Sarnath Varanasi
Agampramanyam
Front matter
SPAINT FROM THE PANDIT. visit PER आगमप्रामाण्यम्। पञ्चराजतन्त्रमाभाग्य व्यवस्थापनवस्म । श्रीभाष्यका रणदगुरुगा। श्रीधयामुनाचार्यस्वामिना प्रोतन दायाचार्यभवनधास्वतन्त्र वामियोराम मेश्र- प्रणा या धनं कनिदिप शिकार mary AGAMAPRAMANYAM SRI YA TUNACH, ki WAMIN S. IST S.N.M: RAMME. AIISRA SASPRU, KOPICSSOR SUSSKRIEVOLLEGE, BANANE PPTET पाटन REPRINT FROM THE PANDIT. ॥ श्री॥ आगमप्रामाण्यम। श्रीपञ्चरात्रतन्त्रप्रामाण्यव्यवस्थापन परम् । श्रीभाष्यकाराणां परमगुरुणा श्रीक्ष्यामुनाचार्यस्वामिना प्रणीतम् । सत्संप्रदायाचार्यसर्वतन्त्रस्वतन्त्र पं० स्वामिनीराममिश्र- शास्त्रिणा परिशोधितं वचिद्विषमे विशदीकृतं च । AGAMAPRAMANYAM SRI YAMUNCULARI ISWAVIS 7'ha l'arami20/14 of this vici.it LDHI|| i. S.A.S. T.S.P.S. I. H. HIMA MISTRI SASTRI PROFESSOR SINSKRIT COLLT, DAN IRIS वाराणस्याम: श्री रामेश्वर पाठकेन तारायन्त्रालये मुद्रितम । १९९४ वैक्रमाब्दे। १९३७ ईस्वी । T++ R ॥ श्रीः॥ श्रीयै नमः। श्रीपतये नमः। श्रीमते रामानुजाय नमः ।। नमोनमो यामुनाय यामुनाय नमोनमः । नमोनमो यामुनाय यामुनाय नमोनमः । Va यस्मिंश्चिरन्तनगिरामिह तत्परत्व- तत्तत्प्रलम्भनविमूर्छितशोकहानम् । अायत्तमस्ति भववारिधिपोतपादो रामानुजार्यमुनिरेप जयत्यजसम् ।। Auttonumanmom ও গায় ফুল বিংশগ্রহ হাঙ্গামারী খুব । এ শেষ করুন পক্ষ ৮। ? ? * : - *** ৩ অল্পবসনায়াশালায়হিশ্নে । জয় পতাকালান। वृत्यर्थ देवेशपूजनादिलिपधः । করুনন গণহলা বক, থাশী বালকনিকাংবদন না। - অঙ্গতে কল করুন । হৎ৮ত্বও-হাত্মাদ মামুন মুন্না। অগনিশিথগ্রী; অনুশন যুক্ত বাধ্য। ঘকালীন অ্যামথ। লমল অঙ্গরাগ সারাজ থসন্ধিহাদালন। 4@থ স্ব ময়দা মিলল গুয়ামgঃ নংঃ : ? Aাৱালপৰ সুমন সহায়-হলুদ -হা নাসাণালq তোতাল গোলাপখানায় বেমান থাকিনি হয় । করা হয়নি। U Eaka জুয়াদ-মানবহানা। সুখীষ্টপলসীগারাগি । ইতকারিয়ালগ্রাঞ্জলি। লিমবিশ্বখণিক এই প্রামগঞ্জল । স, ই ?
२ सूचीपत्रम् । ८१ .... ... .... ८५ भागवतानामेव भगवनिवेदितवस्तूपयोगोधम्यौनेतरेषाम् । देवतान्तरनिर्माल्योपयोगनिषेधः । भोज्याभोज्यव्यवस्था शासनकसमधिगम्या । शाखाभेदेन कर्मानुष्ठानवैचित्र्यवर्णनम् । द्विजानां गायत्रीग्रहणनित्यत्वं, त्यागे नात्यत्वं भागवतानां तद्ग्रह- जनैयत्यम् । श्री नाथमुनीनां महिमवर्णनपुरस्सरं तच्छिप्यानां परपक्षक्षपण- पर्याप्तत्वादिनिरूपणम् । ॥ शम् ॥ .... .... .... ८६ सन्तु पूर्वाचार्याः सहजदयादृष्टयो नः सहायाः सर्वत्र एहिकामुष्मिक- कार्येष्विति भृशमभ्यर्थयते विनतोत्तमाङ्गो राममिश्रशास्त्री ॥
RAMANANDMANANAKSMIRMIRMUSIRITALIKARAN HNDAT-AIRATRIKAN श्रीधराय नमः। गत वामानुजाय नमः भूमिका info 4 भागः सर्वेष्वपि दर्शने पूर्व माण जापानिरू- মুখ সব লাল বা জাঙ্ক- नागरिवलला किवरे । यथा जैमिलीशे लखवलसिला माहीये च बोधायनात, परंतु निजननिरूपमा काम गदर पाली- नैहाभामभृतिभिः पूर्वमीमांसासु, भगोदाइ अतिमिर- मामांसासु च महताऽऽयासेन आर्षवृत्तीः समुत्साच वाभिमा- বঙgণহত মুলনি সুস্থ সুখাই। কলকা तखलुवापिभिः प्रसारादिभिः पूर्वतन्त्रे, शङ्कराचार्यादिभिश्चतुर- पति वतन्त्रायेदारब्धानि व्याख्यानान्याख्यातमिति न परोक्ष- माधुनिकान् प्राचीनाँश्च दाशनिकनन्यानवलोकयता विपश्चितामिति किमिह मरन। परं तु विशिष्टतपारयायुकेशचारधाम बौधायनी मार्गमतमेव संरक्ष्यते । सन्म लिपु मगाशमुपेयुषी- स्वपि अमिड-गुहदेव-दभारुविकृतिषिवायभाष्य-बार्तिकादि- ग्रन्थमायनमुखेना सददै बौधायनीय मतं तित्र- रमत समुच्चयवादिमित्येवं वा व्यवाहारि दिनु कालवि. परियामेन च मतं भागवतममिति पनि शङ्कराचार्यादिसमये, यशा तैदरायगिधु सूत्रेप माध्यमाभाषमा IRHaiwww २ भूमिका । उत्पत्यसंभवसूत्रचतुष्टयीव्याख्यानावसरे (भागवता एवं मन्यन्ते) इत्यादिनोपन्यस्य निराकर्तुमारब्धम् । तदानीं पर्यन्तं श्रीभाष्यकाराः श्रीरामानुजाचार्या नावतेरुरिति नैतव्यपदिष्टमभवद् रामानुजमतमिति यथेदानीन्तना: परमतानुवर्तिनो विशिष्टाद्वैतवादिनः समुद्दिश्य रामानुजीया इति व्यपदिशन्ति । तदेवं शाङ्करसंप्रदायालाचीने सनातनेऽस्मिन् श्रीसंप्रदाये वादिनां विविधा अभूवन व्यपदेशा इति स्पृष्टमस्ति । यस्मिन् समये भागवतमतपदेनेदं व्यपदिष्टमभवद् विशिष्टाद्वैतमतं तदा श्रीभाष्यकाराणां परमगुरवो भगवन्तः श्रीदयामुनमुनयः प्राणपुरमुमागमप्रामाण्यग्रन्थम् । तदानीं हि द्वेषोद्रेकवशात्प्रथमतो ये भागवतमतमिद- मिति व्यपदेष्टुमारेभिरे ते एव व्यतीते बहुतिथे काले एते भागवता न ब्राह्मणा इति वक्तुं प्रायतिषत । तममुं गगन- तले पङ्कलेपप्रयत्नभायमसदुद्योगं भगवन्नारायणमुखोद्गीतस्य सर्व- वेदरहस्यार्थरूपस्य श्रीपञ्चरात्रतन्त्रस्य बाललीलायितं निराकरण- समुद्यमं चावलोक्य निवबन्धुराचार्याः प्रकृतं निबन्धम् । उत्पत्यसंभवचारसूत्रीव्याख्याने यथा परैः पाण्डित्यं स्वीया सद्वानुयायिता च प्रदर्शिता तथा आगमप्रामाण्याचार्यैः स्वयमेव महत्याअभव्या निरवशेषेण प्रपञ्चितमिति गजमुक्ते कपित्थे भाति स्वीयबलावेदनाय तद्वितंसने रोषमिषेण कृतं पादतलाहत्या, किन्तु परमाऽचार्यपरिचर्यामर्यादया माशस्येतरजनस्यापि नान- धिकारो वक्तुमिति किञ्चिद्विशदीकरणमुद्रयोच्यते । तथा हि विज्ञानादिसूत्रव्याख्यानावसरे ।
३ भूमिका । "न न च पञ्चरात्रसिद्धान्तिभिर्वासुदेवादिषु एकैस्मिन् सर्वेषु वा ज्ञानेश्वर्यादितारतम्यकृतः कश्चिद्भेदोऽभ्युपगम्यते, वासुदेवा एव हि सर्वे व्यूहा निर्विशेषा इष्यन्ते । चैते भगवद्व्यूहाश्चतुःसङ्ख्यायामेवावतिष्ठेरन्, ब्रह्मादिस्तम्ब- पर्यन्तस्य समस्तस्यैव जगतोभगवव्यहवावगमादिति " श्रीशङ्कराचार्यास्तदिदं विष्णुसहस्रनामव्याख्यासु स्वोक्तरेव विरुध्यते, तत्र “हि चतुरात्मा चतु!श्चतुर्दष्ट्रश्चतुर्भुजः” इति भगवन्नामगणान्तःपातिनि चतु हशब्दे । व्यू *ह्यात्मानं चतुर्धा वै वार देवादिमूर्तिभिः । सृष्ट्यादीन् प्रकरोत्येष विश्रुतात्मा जनार्दनः ॥ इति व्यासवचनात् । चतुर्ग्रहः । इति स्वयमेव तैः कार्यविशेषसाधनसमुद्देशेन चतुर्धा भवनमङ्गीचक्रे, ततश्च ब्रह्मादिस्तम्बपर्यन्तस्य जगतो यादृशो ब्रह्मभावो न तादृशश्चतुर्ग्रहस्य, न हि लोष्टाश्मसाधारणो ब्रह्मभावो भवता भगवतश्तुयू हेऽभ्युपगन्तुं शक्योऽन्यथा व्यूह्यात्मानं चतुर्धा वै इति त्वदुपन्यस्तव्यासवचनं सर्वथा कदर्थितमेव स्यात् । न च वासुदेव-संकर्षण-प्रद्युम्नानिरुद्धमूर्तीरपहायापराश्चतस्रो वासुदेवादिमूर्तयो भवताऽपि निर्देष्टुं शक्यन्ते न चापरैरपि कैश्चिद्वादिभिरभ्युपेयन्ते । यदपि शरीरपुरुषश्छन्दः पुरुषो वेदपुरुषो महापुरष इति वाहचोपनिषदुक्ताश्चत्वारः पुरुषा व्यूहा अस्येति चतु- य॒ह इति व्याख्यानं, तदपि ॥ चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यश्चतुर्गतिः' * अत्र व्यू होत्यनेनावतारावतास्भिावस्य विश्रुतात्मेत्यनेनावतारावतारिमावा- पत्रस्याप्यधिकलेश्वरमावस्य, जनार्दनपदेन उपलक्षणमुद्रया जगदुत्पत्तिस्थिति-प्रणाशा- दिकारणतायाश्च बोधनेना विकृतस्मैवैकल्य भक्तानुग्रहाय चतुर्मूसित्वमिति सिध्यति । भगवतः तु ४ भूमिका। इति श्लोकेऽभिहितस्य चतुर्ग्रहशब्दस्यार्थो न तु प्रकृतस्य, न ह्यर्थभेदं विना पदैक्ये भगवन्नाम्नां सहस्रसंख्याप्रपूरणप्रत्याशा, तदवश्यं पदभेदेनार्थभेदेन वा भवितव्यमिति अष्टादशश्लोकस्थ- चतुर्ग्रहशब्दार्थोऽगत्या स्वानुमतव्यासाभिमतरीत्यैवेति स्वीयमेव सहस्त्रनामव्याख्यानं स्वीयेनैव शारीरकस्थव्याख्यानेन विरुध्यते इति कृतं स्वोक्तिविस्मरणशीलानां निग्रहप्रयत्नेनेत्युपर- स्पष्टं भ्यते । एते ग्रन्थाचार्याः श्रीभाष्यकाराणां परमगुरवः* श्री ६ नाथमुनीनां पौत्राः श्रोसंपदायेऽत्यन्तमान्या बौद्धः पादोनबौद्ध- रीषदूनबौद्धैर्वा संसारे प्रतारिते सन्मार्गसंदर्शकाः, अनेकौढ- प्रवन्धनिवन्द्वारश्च । तद्यथा सिद्धित्रयम्, पुरुषनिर्णयः, आगमप्रामाण्यं, काश्मीरागमप्रामाण्यं, भगवद्गीतानिगूढार्थ- व्याख्यानमिति, यथोक्तं श्रीदेवेदान्ताचार्यैस्तत्वमुक्ताकलापे । नाथोपझं प्रवृत्तं बहुभिरुपचितं यामुनेयप्रबन्धः ॥ इति, अस्मद्गुरुरत्नमहामालायां श्रीर्दयामुनमुनयोमध्यमहामणि- स्वरूपा अतः स्वप्रणीतवेदार्थसंग्रहस्यादौ । परं ब्रह्मैवाझं भ्रमपरिगतं संसरति तत्, परोपाध्यालीढं विवशमशुभस्यास्पदमिति । * श्रीरामानुजाचार्याणां मातुलाः श्रीरामायणार्थोपदेष्टारश्च गुरवोऽभूवन् श्रीशैलाचार्याः? श्रीमहापूर्णाचार्याः समाश्रयगगुरवः। श्रीगोष्ठीपूर्णाचार्यारह- स्मार्थापदेशाचार्याः । अमीषां त्रयाणां गुरवो भगवन्तो यामुनाचार्यपादाः, अतस्ते श्रीमाष्याचार्याणा परमगुरवः ।। यथोक्तमालुवन्दारस्तवे स्वयमेव तैः पितामहं नाथमुनि विलोक्य प्रसीद मतमचिन्तयित्वा ।
५ भूमिका । श्रुतिन्यायापेतं जगति विवतं मोहनमिदं ; तमोयेनापास्तं स हि विजयते यामुनमुनिः ।। एवमाचेरुराचार्याः श्रीरामानुजभगवत्पादाः श्रीद यामुना- चार्यवन्दनलक्षणं विशिष्टमङ्गलम् । श्रीभाष्ये एतेषामेव सिद्धित्रयस्थानि वचनानि पुरस्कृत्य युक्तीश्चावलम्ब्याचार्याः प्रत्यूचुनिर्विशेषाद्वैतम् । उत्पत्त्यसंभवचतुःसूत्र्यर्थ याथातथ्येन जिज्ञासमानैरेष संदर्भोऽवश्यमवदधानरध्येय इति चावधापयति विविधनिबन्ध- दर्शनसमुत्सुकान् दर्शनदर्शनव्यसनिनोजनान् । अङ्गीकरोति च हृदयेन साहाय्यं मथुरास्थश्रीरामानुज- पाठशालाऽध्यापकस्य श्रीलक्ष्मणाचार्यस्य, येन स्वहस्तलिखित देवाक्षरपुस्तकं तैलङ्गाक्षरपुस्तकं च संप्रेष्यास्य ग्रन्थरत्नस्य मुद्रणे उपकारः साधु निरभिसंधितया समपादि । अयमागमप्रामाण्यग्रन्थः सम्यगवलोकितो दार्शनिकेतिहास- निरूपणव्यवसायानामत्यन्तमुपयोक्ष्यते । अस्ति चैष श्रीसंपदाया- नुयायिनामिव विपक्षसंप्रदायानुयिनामप्युपादेयो बहूनामज्ञात- रहस्यार्थानां ज्ञानहेतुत्वात् । आशासे चामुना ग्रन्थमुद्रणमचारणादिव्यापारेण पूर्वाचार्य- कृपाभाजनतां तया चात्मनः कृतसर्वकृत्यतामामुष्मिकी शाश्वतिकी निश्रेयसयोग्यतां चेति । श्रावणशुक्लसप्तम्यां पण्डितस्वामिराममिश्रशास्त्री शुक्रे । काश्याम् अगस्त्यमुन्याश्रमाश्रमः । सं. १६५७. नमः पूर्वाचार्येभ्यो निर्हेतुकदयादृष्टिभ्यः । इति शम् ॥
श्रीः श्रीयै नमः श्रीधराय नमः भगवते यामुनमुनये नमः श्रीमते रामानुजाय नमः ॥ श्रीमद्यामुनमुनिविरचितमागमप्रामाण्यम् । जगज्जन्मस्थितिध्वंसमहानन्दैकहेतवे । करामलकविश्वं पश्यते विष्णवे नमः ॥ येऽमी केचन मत्सरात्सवयसो दुर्मानसारा नराः । गम्भीरां गुणशालिनीमपि गिरं निन्दन्ति निन्दन्तु ते ।। सारासारविचारकौशलदशापारे परेऽवस्थिताः । सन्तस्सन्त्यनस्यवोऽपि बहवः शंसन्ति ये मगिरम् ।। अभिनिवेशवशीकृतचेतसां बहुविदामपि सम्भवति भ्रमः । तदिह भागवतं गतमत्सरा मतमिदं विमृशन्तु विपश्चितः ।। इह केचिद् यतस्ततोऽवगतकतिपयकुतर्ककल्कविस्फूजितविजित- मनसस्त्रयीमार्गसंरक्षणव्याजेन निजविपर्शकौशलातिशयमुपदर्शयन्तः परमपुरुषविरचितनिरतिशयनिश्रेयसगोचरपञ्चरात्रतन्त्रप्रामाण्ये विप्र- तिपद्यन्ते । वदन्ति च । द्वेधा खलु प्रमाणत्वं वचसामवसीयते । एकम्मानान्तरापेक्षमनपेक्षमथेतरत् ।। तत्रापि । न तावत्पुरुषाधीनरचनं वचनं कचित् । आसीदति प्रमाणत्वमनपेक्षत्वलक्षणम् ।।
प्रागमप्रामाण्यम् । पौरुषेयं हि वचः प्रमाणान्तरप्रतिपन्नवस्तूपस्थापनायोपादीयमानं वक्तुस्तदर्थसिद्धिमनुरुध्यमानमेव प्रमाणभावमनुभवति । न च पञ्च- रात्रतन्त्रप्रतिपाद्यमानविलक्षणदीक्षापूर्वकभगवदाराधनाभिलषितस्व- गर्गापवर्गादिसाध्यसाधनसंबन्धं प्रत्यक्षादीन्यावेदयितुं क्षमन्ते । न हि प्रत्यक्षेण दीक्षाराधनादीनि निरीक्षमाणास्तेषां निश्रेयस- साधनतां प्रतिपद्यामहे । न चार्वाचीनाः केचिदतिमानुषशक्तयोऽमीपामभिलषितसाध- नतामध्यक्षितवन्त इति प्रमाणमस्ति, यतस्तेषामपि चक्षुरादीन्द्रियं दृश्यमानमिन्द्रियस्वभावं नातिक्रमितुमुत्सहते । ननु च । प्रकृष्यमाणं प्रत्यक्ष दृष्टमाश्रयभेदतः । अतस्तदाश्रये कापि ध्रुवं परिनितिष्ठति ।। सर्वं हि सातिशयं निरतिशयदशामनुभवद् दृष्टं वियतीव परिमाणं, सातिशयं च काकोलूकगृध्रादिषु प्रत्यक्षमीक्षितमिति तदपि तथा भवितुमर्हति । इयं च ज्ञानस्य परा काष्ठा या सर्व- गोचरता, अधिकविषयतयैव हि जगति ज्ञानानि परस्परमतिशेरते । इत्यमैश्वर्यवैराग्यसामर्थ्यादिगुणा अपि । मिरस्तातिशयाः पुंसि कचित्सन्तीति सूरयः ।। अतो यस्यैतदखिलभुवनावलम्विभावभेदसाक्षात्कारिपत्यक्ष स तत्समीक्षितदीक्षाराधनादिधर्मभावो भगवानेवं व्याचष्टेति किमनुपपन्नमिति । तन्न प्रत्यक्षविज्ञानप्रकर्षः कल्पितोऽपि कः । स्वगोचरमतिक्रम्य नान्यदास्कन्दितुं क्षमः ॥
आगमप्रामाण्यम् । ३ तथा हि । रूपरूपितदेकार्थसमवायिषु चातुषः । प्रकर्षों भवितुं युक्तो दृश्यमानप्रकर्षवत् ॥ एवम् । इन्द्रियान्तरविज्ञानं विश्वं गोचरयेन तु । कथं प्रत्यक्षविज्ञानं विश्वं बोधयितुं क्षमम् ।। ननु तत्सप्तसामर्थ्य विद्यमानोपलम्भने । असति हि स्वभावानुवन्धिनि विद्यमानोपलम्भनत्वे प्रत्यक्षतैव परावर्तते, न ह्यजातमतिवृत्तं वाऽगमयदनुमानादि प्रत्यक्षपक्षनिक्षेपं क्षमते, तेन अशेषविषयितालक्षणप्रत्यक्षप्रकर्षः स्वभावनियमनिर्मू- लितोदय इति न हृदयमधिरोहति । इदमपि सातिशयेन निरतिश- यमनुमिमानः पृष्टो व्याचष्टां सातिशय एव किनु तां दशामनुभवति यतः परं न संभवति महिमेत्यभिनिविशसे बाल इव स्थविरभावम् । अथैकस्मिन् सातिशये केनाप्यन्येन निरतिशयेन भवितव्यमिति आहोस्वित्समानजातीयेनान्येन निरतिशयदशामधिरूढेन भवि- तव्यमिति । न तावदग्रिमः कल्पः कल्पतेऽनुपलम्भतः । न हि दृष्टं शरावादि व्योमेव प्राप्तवैभवम् ।। यदि च तदेव सातिशयमसंभावनीयपरप्रकर्ष परिनितिष्ठेत् , हन्त ? तफैंककन घटमणिकादिना ब्रह्माण्डोदरविवरमापूरितमिति तत्पतिहततयेतरभावभङ्गप्रसङ्गः । व्योम्नैव लब्धसाध्यवान्मध्यमः सिद्धसाधनः । कल्पान्तरेऽपि दुर्वारं प्रागुदीरितदूषणम् ॥ विभुस्तम्भान्तरव्याप्तस्तम्भस्सातिशयो न हि । दृष्टपूर्वस्तथान्योन्यव्याघातः स्थित एव सः ॥ .
