S.V.Digital Library, Tirupati

Nyayachandrika

15.10.04

PDF Proofread

Front matter

more
studio
MARADIOpanese
॥ अथ श्रीमदनुव्याख्यानटिप्पणी ॥
16387
॥ नयचन्द्रिका प्रारभ्यते ॥
--
ma
Hapoor
load
mamta
--
R
Read

No text on this page.

॥ श्रीगुरुभ्यो नमः ॥ हरिः ॐ ॥ विष्णुं सम्पूर्णविज्ञानपरमानन्दविग्रहम् ॥ कमलाकान्तमस्यन्तमन्तर्बहिरुपास्महे ॥ १ ॥ श्रीमन्नारायणा- ख्यानं सज्ज्ञानानन्दलक्षणम् ॥ वेदान्तवेदितौदार्य मुख्यं ब्रह्म प्रतन्महे ॥ २ ॥ येन गोवर्धनछमछत्रेणात्रायि गोब्रजः ॥ कृष्णं तमतसीकृष्णं वन्दे सौन्दर्यवारिधिम् ॥ ३ ॥ नमो वेदान्तराद्धान्तसूक्तिरत्नाकरात्मने ॥ श्रीमदानन्दतीर्थाख्यभगवहुग्धसिन्धवे ॥ ४ ॥ त्रिविक्रमार्यवर्याणां गुरूणां पादरेणवः ॥ दिशन्तु शश्वदस्माकं शुद्धिं बुद्धनिरामपि ॥ ५॥ तं पद्मनाभतीर्थाब्धि पद्मनाभप्रियं भजे ॥ सन्यायरत्नावल्याख्याद्यतो मधेन्दुहितात् ॥ ६ ॥ अनुव्याख्यासुधाम्बोधौ गम्भीरे विहरन्ति ये ॥ तेषां परमहंसानां पद्मच्छायामुपास्महे ॥ ७ ॥ सन्न्यायरत्नावलयः सन्न्यायामृतबिन्दवः श्रीमत्तत्त्वप्रदीपाश्च सन्तु नश्शरणप्रदाः ॥ ८॥ श्रीमद्गुरूणां कारुण्यकल्पवृक्षसमाश्रयात् ॥ अभिप्रायोऽनुभाष्यस्य याबद्बोधमनूबते ॥९॥ नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः ॥ अस्योद्भवादिदमशेषविशेषतोऽपि वन्धं सदा प्रियतमं मम सन्नमामीत्यनेनानु- भाष्यमारभमाणो भगवानभीष्टदेवतामभिष्टुवन्नमस्करोति शिष्टाचारपरिरक्षणार्थम् । अनेनैवाधिकारिविषयप्रयोजनानि तत्सम्बन्धं च सूचयति । प्रथमत एव प्रयोजनस्यावगतौ प्रवृत्तिस्सम्भवतीति तत्सूच्यते । अस्योद्भवादिदमित्यादिशब्देन मोक्षस्यापि विवक्षितत्वानिर्दुःखसुखात्मके मोक्षे प्रयोजने सर्वेषामपि प्रवृत्तिः प्रसज्यते । तयुदासायाधिकारिणं विशिनष्टि ॥ सन्नमामीति । सन्नमामीत्यष्टाङ्गविशिष्ट एव प्रणामो विवक्षितः । उरसा शिरसा दृष्टया मनसा वचसा तथा । पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग ईरित इत्यष्टाङ्गान्युच्यन्ते । उरआदिना प्रणिपातः । मनसा सद्भक्तिकं स्मरणम् । वचसा वेदमन्त्रवचनम् । एवं च ह्यध्ययनवान्सुभक्तिमानेवाधिकारीत्युक्तं भवति । अहं सन्नमामी- त्युक्ते सत्यप्यनन्ताधिकारिण इति सूचितं भवति । वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव चेति वचनादाचारस्यापि धर्ममूलत्वाच्छास्त्र प्रयोजनं च शास्त्रप्रतिपाद्याद्भवितुमर्हति । तदर्थ प्रतिपाद्य विषयमपि सूचयति ॥ नारायणमिति ।

अटिक ॥१॥ एवं प्रतिपादकत्वं शास्त्रस्य प्रतिपाद्यत्वं नारायणस्य प्रयोजनं दातृदेयभावं च देयत्वं ग्राह्यत्वं प्रयोजनस्य गृहीतृत्वं चाधिकारिण इति मान०० सम्बन्धश्च सूचितः । एतेऽर्या भगवतैब प्रथमसूत्रे ह्याक्षिप्ताः । अथशब्देनाधिकार्यतः शब्देन प्रयोजनं ब्रह्मशब्देन विषयः प्रतिपाद्यप्रतिपादk प्र०म० कत्वलक्षणसम्बन्धश्च । नारायणं सन्नमामीत्यन्वयः । निखिलपूर्णगुणैकदेहमित्यादिविशेषणचतुष्टयेनाघ्यायचतुष्टयोपदिष्टमुपक्षिपति । निखिलैः अ०१ पूर्णगुणैरमिनदेहं गुणात्मकदेहमित्यर्थः । तत्तत्समन्वयोक्त्या गुणपूर्णत्वमेव हि प्रथमाध्याये विवक्षितम् । द्वितीये तत्तद्विरोधपरिहारेण दोषरहित- वं विवाक्षितम् । तच्चाह ॥ निर्दोषमिति । सुवाक्यैः सुष्टुवाक्यैः । आप्यतमं ज्ञेयतमम् । परब्रह्मण्यधिकृततात्पर्यत्वेन सुनिश्चितवेदवाक्याः सुवाक्याः पुरुषः सुवाक्याः । ज्ञानवचनेनैव तत्साधनवैराग्यभक्त्युपायोऽपि सूचितो भवति । अयमेव हि तृतीयाध्यायार्थः । फलाध्यायार्यों मोक्षश्वाशेष- विशेषतोऽप्यस्योङ्गवादिदमिति सूच्यते । अस्य जगत उद्भवस्थितिसंहारनियमनज्ञानाज्ञानबन्धमोक्षपदमशेषैरपि विशेषैः सहेत्यर्थः । सन्ति तुद्भवादिविशेषा ब्रह्मादिषु तारतम्यनिबन्धनाः प्रतिक्षणविशेषाश्च मोक्षादिषु देवत्वादियोग्यताविशेषाश्च । अशेषविशेषतोऽपीत्युपरिसम्बध्यते । अशेषैर्ज्ञानानन्दादिभिर्वि- शेषैश्च सह मम सदा बन्यं प्रियतमम् । वन्दनं स्तुतिः प्रणामो वा । बदिअभिवादनस्तुत्योरिति धातुः । अनेनानन्तगुणस्य नारायणस्य प्रवचनमुपास्तो चात्मनो मुख्याधिकारित्वं सूचयति । भक्तिं च स्नेहबहुमानरूपाम् । अत एव तत्पेष्टदेवतात्वं च । प्रियतमत्वस्य विशिष्टे । स्नेहविषयत्वस्य सख्यादिष्वपि सम्भवात्तव्यवच्छेदाय वन्धमिति ॥ १ ॥ बहुमानविषयत्वं ह्यभिप्रेयते ॥ तमेवेत्यादिना । तामेव शास्त्रप्रतिपाद्यामभीष्टदेवताम् । शास्त्रगुरुत्वेन जगद्- गुरूणां ब्रह्मादीनां विशेषतः स्वतः स्वगुरुत्वेनापि प्रणम्य ग्रन्थारम्भ प्रतिजानीते । शास्त्रं भावयतीति शास्त्रप्रभवः शास्त्रकर्ता । अञ्जसैव सम्यगेवेत्यनेन सर्वत्रापि मुख्यगुरुत्वं प्रतीयते । परमेल्याख्या यस्या विद्यायाः सा परमाख्यविधा । ब्रह्ममीमांसेल्यर्थः । अथ परा यया तदक्षरमधिगम्यत इति श्रुतेः ॥१॥ अन्वपि चाहमेव भाष्यकारणमप्यहमेव च व्याख्या करोमि । अन्यस्य शक्त्यभावादिति चशब्दः । सूत्राणां प्रामाण्यं साधयितुमाप्तिमूलत्वादिकं स दर्शयति ॥ प्रादुर्भूत इति । ब्रह्मादीनां शास्त्रगुरूणां गुरुत्वादस्य तद्वचनविरोधो नास्ति । प्रातिकूल्ये स्वगुरुविरोधात्तस्यैवाप्रामाण्यप्राप्तः । शास्त्राणां भारतादीनां प्रभवत्वादस्य न तद्विरोधोऽपि । एवंभूतो बादरायण इति यतोऽतस्तदुदितमाप्तिमुलत्वेन मानम् । तदर्थतस्तत्प्रयोजनाय । तथा हि । हाररेव व्यासरूपो वक्ता । ज्ञानवक्त्रभावादापदि विरिश्चादीनामर्थनाप्रसङ्गोऽतस्त एवाजादयः श्रोतारोऽपि । ननु भगवताऽजाद्यर्थनाप्रसङ्गे तेभ्य उदितमित्येतावता कथमाप्तिमूलत्वमित्यत आह ॥ वक्त्रीति । वक्तृश्रोतृप्रसक्तीनामनुकूलताऽऽप्तिरिति यत्तस्मादेव । अनुकूलताऽऽप्तिरित्युक्तेऽ- नुकूलतयाऽऽप्तिरित्यर्थः । स वै बलं बलिनां चापरेषामितिवन्निमित्तनैमित्तिकयोरभेदव्यवहारसम्भवाद्वक्त्रादीनामेकतमस्याप्यननुकूलत्वेऽप्याप्तिने सङ्गच्छते । जिनादिवक्तृवाक्यानामप्रामाण्योपलब्धेः । नादिप्रसङ्गे स्त्रीजने श्रोतरि वाऽनृतवचनस्यादूषणत्वाच्च । न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणायये सर्वधनापहारे पश्चानृतान्याहुरपातकानीति भारतोक्तन्यायेनाप्तवाक्यतया श्रुतिमिलिङ्गैश्चार्थनिर्णायकत्वा- च्छतिमूलतया युक्तिमूलतया चैकधाऽन्यत्र गौतमादिसूत्रेषु स्वयं कृताऽपि तयाख्याभाष्यरूपेण तत्र न किञ्चिदप्यनुक्तम् । तथाऽपि पुनः क्रियते स्पष्टतार्थतः स्पष्टत्वप्रयोजनाय। अथातो ब्रह्मजिज्ञासेत्यादिसूत्र व्याख्यायते ।तत्रेत्यादिना।तत्र परविद्यायां वर्तमानं ताराथभूलत्वं सर्वशास्त्रस्या- पीण्यते। न केवलं प्रथमसूत्रस्यापि तदर्थत्वेनानुसन्धेय इत्यर्थः। तारायें गुणपूर्णत्व एव सर्वत्र तात्पर्यात् । अयशब्दार्थस्य मङ्गलस्यापि सर्वत्र विवक्षितत्वात् । सर्वत्र शब्दतोऽप्यनुगतत्वादोङ्कारः पृथगैवोच्चायते । नाथशब्दवत्सूत्रे निबद्धः । तस्मात्प्रणवानन्तरमध्ययनस्य विरामे सत्येवाध्ययनार्थ पुनरोकुर्वते सत्यनीकृतं ब्रह्म परस्ताच्च विशीर्यते । अनोकृतमासुरं भवतीति वचनाच्च । तारब्रह्मशब्दयोरर्थमाह ॥ ओतत्वति । यो नारायणप- दोदितो विष्णुः स एवास्य ब्रह्मशब्दार्थ इति । अनयोः शब्दयोर्गुणपूर्तिवाचकत्वेन पर्यायत्वात् । असाबोङ्कारश्च तद्गुणोततां वक्ति हि । स एव गायत्रीशब्दप्रतिपाद्यत्वेन भर्गशब्दार्थः । व्याहृतीनां च स एवार्थः । सोऽयं सहस्रशीर्षा पुरुष इत्युच्यते । पापस्य भञ्जनाद्भर्गः

अ०टिक
न००
प्र०प्र०
अ०१
पुरुषाणत्वात्पुरुषः । षकारः प्राण आस्मेति हि श्रुतिः । एवमोकाराधशेषवेदार्थभूतोऽयं नारायणोऽत्र जिज्ञास्यो विधीयते । अतःशब्दार्थमाह
॥ ज्ञानीति । प्रियतमोऽतो मे ज्ञानेनासौ बिभर्ति मामिति भागवतवाक्यं ज्ञानस्य प्रसादसाधनत्वे प्रमाणम् । तमेवं विद्वानमृत इह
भवतीति हि श्रुतिज्ञानस्य प्रसादद्वारेण मोक्षसाधनत्वे यमेवैष वृणुते तेन लभ्य इति प्रसादस्य मोक्षसाधनत्वे । आदिशब्दादात्मा वा अरे
द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति जिज्ञासाया ज्ञानसाधनत्वे प्रमाणम् । एवंभूतप्रसादादेवमुच्यत इति यतोऽतो ब्रह्मजिज्ञासा
कर्तव्येति । ननु ज्ञानादेवापवर्ग इत्यादेनिस्वभावादेव मोक्षसम्भवात्किं प्रसादेनेत्यत आह ॥ द्रव्यमिति । अत्राह । बन्धस्य सत्यस्वे निवृत्त्य-
योगान्मुक्त्यर्थं तन्मिध्यात्वमपेक्ष्यम् । ज्ञानबाध्यत्वाङ्गीकारात् सत्यस्य च तदयोगान्मथ्या बन्ध इत्यत आह ॥ अज्ञानामिति । अत्र ज्ञानानन्तर-
मपि बन्धमुक्तेर्भगवत्प्रसादसाध्यत्वोक्तर्न बन्धो मिथ्येति ॥ तद्वाक्यस्येति ।बन्धो मिध्येति वाक्यस्यापि स्यात् । किं ममापि सत्यस्य साधकत्वमसिद्धमिलत
आह ॥साधकत्वमिति।प्रामाण्यादेः सिद्धिमिच्छता । ननु साक्षी सन्नपि निर्विशेष एव सन्निधानमात्राद्वस्तु प्रकाशयति । अतो वः सविशेषप्रमाणे नास्माकं
सम्प्रतिपत्तिरित्यत आह॥ अविशेषस्येति । तन्मवादिता तेषां तस्मान्न चादिता। सम्प्रतिपनप्रमाणाभावात्। तस्माद्वादित्वान्यथाऽनुपपत्तिरतर्काद्वचन-
व्यवहृतिः सत्या । एतस्मान्यवहृतेः सत्यत्वाच्च व्यवहारविषयो विश्वं सत्यमित्येवागतम् । न ह्मर्थक्रियाकारिणो मिथ्यात्वं दृष्टं क्वापि । ननु सम्मतमावयो-
ावहारिकसत्यस्य प्रमाणस्य साधकत्वम् । प्रातिभासिकस्यैव हि शुक्तिरजतादिवदर्थक्रियाकारित्वं न दृष्टम् । न च तावता परमार्थसत्यत्वं
देशकालादिभिः सह बाधोपपत्तेरिल्यत्रोच्यते ॥ व्यवहारसत इति । पूर्ववदसम्प्रतिपन्नम् । उक्तप्रकारेण प्रमाणविकलत्वात् । अथासतः
ख्यात्ययोगात्सती वाघायोगालख्यातिबाधान्यथाऽनुपपत्त्या सदसद्भ्यामनिर्वचनीयं हि शुक्तिरजतादिवदेव ज्ञानबाध्यत्वाद्वन्धो वाक्यं च तथा स्यादित्यत्रो-
च्यते ॥ वैलक्षण्यमिति । एतेन प्रमाणविकल्पन्यायेन । थैलक्षण्यं सत इत्यादेरयमर्थः । सतो बैलक्षण्यमसत इत्यसतो बैलक्षण्यं सत इति
-RIES
॥ २॥

56-KR भावाभावात्मकस्य विश्वस्य स्वयं रूपं सन्न च वस्त्वन्तरम् । अतो भेदवादिनः कुतोऽनिष्टम् । सतो ब्रह्मणोऽसतः शशविषाणादोरति वा । यदि सबैलक्षण्यं नाम सर्वस्मात्सतो बैलक्षण्यमित्युच्यते । तर्हि सतां भेदसंस्थितिः । अथ नायमेकविशेषो विवक्ष्यते । यस्मात्कस्माच्चित्सतो विलक्षणमित्यत आह ॥ सन्मात्रत्वमिति । यच्चोक्तं शुक्तिरजतवज्ज्ञानबाध्यत्वं सदसद्वैलक्षण्यस्य हेतुत्वेन तदसिद्धम् । जगतो विनाशातिरिक्तरय बाध्यत्वस्या- स्माभिरनङ्गीकृतत्वात् । तर्हि शुक्तिरजते कि बाध्यत्वमित्यत आह ॥ विज्ञातस्येति । नासतोऽसत्त्वेन ख्यातिर्निषिध्यते । किन्तु सत्त्वेनेत्यत आह ॥ अन्यथात्वमिति । अन्यथात्वं शुक्ते रजतत्वमसत् । तस्माद्रान्तावेव प्रतीयते न वभ्रान्तौ । एवं चासत एव रजतसत्यत्वस्य प्रतीतता । बन्धमिध्यात्ववादिनामधिकारादिकं न सम्भवतीत्साह ॥ निर्विशेष इति । स्वयंप्रकाशानात्मस्वरूपमज्ञानावृतं । नापि तदैक्यविशेषः। निर्विशेषत्वात् । आत्मनि निर्विशेषे स्वयंप्रकाशे सति तस्याज्ञानावृतं किं वस्तु भवेत् । तस्मिन्वा किमज्ञानावृतं भवेत् । न हि स्वयंप्रकाशस्य तस्मिंश्चाज्ञानं सम्भवति । स्वयंप्रकाशत्वादेव । नाप्यात्मैकदेशे तस्य निर्विशेषत्वादेव । नापि मिथ्याविशेषे । मिथ्याविशेषोऽज्ञानापेक्षोऽज्ञानं मिथ्याविशेषापेक्षमित्यन्योन्याश्रयत्वात् । सत्यात्मव्यतिरिक्त वस्तुन्यावरकमज्ञानं तेनापि नेष्यते । दृश्यत्वभङ्गप्रसङ्गात् । नापि जडाश्रितत्वे- नासत्यस्यास्मदादिवदप्रकाशस्वरूपत्वादेवानङ्गीकाराच्चाज्ञानस्याभावाच्छास्त्रवैय्यर्थ्यम् । अज्ञस्याज्ञानाङ्गीकारात्तनिवृत्त्यर्थ शास्त्रामिल्लत आह ।। अज्ञा- नस्य चेति । अज्ञानान्तरादिति कल्पने तस्यापि मिथ्यात्वमज्ञानान्तरादित्यनवस्था । तज्ज्ञानान्मिथ्यात्वमस्य तस्मादिति चेत् । अन्योन्याश्र- यात् । अथवाऽज्ञानस्य स्वस्य स्वस्मादेव मिथ्यात्वादेवात्माश्रयता । स्वभावाज्ञानवादस्याज्ञानकल्पितत्वं विना स्वयमेव भगवदज्ञानमिति वादस्याविद्याया दुर्घटत्वाद्दूषणत्वाङ्गीकारान्नोक्तदोष इत्यत आह ॥ स्यादिति । एवं चाश्रयविषयानपेक्षत्वादविधाया आत्माऽप्यविधावदुर्घटः स्यात् । निवर्तते च । अतोऽज्ञानाभावादज्ञान्यधिकार्यज्ञातो विषयोऽज्ञाननिवृत्तिः फलं च नास्ति मायिमते । आदिशब्दाद्गुरुशास्त्रादिकं च । ननु तत्त्वमस्यह k RSSEX Rana ब्रह्मास्मीत्यादिवाक्यैर्जीवब्रह्माभेदावसितेर्न दुःखादेर्बन्धस्य सत्यत्वमित्यत आह ॥ सत्यत्वादिति । उक्तन्यायेनाई दुःखीत्यादिप्रत्यक्षेण प्रत्यक्षो- अ०टिका पजीव्यप्रमाणविरोधै वा कस्याप्यर्थान्तरं परिकल्पनीयम् । नोऽप्यजीव्यस्य दौर्बल्यमित्याह ॥ यजमानेति । यजमानो वै पयः । नाच. यजमानः प्रस्तर इति श्रुतेः । तन्मानता तस्मिन्नर्थे प्रमाणता । ऐक्यवाक्यस्य गतिमाह ॥ स्वातन्ये चेति। स्वातन्त्र्ये प्र०प्र० वशीकृतग्रामजनानां पुरुषाव्हाने ग्राम आहूत इति । विशिष्टत्वे जनपदेषु विद्याविशिष्टानां ब्राह्मणानां समागमे सर्वे जनपदाः सङ्गता /अ०१ इति । स्थानक्ये एकीभूता सेनारणाजिर इति । मत्यैक्ये पूर्व परस्पराविरुद्धानां प्रामजनानां सम्मतौ तत्रैकीभूतो ग्राम इति । सादृश्ये सिंहो देव- दत्त इति । चित्रमुद्दिश्यायमर्जुन इति वा । अत्राहुः । कार्यकारणलक्षणे वियर्थ एव । मन्त्रार्थवादात्मकानां सर्ववेदानां तात्पयनिष्टसाधने सिद्धरूप इति । अत्रोच्यते ॥ कार्यतेति । इष्टसाधकं कार्यमिति कार्यळक्षणमित्युच्यते चेत्तादृशं कार्य सम्भवति नेतरत् । तस्य लक्षणासंभवात् । क्रिया- व्याप्यं कृतियोग्यम् । तदिष्टमित्यादेरयमर्थः । तस्मादिष्टं कार्थे तथा तत्साधनं च तदुभयमपि सिद्धमेव । तदेतत्प्रेयः पुत्रात्प्रेयो मित्रात्प्रेयोऽन्यस्मा- सर्वस्मादन्तरतरं यदयमात्मेति श्रुतिः । प्रियो हि ज्ञानिनोऽत्यर्थमहमिति भगवडूचनमादिशब्दोक्तम् । ननु व्युत्पत्तिवशाद्वाक्यार्थबोधो व्युत्पत्तिश्च वृद्धव्यवहारात्कार्य एव सम्भवति । गामानय गां बधानेत्यादिषु व्युत्पत्तिदर्शनात्कथं सिद्धार्थबोधकत्वं वाक्यस्येत्यत आह ॥ आकाक्षेति । तस्मिन्नेवेष्ट एव । तब भ्राताऽधूपमति क्षीरं पिबतीत्यादौ क्षीराद्यावापे तत्तच्छब्दावापादपूपाद्यर्थोद्वापे तच्छब्दीद्वापाच । सिद्ध एव बालो व्युत्प- तिमप्येति । वर्तमानत्वादेशकालसनिधेराकाङ्क्षावस्तुन्यभिरुचियोग्यता । अङ्गुलिप्रसरणादिविषयताव्युत्पन्न इत्वादेरयमर्थः । एवं वर्तमानविषयेऽत्ति पिबतीत्यादिक्रियाशब्दो व्युत्पन्नः । एष्यति पास्यतीति भविष्यद्विषये क्रियाशब्दे शब्दश्रुत्तदनन्तरमेव पुनरनादिदृष्टया पश्चाद्व्युत्पत्तिमेष्यति । वर्तमानादिकं क्रमादाकाङ्क्षायुक्तं तदिति यस्मात्तस्मात्कालत्रयावच्छिन्ने विधैर्युत्पादनं कुतः । तादृशवस्तुन एवाभावात् । ननु क्वापि -- प्रथमतो भविष्यत्याकाङ्क्षौदयस्तत्र तत्र व्युत्पत्तिः किं न स्यादित्यत आह ॥ दृष्टयेति । वर्तमानकाले दृष्टयेत्यादिपदार्थ विज्ञातवतस्तदन- न्तरातीतकालेऽपि तव भ्राता पूर्वमपूपमघसदिल्यादिपदार्थ च ज्ञातवतः पुनरपि कदा नु तदत्स्यामीत्याकाङ्क्षा भविष्यदर्थेऽपि स्यात् । पुनस्तद्बलादस्येत्यादिपदार्थ च गृह्णाति । इष्टं सुखादिकम् । प्रवृत्तिः परेषां गवानयनादिरूपामिष्टसाधनप्रवृत्ति न निषेधते । तदाह ॥ क्वापीति। तदर्धा ज्ञानार्था इति । पुत्रस्ते जात इत्यादिवाक्यात्परोक्षं ज्ञानमितश्च श्रुतेर्न कार्यपरत्वं सम्भवतीत्याह ॥ न चेमि । तस्मादित्यादेरयमर्थः । तस्माद्यागादिकार्यर्थे जुगादिवाचकवाक्यस्य स्वार्थे तात्पर्यङ्गी कारादुपासनार्थमपि सगुणैरेक एवेशिताऽसावुपासितव्य इत्यादिवाक्यं ब्रह्मस्वरू- पोपासनादिवाचक स्वार्थेऽसाविल्यादितत्पर्यवद्भवेत् । नम्वस्मिन्धाक्ये इतिशब्दोनयः कार्य मनो ब्रह्मेत्युपास्त इत्यादिवत् । एवं सति तदाशि- तृत्वादिकं विद्यत एवेति नियमो न स्यात् । मनसो ब्रह्मत्ववदविद्यमानस्यापि ध्यातुं शक्यत्वादित्यत आह ॥ इतिशब्देति । गार्हपत्ये जुहुयात् । यज्ञे यत्किञ्चित्स्मरणमात्रं भवेत् । वत्सतरीमार्जन्ति सोमक्रयणी तया सोमं राजानं क्रीणन्तीत्यादिकमशेषमिति वाक्यान्तराणामि- तिशब्दाधवेयत्वादध्याहारी न सम्भवतीत्यत आह ॥ इतिशब्देति । आदिशब्दादुपास्य एकः परतः परो य इत्यादि । आत्मानमेवेत्यादिश्व प्यात्मेत्येवेत्यादिना समानप्रकरणत्वात्तद्गतेरितिशब्दस्य प्रयोगेऽपि विधित्सितेऽग्निवाक्येऽपि तद्विधानं समं स्यात् । ननु नात्र साम्यमग्निष्टोमादिवा- क्येष्वितिशब्दाश्रवणात् । उपास्तिवाक्येष्वेकत्र श्रुतस्येतिशब्दस्यान्यत्राप्यध्याहारः स्यादेव । तथा सत्येकवाक्यत्वोपपत्तेरित्यत आह ॥ एकेति । कर्मपरस्य चोपास्तिपरस्य च वेदस्य साम्येन वाक्यभेदो न युक्तः स्यादेवं चौपास्तिवाक्यात्कर्मवाक्ये चेतिशब्दाच्याहारो युक्तः स्यात् । कर्मणां परमात्म- ज्ञानसाधनत्वाज्ज्ञानस्य च मोक्षमहाफलहेतुत्वात्सर्ववेदस्यापि तत्र तात्पर्यायोगः स्यात् । तत्रैव श्रूयते चेतिशब्द इत्यत आह ॥ इति ब्रूयादिति । चाध्धि सुब्रह्मण्य इति ब्रूयादिति वाक्यमणिप्रकरणे समीपस्थमवगतं च । तस्मादितिशब्देस्यसति चोपासनायां ब्रह्मणि तद्गुणादिषु तात्पर्य समस्ति NA अ.टि. 1180 पृथक् तात्पर्यकल्पने कारकेषु क्रियायां च तात्पर्यनस्तीति कल्पने पदार्थानां प्रमाणावगतत्वं चेत्तस्मादात्मादिपदानां स्वार्थे स्वामित्वादौ तत्र तद्गुणविशिष्टो न०० पास्त्यादौ वाक्याथें चेत्युभयत्र तात्पर्य भवति। ननु मन्त्रात्मकपदात्मकवाक्यानां विधिवाक्येनैव ह्येकवाक्यता सम्भवति । तस्मात्तेषां स्वाकतात्पर्यकल्प- प्र०प्र० नायां वाक्यभेदः स्यादित्यत आह ॥ पृथगिति । तैरप्यरुणयैकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणातीत्यत्रारुणया क्रीणाति पिङ्गाल्या कोणाती-18 त्यादिकारकपदानां क्रियापदेनान्वयोऽङ्गीक्रियते । पुनर्यैवारुणा सैव पिङ्गाक्षीत्यादिपार्णिकान्वयोऽपि । न हि तेषामप्येतद्वाक्यभेदभयम् । तर्हि न क्वापि वाक्यभेदो नाम दोषो न स्यादित्यत आह ॥ वाक्यभेद इति । महावाक्यभेदाद्धि वाक्यभेदाख्यदूषणं न त्ववान्तरवाक्यबहुत्वेन । नन्वादित्यो यूप इत्यादौ पदानां स्वार्थे तात्पर्य कल्पनायां प्रत्यक्षादिविरोध: स्यादित्यत आह ॥ प्रत्यक्षेति । श्रुतिप्रामाण्ययोगत एवमेव श्रुति- प्रामाण्योपपत्तेः । अन्यथा श्रुतिप्रामाण्यानङ्गीकारे एतद्ग्राह्यप्रामाण्यग्राहकस्यापि तथावं तस्यापि तथात्वमित्यनवस्था। विप्रलम्भादेरित्यादिशब्देन काचकामलादयो दोषा विवक्षिताः । नित्यवाक्यानङ्ग कारे कर्तुरविप्रलम्भस्तस्य सर्वज्ञत्वं वाक्यस्य तेन कृतत्वं तस्यार्थत्वमित्येवार्थाः कल्प्याः । नेदं कल्प्यतेऽनुमानेन ज्ञायत इत्याशङ्कयाह । तत्र प्रत्यनुमानमाह ॥ न बुद्ध इति । अतो विप्रतिपत्त्या संशयसम्पत्तौ सत्यां वाक्यमपि सदागमरूपं परार्थानुमानरूपं वा प्रत्यक्षवदेव प्रमाणमित्यापतितम् । तथा हि । गृहीते हि धार्मिणि तद्गुणादौ क्वचित्संशये सजाते यथा बलवत्प्रत्यक्षं प्रमाणं भवति । एवमागमेऽपि गुणायन्वितार्यबोधकत्वनियमादत्राह । पदानि वैतानि स्वं स्वमर्थमुक्त्वा निवृत्तव्यापाराणि । अवेदानीमर्थाः परस्परान्वयं बोधयन्तीत्युच्यते ॥ शक्तिश्चेति । अन्यथा कल्पनागौरवं स्यात् । प्रकटितं चेदं श्रीमत्तत्त्वदीपिकायां गुरुभिः । स्वत एवान्योन्यमन्वितानामा- नामनन्वितेन पश्चाद्वाच्यत्वं कल्पयित्वा तेषामैवान्योन्यमन्वितानां वाक्यार्थब्क्षकत्वकल्पनाद्वरमन्वितानामैव पदार्थानां वाक्यार्थत्वाश्रयणमनुभवानुकूल्या- ॥४॥ दिति । न चाशक्याभिधायित्वम् । अशक्यस्य पदानां वाचकशक्तरविषयस्य वाक्यार्थस्याभिधायकत्वं सम्भवति । इदं च प्रपश्चितं सन्यायरत्नावल्या R55k श्रीपद्मनाभतीर्थभट्टारकैः । न च पदार्थानां वाचकत्वशक्तिमन्तरेण वाक्यार्थबोधकत्वं सम्भवति । घटोऽस्तीति वाक्यस्य पटसद्भावबोधकत्वप्रसङ्गात् । चेतनस्य विरम्यव्यापारः सम्भवति । यदि पदानामेव स्वार्थबोधकद्वारलक्षणया वाक्यार्थबोधकत्वं कल्प्यते तर्हि तेषामेव द्विधाप्रवृत्तिकल्पनाप्रसङ्गात् न ह्यचेतनस्य विरम्यव्यापारः सम्भवतीति । नन्वेवं सति तत्तत्समयिभिरन्यथा नियामतां प्रमाणन्यायपरिपाटी निराकृत्य प्रमाणन्यायसच्छिक्षा किमिति भगवत्तमो न कृतवानित्यत आह ॥ एतदिति । मानन्यायैः प्रमाणलक्षणप्रकारैः प्रमेयशोधनं नाम । अतः स्वत एव प्रपञ्चितत्वात्तदर्थं ब्रह्मतकाय न प्रापञ्चयत् । अत इत्यसूचयनपरं सर्वमेतन्न्यायजातं विदुषामनुभवतः सिद्धमित्यतोऽप्यत इति हृदिस्थत्वेनासूचयत् । एतदप्रपञ्चने हेत्वन्तरमाह ॥ देवेश्वेत्यादिना । यद्यप्यतःशब्देन प्रतिपक्षयुक्तीनामपि निराकरणं सूचितम् । तथाऽपि शास्त्रमूलत्वान्न ताः पृथगनूद्या निराकर्तव्या इत्याशक्याह । एता हीति । प्रत्यक्षार्थानामीक्षायामप्यक्षमो मायी सर्वैः पर्यनुयोज्यत्वात्तमेव पक्षप्रत्यवस्थानायामिवीक्षते । एवमत:शब्दार्थ पर्यवस्थाप्य ब्रह्मशब्दार्थ विवृणोति ॥ स्वयमित्यादिना । यद्यपि मीमांसाशास्त्राणां त्रयाणामपि परस्परभेदस्तथाऽपि कर्मदेवतामीमांसयोर्ब्रह्म- मीमांसाप्रतिपादस्य ज्ञानस्य साधनप्रतिपादकत्वेन तदेकवाक्यत्वाच्च देवतामीमांसोदितस्यात्रोपजीव्यत्वं युक्तमेव । ब्रह्मशब्दस्य नारायणशब्द- पर्यायत्वमस्तीत्साह ॥ दोषारेति । तद्वै तहलाहु हन्तो यस्मिन्गुणा इति हि श्रुतिर्जनशब्देनापि गुणपूर्तिमेव वदति । उक्तं श्रुतिसिद्धत्वं प्रतिपादयति ॥ अम्भसीत्यादिना । नारायणपदोदितो विष्णुरेवाम्भस्यपार इति नारायणानुवाकादायुक्तः । नारायणत्वमेवाप्स्थत्वमित्यत्र व्यासस्मृति प्रमाणमाह । आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्व तेन नारायणः स्मृत इति। निर्णयरूपिण्यामैतरेयश्रुतौ नारायण एव मम योनिरप्स्वन्त- स्समद इति श्रियाऽऽत्मनो योनित्वेनाप्स्वन्तरीरितो योनिर्मम कारणम् । कीदृरभूतया कामतो विधिरुद्रादिपददाच्या यं कामय इत्यादेः । अस्यैशाना जगतो विष्णुपत्नी । ईश्वरीं सर्वभूतानां । रेतत्वजायां कविरादधेऽजः । ततो वयं सत्प्रमुखा यदर्थे बभूविमात्मन्करवाम किं अटिल न०० प्र०म० अ०२ SON-SCR5cKRSNESCRILS इस्लादेः श्रियः एव विधादिपददातृत्वं नान्यस्य । श्रीस्वामित्वं च विष्णोरेव । सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मिणीति विष्णुना- नवोदितस्य तस्यं तत्रोक्तं सर्वदेवाधारत्वम् । एषा तैत्तिरीयश्रुतिरुक्ता । तत्रोक्तं समुद्रमेव स्थानम् । यमन्तस्समुद्रे कवयो वयन्तत्युिक्त्वा ऋचोऽक्षरे परमे व्योमन् यास्मिन्देवा अधिविश्वे निषेदुरित्यत्र यदुदिदतमक्षरमिति नाम तदेव च तदक्षरे परमे प्रजा इत्युक्त्वाऽहं सुवे पितरमस्य मूर्धन्मम योनिरिति तत्रोक्तं जगत्प्रसूत्याः कारणत्वं च । यतः प्रसूता जगतः प्रसूतीत्युक्त्वा च तदेवते तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनामिति तदेव ब्रह्माऽब्रवीत ॥१॥जन्माघस्य यत इति सूत्रं विवृणोति ॥ अन्तरित्यादिना सूक्तेन । एवमस्य चात्मीयाद्यम्भ्रण्यादिसूक्तैर्नारयणानुवाकाथुपनिषद्भिश्च । आदिशब्दाज्जन्मायस्य यतेन्वयादितरतश्चैत्यादिस्मृतिभिः समुद्रशायित्वादिलक्षणैर्विष्णुत्वेन परब्रह्मत्वेन । एवं यद्ब्रह्म समुद्रशायित्वादिलक्षणैर्विष्णुत्वेन सूक्तोपनिषदादिमिरुक्तम् । तुशब्दायब जगत्कारणत्वादिलक्षणं परब्रह्मावेन चोक्तम् । तदेवात्र सूत्रे लक्षणे लक्षणतः प्रदर्यत इत्यर्थः । अस्य चात्मीयादीनि सूक्तानि नारायणानुबाकादय उपनिषद उक्ता हि सृष्टयादयः । आसु श्रुतिधु तच्च अपश्चितं तत्त्वप्रदीपकायाम् । सा च ब्रह्मत्वविधात्री तैत्तिरीयश्रुतिर्यानि लक्षणान्याह तान्येवानेन सूत्रेणाह भगवान् । तथा हि । यतः प्रसूता जगतः प्रसूती । सव निमेषा जज्ञिरे विद्युत: पुरुषादधते । प्रकृतिकालसृष्टयभिधानेन तस्मादवे सृष्ठिरुक्ता। तदधानत्वादितरसृष्टेः । यस्मिन्निदं सञ्ज विधि । यस्मिन्देवा अधिविश्वे निषेदुरिति । स्थितवतरत-पशवजा भुवनानि विद्वान् यस्मिन्विश्वं भवत्यैव लीनमिति ज्ञानं संहारश्च । विवेश भूतानि चराचराणील्मथानियमनम् । येनादित्यस्तपति तेजसा भाजसा चेति रपटम् । तस्य तन्तुं विततं विवृत्य तदपश्यत्तदभवत्प्रजास्वित्यज्ञानं बन्धश्च । य एनं विदुरमृतास्ते भवन्तीति मोक्षः । यतो वा इमानि भूतानि जायन्ते येन जात.नि जीवन्ति यत्प्रत्ययन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व तब्रह्मेति तैत्तिरीयश्रुतिर्विष्णोरेवैतानि स्रष्ट्रवादीनि प्रसिद्धलक्षणान्याहेति । अत्रैव तदेव.निरतद्वायुरिल्यादि- देिवतान्तरवचनात्तेषां ब्रह्मत्वं किं न स्यादित्यत आह ॥ यं नामानीति । नामानि सर्वाणि यमाविशन्तब्येतां श्रुतं यं नमानि विशन्स्यद्धति k आ॥५॥ DPawan . HISTORY + । तदर्थवचनेन लक्ष्यते । इति श्रुतेर्नामानि सर्वाणि विष्णोरेवेति यतोऽतस्तस्य नामवाच्यत्वलिङ्गात् । अतो नामानि विश्वाभि न सन्ति लोके इति श्रुतेश्च न मुख्यतेोऽर्थः । अतस्तदन्यस्य सर्वनामवाच्यत्वे सोडरोदीघदरौदीत्तद्दस्य रुद्रत्वमित्यादिना रोदनादिदोषवाचिनों शब्दानां च वाच्यत्वा- दोषत्त्वापात इत्यत आह ॥ गुणा इति । गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्नुता अपि । नैवात्र शङ्का । चिन्त्या अचिन्त्याश्च तथैवं दोषाश्रुताश्च नार्ह तथा प्रतीता इत्यस्माद्वचनाद्भगवद्विषये श्रुतेदोषोऽयों न भवेत् । किन्तु तदोषस्वातन्त्र्याख्यगुण एव श्रुतेस्तात्पर्य नैव दूषणे प्रीतिनाशकत्वत्तस्य । अत्र हि भगवत्प्रीत्या दोषवचने तद्विरोधे प्रीतिनिरोधेन वेदवाक्यस्य मानत्वान्निष्फलत्वापाताल्लैग्यादीनि पुराणानि पाशुपतादीनि शास्त्राणि च विष्णोः ववचित्पारतन्त्र्यादिदोषान्बदन्त त्यत आह ॥ न पुराणादीति । पुराणादीनां श्रुतिविरुद्धेऽयं मानत्वं न भवेत् । तं न विषयोकुर्वन्तीत्यर्थः । पूर्वपक्षप्रकटनार्थ पाशुपत, दिशास्त्रान्तरमूलत्वादेव तथा प्रत.तेः शैवान्पाशुपतांश्चक्र इत्यादेः । आदिशब्दपरिगृहीतानां पाशुपतादीनां तु श्रुतेविरुद्धार्थे वर्तमानानां प्रामाण्यमेव नास्ति । हरेराज्ञया मोहार्थं कृतत्वात् । त्वं च रुद्र महाबाहो मोहशाखाणि कारयेत्यादेः । अन्येषामपि क्वापि सर्वनामवत्ववचनासम्भवात् । अस्य पारतन्त्र्यादिदोषवचनसम्भवाच्च । तेषां जगत्लष्टत्वादिकं किं न स्यादित्यत आह ॥ न सर्वेति । अस्ति च तेषां दोषवचनमित्याह ॥ अज्ञानामेति । इदं पाशुपतदूषणे स्वयमेवोदाहरिष्यति । उक्तार्थनिगमनमुखेन ब्रह्मणो जगज्जन्मादिकारणत्वे एकं परज्योतिरनन्यमद्वयं स्वसंस्थया नित्यनिरस्तविक्रियम् । ब्रह्माख्यमस्योद्भवनादिहेतुभिः स्खलक्षणैलेक्षितभावनिवृतिमिति स्वयं सूत्रकारों भगवानेव भागवतेऽब्रवीत् । एकं प्रधानं परं विलक्षणम् । अनन्यमन्तभेदरहितम् । अद्वयं समाधिकरहितम् । स्वसंस्थया स्वरूपस्थित्या । अस्य जगत उद्भवादिहेतुभिः स्वलक्षणैः स्वरूपभूतधमैलेक्षितं भावनिर्वृतिरूपमात्मानं दध्यौ । भावो ज्ञानं निवृतिरानन्द इत्यर्थः । ननु तत्त्वमस्यादिवाक्यैर्ब्रह्मणो जीवैक्यमझीकर्तव्यम् । तच्च जन्मादिकारणवलक्षणस्य हेयत्व एव CIRCRAIN hentained अटिक मा नच प्र०५. अ०२ सम्भवति । तस्मादेतत्तटस्थलक्षणमेवेत्यत आह ॥ अत इति । स्वरूपलक्षणत्वकथनादेव वाक्यस्य विषयान्तरं स्वयमेव वक्ष्यति । हिताक्रियादिदोषमितरव्यपदेशाद्विताकरणादिदोषप्रसक्तिरिति जिज्ञास्य ब्रह्मणो निर्गुणत्वमनेन सूत्रेण प्रमुणैव निषिद्धम् तत्त्वमस्यादिवाक्यैर्ब्रह्मणो जीवैक्यं प्रतिपाद्यते । तच्च तयोः परस्परविरुद्धधर्मिकत्वान्मुख्याङ्गिीकारे न सम्भवति । तस्माद्ब्रह्मगुणानां जगत्कारणत्वा- दीनामेव जीवगुणानां दुःखत्वादीनां च मञ्चाः क्रोशन्तीत्यादिवज्जहल्लक्षणया ब्रह्मणि वृत्तेमुख्यतो निर्गुणं तदित्यत आह ॥ अतोजीवैक्यामति। इतब्रयपदेशाद्विताकरणादिदोषप्रसक्तिरिति वक्ष्यति । भवेदेतज्जीवब्रह्मणो दाङ्गीकारेणैव यथाश्रुतगुणवत्वेन मुख्यार्थस्य सम्भवे कुतो लक्षणावकाशः । एवंविधा लक्षणा स्वयमपि कुतः सम्भवेत् । जहदजहद्रूपणानुपलब्धत्वात् । ननूपलभ्यते सोऽयं देवदत्त इत्यादौ । तत्र तत्पदार्थात्तदेशकालविशिष्टत्वमेतत्पदा देतदेशकालाविशिष्टत्वमिति चापहाय देवदत्तस्य स्वरूपमात्रैक्यं लक्ष्यते । न होकस्मिन्नेवार्थे योगपधेन तदुभयं सम्भवति । परस्परविरोधादिति । मैवम् । उक्तरीत्या जिज्ञास्यब्रह्मणः सदैव गुणवत्वे प्राप्ते पराभिमतं निर्गुणं सदसदिनस्य तस्य खपुष्पवदनुपलम्भान्मिथ्यागुणाः स्युनर्नामेत्यत आह ॥ न चेति । अथवा यदि निर्गुणत्वमिष्यते तर्हि पारिशेष्यादासुरत्वं स्यात् । असुराणामपि शोभनगुणहीनत्वेन निर्गुणत्वात् । लक्षलक्षणयोर्भदे तयोः सम्बधापेक्षत्वात् । तत्सम्बन्धस्य च सम्बन्धान्तरापेक्षयाऽनवस्थानातू । अभेदे च लक्ष्यमात्रस्य चाविशेषादभिमतभङ्गः । भेदाभेदपक्षे स्वव्याहतिदोषव्यापातश्च । इत्यं दृषणविवक्षया मायिनेति पृष्टेऽस्माभिरस्यैव दृषणत्वविवक्ष- [यैक्यवतोभेंदो वेत्यादि पृष्टे सति तदैक्यस्य गतिरेव न विद्यते । न त्वस्मन्मते लक्ष्यलक्षणयोाहतिः । अत्रामदे विशेषाझीकारणाविरोधात्, दूषणान्तरं चाह ॥ ऐक्याभेदेनेति । ऐक्यवता चैतन्येनैक्यस्यामेद तदैक्यं स्वयंप्रकाशत्वाच्छाखेण न ज्ञेयम् । भेदे त्वैक्यस्य मिथ्यात्वमेष्टव्यम् । अन्यथाऽद्वैतहानेः । तथा सति च बलादपि भेदस्य सत्यत्वं स्यात् । परस्परविरुद्धयोरेकतरनिषेधस्यान्यतरविध्यवधिकत्वात् । ऐक्यवतोर्मेदाभेदौ यधङ्गी- ICICK क्रियेते तर्हि दोषद्वयादिति सिद्धत्वात् । दूषणान्तरमप्याह । तयोरपि भेदापेक्षत्वात्तयोरपि तथात्वं स्यादित्यनवस्थितिः । ऐक्यस्य स्वनि- र्वाहकता चेत्स्यास्वनिर्वाहकशब्दस्य स्वेन स्वयं बाह्यं स्वस्य स्वयं बहकमित्यर्थः । तत्र वाह्यं वाहकमित्युभयरूपः शब्दो निर्विशेषै- कार्यवृत्तित्वात्पर्यायः स्यात् । नो चेदमेदवान्वा स्यात् । पर्यायपक्षे वाह्यवाहकयोस्क्यस्योक्तत्वात् । अन्यतरापेक्षया भेदापातात् । सम्बन्धापेक्षया भेदवत्पक्षे च सम्बन्धापेक्षयाऽनवस्था । सत्येत्यादेरयमर्थः । सत्यं ज्ञानमनन्तं ब्रह्मेति वाक्यामिप्रेतया व्यावृत्त्या प्रयोजनं नास्ति । एवमुक्तन्यायेन व्यावृत्तस्य वस्तुनोऽविशेषत्वे । तथा चाभ्युपगतमयं निर्विशेषं खण्डितं दूषितम् । तथा हि । सत्यज्ञानादिपदैर्ब्रह्मणोऽध्यस्तात्तद्रूपानृत- त्वादेया॑वृत्तिर्विवक्ष्यते । तत्र ब्रह्मपदेनाब्रह्मताब्यावृत्त्या यदेव च रूपं प्रतीतं सत्यादिपदैरनृतादिता व्यावृत्तावपि तदेवाप्रतीतम् । अतो विशिष्टं चा- विशिष्टं चैदपसिद्धान्तः। तदेव चैब्रह्मपदेनैव सिद्धत्वात्पदान्तरवैय्यर्थेन वाक्यस्यैवाभावः । अत एव वाक्यार्थो न स्यात् । एतेन वाक्यार्थस्य विशिष्टत्वनियमेन ब्रह्म निर्विशेषं मूकोऽहमितिवद्भवेत् । व्याहतेनिर्विशेषत्वापातात् । अन्यथाऽनुपपत्तिबलाद्विशेषविशेषिणोर्भेदे सम्बन्धापेक्षयाऽनवस्था। अभेदे विशेषिमात्रमिति निर्विशेषविशेषिणौ। भेदाभेदे स्वच्याहतिः । अतो गत्यन्तराभावान्न परमार्थः सम्भवति । इष्येते चेन्माययाऽवकाशः । तस्य प्रानिरस्तत्वाच्च । विशेषलक्षणमाह ॥ भेदेति । एवं धर्मान्पृथक् पश्यंस्तानेवानुविधावति । पृथगृदृष्टांस्तानन्वेव विपरीतं धावति । तदर्शनानन्तर- मेव विपरीतां गतिं गच्छतीत्यर्थः । तदभेदो गुणिनो विष्णोर्गुणाभेदः ॥ २॥ रुद्रादेरपि जगज्जन्मादिकारणत्वमाशङक्य तत्परिहारायाह ॥शैवा. दीति । अयमर्थः । क्वापि दृष्टविषयं फलं शैवाधागमतः सम्प्राप्तमित्यागमोदितानुमानोपलब्धमित्यतस्तद्वाक्योषमया तत्फल्ज्ञातवाक्योपमया । तथा चायं प्रयोगः । शैवाधागमः प्रमाणमीशवाक्यत्वात्सम्प्रतिपन्नवाक्यवदिति चेन्न । तस्मिन्नागम एव गतेन क्वचिदृष्टफले व्यभिचारिवाक्यान्तरेण दृष्टा- न्तीभूतेन । विमत आगमः प्रामाण्यनियतो न भवति । ईशवाक्यत्वादिति । ननु विमतं सकर्तृकं कार्यत्वाद्धटवदित्यनुमानेन जगकर्तेश्वरः कब

अदि.
ศุงซึ่ง
||७||
에이
अ०५
Hindi
सिध्यति । पक्षधर्मताबलेन तस्य सर्वज्ञत्वं सिध्यतीत्यत आह ॥ न पृथगिति। न बुद्ध इत्यादिपूर्वोक्तैन । एतेन प्रमाणान्तरभावेन ।
नावदे विन्मनुते । नैषा तर्केण मतिरापनेया । नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्तीति । न च कार्यत्वहेतोः पक्षधर्मताबलात्सार्वज्ञसिद्धिरित्यत
आह ॥ नेति । आदिशब्दावृक्षकृत्त्वं लौकिककर्तृचेष्टोत्पत्तिकवनादीतरकर्ताऽन्न विवक्षितः । सूचितमनुमानं प्रयुक्ते ।। वृक्षकृदिति । न हि
चैत्रोऽपि स्वावरोपितं सविटपशिफादलत्वेनाखिलं वेत्ति । ईदृशागमनिरपेक्षया गोवत्सरसवत्पञ्चमरसवदित्यतिप्रसङ्गानुमाने दृष्टान्ताः । तत ईशानुमा-
नाभासत्वम् ॥ ३ ॥ तत्तु समन्वयादित्यस्यार्थमाह ॥ त ऐवेत्यादिना ॥ ४ ॥ यतो वाचो निवर्तन्त इत्यादिना ब्रह्मणः शब्दागोचर-
त्वादित्यादियोगादन्ययोगव्यवच्छेदेनोदितं शास्त्रगम्यत्वं नोपपद्यते । अवाच्यत्वादेव शब्दप्रवृत्तिहेतवः स्रष्टत्वादयो गुणाश्च न सम्भवेयुरतो निर्विशेषस्य
तस्य कर्य जिज्ञासा सञ्जायटीति । न चैवम् । तत्र व्यबहारलोपो लक्षणया वृत्त्या तत्र वेदान्तवृत्तरित्यत्र प्रतिविधीयते ॥ इक्षणीयत्वत इति।
स एतस्माज्जीवधनात्परात्परं पुरिशयं पुरुषमीक्षत इत्यादिश्रुतावीक्षणीयत्वमुच्यते । ईक्षणीयत्वं वैदैकगम्यस्यावचनेनेक्षणीयत्वम् ।
श्रुत्वाऽऽत्मानं
मतिपूर्व छुपास्यैहैव दृष्टिं परमस्य विन्देदिति श्रुतेः श्रुत्युपदिष्टस्य श्रवणादिनैव दर्शनोक्तेः । अन्ययावाच्यत्वाभाचे लक्ष्यत्वं क्वापि न दृष्ट हीति
पुरुषादिशब्दवाच्या एव ह्यर्थी मञ्चादिशब्दैर्लक्ष्या दृश्यन्ते । किं तल्लक्ष्यमित्यनवस्थितिः । मञ्चाः क्रोशन्तीत्यत्र मञ्चशब्देन मञ्चसम्बद्धानां सर्वेषामपि
ग्रहणप्रसक्तेः पुरुषशब्देन तद्विशिष्यते । तस्यापि लक्ष्यावे मञ्चादिशब्दवदेव पुरुषसम्बन्द्धानां ग्राहकत्वात् । तत्रापि पदविशेषे विवक्षा स्यात् ।
तत्राप्येवं तत्राप्येवमिलनवस्था । यथा प्रसिद्धमाधुर्यादिशब्दसादृश्येनाप्रसिद्धमाधुर्यादिकमवचनेनैव लक्ष्यते । एवमवाच्यस्यापि लक्षणा सम्भवतीत्यत
आह ॥ माधुर्येति । चशब्देन माधुर्यादिविशेष इत्यादिशब्दैर्वा । विशद क्षीरमाधुर्य स्थिरमाज्यस्य तीक्ष्णकम् । गुडस्य पनसादीनां
निर्धारीत्यभिधीयत इत्यादि सूदशास्त्रे । ननु सत्यं ज्ञानमनन्तं ब्रह्मत्यत्रानृतत्वादिव्यावृत्तं ब्रह्म हि वाक्यार्थः । न चैकैकपदेन वक्तुं शक्यते
॥७॥

र www. तु तस्मात्तद्वाक्येन लक्ष्यत इत्यत आह ॥ वाक्याथै इति । वाक्यार्थशब्देनोदित एवं भवेन्न तु लक्ष्य इति प्रागेवोक्तम् । यतो वाच इत्यादिपदैन मूकोऽहमितिवत्स्वव्याहतम् । गौणार्ये यत्र वेदे । यो मायी । शाब्दत्वं शब्दानां मुख्यार्थवचनेन समन्वयप्रतिपादकत्वम् । नन्वीक्षणीयत्वेन वाच्यत्वं मायाशबलस्य ब्रह्मणो न शुद्धस्येत्याशङ्कापरिहारत्वेन गौण इत्यादेरथं विवृणोति ॥ आत्मेति । पूर्णगुणं सत्त्वादिगुगहीनम् । यदा यतो तदा ततः । यदातदेति हेत्वर्थे कालार्थे च प्रकीर्तिताविति वचनात् । आत्मन्येवात्मानं पश्येत् । स एतमेव पुरुषं ब्रह्म ततमपश्यत् । परात्परं पुरिशयं पुरुषमीक्षत इत्यादिश्रुतिषु तस्मिन्नीक्षणीय एव परब्रह्मणि प्रादेशशब्दोदितं ब्रह्म कारणं जन्मादिकारणत्वेन लक्ष्यं चेति । यतोऽनः शुद्धस्य मुख्येक्षणीयस्य वाव्यस्यैव ब्रह्मणो निर्वाच्यमायाशवलं विना स्वेच्छयैव जगत्कारणत्वाद्युपपत्तेर्वन्ध्यापुत्रोपममनिर्वायं मायाशवलं ब्रह्म वाच्यमिति मानं विनैव कल्पयति । पुनरपि मानं विनैव वन्ध्यापुत्रोपमं पदैर्लक्ष्यमपि शुद्धमिति वदति । एवं वदन्नेव तरति शोकमात्मवित् । यस्यानुवित्तः प्रतिबुद्ध आत्मेल्यादिश्रुतिषु स्वनिष्ठानां मोक्षप्रदत्वेनात्मशब्दोदितस्य ज्ञानं मुक्तिसाधनमाह । सर्ववेदवाक्येषु स्वयमेव तावच्छब्दवाच्यत्वेन श्रुतस्य मायाशबलत्वेन श्रुतस्य त्यागः । विचार्यमाणे कस्यामपि श्रुतावश्रुतस्य निर्विशेषस्य कल्पनं साध्यमानस्य मायिनो यदि श्रुतपरित्यागाश्रुतकल्पनादिदोषदुर्घटमपि मतं भूषणमङ्गीक्रियते । तर्हि सर्वैर्भूषणैरलकृतः स्यात् । न तु केनापि सुघटेन । तथा चासतः ख्यातिश्चेतनत्वं सतो बाधो जडत्वं मुक्तावुपपद्यते चेदुर्घटं सर्वमपि स्यात् । वसनहीनस्यालङ्कारस्यासमञ्जसत्वादन्तरीयमुत्तरीयमिति वसनद्वयं च स्यात् । तत्र प्रमाणमाह ॥ अनन्देत्यादिना । आन- न्दादहिता अनन्दा अविद्वांसोऽज्ञानिनः । अबुधोऽन्यथाज्ञानिनः । असुर्याऽसुरप्राप्याः । आत्महनः परमात्महनः । तद्गुणनिरासिन इत्यर्थः । अन्ध- न्तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्याया रता इत्यादिशब्दार्थः । तमेवैकं जानथ । आत्मानमन्या वाचो विमञ्च अमृतस्यैष सेतुरित्यहेयत्वेनोक्त आत्मा कथं गौणः । औपचारिकत्रिगुणसम्बन्धी वा। चतर्मुखादीति यावत् । एव चेद्ब्रह्मादीनां हेयत्वात्तारतम्येन

