Central Library, Bits- Pilani

संगीतसमयसार

Shaastrii Tii Ganapati · 2005/06/13

PDF Proofread

Front matter

Birla Central Library
PULANI (Jaipur State)
Class No :-.5 780
P215 ST
Book No :-
Accession No :- 16506
REQUES
IT IS EARNESTLY DERED THAT THE
BOOK BE HANDLED WITH CARE AND BE
NOT MARKED, UNDERLINED OF DISFIGUR
ED IN ANY OTHER WAY. CTHERWISE IT
WILL HAVE TO BE REPLACED OR PAID
FOR BY THE BORROWER IN THE INTEREST
OF THE LIBRARY
LIBRARIAN

No text on this page.

No text on this page.

TRIVANDRUM SANSKRIT SERIES
No. LXXXVII.
THE
SANGÎTASAMAYASHRA
SANGÎTÂKARA SR PÂRSVADEVA
EDITED BY
MAHÂMAHOVÂDILYÁJA
T. GANAPATI SÂStkî
llonorary Jember of the Royal Asiatic Society of Great Britain and Irelani
Honorary Doctor of Philosophy. University of Tubingen,
(urator of the Department for the Publication of
Samskril ramseripla, Torundrum.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HER HIGHNESS THE MAHARANI REGENT OF TRAVANCORE.
TRIVANDRUM:
PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS.
1925.
(All Rights Reserved.)

No text on this page.

अनन्तशयनसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्कः ८७.
सङ्गीताकरनामधेयश्रीपार्श्वदेवविरचितः
सङ्गीतसमयसारः
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
लण्डनपुरस्थराजकीयैप्याखण्डीयविद्यासेवकसमाजपूज्यसभ्यपदभाजा
पिहेच. डि. (टूविक्षन् ) पदसत्कृतेन
महामहोपाध्यायन
त. गणपतिशास्त्रिणा
संशोधितः ।
सच
अनन्तशयने
महामहिमश्रीसेतुलक्ष्मीमहाराज्ञीशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशितः ।
.
कोलम्बाब्दाः ११०१, ऊस्ताब्दाः १९२५.

No text on this page.

Rit. Sangitasamayasâra is the first work on music offered to the public in the Trivandrum Sanskrit Series. A manuscript of this work in Malayalam characters about two or three centuries old was obtained from the Punjar Palace in the year 1917; and as no other manuscript has been procured notwithstanding any long search for it, this edition is prepared with the help of the solitary manuscript. The author of the work is Pârsvadeva as is evident from the colophon at the end of the manuscript, "इति श्रीमदभिनवभरताचार्य- सरविमलहेर्मणार्यविद्यापुत्रश्रुतिज्ञानचक्रवर्तिसङ्गीताकरनामधेयपार्श्वदेवविरचिते." It is not known when and where the iluthor lived, but it is probable that he was of Jain persuasion inasmuch as le bore the name of Pârsvanátha, one of the Jain Tirthankaras. TRIVANDRUM, 22-2-1101. T. GANAPATI SÂSTRÍ.

No text on this page.

निवेदना। अस्मत्संस्कृतग्रन्थावलौ सङ्गीतशास्त्रस्येदम्प्रथममेतद् प्रथनम् । ग्रन्थश्चायं सङ्गीत- समयसार इत्याख्यातः । अस्यैकस्तालपत्रादर्शः केरलीयलिपित्रिवर्षशतवृद्धः १९१७ तमे वर्षे पूमार् राजगृहग्रन्थालयाद् मया समासादितः । कृतेऽपि चिरान्वेषणेऽस्य द्विती- यादर्शानुपलम्भाद् उपजाततदुपलम्भनैराश्येन तमेवैकमुपलब्धचरमादर्शमाश्रित्य प्र- न्थोऽयं संशोधितः, उपलब्धभागावधिरधुना प्रकाश्यते । "इति श्रीमदभिनवभरताचार्यसरविमलहेर्मणार्यविद्यापुत्रश्रुतिज्ञानचक्रवर्तिसङ्गी- ताकरनामधेयपार्श्वदेवविरचिते” इति ग्रन्थान्तिमवाक्यात पार्थदेवोऽस्य ग्रन्थस्य प्रणे- तेति ज्ञायते । तस्य कोऽभिजनदेशो जीवितकालो वेति नावगच्छामः । किन्तु म जैन इत्येतावदनुमातुं शक्नुमः, यतो जैनतीर्थक्करेप्वन्यतमस्य पार्श्वनाथस्य तत्रभवतो नाम- धेयेनात्मानं व्यपदिशंस्तद्भक्तत्वमात्मन आविष्करोति । अनन्तशयनम्, २२-२-११०१. त. गणपतिशास्त्री.

No text on this page.

- पृष्टम्. १९ " सायारी 1 ॥ २० " ५ २१ . सङ्गीतसमयसारविषयानुक्रमणिका । विषयाः. पृष्ठम्. विषयाः. प्रथमाधिकरणे- गुण्डकृतिः नादोत्पत्तिः १ गूर्जरी नादभेदः देशी ध्वनिस्वरूपं तनंदाश्च वेलाउली मिश्रध्वनिः अन्धाली शारोरलक्षणम् गीतलक्षणं, तदाश्च ३ फलमञ्जरो आलप्तिभेदाः, तल्लक्षणानि ललिता वर्णाश्रयालङ्कारा: कैशिकी नाट्टा द्वितीयाधिकरणे- शुद्धवराटी आलप्तिभेदाः श्रीकण्ठी सैन्धववराटी स्थायानामानि स्थायानां करणानि कुन्तलवराटी अवस्थानवराटी तेषां स्वरूपकथनम् प्रतापवराटी हतस्वरवराटी तृतीयाधिकरणे- द्राविडवराटा रागाङ्गानि १५ रामक्रि: स्वरव्यवस्था कम्भाती उपाझरागाः १६ कर्णाटगौडः क्रियागरागाः रागलक्षणम् द्राविडगौडः मध्यमादि तुरुष्कगौडः तोडि महाराष्ट्रगूर्जरी बसन्तः सौराष्ट्रगूर्जरी भैरवः दक्षिणगूर्जरी श्रीरागः १८ द्राविडगूर्जरी शुद्धवाल: छायानाट्टा मालवश्रा मल्हारी वराटी मल्हार: गौडः भैरवा धनासी भल्लाती " . " " देशालगौडः २२ " |७ " " " " " " " २३ " २ विषयाः. विषयाः. अंशः पृष्ठम्. पृष्ठम्. विषमपाणिपाटः ४७ अवघटपाट: " नागबन्धपाट: ३१ ३४ चतुर्थाधिकरणे- ढेकीसामान्यलक्षणम् पादकरणम् बन्धकरणम् स्वरपदकरणम् ।चेत्रकरणम् तेन्नकरणम् मिश्रकरणम् वर्तनी विवतेनी स्वरायः समग्रहपाट: बोल्लावा चलावणी चारुश्रवणिका परिश्रवणिका दण्डहरतः " " समप्रहारः घनरवः " " गद्यम् लम्भक: ५२ " अवनद्वम् सुघनं वाद्यम् चतुर्विधवाद्यानि यत्यादयः प्रबन्धाः यतिः ओता ओण्ठवणी अवच्छेदः कविते जोडणी चण्डणी " " रासकः एकताली एकादश ध्रुवा: गानक्रमः ३८ " ५३ पञ्चमाधिकरणे- वाद्यभेदाः, तल्लक्षणानि च पताकादयो हस्ता: उत्फुल्ल खलकः पाण्यन्तरनिगृहकः पदम् समहस्त: पैसारः : ४ " " ओत्वरम् झेङ्कारः देकार: ५४ " " मलप: युगहस्तः तोरहस्तः पिण्डहस्तः ऊर्ध्वहरतः समपाणिपाटः पाणिहस्तपाटः स्वस्तिकपाटः . मलपाकम् पहरणम् अन्तरी " . दुवकरी जवनिका विषयाः. पृष्ठम्. पुष्पाञ्जलिः पृष्ठम्. विषयाः. ५५ सप्तमाधिकरण- तालस्वरूपम् तालोद्देशः ताललक्षणम् ८० षष्ठाधिकरणे- अभिनयस्वरूपम् नव शिरांसे चत्वारि वक्षांसि परिभाषा चतुर्विशतिः संयुक्तहस्ताः प्रयोदश संयुक्तहस्ताः चतुर्विधहस्तकरणम् हस्तलक्षणम् ५७ अष्टमाधिकरणे- वादनिर्णयः वादाङ्गानि तल्लक्षणानि च वादहेतवः वादिगुणदोषाः ६ ६४ . नवमाधिकरण- चतुर्विधः पार्थः प्रस्तारः ९३ ९५ ६५ " " कोटलक्षणम् पञ्चविधपादतललक्षणम् अष्टदर्शनलक्षणम देशास्थानलक्षणम् पयपाललक्षणम उत्प्लुतीकरणम् द्रुतसंख्या लघुसंख्या उद्दिष्टम् द्रुतस्यैकयादिलघुक्रिया लवकन्यादिलघुक्रिया अध्वयोगः .

No text on this page.

॥ श्रीः॥ सङ्गीतसमयसारः सङ्गीताकरनामधेयश्रीपार्श्वदेवविरचितः । प्रथममधिकरणम् । नादोत्पत्तियथाशास्त्रमिदानीमभिधीयते । स्वरो गीतं च वाद्यं च तालश्चेति चतुष्टयम् ।। १ ॥ न सिध्यति विना नादं तम्मान्नादात्मकं जगत् । नादात्मानस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥ २ ॥ नाभौ यद् ब्रह्मणः स्थानं ब्रह्मग्रन्थिश्च यो मतः । प्राणस्तन्मध्यवर्ती स्यादनेः प्राणात् समुद्भवः ॥ ३ ॥ अग्निमारुतयोर्योगाद् भवेन्नादस्य सम्भवः । नकारः प्राण इत्युक्तो दकारो वह्निरुच्यते ॥ ४ ॥ अर्थोऽयं नादशब्दस्य संक्षेपात् परिकीर्तितः । स च पञ्चविधो नादो मतङ्गमुनिसम्मतः ।। ५ ॥ अतिसूक्ष्मश्च सूक्ष्मश्च पुष्टोऽपुष्टश्च कृत्रिमः । अतिसूक्ष्मो भवेन्नाभौ हृदि सूक्ष्मः प्रकाशते ॥ ६ ॥ पुष्टोऽभिव्यज्यते कण्ठे त्वपुष्टः शिरसि स्मृतः । कृत्रिमो मुखदेशे तु स्थानभेदेन भासते ॥ ७ ॥ अव्यक्तः शिरसीत्युक्तः कैश्चित् तन्नोपपद्यते बिन्दुरुत्पद्यते नादान्नादान्निखिलवाङ्मयम् ॥ ८ ॥ मन्त्रा(?)दिस्थानभेदेन यो नादः स्फुरति स्फुटम् । आरोहिक्रमतस्तज्ज्ञैः स एव ध्वनिरुच्यते ॥ ९ ॥ काबुलो बम्बलश्चैव नाराटो मिश्रकस्तथा । ध्वनिश्चतुर्विधः प्रोक्तो गीतविद्याविशारदैः ॥ १० ॥ G. P. T. 45.500. 25-5-100. B सङ्गीतसमयसार बाहुल्यान्मन्त्रसंस्पर्शर्माधुर्यगुणसंयुतः । खापुलः स परिज्ञेयो गीतध्वनि(वि)शारदैः ॥ ११ ॥ एरण्डकाण्डवद् यत्र खणिकासंविवर्जितः । निस्सारो बम्बल: स्थोलो(?) बाहुलो न तु मध्यभाक् ॥ १२ ॥ बाहुल्यात् तारसंस्पर्शी माधुर्यगुणवर्जितः । नाराटोऽयं परिजेयो गीतध्वनिविशारदैः ॥ १३ ॥ एतद्ध्वनिगुणोन्मिश्रो यत्र सोऽयं तु मिश्रकः । नाराटखावुलश्चैको मिश्रः खाबुलबम्बलः ॥ १४ ॥ नाराटबम्बलश्चैव ध्वनियंत्र स मिश्रकः । इति मिश्रध्वनिः प्रोक्तश्चतुर्धा गीतवेदिभिः ॥ १५ ॥ अथ शारीरलक्षणम् । अन्तरेण यदभ्यासं रागव्यक्तिनिवन्धनम् । शरीरेण सहोत्पन्नं शारीरं तत् समीरितम् ॥ १६ ॥ चतुर्विधं भवेत् तच्च कडाडं मधुरं तथा । पौशलं बहुभङ्गीति चैषां लक्षणमुच्यते ।। १७ ॥ त्रिषु स्थानेषु मधुरं कडाडं परिकीर्तितम् । मन्द्रे मध्ये च माधुर्याच्छारीरं मधुरं मतम् ॥ १८ ॥ ज्ञेयं पौशलशारीरं तारे रागप्रकाशकम् । तच्छारीरगुणा मिश्रा यत्र तद् बहुभङ्गिकन् ।॥ १९ ॥ पृथगष्टविधो भेदस्त(न्य: स्य) कण्ठगुणागुणः । माधुर्यश्रावकत्वं च स्निग्धत्वं घनता तथा ।। २० ।। स्थानकत्रयशोभा च पञ्च(!) कण्ठगुणाः स्मृताः । खेटिः खेणिर्भमशब्दः कण्ठदोपा अमी त्रयः ॥ २१ ।। माधुर्यगुणसंयुक्त कण्ठे स्यान्मधुरो ध्वनिः । स्निग्धकण्ठे ध्वनिस्तारोऽप्यरूक्षः सरसो भवेत् ॥ २२ ॥ मुस्वरश्चैव सान्द्रश्च घनक(ण्ठो ? ण्ठे) भवेद् ध्वनिः । कण्ठे त्रिस्थानशोभे स्यात् त्रिस्थाने मधुरो ध्वनिः ।। २३ ।। 'काबुल' इति लक्ष्यनिर्देशे पटितः ।

प्रथममधिकरणम् । खेटि(:! )करण्ठो ! ठं) ध्वनिः स्थानत्रयस्पर्शी गुणोज्झितः । स्थानभ्य पूरकः कृच्छत् खेणि(: ! )कण्ठे ध्वनिर्भवेत् ॥ २४ ॥ वानरोष्ट्र(क ? ख)रैम्तुल्यो भग्न(::) कण्ठे भवेद् ध्वनिः । एते मेदाः परिजेयाः शारीरेऽपि विचक्षणैः ॥ २५ ॥ ध्वनिः क्षेत्रकाकूनां न भेदः स्यात् (१) । ध्वनिः शारीरसानांवेचि (य ? स्व) रवर्तनम् । छाया तदाश्रयाचायगीतमित्यभिधीयते ॥ २६ ।। अनिबद्धं निबद्धं च गीतं तद् द्विविधं मतम् । आलप्त्युर्धनिबद्धः(?) स्यात् वर रागविभेदतः ॥ २७ ॥ सालप्तिर्द्विविधा ज्ञेया विषमा प्राञ्जलेति च । साक्षरानक्षरा चेति द्विविधापि चतुर्विधा ॥ २८ ॥ चतुर्विधाप्यष्टविधा सतालातालभेदतः । सा पुनः षोडशविधा शुद्धसालकभेदतः ॥ २९ ॥ क्रमेण लक्षणं तासां वक्ष्ये लक्ष्यानुसारतः । स्थाय्यादिवर्णसंयुक्ता व्यक्ता स्थानत्रयेऽपि च ॥ ३० ॥ नानालङ्कारसंमिश्ररक्षरैर्गमकैथुता । विषमस्थापनायुक्ता ग्रहे मोक्षेऽप्यलक्षिता ।। ३१ ॥ आलप्तिः कथिता शुद्धे विषमा गायकात्तमैः । चतुर्वर्णसमायुक्ता शुद्धरीतिविराजिता ॥ ३२ ॥ प्रयोगैः सुकरैर्युक्ता स्थानकायरञ्जिता । यथासमुचितन्याससम्भावितचमत्कृतिः ॥ ३३ ॥ एतैर्गुणै(यथा ? र्युता) शुद्ध प्राञ्जलालप्तिरीरिता । स्थानवर्णक्रमावृत्ति(नि? नि)यमेन विवर्जिता ॥ ३४ ॥ कोमलैगिकैकालतारैललितैरपि । उचितस्थापनालप्तिः सालके विष(मे ? मा) मता ॥ ३५ ॥ नानारीतियुता रागसत्त्वमात्रसमाश्रया । लीननादा च सोल्लासललितन्यासभूषिता ॥ ३६ ॥ ?

सङ्गीतसमयसारे एवंगुणयुतालप्तिः साल (को ? के) प्राञ्जला मता । तंहशाआदनैर्वर्गरथवा सुरजाक्षरैः ॥ ३७ ॥ गीताक्षरैश्च यद्वान्यैरक्षरैर्गणनैरपि । क्रियते यदि सालप्तिः साक्षरेति निगद्यते ॥ ३८ ॥ सैवाक्षरैर्विरहितानक्षरालप्तिरीरिता । ग्रहत्रयसमायुक्ता लयत्रयसमन्विता ॥ ३९ ॥ अनुब्जायिसमायुक्ता न्यासापन्या सभूषिता । विकृतांशलयोपेता विदारियतिरिच्छता(१) ॥ ४० ॥ एवं गुणगणापता तालपट्यालतिर्वरा(?) । अता(ला)लप्तिरुद्दिष्टा तालयोगविवर्जिता ॥ ४१ ॥ आलप्तिसंज्ञका वर्णाश्चत्वारोऽन्वर्थसंज्ञकाः । स्थायिसञ्चारिणौ चैव तथारोह्यवरोहणों ॥ ४२ ॥ एकस्वरूपदशीति स्थायिवर्णोऽभिधीयते । सञ्चारी स्वरसञ्चारा(व ? द)-वर्थावितरावपि ।। ४३ ।। वर्णाश्रयास्तु विज्ञेया हलङ्कारास्त्रयोदश । नामतो रूपतश्चैव संक्षेपेण ब्रवीमि तान् ॥ ४४ ॥ प्रसन्नं पूर्वमुच्चार्य शनैः सन्दीपयेत् स्वरम् । प्रसन्नादिर्भवेदेवं प्रसन्नान्तो विलोमतः ॥ १५ ॥ एवं प्रसन्नमध्यश्च प्रसन्नाद्यन्त एव च । एते स्थायिन्यलङ्काराश्चत्वारः परिकीर्तिताः । ४६ ।। स्वश्रुतिस्थानसम्भूतां छायां श्रुत्यन्तराश्रयाम् । स्वरो यद् गमयेद् गीते गमको ऽसौ निरूपितः ॥ ४७ ॥ स्फुरितः कम्पितो लीनस्तिरिपुश्वाहतस्तथा । आन्दोलितस्विभिन्नश्च गमकाः सप्त कीर्तिताः ॥ १८ ॥ आरोहिक्रमतो यत्र स्फुरन्ति श्रुतयः क्रमात् । अनुद्रुताय (?) वेगेन तमाहुः स्फुरितं बुधाः ॥ ४९ ॥ स्वरकम्पो भवेद् यत्र द्रुतद्विगुणवेगतः । कम्पितो नाम गमकः स विज्ञेयो मनीषिभिः ॥ ५० ॥ ?