४ आगमप्रामाण्यम् । यदपि वियति परिमाणमिह निदर्शितं तदपि विमर्शनीयमेव परिमाणं हि नाम देशावच्छेदः इयत्ता परितोभाववेष्टनमिति यावत् । न च नभसि तदस्तीति कथमिव तदिह निदर्शनतया निर्दिश्यते । यदि च नभसि तदनुमन्वीत तदपि तहि सम्भाव्यमानपर- प्रकर्षमिति पुनरपि साध्यविकलता । न च अतिशयितेन प्रत्यक्षेण दीक्षाराधनादयो धर्मतया अवबोधिता इत्यपि प्रमाणमस्ति तस्मादस्मदादिषु अनालोचितपर- चेतनातिरेकपरिकल्पनाऽल्पीयसीति नाभिप्रेतसाध्यसाधनसम्बन्धे प्रत्यक्ष प्रमाणं, नतरां तन्मूलतया पञ्चरात्रस्मृतिः प्रमाणम् । न च करणपथदूरवर्तिनि प्रस्तुतवस्तुन्यविनाभावावधारणा- धीनोदयमनुमानमुत्पत्तुमलं, न ह्यदृष्टचरवहयस्तदविनाभावितया धूममनुसंदधति । न चागमस्सात्वतसमयसिद्धक्रियाकलापकर्तव्यतोपस्थापनपरः परिदृश्यते, येन तन्मूलतया पञ्चरात्रस्मृतयः प्रमाणं स्युः, चादृश्यमानोऽप्यनुमानगोचरः, यथैव हि तन्त्रप्रसिद्धदीक्षाराधन- तत्फलाभियतस्वर्गादिसाध्यसाधनभावो नानुमानगोचरः सम्बन्धाव- धारणविरहात्, एवं तन्मूलागमो ऽपि तत एक नानुमातुं शक्यः । न चागमेनापि प्रस्तुतस्मरणमूलभूतागमावगमः सम्भवति । स हि द्वेधा पौरुषेयापौरुषेयभेदात् । न तावत्पौरुषेयेण वचसा तस्य सम्भवः । विप्रलब्धुमपि ब्रूयुर्मषैव पुरुषा यतः ॥ अद्यत्वेऽपि हि दृश्यन्ते केचिदागमिकच्छलात् । अनागमिकमेवार्थ व्याचक्षाणा विचक्षणाः ॥ न IMAOIDADIN ५ न आगमभामाशयम् । तदिह पञ्चरात्रग्रन्थप्रबन्द्धणामपि तन्मूलभूतागभावगमपुरःसरी किं स्वनिवन्धनानां वेदमूलत्त्वप्रतिज्ञा, किंवा यथारूचि रचयतां प्ररोचनाय तथा वचन मिति शङ्कामहे । तावता च प्रमाणत्वं व्याहन्येत समीहितम् । न हि नित्यागमः कश्चिदस्ति तादृशगोचरः।। न चोपमानात्तन्मूलश्रुतिसिद्धिरसम्भवात् । कथं ह्यदृष्टपूर्वा सा सदृशज्ञानगोचरा ॥ चार्थापत्तितस्तन्मूलश्रुतिसिद्धिः, अनुपपत्त्यभावात स्मरणान्यथाऽनुपपच्या हि तत्कल्पना प्रादुर्भवति । स्मरन्ति हि पञ्चरात्रप्रणेतारः-दीक्षाराधनादि धर्मतयाऽष्टकादीनिव मन्वादयः। न चाननुभूते वस्तुनि स्मरणशक्तिराविर्भवति, अनु- भवश्चेन्द्रियलिङ्गशब्दसघशानुपपद्यमानार्थपूर्वकः, ईदृशविषयेऽनुभवः प्रमाणान्तरेभ्योऽनाविर्भव॑श्चोदनामेव मूलमुपकल्पयतीति सिध्ये- दप्ययं मनोरथः यदि हि यथार्थत्वनियमोऽनुभवानां प्रामाणिकः स्यात्, यदा पुनारागद्वेषाभिनिवेशादिवशीकृतान्तःकरणानामय. थार्थानुभवभाविता भावनाः स्वानुरूयाः स्मृतीरारचयन्ति कथमिव तदा स्मरणानुपपत्तितः प्रमाणभूता श्रुतिरुपकल्प्येत अन्यथाऽपि स्मरणोपपत्तेः, मन्वादिस्मरणेष्विदानी का वार्ता । ननु तत्रापि प्रागुक्ता युक्तयः पराक्रमन्ते न ह्यष्टकां दृष्टवतामिष्टसाधनमिति मतिराविरस्ति । न चानुमानं, संबन्धादर्शनात्, न च शब्दः, तदनुपलम्भात्, न चानुपलब्धोऽनुमातुं शक्यः, संबन्धादर्शनादेव, न चोपमेयः, सदृशानिरूपणात, न च कल्पयितुं शक्यः, अनन्तरोक्तत्वात, स्मृत्यन्यथोपपत्तेः।
40 आगमप्रामाण्यम् । वेदसंयोगिपुरुषस्मरणानुपपत्तितः । कल्प्यते चेच् श्रुतिस्तत्र ततोऽन्यत्रापि कल्प्यताम् ॥ यतोनारदशाण्डिल्यप्रमुखाः परमर्षयः । स्मर्यन्ते पञ्चरात्रेऽपि संप्रदायपवर्तकाः ॥ ततश्च । तुल्याक्षेपसमाधाने पञ्चरात्रमनुस्मृती । प्रमाणमप्रमाणं वा स्यातां भेदो न युक्तिमान् ।। त्यज्यतां वा प्रमाणत्वं मन्वादिस्मृतिगोचरम् । विशेषः पञ्चरात्रस्य वक्तव्यो वा स उच्यते ॥ अपि वा कर्तृसामान्यात् प्रमाणमिति सूत्रयन् । सूत्रकारः स्फुटीचक्रे वैलक्षण्यं विवक्षितम् ॥ तथा हि श्रुतिविहितानामग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादि- कर्मणां स्मृतिविहितानामष्टकाचमन-संध्योपासनादिकर्मणां च पित्राघुपदिष्टत्वात् परमहितबुद्धया विद्यवृद्धानां निर्विशेषमनुष्ठान दृष्टं, तेन तादृशशिष्टत्रैवर्णिकपरिग्रहद्रबिन्नो स्पष्टदृष्टाष्टकादि- कर्तव्यताप्रतीतिः स्वोपपादनपटीयसीं श्रुतिमेव भूलभूतामवलम्बते । न चैवमाचमनोपनयनादीनिव श्रुतिविहिताग्निहोत्रादिपदार्था- नुष्ठायिनस्तान्त्रिकाचारानुपचरतः पश्यामः । प्रत्युतैनान् विगर्हन्ते कुर्वाणान् वेदवादिनः । तस्माद् यत्कर्तृसामान्यात् प्रामाण्यं स्मृतिदितम् ॥ नैव तत्पञ्चरात्रादि बाह्यस्मरणमर्हति । न हि त्रैवर्णिकाः शिष्टास्तदुक्तार्थानुपासते ।। ननु तत्रापि श्रुतिस्मृतिप्राप्तशिखायज्ञोपवीतादिधारयद्- मिर्भागवतब्राह्मणैरहरहरनुष्ठीयमानार्थत्वेन चोदनामूलरवे संभाव्य- ७ आगमप्रामाण्यम् । माने कथमिव प्रामाण्यपत्यनीकभूता भ्रमविपलम्भादयः स्मरण- कारणतया कल्प्यन्ते । उच्यते । हन्तववादिना साधु प्रामाण्यमुपपादितम् । यत् त्रैवर्णिकविद्विष्टाश्शिष्टा भागवता इति ॥ ननु ते कथमशिष्टा ये त्रैवर्णिकाग्रगण्या ब्राह्मणाः तन्न तेषां त्रैवर्णिकत्वमेव नास्ति दूरे ब्राह्मणभावः, न हीन्द्रियसंप्रयोगसम- नन्तरं केषुचिदेव देहविशेषेषु अनुवर्तमानमन्यतो व्यावर्तमान नरत्वातिरेकिणं ब्राह्मण्यं नाम जातिविशेषमपरोक्षयामः, शिखा- यज्ञोपवीतादयस्तु ब्राह्मणादीनां विधीयमाना न तद्भावमापादयितुं क्षमन्ते, नाप्यवगमयन्ति, दुष्टशूद्रादिषु व्यभिचारदर्शनात् , अतोनि- विवादसिद्धवृद्धव्यवहार एवात्रावगमनिदानम् । न च भागवतेषु ब्राह्मणपदमविशङ्क लौकिकाः प्रयुञ्जते । भवति च भेदेन व्यपदेशः-इतो ब्राह्मणा इतो भागवता इति । स्यादेतद् ब्राह्मणेष्वेव कुतश्चिद् गुणयोगात् सात्वतभागवतादिव्य- पदेशः यथां तेष्वेव परिव्राजकादिशब्दा इति तन्न । रूढ्या सावतशब्देन केचित् कुत्सितयोनयः । उच्यन्ते तेषु सत्स्वेष शब्दो नान्यत्र वर्त्तते ॥ रूदिशक्तिपतिद्वन्द्रियोगशक्तिपरिग्रहः । अयुक्त इति युक्तिज्ञा रथकारपदे यथा । अपरथा कथमिव रथकारशब्दोऽध्ययनसिद्धबुद्धयङ्गत्वभङ्गेनापि यौगिकों वृत्तिमपहाय जातिविशेपमभिनिविशते । सन्ति च सात्वता नाम उपनयनादिसंस्कारहीना वैश्यवात्यान्वयिनोऽवरजन्मानः केचिद् यथा ऽऽह मनुः ।
--
आगमप्रामाण्यम् ।
वैश्यात्तु जायते नात्यात् सुधन्वाचार्य एव च ।
भारूषश्च निजङ्घश्च मैत्रसात्वत एव च ॥
इति,
भागवतशब्दश्च सात्वतेषु वर्तत इति नात्र कश्चिद् विवादः ॥
स्मरन्ति च ।
पञ्चमः सात्वतो नाम विष्णोरायतनानि सः ।
पूजयेदाज्ञया राज्ञां स तु भागवतः स्मृतः ॥ इति
तथाचोदीरितत्रात्यप्रसूतिकृत्युपायतयेदमेव स्मरन्ति यदमी
प्रत्यक्षमेव वृत्यर्थमनुतिष्ठन्तो दृश्यन्ते तथा चोशना सर्वेषां कृषि-
शस्त्रोपजीवनम् प्राचार्यसाचतयोर्देवपूजनम् इति, तथा ब्राह्मे पुराणे
विष्णोरायतनानि स पूजयेदाज्ञया राज्ञाम् । इति, तथा ऽन्यत्रापि
सात्वतानां च देवायतनशोधनं नैवेद्यशोधनं प्रतिमासंरक्षणम् इति,
तथा चेदृशसंदेहव्युदासाय मनोर्वचः ।
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ।
इति ।
अपि चाचारतस्तेषामब्राह्मण्यं प्रतीयते ।
वृत्तितो देवतापूजा दीक्षानैवेद्यभक्षणम् ॥
गर्भाधानादिदाहान्तसंस्कारान्तरसेवनम् ।
श्रौतक्रियाऽननुष्ठानं द्विजैस्सम्बन्धवर्जनम् ॥
इत्यादिभिरनाचारैरव्राह्मण्यं मुनिर्णयम् ।
स्मरन्ति हि वृत्तितो देवपूजाया ब्रह्मकर्मस्वनधिकारहेतुत्वं
यथा।
येषां वंशक्रमादेव देवा_वृत्तितो भवेत् ।
तेषामध्ययने यज्ञे याजने नास्ति योग्यता ।। इति ।
तथा च परमसहितायां
आगमप्रामाण्यम् । तेषामेव वचः। आपद्यपि च कष्टायां भीतो वा दुर्गतोऽपि वा । पूजयेन्नैव वृत्त्यर्थं देवदेवं कदाचन ॥ इति । यदपि समस्तविशिष्टविगर्हितनिर्माल्यधारणनैवेद्यभक्षणाद्यनु- ष्ठानं तदपि तेषामब्राह्मण्यमेवाभिद्योतयति इति । अपि च यदवलोकनादावपि विशिष्टाश्चान्द्रायणादिप्रायश्चि- तानि विदधति कथं तत्परिग्रहः श्रुतिमूलत्वमवगयतीति संभावयामः। स्मरन्ति हि देवलकावलोकने प्रायश्चित्तं देवलकाश्चामी देवकोशोप- जीवित्वाद् वृत्यर्थं देवपूजनात् । तथा च देवलः । देवकोशोपजीवी यस्स देवलक उच्यते । इति, तथा, वृत्त्यर्थं पूजयेदेवं त्रीणि वर्षाणि यो द्विजः । स वै देवलको नाम सर्वकर्मसु गर्हितः ।। इति । अमी पुनर्वंशानुपरम्परया वृत्त्यर्थमेव देवमाराधयन्तो दृश्यन्ते, अतो देवलकत्त्वमकामेनाप्यभ्यनुज्ञातव्यं तथा च । विड्वराहं च षण्डं च यूपं देवलकं शवम् । भुजानो नेक्षयेद्विप्रो दृष्ट्वा चान्द्रायणं चरेत् ।। इति प्रायश्चित्तं स्मरन्ति, तथा च विषदतरममीषामेवोपब्राह्मण्यं वर्णयत्यत्रिः । अवालुका देवलकाः कल्पदेवलका गणभोगदेवलका भागवतवृत्तिरिति चतुर्थः एते उपब्राह्मणा इति, तथा च भगवान् व्यासः। आहायका देवलका नक्षत्रग्रामयाजकाः । एते ब्राह्मणचण्डाला महापथिकपञ्चमाः ।।
१० आगमप्रामाण्यम् । इति, एवं जात्या कर्मणा च त्रयीमार्गादपभ्रष्टभागवतजनपरि- ग्रह एव पञ्चरात्रशास्त्रमामाण्यप्रतिक्षेपाय पर्याप्तो हेतुः, तथा हि । विवादाध्यासितं तन्त्रं न मानं पुण्यपापयोः । त्रयीबाह्यदृहीतत्वाच् चैत्यवन्दनवाक्यवत् ।। अपि च तेषां त्रयीमार्गत्यागपुरस्सरः सर्वधर्मोपदेश इति स्ववाक्यान्येव उपख्यापयन्ति चतुर्पु वेदेषु परं श्रेयोऽलब्ध्वा शाण्डिल्य इदं शास्त्रमधीतवान् इत्यादीनि तदिह कथं चतुर्णामपि वेदानां निश्रेयससाधनावबोधकत्वयुदासेन पारभमाणः तत्प्रसादा- वगतमर्थं पुमर्थतया कथयतीत्युत्प्रेक्ष्येत । मन्वादयो हि विवक्षितसकलसमीहितसाधनावबोधकमागमैक- मूलमभिदधाना दृश्यन्ते। वेदोखिलो धर्मभूलं स्मृतिशीले च तद्विदाम् । श्रुतिस्मृतिविहितो धर्मः । स सर्वोऽभिहितोवेदे सर्वज्ञानमयो हि सः । इति च । यदपरम उपनयनादिसंस्कृतानामधिकृतानां च अग्निहोत्रादि- समस्तवैदिककर्मसु पुनरपि भगवदाराधनाधिकारसिद्धये दीक्षाल- क्षणसंस्कारवर्णनं तदवैदिकतामेवानुकारयति, वैदिकत्वे हि तैरेव संस्कारैर्भमवदाराधनादावप्यधिक्रियेरन् । यदपि धर्मप्रमाणतया समस्तास्तिकजनपरिगृहीतेषु चतुर्दश- विद्यास्थानेष्वपरिगणनं तदप्यवैदिकत्त्वे लिङ्गम् अन्यथा हीदमपि तदन्यतमत्वेन स्प्रर्येत । न च स्मर्यते, तदवसीयते अवैदिकसेवेदं पञ्चरात्रस्मरणमिति । अत एव च भगवता बादरायणेन त्रयी- मार्गप्रत्यनीकभूतकणभुगक्षचरणसुगतमतादिबाघसमयनिरासायसरे ऽस्य तन्त्रस्य निरासः । उत्पत्यसंभवात् इति ।
आगमप्रामाण्यम् । ११ त्रयीविदामित्थमसङ्ग्रहेण तथा त्रयीवाद्यपरिग्रहेण । अनन्तरोक्तैरपि हेतुभिस्तन्न मानवादिस्मरणैस्समानम् ॥ एवं सति यान्यपि लोकं व्यामोहयितुं विद्वेषणोचा- टनवशीकरणादिक्षुद्रविद्याप्रायमेव बहुलमुपदिशद्भिर्भगवदाराधना- दिकतिपयवैदिककर्माणि पाश्चरात्रिकनिर्दिश्यन्ते तान्यनुपयोग्यान्य- विस्रम्भणीयानि च श्वदृतिनिक्षिप्तक्षीरवदिति मन्यामहे । अतो न वेदमूलवं पञ्चरात्रस्य युज्यते । प्रामाण्यं प्रतिपद्येत येन मन्वादिशास्त्रवत् ।। अत्र कश्चिदाह कामं कक्ष्यान्तरितप्रामाण्येषु मन्वादिस्मरणेषु कारणतया वेदाः परिकल्प्यन्तां, पञ्चरात्रस्मरणस्य तु किं वेदेन तन्मूलतया ऽवलम्बितेन वेदानामपि यदनुभवनिबन्धनं प्रामाण्यं तदनुभव एव हि पञ्चरात्रस्मरणस्य निदानं, न खलु तुल्यमूलयो- रष्टकाचमनस्मरणयोमिथोमूलमूलिभावः । परस्परमपेक्षते तुल्यकक्ष्ये न हि स्मृती । पञ्चरात्रश्रुती तद्वन्नापेक्षेते परस्परम् ।। वेदमूलत्वहानेन पञ्चरात्रेऽवसीदति । कुतस्तन्मूलताहानादागमो नावसीदति ॥ आह किमेवं वेदा अपि पुरुषानुभवाधीनप्रामाण्याः पौरुषेया एव कस्संशयः, वाक्यत्वं हि पराधीनरचनत्वस्वभावमुपलभ्यमानं कथमपरथाऽवतिष्ठेत वेदनान्नो ग्रन्थस्यायं महिमा यत्केनचिद् असन्हब्धोऽपि वाक्यत्वेनावतिष्ठत इति चेत्, हन्त तर्हि पर्वतवर्तिनो धूमस्यायं महिमा यज्ज्वलनमन्तरेणानुच्छिन्नसन्तानो गगनतलम- धिरोहतीति किमिति न स्यात् ।
१२ आगमप्रामाण्यम् । ननु कथमतिक्रान्तमानान्तरावतारे धर्म ग्रन्थः सन्दभ्यते, मैवं यतस्सहजसंवेदनसाक्षात्कृतधर्माधर्म एव भगवान् जगदनुकम्पया वेदनामानं ग्रन्थमारचयतीति । विमस्ति धर्माधर्मगोचरयपि प्रत्यत्तं, बाढं कथमन्यथा तनुभुवनादिकार्यमुपजनयति, स हि तत्र कर्ता भवति यो यस्योपादान- मुपकरणञ्च साक्षात्कर्तुं प्रभवति धर्माधी च जगदुपकरणमिति मीमांसकानामपि सम्मतमेव । अतस्तत्साक्षात्कारी कोऽप्याश्रय- णीयः स च वेदानादौ निरमिमीतेति । यस्तु ब्रूते गिरिभुवनादयो भावा न कार्या इति प्रतिब्रूयादेनम् । विवादगोचरा भावाः कार्या विश्वम्भरादयः । विचित्रसन्निवेशत्वान्नरेन्द्रभवनादिवत् । तथा सावयवत्वेन विनाशोऽप्यवसीयते ।। विनश्यन्ति च ये भावास्ते तत्साधनवेदिना । विनाश्यन्ते यथा तज्ज्ञैरस्माभिः करकादयः ॥ ये पुनरपरिदृष्टबुद्धिमदधिष्ठानतरुपतनादिशकलिता भावाः तेऽपि विमत्याक्रान्ता इति नानैकान्तिकत्वमावहन्ति । किंच । महत्तया सनाथेन स्पन्दमानत्वहेतुना । उत्पत्तिभङ्गौ भावानामनुमातुमिहोचितौ ।। तदेवमुदीरितन्यायप्रसिद्ध विश्वम्भरादिकार्यत्वे सिध्यत्येव भगवतस्तदुपकरणधर्माधर्मसाक्षात्कारित्वम् । तथा हि । विवादाध्यासिता भावा येऽमी भूभूधरादयः । ते यथोक्तावबोधेन का केनापि निर्मिताः ।। उत्पत्तिनाशभागित्वाधदुत्पत्तिविनाशवद् । दृष्टन्तत्ताशा का निम्मितन्तद्यथा गृहम् ॥
आगमप्रामाण्यम् । १३ न च वाच्यं कर्मणामेव स्वानुष्ठात पुरुषसमीहितानि संपा- दयतामन्तरा नान्तरीयकं तनुभुवनादिकार्यनिर्माणमिति यतश्चेतना- नधिष्ठितानि तानि न कार्याणि जनयितुमुत्सहन्ते अचेतनत्वाद् वासोवत्, न हि चेतनेन तक्ष्णाऽनधिष्ठिता वासी स्वयमेव यूपादी- न्यापादयितुमलम् । न चापूर्वाण्यधिष्ठाय वयं निर्मातुमीश्वराः । न हि कर्मोदयात् पूर्व साक्षात्कर्तुं क्षमामहे ॥ उक्तं हि उपादानोपकरणसाक्षात्कारिण एव तत्र तत्र कर्तृत्वमिति । न च कर्मजन्यापूर्वसाक्षात्कारक्षमः क्षेत्रज्ञः कश्चित् प्रज्ञायते प्रतिज्ञायते वा, अतः क्षेत्रज्ञतदुपभोगतत्साधनधर्माधर्मादिनिखिल- लोकावलोकनचतुरः कोऽपि निरतिशयशक्तिवैचित्र्यः पुरुषोभ्युप- गन्तव्यः तस्य चाप्रतिघज्ञानत्वादयस्सहजाः । यथाऽऽहुः। ज्ञानमप्रतिघं तस्य वैराग्यञ्च जगत्पतेः । ऐश्वर्यञ्चैव धर्मश्च सहसिद्धं चतुष्टयम् ॥ इति, इममेवार्थ मन्त्रावादेतिहासपुराणवादा उपोद्वलयन्ति द्यावापृथिवी जनयन् देव एकः। प्रजापतिर्वेदानसृजत । इत्येवमादयः। स चाय*मादिकाले भगवान् प्रलीननिखिलकरणकलेव- रादिभोगोपकरणचेतनेता रायमाणजीवजालावलोकनजनितमहानुग्रहः सकलमपि जगदुपजनय्य तदभिलषितसमस्तसांसारिकसम्पत्याप्त्युपा- यप्रकाशनबहुला त्रयीमेकतो निर्माय पुनरपि विविधदुरितपरम्पराकी- प्रलयकाले । + यथा हि जड़ास्तथैव चेतना अपि करणकलेवरविकला भोगभाजोनाभूवन्निति ते चेतनेतरायमाणा इत्युच्यन्ते ।
१४
अागमप्रामाण्यम् ।
भवार्णवनिमग्नानुद्विग्नावलोकयन् परमकरुणतया तप्तमानसः
परमनिश्रेयसलाधनस्वाराधानावबोधसाधनीभूताः पञ्चरात्रसंहिताः
सनत्कुमार-नारदादिभ्योऽभ्यवोचदिति त्रयीसमानस्वतन्त्रानुभवमू-
लानि तन्त्राणि कथमिव यादृशतादृशमन्वादिस्मरणगोष्ठीमधि-
तिष्ठन्ति ।
स्यादेवं यदि वेदानां निर्माताऽपि प्रमाणतः ।
कुतश्चिदुपलभ्येत न चासावुपलभ्यते ॥
न च वाक्यत्वलिङ्गेन वेदकारोऽनुमीयते ।
अभिप्रेतविशेषाणां विपर्यासप्रसङ्गतः ।
वाक्यं हि यत् पराधीनरचनं संप्रदृश्यते ॥
शरीरिणैव तत्सर्वमुच्यमानं विलोक्यते ।
पुण्यपापनिमित्तञ्च शरीरं सर्वदेहिनाम् ।।
एवं पुण्येतराधीनसुखदुःखस्य देहिनः ।
अनीश्वरस्य निर्माणं वाक्यत्वमनुमापयेत् ॥
अपि चैवं प्रमाणत्वं वेदानामपि दुर्लभम् ।
न हि मानान्तरापूर्वे धर्मे तस्यास्ति संभवः ।।
ननु कथं मानान्तरापूर्वो धर्मः, उक्तं हि साक्षात्करोति धर्मा-
धर्मो कथमन्यथा तदुपकरणं जगज्जनयति इति,
सत्यमुक्तं दुरुक्तं तद् विश्वस्य जगतो न हि ।
विद्यते कोऽपि निर्माता येनैवमपि कल्प्यते ॥
विचित्रसनिवेशत्वयुक्त्या यदपि साधितम् ।
तत्रोच्यते त्रिधा भावो लौकिकैः परिलोकिताः ॥
प्रत्यक्षदृष्टकर्तारः केचिदेते घटादयः ।
अविद्यमाननिर्माणास्तथाऽन्ये गगनादयः ।।
सन्दिह्यमाननिर्माणाः केचिद् विश्वम्भरादयः ।
आगमप्रामाण्यम् । तत्र प्रथमसन्दर्शितराशिद्वयेऽनवकाश एवेश्वरव्यापारः । अद्यवदेव विश्वम्भरादयः क्रमप्राप्तागन्तुकोपचयापचययोन युगपदुदयविलयभागिनः ईदृशोत्पत्तिमङ्गो मीमांसकानामपि सम्मतावेवेति सिद्धसाधनत्वम् । बुद्धिमत्कर्तृता याऽपि प्रयासेन समर्थिता । साध्यते साऽपि सिद्धैव बुद्धिमन्तो हि चेतनाः ॥ यागादिभिः स्वभोगाय तत्तदुत्पादयन्ति नः ॥ युक्तञ्चोभयसिद्धानां तत्राधिष्ठानकल्पनम् । वयञ्च यागदानादि साक्षात्कर्तुं क्षमा यतः ॥ कर्मणः शक्तिरूपं यदपूर्वादिपदास्पदम् । माभूत् प्रत्यक्षता तस्य किन्तेनाध्यक्षितेन नः ॥ न खलु कुलालादयः कुम्भादिकार्यमारिप्समानाः तदुपादानो- पकरणभूतमृद्दण्डचक्रादिकार्योत्पादनशक्तिं साक्षात्कृत्य तत्तदार- भन्ते । यदि परं शक्तिमविदुषामभिलषितसाधनाय तदुपादानादिव्य- वहारोऽनुपपन्नः इह तु नित्यागमजन्मना प्रत्ययेन संप्रत्याकलित- यागादितत्तदुत्पादनपाटवाः पुरुषास्तैरेव विश्वम्भरादिभावा- नाविर्भावयन्ति, तथा च। प्रत्यत्तप्रकृतिकरणः कर्मकरण प्रवीणो । नैवान्यः क्षम इति च नास्त्यत्र नियमः ॥ अपश्यन्नेवायं प्रकृतिकरणे स्वात्ममनसि । ननु ज्ञाने कर्त्ता भवति पुरुषस्तत्कथमिव ।। विनाशीदं विश्व जगदवयवित्वादिति च यत् । बलीयः प्रत्यक्षप्रतिहतमुखत्वेन तदसत् ॥
१६ आगमप्रामाण्यम् । स एवायम्मेरुर्दिवसकरबिम्बञ्च तदिदम् । धरित्री सैवेति स्फुटमिह यतोधीरुदयते ॥ शक्नोति हि प्रत्यभिज्ञैव समस्तकालसम्बन्धमेषामवगमयितुं, सन्ति हि पूर्वापरकालयोरपि तादृशाः पुरुषाः पादुःषन्ति येषामीदशप्रत्ययाः, प्रयोगश्च भवति । महीशैलपतङ्गादिप्रत्यभिज्ञानवन्नरः । अतीतकालः कालत्वादिदानीन्तनकालवत् ॥ एवमनागतेऽपि प्रयोगो दर्शयितव्यः । न चेदशप्रयोगेण घटादेरपि नित्यता । प्रसज्यते यतस्तत्र प्रत्यत्तौ भङ्गसम्भवौ ॥ विरोधे सति येनात्मा हेतुना नैव लभ्यते । न लभ्यते विरोधेऽपि तेनात्मेन्यस्त्यसम्भवः ।। महत्ये सति स्पन्दमानत्वयुक्त्या जगज्जन्मभङ्गश्च यः प्रत्यपादि । स च प्रत्यभिज्ञाबलध्वस्तहेतुर्न हृयत्वमद्य प्रपद्येत युक्त्या ॥ अपि च धर्मिविशेषविरुद्धश्चायं हेतुः कार्यत्वादिति कार्यत्वं हि स्वभावदृष्टविग्रहवत्त्वानाप्तकामत्वानीश्वरत्वासार्वझ्यादिव्याप्ति- विस्युपयुक्ततरानेकविशेषानुषक्तं कथमिव तत्सत्यनीकभूताशरीर- नित्यतृप्तसत्रज्ञत्वाद्यभिमतविशेषान् साध्यधर्मिण्यवगमयति, स्व- शरीरप्रेरणमपि शरीरसम्बन्धासमवायिकारणकप्रयत्नवतो नान्यस्येति न कथंचिदशरीरिणः कर्तृत्वसंभवः ॥ अथैतदोषहानाय देहवानित्युपेयते । स देहो जन्मवान् मा वा जन्मवत्त्वेऽनवस्थितिः ॥ नित्यत्वेऽवयवित्वञ्च स्यादनकान्तिकन्तव । - आगमप्रामाण्यम् । १७ यदप्येतेऽवोचनधिकरणसिद्धान्तबलतो- विशेषास्सिध्यन्तीत्ययमपि च पन्था न घटते । स हि न्यायो जीवेदपि यदि च मानान्तरकृतो विरोधोऽस्यादृष्टः पुनरपि विरोधः स्फुटतरः ॥ ननु च अवधृताविनाभावनियममपि यदि न विश्वम्भरादि- बुद्धिमनिमित्ततामवगमयति प्रत्यस्तिमितस्तर्वानुमेयव्यवहारः, अथाव- गमयति, अवगमयत्येवासावखिलत्रैलोक्यनिर्माणप्रवीणन्तमपि कर्तारं, न बमो नावगमयतीति किन्तु यावन्तो विशेषाः व्याप्ति- ग्रहणसमयसंविदिताः तानप्यविशेषेणोपस्थापयतीति । न च तावताऽतिप्रसङ्गः प्रमाणान्तरगोचरे हि लिङ्गिनि लिङ्गबलादापततोविपरीतविशेषाँस्तत्प्रमाणमेव प्रतिरुणद्धि पत्र पुनरतिपतितमानान्तरकर्मभावे भगवति सिपाधयिषिते यावन्तोऽन्वय- व्यतिरेकावधारिताविनाभावभाजो धर्मास्तानप्यविशेषेणोपस्थापय- तीति, तथा च प्राङ्गणनिकटवर्तिदूर्वाङ्करादिष्वनवसितपुरुषव्यापार- जन्मस्वनैकान्तः, तत्राप्यतीन्द्रिय पुरुषाधिष्ठानकल्पना कल्पनामात्रमेव । क वा देशे तिष्ठन्ननवर*तवृप्तिः किमिति वा । कदा वा निश्शेषजनयति तदेतद्विमृशतु ॥ कचित्तिष्ठनिष्टं किमपि फलमुद्दिश्य करणैः । कदाचिद्यत्किश्चिज्जनयति कुलालादिरखिलः ॥ कृतार्थत्वात्क्रीडा न च भवति हेतुर्यदि खलु । स्वभावस्वातन्त्र्यं प्रकटितमहो सम्पति विभोः ।। अभिप्रेतं किञ्चिद्यदयमसमीक्ष्यैव कुरुते । जगजन्मस्थेमप्रविलयमहायासमवशः * तिष्ठन्ननवरततृप्त इति । ३
१८
आगमप्रामाण्यम् ।
अनुकम्पाप्रयुक्तेन सृज्यमानाश्च जन्तवः ।
सुखिनः किन्न सृज्यन्ते तत्कर्मापेक्षया यदि ॥
ततः स्वतन्त्रताहानिः किञ्च तैरेव हेतुभिः ।
उपपन्नेऽपि वैचित्र्ये किन्तत्कल्पनयाऽनया ॥
अतो नास्ति तादृशः पुरुषः यस्समस्तजगन्निर्माणक्षमः
साक्षात्कृतधर्माधर्मों वेदानारचयति ।
अपि च यदि वेदाः केनचिदमृज्यन्त ततस्तेनामी विरचिता
इति तत्कर्ता स्मर्येत ।
न च जीर्णकूपादाविवास्मरणं युक्तं, युज्यते हि तत्र
प्रयोजनाभावात् कर्तुरस्मरणं, वेदे त्वनेकद्रव्यत्यागात्मकबहुतरा-
याससाध्यानि कर्माणि प्रत्ययिततरनिर्मातस्मरणमन्तरेण के वा
श्रद्दधीरन् , तथा हि नित्या वेदाः अस्मर्यमाणस्मरणाहककत्वाद्
ये यथोक्तसाध्या न भवन्ति ते यथोक्तसाधना अपि न भवन्ति
यथा भारतादयः, अमी तु यथोक्तसाधना इति यथोक्तसाध्या एव,
तस्मादपौरुषेया वेदा इति ।
स्वसिद्धान्ताभिनिवेशव्यामुग्धबुद्धिभिरभिहितमिदम् । यदनु-
भवनिबन्धनं वेदप्रामाण्यं तदनुभवनिबन्धनं पञ्चरात्रप्रामाण्यमिति ।
ननु च किमिदमपौरुषेयत्वं वेदानां, यदि नित्यवारब्धत्वं
समानमिदं पञ्चरात्रतन्त्राणाम् ।
अथ पदानां नित्यता, सापि समानैव, न चानुपूर्वी नित्यता,
न हि नित्यानामानुपूर्वी स्वभाव उपपद्यते, उच्चारणानुपूर्व्यादानु-
पूर्वी वर्णानामिति चेत् सा तर्हि तदनित्यत्वादेव अनित्येति कः
खलु विशेषः पञ्चरात्रश्रुत्योः।
अयमेव विशेषो यदेकत्र स्वतन्त्र एव पुरुषस्तां तामानुपूर्वी
रचयति इतरत्र परतन्त्रो नियमेन पूर्वाध्येतसिद्धामेव विवक्षति,
.