करना
www
aa
तु
भक्तिविधानवैयर्थमित्यत आह ॥ परिवारतयेति । ब्रह्माधाः प्रधानत्वेन हेया अपि परिवारस्वेन प्राह्याः । आत्मशब्दपर्यायेण पूर्णत्वेन वाच्यमानस्यान्यत्र
अटि० लयप्रतीतेमुख्यस्य मायासम्भवाच्च । गौणेऽप्यात्मशब्दः स्यान्नामेत्यत आह ॥ पूर्णस्येति । पूर्णस्यावताररूपस्य स्वस्यैव पूर्ण मूलरूपे स्वस्मिने-दानाच
वाप्यय उदाहृतः । नान्यस्मिन् । साक्षी चेता केवलो निर्गुणश्चेति सर्वभूतकारणे आत्मनि श्रुतनिर्गुण इति पदं कथं गौणं वदिष्यति । य इदं प्र०५०
॥८॥
बदन्ति तद्गौणमेव । अन्यस्यागौचरत्वात् । अतो निर्गुणपदेन गुणाभावोपलक्ष्यमेव मुख्यमित्याशक्य परिहरति ॥ गुणेत्यादिना। तदुपलक्ष्यं च [अ०५
पदं वाचकमासीत् । न तु लक्षकम् । तथा सत्यपसिद्धान्तः । तदपि लक्षक चेत्तदपि तथैवेत्यनवस्था । एवं श्रुतहान्यादिसर्वदोषश्च । तदेक्षतेति
श्रुतेने प्रधानमन्त्रोच्यते । अशब्दं हि तदिति साङ्ख्यनिराकृतिः । असौ साङ्ख्यो मायी च सम्भवति । समन्वयवचनेन कथान्तरावकाश इत्यत आह
॥ समन्वय इति । तदभावे शब्दगोचराभावे । अन्यस्य तु न कदाचित्समन्वयप्रतिपादनाधिकार इत्याह ॥ कथामिति । समन्वयो मुख्यवृत्ति-
स्तस्यैव । न तु लाक्षणिके औपचारिक स्यात् । किं मुख्यब्रह्मणो निर्गुणत्वाभावात् । तत्र लक्षणयैव शब्दवृत्तिः सम्भवतीत्यत आह ॥ आत्मेति
तदेव द्वितीयसूत्रेण जन्मादिकारणत्वेनोक्ते साक्षब्रह्मण्ययोगान्ययोगव्यवच्छेदेन समन्वयमाहोत्तरसूत्राभ्याम् । तदेव प्रथमसूत्रे जिज्ञास्यमुक्तम्
अपरथोत्रसूत्रे यत इति परामर्शायोगात् । अत्र सूने मुख्यार्थस्य वाच्यार्थस्य निराकृती निमित्तभूतोऽसम्भवश्चेत्कथम् । नन्वशब्दगस्पर्शम् । अदृश्येऽनात्म्ये ।
केवलो निर्गुणश्चैत्यादीनामप्रामाण्यासम्भवस्तन्निमित्तमित्यत आह ॥ मानेति । अवाच्यत्वादिलक्षणान्तरं मानैर्न गम्यते । अवाच्यत्वादिलक्षणत्वादेरि-
त्यर्थः । एवममेयं चेच्छास्त्रस्य तत्र लक्षणया प्रवृत्तिर्न सम्भवति । लक्षणया बुद्धयत्रतारे मेयत्वप्रसङ्गात् । अस्मद्विवक्षितं ब्रह्मव शास्त्रार्थ इति निगमयति
॥ तस्मादिति । यदि तदगोचरं स्यादित्युच्यते तर्हि तथाऽस्तु । तद्ब्रह्म वाङ्मनसागोचरवादशेषविशेषतोऽपि विनिर्गत मत्यपि मा वदेन्मायावादी।
न चास्मच्छास्त्रगं तु तत्तादृशं ब्रह्म वेदान्तगं नैव स्वीक्रियते । अस्य ब्रह्मणो विज्ञेयत्वाधभावादेव शास्त्रकृत्याभावान वेदान्तशास्त्रं तदीयम् । किन्त्वनन्त-
॥८॥

Me गुणब्रह्मप्रतिपादकत्वादस्मदीयमैवासीत् । तस्यास्मच्छास्त्रस्यत्यजनं चैर्य नामावाच्यत्वप्रतिपादनाद्वदान्तवाक्यमिति स्वोक्तिदूषकः । अवाच्यं ते ब्रह्म वेदवा- च्यमिति मा ब्रुयाः । असकृद्वचनं तात्पर्यर्थम् । श्रुतियुक्तिभ्यां च निरुत्तरकरणेन स्तम्भनं च बन्धनं नाम । अवाच्यत्वादिवाचकानां श्रुतीनां गतिमाह ॥ अद्भुतत्वादिति ॥५॥आनन्दमयोऽभ्यासादित्योदरप्यायस्य पूर्वत्र प्रपञ्च्यप्रपश्चकभावात्मिका सङ्गतिं दर्शयति ।। एवमित्यादिना। एवमुक्तप्रकारण ब्रह्मणः सामान्यतः शास्त्रावगम्यत्वे प्रतिपादिते सति । तत्रेत्यादिना पादसङ्गतिं दर्शयति । अत्राध्याये । शब्दानां नाम्नाम् । गुणीत्यादिनाऽधि- करणसङ्गतिं दर्शयति । आनन्दमयविज्ञानमयादीनां सामान्यव.चका गुणिसामान्यवाचिनी लिङ्गात्मका इत्यर्थः । गुणवाचिन आनन्दादयो नामात्मकाः । अन्नादयो गुणिविशेषवाचिनो नामात्मकाश्चशब्दपरिगृहीताः । यमन्तःसमुद्रे कवयो वयन्ति यदक्षरे परमे प्रजाः । यतः प्रसूता जगतः प्रसूती तोयेन जीवान् । तदेव ब्रह्म परमं कवीनाम् । येऽनं ब्रह्मोपासते । सह ब्रह्मणेत्यादिब्रह्मशब्दाभ्यासः । एतद्रूपास्वेतद्रूपं यासां ता एतद्पा वाधूलकादय आसु । आनन्दमय इत्यायैः शब्दैहरिः स्वयं वाच्यो न ब्रह्मादयः । तेषां मुल्यब्रह्मत्वाभावात् । अन्नमयप्राणमयमनोमयविज्ञानमया अन्नं प्राण इत्याद्या आधशब्दार्थाः । उपलक्षणत्वमित्यादेरयमर्थः । आनन्दमयोऽन्तरो घुम्वाद्यायतनमित्यादिसौत्राणां शब्दानां तत्तच्छाखागतशब्दान्तराणामन्त्रमयादी- नामुषलक्षणत्वमस्ति । तत्तनिर्दिष्टबलादेव तेषामपि ग्रहणोपपत्तेः । सूत्रस्याल्पाक्षरतयैव सर्वशाखाविनिर्णयार्थमेव । एवं तर्हि तत्तत्समाख्याबलेन सर्वशाखासमन्वयसम्भवाकिमधिकरणान्तरारम्भ इत्यत आह ॥ पुनश्चेति । ततः समाख्यादेरपि प्राबल्येन शङ्काप्रापकाद्धेतीनिमित्तात्तनिरासाया- धिकरणान्तरम् । तत्राप्यतिप्राबल्येन सिद्धान्तप्रापकाद्धेतीरिति वा । सर्वे वेदा यत्पदमामनन्तीति कठश्रुतिं सूचयति ॥ सर्व इति । अनन्त- विदवांच्यस्य ब्रह्मणः प्रतिपादनमुपलक्षणयैव हि घटत इत्याशयः । एवं चेदन्नमयशब्दस्य प्राथमिकत्वात्किमिति सूत्रयित्वाऽन्यानोपलक्षितवान् । अथवाऽनं प्राण इत्यत्र श्रूयमाणमन्नशब्दं सूचयित्वा तेनान्यत्किमिति नोपलक्षितवान् । न हि नामपादे विशेषप्रयोजनं विना लिङ्गविचारस्य MARA pa अ०टि. न०० M ॥९॥ W सावकाशत्वमित्यत आह ॥ आनन्दमयेति । अन्योऽन्तर आरमाऽऽनन्दमयः । प्रस्तुत आनन्दमयाख्यरूपे तस्य प्रियमेव शिरो मोदो दक्षिणः । पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुग्छं प्रतिष्ठति ब्रह्मणः पुच्छत क्तित आनन्दमयस्वरूपस्य समस्तस्याब्रह्मताप्राप्तेस्तानि- रासायानन्दमयनाम सूत्रितम् । तस्माद्ब्रह्मानन्दमय एव । न तु पुच्छमित्यभिप्रायः । तन्निरासाभावे ब्रह्मणोऽवयवित्वासिद्धेस्तज्जिज्ञासाया प्र०प्र० एवासम्भवात् । ब्रह्मशब्दस्य चेत्यादेरयमर्थः । येऽनं ब्रह्मोपासते । ये प्राणं ब्रह्मोपासते । अस्ति ब्रह्मेति चेद्वेद । विज्ञानं देवाः सर्वे । ब्रह्मज्येष्ठ- अ०६ मुपासते । आनन्दं ब्रह्मणो विद्वानिति पञ्चस्वरूपप्रकरणे । अधीहि भगवो ब्रह्मेति । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेल्यादिशाखाविशेषे च ब्रह्मशब्दस्य चाभ्यासात् । चशब्दाब्रह्म पुच्छमित्युक्तेश्च । ब्रह्मत्वमवयवतयैव ब्रह्मणोऽवयवानामेवावयविस्वरूपत्वतः । यथैवावयवस्वरूपस्य कृष्णकेशात्मनः कृष्णस्यापि ब्रह्मता तथा सर्वत्रावयवे हि ब्रह्मता स्यात् । एवं संस्तूयमानस्तु भगवान्परमेश्वरः । उज्जहारात्मनः केशौ सितकृष्णौ । महामुने । उवाच च सुरानैतौ मत्कैशौ वसुधातले । अवतीर्य भुवो भार क्लेशहानि करिष्यत इति विष्णुपुराणे । एवमुक्त्वा ततो राजन्महायोगीश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैचरमिति भगवद्गीतासु । ऋतं सत्यं परं ब्रह्म पुरुष कृष्णपिङ्गलम् । उर्वरेतं विरूपाक्षं शङ्करं । नीललोहितमिति तापनीयश्रुतौ । ब्रह्मशब्दं शङ्करविषयमाशक्य तत्परिहाराय योजनान्तरं दर्शयन्नाह ॥ ऋतं सत्यमिति । समानाधिकृतत्वं चेत्पूर्वोत्तरार्धयोः समानाधिकृतत्वमेव युक्तमिति चेदुत्तरत्रोक्तं नीललोहितरूपं पूर्वार्धोक्तकृष्णपिङ्गलरूपेण निमित्तेन पुनरुक्तं भविष्यति । तथाऽपि परब्रह्मत्वं रुद्रादन्यस्य न सम्भवति । तस्य ब्रह्माधिपतित्वोक्तरित्यत आह ॥ ब्रह्मेति । अत्र तापनीयश्रुतावेव पुर उपरि वाक्ये ब्रह्माधिपतिरिति समासपदं स्वरितब्रह्मशब्दान्तत्वानुनीहित्वमेष्यति । तादृशस्य बहुव्रीहित्व उदाहरणमाह ॥ स्वाहेति । इन्द्रशत्रुर्वर्धस्व स्वाहेति मन्त्रे इन्द्रशत्रुरिति पूर्वपदान्तत्वाद्बहुव्रीहितामगादिति यत्तस्माद्ब्रह्माधिपतिरित्यपि बहुव्रीहित्मेत्येव । तस्मादस्येन्द्रः शत्रुरभवदित्युत्तरश्रुतेरिन्द्रशत्रुसमासस्य ॥९॥ SA हूँ । SECRECAINS बहुव्रीहित्वं निश्चीयते । मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्जो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधादिति शिक्षायां पूर्वान्तस्वारते पुंसोर्बहुव्रीहिरिति सूत्रितम् । पुंसो विवक्षायां पूर्वपदान्तस्य स्वरितवे बहुव्रीहित्त्वं प्राप्नुयात् । अश्वपते गोपते इल्यादावश्वपूर्वा- न्तस्वरितत्वाद्वहुव्रीहित्वं स्यात् । तव्यवच्छेदाय पुंसौरित्युक्तम् । ऋतत्त्रादिकमित्यादिशब्दजातस्य नाभावित्यादि द्रष्टव्यम् । विष्णोः कृष्णादिरूपतयो- त्पत्तिस्तु स्वलोकात्केवलमत्रावतारणवेनावगता न तु देहाद्युत्पत्त्या । तस्मान्मत्वादिविरोधः स्यात् । किन्तु विरिञ्चादिष्वपि ब्रह्मशब्दस्योपचारतो वृत्तब्रम्हशब्दाभ्यासस्तद्विषयः किं न स्यादित्यत आह ॥ प्रस्ताव इति । ब्रह्मविदाप्नोति परमिति ब्रह्मणो झपक्रमोऽतस्तद्ब्रहणे युक्ते सति नामुख्यं गृहीत युज्यते । अत्रानमयादिषु विकारवाचिनो मयटशब्दस्य श्रवणाद्विकाराभिमानिनां ब्रह्मादीनां वाच्यत्वप्राप्तिः । विकारात्मकानां शब्दानां कोशादीनां वेत्याशङ्कय परिहाररूपेण विकारशब्दान्नेति चेन्न प्राचुर्यादिति सूत्रं विवृणोति ॥ प्राचुर्याा इति । अत्र श्रयमाणमयटः सर्वेऽप्यत्र प्राचुर्यार्थाः प्रतिपादिताः । अन्नमयादि-श्लोकेष्वन्नं हि भूतानां ज्येष्ठम् । प्राणं देवा अनुप्राणन्ति । विज्ञानं देवाः सर्वे ब्रह्मज्येष्ठमित्यादौ सर्वज्येष्ठत्वसर्वदेवादिचेष्टकत्वाद्युक्त्या तत्तत्प्राचुर्यमेव हि प्रतिपाद्यते । न ह्यपूर्णस्यैते गुणाः सम्भवेयुः । विकारप्रधानप्राचुर्येषु मयडिति प्राचुर्येऽपि मयटः प्रवृत्तिष्टा । नन्वद्यतेऽत्ति च भूतानीत्यत्तृत्ववचनान प्राचुर्यमात्रं विवक्षितम् । विकारित्वमेवेलयत आह ॥ भोग्यत्व मिति। उपजीव्यतया भोग्यत्वमेवायत्वम् । न भक्ष्यत्वम् । अतोऽनमय इत्यन्नमयरूप एव प्रचुरः । प्रचुरानमिति यावत् । तथा च महाभाक्ता महाभोग्य इत्युक्तं स्यात् । तदेतदाह ॥ महाभोक्तेति । अन्नमयेऽन्नमयशब्दे । ननु तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमय इस्लादौ पौरस्त्यात्पाश्चात्यस्यान्यत्वकथनान्नैकरूपाण्येतान्यत्रोच्यन्तेऽभिन्नोऽपीति । अत्र प्रमाणमाह ॥ अभेदेति । भूगोरचें वरुणोऽप्येतदेवान- मयादिरूपं वदिष्यत्यन्नं प्राणमित्यादिमयट्शब्दश्रवणादन्य उच्यत इत्यत आह ॥ प्राप्यत्वेनेति । एतमन्नमयमात्मानमुपसङ्क्रामतीत्यादिना अटि० ॥१०॥ न०० प्र०प्र० अ०६ तेषामेवोपासितानां प्राप्यत्वेनोपरि मयटशब्देन सह प्रोक्तस्तत्राप्यन्यद्वारादिकं नोच्यते । अतोऽन्नमयोऽपिशब्दात्प्राणमय इत्यादिरपि प्रचुराना- दिदैवोच्यते । इह तैत्तिरीयश्रुतौ ब्रह्मणोऽन्यद्वारकोशादिकं किञ्चिदपि नोच्यते । तद्धेतुव्यपदेशाच्चेति सूत्रं विवृणोति ॥ महानन्द- त्व इति । को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यादिति । यथेष आकाश आनन्दो न स्यात् । तर्हि क एव सामान्येन चेष्टेत को वा प्रकर्षण चेष्टेत इत्यत्र महानन्दत्व एव हेतुरुक्तो न ह्यनानन्दमात्रत्वे नाप्यानन्दविकारत्वे । तत्प्रतिपादयति ॥ श्रुत्यन्तर इति ।। यदा व सुखं लभतेऽथ करोति नासुखं लब्बा करोतीत्युक्त्वा यो वै भूमा तत्सुखं नाल्पे सुखमस्तीति सुखशब्देन पूर्णसुखमुक्तमिति यस्मात्तस्मान्म- हानन्दत्व एवार्य हेतुः । यत्प्रवृत्तिरित्यादरयमर्थः । सुखाडुःखाच्च लोके प्रवृत्तिर्दश्यत इति यतः सर्वशक्तेर्न दुःख सम्भवतीति यतोऽतः केवल- लीलया केवलानन्दमूलचेष्टयाऽयं सर्वप्रवर्तको न चेदस्वतन्त्रेऽस्मिन् जगति क एव पुमान्प्राण्यादिति सुखप्राप्त्यर्थ दुःखपरिहारार्थं च प्रवृत्तिदुः- खनिवृत्तायामेवान्तर्भूतासम्भवेति हि दुःखं सुखप्राप्याशायां तत्प्राप्तिपर्यन्तम् । आशा हि परमं दुःखमित्यादेश्च । मान्त्रवर्णिकमेव च गीयत इति सूत्रं विवृणोति ॥ ब्रह्मवित्परमामोतीति । यद्ब्रह्मोपक्रमे सूचितं तदेव सत्यं ज्ञानमनन्तं ब्रह्मेति मन्त्रवर्णेन लक्षितम् । सत्यज्ञानान- न्दादिलक्षणत्वेन प्रकाशितम् । तत्र मन्त्रवणे सृष्टयुक्त्येति शेषः । मनसा विज्ञानेनाप्युक्तमिति शेषः । कथं सत्यादिशब्दार्थत्वं सृष्टयादेरित्यत आह सद्भावमिति । सद्भावः सत्यवस्तूनां सत्ता तत्रिविधामपि यापयतीति सत्यम् । इत्येषा सत्यशब्देन सूचिता । सृष्टिरिहानमयादिश्लोके विस्तरश उक्तेति स्थापनायैवेत्यैतमर्थ स्थापयितुमेवोक्ता हि सृष्टिः । अन्नाद्भूतानि जायन्त इति सत्त्वमेव जीवनं चेदप्यत्रोक्तं जातान्यनेन वर्धन्त इत्यादि षद्लविशरणगत्यवसादनेष्विति घातोर्विशीर्णता च सत्वं स्यादप्यत्रोच्यते । अत्ति च भूतानि । सनं तु वर्धितं प्रोक्तं सन्नं शन्तं च सूरिभिरित्यादौ विनष्टं सन्नमिल्याहुरेव हि । अतोऽयताऽत्तृतारूपत्वमन्नत्वं सत्यशब्दार्थः स्यादेव हि । अवता नामोत्पत्तिवृद्धयोरुभयत्राप्युपजीव्यता । अत्तृता संहर्तुत्वं ICCRE5% प्राणमित्यादिना चेष्टारूपिणी गतिरुच्यते । प्राणो हि भूतानामायुरिति जीवनमायुर्निमित्तत्वादायुः । मनु अवबोधन इति धातोर्मनो विज्ञानमेव । नाल्पे सुखमस्ति भूमैव सुखमिति प्रोक्त्यैव सुखशब्दस्यानन्तसुखवाचित्वादन भगवत एवानन्दमयत्वोक्तितो मन्त्रवर्णोक्तमनन्तत्वं सुनितिम् । परिपूर्णरूपं पूर्णाल्पके न स्याद्धि स्वव्याहतेरेव । उक्तार्थं निगमयति ॥ अतो हीति । परयोत्तरभागश्रुत्या । यस्मादित्युक्तार्थ परामृश्य तमित्यपि हेतुं करोतीत्युत्तरसूत्रं व्याचक्षाणो भगवान्मध्वदेवो मन्त्रवणे तु ब्रह्मण इतरस्यानुक्तत्वादुत्तरभागश्रुतेर्मन्त्रवर्णविस्ताररूपत्वात्तत्रेतरवाच्यत्वानुपपत्तेरुत्तरो ब्रह्मादिः प्रकृतिर्वाऽत्र तैत्तिरीयश्रुतौ न प्रतिवायत इत्यर्थः । नेतरोऽनुपपत्तेरित्यस्यार्थान्तरमाह ॥ पुरुषमिति । तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यत इति श्रुतेर्विष्णुवैदिन एव मोक्षः । अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठा विन्दते । एतमानन्दमयमात्मानमुपसङ्क्रामती- त्यादिनोच्यते । अत्रानन्दमयान्मोक्षः । विष्णावेव पुरुषशब्द इत्याह ॥ पुरुष इति । तेन विष्णोरन्यस्य पुरुषत्वनिषेधेन मोक्षप्रतिषेधेन च । नन्त्राकाशाद्वायुरियादिभूतसृष्टिमुक्त्वौषधीकार्यान्वमयं पुरुषशब्दं प्रस्तुत्यान्नमयप्रतिपादनात्कथमितरकोशा नोच्यन्त इत्यत आह ॥ ब्रह्मेति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूत आकाशाद्वायुयोरग्निरोरापोऽन्यः पृथिवी पृथिव्या औषधय औषधीभ्योऽनमन्नात्पुरुषः स वा एप पुरुषोऽन्नरसमय इत्यादिश्रुतयः। लरूपत्वाद्वकारस्य वकारः कुत्रचिच्छब्दस्यादिग्रहणेनैव तदर्थ उच्यते । उकारो द्वितीया मात्रा । उत्कर्यानुभयत्वाद्वतियत् । उपास्तेषु धातृत्वा- दौषधिः। पुरि शेत इत्यत्र तृतीयेऽतिशय इति न्यायो द्रष्टव्यः । न चोक्तान्नमयो न बाह्यो लोकान्नमयाख्यः कोशोऽन्नरममयः । रमो वै म इति रसशब्देन विशेष- णात्। कथं तस्येदमित्यादौ प्रत्यक्षवत्र्यपदेशात्परमात्मोच्यत इत्यत आह ॥ इदमिति । तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनायेति श्रुतेरन्यस्य कोशादेर्न मुच्यते । उच्यते चास्मिन्त्रकरणेऽनमयादिज्ञानान्मोक्षः। एतनानन्दमयमात्मानमुपसक्रम्येत्यायुक्तयुक्तरेव ब्रह्मादीनामपि परित्यागायोगावस्ये- नानन्दमयत्वं स्यादिल्याशापरिहारार्थ भेदव्यपदेशादिति मूत्र योजयनि । नेत्यादिना । समन्वयादी ग्रामडरिक नया व क्यान्न येतयात्र- PRIMARWARA भर अ०टि. ॥११॥ नचं० प्र०प्र० अ०६ गिल्यत्र पूर्णता। एतमन्नयमात्मानमुपसङ्क्रामति । एतमानन्दमयमात्मनमुपसङ्कम्पति स्थानद्वयेऽप्येवं श्रुतपारख्यागाश्रुतकल्पने तेषां स्यातामिति शेषः। अस्माल्लोकाग्रेत्येत्युक्तायां मृतायामेव तेन शरीरतयाऽभिहितस्यान्नमयशब्दस्य परीत्यागः कृतो हि। तस्मादन्नमयादीनामप्यतिक्रमाभिप्राये पुनरुक्तिः। अन्नमया- दिशब्दानां शब्दस्य वा सामानाधिकरण्यतः। अधीहि भगवो ौ ति भृगुणोक्तो वरुणोऽनं प्राणं चक्षुः श्रोत्रं मनो वाचमिति माह । तत्कथं ह्म न भवति । शाखाचन्द्रदर्शनन्यायेन म दर्शनद्वारम् । न तु होति वादिनः कथं गुरुप्रसादनप्रकारं विद्युः । चक्षुरादीनामन्नमयादिषु सहपाठे पुनर्यतो वा इमानि भूतानि जायन्त इत्यादिना सामान्योपदिष्टानां स्रष्टत्वादिसलक्षणानां तेष्वनुक्तेः कथमद्वारस्वमित्यत आह ॥ चष्ट इति । चक्षुरादिमत्त्वेनोपदिष्टं तद्ब्रह्मैव हि यतो वा इत्यादिना सृष्टवादिकारणत्वेनोक्तमित्यभिप्रायेणाह ॥ ब्रह्मसृष्टिः सृष्टयादिकरणमिति । एवं क्वचित् षड्रूपत्वं क्वचित्पश्चरूपत्वमपरत्राष्टरूपत्वं चोक्तम् । तस्मान्मियो विरोध इत्यत आह ॥ आवापेति । गुणरूपादीनामावापोवा- पतः । यतो वा इमानि भूतानि जायन्ते । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व तब्रह्मेति लक्षितं गुरुणा । स तपोऽतप्यत । स तप- स्तत्वा । अन्नं ब्रह्मेति व्यजानात् । अन्नाद्धयेव खल्विमानि भूतानि जायन्ते अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रम्हेति । तं होवाच । तपसा ब्रम्ह विजिज्ञासस्व । तपो ब्रम्हेति । स तपोऽ. तप्यत । स तपस्तावा प्राणो ब्रह्मेति व्यजानात् । प्राणाद्धयेवेत्यादि ब्रह्मत्वेन श्रुतमन्नादिकम् । अत इति ब्रह्मेति हि मायिनो वदन्ति । इति लज्जा तदुक्तिष्विति हेतौस्तेषां श्रुतियोजनानुवादेषु लज्जा वर्ततेऽस्माकम् । अस्मिन्नस्य च तद्योगं शास्तीति सूत्रार्थमाह ॥ समीप इति । भास्करीयास्तावदन्नमायादिषु मयटी विकारार्थत्वं कल्पयन्ति । आनन्दमये प्राचुर्यम् । तन्निराकरोति ॥ एतेनेति । अधिकरणार्थ निगमयति ॥ अत इति । गुणवाचका आनन्दादयः । गुणिवाचका अन्नमयादयः । ननु जन्माघस्य यत इति सूत्रेण जन्मादिकारणत्वं ट k RRC-RA-NE ब्रह्मणो लक्षणत्वेन प्रतिज्ञातमुपपद्यते च । तच्च ज्ञानप्रयत्नेच्छादिमत ईश्वरस्यानन्दाद्यनन्तकल्याणगुणप्रतिपादनात्मकः समन्वयः किमर्थ इत्यत आह ॥ जन्मेति । गुणसर्वस्वसिद्धये गुणसर्वस्वरूपसिद्धये न तु केषाश्चिद्गुणानां सिद्धये । तद्गुणसर्वस्वं शास्त्रमूलमिति यतस्ततः। सर्वशास्त्रशब्दानां समन्वय एव गुणसर्वस्ववेदकः । प्राणादिशब्दानां प्रवृत्तिहेतूनां प्रकृष्टत्वादीनां तस्मिन्भगवति सम्बन्धात् । तन्निमित्तत्वतोऽल्पस्यापि भगवन्निमित्तत्वतः ॥ ६ ॥ अन्तस्तद्धर्मोपदेशादिति सूत्राभिप्रायमाह ॥ देवानामिति । शक्ततां तत्र तत्र समन्वयधर्मित्वे समर्थताम् । भेद- व्यपदेशाचान्य इत्यभेदं न्यवारयत् । नन्वस्तु चेतनानां प्रवर्तकत्वेन हरेस्तच्छब्दवाच्यत्वम् । आकाशाधचेतनं हि तत्स्वभावस्य विवरत्वादेः परेणानियतत्वात्कथं तच्छब्दवाच्यत्वमिख्याशङ्काभिप्रायः ॥ ७॥ आकाशस्तलिङ्गादिति सूत्र व्याख्याति ॥ आकाश इति । पूर्व- शब्दादनन्तत्वं द्रष्टव्यम् । आदिशब्दाद्यस्तभ्नानाकमुष्वं बृहन्तं दाधर्य प्राची ककुभं पृथिव्या इत्यादि ॥ ८ ॥ एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नधः स्यन्दन्ते । एतेन ह वाव पयो मण्डं भवतीति शरीरे यच्चेष्टावत्प्राणवद्भवति । यत्प्राणवन्न भवति तच्चेष्टावन्न भव- तीत्यन्वयव्यतिरेकाभ्यां चेष्टायाः । आदिशब्दाज्जीवः । अत एव प्राण इत्यतिदेशः। प्राणादिनाम्ना लिङ्गमात्रेण कथमनुकर्षणमित्यत आह । लिङ्ग- मिति । अस्यापि नामवतोऽपि ॥ ९-१०॥ शब्दस्य गायत्र्यादिशब्दस्य । नित्यत्वात्स्वभावस्य च नित्यत्वात्कथं हरिनिमित्तभूतः स्यात् । अग्न्यादौ प्रसिद्धाना ज्योतिरनिगायत्र्यादिप्रबलशब्दाना तद्धरैरेव तच्छब्दजातं हरेरेव वाचकम् । हरेरेव पुरुषामृतादिश्रुतीनां चरणाभिधानलिङ्गानां च बाहुल्याजिल्यानां निष्यत्वस्यापि नियामकत्वं तादृशत्वम् । बाहुल्य इत्यादेरयमर्थः । प्राणादिश्रुतीनां प्राणविसंवादिलिङ्गानां च बाहुल्यसाधकावेनाङ्गीकृते सति तत एवान्यस्य मुख्यप्राणस्य मुख्यवाच्यत्वमिति मतं चैन्न । अत्र हि मुख्यप्राणस्य ता अहिंसन्त । अहमुक्थमस्म्यहमुक्थमस्मीति । ता अब्रुवन् । हन्तास्माच्छरीरादुत्क्रमाम । तथदस्मिन्न उत्क्रान्ते इदं शरीरं पत्स्यति तदुक्यं भवतीत्यादिः प्राणसंवादः ॥ ११ ॥ पूर्वशब्दात्प्राणनिर्गमनादि । तं शतं वर्षाण्यभ्यार्चत अटि. ॥१२॥ न०० प्रवि० अ०१ प्राणो वंशत्वमिति स्यविरः शाकल्यः । तदस्य प्रथमं जन्मेत्यादीनि जीवलिङ्गानि । न केवऊमस्य शास्त्रस्य मुख्यस्य मुख्यतः पारदृश्यमान एवार्थ इत्याह ॥ वासुदेवेति । सर्वशः सर्वशास्त्रे चतुरण्याये विभागेनाध्यायपादविभागेन पादे त्वधिकरणानां चतुर्धा विभागेनाधिकरणादिषु सूत्रा- दीनां चतुर्धा विभागेन । अथ प्रत्यधिकरणं नारायणसहितत्वेन पञ्चमूर्तिी प्रतिपाद्यते । प्रतिसूत्रं पादादिविभागेन प्रतिपदमक्षरविभागेन प्रत्यक्षर खरव्यञ्जनायन्तं सन्धिसन्धानविभागेन तैस्तैस्तदुचितैर्युक्त्यागमैर्विषयसंशयादिक्लासिरूपन्यायविशेषैश्च सहैव प्रोक्तः । यथा पुरुषाणां योग्यता इदं सूत्रजातं बृहत्तन्त्रप्रमाणेनैवंबव्हर्थवत्पर्यवसीयते । व्याख्यातार्थता होतेऽर्थाः सूत्रजातस्य बृहत्तन्त्रोक्तयुक्त्यादिभिस्तथाऽप्यस्मामिः सङ्ग्रहादुच्यते ननु बव्हानां सूत्राणामिदं व्याख्यानं नानुरूपमित्यत आह ॥ ग्रन्थ इति । महागुणोऽनन्तगुणः । अनन्तवेदपदात्मकानां नाम्नां पुनरुक्ति- रहितत्वतस्तत्प्रतिपादानां गुणानामप्यनन्तत्वं स्यात् ॥ १२ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीभद्रह्मसूत्रानुव्याख्यानस्य टीकायां त्रिविक्रमार्यविरचितायां नयचन्द्रिकायां प्रथमाध्यायस्य प्रथमः पादः ॥ १-१॥ श्रीकृष्णार्पणमस्तु । ॥ श्रीगुरुभ्यो नमः ॥ हरिः ॐ ॥ पादसङ्गतिं दर्शयति ॥ लिङ्गात्मकानामिति। ज्ञापयितुं विचार्यत इत्यर्थः । कथं विशेषेणापि कर्मकर्तत्वसम्भवे आत्मानं परस्मै शंसतीत्यादिकर्मकर्तृत्वव्यपदेशो भेदस्य साधक इस्यत आह॥ कमेति । अहं मां जानामीत्यादौ भेदस्याभावेनापोदि- तत्वाद्विशेषे सत्यभेदः स्यात् । औत्सर्गिकमैदोऽप्यनपोदितो बली । अधिकरणविषयान्विशिनष्टि ॥ हीति । एतस्मात्पुरुष पुरुष प्रत्यादिलो भवतीत्यादिश्रुतिमुदाहृत्य सर्वत्र प्रसिद्धोपदेशादित्यत्रोक्तं सर्वत्र स्थितिरूपं भावाभिधं लिङ्गम् । स यधदेवासृजत तत्तदत्तुमधियत सर्व वा अत्तीति तददितेरदितित्वमित्युदाहस्यात्ता चराचरग्रहणादिस्त्रोक्तमत्तृत्वात्मकम् । ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध इत्युदाहृत्य गुहां प्रविष्टावात्मानौ हि तदर्शनादित्यत्रोक्तं पातृत्वं च क्रियायोगे । य एष पुरुषोऽन्तरक्षिणि दृश्यत इत्युदाहु- S ॥१२॥ SG त्यान्तरिति सूत्रोक्तमन्तःस्थित्योपेतं रमणं क्रियाभावाख्यं लिङ्गम् । एष त आत्माऽन्तर्याम्यमृत इत्युदाहृत्यान्तयाम्यधिदेवादिषु तद्धर्म- व्यपदेशादित्युक्तमन्तःस्थितिसंहितं यमनं च क्रियाभावाख्यलिङ्गम् । यत्तददेश्यभित्युदाहत्य वैश्वानरस्साधारणशब्दविशेषादिति श्रुतिन मत्यर्थः । एतेन नामसमन्वयेऽपि लिङ्गसमन्वयसिद्धिरस्तीति दर्शयितुं लिङ्गाधिकेन्युक्तम् । ब्रह्मालिकेत्यर्थः ॥ १ ॥ सविशेषो क्रियात्मकविशेषोऽपि कथं क्रियाख्यविशेषे स्वरूपद्वयाङ्गीकारात् । भेदप्राप्तेरपि नाशित्वमित्यत आह ॥ शक्तितेति । क्रियाशक्तिता व्यक्तिता चेत्युभयरूपो विशेष: परमेश्वरेण चाभिन्नोऽपि तस्मात्परस्परविशेषवान्व्यवन्हियते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चेति श्रुतिः । क्रियाज्ञानादि- नियतेत्याधुक्तेः सदावस्तत्रैव लंदन्यत्रैव त्वनिस्यतां । यथा भीष्मस्य अमावेशादृश्यमाना सर्वक्रिया पुनर्युभावे तच्छक्यभावादनित्या ॥ २॥ ऋतं पिबन्ताविति द्वित्वं च विशेषादेवोक्तन्यायेन युज्यते । विशेषणाच्चेति सूत्रं व्याख्याति । यः सेतुरीजानानामक्षरं ब्रह्म यत्परमिति विशेषणादुत्त- वाक्यमन्तर उपपत्तैरिति सूत्रितस्यान्तरशब्दस्य य एषोऽन्तरक्षिणि पुरुषो दृश्यत इत्यन्तरशब्दश्रवणात्कथं तस्य विषयवाक्यत्वमित्यत आह ॥ आदेयं मातीति । सुखमनुभवतीति योजनायामात्मशब्दे रमणमुच्यत एव । सुखविशिष्टाभिधानादिति सूत्रं योजयति । विशिष्टेति । क बनेति सुखमात्रमेवोक्तं न हि विशिष्टविषयमित्यत आह ॥ ब्रह्मत्वमिति । अनवस्थितेरसम्भवाच्च नेतर इति सूत्रार्थमाह में अन्योन्यति । लोकदृष्टयाऽन्योन्यनियतिरेवं । एनं जीवमन्यो जीवो नियच्छेदिति नियतिरेव सम्भवेत् । तारतम्यस्य स्वभावत्वादुत्तमस्याधम- नियमसम्ममात् । कुत ईश्वरादेः पक्षत्वादित्यत आह ॥ चेतनानामिति । तस्मादीश्वराङ्गीकाराज्जीवस्य जीवान्तरमित्यनवस्थितिः । पारतन्त्र्येण स्वस्यैव नियम्यत्वात् । अनियमेऽसम्भवश्च । अयास्याप्यन्यो नियन्ता निरीश्वर इत्यत आह ॥ ईश्वर इति ॥ ३-४ ॥ प्रथमागत उपपत्त्या- दिभिः प्रथमं नियामकत्वेन प्राप्तो वृथाऽवस्थितिकल्पना । प्रयोजनं प्रमाणं च विनैकस्यान्यस्मिन्नास्तीति कल्पना ॥ अन्तर उपपत्तरि- अटि. ॥१३॥ न०० अ०१ त्युक्तम् । रमणं न सम्भवतीत्याशङ्कामुद्भाव्य तत्परिहारार्थमन्तयोम्यधिदैवादिषु तद्धर्मव्यपदेशादिति । सूत्रं योजयति ॥ रमण- मिति । स्वाधीनवस्तुशक्तिक्रियादिकं वस्तुगुणेल्यादेराशावाक्यस्यायमाशयः । यदि भावरूपधर्मा अमेदिनौ ब्रह्मणस्तर्हि तद्विरुद्धानां यत्तददेश्यमित्युक्तानामभावधर्माणां कथमभेदइति ॥ ५॥ अदृश्यत्वादिगुणको धर्मोक्तेरिति सूत्रम् । अभावी भाव इत्यनयोधर्मयोः प्रायशो विशेषो न भवेति । अत्र विशेषो वैलक्षण्यं भेदः इत्यर्थः । तुशब्दादेकस्मिन्धर्मिणि प्रतीतयोरतद्भावः पटाभावोऽन्यताच घटतेऽनयोश्च कश्चन भेदोऽस्ति । गुणास्तवैष स्मितमुक्तमुक्तं भजन्त आरोग्यमायुः प्रतिभाबलं च । अनाधिलं चास्य भवेदपत्यं मातावदन्यूनमिति हि प्रतीतिलोकप्रसिद्धिः । कथं विरुद्धयोर्भावाभावयोरभेद इत्यत आह ॥ भावेति । ननु ब्रह्मणस्तद्गुणानां च द्रव्ययोरिव पृथक्त्वासम्भवेऽपीतरेतराभावाख्यो भेदःस्यात् । तथा सति भावधर्माणां साक्षानेदः स्यादित्यत आह ॥ पृथक्त्वेति । आदिशब्दासम्बन्धापेक्षया त्वनवस्थितिः । श्रुत्यादिविरोधश्च । यथा समवाय एकस्मिन्नपि कार्यकारणगुणगुण्यादिस्थानेषु विशेषेण बहुरूपोऽङ्गीकार्यः । घटस्य पटाद्वैद इति स्वरूपभूत एव मैदो विशेषेणाङ्गीक्रियते । यथा पटस्य स्वरूपेणाभेद इति ॥ ६ ॥ पादद्वयार्थ निगमयति ॥ व्हिति । यथा जनार्दनस्य मुख्यवाचकत्वतस्तानि लिङ्गानि तत्तत्प्रकरणगतानि पुरुषविधत्वादीनि ते शब्दास्तप्रकरणगता ब्रह्मादयस्सर्वेऽपि विष्णुलिङ्ग हि । एषामानन्दमयाकाशादिशब्दानां तद्वस्तुषु परिदृश्यमाना लौकिकी रूढिर्बहुलत्वात्कथं भगवति बाधकमित्यत आह ॥ बहुलेति । तत्तस्माज्जनार्दनस्य मुख्यवाचकत्वात् ॥ ७ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य- विरचितस्य श्रीमहलसूत्रानुव्याख्यानस्य टीकायां त्रैविक्रमार्यकृतायां नयचन्द्रिकायां प्रथमाध्यायस्य द्वितीयः पादः ॥ १-२॥ श्रीगुरुभ्यो नमः ॥ हरिः ॐ ॥ तत्रेत्यादिना पादसङ्गतिं दर्शयति । उक्तयुक्तिभिर्विष्णावेव प्रसिद्धिरङ्गीकर्तव्या । अन्यत्र प्रसिद्धिबलादन्य- त्रापि स्यादेव । अन्यथा व्यवहारस्यैवासिरिति पूर्ववादिमतानुवादेन तत्रान्यत्रैयाह । घुम्वाद्यायतनमिति सूत्राभिप्रायमाह ॥ विष्णा- ॥१३॥ -- k ALSCREE विति ॥ १ ॥ भूमा सम्प्रसादादध्युपदेशादिति सूत्राभिप्रायमाह । भूमेति । सम्प्रसादः सुखादिकत्वम् ॥२॥ अन्यभावव्या- वृत्तेश्चेति सूत्रार्थमाह ॥ अत इति । ॥३॥ अस्थूलमनन्वण्वहस्वमित्यादिवाक्यं विरुद्धवद्भातमपि वेदवाक्यं तत्त्वतो व्याख्याय हरौ योजनीयम् । अतो वेदवाक्यत्वतः । सर्वनामा सर्वकर्मा सर्वधर्मा सर्वलिङ्ग इत्यादिना धुभ्वाधायतनादीन्विषयानाह ॥ वाहुल्यमित्यादिना । पूर्वपक्ष- सिद्धान्तयुक्तीराह ॥ मुक्तोपसृप्य व्यपदेशादिति । मुक्तीसृप्यताऽमृतस्यैष सेतुरिति तत्रोदाहरणश्रुतिः । भूमा सम्प्रसादिति प्राणादाधिक्यमेष वा अतिवदति यः सत्येनातिवदतीति श्रुतिः । अन्यभावव्यावृत्तेश्चेति । स्वभावस्य सर्वतो वैलक्षण्यमस्थूलमनाण्वित्या- दिश्रुतिः। ईक्षति कर्मव्यपदेशात्स इति प्रेक्षापूर्वक्रिया सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजते- त्यादिश्रुतिः । गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं चेत्यत्रारस्य ण्यस्य चेशत्वमरश्च ह वैण्यश्चार्णवौ ब्रह्मलोक इति श्रुतिः । अनु- कृतस्तस्यचेत्यत्र सूर्यायनुकृतिस्तमेव भान्तमनुभाति सर्वमिति श्रुतिः । शब्दादेव प्रमित इत्यत्र वामनाख्या मध्ये वामनमासीनमिति श्रुतिः । कम्पनादिति सर्वकम्पः प्राण एजति निःसृतमिति श्रुतिः । ज्योनिदर्शनादित्यत्र विष्णुरेव ज्योतिरित्यादिश्रुतिबलाज्ज्योतिःशब्दस्यानन्य- सिद्धता । योऽयं विज्ञानमयः प्राणेषु द्वयन्तज्योतिरित्युदाहरणश्रुतिः । आकाशो वै नामरूपयोनिहिता ते यदन्तरा तब्रह्मेति श्रुतिः । अत्र भेदस्योप- जीव्यप्रमाणता । उपजीव्यमानज्योतिःश्रुतिः सुषुप्त्युत्क्रान्त्योर्भेदेनेत्यत्र भेदस्योपजीव्यमागमः । प्राज्ञेनात्मना सम्परिष्वक्तः प्राज्ञेनात्मनाऽ- न्वारूढ इति श्रुतिः । पत्यादिशब्देभ्य इत्यत्र सर्वैश्चर्यम् । एता युक्तयस्तु विवेशेन प्रकर्षेण दर्शिताः । न तु केवलं सूचिताः । देवानामधिकारः शूद्राणां तद्धानिः । मध्वादिष्वसम्भवादनधिकार जमिनिः । भावन्तु बादरायणोऽस्ति हीत्येतयोविरोधी नास्तीत्साह ॥ तस्फलायति । तत्फलाय तत्रोक्तवस्तुत्वादिफलार्थमुपासाया विधिनिराकृतः । सिद्धे ब्रह्मणो गुणजाते चान्याथै मोक्षे सुखविशेषार्थमसिद्धेऽर्थे ब्रह्मणो 45Ck गुणजाते उपासाया विधिः स्यादिति विद्याधिराजस्य मतम् । सर्वगुणजातं सर्वदा न प्रकाशते हि विद्याधिपतिरनन्तविशेषज्ञः । जैमिन्याधाः सामान्य अ०टि. 18वेदिनः । अतस्तन्मतयोः सामान्यविशेषरूपत्वान्न विरोध इत्याह ॥ नित्यमिति । ब्रह्मणस्तथात्वाभावेऽप्यशेषवस्तुगतविषयत्वेन ॥ ८ ॥ इति ५/न०,० प्रच श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमहामसूत्रानुव्याख्यानस्य टीकायां त्रैविक्रमार्यकृतायां प्रथमाध्यायस्य तृतीयः पादः ॥ १-३॥ ॥१४॥ अ०२ ॥ श्रीगुरुभ्योनमः हरिः ॥ ॐ ॥ श्रुतिलिङ्गादिमिरन्यत्र प्रसिद्धानां शब्दाना ब्रह्माणि वृत्तिं दर्शयत्यस्मिन्पादे । तदधीनत्वादर्थवदित्य- स्यार्थमाह ॥ दुःखीत्यादिना । पराजयवतां तदधीनत्वहेतोर्यथा राज्ञि पराजयशब्दः पराजयवान् राजेति । तदेवोपपादयति ॥ स्वातन्त्र्य- मिति । प्रवृत्तिहेतूनां गुणादीनां स्वातन्त्र्यं तस्य स्वाधीनत्वं विजयस्यान्यगतत्वे सत्यपि स्वातन्त्र्याभासमात्रतो विजयशब्दः प्रयुज्यते हि राशि किमुत परमेश्वरी पूर्णस्वातन्त्र्यादिल्याकूतम् । तहि मृत्यस्य बन्धच्छेदादौ सति बन्धच्छेदादिपदं किमिति राज्ञि न प्रयुज्यत इत्यत आह ॥ मृत्यबन्धेति । बन्धादिशब्दानाममङ्गलत्वात्प्रयोगनिवर्तनं स्यात् । अमङ्गलानुपपत्तैरप्रियत्वाच्चामङ्गलशब्दस्य । एवं सति कुत्राप्यमङ्गलशब्दो न प्रयोक्तव्य इत्यत आह ॥ गुणा इति । यत्र येषु तादृशदुःखादयः स्वातन्त्र्यापेक्षया गुणास्तेषु तच्छब्दा अखिला अपि प्रयुज्यन्ते । एवं तद्गतत्वादपि शब्दप्रवृत्तेः स्वातन्त्र्यं मुख्य कारणम् । ततो नामङ्गलशब्दस्यान्या प्रयोगादेव सर्वस्तुतिविषये विष्णावमङ्गलशब्दोक्तितो वक्तुर्दोषः स्यात् । न हि कुत्रचिनिन्दार्थानां शब्दानां स्तुतिरित्यत आह ॥ नैव दोषा इति। नैव दोषहेतवः । तस्मात्स्वातन्त्र्यस्य मुख्यकारण- त्वादोषशब्दास्तत्रैव गुणवाचकान नान्यत्र ॥ १॥ ज्योतिरुपक्रमात्तु तथा यधीयत एके इत्यत्र प्रतिपादितं वसन्ते वसन्ते ज्योतिषा यजेतेत्यादौ कर्मादिसमन्वयपदं विशिनष्टि ॥ जातमिति । जातं जीत्युच्यते । तृतीयोऽतिशय इति न्यायात् । तस्य चेति ज्योतिषेति ॥१४॥ सम्बध्यते । हरिः षकारः प्राण आत्मेति श्रुतिः । अयष्टार आयज्ञारतरित आयजेत। भूतं प्रति जयं वा वयतीति भुक्तरक्षणं चिनोतीति कवचम् 456 RECC ७ विशिष्टत्व द्वौ विष्णौ गताः षड्गुणा वौ षट् । स्वभक्तमाव्हयति स्वीकुरुत इति स्वाहा । स्वरादिभिरिलादिशब्दाद्विन्दुनादादयः । वेदपदानामुत्सम्प्रदाय पदविभागदूषणमस्तीत्यत आह ॥ विज्ञानेति । एवं सति भगवत्यधिकविज्ञानहेतुत्वात्पदसमन्वय एव स्यान वाक्यसमन्वय इत्यत आह । अङ्गीकृत इति । तदर्यत्वेन विज्ञानार्थत्वेनाल्पबुद्धय इति तदर्थे चतुर्थी । अल्पबुद्धिषु ज्ञानजननार्थमित्यर्थः । धिष्ण्यं चायमाश्चेति धिष्ण्यास्ताः । भगवन्तमुद्दिश्य को वाचं प्रतिपपाद इत्यस्य पदस्य ब्रह्मवाचित्वेन वक्त्राद्याक्षेपवाचित्वेन चेत्युभयार्थत्वतः । वेदशब्दानां परमेश्वरगुणैकवाचकत्वेन योगो ब्रह्मणः प्रतिपादितश्चेत्तस्य वेदपदनित्यताऽभावान्न विश्वसनीयत्वमित्यत आह ॥ तस्येति।॥६॥७॥ अत्राधिकरणेषु विषयानाह । आनुमानिक- मप्येकेषामित्यधिकरणे प्रमाणविरोधिनां दुःखिबद्धावरादीनां शब्दानां समन्वय उच्यते । ज्योतिरुपक्रमाच्चेत्यत्र क्रियाकर्मकारकत्वादीनां शब्दानां न सङख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्चेत्यत्र स्त्रीवाचिनां बाहुल्यानां बहुलार्थसम्बन्धिना बहुसङ्ख्याविषयाणा- मित्यर्थः । कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्तरित्यत्रावान्तरकारणवाचिनां शब्दानां प्रकृतिश्च प्रतिज्ञादृष्टान्तानुप- रोधादित्यत्र स्त्रीवाचिनाम् । एतेन सर्वे व्याख्याता व्याख्याता इत्यत्र शून्यादिशब्दानां निषेधार्थानां स्थानान्यधिकरणानि । एतेष्वधि- करणेषु पूर्वपक्षसिद्धान्तयुक्ति दर्शयति ॥ सर्वमानैरिति । सुप्तिङन्ताव्ययशब्दानां विरुद्धशब्दानां चेति समन्बयो ज्ञातुमशक्य इति यल्लोके वैमुख्य तदपाचक्रे । अन्यार्थ तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके । वाक्यान्वयात् । प्रतिज्ञासिद्धेर्लिङ्गमागम- रथ्यः। उत्क्रमिष्यत एवंभावादित्यौडुलोमिः। अवस्थितेरिति काशकृत्स्न इति जैमिन्यादीनां मतम् । वाक्यसमन्वय- प्रतिपादकं वचनं स्वमतं चैत्किमिति जैमिन्यादिमतमित्यवददित्यत आह || स्वशिष्याणामिति । ॥५॥ एवं सर्वशब्दसमन्वयपक्षे तत्तदर्थेषु शब्दवृत्तरभावप्राप्तेर्व्यवहारादिप्रयोजनाभावः स्यात् । अतः सर्वशब्दसमन्वयस्यापि व्यवहारायत्तत्वेनैतदुपजीवकत्वेन निरवकाशत्वाद्भगवन्म- New

4
Miree
47
अ०टि.
॥१५॥
ताविरोधित्वाच्चायं वाक्यसमन्वय एव ग्राह्यो नापर इस्यत्राह ॥ तेष्विति । प्रयोजनबहुत्वेऽस्मदभिमतेषु रूढिरङ्गीकृतैव नतु निराकृता
तस्य तस्य प्रयोजनस्याविरोधतो विष्णौ शक्तिया । आचार्योपदेशश्रुतिलिङ्गादिसामर्थ्यात् । अर्चिष्मानर्चित:कुम्म इत्यादाविव ६/नच०
तयोर्युत्पत्त्योर्मियो विरोधै सति का गतिरित्यत आह ॥ तथाऽपीति । कथमेतन्मूलत्वमित्यत आह ॥ अत इति । कुतो भगवतो
प्र.च.
अ०२
निमित्तादन्येषामांनां वा शब्दरूढता। अतो लोकव्युत्पत्युपजीव्यत्वमत्रैव त्वनायत्तत्वान्नास्योपजीव्यत्वम् । ब्रह्माणि व्युत्पत्तेरप्यन्यव्यवहा-
रायत्तत्वात्कथमस्या एवोपजीव्यत्वमित्यत आह ॥ तत्सिद्विरिति । सा परापेक्षाऽपि हरांच्छयेति तदुपजीव्यत्वविरोधः । विष्णोरन्यत्र -
तमुख्यतत्र न परममुख्यावम् । मुख्योपलक्षणा गौणीति तित्रः । तद्यथाऽयो दहतीत्यत्रायसो दाहकत्वमग्निदाहकत्वमुपर्जन्य प्रयुज्यते ।
एवं तृणादिगतं स्तम्भत्वादिकं भगवती गुणमुपजीव्य तृणादिषु स्तम्भादिशब्दाः प्रयुज्यन्ते । तस्मादत्र भगवद्गुणवाचित्वे द्यपजीव्यत्वम् । यद्यपि
तत्तु समन्वयादित्यादिना सर्वशब्दानां ब्रह्मवाचकत्वसिद्धरपि समन्वयादन्यशब्दव्यवहारापेक्षा स्यात् । तथाऽपि सा हरीच्छयेत्यदोष इत्याह
॥ तसिद्धिारति ॥ ब्रह्मवाचकवसिद्धयर्थ शब्दानामान्तरप्रवृत्तावपि तेषु शब्देष्यर्थेषु च नियामकत्वेन स्थितस्य हरिच्छया तदपेक्षत्वान्न तहाच-
कत्वस्थोप व्यत्वाविरोध इत्याकूतम् । विरोधेऽन्यत्र मुख्यताऽऽवास्तितः शब्दवृत्तयः । शब्दप्रवृत्तीनां लक्षणमाह ॥ प्रवृत्तीति । प्रवृत्तिहेतेर्बाहुल्य-
मिन्द्रादिशब्दप्रवृत्तिहतौरैश्वर्यादिगुणजातस्य सामख्यात्स्वातन्त्र्यं च । घटादिशब्दानां कुम्भादिषु प्रयोगमात्रबाहुल्याटिः। सा मुख्या प्रवृत्तिरित्युक्ता ।
सिंहपदप्रयुक्तस्य केसरिणः क्रौर्यादिसादृश्यात्सिंहो देवदत्त इत्यादिप्रवृत्तिौणी । पुरुषाणां मञ्चादिप्रयोग उक्तसम्बन्धान्मञ्चा: क्रोशन्तीत्यादिरूपा लक्षणा।
आसां वृत्तीनां मध्ये पूर्वस्थाः श्रुतिलिङ्गविरोधादयो न । एवं परवृत्तर्ग्रहणमित्याह ॥ पूर्वेति । विष्णौ मुख्यप्रयोगरूढप्रमाणभूतां श्रुतिमुपलक्षयति ।
तं शतं वर्षाण्यभ्यार्घत् तस्माच्छतं वर्षाणि पुरुषायुषो भवन्ति । तं यच्छतं वर्षाण्यभ्यार्चत् तस्माच्छतर्चिनस्तस्माच्छतर्चिन इत्याचक्षते । एतं सन्तं
E-CARRk
॥५५॥

RRC मध्यतो दधे य इदं किञ्च तस्मान्मध्यमास्तस्मान्मध्यमा इत्याचक्षते । एतं सन्तमिति तथा सन्तं च शतादिकं सन्तमित्यत्र श्रुतौ घेतमेव सन्तमित्येव शब्दोऽवधारणार्थम् । मधुच्छन्दादिदिषु शतादिशब्दानां रूढेर्भवति शतवर्षोऽप्यनादिगुणयोगस्य प्राबल्यं सनिरुक्तिकं दर्शयति । तत्रा विद्वढिं चापेक्षत इति दर्शयति । पुनरपि वाक्यान्तरैर्विष्णोः सर्वशब्दवाच्यत्वं द्रढयति ॥ अ इति ब्रह्मेति । तवागतमहमिति श्रुतावकारेण ब्रह्म कथितम् । अकारो वै सर्वा वागिति सर्वेषां शब्दानामप्यकाख्याख्यानात्मकता च कथिता । एवम- कारार्थब्रह्मविषयत्वं सर्वशब्दानामुक्तं स्यात् । यद्वा ओमिति यच्च नेति यच्चास्याः क्रूर यदि चोल्चणिष्णु तद्वियूय कवयोऽन्वविन्दन् नामायत्ता ये ता समतृप्यन्त ऋतेऽधि इति नामविकृतकृस्यता च कथिता । यद्वाचो ओमिति विधिपदं यच्च निषेधपदं यच्चार्थङ्करं यदेव च श्रवणोल्बणं तत्समस्तमपि भावद्विषयतया विविच्य तत्तन्नामायत्तानि गुणजातान्यन्धविन्दन् । अधिश्रुते परिपक्व समतृप्यन् कृतकृत्या अभवन्नित्यर्थः। तस्य वा एतस्य संहिता । षकारो वै बलं णकारः प्राण आत्मेत्यागमः संहिताशब्दवाच्यविष्णोर्नेत्याक्रियमाणं चेष्टकत्वमात्रमातत्वगुणं च वदन् । स यो ह तो णकारषकारावनुसंहितमृचो वेद सबला सप्राणां संहितां वेदेति तद्गणमानपूर्वकत्वेन संहिताध्ययनं च वदन्संहितापदादेविष्णुनामार्थरूपत्वमन्त्रवीत् । कथं षकारणकारयोरेव विष्णुपरत्वमित्यत आह ॥ उपसर्गत्वत इति । उक्तार्थ पुनरपि प्रमाणान्तरैढयति ॥ घोषा इति । पदवर्णस्वरादि- समन्वये प्रमाणान्युपक्षिपति ॥ घोषा इति । ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव प्राण ऋच इत्येव विधात् । सर्वे वेदा यापदमामनन्ति । इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एक सद्विप्रा बहुधा वदन्त्यग्निं यम मातरिश्चन्नमाहुः । यमिन्द्रामावरुणं यमाहुर्य मित्रमाहुर्यमु सत्यमाहुः । यो देवानां देवतमस्त्वमोजास्तस्मै त्वा तेभ्यस्त्वा स प्रथमः । सजकृतिविश्वकर्मा स प्रथमो मित्रो वरुणोऽमिः । स प्रथमो बृहस्पतिश्चिकित्वांस्तस्मा इन्द्राय सुतमाजुहोमि । यो देवानां नामधा एक एवेति

