प्रकृतिप्रत्ययाभ्यां यथानियमं तानि हागि कथनीयानि;-यथा हि तेषां पदानामर्थः सुबोधी भवेत । एवं I, 'पुरि शंते' इति निमित्तमादाय पुरुष: 'गुरुपो' भातीति युष्मा-- परन्तु गुरुप'' इति कथिने, तस्य वयवार्थः न स्पष्ट प्र. काशते, अतः 'पुरुष' इत्यनुक्त्वा "रिशय' इत्येव कथनीयम, तथा- अर्थबोधसोकथं भवेत । एवम्, 'अध्यानमश्नत' इति 'अश्व' इत्य- क्वा' 'अष्टा' इत्येव वाच्यम ; तृणमित्यकथयित्वा तद्दन' मिति क्तव्यम् । न तु कश्चित्कथयति । न च तेषु तेषु पदेषु विद्यमानाना- पि क्रियाणां परोक्षीकरणे किमपि कारणं दृश्यते । रुच्यते;
- वक्तुम ४। भपिच, शाकटायनादयो हि निष्पापूर्वे नामधये कतमम भत्र जिज्ञासामहे-यदीयं प्रथना १६० मित्रगोष्ठी-पत्रिका। धातोः कतमेन प्रत्ययेन तनिष्पमिति विचारयन्ति, 'पृथिवीति । मधयं पूर्वमेवोत्पन्नम्, अथ तैरस्य प्रकृतिप्रत्ययादिकमविष्यते । पृथियो, तर्हि पूर्वमस्याः प्रथनं नासोत, अथ केनापि प्रथनं कृतमिल याति । तत्र कोनामास्याः प्रथनमकरोत्, किमाधारश्चायमासोत्ता भीम नहि तदा कश्चिदस्याधारः सम्भवति । ततश्च प्रधनस्यैव भावेन प्रथनादिक्रियामूलकान्येतानि नामपदानोति न शक्यते ५ । भयं चापरोऽद्भुततरः पदसंस्कारः शाकटायनेन प्रदर्शितः 'सत्यम्' इति किर्माप पदमस्ति । तदिदं तेनेत्थं साध्यते-अस्ते. र्धातो: 'सत्' इति, एतेश्च ( रणगतौ ) ण्यन्तं रूपं कृत्वा 'य' कारमात्र गृहीत्वा 'सत्' इत्यस्योत्तर स्थाप्यते । ततः 'सत्यम्' इति पदं जायते अर्थश्च स्य-'सन्तम् अर्थम आययति-प्रत्याययतीति'। तदनेन दृश्यते शाकटायन एकैकस्मात् पदात् पदान्तराद्धीन संस्कृतवानिति,-या खल्वर्थो न शब्दनानुगतः, यत्र च शब्दोऽपि न धातुना सम्यक सा- यि शक्यते । एतादृशेषु स्थानेषु 'सर्वाणि नामान्याख्यातजानीति केवलमा.नः प्रतिज्ञा रक्षितु काशकुशालम्वमिव कृतं श.करायनेन ६ । अन्यदा, अभियुक्त रुच्यते-क्रिया नामेयं किमपि सस्त्र- माश्रित्य तिष्ठति; अतः क्रियातः पूर्वमेव सत्त्वस्य सद्भावो वक्तव्यः । भन्यथा तदभावात् किमाश्रित्येयं क्रिया तिष्ठतु । तथा च यदि क्रिया- तः पूर्वमेव सत्त्वस्य स्थिति: प्रमाणसिद्धा, तदा अपरकालीनया क्रि- यया पूर्वधर्तिनः सत्त्वस्य संज्ञा कथं नाम सङ्गच्छेत ? संज्ञा खल्वियं द्रव्यत्योत्पत्तिसहभूता, क्रियानिरपेक्षया हि संज्ञया अभिसम्बन्धमेव द्रव्यमुत्पद्यते। अतो नेदमुपपद्यते सर्वाणि नामान्याख्यातजानीति । * अयं चानातमो हेतुरीश्वरनिराकरणे मीमांसकानाम् । दृश्यता- मीमांस शोकवार्तिकम्, ( सम्बन्ध क्षेपपरिहारः), एवं मित्रगोटी-पत्रिका १ वर्षे ११।१२ सं " मीमांसादर्शने ईश्वरवादः"। । -- नामपदानामुत्पत्तिः। १६१ शाकटायनानुभिः नैरुक्त इचैत अक्षेपा इत्थं प्रतिक्षिप्यन्ते १। सर्व नामपदं कियामित्युक न कश्चिद्दोषः सम्भवति । यत्तु पति-'सापां नाम्नामाख्यातजत्वे यया क्रियया एकस्य वस्तुनो म क्रियत' इत्यादीति, न तत् किश्चित् पश्यामः,-समानकर्मणामपि नां तेन कर्मणा केपाश्चिदेव नामधेयप्रतिलम्भो भवति, न त्वन्य- । तद्यथा--तझन् कधित तक्षोच्यते, तक्षन्नप्यन्यो न तक्षोच्यते, व्रजन कोऽगि परिव्राजको भवति, अपरो न भवति; भूम्यां जातः ऽपि भूमिजोऽभिधीयते, नान्य इति । न च तावता तक्ष्णः तक्षण- मित्तं नामधेयं न भवतीति; न वा परिव्राजकादीनां परिव्रजनहेतु - म् । किमन्न कारणनिति चेल लोकमेव पृच्छ, तमेवोपालभस्व । ना. नाभिरयं नियमः कृतः । अथवा क्रियातिशयकृत एष नियमो भवे ।। हि यदतिशयन करोति, अनेकक्रियावत्वेऽपि तस्य तयैव क्रिया मधेयं भवति । विद्यमानयाप्यनया क्रियया अपरस्य तन्नामामा- वि, क्रिययैव हि कयाचित् तत्स्थितया तदभिधेयं भवति। तथाच कियायोनादनेकेषाम् एकनामधेयत्वसक्तिरूपो दोषो नास्ति । २। एतेन अनेकक्रियायोगादेकस्य अनेकनामधेयत्वासङ्गर पः दर्शितो दितीयो दोपोऽपि प्रयु को वेदितव्यः । सतीष्पप्यनेकासु ज्यालु परिव्राजकस्य परिव्रजन क्रियामन्तरेण नान्यया नामधेयप्राप्ति- पति ३ । यदन पदानामर्थबोध नौकर्यार्थ 'पुरुष' इत्यनुक्त्वा "पु - प" इति वक्तव्यम, तृपि च वक्तव्ये तदनमिति, तत्रोच्यत यमस्माकमपराधी न वा शस्त्रस्य, प्राक् प्रयुक्तस्य हि शदरम्य घाख्यानं शास्त्रानुसरणन क्रियतऽस्माभिः । तत्र येन प्रथम प दः प्रयुक्तः तस्येवापराधी भवेत् । प्रयोक्त्रा हि तथा केचित सदः [क्ताः, यथा ने सर्वेषां प्रतीताया भन्ति, अन्ये लु केचिदप्रती- थाः। ता अप्रतीतार्थानां शब्दानां प्रतीतार्थत्यं क्रियत एव शा- ण। यथा जास्यः, आटणारः, जागरूक इत्यादयः-जाट्यः,-जा- १६२ मित्रगोष्ठी-पत्रिका वान्,* भाटणारः -अटनशीलः, + जागरूकः-जागरणशील इति: ४। यञ्चोक्त-यदि प्रथनात् पृथिवी, तर्हि कस्तस्य प्रथनकत्त किमाधारश्च स आसीदिति, तदप्यकिञ्चित्करम् मा नामेयं केना प्रथिता भवतु, तथापि पृथुत्वदर्शनादेवास्याः पृथिवीतिनाम, न कर सर्वैश्यमानमस्याः पृथु त्वमपहोतु शक्यम् । भयापह्न येत, सर्वदृष्ट हानं प्रसज्येत । नचैतदिष्टम् । ५ । यदुक्तं-शाकटायनेन शब्देनानुगतेऽर्थे पदेभ्यः पदान्तर णाम ः संस्कृताः, यथा “सत्यम्" इत्यस्मिन् पदे, तचायुक्तमिति तत्र व्रमः-यः खलु शब्देन अननुगते अभिधेयेऽर्थे पदं संस्करी स पुरुषः तादृशेन संस्कारेण गर्हणीयः न पुनरयम् आचार्य: शाकटा यनः, योऽर्थानुगतैरेव धातुभिः पदं संस्कृतवान् । सन्तमर्थम् आयप ति-गमयतीति सत्यम इत्यस्त्येव शब्दानुगतोऽर्थः। दृश्यते च ब्राह्मण प्रन्थेष्वपि रूढिमनुसृत्य पदव्युत्पादनम् । यथा शतपथब्राह्मणे--- तदेतत् व्यक्षरं हृदयमिति; ह इत्येकमक्षरम्, मभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद; द इत्येक- मक्षरम्, ददत्यस्मै स्वाश्चान्ये च य एवं वेद: य इत्येकमक्षरम्, पति स्वर्ग लोके य एवं वेद इति"। (१४.८.४.१) पचं च हरतेदंदातेरेतेश्च धातुभ्यो हृदय शब्दः । ६ । यदप्युक्त'-पूर्वोत्पत्रस्य सत्त्वस्यापरकालीनया क्रियया नाम- धेयं न सम्भवतीति । तदप्यचारु । पश्यामो वयं पूर्वमुत्पन्नानामपि केषाञ्चित् पश्चात्कालीनयापि क्रियया नामधेयं भवति केषाश्चिश्चन भवतीति, यथा कश्चिद विल्वं भक्षयिष्यतीति भविष्यन्त्या क्रियया * "रूपादाहत प्रशंसयोयप" (पा. ५.२. १२. ) इत्यत्र 'अन्येभ्योऽपि ६ ध्यत' इति विधानात् मत्वर्थीययम् । +पा. ४.१. १३० द्रश्यम्। ! "या०३.२.१६५." -- ।
। नामपदानामुत्पत्तिः। १६. ल्वादो नाम भवतीति । तस्माद युक्तमेवैद् यत् सर्वाणि नामान्या- तजानीति। नामपदानामुत्पत्तिविषये श्रीमता यास्केन स्वकीये निरुक्ते, श्री- मा दुर्गाचार्येण च तदव्याख्याने यदुक्तं, तदेवास्माभिः संक्षिप्याध- त् संनिवेशितम्। गाय॑स्य तन्मतानुमोदिनामुक्तानां वैयाकरणानां च मते 'कर्ता, रकः, पक्ता पाचक इत्येवमादीनां प्रत्यक्ष क्रियाणां नामपदानामाख्या. देवोत्पत्तिः । प्रकल्प्य क्रियाणां गौः, पुरुषः, अश्व इत्येवमादीनाम्, विद्यमानक्रियाणां च डित्थ-डवित्थादीनां नाख्यातत उत्पत्तिः, त्वत्र अर्थप्रत्यायनार्थ क्रियानरपेक्ष्येण केवलं शब्दव्यवहार एवं यते। केवलमश्वादिपदव्युत्पादनार्थम् अशनक्रियोत्प्रेक्ष्यते । न तु सतुतोऽपि अशनक्रियायोगाद मश्वः अश्वोभवतीति । नरुक्तैर्वैयाकरणकदाशिभिश्च अविशेषेण सर्वेषामेव नानामाख्या- जत्वं घुष्यते । यद्यपि केषुचित्पदेषु नामधेयहेतुभूता क्रिया स्पष्टं न तिभासते, तत्रापि यावच्छक्यं सोत्प्रेक्षणीया । न हि केनचित्तदश. यत्वे क्रियापि तत्र न स्यादिति । पुरुषाशक्तिः खल्वेषा। प्रथममु- द्यमानो हि स स शब्दः क्रियात एवोत्पन्न इति विज्ञायते । गार्येण शाकटायनपक्षे ये नाम दोषा आशङ्किताः, अनुयुक्तः 'नरुक्तः शाकटायनानुयायिभिस्ते समाहिताः। युकया ता: समी- नाः। गायपक्षे तु येषां नामामाख्यातजत्वं तैर्नाङ्गीक्रियते, तेषा- त्पत्तौ किमपि कारणं नोपलभ्यते । अवश्यमयमनुयोगविषयो यत यं न्वयमश्वः 'अश्व' इन्युच्यत इति । गायपक्षेऽत्र न कापि हृदय- 'मा प्रत्युक्तिरस्ति । मन्त्रब्राह्मणात्मकस्य वेदस्य प्रथम मन्त्रभागः, तो ब्राह्मणभागः। ब्राह्मणं विना नागर किञ्चिन्मन्त्राणां प्राचीनतमं पाख्यानमस्ति, तच्च ब्राह्यण शाकटायनपक्षमेव समर्थयते । मन्त्रस्थि- नां नामपदानां व्याकरणावकाशे ब्राह्मणेन शाकटायनादिधृतव प- इति: प्रदर्शिता। उदाहृतं शतपथब्राह्मणवचनं तत्स्पष्टीकरोति । ..
- मित्रगोष्ठी-पत्रिका। अन्यच्च-"यदसपंत, तत्सपिरिति," "यन्नवनीतमभवदिति" चेत्या दीनि पर:शतानि नामपदनिर्वचनानि ब्राह्मणग्रन्थेषु दृश्यन्ते । यति क्रियायोगात् सत्वानां नामधेयप्रतिलम्भो नाविष्यत्, तहिं वेदादि- माष्यभूतेषु ब्राह्मणग्रन्थेषु तादृशं निवचनं नाद्रक्ष्यत । वैदिकशब्दानामालोचनयाप्ययमर्थः स्पष्टीभवेत् । तदानी किला. त्यन्तप्राचीनसमये तत्रभवद्भिपिभिर्यस्य वस्तुनो या क्रियोपल. धा, तयैव तन्निहि टम् । यदा खलु तैरालोकितम् आलोचितं च यमदी मनुष्य इव सरतीति, तदा तैस्तस्याः सरणकर्तृत्वेन सरि. दिति नाम कृतम् ; एवं यदा नद्याः प्रवाहध्वनिराकर्णितः, तदा ध्वनि. कर्तृत्वेन 'धुनीति,' 'नदीति' वाभिधेयं जातम् । यदा च तस्या हल. वद गमनं वीक्षितं तदा 'सीरीति' हलनाम्नैव साभिहिता । यदा ३ भात्रेव पुत्राणां तया क्षेत्राणां पालनं कृत, तदा सा 'माते त्येव । कीर्तिता । इत्थं यदि प्राचीनतमानि नामपदान्यालोच्यरन्, ताई पामाख्यातजत्वं चारुतरं विज्ञायेत । एषां पदानामुत्पत्तिसमये मन्ना- णामाविर्भावकाले श्रीमद्भिऋषिभिरामसादृश्येन तदानी परिश. मानेषु पदार्थषु तत्तत् क्रियादर्शनात्. तत्तत्कतृत्वेनैव हि तेषामभिधेयं कृतम् + । क्षणमालोचनवदं सर्वेषां प्रतिभायात । दिदं संख्या- तर दिदीयषामः । विधशेखर शर्मा। * सरित, नद्यः, धुनयः, सारा: मातर इत्यादयः पन्दा नहानाममध्ये निघण्टो पठिताः । १. १३ख । + If we want to kaoiv, for instance, what the ancients tho ught when they spoke of a river, the answer 15, they thought of it exactly what they called it, and they called it, as we know in different ways, either the runner ( मरिन ), or the noisy (नदी or fa:); or if it flowed in a straight line, the plougher or the plough ( मोरा-नहो, मौरा-इलम् ), or the arrow; or if it see: med te nourish the fields, the mother (माता), or if it separated and protected one country froin another, the defender (मिन्धुः froin मिथ्, सेधति, to keep off )"--Max Muller's The Hibberi Lectures on vigin and 3 10wth of Religion. P. 191. "Everything named as active" ibid. P. 192. .
, । भारतस्य वर्णमाला वर्णलिपिश्च । (पूर्वतोऽनुवर्तते ) संस्कृतवर्णमाला सर्वाभ्यो योग्यतमा इति स्वीकृतेऽपि अक्षरम- तरेण को निर्णयः स्यात् ? अस्य प्रश्नस्योत्तरं न सुकर, जनप्रकोपश- हासम्पर्कात तस्य । जनप्रकोपश्च पैशुन्येन नित्यसंबद्धः। संग्रामो- भारतप्रचलितविभिन्नलिपि-सम्बन्धी। ताश्च लिपयः प्रायः सर्वा (कवर्णमालाकाः। भारतस्य साधारणवठपिः कथं बङ्गलिपिरेव वितुमहेत न कैथीया गुजरोया वा इत्यस्मिन् विषये कोऽपि वशेषहेतुर्नास्ति । भवेनाम वङ्गभाषा साहित्यसमृद्धया सौभाग्यवती, थापि वलिपिः तेलेगुलिपेः तामिलाद, भिन्नाया अन्यस्याः कस्या- श्वल्लिपे वा न विशिष्यते। आदर्शः सर्वासामेक एव । आकृतिभेदा 1 गुर्वर्थाः । यान् खलु हेतूनबलम्ब्य रोमकारबीयाभ्यां वर्णमालाभ्यां स्कृतवर्णमालायाः श्रयस्त्वं प्रतिपादयामो वयं तेत हेतवो विभि- भारतीयलिपीनां तारतम्यविचारे न प्रयुज्यन्ते । यो मया भाषा- मको हेतुः पूर्वम् प्रदर्शितः स समर्थितपक्षं लिपिविशेपं वजयित्वा न्यासा सर्वासां लिपीनां विरुद्धं गच्छेत् । अत्र हि वयं न कस्यापि धारणशत्रोः प्रतिपक्षाः इति वक्तव्यम् । वर्षशतकात् पूर्व भारते बहुसंख्यका लिपयः प्र_लता आसन् । ८७७-तमे आंग्लवर्षे द्वाषष्टिः भादशा: संगृहीताः अभूवन् । अधुना लित नां लिपीनां मुख्यास्तु उड़- Uriya ) वङ्गोय-कैथी-नागरो- लेगु-तामिल-कानरीय-महाराष्ट्रीय--गुर्जरीय-गर्मुखी-गुण्डीत्या ख्या: उपयः । एतदव्यतिरिक्ता भारतस्य वहुप्रदेशेषु प्रचलिता विशेषतः सन्धु पश्चनद-युक्तप्रदेश-विहारेषु प्रचलिता महम्मदीयैश्च समय रिते व्यवहृता पारसीका च अन्यतमा । भालामाकृतिभेदाः परि. फुटाः परं सादृश्यमपि स्फुटम् । ब्रह्म-सिंहल-प्रचलिते लिपी अपि स्मिन्नेव संस्कृताधिकरणे अत्तनिवशयेयम् । लिपीनां साहित्यानांच तादृशस्य भेदबाहुल्यस्य एतदेव फलमभूत यद यद्यपि आंग्लशास.
तु । १६६ मित्रगोष्ठी-पत्रिका नाधिकार प्रादेशिकसाहित्यानि क्रमशोषधंमानानि सन्ति, तथापि तानि परस्परस्वतन्त्राण्येव, विभिन्नप्रदेशवासिनच स्वेतरप्रदेशसा- हित्यस्य हिन्दीसाहित्यस्य वा उअतिविषये स्तोकमेव जानाति भयमेव हेतुयत् भवत्पुरतः द्वौ अन्तरायौ विद्य ते एको भाषास- म्बन्धी । यदि कश्चिद हिन्दीभाषामालपेत, तर्हि भवान् ताम् मनाया- सेनैवावघोटु तयैव चासम्यक् आलपितुम् अपि शक्नुयात, परं वि. हारवासिभिः व्यवहतायाः कैथि-लिपेः पठने भवान् भृशं क्लेशमनु- भवेत्। यदि भवतः ( वडवासिनः ) पञ्चनदवासी कश्चिदबन्धुः स्वस्यां मातृभाषायां परं वङ्गाक्षरैलिखितं भवते कामपि लिपि प्रेष. येत्, तहिं भवान् तां पठितु शक्नुयात् । किं च, घनाक्षराभिज्ञाय तस्मै घङ्गभापया प्रत्युत्तरं दातु प्रभवेत् । एवमुभावति भवन्तौ परस्पर भाषयोः किंचिज्ज्ञौ चेत् परस्परस्याभिप्रायं बोद्ध शक्याताम् । परं लिपि ( अक्षर )-भेदः ईशे परस्परभावविनिमये महान अन्तरायः। तदभावे परस्परसंव्यवहारः सुकरः स्यात् । 'पारी'-प्रवासी कश्चिद मांग्लपुरुषः अनभिज्ञोऽपि 'फान्स'देशभाषायां तनत्यानां रथ्यानां प्र. सिद्धस्थानचयानांच नामानि गृहनिर्णयार्थाः संख्याश्च पठितु समर्थ भवेत् । परं काशी गन्तुकामः कशिद वङ्गवासो 'स्टेशने' ( यानवि. रतिस्थाने ) दृष्ट्वापि 'काशी' -नामाङ्कितं फलकं लिपिज्ञानाभावात् न तत् नाम पठितु शक्नुयात, येनासौ यानाद, अविलम्बमवतीय विश्व नाथमहादेवपूजने त्वरमाणः स्यात् । प्रायो वयं भारतीयभाषा मपेश्य यूरोपीयभाषासु अधिकतरम- भिक्षा भवामः । अपि पश्चिमभारत उत्तरभारत वा वङ्गभाषोत्कर्षसा- धकयोः विद्यासागराक्षयकुमारयोरिव महापुरुषयोराविर्भावोऽभू. भपि वा वङ्किमचन्द्रसदृशाः ग्रन्थकाराः (लेखकाः) मधुसूदनसडशा वा कवय उत्पन्नाः ? बहव एवास्माकम् एतेषां प्रश्नानाम् उत्सरं दातु- मसमर्थाः । अक्षतायाश्चास्माकम् एतदेव कारणं यत् प्रदेशान्तरप्रक- लितभाषाणां नवीनायाः कस्याश्चित् लिपेर्वा शिक्षायां नास्माकं प्रवृ.
भारतस्य वर्णमाला वर्णकिपिश्च । विधते । भाषाणामपेक्षया वर्णालपयः अधिकतरगतिकुठनस्था- नि। वहवो वयं देवनागराक्षरलिखितां हिन्दी पठितु शक्नुमः परं तथा शक्नुमः 'कैथि लिपिलिखितां हिन्दी पठितुम् । अर्थिप्रत्यर्थिप- समर्थकवृत्तिम उपजीवतो मे बहुवर्षाण्यतीतानि, परमधुनापि केन चित् पठितां हिन्दीम् उह भाषां वा यथान्यायम् अवबोद्ध समर्थोऽपि थि-पारसीकाक्षरलिखितानि अधिकरणलेख्यानि नाहं पठितु शनोमि । । प्रायः सर्वेष्वेव यूरोपामेरिकयोरन्तवर्तिषु देशेषु एकैव वर्णमाला फैवच वर्णलिपिः प्रचलितास्ति । अत्र तु भारतवर्षे तयोः संख्या प्रतिमहती। अयं किं नास्माकं साधारणलिपिं निश्चेतु समयः ? येत्यत्र भवन्तः प्रतिवक्ष्यन्ति इत्येष मे निश्चयः। सा च साधारण- लपिः देवनागरी भवितुमर्हति इति मे मतम् । सब्रह्म-सिंहले भारते याम-जापानदेशयोश्च तादृशमेव अस्याः स्थानं भवितुमर्हति यादृशं प्रधानमधिगता रोमकलिपिः यूरोपामेरिकयोः । पुरा देवनागरीलिपिरपि वङ्गोत्कल-गुर्मुखी-गुजरलिपि-निकरवत् प्रादेशिक्येवासीत् इति सम्भवति । प्राकालीनविषयकोविदाः वदन्ति रत् पुरासौ प्रादेशिक्यासीत्, देवन गरपदेन पूतनगरी वारा- सी बोध्यते, तन प्रचलिता लिपिः देवनागरीति व्युत्पत्तिदर्शनात तत् सत्य भवेत्। सम्भवत्येतद यद वाराणसीस्थाः पण्डित- होदयाः भारतस्य पवित्रलिपिस्वरूपामेतां चतुर्दिक्षु प्रचारितवन्त- ति । एतत्तु न सम्भवति यद अन्यासां भारतीयलिपीनामियं मूलाद- रूपा इति । परं हिन्दूनामयं विश्वासो यत् एषा देवानां लिपि- एति । अस्यां लिपी अधुनास्माकम् अत्युत्कृष्टानि संस्कृतपुस्तकानि लखितानि सन्ति । यूरोपामेरिकाभ्याम् एषैव लिपिः संस्कृतग्रन्थानां थार्थलिपित्वेन परिगृहीता। भारतेऽपीयं यथार्थसंस्कृतलिपित्वेन वीकृता । आधुनिकतत्वानुसन्धानस्तु अन्यथैव प्रतिपाद्यते । अशो. ख्य राज्ञः शिलालेखाश्च तदेव समर्थयन्ति । परमयमपि भूतार्थो ति तत् १६८ मित्रगोष्ठी-पत्रिका। नापलपितु शक्यो यत् कलिकाता-वाराणसी-मुबानगरीषु संस्कृतम् स्तकप्रचारव्यवसायिभिः देवनागरी लिपिरेव युक्ततमेति परिगृहीता। एतेन संस्कृतपाठकानां भूयान् लाभोऽभूत्। यदि भवान् देवनागरी लिपि जानाति तहि अनायासेनैव कलिकाताप्रकाशितामिष मुम्बाप्र. क शिामपि सटीका मगुसंहितां पठितु भवान् समर्थः स्यात् । परं वङ्गबु बहर ए। शास्त्रपारदर्शिनः पण्डिताः कदापि देवनागरी शिक्षलो यान खलु मुलग्रन्थान, यानि च भाष्यादीनि काव्यानिश ते अधीतवन्तः तानि सर्वाण्येव वङ्गाक्षरमुद्रितानि । अतस्ते मधुनः प्रकाशितान संस्कृतग्रन्थान् पठितु न शक्नुवन्ति । महान् एष परिताः पविषयः । परम् ईडक नाभविष्यत यदि सर्वत्र एकैवलिपिदेवनागर प्रचलिताभविष्या । वस्तुत: भारतीयान् प्राक्कालीनविषयकोविदान विहाय सर्वेषामेव देवनागरी लिपिरनुमोदिता। किमस्या देवनागरीलिपेमूलम् इत्यनुसन्धाने नास्माकं समयो। वा प्रवृत्तिवर्तते इति तु मया भवद्भयःपूर्वमेव कथितम् । साहित्यसमा जे अधुना अस्याः कीदृशो स्थितिरिति तु वयं पश्याम एव । का तर्हि न वयमेतामेव लिपिम् अधुनाप्रचालतानां भारतीयभाषाणां संगत लिपिरिति प्रज्महे। अधुना वर्णलिपीनां विषमवाहुल्यमपहाय स वयमैकमत्येन देवभाषालिपि देवनागरीमेव समग्रभारतस्य भारतहेतु कसभ्यतानां देशनिकराणां च साधारणलिपित्वेन गृह्णीयाम । नूनमयं शेषोको विदेशमम्पक विचारोग अस्मदायत्तः । निजस्वमन्तरेण सर्व एव कंचित् अभिमानमनुभवन्ति । तश्च युक्रमेव । अनेनाभिमानेन वशीकृतहृदयाः बव एवं भवन्तः ( वङ्गवासिनः ) आत्मोयायाः वङ्गलिः स्थाने कैथिलिपे गुज्जरलि- पर्वा प्रवत्तनं नानुमोदयेयुः । परमीदृशाः जात्यभिमानभानाः देवना. गरोप्रवर्तने न कामगि बाधां जयितुमर्हन्ति । तेलेगु-तामिलभाषिणां पः अस्माकं प्रतीच्यभारतीयभ्रातृणां पक्षे च एवमेवस्यात् । यदा उच्चतरलक्ष्याधिगमाय एतद् अपेक्षितं भाति यत् यत एकप्रभुमण्डलशा- भारतस्य वर्णमाला वर्णलिपिश्च । नाधीनानाम् एकाकांक्षाप्रणोदितानां च विभिन्नजातीयानां जनामां धारणः कश्चित् साहित्यमार: निर्णतव्यः तदा प्राचीनमतसंसक्ति- रतिशयं कार्पण्यं व्यञ्जयत्येव । सर्वथा व्यक्तिगतः स्वार्थः दाह- पे वृहत्तरे च लक्ष्ये निमज्जेत् । यदि पुनर्वयमक्षराणि तूलयम तर्हि पश्येम यत् प्रस्तावस्यास्य हणेन नास्माकं काचित क्षतिभवेत् यतः देवनागरीलिपेः अन्यासा रतीर्यालपीनां च भेदः केवलं शाब्दिको न तु वास्तवः। कतिपय पं. मम श्रद्वेयोबन्धः सुविद्वान् श्रीगुरुदासवन्द्योपाध्याय-के लि. 1इ. इ'-महोदयः कांचित् पुस्तिकां प्रकशित न् । तस्यां तेन प्रद- ति यत् रङ्ग-देवनागरी-लिप्योर्यो भेदो दृश्यते सः स्तोक एव, लि. प्रचेयं देवनागरी अनायासेनैव शिक्षितु शक्यः इति । एकतः कैथि- हाराष्ट्रीय-गुर्जर-तेलेगुतामिललिपयः प्रत्येकम् अन्यतो देवनागरी- पिः अनयारुभयोमैदी तथैवाकिंचित्करः । देवनागरीलिप्यर्थ : सर्वा अनायासेनैव त्यक्तु शक्याः । एतद्विषये मन्मतं दृष्टान्तेन पञ्चयितुमहम् ऐच्छम् । परमधुनातस्य समयो नास्ति, आशङ्क- हिं भूतानत्र ममयां भरतां व्ययित एव । यथावसरं पियोऽयं विस्तर वयष्यते । यदि सब्रह्मसिंहले भारत सर्वत्र सस्कृतलिः धारणलिपिन ग्रहणं सकृत अनुमोद्यत, तहि तस्याः प्रवर्तन न ८कर भवेत् । प्रायः सब एन कृतविद्या भारतीया देवनागरी लिपि निन्ति । अधुना इदमव विचार्य कथं केनोपायेन च तस्याः प्रचलन कृतजनानपि प्राप्नुयात् इति । नाहं प्रस्तोमि यत् एकदैव सर्वाः प्र. लिलिपयः परित्यक्तव्याः । तद्धि तितरामसम्भवमेव । ईडशमम. वं प्रस्तावं भान्तो गृह्णीयुरिति च नाहमिच्छेयम् बहुवर्षाणि देवनां. लिपः पाश्र्व तासामपि स्थानमव्याहतं तिष्ठतु ततः क्रमेण सां परिहारो लोपश्च साधनीयः। प्रारम्भेतु प्रदेशीयभाषासु नि. द्धा ये ये साहित्यविषयका विज्ञानविषयकाश्च ग्रन्था विद्याते ते सर्वे वनागरीठिपौ प्रकाशितव्याः । मत्प्रस्तुतेन नववेशपरिग्रहेणानेन २ १७० ता कर मित्रगोष्ठी-पत्रिका। ग्रन्थकारमहोदयानां न काचिद् हानिः सम्भवेत् पाठकमण्डलस्य अचिरप्रसार आशस्यत । ये नाम ग्रन्थक.रस्य गौरवभावहन्ति ये वर्तमानानां भविष्याणां च सन्तानानां इलाघाविषयाः ते रस-भावन ल्पना-प्रौढ़ि-चारुतादयो ग्रन्थरणा: यथा प्रदेशीयायां लिपौ दवनागरी लिपावपि अविकृतस्फुटाः स्युः । रसज्ञानां रसिकता नां च करुणरसो यथा अधुना तथा तदानि तानेव भावान जनविर विकासयितुच प्रभवेत् । विभिन्न देशीयानां लिपीनाम् इतिवृत्तममा प्रत्यायर्यात यत् देवनागरोपच्छिदप्रवर्तनेन लेखक महादयानां कापि हानिः संभवेत् । अतः परं शिशवलेनैव प्रकारेण देवनागरीवर्णमालां शिक्षितुम रभेरन् येन प्रकारेण विशालस्यास्य साम्राज्यस्य विभिन्नप्रदेशी लिपोस्ने शिक्षन्ते । लेखकार्य दवनागरीव्यतिरिक्तानामन्यासां लिपी व्यवहारः क्रमण लघुतां प्रापणोयाः। अनेन च प्रकारेण स्वलो रेव व समग्रमारते लिपिःप्रवर्तिता स्यात् । विश्वविद्यालयतथ्यसंग्रह लमितिः संस्कृतप्रश्नोत्तरेषु देवनागरी लिपिव्यवहारमन मोदितातो। पतस्यानुमोदनस्य सर्वेषु विश्वविद्य लयेषु परिग्रहणन अभिप्रायाऽस्माकं भूयला सुसिद्धः स्यात् । विद्या लयच्छात्राः सर्व एव तदा देवनागरीयाक्षरैरनायासेन लिखित शिक्ष यिष्यन्ते। श्र यते मया एलाहाबाद-ल होर-माद्राज-गोम्व-विश्वविद्य लयेषु देवनागरोलिपिरवश्यं शिक्षणीये। । कलिकाताविश्वविद्या लयस्तु अधुनापि अस्मिन् विषये पराङ्मुख एव दृश्यते । यहुद र्षेभ्यः प्राक् श्रीमदगुरुदासान्द्योपाध्यायमहोदयः कलिकाताविश्ववि द्यल अवश्यमेष प्रवर्तितव्येति निबन्धेन प्रायतत । एतदर्थ कश्चि- नियमोऽपि कल्पितः । परम् अद्यापि तन्नानुष्ठितम् । तदानीमहं स्वयं देवनागरी लिपिप्रवर्तनस्य प्रतिकूलपक्षम् अभजम् । अयं च तत्र हेतु मया चिन्तिता यत् अनेन प्रकारेण संस्कृतपरीक्षापथे नूतना घाधाः निक्षिप्ताः स्युः एतत्तु मया न विचारितं यत् विषयोऽयम् अभ्यासा- एक भारतस्य वणमाका वणालापश्व। १७१ क्षः । स चाभ्यासी यदि शैशवाद अर्जितो भवेत तर्हि शीघ्रमेव ते कल्पिता अन्तराया अन्तहिताः स्युरिति । एकपदे तस्या आवश्यक यवहारः अभीष्टफलजनक: स्यात् इत्यतो याद उपक्रमसाधनत्वेन पिंपटकपरिमितः समयो दोयेत तर्हि मन्ये परीक्षार्थिनः परीक्षासु कमप्यसौक नानुभवेयुः। वर्तमानकालस्य प्रयोजनानि सम्यक् आ- लोचितवता मया पूर्वमतमधुना परित्यक्तम् । अधुना एष मे दृढनिश्च- यत् सर्वेषु प्रदेशषु एकस्या एव वर्णमालायाः एकस्याश्च वर्णलपः विनिमेव विभिन्न देशेषु भावनियमस्य भिन्नदेशीयसाहित्यपाठस्य च सुगमतम उपाय इति। सम्भवत्यतत् यद देवनागरीलिपे: प्रवर्तनं भारतीयभाषानिकरेंषु स्कृतशब्दानां बहुलप्रवेशस्य अलक्षितसाधनं स्यात् । वङ्गभाषायां स्कृतमूलकानां शब्दाना बहुलप्रयोगः सुप्रतिष्ठितः। अयं हि प्रधा- तस्तस्याः वर्तमानसोप्टवस्य हेतुः। तस्यां दिशि अधुना हिन्दीभा-- पि तपदविक्षे चालतुमारब्धा । अतश्चाधुनिकी हिन्दी विशेषती राणसीप्रचलिता हिन्दी संस्कृतायिता । आधुनिक-यूरोपीयभाषाणां पष्टियंथा ग्रीकलाटिनेति-प्राचीनमुख्यभाषामूलकानां शब्दानामुपक- पनेन साधिता तथा भारतीयभाषान्तराणामपि सौष्ठवं तासु संस्कृत. लकशब्दानामनुप्रवेशमपरिहार्यत्वेनापेक्ष्यते । एतन्मे विदितं यत् रतवर्ष एवं जातीया केचित चिन्तका लेखकाश्च विद्यन्त ये आधु-, कानां भारतीयभाषाणां वैभवसाधनाय साकल्येन प्राचुर्यण वा संस्कृ. पाहाय्यग्रहणं नेच्छन्ति, इच्छन्ति च लिखितभाषाणामपि कथितभा- [नुरूपत्वापादनम् इति । अनुत्थाप्य तद्विषयम अप्रविश्य वा तदि- कं मन्येऽहमेकस्मिन् विषये सर्वपामस्माकमैकमत्यं विद्यते। सच पयः अयं यद याः खलु भारतीयभाषाः संस्कृतमूलकास्तासामियं स्कृतभाषा चिरमेव शब्दानों मुख्यतमो निझरो भाण्डागारं चेति धातु प्रभवेत्। संस्कृतस्य शब्दकोशी धातुगणश्च वर्तमानभापाणां शागामिव तिष्ठेताम् यस्मात् ताः स्वेषां रुचिरोन्नतभावानामनुरूपं - शवा १७२ मित्रगोष्ठी-पत्रिका। घेशं ग्रहीतु शक्युः । यथा यथा लघु वयमेतत् मलवस्तु उपसर्गम यथा यथा चास्मात बाहुल्येन शब्दमन्थनं कुर्याम तथा तथा त्वरित वयं साहित्यानामस्माकं विकाश साफ लभमहि। अस्ति च में अ. शंसा यत् दूरोत्तर क ले संस्कृतकोषात् प्रदेशीयभाषालु एतावत शब्दवैभवं संप्रवक्ष्यति यद ईदृशं संस्कृतशब्दमन्थने पुनः नाधिकमा- वश्यकं भविष्यतीति । एवं संस्कृतभाषिकाणां तदभाषाम् लकानां च शब्दानां बहुलप्रयोगेन देवनागरी लिपिप्रवर्तनेन च भारतीयभाषानि- कराः परस्परम् अधिकतरसन्निकृष्टसंस्पृष्टाः स्युः। विभिन्नप्रदेश सिनश्च भाषाभेद सत्यपि वर्तमानापेक्षया अधिकत शीघ्र परस्परमा. घान् गृह्णीयुः । परस्परभापासु च ते अधुनापेक्षया अल्पायासेन अ. ल्प समयेन च व्युत्पत्तिलाभे समर्थाः स्युः । संस्कृतज्ञानलबसाहाय्ये. नाहम् अनायासेनैव हिन्दी विशेषेण आधुनिकी हिन्दी पठितु कृतविद्य न हिन्दीभापिणा भद्रजनविशेषण सह सलापे स्वाभिप्राय प्रकायितुच शक्नोमि । हेतुश्वान परिस्फुट एव-उभयोरेवावयोः शब्दसम्पत संस्कृतकमूला । एवमेव बहूनामवास्माकं पक्षे वर्तते जानाम्यहं कल्पनामिमां भवतां प्रवासिनां च में देशबन्धूनां विचा. रार्थम उपन्यसनं अहं वादयुद्ध मामन्त्रयमाणोऽस्मि । तच्च वादयुद्ध बहुसमयव्यापि भवेत् उत स्वलाकालस्थायि तन्न जाने। परमेषास्ति गाढ़ाशंसा यत् तककाले कटुभाषा सर्वथा परिवर्जिता स्यात इति । संस्कृतसाधारणमूलानां संस्कृतेन च भूरिपोपितानां विभिन्नानां भाषाणां लिपोनां च प्रयोक्तृणां देशवन्धूनां मध्ये मानसिकस्य साहि- त्यिकस्य च आदानप्रदानस्य प्रवर्तनं प्रोत्साहनं च प्राधान्येन में लक्ष्य. विषय इत्यस्य कथनं नावश्यकम् । संस्कृतस्य दर्शनसाहित्यरूपं समृ. एवं द्धममूल्यं च भाण्डारम् अस्माकं साधारणाधिकारविषयः । पाश्चात्याधिगत विद्यापि । गाय गरीयानर्थः यदि कश्चिद् भार तवासी त्रिचन्द्रनगरात ढाकानगरातो वा अस्मान् अभिनन्दतु । स च वयं च धनवासिनः अस्माकं सुदूरसिन्धुमुम्बाप्रदेशागताश्च मे आंगुभ - भारतस्य वर्णमाला वर्णलिपिश्च । १७३ धवः कालिदास-भवभूति-(Shakespeere)-सेक्षपोयर(Tennyson)- नसन प्रमुखानां कवीनां गुणदोषविचागनुभवादिषु किमपि मा. रणसहानुभवबन्धनम् अनुभवामः । बङ्ग भ्यो बहिः कति भारतीया किमग्रन्थानाम् भाषायाम अदितान स्वल्पसंख्यकान ग्रन्थान् जयित्वा शिष्टान् पठितवन्तः ? कतिसंख्यका वयं वङ्गा वासिनः 'दाल- वाइ'- Dalpatrai ) नाम्ना सुप्रसिद्धस्य गुर्जरकवनाम श्रु तवन्तः ? भाषाविषयाद बहिरस्म शोयानां मनोवृत्तविकासः कीदृश इत्ये. त परिमातु नास्ति कश्चिदुपायः । देशाभिमानः अधुना उत्तरोत्तरं सपन्नस्ति, तस्य मूलानि च गभीराद गभारतरं बध्यमानानि सन्ति । धुना सर्वे वयं पाश्चात्यप्रभावाधीनाः संजाता: स्वीकुमश्चप्सहर्ष स्वा. तं प्रति अस्माकम ऋणाधिक्यम् । कथं न काचित् स्थानिकस्य का- उकस्य च प्रभावस्य विनिमयव्यवस्था क्रियेत येन दाक्षिणात्यसाहित्य साहित्योपरि वङ्गसाहित्यं च मद्र साहित्योपरि प्रभावं प्रवर्तयेत् । शबन्धनस्माकं गाढं ज्ञातुन वयं समर्थाः स्याम यावत तेषां साहित्य पं न जानीयाम । न च साहियजनितात् सहानुभवत अधिकतर: हतिसाधकः स्वार्थभावरहितश्च सहानुभावोऽन्यो विद्यते। एतन्मे 'नीतं मतं यत् कस्याश्चित् साधारण्याः वर्णमालाया वलपेश्व रग्रहः तस्यैव महतो लक्ष्यस्य साधने प्रवर्तकः स्यात् । यत्पथाव- बनेन मन्मते उद्देशश्य तस्य साधन स्वलान्तरायः सम्भवत् तदपि ग निवेदितमं । लाभस्त्वेतेन महान् स्यात् अन्तरायाचं न एका- न दुरतिक्रमाः प्रतीयेरन् । अहो तद्दिनं भारतस्य कीदृग गौरवकर विष्यति यदा सर्वा भारतीया भाषा एकामेव लिपि व्यवहरिष्यन्ति, कप्रदेशीयं साहित्यं च प्रदेशान्तराणां सहजबोध्य भविष्यति । भिस्य सौकर्यस्य चे तुलनया परिश्रमो व्ययश्च ईटक अल्पो प्रतीये- तां। भवत्पुरतो मया स्थापितस्य प्रस्तावस्यास्य अन्तिमं विचार- लं सविश्रम्भमहं प्रतीक्षिष्ये। श्री सारदाचरणमित्रः।
वाराणस्यां शारदचन्द्रः। ( काव्यम् ) वाराणस्या भगवत्या भागीरथ्यास्तटभूमावेव पवित्रं नारदतीर्थम तत्र बहुभिः सुहृद्भिर्बहुभिविनोदालापैः, बहुभिः प्रमोदैश्च बहवः काल अतोताः । परन्त्वीदृशं सुखदिनम्. एतादृशश्च शान्तिसमयो न जा महाया भ गधेसादात, कदाचित्युनर्राप द्रक्ष्यत इत्यपि नाशात्ति ह्यः किल सकलकलस्य शारदशशाङ्कय निर्मलतमैः किरणप्रवाई समुद्भासितावयवा भुवननयनमोहिनी राकारजनी काञ्चिदभूत सुषमासम्पत्तिमाविरकापत् । अद्य तु प्रतिहृदयपट तस्या एव निर पममुखमयी परमकोमला शरीरिणीव मधुरता कापि स्मृतिलेख समङ्किता। तिथिरद्य कृष्णा प्रतिपन्नाम । चन्द्रमसः समागमेनाद्यापि जगा रिपूतं भवेदिति पश्चिमसन्ध्यायाः पूर्वमेव भवनसोधस्य छदोप सर्वोच्च स्थानमध्यतिष्ठम् । पश्यत एव वियन्मण्डलं क्रमेणास्फुटार स्फुटतरेण लोहितरागेण रक्तीभवितुमारभत । सुदूरतः पूर्वाकाशा न्तात् तिमिररंखापि धीरधीरमात्मनोऽपरिस्फुटां मलिना छायां प्रका यित्न व्यरमत् । नेत्रं चित्तं च मे ऐकाग्यू ण तामेव दिशमभ्यधा घताम् । जाह्नव्या गपरस्मिंस्तटे विशालः सिकतास्तूपः, ततः प्रस माभिः शश्यपरम्पराभिः श्यमला सुविस्तीर्णा प्रान्तरभूमिः, तता समुन्नताग्राणां विधानां पादपानामपिरलसंस्थाना नयनाकर्षणनि पुणा श्रेणी। अहं तेषामेष गगनचुम्बिनी विटपिनो शिखरप्रदंशमन लक्ष्य निनिमेषाभ्यां नयनाभ्यां जडइव तूष्णी मतिष्ठम् प्रादोषिकमारुण्यं गगनपटं विहाय गच्छद्गच्छदपि किञ्चिद् वि भाव्येव न गच्छति, तिमिरं भुवनाक्रमणं कुर्वत कुर्वदपि परावत्तंत अनन्तस्याक शस्य सपदि क्वचिदेकैकं क्षीणं नक्षत्रं स्फुरितस्फुरितमा कुतोऽपि वीडया निवत्तंत इव, पुनरागतागतमपि चान्योन्यं गुप्ता वाराणस्यां शारदचन्द्रः। १७५ कालप्रवृमिव सद्य एवान्तधत्तइव, अचिन्तयं त्रिदिवगङ्गायाः कन. सलिलस्य द्वित्रा विन्दवः पतितपतिता अपि न पतन्ति, क्रीडाकोतु- कन्या गगनलक्ष्भ्याः कबरीमाल्यस्तवकतो वा स्खलितस्खलितान्यपि मानिनित कुसुमानि न स्खलन्ति सा च तानि वा धृत्वा धृत्वापि न नर्धत्तुं शक्नोतीति । अधस्तावानतिविस्तीणीया अनतिक्षुद्रायाश्च भगव या अमरस्रोत- वत्या अनाविलं सलिलं न धवलं, न कृष्णं न वा लोहितम् अपित्व- मेब कमपि वर्णमाधाय वाराणस्याश्चरणप्रान्तं प्रक्षालययत् नाति- दुना नातितीव्र ण च धेगेन निःशब्दमनारतं प्रवहति । नगा कतिषु दिक्षु कियन्तो नामानन्दाः, कियन्तो विषादाः, कियन्तो वा कोलाहला मात्पद्यन्ते; कियत्सु देवालयेषु नीराजनसमयाध्मायमानानां शङ्खघण्टाडि- ण्डमादीना वाद्यभाण्डाना माङ्गलिको निनादो नगरस्यैकस्मादपरं प्रान्तं गवत प्रतिसोधान्तः प्रतिहन्यमानः ररुगम्भीरांसलाकारेण पधनप- दव्यां न व्यगाहत । मम तु लोचनं वा हृदयं वा तत्सर्व ज्ञात्वापि न जा- साति, श्रुत्वापि न शृणोति, बुद्धवापि च न बुध्यते केवलमेकया दृष्ट्या, किंनैव च भावेन जाह्नव्या अपरोपकुलस्थितस्य खल्वभ्रभेदिनो मही- हवृन्दस्योन्नतं चुडादेशमवलम्व्य निश्चलनि:स्पन्दं निर्जीववत्, चि- मार्पितवश्वातिस्थिर मतिष्ठत् । तया चावस्थया तदानीं तत् खल मे होचनं हृदयं च सापराधमिध, कृतदुष्कृतमिव, च अपहृतपरस्वमित्र । भीतभीतं निःशब्दं विविक्त देशमाश्रयताम्। यदस्तु, मनो मे सद्य एव चन्द्र उदेष्यतीति गाढयोतकण्ठया महतावेगेन, प्रयलेनी. साहेन प्रभूतया चाशया पर्यपूर्यत । नातः परं तद्विलम्ब: सह्यते । तिदि चन्द्रस्थागमने स्तोकः कालातिपातो भवेदेवेति ज्ञात्वानि न नेच्छामीव व्यस्मरमिवास्य तत्त्वस्य अचिन्त- म-अतिनिष्ठुरः,-अतिनिहायोऽयं चन्द्रमाः; अहं कियतोत्सुक्येन कयताग्रहेण, कियता चानुरागेण भगवंश्चन्द्र, त्वामाकारयामि, कि- त्वहो कष्टम्, न त्वं तत् किञ्चित् पश्यसि, न किश्चिद विवेचसि, मानामीव-अथवा ज्ञातु १७६ मित्रगोष्ठी-पत्रिका। न वा किञ्चिश्चिन्तयमि; अतएव कथयामि त्वमत्यन्तमसहृदयः, न त्वम परमालोकयसि, त्वमन्यस्य दुःखं वेरिम न वा तत् प्रतिकरोषीति । अथ परस्मिन्नेव क्षणे विजानमिव मे औत्सुक्यम्, चिन्तयन्निव को हृदयस्य विगाढमुगम्, पश्यन्निव वा स्वकीयं युक्त समयं शारदो विधुरुदयशैलशिलातल मधिष्ठातुम् उपाक्रमत । अहो सा काचिदपुया सुषमा ? अहो किं तदेकं नयनयोरमृतमयं रसाञ्चनम् ! न तद वर्णनी- यम्, न तद्वोधनीयं, न वा तत् श्रावणीयम् । यदि नयने स्यात, हा स्यात्, हृदयस्य वा भावः स्यात, तहिं सकृनयनमुन्मील्यताम्, हुदा च क्षणार्द्ध तदभिगच्छनु, नातः परं किमपि ते करणीयं भवेत,-नातः परं त्वया मनागपि प्रतितव्यम, अभिलषितं ते सेत्स्यति, इयत्कालम- विष्यमानं धनमधिगमिष्यसि, यदवयंम्-अबोध्यम्-अश्राव्यमित्य- घोचम, स्वयमेव तत् त्वं घेत्स्यसि, स्वयमेव तदरसं रसयिष्यपि, स्वयमेव च तन्मर्माण्युदघाटयिष्यसि,-किं खलु तदेकमद्भुतं द्रव्यः मिति स्वयमेव त्वं साधु ज्ञास्यसि । तस्य किलोद गच्छतः शारदेन्दोः सुकुमारैः पाटलपाण्ड्रैः किर- णकलापैः पूर्वगगनांङ्गनस्याधस्तलं परित्यज्य किञ्चिनुपर्युपरि परिण- नितुमारभ्यत, अपश्यम-वासवाशायामाकाशमूले काचिदनतिदी- / अनतिनिपिडा नातिकृष्णा नातिधवला च जलदलेखा प्लवमानेच मलिनफेनपिण्डपंक्तिर्वियदधेः सुविशालाया वेलाभुव एकस्मिन्नश मारुतवेगेन संलग्नेति । कामं पुनस्तस्या एवोपरि किञ्चित्स्थानं व्या धाय तादृश्येवापराप्येका मेघपंक्तिरात्मनश्चतुष्वपि पार्वेषु चन्द्रमस: कनककिरणरेखया सदर्प स्वसौन्दर्य प्रकटयन्ती व्यराजत । अमृतदी- धितेमयूखमालानां माधुर्यसम्पत्ति: फ्रमेणैव स्फुटतरीभवितुभारभत । किन्त्वहो किमिदमापतितम् ? क्वाहमुदयादेव शारदशशाङ्कस्य मो- हिनी कान्तिं पश्येयम्, क्व च हन्त प्रारम्भ एव जलददर्शनम् ! नयन चञ्चलमभवत् । उत्साहहीनं हृदयमभज्यत । चतसृभ्यो दिग्भ्यो वि- श्वस्येव विषादो मामावृणोत् । जलदखण्डादिव समागतं मालिन्यं में । वाराणस्या शारदचन्द्रः । वलं बदनमण्डल, हृदयस्पाभ्यन्तरमपिच परिव्यामोत् । कात- ऽभवम् । चिरमुत्पनो मे सङ्कल्पः पूर्णपूर्णोऽपि न पूर्णः ! पाणिभ्यां तधृतोऽपि सुधांशुः न पुनर्धत्तु पारितः । कियन्मे कष्टमुत्पन्नमिति त्वं जानीयाः ? उदयन्निन्दुः क इव मया मन्यत इति न त्वं वे- । किमुच्यते, निबल इवाहं तदानीमभवम्; शिरासु शोणित- तो रुद्धमिव भवितुमारभत । किं कुर्य्याम् ? नास्ति कश्चित् प्रती. र: देवायत्तं खल्विदम् । नहि कश्चित देवस्य प्रभवति । सर्वप्रभु दम् । दुःखविनोदस्य न कोऽप्युपायस्तदासोत् । अतोऽहं सुलभ. भिनिन्दागीतिभिर्विधातुः कर्माणि समालोचयितु प्रावतें। । हन्त किमिदम् ! किमिदमहं कमारभे ! कमहमनिन्दम् ! कि- वा अनिन्दम् ? मेघलेखा ? किषा मे अपकृतवती ! अहन्त्वद्य शं नैकमपि सुहवं पश्यामि, नैकमप्येतादृशं परमं सहायं विजा- मि । अहो मेघलेखे, धन्या त्वम्, धन्यं ते परोपकारव्रतम, धन्यं च । जीवनम्; अपि चाहमप्यद्य अतितमा धन्यः, यो हि अपारस्य ते रुण्यसिन्धो जनत्वमधिगन्तु समर्थः । चन्द्रमास्तदानीम् अति- नाकाशवर्तिन्याः प्रथमाया मेघमालाया मन्द-मन्दमात्मनो भुवन- मोहनं सुकुमारं वदनविम्ब प्रदर्शयितुमुदयुक्त। तत् खलु जलध- ण्डमुदयशैलशिखरस्य विशालस्य शिलापट्टस्य कृत्यमसाधयत् । मन्यस्मिन् यदालोकनं न जात्वाशंसे न वाशंसितु शक्नोमि,-प्रभू- सुकृतेनाद्य परिदृश्यमानस्यामुष्य जलधरशकलस्य प्रसादात त. वोदयशैलस्य कश्चिदाभासमध्यगच्छम् । इन्दुरुदगन्तु मारभत । दानीस निवार्यताम् । इदानीमहमेनमालोक्य आत्मनोऽपि व्य- म्। चन्द्रः प्रथमां मेघपंक्तिमनतिगच्छन्नेव स्तोकस्तोक द्वितीयां शत् । हन्त तामेतां शोभा नाहं कदाचिदवालोकयम, न कुतो- शृिणवम्, न क्वापि काव्यनिबन्धेऽप्यपठम्, न वा कस्मिंश्चिञ्चित्र- ऽप्यपश्यम् । कौशल कवयितुः, वैचक्षण्यं वा चित्रकरस्य न तत्सी. गन्तु महति । सा हि केवलं चक्षुषा गृह्यते, मनसा च बुध्यते ।
१७८ मित्रगोष्ठी-पत्रिका साम्प्रतं हि चन्द्रमसः प्रान्त यं तयोः किल पुवमानयोजलदलेखयो मलिनया छाययाऽदृश्यं संवृत्तम् केवलं मध्यभाग एव लोहितलो तया स्निग्धप्रसनोज्वलया हृदयङ्गमया आभया परिभासतेस उत्पाटितमिव कचधारया पार्श्वयमस्य तदानीमभवत् । अवको कयत पव, न बायते केन नाम सुकृतपरिपाकेण अपरा काप्यनालो कितपूर्वा, अनाकणितपूर्वा, अचिन्तितपूर्वा च शोभासम्पत्तिव्यंका सीत् । शारदः शशी क्रमेणोद्गच्छमधोमेघरेखां सवर्थात्यगच्छत द्वितीया तु सा साम्प्रतं तस्य मध्यदेशमशोभयत । तदानी किल क्षणार्द्ध युगपदधचन्द्रद्वय मालोक्य स्वजन्मसार्थक्यं समपाइयत् चन्द्रमण्डलमध्यवर्तिनी विलम्बमाना सा खलु मेघपंक्तिनं तदानी तथात्वेन विभावयितुमशक्यत। सा हि सुनिमलस्य नभसः प्रसन्न नीलिम्ना अपार्थक्येन प्रत्यभासीत् । लोचनयमेतावन्तं कालमहम्पू बिकया एकमेव शशाङ्कमद्राक्षीत, साम्प्रतं तु सपनायासमखेदव द्वौ खलु विलोक्य स्वस्वधनत्वेनैकैकं दृढतरमगृह्णात् । प्रफुल्ल चितं मे प्रफुल्लतरमभवत् । कमप्यलौकिक प्रमदसञ्चारमन्वभवम् । सांसा. रिकैद्र एव्यानां निरवशेषाणामपि सौन्दयाणा मेकस्मिन्नेव सन्निवेश- मवलोक्य कियत्सुखं मे समुदपद्यत इति न शक्यते प्रकटीकर्तुम् । श्रीमन् पाठक, न खलु तस्याः सुषमाया: काचिदुपमा वा, उत्प्रेक्षा वा, निदर्शना बा तुल्ययोगितावास्ति । न मे तादृग् वागविभवो येन वो निवेदयेयं कीदृशी सासीदिति । साहि मालङ्कारिकाणां रसः, बैदान्तिकानां च ब्रह्म । सा हि स्वयं शेया, सहदयवेद्या च । यावद- शनवं, क्षामकण्ठश्चातक इवोद्धवदनस्तामेव पश्यनासम् । लोचन- मचञ्चलम, हृदयं सुधीरम्, शरीरञ्चास्पन्दम् । ततश्चाहं तदानी प्रह. गृहीत इव, पिशाचपीडित इव, चित्तापित इव, उत्कीर्ण इव, मूच्छित व चातिष्ठम् । कांधित क्षणानित्थमेवायापयम् । कियान् स काल: ? अत्य- रूप:-स्वल्पादपि स्वल्पतरः-सूक्ष्मादपि सूक्ष्मतरः ! स खलु सुख- . घाराणस्यां शारदचन्द्रः। १७९ मय आसीत् । महि सुखसमयश्चिरं तिष्ठति । दुःखाकरः संसारः । यत्समयमिह सुख माशास्यताम् । पूर्वक्षण एवाहं कियन्तं नामानन्द ध्यगच्छम, परस्मिन्नेव तु क्षणे कापि स व्यलीयत; केवलं तु कोम- तरा तस्यैका स्मृतिरेखावशिष्टा । जन्मन्यस्मिन् न जातु पुनरस्थान- स्यानुभयो भवेत, स हि केवलमात्मनः स्मरणचिह्नत्वेनैव कामपि मृतिलेखां प्रदाय चिरायान्तहितः । अचिन्तयम-भगवंश्चन्द्र, त्वमेव धन्यः । त्वमेव विधातुराधा ष्टिः । एकतस्त्वम्, अपरतो जगतो निखिला अपिरोचनाः पदार्थाः सारस्य त्वं कीदृशं पस्थिति साम्प्रतमेवाहमज्ञासिषम् । अपश्यम- यत्ते सौन्दर्यम्, कियत्ते माधुर्यम, किर्यास्ते प्रसादः, कियान् वा ते लास इति । अस्थिते त्वयि जगजीर्णमरण्यं,-शन्यं मरु । जडल्य गतस्त्वमेव किञ्चिद गौरवं रक्षसि । त्वमेवास्यामिमानपदम् । देष धांशो, इदं मे किमपि वक्तव्यम् । एतावन्तं कालं यत्खलु तिसन्दर्शनमेष मनस्युद्भय महान्तमुद्दे गं मे समुदपादयत्, बहुति- षु कालेष्वतीतेषु तस्याद्य याथार्यमुपलब्धु समर्थोऽस्मि । अद्य में र शुभदिनम् । अद्याहमवबुध्ये-काव्येषु किमर्थं ते इयानत्यादर- ते,-किनिति वा तत्र ते इयती प्रतिपत्तिरिति । अवगच्छाम्यद्य- रीषमु कुमारेषु कविहरयेषु केन रूपेण त्वं प्रतिभाससे इति। वि- नाम्यद्य-भगवत्या परमप्रगल्भया कानया को नाम ते गुणवैभवो लोकितो, येन त्वं कविहश्येषत्कीर्णोऽसीति । इयत्कालं प्रतिदिवस तिकाव्यमेव ते भूयोवर्णनमालोक्यतो मे चेतसि त्वां प्रति परा रिक्तिरेवोत्पन्नासीत् । न तत्साहित्यमपश्यं यत्र त्वया सह कविना न कमपि क्रीडितम् । नाहं तदानी मजानां किमिति त्यमित्थं तैरा- श्यसे इति । एवमपि तु अन्तरान्तरा तत्सर्याध्ययनेन परां प्रीति रामवम् । भगवन्, कुमुदबान्धव, किमन्यद ब्रूयाम्, अद्यवाहं ज्ञातो स्मित्वं कवीनां कियत्प्रिय इति,-तेन सह ते कः सम्बन्ध इति,- न नयनेन च स त्वां पश्यतीति । योऽसौ ते उरसि कल करेखा परि. भरतः - ।
१८० मित्रगोष्ठी-पत्रिका। दृश्यते, न सा कविदयेन सोढु शक्यते । कविः किलाम कला कलङ्क कथयति । सोह्यस्फुटोऽकहतेन वियद्व्यापिषु सुनिर्मल किरणकलापेषु ते निमजितः। निमजत्येवैको दोषो गुणसमिणः म च स ते निःसोमस्य सौन्दर्यस्य कणामपि तिरस्करोति, प्रास्त्र घद्धयत्येव, रम्यमेव हि शैवलेनावविद्धं सरसिजम् । इत्थमेवाहं स्वचंतसि चिन्तयंस्तिष्ठामि, एतदन्तर एव न जाना केन नाम सप्रसन्नेन ग्रहेण, केन नाम पाकोन्मुखेन प्राक्तनेन सुकता म्भारण, कया वा अत्यनुकूलया भवितव्यतया साद्यपरमेक दृश्य लोचनमाकपत्। अवालोकयम्-भागीरथ्या मृदुःस्रोतोमधुरस्याना स्थिरचपलस्य शान्तगम्भीरस्य सलिलस्योपरि प्रतिविम्बिता शशास किरणधारा सिकतासुन्दरात पूर्वतरात सोपानशोभितं पश्चिम यावत लम्बमाना। उपविष्ट आलम, उदतिष्ठम् । पूर्वी दृशमभिस्त भासोधप्रान्तप्राचीरमगच्छम् । नातः परं किश्चिदकाम् । अहं स्या. गुस्थिरः । अपश्यम-गङ्गायाः स्फटिकविशदेन सलिलप्रवाह संमिश्रितश्चन्द्रमसः स्निग्धस्वच्छः सुकोमलः किरणपूरो धीरचपला लहरीमालाम प्लवमानः स्वकीयं निसर्गमाधुर्यं सहस्रगुणमवायत वहुषु दिनेषु बहुषु स्थानेषु, बहुषु च जलाशयेषु, किंबहुना वाराण सीवाहिन्यां वाराणस्यामपि शशाङ्करश्मे बिलासलीलामपश्यम्, न तनिखिलमपि दृश्यम इयत्मुगलकरम, इयन्नयनाभिरामम्, इयच हृदय रूपासीत् । आपूर्वपश्चिमं शोभमानस्य भागोरथ्याः कौमुदीमयर कनकसलि ठस्योपरि अन्तरान्तरैकैका क्षुद्रक्षुद्रा तरणी मन्दं मन्न नृत्यन्ती दर्शकानां मुग्धं हृदयं मुग्धतरमकार्षीत् । क्षणानन्तरमेवर सा तं खलु हिरण्मयं गङ्गाप्रवाह मत्यकामत् । इत्थमेव जह्न नन्दिन्यः श्चन्द्रकिरणसम्यकर्ने कविधां सौन्दर्यपरम्परां निरीक्षितुमभितो लोकतं सञ्चारयतो मे यहच्छया 'रामनगरदुर्ग' दृग्विषयता-मुपागच्छत् अपशं दूरतः प्रकाशमानः कश्चित्क्षीणालोकस्तस्य दुर्गस्यास्तित्वं सूचय- तीति । दुर्गाधीशस्य महाराजस्य वारापास्यधिपतेः प्राक्तनाना पुण्य- वाराणस्यां शारदचन्द्रः। १८१. व्यम्, यदा भावयितव्यम्, । । दुःख- कीत्तीनां शौयंसाराणां महीपतीनां कियन्तो वृत्तान्ताश्चेतस्युद्गच्छन् । तणाद हर्ष, भणाच विषादमन्वभवम् । ततः प्रत्यावृत्तं नयनं क्षण- परिष्टादुद्दीपितदिगन्तरालं मधुरिमैकागारं चन्द्रमसम्, क्षणाचाध- तात् समुल्लसन्तमुज्ज्वलं मन्दाकिन्याः प्रवाहमालोकयितु प्रवृत्तम् । इत्यमेवानन्तरमपि मे कश्चित्समयोऽतीतः । यद, द्रष्टव्यम, यज्ज्ञा. अहं तत्सर्वं पश्यन् जानन् भावयंश्च ति. गामि । किं दुःखमिति व्यस्मरमिवाहं तदानीम् । अचिन्तयं किमिति [ना मुधैव संसारं निन्दन्ति । संसार: सुखस्याकरो न तु दुःखस्येति पष्टं प्रत्यक्षीकृतं तदा वाराणसीवासिभिः । पस्मिनीशी शरत, शो जलधरः, ईदृशश्चन्द्रः, ईदृशस्तश्य किरणकलापः, ईनशी मन्दाकिनी, ईशा तस्य सलिलपुरः, सोऽपि नाम संसारो मयः ? यः खल्विदपि दु:खमाह, न स जानाति किं सुखमिति, जानतोऽपि वा तस्य तदनुभवसामर्थ्य नास्ति । मम सुखं जायते, न तवेति किमस्य तत्त्वमिति न सोऽवबुध्यते । बस्तुस्वभावो हि स स्यात् ?-वस्त्वेव सुखदुःखात्मकम् ? * कि नु भो एतदेवावितथम् ? किं खलनलश्च सलिलञ्चकस्मिन् युगादेव तिष्ठेताम् । अपि नाम तेजस्तिमिरयोः सामानाधिकरण्यं भवेत् ? भान्तरं हि सुखं दुःखं च । कथाममे बहिःपदार्थ तिष्ठेताम् ? त्वं खलु स्वापराधमन्यस्मिनारोप- यसि ? नात्मनो दोषं स्वीचीकोर्षसि ! अतिमधुरम् ! परदोषानुस- न्धानमतिमधुरम्, अतिप्रीतिप्रदश्च । मन्ये, निज्जरसां पीयूषधारापि नेयन्मधुरिममयीति। तत एव त्वमात्मगुणमनालोकयन् जगह खाक- रमित्युद्धोषयितु साहसमाधत्ले। नेदं वेरिस यत्त्वं स्वापराधेनैव शु- क्तिका रजतं करोषि, रज्जु सर्प पश्यसि, स्थाणु च पिशाचं जाना- सीति । अन्धस्त्वं स्थाणु न पश्यसीति स्थाणोरेष दोषः ? अत एक तु * .. सुखदुःखमोहात्मकं सर्वमते चितिगत रिति साङख्य सिद्धान्तः । [सनाभेदादेवेकरमादस्तुनः सुखं, दुःखं मोहो वानुभूयत इति वेदान्तिनः ।
१८२ मित्रगोष्ठी-पत्रिका। त्वं सत्ययस्मिंश्चन्द्रमसि, सत्यप्यसिन् नभोमण्डले, सत्यप्यस्मिन्म- दाकिनीपूरे सत्स्वपि च वाराणसीसशेषु स्थानेषु संसार त्वं खाकर कीर्तयसि ? यदि सुखमीहसे, हृदयं हृदयमिव सम्पाय 'सहृदयो' भव । ततस्त्वं किं नुःस्त्रमिति न पुनस्यसि, न च ज्ञा- स्थलि घस्तुतो दुःखनाम्ना किश्चिदासीनवेति । ज्ञास्यसि अभित- स्त्या सुख-पारावारः संस्फुरतीति । ततश्च चिराय “सा निष्ठा सा परा गति" भवेदिति। प्रकृत्यास्तादृशेन सौन्दर्येण मुग्धचित्तवृत्तिरहम् इत्थं कियत् किम- चिन्तयम्, किया प्रश्न उस्थितः, फियत्प्रतिवचनं जातम कियतीयुक्तिः प्रदर्शिता, कियान् दोषो विलोकितः, पुनश्च स विखण्डितः । नापर किमपि कृत्यमासीत् । केवलं कामपूरं प्रकृत्या विहतोपर्म माधुर्य वि- लोकयनासम् । निशीथिन्याः कियन्त कालमित्थमतिष्ठमिति न म. रामि। परन्तु तत् खल्वे मे सुखदिवसमतिक्रान्तं, यदि मृत्योः प्राक्क्षणं यावच्चेतलि मे सुरूपष्टपङ्कितं स्यात, यथाहं न जातु वि. सर्नु शक्नुयाम् । श्री प्रकाशानन्दशर्मा। -:0:- महामङ्गलसुत्तम्। पालितोऽनहितम् महामङ्गलसूत्रम्। एवं मया श्रुतम् -एकसिन् समये भगवान् श्रावस्त्यां विहरति जेताने (१) अनाथपिण्डिकस्य आरामे । अथ खलु अज्ञतरा देवता (१) तोनाम राजः प्रसेनजितः पुत्रः, अनाथपिखिकेननाम्खा केनापि धनिकेन तत्सकाशात् स आरामः क्रौत्वा बुड्वदेवाय प्रदत्तः, तदेव सवनम् । अनाथ पिडिकः कदाचिद् अनाथ पिडदमामा दृश्यते ।
महामङ्गलमत्तम् । १८३ अभिक्रान्तायां रात्रौ भिक्रान्तवर्णा केवल कल्पं जेतवनमवभास्य येन तेनोपसमस्त, उपसंक्रम्य भगवन्तमभिवाद्य एकान्ते अ- थात् । एकान्ते स्थिता खलु सा देवता भगवन्तं गाथाभिरभाषिष्टः- पगवान् १ बहवो टेवा मनुष्याश्च मङ्गलानि अचिचिन्तयन् । आकान्तः सोडानम्,' (१) धूहि मङ्गलमुत्तमम् ॥ २ असेघना व बालानां (२) पण्डितानां च सेवनात् । पूजा च पूजनीयानाम्-एतन्मङ्गलमुत्तमम् ॥ प्रतिरूपदेशवासश्च पूर्व च कृतप्रज्ञता । आत्मसम्यक्प्रणिधिश्च,-एतन्मङ्गलमुत्तमम् ॥ ३ बहु सत्यं च शिल्पं च विनयश्च सुशिक्षितः। सुभाषिता च या वाचा, (३) एतन्मङ्गलमुत्तमम् ॥ मातापित्रोरुपस्थानं पुत्रदाराणां संग्रहः (६) । अनाकुलाश्च कर्मान्ताः, (४)-एतन्मङ्गलमुत्तमम् ॥ ६ दानञ्च धर्मचर्या च ज्ञातकानां (५) च संग्रहः (६) । अनवद्यानि कर्माणि, एतन्मङ्गलमुत्तमम् ॥ (१) अस्य शब्दस्य संस्कृतं नाधिगम्यते 'स्वस्ति' शब्द; पालौ सोठि' त्य च्यते । तस्मादेवेदं पदं नातमिति सम्भाव्यते। ततश्च मखमस्यार्थ इति लिविदो वदन्ति । (२) मूर्खानाम् । (३) वाक् । (8) वृत्तिः, व्यवसाय इत्यर्थः। (५) जातीनाम् । (६) रक्षमितिभावः।
१८४
मित्रगोष्ठी-पत्रिका।
(१) आरतिविरतिः
: पापात. मदयपानाच संयमः ।
गप्रमादश्च धर्मेषु-एतन्मङ्गालमुत्तमम् ॥
गौरवं च "निवातो" (२) च सन्तुष्टिश्च कृतज्ञता।
कालेन धर्मश्रवणम, एतन्मङ्गलमुत्तमम् ॥
१
शान्तिश्च सुवचस्ता, च (३) श्रमणानां च दर्शनम् ।
कालेन धर्म-साकच्चा' (४)-पतन्मजमुत्तमम् ॥ .
