Central Library, University Of Rajasthan

The Chowkhamba Sanskritseries Vol.xx

Misra, M. P. Mitra · 2010/04

PDF Proofread

Front matter

Satara ॥ श्रीः ॥ आनन्दवनाविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाजतिभव्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना रसिकालिअल कुर्यादमन्दाऽऽमोदमोहितम् ॥२॥ स्तवंकः-१९७४ १ अस्यां चौखम्वा-संस्कृतिग्रन्थमालायां प्रतिमासं पृष्ठशतके सुन्दरैः सीसकाक्षरैरुत्तमेषु पत्तेषु एकः स्तवको मुद्रयित्वा प्रदायते । एकस्मिन् स्तवक एक एव ग्रन्थो मुद्यते । २ प्राचीना दुर्लभाश्थामुदिता मांसावेदान्तादिदर्शनव्याकरणधर्मशालसाहित्यपुराणादिग्रन्थ एवात्र सुपरिष्कृत्य मुद्यन्ते। ३ काशिकराजकीयप्रधान संस्कृत अध्यापकाः पण्डिता अन्ये च शानदृष्टयो प.. एतत्परिशोधनादिकार्यकारिजात । ५ भारतीयः,ब्रह्मदेशाय लिहायवासिभिश्चैतद्ग्राहकैर्दयं वार्षिकमग्रिम मूल्यम्-मुद्राःमान ५ अन्यैर्दयं प्रतिस्तप ६ प्रावणव्यवः पृथ عمر ... मुंद्रदमाणा अन्या:- नमित (1) संस्काररत्नमाला । गोपीन. न्तः) खण्डे मता सम्पूर्णा (2) शब्दकौस्तुभः । भट्टोजिदीक्षिः भनिरूपण (३) श्लोकवार्तिकम् । भट्टकुमारत शी६ श्रीया पार्थसारथिमिश्रकृतन्यायरत्नाव (वेदान्तः) व्याख्यया सहितम् । सम्पूर्णम न्दवोधभर (४) भाग्योपबृहितं तत्त्वत्रयम् If चिन्मुख दर्शनप्रकरणम् । श्रीमन्लोकाचा तः) श्रानारायणताथविरचितभाट्टमा पारिप्रथम सहित सम्पूर्णम् (वेदान्तः) : म० म (५) करणप्रकाशः। श्रीब्रह्मदेवावराचतः । ग्रागिरिधर ल्यायविरचितः (६) भाइचिन्तामणिः । महामहोपाध्यायश्री (न्यायः गागाभट्टविरात्रिता।तपाद:(मीमांसा)२ (१३), विधिरमायनम् । श्रीअप्पयदीक्षितकृतम् (९) न्यायरत्नमाला श्रीपार्थसारथिमियविर सम्पूर्णम् ( मीमांसा) चिता सम्पूर्ण: (मीमांसा) २ (११) न्यायसुधा (तन्त्रवार्तिकटीका) भट्स (८) नसूपभाष्यम्-यादरायणप्रणीतवेदान्त मेश्वरविरचिता । (मीमांसा सम्परा ... १

.
पुरुषलक्षणप्रकरणे शिराकेशादिलक्षणानि। १०१
घटमा चाध्वरुचिमिस्तकः पापकृद्धनपरित्यक्तः । इति ।
सामुद्रतिलके,
धनविरहितो द्विमौलिः पापरतो मीनमौलिरतिदुःखी ।
अध्वरुचिर्घटमौलिर्घननतमौलिः सदा निन्धः ॥ इति ।
इति शिरोलक्षणम् ।
अथ केशलक्षणम् ।
भविष्ये,
कपिलैः स्फुटितै रूक्षैः स्थूलैश्च चिकुरैः खः ।
दुःखिताः पुरुषा ज्ञेया रोमश्मश्रुभिरेव च ॥
विरला मृदवः स्निग्धा भ्रमराञ्जनसुप्रभाः।
केशा यस्य तु दृश्यन्ते स भवेत्पृथिवीपतिः ॥ इति ।
वराहसंहितायाम्,
एकैकमवैः स्निग्धैः कृष्णैराकुञ्चितैरभिन्नाग्रैः।
मृदुभिर्न चातिबहुभिः केशैः सुखभाष नरेन्द्रो वा ।।
बहुमूलविषमकपिलाः स्थूलस्फुटिताग्रपरुषहस्वाश्च ।
अतिकुटिलाश्चातिघनाश्च मूर्द्धजा वित्तहीनानाम् ॥ इति ।
इति केशलक्षणम् ।
अथ सर्वगात्रलक्षणम् ।
विष्णुधर्मोत्तराग्निपुराणयो,
रूक्षं शिराततं गात्रं तथा मांसविवर्जितम् ।
दुर्गन्धि चाशुभं सर्व विपरीत प्रशस्यते ॥ इति ।
गारुडे,
यद्यगात्रं महारूक्ष शिरालं मांसवर्जितम् ।
तत्तत्स्यादशुभं सर्वं शुभं सर्वं ततोऽन्यथा ॥ इति
इति सर्वगात्रलक्षणम्

१०२: । वीरमित्रोदयस्य लक्षणप्रकाशे
:
अथ पादाद्यङ्गप्रमाणम् ।
सामुद्रतिलके,
अङ्गोपाङ्गानामिह विस्तारायामपरिधिभेदेन ।
मानं यथानुरूपं सझेपेण प्रवक्ष्यामि ॥
आपाणिज्येष्ठान्तं तलमत्र चतुर्दशाङ्गुलायामम् ।
विस्तारेण षडङ्गुलमङ्गुष्ठो ब्यङ्गुलायामः ॥
पञ्चाङ्गुलपरिणाहः पादोनं तनखोऽङ्गुलं दैर्ध्यात् ।
अङ्गुष्ठसमा ज्येष्ठा मध्या तत्षोडशांशोना ॥
अष्टांशोनाऽनामा कनिष्ठिका षष्ठभागपरिहीना ।
सर्वासामप्यासा नखाः स्वपर्वत्रिभागमिताः ॥
सव्यङ्गुलपारणाहा प्रथमाऽङ्गुलीविस्तृताऽङ्गुली भवति ।
अष्टाष्टभागहीनाः शेषाः क्रमशः परिज्ञेयाः ॥
जङ्घान्तःपरिणाहो ध्रुवमष्टाधिकदशाङ्गुलानि स्यात् ।
विंशतिरेखोपगतो जानु द्वात्रिंशदूरुरपि ॥
अष्टादशाङ्गुलमिता विस्तारा जायते कटिः पुंसाम् ।
नाभेरन्तःपरिधिः षट्चत्वारिंशदगुलकः ॥
पुंसां द्वादश कुचयोरभ्यन्तरं च दैर्येण ।
उरसि युगोपरिष्टात्पडङ्गुलो भवति कक्षान्तः ॥
विंशतिरुरःस्थलं स्याद्विस्तारादमुलानि चतुरधिक।
बष्टया सह परिणाहे पडधिकपञ्चाशदङ्गुलिकम् ॥
पर्व प्रथमं वाहोरष्टादश चाङ्गुलानि दैर्येण ।
गोडश पुनातीयं सप्त तलं पञ्च मध्यमाङ्गुलिकाः ॥
इति समुदायेन भुजः षट्चत्वारिंशदङ्गुलानि स्यात् ।
पञ्चाङ्गुलविस्तारं पाणितलं शस्तरेखान्तम् ।।
मध्याऽङ्गुली विहीना प्रदेशिनी भवति पर्वणार्दैन ।

पुरुषलक्षणप्रकरणे पादाद्यङ्गप्रमाणमावर्तलक्षणंच।१०३
तत्सममानाऽनामा कनिष्ठिका पर्वपरिहीना ।।
अङ्गुष्ठस्यायामोऽङ्गुलानि चत्वारि जायते पुंसाम् ।
: निजपर्वार्द्धपरिमिता भवन्ति सर्वेऽपि पाणिनखाः ॥
ग्रीवायाः परिणाहोऽङ्गुलानि चतुरधिकविंशतिः शस्तः ।
नासापुटद्वयान्तर्विस्तारे बङ्गुलं मानम् ।।
आचिबुकपश्चिमकचप्रान्तं द्वात्रिंशदङ्गुलो मूर्धा ।
कर्णद्वयस्य मध्ये पुनरष्टाधिकदशाङ्गुलिकः ।।
पुंसामङ्गुलमानं स्पष्टं शिष्टैः पुरा विनिर्दिष्टम् ।
इह पुनरुपयोगाद्वै दिङ्मात्रमिदं मयाप्युक्तम् ॥ इति ।
इति पादाद्यङ्गप्रमाणम् ।
अथावत्तलक्षणम् ।
विवेकविलासे,
आवतॊ दक्षिणे भागे दक्षिणः शुभकृन्नृणाम् ।
'वामे वामोऽतिनिन्धश्च दिगन्यत्वे तु मध्यमः ॥ इति ।
सामुद्रतिलके,
• रोमत्वग्वालभवः स्यादावर्तः शुभस्त्रेधा।
शस्तो दक्षिणवलितः स्निग्धो व्यक्तः परो न शुभः॥
करतलपदश्रुतियुगे नाभौ वा त्वम्भवो नृणां सः स्यात् ।
अपरौ द्वावपि लक्षणविद्भियौ यथास्थानम् ।।
सव्यापसव्यभागे शिरसि स्याद्यस्य दक्षिणावर्तः ।
श्वेतातपत्रलक्ष्या लक्ष्मीः करवर्तिनी तस्य ।
रोमावतः स्निग्धो भ्रूयुगमध्ये प्रदक्षिणो व्यक्तः ।
यस्योर्णाख्यः पूर्णः सोऽम्बुधिकाश्च वो भर्ता ।
भुजयुग्मे यस्य स्यादावर्तद्वितयमङ्गादप्रतिमम् ।
नियतं सोऽखिलभूमिं पुरुषो निजवाहुना वहते ॥

.
१०४. ... वीरमिनोदयस्य लक्षणप्रकाशे
यस्य कराम्भोजतले दक्षिणचलितो भवेदसिय॑क्तः।
परिचितशौचाचारो धर्मपरः स्यात्स वित्तादयः ।।
भाग्यवतां पञ्चाङ्गुलि शिरः सुसौख्याय दक्षिणावर्तः ।
: प्रायः पुंसां वामावर्ता दुःखाय पुनरेते ।।
श्रुतियुगनाभ्यावर्ताः प्रदक्षिणाः श्रेयसे भवन्ति नृणाम् ।
चूडावर्तोऽप्येकः श्रेष्ठतरो दक्षिणः शिरसि ॥
शीर्षे वामे भागे वामावों भवेत् स्फुटो यस्य ।
स क्षुत्क्षामो भिक्षा रूक्षां निलक्षणो लभते ॥
वामो दक्षिणपार्वे प्रदक्षिणो वामपार्थके यस्य ।
ननु तस्य चरमकाले भोगो नास्त्यत्र सन्देहः ।।
अन्तर्ललाटपट्टे व्यक्तावों ललामवद्यस्य ।
वामोऽथ दक्षिणो वा सोऽल्पायुर्दुःखितो वा स्यात् ।।.
यस्यावर्तद्वितयं सुव्यक्तं भवति पादतलमध्ये ।
नक्तन्दिनमतिदीनो भूमि स भ्रमति मतिहीनः ।। इति ।
इत्यावलक्षणम् ।
अथ पिटकलक्षणम् ।
पराशरसंहितायाम्, पिटकाः सितरक्तकृष्णवर्णा द्वि
जादीनां क्रमात् स्थानवर्णविशेषेणोक्तसकलफलदा भवन्ति ।
तत्र मूर्ध्नि मुव्यक्तः स्निग्धः सुवर्णोऽभिपेकागमं कुर्यात् । शिरसि
धनागमं केशान्ते सौभाग्य ललाटे धनसञ्चयं भुवोदौर्भाग्य सङ्गमे
दौशील्यम् ।
सङ्गमे भ्रुवोरेव । भूमध्यभाग इत्यर्थः ।
इष्टसङ्गमं च नेत्रपुटयोः।
नेत्रयोरिष्टदर्शनमित्यर्थः।
शकदेशे पत्रज्यां चिन्तामथुपाते. गल्लयोः सुतनाशं नासावशे

पुरुषलक्षणप्रकरणे पिटकलंक्षणम् । १०५ . -- वस्त्रलाभमग्रे सुराभिसङ्गमम् । अग्रे नासान इत्यर्थः । चिबुकोत्तरोष्ठयो रत्नलाभं हन्वोधनागमं गलेऽनपान- माभूषणं. च । शिरः सन्धौ ग्रीवायां चोपघातं शस्त्रेण । कर्णयो- स्तझूषणमानन्दश्रवणं च । पार्श्वयोः शोकमुरसीष्टसङ्गम स्कन्धयोर्भेक्ष्यचर्यां कुक्षयोरर्थक्षयं स्तनयोः पुत्रलाभं पृष्ठदेशे दुःखशयनम् ।। अरिविनाशं वाहोः प्रबाहोराभरणं मणिब- न्धयोनियमनम् । नियमनं बन्धनमित्यर्थः। पाणौ धनागमं सौभाग्यं चाङ्गुलीषु शोकसुदरे अन्नपा- नावाप्तिं नाभ्यां चौरैरर्थहरणमधः । अधः नाभेरधः । धनधान्यावाप्तिर्वस्तिशिरसि सौभाग्यमर्थलाभं च वृष- णयोः पुत्रजन्म स्त्रीलाभं मेहने गुदे सौभाग्यं यानाङ्गना- लाभमूर्वोः । जानुनोरसिभिरुपघातं शस्त्रेण जङ्घयोः गुल्फयो- रध्ववन्धपरिक्लेशागमं स्फिचोरर्थहरणं पाणितलयोरगम्यागमनं प्रपदतलेऽध्वगमनं नियमनमङ्गुलीषु अङ्गुष्ठे ज्ञातिपूजां दधुः । दद्युरिति प्रत्येकं सम्बन्धः। वराहसहितायामप्येवमेव निरूपितम् । उत्पातगण्डपिटका दक्षिणतो वामतस्त्वमी घाताः । धन्या भवन्ति पुंसां तद्विपरीताश्च नारीणास् ॥ इति पिटकविभामः प्रोक्त आमूर्धतोऽयं व्रणतिलकविभागोऽप्येवमेव प्रकल्यः। भवति मशकलक्ष्माऽऽवर्तजन्मापि तद्व- निगदितफलकारि प्राणिनां देहसंस्थम् ॥ इति । विवेकविलासे, । . १४

१०६
वीरमित्रोदयस्य लक्षणप्रकाशे
उत्पाटपिटको लक्ष्म तिलको मशको व्रणः ।
स्पर्शनं स्फुरणं पुंसः शुभायाङ्गे प्रदक्षिणे ॥ इति ॥
इति पिटकलक्षणम्।
अथ पादायङ्गलक्षणानां विशेषफलं हेमाद्रौ स्मयते ।
यानवाहनभृत्येशो वाल्ये चातिसुखान्वितः।
निकटारामभोगी स्यात्पादजङ्घागुणान्वितः ॥
धैर्यमायुः सुखावाप्तिर्गाम्भीर्य स्थिरवृत्तता ।
आज्ञापदानं भृत्येभ्यो गुणाः स्युर्जानुसम्पदि ।।
जानुसम्पत् जानुशुभलक्षणम् ।
नरद्विपहयैर्यानं समरे ह्यपराजयः ।
प्रधानप्रमदेशत्वं फलमूर्वोः प्रचक्षते ॥
राजा स्याद्राजपुत्रो वा बहुभार्यों बहुप्रजः ।
कान्तो मनोहरोऽर्थेशः श्रेष्ठो वृषणलक्षणैः ।।
शयनासनयानानि वस्त्रस्त्रीमित्रसम्पदः ।
आसादयत्ययत्नेन स्फिक्कटी यस्य शोभने । .
भोगव्ययोऽर्थसम्पत्तिरापच्छान्तिररोगता ।
गुणवज्जठरं यस्य तस्यैतत्फलमादिशेत् ॥
आयुः शौर्य श्रुतं मेधा शोफत्यागो दमः शमः ।
अविषादश्च कृच्छेषु शस्तो हृदयजैर्गुणैः ॥
कृच्छु दुःखम् ।
सुखमैश्वर्यविज्ञाने लभते स्तनसम्पदा ।
अंसपीठोरुजत्रूणां सम्पदा स्तनवत्फलम् ॥
पृष्ठपअरपार्थानां सम्पदा कक्षयोरपि ।
आयुर्भोगान्महत्वं च हारहेमादिभूपणम् ॥
अन्नपानार्थसौख्यानि सुग्रीवो लभते नरः।
..

पुरुषलक्षणप्रकरणे पादाद्यङ्गलक्षणानां विशेषफ०।१०७
.
प्रजेशत्वं धनेशत्वं विविधं पानभोजनम् ॥
नरः प्रामोति सम्पन्नर्जिवादन्तोष्ठतालुभिः ।
येषां च सम्पदस्त्वेताः कर्णश्मश्रुहनुभ्रुवाम् ।।
सुखमायुर्धनं तेषां प्रियश्रवणमेव च ॥
अथ लक्षणसम्पन्नं शरीरं यस्य देहिनः ।
चक्षुषः सम्पदश्चैव ऐश्वर्यं सोऽश्नुते महत् ।।
क्षुतशङ्खललाटानां सम्पदा मूर्द्धजैः सह ।
आयुर्दीर्घ समासाद्य सततं सुखमेधते ॥
आज्ञा गतौ यशो गन्धे सुखं वर्णे स्वरे धनम् ।
भाग्यागमस्तथाऽनूके नित्यं नृणां प्रतिष्ठितम् ॥ इति ।
अत्रान्योऽपि विशेष उक्तो-
गर्गसंहितायाम् ,
तेजसा तेज आदचे परेषां वपुषा वपुः।
प्रभया च प्रभां हन्यात्सरस्वत्या सरस्वतीम् ।।
गत्या गतिं धनैर्वित्तं परेषां नात्र संशयः ।
रक्ताक्षो न जहात्यर्थान श्रीः कनकपीतकान् ।।
नं दीर्घबाहुरैश्वर्यं न मांसोपचितः सुखम् ।
न सुनासो वहेद्भारं न सुगन्धी तु सौख्यताम् ॥
स्वरवान् प्रेरयत्यर्थान् सात्त्विके नास्ति दुर्गतिः ।
कुनखी नास्ति धनवानुद्धतो नास्ति भोगवान् ।।
स्नेहवान् दुःखितो नास्ति गतिमानास्त्यनीश्वरः ।
शनैर्गात्राणि शीर्यन्ते दन्तरोमनखास्तथा ।।
इन्द्रियाणि च बुद्धिश्व सर्वेषां चिरजीविनाम् ।
महाकर्णा महानासा. महाचरणपाणयः ॥
मुबद्धदृढगात्राश्च विज्ञेयास्ते चिरायुषः ।
-

१०८
वीरभित्रोदयस्य लक्षणप्रकाशे
मौभाग्यं विदन्तेऽक्षिभ्यां विद्यामैश्चर्यमेव च ।।
दन्तर्भोजनमामोति स्नेहेन च परं सुखम् ।
चलन्मांसोऽतिमांसश्च स्थूलमांसा शिराततः ॥
स वै दुरन्तको नाम समुद्रमपि शोपयेत् ।
येन केन चिदोन शरीरं यस्य बर्द्धते ।।
स 4 दुन्दुभको नाम सर्वकल्याणवर्जितः ।
अपत्यं व्यञ्जनं विद्या विज्ञानं धर्मसञ्चयः ।।
पूर्वे वयसि वर्तन्ते सर्वेपामल्पजीविनाम् ।
व्यञ्जनं श्मश्रुप्रभृति ।
अतिमेधातिकीर्तिश्च विक्रमोऽतिमुखानि च ।
तथा जरा प्रतिश्च लक्षणानि गतायुपः ॥
यथा सुखं तथा शीलं यथा वर्णस्तथा धनम् ।
यथा गन्धस्तथा सत्वं विनयश्च तथा ध्रुवम् ॥
यथाऽऽचारस्तथा शौचं कीर्तिर्भवति कर्मणाम् ।
यथा मांसं तथा सौख्यं विनयश्च तथा ध्रुवम् ।।
निघृणो द्वेप्यसन्तुष्टः क्रोधनो नित्यशङ्कितः ।
परभाग्योपतापी च पडेते नित्यदुःखिताः ॥
अतिदीर्घातिहस्वेपु अतिस्थूलकृशेषु च ।
अतिकृष्णातिगारेषु सदा सत्यं न विद्यते ।। इति ।
बराहसंहितायाम्,
श्रान्तस्य यानमशनं च बुभुक्षितस्य
पानं च तद्परिगतस्य भयेषु रक्षा ।
एतानि यस्य पुल्पस्य भवन्ति काले
धन्यं वदन्ति खलु तं नरलक्षणज्ञाः ।। इति ।
प्रयोगपारिजाते,

पुरुषलक्षणप्रकरणे पादाद्यङ्गलक्षणानां विशेषफ०।१०९
• .
उरोविशालो धनधान्यभोगी
शिरोविशालो नृपपुङ्गवः स्यात् ।
कटीविशालो बहुपुत्रभोगी
विशालपादस्तु धनी 'सुखी स्यात् ॥
अतिमेधोऽतिकीर्तिश्च विक्रमी च सुखी तथा ।
अतिस्निग्धा च दृष्टिः स्यात् स नरोऽल्पायुपो भवेत् ॥
अतिकृष्णमतिश्वेतमतिरक्तं तथैव च ।
इत्थंवों नरो रोगी समुद्रस्य वचो यथा ।
विवेकविलासे,
सात्त्विकः सुकृती दाता राजसो विषयी भ्रमी ।
तामसः पातकी लोलः सात्विकोऽमीषु सत्तमः ॥ इति ।
सामुद्रतिलके,
शुभलक्षणमङ्गेभ्यः सौन्दर्येणाधिकं मुखं यस्य ।
स्वज्ञातिप्राधान्यं प्राप्नोति स धान्यधनवत्वम् ॥
सत्त्वं रजस्तमश्चेत्यमी नराणां त्रयो भवन्ति गुणाः।
कचिदेकः कुत्र द्वौ त्रयः समं वापि दृश्यन्ते ।
यः सत्त्वगुणोपेतः स दयालुः सत्यवाक् स्थिरः स नरः ।
देवगुरुभक्तियुतो व्यसनेऽभ्युदये च कृतधैर्यः ।।
काव्यकलासु प्रवणः कुलनारीकृतरतिः सदा शूरः।
प्रणयेन युतः सततं रजोधिकः कथ्यते स पुमान् ॥
मूर्खस्तमोऽन्वितः स्यानिद्रालुर्वञ्चकोऽलसः क्रोधी ।
एतमित्रैर्वहुशो भेदाश्चान्ये वृणां मिश्राः ।।
बुद्धियुतो यद्दीक़ इस्वो यज्जायते नरो मूर्खः ।
पिङ्गः शुचिः सुशीलः काणाक्षो यत्तदाश्चर्यम् ।।
यदन्तुरोऽपि मूों रोमयुतो जायते यदल्पायुः ।

११०
वीरमित्रोदयस्य लक्षणप्रकाशे
यनिष्ठुरः सदाऽऽब्यस्तदद्भुतं जृम्भते भुवने ॥
पृथुपाणिः पृथुपादः पृथुकर्णः पृथुशिराः पृथुस्कन्धः ।
पृथुवक्षाः पृयुजठरः पृथुभालः पूजितः पुरुषः ॥
रक्ताक्षं भजति श्रीः प्रलम्बवाहुं भजत्यधीशत्वम् ।
पीनाङ्ग भजति कृषिर्मासोपचितं च भजति सौभाग्यम् ॥
सुश्लिष्टसन्धिवन्धो यः कश्चिन्मांसलो मृदुस्निग्धः ।
अतिसुन्दरः प्रकृत्या स सुखान्यो जायते प्रायः ॥
अत्रोक्तलक्षणेषु लक्षणतारतम्येन फलं वक्तव्यम् । तदुक्तम्-
सामुद्रतिलके,
देहस्थितेषु सन्ततमशुभेषु शुभेषु लक्षणेषु नृणाम् ।
ज्ञात्वा तरतमभावं तत्फलमपि निर्दिशेत्माज्ञः ॥ इति ।
तत्रापि यदेव शुभमशुभं वा लक्षणं वलवत्तदेव फलदम् ।
तथा चोक्तम्-
विवेकविलासे,
पुष्टं यदेव देहे स्याल्लक्षणं वाप्यलक्षणम् ।
इतरद्वाध्यते तेन बलवत् फलदं भवेत् ॥ इति ।
सामुद्रतिलके विशेषः।
यल्लक्ष्म पुनः शुभमपि कररेखाप्रभृतिक विसंवदति ।
बाह्याभ्यन्तरमपरं तत्र समुद्रेण निर्दिष्टम् ॥ इति ।
अथ राजलक्षणम्।
भविष्यपुराणे,
गुरुरुवाच ।
पुंसां श्रुतानीह विभो लक्षणानि नृपस्य तु ।
शुभानि चागजातानि ब्रूहि मे वदतां वर ॥
ब्रह्मोवाच ।