न००
प्र०च०
समुद्र न सिन्धव उक्थशुष्मा उरुच्यवसङ्किर आमनन्तीत्यादिशब्दा द्रष्टव्याः॥ २॥ ज्योतिरुपक्रमात्तु तथा बीयत एके इति सूत्रे भगवता
अटि०४
स्वयं तदेवोक्तम् । एवं भगवति सर्वशब्दानां समन्वयमभिधायानुमानिकमित्यादिसूत्राणां परोप्रेक्षितामन्यथायोजनां निरस्यति । नेत्यादिवाक्य-
रूपेण प्रमाणेन समहात् । यत्र वाक्ये प्रधानादन्योऽर्यो नेष्यते । नन्वजामेकामित्यादेस्तेजोऽवनात्मकं भूतसूक्ष्मं किञ्चिदुपादानमिष्यते न
प्रधानमिष्यत इत्यत आह ॥ अजति । अजामेकामिति श्रुतिरपि योतामेव प्रकृतिमाह । तर्हि को दोषः । यदि सर्वथा तत्रोच्यमानं परिणामि
जड़मस्ति । शब्दमात्रविप्रतिपत्तेरकिञ्चित्करत्वात् । एवं चेषुष्माकमपि भगवति समन्वयप्रतिज्ञाहानिरित्यत आह ॥ अस्माकमिति । सर्वेषामपि
शब्दानां परममुख्यार्थो भगवानैव । सकृदुच्चरित शब्दानामप्यर्यद्वर्य सम्प्रतिपादयति ॥ अर्थद्वयामिति । यौगानां शब्दप्रवृत्ति हेतूनां गुणयोगानामसिद्धा-
श्रयमनुभवतोऽपि सिद्धोऽयम इत्याह ॥बुद्धाविति। यथा पङ्कजशब्दस्य योगवृत्तिः शैवलादौ रुदिप्रवृत्तिः पन इत्युभयोरपि बुद्धौ समारोहः। उमयोरर्थयो-
युगपदबुद्धिसमारोहस्य प्रायः प्रतिपादनं विनाऽनुपलम्भात् । पूर्वारोहेणैव व्यवहारनिर्वाहाच्च । किमित्युभयार्थकल्पनमित्यत आह ॥ विपरीतेति।
कुम्मैनौदकमाहरेत्यादौ विपरीतप्रमाणाभावात्पूर्वारोहो व्यवहारकारणं स्यात् । नमोऽचिष्मानचितः कुम्भ इत्यत्र स व्यर्थः । अत इत्यादेरयमर्थः । अतः
सर्वश्रुतीनां महायोगवृत्त्या विष्ण्वभिधायित्वेऽपि क्वचिद्व्या प्रधानस्यापि प्रतीयमानत्वादजादिशब्दैर्बाधकप्रमाणाभावादजामेकामित्युक्ता श्रुतिः प्रधान
प्रतिपादयतीति युक्तं सदसदात्मकं स्थूलसूक्ष्मरूपविशेषं स्वयमन्नस्य न विकारो भवति । पञ्चभिर्भूतैः पञ्चतन्मात्रैश्च चतुर्भिर्मनोबुद्धयहङ्कारचित्तैर्दशभि-
रिन्द्रियविकारभूतैर्ब्रह्म बृंहितमिति सन्यायरत्नावल्यां स्वयं प्रभुः सूत्रकार एवानुवदति ॥ १॥ ननु प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादित्यत्र
प्रकृतिशब्देन ब्रह्मोपादानवेनोच्यते । येनाश्रुतं श्रुतं भवतीति प्रतिज्ञाया यथा सोम्यैकेन मृत्पिण्डेनेत्यादिदृष्टान्तस्यानुकूल्यादित्यत आह ॥ न चेति
अविकारः सदा सृष्टिकालेऽपि सदात्मा स्वामी मुक्तानामपि सौम्य । औपम्यमुपमापदं तन्न भवतीत्यनौपम्यम् । एकरसं प्रधानरसन् । विकारमेदमाह
॥१६॥

ALSO ॥ पराधीनोत । विशेषाप्तिद्विविधा । तत्राद्या परिणाममन्तरेणैव विशेषप्राप्तिरूपा । यथा चतनानां देहाभिमानादि । यथा हिरण्यादीनां कुण्डला- दिभावः । अनिवृत्त्याऽन्यथाभावस्विति परिणामरूपभावविकारः । यथा क्षीरस्य दधिभावः । अनिवृत्त्याऽन्यथाभावस्य पराधीनविशेषावाप्तिरूपत्वे सत्यपि कुरुपाण्डवन्यायेन भेदोक्तिः सम्भवतिः। विष्णोर्जगज्जनकत्वत्कथं पितृवदुपादानत्वं निषिध्यत इत्याशक्य तदपादानत्वमेवेत्यभिप्रायेणाह ॥ अपादानत्वामिति । तदेवोपपादयति ॥ न चेति । तदन्नं हि कार्यरूपतया भवेत् । तद्भुक्तान्नं हि कार्यरूपेण जायते । बुद्धिपूर्वक विश्वकर्तृकत्वं नाम निमित्तकारणत्वम् । तदप्यपादानतया स्वदेहानिर्यापणेन रजोगुणात्मकं कारणद्वारेण विलीन मुक्तपूर्व विश्वं स्वदेहात्परिणाम्य ससजेति: ब्रह्मतर्कवाक्यार्थः । चेतनाचेतनयोरन्यत्वात्परस्परविकारत्वं न सम्भवतीत्यत आह ॥ न चेतनेति । कार्यस्य विकृतत्वात्कारणत्वादन्यत्वं दृश्यते । यथा क्षीराद्दनः । न हि क्षीरदनौरैक्यम् । माधुर्यादिवलक्षण्यदर्शनादित्यत आह ॥ न चेति । विकारिक्षीराद्विकृतस्य दनस्तदति- रिक्तत्वं दृश्यते । यत्प्राक् क्षीरं तदेव पश्चादधीत्यैक्योपलम्भात् । सर्वज्ञत्वान्यत्वाल्पज्ञत्वजडत्वादि । न हि सद्रूपब्रह्मकार्यस्य जगतः सद्गमनं सती पृथिवी सत्या आप इति सद्भावानुरक्तबुद्धिवेद्यत्वदर्शनात्कथमित्याशङ्कापरिहारायातिप्रसङ्गमाह ॥ भेद इति । ननु क्षीरवब्रह्म साकल्येन न परिणमते भागेनैवातो नोक्तदोष इत्यत आह ॥ भागेनेति । परिणाम्यमानापारीणाम्यमानभागयोंर्भेद एव हि । अन्यथा साकल्येन परिणामप्रसङ्गात् । प्रधानमित्येवशब्दार्थः । भिन्नानां भागानां समुदायस्य ब्रह्मेत्युक्तिभवेच्चेत्तदा विश्वस्य ब्रह्मोपादानता न स्यात् । भिन्नानां समुदायस्य ब्रह्मेत्युक्तिर्भवेन्न त्वेकैकस्यैति चेत्तदा विश्वस्य ब्रह्मोपादनता न स्यात् । एकैकभागस्य ब्रह्मतोक्तिमात्रस्याब्रह्मत्वात् । ननु ब्रह्म जगतोऽनन्यत्वेऽपि प्रकृतिविकारः सम्भवति । यया शृङ्गान्तरं शरादेरित्यत आह ॥ शृङ्गादिति । एवमायेषु शृङ्गेषु कारणेषु शरादीनामपादनत्वमिष्यते न तूपादानत्वम् । अत्र शृङ्गादिषूपादानभूतमेकदेशमन्तरेण देशान्तरगतापादानता ब्रह्मणो जगदुपादानतायां दृष्टान्तो भवेत् । तस्यैकदेशस्योपादानत्वं न ब्रह्मायनुगृही-

अ०टि
॥१७॥
न००
प्र०५०
अ०६
तस्य प्रधानस्य जगदुपादानत्वे दृष्टान्तः स्यात् । अत्र शृङ्गैकदेशत्वेऽप्यपादानत्वमेव । न हि कुतः शृङ्गैकदेशोत्पत्तावयवादप्यवयवि-
मृदाधुपात्तबाह्यावयवानां गौरवादपादानत्वमेव । शराद्यात्मकत्याचेतनस्याचेतनाच्छृङ्गैकदेशादपि तदुपादनतयोद्भवोऽस्तीत्याह ॥ न चेति
किं तर्हि तदचेतनं चेत्तदन्नोत्पत्तावनुग्राहकमिति चोयाभिप्रायः । एवमुक्तभङ्गयाऽनयोः प्रकृतिविकारभावो नास्तीति । ननु स तपोऽतप्यत । स
तपस्तप्वा । इद५ सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुपविश्य सच्च त्यच्चाभवादित्यादिश्रुती सत्यादिशब्दवाच्यं कार्य-
कारणभावेन ब्रह्मणो विश्वमुच्यत इत्यत आह ॥ सच्चेति । अस्य जीवस्य प्रवेशात्पूर्वमेव सिद्धितं सच्च त्यच्चाभवन्चिरक्तं चानिरुक्तं च निलयनं
चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवदिति श्रुतेर्गतिमाह ॥ सत्त्वादिति । सत्वानिर्दोषत्वाद्वैदिकत्वात्स्वाश्रयत्वानिलय-
नान्तररहितत्वेन नित्यत्वात्सत्यं सदातनामति वक्ष्यति च । स्वगुणयव्याप्तियन्तुरूपतत्वश्च सत्यम् । एवं सति नित्यगुणे भगवति सच्च त्यच्चाभवदिति
विश्वप्रवेशानन्तरं गुणबद्भावकथनं कथमित्यत आह ॥ व्यक्तिरिति । तदुपदेष्टभिः श्रोतुबुद्धयपेक्षया व्यक्तिर्भवेद्धि । तस्मादित्यादैत्यमर्थः । अशेषकर्तृत्वा-
त्प्रकृतिशब्दबाच्यो भगवानव । प्रकर्षण करोतीति प्रकृतिः ॥ इत्यादेरिति । प्रकृतिश्चेति चशब्दार्थः । सोऽकामयत बहु स्यां प्रजा-
येथेत्युक्तो बहुभावस्तस्यैव युज्यते हि । तदर्थं बहुरूपग्रहणार्थम् । एवं परिणामवादं निरस्य विवर्तवादमपाकरोति ॥ यच्चेति । मृषा
विषयाभाबेन । न हि भ्रान्तिर्दृष्ट्या दृश्यत इति यत्स सर्गस्ततोऽन्यता स्वत एव भेदः प्राप्तः । अभेदयोगिनः क्वाप्येवंविधा दृष्टिरदृष्टा हि । तस्मादे
हकारण कामादिकमपि स्वतोऽङ्गीकर्तव्यम् । न भ्रान्तिकल्पितमित्यायातम् । ननु स्वतोऽन्यता भ्रमादेवेत्यत आह ॥ भेदोऽपीति । तस्माज्जा-
नस्य भ्रमजभेदापेक्षया भ्रमजभेदस्याज्ञानव्यपेक्षयाऽन्योन्याश्रयता । भ्रमजभेदासिद्ध ज्ञानकल्पर्क किशित्स्यात् । भ्रमकल्पितत्वेन बाध्यत्वात् ।
अतः सर्वस्याभ्रमकल्पितत्वम् । तेनैव प्रतिज्ञातमित्यायातम् । नन्वस्य भ्रमकल्पितत्वेऽपि व्यवहारनिर्वाहकत्वान शुक्तिरजतवद्बाध्यत्वम्। सत्यताऽङ्गी-
॥१७॥

SERIES कारदित्यतः आह ॥ व्यावहारिकेति । अर्थक्रियादिव्यवहारनिर्वाहकं व्यावहारिकम् । न हि बाघ्यं शुक्तिरजतादिकमर्थक्रियाकार क्वापि दृष्टम् । अत्रेदमाकूतम् । विमतमबाध्यं व्यावहारिकत्वात् । यनैवं तन्नैवं यथा शुक्तिरजतमिति । अर्थक्रियाकारि स्वप्नादिकं बाध्यं दृष्टमित्यत आह ॥न चेति । स्वप्नोऽपि नः पक्षे नैव मिथ्या । तस्मादबाध्यत्वात्तस्यार्थक्रियाकारित्वमिति विशेषः । सन्ध्यं तृतीयं स्वप्नस्थानमित्यारभ्य न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्त्यथ वेशान्ताः पुष्कारण्यः सवन्त्यः सृजते । स हि कर्तेति श्रुतिवाक्यम् । अस्याः स्वप्नावस्थाया जानदवस्था- त्वमिति प्रतीतिर्हि भ्रमः । ननु प्रबोधानन्तरं नात्र वित्तकलत्रादिकमासीदिति बाधानुभवात्कथमभ्रमत्वमित्यत आह ॥ जाग्रत्त्वमिति । स्वप्नपदा- र्थानां जाग्रत्पदार्थत्वमस्तीति प्रतीतिर्हि भ्रमः । नेदं जागरितवित्तादिकं स्वानमेवेति हि बाधश्च । रज्जुसदेर्भयादिजनकत्वाच्च कथं नार्थक्रियाकारित्वमित्यत आह ॥ सति । तादृशं सर्पविषयम् । तत्तस्मात् । ननु सतोऽपि क्रियाकारित्वं न सम्प्रतिपन्नम् । घटादेः सत्यत्वस्यासम्प्रतिपन्नत्यादिश्यत आह ॥ ब्रह्मेति । परतः उपाधितः । ब्रह्मसृष्टयादेरौपाधिकायादुपाध्यपगमान्न ब्रह्मणोऽ- र्थक्रियाकारित्वमित्यत आह ॥ परतस्त्वति । अविकारस्य ब्रह्मणः सृष्टयाधन्यथाऽनुपपत्तिस्तर्कः परतस्त्व एव प्रमाणमित्यत आह ॥ अमु- ख्येति । ननु ब्रह्मणः सृष्टयाधर्थक्रियासृज्यादिकं वा साक्षिणा. सिद्धिर्वा किश्चिदपि नाङ्गीकुर्मः । सर्वस्यातात्त्विकत्वादित्यत आह ॥ यदीति । विश्वस्य तात्त्विकत्वे प्रमाणमाह । विश्वं सत्यं मघवाना युबोरिदापश्च न प्रमिनन्ति व्रतं वां । हे इन्द्र ब्रह्मणस्पती युवो सृज्यमिदं विश्वं सत्यमेव मबवाना कीर्तिमन्तौ आपश्च न वां प्रमिमन्ति । अब्देवला अपि युवयोः सत्यसृष्टिवतं जानन्ति यच्चिकेत तत्सत्यमित्तन्न मोघं वसुस्याहमुत जेतो तदाता । सुपर्णो भावान् यच्चिकेत तत्सत्यमेव न मिथ्या । प्रधान्वस्य महतो महानि सत्यासत्यस्य करणानि वोचम् । अस्य महतः सत्यस्य करणानि कर्माणि प्रबुयां ह्यतः । कविर्मनीषी परिभूः स्वयम्भूर्याथातध्यतोऽर्थान् . व्यदधाच्छाश्वतीभ्यः समाभ्यः । कविर्मानी । मनीपी ज्ञानी Reck

अटि०
॥१८॥
न००
प्र०५०
स्वयम्भूरनादिकालमारभ्य पदार्थान्यथार्थत्वेन चकार । अघ हैनमाहुःसत्यकर्मेति सत्यं ह्येवेदं विश्वमसौ सृजत इत्यादिकमादिशब्दार्थः
विश्वसत्यत्वं साक्षिणाऽपि सिद्धपतीत्साह ॥ सत्यत्वामिति । गगनादेः प्रदेशादेर्विश्वस्य प्रदेशस्वरूपग्रहणान्यथाऽनुपपत्त्या साक्षिस्वरूपं
सिष्यतीत्यभिप्रायेण गगनपदमुपनिबबन्ध । गगनमप्यव्याकृताकाशः । आदिशब्दासुखदुःखादिकं । प्रत्यक्षस्य वर्तमानमात्रप्राहित्वात्कथमबाध्यवं
निश्चीयत इत्यत आह ॥ सर्वेति । जगत्सत्यत्वप्राहकस्य प्रत्यक्षादेः प्रामाण्यग्राहकेण साक्षिणैव जगतः सर्वकालेष्वबाध्यत्वं प्रतीयते । सुषुप्तौ
सर्वेन्द्रियोपरमात्प्रत्यक्षादिप्रवृत्यभावे च कालस्य प्रतीतित इयन्तं कालं सुखमहमस्वाप्तमिति परामर्शात्सुषुप्तौ कालानुभवोऽस्तीति गम्यते । ननु
श्वश्चरिष्यामीत्युत्तरकालमहणवदेवाय परामर्शो नानुभूतविषयः कित्वनुमानरूपः । विमतः कालान्तरबान्कालत्वात्सम्प्रतिपनकालवदिति । अत्रोच्यते ।
अतीतेति किमयं पक्षीक्रियमाणः कालः सामान्यरूप आहोस्विद्विशिष्टरूपः । सामान्यरूपश्चेत्पूर्वोत्तरकालयोरपि पक्षान्तरभूतत्वात्साध्यधर्मान्त-
वात्तद्विशिष्टस्य धर्मिणो ब्रह्मण एव पक्षत्वात्यक्षीकर्तुमशक्यत्वात् । वर्तमानाख्यो विशिष्टरूपः कालः पक्षीक्रियत इति चेत् । वर्तमानशब्देन किं
व्यवच्छेयम् । अतीतानागतकालाविति चेत् । तयोर्व्यवच्छेद्यत्वेनानुमितेः प्रागेव ज्ञातत्वात्पक्षीकर्तुमशक्यत्वम् । न च योगपचायोगपचिरक्षिप्रप्रत्ययः
कालानुमाने लिङ्गम् । अनुमेयस्यैव कालस्य तत्र विशेषतः प्रतीतेः साध्याभावात्पक्षीकर्तुमशक्यत्वम् । तदिति तत्कालविशिष्टवेन स्मृतिगोचरं
किं तदिति भूतभविष्यत्कालविशिष्टत्वेन मानान्तरं दृश्यं वा । एतदिति वर्तमानकालावेशिष्टत्वेन दृश्यम् । तं विना साक्षिसिद्धकालं विना किञ्चिद्भूतं
भविष्यद्वर्तमानं वस्तु द्रष्टुं स्मर्तु वा न शक्यम् । एवं साध्यसाधनयोर्भूतभविष्यद्वर्तमानाविनाभावश्च स्मर्तुं द्रष्टुं वा न शक्यते । एव कालस्याविना-
भावग्रहणात्प्रागपि नित्यसिद्धेर्न कालं विनाभावमूलाया अनुमाया अवसरो भवेत् । अत इत्यादेरयमर्थः । अतोऽनुमानावसराभावात्कालस्य साक्षिसिद्ध-
त्वाद्गगनादेः कालखचितत्वेनैव दर्शनात्रिकालग्राहिणा साक्षिणैवादोषप्रमाणप्रतीतस्य गगनादेः शाश्वतिकबाधाभावलक्षणं सत्यत्वं मतम् । न तु
॥१८॥

GORCE RECR559-362156 सदोषप्रमाणप्रतीतस्य शुक्तिरजतादेः । ननु रजतादेः सत्यत्वं प्रत्यक्षतो गृहीत्वाऽपि कुत्रचिदाकाङ्क्षायां निष्पादितपरीक्षयैवःसत्यत्वं निश्चिनौति । अतः कथं साक्षिसिद्धं सत्यत्वमित्यत आह ॥ परीक्षादेरिति । निष्पादितानुमानादिकं परीक्षाप्रमाणम् । आदिशब्दादन्यप्रमाणानि । सत्यत्वं सत्यविषयत्वम् । अन्यथा परीक्षादिप्रमाणानां सत्यत्वमविषयत्वलक्षणं प्रमाणम् । प्रामाण्यं साक्षी न गृह्णातीत्यभ्युपगमेऽकस्माज्ज्ञानमन्तरेण विश्वस्या- त्मादेरितःपूर्व तथाभावात् । यद्यपरिनिवृत्तिर्न शङ्कयते तर्हि संसृतेः सत्यत्वाविषयत्वम् । अन्यथा परीक्षादिप्रमाणानां गतिरपि नो भविष्यति । ब्रह्म- विदाप्नोति परमिति वाक्यम् । विमतं दुःखादिकं ज्ञाननिव~मज्ञानकार्यत्वात् रज्जुसर्पव्यसनवदित्यप्यनुमा । आदिशब्दान्महतां संसारबन्धो निवत्यों भवितुमर्हति बन्धत्वाच्छृङ्खलादिबन्धवदित्यनुमा । आदिशब्दाद्योगिप्रत्यक्षम् । तस्य वाक्यादैः प्रामाण्यं च साक्षिप्रमाणवदेवाङ्गीकर्तव्यम् । एवमक्षज- मानत्वसिद्धामेवं साक्षिसिद्धनाक्षजमानेन सिद्धाम् । मृषा प्रमाणं विना । बहुज्ञानकृतं बहूनां ब्रह्मादीनां ज्ञानेन सृष्टम् । स्वात्मतस्करः स्वानुभवाप- लापकः । परस्य सत्यतां जाननपि यो जनान्तरं स्वात्मानं च वञ्चयति । परस्य सत्यतामनुवदन्नपि स्वात्मानं चोरयति । स परो नास्तीति परसत्यतां नानुभवतीति चेत् । किमित्युन्मत्तबद्वदेत् । परस्य श्रोतुरभावादेव यदि नैवोच्यते यदि वागपि नैवोच्यत इति ब्रूयात् । प्रपञ्चो यदि विद्युत । विकल्पो विनिवर्तेत । वाचारम्भणं विकार इति श्रुतिर्विश्वानिवृत्तवे प्रमाणमित्याशक्य तावदनूध तस्यार्थमभिधत्ते । अत्रेत्यादेरयमर्थः । एतयोर्माण्डूकश्लोकयोरेते शब्दा उत्पत्तिपरिकल्पनैति प्रसङ्गमुखेन निषिध्य विश्वसत्यतामवगमयन्ति । निवृत्तिाप्तिर्विनाशिव्याति: । प्रध्वंसाभावस्योत्पत्तिमतोऽपि विनाशाभावात्प्रायःशब्दः । जीवेश्वरश्रुत्यैतां व्याख्याति ॥ मितं वातमित्यादिना । स्ववाक्येन मायामाप्रमित्यादि व्याख्याति । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव मन्यमिति श्रुतिं विश्वमिथ्यात्वविषयत्वेनाशङ्कयमानां व्याख्याति ॥ वाचारधमित्यादिना। आरम्भणमात्रमिति व्याख्याति विकारो विकृत मत । विकृतं बहिति विशब्देन कृतत्वात् । अत लाल NA अ०टिल ॥ १९॥ ซึ่งจึง प्र०च. अ०६ CREAKER एवास्थिरत्वादप्रधानमित्यर्थः । प्रधानं साङ्केतिकं वैदिकनाम्ना । उत तमादेशमाक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातं कथन्नु भगवः स आदेशी भवतीति । यथा सोम्यैकेन मृत्पिण्डेन सर्व मृण्मय विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । यथा सोम्यैकेन लोहमणिना सर्व लोहमयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं लोहमणिरित्येव सत्यम् । यथा सोम्यैकेन नखनिकृन्ततेन सर्व कार्णायसं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधैर्य कार्णायसमित्येव सत्यम् । एवं सोम्य स आदेशो भवतीति छन्दोगश्रुतिः। अत एकस्य ब्रह्मणो विज्ञानेन सर्वविज्ञानं प्रति- ज्ञायं तत्प्रतिपादनार्थ मुत्पिण्डादिदृष्टान्तानुदाहृत्य तत्कार्यस्य मिथ्यात्वमाभिधाय कारणस्यैव सत्त्वमाचष्ट इत्याशङ्का परिहरति ॥ वाचारब्धमिति। आरम्भणमारब्धमिति व्याख्याति विकारो विकृतमिति। धर्मधन्यैक्यात् । विकृतं बव्हिति विविधत्वेन कृतत्वात् । अत एवास्थिरत्वादप्रधानमित्यर्थः । प्राधान्य साङ्केतिकात् । वैदिकनानाः सत्यशब्देन मिथ्यात्वं न व्यवच्छिद्यते किन्त्वनित्यमेवेत्याह ॥ सदातनमिति ।सततं यातन्यं हि सत्यम् । उत्तरत्र दहरविद्यायां यदैवैनं जरावाप्नोति प्रध्वसते वा किं ततोऽस्यातिशिष्यत इति। सयानास्य जरयैतज्जीयते । न वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरमित्युत्तरत्र दहरविद्यायां नित्य एव हि सत्यशब्दप्रयोगः । परयोजनायो दूषणमाह । वाचेति । अत एवमुक्तवर्मना सादृश्य एव मृत्पिण्डादिदृष्टान्तानां विवक्षा वाचारम्भणदृष्टान्तस्य तु नित्यत्वे प्राधान्य च । प्राधान्यमतस्तत्तेजोऽसृजतेत्युपक्रमादुपक्रमेऽपि प्राधान्यमेव हि प्रतिपादयिषितम् । तस्मादत्रापि तत्सम्भवतीत्यभिप्रायेणाह ॥ प्राधान्येति । पितृवदपादानत्वेन प्रकृतिभावेनापि भ्रमाविष्ठानत्वेनोक्तसमन्वयासिद्धाः प्रत्येकमपि पूर्णज्ञानानन्दा- दयोऽनन्तगुणा एवात्माऽस्येति भगवान्पूर्णगुणाशेषगुणात्मकः ॥ * ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भह्मसूत्रानुव्याख्यानस्य टीकायां त्रैविक्रमार्यकृतायां नयचन्द्रिकायां प्रथमाध्यायस्य चतुर्थः पादः ॥ १-४ ॥ प्रथमाध्यायः समाप्तः ॥ १ ॥ * ॥ श्रीकृष्णार्पणमस्तु । ine |॥१९॥ chatane ESC ॥ श्रीगुरुभ्यो नमः ॥ हारः ॐ ॥ पूर्वाध्यायेऽनुमानस्वरूपमाह ॥ अनुमेति । साध्यैन साधनस्याविनाभावी व्याप्तिः । कथमत्र व्याप्ति- मात्रमनुमानमित्यत आह ॥ प्रतिज्ञेति । विजानतः पश्यतः । अर्थ प्रतिज्ञाय यो धूमवान्सोऽग्निमानित्युक्ते धूमवतः पक्षस्याग्निमत्त्वं ज्ञायते हि । लिङ्गवचनमपि स्मारकमात्रत्वेनोपयोगि स्यादिति चेलिङ्गादिति चेत् । लिङ्गस्यात्रासिद्धत्वे तस्मर्तुं नात्र प्रयोजनं स्यात् । ननु पञ्चावयबोक्तावेव विवादावसितिर्भवेन्न व्याप्तिमात्रोक्तावत्यत आह ॥ पञ्चेति । एवमुक्तेऽपि दृष्टान्ते हेतौ वा विप्रतिपत्तौ सहजातायां पुनरपि हेत्वन्तरेण पुनरपि साधनः स्यादेव हि । कुतः पर्वतस्याग्निमत्त्वमिति प्रश्नेन प्रतिज्ञायाः सिद्धत्वे धूमवत्वादिति लिङ्गोक्तौ चशब्दादुपनयाधुक्तौ चानुमान- दोषानाह ॥ विरोध इति । असङ्गतिलक्षणमाह ॥ प्रतिज्ञायामिति । यथा कथायां जगन्मिथ्यात्वं साधयामीति प्रतिज्ञाय पर्वतोऽग्निमान्धूम- वत्त्वादिति । विरोधे भेदानाह ॥ विरोधोऽपीति । प्रतिज्ञतार्थविरुद्धयता प्रमाणान्तरैः । यथाऽग्निरनुष्ण इत्यादिलिङ्गराहित्यम् । यथा शब्दो नित्यश्चाक्षुत्वादित्याद्यव्याप्तिशब्देनातिव्याप्तिरुच्यते । तस्याश्च विवक्षितव्यासेरितरत्वात् । अनित्यः शब्दः प्रमेयत्वादिति श्रावणत्वादित्यतिव्याप्तिः । एवमनुमानस्याधिक्यदूषणे उक्ताववचनप्राप्त आह || न्यूनोति । यथा पर्वतो धूमवत्वादिति न्यूनम् । गगनत्वादिमानगोऽग्निमानित्याधिक्यम् । उपाधि- विरोधस्याव्याप्तावन्तर्भावमाह ॥ साध्येति । साध्यव्यापकेनोपाधिना बैलोम्यं विरोधश्च साधनस्याव्यातिः। साध्यं व्याप्नोतीति साध्यव्यापकः । साध्यध्यापकत्वे सति साधनाव्यापको [पाधिः । यथा विमतं लोहभेचं पार्थिवत्वात्कदलीकाण्डवदित्यत्र शिथिलावयवारब्धत्वं प्रयोजनमिति । न मेयं मानापेक्षेत्यादि स्वस्थ वाक्यविरोधोऽपि जात्यपरपर्यायप्रतिज्ञाविरोधेऽन्तर्भूतः । निरीश्वरवादमभ्युपगतवतः कस्यचिदर्थस्यानुपपत्तौ परेणोद्भावितायां सत्यामीश्वरशक्त्या युतं स्वादिति स्वानां वाक्यविरोधोऽपसिद्धान्तापरपर्यायोऽप्येवमेव । परेण स्वानभीष्टे साधिते स्यादेवं तथाऽस्तीति संवादः । हण्णाभावाऽनुक्तिः । प्रतिज्ञाहान्यादीनां परपरिकल्पितानां द्वाविंशतिनिग्रहस्थानानामेतेषु पट्स्वेत्रान्तर्भावमभिप्रेत्याह । एत एव तु निग्रहा अ०टिक ५/न०० ॥२०॥ द्वि.प्र. अ०२ इति । एवं प्रमाणानि विचार्य तदुपयोगि स्थानं का विशेषतो लक्षयति ॥ वाद इति । असतां सतां वेदबाह्यानां वेदवादिनां च परस्परं तु वादो वितण्डा वा स्यादसतां पक्षदूषणरूपम् । जल्पादौ पुनरुक्त्यादिना विजयपराजयप्राप्तौ न हि जल्पादिना क्वचिदुच्चनीचत्वज्ञानम् । तस्माद्वाद- रूपविद्यापरीक्षण कार्यम् । वादे तु पुनरुक्त्यादीनामनुद्भाव्यत्वाद्धेत्वाभासादीनामुद्भाव्यत्वाच्च तेनोच्चनीचत्वज्ञानं भवति । तत्सिद्धौ व्यर्थताऽन्ययोस्त- त्रैव जयपराजयसिद्धौ वितण्डाजल्पयोर्व्यर्थता । उभाभ्यामपि साधनमात्रे वा कृते समत्वेन जयपराजयसिद्धौ जल्पवितण्डयोवकाशो नैव । वादेऽपि कारणमुच्चनीचत्वज्ञानस्येति शेषः । विजिगीषूणां वादस्य विशेषमाह ॥ सभेति । ननु वादेनैव जयलाभादिसिद्धौ किं जल्पादिनेत्यत आह ॥ तत्त्वेति । विद्याया वेदवेदाङ्गरूपायाः । अत्र साधनप्रकारमाह || प्रतिज्ञेति । यथा कत्येव देवा याज्ञवल्क्येति शाकल्येन पृष्टो याज्ञवल्क्यस्त्रयस्त्रिंशदिति प्रतिजज्ञे । परमोमिति होवाचेति शाकल्यस्य संवादात्तथाऽत्रापि प्रतिज्ञामात्रेणास्य साध्यत्वम् । सभादीनां लक्षणमाह समेति । सभ्याः सभायां साधवः सर्ववेदिनश्च स्थुः । न सभादिवदुक्तलक्षणमात्रवन्तः प्राधिकाचैवमेव । एतदज्ञाने एतेषां प्रानिकानां वादिप्रतिवादिव्यबहारगुणदोषाशाने सभ्याश्च निर्णयाय प्रमाण स्युः । एतेषां चाज्ञाने दूरण विद्वांसः । वादजल्पौ वितण्डाया विवेचयति उभाभ्यामिति । स्वपक्षस्य साधनं परपक्षदूषणम् । प्रत्यक्षेत्यादेरयमर्थः । वादिना प्रयुक्ते आगमे प्रत्यक्षविरोधमागमान्तरविरोध वा तद्विव- क्षितार्थस्योद्भाव्यान्यार्थतैव दर्शनीया । प्रतिवादिनाऽत्र विवक्षितार्थे उपक्रमादिलिङ्गविरोधता च प्रदर्शनीया। अत्र कथायां प्रयुज्यमानायाः श्रुत्याद्यनु- गृहीताया अनुमायाः पराभिमतमवयवनियममनूध दूषयति ॥ पञ्चेति । कश्चिदनुमां प्रतिज्ञाहेतूदाहरणाख्यत्र्यवयविनीं नियमाद्रवीति । अन्यः प्रतिज्ञाहेर्दाहरणोपनयनिगमनाख्यपञ्चावयवम् । अपरस्तु दृष्टान्तोपनयाख्ययुग्मावयविनीम् । तादृशी नियतावयवा केन साध्याऽवयवकल्पना। नियतावयवेन चेत् । तदवयवनियमकरूपनार्थमन्यनियतावयवकल्पनमित्यनवस्था । एवं नियतावयवासिद्धौ न केनचियातिमात्रेग नियमसाधनं Cri ॥२०॥ k RRC 1975 कर्तव्यमैव स्यात् तेन वादिना । तस्मात्सा व्याप्तिरेवानुमा मता । अनुभूतिः प्रमाणमिति परोक्तप्रमाणलक्षणं स्मृतिप्रामाण्याङ्गीकारादेवऽ- व्याप्तिरभिहितेत्यभिप्रायेणाह ॥ अनुभूतिरिति । केन निमित्तेनानुभूतावन्तर्भूता स्मृतिरपोथते । इतोऽपि स्मृतिः प्रमाणमित्याह ॥ पूर्वेति । न च स्मृतिलिङ्गक पूर्वानुभूतज्ञानमिति वाच्यम् । तत्र धर्मिग्राहकप्रमाणाभावात् । स्मृतेः स्वरूपमाह ॥ मानसामिति । इदं मानसप्रत्यक्ष चेत्कथं देशकालप्रकृष्टार्थग्राहकम् । न हि चक्षुरादिप्रत्यक्षस्य तथात्वमित्यत आह ॥ अतीतेति । स्मृतेः क्रियाविषयत्वं च साक्षिसिद्धमित्याह ॥ विज्ञातमिति । पूर्व मयैतत्कृतमित्यपि मनसा विज्ञातम् । उक्तार्थमुपसंहरति ॥ एवमिति ॥ २॥ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामित्यधिकरणाभिप्रायमाह ॥ तथापीति । मृदब्रवीत् ता आप ऐक्षन्त । बहुस्यां प्रजायेयेति । ता अन्नमसृजन्तेति बुद्धिवागादिवाचको वेदो यज्जडं तद्बागादिरहितमिति द्रष्टप्रत्यक्षसिद्धव्यातिः । लोके मृदादिशब्दानां मृदादिमात्र एव रूढिर्न तु देवतास्वित्यत आह ॥ वाचेति ॥ बालेति । अनुपलभ्यमानत्वात्तासामभाव इत्यत आह ॥ दृश्यन्त इति । शास्त्रोक्तवस्तुनः शास्त्रोक्तलक्षणानुकूल्येनैव व्युप्तत्तिः शास्त्रस्यैव तत्रोपजीव्यत्वात् । तस्या अनादित्वेन बलवत्त्वाच्चेदृशो न्यायः श्रुतेरन्तरकल्पना ॥ ३ ॥ असदिति चेन्न प्रतिषे- धमात्रत्वादिल्यादिविवृण्वन् श्रुतिगुणयुक्तिविरोधं परिहरति ॥ अल्पेति । असत्कारणं श्रुयों भवति । क्वाप्यसत्कारणत्वेनासतः सदजायतेत्यादिश्रुत्यों न भवति हि किन्तु ब्रह्मैव । तद्वा एतदसदाहुर्न ह्यासादयति कश्चनेलादेः । ननु युक्तिसहितश्रुतिविरोधश्चतुर्थपादे परिहियते हि । तस्मात्कथमपुनरुक्तिरित्यत आह ॥ श्रुतिमायेति । श्रुतिप्रायाः श्रुतिप्रचुराः स्वयमल्पाश्च । सूत्रव्याख्यानरूपेण पूर्वपक्षयुक्तिमुक्त्या परिहति ॥ असदिति । प्रलये तावत्सर्वस्यासत्त्वं कल्प्यते तस्मादसतः किञ्चित्प्रधानादिकं जगत्कारणादिकमुच्यते च । यथा मृदो घटः कृत- ककारणमपि प्रलये सद्भवितुमर्हति । अयं च प्रयोगः । विमतं कारणं देशान्तरे कालान्तरे वा सद्वस्तुत्वाधथाकार्य घटादिकमिति । बुद्धिपूर्व मटि ॥२१॥ न०० द्वि०प्र० अ०४ प्रवृत्ति हैं कर्तृत्वम् न चासतः सा कर्तृता बुद्धयादेषादृष्टात् । तस्मात्सूत्रपदं प्रतिषेधमात्रचादिति। मात्रपदाभावे व्यभिचार इत्यत आह ॥ प्रतिषेधेति। अयमर्थः । अभावरूपस्य धर्मिण ईशादेरप्यदुःखत्वाधमावधर्मत्वावतिषेधात्मकत्वमस्त्येव न तु प्रतिषेधमात्रता । अभावे धर्मिणोऽभावत्वादभावस्य खपु- पादेरफि प्रमेयत्वादिको भावधर्म: स्यात् । तस्मादिह-तस्य भावधर्मव्यवच्छेदो न कृतः किन्तु प्रतिषेधमात्रतानाम धर्मिणोऽभावरूपत्वमेव तद्बुद्धि- राहित्यमेव न तु बुद्धिराहित्य विशेष्यतैव धर्मित्वम् । यथा शुनः पट इत्यादि । न चैतावता घटादिशब्दवनाशवत्कुत्रचिनुवादौ शापादिना निःशेष- विनाशेन कर्तृशेषत्वम् । अतोऽनैकान्तिकत्वं नाशत्वहेतोरित्यत आह ॥ न चेति । न चाशेषन्नाशो दृष्टः । तत्रापि शापा- दिकर्तृणामवशिष्टत्वात् । अत एवेतःपरं च न दृश्यः । अत एव नास्ति च । इतोऽपि प्रलये सर्वासत्त्वं न दृश्यत इत्याह। ॥ धमेति । प्रलये सर्वादृष्टस्यापि नाशे किं नछिन्नमित्यत आह ॥ अनादित्वमिति । अदृष्टमदृष्टपरम्परा कथमनादित्वं विना कस्याप्यर्थस्य कारणं स्यात् स्वरूपाभावप्रसङ्गात् । यदि प्रलयकालात्पूर्वादृष्टात्ततः परादृष्टमिति नियमो नाङ्गीक्रियते । तद्युत्तरकाला- दृष्टं तस्मात्पूर्वनिमित्तमित्युच्यते । अदृष्टं कस्याप्यर्थस्य कारणं नो चेत्सर्वस्यासत्त्वधर्मिणि लये मानं च किं भवेत् । न ह्याकस्मिके कार्ये किश्चित्प्रमाणम् । अपि च विमतावुत्पक्तिविनाशौं बुद्धिमाकर्तृको उत्पत्तिविनाशत्वात् सम्मतवत् । तदाह । उत्पत्तीति । श्रुत्यवसिते | करि किमनुमानेनेल्याशङ्का निरस्यन् तर्काप्रतिष्ठानेत्यादि । सूचयति ।। आगमेति । अन्यथा सर्वस्तर्कोऽप्यप्रतिष्ठितस्तर्कत्वात्सम्मतवदि- त्यस्य तर्कस्य पक्षेऽन्तर्भूतत्वादनयाऽस्य वाचैतत्सिपाधयिषिता तर्कस्याप्रतिष्टा व्यहता । यत्त परैरुच्यते न विलक्षणत्वादित्यादिना किश्चिच्छि- ष्टिजनपरिगृहीताः साङ्ख्या निराकृता एतेन शिष्टा अपरिगृहा अपि व्याख्याता इत्यत्र वैशेषिकादयः शिष्टा अपरिगृहाता निराकृता इति तमिराकृत्य मूत्रार्थमाह ॥ न चेति। जीवादिकतेतल्यादिशब्देनतकर्तृकत्वचेतनकर्तृकत्वाचेतनकर्तृकवेन । नन्वसतः कारणत्वमसदिति ॥२१॥ EMA चेत्यादिना निराकृतं किमित्यत्र पुनर्निराक्रियत इत्यत आह । इदं वा अप्रेनैव किञ्चनासीत्तदेव सन्मनोऽकुरुत बहुस्यामिति श्रुतिः । अकस्माद्धीदमा- विरासीदिति च । परिहारो विशेषतोऽत्र परिहारस्वसत इति शेषः । अत एवेदमतिदेशाधिकरणम् । वाक्यान्तरेण पूर्वपक्षे प्राप्ते सति पूर्वोक्तयुक्ति- बाहुल्यन्यायेन परिहारात् । युक्तिबाहुल्यं दर्शयति ।। क्वचिदिति । विमतं जीवाकृतमचेतनाकृतमसदकृतं वस्तुत्वाज्जीववदचेतनवदसद्वदित्यनुमीयते । श्रुतेः श्रुत्यानुकूल्यात्स्गादतिप्रसङ्गादिदोषाणामत्रानवकाशः ॥ ४ ॥ भोक्त्रापत्तेरविभागश्चेत्स्यालोकवदिति सूत्र व्याख्याति ॥ नान्यदिति । तदेवोपपादयति । कथं दृश्येदेष्यत्काले । अस्य सूत्रस्य परयोजना दूषयति ॥ भोक्तृत्वेति । यदि भोक्तृभोग्ययोर्ब्रह्माभेदस्तहि भौग्यस्य जडस्य भोक्तृत्वापत्तेस्तयोरविभागः स्यादिति पूर्वपक्षीकरणं यदि मतं तर्हि भोक्त्रापत्तेरिति त्वप्रत्ययं विनाकुतः प्राह ॥ ५॥ तदनन्यस्वमारम्भणशब्दादिभ्य इल्पत्र परयोजना निरस्य स्वयं योजयति ॥ कथामिति । अतीतपादे ब्रह्मात्रिकारित्वं साधित हि । द्रव्यं प्रधानादिः । तस्य स्वभावादिः परिणामादिः । चेतना नित् । जीव इति यावत् । सत्वाच्चावरस्यति व्याख्याति ॥ तद्वशस्येति । तस्माद्धान्यं न परः किञ्चनासेत्यादिश्रुतेरपि ततोऽन्यत्किञ्चन विशिष्टं नास तदेव विशिष्टमित्यर्थः अन्यथा पुनरुक्तिप्रसङ्गात् । ननु कारणाब्रह्मणः कथं कार्यस्य जगतोऽनन्यत्वं स्यात् मद इव घटस्येत्यत आह ॥ नित्येति । भेदाभेदाख्यम् । तत्र युक्तिमाह ॥ असदिति । यत्प्रासङ्गिक घटादिकं तदपि मदादिकारणरूपेण तदाऽप्यस्त्येव हि । ननु नैव भेदः कार्यकारणयोर्न हि प्रागसिद्धस्य घटस्योत्पत्तिः किन्तु व्यक्तिरेवेत्यत आह ॥ अनवस्थेति । घटस्य व्यक्तिश्चेश्यक्तेः किमुत्पत्तिराहोस्विद्यक्तिः । उत्पत्तिश्चैवटस्यैव सा स्यात् । किमिति प्रथमा व्यक्तिः कल्प्यते । व्यक्तिश्चेत्तस्याश्चैव्यक्तिस्तस्याश्चैत्यनवस्था । कार्यस्य नाशोऽव्यक्तिरेव चेत्तस्या अपि पूर्व विद्यमानायाः पश्चाब्यक्तिस्तस्याश्च तथेत्यत्राप्यूनवस्था । अत्र, प्रमाणमाह ॥ शक्तोऽपीति ॥ ६ ॥ कृत्स्नप्रसक्तिर्निरवयत्व-

अ०९
SCIECC,
शब्दकोपो वेति सूत्रं व्याख्याति ॥ अनंशस्येति । नन्वीश्वरांशगृहीतत्वेऽपि जीवस्य सांशत्वं प्राप्तम् । अथ यः स जीवः स निल्यो
अटिका निखयव इत्यादिश्रुतेः का गतिरित्यत आह ॥ अंशिन इति । विशेषादेवानेकरूपेषु न तु भेदात् । अस्यैव हीति हिशब्देन सौभर्यादि-न००
प्रसिद्धिं घोतयति । ननु विमता विभिन्ना बहुत्वाच्चैत्रमैत्रादिवदित्यत्रानुसन्धानवत्त्वेन भगवदनियतत्वमुपाधिः । तदेतदाह ॥ बहुत्वेनेति । द्वि०प्र०
॥२२॥ यथा योगिरूपाणां परस्परानुसन्धानेन नियमकृन्नैव नियमकृगवांश्चैव चैत्रादीनाम् । अथवा मिन्नं कृत्वा नियमकृन भगवान्योगिरूपाणाम् । तथा
चानुमानस्य कालात्ययापदिष्टत्वं सूचितं स्यात् । अचिन्त्ययेशशक्त्यैव ोकोऽवयववर्जितः । आत्मानं बहुधा कृत्वा क्रीडते योगसम्पदेयागमविरुद्धत्वात् ।
॥७॥ आत्मनि चैवं विचित्राश्च हीति सूत्रं योजयंस्तत्र युक्तिमाह ॥ तस्येति । ननु जन्माघस्य यतः। सर्वत्र प्रसिद्धोपदेशादियादौ सर्वजन्मा-
दिकारणत्वसर्वगतत्वसर्वात्त्वपातृत्वादश्यत्वादिगुणकत्वे सर्ववैशिष्टयं प्रतिपादितं हि । अत्र च तदनन्यत्वाधिकत्वविचित्रशक्तित्वसर्वोपेतत्वसर्वधर्मोपपत्ति-
वचनेन तदेव प्रतिपाद्यते । अतः कयं पुनरुक्तिर्न स्यादित्याशङ्कायामाह ॥ विरोध इति । यो नारायणस्य सर्ववैशिष्टये विरोधः स निरस्यतै
द्वितीयेऽध्याये प्रथमे तु तत्तच्छतिसमन्वयमुखेन सर्ववैशिष्टयं प्रतिपाद्यते । तदन्ये तत्र तत्रगास्तप्राध्यायान्तरगाः । विरोधानिरासादसमन्वयादिप्रसङ्ग-
प्राप्त्या महाविरोधपरिहारादन्ये ॥ ८॥ ननु सर्वोपेता च तदर्शनादित्यत्र विकरणस्येश्वरस्य सृष्टयनुपपत्तिरपि पारहता सर्वशक्तित्ववचनात्।
अथ कथं विकरणत्वान्नेति चेन्न तदुक्तमिति। पुनरुक्तं न स्यादित्यत आह ॥मानमेयेति । प्रमाणैक्ये सत्यपि प्रमेयविशेषेण पुनरुक्ति-
न जायते । अपाणिपादो जवनो गृहीतेति विद्यते तत्र प्रमाणविशेषविशेषः । ननु प्रयोजनार्थानामुचिता प्रवृत्तिः कथं पूर्णकामस्येश्वरस्येत्यत आह
॥ सदेति । भोगार्थ सृष्टिरित्यन्ये क्रीडार्थमिति चापरे । देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहेति श्रुतावन्यमिति निरस्यपक्षमुक्त्वा देवस्येति
स्वसिद्धान्तो झुच्यते । एष स्वभाव इच्छारूपः । स्वभाव इत्यनन्यनिष्ठः परावश इत्यर्थः । मत्तवृत्तवत्केवललीलेति निीता ॥ लोकवत्तु लीला-
॥२२॥

156115 कैवल्यमिति सूत्रेण । का स्पृहेत्युक्तत्वादीश्वरेच्छैव नास्तीति न मन्तव्य इत्याह ॥ आत्मेति । भगवान यात्मप्रयोजनविवक्षया प्रयोजनवत्त्वादित्याह ॥ इच्छामात्रमिति । इति प्रशंसया सृष्टैरिच्छामात्रकारणत्ववादिना निश्चितत्वविशेषेण प्रशंसया । सोऽकामयत । काम- स्तदने समवर्तताधीत्यादिकामश्रुतिभ्यः । विमत इच्छावान् चेतनत्वाच्चैत्रादिवदिति युक्तितो महातात्पर्ययुक्ति स्वयमेवाह ॥ मोक्षार्थी इति । प्रसादत इच्छानिमित्ततः । एष ह्येव साधुकर्म कारयति । तं यमेभ्यो लोकेभ्य उनिनीषतीति वाक्यातू । प्रसन्नस्य राज्ञ इच्छया निगडबन्धस्य मोक्षो लोके दृष्टः । यथार्थ प्रमाणं न तु घटवदिति नियमस्तस्मात्कथं फलवत्त्वाभावे वेदस्य प्रामाण्यमित्यत आह ॥ याथायमिति । तथाऽपि प्रयोजकं वाक्यमुच्यमानत्वमेतीष्टसाधन एव शब्दव्युत्पत्तेस्तत्र हि वाक्यानां महातात्पर्यम् । तत्रापि यन्मोक्षाख्यं सम्पूर्ण प्रयोजनं वाक्यं तत्परमुच्य मानत्वमेति ॥९॥ वैषम्यनैधृष्ये न सापेक्षत्त्वात्तथा हि दर्शयतीत्यस्यार्थमाह ॥ वैषम्यामति । अधर्मकृतः सुखकृत्व वैषम्यं धर्मकृतो दुःखकृत्त्वं नैपुण्यं च । वेदप्रामाण्यकारणं धर्मी स्वर्ग विधर्मी निरयमिति हि श्रुतिः ॥ १० ॥ सर्वाशङ्कापारहारात्मकं सर्वधर्मो- पपत्तश्चेति सूत्र व्याख्याति ॥ यदधीना इति । तत्तस्मात्सर्वधर्मोपपत्तेश्च । गुणाः श्रुताः सुविरुद्धाश्च देव इत्यादीनि वाक्यानि ॥ ११ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रानुव्याख्यानस्य टीकायां त्रैविक्रमार्यविरचितायां नयचन्द्रिकायां द्वितीयाध्यायस्य प्रथमः पादः॥२-१ ॥ * ॥ ॥ श्रीगुरुभ्यो नमः ॥ हरि ॐ ॥ वृत्ताश्रवणपूर्वकमन्दाशङ्कां सहेतुकमुद्भाव्य पादसङ्गतिं दर्शयति ॥ स्मृतिती । अभियोगतोऽभ्यासतः । कथं प्रमाणबाह्यत्वे सत्यपि कस्यापि समयस्योच्छेदो न भवतीस्याशङ्कायामाह ॥ दौर्लभ्यादिति । एवं प्रबलैः समयैलोंके स्थिरमन्यथाज्ञानं दुष्परिहरमित्यत आह ॥ तथाऽपीति । बुद्धिशाणत्वं बुद्धिनिशातत्वं बुद्धे शत्यमित्यर्थः । तत्र निरीश्वरसाळ्यमतमनुवदति ॥ चेतनेति ।

अटिल
॥२३॥
तु
पञ्चपञ्चविभागस्थं पञ्चकवः पञ्चत्वैन विभाग स्थितमिन्द्रियमनोबुद्धिशब्दादिमहदादिविकृतस्येयं प्रकृतिश्चेति निरीश्वरसाङ्ख्येष्वेव भेदमाह ॥ भोक्त-
तामिति । स्वरूपचैतन्यबलास्वरूपचैतन्याख्यसामर्थ्यात् स्वयंप्रकाशाौगितामाहुर्भागवादिन इति शेषः । आनुभविकस्य सुखदुःखमोगस्य का गति-न००
रभोगवादिनामित्यत आह ॥ प्रकृतरिति । प्रकृतेरन्तःकरणरूपायाः सुखादिधर्मिण्याश्च स्वरूपस्य च भेदाग्रहं सुख्यहमित्यादिभोगव्यवहारहेतुमाहुः।
द्वि०वि०
स एव भेदाग्रह एव मुक्तिरित्येतन्निराकरोति ॥ईशस्येति । युक्तिविरुद्धत्वं दर्शयति॥ चेतनोत। यदा यदि । अत्रायं प्रयोगः। विमत उद्भवश्चतनाधीनो
वस्तुत्वात्पटोद्भववदिति । पञ्चां भूमिर्दिशः श्रोत्रांस्तथालोकानकल्पयन्नित्यादिश्रुतिरेव प्रभा हि नः किमन्यान्वेषणेन । प्रकृति पुरुषं चैव प्रविश्य पुरुषोत्तम
इत्यादिस्मृतिश्चाप्तेन कपिछेनोक्तत्वादिदं सर्व सिध्यतीत्यत आह ॥ आप्तत्वमिति । विमतो धर्मढढ्न स्पादित्यादिपूर्वोक्तमार्गेणापि च ज्ञानानां प्रामाण्यवदे-
वाप्रामाण्यस्यापि हि स्वतो मात्र स्वीकरोति हि साङ्ख्यो न तु परतो दोषात् । अनेन न्यायेन स्वोक्तार्यस्याखिलस्यापि निषेधी स्यात्। यथा मायी
सद्विलक्षणमेवासद्विलक्षणमित्यादि बदन्मूलकारणानुमा जगत्कारणानुमा केन भवेत् । एतदनुमानपराहतत्वात् । रचनानुपपत्तेश्च नानुमान-
मिति . सूत्रं विवृणोत्येतदेवोपपादयन् ॥ स्वतन्त्रति । आत्मप्रमाहतमात्मवचनविरुद्धं स्वव्याहतमित्यर्थः । तदेवोपपादयति
॥ स्वेच्छेति । यदीत्यादेरयमर्थः । यद्यात्मनो चेतनेच्छाबता मनसा भेदस्याग्रहत्वादहमिच्छामीति व्यवहारो हेतुस्तर्हि स भेदाग्रहः कथमात्मनो
घटस्य न स्यात् । मम घट इतिवद्भेदेनैव गृहीतत्वं मनसोऽपि सममित्याह ॥ मनसेति । ननु मनः कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा
धृतिरधृतिहींधींसोरिलेतत्सर्वं मन एवेति श्रुतेः कामादीनां मनोधर्मिकत्वत्कथमिच्छाऽऽत्मधर्भ इत्यत आह ॥ उभयेति । परिणामे प्रियकाम आत्मनः
परिणामेऽप्रियकामो मनस इति द्वैविध्यम् । तस्मादात्मन इच्छावत्त्वात्कुतस्तत्र भेदाग्रहो व्यवहारहेतुरङ्गीक्रियते । उक्तार्थ निगमयति ॥ रचनति ।
प्रधान स्वतन्त्र प्रवर्ततेऽचेतनत्वात्पयोम्ब्वादिवदिति सर्वज्ञत्वेनाभिमतकपिलानुमां पयोम्बुवच्चेत्तत्रापीति योजयस्तदृष्टान्तस्य साध्यविकलत्व-
॥२३॥

25% - मुद्भावयति ॥ पय इति । एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते । एतेन ह वाव पयो मण्डं भवतीत्यादावेतत्प्रशास्ति- वचनात् । ननु मनसोऽपीच्छावत्त्वाङ्गीकाराकिमिति तद्पस्य प्रधानस्य कर्तृत्वं न स्यादित्यत आह ॥ द्वैविध्येऽपीति । इच्छावत्त्वं नामेच्छा- स्वामित्वमेव विवक्षितं न विच्छारूपेण परिणामित्वं तावन्मात्रं हि मनसः। ननु परिणामे स्वप्रियकारीदमिति जानतोऽपि पुरुषस्य स्ववशत्वात्तत्रेच्छा जायते । अतः कथं तस्या इच्छायाः स्वामित्वमित्यत आह ॥ किञ्चिदिति । अस्ति हि लोके प्रामादीनां किञ्चित्स्ववशत्वेन स्वामित्वव्यवहारः । सर्वात्मना स्वतन्त्रेच्छाशक्त्यादेः परेशितुः किसुतैव स्वामित्वं वर्णनीयम् । अस्माभिस्तु तस्य हि स्वतन्त्रकर्तृत्वं सिषाधयिषितम् । तदन्याभिधायिनी मनस इच्छारूपेण परिणामाभिधायिनी । इतश्च चेतनस्यैवेच्छावत्त्वमित्याह ॥ मोक्षेति । अन्यो मनो नाम कोऽर्थः । मनसः स्वरूपनाशो हि तत्पक्षे मोक्षः। तथा च मनः स्वयमेव नागच्छेद्यत इत्यायातम् । तच्च कः कुर्यात् । तदाह ॥ स्वनाशेति । भोगवादिनी दूषयति । कर्तृत्वं योऽहं कर्ता स एव भोक्ताऽस्मीत्यनुभवेनैवोपलभ्यते । तच्चशब्दानिराकृतस्तस्मात्तच्छतेन चशब्देनापिशब्देन समुचित्य निराकृतः । यथा मायी ब्रह्म निर्विशेषत्वादेव रच- नानुपपत्तेर्न कारणं तथाऽनुमानं चाचेतनत्वान्नेति ॥१॥ क्लेशकर्मादि । अविद्यास्मितरागद्वेषाभिनिवेशाः पश्चक्लेशाः । आदिशब्दात्कर्मफलभोगः । देहे सन्निधानमात्रतो न तु कर्तृत्वात् । अन्यत्राभावाच्च न तृणाविवदिति विवृण्वनेतन्मतं निराकरोति ॥ अन्यचति । तत्प्रधान। पुरुषशक्तीनां सत्ताप्रतीतयश्च प्रवृत्तयश्च ताः सर्वास्तदधीनाः । न ऋते त्वक्रियते किञ्चनारे महाम: मघवन् चित्रमचेति श्रुतिः । हे तत्त्वगणपते यशश्चिन् । त्वदृते दूरेऽपि किञ्चन क्रियते महान्तमर्चनीयं सुखं चेतनत्रातारं त्वं च त्वमेवास्मानर्च प्रविश्येत्यर्थः । तदेव श्रुप्यन्तरेण द्रढयति ॥ स्वभावेति । पतञ्जलिः सेश्वरसाङ्ख्यो विन्ध्यो निरीश्वरः ॥ २ ॥ अत्र चेतनाचेतनद्वयकल्पनायाँ गौरवम् । अचेतनमेव चेतनीभूत मदिरादिद्रव्यवत्प्रवर्तत इत्यत्र लाघवम् । प्रमाणस्याप्येकस्य कल्पनमित्याशयवतां चार्वाकाणां मतमनुवदति ॥ चार्वाकरिति । अभ्युपगमेऽ- ७ R

म
न००
अ०टि.
॥२४॥
RECENSECRECER
प्याभावादिति सूत्र विवृण्वस्तत्परिहरति ॥ यदेवमिति । यदा यदि । तेनैव प्रत्यक्षेणैव । देहव्यतिरिक्तात्मनि प्रमाणमाह
॥ देहादीति । यदि तत्साधक साक्षिप्रामाण्यमभ्युपगम्यते तर्हि तद्वेदप्रामाण्ये कथं प्रमाणं न भवेत् । न चान्यमानता तदभिमतप्रत्यक्षप्रमाणे-8 द्वि०वि०
नावसीयते । आगमादेरप्रमाणं व्यभिचारिलिङ्गात् । गुरुवाक्याद्वाऽवसीयते चेदम्युपगतागमादेखि प्रामाण्यं निगमयति ॥ स्वमतेनेति ॥ ३ ॥
साङ्ख्यैकदेशीयानिराकुर्वन् पुरुषाश्मवदिति चेत्तथाऽपीति सूत्रं व्याख्याति ॥ सन्निधानादिति । अबुद्धिपूर्वत्वादचैत-
नस्य स्वतन्त्रप्रवृत्त्यनुपपत्तिरुक्तदोषः । अङ्गित्वानुपपत्तेरिति सूत्रं व्याख्याति ॥ अगित्वमिति । सर्वस्य सर्वानुभवस्य ।
यतोऽखिलं वर्तते तस्यापलापात्सर्वप्रमाणापलापक इति किमु वक्तव्यम् ॥ ४ ॥ तत्रैव पक्षान्तरं दूषयन् अन्यथाs-
नुमितौ च ज्ञशक्तिवियोगादिति सूत्रं व्याख्याति ॥ अङ्गित्वमिति । सृष्टिकालेऽस्य शरीरसंयोगार्थ शरीर-
प्रेरणा कार्या हि । तत्र स्वयमशीररत्वादशक्तः । अस्यैव जीवस्यैव । हितानियादीत्यादिशब्दादहितकृतिः । इमै रचनानुपपत्तेरित्याधुक्तदोषाः
॥५॥ वैशेषिकादिमतमनुवदति ॥ नित्येति । सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागैः पञ्चभिः सङ्ख्यादित्रयस्य सर्वत्रापि नित्याश्रितस्य
नित्यत्वनियमानित्यत्ववचनम् । इच्छादीनां तु जीवेऽविनाशित्वादतस्तच्छङ्कोच्छेदनाय निल्ववचनम् । तेषां सृष्टचायङ्गत्वेन पृथग्वक्तव्यत्वाददृष्ट
जीवस्य पार्थिवाप्यतैजसवायवीयाश्चतुर्वर्गाः । तैश्चतुर्भिस्तदात्मकं त्र्यणुकं चतुर्भिश्चतुरणकं यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम्
अन्त्यपदेनाविशेषस्यान्त्यस्य न्त्यव्यावर्तकत्वं लक्षयति । द्रव्यं त्वाकाशादि नित्यम् । तद्गतैकत्वादिगुणत्वं च पृथिव्यादिकमनित्यं तद्गतरूपादिगुणश्च ।
कार्य इत्यादेश्यमर्थः । कार्यगतगुणक्रियाणां कारणगतगुणक्रियायाः कारणैककार्यसमवायप्रत्यासनगुणक्रियायाः कारणैककार्यप्रत्यासन्नत्वादसमवायि-
कारणम् । कारणद्रव्यस्यासमवायिकारणम् । घणुके हस्वत्वं ध्यणुककार्यत्र्यणुके हस्वान्तरस्य कारणं न भवति । परिमाणौ पारिमाण्डिल्यं च
॥२४॥

