Library

Alang-kaaramuktaavalii

Paand-d'eya Shriivishveshvara · 2005-12-02

PDF Proofread

Front matter

THE BOOK WAS DRENCHED

UNIVERSAL
LIBRARY
OU_184516
LIBRARY
UNIVERSAL

No text on this page.

Osmania University Library
Accession No 9 24644
Author पाठेश्य विनर
25
Call No.S,808 |
PR
Title
Tyf bellacs & 1927
This book should be returned on or before the date
last marked below.

No text on this page.

हरिदाससंस्कृतग्रन्थमालासमाख्य- काशीसंस्कृतसीरीजपुस्तकमालायाः ५४ काव्यविभागे (७) सप्तमं पुष्पम् । पर्वतीय-विद्वद्वर-श्रीविश्वेश्वर पाण्डेयनिर्मिता- अलङ्कारमुक्तावली। नेपालदेशीय- पण्डित श्रीविष्णुप्रसादभण्डारिणा संशोधिता। काश्यां- बौखम्बासंस्कृतप्रन्धमालाप्रकाशक-श्रीयुतहरिदासगुप्तात्मज- श्रेष्ठिजयकृष्णदासगुप्तमहाशयेन स्वकीये 'विद्याविलास' नानि यन्त्रालये मुदयिस्वा प्रकाशिता।

हमारे यहां हर तरहकी छपाई वजिल्दसाजीका कार्य भी होता है।
हर तरह के संस्कृत ग्रन्थ तथा भाषा पुस्तकों के मिलने का पता-
जयकृष्णदास-हरिदास गुप्तः,
चौखम्बासंस्कृतसीरीज आफिस,
विद्याविलास प्रेस, गोपालमन्दिर लेन,
बनारस सिटी।

KASHI-SANSKRIT-SERIES
(HARIDAS SANSKRIT GRANTH MALA)
54.
( Kavya Section No. 7 )
ALANKAR MUKTAVALI
BY
PARVATIYA SRI VISVESVARA PANDEYA
Edited by
Vishnu Prasad Bhandari of Nepal.
Printed Published & Sold By
JAI KRISHNA DAS-HARI DAS GUPTA,
CHOWKHAMBA SANSKRIT SERIES OFFIUS,
Vidya Vilas Press, North of Gopal Mandir,
Benares City ( India )
1927

1
2
Agents:
Luzao & co, Booksellors,
LONDON
Otto Harrassowitz, Leipzig:
GERMANY.
The Oriental Book-supplying Agency,
POONA
3

भूमिका। इयमलङ्कारमुक्तावली कूर्माचलदेशीय-पाण्डेयकुलतिलकविद्ववर श्रीविश्वेश्वरशर्मणः कृतिः। एतदीयेतिवृत्त पूर्व मुद्रिताया अदसी. यार्यासप्तशत्या भूमिकातोऽवगन्तव्यमितिहासरसिकैः सहृदयैः । प्रबन्धोऽयमुक्तकविना अलङ्कारकौस्तुभनामकं विस्तृतमलङ्कारविष. यकं ग्रन्थरत्न निर्माय पश्चनर्मित इति ग्रन्थकर्म आरम्भ एव "नानापक्षविभावन" इतिपद्येन स्वयमेव प्रतिपादितम् । अन्यकी अलङ्कारकौस्तुभस्था एव कारिका अत्र स्वल्पविवृति- सहिताः कृत्वा सन्निवेशिताः।उदाहरणपद्यानि तुप्रायोनूत्नानि सन्नि- धेशितानीति विशेषः । अलङ्कारकौस्तुभमभ्यसितुमिच्छतां सुतरामु पयोगीदं प्रबन्धरत्नं मुमुद्रयिषुणा मैकषिधामुद्रितचरप्रन्यरत्नमुद्रण- प्रवणेन श्रेष्ठिहरिदासतनूजेन श्रीजयकृष्णदासगुप्तमहाशयेन शोधन- कृते प्रार्थितोऽहं प्रावतिष्येतच्छोधनाय । आदर्शपुस्तकं तु अलवरस्थराजमान्यश्रीयुत-पण्डितचन्द्रदत्त- शास्त्रिणः सकाशादानाय्य तेनैव दत्तं शुद्धप्रायमेकमेव । विषयानुक्रम- णिकोदाहरणपद्यानुक्रमणिकादानेन अभ्याससौकर्याय कारिकाणां पृथक्सन्निवेशेन च परिष्कृत्य सपरिश्रमं संशोधितेऽप्यत्र मानुष्यक. नान्तरीयकदोषजातानि स्खलितानि मर्षयिष्यन्ति ग्रन्थतत्त्वमात्रजि- ज्ञासापहिला धीरवरा इति- प्रार्थयते- . १९८४ वैशाखकृष्णे ८तिथौ चन्द्रवासरे। विनीतो विदुषां विधेयो नेपालाभिजनो विष्णुप्रसाद भण्डारी।

अलङ्कारमुक्तावल्याः
कारिकाः।
सन्मूलमकृतिः प्रकाशितशतानन्दो दधानः क्षमा
कृष्णं वापि सुमन्तुनैकगुरुताशाली नयन्पूज्यताम् ।
सवृत्तिं दधदात्मभूतनयतामारुन्धते यस्य ता-
माचार्यः प्रथमो गिरा विजयते विद्वान्स लक्ष्मीधरः ॥१॥
नानापक्षविभावनकुतुकमलङ्कारकौस्तुभं कृत्वा ।
मुखषोधाय शिशूनां क्रियते मुक्तावली तेषाम् ॥ २ ॥
तत्रैकवाक्यवाच्यं साश्यं भिन्नयोरुपमा ।
वाचकधर्मसमत्वप्रतियोग्यनुयोगिनां ग्रहे पूर्णा ॥१॥
श्रोत्यार्थी सा द्विविधा वृत्तौ वाक्ये च तद्धिते तद्वत् ।।
स्यादिवपदादियोगे बतौ तदर्थेऽपि सा श्रौती ।। २ ।।
तुल्यादिकपदयोगे वतौ तदर्येऽपि चार्थी सा ।।
अन्यतमस्य चतुर्णा विरहे लुप्तां वदन्त्याप्ताः ॥ ३ ॥
धर्मोपमानवाचकमध्येऽन्यतमस्य लुप्तस्वे ॥
धर्माअकयोरञ्जकसमयोः समधर्मयोः समान्येषाम् ॥ ४ ॥
धर्मविलुपौत्यार्थी वाक्ये वृत्तौ च तद्धिते त्वार्थी ॥
वाक्यसमासोमयगोपमानलोपे न वाक्यगाञ्जकलुक् ॥ ५॥
वृत्तौ कर्माधारक्याच क्याङि स्यात् द्विधा णमुलि ।
धर्मयोतकलुप् किप्समासयोः क्यचि समाअकलुप् ॥ ६ ॥
धर्मोपमानलुप्ता वृत्तौ वाक्ये समान्यलुप् वृत्तौ ॥
मालोपमेय मुक्ताप्यकास्मंश्चद्वहूपमानसम्बन्धः ॥ ७ ॥
सामान्यधर्मभेदाभेदाभ्यां सापि च दे॒धा ।।
पूर्वोपमोपमेयं यद्युपमानं परोपमाया स्यात् ॥ ८ ॥

अलङ्कारमुक्तावल्याः।
रशनोपमेयमुक्ता दैविध्यं प्राग्वदेवास्याः ।।
यत्रैकावच्छिन्ने स्तामुपमानोपमेयत्वे ॥ ९ ॥
अन्यसदृशं निषेधुं तमनन्ययसंज्ञमाचख्युः ।।
उपमायां पूर्वस्या प्रतियोग्यनुयोगिनो यौ तु ॥ १० ॥
तौ विपरीतौ परतश्चेदुपमेयोपमा त्वेषा ।
सम्भाव्यते सह यदा साम्यप्रतियोगिना तदुपमेयम् ॥११॥
तामुत्प्रेक्षामाहुभिन्नं हेत्वादिविषयत्वात् ।।
प्रकृते लदन्यविषया सादृश्यज्ञानजन्या या ॥ १२ ॥
बुद्धिनिश्चयभिन्ना तामाचख्युः ससन्देहाम् ।।
उक्त विशेषधर्मे प्रकृतस्य भवेदनुक्ते च ॥ १३ ॥
तद्रूपकं त्वभेदः स्यादुपमानोपमेययोर्यत्र ।।
आरोप्याः शान्दाश्चत्कथयन्ति समस्तवस्तुविषयं तत् ॥१४॥
एकदेशचिवर्ति तच्छौतार्थत्वे तु साङ्गे द्वे ॥
निरवयवं तु तदुक्तं यद्यकारोपसाधकं नान्यत् ॥ १५ ॥
मालारूपकमुक्तं वेकस्मिन्भूयसां यदारोपः ॥
अन्यारोपाभावप्रयोजकस्य त्वभावस्य ॥ १६ ॥
प्रतियोगी परकीयारोपो यस्तत्परम्परितम् ।।
तच्च श्लेषभिदाभ्यामारोपनिमित्तशब्दस्य ॥ १७ ॥
प्रकृते निषिध्य भिन्नात्मतया प्रोक्तावपतिः कथिता ॥
उभयविशेष्यान्वितयोरेकेन प्रोक्तिरर्थयोः श्लेषः ॥ १८॥
यत्र प्रकारवाचकपदमात्रं व्यङ्ग्यवाच्यसामान्यम् ॥
तच्छक्तरप्रकृतार्थोक्ति सोक्ता समासोक्तिः ॥ १९ ॥
उपमापर्यवमन्नो यत्रार्थोऽन्योन्यमन्वयानहः ।।
यच्च क्रियया कारणकार्यान्वयधीनिदर्शना सोक्ता ॥२०॥
अप्रस्तुतप्रशंसा प्रकृतिप्रतिपत्तिरेतया यत्र ।
कार्ये हेतौ व्याप्यव्यापकयोरन्यगीः समे तस्य ॥ २१ ॥

कारिकाः। अप्रकृतेन मिगीणे साध्यषसानाश्रयात्मकृते ।। प्रकृतस्याप्यधिकत्वे यधेवं स्यात्तथापत्तौ ॥ २२ ॥ स्याजन्यजनकपौर्वापर्यत्यागश्च सा स्वतिशयोक्तिः ।। सादृश्यपर्यवसिते यस्मिन्वाक्यद्वये धर्मः ॥ २३ ॥ एकोऽपि द्विरुपात्तस्ता प्रतिवस्तूपमामाहुः ॥ साधारणस्य साम्यपतियोग्यनुयोगिनोर्यत्र ॥ २४ ॥ निर्देशः स्यात् विम्बप्रतिविम्बतया स दृष्टान्तः ।। मकृतापकृतानां यद्येकान्वयितास्ति दीपकं तत्स्यात् ॥२५॥ यत्रैकमेव कारकमन्वयमेति क्रियासु बहीषु ।। पाला तु पूर्वपूर्वे (१)विधान्तरेणोत्तरान्वयिनि ॥ २६ ॥ प्रकृतानां तारके भिन्नानां वापि तुल्ययोगित्वम् ।। उभयोः साम्यप्रोक्तौ विशेष उपमेयगो व्यतिरेकः ॥२७॥ हानिप्रकर्षहेत्वोरुक्ती त्रेधा च सदनुक्तौ ।। शब्दार्थाक्षेपोत्ये साम्ये श्लेषे च दिग्युगमित्तः सः ॥२८॥ इष्टस्याप्यभिधातुं योऽर्थस्य विशेषबोषाय ॥ स्वयमेव प्रतिषेधः स वक्ष्यमाणोक्तविषय आक्षेपः ॥२९॥ हेतुं विनापि कार्य यत्रोक्तं स्याद्विभावना सा तु ।। हेतौ सखपि कार्यानुत्पत्तिः स्याद्विशेषोक्तिः ॥ ३० ॥ निर्देशक्रमतो यदि समन्धयस्तयथासङ्खयम् ॥ यदि सामान्यविशेषौ समर्थयते विशेषसामान्ये ॥ ३१ ॥ साधाद्वैधादपि वा सोऽर्थान्तरन्यासः ॥ अविरोधेऽपि विरोधो यत्रोक्तः स्याद्विरोधः सः ॥ ३२ ॥ स्याजातेर्गुणकर्मद्रष्याणां स्वस्वपरयोगात ॥ यो वस्तुनः स्वभावस्तस्य निरुक्तिः स्वभावोक्तिः ॥ ३३ ॥ व्याजस्तुतिर्विपर्ययपर्यवसानेऽस्तुतिस्तुत्योः । सहसमभिव्याहारासहोक्तिरुभयान्विते धर्म ॥ ३४ ॥ (१) विध्यन्तरेणेति पाठोऽलङ्कारकौस्तुभे।

OC अलङ्कारमुक्तावल्याः। यत्रान्येन विनान्योऽसाधुः (१)साधुर्विनोक्तिः सा ।। सहशासहजैरथैरर्थानां विनिमयस्तु परिष्कृतिः ॥ ३५ ॥ भाविकमध्यक्षं स्यात्मध्वंसपागभावानाम् ॥ वाक्यपदार्थत्वाभ्यां हेतुक्तिः काव्यलिङ्गं स्यात् ।। ३६ ।। पर्यायोक्तं कथितं वाच्यस्यैवान्यमायोक्तिः ।। वस्तुमचय उदात्तं महतामङ्गत्ववचनं च ॥ ७ ॥ एकस्मिन् सति हेतो हेत्वन्तरगीः समुच्चयः प्रोक्तः ।। सदसत्सदसद्योगे गुणक्रियायोगपयेऽन्यः ॥ ३८ ॥ एकमनेकमनेकैकस्मिन (२)क्रमशोऽस्ति चेत्स पर्यायः ।। अनुमानं व्याप्यबलाध्यापकधीमिनिष्ठा या ॥ ३९ ॥ साभिप्रायविशेषणविन्यासे परिकरः प्रोक्तः ॥ व्याजोक्तिर्विशदीभवदर्थस्यापह्नुतिमिर्षतः ॥ ४० ॥ पृष्टमपृष्टं प्रोक्तं यद्यङ्ग्यं वापि वाच्यं वा । फलतीतरव्यपोहं परिसङ्ख्या सा तु सख्याता ॥४१ ॥ (३)कारणमाला प्रोक्ता पूर्वे पूर्वे यथोत्तरं हेतौ ॥ अन्योन्यं वस्तूनां परस्परोत्कर्षहेतुत्वे ।। ४२ ।। उत्तरमात्रात्मश्नोन्नयने स्यादुत्तरं नाम ।। प्रश्न लोकाविदितोत्तरस्य तच्चासकृत्मोक्तौ ॥ ४ ॥ प्रतिभातिशयाज्जातो यद्याकारेजितादर्थः । विशदीक्रियतेऽन्यस्मै तथैव तत्सूक्ष्ममित्युक्तम् ॥ ४४ ॥ सारस्तु पूर्वपूर्वादुकर्षिण्युत्तरोतरे प्रोक्त ।। हेतुव्यधिकरणं चेत्कार्य स्यात्सा स्वसङ्गतिः प्रोक्ता ॥४५॥ भवति समाधिः मुकरे हेत्वन्तरसमवधानतः कार्ये ।। अन्योन्यसङ्गमाहौं सम्बध्येते समं तत्म्यात् ॥ ४६ ।। (१) सन्वेति पाठः अलंकी। ( २) अलङ्कारकौस्तुभे क्रमतोऽस्तीति पाठः। (३) कारणमाला पूर्वे पूर्व कार्य इति पा० अलं. का।

कारिकाः। सम्बन्धानुपपत्ताविष्टार्थानाप्स्यनिष्टसम्प्राप्तौ ॥ जन्यजनकोभयगुणक्रियाविरोधे च विषमः म्यात् ॥४७॥ आधारस्याधेयादाधेयस्यापि वाधारात् ॥ यद्वय॑ते महत्त्वं तत्कथयन्त्यधिकमधिकज्ञाः ॥ ४८ ॥ आत्मापकारजनकप्रसपकारासमर्थेन । तत्सम्बन्ध्यपकारे प्राज्ञतमैः प्रत्यनीकमित्युक्तम् ॥ ४६॥ सहजनिमित्तजधर्मात्सदृशान्येन वस्तुना वस्तु ।। अपिधीयते यदेतन्मीलितमाहुविशेषज्ञाः ॥ ५० ॥ प्रथमं विशेषणं (१)चेद्विशेष्यमग्रे भवत्यसकृत् ॥ विरहप्रतियोगी वा तद्वानेकावलिः(२) सोक्ता ।। ५१ ॥ मशज्ञानोद्वोधितसंस्कारभवस्मृतिः(३) स्मरणम् ।। तदभाववति मतिस्तत्पकारिका भ्रान्तिमान् भवति ॥२॥ उपमानार्थक्यं प्रतीपमस्योपमेयत्वम् ।। स्वगुणसजातीयगुणाश्रयकरूप्यं तु सामान्यम् ॥ ५३ ॥ स्थितिराधाराभावे वृत्तिरनेकेषु युगपदेकस्य ॥ एककरणेन दुष्करकार्यान्तरसिद्धिरिति विशेषः ॥ ५४ ॥ परकीयगुणतिरोहितगुणस्य भानं तु तद्गुणः प्रोक्तः ॥ अन्य गुणासम्बन्धः प्रकृतस्यातद्गुणः प्रोक्तः ।। ५५ ।। कार्यान्तरहेतुतयान्येनाभिमतादिद्धकार्य चेत् ॥ क्रियते परेण तस्माद्याघातोऽयं समाख्यातः ॥ ५६ ॥ संसृष्टिस्तु परस्परमनपक्ष(४)स्थितिरनेकस्य । एकमपेक्ष्यान्यस्य प्रादुर्भावे तु सङ्करः प्रोक्तः ॥ ५७ ।। साधकबाधकमानाभावाच्चैकस्य निर्णयाभावे ॥ एकपदाच्छन्दार्थालङ्कृत्योरवगतावन्यः ॥ ५८ ॥ रसभावतदाभासे रसवत्प्रेय ऊर्जस्वी ॥ भावशमे तु समाहितमुदयेऽन्योऽप्यस्य शबलत्वे ॥५९॥ इति । (१) यदिति पा० अलं० को। (२) "ली" अलं कौ०। (३) 'भवा मतिः' अलं० को । (४) 'अनपेक्ष्य' अलं० को।

अलङ्कारमुक्तावलीस्थविषयाणामकारादिक्रमेण अनुक्रमणिका। पृ० पं० - ३० २५ ४ विषयाः विषयाः पृ० पं० अङ्गाङ्गिभावसङ्करः ५९ २२ एकावली- अतद्गुणः ५७ १८ एकाश्रयानुप्रवेशसङ्करः ६० अतिशयोक्तिः २६ २७ कारणमाला अधिकम् १० काव्यलिङ्गम् ३९ २६ अनन्वयः ११ १३ क्रियादीपकम् ११ ( अनुगुणः) ५७ १४ तद्गुणः अनुमानम् ४३ ११ । तुल्ययोगिता ( अनुज्ञा ) २। दीपकम् २९ ३.. अन्योन्यम् ४६ ६ दृष्टान्तः अपहुतिः १८ २८ धर्मलुप्तोपमाविषयाः २२ अप्रस्तुतप्रशंसा ३ धर्मवाचकलुप्तोपमा- अर्थान्तरन्यासः ३४ १३ विषयाः असङ्गतिः १३ धर्मोपमानलुप्तापमा- आक्षेपः ३२ ११ विषयाः उत्तरम् ४६ ११ निदर्शना उत्प्रेक्षा १२ ९ निरवथवरूपकम् उदात्तम् १९ परम्परितरूपकद्वैविध्यम्१७ १ ( उन्मीलितम् ) ४' परम्परितरूपकलक्षणम् १६ १८ उपमाद्वैविध्यम् उपमानलुप्तोपमाविषयाः ५ २६ ( परिकराङ्कुरः उपमालक्षणम् २ १२ परिवृत्तिः उपमेयोपमा ११ २६ परिसंख्या ऊर्जस्वी ६० १८ पर्यायः ( उल्लेखः) २८ ११ पर्यायोक्तम् एकदेशविवर्तिरूपकम् १५ १२ ( पूर्वरूपम् ) ५६ २८ ३ १ १६ परिकरः ४३ २० १ १ ३८ २४ २ २ विषयानुक्रमणिका। विषयाः प. पृ० पं० २८ २५ विशेषः पृ० ५५ २५ १ २४ ४ ३१ ६ " , ३७ २३ १८ व्याजस्तुतिः ६ २ १६ ११ सन्देहसङ्करः १९ १८ २८ १३ ४८ ८ ३ विषयाः प्रतिवस्तूपमा प्रतीपम् विशेषोक्तिः प्रत्यनीकम् विषमः (प्रहर्षणम् ) ४७ ३० (विषादनम् ) प्रेयः १८ व्यतिरेकः व्यतिरेकभेदाः (प्रौढोक्तिः) २८ १८ व्याघातः भावशबलम भाविकम् ( व्याजनिन्दा) भावोदयः ६० भ्रान्तिमान् व्याजोक्तिः मङ्गलाचरणम् श्रौतायुपमाविषयाः मालादीपकम् ३० श्लेषः मालारूपकम् मालोपमा संसृष्टिः मीलितम् ५१ १९ समम् यथासङ्ख्यम् ३४ समस्तवस्तुविषय. (युक्तिः) रूपकम् ४४ रशनोपमा समाधिः १० १३ समासोक्तिः रसवत् रूपकम् लुप्तोपमा ४ ११ समुच्चयः लुप्तोपमाभेदाः ( सम्भावनम् ) (लेशः) ५८ २१ ससन्देहः वाचकलुप्तोपमाविषयाः ६ २९ ससन्देहभेदाः वाचकोपमेयलुप्तोपमा- सहोक्तिः विषयाः ६ / सामान्यम् (विकस्वरः) ३५ ६ सारः विनोक्तिः ३८ ५ सूक्ष्मम् विभावना ३३ ५ स्मरणम् विरोधः ३५ १३ स्वभावोक्तिः इति। / ४७ २१ २२ ३० १४ १६ समाहितः ४१ २८ १३ ९ १९ ३७ २८ ५४ २९ ६ ९ ३६ २१ अथ श्रीविश्वेश्वरपण्डितरचिता अलङ्कारमुक्तावली। ॥ श्रीगणेशाय नमः॥ सन्मूलप्रकृतिः प्रकाशितशतानन्दो दधानः क्षमा कृष्णं वापि सुमन्तुनैकगुरुताशाली नयन्पूज्यताम् ॥ सद्वृत्तिं दधदात्मभूतनयतामारुन्धते यस्य ता- माचार्यः प्रथमो गिरा विजयते विद्वान्स लक्ष्मीधरः ॥ १॥ नानापक्षविभावनकुतुकमलङ्कारकौस्तुभं कृत्वा । सुखबोधाय शिशूनां क्रियते मुक्तावली तेषाम् ॥ २ ॥ तत्र प्रायेण सर्वालङ्काराणां गम्यसादृश्यपर्यवसायित्वेन प्राधान्या प्रथममुपमा व्याख्यायते ।। तत्रैकवाक्यवाच्यं सादृश्यं भिन्नयोरुपमा । चन्द्र इव मुखं मुखमिव चन्द्र इत्युपमेयोपमायामतिव्याप्तिवारणा य एकेत्यादि । तत्र वाक्यद्वयसत्त्वान्न दोषः । व्यङ्गयोपमाघारणार वाच्येति । चन्द्र इव चन्द्र इत्यनन्वयवारणाय भिन्नयोरिति। स चेयमुपमा द्विधा। पूर्णा लुप्ता च। तत्र ज्ञानसौकर्याय पूर्णी ताव इर्शयति- वाचकधर्मसमत्वप्रतियोग्यनुयोगिनां ग्रहे पूर्णा ॥१॥ वाचकं सादृश्यार्थक इवादिशब्दः । धर्मो रमणीयत्वादिरूपमा निमित्तम् । सादृश्यप्रतियोगी उपमानम् । सादृश्यानुयोगी उपमेयम् एषां चतुर्णी शब्दोपात्तत्वे पूर्णोपमा। - यथा-- वागर्थाविध सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥ अत्र इवशब्दो वाचकः । सम्पृक्तत्वं धर्मः। वागर्थावुपमानम् । शि ।