पुरुषलक्षणप्रकरणे राजलक्षणम् ।
१११
शृणु वत्साङ्गजातानि पार्थिवस्य शुभानि वै ।
पार्थिवो ज्ञायते यैश्च नराणां मध्यमागतः ।।
त्रीणि यस्य महाबाहो विपुलानि नरस्य तु ।
उन्नतानि तथा षट् च गम्भीराणि च त्रीणि च ॥
चत्वारि चापि इस्वानि सप्त रक्तानि वै विभो ।
दीर्घाणि चापि सूक्ष्माणि भवन्ति यस्य पञ्च च ॥
वदनं च ललाटं च देवोत्तम उरस्तथा ।
विस्तीर्णमेतत्रितयं वीर यस्य नरस्य तु ॥
स राजा नात्र सन्देहः शृणुष्वैवोत्रतानि च ।
कृकाटिका तथा चास्यं नखा वक्षोऽथ नासिका ॥
कक्षौ चापि महाबाहो षडेतानि विदुर्बुधाः ।
नाभिः सत्त्वं स्वरश्चेति गम्भीराणि तु त्रीणि वै ॥
लिङ्गग्रीवापृष्ठजङ्घ इस्वमेतच्चतुष्टयम् ।
नेत्रान्तो हस्तपादौ तु ताल्चोष्ठौ च सुरोत्तम ॥
जिहा नखाश्च.रक्तानि सप्तानि तु महामते ।
नेत्रान्तो नेत्रप्रान्तः । अपाङ्ग इतियावत् ।
नासिकालोचने बाहुः स्तनयोरन्तरं हनुः ।
इति दीर्घमिदं प्रोक्तं पञ्चकं भूभृतां गुह ।।
त्वचा कररुहाः केशा दशनाश्च सुरोत्तम.।
सूक्ष्माण्येतान्यङ्गुलीनां पण्यिपि विदुर्बुधाः ।।
क्षुतं राज्ञां सकृत् द्वित्रिर्नादितं हादितं तथा ।
निर्घोषान्तं प्रयुक्तं च संहतं च विदुर्बुधाः ॥
अत्र व्याख्येयविषयस्तु पूर्वोक्तातलक्षणादवगन्तव्य:
नेत्रैः कनकवर्णाभैनरा भूपतयस्तथा । इति ।
भवन्तीति, शेषः । इदं तुक्षुतनेत्रलक्षणं राजलक्षणेषक्तत्वा-
1

११२
वीरमित्रोदयस्य लक्षणप्रकाशे
तदुपयोगित्वेनोक्तमित्यपौनत्यम् ।
स्कान्दे काशीखण्डे,
विश्वानरं प्रत्याह नारदः ।
पञ्चसूक्ष्मः पञ्चदीर्घः सप्तरक्तः पडुनतः ।
त्रिपृथुर्लघुगम्भीरो द्वात्रिंशल्लक्षणस्त्विति ।।
त्वकेशाङ्गुलिदशनाः पर्वाण्यङ्गुलिजान्यपि ।
तथाऽस्य पञ्च सूक्ष्माणि दिपालपदभाग्यथा ॥
पञ्च दीर्घाणि शस्यानि यथा दीर्घायुपोंऽस्य वै ।
भुजौ नेत्रे हनुर्जानु सा च तनयस्य ते ।।
पाण्योस्तले च नेत्रान्ते तालुजिताधरौष्ठकम् ।
सप्तारुणं च सनखमस्मिन् राज्यसुखप्रदम् ।।
वक्षः कक्षो नखस्कन्धकरवकं पडुनतम्
ललाटकटिवक्षोभिस्त्रिविस्तीर्णो यथा ह्यसौ ।
ग्रीवाजङ्घामेहनैश्च त्रिभिईस्वोऽयमीरितः ।
स्वरेण सत्त्वनाभिभ्यां त्रिगम्भीरः शिशुः शुभः ॥ इति ।
इति राजलक्षणम् ।
अथ सर्वोत्कृष्टपुरुषलक्षणम् ।
विष्णुधर्मोत्तरे,
पुष्कर उवाच ।
आदावेव प्रवक्ष्यामि पुरुषाणां तु लक्षणम् ।
निबोध तन्मे गदतो भृगुवंशविवर्द्धन ॥
एकाधिको द्विशुलश्च त्रिगम्भीरस्तथैव च ।
त्रित्रिकस्त्रिप्रलम्बश्च त्रिभिर्व्याप्नोति यस्तथा ॥
त्रिवलीवान् त्रिविनतत्रिकालज्ञश्च भार्गव ।
पुरुपः स्यात्स लक्षण्यो विपुलश्च तथा त्रिपु ।।

,
पुरुषलक्षणप्रकरणे सर्वोत्कृष्टपुरुषलक्षणम् । ११३
चतुर्लेखस्तथा राम तथैव च चतुःसमः ।
चतुष्किष्कुश्चतुर्दष्ट्रश्चतुष्कृष्णस्तथैव च ।।
चतुर्गन्धश्चतुईस्वः पश्चसूक्ष्मस्तथैव च ।
पञ्चदी? भृगुश्रेष्ठ तथैव च षड्डन्नतः ।।
सप्तस्नेहोऽष्टवंशश्च नवस्थानायलस्तथा ।
दशपदो दशबृहन्न्यग्रोधपरिमण्डलः ॥
चतुर्दशसमद्वन्दः षोडशाक्षश्च शस्यते ।
श्रीराम उवाच ।
एकाधिकाया ये प्रोक्ताः पुरुषस्य त्वया गुणाः ।
तानई श्रोतुमिच्छामि यथावदरुणात्मज ॥
पुष्कर उवाच ।
धर्म चार्थे च कामे च जनः सर्वोऽभिजायते ।
एकाधिकः स विज्ञेयो यस्तु धर्मे विशेषतः ।।
तारकाभ्यां विना नेत्रे शुक्लाश्च दशनास्तथा ।
द्वात्रिंशदाम यस्य स्युबिशुक्लः स तु कीर्तितः ।।
उरो नासा तथा सत्त्वं गम्भीरं यस्य देहिनः ।
उसे नाभिस्तथा सक्थि गम्भीरा यस्य देहिनः- इति
पाठान्तरम् ।
प्रोच्यते स तु धर्मज्ञ त्रिगम्भीरो नरोत्तमः ।।
अनसूया दया क्षान्तिस्त्रिकमेकं प्रकीर्तितम् ।
मङ्गलाचारशौचे च अस्पृहेत्यपरं त्रिकम् ।।
अनायासस्त्वकार्पण्यं शौर्य चेति त्रयस्त्रिकाः ।
अनायासमकार्पण्यमैश्वर्यं च त्रयस्त्रिकाः- इति पाठान्तरम् ।
त्रिमलम्बो भुजभ्यां तु वृषणेन च कीर्त्यते ॥
दिग्देशज्ञातिवर्गाश्च तेजसा यशसा श्रिया ।
१५

११४ वीरमित्रोदयस्य लक्षणप्रकाशे ' . व्यामोति यो भृगुश्रेष्ठ त्रिभिामोत्यसौ नरः ।। उदरे वलयस्तिस्रो गम्भीरा यस्य देहिनः । स उच्यते भृगुश्रेष्ठ त्रिवलीवान संशयः॥ देवतानां गुरूणां च द्विजानां च तथा नतः । पुरुषो भार्गवश्रेष्ठ प्रोक्तस्त्रिविनतः सदा ।। धर्मस्यार्थस्य कामस्य सम्यकालविभागवित् । सेवने यस्तु धर्मज्ञ प्रोच्यते स त्रिकालवित् ॥ उरो ललाटं वकं च विस्तीर्ण यस्य देहिनः कथितः स भृगुश्रेष्ठ विपुलस्त्रिषु मानवः ।। द्वौ पाणी द्वौ तथा पादौ ध्वजच्छत्रादिभिर्युतौ । लेखाभिर्यस्य निर्दिष्टश्चतुर्लेखः स मानवः ।। छत्रादिभिरित्यत्र आदिपदेन चक्रधनुर्मत्स्यादीनां. ग्रहण- म् । तथा च- चक्रासितोमरगदाङ्कशपाशवजैः शक्त्या धनुःपरशुपाशमृणालपत्रैः । श्रीवत्समत्स्यमकरध्वजकुञ्जराये-- हस्ताधिलाञ्छितकरः मुखभाक् नरेन्द्रः ॥ इति । अङ्गुल्यो हृदयं पृष्टं कटिर्यस्य तथा समा। पुरुषः स भृगुश्रेष्ठ चतुःसम उदाहृतः ।। वाहुजानुभगाण्डाश्च चत्वार्यथ समानि तु । पुरुपः स भृगुश्रेष्ठ चतुःसम उदाहृतः ॥ (2) पण्णनवत्यङ्गुलोत्सेधश्चतुष्किष्कुप्रमाणतः । प्रमाणयोगाद्धर्मज्ञ चतुष्किष्कुः स कीर्तितः ।। किष्कुर्हस्तः । चतुष्किप्कुः स्वहस्तेन हस्तचतुष्टयप्रमाणः । दंष्ट्राश्चतस्रश्चन्द्रामा दशनेभ्यः समुन्नताः ।

- -- . पुरुषलक्षणप्रकरणे सर्वोत्कृष्टपुरुषलक्षणम् । ११५ किञ्चिद्यस्य स धर्मज्ञ चतुर्दष्ट्रः प्रकीर्तितः ॥ नेत्रतारौ ध्रुवौ श्मश्रु कृष्णाः केशास्तथैव च । यस्येह स चतुष्कृष्णः प्रोच्यते मनुजोत्तम ।। नासायां वदने स्वेदे कक्षासु च नरोत्तम । . गन्धस्तु सुराभिर्यस्य चतुर्गन्धः स कीर्तितः ।। इस्वं लिङ्ग तथा ग्रीवाजले इस्वे तथैव च । यस्य भार्गवशार्दूल चतुईस्वः प्रकीर्तितः ।। अङ्गुलीनां तु पर्वाणि नखकेशद्विजत्वचः । सूक्ष्माणि.यस्य तं राम पञ्चसूक्ष्म प्रचक्षते ॥ हनुनेत्रे ललाटं च नासा चैव स्तनान्तरम् । दीर्घाणि यस्य तं राम पञ्चदीर्घ विदुर्बुधाः ॥ वक्षः कक्षौ नखा नासा मुखं चैव कृकाटिका । षडुन्नतानि यस्येह तं वदन्ति षडुनतम् ।। स्वकेशलोमदन्ताश्च दृष्टिाणी नखास्तथा । स्निग्धा यस्येह तं पाहुः सप्तस्निग्धं वहुश्रुताः ।। जानुवंशावथो राम भुजवंशौ तथा परौ । ऊरुवंशद्वयं चैव पृष्ठवंशं च भार्गव ।। नासावंशं समं यस्य सोऽष्टवंशः प्रकीर्तितः । नेत्रे नासापुटे कर्णौ मेळू पायुर्मुखं तथा ॥ छिद्रा नवैते विमला यस्य तं तु नवामलम् । जिहोष्ठतालुनेत्रान्तहस्तपादनखाः स्तनौ ।। शिश्नाग्रवके शस्यन्ते पद्मामा दश देहिनाम् ।। पाणी पादौ मुखं ग्रीवा श्रवणे हृदयं शिरः। ललाटमुदरं पृष्ठं बृहन्तः पूजिता दश ॥ प्रसारितभुजस्येह मध्यमाग्रद्वयान्तरम् । . - . २१६ : वीरभित्रोदयस्य लक्षणप्रकाशे उच्छांयेण समं यस्य न्यग्रोधपरिमण्डलः ॥ कथितः स नृणां श्रेष्ठः सर्वलक्षणपूजितः । पादौ गुल्फी स्फिचौ पाचौं वृषणावीक्षणे कुचौ ।। कर्णोष्ठौ सक्थिनी जो हस्तौ वाहू तथा भ्रुवौं । सधिनी ऊरू। द्वन्द्वान्येतानि यस्य स्युः समानि तु चतुर्दश । चतुर्दशसमद्वन्दः कथितः स नरोत्तमः ॥ विद्यास्थानानि यानीह कथितानि चतुर्दश । तैः प्रपश्यति यो राम नेत्राभ्यां च नरोत्तमः ॥ सम्यक्स कथितो लोके पोडशाक्षो भृगृत्तम । इति । विद्यास्थानान्याह- याज्ञवल्क्या, पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इति । पुराणं ब्राह्मादि। न्यायो वेदाधविरुद्धः सत्तः । मीमांसा वेदवाक्यविचारः । धर्मशास्त्रं मन्वादिप्रणीतम् । अङ्गसहिता वेदा अत्वारः । अङ्गानि षट्, शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिरिति । रामायणे हनूमानाह- चतुष्किष्कुश्चतुईष्ट्रस्त्रिशुक्लो दशपद्मवान् । पडुन्नतो दशवृहत्रिभिया॑मोति राघव ।। त्रिवलीवान् त्रिविनतः चतुर्गन्धस्विकालवित् । त्रित्रिकस्त्रिप्रलम्बश्च महास्यौप्टहनुस्वरः ॥ चतुष्कृष्णश्चतुर्लेखः पोडशाक्षश्चतुःसमः । चतुर्दशस्यहन्दः पञ्चस्नेहोऽप्रवंशवान् ॥ इति । .

- पुरुषलक्षणप्रकरणे सर्वोत्कृष्टपुरुषलक्षणम् । ११७ त्रिशुक्लः कर्मधर्मयशांसि त्रीणि शुक्लानि यस्य सः । महा- स्यौष्ठहनुस्वरः वदनौष्ठहनुशब्दाः बृहन्त इत्यर्थः । पञ्चस्नेह:- स्नेहः पञ्चसु लक्ष्यो वाग्जिवादन्तनेत्रनखसंस्थः । इति वराहवचनोक्तेर्वाग्जिह्वादन्तनेत्रनखेषु स्निग्ध इत्याशयः। इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरी- नीराजितचरणकमल- श्रीमन्महाराजाधिराजप्रतापरुद्रतनुज- श्रीमन्महाराजमधुकरसाहसूनु- चतुरुदाधिवलयवसुन्धराहृदयपुण्डरीकविकासदिनकर- श्रीवीरसिंहदेवोद्योजितश्रीहंसपण्डितात्मजश्रीपरशुरामामश्रसूनु- सकलविद्यापारावारपारीणजगद्दारिद्यमहागजपारीन्द्रविद्वज्ज- नजीवातु- श्रीमन्मित्रामिश्रकृते श्रीवीरमित्रोदयाभिधनिबन्धे लक्षणप्र- काशे पुरुषलक्षणप्रकरणं समाप्तम् । . . inne १९८६ . "बीरमित्रोदयस्य लक्षणप्रकाशे अथ स्त्रीलक्षणप्रकरणम् । तत्र तावत्कन्यालक्षणनिरीक्षणकाल उक्तो- भविष्यपुराणे, मुहत्तै तिथिसम्पन्ने नक्षत्रे चाभिपूजिते । द्विजैश्च मह सङ्गम्य कन्यां पश्येत कालवित् ।। इति । जगन्मोहने समुद्रोऽपि, मृहत तिथिसम्पन्ने ग्रहे सौम्ये बलान्विते । ब्राह्मणः सह सङ्गम्य कन्यां पश्येत शास्त्रवित् ।। इति । आश्वलायनगृह्ये, बुद्धिरूपलक्षणशीलसम्पन्नामरोगामुपयच्छेत । इति । शास्त्राविरुद्धदृष्टादृष्टमाधनोहापोहकुशला धीवुद्धिः। यत्र - रस्य मनो रमते तद्रूपम् । तदाह- आपस्तम्बः, यस्यां मनश्चक्षुषोनिवन्यस्तस्यामृद्धिरिति । मनुः, उद्देव द्विजो भायी सवर्णी लक्षणान्विताम् । इति । दक्ष, . समावर्तनपूर्वं तु ललण्यां स्त्रियमुद्हेत् । इति । याज्ञवल्क्या, अविप्लुतब्रह्मचर्यो लक्षण्या स्त्रियमुद्हेत् । इति । लक्षणानि द्विविधानि बाह्यान्याभ्यन्तराणि च । अथ ता- वत् वाखान्या- मनु, अव्यङ्गाही सौम्यनाम्नी हंसवारणगामिनीम् । तनुलोमकेशदशनां मृङ्गीमुहस्त्रियम् ।। इति ।

स्त्रीलक्षणप्रकरणे कन्याया बाह्यलक्षणानि । ११९ . . । पृथ्वीचन्द्रोदये शातातपः, हंसस्वनां मेघवर्णा मधुपिङ्गललोचनाम् । तादृशीं वरयेत्कन्यां गृहस्थः सुखमेधते ॥ इति । मेघणा मेघवस्निग्धश्यामवर्णाम् । तत्रैव- नारदोऽपि, मृगाक्षी मृगगुह्या च मृगग्रीवा महोदरी । हंसस्वनगतिर्नारी राजपत्नी भविष्यति ॥ मृदुभाषा च या नारी मृदुपादतलागतिः । .. नारी कुमुदवर्णाभा राजपत्नी भविष्यति ॥ इति । गरुडपुराणे, यस्यास्तु कुञ्चिताः केशा मुखं च परिमण्डलम् । नाभिश्च दक्षिणावर्ता सा. कन्या कुलवर्दिनी ॥ कुञ्चिताः केशाः ईपत्कुञ्चिताग्राः । किश्चिदाकुञ्चिताग्राश्च कुटिलाश्चातिशोभना:- इत्यग्रे केशलक्षणे वक्ष्यते । या च काञ्चनवर्णाभा रक्तहस्तसरोरुहा । सहस्राणां च नारीणां भवेत्सा च पतिव्रता ।। पूर्णचन्द्रमुखी कन्या बालसूर्यसमप्रभा। विशालनेत्रा बिम्बोष्ठी सा कन्या लभते सुखम् ।। कार्येषु मन्त्री सा स्त्री स्यात्सुसुखं करणेषु च । स्नेहेषु भार्या.माता स्यात् वेश्या च शयने शुभा ।। करणेषु इन्द्रियेषु । नाभिः प्रशस्ता गम्भीरा दक्षिणावर्तगा शुभा । अरोमा त्रिबली नार्या हृत्स्तनौ रोमवर्जितौ ।। इति । विष्णुधर्मोत्तराग्नेययोः; .

१२०
वीरमित्रोदयस्य लक्षणप्रकाशे
शस्ता स्त्री चारुसर्वाङ्गी मत्तमातङ्गगामिनी ।
गुरूंरुजघनायामा मत्तपारावतेक्षणा ॥
मुनीलकेशी तन्वङ्गी परपुष्टनिनादिनी।
तनुमध्यविलोमाङ्गी स्निग्धवर्णा मनोहरा ॥ इति ।
परपुष्टः कोकिलः।
मनु,
नोदहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।
नालोमिका नातिलोमां न वाचाला न पिङ्गलाम् ।।
रोगिणीम् अपस्मारादिमहारोगयुक्ताम् । वाचाला बहुनि:
न्धभाषिणीम् ।
नक्षवृक्षनदीनाम्नी नान्त्यपर्वतनामिकाम् ।
न पक्ष्यहिप्रेष्यनाम्नी न विभीषणनामिकाम् ॥ इति ।
अन्त्यः अन्त्यजः।
बौधायन:,
पाणिस्थलां रोमशां च यमला श्यावदन्तिनीम् ।
सन्ननभ्रूयुगां चैव पिङ्गाक्षी चैव नोव्हेत् ॥
सन्नतभूयुगां सल्लग्नभ्रूयुगलाम् ।
शातातपः,
दीर्घकुत्सितरोगार्ता व्यङ्गा संसृष्टमैथुना।
दृष्टान्यगतभावा च कन्यादोषाः प्रकीर्तिताः ॥ इति ।
दीर्घरोगोऽपस्मारादिः । कुत्सितरोगो गलत्कुष्ठादिः। सं-
सृष्टमैथुना कृतव्यभिचारा।
विष्णुपुराणे,
न घर्घरस्वरां क्षामां तथा काकस्वरां न च ।
नातिवद्धेक्षणां तद्वदृत्ताक्षी नोद्वहेदुधः ।।

.
..
स्त्रीलक्षणप्रकरणे कन्याया दुर्लक्षणानि । १२१
क्षामा कृशाम् । अतिबद्धेक्षणां निमीलितप्रायलोचनाम् ।
वृत्ताक्षी व लाक्षीम् ।
यस्याश्च रोमशे जो गुल्फो यस्यास्तथोन्नतौ ।
गण्डयोः कूपके यस्य हसन्त्याश्चैव जायते ॥
नोद्वहेत्तादृशी कन्यां प्राज्ञः कार्यविचक्षणः ।
नातिरूक्षच्छविं पाण्डुकरजामरुणेक्षणाम् ॥
अपीतहस्तपादां च न कन्यामुदहेद्बुधः।
पाण्डुकरजां पाण्डुरनखाम् ।
भविष्यपुराणे,
नोव्हेत्कपिला कन्यां नाधिकाङ्गी न रोगिणीम् ।
न नीलोष्ठी न निर्लोमा नास्यकूपां न पिङ्गलाम् ।।
आस्यकूपां कपोलगर्तयुक्ताम् ।
बृहन्नारदीये,
रोगिणीं चैव वृत्ताक्षी सरोगकुलसम्भवाम् ।
अतिकेशामकेशां च वाला नैवोद्वहंदुधः ॥
अत्र कन्यामित्यनुषङ्गः।
कोपना वामनां चैव दीर्घदेहां विरूपिणीम् ।
न्यूनाधिकाङ्गामुन्मत्तां पिशुनां नोदहेद्बुधः ।।
स्थूलगुल्फां दीर्घजङ्घा तथैव पुरुषाकृतिम् ।
श्मश्रुव्यञ्जनसंयुक्तां विकारी नोद्वहेदुधः ।।
वृथाहास्यमुखीं चैव सदाऽन्यगृहवासिनीम् ।
विवादशीलां भ्रमितां निष्ठुरां नोदहेदुधः ॥
वहाशिनी स्थूलदन्तां स्थूलास्थी घर्घरस्वराम् ।
अतिकृष्णां रक्तवर्णा धूर्ती नैवोहेदुधः ।।
सदा रोदनशीलां च पाण्डुवर्णां च कुत्सिताम् ।
.
१६

१२२
वीरमित्रोदयस्य लक्षणप्रकाशे
कासश्वासादिसंयुक्तां निद्राशीलां च नोद्हेत् ।।
अनर्थभाषिणीं चैव लोकद्वेषपरायणाम् ।
परापवादनिरतां तस्करां नोदहेदुधः॥
दीर्घनासां च कितवां तनूरुहविभूषिताम् ।
गर्वितां वकवृत्तिं च सर्वथा नोद्वहेद्बुधः ॥ इति ।
पृथ्वीचन्द्रोदये व्यासोऽप्याह,
इस्वा दीर्घाः कृशाः स्थूलाः पिङ्गाक्ष्यो गौरपाण्डुराः।
न पूज्या न च सेव्यास्ता यतो मृत्युकराः स्त्रियः ॥ इति ।
गरुडपुराणे,
वक्रकेशा तु.या कन्या मण्डलाक्षी च या भवेत् ।
भर्ता च म्रियते तस्या नियतं दुःखभागिनी ॥
यस्यास्तु रोमशौ पादौ रोमशौ च पयोधरौ ।
उन्नतौ चाधरोष्टौ च क्षि मारयते पतिम् ।।
यस्यास्त्वनामिकाङ्गुष्ठौ पृथिव्यां नैव तिष्ठतः।
पति मारयते शिमं स्वेच्छाचारेण वर्त्तते ॥ इति ।
नागरखण्डेऽपि
तथा त्रिभिः स्तनैयुक्तां पृष्ठावर्तकसंयुताम् । :
दरिद्रोऽप्यतिदुःस्थोऽपि कुलहीनोऽपि नोद्वहेत् ॥'
दीयमानां च तां वै यः प्रतिगृह्णाति कश्चन |
तं भक्षयति भर्तारं षण्मासाभ्यन्तरे हि सा ॥
यस्याः स्युर्द्विगुणा दन्ता एतत्सामुद्रिका जगुः ।
त्रिस्तनी कन्यका या तु श्वशुरस्य कुलक्षयम् ॥
सा धत्ते नात्र सन्देहस्तस्मात्तां दूरवस्त्यजेत् ।
पृष्ठावों भवेद्यस्या असती सा भवेद्बुवम् ॥
बहुपापसमाचारा तस्माचा परिवर्जयेत् । इति ।
-

स्त्रीलक्षणप्रकरणे कन्याया आभ्यन्तरलक्षणानि । १२३ . अथ आभ्यन्तराणि । तान्याश्वलायनोक्तानि- यथा,दुर्विज्ञेयानि लक्षणान्यष्टौ पिण्डान् कृत्वा ऋतमग्रेप्रथम यज्ञऋते सत्यं प्रतिष्ठितं यदियं कुमार्यभिजाता तदियमिह प्रतिप- द्यतां यत्सत्यं तदृश्यतामिति पिण्डानभिमन्व्य कुमारी ब्रूयादेषा- मेकं गृहाणेति । क्षेत्राचेदुभयतःसस्याद्गृह्णीयादन्नवत्यस्याः प्रजा भविष्यतीति विद्यात् गोष्ठात्पशुमती वेदिपुरीषाह्मवर्चस्विन्यवि- दासिनो इदात्सर्वसम्पन्ना देवनांकितवी चतुष्पथाविप्रवाजि- नीरिणादधन्या श्मशानात्पतितीति । अस्यार्थः । लक्षणानि दुर्विज्ञेयानीति कृत्वा एवं परीक्षेत । क्षेत्रादिभ्योऽष्टभ्यो मृदमाहृत्याष्टौ पिण्डान् कृत्वा ऋतमग्रे इत्यनेन मन्त्रेण मृत्पिण्डानभिमन्त्र्य कुमारी ब्रूयादेषामेकं गृहाणेति । क्षे- त्रादिति । उभयतःसस्यात् क्षेत्रादाहृतं मृत्पिण्डं गृह्णीयाचेत् अ- नवत्यस्याः प्रजा भविष्यतीति विद्यात् । उभयतःसस्य क्षेत्रं नाम यदेकस्मिन् संवत्सरे द्विः फलति तत् । गोष्ठादिति । गोष्ठं नाम गवामवस्थानदेशः। तस्मादाहृतं मृत्पिण्डं यदि गृह्णीयात्तदा पशुमती ज्ञेया। वेदिपुरीपादिति । वेदिपुरीषं नाय अपवृत्ते कर्मणि या वेदिस्तस्या मृत्तिका । तस्मादाहृतं मृत्पिण्डं यदि गृह्णीयात्तदा ब्रह्मवर्चस्विनी । अविदासिनो हृदादिति । अविदासी हदो ना- माऽशोज्यो हृदः। तस्मादाहृतमृत्पिण्डग्रहणे सर्वसम्पन्ना ज्ञेया । देवनादिति । देवनं नाम दीव्यतेऽत्रेति द्यूतस्थानम् । तदाहृतमू- पिण्डग्रहणे कितवी । चतुष्पथादिति । चतुष्पथादाहृतमृत्पिण्डग्र- हणे द्विप्रवाजिनी द्वौ प्रव्रजतीति द्विपवाजिनी । ईरिणमूषरं यत्रो- सं न परोहति तंत् । तदाहृतमृत्पिण्डग्रहणे अधन्या । श्मशा- नादिति । श्मशानाहृतमृत्पिण्डग्रहणे पतिती ।