आगमप्रामाण्यम् । १६ क्रमावान्तरजातिश्च प्रत्यभिज्ञाबलप्रतिष्ठिता नापलापमहतीत्यलं प्रविस्तरेण । सिद्धमिदं न विलक्षणपुरुषानुभवनिबन्धनप्रामाण्यवर्णनं साधीय इति । यतो न साक्षात्कृतपुण्यपापः पुमान् प्रमाणप्रतिपन्नसत्त्वः । अतो जगन्मोहयितुं प्रशीतं नरेण केनापि हि तन्त्रमेतत् ।। ननु च केवलतर्कवलादयं यदि सिपाधयिषापदमीश्वरः । भवतु नाम तथा सति दृषणं श्रुतिशिरःपमितो हि महेश्वरः ।। यदा तु सकलभुवननिर्माणक्षमसर्वज्ञसर्वेश्वरपरमपुरुषप्रतिपाद- कानि नित्यागमवचनान्येव बहुलमुपलभ्यन्ते कथं तदा तदनुभव- मूलस्मरणप्रामाण्यानङ्गीकरणम् । न च परिनिष्ठतवस्तुगोचरतया तानि प्रमाणमर्यादामतिपतन्ति तादृशामपि प्रमाणान्तरसम्भेदातिदरगोचराणां पौरुषेयवचसां स्वरससमासादितप्रामाण्यवारणायोगात् । न च सिद्धे वस्तुनि साधकबाधकयोरन्यतरोपनिपातसम्भव- प्रसक्ते वितानुवादविपर्ययपर्यालोचनया तद्गोचरवचसः प्रामाण्य- प्रच्युतिः कार्यनिष्ठस्यापि तत्प्रसङ्गात् , कार्यमपि हि मानान्तरवेद्यमेव लौकिकं समिदाहरणादि, तच्च मानान्तरेणापि वेद्यमोदनपाक- वदित्यभ्युपगमात् । अथ विलक्षणाग्निहोत्रादिविषयकार्यस्यासम्भावितमानान्तरतया तत्मतिपादयद्वचः प्रमाणं, हन्त तर्हि निरतिशयावबोधैश्वर्यमहा- नन्दसन्दोहवपुषि भगवति न मानान्तरगन्धसम्बन्ध इति सर्व समानमन्यत्राभिनिवेशात् । , २० आगमप्रामाण्यम् । अपि च प्रवृत्तप्रमाणान्तरमपि स्वगोचरं तद्गोचरतया नाव- भासयतीति परमपि प्रमाणमेव कुतस्तदुपनिपातसम्भावनयाऽनु- वादत्वं, कथं वा प्रत्यस्तमितसमस्तपुरुषाशयदोषसंस्पर्शनित्यागमभुवः प्रत्ययस्य पूर्वोपमर्दकतयोनीयमानस्य सम्भाव्यमानविविधविप्लवैः प्रमाणान्तरैरपवादापादनमिति यत्किञ्चिदेतत् । इत्यञ्च श्रुतिशतसमधिगतविविधबोधैश्वर्यादिवैभवे भगवति सामान्यदर्शनावसितासार्वक्ष्यविग्रहवत्तादयो दोषा नावकाशमश्नुवते हुतभुजीव शैत्यादयः । ततश्च । श्रुतिमूर्ध्नि प्रसिद्धेन सर्वज्ञेनैव निर्मितम् । तन्त्रं मिथ्येति वक्तुं नः कथं जिह्वा प्रवर्त्तते ॥ अहो मन्दस्य मीमांसाश्रमहानिर्विजृम्भते । मीमांसामांसलञ्चेतः कथमित्थं प्रमाद्यति ॥ कार्ये मानान्तरापूर्वं समस्तं वैदिकं वचः । प्रमाणमिति हि प्राज्ञाः मन्यन्ते मान्यबुद्धयः ॥ पदानां तत्परत्वेन व्युत्पत्तेरवधारणात् । न खल्वन्यपरे शब्दे व्युत्पत्तेरस्ति सम्भवः ॥ तथा हि वृद्धयोर्व्यवहरतोरेकतरद्धप्रयुक्तशब्दश्रवणसमनन्तर- जनितान्यतरवृद्धसमवेतचेष्टां दृष्ट्वा अन्यथाऽनुपपन्युनीयमाना शब्द- शक्तिस्तदुपपादककार्यपर्यवसायिन्येवावसीयते, प्रतीता हि स्वकार्य- सन्ताने कार्यसंविदेव तत्तद्विशिष्टचेष्टाहेतुतया तदयमिहापि तादृशीं प्रवृत्तिं पश्यन्नेवमाकलयति । नूनमितस्सकाशादस्य कार्यसंविदा- विरासीत् यदयमेतदनन्तरं प्रवर्तत इति, एवं च समस्तव्यवहारानु- गतप्रवृचिनिमित्तकार्यप्रतिपादनपरतया व्युत्पन्ने शब्दे यत्पदावा- आगमप्रामाण्यम् । २१ पोद्धारानुयायिनोयेऽर्थभागास्ते प्रथमावगतप्रधानभूतकार्यानुगुणतया तैस्तैरभिधीयन्ते इत्यध्यवस्यति, तत्र च लिङादयोऽव्यभिचरित- कार्यसंविदः कार्यशरीरमेव साक्षात्समर्पयन्ति तिङादयस्तु तदपेक्षि- ताधिकाराद्यनुबन्धप्रतिपादनमुखेन तत्समन्वयमनुभवन्तीति । न च पुत्रजननादिस्वरूपावेदनपर्यवसायिनः पदनिचयस्या- विरलपुलकोदयवदनविकासादिभिरभिमतसुतजन्मादिप्रतिपादनशक्ति- निश्चयः अजातातिवृत्तप्रत्युत्पन्नविविधहर्षहेतूपनिपातेयममुयेति निर्धत्त्य प्रतिपत्तुमशक्यत्वात् । एतेन व्युत्पन्नेतरपदसमभिव्याहृतवर्तमाननिर्देशेऽपि कार्यैदम्पर्य- विरहितपदशक्तिनिश्चयप्रतिविधिरनुसंधातव्य । पदान्तराणि यानि व्युत्पद्यन्ते च तादृशम् । इदञ्च पदमित्येव तत्र व्युत्पद्यते नरः ॥ तानि कार्यान्वितस्वार्थबोधकानीति साधितम् । अथ तबुद्धिहेतुत्वात् प्रामाण्यं भूतगोचरम् ।। इष्यते तदनेकान्तं पदेष्विति न शोभते । अथ तत्परता हेतुस्ततश्च स्यादसिद्धता ॥ न ह्यकार्यरूपे वस्तुनि कचिदपि शाब्दी बुद्धिः पर्यवस्यति । याः पुनलौकिकशब्दश्रवणसमनन्तरभाविन्योऽन्वयावगतयस्ता आनुमानिक्योऽभिहिताः न शाब्द्य इत्युपपद्यत एव तासामतत्पर्य- वसानम् । यदि तत्परताग्राहः शब्दानां नैव विद्यते । अग्निहोत्रजुहोतीति विधिः कस्मादुपेयते ॥ अथ तत्र प्रमाणत्वे संवृत्तेऽपि च तावता । पुरुषार्थत्वलाभाय विधिरभ्युपगम्यते ॥
२२ आगमभामाण्यम् । तदसन्न प्रमाणानां प्रयोजनवशानुगा । प्रवृत्तिः किन्तु तन्मूलः प्रयोजनपरिग्रहः ॥ न खलु कनकमभिलषतः शिलावलोकनमनभिमतमिति कनकावलोकनताऽऽश्रयितुमुचिता । तात्पर्यमेव शब्दानां यावत्कार्ये न कल्पितम् । न तावद्वर्तमानादि निर्देशे विधिकल्पनम् ।। एवञ्चोपनिषदामपि तत्रतत्राम्नायमानज्ञानोपासनादिविधिशेष- तयार्थों व्याकरणीयः, तदयमर्थः सर्वज्ञमानन्दमात्मानं जानीयात् इति । न च तावता स्वरूपमपि सिध्यतीत्यध्यवसेयम् असत्येव रूपे तादृशि तथा विधानोपपत्तेः । यथैतदपितर्येव पितरजानीया- दिति तथा चानुद्गीथ ओङ्कार उद्गीथविधानमिति । यानि पुनरात्मसत्यत्वनित्यत्ववादीनि वाक्यानि तान्यविशेषित- कालकर्मविधानाक्षिप्यमाणामुष्मिकफलभोगोचितचेतनकर्तप्रतिपादन- पराणि अतो न किञ्चिदपि वचो भूतेऽर्थे प्रमाणम् । अतः *सर्वार्थवादानामपि परिनिष्ठितरुद्ररोदनादिप्रतिपादन- परतावारणोपपादनेन विदरतरवर्त्तिविधिपदान्वयस्तावकतयाऽपि प्रदर्शितः, तस्मादपर्यालोचितपूर्वापरपदतात्पर्याणामापातायातश्रद्धा- विरचितविग्रहोऽयमुनाहितः पुरुष इत्यलमतिविस्तरेण । सिद्धमिदं न श्रुतितोऽप्यभिमतपुरुषातिशयः सिध्यतीति । अपि च भवतु भूतमपि वस्तु शास्त्रस्य विषयः, अथ च कथमिव चोदनाजनितधियमवधीर्य धर्माधर्मी विजानाति कश्चिदि- * अव एवार्थवादानाममीति पा. ।
- आगमप्रामाण्यम् । २३ त्यभ्युपेयते सर्वज्ञता हि प्रसिद्धैरेव प्रमाणैः यथायथमर्थानवगच्छ- तोऽपि संगच्छते, न हि तदस्ति वचनं यदस्य प्रसिद्धबुद्धयुत्पादन- हेतुहानमुखेन सार्वयं ज्ञापयति । यद्यपि किञ्चिदभविष्यत् तथाऽपि परस्परान्वयाऽनुचितपदार्थ- तयाऽर्थवादतयैव समर्थनीयं प्रमाणान्तरावगतयोग्यतादिपुरस्सरी पदेभ्यो वाक्यार्थबुद्धिरुपजायमाना प्रथमतरनिपतितापेक्षितप्रमाणा- न्तरविरोधे कथमिव जनिमनुभवतीति सम्भावयामः । प्रत्यक्षादिप्रतिक्षिप्तगोचरं वचनं यदि । प्रमाणं को नु तादात्म्यं विहन्त्यादित्ययूपयोः ।। अपि चास्ति नरः कश्चित् ताशातिशयाश्रयः । सिषाधयिषितग्रन्थप्रामाण्यस्य किमागतम् ॥ ननु च तादृशपुरुषेण विरचितमिदमिति पञ्चरात्रगोत्रानु- सारिणः स्मरन्ति । पाशुपता वा किन्न स्मरन्ति, तेऽपि स्वदर्शना- दर्शकमखिलजगदध्यक्षमाचक्षते तथाऽन्येऽपि । न च सर्वेऽमी सर्वज्ञा विरुद्धार्थोपदेशानुपपत्तेः । य एव च वादिनामेकस्य वादिनः सर्वज्ञसिद्धौ हेतुर्भवति स सर्वेषां साधारणः तदिह बहुपु परस्परविरुद्धमर्थमहमहमिकयोप- दिशत्सु कतम सर्वज्ञमध्यवसामः । यथाऽऽह । सर्वज्ञेषु च भूयस्सु विरुद्धार्थोपदेशिषु । तुल्यहेतुषु सर्वेषु को नामैकोनिरूप्यताम् ।। इति । स्वतन्त्राधिगमाधीनं सर्वज्ञपरिकल्पनम् । परस्परप्रतीघातात्सर्वाप्रामाण्यमावहेतु ।।
२४ आगमप्रामाण्यम् । ननु, श्रुतिस्मृतिप्रसिद्धेन वासुदेवेन भाषितम् । कथं तन्त्रान्तरैरेतत् तुल्यकक्ष्यां निवेक्ष्यते ॥ तथा हि पौरुषे मुक्ते श्रूयते तस्य वैभवम् । पद्भ्यां भूमिर्दिशश्श्रोत्रादित्यादीदन्तथा परम् ॥ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् इति । तथा स ब्रह्मा स शिव इति, तद्विष्णोः परमम्पदम् । न तस्य कश्चित् पतिरस्ति लोके न चेशिता तस्य च नैव लिङ्गम् । इतीरयन्ति श्रुतयोऽस्य भूति जगन्जनिस्थेमपिधाचिन्हाम् ॥ विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम् । स्थितिसंयमकर्ताऽसावित्याह स्म पराशरः ।। इत्थं तमेव सर्वेशं मनुरप्याह तद्यथा । नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम् । इति, इत्थं नानाश्रुतिमुनिवचस्सन्ततस्तूयमान- ज्ञानेश्वर्यः परमपुरुषः पञ्चरात्रं व्यधत्त । तच्चेदेतच्छृतिपथपरिभ्रष्टतन्त्रः समानं पातृत्वेन प्रसनति तदा सोमपस्ते सुरापैः ॥ नैतज्ज्यायः किमङ्ग श्रुतिषु भगवतो न प्रसिद्धा विशुद्ध- ज्ञानेश्वर्यादिधर्मास्त्रिपुरविजयिनस्तेन यत्किञ्चिदेतत् । यद्वा देवस्स एव त्रिभुवनभवनत्राणविध्वंसहेतुः । वेदान्तैकप्रमाणः कथयति स कथं वेदगोष्ठीबहिष्ठम् ।। तथा हि भगवतः पशुपतेरपि सार्वज्यसर्वैश्वर्यावेदिकाः श्रुतयो बहुलमुपलभ्यन्ते यस्सर्वज्ञस्स सर्ववित् । तमीश्वराणां परमं महेश्वरम् इत्याद्याः।
आगमप्रामाण्यम् ।
सर्वज्ञेश्वरशब्दौ च नर्ते देवापिनाकिनः ।
उत्पत्तिशक्त्या वर्तेते सत्यप्यन्यत्र तहति ।।
किञ्च सर्वज्ञशब्देन सर्वज्ञे प्रतिपादिते ।
पौनरुत्यं प्रसज्येत सर्वविद्ग्रहणस्य वः ॥
अतः सर्वज्ञशब्दोऽयं महादेवैकगोचरः ।
तथा च स्कन्दलिङ्गादिपुराणानि पिनाकिनः ।।
उपक्षीणानि सार्वज्यसर्वैश्वर्योपपादने ।
ततश्च तत्प्रणीतत्वात् प्रामाण्यमनया दिशा ॥
प्राप्तं पाशुपतं तन्त्रं तत्रान्योन्यविरोधतः ।
सर्वतन्त्रप्रमाणत्वविपर्यासः प्रसज्यते ।।
अपि च भवतु भगवान् वासुदेव एवौपनिषदः पुरुषः, अथ
च स कथमिव श्रुतिपरिपन्थितन्त्रसेतत्मण येतेत्युत्प्रेक्ष्येत य एवमाह
श्रुतिस्मृती ममैवाजे इति ततश्च ।
वासुदेवाभिधानेन केनचिद् विलिप्सुना।
प्रणीतं प्रस्तुतं तन्त्रमिति निश्चिनुमो वयम् ॥
अस्तु वा समस्तजगदध्यक्षो वासुदेव एवास्य तन्त्रस्य
प्रणेता तथाऽपि ।
मायामोहनविग्रहेण हरिणा देवQहां संहतिम् ।
हन्तुं मोहयता ऽहितान्यभिहितान्याहुर्हि तच्छमना ॥
एवं किनु नयनयनिजमहामायागुहागव्हरम् ।
व्याज किमिदं न वेति विशये जाते कथं निर्णयः ।।
प्रत्युत भ्रमयन्नेव व्याजहारेति गम्यते ।
वैदिकैरगृहीतत्त्वात् तथाऽर्हतमतं यथा ॥
वैदिकापरिग्रहश्च प्रागेव प्रपञ्चित इति, सस्मान स्वतन्त्रानु-
भवमूलतया प्रमाणम् ।
३
२६ आगममामाण्यम् । नापि मन्वादिस्मरणवदित्यनुपपन्नं पञ्चरात्रस्मरणम् । यदि मन्वादिवदेवः शुश्रूषापरितोषितात् । प्राचार्याल्लब्धवेदार्थस्तन्त्रमेतदचीक्लपत् ॥ स्वातन्त्र्यकल्पनाऽमुष्य व्यर्था मिथ्या तथा सति । अनधीतोऽपि वेदोऽस्य प्रतिभातीत्यलौकिकम् ॥ अत्र वार्तिककारेण ये दोषारसमुदीरिताः । ते च सर्वेऽनुसंधेयाः पुरुषातिशयादयः ।। किञ्च । शैवं पाशुपतञ्चैव बौद्धमप्याहतं तथा । कापालं पञ्चरात्रञ्चेत्येवं पापण्डता स्मृतेः ।। वैदिकं तान्त्रिकं चेति विभागकरणादपि । गम्यते पञ्चरात्रस्य वेदबाह्यत्वनिश्चयः ॥ शैवं पाशुपतं सौम्य लागुडञ्च चतुर्विधम् । तन्त्रभेदः समुदिष्टः सङ्करं न समाचरेत् ॥ इति, । तथा। भाक्तं भागवतञ्चैव सात्वतं च त्रिधा मतम् । इत्येवं तन्त्रभेदोक्तिः पञ्चरात्रेऽपि दृश्यते ॥ किञ्च । श्रुतिस्मृतिप्रतिक्षिप्तजीवजन्मादिगोचरम् । न्यायहीनं वचस्तथ्यमिति हास्यमिदम्महत् ॥ तथा च श्रुतिः अविनाशी वा अरेऽयमात्मा अनुच्छित्तिधर्मा मात्रासंसर्गस्तस्य भवति इति तथा जीवापेतं वाब किलेदम्म्रियते न जीवो म्रियते इति । स्यादेतत् उच्छेदाभावमात्रप्रतिपादकमेतद्वचनं न जन्माभाव- मवगमयतीति ।
आगमप्रामाण्यम् । २७ न, अनुच्छेदाभिधानेन जन्माभावोऽवसीयते । न ह्यस्ति संभवो भायो जातो नैव क्षरेदिति ॥ ननु च, सदेव सौम्येदमिति सदेकत्वावधारणात् । प्राक्- सृष्टिकालाज्जीवानामभावोऽध्यवसीयते । यदि जीवाः पृथग्भूताः प्राक् सृष्टेः स्युः परात्मवत् । कथमेतत्सदेवेति तदेकत्वावधारणम् । अत्रोच्यते सदेति यदेकत्वावधारणम् । तत्सिमृक्षितवाय्यम्बुवियत्प्रभृतिगोचरम् ।। पर्युदासिष्यताऽनेन वचसा चेतनो यदि । गगनादेरिवास्यापि जननं निरदेक्ष्यत । न च निर्दिश्यते तेन न जीवो जनिमृच्छति । तत्तेजोऽमृजतेच्यादौ जीवसर्गो हि नः श्रुतः ।। ननु च यतो वा इमानि भूतानि इत्यत्र जीवानामेव जनन- जीवनमायणाभिसंवेशनानि प्रतीयन्ते । तथा हि भूतशब्दोऽयं जीवानामभिधायकः । भ्रामयन् सर्वभूतानीत्येवमादिषु दर्शनात् ।। जीवन्तीति हि शब्दोऽयं जीवेष्वेवावकल्पते । तेन जायन्त इत्येतज् ज्ञायते जीवगोचरम् ।। तदिदमनुपपन्नं भूतशब्दो विहाय :- पवनहुतभुगम्भोमेदिनीषु प्रसिद्धः । पदमिदमितरस्मिल्लक्षणात्ति तेषां बहुविधपरिणामो गीयते जीवनञ्च ।। प्रथममधिगता ये खादयो भूतशब्दा- तदनुगुणतयाऽर्थ वक्ति जीवन्ति शब्दः । यदि च भवति जीवे भूतशब्दस्तदानी- २८ आगमप्रामाण्यम् । मपि वदति तदीयजन्म देहानुबन्धि । अतो जीवपरत्वेऽपि भूतशब्दस्य युज्यते । जायन्त इति शब्दोऽयं गौर्जातो गच्छतीति वत् ॥ तथाजोटेक इत्याद्याः श्रुतयोऽन्याश्च सन्ति नः । जीवानुत्पत्तिवादिन्यस्तथा भगवतोवचः ॥ प्रकृति पुरुषञ्चैव विद्धयनादी उभावपि । अजो नित्य- श्शाश्वतोऽयं पुराणः । न जायते म्रियते वा कदाचित् । इत्यादि। न्यायश्च । विवादाध्यासितो जीवो न जातु जनिमृच्छति । द्रव्यत्वे सत्त्यमूर्त्तत्वाच्चिद्रूपत्वात्परात्मवत् ॥ पश्यन्तः पौरुषेयत्वे दूषणान्युक्तया दिशा । अनन्यगतयः केचित् तन्त्रं नित्यमतिष्ठिपन् । तदेतत् स्वहृदयनिहितविशदतरक-स्मरणप्रतिहतमभिधीयत इत्युपेक्षणीयम् । किञ्च । इत्थं पाशुपतादीनां न्यायः किं दण्डवारितः । तथास्त्विति यदि ब्रूयाद व्याघातस्स्यात् परस्परम् ॥ सर्वलोकप्रसिद्धा च वासुदेवप्रणीतता । न हातुं शक्यते यद्ववेदस्यापौरुषेयता ।। अथो कश्चिद् ब्रूयादनुदयविपर्यासविशयविरूपे प्रामाण्ये फतरदिह जोधुष्यत इति । स वक्तव्यः किन्नु त्वदभिलषितं लागुडमते तदेवेति ज्ञात्वा नियमितमदश्शाम्यतु भवान् । तदेवमुदीरितन्यायश्रुतिस्मृतीतिहासपुराणन्यायविरुद्धाभिधानेन, समस्तशिष्टजनपरिग्रहविरहेण च, स्वर्गापवर्गावसानोपदेशव्याजेन केनापि जगदञ्चयितुं विरचितानि पञ्चरात्रतन्त्राणीति मन्यामहे | आगमप्रामाण्यम् । २६ ईशापस्मृतिविषयमेव तद्वचः । या वेदवाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ।। इति । ईदृशदुर्मार्गानुगामिन एव तेऽपि एषां वाङमात्रेणापि अर्चन निषिध्यते, उक्तश्च । एत एव च ते येषां वाङ्मात्रेणापि नार्चनम् । पाण्डिनो विकर्मस्थान् वैडालतिकांछठान् ।। हैतुकान् बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् । इति । इत्युपन्यस्तया नीत्या पञ्चरात्रमशेषतः । अप्रमाणमिति प्राप्तमेवं प्राप्तेऽभिधीयते ।। विवादाध्यासितं तन्त्रं प्रमाणमिति गृह्यताम् । निर्दोषज्ञानजन्मत्वाज ज्योतिष्टोमादिवाक्यवत् ।। न तावदनुमानेऽस्मिन् न्यायशास्त्रपरीक्षिताः । दोषा मृगयितुं शक्यास्तत्र पतः परीक्ष्यताम् ॥ पक्षो नाम प्रतिज्ञाऽर्थः स च सिद्धन केनचित् । स्वयं सिद्धो विशिष्टस्सन् यः साधयितुमीप्सितः ॥ तत्र न तावदप्रसिद्धविशेषणः पक्षा, प्रामाण्यनाम्नः पदार्थस्य उभयवादिसिद्धत्वात् प्रत्यक्षादौ, नाप्यप्रसिद्धविशेष्यः पञ्चरात्र- शास्त्रस्य सर्वलोकमसिद्धत्वात् , नापि सिद्धसाधनः, प्रस्तुतशास्त्र- प्रामाण्यस्य प्रतिवादिनोऽसिद्धत्वात् , न च प्रत्यक्षविरुद्धः अप्रामाण्यस्यातीन्द्रियत्वात् , नाप्यनुमानविरुद्धः, अनुपलम्भनात् । ननूपलभ्यत एवानुमानम्-पञ्चरात्रशास्त्रमप्रमाणम् वेदबाह्य- त्वात् बौद्धागमवत् । , . .