अलङ्कारमुक्तावल्याम्- -- -- वावुपमेयम् इति चतुर्णा प्रयोगः । तस्या भेदानाह- श्रीत्यार्थी सा द्विविधा वृत्तौ वाक्ये च तद्धिते तद्वत् । वाक्ये समासे तद्धिते च प्रत्येकं श्रौती आर्थी च त्रिविधेति षड्वि- धा। कुत्र श्रौती कुत्र चार्थीति सौकर्यार्थमाह-- स्यादिवपदादियोगे वतौ तदर्थेऽपि सा श्रौती ॥ २ ॥ तुल्यादिकपदयोगे वो तदर्थेऽपि चार्थी सा। इवादिनिपातानाम् इवार्थविहितस्य वतिप्रत्ययस्य प्रयोगे श्रौती । तुल्यादिपदानां तुल्यार्थविहितवतिप्रत्ययस्य च प्रयोगे त्वार्थी । तत्र वाक्ये श्रौती यथा “वागर्थाविव" इत्यादि । वागर्थावित्यस्य इवन सह समासस्य अनित्यत्वादविवाक्षतत्वात्। तत्रार्थी यथा-- मुक्ताभिः सलिलरयास्तशुक्तिपेशी- मुक्ताभिः कृतचि सैकतं नदीनाम् ॥ स्त्रीखोकः परिकलयाञ्चकार तुल्यं पल्यङ्कविगलितहारचारुभिः स्वैः ॥ ( मा० स० ४ श्लो०) अत्र वाचकोपमानोपमेयधर्माणां कस्यापि न समास इति वाक्यग. तत्वम् । तुल्यपदप्रयोगादार्थत्वम् । तमासे श्रौती यथा- विद्विषद्वलनाशेन दृशां भूयस्तया तथा । पुनरुक्त इवाभासि त्वमेव मम भूपते! ॥ अत्र इवेन समासः । इवपदप्रयोगाच्छ्रोतत्वम् । तत्रार्थी यथा-- सुकुमारतया तन्वि ! मनोहरतया दृशोः। सौरभाभ्युदयाच्च त्वं मालतीकुसुमोपमा ॥ तद्धिते श्रौती यथा- अलौकिकमहाल्हादो ब्रह्मास्वादसहोदरः । भुज्यते भूमिगैरेव स्वर्गवत्तव विग्रहे । अत्र स्वर्ग इवेति सप्तम्यन्ताहांतरिति श्रौतत्वम् । तत्रैवार्थी यथा- अयं मदोदये हेतुधृतमुक्ताफलान्तरः। चकास्ति तव कझाक्षि ! कुचः कुञ्जरकुम्भवत ॥ -- उपमाप्रकरणम् । - इह कुम्भेन तुल्यमिति तुल्यार्थत्वम् । ननु व्यङ्गयरहितत्वमेष चित्र- त्वम् । अत्रत्योदाहरणेषु च रसादिरूपं व्यङ्गयमस्त्येवेति कथमेषामर्थ- चित्रत्वमिति चेत्, मैक्म् । तस्य सार्वत्रिकत्वादवर्जनीयसान्निधितया तदतिरिक्तव्यङ्ग्यविरहस्यैव चित्रत्वप्रयोजकत्वात् । वाच्यवैचित्र्यादेवात्र चमत्कारोदयात् ॥ इति षड्विधा पूर्णा ॥ धर्मश्च सर्वत्रोपमायाम. नुगामितया बिम्बप्रतिबिम्बभावेन वस्तुप्रतिवस्तुभावेन श्लेषणोपचा. रेण समासभेदेन च निर्दिश्यत इति षडेव प्रकाराः। अनुगामितया यथा- त्वया दत्तवरोदीर्णस्तारकाख्यो महासु :। उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ॥ दुःखहेतुत्वमुभयानुगतम् । बिम्बप्रतिबिम्बभावस्तु भिन्नयोरपि सा. अप्यादेकत्वाध्यवसानम् । यथा- सुरक्ष्माभूत्सारं त्रिपुरहरधन्वच्छिनदयं शिशुः क्षत्रोच्छेदप्रथितमपि जिग्ये भृगुपतिम् । त्रिमूर्धप्रष्ठांश्च प्रधनभुवि नक्तश्चरभटान् क्षणेन प्रामथ्नाज्जरठकरहाटानिव (१)करी ॥ अत्र करिरामयोरुपमायां त्रिशिरःप्रभृतीनां करहाटानां च भिन्ना. नामप्यैक्यमादाय तन्मथनकर्तृत्वरूपसामान्यधर्मनिष्पत्तिः ॥ वस्तुप्रति. घस्तुभावस्तु एकस्यैव द्विरुपादानम् (२) । यथा- ध्यपवर्तत एष बालधीरः पृतनानिर्मथनात्योपहूतः । स्तनयित्नुरवादिभावलीनामवमर्दादिव दृप्तसिंह शावः ॥ ( उत्त० अं० ५ श्लोक०८) अनसिंहशावलवयोरुपमायां बिम्बप्रतिबिम्बभावापन्नयोः पृतनाग जावल्याविशेष्यतया निर्मथनावमर्दशब्दाभ्यामेक एव धर्म उक्तः । श्लेषेण यथा- अतिपूजिततारेयं दृष्टि श्रुतिलचनक्षमा सुतनु!। जिनसिद्धान्तस्थितिरिव सवासना क न मोहयति ॥ (१) 'करहाटः शिफा केन्द' इत्यमर । (२) एषच शुद्धो न सम्भवत्येव किंतु बिम्बप्रतिबिम्बभावे विशेष्यतया विशेषणतया वा ।

CC अलङ्कारमुकाबल्याम- उपचारेण पथा- अपस्ये यत्ताग्दुरितमभवत्तेन महता विषक्तस्तीण प्रणितहृदयेन व्यथयता। पटुारावाही नव इव चिरेणापिहि न मे निकृन्तम्मर्माणि क्रकच इव मन्युर्विरमति॥ (उत्तरा००४श्लो०३) अत्र मर्मकरीनं मन्यो गौणम् । समासभेदेन यथा-- कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्ज्वला । सागरस्य परं पारं कपिसेनेव सेतुना ॥ (हर्ष० उ०१ श्लो०१४) कुमुदधदुज्ज्वलेति कीर्ती कुमुदेनोज्ज्वलेति च सेनायाम् । लुप्तामाह- अन्यतमस्य चतुर्णा विरहे लुप्तां वदन्त्याप्ताः ॥ २ ॥ उपमानोपमेयवाचकधर्माणां मध्ये कस्यचिदप्रयोगे लुप्ता। सा च त्रिविधा । एकलोपे द्विलोपे त्रिलोपे चेत्यर्थः। तद्भेदानाह- धर्मोपमानवाचकमध्येऽन्यतमस्य लुप्तत्वे । धर्माजकयोरअकसमयोः समधर्मयोः समान्येषाम् ॥ ३॥ पाचकलोपे धर्मलोपे उपमानलोपे चेति एकलुप्तायास्त्रयो भेदाः। उत्तरार्द्ध षष्ठचन्तचतुष्टये लोप इत्यस्यान्वयः । धर्मवाचकयोर्वाचकोप- मेग्योधर्मोपमानयोश्च लोपात द्विलुप्ता त्रिविधा । *समान्येषाम् * । उप. मेयमिन्नानां त्रयाणामुपमानधर्मवाचकानां लोपे त्रिलुप्तकविधेत्यर्थः। तत्र धर्मलुप्तां त्रिविधां दर्शयति- धर्मविलुप् श्रोत्यार्थी वाक्ये वृत्तौ च तद्धिते त्वार्थी ॥ वाक्ये समासे च प्रत्येकं श्रौत्यार्थी च तद्धिते त्वार्यवेति धर्मलु. ताया: पच भेदाः। तत्र वाक्ये श्रौती धर्मलुप्ता यथा- इह बनेषु स कौतुकवामना मुनिरतप्त तपांसि पुरातनः। तमिव वामवलोक्य तपस्विनी नयनमद्य मनागुदमीमिलत् ॥ अत्र वामनस्य रामलक्ष्मणयोधोपमायां भगवत्तादात्म्यरूपधर्मा. नुपादानम्। वाक्ये आर्थी यथा मम- राजीभिः सहशा इशांव्यतिकरा राजीवजानां जो पानामाचरणस्य काचन विधा तुल्या सुधाकुल्यया।

उपमाप्रकरणम् । - - कुम्भाभ्यां तुलितौ बलप्रतिबलस्तम्बरमस्य स्तनो बर्हाणां नवरीतिरङ्गकबरी साम्यं बरीभर्ति ते ॥ अनोपमाचतुष्टयेऽपि साधारणधर्मानुपादानम् । समासे श्रौती यथा- द्राङ्निप्पेषविशीर्णवज्रशकलप्रत्युप्तरूढवण- ग्रन्थ्युद्भासिनि भन्ममोघमघवन्मातङ्गभङ्गोद्यमे । भर्नुनन्दनदेवताविरचितस्रग्धाम्नि भूमेः सुता वीरश्रीरिव तस्य वक्षसि जगद्वीरस्य विश्राम्यतु ॥ इवेन समासः। समासे आर्थी यथा- हिमलवसदृशः श्रमोदबिन्दूनपनयता किल नूतनोढवध्वाः । कुचकलशकिशोरको कथञ्चित्तरलतया तरुणेन पस्पृशाते ॥ सहकपदप्रयोगादार्थी यथा- गृहीतो यः पूर्व परिणयविधौ कङ्कणधर- चिरं स्वेच्छास्पर्शेरमृतशिशिरैर्यः परिचितः। स एवायं तस्यास्तुहिननिकरौपम्यसुभगो मया लब्धः पाणिललितलघलीपल्लवनिमः ॥ (उत्त० ना० अं० ३ श्लो०४०) अस्वपदविग्रहोऽत्र समासः । तद्धिते आर्थी धर्मलुप्ता यथा मम- बिम्बाधरं बहुसुधं कनकाजवल्लीदेश्यां कलेवरलतां मुखमिन्दुकल्पम् ॥ वक्षोरुहद्वयमनेकपकुम्भदेशदेशीयमाकलयितुं न क उत्सुकोऽस्याः ॥ नवीषदसमाप्तिविहितानां कल्पबादीनां कथं सादृश्यपरत्वमिति चेत , तस्याप्यर्थगत्या सादृश्यपर्यवसानात् । तथा च तत्र कैयट:- "सामादुपमानोपमेयभाव" इति । उपमानलुप्तामाह-- पाक्यसमासोमयगोपमानलोपे । वाक्ये समासे चोपमानलोप इति द्विविधा उपमानलुप्तेत्यर्थः । बाक्ये यथा मम-- सन्दर्भेषु कचप्रभापितसुतभ्रातृव्ययोरप्यह- श्यन्तीसत्यवतीतनूभवसुतान्तवासिताशालिनोः ।

अलङ्कारमुक्तावल्याम्- वाचां किञ्च कणप्रभञ्जनभुजोनिष्णातमेकान्ततः पश्यामोऽपि न कश्चिदश्चति तुलां यस्यात्र लक्ष्मीधरः ॥ (१) कचपिता बृहस्पतिः तस्य भ्रातृव्यो गोतमः। प्रभा सगरस्य राशी तस्याः सुताः षष्टिसहस्रसङ्ख्याः । तेषां भ्रातृन्यो वैरी कपिलः । अह. श्यन्ती शक्तिभार्या । तत्तनूभवः पराशरः तस्य सुतो व्यासः । सत्य- वतीतनुभवोव्यासस्तस्यान्तेवासी जैमिनिः । कणभुक् कणादः। प्रभञ्जन भुक् शेषः । उपमानस्य ज्ञानविषयत्वनिषेधादप्रयोगः स्पष्टः । अनन्वये स्वसत्वमात्रमुपमानस्याभिमतं न त्वत्रेति विशेषः । समासे यथा- बहुशः प्रलपन्तु वावदूकास्त्वयि सादृश्यमनेकरूप्यमाणम् । वयमभुतकान्तिरूपवेषैर्भवदौपम्यनिरूपिकां न विद्मः ॥ इयञ्चार्येवेति सिद्धान्तः । तत्र प्रकृतस्योपमेयत्वानुरोधेन ऐश्वर्यादनपेतमीश्वरमयं लोकोऽर्थतः सेवते तं गच्छन्त्यनु ये विपत्तिषु पुनस्ते तत्प्रतिष्ठाशया । भक्षुर्विप्रलयेऽपि पूर्वसुकृतासङ्गेन निःसङ्गया भक्त्या कार्यधुरां वहन्ति विरलास्ते दुर्लभास्त्वादृशाः ॥ (मुद्रा० अं० १ श्लो० १४) इत्यादी स्वनिष्ठसादृश्यप्रतियोगिनो दुर्लभा इत्यर्थाङ्गीकारे। स्वमिव कोऽपि परापकृतौ कृती न ददृशे न च मन्मथ ! शुश्रुवे । स्वमदहो दहनाज्ज्वलतात्मना ज्वलयितुं परिभ्य जगन्तियः॥ (नैष० स०४ श्लो० ९८) इत्यादी श्रौत्यप्युपमानलुना सम्भवत्येवेति विभावनीयम् । वाचकलुप्तां दर्शयति न वाक्यगाअकलुक्॥४॥ पाक्यपदं वाक्यतद्धितोभयपरम् । तदुर्भयत्र वाचकलुप्ता न सम्भः पति । मुखं चन्द्रो रमणीयमित्यतः साहश्यानवगमात् । वत्यादितद्धि. तप्रयोगे च तेषामेव लाम्यवाचकतया पाचकलोपानुपपत्तेः । तर्हि कुत्र वाचकलुप्तेत्यत आह- वृत्तौ कर्माधारक्याचि क्याङि स्थात् द्विधा मुलि । १) सगरस्तस्य पुत्रोऽभूद्राजा परमधार्मिक । द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा । ति प्रक्राय गृण्हातु वशकार प्रभागृहणाहूंस्तदा । एकं भानुमती पुत्रं गृहायादसमञ्जसम् । किषिष्टिष्टसहस्त्राणि सुषुवे यादवी प्रभा इति मन्स्यपुराणे । - उपमाप्रकरणम्। - समासे कर्मक्याच आधारक्याच क्यङि कर्तृणमुलि चेति षड्भेदा इत्यर्थः। तत्र समासे यथा- कुवलयदलश्यामः स्निग्धः शिखण्डकमण्डनो घटुपरिषदं पुण्यश्रीकः श्रियैव सभाजयन् ॥ पुनर्राप शिशुभूत्वा वसः स मे रघुनन्दनः सपदि कुरुते दृष्ट' कोऽयं दृशोरमृताञ्जनम् ।। ( उत्स० रा० अं० ४ श्लो० १९) कुवलयदलवतू श्याम इति "उपमानानि सामान्यवचनैः' ( अ०२ पा० १ सू०५५) इति उपमानस्य साधारणधर्मेण समासः । प्रथा वा- पृथिव्यां किं दग्धाः प्रथितकुलजा भूमिपतयः पति पापे ! मौर्य यदसि गुणहीनं वृतवती । प्रकृत्या वा काशप्रभवकुसुमप्रान्तचपला पुरन्ध्रीणां प्रज्ञा पुरुषगुणविज्ञानविमुखी ।। (मु०रा० अं०२ श्लो०७) कचित्रमाणामपि यथा(१)- उन्मीलन्ति मृणालकोमलरुचो राजीवसंवर्तिका- संवतव्रतवृत्तयः(२) कतिपये पीयूषभानोः कराः॥ अप्यत्रैर्धवलीभवत्सु गिरिषु क्षुब्धोऽयमुन्मयता विश्वेनेव तमोमयो निधिरपामह्नाय फेनायते ॥ इह मृणालकोमलेतिपूर्ववत्समासः। ततो मृणालकोमला रुक् ये. षामित्युपमेयेन बहुव्रीहिः । कर्मक्यचि यथा मम-- त्वदङ्गविषयस्नेहस्तिमितीकृतमानसा । सुभग ! त्वां सरोजाक्षी प्रसूनविशिखीयति ॥ "उपमानादाचार" इति कर्मणि क्यच् । आधारक्यचि यथा-- अति स्वच्छतया तन्वि ! सातप्रतिबिम्बतः। भवत्पयोधरे कान्तो जातरूपाचलीयति ॥ (१) प्रयाणाम उपमानोपमेयसाधारणधर्माणां समावेश इति शेष । (२) “संवर्तिका नवदल" "संपर्त प्रलय कल्प. " इत्यमरः ।

८ अलारमुक्तावल्याम्- - -- "अधिकरणाच्च" इति वार्तिकेन क्यच् । तत्र स्थित इव भासते इत्यर्थः। क्याङ यथा मम- यस्मिनेकधनुभृतो भगवतः खट्वाङ्गपाणेरसा. वाकृष्टो गुणतां गतोऽप्यहिपतिः कर्णावतंसायते ॥ सम्प्राप्तश्च पुरेव भूषणपदं याति प्रकोष्ठान्तरे काकुत्स्थेन तदेव भार्गवगुरोः कोदण्डमाकृष्यते ॥ अवतंस इचाचरतीत्यर्थे "कर्तुः क्यङ् ( अ० ३ पा० १सू० ११ । ) इति सत्रेण क्यङ्। कर्तृणमुलि यथा-- तम्वनि! तडिदुद्योतमुद्योतन्ते विषस्तव । करवालनिपातं च निपतन्ति हर्मयः॥ तडिदुद्योतन्ते करवालवत् निपतन्तीत्यर्थे वक्ष्यमाणसूत्रे चका. रेण कषुरनुकर्षात्कर्तरि णमुल् । कर्मणमुलि यथा-- उहिश्याराहशरथकुलारमाधं पतन्तं दृतं कुम्भं(१) मृधभुवि(२)कपिः कोऽपि मध्ये रुरोध ॥ दोः स्तम्भाभ्यां सरभसमथापीड्य विक्षिप्य भूमौ क्रान्त्वाप्येनं प्रति(३)घविवशी माषपेषं पिपेष ।। माषमिव पिपेषेत्यर्थे "उपमाने कर्मणि च ( अ०३ पा० ४ सू०४५) इतिसूत्रेण णमुल् । इति त्रयोदशविधैकलुप्ता। द्विलुप्तामाह- धर्मयोतकलुकिमसमासयोः धर्मवाचकलुप्तोपमा क्किप्प्रत्यये समासे चेति विधा । आद्या यथामम- मन्मथोऽर्जुनति कार्मुकति भूमीवयत्यलकमञ्जरिरत्र । अस्त्रति दिषवन्ति कटाक्षाः कर्णतीह वरवर्णिनि ! कान्तः ॥ अर्जुन इषाचरतीत्यादावर्थे किप् । उक्तं च महाभाध्ये-सर्वप्रा. तिपदिकेभ्य आचारे विविति । (१) मधभुवि समझामभूमौ । (२) प्रतिषविवश,-क्रोधवशः । (३) कुम्मं--कुम्भकर्णम् । - उपमाप्रकरणम् । -- - समासे यथा-- वधूवोजमातङ्गकुम्भेषु विहितक्षता पातु वो वृष्णिसिंहस्य रमणीया नखच्छविः । अत्र वृष्णिजातीयशरीरसम्बन्धाद्भगवतो वृष्णिशब्देन निर्देशः। स सिंह इवेत्युपमितसमासः । उपमेयद्योतकलुप्तामाह- क्यचि समाअकलुप् ॥ ५॥ समम् उपमेयम् । अञ्जकम् इवादिपदम् । तदुभयलुप्ता क्यप्र. त्यये भवति। यथा मम-- तं मनोभवमिवाभ्युपेयुषी चञ्चलाक्षि ! भवती रतीयति । त्वां तथा रतिमिव प्रपेदिवान् मन्मथीयति युवा स मन्महे ॥ अत्र रतिमिव मन्मथमिव स्वात्मानमाचरतीत्यर्थे क्यच् । कर्मीभू तस्यात्मन इवादेश्चाश्रवणादुभयलोपः । धर्मोपमानलुप्ता वृत्तौ वाको । समासे वाक्ये च धर्मोपमानलुप्तोपमा । आद्या यथा- पाञ्चाली कृष्णवर्मप्रथितजनिरभूद्भीमजन्मैव ताव- द्वैदर्भी सा विदेहप्रवरतनुभवा जानकी सर्वसिद्धा। लक्ष्मीदत्तानुजन्मस्फुरदवमतिरप्यर्धशेषीकृतस्व. प्राणेशा शैलपुत्री वरतनु ! भवती बमहे किंसमानाम् ॥ अत्रोपमानानुपादानं स्पष्टम् । तुलितां बमहे त्वां कया वेति पाठे वाक्यगतत्वम् । त्रिलुप्तामाह- (१)समान्यलुप् वृत्तौ । उपमेयान्येषाम् उपमानधर्मवाचकानां लोपो यत्र सा उपमा समास एव न तु वाफ्यादावित्यर्थः। यथा ममाभिरामराघवे-- मृगाक्षीवक्षोजव्यतिकरसमक्षीकृतिमिलत्- प्रसूनप्रत्यग्रस्तबककमनीयः कुरबकः । पुरस्तादाभाति भ्रमरहतजामत्कलकलः स्फुरन्मुक्तास्थूलान् विजहदिव वाष्पाम्बुपृषतान् ॥ (१) समात् = उपमेयान अन्येषाम धर्मापमानवाचकाना लुप् लोप इत्यर्थः । -- २ अलङ्कारमुक्तावल्याम्- इह मृगस्याक्षिणी इच अक्षिणी यस्या इति बहुव्रीही प्रथमस्याक्षि- पदस्य लोपः इचपदस्यार्थानिवृत्तिः तारल्याउनुपादानं च स्पष्टम् । मालोपमेयमुक्ताप्येकस्मिश्चेवहूपमानसम्बन्धः । सामान्यधर्मभेदाभेदाभ्यां सापि च द्वेधा ॥ ६ ॥ भिसामान्यधर्मा यथा- बुधमतिरिव बहुलोहा सुघटितचक्रा प्रभातवेलेव । हरमूर्तिरिव हसन्ती ज्वलति विधूमानलोपेता ॥ एकसामान्यधर्मा यथा- अन्धस्य दृष्टिरिष पुष्टिरिवातुरस्य मूर्खस्य बुद्धिरिव सिद्धिरिवालसस्य । स्वल्पस्मृतेर्व्यसनिनः परमेव विद्या स्वां प्राप्य सा रतिरिवारिजने प्रनष्टा ॥ पूर्वोपमोपमेयं यापमानं परोपमायां स्यात् ॥ रशनोपमेयमुक्ता द्वैविध्यं प्राग्वदेवास्याः ॥ ७ ॥ पूर्वोपमायां यदुपमेयं तस्योत्तरोपमायामुपमानत्वे रशनोपमा । द्वितीयोपमायामुपमेयमन्यदेवेत्युपमेयोपमाव्यावृत्तिः । सा च द्विविधा । सामान्यधर्मभेदे तदैक्ये च । आद्या यथा मम- तत्याज धीस्तरलतां गतिवद्वभाज सूक्ष्मार्थतामपि च धीरिव वाङ्मृगाक्ष्याः । भूयो रसत्वमथ वागिव दृग्जगाहे व्यङ्ग्याधिका च दृगिवाजनि मध्यभूमिः ॥ द्वितीया यथा मम- व्योम्नीव वारिमुचि वारिमुचीव वारि वारीव वारिरुहि वारिरुहीवन्दी इन्दाविवाथ हृदये पथिकाङ्गनाना- माविबभूव गतिशृङ्खलमुज्ज्वलत्वम् ॥ केचित्तु- परिणामः क्रियार्थश्चेद्विषयी विषयात्मना। प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा॥ अत्र गब्जेनेत्यत्र रूपकमनुपपन्नमेव । घीक्षणस्य प्रधानभूतपमा. - अनन्धयोपमेयोपमालङ्कारौ। ११ नुपपाद्यत्वात् । नापि दृगब्जामवेत्युपमितसमासादुपमा । प्रसभेनेति सामान्यधर्मप्रयोगात् । अतो विषयिणोऽब्जस्य विषयभूतष्टितादा- त्म्यापत्त्यैव वीक्षणक्रियोपयोग इति परिणामोऽप्यलङ्कारान्तरम् । एवमिवादिशब्दरुच्यमानः सामान्यविशेषयोरवयवावयविभाव उदा. हरणम्। यथा- अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति । निखिलरसायनराजो गन्धेनोग्रेण लशुन इव ।। इवशब्दः सामान्यविशेषभावप्रतिपादको निपातानामनेकार्थत्वात् । न चात्रोपमैवेति वाच्यम् । विशेष्यस्य सामान्यभेदाभावात् । तत उदाहरणमप्यलङ्कारान्तरमेवेत्याहुः । ॥ इत्युपमा ।। यत्रैकावच्छिन्ने स्तामुपमानोपमेयत्त्वे । अन्यसदृशं निषेढुं तमनन्वयसंज्ञमाचख्युः ॥ ८॥ यत्रोपमानत्वमुपमेयत्वं चैकधर्मावच्छिन्नं सोऽनन्वयः। उपमानान्तरनिषेधश्च तस्य व्यङ्गय इत्यर्थः॥ यथा मम- आम्नायसम्प्रदाय वदान्यतायां विपक्षविजये च ॥ उद्योतचन्द्रनृप इत्र राजत्युद्योतच द्रनृपः । व्यङ्यो यथा- कुले वा शौर्ये वा भुजसमुदये वा तपसि वा बभूवुर्न प्राञ्चस्त्वमिव भषितारो न चरमे ॥ अहो धिङमोहस्ते कधमतिचिरादेष न खलु प्रतीचीनः पन्था दशवदन ! येनासि चलिः || अत्रोक्तसदृशान्तरनिषेधात्तस्यैव तत्सादृश्यं व्यङ्ग्यम् उपमायां पूर्वस्यां प्रतियोग्य नु योगिनौ यौ तु । तो विपरीतौ परतश्चेदुपमेयोपमा त्वेषा ॥ ९ ॥ पूर्वोपमायामुपमानस्थ द्वितापस्या नुपमयत्वं पूर्वत्रोपमेयस्य चोत. रोपमानत्वं यत्र सा उपमेयोपमेत्यर्थः ।