१०
तपश्च ब्रह्मचर्या च आर्यसत्यानां (५) च दर्शनम ।
निर्वाणसत्यक्रिया च,-एतन्मङ्गलमुत्तमम् ।।
स्पृष्टस्य लोकधः चित्तं यस्य न कम्पते ।
अशोकं विरजं क्षेमम्-एतन्मङ्गलमुत्तमम् ॥
१२
पताशानि
कृत्वा सर्वार्थमपराजिताः।
सवत्र स्वस्ति गच्छन्ति; तेषां मङ्गालमुत्तमम् ॥
विधुशेखरशर्मा।
(१) प्रारतिशब्दोऽत्र त्यागार्थो वोधाः ।
(२) संस्कृतं नाधिगम्यते । अर्थस्तु 'विनयः'-'नम्रवृत्तिः' ।
(३) सुभाषितेत्यर्थः।
(४) 'साकच्चा' शब्दस्य संस्कृतं दुर्लभम् तदर्थ स्तु 'बालाप' इति ।
(३) दुःखम् दुःखसमुदयः (दुःख कारणम् ), दुःखनिरोधः, दुःखनिरो-
धोषायचति बौहानां चत्वारि आर्यसत्यानि ।
मित्रगोष्ठो-पत्रिका। (मासिकं संस्कृतपत्रम् ।) सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम्"। ऋग्वेदः। दुनीये वर्षे } १८२७ शकान्दाः, कार्तिकः { सप्तम संख्या वेदवृत्तान्तः। विजानीमो वयं परमपण्डितेन श्रीमता मोक्षमूलरभट्टेन ऋग्वे- स्य प्रथम प्रकाशनसमये पाश्चात्यानां विदुषर्षा वेदानुशीलने प्रवृत्ति. उत्पादयितु कियमाम प्रयतितमिति । उक्त तेन क्वचित-" असकू- (हं पृष्टोऽभवम् यत्, कोऽयं वेदो नाम ? किमर्थमयं प्रकाशनीयः ? I: स्नलु ग्रन्थः प्रायश्चतुःसहस्रवर्षपूर्व निबद्धः, यश्च प्रथमत एव मूर्ति- जकानां वन्यानां ( Savages ) कस्याभिदशिक्षितायाः जातः कृते ञ्छितोऽभूत्, यश्च स्वयं भारतीयैरपि न जातु प्रकाशितः, यद्यप्येनं साम्प्रतं ते आत्मनो धर्म, नीतौ, दर्शने च परंप्रमाणत्वेन स्वीकुर्वन्ति, स्मादपि ग्रन्थाद अस्माकं कि नाम शिक्षणीयं सम्भाव्यते ? अपि IIम वयम् इलैण्डीयाः अथवा युरोपीया जना; धर्म-नीति-दर्शन-स. बंधीयेषु प्रश्नेषु ब्राह्मणानां प्राचीनाभ्यो गीतिभ्यः कमपि नूतनमा- दोकं प्राप्नुयामेति सम्भाव्यते ? अप्ययं तथा सुदृढो निश्चयोऽस्ति, था नायं ग्रन्थो भारतीयानां कापि नवीना प्रवश्वनाभवेत, येन न वलमस्माभिः प्रयुक्तः श्रम एव विनष्टः स्यात्, अपितु चतुराणां गरतीयानाम् उपहासकारणतां वयं न गच्छेमेति ? पषाम्, ईदृशाना. परेषां च बहूनां प्रश्रानां प्रतिवचनं मया सटीकस्य ऋगवेदस्य प्र- १ -- प. १८६ मित्रगोष्ठी-पत्रिका। काशनारम्भात् पूर्व प्रदेयमासीदिति" । श्रीमान् मोक्षमूलरभा हाशयः कैः कैः प्रकारैस्तान् प्रश्नान् प्रत्युक्तवानिति सम्यक प्रकाश यितु क्षुद्रशरीरेयं पत्रिका न कथमपि शक्नोति । केवलं दिवा तवचनानीह उदधियन्ते :-अतोऽहं पूर्वोक्तेषु प्रश्नेषु कांधित युत्तरयितु, कथितानां च संशयानां कांश्चिमिरसित मित्थं भवतो वो धयन् यतिथे यत् प्रथमं तावद् वस्तुतो वेदः क इति, द्वितीयतस्तु किं तेन प्रयोजनं न केवल भारतीयानामेष, किन्तु अस्माकं युरोपीया. नामपि,-तत्रापि न केवलं प्राच्यभाषाध्यायिनामेव, मपितु एकैकस विद्यार्थिनो यो हि धर्म वा, पुरावृत्तं पा, दर्शन पाधीते;-एकैकस मनुष्यस्य, यो हि मानवजाते महतश्चिन्ताप्रवाहस्यान्वेषणानन्दमनुभूत- पान,......एकैकस्य च विद्यार्थिनो यो हि यथार्थनामधेयाया 'मानव- जातित' उत्पन्न इति ।। श्रीमन्तः पाठकमहाशयाः, नूनं प्रशस्यतमोऽयं महाभागो मोक्ष मूलरः, अन्ये चैताहशः पाश्चात्या विद्वांसः, ये हि आत्मप्रभावेन रम. . .. + सत्रैव . Max Müller : Chips from a German Workshop Vol. I. P.. " I shall endeavour, therefore, as far as this is possible within the limits of one lecture, to answer some of these questions, and remove some of these doubts, by explaining to you, first, what the veda really is, and, secondly, what importance it possesses, not only to the people of India, but to ourselves in Europe,--and here again, not only to the student of oriental languages, but to every student of history, religion, or philosophy; to every man who has once felt the charm of tracing that mighty stream of huinan thought of which we ourselves are floating on ward, back to its distant mountain-sources; every one who has a heart for whatever has once filled the hearts of millions of human beings with their noblest hopes, and fears, and aspirations;-to every student of mankind in the fullest sense of that full and weighty word."
? ॥ तराभिर्वायोयुक्तिभिः सर्वथा विमुखानपि प्रतीच्वान् सविशेष लोचनायां प्रर्तितवन्तः, तेन च लुप्तप्रायां भारतीयार्यकीर्ति- i दूराद दूरतरेऽपि प्रतीच्याकाशे सम्प्रसारितवन्तः । दृष्ट' श्रीम- मोक्षमूलरभट्टेन कोदृशाः प्रश्नाः प्रतिपचनीया आसमिति ? भारते सायं दशाविपर्यास आगतः, (श्वर: प्रसीदतु, यथा नाप्यागच्छेत) वेदो वञ्चनोपायो न धेति सन्दिह्यतेऽपि केनचिद भारतीया- ।। परन्तु इत्थं वयमधः पतिताः, यथा सर्व विषयेषु वेदस्य प्राधा- द्घोषयन्तोऽपि न स्वयं तदालोचने प्रवर्तामहे, न पा अन्यमपि तयितु यतामहे । "कुत्स्नो वेदोऽधिगन्तव्यः सरहस्यो द्विजन्मना" ॥ मनु.२.। १६५. "योऽनधोत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः मनुः, २ अ० १६८. श्लो. "योऽन्यत्र कुरुते यत्नमनधीत्य श्र तिं द्विजः । स संमूढो न सम्भाव्यो वेदवाह्यो दिजातिभिः ।। अधीत्य विधिवद वेदं वेदार्थ न विचारयेत् । स सान्वयः शूद्रकलप: पात्रतां न प्रपद्यते" ॥ म पु० उप वि. १३ अ०. इतीदृशं वचनशतं न खलु नास्माभिरसकृद विलोक्यते ? नेदं न ज्ञायते यद्देदानध्ययनेन सर्वथा परिहरणोयं शूद्रत्वमपि सम्पद्यत- तं । परन्तु मुग्धचेतोवृत्तिभिरस्माभिः स्वयमेवात्मनो मस्तिष्क था चक्तिं यथा तदर्थपर्यालोचनायाः शक्तिरपि नास्ति । यद्धि सर्व हायापि पठनीयम्, यस्य च बलेनैव बलवद्भिरस्माभिः सभामण्ड- घु साटोपमटाट्यते, येन विना च पदमात्रमपि गमने दुरोद पाप- स्पधत इत्युच्चस्तरामारटामः, हन्त नदेवाचास्माभिर्नादियते, तस्यै- ध्ययनमिदानी निष्फलमिति विविच्यते तस्यैव चानुशीलनं जडत्वं १८८ मित्रगोष्ठी-पत्रिका। जनयतीति लिखितुमपि न विरम्यत इत्यहो अस्माकं मूलोच्ने पाण्डित्यप्रकर्षः । मन्यामहे, वेदे वस्तुतः किमस्तीति सविशेषज्ञानाविषया वर्णित तेषां मधुरिमाणं रसयितु कस्य नाम चित्तं न चाञ्चल्यमधिगच्छेत पुरा किल भारतीयैरायः कथमीश्वरतत्वम्, आत्मतत्त्वं वा अनुर लितम् कथं कैश्च द्रव्यैर्यज्ञादिकमनुष्ठितम्। कथं युद्धरीतिरासी युद्धेषु कानि नामास्त्राणि व्यवाहियन्त; कीटशी यानव्यवस्था; का पाणिज्यम्, किंरूपं गृहनिर्माणम्, किं प्रकारः कन्यकानां विवाद कीदृशी समाजस्थितिः, कीडशमाहार्यम, कीरशी चिकित्सा, ई रशं कृषिकार्यम्, पूर्तकार्यम् अन्त्येष्टिविधिः स्वर्गादिकं च, ३ वा पुराणादिप्रसिद्धानामाख्यायिकानां मूलमित्यादयो बहवो विष घेदादेवैकस्माज ज्ञातु शक्यन्ते । भाषातवाद्यनुशीलनमपि वेदना नादेव सुकर भवति । किंबहुना, स्वयमालोचयन्तु भवन्तो वेदार्थ जानन्तु च तस्मात् कीद गिव प्रमोदाङ्क र उत्पद्यत इति । इन चहा वश्यं वक्तव्यम्-यत सरसा इव नीरसा अपि वेदस्यांशाः सन्ति तदर्थं मनाग् धैर्यमवलम्बनीयम् । षयमपि चेतः प्रभृति नियमेन सचेतसा चित्तविनोदनानुकूला घेदांशान पत्रिकायां प्रकायितुमिच्छामः । तत्र तावत् सपत्नीदे षस्य वेदे कीदृक् परिचय उपलभ्यते तदेवाय कुतूहलिनां पाठकान पुरत उपस्थाप्यते- सपनीद्वेषः। अयं सपत्नीदेष ऋग्वेदसंहितायां सक्तये वर्णितः। तत्राय सूक्तमित्थम् :- वदनडादिशब्दाः संस्कृते संप्रसिहाः। प्राचीनेष्वपि ग्रन्थेषु इत्थं ध्यते। यथा-विक्रमोर्वश्याम-"अस्याः सर्गविधा"वित्यादिशोके "वेदाभ्या सजड" इति । एवमन्यत्र । वेदस्य स्वरमात्रज्ञान प्रतीयसक्तिन त्वचा प्रतीति सम्भावयामः।
पदवृत्तान्तः। १८९ इत्यर्थः १०म० १४५ सू. देवता-सपनीबाधनम्, ऋषिः-इन्द्राणी। . "इमा खनाम्योषधि वीरुधं बलवत्तमाम् । यया सपत्नी बाधते यया संविन्दते पतिम् " ॥ १ ॥ भतिवीर्यवती लतारूपामिमाम् भोषधिम् + अहम उन्मूलयामि यया (वधूः ) सपत्नी बाधते, भर्तारं च सम्यक् ( असाधारण्येन ) लभत "उत्तानपणे सुभगे देवजूते सहस्वति । सपत्नी में पराधम पतिं मे केवलं कुरु" ॥२॥ हे ऊमुखपत्रविशिष्टे, सौभाग्यहेतुभूते, देवप्रेरिते, बलवति, भोषधे, मम सपत्नी परागमय (दूरीकुरु), पतिं च ममासाधारण करु । उत्तराहमुत्तर उत्तरेदुत्तराभ्यः । अथा सपत्नी या माधरा सांधराभ्यः" ॥ ३॥ हे मोषधे, त्वमुत्कृष्टासि, त्वत्प्रसादेनाहमुत्कृष्टा भवेयम्; लोके या उत्कृष्टाः सन्ति, ताभ्योऽप्यहम् उत्कृष्टतरा भवेयम् । मनन्तरं मम या सपत्नी, सा निकृष्टाभ्योऽपि निकृष्टतरा भवतु । नास्या नाम गृभ्णामि, नो अस्मिन् रमते जने । परामेव परावन्तं सपत्नी गमयामसि ॥४॥ महमस्याः सपत्न्या नामापि नोचारयामि; नो कापि सपती- जने रमते । सपत्नीमतिशयेन दूरदेश मेव गमयामः-भर्ना गति- शयन वियोजयामः । "महमस्मि सहमानाथ त्वमसि सासीहः । उभे सहस्वती भूत्वी सपत्री मे सहाबहै" ॥५॥ * येन सूक्त न यत्प्रतियादाते, तस्य सूक्तस्य सा देवता भवति । अनेन सक्त ग सपतौबाधनं प्रतिपाद्यत इति तदेवाव देवता। यस्य सूक्तं म ऋधि- रिति नियम; तथा च सूक्तमिदम् इन्द्राण्या इति । तस्या एधान ऋषित्वम् । + पाटेति प्रसिवाम् इत्यापस्तम्बमतेन मायणः ।
. - मित्रगोष्ठी-पत्रिका। हे मोषधे, महमभिभव की मस्मि, स्वमपि भभिभवित्री भवसि मत भावामुभे अभिभविश्यौ भूत्वा मम सपनीम् मभिभवाव । "उप तेऽर्धा सहमानामभि त्वार्धा सहीयसा। मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु" ॥६॥ हे पते, अभिभवित्रीमिमामोषधिं तव शिरस उपधानं करोमि। अभिभवितृतरेण तेनोपधानेन त्वामभितो धारयामि । यथा गौवसं प्रति, यथा वा जलं निम्नेन पथा वेगेन धावति, तथा तव मनो माम- नुलक्ष्य प्रधावतु। भगवता आपस्तम्बेनास्य सूक्तस्य कस्मिंश्चित् सपत्नीन प्रयोग- विशेषे विनियोगः प्रदर्शितो यथा- त्रिःसप्तैयवैः पाठां परिकिरति-"यदि वारुण्यसि घरुणात् स्वा निष्क्रीणामि, यदि सौम्यसि सोमात त्वा निष्क्रीणामीति" । वो भूत उत्तरयोत्थाप्य, उत्तराभिस्तिसृभिरभिमन्ध्य, उत्तरया प्रतिच्छना हस्तयोराबध्य, शयनकाले बाहुभ्यां भत्तीरं परिगृह्णीयात् उपधानाल- गया, पश्योभवति सपत्नीबाधनं चेति । भयमर्थ:-प्रथममेकविंशतिं यवान् पाठानामिकां लतां परितः "यदि वारुण्यसीत्यादि"मन्त्रेण किरेत् । ततः प्रभाते आदरया ऋचा "इमा खनामी"त्यादिकया सा पाठा उन्मूलनीया । ततः "उत्ताने"- स्यादिभिः तिसृभिऋग्भिः सा मभिमन्त्रणीया पञ्चम्या ऋचा आ. ज्छादर हस्तयो स्तां बनीयात, अन्तिमया तु बाहुभ्यां भर्तारमाश्नि- येत्, तेन स पश्यो भवति, सपत्न्याश्च बाधनं भवतीति । द्वितीयं सूक्तम्,-१० म० १५९ सू०. देवता पौलोमी शची, ऋषिरपि सैव ।। • “पुलोमतमया चौ अनेन सूक्तेनात्मानमस्तोत् । अतः सबर्षिः, संवदै वता। इति कात्यायनहत- “सर्वानुक्रमा"नुसारी सायणः ।
घेदवृत्तान्तः। उदसौ सूर्यों पगाबुदय मामको भगः । अहं तदिहला पतिमभ्यसाक्षि विषासीहः" ॥१॥ यदसौ दुश्लोकस्थः सूर्य उदगात, तन्ममेदं सौभाग्यमुदगात् । तदहं ज्ञातवती । अहं सपत्न्या अभिभवित्री सती भरिमपि भाभ- भूतवती-यथा वशीकृतोभा मय्येव चिर पत्तंते, तथाकामिति भावः। महं केतुरहं मूर्धाहमुना विवाचनी। ममेदनु ऋतु पतिः लेहानाया उपाचरेत् ॥ २ ॥ भार सर्व जामामि, "अहं मर्धा'-सर्वेवषयवेषु शिर इव प्रधान. भूता भवामि; अहमुना सती मां प्रति पतिं प्रियवचनभाषिणमेव करोमि, सपत्नीनामभिभवकारिण्या ममैव बुद्धिं ( कर्म पा ) भनु- सृत्य पतिरुपागच्छेत् । मम पुत्राः शत्रुहणोऽथो मे दुहिता विराट् । उताहमस्मि संजया पत्यौ मे श्लोक उत्तमः ॥ ३ ॥ ममैव पुत्राः शत्रुनाशका भवन्ति, ममैव कन्या विशेषेण राजते; भपिचाई सपत्नीनां सम्यग जेत्री मस्मि ; पत्युः सकाशे च ममैव यश उत्तमम । येनेन्द्रो हविषा कृत्यभवद दुसन्युत्तमः । इदं तदक्रि देवा असपत्ना किलाभुवम् ॥ ४ ॥ येन हविषा इन्द्रः ( ममभर्ता ) कर्मणां कर्ता, येन च ल यशस्वी भन्नधान् घा) उत्तमधाभवत्, हे देषाः, अहमपि तदकार्षा भत रवाहं शत्रुहिता अभूवम् । भसपना सपननी जयन्त्यभिभूवरी । गावृक्षमन्यासा वक़ राधो अस्थेयसामिव ॥ अहं शत्रुरहिता, अहं शत्रुहन्मि, जयामि, मभिभवामि च । अ- स्थरतराणां जनानामिव अन्यासांसपत्नीनामहं धनं तेजश्व बण्डयामि ।
१९२ मित्रगोष्ठी-पत्रिका। समजैषमिमा मह सपनीरभिभूवरी। पथाहमस्य वीरस्य विराजानि जनस्य च ॥६॥ मभिभवकारिण्यहम् इमाः सपत्नी स्तथा सम्यग जितवती, पथा- हमस्य घोरस्य (इन्द्रस्य-पत्युः ), तदीयस्य परिजनस्य चोपरि पिराजिता भवानि । "एतेनैव कामेन ( सपत्नीबाधनरूपेण ) उत्तरेणानुवाकेन सदादि- त्यमुपतिष्ठत" इति सूत्रयता भगवता मापस्तम्खेन इदमपि सूक्त सप. स्नीनाशने सूर्योपस्थाने विनियुक्तम् । पूर्व बहुविवाहपद्धतिरासीदिति उदाहताभ्यां सूक्ताभ्यां रूपएमेव प्रकाशत इति पाठकैलक्षणीयमिति । विधुशेखरशर्मा। संस्कृतसाहित्यं पाश्चात्त्य विद्दांसश्च १ पानात्यैः संस्कृतपण्डितैः संस्कृतसाहित्यविषये बहु खलूक्तं, ते. षामुक्तिराज लोप्रभृतिभाषानिबद्धत्वाद अस्मदीयैः संस्कृतविद्यार्थिभि नमुबोधा, ज्ञातव्या तु सावश्यमेवेति माधुकरी वृत्तिमवलम्बमानेन मया इतः प्रभृति पत्रिकायर्या तेषां विदुषां मतं समासेन संगृह्य प्रदर्श. यितुमिष्यते । इदञ्चाशास्यते-श्रीमन्तो विद्यार्थिनः विद्यांसाध तत्सर्व- मालोच्य उपादेयं गृह्णीयुः, अनुपादेयं तु युक्त्या साधारणजनानां पुरतः प्रकाशययुः,-यथा हि पाश्चात्यानां भ्रान्तवंचनैर्भारतीयानाम् अपरेषा च न मोह उतपद्यते। अवयं स्खल्विदं कृत्यमापतितमिदानी भार. तीयानां विदुषामिति मन्यामहे । अद्य तावद विक्रमादित्य समयप्रभृतिप्रचलितानां साहित्याना तत्कादीनां च समयः पाश्चात्त्येषु प्रथिततमस्य श्रीमता मोक्षमूलरख्य मतेन स्थूलतः प्रदश्यते ।
। मंस्कृतसाहित्य पाश्चात्य विद्वांसश्च । विक्रमादित्यः कदोत्पन्न इति तमाना 'संवत्' इति प्रचलितमब्द- नमेव प्रकाशयति, साम्प्रतं विक्रमाब्दस्य १९६२ तमो वत्सरो वर्तते तेन खीष्टजन्मतः ५६ वत्सरपूर्वमेव विक्रमादित्य मासीदिति ज्ञा- ते। किन्तु मोक्षमूलरेणापरैश्च पुरातत्वविद्भिर्नेदमङ्गीक्रियते । ते दन्ति–साम्प्रतं विक्रमनाम्ना प्रसिद्धोऽब्दो वस्तुतो न विक्रमेण वर्तितः, किन्तु खीष्टपूर्वभाविना केनापि प्रवर्तितः स खीष्टतः बस- चिोनेन विक्रमेणात्मनात्मनाम्ना कृत इति । ( अत्र विस्तरः सन्दर्भा- तरेण पक्ष्यते ) अतो मोक्षमूलरेणेत्थं कालो निर्णायते:- पष्टतः : परम्-५५०, विक्रमादित्यो हर्ष: उज्जयिन्यधिपतिः ५३१-५७९ खोसरुनुसिरवान् पारस्यराजः। अय मात्म- मश्चिकित्सक बारजई-नामानं प्रसिद्धस्य पञ्च- तन्त्रस्यानुवादाय भारतं प्राहिणोत् । कोरारयुद्धम्, अस्मिन् युद्धे विक्रमादित्येन म्लेच्छाः सम्यक पराभूताः । अस्मिन्नेवाब्दे तान् पराभूय विक्रमादित्यः प्राक् प्रचलितमब्द- विशेष संवदिति स्वनाम्ना कृतवान् । जैनः सिद्धेश्वरसूरिस्त्रत्र विक्रमस्य साहाय- कमकरोत् । मातृगुप्तः--काश्मीरशासकः, भत्र मेंण्ठश्चै- तत्समकालीनौ कालिदासो दिङ्गागस्य बौद्धेषु सुप्रथितन- न्थकारयोरसङ्गस्य वसुबन्धोश्च समकालीनः । कालिदासो भारविणा सह ६३४ तमाब्दी- यानुशासनलेख उक्तः। षष्ठशतकोत्पन्नेन दण्डिना कालिदासस्य से- तु काव्यप्रशंसितम् । कालिदासेन भासस्य सौमिलेच नामनी गृहीते। २ १९४ मित्रगोष्ठी-पत्रिका। खीष्टतः परम्-५८७ वराहमिहिरो मृतः। अनेन ४७६ तमार त्पन्नस्यार्यभट्टस्य नाम गृहोतम् । एते च ना धृताः, यथा-५०५ तमाब्दोत्पम-श्रीसेनक रोमकसिद्धान्तः, पौलुस-अल-युनानीकृतः लिशसिद्धान्तः, विष्णुचन्द्रकृतो पसिष्ठसिस न्तः, सौरसिद्धान्तः, पैतामहंसिद्धान्तश्च । ५६१-५६६ चीनभाषया अमरकोषोऽनूदितः । ज्योतिषिक-ब्रह्मगुप्तस्य पिता जिण्णुः। . दिडनागस्य मतमुद्योतकरण-(न्याय वात्ति कृता)समालोचितम् । उद्योतकरः सुबन्धुना(प सवदत्ताकारण),सुबन्धुश्च बाणभट्टेन कीर्तित ५५०-६०० शिलादित्यः प्रतापशीलः (मालवाधीशः) प्रभाकरवर्द्धनः, एतस्य परिषदि माधवगुप्ता तारकः, सुषेणश्चासन् । राज्यवर्द्धनः-प्रभाकरवद्धनस्य ज्येष्ठः पुत्र अनेन मालवराजो जितः ': स्वयन्तु गौडाधि गुप्तेन, कर्णसुवर्णेश्वरेण शशाङ्कन वा पराभूतः ६०५ चीनदूतः फेइ-तु (Fei-tu) ६१०-६५० शिलादित्यो हर्षवर्द्धनः प्रभाकरवचनस्य क- निष्ठः पुत्रः। अस्य स्वसा राज्यश्री म प्रहद- मंणे दत्तासीत्।ग्रहवर्मा मालवाधीशेन मारितः हर्षस्य मन्त्री भाण्डिनाम । प्राग्ज्योतिषपुराधि- प-कुमारेण भास्करवर्मणा तस्य मैत्री आसीत। महाराष्ट्रपतिना द्वितीय पुलकेशिना युद्धम् । अयं चीनपरिब्राजकस्य 'हुयेनस्यां' इत्यस्य सम- कालीन: (६२९-६४५) काव्यादर्शदशकुमारचरितकारो दण्डी। " साम्पतं कीदृशीसंस्कृतशिक्षाऽपक्ष्यते । सुबन्धुर्वासवदत्ताकारः। बाणः--हर्षचरित-कादम्बरी--चण्डीशतक . प्रणेता*। . . मयूरः, भक्तामरस्तोत्रकारो मानतुनः, नारा- यणः, आढपराजः। भत्तृहरिमृतः (५५० ) जयादित्यः (काशि- काकारः) मृतः (६६०) ब्रह्मगुप्त उत्पन्नः (६६०) प्रदर्शितायामस्यां समयक्रमपरिपाट्यामद्यापि क्वचित् कचित् सन्दे- विद्यत एवेति मोक्षमूलरेणोक्तम् । श्रीसंग्राहकः। :: प्रश्न: “साम्प्रतं कोदृशोसंस्कृतशिक्षाऽपेक्ष्यते ?" उत्तरम्- श्रीमहेशचन्द्र तर्कचूडामणेः । अस्य प्रश्नस्योत्तरदानात् प्रागेव जिज्ञासूनां तात्पयंग्रहः कर्तव्यः । न्यथास्योत्तरदानं दुष्करमेव, तथाहि प्रश्नघटकस्य "अपेक्ष्यत" इत्य- । पदस्य कत्र्तृपदमूहनीयं भवति । कीदृशैर्जनै रपेक्ष्यते, इतिप्रश्नकर्तुं- कव्यमासोत् परन्तु तदनुक्त्या ग्रन्थकाराशयः सम्यङनाववुध्यते थंकारमुत्तरं दीयेत ? तथापि मन्यामहे कस्यचिदाङ्गलविद्याध्यायि- ऽयंप्रश्न इति, यदि तस्यैवप्रश्नः स्यात्तदाऽऽङ्गलविद्यार्थिभिश्छाबै- ङ्गलविद्यासहकारित्वेन कीदृशीसंस्कृतशिक्षाऽपेक्ष्यतइति प्रश्रस्या. शिय उन्नतव्यः । ताहश आशये सत्युत्तर सुकरमेव, डिग्रीपरीक्षा- । पार्वतीपरिणयनाटकं बागीन सतमिति मोषमूलरेणोक्तम् । तदस्मभ्य रोचते।
१९६ मित्रगोष्ठी-पत्रिका। त्वेन निर्धारितासंस्कृतशिक्षैव साम्प्रत मपेक्ष्यत इत्युत्तर देय अथ यदि तादृशं तात्पर्य न स्यात् तदापि वृटिशा मतानुसार संस्कृते या या विद्याः सन्ति तासां सर्वासामेव स्थूल ज्ञानं यथास्थान तथैव संस्कृतशिक्षाऽपेक्ष्यत इत्युत्तरं दातव्यम् । प्राचां पुनरेकाविद्यासुशिक्षितेति मतमासीत् इदानीन्तु सर्वास्खे विद्यासु प्रवेशः कतव्याति यहूनां मतं श्रयते । तदनुसारेण सर्वात विद्यानां सामान्यतः शिक्षाऽपेक्ष्यत इत्युत्तरं देयम् । विशेषशिश्नान दीर्घकालव्यापिनी दुःसाध्याचेति सा नेदानीन्तनानां हृदयङ्गमा ।। ल्पीयसा कालेन यथाकथञ्चित् किञ्चित् किञ्चिच्छास्त्रमधीत्य यश्चिः मर्थमुपाजयेत् स एव पुरुषो धन्यः स एव सार्थकजन्मा तस्यैव सिद्धा पुरुषार्थाः इत्यतः शास्त्रं यथा यथा संक्षिप्त संक्षिप्ततरं संक्षिप्ततमंद लभ्यते तथा तथा विद्यार्थिनां तदुपादेयमुपादेयतरमुपादेयतमं : भवतीति प्रायेण संग्रहग्रन्थानामेवाध्ययनप्रवृत्तिइंश्यते । एकं व्याकर णमेव पश्यन्तु भवन्तः पाणिनि त्यक्त्वा कातन्त्रमधीते तदपि हिल मुग्धबोधं तच परिहत्य सारस्वतचन्द्रिकां पठतीति सर्वेषां शास्त्र णामीहश्यध्ययनव्यवस्था, ज्योतिषं स्मृतिशास्त्र दर्शनशास्त्र । प्राञ्जलं कोऽपि नेच्छत्यध्येतु अत एव केनचित कविनोक्तम्- जातव्याकरणं हतं तदखिलं श्रीवोपदेवेकवौ गङ्गशप्रभृतौ च नष्ट मधुना न्यायादिशास्त्रं परम् । श्रीमद्भागवते कुविन्दकविनाख्याते पुराणं हतं जातेश्रीरथुनन्दने कलिघटे तद्धर्मशास्त्रं हतम् ॥ इति । तदिदानी बहूनामपि शास्त्राणां किश्चित् किञ्चिदध्ययन मेवा क्ष्यत इति जानीमः । अस्माकं पुनर्मतं शब्दशास्त्र तथाध्येतव्यं यः संस्कृतं वक्तु बोद्ध लिखितुश्च शक्यते, अन्येषां शास्त्राणान्तु सार न्यतो ज्ञानमपि शोभते व्याकरणस्यतु न तथा “उक्त शव्य काण स्त्वन्धइति" प्रयोजनविशेष श्चेदपेक्ष्यते तदा विशेषत एव तत्तच्च स्लमध्यंतव्यमित्यलं विस्तरेणेति । .
वार्ता सम्पादकाभिप्रायाश्च । वनेषु वर्गोत्सवः। बनवु शारदो दुर्गोत्सव इवापरः कश्चिन्महानुत्सवो धङ्गवसुन्ध. रया ( अथवा भारतवसुन्धरयैव ) नेदानीमालोक्यते, पुराव्यालोक्यत न वेति न जानीमः । चत्वारि दिनानि पुण्यमङ्गलदुन्दुभिनिनादेन बङ्गगगनमण्डलं परिपूरितमभवत् । प्रतिगृहं प्रमोदप्रवाह उदति- छत । समं महम्मदीयहिन्दूना पुरतः कानिचिद्दिनानि मूर्त इव सुख- सन्दोह आविरासीत् । दुःखबहुलस्य संसारस्य सेवनादतितमा ग्लानस्य मन्दीभूतोत्सा- होद्योगस्यान्तःकरणस्य विश्रमणाय पुनरुद्दीपनाय चान्तरान्तरा प्रमो- दहेतुरुत्सवो विहितोऽसदीयविचक्षणः शास्त्रकृद्भिः । नान्तरान्तरा अगृहीतयवसकवलः, असेवितसलिलश्चाश्चवरोऽपि शकटनियुक्तः समविश्रामं धावितु शक्नुयात् । स चायं शास्त्र.विहितो भारतीयो- सयो न केवल प्रमोदैकप्रयोजनः । धय: खल्वयं, शिक्षितव्यानि चात्र बहूनि सन्ति । अन्यथा सुरापान-वेशसेवनादिभिरपि प्रीतिला- भस्य सौकर्य कस्य नामाविदितम् ? तदिह महति दुर्गोत्सवे किम- स्माकं शिक्षणीयमस्ति, किमर्थवात्र सधनाश्च निधनाच, पण्डिताश्च आलिशाश्च, सजनाच पामराश्च वैष्णवाश्च, शाक्ताश्चाविशेषेण परमा- पृष्यन्ते, किमिति चायमुत्सवः शास्त्रेषु • नित्यत्वेनाप्यङ्गीकृत इति नसर्गत एवामी प्रश्नाचिन्तयितु श्चेतस्युत्तिष्ठेयुः तत्समाधानमेधेह समासेन पाठकेभ्योऽस्माभिरुपहर्तुमिष्यते । सर्वैरेव हि सेवनीयोऽय- मुत्सवः। दुर्गोत्सवेऽच्यमानेयं देवी दुर्गा केति निर्णीत एव तेषां प्रश्नानां निरवद्यमुत्तरं लभ्येत । ज्ञायत एव सर्वैरस्या देव्या महीमयी मतिः विविधास्त्रशस्त्रोल्लसितैः क्वचिञ्चतुर्भिः; क्वचिद् दभिः, क्वचित पो. • संयोगपृथक्तम्यायेन काम्यनियोभयरूपा दुर्गापूर्ण ति मार्ताः।
१९८ मित्रगोष्ठी-पत्रिका। शभिः क्वचिश्चाष्टादशभि जैनिमीयते, सिंहाधिरुढा महिषासुरम हनोद्धता च सेति । • दृष्ट्वनां युद्धदेवतेयमिति बुध्यते । वस्तुतो ऽपि तत्तथैव । पुरा किल युद्धविजिगीषुभिमहीपालैरेव साराध्यासीत प्रयोजनं च तस्य शत्रुविनिपातनमासीत् । देव्या बोधने प्रयुक्त मन्त्र जातमेवेदं द्योतयति । तद्यथाः "शकण संबोध्य च राज्यमाप्तं यथा, तथा प्रतिबोधयामि । यथैव रामेण हतो दशास्य- स्तथैव शत्रून् विनिपातयामि" । इति बोधनविनियुक्ता अन्येऽपि मन्त्रा आलोचनीयाः। अतएव हि राज- भिराश्विनसितसप्तम्यादि दिन चतुष्टयेषु महता सम्भारेण देवीमेत मचयित्वा विजयप्रस्थानक्रियत। अस्या देव्याः पूजनाव्यवहित. परं युद्धयात्राव्यवहितपूर्व च अपराजितेति अन्यापि काचिदयुद्ध- देवता राजभिरच्चनीयति दृश्यते । अस्या उपरिस्थितयो (जयोद. क्षिणे खड्गं, घामे चर्म; अधःस्थयोदक्षिणे वरः, वामे त्वभमिति । शरीरारोग्यमैश्वर्य विजय संप्रयच्छ मे" इति सा प्राय॑ते । प्रस्थाने सहैव देवीसापराजिता गच्छेदितीव तस्या मूर्तिरूपाया 'अपराजि- तेति प्रसिद्धाया लताया वलयधारणमपि विधेयं दृश्यते अयं तनमन्त्रः- * . * केघाचित्पाठकानां कृते दुर्गादेव्या धानमन्त्रात् किचिदिहोवियतेः विभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् । टणालायतसंस्पशंदशबाहु समन्वि- ताम् । त्रिशूलं दक्षिणे धेयं, खड़गं चक्र क्रमादधः। अधम्ताम्महिषं तह- ट् विशिरस्क प्रदर्शयेत् । शिरच्छेदोद्भवं तहदानबं खखगयाणिनम् । हृदि- शूनेन निर्भिन्न नियन्तिविभूषितम् । रक्तरक्तौकतातच रक्तविस्फरितेक्ष- णम् । शपाशवामहस्त न धृतकेशं च दुर्गया। बमद् धिरवक्तच देयाः सिंह प्रदशयेत् । देथास्तु दक्षिणं पादं समें सिंहोयरिस्थितम् ॥ * . त्यादि।
वाता: सम्पादकाभिप्रायाश्च । . "जयदे परदे देवि दशम्यामपराजिते । धारयामि भुजे दक्षे जयलाभातिवृद्धये" ॥ इति ॥ देवी महिषासुरमहिनी दुर्गाम्, अपराजितां च पूजयित्वा । दशम्यां राजभिविजययात्रा क्रियते इति हि सा तिथि 'विजया दशमीति गीयते । न कथञ्चित्तिथिरसौ विजयार्थिना राज्ञोल्लङ्घनीया। कार्य- गौरवादसमर्थपक्षे विधानमाह राजमार्तण्डः- कार्यवशात् स्वयमगमे भूभर्तुः केचिदाहुराचार्याः छत्रायुधाद्यमिष्टं वैजयिक निर्गमे कुर्यात् " ॥ इति इत्थं च यत्पूजनं पुरा किल शत्रुविनिपातनेच्छूनां राज्ञामेवाभूत, मन्या- महे, तस्य सर्वत्रैव महोपकारकत्वं पर्यालोच्य मणीषिभिः सर्वेषा- मेव कर्तव्यत्वेन तदिहितम् । कारण मन क्रमेण प्रपञ्च्यते । यदि कश्चिद्यथाथपुरुषार्थस्य सिद्धिमर्थयेत, लौकिको वा पार- लौकिको वास्तु तस्य स पुरुषार्थः, सर्वत्र ऐक्यं तेनावश्यमेव सेवि- तव्यं स्यात् । यद्यस्यैक्यबुद्धि!त्पद्यत तर्हि प्रतिपदं तस्य विपत्तिः। पारलौकिके तायद वेदान्तदर्शनमेवोच्चैस्तराम ऐक्यज्ञानमुद्घोषयति- आत्मैवेदं सर्वम्, ब्रह्मवेदं सर्वम्, ऐतदात्म्यमिदं," सर्वम् मृत्योः स मृत्युमाप्नोति, य इह नानेव पश्यति" इत्यादिभिः परःशताभिरद्वैत- तत्त्वप्रतिपादनपरायणाभिः श्रुतिभिः । लौकिके तु शास्त्रानुसन्धानस्य प्रयोजनमेव नास्ति, स्वयं सर्व प्रत्यक्षीक्रियताम् । प्रदर्शयतु भवान् को नाम स्वजनविरोधमापनः परां श्रियं, कुशलसम्पत्तिं वाधिगच्छतीति। स्वस्वपरिवारवर्ग एव किं दृष्टि सञ्चारयतु भवान् यदि नामैकैकः परिवारेषु परस्परं भिद्यते, तहि कियत सुखमुत्पद्यते इत्याबालं सर्वत्र प्रसिद्धम् । अस्मादेव हेतोः आ पञ्चतन्त्राद आ च घेदात् सर्व- स्मिन् खल्वमुमेवार्थ गीयमानं पश्यामः । उपदिष्टा अस्मच्छिशवो नीतिविर्येण:- "अल्पानामपि वस्तूनां संहतिः कार्यसाधिका । - २०० मिलगाष्ठा-पानका। तृणैर्गुणत्वमापन्नध्यन्ते मत्तदन्तिनः । संहतिः श्रेयसी पुसों स्वकुलरल्पकैरपि । तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः" । अस्यैषार्थस्य मूलं चित्र ऋग्वेदसृक्तिग्रन्थनकृता सर्व वेदं श्रापयि- त्वोपसंहरणसमये सर्वशास्त्रनिर्यासस्वरूपमिव प्रदर्शितम् - "संगच्छध्वं संवदध्वं संवो मनांसि जानताम्" । इति । एतस्यैवोभयलोकश्रेयस्करस्यैक्यस्य शिक्षणार्थमेव भगवरया दुर्गायाः पूजनस्य प्रवृत्तिः तदुक्तं देव्यैव-+ "एकैवाहं जगत्यत्र द्वितीया का ममापरा। पश्यैता दुष्ट, मय्येव विशन्त्यो मविभूतयः" ॥ इति यदस्मिन् वाक्ये संक्षिप्तं, तदेवान्येषु सुविशदं प्रश्चितम् । अवधा. यंतां का नामेयं भगवती महिषासुरमहिनी, अस्ति न पानया राज्ञा. मिवापरेषामपि प्रयोजनमिति । इयं हि दुर्वारभुजवीर्येण दुरात्मना महिषासुरेण स्वर्गानिराकृतानां त्रिदिवाधिवासिनां तत्प्रतिघातार्थ सम्मिलिता क्तिः, तेषामेकस्मिन् समागतं तेजः, न त्वपरं किञ्चित् । तद्यथा- " इत्थं निशम्य देवानां वचांसि मधुसूदनः । चकार कोपं शम्भुश्व भ्र कुटीकुटिलाननौ ॥ ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः । निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ॥ अन्येषां चैव देवानां शक्रादीनां शरीरतः। निर्गतं स महत्तेज स्तच्चैक्यं समगच्छत" ॥ ऋगुदस्य दशममण्डलान्तिमसूक्त अयमेवार्थो बहुधा प्रपश्चितः। + अत: परमधृतग्रन्थादिनामानि वचनानि मार्कण्यपुराणान्तर्गतस्य 'देवीमाहात्मा' स्वैति बोधाम्। इदं देवीमाहात्मामेव 'दुर्गासप्तशती' 'च. डोति च नाम्ना प्रसिद्धम् ।
बातोः सम्पादकाभिमायाथ। २०१. * * . पच- अतुलं तंत्र तज: सर्वदेव शरीरजम् । एकसयं तदभूनारी व्याप्तं लोकत्रयं त्विषा । पदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् । पाम्येन चाभवन् केशा बाहवो विष्णुतेजसा" * ॥ इत्यादि। ई पृथगवस्थिते देवैर्यः शत्रुर्विनिपातयितुमशक्योऽभूत, सर्वेषां श- हीनां सम्मेलने कृते तु स एव लीलया विनाशितः। अस्याः समष्टि- तक्तेरीदृशमुपकारित्वं विविच्यैव देवीमाहात्म्यवका मुनिवरण मेध- प्रोक्तं-दुर्गादेव्याश्चारित्र- संघातभेदे च नृणां मैत्रीकरणमुत्तममिति" । या महाशक्त्या पश्यत एव दुर्धर्षा गहिषासुरशुम्भनिशुम्भादयो दैत्या वनाशिताः, देवताश्च परमामृद्धि प्रापिताः, सापि या पास्या न यात, तर्हि केव सा भवतु । शत्रुविजयवदन्यान्येष्वपि सांसारिकेषु अस्या महाशक्त्या आव- यकत्वमिति हि राजभिरिव अपरैरपि तस्याः पूजा विधातव्यति नयमः । इयमेवासमाकं सर्वा विपत्तिमपाकर्तुमीष्टे । परस्परम- क्ये पदमपि गन्तुघयं विपद्य महि । विपत्तिं विनाशयतीत्यस्मात् मा दुर्गति कीत्यते । तदुक्तम्:- * एवं शुम्भनिशुम्भवधे- एतस्मिन्नन्तरे भय विनाशायामरहिषाम् । भवायामरसिंहानामतिवीबलान्विताः । मोशगुहविष्णनां तथेन्द्रस्य च शक्तयः । भरौरेभ्यो विनिम्म्य तद पश्चण्डिका ययुः ॥ यस्यदेवस्य यद पं यथाभूषणवाहनम्। तरदेव सिसक्तिरसरान हन्तुमाययौ - ३ - मित्रगोष्ठी-पत्रिका। "विपत्तिवाचकोदुर्ग भाकारो नाशवाचकः। तं ननाश पुरा तेन बुधैर्दुर्गा प्रकीर्तिता"॥ इति ।। अतो दियं शक्तिः 'सर्वमङ्गलमङ्गल्या' 'सर्वार्थसाधिका,' 'सृष्टि. स्थितिविनाशानां हेतुभूता' च न तन स्तोकोऽपि संशयावकाशः। अतएवास्या देवीमाहात्म्योक्त चारित्र- " श्रुतं हरति पापानि तथारोग्यं प्रयच्छति'। अतएव च तस्या युद्धषु यददुष्टदैत्यनिवर्हणं चरितम्- "तस्मिन् श्रुते वैरिकृतं भयं पुसां न जायते "। अतएवास्या महामहोपकारित्वात् सकलकुशलनिदानभूतत्वाञ्च उप. निबद्धतन्माहात्म्याया दुर्गासप्तशतिकायाः पाठो विहितः । परन्त्वहे वत्सरान्तेऽपि सकृयं सविशेष पर्शलोच्य सप्तशतीन पठामः नहि युक्तार्थानुसन्धान विना लहस्रकृत्वोऽप्यक्षराणामुच्चैरुच्चारणे समीहितसिद्धिर्भवति । अत एव वयं तस्या महाशक्तः प्रसादेन छ श्चिताः, अत एव च सा रुष्टा सती सकलानभीष्टान् कामानपहन्ती त्यहो भाग्यं येन हि पुरःस्थितमपि रत्नं न पश्यामः, दृष्ट्वापि वा गृहीमः, गृहीत्वापि वा हृदयेसंस्थाप्य न यथोचितं सम्मानयामः तदागच्छन्तु भोः श्रीमन्तो भ्रातरः, आगच्छन्तु सर्वे वृथाविरोधात देषादिबीजं दूरमपहाय परमाभ्युदयार्थ तामिमां महाशक्ति देवीम सकृत् साष्टाङ्गन विधिना प्रणिपत्य प्रसादयाम:- "देवी प्रपनातिहरे प्रसीद, प्रसीद मातजंगतोऽखिलस्य । प्रसीद विश्वेश्वरि, पाहि विश्वं, त्वमीश्वरी देवि, चराचरस्य ॥ विश्वेश्वरी त्वं परिपासि विश्वं, विश्वात्मिका धारयसीति विश्वम् । • अपरापर निर्वचनार्थ शब्दकल्पद्रुमो दृश्यः । तत्रापि अयमेवा उपलभ्यता वाताः सम्पादकाभिमायाथ । विश्वेशवन्या भवतो, भवन्ति- विश्वाश्रया, ये स्वयि भक्तिनम्राः"। स्वावलम्बनम्। किं सुखं, किं वा दु:खमिति संक्षेपेणेदं मीमांसितमस्माकं सक- लतत्त्वनिष्णातैर्भारतीयमणीषिभिः- "सर्व परवशं दुःखं, सर्वमात्मवशं सुखम् । एतद्विद्यात् समासेन लक्षणं सुखदुःनयोः" ॥ इति । स्वल्पाक्षरं वायमिदम्, अर्थस्त्वस्य महान् गम्भीरः परमोपकारकश्च । लौकिकालौकिकेषु सर्वेष्वेव भारतीयशास्त्रेषु अयमेवार्थस्तैस्तैःप्रका. चिन्तितः प्रश्चितश्च । परन्त्वसकृदेनं घचसोचारयन्तोऽपि न कि. श्चित् कर्मणा कः प्रभवाम इति धिगसमाकं शिक्षाम् । मनस्यन्यत्. कर्मण्यन्यच कुर्वाणा वयं दुरात्मनः स्मः संवृत्ताः । परमुखापेक्षिणः कस्य नाम सुखप्रत्याशा ? परतन्त्रजीवनस्यान्धस्य दुःस्त्रपूर्ण जीवितं केन चक्षुष्मता न प्रत्यक्षीकृतम्-यायत्तस्य कश्चिदनुग्रहबुद्धया तद- पेक्षितां यष्टि प्रदाय न स्वयं गच्छति न तावत् स पदमपि गन्तुप्र- भवति; यावत्सस्मै पानीयं न दीयते, तृष्णाक्षामकण्ठोऽपि निर्गच्छ- प्राणोऽपि च स न कथञ्चित्तदुपादातु शक्नुयात् । एवमेवं सर्वनापि । अस्माकमपीयमेवावस्थोपस्थिता । सांसारिकेषु कृत्येष्वपेक्षितानां द्रव्याणां संग्रहे वमियत् परापेक्षिणो यदस्य भीषणां परिपाकमालो- चयतो महदु :खमुत्पद्यते। तुच्छेष्वपि कर्मसु साम्प्रतं वैदेशिकामाम- नुग्रहं विना नास्त्यस्माकंगत्यन्तरमत्र । पश्यत एव ते कौशलेन तथा. हमाकं गेहमाकान्तवन्तो यत् तत्र नयनं सञ्चारयतो वैदेशिकान्येव व्यायभित आलोक्येरन, धर्मकृत्येष्वपि तान्येव व्यवस्यिन्ते, गृह- शोभाकराणि तान्येव मन्यन्ते, विलासोचितानि तान्येव गण्यन्ते, गौर. वहानि च तान्येव विचायन्ते । म केवलं कटिलकलाप्रवीणैर्वैदेशिक .
२०४ मिलगाष्ठा-पालका। गृहमेवास्माकमधिकृतम्, हदयपि नस्तेषामेवाधीनं सम्पनम् । यथा ते नर्तन्ति, तथैव नृत्यामः, यसे साधुषा मसाधु वा कथय- न्ति, यन्त्रपुत्तलीवत् तत्प्रतिध्वनि मेवाविष्कुमः। तेषामेव कल्याणेन सुन्दरमपि स्वदेशशिल्पं चरणावताडनेन दूरतः क्षिपामः, वस्तुतो वैदेशिकादुत्तमतरमपि स्वदेशोयं द्रव्य मुक्तकण्ठं निन्दामः । भार- तंतिवृत्ताक्षराणि भारतभाग्यदोषेण साधारणेष्वप्रकाशितान्यपि ना- धापि विलुप्तानि । किञ्चित्परिचिताक्षरैरपि तान्यनुसन्धाय द्रष्टु शक्यन्ते देशहितचिकीर्षुभिर्विहितानि विधीयन्ते च साम्प्रतं तानि सु- लभानि, तदालोचनया ज्ञायते यद-यद्भारतमद्य पैदेशिककरुणा- कटाक्ष मन्तरा वसनाभावेनात्मनो लजानिवारणसमर्थं सम्पन्नम्, तदेव नातिपूर्व देशान्तराणां लज्जां विनिवार्य विलासवस्तुसम्भार च स. म्पाथ परोलक्षाणि धनान्युपाजयित परं समर्थमासीत्, यद्गारतेऽद्य समुद्रोपकलवत्तिषु नगरेष वैदेशिकानां वाणिज्यपोतानां समुच्छिनै- गुणवृक्षकैगंगनमण्डलं समाकीर्णम् तदेवानतिपूर्वं महासमुद्रमुत्तीय अपरापरदेशानुपस्थाय न खलु हीनतरं गौरवमध्यगच्छदिति । आ- मोदरं कथमिव पूरयितु शक्यत इति भारतं नानभिज्ञमासीत्, निस- र्गोह्ययं, यत्स्वोदरपूरणं नाम, तियंञ्चोऽप्यन नापरमपेक्षन्ते, किमल पुनर्भारतं तादृशमभूदिति सम्भावयितुमपि शक्यते परन्त्वहो काल- प्रभावः ! हन्त च शिक्षाप्रकारो भारतीयानाम्, येनासम्भाव्यमपि स. म्भवति, अचिन्त्यमपि च स्पष्ट पुरतो दृश्यते । तिर्यग्भिरपि या क्रियते, हन्त भोः मुग्धं भारतं कतिचिद वर्षाणि बहुगौरवबुद्धा तदेवानुसरति । अथवा कृतमतीचिन्तया । भूतं यद्भवितव्यमासीत् वर्तमानमि- दानीमालोच्यताम् । अयमयम् उदयशैलशिखर मधिरूढ इव भगवान् भारताभ्युदयसहस्रकिरणः । प्रकाशिता इव दृश्यन्ते समुद्योगकिरण मालिकया अन्धतामिस्रमया भारतीयहदयाकाशभागाः । अवहतीवा नुकूलः सुभगो मातरिश्या । अपहतकण्टका व समुउज्वला भानि पाती सम्पादकाभिमायाश्च । २०५ पन्धानः । उच्चस्तिष्ठन्तीय प्रहगणाः प्रसीदतीष व भगवती मषि- शव्यतापि । तदलं विलम्बितेन, उत्तिष्ठन्तु आगच्छन्तु च सर्वे, याव. छक्यं प्रयतेमहि वयं पुनरपि प्रसादयितु देवी भारतलक्ष्मोम् । सङ्कल्प्यता सबै न षयमितः प्रभृत्यात्मोदरं पूरयितुपरकरुणाकटाक्ष- मीक्षेमहि । न किं पैदेशिकानामिवैव अस्माकमपि तदेव चक्षुः, तदेव श्रोत्रम्, तदेव च पाणिपादमस्ति ? न वयं गाव इव घासकवलं चवं. यामः । म सालु नास्माकं बुद्धिः शास्त्रेषु वा शिल्पेषु वा यथोचित क्रमते । न वा नामदारते सम्प्रत्यपि स्वल्पत्वेऽपि शिल्पादिव्ययवह. नोचितं धनमस्ति। न वा नास्ति देहबन्धेऽपि तदई सामथ्यम् । केवलं यदभावादिदं दौगत्यं सा हि 'इच्छा' नाम । यदीयम् इच्छा स्यात्, तर्हि सत्स्वप्यपरेषु साधनेषु किमित्यस्मत-समीहितं न सि- द्धत् ? पश्यत, यदेते तन्तुवाया स्तुरीवेमादीनि वयनसाधनानि दूर परिवज्यं भिन्नामेव जीविकामाश्रित्य स्वावश्यकवसनोत्पादनेऽप्यस. मर्थाः सन्तः साम्प्रतं पुनरपि प्रागिव सोत्साहं प्रतिदिनं प्रभूतानि व. स्त्राणि बयन्ति, किमन कारणम् ? कारणम्-पूर्व वयं तस्य तप- स्विनः कुविन्दस्य सुन्दरमपि वस्त्र चरणाघातेनापाकाम, इदानीन्तु तत्सादरं स्वीकुम्म इति । इत्थमस्माकमेवापराधेन भारतशिल्पावि मन्दी भूतानि । अद्य तावत्तद विरोधेव योऽयं देशव्यापक उद्योग भारम्धः तेन शिशुरपि सम्भावयति तर्णमेव भारतं प्रतिदिनापेक्ष सकलमेव वस्तु सम्पादयितुप्रभविष्यतीति । यः पुरुषः 'महे भार- तीय' इति स्वल्पमप्यभिमानं पुष्णीयात, तस्य निरुद्योगावस्थानस्य नायमवसरः । यावच्छक्यं सोत्साहं सर्वैरेव वैदेशिकं परित्यज्य मन्द- तरमपि स्वदेशीयमेव द्रव्यमाद्रियताम् । नात्र लेशतोऽपि संशयो यत् यद्धि भारतीयं द्रव्यमिदानी वैदेशिकापेक्षया किञ्चिद्धीनतरम् अधि. कमूल्यं वा प्रतीयेत, स्वल्पैरवाहोमिस्तचारुतरम् अतिसुलभं च सम्प त्यत इति । नहि वैदेशिकादि द्रव्याणि प्रथमत एव इत्थं सुलभान्या- सन्, क्रमेण हि तेषां सौलभ्यं जातम् । भारतोयद्रव्येऽपि स एव नि. .
। मित्रगोष्ठी-पत्रिका यमो न विस्मरणीयः । भारतयन्त्रोत्पन्नं यद्यपीदानी वैदेशिकापेक्षया स्थूलं भवति, भवतु नाम तत् तथा, न तेन किश्चित्, स्थूलमेव तद्वं गृह्णीयाम । नहि स्थूलवसनेन अजाक्षतिरुत्पत्स्यते, न पा तेन गौरव- हानाशङ्का । कस्त्वां निन्दियति ? गृहीतस्थूलवसना हि सर्व एव वयं समानाः । काले चेदमेव स्थूलं वसनं सूक्ष्मतया परिणस्यते । अब नितान्तं सूक्ष्मवसनेच्छा, किञ्चिदधिक मूलरामप्यताम्, ढाका-- न्दनगर-शान्तिपुरा त्पन्नानि सुबहूनि सूक्ष्मतमानि रमणीयानि वसनान्युपलभ्येरन् । भारत हीदं न इलैण्डादिसहशं स्थानम् । अ. स्मिन् हि अस्य अवश्यापेक्षं सर्वमेव वस्तु लन्धु शक्यते इलैण्डं तु परदेशोत्पन्न शस्यं विना प्राणितुमेव न प्रभवेत् । यद्वि वसनादिवस्तु भारते विदेशेभ्य आगच्छति, मूलोपादानन्तु तस्य प्रथम भारतादेव संगृह्य तत्तत्स्थानेषु प्रेयंते । मूढा वयं यदीदृश्या सर्वसुखमय्या भारत वसुन्धरायां स्थित्वापि हन्त कुक्कुरा इव प्रभूणां चैदेशिकानां सदयां दृष्टिं पश्यामः, तेन च शयनासनविहरणादिषु सर्वत्रैव परतन्त्राः सन्तो दुःखमपि सुखमिति धारयामः । इदानी चक्षुरुन्मीलितं, चैतन्य चोदितम् अवधीयतां-यथा बहुकौशल कुशलैदेशिकरुपच्छन्दिता वर्ष मधुविषाममिव वैदेशिकानां द्रव्यं न गृहोम इति । स्मयंताम्- "सर्व परवशं दुःखं, सर्वमात्मवशं सुखम्” इति । :0: " अनुकलो गळहस्तः”। एतावन्ति वर्षाणि तावता श्रमेण तावता चार्थव्ययेन स्वदेशहित- चिकीर्षको वाग्मिनः पत्रिकासम्पादकाश्च जनानां हृदयेषु यं खलु स्व- देशप्रेमाणं जनयितु नाममन्त, स एवाद्य सपदि वणव्यवच्छेदरूपं निमित्तमुपादाय प्रबलेन रंहसा स्वत एव समुत्पनः । बङ्गानामेकस्या अपरा सीमानं गच्छ, पश्यः बालस्य वा तरुणस्य पा, प्रौढस्य वा स्थापरस्य वा स्त्रोजनस्य वा, सर्वेषामेव हृदयं स्व देशप्रेम्नो रमणीयन .
। वार्ताः सम्पादकाभिप्रायाश्च । मधुरिम्णा स्फीततरमुल्लसति, सर्वेषामेव वदनं स्वदेशोन्नतिमेवाल- पति, सर्वेषाञ्च प्रयासः तद्विषयक एव भवनभितः प्रस्फुरतीति । न केवलं वङ्गानामेवायं भावः, योऽसौ महान् प्रवाहो घङ्ग ककोणे समुज्जृम्भितः, पश्यत्स्येव सर्वेषु स प्रचुरेण वेगेन समग्रमेव भारत- माप्लावयन् देदीप्यते। सर्वेष्वपि देशेषु गृहाम्तर्वा बहिर्वा समानमेव चित्रं प्रतिभासते। सर्ववैक एव व्यवहारः-परित्यक्तवैदेशिका- स्तुव्यवहारा वयं स्वदेशोत्पन्नमेव सर्वं गृह्णीयाम अप्राप्यं च स्वयमु- सादयामेति । ये हि धनिनः पूर्व नयनधारिणोऽप्यनयना इव मनसा भारताहितमबबुध्यमाना अप्यबुद्धा इव भारतोन्नतये न किञ्चिद- कार्युः, त एवेदानीमग्रणीत्वमवलम्ब्य वस्त्रादिसम्पत्तये यन्त्रादिकं स्थापयन्ति, यथोचितं च तांस्तानुपायान् विदधति । कैनिद आज लोपत्रिकासम्पादकः कतिभिश्चान्यैस्तत्पदानुसारिभिर्भारतविषकैः भारतीयानामयमुद्योगः सायज्ञमुपहसितः न तदानों तैरदूरदर्शिभि- रुत्प्रेक्षितमासीद यद् भारतोया अन्योन्यमैकमत्येन श्यदगुरुतरं कृत्य- मनायास लीलान्यायेनैव कत्तुं क्षमेरनिति । साम्प्रतं तु नयनसम्मुख- मेव तदिदमचिन्तितचरं वृत्तमालोकयतां तेषां विस्मयरसपरीतमिव हृदयमण्डलं संवृत्तम् । दुरोदकर्कोऽपि वणव्यवच्छेद पवैतस्य निखि- लस्य परिवर्तनस्य बीजम् । अतएव कथयामःसोऽयं भारतीयानाम्- "अनुकूलो गलहस्त" एवेति । ऐक्यसूत्रबन्धनम्। भारतशासकमतेन सौराश्विनस्य त्रिंशे दिवसे (१६ अक्टोबर, १९०५) वङ्गानां कांश्चिद् भागानाच्छिद्य साम् 'आसाम-प्रदेशैन भारते कोऽप्यभिनवो विभागो भारतीयानां हृदयममव्यथया सह सृष्टः। अनिच्छतामपि पूर्वोत्तरवाधिवासिनां भ्रातृणां परस्परं विच्छदबी. जमुप्तं तस्मिन्नहनि भारतसम्राटप्रतिनिधिना । विभक्त ऽपि बङ्गभूमि- मण्डले न घयं हृदयेन भिन्ना इतीदं तु मिथो निवेदयितुमेकैकैः पूर्व ।
। २०८ पित्रगोष्ठी-पत्रिका। वनाधिवासिभिः पश्चिमवाधिवासिभ्यः, पतैम तेभ्यस्तस्मिनदिने पीतरागरञ्जितं सूत्रमेकं प्रहितम् । ऐक्यबन्धनसूचकमिव तत्सूत्रं सर्व प्रकोष्ठे धृतमासीत् । स्वस्वविभागस्थितैरपि बङ्गीयैरन्योन्यमिय पीतसूत्रविनिमयः कृतः । तदानी तेषां परस्परं हृदयानुभूतस्यैक्यस्य वदनमण्डलसूच्यमाना मनोहारिणी छविः कस्य नामप्रेक्षकस्य नातित- मामानन्दमुदपादयत् । प्रतिवर्षमेवेदमैक्यसूत्रबन्धनं क्रियेत। श्रेयो हृदयैक्यं स्थानक्यात्। स्वदेशद्रव्य व्यवहारे वङ्गीय पण्डितानामुघोगः । घडीयानां संस्कृतपण्डितानां समाजसंस्कारे देशाभ्युदये चैता. वन्तं कालं वर्तमान दुरन्तमौदासीन्यं क्रमेण विलीयमानमिव लक्ष्यते। स्मृतमिव साम्प्रतं तैयंत् निधनानामपि तेषां प्रयासेन देशसमाजादी- नामनन्यसाधारण प्रभूतं कल्याणं साधयितु शक्यत इति । मभित एव श्रूयते-पण्डितमहोदयः समितिषु सम्मिल्य शास्त्रीयप्रमाणोप- न्यासपूर्वकं वसनलवणशकरादीनां देशान्तरागतानां द्रव्याणामव्यवहा- र्यता उच्चैरुतरामुक्षुष्यते, स्वयं प्रतिज्ञाय चान्येऽपि तद्जनं प्रतिज्ञा- प्यन्ते चेति । इदमप्यस्मत्कणंगोचरमागतं केऽपि पण्डिता एव. मेवार्थ व्याख्यातु स्थानात् स्थानं पर्यटन्तीति । जानीमो वयम्- "यद्यदाचरति श्रेयांस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते" ॥ इति ॥ अतः श्रेयोभिः पण्डित महाशयै सतदाचयंतां, तच प्रमाणं क्रियता येन ताननुवर्तमाना लोकाः श्रयसो न परिभ्रश्येयुः; अमर्थ च न - च्छेयुः। असन्दिग्धमिदं यद यदीत्थं ते कानिचिहिनानि प्रयासमा. वध्युस्तहि तेषु निसर्गश्रद्धालवः साधारणजना न पुनदेशिकवस्तुव्य. वहारस्य नामापि मुखतो गृह्णीयुरिति । संस्कृतविदुषां तमिमारम्भ वयं हृदयेन समर्थयामहे । प्रसीदतु भगवान् विश्वम्भरः, प्रपूरयतु च भारतम् अनन्यनिरपेक्षं स्वकीयमुदरम् । यत -
मित्रगोष्ठो-पत्रिका।
( मासिकं संस्कृतपत्रम् ।)
सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम्"।
ऋग्वेदः।
द्वितीय वर्ष } १८२७ शकाब्दाः, अग्रहायणः। { अष्टम संख्या
वेद वृत्तान्तः।
२
.
धूतवनम् ।
ऋग्वेदस्य दशममण्डलीयं चतुस्त्रिंशं सूक्त सुष्टु खलु घतका-
णां परिणाम प्रदर्शयति । अस्मिन् सूक्त १४ चतुर्दश ऋचः सन्ति ।
१,७,९,१२,१३ ऋक्षु अक्षकृषिप्रशंसा, अपरासु तु अक्षकितव.