५
द्वितीयमधिकरणम् ।
द्रुतमानेन मसृणः स्वरो यत्र विलीयते ।
स्वरान्तरक्रमेणैव स भवेल्लीनसंज्ञकः ॥ ५१ ॥
श्रुतयो यत्र वेगेन भ्रमन्त्यावर्तरूपवत् ।
तमाहुस्तिरिपुं नाम्ना गमकं गीतवेदिनः ।। ५२ ।।
स्वरः प्रवर्तते यत्र समाहत्याग्रहं स्वरम् ।
आरोहिकमतः सोऽयमाहतः परिकीर्तितः ।। ५३ ॥
आन्दोलनं भवेद् यत्र स्वराणां लघुमानतः ।
आन्दोलिताख्यं गमकं गीतज्ञास्तं प्रचक्षते ॥ ५४ ॥
स्थानकत्रयसंम्पर्शी तत्तत्स्थानगुणैर्युतः ।
अविश्रान्तस्वरोपेतस्त्रिभिन्नगमकः स्मृतः ॥ ५५ ॥
इति सङ्गीताकरनामधेयश्रीपार्थदेवविचिते मान-
समयसारे प्रथममधिकरणम् ।।
अथ द्वितीयमधिकरणम् ।
भाण्डीकभाषयोद्दिष्टा भोजसोमेश्वरादिभिः ।
गेयलक्षणतः केचिद् वक्ष्यन्ते लक्ष्यसम्भवाः ॥ १ ॥
अथालप्तिर्द्विधा रागालप्तिका रूपतालप्तिश्च । तत्र रागालप्तिः
कथ्यते-
स्वस्थाने प्रथमे कुर्यात् स्वरापापाडिकः परम् ।
रागाकारमपस्थाने वात्सुरागोत्थ उच्यते(?) ॥ २ ॥
यस्य वंशध्वनौ स्निग्धे समीची रक्तिरूर्जिता ।
वांशिकं गीततत्त्वज्ञाः सुरागं कथयन्ति तम् ॥ ३॥
दिग्धं वासो रक्तपीतादिरागैर्ध्वानस्तद्वच्चित्ररागः स कश्चित् ।
गाने तज्ज्ञा येऽपरं श्लाघमानास्तेषामेष स्वानुभूतिप्रसिद्धः ॥ ४ ॥
यस्मिन् स्वरे स्थायिनि चारुरागः स्वस्थानकं तत् क्रियते सुखेन ।
अपस्थितिः सौख्यविपर्ययेणच्छायान्तरास्तत्र भवन्ति रागे ॥ ५ ॥
सप्तस्वराणां मध्येऽपि स्वरे यस्मिन् सुरागताः ।
स जीवस्वर इत्युक्ते अंशो वादी च कथ्यते(?) ॥ ६॥

सहातसमयसारे ? जीवस्वरस्य सदृशः संवादी स्वर उच्यते । विवादी स्याद् विसदृशः सोऽनुवादी द्वयात्मकः ॥ ७ ।। अनुवादी संवादी जीवस्वरकेकला बहिः + + । बहुतमबहुतरबहवः कार्या रागा वि(लो ? लौल्येन ॥ ८ ॥ विजानता विवादी स स्वल्पः कार्योऽथवा पुनः । प्रच्छादनीयो लोप्यो वा मनाक् स्पर्शः स्वरस्य यः ॥ ९ ॥ प्रच्छादनं तदेवाहुर्लोपः सर्वस्य निष्कृतिः । आदौ यस्मिन् स्वरे रागश्चाल्यते स ग्रहः स्मृतः ॥ १० ॥ चालयित्वा स्वरे यस्मिन् सन्यास उपवेश्यते । अपन्यासः स विज्ञेयो गीतलक्षणवेदिभिः ॥ ११ ॥ अवयवा अवयवो (!) यस्मिन् स्वरे यापवेश्यते । सन्यासः कथितो गानविद्यातत्त्वविचक्षणैः ॥ १२ ॥ स मन्द्रः सुतरां लभ्यो रागो यो मन्त्रसप्तके । यस्तारसप्तके रागः स्वरे तार उदाहृतः ॥ १३ ॥ उक्तः पाडब एकस्मिन् स्वरे लुप्ते विवादिनि । विवादिनि स्वरद्वन्द्वे लुप्ते त्वौडव इप्यते ॥ १४ ॥ वंशे न्यासस्वरं पूर्व स्थायिनं रचयेत् ततः । तत्र स्थायिनि रागस्यारोपणं रागवक्रकम् ॥ १५ ॥ स्थायिन उपरि द्यर्धादयः कस्मिन्नपि स्वरे । चालयित्वा पुना रागं स्थायिन्ये (षो? वो)पवेशयेत् ॥ १६ ॥ तदेव प्रथमस्वस्थानमालप्तेः । अन्यासं यर्धमारभ्य चालयित्वा तु रागकम् । कुर्याद् द्वितीयस्वस्थानं गानलक्षणकोविदः ॥ १७ ॥ स्वरस्य स्थायिनो यस्य व्यर्धस्तुर्यस्वरः स्मृतः । स एव देवठायोति तज्जैस्तु व्यपदिश्यते ॥ १८ ॥ द्विगुणस्या! धर्ध इति व्युत्पत्तिः ।

द्वितीयमधिकरणम् । अर्धस्थिते चालयित्वा रागं कस्मिन्नपि स्वरे । कुर्यात् तृतीयस्वस्थानन्यासान्तं गायकोत्तमः ॥ १९ ॥ व्यर्धद्विगुणयोर्मध्ये स्वरयोर्ये स्थिताः खराः । अर्धस्थितास्त एवोक्ता अर्धनीया इति स्फुटाः ॥ २० ॥ द्विगुणास्थायिपर्यस्तं चालयित्वा तु रागकम् । न्यासखरोपवेशेन स्वस्थानं स्माच+र्धकम् ॥ २१ ॥ मन्द्रसप्तकमेवैतद्विगुणान्मध्यसप्तके । तन्मध्यसप्तकं तारे द्विगुणं स्याद् यथाक्रमम् ॥ २२ ॥ स्थानानि प्रस्तैस्त्रीणि स्वरैः कुर्यात् तुरीयकम् । स्थानं समग्रशब्देन सारूढि रचयेत् पुनः ॥ २३ ॥ तन्त्रैवलवहणीत्या(?)मारूढिरभिधीयते । चतुस्स्वस्थानकैः शुद्धरागस्याकार ईरितः ॥ २४ ॥ स्थाने स्थाने स्वरान् सम्यक् स्थापयंस्थापयन् क्रमात् । जीवस्वरप्रधानैश्च न्यासान्तैर्बहुधाकृतैः ॥ २५ ॥ प्रसन्नैः शुद्धरागस्य स्थायिनि स्थापनोच्यते । इत्थं रागं स्थिरीकृत्यारोपयेद् वांशिकोत्तमः ।। २६ ।। तद्रागनिस्ररामोत्ता (१) धारयेत् समगायनः । न्यायस्वरस्थापनन उच्चारोत्तोऽभिधीयते ॥ २७ ॥ ततो गायनः पूर्वोक्तप्रकारेण रागस्याकारं स्थापनां च दध्यात् । रागालप्तिः क्षेत्रशुद्धियुता तालविवर्जिता । रागस्य शुद्धता क्षेत्रशुद्धिरित्यभिधीयते ॥ २८ ॥ गीतस्योत्पत्तिहेतुत्वाद् रागः क्षेत्रमिहोच्यते । ततो रूप+ रागेण तत्तालं नातिविस्तराम् ॥ २९ ॥ कृत्वालप्तिं सतालं च तद्रागद्विजनान्वितम् । रूपक गायनो गायन् तिक्तिना सहितं ततः ॥ ३० ॥ स्थायाया रूपके यसिंस्तस्या नानाप्रकारतः । मुहुर्मुहुग्रहो यत्तु प्रतिग्रहणमुच्यते ॥ ३१ ॥ यो यथा चालिनः स्थायस्तं तथैव निवेशयेत् । विचित्रस्य तु गीतस्य यथौचित्योपवेशनम् ।। ३२ ।।

. ? , सङ्गीतसमयसारे स्थाया विधेया न तु सैकरूपा बहुप्रकारैर्विकृता विभाति । विचित्ररूपोऽपि मयूरकण्ठो जगज्जनप्रीतिकरो यथा सः॥ ३३ ॥ स्थायानामानि कथ्यन्ते --- वेण, गति, जायि, अनुजायि, ओयार, वलि, वहणि, (ढा?दाल), पसर, ललितगाढ, पोच्चगाढ, अपखल्ल, निस्सरड, लचित, दुर्वास, पेट्टोपेट्टि, फेल्लोफेल्लि, मोडामोडि, गुन्थागुन्थी, खचर, गाणा- चेठाय, तरहर, तत्तवण, विदारि, भ्रमरलीला, कालसचेठाय, चित्ताचेठाय, *जोडणे (करुणा) (गीताचेठाय) (जोडियचेठाय) शारीराचेठाय, सादाचेठाय , कर्तरि, (अर्धकर्तरि) (नखकर्तरि) कुरु (ले ? ल)य, मुट्टेय, मुकुलित, उच्चनीच, (तिनि)क्खायि, (उक्खायि) निरत, नि(किगी)ति, व(त्त ? तु)ड, परीवाड, एसृत, उट् टुण्डल, हन्दुपायि, वहिल, अधिक, अखुड, नपायि,भरण, हरण, सनगिद, निक्करड, भजवणे, निजवणे, सुभाव होलाव, रङ्गरक्ति, रीति, अनु- करणे, धरण, धरिमेल्लि, विबन्धायि, (म ? मि) प्राधि, (गीतज्योति) होम्भे, कला, छवि, छाया स्वस्थान, *अवस्थान, अपस्थान, नवणि, अंश, घटना, आक्रमणे, वक्र(म?)ता, कन्धरणे कलरव, (नेद देव)ध्वनि, *घनत्व, आहत, अवतीर्ण, बोकल, सुकराभास, *दुष्कराभास, *असाधारण, उचित, बुड्डाये, बैसिके । एवमुक्तस्थायाशब्देन किमभिधीयते गत्या गमकयोगेन रागेणान्येन केन वा । स्वरवृत्तिः स्वरवृत्तिष्ठाय इत्यभिधीयते ॥ ३४ ॥ स्थायानां करणान्याहुश्शत्वारि स्थानतानके । गमको मानमेतेषां लक्षणान्यभिदध्महे ॥ ३५॥ तत्र स्थाय्यादिवर्णानामाश्रयः स्वरमण्डलः । स्थानमित्युच्यते तस्मिन्नुदाहरणमुच्यते ॥ ३६ ॥ यथा वेलावल्यां ध नि स रि ग म प च्छायानाट्टायां स रि ग म प ध नि इत्यादि । तानो रागापेक्षया स्थानमित्युच्यते तज्ज्ञैः स्वरो यो गमकाश्रयः । यथा वेलावल्यामाह • तत्स्थाने धैवतः कम्पितस्थाने षड्जः, छायानाट्टायां कम्पितस्थाने गान्धारनिषादौ इत्यादि । गमकाः कम्पितादयः । स्वादुत्वानुगुणा भवन्ति (हि) यथा शाके रसाः षट् च ते रागव्यक्त्यनुकूलका हि गमका रागेऽपि सञ्चारिणः । एतदकाङ्कितानामुपरि लक्षणं न दृश्यते। - - द्वितीयमधिकरणम् । तन्मात्रापरिमाणमेव सुतरां मानं वदन्त्यादरात् सङ्गीताकरकर्णधारपदवीमाढौकमानाः परम् । ३७ ॥ प्रयोगैः कैश्चिदपरैः सरीसा रागचालना ॥ ३८ ॥ अन्यैस्तु सरि सङ्गीते (कण्ठल ? सा वे)णेति ।नेगद्यते । माधुर्यसहितो गीते श्रुतिमात्रम्तु केवलम् ॥ ३९ ॥ म्वराणां सन्निवेशो यश्चातुर्यात सा गतिर्भवेत् । स्वरमात्रेण सदृशस्थानान्तरनिवेशनम् ॥ ४ ॥ इति भेदः समुद्दिष्टो जायिनश्चानुजायिनः । स्वरमात्राधिको यस्मात् स्वरावृत्तिर्विधिकमात् ।। ४१ ।। तदो(वा ? या)रं समुदिष्टं प्रायश्वारोहिसंश्रयम् । सुशरीरात् समुद्भूता श्रु(ति ! ती)नामावलियथा ।। १२ ।। चरेत् समीरणोद्भूततरङ्गावलिवद् वली । मन्द्रादिस्थानभेदेन प्रवृत्तं श्रु(ति)कम्पनम् ।। ४३ ।। उरःकण्ठशिरःस्थाख्या(?) वहणिः क्रमतो भवेत् । वहणी द्वेधा - आवलप्तिवहणी शीतशीतवहणी च । पुनद्विधा खुत्ता उत्फुल्ला । प्रविशन्त इवान्तस्ते स्वरा यस्यां विभान्ति च ॥ ४४ ॥ खुत्ता सा कथ्यते गानविद्यालक्षणवेदिभिः । यस्याः स्वरा विराजन्ते निच्छिन्त इवोपरि ।। १५ ।। गानलक्षणतत्त्वज्ञैरुत्फुल्ला परिकीर्त्यते । एवं वलिरपि वहणीव वेदितव्या । वृत्तमौक्तिकवत् काचभूतले विलसद्ध्वनौ ।। ४६ ॥ श्रुतिः प्रवर्तते क्षिप्रं यत्र दालं तदुच्यते । माधुर्ययुक्तो ललितः स्वरो यत्र प्रसार्यते ॥ १७ ॥ स्वरान्तरस्य संयोगाद् पसरं तं प्रचक्षते । लालित्येन यदा नादस्तारस्थाने प्रवर्तते ॥ ४८ ।। तदा ललितगाढं तं जगुर्गीतविशारदाः । क्रमेण गाढतां त्यक्त्वा ललितस्वरवर्तनम् ॥ ४९ ॥ C.

सङ्गीतसमयसारे पोच्चगाढमिति प्रोक्तं गीतलक्षण कोविदः । यत्र प्रवर्तते मन्द्रस्थानेऽतिमधुरः स्वरः ।। ५० ॥ अपखल्लः स विज्ञेयो गीतभाषाविशारदैः । क्रमेण परमं तारं गत्वातिमसृणः स्वरः ।। ५१ ॥ पै(च्छ ! च्छि)ल्यात् पातेतो मन्त्रे भवेनिम्सरडाभिधः । ईषदाहतसंयुक्तः स्वरो यत्र विलङ्घोत ॥ ५२ । स्वरान्तरक्रमेणैव लडितं तत् प्रचक्षते । इदमेव यदैकद्वित्रिस्वरान्तरितं भवेत् ।। ५३ ।। तदा गीतकलाभिज्ञैः स्वरलचितमीरितम् । तारमन्द्रसमायोगात् प्रयोगो यत्र दुष्करः ॥ ५४ ॥ वर्तते स तु गीतज्ञैर्दुर्वासः परिकीर्तितः । पुनरावर्तते यत्र प्रयोगः पूर्वमागतः ।। ५५ ॥ तदानीमेव सा तज्ज्ञैः (पठो पेठो)पेट्ठीति गद्यते । गाढत्वेन स्वरः सर्व नुदेद् यत्र स्वरान्तरम् ॥ ५६ ।। आरोहिकमतः सोक्ता फे(ल्ला ? लो)फेल्लीति नामतः । समुद्धृत्य स्वरोऽन्यत्र तेषामग्राण्यधः क्रमात् ॥ ५७ ॥ भज्यते मा परिज्ञेया मोडामोडीति संज्ञया । सप्त प्रयोगा एकत्र वर्तन्ते चेन्निरन्तरम् ।। ५८ ॥ (स्व ? स्र)गिवाभिज्ञरचिता *गुम्फागुम्फीते सोदिता । यत्र गाढः स्वरः सम्य(गा ? ग)नुतारे प्रवर्तते ॥ ५९ ।। खचरः स समुद्दिष्टो गीतभाषाविशारदैः । ठायं गमकसम्मिश्रं वर्तते य(ज ? न्म)नोहरम् ॥ ६० ।। गाणाचेठायसंज्ञं तद् गीतविद्भिरुवाहृतम् । आहत्या (द्रथ ? द्रुत)या यत्र स्वराणां कम्पनं भवेत् ॥ ६ ॥ ठायं तर(हरं) नाम्ना तमाहुर्गीतवेदिनः । गीतस्योपरि गीतज्ञैरालप्तिरतिकोमला ॥ ६२ ॥ तत्तत्प्रवणरचिता ठायं तत्तवणं विदुः । आलप्तिर्विलसत्तालकाला विश्लेषितस्वरा ॥ ६३ ।। 'गुन्थागुन्थीति लक्ष्ये दृश्यते ।

द्वितीयमधिकरणम्। N वर्तते चेन्निरालम्बः स विदारीति गद्यते । यस्तारान्मन्द्रसंस्पर्शी विचरेत् पुनरूर्ध्वगः ।। ६४ ॥ नादो माधुर्यसंयुक्तः स स्याद् भ्रमरलील(का? क): । प्रस्तुतेनैव रागेण वर्तते यत् सुखावहम् ।। ६५ ॥ तत्तु कालस(ले! चे)ठायं कथित गीतकोविदैः । ठायं यद् वेधकत्वेन क्रियते तद्विचक्षणैः ॥ ६६ ॥ चित्ताचेठायमुदितं श्रोतुश्चित्तानुवर्तनात् । करुणारागयोगेन चित्तहीनतयाथवा ।। ६७ ॥ करुणाकाकुसंयुक्ता ठा(यं स ? या सा) करुणाभिधा । ठायं यद् वर्तते गीते तदाल(प्तो ? प्त्या) कृतं यदि ॥ ६८ ॥ गीताचेठायमित्याहुस्तज्ज्ञा अन्वर्थसंज्ञकम् । प्रयोगोऽभिगुणो यत्र पुनर्द्विगुणितो भवेत् ।। ६९ ॥ स तु जोडियचेठायो दुष्करः कथितो बुधैः । लीलामात्रेण शारीरच्छवियत्र प्रवर्तते ॥ ७० ॥ शारीराचेठाय उक्तः सोऽयं गीतविशारदैः । भवेद् यत्र सुनादोऽन्ते तारस्थानगतध्वनैः ॥ ७१ ।। सादाचेठाय (इत्युक्तः) स तु गौतविचक्षणैः । अङ्गुलीभिश्चतसृभिः प्रत्येकं हस्तयोर्द्वयोः ॥ ७२ ॥ बहिर्यद्धन्यते तन्त्री द्रुतं सा कर्तरी मता । कर्तरीसदृशः पाणिदृश्यते यत्र दक्षिणः ॥ ७३ ।। तथा कोणहतिर्वामपाणिना सार्धकर्तरी । चतुर्भिर्नखरैर्यत्र दक्षिणेनैव पाणिना ॥ ७४ ॥ आहतिः क्रियते या तु सा ज्ञेया नखकर्तरी । वाद्यते यदि वेगेन मधुरं लबुथक्कुली(?) ।। ७५॥ श्रुतयस्तत्र सञ्जाता ज्ञेयाः कुरुलयाख्यया । वंशे *मुद्दयमुक्तं तद् गात्रे मुकुलितं मतम् ॥ ७६ ।। त(तो ? यो)र्गमकबाहुल्यं कर्तु व तु शक्यते । यौ प्रोक्तौ गीतभाषायां तारमन्द्रौ मनीषिभिः ॥ ७० ॥ 'मुट्टेयम्' इति लक्ष्ये पाठः. * २२ सङ्गीतसमयसार तावेव कथितौ लोकैरुच्चनीचसमाख्यया । स्फुरितादिस्वरो यत्र तारस्थानं तु संस्पृशेत् ॥ ७८ ॥ निक्खायिः सा भवेत् स्थानव्यक्तिश्चोक्खायिका मता । विषमप्राञ्जलालप्तौ श्वाससंयमन(स्वत्व)तः ।। ७९ ॥ ठायेतिर्गलहीनत्वं(?) निरतं परिकीर्तितम् । ठायं विवर्धमादाय(?)बलात् संस्थापने पुनः ।। ८० ॥ अन्यूनाधिकता (नज्ञैःतज्जै)र्निगीतिः परिगीयते । प्रयोग वर्तते यस्तु मन्दवत्या(?) स वत्तुडः ॥ ८१ ॥ ख्यातः परिवडिर्नाम्ना स एवान्तनिरन्तरः । *एवसं तत् समाख्यातमवसं यत् प्रवर्तते ॥ ८२ ।। ठायमुटुण्डुलं ज्ञेयं गीते बैसिकिर्जितम् । अतिद्रुतगतिं गीते वहिलाख्यां समादिशेत् ।। ८३ ॥ हेलयापि भवत्येव गतिर्यातिविलम्बिता । श्रोतुश्चित्तमतिक्रम्य प्रवृत्तमधिकं विदुः ।। ८४ ।। असम्पूर्णस्वरं गानं ठाय मुक्खुडमीरितम् । आलप्तौ रूपके वा स्यादपूर्वोडवणा यादे ।। ८५ ॥ नपायिः सा परिज्ञेया गीतभाषाविशारदैः । यद् रूपकेऽथवाललौ वर्तते रागपूरणम् ।। ८६ ॥ भरणं तत् समुद्दिष्टं हरणं तद्विपर्ययः । भवेत् सनगि(ता ? दा)रयं तन्मधुरं यत् प्रवर्तते ॥ ८७ ॥ विपरीतमतो ज्ञेयं बुधैनिकरडावयम् । रागव्यक्तिर्भजवणा सुशारीरसमुद्भवा ॥ ८८ ॥ जितश्वासतया यानं नाम्ना निजवणं विदुः । सुभावः कथितस्तज्ज्ञैः कोमलस्वरवर्तनम् ॥ ८९ ।। होलावश्चित्तसारः स्याद् रागस्वान्दोलनं भवेत् । रक्तिस्वरूपं रागास्या(?) (रा)गच्छाया तदाश्रया ।। ९०॥ सैव देशाश्रयत्वेन रिया विचक्षणैः । रागेषु मिश्ररागस्यच्छायासङ्करता यदि ।। ९१ ॥ 'एसृत' इति लक्ष्यनिर्देशे पाठेतम् । 'अखुडम्' इति लक्ष्ये पम्यते ।

द्वितीयमांधकरणम्। भवेद् गीतकलाभिज्ञैः सैवानुकरणोच्यते । अनुतारात् परश्रुत्योहीनश्चापश्च + + +(!) ॥ ९२ ।। धनैः सुगाढता तज्ज्ञैर्धरणिः समुदाहृतः । धरिमेल्लीति विज्ञेयौ ग्रहमोक्षी ध्वनेरिह ।। २.३ ।। ध्वनिवैचित्र्यमुद्दिष्टं विव(न्ध इन्धायी)ति नामतः । ध्वनेरत्यन्तमाधुर्यं मिट्ठायीति निगद्यते ।। ९४ ।। स्फुटनादोज्ज्वलत्वं तु गीतज्योतिरुवाहन । हकारानुकृतिः स्फारो होम्फा वायुध्वनिः स्मृता ॥ ९५ ।। कला सूक्ष्मीकृतः शब्दश्छविः कोमलाग्मती । काकुश्च भावना भाषा छाया रतिः समर्थवान् ॥ ९६ । रागकाकुः क्षेत्रकाकुर्यन्त्रकाकुः स्वरोद्भवः । काकुश्च देशकाकुश्च काकुः स्यादन्यरागजः ॥ ९७ ।। गीतविद्यावि(शेष)ज्ञैः पोढा काकुरुदाहृतः । रागस्य या निजच्छाया रागकाकुरितीरिता ॥ ९८ ।। सा मुख्या प्रोच्यते भाषा गीतलक्षणवेदिभिः । स्वरस्य कस्यचिच्छायाविशेषः कश्चिदीक्ष्यते ॥ ९९ ।। स्वरकाकुरिति प्रोक्तो गानलक्षणकोविदः । देशाख्या देशकाकुश्च रागच्छाया निगद्यते ॥ १०० ॥ रागे रागान्तरच्छाया काकुः स्यादन्यरागजः । सैव उपरागभाषा ख्यायते । इयमेव लोके ठायेति प्रसिद्धा । कस्यचिद् गायनस्यैषा रागे कस्मिंश्चिदीक्ष्यः। ॥ १०१ ॥ रक्तिस्वभावतस्तज्ज्ञैः क्षेत्रकाकुर्महीतले । कन्नरीवंशवाणासु रागच्छायेव दृश्यते ॥ १०२ ।। कथ्यते यन्त्रकाकुः सा गानलक्षणकोविदैः । स्निग्धकोमलशब्दस्य विना यत्ने(न) कम्पनम् ॥ १०३ ।। लघुत्वेन सहोक्तं तन्नमनं गानकोविदः । सैव नवणिः ।