१२४. ...वीरमित्रोदयस्य लक्षणप्रकाशे नन्वत्रोदाहृतेषु स्त्रीलक्षणेषु धूर्तत्वपरापवादनिरतत्वादीनां केषां चिल्लक्षणानां बालभावेन विवाहात्पूर्व विशिष्य ज्ञानासम्भवात, लक्षणानि परीक्ष्यादौ ततः कन्यां समुद्हेत् । इत्युक्तं तत्कथामिति चेत्, सत्यम् । येषां लक्षणानां विवाहात्पूर्वं ज्ञानासम्भवस्तद्विषयकमिदं वचनम् । यानि तु दुर्लक्षणानि विवाहोत्तरकाले प्रागल्भ्ये ज्ञायन्ते तेषु शा- तेषु. परिणयादूर्ध्वमपि सर्वथा तां परित्यजेदिति । तथा च पृथ्वीचन्द्रोदये बृहन्नारदीयवचनमपि- बालभावादविज्ञातस्वभावामुदहेद्यादि । प्रागल्भ्येऽप्यगुणां ज्ञात्वा सर्वथा तां परित्यजेत् ।। इति । ननु बहुद्रव्यव्ययायासादिप्राप्तायाः स्त्रियाः किमर्थं त्याग इति । उच्यते । अशुभलक्षणान्वितत्वात् । वर्जयेत्सर्वथा भूष्णुरशुभा लक्षणैश्च याः। भर्तुरायुहरन्त्येता आलस्यादपरीक्षिताः ॥ इति बौधायनवचने भर्तुमरणाघनिष्टफलश्रवणेनाशुभ- लक्षणान्वितभार्यात्यागविधानात् । नन्वत्र यदनिष्टं फलं तत्कि विवाहेन उत केवलं तत्संसर्गेणेति । नाद्यः, विवाहोत्तरकाले मृतायामपि भार्यायां स्वमरणाद्यनिष्टफलावश्यम्भावापत्तेः । न च तथास्ति । नान्त्यः, दुर्लक्षणयुक्तसामान्यादिस्त्रीसंसर्गेणापि स्वमरणाद्यनिष्टफलप्राप्तिप्रसङ्गात् । अत्रोच्यते । कोपना वामनां चैव दीर्घदेहां विरूपिणीम् । न्यूनाधिकाङ्गामुन्मत्तां पिशुना नौदहेदुधः॥ इत्यादिपूर्वोदाहृतवचनस्शुभलक्षणान्वितकन्याद्वहनेनैव दु- एं फलं भवतीति प्रतीयते । तदप्यनिष्ट फलं. भार्यायां विद्यमा- नायामेव न अविद्यमानायाम् । विद्यमानो हि शत्रुरपकारं ज- 1. स्त्रीलक्षणप्रकरणे दुर्लक्षणकन्योबाहे तत्त्यागः। १२५ नयंति नाविद्यमानः । यथा च शालिग्रामगजाश्चादेर्विद्यमानस्यै- व शुभाशुभफलसूचकत्वं नाविद्यमानस्य । एवमत्रापीति । तच्चा- निष्टं भार्यात्यागेनापैति । यथा मूलोत्पन्नशिशुजनितपित्रादिमर- णाद्यनिष्ट वचनात्तच्यागेन शान्तिकादिना वा नश्यति। तथात्रा- ऽपि दुर्लक्षणान्वितकन्योद्वाहजनितस्वमरणाद्यनिष्टं भार्यात्यागेन नश्यति । सर्वथा तां परित्यजेदिति पूर्वोदाहृतवचनात् । यच्चोक्तं सामान्यादिस्वसिंसर्गेण स्वानिष्टफलम् । तत्र युक्तम् । भर्तुरायुहरन्त्येता आलस्यादपरीक्षिताः! सुलक्षणा सदाचारा पत्युरायुर्हि वर्द्धयेत् ॥ इत्यादिवचनैर्भार्याया भर्तुः शुभाशुभफलं प्रतीयते । अतस्तासु भार्यात्वाभावात्तासां च तस्मिन् भर्तृत्वाभावादेव फलाभावः । अथात्र योऽयं भार्यात्यागः स किं सर्वथा गृहनि- काशनादिरूपस्तत्स्वातन्त्र्यप्रतिपादकः, उत तत्संसर्गादावेवे- ति । ननु सर्वथा परित्यागः कर्त्तव्यः पूर्वोक्तवचनादिति चेत्, न । सर्वथा परित्यागे कृते स्वातन्त्र्येण तया सुरापानादिदुश्चा- रिच्याचरणे कृते- पतत्यर्थं शरीरस्य यस्य भार्या सुरां पिवेत् । इत्यादिवचनैर्भार्याकृतमहापातकादिजनितः प्रत्यवायो भ- तुः स्यात् । न चेष्टापत्तिरिति वाच्यम्, वृश्चिकभयात्पलायमा- नस्याशीविषमुखनिपात इव न च स्वमरणादिदृष्टफलनिवृत्ती क्रियमाणायां निरयपाताद्यदृष्टफलप्राप्तिर्न दोषायेति वाच्यम् । उभयत्रापि दुःखक्लेशाद्यसहत्वेन दुष्टफलत्वात् । रक्षेत्कन्यां पिता विनां पतिः पुत्रास्तु वार्धके । अभावे ज्ञातयस्त्वेषां न स्वातन्त्र्यं कचित्स्त्रियाः ॥ इत्यादिना स्त्रियाः स्वातन्त्र्यनिषेधाच्च । अतः संसर्गादा- वीरमित्रोदयस्य लक्षणप्रकाशे - . वेव त्याग इति सिद्धान्त इत्यास्तां तावत् प्रसक्तानुमसक्तचि- न्तयेति। अत्र लक्षणपरीक्षायाश्चावश्यकत्वमाह- बौधायना, वर्जयेत्सर्वथा भूष्णुरशुभा लक्षणैश्च याः। भर्तुरायुर्हरन्त्येता आलस्यादपरीक्षिताः ॥ इति । विवेकविलासेऽपि, नापरीक्ष्य स्पृशेत्कन्यामविज्ञातां कदाचन । निघ्नन्ति येन योगैस्ताः कदाचिदक्षनिर्मितैः ।। इति । उक्तशुभलक्षणान्वितकन्यापरिणयने विशेषफलमपि श्रूयते । भविष्ये, इगलक्षणसम्पन्नां कन्यामुद्हते तु यः। ऋद्धिद्धिस्तथा कीतिरनुतिष्ठति निश्चला ॥ इति । स्कान्दे काशीखण्डेऽपि, लक्षणानि परीक्ष्यादौ ततः कन्यां समुद्हेत् । सुलक्षणा सदाचारा पत्युरायुर्हि वर्द्धयेत् ॥ . सुलक्षणैः सुचरितैरपि मन्दायुवं पतिम् । दीर्घायुपं प्रकुर्वन्ति प्रमदाः प्रमदास्पदम् ।। अतः सुलक्षणा योपाः परिणेया विचक्षणैः । इति । सदा गृही सुखं मुझे स्त्रीलक्षणवती यदि । अतः सुखसमृद्ध्यर्थमादौ लक्षणमीक्षयेत् ॥ तच लक्षणमष्टविधं वीक्षेत । तथा च- स्कान्दे काशीखण्डे, वपुरावर्तगन्धाश्च छाया सत्त्वं स्वरो गतिः। वर्णश्वत्यष्टधा प्रोक्ता बुधैर्लक्षणभूमिका ।।

स्त्रीलक्षणप्रकरणेवपुषआपादतलकेशान्तविभागः।१२७ लक्षणभूमिका लक्षणावलोकनस्थानम् । वपुः शरीरम् । तस्य लक्षणं तु आपादतलकेशान्तं वक्ष्यते । चरणतल-तदेखा- गुष्ठाङ्गुलि-तन्नख-तत्पृष्ठ-गुल्फ-पाणि-जङ्घा-रोम-जानूरु- कटि-नितम्ब-स्फिक्-भग-जघन-वस्ति-नाभि-कुक्षि-पाश्वों- दर-मध्य-बलित्रय-रोमावली-हृदय-वक्षः-स्तनचू-चुक-जत्रु- स्कधांस-कक्षा-बाहु-मणिबन्ध-कर-तत्पृष्ठ-तत्तद्रे-खाङ्गुष्ठागु- ली-नख-पृष्ठ-कृकाटिका-कण्ठ-चिवुक-हनु-कपोल-वदना- धरात्तरोष्ठ-दन्त-जिहा-घण्टिका-तालु-हसित-नासा-क्षुत-- नयन-पक्ष्म-भू-कर्ण-भाल-मौलि-सीमन्त-केशक्रमेण । अय- मेव च क्रमः स्कान्दे काशीखण्ड स्कन्देनोक्तः । स यथा, आपादतलमारभ्य यावन्मौलि त्वहं कमात् । शुभाशुभानि वक्ष्यामि लक्षणानि मुने शृणु ॥ आदौ पादतले रेखा ततोऽङ्गुष्ठाङ्गुलीनखाः । पृष्ठं गुल्फद्वयं पाणी जङ्घा रोमाणि जानुनी ।। 'ऊरू कटिनितम्बस्फिग्युग्मं जघनवस्तिके । नाभिः कुक्षिद्वयं पाश्र्वोदरमध्यबलित्रयम् ।। रोमाली हृदयं वक्षो वक्षोजयचूचुकम् । जत्रुस्कन्धासकक्षादोमणिबन्धकरद्वयम् ।। पाणिपृष्ठं पादतलं रेखाङ्गुष्ठाङ्गुलीनखाः । पृष्ठं कृकाटिका कण्ठचिबुकं च हनुद्वयम् ॥ कपोलौ वक्रमधरोत्तरोष्ठद्विजजिढिकाः । घण्टिका तालु हसितं नासिका क्षुतमक्षिणी ।। पक्ष्मभूकर्णभालानि मौलिसीमन्तमौलिकाः । षष्टिः पडत्तरा योपिदङ्गलक्षणसंहतिः ॥ इति ।

.. १२८ . . वीरमित्रोदयस्य लक्षणप्रकाशे अत्र यद्यपि · स्कान्दे काशीखण्डे पादलक्षणं पृथक नोक्तम् । तथापि गरुडपुराणादिषु पादलक्षणस्य पृथगुक्त- त्वादुच्यते । भविष्यपुराणे, प्रतिष्ठिततलाः सम्यग्रक्ताम्भोजसमत्विपः । तादृशाश्चरणा धन्या योषितां भोगवर्द्धनाः ॥ प्रतिष्ठिततलाः सम्यक् संलग्नभूभागपादाधस्तलाः । करालैरतिनिर्मास रूक्षैरथ शिराततैः ।। दारियं दुर्भगत्वं च प्राप्नुवन्ति न संशयः ।। इति । करालो भयङ्करः। गरुडपुराणे, यस्याः स्निग्धौ समौ पादौ तनुताम्रनखौ तथा । श्लिष्टाङ्गुली चोन्नताग्रौ तां प्राप्य नृपतिर्भवेत् ।। निगूढगुल्फोपचितौ पद्मकान्तितलौ शुभौ । अस्वेदनौ मृदुतलौ मत्स्याङ्कुशयवाङ्कितौ ।। वज्राब्जहलचिन्हौ च दास्याः पादौ ततोऽन्यथा । इति । हलं लाङ्गलम् । विष्णुधर्मोत्सरे, सगग्रभूस्पृशौ यस्याश्चरणौ कमलोपमौ । इति । सा प्रशस्तत्यनुषङ्गः। वराहसंहितायाम्, स्निग्धोन्नताग्रतनुताम्रनखौ कुमार्याः पादौ समोपचित्तचारुनिगूढगुल्फो । श्लिष्टाङ्गुली कमलकान्तितलौ च यस्या- स्तामुद्रइंद्यादि सुवोऽधिपतित्वमिच्छेत् ।।

।
स्त्रीलक्षणप्रकरणे पादतलादिलक्षणानि । १२९
मत्स्याङ्कुशाब्जयववज्रहलासिचिह्ना-
वस्वेदनौ मृदुतलौ चरणौ प्रशस्तौ । इति ।
इति पादलक्षणम् ।
अथ पादतललक्षणम् ।
स्कान्दे काशीखण्डे,
स्त्रीणां पादतलं स्निग्धं मांसलं मृदुलं समम् ।
अस्वेदमुष्णमरुणं बहुभोगोचितं स्मृतम् ।।
रूक्षं विवर्ण परुषं खण्डितं प्रतिबिम्बकम् ।
शूर्पाकारं विशुष्कं च दुःखदौर्भाग्यसूचकम् ॥ इति ।
सामुद्रतिलके,
असित दौर्भाग्याय श्वेतं दुःखाय योषाणाम् ।
शूर्पाकृतिभिश्चेव्यः कुटिलैः स्युर्दुर्भागाश्चरणतलैः ॥ इति ।
योषा स्त्री।
इति पादतललक्षणम् ।
अथ पादरेखालक्षणम् ।
जगन्मोहने समुद्रः,
यस्याः पादतले रेखा तर्जन्यां सुप्रकाशते ।
भर्तारं लभते शीघ्र प्रिया भर्तुश्च जायते ॥
चक्रं पद्मं ध्वज छत्रं स्वस्तिकं वर्धमानकम् ।
यासां पादे च दृश्यन्ते ज्ञेयास्ता राजयोषितः ।।
पद्मं मालाङ्कुश छत्रं नन्द्यावर्त्तः प्रदक्षिणम् ।
पाणिपादेषु दृश्यन्ते राजी वदन्ति तां बुधाः ॥ इति ।
स्कान्दे काशीखण्डे,
चक्रस्वस्तिकशङ्खाब्जध्वजमीनातपत्रवत् ।
यस्या पादतले रेखा सा भवेक्षितिपाङ्गना ।।
१७

चीरमित्रोदयस्य लक्षणप्रकाशे - . भवेदखण्डभोगायो; मध्याङ्गुलिसङ्गता। रेखाऽऽखुसर्पकाकामा दुःखदारिद्यमुचिका ॥ आखुर्मूषकः । गरुडपुराणे पादतलमुमक्रम्य- वाजिकुञ्जरश्रीक्षयूपैश्च यवतोमरैः । ध्वजचामरमालाभिः शैलकुण्डलवेदिभिः ।। शङ्खातपत्रपमैश्च मत्स्यस्वस्तिकसद्रथैः । लक्षणैरङ्कुशाद्यैश्च स्त्रियः स्यू राजवल्लभाः॥ इति । गर्गसंहितायाम्, शङ्खाकुशं पद्मदलातपत्रं पृथ्वी च नक्षत्रमथाद्रिरूपम् । चक्रं शशी दिनकृचामरं च तथा वज्र व्यजनं तोरणं च ॥ सिंहो वत्सस्तुरगः स्वस्तिकं च मत्स्यो हंसः पूर्णकुम्भस्तथा च । पुरं महद्वारण एव चापि तथा समुद्रो मकरः पताका ॥ तलेष्वथैतानि भवन्ति यासां पादाङ्गुलीष्वेव च संस्थितानि । ता भोगवत्यः सुसमृद्धवत्यः प्रजान्विताश्चैव भवन्ति नार्यः ॥ इति । सामुद्रतिलंके, श्वशृगालमहिपकाकोलूकाहिकोककरभाद्याः। चरणतले जायन्ते यस्याः सा दुःखमामोति ॥ इति । कोकश्चक्रवाकः । अो रेखावितले यावन्मध्याङ्गुलिं गता यस्याः ।

. . स्त्रीलक्षणप्रकरणे पादरेखादिलक्षणानि। १३१ सा लभते पतिमाढ्यं प्रिया पुनर्भवति तस्यापि ॥ इति । अत्र चक्रादिसर्वलक्षणसद्भाचे पूर्ण फलं कल्पनीयम् । तेषु यस्य कस्य चित्सद्भावे तदनुसारेणति । तथा च- सामुद्रतिलके चक्रादिचिह्नमध्ये स्यादेकं बहूनि वा यासाम् । ऐश्वर्य सौख्यं वा तासामपि तदनुमानेन ॥ इति । इति पारेखालक्षणम् । अथाङ्गुष्ठलक्षणम् । स्कान्दे काशीखण्डे, उनतो मांसलोऽङ्गुष्ठो वर्तुलोऽतुलभोगदः । वक्रो स्वश्च विकटो दुःखदौर्भाग्यसूचकः ॥ विधवा विपुलाङ्गुष्ठा दीर्घाङ्गुष्ठेन दुर्भगा । इति । सामुद्रतिलके, इस्वश्चिपिटो वक्र: कुलक्षयाय ध्रुवं स्त्रीणाम् । अत्राङ्गुष्ठ इत्यनुषङ्गः। वैधव्यं विपुलेन द्वेष्यत्वं स्वल्पवर्तुलेन स्यात् । रमणावमानना पुनरङ्गुष्ठेनातिदीर्पण ॥ इति । इत्यङ्गुष्ठलक्षणम् । अथाङ्गुलीलक्षणम् । भविष्यपुराणे, अङ्गुल्यः संहता वृत्ता ऋज्व्यः सूक्ष्मनखास्तथा । कुर्वन्त्यनन्तमैश्वर्यं राजभोगं च योषिताम् ।। संहता अविरलाः । राजभोगं राजभोगोपमं भोगम् । ह्रस्वाश्च जीवितं ह्रस्वं चिरला वित्तहानये । दारियं मूलभुनासु प्रेष्यत्वं पृथुलासु च ॥

१३२
बीरमित्रोदयस्य लक्षणप्रकाशे
मूलभुनाः प्रथमपर्ववक्राः।
परस्परं समारूढस्तनुभिर्वृद्धपर्वभिः ।
वहूनपि पतीन् हत्वा दासी भवति वै द्विजाः ।।
अङ्गुष्ठोन्नतपर्वाणस्तुङ्गाग्राः कोमलाः समाः ।
रत्नकाञ्चनलाभाय विपरीता विपत्तये ।। इति ।
स्कान्दे काशीखण्डे
मृदवाऽङ्गुलयः शस्ता घना वृत्ताः समुन्नताः।
दीर्घाङ्गुलीभिः कुलटा कुशाभिरतिनिर्द्धना ।।
कुलदा वेश्या।
हस्वायुष्या च स्वाभि नाभि नवचिनी।
भुग्नाभिर्वक्राभिः।
चिपिटाभिर्भवेदासी विरलाभिर्दरिद्रिणी ॥
परस्परसमारूढा पादाङ्गुल्यो भवन्ति वै ।
हत्वा बहूनपि पतीन् परमेष्या तदा भवेत् ॥
परमेष्या दाप्ती।
यस्याः पथि समायान्त्या रजो भूमेः समुच्छलेत् ।
पांसुला सा प्रजायेत कुलत्रयविनाशिनी ॥
पांसुला वेश्या।
यस्याः कनिष्ठिका भूमि ने गच्छन्त्याः परिस्पृशेत् ।
अनामिका मध्यमा च यस्या भूमिं न संस्पृशेत् ॥
पतिद्वयं निहन्त्याद्या द्वितीया च पतित्रयम् ।
पतिहीनत्वकारिण्यौ हीने ते द्वे इमे यदि ॥
प्रदेशिनी भवेद्यस्या अङ्गुष्ठादतिरेकिणी ।
कन्यैव कुलटा सा स्यादेष एव विनिश्चयः ॥ इति ।
१ अस्य परिस्पृशेदित्यनेनान्वयः।

स्त्रीलक्षणप्रकरणे पादाङ्गुलीलक्षणम् ।
.
विष्णुधर्मोत्तरे,
भुवं कनिष्ठिका यस्या नः स्पृशेत कथश्चन ।
न तां कुर्वीत भार्यार्थे मृत्युः स कथितो बुधैः ॥ इति ।
गरुडपुराणे,
कनिष्ठिकाऽनामिका वा यस्या न स्पृशते महीम् ।
अङ्गुष्ठं वा गतातीत्य तर्जनी कुलटा तु सा ॥ इति ।
पराशरोऽप्याह,
एकापि यस्या न महीं संस्पृशेच्चरणाङ्गुलिः ।
तलमध्यमथो यस्या अधां तां विनिर्दिशेत् ॥
पादे प्रदेशिनी यस्या अङ्गुष्ठं समतिक्रमेत् ।
दु:खितां दुर्भगां चैव कन्यां तां परिवर्जयेत् ॥
पादे मध्यमिका यस्याः क्षितिं न स्पृशते यदि ।
न सा रमति कौमारे स्वच्छन्दाऽकार्यकारिणी॥
पादे अनामिका यस्याः क्षितिं न स्पृशते यदि ।
न सा रमति कौमारे द्वितीये सुप्रतिष्ठिता ॥
पादे कनिष्ठिका यस्याः क्षितिं न स्पृशते यदि ।
द्वितीय पुरुषं हत्वा तृतीये सुप्रतिष्ठिता ।। इति ।
• जगन्मोहने समुद्र,
यस्या न स्पृशते भूमिमङ्गुली च कनिष्ठिका ।
भर्तारं प्रथमं हत्वा द्वितीयेन सह स्थिता ।।
यस्या न स्पृशते भूमिं कनिष्ठा विरला द्विजाः ।
सन्नतभृकुटीगण्डा पुंश्चली चाप्यभागिनी ॥
यस्या अनामिका ह्रस्वा तां विद्यात्कलहप्रियाम् ।
अङ्गुष्ठं तु व्यतिक्रम्य यस्याः पादे प्रदेशिनी ॥
कुमारी कुरुते जारं यौवनस्यैव का कथा । इति ।
.

१३४ वीरमित्रोदयस्य लक्षणप्रकाशे विवेकविलासे, यत्पादाङ्गुलिरेकापि भवेद्धीना कयञ्चन । येन केनापि सा साधं प्राय: कलकारिणी ॥ इति । इति पादाङ्गुलीलक्षणम् । अथ नवलक्षणम् । गर्गसंहितायाम, कुशेशयाः पद्मपलाशवर्णा रूप्यप्रभा विद्रुमसन्निभाश्च । श्लक्ष्णाः सुजाताश्च भवन्ति यन्याः स्त्रीणां नखाः पद्ममणिप्रभाश्च ।। इति । पद्मपलानुवर्णाः पद्मपत्रसदृशः । विद्रुमं प्रवालम् । पद्मम- णिः पनरागः। भविष्ये, सुभगवं नः स्निग्धैरातात्रैश्च धनाड्यता । पुत्राः स्युनतेरेभिः सुमुक्ष्मैश्चापि राजता ।। पाण्डुरैः कुटिने सैनीले नेस्तथा खरी। निःस्त्रता भवति वीणां पीतवामध्यभक्षणम् ॥ इति । स्कान्दे काशीखण्ड, स्निग्याः समुन्नतास्ताना वृत्ताः पादनखाः शुभाः । इति । इति नखलक्षणम् । अथ चरणपृष्टलक्षणम् । स्कान्दे काशीखण्डे, राजीवमूचकं वीणां पादपृष्ठं समुन्नतम् । अस्खेदमशिराब्यं च मसूर्ण मुट्ठ मांसलम् ।। दारिद्यं मध्यनिम्नन शिराळेन सदाध्वगा।

.
स्त्रीलक्षणप्रकरणेगुल्फादिलक्षणानिः । १३५
रोमाढ्येन भवेद्दासी निर्मासेन च दुर्भगा ॥ इति ।
इति चरणपृष्ठलक्षणम् ।
अथ गुल्फलक्षणम् ।
भविष्य,
गुल्फाः स्निग्धाश्च वृत्ताश्चासमारूढशिरास्तथा ।
यस्याः सा तु धनान्यत्वं वान्धवाद्यैः समाप्नुयात् ॥ इति ।
स्कान्दे काशीखण्डे,
गूढगुल्फो शुभायोक्तावशिरालौ सुवर्तुलौ ।
विषमौ शिथिलौ रूक्षौ स्यातां दौर्भाग्यसूचकौ ॥ इति ।
जगन्मोहने समुद्रः,
गुल्फैश्च महिषाकारैर्बन्धनं वधमाप्नुयात् ।
निगूढगुल्फा या नारी साऽत्यन्तं सुखमेधते ॥ इति ।
गर्गः,
अत्युन्नताभ्यन्तरतः शिराला
गुल्फा विशालाश्च भवन्ति यासाम् ।
प्रजा न विन्दन्ति धनं न चार्या-
स्ता गुल्फदोपैर्विधवा भवन्ति ॥
इति गुल्फलक्षणम् ।
अथ पाणिलक्षणम् ।
स्कान्दे काशीखण्डे,
समपाणिः शुभा नारी पृथुपाणिश्च दुर्भगा।
कुलटोन्नतपाणिः स्यादीर्घपाणिश्च दुःखभाक् ॥ इति ।
जगन्मोहने समुद्रा,
उन्नतपाणिर्दुःशीला महापाणिस्तु बन्धकी।
दीर्घपाणिः.परिक्लिन्ना समपाणिस्तु शोभनां ॥ इति ।