नन्दा । अस्य सूक्तस्य ऋषि: कषष ऐलुषो नाम, मौजवान वा।
हुषु वैदिकमुक्तषु तदेवनपरिचय उपलभ्यते। इदन्तु सूक्त नि-
[न्तिं मनोरममिति भावार्थन पाठकानां पुरत उपस्थाप्यते :
"प्रावेया या वृहतो मादन्ति प्रवातेजा इरिणे ववृतानाः ।
सोमस्येव मौजवतस्य भक्षो विभीदको जाविमा मच्छान
बृहतोऽक्षा यदा पाशकाधार तत इत: सञ्चरन्ति, तदा ते मां
कामं मादयन्ति। मुजवत्पर्वतोत्पन्न-सोमलतारसास्वादनवत
भीदककाष्ठनिर्मिता अक्षा मामुत्सान्ति प्रीणयन्ति च ।
२
'न मा मिमेथ न जिहीथ एषा शिवा सखिभ्य उत मद्यमासीत् ।
अक्षल्याहमेकारस्य हेतोरनुव्रतामप जायामरोधम्" ॥
"
॥
*
मूजवान नाम कोऽपि पर्वतः । तत्र सोमलतोत्पद्यते ।
२१० मित्रगोष्ठी-पत्रिका। एषा मे पत्नी घ तदेवनातो कदापि मामखेदयत, न वापस यत, सा स्खलु मां वा, मम पन्धून् वा प्रति शिवैवासीत् । महन्तु के वलमल्यातिप्रियस्य अक्षस्य हेतोस्तामनुव्रताम् अवधीरितवान् । ३ "द्वष्टि श्वश्रूरप जाया रुणद्धि न नाथितो विन्दते मद्धितारम् । अश्वस्येव जरतो वस्य नाहं विन्दामि कितनस्य भोगम्" ॥ ध तकारं तस्य श्वश्रू ष्टि, जाया च परित्यजति । स हि याच. मानोऽपि न कुतोऽपि किश्चिदधिगच्छति, विक्रयार्थमुपस्थापितम वृद्धस्याश्वस्येव नाहं कितवस्य कमप्युपयोगं पश्यामि । "अन्ये जायां परिमृशत्यस्य यस्यागृध दने वाज्यक्षः । पिता माता भ्रातर एनमाहुन जानीमो नयता वद्धमेतम्" ॥ यस्य अश्यरूपोऽशो धनगृच भवति, अन्ये जनास्तस्य जायां स्पृ. शन्ति ( सा व्यभिचारिणी भवतीति भावः ) पिता माता भ्रातरध कथयन्ति-"नैनं वयं जानीमः, बद्ध में नयत ( पुरुषाः) । . यदादीध्ये न दविषाण्येभिः परायद्भयोऽवहीये सखिभ्यः । न्युप्ताश्च बभ्रवो वाचमकतें एमीदेषां निष्कृतं जारिणीव" ॥ यदहं चिन्तयामि नैभिः क्रीडासहचरैरक्षान् देविष्यामोति, तदा क्रीडार्थ गच्छद्भिः सखिभिस्त्यक्तः सन्नहं तिष्ठामि। किन्तु यदा पश्यामि पिङ्गलवर्णा अक्षाः पाशकाधारोपरि निक्षिप्ताः शब्दायन्ते, तदा नाहं स्थातु शक्नोमि-व्यभिचारिणीव स्त्री स्वोयपतिम् एषां सखीनां समीपेऽहं द्रुतं गच्छामि । ६ "सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा शुशुजानः । अक्षासो अस्य वितिरन्ति कामं प्रतिदीब दधत आकृतानि" ॥ कितवः किं भो जेष्यामीति' पृच्छन् शरीरेण वद्धमानः ( सस्प- बेद वृत्तान्तः। म् ) समां प्रविशति । परन्तु अक्षाः प्रतिपक्षाय एतदीयं धनादि समर्पयन्त । एतस्या भिलाषं व्याहतं कुर्वन्ति । "भक्षास इदं कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः । कुमारदेष्णा जयतः पुनहणो मध्वा संपृक्ताः कितवस्य पहंणा' । अक्षाः खलु अङ्क शयुक्ता इव, निच्छेदका स्तपना स्तापप्रदानशी. लाच । एते हि जेतृजनाय प्रथम किञ्चिदालोचितं कीडनक प्रदाय पश्चात प्रन्ति । एवमप्येतेऽक्षाः कितवजनानां मधुसंपृक्ता इव प्रतिभान्ति । ८ "त्रिपश्चाशः क्रीलति व्रात एषां देव इव सविता सत्यधर्मा उग्रस्य चिन्मन्यवे ना नमन्ते राजा चिदेभ्यो नम इस करोति' । एषां त्रिपञ्चाशत्संख्यकानामक्षाणाम् एष समूहः सत्यधर्मा सवि- तेव शोभमानः क्रीडति । उग्रस्यापि जनस्य मन्युना नैते घशीभूता भवन्ति । किं बहुना राजाप्येतान् नमस्करोति । १ . "नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते । दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निहन्ति" । एतेऽक्षाः क्षणं नीचा वतन्ते, क्षणाश्वोपरि स्फुरन्ति । यद्यषां हस्तो नास्ति, तथापि हस्तवन्तं जनं पराभवन्ति । पाशकाधार निक्षिप्ता एते दिव्या अङ्गाराः ( अक्षरूपाः ) शीतला मपि मनाना हृदयं दहन्ति । १० "जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः कस्वित् । ऋणावा विभ्यद्धनमिच्छमानोऽन्येषामस्तमुप नक्तमेति॥ कितवस्य जाया हीना सती तप्यते, यत्र कापि चरत: कितपस्य पुत्रस्य मातापि तप्यते । उत्तमणः प्रदत्तं धनं तस्मात कितवात् पुनः मित्रगोष्ठी-पत्रिका। प्राप्यत न घेति बिभेति । स्वयं च स कितवो मासार्थ रानावन्येषा पृहमुपसपंति । ॥ . "स्त्रियं दृष्ट्वाथ कितवं ततापान्येषां जायां सुकृतं च योनिम्। पूर्वाह्न अश्वान्ययुजे हि बझून्तसो अग्नरन्ते वृषलः पपाद'' ॥ धूतकारो यदा पश्यति तस्य स्वकीया स्त्री दुर्दशाग्रस्ता, पर. कीयास्तु स्त्रियः सुसमृद्धाः, परकीयाणि च गृहाणि सुन्दराणीति, तदा नितान्त खिनो भवतीति । स हि घ तकारः पूर्वाह्न पिङ्गला भश्वान् ( अक्षरूपान् ) अयुनक, किन्तु क्रीडान्युपशमे स दीन इव व्यचरत । “यो वः सेनानीमहतो गणस्य राजा वातस्य प्रथमो बभूव । तस्मै कृणोमि न धना रुध्मि दशाहं प्राचीस्तहतं वदामि" ॥ युष्माकं महतो गणस्य मध्ये यः सेनानीः यश्च युष्माकं वातस्य मध्ये राजा, तत्पुरतोऽहं दशाङ्ग लिभिरञ्जलिं पनामि, नाहं मदीयं ग्लहं रुणमि इतीदमहं सत्यं वदामि । १३ "अक्षर्मा दीव्यः कृषिमिन् कृषस्व वित्ते रमस्व बहुमन्यमानः । तत्र गावः कितव तत्र जाया तन्मे विचष्टे सवितायमाय:"*। हे घ तकार, अर्मादीव्य कृषिमेव कुरु, तदुपाजितं वित्तं बहु. मन्यमानस्तस्मिन्नेव रमस्व । कृषिकर्मणैव गावो भवन्ति, तेनैव च आया। अयमायः सविता मे इदमाह । "मित्रं कृणुध्वं खलु मृड़ता नो मा नो घोरेण चरताभि धृष्ण । नि घो नु मन्युर्विशतामरातिरन्यो वभ्र णां प्रसितौ वस्तु" ॥ * तुजनीयम्-"यलमसे निजकर्मोपात्त, वित्त' तेन विनोदय चित्तम"। "विधिवशात् प्राप्तन मन्तुघाताम्" इप्ति प्रकारः ।
घेद वृत्तान्तः। हे भक्षाः, असमाकं मित्राणि कुरुत, सुखयत चास्मान् । मास्मान् स्वकीयेन तीवंण कुहकेन मोहय, अस्मान प्रति युष्मदीयो मन्युरुप- शाम्यताम, अपरः कोऽप्यरातिः पिङ्गलवर्णानामक्षाणां वो वागुरायां निपततु। श्रीमन्तः पाठका:, विचार्यतां भवद्भिः कीदृङ् माधुर्यमस्य सूक्तस्य। यावत्सम्भाव्यं सर्वमेवास्मिअतिसुन्दरं वर्णित | तस्य । यत्सत्यमे- तद्वाचयतामस्माकमपरं किञ्चित् तद्वर्णनमवशिष्यत इति न चेतस्यु- देति । घतकारस्य पल्या दौर्गत्यम्, मानु(याकुली' पितुर्भ्रातृणां धैमनस्यम्, परिवाराणां स्रहाभावः स्वस्य च तास्ता अवस्थाः कस्य नाम पाठकस्य हृदयं नानन्दतुन्दिलं कुर्युः ? धुतकारो देवनेच्छां रु- धानोऽपि तदर्थ समागतान् बन्धून प्रत्याचक्षाणोऽपि च पाशकाधारे सञ्चलतः शब्दायमानान् अक्षानाकण्यं तामिच्छां रोद्धमसमर्थो द्र ततर सभां गच्छतीति 'यदादीध्ये नेत्यादिभिः (५) कथं हृदयङ्गमं वर्णि- तम् । * नजानीमो वयमस्य सूक्तस्य कतमामृचं प्रति पाठकानां सवि. शेषानुरागमाकर्षाम इति। * तुलनीयम् - म्हच्छकटिके द्वितीया संवाहके दशसुवणदानाक्षमतया भयाद्देवमन्दिर प्रविश्य म्यिते ज्ञाते च तथात्वन माथरात काराभ्याम्- "तकारः। कथं काष्ठमयो प्रतिमा ? माथुरः । अरे नहि नहि, शैलप्रतिमा। ( इति बहुविधं चालयति, संज्ञाप्य च ) एवं भवतु, रहितं क्रीडावः । (बहुविधं दमतं क्रीडतः) संवाहकः (हातेछाविकारसंवरणं बहुविधं कृत्वा खगतम् ) अरे ! कत्ताशब्दो निर्मानकस्य हरति हदयं दरिद्रस्य । काशब्द इव नराधिपस्य भष्टराज्यस्य । जानामि न क्रीडिष्यामि मुमेरु शिखरपतनखरूपं दधतम् । तथापि खलु कोकिलमधुरः कत्साशब्दो मनोहरति । घात। मम पाठः, मम पाठः।
मित्रगोष्ठी-पत्रिका। घ तदेवनस्य तैस्तैः प्रकारैर्दुरीदकत्वं प्रतिपाद्य परमर्षिण कषण- अर्मा दोव्यः कृषिमित कृषस्व वित्ते रमस्व बहुमन्यमानः । तत्र गावः कितव तन जाया तन्मे विचष्टे सवितायमायः॥ इत्युपसंहृतमिति यत्सत्यमतितमा रमणीयानि खल्वेतान्यक्षराणि कियत्सरलं कियञ्च नैसर्गिकमिमिति सचेतस एव विचारयन्तु । एमारशैः परोलनिरुपमै रतरूपशोभितमपि घेदं षयं नास्ति तत्र किञ्चिदालोच्यमिति मन्वाना इव यन्नानुशीलयामस्तदेव नितान्त दुःखमुत्पादयति । विधुशेखर शर्मा। :0: महानाटकम्। मस्ति किलेयं किंवदन्ती-महानाटकं नाम अन्य किष्किन्धाधि- पतेः सुप्रोवस्य सहचरो हनूमान् निर्मितवान् इति । भतएव 'हनुम- माटक'मित्यस्यापरं नामधेयम्। इदं च प्रसिद्धमस्ति यद हनूमता महानाटकीयाः श्लोका आदौ पाषाणफलके उत्कीर्णाः, ततः कारण- विशेषेण काले तेषु प्रस्तरफलकेषु समुद्रनिमग्नंषु तत उद्धृत्य मधु- सूदनेन कविना प्रन्थाकारेण ते सजीकृता इति । यद्भवतु, कोऽ' हनुमान कविरिति विचार्यम् । किमयं त्रेतायुगावतारी दशवदनदहन कारी भगवतो रामभद्रस्य सेनानीः उत तदाख्यः कश्चिन्मनुष्य एवेति संशयः सामाजिकानां चेतसि भवितु युक्त एव । नहि शास्त्रामृगस्य काव्यनिर्माणे शक्तिरस्ति । इदन्तु ध्येयम्-यदि भगवतो वाल्मीकेव- धनं सत्यत्वेन स्वीक्रियेत, तहि शाखामृगल्यैव महानाटकनिर्मातृत्व- माधुरः। न खलु, मम पाठः, मम पाठः । संवाहकः । ( अग्यतः सहसोपहत्य) ननु मम याठः" । सर्वे घों बोधमोकार्थमन्त्र संस्कृतमेव सनिवेशितम् ।
कथं महानाटकम् । मस्तु । अन्यथा मानुषी जानको प्रति तस्य दूतत्वं नितान्तमसङ्गत- मेव प्रतिभाति । कथं नु तस्य स्त्रोजनप्रतिपत्तिकारिणी वाक, समस्यावसथावर्णनं सीतायास्तत्र विश्वासोत्पादनं च सङ्गच्छतु । अथ वाल्मीकेवंचनं न तथात्वेनाङ्गीकृतं भवेत, तहि कश्चित्तदाख्यो मानुषः कविरेष तत्प्रणेतास्तु । सुग्रीवसहचरस्य हनूमत एतत्काव्यनि- तृत्वे त्रेतायुगीयं तदिति वक्तव्यम् । अपरस्मिंस्तु पक्षे कालिदास- भवभूत्यादिभ्योऽर्वाचीनमेवेति कथनीयं स्यात् । यथा चेदं तथोपरि- टात् स्पष्टो भवेत् । - महानाटकमिदं कलिकातायां मुम्बानगर्या च प्रकाशितम् । उभयोः पुस्तकयोरङ्कसमावेशे वृद्धिहासावनुभूयते । कलिकाता पुस्तके नवा- कुमात्रं दृश्यते, मुम्बापुस्तके तु चतुर्दशाङ्काः । किञ्चादिमे पुस्तके प्रत्य- समाप्तो–“एष श्रीलहनुमता विरचिते श्रीमन्महानाटके, श्रीमधु. सुदनेन कविना सन्दभ्यं सजीकृत...'' इत्यादिश्लोकदर्शनात् प्रागुक्ता किंवदन्ती समयंते,मधुसूदनकवेश्च श्लोकानां ग्रन्थाकारेण सजीकर- णमधिगम्यते । अन्तिमे तु दामोदरमिश्रः सन्दर्भकार इति लिखितम् । भन्यच्च सन्दर्भकारौ काव्यान्तरेभ्यः संगृह्य कांश्चित् श्लोकान् महानाटके संनिवेश्य किं तेषां काव्यानां मूलकविरेव प्रणेता, अपरे वा केचि- दिति संशयमुत्पादयतः । एतश्च किञ्चिदनुपदमेव प्रदर्शयिष्यामः । आलोच्य काव्यमिदं महानाटकसंज्ञयाभिहितं भवति, परं न जानी- महे कथमस्य नाटकत्वं स्यादिति । नाटके यान्युचितानि, विहायाङ्क प्राय एव तानि न सन्त्यत्न । 'पञ्चादिका दशपरा' हीहाङ्का इष्यन्ते, मुम्बापुस्तके तु चतुर्दशेऽङ्क ग्रन्थसमाप्तिदृश्यते । प्रवेशनिष्क्रमणा- दिकमप्यत्र नास्ति। यद्यप्यत्र अन्तरान्तरोक्तिप्रत्युक्तिदृश्यते, न त- थापि तावन्मात्रेण किमपि नाटकं भवितु महति । प्रवेशकविष्कम्भ- कादीनां नामापीह न कृतं ग्रन्थता। न निवेशितं पताकास्थानम् । नोक्ताः सन्धयः । न प्रयुक्ता च नाटकरीत्या स्त्रीणां नीचपात्राणां च पाकृतभाषा । अत एतनाटकत्वादपि हीयते, कुतः पुनरस्य महत्ववि- रधु- मित्रगोष्ठी-पत्रिका। शेषणं सङ्गच्छताम् ? एवमप्यस्य नाटकत्वस्वीकारे श्रन्यकाव्यानां वंशादीनामपि तथात्वप्रसङ्गः। दृश्यश्रव्ययोश्च काव्ययोर्भेदो न स्यात अन्धेऽस्मिन् पद्यन, कदाचिच्च गद्य न रामचरितं पणिराम्। अतो गद्यपद्योभयरूपत्वादस्य 'चम्पू'-नाम्नैव युक्तो व्यपदेशः । तदुक्त दर्पणकृता- " गद्यपद्यमयी वाणी चम्पूरीत्यभिधीयते" । इति । 'महानाटक'मिति नाम तु संज्ञामानं, न तु नाटकत्वेनेति साधीयान सिद्धान्तः। अस्य ग्रन्थस्य कतिचिच्छोका ग्रन्थान्तरेष्वपि दृश्यन्ते, अतो म- न्यामहे तथाविधैः श्लोकः तद ग्रन्धकलेवरवृद्धिं कृत्या सन्दर्भकारैरा- त्मनोऽदूरदर्शित्वं ग्रन्थान्तरानभिज्ञत्वंच दर्शितमिति, मथवा सन्द- भ्यंमाणस्य ग्रन्थस्य सौन्दर्यविधानाय तैरन्यकत्तृकत्वं ज्ञात्वैव तेषां ग्रहणं कृतमिति । पठित्वैव च ज्ञायते न तेषां श्लोकानां मूलकविः प्रणतेति। तथाहि-हरधनुर्भङ्ग श्रुत्वा आगत्य च परशुरामो राम- चन्द्र कथयति- "येन स्वां विनिहत्य क्षत्तास्त्रमध्वासव. स्वादाभिज्ञपरश्वधेन विदधे निःक्षत्तिया मेदिनी। यद्वाणवणवत्मना शिखरिणःकोञ्चस्य हंसच्छला. दद्याप्यस्थिकणाः पतन्ति, स पुन: कुद्धो मुनिर्भार्गवः॥ स्त्रीषु प्रवीरजननी जननी तवैव, देवी स्वयं भगवता गिरिजापि यस्य । त्वद्दोवंशीकृत विशाखमुखावलोक- क्रीडा विदोर्णहृदया स्पृहयाम्बभूव ॥ इति जातः सोऽहं दिनकर कुले क्षत्तियः, श्रोत्रियेभ्यः" । मातरमपि रामः। तथा- - अन्यत्र च- पुगेजन्मा नाद्य प्रभृति मम रामः स्वयमहम्, न पुत्तः पौत्तो वा रघुकुलभुवां च क्षितिभुजाम्" । इति ।
- महानाटकम् । सधैऽपि लोका मुरारिमिश्रकते मनधरायवे सन्ति । कि- 'रोऽभिचारि चरुभाण्डमिव स्तनं यः" । दिः श्लोकोऽनधंराघवस्थ एप । तत्र 'रक्षोऽभिचारचकमाण्ड'- पीडशः पाठः । मन्यत्तुल्यम । 'जाति मानय मानुषीमभिमुखो रष्टस्त्वया हैहयः'। इत्यादिश्लोकोऽप्यनर्धराघवीय एष । किं बहुना प्रायः प्रत्यक- निर्धराघवीयः श्लोको दृश्यते । न केवल मुरारेरेष श्लोका महा- युके, किन्तु कालिदासभवभूत्योरपि । यथा- "चूडाचुम्बित ककपत्रमभितस्तूणी दयं पृष्ठतो। भस्मस्निग्धपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम् ॥ पादिश्लोकः प्रियसमासस्य महाकवेभवभूतः । एव मुत्तरचरिते- "वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु किं वयंते, सुन्दस्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते"। पादिश्लोकेऽपि 'किं वयंताम्' इत्यत्र 'हुवतंताम्' इति पठित्वा हानाटके रावणानन्दसंवादे धृतः । अपिचाभिज्ञान शकुन्तले- प्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः, पनार्धन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् शपैरआंवलीद्वैः श्रमविवृतमुखन शिभिः कीर्णवर्मा पश्योदग्रप्लु तत्वाद्वियति बहुतरं स्तोकमुव्यों प्रयाति ॥ पयं श्लोको महानाटके रामकृतमारीचवर्णने धृतः। यद्यपीवं पणन रलतया मनोहारितया चास्य कवेः सम्भवति; तथापि नाप्रवन्धे संगच्छते, वनवासिनो रामचन्द्रस्य कुतस्तदानी' स्यन्दनाधिगमो वतु, येन स मृगः स्यन्दने दत्तदृष्टिः स्यात् । अतः सबंथा महा- वेः कालिदासस्यैवायं श्लोकः । इत्थं मधुसूदनादि सन्दर्भकारेण ग्यान्तरेभ्यः श्लोका उद्धृत्य महानाटके संनिवेशिताः । काव्यमिदमालोचयतां नः प्रतिभाति यन्मूल कविनादौ केषि- छका एव प्रणीता आसन, ततः काले सन्दर्भकारेणापरै रपि मधुरैः ..
- २१८ मित्रगोष्ठी-पत्रिका। लोकैः सन्दभ्य ते पुस्तकाकारण प्रकाशिता इति । यथा या भवतु। काव्यमिद रसालङ्कारादीनामाकरभूतं । सरलतया च व्युत्पादक शि- शूनापि, रचनानैपुण्येन च विनोदर्याप्त चंत: सचेतसाम् । पिरल- प्रचारमीशं पुस्तकरत्नमिति कः सन्देहः । परीक्षापाठेषु भस्य मह. णाय पाठशालाध्ययंतनीयम् । एतत्काव्यं चेन पठन्ति विद्यार्थिनः, त विफलं तेषां विद्यार्थित्वम्, निष्फलश्च तेषां संस्कृतशिक्षा अमः। भास्वाधता रसिकरस्य अन्धस्य किञ्चित् कवितामाधुर्य, परीक्ष्यतां चेदं कीडशमिति- प्राचीभागे सरागे धरणिविरहिणीलान्तवक्वे समुद्र, निद्रालौ नीरजालौ विकसति कुमुद निर्विकारेचकोरे । भाकाशे सावकाशे तमसि शममिते नागलोके सशोके, कन्द मन्दवर्षे वितरति किरणान शर्वरीसार्वभौमः ॥१॥ हे गोदावरि, रम्यवारिसुभगे, दृष्टा त्वया जानकी ? साऽऽह कमलानि किं गतवती, याता विनोदाय वा ? इत्येवं प्रतिपादपं प्रतिपथं प्रत्यापगं प्रत्यगम्, प्रत्येणं प्रतिवणं तत इतस्ता याचते मैथिलीम् ॥२॥ परवन्नेवसमानकान्ति सलिले मग्न तदिन्दीवरम, मेधैरन्तरितः प्रिये ! तवमुखच्छायानुकारी शशी। पेऽपि त्वदगमनानुकारिगतय स्ते राजहंसा गताः, त्वत्साहश्यविनोदमानमपि दैवं नहि क्षाम्यति ॥ राम, राम, तव नाम जपन्तः पामरा मपि तन्ति भवाब्धिम् । महरिभवदा लिमुद्रः किन्नुचित्रमतर पि- रब्धिम् ॥ इति ॥ श्रीचन्द्रधर शर्मा।
काशिकावृत्तिः। पाणिनि व्याकरणस्य काशिका नाम वृत्तिः सर्वत्र सुप्रसिद्धा काशि. कराजकीयपाठशालाध्यापकस्य तत्रभवतः श्रीमतो बालशास्त्रिणः प्रसा. इन साम्प्रतं सर्वसुलभा च । एतद्विषयकमेवाद्य किञ्चिचिन्तयिष्यते। इयं काशिकावृत्तिः धामनो जयादित्यश्चेति द्वयोः पण्डितयोः कृतिरिति तदावरणपृष्ठालोकनेनैव प्रतीयते । कदेयमुत्पन्नेति बहुभि- चिन्तितम् । अध्यापको बोधलिङ्गो महाशयः ( Prof. Boethlingk ) स्वप्रकाशितस्य पाणिनिव्याकरणस्य भूमिकायां (४५ पृ०) प्रायो- ऽष्टमे शतके (खी०) सा स्यादित्युक्तवान् । इदं तत्प्रमाणम्-काश्मी- रेतिहास-राजतरङ्गिणी-कारेण श्रीमता कल्हणपण्डितेनोक्त यत् का- श्मीरराज्याधीश्वरी महाराजो जयापीडोऽत्यन्तं संस्कृतानुरागी मा- सीत्, तेन स्वराज्ये व्याकरणाध्ययनस्य सविशेषप्रचाराय परं प्रयति- तम्, तस्य सभायां बहवः पण्डिता आसन, तेषां नामानि यथा:- कृष्णः (अयमेव धातुतरजिष्णीकार इति बलर-( Buhler )महाशयः), दामोदरगुप्तः, मनोरथः, शवदत्तः, चाटकः, सन्धिमान, घामन- श्चेति । अयमेव वामनः काशिकावृत्तेरन्यतरो प्रन्थकार इति । जया- पीडश्चाष्टमे शतके भभूदिति । अत्रेदं विवेच्यं-यदि जयापीडस. भास्थो वामन एव काशिकावृत्तेरन्यतरः कर्ताभविष्यत, किं तर्हि कल्हणपण्डितो न तन्महदवृत्तमवर्णयिष्यत; किमिति वा तेन अपरा. पर पण्डितानां नामान्युल्लिख्य प्रसिद्धतरस्य वामनस्य नामधेयमा सर्वशेषे सनिवेशितमिति । श्रीमान् विल्सन महाशयः( Wilson, Asiatic Researches, Xv. 2. 55 ) कथयति-जयापीडसभास्थो वामनः काव्यालङ्कारसूत्रवृत्ति व्यरचर्यादति । वामनकृत-काव्यालङ्कारवृत्तेः प्रकाशकेन श्रीमता कप्पेलरमहाशयेन तु ( Dr. Capp ller ) तद्भुमिकायामुच्यते-वामनेन काव्यालङ्कारसूत्र तवृत्तिश्चेत्युभे एव विरचिते; तत्र च तेनैतेषा . ..
। २२० मित्रगोष्ठी-पत्रिका। नामानि धृतानि-शूद्रको-मृच्छकटिककारः, कालिदासः, भमरः, भवभूतिः, माघः, हरिप्रभः, कविराजः, कामन्दकीनीतिः, नाममाले. त्यादयः । अत्र यधयं कविराजो राघवपाण्डवीयकारादभिन्नः स्यात- यो हि दशमशतकोत्तरवर्तीति निर्णीयते, तर्हि काव्यालङ्कारसूत्र- त्तिकारो वामनोऽवश्यमेव दशमशतकोत्तरवर्ती भवेदिति । अष्टम- शतकोत्पन्न जयापीडसभास्थो वामनः कथमस्मात् कान्यालङ्कारसूत्र. काराद वामनाद भित्रो भवत्विति कप्पेलरमहाशयो विचारेण काव्यालङ्कारसूत्रवृत्तिकृतं वामनं द्वा- दशशतकोत्पनत्वेन निर्णीय कथयति यदयमेव वामनः काशिकावृत्ति- कार इति । कप्पेल्लरमहाशयेन श्रीबालशास्त्रिणो मतमेव प्राधान्येन स्वीकृतम्। तत्रभवान् श्री बालशास्त्री माह-१५९५तमशकाने (१६७३वी०) धामनो नाम कश्चित् "लोकोत्तरालतकाव्यनिर्माता" महाराष्ट्र भाषाकविरासीत, काशिकाकारो धामनस्तस्माद वामनात् पञ्चवर्ष- शत्या प्राचीन इति । तथाच काशिकाकारो वामनो द्वादशशतकोत्पर भासीदित्यायाति । अत्र तेन 'नवनीत'नामके महाराष्ट्रभाषीयकाव्य- संग्रहे तत्सम्पादकेन यदुक्तं तदेव किञ्चिदनुल्लिख्य स्वीकृतम् । का. व्यालङ्कारसूत्रवृत्तिकारण आलङ्कारिकेण वामनेन काशिकाकारस्य पै. याकरणस्य वामनस्य कोऽपि सम्बन्धोऽस्ति न वेति न किमप्युक्त तेन। मध्यापको गोल्डष्टुकारोऽपि (Professor Goldstucker, Panini P. 89) सविशेषं प्रमाणमनुपन्यस्यैव सिद्धान्तकौमुदी-नागेश-पुरुषो- तमादिसमकालीनैव (प्रयोदशशतकादप्याचीना ) काशिकावृत्ति- रित्यभिहितवान् । एतन्मीमांसायाः पूर्वमिदमेव तावनिर्णेयं किमियं काशिका केवल पामनेनैव विरचिता, माहोविजयादित्येनापीति । कोलन क-( Colebrooke, Sanskrit Grammar P. 9) महाशयस्य मते काशिका वाम- मेन मथवा धामनजयादित्येन नाम केनचिदेकेनैव रचितेति ।
- काशिकावृत्तिः । श्रीमता बालशास्त्रिणा प्रथमं तावद वामनजयादित्यनामा एक एप पुरुषः काशिकाकार इति मतं (काशीस्थ-'पण्डित'-पत्रे, १८७८ ६०, जुन, पृ० २०) प्रकाश्य काशिकाप्रकाशसमये वामनजयादित्यौ पर- हपरं भिन्नाविति सप्रमाणं प्रदर्शितम्। तदिदं "भट्ठोजिदीभितकृत- प्रौढमनोरमायां' तद्धितप्रकरणस्य-बह्वल्पार्थाद इति ( ५४५२. ) सूत्रे 'एतत्सर्वं जयादित्यमतेनोक्त', वामनस्तु मन्यत' इति तयोः पा- थक्येन प्रदर्शनात्, 'प्रथमद्वितोयपञ्चमषष्ठा धामनकृतवृत्तयः, इतरे जयादित्य कृता इत्यभियुक्ता' इति, तत्रत्यशब्दरनग्रन्थाच्चतरेतर भि- मावेव ( वामनजयादित्यौ ) इति'। अध्यापको देवदत्तापराख्यः अक्टमहाशयः ( Professor Auf. rechet ) स्वप्रकाशितस्य सुसंस्कृतस्य 'उणादिसूत्रस्य' भूमिकायां बालशास्त्रिणः परं मतं पूर्वमेव प्रदर्शितवान् । श्रीमता बालशास्त्रिणोक्त यत् काशिकायाः प्रथम-दितीय-पश्च- म-षष्ठाध्याया वामनकृताः अपरे तु जयादित्यकृता इति । किन्तु डा० श्रीमता बूलरेण ( Dr. Buhler ) काश्मीराधिगते प्राचीने हस्त- लिखितपुस्तके ज्ञायते यदादिमाश्चत्वारोऽध्याया जयादित्यकृताः, म- न्तिमास्तु चत्वारो वामनकृता इति * । यथा वास्तु, वामनजयादित्या- भन्योन्यं भिन्नाविति निश्चय एव । शब्दकोस्तुभे, मनोरमायां चायं श्लोक उपलभ्यते : बोपदेवमहाग्राहग्रस्तो वामनदिगगजः । कीसरेव प्रसङ्गन माधवेन विमोचितः” ॥ इति ॥ रतेन काशिकाकारो घामनी वेदार्थप्रकाशकभाष्यकाराद माधवात्, नतोऽपि प्राचीनाद बोपदेवाश्च प्राचीन, इति स्पष्टमेवावबुध्यते । श्री. मान् मोनमूलरमहाशय उदाहृतश्लोकस्य याथार्थ्यं स्वप्रकाशितस्य See Journal of the Bombay Branch of the R. A. S. 1877. P72 and Professor Kiclhorn's Katyayana and Patanjali. - P. 12 note.
यत् मित्रगाष्ठी-पत्रिका अग्वेदस्य भूमिकायाम् ( २९ पृ०) समाहितवान् यद ऋगभाचे माधवेन बोपदेवो न कुत्रापि धृतः, वामनस्तु सदपि धृत इति। सायणधातुवृत्तौ वामनोऽसकृदेव धृतः । माधयः १३५० तमा, बोपदेवश्च द्वादशशतके आसीदिति बामनो द्वादशशतकात्प्राचीन इति सिद्धम् । अस्माञ्च वामनी माधवादिभ्यः प्राचीनः, यतः साय- पोन काशिकाव्याण्या-'पदमञ्जरी'-कारो हरदत्तः, न्यासापरनामधेय- 'काशिकावृत्तिपञ्जिका'-कारो 'न्यासकार' इति प्रसिद्धो जिनेन्द्रध धृतौ । योपदेवकृत-'काव्यकामधेनु'-व्याख्याकारेण चेयं 'काशिका- त्तिपत्रिका' धृता । ततश्च व्याख्याकारान व्याख्येयप्रन्धकारो प्राचीन एव भवेदिति किमु वक्तव्यम् । इदं विविच्यैव काशिकावृत्तिः द्वादशशतकपूर्ववत्तिनीति कैश्चित ( Burnel प्रमुखैः),कैश्विश्च (Buhler प्रभृतिभिः)सेयं नार्याचीना कृति रिति पूर्वमुक्तम् । पस्तुतस्तु कस्मिन् काले सोत्पन्नेति न निर्णीतम् । उभावपि वामनजयादित्यो बोद्धो जैनौ वेति प्रमाणतोऽवबुध्यते। प्रतिपादितमिदं श्रीमता बालशास्त्रिणा । यथा-आसितकैनन्थारम्भ शीनमष्क्रियादिरूपं मङ्गलाचरणं क्रियते, काशिकावृत्तो तु न तह.. श्यते, 'वृत्ती भाष्य' इत्यादावत्रत्यश्लोके “समाहृत्यान्यतन्त्राणी" त्यमरश्लोकसमानच्छायोपलभ्यते, एताभ्यां केषाश्चिद अप्रसिद्धान पदाना साधनार्थं पाणिनिसूत्रं परिवर्तितम्-यथा 'प्रामजनबन्धु भ्यस्तल' (४.२.४३ ) इतीदं सूत्रं 'ग्रामजनबन्धुसहायेभ्यस्तल' इति कृतम्, नहि कश्चिदास्तिक एवं कुर्यात् । अपराण्यपि प्रमाणानि सन्ति विशेषजिज्ञासुभिस्तस्य शास्त्रिणः काशिकाया भूमिका द्रष्टव्या । भासीत किल तदानों बौद्धानां वैयाकरणानां बहुलः प्रवारः;-यथा न्यासकार-जिनेन्द्रबुद्धिप्रभृतयः । भट्टोजिदीक्षित-हरिदीक्षित-नागेश- भट्टप्रभृतिभिस्तु परस्मिन् काले तेषां कृतिः पराभूता । यथा वा भवतु। उभावपि वामनजयादित्यौ यदबौद्धी, उभावपि च काशि- कायाः काराविति, सर्वेरेव तत्स्वीक्रियते । .
काशिकावृत्तिः। इदानी विवार्यता कदैतावुत्पमाविति । चैनिकपर्याटकस्य श्रीमतः इत्-सिं'-नामकस्य किश्चित् परिचयः पत्रिका पाठकैः पूर्वमेवाधिगतः। प्रयं महाभागः प्रायः ६३५ तमान्द चीनदेशे जातः, भारतागमनार्थ स्मात् ६७१ तमेऽन्दे निष्क्रम्य ताम्रलिप्तिनगरे ( वर्तमानतमलुक) ७३ तमाब्द आजगाम, इतश्च नालन्दविहारे बहुविद्यामधिकृत्य बहूनि बौद्धतखादीनि विज्ञाय ६१५ तमाब्द चीनदेशं प्रतिनिवृत्तः, पथ ७१३ तमाब्दे परं लोकं भेजे । अनेन स्वकीये भ्रमणवृत्तान्ते रतवर्षस्य सुसूक्ष्मा माचारव्यवहारा उपनिबद्धाः, तदानीन्तनी पठ- पाठनरोतिरपि तस्मिन पुस्तके तेनोपवर्णिता । श्रीमता इतसि-महाशयेन स्वग्रन्थस्य ३४ परिच्छेद भारतीय. शक्षापद्धतिरालोचिता। अत्रापि शब्दविद्या-विषयकमेव तेन बहू- हम् । शब्दविद्याध्ययनमनेन पञ्चधा विभक्तम् । अयमाह-पडवर्षीय लिकः प्रथम "मूलसिद्धान्तः” ( Elementary Sidhānta ) मधी. ते, 'सिद्धिरस्त्विति' च तस्य प्रारम्भे वर्त्तते । इमं सिद्धान्तं मूलतो हेश्वरोऽशिक्षयत् । षभिर्मासैलिका एनं सम्यगधिकुर्वन्तीति । 'इत्-सिं-कथितोऽयं सिद्धान्तो' 'माहेश्वराणि सूत्राणि' स्यादिति म्भाव्यते । परन्तु तत्प्रदत्तं वर्णनमेतद्विरोधि । तथाहि तेनोक्तम्-त. सिद्धान्त ४९ अक्षराणि सन्ति, तरक्षरैः १०,००० दशसहस्रतो- प्यधिकाः शब्दाः एतैः शब्दनिर्मिताः ३०० श्लोकाः, प्रतिश्लोक च २ अक्षराणीति द्वितीयं व्याकरणपुस्तक 'पाणिनिसूत्रम्' । स कथयति-मत्र २०० श्लोकाः द्वात्रिंशदक्ष रेकैकश्लोकगणनयेतिभावः विद्यन्ते लैरटमे वर्षे तत्पठनमारभ्य भष्टाभिर्मासैः सम्पाद्यत इति । तृतीयं व्याकरण पुस्तकं धातुः । भन्न १,००० श्लोकाः भयं कश्चि- मुपाठो भवेत्। चतुर्थस्त्रेधा विभक्तः खिलग्रन्थः-(१) अष्टधातुः, भत्र १,००० लोकाः, (२) मञ्चाः ( Man-ka )-मत्रापि १,००० श्लोकाः;-(३) ) । मन् २२४ मित्रगोष्ठी-पत्रिका। उणादिः, इहापि १,००० श्लोकाः । बालैदशमे वर्षे प्रन्यत्रयीमेना पठितुमारभ्य विमिवः समाप्यते । अप्रत्यो द्वितीयो अन्धः 'मञ्च' इति इत्-सिं महाशयेनोक्तम्, परन्तु कोऽयमिति प्रकामं प्रयतमानैः पाश्चात्यैरपि विद्भिनिणेतुन प्रभूयते। जापानीयविदुषा मि० कासवरेणोक्त 'मञ्च-शब्दोऽयं 'मण्डो' भवे. दिति सम्भाव्यते इति । एवमपि न कश्चिनिर्णयः। न हि तन्नामा प्रसिद्धः कोऽपि व्याकरणग्रन्थोऽस्ति । वहालोचनतत्परेण मोक्षमूल- रेण तदेव सूत्रमधिकृत्य सम्भाव्यते यद यदि ‘मञ्चो' वस्तुतो 'मण्डः' स्यात् तर्हि स शब्दा मण्डूकार्थे प्रयुक्त इति शक्यत आङ्कितुम् । पतो माण्डू केयाः व्याकरणविद्यायामतिप्रसिद्धा आसन् । • तेषामेव कापि कृतिः कृदन्तपठनसमये इत्सिं-महाशयेन ‘मञ्च' सन्देन धृता । स्मादिति। अस्मत्पर्यटकस्य पञ्चमी व्याकरणप्रन्धः पाणिनिसूत्रव्याख्यारूपं वृत्तिसूत्रम् । तेनोक्त बहुषु व्याख्यासु तदेव श्रेष्ठम्। तत्र १८,००० श्लोकाः ( अक्षरतः ) सन्ति । सूत्रस्थं पदमादाय सुष्ठु तत्र व्याख्या- तम् । पञ्चदशवर्षेलकैस्तत्पठनमारभ्य पञ्चभिवर्षेः सम्पूर्यते । अस्य प्रन्थस्य कर्ता 'जयादित्यो' नाम । तस्य प्रतिभा अत्यन्तं तीक्ष्णासीत्। स किमपि सकृदाकण्यैव सम्यगववोढुं समर्थोऽभवत् । यथोचितं धर्मकृत्यानुष्ठानं तेन कृतम् । प्रायस्त्रिंशद वर्षाणि जातानि स मृत इति। अन यदि प्रागुक्तानुसारेण इत्सिंमहाशयस्य स्वकीयभ्रमणवृत्तान्त. प्रथविरचनकालो न्यूनतः ६१० तमान्दो ध्रियेत ( सहि ६९५ तमाब्वे धोनं प्रतिगतइति प्रागुक्तम् ) तहि पूर्वोक्तपाणिनिसूत्रवृत्तिकारस्य 'जयादित्यस्य' मृत्युः ६६० तमाब्द संघटित इति शक्यत एव घक्तुम् । उल्लिखित-पाणिनिमूत्र-विषये इत्सिंमहाशयेन यदुक्तम् काशि- • See Max Muller's History of ancient Sanskrit Literature P. 146.
काशिकावृत्तिः। २२५ कावृत्तिस्तद्भाजनतामई वि। अतो नेदमयुक्त विषेचनं यत् काशिका- वृत्तिरेव तेन पर्याटकेन वर्णितेति अथेदं महत् सङ्कटमापतितम्-एकतः श्रीमता इत्सिं-महाभागेन जयादित्यः तदत्तिकार इत्युक्तम्, वामनस्य नाम तेन न धृतम् । एतद- नुसारेण जयादित्यसमयः सप्तमशतकम् ( ६६० ) इति वक्तव्यम् । अन्यतः काश्मीराधीश-जयापीडस्य (७५५-६६) सभास्थो धाम- नोऽष्टमे शतके ऽभूदित्युक्तपूर्वम् । न चासमात् प्राचीनः कोऽपि वामम- जपलभ्यते। कथं नु जयापीडसभास्थोऽर्वाचीनो वामनः एकशतक- त्तिना जयादित्येन सह प्रन्यं विरचयतु ? इत्थं काशिकासमयस्य सूक्ष्मरीत्या निर्णयस्य दुःशकत्वेऽपि स्थूलत दं शक्यते कयितु यत् सा सप्तमशतकान प्राचीना, म चाष्टम-श. कादर्वाचोनेति । तत्रेदं प्रमाणम्- काशिकावृत्तौ "तूफ्थादिसूत्रान्ताहक" ( ४.२.६० ) इत्यस्मिन् पुढे 'तदधीते तद इत्यस्मिन् विषये' 'आख्यानाख्यायिकेतिहासपु. पणेभ्यष्ठक' इति वार्तिकमुल्लिख्य आख्यायिकोदाहरणे 'वासवदत्तिक' इति दृश्यते । वासवदत्ताख्यायिकाकारः सुबन्धु म सप्तमे शतके बभूवेति वदन्ति । अतः सप्तमशतकीयग्रन्थोल्लेखको न तत: प्राचीनो भवति । न च वैयाकरणो जयादित्यो धामनो वाष्टमशतकोत्तरहीं कपिलभ्यते । काव्यालङ्कारसूत्रवृत्तिकारस्तु वामनः काशिकाकारो भवितु नातीति पूर्वमुक्तम् । काशिकाविषये यावदुपलब्धं प्रदर्शितं मया, साम्प्रतं सचेतसः संस्कृतविद्वांसः सुष्ठुतरं मीमांसन्तामिति प्रार्थयामहे । कत्रित् संग्राहकः। . २१ ३ . । . . मम गृहरहस्यम्। महं श्रीविश्वेश्वरशिरोमणिः । ना स्वयमेव पण्डितः, पितृपि- तामहा अपि में परमपाण्डित्येन देशेषु सुप्रथिता आसन् । अहं धर्म- शास्रज्ञः, धर्मशास्त्रमेव चाहमन्तेसदानध्यापयामि । मदन्तेवासिनः साम्प्रतं प्रचलन्तीषु परीक्षासु न निकृष्ट स्थानमधिकर्वन्ति । कि बहुना आभिजात्येन वा देशमध्ये न मे मन्दं गौरवमस्ति । भधाहमपृष्ट एव स्वगृहवृत्तं किमर्थं वक्तुमुत्सहे, नाहं न जानामि यन्मतिमता जनेनात्मनो वित्तं, गृहस्यच्छिद्र, दुश्चरितं च न प्रका- श्यानीति बहूनामेवेदं चेतसि समुत्तिष्ठेत् । इदमेव मे तनोत्तरम्- सह्यं मया तल्लाघवं, यद्धि गृहवृत्तप्रकाशन सम्भाव्यते, मम तु मह- त्याशास्ति यन्मदीयेन वृत्तेन बहूनामेव शिक्षा स्यात, बटुम्वेव परि. पारेषु च अशान्तिपिशाचिकायाः प्रवेशो निषिद्धो भवेदिति । इदानीमहमतीतपश्चाशद्वर्षोऽस्मि । केशकलापः शारदाकाशश्वे. तिमानमाश्रयति । चर्माणि लोललोलानि, इन्द्रियाणि शिथिलानि, शरीरवन्धश्च दुर्बलतरः। पुत्रमाग्यं नितान्तं मन्दम् । प्रथमपत्नी में निर्दयहृदयेव किमपि पुत्ररत्नमनुपहृत्यैव स्वल्पे वसि मम दीर्घाशया सहैव स्वर्गलोक प्रयाता। संसारधर्मरक्षणेच्छुरहं द्वितीयां पर्यणयम् । तस्याः कतिचि- रपुत्रा दुहितरश्च जाताः । दुहितरः सर्या भगि युक्तेभ्यः पात्रेभ्यः सम्प्रदत्ताः । तासु प्रायः सर्वासामेव पुत्तूकन्या उत्पन्नाः । नतारो ममैव गृहे तिष्ठन्तः पाठशालावधीयते । मम मन्दभाग्येन पुततु दावेवाशिष्यते, अन्येतु विमातुरेव पन्थानमनुगता अभूवन् । इमा- वपि जीवेतामिति कः कथयितुप्रभवेत् ? प्रतिपदमेघाहं तयोरनि- टमाशङ्क । भाग्येन हि पुत्तूरत्न तिष्ठति । मम तु माग्यं नितान्त अन्यथा कथं मे तारशी पतिव्रता प्रथमा पत्नो अकाण्डेऽनि- यत, कथं पा इन्त द्वितीयापि प्रथमाया एव पदवीमनुस्ता स्यात् । ? मन्दम, मम गृहरहस्यम् । २२७ पनीभ्यां चिराय विरतोऽहं कांकां दर्शा मागच्छम् । किमुच्यते भरमिय शून्यमिव चाह तदानी सर्वचिन्तयम् । गृहिण्येव हि गृहस्य लक्ष्मीरिति वदन्ति । धर्मशास्त्रज्ञोऽहं मनुसंहितायां रष्टवान्- "स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चनेति"। तदानी लक्ष्मीविरहितस्य मे शान्ति म केति सर्वथा विस्मृतमिवा- भवत्, दृश्यमस्थिरमासीत्, पदनमण्डलं च नियतं चिन्ताग्लानमति- मृत्। केवलं पत्नोवियोग एव ममास्याः कष्टावस्थायाः कारणमा- अपरापि महोयसी-चिन्ता मामतितमामदुनोत् । प्रतिक्षणमेव धर्मशास्त्रस्य महाश्लोकश्चेतस्युत्थाय विधुरमपि मां विधुरतरीकतु- मारभत । नाहमजानां कथं नु इष्टा अपि बहवः पुस्ता मया लभ्यर- मिति । पयो मे इदानीमधिकं जातम्, नाहं कस्मैचित् स्पष्ट कथ. यितुमशनवं शास्त्रमर्यादारक्षणार्थमहं पुनरपि दारान् प्रहीतु मिच्छा- मीति । भस्मत्सधर्माणः केचिद वृद्धा ग्रामे सम्प्रत्यपि सन्त्येव, परन्तु तेषां वचनं नाद्यत्वे तथा प्रमाणं भवति, यथा साम्प्रतिकशिक्षितानां तरुणानाम् । एते हि स्त्रिया इव पुरुषस्यापि द्वितीयं विवाहं न युक्त- तयाभिमन्यन्ते। मम तु दग्धभागधेयस्य साम्प्रतं तृतीयस्यावकाश- इति तत्कथापि नावसरं प्रानोति । श्रुतिपथमागतम्-मम पुनर्वि- वाहजनश्रु तिमाकर्णयतोः कृतयौवनपदार्पणयोः पुत्रयोमहद, वैमन- स्यमुत्पन्नम् इति । उच्छृतल लपितमिव पुत्रयोवंचनमहमवाजानाम् । मन्मतविरुद्धं किमपि शृण्वतो मे महान् क्रोधोऽभवत् । इतः साम्प्र- तमपि तत इतः परिभ्राम्यन्तः पिशाचापरमूर्तय इव दिवा घटकाः सुन्दरीणां कन्यकानां वाती स्वेष्टदेवतामन्त्रमिष कणयोः पूयितु मारभन्त । महंतु पुत्तूयोरन्येषां च वस्तुतो मद्धितैषिणां वचनमवज्ञाय स्थिरसङ्कल्पमकार्षे पुनरहं दारान् गृह्णीयामिति । अचिरमेव सर्व सम्पन्नम् । शास्त्रमर्यादारक्षणार्थ पुनमया दारा परिगृहीताः । शून्यं गृहं में पूर्णमभवत्, निर्गतालक्ष्मीः पुनस्तन समा गतवतो मनसा कियन्ति नाम सुचित्राण्यऋयितुमारभे ।
- । २२८ मिखगोष्ठी-पत्रिका। नवपरिणीता पत्नी कमला नामासीत, कमलस्येवैध तस्याः सा. न्वयंमभवत्। गृहाद गृहान्तरं गच्छन्ती प्रतिचरणक्षेपमेव लावण्य लहरीलेखामाविष्कुर्वाणा सा कस्य नाम मानसं नाहार्षीत् । तस्या वि. लासविनमं दर्श दर्श सुभगम्मन्योऽहं परं गर्वमध्यगच्छम् । सार्थक संसार इतोदं तदानीमचिन्तयम् महो स्पृहणीयायाश्चन्दनलताया भुजगसंसर्गो मे मूढस्य मनसि न जातु तदा प्रमेऽपि समुदित मासीत प्रथमं कानिचिदहानि- "दृष्टा दृष्टिमधो ददाति, कुरुते नालापमाभाषिता, शय्यायां परिवृत्य तिष्ठति, बलादालिङ्गिता वेपते निर्यान्तीषु सस्त्रीषु वासभवनाभिगन्तुमेवेहते, जाता वामतयैव मेऽद्य सुतरां प्रीत्यै नवोढा प्रिया'' ॥ इत्यादि बहुविध स्मरतो मे नवोढा 'वामा' प्रिया प्रीतय एवासीत परन्तु नातः परम् । वामत्व मस्या क्रमेण वर्णितुमारभत । वृद्धोऽ प्राणेभ्योऽपि गरीयस्यास्तरुण्या भार्यायाः प्रसादनपरायणः क्रमेण स्व. गौरवं हारयन् किङ्कर इव तत्करुणाकटाक्षं निरीक्षमाणः कालेन मनु चनामानह इस सञ्जातोऽभवम् । सामदानभेददण्डात्मकाचत्वारोऽ प्युपायाः प्रयुक्तप्रतिहताः । यदहं कथयामि, चण्डी कमला तिष्ठ प्राणेषु न तत्कुर्यात, प्रत्युत विरुद्धमाचरेत् । क्रोधमूतिरिव सादीप्यत फस्यैषा शक्तियंया तत्सकाशमपि गन्तुप्रभूयेत। कथं कामया तत्समीपेऽभवम् । तामेवाहमन्वसरम्। न पुनः सा माम् । सीताया साविश्या अरन्धत्यादीनां व चारित्रमसकृदश्रावयम्, न तु सा किञ्चित शृणुयात् । अकथयमहं तस्यै- "नेभेत् पतिं करदृष्ट्या श्रावयेन्नैव दुर्वचः । नाप्रियं मनसा वापि परत पत्युः पतिव्रता" ॥ इति मा तु भाकण्यैतत् तदिपरीतं कर्तुमारमा । तस्याः स्वभाव ए • महानिर्वाय तम्मम । .
मम गृहरहस्यम् । २२९ पर्यवतंत; यदहं कथयेयं तद्विरुछाचरणे धर्म इव तस्या नितान्तमा- अहोऽदृश्यत । पनी पत्युदर्घमायुः कामयेत, इयन्तु प्रतीक्षणमेव मन्म- युमेव प्रार्थयत । पतिव्रतया अस्मिन् जन्मनि यः पतिः स्यात् न- मान्तरेऽपि स एव प्रायंते । अनया तु किं कृतमिति गृहदासी में न्यवेदयत्-कासुचिद् अन्तःपुरिकासु कदाचित् सावित्रीवतालोचन- तत्परासु 'सावित्रीव्रतेन किं फलं जायते' इत्यनयापृष्टे 'वरमानज- मनः पतिरेव जन्मान्तरेऽपि लभ्यत इति' प्रतिवचनं श्रुत्वावोचद- यदि वर्तमानजन्मनः पतिजन्मान्तरे न स्यात्, तर्हि अहमपि लावित्री प्रतं कुर्याम् इति इयं गर्विता पत्नी केन चक्षुषा मामपश्यदिति तावतैव सुस्पष्टम। पत्न्याः सन्तोषमाधित्सुरहं पुत्तादिपरिवारस्य विभिन्ने गेहेऽव- स्थान व्यवस्थाप्य तयैव न्यवसम्। यदेव किञ्चिद अकथयत्सा तदे. पाहमन्यत् किश्चिदविचारयान्वतिष्ठम् । परन्तु मदादेशविरुद्धाचर- णस्य लेशतोऽपि हासो नादृश्यत। यद्यहं किञ्चिजलं प्रार्थयेय, तर्हि कुद्धा सा जलपात्रं बलवनिक्षिप्य द्विधा कुर्यात् । यदि कदाचिदपर दिनापेक्षया पूर्वमेव रन्धनाय प्रार्थिता स्यात, तहि तस्यास्तस्मिन्न हनिनिशीथे रन्धनं सम्पन्नं भवेत्; कदाचिश्व बिलम्बितभोजनापेक्षायां प्रातरेष रन्धनं सम्पाद्य मामुच्चैराह्वयेत् । यदि जातु धर्मकृत्याय प्रणु- देयम्, तत्क्षणमेव सा प्रत्युत्तरयेत्-'न मे तेन किश्चित्प्रयोजन- मिति'। इत्थं यदहमिच्छेयं, न जाने कथं, ब्राह्मणी तद्विरुद्धमेवाच- रेत् । कामं तामहमन्वनयं, न तु सा स्वप्नेऽपि मे कदाचिन्मृदुला पाणी श्रावितवती । सा मत्समीपमेव नागच्छेत् । ब्राह्मण्या अनभि- मतेन किमपि कर्तुमपि न मे शक्तिरासीत् । अथ कदाचित् पितुः संवत्सरश्राद्ध दिवसं सन्निहितमभवत् । पूर्व पूर्वस्मिन् वर्षे श्राद्धघासरे ब्राह्मण्या यद्यत् कृतं तदालोचयतो मे हृद- पमकम्पत । सर्वं सुसह, पितुः श्राद्धं त्वयज्ञातं द्रष्टु न सह्यते । इत्थं चाहं हस्तपदविहीन इवाभवं यत तस्यै किमपि कथयितु शक्ति । ।
मित्रगोष्ठी-पत्रिका। मूढा, दुश्चर्माणो, हीनाङ्गाः, में नासीत् । एवमहं व्याकुलहर्याधन्तस्तिष्ठामि, अस्मिन्नेव सा कश्चिन्मम प्रत्युत्पन्नमतियस्यः सतीर्थ्यश्चागत्य पूर्व किश्चिदुप सन्नुपायमुपादिशन- 'ब्राह्मणी मया कथनीया यस्मिन् वर्षे पि श्राद्धं न करिष्यामीति सातु स्वभाववामा तद्विरुद्धमेवाचरेदिति फल मेऽभीष्टमेव सम्पन्न स्यादिति सतीर्थो विज्ञाप्य प्रस्थितः। अहम तन्मत माश्रित्य ब्राह्मण्य न्यवेदयमस्मिन् वर्ष पितृश्राद्धं न करिष्या कार्यान्तराय स्थानान्तरं मया गन्तव्यम्: न च श्राद्ध करणे किञ्चित्क दृश्यते, किमर्थ सञ्चितधनव्ययं कुर्याम् इति । निसर्गधामा ब्राह्मण 'अवश्यं श्वशुरस्य श्राद्ध करणोयम्, अहं तत्त्वां कारयेयमिति तरती। अहमप्यधीरोत्तरैस्तस्यास्तां प्रवृत्तिमुद्दोपयननिच्छयेष पिर श्राद्ध कत्तुं स्वीकृत्यायोचं यद् यदि नितान्तमेव ते श्वशुरश्राद्ध सम्प दनायाभिलाषः तहि दन्तुराः अधिक ङ्गाः श्वित्रिणः कुनखिनश्च ब्राह्मगा आहूयन्ताम, तेषां भोजनार्थच यर किचिन्मलिनतरतण्डुलादिकं क्रीयताम् दधिदुग्ध-घृतशर्कराः कमण्डकादीनि दुर्लभतराणीति कृतं तैः, दक्षिणयापि किमपि प्रयो जनं नास्तीति । ब्राह्मणी तु मास कर्णमनिपात्य सातकान, यतीन गृहस्थान, साधून, श्रोत्रियान्, अनवधान् वृद्धांश्च श्राद्धे निमन्त्रित वती, बहुविधसूप सुरभितामा पक्कवती, प्रचुराणि लडु कम पडकमोदकादीनि गिविलादीनि च नैकप्रकाराणि सुस्वादुरि भोज्यानि सम्पादितवती मां व पुष्पलां विहितयता । अहमेत दालोक्य फलत: स्वाभीष्टोव नाणं प्रमोदभ्रान्तचित्तः पूर्व वृत्तसपदि विस्मरन् गृहिणीमाययम्--प्रामणि पितुम श्राद्धपिण्ड विप्रेभ्यो वा, गोभ्यो वा देयं, अथा सलिलमध्ये विसर्जनीयइति । प्रतिकला गृहिणी स्वभावत एव तदकृत्या हन्त अमेध्यद्रव्यकुण्डे तं श्राद्धपिण्डं निक्षिप्त पती। मम पितृश्राद्धमित्थं सुसम्पन्नम् ! अवज्ञानु. ताप लज्जादिभिविदास व मे हृदयमण्डलम् । विग्रहिणीमिव नृत्य- म्ती पिशाची वाणी पश्यतो में केन प्रकारेण दिन गन्तीति लड़ वार्ताः सम्पादकाभिप्रायात्रा तोऽन्यो मा विना निजामातु। वृद्धस्य तरुणी भाया कमिष भव- ति ज्ञायते मयेदानीम्। श्रीविश्वेश्वरशिरोमणिः। -:०: वार्ताः सम्पादकाभिप्रायाश्च । भारते धूतम् । वर्षेऽस्मिन् सह केषाञ्चिद विभवेन तिथिदूंगतप्रतिपनाम कियत्का- लार्थ तिरोहिता । तदानी प्रतिवत्मैव विकटमारटतां स्पद्धमानानां जयतां कितवानां सुदुःसहै। कोलाहल वाराणस्यभ्यन्तरं प्रतिध्वनितम- भवत् । बालवृद्धनिर्विशेष बहव एव तस्मिनदिने स्वं स्वं भाग्य परीक्षित. पत्तः । राजशासनेन निषिद्धऽपि द्य तदेवने तत्रत्यानां पौरजनानां सु- दुदमनीयेन निबन्धेन केवलं तहिनार्थ कथञ्चित् तदनुमोदितं भवति । अन्यत्राप्यन्येा : पठितं, स्मरामो, मुम्ब प्रदेशेषु कतिचित् कितवा राजद्वारे ऽभियुक्ता अभूवनिति । मजान्तर-प्रविष्टमिवेदं द्य तदेवनं पारतीयानां विशेष स्तूत्तरभारतीयानाम् । न तैस्तत् सर्वथा परित्यक्तु क्यते । आवैदिककालात खज्विदं प्रचलितं भारते । यथा चेदं थास्यामेव संख्यायामन्यत्र प्रकाशितो वैदिकवृत्तान्तः (द्य तदेवनम्) यिष्यति । धुतं मामेदं यदतिप्राचीनं नत्वभिनवं क्रीडमिति तत (व विज्ञायेत। अपरापरजातीनामपि आचाराद्यनुशीलनेनास्य प्राची. (त्वं तु तदसूक्तमवलोकयता न कथञ्चिन्निहोतु शक्यम् । अथ श्चिदस्य नवीनया पद्धत्या प्रक्षिप्तत्वमाचक्षोत, शृणोतु स महाभागः रमाप्तत्वेन मन्यमानस्य मोक्षमूलरस्यात्राभिप्रायम्-“येहि प्राचीन- माजविज्ञातारः पुरुषानिःशमुद्घोषयन्ति यन्नेटश्व चोऽकृत्रिमा मित्रगोष्ठी-पत्रिका। भवितुमहन्तीति, यदि ते तत्तथैव प्रमाणयितुम शक्ष्यन् तहिं वयं ते कृतज्ञतमा अभविष्याम इति ।* प्राचीनभारते दुरतमित्थं प्रचलितमासीद्यद माकृषीवलाद आच महीपालात् सर्वैरेव तदसेव्यत । । मन्त्राझणसूत्रसंहितापुराणेति. हासेषु सर्वत्रैव मतपरिचय उपलभ्यते । राजसूययशे राज्ञां दूयत- क्रीडा प्रसिद्धा। प्राचामियती पतासतिरासीद्यत्तत्र विजयलाभार्थ- शास्त्रीयानुष्ठानमप्युत्भावितम् । दृश्यते हि स्मृतिषु तिथिविशेषेषु श्राद्धकरणे दूपते विजयो लभ्यत इति यथा-"दूपतचिः षष्ठयाम" इतिगोभिलनाम्ना प्रसिद्धं गृह्यपरिशिष्टम् । “दूगतविजयं षष्ठयामिति" विष्णुः। एवमन्येष्वपि सूत्रग्रन्थेष्वधिगम्यते, ब्रह्मपुराणे कार्तिक शुक्लप्रतिपदि दूरतदेवनमित्थं विहितम् :- शङ्करश्च पुरादूपतं ससर्ज सुमनोहरम । कार्तिक शुक्लपक्षे तु प्रथमेऽहनि भूपते ॥ जितश्च शङ्करस्तत्र जयं लेभे च पावंती अतोऽर्थाच्छङ्करो दुःस्त्री गौरी नित्यं सुखोषिता । तस्मादयूतं प्रकत्र्तव्य प्रभाते तत्र मानवैः । तस्मिन् दूरते जयो यस्य तस्य संवत्सरः शुभः ॥ पराजयो विरुवश्च लब्धनाशकरो भवेत् ॥ इति ॥ । * Some people who know all about primitive Society declare whithout hesitation that such verses can not be genuine. If they would prove it, we should feel most graetful" Max. Muller, Physical Religion. P. 77. + ऋगवेदस्य सूक्तान्तरेस्ति - "चतुरश्चिद्दमानाद विभौयादानिधातोः। न दुरुक्ताया स्म हथेत्' । १.३.२३.६. यथा दातकीडा कुर्वतोः कितवयोर्मधे। एकस्मिन्न परम किश्चिद धार यित्वा कोडामारभमाणे सति, यावश्यं धारितं धनं न शोधयति, सावदपरो
वार्ताः सम्पादकाभिमायाश्च ।
यतस्य असिंहासनराज्योपमत्वाद यथास्योपदेयता तत्र तत्राधि-
गम्यते, एवं महानिष्ठकारित्वादनुपादेयतापि तेष्वेव ग्रन्थेषु न दु-
लभा । दूरतसेवनात्पाण्डवानां कियद्दोगत्यमासीदिति महाभारतीयो
वृत्तान्तः कस्याविदितः। यथा-विराट पर्वणि-
"किं ते दूपतेन राजेन्द्र बहुदोपेण मानद ।
देवने बहवो दोषास्तस्मात्तत्परिवजयेत् ॥
श्रुतस्ते यदि वा दृष्टः पाण्डवो हि युधिष्ठिरः ।
स राज्यं सुमहत्स्फीतं भ्रातृ श्च त्रिदिवोपमान् ॥
दूपते हारितवान् सर्व तस्माद दूयतं न रोचये ॥ इति ।
अत एवेदं व्यसनमध्ये गणितम् । यथा-
"मृगयाक्षी दिवास्वप्नः परिवादः स्त्रियो मदः ।
तोयत्रिकं वृथाढया च कामजो दशको गणः" ॥ इति ।
अत एव चेदं मनुना सविशेष निषिद्धम्-
“यत समाह्वयं चैव राजा राष्ट्रान्निवर्तयेत् ।
राजान्तकरणावेतो द्वौ दोषो पृथिवीक्षिताम् ॥
प्रकाशमेतत्तास्कर्य यह वनसमाह्वयो ।
तयोनित्यं प्रतिघाते नृपतियत्नवान् भवेत् ॥
दरतं समाह्वयं चैव यः कुर्यात् कारयेत वा।
तान् सर्वान घातयेद राजा शूद्रांश्च दिनलिहितः ।।
1 किमयं जघाति न वति' अस्माट बिभात, तइन दो विमाधान.
[[मा म्प हयेदिति तभावार्थः । (निरुतं ३ २.४. दर, जम् ।
अन्यत्राधि---
“याभातेव पुंम रति प्रतीची गर्तामगिव सनये धना । धि
र २१२.
धन गारगिवे'त्यादे व्यायामाह थाम्कः ( ३ १५ ) गरि 7.1.