सङ्गीतसमयसारं
राग यावयवो रागे पोऽन्यायांशः स उच्यते ॥ १०४ ।।
कारणांशश्च कार्यांशः सजातीयांश इत्यपि ।
ततः सहशरागोंऽशो+ विसदृशरागजः ॥ १०५ ।।
अंशो मध्यस्थरागस्य स्यादंशांशश्च सप्तधा ।
अंशो जनकरागस्य कारणांश इतीरितः ॥ १०६ ॥
श्रीरागजनिटे गोंडे श्रीरागस्यांशको यथा ।
अंशोऽन्यरागस्य पुनः कार्याश इति कथ्यते ॥ १०७ ॥
यथा भैरवजाताया भैरव्या अंशकः पुनः ।
भैरवे यदि वर्तेत कार्याश इति कथ्यते ।। १०८ ॥
अंशेऽवान्तरभेदम्य सजातीयांश इप्यत ।
यथा कर्णाटगौडांशो गौडे मालवनामनि ॥ १०९ ।।
सदृशांशो यथा शुद्धवराट्यामंशकः पुनः ।
दृश्यते शुद्धनाट्टायां संवादी च स कथ्यते ॥ ११० ॥
यथा विसदृशांशश्च वेलावल्यां च गूर्जरी ।
विकृतांशो विवादी च दूरान्तरित एव सः ॥ १११ ।।
रागो नो यो विसदृशः सदृशो न च तस्य यः ।
अंशो मध्यस्थरागांशी देशाख्यांशो यथा भवेत् ॥ ११२ ।
वेलावल्यां गानविद्भिरनुवादी स चोच्यते ।
अंशान्तरं चांशमध्ये कथ्यतेऽशांश एव सः ॥ ११३ ॥
रागोपरागानल्पांश इति न्यासः कचित् पुनः ।
रागांशयोः समानत्वं दृश्यते गतिवदिभिः ॥ ११ ॥
रूपके कचिदंशोऽपि स्फुटं रागायते पुनः ।
कचिच्चांशायते रागो न कचिनियमम्तयोः ॥ ११५ ॥
शिल्पिभिर्घटिता यद्वत् ते स्थाया घटना मता ।
श्रूयमाणमभिक्रम्य प्रतिग्राह्यो ध्वनिर्यतः ।। ११६ ॥
तदाक्रमणमित्युक्तं गीतलक्षणकोविदैः ।
यत्र शब्दस्य वलनं कुटिलं विद्युतो यथा ॥ ११७ ॥

१५ ? तृतीयमधिकरणम्। वक्रता सैव गीतज्ञैर्वायिरित कथ्यते । स यत्र मधुरः शब्दो भूयात कलरव : स्मृतः ॥ ११८ ।। वेदध्वनिरिवाभाति यत्र देवध्वनिः स्मृतः । आहतस्त्रिविधः प्रोक्तस्तिर्यगूर्ध्वमधस्तथा ॥ ११९ ।। (यो ? यः) कण्ठनादवत् तारान्मन्द्रं यातोऽवतीर्णकः । स्थाया स्वल्पपरीमाणा बोकलः स हि कथ्यते ॥ १२० ॥ दुष्करोऽपि हि यः श्रोतुर्भासते सुकरो यथा । उच्यतेऽपस्वरो (हा ? भा)सो गीतविद्याविशारदैः ।। १२१ ॥ यस्मादनन्तरं खाच (?) शोभते सोचिता स्मृता । बुड्डायिः शिथिला गाढा वृद्धालप्तिश्च कथ्यते ॥ १२२ ।। अकम्पा चार्धकम्पा च क(म्बा ? पा)ट्या बैसिकी त्रिधा । रागस्याधः स्वरावृत्तयथोचित्योपवेशनम् ।। १२३ ॥ इति सङ्गीताकग्नामधेय श्रीपार्थदवविरचिते महात. समयसार द्वितीयमधिकरणम् ॥ अथ तृतीवमधिकरणम् । अथ प्रबन्धसमुचितबहुविधदेशीरागान् षाडबौडबसम्पूर्णभेदेन साम- नाम कथयामि । तत्र कानिचन रागाङ्गानि कथ्यन्ते रागच्छायानुकाारेत्वाद् रागाङ्गानि विदुर्बुधाः । भाषाङ्गानि तथैव रघुर्भाषाछायानुकार (क ! त): ।। १ ।। अङ्गच्छायानुकारित्यादुपाङ्गं कथ्यते बुधैः । तानानां करणं तव्याः क्रियाभेदेन कथ्यते ॥ २ ॥ क्रियाया (व ? य)द् भवेदङ्गं क्रियाङ्गं तदुदाहृतम् । षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा ॥ ३ ॥ धैवतश्च निषादश्च स्वराः सप्तैव कार्तिताः । ? अथ स्वरव्यवस्था द्वौ द्वौ निषादगान्धारौ त्रिस्त्रिश्चर्षभधैवतौ ॥ ४ ॥ चतुश्चतुश्च विज्ञेयाः षड्जमध्यमपञ्चमाः ।

सङ्गीतसमयसार , अथ रागारागाः-मध्यमादि, शङ्कराभरण, तोड्डि, देशी, हिन्दोला, शुद्धवजाल, आम्रपञ्च, घाटारब, गू रिसोमराग, मालवश्री, दीपराग, वराटि, इति द्वादश रागाङ्गमम्पूर्ण रागाः । गोडो देशी च पहोनौ , धन्नासि देशाख्या च रिहीने इति चत्वारो रागङ्गषाडबरागाः । भैरवश्रीरागौ रिपहानौ, मार्गहिन्दो(ल)गुण्डकी धरिहीने इति चत्वारो रागागौडबरागा इति विंशतो रागाङ्गरागाः । कैशिकि, बेलाउलेि, शुद्धवराटि, आदिकामोद, नाट्टा, आभारि, बृहदाक्षिणात्या, लध्वी दाक्षिणात्या, पौराली , भिन्नपौराली, मधुकरि, रणन्ति, गोरञ्जि, प्रथममञ्जरि, सालवाहिनि, नट्टनारायण, उत्सली,वेगरञ्जि, तरङ्गिणि, ध्वनिः, नादान्तरि इति भाषासम्परागा एकविंशतिः । कर्णाटवाल, सावे- रिश्च पहीनौ । अन्धाले, श्रीकण्ठि, उत्पलि इति त्रयो गहीनाः । गौडी, शुद्धा- सौराष्ट्रि, भम्मानि इति चत्वारो गरिहाना: । सैन्धारागो गहीनः । छाया- रागः सहीनः । इत्येकादश रागा भःपाङ्गपाडवाः । नागध्वनिः पधहीनः । आहीरिगरिहीनः ! काम्बोजिधरिहीन. । पुलिन्दि गपहीनः । कच्छोलि गधहीनः । चोहारिगौली गनिहीनौ । गान्धारगतिः सपहीनः । ललिता, त्रावणि, सैन्धवः, डोम्बकि, सैन्धवि, काालेन्दि, खसिका इति सप्त रागाः परिहीनाः । इति पञ्चदश रागा भापाङ्गओडबाः इति सप्तचत्वारिंशद् रागा सैन्धववराटि, अन्तलवराटि, अवस्थानवरा- टि, द्राविडवराटि, प्रतापपरा।टे, स्वरवराटि , तुरुष्कतोड्डेि, सौराष्ट्रगूर्जरी, दक्षिणगूर्जरी, द्राविडगूर्जरी, कर्णाटगौड, द्राविडगौड, छायागौड, लाउली- गौड, भैरवि, संहलकामोद, देवाल, महारे, छायानाट्टा इत्यष्टादश (?)उपाङ्ग- सम्पूर्णरागाः । महाराष्ट्रगूर्जरि, खंभाति, गुरुञ्जि, रामक्रि इति चत्वारो रागाः रिहीनाः । हुन्नि + + हीना । मल्लारि गहीना । भल्लाति रिहीनः । एते सप्त रागा उपाषाडबाः । छायातोड्डि, देशालगौड, तुरुष्कगौड, प्रता- पवेलाउलि, पूर्णाट, एते पञ्च रागाः परिहानाः । महारः गनिहीनः । षडेते रागा उपाङ्गऔडवा इत्युपाङ्गरागा एकत्रिंशत् ।। अथ क्रियाङ्गरागाः - देवकि, त्रिनेत्रकि, एती सम्पूर्णरागौ, स्वभा- वक्री धैवतहीनषाडबः एते त्रयः क्रियाङ्गरागाः इत्येकोत्तरशतसंख्यापरि- गणितरागमध्ये लोकव्यवहारासेद्धानां केषाश्चिद् रागाणां लक्षणं वक्ष्ये मध्यमादि च तोड्डी च वसन्तो भैरवस्तथा ॥५॥ भाषाशाः । अथ उपाङ्गरागा: .

तृतीयमधिकरणम् । श्रीरागः शुद्धवङ्गालो मालवश्रीस्तथैव च । वराटी गौडधन्नासी गूण्डकी गूर्जरी तथा ॥ ६ ॥ देशाख्या देशिरित्येते रागाङ्गानि विदुर्बुधाः । वेलाउलिस्तथान्धाली सायाली फलमारी ॥ ७ ॥ (4 ? ललिता कैशिकी नाट्टा तथा शुद्धा वराटेका । श्रीकण्ठी चेति भाषामा नव रागाः प्रकीर्तिताः ॥ ८॥ पड़ वराव्यम्भ रामक्रिखम्भाती मल्हरस्तथा । चतुश्रतुश्च विजेया गौडगूर्जर्य एव च ॥ ९ ॥ छायानाथा च महारो मलातश्चैव भैरवी । अमी रागा निगद्यन्त उपाङ्गानोति कोविंदैः ॥ १० ॥ देवकी सा च विज्ञेया क्रियानमिति सम्मता । मध्यमग्रामसम्भूता मध्यमांशग्रहान्विता ॥ ११ ॥ मध्यमादिरिति ख्याता शृङ्गारे विनियुज्यते । एतामेव प्रयुज्यादौ वैणिका वांशिकार तथा ॥ १२ ॥ पश्चादभिमतं रागं प्रकुर्वन्ति विचक्षणाः । ॥ मध्यपादिः ॥ अङ्गं षाडबरागस्य सम्पूर्ण च समस्वरम् ॥ १३ ।। षड्जतारा गमन्द्रा च न्यासांशग्रहमध्यमा । तोडी नाम प्रसिद्धोऽयं रागो हर्षे नियुज्यते ॥ १४ ॥ ॥ तोड्डी ॥ मार्गहिन्दोलरागानं हिन्दोलो वेडिसंज्ञितः । अंशयासे ग्रहे षडजस्तस्य तारे तु मध्यमः ॥ १५ ॥ षड्जस्वरो भवेन्मन्द्रे तोडितो चिवर्जितः । सपयोः कम्पितश्चैव शृङ्गारे विनियुज्यते ॥ १६ ॥ अयमेव वसन्ताल्यः प्रोक्तो रागविचक्षणैः । ॥ वसन्तः॥ भिन्नषड्जसमुद्भूतो मन्यासो धांशभूषितः ॥ १७ ॥ समस्वरो रिपत्यक्तः प्रार्थने भैरवः स्मृतः । ॥ भैरवः॥ D

१८
सजीसमयसारे
श्रीरागष्टकरागाझं मतारो मन्द्रगस्तथा ॥ १८ ॥
रिपञ्चमविहीनोऽयं समशेषस्वराश्रयः ।
षड्जन्यासग्रहांशश्च रसे वारे प्रयुज्यते ॥ १९ ॥
॥ श्रीरागः॥
शुद्धषाडबरागाऊं शुद्धवङ्गालसंज्ञकः ।
(ना? न्या)सांशो मध्यमेनास्य प्रहर्ष विनियोजनम् ॥ २० ॥
।।शुद्धवङ्गालः॥
मालवादे(:) भवेदङ्गं कैशिकरय समस्वरा ।
सम्पूर्णा तारमन्त्रस्थषड्जस्वरविराजिता ॥ २१ ॥
षड्जांशन्याससम्पन्ना मालवश्रीरियं मता ।
मूर्च्छना शुद्धमध्या चेत् सैव हर्षपुरी मता ॥ २२ ॥
शृङ्गारे विनियोगः स्यादनयोस्तु द्वयोरपि ।
|| मालवश्रीः॥
विभाषा रागराजस्य पञ्चमस्य वराटिक। ॥ २३ ॥
धांशा षड्जमहन्यासा धतारा मन्द्रमध्यमा ।
समश्लेषस्वरा पूर्णा शृङ्गारे याष्टिकोदिता ॥ २४ ॥
॥वराटी॥
गौडः स्यादृक्करागङ्गिं निन्यासांशग्रहान्वितः ।
वर्जितः पश्चमेनैव रसे वीरे नियुज्यते ॥ २५ ॥
रागे रङ्गनिषादिन्या वदन्ति न तु मे मतम् ।
॥ गौडः ॥
अङ्गं धन्नासिका प्रोक्ता शुद्धकैशिकमध्यमे ॥ २६ ॥
षड्जांशग्रहमन्यासा षाडबा ऋषभोज्झिता।
गान्धारपञ्चमखल्पा रसे वीरे नियुज्यते ॥ २७॥
॥ धन्नासी॥
देशिहिन्दोलरागाङ्गं पड्जांशन्याससंयुत। ।
रिधत्यक्ता गतारा च शेषैरान्दोलिता स्वरैः ॥ २८ ॥

तृतीयमधिकरणम् । पमन्द्रा हास्यशृङ्गारे गेया गुण्डकृतिर्भवेत् । ॥ गुण्डकृतिः ॥ रिग्रहांशा च मन्यासा जाता पञ्चमषाडवात् ॥ २९ ॥ ममन्द्रा च नितारा च रिधाभ्यामपि भूयसी । गूर्जरी ताडिता पूर्णा शृङ्गारे विनियुज्यते ॥ ३० ॥ ॥ गूर्जरी ॥ गान्धारपश्चमाज्जाता ऋषभेण विवर्जिता। ग्रहांशन्याससम्बन्धगान्धारा च समस्वरा ॥ ३१ ॥ निषादमन्द्रा गान्धारस्फुरितेन विराजिता । षाडबा यदि रागाङ्गं वंशे पूर्णे च दृश्यते ॥ ३२ ॥ देशाख्यः स्यादङ्गरेव( ? ) गुप्तस्य गमन्द्र। पञ्चमोज्झिता । ऋषभांशग्रहन्यासा तथा समनिभूयसी ।। ३३ ॥ देशी नाम प्रयोक्तव्या रागोऽयं करुणे रसे । ॥ देशी ॥ इति रागाङ्गानि ।। ककुभप्रभवा भाषा या प्रोक्ता भोगवर्धनी ॥ ३४ ॥ वेलाउली तदङ्गं स्यात् परिपूर्णसमस्वरा । धैवतांशग्रहन्यासा धतारा मन्द्रमध्यमा ॥ ३५ ॥ षड्जेन कम्पिता सेयं विप्रलम्भे नियुज्यते । ॥ वेलाउली ॥ विभाषान्धालिका प्रोक्ता जाता मालवपञ्चमात् ॥ ३६॥ बृहती दाक्षिणात्योत्था गहीना मध्यमांशका ! पाडबा षड्जमन्द्रा च नेिधाल्पा मन्द्रमध्यभाक् ।। ३७ ॥ पञ्चमन्याससंयुक्ता रसे पोरे नियुज्यते । ॥ अन्धाली॥ ककुभोत्था रगन्त्यङ्गं धान्ता मध्यग्रहांशका ॥ ३८ ॥ गतारा स्वस्पषड्जा च पञ्चमेन विवर्जिता । पमन्द्रा सायरी ज्ञेया कर्तव्या करुणे रसे || ३९ ।। ॥ सायरी॥

सङ्गीतममयसारे
गमन्द्रा धरितारा च ग्रहांशस्य सपञ्चमा ।
गमाव्या चाल्पशेषां च प्रोक्ता प्रथममञ्जरी ॥ ४० ॥
पश्चमादिर्यतस्तस्मादुरसर्व विनियुज्यते
॥ फलमञ्जरी॥
(ल!)गलिता टकरागात् तु तदनं लालता मता ॥ ११ ॥
परजांशन्याससंयुक्ता ज्ञेया वारे ।पोज्झिता।
। ललिता॥
मग्रहन्याससंयुक्ता सांशा तारेण वर्जिता ॥ ४२ ॥
समस्करा रिपत्यक्ता समन्द्रा खसिका भवेत् ।
गान्धारादिर्यतस्तस्मात् सङ्कीर्णा करुणे भवेत् ॥ ४३ ॥
॥ कैशिकी।
षड्जांशा च महन्यासा सम्पणी च समस्वरा ।
तथातारा च मन्द्रा च यावद् गान्धारपञ्चमौ ॥ ४४ ॥
भाषायः (१) पेञ्जरो तरया अझं नाट्टाभिधीयते ।
॥ नाट्टा ॥
सौवीरकस्य सौवीरमुख्यभाषा च या रमृता ॥ ४५ ॥
तदङ्गं मोदकी नाना सैव शुद्ध। वराटिका ।
अस्या न्यासांशयोः षड़जप्रचुरा धनिपास्तथा ॥ ४६ ॥
सम्पूर्णोऽयं रसे शाते प्रयोगोऽस्याः प्रदश्यते ।
॥ शुद्धवराटी ॥
श्रीकण्ठी ।भन्नषड्जोत्था गहीना षाडबा भवेत् ॥ ४७ ॥
(यां ! धां)शन्यासग्रहोपेता तथा धैवतभूयसी ।
गुर्वाज्ञाकरणे यस्या विनियोगः प्रकीर्तितः ॥ ४८ ॥
॥ श्रीकरठी ॥
भाषामानि ।
भाषा स्यात् सैन्धवी नाम जाता मालवकैशिकात् ।
तदनं गायकैःया सैन्धवीयं वराटिका ॥ १९ ॥

तृतीयमधिकरणम्। षड्जांशन्याससंयुक्ता ममन्द्रा सवका पता । गान्वारबहुला तज्ज्ञैः शृङ्गारे विनियुज्यते ॥ ५० ॥ ॥ सैन्धववरा॥ निषादबहुला पूर्णा षड्जमन्द्रा च ताडिता । पूर्वोक्तविनियोगा च स्यात् कुन्तलवराटिका ॥ ५१ ।। । कुन्तलवराय॥ मनिधेषु भवेन्मन्द्रा षड्जांश यासराजिता । परिपूर्णस्वरैः सरवः यानवराटिका ॥ ५२ ।। ॥ अवस्थानवराटी ॥ कम्पिता पञ्चमे षड्जे धमन्द्रा भूरिपञ्चमा । षड्जांशन्याससम्पन्ना स्यात् प्रतापवराटिका ।। ५३ ।। ॥ प्रतापवराटो॥ मन्द्रधैवतसंयुक्ता पश्चमाह तकापता । षड्जांशयाससम्पन्ना हतस्वरवराटेका ॥ ५४ ॥ ॥ हतस्वरवराटी॥ ऋषभे स्फुरिता भारे निमन्द्रेण विराजिता । षड्जांशन्याससंयुक्ता द्राविडीयं वराटिका ॥ ५५ ॥ ॥ द्राविडवराटो॥ टारागोद्भवा भाषा योक्ता कोलाहलाख्यया । तदुपाङ्गं रामकृतिः पटजन्यासोपशोमिता ॥ ५६ ॥ मध्यमांशा पहाना च रसे वीरे नियुज्यते । ॥ रामक्रिः॥ पाडबा ककुभोद्भूता धांशा सपविवर्जितः ॥ ५७ ।। मध्यमेन निषादेन निहितान्दोलनक्रमा । शृङ्गारे विप्रलम्भाख्ये गेया कम्भातिका मता ॥ ५८ ॥ ॥कम्भाती॥ स्वस्थाने ताडितः पूर्णः षड्जांशन्याससंयुतः । प्रोक्तः कर्णाटगौड़ोऽयं प्रतापपृथिवीमुजा ॥ कर्णाटगौडः॥ BIR' १२ सङ्गीतसमयसारे षड्जेनान्दोलितः साङ्गः पञ्चमर्षभजितः । देशवालाख्यगौडोऽयमौडबः परिकीर्तितः ॥६० ॥ ॥ देशालगौडः॥ स्फुरितः पश्चमे षड्जे गान्धारे तेरिपुस्तथा । निन्यासांशसमायुक्तो द्राविडो गौड उच्यते ॥ ६१ ॥ ॥ द्राविडगौडः॥ रिपहीनो निषादांशो गान्धारबहुलस्तथा । मन्द्रेण ताडितः प्रोक्तस्तौरुष्को गौड ईरितः ॥ ६२ ।। ॥ तुरुष्कगौडः॥ गूर्जरी स्यान्महाराष्ट्री रिन्यासांशा च ताडिता । नेिमन्द्रा च पहीनेयमुत्सवे विनियुज्यते ॥ ६३ ॥ ॥ महाराष्ट्रगूर्जरी ॥ ऋषभे कम्पिता + + सौराष्ट्री गूर्जरी भवेत् । ॥ सौराष्ट्रगूर्जरी ॥ मध्यमे कम्पिता पूर्णा स्वरेष्वन्येषु ताडिता ॥ ६४ ॥ सुरीति गूर्जरी गाने रम्या दक्षिणदेशजा । ॥ दक्षिणगूर्जरी ॥ ऋषभान्मन्त्रताराभ्यां स्फुरिता द्राविडी भवेत् ॥ ६५ ॥ गूर्जरी परिपूर्णेयं प्रहर्षे विनियुज्यते । ॥ द्राविडगूर्जरी ॥ उपाङ्गत्वेन नाट्टायां छायानाट्टा समीरिता ॥६६॥ षड्जांशन्याससम्पन्ना गनिभ्यां कम्पिता तथा। पमन्द्रा परिपूर्णा च रसे वार नियुज्यते ॥ ६७ ।। ॥ छायानाथा ॥ अन्धालिकाङ्गमल्हारी मध्यमांशाहान्विता । रिमन्द्रा च गशून्या च शृङ्गारे ताडितस्वरा ॥ ६८ ॥ ॥ मल्हारी॥

चतुर्थमधिकरणम् ।
लक्षणं विनियोगश्च भवेन्मल्हारिकासमम् ।
मल्हारस्य गनित्यागः पञ्चमस्फुरणं भवेत् ।। ६९ ॥
॥ मल्हारः॥
भिन्नषड्जसमुद्भूता धांशन्यासग्रहान्विता ।
समशेषस्वरा पूर्णा गान्विता तारमन्द्रयोः ।। ७० ।।
देवादिप्रार्थनायां
तु
भैरवी विनियुज्यते ।
॥ भैरवी॥
हिन्दोलकस्यच्छवाटी भाषा भल्लातिका भवेत् ॥ ७१ ।।
षड्जांशग्रहणन्यासारिहीना पाडबा भवेत् ।
धमन्द्रोपाङ्गरूपा च शृङ्गारे विनियुज्यते ।। ७२ ॥
॥ भल्लाती॥
सामान्यं च विशेषं च द्विविधं रागलक्षणम् ।
चतुर्विधं च सामान्य विशेषं चांशकादिकम् ॥ ७३ ॥
यस्मिन् वसति रागश्च यस्माच्चैव प्रवर्तते ।
नेता च तारमन्द्राणां योऽर्थ चेज्ञोपलभ्यते(?) ।। ७४ ।।
ग्रहापन्यासविन्याससंन्यासन्यासगोचरः ।
परिचार्यमितो यश्च सोंऽशः स्याद् दशलक्षणः ॥ ७५ ।।
॥ अंशः ॥
इति सङ्गीताकरनामधेयधीपार्श्वदेवविरचिते सङ्गीत-
समयसारे तृतीयमधिकरणम् ॥
अथ चतुर्थमधिकरणम् ।
अथ वक्ष्ये निषिध्यं च विभागेन समासतः ।
प्रबन्धो रूपकं तु निबद्धस्याभिधात्रयम् ।। १ ।।
चतुर्भिर्धातुभिः षड्भिश्चार्यः स्यात् प्रबध्यते ।
तस्मात् प्रबन्धः कथितो गीतलक्षणकोविदैः ॥२॥