१२ अलङ्कारमुक्तावल्याम्- यथा मम- धनुरागमनिष्णाता भूयांसोऽप्यासतां नाम | राधेय इव किरीटी भाति किरीटीव राधेयः। अत्र तृतीयोपमानव्यवच्छेदे तात्पर्यम् । सादृश्यं चात्रैकधर्मरू- पम् । तेन- सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । यामिनयन्ति दिनान्यपि सुखदुःखवशीकृते मनसि ।। इत्यादौ नातिव्याप्तिः। सुखदत्त्वदुःखदत्त्वादिधर्मभेदात् । सम्भाव्यते सह यदा साम्यप्रतियोगिना तदुपमेयम् । तामुत्प्रेक्षामाहुभिन्न हेत्वादिविषयत्वात् ॥ १० ॥ उपमेये उपमानतादात्म्यसम्भावनम् उत्प्रेक्षा । सम्भावनमिति सन्देहे रूपके चातिव्याप्तिवारणाय । सन्देहालङ्कारे तुल्यकोटिकत्वे. नोपमानकोटेरुत्कटत्वाभावात् । रूपके च तादात्म्यनिश्चयेन सम्भाव- नविरहात् । सा च त्रिधा । हेतुफलस्वरूपभेदात् । आद्या यथा मम-- झणदकृत कङ्कणगणो बजुलविटपं विनमयन्त्याः। तत्किसलयातिशयितं स्वाश्रयमालय मुदित इव ॥ अत्र वलयनिनादे हस्तकर्मजन्यपरस्पराभिघातो हेतुः । तत्र हस्त निष्ठाशोकपल्लवापेक्षाधिकगुणशालित्यज्ञानजन्यो वलयनिष्ठप्रमोद आ. रोप्यते । अभिघातस्य च प्रयोगविरहात्साध्यवसानत्वम् । रसगङ्गाध. रादिरीत्या तु वलय एव समवायसम्बन्धेन प्रमोदारोप इति विशेषः । न चाधे घलयनिष्ठप्रमोदस्यालीकत्वादारोप्यमप्रसिद्धमिति वाच्यम् । कविकल्पितत्वेन तदभावात् । काव्यमार्गे अरोप्यस्य लोकसिद्धत्वा. नपेक्षणात् । द्वितीया यथा मम-- स्वव्यापारनिवर्हित रिपुगणैर्निर्भेद्य बिम्ब रवं-- रर्द्ध चाप्यपहार्य वृत्रथितुः सिंहासनस्याञ्जसा ॥ निर्मथ्याप्यमरावती बहुमहावीरोपरुद्धान्तरां बाणस्ते धरणीतलं विशति किं तातं दिक्षुबलिम ॥ अत्र बाणधरणीतलप्रवेशस्य तत्संयोगफलत्वेऽपि बलिदर्शनस्व तत्फलस्वमुत्प्रेक्षितम् । - न्देिहालङ्कारः। १३ -- तृतीया यथा-- यन्मौलिरत्नमुदिनासि स एष जम्बू- द्वीपस्त्वदर्थमिलितैयुवभिर्विभाति ॥ दोलायितेन बहुना भवभीतिकम्प्रः कन्दर्पलोक इव खात्पतितस्त्रुटित्वा ॥ [ नैष० स० ११ श्ली० ८३] जम्बूद्वीपे कन्दर्पलोकतादात्म्यं सम्भावितम् । हेतुफलोत्प्रेक्षयोः स्वरूपोत्प्रेक्षाभेदस्त्वत्र स्वरूपपदस्य हेतुफलातिरिक्तपरत्वादिति प्राश्चः। प्रकृते तदन्यविषया सादृश्यज्ञानजन्या या । बुद्धिनिश्चयभिन्ना तामाचख्युः ससन्देहाम् ॥ ११ ॥ उपमेय उपमानविषयिणी सादृश्यज्ञानमूला निश्चयान्या च बुद्धिः ससन्देहः । स्थाणुर्न वेत्यादिसंशयवारणाय उपमेयेति । अमुष्य धीरस्य जयाय साहसी तदा खलु ज्यां विशिखैः सनाथयन् । निमजयामास यशांसि संशये स्मरस्त्रिलोकीविजयार्जितान्यपि ॥ [नैष० स० १ श्लोक ४५] इत्यादिवारणाय सादृश्येति । रूपके तिव्याप्तिवारणाय निश्चयभिः नेति । अस्य भेदद्वयमाह- उक्त विशेषधर्म प्रकृतस्य भवेदनुक्ते च ।। स्पष्टम । विशेषधर्मोक्तावपि निश्चयान्तनिश्चयगर्भताभेदाद्वैविध्यम् । यत्र संशयोक्तौ प्रकृतव्याप्यविशेषधर्मदर्शनात्संशयनिवृत्तिस्तत्राद्यः । यथा मम-- पीयूषद्युतिमणिशालभञ्जिका वा किं प्रेयोविरहितमत्तकाशिनीति (१)। सन्देहेऽभ्युदयति निश्चिकाय शोषा- द्वारीणां स्तनशिखरे निपातुकानाम् ॥ अत्र धारिशोषात्तापवत्त्वं तेन च मणिपुत्रिकाव्यावृत्ततया विर. हिणीधर्मत्वज्ञानात्प्रकृतनिर्णयः । द्वितीया यथा मम-- किं विद्युन्मुदिराविमौ न भुवि तौ किं हेमवीरुन्महा- (१) वरारोहा मत्तकाशिनीत्यमर । - .४ अलङ्कारमुक्तावल्याम्- -- तापिच्छौ न गतिस्तयोः स्वरसतः किं वा प्रवाहावुभौ । जम्बूशैवलिनीकलिन्दसुतयोस्तौ भिन्न देशाविति श्रीराम सह सीतया कलयता प्राप स्थिति द्वापरः(१) । अत्र तत्क्रांट्यभावव्याप्यदर्शनेन तत्कोटिकसंशयनिवृत्तावपि प्रकृ. तनिर्णयसामग्न्यभावाकोट्यन्तरमादाय पुनः संशयः, प्रकृतनिर्णयस्तु व्यङ्गय इत्युद्भटभट्टादिभिरयमेवोद्भावितः। विशेषधर्मानुक्तौ यथा मम-- चके किं त्रसरेणुभिः सुमनसामामोदिभिः किं हिमैः पीयूषस्य किमु स्मरस्य रुचिरैरित्येवमेणीदृशः ॥ किं तीक्ष्णैस्तरणेढेरुत पवेः किं सांयुगीनै(२) रघु- श्रेष्ठस्येत्यभिमातयो नृपवर ! त्वां वक्ष्य संशेरते॥ अत्र सौरभादिभिरुपपादकैः पुष्पत्रसरेणव एतत्समवायिनो वा इत्यादिः सन्देहो नायिकानिष्ठः तन्निवर्त्तकविशेषधर्मानभिधानं च । एवं तीक्ष्णत्वादिभिरुपपादकैः सूर्यत्रसरेणव एतत्समवायिनो न वेत्या. दिविपक्षनिष्ठोऽपि। तद्रूपकं त्वभेदः स्यादुपमानोपमेययोर्यत्र ॥ १२ ॥ उपमानोपमेययोराहार्यतादात्म्यानिश्चयो रूपकम् । ह्रदो वह्निमानि. त्यादिवारणाय उपमानेति । भ्रान्तिमद्वारणाय आहार्यति । भेदज्ञानसा मानकालिक इत्यर्थः । उत्प्रेक्षासन्देहवारणाय निश्चय इति । उद्देश्यवि. धेयभावेन तदुभयतादात्म्यबोधस्य लाभादतिशयोकावपळुतौ च न व्यभिचारः । अतिशयोक्तावुपमेयवाचकपदविरहात् अपह्नुतौ चोपमे. यनिषेधात् । नच समासगतरूपकेऽव्याप्तिः। समासे उद्देश्यविधेयभा. वेनान्वयबोधविरहादिति वाच्यम् । उपमानतावच्छेदकस्योपमेयताव. च्छेदकसामानाधिकरण्यप्रतीतेरेव विवक्षितत्वात् । आरोप्याः शाब्दाश्चेत्कथयन्ति समस्तवस्तुविषयं तत् ॥ यस्मिन्नारोप्यते यश्चारोप्यते तयोः शब्देनाभिधानं यत्र तद्रूपकं स. मस्तुविषयम्। यथा-- प्रागुच्चैः शिरसं क्षुरप्रनखरैः क्रौञ्चाद्रिदन्ताबलं भित्वा समयानि मौक्तिकफलान्याकीर्य पर्यापिताम्॥ (१) सन्देहद्वापरौ चाथ इत्यमर । (२)सांयुगीनो रणे साधुरित्यमरः रूपकालङ्कारः। १५ सेही वृत्तिमधिष्ठितेऽपि हि मयि क्षात्रेण वीर्येण ते विष्या कौतुकमाभिरामिकमसि त्वं कोऽपि धाराङ्करः ।। अत्र क्षुरप्रादीनां नखरादीनां च शाब्दमुपादानम् । नच नखरसह. शः क्षुरप्रेरित्यादिरीत्या उपमितसमासं कृत्वा उपमैघयं स्यादिति वा. च्यम् । “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" (अ०२ पा०१ सू०५६) इति वचनेन साधारणधर्मानुपादान एव तत्समासविधानात् । अत्रोच्चैः- शिरसमिति सामान्यधर्मप्रयोगसत्वात् । क्रौञ्चाद्रिदन्तावलमित्यत्र त. समासानुपपत्या क्रौञ्चादिरेव दन्तावल इति समासस्यैव वाच्यत्वात् । तदनुरोधन क्षुरप्रनखरैरित्यादावपि रूपकस्यैव निर्णयात् । अन्यथा रूपके दन्तावलपदार्थप्राधान्ये उपमायां च क्षुरप्रादिपदार्थप्राधान्येऽर्थासङ्ग- तिप्रसङ्गात् । एकदेशविवर्ति तच्छौतार्थत्वे तु माङ्गे द्वे ॥ १३ ॥ केषांचिदारोप्यमाणानां शाब्दत्वे केषांचिच्चार्थगम्यत्वे एकदेश. वितिरूपकम् । पूर्वोक्तं समस्तवस्तुविषयैकदेशर्विवर्तिरूपकद्वयं च सावयवम् इत्युच्यते इत्यर्थः । यथा- किरति कलितकिञ्चित्कोपरज्यन्मुखश्री- रविरतगुणगुञ्जकोटिना कामुकेण ॥ समरशिरसि चञ्चत्पश्चचूडश्चमूना- मुपरि शरतुषारं कोऽप्ययं वीरपोतः ।। ( उत्तररा० अं०५ श्लो०२) अत्र शरेषु तुषारारोपेण चमूनां तन्नाश्यतया नलिनीत्वारोपसिद्धिः। अनुकूलतया यथा-- नाराचैः कृतवीर्यनन्दनवधूवाप्पप्रियम्भावुकै- रुत्पाद्य क्षतजोदमर्णवमथ न्युप्तं पितृभ्यां पयः ॥ सम्प्रत्यस्य समस्तबाहुजभुजक्रोधस्य निर्वास्यतः क्षुन्दानो धनुरेन्दुशेखरमहो जातो भवानिन्धनम् ।। अत्र रामे इन्धनत्वारोपेण क्रोधस्याग्नितादात्म्यमाक्षिप्यते । बहून:- नामागेपाणामकारोपाक्षेपकत्वम्- यथा मम-- गुलुच्छौ वक्षोजी हसितमसिताब्जाक्षि ! कुसुम प्रकाण्डौ बाहू छावपि दशनवासः किसलयम् ॥ तनुश्रीराबालं किमपि सुकृतं बीजमतुल अलङ्कारमुक्तावल्याम्- प्रमोदस्याद्वैतं फलमुपभुजिवल्लभगता ॥ अत्र रूपकान्वरैरौचित्यवशानायिकाया लतातादात्म्यं गम्यते । निरवययं तु तदुक्तं योकारोपसाधकं नान्यत् । यत्र कचित्कस्यचिदारोपमात्रं न त्वारोपोपपादकत्वं तमिरवयवम् । यथा- इयं गेहे लक्ष्मीरियममृतवतिर्नयनो. रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः ॥ अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥ [ उत्त०अ०१श्लो०३८] अत्र परस्परानपेक्षा एवारोपाः । मालारूपकमुक्तं वेकस्मिन्भूयसां यदारोपः ॥ १४ ।। यथा- नेत्राणां मधुपर्कपात्रमुदधेः सर्वाङ्गमदस्करः शुङ्गारस्य रसायनं मखभुजां पीयूषगजापतिः ॥(१) देवः किं स्तुमहे महेश्वरशिरोनेपथ्यरत्नाकरः क्षीरोदार्णवशुक्तिमौक्तिकमयं दाक्षायणीनायकः ॥ अत्रैकस्मिश्चन्द्रे बहूनामारोपः । अन्यारोपाभावप्रयोजकस्य त्वभावस्य । प्रतियोगी परकीयारोपो यस्तत्परम्परितम् ॥१५॥ यदारोपं विना आरोपान्तरं न निर्वहति तत्परम्परितरूपकम् । यथा-- दशमुखवधनाट्यसूत्रधारो रघुपतिरस्य च पारिपार्श्वकोऽहम् । प्रकरणफलबाजभावकाना- ममृतभुजां समुपास्महे समाजम् ॥ अत्र रघुपती सूत्रधारारोपः सुग्रीवे पारिपास्विकारोपनिर्वाहकः । नाट्यरूपैककार्यकारित्वेन तत्सिद्धः । यदि च नाट्यप्रयोगकर्तृत्वरूप. धर्म एव रूपकद्वयनिर्वाहकः । अतो दशमुखवधनाट्यरूपकमधोभय- सिद्धिहेतुर्नतु सूत्रधारारोपः पारिपार्श्वकारोपनिर्वाह को मानाभावा. दिति विभाव्यते । तदा तदेवादाय दृष्टान्तत्वमव्याहतम् । (१) गञ्जा तु मदिरागृहम् इत्यमरः ।

रूपकालङ्कारः। तच श्लेषभिदाभ्यामारोपनिमित्तशब्दस्य ॥ १४ ॥ आरोपान्तरनिर्वाहताधारोपे विषयविषयिवाचकपदयोभैदे एवेत्यर्थः। तमामुदाहृतम् । तदेव मालारूपम्- यथा मम-- चेतोजन्मशिखण्डिताण्डवकलाकादम्बिनीकूजितं शृङ्गाराद्वयरूपरूपकविधिप्रारम्भनान्दीस्वनः । सञ्चिन्वम्किलकिश्चितक्रतुकृते याज्यारवप्राज्यतां कामं जीवतु खञ्जरीटनयनामञ्जीरजन्मा ध्वनिः॥ द्वितीयं यथा-- मादाय दण्डं सकलासु दिक्षु योऽयं परिभ्राम्यति भानुभिक्षुः । भब्धौ निमजन्नुपरीव सोऽयं सन्ध्याभ्रकाषायमधत्त सायम् ॥ दण्डपदोपात्तयोः सूर्यानुचरविशेषवेणुयष्ट्योरभेदारोपो भानुभि- क्षुरूपकनिर्वाहकः । खण्डश्लेषो यथा मम-- मृदुतामृदितमृणालीमदभारा मुदिरमेदुरामकचा। बीजं मञ्जुलताया मुदमासञ्जयति काक्षी ॥ मञ्जुः सुन्दरी लता । वल्लीत्वारोपो नायिकायां बीजारोपे मूलम् । अखण्डश्लेषे मालारूपं परम्परितम्- यथा मम- आमोदकुरबकवनी माधुर्यसुधारसैकपुष्करिणी। मकरध्वजैकराकारजनी वरवर्णिनी वरीवति ॥ खण्डश्लेषे तदेव- यथा मम-- (१)रसोद्धरणनिर्मितिस्मरवराहदंष्ट्रा द्विष- स्कुरङ्गनयनोत्करे कररुहस्य रेखा हरेः । नवस्तनघनोदये बलभिदो धनुर्मअरी मृगाक्षि ! तव पाणिजक्षतिरुदीक्ष्यते वक्षसि ॥ विरोधितया उपपाद्योपपादकभावो यथा- दोऽयं भवतःसुरासुरचमूदो काण्डकण्डूविष. ज्वालाजाङ्गलिकेन जाङ्गलभुजां पत्यापि न त्याजितः । (१) रसा=पृथ्वी । रस =शृङ्गार । द्विषत्कुरङ्गनयना सपत्नी। हरे:-सिहस्य । बलभिदानमा ३ १८ अलङ्कारमुक्तावल्याम्- - -- - येनैन्द्र रथवर्मणी रघुशिशोरस्योपनीते त्वया राजद्विष्टमिदं विधाय स कथं शक्रोऽपि वर्तिप्यते ॥ अत्र कण्डूविषयकविषज्वालारोपस्तदपनायकतया रावणे विषवे. चारोपनिमित्तम् । शुद्धसावयवयोः सङ्करो- यथा ममाभिराघवे- उन्मीलदलभिश्चमूकलिनीनिर्मन्थगन्धद्विपो व्यूहानामभितो निशाचरपतेर्वज्रात्मकः पञ्जरः । अत्युच्चैरमरावतीनवलताकम्पप्रचण्डानिलो वीरो दिग्द्विरदेन्द्रकुम्भदलनव्यापारकण्ठीरवः ॥ विषमपादद्वये सावयवं, समपादद्वये च शुद्धम् । खण्डश्लेषमूलकसा. षयवसङ्करो यथा तत्रैव- पारावारतुषारबिन्दुचुलुकीकारप्रवालाधरो विन्ध्यक्ष्माधरगात्रवैकृतकरक्रोधैनसो निष्कृतिः ॥ तेजःप्रज्वलदिल्वलावृतिविधिप्रत्यग्रधाराधरो ब्रह्मर्षियमुनाग्रजप्रियहरिसीमन्तचूड़ामणिः । इल्वलो दैत्यविशेषस्तस्या वृतिरेव इल्वलानां ताराविशेषाणामावृ. तिरिति वाचकं श्लिष्टम् । अन्यत्र वाचकभेदः । परम्परितैकदेशविवर्तिसङ्करो यथा-- आपन्नवत्सल ! जगजननैकबन्धी! विद्वन्मरालकमलाकर ! रामचन्द्र !। जन्मादिधर्मविधुरैः सुमनश्चकोरै- राचम्यतां तव यशः शरदां सहस्रम् ॥ केचित्तु- ऋमिकं प्रकृतार्थानां न्यासं रत्नावली विदुः। चतुरास्यः पतिर्लक्षम्याः सर्वक्षस्त्वं महीपते ! ॥ ब्रह्मविष्णुशिवानां श्लेषेण क्रमादुपन्यासाद्रत्नावली अलङ्कारान्तर. मित्याहुः। प्रकृतं निषिध्य भिन्नात्मतया प्रोक्तावपढ्नुतिः कथिता । उपमेयं निषिध्य तत्रोपमानाभेदव्यवस्थापनमपड्नुतिः । निषेधध द्विविधः । शाब्द आर्थश्च ।

श्लेषालङ्कारः। १९० -- शान्दो यथा- पात्रं करालगरगर्भितमेव सत्यं नैवेन्दुबिम्बमिदमालि ! यतश्चिराय । उत्कण्ठते मम मनः शिवकण्ठमेव यत्कालकूटगरलादखिलं ररक्ष ॥ सावयवा यथा-- नेयं निशा हतनिशाचरयोषिदेव हन्तुं वियोगविधुरं जनमाजगाम । अस्या मुखे सपदि यः प्रपतन् प्रकामं रागः स कोपजनितो न तु सान्ध्यरागः ॥ अत्र सान्ध्यरागापह्नवो निशापह्नवानुग्राहकः । आर्थो यथा-- येन स्वां विमिहत्य मातरमपि क्षत्रास्त्रमध्वासव. स्वादाभिशपरस्वधन विदधे निःक्षत्रिया मेदिनी । यद्वाणवणवर्मना शिखरिणः क्रोञ्चस्य हंसच्छला- दद्याप्यस्थिकणा: पतन्ति स पुनः क्रुद्धो मुनिर्भार्गवः । छलशब्दसमभिव्याहारेण हंसानां निषेधबुद्धिः। उभयविशेष्यान्वितयोरेकेन प्रोक्तिरर्थयोः श्लेषः ।। १५ ॥ उभयपदमेकभिन्नपरम् । त्रिविधश्चायम् । द्वयोः प्रकृतत्वे द्वयोरप्य. प्रकृतत्वेऽन्यतरस्यैव प्रकृतत्वे चेति । पुनर्द्विविधः । शब्दश्लेषोऽर्थ ले. षधेति । शब्दश्लेषोऽपि द्विविधः । पदभदे तदैक्ये च । आद्यः खण्ड. श्लेष इति गीयते । तत्र शब्दश्लषः शब्दालङ्कारोऽर्थश्लेषस्त्वर्थालङ्कार इति काव्यप्रदीपः । द्वयमपि शब्दालङ्कार इति केचित् । द्वयमपि अर्था. लङ्कार इति अलङ्कारसर्वस्वकारः। दीक्षिताद्यभिनवसम्मतं चैतदित्य. न्यत्र विस्तरः । द्वयोः प्रकृतत्वे यथा-- (१)अकम्पनोहीपितमेधनादा प्रहस्तनाथा घढचित्रकाया । आविर्भवबैरनरान्तकोग्रा सामर्षवगोज्ज्वललोहिताक्षा॥ .. (१) अकम्पन उद्दीपितः क्रुद्धो मेघनाद इन्द्रजित्यस्या पो अकम्पनतिच्छेद । उद्दीपितमेघनादा-प्रवृद्ध- सिंहनादा। प्रहस्त तन्नामा निशाचरोनायो यस्था पक्षे प्रकृष्टा हस्त. येषा क्षिप्रहस्ता बाहुबलशालिनो वाता- दशानाथा सेनानायकायस्याम् । दृढो बलवान् चित्रकायस्तन्नामा राक्षसो यस्याम् ।पक्षे दृढ अभेद्योविचियो १० अलङ्कारमुक्तावल्यामू- . ससिन्धुराजा तरसोग्रभीष्मा सहेतिशल्या कृतवर्मनिष्ठा । समिन्महाकर्मसु दक्षिणा च रुरोध शबून परवाहिनी सा ।। अत्र वर्ण्यतया रावणदुर्योधनसेनाद्वयस्य प्रकृतत्वम् । द्वयोरप्रकृतत्वे यथा मम-- (१)संपन्नशक्तिर्विवुधेन्द्रवृन्दमुखप्रयायी विलसच्छिखावान् । त्वयानुभावेन विलक्षणेन जितः कृशानुश्च कृशानुभूश्च ॥ राजस्तुतौ वह्निस्कन्दयोद्धयोरप्रकृतत्वम् । अन्यतरस्य प्रकृतत्वे यथा मम-- तात्पर्यमकलयन्तो नालोचितविशदभाष्यगिरः। अपरिचितदीधितिमहालोका न्यायाद्वहिः प्रजल्पन्ति । तात्पर्यानभिज्ञा आपातरम्योक्तयः क्रूरसुकुमारोक्तिप्रस्तावक्षानही. लोका अन्याय्यमेवार्थ वदन्तीति प्रकृतः । तात्पर्यटीकाभाष्य-शि. रोमणि-मिश्रग्रन्थानभिज्ञा न्यायशास्त्रविरुद्धमेव वदन्तीत्यप्रकृतः । स्व- ग्डश्लेषस्त्वष्टधा। तत्र वर्णश्लेषो यथा-- यामि विधावभ्युदिते पुनरेष्यामीति यत्त्वया कथितम् । जानात्युदन्तमात्रं नेदं तत्वेन मुग्धवधूः ॥ विधाविति सप्तम्येकवचने विधिविधुशब्दयोः समानम् । पदश्लेषो यथा-- तमभ्यधावत्क्षतशत्रुरक्षो- घटोत्कचस्फीतविटङ्कमोलिः॥ चलाचलाकारकरीन्द्रपाली कुम्भप्रणुन्नाऽम्बुदसंहतिश्रीः ॥ अत्र रामायणपक्षे क्षतशत्रु यथा स्यात्तथा कुम्भसंशेन कुम्भकर्ण- पुत्रेण प्रेषिता रक्षसां घटा राक्षससमूहः तं सुग्रीवमभ्यधावत् । किंभूः यूहो यत्र । नरान्तको राक्षसविशेषः पक्षे अन्तकोप्रति पृथक्पदम् । अक्षो रावणसूनु पक्षे कोपावेशा कनेत्रवती । ससिन्धुरा सगजा जातवीररसनातिभयडूगा पक्षे सिन्धुराजो जयद्रथः । तरसाचलेन उप्रे राष्मा यस्याम् । हेतयः-शमाणि-शल्यानि भल्लानि शमसहित शल्यो राजविशेषो यस्यामिति च । किवचा। पचे स्पष्टम् । (१) शक्ति दाहकत्वरूपा भायुधविशेषश्च । देववृन्दस्य मुखं वदनं प्रयायी गतिमान् “अमि- खावै देवा" इति श्रुते । मुखे अग्रे प्रयायी सेनानीरिति यावत् : विलसन्ती शिखा ज्वाला तहान लसन् शिखावान् मयूरो यस्य । तद्वाहनत्त्वानस्य ।

श्लेषालङ्कारः। २४ सा उगताः कचाः केशा यत्र ताशः स्फीतो विशालश्च विट कसरशो मौलिर्यस्याः । तथा मेघवन्नीलवर्णा चलत्पर्वताकारागजपरिप्यधाव. दिति व्याख्यातारः । भारतपक्षे तु क्षता शत्रूणां रक्षा येन तादृशो घटो. स्कचनामा राक्षसस्तं कर्णमभ्यधावत् । स्फीतेत्यादितुल्योऽर्थः । "खर्परे शरि" इति विसर्गलोपमाश्रित्य घटोत्कचशब्दस्य प्रथमान्तत्वम् । करी. न्द्रपालीनां कुम्भैर्गण्डस्थलैः प्रणुन्ना उत्तम्भिता मेघानां संहतिश्री: समुदायशोभा येन । गजानुत्क्षिप्य युध्यन्तीत्यर्थः । लिङ्गश्लेषो यथा-- प्रवर्तयन्मान्द्यनिवारणेम कर्मण्यभीष्टप्रतिपत्तिहतौ। उद्भास्वरप्राज्यमहोतिमात्रं मित्र च मित्रश्च मुदं सुवाते ॥ "यरोऽनुनासिक" (८४|४५) इति नत्वे कृते प्रवर्त्तयदिति क्लीवस्य नकारान्तसाम्यम् । उद्भास्वरः परप्रकाशकःप्राज्यो भूयान्महस्तेजो य स्य । तेजोऽर्थकमहशब्दस्याप्यदन्तत्वात् । पक्षे उद्भास्वरं प्राज्यं मह उत्सवो यस्मात्। सुहृदुपदेशानतिक्रमे सुखाभ्युदयात्। सकारान्तमहःश. ब्दस्याप्युत्सवार्थकत्वात् । “मह उत्सवतेजसोः” इतिहकारान्तेषु "महो भवेदुत्सवतेजसोश्च" इति सान्तेषु च विश्वः । भाषाश्लेषो यथा मम- सरसं तरसा रमणो रहस्समम्महसरेण । अह वासराजवासे सुहसा राजन्ति वामा हि ॥ इह संस्कृतपक्षे वासगजो गृहश्रेष्ठः क्रीडागृहं तत्र वासे सुहसा: शोभनहासा वामाः स्त्रियो राजन्ति शोभन्ते । हीत्यवधारणे । अहेति पादपूरणे । सरसमिति क्रियाविशेषणम् । यद्वा रह इत्यस्य विशेषणम् । कदा शोभन्त इत्यत आह-मह उत्सवः तस्य सरो विस्तारः। सुगता. वित्यस्मादप्प्रत्ययः । तेन समं सह । सस्वेदः कामविकारवत्त्वात् । अनेन विप्रलम्भसाहित्यं प्रतिपादितम् । दुःखसम्मिन्नरतरेव तत्स्वरूपत्वात् । "सम्भोगः सुखसम्भिन्नो विप्रलम्भस्तु दुःखयुक् । रतिस्तयोः प्रकर्षः स्यादुत्कर्षात्सुखदुखयोः" । एवंविधो रमणो नायकः रह एकान्तदेशश्च यदि भवति तदा सम्भोगसामग्रीसाम्राज्यादिति भावः । प्राकृतपक्षे तु- सरसांतरसारमनोरथस्य मम्मथशरेण । मथ वासरा जवासस्य सुखसारा यन्ति वामाभिः॥