- ३० आगमप्रामाण्यम् । अत्र ब्रूमः कतरदिहापामाण्यं सिषाधयिषितं यदि ज्ञानानु- त्पत्तिलक्षणं ततः प्रत्याविरोधः, प्रत्यक्ष हि विदितपदतदर्थसङ्गतेः श्रोतुः पञ्चरात्रशास्त्रवाक्यश्रवणसमनन्तरमुपजायमानं तदर्थविषयं ज्ञानम् । नापि संशयलक्षणं तत एव विरोधात् न खलु “पद्ममध्ये चतुर्बाहुं पूजयेत्पुरुषोत्तमम्" इतीदं वचनं पूजयेन्न वेति संशयित प्रत्ययमुत्पादयति, नापि विपर्यपलक्षणं योग्यानुपलम्भाभावात् , अनागतविपर्ययोत्प्रेक्षायाः प्रत्यक्षविरोधात् अशेषव्यवहारोच्छेद- हेतुत्वाच, प्रपञ्चयिष्यते चैतदुपरिष्टात् । आगमविरुद्धञ्च । पञ्चरात्रागमे स्वार्थस्तथैवेत्यवबोधनात् । अथ तस्याप्रमाणत्वे तद्विरोधो न दूषणम् ।। हन्त एवं सति तदप्रामाण्येऽनुमानप्रामाण्यम् अनुमानप्रामाण्ये तदप्रामाण्यमित्यन्योन्याश्रयणम् । अपि च किमिदं वेदबाह्यत्वं यदि वेदान्यत्वं ततः प्रत्यक्षादि- भिरनैकान्तः। अथ शब्दत्वे सतीति हेतुर्विशेष्यते ततो निग्रहस्थानं, यथाऽऽहुः निर्विशेषहेतुप्रयोगे पुनर्विशेषणोपादानं निग्रहः, इति, अनेकान्तिकश्च मन्वादिवाक्यैः । अथैतदोषहानाय वेदबाह्यत्वशब्दतः । आवेदमूलतां मन्द मन्यसे किन्नु तार्किक ? ॥ तेनायमर्थः शब्दत्वे सत्यवेदमूलत्वादिति, ततो वेदैरनै- कान्त्यम् , अथवा अवेदत्वे सति शब्दत्वे सति अवेदमूलत्वादिति हेतुः, तथापि । सन्ति नद्यास्तटे वृक्षा इत्याद्याप्तोपदेशनैः। अवेदमूलै१ारमनैकान्त्यं प्रसज्यते ।। ?
अागमप्रामाण्यम् । ३१ अथ अवेदत्वे सति शब्दत्वे सति कार्यविषयत्वे सति अवेदमूलत्वं हेतुः, अत्रापि - अजीर्णे मन्दमश्नीयादित्यादौ व्यभिचारिता । अथोक्तविशेषणविशिष्टत्वे धर्माधर्मविषयत्वेऽपि सत्यवेदमूल- त्वादिति हेतुः, ततो भागासिद्धो हेतुः, न हि पञ्चरात्रशास्त्रं कृत्स्नं धर्माधर्मविषयम् । ब्रह्मविषयाणामेव वचसां बाहुल्यात् । अथ प्रमाणान्तरायोग्यार्थत्वे सतीति विशेषः तत्रापि सैवा- सिद्धिः, भगवत्प्रत्यक्षस्य धर्माधर्मादिसमस्तवस्तुगोचरस्य श्रुतिशत- प्रसिद्धत्वात् तचैतदनन्तरमेव वक्ष्यामः, तदलमनेनाशिक्षिताक्षपाद- मतानामप्रतिष्ठितप्रतिभाविजृम्भितेन । संभाव्यमानान्यप्पनुमानान्तराणि परस्तादुपन्यस्य निरस्यन्ते अतो नानुमानविरुद्धः पक्षः । नाप्यागमविरुद्धः पञ्चरात्रशास्त्रप्रामाश्यप्रतिपादकस्य इदम्म- होपनिषदम् इत्याद्यागमशतस्य प्रदर्शयिष्यमाणत्वात् । स्ववचन-स्वाभ्युपगम-सर्वलोकप्रसिद्धिविरोधाश्शब्दविरोधप्र- कारास्त्वनाशङ्कनीया एव, तथा हि न तावत् स्ववचनविरोधः, स हि त्रेधा उक्तिमात्रविरोधः, धर्मोक्तिविरोधः, धर्म्युक्तिविरोधश्चेति, तत्र न तावदुक्तिमात्रविरुद्धोऽयं पक्षः, न हि पञ्चरात्रशास्त्रं प्रमाणमिति प्रतिज्ञावचनं स्वार्थ व्याहन्ति यथा यावज्जीवमहं मौनी इति, नापि धर्मोक्तिविरोधः, न हि प्रामाण्यं पञ्चरात्रोद्देशेन विधी- यमानं पक्ष प्रतिक्षिपति सर्ववाक्यानामिव मिथ्यात्ववचनम् , नापि धर्म्युक्तिविरोधः, सत्यपि धर्मिणि धर्मान्वयस्याऽविरुद्धत्वात् , न हि जननीत्वमिव बन्ध्यात्वेन पञ्चरात्रशास्त्रत्वं प्रामाण्येन विरुद्धम् , .
३२ अागमप्रामाण्यम् । न हि विवादाध्यासितस्य प्रामाण्यप्रतिज्ञाने तत्र श्रुत्युक्तधर्मिविशेष- विरोधः। विहितहिंसानामिवाधर्मत्वप्रतिज्ञाने विवादाध्यासस्योपलक्षत्वात्, अतो वा नागमविरोधः, तदेवं प्रतिपन्नः पक्षः । नापि हेतोरनैकान्तिकत्वादयो दोषाः। तथा हि न तावदनै- कान्तिकः, स हि द्वेधा साधारणासाधारणभेदात् यथा पृथिवी. नित्यत्वसाधने प्रमेयत्वं साधारणः, असाधारणस्तत्रैव गन्धवत्वं, तत्र न तावनिर्दोषज्ञानकारण त्वं प्रमाणाप्रमाणसाधारणं येन साधारणानकान्तिकं स्यात् , न हि निर्दोषज्ञानकारणत्वमप्रमाण- भूतविप्रलम्भकवचनादिषु विपक्षेषु दृष्टचरम् । नाप्यसाधारणः ज्योतिष्टोमादिवाक्यदृष्टान्ताभिधानेनैव सप- क्षान्वयस्य प्रदर्शितत्वात् । नापि विरुद्धः, विपरीतव्याप्त्यभावात् , न हि निर्दोषज्ञान- कारणत्वमप्रामाण्येन व्याप्तम् । न च कालात्ययापदिष्टः, प्रत्यक्षविरोधाभावात् आगमानु- गुण्याच । न चासिद्धत्वम् , असिद्धिर्हि आश्रयतः स्वरूपतो वा न तावदाश्रयासिद्धिः, पञ्चरात्रशास्त्रस्याश्रयत्वात् , नापि स्वरूपासिद्धः, सोऽपि त्रेधा अज्ञान-सन्देह-विपर्ययभेदात् , न तावदज्ञानासिद्धिः, तत्प्रतिपादकशब्दोचारणात् , नापि संदिग्धासिद्धः, निर्दोषत्वस्य वादिनः स्वयं सिद्धत्वात् , प्रतिवादिनोऽपि दोषानुपलम्भादेवाना- याससिद्धत्वात् , विपर्ययासिद्धिस्तु दूरोत्सारितैव । ननु कथं पौरुषेयत्वसामान्यादापतन्ती दोषसंभावना अपनीयते . , आगमप्रामाण्यम् । ३३ पञ्चरात्रमन्त्राणां कथं वाक्यत्वसामान्यादापतन्ती वेदेषु सा वार्यते, अपौरुषेयत्वादिति चेत्तदिहापि सर्वज्ञावाप्तकामपरमपुर पप्रणीततये- त्यवगम्य शाम्यतु भवान् । एतदुक्तं भवति । नैव शब्दे स्वतो दोषाः प्रामाण्यपरिपन्थिनः । सन्ति किन्तु स्वतस्तस्य प्रमाणत्वमिति स्थितिः ।। वक्तुराशयदोषेण केषुचित्तदपोयते । अङ्गल्यग्रेऽस्ति मातङ्गयूथमित्येवमादिषु ॥ प्रस्तुतग्रन्थसंदर्भे वक्तुराशयगामिनीम् । दोषशङ्कां त्रयीमूर्द्धध्वनिरेवापमाष्टि नः ॥ वदन्ति खलु वेदान्ताः सर्वज्ञ जगतः पतिम् । महाकारुणिक तस्मिन् विप्रलम्भादयः कथम् ॥ ननु च । सिद्धे वस्तुनि शब्दानां प्रामाण्यं नेत्यवादिषम् । तत्परेषु प्रयोगेषु व्युत्पत्त्यग्रहणादिति ।। तदससिद्धमप्यर्थमाचक्षाणाः प्रयोगतः । लौकिकाः प्रतिपद्यन्ते शक्ति कार्यपरादिव ॥ तद्यथा पुत्रस्ते जात इति वचनश्रवणानन्तरजनितविशिष्टवदन- विकासावसानसमनन्तरं दृष्टोऽयमिति प्रतिपद्य हर्षोऽयं प्रियार्थाव- गमनिबन्धन इति स्वात्मन्याकलयन् मध्यमवृद्धस्यापि तन्निबन्धनमेव हर्षमनुमिमानस्तद्धावभावितया शब्दस्यैव पियार्थावबोधकतामध्य- वस्यति । तत्राप्यतीतानागतादिभेदभिन्नेषु हर्षहेतुपूपप्लवमानेषु कस्य वक्ताऽयमिति विचिकित्सोदये सति ।
३४ आगमप्रामाण्यम् । तदनन्तरसंजातजातकर्मावबोधतः । तद्धेतुभूतः कोऽपीति निश्चिन्वन्नात्मनः पुरा ॥ कर्तव्यं जातकर्मेति प्रतीतेः किनु कारणम् । प्रतीतं प्रियमित्येवं विमृशन्नवगच्छति ॥ पुत्रजन्यैव नैवान्यदिति व्युत्पित्सुरर्भकः । तत्र च। आवापोद्धारभेदेन पदानां शक्तिनिश्चयः । उपपद्यत इत्येवं सिद्धासिद्धार्थवाचिता ॥ ननु न तद्भावभावितामात्रेण कार्यकारणभावः, अति- प्रसङ्गात् । न च जातकर्मकर्तव्यताऽवगतिर्नियमेन प्रियार्थावगमपुरस्सरी, दृश्यते हि कुटुम्बभरणायासविद्यमानमनसोऽप्रीतिपूर्विकापि तत्क- तव्यतावगतिः, कार्यावगतिः कि शब्दकारणिका दृष्टा येन गामानयेत्यादौ गवानयनादिकर्तव्यतावगतिः शब्दकारणिका भ्युपेयते । अथ आकस्मिकत्वानुपपत्तेः सन्निहितशब्द एव तदवगमहेतु- रिति चेत् समानोऽयं विधिरितरत्रापि । यापि प्रवृत्तिहेत्वर्थप्रतिपादकता कचित् । लिङादिप्रत्ययावापहैतुकी साऽवसीयते ॥ यश्च कार्यपरतामेवाखिलपदानामातिष्ठते, तेनाप्यावापोद्धार- विनिर्दारितासंसृष्टशरीराणामेव गवावादीनां तत्पदार्थता समर्थनीया, समर्थ्यमानापि कार्यान्वयिन्येव समर्थ्यत इति चेत् अलं व्यसनेन अन्यान्विताभिधानेनापि व्यवहारोपपत्तेः । अवश्याश्रयणीयेयमन्वितार्थाभिधायिता । कार्यान्विताभिधायित्वमन्यथा दुर्वचं यतः ।।
आगमप्रामाण्यम् । अव्याप्तञ्चैतत् कार्यान्वितमेव सर्वत्र पदाभिधेयमिति लिङा- दिषु व्यभिचारात्, लिङादयो हि परिनिष्ठिताधिकाराद्यनुबन्ध- संबन्धिनमेव स्वार्थमभिदधति । अथ तेष्वन्विताभिधानमितरत्र कार्यान्विताभिधानमिति चेत् तदर्द्धजरतीयं, ततो वरं सर्वत्रान्विताभिधानमेवाश्रीयताम् । तस्मादाकाक्षितासन्नयोग्यार्थान्तरसङ्गतेः । स्वार्थे पदानां व्युत्पत्तिरास्थेया सर्ववादिभिः॥ यद्यपि प्रवृत्त्यनुपपत्तिसमधिगमनीयैव शब्दशक्तिस्तथाऽपि । तटस्थोपायतामात्रं शब्दशक्तिविनिश्चये । कार्यस्याश्रयितुं युक्त प्रयोक्त्राकाशदेशवत् ॥ अनन्यलभ्यश्शब्दार्थ इति न्यायविदस्स्थिताः । तस्मान्नोपायभूतस्य कार्यस्यास्ति समन्वयः ।। व्युत्पन्नव्यवहारेषु पयःप्रतरणादिवत् । यथैव हि ब्रह्मजातोयादिवज्रविशेषावधारणोपयोगिनोऽपि पयःप्रतरणादेरवधृतरत्नसत्त्वस्य न व्यवहारदशायामुपयोगः, एवं व्युत्पत्तिग्रहणसमयसमुपयुक्तस्यापि कार्यस्य न व्युत्पन्नदशाया- मुपयोगः ॥ यदि च कार्यान्वितमेवार्थ शब्दाः प्रतिपादयन्ति कथं तेभ्यः परिनिष्ठितनदीतोरफलादिसंसर्गावगमः, नायं मुख्यो लाक्षणिक इति चेत् क वा शब्दानां मुख्यप्रयोगः । मानान्तरापूर्व कार्य इति चेन्न तत्राव्युत्पन्नत्वेन प्रयोगानुपपत्तेः। न हि मानान्तरापूर्वे व्युत्पत्तिरुपपद्यते । न चाव्युत्पन्नशब्देभ्यः प्रत्ययोऽतिप्रसङ्गतः ॥ योपि मन्यते लोके क्रियाकार्य व्युत्पन्नशब्दः फलपदसम- भिव्याहारवलप्रतिलब्धतत्साधनभावभङ्गुरयागादिधात्वर्थोत्तीर्णापूर्व- . ३६ आगमप्रामाण्यम् । कार्याभिधानशक्तिवेदे मोदते, लोके तु सं*मुग्धेनापि व्यवहारोप- पत्तेन शब्दार्थतत्त्वावधारणमाद्रियते इति । तस्यापीदं मनोरथमात्रं, न हि क्रियाकार्ये व्युत्पन्नस्थायिकार्य प्रतिपादयति अतिप्रसङ्गात् । यदि वृद्धव्यवहारे समधिगतपदसामर्थेऽनुरुध्यमानेऽन्वयाव- गतिर्नोपपद्यते, मोपपादि न तु तदनुपपत्त्या हप्तशक्तिपरित्यागेन शब्दशक्त्यन्तरं भजते कामं लक्षणाऽऽश्रीयताम् । न हि विरुद्धार्थपदसमभिव्याहारे पदानामभिधानमेवान्यथा नोयते, सर्वशब्दार्थेष्वनाश्वासप्रसङ्गात् । किञ्च मानान्तरापूर्वकार्यबोधनशक्तता। न कर्मफलसम्बन्धसिद्धथै तावदुपेयते ॥ नैयोगिकस्स सम्बन्धो न पुननियोगिकः । धात्वर्थोत्तीर्ण कार्यात्मा न कर्मफलसङ्गमात् ।। ऋते सिध्यति संबन्धस्स च तस्मादृते न हि । ततश्च दुरुत्तरमितरेतराश्रयणम् । साध्यस्वर्गविशिष्टस्य पुरुषस्य प्रवर्तकः । न स्यादिति तदिष्टार्थसाधनं न भवेद्विधिः ॥ भङ्गुरो न च धात्वर्थः करणत्वेन कल्पते । इति तद्भिन्नकार्यार्थबोधकत्वं यदुच्यते ॥ तदसन्न हि साध्येन स्वर्गेणायं विशेष्यते । स्वर्ग कामयमानो हि पुरुषोऽत्र नियुज्यते ॥ न हि स्वर्गोऽधिकारिविशेषणं साध्यत्वात् । सिद्धमेव हि सर्वस्य नियोज्यस्य विशेषणम् । जीवनादि तथैवेह कामनैव विशेषणम् ॥ *सममुग्धेनेति पा.।
आगमप्रामाण्यम् । ३७ अपि च नियोज्यविशेषणतामनुभवतः स्वर्गादेः कीदृशं साध्यत्वम् । यदि साधनसंवन्धयोग्यत्वं नैव तावता । स्वर्गेण सिध्यता भाव्यं यावद्योगमजन्मतः ।। सिद्धिपर्यन्तता तस्य नियोगकामाणिका । नियोगस्तत्प्रमाणश्चेत्यन्योन्याश्रयणं ध्रुवम् ॥ यदि स्वर्गस्य साध्यत्वं न नियोगस्य साध्यता । साध्यद्वयञ्च नैकस्मिन वाक्ये सम्बन्धमर्हति ॥ स्वतन्त्रं हि साध्यद्वयमेकवाक्यतां निरणद्धि नानुगुणम् , अनुगुणञ्चैतत्साध्यद्वयं नियोगसिद्धिनान्तरीयकत्वात् स्वर्गसिद्धः, यदाह नियोगसिद्धौ सर्वं तदनुगुणम् इति केन नेष्यते नियोग- सिध्यर्था फलसिद्धिरिति च, तस्मादविरोध इति चेत्तन्न । स्वर्गसिद्धि विना किन्नु नियोगस्य न सिध्यति । नाधिकारो न विषयो न चान्यद्विध्यपेक्षितम् ॥ न हि नित्याधिकारेषु नियोगस्तामपेक्षते । न चान्यदिच्छतोऽन्यत्र नियुक्ति पपद्यते ॥ नियोगस्यैव माहात्म्यं नित्येष्विव नियुज्यते । नियोगो हि प्रधानतयाऽधिगम्यमानस्वर्गमभिलपन्तमप्यात्म- न्याकर्षति यथा अनिच्छन्तमपि नित्ये कर्मणि निष्फले प्रवर्तयति ।। किञ्च । स्वर्ग कामयमानो हि निमिषत्युन्मिपत्यपि । न च ते स्वर्गसिद्धयर्था यागः किन्नैवमिष्यते ॥ तत्साधनतया नैक गृह्यन्त इति चेन्मतम् । यागादयः किं तबुद्धिग्राह्या विधिबहिष्कृताः ॥
३८ आगममामाण्यम् । . तत्र च। साध्यसाधनसंबन्धप्रतिपादनतत्पराः। यावन्न विधयस्तावन्नैष्फल्यं सर्वकर्मणाम् ॥ तस्माल्लिङादिभ्यः प्रथममिष्टसाधनताऽवगमः, ततोरागतः प्रवृत्तिरित्त्येव युक्तं, तदपूर्वकार्याभिधान एव मुख्या शक्तिः इतरत्र लाक्षणिकीत्यनुपपन्नम् , अत एव यथायथं लौकिकशब्देभ्यस्तत्सि- द्धार्थगोचरा बुद्धयो जायन्ते । ननु न ताः शब्दमहिमभुवः आनुमानिक्यो हि ताः, तथा हि व्युत्पत्तिसमयसंविदितार्थप्रतिपादनसामर्थ्यान्यपि पदानि कचिद् व्यभिचारदर्शनजनितसंशयप्रतिबद्धानि न श्रुतमात्राण्यर्थं निश्वाय- यन्ति न चानिश्चितोऽर्थोज्ञातो भवति अनिश्चयात्मनोज्ञानस्याभावात् ॥ तत्राज्ञातेऽपि वाक्यार्थे श्रोतैवं विचिकित्सते । ब्रवीत्यन्योन्यसंबन्धयोग्यार्थानि पदान्ययम् ॥ न चाविज्ञातसंबन्धान शब्दानाप्ताः प्रयुञ्जते । तेनेदृशान्वयज्ञानमस्यास्तीत्यवगच्छति ॥ एवमन्वयज्ञाने अनुमिते तदुपदर्शितोऽर्थो न शब्दमाकाङ्क्षति अतो लौकिकस्य वचसो वक्त्रनुभवपरतन्त्रतया तत्रैव पर्यवसानमिति । तदसत् , न हि स्वभावतोऽर्थमवगमयन् शब्दः कचिद्वक्त्राश- यदोषवशीकाराद्वितथ इत्यन्यत्रापि तत्संभावनया स्वारसिकीमर्थाव- बोधकतामुञ्फितुमर्हति, न हि मन्त्रप्रतिहत*दशायां हुतवहो न दहतीयन्यत्रापि तादृशदशाशङ्कया न दहति, नापि शुक्तिरजत- धियमर्थव्यभिचारिणीमिन्द्रियं दोषवशादुपलब्धमिति घटादिकमपि * अन्न मन्त्रप्रतिहतिदशायामिति युक्तः पाठोऽथवा हप्तशब्दे भावे क्तप्रत्यय इत्यनुसंधेयम् ।
श्रागमप्रामाण्यम् । ३६ नावगमयति, अतो विदितपदपदार्थसङ्गत्तेः श्रोतुस्सहसैव शब्दोऽर्थ- मवबोधयति मूलज्ञानं न प्रतीक्षते । मूलज्ञानपरिज्ञानादर्वागर्थेऽपि चोदिते । कथमेवमयं वेदेत्यनुमानं प्रवर्तते ।। किमज्ञासीदयं वक्ता किञ्चिदित्यनुमित्ससे । विशिष्टार्थान्वयज्ञानमनुमातुमथेच्छसि ॥ न तावदयमज्ञासीद् वक्ता किञ्चिदितीयता । व्याहारव्यवहारौ वा स्यातां वाक्यार्थगोचरौ ॥ विशिष्टार्यान्वयगोचरचतोऽनुमानन्तु प्रथमतरप्रवृत्ततद्विषयशे- मुषीमन्तरेणानुपपन्नमिति प्रागेव शब्दार्थोऽवगन्तव्यः, न ह्यना- सादितविषयविशेषसंसर्गाः संविदः परस्परतो व्यतिभिद्यन्ते । न च तथाऽनुमिताभिरर्थविशेषः सिध्यति यादृशान्वयप्रति- पादनयोग्या पदरचना सा तदन्वयज्ञानमापादयतीति चेत् , अव- गतस्तर्हि प्रागेवार्थानामन्वयः, न हि बुद्धावनारोपित एवान्वयः प्रयोगं व्यवच्छिनत्ति, तस्मादस्ति नदीतीरे फलमित्येवमादिषु । या सिद्धविषया बुद्धिः सा शाब्दी नानुमानिकी ॥ ततश्च अपूर्वकार्यगोचर एव शब्दः प्रमाणमिति । स्वसिन्धान्तचिराभ्यासव्या*मुग्धवलवुद्धिभिः ।। उक्तमुक्तेन मार्गेण युक्ताऽन्यत्रापि शक्तता ॥ ततश्च यान्येतानि विलक्षणपुरुषप्रतिपादकानि वेदान्तवचांसि स एष सर्वाधिपतिः सर्वस्येशानः सर्वमिदं प्रशास्ति तस्याध्यक्षमिदं सर्वम् इत्यादीनि तान्यपि तत्र प्रमाणं तद्विषयासंदिग्धाविपर्यय- ज्ञानहेतुत्वात् । * व्यामुग्धाबलबुद्धि भिरिति पाटस्तु न युक्त इति मन्यामहे । Ti श्रागमप्रामाण्यम् । न च परिनिष्ठितवस्तुनि साधकबाधकयोरन्यतरोपनिपातसं- भावनाभावितानुवादविपर्ययपर्यालोचनया तद्गोचरवचसां प्रामाण्य- प्रच्युतिः, कार्यगोचराणामपि तत्प्रसङ्गात् , कार्यमपि मानान्तरवेद्य- मेव समिदाहरणादि, तच्च मानान्तरेणापि वेद्यमोदनपाकवदित्य- भ्युपगमात् । अथ विलक्षणाग्निहोत्रादिविषयकार्यस्यासंभावितमानान्तरतया तत्पतिपादयद्वचः प्रमाणं, हन्त तर्हि निरतिशयावबोधैश्वर्यमहानन्द- संदोहवपुषि भगवति न मानान्तरसंबन्धगन्ध इति सर्व समान- मन्यत्राभिनिवेशात् । अपि च । प्रमाणान्तरदृष्टार्थविषयिग्यपि शेषी। प्रमाणमेव तत्पूर्व न चेत्स्वार्थ विगाहते ॥ तस्य संभावनामात्रादप्रामाण्यमलौकिकम् । तस्मात्परिनिष्ठितानुष्ठेयादिभेदशून्यमसन्दिग्धाविपर्यस्तविज्ञानं प्रमाणमेष्टव्यम् , अत इदमपास्तम् । प्रसिद्धैः करणैरेव सार्वइयं नान्यथेति यत् । यतः श्रुतिरेव सत्र परिपन्थिनी पश्यत्यचक्षुस्स शृणोत्यकर्णः यश्चक्षुषा न पश्यति यश्चत्तूंषि पश्यति । न तस्य कार्य करणं च विद्यते । स्वाभा- विकी ज्ञानबलक्रिया च इत्यादिका । न चासां गुणवादत्वं प्रमाणाभावात् । अलब्धमुख्यवृत्तीनां गुणवादसमाश्रयः। लभ्यते चेह मुख्योऽर्थ इति तत्कल्पना मृषा ॥ नन्विहापि मुख्यार्थभङ्ग कारणमस्ति प्रमाणान्तरविरोधः । कुतः प्रमाणान्तरात्, न तावत्प्रत्यक्षात् , न हि प्रत्यक्षमुदी- रितपुरुषाभावावभासकमुदीयमानं दृष्टं, योग्यानुपलम्भादभावनिश्चय आगमप्रामाण्यम् । ४१ इति चेन्न प्रमाणगोष्ठीज्येष्ठेन शास्त्रेणैवोपलम्भनात् , नाप्यनुमाना तद्धि शीघ्रजन्मागमिकप्रत्ययप्रक्षिप्तप्रतिबन्धं कथमिव मन्थरप्रवृत्ति प्रादुर्भवति । किञ्चैवं सति यागादेः स्वर्गापूर्वादिसङ्गतिः । क्रियात्वेन विरुध्येत शास्त्रं चेत्तन्न बाधते ॥ यूपादित्यादितादात्म्यं प्रत्यक्षेणैव बाधितम् । विस्पष्टदृष्टभेदत्वात् काष्ठसावित्रबिम्बयोः । अपि च तत्र सनिहितयूपाञ्जनविध्येकवाक्यतया अर्थवादत्वा- धुक्तं गुणवादत्वाश्रयणं, न चेह तथा विध्यन्तरमस्ति यच्छेषतया , अर्थवादः स्यात् । अथ विध्यन्वयाभावे पुरुषार्थत्वहानतः । अध्याहृत्य विधि तत्र शेषत्वं परिकल्प्यते ॥ यदाहुः। यावत् खलु प्रमातृणां प्रवर्तननिवर्तने । शब्दा न कुर्वते तावन्न निराकासबोधनम् ॥ इति, तम ऋतेऽपि विधिसंबन्धाद् दृष्टैव हि पुमर्थता । पुत्रस्ते जात इत्यादौ तथेहापि भविष्यति ।। न च तत्र विध्यध्याहारः, अन्तरेणापि विधि पुत्रजननाव- गमादेव हर्षोत्पत्तेः। तथा का क्रिया पाक इत्यादिप्रश्नोत्तरव्यवहारेषु प्रष्टुजनजि- शासितक्रियाविशेषप्रतिपादनमात्रनिराकाङ्कश्शब्दो न विध्यध्याहार- मपेक्षते । इह तु ब्रह्मविज्ञानं महानन्दफलं श्रुतम् ॥ ब्रह्मविद् ब्रह्म भवति प्रामोति ब्रह्मवित् परम् । ६ ४२ आगमप्रामाण्यम् । अश्नुते ब्रह्मणा सार्द्ध सर्वान् कामान् स सामगः ॥ इदमादित्रयीवाक्यैर्व्यक्ता तस्य पुमर्थता । तदेवमुदीरितश्रुतिशतसमधिगतावितथसहजसर्वसाक्षात्कारकारु- एयादिकल्याणगुणकराशौ भगवति सिध्यति, सिध्यत्येव तदनुभव- मूलतया तन्त्रप्रामाण्यम् । ननु विरचितनीत्या कश्चिदानायमूर्द्धप्रमितसहजसर्वज्ञानवानस्तु नाम । स च हरिरिति यावन्नावगम्येत सम्यक् न खलु भवति तावत्पञ्चरात्र प्रमाणम् ॥ अत्यल्पमेतत् न धन त्रयीविदो विवदन्ते यद्वासुदेवः परमात्मा अखिलजगत्कारणमिति । श्रूयते हि स वेदान्तेष्वात्मा नारायणः परः । सत्यं ज्ञानमनन्तञ्च तद्विष्णोः परमं पदम् ।। परा प्रकृतिरध्यत्तो वासुदेवस्तथा परः । एकः परस्ताध इदं बभूव यस्मात् परं नापरमस्ति किश्चित् । इत्युक्तवाच्यानुगुणंयतो वा इमानि भूतानि सदेव सौम्य ॥ इत्यादिवाक्यञ्च ततस्स विष्णु त्रयीशिरः सिद्धविशुद्धबोधः । न चान्यस्मान्जगज्जन्मस्थितिध्वंसाश्श्रुतौ श्रुताः । यतश्चैते स सर्वज्ञः परमात्मेति सम्मतम् ।। अमुमेव परमात्मानं द्वैपायन-पराशर-नारदप्रभृतिमहर्षिवचनेभ्यः प्रतिपद्यामहे तथा हि । विष्णौ जगत्स्थितं सर्वमिति विद्धि परन्तप । मुजत्येष महाविष्णुर्भूतग्रामं चराचरम् ॥ एष चाक्षिपते काले काले विसृजते पुनः । अस्मिन् गच्छन्ति विलयमस्माच प्रभवन्त्युत ॥ अनादिनिधनः श्रीमान् मुनिारायणः प्रभुः । .