सङ्गीतसमयसारे
रामान्धारोफणा नेतु(!) स्यादास्मन् रूपकाभिधा ।
उद्राहाद्यास्तु चत्वारः स्वरादीनि च षट् तथा ॥ ३ ॥
वसन्ति यत्र स ज्ञेयः प्रबन्धो वस्तुसंज्ञया !
आदावुब्रह्माते गातं येनोद्राहः स कीर्तितः ॥ ४ ॥
प्रोक्तो मेलापकस्त बैरुद्राहध्रुवमेलनात् ।
प्रबन्धेष ध्रुवत्वेन ध्रुव इत्यभिधीयते ।। ५ ।।
स्वयं यत्र प्रबन्ध स्यादनेनैव प्रपूरणम् ।
आभागः कथितस्तेन परमर्दिमहीभुजा ॥ ६ ॥
वज्यों मेलापकाभोगौ प्रबन्धेषु द्विधातुषु ।
त्रिधातुकप्रबन्धेषु तयोरेक विवर्जयेत् ॥ ७ ॥
यलायां डोकायां च स्यादन्त नियमादिम।।
अन्येषु (तु) प्रबन्धेषु र यातां गोतानुसारतः ॥ ८ ॥
अगत्वमेषां केनापि यदुक्तं तन्न साम्प्रतम् ।
देहस्येवं निबन्धस्य धारणाद् धातवार वमे ॥ ९ ॥
द्विधातुर्वा त्रिधातुर्वा चतुर्धातुरथापि वा।
प्रबन्धस्त्रिविधो यो गतिविद्याविशारदैः ॥ १० ॥
अङ्गानि त प्रबन्धानां वदामः साम्प्रतं कमात् ।
करी च पादं च षडङ्गानि यथा तनोः ॥ ११ ॥
पादतेनौ च विरुदपाटौ तालस्वरौ तथा ।
मङ्गलद्योतकरतेनः पदमर्थप्रकाशकम् ॥ १२ ॥
तस्मादङ्गत्वमनयोनेत्रवत् प्रतिपादितम् ।
कराभ्यामुदयो यस्मात् पादस्य रुदस्य च ॥ १३ ॥
तेन कार्ये कारणवदुपचा निरूपितः ।
स्याद् गतिः स्वरतालाग्य पादाभ्यामिव देहिनः ॥ १४ ॥
प्रबन्यस्य यदस्मा(दु ? भिरु)क्तं पादत्वमेकयोः ।
एतेषां लक्षणमिदमिदानीमभिधीयते ॥ १५॥
स्वयं यो राजते नादः स्वरः स परिकीर्तितः ।
पदं स्वराधिकरणमर्थस्य प्रतिपादकम् ॥ १६ ॥

चतुर्थमधिकरणम् ।
२५
संस्कृतं प्राकृतं चैव अपभ्रंशमिति त्रिधा ।
विरुशब्दो विरुद्धार्थो महाराष्ट्रप्रसिद्धितः ॥ १७ ॥
परेभ्यस्तत्प्रदानेन विरुदं सूरिभिः स्मृतम् ।
तद् वीररससंयुक्तं द्विषामुद्वेगदायकम् ।। १८ ॥
रसान्तरेण यद् युक्तं तत् पदं विरुदं मतम् ।
सन्दोहो वाद्यवर्णानां पाटस्तालानुगो भवेत् ॥ १० ॥
तेन्नतेन्नेति ये वर्णा गीतेऽसौ तेन्नको मतः ।
तालः कालक्रयामानं यः सङ्गीतसङ्गतः ॥ २० ॥
च(म्बू ? म्पू )श्च क(म्पि? वि)ता सेना नीतिश्चेनि (य? त)था श्रुतिः ।
(त)द्वयङ्गादीनां प्रबन्धानां जातयः पञ्च कीर्तिनाः ॥ २१ ॥
गद्यपद्यमयी च(म्बू: ? म्पूः), शक्तिव्युत्पत्तिरभ्यासः कविता, हस्त्व
रथपदातयः सेना, भेदः परीक्षा विश्वासो वचनं मित्र कार्याणि नीतिः, शीक्षा-
ज्योतिषनिरुक्तनिघण्टुच्छन्दोव्याकरणानि श्रुतिः ।
तारावल्यादयः संज्ञा जातीनां कैश्चिदौरिताः ।
अङ्गसं(ङ्गया ? ख्या) वियोगात्तु नै (वो? )ताः सम्भता मम ॥२२॥
अनिर्युक्ताश्च नियुक्तास्तथा चैवोभया(स्मि ? त्म)काः ।
प्रबन्धास्त्रिविधास्ते च प्रोक्ता गीतविशारदैः ।। २३ ॥
अमात्रेण विहिता अनियुक्ता इतीरिताः ।
छन्दस्तालादिनियमान्निर्युक्तास्ते निरूपिताः ॥ २४ ॥
क्वचिदङ्ग क्वचिच्छन्दो गीते यस्मिन् विराजते ।
उभयात्मकमित्याहुतिं गीतविशारदाः ॥ २५ ॥
तालार्णवो विचित्रं च मण्डनं राहडी तथा ।
लोम्लीठोम्लरिदन्ती स्याद(न्ति ? नियुक्ताः पतायुताः ॥ २६ ॥
धवलश्चच्चरी चैव वदनज्झम्पटम्तथा ? |
चरिजा त्रिपदी चैव सिंहपादस्तथैव च ॥ २७ ॥
पदं तालसमायुक्ता(?) मङ्गलं स्तवमञ्जरी।
अमी सर्वप्रबन्धाश्च नियुक्ताः परिकीर्तिताः ॥ २८ ॥
तालतेन्नतयो रोपि(?) निर्युक्तः परिकीर्तितः ।
सवितासहितो वर्णो नन्दनस्ते वितायुनः ॥ २९ ॥

सातसमयसार
पतेतासहितः सोऽयमहिनन्दन उच्यते ।
पतावैहसलीला च विपातै रणरङ्ग कः ॥ ३० ॥
पास्वतैर्नर्तनं चव अनियुक्ता भवन्त्यमी ।
तापसैमङ्गलाचारो गद्यं चैवोभ यात्मिको ॥ ३१ ॥
तापा(: ? )स्वकैः शुकचन्चुः शुक : सारी च तैः स्मृतः ।
आमोदः म्यात सपानतैस्तपितापैः सुदर्शनः ।। ३२ ॥
पातापिपैः
: कन्दुकश्च तैः स्मृतो हर्षवर्धनः ।
पवातेतैः प्रमोदश्च पावितेतैमनोरमः ॥ ३३ ॥
अङ्कध्वनिस्तापतेतैरनियुक्ता अमी स्मृताः ।
तापिस्वतस्त्रिपथकस्तापाविश्वेश्च वर्धटी ।। ३४ ।।
नियुक्तो कथितावती गीतविद्याविशारदैः ।
सपावितेतायुक्तोऽसौ सिंहलालेति नामतः ॥ ३५ ॥
अनियुक्तो मवेदेष गीतलक्षणकोविदः ।
पदतालम्वरैम्तन्नीवरुदाभ्यां च गीयते ॥ ३६ ।
नियुक्तः शरमलील: प्रबन्धः कथ्यते बुधैः ।
प्रतापवर्धनस्तस्मादुमातिलकसंज्ञकः ॥ ३७ ॥
पञ्चाननः पञ्चभङ्गी श्रीरङ्गः श्रीविलासकः ।
अनियुक्ता अमी सर्व षडङ्गानीति कीर्तिताः ॥ ३८ ॥
इति द्विधातुकाः सर्वे कथितास्तदनन्तरम् ।
त्रिधातुकानहं वक्ष्ये व्यङ्गादिक्रमभेदतः ।। ३९ ।।
लम्भको रससन्दोहो हंसपादस्तथैव च ।
हरिविजयसंज्ञः म्यादेकताली तथैव च ॥ ४० ॥
ध्वनिकुट्टनिनामापि पदतालसमायुतः ।
पितायुतोऽङ्कचारी स्यादनियुक्ताः समीरिताः ॥ ११ ॥
विपदी च पदायुक्ता कन्दश्चैव विपायुतः ।
निर्युक्तौ कथितावेतो गीतज्ञानविचक्षणैः ।। ४२ ॥
जयमालाचक्रवालौ तथा रागकदम्बकः ।
कालार्णवो झोम्बटश्च रासकश्चोभयात्मिकाः ॥ ४३ ॥

२७ चतुर्थमधिकरणम् । गीयन्ते पदतालाभ्याममी गीतविशारदैः । स्वरार्थस्ता(पि)सैज्ञेयः स्यात् तथा सिंहविक्रमः ॥ ४४ ॥ कैवाडपाटकरणौ ताविवासहितावुभौ । तापिसैः स्वरकरणं पतेता ललि(ता) तथा ।। ४५ ॥ तेपासैमिश्रकरणमनियुक्ता अमी स्मृताः । आर्यावृत्तद्विपथका ये गाथा दण्डकाद्धिला:(?) || ४६ ॥ एते स्युः स्वपतायुक्ता मातृका पवितायुता । थडः पतेतासहितो गिर्युक्ताः कथिता अमी ॥ ४७ ।। पपातासहितो ज्ञेयः सिंहविक्रान्तनामकः । कलहंसः क्रौञ्चपदः स्वपतासहितावुभौ ॥ ४८ ।। गीतविद्याविशेषज्ञः कथिता उभयात्मिका: । श्रीवर्धन इति ख्यातः पातापिपतितो बुधैः ।। ४९ ॥ विरुदस्वरपदतालैः स्वरपदकरणं स्वराङ्कश्च । ज्ञेया सा गजलीला वर्तनी विवर्तनी च पञ्चापि(?) ॥ ५० ॥ विज्ञेयं बन्धकरणं सविपातायुतो बुधैः । प्रबन्धश्चित्रकरणं पञ्चतालेश्वरस्तथा ।। ५१ ।। प्रबन्धस्तेन्नकरणं स्वतेतापियुतः स्मृतः । तेपासपयुतः प्राज्ञैश्चतुरङ्ग इतीरितः ॥ ५२ ।। अनिर्युक्ता अमी प्रोक्ता गतिशास्त्रविशारदैः । तातेपसयुता तज्जैनियुक्ता सा चतुप्पदी ।। ५३ ॥ सपितापयुता तज्झैहयलीला निगद्यते । पपातास्वयुतौ ज्ञेयास्त्रिभङ्गी चोभयात्मिकौ(?) ॥ ५४ ।। म्वतापितेपसहितो जयश्रीरिति कीर्तितः । स्याद् वस्तु विजयश्रीश्च वर्णस्वरचतुर्मुखौ ॥ ५५ ॥ स्वपापतातेसहिता विज्ञेया गीनकोविदैः । प्रबन्धो वर्धनानन्दस्तथा हरविलासका ॥ ५६ ॥ कथ्यते सपितातेता सहिताविति कोविदैः । अनिर्युक्ता अमी सर्वे निर्युक्तो वस्तुसंज्ञकः ॥ ५७ ॥ इति त्रिधातुकप्रबन्धाः ।

२८
सङ्गीतसमयसार
पतायुक्ता ढेकिका च एला सापवितायुता ।
गीतविद्याविशेषज्ञैः स्मृतो तावुभयात्मिकौ ॥ ५८ ॥
प्रोक्ताविमौ चतुर्धात्र क्वचिज्झोम्बडरासकौं ।
पुनः प्रबन्धास्त्रिविधास्ते कथ्यन्ते यथाक्रमम् ॥ ५९ ॥
सूडक्रमगताः केचित् केचिदालिक्रमस्थिताः ।
तथान्ये विप्रकीर्णाख्या मुनिभिः प्रतिपादिताः ॥ ६० ॥
तत्र सूडक्रमः
प्रोक्तः : पञ्चधा गीतवेदिभिः ।
आदावतिजघन्यः स्याज्जघन्यस्तदनन्तरम् ॥ ६१ ।।
ततोऽपि मध्यमाख्या स्यादुत्तमाख्यास्ततः परम् ।
अत्युत्तमस्ततो ज्ञेयस्तेषां लक्षणमुच्यते ॥ ६२ ॥
झोम्बडो मट्टतालेन ततो निस्सारु झोम्बडः ।
कुडुक्केन ततो लम्भो लम्भो निस्सारुकेण च ।। ६३ ।।
झम्पतालेन लम्भश्च रासकश्चैकतालिका ।
असावतिजघन्याख्यः मूडो गायकसर्वतः ।। ६४ ॥
ढेकी ततो द्वितीयेन भवेत् तालेन झोम्बडः ।
मद्देन झोम्बडश्चाथ ततो निस्सारुझोम्बडाः ।। ६५ ॥
लम्भकोऽथ कुडुक्केन ततो निस्सारुलम्भकः ।
झम्पतालेन लम्भश्च रासकश्चैकतालिका ।। ६६ ॥
सूडो जघन्यनामायं गीतज्ञैः समुदाहृतः ।
एलापूर्वं ततो ढेकी तस्माद् गारुगिझोम्बडः ।। ६७ ॥
द्वितीयझोम्बडश्चाथ ततो मद्देन झोग्बडः ।
झोम्बडोऽथ तृतीयेन ततो निम्सारुझोम्बडः ॥ ६८ ।।
झोम्बडो द्रुतानेस्सारो लम्भको झम्भया ततः ।
रासकश्चैकताली च सूडोऽयं मध्यमः स्मृतः ॥ ६९ ।।
करणं प्रागथैला स्याड्ढोङ्कका तदनन्तरम् ।
गा(रा? रु)ग्या झोम्बडश्चाथ द्वितीयेनापि झोम्बडः ॥ ७० ॥
झोम्बडश्चैकतालेन ततो मद्देन झोम्बडः ।
तृतीयझोम्बडयाथ ततो निस्सारुझोम्बडः ॥ ७१ ॥

चतुर्थमधिकरणम् ।
झोम्बडोऽथ कुटुक्केन झम्पातालन लम्भकः ।
रासकश्चकताली च सूडः स्यादुत्तराभिधः ॥ ७२ ।।
गद्यं ततश्च करणं वर्तन्येला च डेतिका ।
गारुग्या चोम्बडश्चाथ द्वितीयेनापि झोम्बडः ॥ ७३ ॥
झोम्बडश्चैकतालन प्रतिमद्देन चोम्बडः ।
झोम्बडोऽथ तृतीयन ततो निस्सारुझोम्बडः ।। ७४ ॥
झोम्बडो द्रुतनिस्सारो झम्पातालेन लम्भकः ।
रासकश्चैकताली च सूडः स्यादुत्तमोत्तमः ॥ ७५ ॥
उत्तमोत्तमसूडान्तर्गणैलागानमादृतम् ।
रागस्य नियमाद् गातुर्नेतिरागान्तरेण तत ॥ ७६ ॥
तदुक्तं रसरागाभ्यामौचित्यात् सैव गीयते ।
प्रौढानेनैव रागेण सूडोऽपि परिगीयते ।। ७७ ॥
अत उत्तमसूडे तु रागस्य ।नेयमं विना ।
छन्दस्वती सहरैला मात्रैला परिगीयते ।। ७८ ।।
मध्ये मध्ये मङ्कुडस्य रागस्य नियमेन तु ।
वर्णेला वर्णमालेला देशाख्यैला च गीयते ॥ ७९ ॥
उत्तमोत्तमसूडे तु प्रथमं मातृका भवेत् ।
पञ्चतालेश्वरो यद्वा हृद्यं गद्यमथापि वा ।। ८० ॥
आलिक्रमोऽयमेवोक्तः प्रतापपृथिवीभुजा ।
अस्मिन्नेला च ढेकी च ततो गारुगितालतः ॥ ८१ ॥
द्वितीयेन च तालेन प्रतिमट्टाभिधेन च ।
ततो निस्सारुतालेन झोम्बडो लम्भकस्तथा ॥ ८२ ॥
रासकश्चैकताली च स्थाथिनो नव कीर्तिताः ।
शेषाः सञ्चारिणः षट् च परिवृत्तिसहिष्णवः ॥ ८३ ॥
उत्तमः प्राक्स्व रार्थः स्यात् स्वराको वा थढोऽथवा ।
करणं वा त्रिभङ्गिर्वा यद्वा क्रौञ्चपदाभिधः ॥ ८४ ॥
भेवच्छरभलीलो वा पञ्चभगिरथापि वा ।
तत्रैला देविका चैव ततो गारुगितालतः ॥ ८५ ॥
द्वितीयेन च तालेन ततो निस्सारुतालतः ।
झाम्बडा लम्भको रासश्चकतालीति कीर्तिताः ॥ ८६ ॥

सङ्गीतसमयसारे
स्थायिनोऽष्टापि हान तु पच्च सञ्चारिणः स्मृताः ।
एला स्यान्मध्यमे पूर्व टेक्किका तदनन्तरम् ॥ ८७ ॥
गारुग्याख्येन तालेन द्वितीयेन च झोम्बडः ।
ततो निस्सारुलम्भश्च रासकश्चैकतालिकः ॥ ८८ ॥
इति सप्त समुद्दिष्टाः प्रबन्धाः स्थायिनो बुधैः ।
क्रमेण शेषाश्चत्वारो यथाविधि समोरिताः ॥ ८९ ।।
जघन्ये प्रथमे ढेङ्की द्वितीयेन तु झोम्बडः ।
निम्सारुणा पितालेन लम्भा रासैकतालिका ॥ ९ ॥
षडेते रथायिनः प्रोक्तास्त्रयोऽन्ये तु यथारुचि ।
भवन्त्यतिजघन्ये तु मट्टतालेन झोम्बडः ॥ ९१ ।।
निस्सारु झोम्बडो लम्भो रासकश्चैकतालिका ।
पञ्चैते स्थायिना ज्ञेया द्वावन्यौ तु यथारुचि ।। ९२ ।।
त्यक्त्वा कु + कनिस्सारु लम्भावादी ध्रुवं न्यसेत् ।
अन्तरे चण्डनिस्सारुमट्टादि स्याद् ध्रुवादिकाः ।। ९३ ।।
एक एव प्रबन्धश्चेन्मलरूपेण गीयते ।
तालेनकेन नानार्थः स सूडो विप्रकीर्णकः ॥ ९४ ॥
एकैकशोऽपि गातव्यः प्रबन्धी विनियोगतः ।
अथ सूडक्रमाश्रितप्रबन्धलक्षणं वक्ष्ये
उदाहः प्रथमार्ध य लैङ्किकायां विधीयते ॥ ९५ ।।
आवृत्त्या तच्च गातव्यं समं वा विषमग्रहे ।
द्वितीयाधै तु तेनैव सकृद्गीतेन गीयते ॥ ९६ ।।
मेलापकस्ततस्तालयुक्तो गेयो विकल्पतः ।
उदाहे चैव मेलापे ढेशितालो भवेद् यतः ।। ९७ ।।
तस्मादम्य प्रबन्धस्य नाम ढेङ्कीति कीर्तितम् ।
तालोऽत्रान्यो लयश्चान्यस्ततो वारद्वयं बुधैः ।। ९८ ॥
एकगीतध्रुवस्यायं सानुप्रासं पदद्वयम् ।
अन्यगीतेन गातस्य तृतीयोऽविध्रुवाश्रयः ।। ९९ ।।
आभोगं च सकृद् गीत्वा ध्रुवं गीत्वा ततः पुनः ।
उदाहतालमानेन तस्य न्यासो विधीयते ॥ १० ॥

३१
चतुर्थमधिकरणम् ।
॥ ढेकीसामान्यलक्षणम् ॥
उदाहस्यादिमं भागं मायेद् वारद्वयं ततः ।
सकृदेव द्वितीयाध ततोऽपि गमकैयुतम् ॥ १०१ ।।
मेलापक विकल्पेन ततो वारद्वयं ध्रुवम् ।
आभोगं च सकृद् गीत्वा स्रावेण न्यास इष्यते ॥ १०२ ॥
भागोऽपि झोम्बडे कार्य इति केचित् प्रचक्षते ।
गीतेन प्राक्तनेनैव यत्रोद्राहः पदान्तरैः ॥ १०३ ॥
विवक्षितार्थशेषम्य पूणत्वापादनाय च ।
अपरः क्रियते योऽसौ स भाग: परिकीर्तितः ॥ १०४ ॥
शरीरस्य यथा छाया भवत्यव्यय चारिणी ।
हासवृद्धियुता चैव झोम्बडे गमकस्थितिः ॥ १०५ ।।
तारजोऽतारजश्चेति झोम्बडो जातियुग्मकम् ।
तारो ब्वनिः समुद्दिष्टो गायकैः स्थानकाख्यया ॥ १०६ ।।
तेन तारेणा संयुक्तो झोम्बड तारजः स्मृतः ।
तारजस्य परिज्ञेयं तत्र भेदचतुष्टयम् ।। १०७ ॥
तच्च दुष्करमेवाक्त गीतविद्याविशाग्दैः ।
आदौ प्रतापतिलको भवेत् प्रतापसङ्गमः ।। १०८ ।।
ततोऽचलप्रतापः स्यात् ततः प्रतापवर्धनः ।
उदाहे स्थानकस्थित्या प्रतापतिलको भवेत् ।। १०९ ॥
प्रतापसङ्गो मेला(प)स्थानकस्य निवेशनात् ।
स्मृतोऽचलप्रतापोऽसौ प्रापे स्थानकनिमितेः ॥ ११० ॥
प्रतापवर्धनो ज्ञेय आभागे स्थानकान्वयात् ।
॥ तारजः ॥
ततः प्रभूतगमकम्ततोऽल्पगमकाभिधः ।। १११ ।।
त्रिधातुकस्तृतीय(श्च) म्यादल्पगमकाभिधः ।
त्रिधातु कस्तृतीयः स्यादतारजभिधात्रयम् ॥ ११२ ॥
अनेकगमकत्वेन विपुलायासयोगतः ।
प्रभूतगमको नाम झोम्बडो दुष्करः स्मृतः ॥ ११३ ॥