.
वीरमित्रोदयस्य लक्षणप्रकाशे
बन्धकी व्यभिचारिणी।
विवेकविलासे,
कृपणा स्यान्महापाणिर्दीर्घपाणिस्तु कोपना ।
दुःशीलोन्नतपाणिश्च निन्द्या विषमपार्णिका ॥ इति ।
इति पार्णिलक्षणम् ।
अथ जवालक्षणम् ।
गरुडपुराणे,
जङ्ग्रे च रोमरहित मुखत्ते विशिरे शुभे ॥ इति ।
विशिरे शिरावर्जिते ।
भविष्य,
अशिराः शरकाण्डाभाः मुवृत्ताल्पतनूरुहाः।
जङ्घाः कुर्वन्ति सौभाग्यं यानं च गजवाजिभिः ।।
क्लिश्यते रोमजङ्घा स्त्री भ्रमत्युद्धपिण्डिका ।
काकजङ्घा पति हन्ति वाचाटा कपिला च या ॥ इति ।
वाचाटा बहुमलपनशीला।
स्कान्दे काशीखण्डे,
रोमहीने समे स्निग्धे यज्जो क्रमवर्तुले ।
सा राजपनी भवति विशिरे सुमनोहरे ।। इति ।
सामुद्रातिलके,
शुष्के पृथू विशाले शिरान्विते स्थूलपिण्डिके यस्याः ।
जो मांसोपचिते श्लथमूले पांसुला सा स्यात् ।। इति ।
इति जहालक्षणम् ।
अथ रोमलक्षणम् ।
भविष्ये,
अत्यन्तं कुटिल रूः स्फुटिता|गुढमः ।

,
स्त्रीलक्षणप्रकरणे रोमादिलक्षणानि । १३७
अनेकजैस्तथा रोमैः केशैश्चापि तथाविधैः ।।
अत्यन्तं पिङ्गला नारी विषकन्येति निश्चिता।
सप्ताहाभ्यन्तरे पापा पति हन्यान्न संशयः ॥ इति ।
स्कान्दे काशीखण्डे,
एकरोमा राजपनी द्विरोमापि मुखास्पदा ।
त्रिरोमा रोमकूपेषु भवेद्वैधव्यदुःखभाक् ॥ इति ।
इति रोमलक्षणम् ।
अथ जानुलक्षणम् ।
गरुडपुराणे,
अनुल्बणं सन्धिदेशे समं जानुद्वयं शुभम् । इति ।
भविष्य,
जानुभिश्चैव मार्जारासिंहजान्वनुकारिभिः ।
श्रियमाप्य सुभाग्यत्वं प्राप्नुवन्ति सुतांस्तथा ।।
घटाभैरध्वगा नार्यो निर्मासैः कुलटाः स्त्रियः ।
शिरालैरपि हिंसाः स्युर्विश्लिष्टैर्धनवर्जिताः ॥ इति ।
स्कान्दे काशीखण्डे,
वृत्तं पिशितसंलग्नं जानुयुग्मं प्रशस्यते ।
निर्मासं स्वैरचारिण्या दरिद्रायाश्च विश्लथम् ।। इति ।
उत्पले समुद्र,
सुश्लिष्टे जानुनी धन्ये शिरारोमविवर्जिते । इति ।
इति जानुलक्षणम् !
अथोरलक्षणम् ।
भविष्ये,
हस्तिहस्तनिवृत्तै रम्भाभैः करभोपमैः ।
माप्नुवन्त्यूरुभिः शश्वत् खियः सुखमनजम् ॥

१३८
: वीरमित्रोद्यस्य लक्षणप्रकाशे
:
दौर्भाग्यं स्थूलमांसाभिर्वन्धनं रोमशोरुभिः ।
तनुभिर्वधमित्याहुर्मध्यच्छिद्रस्त्वनीशता ॥ इति
गरुडपुराणे,
ऊरू कारकराकारौ पीवरौ च समौ शुभौ । इति ।
स्कान्दे काशीखण्डे,
विशिरैः करभाकारैरूभिर्मसृणैर्धनैः ।
मुवृत्त रोमरहितैर्भवेयुर्भूपवल्लभाः ।।
वैधव्यं रोमहरुक्तं दौर्भाग्यं चिपिटैरपि ।
मध्यच्छिद्रैमहादुःखं दारिद्र्यं कठिनत्वचैः ॥ इति ।
इत्यूरुलक्षणम् ।
अथ कटिलक्षणम् ।
स्कान्दे काशीखण्डे,
चतुर्भिरङ्गुलैः शस्ता कटिर्विंशतिसंयुतैः ।
समुन्नतनितम्बाढ्या चतुरस्रा मृगीदृशाम् ।।
विनता चिपिटा दीर्घा निर्मासा सङ्कटा कटिः ।
ह्रस्वा रोमयुता नार्या दुःखवैधव्यमूचिका ॥ इति ।
इति कटिलक्षणम् ।
अथ नितम्बलक्षणम् ।
स्कान्दे काशीखण्डे,
नितम्वविम्वो नारीणामुन्नतो मांसलः पृथुः ।
महाभोगाय सम्मोक्तस्तदन्योऽशर्मणे मतः ।। इति ।
सामुद्रतिलके,
विकटो चिपिटो नतिमान् निर्मासो रोमशः खरः शुष्कः ।
कुरुते नितम्बफलको दरिद्रता दुःखदौर्भाग्यम् ॥ इति ।
इति नितम्बलक्षणम् ।

स्त्रीलक्षणप्रकरणे स्फिग्भगयोर्लक्षणे ।
-
--
अथ स्फिग्लक्षणम् ।
स्कान्दे काशीखण्डे,
कपित्थफलवद्वत्तौ मृदुलौ मांसलौ घनौ ।
स्फिचौ बलिविनिर्मुक्तौ रतिसौख्यविवर्द्धनौ ॥ इति ।
भविष्ये,
कपित्थफलसङ्काशः पीनो बलिविवर्जितः।
स्फिक् प्रशस्तो हि नारीणां निन्दितोऽह्यन्यथा द्विज ॥ इति ।
इति स्फिग्लक्षणम्।
अथ भगलक्षणम् ।
भविष्य,
ऊर्ध्वरोम भगं यस्याः समं सुश्लिष्टसंस्थितम् ।
अपि नीचकुलोत्पन्ना राजपत्नी भवत्यसौ ॥
अश्वत्थपत्रसदृशः कूर्मपृष्ठोऽप्यचूलिकः।
अचूलिकः अशिखः।
शशिविम्बनिभः स्थूलस्तथा च कलशाकृतिः ।।
शकटाकृतिरिति पाठान्तरम् ।
भगः शस्ततमः स्त्रीणां रतिसौभाग्यवर्द्धनः ।
तिलपुष्पनिभो यश्च यश्चाश्वखुरसन्निभः ।।
द्वावप्येतौ परप्रेष्यां कुर्वन्ति च दरिद्रताम् ।
उलूखलनिभैः शोकं मरणं विवृताननैः ।।
विरूपैश्चातिनिर्मासगजाश्वनिभरोमभिः ।
दोशील्यं दुर्भगत्वं च दारिधू चाधिगच्छति ॥ इति ।
गारुडे,
अश्वत्थपत्रसदृशं विपुलं गुह्यमुत्तमम् । इति ।
स्कान्दे काशीखण्डे,

१४०
• -
..
वीरात्रिोदयस्य लक्षणप्रकाशेः :
शुभः कमठपृष्ठाभो गजस्कन्धोपमो भगः ।
चामोन्नतस्तु कन्यादः पुत्रदो दक्षिणोन्नतः ।।
आखुरोमा गूढमणिः सुश्लिष्टः संहतः पृथुः ।
तुङ्गः कमलपर्णाभः शुभोऽश्वत्थदलाकृतिः ॥
कुरणखुररूपो यश्चुल्लीकोटरसन्निभः ।
कुरङ्गो हरिणः।
रोमशो विकृतास्यश्च दृश्यनासोऽतिदुर्भगः ।।
शङ्खावों भगो यस्याः सा गर्भमिह नेच्छति ।
चिपिटः कर्पराकार किङ्करीपदभोगः ॥
कपरः कटाहः।
वंशवेतसपत्राभो गजरोमोचनासिका।
विकटः कुटिलाकारो लम्बगल्लः श्लथोऽशुभः ॥ इति ।
विष्णुधर्मोत्तरे,
गुह्यं प्रदक्षिणावर्तमश्वत्थदलसग्निभम् । इति ।
जगन्मोहने समुद्रा,
आवर्तस्तु भवेद्यस्या भगस्योपरिमस्तके।
सा चैव वर्धते पुत्रैर्धनधान्यैः समन्विता ।।
अश्वत्थपत्रसङ्काशं गुह्यं यस्याः प्रजायते ।
सा भवेत्सुभगा नारी यदि गूढो मणिर्भवेत् ॥
कूर्मपृष्ठो गजस्कन्धः समरोमाल्पनासिकः ।
विस्तीर्णः पद्मवर्णश्च षडेते सुभगा भगाः ॥
कठोरः खररोमा च शुष्कश्च दीर्घनासिकः ।
सङ्कटो विरलश्चैव षडेते दुर्भगा भगाः ॥ इति ।
सामुद्रतिलके,
शुचिरत्युष्णः सुघनो गोजिहाफर्कशोऽथ वा मृदुलः ।
.

..
स्त्रीलक्षणप्रकरणे जघनादिलक्षणानि । १४१
अतिसंवृतः सुगन्धिः सप्तभगा वर्द्धयन्ति रतिम् ॥ इति ।
इति भगलक्षणम् ।
अथ जघनलक्षणम् ।
भविष्य,
सव्याव समं चारु सूक्ष्मरोमचितं पृथु ।
जघनं शस्यते स्त्रीणां रतिसौख्यकरं द्विजाः ॥ इति ।
स्कान्दे काशीखण्डे,
भगस्य भालं जघनं विस्तीर्ण तुङ्गमांसलम् ।
मृदुलं मृदुरोमान्यं दक्षिणावर्तमीडितम् ।।
वामावर्त च निर्मासं भुग्नं वैधव्यसूचकम् ।
सङ्कटं स्थपुटं रूक्षं जघनं दुःखदं सदा ॥ इति ।
उत्पले समुद्रः,
-
जघनं विपुलं यस्याः सुस्पर्श रोमवर्जितम् ।
सुवर्णाभरणैर्युक्ता राजपत्नी भवत्यसौ ॥ इति ।
इति जघनलक्षणम् ।
अथ वस्तिलक्षणम् ।
स्कान्दे काशीखण्डे,
वस्तिः प्रशस्ता विपुला मृद्वी स्तोकसनुनता।
रोमशाच शिराला च रेखाङ्का नैव शोभना ॥ इति ।
स्तोकसमुन्नता ईषदुच्चा।
इति वस्तिलक्षणम् ।
अथ नाभिलक्षणम् ।
गरुडपुराणे,
विस्तीर्णमांसोपचिता गम्भीरा विपुला शुभा ॥
नाभिः प्रदक्षिणावर्ता-इति ।

१४२
वीरमित्रोदयस्य लक्षणप्रकाशे
स्कान्दे काशीखण्डे,
गम्भीरा दक्षिणावर्ती नाभिः स्यात्सुखसम्पदे ।
वामांवा समुत्ताना व्यक्तग्रन्थिन शोभना ॥ इति ।
गर्गः,
संछन्ननाभ्यस्त्वविवर्णनाभ्यः
प्रदक्षिणावर्तविवृत्तनाभ्यः ।
स्त्रियः प्रशंसन्ति विशालनाभ्यः
पद्मायताभिश्च सुमण्डलाभिः ॥ इति ।
नामिभिरिति, शेपः।
जगन्मोहने समुद्रा,
गम्भीरनाभी या नारी सा भवेत्पुरुषप्रिया ।
पनाकारा भवेन्नाभिनं सा मुखमेधते ॥ इति ।
इति नाभिलक्षणम् ।
अथ कुक्षिलक्षणम् ।
भविष्य
विपुलैः मुकुमारैश्च कुक्षिभिः सुबहुप्रजाः।
मण्डूककुक्षिर्या नारी राजानं सा प्रसूयते ॥ इति ।
स्कान्दे काशीखण्डे,
सूते सुतान् वनारी पृथुकुक्षिः सुखास्पदम् ।
क्षितीशं जनयेत्पुत्रं मण्डूकाभेन कुक्षिणा ।
उन्नतेन बलीभाजा सावर्तेनापि कुक्षिणा।
वन्ध्या प्रव्रजिता दासी क्रमाद्योपा भवेदिह ।। इति ।
इति कुक्षिलक्षणम् ।
अथ पावलक्षणम् ।
स्कान्दे काशीखण्डे,

स्त्रीलक्षणप्रकरणे पाश्र्वोदरलक्षणे । १४३
समैः समासमंदुभिर्योषिन्मनास्थिभिः शुभैः ।
पार्वैः सौभाग्यसुखयोर्निधानं स्यादसंशयम् ।।
यस्या दृश्यशिरे पाश्वें उन्नते रोमसंयुते ।
निरपत्या च दुःशीला सा भवेत् दुःखशेवधिः ॥ इति ।
शेवधिनिधिः, दुःखस्थानमित्यर्थः ।
गर्गः,
पाश्र्वानि यासां मृदुलान्वितानि
प्रदक्षिणावर्तनसंयुतानि ।
श्लिष्टान्यरोमाणि निरन्तराणि
स्त्रीणां प्रशंसन्ति सुसंहितानि ।। इति ।
इति पावलक्षणम् ।
अथोदरलक्षणम् ।
स्कान्दे काशीखण्डे,
उदरेणातितुच्छेन विशिरेण मृदुत्वचा ।
योषिद्भवति भोगाब्या नित्यं मिष्टानसेविनी ।।
कुम्भाकारं दरिद्राया जठरं च मृदङ्गवत् ।
कूष्माण्डाभं यवाभं च दुष्पूरं जायते स्त्रियाः ॥
मुविशालोदरी नारी निरपत्या च दुर्भगा।
प्लवङ्गजठरा हन्ति श्वशुरं चापि देवरम् ।। इति ।
गर्गसंहितायाम्,
यासामनिम्नानि नतोन्नतानि
सूक्ष्माण्यरोमाणि तथोदराणि ।
ता भोगवत्यो हृदयैश्च शुक्लैः
प्रजान्विताश्चापि भवन्ति नार्यः ॥ इति ।
इत्युदरलक्षणम् ।

१४४
: 'वीरमित्रोदयस्य लक्षणप्रकाशे
अथ मध्यलक्षणम् ।
भविष्ये,
पयोधरभरानम्रः सुसमत्रिवलीगुरुः ।
मध्यः शुभावहः स्त्रीणां रोमराजीविभूषितः ।।
पणवाभैर्मृदङ्गाभैस्तथा मध्यर्यवोपमैः ।
प्राप्नुवन्ति भयावासं क्लेशदौ शील्यमीदृशैः ॥ इति ।
उत्पले समुद्र
मध्यं बलित्रयचितं सुस्पर्श रोमवर्जितम् ।
यस्याः सा राजमहिषी कन्या स्यानात्र संशयः ॥ इति ।
इति मध्यलक्षणम् ।
अथ बलिन्नयलक्षणम्।
भविष्ये,
उन्नतैलिभिमध्याः सावतैः कुलटाः स्त्रियः ।
परकर्मरताश्च स्युः प्रव्रज्यां च समाप्नुयुः ॥ इति ।
गारुडे,
अरोमा त्रिवलि र्याः-इति ।
स्कान्दे काशीखण्डे,
भोगाव्या सवलित्रया । इति ।
इति बलित्रयलक्षणम् ।
अथ रोमराजिलक्षणम् ।
स्कान्दे काशीखण्डे,
ऋज्वी तन्वी च रोमाली. यस्याः सा शर्मनर्मभूः ।
कपिला कुटिला स्थूला व्युच्छिन्ना रोमराजिका ।।
चौरवैधव्यदौर्भाग्यं विदध्यादिह योषिताम् । इति ।
जगन्मोहने समुद्रा,

स्त्रीलक्षणप्रकरणे रोमराज्यादिलक्षणानि । १४५
रोमराजी भवेत्खण्डा इस्त्रा वक्रा समुन्नंता ।
अर्धाब्देन तु भर्तारं हत्वा भवति निर्द्धना ।।
रोमराजी पुनर्यस्यास्त्रिबलीभिर्विराजिता ।
गम्भीरा नाभिका यस्याः सा प्रशस्ता निगद्यते ॥ इति ।
इति रोमराजिलक्षणम् ।
अथ हृदयलक्षणम् ।
भविष्यपुराणे,
उन्नतावनतैः क्षुद्रा विषमर्विषमाशयाः ।
आयुरैश्चर्यसम्पन्ना वनिता हृदयैः समैः ॥ इति ।
स्कान्दे काशीखण्डे,
निर्लोम हृदयं यस्याः समं निम्नत्ववर्जितम् ।
ऐश्वर्यमप्यवैधव्यं प्रियमेव च सा लभेत् ॥
विस्तीर्णहृदया योषा पुंश्चली निर्दया तथा ।
उद्भिनरोमहृदया पति हन्ति विनिश्चितम् ॥ इति ।
सामुद्रतिलके,
निर्लोम व्रणरहिनं हृदयं यस्याः समं मनोहारि ।
ऐश्वर्यमवैधव्यं पतिभियात्वं भवति तस्याः ।
पिशितविवर्जितमुन्नतविनतं हृदयं व्रणान्वितं विषमम् ।
कर्मकरीत्वं तनुते वनितानां तत्क्षणादेव ॥ इति ।
इति हृदयलक्षणम् ।
अथ वक्षोलक्षणम् ।
भविष्यपुराणे,
सुसमं मांसलं चारु शिरारोमविवर्जितम् ।
वक्षो यस्य भवेन्नार्या भोगान् भुते यथेप्सितान् ॥
हिंसा भवति वक्रेण दौःशील्यं रोमशेन तु । ..
-
१९

:१४६ : वीरमित्रोदयस्य लक्षणप्रकाशे
निर्मासेन तु वैधव्यं विस्तीर्णेन कलिप्रिया ।। इति ।
विस्तीर्ण परिमाणाधिकम् । तत्परिमाणं चोक्तम्-
स्कान्दे कागीखण्डे,
अष्टादशाङ्गुलततमुरः पीवरमुन्नतम् ।
मुखाय दुःखाय भवेद्रोमशं विषम पृथु ॥ इति ।
वराह,
रोमप्रवर्जितमुरो मृदु चाङ्गनानाम्-इति ।
मृदु नातिमृदु ।
सामुद्रतिलके,
पीवरमुन्नतमायतमुरःस्थलं न मृदु न कठिन
अष्टादशाङ्गुलवतं रोमविहीनं शुभं स्त्रीणाम्
इति वक्षोलक्षणम् ।
अथ स्तनलक्षणम् ।
भविष्यपुराणे,
सुवृत्तमुन्नतं पीनमदूरोन्नतमायतम् ।
स्तनयुग्मं सदा शस्तमतोऽन्यदसुखावहम् ॥
उन्नतिः प्रथमे गर्भे द्वयोरेकस्य भूयसी ।
वामे तु जायते कन्या दक्षिणे तु भवेत्सुतः ॥
स्तनैः सर्पफणाकारैः श्वजिहाकृतिभिस्तथा ।
दारिद्यमभिगच्छन्ति स्त्रियः पुरुपचेष्टिताः ॥ इति ।
स्कान्दे काशीखण्डे,
घनौ वृत्तौ दृढी पीनौ समौ शस्तौ. पयोधरौ ।
स्थूलाग्रौ विरलौ शुष्कौ वामोरूणां न शर्मदौ ॥
दक्षिणोन्नतवक्षोजा पुत्रिणीष्वग्रणीमता ।
वामोन्नतकुचा सूते कन्यां सौभाग्यसुन्दरीम् ।।

. . पीवरास्यौ सान्तरालो . . स्त्रीलक्षणप्रकरणे स्तनादिलक्षणानि। १४७ । अवघट्टघटीतुल्यौ कुचौ दौःशील्यसूचकौ । पृथू पीनौ न शोभनौ ॥ मूले स्थूलौ क्रमकृशावग्रे तीक्ष्णौ. पयोधरौ । सुखदौ पूर्वकाले तु पश्चादत्यन्तदुःखदौ ॥ इति । . गरुडपुराणे, अंरोमशौ स्तनौ पीनौ घनावविषमौ शुभौ । इति । गर्गोऽपि, स्निग्धाः समाश्चापि भवन्ति यासा- मुच्चाश्च मांसोपचिताश्च वाद्याः । रक्ताग्रतुण्डाः परिमण्डलाश्च स्त्रीणां स्तनाः पिण्डितवच्च धन्याः ॥ इति । वाह्या वहनयोग्याः, बृहन्त इत्यर्थः । इति स्तनलक्षणम् । अथ चूचुकलक्षणम् । भविष्ये, दीर्घे तु चूचुके यस्याः सा स्त्री धूर्ता रतिप्रिया । प्रविष्टे तु पुनर्यस्या द्वेष्टि सा पुरुष सदा ॥ इति । स्कान्दे काशीखण्डे, सुदृशां चूचुकयुगं शस्तं श्यामं सुवर्तुलम् । अन्तर्मनं च दीर्घ च कृशं क्लेशाय जायते ॥ इति । इति चूचुकलक्षणम् । अथ जलक्षणम् । स्कान्दे काशीखण्डे, पीवराभ्यां च जत्रुभ्यां धनधान्यनिधिर्वधूः । १ - . वीरमित्रोदयस्य लक्षणप्रकाशे इलथाभ्यां च. निमग्नाभ्यो विषमाभ्यां दरिद्रिणी ॥ इति । इति जत्रुलक्षणम् । अथ स्कन्धलक्षणम् । स्कान्दे काशीखण्डे, उन्नतावनतौ स्कन्धावदीर्घावकृशौ शुभौ । वक्रौ स्थूलौ च रोमाढ्यौ प्रेष्यवैधव्यसूचकौ ॥ इति । भविष्यपुराणे, उन्नतावनतश्चैव नातिस्थूलो न लोमशः । सुस्कन्धस्तु सदा स्त्रीणां सौभाग्यारोग्यवर्द्धनः ॥ स्थूले स्कन्धे वहेद्धारं रोमशे व्याधिनी भवेत् । वक्रे स्कन्धे भवेद्वन्ध्या कुलटा चोन्नतें भवेत् ॥ इति स्कन्धलक्षणम् । अथांसलक्षणम् । स्कान्दे काशीखण्डे, निगूढसन्धी सस्ताग्रौ शुभावंसौ सुसंहतौ । वैधव्यदौ समुच्चाग्रौ निर्मासावतिदुःखदौ ।। इति । इत्यंसलक्षणम् । अथ कक्षालक्षणम् । कक्षे सुसूक्ष्मरोमाणौ तुङ्गे स्निग्धे च मांसले । शस्ते न शस्ते गम्भीरे शिराले स्वेदमेदुरे ॥ इति । गर्गसंहितायाम्, उत्तानरूपास्तनुरोमयुक्त- वर्णोपपन्नाः परिमण्डलाश्च । प्रदक्षिणावर्तसमन्विताश्च कक्षाः प्रशंसन्ति विशालमूक्ष्माः ॥ इति । -- . .

स्त्रीलक्षणप्रकरणे कक्षादिलक्षणानि। १४९
सामुद्रतिलके,
कक्षायुगं सुगन्धिं स्निग्धं च समुन्नतं पिशितपूर्णम् ।
प्रशस्तमिति, शेषः।
इति कक्षालक्षणम् ।
अथ बाहुलक्षणम् ।
भविष्यपुराणे,
अनुन्नतशिरासन्धि पीनं दोषविवर्जितम् ।
गोपुच्छाकृति नारीणां सुजयोर्युगल शुभम् ॥
निगूढग्रन्थयो यासां कूर्परा रोमवर्जिताः ।
बाहवो ललिता यासां प्रशस्ता वृत्तकोमलाः ॥ इति ।
स्कान्दे काशीखण्डे,
स्यातां दोषौ सुनिर्दोषौ गूढास्थिग्रन्थिकोमलौ ।
विशिरौ च विरोमाणौ सरलौ हरिणीदृशाम् ।।
वैधव्यं स्थूलरोमाणी हूस्वौ दौर्भाग्यसूचकौ ।
परिक्लेशाय नारीणां परिदृश्यशिरौ भुजौ ॥ इति ।
गर्गः,
न चातिलम्बा न कृशा नं इस्वा
भुजङ्गवर्णाः पृथुलोमवर्जिताः ।
निर्ग्रन्थिला वृत्तनिगूढलेखाः
सुबाहवः स्त्रीषु भवन्ति धन्याः॥ इति ।
इति बाहुलक्षणम् ।
अथ मणिबन्धलक्षणम् ।
भविष्यपुराणे,
मणिवन्धोऽव्यवच्छिन्नो रेखात्रयविभूषितः ।

.१५० : वीरमित्रोदयस्य लक्षणप्रकाशे - ददाति न चिरादेव मणिकाञ्चनमण्डनम् ॥ इति । इति मणिबन्धलक्षणम् । अथ करलक्षणम् । स्कान्दे काशीखण्डे, अम्भोजमुकुलाकारं स्वङ्गुष्ठाङ्गुलि सन्नखम् । करद्वयं मुंगाक्षीणां बहुभोगाय जायते ॥ इति । गरुडपुराणे, निगूढमणिबन्धौ च पद्मगर्भोपमो करौ । शुभाविति, शेषः। क्रव्यादरूपैहस्तैश्च वृककाकादिसन्निभैः ॥ क्रव्यादाः आममांसादनशीला व्याघ्रादयः । करालैर्विषमैः शुष्कैर्वित्तहीना भवन्ति हि । इति । जगन्मोहने समुद्र, पद्मपत्रनिभा यासां नारीणां पाणिपल्लवाः । मृदवः स्वेदरहितास्तासां भवति सम्पदा ॥ इति । वराह, निगूढमणिबन्धनौ तरुणपद्यगर्भोपमौ करौ नृपतियोषितां तनुविकष्टपर्वाङ्गुली । क्रव्यादरूपैर्वककाकफङ्क- सरीसृपोलूकसमानचिकैः। शुष्कैः शिरालैविषमैश्च हस्तै- भवन्ति नार्यः मुखवित्तहीनाः ॥ इति । इति करलक्षणम् । अथ करपृष्ठलक्षणम् स्कान्दे काशीखण्डे,

स्त्रीलक्षणप्रकरणे पाणिपृष्ठादिलक्षणानि । १५१
विरोम विशिरं शस्तं पाणिपृष्ठं समुन्नतम् ।
वैधव्यहेतुः रोमान्यं निर्मासं स्नायुमत्यजेत् ॥ इति ।
सामुद्रतिलके,
रोमशिरापारहीनं घनासं पाणिपृष्ठमवहस्तम् ।
स्निग्धं सममबलानां समुन्नतं शस्यते प्रायः ।। इति ।
इप्ति पाणिपृष्ठलक्षणम् ।
अथ पाणितललक्षणम् ।
भविष्यपुराणे,
मृदु मध्योन्नतं रक्कं तलं पाण्योररन्ध्रकम् ।
प्रशस्तं शस्तरेखाट्यमल्परेखं शुभश्रियाम् ॥
विधवा बहुरेखेणाप्यरेषेण दरिद्रिणी ।
भिक्षुकी सुषिरान्येन नारी करतलेन च ॥ इतिः।
गारुडे,
न निम्नं नोन्नतं स्त्रीणां भवेत्करतलं शुभम् ।
रेखान्वितं च विविधं कुर्यात्सम्भोगिनी स्त्रियम् । इति ।
वराहसंहितायाम्,
न निम्नमतिनोन्नतं करतलं सुरेखान्वितं
करोत्यविधवां चिरं सुतसुखार्थसम्भोगिनीम् ॥ इति ।
इति पाणितललक्षणम् ।
अथ कररेखालक्षणम् ।
भविष्यपुराणे,
चतस्रो रक्तगम्भीरा रेखाः स्निग्धाः करे स्त्रियाः।
यदि स्युः सुखमाप्नोति विच्छिन्नाभिरनीशता ।।
समरेखा यवा यासामङ्गुष्ठाङ्गुलिपर्वसु ।
तासां हि विपुलं सौख्यं धनं धान्यं तथाऽक्षयम् ॥

१५२ . वीरमित्रोदयस्य लक्षणप्रकाशे
श्रीवत्सध्वजशङ्काब्जगजवाजिनिवेशनैः ।
चक्रस्वस्तिकवज्रासिपूर्णकुम्भै रथाङ्कुशैः ॥
निवेशनं गृहम् ।
मासादच्छत्रमुकुटैरिकेयूरकुण्डलैः ।
काङ्क्षतोरणनियुहैर्हस्तन्यस्तैर्नृपस्त्रियः ॥
यस्याः पाणितले रेखा-यूपत्रुग्दण्डकुण्डलाः ।
यस्याः पाणितले रक्तो वृक्षः स्त्रुग्दण्डकुण्डका:-इति पा-
ठान्तरम् । स्रुक यज्ञपात्रविशेषः । कुण्डमेव कुण्डकमिति अल्पा-
थे कप्रत्ययः।
दृश्यन्ते चरणे यस्या यज्ञपनी भवत्यसौ ।
यज्ञपत्नी याज्ञिकपनी।
चीथ्यापणतुलामानभाण्डमुद्रादिभिः स्त्रियः ।
जायन्ते वाणिजां पत्न्यो रत्नकाञ्चनशालिनाम् ॥
आपणः क्रयविक्रयस्थानम् ।
दात्रयोक्त्रयुगाबन्धहलोलूखललाङ्गलैः ।
भवन्ति धनधान्याख्याः कृषीबलजनाङ्गनाः॥
दानं धान्यादिच्छेदसाधनकृषीवलशनम् । योक्त्रं तु युज्यते
बध्यतेऽनेनेति रज्जुः।
गारुडे,
रेखा या मणिबन्धोत्था गता मध्याङ्गुली करे ।
गता पाणितले या च योज़ पादतले स्थिता ॥
स्त्रीणां पुंसां तथा सा स्याद्राज्याय च सुखाय च ।
अङ्गुष्ठमूलगतरेखामधिकृत्योक्तम् -
तत्रैव,
बृहत्यां पुत्राः स्वल्पासु.ममदा परिकीर्तिताः।...
-
.