४
आगमप्रामाण्यम् ।
सबै सृजति भूतानि स्थावराणि चराणि च ।
स ब्रह्म परमं चेति तथाऽन्यत्रापि पठ्यते ॥
केशवो भरतश्रेष्ठ ! भगवानीश्वरः परः ।
पुरुषः सर्वमित्येतच्छूयते बहुधा श्रुतौ ॥
इति,
तत्वं जिज्ञासमानानां हेतुभिः सर्वतो मुखैः ।
तत्त्वमेको महायोगी हरिनारायणः प्रभुः ॥ इति,
तथा दानधर्मे ।
परमात्मा परः शान्तः पद्मनाभः परायणः ।
इति वेदरहस्यन्तु किन्न वेत्सि पुरन्दर ।
तत्प्रसादाद्वयं सर्वे लोकानां स्थितिहेतवः ।
आप्ताश्चामरमुख्याश्च देवाश्च स्थानिनो मताः ॥
यदि विष्णुरुदासीनो नास्माकं विद्यते शुभम् ।
इति रुद्रस्य वचनं तथा भारतमात्स्ययोः।।
तत्र यः परमात्मा हि स नित्यो निर्गुणश्शुभः ।
सवै नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ॥ इति,
तथा वाराहे।
यस्य देवस्य चरितं व्रतं समभवद्भुवि ।
कोऽन्यस्तस्मादभ्यधिको मुक्त्वा नारायणं प्रभुम् ।।
नारायणात्परो देवो न भूतो न भविष्यति ।
एतद्रहस्यं वेदानां पुराणानां च सत्तमाः ॥ इति ।
तथा लैथे।
स एकः पुरुषः श्रेष्ठः परमात्मा जनार्दनः ।
यस्माद् ब्रह्मा ततो रुद्रः ततश्चैवाखिलं जगत् ।।
४४ आगममामाण्यम् । तथा। विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम् । स्थितिसंयमकर्ताऽसाविति पाराशरं वचः ॥ तथा मानवे । नारायणः परो ऽव्यक्तादण्डमव्यक्तसंभवम् । अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ।। तस्मादीदृशश्रुतिस्मृतीतिहासपुराणपर्यालोचनया अखिलजग- कारणं परमात्मा वासुदेव इति निश्चीयते । न चैव परमात्मत्वं रुद्रादेः श्रुतिपूदितम् । प्रत्युतोत्पत्तिमेवाहुस्तस्यैकायनशाखिनः ।। तमो वा इदमित्यादौ तथा वेदेऽपि दृश्यते । यतो हि रुद्रस्सञ्जज्ञे तच्छृष्ठं भुवनेष्विति ।। तदिदास भुवनेषु ज्येष्ठमिति । तथा रौद्रं पदं स्पष्ट कर्मजन्यं प्रतीयते.॥ महिमानं निजं लेभे विष्णोरभ्यर्चनादिति । अस्य देवस्येति ललाटादभवद्विन्दुस्तस्माद्द्रोन्यजायत । इत्यादिकाश्च श्रुतयो रुद्रोत्पत्तिं वदन्ति वै । एवञ्च सति रुद्रादिमहिमावेदिका इव ।। या वाचस्तास्स्तुतिपराः श्रोत्रं ब्रह्मेति गीरिव । एतेन रुद्रादीनां परमात्मत्वप्रतिपादकपुराणवादाः । प्रत्यक्ष- श्रुतिविरोधान मुख्यार्थाः । यद्वा त्याज्यतया तन्त्रसिद्धान्तप्रतिपादकाः । अवैदिकेषु तन्त्रेषु तन्माहात्म्यं हि कथ्यते ॥ वेदसिद्धान्तमार्गेषु विष्णुरेव परः स्मृतः ।
४५
आगमप्रामाण्यम् ।
तद्यथा वैष्णवे।
परमात्मा च सर्वेषामाधारः परमेश्वरः ।
विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ।।
वाराहे ।
विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते ।
वेदसिद्धान्तमार्गेषु तन्न जानन्ति मोहिताः ॥
नारायणात्परो देवो न भूतो न भविष्यति ।
एतद्रहस्यं वेदानां पुराणानाञ्च सत्तमाः ॥ इति ।
तथा मात्स्ये।
सात्त्विकेषु तु कल्पेषु विष्णोर्माहात्म्यमुच्यते ।
अग्नेश्शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते ॥ इति ।
तथा लैङ्गे।
न हि विष्णुमते काचिद् गतिरन्या विधीयते ।
इत्येवं सततं वेदा गायन्ते नात्र संशयः ॥
इति, तथा वायवीये।
सहस्रबाहुः परमः प्रजापतिः ।
त्रयीपणेयः पुरुषो निरुच्यते ॥
इति, तथा भविष्यति ।
वेदसिद्धान्तमार्गेषु विष्णुरेव परः स्मृतः ।
विष्णुरेव नरश्रेष्ठो मद्दिष्टः पुरुषोत्तमः ।।
इति, सर्व चैतत्पुरुष निर्णये निपुणतरमुपपादितमिति नेह
प्रपञ्च्यते ।
* पुरुषनिर्णयनामा भगवन्महिमप्रतिपादनपुरःसरोदेवतान्सरव्यावर्तनमुखेन
विष्णुपरतत्त्वत्वप्रतिपादनपरोग्रन्थः परमाचार्यप्रणीतः ।
४६ ४ आगमप्रामाण्यम् । ततश्च । श्रुतिमूर्धि प्रसिद्धेन वासुदेवेन भाषितम् । तन्त्रं मिथ्येति वक्तुन्नः कथं जिला प्रवर्तते ॥ न हि सहजसंवेदनसाक्षात्कृतदीक्षाराधनादिधर्मस्वर्गपुत्रादि- वैषयिकसुखमनेकदुःखसंभिन्नं, न चातिचिरमनुवर्तत इति तदपि दुःखपक्ष एव निक्षिप्य मोक्षाय गृहेभ्यः प्रजद्भयः शाण्डिल्य- नारदादिपरमऋषिभ्यस्तदभिलषितनिरतिशयनिश्रेयसैकसाधनस्वाव- गमाराधनावबोधिनी पञ्चरात्रसंहितां निरमिमीतेति निश्चीयते । न च तन्त्रान्तरेष्वेष न्यायः प्रसरमर्हति । यतस्तत्तनिवन्नृणां विभ्रमाद्यपि संभवि ।। प्रत्यक्षादिप्रमाणानां न हि मूलत्वसम्भवः । तन्त्रान्तरेषु शास्त्रन्तु मूलं तैरेव नेष्यते ॥ अन्यच्च वेदसिद्धान्तविरुद्धार्थाभिधानतः । प्रत्यक्षश्रुतिमूलत्वकल्पना तेषु बाध्यते ।। यथा माहेश्वरे तन्त्र विरुद्धं बहु जल्पितम् । चतुर्विधा हि तत्सिद्धचर्यामार्गानुसारिणः ।। यथा कापालिका: कालामुखाः पाशुपतास्तथा । शैवास्तत्र च कापालं मतमे प्रचक्षते ॥ मुद्रिकाषट्कविज्ञानात् पुनस्तस्यैव धारणात् । अपवर्गफलप्राप्तिन ब्रह्मावगमादिति ॥ तथाऽहुः। मुद्रिकाषट्कतत्त्वज्ञः परमुद्राविशारदः । भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति ।। तथा। कर्णिका रुचकञ्चैव कुण्डलञ्च शिखामणिम् ।
४७ -- आगमप्रामाण्यम् । भस्म यज्ञोपवीतञ्च मुद्राषट्कं प्रचक्षते ।। कपालमथ खट्वाङ्गमुपमुद्रे प्रकीर्तिते । आभिर्मुद्रितदेहस्तु न भूय इह जायते ।। न चेदृशमुद्रिकापटकपरिज्ञान-तद्धारण-निन्दितभगासनस्थदेह- ध्यानस्यापवर्गसाधनत्वं श्रुतयो मृष्यन्ति, ता खैहिकामुष्मिकसकल- विषयामिलापविमुरवस्थ अखिलजगत्कारणवासुदेवात्मभावनैकलभ्यं मोक्षमाचक्षते । तमेव विदित्वा अतिमृत्युमेति नान्यः पन्था अयनाय विद्यते इत्याद्याः, एवं कालामुखा अपि समस्तशास्त्रप्रति- पिद्धकपालपात्रभोजन-शवभस्मस्नान तत्प्राशन-लगुडधारण सुरा- कुम्भस्थापन-तत्स्थदेवतार्चनादेरेव दृष्टादृष्टाभीष्टसिद्धिमभिदधानाः श्रुतिबहिष्कृता एव । यदपि पाशुपतशैवाभ्यां विरुद्धाविरुद्धसममुग्धं किञ्चिदभिहितं तदपि श्रुतिबहिष्कृतमेव । तत्रैषा पाशुपतप्रक्रिया । जीवाः पशव उच्यन्ते तेषामधिपतिश्शिवः । स तेषामुपकाराय पञ्चाध्यायीमचोक्लपत् ।। तत्र पञ्च पदार्थास्तु व्याख्याताः कारणादयः । कारण कार्य विधिोगो दुःखान्तः ।। इति, उपादानं निमित्तञ्च व्याख्यातं कारणं द्विधा । निमित्तकारणं रुद्रस्तरकला कारणान्तरम् ।। मान्तं महदादिकार्यमुदितं तद्विधिर्गीयते । गूढाचारमुखस्मशानभसितस्नानावसानः परः ।। योगो धारणमुच्यते हदि धियामोङ्कारपूर्वन्तथा । दुःखान्तो हि मतोऽपवर्ग इति ते पश्चापि संकीर्तिताः ।। प्रात्यन्तिकी दुःखनित्तिर्दुखान्तशब्देनोक्ता तामेव निश्शेष- ४८ आगमप्रामाण्यम् । वैशेषिकात्मगुणोच्छेदलक्षणां मुक्ति मन्यते इयमेव चेश्वरकल्पना शैवानामन्येषां च । सेयं सर्वा श्रुतिविरुद्धा कल्पना यतः । जगन्निमित्तोपादानं परं ब्रह्म श्रुतौ श्रुतम् । महानन्दात्मको मोक्षस्तत्रतत्रासकृच्छुतः ॥ परस्परविरोधेन व्याहतैषां प्रमाणता । त्रयीदण्डप्रतिक्षेपं किञ्चिन्नैव प्रतीतते ।। किश्च शैवादयोवेदसिद्धवर्णाश्रमाहिः । कल्पयन्त्याश्रमादीनि ततोऽपि श्रुतिबाह्यता ॥ यदाहुः। दोक्षाप्रवेशमात्रेण ब्राह्मणो भवति क्षणात् । कापालं व्रतमास्थाय यतिर्भवति मानवः ।। इति । न च वाच्यम् अप्रमाणभूतमियन्तं ग्रन्थराशि कथं प्रत्याय- ततरो रुद्रः प्रणयतीति । न च समाननामनिर्मातस्मरणनिबन्धनमिति युक्तम् अति- प्रसङ्गादिति, यतः- नामैकत्वकृतभ्रान्तिकल्पना ऽप्युपपद्यते । वेदवाधान्न चान्यत्र तावताऽतिप्रसज्यते ॥ प्रमादोऽपि च नात्यन्त रुद्रादिषु न सम्भवी । यद्वा रुद्रस्य मोहशास्त्रप्रणेतृतयाऽवगतत्वाद् व्यामोहयितुमेव हीदृशशास्त्रप्रणयनमुपपद्यत इति नावश्यं प्रमाद एवाश्रयितव्यः, तथा च वाराहे। त्वं हि रुद्र ! महाबाहो ! मोहशास्त्राणि कारय । कुहकादीन्द्रजालानि विरुद्धाचरणानि च ॥
४
अागमप्रामाण्यम् ।
दर्शयित्वाऽल्पमायासं फलं शीघ्रं प्रदर्शय ।
दर्शयित्वा जनं सर्वं मोहयाशु महेश्वर ! ॥
इति ।
तथा तत्रैव भगवान् रुद्रः प्रस्तुतशैवाद्यागमानां स्वयमेव
वेदबाह्यत्वं वेदमार्गापभ्रष्टजनाधिकारित्वं तद्वयामोहैकमयोजनतां च
दर्शयति ।
ये वेदमार्गनिर्मुक्तास्तेषाम्मोहार्थमेव च ।
नयसिद्धान्तमार्गेण मया शास्त्रं प्रदर्शितम् ॥
तस्मादारभ्य कालात्तु मत्प्रणीतेषु सत्तमाः ।
शास्त्रेष्वभिरतो लोको न वेदान् बहु मन्यते ।
तथा पाशुपतादीनि प्रवर्तन्ते कलौ युगे ।।
तथा च भगवत्परिवारत्वव्यतिरेकेण स्वप्रधानपूजां पाशुपतादि-
तन्त्रसिद्धां वेदवायां दर्शयति ।
तद्वेदबाह्यं कर्मोक्तं मामुद्दिश्योपसेव्यते ।
तद्वै पाशुपतं नाम कनिष्ठम्मोहनं नृणाम् ॥
मां विष्णुव्यतिरेकेण पूजयन्ति नराधमाः ।
इत्यादिवाक्यजातानि न लिख्यन्तेऽतिगौरवात् ।।
व्यक्तञ्च वेदबाह्यत्वमेतच्छास्त्रानुगामिनाम् ।
यथा तत्रैव ।
शशाप ताञ्जटामस्मकपालव्रतधारिणः।
भविष्यथ त्रयीबाह्या वेदकर्मबहिष्कृताः ॥
कलौ तद्रूपिणस्सर्वे जटालगुड़धारिणः ।
स्वच्छन्दव्रतवेषाश्च मिथ्यालिङ्गधरास्तथा ।
ब्रह्मशापाग्निनिर्दग्धा रुद्रभक्ता जटाधराः ॥ इति,
प्रसिद्धञ्चैतच्छेवागमेषु ।
आगमप्रामाण्यम् ।
रुद्राक्ष कङ्कणं हस्ते जटा चैका च मस्तके ।
कपालं भस्मना स्नानम् इत्यादि ।
तथा चैतेषामादित्यपुराणेऽपि भगवत्यागेन समं वेदत्यागं
कथयति ।
अन्ये भस्मजटोपेता यथोक्ता गौतमात् पुरा ।
शापात्सन्त्याजिता वेदं देवं नारायणं तथा ।
इति ।
किञ्चैते वासुदेवस्य मन्दा निन्दां वितन्वते ।
ते च पापण्डिनो ज्ञेया यथा लैङ्गे समीरितम् ।।
ये तु सामान्यभावेन मन्यन्ते पुरुषोत्तमम् ।
ते वै पाषण्डिनो ज्ञेया वेदमार्गवहिष्कृताः ।।
इति, ततश्च ।
एत एव च ते एषां वाङ्मात्रेणापि नार्चनम् ।
पापण्डिनोविकर्मस्थानित्यादिस्मृतिपूदितम् ।।
या वेदवाह्या इत्येतदपि चेदृशगोचरम् ।
तस्मान्न वेदमूलत्वं नापि प्रत्यक्षमूलता ॥
तन्त्रान्तराणां युक्तति कल्प्यते कारणान्तरम् ।
ननु मूलान्तरापेक्षा यदि स्यादस्तु दूषणम् ।।
स्वतःप्रमाणं विज्ञानं भवतां ननु दर्शने ।
सत्यं तदेव विज्ञानप्रामाण्यमपनीयते ॥
बाधकारणदोषाभ्यां तावपि द्वाविह स्फुटौ ।
एवं श्रुतिविरुद्धस्य स्फुटमूलान्तरस्य यत् ।।
पञ्चरात्रेण साधय तन्त्रत्वेनाभिधित्सितम् ।
क्रियात्वेन तु साधयं ब्रह्महत्याऽश्वमेधयोः ।।
श्रुतिप्रत्यक्षयोस्तत्र यतोमूलत्वनिश्चयः ।
अथ आगमप्रामाण्यम् । ५१ ननु च श्रुतिमूलत्वे वेदादेवार्थसिद्धितः ।। तत्प्रणेतृस्वतन्त्रत्वकल्पना नेत्यचूचुदम् । नैवं न कल्प्यते पुसि स्वातन्त्र्यं श्रूयते हि तत् ।। तस्याध्यतमिदं सर्व भीषाऽस्मादिदमादिषु । ननु वेदमूला एव चेदेताः पञ्चरात्रस्मृतयः किं तर्हि तदर्थ- स्मरणवत्तन्मूलभूतवेदवाक्यस्मरणं नानुवर्तते पाश्चरात्रिकाणाम् । न चार्थस्मरणस्य प्रयोजनकत्वात् तस्य विफलत्वात् तदनादरणीय- मिति युक्तं, न हि यतः प्रामाण्यं तदेव विस्मर्तुं युक्तम् । विस्मरणोपपत्तये प्रलीननित्यानुमेयशाखामूलता आधीयते तदा यदेव येन प्रमाणतया परिगृहीतं स तत्मलीन- शाखामस्तके निक्षिप्य प्रमाणीकुर्यात् नित्यानुमेयप्रलीनशाखयोस्तु स्वरूपसिद्धिरेव दुर्लभा । अथ विद्यमानशाखामूला एव ताः स्मृतयः तदा तत्मणे- त्वदन्येऽपि तत एवोपलभेरन् इति ग्रन्धप्रणयनप्रयासवैयर्थ्यम् । अत्रोच्यते स खलु भगवान् अमोघसहजसंवेदनसाक्षाद्भ- वदखिलवेदराशिविपकीर्णविविधविध्यर्थवादमन्त्रात्मकानेकशाखाध्य- यनधारणादिष्वधीरधियो भक्तानवलोक्य तदनुकम्पया लघुनोपायेन तदर्थ संक्षिप्योपदिदेशेति न किञ्चिदनुपपन्नम् । यथाऽऽहुः। वेदान्तेषु यथासारं सगृह्य भगवान् हरिः । भक्तानुकम्पया विद्वान् सञ्चिक्षेप यथासुखम् ।। इति, एते च मन्वादिसमस्तस्मरणसाधारणाः पर्यनुयोगास्तन्त्र- टीकाकृतपरिश्रमाणामनायासपरिहार्या इति नेह प्रपञ्च्यते । ननु चेदं वेदमूलत्वं पञ्चरात्रतन्त्राणामनुपपन्नं वेदनिन्दा- दर्शनात् , उक्तं हि चतुर्पु वेदेषु पुरुषार्थमलभमानः शाण्डिल्य ५२ आगममामाण्यम् । इदं शास्त्रमधीतवान् इति, अनवगतवचनव्यक्तरयं पर्यनुयोगः, न हि निन्दा निन्धं निन्दितुं प्रवर्तते अपि तु । निन्दितादितरत्मशंसितुं यथैतरेयकब्राह्मणे प्रातः प्रातरनृतं ते वदन्ति इत्यनुदितहोमनिन्दा उदितहोमप्रशंसार्थेति गम्यते यथा मानवे । ऋग्वेदो देवदेवत्यो यजुर्वेदस्तु मानुषः । सामवेदस्तु पित्र्यः स्यात् तस्मात्तस्याशुचिर्ध्वनिः ॥ इति सामवेदनिन्दा इतरवेदप्रशंसा, यथा वा भारते । चत्वार एकतो वेदा भारतं चैकमेकतः । समागतैस्तु ऋषिभिस्तुलयारोपितं पुरा । महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम् । महत्त्वाच्च गुरुत्वाच महाभारतमुच्यते ॥ इति महाभारतप्रशंसार्थेति गृह्यते न वेदनिन्देति । एवं पञ्चरात्रप्रशंसेति गम्यते । अथानुदितहोमादेरन्यत्र स्तुतिदर्शनात् । अतत्परत्वं निन्दायास्तथानापि भविष्यति ॥ वेदप्रशंसा बहुशः पञ्चरात्रेऽपि दृश्यते । न हि तेभ्यः परं किञ्चिद् वाङ्मयं कमलासन ?। वेदान्तै- रिदमेवोक्तं तत्त्वज्ञानोपपादकैः ॥ इत्यादौ । अपि च चतुर्पु वेदेषु इति नायमर्थः वेदेषु पुरुषार्थो नास्तीति किन्तु यस्तेषु पुरुषार्थस्तमलभमान इति । ननु पुरुषार्थमलभमान इत्यन्वयो न वेदेषु पुरुषार्थमिति, 2वं व्यावाभावात् , न हि वेदेष्वेवायं पुरुषार्थो न लभ्यते अतो वेदेषु यः पुरुषार्थस्तमलभमानः तदभिलाषी पञ्चरात्रशास्त्रमधीत- वानिति पञ्चरात्रश्रुत्योरैकार्थ्यमेव प्रतीयते ।
श्रागममामाण्यम् । यत्पुनरुक्तमुपनयनादिसंस्कृतानां भगवदाराधनार्थतया दीक्षा- लक्षणसंस्कारविधानादवैदिकत्वमिति तदयुक्तं न युपनयनादि- संस्कृतानां ज्योतिष्टोमादिकाङ्गतया दीक्षादिसंस्कारविधायकम् अाग्नावैष्णवम् इत्यादिवाक्यमवैदिकं भवति । अथ वैदिकसंस्कारात् संस्कारान्तरविधान हेतुः, तदनुपपन्न सिद्धे हि पञ्चरात्रशास्त्रस्य अवैदिकत्वे तस्य संस्कारान्तरचसिद्धिः तसिद्धौ च तस्यावैदिकत्वसिद्धिरित्यन्योन्याश्रयणात् । किञ्च समस्तवैदिकसंस्कारेभ्यः संस्कारान्तरत्वं वा हेतुः, उत कतिपयेभ्यः संस्कारेभ्यः, न तावदनन्तरः कल्पः उपनयनादिसं- स्कारस्यापि चौलादिसंस्कारात् संस्कारान्तरत्वेनावैदिकत्वप्रसङ्गात्, न चान्त्यः कल्पः, उक्तदोषानतिवृत्तेः, न युपनपनं समस्तवैदिक- संस्कारेभ्यः संस्कारान्तरमसिद्धश्च समस्तवैदिकसंस्कारव्यतिरेकः पञ्चरात्रशास्त्रस्यापि वैदिकत्वादित्युक्तमेव । यदपि धर्मप्रमाणत्वाभिमतचतुर्दशविद्यास्थानेष्वपरिगणितत्वात् पाशुपतादितन्त्रवत् त्रयीबाह्यत्वमिति तदपि द्वैपायन-वाल्मीकि- प्रणीतभारतरामायणादिग्रन्थैरनैकान्तिकम् । यत्तु भगवता बादरायणेन निरस्तत्वादिति तदसत्, कथं हि भगवान् द्वैपायनः सकललोकादर्शभूतपरमभागवतो भागवतं शास्त्र निरस्यतीत्युत्मेच्येत । य एवमाह। इदं शतसहस्राद्धि भारताख्यानविस्तरात् । आविध्य मतिमन्थानं दध्नो घृतमिवोद्धृतम् ।। नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा । भारण्यकं च वेदेभ्य श्रोषधीभ्यो यथाऽमृतम् ।। इदं महोपनिषदं चतुर्वेदसमन्वितम् ।
आगममामाण्यम् ।
साङ्ख्ययोगकृतान्तेन पञ्चरात्रानुशब्दितम् ॥
इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् ।
अग्यजुस्सामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ॥
भविष्यति प्रमाणं वै एतदेवानुशासनम् ।
इति, भीष्मपर्वण्यपि ।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणः ।
अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः ॥
सात्वतं विधिमास्थाय गीतस्संकर्षणेन यः ।
द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ॥
इति ।
तथा शान्तिपर्वग्यपि ।
अवश्यं वैष्णवो दीक्षां प्रविशेत् सर्वयत्नतः ।
दीक्षिताय विशेषेण प्रसीदेन्नान्यथा हरिः ।।
वसन्ते दीतयेद्विपं ग्रीष्मे राजन्यमेव च ।
शरदः समये वैश्यं हेमन्ते शूद्रमेव च ।।
स्त्रियं च वर्षाकाले तु पञ्चरात्रविधानतः ॥
तथा।
वेदश्चतुर्भिस्स*मितं कृतं मेरौ महागिरौ ।
एवमादिवचोभङ्गोशतैस्सादरमीरितः ।।
वेदान्तसारसर्वस्वमात्मीयं परमं मतम् ।
पञ्चरात्रं निराकुर्यात् कथं द्वैपायनः स्वयम् ।
कथं तीदं सूत्रम् उत्पत्यसंभवात् इति कि वाऽस्य सूत्रस्य
हृदयम् इदमस्य सूत्रस्य, भागवतशास्त्रे जीवोत्पत्तेः प्रतिपाद्यमानत्वात्
तस्याश्च श्रुतिन्यायविरोधेनासम्भवादसमीचीनं शास्त्रमिति, यद्यष
* सम-शब्दात्ताद्वितन इतच्प्रत्ययेन व्युत्पन्नः समितशब्दो भवति तुल्यार्थः ।