३१ सङ्गीतसमयसार अस्पैस्तु गमकैः क्लुप्तः स्यादपगमकाभिधः । गमकानामबाहुल्यादक्लेशेन च गानतः ॥ ११४ ।। त्रिधातुकः परिज्ञेयो मेलापेन विवर्जितः । त्रिधातुकाल्पगमको सुकरौ परिकीर्तितौ ॥ ११५ ॥ सप्तैते कथिता भेदास्ताले गारुकिनामनि । एवं द्वितीयतालेऽपि सम भेदा भवन्ति ये ॥ ११६ ॥ उद्यत्प्रतापः प्रथमं भवेत् स प्रतापयोग तदनन्तरं स्यात् । स्थिरः प्रतापश्च भवेत् प्रतापः सशेवरो दुष्करनामधेयः ॥ ११७ ॥ उद्यत्प्रतापमुग्राहे स्थानकस्य निवेशनात् । प्रतापयोगमेलापे वदन्ति स्थानकस्थितेः ॥ १.१८ ॥ ध्रुवे स्थिरप्रतापं च स्थानकम्य निवेशनात । प्रतापशेखरं प्राहुराभोग म्थानकान्वयात ॥ ११९ ।। अन्योऽपि भूरिगमको गमकः सूक्ष्मपूर्वकः । त्रिधातुकश्च विज्ञेया दुष्करः सुकरास्त्रयः ।। १२० ॥ प्रभूतगमकाधेषु त्रिषु यल्लक्षणं कृतम् । तदेव भूरिंगमकपभृतिप्ववगम्यताम् ॥ १२ ॥ केवलं तालभेदेन नामभेदः प्रकोर्तितः । अन्येऽपि भेदा विद्यन्ते झोम्बडस्य पुनस्त्रयः ॥ १२२ ।। गद्यजः पद्यजश्चैव गद्यपद्यमयस्तथा । क्रमेण लक्षणं तेषां यथावत् प्रतिपाद्यते ॥ १२३ ॥ संस्कृतैर्देशजैर्वापि सानुप्रासः पदैर्भवेत् । गीतविद्भिः स विज्ञेयो झोम्बडो गद्यजाह्वयः ॥ १२४ ॥ छन्दसा येनकेनापि निबद्धः पद्यजः स्मृतः । झोम्बडो गद्यपद्याभ्यां गद्यपद्यमयो भवेत् ॥ १२५ ॥ झोम्बडं दुष्करं त्यक्त्वा प्रभूतगमकं तथा । गद्यजं पद्यजं चैव गद्यपद्यमयं तथा ॥ १२६ ॥ लबुशेखरताले स्युरन्येऽल्पगमकादयः । प्रतिमट्टे तृतीये च मट्टे निस्मारुके नथा ।। १२७ ।। , ३३ चतुर्थमधिकरणम् । चण्डनिस्सारुके चैव चण्डपूर्वतृतीयके । एतेषु झोम्बडा गेया + + + लघुशेखरे ॥ १२८ ॥ कुटुकाख्येन तालेन झोम्बडो गीयते यदा । पदैरपि विना कार्या तदाभोगस्य कल्पना ॥ १२९ ॥ एवमष्टादश प्रोक्ता झोम्बडा गीतवेदिभिः । ॥ झोम्बडः ॥ उग्राहेऽघिद्वयं प्रासैः प्रतिपादं गणाश्च षट् ॥ १३० ॥ पादस्यान्ते प्रयोगः स्यात् पल्लवाख्यं पदं ततः । पल्लवाख्ये पदे नास्ति नियमो गणवर्णयोः ॥ १३१ ॥ भनेनैव प्रकारेण द्वितीया ः प्रकल्पना । गीत्वा ततस्तृतीयाज्रिगेयो मेलापको भवेत् ॥ १३२ ॥ (तथा) पादत्रये गीतमेकमेव विधीयते । सपासोऽथ ध्रुवो गेयो वर्ण्यनाम्ना समन्वितः ।। १३३ ॥ आभोगश्च ततो गेयो गातुर्नाम्ना विराजितः । ध्रुवं गीत्वा ततो न्यासः सर्वैलासु प्रशस्यते ॥ १३४ ।। ॥ एला ।। स्वराख्यं करणं पूर्व पादाख्यं करणं तथा । तृतीयं बन्धकरणं तुर्य स्वरपदात्मिकम् ।। १३५ ।। पञ्चमं चित्रकरणं षष्ठं तेन्नकपूर्वकम् । सप्तमं मिश्रकरणं तेषां लक्षणमुच्यते ॥ १३६ ।। धातुद्वयं स्वरैरेव नैरन्तर्येण गीयते । द्रुतशेखरतालेन करणे स्वरपूर्वके ।। १३७ ।। करणं करणाख्येन तालेन किल गीयते । दृश्यते तन्न लक्ष्येषु युक्तियुक्ता त्रुटिप्पणे(?) ॥ १३८ । इष्टस्वरो ग्रहस्तस्मिन्नंशेन न्यास इष्यते । आभोगे वर्णनीयस्य नाम गातुश्च निक्षिपेत् ।। १३९ ।। द्विर्गायेदादिमं त्वंशं सकृदेव द्वितीयकम् । तृतीयं तु सकद् गीत्वा ध्रुवं गायेदनन्तरम् ॥ १४० ।। F सङ्गीतसमयसारे उदाहेण ततो न्यासः करणे स्वरपूर्वके । गानप्रकारो यस्यैव मङ्गलारम्भकं हि तत् ॥ १४१ ।। गीत्वा पूर्व द्विरुद्राहं सकृद् गायेद् ध्रुवं ततः । उदाहस्यान्तरं भागं गीत्वाभोगध्रुवं ततः ॥ १४२ ।। उदाहेण पुनासः क्रियते यत्र तद् भवेत् । करणं कीर्तिलहरि शं श्रुतिसुखावहम् ।। १४३ ॥ उद्वाहध्रुवयोर्गानं पूर्ववद् यत्र दृश्यते । ध्रुवग धं ततो गेयमाभोगाद्यपि पूर्ववत् ।। १४४ ॥ आनन्दवर्धनं नाम तदेतत् करणं मतम् । संज्ञात्रितयमुक्तं यन्मङ्गलारम्भपूर्वकम् ॥ १४५ ॥ स्वराख्ये करणे स्पष्टं तत् म्यादन्येषु षटम्वपि । स्वरैः सहस्तपाटेश्च व्यत्यासराचतरपि ॥ १४६ ॥ धातुद्वये परिज्ञेयं तत्पा(ट ? द)करणं द्विधा । ॥ पादकरणम् ॥ खरा मुरजपाटाश्च यत्र म्युर्धा .युग्मके ॥ १४७ ॥ तद् बन्धकरणं नाम विज्ञय गी कोविदैः। ।। बन्धकरणम् ॥ धातुद्वयं भवेद् यत्र म्वरैरथ पदैरपि ॥ १४८ ।। तदुक्तं गीत ः करणं पदपूर्वकम् । ॥ स्वरपदकरणम्।। स्वराश्च हस्तगाटाश्च समं स्युर्मुजाक्षरैः ॥ १९ ॥ पादैर्धा द्वये यत्र तच्चित्रकरणं मतम् । । चित्रकरणम् ॥ स्वराः सतेन्नका यत्र दृश्य ते धानुयुग के ॥ १५० ॥ तदुक्तं ते(न! न)करणं चा+ + + सुध.भुजा। ॥ तेन्नकरणम् ।। स्वरैः पाटैस्तथा तेन्नैर्यत्र धातुद्वयं भवेत् ।। १५१ ।। तन्मिश्रारणं ज्ञेयं प्रान्ते विरुदसंयुतम् । ।। मिश्रकरणम् ।। ॥ इति करणम् ॥

चतुर्थमधिकरणम् ।
गीत्वा द्विपादमुद्राहं ध्रुवाभोगावनन्तरम् ॥ १५२ ।।
ध्रुवकेण पुनर्मुक्तिर्वर्तन्यां सूत्रयेद् बुधः ।
प्रतितालो द्रुतो मट्टः कङ्कालश्च कुटुक्कुरः ।। १५३ ।।
वर्तन्यां न भवन्त्येते तालास्त्वन्ये भवन्ति हि ।
स्वराख्यकरणाद् भेदो वर्त-यामयमेव तत् ॥ १५४ ।।
विलम्बितो लयस्तस्यां करणे तु द्रुतो लयः ।
॥ वर्तनी॥
प्रतितालादयः पञ्च वर्तन्यां ये निवारिताः ।। १५५ ।।
तैरेव गीयते या सा वर्तन्ये व विवर्तनी ।
आदौ यत्र स्वरालापः क्रियते तालवर्जितः । १५६ ॥
वर्तन्यां ++ + + + सा स्यादालापपूर्वका ।
॥ विवर्तनी॥
स्वरैरभीष्टो यत्रार्थः सप्तभिः प्रतिपाद्यते ।। १५७ ॥
स्वरार्थोऽसौ द्विधा ज्ञेयः शुद्धमिश्रविभेदतः ।
क्रमेण व्युत्क्रमेणेति प्रत्येकं तौ द्विधा मतौ ॥ १५८ ॥
शुद्धया रागां(?) श्रुतिम्थानकृतया तम्य सम्भवः ।
शुद्धः स्वरार्थो विज्ञेयः केवलैः सप्तभिः स्वरैः ॥ १५९ ।।
यत्र स्वराणां सप्तानामेकैकं प्रथमाक्षरम् ।
अक्षरान्तरसम्मिश्रं गीयते स तु मिश्रकः ॥ १६० ॥
शशिस्तनामिवेदेषुरसाश्चेति हिताभिधाः ।
एकादिस्वरभेदेन स्वरार्थः सप्तधा स्मृतः ।। १६१ ॥
आभोगोऽन्यपदैश्चास्य प्र(ह ? हे)णैव प्रमुच्यते ।
॥ स्वरार्थः॥
अपादः पदसन्दोहो गद्यं पाढा तदिष्यते ॥ १६२ ॥
वृत्तगन्धि तथा चूर्णमन्यदुत्कलिकाभिधम् ।
ललितं च तथा खण्डं चित्रं तल्लक्ष्म कथ्यते ।। १६३ ॥
पद्यभागान्वितं गद्यं वृत्तगन्धि निगद्यते ।
असमस्तैः समस्तै द्विस्तु चतुरैः पदैः ॥ १६४ ॥

सङ्गीतसमयसार रचितं चूर्णमाल्यातं गद्यं गद्यविशारदैः । गौडरीत्या युतं गद्यं प्रोक्तमुत्कलिकाभिधम् ॥ ११५॥ समस्तैः पञ्चषैर्बद्ध पदैर्ललितमीरितम् । प्रक्रान्तरीतिभनेन बृहल्लघुपदैर्युतम् ॥ १६६ ।। गद्यं खण्डमिति प्रादुर्गद्यभेदविशारदाः । गचं चित्रमिति प्रोक्तं नानारीतिसमन्वितम् ।। १६७ ॥ वृत्तग(न्धी ? न्धि)नि पाञ्चाली रीतिः शान्तो रसो भवेत् । वृत्तिश्च भारती ज्ञेया सामवेदसमुद्भवे(त् !) ॥ १६८ ॥ चूर्णे स्यात् सात्त्वती वृत्तिवैदर्भी रीतिरुत्तमा। शान्तो रसो विजानीयाद् गद्यविद्याविशारदैः () ।। १६९ ॥ उत्कलिकाहये रीतिौडी वीररसो भवेत् । वृत्तिरारभटी ज्ञेया गीततत्त्वविचक्षणैः ॥ १७० ॥ ललिते पाञ्चालंरीतिः स्यात् कैशिकी वृत्तिरुपमा । रसः शृङ्गारनामायमादिशास्त्रार्थस(व ? म्म)तः ॥ १७१ ॥ खण्डगये रसो हास्यो वैदर्भी रीतिरिष्यते । सात्वती वृत्तिरिष्टा मे पूर्वशास्त्राविरोधतः ॥ १७२ ॥ चित्रगद्ये च वैदर्भीरीतिवृत्तिश्च कैशिकी । रसः शृङ्गारसंज्ञोऽयं गीतज्ञैः समुदाहृतः ॥ १७३ ।। प्रणवाद्यं भवेद् गयं गेयं तालविवर्जितम् । मिथः सयमकैः षड्भिरष्टभिर्वा समन्वितम् ॥ १७ ॥ पदान्येतानि मेधावी गायेद् गीतानुसारतः । गयेऽनुयायिनः कार्यो गीतस्य नियमो बुधैः ।। १७५ ॥ मध्ये मध्येऽत्र गमकाः सर्वे वर्णाश्च युक्तितः । गद्यरीत्या विधातव्यावविलम्बविलम्बितौ ॥ १७६ ॥ अतालपदपर्यन्ते स्वरा ज्ञेया विचक्षणैः । मध्ये मध्ये तु गद्यस्य स्वराः प्रान्तेऽथवा मताः ॥ १७७ ॥ ततः प्रबन्धनामाझं सतालं पदयुग्मकम् । गुनक्षराणामरूपत्वे द्रुतमध्या प्रकीर्तिता ॥ १७८ ॥ ? .

चतुर्थमाधिकरणम् । गुरुभिलघुभिर्मिौतेंया मध्यविलम्बिता । प्रत्येकं षडविधे गये षट्प्रकारगतिर्भवेत् ॥ १७९ ॥ अतः षट्त्रिंशदेव स्युर्भेदा गद्यसमाश्रयाः । ॥ गद्यम्॥ लम्भकश्चोपलम्भश्च विलम्भश्चाथ लक्षणम् ॥ १८० ॥ पदमेकं पदे द्वे वा किञ्चिद्गमकसंयुते । सकृद् गीत्वा ततो गेयं द्वौ वारौ ध्रुवकाभिधम् ।। १८१ ॥ आभोगं च ततो गीत्वा ध्रुवेण न्यास इप्यते । इत्येष लम्भकः प्रोक्ता भागैर्द्विस्त्रिविभूषिता(?) ॥ १८२ ॥ अतालालापयुक्तः प्राग् ध्रुवाभोगौ च तालभाक् । विलम्भकः परिज्ञेयो ध्रुवन्यासेन संयुतः ॥ १८३ ॥ पदैर्नानाविधैर्यस्मादेकगीतैः पुनः पुनः । उदाहे वा ध्रुवे वापि द्वयोर्वाभोगवर्जितः ॥ १८४ ॥ उपलम्भ इति प्रोक्तः स नाम्ना गीतकोविदैः ॥ लम्भकः ॥ आदितालसमायुक्त गमकादिविवर्जिते ॥ १८५ ॥ रासके झोम्बडस्येव शेष लक्षणमीरितम् । अन्यैर्यास्त्रविधः प्रोक्तो गणमात्रादिभेदतः ॥ १८६ ॥ रासकः किन्नु कास्त्यस्य(१) लक्ष्ये कुत्रापि दर्शनम् । आलापं केचिदिच्छन्ति रासके प्राङ्मनीषिणः ॥ १८७ ।। केचिदेकपदोहाहं रासकं प्रतिपेदिरे । ॥ रासकः ॥ द्विरुवाहं ध्रुवं द्विश्व गीत्वाभोगं सकृत् पुनः ॥ १८८ ॥ ध्रुवं गीत्वा ततः कार्यों न्यासो गीतविशारदैः । पनद्रुता धनप्रासा यत्या च घनया युता ॥ १८९ ॥ एकतालाख्यतालेन गेया स्यादेकतालिका । भलापानिर्मितः कैश्चिदस्या उदाह इष्यते ॥ १९ ॥ ॥ एकताली॥ ॥ इति शुद्धसूडान १८ सङ्गीतसमयसार - ते अथ सालमूडक्रमं वक्ष्ये- आदौ ध्रुवा ततो मट्ठा (प्रति)मट्ठा च लम्भकः । अकुताली रासकश्च एकतालीव कीर्तिताः ॥ १९१ ॥ आदौ पादौ समगणयुतौ धातुसाम्यौ ततस्त- तुल्यो वाघिम्त्वधिक इतरो धातुनान्येन युक्तः । स्यादुद्दाहेऽत्र पदसहितो गेय एष द्विवारं त्वङ्घी गीत्वा सकृदपि पुनय॑स्यते चोद्रहे सः ॥ १९२ ॥ स ध्रुव एकादशधा शशिहासहसमाधवनीलोत्पलतापस जानाथाः । हरिहरनरपतिशका एकादश क्रमादुक्ताः ॥ १९३ ॥ भवति शशाङ्कः क्रमशो मधुरतरो मन्द्रमध्यताराख्ये । तेषामपि विशदानां व्युत्क्रमतो जायते *भासः ॥ १९ ॥ तेषाममि स्फुटानां मध्यादीनामसौ हंसः । सुकुमाराणां तेषां मध्यान्तानां वसन्ताख्यः ॥ १९५ ॥ तेषां विकासमाजामभिदूर्वाको(!) भवेत् कुमुदः । तेषां प्रसन्नभाजां लीलानां तापसो भवति ।। १९६ ।। प्रचुरम्फुरितैस्तैरपि सुव्यक्तो भवति कमलभवः । तैरेव तिरिपुबहले. (कोमलयति ? कमलापति)नामको भवति ॥ १९७ ॥ तैरेव तिरिपुभिन्नैः शैलसुतावल्लभो भवति । तैरान्दोलनबहुलैर्जायेतासौ वसुन्धराधीशः ॥ १९८ ॥ तैरेव कम्पबहुलैः सहस्रनयनाभिधो भवति । ॥ इत्येकादश ध्रुवाः॥ मट्ठा च प्रतिमट्ठा च लम्भकश्चाइनालिका ॥ १९९ ।। रासकश्चैकताली च ध्रुवकेनापि गीयते । गेयः स्यात् सकृदुद्राहो द्विवारं ध्रुवकस्ततः ॥ २०० ।। गीत्वाभोगं द्विरुद्राहो ध्रुवे लम्भकजातिकः । ममादितालपतन(?) यदा गायेत लम्भकः ॥ २०१ ।। 'हास' इति लक्ष्ये पठ्यते ।

चतुर्थमधिकरणम् ।
तत्तत्तालाभिधानेन लम्भ(कः ? क) कथयन्ति च ।
गण्डकी गूर्जरी चैव रामक्री (व ! फ)लमञ्जरी ॥ २०२ ॥
छायागौडश्च देशाख्या वराटी कथिता तथा ।
बुधैः सालगनाट्टा च रागाः सालकसंज्ञिताः ॥ २०३॥
छायया अलमत्यर्थ गीयत इति छायालगः(?) ।
अथ गानक्रमः
एकैकशोऽपि गातव्यः प्रबन्धो विनियोगतः ॥ २० ॥
चमत्कारं जनयितुं विनादेषु सहापतेः(!) ।
अनुसारः सानुसारस्त(तो ? थो)त्तराभिधः परः ॥ २०५॥
खलोत्तरं च कुरुपुः पट्टान्तरन(ला? वा)न्तरौ ।
उच्यते समयस्तस्माद् विज्ञेयं परिवर्तनम् ।। २०६ ॥
नवधा रूपकं प्रोक्तं गीतविद्याविचक्षणैः ।
क्रमेण लक्षणं तेषां वक्ष्ये लक्ष्यानुसारतः ॥ २०७ ।।
तालरागप्रमेयश्च सदृशं पूर्ववस्तुनः ।
नवं वस्त्वनुसाराख्यं दपणे प्रतिबिम्बवत् ॥ २०८।
इदमेव गुणैरीषत् सदृशं पूर्ववस्तुनः |
सानुसाराभिधं ज्ञेयं गीतलक्षणकोविदैः ॥ २०९ ॥
सममात्रं विशिष्टार्थ किश्चित् तालविलम्बितम् ।
चडालश्रुतिसंयुक्तमुत्तरं गीतमुच्यते ॥ २१० ॥
स्वस्थानकपरित्यागात् स्थेया नैवादिरूपके ।
नीचोच्चस्थानकैरन्यगानं खलोत्तरं विदुः ।। २११ ॥
एकस्यैव पदार्थ-य बहूनां वोपमादिभिः ।
स स्यादिष्टार्थनिर्वाहः कुरु (षुः ! पुः) परिकीर्तितः ।। २.२ ॥
परक्ष्यिमाणयोस्तज्जैरुभयोर्यदि वस्तुनोः ।
गुणाधिक्यमनिश्चेयं पट्टान्तरमिति स्मृतम् ।। २१३ ॥
अर्थभाषाक्रियारागधारमा (तु ? तृ)लयेषु च ।
रसरीत्योर्नवत्वं यन्नव इत्यभिधीयते ।। २१४ ॥
गजाबारोहणादौ तु सम(यो ? ये) नृपवर्णनम् ।
तदानीमेव रचित भवेत् तत् समयाभिधम् ॥ २१५ ॥

सङ्गीतसमयसारे रूपकं स्थानके रागे ताले गीयेत गायकैः । परिवृत्त्यान्यथा गीतं तदेव परिवर्तनम् ॥ २१६ ॥ रीतयः सन्ति कथिताः षडेव कथयामि ते । चोक्षगायनरीतिश्च योगिरीतिः कचिद् भवेत् ॥ २१७ ॥ मलिनगायनरीतिश्च गीतिः सा योषितां कचित् । कचित् पेरणरीतिश्च रीतिः कथकसंज्ञिता ॥ २१८ ।। रीतिर्भनिरिति प्रोक्ता रीतिलक्षणकोविदैः ॥ २१८३ ।। इति सङ्गीताकरनामधेयश्रीपार्श्वदेव विरचिते सङ्गीत- समयसारे चतुर्थमधिकरणम् ।। अथ पश्चममधिकरणम् । अ(थ) गीतानुगामित्वाद् वाद्यमत्र प्रव(ज्य ! यते । उद्देशकमतः किश्चित् सर्वलोकानुरञ्जनम् ॥ १ ॥ ततं ततोऽवनद्धं च घनं च सुषिरं तथा । चतुर्विधमिदं प्राहुरातोचं वाद्यवेदिनः ॥ २ ॥ ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पोष्टरम् । कांस्यं घनमिति प्रोक्तं सुषिरं सुषिरात्मकम् ॥ ३ ॥ वीणा चालावणी चैव किन्नरी लघुपूर्विका । बृहत्किन्नरिका चैव शकनीत्यादिगन्तरम् (2) ॥ ४ ॥ पटहश्च हुडका च ढक्का च तदनन्तरम् । मृदङ्गः करदेत्याद्यमवनद्धमुदाहृतम् ॥ ५ ॥ तालश्च कांस्यतालश्च घण्टिका क्षुद्रघण्टिका । पदृश्व शुक्तिरित्याद्यं धनवाद्यमुदाहृतम् ॥ ६ ॥ वंशश्च महुरी चैव शङ्खः शृङ्गं तथैव च । इत्याद्यनेकधा पोक्तं सुषिरं वाद्यवेदिभिः ॥ ७ ॥ एकहस्तेन हस्ताभ्यां कोणेनालिभिस्तथा । नानाप्रकारैः फूत्कारैः श्रुतिसौख्यविधायिभि. ॥ ८ ॥ बहुप्रकारमेवं स्याद् वादनं लोकरञ्जनम् । तत् सर्व पञ्चधा भूयः शुष्कं गीतानुगं तथा ॥ ९ ॥ १. 'नीत्यादिकं ततम्' इति पायं स्यात् ।