२२ अलङ्कारमुक्तावल्याम्- -- विरहे कथं तस्य दिनानि गच्छन्तात्याशङ्कायां कस्याप्युक्तिः । मनोरथोपनीताः प्रियाः साक्षात्कृत्य तत्परिशीलनयैव सुखं दिनानि यान्तीत्यर्थः। प्रकृतिश्लेषो यथा मम- तिरस्कृताम्भोभृदहङ्कतीनां धृतोत्कटत्वप्रवहत्कटानाम् । स्वेषणं परेषामपि वारणानां तनोति पाणिस्तव दानमेव ॥ "दो अवखण्डने” इत्यस्य "डुदाञ् दाने” इत्यस्य च ल्युट्प्रत्यये दानमिति रूपं तुल्यम् । प्रत्ययश्लेषो यथा मम- वीरव्रतदीक्षायां निरूपयत्यनवकीर्णनं हृदये। भूतलपुरुहूत ! त्वं केवलमचकाच्च गाङ्गेयः ॥ अचकादिति चकास्तेलङि प्रथममध्यमपुरुषैकवचने समान रूपम् । विभक्तिश्लेषो यथा मम-- तात्पर्यविषयभावं त्वमश्व एव श्रुतिशतानाम् । शिरसामहोविशेषादसन्मतेः सम्यगुद्ध म् ॥ श्रुतिशतानां शिरसामुपनिषदां तात्पर्यविषयत्वं त्वमेव अश्वः प्राप्त वान् । अवान्तरवाक्यानामन्यत्रापि तात्पर्यमाशङ्याह-विशेषादित्यादि। वेदार्थानभिरेवान्यत्र तात्पर्यमाशङ्ख्यते इत्यर्थः । अथ च शिरसा मुखा- वच्छेदेन अश्वो हयग्रीव इति यावत् । ईदृशस्त्वमेव वेदशनानां दुर्बुद्धि युक्तान्मधुकैटभादेः सकाशात्सम्यगुद्धारं कर्तुं तात्पर्यस्य विषयभाव. म् आश्रयतां विशेषात् देवान्तरव्यतिरेकेण अमहः पूजितवान् । 'मह पूजाया' मित्यस्य लङि मध्यमैकवचने रूपम् । अत्राश्व इति श्वयतेर्धातो. गत्यर्थस्य लुडि मध्यमैकवचनम्, अश्वशब्दस्य प्रथमैकवचनं च स. मानम्। वचनश्लेषो यथा- अपयातमितो धृष्टे धिग्वामीलशीलताम् । इत्युक्त वेत्रवन्तश्च व्यतियाते स्म ते भिया । अत्र ते सख्यौ ते कञ्चुकिनश्च व्यतियाते इति कर्मव्यतिहारे तङ् । यथाक्रम द्विवचनान्तं रूपम् बहुवचनान्तं च समानम् । यत्र प्रकारवाचकपदमा व्यङ्ग्यं वाच्यसामान्यम् । तच्छक्तरप्रकृतार्थोक्तिःसोक्ता समासोक्तिः ॥ १६ ॥ -- निदर्शनालङ्कारः। २३ यत्र विशेषणपदानां प्रकृताप्रकृतसाधारणार्थप्रत्यायकत्वं न तु विशेष्यपदस्थापि सा समासोक्तिः। साधारणार्थबलादप्रकृतार्थस्यापि प्रतीतः। यथा मम-- मुकुलेषु कमलिनीनां पतन्ति भास्वत्करा बहलरागाः। प्रथममतितीक्ष्णस्पर्शात्सुमुखि ! तदुद्वेगभीत्येव ॥ अत्र नवीननायिकाकुचे पूर्व तद्विश्वासाय शिथिलस्पर्शस्य कर्नु नायकस्य व्यवहारस्य प्रत्ययः । यत्र तु विशेष्यवाचि पदमपिश्लिष्ट तत्रोपमाध्वनिरेव । अयं त्विह विशेषः । सर्वस्वकारादीनां मते समा. सोक्तौ प्रकृतव्यवहार अप्रकृतव्यवहारतादात्म्यमेव भासते न तु प्रक- तर्धामण्यप्रकृतधर्मितादात्म्यमपि । यथा प्रकृते सूर्यव्यवहारे नायकव्य. घहाराभेदो न तु सूर्यनायकाभेदः । कमलिन्यादौ नायिकादितादात्म्यं तु प्रतीयत एवेति । रसगङ्गाधरादीनां तु प्रकृतधर्मिण्यप्रकृतधर्मितादा. स्म्यमपि भासत इति । उपमापर्यवसन्नो यत्रार्थोऽन्योन्यमन्वयानहः । यच्च क्रियया कारणकार्यान्वयधीनिदर्शना सोक्ता ॥१७॥ यत्र पदार्थयोर्वाक्यार्थयोर्वा सम्बन्धो बाधवशात्सादृश्ये पर्यवस्य. तिसा तावदेका निदर्शना । यथा-- दण कौतुकवतामपि बद्धलक्ष्यः पश्चादलैरनुसृतोऽयमुदीर्णधन्वा । वेधा समुद्धतमरुत्तरलस्य धत्ते मेघस्य माघवतचापधरस्य लक्ष्मीम् ।। यथा वा-- चूडामण्डलबन्धनं तरलयत्याकूतजो वेपथुः किंचित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः॥ धत्ते कान्तिमकाण्डताण्डवितयोर्भङ्गेन वक्रं भ्रवो. श्चन्द्रस्योत्स्फुरलाञ्छनस्य कमलस्योद्धान्तभृङ्गस्य च ॥ अन्यधर्म कथमन्यो वहतीति धर्मिणोः साश्यपर्यवसानम् । वा. क्यार्थनिदर्शना तु सहशवाक्यार्थयोरभेदारोपः।

२४ अलङ्कारमुक्तावल्याम्- - . • यथा मम रुक्मिणीपरिणये-- पमिन्याः परिरक्षणाय तुहिनैर्मूलावसंकक्रिया स्पष्टं यामिकताकतिर्मुगपतेः केलीमृगी गोपितुम् । कोशीयस्य धनस्य च स्वकृतिभिः पाटच्चरायार्पणं मञ्जर्या अतिसौरभस्य रभसात्पाणी प्रदानं कपः ॥ अत्र दुर्मुखसंशस्य मायया हंसकपिणो दैत्यस्य श्रीकृष्णेन रुक्मिणी प्रति दूत्येन प्रेषणम्। अहो तदेतदिति पूर्ववाक्यार्थः । अत्रोक्तवाक्यार्थच. तुष्टयस्थाभेदारोपः। अप्रसिद्ध आरोप्यवाक्यार्थो यथा-- उल्लास्यतां स्पृष्टनलाङ्गमङ्गं तासां नलच्छायपिबापि दृष्टिः । अश्मैव रत्यास्तदनति पत्या च्छदेऽप्यबोधं यदहर्षि लोम ॥ ( नैष० स० ६३४ श्लो० ) समामरूपवाक्यार्थस्य यथा-- चतुरिमकलाकण्ठच्छेदो मनोभववञ्चनं दृषदि मधुनो लिप्सा लोके विडम्बनमात्मनः । उपरि परितः सङ्कल्पानां शिलाशतपातनं सहचरि ! परीतापस्थानं जडे हृदयार्पणम् ॥ आधचरणोपात्तं समासरूपवाक्यचतुष्टयम् । यत्र क्रियया कार्यका. रणभावे कयोश्चिदर्थयोः प्रतिपादिते उत्तरवाक्यार्थी विशेषरूपतया दृष्टान्तत्वेन पर्यवस्यति साप्यपरा निदर्शना । यथा मम-- यो वहति मलिनमन्तवृद्धौ हानौ च सोऽन्तयति पक्षम् । राकायां दर्श वा क्षपयति पक्षं क्षपानाथः । अत्र मालिन्यसम्बन्धपक्षनाशयोः कार्यकारणभावे पूर्वार्द्ध प्रतीय. पाने उत्तरार्द्ध ग्राहकम् । केचित्तु ललिताख्यमलङ्कारं वदन्ति । प्रस्तुत- वाक्यार्थेऽप्रस्तुतवाक्यार्थाभेदो हि निदर्शना । यत्र तु प्रस्तुनवाक्यार्थम. उपन्यस्याप्रस्तुतवाक्यार्थ उच्यते तत्र ललितम् । यथा-- अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य । त्वदाप्तसङ्केततया कृतार्था श्रव्यापि नानेन जनेन संज्ञा ।। 4 अप्रस्तुतप्रशसालङ्कारः। अत्र कुतस्त्वमागत इति प्रस्तुतमनुपन्यस्य तस्सहशवाक्याधान्त रोपन्यास इति। अप्रस्तुतप्रशंसा प्रकृतमतिपत्तिरेतया यत्र । अप्रकृतार्थोक्त्या प्रकृतार्थप्रत्ययो यत्र इयमप्रस्तुतप्रशंसा। अप्र. स्तुतस्य प्रतिपादनमात्रं विवक्षितं न स्तुतिरेव । अस्याः पञ्च भेदानाह कार्य हेतो व्याप्यव्यापकयोरन्यगीः ममे तस्य ॥ १८ ॥ कार्य प्रकृते अन्यस्य कारणस्य । हेतौ प्रकृतेऽन्यस्य कार्यस्य । व्या. प्ये विशेष प्रकृते तदन्यस्य सामान्यस्य । व्यापक सामान्य प्रश्ते तद. न्यस्य विशषस्य । समे प्रकृते तदन्यस्य समस्याभिधानमिति पञ्चविधे. यमित्यर्थः । तत्राद्या यथा-- ब्राह्मणातिक्रमत्यागो भवतामेव भूतये । जामदग्न्यश्च वो मित्रमन्यथा दुर्मनायते ॥ अत्र रामेण गवणं प्रति स्वोक्त्यतिक्रमेण तदनिष्टविधानरूपे कार्य वक्तव्ये स्वदौमनस्यरूपं कारणमुक्तम् । द्वितीया यथा-- पुरं निःशेषघटितकपाटद्वारमावृतम् । रक्षा चाप्तैभक्तिमद्भिः कौणपैः परितः कृता॥ अत्र रावणेन भद्र ! सेनापते ! किंतुरयं कलकल इति हेतौ पृष्टे प्रहस्तेन नगरावरोधहेतुमनभिधाय तत्कार्यमात्रमुपन्यस्तम् । तृतीया यथा-- असो वा यदि वा विपर्ययगतो जानेऽथ सन्देहवान् दृष्टारष्टविरोधि कर्म कुरुते यस्तस्य गोप्ता गुरुः ॥ निःसन्देहविपर्यये सति पुनीने विरुद्ध क्रिय राजा चेत्पुरुषं न शास्ति तदयं प्राप्तः प्रजाविप्लवः ॥ अत्र परशुरामस्व शासने वक्तव्ये सामान्यमुक्तम् । चतुर्थी यथा- धियात्मनस्तापदसाधु नाचरं परस्तु तछेद स यदविण्यति। जनावनायोधमिनं जनार्दनं क्षये जगज्जीवपि शिव बदम् । (नैष०स०९श्ला) - २६ अलकारमुक्तावल्याम्- - - विपरीतग्राही लोक इति सामान्ये वक्तव्ये उत्तरार्द्ध विशेष उक्तः। तुल्येन तुल्याभिधाने त्रयः प्रकाराः । श्लेषः समासोक्तः सादृश्य. मात्रंचति । धर्ममात्रश्लेषो यथा मम- छिदुरेण गुणगणेन व्याप्तं येषां सदा हृदयम् ॥ तेषां मृणालकानां मुखमुद्राजीवनमुचितम् ॥ उद्तं राजीवनं कर्म (कमल) यत्र तादृशं मुखम् । अथ च आजीवन जीवनर्पयन्तं मुखस्य मुद्रा मौनम् । मृणालपदं चैकमात्रार्थकम् । विशेषणविशेष्योभयश्लेषो यथा मम- खट्वाङ्गं पाणितले निधाय यो भूतले स्वपिति । दिग्यासा नेत्रत्रययुतोऽपि किं सर्ववित्तया तस्य ॥ समासोक्तिर्यथा- एणाद्याः पशवः किरातपरिषन्नैषा गुणग्राहिणी सञ्चारो नहि नागरस्य विषयोच्छिन्न मुनीनां मनः । धूमेनापि सुगन्धिना दश दिशः सामोदमामोदय- नामूलं यदि दह्यतेऽगुरुतनुः कस्मै किमाचक्ष्महे ॥ सादृश्यमानं यथा मम- ऐरावतमन्दारौ दुर्वासाश्चेति सहभुवो लक्ष्म्याः । एतेषां व्यापारात्सा निकृति प्राप विधिशक्त्या ॥ केचित्तु प्रस्तुतेन अप्रस्तुतप्रतीतो समासोक्तिः । अप्रस्तुतेन प्रस्तु. तप्रतीतौ अप्रस्तुतप्रशंसा। प्रस्तुतेन प्रकृतप्रतीतौ तु प्रस्तुताङ्करः पृथ गलङ्कारान्तरम्। यथा- अन्यासु तावदुपमर्दसहासु भृङ्ग ! लोलं विनोदय मनः सुमनोलतासु । मुग्धामजातरजसं कलिकामकाले व्यर्थ कदर्थयासि किं नवमालिकाया: अत्र वृत्तान्तद्वयं प्रकृतमेवेत्यतिरिक्तत्वमेव युक्तमित्याहुः । अप्रकृतेन निगीणे साध्यवसानाश्रयात्मकृते । प्रकृतस्याप्यधिकत्व यद्येवं स्यात्तथापत्तौ । स्थाजन्यजनकपौर्वापर्यत्यागश्च सा त्वतिशयोक्तिः ॥ १९॥ उपमेयवाचकपदमपहाय उपमानवाचकपदेनैव तदुपादानमेकाति. शयोक्तिः। - अतिशयोत्स्यलकारः। अत्र - यथा- तमस्तोमः पूर्व तदनु विमलः शीतकिरण- स्ततः कोकद्वन्द्वं तदनु च न किश्चित्पुनरभूत . अनङ्गस्यावतस्तदनु कदलीकाण्डयुगलं ततोऽवाची पद्मौ शिव ! शिव ! विधेः सृष्टिरपरा ॥ कचवदनाद्युपमेयानां तमःप्रभृत्युपमानवाचकशब्दैरेवापा दानम् । यत्र प्रकृतस्य सजातीयादत्युज्ज्वलत्वं वर्ण्यते सा द्वितीया । यथा मम- अन्यत्कुतूहलमपाङ्गतरङ्गितानामन्यैव रीतिरपि गीतिभृतः स्मितस्य ॥ एणीदृशः सदभिसन्धिगुणेषु सूक्तिमुक्ताफलग्रथनकौशलमन्यदेव ॥ यद्येवं स्यादिति केनचिदापादकेन कस्यचिदर्थस्थापादा तृतीया यथा- निरन्तरत्वेन निधाय तन्वि! तारासहस्राणि यदि क्रियेत । सुधांशुरन्यः स कलङ्कमुक्तस्तदा त्वदास्यश्रियमाश्रयेत ॥ कारणकार्ययोः पौर्वापर्यपरित्यागे चतुर्थी । तत्परित्यागेऽपि वैवि. ध्यम् । पूर्व कारणस्य पश्चात्कार्यस्यात्पत्तरुक्तौ युगपत्तदुभयोक्तौ च । आद्या यथा- उदेति पूर्व कुसुमं ततो रजो घनोदयः प्राक्तदनन्तरं पयः । निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु सम्पदः ॥ अत्र प्रसादात्पूर्वमेव सम्पदभिधानम् । द्वितीया यथा मम- पुरुहूतहरिन्मुखे हिमांशुविरहिण्या हृदये च वीतिहोत्रः । क्षणमन्यतराश्रयक्षणक्षयहीनं प्रतिपद्य दिद्युताते ॥ अत्र चन्द्रोदयस्य विरहिणीतापाश्रयक्षणध्वंसानधिकरणक्षणवृत्ति त्वोक्तविरहिणीतापस्य च चन्द्रोदयक्षणध्वंसानधिकरणक्षणवृत्तित्वो. तरर्थात्तयोरेकक्षणोत्पत्तिकत्वं लभ्यते । केचित्तु-"कार्यकारणयोरभेदेन वर्णनं हेतुरलङ्कारः। यथा- लक्ष्मीविलासा विदुषां कटाक्षा वेङ्कटप्रभोः । एवं कस्याचदर्थस्य बाधितत्वबोधनार्थ कस्पषिदाधिता -- हपनं मिध्याभ्यवसितिः ।

अलारमुक्तावल्याम्- यथा- अस्य क्षोणिपतेः परार्द्धपरया लक्षीकृताः सङ्घयया प्रज्ञाचक्षुरवेक्ष्यमाणवधिरश्रव्याः किलाकीर्तयः । गायन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरा- मूकानां प्रकरा कूर्मरमणीदुग्धोदधे रोधसि (नैष०स०१२श्लो०१०६) तथा सम्भावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये । यदि शेषो भवेद्वक्ता कथिताः स्युर्गुणास्तव ॥ इति सम्भावनमलङ्कारः। तथा बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते ॥ यथा-- गजत्रातति वृद्धाभिः श्रीकान्त इति यौवतैः । यथास्थितश्च बालाभिर्दष्टः शौरिः सकौतुकम् ॥ एवमेकेन बहुधोल्लेखेऽपि- गुरुर्वचस्यर्जुनोऽयं कीर्ती भीष्मः शरासने ॥ तथा- प्रौढोक्तिरुत्कर्षा हेतौ तद्धेतृत्वप्रकल्पनम् ॥ तदकारणत्वेऽपि तत्कारणत्वकल्पनं प्रौढाक्तिः । यथा-- कल्पतरुकामदोग्ध्रीचिन्तामणिधनदशङ्खानाम् । रचितो रजोभरपयस्तेजःश्वासाम्बरैरेषः ॥ अत्र कल्पद्रुमादेराधिकदानं प्रत्यहेतुत्वेऽपि राक्षः कल्पद्रुमादिसम्ब धिभूतावयवनिर्मितत्वात् हेतुत्वेन कल्पनमिति प्रौढोक्तिः" इति वदन्ति । सादृश्यपर्यवसिते यस्मिन्वाक्यद्ये धर्मः । एकोऽपि द्विरुपात्तस्ना प्रतिवस्तूपमामाहुः ॥ २० ॥ सादृश्याभिप्रायके वाक्यद्वये यत्रैक एव धर्मों द्विवारं निर्दिश्यते सा प्रतिवस्तूपमा। यथा--- •वीं वाचमपासते हि बहवः सारं तु खारस्वतं प्रतिवस्तूपमारष्ठातालङ्कारी । जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः । अन्धिलडित एव वानरभटैः किन्त्वस्य गम्भीरता. मापातालनिमनपीवरतनुर्जानाति मन्याचलः ॥ अत्र ज्ञानरूप एको धर्म उभयत्र निर्दिष्टः । मुरारिमन्दरयोः साम्यं च पर्यवस्यतीति स्पष्टम् । यथा वा-- नान्यत्र राघवाद्वंशात्प्रसूतिर्वत्सयोः क्षमा । दुग्धार्णवाढते जन्म चन्द्र कौस्तुभयांः कुतः ॥ पूर्वत्र भावरूपोऽत्र त्वभावरूप इति विशेषः । वैधर्येण यथा मम-- तत्तद्युक्तिविशेषगुम्फितवचःसन्दर्भगर्भीकृता. नर्थानास्वदितुं कवेरथ धियां धन्याः शतेऽपीशते । सभ्रविभ्रमक्तरङ्गविहितामास्ये मृगाक्ष्याः क्षमो विच्छित्तिं न विलक्षणां क्षणमपि क्षीणेक्षणः प्रेक्षितुम् ॥ अत्रान्धो यथोक्तशोभा साक्षात्कर्तुमक्षम इत्यस्य विपर्ययेण चक्षु मानेव तां साक्षात्कर्तुमर्ह इत्यनेन प्रकृतसिद्धिः । साधारणस्य साम्यप्रतियोग्यनुयोगिनोर्यत्र । निर्देशः स्यात् बिम्बप्रतिबिम्बतया स दृष्टान्तः ॥ २१ ॥ यत्रोपमानोपमेयदिशि बिम्बप्रतिबिम्बभावेन भिन्नधर्मोपादानं स दृष्टान्त इत्यर्थः । प्रतिघस्तूपमायां त्वेकस्यैव धर्मस्याभिधानमिति भेदः । यथा- अयमयमीशप्रशमविश्वसनीयतनु. भुवनभयङ्करीः कथमधत्त रुषोऽपि मुनिः । स्थितमिदमेव वा मृदुमनोज्ञतुषारतमा- स्तमसि सति ज्वलन्ति सहसैव महौषधयः ॥ अत्र रोषज्वलनयोबिम्बप्रतिबिम्बभावः । वैधम्र्येण यथा मम- आपलतापविहतिस्पृहयातिसान्द्रं वैजात्यवत्सुकृतशालिन एव चेतः केन श्रुतं बहलहालहलावलीढादाशीविषादपि समुन्मिषितं सुधायाः ॥ प्रकृतापकृतानां योकान्वयितास्ति दीपकं तस्यात् । प्राकरणिकानामप्राकरणिकानां चैकपदोपात्तधर्मेणाम्बयो दीपकम् । - ३० अलकारमुक्तावस्याम्- यथा- सकलकलाः कल्पयितुं प्रभुः प्रबन्धस्य कुमुदबन्धोश्च । सेनकुलतिलकभूपतिरेको राकाप्रदोषश्च ॥ वर्ण्यत्वेन प्रकृतस्य प्रवरसेनस्य अप्रकृतस्य राकाप्रदोषस्य च कला. जाकल्यकल्पनसामर्थ्यरूपैकधर्मान्वयः। क्रियादीपकं यथा- गणयन्ति नापशब्दं न वृत्तभङ्गं क्षयं नचार्थस्य । रसिकत्वेनाकुलिता वेश्यापतयः कुकवयश्च ॥ निन्द्यत्वेन प्रकृतानां कुकवीनाम् अप्राकरणिकानां च वेश्यापतीनामे. क्रियान्वयः ॥ यत्रैकमेव कारकमन्वयमेति क्रियासु वहीषु ॥ २२ ॥ एकस्य कारकस्यानेकक्रियान्वयित्वेऽपरं दीपकम् । यथा- प्रणमति पश्यति चुम्बति संश्लिष्यति पुलकमुकुलितैरङ्गैः । प्रियसङ्गाय स्फुरितां वियोगिनी वामबाहुलताम् ॥ माला तु पूर्वपूर्वे विधान्तरेणोत्तरान्वयिनि । तस्यामेव क्रियायां रूपान्तरेणान्वितस्य रूपान्तरेण तत्रैव पुनरन्वये गलादीपकम् । यथा मम- आत्मा ते मनसात्मनाप्यभिनवा लोकोत्तराः कल्पना श्वम्पूनामथ कल्पनाभिरमलं माधुर्यमभ्यर्हितम् । माधुर्येण पदानि कान्यपि पदैरप्यावृदप्यावृता श्रोत्रं तेन मनोऽमुनापि च मुदामद्वैतमासाद्यते ॥ आसादनक्रियायां पूर्व कर्मत्वेनान्वितस्यानन्तरं कर्तृत्वेनान्वयः । प्रकृतानां ताइके भिन्नानां वापि तुल्ययोगित्वम् ॥ २३ ॥ प्रकृतानामेव अप्रकृतानामेव वा एकधर्मान्वये तुल्ययोगिता। प्रकृतानां यथा- सम्भाव्यमिष्टभुवनाभयदानपुण्य सम्भारमस्य धपुरत्र हि विस्फुरन्ति । लक्ष्मीश्च सात्विकगुणज्वलितं च तेजो धर्मश्च मानविजयौ च पराक्रमश्च ॥