महत्व- तत्कायें व्यणुके पारिमाण्डिल्यान्तरस्य कारणं नैति विशेषः । तत्र किं निमित्तमित्यत आह ॥ वैरूप्यमिति । विजातीयपरिमाणाक्रान्तत्वम् । महद्दीर्घवद्वान्हस्वपरिमण्डलाभ्यामिात योजयंस्तनिराकरोति ॥ तानिति । पूर्वपक्षयुक्तिमाह ॥ सहशस्येति । अणुपरमाण्वोरणुप्रत्यक्षत्वं कार्येषु त्र्यणुकादिष्वणुत्वं कारणगुणसदृशमुत्पयते चेत्तेषामप्रत्यक्षत्वं स्यादेवेत्यर्थः । न महत्त्वमिति परिहरति । परमाणौ स्वावयवादणौ च परमाणौ महत्त्वं कथं न स्यात् । त्र्यणुकपूर्वेष्वपि चतुरणुकादिभ्योऽणुत्वं न कथ्यते । अखिले वस्तुनि प्रत्यक्षत्वाप्रत्यक्षत्वे पुरुषापेक्षया । तथा हि । सूक्ष्मदर्शिनी प्रत्यक्षास्त्र्यणुकायाश्च स्थूलदर्शिनामप्रत्यक्षा हि परमाण्वादयोऽपि केषाञ्चित्प्रत्यक्षा एव । ननुः यतः परमाणुर्नास्ति स परमाणुः कस्मात्कयं परमाणोनिरवयवस्य स्वावयवेभ्यो महत्त्वम् । अयं च प्रयोगः । अणुपरिमाणतारतम्यं अणुपरिमाणतारतम्यं क्वचिद्विश्रान्तम् । परिमाणतारतम्यत्वान्महत्परिमाणतारतम्यवदिति चेत् । स्यापि विश्रमाभावात्साध्यविकलो दृष्टान्तः । तदाह ॥ यथेति । ननु कश्चिदीश्वरान्महीयानस्ति । अतस्तत्र विश्रान्तं महत्त्वतारतम्यमित्यत आह । नोत । महत्तत्त्वगुणेनेश्वर एतावानिति परिच्छिन्नो महत्त्वादशगुण एवेश्वरो नातोऽधिक इति । तथा सर्वस्मादणोरपि त्र्यणुकस्य दशगुणभागता क्वचिन्न स्यात् । विश्रान्त इत्यादेरयमर्थः । यदि सर्वथाऽप्ययं परमाणुर्विश्ान्तो विश्रामस्थानं तस्मादणारभिन्नस्याभावादित्युच्यते तथाऽपि कश्चिदन- न्तशिवानस्तीत्येव स च गम्यते न तु सर्वस्मादणुरित्यवसायितुमशक्यः । स्वांशेभ्यो महत्त्वाद्विरोधादेव केवलमनुभवविरोधादेवेत्यर्थः । तदेवोपपादयति ॥ केवलमिति । ततेोऽपरत्रापि देशोऽस्ति ततः परश्चादपि कालोऽस्ति ततः पश्चादपि नान्तवान् । तथाऽणोईयोर्महत्त्वाणुत्वयोमानतोऽपर्यवासितिः साक्षिणा दृश्यते । अणोश्वाणुनास्ति तस्माच्चाणुर्महानस्ति । तस्माच्च तस्माचेति यदि महत्त्वं साक्षिगम्यत इत्युच्यते तर्हि प्रमाणेन गम्यत इति वाच्यम् । अनुमानतोऽणुत्वतारतम्यविश्रान्तिकल्पनायां दृष्टान्तवेनाभ्युपगतं हि । तथदि तन्महत्त्वमागमादवगम्यत इत्युच्यते तर्खनन्तत्वेनैवावगम्यते G अटि० ॥२५॥ न०० द्वि-द्वि अ०६ तद्दष्टान्तेनाणुत्वमपि कुतोऽनन्तत्वमेव नावसीयते । तदुभयानन्त्यमेव विशेषतः प्रतिपादयति ॥ महत्त्वेति । महत्त्वाणुल्वयोरनन्तत्वमात्रेण समम् । तथाऽपि परस्परमन्यदेव विलक्षणमेव महत्त्वादुदिक्ततया घनन्तत्वाणुत्व उनत एति । तत्रोदाहरणमाह ॥ वहुत्वेति । एकं द्वै त्रीणीति बहुत्वे वर्तमानानामेकमागानामेवानन्त्यम् । एकत्र ततो द्वितीयांशस्ततश्च ततश्चेत्यल्पत्वे वर्तमानानां च तावत्त्वं ह्येव गम्यते । सङ्ख्यायामनन्तत्वमेव हि गण्यते । न वितः परं नास्तीति परिच्छिन्नत्वम् । अणोरणीयान्महतो महीयानात्मेत्यागमोदिते भगवान् स य एषोऽनन्त इत्यादिरानन्त्यवाचकः शब्द ईशस्य स्वरूपतो गुणतोऽणौर्शनादिगुणत: कालतश्चारूपत्वमस्तु । तथा च तस्याज्ञत्वविनाशित्वादिप्रसङ्ग इत्यत आह ॥ नैवेति । तावत्वमैवैत्या- देरयमर्थः । अल्पगुणत्वमात्रमल्पकालचर्तिवं नास्माकं मतम् । महतोऽपि विशेषादणुत्वं घटत इत्यत्र अर्भकौकस्त्वात्तयपदेशच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्चेति सूत्र प्रमाणीकरोति ॥ महत इति। कथमल्पदेशस्थत्वसर्वदेशस्थत्वे युगपदकस्यैव भगवतः सर्वदेशस्थश्चेदल्पदेशस्थत्वं नैव स्यात्तस्येति शङ्का परिहरति । यदीति । बहूनामल्पदेशानां समुदायः स हि सर्वदेशो नामेत्याकूतम् । प्रकृतार्थ निगमयति ॥ अत इति । तस्येवं मुख्य महद्भवेत् । अन्यथाऽशुत्वानन्ताख्यमहिम्नोऽभावादमुख्यमहदेव । अणुत्वाविश्रान्तिसाधकस्य साक्षिणः प्रामाण्यं साधयति ॥ यदीत । स्वयंभातः स्वयंप्रकाशः स्वप्रामाण्यं च स्वयमेव गृह्णातीत्यर्थः । अथवा साक्षिणोऽनङ्गीकारपक्षादेः प्रामाण्यग्रहणार्थं प्रमाणान्तरं तस्यापि तस्यापीत्यनवस्था । यतः परमाणोर्नास्ति परमाणुः स परमाणुरिति परमाणुलक्षणं वदता तेन तत्परमाणूनां निरवयवत्वमभिप्रेतम् । तन्निराकरोति । अतः सर्वेति । तर्हि सृष्टिकारणस्य कस्यचित्परमाणोः किं लक्षणमित्यत आह ।। अविभाग इति । यतः पर विभागो नास्ति स परमाणुरित्यर्थः । कारणस्य परमाणुचणुकादेर्महत्त्वादिगुणा एव त्र्यणुकादिकार्यगा भवेयुः । कणादस्य केवलमन्यथाकल्पना कर्ष साक्षिमितस्याशुत्वाविश्रान्त्यादेोरणे शक्नुयात् । ननु न वयं साक्ष्याख्यं प्रनाणमङ्ग कुर्महे यदणुत्वाविश्नान्तावुपन्यस्तौ । नास्माकं देशादिक- RSERIES ॥२५॥ ICC मपि साक्षिसिद्धमित्यत आह ॥ यदीति । यदि देशादिकं साक्षिमितमिति न तर्हि केन मीयत इति शेषः । अनुमेत्यत आह ॥ नेति । पक्षज्ञानासम्भवात्पक्षीकर्तुमशक्यत्वं केनचित्प्रमाणेन पक्षो ज्ञायते चेदनुमाप्रयोगवैय्ययं स्यात् । देशादिस्वरूपमत्रमनुमातुं यः पक्षमेव न जानाति स कथमनुमिमीत इत्यर्थः । आस्मिन्नथे दृष्टान्तरूपेणार्थान्तरोपन्यासं करोति ॥ यत्रेति । ननु पारदृष्टो देशी देशान्तरवान् देशस्त्राद्धस्तादिपरिच्छिनदेशवत् परिदृष्टः कालः कालान्तरवान्कालत्वादतीतक्षणवदित्यनुमानसिद्धं देशादिकमित्यत आह ॥देशेति। परिदृष्टशृङ्गाणि श्रृङ्गान्तरसमानकानि श्रृङ्गत्वाद्गोवदिति । तेन न्यायेन शृङ्गत्वाद्गोवदिति । तेन न्यायेन शृङ्गादेरपि सिद्धिः स्यादिति भावः । इयमक्षरयोजना । देशान्तरादिशब्दास्तु शशशृङ्गादिवाचिच- झान्तरशब्दवदेव । अत्रेदमाकूतम् । न तावमिग्राहकप्रमाणेनैव साध्यसिद्धे सत्यनुमानावकाशः । तथाऽप्यनुमीयते चेत्तदतिप्रसङ्गव्याहतमिति विमतो देशादिः सजातायवानिति च न बाच्यमित्याह ॥ सदृशमिति । सजातीयं नाम सदृशमेवेष्टव्यम् । नद्विवक्षितस्यानुगतधर्मस्य निराकरिष्य- माणत्वात् । अस्मत्पक्षे किमेव हि केन सदृशं न स्यात् । सर्वस्यापि वाच्यत्वादिसाढस्योपलभ्यत्वात् । तस्मात्तेन न्यायेनापि शशशृङ्गाधनुमितिः स्यात् । अत्यसिद्धमतीन्द्रियं वस्तु तर्हि कीदृशमनुमानं प्रमाणमित्यत आह ।। प्रत्यक्षमिति । उक्तार्थमेव प्रपञ्चयति ॥ सैवति । शिष्योपाध्ययो- खि सहदर्शनमात्रेण मूलप्रमाणनिश्चयं विना व्याति वसीयत । यदैव यद्येबाव्यतिरेकस्याविनाभावाख्याक्षजादिग्राहको भवेत्तर्हि सैव व्याप्तिर्यथा । समवायाभ्युपगमाच्च साम्यादनवस्थितेरिति योजयस्तकल्पनान्तरमनूध दूषयति ॥ कायेति । गुणगुणिक्रियातद्वज्जातिव्यक्ति- विशेषविशेष्यावयवावयाविपश्चकस्य च तस्य समवायसम्बन्धस्य ताभ्यां सम्बन्धिभ्यां सम्बन्धोऽप्यपेक्षितो भवेत् । तस्यापि तस्यापीत्यनवस्था । ननु तयोः सम्बन्धरूपसमवायाख्यसम्बन्धिनोऽपि स्वयमेव सम्बन्ध इति सर्वनिर्वाहकत्वादित्यत आह ॥स इति । द्रव्यमेव स्वगुणक्रियादिरूपेण तथा स्वनिर्वाहकं न स्यात् । किमनेन समवायेन । पुनश्च विशेष साधयति ॥ विशेष इति । यद्यभिन्न एव समवायो RRC C ४/न०० सटि० द्वि द्वि० अ०६ ॥२७॥ ॥ समुदायस्त्विति । समुदायत्वधर्मस्तु नियमेन भिन्नः । यथैकातिरिक्तसङ्ख्याधर्मः । एतादृशत्वं नरवगौत्वादिकं सादृश्यमेव समनरत्वादिधर्मः। उक्तार्थ श्रुतिरप्याह । कालान्तरेऽप्यनिवृत्तत्वेन निवृत्तिरहितत्वेन विनाशी येषामिति निवृत्तविनाशाः । अतो घटपटादीनामात्मनश्च प्रत्यक्षत्वप्रमाणेनैव मिन्नत्वनिश्चयात् । नन्वनन्तासु व्यक्तिप्वकमनुवृत्तधर्म विना शब्दसम्बन्धज्ञानानुत्पत्तिरेकत्र दृष्टं हि गोत्वं सर्वत्रापि व्युत्पत्तिं प्रायतीलात आह ॥ व्युत्पत्तिरिति । गौरानीयतामिति प्रयुक्तो गोशब्दः सर्वेषु सास्नादिमत्त्वेन सदृशेषु प्रवर्तते । तर्हि कथं विवक्षितावगतिरित्यत आह तथाऽपीति । प्राप्तितः प्रकरणालिङ्गायुपपत्तितः । निगमयति ॥ शक्तिरिति । अयं सानादिमान् अन्यस्तादृशश्च गोशब्द इति सादृश्यं ज्ञापयति । शब्दस्य वाचकत्वशक्तिः सादृश्यानुगैति यतो यस्मादेव । जातित इत्यादेरयमर्थः । जातित इत्येवं व्युत्पत्तिः सम्भवति चेत्कथं तासु गोत्वनरत्वादिजातिषु तत्तच्छन्दव्युत्पतिः । तत्रापि जातित्वजातिरस्तीति चेत्तत्रापि व्युत्पत्त्यर्थ जात्यन्तरकल्पना तत्रापीत्यनवस्थिति: व्यक्तिषु संज्ञासम्बन्धविज्ञानमपि व्यक्तिवैजायभावेनैव दूषितम् । यदि व्यक्तित्त्रं नाम सामान्यमस्ति तर्हि तस्याश्रयेषु विशेषव्युत्पत्यर्थ विशेषान्तरकल्पना तत्रापि तत्रापीत्यनवस्था । अपि च । सर्वसामान्यधर्मेभ्यो व्यावृत्तं वस्तुस्वरूपं हि विशेषो नाम । तस्माद्विशेषत्वमनुगतमित्युक्ते | स्वरूपत्वमनुगतमित्युक्तं स्यात् । स्वरूपत्वमनुगतं वैद्यावृत्तान्तरं विना कथं ज्ञायते व्यावृत्तान्तरकल्पनायां स्वरूपस्यानुगतत्वकल्पनयाऽस्य स्वव्याह- तिः। तदाह ॥ कथमिति। एकस्य जातिशब्दस्यैकस्य व्यक्तिशब्दस्य च सादृश्यद्वारेण व्युत्पत्तिपर्यन्तमुभयथाऽप्यनवस्थादिदूषितमेतन्मतम् आदिशब्दात्कल्पनागौरवम् । विशेषमनङ्गीकुर्वतां पक्ष औपाधिकमपि न घटत इत्याह ॥ औपाधिकेति । पाचकत्वादिकमौपा- विकमिति च्यते । समवायिभेदश्च तदौपाधिकम् । किं तच्चैत्रादिवदाहोस्थित्ततोऽन्यत् । अग्निमन्नामविशिष्टं कि पर्वताख्यं वस्तु ततोऽन्यद्वा । आदिशब्दाबेदादि । तदेव चेकिमिति तत्र पर्वतेऽग्निमत्त्वं भण्यते । पर्वतोऽग्निमानित्युक्तेरपि पर्वतः पर्वत इतिवदभिन्नार्थकत्वात् । HAR ॥२७॥ SANS न हि विशेषस्तैरङ्गी क्रियते । अथ विशिष्ट पर्वतादन्यत्किञ्चिदग्निसंयोगमात्रमिति चेत्तत्पर्वतोऽग्निमानित्यनुमानं सिद्धसाधनं भवेत् । अग्मिसंयोगमात्रस्य महानसादौ सिद्धत्वात । यदि भूधरस्येति षष्टयर्थस्तथाऽपि सिद्धसाधनं स्यात् । अस्य च समबायस्य महानसाग्निसंयोगसमवायनैकत्वात् न तु महानसाग्निसंयोगोपाधिभिन्नः । तत्समवायः पर्वताग्निसंयोगसमकायस्तदुपाधिभिन्नः । एवं तदुपाधिभिन्नो ह्ययं समवाय इत्यत आह ॥ यदीति । नन्वमुख्यो ह्यौपाधिकोभेदस्तस्मात्तेनैकत्वमङ्गः स्यादिस्यत आह ॥ नेति। मायाव.धन्यथा भवेत् । सत्त्वासत्त्वविलक्षणाङ्गीकारे मायावादी भवेदयम् । भूयात्वल्वेष दोषस्तस्य प्रच्छन्नबौद्धत्वात् । पर्वताग्निसंयोगाद्युपधौनामनन्तत्वात्समवाया अनन्ताः । इतस्ततस्तु तत्तत्पदार्थेषु कार्यकारणगुणगुण्यादौ । एवं च स्वाभाविकमैदात्को विशेष औपाधिके लक्ष्यते । तस्मादृथयमुपाधिकल्पना । औपाधिकविकल्पेऽप्ययमेव न्यायः। तत्रापि चैत्रस्य पाचकत्वमित्यादौ षष्ठयर्थत्वेन समवायस्यैव तेनाभ्युपगतत्वात्तत्पक्षे पदार्थानामुत्पत्तिरेव न घटत इत्याह ॥ एवमिति । एवमौपाधिकभेदवान् असतः सत्तासमवायो हि जनिः । तत्पक्षे तत्रापि स भेदो विद्यमानश्चेदपसिद्धान्तः । नौ चेरटोत्पत्तावेव सर्वोत्पत्तिः । असतो घटसत्तासमवायेन सर्वसमावयस्यैकत्वात् । ननु युष्मत्पक्षेऽपि न हि पर्वतादिमात्रं विशिष्टादिकम् । तस्मात्कथमुक्तदोषो न स्यादित्यत आह ॥ अस्मदिति । विशिष्टादीनां विशेष्यादिभिरैक्याङ्गीकारेऽपि दोषो नास्ति । क्वचिद्देशे काले च भावरूपः स घट एव । देशान्तरे च कालान्तरे च भावरूपविशेषबलादि भावाभावयोरुभयोरपि प्रसिद्धियोतको । अन्यथाऽयं घटः पूर्वमसन्न घटे बहिरसन्निति सामानाधिकरण्यानुपपत्तिः। अत्र संत एव घटस्य देशान्तरकालान्तरयोरसत्त्वानङ्गीकारे तस्य व्याप्तत्वं नित्यत्वं च स्यात् । एकस्यैव भावाभावरूपत्वं धर्मद्वारेणापि प्रतिपादयति ॥ अभावस्येति । तस्मात्प्रध्वस्तादभावस्य च भावधर्मसम्भवात्प्रध्वस्तघटस्य विधमानत्वा दो वाच्यतादि च सदस्ति शशविषाणस्याभावोऽस्ति च घटस्य प्रध्वस्ताभावो देहस्याभावो देहस्य भावो घटाभावः कपालाभाव इत्यादि विशेषायुज्यते । गतमेव गतं निरस्तमित्यर्थः । न च शङ्कनीयं

न००
द्विद्विक
ते
भेदस्य त्रैविध्यं विशेषभावस्याभावरूपत्वं केवलानुमानस्यासाधकत्वमित्यादिकमपि पुनरुच्यत इति । तत्र तत्र प्रसङ्गप्राप्तत्वात्तत्पर्याच्च मुहुर्वचनसाफ-
अ०टि०/8ल्यात् । भेदस्येल्मादेरयमर्थः । भेदस्य घटस्वरूपत्वे घटस्य रूपोत्पत्तावेव विदारणं स्यात् । तत्कपालानां पासूनां च भेदस्य स्वरूपत्वे विदारणं
स्यात् । मिदिविदारण इति धातुः । एवं सर्वविदारणेन सर्वविनाशाये घटस्य शून्यता वदन्ति ते भूतरूपाः । भेदशब्दस्य विदारणार्थाभ्युपगमेऽ-
||२८॥
प्यन्ततः शून्यता न स्यादित्यत आह ॥ विभागेनेति । तत्र युक्तिमाह ॥ नेति । यसंयोगोत्पत्तिस्तद्वियोगेन हि नाश इत्याकूतम् । तदाऽयं धातुर्वि-
दारणार्थोऽभ्युपगम्यते तदा द्रव्यावयवाना मिथो विभागगुणवाचको भवति हि । अत्र तश्चतिरिक्तमन्यत्वमेव विवक्षितम् । मिदान्यत्वमिति च पठन्ति । तदाह
॥विदारणेति। अभ्युपेक्षितोऽस्मिन्वादे सूत्रकृतेति शेषः । ईश्वरस्यानन्दादिगुणानिरस्य परेणाभ्युपगतमष्टगुणत्वमात्र दूषयति ॥ न चेति। आनन्द-
स्यन्दिन आनन्दपूर्णा इति भावः । अप्रमितत्वतोऽपरिच्छिन्नत्वतः । मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे । यदासीत्तत एवायः स्वयम्भूः समभूदज इति
तद्वाक्यं भगवद्वाक्यं भागवते । एकैकगुणतोऽप्यनन्ते ज्ञानानन्दादयो गुणाः प्रत्येकमप्यनन्ता इत्यर्थः । यदासीदब्जम् । आदिशब्दादनन्तबाहुरनन्त-
गुणोऽनन्तरूप इत्यादिका । एकैक्गुणतोऽप्यनन्ते ज्ञानानन्दादयो गुणाः प्रत्येकमप्यनन्ता इत्यर्थः । एवैकगुणानन्य साधयति ॥ यदीति ।
आदिशब्दादिच्छादिघटाविषयत्वपटाविषयत्वादिति शेषः । तज्ज्ञानादेर्न स्वतः किन्तु घटाधुपाधिक एवेत्यत आह ॥ औपाधिकेति । ज्ञानस्य
स्वप्रकाशविशेषानङ्गीकारे दूषणमाह ॥ स्वेति । यैनिस्य निवारितं तेषां पक्ष इति शेषः । स्वज्ञानाधिगमं विना कथं सर्वज्ञता तस्येश्वरस्य स्वज्ञ.-
नस्यापि सर्वान्तःपातित्वात्। एष एवेत्यादेरा उच्यन्ते । यो अयमनयोनियोविषयविषयिभाव उक्तः स एष एवार्थः । तज्ज्ञानावसितो यदि विश्व-
ज्ञानावसितो यदि । तर्हि विश्वज्ञानस्य स्वयंप्रकाशत्वं स्यादेव । तद्विश्वज्ञानमेकस्य विषयविषयिभावसम्बन्धस्य विशेषणं हि सम्बन्धित्वेन किञ्चिदज्ञा-
नावसितो यदि । अथवा परमेश्वर एष पदार्थो विश्वज्ञानावसितो यदि । तद्विश्वज्ञानमेतद्विश्वज्ञानमेतस्य परमेश्वरस्य विशेषणं हि । अहं विश्वज्ञानवान-
॥२८॥

AR स्मीति हि तत्परमेश्वरं ज्ञापयति । तथा चाप्रकाशत्वं स्यात् । अपि च परमेश्वरो ज्ञानाज्ञानावसितो यदि ज्ञानाज्ञानमेतद्विशेषणं हि । अहं ज्ञानाज्ञा- नवानस्मीति हि तं ज्ञापयति । अपि च । एष ज्ञानाज्ञानाख्य एवार्थो विश्वज्ञानावसितो यदि । ज्ञानाज्ञानं ह्येतस्य विश्वज्ञानस्य विशेषणं ज्ञापकत्वेनेदं विश्वज्ञानाज्ञानमिति हि विश्वज्ञानं तज्ज्ञापयति । तथा चाज्ञाननिवृत्तिः । एषोऽयों ज्ञानान्तरेणावसितश्चेत्तज्ज्ञानमपि तथेत्यनवस्थितिः । नन्वीश्वरस्य सुखवत्त्वे दुःखवत्त्वप्रसङ्गः । तथा हि । विमतो दुःखवान्सुखवत्त्वात् । यः सुखवान्स दुःखवान्यथा चैत्र इति । इयं व्याप्तिनों भवेत् । श्रुतिविरुद्धत्वा- दिति भावेनाह ॥ सुखवानिति । योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति । य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोक इति निर्दुःख- त्वम् । आनन्दं ब्रह्मणो विद्वान्न बिभेतीति महानन्दश्वेशस्यैव भण्यते हि । एवं परहेतोः कालत्ययापदिष्टत्वमुद्भाव्याप्रयोजकत्वदूषणं चाह ॥ ईश्वर- स्येति । न हि चैत्रदुःखित्वे सुखित्वं प्रयोजकम् । कित्त्वीश्वरस्य दुःखितयेष्टवं तत्र प्रयोजकम् । सुखित्वसाधनं दुःखित्वसाध्यमुपाधत्ते विमजतीति दुःखित्वोपाधिः । नन्वाश्चरस्य दुःखितयेष्टत्वमीश्वरे स्वस्मिन्नपि स्पाचाम । एवं च साधनाव्यापकत्वाभावादुपाधित्वं न स्यादित्यत आह ॥ न चेति । न हि कस्यचिदात्मदुःखितेच्छा स्यात् । चैत्रसुखित्वदुःखित्वयोः सहदर्शनमात्रेणानन्दं ब्रह्मेत्यादिश्रुतीनामपलापतो यज्ञादिः पापहेतुहिंसायुत- त्वाद्ब्रह्मकुलोत्सादनवदिति नानुमाति किम् । यदि तत्र ब्राह्मणो न हन्तव्य इत्यादिश्रुतिनिषिद्धतोपाधिः । तर्हि श्रुतेः प्रयोजकत्वाङ्गीकारात्पर- साधनस्यासिद्धत्वेन श्रुत्यनुक्तत्वं कथं नोपाधितां व्रजेत् । यदि श्रुत्युक्तिनिर्णयकारणं तर्हि श्रुत्या दुःखित्वेनोक्तमप्युपाधिः स्यादि । तस्मा- छौतेऽथे किमनुमाननाजागलस्तनवद्यर्थेनेत्याह ॥ किमिति । न बुद्धो धर्मदर्शी स्यात्पुंस्त्वादिल्यादिपूर्वोक्तेन प्रकारेण । एवमीशस्यानुमया सिद्धयसम्भवादनानन्दानुमायाश्च श्रुतिर्धर्मिप्रमा भवेत् । नित्यमेव भावादिति योजयंस्तत्पक्षे विशेषानङ्गीकारादतिप्रसङ्गमुद्भावयति ॥ नित्यति । तत्पक्षे कालोऽप्यौपाधिकभेद उक्तरीमा निरस्तः । विशेषकाले भिन्नकाले । सर्वे निमेषा जज्ञिरे । विद्युतः पुरुषादधि ।

॥२९॥
कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वशः । अर्धमासां मासा ऋतवः संवत्सरश्चेति श्रुतिः । सौन्तः शरीरेअर्पितभूतसूक्ष्मः कालात्मिको
शक्तिमुदीरयाणः । उवास तस्मिन्सलिल इति भागवते । कालस्योत्पत्त्यङ्गीकारे तदर्थ कालान्तरकल्पना । तदर्थ च तथेत्यनवस्थया विरोध धान००
इत्यतो ब्रूते ॥ कालस्येति । अस्मत्पक्ष इच्छायाः सृष्टिविषयत्वे तस्याः सृष्टिविषयत्वायसङ्ख्यातविशेषत्वान्न कश्चन विरोध इत्याह
असङ्ख्यातेति । कालस्य स्वाख्यकालगत्वं श्रुत्या युक्त्या चौपपादयति ॥ ईश इति । ईशः सर्वत्र पुरुषः स्वतन्त्रः कालनित्यतेति च
अ०७
श्रुतिः । न च तावता साम्यमिति भावेनाह ॥ ईशाधीनाविति । तद्गतौ तत्रैव गतौ न तु लदतिरेकेण व्याप्तौ । स्वोद्दिष्टे स्वयमिन्युद्दिष्टे न
त्वन्यस्मिन् । अतः कालस्यैशाधीनत्वात्कदा कस्योत्पत्तिरिति पृष्टै दशममास इत्युक्ते स कालः कस्मिन्काल इति च पृष्टे स कालस्तदैवेति लोकव्यव-
हारः कालस्य स्वगतत्वतो हि यस्मात् । एवं चेत्सर्वमपि तत्तत्स्वभावः स्यान्न विष्णोरित्यत आह ॥ स्वाभावादिति। न हरिं विना
ज्ञानस्वभावतोऽपि स्यादित्यादावुदितः । पुरा सृष्टिस्थितिक्षययातिप्रकाशावृतिबन्धनम् । सर्वक्षराणामेवैकः कुर्यात्सात्विकमोक्षणम् । सर्गस्थितियतिज्यो-
तिनत्यानन्दप्रदोऽक्षरे । चेष्टाप्रदश्च सर्वसामक एच परी हरिरिति परमश्रुतिरिति । ततः सर्वस्वभावस्य तद्वशत्वात्। रूपादिमत्वाच्च विपर्ययो
दर्शनादिति सूत्रं विवृणोति ॥ रूपेति । अतोऽष्टगुणेशधादिमतस्यानुपादेयत्वादानन्दायनन्तगुणमयदेहात्मकेश्वरप्रतिपादकोऽयं समन्वयो न विरुद्ध इति
सिद्धम् ॥ ६॥ चतुर्विधेषु बौद्धेषु वैभाषिकाश्च सौत्रान्तिकाश्च बाह्यार्थवादिनो जगदेवमाहुः । स्ववीर्यमत्रेणैव क्षणाविनाशिपरमाणूनां समुदायविशेषरूपं
चात्मानं च ज्ञानमात्ररूपं क्षणिकमाहुः । एतेषां परमाण्वादीनां जगत्पश्चस्कन्धात्सना स्थितं चाहुः । स्थिति: पञ्चस्कन्धानामिति शेषः । समुदाय
उभयहेतुकेपि तदप्राप्तिरिति योजयरतन्मतं निराकरोति ॥ समुदाय इति । उभयोः सकाशान युज्यते । उभयशब्दैनानकमत्र
विवक्षितं न द्वित्वमात्रम् । इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमानिमित्तत्वादिति सूत्र व्याख्याति ॥ अन्योन्येति । तच्च
॥२९॥

CRECENT समुदायत्ववेदनम् । सृष्टिकाले परमाणूनां सामीप्यहेतुकं प्रलयकाले तेषां दूरस्थत्वात्तन्नास्ति । तस्म, सद,तनानां परमाणूनां संयोगाज्जगदुत्पधत इति चेत्परमाणुपुञ्जाख्यं कारणं. प्रलये दूरस्थं पश्चादपि दूरस्थं कार्यमेवापादयेन्न तु समीपस्थं किमुतैव संयुक्तम् । अतोऽयं च दोष सम्प्राप्त इत्याह अत इति । अतः स्वोत्पत्तिमात्रस्यैव स्वनाशनिमित्तत्वात्प्रलय आत्मनः संयोगिरूपराहित्यात्सृष्टिकालेऽप्यथैरिन्द्रियसंयोगिरूपस्य कारणता नैव स्यात् । तज्ज्ञानताऽपि नैव हि । तेष्वर्थेषु ज्ञानमस्येति तज्ज्ञानः । अतो विशेषकार्यजनकत्वाङ्गीकारावटादिकं पटादिकस्य कारणं स्यात् । मूलसृष्टावात्मनश्च संयुक्तपरमःणूनां कारणं स्युः । नन्वात्मनामदृष्टं सृष्टिनिमित्तत्वतः परम,यादीनां संयोगादिविशेषनिमित्तमित्यत आह ॥ अष्टमपोति । तथा सत्येवमापयत इत्याह ॥ कार्य चेति । नियामकाभावत्कस्यचित्स्वतन्त्रस्य नियामकाभावात् । फलादीनां विशेषसम्प्रतिपत्त्या क्षणिकत्वं प्रतिपाथ तदृष्टान्तेनानुमीयते । यत्सत्तत्क्षणिकं यथा फलादि । सच्च विवादास्पदीभूतमिति । एवं प्रत्यक्षसिद्धस्य स्थिरत्वस्यापलपे सति विशेषः कथं सिध्यति । तत्र चायं प्रयोगः । यत्सत्तदविशेष यथाऽऽकाशादि । सच । विवादास्पदीभूतमिति । नन्वयं दृष्टान्तः साधनविकलः । आकाशस्य मूर्तद्रव्याभावरूपत्वादित्यत आह ॥ यदीति । अस्मिन्नाकाशेऽवलोको नास्तीत्यधर्मप्रतियोगिकत्वम् । आका- शस्तु नरादिवद्विधिमुखेनैव ह्यवगम्यते । उन्मत्तस्तु क्वचिदेव दृष्टं त्यजत्यदृष्टं स्वीकरोति च न तु सर्वत्र । तस्मादमुष्मात्स गुणवान् । उत्तरोत्पादे च पूर्वनिरोधात् । असति प्रतिज्ञोपरोधो योगपद्यमन्यथेति सूत्रयोः पूर्वमप्यभिप्रायः सूचित इदमस्यैवैश्यादिना न हि पदार्थानां योगपधे कार्यकारणव्यवस्थेदमिति च सा निराकृता । इदानी विस्तरत आह || उत्तरेति । सादृश्यनिवन्धना भ्रान्तिः प्रत्यभिज्ञा सादृश्यं च प्रत्येक संस्काराज्ज्ञायत इति च न युक्तम् । संस्कारस्यैवाभावादित्याकूतम् । अतः क्षणविनाशित्वादात्मनां सादृश्यासम्भवाच पूर्व' तन्मया ज्ञातमिति ज्ञानं न सम्भवतीत्याशङ्क्य पक्षेऽनुमा कुत एव व्याप्तिस्मरणासम्भवात्संस्कारार्पकत्वात्सम्भवं प्रपञ्चयति ॥ कार्येति । सम्बन्धा एवं तु कौतुकादयोऽन्यत्र पटादिषु संस्कारमादधते । असंस्कारतः संस्काराभावात् । तनिबन्धसादृश्याभावात्तनिबन्धनभ्रान्त्यभावात् । प्रत्यभिज्ञाया अ०टिका निरवकाशत्वेन बलवत्त्वात्क्षणमात्रमवस्थानं न चैककालीनत्वमस्विति वाच्यम् । क्षणिकत्वभङ्गप्रसङ्गादिति भावन तल्लक्षणमाह ॥ पूर्वेति । न०च० एवंविधलक्षणे कयमुत्पाधसम्बन्धस्य विनाश इत्याशयः । क्षणस्यैवमिष्टत्वादेवायं च दोषः स्यादित्याह ॥ पूर्वेति । सति पूर्वस्मिन्विद्यमाने कार्य में द्वि द्वि० भवेच्चेत्तत्कार्यमपि तथा तत्कार्यमपि तथैवेति योगपद्यं भवेत् । तथा च सव्येतरगोविषाणवत्कार्यकारणत्वाभावः । एकस्मात्कार्योत्पत्तौ च का प्रमा। अ०८ परानुमानस्य दृष्टान्तः साध्यविकल इत्याह ॥ अभेदेऽपीति । दीपादिव दीर्घहस्वत्वादिविशेषदर्शनं तु भेदं विनाऽपि विशेषमात्रेणेव युक्तमित्यनु- भवसिद्धं च । दृष्टान्तोऽसम्मत इत्यत आह ॥ सच्चेदिति । न हि खादीनां रूपादिभ्यः कश्चिद्विशेषो विधिप्रत्ययवेधत्वमात्र इति भावः । यत्सौत्रान्तिकेनान्यदप्यभ्युपगतं नीलादिरूपेण दृश्यमानं तज्ज्ञानमेवानेनानुमितमन्यजगदिति । तनिरस्यति ॥ विश्वामिति । किं न दूपणमिति शेषः । निगमयति ।। अत इति ॥ ७ ॥ वस्तुतोऽनन्तस्त्रतञ्चतिरिक्तवस्वभावे । नासतो इष्टत्वादिति विवृण्वनेति निराकरोति ॥ नेति । उदासीनानामपि चैवं सिद्धिरिति सूत्र व्याख्याति ॥ यदीति। इतश्च तन्मतं न युज्यत इत्याह ॥ देशेति । प्रलय- कालेऽपि सृष्टिः स्यात् । आदिशब्दात्साधनानियमोऽपि न स्यात् । तथा च मुद्दण्डचक्रादिभिः पटादिसृष्टिः स्यात् । शून्यस्य करणस्य सर्वत्रापि निर्विशेष- त्वात् । जगदुद्भवः पुरुषेच्छानुसारी वस्तुत्वात्सम्मतवदित्याह ॥ पुरुषेति । पुरुषाद्भवः पुरुषेच्छानुसारेण भवः । ननु वस्तुत्वहेतुरसिद्धः । उद्भवधर्मस्य धर्मिवस्तुनो भेदस्यैवाङ्गीकृतत्वादस्माभिरिति नैष दोषः । वस्तुशब्देन पदार्थमात्रस्यैव विवक्षितत्वात् । उद्भवधर्मस्यापि वस्तुत्वाविरोधात् । ननु न यसतः सदुःपत्तिरस्माभिर्विवक्षिता । विश्वस्याप्यभावरूपत्वादिस्याशङ्का परिहरन् नाभाव उपलब्धेरिति सूत्र व्याख्यति ॥ सर्वस्यापीति। विश्वं सदित्युपलभ्यत इति यतोऽनुभूयमानमपि विश्वं न स्यादित्यनुभवविरोधेऽङ्गीक्रिीयमाणे सति वादिनो वचनं तदर्थश्चानुभूयमानत्वे सत्यपि कुतो ॥३०॥ S Anepa HAPA भवेत् । तदभावे विश्वमपि प्रतिपत्त्यैव सत्यं भवेत् । सत्यानुभवस्य गति प्रतिवादिनोप्रेक्ष्यमाणामनूध परिहरन् वैधाच्च न स्वभादिवदिति सूत्रं व्याख्याति ॥ स्वमेति ॥ किमिति । कस्माद्धेतोरित्यर्थः । निवर्तत एव ज्ञानादित्यत आह ॥ अनादोरिति । तस्या निवृत्ते_न्तिकल्पि- तत्वसम्भवात् । तत्पक्षेऽपि निर्विशेषित्वव्यतिरिक्तत्वात् । तस्याप्रामाण्यगत्या भ्रान्तिकाल्पितत्वसम्भवाच्च । तदेवोपपादयति ॥ दृष्टस्यति । प्रमाण- दृष्टस्य विश्वस्य भ्रान्तिकल्पितत्वं स्याच्चेत्प्रमाणदृष्टे तद्बाधे प्रत्ययः कुतो भ्रमो न स्यात् । तनिदर्शनदृष्टान्तेनावस्तुत्वेनार्थान्तरमुपन्यस्यति ॥ गवा- मिति । दृष्टशृङ्गाणां गवामशृङ्गिभावेन सहादृष्टशृङ्गाणां शशानां शृङ्गिता न स्यादित्यसतो जायमानस्य कथं देशकालादिनियम इत्यत आह ॥ अस्माकमिति । सविशेषेच्छस्येश्वरस्य प्रसादात् । न हि धर्मादिसिद्धिः स्यानित्यवाक्यं विनत्युक्तभगिनाऽस्माकं दृष्टत्वं सत्त्वे हेतुः किन्तु मिथ्यात्व एवेत्याशयवतोऽनुमानमनूछ परिहरति ॥ इयत्वादिति । इयं चानुमा मिथ्या न चेत्सत्यायां तस्यां दृश्यत्वहेतोवृत्तेर्व्यभिचारो भवेत् । मिथ्यात्वे सत्यपि साधकत्वं किं न स्यादित्यत आह ॥ साधकत्वमिति । ननु प्रत्यक्षस्य वर्तमानमात्रग्राहित्वाच्छाश्चतिकं बाधाभावलक्षणं विश्वस्य सत्यत्वं कथं ततः सिध्यतीत्यत आह ॥ अतीतेति । दृष्टस्य सत्त्वं साक्षिसिद्धं चेच्छुक्तिरजतादेः सत्त्वस्यापि तथात्वप्रसङ्ग इत्यत आह ॥ ढेति। यदबाध्यत्वेन दृढं दृष्टं तदेव हि दृष्टं नाम । शुक्तिरजतादिकं तु दृष्टवदवभासते परं न तु मुख्यदृष्टम् । इतश्च विश्वस्य शुक्तिरजतादिसाम्यं नास्ती- त्याह ॥ भ्रान्तरिति । सविशेष एव हि नः पक्षे विश्वस्य सत्यत्वरूपः । नन्वापाततोऽबाध्यत्वाच्छुक्तिरजतादेविश्वस्य विशेषस्तु तत्त्वविज्ञानाद्देश- कालान्तरादिभिः सह बाध्यत्वमेव ह्यस्मत्पक्षे तत्कथं सत्यत्वमित्यत आह ॥ विज्ञानाविति । व्यभिचारो बाधः । दृष्टा ह्यनुमा प्रमेत्यत आह ॥प्रमेति । विश्ववदेव विश्वबाधकप्रमायास्तत्साध्यस्य विश्वबाधस्य च बाधः स विरोधी नाम । तथा च विश्वसत्यत्वं निरपवादं सिध्यति । भेद इत्यादेरयमर्थः । यदि भेदो विशेष्यधादिग्रहणापेक्षया गृह्यते तहन्योन्याश्रयताहेतोाह्यः । तथा हि । धो भेदेन विशिष्ट इति विशेष्यविशेषण- २ 900 ज्ञानापेक्षया भेदज्ञानं विशेष्यविशेषणज्ञानं च भेदज्ञानापेक्षम् । घटात्पटो भिन्न इति धर्मिप्रतियोगिज्ञानापेक्षया भेदज्ञानं धर्मिप्रतियोगिज्ञानं च भेदापेक्ष- अ०टिन ६ मित्यन्योन्याश्रयत्वात् । गृहीतुमशक्य इति यदुच्यते न तयुक्तम् । वस्तुनो भेदः स्वरूपमिति । तस्माद्वस्तुनो ग्रहणसमये भेदस्याग्रहो न सम्भवति । अन्यथा न०० वस्तुना सहैव,ग्रहणे स्वरूपग्रहणानन्तरमपि घटस्य पटेन भेदोऽस्तीति वक्तुं न युज्यते । तत्र दूषणान्तरमप्याह ॥ अगृहीत इति । यदि वस्तुस्वरूप द्वि-द्वि० ग्रहणेऽपि स्वपरयोरगृहीतो भेदस्तह्यन्यस्माद्भिन्न इति च भेदग्रहः स्यात् । कदाधर्मित्वादीनां ग्रहणमित्यत आह ॥ धर्मित्वेति। प्रथमतो घटं दृष्ट्वा पश्चा अ०१० श्वात्पटाहटो भिन्न इति हि धर्मित्वादिग्रहणमित्यत आह ॥ स्वरूपेणेति । स्वरूपेण सह सामान्यतो गृहीतो मेद एव घटस्य पटाद्भेदः स्तम्भानेद इत्यादि- विशेषा गृह्यन्ते । अन्यत्वं हि भेदो नाम । एवं चान्योन्याश्रयतादोषेण भेददूषकेण स्वव्याघातात् जात्युत्तरकरौ स्वव्याहातप्रसङ्गो हि जाति म । वैधाच्चेति सैत्रेण चशब्देनास्य शून्यत्ववादिनी मायिनश्च ।। ८ ॥ विज्ञानविवर्तवादिनो मतमनुवदति ॥ ज्ञानमेवेति । सन्ततिभेदो ज्ञानसन्तत्याख्यानामात्मनां मिथो भेदः । स्वभेदसन्तानिनां ज्ञानानां स्वानां मिथो भेदोऽभेदश्च तेषामेव । स एवाहमिति गम्यमानी नानासंवृति- भूमिषु विविधा ज्ञानस्थानेष्यन्तःकरणेषु प्रतिभासन्ते । एतन्निरस्यति ॥ न भावोऽनुपलब्धेरिति व्याचक्षाणः क्षणिकत्वाच्चेति सूत्र विवृणोति ॥ क्षणिकत्वादिति ॥ ९॥ विश्वं सास्यादसत्स्यात्सदसत्स्यात्सदसद्विलक्षणं स्यात्सदसद्विलक्षणाविलक्षणं च स्यादुक्तं सर्वं च न स्यादुक्तं सर्वं च स्यात् । एतत्परिहरन् नैकास्मिन्न सम्भवादिति सूत्र व्याख्याति ॥ नेति । यदि विश्वसद्वाददोषनिवृत्यर्थमसदामना । एवमेव सदसदादिविलक्षणकल्पना सदसदादिदोषपरिहारार्थं समुच्चितकल्पना त्वसमुच्चितदोषपरिहारार्थमित्युच्यते । तर्हि तैः परिजिहोषितदपिरखि- लैरपि लिप्यतेऽयमित्युत्तरम् । तदाह ॥ तत्तदिति । चलदर्शनश्चञ्चलसिद्धान्तः । सदसत्तया नियमः प्रमाणसिद्धो हि । न चेदं सदसद्विलक्षण- मित्यादौ प्रमाणमस्ति । व्याहत स्वव्याहतम् । अमनहोऽप्रमाणग्रहः ॥ एवञ्चात्मा कास्न्यम् । न च पर्यायादप्यविरोधो ६॥३१॥ SECCESS ४ विकारादिभ्य इति व्याख्याति ॥ वक्तीति। तत्तस्मादन्यथाभावान्नानित्यता चेतनस्येति शेषः । विशेषलक्षणनिवृत्तावेव विनाशो न तु सङ्कोचविकासादन्यथाभावमात्रादिति दर्शयति ॥ ओलेति। नैवं तस्येतीममेवा) प्रपश्चयति ॥अन्यथाभाव इति। तस्य पक्षेऽन्यथाभावमात्रमेवानि- त्यत्वनिमित्तमीरितम् । तस्य रूपादिमात्रयुगेव तथा नाशेन व्याप्तं तया व्याप्त्या चान्यथाभावहेतोश्चात्मनोऽप्यनित्यता भवेत् । भाविसंस्थापगमाभावात्तेषां नित्यत्वप्रसङ्ग इत्य.कूतम् । चेतनस्य न ह्यचेतनस्य शब्दादिज्ञान स्यात् । तस्मान्दृक्षस्यात्मता न भवेत् ॥१०॥पत्युरसामञ्जस्यादिति सूत्र व्याख्याति ॥ तच्चति । यं कामये तं तमुग्रं कृणमि । अहं रुद्राय धनुरातनोमि । ब्रह्माद्विषे शरवे हन्त वा उ । अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रमुथे हविभिः । विदेहि रुद्रो रुद्रिय महित्वं यासिष्टं वर्तिरश्विना विरवदिति श्रुत्यों गुरुभिरुदितः । तत्त्वप्रदीपिकायां यं यमुग्रं कामये तं तमुग्रं कृणोमि । यं यं ब्रह्मणं कामये तं तं ब्रह्माणं करोमीति । इह च तात्पर्यमधिकमवगम्यते । अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेमि- रित्यादरणीयत्ववर्णनात् । रुद्राय हन्तवे धनुरातनोमि । रुद्रं हन्तुमित्यर्थः । शरवे हन्त वा उ इतिवत् । शरुः संहारशीलः । शृहिंसायामिति धातोः । विदे हि लेभे । विदलाभ इति धातोः । हविभिः प्रभरणे कर्मणा ध्यानेन । स्तुहि श्रुतं गर्तसदं युवानमिति मुळन्न भीममुपहन्तुमुप्रमिति श्रुतिप्रसिद्धम् । हृदयगुहागं सिंहमिव भयङ्करं संहारशीलं स्वभावतोऽपि क्रूरं नरसिंहं स्तुहि ! रुद्र सत्तव धनुरादि शिर उत्पिपेषेति रुद्रस्य तु गलावष्टब्धस्य रुद्रस्य धनुषः स्वधनुषः कोटिरेव स्वशिरश्चिच्छिदे । तस्येन्द्री वर्मरूपेण धनुामच्छिनत्स्वयमिति हि तत्रैवोक्तम् । कुमारश्चित्पितरं वन्दमानं प्रति ननाम । रुद्रोफ्यन्तं भूरेर्दातारं सत्पतिं गृणीषे इति स्वपितरं वन्दमानं त्वां कुमारः षण्मुखोऽपि प्रतिदिनं ननाम । त्वं तु प्रभूतस्या- भीष्टस्य दातारं विष्णुं स्तौषि कद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनामिति त्वया विष्णोः पदमुपमं ज्ञानसमीपे न्यधा- यीति यत् तेन वेदानां गुह्यं नारायणनाम सत्परम्परायामुपदेशेन पालयसि । मा शिश्नदेवता इत्यादेरर्थस्तु पद्मनाभतीर्थभट्टारकैरभिहितः सन्यायरत्ना- अटि. ॥३२॥ स वल्याम् । शिश्नदेवा लिङ्गदेवा भूतभविष्यवर्तमानरुन्द्रा अस्माकमृतं ब्रह्म मागुर्नावगच्छानित्यर्थः । स्कान्दे च । न त्वं वेत्सि सवेत्तन्द्रिो नाई वेनि नशङ्करः वित्ति पारं महत्त्वस्य हरेरद्भुतकर्मण इति । नरिम्भदेवा अभिवर्षसाऽभ्यभूदिति । शिश्नदेवान् रुद्रान् झन्मारयन् वर्षसा तेजसाऽभ्यभूत्परमेश इत्यर्थः । धान एको नारायण आसीन्न ब्रह्मा न च शङ्कर इति तु स्पष्टार्थम् । स रुष्टः प्रसन्नो यद्रुष्टः स प्रसन्नस्तस्माद्द्रः सम्प्रसादावभूतां न ह्या एतावभूतामिति द्वि०वि० विष्णोः कोपप्रसादजौ रुद्रचतुर्मुखावित्यर्थः । शान्तिपर्वणि च । नमोऽतिशयसै तस्मै देवानां परमात्मने । नारायणाय विश्वाय निर्गुणाय गुणात्मने । अ०११ यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः । एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ । तदादेशितपन्थानौ सृष्टिसंहारकारकाविति । देवा वै सत्रमासत ऋद्धिपरिमितं यशस्कामास्तेषां वैष्णवं मखं यश आर्छदिति तेषां देवानां मध्ये विष्णुभक्तमर्छन्दवाच्यं रुई यशः प्राप्नोत् । यज्ञेन यज्ञमयजन्त देवाः । यज्ञेन रुद्रेण यज्ञं विष्णुं । देवा यद्यझं तन्वाना अबधन्पुरुषं पशुम् । यो भूतानामधिपतिः रुद्रस्तन्त्रिचरो वृषेति । विष्ण्वा- ज्ञाख्यां तन्त्रि चरतीति तन्त्रिचरो वृषा समर्थः । वृषभरूपश्च स्तेतृत्वादिना स्वातन्त्र्यादीनि प्रतियन्त एक इत्यादिना प्रलये भवः प्रलयावस्थायां स्थूळदेहाभावः । सम्बन्धानुपपत्तेश्चोत सूत्रं व्याख्याति ॥ अशरीरत्वत इति । देहिनो हि कुलालादेरुपादानादिकारणादिज्ञान दृष्टम् । करणवच्चेन्न भोगादिभ्य इति सूत्रं व्याख्याति ॥ न चेति । आधिष्ठानानुपपत्तश्चति योजयति ॥ आधिष्ठान इति। पत्युहमावाभावयोर्दूषणान्तरेऽप्यभिधत्ते । अन्तवत्त्वमसर्वज्ञता वेति योजयन्केवलानुमानमूलकं पाशुपतागममेवं दूपायित्वा तत्रोक्तदोष स्वपक्षे परिहरति ॥ न चैतदिति । बुद्धिमनोऽङ्गप्रत्यङ्गवत्तां भगवतो लक्षयामहे । बुद्धिमान्मनोवानगवान्प्रत्यङ्गवानिति । यदात्मको भगवास्तदात्मिका व्यक्तिः । किमात्मको भगवान्ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मक इति । वासुदेवो वा इदमन आसीन ब्रह्मा न च शङ्करः । परो मात्रया तन्वा वावृधान न ते महित्वमन्वनुवन्तीत्यादौ रुद्रादीनां भगवन्महिमाप्राप्तिवचनाज्जगत्कर्तृत्वासम्भवः प्रतीयते । ज्ञानज्ञानो नाज्ञानमिश्रज्ञानः । ॥३२॥ CREG RACTICC A +-ack सुखसुखो न दुःखमिश्रसुख इतीति तत्त्वप्रदपिकायाम् । श्रवणोत्थं प्रियं दर्शनोत्थो मोदः । भौगोत्थः प्रमोदः स्वरूपभूत आनन्दः । तत्तत्प्रवर्तकतया च तत्तव्यपदेशः । शिरः प्रियस्थितं तस्य परेयं प्रियनामकम् । मोदप्रमोदयोर्बाहू मोदनाच्च प्रमोदनात् । मोदप्रमोदनामानावानन्दश्चाततत्वतः । मध्यमानन्दसंस्थं च ब्रह्म सृष्टयादि बृंहयत् । पृच्छं प्रधानवायौ च ब्रह्माख्ये संस्थितं सदा । अभेदोऽप्यविशेषोऽपि परमैश्चर्ययोगतः । देहदेहि- वदेवासौ पञ्च ।ऽवस्थितो हरिरिति यजुः संहितायामिति च । नित्यगुणात्मनो नित्यगुणस्वरूपान्न तु प्राकृतात् । नन्वेकस्य विष्णोर्दैहदेहिभावादिकं विरुद्धमित्यत आह ॥ मानवत्त्वादिति । ननु शिवस्यापि बहुरूपत्वेन विश्वलष्टत्वं श्रूयते श्वेताश्वतरश्रुतौ । विश्वस्य स्रष्टारमनेकरूपं विश्वस्यै परिवेष्टितारम् । ज्ञात्वा शिवं शान्तिमत्यन्तमेतीत्यत आह ॥ शिवादीति । नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति । यो देवानां नामधा एक एव तं सम्प्रश्नं भुवनायन्त्यन्ये । उक्तः समन्वयश्च सर्वश्रुतीनां विष्णुवाचकत्वे मानम् । अपरे हरावपरवाचिनः शिवादिशब्दा हरौ वर्तन्त इत्यर्थः । लैङ्गादिपुराणानि भागवतेतिहासपुराणादिभिर्विरुद्धत्वात्पाशुपतागमोक्तार्थे प्रमा न कथम् । समबलेषु पुराणेषु लैङ्गादीनां तत्र मानत्वमित्यत आह ॥ तद्विरुद्धेष्विति । लैजादीनि रुद्रोत्तमत्ववाचीन्यपि स्वेष्वेव विष्णोः क्वचित्सवोत्तमत्ववचनाच्च परस्परविरोधतो भागवताधुक्तार्थविरुद्धेष्वर्थेषु नो मानं स्युः । शैववैष्णवयोः समब्राह्माविरोधाच्च रुद्रोत्तमत्वस्य विवक्षितोऽ- थोऽवसीयते । वैष्णवादिषु भागवतादिषु देवतान्तरस्य सर्वोत्तमत्वानियमाच्च । त्वं च रुद्र महाबाहो मोहशास्त्राणि कारयेति वचनात्पाशुपतागमस्य मोहार्थमुक्तितश्च । एको विष्णुरेव सर्वगुणान्वितो नान्यः । न चैतावता लैङ्गादीनामप्रामाण्यप्रसङ्गः । तेषु पूर्वपक्षप्राचुर्ये सत्यपि विष्णूत्तमत्व एव तात्पर्यावगमात् । गणेशादीत्यादिशब्दाद्धिरण्यगभेश्वरमतम् ॥ ११ ॥ भैरवीत्यादिशब्दान्मायाकुण्डलिनी क्रियेत्यादीनि । उत्पत्त्यसम्भवादिति सूत्रं व्याख्याति ॥ तन्नेति । न च कर्तुः करणमिति सूत्रं व्याख्याति ॥ तच्चेति ।