नामाव दक्षिणाजी। गर्ता, सभाम्या :, ..तं नव या गुला पनि । म
इति, ना ननादरान्ति, मा रिकथं तभत इति ।
एवमन्यत्रापि बहुसूक्त ।।
U
२३४ मित्रगोष्ठी-पत्रिका। अप्राणिभियंत क्रियते लोक तदात मुख्यते। प्राबिभिः क्रियते यस्तु स विज्ञेयः समाययः ॥ * बतमेतत् पुगकल्पे सटं वैरकर महत् । तस्माददातं न सेवेत हास्यार्थमपि बुद्धिमान्" ॥ इति। पुरा दूधकाराणां कीढग दण्डो विहित आसीदित्युपरिष्टाद विन्यस्य मानो मृच्छकटिकश्लोक एव प्रकायिष्यति- “यस्तब्ध दिवसान्तमानतशिरा नास्ते समुल्लम्बितो, यस्योद्धर्षणलोटकैरपि सदा पृष्ठे न जात: किणः । यस्यैतश्च म कुक्कुरैरहरहजङ्घान्तर चव्यंते, तस्यात्यायतकोमलरुप सततं यतप्रसङ्गन किम्" ॥ इति । वार्ताः सम्पादकाभिप्रायाश्च । भारते अक्षरैक्यम् । नेदमनङ्गीकर्तुं शक्यते यद्धारते अक्षराणामनैफ्याम्महद निष्ट मायत इति । भारतीयानामन्योन्यमनैक्ये भाषाभेददक्षरभेदोऽप्यपा कारणम् । एतद्विषये धम्माधिकरणिकेन श्रीमता सारदाचरणमिन महोदयेन यश्चिन्तितम्, पत्रिकायामख्यां प्रकाशितपूर्वस्तदीयः सन्दः एव तत्प्रकटीकरोति तन्मसमनुमोदामहे वयम् । नागराक्षरस्यैव अक्ष रान्तरापेक्षया भारते बहुलः प्रचारोऽस्तीति स्वीकत्र्तव्यमेव । अतं यदि नाम भारते अक्षरैक्यसम्पादनमवश्यकरणीय स्यात, तर नागराक्षरमेघ सर्वैग्रहीतव्यम्, इदमेव हि सुकरमिति निर्व्याजम- स्माभिः कथनीयं भवेत् । भारतस्य भविष्यन्तमभ्युदयमनुचिन्द * तिरश्चामन्योन्यं योधनमित्यर्थः । समायो पौदानी क्रियत एव वड़ोदाराव्ये तदधौ परस्य महती समायभूमिरस्ति । महाराजन सकी यपशूनामेव योधर्म क्रियत इति शणम: । युरोपेऽपि पुरा किलायं व्यवहार पासी वार्ताः सम्पादकाभियायाच। खस्वप्रदेशवासिभिः दूरोदकः स्वस्वाक्षराभिमानो दूरतः समुत्सा- रणोय इत्यपि बमः। । जगत्पुराश्रमः । जगत्पुरं चग्रामप्रदेशे । तत्र शैलङ्गस्योपरि कश्चिदाश्रमो विद्यते । अयमेव जगत्पुराश्रम इति कथ्यते । माश्रमाध्यक्षस्तषभवान श्री पूर्णानन्दस्वामी माम। अस्मिन् पुमांस इव नियोऽपि तिष्ठन्ति । आश्रमपदं कियद्भिवंटु भिरपि समलङ्कतं दृश्यते । तत्र संस्कृतं विमा भाषान्तरस्य मावकाश: अ यते, पञ्चवर्षोयः शिशुरपि कश्चित् केनापि दर्शकेन सह संस्कृतेनैवालापमकार्षीदिति। अपरः कश्चिदेकादशव- यो वटुर्निरगलेन संस्कृतेन व्याख्यानं कर्तुं शक्नोति । स्त्रियोऽपि तत्र न निरक्षराः। वासन्ती नाम काचिदेतासु कलिकातायाः 'तीर्थ- परोक्षां ।( व्याकरणविभागे) सम्यगुत्तीर्णवती। उत्तीर्णसांख्यदर्शन- मध्यमपरीक्षामेनामचिरेणैव कालेन 'सासरतीय-पदवीपरिशोभिता द्रक्ष्यामः । अन्याप्येका हेमाङ्गिनी नाम सामयदर्शनस्य प्रथमपरीक्षा- मुत्तीर्णा । इदं सर्वमालोच्य हन्त प्राचीन समयेषु तत्तदाश्रमस्थि- तानां गार्गी-मैत्रेयी-प्रभृतीनां सरामः । प्रधानाध्यापक: पण्डितश्री- रमेशचन्द्रशर्मा । अयं चतुएं विषयेषु कलिकातायास्तीर्थपरीक्षामु- तीर्णः । आश्रमवासिनः सर्प नैष्ठिकं ब्रह्मचर्यमनुतिष्ठन्ति । विलास- सम्भोगस्य लेशोऽपि तस्मिन्नोपलभ्यते । शयनभोजनादिषु कठिन- तरो नियमः। न तु तेन कस्यापि शरीरक्षयो दृश्यते कथं वा भवेत, नहि संयतेन्द्रियस्य योगस्थितस्य दोबल्यं नाम किञ्चिदस्ति । आ. श्रमस्थै रोपनिषदो धर्मोऽमुष्ठीयत इति सम्भावयन्ति । सर्वथा पक्ष- गतिनो वयमेवंविधानामाश्रमाणाम् । एतद्वार्तामधिगम्य कियन्तं सामानन्दमनुभवाम इति यत्सत्यं हृदयमेव केवलं तद्विजानाति । भग. वानस्याश्रमस्य कुशलं विदधातु ।
मित्रगोष्ठी-पत्रिका। वङ्गोयरेखाक्षरम् । आगलभापायां रेखाक्षरस्य (Short hand writing ) उद्भाव तस्याः किया- तुकारः सञात इति कस्याविदितम् ? तद्भाषयात्वरित त्वरित किञ्चिालखित साम्प्रतमयमेवापायोऽपलम्ब्यतं । भारतीर भापा नकवापीयं रीतिरतावन्तं कालं कनाप्याविष्कृता । अ महता हपणदं प्रकाशयितुमस्माकं साधीयानवसर आगतो यद वन भाषायामियमाविभूतति आविर्भावको बङ्गषु सुप्रथितनामधेयः प्र च्यप्रतीच्याभयदर्शनतत्त्वनिष्णातो गाणितिकः सुगृहीतनानोमहर्षे श्रीदेवन्द्रनाथठक्कुरस्य ज्यायानात्मजः श्रीद्विजेन्द्रनाथठक्कुरो साधारणध्वप्रकाशित मपि रेखाक्षरमिदं कैश्चित्साहिभिस्तरुणैरनु शील्यते । अस्माभिरपीदं विलोकितम्। परमोपयोगित्वमस्य कः खल्व पातु क्षमेत नातिचिरमेवैतद प्रकाशयिष्यत इति सम्भावयामः अक्षरेषु हिन्दीप्रभृतीनां भाषाणां वङ्गभाषया वर्णसाम्यमस्तीति तासा पिसापाणां स्यादेवीपकारोऽन्न वङ्गभाषायरेखाक्षरेण । नाम 1). १ , " नीचा महत्त्वं गताः येषां छायास्पर्शाऽपि पापर्कामवाय॑म्मन्याह्मणव रस्माभिः म्व- नेऽपि जान नचिकाप्यते, तेषु केषाञ्चित् शबरादिजातीयानामेवाद्य विस्मयावहं किमपि वृत्तमिह प्रकटीकर्तुमुत्सहामहे । भिलसन्ताला दिजातानाम अमेध्यभोज्यभोजनं, कुत्सिताचारादिकं च सर्वविदि तम् । अद्य तु सर्वमवेदं परिवृत्तम् । सविशेष जानामो वयम् -- व. अप गौडमण्डल (जि० मालदह) हरिश्चन्द्रपुराभिधग्रामसमीपे कंचित सन्तालादिदेशोया निवसन्ति; तेः सर्वैरैकमत्येन दृढ़तरं प्रतिज्ञातं यन्त्र तं मद्य वा, मत्स्यं वा, मांसं वा संवेरन्, न ते अस्नात्वा वा, कृत्वा देवतोपासनम, अपरिष्कृत्य वा गेहम्, अनुन्मृज्य वा उच्छिष्ट- जसपत्रादिक किञ्चिद भुञ्जीरन्, रविवासरे च हविष्यं गृह्णीयुरिति । कृषिरेव हि तेषां जाविका भवदित्याप निर्णीतम् । तेषां सजातीय एव अन वार्ताः सम्पादकाभिप्रायाश। । श्र. कश्चित्तेषु प्रागुक्त धर्म प्रचारितवान् यते अयत्राप्येतजातीय. रयमेव पन्था गृहीतः। अथ वयं पुनः किं कुर्मः ? यत्तः क्रमेण परि- बज्ज्यते, तदव समीचीनतरमिति सादरमङ्गीकुर्मः सर्वथा सनाथो- ऽयमनाचारः! निरवलम्वस्य शरणार्थिन एतस्याश्रयादानात् पापमेवा- स्माकमविष्यदिति यत्सत्यं परं धर्मज्ञा घयम् । एतद्विजानतामपि प- ण्डिताभिमानिनां धदनकुहरात 'नीचा महत्वं गता' इति कालमहि- मारोपणं विना नान्यत् : न वा किश्चित्प्राप्तकालं करणीयं तेषां द्रष्टुप्रभवाम इत्येव परं दुःखमावहति । किमपि श्रोतु शक्नुमः देशीय विश्वविद्यालयः। भारते राजकीयेषु विश्वविद्यालयेषु प्रचलितेन प्रकारेण वस्तुतः समीचीना 'शिक्षा नाधिगम्यत इति यद्धमूलोऽयं संस्कारः कतिपय- दिनप्रभृति भारतीयानां महान्तमसन्तोपमावहस्तिष्ठति । एतदर्थम- सान्निवेदितैरपि तदधिकृत राजपुरुषैनिष्प्रयोजनमितीव नास्मिन् वि- पये ऽद्यापि किश्चित् प्रतिकृतम् । साम्प्रतिकंप विश्वविद्यालयेषु केवलं पोनिद 'भृत्या:' ज्यन्ते, न चैतेगो देशस्य कश्चिदुपकारः सम्भाव्यते अथवा कृतं तावद्द शनामोदाहरणेन, पते खल्वात्मनोऽपि ऋते दास्या दन्यत् किञ्चिद वस्तुतः कशलं भावयितुं शक्नुवन्तीति पुष्णन्ति विश्वास सर्व भारतीयाः । यदि नाम भूयो विज्ञापितैरवि शिक्षाधि- कृत राजगुरु यं दोषोऽपाक्रियते, तहि स्वयमेव प्रयतनं विना कि- मगरं कर्तुं शभ्यम: नहि शिरलि पतन्तं शस्त्रसंघातमन्यो न निरा- कंगतीति आत्मनापि हस्ताभ्यां स न निराकरणीय इति वस्तुस्वभाव उपदिशत । इतीदं विविच्य बद्धोत्साहपरिकरैरस्माकं वङ्गीयैबन्धुभिः 'देशीय-विश्वविद्यालयः" ( National University ) इति नाम्ना को- यभिनवो 'विश्वविद्यालयो' राजकीयसाहायकापेक्षा दूरतो परि- त्यत्य स्वयमेव स्वमनोरथानुरूपं संस्थापयितु महान् प्रयास आस्थी- र २३८ मित्रगोष्ठी-पत्रिका। यते। साम्प्रतं पङ्ग प्येकतः श्रमशिल्पाभ्युदयसाधनेम स्वदेशी व्योत्पादनप्रसारणादिषु अन्यत श्चैतादृशविश्वविद्यालयस्थापना चालनादिषु च विशेषतो जमानां चित्तवृत्तिः समाकृष्टा दृश्यते । त्रैव च सर्वभ्यस्तदालोचनमेवाकर्ण्यताम् । कृतेऽपि विश्वविद्या छात्रान् विना निष्फल एवायमिति कियन्तो मामान्तवासिनां कीय विश्वविद्यालयं विहाय नवीमेऽस्मिन पाठमझीकरिष्यन्त तेषां सम्मतिगृह्यते । विश्वविद्यालयाध्येतारः सानन्दं सोत्साहञ्च म्पूर्विकया स्वस्वनामधेयं कीर्तयन्ति । दुलभास्ते छाता, ये स्मिन्महत्यारम्भे चैमुख्यमादधति । विश्वविद्यालयापेक्षित-व्ययसर त्तये नातिचिरमेव बहुलक्षाणि धनानि खंगृहीतानि संगृश्यन्ते । सफलयतु सङ्कल्पमिमं घगीयबन्धूनामनुकूलोभगवांस्त्रिभुवनाधीश्वर भवतु च भारतं समुनासितं भूयोऽपि तदुचितेनाभ्युदयेन । . ::०: स्वदेशीयवस्तुव्यवहारे षङ्गानामवस्था । स्वदेशाभ्युदयनाटकस्य प्रथमसूत्रधाराणां वङ्गीयानां छात्ताणाम परि तदुद्योगानुचिताचार-व्यथितचित्तस्य शासनाधिकृतस्य रोपस षितलोचनानलसन्निपातः संवृत्त । उद्घोषितमनेन यद्यदि कश्चि राजकीयविश्वविद्यालयान्तर्गतपाठशालीयश्चात्तः यथा कथमपि 'स्व देशीयव्यापारे' संसृज्येत, दण्डनीय एव स भवेदिति । छात्वैर श्रु त्वापीदं न श्रूयते, उचितमिति यतन्त एष ते तैस्तैः प्रकारैः स्वदे शाभ्युदयाय । अनासन्तुष्टेन ‘रङ्गपुर'-जनपदाधिकृतेन तनत्यराज कीय विद्यालयान्तसदानां प्रत्येक रूप्यकपञ्चकदानरूपी दण्डो विहितः आज्ञप्तंच यावत् स दण्डो नाङ्गीक्रियेत, न तावत तेषु कश्चिद्विद्या- लये प्रवेश्यो भवेदिति । हविषा कृष्णवर्त्मवद भूय एव वृद्धिमापन्ने स्वदेशोत्साहन गृहीतैकमत्याः ( विहाय त्रयोदश ) सर्वे बालका राज कीविद्यालयं पयंत्यजन् । अनुपदमेव तेषां यथोचितमध्यापनव्यवस्था सम्पादितैव स्वदेशहितैषिभिः । नूतन एवैको विदयालयः स्थापित वार्ताः सम्पादकाभिप्रायाश्च । पत्रे वक्त मुक्तिं राजकीयविद्यालये यथापूर्व स्थितानां बालकानां हचिट राजपुरुषचरणाश्रितानां तनया इति । क्रमणान्यान्येष्वपि जन- देषु रङ्गपुरीयस्याभिनयस्य प्रसारः सम्पदयते । डाकानगर्यामपि छानराजकीयविदयालयः परित्यक्तः । यत्सत्यं शशासनाधिकृतानामीदशेनानुशासनेन वनोयच्छात्रसमाजेष्वतिभै- वं वैमनस्यमुत्पन्नम्। वजषु स्वदेशद्रव्यव्यवहारार्थ यतमानानां जनपदानां वरिशाल'- मकमेवाग्रामासनं लभते । मूर्त्तव स्वदेशप्रीतिरवतीर्णा तत्र । क्षी- कण्ठामा थालानामपि कण्ठेभ्यो 'वन्दे मातरमिति' स्वजन्मभूमिमुद्दि- यमधुरमन्द्रो ध्वनिर्नियतमेव वियन्मण्डलमवगाहते, सकृदुचरिते त- सन् विदुपन्महिम्नेव जनानामन्तःकरणं बळवदाकृष्यते । पांशुलच. (णानां हालिकानामपि साम्प्रतं नाविदितं यदैदेशिकवस्तुव्यवहारण कियनामापकार उज्जृम्भत इति। प्रस्फुटितमिवंदानी सर्वेषां प्रज्ञा त्रम्, कुटिलमतयो राजपुरुषास्तु हन्तामोपां नेममुद्योग सहन्ते । वन्देमातरमितिशब्दो द्रुत इवायोधानुदहत्येतेषां श्रवणविपरम्, विदारयति चान्तः प्रविश्य निशितकच इव हुण्मर्माणि । जनानां शान्तिभ्यसो हि तेम भवतीति तेषामाशयः । अतएव यथाविवेक- मुपायप्रयोगेण तत्पशमन विधीयते, वहुवेव स्थानेषु राजादेशो घोपितो यन केनापि 'वन्देमातरमित्यस्य लेशतोऽपि रक्षणीयः सम्पर्कः, न च प्रकाशे रहसि पा समिति ; द्वित्रः संमिल्य गोष्टी- विनोदालापो न करणीय इति । स्वदेशोन्नतये 'चरिशाल'-जनपदधा सिनामुत्साहातिरेको राजपुरुषाणां सर्वथैवारुचिकर इति तेषां तस्मात् असह्य घिरमणार्थ शतद्वयं समुचितास्त्रसमुसितं 'गुरखा'-नामधेयं दुधर्ष सैन्यं तत्र नियुक्तम् । एभिः समुत्पादितैधिविधैरुपद्रवैः परं कष्टावस्था 'वरिशाल'-वासिना मुपस्थिताः। शृणुमो न तथापि ते स्वदेशीयवस्तुव्यवहासद विरं-स्यन्तीति। .. .
मित्रगोष्ठी-पत्रिका। * . चिश्च स्पष्टमेव राजपुरुषैः स्वदेशीयवस्तुत्यागादे शपूर्व वैदेशि. कानामेव तेषां व्यवहार जना आज्ञाप्यन्त । क्वचिद वा मूढतरित्र कश्चिदेतेषु सप्तमे ऽटमे वा वन्सर वर्तमाना: शिशवोऽपि 'वन्दे मातर- मिति' शब्दोच्चारणमात्रदोषेण दण्डयन्ते । अन्यत्र च क्वचित् शान्ति भङ्गभीरुभिस्तवृयव अनपेक्षितानां दण्डविधायक-रक्षापुरुषाणां ( 11te1.vli.k: ) नियोगन दरिद्राणामपि प्रजानामुपरि गुरुतरस्त- दुपयवहनभारी निपात्यते । अयन्त्वत्र रमणीयो विशेषो यद पता खल व्ययवहनं तत्रत्यहिन्द भिरेव कर्त्तव्यभ, न तु महम्मदीयरपाति शान्तिभङ्गव्याधिचकितै रङ्गपराधिकृतस्तत्रत्या कंचिद वहुमाननीय महान्तो जना:-येपामन्यतमः कोऽपि सुप्रतिष्ठितो 'महामह ध्यायः,' विशेषरक्षापुरुपत्येन नियाच्यावमानिताः । किंबहुना सर्वथ राजपुरुषाणां दुर्विपह दहनदृष्टी निपतिता इदानी वङ्गायाः । वाराणसी। सन्निहितः कालो वर्तमान वत्सरे राष्ट्रीयमहासभाया वाराण- भाविनः सम्मेलनस्य, तत्संवृष्टाया देशीयद्रव्यप्रदर्शन्याश्च । श्रीमन्मह राजः काशीनरेशः प्रदर्शन्या द्वारमगावरिष्यति । महाराजग तदुन्नत ५ सहस्राणि रूप्यकाणि विताणानि। प्रदर्शन्यां बहुभिः प्रति शिल्पादिविषय सबिनाः प्रयन्याः पठिष्यन्ते, व्याख्यानानि च कति प्यन्तं । श्र या राष्ट्रीय महासभामण्डप एवं निवृत्तषु तान्य 'श्रीभारतधर्ममहामण्डल-परिषदः मम्मलार्भाष्यतीति -------- मित्रगोष्ठो-पत्रिका। (मासिकं संस्कृतपत्रम्।) सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम्"। ऋग्वेदः। । इनीये वर्षे } १८२७ शकाब्दाः, पोषः। { नवम संख्या मनः शिक्षा। मनस्त्वत् सङ्कल्पाजगदिदमुदति भ्रमकर समासक्तिश्चैषाऽनृतविषयमार्गानुसरणे । ततस्तत्वज्ञानप्रविहतिरविच्छिन्नजनिक- प्लये तस्यापायः सकलजगतः शान्तिकरणः ॥१॥ यतस्त्वं दुःखानां भवगतिकृतानां प्रभवक- ततस्तेषां शान्त्यै प्रकृतित्रपल, त्वां सुवचनैः । विहातु दौजन्यं कुविषयविषङ्गात्मकमिदं दिशाम्येषोऽहं तत् सफलय विना कालहरणम् ॥ २ ॥ जलोपाधे: कापात्तरणिरविकम्पोऽपि हि यथा मनुष्यरज्ञानविचलनयुतः कल्प्यत इह । तथा त्वत्सल्पात्तव च विषयेषु प्रचरणा. दनासङ्गोऽप्यात्मा भवति भवधमैर्युत इव ॥ ३ ॥ त्वमेवाधिष्ठाता करणानचयानां नृप इस प्रवृत्तौ तेषाश्च त्वमसि पर कारणमिति । समालोव्यैवं त्वामहमिदमतिप्रौढ़विनयाद अयोमि स्थैर्य वंश्रय निखिलरागोपशमनम् ॥ ४ ॥ .
मित्रगोष्ठी-पत्रिका सदा धावद्धावद्विषयमलपूर्णाध्वनि कथं श्रमं नामीषि त्वं यत उपशमं यालिन ततः। विचित्र चारित्रं तव नहि विजानामि हृदय- स्वभावो दुर्वयः खलु खलजनानामपि बुधैः॥५॥ पतङ्गो दीपस्य धु तिमतितरां वीक्ष्य सहसा प्रलुब्धो वेगेन प्रपतति शिखायां ज्वलति च । मृगोऽपि व्याधस्य श्रुतिमधुरमाकण्यं निन सुवंशीरन्ध्रोत्थं प्रमुदितमना बध्यत इह ॥६॥ तथा जिनन् रात् कमलमधुगन्धं मधुकरः समागस्यावेगामियमनदशां तत्र लभते । करी चाङ्गस्पर्शासितहदयो हन्त सुचिरं करिण्याः संसर्गानरपतिगृहे बन्धनगतः ॥ ७॥ सुभक्ष्यास्वादाशातरलितमना मीनविसरः लशङ्को संविद्धो वड़िशवदने याति निधनम् । विलोक्यकै कस्यानुसरणविधौ दुर्गतिमिमा कथं न बासस्ते भवति सकलानामनुसृती ॥८॥ सतो हत्पन्मस्थेऽमितसुखनिधाने धु तिमये विशुद्ध वुद्ध्यादीन्द्रियनिचयसाक्षिण्यकरणे । परात्मांश सत्य चिति निखिलसारेऽखिलमये समाविश्य क्लेशं क्षपय भवसन्तानजनितम् ॥ ९ ॥ श्रीरामप्रसन्न ब्रह्मचारी राजगावधमा .::
वेदवृत्तान्तः। ३ " कृषिकर्म । प्रियाः पाठकाः, अतीतायां संख्यायां वैदिकसूक्तमुदाहृत्य पत- वनस्य सुदुःसहोदकत्व प्रदर्शनावकाशे तत्परित्यागपूर्व कृषिरेव कर- येति पीयूषनिष्यन्दसहोदरस्तन भवतामार्याणामुपदेशउदाहियत- अक्षैर्मा दीव्यः कृषिमित् कृषस्व वित्ते रमस्व बहु मन्यमानः । तत्र गावः, कितव, तन जाया, तन्मे विचष्टे, सवितायमयः॥इति* अद्यतु सैव कृषिः कीदृश्यासीत्तेषामिति तवृत्तान्तबहुलं सूक्तमकं सह संक्षिप्तेनार्थेनेह प्रकाश्यते । इदं हि सूक्तम् ऋग्वेदस्य दशममण्डले, नवमाध्याये एकाधिक- ततमम् । अस्य ऋषिः सोमपुत्रो वुधः, देवता विश्वे देवाः, वि. स्तुतिर्वा । तदुक्त सर्वानुक्रमणिकायां शौनकेन-" उदयध्वं, बुधः सौम्यः, ऋत्विकस्तुतिर्वेत्यादीति"। अस्य सूक्तस्य मन्त्रेधार्याणां विषय एतद विज्ञातु शक्यते, यत् तेषां कर्णदण्डयुक्ताया नौकायाः, (२मन्त्र) सीरस्य, युगस्य, दानस्य (३,४,),चर्ममयरज्ज्या:(५.६); जल सेचनार्थ कस्यापि पाषाणनिर्मितस्य पक्रस्य (७), गवां मनुष्याणां च जलपानार्थ दारुमयस्य पात्रस्य (५,६), लौहमयस्य पात्र विशेषस्य, जलादितरलद्रव्यरक्षणार्थ चमस- शामकभाजनस्य (८), पाषाणमयस्य कस्यापि 'वाशो'-नामकस्य छेदन- साधकस्य यन्त्रस्य (१०) + व्यवहारा विदिता बभूवुः। किञ्च कस्मि- श्चित्स्थान उपगत्य गोष्ठविरचनपूर्व गृहनिर्माणं, तत्र चायसपात्राणां पहिष्करणं, तेषां स्थानात्स्थानान्तरगमनं सूचयति (८) कृषिकर्म णि * ऋग्रेद. १०.३४.१३ + मन्यामहे, अद्यत्वे नौतमयी वास्य व तदानौं घर्षणततधारपाषाय- महापामीदिति ।
. २४४ मित्रगोष्ठी-पत्रिका ! तैरवोऽपि नियुक्त इति गम्यते (७) । एकाधिकविवाहप्रथासीदिति ज्ञायते ('दिजानिः'), प्राचीनार्येषु केचित कृषिकारिणोऽभवन्मिति । पदन्ति तेषामिद सूक्त मन्यतमं प्रमाणम् । भन्न 'द्रोणेति' (३), 'अ. यतेति' (५), 'नयाणमिति' (७) चेतेषु शब्देषु भाषातत्वगतमपि किञ्चिचिन्तयितव्यमस्ति। परंतु तविद पाठकानां वैरस्यापादकं भवे. दिति न किमप्यधुना वक्त मिच्छामः । इदं तत्सूक्तम् । १ उदयुध्यध्वं समनसः सखायः, सममिमिध्वं बहवः सनीळाः । दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि ह्वये पः॥ हे अन्योन्यं कर्मानुकूला बन्धवो, यूयमुद बुद्धा भवत, सर्वे एकस्मिन्ने स्थाने वर्तमानाश्च सन्तः अग्निं सम्यगुहीपयत अहमपि युष्माकं रक्ष. णाय दधिक्रानामिका देवताम्, उषसम्, अग्निं चेन्द्रण सहाहयामि। २ "मन्द्रा कृणुध्वं, धिय आतनुध्वं, नावमरित्रपरणी कृणुध्वम् । इष्कृणुध्वंमायुधारं कृणुध्वं प्राश्च यज्ञं प्रणयता सखायः" । हे सखायः, गम्भीराणि स्तोत्राणि कुरुत कर्माणि विस्तारयत अरित्रेण ( कर्णन ) परपारप्रापणीयां नावं च कुरुत; किञ्च हलयुगा दीनि कृषिसाधनान्यायुधानि निर्मलीकुरुत, तथा प्रागर्चनीयम प्रणयत। ३ - युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतह बीजम् । गिरा च श्रुष्टिः सभरा असनो नेदीय इत्सृण्यः परमेयात् ॥ हे सस्त्रायः, हलानि वृषैर्यध्वम्, तदर्थ युगानि विस्तारयध्वम्, मा सीतायां कृताया-क्षेत्रे कृष्टे बीजं घपत । • अस्माकं स्तोत्रेण सह • 'सप्त ग्राम्याः करे, सप्तारण्या कर इत्यापस्तम्बोले बाई क्षेत्र । नमाषौह्यादौनि सप्तयाण्याणि अक्षरे तु वेणुण्यामाकलीवारादौनि सा रण्यानि बीजानि वपनीयानीति बोधाम्।
वेदवृत्तान्तः। माकमन्नं पूर्ण भवतु, तथा अस्माकं दात्राणि * भन्तिकमेव पश- त्यस्तम्बेषु पतन्तु। सोरा युञ्जन्ति कवयो युगा वितन्वते पृथक् । धीरा देवेषु सुन्नुया ॥ शोभमानेषु (क्षेत्रेषु ६१) बुद्धिमन्तो मेधाविन ऋत्विजः सुखेन लागलानि योजयन्ति, तथा युगानि पृथक कुर्वन्ति । ( अथवा केचित इलं चालयन्ति, केचिच्च विश्रामेच्छया युगकाष्ठानि पृथक कुर्वन्ति )। निराहावान् कृणोतन सं वरना दधातन । सिञ्चामहा अवत मुद्रिणं वयं सुषेक मनुपक्षितम् ॥ हे सखायः गवां जलपानसाधनानि द्रुममय पात्राणि कुरुत, च- मयरज्जूश्च धारयत, घयं सुखेन सेक्तु शक्यम्, उदकोपक्षयरहितं तै सिञ्चामः। ६ इष्कृताहावमवतं सुवरत्नं सुषेचनम् । इद्रिणं सिञ्चं अक्षितम् ।। गवां जलपानपात्नसंस्कृतम्: शोभनचमरज्जुयुक्त, सुषेचनम् अक्षीणं गर्त सिञ्चामि । . प्रीणीताश्वान् हितं जयाथ स्वस्तिवाहं रथमित् कणुध्वम् । द्रोणाहावमवतमश्मचक्रमसत्रकोशं सिञ्चता नृपाणम् ।। सखायः, अश्वान् यथोचितघासोदकादिप्रदानेन प्रीणयत, यथा क्षेत्रकर्षणाय प्रभवन्ति, ततः कृषिरूपं हितं कर्म जयत, कुरुत च • लविवाणि, 'का' 'इला' 'कोयता' इति ख्यातानि । +पषम्या एव चोर्थ रह पुनरुक्तः ।
२४६ मित्रगोष्ठी-पत्रिका। सुमधाहकं हलरूपं रथं । हे ऋत्विजः कमनेतृणां पुरुषाणां पानयोग्यं सन्निहितद्रुममयपानपात्रं, निम्नभूतम्, अश्मचक्रयुक्त गर्त सिञ्चत । ८ वजं कृणुध्वं स हि वो नृपाणो धर्म सीव्यध्वं बठुला पनि । पुरः कृणुध्वमायसीरधृष्टा मा यः सुस्रोश्चमसो रहतातम ॥ हे सखायः, गोष्ठं कुरुत, स खलु युष्माकं पयःपानसाधनम् भवति, बहुलानि विस्तीर्णामि च गृहाणि + कुरुत, लौहमयानि पात्राणि दृढीकुरुत, यथा तेभ्यो जलादि न चुतं भवेत्। १ आ वो धियं यज्ञियां पत्तं ऊतये देवा देवी यजता यज्ञियामिह । सा नो दुहीयद यवसेव गत्वी सहस्रधारा पयसा मही गौः हे देवाः, अस्मदरक्षणार्थ, युष्मत्सम्बन्धिनीमस्माकं कर्तव्यत्व- बुद्धिमसकृदालोचयामि । यथा यवसानि भक्षयित्वा गौः सहस्रधारा- भिर्दुग्धं ददाति, तथा सापि बुद्धिरस्माकं कामान् प्रपूरयतु । १० मा तू पिंच हरिमी द्रागुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः । परिष्वजध्वं दशकक्ष्याभिरुभे धुरौ प्रति वह्नी युनक्त ।। हरितवर्णमेनं सोमं दारुमये पात्रे निधाय शिलासारभूताभि . शीभिः (तक्षणसाधनैः) छिन्त । अथ सोमपूर्णपात्रं दशभीरज्जुभिः शकटे आबध्य पाहको बलीवौ योजयत । * अब सायणेनाश्वशब्दस्य बलौषर्दोऽर्थः लत: उदाहियमाणस्य मुक्तस्य देवता ऋत्विकस्तुतिः, विश्व देवा वेत्युक्तम् । वैश्वदेवपचे तु वाच्यार्थ एव राशीमः। अस्मिन् पक्षे ऋगियं सांयामिकार्थपरतया याख्यायते । श्रीमता यास्केन नियक्त (५.४.८) इत्यमेव थाण्यातम् सायणेनापि तदेवानुस्तम्। विस्तरभिया भास्माभिस्तरप्रदश्यते । + केधाविम्मते धर्मशब्दो मिघण्टौ रहनाममध्ये पद्यत इति तस्य वास चारतरत्वबुद्धया म सायणमत रहौतम् । .
छानचर्या। . उभे धुरौ पहिरापिब्दमानीन्तोनेध घरति द्विजानिः । धनस्पतिं धन अस्थापयध्वं नि षू दधिध्वमखनन्तउत्सम् ।। यथा कश्चिद योर्भाययो रमते, तथा यस्य लाङ्गलस्य धुगदये घाहको बलीषदः शब्दायमानो भवति, गप्रदेशमननन्तो यूयं काष्ठ- निर्मितं तल्लागलं प्रार्थनीय क्षेत्र एवावस्थापयध्वम् । १२ कृपार कृपथमुद्दधातन चोदयत खुदत वाजसातये । निष्टिप्रयः पुत्रमा व्यावयोतय इन्द्र संबाध इह सोमपीतमे ।। हे नेतारः, अयमिन्द्रः सुखदाता। अतोऽभलाभायैनं प्रति सोमं प्रेरयत, प्रसाद चास्योत्पादयत । हे पीडिता ऋत्विजः, इन्द्रः निग्रियः अदितेः पुत्रः, तस्य सोमपानार्थम् अस्माकं च रक्षणार्थ तामागमयत। विधुशेखरशर्मा। :: छात्रचर्या । * वेदाभ्यासनिरन्तरव्यतिकर प्रत्यूहितप्रार्थित- स्वैरालापविहारभोगनितक्लेशासहा भारती। नानाभावरसोज्वलान् बुधगणानाश्लिष्य तृप्ताप्यलं साध्यो भक्तजनेषु वत्सलतरा देयान्ममाभीप्सितम् ।। म्यायाधनेकशास्त्रार्थतत्वज्ञानमधूज्यले । चश्चरीकतु चेतो मे श्रीमदगुरुपदाम्बुजे ॥ * प्रबन्धोऽयं स्थानन्द रपुरस्थ-( Trivendram) राजकीय-संस्कृत विद्या- मन्दिरे बार्षिक परीक्षोत्तोर्णछावपारितोषिकदानमहोत्सवाय C. S. I., F. M. U., M. R. A. S., F. R. H. S, इत्यादयनेकविरुदशालिना श्रीमत् केरनवर्मदेवनाधिष्ठित समाणे पठितः ।
मिलगाष्ठा-पत्रिका। अयि भोः सामाजिकाः, श्रीमतां तत्रभवतां समक्ष छात्रचर्यामधि- कृत्योपन्यसितु प्रवृत्तस्य यत्सत्यं कम्पत इव मे हदयम, इदश्च नाति- चित्रं, यतः। . आहूतापि पुरः पदं न ददती, प्राप्तोपकण्ठं हठात, पृष्टा न प्रतिवक्ति कम्पमयते स्तम्भंसमालिङ्गति वैवये स्वरभङ्गमञ्चति बलादालिङ्गिता वेपते कर भोः प्रतिभावसोप्यभिसभं वाणी नवोढायते" ॥इति अथापि श्रीमता मादेशरूपं महानुग्रहं शिरसा विभ्राणः । " पात्र विशेष न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः । जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य' । इत्यस्मिन्नर्थे च श्रद्दधानो मचनं नीरसपि रसिकजनमनसि निधीयमानं समुदितरसपोषं भविष्यतीति धैर्येण यत्किञ्चिजल्पित समुधुक्तोऽस्मि । अतस्तत्रभवतामवधानं दीयमानमभ्यर्थये । इह किल जगति समुन्मिषत्स्वपि व्यासकपिलकणादादिष्विव, कुलझमागतानेकानवद्याविद्याधरीकृतविद्याधरेषु, निखिलमहीवतु- लमुखतिलकायमानेषु, पदवाक्यप्रमाणपारावारपारीणेषु विद्वम्मणि- मुकुटेषु परस्सहस्रषु प्राचीनसम्प्रदायवित्सु विद्यमानासु च यावदपेक्षं नानाविधसामग्रीसम्पत्तिषु जाग्रत्सुच विद्यामभ्यस्यत्सूपपराढेषु प्रच- लसुच तत्र तत्राध्ययनाध्यापनादिषु न ताशीमवाप्नुवन्त्यभ्यासपरि- पाटी/मदानीन्तना माणवकाः, यादृश्या किल सर्वातिशायिज्ञानोत्कर्ष- मधिगम्यास्माकं पितृपितामहाधा महानुभावाः प्रायोऽद्यतनैर्दुरवगा- हानपि विषयान् अस्माकमनुजिघृक्षया महाप्रबन्धरूपेण प्रन्ति स्म । अप्रचेतावन्मात्रतारतम्यहेतुभूतं किमिति पर्यालोच्यमाने छात्रचर्या वैकल्यमन्तरा न किश्चित्कारणमन्यदस्तीति प्रतिभाति । मतस्तादश- च्छात्रचर्यामधिकृत्य किञ्चिदविचारयामः ! छवं गुरोर्वैगुण्यावरणं शीलमेषामिति छात्राः, शीलमित्यधिकारे छत्रादिभ्योऽण इत्यण प्रत्ययः तेषां चर्या छावचर्या । अनेन च यथा उत्र छात्रचया। २४९ राय जायमानान, वृष्ट्यातपादिदोषान् आवरणेन धारयति, तेन शरीरिणस्तजन्यक्लेशो न जायते, तद्वद् गुरुक्लेशवारकत्वाच्छी- स्य छत्रत्वं, तद्वत्वाच छात्राः । तथा च गुरोर्येनकेनापि प्रकारेण आयमानान् स्वेन पारयितु शक्यांश्च दोषान् धारयितु बद्धदीक्षाः गयेन मनसा पाचा च गुरुमेवानुवर्तमाना: स्वप्नेपि तस्याहितमना- रन्तः सर्वदा दाक्षिणात्या इव तद्धितप्रयोगकाङ्गिणो, नागरिका इव रित्यक्त ग्राम्यधर्माः, तदाज्ञालिप्सया तन्मुखावलोकनपरास्तस्य स- जाव्यमानानपि दोषान् वाचानुश्वारयन्तो, मनसाप्यचिन्तयन्तः काये. पि तस्य गतिभाषिते नितादीन्यननुकुर्वाणाः, परेण च क्रियमाणानि रिवादादीन्यनाकर्णयन्तस्स्वकरणीयैकतत्पराश्व छात्राइति फलितम् । पाच स्वोद्दिष्टविद्याभ्यासपरिसिद्ध्यर्थ यामियान्यवश्यमनुप्ठेयानि नोह छात्रचर्यापदार्थः । तत्र च छात्राणां स्वरूपमप्रतिपाद्य तश्चर्याया निरूपयितुमशक्य. प्रथमं तेषां स्वरूपं निरूप्यते । छात्राणां स्वरूपं तन्त्रलारे यथा- "शान्तोविनोतश्शुद्धात्मा श्रद्धावान् धारणे क्षमः । समर्थश्च कुलोनभ प्राज्ञस्सच्चरितो धनी ।। एवमादिगुणयुक्तश्छानो भवति नान्यथा । गुरुता शिष्यता वापि तयोर्वत्सरमात्रतः॥ सदगुरुरूस्वाश्रितं छात्रं वर्षमात्र परीक्षयेत् । वर्षेकेन भवेद्योग्यश्छानो गुणसमन्वितः" ॥ इति विद्याभ्यासाय प्रवृत्तस्य हि शिष्यस्य तदननुकूलविषयान्तरव्यावृत्त- चित्तत्त्वरूपं शान्तत्वमावश्यकम् । अन्यथाभ्यासवेलायां विषयान्तर- ध्यापृतचित्तस्य गुरुभिरतिप्रयत्नेनापि उपदिश्यमानोर्थो मरुवृष्टिरिर । कस्मा अपि फलाय प्रकल्पते । नहि विषयान्तरव्यापृतचित्तस्य मनो इन्दु भिघोषमपि विषयीक प्रभवति। अतएवोक्तं कविकुलसावं. मोमेण श्रीहर्षेण- ३२ २५० मित्रगोष्ठी-पत्रिका "धरातुरासाहि मदर्थयात्रा। कार्या न कार्यान्तरचुम्पिचित्ते" ॥ इति । अतः शान्तत्वमत्यावश्यकं विद्यामधिजिगांसूनांबालानाम । एवं विक योप्यावश्यकः, विनयो नाम गुरोरुसकाशादात्मनोऽपकप्रकाशनम्। तद्धि गुरुहृदयावर्जकं भवत् गुरोमनःप्रसादहेतु तामापन्न विद्याभ्या सवृक्षस्यालवालतां भजते तादृविनयप्रदर्शनप्रकारश्च प्रतिपादित मनुना, यथा--- "शरीरञ्चैव पाचश्च बुद्धीन्द्रियमनांसि च । नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् ॥ नित्यमुद्धृतपाणिस्स्यात् साध्वाचारस्सुसंयतः । आस्यतामिति चोक्तस्सन्नासीताभिमुखं गुरोः ।। होनान्नवस्त्रवेशस्स्यात सर्वदा गुरुन्निधौ । उत्तिष्ठेत्प्रथमञ्चास्य चरमञ्चैव संविशेत् " ॥ इति । एतादविनयावलोकनार्टीकृतान्तःकरणः परमदयालुरुषाध्यायः सर्वे- भ्योपि धनेभ्यः प्रधानभूतं विद्याख्यं धनं देशकालावच्छेदनापि विल- यरहितं तदभिलाषिणे छात्राय सम्प्रददाति। महो ! परमकारुणि- कत्वं विनयवशाकृतहृदयस्य गुरोः, पश्यत, इह किल जगति प्राकृत- मपि धनं कः स्खलु पुमान् परं प्रापयितु समुधु ङ्क्त । न खलु सहो- समुद्युञ्जते अत एवाह श्रीहर्ष:- "मा धनानि कृपणः खलु जोवन तृष्णयार्पयतु जातु परस्मै । तन नैष कुरुते मम चित्रं यत्तु नापयति तानि मृतापि" ॥ इति । प्रत्युत परकीयस्य धनसय स्वायत्तीकरण एव प्रयतन्ते, तदर्थञ्च कल- हायन्ते । एवं स्थिते सर्वधनेभ्योऽपि सघप्रकारणोत्कृष्टतमस्य- "न चोरहार्य नच राजहार्य न भ्रातृभाज्यं न करोति भारम् । व्यये ते वर्धत एव नित्यं विद्या धनं सबंधनात्प्रधानम्" ॥ इत्युक्तलक्षणस्यास्य धनस्य प्रतिपादनं परमपाव्यतिरेकेण कणं संघटताम् कथन्तराञ्च- दरा अपि छात्रचर्या । २५१ "तृष्णां छिन्धि, भज. क्षमा, जहि मदं, पापे रति माकृथा. सत्यं ब्रू ह्यनुयाहि साधु पदधी, सेवस्व विद्वजनम् । मान्यान्मानय, विद्विषोप्यनुनय, प्रख्यापय प्रश्रयं, कीति' पालय दुःखिते कुरु दयामेतत्सतां चेष्टितम्" । इत्याधु पदेशश्च बहुमूल्यप्रदानेनाप्यसुलभं वितरतु गुरुः नहि लभ उपदेश ईदृशः, येन पुमान् पौरुषं प्रपद्यत। अत उक्तं पिन- प्यावश्यक इति। एतादृशगुणविशिष्टत्वं शिष्यस्यैकेन द्वाभ्यां त्रिभिर्वा दिवसवितु शक्यं, तथापि तस्य छात्रीभवनयोग्यता अस्तिवा नवेति वत्सर- त्रिं परीक्षणीयम्, नहि केनाप्यवगन्तु शक्यं द्विदिवसः प्रज्ञाव पि। तस्य प्रथमं तथाविधगुणाभावेऽपि समनन्तरं तदीयसंस- ण तत्प्रवृत्तिदर्शनेन तदीयोपदेशेन वा पूर्वोक्तगुणोत्पत्तिसम्भधेन थमं तत्परित्यागायोगात् । नहि स्वस्यापेक्ष्यमाणान् गुणानादायैव तो जायमानो जनिष्यमाणो या समुपलक्ष्यते लोके। नापीदमस- वि यत्सजनोपदेशप्रवृत्तिसंसर्गादिभिरपेक्ष्यमाणा गुणाः सम्भव- गीति यथाह भर्तृहरिः- "जाड्य' धियो हरति, सिञ्चति घाचि सत्यं, मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीतिः सत्सङ्गतिः कथय किनकरोति पुसाम्" ॥ इति । द्याभ्यासाय समुपागतस्य च गुणविशेषपरीक्षा. तावदत्याश्यिका सरमात्रेणापि । भन्यथा भविनयालख्यादिदोषग्रस्तश्चेच्छात्रो वति, तदा तदीयाविनयादिदोषेणार्जिताना. दोषाणां गुरुरेवहि पात्रे वति; तथाच स्मयंत- "राज्ञि चामात्यजो दोषो भार्यादोषस्स्वभरि । तथाशिष्पार्जितं पापं गुरुः प्राप्नोति निश्चितम्" ॥ इति । - - ३५२ मिनगोष्ठी-पत्रिका। न केवलमेवंविधो दोषः, अपितु स्वकीयपुत्रा अपि तत्संसर्गेण तदी. यवृत्तमनुकुर्वन्तः समानवयस्कतया तदुपदेशमेव महामन्त्र म- न्वानाः स्वेनोपदिष्टमपि गजनिमीलितेनावधीरयन्तो दुर्मार्गकपरायणाः प्रातिवेशिकांश्च माणवकान् ललितललित रुपदेशवचनैः समावजय- तस्तद्धृदयञ्च निर्मलमपि कलुषोकुर्वाणाः ग्रामकूपनिपतितविपकणा इव ग्रामीणान् सर्वानपि बालान दूषयन्तः स्वयं दुष्टपदवाच्यतां भजे. रन् । किंवा इतोप्यन्यत्कप्टसरमस्ति लोके । बालानां हि हृदयं बाल. लसामिवातिकोमलम्, अन्यत्नप्रवत्य॑मानमनायासेन प्रवर्तते, नति तदा कृत्याकृत्यविवेचनक्षमा तेषां बुद्धिः । अन्यत्र प्रवर्तमानञ्च हृदयं समासक्त सदा कुड्यभिप्तपाषाणस्नण्डमिव तत्रैव विलीयते तस्मात बाल्य एवं बालानां हृदयं यथा सद्विषय एव प्रवर्तेत, तथा यतनीयम्। तत्रय बाला यथा दुष्टैस्सह न संसृज्येरंस्तथा पर्यवेक्षणीयाः । अतश्च छात्राः परीक्ष्यैव छानत्वेनोपकल्पनीया इति सिद्धम् । मत- एवोक्तम् । "गुरुता शिष्यता वापि तयोवत्सरमात्रतः । सदगुरुरूस्वाश्रितं छावं वर्षमात्रं परीक्षयेदिति" ॥ एवंविधानाञ्च छात्राणामवश्यकरणीयम्वन्यतमानि चर्यापरपर्या- याणि कृत्यानि निरूप्यन्ते । अध्ययनवेलायां रसमागच्छन्त्या विरहम- सहमानया कामिन्येव निद्रया परिहासिकयेव नयनेपिदधत्या समा- लिङ्गयमानोपि बलादेनां दूरीकृत्य सश्रद्धमाकर्णयेदगुरूपदिश्यमाना. नर्थान् । पुस्तकावलोकनवेलायां पठनवेलायाञ्च प्रायस्सर्वेषामपि निद्रा समायातीत्यतिरोहितमेव किल महाभागानाम् । निद्रायमाणे सामुष्मिन् अतिप्रयासेन गुरुभिरुपदिश्यमाना अपि विषया अरण्य- रुदितायमाना न किञ्चित प्रयोजनमावहन्ति, कण्ठशोषः परमवशिष्यते गुरूणाम् अतो ऽध्ययनवेलायामपगतनिद्रः सोत्साहैर्भाव्यम् । अतएवोक्त नारदशिक्षायाम्- "हयानामिव जात्यानामद्धरात्राद्धशायिनाम् ।
२५३ छानचर्या । नहि विदयार्थिनां निद्रा चिरं नेत्रेषु तिष्ठति ॥ ८१२३ गत पुस्तकवाद्य च नाटकेषु च सक्तिका । स्त्रियस्तन्द्रा च निद्रा च विद्याविघ्नकराणि षट" ॥ ८।२ एवं श्रद्धाप्यावश्यिका श्रद्धा नाम गुरूपदिष्टविषयेषु विश्वासः, गुरु- मम दोषलेशमपि नोपदिशेत, प्रत्युत मम यथा श्रेयस्लम्पद्यत, यथा च कृत्याकृत्यविवेचनक्षमो भवेयम्, यथा वा मृगप्रायां वृत्तिं स- त्यज्य गृहीतस्यास्य मनुष्यजन्मनससाफल्यं सम्प्राप्नुयां, तथा दीक्षा- रक्षणदक्षिणो भगवान् देव एव मामनुजिघृक्षुर्गुरुरुसंवृत्त इति तदुप- दिष्टेषु विश्वसनीयम्, अविश्वासो यदि जायेत तदा तद्वाक्येऽप्रामा- ण्यज्ञानोदयेन न तद्वाक्यं शृणुयात् नापि तथा प्रवर्तेत। नहि रजतं । दृष्ट्वा रजतमिदमित्युक्तेपि तत्राप्रामाण्यज्ञानवान् मामयं प्रतारयतीति- पुद्धया तद्वाक्यं गृणोति शृण्वन्नपि वातद्ग्रहीतु प्रवंतते अतो ऽवि- वासं दूरीकृत्य गुणो वा दोषो वा, सर्वं तदायमिति अचञ्चलचि- तेन भाव्यम् । एवं सश्रद्धमधीताश्च विषया अध्ययनव्यतिरिक्तेषु समयेषु पुनः पुनरनचिन्तनीयाः, अन्यथा पठनवेलायां सम्यगवगता अपि विषया विस्मृताः सन्तोऽनधीतसमकक्ष्यतां भजेरन् । अतोवि. द्यायाः साफल्यमिच्छुभिलिनैरन्तर्यणाभ्यासः कार्यः, न तु कदाचि- यग्रतामवलम्ब्य कदाचिचौदासीन्यपरिग्रहेण कञ्चित्कालमन्यं विष. यमम्यस्य तञ्च विहाय, कश्चित्कालं विषयान्तरस्य परिशीलनेन च वृथा कालो यापनीयः । युगपनानाविविषयविचारे हि क्रियमाणे, कस्यापि विषयस्य कूलङ्कषबोधो जायते । अतो युगपन्नानाविषययुभु- सापिशाचिकानाविष्टचित्तो भूत्वा स्वयमतिमन्दोऽपि पिपीलिकासपं. णात्पाषाणोपि निम्नी भवेदिति न्यायसार्थकयितुकामः सुप्रसन्नचित्ती यदि प्रतिदिनमल्पमप्यधीयीत, तदा स नूनं विचक्षणी भवेदित्यत्र नकस्यापि विशयख्यावकाशः। एतदेवोपदिक्ष नारदशिक्षायाम्- "शनैर्वियां, शनैरानारोठेत् पर्वतं शनैः। - २६४ मित्रगोष्ठी-पत्रिका। शनैरध्वसु वत्तेत योजनानि परं व्रजेत् ।। योजनानां सहस्राणि शनैर्याति पिपीलिका। अगच्छन् वैनतेयोऽपि पादमेकं न गच्छतीति ॥ ८॥१५-१६ एवं प्रतिदिनं प्रातरुत्थाय स्नात्वा, स्वस्थ कुलाचारानुसारेण कर- णीयं कृत्यमपि त्वरितं परिसमाप्य, पूर्वदुः पठितान पाठान सम्यग- भ्यस्य, तस्मिंश्च दिने ऽध्येतव्यान पाठान सकृदालोक्यालोच्य च यावदवगतं, क्लुप्तसमयेषु पाठशाला गत्वा, नियतप्रदेशेषु चोप- विश्योपाध्यायेषु समागच्छत्सु उत्थाय विनयपूर्वं तदाज्ञानुरोधेन पुन- रुपविश्य पाठस्समारम्भणीयः । विद्याभ्यासश्च बाल्य एक करणीयः, निसर्गरमणीये हि बालभावे ऽपगते अनेकविलासभरमन्थरेच सम्प्राप्ते यौवने प्राणिनः खल्वविनीतेन मन्मथहतकेन समुन्माधन्ते, तरलीक्रि- यते चान्तरङ्गमेतेषाम् निराक्रियते च कार्याकार्यविवेचनसामर्थ्य, कार्यते च पदमपथेऽपि कुतः खल्वनङ्गवागुरानिपतितमनोमृगस्य हृदया- हुादनशिशिरकामिनीसंलापामृतास्वादनपरस्य च विदवाभ्यासो नाम, दूरापेतमेतत्। अतश्चापरिमितमूल्यस्य बालभावस्यानन्तरं दुरधिगमत- या तारुण्येन दुस्सम्पादेम्वेघविधेष्ववश्यकरणोयेज्वेव व्ययः कार्यः । निरन्तरव्यवसायो हि नराणां कामधेनुरिवाभीष्टफलप्रदायकः सर्वोत्कर्षप्राप्तिहेतुश्च भवति, नखलु जगति तददृष्ट यदि व्यवसायेन दुरधिगमम् । तथाचोक्तम् । "नात्युश्चशिखरो मेरु नातिनिम्नं रसातलम् । व्यवसायसहायानां नातिपारो महोदधिः" ॥ इति । ‘एवं निरन्तरमभ्यासे हि क्रियमाणे वासना ढीयसी जीवितावधि ततोप्यधिकं वानुवर्तमाना स्मृतोपनता परिचारिकेवावश्यकार्याणि साधयितु नियोगप्रतीक्षा भवति । एवञ्च जागरूकता, व्यवसायः, सम- यस्य यथायोग्यं विनियोगश्च छात्राणामत्यावश्यका कृत्यानि, तथा परमकारुणिकेन भगवता वितीर्णाया विलक्षणबुद्धेयथावलुपयोग छात्रचर्या । . २५५ जागरूकतामन्तरेण न सम्भवति, पथावदनुपयुक्तायाञ्च तस्यां कृत- गतां गलहस्तयता बालेन कृतनतायाश्च हस्तावलम्बो दत्तस्यात् तादशमहापराधजन्येन चैनसा परमुपलिप्येत, उभयतो भ्रष्टश्च भवेत् । मतोजागरुकता तावदत्याश्यिका बालानाम् एवं सकलविधसुखानुभ- पनिदानेन व्ययसायेन विनाकतो ऽलसपुरुषः सत्स्वपि सुखानुभवसा- धनेषु नैव सुखमनुभवितु प्रभवति । अलसता हि सुखानुभवविरो- धिनी, आरोग्यनिर्मूलयित्री निर्गुणं निधनं निस्तेजसञ्च पुरुषमुपजन- यति, अतस्तारशी मारोग्यपरिपन्थिनी मलसतां निराकृत्य व्यवसाय एव शरणीकरणीयो घुद्धिमद्भिर्खालकः । एवं पाठशालामुपगतैरुपा- ध्यायस्य सतीर्थ्यानां वा वैमनस्यमजनयद्भिः सविनयैस्सम्यगनवगतान विषयान उपाध्यायात्सच्छात्रेभ्यो धा ऽवधारयद्भिः स्वस्वकृत्यपरैभवि- व्यम्। एवं विद्याभ्यासस्यारोग्यमन्तरा विधातुमशक्यतया विद्यया सहा- रोग्यस्य प्रधाननिदानं व्यायामोप्यवश्यं करणीयः। अतः प्रतिदिन नियताध्ययने निवृत्ते वितीर्णायाञ्च गुरुणा गृहगमनानुज्ञायां, वयस्यै- सार्द्ध कञ्चित्कालं किमपि देहायासप्रदं कर्म कर्तव्यम् अव्यायामशीलो ह जनो येन केनापि व्याधिना प्रस्तो ऽलसस्सन परिक्षीणसकलावय- शक्तिः महापण्डितोऽपि परस्यात्मनो वा न किञ्चिदप्युपक प्रभ- ति । अतः प्रतिदिनं येनकेनाप्युपायेन शरीरदाढपादने यतित- पम् व्यायामेन हि अस्सह हेषु वर्तमानानां चलनहेतुभूतानां मांस- चुराणों भागानां यथावदुपयोगेन पुष्टिर्जायते शरीरञ्च दृढं भवति दुक्त वाग्भटेन- "विभक्तघनगात्रत्वं व्यायामादुपजायते” इति । चदेहस्यद्यायासे जायमाने निश्वासोच्छवासा अधिकाधिका भं- न्ति, तदाच शुद्ध वायूनामन्तस्सर्वत्र प्रचारेण रक्त परिशुद्धं तत् वेष्वयवेषु प्रसरति। एवं शरीरे शीघ्रसञ्चारेण बलवत्तरकर्मानु- नेिन वा जायमानं हि स्वेदजलं त्वग्हारेण दुष्टांशान् बहिनिष्काश.