व्यतिरेकालङ्कारः। अप्रकृतानां यथा- अवनिरमरसिन्धुः सार्धमस्मद्विधाभि- स्स च कुलगुरुराधः छन्दसा यः प्रयोक्ता । स च मुनिरनुयातारुन्धतीको वसिष्ठ- स्त्वयि वितरतु भद्रं भूयसे मङ्गलाय ॥ (उत्तर०अं०३श्लो०४८) उभयोः साम्यप्रोक्तो विशेष उपमेयगे व्यतिरेकः ।। उपमानादुपमेयस्य केनचिद्धर्मेणाधिकवर्णनं व्यतिरेकः । हानिप्रकर्षहेत्वोरुक्ती त्रेधा च तदनुक्तौ ॥ शब्दार्थालेपोत्थे साम्ये श्लेषे च दिग्युगमितः सः ॥ २४ ॥ उत्कर्षापकर्षहेत्वाभिधाने एकः । उत्कर्षहेतुमात्रेऽपकर्षहेतुमात्रे तदुभय. हेतौ धानुक्ते त्रय इति मिलित्वा चत्वारः। तत्रापि साम्यस्य शाब्दत्वे आ. र्थत्वे आक्षेपगम्यत्वे ति चतुर्णा प्रत्येक त्रैविध्ये द्वादश । द्वादशानामपि शुद्धत्धेन श्लेषेण च द्वैविध्ये चतुर्विंशतिर्भदा व्यतिरेकस्येत्यर्थः । क्रमे णोदाहरणानि । आद्यानां चतुर्णा यथा मम- वाङमयसरसामन्तर्गाहनकुतुकैकरसिकोऽपि। अपरश्चपलो बुध इव धीरोऽयं न मदमाधत्ते ॥ चापलधैर्ये अपकर्षोत्कर्षहेतू उक्तौ । मदमाधत्ते न लेशमपीति चतु. थंचरणनिर्माणे उत्कर्षहेतुरनुक्तः। क्वचिदप्यपरो बुध इवेति तृतीयचर- णपाठेऽपकर्षहेतुरनुक्तः । एतत्पाद द्वयनवोत्तरार्द्धपाठ तूभयहेत्वनुक्तिः । सर्वत्र इवपदप्रयोगात् शाब्दं साम्यम् । आर्थे साम्ये यथा तत्रैव 'चपल. तरेतरबुधवत्' इति पाठे उक्तरीत्यैव चतुर्थचरणपाठे । क्वचिदपि चेतरबु. धवदिति तृतीयचरणपाठ पादद्वयनैवोत्तरार्द्धपाठे च तुल्यार्थकवतिप्रयो. गादार्थ साम्यम्। आक्षेपात्साम्ये यथा तत्रैव'चपलान्बुधानभिभवन्' इति पाठे चपलपद. स्थाने सकलपदप्रक्षेपे । अन्यत्र पूर्वरीत्या पठिते अभिभवस्य सादृश्ये शक्तिलक्षणयोरभावात्साम्याक्षेप इति द्वादश भेदाः । श्लिष्टभेदा यथा मम- अभ्यासप्रतिभादिप्रतिभागुणसम्पदनपंताः। अधिकलकलस्य विधुवत्कादाचित्की न काचन कलास्य ॥ अवैकल्यं कदाचित्कन्वं चोत्कर्षापकर्षहेतू 'बहुतरकलस्य'इति पाठे ।

३२ अलङ्कारमुक्तावल्याम्- - उत्कर्षहेत्वनुक्तिः। 'बुधमौलिमणेन काचन' इत्यादिचतुर्थचरणपाठेऽपकर्ष- हेत्वनुक्तिः । उक्तद्वयनवोत्तरार्द्धपाठे उभयहेत्वनुक्तिः। षष्ठीसमर्थादिवा. थे वतिरिति शाब्दं साम्यम् । तत्रैध- अधिकलकलो न विधुवत्कादाचित्की कलामयं धत्ते इति पाठे प्रथमः, अविकलपदस्थाने बहुतरपदपाठे द्वितीयः । का. दाचित्कीमित्यत्र बुधमौलिमणिरिति पाठे तृतीयः। उक्तद्वयनोत्तरार्द्ध चतुर्थः । तुल्यार्थे वतिरित्याथै साम्ये । अविकलकलो विधुजयी कादाचित्की कलां न धत्तेऽयम्- इतिपाठ प्रथमः । भेदत्रयं पूर्ववत् । जयमात्रोक्त्या साम्यमाक्षेप्यम् । द्वादशस्वपि कलाशब्दः श्लिष्टः । इष्टस्याप्यभिधातुं योऽर्थस्य विशेषबोधाय । स्वयमेव प्रतिषेधः स वक्ष्यमाणोक्तविषय आक्षेपः ॥ २५ ॥ विवक्षितस्यार्थस्य पचनप्रतिषेध आक्षेपः । स च द्विविधः । वक्ष्य. माणविषय उक्तविषयश्च । यत्र वक्तुमारब्धस्यैव निषेधः स आद्यः । उक्त स्यव वचनवैयोक्तिद्धितीयः। आयो यथा- प्रीते विधातरि पुरा परिभूय मां- न्ववेऽन्यतो यदभयं स भवानहंयुः । तन्मर्मणि स्पृशति मामतिमात्रमद्य हा वरल ! शान्तमथवा दशकन्धरोऽसि ॥ अत्र बुद्धिस्थं रावणं प्रति रामादभिभवे विवक्षिते शान्तमिति त. निषेधः। द्वितीयो यथा- यदि ते सन्ति सन्त्येव केयमल्पा बिभीषिका। किमुक्तैः सन्निपत्यैव पताकां तां हरामि वः ॥ अत्र महाराज प्रति कुतः क्षत्रिया इत्यश्वरक्षकैवक्ते पूर्वार्द्धनान्यः बलवत्सत्तामुक्त्वापि तादृशकर्माननुष्ठाने वचनमा व्यथामेत्यभिप्रा येण तनिषेधः । केचित्तु-"यो निषेधो बाधितः सन्नन्तरे पर्यवस्य ति स आक्षेपः। यथा-- पुरोजन्मा नाद्यप्रभृति मम रामः स्वयमहं न पुत्रः पौत्रा वा रघुकुलभुषां च क्षितिभृताम् । - विभावनाविशेषोत्यलकारी। अत्र अधीरं धार वा कलयतु जनो मामयमयं मया बद्धो दुष्टद्विजदमनदीक्षापरिकरः ॥ पूर्वोक्तनिषेधो बाधितत्वात् ब्राह्मणभङ्गनिषेधातिक्रम सूचयति । हेतुं विनापि कार्य यत्रोक्तं स्याद्विभावना सा तु । प्रसिद्धकारणव्यतिरेकेऽपि कार्योत्पत्तिवर्णनं विभावना । यथा- अरालरुचिरे भ्रवा न न मरालमन्दा गति- ईगञ्चलमचञ्चलं हृदयभूरभूतोदयः । सुधा न खलु वाक्पयातिथिरथापि यूनां मनो मनोजशरजर्जरं नयति मोहमस्यास्तनुः ॥ इयं चानुक्तनिमित्ता । सौन्दर्यविशेषस्य हेतोरनभिहितत्वात् । उक्तनिमित्ता यथा- प्रत्युप्तस्येव दयिते तृष्णादीर्घस्य चक्षुषः । मर्मच्छेदपरैर्यत्नैराकर्षों न समाप्यते ॥ अत्र सीतायाश्चक्षुषो रामसंयोगप्रतिबन्धकयत्नसत्त्वेऽपि प्रतिब. न्धाभावः । तृष्णायाश्च ततोरुपादानम् । हेतौ सत्यपि कार्यानुत्पत्तिः स्याद्विशेषोक्तिः ॥ २६ ॥ सा च त्रिधा-उक्तनिमित्तानुक्तनिमित्ता चेति आद्या पथा- स्वेष्कृत्य हुतेषु मूर्द्धसु जवादग्नेः स्फुटित्वा बहि- कीर्णेषु लवेषु दैवलिपिभिर्टष्ठापि रामायणम् । चित्तेनास्खलिनेन यस्तदधिकं ब्रह्माणमप्रीणय. कस्तस्मै प्रथमाय मानिषु महावीराय वैरायते ॥ अत्र भयहेतौ भाविरामायणदर्शनेऽपि रावणस्य भयाभावः। म. हावीरत्वं च त तुरुपात्तः । द्वितीया यथा मम- पण्डितता तव स्खण्डितनयचित्रशिखण्डितनयेयम् । अनुपहते तनुजनुषी तनुनैव मदस्य वार्तापि ॥ मदहेतुविद्यादिसत्त्वेऽपि मदानुत्पत्तिः। धीरस्वरूपं च तनिमि. त्तमनुक्तम्। ५ ३४ अलकारमुक्तावल्याम्- तृतीया यथा- यद्विद्वानपि तादृशेऽप्यभिजने धात्पथो घिच्युतः किं घूमोऽत्र तदन्यदेव न वसन्त्येकत्र सर्वे गुणाः । लीलानिर्जितषण्मुखाद्भगवतः श्रीजामदग्न्याहते निर्विघ्नप्रतिपन्न विश्वविजयो वीरस्तु कस्तादृशः ॥ अन्यदेवेत्यस्यान्यहेतुकमेवेत्यर्थः। हेतुश्च विशिष्य न निर्वक्तुं शक्यः। निर्देशक्रमतो यदि समन्वयस्तद्यथासङ्खयम् ॥ २७ ॥ यथा ममाभिरामराघवे- दुर्वादानिलवृद्धरोषदहनाद्राग्वीरणप्रेरण. प्रायन्यायविपाटनप्रकटितवोटिद्विकोटित्रुटिम् । कृत्वा त्वामथ कर्णिकारमरुणं सम्पातिमप्यासा लङ्केन्द्रः स्वयमातनोति रहितांस्तातात्मजभ्रातृभिः ॥ यदि सामान्यविशेषौ समर्थयेते विशेषसामान्ये । साधाद्वैधादपि वा सोऽर्थान्तरन्यासः ॥ २८ ॥ सामान्येन विशेषस्य विशेषेण सामान्यस्य वा समर्थनमर्थान्तर. न्यासः । प्रत्येकं साधम्र्येण वैधयेण वेति चतुर्विधः । आद्यं साधम्र्येण यथा-- संवृत्तोऽयं यदि तव भुजच्छायया सम्प्रतीन्द्रोऽ. निर्विघ्नश्रीरियमभिनवा कीदृशी ते प्रशस्तिः । इक्ष्वाकूणां लिखितपठिता स्वर्वधूगण्डपीठ- क्रीडापत्रप्रकरमकरी पाशुपाल्यं हि वृत्तिः ॥ वैधयेण यथा- बाले! तवेह विरहानलकर्षिताया हस्तच्युतं वलयमेति तलप्रदेशम् । दूरे पुनः स्थितिमगादिदमङ्गुलीयं स्थानच्युतिमहत एव भवत्यनार्या ॥ द्वितीयं साधम्र्येण यथा-- न तेजस्तेजस्वी प्रसृतमपरेषां प्रसहते स तस्य स्वो भावः प्रकृतिनियतत्वादविकृतः । मयूखैरश्रान्तस्तपति यदि देवो दिनकरः किमानेयो प्रावा निकृत इव तेजांसि धमति ॥ ( उ० अं०६ श्लो०१६) - विरोधालङ्कारः। वैधयेण यथा मम- भावविरोधी स्फुटतां विरुद्धमेवाश्रयन्वहति । नाध्यक्षं यदभावः प्रतियोगिनमन्तरा लभते ॥ अत्रोत्तरार्द्धस्य वाच्यार्थविपर्ययभूतेन प्रतियोगिविषयत्वनियमेन पूर्वोक्तसामान्यसमर्थनम् । केचित्तु-- यस्मिन्विशेषसामान्यविशेषाः स विकस्वरः । एकविशेषसमर्थनार्थमुपात्तस्य सामान्यस्य समर्थनार्थ विशेषा- न्तरस्याप्युपादानं विकस्वरालङ्कारः। यथा- अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसन्निपाते निमजतीन्दोः किरणेविवाङ्कः ॥ ( कुमार० स० १ श्लो०३) अविरोधेऽपि विरोधो यत्रोक्तः स्याद्विरोधः सः ॥ २९ ॥ आपाततो विरोधप्रत्ययाद्विरोधः । अयमेव विरोधाभासः । स्याज्जातेर्गुणकर्मद्रव्याणां स्वस्त्रपरयोगात् ।। जातेातिगुणक्रियाद्रव्यैः, गुणस्य गुणक्रियाद्रव्यैः, क्रियायाः क्रियाद्रव्याभ्यां द्रव्यस्य द्रव्येण सह विरोध इति दश भेदाः । क्रमेणोदाहरणानि । अद्भुतमिदं यदिन्दुस्तपनः पवनश्च पावको जातः । तव विरहे किं चित्रं शरत् समा यदभवत्तस्याः ॥ अत्र वायुत्ववह्नित्वजात्योः सामानाधिकरण्यम् । शस्त्रीकृतस्तरुवरो हरिपुङ्गवेन लङ्केन्द्रवक्षसि मृणालमृदुः पपात । तत्र स्थितैस्तु कुसुमैः कुसमेषुरेनं सीतावियोगविधुरं दृढ़माजघान ।। वृक्षत्व जातिमृदुत्वगुणयोः । अथेदं रक्षोभिः कनकहरिणच्छाविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि । जनस्थाने शन्ये करुणकरुणैरार्यचरितै- रपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् । (उत्तर० अं० १श्लो०२८) प्रावत्वजातिरोदनक्रिययोः। प्रथमश्लोके सूर्यत्वजातिचन्द्रद्रव्ययोः। वज्रादपि कठोराणि मृदृनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ (उत्तर० अं०२ श्लो०७) २६ अलङ्कारमुक्तापल्यामू- काठिन्यमृदुत्वगुणयोः। स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्नुसहशानि । मधुरापि मूर्छयति यत् विषविटपिसमाश्रिता वल्ली ॥ माधुर्यगुणमूर्छनक्रिययोः। मुनेः कलशजन्मनो जयति कापि गम्भीरता यया चुलुकमम्भसामपि निधिः समापद्यत । अमुष्य पुनरीश्महे न विवरीतुमुत्तुङ्गतां यया भवति नोचकैरहह सोऽपि विन्ध्याचलः॥ नीचत्वगुणविन्ध्याचलद्रव्ययोः (१)यं चेष्टन्तमनीकसीमनि परित्रस्तः पराञ्चनपि प्रत्यक्षीकुरुते सहस्रनयनः पृष्ठोद्भवैरक्षिभिः । चक्र वर्म च नागलोकजयिनी यात्रामिव प्रस्तुव- न्यः कैलासमुदस्य कीदृशमुपादानं तु तस्यापदाम् ॥ पलायनपृष्ठस्थप्रत्यक्षीकरणक्रिययोः। त्रैविक्रमः सकलदानवजीवितव्यविद्यासमाप्तिलिपिरेव सुदर्शनो मे । यस्मिनिपत्य हृदये दलितारजालज्योतिस्तुषारमयमाभरणं बभूव ॥ दलनक्रियासुदर्शनद्रव्ययोः । अवदायति दिक्कदम्बके कुमुदानामुदिते मुदा मदे । कुतुकं विरहस्पृशामपि क्षणदेशो वडवाशुशुक्षणिः ॥ चन्द्रवडवानलयोः। या वस्तुनः स्वभावस्तस्य निरुक्तिः स्वभावोक्तिः ॥ ३० ॥ यथा-- अयमेकतमेन पक्षतेरधिमध्योर्ध्वगजङ्घमविणा। स्खलनक्षण एव शिश्रिये द्रुतकण्डूयितमौलिरालयम् ॥ ( नैष० स०२ श्लो०३) व्याजस्तुतिर्विपर्ययपर्यवसानेऽस्तुतिस्तुत्योः । निन्दायाः स्तुतौ स्तुतेर्वा निन्दायां तात्पर्य व्याजस्तुतिः । आधा यथा मम रुक्मिणीपरिणये- आसंसतिप्रवहणाहुनान्वयेन नित्यं सहव्यवहरन्नपि मायया स्वम् । - (५) चेष्टन्तमित्यनुदानेत्त्वप्रयुक्तात्मनेपदस्यानित्यत्वेन समाधेयम् ।

व्याजनिन्दा-सहोत्यलकारीः। ३७ - बिभ्रजवाकुसुमसन्निहितत्वमर्क- ग्रावेव गच्छसि न तहुणसम्प्रयोगम् ॥ अत्र कृष्णं प्रति सुप्रसिद्धमेव तवेदृशे कर्मणि नैपुण्यमिति रुक्मिः ण्या वञ्चनकर्मज्ञत्वरूपनिन्दायामीश्वररूपत्वप्रतिपत्त्या स्तुतौ पर्यव. सानम्। द्वितीया यथा- कोऽप्येष सम्प्रति नवः पुरुषावतारोवीरो न यस्य भगवान्भृगुनन्दनोऽपि । पर्याप्तसप्तभुवनाभयदक्षिणानि पुण्यानि तातचरितानि च यो न घेद ॥ ( उत्त० अं०५ श्लो० ३४) चन्द्रकेतोरत्र लवस्य स्तुतिमुखनिन्दायां तात्पर्यम् । उभयत्रापि स्तु. तिनिन्दयोरेकविषयत्वम् । क्वचित्तु अन्यनिन्दास्तुतिभ्यामन्यस्तु. तिनिन्दावगमः। यथा- लोणी पर्यटिता श्रमाय विदुषां वादाय विद्यार्जिता मानध्वंसनहेतवे परिचितास्ते ते धराधीश्वराः । विश्लेषाय सरोजसुन्दरदृशामास्ये कृता दृष्टयः कुज्ञानेन मया प्रयागनगरे नाराधि नारायणः । अत्र स्वनिन्दया तदाराधकस्तुतिः । एकः स एव जीवति हृदयविहीनोऽपि सहृदयो राहु । यः सकललघिमकारणमुदरं न बिभार्ति दुष्पूरम् ॥ अत्र राहुस्तुत्यान्यनिन्दा । अयमपि व्याजस्तुतिभेद इति दीक्षिताः। अप्रस्तुतप्रशंसेयमिति प्राश्वः । केचित्तु- निन्दाया निन्दया व्यक्तिाजनिन्देति गीयते ॥ यथा- विधिरेव विशेषगहणीयः करट ! त्वं रट कस्तवापराधः। सहकारतरौ चकार योऽसौ सहवासं सरलेन कोकिलेन ॥ इह विधिनिन्दया विवेकहीनस्य प्रभोनिन्दा गम्यते इत्याहुः । सहसमभिव्याहारात्सहोक्तिरुभयान्विते धर्मे ॥ ३१ ॥ सहशब्दसमानार्थकशन्दबलादेकधर्मस्य धर्मियसम्बन्धे स. होक्तिः।

अलङ्कारमुक्तावल्याम्- यथा- अनेन सार्ध तव यौवनेन कोटिं परामच्छिदुरोऽध्यरोहत् । प्रेमापि तन्वि ! त्वयि वासवस्य गुणोऽपि चापे सुमनःशरस्य ॥ (नै० स० ८ श्ला०६१) यत्रान्येन विनान्योऽसाधुः साधुर्विनोक्तिः सा ॥ केनचिदर्थेन विना कस्यचिदप्राशस्त्यं प्राशस्त्यं वा यत्रोच्यते सा विनोक्तिः । आद्या यथा-- विना सीतादेव्या किमिव नहि दुःखं रघुपतेः प्रियानाशे सर्व किल जगदरण्यं हि भवति । स च स्नेहस्तावानयमपि वियोगो निरवधिः किमित्येवं पृच्छस्यनधिगतरामायण इव ।। ( उत्तर० अं०६ श्लो. ३०) दुःखपदं तत्कारणपरम् । अत्र सीताव्यतिरेकेण साम्राज्यादेर्दुःख. हेतुत्वरूपमप्राशस्त्यम्। द्वितीया यथा मम- कैरवाकरनिबद्ध सौहृदे तेजसि स्फुरति पूर्वदिङ्मुखे । कामनीयकमलं तदानशे हन्त सन्तमसमन्तरा निशा(१). अत्र तमोविरहेण राज्ञ' प्राशस्त्यम् । केचिनु- नित्यसम्बन्धानामसम्बन्धवचनं विनोक्तिः । मृणालमन्दानिलचन्दनानां शिरीषशैवालकुशेशयानाम् । वियोगदूरीकृतचेतनाया विनैव शैत्यं भवति प्रतीतिः ॥ इह शैत्याविनाभावेऽपि मृणालादीनां तहिनाभावोक्तिरित्याहुः । सदृशासदृशैरथैरर्थानां विनिमयस्तु परिवृत्तिः ॥ ३२ ॥ इयं त्रिधा-समेन समस्य न्यूनेनोत्तमस्य उत्तमेन न्यूनस्य विनि- मयात् । आधा द्विधा । द्वयोरुत्तमत्वे न्यूनत्वे च । यां चन्द्रकर्मदजलस्य महानदीनां नेत्रश्रियं विकसितां विदधुर्गजेन्द्राः । तां प्रत्यवापुरविलम्बितमुत्तरन्तो धौताङ्गलग्ननवनीलपयोजपत्रैः ॥ (१) सन्तमसम् = अन्धकारम् , अन्तरा= बिना,कामनीयक - रामणीयकम् ,निशा,आनशे प्राप।

-- परिवृत्ति-भाषिक -काव्यलिङ्गालङ्काराः। अत्र चन्द्रकप्रयुक्तनेत्रशोभाया नीलनलिनदलप्रयुक्तनेत्रशोभया । न्यूनेन न्यूनस्य यथा मम- स्वयमादाय कलङ्क विरहिभ्यो वेदनां दत्से । रजनीजीवितवल्लभ ! कोऽस्मिन्विषये तवोत्साहः । द्वितीया यथा- यत्पीयूषमयूखमालिनि तमःस्तोमावलीढायुषां नेत्राणामपमृत्युहारिणि पुरः सूर्योढ एवातिथी । अम्भोजानि पराश्चि तन्निजमघं दत्त्वेव तेभ्यस्ततो गौरागीवदनोपमासुकृतमादत्ते पतिर्यज्वनाम् ॥ तृतीया यथा-- अस्ताचलेऽस्मिन्निकषोपलाभे सन्ध्याकषोल्लेखपरीक्षितो यः । विक्रीय तं हेलिहिरण्यपिण्ड तारावराटानियमादित द्यौः॥ ( नैष० स०२२ श्लो०१३) भाविकमध्यक्षं स्यात्सध्वंसप्रागभावानाम् ॥ ३२ ॥ सध्वंसाः अतीता समागमावा भाविनः तेषां विद्यमानवत् लौ. किकविषयत्वकथनं भाविकम् । आद्यं यथा- पश्यामि वजुलस्थानं भूतपूर्वखरालयम्। प्रत्यक्षानिव वृत्तान्तान् पूर्वाननुभवामि च ॥ ( उत्त० अं० २ श्लो०१६) द्वितीयो यथा मम-- जीवितेशितरि दूरयियासौ कामिनीमनुनिनीषति साना । पाण्डिमप्रभृतयोऽनुबभूवुर्भाविनोऽपि नयनाध्वगभावम् ।। इह भाविनामपि विरहचिह्नानां चाक्षुषं वर्णितम् । वाक्यपदार्थत्वाभ्यां हेतूक्तिः काव्यलिङ्गं स्यात् । हेतुवचनं काव्यलिङ्गम् । तत् द्विविधम् । हेतोर्वाक्यार्थत्वे पदा. र्थत्वे च । आचं यथा-- दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्वतादामनो- ईप्तानां दहनाय दीपितनिजक्षत्रप्रतापोमभिः -- अलवारमुक्तावल्याम्- आदित्यैर्यदि विग्रहो नृपतिभिईन्यं ममैतद्भधे. हीप्तास्त्रस्फुरदुप्रदीधितिशिखानीराजितज्यं धनुः ॥ (उत्त० ० ६ श्लो०१८) अत्र रामादिभिः सह युद्धप्रसङ्गो धनुषः श्लाघ्यत्वे हेतुः । द्वितीयं यथा-- सिद्धश्रोत्रपरम्परापरिगतैरेभिः प्रपौत्रस्य ते वृत्तैरद्य पुलस्त्यवर्जमभितः स्मेरेषु देवर्षिषु । विष्वग्वृत्तिरसङ्गता नमयितुं दुर्वारलजाभर. म्लानश्रीस्तु चतुर्मुखी भगवतो धातुः कथं वर्तते.॥ अत्र ब्रह्ममुखचतुष्टयस्य नमयितुमशक्यत्वे विश्वग्वृत्तित्वं हेतुः । पर्यायोक्तं कथितं वाच्यस्यैवान्यभङ्गग्योक्तिः ॥ ३३ ॥ वाच्य एवार्थो यत्र व्यञ्जनयोच्यते तत्पर्यायोक्तम् । नचैकस्यैव वृ. त्तिद्वयेन प्रत्यायनेऽप्ययमिति वाच्यम् । प्रकारभेदेन तदभावात् । यथा मम-- मिथ्याभूतं जगतो यस्य पदं यत्पदस्य जगदेव । तावपि पुरतो भवतो भवतो वत नोदयत्प्रतिभौ ॥ अत्र लौकिकप्रत्यक्षाविषयचरणतया शेषः जगदनिर्वचनीयत्वता. त्पर्यवत्तया च व्यासो रूपान्तरेण प्रतिपादितौ । वस्तुमचय उदात्तं महतामङ्गत्ववचनं च । वस्तुसम्पत्तिवर्णनमुदात्तम् । यथा मम- गारुत्मतस्रावविहारवापीसहोदरे वारिमुचां समूहे । यस्यां प्रयस्यत्यपि हंससंसत् विद्युत्सु हेमाब्जमृणालमोहात् ॥ वर्ण्यवस्तुनि महतामर्थानामङ्गत्वकथनमप्युदात्तम् । यथा ममाभिरामराघवे- श्रौतीभिः प्रतिपत्तिभिस्तिसृभिरप्यप्रस्खलद्वत्तिभि- मैत्रेयीरमणोपदेशविशदः सीरध्वजस्ते गुरुः । यं चैतन्यमयानुपाधिकसुखं साक्षात्करोत्यादग- दात्मा कोऽपि स नीललोहितमयो जागर्त्य मुष्मिन्गिरौ ॥ अत्र शिवः कैलासस्याङ्गत्वमापादितः । शौर्यादीनामुत्कर्षकथने ऽप्युदात्तमेव ।