स्त्रीलक्षणप्रकरणे कररेखादिलक्षणानि । १५३
स्वल्पायुषो लघुच्छिन्ना दीर्घाच्छिन्ना महायुषः ॥ इति ।
स्कान्दे काशीखण्डे,
रक्ता व्यक्ता च गम्भीरा स्निग्धा पूर्णा च वर्तुला ।
कररेखाङ्गनायाः स्यात् शुभा.भाग्यानुसारतः ॥
मत्स्येन सुभगा नारी स्वास्तिकेन च मुमजा ।
पझेन भूपतेः पत्नी जनयेद्भूपति सुतम् ॥
रक्तवर्णः स्त्रियाः पाणौ नन्द्यावर्तः प्रदक्षिणः ।
शङ्खातपत्रकमठा देवमातृत्वसूचकाः ॥
तुलामानाकृती रेखे वणिकपत्नीत्वसूचिके ।
गजवाजिवृषाकाराः करे वामे मृगीदृशाम् ॥
रेखाः प्रासादवज्राभा ब्रूयुस्तीर्थकरी शुभाम् ।
कृषीबलस्य पत्नी स्यात् शकटेन युगेन वा ।।
चामराङ्कुशकोदण्डैः राजपत्नी भवेद्भुवम् ।
अङ्गुष्ठमूलानिर्गत्य रेखा याति कनिष्ठिकाम् ॥
यदि सा पतिहन्त्री स्यादुरतस्तां त्यजेत्सुधीः ।
त्रिशूलासिगदाशक्तिदुन्दुभ्याकृतिरेखया ॥
नितम्बिनी कीर्तिमती त्यागेन पृथिवीतले ।
त्यागेन. दानेन ।
काकजम्बुकमण्डूककवृश्चिकभोगिनः ।
रासभोष्ट्रविडालाभाः करस्था दुःखदाः स्त्रियाः ॥ इति ।
गर्गोऽपि,
मत्स्यः समुद्रो वसुधा धनं च
ध्वजस्तथाऽसिर्दिनकृच्छशी च ।
शङ्खः पुरं चक्रमथो वनं च
द्विपस्तथा व्यञ्जनतोरणं च ॥:
२०

१५४
वीरमित्रोदयस्य लक्षणप्रकाशे
छत्रं यवः पनमथाङ्कुशं च
सिंहो हयः स्वस्तिक एव चापि ।
कूर्मः पताका मकरः पुमांश्च.
दण्डोऽशनिः पूर्णघटस्तथा च ॥
अशनिवज्रम् ।
पाणिष्वथैतानि भवन्ति यासा-
मेकं तथा द्वे च बहूनि चापि ।
अत्यन्तसौख्यं बहुपुत्रता च
स्त्रीणां तथा लक्षणैरादिशेच्च ॥ इति ।
इति कररेखालक्षणम् ।
.
.
---
अथ कराङ्गुष्ठलक्षणम् ।
स्कान्दे काशीखण्डे,
शुभदः सरलोऽङ्गुष्ठो वृत्तो वृत्तनखो मृदुः । इति ।
इत्यङ्गुष्ठलक्षणम् ।
अथाङ्गुलीलक्षणम् ।
भविष्यपुराणे,
संवृत्ताः समपर्वाणस्तीक्ष्णाग्राः कोमलत्वचः।
समास्त्वङ्गुलयो यस्याः सा नारी भोगवर्धिनी ॥ इति ।
स्कान्दे काशीखण्डे,
अङ्गुल्यश्च सुपर्वाणो दीर्घा वृत्ताः क्रमात्कृशाः।
चिपिटाः स्थपुटा रूक्षाः पृष्ठरोमयुजोऽशुभाः ।।
अतिहस्वाः कृशा रक्ता विरला रोगहेतुकाः।
दुःखायाङ्गुलयः स्त्रीणां बहुपर्वसमान्वताः ॥ इति ।
इति अङ्गुलीलक्षणम् ।
.

स्त्रीलक्षणप्रकरणे नखादिलक्षणानि । १५५
अथ नखलक्षणम् !
भविष्यपुराणे,
वन्धुजीवारुणस्तुङ्गै खैरैश्वर्यमाप्नुयात् ।
खरैर्वनर्विवर्णाभैः श्वेतपीतैरनीशताम् ।। इति ।
स्कान्दे काशीखण्डे,
अरुणाः सशिखास्तुङ्गाः करजाः सुदृशां शुभाः।
निम्ना विवर्णाः शुष्काभाः पीता दारिद्यदायकाः ॥
नखेषु विन्दवः श्वेताः प्रायः स्युः स्वैरिणीस्त्रियः।
पुरुषा अपि जायन्ते दुःखिनः पुष्पितै खैः ।। इति ।
गर्गसंहितायाम्,
श्लक्ष्णाः सुवर्णाः क्षतजप्रभाश्च
वैडूर्यमुक्ताफलसन्निभाश्च ।
पुष्पान्विताः सौख्यकरा भवन्ति ।
कुशेशयामाच नखाः करेषु ।।
अत्र समुदितानां शुभं फलं वक्तव्यम् । अन्यथा स्कान्दे
पुष्पितनखानामशुभफलश्रवणादिह तु शुभफलश्रवणाद्विरोध:
प्रसज्येत ।
इति नखलक्षणम् ।
अथ पृष्ठलक्षणम्।
स्कान्दे काशीखण्डे,
अन्तर्निमग्नवंशास्थि पृष्ठं स्यान्मांसलं शुभम् ।
पृष्ठेन रोमयुक्तेन वैधव्यं लभते ध्रुवम् ॥
भुग्नेन विनतेनापि सशिरेणातिदुःखिता । इति ।
भविष्यपुराणे,
अभमानुल्बणं पृष्ठमरोमशमगर्हितम् ।
..
.

•.
। वीरमित्रोदयस्य लक्षणप्रकाशे
नानास्तरणपर्यड्करतिसौख्यकर परम् ॥
कुब्जमद्रोणिक पृष्ठं रोमशं यदि योषितः ।
स्वमान्तेऽपि सुखं तस्यां नास्तिः हन्यात्पतिं च सा ॥ इति ।
अद्रोणिकं द्रोणी काष्ठाम्बुवाहिनी तद्वंद्विशालं न भवति ।
अनुल्वणमनिम्नम् ।
सामुद्रतिलंके,
भुग्नवंलितेनं दासी भर्तृप्ती द्रोणिकाविशालेन । इति ।
इति पृष्ठलक्षणम् ।
अथ कृकाटिकालक्षणम् ।
भविष्यपुराणे,
अनुन्नता समांसा च संमा यस्याः कृकांटिका।
सुदीर्घमायुस्तस्यास्तु चिरं भर्ता च जीवति ।।
निर्मीसा बहुमांसा च शिराला रोमशा तथा ।
कुटिला विकटा चैव विस्तीर्णा च न शस्यते ।।
स्कान्दे काशीखण्डे,
ऋज्वीं ककाटिका श्रेष्ठा समांसा च समोन्नता ।
शुष्का शिराला रोमाढ्या विशाला कुटिलाऽशुभा ।। इति ।
इति कृकाटिकालक्षणम् ।
अंथं कण्ठलक्षणम् ।
स्कान्दे काशीखण्डे,
मांसलो वर्चुलः कण्ठः प्रशस्तश्चतुरङ्गुलः ।
शस्ता ग्रीवा त्रिलेखाङ्का सुव्यक्तास्थिः सुसंहता ।।
निर्मासा चिपिटा-दीर्घा स्थपुटा न शुभप्रदा। : ...
स्थूलग्रीवा च विधवा वक्रग्रीवा च किङ्करी ।।
वन्ध्या हि चिपिटग्रीवा इस्वग्रीवा च निर्धना ।। इति ।

स्त्रीलक्षणप्रकरणे कण्ठादिलक्षणानि। १५७
भविष्यपुराणे,
स्पष्ट रेखात्रयं यस्या ग्रीवायां चतुरङ्गुलम् ।
मणिकाञ्चनरत्नाढ्यं सा दधाति विभूषणम् ॥
अधमा स्त्री कृशग्रीवा दीर्घग्रीवा च बन्धकी ।
इस्वग्रीवा मृतापत्या स्थूलग्रीवां च दुःखिता ॥ इति ।
गर्गोऽपि,
दृश्यत्रिलेखा सुभगोपपन्ना
सुस्निग्धमांसोपचिता सुवृत्ता।
न चातिदीर्घा चतुरमुला च
ग्रीवा च दीर्घा भवतीह धन्या ॥ इति ।
इति कण्ठलक्षणम् ।
अंथ चिबुकलक्षणम् ।
स्कान्दे काशीखण्डे,
चिबुकं ब्यङ्गुल शस्तं वृत्तं पीने सुकोमलम् ।
स्थूलं द्विधासंविभक्तमायतं रोमशं त्यजेत् ॥ इति । ,
इति चिबुकलक्षणम् ।
अथ हनुलक्षणम्।
भविष्यपुराणे,
न स्थूलो न कृशोऽत्यल्पो न वक्रो न च रोमशः ।
हनुरेवंविधः श्रेष्ठस्ततोऽन्यो न प्रशस्यते ॥ इति ।
स्कान्दे काशीखण्डे,
इनुश्चिबुकसंलग्ना निर्लोमा सुघना शुभा।
वका स्थूला कृशा इस्वा रोमशा न शुभप्रदा ।। इति ।
इति हनुलक्षणम्।

१५८
: धीरमित्रोदयस्य लक्षणप्रकाशे
अथ कपोललक्षणम् ।
भविष्ये,
ईषदापाण्डुरा गण्डाः सुवृत्ताः सर्वतः स्त्रियाः।
प्रशस्ता न पुनर्धन्या रोमकूपकदूषिताः ॥ इति ।
स्कान्दे काशीखण्डे,
शस्तौ कपोलौ वामाक्ष्याः पीनौ वृत्तौ समुन्नतौ ।
रोमशौ परुषौ निम्नौ निर्मासौ परिवर्जयेत् ॥ इति ।
इति कपोललक्षणम् ।
अथ मुखलक्षणम् ।
भविष्यपुराणे,
सुमृष्टदर्पणाम्भोजपूर्णविम्बेन्दुसान्निभम् ।
वदनं धरनारीणामभीष्टफलदं शुभम् ॥
मालतीबकुलाम्भोजनीलोत्पलसुगन्धि यत् ।
वदन मुच्यते नैव पानताम्बुलभोजनैः ।।
चतुरस्रमुखी धूर्ती मण्डलास्या च या भवेत् ।
अप्रजा वाजिवका स्त्री महावका च दुर्भगा।
श्ववराहकोलूकमर्कटास्याश्च याः स्त्रियः।
क्रूरास्ताः पापकर्मिण्यः प्रजाबन्धुविवर्जिताः ॥ इति ।
स्कान्दे काशीखण्डे,
समं समांस सुस्निग्धं स्वामोदं वर्तुलं मुखम् ।
जनितृवदनच्छायं धन्यानामिह जायते ॥ इति ।
जनितृवदनच्छायं पितृमुखसदृशम् ।
गारुडे,
मांसलं वर्चुलं मुखम् । इति ।
इति मुखलक्षणम् ।
.

स्त्रीलक्षणप्रकरणे अधरादिलक्षणानि ।
१५९
अथाधरलक्षणम् ।
भविष्यपुराणे,
ताम्राभः किञ्चिदानम्रः स्थौल्यकार्यविवर्जितः ।
अधरो यदि तुङ्गश्च नारीणां भोगदः सदा ॥
स्थूले कलहशीला स्याद्विवर्णे चातिदुःखिता । इति ।
स्कान्दे काशीखण्डे,
पाटलो वर्तुल स्निग्धो रेखाभूपितमध्यभूः ।
सीमन्तिनीनामधरो धराजानिप्रियो भवेत् ॥
कृशः प्रलम्बः कुटिलो रूक्षो दौर्भाग्यसूचकः ।
श्यामः स्थूलोऽधरोष्ठः स्याद्वैधव्यकलहमदः ॥ इति ।
गारुडे,
आरक्तावधरौ श्रेष्ठौ-इति ।
वराहसंहितायाम्,
बन्धुजीवकुसुमोपमोऽधरोमांसलो रुचिरविम्बरूपधृक् । इति ।
उत्पले समुद्रः,
अधरो विम्बसङ्काशो मांसलोऽस्फुटितस्तथा ।
यस्याः सा राजमहिषी कुमारी नात्र संशयः ॥ इति
इत्यधरलक्षणम् ।
अथोत्तरोष्ठलक्षणम् ।
स्कान्दे काशीखण्डे,
मसृणोत्तमकामिन्याश्चोत्तरोष्ठः शुभोऽमलः ।
किञ्चिन्मध्योन्नतोऽरोमा विपरीतो विरुद्धकृत् ।। इति ।
भविष्ये,
उत्तरोष्ठेन तीक्ष्णेन वनिताऽत्यन्तकोपना । इति ।
गारुडे,

१६. वीरमित्रोदयस्य लक्षणप्रकाशे
पा सरोमोत्तरौष्ठी स्यान्न शुभा भर्तुरेव हि । इति ।
इत्युत्तरोष्ठलक्षणम् ।
अथ दन्तलक्षणम् ।
भविष्यपुराणे,
शकुन्देन्दुधवलैः स्निग्धैस्तुङ्गैरसन्धिभिः।
मिष्टान्नपानमामोति दन्तरोभिरनुन्नतैः ।।
सूक्ष्मरतिकशै स्वैः स्फुटितैर्विरलैस्तथा।
रूक्षैश्च दुःखिता नित्यं विकटैर्विमतिर्भवेत् ॥ इति ।
गारडे,
कुन्दपुष्पसमा दन्ता-इति ।
प्रशस्ता, इति शेषः।
कराला विषमा दन्ताः क्लेशाय च भयाय च ।
चौर्याय कृष्णमांसाश्च दीर्घा भर्तुश्च मृत्यवे ॥ इति ।
स्कान्दे काशीखण्डे,
गोक्षीरसन्निभाः स्निग्धा द्वात्रिंशद्दशनाः शुभाः।
अधस्तादुपरिष्टाच्च समाः स्तोकसमुन्नताः॥
पीताः श्यामाश्च दशनाः स्थूलदीर्घा द्विपतयः।
शुक्त्याकाराश्च विरला दुःखदौर्गत्यकारणम् ।।
अधस्तादधिकैर्दन्तर्मातरं भक्षयेत्स्फुटम् ।
पतिहीना च विकटैः कुलटा विरलैर्भवेत् ।। इति ।
जगन्मोहने समुद्र
अनपत्या भवेन्नारी दन्तानां चलनं यदि ।
निधनत्वं च दारिद्य तस्याश्चैव विनिर्दिशेत् ॥ इति ।
गर्गोऽपि,
तीक्ष्णाग्रहत्ताः सुयमा दृढाश्च

स्त्रीलक्षणप्रकरणे दन्तादिलक्षणानि । १६१
शुभा मृणालेन्दुसमानवाः ।।
निरन्तराः स्त्रीषु भवन्ति धन्या
द्विजास्तथा ये रजतप्रकाशाः ॥ इति ।
इति दन्तलक्षणम् ।
अथ जिह्वालक्षणम्
भविष्यपुराणे,
जिह्वा तनुतलाऽवक्रा ताम्रा दीर्घा च शस्यते ।
स्थूला इस्वा विवर्णा या वक्रा भिन्ना च निन्दिता । इति ।
स्कान्दे काशीखण्डे,
जिह्वेष्टमिष्टभोकी स्याच्छोणा मृद्री तथाऽसिता ।
दुःखाय मध्यसङ्कीर्णा पुरोभागे सविस्तरा ॥
सितया तोयमरणं श्यामया कलहप्रिया ।
दरिद्रिणी मांसलया लम्बयाऽभक्ष्यभक्षिणी ।।
विशालया रसनया प्रमदाऽतिप्रमादभाक् । इति ।
जगन्मोहने समुद्र
श्यामायां कलहो नित्यं कर्णच्छेदमवाप्नुयात् ।
जिह्वायामित्यनुषङ्गः ।
गर्ग,
न चापि तन्व्यो न भुजङ्गवच
स्युर्विद्रुमाभाः क्षतजप्रभाश्च ।
जिहाः प्रशस्ता विमला: सुलध्व्यः
स्त्रीणां तथा मांससमप्रभाश्च ॥ इति ।
इति जिह्वालक्षणम् ।
अथ घण्टिकालक्षणम् ।
स्कान्दे काशीखण्डे,
२१

१६२
वीरमित्रोदयस्य लक्षणप्रकाशे
कण्ठेऽस्थूला सुवृत्ता च क्रमतीक्ष्णा मुलोहिता।
अमलम्बा शुभा घण्टी स्थूला कृष्णा च दुःखदा ।। इति
इति घण्टिकालक्षणम् ।
अथ तालुलक्षणम् ।
स्कान्दे काशीखण्डे,
स्निग्धं कोकनदाभासं प्रशस्यं तालु कोमलम् ।
सिते तालुनि वैधव्यं पीते प्रव्रजिता भवेत् ।।
कृष्णेऽपत्यवियोगार्ता रूक्षे चौरकुटुम्बिनी । इति ।
गारुडे,
तालुश्वेता धनक्षयम् ।
कृष्णा च परुपा च-इति ।
जगन्मोहने समुद्र,
श्वेतेन तालुना दासी दु:खिता कृष्णतालुका ।
हरितेन च रूक्षेण प्रव्रज्यामनुगच्छति ॥ इति ।
गर्गसंहितायाम्,
यासामचित्राणि मुमांसलानि
रक्तोत्पलाभानि सदाऽरुणानि ।
तालूनि भद्राणि भवन्ति चापि
ताः पुत्रवत्यः सुभगाश्च नार्यः ॥ इति ।
इति तालुलक्षणम् ।
अथ हसितलक्षणम् ।
स्कान्दे काशीखण्डे,
अलक्षितद्विजं चैव किञ्चित्फुल्लकपोलकम् ।
स्मितं प्रशस्तं मुशामनिमीलितलोचनम् ।। इति ।
गारुडे,

स्त्रीलक्षणप्रकरणे हसितादिलक्षणानि। १६३
स्मिते कूपौ गण्डयोश्च सा ध्रुवं व्यभिचारिणी । इति ।
इति हसितलक्षणम् ।
अथ नासालक्षणम् ।
भविष्यपुराणे, .
न स्थूला न कृशा वक्रा नातिदीर्घा. समुन्नता ।
ईशी नासिका यस्याः सा धन्या तु शुभेङ्करी ॥ इति ।
गारुडे,
नासा समपुटा स्त्रीणां रुचिरा च तथा शुभा । इति ।
स्कान्दे काशीखण्डे,
समवृत्तपुटा नासा लघुच्छिद्रा शुभावहा ।
स्थूलाग्रा मध्यनम्रा च न प्रशस्ता समुन्नता ॥
आकुञ्चितारुणाग्रा च वैधव्यक्लेशदायिनी ।
परप्रेष्या च विकटा हस्वा दीर्घा कलिप्रिया ॥ इति ।
जगन्मोहने समुद्रः,
दीर्घेण नासिकाग्रेण नारी भवति कोपना ।
इस्वेण च भवेद्दासी परकर्मकरी स्मृता ॥
चिपिटा नासिका यस्या वैधव्यमधिगच्छति । इति ।
इति नासिकालक्षणम् ।
अथ क्षुतलक्षणम् ।
स्कान्दे काशीखण्डे,
दीर्घायुष्कृत्सुतं दीर्घ युगपवित्रिपिण्डितम् । इति
सामुद्रतिलके,
दीर्घ दीर्घायुष्कृत् क्षुतं सकृतित्रिपिण्डितं हादि ।
अनुवादयुतं शस्तं ततोऽन्यथा भवति विपरीतम् ॥ इति ।
इति क्षुतलक्षणम् ।
..