न०चं अ०१२ विज्ञानादिभावे वा तदप्रतिषेध इति सूत्र व्याख्याति ॥ नेति । द्वयमीश्वर ईश्वरी चेति । तत्पक्षः शिवकर्तृत्वपक्षः । तन्मतं वाममतम् । अ.दि. 18 ज्ञानेष्येतेषु ज्ञापयन्तीति ज्ञानानि साङ्ख्यादिशास्त्राणि तेप्येतत्पञ्चरात्रं प्रमाणत्वेन विशिष्यते । एकान्तभावी नियतभक्तिः । कथितो हरिगीतासु समासविधिकल्पितः । एष धर्मो जगन्नाथात्साक्षान्नारायणानप । नारदैन तु सम्प्राप्तः सरहस्यः ससनह इति च मोक्षधर्मे । एष धर्मः पञ्चरात्रोदितः। ॥३३॥ पञ्चरात्रस्य कृत्स्नस्येत्युत्तरवाक्यात् । वेदार्थपूरकं ज्ञेयं पञ्चरात्रं यतोऽखिलम् । तत्सझेपश्च गीतेयं तस्मान्नास्याः समं क्वचिदिति ब्रह्मवैवर्ते । ऋषीनुवाच तम्सर्वान् अदृश्यः पुरुषोत्तमः । कृतं शतसहस्राणां श्लोकानां हि तमुत्तममिति शान्तिपर्वणि । श्लोकशब्दोक्तस्य पञ्चरात्रस्य । वेदा इत्यारभ्य इतिहासः पुराणं विद्योपनिषदः श्लोका इति श्रुतौ वचनं चास्ति पञ्चरात्रप्रामाण्यस्थापकम् । ननु वासुदेवात्सङ्कर्षणो नाम जीवो जायते । सङ्कर्षणात्प्रद्युम्नो नाम मनो जायत इति पञ्चरात्रे जीवस्योच्यमानाया उत्पत्तेरसम्भवात्पञ्चरात्रं दूष्यत इत्यत आह ॥ उत्पत्तिरिति। तत्र पञ्चरात्रेऽपि जीवस्य घटवद्भूत्वाभावी न कथ्यते । तद्वचः पञ्चरात्रवचः । वासुदेवादिस्यादैरभिप्रायमाह ॥ जीवेति । वासुदेवात्सङ्कर्षणः सङ्कर्षणात्प्रद्युम्नःप्रथुम्नाद- निरुद्धः सर्व एते ह भगवन्तो वासुदेवा इत्यादरभिप्रायमाह ॥ एवमिति । एवमनेन क्रमेण । ननु तत्र भगवान् शाण्डिल्यः षडङ्गं वेदमधीत्य तस्मिन्मह- त्याम्नाये निष्ठामधिगच्छन् यः सर्वपरमधर्मो यस्मान्न भूयोऽस्ति कथं तं विद्यामित्येवं बलवद्विवेकमातिष्ठमानो बभूव । नन्न भगवते शाण्डिल्याय भग- बता सङ्कर्षणेन व्यक्तेन शब्दवच्छात्रं प्रोक्तमिति हि पश्चरात्रे च चतुषु वैदेषु परं श्रेयो लब्ध्वा शाण्डिल्य इदं शास्त्रमधीतवानिति च । तस्माद्वेद- विनिन्दकत्वादप्रामाण्यं तस्येत्यत आह ॥ यदीति । यदि विद्याच्चतुर्वेदान्साङ्गोपनिषदान्द्विजः । न चेत्पुराणं संविधानेव स स्थाद्विचक्षणः । इतिहासपुराणाभ्यां वेदं समुपद्व्हयेत विभेत्यल्पश्चत द्वेदो मामयं प्रचलिष्यतीत्यत्र यथा पुराणानां वेदार्थज्ञानपू- रणमेवाभिप्रेतम् । तथा पञ्चरात्रादपीति । तस्माच्छाण्डिल्यवर्तने शाण्डिल्यमार्गे पञ्चरात्रे कुतो. द्वेषः । ननु न भूशं वदेत् समः ॥३३॥ andra PATRA FASHIONSKRISHAD सर्वेषु भूतेष्वित्यादिवचनविरोधान्मुमुक्षोः किमनया परपक्षनिन्दनयेत्याशङ्कापरिहाराय श्रुतिं दर्शयति ॥ अन्धन्तम इति । अन्धन्तमः प्रविशन्ति येऽवियामुपासते । ततो भूय इव ते तमो य उ विधाया५ रताः । ततो विद्यामविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्खा विधयाऽमृतमभुत इति । ये विद्याया रताः । विद्यायामेव रता न त्वविधां निन्दन्ति । भूय इवेति क्रूरत्वज्ञापनार्थम् । अविद्यायाः सदोषत्वेन ज्ञाताया एतामेवातिपीड- कत्वेन मृत्युसंज्ञा तीत्वेति भावः । न भृशं वदेदिति सद्विवक्षया । समत्वं तु निन्येषु निन्यमानेषु मानं नेत्यादिकमेव श्रेष्ठम् । पादं हरेत्तत्र भवेत्पादश्च कर्तरि । पादस्तेषु सभासस्सु यत्र निन्यो न निन्द्यते । अनेनाश्रेष्ठो भवति मुच्यन्ते सभासदः । एनो गच्छति कर्तारं निन्द्यार्हो यत्र निन्धत इत्युधोगपर्वणि । कर्णी पिधाय निर्याघदकल्प ईशो धर्मावितर्यघृणिभिर्तृभिरस्यमाने । छिन्यात्प्रसय रुशतीमसतां प्रमुवेजिल्हामसूनपि ततो विसृजेत्स धर्म इति च भागवते ॥ १२ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमहलसूत्रानुव्याख्यानस्य टीकायां त्रैविक्रमार्यकृतौ नयचन्द्रिकायां द्वितीयाध्यायस्य द्वितीयः पादः ॥ २-२ ॥ * ॥ * ॥ ॥ श्रीगुरुभ्योनमः ॥ हरिः ॐ ॥ अथाध्यायशेषेण वचनानामविभूतादीनामुत्पत्त्यनुत्पत्यादिवाचिनो विषयविवेचनेनाविरोधं दर्शयति ॥ अथेति । युक्तीर्दशयति । अनुभूतीति । न वियवश्रुतेरिति सूत्र ज्याचष्टे । प्रकृतिरिति। इदं ससर्जेल्यादिश्रुतिषु प्रकृत्यादीनां सामान्येन पराधीनविशेषिताजनिमत्वं नामोदितम् । अन्यथाऽऽकाशादीनां स्वरूपोत्पत्यङ्गीकारे । यथनाकाशतेत्यादेरयमर्थः । यदि पूर्व प्रलये नाकाशतेति केनचिदभ्युपमन्यते । यदि तेनैव मूर्तसम्पूर्णता नाकाशतेति चेष्यते । तत्रावकाशो नास्तीतिं लोकव्यवहारानुरोधात्तर्हि तत्पशेः प्रलयकाले मूर्तनिबिडं जगद्विद्यते । किन्त्वस्मिन्नाकाशे बहूनि मूर्तद्रव्याणि स्थितानि सन्ति । तस्मादत्र मूर्तद्रव्यांतरस्य

अ०टिल
॥३४॥
स्थित्यर्थमवकाशो नास्तीत्येव तस्य व्यवहारस्याभिप्रायो न पुनरवकाश एव नास्तीति । अत्रेत्युक्तत्वात्सामान्यत उक्तामुत्पत्तिं विशिनष्टि
अत इति । लवत्रुट्यादिविशेषवान्का
षवान्कालस्तूत्पद्यते । तत्तदा प्रधानं विकृतेरपि प्रधानमपि विकृतेः सृष्टमित्यादि ॥ ॥ एतेन नच
मातरिश्वा व्याख्यात इति सूत्र व्याख्याति ॥ एवमिति । पूर्वाधिकरणोक्तयुक्तीनामनुकर्षणार्थ एवंशब्दः । ज्ञानस्य नित्यत्वान्नायमन्यत्रद- द्वित.
नित्यः । शरीरोत्पत्तिकारणान्नापि साक्षानित्यः । अतो नित्यसमः । पराधीनविशेषेण शरीराभिमानोत्पत्त्याख्येन । पूर्व सूक्ष्मत्वेन सतः क्षीरादेर्दाया-
दिस्थूलत्वेन भावः स्थूलताभावः । पूर्व कुण्डलादिरूपस्य हिरण्मयादेः पश्चात्कटकादिभावेन पूर्वशब्दविलोपस्तद्वशतैव हि । तद्वशता हि व्यक्तिरेव
हि ॥ २ ॥ असम्भवस्तु सतोऽनुपपत्तेरिति सूत्रं व्याचष्टे ॥ स्वतन्त्रत्वादिति ॥ ३ ॥ व्यतिरेको गन्धवत्तथा
दर्शयतीति सूत्रं विवृणोति ॥ अच्छेद्यस्येति । विभागाय नयति विभागार्थ प्रवर्तयति । इत्यभिधीयते इत्यभिप्रायोऽनेन
सूत्रेणाभिधीयते ॥ १३ ॥ परेशस्य सर्वशक्तित्वेन सर्ववैलक्षण्य एव स्थिते सत्यपि केचिन्मूढा अनीशस्य जीवस्य तेनैक्यमाहुः । तद्योऽहं सोऽसौ
योऽसौ सोऽहं तत्त्वमसीत्यादिश्रुतिभिनेंति परिहरति ॥ पृथगुपदेशादिति विवृण्वन् भिन्नोऽचिन्त्यः परमोजीवसधादित्यादि पृथगेवाभिधीयते ।
मुक्तिपर्यंतमेव संसारिणः परमात्मना भेद इत्यत आह ॥ प्रज्ञेति । सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं । प्रज्ञानेत्रो लोकः प्रज्ञाप्रतिष्ठा प्रज्ञानं ब्रह्मेति ।
अलोको लोकविलक्षणत्वान्मुक्तवर्गों प्रज्ञानेत्री ब्रह्मनेत्रकः । एतमानन्दमयमात्मानमुपसङ्क्रामतीत्यादि । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः
परमं साम्यमुपैति । एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परज्योतिरुपसम्पद्य स्खेनरूपेणाभिनिष्पद्यते । स तत्र पयति जक्षन्क्रीडन्नम-
माण इलाधाः श्रुतयः । आचदवेल्याधारण्यपणि । आयः स्थिरचरराणां वेदगर्भः सहर्षिभिः । योगेश्वरैः कुमाराथैः सिद्धोगप्रवर्तकः ।।
भेददृष्टधेत्यादिभागवतवाक्यार्थस्तु गुरुतमेरेवोक्तो भागवतटीकायाम् ।अभिमानेन पूर्णज्ञानेन सङ्गत्य लये परमात्मानं प्रविश्य पूर्व प्रज्ञायते । उच्चनीचा-
॥३४॥

5 RA काम HECKRISESENGER दिभावेन जायते । अगुणव्यतिकरे श्वेतद्वीपे निर्गच्छति । गुणव्यतिकराभावेऽप्युच्चनीचादि पूर्ववत् । विष्णोश्चैव विमुक्तानां न कदाचन गच्छतीति गारुड इति । ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विममीत उ त्व इति । मुक्त ब्रह्मणां मध्ये व एको ऋचा पोषं मुख्या) पुपुष्मान्सम्यग्व्याख्यानेन पोषितवानास्ते । एको गायत्रं साम गायति । शक्वर्याख्येषु सम्बन्धमेकः । पञ्चरात्रादिजातविद्यां वदति । एको यज्ञस्य मात्रां विष्णो रूपमेव वीक्षते । मयं देहं परित्यज्य चितिमात्रात्मदेहिनः । चितिमात्रेन्द्रियाश्चैव प्रविष्टा विष्णुमव्ययम् । यं यमभिकामो भवति । सङ्कल्पादेवास्य समुत्तिष्ठति । स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते । तस्माद्धयेवात्मनो यद्यत्कामयते तत्तत्सृजते । सोऽभुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता । तो हि तदा सर्वान् शोकान् हृदयस्य भवतीति । तद्गुणाः प्रकृतिगुणाः शोकायाः । हृदयस्य विष्णोर्भवति । स्वबुद्धयाऽपीति शेषः । स दुःखाद्विमुक्त आनन्दी भवति । जगधापारवय॑म् । अथ यदैनं मुक्तोऽनुप्रविशति । मोदते च प्रमोदते च। कामांश्चैवानुभवतीति । स वा एष एतस्मान्मादिमुक्तो चिन्मात्री भवत्यथ तेनैव रूपेणाभिपश्यत्यभिन्नुणोति । अभिमनुतेऽभिविजानाति तामेतां मुक्तिरित्याचक्षते । इत्यादिमानतः कुत्रचिदभिन्नता कथमेव जीवेशयोः । यदित्यादेरयमर्थः । विश्वस्य सदसद्विलक्षणत्ववादिनो भेदमिथ्यात्वस्य साध्यधर्मस्य सदसद्वादोऽपसिद्धान्तो हि साध्यधर्मः । तदुभयमपि न चेत्तत्पक्षविशेषणमसिद्धम् । सदसद्विलक्षणश्चेदप्रसिद्धविशेषणः पक्ष इत्याकूतम् । न सिद्ध तदित्यस्यान्योऽप्यर्थः । न मिथ्यात्वविशेषणं दृष्टान्तेन सिद्धम् । न हि चन्द्रभेदः सदसद्विलक्षणोऽस्मत्पक्षे । अतः साध्यविकलो दृष्टान्त इत्याशयः । ननु चन्द्रभेदः सदसद्विलक्षणो जडत्वाव्यतिरेकेण ब्रह्मवदित्यनुमानेनानिर्वचनीयत्वं साध्यते दृष्टान्तस्येत्यत आह ॥ अनुमानेन चे दिति । एतदनुमानस्यापि पक्षस्याप्रसिद्धविशेषणत्वात्तद्विशेषणमनुमानान्तरेण साध्यं तस्यापि तथेत्यनवस्था । ननु नासदासीनो सदासीत्तदानामित्या- युक्ता । तम आसीदित्युच्यमानमुपपादनं परिशेषात्सदसद्विलक्षणं सिध्यति हीत्यत आह || नेति । आनीदवातं स्वधया तदेकमिति परिशिष्टो अ०टिक ॥३५॥ RRC ह्यसौ परमात्मा । तदा प्रलये । मूर्त सदिति सम्प्रोक्तममूर्तमसदुष्यते । मूर्तमूर्तेतरहाट म सत्तन्नासदुच्यत इतिवत् । पृथिव्यादिसतो वाग्वाधसतश्च न०० विलक्षण्यमेवात्राभिप्रेतम् । न त्वनिर्वचनीयत्वम् । न हीदं सदसद्विलक्षणमिति कुत्रचित्प्रत्यक्षम् । अथ मतम् । प्रपञ्चो यदीत्यादिश्रुतिबलाप्रपञ्च-15 द्वित. स्य बाधोऽङ्गीकर्तव्यः । अन्यथा श्रुत्युदिताद्वैतहानेश्च । असतः ख्यात्ययोगात्सतो बाधायोगालख्यातिवाधान्यथाऽनुपपत्त्याऽनिर्वचनीयो भेद इत्यत आह अ०१४ ॥ न चापशिरिति । बाधायोगात्सत इत्यत्र भेदस्य सत्वाङ्गीकारे बधायोगः प्रसज्यत इत्यभिप्रायः । नायमस्माकमतिप्रसङ्गः । किन्विष्टस्य भेदबाध्यत्वस्य प्राप्तिरेव । नन्वनयाऽर्थापत्या शुक्तिरजतस्यानिर्वचनीयत्वं साधयामः । त्वयाऽपि भ्रान्तिविषयस्य ख्यातिबाधयोरङ्गीकृतत्वात् । पुनस्तदृष्टान्तम भेदस्यामिर्वचनीयत्वं साधयाम इत्यत आह ॥ न हीति । बाधशब्दस्य विनाशार्थमङ्गीकृत्य सतो बाधायोगादिति वदता विवक्षितम् । यत्सत्तन्न नश्यतीति व्याप्तिः कुत्रचित्सम्मता दृश्यते । घटादेः सत एव बाधदर्शनात् । अनिर्वचनीयवादिनः पक्षेऽथ किञ्चिदपि बाधो न घटत इस्यभिप्रायेणाह || कश्चेति । न हि कालत्रयेऽप्यसद्विलक्षणमिति वक्तुं प्रयोगत इत्याकूतम् । अत्यन्तासति निरुपाख्यापरपर्याये काचन प्रतीतिर्न सम्भवति किमुत सत्त्वेन प्रतीतिरित्याशयेनासत: ख्यात्ययोगादित्युच्यमानं निरस्यति ॥ प्रतीतिरिति । सदृशदर्शनमिमित्तकं ज्ञानं ग्रुपमा प्रमाणम् । कुत्राप्यनिर्वचनीयदर्शनात्तदपि नास्ति भेदोऽनिर्वचनीय इत्याह ॥ न चोपमेति । घटात्पटो भिन्न इति प्रत्यक्षानेदस्य सत्यत्वमेवावगम्यते च । तस्माद्भेदमिथ्यात्वानुमानं प्रत्यक्षविरोधेन कालाव्ययापदिष्टश्चेत्यर्थः । शास्त्रेयुक्तमेवोपपादयति ॥ किञ्चिदिति । अनुभूयते चात्मनेति शेषः । यः सर्वज्ञः सर्ववित् । सर्वयुक्ता शक्तिभिर्देवता सेति श्रुतिः । यद्यस्यानन्ययोगेन प्रथमग्राहक तद्धि तत्रोपजीव्यप्रमाणम् । तच्चेश्वरे श्रुतिरात्मन्यनुभूतिः । यदा यदि हि तत्तईि । ननु यः सर्वज्ञः स सर्वविदित्यादिवाक्यं धर्मिणो ब्रह्मणः स्वरूपमात्र एव प्रमाणं न तु सर्ववत्वादिधौ । तस्य भेदापादकत्वेन हेयत्वात् । तस्मानोपजीव्यप्रमाणविरोध इत्यत आह Thurta -RING RECERS ॥ यदिति । एकेल्यादेरयमर्थः । परमात्मा सर्वज्ञ इत्येकविज्ञानेन हि धर्मिस्वरूपं धर्माश्च ज्ञायन्ते । अस्य विज्ञानस्यावयव भेद एव विद्यते न तु स्वरूपमेदः । तस्मात्तवयमपि मानसिद्धं भवेत् । विशब्दस्तस्य ज्ञानबाध्यविषयत्वद्योतकः । तयोः स्वरूपमात्रसर्वज्ञत्वादिधर्मयोर्मध्ये एक स्वरूपमानं प्रामाणिकम् । न चेत्तद्वयमप्यप्रामाणिक नो भवेत् । न चाभेदागमः क्वचिद्रेदश्रुतैरुपजीव्यः । तस्याः प्रत्यक्षाधानुकूल्येन बलिष्ठत्वात् । ननु विमतमुपादानाद्यपरोक्षवित्कर्तृकं कार्यत्वाद्धटवदित्यनुमयैवेशो ज्ञायत इत्यत आह ॥ सर्वज्ञति । अनेनेति सामान्यत उक्तमेवात्र विशेषितम् । ननु यदुक्तमैक्यश्रुतेरुपजीव्यप्रमाणविरुद्धत्वं तन्नास्ति । दुःखाद्यनुभवस्य भ्रमत्वादित्यत आह ॥न दुःखेति । आदिशब्दादिच्छादयः । तरति शोकमा- त्मविदित्यदुःखिता श्रुतिमानेन श्रोत्रप्रत्यक्षाख्येन तच्छोत्रप्रत्यक्षत्वं तया मानवेन गृहीतं चेदुःखानुभवे साक्षिप्रत्यक्षे कस्माद्भमत्वं गृह्यते । तदुःख- मनुभूयमानस्य दुःखादेः केनचिन्मानाभावेन बाधाङ्गीकारेऽतिप्रसङ्गमाह ॥ वाध इति । तदेव प्रपञ्चयति ॥ कोऽपीति । शुक्तिरजतादिज्ञानस्य भ्रमत्त्वं घटादिज्ञानस्याभ्रमत्वं चानुभवगम्यमिति यत्तस्मात्साक्ष्यनुभवस्याव्यभिचारित्वाद्धमत्वेनानुभवसिद्धयोधमयोमध्ये एकस्यात्मदुःखानुभवस्य भ्रमता परस्प निदुःखत्वश्रुतिश्रवणस्याभ्रमता कुतः कल्प्यते । क्वचिदुःखानुभवादी विशेषा ज्ञानेच्छासुखदुःखादयः प्रत्यक्षादिप्रमाणानां प्रामाण्यप्राहिणः । साक्ष्याख्यप्रमाणानिश्चयवान्हानोपादानादिव्यवहारोऽखिलोऽप्यभिधीयते । प्रामाण्यानिश्चये कथं व्यवहारः प्रवर्तते । साक्षी त स्वयमेव स्वप्रमाण्र्य निश्चिनोति । स्वयंप्रकाशवात् । एवं व्यवहारान्यर्थाऽनुपपत्तितर्केण साक्षिनिर्दोषत्वमझीकार्यमित्याह ॥ तस्मादिति । प्रकृतमुपसंहरति ॥ उपजी- व्येति। तद्गुणसारत्वात्तयपदेशः प्राज्ञवदिति योजयन् अभेदवाक्यानां गतिं दर्शयति । तथापीति । इत्यादीनि पौराणानि वाक्यानि । अस्ति हि सिंहो देवदत्त इत्याथभेदव्यपदेशः । देवदत्तस्य वीर्यादिगुणैः सिंहसादृश्यात् । मुक्तस्य तु क्षीराज्यादिस्थिततद्रूपापेक्षया स्थानैक्यं विशिष्यते । निर्दुःखत्वालम्बुद्धिगोचरसुखवत्त्वादिसादृश्यं च । जडानामीशप्रधानकत्वमीशतन्त्रत्वं चेति द्वयमेव लञदव्यवहारनिमित्तम् न०० द्वितः अ०१८ सत्तादिसादृश्यमत्यल्पम् । ईशस्य धर्मानाशात्। ईशस्य धर्मानीशा देन पश्यतो दुःखे प्रमाणमाह ॥ यथेति । पर्वते दुर्गस्थले शिखरे वृष्टमुदकं अ०टि० यथाऽधो धावति । एवं भगवतो धर्मान्भेदेन पश्यन्पुरुषस्तान्दृष्ट्वाऽन्वेव विपरीतत्वेन धावति । दर्शनानन्तरमेव नरकं प्रति धावतीत्यर्थः ।। ॥३६॥ भेदाभेदनिवृत्त्यर्थमेवशब्दोऽवधारकः । समाधिकनिवृत्त्यर्थमद्वितीयपदं तथा । तद्भदेऽप्येकशब्दो यतोऽवयविनि स्थितः। एकमेवेल्यतः प्राह नारा- यणमियं श्रुतिः । समेऽद्वितीयशब्दः स्यादद्वितीयोऽसमत्वतः । अधिकः कुत एव स्यादित्याह परमा श्रुतिरिति सामसंहितायाम् । इह ब्रह्माणि किश्च नाना नास्ति । स्वगुणावयवादिभेदानामेकतमोऽपि नास्ति । इत्याकूतम् । य इह नानेव पश्यति । योऽभेदं भेदाख्यमुभयं वा पश्यति मृत्योः स मृत्युमाप्नोति । मृत्युशब्देन मरणवाचिनाऽधिकदुःखं लभ्यते । अधिकदुःखादधिकदुःखमन्धन्तमः समाप्नोतीत्यर्थः । तस्माद्ब्रह्माणि कस्मा- चिदपि वस्तुनो भेदाभेदौ न द्रष्टव्यौ । स्वगुणादिभिरभेद एव जीवादिभ्यो भेद एव ॥ १४ ॥ यस्तु जीवादिभिः परमेश्वरस्य भेदाभेदौ पश्यति तत्पक्षनिग्रहोऽपि प्राप्तः । प्रज्ञानेत्र इत्यादिना भेदस्य मुक्तौ वचनादित्याह ॥ भेदस्येति । चेतनत्वादित्यादिशब्दात्सत्यम् । अत्र प्रमाणमाह ॥नेति। विष्णोः समुदायेन भेदाभेदौ न यकस्यैव समुदायत्वम् । स्वगुणादिभिरभेदः । अभेदश्रुर्तानां गत्युक्तिमुखेनांशो नानाव्यपदेशाद- न्यथा चापि दाशकितवादित्वमधीयत एक इत्यस्यार्थ सूचयति ॥ अभेदेति ।उक्तं च तत्त्वदीपिकायाम् । अंशिनो यत्तु सामर्थ्य जगत्सृष्टयादौ यत्स्वरूपं ज्ञानानन्दादि या स्थितिर्देशतः कालतो व्याप्तत्वेनेति । प्रकाशादिवन्नैवं पर इति सूत्रं व्याख्याति ॥ सूर्येति । परमाशत्वेऽपि संसारी परमात्पृथक् । अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवदिति सूत्रं व्याख्याति ॥ देहेति । अपरैर्न च । अपूर्णशक्तिजीवाशैर्मुख्याभेदो नास्ति च । अनेनासन्ततेश्चाव्यतिकर इत्यस्यार्थः सूच्यते । आभास एवं चेति सूत्र व्याख्याति ॥ अंशेति । तत्र प्रमाणमाह ॥ यथेति । यथैषा पुरुषस्य छाया तथैवैतस्मिन्परमात्मन्याततमेतज्जीवजातम् । परमात्मनः ॥३६॥ HTTA More-late * S छायाप्रतिबिम्बभूतमित्यर्थः । एते जीवाः परमात्मनः पादा अपि पुरुषपादवदभिन्ना न किन्त्वत्यन्तभिन्ना एकदेशपरिमिताश्च । व्यासनरसिंहप्रादुर्भाव- तया स्थितास्तु तस्य परमात्मनो ज्ञानवीर्यादिगुणा एव । तथाऽपि प्रत्येकं सर्वगुणपूर्णाश्च । एतत्पादार्थ सक्षेपेणाह ॥ अक्षयेति। ब्रह्ममुख्यप्राणयोदव्यौ प्रकृत्यभिमानिन्यौ च जाते । तेषां ब्रह्मादीनामिमै जन्मादयो धर्माः सदा तदधीनाः । एतेषां मोक्षानन्तरं च तदधीनत्वं न हीयते ॥ १८॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रानुव्याख्यानस्य टीकायां त्रैविक्रमार्यकृतौ नयचन्द्रिकायां द्वितीयाध्यायस्य तृतीयः पादः ॥ २-३ ॥ * ॥ * ॥ ॥ श्रीगुरुभ्यो नमः ॥ हरिः ॐ ॥ पादसङ्गतिं दर्शयति ॥ श्रुत्यर्थं इति । विरुद्ध इव न तु विरुद्धः । पूर्वपक्षयुक्तीः सिद्धान्तयुक्तीश्व दर्शयति ॥ दृष्टेति। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रानुव्याख्यानस्य टीकायां त्रैविक्रमार्यकृतायां नयचन्द्रिकायां द्वितीयाध्यायस्य चतुर्थः पादः ॥२-४॥ समाप्तोऽयमध्यायः ॥ २ ॥ श्रीकृष्णार्पणमस्तु ॥ * ॥ * ॥ ISSIS ELECRECCALCCC colatopcoin ३७॥ ६ श्रीगुरुभ्यो नमः ॥ हरिः ॐ ॥ अस्मिन्पादे पूर्वपक्षयुक्तीर्दशयति ॥ स्वाभाविक्रेति । सिद्धान्तयुक्तीर्दर्शयति ।। गुणाधिक्येति । अ०टि.भारतासिग्योगोऽथेत्यत्राथशब्दस्य कृत्यमाह ॥ बीजेति । दिवास्यास्तूनाच्छति स्थास्तुभ्यः पितरं पितुर्मातरमित्युक्तस्य बीजपुरुषयोनीनां सङ्गति निय-न०० मस्योज्झितिमाह । कारणतो भगवत्प्रसादातिरेकता विशेषकारणादेव विशेषाज्जनिरुच्यते। सामान्यजननं चैव नृणां सामान्यहेतुत इति वचनात् ॥२०॥ तृ द्विः इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्मसूत्रानुल्याख्यानस्य टीकायां प्रैविक्रमार्यकृतायां नयचन्द्रिकायां तृतीयाध्यायस्य 3/०१ प्रथमः पादः ॥३-१॥ * ॥ * ॥ ॥ श्रीगुरुभ्यो नमः ॥ हरिः ॐ ॥ अत्र पूर्वपक्षयुक्तीर्दर्शयति ॥ पश्चाददृष्टीति । सिद्धांतयुक्तीरपि दर्शयति ॥ अशक्येति सन्ध्ये सृष्टिराह हीति सूत्रं व्याख्याति ॥ वासना इति । मुद्रामुद्रितप्रतिमुद्रान्यायेनान्तःप्रविष्टपदार्थाकारा वासना यदा तन्न । यदि तन्मनो नास्ति । जाग्रत्त्वं जाग्रत्त्वप्रतीतिः । विषयेऽननुभूते सति तत्संस्कारी नोत्पद्यत इत्यत्र प्रमाणमाह ॥ अदृष्ट इति । नन्वकिञ्चनेन कदा- चिदप्यशुतमद्दष्टं राजभोगादिकं स्वप्ने दृश्यते हि । तस्मात्कायमेषा श्रुतिपुराणोक्तिर्युज्यत इत्यत आह ॥ अनादित्वादिति । अनादिकालजन्मसु कुत्रचिद्राजभोगादेरपि दृष्टिश्रुतिसम्भवादनादिमनसि तद्वासना स्यादिति भावः । काचिदित्यादेरयमर्थ उच्यते । यत्कदाचिदर्शनायोग्यं शशविषाणादिकं स्वप्ने दृश्यते तदपि जागरिते विभागतो दृष्टमेव हि समदेशकालतया दृश्यते । स समानाधिकरणप्रत्ययो भ्रमश्च दृष्टो हि । जागरित घटस्तद्विमांगेन कस्यचिद्विषाणं च । मायामानं तु कात्स्न्नानभिव्यक्तस्वरूपत्वादिति सूत्र व्याख्याति ॥ वासनेति । स्वप्नद्रष्टु दे त - दस्य भेदान्तरापेक्षयाऽनवस्थितिः । अभेदे स्वप्नबाधे द्रष्टुरपि बाधप्रसङ्गः । भेदाभेदे स्वव्याहतिः । तस्मादिनामिन्नाभ्यामनिर्वाच्यत्वमझीकर्तव्यम् । अत एवानिर्वाच्याविधामयः स्वप्न इत्येतसूत्राभिप्राय इति विवक्षया विकल्पयते । विकल्पमनूय दूषयति ॥ भेद इति । न हि दृष्टभेदयोः ॥३७॥ CRICRk 550 स्थाणुपुरुषयो,दादिप्रश्नो युज्यते । वन्ध्या पुत्रवती न वेति प्रश्नस्य स्वव्याहतिदोषः । ब्रह्मानन्तगुणमित्युक्ते चेतनानां तारतम्य किं प्रमाणमित्यस्या- सङ्गतिः । प्रत्यक्षतो निश्चितभेदयोः स्थाणुपुरुषयोर्भेदोऽस्ति न वेल्यस्य सिद्धार्थतामित्येतत्पर्वततृणानीत्यस्य वैफल्यम् । परिहारेऽपीत्यादरयमर्थः । प्रश्नप- रिहाररूपेऽनुमानेऽपि। प्रतिज्ञायां तु प्रतिवादिनः सिद्धत्वं दूषणम् । तदन्यस्य हेतोदृष्टान्तस्य चोभयवादिसिद्धत्वेन व्याप्तिमतोऽपि हेतोर्यदन्यैः कारणान्तरेणा- साधकत्वमुच्यते तन्निराकरोति ॥ आश्रयेति । ननु नृशृङ्गमस्ति शृङ्गत्वाद्गशृङ्गवदित्यादिराश्रयाभावाद्धयप्रमाणमित्यत आह ॥ दोष इति । नृशृङ्गं नास्ति योग्यत्वे सत्यनुपलभ्यमानत्वाद्वैधय॒ण घटवदित्यादौ यत्र प्रत्यक्षादिव्याहतता नास्ति तादृशस्यार्थस्य साधने कोऽतिप्रसङ्गः । कथमनु- मानस्य स्वयमेव प्रमाणस्य प्रत्यक्षादिविरोधे दौर्बल्यमित्याकाङ्क्षायामाह ॥ प्रत्यक्षेति । अमूलाः प्रत्यक्षागमाख्यमूलरहिता न्यायाभासाः स्युः । अन्यस्य न्यायस्य क्वचिद्युक्तेर्मूलभूतस्य न्यायस्य पुनरपि तौ प्रत्यक्षागमावेव मूलं स्याताम् । तथा हि । परचक्षुष्मत्तानुमानस्य रूपज्ञत्वाख्ययुक्तिर्हि ज्ञापयति । विमती रूपज्ञोऽश्रुतरूपविशेषस्य व्यवहर्तृत्वात्सम्मतवदिति । एवमनुमानमूलस्यास्यानुमानस्य रूपविशेषव्यवहारश्रवणाख्यं श्रोतृप्रत्यक्ष मूलम् । नन्वेवमनुमानस्य दुर्बलत्वात्प्रत्यक्षस्यापि क्वचिदाभासत्वदर्शनात्कथं प्रामाण्यनिर्णय इत्यत आह ॥ अदृष्ट इति । अनुमानस्य शुक्तिर- जतादिप्रत्यक्षादेर्मानत्वं तु मानसप्रत्यक्षमात्रसिद्धत्वाद्वाध्यं भवेत् । साक्षिगृहीतस्यैव ह्यबाध्यत्वनियम इत्याशयः । यदुत्सर्गतः स्वभावतः प्राप्त परीक्षां विनैव तदप्यपवादविवक्षितम् । साक्षिसम्मत्याऽभिमानमेव भवेत् । किमुत परीक्षाप्राप्तम् । उक्तार्थमेव सोदाहरणं स्पष्टयति ॥ अत इति यद्यद्भोजनं तत्तदिष्टसाधनमिति व्याप्तावपि क्वचिदपथ्यभोजनस्यानिष्टसाधनत्वाप्यभिचारो हि । न च तावता नित्यभोजनादिव्यवहारभङ्गः । एवं च नित्यव्यवहारान्यथाऽनुपपत्त्या प्रमाणानां प्रामाण्यग्राहकः साक्ष्यङ्गीकर्तव्यः । व्याप्तत्व इत्यादेरयमर्थः । हेतोः साध्येन व्याप्तत्वे सति साध्याश्रयाद्भिन्नाश्रयत्वं कथमेव हि दूषणम् । ननु विश्वं सदसद्विलक्षणमिति पक्षोऽप्रसिद्धविशेषणत्वेन हि दूष्यते । तस्मात्कथमन्यत्रासिद्धसाधनत्वं R-5 दूषणम् । नेत्यत आह ॥ अन्यदिति । सदसद्विलक्षणत्वमसद्विलक्षणत्वविरोधि । सद्विलक्षणस्यासाद्विलक्षणत्वनियमात् । असद्विलक्षणत्वं सद्वि- अ०टि०६/लक्षणविरोधि । असद्विलक्षणस्य सत्वनियमादिति स्वव्याहतेः । अनुमानमप्रामाणिकम् । सर्वकार्य सर्ववित्कर्तपूर्वक कादाचित्कत्वाव्यतिरेकेणात्म न० ० वदिति तैनैयायिकादिभिश्च तत्राप्रसिद्धे सर्ववित्पूर्वत्वे कर्तृकत्वे कादाचित्कत्वहेतोातिर्गम्यते । ननु विमतं सकर्तृकं कार्यत्वाटवदिति कार्यत्वहेतोः । तद्वि० ॥३८॥ सिद्धे सकर्तृकत्वमात्र एव वृत्तिः । पुनः पक्षधर्मताबलेन सर्वज्ञत्वं साध्यत इत्यत आह ॥ अप्रसिद्धस्येति । यदा यदि । अणुपरिमाणतारतम्य- अ०१ विश्रान्त्यन्यथाऽनुपपत्तेः परमाणवो केचन सन्तीति यथानुभवमेव कुता नाझीकार्यम् । यत्रासिद्धादिसाधनेऽतिप्रसङ्गो नास्ति तद्विपरीतार्थकमपि मानं च नास्ति । तत्राप्यणुपरिमाणतारतम्यं क्वचिद्विश्रान्तमित्यादिरूपेण लिष्टकल्पनयैव साध्यमित्यतिदुर्वचः । प्रमाणबाह्यत्वात् । इतश्चासिद्धसाधन- दूषणं परैः कल्पितोऽवयवनियमश्च न घटत इत्याह ॥ परिशेष इति । उक्तं च सन्यायरत्नावल्याम् । भोक्तृत्वस्याचेतनधर्मनिषेधे परिशेषलक्षणानुमानाच्चेतनधर्मस्वगन्यत्राप्रसिद्ध सिध्यति । अज्ञानस्य भ्रमनिबन्धनत्वेऽज्ञानभ्रमयोः परस्पराश्रयलक्षणनिराकरणतर्कात्तयोरसिद्धि- रन्यत्राप्रसिद्धा सिद्धयति । अज्ञानस्याज्ञानकल्पितत्वे आत्माश्रयता । तणाज्ञाननिराकृतिश्च । आदिशब्दादनवस्थायाः। हेतोः सिद्धसाधनतायां च वीतरागकथावसतिर्न भवेत् । यथा जगन्मिथ्यात्वे प्रयुक्तस्य दृश्यत्वहेतोरात्मनि व्यभिचारः । यथा वा तार्किकेण वेदानित्यत्वे प्रयुक्तस्य कृतकत्वहेतोरसिद्धिः । दृष्टान्तस्य दूषणं तु साध्यसाधनवैकल्यम् । यथा शुक्तिरजतदृष्टान्तस्य सदसद्विलक्षणत्वाभावात्साध्यवैकल्यम् । विनाशित्वहेतुना विश्वबाध्यत्वसाधने शुक्तिरजतस्य साधनवैकल्यं हेत्वादीनां विशेषणे वैव्ययं च दूषणम् । विशेष्यविशेषयोरेक्तरस्य व्यर्थत्वेनासिद्धौ तत्समुच्चय- रूपस्य विशिष्टस्यासिद्धिरेव । यथा विशालत्वे सति धूमवत्त्वादिति व्यर्थविशेषणासिद्धिः । धूमवरचे सति विशालत्वादिति विशेष्यासिद्धिः । तत्र तेषां ॥३८॥ प्रश्नदोषाणां मध्येऽप्रयोजकता प्रथमप्रश्नस्यैव दूषणम् । चरमप्रश्नानां तु विकल्पत्वे सति पूर्वबासङ्गतत्वेनासङ्गतिदोप एव । सिद्धप्रश्नादिकमित्या- NCCA.K54 दिशब्दात्सिद्धसाधनव्यर्थविशेषणादीनि । केचिदर्थापत्त्यादीन्यनुमानादेः पृथक् प्रमाणान्यभ्युपगच्छन्ति । तन्निरस्यति ॥ अर्थापत्तीति । लिङ्गस्य दृष्टस्य श्रुतस्य वाऽन्यथाऽनुपपत्त्या लिङ्गिनोऽर्थत आपत्तिरेवापत्तिः । यथा जीवन्देवदत्तो गृहाभावान्यथाऽनुपपत्त्या बहिरस्तीति । एतद्गतसादृश्य- प्रतियोगित्वादेतेन सदृशं तदित्युपमानम् । यथा गोसदृशगवयदर्शनाद्वयसदृशौ गौरिति ज्ञानम् । प्रमाणाभावलिङ्गकं प्रमेयाभावज्ञानं ह्यभावप्रमाणम् । एतेऽनुमानान्तर्भूताः । तथा हि । देवदत्तो बहिरस्ति जीवित्वे सति गृहाभावित्वात् । स गौरेतद्वयसदृशोऽस्य गवयस्य तद्गोसदृशत्वात् । यो यत्स- दृशः स तत्सदृशो यथा भ्राता । विमतः सर्षपोऽत्र नास्ति । योग्यत्वे सत्यनुपलभ्यमानत्वात् यथा पर्वत इति क्वचिल्लिङ्गापेक्षया झटित्युत्पद्यमानं घटायभावज्ञानं प्रत्यक्षान्तर्भूतम् । सुखदुःखादेरभावज्ञानं नियमेन प्रत्यक्ष एवान्तर्भूतम् । साविज्ञानत्वात् । उपक्रमाद्याश्वानुमानान्तभूता इत्याह ॥ प्रारम्भाद्या इति । उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णय इति च बृहत्संहितायाम् । आत्मा वा इदमेक एवाग्र आसीदित्युपक्रमादस्मिन्नागमे परमात्मा प्रतिपाद्यत इत्यादिरूपेणागमार्थनिश्चयः । नमो विष्णवे महते करोमीत्युपसंहारः । असक- दुक्तिरभ्यासः । यथा ब्रह्मविदाप्नोति परम् । येऽनं ब्रह्मोपासते । ये प्राणं ब्रह्मोपासत इत्यादि । प्रमाणान्तरागम्यत्वमपूर्वता । तबदा त्रियं सिञ्चति अथैनं जनयति । तदस्य प्रथमं जन्म । यदि कुमारं जन्मनोऽद्धि हापयतीत्युक्त्या तदस्य द्वीतीयं जन्म स इतः प्रयन्नेव पुनर्जायते । तदस्य तृतीयं जन्मेत्यभ्यासतो जीवस्य वाच्यत्वप्रतीतावपि तस्य प्रत्यक्षादिगम्यत्वेन सुपूर्वत्वात्तमपहायापूर्वत्वाझायमानजीवान्तर्यामिणि परमात्मनि तात्पर्यमवसीयतेति ज्ञानस्य फलम् । यथा द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽ- भिचाकशीतीत्यत्र पक्षिज्ञानस्याफलत्वात्तद्वाचकावं नाङ्गीक्रियते । सफलत्याज्जीवेश्वरज्ञानस्य तद्वाचकत्वमभ्युपगम्यते । यदर्थमन्यस्यार्थस्य वादः स तदर्थवादः । यथा परमात्मनः सर्वोत्तमत्वज्ञापनार्थं स इमाँलोकानसृजतेल्यादिसृष्टिकथनम् । अन्यत्रासम्भाव्यलिङ्गमुपपत्तिः । यथा विश्वस्मादिन्द्र

ไอ ซื้อ
उत्तरः । नकिरिन्द्र त्वदुत्तरो नज्यायानस्ति वृत्रहन् नकिरेव यथा त्वमित्यादौ समाधिकरहितत्वादिन्द्रो विष्णुः । पराहीन्द्र धावसी वृषा कवेरतीब्यथी-
अ०टि०६रितन्द्रस्य विष्णोः पराजितत्ववचनेन समाधिकराहिल्यासम्भवात् । श्रुति म समुद्दिष्टं लिङ्गं तल्लक्षणं स्मृतम् । पदानि निरपेक्षाणि वाक्यं प्रकरणं ६
त०वि०
॥३९॥
तथा । एकस्य प्रतिपत्त्यङ्गवचनं स्थानमुच्यते । अन्यत्र तत्समोक्तिश्च समाख्यास्थानमेव च । अध्यायादिप्रबन्धस्तु प्रभेदा आगमस्य चेति वचनाद्वाक्या अ०१
दीन्यवगम्यते । अवस्वरातिगर्गरोपरिसनिष्षणत् । पिङ्गापरि च निष्कदविन्द्राय ब्रह्मोद्योतमित्यत्र पृथगन्वयाङ्गीकारे एकवाक्यत्वानुपपत्येन्द्रायाभीष्टदा-
नार्थमुद्यतं ब्रह्मगर्गरोऽवस्वरातीत्याद्यन्वयोऽङ्गीकर्तव्यः । इति वाक्यस्य लिङ्गिभावः । नन्वनुपसञ्जातविरोधित्वेनात्मोपक्रमस्याप्यात्मनोऽन्यत्रासम्भाव्य-
लिङ्गत्वमस्ति । एवमेवोपसंहारादीनां च । तस्मात्ततस्तेषामुपत्तेः पृथावच इत्यत आह ॥ कुरुपाण्डववदिति । सन्तानबीजं कुरुपाण्डवानामित्यादौ
कुरुभ्यः पाण्डवानां पृथग्वचनेऽप्यकुरुत्वं न स्याद्धि । सामान्यविशेषभावे तवावचनसम्भवातू । स्यात्किम् । भेदमिथ्यात्वानुमानमप्रसिद्धविशेषणमिति
निरस्तं हि पुरस्तात् । अत्र तु तस्यादोषत्वान्नापसिद्धान्तः किं न स्यादित्यत आह ॥ स्वन्यायरिति । केवलानुमानस्येवरसाध-
कवाङ्गीकारे केवलानुमानेनैव तस्यानीश्वरप्रसङ्ग इति प्रसङ्गार्यतया प्रोक्तोऽर्याव्यभिचारादिरूपो विरोध उक्तः । विरोधान्तरमप्यस्ती-
त्याह ॥ छलमिति । तयोरुदाहरणं भगवत्तमैनैवान्यत्रोक्तत्वात् । जातिर्न मेये मानापेक्षेत्यादि । का मेये मानापेक्षाऽस्तीति च ।
तेनैव न्यायेन सिद्धत्वाच्छलमसङ्गतम् । अन्यच्च । गृष्टिविवक्षया गामानयेत्युक्ते पृथिवीविक्षया न शक्यमितिवदिति । ननु तत्र छलस्या-
सङ्गतत्वमुक्तं हि । कथमत्र विरोधेऽन्तर्भाव उक्त इति नैष दोषः । तुलायाः प्रमाणत्वप्रमेयत्वबदुभयत्राप्यन्तर्भावसम्भवात् । न घटते |
पृथिवीनयनमिति छलवादिनोक्ते सति केन पृथिव्या अचेतनाया नैत्रं घटत इत्युक्तमनुक्तापालम्भो यदिति छलवादिनः स्वोक्तन्यायेनैव वादिना
व्याहतत्वाद्विरोधान्त यो दृश्यते हि । सदसद्विलक्षणस्यार्थतः सदसत्त्वात् सदसत्त्वस्य चैकत्र स्वव्याहतत्वाव्याहतमेतत् । इतश्च तन्न घटत इत्याह
॥३९॥