समुच्चयालङ्कारः। कारणान्तरम. यथाभम- ब्रह्माण्डान्तररूपवेश्मसु निजोत्तापोत्थरम्ध्रावना जालौघेन भवत्प्रतापतरणरन्तर्विशन्ति त्विषः । भासन्ते किल तत्र तत्र तदवच्छेदेन तेजोमया भूयांसखसरेणवस्तदितरादित्यापदेशस्पृशः ।। शौर्योत्कर्षवर्णनमत्युक्तिरिति केचित् । एकस्मिन् सति हेतौ हेत्वन्तरगीः समुच्चयः प्रोक्तः । प्रकृतकार्यसाधनपर्याप्ते एकस्मिन् सत्यपि यत्र प्युपातं स समुच्चयः । स त्रिविधः । सदसत्सदसरोगे सद्योगे असद्योगे सदसद्योगे च । आयो यथा- आदेष्टा भगवान्भृगुर्जननयोरौत्पत्तिकब्राह्मयो- देवो धूर्जटिरस्त्रकर्मणि गुरुर्वीर्य तु दूरे गिराम ॥ सप्तद्वीपषती ददद्भुवमभिप्रैषि विजान् कश्यप प्रायानप्रतिमानुभाव ! भवते कस्मैचिदस्मै नमः ॥ नमस्पता प्रयोजकानामनेकेषां संयोगः । द्वितीया यथा- न्यक्कारो हृदि वज्रकील इव मे लीवः परिस्पन्दते घोरेऽन्धे तमसीव मज्जति मनः समीलितं लजया ॥ शोकस्तातविपत्तिजो दहति मां नास्त्येव यस्मिन् क्रिया मर्माणीव पुनर्भिनत्ति करुणा सीतां वराकी प्रति । अत्र वैमनस्यहेतूनां भूयसामसतामुपादानम् । तृतीयो यथा- न्यक्कारेण पुरापि कौशिकमखादारभ्य लकेश्वरो धसे शाश्वतिकं विरोधमधुना स्वेते हता बान्धवाः । उत्साहप्रभुमन्त्रशक्तिभिरलंभूष्णुश्छलको बली हप्तः शूर्पणखानिकारमपरं दृष्ट्वा कथं मृष्यते ॥ छलबान्धवसम्बन्धयोरसतोरन्येषां च सतां योगः । गुणक्रियायोगपधेऽन्यः ॥ ३४ गुणयोः क्रिययोर्गुणक्रिययोश्च योगपद्यादन्यः समुच्चयः । ६ ४२ अलङ्कारमुक्तावल्याम्- - - - आयो यथा- तच्छ्रुत्वा मम राक्षश्च विषादप्रमद द्वयोः। अभूतां मेघमालोक्य हंसचातकयोरिव ॥ अत्र शर्वधर्मणो वरप्राप्तिश्रवणेन वररुचिसातवाहनयोर्दुःखसुखयो. योगपद्यम्। द्वितीयो यथा- आपूर्णश्च कलाभिरिन्दुरमलो यातश्च राहोर्मुखं सातश्च घनाघनो जलधरः शीर्णश्च वायोर्जवात् । निवृत्तश्च फलेपहि?मवरो दग्धश्च दावाग्निना त्वं चूडामणितां गतश्च जगतः प्राप्तश्च मृत्योर्वशम् ।। तृतीयो यथा- काश्मीरजैरिव तवारुणरश्मिजालैरालोहिनी हरिहयोपहिता हरिच्च । ब्रह्माद्वयानुभवकालिकसंमदानां धारा रथाङ्गमिथुनेषु विजृम्भिता च ।। अत्र लोहितन्वगुणविजृम्भितक्रिययोः । एकमनकमनेकैकस्मिन् क्रमशोऽस्ति चेन्स पर्यायः ॥ एक वस्त्वनेकस्मिन्नने वा वस्त्वेकस्मिन् क्रमेण यद्वर्ण्यते स प. र्यायः । स प्रत्येक द्विविधः। प्रयोजकनिर्देशानिर्देशभेदात् । आद्यपर्यायस्याद्यभेदो यथा- गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजम् । कुरुराजनिर्दयनिपीडनाभयान्मुखमध्यरोहि मुरविद्विषः श्रिया ॥ (माघ० स० १३ श्लो०११) इह नाभिधितायाः श्रियो भगवन्मुखवृत्तित्वं कथितमित्येकस्य क. मेणानेकवृत्तित्वं युधिष्ठिरकृतगाढपरिरम्भमयपीडनभयं च मुखाश्रये प्रयोजकमुक्तम् । तस्यैव द्वितीयो यथा- चूडारनैवलद्भिर्विषधरविवरराण्युज्ज्वलान्युज्ज्वलानि प्रेक्ष्यन्ते, चक्रवाकीमनसि निविशते सूर्यकान्तात्कृशानुः। किं चामी शल्ययन्तस्तिमिरमुभयतो निर्भरोद्यत्तमिना- सट्टाकृष्टसन्ध्याकणनिकरपरिस्पर्द्धिनो भान्ति दीपाः ॥ अत्र बह्नः क्रमेण सूर्यकान्तचक्रवाकीहृदयवर्तित्वं विरहरूपप्रयो. जकस्य चानभिधानम् ।

- अनुमान-परिकरा-लङ्कारी। द्वितीयपर्यायस्यायभेदो यथा- यद्विस्मयस्तिमितमस्तमितान्यभावमानन्दमन्दममृतप्लवनादिवाभूत् । तत्सन्निधौ तदधुना हृदयं मदीयमङ्गारचुम्बितमिव व्यथमानमास्ते ॥ इहै कस्मिन् हृदये क्रमेणानन्दतापयोवृत्तिः । तापवृत्तौ विरहरूपप्रयो- जकस्य च अधुनेत्यनेनोपादानम् । अस्य एतत्कालार्थकतया एतत्पदेन तत्सनिधिव्यतिरेकाभिधानाद्विरहाधिकरणकालस्यैव प्रतीतेः । तस्यैव द्वितीयो यथा- य एव मे जनः पूर्वमासीन्मूर्ती महोत्सवः । क्षते क्षारमिवासां जातं तस्यैव दर्शनम् ॥ एकस्मिन्कौशल्यादर्शने क्रमेण सुखदुःखहेतुत्वयोवृत्तिः । अनुमानं व्याप्यवलाद्यापकधीधर्मिनिष्ठा या ॥ ३५ ।। हेतुना पक्षे साध्यज्ञानमनुमितिः । यथा यत्पाथोजविनिद्रणप्रकरणे निर्निद्रयत्यंशुमान् दृष्टिं पूर्णयतिस्म यजलरुहामक्षणां सहस्रं हरिः। साजात्यं सरसीरुहामपि दृशामप्यस्ति तद्वास्तवं यन्मूलाद्रियतेतमां कवितृभिः पद्मोपमा चक्षुषः । अत्र नेत्रं पद्मत्वजातिमत् पद्मासाधारणकार्यवत्वादिति कल्पितम्या. प्तिमूलकमनुमानम् । साभिप्रायविशेषणविन्यासे परिकरः प्रोक्तः ॥ स्पष्टार्थः। यथा- हेरम्बदन्तमुशलोल्लिखित कभित्ति पक्षो विशाखविशिखवणलाञ्छितं मे । रोमाञ्चकञ्चुकितमद्भुतवीरलाभा. सत्यं ब्रवीमि परिरब्धुमिवेच्छति त्वाम् ॥ अत्र विशेषणद्वयगम्यवक्षाप्रकर्षेण परशुरामोत्कर्षाभिप्रायः । साक्षाद्यथा- अम्भोधे रिकेलीरसमिव चुलुकैरुच्चुलुम्पन्स्यपो ये येषामुक्षेपहेतुः शिखरिषु लकुचोदुम्बरप्राय एषः । ब्रह्मस्तम्भ निवासममिव रभसाद्विप्रकर्नु क्षमा ये तेषां कोटयोऽप्यसङ्ख्याः सुतममरपतेर्वानराणां नमन्ति ॥

अलकारमुक्तावल्याम्- केचितु विशेष्यार्थकपदस्य साभिप्रायत्वं परिकराङ्करः । यथा- फणीन्द्रस्ते गुणान्धक्तुं लिखितुं हैहयाधिपः । द्रष्टुमाखण्डलः साक्षात्काहमेष क ते गुणाः ॥ अत्र फणीन्द्रादिपदानि मुखादिबाहुल्याभिप्रायाणीति वदन्ति । व्याजोक्तिर्विशदीभवदर्थस्यापनुतिमिषतः ॥ ३६ ॥ प्रकाशमानस्य रहस्यवस्तुनः कथाश्चिदावरणं यत्रोच्यते सा व्याजोक्तिः। यथा- त्वय्यर्वासनभाजि किन्नरगणोद्रीतैर्भवविक्रमैः रस्तासम्भृतमत्सरोऽपि भगवानाकारगुप्तौ कृती। उन्मीलद्भवदीयदक्षिणभुजारोमाञ्चबन्धोल्लस. द्वाप्पैरेव विलोचनैरभिनयत्यानन्दमाखण्डलः ॥ इह दशरथविक्रमश्रवणजन्यानन्दाभिनयप्रसक्तप्रकाशस्य तद्विषः यमत्सरस्य प्रकारान्तरस्रवदश्रुभिरेव गूहनं कृतम् । केचिनु- युक्तिः परातिसन्धानं क्रियया मर्मगुप्तये ॥ क्रियया रहस्यसंवरणं युक्तिरलङ्कारः। यथा- दम्पत्योर्निशि जल्पताहशुकेनाकर्णितं यद्वचः स्तत्प्रातर्गुरुसन्निधौ निगदतस्तस्योपचारं वधूः । कर्णालम्बितपनरागशकलं विन्यस्य चञ्चूपुटे वीडा विदधाति दाडिमफलव्याजेन वाग्बन्धनम् ॥ ध्याजोक्तौ वचसैव गोपनमिह तु क्रिययैवेति भेद इत्याहुः । पृष्टमपृष्टं प्रोक्तं यद्वयङ्ग्यं वापि वाच्यं वा ॥ फलतीतरव्यपोहं परिसङ्ख्या सा तु सख्याता॥३७॥ इतरव्यावृत्तितात्पर्यकवचनं परिसङ्गया। वचनं च प्रश्नपूर्वकं त. दपूर्वकं च । व्यवच्छेदमपि व्ययं वाच्यं चेति चत्वारो भेदाः। प्रश्न पूर्वककथने व्यायव्यवच्छेदे यथा- महाभारते, शिलावृतिरुवाच । ।

परिसल्या कारणमालालङ्कारी। के देशाः के जनपदा के श्रमाके च पर्वताः। प्रकृष्टाः पुण्यतः काश्च ज्ञायते चेत्तदुच्यताम् ॥ देशा इत्यादिप्रश्नः। सिद्ध उवाच- ते देशास्ते जनपदास्ते श्रमास्ते च पर्वताः। येषां भागीरथी गङ्गा मध्ये याति सरिद्वरा ॥ इति । इह तीर्थोत्तराणां हेतुत्वम् । व्यवच्छेद्यं शब्दानुपातम् । तत्रैव वाच्ये व्यवच्छेदे यथा मम- निर्बन्धः क विधेयः सुकृतस्यैवार्जने न वित्तस्य । किं नाम रक्षयं यत्नेन यशो न तु शरीरम् ॥ इह व्यवच्छेद्यानामपि शब्द उपात्तः। अप्रश्नपूर्वके कथने व्यङ्गये व्यवच्छेद यथा मम- विकृतिः पूर्व तन्त्रे मिथ्याभाषोक्तिरोपनिषदेषु । त्वयि शासति नृप! वसुधां नवीनतर्केषु जातिसाङ्कर्म्यम् ॥ श्लेषेण सौर्यादिरूपयागादीनाम् उत्पातादीनां चाभेदाध्यवसायेन इतरत्र व्यावृत्तिः। देशादीनां चाभेदाध्यवसायेन इतरत्र व्यावृत्तिः। देशादीनां च व्यवच्छेद्यानामनुपादानम् । तत्रैव- व्यवच्छेदे वाच्ये यथा- व्यधाधुधि न कोशेषु यो दीनारातिरक्षणम्(१)। शक्ति च धर्मचर्यासु श्रद्दधे नाङ्गनाश्रये ॥ इहापि श्लेषो मूलम। तदभावे यथा- तीर्थ गेला तदितरदपां निर्मलं सङ्घमात्र देवौ तस्याः प्रसवनिलयो नाकिनोऽन्ये घराकाः । सा यत्रास्ते स हि जनपदो मृत्तिकामात्रमन्य. तां यो नित्यं स्मरति स बुधो बोधशून्यस्ततोऽन्यः ॥ कारणमाला मोक्ता पूर्वे पूर्वे ययोत्तरं हेतौ ।। पूर्वकार्यतापन्नस्योचरं प्रति कारणत्वमित्यनया रीत्या हेतयो यत्र वन्ते साकारणमाला। - - - (१) दीनारातिरक्षणम् दीनानामरातीनो रिपणो रक्षणम् । दीनाराणा निष्काणाम् अतिरक्षणम् ।

४६ अलङ्कारमुक्तावल्याम्- -- यथा मम-- पुण्यं साधुसमागमस्य जनकं साधीयसां सङ्गमा.. तात्पर्यप्रतिपत्तिरोपनिषदी सा चेतसः शुद्धये । वस्तूनां च ततो विवेचनमतो वैराग्यमस्मान्मनः- स्थैर्य तेन तमोलयो विजयते तस्मान्मुदामद्वयम् ॥ अन्योन्यं वस्तूनां परस्परांत्कर्षहेतुत्वे ।। ३८ ॥ स्पष्टोऽर्थः। यथा-- रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयदसायपि ताम् । अविलंबितक्रमममहो महतामितरेतरोपकृतिमश्चरितम् ॥ उत्तरमात्रात्मश्नोन्नयने स्यादुत्तरं नाम ।। उत्तरश्रवणेन यत्र प्रश्नः कल्प्यते तदुत्तरम् । यथा- अन्येषु पथिक ! पृच्छ व्याधकुटुम्बेषु पृषदजिनम् । अस्माकं व्याधयुवा हरिणेषु धनुर्न नामयति ॥ एतद्वाक्येन पृषश्चर्माणि तव किं सन्तीति पथिकवाक्यं कल्प्यते । प्रश्न लोकाविदितोत्तरस्य तच्चासकृत्प्राक्तौ ।। ३९ ॥ किंचिद्विषयप्रश्ने सति तदुत्तरत्वेन अप्रसिद्धमेव यदुत्तरं कथ्यते तदप्युत्तरोत्तरम् । एकमात्रोत्तरे चमत्काराभावात्प्रश्नोत्तराणां बाहुल्य एघायमलङ्कारः। यथा मम- समधिकमधुरं किं साधुकाव्यं न दुग्धं किमतिपृथु गभीरं धीरचित्तं न सिन्धुः । किमिह धनमनन्तं कापि विद्या न रुक्म किमु निधनमकीर्ति व देहावसानम् । अत्र काव्यमाधुर्यादेः सहृदयमात्रवेद्यतया लोकाविदितमेवोत्तरम् । प्रतिभातिशयाज्ज्ञातो यथाकारेगितादर्थः ॥ विशदीक्रियतेऽन्यस्मै तथैव तत्सूक्ष्ममित्युक्तम् ।। ४० ॥ आकारादिलितादा सूक्ष्ममर्थ विज्ञाय तद्रीत्यैव यदन्यस्मै तत्प्रका. शनं तत्सूक्ष्मम् । - सारासङ्गति-समाध्यलङ्कारः। लोलभूलतया विपक्षदिगुपन्यासे विधूतं शिर.. स्तद्वत्तान्तनिरीक्षणे कृतचमत्कारो (१)विलक्षः स्थितः। कोपस्ताम्रकपोलभित्तिनिक दृष्ट्या नतः पादयो- रुत्सृष्टो गुरुसन्निधावपि विधिाभ्यां न कालोचितः ॥ सारस्तु पूर्वपूर्वादुत्कार्षण्युत्तरोत्तरे प्रोक्ते ।। पूर्वपूर्वापेक्षयोत्तरोत्तरोत्कर्षकथनं सारः । यथा- गोडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढापुरी भूरिश्रेष्ठिकनाम धाम परमं तत्रोत्तमो नः पिता ॥ तत्पुत्राश्च महाकुला(२)न विदिताः कस्यात्र तेषामपि प्रशाशिल्पविवेकधैर्यविनयाचारैरहं चोत्तमः॥ हेतुव्याधिकरणं चेत्कार्यं स्यात्सा स्वसङ्गतिः प्रोक्ता ॥ ४१ ॥ कार्यकारणयोरेकदेशत्वं यत्र परित्यज्य कथ्यते साऽसङ्गतिः । यथा- सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ॥ साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥ बाल्यादि नायिकायःमप्रागल्भ्यादिकं नायक इति भिन्नदेशत्वम् । भवति समाधिः सुकरे हेत्वन्तरसमवधानतः कार्ये ।। कारणान्तरसम्पत्या यत्र कार्यसौर्य स समाधिः । यथा- आगतानगणितप्रतियातान् वल्लभानभिसिसारयिष्णाम् । प्रापि चेतसि सविप्रतिसारे (माघ० स० १० श्लो०२०) इह नायकापक्षानजन्यपश्चात्तापरूपाभिसारकारणे सत्यपि मदेन तत्प्रतिबन्धकनिरासादभिसाररूपकार्यसिद्धिः। केचित्तु- "इष्टार्थादधिकार्थप्राप्तिः प्रहर्षणम्" (१) विलक्ष लज्जित । (२) कस्य न विदिता इत्यन्वयः । सुभ्रुवामवसरः सरकेण ॥

४८ अलकारमुक्तावल्याम्- - : यथा- उचिस्य प्रथममधः स्थितं मृगाक्षी पुष्पौघं भितविटपं प्रहीतुकामा । मारुढं पदमदधादशोकयष्टा-- वामूलं पुनरपि तेन पुष्पिताभूत् ॥ उपरिगतकुसुमग्रहणेच्छयाऽशोकवृक्षारोहणे चरणस्पर्शरूपदोहद. पशादनेकपुष्पप्राप्तिरित्याहुः । अन्योन्यसङ्गमाहौँ सम्बध्येते समं तत्स्यात् ॥ ४२ ॥ अनुरूपसम्बन्धवर्णनं समालङ्कारः । आनुरूप्यं च वेधा सस्था. सत्त्वमेवात् । आधं यथा- भवान्धर्मो धर्मप्रवणमतिरेष प्रतिदिन भवान्ध्येयो ध्याता पुनरयमनावर्जितमनाः । भवान् शास्ता शिष्यः पुनरयमतन्द्रः किमपरं भवान्सेव्यः सर्वैरुपधिभिरयं सेवक इति ॥ इह रामसुग्रीवयोः सतोरनुरूपसम्बन्धः । द्वितीयो यथा मम- अर्हसङ्गमविधासु विधातुश्चातुरी कुतुकमातनुते नः । यत्कृतं तिमिरमप्युपजीव्यं कौशिकं यदुपजीवकमाक्षि ॥ अत्रान्धकारोलूकनेत्रयोरसतोः । द्वयं यथा- पश्यानुरूपमिन्दिन्दिरेण चूतस्य शेखरो मुखरः । अपि च पिचुमन्दमौलौ कपिकुलमाकुलं मिलति ॥ सम्बन्धानुपपत्ताविष्टार्थानाप्स्यनिष्टसम्प्राप्तौ । जन्यजनकोभयगुणक्रियाविरोधे च विषमः स्यात् ।। ४३ ॥ यत्र यो सम्बन्धोऽननुरूपतया प्रतिपाद्यते सतावत्प्रथमो वि. षमालकारः। यथा- धारः प्रलयेषु ये भगवतो वेरस्य विधेश्वरा. स्तेषामन्वयसम्भवस्य भवतः स्नातस्य वेदव्रतः।

विषमालङ्कारः। जेतुर्नेतलसम्मनोऽपि तपसा दीप्तस्य राशः सतो निन्द्या दुश्चरिता च नाभिजननी जाता कथं दुर्मतिः ॥ अत्र रावणस्य दुर्मतिसम्बन्धोऽननुरूपनयोक्तः। यत्रष्टानवाप्तिरनि. ष्टलाभश्च स द्वितीयः । यथा- पुरस्तस्या गोत्रस्खलनचकितोऽहं नतमुखः प्रवृत्तो वैलक्षास्किमपि लिखितुं दैवहतकः । स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो गता येन व्यक्तिं पुनरवयवैः सैव तरुणी ॥ अत्र नायिकाप्रसादानवाप्तिस्तत्प्रतिपक्षनायिकाभिव्यक्तिरूपानिष्ट लाभश्च । केवलेष्टानवाप्तौ यथा- तमसि घने विषमे पथि जम्बुकमुल्कामुखं प्रपन्नाः स्म । किं कुर्मः सोऽपि सखे ! स्थितो मुखं मुद्रयित्वैव ॥ अत्र प्रकाशालाभमात्रम् । केलानिष्टप्राप्तौ यथा- आस्तां वरमवकेशी (१)मा दोहदमस्य रचय पूगतरोः । एतस्मात्फलितादपि केवलमुगमवगच्छ॥ अत्र फलरूपेष्टप्राप्तावपि श्लेषवशादुगरूपानिष्टप्राप्तिः । कार्यगुण- क्रिययोः कारणगुणक्रियाविरुद्धत्वे तृतीयः । यथा-- आश्चर्यमस्य ककुभामवधिं यदापदाजानुगाभुजयुगादुदितः प्रतापः । व्यापत्सदाशयविसारितसप्ततन्तुजन्मा चतुर्दश जगन्ति यशःपटश्च ॥ ( नै० स० ११ श्लो० १०८) भुजप्रतापयोः सप्ततन्तुयशसोश्च न्यूनाधिकपरिमाणवर्णनात्तयो. विरोधः । आजानुगत्वेन भुजस्थ सप्ततन्तुपदश्लषमूलकाभेदाध्यवसा- नेन यशस्य न्यूनपरिमाणबोधात् । दिगन्तचतुर्दशजगत्प्राप्त्या च प्रता- पयशसोमहत्परिमाणप्रतीतेः। द्वितीयं यथा-- आनन्दयति ब्रह्मेत्याम्नायसहस्रसम्प्रदायोऽस्ति । -- (१) "वन्ध्योऽफलोऽवकेशी च" इत्यमर ।

अलकारमुक्तावल्याम्- तज्जम्यस्तु विवर्तः स्वच्छन्दं दन्दहीति कुतः॥ इहानन्दनतापक्रिययोः। केचित्त-- इण्यमाणविरुद्धार्थसम्प्राप्तिस्तु विषादनम् । यथा- रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोषगते द्विरेफ हा हन्त हन्त नलिनी गज उजहार॥ आधारस्याधेयादाधेयस्यापि वाधारात् ॥ यद्वयेते महत्त्वं तत्कथयन्त्यधिकमधिकज्ञाः ॥ ४४ ॥ आधेयापेक्षयाधारस्य आधारापेक्षयाधेयस्य षा महतया वर्णन. मधिकम् । आधं यथा- कनकाचलजित्वरस्तनीनां तरुणीनामपि यत्र सन्निवेशः । मनसः परमाणुतां वदन्तः कथमद्यापि न तार्किकात्रपन्ते ॥ इह युक्तिपूर्वकं मनसो महत्वकल्पनं गम्यते । द्वितीयं यथा- दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत. टङ्कारध्धनिरार्यबालचरितप्रस्तावनाडिण्डिमः । द्राक्पर्याप्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥ इह ब्रह्माण्डोदरापेक्षयोक्तशब्दस्य महत्त्वं वर्णितम् । केचित्तु- अल्पं तु सूक्ष्मादाधेयाधदाधारस्य सूक्ष्मता। मणिमालोमिका तेऽध करे जपवटीयते ॥ अङ्गुलीयकस्याल्पपरिमाणेऽपि तदपेक्षया करस्य सूक्ष्मत्वं वर्णित. मित्यल्पाख्यमलङ्कारान्तरमिति वदन्ति ।

प्रत्पनीकमीलितालङ्कारौ। आत्मापकारजनकपत्यपकारासमर्थेन । तत्सम्बन्ध्यपकारे प्राज्ञतमैः प्रत्यनीकमित्युक्तम् ॥ ४५ ॥ विपक्षविजयशक्तिरहितेन यत्र तत्सबन्धिनोऽपकारः क्रियते तत्प्र. स्यनीकम् । सम्बन्धश्च द्विधा-साक्षात्परम्परा चेति । तत्र प्रथमं यथा मुम- गिरीन्द्राणां स्थानाविशदषदत्यन्तविषमा- न्म्रदिम्नः सीमानो झटिति समुपारोदुमनसः । तदीयप्राणेशै रचितनिजभेदानुशयतो ध्रुवं सन्ताप्यन्ते स्वदरिदयितास्तिग्मरुचिना ॥ अत्र स्त्रीत्वं साक्षारसम्बन्धः । विपक्षभूपानामपकारे कर्तव्ये तद्वधू. नामपकारोऽत्र वर्णितः। द्वितीयं यथा ममैव-- कामेन भालनयनोपरि वैरभाजा प्रालयशैलदुहितृप्रतिमानशीला । त्वं नीयले कुसुमगात्रि ! शरव्यभावं कल्पातहिगततैष्ण्यभृतामिषणाम् ॥ इहेश्वरे विजेये परम्पराजातसम्बन्धिन्या नायिकाया विजय उक्तः। शिवस्य पार्वत्या स्त्रीत्वं तस्याश्च नायिकायां सादृश्यं सम्बन्धः। सहजानिमित्तजधर्मात्सदृशान्येन वस्तुना वस्तु । अपिधीयते यदेतन्मीलितमाहुर्विशेषज्ञाः ॥ ४६ ।। धर्म्यन्तरत्तिधर्मसजातीयेन धर्मेण पदार्थतिरोधानं मीलितम् । धर्मश्च द्विविधः-स्वाभाविक आगन्तुकश्च । तत्राद्यं यथा मम-- नित्यं चन्दनवारिभिर्मणिभुषो रथ्याः समभ्युक्षिता: प्रोचद्वन्धनमालिकाभिरभितः प्रोत्तसितास्तोरणाः । अश्रान्तं स्फटिकांशुदम्भहसितस्वीकभासो गृहा: कश्चिन्माङ्गलिकः कृतोऽप्यतिशयो यातीह नाध्यक्षताम् ॥ इहानगयों सहजैरुतधर्मरुत्सवादेस्तल्लिाकाधगमाभावः। द्वितीयं यथा मप- कोपकषायितमीक्षणमुदीक्षमाणेन पक्ष्मलाक्षि! तप । माणिक्यकर्णभूषणसक्रान्तारुणिमेति निरणायि ॥