आगमप्रामाण्यम् । ५५ सूत्रार्थस्तर्हि पञ्चरात्रशास्त्रनिराकरणपरं मूत्रं, न हि पञ्चरात्रशास्त्रेषु जीवोत्पत्तिरङ्गीकृता येनैवमुच्यते । नन्वस्तीदं वचनं वासुदेवः परा प्रकृतिः परमात्मा ततस्संक- पणो नाम जीवो जायते सङ्कर्षणात् प्रद्युम्नसंज्ञं मनो जायते ततोऽनिरुद्धनामा अहङ्कारो जायते । इति, अपि तु व्यूहरूपेण व्यक्तिर्देवस्य कीर्त्यते । तत्र संव्यवहारार्थ जीव-शब्दः प्रयुज्यते ॥ वर्णानामानुलोम्येन पूज्यभेदप्रसिद्धये । यथाऽऽहुः। वर्णैश्चतुर्भिश्चत्वारः पूजनीया यथोक्रमम् । इति, अपि च जीवमनोऽहङ्कारशब्दा न तन्मात्रवचना अपि तु तत्तदधिष्ठानाधि- कृतविलक्षणविग्रहवत्पुरुषाभिधाना इति । विचित्रदेहसंपत्तिर्जन्मेति व्यपदिश्यते । तोयेन जीवानित्येतद्यजुर्मूर्ति यथा वचः ।। अपि च जीवोत्पत्तिप्रलयादिगोचराः श्रुतिस्मृतिलोकवादाः चराचरव्यपाश्रयस्तु स्यात् तद्वयपदेशो भाक्तस्तद्भावभावित्वादि- त्यत्रैव सूत्रकारेण कृतनिर्वाहाः ॥ किञ्चनात्मा श्रुतेनित्यत्वाच्च ताभ्यः इत्यत्रैव ब्रह्मणो जीवो- त्पत्तिः श्रुतिस्मृतिन्यायविरोधेन निरस्ता सती न पुनरुपन्यासं प्रयोजयतीति अनधिकरणीयमधिकरणमापोत, एतेन न च कर्तुः करणम् इति सूत्रं व्याख्यातं, न ह्यत्र कर्तुः सङ्कर्षणात् करणस्य मनस उत्पत्तिरुच्यते, उक्तं हि विलक्षणपुरुषवचना एते शब्दा इति, किमिति वा कर्तुः करणनोत्पद्यते देवदत्तादेः कर्तुः परशु- प्रभृतिकरणोत्पत्त्यदर्शनादिति चेत्, हन्त हतस्तर्हि अपगतसकलकर- णकलापस्वमहिमप्रतिष्ठब्रह्मणः प्राणमनःप्रभृतिनिखिलकरणोत्पत्य- ५६ आगमप्रामाण्यम् । भ्युपगमः, एतस्माज्जायते प्राणो यनःसर्वेन्द्रियाणि च इति, अथ श्रुतिप्रसिद्धत्वात्तत्तथैवाभ्युपेयते । पञ्चरात्रमसिद्धत्वादिदं किन्नाभ्युपैषि भोः ॥ न हि स्मृतिप्रसिद्धार्थपरित्यागोऽतिशोभनः । निर्दोषज्ञानजन्मत्वात् प्रामाण्यं हि समं द्वयोः ।। यत्तु चत्वार एते कि समानैश्वर्यभागिनः । स्वतन्त्राः किमुतैकस्य स्वेच्छामूर्तिचतुष्टयी । इति विकल्प्य । समानैश्चर्यभागित्वे तुल्यत्वान्नैव कार्यता । एकस्य मूर्तिभेदशेत् किं भेदेन प्रयोजनम् ॥ इति दूषयतीति व्याख्यातं विज्ञानादिभावे वा तदप्रतिषेध इति । तदयुक्तम् असम्भावनीयत्वाद्विकल्पस्य, न हि केनचिदीश्वर- वादिना अनेकेश्वरं जगदभ्युपगतं विशेषतश्च पाश्चरात्रिक वासुदेव एवैकः परा प्रकृतिरिति बदद्भिः, किन्तु स एव भगवान् लीला- विरचितचतुर्भेदः सकलमपि जगत्संरक्षतीति । न चेदमनुपपन्नं बल-भरतावरजाग्रजादिप्रादुर्भाववदुपपत्तेः, यथैव हि भगवतः स्वलीलाविरचितगगन-पवन-हर-विरिश्च्यादिभप- श्वस्य अचिन्त्यमहिमलोलेकायोजनस्य राम-लक्ष्मण भरत-शत्रुघ्ना- दिस्वच्छन्दाविग्रहा न विरोत्स्यन्ते एवं सङ्कर्षणप्रद्युम्नादिभेदा इति । यत्परं विप्रतिषेधात् इति चतुषु वेदेषु इति श्रुतिविप्रतिषेधात् तन्त्राणां परस्परविप्रतिषेधाद्वा । अप्रमाणमिति तत्र श्रुतिविप्रतिषेध- स्तु मागेव प्रत्युक्तः, परस्परविप्रतिषेधस्तु प्रधानगुणसामान्यविशेषा- दिन्यायसंपादितवचनव्यक्तीनां तन्त्राणां नास्त्येव न्यायानुग्रहरहिता- प्रागममामाण्यम् । ५७ नान्तु वचसां न कचिदपि परिनिश्चायकत्वं, यथाऽऽह न्यायसंपादि- तव्यक्ति पश्चाद्वाक्यार्थबोधकम् इति, तस्मात्सूत्रकारेण इदं महो- पनिषदम् इत्यादिवचनैदेभ्योविशेषेणाभिमततरप्रामाण्येषु पञ्चरात्र- तन्वेष्वविद्यमानजीवोत्पत्तिप्रतिपादनाध्यारोपेण तनिराकरणपरतया सूत्रं व्याख्यायमानं व्याख्यातृणामेवाख्याति ख्यापयतीत्यलं प्रबन्धेन । तत्रैष सूत्रार्थः पूर्व स्वाभिप्रेतसमयपरिपन्थिकपिल-काश्यप- सुगत जिन-पशुपतिमतानां श्रुतिन्यायविरोधादसामञ्जस्यं प्रतिपाद्य अधुना स्वाभिप्रेतपञ्चरात्रतन्त्राणामपि इतरसमयसमानपरिगणनाद् बुद्धौ सन्निहितानामितरसमयवदसामञ्जस्यमाशङ्कय प्रामाण्यं *व्युत्पाद्यते । तत्रायेन सूत्रद्वयेन पूर्वपक्ष उपक्षिप्यते तथा हि पञ्चरात्र- शास्त्रमप्रमाणम् उत्पत्यसंभवात् प्रतिपाद्यमानायाः संकर्षणाद्युत्पत्ते- रसंभवात् , कथमसंभवः, उभयथाऽप्यनुपपत्तेः तथा हि । किन्तु चत्वार एवते समानैश्वर्यभागिनः । एको वा स्याच्चतुर्भेदे द्वेधा व्युत्पत्त्यसंभवः ।। समानैश्वर्यभागित्वे तुल्यत्वान्नैव सृज्यते । एकात्मत्वेऽभ्युपेतेऽपि तथोत्पत्तेरसंभवः । स्रष्ट्रमृज्यविभागो हि नैकस्मिन्नवकल्पते । तथा न च कर्तुः करणम् इतश्च अप्रमाणं कर्तुः सङ्कर्षण- संज्ञाज्जीवात् करणस्य प्रद्युम्नसंज्ञस्य मनस उत्पत्यसंभवात् , न हि देवदत्तात्परशुरुत्पद्यत इति । एवं वा न च कर्तुः करणम् इतश्च कर्तुः संकर्षणात् न करण- * स्थूणानिखननन्यायेनेत्यर्थः यथा हि स्थूणां द्रढयितुमिच्छवस्तां स्वयमेव हस्तेन परिचाल्य परीक्षन्ते । , ५८ अागमप्रामाण्यम् । मुत्पद्यते ब्रह्मण एव समस्तकरणोत्पत्तिश्रुतेः, एतस्माज्जायते प्राणो मनःसर्वेन्द्रियाणि च इति, विज्ञानादिभावे वा तदप्रतिषेध इति, वा-शब्दात्पक्षो विपरिवर्तते । यदुक्तमुभयथाऽपि संकर्षणाधुत्पत्तेरसंभवादप्रामाण्यमिति नैतदस्ति तस्यास्सङ्कर्षणाद्युत्पत्तेरप्रतिषेधः । यदि हि विज्ञानादय एते न भवेयुः स्यादुत्पत्तिप्रतिषेधः । विज्ञानञ्चादि*चेति विज्ञानादि ब्रह्म तदभावे ब्रह्मभावे उत्पत्तेरप्रतिषेधः। * आदीयते-उपादीयते उपयुज्यते सर्वकार्यार्थमित्यादि सर्वजगन्निदानं ब्रह्म, अन्न यद्यपि उपसर्गे घोः किरिति पाणिनीयेन किप्रत्ययान्तादि-शब्दस्य नित्यपुंस्त्वं प्राप्नोति तथापीह औणादिकप्रत्ययेन साधुभावोऽवगन्तव्यः शिष्टप्रयोगे संज्ञासु धातु- रूपाणीत्यादिना तथैवानुशिष्टत्वेन शिष्टशिष्टरेव च प्रयोगमूलतया अनौणादिकस्यैव पुंस्त्वकल्पनात्॥ अथवा विज्ञानं चादिश्चेत्येव पाठः । ततश्च विज्ञानं चादिश्च विज्ञानादि इति समाहारद्वन्द्वः, विज्ञानादीतिकृतसमाहारद्वन्द्वके विज्ञानादिपदे निर्विसर्गकपाठा- चलोकनभ्रान्तित एव प्राचीनकोशेष्वपि विज्ञानं चादिश्चेति विवक्षणीये विज्ञान चादि चेति लिलिखुरिति केचिन्मन्यन्ते । इत एवास्वरसेन कल्पान्तरमवललम्बिरे अन्थाचार्याः। एवमेव व विज्ञानादिसूत्रे श्रीमाध्येऽपि शङ्कासमाध्यम्यूहनमिति कृतं कुसृष्टया वाचा मिति चापरे । वस्तुतस्तु श्रीभाष्यकोशेषु आगमप्रामाण्यकोशेषु च प्रायशो देशविशेषनरपेक्ष्येण विज्ञानादिसूत्रे (विज्ञान चादि च विज्ञानादि-ब्रह्म तद्भावे) इत्येव प्रामाणिकः पाठ इत्यवश्य तात्पर्य विशेषेण स प्रयोगो वक्तव्यो न तु यथाश्रुता- र्थकादि-पदेनाचरमाथेन अब्रह्मसाधारणेन । अन्नैवमाचक्ष्महे आ-समन्तादत्तु शीलम- स्येत्यादिन परमं ब्रह्म सुप्यजातौ णिनिस्ताच्छील्ये । इति पाणिनीयेन ताच्छील्येऽर्थे- णिनिः, आङा चासाधारण्य विवक्ष्यते तछ अत्ता चराचरग्रहणादित्यधिकरणोक्तरीत्या ब्रह्मासाधारणं कमेति ताशार्थकादिपदेन निखिलजगददनकर्तृ परं ब्रह्माभिहितं भवति तच्च सायाधुक्तदिशा प्रधानधर्मो माभूदिति विज्ञानपदेन विशेष्यते । एवं च जन्मा- यस्य यत इति सूत्रे आदिपदेन जगत्स्थितिप्रणाशहेतुताया लक्षणत्वेनामिमत- तया लक्षणेनेतरभेदसाधने जन्मादित्रितयस्य संहत्य हेतुतायां व्याप्यत्वासिद्धया प्रत्ये. कमेव हेतुताया वाच्यत्वेन स्वासाधारणरूपेणादिन पदेन ब्रह्मोपस्थापितं भवतीति । सति वैवं (विज्ञानं चादि विज्ञानादि ब्रह्म ) इति श्रीभाष्याचार्याणां परमाचार्याणां श्री ६ यामुनमुनीनां चाभिधानमक्षसा समञ्जसमिति यथाश्रुतार्थग्राहिणां केषांचिद- मीषामाचार्यतात्पर्यानवबोधनिबन्धनमेवानुपपत्त्यभिधानम् । परे तु संपदादित्वात् क्विपं कृत्वा तस्मात्स्वार्थे अणं विधाय आद इति प्रसाध्य ततो मत्वर्थीयेनिना आदिन- - - आगममामाण्यम् । ५६ एतदुक्तं भवति एकस्यैव परमात्मनो वासुदेवस्यापरिच्छिन्न- शक्तः स्वमायावेशवशात् कार्यकारणभावोपपत्तिरिति । यत्तु न सङ्कर्षणान्मन उत्पद्यते ब्रह्मण एव उत्पत्तिश्रुतेरिति तदपि तस्य विज्ञानादित्वेन परिहृतम् । अपि च न च कर्तुः करणम् इति किमुक्तं भवति किं यस्याः क्रियाया यत्करणं तकियाकर्तु!त्पद्यते, उत यद् यत्र कापि करणं तत् कुतश्चिदपि कर्तु!त्पद्यत इति वा । तत्राये कल्पे सिद्धसाधनतया अनुमानस्य विप्रतिषेधः, न ह्यत्र सङ्कर्षणात्कषुरुत्पद्यमानं मनः स्त्रोत्पादने करणं कर्मत्वात् , नापि स्वोत्पत्तौ कर्तृत्वात् । अपरेऽपि कल्पे प्रत्यक्षविप्रतिषेधः उदकाहरणादौ करणभूता- नामपि घटादीनां कर्तुः कुलालादेरुत्पत्तिदर्शनात् । तदिदमाह विप्रतिषेधादिति । यद्वा सूत्रद्वयस्यास्य व्याख्यानान्तरमुच्यते । विज्ञानादेः प्रमाणत्वहेतोर्भावेन युज्यते । पञ्चरात्रप्रमाणत्वनिषेधोऽतिप्रसङ्गतः । तत्रानुवादसंदेहज्ञानानुत्पत्तिलक्षणम् ॥ निरस्तमप्रमाणत्वं विज्ञानग्रहणादिह । वक्त्राशययशप्राप्तमिथ्याशंकाऽपनुत्तये ।। आदिशब्देन तन्त्राणामाप्तोक्तत्वं विवक्षितम् । तथा हि । पई सिपाधयिषन्ति । तदिदमपि प्रक्रियागौरवपराहतमिति नातितृप्तये विदुषाम् । किं च अच्छब्दस्य संपदादिक्विबन्तस्य नित्यस्त्रीत्वे सतोणि जाते अणन्तत्वेन डीपो- अवश्य मावेन आदी इति स्यादिति ततोऽपि नेष्टसिद्धिसंभावना । यदपि अदनमाद इति भावे इति सूत्रेण भावे घनं कृत्वा भावधान्ताच मत्वर्थीयेनिना आदिनुपदप्रसाधर्म तदिदै घनपोश्चेति पाणिनीयानुशासनविस्मरणनिबन्धनं घनि धल्लादेशविधानात् ।
६ ६० आगमप्रामाण्यम् । यस्साक्षात् कुरुते सदा सहजया बुद्धथा समस्तं जगत् । यः पुंसामभिवाञ्छितानि दिशति ध्यानैकसंतर्पितः ॥ नित्यावाप्तसमस्तकाम इति यं प्राहुस्त्रयीपारगाः । तस्मिन् विभ्रमविप्रलम्भनमुखा दोषा भवेयुः कथम् ॥ उत्पत्यसम्भवो यश्च पूर्वसूत्रद्वयोदितः । संकर्षणादिमूर्तीनां तत्र प्रतिविधीयते ॥ विप्रतिषेधात् इति पञ्चरात्रस्मरणानुमितभगवत्प्रत्यक्षविप्रतिषे- धात् तदनुमितश्रुतिविप्रतिषेधाद्वेति । यद्वा सूत्राणां न्यायप्रदर्शनपरत्वात् पञ्चरात्रश्रुत्योरसन्तमपि विरोधं कृत्वाऽत्र चित्यन्ते तथा हि । सति वेदविरुद्धत्वे किन्नु मन्वादिवाक्यवत् । अप्रमाणमिदं शास्त्रं प्रमाणं वेति संशये ॥ अप्रमाणं विरुद्धार्थप्रमित्युत्पत्यसम्भवात् । असम्भवश्व सापेक्षनिरपेक्षत्वहेतुकः ॥ यावद्धि सापेक्ष पञ्चरात्रस्मरणं न मूलप्रमाणोपस्थापनमुखेन स्वार्थ प्रमातुमुपक्रमते तावनिरपेक्षापौरुषेयागमभुवा प्रत्ययेन तदर्थ- स्यान्यथा परिच्छेदात्तद्विरुद्धायाः प्रमितेरुत्पत्त्यसम्भवात् । तावद्धि पञ्चरात्रस्य मूलश्रुत्यवबोधनम् । प्रत्यक्षशास्त्रशस्त्रेण यावन्मूलं न लूयते ।। ननु कथं वेदा वा निरपेक्षा यावता तेषामपि भगवदनुभव- सापेक्षमेव प्रमाणत्वं तत्कारणत्वात् , यथैव हि पञ्चरात्रस्मृतयः तदनुभवसापेक्षाः एवं वेदा अपीति तत्रोच्यते न च कर्तुः करणं न कर्तुरीश्वरस्य करणं वेदाः क्रियन्त इति करणं, कर्मणि ल्युट् , अपौरुषेया वेदा इति यावत् । विज्ञानादिभावे वा तदप्रतिषेधः, न चेदस्ति पञ्चरात्रशास्त्र- 40 आगमप्रामाण्यम् । मप्रमाणमिति किन्तर्हि तदप्रतिषेधः प्रमित्युत्पत्तेरप्रतिषेधः, विरुद्धार्थमपि विकल्पेन प्रमाणमित्यर्थः असम्भवद्भ्रमविप्र- लम्भगवदनुभवमूलत्वाद्, विज्ञानादिभावे विज्ञान-विशिष्टं ज्ञानम् असम्भवत्स्खलनमिति यावत् , अन्येषां हि सर्वधर्मशास्त्रनिबन्द्धणां सांसारिकत्वेनासार्वयात् अनवाप्तकामत्वाच्छ सम्भाव्यमानविविध- विप्लवं ज्ञानं, भगवतस्तु स्वाभाविकनिरङ्कुशैश्वर्यस्य श्रुतिशतसमधि- गतावितथसहजसमस्तधर्माधर्मादिसाक्षात्कारं ज्ञानमिति विज्ञानमि- त्युक्तं, तादृशस्य*तस्यादिभावे मूलत्वे सति तदप्रतिषेधः प्रमाणमेवेति । ननु कथं श्रुतिविरुद्धस्य तन्त्रस्य प्रामाण्याभ्युपगमः तत्या- माण्ये हि श्रुत्या सह विकल्पः प्राप्नोति, विकल्पश्च अष्टदोषदुष्टः, स च कचिदन्यतरपरित्यागकारणाभावादगत्याऽभ्यनुज्ञायते, यथा बीहिभिर्यजेत यवैर्यजेत इति, न हि तत्रान्यतरदपहर्तुं शक्यम् उभयोरप्यनपेतत्वाविशिष्टत्वात् । न चैवमपि पञ्चरात्रश्रुत्योर्विकल्पेन भवितव्यम् अतुल्यत्वात् , निरपेक्ष हि वैदिकं वचनम् अपौरुषेयत्वात् , सापेक्षं च पञ्चरात्रवच- नमिति कथमनयोर्विकल्पः । श्रूयतां पञ्चरात्रशास्त्रस्यापि निरपेक्षत्वादेव । कथ पौरुषेयस्य वचसो निरपेक्षता । इति चेदिदमाचष्टां पृष्टस्सन्नेष तार्किकः ।। किमस्य बोधकत्वाय परापेक्षाऽभ्युपेयते । किं वा निश्चायकत्वाय यथार्थज्ञापनाय वा ॥ पुमर्थत्वाय वा तत्र चतुर्णामप्यसम्भवः । * अस्मिन्नथें विज्ञानस्यादिभावोविज्ञानादिभाव इति पष्ठीतत्पुरुषो ज्ञेयः ।
२ आगमप्रामाण्यम् । न खलु चक्रवऍपचारेण भगवन्तं समर्चयेदितीदं वचनं श्रूयमाणं बोधकत्वाय किञ्चिदपेक्षते अन्यत्र व्युत्पत्तिग्रहणात् , न च तावता सापेक्षत्वेन दौर्बल्यं श्रुतावपि दौर्बल्यप्रसङ्गात् । नापि निश्चयजननाय, न हि अर्चयेदित्येतत् अर्चयेन वेति संशयितं प्रत्ययमुत्पादयति व्युत्पत्तिपतिपत्तिव्याकोपप्रसङ्गात् । नापि यथार्थत्वाय, न ह्युत्पन्नं ज्ञानं स्वकारणव्यतिरेकेण यथार्थत्वाय अपरमपेक्षते गुणतः प्रामाण्यस्यायुक्तत्वात् अनभ्यु- पगमाच। न च पुरुषार्थत्वाय परापेक्षा शास्त्रशरीरपर्यालोचनादेव तसिद्धः, इह हि यथोक्तसंस्कारवतां शास्त्रश्रवणात् तदर्थज्ञानं ततस्तदर्थपाश्चकालिकानुष्ठानं, ततो निरतिशयसंपत्प्राप्तिरिति शास्त्रा. देवावगम्यते । अथोच्येत सत्यपि पञ्चरात्रतत्राणां स्वतःप्रामाण्ये यावत्तद्वक्तु- राप्तिनिश्चयपुरस्सरं दोषाभावो नावधार्यते न तावत्प्रामाण्यं निष्पा- द्यत इति तदसत्, न हि दोषाभावज्ञानं प्रामाण्यं निष्पादयति निर्दोषज्ञानकारणाद्रेव तदुत्पत्तेः । न च निर्दोषत्वायाप्तत्वादिगुणनिश्चयः सत्तामात्रेण तत्सिद्धेः, यथाह वार्तिककारः । तदा न स्याप्रियन्ते तु ज्ञायमानतया गुणाः । इति, दोषाभावज्ञानेऽपि गुणानां सत्तयोपयोगो दर्शितः, दोषाभावे : तु विज्ञेये सत्तामात्रोपकारिणः । इति, न चोत्पन्नमपि प्रमाणं हानो- पादानादिव्यवहारायापरमपेक्षते स्मरणाभिलाषाभ्यामेव तत्सिद्धः, यथाहुः स्मरणादभिलाषाच व्यवहारः प्रवर्तते इति । अपि च स्वतःप्राप्तप्रामाण्यानां वेदानामपि यावत्कर्तृभावनि- श्चयपुरस्सरं दोषाभावो नावधार्यते न तावत्मामाण्यं प्रतितिष्ठतीति समानं सापेक्षत्वम् । -- प्रागमप्रामाण्यम् । ६३ अथ योग्यानुपलम्भादेवानायाससिद्धे वक्तृभावे निराश्रयदो- पाणामसम्भवादमामाण्यशङ्कच वेदे नास्ति इति चेत् यथाहुः । तत्रापवादनिर्मुक्तिर्वक्तभावाल्लघीयसी । वेदे तेनाप्रमाणत्वं न शङ्कामधिगच्छति ॥ इति । हन्त तर्हि पञ्चरात्रतन्त्रेऽपि सर्वज्ञसर्वेश्वरवक्तभावादेव अयत्न- सिद्धे दोषाभावे अप्रामाण्यशङ्का नावतरतीति समानश्चर्चः । एतदुक्तं भवति उभयोरपि स्वतःप्रामाण्ययोरेकत्र दोषाभाव- निश्चयः तदाश्रयपुरुषाभावनिश्चयात् , अन्यत्र तद्विरुद्धगुणवक्तृकत्व- निश्चयादिति । यथा औष्ण्याभावनिश्चयो नभसि तदाधाराभावनिश्चयाजले तु तद्विरुद्धशैत्योपलम्भादिति । किञ्च । सापेक्षनिरपेक्षत्वे न हि बाधस्य कारणम् । शुक्तौ रजतबोधस्य निरपेक्षस्य बाधकम् ।। नेदं रजतविज्ञानं तत्सापेक्षमपीष्यते । सेयं ज्वालेति संवित्तेस्तैलवर्तिविनाशजा ॥ अनुमा बाधिका दृष्टा सापेक्षाऽप्यक्षजन्मनः । अतो निरवकाशेन सावकाशं निषिध्यते । न चेह सावकाशत्वं भगवच्छात्रवेदयोः । अथ श्रुतिविरुद्धस्य तन्त्रभागस्य दुश्शकम् ॥ वासुदेवप्रणीतत्वं निश्वेतुमिति मन्यसे । पञ्चरात्रविरुद्धस्य वेदभागस्य वा कथम् ॥ अपौरुषेयताज्ञानमाविर्भवति बाधितम् । तस्यापि वेदभागत्वात् तथाभावोऽभ्युपेयते ॥
4 आगमप्रामाण्यम् । अस्यापि पञ्चरात्रत्वात् तत्प्रणीतत्वमिष्यताम् । कर्तुरस्मरणात्तत्र यदि चापौरुषेयता ।। तत्कर्तकत्वस्मृत्याऽत्र किन्न स्यात्तत्पणीतता । अस्ति ह्यास्त्रीकुमार सा दृढा स्मृतिपरम्परा ॥ पञ्चरात्रस्य निर्माता केशवो भगवानिति । तत्प्रणीतत्वविश्वासाद् गजानश्वान् धनं बहु ॥ दक्षिणां विविधां दत्त्वा प्रतिष्ठादीनि कुर्वते । साङ्ख्यस्य कपिलो वक्ता पञ्चरात्रस्य केशवः ॥ इति स्कन्दपुराणेपि पठ्यते भारते तथा । पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् । इदं महोपनिषदं चतुर्वेदसमन्वितम् । साख्ययोगकृतान्तेन पञ्चरात्रानुशद्वितम् ।। नारायणमुखोद्गीतं नारदोश्रावयन्मुनीन् । ब्रह्मणस्सदने तात ! यथादृष्टं यथाश्रुतम् ।। एवमादिपुराणोक्तैः सहस्रायद्वंहितैः । वासुदेवाणीतत्वं पञ्चरात्रस्य निर्व्यथम् ॥ किन्तु वेदस्य नित्यत्वे विषदन्ते विपश्चितः । तेन निर्दोषविज्ञानकारणत्वाद् द्वयोरपि ॥ निर्विशङ्क प्रमाणत्वं भगवच्छास्त्रवेदयोः । ततश्च तुल्यशिष्टत्वाद् विकल्पेन प्रमाणता ॥ इति मत्वैतदाचष्टे सूत्रकारो महामनाः । विज्ञानादिभावे वा तदप्रतिषेध इति ॥ ननु च भगवतस्सर्वज्ञत्वेनासंभाव्यमानायामपि भ्रान्तौ सर्वश- क्तित्वेन विपलब्धमपि भवतीति किमिदमपि शास्त्रं व्यामोहयितुम- भिहितम् उत वस्तुतोऽवहितबुद्ध्या निबद्धमित्यन्यतरपक्षावलम्बन- + आगममामाण्यम् । विक्लवमनसां क इव निर्णयोपायः, प्रत्युत वेदविरोधादेव विश्वन- फलमित्यध्यवस्याम इति । तत्रोच्यते विप्रतिषेधात इति, समस्तश्रुतीतिहासपुराणलोक- विप्रतिषेधाद् यदि विना कारणेन भगवतः सर्वशक्तित्वमात्राद् विप्लावनशङ्का । हन्तवं सर्वशक्तित्वानरके धार्मिकानपि । पातयेनेति सन्देहानिश्चेष्टं जगदापतेत् ॥ अपि चायं सर्वशक्तित्वेन विप्रलिप्समानः किमतीन्द्रियासत्या- र्थान् वेदानादौ निर्माय स्वनिर्माणस्मरणशक्तिमपि हिरण्यगर्भादेर- पहत्य तत्मभृति स्वाध्यायपरम्परामिमां प्रवर्तितवान्न वेति संशयाना: कथं विश्वसिमः । अथास्य सत्यपि सर्वशक्तित्वे यावच्छक्ति करणे प्रमाणाभावात् अनवस्थानाद् भगवतश्च स्वभावावाप्तकामतया विप्रलम्भप्रयोजनविरहाद् वैषम्य रयादिदोषर्मात्रयापि चासंस्पृ. तृत्वात् सर्वमाणिजातस्य स्वभावसौहृदेन व्यवस्थानाद् विपलब्धं प्रणीतत्वे च विदुषामद्य यावत् स्वाध्यायाध्ययन-तदर्थानुष्ठानवतां तत्कर्तृदोषविस्मरणानुपपरोस्ताहशाशङ्का नास्तीति चेत्तदेतत्सर्वमन्य- त्रापि समानम् । तथा हि । किमस्यावाप्तकामस्य सर्वज्ञस्य दयानिधेः । अल्पसत्त्वैरलब्धार्थैविप्रलब्धैः प्रयोजनम् ॥ विप्रलब्धं कृतं तन्त्रं कथं वा परमर्षयः । इतस्ततः प्रशंसन्ति तुल्यवच्छु तिमूर्द्धभिः ।। तथा हि वेदैस्सह निर्विशेषं वाराह-रामायण-भारतादौ । अमुष्य तन्त्रस्य रहस्यभावं वदन्ति सन्तस्तमिमं वदामः ॥ * पठन्तीति द्रविड़पाठः ।