२५६ मित्रगोष्ठी-पत्रिका। यत् शरीरं सुस्थिर करोति । जाठराग्निच प्रवृद्धोभूत्वाऽमितमप्याहार क्रियमाणं भस्मसात्करोति । परन्तु व्यायामो हित इत्यालोच्य कर. णीयान्तराणि परित्यज्य पाठमप्युपेक्ष्यातिशयेन क्रियमाणः शरीरस्या- स्मनश्च दोषाय । केचिद्धि बालाः परीक्षार्थ बलवत्परिश्राम्यन्तो व्या- यामलेशमप्यकुर्वाणा अहर्दिवं परीश्यकोटिप्रविष्टानेव विषयान मुहु- मुंहुरनुशीलयन्तोऽध्ययन एव स्वकीयं यावत्समय बिनियुञ्जाना मह- तोनऽर्थाननुभवन्ति । उत्तेजनीया हि बुद्धिरनुकूलं तक्षादिनेव वास्या- दीनि, अतोयथोचितं व्यायाम कुर्वद्भिरव्यायाममतिव्यायामंवा कुर्वा. णैश्च न भवितव्य श्रेयसकामै विद्यायाससाफल्यमिच्छुभिर्वालैः । एवं विद्याभ्यासावस्थायां निर्दिष्टग्रन्थभिन्नग्रन्था अपि यथावसर पर्यालोकनीयाः, नतुसर्वेऽपि ग्रन्था गुरुमुखत एवाध्ययनीया इति दु- राशा कार्या । नहि केनापि शक्यं वर्षसहस्रणापि गुरुमुखेन सर्वानपि ग्रन्थानभ्यस्य सर्वानप्यर्थानवगन्तु किन्तु मार्गमात्रप्रदर्शनं कर्तुं शक्यं गुरुभिः अतो यथावसरं ग्रन्थान्तरपर्यालोकनमपि न दोषाय परन्तु ग्रन्थान्तरपलोकनमपि मितं सदमितं फलमादधाति, नत्वमितं तन्मितमपि गुणं जनयेत् । प्रत्युत सर्वकषार्थबोधासम्भवेन ज्योति- रिङ्गणप्रभायमानज्ञाना यथावसरमधीतं चरितार्थयितुमक्षमाः पाम- रजनसाधारणा विद्वजनविगहीं भाजनं सम्पद्यरन् अतो ग्रन्थान्तर. पर्यालोकनमपि प्रकृतप्रत्यवायाजनकंयाव दात्महिताय कल्पते तावदे. वानुसरणीयम् । एवं अध्ययनकाले स्वचापलप्रयुक्तविलक्षणविजिगीषया कस्मि- चन विषये प्रतिपाद्यमान मात्मनः प्रतिभापकर्ष मन्वानः कथमप्यर्य पराजेतव्य इति “कश्चित्कान्तान्यायेन" अपत्य॑नाकर्णयन्तोऽपि अन्तरा आक्षिप्य तस्मिंश्न क्षमावता गुरुणा समाहित समाधानेऽन्य- माक्षेपमुद्भावयन्त आक्षेपसमाधानपरम्परया वृथाकालं यापयन्तो गुरो. मंहमनस्यं जनयन्त: तेन च सप्रयत्नमधीयाना अपि नकिञ्चिदपि फलमाप्नुप्रभवन्ति । अनुग्रहः किल गुरोमहच्छ् यस्साधनं छात्राणाम् । ।
छानचयों। २५७ अधीतानां पाठानां मुहुरनुचिन्तने सन्ति चेत्सहपाठिनोऽप्यभ्य- रीकरणीयाः, नहि गुरुणा निष्पक्षपातिना सामान्येनोपदिष्टमप्यर्थ स- घोपि समग्र ग्रहीतु प्रभवति । एक एकमर्थं सम्यग्गृह्णाति अपरश्चा- न्यमर्थम्। एकेन गृहीतीर्थोऽन्येन ग्रहीतुन शक्यते अन्यतमश्च तं सम्पूर्ण गृङ्गाति । अतस्सर्वेपि मिलिता अधीतान् विषयान् सम्यक् चवंयन्त. स्तयन्तश्च सन्दिग्धमर्थ निमत्सराससमानयोगक्षेमा भवेयुः। परन्तु अधीतविषयपरिशीलनार्थ मिलितैस्सरसालापादिकं कुर्वाणवृथाकालो न यापनीयः । स्वभावः खल्वयं यद्वयस्यानां सानिध्यं सरससंल्लापप्र. व कं भवतीति। एवं प्रतिदिनं नियतपरिश्रमाः स्वस्वकृत्यमावव्यापृता गृहकृत्या- दिवनभियुक्ताश्छात्राः परं पाण्डित्यमुपगम्यह चामुत्र च कृतकृत्या भवेयुरित्यन न कश्चित्सन्देहः । एवं स्थिते, आधुनिकाः केचिदबालाः गुरूपदेशाकर्णनमात्मनः परं परिभवास्पदं मन्यमानाः, गुरोरवमानमेवा- वश्यकतव्यकृत्यजातवन्यतमं मन्वानाः, अध्ययनवेलायामपि गमन प्र- तारयितु परं पुस्तकमवलोकयन्ती, मनसा चान्यत्कार्यजातमालोच- यन्तो ऽन्यदा च गुरुदषणभाषणभूषणा दयस्यपाशैस्साधं वृथा तत इतस्सञ्चरन्तः, पाठशालायामपि गुरौ कार्यान्तरेण किञ्चिदिवा- पसने कलकलरवैदिगन्तरालमापूरयन्ती, नानादे शवृत्तान्ताव जिमि- पया च नानादेशादागतावार्तापत्रिकास्समालोकयन्तः तद्गतांश्चविष- यान सच्छात्रानन्यांश्च बोधयन्तः, सुशीलानपि दुःशीलयन्तः, कलहाय च रन्ध्रान्वेषिणस्त्रिशङ्कपातं पतन्तश्छात्रापसदाः स्ववेदग्ध्यप्रशंसा- शंसनतमोभूयिष्टहृदयकन्दगः समुल्लसन्ति धरातले । किन्नाम खलु तपामसाम्प्रतम्, य न कर्तव्यो विनयः, न रक्षितव्या महतां मर्यादा, नस्मरणीयं शीलं, न द्रष्टव्यो धर्मः, नानुमर्तव्यो न्यायः, नवा भेतव्यम् गुरुजनात अपितु सम्पादनीयो दुष्टैस्सह सहवासः, प्रकाश्यो दम्भः, काव्यः कलहः,चार्यो दुर्वादः, प्रच्छाद्य सत्यम्, वक्तव्यं स्वेच्छा- मनुसृत्य यत्किश्चित, प्रकाशनीयोगुरोरवमानः विधेयोऽध्ययनवेलायां . . . ३ सदा . २५८ मित्रगोष्ठी-पत्रिका। गुरुभिस्सह वादः, स्थापनीयञ्च यथाकथञ्चित् स्वोक्तम् । अपरे च के. चिच्छाना न्यायशास्त्राद्यध्येतारः कतिपयपदार्थनिर्वचनपूर्वक व्याप्त्या- दिज्ञानमात्रेण त्रिभुवनमेवास्माभितिमिति प्रोढाहङ्काराः सर्वमन्य- च्छास्त्र तृणमिवावगणयन्तः कार्यकारणभावादीपि सम्यगजानन्तो- ऽपि चापलवचनप्रपञ्चैदिगन्तरं धनयन्तः पारलौकिकाय लौकिकाय घा लाभायाप्रविष्णवः समितिसमरेषु सिंहनादोश्चारणमेव परं षार्थ मन्यमाना: निर्दिष्टग्रन्थानामपि पदपदार्थान् सम्यगनषबुध्यमाना अधरितामृतानां महाभारतादीनां सकृदालोकनेपि पराङ्मुखाः स्व- मायुः केवलं ह्रसयन्तो भुमे रभूता दृश्यन्ते अन्येतु केचन छानाप- मासिकतनं दत्त्वाकिलास्माभिरधीयते, अतो न मनागपि गुर- वोऽनुसरणीयाः, अपित्वस्माकमेव वचनमनुसरणीयं गुरुभिरिति तद्- चन मनाद्रियमाणाः स्ववचनमेव गुरूननुसारयितु प्रयतमानाः, अन- नुसरन्तश्च गुरोः, केसरकलापगतयूकादय इव सिंहस्य क्षुद्रोपद्रव- कारिणो दैनन्दिनांश्च पाठानचिन्तयतः परीक्षायाञ्च सन्निहितायां रा. त्रिन्दिवं परिशोलयन्तस्तेनच रोगिणःसम्पद्यमानाः, परीक्षायाञ्च परा- जयं प्राप्नुवन्तः पित्रार्जितं धनं वृथा व्यययन्तो नकिश्चिदपि फलं प्रा. प्नुवन्ति । अतएव ह्यद्यतना बाला ईदृशच विकलाः पण्डितमहाश- यानामिवाभ्यासपरि पाटोमलभमानाः स्वोपजीवनायाप्यप्रविष्णवो भ. वन्ति । एतादृशीञ्च दुरवस्था कतिपयानामपि निरासयितुकामविबुध- गणमणिमुकुटै रसभरमेदुरेण पीयूषमप्यधरीकुवंता स्वकविताप्रपञ्चन विद्वज्जनानामन्येषाञ्चातितरामाहादं जनद्भिः, नानाविरुदलाच्छि- तैर्महामहिमशालिभिः केरल वर्मदेवैः प्रोत्साहितेन सकलधर्मम् लेनान्व- थनाम्ना परमकारुणिक श्रीमूलकमहाराजेन सच्छात्रवृत्त्यधिष्ठापिताया- मस्यां पाठशालायामधीयाना वयं कृतज्ञतासूचकमपरं कर्तुमक्षमाः केवलमिदमाशास्महे-- श्रीमत्केरलवमंदेवनिपुणप्रज्ञासमालोचित- श्रेष्ठारम्भगृहीतधर्म्यधिषणस्सन्त्रायमाणो भुवम् ।
आलवकमूत्तम् । २५९ सुत्रामेव दिवं वृहस्पतिमतिप्रक्रान्तधर्मात्करः श्रीमान् मूलकभूपतिर्विजयतामाचन्द्रतारं सुनी। पद्मनाभशास्त्री। त्रिवेन्द्रम्, त्रिवक, रम् । :: -- आलवकसूत्तम् । * ( आडवकमत्रम् ) मूल पालिभाषातः प्रत्यक्षरानुवादरूपम् । नमस्तस्मै भगवते अहंते सम्यक सम्बुद्धाय । एवं मया श्रतम्:- एकस्मिन् समये (१) भगवान् आलव्याम् (२) विहरति आलय. कस्य यक्षस्य भवने । अथ खलु आलवको यक्षो येन भगवान तेनोप- संक्रान्तः उपसंक्रम्य भगवन्तमेतदवोचत :- "निष्काम श्रमति'। "साधु बन्धो" (३), इति भगवान निष्क्रान्तः।। "विश श्रमणेति"। V * इदं सूत्र "भूत्रनियात"नाम्ना प्रसिद्धस्य ग्रन्थस्य 'उरगवर्गान्तर्गतम् । यालयको नाम कश्चिद् यक्षः प्रथमं बुद्धदेवमभीघयत्। ततो बुद्धदेवन तस्य केयुचित प्रश्न प्रत्यक्तेषु स बौद्धधर्ममग्रहात । तदेव वणितम् । + "याडवक" इति संस्कतं सम्भवति । (१) मूले दितीयान्तः पाठोऽस्ति। १२) नगर्याम् । (३) पाला "अावसो" इति वर्तते। अयं शब्दः प्राचार्यण शिंषाम, उमा- मकादिना च परं सम्बोधयितुं प्रयुज्यते । तस्य च “सुहृद्, बन्धो" इत्यादि रूपेण पानि भाषाविभिरनुवादः क्रियत । दुर्लभमस्य संस्कृतम् ।
२६० मित्रगोष्ठी-पत्रिका। - "साधु, बन्धो" इति भगवान् प्राविक्षत् । द्वितीयमपि खलु आलवको यक्षो भगवन्त मेतदवोचत :- "निष्काम श्रमणेति'। "साधु बन्धो" इति भगवान् निष्क्रान्तः । "प्रविश श्रमणेति'। "साधु, बन्धो" इति भगवान प्राविक्षत् । तृतीयमपि स्खलु आलषको यमो भगवन्तमेतदेवावोचत् :- "निष्काम श्रमणेति'। "साधु, बन्धो" इति भगवान् निकान्तः । "प्रविश श्रमणोति" "साधु, बन्धो," इति भगवान् प्राविक्षत । चतुर्थमपि खल्वालवको यक्षो भगवन्तमेतदेवावोचत् :- "निष्काम श्रमणेति" | "न खलु पुनरहं बन्धो निष्क्रमिष्यामि, यत्ते करणीयं तत्कुरु"। "प्रश्न त्वां श्रमण, प्रक्ष्यामि, स चेन्मे न व्याकरिष्यसि, चित्तं घा ते क्षेप्यामि, हृदयं वा ते फालयिष्यामि (१) पादेषु वा गृहीत्या पार गङ्गायाः क्षेप्स्यामीति''। "न खल्वहं तं बन्धो, पश्यामि सदेवके लोके समारके (२) सब्रह्मके, सश्रमणब्राह्मणायां प्रजायां सदेवमनुष्यायां, यो में चित्तं वा क्षिपेत, हृदयं वा फालयेत्, पादेषु वा गृहीत्वा पारं गङ्गायाः क्षिपेत् । अपि च त्वं बन्धो पृच्छ यदाकाङ्गसीति'। - (१) विधा करिघाामि, छत्मग्रामीत्यर्थः । (२) बौद्धग्रन्थे मारो नाम कश्चिद दुई तो देवयोनिविशेषः; स खलु नियत मिन्द्रियमुखपरायणः, नराणा साधुकार्येषु विधोत्पादकः, बौद्ध शास्त्र- अविवानां घण्णां कामदेवलोकानां प्रथमोऽधिपतिश्च । विषेधः सन्दर्भान्तरेच प्रकाशयिषाते।
आलवकमूत्तम् । २६१ १ "किं स्विदिह वित्तं पुरुषस्य श्रेष्ठ, किंस्वित् सूचरितं (१) सुखमावहति । कि स्विद ह वै साधुतरं रसानां, कथं जीवि-जीवित माहुः श्रेष्ठम् ।। श्रद्धति वित्तं पुरुषस्य श्रेष्ठ, धर्मः सुचरितः सुखमावहति । सत्यं ह वै साधुतरं रसानाम्, प्रज्ञांजीविजीवितमाहुः श्रेष्ठम् ॥ ३ कथं स्वित् तरति ओघं, कथं तरति अर्णवम् (२)। कथं स्विद् दुःखमत्येति, कथं स्वित परिशुध्यति । श्रद्धया तरति ओघम, अप्रमादेन अर्णवम् । वीर्येण दुःखमत्येति, प्रज्ञया परिशुध्यति । कथं स्विल्लभते प्रज्ञा, कथंस्विद विन्दते धनम् । कथं स्वित् कीर्ति प्राप्नोति, कथं मित्राणि ग्रथनाति (३)। अस्माल्लोकात परं लोकं कथं प्रेत्य न शोचति ॥ 1) मूले पुंलिङ्गान्तः पाठोऽस्ति । ') अत्राप्रस्तुतेन जलवेगवाचिना योघाब्द न धर्मोपदेशालोचनप्रकर- संमारदुःखादि, अवशब्देन च संसारो बोध्यत इति प्रतिभाति । ) यात्मनेति भावः।
२६२
मित्रगोष्ठी-पत्रिका।
६
श्रदधानोऽहतां धर्म निर्वाणपत्त्या (१)।
शुश्रूषमाणो लभते प्रशामप्रमत्तो विचक्षणः ।।
प्रतिरूपकारी धुरावान् व्युस्थितो विन्दत धनम् ।
सत्येन कीर्ति प्राप्नोति, ददन्प्रित्राणि प्रश्नाति ।
अस्माल्लोकात परं लोकमवं प्रेत्य न शोचति ।
यस्यैते चत्वारो धर्माः सश्रद्धस्य (२) गृहमेधिनः ।
सत्यं धर्मो धृतिस्त्यानः स वै प्रेत्य न शोचति ॥
"इछ' (३) अन्यान पृच्छ पृथक श्रमणब्राह्मणान् ।
यदि सत्याद धर्मात त्यागात क्षान्त्या भूयाऽथ विद्यते
-
कथं न्विदानी पृच्छेयं पृथक श्रमणब्राह्मणान् ।
सोऽहमद्य विजानामि सोऽर्थ: साम्परायिकः (४) ।।
अर्थाय वत में युद्धो वासाय आलावीम् (५) आगतः ।
सोऽहमद्य विजानामि यत्र दत्तं महाफलम् ।
सोऽहं विचरिष्यामि ग्रामादग्रामं पुरात्पुरम् ।
नमस्यन् सम्बुद्ध धर्मस्य च सुधर्म तम् ।।
इति आलघकसूत्रम् ।
विधुशेखरशर्मा।
(१) निर्वायपाप्तिहारण ।।
(२) “सद्धस्स" इति मूले स्ति।
(३) अस्य शब्दस्य संस्कृतं नाधिगम्यते। अध्ययमिदम, अनुनयार्थे च प्र
'ज्यत इति तु निर्णायत। 'इङ ध व महाराज कलसिगामं चिन्त हि
(Buddhist Nirvan. I. xlii. ) इङ व ते गणापेथ" (धम्मपदं २२३ भो
इत्यादौ तस्य वार्थस्य प्रतिभासमानत्वात् ।
४) पारलौकिकः।
(५) तस्य यक्षस्य नगरीम्।
आर्याणामादिमो निवासः । (पाश्चात्त्यानां मतिनिर्दशपूर्वक श्रीमतो बालगङ्गाधर- तिलकस्य मतम् )। अस्मदीया: पूर्वपूरुषा भारतस्य नादिनिवामिनः । ते खलु सहस्त्रवत्सरपूर्व स्थानान्तराद् इहागत्य अत्रत्यानादिमान् निवा- :: पराभूय प्रथमं पञ्चनविभागे वसतिं चक्र :, क्रमेण च सह विस्तारेण भारतस्य नैकप्रदेशेषु समागताः । इम आर्य-नाम्ना- मभिहितवन्तः। भापातत्त्वविदो विद्वांस · आसियायां' संस्कृत-पारसीक्योः, २ च ग्रीक-लाटिन-जमाणादिपु भाषासु सम्बन्धवाचकानां, वाचकानां, सर्वनाम्नां, कंपांश्चित्प्रतिदिनव्य पहायवस्तूनां, बहनां वाचकानां च पदानां सादृश्यमधिगच्छन्ति । वेदोपलब्ध- पानां नामधयैः सह ग्रीक रोमण-प्रभृतिजातीनां दं बतानाम्ना- सादृश्यमुपलभ्यते विभिन्नासु भाषासु शब्दानामित्थ- प्रभूत पंतर . उपश्थिात् कि वित्तत् प्रकारः प्रदश्य ते । भृयांमः पब्दाः उपलभ्यन्त; हरगाने को विपुलो ग्रन्थ एव भवत्- उन् व्यावस्तिकम् पारसोकम् ग्रीकम् लाटिनम् जामाणम् मादर माटर माटर सुतेर पदर पाटर पाटर फातेर ब्रातर बादर फाटिया फाटर घधर. दोखतर थमाटर स्थतेर मा (बहुवचन) तुम त् थ दम् हो डग्रो डूयो तिसरो द्राइम ट्रस.. वाद यहि अस्तम्,हेस्तम् एम्मि सम बुदंर तु यजम् म मित्रगोष्ठी-पत्रिका। मैकरूप्यमुपलभ्य साम्प्रतिकैः पण्डितैः सिद्धान्त्यते यद इमा जान पूर्वमेकरूपाएवासन्, एकस्मिन्नेव च क्वापि स्थाने न्यवसन, तता जनसंख्याधिक्याद वा नैसर्गिकेण कारणविशेषेण वा तस्य स्थान निवासानहत्वसम्पादनादा, अन्यस्मादेव कुतोऽपि कारणादा, तस्या परित्यज्य अभितो विकीर्णा बभूवः। साम्प्रतं दूरविच्छिन्ना अपि विभिन्नदेशस्थिता अपि चैता 'आय' इत्ये केनैव नानाभिधीयन्ते । अस्थाः खलु प्राचीनाया आर्यजातेः प्रथमो निवासः कुत्रेति प्रश्न विदुषां बहवो मतभेदा दृश्यन्ते । नाद्यापि केचिदत्र सुस्थितः सि द्वान्तः प्रदर्शित: । प्रायोऽसम्भाव्यमेवास्य प्रश्रस्योत्तरमिति नाति शयोक्तिभवेत् । आरब्धे सन्दर्भऽस्माभिरध तानि मतानि, तत्पोष कागि प्रमाणानिचोदाहरिष्यन्ते । तत्र तावत्प्रथमम् इदं मतमुत्थितम् :- -आसिया-मध्यभूभागे व मानयोः 'वेतार्ग'--'मुसताग'-नामकयोः पर्वतयोः पश्चिमपाश्च त्तिन्युश्चतरा भूमिरेव प्राचामार्याणामवस्थितिस्थानमिति प्रमाणम्-(१) आसिया-वासिनो युरोपं गत्वा तत्र न्यवसन्निति प्रसिद्धम् । (२) ग्रोका रोमकाश्च पूर्वोत्तरभूभागाद् यथाक्रमं ग्रो इतालो च गताः इत्यैतिहासिकैरनुमीयते । किञ्चित्परवत्तिन्य काले आसिया-मध्यभागादव बहिर्गत्वा हूणादयस्तत्तदःशानधिक तत्र तत्रैव स्थिता इति, (३) भारतीयार्याणां पारसीकानां च प्राची प्रन्थेषु उत्तरदिग्विभागादेव आर्याणामागमनस्य परिचय उपलभ्या तस्यामेव च दिशि तेषां देवनिवासस्य स्वर्गारोहणस्य च प्रशन पन्थाः । (४) 'बोखारा'-प्रदेशीया भाषा संस्कृत-परासीकसुसावद गार्यभाषा च। सर यहि छामि दोष पिल हस्ति, अस्ति एसिस, ग्रायस. एस. तिउन डिएसपिटर पाटर जुपिटर : आयोगामादिमो निवासः। २६५ अपरे तु केचिदुक्तःप्रमाणैः आसियामध्यभाग एवार्याणामादिमा वासभूमिरिति निर्णातवन्तः । इदमेव मतं कान्यपि दिनानि पण्डितैः समारतमासीत् । परन्तु सन्ति केचन तविरुद्धवादिनः पुरातत्व- विदः, येषां मते युरोप एवार्याणां प्रथमावस्थानमभूदिति दृश्यते । अत्र तैरिदं प्रमाणमुपन्यस्तम्-आर्यजातीनां भूयस्यो युरोप एव साम्प्रतं दृश्यन्ते, भतस्तदालोक्य स्वयमेव मनदेति यदियं समग्रा जातिस्तत्रैवासोत्, शाखाविशेषस्तु कश्चित् कारणान्तरेण तत भासियामागत्य प्रस्तइति। पौराणिकोपाख्यानेतिवृत्तभाषालोचनेन कमप्यव्यभिचारिणं सिद्धान्तमुपगम्तु नास्ति कश्चिदुपायः । अनुमान पात्रं हि तत्खलु, यद आसियामध्यभाग भार्याणां प्रथमो निवास आ- जीदिति । तत्संवादाय न किञ्चिदुपलभ्यते। भासियायामेव मान- गानां प्रथममुत्पत्तिरिति बहुदिनात्प्रचलितः कश्चिजनानां संस्कारः, निव तेषामालियामध्यांश एवार्याणां प्रथमावस्थिति प्रतिष्ठापयितु. आग्रहः । इतस्तु युरोपे भूस्तरेषु यहूनि प्राचीनमानवानां वासचिह्ना- पाविष्कृतानि । अतो न स वादः साम्प्रतं युज्यते । संस्कृत-पार- क-युरोपोय-भाषासु गार्हस्थ्य सम्बद्धानां केषाश्चित्पशूनां प्राकृतिक- स्तूनां च वाचकानां शब्दानां सादृश्यमस्तीति प्रमाणेन यदा अद्यत्वे पभिन्नानामपि जातानां मूलत ऐक्यं निर्णीयते, तदा, यदि नामेशं कञ्चिद् वसतु स्पाद, यस्य नामधेयमुभवोर्भाषयोनेकरूपम्, अपितु थक् पृथक, तीदम् भनुमातु शक्यते यत्तस्य परिचयः तद्भाषा- (पिणामन्योन्य विच्छेदानन्तरं जात इति । सिंहव्याघ्रोष्ट्रहस्तिप्र- तोनां नामानि उभयोर्भाषयोविभिन्नानि । यदि आसियायामेव आfणामादिमो निवासोऽभविष्यत्, तर्हि उभयो पयोस्तेषां नाना तुगतं किञ्चित्सादृश्यं नूनमस्थास्यत् । आसियायां दि सिंहादयो श्यन्ते न तु युरोपे अन्यश्च । प्राचीनया वर्णनया वर्तमानेन च वि- रेण आर्याः श्वेताङ्गा एव बभूवुरिति ज्ञायते । श्वेतागायजातिस्तु २६६ मित्रगोष्ठी-पत्रिका युरोपे दृश्यते, न पुनरासियायाम् । किश्च युरोपीयजातीनां शारी- रकप्रकृतेः, दीर्थजीवनस्य, दुर्धर्षत्वस्य च पर्यालोचनयापि विज्ञायेत कुष नामार्यजातेः प्राचीनतम गभीरतमं च मुलमभूदिति । एतैरुष्यते ते हि आर्याः पुरा किल युरोपस्योत्सरांशेऽवस्थिताः, ते बलु पसमा नायाः फिनजातेः (फिनलैण्डस्थायाः ) प्रतिघेशिन भासन्, यतः यद्यपीयं जाति नं मायंश्रेण्यन्तर्गता, तथापि तद्भाषायां बहुतराणी संख्यावाचकाना, पारिवारिकसम्बन्धवाचकानां सर्वमानां च शब्दाना सादृश्यमार्यभाषायामधिगम्यते। इदमेवात्र तत्कारणं वक्तव्यं यत्तयो- जात्योः कचिदतिप्राचीनकाले मिथ: सत्रिकर्ष मासीदिति । अथ वयं तवभवतः पण्डितप्रकाण्डस्य श्रीमती बालगाधर- तिलकमहोदयस्थ 'धे आर्याणामादिमो निवास' इत्येतद्विषयकं पु- स्तकं किचिवालोचयिष्यामः । अस्य मते उत्तरमेरुप्रदेश पवार्याण प्रथमो घास मासीत् । धेदेभ्यः, 'आवेस्ता'-नामकात पारसीकधमन- ज्यानोवृतेन पचनेन प्रमाणितमनेन यद मन्तस्तुषारकसमये ( inter. glacial period ) उत्तरमेरुप्रदेश एवार्या अवस्थिताः। मथ यदा नैसर्गिकेण कारणेन तुषारावृतत्वात् सा भूमि सानां संवृत्ता, ते तां विहाय क्रमेण मासियायां युरोपे व प्रसूता इति । यथा यु- येन प्रमाणेन तेनेदं मतं समथ्यते, तदुलिस्पते- तेन प्रथम मेरोः, तत्सविहितप्रदेशस्य च प्राकृतिक्यवस्था प्रद. शिंता, ततो वेदवचनेन प्रमितं यत्सा खलु वैदिकर्षिगणानां विदिता- सीदिति । मेरुप्रदेशे दिवामानं रात्रिमानं च षण्मासात्मकम् । देव. तानां दिवसरजन्योरप्ययमेव विभागः । न केवलं भारतीयानां, पार सीकानां वा अपितु युरोपीयाणामपि विश्वासो यहवानां षण्मासा दिनम्, षण्मासाश्च राविरिति । ग्वेदे उषःशब्दः प्रायेण बहुवचमा- स्तो दृश्यते। तेग बहूनामुषसामेकत्राविर्भावो बुधाते भन्यत्र च वेदे हषस: निशदित्वस्ति । कचिचोपः प्रथमविकाशमूर्योदययोः दी तदा च । ।
. आयोणामादिपो निवासः। २६७ यवधानं वर्णितम् । कचिचोक्तम् उषाधवदायत्तते । एतत्सर्वं मेरु- विंश एव सम्भवति, नत्वन्यन । ऋग्वेदे बाकालन्यापिनो दिवसस्य, दृश्याराः, पञ्चपरिमितस्य वत्सरस्य चोल्लेखोऽस्ति । तदानी किल वार्षिको यज्ञः नवभिवंशभिर्वा मारपर्यंत, न तु साम्प्रतमिव द्वादशभिः किञ्च तदानीन्तनः शानशासाध्यो यज्ञोऽपि सुदीर्घकाल- व्यापिन्या रजन्यामेव समपद्यत । दीर्घतमसः, मदितः पुत्राणाम्, अप- रापरेषां चोपाख्यानतः प्रमीयते यदयं सर्वो विषयो वैदिकषीणां विदित भासीदिति वत्सरासंकालव्यापी दिवसः, तारशी रजनी. तावन्तं कालं व्याप्यावत्मानउषस्समयः ततधावत्तमानमिव नक्त- न्दिनमित्येतत् सर्व मेरु-तत्समिहितप्रदेशानामेव सूचकम् । घेदेषु परापरेष्वार्य ग्रन्थेषु चोपलभ्यमानं तेषां वर्णनमिदमेष प्रमाण- रति यद, यदा खलु भार्याणां तत्स्थानत्यागात्परं बहुकालानन्तरं वै. विकैषिभिस्तत्सर्व पणितं तदा नूनं तदनुसूतजनश्रु तीनां तेषां सुपरिचितमासीदिति । श्रीमता तिलकमहाथयेन पारसीकधर्मग्रन्थाङ आवेस्तानामकात् ) मप्येतत्प्रमाणीकृतम् । विस्तरभिया मास्माभि- तदुलियते । एतेन स्वमतं समर्थयितु घेदतः, भाषेस्तातच हिन्दु- रसीकयोः पौराणिकोपाख्यानान्युलिस्पोक्त यत् तेषामिदमेबैक वैदिकयुगस्यापि बहु पूर्व मेरु-तत्सविहितप्रदेशेषु तब. वन्त आर्या मपस्थिता भासमिति । उक्तपूर्वमेवेदमस्माभि यंद गपातत्वेन भूस्तराविष्कृतप्राचीनमानवधासचिह्नादिभिश्च प्रमाणयु. पीयाः पण्डिता युरोपोत्तरदेशेष्वाणामवस्थिति रासीदिति निणं- न्तीति । इदानी इश्यते श्रीमता तिलकमहाशयेन मार्याणां तहास- थानं ततोऽपि किश्चिदुपरि निविष्टमिति । साम्प्रतमिदमेव विचार्यम्-अद्यत्वे नियत-निविडतुषारावृतत्वान् रुप्रदेशो मनुष्यवासानह इति ज्ञायते । तत्कथं नु तत्र प्राचीना- fणां वासः सम्भवेदिति। भूतत्वविदो विदुषां मतमनुसरता श्री पाख्यानम्- - बभव २६८ मित्रगोष्ठी-पत्रिका। मता तिलकमहाशयेोत्थं स प्रश्नः समाधीयते :-शैशिरिकयुगस्य ( Glacial period ) पूर्वं यदा पृथिव्या अनेकमेव स्थानं समुद्रसलिल. मग्नम् आसीत, तदा मेरुप्रदेशस्य प्राकृतिकावस्था न वर्तमानेष सा खलु तदानी नातिशीतोष्णत्वान्माननिवासोपयोग्येवावर्तत। अथ यदा शैशिरिकयुगे सावस्था परिवृत्ता, तुषारावरणं च सर्वतः सम्पन्नं, तदानीमार्यास्तं प्रदेशं परित्यज्य क्रमेणान्यन जग्मुः। आये- स्ता-ग्रन्थे तुषारप्राचुर्यणादिमवासभूमेः समुच्छेदोऽधिगम्यते । पण्डि. ताप्रगणनीयेन श्रीमता तिलकेन ज्योतिषशास्त्रप्रमाणोपन्यासेन वैदि- कयुगीय नक्षत्रमण्डलानाम् अवस्थितिगणनया तत्कालं नियोक्त' यद भूतत्त्वज्ञैः पण्डितैः शैशिरिकयुगस्य यः समयो निर्दिष्टः, तेनास्य व- स्तुतो विरोधो न भवतीति । इत्थमुदाहतैः प्रमाणप्रयोगैमरुतत्सन्निहितप्रदेशेषु प्राचीनानामा- र्याणां वासस्थानं निरूप्यायं प्रश्न उत्थापितः श्रीमता तिलकन यह उत्तरमेरोः कस्यां दिशि आर्याणां वास आसीत्-किं युरोपस्य, आ- होस्विद आसियाया उत्तरस्यां दिशीति। इत्थं तेनात्र स्वयं प्रत्यु- क्तम् :-नान किश्चिनिश्चयेन वक्तु शक्यम्, तथापि वेदे आवेस्ता- ग्रन्थे च यत् प्रमाणं लभ्यते, तेन भासियाया एवोत्तरस्यामार्याणां वासभूमिः सम्भवतीति मन्यामहे । उपसंहारावकाशेऽस्माकमिदं वक्तव्य यत तत्रभवतः तिलकस्येयं युक्तिः साम्प्रतं जगतः पण्डितमण्डलानां पुरतः स्थिता, समालोच्या च । त एवास्या उपादेयत्वमनुपादेयत्वं वा निरूपयिष्यन्ति । वयन्तु केवलं समासेनैनां प्रदर्शितवन्त इति । श्रीमुषोधचन्द्रमजमदारः ब्रह्मचर्याश्रमः, ( बोलपुर) वार्ताः सम्पादकाभिप्रायश्चि । संस्कृतपत्रिकाः, संस्कृतविद्वांसश्च । अत्रत्याया अस्मत्सहयोगिन्याः सूक्तिसुधायाः' प्रथमखण्ड- द्वादशसंख्यायां तदीयेन सम्पादकेन केपाश्चित् संस्कृतविदुषामुपरि सकष्टमारोपितमभियोगमालोचयतां नो लजया, खेदेन, क्षोभेण च नितान्तं व्याकुलीभूतमन्तः करणम् । उक्त तत्र-“केचित् पुनर्विले. ज्यापि ग्राहकश्रेण्यां स्वयमेव स्वाभिधानं, स्वोकृत्यापि प्रतिमास- मिमां, स्तोकतममप्यस्या मूल्यं मुहुः प्रार्थ्यमाना नोत्तरमपि वित. रन्ति, दरतस्तु मुल्यमिति" । एवमेव 'विज्ञानचिन्तामणि'-सम्पाद- केनापि निवेदितं, यथा-यदेते चिन्तामणयेऽस्मै दयनीयाय धारयन्सो "बहुवर्ष"मूल्यं बहुविधव्ययमात्रसाध्यमेतत्प्रचारणमारोपयन्ति संश- यपदवीमिति कष्टात् कष्टतरम्वैतत् ।......इदं पुनरतीव चिनतरं यत केचन सुहृदो निस्नपा इव स्वात्तयावत्सञ्चिकानां मूल्यमनपंयन्तः पुनरागच्छन्तीः सञ्चिकाः प्रत्याचक्षते, निवेदयन्ति चेतः परं न प्रेष्यतां चिन्तामणिरिति"-(पु. १८, स.१.) अन्यास्वणि संस्कृत- पत्रिकास्वयमेव ध्वनिरन्तरान्तरा श्रयते। न घयं निपुणमपि चिन्त- यन्तोऽवबोद्ध प्रभवामः-कथं नु स्वयं धर्मशास्त्रज्ञाः, धर्मोपदेश- कपदाधिष्ठिताः सकलजनादर्शभूताः संस्कृतपण्डितमहाशया पन्थान- मिममनुसरन्तीति । वृत्तान्तपत्रिका प्रकाशितनेदशेन निन्दावादेन कियह खं,-कियती वा लजामनुभवामो वर्यामति नास्मल्लेखनी प्रकाशयितु समर्था । आशास्महे नातिचरमेव अभियोक्तृणां तत्त- पत्रिकासम्पादकानां नातः परं किमप्यभियोगकारणं स्यात, नच श्रीमान् सूक्तिसुधासम्पादकोऽपि “विरस्यामि निरर्थकात् प्रत्युत हानिकरादस्माद व्यापारादिति" खेदेन त्रु वन्नपि स्वपत्रिकाप्रचार णाद विरंस्यतोदि। :0:
ऐतिहासिकम्मन्यस्य भारतविषिणो मिल्महोदयस्य उल्वणहाला. २७० मित्रगोष्ठी-पतिका। बपि भारतीया अमृतवादिनः ? न तावह खं तदानीमन्वभवाम, यदानभिज्ञातलोकचारियस हलपूर्णे इलैण्डाधिकृत-भारतेतिवृत "Brahman is an ant's nest of lies and impostures " + इत्यादीनि सुदुर्विषहाणि मलपितानि नय. नपदवीमध्यानढानि, न वा तस्मिन्नपि समये ताबह:समुद्भूतं यदानी' सम्प्रत्यपि भारतसम्राटप्रतिनिधिपदधितिष्ठता ममनुशीलितभार. तीयजनचरित्रेणेव श्रीमता लडंकज्जनमहोदयेन ( येन हि "The Far East " नामकस्य स्व कोयग्रन्थस्य प्रथम संस्करणे स्वयमात्मनो पक्ष- नाव्यापार उपनिबद्धोऽपि द्वितीय संस्करणे ऽपाकृतः) ममन्तरातीते कलिकाताविश्वविद्यालयोपाधि प्रदानोत्सवे ( Convocation )भारती. यामां सत्यमर्यादानभिज्ञत्वमुद्घोषितम्, यावत्सल्यपरेषु : मुम्बानगर्या 'इन्दुप्रकाशाभिधेये वृत्तान्तपत्रे साम्प्रतं फ्रान्सदेशप्रवासिना केनापि सहदयपारसीकयुवकेन प्रकाशितस्य तदीयस्य लेखस्यालोकनेनोत्प- अम् । अनभिज्ञास्ते भारतीयानां चरित्रस्येति क्षीवाणामिव मिल- प्रभृतीनामप्युक्तिः कञ्चित् तूष्णीमेवास्माभिः सोढासीत् । तस्य तु पारसीकयुवकस्य पत्रमधीयानानां नः सहस्रधेव हदयं व्यदीयंत । मयं तत्पत्रिकायाः सार:-कृतभारतभ्रमणः कश्चित्फान्सदेशीयो देश- पर्याटक: फान्सराजधान्यां पारिस नगर्या भारतविषये तव्याख्या- नावसरे श्रीमतोरामकृष्णगोपालभाण्डारकरमहोदयस्य नामधेयमुदा. हत्य कथितवान् यद् भाण्डारकरमहोदयेन मिथोभाषणसमये तमा उक्त-"भारतीया वयं नियतमनृतवादिन" इति-"We Indians always lie.” अनुकूलभागधेयवैभवेनास्माकं तस्यां परिषदि स खल्व- स्मदीयः पारसीकतरुणो दर्शकानामन्यतम मासीत् स्वजात्यवज्ञानवादो न मर्माणि निकृन्तेत् ? व्यथितचित्तोऽयं गृहमा- • Mill's History of British India, * भारतीयबामणा मियाप्रतारणापूर्ण रति सद्भावार्थः ।
. वार्ताः सम्पादकाभिमायाश्च । २७१ प्रत्य लेखेन तं व्यास्यातारमजिज्ञासत पत्स डा. भाण्डारकरस्योक्ति यथारूपं व्याख्यातवान् न वेति । मध्यापकभाण्डारकरसाशः कधि. स्पण्डितस्तादृशेन प्रकारेण स्वजातिमवमानयेदिति न विश्वसितुश. क्यते, तथा च तस्मिन् मिथः संवादे वक्तृषोद्धव्ययोनमेकस्य धान्तिः स्यादिति तदभिप्राय मासीत् । पृष्टेन तेन व्याख्यात्रा सोऽयमस्मत्पारसीकतरुणः सादरमाइयोक्तो यद, स. भाण्डारकरण तस्मै यदुक्तं तदेव तेन व्याफ्यानावकाशेऽदितम्, न तत्र कापि मान्तिरस्तीति । अथानेनेदं सर्वम् 'इन्दुप्रकाशे' प्रकाशितम् । भार. तीयेषु ये नामेदानी पाश्चात्यरीत्या संस्कृतादिप्राच्यविद्यालोचनेन सह पाधास्यैः प्राच्यविद्याविदाम् ( Orientalist ) आसनमध्यासते, विर- लप्रचाराणां तेषामन्यतमोऽयं महाभागः डा. श्रीभाण्डारकरमहाशयः । चिन्तयितुमपीदं वयं न शक्नुमो यसेन स्वजात्यपकर्षकं पचनमिदमुक्त स्यादिति । डा. भाण्डारकरणैतत्सर्व विज्ञाय मुम्बानगरीयपत्रिका- विषये यदुक्त, तस्यायं सार:-"त्रिचतुरदिनपूर्व केनापि बन्धुनाई निवेदितो यदनतिचिरं केनापि फ्रान्साधिवासिना कृते व्याख्याने मसामोलिल्येदं कथितं पदहमपदम्-भारतीया निसर्गतोऽनृतमेव पदन्ति सत्यन्तु कदाचिदेव, युरोपीयास्तु स्वभावतः सत्यवादिनः कदाचिदेवानृतं कथयन्तीति । भत्रेद-सुष्टु खलु रुमरामि बहुपत्स. रपूर्व कोऽपि फान्सीयसजन: ( Sir Raymond West ) इत्यस्य सका- शात परिचयपत्रिका ( Introduction) गृहीत्वा मत्सकाशमागतः, इदं चात्यल्पं स्मराम्यपरोऽपि कश्चित्फान्सीयो मन्मित्रस्य(M. Senart) इत्यस्य परिचयपविकया मामपश्यदिति । परन्तु स्वल्पतममात्रमपि स्मरणं नास्ति यदहमेतयोरेकस्मा अपि तदुक्तवानिति । न चाहमित्धं वक्तुमपि शक्नोमि। नहि मे विश्वास आसीत्, न वा सम्प्रत्ययस्ति, यद् भारतीया निसंगतो ऽनृतमेव कथन्ति कदाचित्तु सत्यम्, अन्य- तस्तु युरोपीया स्तदविपरीता इति"। भस्माकं पाठरत लक्ष्येत यद डा. भाण्डारकरस्योपरि यो दोष मारोपित्तः, नासौ तेन कृतः, २७२ मित्रगोष्ठी-पत्रिका। स्मयंत इति हि ते हि अनृतवादिनीषा सुस्पष्टमस्वीकृतः । तद्विषये न तेन किञ्चिदिदानों तेनोक्तम् । स्पष्टमस्वीकार एवेह तस्यास्माभिः शुश्रषित आसीत् । यत्तु फान्साधिवासिनस्तस्य महाभागस्यैतनैव मुस्नबन्धनं भवेन्न तत्र संशयावकाश इति । भारतीयाः सत्यमर्यादां जानन्ति न वा, सूनृतवादिनो वेति "प्रतिदिनमियं वेत्ति बसुधा" । ननु भो नेदानी- मप्युत्समा वेदसूक्तयः, न सम्प्रत्यपि विलुप्तान्यार्वाणामेषामपराण्याप शास्त्राणि, प्रतिगृहं प्रतिदिनं चाद्यापि जीयन्त एव पीयूषाकरभूतानि रामायण-महाभारतयोः सुभाषितानि साहित्यानि किंबहुना, न खलु न भारतीयाः साम्प्रतमुच्छुसन्ति । तत्प्रथममागम्यता, विलोक्यता विचार्यतां च अथोच्यतां भारतीया वस्तुत एवानृतवादिनो न वेति, न पुनरङ्ग अविचार्योक्तवतस्ते वचसि कश्चित परीक्षकः श्रद्दधीत । जानोमो वयं सर्वो ह्यात्मानं कान्तं पश्यतीति ।न तथापि नास्माकं सत्यैकप्राणत्वे प्रमाणपरम्परास्ति । न वय मस्माकं वेदादिग्रन्थेभ्यः प्रमाणमुपन्यस्य स्वपक्षं समयितु मभिलषामः । नयनमुन्मील्यालो. क्यतां भूवलयस्यापरापरजातिभिरपि भारतीयानां चारित्रं प्रशंसितं न वति। विद्यमानायामप्यनवद्यायां दर्शनशक्तौ मास्म भवान केवळ मस्मद्विषयेऽन्धोभूत । युवराजागमनम्- फेब्रुमरीमासस्य १८ दिवसे नगरीषु प्राचीनतमायामस्यां वारा- णस्यां श्रीमान युवराजः पदं निधास्यतीति नगरीयं विविधपचारै- रलंक्रियते नागरिकैः । उचितमेवैतत्सर्वथा राजभक्तानाम् । शोकस्थानम् - पूर्ववङ्ग कभूषणं महामहोपाध्यायः पण्डितो रामनाथसिद्धान्त- पञ्चाननमहाशयो ज्वराफ्रान्तः परलोकमुपागमदिति विदीर्णमिव नो हृदयन । आश्वस्यतां तत्परिजनैरिति प्रार्थयामहे भगवन्त मुमाधवम् । .
मित्रगोष्ठो-पत्रिका।
(मासिकं संस्कृतपत्रम् ।)
सङ्गवं संवद सं वो मनांसि जानताम्" !
ऋग्वेदः।
द्वितीय वर्षे } १८२७ शकाब्दाः, माघः। { दशममख्या
मीमांसासिद्धान्तसंग्रहः ।
प्रथमाध्यायः।
हरिस्थित्यम्तकर्तारमवाङमनसगोचरम।
यस्मान्न परम किश्चित् पुरुषन्तमुपास्महे ।
कपालेशं विना यस्याः पुरुषः केवलं पशुः ।
मुदुर्बोधार्थबोधाय तां नमामि सरस्वतीम् ।
पिनो गुरूणा मङघोंच प्रणमामि सहुर्मुहुः ।
यत्प्रसादेन मन्दस्य मम बोधलवोदयः ।
मीमामासूत्रसन्दर्भप्रणेतारं महासनिम्।
जेमिनिं मनसा वाचा कायेन च नमाम्यहम् ।
प्रधरस्वामिनं भाष्यकारमाराध्य सादरम।
क्रियते सन्मतेनायं मया सिताम्ससंग्रहः ।
अथातो धर्मजिज्ञासा कर्तव्याप्लवनं ततः ।
चोदनालक्षणोद्यर्थो धर्मो ऽध्यक्षं न तत्रसा॥
विद्यमानोपलम्भत्वात् तन्मूलाचानुमादयः।
सत् संप्रयोगे पुरुषस्याक्षाणां बुद्धिजन्मयत् ॥
तद्धि प्रत्यक्षमाख्यातं भविष्यास्य गोचरः ।
मौत्पत्तिकस्तु संवन्धः शब्दस्यार्थन युज्यते.
उपदेशो हि भवति ज्ञानं तस्या विपर्यायः
प्रमाणमनपेक्षत्वाद्धर्म शब्दस्ततो मतः॥
-
२७४ पित्रगोष्ठी-पत्रिका। न संबन्धयिता कश्चित् शब्दस्यार्थेन पूरुषः । मानाभावादस्मृतेश्च तथाप्यर्थावबोधतः॥ दर्शनस्य परार्थवादास्थया शब्दनित्यता । सबल योगपघाच संख्याभावाच गम्यते ॥ सर्वे प्रत्यभिजानन्ति स एवायभिति स्फुटम् । कारणं ज्ञायते नास्य पदिनाशाविनश्यति ॥ न वायुठेतुकः शब्दः पटे तन्तुरिवेश्यते । न शब्दे वाय्ववयवः स्याच्चेत्तत् स्पर्शनं भवेत् ॥ किञ्च शब्दस्य नित्यत्वं ज्ञायते लिङ्गदर्शनात् । प्रयत्नो व्यञ्जकस्तस्य नोत्पादक इतिस्थितिः। दर्शनन्तु समं तत्र सतः परमदर्शनम् । अभिव्यञ्जकसंयोगविभागानागमाद्भवेत् ॥ अतएव चानुवातं सदूरा दुपलभ्यते । आदित्यवद् योगपद्य वर्णोऽन्यो नतु विक्रिया ॥ शब्दो न वद्धते किन्तु नाद एवं विवर्तते । सद्भूतानां क्रियार्थेन समानायो हि लक्ष्यते ॥ अर्थस्य तन्निमित्तत्वात, लोके सनियमात पुनः । प्रयोगसन्निकर्षः स्यात्, पुरुषाणा मलौकिके॥ वाक्यानि चोपसंहाँ सामर्थ्य नास्त्यतीन्द्रिये । पूर्व शब्दः परा सृष्टि स्ततोऽसौ शब्दपूर्विका ॥ অ্যামন্বষনার कापि श्रुतिसामान्यमात्रता। परस्परेण सम्बद्धं समानानं हि दृश्यते ॥ भविष्यति कथ होतष्ट्रालोन्मत्तप्रलापवत ॥ इति मीमांसासिद्धान्तसंग्रहे प्रथमाध्यायस्य प्रथमः पादः । ॥ । :0-
२७५
पीमांसा सिद्धान्तमंग्रहः।
विधिवाक्य क्रियार्थत्वावर्थवत् तसतुषार्थतः।
तेनैकवाक्यता हेतो रथंवादोऽथवान् भवेत् ॥
साम्प्रदायिकता तुल्या न सर्वत्र विरोधिता।
प्रयोगे हि विरोधः स्याद गुणवादस्तु कुत्रचित् ॥
रूपात स्तेनं मनो वाक् च प्रायादनृतवादिनी।
गौणोक्ति दूरभूयस्त्वात स्व्यपराधात् सपुत्रता ।।
अज्ञानवचनं गौणं तथैवानवक्लृप्तगीः ।
विद्याप्रशंसा शोभोक्तिः सर्वत्वञ्चाधिकारिकम् ॥
कर्मणः फलनिष्पत्तेः कर्मणां परिमाणतः ।
लोकवत् तत्फले तावद विशेषः परिकल्प्यते ।
अभागिप्रतिषेधादे भवेनित्यानुवादता (१) ।
विधिवन्निगदानान्तु वाक्यशेषत्व मिष्यते ॥
क्वचिद्धेि निरर्थत्वा दुत्कर्षस्याप्यकल्पनात् ।
विधीच वाक्यभेदः स्यात (२) हेतुवन्निगदास्तथा ॥
स्तुत्यर्थाः शब्दपूर्वत्वात नच दादि चोदना ।
वर्तमानापदेशश्च स्तुतावेवोपपद्यते ॥
निकृष्टमश्रकरणमपेक्ष्य स्तूयते ह्ययम् ।
लोकवद परशब्दोऽयं परत्रान प्रयुज्यते ॥
विधौ परोन शब्दार्थो नासौ हेतुविधिस्ततः ।
हेतौ च व्यवतिष्ठेत निर्देशस्यार्थवत्ततः॥
अव्यवस्था विधीनां स्यात सामान्यस्य व्यपाश्रये (३)।
विशिष्यते न खल्वर्थः पदानां लोकदयोः ॥
दण्६
मिलगोष्ठी-पत्रिका
लोकवत् भवितु युक्तः स घेऽपि विवक्षितः।
प्रकाशयन्ति तन्मन्त्राः यहं यहाज मेवच ॥
মর্মসন্ধান্ত নিলাম।
पुनः श्रुतिगुंणार्थेन चतुःसंख्यान्वितोग्रहः ।।
इत्यश्वरशना मेवं संबन्धो रशनाग्रहे।
प्रथमं स्तोतुमन्येन प्राप्तो मन्त्रो धनुयते ॥
पदानां नियमोऽप्यर्थविवक्षायां न दुष्यति ।
जातेऽपि कार्यताझाने काले स्मृत्या प्रयोजनम् ।
अभिधानेऽर्थवादः स्याद गुणात् स्यादविरुद्धता।
उचारयत्यवहन्ति मन्त्रं मानवकस्तु यत् ।।
अवहन्तौ पूर्णिकायाः सोक्षराभ्यास इष्यते ।
दुमहत्वात्सदभ्यासः सुकरं हि प्रकाशनम् ॥
न तन यज्ञसंयोगोन तदर्थ प्रकाशनम् ।
सतः परमविज्ञान लिनचाप्युपदिश्यते ॥
जहश्च विधिशब्दाच मानमर्थविवक्षणे (४) ।
इतिमीमांसासिद्धान्तसंग्रहे प्रथमाध्यायस्य द्वितीयः पादः ।
मीमांसासिद्धान्तसंग्रह
स्मृतयः कस्तृसामान्यात प्रमाणमनुमानतः (१) ।
विरोधे त्वनपेक्षाः स्युः (२) दृष्टमूलास्तथैव च ॥
पदार्थाः प्रवलास्तेषां क्रमो दुर्वल इष्यते ।
गुणत्वादुत्तरे काले क्रमः प्राप्नोति नान्यथा ॥
कालोऽपि च प्रयोगाङ्ग पदार्थस्योपकारकः ।
शौचादयः सर्वशेषा नैव ते व्यवधायकाः (४)॥
-
पदार्थाः शास्त्र सिद्धास्तु प्रायाः (५) तदविरोधतः ।
मोहप्रसिद्धा अपि ते ग्रहणीया भवन्त्यपि ॥
स्वतःप्रमाणं नो कल्पा: स्वराभावान वेदता।
वाक्यशेषो नचात्यस्सिमादरो नान्तरीयकः ।।
क्वचित् शास्त्रविरुद्धश्च वचस्तनावगम्यते (७) ।
होलाकादिः सर्वधर्मो विधेस्तन्यायतो यतः ॥
.
:
न चैषां नियतं लिङ्ग आख्यादेशस्य योगतः।
स्याद, योगाख्या माथुरवत् देशस्याप्यव्यवस्थितिः ॥
शिवाकल्पव्यवस्था तु दर्शनादेव जायते (८)।
साधुशब्दाः प्रयोक्तव्या अपराधादसाधवः ।।
एकोहनादिः सहशा मपभ्रंशा स्ततः परे ।
अभियुक्तोपदेशाध साधुत्वं शक्यनिश्चयम् ।।
अशक्त्यापनशयुक्तिः सादृश्यादथंधीस्ततः।
गवादिशब्दस्मरणं भवेद गाव्यादिदर्शनात् ।।
एपलन्धे येकदेशे समुदायस्मृति भवेत् (९) ।
प एव लौकिका शन्दा ये चार्थी वैदिकाश्यते ॥
२७८
मित्रगोष्ठी-पत्रिका।
अविभागाद भवत्येवं प्रयोगस्य हि चोदना । .
स्तुत्यर्थेनार्थवादः स्यादुत्तानबहुलादिकम् ॥
नच प्रसिद्धि रेतेषां वाक्यभेदोन्यथा भवेत् (१०)।
क्रियार्थत्वादाकृतिस्तु शब्दस्यार्थोऽन्यथा भवेत् ॥
न केनचित्प्रकारेण क्रिया श्येन चिदादिषु ।
ब्रीहीनित्येवमादो तु सैवस्वाद व्यक्तिलक्षणा ॥
व्यक्तः शब्दार्थता मां हि न स्याद व्यक्त्यन्तरे मतिः।
सर्वथा त्वाकृति स्तावत् शब्दादेव प्रतीयते ॥
व्यर्थी व्यक्ती शब्दशक्ति स्तया संबध्यते हि सा (११) ।
इति मीमांसासिद्धान्तसंग्रहे प्रथमाध्यायस्य तृतीयः पादः ।
-::-
मामासासिद्धान्तसंग्रहः।
२७९
उद्भिदादिकशब्दानां कर्मणो नामधेयता।
करणत्वेन निर्देशात समानाधिकरण्यतः ॥
श्रुत्या
तस्योपपत्तौ न न्याय्या न त्वर्थलक्षणा।
शब्दसामथ्यलक्ष्यत्वा दनुवादा हि ते मताः ॥
गुणफलोपबन्धेन त्वर्थवन्तो भवन्ति ते (१) ।
तथा चित्रादिशब्दाश्च शक्यभेदोऽन्यथा भवेत् (२)।
अग्निहोत्राघारपदं नामधेयञ्च कमणः।
तत् प्रख्येनास्य शास्त्रेण प्रजापतिनिषेधनम् ॥
न शक्य मग्निविधितः स निषिद्ध यतोऽक्षमाः ।
प्रजापते निषेधे च तद्विधानं मनर्थकम् ॥
आघारो देवताद्रव्यसंयोगाद यतिमतः (३) ।
श्येनादिपदमप्येवं तैमतो व्यपदिश्यते ॥
यजतिर्जातिशब्दानां सादृश्याद यागवाचिता (४) ।
वाजपेयपदञ्चैवं भवेत्तुल्यं क्रियाद्वयम् ॥
दर्शनं दीक्षोपसदा मेवमेवोपपद्यते।
पक्षान्तरे ऽभिधानं हि स्वार्थवच्च पराथवत् ॥
यजेतेत्यस्य शब्दस्य यतो विप्रतिषिध्यते (५)।
आग्न यादौ गुणविधि रविभक्ता यतो गुणाः ॥
कर्मणो हि विधानार्थ तद्धितान्ते पढे मताः ।
अष्टाकपालः सिद्धोऽस्ति तस्यानाम्नेयताविधिः ॥
संबन्धस्य विधाने हि भवेत् संबन्धिनो विधिः (६) ।
हि रादिजातिवाच शब्दलाभादसंस्कृते (७) ।।
प्रोक्षण्यादि पदानि स्यु यौगिकान्यर्थयोगतः (८)।
तथा निर्मन्थशब्दोऽपि जातिसंस्कारतो नतु (९) ।।
.
मित्रगोष्ठी-पत्रिका।
वैश्वदेवो नामधेयं प्रत्यक्ष तिचोदिताः।
अग्न्यादयो देवता हि पाक्यमान्या विधित्सिता ।।
तयो विकल्पो धन्याय्य स्तत्रामिक्षा च ताशी।
ततो यागगणो लक्ष्यो नैवं गुणविधिसिता
परायच गुणो यागं नावयितुमर्हति (१०) ।
वैश्वानरेष्टवष्टत्वादीनां स्या दर्थवादता ॥
विधौ संख्या विध्यहि पुरोडाशकपालगाम् ।
नतु यागप्रयोगस्य विधातु शक्नुवन्ति ते॥
प्राप्ता यागस्य वाक्येन यद द्वादशकपालता।
प्रयोगेऽनय का स्तस्यु स्ततो लक्षणया स्तुतिः ।।
स्याद द्वादशकपालख्य न विभक्ता हि तत्र ते
दृश्यतेऽवयवस्तुत्या समुदायस्य च स्तुतिः ॥
कामाय विधयश्चेत् स्यु वाक्यभेदस्तदा भवेत् ।
संबध्यन्ते हेतुतया पूतत्वादाविमे स्फुटम् (११) ।
प्रस्तरादिकसंस्तुत्यै यजमानपदादिकम् ।
प्रोच्यते गुणवादेन तस्य कार्यकरो ह्यसौ (१२) ।।
आग्नेयादिक शब्दानां गुणवादात स्तवार्थता (१३) ।
मादित्यो यूप इत्यादौ साझप्यादर्थवादता (९४) ।
अपश्वादिकशब्दैस्तु गवादीनां प्रशंसनम् (१५)।
सृष्ट्यसृष्ट्योः सृष्टिशब्दो भूम्ना स्तुत्यर्थ मुच्यते (१६) ।
समवायाच लिङ्गल्य तथा प्राणभृदादयः ।
अनुवादाः (१७) वाक्यशेषात् सन्दिग्धार्थ विनिर्णयः (१८
सामर्थ्यादवदानादौ नुवादीनां व्यवसिथतिः (१९) ।
इति मीमांसासिद्धान्तसंग्रहे प्रथमोऽध्यायः ।
। । स्मार्तचूड़ामणि-रघुनन्दनभट्टाचार्यः। "हरि यथैका पुरुषोतमः स्मृतः, महेश्वर स्त्र्यम्बक एव नापरः" तथा स्मात्तं इत्युक्त रयमेव महात्मा इदानी वादे निर्दिशी वति । देशेऽस्मिन् सर्वैरेव ब्राह्मणपण्डितै स्तस्य प्रन्थाः पठान्ते, बीक्रियते च तन्मतं सबहुमान प्रमाणत्वेन । परमसौ महाभागः कश सिमन् स्थाने प्रादुरभूत, कुतो वा शास्त्राण्यधीतवान्, इत्यादयो विष. ॥ स्तद्ग्रन्थाध्यायिनोऽप्यनेके न जानन्ति । अतोऽध तद्विषयमधिकृत्य कश्चित्पाठकेभ्य उपटियते । पञ्चदशशततमाब्दात् पूर्व • मिथिलैव संस्कृतशिक्षायाः प्रधान थानमासीत् । तदानी न्यायशास्त्राध्यापना तत्रैव भवतिसम । न 'दा नवदीपाः पण्डितभूयिष्ठत्वेन प्रख्यातो ऽभवत् । येन महापुरुषेण 'थमं नवदीपे चतुष्पाठी । स्थापिता, यस्य चाध्यवसायेन नवदी- स्य महिमा उत्तरोत्तर प्रवृद्धः, प्रख्यातनामा स पण्डिताप्रणीः रथु. न्दनभट्टाचार्यस्योपाध्यायो घासुदेवसार्वभौमः (१४८०-१४९० अ- हेषु ) मिथिलायां गत्वा जयधरोपाध्यायापराभिधानात् स्वनामप्रसि- तात् महामहोपाध्याय-पक्षधरमिश्रात् न्यायशास्त्रमधीत्य नवदीपा- अ-विद्यानगरप्रामे चतुष्पाठी स्थापयामास, स्वयञ्चाध्यापकपद म- बतष्ठौ। बहवो विद्यार्थिम स्तस्यासन् । तेषु प्रसिद्धाः पक्ष- धुनाथशिरोमणिः, २। हरिदाससार्वभौमः, ३॥ रघुनन्दनभट्टाचार्य:, । श्रीचैतन्यदेवः, ५। श्रीपादगोस्वामी च । १५८५ तमाब्दे श्रीचैतन्यदेवः प्रादुरासीत् । रघुनन्दनभट्टाचार्य प्रभवतः सतीथ्यः । तेमास्यापि जन्मकालः स एवेति निधीयते। * अन्दोन खोसीयः॥ + चतुष्पाठी शब्द न वङ्गत पडिताना ससरहान्तर्गतम् शाखाध्य- माध्यापनमन्दिर सच्यते । रघमदनः श्रोतम्यदेवात परवर्तीति राबिनाल मिलः । ६ २ २८२ . मित्रगोष्ठी-पत्रिका रघुनन्दनः कस्मिन् स्थाने जन्म लेभे इत्यद्यापि न ज्ञायते । परम अध्ययनकालतः परं नवदीपापस्थिति स्तस्य सर्वैरेप स्वीक्रियते । जनकोऽस्य हरिहरवन्धोपाध्यायः स्थानान्तरादागत्य नवद्वीपे वसति चकारेति च केचित कथयन्ति । रघुनन्दनस्याविर्भावात् प्राक् देशेऽस्मिन् वाचस्पतिमित्र-जी- मूतवाहन-शूलपाणि-भवदेवभट्टप्रभृतीनां मतानुसारेण कर्माणि स. म्पाद्यमानान्यासन् । असौ तु महात्मा स्वप्रणीत भष्टाविंशतितस्ते पूर्वेषां मतानि निराकृत्य नैयायिकयुक्तिवलेन स्वमतं स्थापितवान् । इदानी उपनयमादिसंस्कारव्यतिरिक्त सर्वमेव कर्मजातं तन्मतेने वङ्गीय रनुष्ठीयते । उपनयनादिसंस्कार तन्मतानादरकारणत्वेन कि- म्वदन्तीयं च यते-प्रचारितेऽपि सर्वत्र तदीये मते कोऽपिप्रतिवेशी ब्राह्मणः नूतनतया तन्मतमनादृत्य पूर्वेषां पद्धत्यैव स्वपुत्रमुपनीतवान् । तद् दृष्ट्वा कुपितो रघुनन्दनः 'कुमारः स पुन: संस्कार्य' इति तकवलेन स्थापयामास । ब्राह्मणोऽपि अधनासहायतया भृशंक्लेश मनुषभूष। तदवलोक्य रघुनन्दनस्यौद्धत्यमसहमाना तजननी तमाहूय प्रोपाव- "तब पिता प्राचीनमतेनैव त्वामुपनीतषान्, त्वञ्च कथयसि पूर्वमतो. पनीतः पुनः संस्कार्य इति, अतः संस्कार स्तवैचादौ विधेयः। स्वयमसिद्धः कथमन्यं साधयतु ?" श्रुत्वैतत् जातचैतन्यो रघुनन्दन उपनयनादिसंस्कारे स्वमतस्थापनं शिथिलीचकारेति । स्मानचूड़ामणि रसौ न केवलं स्मृतौ, तर्के वा भभिङ्ग मासीत्। अपितु मीमांसा-वेदान्त-पुराण-ज्योतिषप्रभृतीनाञ्च शास्त्राणां पार मगमत्। शारीरकादिशास्त्रमतं तेन स्खग्रन्थे उबृतम्। बहुशास- दर्शित्वञ्च तस्य तदग्रन्थटीकाकृता काशीरामवाचस्पतिनाऽपि कथि- तम्-"मीमांसादिनानाशास्त्रपारसका श्रीरघुनन्दनभट्टाचार्यः प्राची. नविचक्षणगणनानाविधव्याख्याजनितसन्देहस्य स्मृतिशा सस्य मुग्ध- न्तरवचनयुक्तियां तत्त्वं निर्णीय इदानीन्तनमुखबोधाय निधिका- मापूपानाणस्थानन्दनमहाचायः । २८३ ति"। तदीये प्रन्थे काल-माधवीय-भुजवलभीम-हरिभकि पितृद- यितादोनों प्राक्तनस्मृतिनिबन्धानां नामानि दृश्यन्ते । रघुनन्दनप्रणीतेषु अष्टाविंशतितत्त्वेषु मलमासतस्वमेवादौ लिकि मा तस्मिन्नेव तत्त्वे लिखिष्यमानानां तत्स्वानां नामान्युक्तानि- मलिम्लुचे दायभागे संस्कारे शुद्धिनिर्णये। प्रायश्चिते विवाहेच तिथौ जन्माष्टमीवते । दुर्गोत्सवे .व्यवहता कादश्यादिनिणये। तड़ागभवनोत्सर्गे वृषोत्सर्गे नये व्रते । प्रतिष्ठायां परीक्षायां ज्योतिषे वास्तुयझके। दीक्षाया माहिके कृत्ये क्षेत्रे श्रीपुरुषोत्तमे। सामाग्रे यजुश्राखे शूद्रकृत्यविचारणे । इत्यष्टाविंशतिस्थाने तत्त्वं वक्ष्यामि यत्रतः॥" तदतिरिक्तानि संकल्पचन्द्रिका-रासयानापद्धति-त्रिपुष्करशान्ति- स्व-दादशयानाप्रमाणतरवानि तस्कृतित्वेन प्रसिद्धानि। पस्तु तत्पिता हरिहरेणैव निबद्ध इत्यनुमीयते कैश्चित् । गोस्वामिसम्प्रदायिनो वैष्णवा रघुनन्दनस्य एकादश्यादिप्रतव्यप- गंन समीचीनां मन्यन्ते। ते हि श्रीमद गोपालभट्ट-श्रीमत् समा- नगोस्वामिपादमीमांसानुसारेण एकादश्यादिव्रतानि कुर्वन्ति । ताध प्रायेण सर्वे रुमार्गमतानुयायिनः । तेषां कोऽपि "गोस्वा- मतं शाक्तमतम्" इति कथयन्ति । ते खलु जानन्ति शाक्त एव हुनन्दनः, अतस्तन्मतमेवास्माकं प्राह मिति । एष भाषः केवलं स्त्रिहीनेषु न पुन शानिषु दृश्यते । शक्तिवद वैष्णवा अपि केऽप्य निनः मातमतं शाकमतं वदन्ति । वस्तुतस्तु रघुनन्दनो वैष्णव सीत् । तत्प्रणीताला सर्वेषामेव तरखाना प्रारम्भे तेन विष्णुदैव. नमस्कारः कृतः। तदेव हि तस्य "स्वेष्टवक्तामा साधरणम्"। समयप्र- - NRN ... A SH LIF......
। तत - २८४ मित्रगोष्टी-पलिका। रघुनन्दनस्मृतिटीकाकृतौ दावेष प्रसिद्धौ, काशीरामवाचस्पतिः राधामोहनगोस्वामीच । काशीरामस्य जम्मकालः, पासस्थानं का मास्माभिज्ञायते कृतटीकातः केवळ मेष एव तस्य परिचयो ज्ञायते-- "यं प्रास्त समस्तथास्वनिपुणश्रीरामकृष्णात्मजः । श्रीराधोत्तरवल्लभात्य सुकृती महोतचूडामणिः ॥ तेन श्रीयुतकाशिरामकृतिना यत्नेन निष्पादिता। टीका मापि सुचलापि कृतिभिः सानुप्र श्यताम्" ॥ अपरच टीकाकृठ राधामोहनगोस्वामी श्रीमद् अद्वताचार्यप्रभुपाद वंशे शान्तिपुरे अजायत । शान्तिपुरस्थ एघासौ नवदीपराजान कृष्णचन्द्र-शिवचन्द्रेश्वरचन्द्राणाम् (१७१०-१७८२) सभापण्डि तत्व मकार्षीत् । अवाप्यस्य वंशः शान्तिपुरे विद्यते । " एतद् गृा गोस्वामिभट्टाचार्यवाटीति" नाना प्रसिद्धम् । श्रीकृष्णतत्त्वामृत श्रीकृष्णभक्तिरसोदय-भागवत-तत्वसार-तस्यसंग्रहाश्च प्रन्था अनेनैव गोस्वामिना प्रथिताः । तस्वशास्त्रसंग्राहकः कृष्णानन्दश्च रघुनन्द. नसमसामयिकः। असावपि नवदीपे एव स्थिति लेभे। केऽप्यमु रघुनन्दनस्य मातृत्वेन निर्दिशन्ति । कृष्णकेशवगोस्वामी। :0: यत् किश्चित्प्राप्तकालम्। न घयं तदिदं भ्रान्तं मतं पुष्णीमो यद् यत्सल्वल्माकमस्ति, नि- विशेषेण सर्वमेव तदुत्तम, यस्यन्येषां तदधममिति । सन्ति हि का. 'निषिद, यानि नामास्माकमेव भस्थितप्रतिस्पर्दीनि, सन्ति चापरा- ग्यपि कानिचित, यानि खल्वपरेषामेवोत्तमानि 1, इत्यं स्थिते, उत्सा. रितमात्सरार्यमतिभिः सबमालोच्य मरालैरिव क्षीरं पानीयापार देषोऽथ एव निखिलेभ्यः संग्रहणीयः । नहि कवितण्डलार्थी तुधान, पत् काशसाप्तकालम् । २८५ मांसार्थी वा मत्स्यस्य शल्ककण्टकादीन्युपाददान: समीहितसिद्धिम. . धिगच्छति। श्यन्ते, साम्प्रतमभितः सञ्चरन्तः केचित्परप्रत्ययनेयाः पुरुषा. पसदाः, ये हि प्रायेण लोकार्यातकपक्षनिक्षिप्तचित्तवृत्तयः प्राचीने. ध्वपि निरन्तराच्चनीयेषु तत्रभवत्सु ब्राह्मणेषु कटाक्षविक्षेप मारच. पन्तः प्रतिदिनानुप्ठेयानि सन्ध्यावन्दनकर्माणि निरर्थकान्येवेति परि- त्यजन्तीति । नायममीषामाचारस्तथातितीव्रतरं दुःखाकरोत्यस्मान, यथा हन्त तत्पदवीमनुगच्छन्तः कोमलमतयः केचित्तारुण्यसुलभस्व- भावचपला विद्यार्थिनः । सत्यं, न वयं सन्ध्यावन्दने प्रत्यक्षरं वाचोयुक्ति प्रदर्शयितुप्रभ- वाम इति । तथापि देदं सोदु शाको न वा तस्य नापि बुद्धि- मत्प्रकाण्डेनोत्प्रेक्षितं कारणमपि किया पर गमः, यहनन्ध्यावन्दनं सपथा निरर्थकमेवेति । न वयमद्य श्रुतिस्मृतीतिहासपुरमादिभ्यः परःसहाणि वच- नाम्युदाहृत्य सन्ध्यापासनस्योपादेयत्वं प्रातपिपादयिषामः । कथं नु तदश्रद्दधानान प्रति तस्यैवोक्तिः प्रामाण्यकोटिमवगाहेत ? भतो लौ. किकीमेव युक्तिमनुसरामः, कथयामश्च सविनयम्-स्वयमेव श्रीमन्तो विचारयन्तु, पश्यन्तु चास्ति तत्र किञ्चिल्लभ्यं न वति। न हि वि- विच्यैव स्वमतिचापलाद यत् किश्चित्कुर्वाण: प्रशस्ाते शोभते वा। अस्मच्छास्त्रेषु, अथवा अस्मद्देशेषु चारित्नमेकं सर्वगुणाधिकम्। पशुरेष हि सोऽधन्यः, यो हि विनाकृतश्चारित्ररत्नन। चारित्रमय हि नरस्य नरत्वं रक्षति । मत पव विष्णुशर्मणा बालेभ्य उक्तम्:- "सर्वस्यैव परीक्ष्यन्ते स्वभावा नेतरगुणाः । भतीत्य हि गुणान् सर्वान् स्वभावो मूनि वर्त्तते" ॥ इति ॥ अतएपास्माकं महाभारतादौ, बौद्धानां विसुद्धिमग्गो' प्रभृतो, जैनानां व उवासगदसाभो'-प्रमुख अन्धे शीलवर्णनं तत्तत्प्रकारेण । २८६ मित्रगोष्ठी-पत्रिका। पापाचरणेन हि शीलं कलुषीक्रियते । पापाचरणं च कर्मणा, मनसा वाचाचेति बेधा करोति मश्यः । यावच्चेदं पापानुष्ठानं सर्वथा नापाक्रियते क नु खलु तावत् शीलवैमल्यमधिगम्यताम् । तब तदैव दूरीकत्तुं शक्यते, यदा जनो जानीयादयन्मयेद मिस्थम् पातकमुपाज्यंत इति । एतज्ज्ञानमपि अन्तरान्तरा कृतकर्मानुचिन्तनं विना न साभ- वति । कृतकर्मालोचनमपि च युक्त एव काले क्रियमाणं यथाभिल- षितं फलं प्रसूते । तत्तत्काले विहितमस्माकं सन्यावन्दनमपि तद्- मेवेति सकृदपि तावदालोच्यतामिदं निमंत्सरेणान्तरात्मना । चञ्चलानि हीन्द्रियाणि; असंयतेभ्य इव वाजिभ्य: सुलभस्तेभ्यो पिनिपातः । संयतेभ्यः सुपथप्रस्थापितेभ्यस्तु तेभ्यो, विनीतेभ्य इस पाजिभ्यः त्वरित मेवाधिगन्तव्यम् अधिगम्यते । यथा सादिवरी दिवसे कमप्यश्वं विनीय समयान्तरे तस्य गुणदोषं पर्यालोज्य पर- स्मिनहन्यपि तस्य तुरङ्गमस्य स एव दोषो यथा नोत्पद्यते, तथा प्रयतमानः स्वमनोरथं प्रपूरयति; मनुष्योऽपि तद् रात्रिकृतानि कर्माणि दिवसारम्भे, दिवसकृतानि च कर्माणि रानिमुखे एवालोच्य तेषु तेषु कर्मसु इच्छयानिच्छया घानुष्ठितान् दोषानहितेन चेतसा संस्मृत्यं तेषामपुनरनुष्ठानाय हदयं द्रढयेत, कृतानां च तेषां परिक्षयार्थ भगवन्तं सर्वेश्वर प्रार्थयेत, स एव येकोऽस्मान सर्वेभ्यः पाप्मन्यो मोधयितुमीशानः । वासरारम्भे ब्राझे मुहूर्ते हृदयमनाविलमक्षोभ प्रसन्नतरं च तिष्ठति; जीवननगरस्यान्यतमं पन्थान मषतरीतुमुपस्थि- तस्तदानी मवसरः । अषधीयतां भो यथा नेहापि पूर्वमिव विनिपा. तपरिपाकाः सुलभप्रचारास्ते ते दोषा मनुष्ठीयन्ते, स्मयंता मूत, स्मयंतां किं त्वया कृतं किं पा साम्प्रतं कर्तुमुधु ज्यत इत्येवायं, बन्धयः, सल्यावन्दनविनियुक्तो वैदिकमन्त्री बोधयतिः- सूर्यच मा मन्युश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम् । यह राज्या- पापमकार्षम् मनसा, वाचा, हस्ताभ्या, पद्नाम्, उदरेण शिक्षा (धिरना) रात्रिस्तदवलम्पत ।. पत किम्चरितं मयि हमामयत. - .
यत् किश्चित्माप्तकाळम् । पोनो सूर्य ज्योतिषि परमात्मनि जुहोमि स्वाहा"। तैत्तिरीयारण्य. कम्.प्र ६, मनु २५. 'उपक्रान्तस्य दिवसस्याधिपतिः सूर्य:, अन्तःकरणम्, प्राणादयः चक्षुरादयध तत्तत्सकल्पकृतभ्यः, तत् कारणेभ्यो धा दुरितेभ्योऽ. हमान् रक्षन्तु-यथाई नातःपरं पापं कर्म करोमि, तथा कुर्वन्तु । किच मतीतायां निशायां यत्खलु पापमहं प्रतिषिद्धचितनादिभि- मनसा, यष प्रतिषिद्धोचारणादिभिर्वाचा, यच हिंसादिभिहस्ताभ्यां र प्रतिषितव्याक्रमणादिभिः पद्भगम्, यश्चाभोज्यभोजनादि. भिरुवरण, यश वागम्यागमनादिभिः शिश्नेन कृतवान्, रात्रिमें तत्सर्व पं नाशयतु । तदभिन्नमपि अश्रोतव्यश्रवणादिभिर्मयि यद दुरित- स्ति, तदिदमहम् अमृतकारणे, सत्ये ज्योतिषि दिवसाधिपतौ सूर्ये नेक्षिपामि, स स्त्रलु सर्व तददहत्वित्यर्थः । पथा चेदतिक्रान्तराध्यनुष्ठितदुरितानां पासरमुखे पर्यालोच- या स्मिनहनि तेषामपुनरनुष्ठानाय क्रियते, रजनीमुखेऽपि तथैव दिनकर्मजाताना दोषादोषपरीक्षणार्थ करणीयमिति स एव मन्त्रः दोषकालोचितत्वेन किञ्चित् परिवत्यं पठाते । एवं च उपसि निशाकृतपापालोचनया आगच्छदिवसे पापाननुष्ठानार्थ रढोक- त्य हृदयस्य पुनः प्रदोषे दिनकृतकर्मचिन्तनेन सम्यक परीक्षा म्पद्यते । असकृदेष परीक्षितं हृदयं कालेन सर्वथा पापाद विरम- ।। तेन च शीलं. सुषिमलं भवति । ततश्च यथार्थ मनुष्यत्वं विवे- कत्वं विज्ञत्वमुपजायते । भयं च मध्यन्दिने सन्याकर्मणि विनियुक्तो मन्त्र:- यंदु च्छिष्टमभोज्यं च यदा दुश्चरितं मम । सर्वे पुमन्तु मामापोऽसतां च प्रतिग्रहं स्वाहा" ॥ तैत्तिरीयारण्यकम्. प्र. ६. मनु २३. • "मनुषधाः कमातमत्वा कर्माणि चौथतीति" याखोक्तः (नि... १.) विमषाकारी विवेचक एव मनुषधति बन्यते ।
- २८८ मित्रगोष्ठी-पत्रिका सुगमोऽस्याथः । इदन्यत्र लक्षणीयम्-संसारयात्रानुवर्तनस्य दिव. सभाग एव श्रेष्ठः समयः । तदानोमेव वित्तमुपाज्यंते । तष लोभ- प्राबल्यादसदभ्योऽप्युपादीयत इति तदिदं प्रतिषिध्यते-'असतां च प्रतिप्रहमिति' । संसारयात्रार्थ दिवसे बहूनि शुष्कर्माण्यनुष्ठीयन्त इति मध्यन्दिनेऽपि सकृत्पदनुपादेयत्वं सायंते 'दुश्चरितमिति । न केवलममी द्वित्रा एव मन्त्राः सन्ध्योपासनस्येदं चित्रं प्रकर. यति । अपरेऽप्यभुमेवार्थ स्पष्टयन्ति । सर्वथा चरित्रनैमल्यसाधना. थमेव यदस्योपासनस्य विधिरिति स्फुटमेव तत्तेभ्योऽवगम्येत । स्व. ल्पावयवेयं पत्रिकेति दिवानेवान्यानपि मन्त्रान् प्रदर्शयामः । परी- श्यतां श्रीमद्भिः- "इइमापः प्रवहत यत् किंच दरितं मयि । यद्वाहमभिदुद्रोह यदा शेप उतानृतम्" ॥ ऋग्वेदसहिता १म. २३सू. २२, पवं १०म. सू. सू. 'हे आपः, मयि यत्किञ्चित् अज्ञान तं दुरितमस्ति, अथवा यदई सर्घतो बुद्धपूर्वकं द्रोहं कृतवानस्मि, अथवा पदहं कमपि शप्तवानसि, यदहमनृतमुक्तवानस्मि, तदिदमपराधजातं मत्सकाशा दपनयत,- सर्वथा तेभ्यः पापेभ्यो मामुद्धरत । अयं चान्यः श्रयताम्:- क्रत्वः समह दीनता प्रतीमं जगमा शुचे । मृळा सुक्षत्र मृळय" ॥ ऋग्वेदसंहिता. ७म. ८९सू ३१. 'हे सधन, स्वभावतो निर्मल वरुण, दीनतया-मशक्ततया बल्बई (न वारण कारणेन ) कर्त्तव्यत्वेन विहितस्य कर्मणः प्रतीपं-प्रति- कूलं गतवानस्मि,-अनुष्ठेयं कर्म नाहमनुष्ठातु भशतषम् । भवः हे शोभनधन वरुण मां सुखय । . भपरभः- - स्कृतशिक्षा। २८९ यत् किञ्चेदं वरुण दैव्ये अनेऽभिद्रोहं मनुष्याधरामसि । अचित्तो यत्तष धर्मा युयोपिम मानस्तसामसो देव रीरिषः। ऋग्वेदसंहिता. ७म. ८.सू. ५. 'हे वरुण देवसमूहरूपे अने मनुष्या षयं यत् किचनापकारजातम् भाधरामः, मपि च यदज्ञानेन हेतुना तव कम वयं मानुष्ठितवन्तः, तस्मात पापाद्ध तोरस्मान मा हिंसीः'। कियमामास्माभिदाहियताम् । श्रीमन्तः पाठकमहाशयाः, खय. मेव भवद्भिषिके देशे सुस्थिरेण चित्तेन सदपि सापश्चिन्त्यताम, ततभोव्यताम, अस्ति किञ्चित्तस्यावन्दनस्य सार्थक्यं न घेति । यदीदमपि निरर्थकमेव मन्येत, तहि म जामीमः क इव वित्तवियो. धनोपाया भवतामभिमतः स्यादिति । न केवल वैदिकमन्त्राणामुच्चा. रणमावणैव कृतं यत्कर्तव्यमिति । मः खलु तेषामनुसन्धातव्यः, तदनमुल्य च मेणोत पथप्रस्थितश्चित्तमसमतङ्गजः सन्मार्गमवतार- यितव्यः । इत्थं यदि कश्रित्प्रतिदिनं सन्यावन्दनं नियमेनानु तिष्ठेत, सहि न जातु तदवदनविवरादाकण्यंत यत्तत्रिफलमेवेति द्रढ़ी- शनस्माकं विश्वासः। विधुशेखरमा। . संस्कृतशिक्षा*। मासीत् किल कश्चित्कालः, यदा समाजनियमनभारो प्राधणप- ण्डतेषु न्यस्तोऽभवत् । तदानी स्खलु अपरापरवर्णाः अपरापरकृत्या. सर्व समयम् आलोचयन्तः शास्त्राणि, अध्यापयन्तः शिष्यान, चिन्तयन्तः प्राप्तकालं, व्यवस्थापयन्तश्च दिनुकूलानेव धन, जनानां लौकिकं पारत्रिकं च श्रेयः सम्पाद- मिनगोध्याश्चतुर्थे वार्षिकोत्सवे विधशेखरभट्टाचार्येर पठितोऽयं येवाचिन्तयन् । ब्राह्मणास्तु * [बन्धः। ३ . मित्रगोष्ठी-पत्रिका यितु सन्ततमेव पक्षप्रयत्ना आसन् । यथा हि दुन्तिोऽपि हयो निपुणेन यन्त्रा सन्मार्गमानीयते, ब्राह्मणपण्डितैरपि तथैव तेषु समयेषु तत्तनुपायेम उत्पथप्रस्थितोऽपि समाजः सम्यङ् न्ययम्यत । सवं एष तदानी बवालयः शिरला तेषां निदेशमङ्गीचक्रः। तहि तेषामा. देशप्रतिपालनं न तथा भयान, यथा भक्तिसम्भारादभवत् । अद्यत्वेऽपि न खलु न सन्ति लान्येव, तेभ्योऽपि चारुतमानि च शास्त्राणि, न मलु नालोक्यन्ते तेषामेव सुगृहीतनामधेयानां साक्षा- स्कृतधर्माणां समाजकुशलचिन्तनतत्परा महापुरुषाणां वंशकरी- राः। परन्त्यमीन तथा शास्त्राण्यालोचयन्ति, न तथा शिष्यानध्या. पयन्ति न तथा देशकालाधनुरूपान् धर्मान् व्यवस्थापयन्ति, न घा तथा समाजस्य मङ्गलं चिकीर्षन्तोऽपि न किञ्चिद वस्तुतः कुर्व- न्ति। अत एघायमधापतितसमाजो दिनाहिनमधस्तरां गच्छन् वि- श्वतोमुखममङ्गलं चोत्पादयन् निशितकयधाराप्रवचिन्तयतां चेतासु सुदुःसहां खेदपरम्परामुत्पादयति । यन क्वापि गम्यताम, दृश्येत प्रायेण हि जना धर्मानुरागहीनाः, ईश्वरचिन्तनपराशु खाश्च भूता, भवन्ति च । तियञ्च इव केवलं स्व. स्वोदरपूरणमात्रेणैव चरितार्थम्मन्यास्ते मोहमयी प्रमोदमदिरा परिपिधन्तः कालान् नयन्ति। म त्वन्यत् किश्चित् करणीयं तेणं वि- लोक्यत इति । येषां हदयं नेश्वरोपासनरसिक नवा धर्मानुरागसरस, व्यर्थमेष तेषां जीवितम् । न लेशतोऽप्यस्ति पशुभ्योऽमीषां भेदः । परन्त्यसमधन्यतया साम्प्रतं क्रमेणैतेषामेव सरभसप्रचारः परिवधत। म जानीमः सोऽयं सर्वशी महोपप्लवः कियता कालेनोपशाम्यदिति। यावच्चयमवस्था न विलीयते तावदुच्चैस्तरां शास्त्राध्ययनध्वनिना सहस्रकृत्वो मुनरीक्रियमाणेऽपि दिगन्तराले कुतो नाम यथास्या- भ्युदयस्य, पुष्कळल्य च शान्तिसुखसम्भारस्यावकाशः समधिगम्य ताम्।
मस्कृताशक्षा। हदयं नाम स्वभावचपलम्, प्रायेणेदमुत्पथपथिकमेव भवति । परन्तु नहि नास्यापि दमनोपायो विद्यते, माविर्भावयितुवा शक्यते। सत्यप्येवं न खलु सर्व एव इत्थं समर्था भवन्ति । सर्वेष्व काले चिदेव तारशा महापुरुषास्तिष्ठन्ति, ये हि यथोचितं प्रवस्व समुवि. तेनोपायन स्वयमप्रपदी मधिकर्वाणा अन्येषामपि हृदयमावर्जयितु प्रभवन्ति, तेन चैकैकक्रमेण भूयसां मजलं विदधाना समाजस्य प्रभ- तमुपकुर्वन्ति । परन्त्वहो को नामेदानीम मन सरन तो पदवी प्रद- येत । पुरा किल विचक्षणवर्याणां ब्राह्मणपण्डितानामेवेदं कर्तव्य मासीत् । अद्यत्वे तु ते तबामगौरवं धारयन्तोऽपि न तत्कृत्यमनु धातुमिच्छन्तीत्येव परं तुःसमावहति । वैदेशिकसंसर्गो हि साम्प्रतं कश्चित्प्रतिबन्धमारचयतीति सत्यमे- चैतत् । परन्तु न तावन्मानेणास्माकम् अपराधकलङ्कमयः सम्भवति । भवेठेतठेवं, यदि श्येत सर्वथा हि जनाः स्वधर्म परित्यज्य धर्मान्तरं परिग्रहीतुमभिलथन्तीति । न त्वेतदस्ति। सधैरेप हि स्वकीयधर्म- तत्व द्रढ़ीयसानुरागेणाकर्णयितु काम्यते । न तु वयं तान् श्रापितु प्रभवामः । अतपय धनम्यतिफास्ते पैदेशिकमुखेभ्योऽसमयमै श्रोतु प्रद्रयन्ति । वयन्तु पश्यन्तोऽप्यपश्यन्त इवेदं सुखासिकया वृथा वाग- मालविरचनैः कालानसिवाहयामः, अन्तरान्तरा च गृहकोणेषु घिरा. जन्त: 'ज्ञानलवदुविदग्धास्ते दुरात्मानो हन्त सनातमं धर्म सर्वथा विध्वंसयन्तीत्यादिभिः आश्रमबहिर्गतैर्दुर्वादशतकैरात्मनो धर्माभिमान प्रकाशयामः । यदि कश्चिदुपेत्यास्माननुयुञ्जीत-श्रीमन्, मरुमधर्मसाहित्या देविषयकेभ्यो प्रन्थेभ्यः किमिति शिक्षितजनाः प्रायेण पाश्रधात्यधिहि- विधीयमानेभ्य पवा अधिकतरं स्पृहयन्ति, असमदुक्तं च दूरतः परि- यज्यास्मदीयशास्ले व वैदेशिकानामेव मतान्यनुरुध्यन्त इति । तर्हि । जानीमः किमत्र प्रतिवचनं प्रतिपत्तव्यमिति। अथवा साम्प्रतमस्मा- शास्त्रव्याख्यानपाटवं तिरोहितमित्येतदिना किमपरं वक्तुं शक्यते ।
२९२ मित्रगोटी-पत्रिका। भानातसंस्कृतगन्धस्यापि पण्डितामिमानिनः कण्ठकहरामांस लोऽयं निनादो गगनमध्यमवगाहते-'पाश्चात्यहतकः कुव्याख्यानश. तप्रणयेन शास्त्रमेवेदमस्माकं व्यक्रियत, विक्रियते चेति । परन्तु दु. लभः-अथवा भतिदुर्लभ एवैताहशो विद्यौरेयः, यो हि पाया. स्यानामसदुक्ति युक्तिपरम्पराभिनिरवशेषं निरस्य अधन्यस्य भारतस्य शतोऽप्युपकुर्यात् । अथवा कस्तावदियन्तं श्रममनोकरोतु। सुक. पनिकाधिशयन मेव हि तावदम् । संस्कृतप्रन्थस्य त्रिचतुराणि पृष्ठान्यालोक्यैव कैधिद अस्मदीयै- विद्यार्थिभिः मोक्षमूलरादयः पाश्चास्याः संस्कृतविद्वांसः 'न किश्चित्ते संस्कृत शास्त्रस्य विजानन्तीति' प्रौढरपंसंसूचकैनिःसारैचनप्रपञ्चैः गर्धन्ते। परन्तु दुःखाकरं यत्ते भ्रमेऽपि न तेषां पुस्तकानामेकामपि पंक्ति पठित्वा, न केवलं सानेव, भपित्वस्मानप्यनुग्रहीतु कदाचिन- प्यभिळप्यन्तीति । साम्प्रतममहशे मोक्षमूलरादिसदृशः कश्चित्स. स्कृतपण्डितोऽस्ति म ति संशयास्पदमेवेति नियाजं वक्तव्यम् । सूक्ष्मरीत्या पदपदार्थयोजने, व्याख्यानादि करणे वा सर्वथा प्रतिहत- प्रतिपक्षा एष भारतीयाः पण्डिताइति को नाम न स्वीकुर्यात् । परन्तु यया रीत्या पाश्चास्यपण्डिता प्रस्थाननुशीलयन्ति, तेभ्यश्च सारा आकर्षन्ति, तत्सर्व विरलप्रचारमेव भारतीयेषु संस्कृतपण्डितविति दृश्यते । भिन्नैव हि काचिदध्ययनाध्यापनबोधनशैली पाश्चात्यानाम् यया खलु ते निरवशेषं सारमुपादाय ग्रन्थान् ‘निष्पीडितालक्तक वत् त्यजन्ति । साहित्य वा दर्शने वा अन्यत्र वा अस्मदोयान्येव शास्त्राण्या- लोज्य पाश्चात्यैमणीषिभियंदपस्तत्वमाविष्कृतानि आविष्कयन्ते च सत्सर्व कस्य नामानन्दं नोत्पादयति । सत्यमेवैतद यत्तेषां ग्रन्थेष- तरातरा स्खलितानां नाविरल: प्रनार इति । तथापि तय तन्नामा यदनकानि शिक्षितव्यानि सन्तीति नापगितु शस्थम् । म्याकडलेत. मोसमूलर-घेवरादिभिः पण्डितैः संस्कृतसाहित्यादिविषये पुस्तकानि पिरचितानि, भपि नाम भारतीयभाषाणामेकत्राप्येकमपि तादृश ।
संस्कृतशिक्षा। पुस्तकं विद्यते ? हन्त भो यानि खलु ग्रन्थनिकुरम्बकान्यालोचयातः पाश्चात्यपण्डिता भारतीयानाम्, अथवा समग्राया मानवजातरेव विवि- धामृतवृत्तान्तपरिपूर्णम् इतिवृत्तं प्रकाशयन्ति, वयं तु तान् न पठितु- मिच्छामः, पठित्वापि वा म विचारयामः, विचार्यापि वा न किञ्चि- प्रकाशयामः। अस्माकं धर्मसमाजाचारतिवृत्तादिजिज्ञासायां साम्प्रतं पाश्चा- स्या एव.न: शरणम् । तेषामेव ग्रन्थं पठित्वाचास्माभिस्तत्सर्व विजे. यम् । अस्मद्देशे यैः खल्बीदृशं पुस्तकं विरचनीयम्, न तेऽद्यापि प्रबुध्यन्ते । शास्त्रार्थनाम्ना प्रसिद्ध धाग्युद्धेऽवतीय श्रोतृणां श्रवारन्ध्र- भेदनमेव पुरुषार्थ इति हि तेषां बुद्धिरिति धिगस्माकं दग्धभागधेय- म् ! मधान्य एव परिश्रम्य ताहक किश्चित् पुस्तकं प्रकाशयेत्, न स्खलु सकृदपि तदालोचनायावकाशं प्राप्नुमः । कर्णाकर्णिकया तु यत किञ्चिद अधिगम्य, अनधिगम्यैव या केवलं वैदेशिककतृ कत्वश्रय- गमात्रेण हेयं तदिति निर्लजमनमाणं मतं प्रकायितुन घिरमाम इत्येतादृशमेवास्माकं पाण्डित्यम् । ब्राह्मणा बयं, पण्डिता वयम् इत्यरमाक मभिमानः । परन्तु सह- नकृत्वोऽप्यन्विष्टेऽस्माकं ज्ञानभाण्डागारे लेशतोऽपि वेदज्ञानं न ल- न्येत । हा भगवन् वेद, सर्वथा स्वमनाथोऽसि। पाश्चात्त्याः खलु स्वामाद्रियन्ते; यैः सामभिनवस्त सम्बन्धः कल्पित, आविष्कृतो वा, १ बयम, येषां व नित्यमाराध्योऽमि । ब्रह्मयज्ञे मन्नचतुष्टयाच्चार- मनस्यातिते गटनस्य फल लालिपाय । नजनामाऽद्य ब्रह्मपविधानस्य किनु प्रयोग मादित, अथवा तेऽपि नाम शियन्तः न्युः, बेहि प्रतिदिन शानिगा नहाय- मनुतिष्ठन्ति, स शास्त्रं विहाय वम्व भगवन् वेद, पठनीयोऽसो. त्यनुदिनं परासहस्राणि वचनान्यालोकयामः, परांश्चापदिशामः, परन्तु तादृश्येव काचिदस्माकं प्रातः, यया त्वं दरं परित्यज्यसे। भन्धिष्यताम्, साम्प्रतं प्रायः सामान्येन सर्वेषामेव शिक्षितानां गृई , . मित्रगोष्ठी-पलिका। ख्रीष्टीयधर्मपुस्तकं ( Bible ) परिदृश्येत, न तु दः । अथवा बल घेदनाना, वैदिकानां साहित्यानामपि साम्प्रतमस्मद्गेहेषु प्रचागे निषिद्धप्रायः । इदानीमीदृशा एवं संस्कृतपण्डिता भूयिष्ठाः । अथवा किमत्राश्चर्य, पटोयसी हीयम् अस्माकं रसना 'महो कलिकाल' इति कालमहिमानमुद्धोषयितुम् । म विमो भारतेन प्रा कियत्पुण्यमुपार्जितमासीत्, यत्वलेन पावास्यः प्राच्यविद्याविद्भिः ( Orientalist) सहास्य संस्तवः संवृषा येन घेदग्रन्थः साम्प्रताप किञ्चितुच्छ्सन् स्वीकृत पदायासेन पुरु- घेण लग्धु शक्यते । अन्यथा धिररावायव सुविषमान्धतमसान. मोऽयं काप्यन्तहितोऽभविष्यत् । किमुच्यते, मन्त्रमाणारण्यकस्- प्रादीनां भूयास्येव महता श्रमेण पाधारगैरेष पण्डितः प्रथमं प्रका- शितानि, ततः परञ्च कालेन प्राच्यैरपि । इत्थगि तथास्महौर्भाग्यं यत्प्रायेण वैदिकसाहित्यमालोचयितु जनानां प्रवृत्तिव नोत्पद्यते । न च तदर्थ प्रयत्नं विदधानोऽपि कनि- महापुरुषो वोक्ष्यते । चित क्वचिद वेदाभ्यासार्थ पठशालास्ति । स्वरमानं तु तत्र शिक्ष्यते । उपदिश्यमानश्वार्थो न सरसतयोपदि- श्यते। अतएव हि विद्यार्थिनः स्वरसंयोगेन कानिचित्सूक्तान्यधिकृ- त्यैव ततो पिरमन्तो न पुनवेदतत्वमनुशोलयितु प्रवत्तन्ते, न हि पश्यपि मणिम् ममणिवित् तत्तत्वम् अवबुध्य तस्मिन् रमते । स हि काच इति तं दूरतश्चरणेन ताडयति । भूयः खल्वस्मिन् विषयेऽस्माभिरुक्तम्. उच्यते च न ज्ञायते पुनरपि कियन्ति दिनार यावद घश्यते वा । यापच चैदिकसाहित्यं पण्डितैनालोच्यते, तावद सम्पूर्णैव तेषां शिक्षा पाण्डित्यं च यथार्थ तेषां नोपजायते । नेदं स्वल्पं खेदमावहांत यददिकभित्पृच्छेत् को वेदः? मन्त्रः ? किं ब्राह्मणम् ? किमारण्यकम् ? कोपनिषत् ? किं कल्पसूत्र किं श्रौतसूत्रम ? कि गृह्यसूत्रम् ? किं धर्मसूत्रम् ? किं वा प्रतिशास्य- म् ? कियन्ति वा तानि ? किं किं वा तेषु तेषु वर्णितम् ? कोर. . । ७ ? ?