ISRO ॥प्रतियोगित्वमिति । अस्य सदसद्विलक्षणस्य प्रतियोगित्वं ब्रह्मणोऽङ्गीकृतं हि । तेन ततो ब्रह्मणो न विशेषत्वप्रसङ्गः । ततो ब्रह्मणो जगद्विलक्षणं चेज्जगद्वब्रह्मणो मिथ्यात्वं ब्रह्मवज्जगतः सत्त्वं वा स्यात् । तदेवोपपादयति ॥ इदमिति । अस्य ब्रह्मण इत्थंभावात्मको धर्मों न चेत्प्रतियोगिताऽपि न स्यात् । तदभावे दोष उक्तः । अदृश्यत्वादिगुणको धर्मोक्तरित्यस्याभावरूपा अपि गुणा अत्यद्भुताः । किमु सर्वज्ञत्वादिभावधर्मा इत्याशयः। सर्वधर्मोपपत्तेरियादावुदिता हि ते । सर्वमपेक्ष्य सर्वज्ञत्वसर्वसष्ट्रवादयस्तस्मादन्यापेक्षा स्थुष्ट इति । सुष्टे सत्या इहाशिष इतिवत् । ननु निषेद्धुमेव धर्माननुवदति वेदः तस्मात्कथमप्रमाणतेत्यत आह ॥ अप्राप्तामिति । ब्रह्मात्म्यैक्यस्य कथं मिथ्यात्वं न स्यात् । तस्यापि वेदेनैव हि वेद्यत्वं स्यास्कि न ब्रह्मणः । सर्वज्ञत्वादीनामत्यन्तासत्त्वमभ्युपगच्छामः । व्यावहारिकसत्यत्त्वाङ्गीकारात् । तत्त- द्विधातुर्वेदस्यातत्त्वावेदकप्रमाणत्वं स्यात् । न चैतवता ब्रह्मणः सविशेषत्वं । तेषां धर्माणामारोपितत्वादित्यत आह ॥ धर्मेति । अपरोक्षस्येदन्त्वमित्वे परोक्षस्य तत्त्वधर्मित्व उभयस्यापि धावल्यादिविशेषधर्मित्वे च सति ह्यत्र शुक्त्यादावन्यो रजतत्वधर्मः कल्प्यते । तदर्थ धर्मारोपार्थ भ्रान्तिविषयत्वम् । उपपन्नश्च तस्य दृश्यत्वानुमानादेरन्यथाभावः । बहुप्रमाण,विरुद्धत्वात् । एवमीशदेवमुन्यादिकं विश्व- सत्यत्वादिभ्रान्तिमत्कल्प्यते । सा भ्रान्तिस्तस्यैव न किन्तु तदेवोपपादयति भवेत्सूक्तिरिति । भ्रान्तं भ्रान्तिकल्पितम् । त.क्यागमस्य प्रामाण्यं प्रत्यक्षादन्यतः कुतोऽङ्गीक्रियते । प्रत्येक्षेणैव चेत्तस्यापि जगत्प्रत्यक्षवदप्रामाण्यप्रसङ्गः स्यात् । किं यावद्विश्वनिवृत्तिप्रत्यक्षमपि प्रमाण- मेव । तेनैक्यागमस्यापि प्रामाण्यं गृह्यत इत्यत आह ॥ तात्कालिकमिति । तस्याप्येतादृशं यदि तर्हि यदैश्यागमप्रामाण्यस्य मिथ्यात्वं तदा विश्वसत्यतापत्तिः । अद्वैतहानिसामान्यात् । ऐक्यवाक्यमानत्वस्य ब्रह्मव्यतिरिक्तस्याबाध्यस्यैवाङ्गीकारात् । तत्पक्षेऽप्यद्वैतहानेः समत्वात् । प्रत्यक्षादेर- यथार्थत्वे प्रामाण्यमेवाङ्गीकर्तुं न शक्यते । किमुत स्वतःप्रामाण्यमित्यभिप्रायेणाह ॥ यदीति । प्रामाण्यस्य कालतो मर्यादा नाम याव 354 न तु द्विश्वनिवृत्तिप्रमाणं ततः परमप्रमाणमिति हि सा व्याहता। न हि कालत्रयेप्यप्रमाणामितिबाधकज्ञानग्राह्यस्य कदाचित्प्रामाण्य युक्तम् । ननु सत्यमेवं अ०टि०, दैतप्रामाण्यस्य तत्त्वतोऽप्रामाण्यमस्तु । बाध्यते हीद मिथ्यात्वमानेनेल्यत आह ॥मिथ्यात्वेति। तथा कालेऽपि विकल्पविषयं मुक्तिकाळेऽप्यस्ति न ६/न०० ॥४०॥ या। अस्ति चेद्वैतापतिः । नास्ति चेन्मुक्त्यभावः। तदा विद्वान्पुण्यपापैविध्य निरञ्जनः परमं साम्यमुपैतीति । तीणों हि तदा सर्वान् शोकान् हृदयस्य भव- तद्वित तीस्यागमः । कालनिवर्तने मुक्तैरपि निवृत्तिः स्यात् । तस्याः शाश्वातित्वाभावात् । न च कालस्य कालत्रयवर्तित्वाभावापरपर्यायो बाधो घटते । स्वव्याहत- त्वात् । इतश्च विश्वसत्यत्वप्रत्यक्षापलापो न युक्त इत्याह । क्वचेति। लोकेऽपि प्रत्यक्षतः प्राप्तमनुमानागममात्रबाधितम् । दूरस्थवृक्षहस्व- त्वादिकं तु प्रबलप्रत्यक्षेणैव बाधितम् । तन्मूलानुमानागमाभ्यां वा चन्द्रप्रादेशकावादिकमपि प्रत्यक्षमूलानुमानेनैव बाधितम् । दूरस्थ- वृक्षादिदृष्टान्तेन प्रत्यक्षस्य दूरग्रहणे त्वपटुत्वमनुभूयते हि । यदि देहस्यात्मत्वं प्रत्यक्षतो ज्ञातमनुमानागमबाधितमिति मतम् । तत्र ब्रूमः । तत्क्वचिदपि प्रत्यक्षतः प्रकर्षेणाप्तं न । यद्यपि यदाकदाचित्प्रत्यक्षण देहात्मत्वमवगम्यते । तथाऽपि प्रकृष्टानुभवाभेदेनैव हीत्यभिप्रायेणाह ॥ ममेति । एवं च कादाचित्को देहात्मत्वभ्रमः प्रत्यक्षेणैव बाध्यत इत्यभिप्रायः । कृष्णदेहस्याहं कृष्ण इति व्यवहारः कथमित्यत आह ॥ उपचार इति । यद्वद्वस्त्रस्य कर्दमलेपने कृष्णवखमित्युपचारव्यवहार एवमत्रापि स्यात् । यदि पटस्य कार्य कर्दमोपाधिकृतमेवमेवात्मनः कार्यमपि देहोपाधिकृतमित्युच्यते । त_पि पटस्य स्वतः शौक्लयवस्वतः कायं ममेति न प्रायते हि । औपाधिकमप्यमुख्यत्वादौपचारिकमेव । देहादिरियादिशब्दादिन्द्रियाणि । स्यात्किम् । अस्तु नाम विवेकिनां देहात्मभेदज्ञानां पश्चादीनां तत्तुल्यमनुष्याणां वा कथं तत्स्यादित्यत आह ॥ जातेति । आदिशब्दादुःखपूर्वदेहस्यास्मृतावनुसन्धानविस्मृतौ सत्यां तद्विज्ञानं कथं भवेदिति सम्बन्धः । अन्वयस्य व्यतिरेकादित्यादिशब्दोऽ- 1800 न्वयव्यतिरेकयोर्व्यस्तत्वेनाप्यनुसन्धानज्ञापकत्वप्रदर्शनार्थः । इदमत्राकूतम् । स्वभोगसाधनत्वादिना साध्येन स्तन्यपानत्वादेः साधनस्य पूर्वदेहानुभूतान्वय- HORE RECARE GOS CERICS व्यतिरेकच्याप्त्यनुसन्धानेनैव हि ज्ञातमात्राणां प्रथमतः स्तनपानादौ प्रवर्तमानत्वादस्त्येव तेषां देहात्मभेदज्ञानमिति । तस्मात्स्वधनादिनाशे नष्टोऽ हमिति व्यवहारवदौपचारिकोऽहं कृष्णोऽहं कृशोऽहमित्यादिव्यवहारः । ननु यथा धनादौ भेदव्यवहारः प्रचुरो न हि तथा देहे किन्तु स्वाविविक्त- वदेवेल्यत आह ॥ व्याप्तत्वादिति । यथाऽग्निमगाराद्विविष्य व्यवहर्तुमशक्यत्वादङ्गारो दहति । अङ्गारस्तेजस्वीत्यादिव्यवहारः । एवमत्रापि प्रत्यक्षगम्यान्माधुर्यविशेषानपि स्वानुभवानकूल्येन प्रतिपादयितुं न क्षमा हि लोकाः तत एवं प्रत्यक्षासिद्धस्य प्रमाणान्तरबाध्यत्वात् । नन्वागम उत्तरकालं च तद्गमोक्षं च ज्ञापयोदत्यत आह ॥ अगमोऽपीति आगमोऽप्यनुमानवदेव साक्षिप्रत्यक्षतः सामान्यतः सिद्धात्मकालादिक एव विशेष ज्ञापयेत् तत्र यदा- गमोऽत्यन्तमप्रसिद्धमवगमयति तत्रापि प्रत्यक्षसिद्धपदसमभिव्याहारेणैव हि ज्ञानं राजेव देवराडित्यादिकथं शाक्तिग्रहः । अन्यथा साक्षिप्रत्यक्षेण सर्वस्य सामा- न्यतः सिद्धत्वानङ्गीकारे कयं तत्तच्छब्दानां वाचकत्वशक्तिज्ञानम् । व्युत्पत्तिग्रहणाभावै पुनरागमस्यैवाप्रवृत्तिप्रसङ्गः । तदेवोपपादयति ॥ अतीतेति । नातीतानागतं वदेच्छब्द इति शेषः । यधन्यत्रातीतानागतयोरपि शब्दस्य वाचकत्वशक्तिमहोऽस्तीत्युच्यते । तर्हि सोऽतीतानागतकालमहतद्वर्तिपदार्थानहे च कथं स्यादिति भावः। यद्यसौ घटादिशब्दो वर्तमानघटादावेव घटं घटत्वादिसामान्यमन्यत्रातीतानागतघटादिष्वप्यनुवृत्तं गमयेत् । कथं सामान्यवर्जितं वस्तुस्वरू- पमतीतानागतं तच्छब्दोऽवगमयेत् । स्वरूपत्वं गोत्वादिवदनुगतं चेत्तस्य किं व्यावृत्तं वस्तु भवेत् । सल्यादेरयमर्थः । सर्वपदार्थानां सत्त्वं नामानुगतधर्मः । पुनर्जडत्वं पुनः पार्थिवत्वं पुनर्घटत्वमित्येतेषामन्ते हि स्वरूपसत्त्वं नामेष्यते । अत एव हि केवलं व्यावृत्तं किमिति प्रश्ने स्वरूपमित्युत्तरं स्यात् । स्वरूपत्वजाति कल्पयित्वा ततोऽन्ययावृत्तं कल्प्यते । चेतनावादिनः पक्षे स्वरूपं विवक्षितम् । तत्रापि तथाऽङ्गीकारेऽनवस्थाप्रसङ्गः । एवं व्यावृ- त्ताख्ये स्वरूपेऽप्यतीतानागतवर्तमाने यदा शक्तिपही भवेत्तदात्वनुवृत्तधर्मस्यानवकाशात् । साक्षिप्रत्यक्षेण सामान्यतो ज्ञानं विना शक्तिग्रहः कुतो भवेत् । तस्मात्सर्वत्राप्येवमेव शक्तिग्रहः । यद्यन्यावृत्तं स्वरूपं विवक्षितं कालाक्षादि । तदेव विशेषतो गोत्वादिसामान्यं च स्यात् । ननु युष्माभि- Papa २ RECORE व्यतिरेकव्याप्त्यनुसन्धानेनैव हि ज्ञातमात्राणां प्रथमतः स्तनपानादौ प्रवर्तमानत्वादस्त्येव तेषां देहात्मभेदज्ञानमिति । तस्मात्स्वधनादिनाशे नष्टोऽ हमिति व्यवहारवदौपचारिकोऽई कृष्णोऽहं कृशोऽहमित्यादिव्यवहारः । ननु यथा धनादौ भेदव्यवहारः प्रचुरो न हि तथा देहे किन्तु स्वाविविक्त- वदेवेल्यत आह ॥ व्याप्तत्वादिति । यथाऽग्निमगाराद्विविच्य व्यवहर्तुमशक्यत्वादङ्गारो दहति । अङ्गारस्तेजस्वीत्यादिव्यवहारः । एवमत्रापि प्रत्यक्षगम्यान्माधुर्यविशेषानपि स्वानुभवानकूल्येन प्रतिपादयितुं न क्षमा हि लोकाः तत एवं प्रत्यक्षासिद्धस्य प्रमाणान्तरबाध्यत्वात् । नन्वागम उत्तरकालं च तद्रमाक्षं च ज्ञापयोदित्यत आह ॥ अगमोऽपीति। आगमोऽप्यनुमानवदेव साक्षिप्रत्यक्षतः सामान्यतः सिद्धात्मकालादिक एव विशेषं ज्ञापयेत् तत्र यदा- गमोऽत्यन्तमप्रसिद्धमवगमयति तत्रापि प्रत्यक्षसिद्धपदसमभिव्याहारेणैव हि ज्ञानं राजेव देवराडित्यादिकथं शाक्तग्रहः । अन्यथा साक्षिप्रत्यक्षेण सर्वस्य सामा- न्यतः सिद्धत्वानङ्गीकारे कयं तत्तच्छब्दानां वाचकत्वशक्तिज्ञानम् । व्युत्पत्तिग्रहणाभावे पुनरागमस्येवाप्रवृत्तिप्रसङ्गः । तदेवोपपादयति ॥ अतीतति । नातीतानागतं वदेच्छन्द इति शेषः । ययन्यत्रातीतानागतयोरपि शब्दस्य वाचकत्वशक्तिमहोऽस्तीत्युच्यते । तर्हि सोऽजीतानागतकालाहतद्वर्तिपदार्थामहे च कयं स्यादिति भावः। यथसौ घटादिशब्दो वर्तमानघटादावेव घटं घटत्वादिसामान्यमन्यत्रातीतानागतवटादिश्वप्यनुवृत्तं गमयेत् । कथं सामान्यवर्जितं वस्तुस्वरू- पमतीतानागतं तच्छब्दोऽवगमयेत् । स्वरूपत्वं गौत्वादिवदनुगतं चेत्तस्य किं व्यावृत्तं वस्तु भवेत् । सर्वेत्यादेरयमर्थः । सर्वपदार्थानां सत्त्वं नामानुगतधर्मः। पुनर्जडत्वं पुनः पार्थिवत्वं पुनर्घटत्वमित्येतेषामन्ते हि स्वरूपसत्त्वं नामेष्यते । अत एव हि केवल व्यावृत्तं किमिति प्रश्ने स्वरूपमित्युत्तरं स्यात् । स्वरूपत्वजाति कल्पयित्वा ततोऽन्ययावृत्तं कल्प्यते । चेतनावादिनः पक्षे स्वरूपं विवक्षितम् । तत्रापि तथाऽङ्गीकारेऽनवस्थाप्रसङ्गः । एवं ब्याव- ताख्ये स्वरूपेऽप्यतीतानागतवर्तमाने यदा शक्तिमहो भवेत्तदात्वनुवृत्तधर्मस्थानवकाशात् । साक्षिप्रत्यक्षेण सामान्यतो ज्ञानं विना शक्तिप्रहः कुतो भवेत् । तस्मात्सर्वत्राप्येवमेव शक्तिप्रहः । यद्यव्यावृत्तं स्वरूपं विवक्षितं कालाक्षादि । तदेव विशेषतो गोत्वादिसामान्यं च स्यात् । ननु युष्माभि. Bes SCSCG Pay रपि वस्तुषु सामान्यमङ्गीक्रियते हि । तस्यानुगतधर्मत्वमपि स्यादित्यत आह ॥ न चेति तेनानुगतधर्मकल्पनायामप्युक्तरीत्या व्युत्पत्यसम्भवे । अ०टि० सर्वधर्माणां भेदानुभवेन निमित्तेन चैकधर्मिता न स्यात्तिकम् । अयं गौरयमपि गौरन्पोऽपि गौरिति दृश्यते ।कमेव व्यक्तिष्वनुगत 3 न० चे० गोत्वमित्यत आह ॥ तदिति । तेषां गवादीनां सादृश्यमेव हि तथा दृश्यते । हि खुरपुच्छसास्नादिमत्त्वलक्षणात्सादृश्यादन्यद्गोत्वं ॥४॥ तद्वित नामोपलभ्यते । न हि तत्पक्षेऽपीयं जातिरिति व्यवहारेऽपि जातित्वजाति मास्ति । जातिसदृशस्यैव तत्राकृतत्वात् । अतो व्युत्पत्तिग्रहणान्यथाऽ- ०१ नुपपत्तेश्चण्डमुण्डादीनां परस्परवैलक्षण्यात्कथं सादृश्येन शक्तिग्रह इत्यत आह ॥ किञ्चिदिति । तत्तत्सादृश्यमानतः सास्नादिमत्त्वस्य सादृश्यस्य सामयेणानङ्गीकारे महिषादिष्वतिव्याप्तिः । ततोऽतिरिक्तस्य काण्यादरप्यङ्गीकारे गोष्वतिव्याप्तिरिति तत्तसादृश्यपरिमाणानुसरणादित्यर्थः । इतश्च प्रत्यक्षस्य वर्तमानमात्रविषयत्वं नेत्याह ॥ प्रत्यक्षमिति। मानसं प्रत्यक्षं च यद्यतीतार्थगोचरं तयेव तत्स्मृत्याऽस्य प्रमाणत्वम् । तस्यापि वर्तमानमात्रप्राहित्यै चक्षुरादैरविशेषप्रसङ्गात् । नन्वनुभूतमात्रविषयत्वात्स्कृतेः प्रामाण्यं न स्यादित्यत आह ॥ अतीतत्वेति । अतीतत्वाख्यविशे- षविषयत्वेन विशेषितं हि तदित्याशयः । तदेवोपपादयति ॥ आधिक्यामिति । अतीतवर्तमानत्वधर्मिणि तदेवेद वसनमित्यादिप्रत्यभिज्ञाऽ तीतविषयत्ववतर्मानविषयत्वधर्मिणि दृश्यते । न चानिर्वचनीयं तस्याः प्रत्यभिज्ञायाः पूर्वमध स्मृतिज्ञानमेव । शेष प्रत्यक्षम् । एवं ज्ञानद्वयरूपा प्रत्यभिज्ञा । तस्मात्स्मृतीतरस्य प्रत्यक्षस्यातीतविषवं नास्तीति तदेवेदमिति तस्वेदनवेन ग्रहणस्यैकज्ञानत्वाद्वर्तमानकनियमः । वर्तमानमात्रविषय- त्वनियमः स्यात्किम् । प्रमासाधनं प्रमाणम् । अज्ञातार्थपरिच्छित्तिः । प्रमास्मृतेस्तु ज्ञातार्थविषयत्वेन प्रमिल्यसाधनत्वान्न प्रमाणत्वमित्यत आह ॥ न चेति । ननु मयैतद्वसनं ज्ञातमित्यनुभूयते हि। प्रमाणफलभूता प्रमितिः प्राकट्य परपर्याया तस्मत्कथमन्त्र मानाभाव इत्यत आह ॥ मयेति । यदेते वदन्ति । तत्त्वावेदकप्रमाणफलभूतत्याः प्रमित्या उदय प्रमाणादिसर्वप्रपश्चस्वोच्छित्तिरति । तदप्याशामात्रमित्यायातम् ॥४॥ न तदभिमतायाः प्रमित्या एवासम्भवात् । तदाह ॥ मानेति । तत्तस्मात्प्रमित्यसम्भवादुक्तरीत्या प्रबलप्रत्यक्षसिद्धत्वाद्वा विच्छित्तिर्बाधः । तत्र स्वप्नदृष्टान्तोऽपि नारतीत्यभिप्रायेणाह ॥ स्वामानामिति । ततः संस्कारमयत्वोक्तेः । आत्मा च क्वचिदेहत्वादिभ्रमगोचरः स्यात् । यद्यात्मनि स्वरूपादन्यथादृश्यमानमात्रं मिथ्या न सर्वस्वरूपम् । तर्हि स्वप्नजागरितयोरपि जानत्वं शुक्तिरजतादि च मिध्या स्यात् । न सर्वे स्वप्नजानदवस्थे। स्वप्ने गजादीनद्राक्षम् । जागरिते चैत्रादीनंदाक्षमित्लबाधितत्वेनानुवृत्तेश्च । स्वमतस्य स्वशास्त्राभिमतार्थस्यात्मैक्यस्य विश्वभ्रान्तिकल्पितत्वस्य वा भ्रान्तित्वेयादेरयमर्थः । यदिजगतो भ्रान्तिकल्पितत्वधर्मस्य वादिना प्रतिपिपादियिषितस्य भ्रान्तिकल्पितत्वमङ्गीक्रियते । तीभ्रान्तिकल्पितत्वस्यास्म- दभिप्रेतस्य कथं सत्यता न स्यात् । उन्मत्तेनाप्यपरिग्राह्यं कथं लोकैः प्रवर्तितमित्यत आह ॥ ईशेति । एवं मायामात्रमिति सूत्रस्य परयोजनां निरस्य स्वयं तयोजयति ॥ अत इति । मुख्यनिमित्तमीश्वरीमाया । अन्यज्जीवस्यादृष्टं । सह पृथगिति स्वयमेव व्याख्याति ॥ उभाभ्यामिति । स्यात्किम् । मनोगतवासनामयस्य स्वमस्य कथं प्रज्ञोपादानकत्वमित्यत आह ॥ प्रज्ञेति ॥ १ ॥ पराभिध्यानातु तिरोहितं ततो यस्य बन्धविपर्ययाविति सूत्रं योजयति ।। वासनेति । उक्तार्थ निगमयति ॥ सृष्ट्वैवेति ॥ २ ॥तदभावो नाडीषु तच्छुतेरात्मनि ह। अतः प्रबोधोऽस्मात् । मुग्धेऽर्धसम्पत्तिः परिशेषादिति सूत्राणि विवृणोति ॥ सुषुप्तीति ॥ ४-५-७॥ स एव च कर्मानुस्मृतिशब्दविधिभ्य इति सूत्रं व्याख्याति ॥ नान्य इति ॥ ६ ॥ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हीति सूत्र व्याख्याति ॥ न स्थानेति । सर्वत्र स्वरूपेष्वेवविधः परमेशिता । तद्विरुद्धन्तु परेशस्य बद्धत्वाशत्वादिकं प्राज्ञः कारणबद्धस्त्वित्यादिवाक्यं तत्र मानं न भवेत् । वाक्यस्य तु बद्धो बन्धादिसाक्षित्वादित्यादिना विषयान्तरं द्रष्टव्यम् । भगवती गुणोत्कर्षत्वनिर्दोषत्वज्ञानजन्यप्रसादद्वारेण दुःखाप्ययसुखावाप्योरेव वेदस्य महातात्पर्यमिति साधयति ॥ दुःखेति। तत्र प्रमाणमाह ॥यो मामिति। R55% Ram मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति सर्वभावेन भारतेति भगवद्वचनम् । अभी ३ इदमेको अस्मि निष्णाळमीद्वा अ०टि.18 किमु त्रयः करन्ति खलैन पन्प्रितिइन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्रा इत्यस्याओं ब्रह्माण्डवचनैनैवावगम्यते । इदै जगासर्वमीदृशानि न०० भूराणि वा मामभियान्ति सङ्ख्यै । धान्यानि यद्वखलगानि मर्त्यः सञ्चूर्णयिष्याम्यहमेक एवेति । प्रसादान्मुक्तिरिति लोकदृष्टान्तोऽप्यवसीयते । । ०द्वि. ॥४२॥ स प्रसादो गुणवेदनादिति च । यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः । इति गुह्यतममिति गीतासु । अ०१० ब्रह्मरूपाणि भिन्नानि भिन्नस्थानत्वाच्चैत्रवदित्यनुमा । ब्रह्मणो रूपाण्यभिन्नान्यैक्यानुसन्धानवत्त्वाद्ब्रह्मवदिति प्रत्यनुमानविरुद्धत्वेन च । तत्र ब्रह्मणो भिन्नत्वसदोषवादौ वर्तते रूपाणां ब्रह्मणो रूपाणामन्योन्यभेदै तेषां प्रातिकूल्यानुकल्पयोरपि स्वातन्त्र्यं न स्यादि । एवं च केषाञ्चिद्रूपाणां परतन्त्रत्वे तस्य ब्रह्मणः सर्वात्मना पूर्णत्वाभावप्रसङ्गः । सर्वस्मात्तस्य स्वरूपेषु भेदाभावप्रतिपादनेन सर्वगुणपूर्णत्वं सिद्धम् । तदाह ॥ तेनेश इति ॥८॥ जीव ईशैनाभिन्नश्चित्त्वादीशरूपवदिति च न वाच्यामित्याह ॥ न चेति । तत्रांनाभासचित्त्वमुपाधिमभिप्रेल्लाह ॥ यत इति । श्रुतिस्वस्थ जीवस्याभासताख्यमीशरूपवैलक्षण्यं वदति । तां श्रुतिं चैकामुदाहरति ॥ यथेति । सत्ताप्रतीतिकार्येषु सत्तायां विनाशेनाप्रतीती गमनादिकार्येषु विशेषको गरुडानन्तौ । अत्र परैरुत्प्रेक्षितमनुवदति ॥ आभासत्वमिति । चेतनसमुदायरूपेण ब्रह्मैक्यसमुदायैक्यं नाम । पृथगुपदेशादिति भेदोक्तगतिमाह ॥ अत इति । समुदायाँशयोः समुदायरूपस्य ब्रह्मणोंऽशयोः कृष्णाख्यजीवाख्ययोरुदिता सिद्धान्तिनेति शेषः । पूर्ववाद्यवाशक्य परिहरति ॥ अथेति । तत्र सूत्रमवतारयति ॥ आशङ्केति। अत एव चोपमा सूर्यकादिवदित्यत्रान्याभावविशेषितां चाह । वेदाधिपो जीवाख्याभासस्य नोपाध्यधीनाथैश्चेत्यायशब्दानेदाभावो वादिविप्रतिपत्तिरेव तद्वचनं न पुनः क्वचित् । बिम्बप्रतिबिम्बयोभेदाभावात्। उपाध्यधीनत्वाभावे सूर्यकाबुपमा कथमित्यत आह ॥ नेति । निदर्शने दृष्टान्ते दान्तिकस्य सर्वसाम्यं न विवक्ष्यते हि परीक्षकैः । सुखादीत्यादिशब्दानित्यदुःखा- ॥४२॥ जालन न HANDRA भावः। अतः सुराणां त्वाशैन किश्चिज्ज्ञानमात्रमेव । साम्यमेव । उक्तार्थस्य सूत्रपदस्यसम्बन्धं दर्शयति । तदधीनत्वमिति । एवशब्दस्तदधीनत्वमेव जीवस्य न रूपावधीनत्वादिकमिति सुप्रकाशयति । चशब्दः किञ्चित्सादृश्यम् । प्रत्यक्षायखिलमानतो जीवेशभेददृष्टिर्मुहुरुक्ता । सर्वशक्तित्वतः सर्वशक्तिवचनतः । कथं ततोऽशेषदोषराहिल्यमुक्तं स्यादित्यत आह ॥ अशेषेति । न तावत्सर्वचेतनानां मिथ ऐक्यानुसन्धानमस्ति । अनुभव- विरोधात् । तत्समुदायैक्यमनुसन्धानरहितं चेषथा वृक्षाणां वनाख्येन समुदायेनैक्यं तादृशमेव हि । तन्नास्माकमनिष्टापत्तिरिति भाववानाह ॥ अनुसन्धानेति । सुदुष्करं साधयितुमिति शेषः । सर्वज्ञ ईशो मुक्तेः पूर्वमेकतां नानुसन्धत्त इति यतस्तस्मान्नैव स्यात् । दुःखिनैकतामनुस- न्धत्ते चेदीशस्यापि दुःखितापत्तिः । मुक्तेः पश्चादैक्यस्यानुसन्धानं स्याच्चेत् किमविद्यमानस्यैति चोधम् । उभयत्रापि दोषमाह ॥ मिथ्येत्यादिना। अविद्यमानस्यैक्यस्यानुसन्धानं चैदीशस्य मिध्याज्ञानिता भवेत् । अविद्यमानस्यैक्यस्यापि तदैवानुसन्धानमासीन्न तु पूर्वमिति चेत् । पूर्वमङ्गत्वमापतेत्।। उक्तं पूर्वमसदैक्यं यदि पश्चाद्भवेत्ताई सप्तमो रसोऽपि स्यात् । कुत्रचिपूर्व भिन्नस्य पश्चादैश्यादर्शनात् । उन्नद्धमुत्कृष्टम् । नेह नानाऽस्ति किञ्चन । इन्द्रो मायाभिः पुरुरूप ईयते । युक्ता ह्यस्य हरयः शतादशैत्ययं वै हरयोऽयं वै हरयो दश च सहस्राणि बहूनि चानन्तानि च तदेतद्ब्रह्माऽपूर्वमनपरम- बाथमयमात्मा ब्रह्म. यश्चायमनौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्म वाङ्मयो यमेव स योऽयमात्मेदममृतमिदं ब्रह्मेत्यादिश्रुतिमानेन तत्रेश्वरे भेदोऽपि नास्ति । चेतनैक्येऽनुसन्धान प्रमाणमित्युक्तमेव । विस्तरेणाह जीवेति । इन्द्रादिजीवांशा अर्जुनाया नियमेनैक्यानुसन्धानवन्तः । यदि स्वरूपणकता तर्हि न तु स्थानाधैक्यात् । यथा सोमे ब्रह्मावेशाब्रह्मांशत्वव्यवहारे सत्यपि तस्य स्वरूपैक्याभावादनुसन्धानाभावः । अशेषमनुस- न्धानमित्युक्त स्पष्टयति ॥ सुखेति । नवंशिनस्तु सामस्त्येन सुखाद्यनुसन्धानमुच्यते हि । कथं तेनाभिन्नस्यैवांशस्य तद्वन्नास्तीत्यत आह ॥ विशेषस्त्विति । ईशस्यांशक्यं न विद्यते चेत्वस्य जीवैकतामपि कुर्यादित्यत आह ॥ सेति । सर्वमानविरोधं प्रकाशयति ॥ ईशत्वे- ८ ALS नेति । श्रुत्यादिभिरीशत्वेनैव विज्ञातं भगवन्तमनीशजीवत्वेनोपदिशेच्छृतिः । यदि वाऽनीश्वरत्वेनैव प्रत्यक्षादिभिर्विज्ञातमीशत्वेनोपदिशेत् । अटि० तिर्युपजीव्यप्रमाणविरोधेनैव मानत्वं गच्छेत् । न च नित्यत्वेन निर्दोषायास्तस्या अमानत्वं युक्तम् । तस्मादीशानीशयोरैक्यं न चोपदिशति // न०० ॥४३॥ श्रुतिरित्याशयः । अस्येशस्य । अयुक्तमित्यादेरयमर्थः । अन्यत्रेशादन्यत्र । निरंशजीवादी सामध्यैकदेशबिनियोगादिकमीशवलाधुक्तं भवति । अतल द्वि ईशादन्यत्र जीवे यदृष्टमंशांशिनोः शक्तितारतम्यादि तदपीशे तु नैव कल्प्यते । प्राज्ञः किञ्चन संवेत्ति तुरीयं तत्सर्वदृक् सदेत्यादिश्रुत्य भासाप्तमप्यवि अ०९ चारितार्थतया श्रुत्यादिविरुद्धेऽयें प्रयुक्ता श्रुतिः श्रुत्याधाभासः । यत्तस्येश्वरत्वस्य विरुद्धं तदेव न कल्प्यते । न पुनश्चेतनत्वादिकम् । स्मृत्या च तस्य स्वल्याहतिं साधयति ॥ ईश इति । जगन्मिध्येति वचने जगतो मिथ्यात्वधर्मस्यापि जगदन्तर्भूतत्वात्सोऽपि मिथ्येति प्रतिज्ञाव्याघातः । भेदनिषेधेऽपि भिदा नेत्यनयोः शब्दयोमेंदोऽगीकर्तव्यः । अपरथा भिदाभिदेत्येवोक्तं स्यात् । ईशस्य सर्वोपपादकत्व- मित्यादौ च मानमाह ॥ नायुक्तमिति ॥ १० ॥ किश्चिदेकस्यैवाणिममहिमादिकं यदीशित्वविरोधि स्यार्दाशितव्यमिथ्यादिक रूपवत्त्वादनित्य ईशोऽनित्यस्य च को हि महिमाऽत्र तस्मिन्भक्त्या च किमित्येतामाशङ्का पारिहरन् अरूपवदेव हि तत्प्रधानत्वादिति सूत्रं व्याख्याति ॥ स चेति । अत इत्यादेरयमर्थः । सहस्रशीर्षा पुरुषः । वेदाहमेतं पुरुषं महान्तमित्यादेरप्राकृतरूपज्ञानात्मकस्य वाचकत्वात् । अवर्णमचक्षुः- श्रोत्रं तदपाणिपादमित्यादेः प्रकृतरूपनिषेधकत्वादनित्यत्वम् । श्रुतिवर्गद्वयस्य परस्परविरोधित्वं च न स्यात् । घटायनित्यत्वे प्राकृतरूपवत्वस्य प्रयोजकत्वात् रूपवत्त्वमानहेतोरप्रयोजकत्वं स्यात् । प्रकाशवच्याव्यमिति सूत्रं विवृणोति ॥ यथेति । अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽसौ शान्तायां वाचि किं ज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवतीति श्रुतिः । यथा ॥४३॥ सुप्याद्यवस्थायां प्राकृतप्रकाशाभावेऽपि परमात्मानं ज्योतिःशब्देनाह । एवमेव पश्यते रुग्मवर्णमित्यादिका श्रुतिरपि ॥ ९ ॥ वृद्रिहासभाक्त्व- - D मन्त वावुभयसामञ्जस्यादेवमिति सूत्र व्याख्याति ॥ तद्भक्तीति ॥१२॥ स्थानविशेषात्प्रकाशाविवदिति सूत्र व्याख्याति ॥ प्रतिबिम्बवदिति । परमतःसेतून्मानसम्बन्धभेदव्यपदेशेभ्य इत्यस्यार्थं सूचयति ॥ तस्माद्भिन्नश्चेति । न चात्र सूत्रक्रम- विपर्यासो दोष आशङ्कनीयः । सिंहावलोकनन्यायस्यापि सम्भवात् । न च तावता सूत्रक्रमभङ्गप्रसङ्गः । अनेनैव भगवता भाष्ये सूत्रक्रमस्य सुतरां प्रदर्शि- लत्वात् । ईशता सा चान्येति शेषः ॥ १७ ॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इत्यभिप्राय सूचयत्याशङ्का पारहरन् ॥ न युज्यत इति ॥ १३॥ तदव्यक्तमाह हीत्यधिकरणार्थं सूचयति ॥ अव्यक्त इति ॥ १४ ॥ नन्वीशस्य सर्वावस्थाप्रेरकत्वादिगुण- लक्षणी महिमा ह्यत्र विवक्षितो न घटते । गुणानां भेदाभ्युपगमे च गुणिमात्रस्यैव विद्यमानत्वादित्यत आह ॥ तदभिन्ना इति । गुणत्वेन भोग्यतया गुणित्वे भोक्तूतया च स्थिताः । ननु क्रियादिभिरनित्यधर्मेंश्विरस्यैक्याङ्गीकारे तस्याप्यनित्यत्वप्रसङ्गादित्यत आह ॥ विशेषात्मतयेति । नेत्यादेश्य- मर्थः । धर्माणामियं क्रियाद्यात्मकता च नानित्या । सा शक्तिरूपतयैव सविशेषत्वेन क्रियादिरूपतेत्युच्यते । इति यस्मात्तस्मान्नानित्यता। द्रव्यं स्वय- मेव गुणगुणितद्विशेषात्मकमिति स्वनिर्वाहकताहेतोः स्यात् । द्रव्येणात्यन्तमभिनश्चेद्विशेषो नाम नास्तीत्याशङ्कां परिहरति । तथापीति स इमान् लोकान्व्यसृजत । स ब्रह्मणा विसृजति । स रूद्रेण विलापयति । सोऽनुत्पत्तिरलयः । एक एव हरिरित्यादिश्रुत्या तन स स इति प्रस्तुतस्य परमात्मनः स्रष्टादिरूपेणाभेदश्च गम्यते । समानाधिकरणोक्तेः । एवमभैदिना कथं भिन्नः किमाहोस्वित्तदभिन्नः । भिन्नश्चेत्तस्य भेदस्यापि भेदान्तरं तस्यापि तथेत्यनवस्था स्यात् । भेदस्वभिन्नश्चेत्पुरा विशेषविशेषिणोविशेष एवाभिन्न इति किमिति तनाङ्गीक्रियते । तथाऽङगीकारे च तस्यापसिद्धान्त इत्याशयेनाह ॥ विशेष इति । क्रियाघाख्यो विशेषस्वभिन्न इति तेन तार्किकैग नाभ्युपगम्यते । योऽयं क्रियाथाख्यविशेषस्य द्रव्येण भेदः सोऽभिन्नः । तस्मान्नानवस्था । न च तत्रास्माभि दोऽभ्युपगतः । एकत्रापर्यायनानाशब्दवृत्तिविशेषोऽभ्युपगम्यत इति । मैवम् । तथा अ०टि. ॥४४॥ PARAN सति धर्मिणो भेद इति व्यवहारः कथं घटते । तयोः शब्दयोनिर्विशेषकार्यवाचकत्येन पर्यायत्वप्रसङ्गात् । तदेतदाह ॥ भिन्न इति । अयं घटः न० ० स्तम्भेन सह भिन्नः कुम्भेन सह भिन्न इति । प्रतियोगिमैदादेक एव भेदः सविशेषत्वतो हि बहुधा दृश्यते । इतश्च विशेषोऽङ्गीकर्तव्य इत्याह व०वि० अ०१५ ॥ अभेदभेदयोरिति । योयं गुणगुणिनोर्मेदस्ताद्विवक्षितो यश्चामेदो धर्मिण आत्मनां तयोरुभयोरपि धर्मिणः स्वरूपत्वमिष्यते । तथा हि । भिदाभेदिनैकेति शेषः । अविशेषे कयमेवं भवेत् । भेदिमात्रावत इत्यन्वयः । धर्मिमात्रं हि विद्यते न तु भेदाभेदौ विद्यते इति वक्तुं न शक्यते । धर्मिणो- विशेषाङ्गीकारादित्याशयः । किं भेदः कल्प्यते तदा तर्हि गुणगुण्यादीनां किमिति मैदः कल्प्यते । तत्रापि विशेषेणैव व्यवहृतिसम्भवात्। एवं चेद्गो- हयादीनामपि विशेष एव स्यान्न भेद इत्याह ॥ ऐक्येति । न ह्यानन्दो ब्रह्मेत्यादिवद्गौरश्व इति सामानाधिकरण्येनाभेदानुभवः । सत्यमेवं गुणगुणिभावमङ्गाकुर्वतो विशेषोऽङ्गीकार्यों न पुनर्निर्गुणब्रह्मवादिनेल्यत आह ॥ सच्चिदादेरिति । सत्यं ज्ञानमनन्तं ब्रह्मत्यादिवाक्येषु सच्चिदा- नन्दादेः शब्दजातस्यापर्यायत्वसिद्धयर्थं विशेषोऽङ्गीकार्यः । यदि जडत्वाचसत्यविशेषणं वारयितुं ज्ञानादिशब्दान्तरमिष्यते । ताहै ब्रह्मणो जडत्वादिमाया- मयविशेषराहिल्याख्यविशेषणविशेषिता तद्राहित्यविशेषिता च मायामयी चैत्सा च तथेत्यनवस्थितिः । निर्विशेष शब्दप्रवृत्तिनिमित्ताभावान्न तावदुक्तिमेवेत् । सत्यमेवमवाच्यं ब्रह्म जाड्या दिव्यावृत्तिद्वारेण ज्ञानादिपदजातेन लक्ष्यते परमिति चेत्तेन लक्ष्यत्वं नाम विशेषो भवेत् । अपिशब्दाचावृत्तादिपदवाच्यत्वं च स्यात् । पुनः पुनरियादेरयमर्थः । व्यवृत्तपदेनापि लक्ष्यमिति वदति चेत् । किं तलक्ष्यमिति पृष्टे ब्रह्मेति पदान्तरम् । तत्राप्येवं तत्राप्येवमित्यनवस्था स्यात् । ननु जाड्यादिविशेषेण विशेषितत्वं ब्रह्मण इति । तदिष्टमेवास्माकम् । भावाद्वैतवादित्वात् न सार्वज्ञसुखत्वादिभावविशेषित्वमङ्गीकार्यमित्यत आह ॥ यद्यभावेति । असत्वेत्यादेरयमर्थः । असत्त्वाज्ञानत्वाव्यातलादेश्वानिवर्तनादसुखम- ॥४४॥ ज्ञानमव्याप्यादि च ब्रह्म स्यात् । किं सत्यं ज्ञानमनन्तं ब्रह्मेल्यादौ सत्यादिपदैह्मणोऽनृतादिविरोधित्वमङ्गीकुमो हि । तस्मानासत्यत्वादिकं तस्य R प्रसज्यत इत्यत आह ॥ अनृतादीति । अनृतं न भवतीत्युक्तऋतत्वाख्यो भावधर्मः स्यादेव ब्रह्मणः । स पुरुषः स ईश्वरः स ब्रह्मेतीश्वरशब्द- विवक्षितेनानेनैश्चर्यविरोधित्वेन प्राप्तमैश्वर्य किमिति निवार्यते। विशेषाभावात् । किञ्च ज्ञानादिपदाभिप्रेतं जडत्वादिविरोधित्वमस्याभ्युपगम्यते हि । तेनाभा- वधर्मिणोऽपि ब्रह्मणः सविशेषत्वमापतेदेव । तस्य ब्रह्मभावात् । न चेदभाव एव वा स्यात् । ब्रह्मैव वा स्यात् । एवं च सविशेषत्वे ऐश्वर्यादीनां भावधर्मादीनां को विरोधः । इदमनृतादील्यादिशब्दाभिप्रेतम् । अखण्डवादी निविशेषलवादी मायीत्यखण्डवादिनां विशेषभेदवादी वैशेषिकादिः । खण्डाखण्डो भेदवादी भट्टादिः । उभयव्यपदेशात्त्वहिकुण्डलवत् । प्रकाशाश्रयवदा तेजस्त्वात् । पूर्ववद्वेति निदर्शन- त्रयेणाह भगवान्सूत्रकारः । यद्भाटा वदन्ति । अनन्वितत्वेनानभिहितानामनामन्वय इति । तदप्यनेनापास्तम् । सर्वपदार्थानां गुणाधैक्यसाधने- नानन्वितस्यैवार्थस्यैवाभावप्रतिपादनात् । तदाह ॥ तच्चेति । यदेत्यादेरयमर्थः । पुरुष इत्येकपदेनापि तस्याशेषविशेषाणां सामान्यत उक्तिभवेत् । धर्मधम्क्यात् । धर्मिपदेन धर्माणां सामान्यत उक्तिसम्भवात् । अपरथा पुरुष इत्युक्तवन्तं प्रति पुरुषः किं करोतीति प्रश्नो न घटते । तावन्मा- ऋश्रवणेनैव कृतकृत्यत्वसम्भवात् । सामान्यतः प्रतीतानां पूजनभोजनशयनादीनां विवेचनाय हि पृच्छति । पुरुषोत्तमं पूजयतीत्युत्तरेण पदेन विशेषावगतिर्भवेत् । तदेवोपपादयति ॥ यत इति। अनुभवेनापि निश्चितोऽयमर्थ इत्याह ॥ स्वार्थ इति । अनन्वितवादे दूषणमाह ॥ यदीति । अनन्वयस्य कथं ज्ञानम् । शब्दार्थत्वं यदाऽस्य नेत्युक्तमेव प्रतिपादयति ॥ यदैवानन्वितेति । न तदर्थ इत्यादेरयं भावः । एवं पदानामर्था- नन्वय इत्यायातम् । तथा च तत्पक्षे वाक्यं नाम न स्यात् । निराकाङ्क्षपदानि वाक्यमिति हि वाक्यलक्षणम् । तत्रोचितकावाभिधानेन निरा- काङ्क्षता च स्यादेव । तत्पक्षे तु कर्तृकर्मक्रियाद्यर्थेष्वभिहितेषु सत्स्वप्यन्वयस्यानवगत वगतत्वादेवाकाङ्क्षायाः पूर्वाक्यं नाम न स्यात् । प्रमाणमेव न स्यात् । प्रकृतमुपसंहरति ॥ अत इति ॥ १५ ॥ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्य इति सूत्रमपि व्याख्याति सूत्रक्रम न ISRO Rom अ०टि. न०० ३०३० ॥४५॥ व्यञ्जयन् ॥ ते चेति । बुद्धयर्थः पादवदिति सूत्रं व्याख्याति ॥ उपदेशत इति । वेदवचनतः । आनुकूल्यादित्यादिशब्दा- उज्ज्ञानस्य विषयसम्बद्धत्व पूर्णत्वादीत्यादिशब्दात्स्वतन्त्रत्वम् । अथैष एव परम आनन्द इति श्रुतौ श्रुतम् । पूर्ण इत्यादौ च स्वाद्वत्ति इति स्वादुरानन्दः स्वादुत्तमः स्वानन्दश्रेष्ठ इत्यर्थः । एकलः प्रधानः ॥ १६ ॥ कर्मणैव सर्वस्य नियतत्यसम्भवात्कथं विष्णोः सर्वनियन्तृत्वमित्याशङ्का पारहरन् फलमत उपपत्तेरिति सूत्र व्याख्याति ॥ स एवेति । धर्माधर्माणां बोधनं नाम तानिमित्तीकृत्य कर्मान्तराणां प्रवर्तनं फलदानं सुखादिदानं प्रेरणादिकमित्यादिशब्दानिवर्तनम् । प्रत्येकमित्यादेरयमर्थः । तेषु कर्माभिमानिचेतनेषु प्रत्येकं पृथक् चेतनानि कर्माणि सन्ति । तानि चैवं पृथक् चेतनान्यनन्तकर्माणि तानि चैवमिलेकैकस्मिन्नेव जीवेऽनन्तधाऽनन्तकर्मनियन्तुरीश्वरस्य शक्तिरनन्तेति महामहिमा सर्वोपकारकश्चासौ । तथाऽन्यानपि सर्वशोऽन्यानि कर्माण्यपि तथैव भगवदधीनानि ॥ २० ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गह्मसूत्रानुव्याख्यानस्य टीकायां त्रैविक्रमार्यकृतौ नयचन्द्रिकायां तृतीयाध्यायस्य द्वितीयः पादः ॥३-२॥ * ॥ * ॥ ॥ श्रीगुरुभ्यो नमः ॐ ॥ इति पादक्रमो भवेत् पादचतुष्टयोपदिष्टानां वैराग्यादिसाधनान्तानामेत्रमुत्तरोत्तरकारणत्वादयं पादक्रमः सम्भवदेव । विरक्त्यादीनामुत्पत्तर्विचारायत्तत्वात् । उपासकेनाहम्भावकथनमुखेन युक्त्यादिपदानां सङ्गतिं दर्शयति ॥ युक्तित इति । आपाततो युक्तिविरोध प्रतीते सति तंतः प्रबलयुक्तितस्तं परिहत्य ज्ञातवेदार्थोऽध्यात्ममात्मानमधिकृत्य वर्तमानं शरीरेन्द्रियादि तस्य सन्निहितत्वतो वेदविचार्ययोरात्मपरमात्मनोः | स्थानत्वनाध्यात्मत्वस्य जिज्ञासासन्निहितत्वत इन्द्रियादौ युक्तीनामुपजीव्यप्रमाणत्वात्तत्र बहुयुक्तिविरोधानां भानात्तवाचकश्रुतीनां युक्तिसहितश्रुति'विरो- धपरिहाररूपेण प्राणस्वरूपणान्विरोधानेव परिदृत्य प्राणर्दैवताना प्रसादानुरक्षितो भवेदधिकारी । ईशस्य सर्वदेहादिकर्तृत्वज्ञानेन स्नेहबहुमानात्मि- १४५/ ne E ॐ कार्याश्च भक्ती सामान्यतो ज्ञातायाँ तदन्यत्राधिकवैराग्यं सुलभ स्यात् । तद्वशत्ववेदनाविशिष्टाचार्याख्यसम्पदा किमुपास्तौ कृत्यामित्याकाङ्क्षायां तदनुग्रहेणैवंविधा ब्रह्मजिज्ञासा कर्तव्यैवोपास्ति विधित्सता पुरुषेणेति प्रकाशयन्वृत्तमनुवदति ॥ कर्तव्यति । अनादिसूत्रद्वयं व्याख्याति । किमतीति । किमर्थमिति पुनः । अत इति सामान्योक्तित्वात् । पुनरपि संशये । अभिप्रायमाह ॥ येनैवेति । गतोऽवगतः । शास्त्रयोनि- त्यादित्याशङ्कारूपेण ॥ मोक्षादीति । दुःखहानिरल्पापीति शेषः । विमतं सकर्तृकं कार्यत्वाइटवदिति केवलानुमागम्येश्वरायदि मोक्ष इष्यते तर्हि विमतो मोक्षदो न भवति पुरुषत्वादृष्टपुरुषवदित्यनुमैव तस्य मोक्षदातृत्वं विनिवारयेत् । पतिं विश्वस्यात्मेश्वरमित्यादिना केशवस्यैव हि स्वतन्त्रत्वमित्यभिप्रेत्याह ॥ मोक्षद इति । अन्याश्रयेणेलादेरयमर्थः । यथेष ब्रह्मादिरपि विष्ण्वाश्रयेण स्वभक्तेभ्यो मोक्षं दधादित्युच्यते तर्हि तत्र ब्रूमः । स विष्णुस्तेन मुमुक्षुणा स्वयमनमुसृतो मोक्षं न दद्यादेव । यमेवैष वृणुते तेन लभ्यः । यमेष भगवानेव प्रसादेन वृणुते तेनायं लभ्यः । तमेवं विदित्वाऽतिमृत्युमेति । नान्यः पन्था विद्यतेऽयनाय । तं विदित्वैव मृत्युमत्येति । अयनाय मोक्षाय । मोक्षप्रदे सृष्टयादिकर्तार ब्रह्मशब्दवाच्ये हि शाखस्य तात्पर्यम् । तानि च लक्षणान्यस्यां श्रुतौ समुद्रान्तःस्थत्वादिलिङ्गैर्विष्णौ निर्णीतायां विष्णोः प्रतीयन्ते । तस्मात्स एव शास्त्रयोनिरित्यभिप्रायेणाह ॥ य एनमिति । य एनं विदुरमृतास्ते भवन्तीत्युक्तस्तदेव ब्रह्म परमं कवीनामित्यवधारितश्च । यमन्तः कवयो वयन्तीति समुद्रगत्वेनोक्तो नारायणो हि । यतः प्रसूता जगतः प्रसूतीति तत्रैव ।। तत्तु समन्वयादिति व्याख्याति ॥ शास्त्रयोनित्व- मिति । ईक्षतेनोशब्दमित्यस्याभिप्रायमाह ॥ एवमिति । गनिसामान्यादिति सूत्राभिप्रायं दर्शयन्नित्याशक्य परिहरति ॥ कथमित्यादि । अनन्तता वेदानामिति शेषः । इतीत्यादेरयमर्थः । इत्यभिप्रायेण निखिलवेदस्यापि स्वप्रसादेन स्वभक्तैरपि प्रमेयतां प्रकाशयन्वेदपतिरेकस्यैव विष्णोर्ज्ञानस्यैव निखिलवेदेऽपि महातात्पर्यतः प्रतिपाद्यत्वेन समानत्वमाह । ज्ञानसूर्यों ज्ञापने सूर्यः । यथा सूर्यो

अ०टि.
॥४६॥
न०चं
४००
अ०१
तु
बाह्यार्थान्ज्ञापयति तथा सर्वार्थान्ज्ञापयन्तामित्यर्थः । शाखेत्यादेरयमर्थः । चतुष्पश्चशाखाप्रतिपाद्य वस्तु ज्ञानम् । तदृष्टान्तेनान्यत्रापि स एव तात्पर्य-
विशिष्टोऽर्थ इत्यनुमितत्वेन गतिसामान्यं ब्रूयात् । एवंविधः प्रभुः प्रतिजज्ञ इति यस्मात्तस्मादेवानामपि पूर्यते । आकाङ्क्षति शेषः । न हि बहुविशेष-
विदां देवानां सामान्यपुरुषैः प्रतिपादितेऽप्याकाङ्क्षापारपूर्तिर्भवति । तैः प्रतिपाचमानस्य सिद्धत्वात्तेषां विशेषाकाक्षितत्वाच्च । प्रधान निहते मल्ले सर्वे
मल्लाः प्रदूदुवुरिति हि प्रधानमल्लानिबर्हणन्यायः । शब्दानामन्यत्र प्रसिद्धिवलादचालनीयत्वे सम्भवात्तत्समन्वयोक्तौ ततो दुर्बलानां लिङ्गानां समन्वयः साध्य
इत्याकूतम् । ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिमित्यादिश्रुतौ देवतान्तरगत्वेन प्रतीता इन्द्रादिशब्दाश्च मुख्यतो विष्णुमेव वदन्ति।
ऐश्वर्यादेः शब्दानमित्तस्य विष्णौ विद्यमानत्वात्स्यात् । किं कथमिन्दादिषु प्रसिद्धास्तानुपचारतो वदन्तीत्यत आह ॥ अशेषेति। पूर्णत्वस्वातन्त्र्यादि-
विशेषगुणवत्त्वत एषो द्वितीयपादेऽभिधीयमानः । तेषामित्यादेरयमर्थः । नामात्मकाना शब्दानां विष्णौ समन्वये साधितेऽपि तैः सह पठितानां लिङ्गानामन्य-
गत्वेन तु नाम्नामपि सम्यक् समन्वयो न स्यात् । तृतीयपादस्याशङ्कापरिहाररूपेणानेन समन्वयप्रतिपादनेन सङ्गतिमाह ॥ उभयत्रेत्यादिना ।
समन्वयो हरावेवेसाहेमन्ववः । अन्यत्र कुतःशब्दा लिङ्गानि च मुख्यतो न सम्भवन्तीत्यत आह ॥ यतो नैवेति । अयो यथा दाहकावं
यथाऽन्याधीनौष्ण्यमयो दाहकशब्दवाच्यत्वमुपागतम् । एवं यदर्धानाः प्राणादयः प्राणादिशब्दार्थत्वमुपागताः । आशङ्का परिहरन्समन्वयप्रतिपादनेन
चतुर्थपादस्य सङ्गतिमाह ॥ एवं चेति । विरोधादित्यादेरयमर्थः । विष्णोरवरादिशब्दवाच्यत्वेऽवरदुःखित्वादेरपि प्राप्तिर्भवेदिति यतस्तस्माद्विरोधात् ।
स च विरोधो बहुप्रमाणविषयत्वात्प्रबलो हि । यथा राजा विजयी भवेत् यथा भृत्यादीनां विजयित्वहेतुराजा विजयी प्रसिद्धो भवेत् । स्वातन्त्र्यान्न
च दूषणं हरेर्दुःख्यादिशब्दोक्तत्वे सत्यपि हरेजीवादुःखित्वादिस्वातन्त्र्यस्यैव विवक्षितत्वान्न किञ्चिदूषणमाशङ्कनीयम् । द्वितीयाध्यायस्य प्रथमाध्यायेन
सङ्गतिं दर्शयति ॥ एवमिति । तृतीयाध्यायस्य पूर्वाध्यायद्वयेन सङ्गतिं दर्शयति ॥ समन्वयति । एवंभूतं परं ब्रह्माख्यं वस्तादिश्य किं
॥४६॥

COM -5ECRECORRECORCHECK मया कार्यमित्युक्तायां वैराग्यपादे प्रोक्ते भक्तिपादे शास्त्राभ्यासस्वरूपिणी भागवतशास्त्राणां व्याख्यानश्रवणमननरूपिणी । तद्यथोक्तं भागवते । एत- धातुरचिन्तानां मात्रास्पशेच्छया मुहुः । भवसिन्धुप्लवो दृष्टो हारिचर्यानुवर्णनम् । यमादिभिर्योगपथैः कामलोभहतो मुहुः । मुकुन्दसेवया यद्वत्तथा- ध्यात्मानुशाम्यति । पानेन ते देव कथा सुधायाः प्रवृद्धभक्त्या विशदाशया ये । वैराग्यसारं प्रतिलभ्य बोधं यथाऽञ्जसा त्वापुरकुण्ठधिष्ण्यम् । तथा परे त्वात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठाम् । त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया त इति । तदङ्गं धारणादिकम् । धारणं प्राणायामप्रत्याहारासननियमास्तयोरुपास्त्योरङ्गम् । युक्तीराह ॥ पृथग्दृष्टिरिति ॥ ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । सलिलवच्च तन्नियम इति सूत्रद्वयाभिप्रायमाह ॥ यथाशक्तीति । आमज्ञानानुरूपत्वमिति व्याख्याति आत्मज्ञानेत्यादि । यथाशक्तिविचारणाभावे दूषणमाह ॥ वेद इति । वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मनेति स्मृतिः । स्वाध्यायोऽध्येतव्य इति श्रुतिः । तथाऽपि देवादिवत्सामर्थ्याभावेन यथाशक्तिप्रयत्नपक्षेऽपि निणीतं ब्रह्मसूत्रादि । अत्यशक्ये तु निद्रादौ निदारोगादौ सति श्रवणादेरत्यशक्यत्वे सति यदि कस्मिंश्चित्पुरुषे सम्मग्ज्ञानस्यैव प्राचुर्यमुपलभ्यते । अन्यथाज्ञानस्याल्पत्वम् । तस्यापि संशयेषु सत्सु का गतिरित्यत आह ॥ महय इति । महन्यो विष्णुभक्तभ्यो यथाशक्ति च संशयान् । छिन्यात्स्वतोऽधिकाभावे स्वयमेव समभ्यसेत् । यादपि च शिष्येभ्यः सत्सिद्धान्तमहापयन् । कीदृशः सत्सिद्धान्त इत्याकाक्षायामाह ॥ अशेषेति । सत्सिंद्धान्तोपपादकत्वेन तत्रैवान्तर्भूतान- नाहः ॥ स्वतन्त्रत्वमिति । यदभेदे तदन्वयः । विष्णोः सर्वतोऽदोषिणो जडाजडाद्भेदाभावेऽपि दोषसम्बन्धो भवतीति यस्मात्तस्मादेवं तस्याप्यभावः । पूर्व भिन्नस्य पश्चादमिनस्य भेदाभावोऽपि तर्हि संसारावस्थायामपि जीवेनेशस्याभेदः स्यादित्यत आह ॥ पूर्वेति । अपि सम्यगिति । इत्यपि सत्सिद्धान्तः । तदनन्तरता विष्ण्वनन्तरता । क्रमान्मुक्तावपि वर्तन्त इति शेषः । अमुक्तानां योगिनामपीति शेषः । एतदेवोक्त- स.टि. ॥४७॥ न०० तात. अ०३१ सिद्धान्तबाधेव । सम्पमित्यादेरथमर्थः । ईशरमाब्रह्मादिषु यथार्यज्ञानतारतम्यानुसारेण । सुखदुःखात्मकफलतारतम्यम् । १-२ ॥मनसा चान्यदाकाङ्क्षात मनसा च शाश्वतान्मोक्षमार्गदन्यत्र विषयादिषु वर्तमानादभिलाषात् । प्रायश इत्यस्य कृल्यमाए ॥ ऋजूनामिति । एक एवास्ति दोष इति शेषः । भक्तिस्वरूपमनुभवावष्टम्भेन दर्शयति ॥ स्वादरहात । सत्स्वन्यत्र ततो दया कार्या । आत्मनः समेभ्योऽन्येषु हीनेषु दया कार्या नासत्सु । ससिद्धान्तबोधकप्रमाणमाह ॥ तत्तम इति । रमाब्रह्मशिवादीनां विष्णोराधिक्यदृष्टेर्निमित्तात्तत्तमो व्रजेदिति किमु वक्तव्यम् । तयोभ- योभैदाभेदयोर्द्रष्टुस्तमोगतिर्भवतीति च किमु घक्तव्यम् । ननु काम क्रोधं भयं स्नेहं मैत्री सौददमेव वा । नित्यं हरौ विदधतो यान्ति तन्मयतां हि त इत्यादिवाक्याद्वेषयुतभावनयाऽपि मोक्षसम्भवात्कुतो भक्तियुतोपास्तैरेव मोक्ष इति नियम इत्यत आह ॥द्वेषादिति। मानस्तेनेभ्यो येऽभि- दहस्पदे निरामिणो रिपोऽन्येषु जागृधुरिति श्रुति सूचयति ॥ रिपव इति । तदभेदिनस्तदभेदवेत्तारः । यो द्विष्यादिति मोक्षधर्मवचनम् । आलोकान्तस्याल्पजनावमस्य । अन्वीषदर्थेऽपि वर्तमानत्वात् । अतिप्राकृतस्थापीत्यर्थः । काम क्रोधमिल्लादेरर्यस्तु भगवतैवोक्तः श्रीभागवत- टीकायाम् । कामिनः कामित्वं क्रोधिनः क्रोधित्वमेव सर्वदा भवतीत्यादिरेव तन्मयता । मुक्तावपि हि कामिन्यो विष्णुकामा बजास्त्रियः । द्वेषिणश्च हरौ नित्यं तमसि द्वेषिणोच्छृित इति च । भक्त्या हि नित्यकामत्वं न तु मुक्ति बिना भवेत् । अत एकान्ततया वाऽपि मुक्तिर्मक्तिमतां हरौ स्नेहयुक्ताः सदा देवाः कामित्वेनाप्सरात्रियः । काश्चित्काश्चिन्न कामेन भक्मा केवलयैव तु । मोक्ष प्रयान्ति नान्येन भक्ति योग्यां विना क्वचिदिति पाने । भक्त्या वा कामभक्त्या वा मोक्षा नान्येन केनचित् । कामभक्त्याऽप्सरस्त्रीणामन्येषां नैव कामतः । उपास्यः श्वशुरत्वेन देवस्त्रीणां जनार्दनः । जारत्वेनाप्सरस्त्रीणां कासाञ्चिदिति योग्यता । योग्योपासां विना नैव मोक्षः कस्यापि सेत्स्यति । अयोग्योपासनाकर्तुरनर्थश्च भविष्यति । तस्मातु योग्यतां ज्ञात्वा हरेः कार्यमुपासनमिति । टीकायाम् । पतित्वेन नियोपास्यो ब्रह्मणो मे पितेति च । पितामहतयाऽन्येषां त्रिदशानां जनार्दनः ।। ॥४७॥ MORN ondina प्रपितामहो मे भगवानिति सर्वजनस्य तु । गुरुः श्रीब्रह्मणो विष्णुः सुराणां च गुरोर्गुरुः । मूलभूतगुरुः सर्वजनानां पुरुषोत्तमः । गुरुर्ब्रह्मारय जगतो देवो विष्णुः सनातनः । इत्येवोपासनं कार्यमन्यथा तु कथञ्चनेति वाराहे ॥३१॥ इति न चत्यादेरयमर्थः । शरीरपातपर्यन्तं ब्रह्मणो हि भोगो विद्यते । वाय्वादीनां संयोगस्य व्यापारक्षमस्य जीवनापरपर्यायस्य वियोगेन तस्य शरीरपाते तस्य भस्मीभावः स्यात् । तस्मान्मोक्षो नाम नैवास्ति अतस्तदर्थमुपास्तिश्वाकर्तव्येति । इदं निराकरोति ॥ तत्केनेति । न च योग्यानुपलब्धिलिझेन मोक्षाभावोऽवगम्यते । प्रत्यक्षातिरिक्तप्रमाणा- नङ्गीकारात् । परस्य मोक्षदृष्टयभावोऽपि प्रत्यक्षेण नावसीयते हि । तच्च सूचयति ॥ कथञ्चनैति। सर्वेषामपि प्रलक्षमात्रविषया हि जात्यैव समानत्वं साधयन्वादी स्वयमपि सर्वाद्भुतत्वात्कथं विशेषमाहात्म्यवान् स्यात् । वृथेत्यादेरयमर्थः । निष्फली धर्माधर्मविधिरिति वदन्तं लोकायतकीयं वृथा हन्यायदि तस्येति वचनस्य किमुत्तरम् । सत्यमेवं मद्वधान्न किञ्चित्पापमित्यत आह ॥ स्वजीवनेति । अत इत्यादेरयमर्थ उच्यते । उक्तन्यायेन महावैदिकस्य वेदोक्तानामर्थानां लोकानुभवप्रापकत्या प्रत्यक्षद्वारेणैवेदं प्रामाण्यं गम्यते । तस्मादेव हेतोर्यवागमस्य प्रामाण्यं नास्तीत्युच्यते तर्हि प्रत्यक्षस्यापि प्रामाण्यं नास्तीत्युत्तरम् । आगमप्रामाण्याभावे आगमोदितदृष्टफलस्य प्रत्यक्षस्थाप्रामाण्यप्रसङ्गात् । तस्मात्सर्वप्रत्यक्ष- स्याप्यप्रामाण्यमागतम् । तर्हि विमतं वाक्यं प्रमाणं वाक्यत्वात्प्रत्यक्षोपलब्धघटादिवाक्यवदिति प्रत्यक्षमूला युक्तियांगमस्यापि । हेतुरप्रमाणेऽ- पि लीकवाक्ये प्रवृत्तत्वादनैकान्तिक इत्यत आह ॥ लोकति । अपौरुषेयत्वादेवाव्यभिचारः । पुरुषकृतत्वे हि व्यभिचारहेतवोऽज्ञान- विप्रलम्भादयः सम्भवन्ति । तस्मादपौरुषेयवाक्यत्वं तत्र लिङ्गमित्यभिप्रायः। अपौरुषेयत्वं तु प्रागेव साधितम् । आतत्वसाधने आतत्व- सोधनार्थम् । धर्मस्वहिंसाप्रधानः पञ्चमलधारणकेशील्लुण्ठनादिकः । ज्ञानं नाम जीवस्य स्वरूपदर्शनमिति जैनाः प्राहरित्यन्वयः । कथं जिनवाक्यमनुमानतः प्रमाणं स्यात् । जिनवाक्यत्वहेतोः पूर्वोक्तन्यायेन व्यभिचारात् । तद्यभिचारिणाऽप्रामाण्यानुमा च स्यादिति युक्तम् CREAK अ.टि. न०० तात. ॥४८॥ अ०२९ अन्यथासिद्धिमानतः प्रमाणानामुक्तलक्षणाभावे स्वरूपस्यैवासिद्धावनुभवादिप्रमाणसद्भावादतः सर्वमप्रमाणमित्यत आहाभिप्रायेण हि । प्रत्यक्षानुसारा- भावात्स्वतन्त्रानुमा तत्प्रामाण्यं जिनवाक्यं वा कथं धर्म पुद्गलं च दर्शयेत् । जिनस्यैवमयथार्थवक्तृत्वादेतद्वाक्यवत्तद्वाक्यं च सर्वमप्रमाणमित्यभिप्रायेणाह ॥ स्वरूप इति । वक्ति सप्रभमात्मानं देहमानं तदभ्यलम् । दुष्टं नानाशरीरेषु प्रवेशादन्यथाभावादित्यादिना दोषा उक्ताः। सुखस्य दुःखामावरू- पत्वात्पुद्गलस्य च भावरूपत्वात्पुद्गलस्यानन्दरूपत्वं नैवमन्यते । इतिशब्दो हेतुत्वे । न हि घटायभावतारतम्यं दृश्यत इत्यभिप्रायबानाह ॥ मात्रेति । न च स्यात्किं विपर्ययोऽनुभवो हि लभ्यते चेदुःखस्य सुखाभावरूपता न स्यात्किम् । यदि सर्व इत्य,देरयमर्थः । न कश्चिद्भावपदार्थोऽस्माभिरङ्गीक्रियते सर्वेऽ- प्यन्योन्यस्वरूपाः पदार्थाः । तथा हि । घटाभावः पटः पटाभावी घट इत्यनुभवः । तस्मात्सुखमपि दुःखाभाव इति यदुच्यते तत्र धूमः । घटाभावो हि पश्चाटस्वभावरूपपटाभावः । एवं च भावाभावता नाम भावनैव स्यात् । तथा च सुखादीनां भावत्वस्याचलितत्वात्किमस्माकं छिन्नम् । तदेवोपपादयति ॥ भावत्वमिति । न च तावता भावाभावप्रसङ्ग इत्याह ॥ प्रथमेति। न चास्मत्पक्षे उक्तदोष इत्याशयवानाह ॥ ईशेति । नन्वस्मस्पक्षेऽपि सर्वस्य कर्माधीनत्वात्पञ्चानुमानपरिपाकादेवादुःखिश्यामित्यत आह ॥ कर्मेति । कर्मणः क्वचिदपि प्रधानहेतुत्वं न घटते । चैतन्याहितत्वात्पाषाणवत् । गुणविशेषज्ञानात्प्रसन्नाद्राज्ञो निगडमोक्षलाभदृष्टान्तमत्राभिप्रेत्याह ॥ शक्तस्येति । विपक्षे दृष्टांतो नास्ती- त्याह ॥ स्वज्ञानादिति । वेदप्रामाण्यवादिना कोऽप्यों निश्चेतुमशक्य इत्यभिप्रायेणाह ॥ अहिंसाया इति । सुर्ख दुःखाभाव इत्याच- न्यथावचनादेव बौद्धानामपि शास्त्रस्याप्रामाण्यं निश्चीयते विशेषदोषादित्याह ॥ न चेति । यदीदानी कथं न स यदि मोक्षो भवेत्तर्हि इदानीमेव कथं न स भवति । इदानीमपि भावनाया विधमानत्वात् । अन्यत्र मोक्षादन्यविषये पुत्रोत्पत्त्यादौ । वैभाषिकसत्रान्तिकाभिमतसाधनाच्च न मोक्ष इत्याह ॥ अन्तरिति । विवेको भेदज्ञानमिति साङ्ख्याः प्राहुरिल्यन्वयः । ईशप्रसादत ईशप्रसादान्मुख्यसाधनानङ्गीकारात् । यस्य प्रसादात्पर- ARRERA/EG ४८॥