पश्चममधिकरणम् । नृत्यस्य चानुयायि स्यादुभयानुगमित्यपि । तन्त्र्याश्चानुगतं प्रोक्तं वाद्यविद्याविचक्षणैः ॥ १० ॥ विना गीतं विना नृत्तं वायं शुष्कमुदाहृतम् । अन्वर्थसंज्ञया ज्ञेयं शिष्टं वाद्यचतुष्टयम् ॥ ११ ॥ क्रियाभेदाद् वाद्यभेदात् तथैव व्याप्तिभेदतः । वीणाभेदाद् भवन्त्यन्ये तन्त्रीसंख्यावशादपि ॥ १२ ॥ भजते सर्ववीणानामेकतन्त्रीप्रधानता(!) । छन्दो धा(रा) कैकुटी च कङ्कालो वस्तुपूर्वकः ॥ १३ ॥ गजलीलाभिधानं च तथैवोपरिवादनम् । दण्डकं च तथा ज्ञेयं वाद्यं पक्षिरुताभिधम् ॥ १४ ॥ एतद् दशविधं नाम्ना वीणावाद्यं समीरितम् । खसितेन समायुक्तो बहुधा स्फुरितः करः ॥ १५ ॥ संस्पृ(ष्ट)तारं छन्दाख्यो यत्या च समलङ्कृतः । उत्क्षेपः परिवर्तश्च ताभ्यां स्याद् यत्र कर्तरी ॥ १६ ॥ रेफेण सहिता तद्वदुल्लेग्वो रेफसंयुतः । एवं समुदितं प्राहुर्धारात्यं वादनं बुधाः ॥ १७ !! सुखेन स्फुरितेनापि निर्घोषेण च पाणिना । संयुक्तं चार्धकर्तर्या संयुक्तं वादनं विदः ॥ १८ ॥ कर्तरीत्रयसंयुक्तं स्फुरितैमूर्छितैयुतम् । कङ्कालनामकं वाद्यं प्राहुर्वैणिककोविदाः ॥ १९ ॥ फर्तर्या खसितेनापि कुहरेण परिस्फुटम् । तारः संस्पृश्यते यत्र तद् वाद्यं वस्तुसंज्ञकम् ॥ २० ॥ कर्तरीखसिताभ्यां यत् कुहरेण च संगतम् । निर्घोषरेफ(हु!भ्र)मरैस्तूर्ण तत् करणं विदुः ॥ २१ ॥ कर्तर्या खसितेनापि मूछितः स्फुरितैः करैः । विरच्यते तु (त? य)द्वाद्यं गजलीलं तदीरितम् ॥ २२ ॥ अधस्तादुपरिष्टाञ्च यवयातः(?) करौ क्रमात् । रेफकर्तरिनिष्कोटैस्तलेनोपरिवाद्यकम् ॥ २३ ॥ १. लक्षणे पुनरस्याः स्थाने नामान्तरं पठितम्। २. लक्षणे तूर्णमिति दर्शनात् पूर्ण कमितीह पाठः स्यात् । G सङ्गीतसमयसारे निक्षिप्य परिवर्ताभ्यां कर्तर्या च सरेफया । मानेन खसितेनापि मण्डितं दण्डकं विदुः ॥ २४ ॥ समस्तहस्तसंयोगाद् वाद्यं पक्षिरुतं मतम् । इत्युक्तं दशधा वाचं गीतलक्षणवेदिभिः ॥ २५ ॥ सकलं निष्कलं चेति वायमेतद् द्विधा भवेत् । कथितं शरेणेदमेकतन्त्रीसमाश्रयम् ॥ २६ ॥ तथा जीवा विधातव्या लमा नादे यथा भवत् । यत् तया जी(य्य ! व्य)ते नादस्तेन जीवेति सा मता ॥ २७ ॥ तन्त्रिका पत्रिकायां तु कचिल्लगति वाथवा । लग्ना सैव कला ज्ञेया वीणाप्रावीण्यशालिभिः ॥ २८ ॥ तदुक्तं सकलं वाद्यं यतः स्थूलो भवेद् ध्वनिः । असंस्पर्शेन तर्जन्या दोरिकापत्रिकावधि ॥ २९ ॥ सार्यते तन्त्रिका यत्र सकलं तदपि स्मृतम् । विन्दोरु + यसिद्धयर्थं जीवा हीना विधीयते ॥ ३० ॥ निषादस्वरतोऽधस्तात् तन्त्रिका नैव सर्पति । यत्र स्यात् तर्जनीस्पर्शो निष्कलं तन्निगद्यते ॥ ३१ ॥ सन्निविष्टा तथोरिक्षप्ता तृतीया चोभयात्मिका । सहं तन्व्याः परित्यज्य संसद् यत्र सारणा ॥ ३२ ॥ सन्निविष्टाभिधाना सा सारणा कथिता बुधैः । स्पर्श स्पर्श समुत्सृज्य तन्त्रीमुत्प्लुत्य सारणम् ॥ ३३ ॥ यद् या(दि! ति) सोदितोत्क्षिप्ता निष्कले सकलेऽथवा । भवेत् कुत्रचिदुक्षिप्ता संस्पृष्टा कुत्रचिद् भवेद् ॥ ३४ ॥ इति क्रियाद्वयीयोगात् सारणा सोभयात्मिका । सारणा त्रिप्रकारेयमेकतन्त्रीसमाश्रिता ॥ ३५ ॥ अन्यासामपि वीणानां ययौचित्येन सारणा । घातः पातश्च सल्लेख उल्लेखश्चावलेखकः ॥ ३६ ॥ छिन्नसन्धितसंज्ञश्च भ्रमरश्चेति दक्षिणे । हस्ते यापारभेदाः स्युर्वामे स्फुरितघर्षणे ॥ ३७ ।।

पश्रममधिकरणम् । ४३ मध्यमाक्रान्ततर्जन्या यदा तन्त्री निहन्यते । तदा(या ! घा)तो भवेत् पातस्तर्जन्यैवैकया पुनः ।। ३८ ॥ तर्जन्यन्तरघातस्तु सल्लेखः समुदाहृतः । मध्यमान्तरघातस्तु भवेदुल्लेखसंज्ञकः ।। ३९ ।। मध्यमाबाह्यघातोऽसाववलेख इति स्मृतः । तर्जनीपार्श्वसंलग्मा ह(त? ता)नामिकया बहिः ॥ ४० ॥ तन्त्री यदा तदा ज्ञेया घातश्छिन्नाभिधानवान् । मध्यमानामिकाभ्यां तु बहिस्तन्त्री यदा हता ॥ ४१ ।। तदा विचक्षणैरुक्तो घाताऽमौ सन्धिताहयः । अङ्गुलीभिश्चतसृभिरन्तराह ननं द्रुतम् ॥ ४२ ॥ यदा विरच्यते घातस्तदा भ्रमरको भवेत् । तन्त्रीपृष्ठे तु संलमा वेपते यत्तु सारणा ॥ २३ ॥ ख्यातः स्फुरितसंज्ञोऽसौ घर्षणाद् (घसितः ?) पुनः । अलीभिश्चतसृभिः प्रत्येकं हस्तयोर्द्वयोः ॥ १४ ॥ बहिर्यद्धन्यते तन्त्री द्रुतं सा कर्तरी मता । चतुर्भिर्नखरैर्यत्तु दक्षिणेनैव पाणिना ।। ४५ ॥ भाहतिः क्रियते (य ! या) तु सा ज्ञेया नखकर्तरी । कर्तरीसदृशः पाणिदृश्यते यत्र दक्षिणः ।। १६ ।। तथा कोणहतिर्वामपाणिना सार्धकर्तरी । सातोऽनामिकयावन्तः सव्यमध्यमया बहिः (१) ।। ४७ ॥ तदासौ रेफनामा स्याद् वीणावादनकर्मणि । सारणायाः परित्यागे तर्जन्या यदि हन्यते ॥ ४८ ।। तन्त्री नामस्समुद्भूतो (2) नाम्ना निष्कोटितस्तदा । तर्जन्यायं कनिष्ठाय द्विरूपं परिवर्तनम् ॥ १९ ॥ तयोः पार्थेन संस्पर्शाद् भ्रमणारेचित करे । यदा द्रुतं स्वरस्थाने कम्रिकाभ्यति सारिता ॥ ५० ॥ करसामर्छनाभिल्यो (?) वैणिकैरभिधीयते । साष्ठाः काच + + + चतस्रोऽलयो यदा ॥ ५१ ।।

सङ्गीतसमयसारे कनिष्ठाशष्ठयोः स्पर्शात् कथितः कुहरः करः । मङ्गुष्ठ पार्श्वमिलिता कर्तरी च प्रहन्यते ॥ ५२ ॥ कनिष्ठासारणाभ्यां च तदा निर्घोष उच्यते । उरिक्षप्य हन्यते तन्त्री शीघ्रं सारणया यदि ॥ ५३ ॥ दक्षिणे कर्तरीयुक्तस्तदा स्वसितको भवेत् । तर्जन्यनुष्ठयोरपरागामात्रेण (?) घर्षणम् ॥ ५१ तन्व्या यदा तदा ज्ञेयः शुकवक्राभिधः करः । तर्जन्या धार्यते नादो घातोऽनामिकया बहिः ॥ ५५ ॥ यदा तदा परिज्ञेयो बिन्दुनाम्ना विचक्षणैः । जितेन्द्रियः प्रगल्भश्च स्थिरासनपरिग्रहः ॥ ५६ ॥ शरीरसौष्ठवोपेतः करयोर्विजितश्रमः । सुशारीरो भयं त्यक्तो रागरागाङ्गतत्त्ववित् ।। ५७ ।। गीतवादनदक्षश्च वैणिकः कथितो वरः । वाचलावणिकातज्जैनिप्कलक्रमयोगतः (१) ॥ ५८ ॥ मन्द्रे मध्ये च तारे च बिन्दुः स्यात् स्थानकत्रये । आलावण्यां विधातव्यो मुक्तको मध्यमः करः ॥ ५९ ॥ गमकस्तस्य तर्जन्यां जायते पञ्चमः स्वरः । धैवतो मध्यमाङ्गुल्या निषादः स्यात् कनिष्ठया ॥ ६० ॥ ततस्तु मुक्तकः कार्यः स्वरः षड्जाभिधानवान् । ऋषभः पञ्चमस्थाने तर्जन्या तदनन्तरम् ॥ ६१ ।। गान्धारो धैवतस्थाने मध्यमाङ्गुलिको भवेत् । अथ दक्षिणहस्तेन सारणामूर्च्छनाक्रमात् ॥ ६२ ।। गम्यते सप्तकद्वन्द्वमारोहिण्यवरोहिणी । स्वराणां नियमाद् रागेष्वङ्गुलीनियमेन हि ॥ ६३॥ द्वितुम्बा किन्नरी लध्वी बृहती तु वितुम्बिका । कथिता पञ्चतन्त्रीति(च्छ ? श)कनी वाद्यवदिभिः ।। ६४ ॥ तत्तयन्त्रवशादासां वाद्यभेदस्त्वनेकधा । ततं वाद्यमिति प्रोक्तमवनद्धमथोच्यते ॥ ६५ ।।

पश्चममधिकरणम् । झेकारं मद्दलीजातं देतारं कबलोद्भवम् । प्राहुरेवं विभागेन वाद्यविद्याविशारदाः ॥ ६६ ।। कवर्गश्च तवर्गश्च टवर्गश्च ढवर्जितः । भवेयुः पटहे वर्णा रहाभ्यां सह षोडश ॥ १७ ॥ वादनाय हुडुक्कायामक्षराणि प्रचक्ष्महे। तवर्गश्च टवर्गश्च रहाभ्यां सहितावुभौ ।। ६८ ॥ कवर्ग: पञ्चमन्यूनः प्रोक्तान्येतानि षोडश । झेकारस्य हुडुक्कागं सञ्चमुख्यं (!) प्रकीर्तितम् ॥ १९ ॥ ढक्कावर्णादिकं सर्व हुडुक्कासममिष्यते । वादनाय ततो वाद्यवस्तूनां कथ्यतेऽधुना 11 ७० । हस्तलक्षणमेतेषां व्यक्तोदाहरणैः सह । उत्फुल्लचालकश्चैव पाण्यन्तरनिकुट्टकः ॥ ७१ ॥ दण्डहस्तोऽथ युग्मः स्यात् तोरहस्तस्ततः परम् । पिण्डहस्तः स्मृतश्चोर्ध्वहस्त इत्यष्टधा बुधैः ॥ ७२ ॥ अर्थतेषां प्रवक्ष्यामि लक्षणं च प्रयोगतः । हस्तेभ्यः शब्दनिष्पत्तिर्जायते हि परिस्फुटम् ।। ७३ ।। शब्देभ्यः पदनिष्पत्तिः पदेभ्यः पाटसम्भवः । पाटेभ्यो जायते वाद्यवस्तुवर्गो यथाक्रमम् ॥ ७४ ।। ये पताकादयो हस्ता नाट्यशास्त्रे व्यवस्थिताः । तेषु केचन कथ्यन्ते हस्तवाद्योपयोगिनः ॥ ७५ ॥ अलपद्मायो हस्तो यदा वाद्ये निवेश्यते । लघु पाटे नखाघातादुत्फुल्लोऽसौ तदा भवेत् ॥ ७६ ॥ यथा कमों कोम् । ॥ उत्फुल्लः ॥ यदा प्रसारिताङ्गुष्ठः शुकतुण्डो विधीयते । विरलाङ्गुलिघातेन क्रमेण खलकस्तथा ॥ ७७ ।। मोनिटकिटतकिटाम् ॥ ॥खलकः॥ १. वक्ष्यमाणलक्षणानुरोधेन तु 'उत्फुल्ल: खल कश्चैवेति पाठः. सभाव्यते। - सङ्गीतसमयसारे वामेन तस्य हस्तस्य तर्जन्यकुष्ठघातकः । परिज्ञेयो बुधैर्हस्तः पाण्यन्तरनिगूहकः ।। ७८ ॥ यथा-डेविटतकिट दकिट तकिट त्व । ॥पाण्यन्तरनिगृहकः॥ पताकाकारहस्ताभ्यामुभाभ्यामूर्खताडनात् । दण्डहस्ताभिधं हस्तं विदुर्वाद्यविशारदाः ॥ ७९ ॥ यथा था था था था। ॥ दण्डहस्तः॥ विरलाङ्गुलिघातेन पताकाभ्यां यदा भवेत् । रेफैरेवोर्ध्वहस्ताभ्यां ताडनाद् युगहस्तकः ॥ ८० ॥ यथा-ररर । ॥ युगहस्तः ॥ ऊर्ध्वपादद्वयं कृत्वा तलपातेन हन्यते । पटहस्य पद(द्व)न्द्वं तोरहस्तस्तदा भवेत् (१)॥ ८१ ॥ यथा-देन्हें दोहडें । ॥ (थो? तो)रहस्तः॥ रेफह (स्त ! स्ते) कृते पूर्वमूर्ध्वहस्ते च कल्पिते । पिण्डहस्ताभिधो हस्तः कथितो वाद्यवेदिभिः ।। ८२ ॥ यथा- तरकिट तरकिट झें झें । ॥ पिण्डहस्तः॥ प्रहारे तलहस्तेन दक्षिणेन च पाणिना । दृढं विरचिते विद्यादूर्ध्वहस्तं विचक्षणः ॥ ८३ ॥ यथा थर थर तुथर थर् तुथर तुथर् तुथर थर् तुथर् तुथर तुथर . थर् थतु। ॥ अर्ध्वहस्तः॥ चतुर्भिश्चाष्टमात्राभिः समपाणिर्विधीयते । ॥ समपाणिपाटः॥ विरलाङ्गुलिभियंत्र चरितैः कीर्तिरित्यपि (1) || ८४ ॥ १. 'पाण्यन्तरनिकुट्टक' इति लक्ष्यनिर्देशे पठितम् ।

यथा - पञ्चममधिकरणम् । अभिघातः प्रयुक्तोऽयं पाणिहस्तोऽभिधीयते । यथा-किट किट्ट, किट किट्ट, किट्ट किट, किट्ट किट, कट्ट किट, किट किट्ट । चतुर्भिश्चाष्टमात्राभिर्युक्तो वा पाणिहस्तकः ॥ ८५ ।। किट किट्ट किट किट्ठ, किट्ट किर किर किट्ट, किट किट किट्ट, किट्ट किट, किट किट किट किट्ट । पाणिहस्तपाटः॥ यथा-थों थों थों नाकिपिटतक्या समन्वितः । एकत्र स्वस्तिकाकारकराभ्यां स्वस्तिको भवेत् । यथा-थों धां धोनकिट किटतकि, थोनकिट तकिट थोन किट किट तकि, थोनकिट तकिट तकिट तकिट, थोनकिट थोनकिट, थों धों किटत, थोनकिट, किट किटतकि, थों धों किट, तत्थों धों धों किटतकि, थोनकिट, किट- तकि, थोनकिट, किटतकि, थोनकिट, किटतकि, थोनकिट । यत्र षोडशमात्राभिर्युक्तोऽयं स्वस्तिको भवेत् ॥ ८६ ।। ॥ स्वस्तिकपाटः॥ अपाङ्गुलिसमायोगाद् व्यत्यया(त् ) करयोरिह । गिरकिटझेनशब्दैस्ततो गिनकिरादिभिः ॥ ८७ ।। करटैः संयु(तै ! त): पाटैः पाटो विषमपाणिकः । गिरुकिटदनन गिन किर् गिड र, गिरुकिट्ट, नगिन, गिरुकिट एनगिनकिट, झेनकिट, गिरुकिट, दनगिन, गिरर्, गिरुकिट, दनझेनकिट, गिरकिट दनझेनकिटि, नकिट गिनकिट झेनकिटकिट्ट । ॥ विषमपाणिपाटः॥ धरिकिटैगिरिकिटैरोभिः शब्दैस्तदुन्धोकैस्तथा (१) ॥ ८८ ॥ भेदेन हस्तयोरेष पाटोऽवघटसंज्ञकः । धरकिट धरकिट तकथो तधिरुकिट, दिकिदिकि धरुकिटकिट धिरु किट किट, किटतकिधरकिट किट, तकिधरकिट, धिरु किट धिरु किट दिरु- किर दिकि दिकि । अवघटस्त्वष्टमात्राभिः षोडशैर्वा:युतो भवेत् ॥ ८९ ॥ ॥ अवघटपादः॥ यथा सङ्गीतसमयसारे आसज्यते करौ यत्र व्यत्ययात् पुटयोर्द्वयोः । नागबन्धः स विज्ञेयः शब्दैननगिडादिभिः ॥ ९० ।। ननकिट किटतकि, किटतकि, ननगिड ननगिड ननगिड, किटतकि, ननकिट, किटताक, ननकिट किट, तकिट तकिननकिट, किटतीक । नागबन्धो भवेदष्टमात्राभिः सहितः सदा । ॥ नागवन्धपाटः॥ आसज्यते समं यस्मात् करयोरुभयोस्तलौ (!) ॥ ९१ ॥ साङ्गुष्ठाङ्गुलिभिर्हस्तपाटः स स्यात् समग्रहः । पाटोऽसावष्टमात्राभिः शब्दैर्दहतनित्यपि ॥ ९२ ॥ पुनस्तकुकुरिक्या च संयुतेऽसौ समग्रहः । दहतरिरकिकिरर , तकुतरि, किरकिट्ट, दहदह तकतक तकररिं. किकिट्ट, दहतरि कित्तकित्त, कितट्टि, दह, दह, तर्क, तर्क, तरिकिकिट्टि । ॥ समग्रहपाटः ॥ ॥ हस्तपाटाः ॥ बोल्लावणी(चलावणी)चारुश्रवणिका परम् ॥ ९३ ॥ परिश्रवणिकालग्नौ दण्डहस्तौ दुचावपि । समप्रहारसंज्ञश्च ततः कुडुबचारुणा ॥ ९४ ॥ कलचारणापि तद्वत् स्यात् तथान्यापि कुड्डुल्लिणी (?) । भवेद् घनरवश्चैवं वाद्योद्देशः प्रदर्शितः ॥ ९५ ॥ क्रमेण कथयाम्येषामिदानी लक्षणान्यहम् । पाटादौ पाटमध्ये च पाटान्ते टेकृतिर्भवेत् ॥ ९६ ॥ इत्येककरसम्पन्ना प्रोक्ता बोल्लावणी बुधैः । यथा-दें दें गितकतकथट्टिका, थंधीटकतथटि, + + + तक दे दें गि देगि, ।। बोलावणी॥ थोतत्तकिटशब्देन मुद्दलीचालना स्फुटम् ॥ ९७ ।। वोल्लावणीसमं शेषं सा मतेह चलावणी । -थों धों किट, थों थो थो किट थोकिट, तकि थोतोतोकिट थोकि भोंकिट तोतो किट, थोकिट, थों थों किट दंतों किटथो । ॥ चलावणी॥ यथा यथा- - यथा पश्चममधिकरणम् । संकारसहिसं हस्तपाटमूलाक्षरैर्युतम् ॥ ९८ ।। क्रमेण युगपदापि वाद्यं हस्तद्वयेन तु । युक्ताष्टादशमात्रानिस्त्रयभूभेदेन संयुता ॥ ९९ ।। चारुश्रवणिका सेयं प्राहुर्वाद्यविशारदाः । अंधरिरिर दरकिट थर थर । ॥ चारुश्रवणिका ॥ (क)तर्यवघटाभ्यां या मिश्रा च समपाणिना ॥ १० ॥ चतुर्विंशतिमात्राभिः परिश्रवणिका मता । यथा थर, थर थर, रिरि, थट्टिकुदरगिड, दरुगिड, तकडोक इत्यादि. चतुर्विश(ति)मात्रा। ॥ परिश्रवणिका ॥ कर्तरीपाणिहस्ताभ्यां कुडुवेनैव वाद्यते ॥ १०१ ।। उत्सृज्य कुण्डलस्पिर्शमलग्नः सम्प्रकीर्तितः । किरर थरकिर, किटहे कुथकथ टिकु, किटकिक्किट, किटकुटकु- भटिक, किटकिट, तकुटि, तकतट्टिकु, तततटिकु, तत्तटिकु, थक थटिकु थर थर, तुथटकुत्तकुत, कुतकुथ कुत कुट्टित, ॥ दण्डहस्तः ॥ वामदक्षिणहस्ताभ्यां शब्दैविषमपाणिजैः ॥ १०२ ।। क्रियते यत्र वाद्यज्ञैर्वाद्यं तदुडुचं विदुः । यथा--- गिरिकिट, ननगिन गिणकिरर्, किटपष्टिकिटपटि, तुक्टिमाटीक- तुफिट गिरुगिड झेतटि गिरुकिट, ननगिनगिरुकिट, तकुझे । उडुचः सम्प्रहारेण वाद्यं समग्रहैयुतम् ।। १०३ ।। मात्रा(पि ! भि): षोडशैर्वापि वाद्यः समप्रहारजः । तथहथ, रिफिथरि थर थर तु इत्यादि षोडशमात्रः । ॥ सममहारः ॥ नानापाटाक्षरोद्भूतैः शब्दैः कुडुबसाडिसैः ।। १.४ ॥ कृतास्वा तु गारुभ्यां स्मृता कुडुवचारुणा । यथा--ॐवं किरर्, भरिगिम, गिरिफिट, तकिनन, गिनगिन इत्यादिः । यथा II