वात्तोः सम्पादकाभिमायाश्च । शस्तधानी धर्म मासीत् ? इदानीमनुष्ठीयमानानां धर्माणां कीदर्श मूलम् ? कदा कदा कथं च सामाजिकावस्थासीत् ? कथं नु तत्तनमः मूलम, दर्शनमूलं च प्राचीनेषु अन्धेष्पनिषद्धम् ? कथं कदा चैषां परिवृत्तिरारभ्यप्त ? कथं वा भाषातस्य मित्यादीति, तहिं मन्यामडे, बहूनामेष विद्यार्थिनां घदनं तूष्णी तिष्ठेदिति । न चेहशः कधिदि- दानी प्रन्थोऽपि दृश्यते, पराठेन तत्सर्व विज्ञायेत। 'आयविद्या- सुधाकर' इयस्ति किमपि पुस्तकम्, परन्तु न तेन सम्यक समोहितं सिध्यति । बहु खलु वक्तव्यं तन नोकम् । न च तस्य भाषापि तथा सरला। न चाभिनषानि मनानि तत्र समालोचितानि, एकदेशदर्श. नन्तु तस्मात् सम्भवत्येव । पाठयमेवेदं पुस्तकं संस्कृतविद्यार्थिभि- रित्यभिप्रेमः। परन्तु साम्प्रतं ताइक कोऽपि प्रन्थोऽवेक्षितः-यन समानावेदाद आचार्वाचीनात्साहित्यात सर्वस्य प्रसिद्धग्रन्थस्या- पश्यशेया निखिला वृत्तान्ता उपनिषध्यरन् । न चैतावानेव तद ग्रन्थो. पकारः। कस्मिन शास्त्रे किं कथमस्तीति सामान्यतो विज्ञाय कि- चिदधिगतरसस्तविशेषज्ञानायापि हि शिक्षार्थी प्रवरस्यते। (शिष्टमने) वार्ताः सम्पादकाभिप्रायाश्च । वाराणस्यां हिन्दुविश्वविद्यालयः। नेदमधिदितपूर्धमस्मत्पाठकैयत् प्रयागधर्माधिकरणे सुप्रथित- यायवादी स्वदेशहितचिकीर्षुः पण्डित श्रीमदनमोहनमालवीयः कानिविर्षाणि पाराणस्यां भागीरथ्यास्तटे कर्माप संस्कृतविश्वविद्या- व्यं प्रतिष्ठापयितु यथोचितं प्रयतते, तदर्थ चातीते वत्सरे श्रीमत: काशीनरेशस्य मुद्राशालायां सुप्रतिष्ठितष्ठुभिः पण्डितैरुपशोभिता सभाप्येका समपद्यत,-पत्र समापनेरासनं श्रीमद्भिः काशीमहीपालैः पिया समलमक्रियतेति। सोऽयं सल्पितपूर्व: संस्कृतविश्वविद्या- मित्रगोष्ठी पत्रिका। लय' एव साम्प्रतं 'हिन्द विश्वविद्यालय' इत्यभिधेन जनानां पुरत भा. विभवितु गच्छतीति सप्रमोदं वयमद्य प्रकाशयामः । अतिक्रान्त-राष्ट्रीयमहासभायां सम्मेलनार्थमागतः कुशलमति- भिमहाभागैम्तदानी “हिन्दु विश्वविद्यालय"-स्थापनार्थ काचित्समि. तिरकारि, सिद्धान्तितं च तत्र तस्यावश्यकत्वम् । माननीयेन श्री. मता मालकीयमहोदयेन प्रतिष्ठापयिष्यमाणस्य विश्वविद्यालयत्य कृत्य- कलापव्यवस्थापुस्तकं प्रकाशितम् , यस्य खलु निष्कर्षोऽनुपदमेवोप. रित पाठकेभ्यः प्रदश्यते । विश्वविद्यालया) रूप्यककोटिरपेक्ष्यते, तलास्माकं महनीन मित्रेण माननीय श्रीमाधवलालेन दीणि लक्षाणि दत्तानि अन्याश्यां च सुगृहीतनामधेयाभ्यां कान्याश्चिमहामतिभ्यां प्र- लेक त्रीणि लक्षाणि दातुप्रति तानि । तस्यां समिती राष्ट्रायमहा- सभाधिष्टाणां हिन्दविश्वद्यालयार्थ महाननुगमोऽश्यत । सुप्र- शिताभिध: श्रीमद्भिः सुरेन्द्र नाशयोध्यायः बालगङ्गाधति- लय, अध्यापक-भक्षेकरामभिः, गुब्रह्मण्य-अयरैश्च तदर्थ यावच्छ- का प्रयत्नाधातुमङ्गगतम् । यथा चंयमवस्था, तथा सम्भावयामो नानिचिरं फलिप्यतेऽस्मन्मनोरथद् मेणेति । प्रसन्नो भारतीयानां वि. विस्तथैव विधेयात् । मन्यामह, न खल्वे कोऽपि स कश्चिद हिम्दुसमाजेषु नयनविषय- तामागच्छेत्, यो हि संकल्पितविश्वविद्यालयस्य प्रस्तुतां कृत्यव्या. स्थां न मुक्तकण्ठं प्रशंसमिति । प्राचीनसमयेषु यत् किलास्माकं महत्तरं रमणीयतरं चासीन, तस्य सर्वस्य रक्षणं, साधारणानां पुरत- स्तस्य रोचनत्वसम्पादनं च संस्कृतशिक्षयवैकया सम्भवति । संस्कृत- शिक्षेव हि सा, यदधिगमेन ते ते महामतयः ससन्तोष साधारणजी- विकां भजमाना अपि दुर्विगाहगम्भीरान् तांस्ताप विषयांश्चिन्तया- मासुः, अनुबभूवुश्व परमानन्दं परोपकारप्रतसेवनादिना । न च सं- स्कृततो भिन्ना नाम सा कापि भाषा, यया किल प्रवचमानाभिनव. .
वार्ताः सम्पादकाभिप्रायाश्च । २९७ विज्ञानादिविविधषिद्यानां सङ्कलनेन प्रादेशिकभाषाणां संवद्धनं सु- ठुतरं सम्भाव्यताम् । अत ईदृश्याः संस्कृतभाषायाः सविशेषानुशी- लन व्यवस्थापयन्तो हिन्दविश्वविद्यालयप्रवर्तका मणीषिणः कस्य नाम भारतीयस्य न खलु परःसहस्राणां साधुवादानां भाजनीभवन्ति । प्रस्तुते हिन्दु विश्वविद्यालये इमान्यन्तभवेयुः-१ एकः संस्कृत- विदयालयः,-यत्र ज्यातिषशास्त्रस्य नभोविज्ञानशास्त्रस्य च मानम- दिरे (astronomical and meteorological observatories ) ति- ठेताम्,-२ एको रासायनिकपरीक्षागृहेण, उद्भिविदयाविषयकोद्या. jag afga: (with laboratories and botanical gardens ) ar- युर्वेदीयविदयालयः, ३ एकः अर्थशास्त्रविदयालयः, यस्य रासायनिका- यस्त्रयो विभागाः स्युः, ककै कस्मिश्च विभागे तदुचितयन्त्र परीक्षा- दगृहाणि भवेयुः, ४ एक: कृषिविदयालयः, ५ एको गान्धविदया- प्रयः, ६ एकश्च आजालप्रभृतिवैदेशिकभाषाशिक्षार्थ भाषाविषयक- वेदनालयः ( Linguistic College )। अध्यापकानां विदाधिनां च नेवासार्थ गृहाणि च निर्मायेरन्, यत्र ब्रह्मचर्य सविशषं छात्रै शीयं स्यात् । * * * ये विद्यार्थिनो हिन्दु शास्त्राध्यापका आयुर्वेदाध्यापका वा भवि- मिच्छेयुः, तेभ्यः संस्कृतेन च तापता,-यावता ते प्रदत्तां धर्मशि- ग्रहीतु शक्नुयुः। कृतविदरेभ्यो विदयार्थिभ्यः 'स्नातक' इत्युपाधि यित । यः पुनः स्नातकः विश्वविदयालय एष वा, ततो बहिरेव पि वा, शास्त्राण्यनुशीलयन विज्ञानविशेषं विदाविशेषं वाधिकु- त् िस खलु 'आचार्य' इत्युपाधिना पुरष्क्रियेत । यस्तु शिल्पादि वेषये यथोचितमधिगतविदयः स्यात्, स हि 'अधिकारी' इत्युपाधि . इमेत।
भारतीयमित्रराज्याधीश्वरा अपि पमिति मन्यतां कीरशमस्य २९८ मित्रगोष्ठी-पत्रिका। विश्वविदगलयो यया परिचालकमण्डल्या पर्यवेश्येत, तत्र स्खल . गौरमिति । पदि नाम पश्यतामेव जनानाम, महम्मदीयानाम् आलिगडनगर. स्थो विदयालयः ( M A. O. College at Aligarh ) एतादृशो मुस. तिमधिगच्छेत, तहिं हिन्दु विश्वविदगलयोऽयं न तथा भवेदिति ना. मषितं कथमपि प्रत्येतुमिच्छति । कः सन्द हो दरिद्रयं साम्प्रतं तपस्विनी भारतवसुमतीति । तथापि या खलु भक्तमा पा भीत्या घा व्यर्थमेव राजपुरुषाधिष्ठातृकेषु स्थापनीयेषु स्मारकचिह्न षु अहम्पूर्वि- कया परोलक्षं धनं समर्पयितु शक्नोति, सैवेदानी परिपाकरमणीयस्य कत्सकुशलसम्पादनोचितस्य यथार्थाभ्युदयविधानबद्ध परिकरस्य हि- न्दु विश्वविदयालयस्य कृते अपेक्षितमर्थं वितरीतु कथं नाम पश्चात्प- दमादधीतेति द्रढीयानस्मविश्वासः । लध्वी मानेयं कोटिमुद्रा नाम भारतीयनृपाणाम् । -:0:- . शारदामण्डलम् । धर्मोपतये विहितविधीयमानविविधप्रयत्नेन श्रीभारतधर्ममहाम- ण्डलेन विचिन्तितं यत् प्राचीनेषु शास्त्रेषूपदिष्टानों व्यवहाराणामनु- सरणाहते भारतीयानामार्याणां न वस्तुतोऽभ्युदयः सम्भाव्यते, तब मंस्कृतशिक्षा विना सर्वथाऽशक्यसम्पादनमिति। शतः श्रोभारतध- ममहामण्डलपरिषत् संस्कृतशिक्षायाः भूयःसमुन्नत्ये 'शारदामण्डल' नाम स्वकीयापरविभागरूपमपत्यं प्रसूतवतीति विदित पवायं वृत्ता- न्तः पाठकानाम् अध धयं केवलं तदीयचिकीर्षितकृत्यपरिपाटीगता- न्येच दिनाणि वचनानि प्रकाशयिष्यामः ।
शारदामण्डलं वाराणस्यामेव प्रथम सस्कृतशिक्षाप्रदानस्य तदि. यकानुशीलनकर्मणश्च ( research work ) व्यवस्था करियात, क- ण च काश्मीर-श्रीनगरे, नवदीपे, काञ्च्या, पुण्यपत्तने (पुना), प्रवन्तिकायां ( उज्जेन) मिथिलासु, मथुरासु, अपरेषु च प्रसिद्धषु वदनापीठेषु संस्कृतविदयामुज्जीवयिष्यति । विदगर्थिनां पागणस्यां मिव कमिति मित्रगोष्टया असकृत् पूर्वमुक्तम् शारदामण्डल. यापीह नयनमाकृष्टम् । तदिदं तेषां दुःखापनोदनार्थ छाप्रनि- वासं स्थापयितु सङ्कल्पते । भारतस्य स्थाने स्थाने ब्रह्मचर्याश्रमान चकीर्षता मण्डलेन महत्कृत्यमनुष्ठातु व्यवसितम् । असेवितब्रह्मचर्य भारतमुत्सन्नम् । ब्रह्मचर्यस्य रमणीयं परिपाकं पुनरप्यवलोकयितु दा नाम मुग्धस्यैतस्य प्रज्ञानेनमुन्मीलेदिति भगवानेव जानाति । शारदामण्डलेन अत्रैव प्रथम सविशेषं च यतनीयमिति युक्त मन्या- रहे । साहित्यदर्शन विज्ञानादि विविधविषयाणां गवेषणार्थ काशिक: पण्डितैयथा प्रदेशान्तरीयाणां पण्डितानां सम्मेलनं स्यात, तथा करि- यते शारदामण्डलेन । प्रथमं तु वाराणस्यामेव तदारभ्येत । मण्डल. मदं परीक्षाविधिना संस्कृविदयालयानां शोधनमिच्छति, पत्रिका वैको प्रकायिष्यति, यत्र मण्डलस्य कार्यविवृत्या सह विविधविष. पका: सन्दर्भाः स्युः। विस्तरस्तु मण्डलेनोपरिपात्प्रकाशयिष्यते । व्यं सर्वथास्य कुशलं कामयामहे । :: मित्रगोष्ठ्याश्चतुर्थवार्षिकोत्सवः । अतीते पौषे मित्रगोष्ठपाश्चतुर्थो वार्षिकोत्सवः कुचविहारमहा- राजानां कालीमन्दिरे महतारम्भेण निष्प्रत्यूहं सम्पन्नः। पण्डितवरैः महामहोपाध्यायैः श्रीरावालदासन्यायरत्नभट्टाचार्य: सभापतेरासनं परिशोभितमासीत् । सभायां काशिकाः जयपुरादिस्थानान्तरागताश्च बहवो विद्वांसोऽध्यापकाश्च विदगर्थिनश्चादृश्यन्त । स्थानाल्पत्वात् तेषां नामधेयानि प्रकायितुमपारयन्तो वयं विषीदामः ।
. मित्रगोष्ठी-पत्रिका। प्रथमं गीतायां मङ्गलगीतिकायां गोष्ठया भन्यतमेन मिनधुरीणेन न्यायाचार्य पण्डितश्रीवामाचरणतकभूषणभट्टाचार्यग गोष्ठयास्मृता- यवार्षिक कार्यविवृतिः पठिता । तदालोचनेन ज्ञायते यत्तया गृही. तानां कार्याणां याप नाभिलषितरूपा सिद्धिर्जाता, तथापि कालन तथैव भविष्यतीति न खलु न द्रढीयस्याशास्ति । आलोच्ये वर्षे सु- दूरे सिंहलद्वीपे गोष्ठयाः कियन्ति मित्राणि जातानि, येषामधिकान्येव बौद्धमतानुगानि । पारसीकस्याप्येकस्य मिनश्रेण्या नाम दृश्यते । एतश्चान्यच्च पर्यालोच्य निश्चेतु सुशकं यन्मित्रगोष्ठी सुष्टु खल मैत्रीसुखमनुभवतीति। स्थानाल्पत्वान्न विस्तरश इह तत्सर्व प्रका शयितु पारयाम इति क्षम्यतां सहृदयैः पाठकमहाशयैः । अथ संस्कृतशिक्षाविषये वाचितवति किञ्चित् ( यद हि पत्रिकायामन्यत्र प्रकाशितम् ) पत्रिकासम्पादकमहाशये, संस्कृतचन्द्रिकासम्पादकेन श्रीमता जयचन्द्रसिद्धान्तभूषणमहाशयेन कीर्तितगुणवैभवः सौम्यसु- जनः संस्कृतचन्द्रिकासहकारिसम्पादकः श्रीअप्पाशमविद्यावाचस्प. तिमहाशयः मित्रगोष्टया उद्देश्यजातमवलम्प सुमधुरं व्याख्यान विहि- तवान् प्रतिपादितवांश्च गोष्टी प्रति सर्वेषामनुरागादि प्रदर्शनोचि- त्यम् । अथ बहुविथ तेन अद्भतशतावधानशक्तिशालिना श्रीश्रीराम- शास्त्रिणा नाट्यशास्त्र विषयक व्याख्यानं प्रक्रम्य निरर्गलं निर्गच्छद्भिः स्ववचनजातैः सचेतसामसकृत् सस्मितानन्द उत्पादितः । ततः प्रकाशित सभापतिमहाशयस्याभिप्राये सम्पन्न सभाकृत्यम् । इतश्च संस्कृतेनैव तत्न वेणीसंहारनाटकभिनेतु गृहोतगृह्यमाण. भूमिकेषु अभिनेतृषु तदारम्भसूचको मांसलमधुरातोद्यध्धान उत्क- र्णयन् सामाजिकान्, पूरयन् श्रवणविवराणि, नन्दयन् हृदयानि, ध्वन- यंश्च रङ्गमण्डपं गगणमण्डलमगाहत । पश्यत्स्वेव च दर्शकनिवहेषु यथोचितं नान्दीपूर्वकं प्रारब्धमभिनयकम, अभितीतं च समग्रमेव नाटकम् । श्रोतृजनसुखार्थ मलनाटकस्य किश्चित्परित्यक्तम, अपरं व नूतन किञ्चित् सभिवेशितमासीत् । अभिनेतारः सर्व एव वडीया .
वार्ताः सम्पादकाभिप्रायाश्च । अभवन् । वीयानां संस्कृतोचारणं देशान्तरीयाणां तेन किश्चिद भिद्यते । अतो वहीयेतराणां सामाजिकानां श्रवणयोस्तेषामुञ्चारणं पन्नातिरुचिकरमभूम तन सन्देहलेशोऽपि । सत्यप्येवं प्रदर्शितोऽभि- मयः समर्थ एवासीत सचेतसामानन्दोत्पादनायेति तेषां तदानीन्त. नानि पचनान्येव प्राकाशयन् । O वाराणसी। वसन्तपञ्चम्युत्सवे वाराणस्यां सुविश्रु तानां बहुश्रु तानां विदुषा- का महती समितिरासीत् । यत्न किश्चिन्नूतनं युक्ततरं च कृत्यं तैः सम्पादितम् । श्रीमतोमाननीयस्थ माधवलालमहोदयस्य संस्कृतो- अतये प्रयत्नाति शयः कस्य नामाविदितः । तेनैव परितुष्टहृदया वारा- जसेया विद्वांस आशीर्वचनैरमु महाभागं सभाजयितु तस्मिन्नहनि सममिलन् । सभायामादो महामहोपाध्यायेन श्रीमता शिवकुमार. मिश्रण केचनाशीर्वादसूचका: श्लोकाः पठिताः । अथ महामहो- पाध्यायेन सि. आई. ई. इत्यपरोपाधिधारिणा श्रीमता गङ्गाधरशास्त्रि- णा माधवलालमहाभागस्य तांस्तान् गुणान व्याख्याय ग्रन्थात्मकाश्चतु- रो वेदाः सहान्यैः कश्चिद धर्मग्रन्थैस्तस्मै तेषां रक्षणार्थ समप्यन्त । सोऽपि महाशयः कृतज्ञेन हृदयेन परमश्रद्धार्हान् तान ग्रन्थान् शिरसि संस्थाप्य कालोचितमधुरै र्व्याख्यानै स्सर्वेषामेव हृदयं वलपदावजयत्। * * * वाराणस्यां पण्डितश्रीगदाधरशिरोमणेः सारस्वतोत्सवः प्रसिद्ध एव । अतीते सरस्वतीपूजनदिवसे तदुत्सवे कैश्चित्संस्कृतपण्डितै विद्यार्थिभिशा वेणीसंहारनामक नाटकं संस्कृतेनाभिनीतम् । त एषा- मी अभिनेतारो ऐकिल मित्रगोष्टयामभ्यनयन् । परोऽभिनयश्चारुतर आसोदिति दर्शका मन्यन्ते : सोऽयम् अभिनयसम्प्रदाय इतः पर मृच्छकटिक नाम प्रकरणं प्रयोक्ष्यत इति । अस्य प्रसादेन बहुनाव .
मित्रगोष्ठी-पत्रिका। रूपकाणां प्रयोगो वाराणसेयानां नयनगोचरीभविष्यतीति सम्भावया. मः । कियद्वर्षपूर्वमेभिरेवाभिनेतृभिः चण्डकौशिकं, वेणीसंहारं च प्रयुक्तमासीत् । पद्धतामेषां प्रयासः । :0:- . नववर्षे महामहोपाध्यायोपाधिः। श्रुतमिवास्माभिश्चलत्सु कथाप्रसङ्गषु, प्रवत्तमानेषु च गोष्ठोसु- खालापेषु कस्यचित् महत्तरस्य महामहोपाध्यायस्य सखेदं वचनम्- 'हन्त भोः किमिदमायातम्, मन्यामहे, साम्प्रतमयमुपाधिः (महामहो. पाध्यायः ) उद्गीण एव शोभत इति' । न जानीमः सोऽयं महाभा. गो वर्तमानवर्षीयोपाधिप्राप्तजननामसूचिको पत्रिकामालोक्य किं नाम कर्णपुटपेयं वचनमुक्तवानिति । न बुध्यामहे कथमिव तत्रभवता दुर्म नायितमिति, यतो नेदमविदितं तेन यत् पतन खलु चन्द्रकिशः प्रासाद इव कुटोरेऽपि पततीति । तत्र यदि प्रासादस्तेनैवात्मानं धन्यं मन्येत, तर्हि तस्यैवायमपर पराधः। स खलु चन्द्रकिरणं प्राप्नोतु मैव वा, किं तेन तस्य छिद्यताम्, दुरपह्नषा हि तस्य सहजा तिः । कुटीरस्य तु स्पर्धमानस्य तावदेव शोभा, यावत्स चन्द्रकिरणो न व्यवधीयते । अन्यञ्च प्रसिद्धमेवास्ति-"काचः काचः, मणिमणि- रिति", ततः कृतं तस्य वैमनस्येन । कृतं चैतेषामपि नैराश्येन, ये हि यथोचितमनधीतिनोऽपि शास्त्रेषु केवलमुपाध्यलङ्कारेण पण्डित. समाजेवात्मानं प्रख्यापयितुमिच्छन्ति । अपि नामैतद्विलोक्यापि य- थार्थपण्डितानाम् उपाधिलाभलोभो न खलु समूलमुन्मूलितो भवेत् ? . शोकः। वङ्गषु विक्रमपुरमण्डलं पाण्डित्यगौरवेण नवदीपान न न्यून स्थानमधिकरोति । अद्य हि तत्र त्यस्यैव सर्वश्रेष्ठस्य वर्षीयसो नैया- यिक स्य तत्रभवती महामहोपाध्यायपद टाच्छनस्य रामनाथसिद्धा- न्तपञ्चाननमहाशयस्य देवभूयाधिगमवृत्तान्त श्रावयतामस्माकं दीर्यंत वार्ताः सम्पादकाभिप्रायाश्च । वहदयं शोकसम्भारेण । न केवलं पाण्डित्येन, अपितु पण्डितज- नोचितेन कारुण्यसारल्यादिना विविधेन गुणकलापेनातितरां मोहित आसीत्स प्रदेशस्तेन । सर्वथा हतासिव भूमि, या त्वमीदृशेन पण्डि- तरलेन चिराय विनाकृतासि । श्लाघनीया चासि त्वमेव, यन ता. शस्य पण्डितप्रकाण्डस्य चरणरेणवो निपतिताः। शोकहतस्य परि- धारस्य भगवान् स्वस्ति विदधात्विति प्रार्थयामहे । . -:: प्राच दासवशीकरणम् । दासो यदि प्रभुवश्यो न स्यात्, तहिं तदर्थ प्राचीनभारतीयैरायः कीटश उपायोऽवलम्बित इति गृह्यसूत्रेपलभ्यते । पाठकानां क्षणं तदिनोदावहं भवेदित्युदाहरामः । पारस्करगृह्यसूत्रस्य तृतीये काण्डे "उतूलपरिमेहः इत्युप. कम्योक्तम्- "स्वपतो जीवविषाणे स्वमूत्रमासिच्यापसलमेव त्रिः परिषिश्चन् परीयादिति"। यमर्थः-दुविनीतो दासो यदानी सुप्तः स्यात्, तदा स्वकीयं मूत्रं वितः पशोः शृङ्ग आसिच्य तेनैव तं दासमप्रदक्षिणं निवारं परि- पञ्च परिभ्रमदिति । तत्रायं मन्त्रः- "परि त्वा गिरेरहं परिमातुः परिस्वसुः परिपितोश्च भ्रात्रीश्च सख्येभ्यो विसृजाम्यहम् । उतूल परिमीढोऽसि, परिमीढः क गमिष्यसीति" ॥ अयमर्थ:-हे दुविनीत दास, ( यत्र क्वापि त्वं गच्छ ) पर्वतादपि मातुः सकाशादपि पितुः समीपादपि, स्वसुर्या भ्रातुर्वा सहदो वा सनिकर्षादपि त्वामहमाकृष्य मयि विशेषेणानुरक्त करोमि त्वं मन्त्र-- - . उतलस्य-दुर्विनौतस्य दासस्य परि समन्तात्, मेहः सेचनं वशीक- रणभिधेकं इति यावदिति" तवयं इरिहरभाषाम् ।
तहि यत् कत्त मित्रगोष्ठी-पत्रिका। शक्तया सेचनरूपैः पाशैबद्धोऽसि, तथाभूतस्त्वमिदानी व गमिष्य. सीति अर्थतेनापि प्रकारेण स चेद् वशीभूतो न स्यात्, व्यं, सूत्रकारस्तदुपदिशति- "स यदि भ्रम्याहावाग्निमुपसमाधाय घृताक्तानि कुशेण्ड्वानि जुहुयादिति"। अयमर्थः-प्रागुक्त कर्मणि कृतेऽपि दासो यदि स्वेच्छया विचरेत प्रभुवश्यो न भवेत् तदा दावाग्निं स्थापयित्वा घृताक्तानि कुशकुण्डलानि जुहुयादिति । तत्रायं मन्त्री विनियोक्तव्यः- "परि त्वा हलनो हल निवृत्तेन्द्रवीरुधः । इन्द्रपाशेन सित्वा मह्यं मुक्त्वाथान्यमानयेदिति" ॥ अयमर्थ:-“हे चञ्चलदास इन्द्रवीरुधो निर्गत्य समन्तात् स्थितोऽय- मग्निसत्वासन्यं मोचयित्वा इन्द्रपाशेन बद्धा च मत्सकाशमानयेदिति। सूत्रकारः कथयति इत्थमनुष्ठिते स दासो वश्यो भवेदेव- "क्षेभ्यो ह्येव भवतीति"। -
मित्रगोष्ठो-पत्रिका।
(मासिकं संस्कृतपत्रम् ।)
सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम्"।
ऋग्वेदः।
द्वितीय वर्षे } १८२७ शकाब्दाः, फाल्गुनः। {एकादशसंख्या
यावत् तावत् ।
१
यावत्ते द्रढयेयुरुज्झितनया बन्धो भृशं बन्धनं,
तावत्तावदिदं व्रजेच्छिथिलतामस्माक मुच्चस्तराम् ।
यावत्ते नयनं रुषा विषमया कुर्युमहालोहितं,
तावद्धन्त भवेत्तु तत्स्वतितमामस्माकमुन्मीलितम् ॥
२
यापत्ते ध्वनयेयुरम्बरतलं भ्रातर्मुहुई कतै-
गच्छेत्तावदियं लयं सपदि नस्तन्द्रा दुरन्ताग्रहा।
यावत्ते विघटेयुरव रभसात् तावद्धि पति तद,
गाढं नो घटनं परस्परमनः प्रीतिप्रकर्षायहम् ॥
३
प्राप्तः सम्प्रति कर्मणामवसरोऽस्माकं समालोक्यतां,
स्वापः पापविलासवमयनयोरं समुत्सायंताम् ।
भ्रातीतिरिहोज्यतां विभुपदं भक्तरोत्तमं ध्यायतां,
यवयं सहशं च यत्स्वजनुषस्तसूर्णमातन्यताम् ॥
१
३०६
मित्रगोष्ठी-पत्रिका।
प्रातः।।
१
उन्मतोऽसाविति यदि सखे वक्ति कश्चित्कदाचिन्,
नायं वाच्यः किमपि सदसत् तत्र ते भोः कथञ्चित् ।
दद्यादद्य त्वयि तृणरजःसन्तति योऽवजानन्,
नूनं प्रातः स खलु कुसुमैरचयेद्भक्तितस्त्वाम् ॥
२
नागच्छेद्यदि कोऽपि गौरवभरैव्य॑थैहिँ सार्धं त्वया,
पल्यकस्य सुकोमलं तलमयं सेवेत यद्यद्य वा।
कामं तिष्ठतु दुर्मतिनंनु तथा, घाव्यो न किञ्चित्वया,
प्रातस्त्वेष पदाब्जयोस्तव समागच्छेद ध्रुवं द्रक्ष्यसि ॥
एककः।
१
माह्वाने श्रुतिगोचरेऽपि ननु ते नायाति कश्चिद्यदि,
भातस्तिष्ठतु, मा शुचः, सरभसं याहि त्वमेवैककः ।
सर्वे भीतिवशंवदाः सचकितं वश्यं परावत्यं चेट,
एकाकी प्रकटीकुरुस्व सकलं तत्त्वं त्वमेव स्फुटम् ॥
२
कान्तारं वत दुर्विगाहमधुना त्वय्युद्यते गाहितु,
चैमुख्येन सखे न कश्चिदपि चेत् कुर्वीत साहायकम् ।
यावच्छक्यमपाकुरु क्षतमुखप्रस्यन्दिरक्तच्छटा-
पूर्णेनाघ्रियुगेन कण्टकचयान्मार्गात् त्वमेवैककः ॥
विधु गोतितदिन खे श्रुतिपुटोद्भिन्दानवतस्वने,
झञ्झावातविकम्पिते परिपतद्धाराम्बुपूर्णस्थले ।
गर्जदारिधरे निशीथसमये सर्वैजनै रुध्यत
हार चेत्पधिकस्य ते स्मर सुखं मृत्यु त्वमेधैककः ॥
३
विधुशेखर शर्मा।
। कथानां भ्रमणम् । ला फण्टेन ( La Fontain ) नामकस्य कस्यापि फान्सदेशीयस्य कथा ( Fables ) युरोपे सविशेषं प्रसिद्धाः । तत्रैकत्थम्:--'परो- -नामिका काचिद्गोपबाला दुग्धविक्रयाय नगरं गच्छन्ती 'आशा- मोदकचर्वण'-न्यायेन मनस्यकल्पयद् यत्सा तन दुग्धं विक्रीय तेन किश्चिद्धनमुपाजयिष्यति । अथ तेनार्थेन तया कुक्कुटाण्डशतं ऋष्यते । क्रमेण च तदण्डोत्पन्न कुक्कुटौघविक्रयलब्धेन धनेनेको ग्राम्यो वराहः फ्रीतो वद्धितो विक्रीतश्च भविष्यति । ततस्तदधिगतेनार्थेन पुनरपि तयैका गौः ऋष्यते । कालेन तस्या एकः पुष्कलो वत्सो जनिष्यते । सच नवीनस्तर्णकः पादचतुष्टयस्य द्रुततरविक्षेपेणाभितो धाविष्य. तीति । एतत्सर्वं मनसा कल्पयन्ती सा खलु तपस्विनी प्रचुरप्रमोदेन विस्मृतात्मभावा यावद गोवत्सवत् स्वयमपि पादमुक्षिपति, तावदेव हन्त तस्या भाण्डात्सर्व दुग्धं भूमौ निपतितमिति । पश्चतन्त्रे कापि कथास्ति, या हि हितोपदेशेऽप्युद्धृता। साला- भिरिह प्रदर्शते- "अस्ति देवीकोट्टनामनाम्नि नगरे देवशर्मा नाम ब्राह्मणः । तेन महाविषुवसंक्रान्त्यां शक्तपूर्णः शरावः प्राप्तः । ततस्तमादायासौ भाण्डपूर्णकुम्भकारमण्डपिकायां रौद्रणाकुलितः सुप्तः । ततः शक्तु- रक्षार्थ हस्ते दण्डमादायाचिन्तयत्-यद्यहमिमं शक्तुशरावं विक्रीय दश कपदकान् प्राप्नोमि, तदात्रैव तैः कपदकैधंटशरावादिकमुपकीय अनेकधा द्धितैस्तैर्धनैः पुनः पुनः पूगवस्त्रादिकमुपक्रीय विक्रीय वाणि- ज्यं कृत्वा लक्षसंख्यकधनान्युत्पाद्य विवाहचतुष्टयं करोमि । ततस्तासु पत्नीषु या रूपयौवनवती, तस्यामधिकानुरागं करोमि । तदनन्तरं सजातेास्ताः सपत्न्यो यदान्योन्यं इन्द्र करिष्यन्ति तदाहं कोपा- कुलस्ता दण्डेन ताडयिष्यामि। इत्यभिधाय तेन लगुडः क्षिप्तः । तेन शक्तु शराव श्चणितो भाण्डानि च बहूनि भग्नानि । ततो भग्नभाण्ड- - ३०८ मित्रगोष्ठी-पत्रिका। श्रवणादागत्य कुम्भकारेण गले हस्तं दत्वा ब्राह्मणम्तिरस्कृतो मण्ड. पाद बहिष्कृतश्चेति। नास्त्यत्र स्तोकोऽपि संशयो यत्प्रागुक्तयोः कथयोः सारश्यमस्ती. ति। यद्यपि सादृश्यसद्भावादे वोभयोरकम् अन्यतरस्मादगृहीतमिति न वक्तु शक्यते, तथापीदमेव सादृश्यसूत्रं गृहीतवद्भिरैतिहासिक- विचित्रं किञ्चित्तश्चमाविष्कृतं, येन ज्ञायते कदा कथं च भारतीयाः कथा रूपान्तरेण विभिन्नेषु देशेषु प्रसृता इति । ईटश्यः कथा बौद्धसमयोत्पन्ना इति पण्डितैरनुमीपते । यतो बहवो नीतिवादा बौद्धराख्यायिकाभिरुपादिश्यन्त । बौद्धयुगानन्तरं हिन्दुधर्मस्य पुनरुत्थानसमये पञ्चतन्त्रं विरचितमिति विदुषां विश्वा. सः। दुष्करो हि संस्कृतग्रन्थानां निर्माणकालनिर्णयः । अतो न वयं तन किञ्चिद वक्तुमिच्छामः । ईदृशी खलु कथा कदा कदा केषु केषु देशेषु पयंटितवतीत्येतावन्मानमेव त्विह प्रदर्शयिष्यामः । स्त्रीष्टो. यपशमशतके 'आरव'-राजधान्यां 'घोगदाद'-नगयीं' भलमनसूरो नाम नरपतिः ( खालिप ) आसीत् । 'कलिल'- 'दीमन' नामको ग्रन्थौ त- स्यैव सभायां विरचितौ । तत्रत्याः कथाः पञ्चतन्वाद गृहीताः । रचयिनोच्यते-ताः खलु पारस्यदेशस्य 'पह्नव-नामधेयाया: प्राची- नभाषायाः संगृहीता इति । इमा अपि पुनः तत्रत्येन पज्ञा 'खसरु- नुसीरवन्' नामकेन प्रेरितस्तदीयश्चिकित्सकः ( हकिमः ) 'बारजोई'- नामा भारतवर्षादानीतवान् । उक्तमस्ति-स खलु चिकित्सको 'मृत- सञ्जीवन'-भेषजानयनाथ भारतं (तद्धि तदर्थ प्रसिद्धमासीत् ) पहि- तः। तेन तु तदिति प्रागुक्तकथासम्बद्धं पुस्तकमेघानीयत-यत्पाठेन मृता अपि सञ्जीवन्ति । तादृशं हि तस्य माधुर्यमासीदितिभावः । एतेन पुस्तकेन पञ्चतन्त्रस्य भूयान भेद उपलभ्यते । नूनं पञ्चतन्त्र विरचनात्पूर्व मौक्तिकफलानीव बहून्युपाख्यानानि भारतस्य समन्ता विकीर्णान्यासन् । तेषां कानिचित् कैश्चित सञ्चितानि नैकपण्यवीथिषु कथानां भ्रमणम् । व विक्रीतानि । शिष्टानि तु कानिचन स्वाभिप्रायोपयोगीनि विष्णु- शर्मणा संदभ्यं पञ्चतन्त्राभिधेया हृदयङ्गमा हारयष्टिविनिर्मिता । म- प्रायं हेतुः-पश्वतन्वे पञ्चैवाध्याया दृश्यन्ते, पहवभाषीयअन्धे त्व- धादशाध्यायाः। एषु पञ्चमे, सप्तमे, अष्टमे; नवमे, दशमे चाध्यायेषु पञ्चतन्त्रकथाः संहब्धाः। श्रीमद्भिर्जायते महम्मदीयधर्मस्य प्रथमाभ्युदयसमये महोत्साह परिकरा 'आरव'-निवासिनः आसिया-आफ्रिका-युरोपेषु बहूनि स्था- नान्यधिकृतवन्त इति । यस्मिन् काले प्रागुक्तस्य वोगदाद-महीपालमा 'भलमनसूरस्य' सभायां तौ ग्रन्थौ रचयितुमारब्धौ, तदानी युरोपा- तर्गतस्य 'स्पेन'-राज्यस्याधिपतिः 'अबदार-रहमान'-नामा कभि- म्महम्मदीय एवासीत् । अतो नेदमसम्भवं पत्ताः खलु कथाः सह महम्मदीयैः 'स्पेन' देशं प्रविष्टा इति । खीष्टस्य मृत्युस्थानस्य ‘जेरुजेलम' नगरस्योद्धारार्थ युरोपीया नरपतयः संहत्य १०६० तमान्दे तत्रागच्छन् । तदा 'साइमिड-वन'- नामा कोऽपि आरवभाषात स्ताः कथा ग्रीकभाषायामनूदितवान् । तत्पुस्तकस्य नाम “ Stiphenites and lchnelatis " अलमुक्तेन भ- स्मिन्ननुषादे मूलकथायाः सबहु रूपान्तरं जातमिति । प्रोकभाषोपनि- श्रद्धा सा खलु कथेत्थमः- कश्चिद मिक्षुः किश्चिन्नवनीतं मधु चैकस्मिन् पात्रे निधाय स्व- शय्यापाश्यं तदस्थापयत् । अथ स शय्योपविष्ट एकदा कल्पयितु- मारभत-अहं नवनीतं मधु च विक्रीय दश छागलान ऋष्यामि । अथ पञ्चभिर्मासैरुत्पन्न शावैर्विशतिश्छागला में भविष्यन्ति । तत- स्तान विक्रीय बलीवी फ्रीत्वा कृषि करिष्यामि। तेनाहं पञ्चभि. वत्सरैधनिको भविष्यामि, ततोऽपि स्वर्णमयमेकं प्रासादं करिष्यामि। तन बहून भृत्यान् ऋष्यामि, सुन्दरी चैकां परिणेष्यामि । तस्या एक: पुत्रो भविष्यति । तमहं सम्यक शिक्षयिष्यामि । यदि सोऽल. सः स्यात्, तहि यष्ट्या 'इत्थमिति' स तया भूमि प्रहृतवान् । तेना- - 30 मित्रगोष्ठी-पत्रिका। घातेन दुभंगस्य तत्त्रलु मधुनवनीतभाण्डमभज्यत, सर्व च तर विनष्टमभवत्। १५८३ नमान्ने तत्पुस्तकम् इतालीभाषायामनूदितम्, १६६६ तमाब्दे च लाटिनभाषायाम्, ततोऽपि चानन्तरं जर्मणभापायाम, क्रमेण च प्रान्लभाषायाम्। इत्थं बहुभिः कालैशाह शान्तरं परिभ्रमन्तीभारतीयकथा युरो- पीयाणामनुदिनसेव्यमाना संवृत्ता । तेषां धर्मोपदेशमन्येयप्यासा कथानां स्थान दृश्यते। भगवतो बुद्धस्य चारित्रं नामान्तरेण , कथमिव युरोपीयरच्च्यते तत्संरपान्तरे प्रदर्शयिष्यामः । * श्रीअजितकुमारचक्रवर्ती ग्रह्मचर्याश्रमः, बोलपुर। . :: संस्कृतशिक्षा। ( पूर्वतोऽनुत्ता) प्रायेण हि संस्कृताध्यायिनः साम्प्रतं शास्त्रैकबबटयो रश्यन्ते । ते हि, तदालोच्यशास्त्रे अपरापरशास्त्रस्य यत् किञ्चितुवृतं, तन्मा- श्रेणैव 'अलमिति' परितुष्यन्तः विज्ञातं यद विज्ञातव्यमिति मन्य- मानाः सर्वाण्येव शास्त्राणि तृणवद, विगणयन्ति, न स्वप्नेऽपि विशेषेण तत्सत्त्वं बुभुत्सन्ते। कथञ्चित्कोलाहलैदिकचक्रपाले वाचा- तीकृत एव हि सम्पद्यते यत्सम्पाद्यम्, लभ्यते च पल्लब्धव्यम् । यदि ते सकृदपि शास्त्रान्तरं पर्यालोचयेयुस्तहि प्रभवेयुर्विज्ञात यत् कियत्स्वल्पतरं तेषां ज्ञानमाहात्म्यमिति नूनं स्मरेयुश्च ते तदानी भन्न हरेः काव्यमिदम्- मोचमूलरस ग्रन्थात्मगहीतमिदम् । * संस्कृतशिक्षा। यदा किञ्चिजज्ञोऽहं द्विप इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवदलिप्तं मम मनः । यदा किञ्चित् किञ्चिबुधजनसकाशादवगतं तदा मूर्योऽस्मीति ज्वर इव मदो मे व्यपगतः" ॥ इति महि प्राचीना दार्शनिका दर्शनान्तरमनधीत्येव केवलं दर्पोष्मणा तह.- षयामासुः। न हि श्रीमन्तः शङ्कराचार्यपादाः, कुमारिलभट्टा उदय- नाचार्यादयो वा बोद्धादिमतं सम्यगविज्ञायैव तत्खण्डनाय युक्तिशस्त्र निचिक्षिपुः । इदानीन्तु अस्मासु सर्व एव केवलं त्रिचतुरप्रन्थस्थित स्वल्पमा बौद्धमतमाघ्रायैव सर्व बौद्ध दर्शनं हेयमिति निधियाना: सदालोचनार्थ मिच्छामपि न कुर्वन्ति । यदि दर्शनमालोच्यं, तहि अपक्षपातिहदयेन भवितव्यम् । अन्यथा आत्मनो वादिविजयरूपस्य दुनिबन्धस्य फलं भवेदप्यधिगतम्, न त्वङ्ग सत्यनिर्णय प्रत्याशा क. व्या। इदानीमुपलभ्यमानानां दर्शनप्रन्थानां भूयिष्ठा एव बौद्धाभ्युद- पकालपरवर्तिनः । बौद्धयुगे कीदृशी दर्शनविद्यासीदिति बौद्धग्रन्था- देवावयोचु शक्यम् । आत्मेश्वरादिविषये बहूनि मतानि बुद्धदेषसमये प्रचलितान्यासन् । येषां हि नामापि साम्प्रतिकऽस्मदीये दर्शनग्रन्थे न भूयते । बौद्धानां धर्मग्रन्थस्त्रेधा भिन्नः,-सूत्रम्, विनयः, मभि- धर्मश्चेति । तत्र सूत्रान्तर्गत-दीघनिकाय-मध्यमनिकायमध्ये ब्रह्मजाले दार्शनिकानों द्वाषष्टिमंतानि बुद्धदेवेनोदाहृत्य विस्तरशो निराकृतानि । दर्शनाध्यायिनां विदुषामन्तःकरणं नूनतितमां विनोदयेयुरेतानीति नास्तीह स्तोकोऽपि संशयः। पालिभाषानिवद्धा विविधा बौद्धग्रन्थाः पाश्चात्त्यैः पण्डितः प्रकाशिताः, प्रकाश्यन्ते च, केषाञ्चिश्च स्वस्वभा- षयानुवादा अपि कृताः। लण्डननगरवर्त्तिन्याः "Pali Text Society" इत्यभिधेयायाः समितेः सभापतिना ( T. W. Rhy's Davids) इत्ये- तेन सहानेकैयुरोपीयैः पण्डितैर्दीघनिकायादयो बहवो बौद्धग्रन्थाश्चारु- तरं प्रकाशिताः प्रकाश्यन्ते च, भाषिष्क्रियन्ते च तत्सर्वालोचनेन नूतननूतनानि तश्वानि ।
. . मित्रगोष्ठी-पत्रिका पयं पुनः किं कुर्मः - येषामावासभूमौ भारतवर्षे, तत्सनिहिततरे सिंहलादौ च तत्सर्वमुत्पन्नम् । इदं वयं कुर्म:-भस्मत्पूर्वपूरुषैः देशा. हे वास्मात्स खलु बौद्धो धर्मो निर्वासितः, अतः कथं दर्शनमपि तत्सम्बद्धं पुस्तकमधीयतामिति, नास्त्येव तत् किश्चित् इतीष मन्य- माना न तत्प्रति नयनं सञ्चारयामः । निषिद्धं, हि तत्तन्वालोचन श्लोकवार्तिके कुमारिलभट्टेन । बौद्रेन धर्मणास्मदीयस्य तस्य सत्स्व. पि केषुचिद्विरोधेषु बहूनि खल शिक्षणीयानि पण्डितवराणामपि स. न्तीति को नाम निह्रोतु शक्नुयात् । भारतस्य तत्कालेतिवृत्ते संप्र- हणीये बौद्धं जैनञ्चेति पुस्तकवृन्दमेव परमोपायः । निकृष्टादपि हि समीचीमा विद्या ग्राह्येति मनुसरशैर्धमस्मतभिरुच्यते, अतो यन्मते धर्मबुद्ध्या बौद्ध पुस्तकपाठस्यानुपादेयत्वमिति, न तत् किञ्चित् । नहि स्वयं कुमारिलोऽपि बौद्धग्रन्थानापठत् । न चापठितस्य तन्मतस्य तेन खण्डनं युज्यत इत्यास्तां तावत् तदिदम् । फलतस्तु एतदेवे? वयमभिप्रेमो यदवश्यमिदानीमस्माभिः बोद्धशास्त्रमालोच्य तस्मानित रवदयं रत्ननिकुरम्बं प्रकाशनीयम् इति । यथा बौद्धम्, एवं जैनमपि मतं नास्माभिरनुशील्यते । अक्षमा वयमिह क्षुद्रे सन्दर्भ बौद्धानामिव जैनानामपि पुस्तकानां गुणान् वर्ण. यितुम् । नास्ति स विषयो, यत्र जैनतीर्थङ्कराणां हृदयङ्गमा निबन्धा न दृश्यन्ते। अस्मदीयेषु शास्त्रेषु तत्र तत्र दृष्यत्वेनोदाहृतान् अंशान आलोक्यैव न तदाकरप्यसमाभितिस्पृहैभवितव्यम् अन्यथा बहु- निरुपादेयरलवयं वञ्चिता भवेम। योद्धजैनशास्त्रालोचनेन न केवलं प्रागुक्तमात्रगुणलाभः । अन्यो- ऽपि महोयाल्लाभोऽनेन सम्भाव्यते । सनातनायधर्मानुसारिणाम- स्माकं, बौद्धानां, जैनानाञ्चान्योन्यं कश्चित् परिपाकभीषणो विदे- पानलो हृदयकन्दरमधिष्ठाय नियतमेव पत्तते । तस्याप्यद एव बीज- म, यन्न वयमन्योन्यस्य मतमालोचयामः। स्वयं किञ्चिदनालोक्यैव सस्कृताशक्षा कुसंस्कारवशंपदा अयं तापाश्र्वावस्थानमपि परित्यजामः । परस्पर- परिचयाभावादेष समिहिततरमपि बन्धुन घयं तथात्म निश्चेतु प्रभवामः । तत एवचान्योन्यं भिधमाना दोबल्यं गच्छन्तः शत्रणामा. मन्दाय भवामः । यावद्धि कस्यचित्सम्प्रदायस्य धर्मग्रन्थो नाधीयते, म तावत्स याथातथ्येन विज्ञातो भवति । भस्मादेव कारणात् काले काले महाननथं उत्पद्यते। यथाहि स्थाणु पिशाचत्वेन मन्यमानः पुरुषः स्वबुख्यपराधेन भयानॊ व्याकुलो भवति, अनन्तरं च विशेष- जानेन तत्वेनैव तं विज्ञाय भयान्मुच्यते, एवमेव बहुषु स्थलेषु केवल खविवेकदोषेण मुधैव कांश्चिद गर्हामः, तेन चैक्यबन्धनात् परिभ्रश्य समाजदौर्बल्यकारणीभवामः । अस्मन्मते प्रथममात्मधर्म विज्ञाय पापच्छायं जगति वर्तमानानां सर्वासामेव जातीनां धर्मा मालोच- मीयाः, इत्थमेव हि गुणदोषौ साधु नियेते । अन्यथा केवलमभिमा- ममावादपरापरधर्मनिन्दनं निन्दयितुरदरदर्शित्वमेव प्रकाशयेत् स्वयं पासौ परीक्षकैरनुपादेयधनः स्यादिति । मलं तावदद्यास्मिन विषये बानोक्तन, मन्यामहे उजिता इव श्रीमन्तोऽनेन कर्कशवचनकला- पेम। भाशास्महे- मप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभ इति व्यासवाल्मीकिवचनमनुसृत्यानभवदभिमर्षणीयाएव वयमिति । मथ किञ्चिदवश्यवाच्यानि दिवाणि वचनान्युच्चार्य विरमामः । ब्राह्मणपण्डितानां साम्प्रतं का नाम जीविका भवत्विति बहय एव चिन्तयितुमिच्छामपि न कुर्वन्ति । पण्डिता उच्चैराकन्दन्ति-"ने शानी पूर्वमिव वयं दक्षिणादिभिः सक्रियामहे लोकः, नेदानीमस्मा. प्रागिव जनाः श्रद्दधते, मस्मभ्यं दत्तं द्रव्यंजलनिक्षिप्तमिव नव्यशि- क्षितमन्यते । घर भिक्षुभ्योऽमी किश्चिद्दा :, नत्वस्मभ्यम् । दक्षिणाल. धमेव हि द्रव्यमस्माकं जीविकेति समाजश्चत्पुनरपि प्राचीनां पद्ध- तिमनुरुध्येत, तहि नास्मज्जोदतं दैन्यदोर्गत्यनिपीडितं भवेदिति " । भन्यस्मिंश्च पले समाजसेविनो वन्ति -"कि खलु ब्राह्मणपण्डि- तु .. २ पुनरक मित्रगोष्ठी-पत्रिका तैः समाजस्य हितमनुष्ठीयते, येनायं तान् पोषयतुं। किंवा तेरीर शमार्य व्यवहियते, येन तेषु जनानां श्रद्धोदेतु। प्रत्युत साम्प्रत तै रित्थमनार्यमाचर्यते येन घरम् अशास्त्रज्ञा मूढा भपि धन्धाः, न त ब्राह्मणपण्डिताः। धनलुग्धैरतैर्नास्ति किञ्चिददुष्करं नाम, पति क्षणादेव जलं वह्निः, पहिश्च जलं क्रियते । समाजेषु परंदण्डाहो. ऽपि पापी किञ्चिद व्यत्यागेन एषां प्रसादात्परमपावनत्वेन गण्यत धृत्तवका येते। विना धनादानं शिष्येभ्यो विद्या वितीयंत इत्यादि न ते किञ्चिहयमहन्ति। कृतमसमाकमधिगतविध सतैः शिष्यैः । हि अध्यापकाननुगच्छन्तस्तैस्तैरनुचितैः कृत्यकलापैः समाज जर्जरीकयुः। अतो न प्रयोजनमसमामीदृशैः पण्डित महाशयै- रिति ।" यत्र क्वापि गच्छामः, तत्रैव सामाजिकेभ्यः सुदुःसाहेब- मुक्तिः श्रुतिपथमुपैति। किंबहुना सुप्रतिष्ठिताः सुपण्डिता अन्य स्माभिरवं वदन्तः श्रता 'यत्सवयमेव वयं तथापरुष्टाः संवृत्ताः, ये। वस्तुत एव लोकान् शिक्षयितुमसमाकं योग्यत्वं नष्टप्रायमिति'। यथ षा भवतु सामाजिकानां सेयमुक्ति स्माभिः साम्प्रतमवज्ञातु शक्य ते । अस्याः सारासार निर्णीय ठेयमेवास्माभिः प्रतिवचनम् । कि ऽच यदि वस्तुत एव तदुक्तौ किश्चित् सत्यं निहितं स्यात, तर्हि त दुपादाय तदनुरूपमेवास्माभिराचरणीयम् । नात्र मनागप्यौदासी न्यं सेव्यम् । अन्यथा नष्टा वयं पुनरपि नंश्यामः । योऽयं प्रश्नः साम्प्रतमुत्थापितस्तस्य सम्यक् समाधानं स्वल्ये स्मिन् व्याण्याने न सम्भाव्यते । दिङमा किञ्चिदिहोच्यते । दक्षिण विनापि ब्राह्मणपण्डितैरित्यं धनमुपार्जयितु शक्यते । सत्यं, धयंकृत्या निन तथेदानी समाजेऽनुष्ठीयन्ते, तथापि अस्माकं धर्मसाहित्यविना नदर्शनादिजिज्ञासा जनानामुत्तरोत्तरं वर्धत इति स्पष्टमेव । परन्तु स्व पायासेन तदखिलबोधकानि पुस्तकानि नितान्तभेव दुर्लभानि । पा स्यैरेतदिषयकाणि पुस्तकानि विरचय्य प्रभूतं धनमुपाज्यते। यहि बलु ते बहुसागरपारवर्तिनोऽपि परकीयाण्यपि दुरासदान्यपि शास्त्र .