7066555 मार्तिरूपादस्मत्संसारान्मुच्यते नापरेण । नारायणोऽसौ परमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादमुष्मादित्यायाः श्रुतयः । तत्प्रसादात्परां शान्ति स्थानं प्राप्स्यसि शाश्वतमित्याद्याः स्मृतयः । कणादयोगाक्षपादास्तु मुक्तिं ब्रुवाणास्तामीशस्य प्रसादतोऽप्याहुरित्यन्वयः । परावरे परावरदेशकालवर्तिनि अन्यथागतेः सकलकर्मणां भोग विनैव मोक्षस्य गतेष्वविद्यमानत्वात् । अनुग्रहान्मोक्षो घटत इति शेषः । पुरुषज्ञानतो नान्यः पन्था हि पुरुषसूक्ताख्यश्रुतौ तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विधत इत्यर्धचैनोक्तम् । यमन्तः समुद्र कवयो वयन्तीत्युपक्रान्ताया- मब्धिशायित्वालिझेन हरिविषयतया निर्धारितायां पुरुषशब्दश्च प्रयुक्तः । तस्मात्तत्रापि पुरुषो विष्णुरेव । तदाह ॥ सर्व इति । विद्युतो विशेषेण द्योतकान् । ननु पुरुषशब्दस्य घुमात्रेऽपि प्रवृत्तेरनोभयत्राप्युच्यमानः सामान्यपुरुषः किं न स्यादित्यत आह ॥ न तस्येति । विश्वतः परमं विश्वायमश्चेति विश्वतः परमः सत्यकामानां मुक्तानामपीष्टे किमुतामुक्तानामिति कैमुख्यन्यायेन सर्वस्येशानतोदिता । ननु पुरुष एवेदं सर्वमित्यस्य सर्वत्वमुदितं हि तस्मात्कयं सर्वस्योत्तमत्वमित्यत आह ॥ यदिति । पुरुषेणैवेदं व्याप्तं यद्भूतं यच्च भव्यमित्येकायनब्राह्मणं च तमर्थ- मुद्दिश्याह । सामानाधिकरण्यव्यवहारस्वयो दहतीत्यादिवथुज्यते । सर्व समामोषि ततोऽसि सर्व इति च गीतासु । स भूमि विश्वतो वृत्वेत्युक्त- स्यैतावानिति परामृष्टस्य व्याप्त्याख्यमहिम्नो वचो हि पुरुषमिति । अन्नेनेति तृतीया द्वितीयार्थे । छन्दसि व्यत्ययस्य बलात् । तचोक्तम् । सुप्ति- कुपग्रहलिङ्गनराणां कालहलचस्चरकर्तयां च ॥ व्यत्ययमिछति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेनेति । अत्र हि श्रीभागवतवाक्यं च प्रमाणमाह ॥ सोऽमृतस्येति । अत्तृत्वादन्नं जीवः । अन्नस्यान्नं मनसो मन इति प्रयोगात् । यस्य ब्रह्म च क्षत्रं चोभे भवत ओदन इति श्रुतेरयत्वाद्वोभयी च व्युत्पत्तिदृष्टा । अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यत इति । निगमयति ॥ अमुत्क्येति । अमृतस्येति पदममृतस्येत्यनुवदति धर्मधम्य क्याभिमायं योतयन् । यत्पाशुपतादिभिरुत्प्रेक्ष्यते ज्ञानिनोऽपि देहव्यूहेन सकलं कर्म भुञ्जत इति तन्निरस्यति ॥ तद्यथेति । यथेषांकातूलमग्नौ THES न०० अ०टिल ॥४९॥ अ०२० प्रदूयतैवं हास्य सर्वे पाप्मानः प्रदूयन्त इति श्रुतिः। एतदप्यतेन निराकृतम् । इत्येतद्भाट्टमतमपि कर्महेतुत्वमित्यायुक्तन्यायेन नान्यः पन्था अय- नाय विद्यत इत्यागमेन च निराकृतम् । भास्करायभ्युपगतं ज्ञानकर्मसमुच्चयं दूषयति ॥ विनेति । अपि सा श्रुतिरित्यपिशब्दात् विौष तु निर्धारणादिति वेदराडपि निवारयति । यत्पदैरुच्यते नाम ब्रह्मत्युपास्त इत्यादिप्रतीकोपास्तिरयथार्थाऽपि फलदेति तन्निराकरोति ॥ अन्य- २०१० थेति। न प्रतीके न हि स इति प्रभुः सूत्रकारो निवारयति । अविषामुपासते विधाविरुद्धमन्यथाज्ञानमनुतिष्ठति । एकत्वविज्ञानस्य स्वयथार्थत्वं मुहुरभिप्रेतम् । उक्तार्थस्य सर्ववेदान्तप्रत्ययं चोंदनाचविशेषादिति सूत्राभिप्राय द्योतयति ॥ इतीति । उपसंहारोऽ थोभेदाद्विधिशेषवत्समाने चेत्यादि सूत्रार्थ दर्शयति ॥ उपासीतेति। ब्रह्मेत्यादेरयमर्थः। ब्रह्मा तु सर्ववेदोदितैः सर्वविशेषसहितैर्गुणक्रियांशावात्मकैः सर्वैर्गुणैः सहितत्वेन विष्णुमुपास्ते । ब्रह्माणी तु तत्र क्रियाणां सामान्यत उपास्ति कुर्यात । अन्येषां विशेषत एव । यथा घटस्रष्टा पटलष्टेल्यादिविशेषान्विना सर्वस्रष्टेत्याधुक्तः । रुद्रो गुणानां सामान्यत उपारित कुर्यात् । यथा घटज्ञः पटज्ञ इत्यादिविशेषान्त्रिनैष । सर्व इत्यादि किमुत । क्रियाणां द्रव्याणां तु विशेषत एव क्रियादीनामपि गुणान्तर्भूतत्वे सत्यपि ज्ञानादीनां गुणशब्दे पृथगुक्तिबाह्मणपरिव्राजकन्यायानुसारात् । परे पार्वत्यादयो द्रव्याणां भगवद्रूपाणामपि सामान्यत उपास्तिं कुर्युः । किमुत क्रियाणाम् । नात्र ज्ञाना- दीनां संहृत्यादीनां च विशेषोपास्तिविधिवैयर्थ्यमाशङ्कनीयम् । सामान्योपास्तिविधौ प्रायिकत्वात् ॥ २९॥ यावदधिकारमवस्थितिस- धिकारिणामिति सूत्र व्याख्याति ॥ अधिकारेति । अक्षरधियां त्वविरोधः सामान्यतभावाभ्यामौपसदवत्तदुक्त- मिति सूत्र व्याख्याति ॥ न तावतेति । ईर्ष्यादिरित्यादिशब्दादनादरः । केचिदेते सूत्रे अन्यथा योजयन्ति । तनिराकरोति ॥ न चेति 1॥४९॥ आरब्धमात्रस्य कर्मण इति शेषः । अनारब्धकार्ये एव तु पूर्वे तदवधेः। भोगेन वितरे क्षपयित्वाऽथ सम्पत्स्यत PHARMA इत्युदितश्च प्रारब्धकर्मक्षयः । तद्योजना । तेन पूर्वोक्तभावेन निमित्तेन तस्य समञ्जसत्वादस्माभिरुक्तार्थ एवेति निश्चयः ॥२०॥ यावदधिकार मित्यारम्य सेव हि सत्यादय इत्यन्तेन सूत्रजातेन प्रतिपाथमानमधिकारितारतम्यं बृहत्संहिताबाक्येन विशिनष्टि ॥ उषा इत्यादिना । उषा अश्विभार्या। प्रवहो मरुच्छेष्ठः। अनिरुद्धनाम मनः। सङ्कुचितज्ञानविज्ञानबलान्नासेजआकाशस्मरीशा:प्राणाः। वाग्वाव नाम्नो भूयसीतीत्यादिछान्दोगोपनिषदि पठिता एवात्रोषाप्रभृतयो मारुतान्ता उच्यन्ते । तत्रेन्द्रानिरुद्धावन्तराहङ्कारिकप्राणोऽनेनोच्यते । शतरूपा स्वायम्भुवमनुपत्नी । प्रसूतिर्दक्षपत्नी । विराडनिरुद्ध- पत्नी । संज्ञा सूर्यपल्नी । प्रावही प्रवहपत्नी । मित्रवदेव परिकीर्तिता। मित्रतन्मध्ये ब्रह्म ब्रह्मपुत्रकः । मित्राग्न्योर्मध्ये मरीच्यङ्गिरःपुलस्त्यपुलहक्रतुवसिष्ठाः। अन्ये ततोऽवराः। अन्ये मनव उत्तमादयः स्वायम्भुवतापसव्यरिक्ता वैवस्वतमनोरखमाः। बन्यो चैनपुत्रः पृथुः । हैहयः कार्तवीर्यार्जुनः । तद्वदुत्तमादिवत् । विप्रराज- न्यविशेषो विप्रजाते: क्षत्रियजातितः त्रैष्ठयम् । सोमाधिकारिणां शतदेवानां मध्ये इन्द्राग्न्यादथ उक्ता हि । तदन्याः शतदेवताः पर्जन्यमित्रान्तराले तदन्ये तु ततोऽवराः। शतदेवताभ्योऽन्ये देवास्ततः पर्जन्यादवराः ॥२१॥ प्रज्ञान्तरपृथक्त्ववदृष्टिश्च तदुक्तमिति सूत्रं व्याख्याति ॥ दृष्टिरिति। योग्यानुसारतो योग्यानुकूल्येन ॥ २२ ॥ प्रदानवदेव हि तदुक्तम् । लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपीत्यनयोरथै सूचयति ॥ सम्यगिति ॥ २६-२७ ॥ पूर्वविकल्पः प्रकरणात्स्याक्रियामानसवदिति सूत्रं व्याख्याति ॥ गुणाधिकमिति । विप- यस्तु गुणावरं गुरुम् । तदधिकप्राप्तिः पूर्वानुज्ञा च सर्वधा स्यादित्यन्वयः । तदुत्तमगुरुप्रात्योत्तमगुरोः प्राप्यै । गुरुविद्योपदेष्टा ब्रह्मा । विद्या विधाप्रवर्तिका विषाभिमानिनी च सरस्वती विद्यागम्याभीष्टदेवता । विष्णुस्तत्प्रसादेन कथमन्योपदेशादुत्पन्नज्ञानानां ब्रह्मा गुरुरित्यत आह ॥ उपदे- श इति । मुक्तये तु सर्वेषामपि ब्रह्मण उपदेशोऽपेक्षित एव ॥ २८॥ गुणैरुपासना गुणैः सह भगवतो ध्यानम् ॥ ३४ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्लसूत्रानुव्याख्यानस्य टीकायां त्रैविक्रमार्यकृतौ नयचन्द्रिकायां तृतीयाध्यायस्य तृतीयः पादः ॥ ३-३ ॥ * ॥ * ॥ RECakce तु applion अ०टि. ॥५०॥ ॥ श्रीगुरुभ्यो नमः ॥ हरिः ॐ ॥ ॐ पुरुषार्थोऽतः शब्दादिति यादरायण इत्यादिसूत्राणामभिप्रायमाह ॥ एवमिति । तत्तज्जात्यनुसारतः । प्रारब्धस्यानतिक्रमनिमत्तस्य पूर्वकर्मणोऽनतिक्रमणीय इति शेषः । देवानां तु मानुषादिवदनतिक्रमनियमो नास्तीत्याकूतम् ।।५/न०० तद्विशेषा आत्रेयादिमतविशेषाः । कथं तर्हि चन्द्रादीनां क्षयादिनिमित्तस्य पूर्वकर्मणोऽनतिक्रमणीयत्वमित्यत आह ॥ बलवदिति । तत्र लाचा प्रायश्चित्तकर्मविशेषणत्वं ज्ञानस्येल्यादिजैमिन्यायुक्तिः ॥ १॥ स्तुतयेऽनुमतित्यादेरर्थं सूचयति ॥ विकमेति । अकर्मतो विकर्मण एव अ०४ भावात् । तथा च श्रीभागवते विशिष्टवाक्यम् । न भारती मेऽङ्ग मोपलभ्यत न कहिचिन्मे मनसो मषा गतिः । हृषीकाणि पतन्यसत्पथे हृदौत्कण्ठयवता धृतोऽहमिति । क्लप्तस्य तु कथञ्चन चन्द्रादीनां देवानां श्रुतौ क्लृप्तस्य ज्ञानानन्दादे- गुणस्य कथञ्चन नैव हानिरस्ति । तथाऽपीत्यादेरयमर्थः । तथाऽपि चन्द्रादिपदस्थानां श्रुत्युदितं गुणजातं निश्चितमेव । तस्मादे- वानां केनापि कारणेनात्र प्रतिपादिततारतम्यनियमोज्जिति पद्यते। स्वोच्चौ बृहस्पतिमहेन्द्रौ । ननु तदधिगम इत्यादिना चतुर्था- ध्याये उक्तो हि विकर्मालेपः । अत्रापि स एवोच्यते । अतः पुनरुक्तिः कथं न स्यादित्यत आह ॥ ज्ञानोति । निपाते त्रिरवाशिरा इति विहितप्रायश्चित्तानुष्ठानसमनन्तरमपि ब्रह्महत्यादिमतां तत्पापानुपभोग एव स्यात् । न त्वशुचित्वादिपरिहारः । ज्ञानिनस्वशुचित्व- मसम्भाष्यत्वं च न भवेदिति ज्ञानस्य मुक्तिव्यतिरिक्तं फलं तत्रोच्यते । अत्र तु येनकेनापि वर्तमानस्यापि ज्ञानिनो ज्ञानविशिष्टफलस्य मोक्षस्यावश्य- भावित्वमुच्यते । यथा विषभक्षात्प्राप्ताया मृतेः सर्वथाऽपि सर्वात्मनाऽप्यनिवाया मोहादिरूपेण किश्चिद्भुक्ताया विषहरणमन्त्रादिसंविदोपमर्दः तथैव प्रारम्धकर्मजातस्य फलस्य प्राप्तस्य सर्वात्मना त्वनिवर्यस्य किञ्चिद्भुक्तस्य भगवदपरोक्षसंविदोपमर्दश्वेह प्रोक्तः ॥ उपमदं चेति 1.५०॥ यदि ज्ञानिनामज्ञानिनां च प्रारब्धकर्मणः सर्वात्मना भोग एव न तु फलहास इत्युच्यते। तर्हि ब्रह्महत्यादिप्रारब्धकर्मफलस्य क्षयादिव्याधर्निवृत्त्य- M र्थमायुर्दीर्घव्याधेरित्यादिकाम्यविधेय्ययं स्यात् । तस्माद्देवानां प्रारब्धस्यापि महानुपमर्दोऽन्येषां क्रमादून इत्युक्तनियमो भवेत् । तदाह सर्वात्मना फलेति । पादमारभ्योक्तं प्रमेयं तत्र भागवते कुटमुक्तमित्याह ॥ एवमिात । ननु देवानामन्येभ्यः प्रारब्धकर्मण उपमर्दै विशेषः । तदवभासेन मोक्षनियमेन मोक्षानुप्रवेशितत्वात् । न हि मोक्षे तेषामन्येभ्यो विशेषः । साम्यवाक्याविरोधादित्याशङ्का परिहरति । सिंहावलोक- नन्यायेनाविशेषादिति सूत्रं योजयन् मोक्षतारतम्याभावं बहुवाद्यभिप्रेतं च निराकरोति ॥ तारतम्यामिति । स यो मनुष्याणां राधः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकोंगैः सम्पन्नतमः स मनुष्याणां परम आनन्दः । ते ये शतं मनुष्याणामानन्दाः स एकः पितृणामित्यादिका वाजसनेयकश्रुतिः । मनुष्यापितृगणार्षिकर्मदेवादीनां ब्रह्मपर्यन्तानामुत्तरोत्तरं शतगुणतारतम्यं प्रवीति हि । यश्च श्रोत्रियोऽवृजिनोऽकामहत इति तत्र तत्र मुक्तिं निगद्य चानन्दतारतम्यमभिप्रेति । एषा च श्रुतिर्ब्रह्मादीनां फले तारतम्यं नोचेत्कथमेवं ब्रूयात । असुतस्येति शब्देन मोहो गृह्यते । तस्यापि सर्वेन्द्रियप्रबोधरूपत्वात् । कामाः कामनीया विषयाः । आताः पर्यताः परिपूर्णा इत्यर्थः । ननु मुक्तस्य काम एव नास्ति । तस्मात्कथमका- महतशब्दस्य पूर्णकाम इत्यर्थः सम्भवतीत्यत आह ॥ चेतनस्येति । अकामता कामव्यक्तिरहितता । सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता। परज्योतिरुपसम्पच स्वेनरूपेणाभिनिष्पद्यते । स तत्र पति जक्षन्फ्रीडन्तममाणः खीभिर्वा यानैर्वा । एतमानन्दमयमात्मानमुपसक्रम्य । इमान् लोकान्कामा- नी कामरूप्यनुसञ्चरन् । एतत्सामगायन्नास्त इति श्रुतयः। यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हदि स्थिताः। अथ मुक्तोऽमृतो भवतीति श्रुतेः का गति- स्तहीत्यत आह ॥ कामा इति । मुक्तानां प्राकृतहृदादिभ्य इति शेषः। अवृजिनशब्दार्थमाह ॥ अपापत्वमिति । अकामहत इत्युक्ते सति तस्मादिन्द्रादिसुखादकामत्वमिति चाश्रुतकल्पना। तत्पक्षेऽहतशब्दस्य व्यर्थत्वाच्छतहानिः । यद्यपि कस्यचिच्छोत्रियस्य पुत्रवित्तादौ कामस्तथाऽ पीन्द्रादिपक्षकामाभावात्तदायासनिवृत्तेरानन्दः किं न स्यादित्यत आह ॥ कुत्रचिदिति । राज्यानिवृत्तमतेश्चण्डालस्य राजसमास्तित्वादिवदनुभव- RESEARCH 62

अ०टिक
॥५१॥
न००
तु० च.
अ०४
विरुद्धमित्याशयः। निगमयति ॥ यश्च श्रोत्रिय इति। चशब्देनेतश्चात्र मुक्त उच्यत इत्याह ॥ राद्ध इति । राद्धो नाम संसिद्ध एव । राध-
साधसंसिद्धाविति धातोः । तस्मादत्र मुक्त एवावगम्यते । बृहदारण्यकभाष्येऽप्यवगतोऽयमर्थो भगवत्पादैरेव । राद्धो मुक्तः । मनुष्याणां योग्यतया स्त्रसमेभ्यः
प्रयत्नाधिक्य मुक्ती प्राप्तुं शक्यत इत्यतः समृद्ध इत्युक्तम्। यावत्साधयितुं शक्यते तावत्साधनैः सम्पूर्ण इत्यर्थः । स्वराष्ट्रज्ञानोपदेष्टत्वान्मुक्तावपि तेषामधिपति-
ज्ञानपूर्वकत्वेन मनुष्यत्वे दानादिकं कृत्वा तत्फलैरपि भोगेर्मुक्ती सम्पन्नतमः । न हास्य कर्म क्षीयत इति च श्रुतिः । अन्यथा राद्ध इति विशेषणं व्यर्थ
भवति । स मनुष्याणां परम आनन्द इति स्वरूपानन्दश्चात्रीच्यते । न ह्यमुक्तानां स्वरूपानन्दानुभवोऽस्ति । भुज्यते स्त्रसुखं मुक्तैराभासोऽत्यस्ततोऽपर
इति चेति । अन्येषामधिपतिरित्यादौ मुक्तियोग्यो मानुषश्चक्रवर्ती चामुख्यतयोच्यते। अयात आनन्दस्य मीमांसा भवति । युवा स्यात्साधु युवाध्यायकः ।
आशिष्ठो दृढिष्टो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात्स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वा-
णामानन्दः । श्रोत्रियस्य चाकामहतस्येत्यारम्य देवगन्धर्वचिरपित्राजानादिदेवकर्मदेवतात्विकदेवेन्द्ररुद्रब्रह्मणां मुक्तानाममुक्तानां चानन्दतारतम्य
वदन्ती तैत्तिरीयश्रुतिमन्त्र प्रमाणीकुर्वस्तदर्थमभिधत्ते ॥ साधुनेति । तस्यैयमित्यादेरयमर्थः । तस्य मानुषचक्रवर्तिनः संसाराभावमपेक्ष्योच्यते ।
स एको मानुन आनन्दः । ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्द इत्युक्त्वा पुनः श्रोत्रियस्य चाकामहतस्येति मानुष-
मुक्तान्मनुष्यगन्धर्वमुक्तस्य शतगुणात्मना वदति श्रुतिः । मानुषमुक्तानन्दस्तु युवेत्यादिना सर्वमुक्तानां सामान्यलक्षणान्युक्त्वा तस्येति परामृझ्य
तत्रैवोच्यते । तादृशगुणविशिष्टस्यैव यो रत्नादिवित्तपूर्णपृथिव्याधिपत्यसञ्जात इति चानन्द इति चार्थसम्भवात् । पुनश्च संसारगान्मनुष्यगन्धर्वादेः
संसारगतस्यैव देवगन्धर्वादेः शतगुणाधिकं सुखं बदति
मुक्तन्मनुष्यगन्धर्वादेश्व मुक्तस्य देवगन्धर्वादेरिति श्रुतिव्याख्यानं
स्यात् । यत्र साधनबाहुल्यं कृष्यादौ तत्र तत्र साध्यबाहुल्यमपि दृष्टम् । मुक्तवत्स्वभावत एव प्रवर्तन्त इत्यत आह ॥ कृच्छ्रेणेति ।
RKS
-
ALS
॥५१॥

। RSSRAEX विमोक्षाय विविधमोक्षाय । दैवी सम्पद्विमोक्षाय ज्ञानभक्त्यादिलक्षणा । साधनसम्पद्विमोक्षाय तारतम्यविशिष्टमोक्षायेत्यर्थः । तमेवति भागवते आत्मवृत्तिभिः परमात्मनि वर्तमानैस्तदर्पणबुद्धया कारणान्मनआदिभिः स्वविहितकर्मभिः। अक्षण्वन्त इत्यादिश्रुतेरयमर्थः ! सखाय एककालमुक्ता ब्रह्मादयोऽश्यादिसन्द्रियवन्तो ज्ञानवेगेष्वसदृशास्तारतम्यवन्तो बभूवुः । अदध्नास ईषत्परिमाणाः सुधासमुद्रौ गुल्फजा- न्वादिदघ्ने विहर्तुं योग्यताविशेषवन्तः । केचित्कक्षदनसुधाः केचित्सुधायां यथेष्ठं स्नानशीला हृदसम्बन्धा हृदा इव ददृशिरे। श्रुत्वा विष्णुं कर्णफलं प्राप्तत्वात्कर्णसंयुताः । अक्षण्वन्तो दर्शनाच्च विष्णोर्मुक्तास्तु ये गणाः । तारतम्यं च तेषां हि श्रुतावुदितमञ्जसा । क्षीरसागरदन्नास्ते केचित्तिष्टन्ति मुक्तिगाः । उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम् । ऐरोहदे केचिदपि देवा एव सदा हरिम् । नागभोगशयं मुक्ता ददृशेऽधिकमोदिताः । सागरादिस्थिता विष्णुं पश्यन्ति क्वचिदेव हीति ब्रह्मसारे । नन्विदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता इति ब्रह्मसाम्यमुच्यते हि सर्वमुक्तानाम् । अतः कथं तेषां तारतम्यमित्यत आह ॥ दुःखादीति । चशब्दोऽवधारणे । सति हि गुणे प्रवदन्त्यतुल्यतामिति शान्तिपर्वणि । दुज्ञेयमिति वैहायससंहितायाम् । उत्साहः प्रयत्नः । व्यवसायो निश्चयः । अतीतानागते जानन्तीत्यतीतानागतज्ञानाः । ध्वंसो विषादः । कस्तमिति कठवल्यां यमवाक्यम् । मदामदं सुरासुराणां हर्षकाहर्षकम् । सुरमुनिमनुजानां योग्यानां ज्ञानित्वे सत्यपि मादयो न जानन्तीति वचनं देवादिवन्न जानन्तीत्यभिप्रायेण हि । तस्मादेषु वाक्येषु ज्ञानादिसाधनतारतम्यगत्रगम्यते । मुक्तानामिति भागवतवाक्यस्या- यमर्थः । मुक्तानां मध्येऽपि ये व्याप्तिदर्शनादिमहासाधनैः सिद्धास्तेषां मध्येऽपि नारायणपरायणो निरुपाधिकभक्त्या नारायणैकशरणः सुदुर्लभो ब्रह्मादेरेव तादृशत्वात् । इयमित्यादेमन्त्रवाक्यस्यायमर्थः । यत इयं विवधासुरादिसृष्टिराबभूव स ब्रह्मैव । यदि वा जगद्दधे यदि वा न दधे -

न.च.
अ०टि.
तु० ०
॥५२॥
अ०४
ब
विषयविभागापेक्षया भगवदनुग्रहापेक्षयैकदेशापेक्षया च विधिरन्यथा निषेधः । यः स्वात्मेल्यादि भागवतवाक्यानि । तत्र प्रथमं ब्रह्मवाक्यम् ।
नमस्त इति च । आत्ममायाविभवं स्वयं गतः समहिमसम्पदं स्वयमेव ज्ञातवान् । अमितत्वाय सम्पूर्णस्वरूपाय । सूतवे स्रष्ट्रे । यत्काष्टां
यत्पूर्णताम् । नाहं परायुरिति रुद्रवाक्यम् । ईशैति विष्णोः सम्बुद्धिः । अहं महेन्द्र इति यमवाक्यम् । ब्रह्मा सवय॑ जगत आदौ स्मृतः कालतो
गुणतश्च । तस्मादेवाद्विष्णोरन्तरश्वातो जगतः । न त्वामिति भागवते ब्रह्माणमुद्दिश्य भगवद्वाक्यम् । मनुष्याणामित्यादीनि गीतावाक्यानि । सिद्धानां
मुक्तानाम् । ध्यानेनेत्यादेरर्थः श्रीमन्मध्वदेवेनैव गीतातात्पर्य सप्रमाण उक्तः । अनादियोग्यताभेदात्पुंसां दर्शनमाधनम् । नानैव तत्र विष्णोस्तु
प्रसादाद्वैष्णवं वपुः । स्वयं विज्ञायते किञ्चिच्छ्यते किश्चिदन्यतः । तथा ज्ञात्वा हार ज्ञात्वा स्वान्तः पश्यन्ति केचन । ऋषयः केचिदृषयो नारादाद्या
बहिस्त्वपि । देवा विष्णुप्रसादेन लब्धसत्प्रतिभाबलात् । सर्व क्रमेण विज्ञाय प्रतिमास्पष्ठता क्रमात् । पश्यन्ति बहिरन्तश्च विष्णुं ध्यानमृतेऽपि
तु । येषां ध्यानमृते दृष्टिस्तेषां ध्यानेऽपि दर्शनम् । स्यादेव साङ्ख्ययोगास्ते देवा ब्रह्माधिकोऽत्र च । केचित्तु क्षत्रियपरा अश्वमेधादिकर्मभिः ।
यजन्तो भक्तिमन्तश्च यज्ञभागार्थमागतम् । श्रवणप्रतिभाभ्यां च स्मरन्तः पुरुषोत्तमम् । पश्यन्त्यन्ये तथाऽन्येभ्यः सर्वं श्रुत्वानु-
मत्य च । उपास्यैव तु पश्यन्ति नान्यथा तु कथञ्चन । ऋषीम्राज्ञस्तथारभ्य प्रतिभा ह्यधिका क्रमात् । यावब्रह्मा ब्रह्मणस्तु प्रायो नाप्रतिभासितम् ।
विष्णोः प्रीत्यर्थमेवास्य श्रोतव्यं प्रायशो नरः । अन्येषां श्रवणाज्जानं क्रमशो मानुषोत्तरम् । अत्यल्पप्रतिभानवान्मानुषाः श्रुतवेदिनः । सर्वे ते दर्श-
नात्तस्मात्स्वयोग्यान्मुक्तिगामिनः । अन्येषामपि किश्चिच्छ्वणे विधमानेऽपि मनुष्याणामल्पप्रतिभात्वाछ्त्वाज्येभ्य इति विशेषणम् । श्रुतिपरायणा
इतीति मोक्षतारतम्यनिमित्ते दर्शनतारतम्ये प्रमाणं सुसूक्ष्मैरिति । श्रुतिमप्याह । न तु सर्वैः स्वरूपैस्तं पश्यन्तीत्यन्वयः । वाणी तु पञ्चाशत्को-
टियोजनविस्ताण ब्रह्माण्डप्रदेशमारभ्याप्तेजोवाय्वाकाशाहकारमहत्वैगुण्यप्रदेशेषु क्रमादशगुणेषु ब्रह्मांडावरणरूपेषु व्याप्तं ततः परतश्च शतगुणं परतोऽपि
॥५२॥

- व्याप्तं हरिं पश्येत् । मुक्तामुक्तविशेषस्तु सर्वत्राप्यनुगन्तव्यः । तमोमात्रगतं ब्रह्मांडप्रदेशमारभ्य तम:प्रदेशपर्यन्तं व्याप्तं नातो बहिर्महत्तत्त्वं । यावदि- त्यादेरण्ययमेव न्यायः । इम इत्यादेरयमर्थः । लक्ष्म्यादिभिः पूर्वोक्तैर्दष्टेभ्यो वासुदेवस्य गुणविशेषेभ्य एकांशेनेव पश्चादुक्ता ब्रह्मादयः पश्यति । याव- दुमा तावत्पर्यन्तं साधनाना विमुक्तैरिति शेषः। तेन साध्यसाधनवैलग्येण । तथा हि । अनन्तगुणविशेषानुपासितवतां दशकल्पकालं लवणार्णवमज्जनादितपः कुर्वतां रुद्रादीनां चतुर्गुणोपास्तिमतामल्पव्रतानां मानुषाणां च समं सुखं ददतः परस्य वैषम्यनैघृण्ये स्यातामेव । वैषम्यनैघृण्ये न सापेक्षत्वात्तथा हि दर्शयति । न कर्माविभागादिति चेन्नानादित्वात् । उपपद्यते चाप्युपलभ्यते चेति हि सूत्राणि । तत्तस्मान्मायिना लिङ्गत्वात् । ननु मुक्तानामुच्चावचत्वे द्वेषेादयः प्रसज्यन्ते । तस्मात्समत्वं कल्प्यत इत्यत आह ॥ निःशेषेति । अत्रादिषु बुद्धयादीनामात्म- गुणानां विनाशादन्यदर्शनाभावात् । अनुमत्यादिरित्यादिशब्दाद्भयम् । कथमन्यदर्शनादाविच्छारहितस्य तदभावादरतिरित्यत आह ॥ यदीति । मोक्ष ईर्ष्यादिनिवारणार्थ निष्प्रमाणकाया दर्शनेच्छाधभावकल्पनायाः श्रुत्युदितनिर्देषित्वाङ्गीकारो वरीयानित्यर्थः । युक्तिमानिना युक्तिज्ञोऽहमस्मीत्य- भिमानिना । कथमनुमानं विनाऽऽगममात्रेणैवार्थसिद्धिरित्याशङ्का परिहरति ॥ मोक्ष इति । ननु चेतनत्वहेतुरतिप्रसङ्गी। उक्तन्यायेन मोक्षऽपि दुःखादीत इत्यप्यनुमातुं शक्यत्वादित्यत आह ॥ न चेति । तरति शोकमात्मवित् । तीणों हि तदा सर्वन शोकान्हृदयस्य भवति । तद्वै देवं मनो येनानन्येव भवत्यथ न शोचति । सर्वे नन्दन्ति यशप्ता गतेन सभासाहेन संख्या सखायः । किल्बिषस्पृक् पितुषणिर्वेषामरहितो भवति वाजिनायेति कीर्त्या व्याप्तेन प्रतिभादिगुणैः । सभाविजयिना चेतनस्य सख्येश्वरेण सर्वे मुक्ता नन्दन्ति । एषां दुःखनिमित्तककिल्बिषस्पर्ध्यमृताद्यन्नदातेन्द्रिय- गणाय तद्विषयमोगदानेनातिशयेन हितो भवति हि । यं यमन्तमभिकामो भवति यं कामं कामयत सोऽस्य सङ्कल्पादेव समुत्तिष्ठतीति च श्रुतिः । निर्दुःखत्वादीत्यादिशब्दायथेष्ठकामभोगः ॥ ४ ॥ सर्वथाऽपि तु त एवोभयलिङ्गादित्यधिकरणाभिप्रायमाह ।। अनादीति। नित्यदुःख- भर Samme अटि० ॥५३॥ नचं त०च० अ०६ योग्यतायाः कलिरवधिः। नित्यदुःखिना भगवद्वेषिणामसुराणां मध्ये तस्यातिश यतत्वात् । नित्यसुखयोग्यतायास्तु ब्रह्माऽवधिः । नित्यसुखयोग्यानां भगवद्भक्तानां देवानां मध्ये तस्याविकत्वात् । विमतः कालो हरिश्रीब्रह्मपदयोग्यव्यतिरिक्ताज्जगतो विव. क्षितब्रह्मण आधिक्यवान् कालवादेतत्कालवत् । ब्रह्माऽधिकसाध्योऽधिकसाधनत्वात्सम्मतवदित्यादिकमनुमानं प्रमाणं भवेद्धि । अनुमा- नैकशरणस्य वादिनोऽपि तदाह ॥ ब्रह्मण इति। नन्वेतत्कालत्वे ब्रह्मणो मुक्तरुद्रादेराधिक्यात्साध्यविकलोऽयं दृष्टान्त इत्यत आह ॥ रुद्रादिष्वपीति। मुक्तरुद्रादिष्वपि चान्यशब्दस्य योग्यवान्न दोषाय । तत्र हेतुमाह ॥ उत्तमत्वमिति । मुक्तानां रुद्रादीनामिति शेषः । अयं वीर एवं श्रूयते । उनमुनमसुरवर्ग तमसि दमायन् । शान्तं शान्तं देववर्ग संसारमतितार्य सम्यङ्मोक्षयन् स्वयोग्यतातिरेकेण वर्धमानं ततः प्रच्यावयन् परमेश्वरी मनुष्यप्रजाः स्वर्गनरकादौ प्रेक्षयतीति पूर्वेषां पूर्वदेवानामासुराणां सख्यानि तेषागात्मनि द्वैपमुत्पाथ पर छिनत्ति । विशेषेण त्वरमाणो परैर्देवैः सख्यान्येति । सम्यग्ज्ञानरहिताः प्रजा असुराख्या अन्धन्तमसेऽबान्धानः परमेश्वरोऽत तवासरानेव क्रियासमभिव्याहारेण तरति । तस्मादुपर्यप्येवमेवेत्यर्थः । पृषतः समर्थो भगवान् कृष्णाजास्तामसीप्रजा हेयं भागं स्वलोकादपासधवच्छिन्नं शम्बरं च लोकभेदको माया- दिभिराच्छादयन्तौ जलसमूहरूपे पड्किले तमस्यपीडयत् । स एव भूतिनामाऽपि ज्ञानेश्वर्यादिभूतितः । अज्ञानादिप्रदातृत्वात्स एवाभूतिनामकः । सुखज्ञानाद्विगुणदं पूर्ण सर्वगुणैः प्रभुम् । उपासते तं वाय्बाद्या देवास्तस्माच तेऽखिलाः । बभूवुः सुखसज्ज्ञानपूर्वः सर्वगुणैर्युताः । देवानामपि सर्वेषां प्रधानोऽद्यापि मारुतः । स्थित्वा सुप्तेषु विष्णुं तं भूभूरित्येव शंसति । भूःशब्दार्थों भूतिरिति वैपरीत्येन चासुराः । अभूतिकारणोऽस्माक- मैश्वर्यादिगुणोज्झितः । इत्येवोपासते तस्मात्पराभूताश्च तेऽखिलाः । ज्ञानैश्चर्यादिमिहीना: पेतुरन्वे तमस्यथेत्यैतरेयसंहितायाम् । इदं शरीरे भूतेषु विलापयति केशवः । अविद्यां चैव जीवस्य गमयेज्ज्ञानसर्जनात् । स्वर्णकारो यथा स्वर्णमेत्रमग्नौ निहल च । शुद्धेन तेन च स्वष्टं ||५३॥ कुरुते २ 4 रूपमञ्जसा । एवं स भगवान्विष्णुजीयस्वर्णस्य यन्मलम् । अविद्याकामकर्माधमात्मानौ सर्वनाशकृत् । स्वेच्छया कुरुते रूपं यद्योग्यं तस्य मुक्तिगम् । पितृजीवस्य पित्र्यं सगान्धर्व तस्य चैव हि । दैवं देवजीवस्य प्राजापत्यं प्रजापतेः। ब्रह्मणो ब्राह्ममेवेति नित्यानन्दस्वरूपकम् । न योग्यतां विना क्वापि पूर्वज्ञानश्रुतेः सदा । यदा मुक्तो भवेब्रह्मा तदा ब्रह्मा स मुख्यतः । एवं प्रजापतिश्चैत्र तथैवान्येऽपि सर्वशः । यथा हि स्वर्ण- रूप्याद्य मलहानौ तद्भवेत् । पूर्व तु योग्यतामात्रं द्विजत्वं बालके यथेत्यध्यात्मे । प्रयान्तीमादि पाझे । अत्रजानंतीति गीतासु । द्वौ भूतसो भूपेति विष्णुधर्मे । देवानामिति वामनपुराणे । ज्ञायतेऽनादियोग्यता । ब्रह्मादीनां सतां कल्यादीनामसतां च मध्यमानां मानुषाणां च मिथो विलक्षणत्वेन व्यभिचारिण्यनादियोग्यता ज्ञायते । एक इत्यादेरयमर्थः । यदि पूर्व कदाचिदप्यदृष्टो विष्णुभक्तिज्ञानादिविशेष आकस्मिकत्वेन केषुचित्पुरुषेष्वित्यतस्तर्हि सर्वसुखदुःखादिविशेषाणामाकस्मिकत्वं स्यात् । अयं सार्वत्रिको विशेषो दृष्टो देव इत्यभ्युपगम्यते चेत्तत्यानादियोग्यताविशेषस्य बीजाकुरपरस्परन्यायेन सजातीयाइष्टपरम्परानिमित्तस्य साधनविशेषक्रमेण वर्धमानस्य कथमनादित्वं स्यात् । तं विधाकर्मणी समन्वारभेते पूर्वप्रज्ञा चेति दि श्रुतिः । जन्मजन्म यदभ्यस्तं दानमध्ययनं तपः । तेनैवाभ्यासयोगेन तच्चैवाभ्यस्यतै पुनः । हिंसाहिंसा मृदुकरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते । कर्मणा मनसा वाचा यदभीष्टं निषेवते । तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् । सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृति यान्ति भूतानि निग्रहः किं करिष्यतीत्यादि च । नमु केषाश्चिस्वयोग्यस्य भगवदवताररूपस्य दर्शनान्मोक्षो विवक्षितो हि । तच्च मूलरूपादिनत्वेन वेधभेदादिमत्वेनैव च दृश्यते । तथा च मोक्षे द्वेषान्मोक्षः किं न स्यात् । अमोझे तु तद्वदेव भगवद्दर्शनं सर्वमोक्षसाधन स्वादिस्याशङ्का प्रमाणवचनपूर्वकं परिहरति । न चेति । यया कृष्णादेः स विष्णुरेवाहमिति प्रत्यभिज्ञैव । नया अझदर्शिनामपि स विष्णुरेवार्य कृष्ण इति प्रत्यभिज्ञैव दृश्यते न तु चैत्रमैत्रयोरिव कृष्णविष्णुरूपयोर्भेदो दृश्यते । विशेषस्तु दृश्यतां नाम । एषामब्रह्मदर्शिनां तेन भगवता मुष्टदृष्टित्वात्प्र- त्यभिज्ञा च नास्ति । तेऽपि भेदं प्रकर्षण नैव पश्यन्ति । धर्मिप्रतियोगिनोर्भगवद्रूपयोरेव सम्यग्दृष्टत्वात् । न हि केवलागमगम्ययोर्भगवद्रूपयोः अटि०/६ प्रत्यक्षमात्रे सम्यग्दर्शनम् । आगमानुगृहीतप्रायक्षेण दर्शनं चेदुपजीव्यप्रमाणविरुद्धं भेददर्शनं नैवोदेति । ननु जीवात्मरूपगुणशीलवयोनुरूपसीता- न०० ॥५४॥ भिधां श्रियमुरस्यमिलभ्यमानां । मार्गे व्रजन्मृगुप्तेरनयप्रकटं दर्प महीं कृतवतो हतराजवीजामित्यादिपुराणवचनाद्भगवद्रूपयोः परस्परस्पर्धादिदर्शना तृ०० त्कथं भेदो न स्यादित्यत आह ॥ पुराणगमिति । नेह नानाऽस्ति किश्चनेति हि वेदः। देवदत्तादिदृष्टवयथा विष्णुमित्रविषया देवदत्तोऽयमिति १०५.६ दृष्टिरपरीक्षिता पुन यं देवदत्तो विष्णुमित्र एवेति परीक्षापूर्वदर्शनं निषेधुं नैव शक्नुयात् । तद्वदत्राप्यधीशितुः 'परीक्षापूर्वदर्शने सति वैधविषयत्वा- दिदूषणं नैव दृश्यते । अत्र मानमाह ॥ निदोषमिति। अद्राक् अदाक्षीत्। परीक्षितस्यैव प्रामाण्यनियमे परीक्षीयाः प्रमाणान्तराधीनत्वात्तस्याप्येवं तस्याप्येवमित्यनवस्था स्यादित्यत आह ॥ न परीक्षेति । न ज्ञानेलादेरयमर्थः । इदं रजतमिति ज्ञानमासीन्ममेल्यादिरूपेण ज्ञानस्य दर्शनं वर्तते । न तावता तस्य ज्ञानस्य प्रामाण्यं निश्चेतुं शक्यते । क्वचिक्वचिन्मानसस्य दर्शनस्यापि सम्भवात् । सुखायेषु ज्ञानस्येति शेषः । कथं साक्षिणि विश्वासः । तस्यापि परीक्षार्थ परापेक्षावसम्भवादित्यत आह ॥ स्वप्रामाण्यामिति । अहमिममर्थ सम्पगेव जानामीति ज्ञानस्य ग्राहकेणैव साक्षिणा स्वप्रामाण्यानुभवात्कथं दोषभावो निश्चयत इत्यत आह ॥ दोषाभाव इति । क्वचिदेव साक्षिणा निश्चितत्वं न तु प्रमाणाभासेषु । एवं दोषाभावे सति प्रमाणानां प्रामाण्यनियमात्परतो दोषादप्रामाण्यमित्यायातम् । प्रामाण्यं तु स्वत एवेत्याह ॥ स्वत इति । मानानां मानत्वेन प्रतीतानां तत्तत्र परीक्षितमेव प्रमाणं नान्यदित्यनुभवारूढम् । दोषाभावादिकमित्यादिशब्दात्प्रामाण्यम् । फलितार्थमाह ॥ तत्परीक्षितेति । विष्णवीत्यत्र ऐरौडादेशाभावास्तु यत्सोममिन्द्रविष्णवील्यादिवदुपपद्यते । कथं वेदद्रष्टणामुचितो वैदिकप्रयोगोऽत्र वर्तत इति च नाशङ्कनीयम् । करतल विलसितमहामाणिक्यवदनाद्यनन्तकालमनाद्यनन्तवेदानवलोकयतः सर्वलोकगुरोः श्रुतिपतिभगवत्तमशिष्यसत्तमसमितिचूडामणेर्महाव्याकरणसिद्धां ॥५४॥ MAL बर 4NEL ALSO वैदिकी लौकिकी च भङ्गी प्रकाशयतो मध्वदेवस्यैवंविधाः प्रयोगा युज्यन्त एव । अपरीक्षिततदृष्टया दोषदर्शनमात्रेण दोषाशङ्कायामतिप्रसङ्गः स्यादित्यभिप्रा- येणाह ॥ अपरीक्षितति । स्यात्किम् । प्रत्यक्षादागमस्य प्राबल्ये कथमादियो यूप इत्यादेhणार्थकल्पनेत्यत आहे ॥ तत्प्रत्यक्षेति । तत्तत्र तद- न्यत्र विपर्ययः । यत्रागम उपजीव्यस्तत्रागमविरुद्धार्थप्रत्यक्षस्यापि न मानता । अत्रागमस्योपजीव्यत्वं दर्शयति ॥ आगमेन हीति । बासुदेवः सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं मत्स्यः कूर्मों वराहो नरसिंहो वामनो रामो रामः कृष्णो बुद्धः कल्किरहं शतधाऽहं सहस्रधाऽहममितोऽहमनन्तोऽहमित्याद्यागमेन ह्यस्य कृष्णादेर्विष्णुत्वं ज्ञात्वाऽत्र विरुद्धादिदोषः कल्प्यते । आगमेन विष्णुरिति न ज्ञायते चेद्विष्णोर्दोषवत्त्वं न ज्ञातं स्यात् । कश्चित्कृष्णादिनामा दोषवानित्येव ज्ञातं कथं श्रीवत्साङ्कचतुर्भुजत्वादिलक्षणवत्त्वाद्विष्णुत्वेन हि निश्चितस्य कृष्णादेदोषवत्वे ज्ञातेऽन्यस्यैव दोषवत्त्वं कथं ज्ञातं स्यादित्यत आह ॥ शास्त्रसिद्धमिति । शास्त्र सिद्धं हि विष्णोः श्रीवत्साकत्वादिलक्षणम् । तस्मात्तेन दोषः कल्प्यते चेदुपजीव्यविरोधादेवाप्रामाण्यमिलाशयः । तदेव स्पष्टयति ॥ कस्यचिदिति । ननु स मया दृष्टो विष्णुर्न मानव इत्यत उपजीव्यविरोधात्कथं तस्य प्रामाण्यमित्यत आह ॥ यावदिति । यथा शुक्ति- परीक्षायां कृतायां शुद्धत्वेन निश्चितस्योपजीव्यस्य बाधन एवोपजीव्यप्रमाणविरोधाख्यो दोषः । अशोधिते बाधिते सत्यपि स दोषो न स्यात् । तस्मिन्प्र- माणेऽप्युजीव्यांशमात्रं न बाध्यत इत्यत आह ॥ भ्रम इति । यथा शुक्तिशकले इदं रजतमिति प्रतीते परीक्षया तद्गतमिदमंशमात्रमुपजीव्य नेदं रजतमिति बाधकज्ञानवृत्तिरेवमत्रापि बाधकज्ञानवृत्तिः स्यात् । स्यात्किम् । योऽयं कृष्णो मानुषत्वेन निरूपितः स विष्णुरेवेत्यत्र यथाऽयं कृष्ण इत्येतावदुपजीव्यमानवत्त्वं विहाय विष्णोः कृष्णमात्रैक्यं लक्ष्यते । तथाऽस्माभिरपि यः सर्वज्ञः सर्वविदित्यत्रोक्तज्ञानमात्रमुपजीव्य सर्वविषयत्वा- दिकमपहाय तत्त्वमसीत्यादिना चैतन्यमात्रैक्यं लक्ष्यत इत्यत आह ॥न चैवमिति । सुपरीक्षिते यः सर्वज्ञ इत्यादिप्रमाणे एवं भ्रमाभ्रमविभागो नास्त्येव । सर्वस्याभ्रमविषयत्वात् । तत्सर्वमुपजीव्य हि तत्त्वमस्यादिप्रमाणम् । तत्सर्वज्ञत्वादिलक्षणं त्वदन्तर्यामीत्यन्तर्याम्यैक्यमुपदिशद्वर्तते अ०टिक न०चं १०१० अ०५-६ यस्मात्कस्माच्चिलक्षणादिति शेषः । न हि वस्तुत्वादयः सामान्यधर्मा व्यावर्तका इत्याकूतम् । स्वरूपस्यैवोपजीव्यत्वमङ्गीक्रियते तर्हि तत्रोच्यते एतस्मादित्यादिवस्तु यात्रता लक्षणे तस्माज्जगतो व्यावृत्तत्वेन ज्ञातं भवेत् । तावता विशिष्टस्य स्वरूपस्य हि सर्वत्राप्युपजीव्यत्वं तस्मादत्रापि तथा स्यात् । तस्मात्स्वरूपशब्दस्यापि स्वरूपलक्षणान्विताभिधायित्वात् । स्वरूपश्चायं सत्त्यादिसामान्यलक्षणानां कथं स्वरूपत्वमित्यत आह ॥विशेषेति । पूर्णत्वसर्वज्ञत्वादीनां विशेषलक्षणतया सत्रादीनां सामान्यलक्षणतया न्य वस्तुमः स्वरूपत्वं विशेषादेव सम्भवेत् । वस्त्वन्तरसदृश- लक्षणमेव हि सामान्यलक्षणं नाम । न पुनरनुवृत्तधर्मः । ननु व्यावृत्तमेवोपजीव्यतनं चेत् क्वामि भ्रमी नाम न स्यात् । न हि देवदत्तादिषु चैत्रादिभ्यो व्यावृत्या प्रतीतेषु चैत्राथध्यासः स्यादिलनात आह ॥ पुरोपातत्येति । पुरोवर्तित्वपूर्वाण्यपुरोवर्तिभ्यो घटादिभ्यश्च व्यावर्तयति । चैत्यादिसादृश्यवतश्चैत्रमानाद्विना मायिब्रह्मणः सर्वविशेषरहितत्वाधस्माकमानिददाद्यर्थादपि तत्किं लक्षणं व्यावर्तयति । किमपि व्यावर्तकं लक्षणं नापेक्षते । ममात्रं त्वमसीत्युपद्रिश्यते चेत् । ब्रह्माणि जीवाः सर्वेऽपीति अचनात्वत्पदार्थस्यापि ब्रह्ममानवाविरोधाञदवादिनोऽपि सिद्धत्वात्त- सिद्धसाधनम् । अस्ति, हि चिन्मात्रत्वं जडाम्यावर्तकं ब्रह्मण इस्थत आह ॥ चिन्मानत्यमिति। ततर्हि चिन्मात्रभेदासाध्ये सत्यपि चेतत इति चेतनश्चतनत्वाख्यं ज्ञानत्वं च ज्ञेयवर्जितत्वेन घटते । ज्ञेयाङ्गीकारे तस्याद्वैतहानिः । स्याख्यञ्ज्याङ्गीकारे नाद्वैतहानिरित्यत आह ॥ स्वज्ञेयत्व- मिति । सविशेषतः स्वयमेव ज्ञाता ज्ञेयश्चेति सविशेषत्वप्रसङ्गतः । स्वशब्दविषयत्नमात्रेऽङ्गीकृतेऽपि सविशेषत्वं स्यादित्याह ॥ स्वशब्द इति । तच्चेस्यादेरयमर्थः । यदि स्वरूपमित्युक्ते रखशब्दस्य वैय्यर्थ्यम् । तर्हि तत्स्वरूपस्वरूपयोः सामान्यतया वचनमित्यायातम् । न स्वरूपाभिधायि स्यात् । ननु नास्माभिश्चेतन इत्यङ्गीक्रियते चैतन्यमात्रमेव ब्रह्मेत्यत आह ॥ चेतनस्येति । भोजनादीनामनित्यत्वाद्भोक्तृभोज्यापेक्षा स्यात् । अस्य तु जन्य- ज्ञानव्यति रक्तस्य जमिशब्दापरपर्यायत्वस्य नित्यत्वादिदं ज्ञातशेयनिरपेक्षमपि स्पादिमाशङ्कय परिहरति ॥ नित्यत्वादिति । नित्ययस्य च १५५॥

तादृशत्वेऽतिप्रसङ्गमाह ॥ नित्यवागिति । द्रष्टार एव वक्तारो मुख्यवचनस्य दर्शनपूर्वकत्वात् । ननु प्रलये तेषामभावाद्वाच्यवक्तृविहीना नित्यवागित्यत आह ॥ नित्य इति । ब्रह्मणोऽन्यस्य बाध्यत्वेनावस्तुत्वादसापेक्षस्य विज्ञानस्य चावस्तुत्वप्रसङ्गादन्यापेक्षत्वमिति ह्युच्यते । तच्च न युक्तमिल्लाह ॥ किञ्चेति । प्रपञ्चो यदि विधेत निवर्तेत न संशय इति हि सर्वमिथ्यात्वे मानमित्यत आह ॥ उपपत्तीति । तस्मिन्नर्थे उपपत्तिविहीनस्य वाक्यस्यार्थो न ज्ञायत । विद्वद्भिः प्रत्यक्षमबाध्य गगनादिविषयम् । उपपत्तिरोतारं पादशो विद्यात् । ॐकारो विदितो येन स सुनिर्नेतरो जन इति वेधवेदककर्मक्तव्यपदेशादिका विश्वं सत्यमित्याचा बहब आगमाश्च विरुद्धयन्त इति यत् । अमित्येतदक्षरमुपासीतेत्युपास्यो- पासकभेदेनोपक्रमादिलिङ्गविरोधतश्च । यस्मिन्वाक्ये सोऽर्थो न समस्त्येवेति यत् । तस्मात्स प्रपञ्चमिथ्यार्थ एव कथं ग्राह्यः । प्रत्यक्षावविरोधिनि प्रपञ्चस्यानादिनित्यत्वाख्येऽथे पूर्वोक्तन्यायेनोपपन्ने सति यः सर्वज्ञ इत्यादेश्च सर्वज्ञत्वगुणप्रतिपादनरूपे मुख्यार्थे सति कुतो लक्षणावृत्त्याऽनन्यगति- कल्पनया सावश्यं निषिध्यते । विचारितान् बहूनानपि निगमयति । अत इति । सिंहावलोकनन्यायेन पुनरपि मुक्तानां तारतम्यसाधनद्वारेण ज्ञानिशुभस्य' मोक्षानुप्रवेशित्वेनाक्षयफलं साधयन् शमदमाथुपेतः स्यादित्यादेरभिप्रायमाह ॥ ज्ञानिन इति । ननु ज्ञानिनः प्रयोजनमनुदिश्य लीलात्वेनैव शुभं कुर्वन्तीत्यत आह ॥ कृच्छ्रेणेति । स्यास्किम् । पूर्ववासनाबलात्कृच्छ्रेणापि शुभप्रवृत्तिः स्वभाव एव ज्ञानिनामिल्यत आह ॥ न चेति । ज्ञानिनो भयपूर्वप्रवृतिः कृच्छ्रणाचरणं च न फलार्थ किन्तु स्वभाव एव चेत् । अज्ञस्यापि तथा भवेत् । कर्मणा ज्ञानमातनोतीति ज्ञानेनामृतीभवतीलज्ञपवृत्तेः फलवत्त्वे प्रमाणमस्तीति चेत् । शानिप्रवृत्तेः फलवत्त्वेऽपि समं हि तत् । तत्प्रमाणमाह ॥ निष्काममिति । ब्रह्माभ्येत्यन्येभ्योऽधिकत्वेन ब्रह्म प्राप्नोति । यदि हवा अप्यनेवंविन्महतत्पुण्यं कर्म करोति । तद्धास्यान्ततः क्षीयत एव । आत्मानमेव लोक- मुपासीत । स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते । अस्माद्धयेवात्मनो यद्यत्कामयते तत्तत्सृजते । यदेव विधया करोति सात HINE a न०० त०च. अ०५६ श्रद्धयोपनिषदा । तदेव वीर्यवत्तरं भवतीत्यादिवाक्यसामयोज्ज्ञानिनां शुभफलवत्त्वे मुक्तावानन्दोदकस्योपलभ्यमानत्वात् । ज्ञानिनां शुभस्यापि सर्वस्या- अ०टि० पि वैचित्र्यदर्शनात्तत्फलसुखस्यापि वैचित्र्यसम्भवात् । विमुक्तिगं तारतम्यमवगम्यते । आदिशब्दादथातो विष्णो विदुषा विदध्यास्तोमो य अश्वराज्ये ॥५६॥ हरिष्मतेति । स य आत्मानमेव लोकमुपास्त इत्यज्ञानस्यैवोपासकस्य फलमुच्यत इत्यत आह ॥ न चाचेति । आदित आदिकाला- दारभ्य प्रवृत्तम् । ननु जन्मान्तरसहलेषु तपोज्ञानसमाधिभिर्नराणां क्षीणपापानां कृष्ण भक्तिः प्रजायत इत्यादौ सर्वशुभं भक्तिकारणमुच्यते हि । तस्मात्कथं शुभबाहुल्य ज्ञानबाहुल्यं कारणमित्यत आह ॥ ज्ञानस्पेति । भक्तिस्तु ज्ञानवचनेनैव परिगृह्यते । ज्ञानस्य भक्याख्यांशवक्त्वात् तदेवोप- पादयति ॥ ज्ञानस्यैवेति । इत्यभिप्रायत एवं भक्तेरपि ज्ञान एवान्तर्भाव इत्यभिप्रायतः । मयि चानन्ययोगेन भक्तिरव्यभिचारिणीत्यायुक्त्वाऽ- ध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनमित्युदीर्यते च । सोऽयं विशेषः । उक्तार्थे मानमाह ॥ चेतनस्येति । भगवद्गुणेष्वेव तात्पर्य न तु दोषेषु । दोषवेदनस्य द्वेषापरपर्यायस्याप्रसादजनकत्वादित्यभिप्रायेणाह ॥ भक्त्येति । आगमाः पञ्चरात्रायाः । तस्माद्वैरानुबन्धेन निवैरेण भयेन वा। स्नेहात्कामैन वा युद्ध्यात्कथञ्चिनेक्षते पृथगिति वचनाद्यथाकथञ्चिद्वेषादिनाऽपि भगवति मनो योक्तव्यमेवेत्यत आह ॥ स्मर्तव्य इति । स्मर्तव्यः सम्यगिति पुराणे वर्तमानं वाक्यम् । द्वेषाद्गुणानाहेव । यथा पिता पुत्र औषधं पिबेति प्रोक्तऽप्यकुर्वाणे सति क्रुद्धः स्वक्रोधप्रकटनेन स्त्रोक्तं कारयितुं नियस्वेति वदति । एवं भागवतादिपुराणगं वाक्यं पैरेणापि तत्र मनो युझ्यादिति बदति । यदनिन्दापितेत्यादिना स्वविरोधविलोमत्वेन द्वेषनिमित्ता- प्रसन्नत्वेन सर्वार्थरूपं हि महातात्पर्यम् । सर्वश्रुतिस्मृत्यर्थस्वरूपेण हि महातात्पर्य विषयो नाम । एकशब्दस्य संशये वैरानुबन्धेनेत्येकशब्दस्या- र्थसंशये सति । ननु तस्मादित्यादेरर्थान्तरमुक्तं भागवतटीकायां भगवतैव । यस्मादेवं कोऽप्युपद्रवो नास्ति भगवतस्तस्मादेवं द्वेषादिना मनो योक्तुं शक्यते तादृशानां तदेव चिन्तयति । अन्यथाऽऽमनो दुःखकारणं द्वेषादि कथं सर्वनियामको हरिरुत्पादयेत् । इति तस्मात्कथमत्र RECEk 1५६॥