आगमप्रामाण्यम् ।
वेदेन पञ्चरात्रेण भक्त्या यजेन च द्विज ? ।
प्राप्योऽहं नान्यथा प्राप्यो वर्षलक्षशतैरपि ।
पञ्चरात्रं सहस्राणां यदि कश्चिद् ग्रहीष्यति ।
कर्मक्षये च मद्भक्तो यदि कश्चिद् भविष्यति ॥
तस्य वेदाः पञ्चरात्रं नित्यं हृदि वसिष्यति ।
यदिदं पञ्चरात्रम्मे शास्त्रं परमदुर्लभम् ॥
तद् भवान् वेत्स्यते सर्व मत्प्रसादादसंशयम् ।
पुराणश्चैव वेदैश्च पञ्चरात्रैस्तथैव च ॥
ध्यायन्ति योगिनो नित्यं क्रतुभिश्च यजन्ति तम् ।
एवमेकं साङ्ख्ययोगं वेदारण्यकमेव च ।
परस्पराङ्गान्येतानि पञ्चरात्रश्च सत्तम ? ॥
वेदेन पञ्चरात्रेण यः पश्यति स पश्यति ।
इदम्महोपनिषदं चतुर्वेदसमन्वितम् ॥
वचसामेवमादीनामानन्त्यादुपरम्यते ।
इत्थंभूतस्य तन्त्रस्य विप्लवं यदि शङ्कसे ।।
सर्वत्र स्यादनाश्वास इत्येतदुपदिश्यते ।
विप्रतिषेधात् । इति,
एवश्व ।
विरोधेऽपि विकल्पः स्याद् भगवच्छात्रवेदयोः ।
विरोध एव नास्तीति प्रागेव प्रत्यपादयम् ।।
नन्वत्र भवतां भाष्यकाराणां विरुद्धांशाप्रामाण्याभिधानं
कथमिव, यद्यपि विरोधः कृत्वा चिन्तया परिहतस्तदपि गम्भीरन्या-
* वत्स्यतीति प्राप्ते वसिष्यतीत्यार्षम् ।
+ भाष्यकारपदेनेह इमिडाचायो, भिधित्सितः। श्रीभाष्यकाराः श्रीरामा-
नुजाचार्यास्तु,श्री६यामुनमुनीनां शिष्यशिष्या इति श्रीभाष्यस्य श्री६यामुनमुन्यु-
तरकालप्रणीतत्वेन तदिह भाष्यं न विवक्षितुं शक्यम् ।
आगमप्रामाण्यम् । ६७ यसागरमवगाठुमपरिबृढानां कोमलमनसां वेदानादरो माभूदित्ये- बम्परम्, यथैव हि भगवतो जैमिनेः कर्मफलोपन्यासः कर्मश्रद्धा- संवर्द्धनायेति । वेदबाह्यगृहीतवादप्रामाण्यमवादि यत् । एतद्वाह्यगृहीतत्वाद् वेदानां वा कुतो न तत् ।। अपि च । किं चेदं वेदबाह्यत्वं का वा स्यात्तद्गृहीतता । किमङ्ग वेदादन्यत्वं वेदवाह्यत्वमुच्यते ।। तन्निषिद्धार्थकारित्वमाहो तद्द्वेषशीलता । तथा। गृहीतत्वमधीतत्वं ज्ञातत्वं वा विचार्यताम् । क्रियमाणार्थता वा स्याद्धेतुः सर्वत्र दुष्यति । तत्र तावद् । यदि वेदाद्विभिन्नत्वं बाह्यत्वं साऽप्यधीतता । वेदादन्यैस्त्रिभिर्वर्णैरधीतं वैदिकं वचः । प्रमाणमित्यनैकान्त्य हेतोस्तत्र प्रसज्यते ॥ ज्ञातत्वेऽपि गृहीतत्वे दोषादस्मान्न मुच्यसे । पूर्वोक्तं वेदवाद्यत्वं क्रियमाणार्थता यदि ॥ गृहीतताऽपि वेदैः स्यात्तथैव व्यभिचारिता । प्रतिषिद्धार्थकर्तृत्वे वेदबाह्यत्वलक्षणे ॥ व्यभिचारस्त्रयीवाक्यः प्रायश्चित्तविधायकैः । प्रायश्चित्तविधायकानि वाक्यानि कूष्माण्डै हुयात् इत्यादीनि प्रतिषिद्धकारिभिरधीतगृहीतानुष्ठीयमानार्थान्येव प्रमाणानीति तादृश- वेदवायगृहीतत्वमनैकान्तिकम् । नापि वेदद्वेषिजनपरिगृहीतत्वादप्रामाण्यं पञ्चरात्रतन्त्राणां, Daroo ६ . आगमप्रामाण्यम् । हेतोरसिद्धत्वात् , अपि च न वेदट्टेषिजनपरिग्रहः प्रामाण्यं प्रतिहन्ति, यदि हि प्रतिहन्यानिरर्गलस्तहि नास्तिकानां पन्थाः, ते हि वेदपा- माण्यप्रोत्सादनाय प्रयस्यन्तः । कथञ्चिद्वेदवाक्यानि गृहोत्त्वा विप्रलम्भनात् । अनायासेन मिथ्यार्थान् वेदान् कुर्युदिगम्बराः ।। अथ तत्रानधिकारिणामध्येतणाव न चाभिव्याहरेद् ब्रह्म स्वधानिनयाहते । इत्यादिवचनपालोचनया दोषो न निर्दोषवेद- वाक्यानामिति चेत् तत्प्रस्तुततन्त्रष्वप्यनधिकारिश्रोतजनानामेष दोषः, न निर्दोषतन्त्राणामिति सर्व समानमन्यत्राभिनिवेशात् । अथ मतं वेदबाह्यत्वं नाम वैदिककर्मानधिकारित्वं तदनधिकारिभिर्वेदबा- बैहोतत्वात् चैत्यवन्दनवाक्यवत् अप्रमाणमिति तत्रापि किमखिल- वैदिककर्मानधिकारिजनपरिगृहीतत्वं हेतुः, उत कतिपयवैदिककर्मा- नधिकारिगृहीतत्वमिति विविच्य व्याचष्टाम् । न तावदग्रिमः कल्पः कल्पते हेत्वसिद्धितः । न हि सोऽस्ति मनुष्येषु यः श्रौते कापि कर्मणि ।। नाधिकुर्यादहिंसादौ नृमात्रस्याधिकारतः । अन्यथा हि ब्राह्मणहनन-तद्धनापहरण-वर्णाङ्गनासंगम- वेदाध्ययनादि कुर्वाणाश्चण्डालादयो न दुष्येयुः। तदनधिकारि- वाद्, यस्य हि यन्न कर्त्तव्यं तस्य हि तत्करणं प्रत्यवायाय, अतः सर्वेषामीदृशवैदिककर्मणि अधिकारो विद्यत एवेत्यसिद्धो हेतुः, साधनविफलश्च दृष्टान्तः । नापि कतिपयवैदिककर्मानधिकारिभिर्ग्रहीतत्वादप्रामाण्यं सम- स्तवेदवाक्यानाममामाण्यप्रसङ्गात्, अस्ति हि सर्वेषां कतिपयवैदिक- कर्मानधिकारः, ब्राह्मणस्येव राजसूये, राजन्यस्येव सोमपाने, अतो व्यवस्थितवर्णाधिकारिगृहीतवेदवचनैरनैकान्तिको हेतुः,अप्रयोजकश्च ।
प्रागमप्रामाण्यम् । चैत्यवन्दनतः स्वर्गा भवतीतीदृशी मतिः । न तत्परिग्रहान्मिथ्या किन्तु कारणदोषतः ॥ उक्तश्च वैदिकसमस्तास्तिकावरभृा-भरद्वाज-द्वैपायनप्रभृति- महर्षिजनपरिग्रहः, अयत्वेऽपि हि पञ्चरात्रतन्त्रविहितमार्गेण प्रासा- दकरण-प्रतिमाप्रतिष्ठापन-प्रणाम-प्रदक्षिणोत्सवादीनि प्रत्यक्षश्रु- तिविहिताग्निहोत्रादिवत् श्रेयस्करतरबुद्ध्याऽनुतिष्ठतः शिष्टान् पश्योमः, न चैतदाचरणं निर्मूलमिति युक्तं सन्ध्यावन्दनाष्टकाचर- वादेरपि निर्मूलत्वप्रसङ्गात् , उक्तं च शिष्टाचारस्य प्रामाण्यम् अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरनिति । अथ भागवतजनपरिगृहीतत्वादिति हेतुः, हन्त तर्हि तत्परिगृही- तत्वाद् वाजसनेयकै कायनशाखावचसां प्रत्यक्षादीनां चाप्रामा- गयप्रसङ्गः। अथ तैरेव परिगृहीतत्वादिति हेतुः तदसाधारणानकान्तिकम्, असिद्धञ्च । किमिति वा तत्परिग्रहादप्रामाण्यम् अत्रैवर्णिकत्वादिति चेत् किं भोः त्रैवर्णिकेतरसवर्णरथकारनिषादादिपरिगृहीतानुष्ठीयमानार्था- नामाथर्वणवचसां रथकार आदधीत एतया निषादस्थपति याजयेत् इत्यादिवचसां प्रामाण्यं नास्ति । अस्तुवा ऽत्रैवर्णिकपरिग्रहोऽप्रामाण्यहेतुः, एतेषां तु भगच्छा- स्त्रानुगामिनां भागवतानामुत्कृष्टब्राह्राण्यं सर्वप्रमाणसमवगतमिति तत्परिग्रहः प्रामाण्यमेव द्रढयति । आह केन पुनः प्रमाणेनैषां ब्राह्मण्यमवगतं, केन वाऽन्येषाम् । ननु चक्षुर्विस्फारणसमनन्तरं शिखा-यज्ञोपवीत-पालाशद- आगममामाण्यम् । गड-मौजीयुजो द्विजकुमारकान् पश्यन्तो ब्राह्मणा इत्यवगच्छन्ति इह वा किमहरहरधीयमानवाजसनेयकैकायनशाखान् विलसदुपवी- तोत्तरीयशिखाशालिनोऽध्यापयतो याजयतः प्रतिगृह्ण तो विदुषः पश्यन्तो ब्राह्मणा इति नावयन्ति । अथ याजन-प्रवचन-पालाशदण्डादीनां दुष्टशूद्रादिषु व्यभि- चारसंभवाद् ब्राह्मण्यसिद्धवत्कारेण प्रवृत्तेश्च न तेभ्यो ब्राह्मण्य- निर्णयः, तद्भागवतेतरविप्राणामपि समानम् । अथ सत्यपि तेषां कचिव्यभिचारे तत्सामान्यादन्यत्र व्यभि- चारशङ्कायां शुक्तौ रजतधियो व्यभिचारात् रजते रजतधियां व्यभि- चारशङ्कावत् प्रत्यक्षविरोधात् अनवस्थानाच अनुपलभ्यमानव्यभि- चारोदाहरणेषु तथात्वनिश्चयस्तदन्यत्रापि समानम् । अथ मतम् अन्येषां ब्राह्मण्यं तदसाधारणगोत्रस्मरणादिति, तद् भागवतानामपि समानम्, स्मरन्ति हि भागवताः । वयं भार- द्वाजाः वयं काश्यपाः वयं गौतमाः वयमौपगवा इति । न चेदं गोत्रस्मरणं निर्मूलं सामयिकं वा सर्वगोत्रस्मरणानां तथाभावप्रसङ्गात् । संभाव्यमानदोषत्वाद् वंशानां यदि संशयः । तद्ब्राह्मण्ये ततो लोकं सर्वं व्याकुलयेदयम् ।। तथा हि । जननीजारसन्देहजातश्चण्डालसंशयः । निर्विशङ्कः कथं वेदमधीषे साधु सत्तम ? ॥ तेन भागवतानामविच्छिन्नपरम्पराप्राप्तविचित्रगोत्रस्मरणपर्यव- * आधुनिकम् ।
आगमप्रामाण्यम् । ७१ स्थापितं ब्राह्मण्यमनपोदितमास्ते इति न भागवतानामन्येषाञ्च ब्राह्मण्ये कश्चिद्विशेषः। यदि परं ते परमपुरुषमेवाश्रिता एकान्तिनः, अन्ये तुद्रदेव- तिका*स्साधारणा इति, किं पुनरेतेषां ब्राह्मण्ये प्रमाणमभिहितं यदेवान्येषां, केन वा तेषां ब्राह्मण्यमवगतम् किन्न। एतेन, यदि च कौतूहलम् । श्रूयतामुभयत्रापि ब्राह्मण्यस्यावधारकम् । प्रत्यक्ष वा ऽनुमान वा यद्वाऽर्थापत्तिरेव वा ।। ननु कथं प्रत्यक्षं ब्राह्मण्यमवगमयति, न हि प्रथमाक्षसन्निपा- तसमनन्तरमदृष्टपूर्वविश-क्षत्रसमानवयोवेषपिण्डद्वयसन्निधावजगजम- हिषादिविशेषवदयं ब्राह्मण : अयं क्षत्रिय इति विभागेन प्रतिपद्यामहे । न च तत्पित्रादिब्राह्मण्यस्मरणसापेक्षमक्षमेव सन्निहितव्यक्ति- वर्ति ब्राह्मण्यमवगमयतीति साम्प्रतं, तत्स्मरस्यैव पूर्वानुभवविरहेण वन्ध्यासुतस्मरणवदनुपपत्तेः । न चानुमानात्तत्पतिबद्धलिङ्गादर्शनात् । न च शम दम तपश्शौचादयो ब्राह्मण्ये लिङ्गं, तेषां ब्राह्मणेन सता संपाद्यत्वाद् व्यभिचाराच्च । न चार्थापत्या ब्राह्मण्यनिर्णयः, अनुपपत्त्यभावात्, न च वसन्ते ब्राह्मणोऽग्नीनादधीत इत्यादिवाक्यार्थानुपपत्या ब्राह्मण्य- निर्णयः, ब्राह्मण्यादिपदार्थावगमपूर्वकत्वात् तद्वाक्यार्थावगमस्य, नायं दोषः, न हि प्रथमात्तसंप्रयोगसमय एव भासमानं प्रत्यक्ष *तांस्तु भगवानेव तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकमिति विनिनिन्द । + न केवलं ममैव ब्राह्मण्यनिरूपणभार आवयोरुभयोरेव तस्य निरूपणीयत्वेन समत्वादिति भावः ।
७२ आगममामास्यम् । नान्यदित्यस्ति नियमः, यदेवेन्द्रियव्यापारानुवृत्तौ सत्यामपरोक्षम- वभासते तत्प्रत्यक्ष तथा च ब्राह्मण्यमिति तदपि प्रत्यक्ष, प्रतीमो हि वयमुन्मीलितलोचनाः तत्सन्ततिविशेषानुसंधानसमनन्तरं वासिष्ठ- काश्यपीय-शठमर्षणप्रभृतिविचित्रगोत्रकुलशालिषु समाचारशुचिषु विलसदुपवीतोत्तरीयशिखामौञ्जीवन्धेषु स्फुटतरमनुसंदधद् ब्राह्म- ण्यम् । न चैतदलौकिकं यत्सन्ततिविशेषानुसंधानसापेक्षमतं ब्राह्मण्यं ग्राहयतीति, सर्वत्र देशकालसंस्थानादितिकर्तव्यतानुगृहीतमेन्द्रिय स्वगोचरपरिच्छेदोत्पादे कारशाम्भवति करणमात्रस्यायं स्वभावो यदितिकर्तव्यतापेक्षणम् । यथाह । न हि तत्करणं लेाके वेदे वा किश्चिदीदृशम् । इतिकर्तव्यतासाध्ये यस्य नानुग्रहेऽर्थिता ॥ इति, ततश्च सन्ततिस्मृत्यानुगृहीतेन चक्षुषा । विज्ञायमानं ब्राह्मण्यं प्रत्यक्षत्वं न मुञ्चति ।। तथा च दृश्यते नाना सहकारिव्यपेक्षया । चक्षुषाजातिविज्ञानकरणत्वं यथोदितम् ।। सुवर्णं व्यज्यते रूपात् ताम्रत्वादेरसंशयम् । तैलाद् धृतं विलीनञ्च गन्धेन तु रसेन वा ॥ भस्मप्रच्छादिता वन्हिः स्पर्शनेनापलभ्यते । अश्वत्वादौ च दूरस्थे निश्चयो जायते ध्वनेः ॥ संस्थानेन घटत्वादि ब्राह्मणत्वादियोनितः । कचिदाचारतथापि सम्यग्राज्यानुपालितात् ।। इति ॥
अागमप्रामाण्यम् । ७३ यत्समानवयोवेषपिण्डद्वयविलोकने । तत्क्षणादक्षतो भेदो नावभातीति भाषितम् ।। नैतावता विभागस्य प्रत्यक्षत्वं निवर्तते । सादृश्यदोषात्तत्र स्याद् विभागस्यानवग्रहः ॥ समानरूपसंस्थानशुक्तिका-कलधौतयोः । विवेकः सहसा नाभादिति कालान्तरेऽपि विकम् ।। प्रत्यत्तो न भवेदेवं विपक्षत्रविशां भिदा । यद्वा संततिविशेषप्रणवत्वमेव ब्राह्मण्यं, तच्चान्वर व्यतिरेकाभ्यां यथालोकं कार्यान्तरबदवगन्तव्यमेव, के पुनः सन्ति विशेषा येषु ब्राह्मणशब्द प्रयुञ्जते वृद्धाः केषु वा प्रयुञ्जते । उक्तं गोत्रायादिस्मृतिमस्वित्यनेकशः । आस्तामप्रस्तुता चिन्ता प्राची प्रस्तूयते कथा ।। सिद्धं गोत्रादियुक्तत्वाद् विप्रा भागवता इति । वैश्यत्रात्यान्वये जन्म यदेषानुपतिम् ।। पञ्चमस्सात्वतो नाम विष्णरायतनानि सः । पूजयेदाज्ञया राज्ञः स तु भागवतः स्मृतः ।। वैश्यात्तु जायते व्रात्यादिति वाक्यद्वयेक्षणात् । अत्र ब्रूमः किमेताभ्यां वचनाभ्यां प्रतीयते ।। अभिधानान्वयो वा स्यानियमो वाऽभिधीयताम् । न तावत् सावत-भागवत-शब्दौ वैश्यत्रात्याभिधायकावेवेति नियन्तुं शक्यौ अप्रतीतेः, अतिप्रसङ्गाच, न हि पञ्चमः सात्वत इत्यत्र सात्वत-भागवत-शब्दयोरान्तराभिधानप्रतिषेधः प्रतीयते श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् इह हि व्रात्यवैश्यान्वयजन्मा यः पञ्चमः HDribe १० NA श्वयः आगमप्रामाण्यम् । साचत इति तस्य सात्वतसंज्ञान्वयोऽवगम्यते पञ्चम शब्दस्य प्रथम- निर्दिष्टत्वेनोदेश*कत्वात् । न च पञ्चयस्य सात्वतत्वे सात्वतेनापि वैश्यव्रात्यपञ्चमेन भवितव्यं, न हि उद्दिश्यमानस्याग्निमत्त्वे उपादीयमानस्याने धूमव- स्वेन भवितव्यम् अतो नेदृशस्मृतिपर्यालोचनया सात्वत-भागवत- शब्दितानां व्रात्यत्वनिश्चयः । यदि पुनरनयोर्जात्यन्तरेऽपि प्रयोगो दृष्ट इति एतावता तच्छ- ब्दाभिधेयतया भगवच्छास्त्रानुगामिनामपि विप्राणां तज्जातीयत्वनि- ततस्तत्रैव सहपठिताचार्यशब्दस्यापि निकृष्टतात्यापत्ये प्रयोगदर्शनात् साङ्गसरहस्यवेददातुर्द्विजपरस्यापि व्रात्यत्वं स्यात् । अथ तस्य प्रात्यवाचकाचार्य-शब्दाभिधेयत्वेऽपि प्रमाणान्त- रेणाप्लुतब्राह्मण्यनिश्चयात् प्राचार्य-शब्दस्य प्राचिनोत्यस्य बुद्धिम् इत्यादिगुणयोगेनापि वृत्तिसंभवान व्रात्यत्वशङ्का तदत्रापि जात्य- न्तरवाचकसात्वत-भागवत-शब्दाभिधेयत्वेऽपि भगवच्छास्त्रानुगा- मिनाममीपामतिस्पष्टविशिष्टगोत्रार्षयादिस्मरणदृढावगतत्वाद् ब्राह्म- गयस्य सात्वत-भागवत-शब्दयोश्च सत्यवति भगवति भक्तियोगेनैव वृत्तिसम्भवान्न व्रात्यत्वशङ्कावतारः, एतदुक्तं भवति । न चैकशब्दवाच्यत्वादेकजातीयता भवेत् । मा भूदाचार्यशब्दत्वाद् ब्राह्मणस्य निकृष्टता ।। तथा च हरि-शब्दस्य दृष्टा मण्डूकवाचिता । इति तच्छब्दवाच्यत्वात् सिंहो मण्डूक एव किम् ॥ तथा गो-शब्दवाच्यत्वाच्छन्दश्चापि विषाणवान् । * उद्देश्यसमर्थकत्वादित्यर्थः । सा menuen- आगमप्रामाण्यम् । ततश्च । सुधन्वाचार्य इत्याद्या यथाऽर्थान्तरवाचकाः । व्रात्यान्वये प्रयुज्यन्ते तथैवैतौ भविष्यतः ॥ यदुक्तं योगरूढिशक्तिद्वयोपनिपाते सात्वत-भागवत-शब्दयो- रूदिशक्तिरेवाश्रयितुमुचितेति । तदयुक्तं तृप्तावयवशक्त्यैवाभिधानोपपत्तौ सत्यामतृप्ताखण्डश- क्तिकल्पनाऽनुपपत्तेः । योऽपि हि सात्वत-भागवत-शब्दयोवश्यत्रात्यान्वयजन्मनि रूढिशक्तिमभ्युपगच्छति अभ्युपगच्छत्येव असावन्यत्र सरववद्भगव- च्छन्दयोः प्रकृतिभूतयोस्तदुत्पन्नस्य च तद्धितप्रत्ययस्यार्थान्तराभि- धानसामर्थ्य साचतं विधिमास्थाय, जन्मान्तरकृतैः पुण्यैनरो भागवतो भवेदित्यादौ तदिहापि तद्योगेनैव व्रात्यान्वयजन्मनि वृत्ति- सम्भवेन शक्त्यन्तरकल्पनायां प्रमाणं क्रमते, संभवति चैतेषामपि साक्षाद्भगवदाराधनाभावेऽपि वासुदेवस्यायतनशोधन-बलिनिर्ह- रण-प्रतिमासंरक्षणादिक्रियायोगेनैव सात्वत-भागवत-शब्दाभि- धेयत्वं, तस्येदम् इति संबन्धमात्रेऽपि चाणप्रत्ययस्मरणात्, उक्तश्च वैश्यवात्यान्वयजन्मनोऽपि भगवदायतनादिशोधनादिक्रियायोगः, सात्वतानाञ्च देवायतनशोधनं नैवेद्यभोजनं प्रतिमासंरक्षणम् इति, तथा विष्णोरायतनानि संपूजयेदिति । एतेन इदमप्यपास्तं यदेषामपि वृत्तिसाम्याद् व्रात्यत्वमिति अन्यदेव हि देवायतनशोधनवलिनिर्हरणप्रतिमासंरक्षणादिकम् । अन्ये चाभिगमनोपादानेज्या-स्वाध्याययोगा भागवतैरहरहरनुष्ठीय- मानाः क्रियाकलापा इति ज्योतिष्टोमादाविव तथैव ज्योतिष्टोमे ग्रहचमसजुह्वादिपात्रकरणतक्ष्णादिषु तक्ष्णो व्यापारः, ऋत्वि- जस्तु विशिष्टमन्त्रोच्चारणदेवताभिध्यानाऽभिष्टयप्रभृतिषु ।
Tam HTTMru P मा माTHAprt- ७६ স্মাণামু। न च तावता तेषां तणावै कजातित्वसंशयः, एवमिहापि भगवच्छास्त्रसिद्धपाञ्चकालिकानुष्ठातणामन्येषामायतनशोधनादि कु- र्वतां प्रासादपालकावरनानामन्त्यानां चेति । यत्पुनरुक्तं सात्वत-भागवत-शब्दयोागिकत्वे रथकार श्राद- धीत इत्यत्रापि रथकार-शब्दस्य स्थकरणयोगेन त्रैवर्णिकवृत्तिप्रसङ्ग इति तदनुपपरे, युक्तं हि तत्राधानोत्पत्तिवाक्यावगतवसन्तादिका- लवायमसङ्गात, सौधन्वना भवः सूरचक्षस इति मन्त्रवर्णावगत- जात्यन्तरवृत्तिबाधप्रसङ्गाच्च । माहियेगा करिहयां तु स्थकारः प्रजायते इति स्मृत्यवगतजात्यन्तरत्वेऽपि क्षत्रियवैश्यानुलोमोत्पन्नो रथकारस्तस्येज्याधानोपनयनक्रियाश्चाप्रतिषिद्धा इति शङ्खवच- नाद् विद्यासाध्येऽपि कर्मणि अधिकाराविरोधात्, त्रैवर्णिकानाञ्च शिल्पोपजीवित्वस्य प्रतिषिद्धत्वेन तेषु रथकारशब्दस्यानुचितत्वाच जात्यन्तरवाचित्वाध्यवसानं, न चेह तथा विरोधोऽस्ति । अपि च । वृक्षवयवशक्त्यैव लब्धे स्वार्थावबोधने । नष्टावयवमानत्वं प्रत्याचष्ट च सूत्रकृत् ।। प्रोक्षणी वर्थसंयोगात् इति । ततश्च सवाद्भगवान् भज्यते यैः परः पुमान् । ते सात्वता भागवता इत्युच्यन्ते द्विजोत्तमाः ।। स्मृत्यन्तराणि च भागवतानामुत्कृष्टब्राह्मण्यप्रतिपादकानीति परस्तात् प्रदर्शयिष्यन्ते । यत् शुनरुक्तं समाने ब्राह्मण्ये किमिति सात्वत-भाग- वतैकान्तिक- शब्दरेचैतेषां नियमेन व्यपदेश इति तत्परिव्राजक- निगदादिवदित्यदोषः ।