सस्कृतशिक्षा। समालोच्य तद्विषयकान् प्रन्धांश्च निर्मायार्थम् उपार्जयितु शक्नुवन्ति, तहि वयं सबिकृष्टा अपि स्वकीयान्यपि सुलभायाप तान्येव प्राप्य चारुतरान् प्रन्थान् पिरचयितुं न शक्नुम इत्यश्रद्धयमिदम् । उद्यज्य. ता सर्वेः, स्वल्पैरेष दिवसहृदयङ्गमानि पुस्तकानि प्रणीय न केवल भारतोयेभ्यः, अपितु वैदेशिकेभ्योऽपि धनमधिगन्तुम् अस्माभिः प्र. भयेत । साम्प्रतं कीदृशा निबन्धा अपेक्ष्यन्त इति मित्रगोष्ठमाः तृतीय- वार्षिककार्यविवृतिशेषे किश्चित् ज्ञायेत। ब्राह्मणपण्डिताः सर्वमा- युः संस्कृतानुशीलनेनैव यापयन्ति । अतस्तेषां सकाशात तच्छा- स्त्रविषयकं विविधं तत्वं श्रोतु सर्वैराशास्यते। बहवः साहित्य- रसिकाः सम्जाता जायन्तेन्च, किन्तु नाधाप्येकं साहित्यानां मन्दमपि समालोचनपुस्तकं पश्यामः । एवमवस्था अपरापरशास्वेष्वपि । येल' विश्वविद्यालये ( Vale Uneversity ) संस्कृताध्यापकेन E. Washburn Hopkins, M. A., Ph. D. इत्यनेन The great Epic of India इत्यभिधेयं रामायणमहाभारतयोः श्रुतिस्मृतिब्राह्मणादिस- म्पको ल्लेख पूर्वकं दार्शनिकविषयादिविवेचनपुरस्कार, छन्दस्तत्वादि मीमांसनसनाथं च यदेकं समालोचनं लिखितम्, तत्पाठतो विस्मय एवास्मच्चेतस्युदेति यत् कथं नु तैरेतादृशो ग्रन्थो विरच्यते, अहो तेषां संस्कृतेऽपि ज्ञानप्रकर्ष इति । इत्थं कियतां पुस्तकानां नामानि क्रियन्ताम् । बहुतराणीदृशानि सन्ति। किञ्चित् परिश्रमेण आज- लभापामधिगत्य पठान्तां तानि, विज्ञायतां च कथं कियच्च तेषां संस्कृतवानमिति ॥ * अत्रेदमसंकीयं न विरन्त, शक्यते संस्कृत चन्दिकायाः सम्पादकेन श्रीमता जयचन्द सिद्धान्तभूषणमहाशयन रामायणमहाभारतयोः समी- चौनेन प्रकारेय कचित सचीग्रन्थी निर्मितप्रायः येन सद्ग्रन्याधिगन्तया- नां धर्मसमाजाचारादिविविध घियाणां मिरशेषं ज्ञानं सुकरं भवेत् । ई. भानीव पुस्तकानि साम्य तमपेचात ।
मित्रगोष्ठी-पत्रिका साम्प्रतम् आगलभाषाधिगमोऽवश्यमेवास्माभिः करणीयः तथा सति पाश्चात्यैः संस्कृतादिविषये किमुच्यते नोच्यते घेति शातु प्रभ- विष्यामः, ततश्चोपादेयं स्वीकृत्य स्वश्रमलाघवं करिष्यामः, भनुपादेयं च युक्ता निराकरिष्यामः, अन्यथा तेषामसटुक्तरप्रत्याख्याने, चतुर्ष, महादेशेषु तदधीयामा भूयास एवास्मद्विरुखपथपस्थिता भवेयुः। न घेतदस्माभिर्वाञ्छनीयम् । पाश्चात्यैबहवः खलूपादेया वृत्तान्ताः श्राव्यन्ते । परन्तु नहि न भन्तान्यपि मतानि क्वचित क्वचिदपि तैरुद- मीयन्ते। अस्माभिरेव तेषां सम्यक् प्रत्याख्यानं करणीयम् । अन्यथा कि न: संस्कृतशिक्षया। यथा च पाश्चात्यैः पण्डितैः सममस्माकम् अन्योन्यं मतादानप्रदा. नार्थम् आगलभाषाधिगन्तव्या, तथा भारतीयपण्डितानां निजेषु पर- स्परं तदर्थ कश्चिदुपायः कर्तव्यः । कदाचिद् हि कर्णाटवासी कधित पण्डितः संस्कृतसाहित्यादिविषये किञ्चित् कथयेच्चेत, वनवासिनां विदुषां श्रुतिपथमुपगन्तु नैतत्प्रभवेत् । यदि नाम जनाः उक्त तत्वं नाकणंयेयुः, तहिं तदक्तु स्तादृशातिगुरुश्रमाङ्गीकारो निरर्थक एवेति वक्तव्यम् । किञ्च यदेकेन, बहुना कालेन महता च श्रमेण चिन्तयित्वा निणी तम्, तस्यैव हि निर्णयार्थ प्रदेशान्तर- स्थः कश्चिन्मुधैव तावन्तं कालं तावन्तं श्रममङ्गीकुर्यादिति देशसमा जयोमहती हानिः । अतोऽभिनवपुस्तकपाठे संस्कृतविदुषाम् मिथ्या- तिपाण्डित्याभिमानमूलकमौदासीन्यं दृश्यते, तत्सर्वथा परिहरणी. यम् । नहि सर्वः सर्व वेति । कियत्स्वल्पतरमेकैकस्य मानवस्य मा. नमिति रहसि विचिंत्य द्रष्टव्यम् ।। नवनवग्रन्थस्येव मासिकादिपत्रिकायाः पठनमपि युक्ततरं मन्यामहे । अन हि स्वल्पेन समयेन श्रमेण च विविधानि वस्तूनि ज्ञातु शक्यन्ते। एकदेशस्थितस्य विदुषो देशान्तरस्थितैर्विदभिः परिचयोत्पादात परस्परं सौहयमुपजायते । एकं च तत्वं सम्यक सिद्धान्तयितु बडूना ।
. संस्कृतशिक्षा। ३१७ पण्डितानां मतसंवादस्य सोकयं लभ्यते। अनधीतस्यानेकस्य वि- षयस्यास्वादनरसश्चाधिगन्तु शक्यते । नायं प्रत्रिकाया गुणवर्णना- यमस्माकमारम्भः। स्वयमेवापक्षपातिना हृदयेन श्रीमद्भिस्तदालो. य दृश्यताम् । सन्ति हि प्राचीना भूयांसो निबंधाः, तत्पाठस्यैषा पकाशी न लभ्यते, न च पत्रिकासु तेभ्योऽधिकतरं किञ्चित्रिवध्यते इति किं ताभ्योऽस्माकमुपादेयं सम्मात्विति रिक्त वचो पादिनाम् । सर्वथापि प्राचीनप्रन्याधिक किञ्चित् पत्रिकासु नास्तीति नाङ्गोकतु शक्यते । किञ्च शास्त्रपारावारेषु तत्र तत्र विकीर्णानां रत्नानां वि- विधैः प्रकारैः सौलभ्यसम्पादनार्थम् एकत्रसंदर्भणेन मालिकां विरच. ग्य रसिकेभ्य उपहरणमेव तासामन्यतमं प्रधान प्रयोजनम् । एतदेव हि साम्प्रतं विशेषेणापेक्ष्यते। अन्यच्च नहि किञ्चिदृष्टऽनुपपत्र नाम। पुरःस्थिते पञ्चाऽद्य मङ्गलवारो न वेति विचारायास- स्वीकारस्य किं प्रयोजनमिति न बुध्यामहे ॥ राजकीयशिक्षाव्यवस्थापनेन नापेक्षिता शिक्षाधिगम्यत इति स- घंध शृणुमः । वस्तुतत्त्वमपि च तथैव । परन्तु पृच्छामः संस्कृत- शिक्षा किमिति साम्प्रतं चारुतरं न सम्पद्यत इति । यथा खलु आ- लशिक्षाया भारो राजहस्तस्थितः, न तथा संस्कृतशिक्षायाः । स्वय- मेव हि राजसाहाय्यनिरपेक्षाः विदांसो विद्यार्थिनोऽध्यापयन्ति । राजकीयपरीक्षाविधिरपि प्रायेण ब्राह्मणपण्डितैरेव विविच्य क्रियते । तेषामेव हि तन परं प्रभुत्वम् । परन्तु दुलंभास्ते विद्यार्थिनः, ये वस्तुतः 'शिक्षित'-पदवाच्यत्वं गच्छेयुः । साम्प्रतं परीक्षाविधिषु तथा व्यवस्था दश्यते, येन धैदिकसाहित्यपरिचयस्य लेशोऽपि नाधि. गम्येत । केवलमर्वाचीनग्रन्थबद्ध दृष्टीनां विद्यार्थिनां प्राचीननिबन्धा- लोचने प्रवृत्तेरुदबोधने न किञ्चित्परीक्षाविधिषु दृश्यते । न च किं- चिद विलोक्यते, येन ऐतिहासिकदृष्ट्या शास्त्रालोचनं सम्पद्यत । पाश्चात्त्य रतस्य विविधमितिवृतं प्रणीतम् । परन्तु न तत्सर्वमपि समीचीनमिति सुप्रथितेभ्यो भारतीयेतिवृत्तवियोऽवगच्छामः । ये ।
. ३२८ मित्रगोष्ठी-पत्रिका। हि भारतीयायशास्त्रेषु निष्णाततराः, त एव तादृशं प्रन्यं पितु- महन्तीति तैश्च्यते । तच संस्कृतालीचनयिनियुक्तनिखिलायुभिः श्रीमद्भिर्घाह्मणपण्डितैरेव सुष्टुतरं सम्भाव्यम् । मतो विधार्थिनाम् पतद्विषयप्रवृत्त्युकार्थ यतनीयम् । स्थानस्थानेषु आगलशिक्षितानाम् उच्चतरशिक्षासौकर्यार्थ यथा 'गवेषणावृत्तयः' ( Research Scholarship ) सन्ति, संस्कृताध्येतृणा- न्तु न तथा किञ्चिद दृश्यते । ताशवृत्तिव्यवस्थापमेन महीयानु. पकारो भवतीति सर्व एव ममाग विविव्य ज्ञातु शक्नुवन्तीति कृतं तत्प्रतिपादनेन । सहदयरेतद विषयेऽवश्य, प्रयतनीयमिति सनिबन्ध धूमः । अस्मन्मित्रगोष्ठग अन्यतमेन मिषेण श्रीमता माननीयेन ( Honourable ) माधवलालमहोदयेन लक्षमप्यकाणि संस्कृतशिक्षा दित्सितानि । सत्र षष्टिसहस्ररूप्यकैः षड् गवेषणावृत्तयः ( यासामे. कैका प्रतिमासं विंशतिरूप्यकपरिमिता भवेत् ) स्थाप्येरमिति बहु- भिरेष ज्ञायते। माधवलालमहोदयानां तदिदं कृत्य कसय नाम सेवनीयसंस्कृतस्य धनिजनस्य नानुकरणीयम् । किन्त्वत्र इदं किश्चि- दस्माभिवतुमिप्यते यतै रूप्यकैः प्रतिमासं षष्टिरूप्यमिता हे एष वृत्ती स्थाप्येतामिति । :: काव्यतत्त्वावलो। ननु काव्यं किं, कस्मादा तस्य उत्पत्तिः, काव्यस्य प्रयोजनं धा किम् इत्यादिषु वक्तव्येषु प्रथमतः काव्यस्य लक्ष्याणि निरूप्यन्ते । लक्ष्यज्ञानं विना हि लक्षणज्ञानं दुष्करं भवति । काव्यस्य लक्ष्याणि यथा-वेदाः, उपनिषदः, पुराणानि, इतिहासाः, स्मृतिशास्त्राणि, दर्शनशास्त्राणि, वैद्यकानि, महाकाव्यानि, खण्डका- व्यानि, विरुदावली * स्तोत्राणि, कथाः, आख्यायिकाः (प्राचामते ) .. *विवहावलो गद्यपदामयं राजादौना क्षोसम् ।
साव्यतत्वावली। प्रहेलिकाः अन्येच ताशा ग्रन्थाः। पतानि श्रव्यकाव्यानि । काव्यामि च नाटकप्रकरणादीनि दशरूपकाणि । नारिकादीनि च अष्टादश उपरूपकाणि। तेषामभिनयसम्बन्धात् पश्यत्वम् । तथा- हि "भवेदभिनयोऽवस्थाऽनुकारः स चतुर्विधः, आङ्गिको पाचिक- श्चैवमाहायः सात्त्विकस्तथा'' इति अभिनयानां मध्वेऽपि वाचिका- भिनयः श्रव्यकाव्यम् आङ्गिकाहायंसात्त्विकास्तु दृश्यकाव्यान्यव पथा भभिज्ञामशकुन्तले-"विदूषकः" । भोलु, अखभनवि- भलो भविभ चिठिस्सं । इति दण्डकाष्ठमवलम्ब्य स्थितः'। मन्त्र दण्डकाष्ठमवलम्ब्य अङ्गभङ्गविशेषेण भग्नावदवस्थानं दृश्य. काव्यम । तस्य ताश मवस्थानं दृष्ट्वा हि विदूषकस्य अनि भग्नानि इति प्रतीयते सभ्यैः, एवं "राजा शरसन्धानं नाटयति" इति राज्ञः शरसन्धानानुकरणं रश्यकाव्यम् । एवं "शकुन्तला ङ्गारलजा नाट- यति" इत्यत्र ताशलजाविशेषस्यानुकरणं दृश्यकाव्यम् । पवं रोद- जस्यानुकरणं पापमोचनादिकं दृश्यकाव्यम्। नृत्यादिकमपि दृश्य- काव्यम् । आहार्योऽभिनयस्तु राजादीनामनुकरणाय छत्रचामराधा- हरणम्, मुकुटकुण्डलाविधारणञ्च। सात्त्विकोऽभिनयः पुन: ऊरु- स्तम्भ-कम्पधर्मादोनामनुकरणं, यथा अभिज्ञानशाकुन्तले-शकुन्तला, "उरुत्थम्भ विमलहि संवुत्ता" इत्यत्र ऊरुस्तम्भस्य अनुकरणम् । धस्तुतो नाटकादिषु यावत्योऽनुकरणक्रियाः सन्ति तावत्यः सर्वा एप दृश्यकाव्यानि, अतएव कश्चिद् यदि पंगु विडम्ब्य गच्छति तदा तम. वलोक्य पूर्ववङ्गनिवासिनः “अयमुत्तमं काव्यं करोतीति' पदन्ति । मतो दृश्यश्रव्याणां द्विविधानामेष काव्यानां संग्राहक काव्यलक्षणं कार्यम् । साहित्यदर्पणे तु पूर्वषां लक्षणानि स्त्रण्डयित्वा यत् "वाक्यं रसात्मकं काव्यम्" इति लक्षणं कृतम्, तत्र समीचीनम्. अनुकरण- क्रियासु दृश्यकाव्येषु तस्य अव्याप्तेः। आङ्गिकाहार्यसात्त्विकाभिन- यास्तु न वाक्यानि, अत स्तेषां वाक्यत्वाभावात् लक्षणस्य अध्याप्ति रेव । अतएव च काव्यप्रकाशकारमम्मटभट्टादयः प्राञ्चः “शब्दार्थी मित्रगोष्ठी-पत्रिका। काम्यम्" इति लक्षणं चक्रुः। तत्र शब्दार्थयोमध्ये रामायण-रघु- वंशादीनि शब्दात्मकानि श्रव्यकाव्यानि । अङ्गभङ्ग विशेष-शरसन्धा. मादिका अनुकरणक्रियास्तु अर्थात्मकानि दृश्यकाव्यानि । ताः क्रिया हि "अङ्गभङ्गविकलोभूत्वा स्थास्यामि' "शरसन्धानं नाटयति इत्यादीनाम् वाक्यानां मभिधेया अर्थाः । तथा च "तददोषौशब्दार्थों सगुणावनलकतीपुनः कापि" इति लक्षणमेव समीचीनम् । अत्र लक्षणे यो यो दोषः साहित्यदर्पणकारेण आरोपितः स सर्व एव प्रतिसमा- हितष्टीकाकारै रिति स विचारोऽत्र न क्रियते। घेदाः काव्यानीति यदुक्त तत्र "तेने ब्रह्म हदा य भादिकवये" इति श्रीमद्भागवतोक्तः प्रथमश्लोक एव प्रमाणम्। तत्र हि आदिक. विशब्दस्य वाच्यो ब्रह्मा, वेदात्मकादिकाव्यकत्र्तृतरीव तस्यादिकवि- खम् । एवं “एकोऽभूमलिनात्ततश्च पुलिनार वल्मीकत वापर" इत्यत्र नलिनादेकः कविरभूदिति यदुक्त, तस्य प्रतिपाद्यो ब्रह्मा, सहि पायोनिः। किञ्च घेदेषु अग्नयादीनां स्तोत्राणि पुरुषसूक्तानि च स- पांण्येव उत्कृष्टानि काव्यानि । अन्यञ्च- चत्वारि शृङ्गा बयो अस्य पादा दे शीर्षे सप्तहस्तासोमस्य । विधाबद्रो वृषभो रोरवीति महोदेवो मयां नाविवेश॥ इति यजुः माध्यन्दिन शाखा १७ म० ११ स. भस्य पाच्योर्थः कश्चिदवृषः, तस्य चत्वारि शृङ्गाणि त्रयः पादाः, हे शिरसी, सप्तहस्ताः। स च विधा बछः रोरवीति पौनः पुन्येन भतिशयेन वा रौति, स महान् देवः मस्र्यलोकमाविवेशेति; अद्भुतो- ऽयं वृषभइत्यर्थः। परन्तु अस्य व्यङ्गया अर्था बहवः सन्ति तेषु एकः चतुः शृङ्गो यज्ञः वृषभरूपः। आरो व्यङ्गयाथः शब्दग्रामः, एव. मन्योऽपि भाष्यकारोऽन्य व्यङ्गपार्थ व्याख्यातवान्, इत्यतो निका- व्यमिदमुत्तमम् । तथाहि वाच्यार्थापेक्षया मस्य व्यङ्गपार्थस्यैव अ- धिकचमत्कारजनकत्वमिति । ।
काग्रतत्त्वावली। एवमुपनिषदां च काव्यत्वं, यथा “अजामेकां लोहितशुक्लकृष्ण बह्वीः प्रजाः सृजमानां सरूपा । अजोधेको जुषमाणोऽनुशेते जहास्ये- नां भुक्तभोगामजोन्यः । इति' अस्य वाच्योऽर्थः काचित् छागस्त्री, दो छागौ च । व्यङ्गगर्थस्तु प्रकृतिजीवात्मा, परमात्माच इति व्यङ्गया- सय अधिकचमत्कारित्वात् उत्तम ध्वनिकाव्यमिदम्। तथाचोक्तम् काव्यप्रकाशे-“इदमुत्तममतिशयिनि व्यङ्गय वाच्यात् ध्वनिबुधैः कथि- तः" इति। पुराणानां काव्यत्वं नानारसनिरन्तरतया सुव्यक्तम् । महाभारतादे. रितिहासस्य काव्यत्वम् महाभारते एव उक्त । यथा ब्यासो ब्रह्माण- मुवाच- "कृतं मयेदं भगवन् काव्यं परमपूजितम्" । इति अथ ब्रह्मोवाच-"त्वया च काव्यमितिप्रोक्त तस्मात्काव्यं भविष्यति इत्यादि रामायणस्य काव्यत्वन्तु सर्ववादिसम्मतमेव । लौकिककाव्या- नांमध्ये आदिकाय रामायणमादिकविश्च लौकिककवीनां मध्ये बा. मीकिः । वेदकर्ता ब्रह्मा तु अलौकिककवीनां मध्ये मादिकविरिति " विशेषः। रघुवंशादीनां काव्यत्वे न कस्यचिदिप्रतिपत्तिः । प्रहेलिकानां काव्यत्वं पुनरावायंदण्डिप्रभृतोनां प्राचां सम्मतं, तासां हि व्यंग्याऽर्थः चमत्कारातिशयजनकः । यथा- "यएवादौ स एवान्ते मध्ये भवति मध्यमः । अस्यार्थ यो न जानाति तन्मुखे तद् ददाम्यहम् ॥ इत्यस्याः प्रहेलिकाया वाच्योऽर्थो दुर्योधः । व्यङ्गयोऽर्थस्तु 'य'कार रवादो 'स'कार एवान्ते मध्येतु 'भवति'शब्दस्य मध्यमो 'व'कार इति यवस' इति, यवमशब्दस्य अर्थः शुष्क तृणम् । इत्यतः प्रहेलि. कानां काव्यत्वम् प्राचां सहृदयानां सम्मतम् । नव्या: साहित्यदर्पण- कारादयस्तु व्ययस्य अतिगूढत्वात् प्रहेलिकानां काव्यत्वं न मन्यन्ते । ४१ ३ मित्रगोष्टी पत्रिका। प्रहेलिकामां काव्यत्वमुचित नवेति विचारयन्तु आधुनिकाः सचेतसः । अलं तदिचारण। अस्माकं मतेतु काव्यत्वस्वीकार पर उचितः इति । मन्वादीनों स्मृतिशास्त्राणामपि काव्यत्वं दृश्यते । यथा-"दृष्टिपूतं क्षिपेत्पाद वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद वाचं मनःपूतसमाचरेत् ॥" इत्यादौ समुच्चयालङ्कारः प्रसादगुगश्वास्ति । काव्यस्य मुख्यायो- जनमुपदेशोऽपि विद्यत एवेति अस्य काव्यत्वम् । नन्वत्र कोऽपि रसो नास्तीति कथं काव्यत्वम रसवत एवं शब्दस्य अर्थस्य वा का- व्यत्वाङ्गीकारादिति चेन्न । रसवकाव्यसादृश्यात् गुणालंका- रादिसत्वाच्च तस्य गौणकाव्यत्वंहि साहित्यदर्पणकारादिभिरपि स्वीकृतमेव ॥ दर्शनानापि काव्यत्वं स्वीकुम स्तथाहि तत्र परमात्मविषयक- भक्तिभावो रसोस्ति, उपपत्तिसादृश्यादीनां सत्वाच्च काव्यालङ्गो. पमादयोऽलङ्कारा अपि सन्तीति तेषां काव्यत्वम् ॥ कि बहुना यत्र शास्त्रे काव्यगन्धोऽपि नास्ति तच्छास्त्रं कस्य. चिदप्यादरणीयं न भरतोति कोऽपि तदध्ययनाय नमखो न दृश्यते ।। वैद्यकेऽपि कवित्वं दृश्यते, यथा-''वयस्थानागरासंगादङ्गानां हन्ति वेदना " मित्यत्र वयस्था हरीतकी, नागरः शुण्ठी, तस्या आसजगत् हरीतकी अङ्गानां व्यथां हन्तीति वाच्योऽर्थः। व्यङ्गया. यस्त, 'घयस्था' योधनस्था कामिनी · नागरस्य' नगरवासिनो आसङ्गात् ' आसक्तया अंगानां 'वेदनां' कामव्यथां हन्तीति । नन्वन वाच्यार्थेन व्यङ्गयार्थस्य सम्बन्धविरहात् कवरसम्ब- खपलापित्वं प्रसज्यत इति चेन्न, असम्बद्ध मा प्रलांक्षीदित्यप्राकर- णिकपाकरणिकयोः उपमानोपमेयभावसम्बन्धः कल्पनीय इत्यालङ्का- रिकोक्ता प्राकरणिकमर्थ मुपमेयं अप्राकरणिकञ्च मर्थम् उपमानम अनस्य कान्यतत्त्वावली। कल्पयित्वा वाच्यार्थव्यङ्गयार्थयोरुपमेयोपमानभावसम्बन्धी हि ज्ञात- व्यः यथा नागरस्य यूनः आसनात योवनस्था कामिनी अङ्गानां काम- व्यथां हन्ति तथा शुण्ठपासङ्गात् हरीतको अंगानां वेदनां हन्तीति काव्याथः कर्तव्य इति न कश्चिद्दोषः असम्बद्धप्रलापित्वं वा। वै- धके तत्र तत्र कवित्वमस्तीति वैद्यानां कविराजख्यातिरिति मन्या- मह वयम् ॥ अथ कस्मात् काव्यस्य उत्पत्तिरिति. काव्यस्य हेतुरुच्यते । प्रोक्त काव्यप्रकाशे-- शक्तिनिपुणवा लोकशास्त्रकाव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुदभवे ॥" इ त । तत्र शक्तिः कवित्वयोजभूतः संस्कार विशेषः । सच संस्कारः पूर्व- जन्मार्जितपुण्यविशेषजन्यो भावनाख्यः । तादृशी शक्ति विना काव्य नोत्पद्यत, उत्पन्नपि वा उपहसनीयं भवेत् । तथाहि अश- क्तिकृतस्य " ग्रथनामि काव्यशशिन वितताधरश्मि' मित्याद हि उप- मानोपमेयभावो न सङ्गन्छते। तथाहि लोको यथा शशिनं ग्रथना- ति. तथा अहं काय प्रश्नामीत्ययमों न समीचीनः। नहि कोऽपि शशिनं ग्रथनातीति उपमानमेव असम्भव्यम् ।। तथा लोकशास्त्र काव्याद्यवेक्षणात निपुणता। लोकस्य स्था- घरजंगमात्मकलोकवृत्तस्य, शास्त्राणां छन्दोव्याकरणाभिधानकोष. कलाचतुर्वर्गगजतुंरगखड्गादिलक्षणग्रन्थानां, काव्यानाञ्च महाकवि- कर्मणाम् आदि ग्रहणात् इतिहासादीनाञ्च अवेक्षणात् विमर्शनात व्युत्पत्तिः । तथा काव्यशिक्षयाभ्यामः । काव्य कत्तुं विचारयि- तुञ्च ये जानन्ति तदुपदेशेन पौन:पुन्येन प्रवृत्ति रिति त्रयः समुदि- ता हेतः। नतु व्यस्ता हेतवः । एवञ्च पुष्पादीनि मनोहराणि घस्तु नि, अरण्यादीनि भयानकानि, समुद्रादीनि गम्भोगणि, पर्वता- दीनि, विशालानि धा वस्तुनि दृष्ट्वा शक्तिमतामेव कवीनां काव्यनि- ।
३२४ मित्रगोष्ठी-पत्रिका। प्रमाणे प्रवृत्तिरुदेति नतु शक्ति विनापि यस्य कस्यचित् प्रवृत्तिभवति तन्न कारणं मनोहराणि पुष्पाणि दृष्ट्वा पुष्पेषु काचिद् रतिरुदेति, साच रतिः मनसः प्रवणायितम्। उक्त हि साहित्यदपणे-"रति- मनोनुकलेऽर्थे मनसः प्रवणायित मिति ।" रतिरनुरागविशेष इति फलितोऽर्थः। साच रतिस्तस्य वस्तुन उपभोगेभिलाषं जनयति सचाभिलाषः काम इत्युच्यते। यस्य मनसि यद, घस्तु आलम्य रति रनुराग उदेति तस्यैव मनसि तवस्तु विषयीकृत्य काम उदे- तीत्यतो भारतवर्षायाणां मते रतिकामयोः सहचरत्वं, स्त्रीपुसयो रिव दम्पतिभावश्च परिकल्पितः। ईलण्डादिदेशवासिनां मते तु रति. कामयोः मातृपुत्रभावः, रतौ सत्यां हि काम उत्पद्यते इत्यतो रतिजन्यः कामो रतेः पुत्र इति कल्पितः। पुष्पादोनि मनोहराणि वस्तूनि तु कामस्य उद्दीपनानि इति तानि उद्दोपविभावा उच्यन्ते शृङ्गाररसस्य । अतस्तद्दशने कवीनां मनःसु ते ते भावा जायन्ते । एवमरण्यादीनि भयानकानि वस्तूनि दृष्ट्वा भयमुदति इत्यतस्तानि भयानकरसस्य मालम्बनविभावाः । समुद्रादीनि गम्भाराणि वस्तूनि दृष्ट्वा गाम्भीर्य- भाव उदेति इत्यतः स भावोऽपि यदि उद्रिक्तः स्यात तर्हि सोऽपि रस- तुल्य एव चमत्कार जनकः । रसो हि उपलक्षणम् । रसशब्देन रस- भावरसाभासभावाभासादयोऽपि उपलक्ष्यन्ते । अतएव,इलंडीयाना. मालङ्कारिकाणां मते भाव एवं काव्यस्य आत्मा । शृद्धारहास्य- करुणरोद्रवोरभयानकाः। वीभत्सोऽथाद्भुतञ्चेति" मष्टौरसा अपि भावविशेषा एव । अतसतेऽपि ईलंडीयानां मते भावा एव उन्यन्ते। भारतवर्षी या आलङ्कारिकास्तु भावविशेषानपि तानष्टौ पृथक् कृत्वा रसनाम्ना व्यपदिशन्ति । वस्तुतस्तु तेऽपि परन्त अन्येभ्यो भावेभ्यः शृङ्गारादिभावानामष्टानां प्रवलतया रसनाम्ना तान निहि शन्ति । पर्यालोचने तु कविशक्त स्तारतम्याठेव भावानां प्रबलत्वं दुर्वलत्वञ्च जायते, न तु स्वभावतस्तेषां केषाञ्चित्प्रबलत्वम् भावा एव।
काव्यतत्त्वावली। भन्येषाञ्च दुर्घलत्वम् । तथाहि कदाचित शृङ्गारादिभ्योऽष्टभ्यो रसे भ्योऽपि दैत्यादिव्यभिचारिभावस्य प्रबलत्वं दृश्यते, अतो यः कश्चि ठेव भावः कविशक्त स्तारतम्यात् उत्कृष्टतमः, उत्कृष्टतरः, उत्कृष्टः, अपकृष्टः, अपकृष्टतरः, अपकृष्टतमो वा भवितु मर्हति, नतु स्वभावात् । अस्मादेव हेतोः केषाञ्चिन्मतेऽष्टौ रसाः, अन्येषां मते शान्तंन सह नवैव रसाः, इतरेषाञ्च मते वात्सल्येन सह दश रसाः। वैष्णवानां मते पुनश्चतुःषष्टीरसाः । इत्थं रसानां संख्यातारतम्यं च दृश्यते । भावा अपि अलङ्कारशास्त्र विभावानुभावयभिचारिभावत्वेन ये ये गणिता स्ततोऽपि अधिकार सम्भवन्ति । तथाहि गाम्भीर्यभावः वि. भावेषु अनुभावेषु व्यभिचारिभावेषु वा यद्यपि न गणित स्तथापि कववर्णनाचातुर्येण सोऽपि भावः शृङ्गारादिकान् रसानपि कदाचिद अतिशयितु शक्न यात तदा गाम्भीर्यभावोऽपि रसवत् काव्यस्य आत्मा भवेत् । अतएवोक्त “ न भावहीनोऽस्ति रसो, न भावो रसवर्जितः परस्परकृता सिद्धिरनयो रसभावयोः' इति । रसापेक्षया भावस्य अधिकतरचमत्कारित्वं तत्रभावस्यैव रसवन मुख्यत्वमति- त्वञ्च, रसस्य पुनर्भाववत् गौणत्वमङ्गत्वञ्च, तथा- " क्षिप्तो हस्ताचलग्नः प्रसभमभिहताऽप्याददानोंशकान्तम्, गृहन केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भूमेण । मालिन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रु नेत्रोत्पलाभिः, कामीवापराधः स दहतु दुरितं शाम्भवोवः शराग्निः ॥" इत्यत्र भगवति महादेवे भक्तिरूपो भावः मुख्योऽङ्गीच, तस्यकाव्य- स्य ध्वनित्वव्यपदेशहेतुश्च । कामीवेति' शराग्नौ कामिसादृश्यो- भावनाच आयतः शृङ्गारः पुनर्गौणः, अनञ्च व्यभिचारिभावश्चति अन्यत्र यः शृङ्गारो रसत्वेन व्यपदिश्यते स एवात्र भावत्वेन व्यप- दिष्टः । तथाचोक्त साहित्यदर्पणे-" रत्यादयोऽप्यनियते रसे स्युव्यं. भिचारिणः” इति । सुतरां रसोऽपि कदाचिद् भावो भवति, यत्र तु. .
. . । मित्रगोष्ठी-पत्रिका। भावोऽपि कदाचिद् रस्यमानतया रसो भवतीति पर्या लो वनै रसभा. घयो न पार्थक्यम् ॥ कविना वर्णनीयं वस्तु पुष्पादिवत् साधारणं भातु तथापि सबमेव केंवे र्भावोदयस्य कारणं भवति । तथाहि महाकविना कालिदासेन साधारणसय घटस्यापि वर्णनायामसाधारणो भावविशेष उद्भावितः, यथा- श्लाध्यं नीरसकाष्ठताडनशतं इलाध्यः प्रचण्डातपः, क्ल शः इलाध्यतरः सुपङ्कनिचयः इलाध्योऽतिदाहानलः । यत् कान्ताकु चपाय बाहुलतिकाहिल्लोललीलासुखं, लब्धं कुम्भवर त्वया, नहि सुखं दुःखें विना लभ्यते ॥ इत्यत्र काव्ये स्थावरस्यापि सुख दुःखानभिज्ञस्यापि अचेतनस्यापि च घटस्य या अवस्था कविना उद्भाविता, सा अवस्था सर्वषां लोकानां विशषतो यूनां कामिनामतीव कमनीया। इत्यतः कारणादेव लोका- नां प्रार्थनीयया अवस्थया सह घटस्य तामवस्थां सदृशीकृत्य कवि. रवर्णयदिति काव्यार्थस्य सद्य एव हृदयग्राहित्वं जातम् । रसास्वादोहि लोकानां मनोभावेन सह काव्यास्य सन्भेदात ( सम्मेलनात् ) आत्मन आनन्दोदयः । उक्त हि " स्वादः काव्या- थसम्भेदादात्मानन्दुसमुद्भव इति '' । यथा गङ्गायमुनयोरिव द्वयो- नंद्योः द्वौ प्रवाही कवचित् सम्भिद्य ( मिथः सङ्गस्य ) एकप्रवाहात्मको भवतः, एकमेव नदीभावञ्च गच्छतः, तथा काव्यश्रोतमनोभावः का- व्यस्य भावश्व, द्वापि भावौ परस्परं यदि सङ्गनौ भवतस्तदाजायमानः परमानन्द एव रसास्वाद इति कथ्यते । प्रकृते च कयाचित् सुन्दा कुचपाचे बाहुलतया गृहीतकण्ठस्य घटस्य दोलनलीलां दृष्ट्वा तादृश- मेष कण्ठग्रहमात्मनस्तया क्रियमाणं सर्वे कामिन इच्छन्ति इत्यतः कविना घटस्य पुरुषस्येव साऽवस्था वर्णिताऽभूत् । अतएव तस्य काव्यस्य भावेन लोकानां मनोभावो मिलति, मेलनाच परमानन्द उत्पद्यते।
काव्यतत्त्वावली। ३२७ घस्तुनः तं तं 'मावं कवियंदुद्भावयति तत् स्वलु कविशक्त रेव विस्फर्जितं, शक्तिजन्या प्रतिभा हि तत्तद भावोद्भावनी। कविरेव स्वशक्तया स्वप्रतिभया वस्तुनस्तां तामवस्थाम उदभाव्य तया अव- स्थया सह लोकानां मनोगतं भावम ऐक्यं नर्यात ॥ इदानी काव्यानामुत्कर्षापकर्षयोः हेतरुच्यते । काव्यस्य प्रति. पाद्योऽथो द्विविधो भवति । एकविधः स्वतःसम्भवी अर्थः । अन्य- विधश्च प्रौढोक्तिसिद्धोऽथ:। योऽध: कविना स्वप्रतिभया परिक- ल्पितोऽपि स्वभावतः सत्यवत् प्रतीयते, सोऽ: स्वतः सम्भवीत्यु. च्यते । यथा महाभारत शकुन्तलोपाख्याने दुप्मातः गान्धर्वेण विवा. हेन शकुन्तलां परिणीय, 'तां पित्रालय एव स्थायित्वा राजधानी' गत्या, अन्यासु अन्तःपुरिकासु आसक्तः शकुन्तला विसंस्मार । श. कुन्तला तु ऊढापि पञ्च वत्सरान पित्रालय एव यापयित्वा प्रसूतन पुत्रेण सह पञ्चवर्षानन्तरं दुष्मन्तस्य समीपं जगाम । ततो राजनि विवाहमनङ्गीकुति शापप्रदानस्य भयं दीयत्वा राजानं स्वीकारया- मास । इत्येव मूलप्रस्तावः। महाकविः कालिदासः पुन दुष्मन्तस्य शकुन्तलापरिणयम् अन्यथा कश्पयामास । तथाहि शकुन्तला ऊढा सती राजनि राजधानी गते पत्युष्मन्तस्य ध्याने एकाग्रमनाः सती अतिकोपनं तपस्विनं दुर्वाससमृषिम् “अयमहम् भोः" इत्युक्तवन्त- मप्यतिथिं न शुश्राव । इत्यतः स ऋपिः कुपितः यं चिन्तयन्तो मामभ्यागतमपि न वेत्सि, स त्वया प्रतिवोधितोऽपि त्वां न स्मरिष्य- ति' इति शकुन्तलां शशाप । अथ शकुन्तलायाः सखी तच्छापवचनं श्रुत्वा तमृषिमननीय प्रसादयामास । तत ऋषिरुवाच “ यदि कि- ञ्चिदभिज्ञानं शकुन्तला दर्शयितु शक्नुयातहि स शकुन्तलां स्मरेद् ." इत्युक्त्वा शापान्तं चकार । सखी च शकुन्तलाया हस्ते राजदत्तमङ्ग, गयकमस्ति तदेव अभिज्ञानं भवेदिति निश्चित्य निवृतमना अतिष्ठत् । अथ शकुन्तलायाः पिता कण्वमुनिः प्रवासात् प्रतिनिवृत्य सर्व ज्ञात्वा निताठा-पालना । धृत्वा विक्रया अन्तर्वनी शकुन्तला पत्युह प्रेषयामास। शकुन्तलापि पथि गच्छन्ती गङ्गायाः शचीतीर्थे सलिलं वन्दमाना जले प्रभूष्टमपि अंग- रोयकं न वुबुधे । ततश्च राजा शकुन्तला प्रत्यादिदेश। अथ राज- धान्या निष्क्रान्ता सा उच्च क्रन्दन्ती मात्रा मेनकया स्वर्गलोकं नीता मारीचस्य देवगुरोः समिधानेऽतिष्ठत् । तच्चांगुरीयकं केनचिद रोहितमत्स्येन ग्रस्तमभूत् । सोऽपि मत्स्यः केनचिन्मत्स्यजीविना कैवर्तन यावत् खण्डशः कल्प्यते तावत्तस्योदरे महा- रत्नभासुरमंगुरीयं लब्धम्। अथ स तदंगुरीयक नगरे विक्रतुदर्श- यन् राजकीयेन रक्षिपुरुषेण धृतः । अथ सजसमीपं नीतोऽङगुरीय- कमादाय विना दण्डं राज्ञा मुक्तः पुरस्कारेण च परितोषितः । ततश्च तदंगुरीयक दृष्ट्वैव राजा शकुन्नलाया विवाहादिकं सर्व वृत्त सरुमार । इत्येतावान् सर्व एवार्थः कालिदासेन परिकल्पितोऽपि लोके सम्भवपर- एव प्रतीयते इत्यतः सोऽयमर्थः स्वतःसम्भवी। यदि कश्चिद अभि- ज्ञानशकुन्तलनाटकस्य मूलं महाभारतीयं शकुन्तलोपाख्यानमदृष्ट्वा तनाटकमेव वाचयति तदा स एतावन्तमर्थ परिकल्पितत्वेन लयितु. मपि न शक्नुयादिति वयं मन्यामहे । एतादृशोर्थः स्वतः स्वभावतो लोके सम्भवतीति स्वतः सम्भवीत्युच्यते । स्वतः सम्भावनोऽर्थस्य परिकल्पनं काव्यस्य उत्कर्षबीज भवति । तत्र लोकानां विश्वासेन काव्यस्य असत्यता प्रतीति हि निवार्यते ।। . (क्रमशः) श्रीमहेशचन्द्रतकंचुडामणिः । दिनाजपुरम् । :0:
. "विवाहे कन्यापरोक्षा"*-परिशिष्टम् । अहो द्रढ़ीयानसौ विवाहसम्बन्ध-प्रन्धिरायं जातीनां, यः खलु कालधम्र्मतां गतयोरपि दम्पत्योरशकच्छेदोऽशिथिलथ सजायते, विशेषतश्वायरमणी पुनः पुनर्जन्मनि तमेष पाणिग्राहमभिलषति, मनुतिष्ठति च तदर्थ धृतवता कठोरं तपो देवाराधनादिकश्च । सत्यविधे विधाने, समीचीनं परीक्ष्यैव विधेयो विवाह. सम्बन्धः। येन हि जायापत्योरेकतरोऽपि न पश्चात्तप्येत प्रत्युत विमल दाम्पत्यमानन्दं लभेतेति । ततो विशेषस्त्वेतावान्, ब्राह्मणमानवकानामुपनयनमिव, कुमा- रीणां विवाहएव वैदिकोमुख्यः संस्कारः । किमधिकं विवाह संस्का- रादन्यत्र नास्त्यमूषां मुक्तिसम्भावनापि शतशतैरपि ब्रह्मवादिभिः नियमैरिति, पधीक्त- वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः । पतिसेवा गुरौवासो गृहार्थोऽग्निपरिष्क्रिया ॥ (मनु०।२।६७) प्राक्तनास्तु ऋषय स्त्रिकालज्ञा लोकहितैषिणः संसर्गात् पापा- दिदोषाः सह शारीरिकेनोष्मणा मानवेषु परस्परं व्यतिसंक्रपन्त इति सूक्ष्म व्यवस्थापयामासुः । यथा- प्रायश्चित्तविवेके छांगलेयः 'मालापादगानसंपर्शामि:श्वासात सहभोजनात् । सहशय्यासनाध्यायात पापं संक्रमते नृणाम् ॥ चैव देवल:- “ *सोऽयं प्रवन्ध पत्रिकाया हितीयवर्षे पक्षमसंस्थायां प्रकाशितः । |व १३ ए. पाटीका “ तेत्तिरीय या सर्व " इत्यन पापस्तम्बमाह " इति भवेत् । मि.म. स० ४२ " मित्रगोष्ठी-पत्रिका संलापस्पर्शनिःश्वास सहशय्याशनासनात् । याजनाध्यापनाद योनात पापं संक्रमते नृणाम् ॥ सौष, पराशरः- भासनाच्छयनाद याना भाषणात सहभोजनात् । संक्रामन्ति हि पापानि तैलविन्दु रिवाम्मसि ॥ इत्थं साधारण्येनोक्ताः संसर्गदोषा विवाहे ऽपि नोपेक्षणोयाः। अतएव कस्याश्चित शरीरे विषविशेषहाः कोऽपिदोषः स्थितिमाल. भते नवा, येन खलु कन्याशरीरात् संकान्तेन दोषेण भर्ती पोज्यत नियेतैव वेत्यादि शास्त्रयुक्त्या परीक्षणीयम्। तत्रेयं परीक्षा- तथाच स्मृति: धमार्थकाममोक्षाणां दाराः संप्राप्तिहेतवः । परीक्षन्ते प्रयत्ननपूर्वमेव करप्रहात् ॥" "रिपुक्षेत्रगतो तौतु लग्न यदि शुभग्रही । क रस्तनगतो ऽप्येको भवेत स्त्री विषकन्यका ॥" "भद्रातिथियंदाश्लषा शतभिषाच कृत्तिका । मरदाररविवारेषु भवेत् स्त्री विषकन्यका ॥'' (इति रामदासकषिवल्लभकृतज्योतिःसाराणवे ६ष्ठ तर) -- अपरञ्च तत्रैव- " त्रीणि यस्याः प्रलम्पानि ललाट मुदरंभगम् । क्रमेण भक्षयेनारी शुरं देवरं पतिम् ।। भूमि न स्पृश्यते यस्या भरल्याच कनिष्ठया । भर्तारं प्रथम हन्याद द्वितीयञ्चाभिनन्दति ॥ यस्या मध्यं भवेदीर्घा सास्त्री पुरुषघातिनी। भूमि न स्पृश्यते ऽल्या सापि हन्यात पहिवयं ॥ प्रदेशिनी भवेद्दीर्घा सास्यात सौभाग्यशालिनी। गर्दा यस्या भवेदीर्घा पति हन्ति चतुष्टयम् ॥ ॥
विवाहे कन्यापरीक्षा"-परिशिष्टम् ।
लम्बोदरी स्थूलजसा स्थूलनासाच या भवेत् ।
पतयोऽष्टौ म्रियेरन सा नवमेतु प्रसीदति ।।
विरला दशना यस्याः कृष्णाक्षी कृष्णजिहिका ।
भार प्रथमं हन्ति द्वितीयमपि विन्दति ॥
यस्या अत्युत्कटौपादो विस्तृतश्च मुखं भवेत् ।
उत्सरोष्ठ' च लोमानि साशीघ्र भक्षयेत् पति ॥"
( पञ्चमतरा)
भपिच शुभाशुभपरोक्षा गरुड़ पुराणे-
यस्या स्तु कृश्चिताः केशा मुखश्च परिमण्डलं ।
नाभिश्च दक्षिणावर्ता साकन्या कुलवद्धिनी ।।
याचकाञ्चनर्णाभा रक्तहस्तसरोरुहा ।
सहस्राणान्तु नारीणां भवत सापि पतिव्रता॥
पक्रकेशाच या कन्या मण्डलाक्षी च या भवेत् ।
भत्तांच म्रियते तस्या नियत दुःस्वभागिनी ।।
पूर्णचन्द्रमुखी कन्या वालसूर्यसमप्रभा ।
विशालनेत्रा विम्बोष्ठी सा कन्या लभते सुखं ।
रेखाभिवहुभिः क्लशं स्वलगाभिधनहीनतां ।
रक्ताभिः सुखमानोति कृष्णाभिः श्रेष्ठतां व्रजेत् ।
भक,शं कुण्डलं चक्र यस्याः पाणितले भवेत् ।
पुत्रं प्रसूयते नारी नरेन्द्र लभते पति ॥
यस्यास्तु रोमशौ पाचौं रोमशोच पयोधरौ।
उनतो चाधरोष्ठौच क्षिप्र मारयते पति ॥
यस्याः पाणितले रेखा प्राकार स्तोरणं भवेत् ।
भपिदासकुलजाता राज्ञीत्वमुपगच्छति ॥
उद्त्तापला यस्या रोमराजो निरन्तर ।
मपिराजलेजाता दासोत्वमुपजायते ।।
मित्रगाष्ठा-पत्रिका
यस्या अनामिकाष्ठौ पृथिव्यों नैव तिष्ठतः ।
पति मारयते क्षिप्र वातन्त्र्येणैव वसंते ॥
पस्यागमन कालेतु भूमिकम्प: प्रजायते ।
पति मारयते क्षिप्र स्वेच्छाचारेण वर्तते ।।
चक्षुः स्रहेन सौभाग्यं दन्तस्नेहन भोजनं ।
स्वचः रहेन शय्याश्च पादरहेन वाहनं ।।
निग्धोमतो ताम्रनखोना-श्न चरणौ शुभौ ।
मत्स्याङ्क शायज चिह्नोच चक्रलाङ्गल लक्षितौ ।।
अस्वेदिनी मृदुतलौ प्रशस्तौ चरणौ स्त्रियाः।
शुभेजङ्घ विरोमेच ऊरू करिकरो पो।।
अश्वत्थपत्रसदृशं विपुलं गुह्यमुत्तमं ।
नाभिः प्रशस्ता गम्भीरा दक्षिणावत्तिका शभा ।
भरोमा त्रिवलो नायं हस्तनो रोमवज्जितो॥
(६४ अध्याय)
अपिच मनौ-
"गुरुणानुमतः सात्वा समावृत्तो यथा विधि
उद्हेत द्विजोभाया॑ सवर्णा लक्षणान्वितां ॥
असपिण्डा च या मातुरसपिण्डाच या पितुः ।
सा प्रशस्ता द्विजातीनां दारकर्मगि मैथुने ।
मह न्यपि सटङ्गानि गोऽजाविधनधान्यतः ।
स्त्रोसम्बन्धे दशैतानि कुलानि परिवर्जयेत् ॥
होनक्रियं निष्पुरुषं निश्छन्दो रोमश्वाशंस
क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठि कुलानि च ॥
नोव्हेत् कपिलां कन्यां नाधिकासी न रोगिरें ।
मालोमिकां नातिलोनी न वाचाटां न पिङ्गलां॥
नक्षवृक्ष नदीनानी नान्त्य पवंत नामिकां ।
नपक्ष्यहि प्रेयनानी न च भीषणनामिकां ।।
-
- युद्धकाण्डे .. "विवाहे कन्यापरीक्षा"-परिशिष्टम् । अव्यङ्गाडी सौम्यनाम्नी हंसधारणगामिनी । तनुलोम केशदशनां मृदङ्गोमुठेत् स्त्रियं ।। (३।४-१०) भपिच कृत्यचिन्तामणी- “नेत्रे यस्याः केकरे पिङ्गालेवा स्याहशीलाश्यावलोलेक्षणाच। यो यस्या गण्डयोः सस्मिताया निःसन्दिग्धां वन्धका तां वदन्ति ॥" भपिच, यदा इन्द्रजिता शरजालेन बद्धो राम-लक्ष्मणौ रक्षोभिः सीतासकाशे मृतत्वेन दर्शितो, तदानी त्रिजटया समास्वास्यमाना सा स्व वैधव्यलक्ष्म नास्ताति. सनिदं व्यलपत् , यथा-वाल्मीकोये "वैधव्य यान्ति यै नर्यो ऽलक्षणैर्भाग्यदुर्लभाः । नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा ।। सत्य नामानि पद्मानि स्त्रोणामुक्तानि लक्षणैः । तान्यद्य निहते रामे वितथानि भवन्ति में। केशा: सूक्ष्माः समानीला भ्र वौ चासंहते मम । वृत्ते चारोमकेजङ्घ दन्ताश्चाविरला मम ।। शंखे नेत्रे करौ पादौ गुल्फावूरू समन्वितौ । अनुवृत्तनखाः स्निग्धाः समाश्चाङ्ग लयो मम ॥ स्तनौ चाविरली पोनौ मामको मग्नचूचुकौ। मग्ना चोत् सेधनी नाभिः पाोरस्कञ्च मेचितं ।। मम वर्णो मणिनिभी मृदून्यङ्गारुहाणि च । प्रतिष्ठितां द्वादशभिम्मामूचुः शुभलक्षणां ॥ समायवमच्छिद्र पाणिपादश्च वर्णवत । मन्दस्मितेत्येव च मां कन्यालाक्षणिका विदुः॥ अधिराज्ये ऽभिषेको में ब्राह्मणैः पतिना सह । कृतान्तकुशल व्यक्त तत सर्व वितथीकृतं ॥" (४८१७-१४) ।
मित्रगोष्ठी-पत्रिका। अपिच समानगोत्रप्रवरादिविवाहे हठात् कृतं तन शुक्ररजलोः पितृमातृकुलस्य सान्निध्यसम्बन्धात, तथाविधभा-यामुत्पन्नः स- तानो विकृतप्रकृतिमापद्यते नृशसभावमधिकरोति, स्वधर्ममाचा- रञ्च परिहरति, दुरुत्तरां च रुजमाश्रयति स्वल्पमायुश्चभजते । मतो यथा समानगोत्रप्रवरादिदोषो न जातु घटेत, तथंव कन्यां परीक्ष्य विवहत । तत्रय सङ्गिता परीक्षा- सगोत्रा, मनवरवयस्का, समानप्रवरा, पित्नपेक्षया ऊद्धतनषण्णां पुरुषाणां पुत्रकन्यासन्ततिपरम्परया प्रत्येक सप्तमीपर्यन्ता, अधस्तने- ऽपि तदपेक्षया सप्तमीपर्यन्ता पितृवन्धपेक्षया ऊद्धतनषण्णां प्रत्येका- पेक्षया सप्तमापर्यन्ता, अधस्तनेऽपि तदपेक्षया सप्तमीपर्यन्ता । मातामहसमानोदका मातामहापेक्षया ऊद्धतनचतुर्णा पुरुषाणां पुत्र कन्यासन्ततिपरम्परया प्रत्येकापेक्षया पञ्चमीपर्यन्ता, अधस्तने घ तदपेक्षया पञ्चमीपर्यन्ता, मातृवन्ध्वपेक्षया ऊद्धतनचतुणी पुरु. षाणां प्रत्येकापेक्षया पञ्चमी पर्यन्ता, अधस्तन च तदपेक्षया पञ्च- भीपर्यन्ता कन्या विवाहे परीक्ष्य परित्याज्या इति । विशेषस्तु उदा- हतवादौ द्रष्टव्य इति । तथाच- "समानगोत्रप्रवरां समुद्राह्योपगम्य च । तस्यामुत्पाद्य चाण्डाल ब्राह्मण्यादेव होयते ॥” इति यदिवा दैवदुर्विपाकरशाद यथोक्तलक्षणपरीक्षाविप्लवादा विसश- लक्षणा कन्या विवादुरापतत् तन्महिनाच कन्या भर्तुः प्रतिकूला जारादिदोषदुष्टा वा शङ्कयत तहिं तदोषप्रशमनाय मुनिभिरुपदिष्टो विधिवृहदारण्यकोपनिषदादौ द्रष्टव्यः, तदुक्तन प्रकारण प्रतिकूल वशीकु-ज, जारदोषाच निवर्तयेत् । अपिच घरकन्ययो राशिनक्षत्रादि समनुसृत्य वर्ण-गणराजयो- टकद्विादश-नवपञ्चमारिदादमिद्विद्वावशषड़ष्टकमित्रषड़ष्ट्रकारि- षष्टकादय: शुभाशुभयोगा: सम्यक् परीक्षितव्याः । तेनहि तयोः ..
वाताः सम्पादकाभिपायाश्च । शारीरमानसयोः समस्वभावे विवाहश्चतुगमनुवनाति विषमभा- घेतु विवाहः परिवज्जनीय इति । श्रूयते तत्र दाक्षिणात्यौरित्थं विवारो विवाह नाद्रियते तत् परि. णामफलमपि तैरवानुभूयता मसाधु साधुवेति । वगंगणादिमेलन शास्त्रन्तु दिनपञ्जिकातो ऽवगन्तव्य नेहत दाश्रितं विस्तृतिभयादिति दिक् ॥ श्रीजयचन्द्रशर्मा। संस्कृतचन्द्रिका-सम्पादकः । । ::०: वार्ताः सम्पादकाभिप्रायाश्च । संस्कृतविद्याकरभूतायां वाराणस्यां सार्वजनिकः संस्कृतपुस्तका- लयो नास्तीत्यद्भुततरं वृत्तान्तं कान्यपि वर्षाणि मुक्तकण्ठमुच्चैस्तरा- मारटत्स्वस्मासु निपतित इवेदानों सकरुणकटाक्षपातो भगवत्या भाग- धेयदेवतायाः । साम्प्रतमुत्प्रेक्षितं तस्यावश्यकत्वं वाराणसे महत्तः, विधीयते च तदर्थसाधनाय तैयथोचितं प्रयास इति को नाम संस्कृ. तपक्षपाती जनो नात्यन्तमानन्दत् ? युवराजागमनेन अपरापरविषयेषु भारतस्य कीदृशं मङ्गलामडल- मुत्पत्रमिति निश्चिन्वन्तु ते राजनीतिवेत्तारः, न वयं तन्न किश्चित कथयितुप्रभवामः, निरुद्धप्रसारा खल्वन तदनधिकारिणामस्माकं लेखनी । संस्कृतभाषायास्तु युवराजप्रसादेन महानुपकारः सम्पादित इति निगदामः । नायं महाभागो भिन्नो नाम युवराजात, यं स्खलु निमित्तत्वेनासाथ वाराणस्यां सुबृहत्संस्कृतपुस्तकालयः स्वल्पैरेवा- होभिः संस्कृतसेविनां परमानन्दमुत्पादयन् विराजिष्यते, युवराजल- म्माननार्थम् इच्छ्यानिच्छया वा, भक्तमा भोत्या वा, शतगशक्तमा पा पौरजानपदवगैव्ययितानां तावतां धनानामयमेवैको रमणीयः परि- पाको यदेष संस्कृतपुस्तकालयो नामेति-यद्यप्यस्य सम्पत्तये भित्र मित्रगोष्ठी पत्रिका। एव द्रविणविनियोगोऽपेक्ष्यते । पुस्तकालयोऽयं युवराजस्मारकत्वेन स्थाप्येत । स्थानमस्य वर्तमानराजकीयसंस्कृतविद्यालयसीमान्तर्गत- मेव भवेत्। तत्र पृथगेव गृह निर्मायेत। पुस्तकालयस्य निखिल- व्यनिर्वाहार्थ रूप्यकलक्षमपेक्षितम्, तत्र श्रीमता काशीनरेशेन विं. शन सहस्राणि, श्रीमता माधवलालेन च पञ्चविंशतिः सहस्राणि प्रद. तानि। यावच्छक्यमन्यैरपि प्रदीयते। सम्भाव्यते तूर्णमेघापेक्षित धनं संगृहीतं स्यादिति । राजकीयसंसकृतविद्यालयस्य नगरतो दुरत्तित्वात तदन्तर्गते स्थापयिष्यमाणे संस्कृतस्तकालये नागरिकाणां ग्रन्थालोचनसौकर्य भवेदिति न वयं सम्भाषयामः । अतो नगरमध्य एक कविध क्ततरे स्थाने सोऽयं पुस्तकालयो स्थाप्येत चद, परं स्यादिति युकमिव मन्यामहे। अध्यापको म्याकडोनेलः ( Professor Arthur A. Macdonell ) 'संस्कृतसाहित्यतिवृत्तं' ( A History of Sanskrit Literature ) वि. रचय्य प्राच्यविद्याविसमाजेषु महधरा उपार्जितवान् । यद्यप्यस्माक तस्य ग्रन्थस्य सर्वमप्यंशेषु मतैक्यं नास्ति, तथापि यया परिपाट्या संक्षेपपूर्वक विविधा विषया एतस्मिन् सन्धास्तेन वस्तुत एवायं परं साधुवादमर्हति । नुनमिमं पठनां चित्त नन्दितं च्यादित्यत्र नास्त्यस्माकं स्तोकोऽपि सन्देहः । अध्यापक न्य वेबरस्य 'भारतकofftarfecafaqai' ( Professor Weber's History of Indian Literature ) टिप्पनोशतसङ्कलत्वान्नातीव रुचिकरमस्माकं प्रतिभाति । मोक्षमूलरस्य च 'प्राचीनसंस्कृतसाहित्येतिवृत्तम्' ( History of Ancient Sanskrit Literat . जाम्प्रतमतिदुर्लभं संवृत्तम्, यतो नेद पुनर्मुद्रितम् । अतो नवीनजिज्ञासूनाम् अध्यापकम्याकडोनेलप्रणोतः स एव ग्रन्थः परमुपकारमिदानीमावहति । संस्कृते पुनरोडशस्य प्रन्थस्य कदा दर्शन लभ्यतेति भगवानेव जानाति ।
मित्रगोष्ठो-पत्रिका।
(मासिक
संस्कृतपत्रम् ।)
सङ्गच्छध्वं संवदभ्वं सं वो मनांसि जानताम्"!
ऋग्वेदः।
चैनः।
{ द्वादशसंख्या
द्वितीये वर्षे } १८२७ शकाब्दाः,
बद्धविहगः।
१
कदाचिद हरमध्ये पति वत बन्धी तृणकणे
पिधत्ते पक्षमभ्यां द्र ततरमियं यभिजतनुम् ।
स्वभावोऽसौ सृष्ट खलु परिहार्यः क्वचिदयं
समर्थम्मन्यैरप्यपि मरणभीतरुपगतो॥
.
२
यथेच्छं त्वं भस्मीकुरु मम शरीरं दहनकै.
मंया तु स्थातव्यं जडवदति तूष्णी स्थिरपदम् ।
महो माहात्म्यं ते किमपि भुवनानामविदितं
'यदन्तासाय प्रभवति च सन्तापयति च ॥
३
तपस्वी निर्दोषो नास विहरमात्मविषये
शकुन्तोऽयं पाशे ननु सुविषमे व्याध, पतितः। .
स्वशक्तग प्रस्थातु धृतपरिकरो यत्प्रयतते,
कृपा तेनैव स्यादिह यदि न ते, किं स कुरुताम् ।।
विधुशेखरशर्मा।
२२८ मित्रगोष्ठी-पत्रिका। प्रार्थनापरिपाकः। गतो म्रातः स्त्रीवभिभूतभवनाभ्यन्तरमहो स्माद्भर्बाष्पाम्भ: पृषतनिकुरम्बैरनुदिनम् । सिथतस्तूष्णी पृथ्वीतलमिह परिप्लावलि यन् म तस्यायं कालो द्रढय निजविसं द्रढय रे॥ २ कृतः शोकः कामं, रुदितमपि भूयः सकरुण बहुक्त वैधुर्यादसकृदपि बधोऽअलिपुटः । कता याचना भूरि प्रतिविधिनापि प्रतिदिन न सन्तोषस्तेषाम्तदपि यदि कार्यन्तदनु किम् ॥ سم निमनास्ते नित्यं मदजलधिगम्भीरसलिले व्यथां बुध्येरनो व्यथितहदयानां कथमिव । विषज्वाला ज्वालों जनर्यात कथं, वेत्ति किमयं न दष्टो यो धन्यो ननु विषधरेण कचिदपि॥ विधुशखरशर्मा। -10: जयमङ्गला। (कामसूत्रटीका, भट्टिकाव्यटीका च ) विदितमिदं मित्रगोष्ठीपत्रिकापाठकमहाशयानां, यथा किल- वात्स्यायनप्रोक्तस्य कामसूत्रस्य टीकास्वन्यतमा जयमालाख्या प्रका- शिंता नैकवार जयपुराभिजनैः काव्यमालासंपादकैमहामहोग्यायैः भीदुर्गाप्रसादशमभिरिति। मथ तत्कत विषयिण्येषा जिज्ञासा-"इति श्रीवात्स्यायनीयका. मसूबटीकायां जयमालाभिधानायां विदग्धाजनाविरहकातरेण गुरु- .
जयमाला। इत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां साधारणे प्रथ. मेऽधिकरणे शास्त्रसंग्रहः प्रथमोऽध्यायः" इति सर्वत्राध्यायसमाता- वधिकरणसमानौ चाभित्ररूपेणापस्थितां पुष्पिकां दृष्ट्वा तत्प्रकाशक: मुखपत्रे 'कामसूत्रम् यशोधरविरचितया जयमालाण्यया टीकया समेतम्' इत्यमुद्ररत। तस्मिन्नेव पुस्तके ३६४ पृष्ठस्य टिप्पणे पूर्वोल्लिखितपुष्पिकान- ग्तरम् “इत्यपरार्जुनभुजबलमल-राजनारायण-महाराजाधिराज चौलु. क्यचूडामणि-श्रीमदीसलदेवस्य-भारतीभाण्डागारे श्रीवात्स्यायनीय- कामसूत्रटीकायां 'जयमाला भिधानायां चैशिकमधिकरणं समाप्तम्" इतिपुस्तकान्तरस्थः पाठ उट्टङ्कितो दृश्यते १९०५ तमवत्सरे मद्रासपुर-राजकीय-प्राचीनलेखान्वेषणपटिष्ठे- म श्रीहल्षपण्डितेन मुद्रिते तोरनगरस्थस्य श्रीजम्यूनाथभट्टस्य पु. स्तकालये विद्योतमानानां पुस्तकानां सूचीपत्रे . १६३३ संख्याकस्या- ख्य प्रन्यस्यायन्तप्रकाशनस्थलीयपुष्पिकायामप्यन्यूनानतिरिक्ता एषै. बानुपूर्वी उश्यते। मैसूर-राजकीय-प्राच्यकोशागारे १९६२ संख्याकमिडाक्षरमय. जयमालामातृकायां तु "इति श्रीकामसूत्रटीका 'जयमाला' समाप्ते- येतापदेव पतते। एतन्मातृकाधारेणैवेदानी सप्तमस्यौपनिषदिका- धिरणस्य टीका परिशिष्टरूपेण मुद्रिता श्रीदुर्गाप्रसादसूनुना श्रीमता केदारनायेन साहित्याचार्येणास्मन्मित्रप्रकाण्डेन । एवं मातृकात्रयान्तपुष्पिकादर्शनेन मुद्रितायाः कामलबटीकाया माम 'जयमालेति' निर्विकल्पमवसीयते । तत्कर्ता क इति जिज्ञा- सायां श्रीदुर्गाप्रसादशर्मणां वाक्यप्रामाण्येन यशोधर इति ज्ञायते । भवायमसमदाशयः-यथापण्डितसम्राड्-जिगनाथविरचितरेखा. Reports on Sanskrit Manuscripts in Southern India by E. Hultrsch, PH. D.Government Epigraphist, Madras No. III. + Bomby Sanskrit Series No. LXI संख्याकरेखागणितस्य भूमिकायाः ७म पन दश्यम् । .
३४० मित्रगोष्ठी-पत्रिका गणितस्य श्रीजयपुराधीशपुस्तकालयीयमातृकाया "लोकमणि' लेख- कः, एवमेव चौलुक्यचूडामणे: श्रीवीसलदेवस्य भारतीभाण्डागारस्थ- 'जयमङ्गाला' सहितकामसूत्रपुस्तकस्य 'लेखको' यशोधरो, न तु कति। अत्र प्रमाणं तु पूर्वोदाहृतपुष्पिकान्तर्गत:--'विदग्धाङ्गनाविरह- कातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेण एकत्रकृतस्नभाज्यायो' इति भाग एव । अत्र हि यशोधरणति कतरि तृतीयाया 'एकत्रकृते'ति मूलव्याख्यानयोरेकस्मिन् पुस्तके संनिवेशकपैकीकरणक्रियायामेवा- स्वयः। O पूर्वोदाहृतपुष्पिकायां 'विदग्धाङ्गने'-त्यादिभागस्य त्यागें मैसूर- मातृकापुष्पिकयैकार्थ्यं सुस्पष्टमेव । तोरमातृकायामपि 'श्रीवीसल- देवस्ये'त्यादिदर्शनात जयमङ्गलायाः प्राथमिकी मातृका वीसलदेवस्प पुस्तकालयस्थेत्यनुमोयते । एष मदीयस्तकः । एवंचापैतु नाम कर्तृत्वं यशोधरे । परं तु पौरुषेय्या जयमालायाः कः कर्ते ति तु जिज्ञासायाम्-भट्टिकाव्यटीकासु सुप्रसिद्धा प्राचीना घ या 'जयमङ्गलाख्या' टीकाऽनेकवारं सम्मुद्रा प्रकाशिता ववर्ति, कृप- या तस्या अन्ते दृष्टिः प्रसार्यताम् । तत्र “जटीश्वरो जयदेवो जय- मङ्गाल इति च नामभि स्त्रिभिस्सुप्रसिद्धस्य + अनेकशास्त्र व्याख्यानु- कृतौ टीकायां काव्यस्य" इति हि पुष्पिका दृश्यते । तथाच जटीश्वर-जयदेव-जयमङ्गलरूपै स्त्रिभिन मभिः प्रसिद्धो यो भट्टिटीकाया 'जयमङ्गलाया:' कर्ता स एवास्या: कामसूत्रटीकाया अपि कति ममाशयः। . यदि टीकाद्यनामैक्यमावेण कर्तुरैक्यं सम्भाव्येत; ननु तहिं प्रघर- • 'अनेकशाखयाण्यानुसतौ' इति कलकत्तायां श्रीयुक्तभुवन चन्द्र बसा. कसद्रितामापुस्तकालयस्थ पुष्पक मालकायां वर्तते 'अनेकशास्त्र याख्यानात! रति घष्ठान्तमेष साधुपदमिति ममाशयः ।
जयमाला। सेनकृतप्राकृतकाव्यस्य, भास्कररायकृतस्य ( मन्त्रशास्त्रीयप्रधान- त्रयान्तर्गतस्य ) योगिनीहृदयव्याख्यानस्य' च ‘सेतुबन्धम्' इति नाम- क्यात्कौक्यं सम्पद्य तेति चेन्मैवम् । 'अनेकशास्त्रव्याल्यानकृत' इति पुष्पिका खण्डस्य अर्थपर्यालोचनया नायं तादृशः प्रसिद्धापलाप इति निश्चेतु श्रीमतां हदयान्येव प्रतिभुवो भवन्तीति मम प्रत्ययः । मथ च विचारयन्त्वनेकमहाग्रन्थपरिशीलनतीक्ष्णमतयः प्रन्थ- दयस्य मङ्गलश्लोकसौसादृश्यमपि- "वात्स्यायनीयं किल कामसूत्र, प्रास्तावितं कैश्चिदिहान्यथैव । तस्माद्विधास जयमङ्गलाख्यां टीकामहं * सर्वविदं प्रणम्य" । प्रणिपत्य सकलदिन' मतिदुस्तरभट्टिकाव्यसलिलनिधेः । जयमङ्गतिनाना नौकेव विरच्यते टीका ॥ मालश्लोकयोः 'प्रणिपत्य'-'प्रणम्य', 'सर्वविद'-'सकलवेदिनं, इत्या- दिपदार्थसाम्यं सावधानं विचार्यताम् । कामसूत्रटीकायां तत्र तत्रोदाहृतेतिहासबोधकसूत्राणां व्याख्याने व्याख्यातु शिमितिहासानुपूर्वीप्रकाशनसामर्थ्य व्यक्तीमवति ताह- शमेवभट्टिकाव्यव्याख्यानेऽपि तव तत्रोपलभ्यत इति दितीयो मतक- स्य हस्तावलम्यः । उदाहरणार्थ कामसूत्रस्य प्रथमेऽधिकरणे द्वितीयेऽध्याये 'यथादा- डक्य' इतिसूत्रस्य, भट्टिकाव्यस्य चतुर्थसर्गे प्रथमश्लोके दण्डकारण्य- मीयिवान्' इति पादस्य च व्याख्याजयमङ्गला द्रष्टव्या । 'गुणदोषौबुधोगृह्णन्निन्दुश्वेडाविवेश्वरः । হিসাঘনঠনিয়নি। इति विज्ञापयति- वेङ्कटरङ्गनाथस्वामी। विशाखपत्तनम • 'मा' इति मैमूर माटका।
. मित्रगोष्ठी-पत्रिका। नागिला। का हि पुगणना तेषां येऽन्य शक्षाविचक्षणाः । येवं शिक्षयितु दक्षास्तेषां पुगणना नृणाम् " ॥ स्थविरावलीचरितम्, (परिशिष्टपर्व ) १॥३८॥ पुरा किल मगधेषु सुप्रामाभिधेयप्रामवास्तव्ययोः रेवतीराष्ट्र- इटयोदम्पत्यो भवदत्तो भवदेवश्चेति तनयावभूताम् । एतयोभंव- रत्तो यौवन एव सुस्थिताचायंस निधौ प्रव्रज्यादीक्षामदः । अथ कदाचित् तदीये 'गच्छे' * कश्चित्साधुः 'मम वैमानेयो भ्राता मयि नितान्तं निग्धः, तन्मयाप्रार्थितो नूनं प्रजिष्यतीति' तत्समीपं गन्तु गुरुणानुज्ञातो यथास्थानमुपेत्यापश्यद् यत्तस्य भ्रातरमजानमिव स्वा. गतमपि नाकार्षीत, बतादानस्य तु कथैव नास्तीति । स तु विलक्षः मन् गुरुसमीपमागत्यानुजस्य सर्वा कथामकथयत् । तदाकण्यं भव. दत्तोऽवादीत-'अहो काठिन्यमस्यानुजस्य यदेष गृहगतं ज्यायांसम- वाह्रासोदिति किं नु भो गुरुभक्त रपि विवाहकौतुकं नाम श्रेयः, पदयं सानन्दः सन् तांपरित्यज्य ज्येष्ठं नान्वियायति। मन कश्चिद भवदसमूचे-'तदासि भवदत्तस्त्वं पण्डितः, यदा स्वं भ्रातरं प्रव्राज- यिष्यसीति' । प्रत्युक्त तेन यदास्मदगुरुचरणाः सहास्माभिमंगधेषु गमिष्यन्ति, तदानी खल्विदं कौतुकं दर्शयिष्यत इति । अथ कालेन सूरयो मगधानगच्छन् । तत आसन्नान् दिक्षुर्भवदत्तो गुरुणाज्ञातः सन् सहकेन साधुना निजमनुज प्रवज्याग्रहणेनानुग्रहीतु गृहमुपज- गामा इतो भवदत्तानुजो भवदेवो वासुकी-नागदत्तयोस्तनयां नागिला माम कन्यकां वोदमुधु क्तः। विधीयमानोदाहोत्सवा बन्यो भवद- सागमनम् उत्सवोपरि उत्सवमिवान्वमन्यन्त। सद्यः पाद्यन तत्पादौ प्रक्षाल्य तीर्थोदकादप्यधिकमिवतत्पादोदकमवन्दन्त ते। भवदत्तस्तु * गुरुशिषासंघो अनग्रन्थ'च 'ग'नाम्ना प्रसिद्धः ।
नागि। विधाहध्याकुला यूथम, मतोऽन्यत्र विहन यामीति' बन्धनकथयत् । भवदेवोऽपि तदानी कुलाचार पालयन् वयस्याभिः सेव्यमानामधी- ढां प्रियां मण्डयमासीत्। मस्मिन्नेव समय स महामुनेवरसस्या- गमनवामिश्रौषीत्। श्र त्वैव भ्रातृदर्शनोत्तालोऽसौ पचमण्डिता. मपि वल्लभां विहाय द्रागुदस्थात्। अर्धालंकृतां कान्तां विहाय गन्तु मोचितमिति तस्याः सखीनां सविनयप्रणयं वचनं बधिर इव सना- श्रौषीत् । स खलु 'गुरुप्रणिपातं कृत्वा पुनरप्ययमहमागच्छामीति' कश्चित्ताः सर्वाः समाश्वास्य त्वरितगतिस्तस्मात् स्थानादभ्येत्य भवदत्तमवन्दत। भवदत्तस्तु पन्दित्वोत्थितमावस्यैवानुजस्य श्राम. ग्यदानाय सत्यङ्कारमिवैकं धृतभाजनं प्रदाय तस्मिन् मनाग्दत्तदृष्टि- निर्जगाम । तत्पदाम्भोजषट्पदः सोदरस्तदृतभाजनं धारयन् तमेघा- स्वगच्छत् । अन्येऽपि च बहवो नरा नायश्च भवदेववत्तमनुययुः । अथातिकान्ते कियति मार्गे विना भवदेवं सर्व एव निवृत्ता बभूवुः । भयन्तु 'नाहमेनं श्रान्तं ज्यायांसं भ्रातरमस्थाने परित्यज्य गन्तुमुत्सह' इति न तत्सङ्गमजहात् । भवदत्तोऽपि विविधाभिस्थ्यवानमि. स्तन्मन आवर्जयन् क्रमेणाचार्यपादैः पचित्रितं प्राममध्यगच्छत् । तत्र च क्षुद्रका भवदत्तं सानुजपागतं निरीक्ष्य कृतवक्रोष्ठिका: 'अहो भव- दत्तः स्वयचसोऽवितथत्वसम्पत्तये दिव्यवेशधरमनुजमानोतवानिति' उपाहसन् । 'कोऽयं तरुण' इत्याचार्येण पृष्टे, 'सोदरोऽयं मम भगवन दीक्षां जिघृक्षुरागत' इति प्रत्युक्त च भवदत्तेन, पुनरपृच्छदाचार्यों भवदे-'कि त्वं दीक्षां कामयसे' ? तेन प्रत्युत्तरितम्-'भगवन, मा मे भ्राता मृषावादी भवतु'। अथ भवदेवस्य यथोचितं प्रवज्याग्रहण- विधिः सम्पनः । स हि ततः प्रभृति जैनसाधूनामन्यतमः सन् देशा- तरेषु विहत्तुमारभत । मन्यतो भवदेवः किमिति नायात इति चिन्तयोदिना बन्धयो पपदेवमभ्येत्य तद्विरहेण परिवाराणां तपस्विन्या नवोढाया वध्याश्च सौगत्यातिशयं प्रकाश्य क स.साम्प्रतं तिष्ठतीति विनयेन पर्यपृच्छन् ।
। ३४४ मित्रगोष्ठी पत्रिका भवदेवस्तु सोदरस्य धर्मोदार्थम् 'भायातमान एव स पुन यांत: ननि कुत्र स वत्तेत इति मिथ्योवाच। तदाकण्यं दस्युमुषिता इस दीनास्यास्ते किमेष तेनैवापरेण वा चत्मना गत इत्यादिकं बहुविध कल्पयन्तस्तकयन्तश्च प्रत्यावर्तन्त इतो भवदेवः कर्णाकर्णिकया तां वार्तामधिगत्य नवोढा प्रिय हदि ध्यायन केवलं भातृभक्तव गृहीतां प्रवज्या सशल्यामिव कथ. शित् पर्यपालयत् । अथ महर्षि वदत्तः कालेन स्वर्गमुपेतः । भवः देवस्य तु संसारचिन्ता क्रमेण वद्धि तुमारभत । नियतमेव सोऽ: चिन्तयत्-'महो कथं नु मे प्रेयसी नागिला सुदुःसहं विरहदहनमिम सहते। भ्रातुरेवोपरोधेनाहमेतावन्तं कालं व्रतमपालयम, साम्प्रतं तु तस्मिन् स्वगते कि मे प्रयोजनमनेन स्यात् । नाहं दुष्करेणाप्यतेन व्रताचरणेन तथा पीडितः, यथा खलु तस्या विरहक्लिष्टाया नागिलाया मवस्थाविपर्यासचिन्तनेन । हन्त नूनं सेदानी तुहिनाविलेव पभिनी, मरुमध्यगतेव मराली, निदाघतप्तेव वल्ली, यूथभ्रष्टेष हरिणी, पाश- बघ च शारिका कष्टां दशामागता। तद्यदि जीवन्ती तामधिग- च्छेयं तहिं गास्थ्यमेवावलम्बयेति । एवं चिन्तासन्तानसन्दानि- तहदयः कदाचिदेष स्थविरीननापृच्छयव स्वगच्छाद विनियंयो। अथायं तूर्णमेव स्वग्राममागत्य कापि संवृतद्वारबाद्यायतनसमि- धावस्थित एकया ब्राह्मण्या सह समागतया कयाचिदनया वन्दितः सन् पित्रोः कुशलं पृच्छन्नकुशलमेव विज्ञाय दुःखितचित्तः प्रिया नागिला जीवति न वेति पप्रच्छ 'ननु भद्र भवदेवेन या खलु नवोढा प्रिया परित्यक्तासीत्, किमेषा साम्प्रतं तिष्ठति' ? सा त्वङ्गाना स्वर. संयोगेनाकारेण च प्रत्यभिज्ञाय प्रत्युत्तरितवती-'तपोधन, अपि नाम भंवानेव स भवदेवः' । उक्त भवदवेन-'यथाह भवर्ती, जहमेव स नागिलार्जावितेश्वरी भवदेवः। तदानी किलाग्रओपरोधेन मया तां विमुच्य अकामनापि दुष्करं व्रमिदमादायि । साम्प्रतं तु विपन्ने तस्मिन् भ्रातरि, निरंकुशोऽहं कथमस्ति में प्रियतमेति तहिक्षय नागला। । । ३४५ आगतोऽसिम' । तया ब्राह्मण्या सह समागता सा खलु सीमन्तिनी मागिलैवासीत् । परावृत्तवयोगुणामेनां बहुतिथात् कालादनन्तरमा- लोक्य भवदेवः प्रत्यभिज्ञातु नाशक्नोत् । नागिलोक्तवतो- 'अहमेव सा नागिलाऽस्मि, या हि नवोदैव भवताऽत्याजि । पुण्याशय, एतावता कालेन व्यतीते यौवनविभवे किं ममेदानी लावण्यं वत्तंत इति विमृ. श्यताम् । येन त्वमिह मुद्यसि । तदङ्ग, स्वर्गापवर्गदायकं रत्नत्रयं परित्यज्य वराटिकामात्रसदृशी मां न कथमपि ग्रहीतुमर्हसि । घोर- नरकपातप्रतिभुवां विषयरूपाणां स्मरास्त्राणां मा जातु भेदनीयो भव । उन्मनापि हितैषिणैव भ्रात्रा त्वं व्रतं ग्राहितोऽसि अतः पापखनौ मय्य- नुरक्तः सन् तमनाप्तं मा मंस्थाः । तदद्यापि निवर्तस्व भनुप्रज च गुरुपादान, आलोचय च तदन्तिके मद्नुरागजं पापम् इति' । नागिला यावदेवं भवदेवमन्वशात्, तावदेव ब्राह्मण्या भुक्तपायसः कोऽपि शिशुपुत्रस्तनोपागत्य मातरमवोचत्-'मातः, यन्मयाध सुधोपमं पायसमभ्यवहृतं तदिदानी घमिष्यामीति भाजनमेकमधो धारय, अद्याहमन्यत्र निमन्त्रितोऽस्मि, तवैव भुक्त्वा दक्षिणां लप्स्ये मवान्तपायसस्तु न पुनर्भोक्तु शक्ष्यामि, आदत्तदक्षिण मागत्य भूयो. ऽपि वान्तमिदं पायसं भोक्ष्य, का होः स्वोच्छिष्टभोजन इति' । ब्रा- झण्युक्तवती-'वान्ताशी त्वं जुगुप्स्यो भविष्यसि, तदलमनेन जुगु- प्सनीयेन कर्मणेति'। भवदेवोऽपि ब्राह्मण्युक्त समर्थयमानोऽवादीत- 'त्वं खलु वत्स, वान्ताशी कुक्कुरादपि निकृष्टो भविष्यसीति'। ना- गिला भवदेवस्येदं वचनमाकण्यं तमप्रवीत्-'श्रीमन्, यद्यवं जाना- सि कथयसि च, तहि किमिति मामुद्दम्य पुनरप्युपबुभुक्षसै ? मांसा- सृगस्थिविणमूत्रपूर्णा अधमाधमाहं वान्तादपि जुगुप्स्यास्मीति किं त्वं मामिच्छन् न जिहषि पर खलु शिक्षयलि, न त्वात्मानमिति यत्स- त्यं पर्वतशिखरे हि ज्वलन्तमग्निं पश्यसि, न पुनवर्तमानमपि चरण- योरधः?