अलङ्कारमुक्तावल्याम्- - अत्रागन्तुकेन माणिक्यलौहित्येन तिरस्कृतलौहित्यस्य कोपजन्य. त्वज्ञानाभावः । - केचितु- हेतोः कुतोऽपि वैशिष्ट्यस्फूर्तिरुन्मीलितं मतम् ।। मीलितरीत्या वस्त्वनवगमे प्रसक्त हेत्वन्तरेण निर्णय उम्मीलि. तालङ्कारः। यथा मत्स्यपुराणे- कोकिलश्चूतशिखरे मञ्जरीरेणुापञ्जरः । गुञ्जितैर्व्यक्तनां याति कुलीनचेष्टितैरिव ॥ इह कोकिलस्यानवगमे प्रसक्ते कूजितस्तीनश्चयः । प्रथम विशेषणं चविशेष्यमग्रे भवत्यसकृत । विरहप्रतियोगी वा तद्वानेकावलिः सोक्ता ॥ ४७ ॥ पूर्वपूर्वस्योत्तरोत्तरं प्रति विशेष्यत्वं विशेषणत्वं वा यत्र सा एका. पली । यत्र च पूर्व किंचिदभावप्रतियोगित्वेनोक्तस्य वस्तुनः किञ्चिद. भावाधिकरणत्वमुच्यते सा एकावली । विशेष्यत्वं यथा- आकारसरशप्रज्ञः प्रक्षया सशागमः । आगमैः सहशारम्भ, आरम्भसदृशोदयः ॥ (रघु०स०१श्लो०१५ अत्र दिलपिस्यैव विशेष्यत्वेऽपि सादृश्यादिविशेषणीभूतस्य प्रज्ञा. देः प्रथमवाक्ये विशेष्यकोटिप्रवेशसत्त्वात् । विशेषणत्वं यथा- चारुता वपुरभूषयदासां तामनूननवयौवनयोगः । तं पुनर्मकरकेननलक्ष्मीस्तां मदो दयितसङ्गतिरेनम् ॥ (मा० का० स०१० श्लो० ३३) इह चारुतादेः पूर्वोक्तस्य उत्तरोते यौवनादा विशेषणत्वम् ॥ द्वितीया यथा- न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् । नासौ धर्मो यत्र वै नास्ति सत्यं न तत्सत्यं यच्छलेनानुविद्धम् ॥ अभावकोविनिविष्ठानां वृद्धादीनां वृद्धत्वाद्यभावाधिकरणत्वं व. णितम्।

स्मृति-भ्रान्तिमत्प्रतीपालकाराः । सदृशज्ञानोदोधितसंस्कारभवस्मृतिः स्मरणम् । अहष्टादिकृतस्मरणवारणाय-सशक्षानेति । यथा- अवगणितसुरासुरप्रभावं शिशुमवलोक्य तधैव तुल्यरूपम् । कुशिकसुतमस्खद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥ इह लवदर्शनोबुद्धसंस्कारवशात्सुमंत्रस्य बालावस्थापनश्री. रामस्मरणम् । स्मृत्युदबुद्धसंस्कारजन्यस्मरणं- यथा- सन्त्येवास्मिन्जगति बहवः पक्षिणो दिव्यरूपा- स्तेषां मध्ये मम तु महती वासना चातकेषु ।। यैरध्यरथ निजसखं तोयदं स्मारयद्भिः स्मृत्यारुढं भवति किमपि ब्रह्म कृष्णाभिधानम् ॥ एकसम्बन्धिदर्शनमपरसम्बन्धिस्मारकमिति चातकदर्शनामेघ. स्मरणम् । ततः सारश्येन भगवतः स्मरणम् । तदभाववति मतिस्तत्पकारिका भ्रान्तिमान् भवति ॥ १८ ॥ यो धर्मों यत्र नास्ति तद्धर्मेण तस्य ज्ञानं भ्रमः । यथा ममाभिरामराघवे- पूर्वानेहसि नीललोहितपदोपस्थानपर्वण्ययं चक्षुर्गोचरतां मुनेरनुभवन् राजन्यसर्गच्छिदः ॥ दोःसाहस्रनियन्धनाहितभुवा माहिष्मतीवल्लभ- शानेनाविलयांबभूव(१)नितरां वृत्ति तदीयां हृदः॥ अत्र बाणासुरे जामदग्न्यस्य कार्तवीर्यभ्रमः। म च तस्य सर्वक्षत. या कथमेवमिति वाच्यम् । “मुनीनां च मतिभ्रम" इत्युक्तेः प्रणिधान. विरहदशायां भ्रमसम्भवात् ।. उपमानानर्थक्यं प्रतीपमस्योपमेयत्वम् ॥ उपमेयेनैव उपमानकार्यनिर्वाह इत्युपमानवयर्थ्यम् , उपमानस्योप. मेयत्वं च यत्र कथ्यते तत्प्रतीपम् । आधं यथा- मुखं यदि किमिन्दुना यदि चलाञ्चले लोचने -- (१): आक्तियोवर-कलुषीबभूव ।

५४ अलकारमुक्तावल्यामः किमुत्पलकदम्बकैयदि तरङ्गभङ्गी ध्रुवोः ॥ किमात्मभवधन्वना यदि सुसंयताः कुन्तलाः किमम्बुधरडम्बरैयदि तनूरियं किं श्रिया ॥ द्वितीय द्विधा-उपमितिक्रियानिष्पत्यनिष्पत्तिभ्याम् । तत्राचं यथा- गोत्र साक्षादजनि भगवानेष यस्पायोनिः शय्योत्थायं यदखिलमहः प्रीणयन्ति द्विरेफान् ॥ एकाग्रं यहधति भगवत्युषणभानौ च भक्ति तत्मापुस्ते सुतनुवदनौपम्यमम्भोरुहाणि ।। द्वितीयं यथा- अनेन रम्भोरु ! भवन्मुखन तुषारभानोस्तुलया धृतस्य । ऊनस्य नूनं परिपूरणाय ताराः स्फुरन्ति प्रतिमानमण्डाः ।। यथा वा- आस्यं शीतमयूखमण्डलगुणानाकृष्य ते निर्मितं शके सुन्दरि ! शरीपरिवृढस्तेनैष दोषाकरः ॥ आदायेन्दुमृगादपीह निहितं पश्यामि सारं शोः स्वतके सति वा विधौ धृतिमयं दध्यादनन्धः कुतः॥ (नै० स० २२ श्लो०१४७) चन्द्रमृगनेत्रयोः सारग्रहणाभिधानात्तयोः सादृश्यनिमित्तधर्मविर- हवत्साबोधादुपमेयत्वमपि ध्यङ्ग्यम् । यथावा- अतिदीर्घजीविदोषाधासेन यशोऽपहारितं हन्त । कैःच्येत गुणाख्यः स एव जन्मान्तरापनः॥ इह व्यासस्य जन्मान्तरापत्तौ तस्य गुणाब्याभेदारोपविषयित्वा. भ्युपगमाहुणाव्यसारश्यं व्यङ्ग्यम् । न चारोप्यस्योपमानतया गुणाव्य. निष्ठामेदप्रतियोगित्वेन व्यासस्याभिमतत्वे तदभावे गुणात्यनिष्ठसा दृश्यप्रतियोगित्वमेव व्यज्यत इति वाच्यम् । तथा सति तस्य जीवन. प्रयुक्तप्रतिष्ठाव्यतिरेकाभिधानानुपपत्तेः । म्वगुणसजातीयगुणाश्रयैकरूप्यं तु सामान्यम् ॥ ४९ ॥ एकजातीयगुणवस्तुसम्बलनेन वस्तुनः पृथग्गुणग्रहणं सामान्यम् ।

सामान्य-विशेषालारौ। यथा मात्स्ये- स्ववर्णसहशैः पुष्पः संछना नलिनीषने । कान्ता काचिच्चिरात्प्राप्ता कान्तेनान्विष्य यसतः (१)॥ इदं भेदग्रहाभिधानविशिष्टम् । तद्रहितं यथा-- भैमीविनोदाय मुदा सखीभिस्तदाकृतीनां भुवि कल्पितानाम् । नातर्कि मध्ये स्फुटमप्युदीतं तस्यानुबिम्ब मणिवेदिकायाम् ॥ (नै० स०६ श्लो०७४) यथावा- प्रपेक्ष्यतः सुन्दरवृन्दमुच्चैरिदं मुदा चेदितरेतरं तत् । न शक्ष्यतो लक्षयितुं विमिश्र दस्त्री सहस्त्रैरपि वत्सराणाम् ॥ ( नै० स०१० श्लो०६३) इह सजातीयसम्बलनेन दस्त्रयोः परस्परविशिष्टानवबोध उक्तः । यथा वा- अम्बां प्रणम्योपनाता नताली नलेन भैमी पथि योगमाप । स भ्रान्तिभैमीषु न तां व्यक्ति सा तं च नाभ्यतया ददर्श ॥ (नै० स०६ श्लो०४८) अत्र नायिकान्तरविशेष्यकारोपप्रकारीभूना भैम्यैव विशिष्य स्व. विषयकनिर्णयाभाषप्रयोजिकेति विशेषः । केचित्तु- "सामान्यरीत्या विशेषास्फुरणे प्राप्त कुतश्चित्कारणाद्विशेषस्फूर्ती विशेषः। यथा वाराणसीवासवतां जनानां साधारणे शङ्करलाञ्छनेऽपि । पार्थप्रहारवणकर्कशाप्राचीनमीशं प्रकटीकरोति ॥” इत्याहुः। स्थितिराधाराभावे वृधिरनेकेषु युगपदेकस्य । एककरणेन दुष्करकार्यान्तरसिद्धिरिति विशेषः ॥ ५० ॥ प्रसिधमाधारं विनाप्याधेयस्य स्थितिकथनमेको विशेषः । - (१) स्वस्य वर्णो गौर तस्य सदृशै सुवर्णमयपुष्पै नायिकाया नलिनीमध्येऽपरिचय नलि- वने हि देहस्य पलाशाच्छन्नतया मुखदर्शनेन परिचीयत सुवर्णपद्मपुष्पैरिस्य कमलमनोहरस्य का. तामुखस्य समाननायिकागुणवस्तुसंवलिततया ऐकरूयात्तिरोधानादित्याशयः ।

अलारमुक्तावल्यामः यथा- आनन्दहेतुमपि देवमपास्यनन्दं सक्तासि किं कथय वैरिणि मौर्यपुत्रे ॥ दानाम्बुराजिरिष गन्धगजस्य नाशे तत्रैव किन चपले प्रलयं गतासि । इह नन्दनाशेऽपि तदाश्रिताया लक्ष्म्या अवस्थानम् । उत्तरार्द्ध रकस्याप्यर्थस्य युगपदनेकदशावस्थानवर्णनं द्वितीयः । यथा- पश्यामि तामित इतः पुरतश्च पश्चा- दन्तर्बहिः परित एवं विवर्तमानाम् ॥ उद्बुद्धमुग्धकनकाजनिभं वहन्ती- मासक्तितियंगपवर्जितदृष्टि धक्रम् ॥ पत्रैकस्या मालत्या बहुषु देशेषु वृत्तिः। यत्र चैकार्थसिद्ध्यनुकूल. ग्लादेव दुर्लभार्थान्तरासिद्धिः स तृतीयः। यथा मम- यदि ब्रह्मानन्दो विशदबिसतन्तौ कुशलता- विशेषेणावेक्ष्यो दृशि विशदताभागपि भृशम् ॥ ततः किं वा कौतूहलमिदमहल्याप्रियतमो वहत्यध्यक्षं यच्छुकजनायिता जैमिनिरपि ॥ इह ब्रह्मानन्दसरस्वतीदर्शने ईश्वर(व्यास)गौतमजैमिनिप्रत्यक्षसिद्धिः। परकीयगुणतिरोहितगुणस्य भानं तद्गुणः प्रोक्तः । वस्त्वम्तरगुणसाक्षात्कारप्रतिबद्धज्ञानस्य वस्तुनो भानं तहुणा उङ्कारः। यथा- मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रे- पिीयन्तीनमहानीलशिलासु। शस्त्रीश्गमैग्शुभिराशुद्रुतमम्भ- श्छायामच्छामृच्छति नीलीसलिलस्य ॥ (माघ०स० ४ श्लो४४) अत्र श्वैत्यस्य स्वगुणमपहाय नीलगुणयोगः । केचित्तु- "पुनः स्वगुणसम्माप्तिर्विज्ञेया पूर्वरूपता ।। तहुणरीत्या गुणान्तरग्रहे जाते पुनर्वस्त्वन्तरसन्निधानात्स्वगुणा. प्तिः पूर्वरूपालङ्कारः।

अतद्गुण-व्याघातालङ्कारी। - यथा- विभिन्नवर्णा गरुडाग्रजेन मर्यस्य रथ्याः परितः स्फुरन्या। रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ (मा०स०४ श्लो१४) इह सूर्यहयानामरुणकान्त्या लौहित्यसम्बन्धे हरिन्मणिकान्त्या पुनहरितसम्बन्धः। पूर्वावस्थानुवृत्तिश्च विकृते मति वस्तुनि ॥ पूर्वावस्थाविपर्ययेऽपि तादवस्थ्यकथनमपि पूर्वरूपम् । यथा-- द्वारं खड्गिभिगवृतं बहिरपि प्रस्वित्रगण्डैर्गजै. रन्तः कञ्चुकिभिः स्फुरन्मणिधरैरध्यासिता भूमयः । आक्रान्तं महिषीभिरेव शयनं त्वद्विद्विषां मन्दिरे राजन् कर्ण ! चिरन्तनप्रणयिनी शून्येऽपि सैव स्थितिः ॥ पाकसिद्धस्वगुणोत्कर्पोऽनुगुणः परसन्निधेः ॥ नीलोत्पलानि दधते कटाक्षरतिनीलताम् ॥ स्वगुणसजातीयगुणवद्वस्तुयोगे नस्य गुणोत्कर्षोऽनुगुणालङ्का र" इत्याहुः। अन्यगुणासम्बन्धे प्रकृतस्यातद्गुणः प्रोक्तः ॥ ५१ ॥ विजातीयगुणवद्वस्त्वन्तरयोगे सत्यपि तहुणानन्वयोऽतद्गुणालङ्कारः। यथा मम- शेवालैः शवलीकृतापि गुणिताप्यालीमृणालीगणैः श्रीखण्डस्य निषद्वरैरुपनिषद्द्वारापि सत्यापिता। राजन्ती यवसारजस्य रजसो राजीभिराजानिक राजीवाक्ष ! निरागसं जहति मा नाङ्गस्य ते सागरे । इह वर्णान्तरयोगसत्त्वेऽपि रागापरित्यागः । कार्यान्तरहेतुतयान्येनाभिमताविरुद्धकार्य चेत् । क्रियते परेण तस्माद्याघातोऽयं समाख्यातः ॥ ५२ ॥ अन्यहेतुत्वेन पराभिमतस्य कारणस्य तद्विरुद्धार्थहेतुस्वम् येन यत्र प्रतिपाद्यते स व्याघातः।

५८ अलङ्कारमुक्तावल्याम्- यथा- अचिन्त्यो ज्योतिः किमपि महतामन्धकरिपो- र्यदक्ष्णोऽभूत्तेजस्तदकृत कथामप्यमदनाम् । मुनेर्नेत्रादत्रेर्यदजनि पुनज्योतिरहह प्रतेने तेनेदं मदनमयमेव त्रिभुवनम् ॥ इह मदननाशहेतुत्वेनाभिमतास्यैव नेत्रजन्यतेजसो मदनजीवनहेतु. त्वं वर्णितम् । यथा- त्रैलोक्यत्राणशौण्डः सरसिजवसतेर्य प्रसूतो भुजाभ्यां स क्षत्रं नाम वर्णः कुलिशकठिनयोयर्य दोष्णोविलीनः । ज्वालाजिह्वालकालानलकवलभयभ्रान्तदेवासुराणि व्यातन्वानो जगन्ति ज्वलति मुनिरयं पार्वतीधर्मपुत्रः ।। इह उत्पादकत्वाभिमतानाशोऽभिहितः । यथाच- गौर्याः पुरो वहति यः शिरसैव गङ्गा विश्रम्भभूमिरयमप्यभिकः परस्याः । स्त्रीशब्दमात्रतरले तरुणेन्दुमौलौ तस्मिन्ममापि सखि! पाक्षिकलाभशङ्का ।। अत्र शिवाननुरागहेतुत्वेन सख्योपन्यस्तमेव तारल्यं नायिकया तदनुरागहेतुत्वेन कल्पितम् । केचित्तु- लशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनम् ।। यथा अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु । शुक ! पजरबन्धस्ते मधुराणां गिरां फलम् ॥ अत्र दोषप्रभूतमप्यवक्तृत्वं स्वच्छन्दचारानुकूलत्वाद्गुणत्वेन कल्पितम्। मपि वत गुरुगर्व मास्म कस्तूरि ! याया निखिलपरिमलानां मौलिना सौरभेण ॥ गिरिगहनगुहायां लीनमत्यन्तदीनं स्वजनकममुनैव प्राणहीनं करोषि ।। - समष्टि-सङ्करालङ्कारी। - इह कस्तूर्या सौरभगुण एव दोषत्वेन वर्णितः। दोषस्याभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात् । विपदः सन्तु नः शश्वद्यासु सङ्कीर्यते हरिः॥ अत्र विपत्तिरूपदोषस्यापि भगवत्सङ्कीर्तनानुकूलत्वादिच्छा । एवं दोषविशेषानुबन्धादूगुणत्वेन प्रसिद्धस्यापि द्वेषः तिरस्कारो नामा. लकारः। यथा श्रियो मे मा सन्तु क्षणमपि च माद्यद्रजघटा- मदभ्राम्यद्भङ्गावलिमधुरसङ्गीतसुभगाः। निमग्नानां यासु द्रविणरसचर्यासु कुधियां सपासौर्य हरिचरणयोरस्तमयते ।। इह भगवत्सेवाप्रतिकूलतया सम्पदि विद्वेष इति । संमृष्टिस्तु परस्परमनपेक्षस्थितिरनेकस्य । एवं शुद्धालद्वारा निरूपिताः । यत्र तु परस्परनिरपेक्षा अनेकालङ्का. रा एकत्र घर्तन्ते सा संसृष्टिः। यथा मम- एकांशेन भवत्करम्बिततया ब्रह्माद्वयोल्लासिनी पीयूषद्रववाहिनीमिव मुदां धागं समुद्भावयन् । अन्येन त्वदलाभसंबलनया हालाहलेन च्छला- घालैरप्यलिकानलैर्विसदृशं वृत्त्यन्तरं निनुते ॥ अत्रोपमानिह्नवादयः परस्परमनपेक्ष्य वर्तन्ते । एकमपेक्ष्यान्यस्य प्रादुर्भावे तु सङ्करः प्रोक्तः ॥ ५३ ॥ अलङ्कारस्यालङ्कारान्तरसापेक्षत्वे सङ्करः । यथा मत्स्यपुराणे -- शुकैर्यत्र विहन्यन्त पद्मरागविनिर्मिताः । भित्तयो दाडिमभ्रान्त्या प्रतिदिग्धितमौक्तिकाः ।। इहोदात्तमपेक्ष्य भ्रान्तिमदुन्मेषः। साधकबाधकमानाभावाच्चैकस्य निर्णयाभावे ॥ यत्रान्यतरालङ्कारनिर्णयविरहस्तत्र सन्देहरूपः सङ्कारः अलङ्कारमुक्तावल्याम्- यथा मम-- न प्राचीनपरम्परापरिचयो बाल्ये न वा सौहदं नैकस्यां भुवि सम्भवां न च समं वासो न सेवालयः । इत्यादीनि न दूषणानि गणयस्यम्भोज! भृङ्गस्य य- तनैसर्गिकमव्यपेक्षमुदयत्यौदार्यमत्युज्ज्वलम् ॥ अत्र प्रस्तुतकमलप्रस्तावेन अप्रस्तुतसत्पुरुषप्रतीतेः समासोक्तिः, किं वा अप्रस्तुतवृत्तान्तन प्रस्तुतसत्पुरुषप्रतीतेरप्रस्तुतप्रशंसेति स न्देहः। एकपदाच्छब्दार्थालङ्कत्यारवगतावन्यः ॥ ५४ ॥ एकपद एव शब्दालङ्कारार्थालङ्कारयोरवगम्यमानत्वे एकाश्रयानु. प्रवेशलक्षणः सङ्करः। यथा-- कैलासाद्रितटीषु धूर्जटिजटालङ्कारचन्द्राङ्कुर- ज्योत्स्नाकन्दलिताभिरिन्दुदृषदामद्भिनंदामातृकाः । गौरीहस्तगुणप्रवृद्धवपुषः पुष्यन्ति धात्रेयक- भ्रातृस्नेहसहोढषण्मुखशिशुक्रीडासखाः शाखिनः ॥ इहानुप्रासादात्तयोः। रसभावतदाभासे रसवत्सेय ऊर्जस्वी। भावशमे तु समाहितमुदयेऽन्योऽप्यस्य शबलत्वे ॥ ५५ ॥ प्रसङ्गेन रसालङ्कारा अप्युदाहियन्ते । तत्र रसस्याङ्गत्वेन रसवद- लङ्कारः । भावस्य तथात्वे प्रेयोऽलङ्कारः। रसाभासभावाभासयोस्त. थात्वे ऊर्जस्विसंक्षः । भावशान्तस्तथात्वे समाहितसंशः । भावोदय- भावशबलत्वयोः अपिशब्दोपात्तस्य च भावसन्धेस्तथात्वे विशेषसंज्ञा. नभिधानात्तत्तत्सबमेवालङ्कारत्रयम् । तत्राद्यो यथा- तीक्ष्णैस्तिग्मरुचः करैः परिचितां सेक्तुं कपोलस्थली नीराणां निकरं करेण हरता तुच्छकते वारिधी । मैनाकं समुदीक्ष्य पङ्कयति तं शालूकशङ्काजुषो हरम्बस्य पुनातु दन्तशिखरव्यापारलीलारसः॥ अत्राभुतस्य लम्बोदरविषयकभावात्वम् ।

रसवदाधलङ्काराः । - द्वितीयो यथा- पातुं न प्रथमं व्यवस्थति जलं युग्माम्वतिषु या नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् । आये वः कुसुमप्रसूनिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृह सर्वैरनुज्ञायताम् । (शकुं० अं०४ श्लो०९) इह शकुन्तलानिष्ठवृक्षविशेष्यकभावः कविनिष्ठशकुन्तलाविषयक- नावस्याङ्गम्। तृतीयो यथा मम- अहल्याविश्लेषज्वरजनितशल्यानवयवा- न्वहन्वाहिमुख्यावहितबहलव्यूहमहसः । प्रणिन्ये दिङ्मुद्रान्वयधृतघनत्वरपघनै- अलारिः पौलोमीमनुशयमयं वह्निशयनम् ॥ अत्राहल्याविषयक इन्द्रनिष्ठविप्रलम्भो मुनिपत्नीगतत्वेन रसाभास इन्द्राणीनिष्ठेन्द्रविषयकायाः । चतुर्थो यथा- इयमियं मयदानवनन्दिनी त्रिदशनाथजितः(१) प्रसवस्थली । किमपरं दशकन्धरगेहिनी त्वयि कगति करद्वययोजनम् ।। इह मन्दोदरीनिष्ठरामविषयकभावो वैरिविषयत्वादामासी वक्त. निष्ठरामविषयकभावस्य पञ्चमो यथा- विरोधो विश्रान्तः प्रसरति रसा निवृतिघन- स्तदोद्धत्यं कापि व्रजति विनयः प्रह्वयति माम् । झटित्यस्मिन् दृष्टे किमपि परवानस्मि यदि वा महाहस्तार्थानामिव हि महतां कोऽप्यतिशयः॥ ( उत्त० अं०६ श्लो० ११) इह लवस्यामर्षरूपभावोपशमो रामविषयकभावस्य । षष्ठो यथा- भवति न तथा भानोः शिष्ये गुरौ वसतो न च स्वयमपि मुना विश्वामित्रे गृहानधितिष्ठति । (१) त्रिदशनाथजित =इन्द्रजित ।

६२ अलङ्कारमुक्तावल्पाम्- दशरथसुतावेतौ दृष्ट्वा यथोच्छ्रसितं मनः शिघिलयति में प्रत्यग्ज्योतिः प्रबोधसुखासिकाम् ।। अत्र जनकस्य हषायो रामविषयकभावस्य । सप्तमो यथा- ययेन्दावानन्दं भजति समुपोढे कुमुदिनी तथैवास्मिन्दृष्टिर्मम कलहकामः पुनरयम् । झणत्कारक्रूरक्कणितगुणगुञ्जद्गुरुधनु- धृतप्रेमा बाहुर्विकटविकरालवणमुखः( उत्त०अ०५ श्लो० २६) इह लवस्य हर्षक्रोधयोः सन्धिर्वारस्य । अष्टमो यथा मम- अप्यादेर्जगतां नवो लवणिमा सीदन्ति गात्राणि किं रज्यन्ते न हि मानसानि विषये प्रत्यनिरुद्धात्मनाम् । धिग्वृत्ति मनसः स्पृहातलितां लभ्येत वायं मया प्रेयानित्यचलाधिराजदुहितुश्चिन्ता चिरं पातु वः॥ अत्र जगदम्बिकाया: शिवदर्शने विस्मयभ्रममातिनिर्वेदोत्कण्ठानां शबलत्वं कविनिष्ठगौरीविषयकभावस्याङ्गमिति सर्व शिवम् ।। हृद्यावधानतरलामवदातवृत्तां मुक्तावली गुणगणैर्ग्रथितामनध्यैः । कण्ठे निधाय विबुधाबहुधावहन्तु शश्वत्सभाजनसभाजनमाजनत्वम् ॥ श्रीमन्महीमहिततत्तदसीमधीमन्मूर्धन्यताकलनसङ्गतधन्यताकः ॥ लक्ष्मीधरो यमुदसून मुदं प्रसूतां विश्वेश्वरस्य कृतिरस्य चिरस्य लोके ॥ इति श्रीलक्ष्मीधरपण्डितसूनुश्रीविश्वेश्वरपण्डितविरचिता अलङ्कारमुक्तावली समाप्ता॥