१६४
वीरमित्रोदयस्य लक्षणप्रकाश
अथ नेत्रलक्षणम्
भविष्यपुराणे,
नीलोत्पलदलप्रख्यराताम्रश्वारुपक्ष्मभिः ।
अन्विता नयनैरेभिर्भोगसौभाग्यभागिनी ॥
शशकाली मृगाक्षी च वराहाक्षी वराङ्गना।
यत्र यत्र समुत्पन्ना महान्तं भोगमाप्नुयात् ॥
अगम्भीररसनिसहुरेखाविभूषितः ।
राजपन्यो भवन्तीह नयनमधुपिङ्गलः ॥
वायसाकृतिनेत्राणि दीर्घापाङ्गानि योपिताम् ।
अनाविलानि चारूणि भवन्ति हि विभूतये ॥
गम्भीरैः पिङ्गलेश्चैव दुःखिताश्च चिरायुपः ।
वयोमध्ये त्यजेत्प्राणानुन्नताक्षी च याङ्गना ।।
रक्ताक्षी विषमाक्षी च धूम्राक्षी प्रेतलोचना ।
वर्जनीया सदा नारी श्वनेत्रा चैव दूरतः ।।
उद्भ्रान्तकेकरेश्चित्रेनयनैरङ्गनास्त्विह ।
मद्यमांसपिया नित्यं चपलाश्चैव सर्वतः ॥ इति ।
चपलाः परपुरुषरताः।
गारुडे,
नीलोत्पलनिभं चक्षुः-इति ।
प्रशस्तमित्यनुपङ्गः ।
स्कान्दे काशीखण्डे,
ललनालोचने शस्ते रक्तान्ते कृष्णतारके ।
गोलीरवर्णविशदे मुस्निग्धे कृष्णपक्ष्मणी ॥
उन्नताक्षी न दीर्घायुर्वृचाली कुलटा भवेत् ।
मेपाली महिपाली च केकराक्षी न शोभना ।।

स्त्रीलक्षणप्रकरणे नेत्रादिलक्षणानि ।
१६५
कामगृहीता नितरां गोपिङ्गाक्षी मुर्खता ॥
पारावंताक्षी दुःशीला रक्ताक्षी भर्तृघातिनी ।
कोटरनयना दुष्टा गजनेत्रा न शोभना ।
पुंश्चली वामकाणाक्षी वन्ध्या दक्षिणकाणिका ।
मधुपिङ्गाक्षी रमणी धनधान्यसमृद्धिभाक् ॥ इति ।
वराहोऽप्याह,
नेत्रे यस्याः केकरे पिङ्गले वा
सा दुःशीका श्यावलोलेक्षणा च । इति ।
उत्पले समुद्रोऽपि,
नीलोत्पलसवर्णाभे नेत्रे लावण्यसंयुते ।
मृगी भवेच्च सा कन्या धनधान्यविवर्द्धिनी ॥ इति ।
सामुद्रतिलके,
यस्याः पिङ्गलनेत्रद्वितयं सा सुरतकौशलं लभते ।
दुःशीलत्वेन समं वैधव्यं वा ध्रुवं रमणी ॥
गोपिङ्गलनेत्रयुता पितरं श्वशुरं च मातुलं पुत्रम् ।
भ्रातरमप्यधिगच्छति कामग्रथितेव मोहपरा ॥ इति ।
इति नेत्रलक्षणम् ।
अथ पक्ष्मलक्षणम् ।
स्कान्दे काशीखण्डे,
पक्ष्माभिः मुघनैः स्निग्धैः कृष्णः सूक्ष्मैः सुभाग्यभाक् ।
कपिलैविरलैः स्थूलैनिन्द्या भवति भामिनी ॥ इति ।
इति पक्ष्मलक्षणम् ।
अथ भूलक्षणम् ।
भविष्यपुराणे,
उन्नता मृदुरोमाणो रेखाः शुद्धा न सङ्गवाः ।
।

१६६
वीरमिनोदयस्य लक्षणप्रकाशे
ध्रुवोऽर्द्धवक्रा सूक्ष्माश्च योषितां च मुखावहाः ॥
वर्तुलाभिश्च सौभाग्यं वन्ध्या स्याद्दीर्घरोमभिः ।
पिङ्गला सङ्गता हूस्वा दरिद्राया न संशयः ॥ इति ।
स्कान्दे काशीखण्डे,
भ्रुवौ सुवर्तुले तन्व्यौ स्निग्धे कृष्णे असंहते ।
प्रशस्ते मृदुरोमाणी मुभ्रवः कार्मुकाकृती ॥
खररोमा च पृथुला विकीर्णा सरला स्त्रियाः.!
न भ्रूः प्रशस्ता: मिलिता दीर्घारोमा च पिङ्गला ॥ इति ।
इति भूलक्षणम् ।
अथ कर्णलक्षणम् ।
स्कान्दे काशीखण्डे,
लम्बौ कर्णौ शुभावत्तौं शुभदौ सुवरप्रदौ ।
शष्कुलीरहितौ निन्धौ शिरालौ कुटिलौ कृशौ ॥ इति ।
गारुडे,
सुमांसलं कर्णयुग्मं समं मृदु समाहितम् । इति ।
भविष्यपुराणे,
शूकराकृतयः कर्णा न च स्कन्ना न संस्थिताः ।
वहन्ति विलसत्कान्ति हेमरत्नविभूषणम् ।।
खरोष्ट्रनकुलोलूककठिनश्रवणाः स्त्रियः।
प्राप्नुवन्ति महदुःखं प्रायशः प्रव्रजन्ति हि ।। इति ।
इति कर्णलक्षणम् ।
अथ ललाटलक्षणम् ।
भविष्यपुराणे,
अर्वेन्दुप्रतिमाभोगमरोपशमनायतम् ।
तत् श्रीभोगकरं श्रेष्ठं ललाटं वरयोषिताम् ॥ इति ।

स्त्रीलक्षणप्रकरणे ललाटादिलक्षणानि । १६७ . । - आभोगो विस्तारः। स्कान्दे काशीखण्डे, भाल: शिराविरहितो निर्लोमान्दुसन्निभः । अनिम्नस्व्यङ्गुलो नार्याः सौभाग्यारोग्यकारणम् ॥ व्यक्तस्वस्तिकरेखं च ललाटं राज्यसम्पदे । प्रलम्बमलिकं यस्या देवरं हन्ति सा ध्रुवम् ।। रोमन शिरालेन पांसुला गोधिना मता । गोधिर्ललाटम् । भालगेन त्रिशूलेन निर्मितेन स्वयम्भुवा । नितम्बिनीसहस्राणां स्वामित्वं योषिदाप्नुयात् ॥ इति । गारुडे, ललाटमधिकृत्य- शुभ्रमर्दैन्दुसंस्थानमतुङ्गं स्यादरोमकम् । इति । जगन्मोहने समुद्रः, ललाटं व्यङ्गुलं यस्याः शिरारोमविवर्जितम् । निर्मलं सुसमं दीर्घमायुःसौख्यधनप्रदम् ।। इति । इति ललाटलक्षणम् । अथ शिरोलक्षणम् । भविष्ये, द्विगुणं परिणाहेन ललाटात्रिगुणं च यत् । शिरःप्रशस्तं नारीणां सुधन्या हस्तिमस्तका ॥ इति । स्कान्दे काशीखण्डे, मौलिः शस्त: समुन्नतः । गजकुम्भनिभो वृत्तः सौभाग्यैश्वर्यसूचकः ।। स्थूलमूर्द्धा च विधवा दीर्घशीर्षा च बन्धकी ।

१६८ वीरमित्रोदयस्य लक्षणप्रकाशे .
विशालेनापि शिरसा भवेदौर्भाग्यभाजनम् ।। इति ।
गारुडे,
खीणां समं शिरः श्रेष्ठम् इति ।
• इति शिरोलक्षणम् ।
अथ केशलक्षणम् ।
भविष्ये,
सूक्ष्माः कृष्णा मृदुस्निग्धाः कुश्चिताग्राः शिरोरुहाः ।
भवन्ति श्रेयसे स्त्रीणामन्ये स्युः क्लेशशोकदाः ।।
कुश्चितायाः भङ्गुरभङ्गिभाजः ।
गारुडे,
स्निग्धा नीलाच मृदवो मूर्द्धजाः कुश्चितारकाः । इति ।
शुभा इत्यनुषङ्गः।
स्कान्दे काशीखण्डे,
केशा अतिकुलच्छायाः सूक्ष्माः स्निग्धाः सुकोमलाः ।
किञ्चिदाकुञ्चिताग्राश्च कुटिलाश्चातिशोभनाः ॥
परुषाः स्फुटिताग्राश्च विरलाश्च शिरोरुहाः।
पिङ्गला लघवो रूक्षा दुःखदारिद्यवान्धवाः ॥ इति ।
इति केशलक्षणम् ।
इह देहस्यापादतलकेशान्तलक्षणान्युत्का तस्यैव व्यञ्जना-
दिलक्षणान्युच्यन्ते।
सामुद्रतिलके,
व्यञ्जनमथ प्रकृतयो मिश्रमेतदापि भवति संस्थानम् ।
'सङ्क्षपातल्लक्षणमनुक्रमेणैव वक्ष्यामः ।।
संस्थानं शरीराश्रितं लक्षणम् । . . .

स्त्रीलक्षणप्रकरणे मशकादिव्यञ्जनलक्षणानि । १६९
-
-
जन्मान्तरविरचितमिह, शुभाशुभं व्यज्यते ध्रुवं येनं
तन्मशकादिव्यञ्जनमसहजमाख्यायते सद्भिः ॥
रक्तः कृष्णो धूम्रो विन्दुसमो. मशक एव विज्ञेयः ।
तिलकं तिलकाकारंततोऽन्यदपि लाञ्छनं स्त्रीणाम् ।। इति ।
भविष्यपुराणे,
यस्याः कण्ठेऽधरे वामे हस्ते कर्णे स्तनेऽपि च ।
मशकं तिलकं चापि साऽपूर्वान् जनयेत्सुतान् ।। इति ।
स्कान्दे काशीखण्डे,
भ्रुवोरन्तर्ललाटे वा मशको राज्यसूचकः ।
वामे कपोले मशकः शोणो मिष्टान्नदः स्त्रियाः ॥
तिलक लाञ्छनं वापि हृदि सौभाग्यकारणम् ।
यस्या दक्षिणवक्षोजे शोणे तिलकलाञ्छने ।
कन्याचतुष्टयं सूते सूते सा च सुतत्रयम् ।
तिलक लाञ्छनं शोणं यस्या वामे कुचे भवेत् ।।
एक पुत्र प्रसूयादौ ततः सा विधवा भवेत् ।
गुह्यस्य दक्षिणे भागे तिलकं यदि योषितः ।।
तदा क्षितिपतेः पनी सूते च क्षितिपं सुतम् ।
नासाग्रे मशकः शोणो महिष्या एव जायते ।
कृष्णः स एव भर्तृघ्न्याः पुंश्चल्या वा प्रकीर्तितः ।।
नाभेरधस्तात्तिलकं मशको लाञ्छनं स्मृतम् ।
मशकस्तिलकं चिदं गुल्फदेशे दरिद्रकृत् ।
करे कर्णे तथा कण्ठे वामे यस्याः स्फुरेचदि ॥
एषां त्रयाणामेकं तु प्राग्गर्भ पुत्रदं भवेत् ॥ इति ।
जगन्मोहने समुद्रः,
૨૨

१७०
वीरमित्रोदयस्य लक्षणप्रकाशे
स्तने वामे तु कृष्णा लाञ्छनं तिलकोऽपि वा ।
शीघ्रं तु विधवा सास्त्री जायतेऽतीव दुःखिता ॥
स्तने तु दक्षिणे यस्या लाञ्छनं तिलकोऽपि वा ।
कुङ्कुमादकसङ्काशं सा भवत्यतिशोभना ।।
लभते वित्तसम्पत्तिं भर्तारं वशवर्तिनम् ।
पुत्रत्रयं प्रसूयेत तथा कन्याचतुष्टयम् ।।
गुह्यान्ते तिलको यस्या रक्तकुङ्कुमसन्निभः ।
अथवा दक्षिणे भागे प्रशस्ता सा निगद्यते ।
स्तनमध्ये तु नारीणां कुङ्कुमोदकसन्निभम् ।
लाञ्छनं दृश्यते यस्याः प्रशस्ता सा निगद्यते ।
ललाटे दृश्यते यस्याः कृष्णं तिलकमुज्ज्वलम् ।
पञ्च सा जनयेत्पुत्रान् धर्मसौभाग्यभागिनी॥
यस्यास्तु हृदये नार्या रक्ताभस्तिलको भवेत ।
लाञ्छनं चापि रक्तांभं सा नारी शोभना भवेत् ॥
लभते वित्तसम्पन्नं भर्तारं वंशवर्द्धनम् ।
पुत्रत्रयं प्रसूयेत तथा कन्याचतुष्टयम् ।।
यस्याः पयोधरे वामे मशकं तिलोऽपि वा।
हस्ते कर्णे च कण्ठे च सा कन्या पुत्रभागिनी ॥ इति ।
उक्तस्थानेष्वेव मशकादिलक्षणं शुभमन्यत्राशुभमिति ।
तदुक्तम्-
सामुद्रतिलके,
मशकं तिलकं लाञ्छनमुक्तस्थानैर्विनाऽशुभं स्थाने ।
अङ्गे पुनरपसव्ये सुदृशां क्लेशावह बहुशः ॥ इति ।
इति व्यञ्जनलक्षणम् ।
.

स्त्रीलक्षणप्रकरणे श्लेष्मादिप्रकृतिलक्षणम् । १७१
अथ स्त्रीणां प्रकृतिलक्षणम् ।
सामुद्रतिलके,
प्रकृतिद्विविधा गदिता स्त्रीणां श्लेष्मादिका स्वभावाख्या ।
प्रथमा सापि त्रेधा द्वादशधा भवति पुनरन्या.॥
नारी श्लेष्मप्रकृतिः सत्यप्रियभाषिणी स्थिरस्नेहा ।
फलिनीपमूननीलोत्पलदलदुङ्किरश्यामा.॥
स्निग्धनखदन्तलोमत्वक्केशविलोचना क्षमायुक्ता ।
सुविभक्तसमावयवा बहुसत्त्वाऽपत्यवीर्ययुता ॥
अक्षुद्राचिरशुण्यत्प्रसूनमाल्यानुलेपना सुभगा।
धर्मार्थिनी कृतज्ञा दयान्विता सततदानमुखी ॥
प्रच्छन्नधृतदोषा क्षुत्तृष्णोष्णक्षमात्रयोपेता ।
मितवचनपानभोजनकोपा पक्ष्मलपृथुलनयना ॥
साधारणसुरतेच्छा निद्रालुः शोणमांसलश्रोणिः ।
जलदजलाशयजलजक्षीरादीनीक्षते स्वप्ने ।
योषित्पित्तप्रकृतिौरी कृष्णाथवा बहुस्वेदा ।
: आताम्रनयनकररुहरसनापादपाणितालुतला ॥
क्षणरुष्टा क्षणतुष्टोष्णाभीष्टतिमधुररसा ।
मृदुविमलकपिलमूर्द्धजरोमा मेधाविनी प्रायः ॥
प्रियशुचिनिवसनमाल्यानुलेपनात्युष्णशिथिलमृदुगुह्या ।
अभिमानिनी सुचरिता शुचिराश्रितवल्लभा शूरा ॥
धृतवालपलितक्षुत्तृट्तनुवीर्या मृदुलमोहनक्रीडा ।
किंशुकदिग्दाहताडदहनादीन् पश्यति स्वमे ।।
वनिता वातप्रकृतिः प्रस्फुरितकुचाग्रपादतला।
रूक्षेक्षणनखदशना चलचित्ता चश्चलप्रकृतिः ।।
अजितेन्द्रिया खराङ्गी गन्धर्वविलासहासकलहरतिः।

-१७२ वीरमित्रोदयस्य लक्षणमकाशे बहुभोजनाऽल्पनिद्रा बहुलालापाऽनिशं भ्रमणशीला ॥ सरवर्णच्छाया बिहिष्टमधुररसा शिशिरा । किञ्चित्वाशिमुखं ते प्रलपति निमित्रमति कडकाम्बवणतितन्निन्धपायपिया मुरतऋठिना । उद्यानवननीडारतिरत्युष्यपिया स्थिरत्रांचा ॥ तपर्वताविराई स्वम कुल्ने क्या नभोगमनम् । पायगेषा प्रकृतिः शुद्धब विलोक्या सुटं वापि ।। भेदाः पुनरंतासां चोरपि भवन्ति मित्राणाम् । इति ! विवेकविलास, यस्याः केशांगुकम्पमोन्लायन्ति इसमाजः ! नानाम्मति विपन्न वा गन्तवः ॥ नियन्तं मवृणास्त वया युकाच वासति । बातरप्पन्ययायुक्ता मा व पिचोदयान्विता ।। इति । अत्र रघ्यपिचवानप्रकृतीमिशय अधुना स्वभावामिया प्रकृतिदिप्यते । सा वादया । मुरविद्यावरगन्ययक्षराक्षस- पिशावनरकषिर्यवरमानारसिंहमहरिति । तया च- सामतिल, मुरविद्यावरगन्धयक्षराक्षसपिशाच नरकपिभिः । अहिलरविवाहिल्यानां प्रकृतिरत्रैव ॥ इति । ऋण वा उत्ता- भविष्यपुराणे, नित्यं लावा मुगन्धा व नित्यं व प्रियवादिनी । यत्यानी अत्यरोगा बतां वां विनिनियन् ।। चन्द्राननां शुमादी व मचवारणगामिनीम् । --

स्त्रीलक्षणप्रकरणे स्वभावाख्यप्रकृतिलक्षणम् । १७३
आरक्तमुखहस्तां च विद्याद्विद्याधरी तथा ॥
वीणावादिवशब्देन सर्वसङ्गीतवेणुनाः ।।
पुष्पधूपेन युक्तां च गान्धर्वो तो विनिर्दिशेत् ॥
बहाशिनी बहुवाक्या नित्यं चापियवादिनी ।
पति वीभत्सते या तु राक्षसी तां विनिर्दिशेत् ।।
शौचाचारपरिभ्रष्टा रूपभ्रष्टा भयङ्करी ।
प्रस्वेदमलपङ्काढ्या पिशाची सां विनिर्दिशेत् ।।
असन्दृषितचारित्रा गुरुभक्ता पतिव्रता ।
देवब्राह्मणभक्ता च मानुषीं तां विनिर्दिशेत् ॥
कोपना चञ्चला चैव नित्यं वीक्षेदिशस्तथा ।
चलं च भाषते लुब्धा वानरी तां विनिर्दिशेत् ॥
प्रतिकूलकरी नित्यं बन्धूनां भर्तुरेव च ।
स्वच्छन्दललिता चैव सर्पिणी तां विनिर्दिशेत् ।।
येन केन चिदनेन मांस यस्था विवर्धते ।
रासभी तादृशीं विद्याथ सा कल्याणमर्हति ॥
प्रच्छन्नं कुरुते पाप मायावादे च हृष्यति ।
हृदयं चैव दुर्ग्राह्य मार्जारी तां विनिर्दिशेत् ॥
इसते क्रीडते चैव क्रुध्यते न प्रसीदति ।
जीवेषु रमते नैव Bही तां हि विनिर्दिशेत् ।।
सामुद्रतिलके विशेषा,
हसते पराभिभूति खरमैथुनसेविनी तुमुलनादा ।
अनेन येन केन चिदुपचितगात्रा खरप्रकृतिः ॥
अन्यच्छिद्रान्वेषणपरायणा कुटिलगामिनी रौद्रा।
धृतवैरा क्रुद्धमना अहिस्वभावा च वनिता स्यात् ॥
एकान्तस्थानरतिश्विरेण मैथुननिषेवणस्वान्ता ।
.

१७४
वीरमित्रोदयस्य लक्षणप्रकाशे
निद्रालसा गतभया सिंहप्रकृतिर्भवति युवतिः ॥ इति ।
इति प्रकृतिलक्षणम् ।
अथ मिश्रकंलक्षणम् ।
भविष्यपुराणे,
तिस्रस्तु रेखा ग्रीवायां चेदिन्दीवरलोचना ।
यस्य सा गृहमागच्छेत्स गृही मुखमेधते ॥
राजहंसगतिर्या तु मृगाक्षी मृगवर्णिका ।
समशुक्लाग्रदन्ता च कन्यां तामुत्तमां विदुः ।।
मण्डूककुक्षिर्या नारी न्यग्रोधपरिमण्डलम् ।
एक जनयते पुत्रं सोऽपि राजा भविष्यति ॥
हंसस्वरा मेघवर्णा या कन्या मधुपिङ्गला ।
अष्टौ जनयते पुत्रान् धनधान्यविवर्धिनी ॥
आयतौ श्रवणौ यस्याः सुरूपा चापि नासिका।
ध्रुवौ चेन्द्रायुधाकारे सन्ततं सुखभागिनी ।।
तन्वी श्यामा तथा कृष्णा स्निग्धाङ्गी मृदुभाषिणी ।
शकुन्देन्दुदशना भवेदैश्वर्यभागिनी ॥
विस्तीर्ण जघनं यस्या वेदिमध्या तु या भवेत् ।
आयते विषुले नेत्रे राजपत्री तु सा भवेत् ॥
वेदिमध्या वेदिमध्यवत्कृशमध्या कृशोदरीत्यर्थः ।
गूढगुल्फाङ्गुलिशिरा अल्पग्रीवाल्पमध्यमा ।
रक्ताक्षी रक्तचरणा सात्यन्तं सुखभागिनी ।।
वक्राङ्गुलितलौ पादौ कन्यां तां परिवर्जयेत् ।
इन्द्रचन्द्रनदीऋक्षसपनाम्न्यश्च याः स्त्रियः ॥
नैताः पतिषु रज्यन्ते या च नक्षत्रनामिका ।
.

स्त्रीलक्षणप्रकरणे मिश्रकलक्षणम् ।
१७५
यस्यास्तु हसमानाया गण्डे जायेत कूपकम् ।
न सा रमति कौमारे स्वच्छन्दाकार्यकारिणीं ॥
यस्यास्तु गच्छमानायाष्टिट्टिकायति जडिका ।
• सा पुत्रं वाञ्छते कर्तुं पतित्वे नात्र संशयः ।।
टिट्टिकायति । यस्था गमने जङ्घयोः टिट्टिकाकारः शब्दः
श्रूयते ।
स्थूलपादा चं या कन्या सर्वाङ्गेषु च लोमशा ।
स्थूलोष्ठदन्ता यस्याः स्युर्विधवां तां विनिर्दिशेत् ।।
यस्या हस्तौ च पादौ च मुखं च विकृतं भवेत् ।
उत्तरोष्ठे च रोमाणि सा क्षिप्रं भक्षयेत्पतिम् ।।
त्रीणि यस्याः प्रलम्वन्ते ललाटमुदरं स्फिचौ ।
त्रीन् प्रभक्षयते सा तु देवरं श्वशुरं पतिम् ।।
मृदूनि मृदुरोमाणि नात्यन्तं स्वेदनानि च ।
-सुरभीणि च गात्राणि यासां ताः पूजिताः स्त्रियः ॥ इति ।
विष्णुधर्मोत्तरे,
पुष्कर उवाच ।
गन्धैर्मधूकपुष्पाभैः स्निग्धैश्च दशनच्छदैः ।
असङ्गतभूः संश्लिष्टचरणाङ्गुलिकुड्मला ॥
पतिमिया पतिप्राणा या नारी पतिदेवता ।
अलक्षणापि सा ज्ञेया सर्वलक्षणसंयुता ।।
अतिदीर्घा कृशा या च चलन्मांसमयी तथा ।
सापि वा विशेषण नरेण हितमिच्छता ।।
खीसर्वलक्षणान्यभिधायात्रैवान्ते उपसंहृतम् ।
सझेपतस्तेऽभिहितं मयैतत्
स्याल्लक्षणं चारु नितम्बिनीनाम् ।

१७६
वीरमित्रोदयस्य लक्षणप्रकाशे
रहस्यमेतत्कथितं तु तत्र
यत्राकृतिस्तत्र गुणा वसन्ति ॥ इति ।
स्कान्दे काशीखण्डे,
मुप्ता परस्परं या तु दन्तान् किटिकिटायते ।
सुलक्ष्मापि न सा शस्ता यताकञ्चित्पलपेत्तथा ॥ इति ।
जगन्मोहने समुद्रः,
स्थूलकेशी पतिघ्नी च दीर्घकेशी तथैव च ।
कपिलः परुषैः क्रूरा स्कन्धकेशी न शोभना ॥
मृगाक्षी च मृगग्रीवा मृगजङ्घा मृगोदरी ।
अपि दासकुले जाता राजपनी भविष्यति ॥
कुले महति सम्भूता लक्षणैः समलङ्कृता ।
भार्या प्रशस्यते लोकरितरा कलहप्रिया ।
रक्तनेत्रा बृहद्वीवा लम्बोष्ठी विकृतानना।
तथैवोत्कटपादा च वर्जनीया प्रयत्नतः ॥
इंसस्वरा मेघवर्णा या कन्या दीर्घलोचना ।
यस्य गेहे तु सा गच्छेत्तद्गृहं सुखमेधते ।।
आयतं वदनं यस्याः सुरूपा चैव नासिका
ध्रुवौ चेन्द्रायुधाकारे साऽत्यन्तं सुखभागिनी ।
अङ्गुलीसहिता यस्या नखाः पद्मदलप्रभाः ।
मृदुहस्ततला कन्या सा नित्यं सुखमेधते ।।
एकैकेन तु रोमेण जो चैव सुवर्तुले ।
धनधान्यवती कन्या सर्वसौख्यकरी स्मृता ।।
या नीलोत्पलवर्णाभा पिङ्गनेत्रा च भामिनी।
सुवर्णरूप्यरत्नानां स्वामिनी तां विनिर्दिशेत् ॥
श्यामवर्णा च तन्वङ्गी स्निग्धाङ्गी मृदुभाषिणी ।

श्रीलक्षणप्रकरणे मिश्रकलक्षणम् ।
१७७ .
शङ्खकुन्देन्दुदशना सर्वसौख्यविभागिनी ॥
विस्तीर्ण जघनं यस्या वेदिमध्या च या भवेत् ।
आयतविपुलैत्रै राजपत्नी तु सा भवेत् ॥
यस्याः कृष्णाश्च सूक्ष्माश्च मृदुस्निग्धाश्च मूर्द्धजाः
स्निग्धाङ्गी सुकुमारी च सौभाग्यसुखभागिनी ।।
कूर्मपृष्ठनखां यस्याः स्निग्धभावविवर्जिताः । .
बाह्याङ्गुलितलौ पादौ तां कन्यां परिवर्जयेत् ॥
उद्घद्धपिण्डिका या तु वराहखररोमशा ।
- अपि राजकुलोत्पन्ना दासी स्याद्यदि रूपिणी ॥
काकजङ्घा च या नारी या वराहक्षरोमशा ।
न सा भवति कल्याणी पतिदुःखेन मोहिता ॥
यस्यास्तु गच्छमानायाः कटिः किटिकिटायते ।
जङ्घा च ग्रसते नित्यं भर्तारं नात्र संशयः ॥
उग्ररूपा चा या कन्या सर्वाङ्गेषु च रोमशा ।
स्थूलपादा च या कन्या दासी तां च विनिर्दिशेत्
रोमराजी भवेत्खण्डा ह्रस्वा वक्रा समुन्नता ।
अर्धाब्देन तु भतारं हत्वा भवति निर्धना ॥
रोमराजी पुनर्यस्यास्त्रिवलीभिर्विराजिता ।
गम्भीरा नाभिका यस्याः प्रशस्ता सा निगद्यते ॥
धनाढ्या रूपसम्पन्ना भर्तारं वशवर्तिनम् ।
लभते नात्र सन्देहः समुद्रवचनं यथा ॥ इति ।
तथा,
समुद्र उवाच ।
पीनोरुः पीनगण्डा समसितदशना पद्मपत्रायताली
विम्बोष्ठी तुङ्गनासा गजगतिगमना दक्षिणायनामिः
૨૨

१७८
वीरमित्रोदयस्य लक्षणप्रकाशे
स्निग्धाङ्गी चारुवेषा, मृदुपृथुजघना सुस्वरा चारुकेशा
भर्ताः तस्याः क्षितीशो भवति च सुभगा पुत्रयुक्ता च नारी।।
पिङ्गाक्षी कूपगण्डा खरपरुषरवा. स्थूलजकोर्वकेशी
रूक्षाक्षी वक्रनासा प्रविरलदशना कृष्णताल्वोष्ठजिह्वा ।
शुष्काङ्गी सङ्गतभूः कुचयुगविषमा वामना चातिदीर्घा
कन्यैषा वर्जनीया धनसुखरहिता दुष्टशीला च नित्यम् ॥
हृद्रोमनखकेशेषु दन्तोष्ठनयनेषु च ।
स्नेहोऽत्र विद्यते यास ताः स्त्रियः शुभकारणम् ॥
अल्पस्वेदाऽल्परोमा च निद्राभोजनदुईला ।'
गात्रेषु च न रोमाणि नारीलक्षणमुत्तमम् ।।
रक्तजिहा मृगाक्षी च या नारी नागलोचना ।
कृशोदरी गजगतिः स्त्रीणां लक्षणमुत्तमम् ।।
परानुकूलां परपाकपाकिनी
विवादशीला स्वयमर्थचोरिणीम् ।
आक्रन्दिनीं सप्तगृहप्रवेशिनी
स्यजेच्च भार्या दशपुत्रपौत्रिणीम् ॥
मातुलिङ्गसमौ हस्तौ लम्बमान स्तनद्वयम् ।
यदा तदा न सन्देहो द्वितीयं कुरुते पतिम् ।।
मातुलिङ्ग बीजपूरम्। मध्यदेशभाषायां विज उर इति प्रसिद्धम्।
महाङ्गुली महानासा महामुखी महास्तनी ।
महानखा तु या नारी सा नारी दु:खिनी भवेत् ।
नदीनामा च या नारी या नारी फलनामतः ।
देवीनामा च या नारी स्वयं भक्षयते पतिम् ।।
तीर्थनामा.च या नारीः सा भवेत्पतिवार्जिनी । ., .
वृक्षनामा चः या कन्या तन्मुखं नावलोकयेत् ।।.