सहीतसमयसारे
यथा
यथा
-
केवलैहस्तपाटानां नादानां च चतुश्शत (1) ॥ १.५॥
मात्राभिश्च कृता शेषा स्मर्यते कलचारणा ।
थर थर थर थर्, रिरिरर् थरीरररी इत्यादिः ॥ १० ॥
कालकाख्येन हस्तेन कुकारप्रचुरेण यत् ।
मात्राभिः षोडशैवापि द्वात्रिंशद्भिः सुकुम्भिनी ॥ १० ॥
द्विविधा सा च विज्ञेया शुद्धा मिश्रेति सूरिभिः ।
शुद्धा षोडशमात्राभिरन्याभिरितरा युता ॥ १.८ ।।
कुकुन्त कुन्त कुकुन्त, कुन्त कुकुकुकु इत्यादिः ।
अच्छिन्नपाटः पा(टि ? णि)भ्यां मात्राभिः षोडशैः क्रमात् ।
उक्तो धनर(वे ! वो) ज्ञेयो वाद्यविद्याविशारदैः ॥ १०९ ॥
तकतो हों, तोकिटतकिथोहोतो, किटतकि, थोहोतो, दरगिड इति
षोडशमात्रा । धनरवः ॥
इति द्वादश वाद्यानि पटहे कथितानि च ।
तकारश्च धिकारश्च थोडारष्टेकतिस्तथा ॥ ११० ॥
झेद्वारश्च नदेकारः पाटवर्णा मृदङ्गजाः ।
ममृणे वादने प्रौढा गीतवाद्यविशार(दा ! दै): ॥ १११ ॥
वाद्यानुयानिनः सम्यक् प्रोक्ता माद्दलिका वराः ।
सरलश्चौपटश्चैव किरिविलश्च घणायिल:(!) ॥ ११२ ॥
गतिस्थश्चेति पञ्चैव मृदङ्गे वादकोत्तमाः।
यो वादयति मधुरं कोमलं प्राञ्जलम् अजुः ॥ ११३ ॥
तमाहुर्भरताभिज्ञाः सरलं विरलं जनम् ।
विनावयवहीनत्वाच्छब्देऽल्पे अपवादकः ।। ११४ ॥
विबन्धगतिसुव्यक्तः सुवाहे किरिविलपटुः(१) ।
विषमं प्राञ्जलं चैव गुन्धागुन्धि समायुतम् ॥ ११५ ।।
वादयेढवणादीनां कुशलश्चौपटः स्मृतः ।
सरलषणायिलचौपटाकरिविलघटितानि शब्दइन्दानि ।
मसणानि सनिवेशैर्निरवधिकं वादयेद् गतिस्थः सः ॥ ११६ ॥

करटाः पञ्चममधिकरणम् । बादे निबद्धशब्दानां करलीभेदनं विना ॥ ११७ ।। यो वादयति निरतः कथ्यतेऽसौ घणायि(ला ? लः) । अनं चैवाश्रयाङ्गं च द्विविधं गीतवादनम् ।। ११८ ।। अहं तत् पञ्चधा ज्ञेयमाश्रयाङ्गं च पञ्चधा । तालधातुपदावृत्तिगतिरा(गा ? गै)श्च पञ्चधा ॥ ११९ ॥ शुद्धमिश्राविभेदेन गीताजं वाद्यते बुधैः । जतिर्दुवकुशेशब्दः काकुः पहरणाभिधः ॥ १२० ।। इति पञ्चविधं प्राहुराश्रयानं विचक्षणाः । पाटवर्णाः स्युः करटोति पुनः पुनः ।। १२१ ।। ॥ अवनद्धम् ॥ मुसौ(?) सुस्वरौ तालौ तज्ज्ञैः शक्तिशिवों स्मृतौ । आकारादेशवशतो बिन्दुनादसमुद्भवौ ॥ १२२ ॥ लघुगुर्वादिभिर्मानैर्वादयेद् बहुभणिभिः । वर्णा झेनगिटास्तज्वैः कथिताः कांस्यतालयोः ।। १२३ ।। मनोहराश्च सूक्ष्माश्च सुस्वराः क्षुद्रयाण्टिकाः । तास्तु धरिका लोके प्रसिद्धा रज्जुसंयुताः ॥ १२४ ।। घनवायमिति प्रोक्तं सुषिरं वाद्यमुच्यते । ॥ सुधनं वाघम् ॥ अयश्च विजयो नन्दो महानन्दो यथाक्रमम् ॥ १२५॥ वंशाश्चतुर्दशद्वादशैकादशदशाङ्गुलाः । दिकत्रिकचतुष्कास्तु ज्ञेया वंशगताः स्वराः ॥ १२६ ॥ कम्पमानार्धमुक्ता च (?) व्यक्तमुक्ताङ्गुलीवहाः । अहुलीचारणाः सम्यग् गमकेषु च सप्तसु ॥ १२७ ॥ ताप्रेण कलधौतेन कर्तव्या कनकेन वा (?) । धुर्धरकुसुमाकारवसना सुषिरान्तरा ॥ १२८ ॥ (मह)स्तत्रयकृतायामा हाहावर्णा च काहला । विरुदान्यपि वाद्यन्ते वीराणां पुरतस्तया ॥ १२० ।। ।। इति चतुर्विधवाद्यानि ।।

सङ्गीतसमयसार यत्यादीनां प्रबन्धानामधुना लक्ष्म कथ्यते । यतिरोतोऽप्यवच्छेदो जोडणी चण्डणी पदम् ।। १३० ।। समहस्तोऽपि पैरांसस्तुडुकुस्तु तथा परः । ओत्वरोऽपि चे देकारघल्लणा(?) मदमस्तथा ॥ १३१ ॥ मलपाङ्गं पहरणा चान्तरी च दुवकारः । जवणिका पुपाञ्जलिरिघवणी(?) व निगमले . १३२ ।। प्रवन्धा विंशतिः प्रोक्ता वाचविद्याविशारदैः । क्रमेण तेषां लक्ष्मैतदिदानी प्रतिपाद्यते ।। १३३ ।। तालच्छन्दोक्गत्यर्थविरामो यः श्रुतिप्रियः । गद्यते वाद्यहीनं सा यतिरित्यभिधीयते ॥ १३४ ॥ ॥ (ज? यतिः॥ ताल: शतसमैर्वणः क्रियते पाटसम्भवैः । मोताख्योऽसौ प्रबन्धः स्यात् केदार इति चोच्यो ।। १३५ ॥ ।। ओ(ता? त.)॥ इच्छया क्लप्सदेशारैर्मध्ययैापकाक्षरीः । (वि! द्वि)रुग्राहो भवेद् यत्तु सक्लिम्बलयं चा यः ॥ १३६ ।। ओतानां कर्मयन्त्यन्ये देकार इति मृत्तिकम् (१) । एषा दो(ण्ठ)वणीनामा केचिद + प्यधीयते ॥ १३ ॥ ॥ (ओ? दो)ण्ठबनी॥ उग्राहयुगलं यत्र वारमेकं ध्रुवस्तथा । उद्माहेण पुनर्मोक्षादवच्छेदोऽभिधीयते ॥ ११ ॥ ॥ अवच्छेदः ॥ बदन्ति केचिदस्यैव कम्पितेत्यभिधां पुनः (कविते!) । पाटानां पृथगुक्तानां यत्रैकत्र विमिश्रणम् ॥ १३९ ।। जोडणी सम्परिज्ञेया संख्या वाग्वेदिभिः । ॥ जोडणी॥ १. 'पैसार' इति लक्षणे दृश्यते । २ च सहारो देशाते मालप' इनि लक्ष- णानुसारेण पाव्यम् ।

पबममधिकरणम् । वाद्यं विमुच्यते येन चण्डणः स निगद्यते ।। १४० ॥ ॥ चण्डणी॥ गीतानुगस्य वाद्यस्य चण्डणः स चतुर्विधः । सुक्तामुक्तिस्तु तत् प्रोक्ता मो(ड ! डा)मोडिस्तथैव च ॥१४१ ॥ मर्धस्थितिस्ततस्तस्मात् स्वरपूर्वश्व चण्डणः । स्तोकस्तोकेन कार्य (स्याद्) वादनं लघुपाणिना ॥ १४२ ॥ गीतावसाने न्यासः स्यात् सुक्तासुक्तीति नामतः । गीतमानाधिकं वायं गीतमानेन चण्डणम् ॥ १४३ ॥ मोडामोडीति विज्ञेया न्यासो वाद्यविशारदैः । मानेन गायको गायन् यत्र मानं विमुञ्चति ।। १४ ४ ।। वादकेन कृतो न्यासस्तदस्थितिरीरितः । गीतं वाद्यं च युगपन्न्यस्यले यदि मानतः ।। १४५ ॥ दुभावगसिसंयुक्तो विशेयः स्वरचण्डणः । प्रथमं वादयित्वा तु यतिः पादेन मुच्यते ॥ १४१ ॥ मध्ये वाद्यप्रबन्धस्य पदं तत् परिकीर्तितम् । । पदम्।। तकारः प्रचुर दोभ्या यथोचियेन मानतः ॥ १४७ ।। वाद्यते यत् त्रिणकृत्त्या समस्लः स्मृतो बुधैः । सपहस्त। यत्रातोद्यपि वाद्यन्ते सममाणि निजैनिजैः(!) ।। १४८ ।। पादैश्च समुदायैश्च पैसार इलि कच्याते । उदाशवकाभोगेष्वेकदोशम वादनम् ।। १४९ ॥ हस्तलाकवतो यत् स्यात् तुटुका सा निमयते । । ईषविलम्बमानेन मम्मीरमधुरं यथा ॥ १५० ।। मृबायावनं मददोल्मा त्वामात्राकम् । । ओस्करम् ॥

सङ्गीतसमयसार भादौ झंकारमुल्लासं विधायाच (1) समन्वितम् ॥ १५१ ।। अथवाञ्च(?) विहीनं च द्विधा झंकार उच्यते । ॥ झेङ्कारः॥ स्तोकस्तोकस्य शब्दस्य योऽवसाने स देकृतिः ॥ १५२ ॥ सयावनियमेनापि देवारो वाद्यते बुधैः । ॥ देशारः॥ यत्रोद्ग्राहः सकृद् द्विर्वा ध्रुवको विविधस्तथा ॥ १५३ ॥ स्यादेव तद् द्विदेकार यापकाक्षरसङ्गतम् । निरन्तरयतिप्रायं मलपं कथयन्ति तत् ॥ १५४ ॥ ॥ मलपः ।। वादयितुं मलपाङ्गं कथा वायते पुनः । नतो(?) मलपवाद्यं यन्मलपाङ्गं तदुच्यते ॥ १५५ ।। ॥ मलपाम् ।। येनकेनापि वादेन मात्रा द्वादश षोडश । यादयेत् पल्लवद्वन्द्वं सोऽयं पहरणाभिधः ।। १५६ ।। ॥ पहरणम् ॥ आरब्धं सानुसारेण यच्छन्दो गीतवाद्ययोः । निबद्धमन्सरा वायं क्रियते सान्तस स्मृता ॥ १५७ ॥ ॥ अन्तरी॥ यतिरेवाक्षरद्वन्द्वा वायते स दुवक्कुरः । । दुवकरी ॥ स्थिरमानेन सोलासं चतुर्मा(त्रा? त्रां) च देक(ति::तिम्) ।। वारद्वयं वादयित्वा ततः कुर्याच जोडणम् । ततो मात्राष्टकच्छेदो महलाशब्दवादने ॥ १५९ ॥ पुनर्मात्राष्टकं शब्दं करटायाश्च वादने । त्रिरावृत्या वादितस्य शब्दः स्यात् सावसानतः ॥ १६० ।। समा यवनिकापाताच्छब्दो यवनिका( न्वयः । ॥जवानका ॥

पत्राममधिकरणम्। आदौ स्यादष्टमात्रो वाथवा द्वादशमात्रिकम् ॥ १६१ ॥ अन्तरीद्वितये चैव प्रत्येकं चाष्टमात्रिकम् । चतुर्मानं चाष्टमात्रं तकाके वादनं भवेत् ॥ १६२ ॥ मृदङ्गदेशीपटहकरटामद्दलेषु च । वेवर्तमानुगं वाद्यपरिवृत्ति दङ्गजा ॥ १६३ ॥ द्विवार परिवृत्य स्यादन्तरीद्वयशब्दयोः । तकारादौ चतुर्मात्रे द्विवारं परिवर्तनम् ॥ १६४ ॥ एकवारं त्वष्टमानं वादयित्वा सदेकृति(:!)। शब्दः पुष्पाञ्जली युक्तो हुडुका करटान्तरी ॥ १६५ ॥ इतरे चान्तरी शब्दा नैव ताः सम्मता मम । अनेकवाद्यमिलनं पैसारादिषु दृश्यते ॥ १६६ ॥ पुष्पाञ्जलिरयं शब्दः किश्चिद् भेदवशादिह । ॥ पुष्पाञ्जलिः॥ सैव प्रोक्ता किञ्चवणी(:) वाद्यविद्याविशारदैः॥ १६७ ॥ पुनः पुनर्यतिर्वाधे खण्डशो यत्र वाचते । स खण्डयतिराख्या(तेो ? ता) पदावाद्यन्तराश्रयात् (१)॥ १६८ ॥ हुडुक्का च मृदनश्च करटा काहलास्तथा । कांस्यतालश्च (पञ्चै)ते गुणलोप्रतिनिर्मिताः ॥ १६९ ॥ अनिबद्धं निबद्धं च वाघजं द्विविधं मतम् । नियमादप्यनियमादनिबद्धं द्विधा भवेत् ।। १७० ।। जोडणी च प्रबन्धश्च निबद्धमपि तद् द्विधा । अनुजायियुतः शब्दो वाद्यते यः पुनः पुनः ॥ १७१ ॥ येनकेनापि तालेन सोऽयं नियमशब्दकः । श्रुतौ धनध्वनेर्वाधशब्दन्यासस्तु यो भवेत् ॥ १७२ ॥ तज्जैः स ठवणेत्युक्ता प्रयोगा वलयान्विता(?) । शब्दानन्दनकश्रुत्या ठवणा म(ठठ दृ)सम्भवा ॥ १७३ ॥ म(ठठ होताले प्रयोक्तव्या गीतेन त्रिलयैस्तथा । मुकुन्दानन्दन त्या(ठ)वणा गाएकीभवा ॥ १७१ ।।

सहीतसमयसारे
गारुका विषमेणैव संयोज्या त्रिलयैरपि ।
ईश्वरानन्दनश्रुत्या झम्पावालसमुनबा । १०५ ॥
ठवणास्मिन् भवेल तालत्रितयः सा समग्रहा ।
भास्करानन्दनश्रुत्या क्रीडाता(ले !) समय १०६ ॥
ठवणास्मिन् प्रयोक्तव्या(ती? गी) लेनैव त्रिभिः ।
शशाङ्कानन्दनचल्या एकतालसमुद्भवा ।। १०७ ।।
ठवणा चैकताले तु प्रयोक्तव्या निमिर्मयैः ।
आहत्यालोकने योज्या ठवणा सानुसारिधिः ॥ १७८ ।।
विविधैाप्तिशब्दैश्च बाविधाविशारदैः ।
निय(म ! म)ट्टवणास्त्यक्त्वा ससालमनुयायिमिः ॥ १७९ ॥
वर्तते चेदनियमानिबन्धं तत् प्रकीर्तितम् ।
क्रमेण व्युत्क्रमेणार्थलदर्धादर्धभेदत्तः ॥ १८० ॥
चतुरश्रादितालेन वाधते जोवणो स्फुटम् ।
उचुपलारूयठकण्यां विधत्ते जोवणीकिया ॥ १८१ ॥
मात्राणामसमर्थेन नैव सा जोडणी मता ।
उहा(हा)द्यन्वितं वाद्यं प्रबन्धाख्यं प्रवन्धवत् ॥ १८२ ॥
तालवायं चन्द्रकलापटहादिसमाश्रयम् ॥ १८२३ ॥
इति सङ्गीताकरनामधेयश्रीपार्श्वदेवविरक्तेि सङ्गीत-
समयसारे पाचममधिकरणम् ।।
..
अथ षष्ठमधिकरणम् ।
नृत्तमुक्तं पुरानेकशास्त्रैर्यद् बहुविस्तरैः ।
संक्षिप्य तान्यतिव्यक्तं नृत्तसारं निरूप्यते ॥१॥
नृत्तं स्याद् गात्रविक्षपोऽवस्थानुकृतिलक्षणः ।
तालभावलयायत्तो वागङ्गाहार्यसत्त्वजः ॥ २ ॥
नाव्यस्याभिनयास्तत्र वाचिकाहार्यसास्विकान् ।
त्यक्त्वा नृत्तादियोग्य तं वक्ष्ये त्रिविधमालिकम् ॥ ३ ॥
णीधातुराभिपूर्वो यत् स्वेष्टार्थप्रतिपादकः ।
तत्प्रयोगानाष्टार्थान् नयतीत्यभिमयः स्मृतः ॥ ४ ॥

पष्टमधिकरणम् । नृत्तं शाखाकुरं चेति त्रिधासौ + करादिभिः । नृत्तं स्यादाङ्गिकं कर्म शाखापाङ्गजमङ्कुरम् (?) ॥ ५ ॥ शिरो वक्षः करः पार्श्वः कटिश्वरण इत्यपि । अनान्येतानि नृत्तज्ञैः षडेव कथितानि हि ॥ ६ ॥ तत्र त्रयोदशविधं शिरो वक्षस्तु पञ्चधा । हस्तभेदाश्चतुष्पष्टिहस्तचारा त्रिधा मता ॥ ७ ॥ चतुर्धा हस्तकरणं हस्तकर्माणि विंशतिः । पा(धै ! श्व) तु पञ्चधा तद्वत् कटिः पादस्तु षड़विधः ॥ ८ ॥ उपाङ्गानि भ्रुवौ नेत्रे नासागण्डस्थला(धराः) । चिबुकं चेति षट् प्राहुनृत्तविद्याविशारदाः ॥ ९ ॥ भूकर्म सप्तधा तत्र पत्रिंशद् दृष्टयः स्मृताः । तारा नवविधा तद्वत् पुटकर्म समीरितम् ॥ १० ॥ भवन्ति दर्शनान्यष्टौ नासागण्डस्थलाधराः । प्रत्येकं षड्विधा ज्ञेयाश्चि(न्दु ? बु)कं सप्तधा मतम् ।। ११ ।। प्रत्यङ्गानि पुनीवा बाहू पृष्ठं तथोदरम् । ऊरू जवायुगं चेति षड्डक्तानि मनीषिभिः ॥ १२ ॥ ततो ग्रीवा नवविधा बाहवो दश पञ्च च । पृष्ठं त्रिधोदरं पञ्च ऊरूजवे च पञ्चधा ॥ १३ ॥ स्थानानि नवधा चार्यों द्वात्रिंशन्मण्डलानि तु । विंशती रेचकाश्चैव चत्वारः करणानि तु ॥ १४ ॥ शतमष्टोत्तरं त्वङ्गहारा द्वात्रिंशदीरिताः । ना(न्ये ? ट्ये) नृत्ये च नृत्ते च नियुद्धे च यथोचितम् ॥ १५ ॥ इत्यङ्गाभिनयाः सर्वे प्रयोज्यास्तु विचक्षणैः । अङ्गविक्षेपमात्रं च यत् ताललयसंश्रयम् ॥ १६ ॥ नृत्यं देशाश्रयत्वेन बहुधा तत् प्रकीर्तितम् । शिरांसि नव वक्षांसि चत्वारि कथितानि च ॥ १७ ॥ चतुष्पष्टिः कराः प्रोक्ताः पा(चं ? श्वे) तच्च चतुर्विधम् । कटिः पञ्चविधा तद्वत् पादः पञ्चविधः स्मृतः ॥ १८ ॥ आकम्पितं कम्पितं च धुतमाधूतमेव च । अवधूतं चाचितं च निहश्चितमथापरम् ॥ १९ ।। I सङ्गीतसमयसारे उत्क्षिप्ताधोगतं चेति शिरांस्याहुमनीषिणः । सकृदू धोनयनाच्छनैराकम्पितम् ऋजु ॥ २० ॥ पृच्छासंज्ञास्वभावोक्तिनिर्देशावहनादिषु । द्रुतं तदेव बहुशः कृतं स्यात् कम्पितं शिरः ॥ २१ ॥ वितर्करोषविज्ञानप्रतिज्ञातर्जनादिषु । धुतं शिरः शनैस्तिर्यक् शिरसो रेचनं सकृत् ॥ २२ ॥ पार्शवलोकने खेदे निषेधे विस्मयादिषु । सकृत् तिर्यक् समुक्षिप्तमाधूतं मस्तकं मतम् ॥ २३ ॥ पार्थस्थितो_संप्रेक्षणात्मसम्भावनादिषु । एकदाधोग(सं ? ति) प्राप्तमवधूतं विचिन्तने ॥ २४ ॥ अवस्तियबिलस्थादिप्रेक्ष्यातादिषु (2) लक्ष्यते । अचिन्तं ग्रीवमुत्क्षिप्तं (!) बाहुशर्षि निहन्चितम् ॥ २५ ॥ गर्व स्तम्भे च कान्तानां नानाशृङ्गारवृत्तिषु । सम्यगुन्मुखमुस्क्षिप्तमूर्ध्वसम्प्रेक्षणादिषु ॥ २६ ॥ अधोगतमधोवकं लज्जाधःप्रेक्षणादिषु । ॥ इति शिरसि नव ॥ सममुद्राहितं चैव निर्ममं च प्रकम्पितम् ॥ २७ ॥ वक्षश्चतुर्विधं प्रोक्तं नाट्यविधाविशारदैः । समलैरविन्यासैः(?) समैः सौष्ठवसंयुतैः ॥ २८ ॥ स्वभावावस्थितं वक्षः समनाना प्रकीर्तितम् । उद्वाहितं स्यादुद्गतं जम्भ(मा? )णोच्छ्सनादिषु ।। २९ ।। प्रोन्नतं प्रोन्नता च निर्भुमं गर्वितादिषु । निरन्तरोर्ध्वविक्षेपैः प्रकम्पं हसितादिषु ॥ ३० ॥ ॥ वक्षांसि चत्वारि ॥ ज्येष्ठाङ्गुष्ठाभिधानाधा तर्जनी स्यात् प्रदेशिनी । मध्यमा मध्यमा तुर्यानाभिकान्त्या कनीयसी ॥ ३१ ॥ मणिबन्धायः पाणिमूलं कूर्परमुच्यते । बाहुमध्यं तयोर्मध्यं प्रकोष्ठोऽसो भुजाशिरः ॥ ३२ ॥ १, 'प्रेक्षणादिः' इति स्यात् । २. 'निर्भुमामेति लक्षणे पव्यते ।