अलङ्कारमुक्तावलीस्थोदाहरणश्लोकानामकाशिदक्रमेण अनुक्रमणिका। १० पं० २९ ११ ३५ १० २ ३० ३३ ३ २ २६ अकम्पनो अखिलेषु अचिन्त्यो भक्षो वा यदि अतिदीर्घ अतिपूजित अतिस्वच्छ अथेदं रक्षोभिः अद्भुतमिदं अनन्तरत्न अनायि देशः अनेन रम्भोरु अनेन साध अन्धस्य अन्यत्कुतूह अन्यासु ताव अन्येषु " " अस्ताचले २ पृ० पृ० अम्भोधेर्ना १९ २७ २७ अयमयमी ५८ २३ अयमेक २ अयं मदोदये २५ २१ अरालरुचिरे ५४ २२ | अहसनम ३ २८ अलौकिक ७.२९ अवगणित ३५ ५४ अवदातयति १८ अवनिरमर १० २४ ३० अस्य क्षोणि ५४ ११ अहल्या ३८ २ आकारसदृश ९ आगतानगणिता २७ आत्मा ते २६ २४ आदाय ४६ १४ आदेष्टा ४ २ आनन्दयति २२ २६ | भानन्दहेतु ५८ २७ ওঘর आपन्नवत्सल ३१ १६ आपूर्णश्च ११ ६ आमोदकुरषक १३ १३ आनायसम्प्रदाये ५५ १४ । आसंकृति ३१ १० ३९ १२ २८ ६१ १० ५२ १७ ४७ २४ ३० २० १७ १० अपत्ये यत ४९ ३० अपयातमितो अपि बत अप्यादेज अभ्यासप्रति अमितगुणोऽपि २९ २८ १८ १२ ર अमुण्य धीरस्य ११ १७ भरबां प्रणम्यो २ अनुक्रमणिका। বা অন্য आस्यं शीत भाश्चर्य पृ० पं० ११ २० ४ ४५ १ ९ इयमियं इयं गेहे दह वनेषु ६ ३७ ५२ ८ उधित्य उदेति पूर्व उहिश्या उन्मीलदल उन्मीलन्ति डल्लास्यता पृ० प० ४९ १७ | कुले वा शौर्य ५४ १४ | कुवलयदल ४९ २२ के देशाः कैरवाकर ६१ १७ | कैलासादि कोऽप्येष ४ २६ / कोकिलश्चूत कोपकषायित खट्वाङ्गं ४८ २ ग २७ १८ गजातेति गणयन्ति १८ ६ गतया निरन्तर गारुत्मत २४ १० गिरीन्द्राणां गृहीतो यः ३७ १९ गुलुच्छौ ५९ १७ गोत्रे साक्षा २६ १३ | गोडं राष्ट्र २८ १४ ४२ १९ ४० २२ ६ १५ ३० एकास एव কোন एणाद्याः ६ ९ गौर्याः पुरो च ऐरावत ऐश्वर्यादन १४ ८ क ६ १३ | चक्रे कि चतुरिम चारुता १५ २८ २१ चूडामण्डल २४ १५ ५२ २२ कनकाचल कल्पतरु कामेन लाभ ४२ २६ ५१ १३ चूडारत्नैः चेतोजन्मछ ५ ४२ १२ काश्मीरजै किरति कलि ५ १५ १७ छिदुरेण किं विधु कीर्तिः प्रवर १३ ३० ७ । जीवितशितरि ४ ३९ २३ अनुक्रमणिका। पृ० पं० पृ० पं० झ ३४ ९ ५८ २२ झणदकृत दुर्वादानल देवीं वाच १२ १६ दोर्दण्डा द्रानिप्पेष ४२ २ | द्वारे खड्गभि त ५११ ५ ध २० aar धनुरागम धारः धियात्मनस्ता १२ ૨ ४८ २९ २५ २७ ४९ १३ न न तेजस्तेजस्वी न प्राचीन २० २२ १४ ३४ २६ ६० २ ५२ २७ नसासभा तच्छुत्वा तत्तयुक्ति तत्याज धी तमभ्यधावत् तन्वति तमसि घने तमस्तोमः तं मनोभव तात्पर्यम तात्पर्य विषय तिरस्कृताम्भो तीर्थगना तीक्ष्णैस्तिग्म ते देशाः स्वदङ्गविषय त्वमिव कोऽपि स्वया दत्त त्वय्यर्धासन त्रैलोक्यत्राण त्रैविक्रमः पृ० पं० २८ ३१ ५१ २४ २७ १३ ४५ २३ नान्यत्र ६० २६ / नाराचैः ४५ ५ नित्यं चन्दन २५ | निरन्तरत्वेन १९ | निर्बन्धः ३ ९| नेत्राणां १० । नेयं निशा न्यकारण १५ | न्यक्कारो १९ ४१ २५ " द प दत्तेन्द्राभय दम्पत्योर्नि दर्पण कौतुक दोऽयं दशमुखवध ३९ ३० पण्डितता २० पनिन्या: २३ २० पश्यानुरूप १७ २९ | पश्यामि ता १६ २२ | पश्यामि वजु ३३ २८ २४ २ ४८ २२ अनुक्रमणिका। पृ० प० पृ० पं० ६१ म २ मन्मथोऽर्जुनेति मिथ्याभूतं १८ १२ मुकुलेषु १३ २३ | मुक्तं मुक्ता ८ २६ १५ २३ ५६ २३ २ १२ ५३ २९ ४६ २ मुक्ताभिः २५ १७ मुखं यदि ३२ ३१ मुनेः कलश पाश्चालकृष्ण पातुं न प्रथम पात्रं कराल पारावारतुषार पीयूषति पुण्यं साधुसमा पुरं निःशेष पुरोजन्मा पुरस्तस्या पुरुहूत पूर्वानेहसि पृथिव्यां कि प्रणमति प्रत्युप्तस्येव प्रवर्तयन् प्रवेक्ष्यतः प्रागुचः शिरसं प्रीते विधातरि फणीन्द्रस्ते ४९ ६ २७ २२ मृगाक्षीवक्षो मृणालमन्दा मृदुतामृदित ३८ २१ ७ य १४ " य एव मे ३३ १४ यत्पाथोज २१ ९ यत्पीयूष यथेन्दावा १४ २९ यदि ते सन्ति ३२ १७ यदि ब्रह्मा ३ यद्विद्वानपि यद्विस्मयः ६ १० यन्मौलिरत ३४ २३ चेष्टन्त ५ २१ । यस्मिन्नेक ६ | यामि विधा ४१ यां चन्द्रकै ६२ ३२ २४ ५६ १४ ३४ २ ब १३ बहुशः प्रत्न बाले! तवेह बिम्बाधरं बुधमतिरिव ब्रह्माण्डान्तर ब्राह्मणाति २ ३ २० १६ ३८ २७ १९ १३ २४ २३ २५ १२ येन स्वा भ यो वहति भवति न र ४६ २ भवान्धो भावविरोधी ४८ १२ रजनीमवाप्य २ | रसोद्धरण अनुक्रमणिका। ५ पृ० प. ४० २६ २ ५३ ९ रात्रिर्गमिष्य राजीभिः सर ल लक्ष्मीविलासा लोलभूलतया व वज्रादपि घधूवक्षोज घागर्थाविव बाजायसरसा वाराणसीवास विकृतिः पूर्वे विधिद्वषद्वंली विधिरव विना सीता विभिन्नवर्णा विरोधो विश्रान्तः धीरव्रतदीक्षा व्यधाधुधि व्यपवर्तत व्योम्नीव वारि शा शुकैर्यत्र पृ० प० ६ श्रियो मे मा ४ ३१ श्रौतीभिः स २७ २९ सकलकला: ४७ २ मन्त्येवास्मिन् सन्दर्भेषु ३५ २९ समधिक ९ २ सम्पनशक्तिः १ २० सम्भाव्यमिष्टं ३१ १६ संवृतोऽयं ५५ १३ सरसं तरसा ४५ सविता विधवति सा बाला ३७ २५ सिद्धोत्र ९ सुकुमारतया २ सुरक्षमा ६१ २१ स्त्रीणां हि सा २२ १० स्वयमादाय ४५ १९ | स्ववर्णसहशैः ३ २२ स्वव्यापार १० २४ स्वेषत्कृत्य हिमलव ५९ १७ हेरम्बदन्त ५७ २१ । झोणी पर्यटिता " ४६ २२ २० ३० २८ ३४ १८ २१ १८ १२ ४७ १६ ४० ६ २ २३ ३ १४ ३६ २२ ३९ ४ २ १२ २६ ३३ २१ ४३ १३ शेवालैः कृत इति ।

NE
हमारे यहां हरतरहकी छपाई व जिल्दसाजीका कार्य भी होता है
हर तरह के संस्कृत प्रन्थ तथा भाषा पुस्तकों के मिलने का पता-
जयकृष्णदास-हरिदास गुप्तः
चौखम्बासंस्कृतसीरीज आफिस,
विद्याविलास प्रेस, गोपालमन्दिर लेन,
बनारस सिटी।

.. काशीसंस्कृतसीरीज-पुस्तकमाला । इयं काशी-संस्कृतप्रन्थमाला विभागशः प्रकाशिता भवति । एतस्यां प्राचीनाः नवीनाथ दुर्लभाः सुलभाश्च अत्युपयुक्ताः संस्कृतग्रन्थाः काशिकराजकीयसंस्कृतपाठशालीयैः पण्डितैरन्यैरपि विद्वद्भिः संशोधिताः क्रमेण संमुद्रिता भवन्ति । अस्यां प्रका- श्यमाणानां प्रन्थानां मूल्यं सूचीपत्रे प्रकाशितं वर्तते । परंतु एतस्या नियमेनाऽविच्छिन्नतया निश्चितप्राहकमहाशयानां प्रतिमुद्रा- शतकं पञ्चविंशतिमुद्राः ( कमिशन ) परावर्तिता भवेयुः मार्गव्ययश्च न पृथक दातव्यो भवेत। तत्र मुद्रितग्रन्थनामानि। मूल्यम्। १ नलपाकः नलविरचितः। संपूर्णः ( पाकशास्त्रम् १) २ संक्षेपशारीरकम् । रामतीर्थस्वामिकृतान्वयार्थबोधिनीटीका- सहितम्। (वेदान्तं १) रु०८-० ३ वैशेषिकदर्शनम् । पं० श्रीदुण्डिराजशास्त्रिकृतविवरणोपेताभ्यां प्रशस्तपादभाग्योपस्काराभ्यांसमन्वितम् (वैशेषिकं१)रु०२-८ ४ श्रीसूक्तम् । विद्यारण्यपृथ्वीधरश्रीकण्ठाचार्यकृतभाष्यत्रयेण टिप्पण्या च समलङ्कृतम् । (पैदिकं १) रु००-६ ५ लघुशब्देन्दुशेखरः (भैरवी) चन्द्रकलाटीकासहितः तत्पुरुषादि- समाप्तिपर्यन्तः। (व्याकरणं १) रु०८-० ६ कारिकावली मुक्ता० दिन राम शब्दखण्डसहिता तथा "गुण निरूपणदिनकरीय" महामहोपाध्याय पं० श्रीलक्ष्मणशास्त्रि कृतव्याख्यासहिता। ( न्यायं १) रु०६-० ७ पञ्चीकरणम् । वार्तिकाभरणालङ्कृतवार्तिकटीकया-तत्त्वचन्द्रि. कासमवेतविवरणेन च समन्वितम् । ( वेदान्तं २)रु००-८ ८ अलङ्कारप्रदीपः। पण्डितवरविश्वेश्वरपाण्डेयनिर्मितः। २ अनङ्गरणः महाकविकल्याणमल्लविरचितः। (कामशास्त्रं१) रु० ०-१२ १० जातकपारिजातः। श्रीवैद्यनाथशर्मणा विरचितः। (ज्यो० १) रु०२-० ११ पारस्करगृह्यसूत्रम् । कात्यायनसुत्रीयश्राद्ध-शौच-स्नान-भोजन- कल्पसहितम्। ( कर्मकाण्डम् १) रु० ०--८ १२ पुरुषसूक्तम् । सायणभाष्य-महीधरभाष्य-मंगलभाष्य-नि- म्बार्कमतभाष्यचतुष्टयसहितम् । (वैदिकं २) रु० १--४ १३ श्रीमत्सनत्सुजातीयम्-श्रीमच्छङ्करभगवत्पादविरचितभाग्येण नीलकण्ठीव्याख्ययाच संवलितम्। ( वेदान्तं ३)रु०१-४ १४ कुमारसंभवं महाकाव्यम् । महाकवि-श्रीकालिदासवि० । सञ्जी. वनी-शिशहितैषिणी-टीकाद्वयोपेतम् सम्पूर्णम् । (काव्यं२) - . प्पणा। - काशीसंस्कृतसीरीज़ । १५ श्रुतबोधश्छन्दोग्रन्थः । आनन्दवर्द्धिनीतात्पर्यप्रकाशाख्यसंस्कृत- भाषाटीकासहितः। (छंदः १) रु००-६ १६ कारिकावली। मुक्तावली-न्यायचन्द्रिकाटीकाद्वयसहिता सटि- (न्याय २) रु०१-० १७ पारस्करगृह्यसूत्रम्। काण्डद्वये हरिहर गदाधर० तृतीयकाण्डे ह. रिहर-जयराम-प्रणीतभाष्येण समलङ्कतम् । हरिहरभाष्यस. हितस्नानत्रिकण्डिकासूत्र-गदाधरभाष्यसहितश्राद्धनवक- ण्डिकासूत्रैः यमलजननशान्ति-पृष्टोदिवि-शौच-भोजन कामदेवकृतभाष्यसहितोत्सर्गपरिशिष्टसूत्रैः परिष्कृतं-टिप्प- ण्यादिभिः सहितं च । ( कर्मकाण्ड २)रु०३-० १८ संक्षेपशारीरकम्-मधुसूदनीटीकासहितम् संपूर्ण (वेदान्तं४) रु०८- १९ लघुजूटिका-अर्थात् अभिनवा परिभाषेन्दुशेखरपरिष्कृतिनि- मितिः। ( व्याकरणं २) रु० ०-८ २० कातीयेष्टिदीपकः । ( दर्शपौर्णमासपद्धतिः) महामहोपाध्याय- पं० श्रीनित्यानन्दपन्तपर्वतीयविरचितः । (कर्मकाण्ड) रु०१-० २१ सप्तपाठि-श्रीशिवमहिम्नस्तोत्रम् श्रीगन्धर्वराज पुष्पदन्ताचार्य: विरचितम् । हरिहरपक्षीय-मधुसूदनीटीकया ( संस्कृतटी- का-सस्कृतपद्यानुवाद-भाषाटाका-भाषापद्यानुवाद-भाषा बिम्ब) पञ्चमुखीनाम्न्या टीकया-शक्तिमहिम्नस्तोत्रेण च समन्वितम् । (म्तोत्रवि०१) रु. १-० २२ बोद्धाऽऽचार्यश्रीधर्मकीर्तिप्रणीतः सटीकन्यायबिन्दुः-भाषा- टीकासहितः (बौद्धन्याय वि०१) रु०१-८ २३ सपरिष्कृत-दर्पणसहितवैयाकरणभूषणसारः (व्याकरणं ३) रु० ४-० २४ न्यायवार्तिकतात्पर्यटीका श्रीवाचस्पतिमिश्रविरचिता। सम्पूर्ण ( न्यायविभाग ३) रु०६- २५ मीमांसान्यायप्रकाशः (आपदेवीयः) श्रीचिन्नस्वामिशास्त्रिकतया सारविवेचिन्या व्याख्यया सहितः मीमांसा १)रु०२-० २६ पौरोहित्यकर्मसारः (टिप्पणीसमलंकृतः) प्रथमो भागः श्रीरमा- कान्तशर्मणा संगृहीतः। ( कर्मकाण्डवि० ३) रु००-४ २७ लघुशब्देन्दुशेखरः म० म० श्रीनागेशभट्टविरचितः। अव्ययी. भावान्तो भागः, म०म० पण्डित श्रीनित्यानन्दपन्त-पर्वतीय. कृतशेखरदीपकाख्येन टिप्पणेन समुज्ज्वलितः। (व्या०४)रु०४-८ २८ रघुवंशमहाकाव्यम्। महाकविश्रीकालिदासविरचितम् पञ्चसर्गा त्मकम् । म० म० श्रीमल्लिनाथमूरिकृतसाविनाटीकया पं० श्रीकनकलालठक्कुरकृतार्थप्रकाशिकाटीकया च सम. लङ्कृतम् (काव्यवि०३) रु००-१२ - काशीसंस्कृतसीरीज़। १९ कामसूत्रम् । श्रीवात्स्यायनमुनिप्रणीतं बहुयलरासादितथा पूर्णया जयमङ्गलरचितया टीकया समेतम् । बहुखण्डितपाठान् परिप र्य,सूत्राडांश्च संयोज्य, परिष्कृत्य संशोधितम् । (काम०२)०८-. ३० न्यायकुसुमाञ्जलीः । न्यायाचार्यपदाङ्कितश्रीमदुदयनाचर्यविरचि. तः। महामहो पाध्यायरुचिदत्तकृतमकरन्दोद्भासितमहामहो. पाध्याय पर्द्धमनोपाध्यायप्रणितप्रकाशसाहतः (न्याय४) १०६-० ३१ परिभाषेन्दुशेखरः । म०म० श्रीनागेशभट्टरचितः। म०म० भैरव- मिश्रविरचितया भैरवीत्यपराख्यया परिभाषाविवृत्या-तत्त्व. प्रकाशिफया टीकया च सहितः । (व्याकरण ४) रु०३-० ३२ अर्थसंग्रहः। पूर्वमीमांसासारसंग्रहरूपः। श्रीलौगाक्षिभास्करविरचि. ताश्रीमत्परमहंसपरिव्राजकाचार्यश्रीरामेश्वरशिवयोगिभिक्ष. विरचितमीमांसार्थकौमुद्याख्यव्याख्यासहितः।(मीमां०२) रु०१-० ३३ न्यायवार्तिकम् न्यायदर्शनवात्स्यायनाभाष्योपबृहणम् । परमर्षि. भारद्वाजोहयोतकरविरचितम् । महर्षि-गोतमादिचरितसम्ब. लितबृहत्भूमिकासहितम् । (न्यायं। रु. ६-० ३४ शुक्लयजुर्वेदसंहिता । वाजसनेयिमाध्यन्दिनशाखीया। श्रीमदुग्ध- टाचार्यविरचितमन्त्रभाष्येण श्रीमन्महीधराचार्यविरचितवेद- दीपेन च सहिता। (भाग १-२-३-४ ) (वैदिकं ३) रु०८- ३५ शुक्लयजुर्वेदकाण्वसंहिता । श्रीसायणाचार्यविरचितभाष्यसहिता। १ अध्यायादारभ्य २० अध्यायपर्यन्ता। (वैदिकं ४) रु०६-० ३६ सिद्धान्तलेशसंग्रहः । श्रीमदप्पयदीक्षितविरचितः। श्रीमत्परमहंस- परिव्राजकाचार्यकृष्णानन्दतीर्थविरचितथा कृष्णालङ्काराख्य. या ब्याख्यया समलंकृतः। (वेदान्तं ४) रु०६-० ३७ काशिका । श्रीपाणिनिमुनिविरचितव्याकरणसूत्राणां वृत्तिः वि. द्वद्वर-वामन-जयादित्यविनिर्मिता। (व्याकरणं ५) रु०६- ३८ प्राकृतप्रकाशः । भामहकृतः । श्रीमद्वररुचिप्रणीतप्राकृतसूत्रसहि- तः। टिप्पण्या च संयोजितः। (व्याकरणं ६) रु०१-४ ३९ जीवन्मुक्तिविवेकः श्रीमविद्यारण्यस्वामिविरचितः। भाषानुवा. दसमेतः। (वेदान्तं ५) ९०२-० ४० श्रीनारदीयसंहिता । ब्रह्मणोपदिष्टो नारदमहामुनिप्रोक्तो ज्यौतिष- (ज्योतिष २) रु००-६ ४१ मेदिनीकोशः-मेदिनीकारविरचितः । (कोशं १) रु०१-८ ४२ मीमांसादर्शनम् । श्रीशबरस्वामिविरक्षितभाष्यसहितम् । (भाग-२) (मीमांसा ३) २०१०-० ग्रन्थः।

काशीसंस्कृतसीरीज़ । ४३ न्यादर्शनम् । श्रीगोतममुनीप्रणितम्। श्रीवात्स्यायनमुनीप्रणित. भाष्यसहितम् । श्रीविश्नाथन्यायपश्चाननभट्टाचार्यविरचि. तन्यायसूत्रवृत्त्यनुगतम् । टिप्पण्यादिसहितम् (न्याय ६) २०३-० ४४ दानमयूखः। विद्वद्वरश्रीनीलकण्ठभट्टविरचितः। (धर्मशास्त्रं१) रु०१-८ ४५ कालमाधवः । विद्वद्वरश्रीमाधवाचार्यविरचितः। (धर्मशास्त्र२) रु.१-८ ४६ भास्वती । श्रीमच्छतानन्दविरचिता । श्रीमातृप्रसाद ( देवनभू- षण) पाण्डेयेन कृताभ्यां छात्रबोधिनीनाम संस्कृतसोदाहरण भाषाटोकाभ्यां सहिता । (ज्योतिष ३) रु०२-० ४७ फक्किकाप्रकाशः। उपाध्यायोपाहवैयाकरणकेसरीबिरुदाङ्कितमैथि- लेन्द्रदत्तशर्मविरचितः । पं० सीतारामशर्मकृतटिप्पण्या विभूषितः। (व्याकरणं ७) रु०१-४ ४८ मिताक्षरा। श्रीगौडपादाचार्यकृतमाण्डूक्यकारिकाब्याख्या-श्रीम- त्परमहंसपरिव्राजकाचार्यस्वयम्प्रकाशानन्दसरस्वतीस्वामि- कृता।शंकरानन्दकृतमाण्डूक्योपनिषद्दीपिका च। (वेदा०६) रु०१-४ ४९ काव्यप्रकाशः । श्रीमम्मटाचार्यविरचिनः । पं० श्रीहरिशङ्करशर्मणा मेथिलेन संगृहीतया नागेश्वरीटीकयाऽलङ्कतः (काव्य०४) रु०४ -० ५० अधिकरणकौमुदी । श्रीदेवनाथठक्कुरकृता । (मीमां० ४) रु० १-० ५१ रघुवंशमहाकाव्यम् । महाकविश्रीकालिदासविरचितम् महामहो पाध्याय श्रीमल्लिनाथकृतसञ्जीविनीटीकयोपेतम् पं० श्रीकन. कलाल ठक्कुरेण विचितया भावबोधिनी टिप्पण्या सम. रु०१-४ ५२ काथबोधः। साजनीकृत टीकोपेतः। दत्तात्रेय सम्प्रदायाऽनुगतः। रु०-८ ५३ रसचन्द्रिका । पर्वतीय-पण्डितप्रवर-श्रीविश्वेश्वरपाण्डेय निर्मिता (काव्य०६)रु०१-० ५४ अलङ्कारमुक्तावली । पर्वतीय-विद्वद्वर-श्रीविश्वेश्वर पाण्डेय- निर्मिता- ( काव्य वि० ७) रु०-१२-० जयकृष्णदास-हरिदासगुप्तः, पत्रादिप्रेषणस्थानम् चौखम्बा संस्कृत सीरीज आफीस, विद्याविलास प्रेस, गोपालमदिर के उत्तर फाटक बनारस सिटी। । -- लङ्कनम् संपूर्णम् ।

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

६२ अलङ्कारमुक्तावल्पाम्- दशरथसुतावेतौ पृष्वा यथोच्छुसितं मनः शिथिलयति मे प्रत्यग्ज्योतिः प्रबोधसुखासिकाम् ।। अत्र जनकस्य हषायो रामविषयकभावस्य । सप्तमो यथा- ययेन्दावानन्दं भजति समुपोढे कुमुदिनी तथैवास्मिन्दृष्टिर्मम कलहकामः पुनरयम् । झणत्कारक्रूरकणितगुणगुजद्गुरुधनु- धृतप्रेमा बाहुर्विकटविकरालवणमुखः( उत्त००५ श्लो० २६) इह लवस्य हर्षक्रोधयोः सन्धिर्वारस्य । अष्टमो यथा मम- अप्यादेर्जगतां नवो लवणिमा सीदन्ति गात्राणि किं रज्यन्ते न हि मानसानि विषये प्रत्यनिरुद्धात्मनाम् । धिवृत्तिं मनसः स्पृहातरलितां लभ्येत वायं मया प्रेयानित्यचलाधिराजदुहितुश्चिन्ता चिरं पातु वः॥ अत्र जगदम्बिकायाः शिवदर्शने विस्मयभ्रममतिनिर्वेदोत्कण्ठानां शबलत्वं कविनिष्ठगौरीविषयकभावस्याङ्गमिति सर्व शिवम् ॥ हृद्यावधानतरलामवदातवृत्तां मुक्तावली गुणगणैर्ग्रथितामनध्यैः । कण्ठेनिधाय विबुधाबहुधा वहन्तु शश्वत्सभाजनसभाजनमाजनत्वम् ॥ श्रीमन्महीमहिततत्तदसीमधीमन्मूर्धन्यताकलनसङ्गतधन्यताकः ॥ लक्ष्मीधरो यमुदसून मुदं प्रसूतां विश्वेश्वरस्य कृतिरस्य चिरस्य लोके ॥ इति श्रीलक्ष्मीधरपण्डितसूनुश्रीविश्वेश्वरपण्डितविरचिता अलङ्कारमुक्तावली समाप्ता ॥ *

Alang-kaaramuktaavalii

Author
Paand-d'eya Shriivishveshvara
Title
Alang-kaaramuktaavalii
File name
Alang-kaaramuktaavalii
Text
OCR done
Citation
1927
Published
2005-12-02
Publisher
Vidhyaa Vilaasa Presa~
Language
Sanskrit
Pages
95
Classification
Geography. Biography. History
DLI number
369554
Barcode
2030020016378.00
Scanning centre
RMSC, IIIT-H
Digital publisher
Digital Library Of India
Rights
IN_COPYRIGHT
VMLT id
DVergYuCf2n
Download PDF

Alang-kaaramuktaavalii