..
स्त्रीलक्षणप्रकरणे मिश्रकलक्षणम् । १७९
दक्षा तुष्टा प्रियालापा पतिचित्तानुगामिनी ।
कालौचित्याययकरी या सा लक्ष्मीरिवापरा ॥ इति ।
विवेकविलासे,
कुचे वराङ्गपार्वे च वामे उच्चे मनाक् सति ।
नारीप्रसविनी नारी दक्षिणे तु नरप्रसूः ।।
अतिश्यामातिगौरा च अतिस्थूलातितन्विका ।
अतिदीर्घातिदूस्वा च विषमाझ्यधिकाङ्गिका ॥
हीनाङ्गी चैव विकला रूक्षकर्कशकालिका ।
सञ्चारिस्वरुगाक्रान्ता धर्मविद्वेषिणी तथा ॥
धर्मान्तररता चापि नीचकर्मरतापि च ।
दुःशीला दुर्भगा वन्ध्या दरिद्रा दुःखिताऽधमा ।
अल्पायुर्विधवा कन्या स्यादेभिर्दुष्टलक्षणैः ।
उपाङ्गमथ वाङ्गं स्याद्यदीयं बहुरोमकम् ॥
वर्जयेत्तां प्रयत्नेन विषकन्यासहोदरीम् ।
भौमार्कशनिवाराणां वारः कोऽपि भवेद्यदि ॥
तथाऽश्लेषाशतभिषाकृत्तिकानां च सम्पदि ।
द्वादशी वा द्वितीया वा सप्तमी वा तिथिर्यदि ।।
ततस्तत्र सुता जाता जायते विषकन्यका । इति ।
सामुद्रतिलके,
मधुपिङ्गाक्षी स्निग्धश्यामाङ्गी राजहंसगतिनादा ।
अष्टौ जनयति पुत्रान् धनधान्यविवर्धिनी तन्वी ॥
पीवरनितम्बबिम्बा पीवरवक्षोजमण्डला वाला।
पीवरकपोलपाली सा सौभाग्यान्विता युवतिः ॥
पृथुनयना पृथुजघना पृथुवक्षाः पृथुकटिः पृथुश्रोणिः ।
पृथुशीला च पुरन्ध्री सुपूजिता जायते जगति ।।

"
१८०
वीरमित्रोदयस्य लक्षणप्रकाशे
पुरन्ध्री स्त्री।
मृदुरोमा मृदुगात्री मृदुकोष्ठा मृदुशिरोरुहा रमणी।
मृदुभाषिणी न गण्यैः पुण्यैरासाद्यते सद्यः ॥.
दीर्घमुखी दीर्घाक्षी दीर्घभुजा दीर्घमूर्द्धजा तन्वी ।
दीर्घाङ्गुलिका मामोत्यादीर्घ पतिं सुखोपेतम् ॥
वृत्तमुखी वृत्तकुचा वृत्तप्रस्तोरुजानुगुल्फयुगा ।
वृत्तग्रीवांनाभित्तशिरा, जायते धन्यां ॥ . . .
व्यक्ता भवन्ति रेखा मणिबन्धे कण्ठदले मध्ये।
पूर्णास्तिस्रो यस्यां नृपस्य सा जायते जाया ।।
उत्तप्तस्वर्णरुचस्तनुत्वचः सकलकोमलावयवाः ।
लब्धसमुदायशोभाः प्रायः श्रीभाजनं सुदृशः ॥
कपिलविलोचननलिनां कपिलकचां कपिलरोमराजिचिताम्।
कपिलावयवां बालां सन्तः शंसन्ति न प्रायः ॥.
विपुलमुखी विपुलकुचा विपुलपदा विपुलकर्णहन्नासा।
विपुलाङ्गुलिका पायो भनी जायते योषित् ॥
कृष्णाक्षी कृष्णाङ्गी कृष्णनखी कृष्णरोमराजिचिता।
कृष्णोष्ठतालुरसना सा नियतं गंहिता लोके ॥
लम्बललाटा लम्बग्रीवा लम्बोष्ठनासिका न शुभा।
लम्बपयोधरजठरा लम्वस्फिग्लम्बचरणमणिः ॥
निःसरति वदनकुहराल्लाला यस्याः शयानायाः।
स्फारे किञ्चिन्नेत्रे सा वाला कथ्यते कुलटा॥
यदि नाभ्यावर्तवलीरेखाहीनं पृथूदरं यस्याः ।
दुःखैराकुलचित्ता सा युवतिर्जायते सततम् ।
प्रसभं प्रहरति वाष्पं प्रहसन्त्या नेत्रकर्णयोर्यस्याः।
लाला च मुखान्तरस्था कौतस्त्या शीलरक्षा स्यात् ।।
.
।

-
।
स्त्रीलक्षणप्रकरणे मिश्रकलक्षणम् । . १८१
युगपद्भवन्ति यस्या दुर्गन्धाः श्वासमूत्रऋतवश्च ।
साक्षादेव कुठारी सा वंशविकर्त्तने वनिता ॥
यस्याः स्फुटं हसन्त्याः कपोलयोः कूपको सदा स्याताम् ।
नयने नितान्तचपले सा भनी भवत्यसती ॥
यान्त्याः स्वैरं यस्या दैववशात्पटपटायते वसनम् ।
सततं सा कल्याणी कलयति कल्याणवैकल्यम् ।।
सर्वास्थिसन्धिबन्धा यस्या गमने कटकटायन्ते ।
मुतमपि पति चिकीर्षति सा सङ्गतयौवनं युवतिः॥
अपराङ्ग रोमयुतं पूर्वाङ्ग रोमविरहितं यस्याः ।
भवति विपरीतमथ वा भयङ्करी सा पिशाचीव ॥
फल्गुमहसनशीला निष्कारणादिनिरीक्षणप्रवणा।
निष्फलबहुलालापा सा नारी दूरतस्त्याज्या ॥ .
अतिहस्वमुखी धृर्ता दीर्घमुखी दुःखभागिनी वनिता ।
. शुष्कमुखी वक्रास्या सौभाग्यैश्वर्यसुखहीना ॥
सततं विद्विष्टमनाः खरोष्ट्रकटुकस्वरा स्फुरझुकुटी ।
स्वच्छन्दाचाररतिः सा स्यान्मूर्ती पुनरलक्ष्मीः ।।
पादौ यस्याः स्फुटितौ रोमंशचिपिटाङ्गुली निगूढनखौ ।
कच्छपपृष्ठनखौ वा सा दुःखदरिद्रताहेतुः ।।
विकलाङ्गी व्याधियुता शुष्काङ्गी वामना तथा कुब्जा ।
नीचान्वयजा रमणी परिहरणीया सुरूपापि ॥
काकमुखी काकाक्षी काकरवा काकजविका नारी ।
काकगतिंचेष्टिता स्यान्नूनं दारिद्यदुःखवती ॥
सन्ततकोपाविष्टा स्तब्धाङ्गी चश्चला महाबाहुः।
सा दारियंवती स्यायुवतिर्यदि वा न दीर्घायुः ।।
कपिवका कपिनेत्रा कपिनासा कपिकटिः कपिश्रवणा।

१८२ वीरमित्रोदयस्य लक्षणप्रकाशे कपिरोमशप्रतीका प्रतीपकृज्जायते योषित् ॥ प्रतीकः अङ्गम् । नगविहगनदीनामा वृक्षलतागुंल्मनामिका नारी । नक्षत्रग्रहनामा न रज्यति स्वैरिणी पत्यौ । शक्रसुरासुरनामा पुनामानामिका नियतम् । भीषणनामा रमणी स्वच्छन्दा जायते प्रायः ॥ कामस्य सततवसतिर्यस्मात्सा कामिनीति विदिता स्त्री। द्वादशवर्षाचं कामो विस्फुरति पुनरधिकः ।। तत्कारणं तु यौवनमनन्तरं सुचवो भवन्त्येते । वक्रोक्तिनयनलीलानितम्बविम्बस्तनोद्भेदाः॥ शुभलक्षणापि रूपाधिकापि विख्यातगोत्रजातापि । सौभाग्यभागपि तथा न शुभा दुश्चारिणी रमणी ।। वृत्तं सुलक्ष्म वृत्तं रूपं वृत्तं समग्रसौभाग्यम् । वृत्तं गुणादिकं यत्तद्वृत्तं शस्यते सुदृशाम् ।। अपि दुर्लक्षणलक्ष्मा महार्हतां शीलसंयुता याति । शीलेन विना वनिता न शुभा शुभलक्षणभृतापि ॥ सत्यं यत्राकृतयस्तत्र गुणाः सततमेव निवसन्ति । रूपाधिका पुरन्ध्री वृत्तादिगुणान्विता प्रायः॥ इति । इति मिश्रकलक्षणम् । इह वपुष आपादतलकेशान्तानि व्यञ्जनादीन्यपि लक्ष- णान्यभिहितानि । अधुना आवर्तलक्षणं स्कान्दवचनक्रमेणा- भिधीयते ।। भविष्यपुराणे, आवर्तः पृष्ठतो यस्या नाभिरावर्तवर्जिता। --

स्त्रीलक्षणप्रकरणे आवर्तलक्षणम् । १८३
तस्याः यस्तु भवेद्भर्त्ता तस्यायु स्वमादिशेत् ॥
गुह्यावर्चा पति हन्ति नाभ्यावर्ता पतिव्रता।
कट्यावरी तु स्वच्छन्दा न कदाचिद्धि रज्यते ॥ इति ।
स्कान्दे काशीखण्डे,
पादे प्रदक्षिणावर्ती धर्मों वामे न शोभनः ।
नाभौ श्रुतावुरसि वा दक्षिणावर्त इंडितः ।।
सुखाय दक्षिणावर्तः पृष्ठवंशस्य दक्षिणे।
अन्तःपृष्ठं नाभिसमो बहायुःपुत्रवर्द्धनः ॥
राजपन्याः प्रदृश्येत भगमौलौ प्रदक्षिणः ।
स चेच्छकटभङ्गिः स्याद्पत्यसुखपदः ।
शकटभङ्गिश्चक्राकारः।
कटिगो गुह्यवेधेन पत्यपत्यनिपातनः ।
स्यातामुदरवेधेन पृष्ठावत्तौ न शोभनौ ।
एकेन हन्ति भर्तारं भवेदन्येन पुंश्चली ।
कण्ठगो दक्षिणावर्तो दुःखवैधव्यहेतुकः ॥
सीमन्तेऽथ ललाटे वा त्याज्यो दूरात्प्रयत्नतः।
सा पति हन्ति वर्षेण यस्या मध्येकृकाटिकाम् ।।
, प्रदक्षिणो वा वामो वा रोम्णामावर्तकः स्त्रियाः ।
एको वा मूर्द्धनि द्वौ वा स्यातां वामगती अपि ।।
आदशाहात् पतिनौ तु त्याज्यौं दूरात्सुबुद्धिना ।
कल्यावर्त्ता च कुलटा नाभ्यावा पतिव्रता ॥
पृष्ठावर्ता च भनी कुलटा चाथ जायते ॥ इति ।
जगन्मोहने समुद्रः,
त्रिष्वावलॊ भवेद्यस्या ललाट उदरे भगे।
त्रीणि सा भक्षयेन्नारी देवरं श्वशुरं पतिम् ।

१८४ वीरमित्रोदयस्य लक्षणप्रकाशे
आवतः पृष्ठतो यस्या न सा कल्याणभागिनी । :
बहून् सा रमते नारी दुःखितान् कुरुते सदा ॥ इति ।
विवेकविलासे
कटीकाटिकाशीर्षोदरभालेषु मध्यगः ।
नासान्ते च शुभो न स्यादावों दृष्टिगोऽपि सन् ॥
आवर्ता वामभागेऽपि स्त्रीणां संहारवृत्तयः ।
न शुभास्ते शुभो भालदक्षिणेऽङ्गे स दृष्टितः ॥ इति ।
सामुद्रतिलके,
आवों नारीणां प्रदक्षिणः पाणिपल्लवे व्यक्तः ।
दक्षे धनधान्यजनको न जातु शस्तः पुनर्नामे ॥ इति ।
इत्यावर्तलक्षणम् ।
अथ गन्धलक्षणम् ।
जगन्मोहने प्राह समुद्रः,
धान्यगन्धा च या नारी निम्बगन्धा च या भवेत् ।
वर्जनीया प्रयत्नेन यदीच्छेचिरजीवितम् ।।
क्षीरगन्धा त्यजेत्कन्यां तथा च क्षौद्रगन्धिनीम् ।
रक्तगन्धा च या नारी तां कन्यां परिवर्जयेत् ॥
गोमूत्रहरितालाभो गन्धो यस्याः प्रवर्तते ।
दुष्टगन्धा च या नारी वर्जनीया प्रयत्नतः ॥
तुम्बीपुष्पसमो गन्धोऽप्यथ लाक्षासमो भवेत् ।
न सा तु लभते गर्भ दुर्भगातीव जायते ।
चम्पकाशोकपुष्पाणां यदि गन्धो भवेत् स्त्रियाः ।।
सुभगा सा भवेन्नूनं भर्तुः स्यादंशवर्द्धिनी ॥
या च छुच्छुन्दरीगन्धा मत्स्यगन्धा च. या भवेत् ।
उग्रगन्धा चः या कन्या कन्यां तां परिवर्जयेत् ॥ इति ।
..

स्त्रीलक्षणप्रकरणे गन्धादिलक्षणानि। १८५
सामुद्रतिलके,
जातीचम्पकविचकिलशतपत्रबकुलकेतकीतुल्यः ।
स्वेदश्वसादिभवः प्रशस्यते योषितो गन्धः ।।
गन्धः सर्वाङ्गाणां मृगनाभीसत्रिभो भवति यस्याः ।
सा योषिदग्रमहिषी विहीनरूपापि भूमिपतेः ॥ इति ।
इति गन्धलक्षणम् ।
अथ छायालक्षणम् ।
सामुद्रतिलके,
छादयति लक्षणानि स्त्रीणामङ्गे तदुच्यते छाया ।
लावण्यं सौभाग्यं तां लक्षणवेदिनो ब्रुवते ॥
वस्त्वतिरिक्तं किश्चन महाकवीनां यथा गिरि स्फुरति ।
अङ्गे सुदृशां तद्वन्मनोहरा लवणिमच्छाया ।
सौभाग्यच्छायैव प्रमुखा निखिलेपु लक्ष्मनु स्त्रीणाम् ।
यदभावे भुवि वनिता पाञ्चालीवन भोगाही ।।
चित्तचमत्कृतिजननी हृदि सन्तोपं तनोति जगतोऽपि ।
या दृष्टापि स्पष्ट सा हि च्छाया तु शस्यते मुदृशाम् ।।
यासां सर्वाङ्गीणा विराजते लचणिमच्छाया ।
चित्रामिमास्तास्त्रिजगति माधुर्य समधिकं दधते ।।
रूपाकारविहीने शुभलक्षणविरहित नियतमई!
सौभाग्यमस्ति यस्याः सा ललना दुर्लभा सुबने :
यदि लावण्यच्छायाच्छन्नं शुभलक्ष्मरूपमई
तत्तद्वयसो योगेन हि शुनदुग्ध शर्करारूप में
इति छायालक्षणम् ।
अथ अत्यलक्षणन्द्र
सामुद्रतिलके,
२४

1
वीरमित्रोदयस्य लक्षणप्रकाशे
आपद्यपि सम्पद्यपि मुक्तमनोदुःखसुखमेकम् ।
अपगतविषादहरे हतशोकोत्साहमिह सत्त्वम् ॥
सत्त्वोपेता प्रायः सदया सत्यस्थिरातिगम्भीरा । ।
कौटिल्यशल्यरहिता हितकल्याणी भवति रमणी ।। इति ।
इति.सत्त्वलक्षणम् ।
अथ स्वरलक्षणम् ।
भविष्यपुराणे,
हंसकोकिलवीणाश्वशिखिवेणुस्वराः स्त्रियः।
प्राप्नुवन्ति बहून् भोगान् भृत्यानाज्ञापयन्ति च..: :
भिन्नकांस्यस्वरा नारी खरकाकस्वरा च या ।
रोगव्याधिभयं शाकं दारिद्रचं चाधिगच्छति ॥ इति ।
हेमाद्रावप्युक्तम्-
मेघौघकुररक्रौञ्चहंसदुन्दुभिनिःस्वना ।
कलविङ्कहिरण्याभपरपुष्टस्तु भाषिणी ॥
प्रशस्थते, इति शेषः।
सामुद्रतिलके,
गतकौटिल्यमदीनं स्निग्धं दाक्षिण्ययुक्तमकठोरम् ।
सकलजनसान्त्वनकर भाषितमिह योषितां शस्तम् ।।
नारी विभिन्नकांस्यक्राष्टुखरोलूककाककङ्करवा ।
दुःखबहुशोकशङ्कावैधव्यव्याधिभाग्भवति ॥ इति ।
इति स्वरलक्षणम् ।
अथ गतिलक्षणम् ।
भविष्यपुराणे,
इंसगोषचक्राइसिंहमातङ्गगामिनी।
स्वकुलं द्योतयेन्नारी माहिषी पार्थिवस्य च ।।
.

स्त्रीलक्षणप्रकरणे गत्यादिलक्षणांनि। १८७ चक्राहश्चक्रवाकाद्योतयेत् प्रकाशयेत् प्रसिद्धं कुर्यादित्यर्थः। श्वश्गालगतिर्निन्या या च वायसवव्रजेत् । । दासी मृगगतिनारी द्रुतगा स्याच बन्धकी ।। इति । इ. सामुद्रतिलके, मृदुसनिवेशितपदा मत्तमतङ्गजहंसगतितुल्या । सुभगा गतिः सुललिता विलसति वंसुधेशपत्नीनाम् ।।इति। इति गतिलक्षणम् । अथ वर्णलक्षणम् । भविष्यपुराणे, फलिनीरोचनाहेमकुङ्कुमपम एव च । वर्णः शुभकरः स्त्रीणां यश्च दूर्वाङ्कुरोपमः ।। इति । फालिनी श्यामा। सामुद्रतिलके, पङ्कजकिञ्जल्काभः स्त्रीणां नवतप्तकनकभङ्गनिमः। चम्पककुसुमसमानः स्निग्धो गौरः शुभो वर्णः॥ नवदुर्वाङ्कुरतुल्यः स्मेरश्यामार्जुनप्रसूनाभः । कान्तः श्यामो वर्णः सौभाग्य सुध्रुवां तनुते ॥ शुद्धोऽपि मध्यमः स्यात् कृष्णस्निग्धश्च कजलच्छायः । वायसतुण्डविडम्बी पुनर्जघन्यो घनविरूक्षः ॥ द्युतिमान् यो हरितालीविमिश्रनीलीनिमो भवति वर्णः । श्यामासन्निभवर्णो लावण्यगुणाधिकः स्त्रीणाम् ॥ इति । इति वर्णलक्षणम् । अत्र नरलक्षणे यो विशेषो नोक्तः स अत्रत्यस्तत्रावनन्त- व्यः । यश्चात्र विशेषो नोक्तः स चाविरुद्धः पुरुषलक्षणप्रकर- णोक्तोऽवगन्तव्यः । तदुक्तम्- १८८ वीरमित्रोदयस्य लक्षणप्रकाशे .. सामुद्रतिलके, यन्नोक्तं पूर्वस्मिन्नौचित्यात्तन्नरेऽपि नारीवत् । यदमुष्मिन्नपि न पुनः सकलं तन्नरवदप्यूह्यम् ।। इति । अथ प्रसङ्गात्कामशास्त्रोक्तानि पुरुपस्त्रीलक्षणान्युच्यन्ते । तत्र पुरुपः शशादिभेदेन चतुर्विधः । तदुक्तम्- स्मरदीपिकायाम् , शशो मृगो वृपश्चैव चतुर्थश्च हयस्तथा । कथितं च क्रमात्पुंसामेतज्जातिचतुष्टयम् ॥ इति । एतेषां लक्षणान्यपि क्रमेण तत्रैवोक्तानि । तत्र- शशो यथा, स्त्रीजितो गायनश्चैव नारीसत्त्वपर: मुखी । षडङ्गुलशरीरस्तु श्रीमांश्च शशको मतः ॥ इति । शरीरं लिङ्गम् । मृगो यथा, - अल्पभुग्धार्मिकश्चैव सत्यवादी प्रियम्बदः । अष्टाङ्गुलशरीरस्तु रूपयुक्तो मृगो मतः ।। इति । वृषो यथा, उपकारवशो नित्यं स्त्रीवशः श्लेष्मलस्तथा । स्वदशाङ्गुलमेढूंस्तु मेदस्वी वृषभो मतः ॥ इति । इयो यथा, लुब्धका कृषणश्चैव मिथ्यावादी च निर्भया । द्वादशाङ्गुलमेश्च कुशलो वै हयो मतः ॥ इति । अथ स्त्रीलक्षणम् । तत्र पनिन्यादिभेदेन स्त्री चतुर्विधा । तदुक्तम्- स्मरदीपिकायाम्, ..