THORIRAAHUB ७७ प्रागमप्रामाण्यम् । यथैव हि समाने ब्राह्मण्ये यजुवे च केचिदेव ब्राह्मणाः कानिचिदेव यजूंषि परित्राजकनिगदशब्दाभ्यामधीयन्ते तिष्ठन्तु ब्राह्मणाः परिव्राजका श्रानीयन्तां, यजूंषि वर्तन्ते न निगदाः, निगदा वर्तन्ते न यजूंषि इति च तथेहापि भविष्यति, निगदाश्चतुर्थ- म्मन्त्रजातं यजूंषि वा तद्रूपत्वात् इति न्यायाभिधानात् । वृत्त्यर्थ देवतापूजानैवेद्यप्राशनादिभिः । दौाह्मण्यं यदप्युक्तं तत्र प्रतिविधीयते ।। न हि भागवतैस्सर्वैर्वृत्तयेऽभ्यचित्तो हरिः । दृष्टा हि वहवस्स्वार्थ पूजयन्तापि सात्वताः ॥ केचिद्यदि परं सन्तः सात्वतात्तिकर्शिताः। याजयन्ति महाभागै वैष्णवैत्तिकारणात् ।। न तावतेषां ब्रामरायं शक्य नास्तीति भाषितुम् । न खल्वाध्वर्यवं कुर्वञ् ज्योलिटोमे पतिष्यति ॥ यदि न प्रतिगृह्णीयुः पूजैव विफला भवेत् । पूजासाद्गुण्यसिद्धयर्थमतस्ते प्रतिगृह्यते ।। अर्चनान्ते हिरण्यञ्च तस्मै देयं स्वशक्तितः ।। अन्यथा पूजकस्यैव तत्र पूजाफलं भवेत् ।। हन्त्यल्पदक्षिणो यज्ञ इत्यादिस्मृतिदर्शनात् । ऋत्विजा द्रव्यलुब्धेन स्वयं याचापुरस्सरम् ॥ यदाविज्यं कृतं कर्म तदेव हि निपिध्यते । तद्यथा यदाशंसमानमात्विज्यं कारयन्ति उत वा मे दद्यात् उत वा मा वृणीत इति तद्ध तत्परागेव यथा जग्धं न हैवं त्यज्य- मानं भुनक्ति । इति, श्रद्धापूतदक्षिणादानं तुभयोरपि श्रेयस्करमेव । योऽचितं प्रतिगृह्णाति दद्यादर्चितमेव च ॥
७८ आगमप्रामाण्यम् । ता उभौ गच्छतः स्वर्गमित्यादिस्मृतिदर्शनात् । यदपि वृत्यर्थ देवपूजनाद् देवकोशोपजीवित्वाच देवलकत्त्व- प्राप्तिरिति तदपि देवतान्तरवृत्त्याराधन-तत्कोशोपजीवनविषयमिति द्रष्टव्यम् । तथा च भगवान् व्यासः । भवेदेवलको यो वै रुद्रकाबुपजीवकः । इति, अपि भवति शाण्डिल्यवचनम् । वृत्त्यर्थ याजिनस्सर्वे दीक्षाहोनाश्च केवलम् । कर्मदेवलका एते स्मृता ह्यत्र पुरा मुने । तांश्च संवत्सरादूर्ध्वं न स्पृशेन च संविशेत् । तथा । कल्पदेवलकाः केचित् कर्यदेवलका अपि । अथ त्रिवर्षादृर्ध्वमयोग्या देवकर्मणि ।। ये कल्पोक्तं प्रकुर्वन्ति दीक्षाहीना द्विजातयः । वृत्यर्थं वा यशोऽथ वा कल्पदेवलकास्तु ते ॥ वृत्तिं कृत्वा तु विप्रेण दीतितेन विधानतः । अन्येन यूजयेदेवमशक्तः स्वयमर्चने ॥ यजनं मुख्यमेवैतद् गौण मेवान्यथा भवेत् । अन्यथा इति-अदीक्षितेनेत्यर्थः, तदेव स्पष्टयति अदीक्षितेन विप्रेण येनकेन विधानतः । वृत्यर्थ यत्कृतं कर्म तज्जधन्यमुदाहतम् ।। इत्यादिस्मृतिशतपर्यालोचनात् पञ्चरात्रसिद्धदीक्षासंस्कारवि- रहितानां ब्राह्मणानां देवकोशोपजीवनवृत्यर्थपूजनादिकमुपब्राह्मण- आगममामाण्यम् । त्वदेवलकत्वावहमिति निश्चीयते, यत्पुनः शिष्टविगर्हितनिर्माल्यनि- वेद्योपयोगाद् भागवतानामशिष्टत्वमिति । तत्र ब्रूमः किमिदं निर्माल्यं निवेद्यं चाभिप्रेतं श्रोत्रियस्य । पुष्पौदनादिमानं चेत् सर्वलोकाविरुद्धता । पुष्पौदनपरित्यागं न हि लोकोऽनुमन्यते ।। विशिष्टप्रतिषेधोऽपि न युक्तस्तदसिद्धितः । न ह्यनिरूपितविशेषणा विशिष्टबुद्धिराविरस्ति, न चेह विशेषणं निरूपयितुं शक्यते, किमिति न शक्यते यावता देवोदेशेन परित्यागो विशेषणं, किमिदानी पञ्चरात्रशास्त्रमपि प्रमाणमङ्गीकृतं भवता येन पञ्चरात्रतन्त्रविहितमन्त्रप्रतिष्ठापितप्रतिमासु देवतामभ्युपेत्य तदुद्देशेन त्यागो विशेषणमभिलष्यते, कथं हि तत्यापाण्यानभ्युप- गमे तत्प्रतिपाद्यमानाया देवतात्वं, कथन्तराञ्च तदुद्देशेन त्यक्तस्य निर्माल्यनिवेद्यभावः, न हि काचिज्जात्या देवता नामास्ति, यैव हि हवि.प्रतियोगितया प्रमाणभूताच्छब्दादवगम्यते सा तत्र देवता इति हि वः सिद्धान्तः । अथ पञ्चरात्रिकैर्देवतोदेशेन परित्यक्तत्वाभ्युपगमानिर्माल्यनिये- घभावः, हन्त तर्हि, तैरेव परमपावनतयाऽपि निर्माल्यनिवेद्योपयोग- स्याङ्गीकृतत्वात् तद्वदेव पावनत्वमङ्गीक्रियताम् । अथापावनमेव तैः पावनबुद्धया परिगृहीतमिति न तत्प्राशस्त्य- मङ्गीक्रियते, हन्त तीदेवतैव देवताबुद्धयारोपेण तैः परिगृहीतेति न तदुद्देशेन त्यक्तस्य निर्माल्यनिवेद्यभावोऽङ्गीक्रियताम् । एतदुक्तं भवति पुष्पौदनादिस्वरूपमात्रत्यागस्यानिष्टत्वात् स्वदर्शनानुसारेण च विशेषणासंभवात् परदर्शनानुसारेण विशेष- आगमनामाश्यम् । णनिरूपणे तस्यैव परमपावनत्वापातात तत्र प्रामाण्यमभ्युपगच्छ- द्भिरन्यैश्च निर्माल्यनिवेद्योपयोगोऽवश्यानीकरणीय इति । आह कथं पुनस्तत्र प्रामाण्यमङ्गीकुर्वता निर्माल्यं निवेधञ्च न परिहरणीयम् । निषिध्यते हि तन्त्रेषु निर्माल्यप्राशनादिकम् । यथा सनत्कुमारीयसंहितापामुदीरितम् । निवेदितं तु यद्धव्यं पुष्पं फलमथापि वा। तनिर्माल्यमिति प्रोक्तं तत्प्रयत्नेन वर्जयेत् ।। तथा प्रदेशान्तरे। निर्माल्य भनयित्वैवमुच्छिष्टमगुरोरपि । मासं पयोवतो भूत्वा जपनष्टाक्षरं सदा ॥ ब्रह्मकूच ततः पीत्वा पूती भवति मानवः । इति, तथेन्द्ररात्रे । न चोपजीवेहवेशं न निर्माल्यानि भक्षयेत् । तथा । न चोपयोगयोग्यानि निर्माल्यानि कदाचन । इति, तथा संहितान्तरे। निर्माल्यानि न चाश्नीयान्न जिप्रेन च लङ्घयेत् । इति, तदेवमनेकसंहितासमधिगतनिषेधस्य निर्माल्योपभोगस्य कथमिव पावनत्वाङ्गीकारः, * न चोपभोगयोग्यानीति पा.। M -- - - आगमप्रामाण्यम् । ८१ अत्राह देवमुद्दिश्य त्यक्तस्यापि च वस्तुनः । नाडिकादशकादागुपयोगो न निन्दाते ।। तथेन्द्ररात्र एव । दशनाड्यधिकं पूरं स्थापयेत्तु विचक्षणः । कालयोगस्समुद्दिष्टो रात्रावहनि चैव हि ॥ कालयोगातिरिक्तं तु निर्माल्यं परिचक्षते । ततस्तदप्सु चैवायौ क्षिपेद्भूमौ खनेत्तु वा ॥ इति । उच्यते नात्र निर्माल्यप्राशनादि प्रशस्यते । किन्तु पूरणपूजायां विनियुक्तस्य वस्तुनः ॥ नाडिकादशके पूणे पश्चात्यागो विधीयते । सामान्येन निवेदितस्य पुष्पौदनादेः कृतकार्यतया निर्माल्यत्वे- नापनये प्राप्ते नाडिकादशपूरणं पूजाङ्गतया स्थापनं विधीयते दशना- ड्यधिक पूरे स्थापयेदिति । ततश्च तन्त्रसिद्धान्तपर्यालोचनयापि वः । हरिद्राचूर्ण-नैवेद्य-पादाम्बुस्पर्शनादिकम् ॥ न सिध्येत् तन्त्रसिद्धान्तः क नु यूयं क चाल्पकाः । अहो विद्यालवोल्लासिजिताग्रस्तविचेतसः ।। सितासितं वचो भाति सकलङ्केन्दुविम्बवत् । ये हि युष्पद्विधा मूर्खास्तेषामेव निषेधगीः॥ सेव्यमानं हि तत्सर्व वैष्णवैरधिकारिभिः । अघौधध्वंसनायालं सोमपानमिवाध्वरे ।। अन्येषां हि तदस्पृश्यं पुरोडाशः शुनामिव । तद्यथेश्वरसंहितायाम् । दुर्लभो भगवद्भक्तो लोकेऽस्मिन् पुरुषः सुत ? । तत्रापि दुर्लभतरो भावो वै यस्य तत्त्वतः ॥
८२ आगमप्रामाण्यम् । पादोदकं प्रति शुभस्सिद्धान्ते च निवेदिते । म्रगादिके चोपभुक्ते धुपभोगार्थमेव च ॥ अतश्च भावहीनानामभक्तानां च पणमुख ? | निषिद्धं भगवन्मन्त्रदृक्पूतमखिलं हि यत् ॥ इति, तथा प्रदेशान्तरे। कुङ्कुम चन्दनश्चैतत् कर्पूरमनुलेपनम् । विष्णुदेहपरामृष्टं तद्वै पावनपावनम् ।। इति, तथा पद्मोद्भवे । विष्णुदेहपरामृष्टं यचूर्ण शिरसा वहेत् । सोऽश्वमेधफलं प्राप्य विष्णुलोके महीयते ॥ तथेश्वरसंहितायाम् । उपभुक्तस्य सर्वस्य गन्धपुष्पादिकस्य च । म्नानादावुपयुक्तस्य दधिक्षीरादिकस्य च ।। दृषणं न प्रयोक्तव्यं शब्दैरप्रातिपत्तिजैः । निर्माल्यबुद्ध्या देवीयं पावनं दृषयन्ति ये ॥ ते यान्ति नरक मूढास्तत्प्रभावापलापिनः । इति, यानि पुनर्दीक्षितमेवाधिकृत्य समयानुशासनसमये निर्माल्यो. पयोगनिषेधपराणि वचनानि तानि पारिपदेशोपयोगोत्तरकाला- भिप्रायेण द्रष्टव्यानि । यता भगवदर्थेन त्यक्तं सकचन्दनादिकम् । पश्चादभोग्यतां याति विष्वक्सेननिवेदनात् ।। * श्रीमद्भागवते यथाऽऽह भगवन्तं श्रीकृष्णमुद्धवः-तवोच्छिप्रभुजो दासास्तव मायां जयेमहि इति। निन्दाऽसूयाद्याविष्कारकारकैरित्यर्थः । * भगवत्पारिषदानामीशोविष्वक्सेनस्तदुपयोगानन्तरकाले निषेधपराणि दृष्ट- व्यानि ।
---
८३
आगमप्रामाण्यम् ।
अत एव निवेद्यादि ततोऽर्वागेव सात्वतैः ।
सेव्यते तेन तत्तेषामुत्कर्षस्यैव कारणम् ॥
अपि च ।
देवतान्तरनिर्माल्यं शिष्टैरिष्टं विगर्हितम् ।
इदन्तु वैदिकत्वेन सोमपानवदिष्यते ॥
ये नाम भगवच्छास्त्रप्रामाण्यं नानुजानते ।
न निरूपयितुं शक्यं तैर्निर्माल्यमितीरितम् ।।
निरूपणेऽपि भगवनिर्माल्यमतिपावनम् ।
समस्तवैदिकाचार्यवचनैश्वसीयते ॥
शब्दप्रमाण के ह्यर्थे यथाशब्दं व्यवस्थितिः ।
न चात्र शब्दो नास्तीति वक्तव्यं बधिरेतरैः ।।
यथा ब्रह्मपुराणे च पठ्यते ।
विष्णोनैवेद्यकं शुद्धं मुनिभिर्भोज्यमुच्यते ।
अन्यन्निवेद्य निर्माल्यं भुक्का चान्द्रायणञ्चरेत् ।।
विष्णुदेहपरामृष्टम्माल्यं पापहरं शुभम् ।
यो नरश्शिरसा धत्तं स याति परमाङ्गतिम् ।।
एतेन ।
निर्माल्यञ्च निवेद्यञ्च भुक्त्वा चान्द्रायणञ्चरेत् । इति
स्मरणमपि रुद्रकाल्यादिविषयमित्यायेदितव्यं, तथा महाभारते ।
हृदि ध्यायन् हरि तस्मै निवेद्यान्नं समाहितः ।
मध्यमाऽनामिकाटेर्गहीत्वान्नामितं पुनः ।।
प्राणाय चेत्यपानाय व्यानाय च ततः परम् ।
उदानाय समानाय स्वाहेति जुहुयात् क्रमात् ।।
इति, तथा प्रदेशान्तरे।
निवेदितन्तु यद्देवे तदद्याद् ब्रह्मचारिणे । इति ।
-----
RAdal Mruirung ८४ आगमप्रामाण्यम् । तथा महाभारते । पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः । पापणं भगवद्भुक्तं भुञ्जते चायभोजनम् ।। इति, तथा च भगवान् शौनकः नैवेद्यं स्वयमश्नीयात् इति, । इत्यादिस्मृतिशतसिद्धशुद्धि विष्णोनवेद्यं भवभयभेदि यो विनिन्देत् । नास्तिक्यात् स्मृतिवचनान्युपेक्षमाणस्तज्जिद्वाविशसन- मेव युक्तमत्र ॥ ननु प्राणाग्निहोत्रस्य नैवेद्यं साधनं कथम् । निरिष्टकं न शिष्टानामिष्टं होमादिसाधनम् ।। न च द्रव्यान्तराक्षेपो होमायेत्यवकल्पते । रागतः प्राप्तमेवान्नं यतस्तेनोपजीव्यते ।। नापि भुक्त्यन्तराक्षेपो नैवेद्यायोपपाद्यते । सायं प्रातद्विजातीनामशनं श्रुतिचोदितम् ।। नान्तरा भोजनं कुर्यादिति तत्प्रतिषेधनात् । नैष दोषो यतः प्राणप्रभृतिर्देवतागणः ।। गुणभूतः श्रुतो विष्णोविष्णुपारिषदेशवत । यथैव हि भगवन्निवेदितमपि पुष्पादनादिविष्वक्सेनाय दीयमानं नानौचित्यमावहति । यथा वा होतुरुच्छिष्ट एव सोमरसोऽध्वरे । अध्वर्वादेविशुद्धथै स्यादेवमत्र भविष्यति ।। अपि च । भाज्या भाज्यव्यवस्थायाः शास्त्रमेव निबन्धनम् । तच्चेद्भोज्यमिदं ब्रूते किं वयं विदधीमहि ।। 4mne -- ८५ आगमप्रामाण्यम् । यथाऽनुष्ठानतन्त्रत्वं नित्यकाम्याग्निहोत्रयोः । एवं प्राणाग्निहोत्रेऽपि नैवेद्याशनतन्त्रता ।। यदप्युक्तं गर्भाधानादिदाहान्तसंस्कारान्तरसेवनाद् भागवताना- मब्राह्मण्यमिति तत्राप्यज्ञानमेवापराध्यति, न पुनरायुष्मतो दोषः, यदेते वंशपरम्परया वाजसनेयशाखामधीयानाः कात्यायनादिगृह्यो- क्तमार्गेण गर्भाधानादिसंस्कारान् कुर्वते । ये पुनः साकियनुवचनप्रभृतित्रयीधर्मत्यागेन एकायनश्रुति- विहितानेय चत्वारिंशत् संस्कारान् कुर्वते तेऽपि स्वशाखागृह्योक्त- मर्थ यथावदनुति*ठमानाः शाखान्तरीयकर्माननुष्ठानाद् ब्राह्मण्यात् प्रच्यवन्ते, अन्येषामपि परशाखाविहितकर्माननुष्ठाननि- मित्ताबामण्यप्रसङ्गात् सर्वत्र हि जाति-चरण-गोत्राधिकारादिव्य- वस्थिता एव समाचारा उपलभ्यन्ते । यद्यपि सर्वशाखाप्रत्ययमेक कर्म तथाऽपि न परस्परविलक्षणाधिकारिसंवद्धा धर्माः कचित्स- मुच्चीयन्ते, विलक्षणाश्च त्रयीविहितस्वर्गपुत्रादिविषयोपभोगसाधनै- न्द्राग्नेयादिकर्माधिकारिभ्यो द्विजेभ्यस्त्रय्यन्तैकायनश्रुतिविहितविज्ञा- नाभिगमनोपादानेज्याप्रभृतिभगवत्प्राप्त्येकोपायककर्माधिकारिणोमुसु- क्षवो ब्राह्मणा इति नोभयेषामप्यन्योन्यशाखाविहितकर्माननुष्ठानम- ब्राह्मण्यमापादयति, यथा चैकायनशाखाया अपौरुषेयत्वं तथा + यद्यपि अनूपसृष्टात्तिष्ठतेनात्मनेपदं प्राप्नोतीति अनुतिष्ठन्त इत्येव स्यात्तथापि अनुष्टानशीला अनुष्ठानपरायणा इत्यर्थस्य प्रतिपिपादथियितत्वेन ताच्छील्यव- योधचनशक्तिषु चानश इति पाणिनीयेन चानशप्रत्ययो न तु शानच्प्रत्यय इत्यवधार- यन्तु निपुणा.। t काश्मीरागमपदेन कि विवक्षितमिति न विशिष्य जानीमः काश्मीरागमनामा- ण्यनिरूपणपरोग्रन्थोऽपि चास्मदृष्टेरगोचर इति न किचिदीश्महे वक्तुम् । यत्नेन तु तत्सर्वमासाद्य समये प्रकाशयिष्यते । - - ८६ आगमप्रामाण्यम् । काश्मीरागमप्रामाण्ये प्रपञ्चितमिति नेह प्रस्तूयते । प्रतानां तु भागवतानां सावित्र्यनुवचनादित्रयीधर्मसंबन्धस्य स्फुटतरमुपलब्धेन, तत्त्यानिमित्तत्रास्यत्वादिसंदेह सहते ॥ एतेनैते श्रीसंप्रदाये सर्ववेदरहस्यार्थानुयायिनि केनाप्यज्ञाससुकृतेन समुत्प- द्यापि शिप्यसजिघृक्षया वा, शिष्यान् व्यामा ह्यार्थलिप्सया वा, शास्त्रतत्त्वार्थान- भिज्ञानेन वा, दुरभिमानगरिम्णा वा, लोकधन्धनार्थ वा, पूर्वाचार्यवचस्स्वश्रद्धया था, तदीयचरमतात्पर्यज्ञानाशक्ततया वा, कलिकल्मषकलुपतया वा, स्वीयदुरदृष्टाकृष्टतया वा, वादिनिगृढातिप्रौढभावार्थानभिज्ञतया वा लाके स्वप्रौढिमख्यापनाय वादिनी मुधैव संनिनत्सया वा, अथवा संभूयतैः सर्वहंतुभिरेव ओतत्सदिति निर्देशा ब्रह्मणस्त्रि विध स्मृत इति भगवदुक्तरीत्या ब्रह्मासाधारण-तदादिपदघटित परब्रह्मासाधारण- श्रीरामायणारम्भणरूपे गायत्रीमन्ने सर्ववाद्यविप्रतिपन्न परदेवताप्रसादक देवतान्तरार्थ. कत्वं बलादध्यारोप्य साधारणमन्त्रताप्रसाधनेन तस्य क्षुद्रदेवाराधनपरत्वं वा द्विजा- नामनावश्यकत्वल्यापनं वा क्षुद्रमन्त्रसाम्यसंभावनं वा कुर्वन्तः परास्ताः। प्रकृतानां भागवतानां तदत्यागबोधनेन त्यजतां च व्रात्यताबोधनेन पूर्वाचार्याणां गायत्रीमन्ने द्विजत्वप्रसाधकतायाः स्पष्टमनुमतत्वेन तन्नित्यत्वे विवदमानानामाचार्थिवैमुख्यस्य बालेनापि सुज्ञानत्वात् । यदपि कचित् स्मृतिषु गायत्र्या रविदेवताकत्वं सवितृदेवता- कत्वं वा श्रूयते इति न तस्या भगवन्मन्त्रत्वमिति समुत्थानं तत्तु “रविः सुलोचनः सूर्यः सविता रविलोचन.'' इति लोकन्थभगवन्नामानभिज्ञाननिबन्धनमेव । यत्र ब्रह्मासाधारणलिङ्गदर्शनेन भोतिकाकाशादिवाचकाकाशादिपदानामाकाशस्तल्लिना- दिति परब्रह्मोपस्थाकत्वमास्थिषताचार्याः किमु तत्र भगवन्नामगणान्तःपातिनो राषस- विसृपदयोभगवद्वाचकत्वविप्रतिपत्तिसमुत्थानशङ्काऽपि विदुषाम् । न च यानि नामानि गौणानि विख्यातानि महात्मनः । इत्यादिना सहस्त्रनामाचार्य एब गौणनामताम- वोचदिति न तयोर्भगवद्रढत्वं किन्तु रवि-सवितृपदयो. कोशादिना दिवाकर एव रूविरिति कथं भगवदसाधारण्यसंभावनापीति वाच्यम् । न ह्यन्त्र गौणानी- त्युक्त्या गुणवृत्त्या भगवदभिनिर्देशकत्वमभिधित्सितं किन्तु अवयवशतया भगवद- भिधायकत्वेन डित्थकरित्यादिशब्दानामिव भगवन्नामगणान्तःपातिशब्दानां न यदृच्छाशब्दत्वं, किन्तु लोकवदयोस्तेषां शब्दानां तदर्थे शक्तिभ्रमविधुरेलक्षणाप्रह- रहितश्च ऋषिभिभूशं परस्मिन् ब्रह्मणि वासुदेवेऽभिहितत्वाचद्वाचका एव ते शब्दा इत्ययमथः। अत एव तु प्रयोगभूयस्त्वाभिधित्सया " विख्यातानी" त्युक्तम् । परिगीतानीत्यत्र परिपदमपि सहस्रनाम्नां रूढत्वमुपोद्वलयति । किच सर्वधीप्रेरयितृत्व- लक्षणान्तर्यामिकृत्यालङ्गोपलम्भसामर्थ्यापि तस्या ब्रह्मासाधारण्यसिद्धिः। किंच प्रिय एव हि सर्वथा वरणीयो भवति नाप्रिय इति वरणीयत्वलिङ्कलिङ्गितत्वेनापि निरतिशयप्रियतमत्वेन ब्रह्मासाधारण्यसिद्धिरिति प्रव्यक्तम् । ततश्चर्षीणां लक्षणाग्रहा- जन्यभूयःप्रयोगयोगेन मानां रूढत्वसिद्धया सवित्रादिदेवताकत्वं परब्रह्मासाधारण- देवताकत्वसाधकमिति सुपुष्कलमवशिष्टं चास्मच्छिष्यः सुनिरूपितमन्यत्रेति कृत- ममभिज्ञनिग्रहसनहनेन वैदिकमार्गनिष्कण्टकीकरणप्रवृत्तानां सुदूरदृशाम् ॥
८७
आगममामास्यम् ।
तत्तत्कल्पितयुक्तिभिएशकलशः कृत्वा तदीयं मतं ।
यच्छिण्यरुदादि सात्वतमतस्पर्द्धावतामुद्धतिः ।।
पञ्चेतत्सततं मुकुन्दचरण इन्द्रास्पदं वर्तते ।
जीयान्नाथमुनिस्म्वयोगमहिमप्रत्यक्षतत्वत्रयः ॥
आकल्पं विलसन्तु सात्वतमतप्रसद्धिदुष्पद्धति-
व्यामुग्धोद्धतदुर्विदग्धपरिषद्वैदग्ध्यविध्वंसिनः।-
श्रीमन्नाथमुनीन्द्रवद्धितधियोनिर्धविश्वाशिवाः
मन्तस्सन्ततगद्यपद्यपदवीहृयानवद्योक्तयः ।
इति श्रीयामुनमुनिविरचितमागमप्रामाण्यम् ॥
श्रावणकृष्णाप्रतिपदि शुक्र संवत् १६५७ ।।
1928
। स्थान
उ.नि. शि. मन
वाराणी
C
सानाथ,
।
SAHAR
है GURNA FREEEEEEEEEEEEEEEEEEEET इ० जे० लाजरस ऐण्ड को द्वारा प्रकाशिवालि पुस्तकानि अद्वैतदीपिका-सटीक अनुवाददीपिका यागमनामाग्य- काशिका खण्डनखण्डखाद्य- जौमिनिसूत्र ( न्यायशात्र) तत्त्वमुक्ताकलाप तत्त्वविन्दु दिल्मीमांसा न्यायसिद्धान्तमञ्जरी- पराशरस्मृति-विद्वन्मनोहराख्य ब्याख्यासहित प्रौढमनोरमाखण्डन ब्रह्मसूत्रतात्पर्यविवरण महाभारततात्पर्यनिर्णय विधिविवेका वेदार्थसंग्रह शाकटायन व्याकरण श्रीभाष्य रामानुज श्रौतपदार्थनिर्वचन सिद्धान्तशिरोमणि-पूर्वाई म०म० श्रीमुरलीधरझा कृत टीका ith सर्वविधपुस्तकमाप्तिस्थानम्- मास्टर खेलाडीलाल ऐण्ड सन्स, संस्कृत बुकडिपो, कचौड़ीगली, बनारस सिर्ट! ।