मित्रगोष्ठी-पत्रिका। का हि गणना तेषां येऽन्यशिक्षाविचक्षणाः । ये स्व शियितु दक्षास्तेषां पुङ्गणना नृणाम्" ॥ इति भवदेवः । साधु शिक्षितोऽस्मि भद्र त्वया यत शिक्षणोयम् । जात्यन्ध श्वोत्पथप्रस्थितोऽहं पन्थानं खल्वानीतोऽसि त्वया । तदद्य स्वजनान् दृष्ट्वा गुरुसमीपमुपसृप्य व्रतातीचारार्थ दुस्तपं तपो विधा- स्यामि। नागिला। किं ते स्वजनैस्तपोधन, ते हि तव गुरुसन्दर्शने नूनं मूर्तिमन्तो विघ्ना भविष्यन्ति । तदलं तत्र गमनेन, गुरुपादान्तमुपगत्य दान्तचित्तो व्रतमेवाचर । अहमपि च व्रतिनीजनसनिधो प्रवजि- च्यामि। भवदेवो नागिलाया वचनेन यथोक्तमकार्षीत् । नागिलापि स्वोक्त मान्यथयत् ।. विधुशेखरशर्मा। -:0:- श्रोस्वामिबालरामस्योदासोनमहात्मनः प्रशस्तिः । आसीनिखिलशास्त्रपारावारपारदृश्वा विश्वविश्रु तयशोराशिवि- षयभोषणाशीविषदष्टमानुषजनविषवैद्योहृद्यानवद्यगुणरत्नाकरोऽश्रान्तो पस्थितमहीपतिगणाहम्पूर्विकाप्रणतमूर्धतिरोहितचरणारविन्द उदा- सीनोमहात्मा स्वामिश्रीबालरामोनाम । अयं खलु क्रमश:- * कथयं जैनाचार्य हेमचन्द्रकृत-'स्थविरावलीचरित'-नामका ग्रन्थात् संग्रहोता। नागिलानुरक्तस्य भवदेवस्य प्रागवर्णित प्रबण्याग्रहणं सुन्दरी'. घवहृदयस्य नन्दस्य तेन तूलनीयम्। सोदराग्रहेण भवदेव इव भवतो बुद्धस्य निबन्धन नन्दः प्रचितः सन् प्रियतमार्थ निवरां कातरोबभूव । अथ चपा. लुना भगवता बन स उद्धृत बासौदिति बोधिसत्त्वावदानकायलति- कायर्या (शमे पहावे) दरथम ।
श्रीस्वामिवालरामस्योदासीनमहात्मनः प्रशस्तिः । ३४७ पितुःप्रियः प्राप्तंसमप्रसंस्कृतिः कृती जनानन्दकरः स्वभावतः। प्रभावशाली धिषणाप्रकर्षतः प्रवीणतां वर्णगणेधिजग्मिवान् ॥१॥ मत्यल्पकालात्सकलान्यधीत्य श्रुतेः षडङ्गानि परिश्रमेण । विचक्षणाहीक्षितवैद्यनाथातथेतरेभ्यो नियतोगुरुभ्यः ॥ २ ॥ काश्यामधीयाय महामहोपाध्यायादसौ कोविदराममिश्रात् । वेदान्तशास्त्राणि नितान्तसक्तो भक्तीपरब्रह्मणउत्कचित्तः ३ (युग्मम्) ततोनवदीपपुरं प्रयातोऽधीतेस्म शेषाण्यपि दर्शनानि । अभ्यस्य भूयोरसनानवतॊन्यमूनि कृत्वाभृशमाप तोषम् ॥४॥ भयभ्रभन् देशविशेषशोभां पश्यन्गुरुभ्योबहुशोऽधिगच्छन् । शास्त्राणि लोकैरभितोयमानः पराभवन्यादिकुलं तथासीत् ॥५॥ दाक्षिण्यवान्दक्षिर्णादग्गतोसौ विचक्षणानैक्षत सक्षणस्तान् । क्षणादवाकृष्यत यैमनोऽस्य बैलक्ष्यमापे भृशमीभितश्च ॥६॥ मूर्भागतः क्षमा विनयेन युक्तः परीक्षितोनुक्षणमे भिरेषः। क्षीणः क्षुधानाय भुवाऽक्षयांहि तृप्ति प्रपेदे श्रुतिशिक्षयाताम् ॥७॥ तेन श्रुतिक्षौद्रबुभुक्षितेन गृहीतदीक्षेण समीक्षितानि । क्षौद्रक्षवक्षीरसुधादिकानि क्षाराणि रूक्षाणि गतक्षणानि ॥८॥ समाप्य वेदाध्ययनं विधायोपाध्यायवर्गानिसरोजरेणून । निजोत्तमानस्य विभूषणानि तीर्थाटनं कर्तुमियेषभूयः ॥९॥ कुर्वन्पवित्रान्पृथिवीप्रदेशान्महात्मनां सङ्गतिमीप्समानः । प्रायः प्रयातिस्म सतां समाजो यात्राप्रसाद्भवतिम यत्र ॥१०॥ मामण्डलस्याखिललब्धवर्णवर्गद्धत्प्रेम परं सदाऽयम् । पाराणसीवासिमनीषिवृन्दे महदगुरुत्वं कलयाञ्चकार ॥११॥ विधाय पातञ्जलदर्शनस्य व्याख्यां कवीनां रुचिरा चिराय स्थिरां तनु कीर्तिमयी सभीप्तस्तत्पुस्तकान्यर्पितवान्बुधेभ्यः ॥१२॥ अभ्यर्थितः शिष्टजनैश्च पातञ्जलप्रकाशं सरलं स्फुटार्थम् । দ্বিীনি লয়ালৰ তীব্দীয়ায় মাছি ॥ং ২ ३४८ मित्रगोष्ठी-पत्रिका। अथ श्रौतसर्वस्वं (पिण्डपितृयज्ञमीमांसा ) गास्थितिमीमांसा, अवोधध्वान्तमार्तण्डः अन्येप्यनेके प्रन्यास्तत्रभवता भवता पवतां जना- नामुपकरिष्णुना प्राणायिषत प्रास्थायि चोदग्दिग्गतजमपदापदारवि- न्दरजोभिः पवित्रयितुम् । प्रागेवास्यां पूर्व प्रभावमाकांतिसमुस्क- प्ठितचेतसा सत्सम्भावनस्वभावेन छपरानगरीवास्तव्येन श्रीमता देवकुमारसिंहनाभ्यर्थितः सनाथयाम्बभूव तद्भवनं चरणसरसीरुह- योरेणुभिः । सततपरिभ्रमणशीलेनापि भावभूरिलेन तस्मैप्रत्यहं ज्ञानमार्गमुपदिशता व्यलम्बि तस्यैवालये वर्षयम् । ततः प्रस्थिती वङ्गादेशीयाङ्ग लविद्यालयानामध्यक्षेण (इस्पेक्टर आफ स्कूलस, बङ्गाल ) श्रीमता भूदेवचन्द्रमुखोपाध्यायेन दर्शनशास्त्राध्ययनाय स्व- स्योपाध्यायपदवी प्रापितः । उत्सरपाराभूमिपतिना श्रीमता रास. विहारिमहोदयेनापि दर्शनशास्त्रस्य महाऽऽदर्शभूतः स्वसम्मनोभूपणी. चक्रवर्षद्वयावधि। एवमेव जगति ज्ञानमार्ग प्रकाशयता भूमण्डलमार्तण्डेन, जनाहा- यकारिणा क्षयरहितचन्द्रमसा, मनीषितवर्षिणा जङ्गमकल्पतरुणा करुणावरुणालयेन वर्तमानएव संवत्सरे कुम्भमहोत्सवे त्रिवेणी नातु प्रयागतीर्थ गतवता शमवता साधुगणानवता सर्वदर्शिनापि स्वानुच. रवर्गान् स्फुटमकथितवतैव ससम्भ्रममीश्वराहतेन या पापोयसामस्मा- कं सङ्गति त्वरया परिजिहीर्षता वा देवैः स्वेषामध:स्थितलोके तस्य वासमनुचितं मन्यमानैविमानवद्भिरपि तस्मिन् बहुमानवद्भिर्मानवज- नाहश्यैनीतनवोपरिलोकं तपोनिधिना तपोमासे कृष्णप्रियेण कृष्णपक्ष मद्भुतप्रभावपूर्णन पूर्वाङ्क तिथौ (नवमी तिथौ) यशःशुक्ल ने शुक्र. वासरे सेवकजनक्षणदेन क्षणदायां महात्मनामग्रगण्येनाद्य या भूमिव. लयेऽभिनवं शोकमुद्भावयता नवम्यां घण्टायामसिमलोके सचेतनमात्र. स्य नेत्राभ्यामश्रु वेणीः प्रवाहयता शोकसागरमग्नेष्वपि सर्वेषु परम- प्रियशिष्यं श्रीस्वाम्यात्मस्वरूपशास्त्रिणं ज्योतिर्विदं श्रीरामचन्द्रोपा- .
. .. काव्यतत्वावली। ३४९ पंच निरवलम्बमेवत्यजता त्रिवेणीतटे मिजपाश्चभौतिकशरीरशून्यं मस्यंभुवनं व्यधायि । अधुना श्रीस्वाम्यात्मस्वरूपशास्त्रिणा तत्रभवद्भिः परमकृपालु- भिनिंजानुचरत्वेन स्वीकृतया साधुमण्डल्याम्यर्थितपूर्वेण निजशोक- मनयित्वा तां मण्डली स्व मानशरणां यथापूर्व पालयितुं प्रवृत्तेन भूय- तामित्याशास्ते। पाण्डेयश्रीकान्तसम्र्मा। - काव्यतत्वावली। (पूर्वतोऽनवृत्ता) मन्यविधोऽस्तु प्रौढया प्रगल्भयैव उक्ता सिद्धोनिश्चित इत्यतः प्रौढोक्तिसिद्धः । न तु स्वभावतोऽपि लोके सम्भवति । यथा उत्तर- चरित रामो यदा सीतां निर्वास्य तद्वादशेवर्षे शम्यूकस्य शूद्रतापसस्थ षधाय दण्डकारण्यं पुनजंगाम, तदा मुरलानाम कामिनदी तमसान. दीमुवाच- "सखि तमसे, प्रेषितास्मि भगवतोऽगस्त्यस्य पल्या लोपामुद्रया" इत्याचारभ्य "स्वरं स्वैरं प्रेरितस्तयेति" इत्यन्तम् । अथ तमसा मुरली प्रत्युवाच “उचितमेव दाक्षिण्यं स्नेहस्य" इत्याधारभ्य मुरलातमसयो- नंघोरुक्तिप्रत्युक्तयः प्रौढोक्तिसिद्धा एवार्थाः । तृतीयाङ्क विष्कम्भ यावत् । ततश्च तृतीयेऽङ्क सीतातमसयो रुक्तिप्रत्युक्ती प्रौढोक्तिसि- दोऽर्थः । सीतया च छायारूपया रामगावस्पी रामेणसह वनदेवताया वासन्त्यार उक्तिप्रत्युक्तयः सर्वांएव प्रोढोक्तिसिद्धा एवार्थाः । द्वितीयेऽङ्क आत्रेय्या नद्यासह वनदेवताया वासन्या उक्तिप्रत्यु- कयश्च प्रौढोक्तिसिद्धाअर्थाः, किंबहुना उत्तरचरितस्य वस्तूनि प्रायेण प्रौढोक्तिसिद्धार्थभित्तिकानि । .
- ३५० मित्रगोष्ठी-पत्रिका। तथाहि मुरला-तमसा-गादीनां नदीनां धनदेवतायाश्च दिव्यः कोऽपि प्रभावोऽस्तीति मन्तव्यम् । तेन प्रभावेन तोथंभूतास्तानद्यो धनदेवता च मनुष्यवत मूर्ति धारयन्ति, मनुष्यवत् उक्तिप्रत्युक्तीध कुर्वन्ति, देवताइव प्रणिधानेन अतीतानागतान् समिकृष्टविप्रकृष्टांश्च पदार्थान जानन्ति, इत्येवं रूपया प्रौढ़या उक्तया एव तेतेमर्थाः नाट- कपाठकः सत्यत्वेन निश्चीयन्ते । ये पुनः नदीनां तीर्थत्वं ताशदिव्यप्रभवान् अतीतानागतसमि- हितव्यवहितविषयज्ञानं च प्रणिधानशक्ति वा न मन्यन्ते, वनानां दे- पताभ न विश्वसन्ति, ते खलु तादृशान् प्रौढोक्तिसिद्धानर्थान् न प्रतियन्ति । तथाहि महम्मदोय-खिष्टीय-नास्तिकप्रभृतिमिलों के स्तेते- ऽर्था मिथ्यात्वेनैव गृह्यन्ते, सुतरां ताशार्थनिबद्धं काव्यमपि तैरस- त्यत्वेनैव निर्णीयते । एवं रामायणे वानरमात्रस्य हनूमतः शतयोजन- विस्तीर्णसागरलचनं प्रौढोक्तिसिद्धोऽर्थः । न खलु कोऽपि वानरः एकमपि योजनमुल्लचयितु क्षमते, किंपुनः शतयोजनविस्तीर्ण समुद्रम् । परन्तु देवेन वायुना जनितस्य विशेषतो रुद्रावतारस्य हनुमतो महान् प्रभाव आसीत्। वायुर्हि दिव्यशक्तिसम्पन्नः सहनमपि योजनानि मुहूर्तेन लङ्घयति, वलेन च वृक्षप्रासादादोन भङ्क्त्वा पातयति, तस्य पुत्रो हनूमान् पितुः कश्चिदपिमहिमानं प्रापैष इत्यतः स शतयोजन- मपि समुद्रलल । रुद्रावतारतया च तस्य महावलशालित्वं । रुद्रोहि महाप्रलये सर्व जगत संहरति, किं विचित्रं तदात्मकस्य हनूमतो गन्धमादनपर्वतानयनमिति प्रौढया प्रगल्भया उक्ता हनमत: शत- योजनविस्तीणसागरलङ्घनादिकोऽर्थः सिध्यतीति प्रौढोक्तिसिद्धोऽ- यमर्थः सर्वेषां लोकानां विश्वासयोग्यो न भवति । ननु रसभावादीनामाधिक्यात काव्यस्य यदि चमत्कारित्वं स्यात् किछिन्नं प्रौढोक्तिलिद्धन अर्थेन । उत्तरचरिते रामस्य विप्र- लम्भरस: सान्द्रतया कस्य सचेतसो मनोन हरति, सहि सर्वएव वि- तदा
काव्यतत्त्वावली।
प्रलम्भरसः प्रौढोक्तमा सिद्धनार्थेन व्यक्तः। एवम् 'आरव्योपन्यासे'
प्रौडोक्तिसिद्धानामर्थानां बाहुल्यात, मन्ये, सर्वेषामेघ असत्यता
प्रतीतिर्जायते, परन्तु तस्य रसः कस्य वा मनो नाकर्षति कोवा
तमुपन्यासं पठनभिनिविष्टचेता न भवति ?
ननु तस्य उपन्यासस्य असत्यताप्रतीतावपि न काचित् क्षतिः,
सर्वेषां साभिनिवेशप्रवृत्तिदर्शनादिति चेत् न यत्र काव्येऽसत्यता-
प्रतीतिभवति तस्य काव्यस्य उपदेशोऽपि मिथ्यात्वेनैव गृह्यते ततश्च
काव्यस्य प्रयोजनं तेन न सिध्यति इति तस्य काव्यस्य निष्फलत्वा-
पत्तिः । काव्यस्य मुख्य प्रयोजनं हि रामादिवत् प्रवर्तितव्यं न रावणा.
दिदित्युपदेशदानमेव ।*
* तथाच उक्तं कायप्रकाशे,
काव्य यशसेऽर्थकते, व्यवहारषिदे शिवेतरचतये ।
सदाः परनि तये, कान्तासम्मितयोपदेशयुजे ॥ इति
मस्यद्यर्थः । काव्यं यशसे, काव्यस्य प्रयोजनं यशः। कविहि
काव्यंनिर्माय कालिदासादिवत् चिरस्थायि असाधारणं यशोलभते ।
त्येकं प्रयोजनम् ॥१॥
काय"मर्थ कते", अर्थस्य धनस्य कृत् करणम् त। कविः कार्य
नेर्माय तदिक्रीय अर्थोपार्जनं करोतीति प्रत्यक्षसिद्धमिदं काव्यस्य हितीयं
योजनम् ॥२॥
काय "यवहारविदे", यवहारस्य राजादिभिः सह पण्डितानां सनीना
मन्त्रिणां अनासचिवानां दासानां महिघोणा प्रजादौनां च यादृशोग्यवहारः
यः तस्य विट् मानं तम यवहारबिदे । कविहि कार्य निर्माय
दारा कीदृशेन जनेन सह कीदृशस्य जनस्य कौगयवहारोणात इति
कायपाका पदिशति । यथा पातशाहादिभिः पातशाह जातादिभिश्च
यह कः कीदृगवालहरेदिति आकबरादित रितेषु कायषु ज्ञात्वा इदानी-
तनाः प्रिन्स अव बोयेल्स नामकेन सत्राट् कुमारेण सह तादृशं कावहरन्ति
घतो पावहारज्ञानं रतौयं प्रयोजनम् ॥ ३ ॥
३५२ मित्रगोष्ठी-पत्रिका। यदि काव्ये असत्यताप्रतीतिरुत्पद्यते तदा तदीयोपदेशेऽपि अस- त्यताप्रतीति दुनिवारा भवति । तथाहि यदि रामायणे असत्यताप्र- तीतिः स्यात, तदा रामस्य तादृशसदाचारे रावणस्य च तादृशदुरा- चारे, मिथ्यात्वप्रतोतिर्जायत । तथात्वेसति, रामस्य तत्तत् सदा- चरणं पराजयस्य कारणमित्यपि न प्रतीयेत, सुतरां रामवत प्रवत्ति- तव्यम् रावणवत्तु न प्रवर्तितव्यमित्यस्मिन्नुपदेशेऽपि विश्वासो नोप- पद्यत इति काव्यस्यैव वैयर्थ्य स्यादिति। अतः काव्ये यथा असत्य- ताप्रतोति न स्यात् प्रत्युत सत्यताप्रतीतिरेव ढ़ा भवेत् कविना तथैव यत्नः कत्र्तव्यः इत्यत उक्त प्रौढोक्तिसिद्धादर्थात् स्वतः सम्भविनो. काव्यं "शिवतरक्षतये", शिवतरस्य अमङ्गलस्य पापखेति यावत् पतये ध्वंसाय। भगवत् स्तोत्रादिकं कावा हि कर्वः यापं विनाशयति । अत्र प्रसि- द्विः मयुरभट्टनामा कश्चित् कविः कुष्ठरोगग्रस्तोभूत्वा सूर्यशतकं नाम का निर्माय तेन सूर्य तुत्वा अारोगादातुर्भगवतः सूर्यस्य प्रसादात् कुष्ठ- रोगात सक्तोबभूवेति। सर्वदेशवासिनः सर्वएव यास्तिकाः खलु परमेश्वर- लोन पापक्षयकारणं मन्यन्त इति । दुरदृष्टध्वंसःकायस्य चतुर्थ प्रयोजनम् ॥४॥ " सदाः परनितये", सद्यः काव्यनिर्माणसमये कावाश्रवणसमयेच कावा परमानन्दं कमपि जनयतीति पक्षम प्रयोजनम् ॥५॥ "कान्तासम्मिततयोपदेशयुजे" कान्ता यथा क्रीड़ाकौतुकादिरसेः प्रेयां- पमात्माभिसखोकृत्य उपदिशति प्रियतम, प्राणेश, मह्यमेकां पारायस्याः शाटिकां देहि इति, सच उपदेशः रसैरागौंकतेन प्रेयसा कदाचिदपि प्रत्या- स्थातुं न शक्यते, तथा कावाममि शङ्गारादिभौरसैः श्रोतारं सारं वा ब- भिसखौलत्योपदिशति रामवत् प्रवर्तख न रावणवदिति; एवं च स उपदेशः प्रियायास्सदानीन्तनोपदेशवत् अलङ घनौयो भवति । इति पहं प्रयोजनम् हाइदमेव प्रयोजनं कावास्य सर्वेभ्यः प्रयोजनेभ्यो मुख्यतमम्। व्यस्य उप- देशरूपस्य प्रयोजनस्य यन्त्र काये सद्भावतस्य सत्कावावं, या पुनरसद भावस्तस्यासत् काश्यत्वं निश्चीयता मभिः ।
काव्यतत्त्वावली। ऽस्य सर्वेषां हृदयङ्गमतया उत्कृष्टतरत्वमिति । एवञ्च भवभूतेरुत्तर- चरिते रसस्य आधिक्ये सत्यपि प्रोढोक्तिसिद्धानामर्थानां बाहुल्याद- भिज्ञानशकुन्तलापेक्षया उत्तरारतस्य निकर्ष वयं मन्यामहे । प्रोढोक्तिसिद्धोऽप्यों द्विविधः। तयो रेकतरः कवे रास्मन एव प्रोढ़ोक्तया सिद्धः । यथा हनुमतः शतयोजनविस्तीर्णसागरलङ्घन पाल्मीकः प्रौढोक्तिसिद्धोऽर्थः । यथा घा उत्तरचरित तृतीयेऽङ्क मुरलया नद्या सह तमसानद्या उक्तिप्रत्युक्ती भवभूतरव प्रौढोक्तिसि- द्धोऽर्थः । तृतीयाङ्क विष्कम्भः । अन्यतरस्तु कविना निबद्धस्य अन्यस्य कस्यचित् प्रौढोक्त्या सिद्धः। कवेः प्रौढोक्तिसिद्धादर्थात् कविनियद्धस्यान्यस्य प्रौढ़ोक्त्या सिद्धोऽर्थः किञ्चिन्ममोरमः । यथा अभिज्ञानशकुन्तले दुष्मन्तस्य पुरोधसोमुखेन कविना सशरीरायाः शकुन्तलाया: स्वर्गलोकोत्पतनं वर्णितम् । यथा- नेपथ्ये । आश्चर्यमाश्चर्यम् । राजा । (कर्णदत्वा ) किन्नु खलु स्यात् ? पुरोधाः ( प्रविश्य ) देव, अद्भुतं खलु सवृत्तम् ! राजा । किमिव ? पुरोधाः । देव, परावृत्तेषु कण्वशिष्यपु, सा निन्दन्ती स्वानि भाग्यानि वाला, वाहूत्क्षेपं रोदितुञ्च प्रवृत्ता। राजा। ततः किम् ? पुरोधाः । स्त्रीसंस्थानञ्चाप्सरस्तीथं मारात, उत्क्षिप्याङ्क ज्योतिरेनां तिरोऽभूत् । इति प्रौढ़ाक्तिसिद्धोऽथों विवृतः । अन्यथापि अर्थस्य दो भेदो स्तः। सथा स्वयोनि रन्यच्छायायो- निश्चेति । तयोमध्ये कविना योऽर्थः स्वयमेव प्रथममुद्भावितः सः ४५ ३ . - मित्रगोष्ठी-पत्रिका। स्वयोनिः । स्वः कवेरात्मैव योनिरुत्पत्तिहेतुर्यस्येत्यर्थः । यथा "-. धोमुण्डितमत्तएनचिवुकप्रस्पर्द्धिनारङ्गाकमा" । इत्यत्र कविना उमा वितं सादृश्यं केनाप्यन्येन न ततः पूर्वमुट्टङ्कितम् । मत्तस्य हुनस्य चिषुकं हि नारङ्गक ( नारङ्गो ) फलवत रक्तगौरं भवति । सद्योमु- ण्डितत्वेन च चिवुकस्योपरि नारङ्गकफलस्य उपरीव कूर्चमूलानां कृ- ष्णकृष्णविन्दु चिह्नानि दृश्यन्ते इत्यतोऽयमर्थः स्वयोनिः। सादृश्य- मिदञ्च अतीव चमत्कारजनकम । यथा वा अभिज्ञानशकुन्तले- "स्मर एव तापहेतु निर्वापयिता स एव मे जातः । दिवस इवानश्याम स्तपात्यये जीवलोकस्य" ॥ इत्यत्र य एव तापस्य हेतुः स एव तापस्य शान्तिकारकः इत्ययमों- ऽसम्भव इव प्रतिभाति । अतः सादृश्येन महाकवि स्तमर्थमुपपादया. माल-"दिवस इवाभ्रश्याम" इति। तपात्यये वर्षासु ऋतो दिन मेघाच्छन्नं भवति, वृष्टः प्राफ तदिनमतीव ग्रीष्मसन्तप्तमसद्यमिवा- नुभूयते । वृष्टौ सत्यां तु तदेव दिनं कदाचित्तथा शीतलं भवति यथा वस्त्राच्छादनेनापि शीतं न निवार्यते । सोऽयं दृष्टान्तः कालिदासेनैव स्वप्रतिभया प्रागुद्भावित इति स्वयोनिरयमर्थः । यथा वा- "तन्मध्ये चरुफटिकफलका काञ्चनी वासर्याप्ट. मुले बद्धा मणिभिरनतिप्रौढ़वंशप्रकाशैः । तालैः शिअदलयसुभगैतितः कान्तया मे, यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः" || इति मेघदते मयूरनत्तनरूपोऽर्थः कालिदासेनैव प्रथमतः परिकल्पि- तः। सोऽयमर्थः स्वतः सम्भवी च स्वयोनिश्च । अन्यच्छायायोनिरथस्तु अन्यस्य कोरथस्य च्छायामात्र मव- लम्ब्य अन्येन कविना यः परिकल्प्यते, सोऽर्थोऽन्यच्छायायोतिः । यथा प्राचीन वासवाल्मीकादिभिः कविमिः प्रथमतो.नीलोत्पलसा- दृश्येन सुन्दर्या न्यनस्य मनोहरत्वं वणितम् । तेषां तस्य अर्थस्य च्छाया मुपजीव्य अन्येन कविना- - . - काव्यतत्त्वावली। निजनयनप्रतिविम्वरम्वुनि पाहुश: प्रतारिता कापि । नीलोत्पलेऽपि विमृशति करमपयितु कुसुमलापी" ॥ इत्येतत्काव्यं प्रथितम् । अस्यार्थश्च कुसुमचयनकारिणी काचित् सुन्द- री जले पुष्पं चिन्वती निजनयनप्रतिविम्यान्येव जले दृष्ट्वा नीलोत्पल- भ्रमेण तान्युद्ध हस्तं प्रसार्य प्रसायं वञ्चिता सती तात्त्विके नीलो. त्पलेऽफि हस्तमयितु विमृशति, इदं मम नयनप्रतिविम्वं, उत नी- लोत्पलमिति विकल्प्य शङ्कते इति । एषोऽर्थोऽन्यच्छायायोनिः । यद्यपि अयमर्थोऽन्यच्छायायोनि स्तथापि नूतनया कविप्रतिभया यो- जितत्वादएवं इन प्रतिभाति । नयननीलोत्पलयोः परस्परसादृश्यञ्च अतोवसङ्गततया चमत्कारविशेष मुद्भावयति । यथा वा- "चन्द्र गता पद्मगुणान्म भुक्ते, पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखन्तु प्रतिपद्य लोला, दिसंश्रयां प्रीतिमवापलक्षमीः" इत्यत्र कालिदासोऽपि अन्यच्छायायोनिमर्थ बबन्ध । प्राञ्चो वा. ल्मीकिव्यासादयः कवयः चन्द्रवन्मुखम, पद्मवद वनमिति चन्द्रस्य पत्नस्य पा सादृश्येन मुखसौन्दयं तुष्टुवुः । कालिदासस्तु तयो कमयो रेव सादृश्यं भङ्गीविशेषेण उमामुखे व्यायामास, एवमन्यच्छा. यायोनिरप्ययमर्थः स्वयोनिरिव नूतनायते । परन्तु अन्यस्य कवेरथ- मेव शब्दान्तरेण यदि कोऽपि गृहीत्वा प्रथ्नाति, तदा स निन्दनीय एव । उक्तं हि केनचित् कविना--- कृतप्रवृत्ति रन्यार्थे कविन्तं समश्नुते" ॥ इति ॥ पान्तभोजीव स. इतिभावः । भवभूतिस्तु “तन्मध्ये च स्फटिक फल- के "त्यादेः कालिदासकृतेः पद्यस्य अर्थ- "भ्रमिषु कृतपुटान्तमण्डलावृत्तिचक्षुः, प्रनलितचटुलभूताण्डवै मण्डयन्त्या । करकिसलयताले मुग्धया नत्य॑मानम्, सुतमिव मनसा त्वां वत्सलेन स्मरामि"" " । यथा- ३५६ मित्रगोष्ठी-पत्रिका। इत्यनेन अनुकृत्येव बबन्धेति वयं तर्कयामः । भवभूतिहि कालिदासा- दर्वाचीन: कविरित्यतः कालिदासापेक्षया भवभूते निकर्षः । उत्तरचरितेऽन्यस्य कवे रर्थानुकरणमस्ति इति तस्य मभिज्ञान- शकुन्तलानिकृष्टत्वं ब्रूमः। भपिच अभिज्ञानशकुन्तले पञ्चमेऽङ्क "न खलु सपदि भोक्तु नापि शक्नोमि मोक्तुम्" इति, "न विवृतो मदनो न च संवृतः" इति च यथैव उक्तं तथैव उत्तरचरिते- "पापः पञ्चवटी विलोकयतु वा गल्छत्वसम्भाव्य वा" इति भवभूतिना उक्तम् । कालिदास एव इत्थं विरुद्धयोः क्रिययोरेव नि- बेधं कृत्वा बहुश उक्तिवैचित्र्यमदर्शयत् "शैलाधिराजतनया न ययौ न तस्थौ "साऽऽह्रीव स्थलकमलिनी न प्रबुद्धां न सुप्ताम्" ॥ इत्यादि । उक्तिवैचित्र्यमेव ह्यलंकारः । अन्यत्न च अथ योस्तुल्यता दश्यते । यथा अभिज्ञानशकुन्तले, षष्ठेऽङ्क मिश्रकेशी-- "सब्बधा पर्माज तुए पश्चादेश दुक्खं पिअसहीए, पच्चकखं ज्जव सहीजनस्य' इति । उत्तरचरिते च तृतीयेऽङ्क सीता, "अजउत्त, दाणी सि तुमं अम्महे उकथा इदं दाणी मे परिश्चामसल्लं अजउत्तेण" इति। अनयो. यो रथयोस्तुल्यतैव। अपरत्र च अभिज्ञानशकुन्तले “सविषमि- घ शल्यं दहति माम्" इति, उत्तरचरिते च “यथा तिरश्चीनमलात शल्यं प्रत्युप्तमन्तः" इत्युभयोः सादृश्यं प्रायस्तुल्यम । किञ्च अभिज्ञानशकु. न्तलेः-सख्यौ। (तथाकृत्वा) "सहि जइ नाम सो राएसी पञ्चहिस्माण मन्थरो भवे तदोसे इमं अत्तणो णामधेअङ्कितं अंगुलीअअंसारम- सि" । शकुन्तला । इमिणा वो सन्देशेण कम्पिदं मे हिअभम् । सख्यो। सहि मा भामाहि सिणेहो पाव मासङ्कदि। इति । उत्तरच- रितेच- परम् । . इति । काव्यतत्त्वावली। ३५७ पासन्ती । अयि कठोर यशः किल ते प्रियं, किमयशो ननु घोरमतः किमभवदिपिने हरिणीदृशः कथय नाथ कथवत मन्यसे ।। सीता। सहि वासन्ति, तुमं एब्ब दारुणा कठोरा अ । जा एवं पलवन्तं पलावेसि । तमसा । प्रणय एवं व्याहरति शोकश्च इति "स्नेहः पापमाशङ्कते" प्रणय एवं व्याहरति शोकश्च'' इति उभावेव अर्थो एकविधौ। त. थाहि "स्नेहः पापमाशङ्कते" इत्यस्य अथ': स्नेहः पापमाशङ्कयति प्रणय एवं व्याहरति शोकश्च" इत्यस्याप्यथ: प्रणय एवं व्याहारयति शोका इति द्वयोरेव वाक्ययो: लक्षणया णिचोऽथ: बोद्धव्यः। स्नेहे आशङ्कायाः प्रणये च व्याहारस्य साक्षात्कत त्वेन अन्वयानुपपत्तेः। लक्षणायाः प्रयोजनं च व्यङ्गयम् । तश्च व्यङ्गयम् "स्नेहः पापमाशङ्कते ' नतु आवां पाप माशङ्कावहे इति । तथाच त्वयि भावयोर्यः स्नेहोऽस्ति स एव पापाशङ्की नतु आवामिति भावः । प्रणय एवं व्याहरति इत्यत्रापि प्रणयस्यैव अयं दोषः नतु वासन्त्याः कठोरत्वं दारुणत्वं वा इति व्यङ्गो भावः । इत्युभयत्र ध्वनेस्तुल्यत्व. मिति पर्यालोचयन्तु सन्तः । लक्षणामूला शाब्दीयं व्यञ्जना । किश्च मेघदूते- भङ्ग नाङ्ग प्रतनु तनुना गाढ़तप्तेन तप्तं, सानणास्रद्र तमविरतोत्कण्ठ मुत्कण्ठितेन । दीर्घोच्छासं समधिकतरोच्छासिना दूरवर्ती संकल्पैस्ते विशति विधिना वैरिणारुद्ध मार्गः॥ इत्यत्र यथा कालिदासेन नायिकानायकयो रङ्गयोस्तुल्यावस्था विशे; पणेन सूचिता तथा उत्तरचरितेऽपि तृतीयेऽङ्क रामः । हाधिक प्रमादः। करपल्लवः स तस्याः सहसैव जड़ोजडात् परिभ्रष्टः । परिकम्पिनः प्रकम्पी करान्ममस्विद्यतः स्विद्यन् । इति । .
मित्रगोष्ठी पत्रिका उत्तरचरिने पौनरुक्तमपि दृश्यते यथा द्वितीय- "वासन्ती । अथ स रामभद्रः किमाचारः । मात्रेयी । तन राज्ञा तुरश्वमेधः प्रक्रान्तः । वासन्ती । अहह ! धिक परिणीतमपि । आत्रेयी । शान्तं नहि नहि । वासन्ती। का तहि यज्ञ सहधर्मचारिणी।। भात्रेयी। हिरण्मयी सीताप्रतिकृतिः" । इति आत्रेयीमुखात वासन्ती शुश्राव । तथापि तृतीयेऽङ्क रामः । अस्तिचेदानीमश्वमेधसहधर्मचारिणी में । सीता। (साक्षेपं) अजउत्त, का सा? चासन्ती। परिणीतमपि किम् ? रामः । नहि नहि, हिरण्मयी सीताप्रतिकृतिः । इत्यत्र वासन्त्याः पोनरुक्त्यं दोषः । इति कालिदासभवभूत्योस्तारतम्यं सहृदया एष विचारयन्तु कि महाकवेदोषोद्घाटमेन। कमशः श्रीपरेशचन्द्रतर्कचूडामणिः राजारामपुरम, दिनाजपुरम्। - 0- वार्ताः सम्पादकाभिप्रायाश्च । अस्मत्पाठकानां कैश्चिद् धाराणस्यां 'दरिद्रदुःखप्रतीकारसमिति'. रित्यपराभिधेयस्य 'रामकृष्णसेवाश्रमस्य ( Ramkrishna Home of Service ) वृत्तान्तो विज्ञातपूर्वः । अस्य पञ्चमवार्षिक कार्यविवृति- मालोकयतामस्माकं हृदयकन्दरो महतानन्देनापूर्यते । 'निग्धे शि- रसि सर्व एवं तैलं निषिञ्चतोति' लौकिकानामाभाणकम् अन्याय- तुमिव बद्धपरिकरोऽयं यथार्थाभिधान आश्रमः । दारिद्रयदहनदग्धानां ।
11 वार्ताः सम्पादकाभिप्रायाश्च । विविधामयकलितकलेवराणामधन्यानां साहायकाय प्रज्ञावत्स्वपि लक्ष्मोपत्स्वपि च स्वल्प एव स्वहस्तावलम्यमयन्ति । भगवत्यान्नपूर्णया कृताधिष्ठानायां वाराणस्यां मुष्टिमेयेनान्नेन कथञ्चिद्गच्छंदेव दिन- मिति व्यर्थप्राचिन्तया यहव एवेह समागत्य प्रतिकूलेन देवेन व्या- धिनानशनेन च परिपीड्यमाना उपेक्ष्यमाणाश्च पाश्चंगामिभिः पश्यद्भि. जननिःसहायाः परां विपत्तिमापद्यन्ते। अस्माकं रामकृष्णसेवाश्रमः' प्रतिद्वार भिक्षाटनोपलब्धधनतण्डुलादिदानेन यावच्छक्यं कश्चित्ते. पामेव तपस्विनां दुःखापनोदनाथ प्रयतमान: प्रशस्यतमं कृत्यमनुति- ष्ठति । अतीतेऽन्देऽस्मादाश्रमात ९२५ जनाः येषां ५१३ पुमांसः, स्त्रि. यश्च ४१२, स.हायकमधिगताः । जातिधर्माभिजनादिनिविशष खल्व- नेनातुरा जनः सेव्यत इत्युद्धोषानुरूपमवास्य कृमिति तदीया का विवृतिः, पश्यतामसमाकं नयनानि च प्रदर्शयति । विस्तरः कार्यवि- वृतो शयः । साप्रतन्तु आश्रमस्य स्वकीयगृहाभावादातुराणां सेवना- दिकार्येषु महदसोकर्य जायते; अतस्तेन सहास्माभि स्तदर्थ सकरुणाः सचंतसो यथाशक्तिद्रवणादिसाहाय्यं प्राथ्यन्ते । स्वल्पतरमपि दानं बहु मंस्यते । दातृभिदित्सितं द्रव्यमाश्रमसहकारिसम्पादकसमीपे प्रेषणीयम् । तत्स्थानसङ्कत इत्थं-सहकारिसम्पादकः, रामकृष्णसेवा- श्रमः, रामापुरा, बनारस सिटी। The Assistant Secretary, Ramkrishna Home of Service, Ramapura, Benares City. परन्तु सर्व- हंहो पाठकमहाभागाः सम्प्रत्यपि नोच्छिन्नान्यस्माकं वदविद्या- विरहितानामप्याय॑म्मन्यानाम माम्नायादीनि तानि तानि शास्त्राणि, न च नेदानीमप्यध्यापयन्त्यध्यापकाः, अधीयते चान्तवासिनः मपि कथं कथमिव विपर्यासापन्नमिह परिदश्यते । यः खलु 'गुरुकुल"- शब्दः पुराकिलं अलस्यापि विशेषतो ब्राह्मणादिवंशोयस्य नितान्तं सुपरिचित आसीत, स एवेदानी बहुवर्षीयैरपि संस्कृतशास्त्रमाया- नैरपि चान्तेसदैः कोषोद्धाटनमन्तरेण न ज्ञायते । अद्यत्वे ग्रन्थमान- मित्रगोष्ठी-पान का। । स्थितोऽयं शब्दः। कीदृशः पुनस्तदर्थ इति नास्माभिः प्रत्यक्षीकर्तुः शक्यते । एतादृशे च भारतीयानामधःपातसमये यदि किञ्चिद, विकलोऽपि वा गृहीतपरिच्छदान्तरोऽपि वा स एवार्थोऽस्माकं नयन. पथमवतरेत् तहि क इव प्रमोद उत्पद्यत इत्यनुमीयतां भवद्भिः। युक्ते वाल गुरुकुलमुपनीता वटवो यथानियमं ब्रह्मचर्यमाचर्य का नु खलु विश्वतोमुखी कल्याणपरम्परां लंभिर इति न जात्वद्य वयं चिन्तयामः, न च तस्य चिन्तनीयत्वमपि गणयामः । अवितमिद यदिदानी सवंथा प्राचीनरीत्यागुरुकुलनिषेवणेन साम्प्रतिकी लोक. स्थितिदुर्लभेति । तथापि पृष्टो व्याचष्टां भवान-किमङ्ग अपेक्षितेन प्रकारेण संस्कृत्यापि गुरुकुलनिवासी ग्रहीतुं न शक्यते ? मन्यामहे ब्रह्मचर्याभावादव प्रायेणेदानी भारतीयानामकालवाद्धक्यम्, अल्पा- युष्णुशक्तिहासः धर्मानाश्वासः, ईश्वराननुरागादयश्च विविधा उपद्रव आविर्भवन्तोति। कृते संस्कारे, यः कोऽपि यो काञ्चिदियां कि नाधिगच्छतु न दुष्कर तेन ब्रह्मचर्यपरिपालनं भवेदिति विश्व सिमः अतएव समाजहिचिकीर्षुभिः 'आर्य-समाज'-मतानुसारिभिः सम्भूय यथाविवेक प्राचीनां पद्धतिं संस्कृत्य हरिद्वारसमीपे जाह्नवी तट 'गुरु कुलम्' इति ब्रह्मचर्याश्रमः स्थापितः, यस्य खलु वृत्तान्तपुस्तक तन्मुख्याधिष्ठातृमहाशयेन कृपयास्मभ्यमुपहृतम्। क्षुद्रविग्रहयं पत्रिका विस्तरशस्तदालोचयितुमसमर्था । तथापीदं समासतोऽवश्यमेवा. स्माभिवक्तव्यं पाश्चात्त्यसाहित्यविज्ञानादिव्यवस्थामपि क्रोडीकृत्य प्राचीनांश्च नियमकलापान यावत्सौकर्य परिपालयद गुरुकुलमेतर सर्वेषामेवोदारहृदयानां ननं महीयसी प्रशंसामहंतीति । आर्यसमा जानुसृतं मतमस्मत्सम्मतं न वेति नेह तत्र किञ्चिदुच्यते, नचास्य पत्रिकायां तत्प्रकाशनार्थ मस्माकमवसरोऽप्यस्ति; सम्भाव्यमानसम्म दायविशेपवैमनस्पस्य कृत्यकलापस्य हि निपिद्धः सञ्चारो मोष्टया सुतरां च तत्प्रकाशितायां पत्रिकायाम । न चेह तन्मतप्रकाशनस्या वाः सम्पादकाभिमायाश्च । पेक्षाप्युत्प्रेक्ष्यते । इदन्त्यसमाभिः स्पष्टमुदीयंते या वयं तेषां महनीय- महिनामपि विचौरेयाणां पन्थानमनुगन्तु प्रभवाम इच्छामो वा, ये हि मार्यसमाजेन स्वनामधेये 'माय'पदं प्रयुक्तमालोक्य स्वयमाः सन्तोऽपि न तेन पदेनात्मानं व्यपदेष्टुमभिलषन्तीति । आर्यसमाजो धर्मादिविषये युक्तं मतमनुसरतु मैव घा, परन्तु तेन समाजमङ्गलार्थ विधीयमानःप्रयत्नः प्रशस्य पवेति स्वीकर्तव्यमेव । आर्यसमाजस्य जलन्धरनगरवर्ती. कन्यामहाविद्यालयोऽप्यपरं तस्य सामाजिक. कल्याणसाधनोदाहरणस्थानम् । अन्यच्चैवं लाहोरस्थो 'दयानन्दा- ग्लोवैदिकविद्यालयो'नाम। * अस्माकं श्रीभारतधर्ममहामण्डलेन पुनः किमद्ययावत कर लो. कोपकाराय ? कासाञ्चिदवान्तरसमितीनां स्थापनं, स्थानेषु स्थानेषु मन्तरोपदेशक-महोपदेशकानां प्रेरणम्, वस्तु तो हितकाराणां केषां- चित् कर्मणां सकल्पं विना नान्यत् किश्चिदुपलभामहे । महामण्डलेन स्वमतावलम्विनां कृते आर्यसमाजस्योदाहतानीव कर्माण्यवश्यमनुष्ठे- यानि, विशेषतस्तु ब्रह्मचर्याश्रमस्थापरं नाम । महामहानृपतीनां मामाक्षराणि महामण्डलस्य सहायकसंरक्षकादिश्रेण्या हश्यन्ते। कि नाम दुष्करमेतैः स्वधर्मरक्षणपद्धनप्रचारणार्थम् ? कियदा द्रव्यमपे- स्यते। बहु खलु कृतं महामण्डलस्य श्रीमता ज्ञानानन्दस्वामिना मपि नाम तन भवान् साम्प्रतमस्मिन् विषये स्वनयनं सञ्चारयेत् ? मालिपूर्व केनापि सुशिक्षितेन जापानीयेन विदुषा स्वदेशीय. शिक्षापद्धतिविषये मनस्यनगरमन्दिरे व्याख्यानं कृतम् । अयमिह सस्य संक्षिप्ततरो निष्कर्षोऽस्मत्पाठकेभ्य उपहियते:--इतः ४० वत्स- रपूर्व जापानदेशे उपशिक्षाया निष्प्रयोजनस्वममन्यत, परन्तु ततः ३६० मित्रगोष्ठी-पत्रिका । प्रभृति शिक्षा तथा प्रचलिता, यथा साम्प्रतं तपस्यानां जनानां प्रति- शतकं १८ जना लिखितु पठितु च जानन्ति । स्त्रीषु षष्ठात चतुर्दश वत्सरं यावत सर्या एव राजनियमेन पठितु विद्यालयं प्रेयन्ते । तत्र ताभ्यो लिखनं पठनं च विना रन्धनं गृहकमपरिपाटोप्रभृतीनामपि शिक्षा दीयते। व्यायाममपि यथोचित ता अभ्यस्यन्ति । पालकानां शिक्षाब्यवस्था सर्वकर्मापयोगिनी। जापामीयतरुणाः प्रायेण राज. कीयं कम नेच्छन्ति । त एव हि राजानं पुष्णन्ति, न पुन स्तेन पुष्थः माणमात्माननिच्छन्ति । जापाने दौ राजकायौ अपरे च कतिचित्र अराजकोया विश्वविद्यालयाः सन्ति। राजकीयाराजकीययोस्तयोरे. तावानेव भेदो यस्मिन् एकप्रकाष शिक्षः, अन्यत्र तु विविधा सा। जापाने विविधमक्षरं व्यर्वाहयते, एकं तत्रत्यमेव, अन्यत्त चीनजम् । उभयपि दुरधिगममः तेन च शिक्षाया महानन्तरायो भवताति साम्प्रतं रोमकाक्षरग्रहणप्रस्तावत्ता प्रचलति । व्याश्या. त्राऽयं समथ्यंत एव । जापानीयाः सत्यमन्विष्यन्ति, अतस्ते स्थित. मधममात्मनो दुरीकर्तुम्, अस्थित चीत्त समन्यसाद ग्रहोतु नियत- मुन्मुखाः । श्रीमता व्याख्यात्रा स्वव्याख्यानमित्थमुपसंहतम् :- “Pride of India is pride of Japan, shame of India is the shame of Japan."--भारतस्य गौरपेण जापानस्यापि गौरवम्, भारतय ल. खया तु जापानस्यापि लज्जेति । * .. अन्येधु : लण्डननगरयत्तिन्यां Royal Asiatic Society'-सभाया. मनेनाध्यापकेन म्याकडोनेलेन भारतीयराजपुरुषाणां संस्कृतशिक्षाव- श्यकविपये कश्चित्तबन्धः पठितः । संस्कृतशिक्षयैव भारतीयानामा- चारव्यवहारादिकं सुष्ठ ज्ञातुं शक्यं, शक्यं च तथैव तेषां धर्मवि- धिनियमादिकमयबोद्भु येन ब्रिटिशपुरुषैर्भारतीयानां शासनं चारुतरं सम्पद्यतेति । स खल्विदं विविधाभियुतिभिः प्रतिपाय सिविल वार्ताः सम्पादकाभिमायाश्च । ३६१ पार्विस-परीक्षायां संस्कृताध्ययनावश्यकस्यनियमव्यवस्थापगप्रस्ता- उम् अकार्षीत् । सभापतिजा तु. तत्परीक्षायां सस्कृतस्य तथात्वेन ग्वर्तनं साम्प्रतं दुलंभावकाशमिवेत्युक्तमासीत् । * * महामतिरुदारनोतिकत्वेन प्रख्याततरी भारतसचिवमहाशयः के. श्चद भारतबन्धुभिः पङ्गन्यबच्छेदप्रतीकारार्थ प्रार्थितः सन् वङ्गो- नां वनव्यवच्छेदानलसन्तापः प्रशान्तः अतः कृतं तत्प्रसङ्गन इति मणीयेनोत्तरेण तेषां कर्णपियरमशीतलयत् । तदिदं विज्ञाय वङ्गानां नरभिनवैव काचिदवस्थोपस्थिता । राजपुरुषाणामनुचितेन निदा- नादशेन दुःखदहनमालाकलापैदह्यमानष्वपि हत्पिण्डेषु घडो- नां तत्प्रकाशनसामर्थ्य तिरोहितमिवासोत् । कस्य खलु रूकन्ध धंद्यमति, यो हि नोचस्यापि राजगुरुषस्य तर्जनीलञ्चालनतोऽपि । विभीयात् । किम्माकफ लनामिव वङ्गीयानां वाह्यरूपं विलोक्चैव वस्थास्त इति राजपुरुषैनिर्णीतं परन्तु यद्यं तैस्तेषामन्तर्भागेषु नयन- मलं सञ्चारितं स्यात् तर्हि विलोक्यत यद् दुःखदहनदग्यवाद पङ्गारकृष्णं संवृत्तं तेषां हृदयमण्डलमिति । यथा वा भवतु, वङ्गषु व्यवच्छेदस्यानभिमतत्वप्रख्यापनोत्साहः स्वदेशवस्तुव्यवहारा- यवसायम पुनरपि प्रभूततरेण रभसेन प्रवर्तते । नूतनमिव जीवन हन्धं वङ्गायैः । पुनरप्युद्यमातिशयेन समितीः संस्थाप्य देवताश्च क्षिीहत्य स्वदेशद्रव्यव्यवहारः प्रतिज्ञायते ऽस्माकं वकीययन्धुभिः । संस्कृतचन्द्रिकाया द्वादश चण्डीयनवमसंख्यायां पण्डितवामन, मस्य 'धर्मविप्लन-नामकः सन्दर्भो मनोरमो विचार्यश्च । वयमस्य रित समाप्ति द्रष्टुमुत्कण्ठामहे । अस्यामेव संख्यायाम् एतान्यक्ष- णि प्रकाशितानि-यानि सविशेष सर्वेषां नयनाकर्षणमहन्ति :- मिवगोष्ठी-पत्रिका। "पुष्यपत्तने ...वीरपर्यापटीपसः श्रीमतोराणासरतानसिंहमहाशयस धप्रयोगाः समघटन्त । मधेक्षिता मामूलान्तमेतेऽस्माभिः । यो यः किल प्रयोगो दृश्यते स स विस्मयस्तिमितमेवातनोति चेतो द्रष्टुणाम् । मत्स्यवेधः, पत्रकरगतनारीकेलवेधो, वापीगतस्य जम्बोरस्योत्पातन- मित्येवंविधाः किल प्रयोगा मानन्दपूरेण हृदयमुत्लावयन्तीव। यैः किल महामतिभिमत्स्यवेधशब्दवेधादिषु मिथ्यात्वमारोप्यतेऽवश्यममी मवेक्ष्यन्तां प्रयोगा पतन सुदूरमुत्सरे दुराप्रहपिशाचिकेयमेतेषा- मिति धूम इति" । इतोऽपि विस्तरश इदं शुश्रू षितमासीदरमा. भिः। अपि नाम तत्सम्पादकमहाशयस्तामिमां पार्ता प्रपञ्चपितु मनाक श्रममकी कुर्यात् । महत् बल्विह कौतूहलं जनानां विशेषतस्तु साम्प्रतिकानाम्। * नातिपूर्व दुर्धर्षगुखावल प्रपीडिते विप्रहिणीव स्वदेशानुरागप्र- भावे धतषु परिशालनगरे अन्येधु वंशीयप्रादेशिकसमिति सम्मेलने तत्तत्स्थानागता निरपराधाः सभास्सार-महाशयाः भूताविष्टानामिष, पिशाचपीडितानामिष वातप्रस्तानामिव बोधलं विचरताम्, अनु. चितमाचरताम, अस्थान एव कुप्यतां बिभ्यतां च स्वार्थान्धानां राज- पुरुषाणां निष्कारणप्रज्वलितेन कोपानलेन कथमिव निर्दयं प्लुष्टा इति कस्य नाम पत्तैमाने समये परिचिताक्षरस्य क्षीरकण्ठबालकल्याप्य- गोचरम् । तस्मिन्नहनि वङ्गोयानां तां स्खलु दुर्दशामालोक्य युगप- देवास्माकं हर्षो विषादश्च हृदयमधत्ताम् ।। एकतो दुर्विनीतानां मूढानो रक्षापुरुषाणां गुरुतरलगुड़ाधातेन निरपराधाना सामाजिकानां शिरसः सुदुदंशः शोणितनावः, अन्यतश्च तदानीमपि निविचारमा- हन्यमानानामपि तेषां तारात्तारतरं "वन्दे मातरम्" इत्यवधोरितामृ- तनिष्यन्दो निखिलप्रेमसर्वस्वीभूतः सुप्रसिद्धो निः। यावयांवर रक्षापुरुषाणां लगुडणातः, तावत्तावदेष भूतलपतितानामपि तेषामु- वार्ताः सम्पादकाभिप्रायाश्च । स्तरां स एव सान्द्रगम्भीरो निनादः, कश्चिदष्टादशवर्षदेशीयो मालकश्चित्सरजनो नाम माघातेनासम्ममृत्युरपि क्षीणीभूतात्कण्ठतो म तं ध्वनिपयंत्यजत् । एष बलु ताडयद्भिः रक्षापुरुषैः सरोमध्ये न्यपात्यत, धिरधारया चायं भूतलमरअयत्। इयं दशा बहूनामेवा- सीत् । इत्थमपि वकीयास्तदानी यदपूर्व बोयंमदर्शयन्, तत् खलु वस्तुत एवाद्भुतमनिर्वचनीयं च । एतै हिं पूर्वमेव ताइङ निग्रहस्तै- स्ततुभिरन्यमीयत । तथा ज्ञात्वैव ते सकलदेशोपकाराय निरणयन् यत् ताडयतो विनाशयतोऽपि राजकीयपुरुषान् ताडयमाना अपि च वर्य न लेशतोऽपि प्रहरमेति । देशाधिनायकैः : सुरेन्द्रनाथादिभि- यथैवादिष्टं, कण्ठागतेष्वपि प्राणेषु वतीया भ्रातरो निःशब्दं च तथै- वाकार्षः। तत्साम्प्रतं पश्यत भो वाचकमहाशया बङ्गानां वर्तमाना- मवस्थाम् । गिरिनिर्झरिणीप्रवाह इव प्रतिहन्यमानोऽयं पङ्गीयानां स्वदेशानुरागो भूयोऽभि वधमानः कमिव परिपाकमुपैयतीति न मायते। अथवा किमन शेयमवशिष्यते। सर्वथा स्वस्ति नो देवा करिष्यन्ति । तस्मिन् महत्युपद्रवे ईश्वरायमाणेन लीलान्यायेन विहरता परि- शालनगरकरासनाधिकृतम घधिनायकानामन्यतमो महात्मा सुरेन्द्र- माथो रूप्यकाणां चतुःशती दण्डितः । राजपुरुषाणामीहशेनानुचितेन व्यवलरेण न केवलं वक्षाः, मपि तु निखिलं भारतमेव भवनातम्मन्यं विषण्णमानसं च तिष्ठति। नैत- चित्रं नाम । न हि शरीरस्यैकसिममा वृणे परेषामङ्गानां लेश- तोऽपि स्वास्थ्यानुभवो जायते। न चैतदप्यप्रसिद्ध यद्यो होकं नि- केतनं भस्मीभूतं करोति, स न पुनरपरं कुर्यादिति को नु स्वल्पबुद्धि- रतिम प्रतीयादिति । तत् सर्वथा शिवं भवतु । * कलिकातायों राजकीये 'प्रेसिडेन्सिकलेज'नामके विद्यालये कि- । ३६४ मित्रगोष्ठी-पत्रिका। मभिनवं संस्कृताध्यापकपदं प्रतिष्ठाप्य तदधिष्ठानार्थम् इलैण्डतः कश्चित् संस्कृतज्ञ आनेष्यत इत्यपरेधु चंडोय व्यवस्थापकसभायाम. यमा विचारित आसीत् । नैतत्प्रकाश्य कथनीयं यढेपोऽध्यापको भारतोयानेव संस्कृतमध्यापयेदिति । किमतः परं श्रोतव्यमस्ति ! दुर्विदग्धै राजपुरुषैः किं खलाशक्यमसम्भाव्यं वा ! भारतीयान् सस्कृतं शिक्षयितु कि भारतोया एव न प्रभवः ? अपि विलोनं नाम भारतोयेन सस्कृतपाण्डित्येन ? अथ सस्कृतशिक्षायां पाश्चात्याध्य- यनप्रकारः प्रवक्तनीय इति तदारम्भः नैतदार पेशलम् । किं नु भो. स्तत्वरिपाटीनिपुणेषु भारतीयानां स्थानं नावलोक्यते ? को वां स प्रकारः श्रीमतामायुष्मतामभिमतः, यो हि ताशवैदशिकाध्यापका- नयनमन्तरेण स्वल्पतमेन च व्ययेन भारतोयैरेव प्रवर्त्तयितु न शक्यते अथ स्वजातीयजनपोषणको धर्म प्रासमानेघस्मासु केयं भवतोऽ. क्षमेत्युदीर्यते । स्पष्टमङ्ग तदेवोदोरयन्तु, तदेव श्रोतुमिच्छामः । नास्मिन् पक्षेऽस्माकं लेशोऽवि विप्रतिपत्तेः । कामं स्वैरं विहरन्तु भवन्तः । कर्णाकणिकया शृणुमो भारतीयेष्वेव कश्चिन् महापण्डितः ! हविराहुत्या राजपुरुषाणां तमिमं मनोरथदहनं सुन्धुक्षयतीति । धिग राज.नुग्रहलोभम, येन विवेकसामर्थ्य सुदूरमुत्लार्याकर्तव्यमपि कत्त व्यत्वेन निर्दिश्यते वर्षान्ते निवेदनम् । अनुग्रहेण भगवतो निखिलभुवनाधिपतेर्भूतनाथस्य, शुभाशंसया च सकरुणान्तःकरणानां सहृदयानां मित्राणां ग्राहकाणां च, ननु भोः पाठकमहाभागाः भादोयेयं 'मित्रगोष्ठी-पत्रिका' समागताम् नैकवि- घानपायानतिक्रम्य द्वितीयमपि वर्षे कथमप्यतिवाहितवती। अद्यय मस्यास्तदर्षस्य चरमा संख्या श्रीमतां कमलकोमलपाणितलपरामर्श- - , वार्ताः सम्पादकाभिप्रायाश्च । स्वमनुभवितु गच्छति । प्रथमवर्षशेषे निवेदन'-सन्दर्भ पतद्वपीय- 'कायाः सौष्ठवातिरकसम्पादनादि विषये बहु खल्वस्माभिः प्रति. तमासीत्, अस्मदधन्यतया तु न तद्यथामनोरथमिच्छद्भिरप्यस्मा- [: सम्पादयितुमशक्यतेति प्रकाममपनपते वितथवादिनां नः सेयं खनी। नायमेक एवापराधोऽस्मिन् वत्सरे पत्रिकापरिचालकानाम् । नदगोचरं नामैतेषां प्रथमप्रभृत्येव,-यदेतर्षीयपत्रिकायां पालैरपि बोधानां केषाश्चित स्खलितानां प्रचारेण पाचकमहाशयानां चित्त- तितमामुगपरीतमजायतेति । किं तानि सम्पादकलेखनीतो वा, इनवधानपरोक्षणतो वा, शोधकशोधनापाटवतोवा, मुद्रायन्नविल. तो वा सजातानीति प्रेक्षका एव विचारयन्तु किन्तु तदर्थर्मात- नायमानः कैश्चिन्मङ्ग चिकीर्षुभिर्वन्धुभिः सोपहासमुदीरिता- म् उपालम्भवचनानामपि भाजनीभूता वयमभूम । नूनं साधुवा- हास्ते महात्मानः, येहि करुणया तानि तानि स्खलितानि प्रदश्य गंशोधनसौकर्य सम्पादितवन्तः, निषिद्धवन्तश्च तथाविधानाम- षां पुनः प्रचारम् । गच्छतः स्त्रलनं नामेदं नैसर्गिकम् । अतो विस्मयावहं यदस्मिन् दुर्गमे ऽनि सञ्चरन्तो वयमपि क्वचित चदपि स्खलेमेति । यथा तथा वास्तु, इनं पुनर्यत् सर्वथा गहणीयं, खत्यस्मद्धिो न तन्मुक्तकण्ठमङ्गी कुर्यात् । अलं निवेदनेन-आ- मिनि वत्सरे नैतद्यथा पुन पनगोवरतामापतेत, पत्रिक परिचाल- : सर्वथा तथा कत्तुंमवश्यं प्रयतेरनिति । पत्रिकाया अपरापरगुण- विचारे श्रीमन्तः पाठकमहाशया एक प्रमाणम्, न वयमत्र स्वयं चिद वक्तुभिलषामः । तथापीदं सुप्रकाशं नाम यन्मित्रगोष्ठी- त्रकालेखाना भित्र एव हि कश्चित्प्रकारो, यः खलु वर्तमानसमया-- हलइति । पत्रिकायां प्रकाशनीयानां सन्दर्भाणां विषयादिविवेके यतमेव धयं सचेतसामभिप्रायमजिज्ञासामहि, इदानीमपि च जि- सामहे । सुष्टु स्खल्विदं वयं जानीमो यदुिषां साहायकाहते ईशं मनुःसाधमेति ।
RIBANA MISSION INSTITUTE ३६६ A0 । मित्रगोष्टी पत्रिका। पाठरिदं लक्षितं स्यादिति मन्यामहे यत् पत्रिकाया वार्षिकाकार: शतजयपृष्ठात्मकइति, परन्तु योरपि वर्षयोस्ततोऽधिकाम्येव कानि- चित् पत्राणि प्रदत्तानीति। सति सम्भवे, इतोऽन्याकारो वर्चयि- प्यते सम्प्रत्यति। मित्रगोष्ठापत्रिका सर्वाभ्यः संस्कृतपत्रिकाभ्य मा. कारतोऽपि गुरुतमा, अनुपातेन सुलभतमा च । आगामिनि वर्षे भस्मत्पत्रिकायां किं किं कथं वा स्यादिति पूर्व किमप्यनभिधाय कर्मणैव प्रकाशयितु मिच्छामः । तथापि केषाश्चित कौतुहलनिवृनये वा सन्तोषसम्पत्तय एव वेदं समासेनोच्यते यद- स्मिन् वर्षे भारते अन्यत्र च प्रसिद्धतमानां विदाणां लेखकानां सन्दर्भास्तत्र प्रकाशयिष्यन्ते। बहवो महानुभावाः प्रार्थिताः सन्तः करुणया स्व स्वनिधन्धं पत्रिकायै प्रदातु प्रतिश्रतवन्तः । तदिदं विज्ञाय प्रसीदन्तु नः पाठकमहाशयाः, कुर्वन्तु च यथो- चितं यावच्छक्यं च करुणया पत्रिकाया अभ्युदयमिति सविनयं, सनिबन्ध, सविस्रम्भं च याचमाना: सारस्वतपथसञ्चारिणो प्रति. पदसुलभस्खलनाः, दुष्करलोकरञ्जनवतदीक्षिताः वयं साम्प्रतं विर. मामः इति शिवम् । LIBRARY WATHI
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.