स्त्रीलक्षणप्रकरणे पभिनीलक्षणम् ।
१८९
पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा ।
प्रत्येकं च वरस्त्रीणां ख्यातं जातिचतुष्टयम् ।। इति ।
रतिरहस्येऽपि,
पद्मिनी तदनु चित्रिणी ततः शङ्खिनी तदनु हस्तिनी विदुः।
उत्तमा प्रथमभाषिता ततो हीयते युवतिरुत्तरोत्तरा ॥इति ।
विवेकविलासेऽपि,
पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा ।
तत्तदिष्टविधानेनानुकूल्या स्त्री विचक्षणैः ॥ इति ।
तत्र पद्मिनीलक्षणमुक्तम्-
स्मरदीपिकायाम्,
शशिवदना बिम्बोष्ठी तन्वी ताम्रनखी तथा ।
मृदङ्गी लज्जिता श्यामा रक्तोपान्तविलोचना ।।
गायनी सुरतान्या च पारावतकलस्वना ।
स्वल्पाहारा सुकशी च पद्मगन्धा च पधिनी ।। इति ।
रतिरहस्ये,
कमलमुकुलमृद्वी फुल्लराजीवगन्धिः
सुरतपयसि यस्याः सौरभं दिव्यमङ्गे ।
चकितमृगशामे प्रान्तरक्ते च नेत्रे
स्तनयुगलमनल्पं श्रीफलश्रीविडम्बि ।।
तिलकुसुमसमानां बिभ्रती नासिकां या
द्विजगुरुमुरपूजाः श्रद्दधाना सदैव ।
कुवलयदलकान्तिः कापि चाम्पेयगौरी
विकचकमलकोशाकारकामातपत्रा ।।
विकसितकमलकोशाकारं कामातपत्रं गुह्यं यस्याः सेति
•.
विग्रहः।

वीरमित्रोदयस्य लक्षणप्रकाशे . व्रजति मृदु सलीलं राजहंसीव तन्वी . त्रिवलिललितमध्या हंसवाणी सुवेषा। मृदु शुचि लघु भुङ्क्ते मानिनी गाढलज्जा धवलकुसुमवासोवल्लभा पद्मिनी स्यात् ।। इति । सामुद्रतिलकेऽपि,. स्निग्धश्यामलकान्तिस्तिलकुसुमाकारनासिका सुभगा त्रिवलीतरङ्गमध्या वृत्तकुचा स्निग्धकृष्णकचा । पद्ममुखी मधुगन्धा पद्मायतलोचना प्रियालापा । विम्वाष्ठी इंसगतिधर्मरतिः पद्मिनी भवति ।। इति । मधुगन्धा पमरसगन्धा। इति पद्मिनीलक्षणम् । अथ चित्रिणीलक्षणम् । स्मरदीपिकायाम् , गौराङ्गी त्यक्तलज्जाच वाह्यसम्भोगसंरता । उत्तानशायिनी चोष्णा पारावतकलस्वना । स्निग्धाङ्गी मांसिकागन्धा स्वल्पकामा कृशोदरी। धूर्ती गुरुनितम्वा च चित्रिणी श्रीफलस्तनी ।। इतिः । मांसिका जटामांसी। रतिरहस्येऽपि, सुगतिरनतिदीर्घा नातिखा कृशाङ्गी स्तनजघनविशाला काकजङ्घोन्नतोष्ठी। मधुसुरभिरताम्बुः कम्बुकण्ठी चकोर- स्वरवचनविभागा नृत्यगीताद्यभिज्ञा ॥ मदनसदनमस्या वर्तुलोच्छ्नमन्त- मुंदु मदनजलाढ्यं रोमभिनातिसान्द्रः।

स्त्रीलक्षणप्रकरणे शविन्यादिलक्षणम् । १९१
प्रकृतिचपलाष्टिा सम्भोगरता
रसयति मधुराल्पं चित्रिणी चित्ररक्ता ।। इति ।
इति चित्रिणीलक्षणम् ।
अथ शब्जिनीलक्षणम् ।
स्मरदीपिकायाम् ,
शङ्खिनी कोपना चोष्णा दीर्घाऽदीर्घशिरोरुहा ।
वृत्ताङ्गी क्षारगन्धा च नातिस्थूला न दुर्बला ॥
गौरागी तीक्ष्णानासा च पीनस्तनविलक्षणा ।
विशालजघना क्रूरा सुरताब्या च शङ्खिनी ।। इति ।
रतिरहस्य,
तनुरतनुरपि स्याद्दीर्घदेहाध्रिमध्या
ह्यरुणकुसुमवासकासिणी कोपशीला ।
अनिभृतशिरमॉ दीर्घनिम्नं वहन्ती
स्मरगृहमतिरोम क्षारगन्धि स्मराम्बुः ॥
सामुद्रतिलके,
विषमकुचा विषगन्धा दीर्घप्रस्तोरुनासिकानयना ।
तनुकेशी खरचित्ता शङ्खरवा शङ्खिनी योषित् ॥ इति ।
इति शशिनीलक्षणम् ।
अथ हस्तिनीलक्षणम् ।
स्मरदीपिकायाम्,
स्थूला दृढकुचा क्रूरा फुल्लनासातिशीतला।
खर्वा च खर्वनासा च बहुलोत्पलकामुखी ।।
मदगन्धतनुर्नित्यं मत्तमातङ्गगामिनी ।
लुब्धा पीनस्तनी श्यामा हस्तिनी सा प्रकीर्तिता ।।

१९२
वीरमित्रोदयस्य लक्षणप्रकाशे
रतिरहस्ये,
अललितगतिरुचैः स्युलवकाङ्गुलीक
वहति चरणयुग्मं कन्धरां इस्वपीनाम् ।
कपिलकचकलापा क्रूरचेष्टातिपीना
द्विरदमदसुगन्धिः स्वाङ्गकेऽनङ्गाके च ॥
द्विगुणकटुकपायप्रायभुग्वीतलज्जा
ललदतिविपुलोप्टी दुःखसाध्या प्रयोगे ।
वहिरपि तनुरोमात्यन्तमन्तर्विशालं
वहति जघनरन्ध्र हस्तिनी गद्गदोक्तिः ॥ इति ।
सामुद्रतिलके,
स्थलदशना सुमध्या गजखरनादा मदोत्कटा चपला ।
इस्वोरुभुजग्रीवाजङ्घा वादित्रगीतरतिः ॥
स्निग्धतरङ्गितकेशी पीनोन्नतवृत्तकुचकलशा ।
मत्तमतङ्गजगमना मदुगन्धा हस्तिनी भवति ॥ इति ।
रतिरहस्ये,
पमिनी पद्मगन्धा स्यान्मधुगन्धा च चित्रिणी।
शालिनी क्षारगन्धा च निम्वगन्धा च हस्तिनी ॥
इति हस्तिनीलक्षणम् ।
अर्थतेषां योग उक्त:-
स्मरदीपिकायाम्,
शशकं पद्मिनी गच्छञ्चित्रिणीं च,मृगस्तथा ।
शङ्खिनी उपभचैव हस्तिनी च हयस्तथा ।।
रमते तुल्यभावेन तथा समरतं भवेत् ।
उच्चनीचातिनीचैश्च तथात्युच्चविवर्जितम् ।।
ख्यातं समरतं चैव तद्विहन्त्यन्यथा स्त्रियः ।

.
.
...
1.
स्त्रीलक्षणप्रकरणे मृग्यादिशशादिस्खीपुरुषलक्षणानि।१९३
स्त्रीणां विषयसाम्यं तु ज्ञात्वा मैथुनमाचरेत् ।।
समाने सुखसम्पत्तिरन्यथा प्रद्विषन्ति ता: 1..
मृदुह्रस्वध्वजो यत्र प्रियोऽशक्तो द्रुतच्युतिः ।।
यत्र स्वीणां च काठिन्यं तत्र नीचरतं भवेत् ।
श्रूयते चैव कार्णाटे कान्तया निहतः पतिः ।।
सामुद्रतिलके तु विशेषः।
स्मरशास्त्रविनिर्दिष्टाः शशो वृषो हय इति त्रयों भेदाः ।
जायन्ते मनुजानां क्रमेण तल्लक्ष्म विवृणोमि ॥
लिङ्ग षडङ्गुलानि स्यादष्टौ वा स्फुटं शशः स पुमान् ।
नव दश चैकादश वा तदपि पुनर्यस्य स वृषाख्यः ।।
द्वादश यल्लिङ्ग स्यात्रयोदशादीनि वाङ्गुलानि भवेत् ।
जातोद्भवस्य. मानं हयाख्यया निगदितः सोऽपि ।।
जातोद्भवस्य जातकामस्य ।
रतिषु शशषहयानां सह मृग्यादिभिरकृत्रिमा प्रीतिः ।
मेहनवराङ्गनाड्योः परस्परेण प्रमाणैक्यात् ॥
इह भवति मुगीवडवाकारिणीभेदेन कामिनी त्रेधा ।
तासां लक्षणमधुना दिङ्मात्रमनूद्यते क्रमशः ॥
यस्याः षडङ्गुलानि स्यादष्टौ वा सरोजमुकुलामा ।
नाडी वराङ्गमध्ये निगद्यते सा मृगी युवतिः ॥
सापि नव दशैकादश यस्याः स्यादङ्गुलानि वडवा सा ।
सैव द्वादश यदि वा त्रयोदशादीनि सा करिणी ।।
प्रायेण मृगीघडवाकरिणीनां जायते सह शशायैः ।
प्रीतिः सहजा मनुजैर्यथाक्रम सम्प्रयुक्तानाम् ॥ इति ।
इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमअरी-
, २५

१९४ वीरमित्रोद्यस्य लक्षणप्रकाशे - नीराजितचरणकमल- श्रीमन्महाराजाधिराजप्रतापरुद्रतनूज- श्रीमन्महाराजमधुकरसाहसूनु- चतुरुदधिवलयवसुन्धराहृदयपुण्डरीकविकासदिनकर- श्रीमन्महाराजाधिराज- श्रीवीरसिंहदेवोद्योजित- श्रीहंसपण्डितात्मजश्रीपरशुराममिश्रसूनु- सकलविद्यापारावारपारीणजगद्दारियमहागंजपारीन्द्र- विद्वज्जनजीवातु- श्रीमन्मित्रामिश्रकृते श्रीवीरमित्रादयाभिधनिबन्धे लक्षणप्रकाशे स्त्रीलक्षणमकरणं समाप्तम् ।

राजचक्रलक्षणप्रकरणे राजलक्षणंम् ।. १९५ - . अथ राजचक्रलक्षणप्रकरणम् । तत्र राजलक्षणम् । अराजके हि लोकेऽस्मिन् सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः ।। इति ब्रह्मणा प्रजारक्षार्थ राजा सृष्ट इति मनुरुक्तवान् । तत्र- उक्तैरनुक्तैस्तु गुणैरनेकैरलङ्कतो भूमिपतिश्च कार्यः । सम्भूय राष्ट्रप्रवरैर्यथावत् राष्ट्रस्य रक्षार्थमदीनसत्त्वः ।। इति विष्णुधर्मोत्तरवचनेन राज्ञि मृते राज्याधिकारिणि तदीये पुत्रादौ वाऽसति अन्यकुलीनों राजा राष्ट्ररक्षार्थ राष्ट्र- मुख्य राज्येऽभिषेक्तव्य इत्युक्तम् । स च किंलक्षणोपेत इति तल्लक्षणमभिधीयते । विष्णुधर्मोत्तरे, पुष्कर उवाच । सर्वलक्षणलक्षण्यो विनीतः प्रियदर्शनः । अदीर्घसूत्रो धर्मात्मा जितक्रोधो जितेन्द्रियः॥ विनीतः विनययुक्तः । प्रियदर्शनः प्रियं दर्शनं यस्य सः यस्य राज्ञो दर्शने जाते स्वस्य इष्टं भवति । अदीर्घसूत्रः अव. श्यकार्याणां कर्मणामारम्भे प्रारब्धानां च समाप्तौ योऽत्यन्तं न विलम्बते सः । स्थूललक्षो महोत्साहः स्मितपूर्वाभिभाषकः । सुरूपः शीलसम्पन्नः क्षिपकारी महावलः ॥ स्थूललक्षो वहुदीर्घार्थदर्शी । महोत्साहः महानुत्साहः पुरु- पार्थसाधनकौरम्भाध्यवसायो यस्य सः। ब्रह्मण्यश्चाविसंवादी दृढभक्तिः प्रियंवदः । . .

; चीरमित्रोदयस्य लक्षणप्रकाशे
अविसवादी ब्राह्मणेषु । दृढभक्तिरपि ब्राह्मणादिष्वेव ।
अलोलुपः संयतवाग्गम्भीरः प्रियदर्शनः ।।
नातिदण्डो न निईण्डश्चारचक्षुरजिह्मगः ।
व्यवहारे समः प्राप्ते पुत्रेण रिपुणा सह ।।
रथे गजेऽश्वे धनुपि व्यायामे च कृतश्रमः ।
उपवासतपाशीलो यज्ञयाजी गुरुपियः ।।
मन्त्रिसांवत्सराधीनः समरेष्वनिवर्तकः ।
सांवत्सरो ज्योतिर्वित् ।
कालज्ञश्च कृतज्ञश्च नृविशेषज्ञ एवं च ॥
कृतज्ञः परकृतोपकारापकारौ न विस्मरतीति सः ।
पूज्यपूजयिता नित्यं दण्ड्यदण्डयिता तथा ।
पाड्गुण्यस्य प्रयोक्ता च शक्त्युपेतस्तथैव च ॥
षड्गुणाः सन्धिविग्रहयानासनद्वैधीभावसंश्रयाः । तल्लक्षण
च विष्णुधर्मोत्तर एव उक्तम्-
सन्धिश्च विग्रहश्चैव यानमासनमेव च ।
द्वैधीभावः संश्रयश्च पाइगुण्यं परिकीर्तितम् ।।
पणवन्धः स्मृतः सन्धिरपकारस्तु विग्रहः ।
जिगीषोः शत्रुविषये यानं यात्राभिधीयते ।
विग्रहेऽपि स्वके देशेऽच्युतिरासनमुच्यते ।
बलाद्वैरिमारणं तु द्वैधीभावः स उच्यते ।।
उदासीने मध्यमे वा संश्रयात्संश्रयः स्मृतः । इति ।
एतेषां प्रयोगकालश्च तत्रैवोक्तः ।
समेन सन्धिरन्वेष्या हीनेन च बलीयसां ।
हीनेन विग्रहः कार्यः स्वयं राज्ञा बलीयसा ।।
तत्रापि तस्य पाणिस्तु बलीयान्न समाश्रयेत् ।।..

स्मृतिमान् अवगताविस्मरणशीलः अक्षुद्रा असद्गुणद्वेपी ।
अपरुषः परदोषाकीर्तनः । धार्मिक वर्णाश्रमधर्मान्विता 12
.
राजचक्रलक्षणप्रकरणे राजलक्षणम् । १९७
पाणिः सेनापृष्ठम् । न समाश्रयेत् विग्रहं न कुर्यादित्यर्थः ।
आसीनः कर्मविच्छेदं शक्तः कर्तुं रिपुर्यदा ॥
अशुद्धपाणिवलवान्दैधीभाव समाश्रयेत् ।
बलिना विगृहीतस्तु योऽसन्धेयेन पार्थिवः ।।
संश्रयस्तेन कर्तव्यो गुणानामधमो गुणः।
वहुक्षयव्ययायासं तेषां यानं प्रकीर्तितम् ।।
बहुलाभकरं च स्याचदा राम समाश्रयेत् ।
सर्वशक्तिविहीनस्तु तदा कुर्यात्तु संश्रयम् ॥
एवं च बुद्धा नृपतिर्गुणानां काले च देशे च तथा विभागे।
समाश्रयेद्भार्गववंशमुख्य एतावदुक्तं नृपतेस्तु कार्यम् ।। इति ।
शक्तयः प्रभावोत्साहमन्त्रजास्तिस्रः।
उक्तैरनुक्तस्तु गुणैरनेकैरलङ्कतो भूमिपतिश्च कार्यः ।
सम्भूय राष्ट्रप्रवरैर्यथावत् राष्ट्रस्य रक्षार्थमदीनसवः ।। इति।
याज्ञवल्क्य,
महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः ।
विनीतः सत्त्वसम्पन्नः कुलीनः सत्यवाक् शुचिः ॥
वृद्धसेवकः तपोज्ञानादिवृद्धानां सेवकः । सत्वसम्पन्नास
म्पदापदोहर्षविषादरहितः । शुचिः बाह्याभ्यन्तरशौचयुक्तः ।
अदीर्घसूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा ।
धार्मिकोऽव्यसनश्चैव प्राज्ञः शूरो रहस्यवित् ॥
---
व्यसनः व्यसनरहितः । व्यसनान्याह--
मनु,
दिवास्वापः परिवादः
पदः।
,

1. • १९८ . वीरमित्रोदयस्य लक्षणप्रकाशे तौर्यत्रिकं वृथात्यागः कामजो दशको गणः । पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ।। इति । एषु सप्त कष्टतमानि । यथाह- स एव, पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । एतत्कष्टतमं विद्यात् चतुष्कं कामजे गणे ।। दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात् कष्टमेतत्रिकं सदा ॥ इति । प्राज्ञः गम्भीरार्थावधारणक्षमः । शूरः निर्भयः। रहस्यवित गोपनीयार्थगोपनचतुः। स्वरन्ध्रगोताऽऽन्वीक्षिक्यां दण्डनीत्यां तथैव च । विनीतस्त्वंथ वार्तायां त्रय्यां चैव नराधिपः ।। स्वरन्ध्रगोप्ता स्वस्य सप्तमु राज्याङ्गेषु यत्परप्रवेशद्वारशैथि- ल्ये तत्स्वरन्धं तस्य गोप्ता प्रच्छादयिता । राज्याङ्गान्याह- याज्ञवल्क्यः, स्वाम्यमात्या जनो दुगै कोशो दण्डस्तथैव च । मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गमुच्यते ॥ इति । :.. महोत्साहायुक्तलक्षणो महीपतिः स्वामी । अमात्या मन्त्रि- पुरोहितादयः । जनो ब्राह्मणादिमजा । दुर्ग धन्वदुर्गादि । कोशः सुवर्णादिद्रव्यराशिः । दण्डो हस्त्यश्वरथपदातिलक्षणं च- तुरङ्गवलम् । मित्राणि सहजपाकृतकृत्रिमाणि । एताः स्वाम्याद्या राज्यस्य प्रकृतयो मूलकारणानि। एवं सप्ताङ्गं राज्यमुच्यते। आ- न्वीक्षिक्यामात्मविद्यायाम, दण्डनीत्यामर्थयोगक्षेमोपयोगिन्याम्, वार्तायां कृपिवाणिज्यपशुपालनरूपायां धनोपचयहेतुभूतायाम्,

राजचक्रलक्षणप्रकरणे राजलक्षणम् ।
१९९
ऋग्यजुःसमसंज्ञायां च विनीतस्तत्तदभिः प्रवीण्यं नी-
एवम्भूतो नराधिपः कार्य इति सम्बन्धः । अन्यदप्युक्तम्-
महाभारते,
मन्त्रिगुणानुक्त्वा-
एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः।
एष्टव्यो धर्मपरमः प्रजापालनतत्परः ॥
धीरो मर्षी शुचिस्तीक्ष्णः काले पुरुषकारवित् ।
शुश्रूषुः श्रुतवान् श्रोता उहापोहविशारदः॥
मेधावी धारणायुक्तो यथायुक्तोपपादकः ।
दान्तः सदा प्रियाभाषी क्षमावांश्च विपर्यये ॥
दानशूरः स्वयङ्कारी साध्वाचारः सुदर्शनः ।
आर्तहस्तप्रदो नित्यमाप्तामात्यो नये रतः ॥
नावादी न निर्द्वन्द्वो न यत्किञ्चनकारकः ।
न निर्द्वन्द्वः शीतोष्णादिसहिष्णुः ।
कृते कर्मण्यमात्यानां कर्त्ता मृत्यजनप्रियः ।।
सङ्गृहीतजनः स्तुत्यः प्रसन्नवदनः सदा ।
सदा मृत्यजनावेक्षी अक्रोधी सुमहामनाः ।।
युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासकः ।
चारनेत्रः प्रजावेक्षी धर्मार्थकुशलः सदा ॥
राजा गुणशताकर्णि एष्टव्यस्तादृशो भवेत् । इति ।
प्रतैरेव गुणैर्युक्त इत्याद्यष्टगुणा मन्त्रिलक्षणे द्रष्टव्याः।
रामायणेऽपि,
धर्मात्मा सत्यवादी च शीलवाननसूयकः ।
दान्तः सत्त्वहितः प्राज्ञः कृतज्ञो विजितेन्द्रियः ।।
मृदुश्च स्थिरत्तिश्च नित्यं दीनानुकम्पकः ।. .. .. ..

. .२०० वीरमित्रोदयस्य लक्षणप्रकाशे. प्रियवादी जितक्रोधो दीर्घदर्शी महामतिः ॥ बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता । तेन तस्यातुला कीर्चिशस्तेजश्च वर्द्धते ।। समाप्तश्च धनुर्वेदे हयपृष्ठे गजे रथे। लव्धास्त्रः शब्दवेधी च दूरपाती दृढायुधः ॥ इति । इति राजलक्षणम् । अथ पट्टमहिषीलक्षणम् । यत्र- एवं गुणगणोपेता नरेन्द्रेण सहाऽनघ । अभिपेच्या भवेत् राज्ये राज्यस्थेन नृपेण वा ।। राज्ञानमहिषी कार्या सर्वलक्षणलक्षिता । इति विष्णुधर्मोचरादिवचनै राज्ञा सहाग्रमहिपी अभिषे- क्तव्या । अथ.वा. अभिषिक्तेन राज्ञा पश्चात्स्वयमभिपेक्तव्येत्यु- क्तम् । तत्र किंलक्षणोपेतेति तल्लक्षणमभिधीयते । विष्णुधर्मोत्तरे, पुष्कर उवाच । राज्ञानमहिषी कार्या सर्वलक्षणलक्षिता विनीता गुरुभक्ता च ईर्ष्याक्रोधविवर्जिता ॥ राजः प्रियहितासक्ता चारुवेषा प्रियंवदा । भृतामृतजनज्ञा च भूतानामन्चवेक्षिणी ॥ अमृतानां जनानां च भूविकर्मप्रवर्तिनी । रागद्वेषवियुक्ता च सपनीनां सदैव या ।। भोजनासनपानेन सर्वेपामन्ववेक्षिणी। सपत्नीपुत्रेष्वपि या पुत्रवत्परिवर्चते ॥ मन्त्रिसांवत्सरामात्यान् या च पूजयते सदा । ।

२ ४ ... ३ ... २ २ • - (१५) शिवस्तोत्रावली । उत्पलदेवविरचिता । प्रमैयरत्नार्णवच श्रीक्षेमराजविरचितवृत्तिसमेता(वेदान्तः)२ (२९) अनुमानचिन्तामणिव्याख्यायाः शिरोम. (१६) मीमांसावालप्रकाशः जैमिनीयद्वादशा: णिकृतदीधित्या जागदीशी टीका । १३ ध्यायार्थसंग्रहः श्रीभट्टनारायणात्मजभट्ट- (३०) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्र- शङ्करविरचितः । (मीमांसा) मिश्रविरचितः परिभाषा-संस्कारप्रका- (१७) प्रकरणपञ्चिका प्रभाकरमतानुसारि--मी- शात्मकः। १० मांसादर्शनम् । महामहोपाध्यायश्रीशालि. (३२) वारमित्रोदयः । महामहोपाध्यायत्रीमि- कनाथमिश्रविरचितम् श्रीशङ्करभट्टकृता वामिश्राविरचितः आहिकप्रकाशः मीमांसासारसंग्रहश्च सम्पूर्णः (मीमांसा) ३ | (१२) स्मृतिसारोद्धारः विद्वद्वरविश्वम्भरत्रिपाठि- (१८) अद्वैतासद्धिसिद्धान्तसारः । पण्डितप्रवर संकलितः श्रीसदानन्दव्यासप्रणीतस्तत्कृतव्याख्यास- (३३) वेदान्तरत्नमञ्जूषा । श्रीभगवत्पुरुषोत्त- मलङ्कृतः । (वेदान्तः) माचार्यकृता। (१९) कात्यायनश्रौतसूत्रम् । महामहोपाध्याय- | (३४) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषोन- श्रीकर्काचार्यविरचितभाष्यसहितम् । १३ मजीमहाराजविरचितः (२०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविर- (१५) वेदान्तपारिजातसौरभ नाम ब्रह्ममीमांसा- चितं असम्पूर्णम् (वेदान्तः) भाष्यं श्रीनिम्बार्काचार्यविरचितम् । १ (२१) श्रीहर्षप्रणीतं खण्डनखण्डखाद्यम् । आ- (२६) योगदर्शनम् । परमहंसपरिव्राजकाचार्य- नन्दपूर्णविरचितया खण्डनफक्किकावि नाराणतीर्थविरचित-योगसिद्धान्तचन्द्रि- भजनाख्यया व्याख्यया विद्यासागरीतिप्र कासमाख्यया व्याख्यया संवलितम् । २ सिद्धया समेतम् । (वेदान्तः) १३ / (१७) वेदान्तदर्शनम् । परमहंसपरिवाजका- (२२) आख्यातचन्द्रिका श्रीभमल्लविरचितार चार्यश्रीरामानन्दसरस्वतीस्वामिकृत ब्रह्मा- (२३) श्रीलक्ष्मीसहस्रम्-बालबोधिनीव्याख्य ऽमृतवर्षिणीसमाख्यव्याख्यासंवलितम् ।। याऽवतरणिकया च सहितम् । ८(३८) विश्वप्रकाशः । कोशः । विद्वद्वरश्रीम- (२४) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीब्रजनाथभ- हेश्वरसूरिविरचितः। ट्टकृता (वेदान्तः) २ (३९) श्रीसुबोधिनी । श्रीवलभाचार्यविनिर्मिता (२५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्करसि श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठलना- द्धान्तवागीशविरचितानि अनुमानजागदी थदीक्षितविरचितटिप्पणीसहिता। श्याः प्रत्यक्षानुमानगादाधर्याः प्रत्यक्षानु-(४०) वीरमित्रोदयः । महामहोपाध्यायभीमि- मानमाधुर्या व्युत्पत्निवादस्य शक्तिवादस्य घमिश्रविचितः पूजाप्रकाशः। मुक्तिवादस्य शब्दशक्तिप्रकाशिकायाः कु-(४१) वेदान्तसिद्धान्तसंग्रहः । श्रुतिसिद्धान्ताप- सुमाञ्जलेश्च क्रोडपत्राणि रनामकः । श्रीब्रह्मचारिवनमालिमिश्रविर- (२६) बह्मसूत्रम्, द्वैताद्वैतदर्शनम् । श्रीसुन्दरभ चितः । द्वैताद्वैतदर्शनानुगतः। २ ट्टरचितसिद्धान्तसेतुकाभिधटीकासहि- | (४२) स्वानुभवादर्शः। श्रीमत्परमहंसपरिव्राज- तश्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम्र काचार्यनारायणाश्रमाशष्यमाधवाश्रमावर- (२७) षड्दर्शनसमुच्चयः । बौद्धनैयायिकका चितः । स्वकृतटीकाविभूषितश्च । पिलजनवैशेषिकजैमिनीयदर्शनसंक्षेपः ।। (४३) याज्ञवल्कस्मृतिः । बालम्भट्टीसमाख्य- मणिभद्रकृतटीकया सहितः । हरिभद्रमू व्याख्यासमलङ्कृतमिताक्षरासहिता ।व्य- रिकृतः। १ वहाराध्याय (२८) शुद्धाद्वैतमार्तण्डः प्रकाशव्याख्यासहितः। (४४) गावाधरी । श्रीगदाधरभट्टाचार्यचक्रव- २ २ ४ २ १ ...

.
तिकृता । श्रीगड्शोपाध्यायावराचततत्त्व ध्यायापनामक श्रीनागेशभट्टाविरचिता ।
चिन्तामण्या श्रीरघुनाथतार्किकशिरोमणि श्रीमदुर्यनाचार्यविरचितकुन्निकाटीका-
विरचितदीधित्या च गर्भिता।
श्रीमद्वालम्भवविरचितकलाटीका' इतिः
(१५) शास्त्रदीपिका । श्रीपार्थसारथिमित्र प्रणि-
टीकाव्यसंवलिता-
ता। रामकृष्णविरचितयुक्तिस्नेहप्रपुरण्या- 1. (४७) व्याकरणसिद्धान्तसुधानिधी । पर्वतीय
ख्यव्याख्ययातथासोमनाथकृतया मयुख विश्वेश्वरमरिविरचितः।
३.
मालिकया च व्याख्यया समलङ्कृता ।३ । (१८) विरमित्रोदयः । लक्षणप्रकाशः ।
(४६) वैयाकरणसिद्धान्तमञ्जूया । श्रीमदुपा महामहोपाध्यायधीमित्रमियविरचितः.
.
पत्त्रादिप्रेषणस्थानम्
हरिदासगुप्तः,
चौखम्वा वनारस सिंटी

No text on this page.

The Chowkhamba Sanskritseries Vol.xx

Author
Misra, M. P. Mitra
Title
The Chowkhamba Sanskritseries Vol.xx
File name
The Chowkhamba Sanskritseries Vol.xx
Text
OCR done
Published
2010/04
Publisher
Benares, Vidya Vilas Press.
Language
Sanskrit
Pages
104
Library
Central Library, University Of Rajasthan
DLI number
325523
Barcode
99999990003409.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
DnSGAuz1pyi
Download PDF

The Chowkhamba Sanskritseries Vol.xx