स 44 ALSHRA क्रुद्धवाक्यदृष्टान्तत्वेन योज्यत इति नैष दोषः । अत्र तु सर्वेषामप्येवंविधवाक्यानां सामान्यन्यायप्रकटानार्थत्वाद्बव्हर्थसम्भवाच्च सर्वलोको विद्वेषात्प्रसाद नाप्नोति किन्तु भक्त्यैवेत्याह ॥ न चेति । स्वद्वैषिणश्च सृजतः स्वभक्तांश्च संहरतो लोकविलक्षणस्य विष्णोलोकदृष्टान्तः कथमित्याशङ्का बृहत्संहिता- वचनेन परिहरति ॥ ये पृथगिति । पृथग्विहिताः सर्वस्त्रष्टवसंहर्तृत्वादयः । य आत्माऽपहतपाप्मा विजर इत्यादिवेदैर्विहिता लोकविलक्षणा दोषाभावाः । सिद्धान्तो हि तदीरितः । सदागमानां विशिष्टसिद्धान्तः समुदृह्योदितो हि । अत एव बृहत्संहितासिद्धान्तपञ्चरात्राख्या । नन्वङ्गा- बबद्धास्तु न शाखासु हि प्रतिवेदम् । मन्त्रादिवद्वाजविरोध इत्यत्र ह्यङ्गदेवतोपास्तिरुच्यते । उपास्तिरपि भक्तियुक्तैव विवक्षिता । अतः किमर्थमत्र तद्भक्तभक्तिरुच्यते । नैष दोषः । अत्रापि भक्तियुक्तमेव दर्शनं नाम । न द्वेषयुक्तमिति भक्तौ प्रसकायां भक्तिरपि तद्भक्तभक्तियुक्कैव स्यादिति प्रसङ्गप्राप्तत्वात् । विपरीतो विपर्यये । प्रधानद्वेषित्वे तद्भक्तेष्वपि द्वेषी दृश्यते । लोके राजादीनामपि महिषीमन्त्रिभटादिषु तारतम्येन वर्त- मानायाः स्वप्रीतेरनुसृतौ स्वसेवकेऽप्यदैव प्रीतिर्दृश्यते । साधनं मोक्षस्येति शेषः । तत्र मानमाह ॥ लक्ष्मीति । अतितात्पत्सिंहावलोकनन्यायेन हरिद्वेषस्याशुभदत्वे युक्तिमाह ॥ हरिद्वेष इति । ब्रह्मादिषु तारतम्यक्रमाद्भक्तिर्हरिप्रतिकारणं तत्रियोपयोगभक्तित्वात् । यथाऽस्मिन्हरौ आदिशब्दाद्विहितभक्तित्वादिति द्रष्टव्यम् । सा भक्तिरिति यस्मादित्यन्वयः । प्राधान्यतारतम्यानुसारिभक्तित्वादित्यर्थः ॥ ५-६॥ स्वामिनः फलश्रुतरित्यात्रेय इत्यादेरर्थमाह ॥ ज्ञानेति । एषु ब्रह्मादिष्वन्यगतज्ञानकर्मभक्तिफलं च तारतम्यक्रमेणानुवर्तते । स्यात्किम् । तत्तत्स्वातन्त्र्या- नुकूल्येन तत्तत्फलाधिक्यं चेत्तेषामशुभेऽपि स्वातन्त्र्यादशुभफलमपि स्यादित्यत आह ॥ अशुभमिति । यदु किञ्चेमाः प्रजाः शौचन्त्येवमेवासां तद्गतिपुण्यमेवामुं गच्छति । न ह वै देवान्पापं गच्छतीति श्रुतिः । उक्तार्थे स्मृतिमानं चाह ॥ द्रव्योत । देवानामेव शरीरादिद्रव्यं तैरभिमन्यमानपृथि- व्याधात्मकत्वाद्विज्ञानप्रयत्नौ तेषामेव । तैरभिमन्यमानेभ्य इन्द्रियेभ्य उत्पन्नत्वात् । द्रव्यादीनां सर्वेषां स्वातन्त्र्यमपि तेषामेव । तत्तत्काले नियामकत्वात् 4 Fore तेषां लोकप्रतिमाप्रतिष्ठादावपि द्रव्यस्वामित्वादिगुणैरन्येभ्यः फलाधिक्य दृश्यते हि । एवं ब्रह्मादिवत्प्रेरकत्वात् । उभयत्रापि मानमाह ॥ शुभा-न० ० अ०टि०/६/शुभेति । सुरासुराणामन्यगतशुभाशुभफलभाक्ते कर्तुः किमपि नास्ति किमित्याशङ्का प्रमाणवाक्येन परिहरति ॥ यदीति । मानुषोत्तममारम्य त० च० ॥५७॥ मनुष्यगन्धर्वा देवगन्धर्वा देकमनुष्याः पारिशेष्यान्मुक्तिमन्धन्तमसं च विनोक्तस्थानेषु सुखदुःखमोगिनो विशेषात्प्रजाभ्य इति शेषः । तत्र मानमाह अ०११ ॥ मुक्ताविति । क्रमात्तस्माययोत्तरम् । देवावममारभ्य यथा गुणोत्तमत्वं तथा क्रमाच्छुभाधिक्यम् । युक्तमित्यादेरयमर्थः । ज्ञानप्रतिगृहीतुः शिष्या ज्ञानदातुराचार्यस्य शोभनाधिक्य युक्तं च । न हि मोदाता गोप्रतिगृहातृवदेकगोफल क्षीरत्युपभोगमेवाप्नुयात् । किन्तु चिरतरकाल स्वर्गमाप्नुयाद्धि । तम इत्यादौ व्याख्यातृमन्त्रश्नोतॄणां महत्तारतम्यमवगम्यते ॥ ७॥ न हि बहुज्ञानफलार्थमविचारेण बहुभ्य उपदेष्टव्यमित्याशङ्का परिहरन् अनाविष्कुवन्नन्वयादिति सूत्र व्याख्याति ॥ एवमपीति ॥ ९॥ ऐहिकमप्रस्तुतप्रतिवन्धे तद्दर्शनादिति सूत्र व्याख्याति ॥ एवमेवोत । यथा श्रवणमननचिरभक्त्युपास्तयः क्रमेणोत्तरोत्तर पूर्वपूर्वसाध्यादृष्टफलरूपा एवमेवोपास्तिसाध्यं ज्ञानमपि दृष्टफलं न तु स्वर्गादिवदेहान्तरोपलभ्यमिति नियमः । प्रारब्धत्यैव कर्मणो विरोधाभावेन तद्विरोधै जन्मान्तरे जायते । ॥ १० ॥ एवं मुक्ति- फलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेरिति सूत्र व्याचष्टे ॥ मुक्तिश्चेति । चशब्देन पूर्वोक्तमित्यंभावं प्रारब्धकर्मविरो- धाभावाख्यमन्त्राप्यनुकर्षति ॥ ११॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमब्रह्मसूत्रानुव्याख्यानस्य टीकायां त्रैविक्रमार्यकृतौ नयचन्द्रिकायां तृतीयाध्यायस्य चतुर्थः पादः ॥ ३-४॥ * ॥ * ॥ समाप्तोऽयमध्यायः ॥ ३ ॥ श्रीकृष्णार्पणमस्तु ॥५७॥ - ॥ श्रीगुरुभ्यो नमः ॥ इरिः ॐ ॥ वृत्तानुबादपूर्वकमधिकरणसङ्गतिं दर्शयति ॥ समन्वयेति । वस्तुनि प्रतिपाद्यपदार्थे साधने साधनाध्याये कथं फलाध्याये साधनं प्रतिपाद्यत इत्याशङ्का भगवतैव निरस्ता । प्रायिकत्वाच्चाध्यायानां पादानां च न विरोध इति । अत्यन्ता- वश्यंभावि महापद्यव्यवश्यत्वेन भावनीयम् । तद्विना मोक्षमात्रत्त्यालभ्यत्वात् । आवृत्तिरसकृदुपदेशादिति सूत्रं व्याख्याति ॥ कर्तव्यति। स एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति नवकृत्वोपदेशः। लिङ्गाच्चेति सूत्रमनूय सत्तत्त्ववचनेन व्याख्याति ॥लिङ्गादिति । लातव्यत्रऋजोर्ब्रह्मभावात्पूर्वमेव कियत्पूर्वब्रह्मणां शतात्साय परार्धब्रह्मशतायुदीर्घकालं स्वस्मादर्धसहितं पञ्चसाप्तति ब्रह्मवत्सरा- नित्यर्थः । तत्रिभाग ततस्तृतीयांशं पञ्चविंशतिब्रह्मवत्सरानिति भावः ॥ १॥ आत्मेति तूपगच्छन्ति ग्राहयन्ति चेति सूत्र व्याख्याति ॥ आत्मेतीति । तत्र मानमाह ॥ आत्मा ब्रह्मति। तारः संसारतारकः शुद्धो वा । स्वराट स्वतन्त्रः । यच्चाप्नोति यदादत्ते यच्चात्ति विषायानपि । यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यत इति वचनानियताश्रयत्वेन नित्यत्वमादत्त इति ह्यात्मा। तथा च भागवते । हरिहिं साक्षाद्भगवान् शरीरिणामात्मा ऋषीणामिव तोयमीप्सितः । हित्वा महान्तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनामिति । नियताश्र- यत्वविवक्षायामूषितीय दृष्टान्त उच्यते । अन्यथा प्रत्यक्षविरोधात् ॥ २॥ नाम ब्रह्मेत्युपास्त इत्यादौ सामानाधिकरण्योक्तिभ्रमेण प्राप्तामन्यथोपास्ति निराकुर्वन् न प्रतीके न हि स इति सूत्रं व्याख्याति ॥ प्रतीकेति । तत्र मानमाह ॥ योऽन्यथेति । न हि स इति हि विपक्षबाधक- प्रमाणं प्राबल्यं घोतयतीत्याकूतम् ॥ ३ ॥ ब्रह्मदृष्ठिरुत्कर्षादिति सूत्रं व्याख्याति ॥ ब्रह्मतीति । तत्र मानमाह ॥ आधीति । जीवः स्वयं ब्रह्मेत्युपासते उपदिशन्ति च विद्वांस इति परयोजनां दूषयति ॥ नात्मेतीति । शुभ्वाचायतनं स्वशब्दात् । प्राणभृच्चेति निवारयन्नुक्ताथै मानमाइ ॥ आत्मशब्दमिति । आत्मब्रह्मेति युक्तित: स्वशब्दादिति हेतुप्रयोगरूपेण भेदव्यपदेशाच्च । भेदव्यप-

अ०ठि०
न००
चप्र०
अ०४
॥५८॥
PP
देशाच्चान्यः । भेदव्यपदेशात् । स्थित्यदनाभ्यां चेति भेददायें मानमाह । पुनः पुनस्तात्पर्यात् । नन्वत्र प्रतिषिष्यमानो भेदः
केवल व्यवहारमात्रनिवर्तको न परमार्थः । अस्यारोपितत्वादित्यत आह ॥ व्यावहारिकतेति । आरोपस्यानारोपितदर्शनपूर्वकत्वनियमात् ।
भेदारोपार्थं कुत्रचित्परमार्थभेदेन भवितव्यमिति भावः । व्यावहारिक भेदपञ्चकमिति शेषः । वचनं वचनाभिधेयम् । यदि स्याद्यावहारिकमिति
स्वपदमेव व्याख्याति ॥ तस्यापीति । तस्य भेदबाध्यत्वस्य बाध्यता स्याच्चेद्रेदः पारमार्थिकः स्यात् । भेदबाध्यत्वस्याबाध्यत्वं चेत्तेन ब्रह्मणो
भेदस्याङ्गीकार्यत्वादयं भेदः सत्यतां गतः । ननु भेदबाध्यत्वस्याभावापरपर्यायस्याङ्गीकारेऽपि नाद्वैतहानिः । भावाद्वैतं ह्यभ्युपगम्यत इति ।
मैवम् । अभावाद्ब्रह्म भिन्नं चेद्भदसत्यता स्यात् । अभिन्नं चेदभाव एव वा ब्रह्मैव वा स्यात् । एकतत्त्वस्य निर्विशेषत्वाङ्गीकारात्
अभावमात्रत्वेऽपसिद्धान्तः । ब्रह्ममानवे तु भेदाभावो नास्तीत्युक्तं स्यात् । तथा च भेदसत्यता स्यात् । भेदभेदाभावयोरेकतरनिषेधोऽन्यतरविधि-
पर्यवसायीति सोदाहरणं प्रतिपादयति । एकस्येति । ननु स्वमेऽध्यस्तस्य रजतस्य च रजतत्वं मिथ्या हि । पुनर्बाधप्रतीतरजतत्वस्य |
शुक्तित्वमपि मिथ्यैव । एवमेवात्रापि परस्परविरुद्धयोयोमिथ्यात्वं स्थादित्यत आह ॥ न खप्न इति । यद्यपि नेदं रजतं शुक्तिरेवेति प्रतीत
शुक्तित्वं नास्ति । तथाऽप्यरजतत्वस्यैव । प्रबोधै सति रजतत्वस्यानुपलभ्यमानत्वात् । न हरजतत्वं नाम शुक्तित्वमेवेति नियमः । वासनायाश्वार-
जतत्वसम्भवात् । भेदो मिथ्येति स्ववाचः ॥२॥ उत्तरसूत्रं पुनरपि तात्पर्याद्विस्तरतो विवृणोति ॥ प्रतीकेति। तस्मादन्यथोपास्तेरनर्थहेतुत्वात् ॥३॥
स्यादेतत् । प्रतीके इदमात्मेत्युपासना कार्या। न हि स आत्माऽइंग्रहेणोपास्यः । प्रतीकं प्रतीके तु ब्रह्मदृष्टिः कर्तव्या । ब्रह्मत्वस्पोत्कर्षरूपत्वात् ।
तथोपास्तौ प्रतीकस्य तुष्टिसम्भवात् । ततोऽभीष्टसौलभ्यादित्येवानयोर्योजनेत्यत आह ॥ नात्मेत्युपासनेति । इत्युक्तविरुद्धता तस्मात्स्वस्यैवो-
क्तयुक्तिविरुद्धता । अचेतननामादिप्रतीकादिति शेषः । स्यात्किम् । नात्र प्रतीकस्य ब्रह्मताध्यानेन ब्रह्मणो नीचध्यानं किन्तु प्रतीकस्योच्चत्वमेवेल्यत
॥५८॥

आह ॥ चण्डाल इति । आत्मानमित्यादेरयमर्थः । अयं चण्डालो ननु नृप इति वदताऽऽत्मानं विषयीकृत्यैव चण्डाल इति प्रोक्तमित्यभिप्राय- सहितवदेव कुप्यति । प्यात इत्यादेरयमर्थः । ब्रह्मप्रतीकयोस्क्यस्य ब्रह्मभावे ध्याते सति तदैव ब्रह्मणः प्रतीकभावो ध्यातो न स्यात्किम् । यथा चण्डालस्य राजत्वभावनायां राज्ञा न ज्ञातायां राजकोपो न स्यादेवं प्रतीकस्य ब्रह्मभावनायां च ब्रह्माविज्ञानतायां न ब्रह्मकोप इत्यत आह ॥ न चैवेति ॥ ४ ॥ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तव्यपदेशादिति सूत्रं व्याख्याति ॥ तथेति । इतरस्या- प्येवमसंश्लेषः पाते त्विति सूत्रं व्याख्याति ॥ तविष इति । भगवद्वेषोऽपि द्वैपपरिपाक सति पूर्वस्य पुण्यस्य नाश उत्तरस्यासङ्गता च स्यात् । स्यान्मतम् । यदेव विधयेति हीति ज्ञानिकर्मणोऽन्यकर्मण आधिक्यं ह्युच्यते । शेषत्वादित्यादावपि तदेव । तस्मात्कथं पुनरुक्तिन स्यादित्यत आह ॥ यदेवेति । पश्चान्मोक्षे वीर्यप्रदं स्विति मोक्षे आनन्दोद्रेकलब्ध्यर्थं कर्मणो वीर्यप्रदं ज्ञानमिति पश्चादवोदितम् । भोगेन वितरे क्षपयित्वाथ सम्पत्स्यत इति सूत्रं व्याचष्टे ॥ तत इति । प्रारब्धं पुण्यपापं च क्षपयित्वा ब्रह्मविदुत्तमः । प्राप्नोति ब्रह्मदर्शी मोक्षं प्राप्नोति । कियता कालेन प्रारब्धकर्मक्षय इत्याशङ्कां प्रमाणवाक्येन परिहरति ॥ ब्रह्मणामिति । आरब्धकर्मक्षय- स्तूच्चावचानां सर्वेषामपि ब्रह्मणां शतकालात्पूर्व स्यादेव । कर्मणस्तावत्काले वर्तित्वं ब्रह्मण एव ॥ ८॥ * * इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रानुव्याख्यानस्य टीकायां त्रैविक्रमार्यकृतौ नयचन्द्रिकायां चतुर्थाध्यायस्य प्रथमः पादः ॥४-१॥ * ॥ * ॥ ॥ श्रीगुरुभ्योनमः ॥ हरिः ॐ ॥ एवं तावद्वैराग्यादिमिरुत्पन्नेन ब्रह्मदर्शनेन कर्मक्षयमात्रम् । एतदध्यायपादानां सङ्गति दर्शयति ॥ कर्मेति। कथं देवानामुक्रान्तिमार्गों न स्यातामित्यत आह || स्त्रष्टुष्विति । अन्येषां व्याप्दर्शिनामुषिशतादीनामुत्क्रमणकाल एव मोक्षो न विद्यते wasana अटिल ॥५९॥ प्राप्यापीत्यापिशब्दाच्चतुर्मुखं प्राप्यापि तेनैव सहेति गम्यते । साक्षान्मुक्तिरिति वचनात् । जीवन्मुक्तेषु भगवल्लोकमात्र प्राप्तेष्वपि मुक्तिशब्दव्यव-2 हारोऽस्तीस्याकूतम् । अत्र भागवतवचनं स्मृत्यन्तरं श्रुतिं च मानमाह ॥ क्ष्मेति । यदा ब्रह्मा सर्वसंहारेच्छुः पृथिव्यादिदेवताभिः । मनोदेवता- न०च. च०वि० भ्यामिन्द्रकामाभ्याम् । इन्द्रियेदवताभिश्चन्द्रादिभिस्तद्विषयदेवताभिर्वृहस्पल्यादिभिश्च । अहङ्कारदेवतया वीन्द्रेण शेषेण च परिवृतः परिवारभूतैः अ०५ प्रवेशार्थं बिम्बत्वेन वृतो निर्विकारं ब्रह्म विश्वाख्यं विशति । तदा ते योगिनोऽपि तेन ब्रह्मणा साकमेवाभिमानसहिता एव न तु पराभेदेन गताभि- मानाः । के योगिनः के भगवन्तमनुप्रविष्टा भगवल्लोकमुख्य झुपयान्ति पृथक् पृथक् स्वरूपमनुप्रविष्टाः प्रजापतौ ब्रह्मचर्यमुपवसैतिवलक्षणासम्भवात् ॥ वाङ्मनसि दर्शनाच्छब्दाच्चेति । सूत्राभिप्रायमाह ॥ तत्र प्रवेश इति। तत्र तेषां मुक्ति प्राप्तवतां मध्ये । तत्र तस्यामवस्था- याम् । एवविध मोक्षे विवक्षिते सतीत्यर्थः । ननु युक्त्यागमाभ्यां तत्त्वतो विचार्यमाणे सति मोक्षस्यैकप्रकारस्यैव सम्भवाकुतो नानाप्रकारेण वदन्तीत्यत आह ॥ पुंसामिति । तत्तन्माहात्म्ययोगतो ब्रह्मादिमुक्तानां स्वस्वमहत्त्वतारतम्यानुकूल्येन ज्ञानस्य महत्त्वम् । बहुला विश्वदेशव्या- पिनी । अतिविशदाऽन्यथाज्ञानलवेनाप्यमिश्रिता । स्पष्टा बहुविशेषविषया । निरन्तरा विश्वविच्छेदरहिता । विश्वकालव्यापिनीति भावः। निर्लेपा विवशसङ्गरहिता । बीतदोषाऽन्यथाज्ञानमित्यादिदोषरहिता । विशेषानित्याविकारित्वादीन् । ब्रह्ममतेरपि श्रीमतिवत्स्पष्टत्वाभावं तत्तन्त्रत्वादिकं च वैलक्षण्यमभिप्रेत्य प्रायःशब्दः प्रयुक्तः । तदन्येषां समुद्रतरलोपमा ब्रह्मणोऽन्येषां मुक्तानां मतिस्तु समुद्रतरङ्गवत्सङ्कोचविकासवती । वृद्धिहासापे- क्षयाऽग्निज्वालादृष्टान्तः । यथा खद्योतप्रद्योतनेनात्यल्पेन शाखारूढपक्षिपतत्रे पत्रभ्रमो जायते । एवमेतादृशाऽप्यन्यथैवार्थों ज्ञायते । तदाह ॥ वद्यो- तेति । बिमता गतिर्दुःखैता पुद्गलावच्छिन्नचिरतरगतित्वात् रणभीतगतिवत् । कथं गतित्वादिहेतुं प्रयुक्तवतोऽयमभिप्रायः स्यादिति न शङ्खनीयम् । ॥५९॥ नित्यमूर्ध्वं व्रजत्येव पुद्गल इत्युक्तगतरेवात्र विवक्षितत्वात् । अनूइँल्यादेरयमर्थः । अनूर्ध्वगतित्वं दुःखेतरत्वप्रयोजकं न गतित्वमात्रम् । तस्मादने- RELI 5-6 नोपाधिना प्रयोजकोऽयं हेतुरित्युच्यते तर्हि तत्रा ब्रूमः । साधनव्यापक: साध्यसमव्याप्तिर्युपाधिर्नाम । अयं च साध्यव्याप्तिमान्न भवति । या दुःखेता साऽनूर्ध्वगतिरिति व्याप्यभावात् । दृष्टा हि दुःखितैव स्वर्गस्य दूरोर्ध्वगतिः । अपि च वेदविरुद्धस्यान्यमोक्षस्य साधकत्वेनानुमान युत्प्रेक्षते । तत्प्रतिसाधनरूपस्यास्मदनुमानस्योपाधिर्दूषणं न भवति । उपाधैः प्रत्यनुमानसूचनात्मकत्वात् । अत्राविनामाबबलेनोपाधिनिवृत्त्या पक्षात्साध्यनिवृत्ति- विवक्षिता । विमता गतिर्दुःखेता न भवति । अनूर्ध्वगतित्वरहितत्वाद्वैधुर्येण रणभीतगतिवदिति प्रत्यनुमानं ह्यत्र विवक्षितं स्यादिल्याकूतम् । प्रत्यनुमानस्य प्रत्यनुमानं केनापि नाङ्गीकृतं हि । अभ्युपगम्याह ॥ अथाऽपीति । हस्तपादवत्पुद्गलबादिना सशरीरत्वं नाम जडशरीरत्वमभिप्रेतं हि । तस्माषत्र मोक्षे विवक्षितगतित्वमस्ति तत्रा देहबत्त्वमप्यस्तीति न्यायाङ्गीकारे मुक्तानां शक्त्यादिकमङ्गीकुर्वतोऽपसिद्धान्तः स्यादित्यत आह ॥ आगमेति । प्रसङ्गतोऽतिप्रसङ्गतः । कथमतिप्रसङ्गः स्यादित्यत आह ॥ नेति । या गतिः सर्वलोकानां का गतिरिति । साधनानुग आगमानुसारित्व इत्युक्तन्यायोऽत्राप्यनुसतव्यः । मोक्ष एवमस्माभिः प्रतिपाधमानप्रकारेण भवेत् । यद्यपि सर्ववित्वादज्ञानादिरहितः सर्वेशत्वान्निर- निष्टत्वेन निरवद्यत्वेन विप्रलम्भरहितो विष्णुः स्वयं सौगतमतं चकार । तथाऽपि न ग्राह्यम् । कुतः । असुराणां मोहायैव चकारेति यदतोऽसुराधिकार- त्वात् । तर्हि विष्णोरपि क्वचिद्विप्रलम्भकत्वादाप्तत्वं नास्तीति च न वाच्यम् । गुह्यभङ्ग्या प्रणीतानां तेषामेव सूत्राणां भगवता व्याख्यातानां देवजनस्य सज्ज्ञानजनकत्वात् । अन्यत्रा श्रोतृदोषादेव भ्रान्तिकरत्वात् । एकलमद्वैतमनुमेयवहिस्तत्त्वम् । अनेन प्रत्यक्षेण प्रतिबिम्बेनानुमेयमेव बाह्य वस्तु प्रत्यक्षगं प्रत्यक्ष बाह्यं च स्यादेव । जगत्क्षणिकमिति प्रतिपाद्यमानानां चतुर्विधत्वाच्चतुर्विधमुक्त मायिसाम्य दर्शयितुं माध्यमिकमतमनुवदति ॥ न कि- ञ्चिादिति । न हि मायिना पक्षेऽप्यइंप्रत्ययवेध आत्माऽस्ति । अहंप्रत्ययवेद्यस्याहङ्कारत्वेन हेयत्वाभ्युपगमात् । न विशेषोऽपि कश्चन चेतनत्व- जडत्वसप्रतियोगिकत्वादिकोऽन्यो विशेषोऽपि कश्चन न विद्यते । निर्लेप निःसङ्गम् । एवंविधं शून्यं भावनया स्वरूपीभूतं मोक्ष इत्यसद्भिरुच्यते CRECRU

अटि.
॥६॥
न००
च०वि०
अ०५
शून्यैकरसताज्ञानात् । आत्मनः शून्यमात्रसारत्वानुभवात् । मायिसाम्यमुपपादयति ॥ एवमिति । एकस्यैव जीवत्वं वदन्तीत्येकजीवत्ववादिनः ।
बहवो जीवा इति मतमेषामिति बहुजीवमताः। निर्विशेषत्वेयादेरयमर्थः। उभयोरपि सर्वविशेषरहितत्ववचनेनैव शून्यं ब्रह्मयनयोभेदी नास्तीत्यायातम्।
सञ्चित्सुखाद्यात्मकं हि ब्रह्म माय्यङ्गीकरोति । तस्मात्कथं शून्यसाम्यमित्यत आह ॥ सदिति । अखण्डं तत्त्वमिति वादिनी ब्रह्मणः सच्चित्सुखात्मादिकं
ब्रह्मणो विशेष किमाहो स्वरूपमात्रम् । मनोवाचामगोचरस्य तस्य सचित्सुखादिकं कुतश्च प्रमाणादवगभ्यते। सत्त्वादिकं ब्रह्मणो विशेषणं तथाऽ
प्यनृतादीनां व्यावानां भेदात्तत्र सत्त्वादिपदानि लक्षणया वर्तन्ते परमित्यत आह ॥ व्यावत्येति। तदेवोपपादयति ॥ अन्तेति । अपोहं
शून्यादिति शेषः । अपि च सर्वविशेषरहितत्वाब्राह्मणः शून्यादपि कश्चिद्विशेषो नास्ति । मिथो विशेषस्यापि सर्वविशेषान्तःपातित्वात् । कयं वैदिकस्य
मायिनो वेदबाह्येन साम्यमित्यत आह ॥ प्रामाण्यादिति । आदिशब्दादपौरुषेयत्वात्स्मृतिप्रामाण्यम् । स्यादेतत् । देशकालानन्तरादिभिः सह
बाध्यमानाझेदवाक्यादेरतत्त्वावेदकप्रमाणादापततो बाध्यानां रज्जुसर्पविज्ञानादीनामप्रमाणानामस्ति हि बैलक्षण्यमित्यत आह ॥ दीति ।।
दीर्घकालमनिवर्तमानस्य प्रमाणत्वाङ्गीकारेऽतिप्रसङ्गं चाह ॥ तलेति । आदिशब्दाद्व्यतिविप्रकृष्टत्वज्ञानं सजातीयविजातीयस्वगतभेदरहितत्वं
ब्रह्मणोऽङ्गीक्रियते हि मायिना । तन्माध्यमिकेनाप्यङ्गीक्रियत इत्याह ॥ निर्भेदत्वमिति । कथं सदद्वैतवादिनो माध्यमिकस्य च साम्यमित्यत
आह ॥ न हि सदिति । न हि तेन शून्यत्वं नाम कस्यचित्सापदार्थस्याभाव इत्यङ्गी क्रियते सविशेषत्वभयात् । अयमपि ब्रह्मणो देशकाल-
सम्बद्धां सत्ता नाङ्गीकरोत्येव । ज्ञानं जाड्यविरोधि च । मायिपक्षे शून्यपक्षेऽपि ज्ञानं जाड्यविरोधिमात्रं न भावरूपम् । तेऽपि अभावरूपा अपि
कस्मात्सूत्रकारभट्टारकेर्गतत्पक्षमोक्षो न निराकृत इत्यत आह ॥ एतादृशानामिति । स्वपक्षे मोक्षस्य दृढसाधनेन तद्विरुद्धानां निराकरणं कृतं
स्यादेव । नाभाव उपलब्धरित्युक्तितश्च तन्मोक्ष विस्तरतो निराकरोति ॥ आत्मेति । सुख मे स्यादितीष्टस्यात्माऽवधिः । यस्यात्मनो
॥१०॥

HSSRHI RECE विनाशेन शून्यभावो मोक्षो नात्मावधिस्तर्हि कस्यचिद्घटस्य नाशेन शून्यतामोक्षः स्यात् । मायिनोऽपि ब्रह्मणः सत्त्वादिविशेषाणां कल्पितत्वावटा- भावाब्रह्मभावस्य मोक्षस्य निर्विशेषत्वादटनाशमात्रेणैव मुक्तत्वं समं हि । कथं घटाभावस्य निर्विशेषमोक्षत्वं घटते । घटप्रतियोगिकत्वादिविशेषवत्त्वा- दित्यत आह ॥ दृश्यमान इति । आत्माभावस्यात्मप्रतियोगिकत्वादिविशेषे दृश्यमानेऽपि यद्यविशेषताऽस्तीत्युच्यते तर्हि घटाभाव एवाविशेषः स्यादित्युत्तरम् । अनुभवविरोधस्य समत्वात् । यदि चेदिति पक्षान्तरानुवादानपातेनापि विवक्षितार्थमेव विशिनष्टि। आहोस्विदितिवत् । ननु न हि वयमात्मनाशमात्रं मोक्षं ब्रमः । साम्प्रतं प्रपञ्चबाधसहितः पाश्चात्यात्माभावोऽहि मोक्षः। स एव निर्विशेषश्चेति चेत् । अनागतः पाश्चात्यघटाभाव एव मोक्षः स्यात् । स एव निर्विशेषश्चैत्युत्तरम् । वेदाप्रामाण्यवादिना कैनानुमानमात्रेण ह्येवंविधो मोक्षो विधीयते । तत्र चैवं प्रत्यनुमा सम्भवति । विमतो मोक्षो न सम्भवति । अदेहत्वावटाभाववदिति । तदाह ॥ न मोक्ष इति । नन्वशरीरो वाव भवत्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत इत्यागमविरुद्धत्वाकालात्ययापदिष्टोऽयं हेतुरिति वदन्तं माथिनं प्रत्याह || न चेति । अतत्त्वावेदकत्ववचनमप्रामाण्यवचनमेवेति पूर्वोक्तवर्मना मोक्षादिवाक्यं न तत्त्वावेदकमेवास्माभिरङ्गीक्रियत इति यावन्मनोवारम्यामनुसन्धीयते तावदनिर्वाच्यमित्यभ्युपगमात् । तथाऽप्यदेहत्ववाक्यविरोधः परिहर्तव्यो हील्यत आह ॥ न चादेहत्वति । यहुःखमित्यादेरयमर्थः । विमतो मोक्षो न भवति दुःखत्वाधथा क्षतक्षारजदुःखमित्यत्र किं दूषणम् । न चाद्वैतवादिनो«तुरासिद्ध इति वक्तुं शक्यते । निविशेषमोक्षस्य दुःखत्वात् । भेदाङ्गीकारे द्वैतमङ्गप्रसङ्गात् । विज्ञानवादोऽप्येवं हेयः। उक्तदोषो घटनाशस्य मोक्षादिः । नैताद्दङमोक्षरूपता तादृशो निर्विशेषज्ञानभावस्य मोक्षरूपता न सम्भवति । मुक्त्यवस्था न केवलज्ञानिनी । अवस्थात्वात् इदानींतनावस्थावत् । कालो नाम पदार्थो नास्तीति कालस्य सामान्यनिषेधे क्रियमाणे सति पूर्व कालोऽभूदिदानीमप्यस्ति पश्चादपि भविष्यतीति कालगोऽनुभवस्तनिरोधं निरुणद्धि च । स्वव्याहतं चेदं कदाचिदपि कालो नास्तीति वचनम् । कालाभावाधिकरणत्वेन कदाचिदिति कालत्रयस्याप्य- अ.टि. भ्युपगतत्वात् । समश्चार्य कालानभ्युपगमदोषोमायिमाध्यमिकयोगाचार्याणाम् । यद्यपि बहुजीववादिपक्षे एकमुक्ती सर्वनिवृत्त्यभावाल्कयश्चित्तद्विरोधी नास्तीत्यभ्युपगम्यते । तथाऽप्येकजीवत्वपक्षे खेकमुक्तावेव सर्वनिवृत्त्यभ्युपगमादियं कालामा तद्विरोधिनी भेदमुपपादयदेव । एकाजीववादो 8/न० ० मानेनापि विरुद्ध इत्याह ॥ विमत इति । कालाद्वैतवादिनी दैवज्ञापसदाः शब्दाद्वैतवादिनी वैयाकरणापसदा ईश्वराद्वैतवादिन :पाशु- पतकदेशिनस्तन्मतानि चानेनैव न्यायेन निराकृतानीत्याह ॥ कालेति । समत्वात्पक्षदोषयोर्विवर्तपक्षत्वेनाद्वैतस्य निर्विशेषत्वेन च पक्षस्य अ०५ समत्वादत एवात्रोपन्यस्तस्य दोषस्यापि समत्वात् । ज्ञानमित्यादेरयमर्थः । वैभाषिकसौत्रान्तिकाभ्यां निर्विशेषविषयज्ञानं मोक्षेऽपि क्षणिकमिष्यते । तत्सन्तानमात्रं नित्यम् । उक्तानुमा कालत्वहेतुना प्रवृत्ता । मोक्षकालः सविशेषज्ञानवान्कालत्वात्संसारकालवदिति अनुमानान्तरेणापि दूषयति ॥ मोक्ष इति। अनुमातील्यादेरयमर्थः । वादिभिः स्वमतसाधकत्वेन प्रयुक्तान्यनुमानानि सर्वाण्यप्येवमुक्त- भङ्ग्या प्रतिसाधनोपत्तेरेव निषिद्धानि । तर्हि युष्मत्पक्षसाधकानुमानानां प्रतिसाधनानि सम्भवेयुरित्यत आह ॥ श्रुतय इति । अस्मद्वचनेषु प्रमाणत्वेन श्रुतयो वर्तन्ते । चशब्दाच्छ्रुत्यनुगृहीता अनुमाश्च । नैयायिकाद्या इत्याधशब्दाद्वैशेषिकायाः । बुद्धिसुखदुःखेच्छा द्वेषप्रयत्न- धर्माधर्मसंस्काराणां नवानामात्मगुणानामत्यन्तोच्छित्तिर्मोक्ष इति वदन्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत इत्यस्याः श्रुतेः का गतिरित्यत आह ॥ प्राकृतोते । अप्रियं नामात्मनः प्रतिकूल हि । तत्सामस्त्येनोक्तम् । बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभौरिति श्रुतिवाक्यम् । नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा। नैवमसुरा एवमनेवं च मनुष्या इति श्रुतिः । परमात्मा विशिष्टचेतनो मुक्तियोग्य इत्याकूतम्। एकवचनं तु समुदायापेक्षया युज्यते । न प्रेत्य संज्ञाऽस्तीति वाक्यविरोधात्कथं मुक्तस्य ज्ञानं स्यादित्यत ॥६॥ आह ॥ ज्ञानेति अस्य मुक्तस्य मुक्तसंज्ञानविषयता नास्तीति संज्ञा नास्तीति वाक्यस्यार्थः। उक्तार्यमेवोपपादयति ॥ आशंक्येति । न प्रेत्य | ब-RSSk allengine संज्ञाऽस्तीत्यात्मनोक्ते सति मुक्तस्य ज्ञानहानिमुक्तामाशङ्ख्यात्रैव मा भगवान्मोहान्तमापीपन्न प्रेक्ष्य संज्ञाऽस्तीत्युक्तवत्या मैत्रेय्याः प्रबोधनार्थ याज्ञवल्क्येन वा अरे अहं मोहं ब्रवीमि । अविनाशी का अरे अयमात्माऽनुच्छित्तिधर्मा इति स्वरूपनाशमूचिवान् । धर्मानप्यनुच्छिन्नान्याह । मोहान्तमापीपत् मोहपरिपाकं प्रापयत् । न वा अरे अहं मोहं ब्रवीमि । हे मैत्रेयि अहं मोहकारणं न प्रवीमि वै। ज्ञानरूपस्य ज्ञाननाशो नाम स्वरूपनाश एवेति यत्तस्मान्मैत्रय्याः स्वरूपनाशाशङ्काऽऽसीत् । अतः सा परिहता । तेनैव शून्यमतनिराकरणमप्यासीत् । मात्रासंसर्गस्वस्य भवतीति माध्यंदिनश्रुतिः । विषयभोगमाहात्म्यस्य मुक्तस्य । स च बुद्धयादिभाव एव घटते । ननु यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन के पश्येत् केन के जिदित्यादिवाक्ये मोक्षे विषय क्षेपः क्रियते हीलत आहे ॥ आचिक्षेपेति । अनिष्टत्वदा मुमुक्षीरनभीष्टवाभिप्रायेण विधमानस्य सर्वस्य निर्षिशेपमात्रात्मकवेन च चक्षुरावभावादर्शनप्राणादिभोगरहितमोक्षाक्षेपरूपोह्ययं व्यपदेश इति भावः । येनेत्यादेरयमर्थः । विज्ञातारमरे केन विजानीयादित्यत्र सर्वज्ञापकत्वेन विज्ञातृशब्दोक्तं विष्णुमात्मानं वा । बुद्धयाधभावपक्षे केन विजानीयादिति पक्षाक्षेपेणोंच्यमानं परमात्मन आत्मनश्च ज्ञानं सर्वथाऽनिष्टं हि । तदेवोपपादयति ॥ नाखिलेति । प्रत्यक्षमिति क्रियाविशेषणम् । साक्षिप्रत्यक्षतयां वर्तमानमिदमात्मज्ञानमित्यर्थः । नन्वात्मन आत्मज्ञानं कर्तुः कर्मविरोधेन पराहतमित्यत आह ॥ कर्चिति । अहं मां जानामीति नित्यानुभवः । विरोधो दृष्टबाधनम् । प्रमाणोपलब्धस्यार्थस्य बाधनमेव हि विरोधो नाम । ननु यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतीत्यत्रेवशब्दात्तद्वतोऽद्वैतभावो हि मोक्ष इत्यत आहे ॥ अस्वातन्त्र्यादिति । तथा सति यत्र स्वस्य सर्वमात्मैवाभूदित्यस्मादद्वैतपक्षानुवादिवाक्याविशेषाभावेन पुनरुक्तिप्रसङ्गाबेदशब्दं प्रयुज्येवशब्दप्रयोगे तु भेदाभेदावुक्तौ स्यातामि- त्यांशयः । न च वाच्यमिवशब्देन दर्शनामावस्य विवक्षितत्वात् । तथा सति तदितर इतरं पश्यतीति वाक्यशेषे भेदोक्तिविरोधश्च । तस्माद्वैतमिवे- त्युक्ते परमात्माधीनो भेद इत्यर्थः । अत्रैव मेति मैत्रेच्युक्तोत्तरमुच्छिन्नधर्मेति वाक्यं च कीदृशमित्यालोच्यताम् । दृष्टत्वादिधर्मानुच्छेदो हि ak ซีด ชื่อ अ.टि. तत्राप्यभिप्रेयत इत्याशयः । सुखादीत्यादिशब्दाद्बुद्धिः । न हि बुद्धिरहितस्य दुःखादिनिवृत्त्या किञ्चित्प्रयोजनम् । आत्मसम्बन्धित्वेनाज्ञातत्वात् तयोश्चैत्यादेरयमर्थः । तयोरनिर्ययोर्मध्ये दुःखहानात्सुखनाशोऽधिकगुरुभवेत् । तस्माद्भुर्वर्थहानिभयानुयाय न यतेत । तदेवोपपादयति चद्वि० ॥ प्राप्यापीति । स्याल्किं सत्यमेवं वनिताभोगायल्पसुखाप्तये वित्तार्जनादिनिमित्तमहादुःखं प्राप्नुवन्ति प्राणिनः । तत्कर्मरागमूढत्वनिमित्तम् | अ०५ न हि विवेकिनस्तथा कुर्वन्तीत्यत आह ॥ न च रागेति । विमतो दुःखयुक् चेतनत्वे सति सुखार्थित्वात्सम्मतवदिति च मुक्तानां सुखाभाववादिनं प्रत्यंतिप्रसङ्गानुमा । स दुःखाद्विमुक्त आनन्दी भवतीति पैङ्गिश्रुतिः । निर्गुण इति भगवद्वचनम् । अनन्यहैतुकं साक्षाद्भगवद्भक्ति- रूपम् । सुखमानन्द इत्युक्तो मुदो भोगनिमित्तकाः । प्रमोदस्तद्विशेषोत्यो मुन्नामात्यल्पभोगत इति ऋग्वेदसंहितायाम् । किंबहुना सर्वकामस्य विषयाः पर्याप्ता इत्याह || कामस्येति । सर्वेदं जगत्प्रमाणमादाय परस्तव युतोऽसौ भगवान्विष्णुः स हि मोक्षप्रदः सदा । इन्दुरिष्टप्रदा- नायो वायुरादाय गच्छति। इन्द्रनाम्नः केशवस्य समीपं मुक्तिमञ्जसेति स्कान्दे । ननु शिरःकरादिरहितत्वान्मुक्तस्य कथं दर्शनादिभोगः स्यादित्यत आह ॥ शिर इति । तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयामास परान्न यत्पदम् । व्यपैतसङ्केशविमोहसाध्वसं सन्दृष्टवद्भिर्वि- बुधैरभिष्टुतो न वर्तत इत्यादि श्रीमद्भागवते । परं न यत्पदं यतो विशिष्टं स्थानं नास्ति । रजस्तमसो मिश्रितं सत्त्वं च नास्तीति विशेषशुद्धसत्त्वस्य विद्यमानत्वात् । कालविक्रमो जरामरणादिः । माया त्रिगुणाच्छादिका परमाच्छादिका च । अपरे प्राकृतदेहादयो व्याध्या- दिहेतवः किमुत । सुरुचः सुकान्तयः । सुपेशसः सुपुष्टयः सुवर्चसः सुतेजसः । इमाँलोकान् कामाची कामरूप्यनुसञ्चरन् । अशृण्वन्तः कर्ण- वन्तः सखाय इत्यादिश्रुतिः । नैकामुक्तिभाजः शिरःकराधैर्युक्ताश्चेतनत्वादिदानींतनात्मवत् । तदाह ॥ शिर इति । न चात्र संसारिवादिकमु- पाधिः । उक्तप्रमाणविरुद्धत्वेनाभासात्वात्तस्य । मुक्तिकालो विवक्षितकरादिमान्कालत्वादिदातीतनकालवदिति पूर्वशब्दादवगन्तव्यम् । सोऽनुते सर्वा-8॥२॥ CA CCC न्कामान्सह ब्रह्मणा विपश्चिता । एतमानन्दमयमात्मानमुपसङ्क्रम्य । एष सम्प्रसादोऽस्माल्लोकाच्छरीरात्समुत्थाय परजोतिरुपसम्पद्य स्वेन रूपेणा- भिनिष्पद्यते । एष आत्मेति होवाच । अमृतस्यैष सेतुः । उतामृतत्वस्येशानौ यदन्नेनातिरोहति । इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता इत्यादीनि वाक्यानि । इत्यादिका अपीत्यादिशब्दान्मुक्त्यवस्था जीवस्य परेणैक्ययुक्ता न । अवस्थात्वात् । संसारावस्थावत् । न च साध्यविकलो दृष्टान्तः । इदानीं भेदस्य प्रत्यक्षेणानुभूयमानत्वात् । अबाध्यप्रत्यक्षस्याप्रमणात्वे वादिनोऽनुमानदूषणश्रवण एव प्रत्यक्षस्याप्रामाण्यादूषणं नोक्तामत्यायातम् । कथञ्चेत्यादेरयमर्थः । दुःखीति किञ्चिद्वस्वपि कुतो हेतोरपि न दृष्टमिति यस्मान्मुक्तौ जीवस्य ब्रह्मणो भेदाभेदपक्षं निराकरोति ॥ न चैवेति। उक्तार्थ निगमयति ॥ इत्थमिति। केवललौकिका मूढा अपि मम सदा सुखं स्यादिति यत्सुखं सामान्यतो जायते तद्रूपं समुद्दिश्य मोक्षमप्येते वादिनो भ्रमेण न विन्दन्ति यस्मात्तस्मादेतानि मतानि सर्वाण्यपीथमुक्तयुक्तिभिभ्रमजान्येव । सिंहावलोकनन्यायेन साधनाध्यायचतुर्थपादे विपक्षस्वपक्षयुक्तीर्दर्शयति ॥ औदार्यमिति । अनन्तरसमतीते पादै चोभययुक्तीर्दर्शयति ॥ सुशक्यतेति । अस्मिन्पादे चोभयीर्युक्तीर्दर्शयति ॥ व्यामिश्रतेति । प्रकृतं देवमोक्षं प्रपञ्चयति ॥ प्रधानेति । इह भूतथे । तच्छुतेनैकस्मिन्दर्शयतो ही त्येकस्मिन्नधिकरणे । बायाविन्द्रः सोम आदित्यो बृहस्पतीन्द्रादीनां लयस्थानत्वेनोच्यते हि । कश्चिद्वायुभूतप्रकरणत्वात् भूतवायुरेबेति न मन्तव्यं किन्तु प्रधानवायुरेव । इन्द्रादिलयस्थानत्वान्यथाऽनुपपत्तियुक्त्या कथं प्रधानवायोर्भूताभिमानित्वम् । यावता तच्छन्देनोच्यत इत्यत आह ॥ यस्मादिति । सोऽपि श्रुतौ भूतमानिलिङ्गत्वेनोक्त इति यस्मात्तस्माद्भूतमानी चेति यतस्तत एव । एष ह वै यज्ञो योऽयं पवत इत्यत्र मुख्यप्राणो ह्युच्यते । तस्य मनश्च वाक्यवर्तनीति मनोवाग्यानत्वस्य भूतवायावभावात् । अयं वै ब्रह्म योयं पवते तमेताः पञ्चदेवताः परिनियन्त इति च ब्रह्मशब्दो भविष्यद्ब्रह्मणि मुख्यमाणे एवं हि घटते न तु भूतवायौ । कथं महत्तत्त्वाभिमानिनो मुख्यप्राणस्य 6% अ०टिक ॥६३॥ ते भूताभिमानित्वमित्यत आह माहामांनीति । दृश्यते हि राज्यामिमानिनो राज्ञः स्वमुख्यामिमतप्रामायभिमानित्वम् । नान्यत् नान्यदा ॥ ५॥ कथं क्रम इत्याकाङ्क्षयामाह ॥ तस्मादिति । अशेषाः क इत्यत आह ॥ सोमस्त्विति । कथं वाय्वादीनां ब्रह्मादिपदं प्राप्यतां मुमुक्षतां न चं० प्रवेशो मुक्तिः स्यादित्यत आह ॥ इतीति । वेदवागहीन्द्रपत्नी महिपं चौमागिरीशाविति ब्रवीति । चिरिश्चपत्नी विरिश्वभारतीराविति ब्रवीती-च.द्वि त्यन्वयः । वाय्वादित्वकाल उपासितवतामधिकारिणां तेषु ब्रह्मादिपदं प्राप्तेष्वपि वाग्वादिशब्दव्युत्पत्तिमत्त्वाद्वेदवागादिशब्दैरपि तान्वदन्तीत्याशयः । अ०७ स्यात् । किं वाङ्मनसीयादावुमागिरिशाकुच्यते । तस्माद्गडमार्गवचनस्य कोऽवकाश इस्थत आह । इन्द्रेति । भृग्बादय इत्यादिशब्दान्मरीच्यादयः । मनवा वैवस्वतादयः । पृथ्वादयो राजमुख्याश्च ते स्वायंभुवमनुं प्रविश्य तद्द्वारेण महेन्द्र गतां भवन्ति । तमेव धर्ममेव । तदेहगता विष्णुदेइगताः इष्टत इच्छातः। भावे क्तप्रत्ययदर्शनात् । तत्र तत्र सर्गक्रमकथनमपि मुक्तिक्रमानुमापक भविष्यतीत्यभिप्रायेणाह ॥ सर्गेति । मुक्ती फ्रमस्य सर्गक्रमतो विपर्ययो भवेत् । सुराणां स्वबिम्बदैवतासूत्तरोत्तरः प्रवेशरूपो लयो भौगश्च मुक्तिरिति यत एतस्मादेव हि वेदपतिर्लय एव सर्गक्रमतो विपर्ययेणत्यवदत् । मुक्तेरपि लय एवान्तर्भावादित्याशयः। पैङ्गिश्रुतिरप्येनं मुक्तिक्रममर्थात्प्रकटयतीत्यभिप्रायेणाह । उक्तश्चेति । तेजोभिधामि- त्यादेरयमर्थः । भूतवृत्तिमाश्रित्य वायुशब्दशब्दितोऽयं ब्रह्मा सर्वमुक्तगणैः प्रविष्ठः प्रथमतस्तेजोभिधां श्रियं केवलमाप्य विष्णुं प्रविश्य ततो विष्णोः पुत्रत्वेन देवी प्रवेशपेण प्राप्ततया देव्या प्रसूतः पुनरपि विष्णुं प्रविश्येत्थंभावेन मुक्तो भूत्वा प्रलयकालेऽस्मिन्विष्णावेव तिष्ठति । सिंहावलोकनन्या- येन देवमोक्षशेषमाह ॥ प्रयातीति । मरुद्गणाश्च शक्र प्रयान्तिं । इत्थं वदति हि तुरश्रुतिः । इयमस्माभिः प्रपञ्चितैव मुक्तिरिति स्थितम् ॥ ७ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमंगलसूत्रानुव्याख्यानस्य टीकायां त्रैविक्रमार्यकृतौ नयचन्द्रिकायर्या चतुर्याध्यायस्य द्वितीयः पादः ॥ १-२॥ * ॥ * ॥

श्रीगुरुभ्यो नमः ॥ हरिः ॐ ॥ पादसङ्गतिं दर्शयति ॥ उत्क्रान्तेति । उत्क्रान्तानां मार्गों मुक्तानां गम्यं वस्तु चेति द्वयमस्मिन्पाद उदितम् । युक्तीरुभयीश्च दर्शयति ॥ सुक्रमेति । अप्रतीकालम्बनानित्यादिसूत्राभिप्रायमाह ॥ प्रतीकामिति । देहादिकमित्यादि- शब्दाच्चक्षुरादिकम् । अतोऽज्ये तयाप्तिदर्शिनोऽपि प्रथमं विष्णुं प्राप्ता अपि परान्ते तं ब्रह्माणमाप्य तेन सह तल्लोकाद्धार गता मुक्तिभाजो भवन्ति ॥ ६॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रानुव्याख्यानस्य टीकायां त्रैविक्रमार्यकृतौ नयचन्द्रिकायां चतुर्थाध्यायस्य तृतीयः पादः ॥ ४-३॥ * ॥ * ॥ ॥ श्रीगुरुभ्यो नमः हरिः ॐ अस्मिन्पाद उभयीश्च युक्तीश्च दर्शयति ॥ अतिक्रमोक्तिरिति । अत एव चानन्याधिपतिरित्यस्याभिप्रायमाह ॥ अनन्य- भृत्यत्वमिति । इह शास्त्रे । परमोऽधिपतिस्तेषां विष्णुरेव न संशयः । ब्रह्मादिमानुषान्तानां सर्वेषामविशेषतः । ततः प्राणादिनामान्ताः सर्वेऽपि पतयः क्रमात् । आचार्याश्चैव सर्वेऽपि यीनं सुप्रतिष्ठितम् । एतेभ्योऽन्यः पति व मुक्ताना नात्र संशय इति वाराहे। उतामृतत्वस्येशान इति हरेर्मुक्तजातेरपि स्वामित्ववाक् । मुक्ता अन्याधिपतित्वयुक्ता विष्ण्यन्यचित्त्वायथा संसारिणः । अथैतदेवं विद्वान्साम गायत्युभौ । स साम गायति । सोऽ मुनैव । स एष एवास्मात्पराञ्चो लोकास्तांचामोति । देवकामांश्चाथोऽनेनैव । ये चैतस्मादर्वाञ्चो लोकास्तान्यामोति मनुष्यकामांश्चेति श्रुतिराह । एष आदित्यस्थपुरुषवेदकः । ये चामुष्मादादित्यादुपरितनमुक्तास्तानियच्छति । मुक्तदेवानामभीष्टार्थाश्च प्रापयति । सोऽमुनैव सोऽमुष्य प्रसादेनैवं भवति नात्मशक्त्या । अक्षिस्थपुरुषवेदकश्चास्य प्रसादेन य एतस्मादधस्तनमुक्तास्तानियच्छति । मनुष्याणामभीष्टार्थाश्च प्रापयति यथायोग्यम् । कप्यासः पगर- Sl - स अ०टि. न०० ॥६४॥ क्ताक्षः सूर्यगश्चाक्षिणश्च सः । गायकस्तस्य विष्णौर्यः स स्वाश्चनृलोकगान् । कामान्दवाचरश्चेत्स्यात्सुराणां च नृणामपि। मोक्षदो यदि वायुः स्यान्मुख्योद्गाता ततोऽनिल इति सत्व इति । उदैति हि सर्वेभ्यः पाप्मभ्यो य एवं वेदेति सर्वाशुभनाशनलिङ्गादतल्लोकैश्चर्य मुक्तावित्येवाङ्गीकर्तव्यम् | ता यो वेद स वेद ब्रह्म। सर्वेऽस्मै देवा बलिमावहन्तीत्यत्रोच्यमानं सर्वदेवपूज्यत्वं च ब्रह्मणोऽन्यस्य नोपपद्यते हि । लोकशब्दार्थमाह । लोका इति प्रस्तुस्पान्यो- चाच. अ०७ न्यनाथा इति हि पैङ्गिश्रुतिः । लोकविलक्षणत्वादलोकशब्देनापि मुक्ता वाच्याः । पराञ्चोलोका इत्यादौ तादृशं पदवचनं च युक्तम् । आलोकरूपत्वाच्च लोक- शब्द वाच्यत्वं घटत इत्याह ॥ लोकाभिधा इति । नन्विह सोऽमुनैवेत्यादौ ज्ञानफलत्वेनोक्तं लोकाधिपत्यं रविबिम्बगे हरावेवैक्येन स्याज्ज्ञानिनः । स आदित्यरूपेणैव तथा भवतीत्यत आह ॥ न चेहेति । स एष ये चामुष्मात्पराञ्चौ लोकास्तेषां चेष्टे । देवकामानां च स एष एतस्मादर्वाञ्चो लोका- स्तेषां चेष्टे मनुष्यकामानां चेत्यपुरुषाक्षिपुरुषयोलोंकाधिपत्यं पुरैव पृथगुक्तं हि । तदैक्यपक्ष एतद्वचनस्य पुनरुक्तित्वं स्यादित्याशयः । यथा बदरिकानाथ द्वारकानाथ इत्यपि अवाङ्नाथ इति तद्वदिहोच्यते । सर्वनाथोऽपि भगवान् सन्निधानविशेषत इति मानसे। सोऽमुनैवाथानेनैवेल्यादित्यपुरुषाक्षिपुरुषयोर्ता- निनोऽनुप्राहकत्वेन सम्यग्मेदश्वोक्तः । सोऽदत्वेनेत्यादिवप्रत्ययमतिहाय वर्तमानस्य सोऽनुनैवेत्यादिवाक्यस्यादित्यपुरुषाक्षिपुरुषरूपेणेयाद्यों नैव भवेत् ५ ऐक्यपक्षेतु भवत्यसौ भवत्ययमित्यणुवाक्यं विहाय बहूनि वाक्यानि वृत्तानीति तेषां वैव्यय॑स्य दोषः स्यान्मायिनः। जगह्यापारवज्यामिति सूत्रस्याभि- प्रायमाह ॥ अत इति। जगद्यापारवत एव क्रमेण यथायोग्यं स्वातन्त्र्यादिपूर्णगुणा ब्रह्मादयः। अत उक्तभङ्ग्या मुक्तस्य जगद्यापारवर्जितत्वात् ॥७॥ * * आत्मनः परमाभीष्टाय केवलगुरुवे नमस्करोतीमां ग्रन्थकृतिमुपसंहरन् ॥ नमो नम इति । लोक मित्रादय उपकाराबुपाधिना प्रिया भवन्ति । अस्य श्रीमन्मध्वस्य तु पुरुषोत्तमगुणाः कैनाप्युपाधिना न प्रियाः । किन्तु स्वभावत एव तदाह ॥ अनुपाधिप्रियसद्गुणात्मन इति । ॥६४॥ गुरुस्वरूपं जानतां हि गुरुभक्तिद्वारेण विधा फलतीत्यभिप्रायेणात्मस्वरूपसंवेदनपूर्वकाममं अर्थ केशवे समर्पयति ॥ यस्येति । यस्य बायोर्बळिये- 15 DO त्यादिवेदवचने त्रीणि रूपाण्युदितानि दिव्यानि स्तुत्यानि । यस्य देवस्य महद्रूपं मूलरूपमित्थमेव निहितम् । श्रीमन्नारायणेन त्रयाणां वपुषां प्रादुष्करणार्थमेवं क्लुप्तम् । तन्मूलरूपं कीदृग्भूतमित्याकाङ्क्षायामाह ॥ बळित्थेत्यादि । बट बलरूपं ततत्वात्तत् दर्शतमतिशयेन दर्शरूपम् । प्रातिलौम्येन तृतीयात् । तृतीयस्याप्यतिशयार्थत्वात् । दुष्टान्भर्जयतीति भर्गः । त्रीणि रूपाणि कानीत्याकाङ्क्षायामाह । प्रथमं रामवचीनयं हनूमद्रूपमित्यर्थः । द्वितीयं वपुः पृक्षः । सम्प्रक्तत्वात्पृतना पृथगित्युच्यते । तां क्षयतीति पृक्षः। भीमसेन इति यावत् । तृतीयं मध्वः । मधुशब्द आनन्दवाची । कामानलमधुलवैः शमयन्दुरापरियादौ दृष्टत्वात् । अकारो तीर्थवाची पापप्रतिषेधत्वार्थस्य । अथवा वकारस्तीर्थवाची । तस्यामृतवाचि- त्वेन जलवाचित्वसम्भवात् । एवं मध्व आनन्दतीर्थः । यत्त्वेतत् यत्तु देशकालाभ्यां सन्निकृष्टं मध्वाख्यं तृतीयं वपुः। अमुना रूपेण तेन वायुना केशवे ब्रह्मसूत्रानुभाष्यात्मको ग्रन्थः कृत इति । अत्र बटित्यादिना बळित्या तद्वपुषेऽधायि दर्शतमित्यादिवचनं च सूचयति । तथा च भाववृत्ते । हनशब्दो ज्ञानवाची हनूमान्मतिशब्दितः । रामस्य वृत्तरूपस्य वाचस्तेनानयन्त हि । पृतनी भीम इत्युक्तो वाचोमामातरः स्मृताः। ऋगाधा इतिहासं च भारतं पञ्चरात्रकम् । प्रोक्ताः सप्तशिवास्तत्र शयो भीमस्ततः स्मृतः । मध्वियानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् । मध्व आनन्दतीर्थः स्यात्तृतीया मारुतीतनुरिति सूक्तगतम् । रूपनयमेतन्महात्मनः । यो वेद वेदवित्स स्यात्तत्त्ववित्तप्रसादत इति । साधको रामवाक्यानां तत्समीपगतः सदा । हनूमान्प्रथमो ज्ञेयो भीमस्तु बहुभुपितोः । पृतनाक्षयकारी च द्वितीयस्तु तृतीयकः । पूर्णप्रज्ञस्तथाऽऽनन्दतीर्थनामा प्रकीर्तितः। दशेति सर्वमुद्दिष्टं सर्वे पूर्णमिहोच्यते । प्रज्ञा प्रमितिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः । आसमन्तात्पतित्वेन गूढं कलियुगे हरिम् । असत्यमप्रतिष्ठं च जगदेतदनी- श्वरम् । वदनिहितं सन्तं तृतीयोऽसुर्मथायति । येन विष्णोर्हि वर्षाख्यान्गुणानज्ञासिषुः परान् । ईशानाशः सूरयश्च निगूढानिर्गुणोक्तिभिः । त्रेतायां द्वापरे चैव कलो चेति क्रमाच्च यः । एतेषां परमो विष्णुर्नेता सर्वेश्वरेश्वरः । स्वयम्भुर्ब्रह्मसंज्ञोऽसौ परोऽस्मै ब्रह्मणे नम इति यजु:संहितायाम् RECECASkee

--
PHY
HINITION
॥ इति श्रीमद व्याख्यानटिप्पणी ॥
॥ नयचन्द्रिका समाप्ता॥
Liamomen
mmar
HAR
Pand
Fwana
m
Sataramin
S
Head
Led

No text on this page.

madawelumamesha
Audi
mandures
Anmom
assetow
TOPOpand
HWAR
mpuonment
losbe
Popular
THA
॥ इति श्रीमदनुव्याख्यानटिप्पणी ॥
॥ नयचन्द्रिका समाप्ता॥
---
Amo
SAR
Pाकामा

Nyayachandrika

Title
Nyayachandrika
File name
Nyayachandrika
Text
OCR done
Published
15.10.04
Language
Sanskrit
Pages
133
Library
S.V.Digital Library, Tirupati
DLI number
383526
Barcode
2040130049184.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
UDL TTD TIRUPATI
VMLT id
DlnuQm7gdrW
Download PDF

Nyayachandrika