षष्ठमधिकरणम् । अंसकूर्परयोर्मध्यं प्रकाण्डं पण्डिता विदुः । अवतानम(थो धो)वक्रं तलमुत्तानमसलम् (१) । ३३ ।। अग्चितं स्यात् प्रसारितं कुञ्चितं तूंपसंहृतम् । आविद्धमन्तस्सम्भ्रान्तमपविद्धो विपर्ययात् ॥ ३४ ॥ ॥ इति परिभाषा ॥ पताकत्रिपताकश्च कर्तरी चतुरस्तथा । हंसपक्षोऽर्धचन्द्रश्र सस्यिो मृगशीर्ष(कः) ॥ ३५ ।। अराल: शुकतुण्डश्व सन्दंशो भ्रमरः करः । पद्मकोशस्तूर्णनाभोऽलपद्मो मुकुलः करः ॥ ३६ ।। हंसास्यहस्तः कांशूलः स्यान्मुष्टिः शिखरः करः । कपित्थः कटकास्यश्च सूच्यास्यस्ताम्रचूडकः ।। ३७ ॥ चतुर्विशतिरित्येवमसंयुतकरा युतः । प्रत्येक नाट्यलोके च वर्ततेऽभिनयाश्रयः ॥ ३८ ॥ आद्याख्या कुञ्चिता किञ्चित् तर्जन्याद्याः प्रसारिताः । पताकः पातसंक्षोभवारणे वादनादिषु ।। ३९ ।। पताकेऽनामिका वक्रा त्रिपताकोऽश्रुभार्जने । ललाटरचनाद्रव्यस्पर्शनाचमनादिषु ॥ ४० ॥ यद्यत्र तर्जनी मध्यापरभागावलोकिनी । कर्तर्या (यो ! ख्यो) वितर्क स्याद् दंष्ट्रयोदर्शनादिषु ॥ ११ ॥ पताकेऽनामिकामूलस्थानोऽङ्गुष्ठः कनीयसी । पृष्ठभागाचतुरस्त्वल्पेनोकतौ नयनादिषु(!) ॥ ४२ ॥ हंसपक्षः पताके चेत् पृष्ठगा स्यात् कनीयसी। भोजने स्पर्शने लेपे दूरसन्देशनादिषु ॥ ४३ ॥ आद्यापमृत्य वक्राद्याश्चापवत् कुञ्चिता युताः (१)। स उक्त(अ ? स्त्व)र्धचन्द्राख्यश्चन्द्रलेखादिदर्शने ॥ ४४ ॥ सर्वा अमुल्यः सर्पशीर्षकः । भुजङ्गमगतौ तोयसेचनालालनादिषु ॥ ४५ ॥ ज्येष्ठाकनिष्ठे प्रोक्षिप्ते यद्यस्मिन् मृगशीर्षकः । स्वोल्लासनाक्षविक्षेपस्वेदापनयनादिषु ॥ १६ ॥ , 'पृष्ठगा चतुरस्तु' इति स्यात्। यद्यर्वेन्दौ युताः .

सहातसमयसार - सर्पास्ये तर्जनी वक्रा यद्यरालो हितोक्तिषु । (घा.? स्या)दाशीर्वादने धैर्यवीर्यसङ्कीर्तनादिषु ॥ ४७ ।। चेद् वक्रानामिकाराले शुकतुण्डो विसर्जने । न त्वं नाहं न कर्तव्यं धिगित्यादिषु लक्ष्यते ॥ ४८ ॥ सन्देशस्तर्जनीज्येष्ठायोगोऽरालकरे यदि । ध्याने पुष्पापचाये च स्तोके निष्पीडनादिषु ॥ ४९ ।। सन्दंशस्त्रिप्रकारः स्यात् पार्श्वजो मुखजोऽप्रजः । इत्यनेकप्रयोगेषु दिगम्ब(र)मतोदितः ॥ ५० ॥ मध्यमाद्याग्रयोगश्चेदराले भ्रमरः करः । कर्णपूरा यदाब्जादिग्रहादौ(?) चित्रकर्मणि ॥ ५१ ॥ ऊर्खास्याः कुञ्चिताः सर्वा अङ्गुल्यो विरला यदि । पद्मकोशः कपित्थस्त्रीस्तनोत्फुल्लाम्बुजादिषु ॥ ५२ ।। पद्मकोशे कराल्यो वक्राश्चेदूर्णनाभकः । कुष्ठरोगिणि शार्दूले शिरःकण्डूयनादिषु ।। ५३ ॥ आव(र्तनो ? तिन्यो)ऽन्तरङ्गुल्यः पद्मकोशे भवन्ति चेत् । अलपद्मस्तु शून्योक्तौ शून्यो + + + कीर्तने ॥ ५४ ॥ पद्मकोशे युताग्राश्चेदगुरुयो मुकुलः करः । पूजाभोजनसङ्कोचपद्मादिमुकुलादिषु ।। ५५ ॥ हंसास्यो मुकुलान्त्ये चेदगुल्यौ सम्प्रसारिते। तप्तमाषग्रहासारनिग्धसम्मर्दनादिपु (2) ॥ ५६ ॥ चुल्लीचिलाकं(?) ज्येष्ठादित्रयमन्त्या प्रसारिता । कांशूलोऽनामिका वक्रा स्तोके बालास्तनादिषु ॥ ५७ ॥ तर्जन्याद्यास्तलस्थाग्रा उपर्यङ्गुष्ठपीडिताः । यदि मुष्टिः प्रहारासिग्रहनिष्पीडनादिषु ॥ ५८ ।। ऊर्ध्वं प्रसारितोऽङ्गुष्ठो मुष्टौ चेच्छिखरः करः । स्यादधररञ्जनादौ धनुर्दण्डग्रहादिषु ।। ५९ ॥ १. कर्णपूरोत्पलाब्जादिग्रहाद' इति स्यात् । २. 'तामिसंस्थिता मध्यातर्जन्य, हष्ठका यदा' इति नाट्यशास्त्रम् ।

. परमधिकरण । तर्जन्युक्षिप्य वक्रा चेच्छिखरेऽङ्गु पीडिता। कपित्थः स्मरणे चक्रगृहे निष्पीडनादिषु ॥ ६० ॥ कपित्थेऽ(न्ते !न्त्ये) समुक्षिप्य वक्रे चेत् कटकामुखः । प्रग्रहाकर्षणादर्शधारणादिषु लभ्यते ॥ ६१ । सूच्यास्यः कटका(स्यो : स्ये) स्यात् तर्जनी चेत् प्रसारिता । साधुवादे प्रदर्शने प्रयोज्यस्तर्जनादिषु ॥ ६२ ॥ भ्रम(र? रेऽ)न्त्ये तलस्थाने स्यातां चेत् ताम्रचूडकः । स शीघ्रतालपातादौ बुधैर्य ? ह)स्तः प्रयुज्यते ॥ ६३ ॥ ।। इति (अ)संयुक्तहस्ताश्चतुर्विंशतिः ।। हस्तोऽञ्जलिः कपोतश्च कर्कटो वर्धमानकः । कटकावर्धमानश्च खस्तिको गजदन्तकः ॥ ६४ ॥ दोलोऽवहित्थश्चोत्सङ्गो निषधः पुष्पपुटः करः । मकरश्चेति संयुक्ता हस्तास्ते च त्रयोदश ।। ६५ ।। पंताकस्थलयोः(१) श्लेषादञ्जलिः क्षालनादिषु । महेशगुरुपूज्यानामयं स्यादभिवादने ।। ६६ ॥ सर्पशीर्षद्वयश्लेषात् कपोतोऽङ्गुलिघर्षणे । प्रणामाभयशीतार्ते गुरुसम्भावनादिषु ॥ ६७ ॥ पद्मकोशयुगाङ्गुल्य (अ : स्त्व)न्योन्यान्तरनिर्गताः। चेत् कर्कटोऽङ्गस(र्वद्दलह ? म्मदंगल)शङ्खग्रहादिषु ॥ ६८ ॥ वर्धमानः कपित्थेन वेष्टितो मुकुलो यदि । सर्वसङ्ग्रह (सं)क्षिप्तसत्यवाक्यादिषु स्मृतः ।। ६९ ।। कटके न्यस्तकटकः कटकावर्धमानकः । कुन्ताधायुधसंग्राहकाहलावादनादिषु ॥ ७० ॥ युतमणिबन्धोत्तानारालावन्योन्यपार्श्वगौ । खस्तिकः सर्वसंकीर्णबन्धनानयनादिषु ॥ ७१ ॥ पुरः प्रसारितौ किञ्चिदुत्तानौ सर्पशीर्षकौ । गजदन्तः शिलावत्स(मु ! गु)रुभारग्रहादिषु ॥ ७२ ।। १. 'पताकहस्तयोः' इति, 'पताकतलयोः' इति वा स्यात् । .

सातसमयसार दोलाहस्तः पताको द्वौ प्रलम्बितभुजौ यदि । विषादसम्भ्रमाभ्याधिलीलामीमदादिषु ।। ७३ ॥ अवहि(त्यः ? त्थः) शुकतुण्डौ (द्वौ ?) वक्षसोऽभिमुखौ युतौ । शनैरधोमुखाविद्धौ दौर्बल्यात् खण्डितादिषु ॥ ७४ ।। पैराङ्मुखावरा + +मूर्खास्यौ सङ्गतौ यदि । उत्सङ्गः स्यात् (प्रियात् ? ) प्रियाश्लेषकन्दुकादिनिवारणे ॥ ७५ ।। निषधो दक्षिणो मुष्टिर्वामकूपरमध्यगः । प्रकाण्डो दक्षिणो वा+द्भुती गर्वादिदर्शने ॥ ७६ ।। कनिष्ठापार्श्वसंश्लिष्टा(दु. ? वु)त्तली सर्पशीर्षकौ । पुष्पपुटः पुष्पाञ्जलिजलदानादिकर्मसु ।। ७७ ॥ मणिबन्धे युतावुत्तानावतानी पताककौ । मकरः सिंहशार्दूलमकराभिनयादिषु ।। ७८ ॥ ।। इति संयुतहस्तास्त्रयोदश ।। चतुरश्रावुवृत्तौ च कर स्वस्तिक(वि ? व)द् युतौ । सूचीमुखौ तलास्यौ च रेचितावर्धरेचितौ ॥ ७९ ।। आविद्धवक्री पल्लवावरालकटकामुखौ । नितम्बौ केशबन्धौ च हस्तावुत्तानवञ्चितौ ।। ८० ॥ लताख्यौ करिहस्त, च पशवञ्चितकौ करौ । पक्षप्रद्योतको दण्डपक्षौ गरुडपक्षकौ ॥ ८१ ।। मुष्टिकस्वस्तिकादूर्ध्वपार्श्वमण्डित(को) करौ । उरोमण्डलिनौ हस्तावुरःपाधिमण्डलौ ॥ ८२ ।। नलिनीपद्मकोशाख्यावुल्बण ललितौ करौ । वलिताविति हस्ताः स्युर्नृत्यगाः सप्तविंशतिः ॥ ८३ ॥ कटकास्यावभिमुखौ सूचीमुखक वरौ । चतुरश्रकरौ हंसपक्षावन्योन्यसम्मुखौ ॥ ८४ ॥ तिर्यग् वक्षःस्थलस्थौ तु करौ तलमुखौ मतौ। प्रसारितोत्तानतलौ द्रुत दुमौ + रेचितौ ॥ ८५ ॥ चतुरश्र + + + चेदत्रैकस्त्वर्धरेचितौ । प्रकाण्डकुटिलाविद्धी करावाविद्धवकको ।। ८६ ॥ १. 'मव्याधि' इति पाठः स्यात् । २. 'पराङ्मुखावरालौ द्वावू स्यो' इति स्यात् ।

षष्ठमधिकरणम् ।
मणियन्धनमुक्तौ द्वौ पताको पल्लवौ स्मृतौ ।
अरालकरको हस्तावरालकटकामुग्वौ ॥ ८७ ॥
नितम्बौ पार्श्वयो रुद्धौ बाहुशीर्षा(द्) विनिर्गतौ ।
केशदेशाद् विनिष्क्रान्तौ पार्श्वद्वयसमुद्गतौ ॥ ८८ ।।
केशवन्धी करौ प्रोक्तौ तौ दिगम्बरसूरिणा ।
उत्तानवञ्चिती किञ्चित् पार्श्वगी त्रिपताकरौ ॥ ८९ ॥
प्रसारितौ लताख्यौ च रम्यक् ।तर्यक् प्रसारितौ ।
विलोलितो (तं पाश्चात् !) पार्श्व लताहस्तः समुन्नतः ॥ ९ ॥
कर्म + स्त्रिपताकोऽन्यः करिहस्तः प्रकीर्तितः ।
कनि ++ निविष्टाग्रौ पताको पक्षवञ्चितौ ॥ ९१ ॥
परावृत्तौ पुनस्तौ द्वौ पक्षप्रद्योतको करौ ।
तिर्यप्रसारितभुजौ व्यावर्तपरिवर्तितौ ॥ ९२ ॥
हंसपक्षकरौ दण्डपक्षावुक्तौ दिगम्बरैः ।
अधोमुखतलाविद्धौ किञ्चित् तिर्यक्प्रसारितौ ॥ १३ ॥
इंसपक्षकरौ स्यातां तौ द्वौ गरुडपक्षको ।
स्वस्तिकाकटकास्यौ द्वौ कुञ्चितावञ्चितौ (करौ) ॥ ९४ ॥
एकधा बहुशो वाथ मुष्टिकस्वास्तको मत ।
मनि पार्श्वद्वये चैव मण्डलावृत्तिवर्तनात् ॥ ९५ ॥
आ शाम्बरमतादूर्ध्वपार्श्वमण्डलिनौ करौ ।
बहुशो वक्षसोऽन्योन्यौ वेष्टनोद्वेष्टनक्रमात् ।। ९६ ॥
भूमिमण्डि ? ण्डलि)नौ हस्तौ पुरोम (ण्डि ! ण्डलि)नौ मतौ ।
सथमणिबन्धारालावुरःपार्धिदेशयोः ॥ ९७ ॥
प्रान्तौ मण्डि ! ण्डलि)नौ हस्तावुरःपार्धिमण्डलौ ।
व्यावर्तपरिवर्ती च पद्मकोशाभिधा करो ।। ९८ ।।
स्यातां जानुसमीपस्थी नलिनोपद्मकोशकौ ।
उमणादूर्वगाविष्टोद्वेष्टिताम्रौ तु पल्लवौ ॥ ९९ ॥
मस्तकौ देशसम्प्राप्तौ पल्लवौ ललितौ मतौ ।
कूपरस्वस्तिकगतौ लताख्यौ ललिताविति ॥ १० ॥

सङ्गीतसमयसारे
लोकव्यवहृतौ युद्धे नियुद्धे नर्तनादिषु ।
नानाप्रयोगदर्शनादिहस्तो नास्ति कश्चन ॥ १०१॥
कुर्वन्नावेष्टिताद्वेष्टितान्यजीकर्मणा गतौ ।
रणादावर्तितं हस्ते लभते परिवर्तितम् ॥ १०२ ॥
(श्वेषः ।)
आवेष्टयन्तेऽन्तराखल्यस्तर्जन्याद्या यदि क्रमात् ।
आवेष्टितं यथोद्वेष्टिताख्यमुद्वेष्टनाद् बहिः ॥ १०३ ।।
आवर्त्यन्तेऽन्तरकुल्यः कनिष्ठाद्या यदि क्रमात् ।
व्यावर्तितं बहिवृत्तेस्तथासौ परिवर्तितः ॥ १०४ ।।
॥ चतुर्विधं हस्तकरणम् ॥
बाहवस्तिर्यगूर्वाधःपृष्ठगाः कुञ्चितोऽश्चितः ।
स्युमण्डलस्वस्तिका + + + विद्धा दशेति ते ॥ १.५ ॥
॥ हस्तलक्षणम् ॥
हस्तसंख्या प्रसिद्धाहं हस्तलक्षणमब्रुवम् ।
देशीनृत्ते तु नान्वेष्याः सर्वहस्ता जगज्जनैः ॥ १०३ ।।
समुन्नतं नतं चैव प्रसारितमथापरम् ।
(हा ! व्या)वृत्तं चेति पार्श्वस्य चतुर्धा भेद ईरितः ॥ १०७ ॥
समुन्नतैः कटिपार्श्वभुजांशैरुन्नतं भवेत् ।
नताभिधानं तत् पार्श्व कथितं नाट्यवेदिभिः ।। १०८ ॥
आयामनात् प्रसारीति पार्धाभ्यां तु प्रसारितम् ।
त्रिकस्य परिवर्तस्य स्याद् व्यावृत्तमपोहनात् ॥ १०९ ।।
॥ इति चतुर्विधः पार्थः॥
निवृत्ता रचिता छिन्ना कम्पितोद्वाहिता तथा ।
इति पञ्चविधा प्रोक्ता कटि व्यविशारदैः ।। ११० ॥
निवृत्ता सा कटी ज्ञेया सम्मुखी वा पराङ्मुखी ।
परितो भ्रमणाज्ज्ञेया संबेया रोचिता कटिः ॥ १११ ॥
तिर्यङ्मध्यस्थवलनाच्छिन्ना नाम्ना कटिर्भवेत् ।
क्षिप्रं गतागतैस्तिर्यक् कम्पिता कथिता गतौ ॥ ११२ ॥

पछ मधिकरणम् । उद्वाहिता शनैः पार्थनितम्बोद्वाहनात् कटिः । ॥ कटिलक्षणम् ॥ समश्योद्घट्टितः कुञ्चितोऽश्चितोऽग्रतलक्रमः ॥ ११३ ॥ इति पञ्चविधः पादः समः स्वाभाविकः क्रमः । पादाप्रसेन चेत् पाणिः सकृद् भूमौ निपात्यते ॥ ११४ ॥ प्रयोगेणासकृद् द्वाभ्यामुद्घट्टितपदं समे । कुञ्चिता(प्रे? प्रोतलं भूस्था समे चेत् पाणि(मु ! रु)च्यते ।। कुञ्चि(ता? तो)भिनयायचे(पू.)दात्तगमनादिषु । अन्चिताङ्गुलिपादाप्रमुरिक्ष(सं? प्ता) चेत् समेऽञ्चितः ॥ ११६ ।। पदाक्षितिसञ्चारभ्रमयुद्वर्तनादिषु । समे चेत् पाणिरुक्षिप्ता स्यादप्रतलसचरः ॥ ११७ ।। पाणिक्षतगतिभ्रान्तिक्षोणीसंघट्टनादिषु । इति पञ्चविधपादतललक्षणम् ।। अ(थो ! था)पाङ्गदर्शनान्येव सादरं निरूपयामः । तत्र मुख्यत्वात् समं सा (स्य ! च्य)नुवृत्तं च आलोकितविलोकिते ॥ ११८ ॥ प्रतिलोकितमुल्लोकितं चावलोकितमष्टधा ।। (भ)वन्ति दर्शनान्येवं पृथङ् नोक्तानि लक्षणैः ॥ ११९ ॥ पुटपक्ष्माप्रकर्माणि लोचनानुगतान्यतः । समं (संव्यश्र सापि ! सव्यश्रक साचि)रूपनिर्वर्ण(ताना)यतम् ।। अनुवृत्तं स्याद् दर्शनं सहसालोकितं मतम् (१)। + + + + + + + + पृष्ठतः स्याद् विलोकितम् ॥ १२१ ।। ऊर्चे(ल ! )क्षणमुल्लोकितमधःप्रेक्षावलोकितम् । इत्यष्टदर्शनलक्षणम् ॥ पदजचारुकरणं समं कार्य ! ये) प्रयोक्तृभिः ॥ १२२ ।। पादस्य करणं सर्व जबोरुकृतमिष्यते । यथा (पादः ! पदं) प्रसर्पितं तथैवोरु प्रवर्तते ॥ १२३ ॥ अनयोः समानकरणात् पादचारी प्रयोजयेत् । यतः पादस्ततो हस्तो यतो हस्तस्ततनिकम् ।। १२४ ॥ - K समीतसमयसारे पादस्य निर्गमं ज्ञात्वा ततोऽपा(जानि ? नियोजयेत् । पादचार्या यथा पादो धरणीमेव गच्छति ॥१२५ ।। एवं हस्तश्चरित्वा तु कटीदे(शे ? शं) समाश्रयेत् । मालिकाभिनयाः सर्वे सार्थाः सर्वत्र जाग्रति ॥ १२६ ॥ देशिनृत्ये तु सार्थत्वं नो विचार्य विपश्चिता । प्रायो लोकप्रसिद्धानि कथ्य(ते ?न्ते) तेषु कानिचित् ॥ १२७ ॥ पेरणं प्पेक्खणं चैव गुण्डिली दण्डरासकः । अथैतानि समाश्रित्य वक्ष्यन्ते स्थानकादयः ॥ १२८ ॥ नन्द्यावर्त(म ? क)वर्धमानसमपात्तत् स्वस्तिकं वैष्णवं पााविद्धकपाणिपार्श्वकपरावृत्तानि तद् गारुडम् । सूनीखण्ड(प! पा)दोत्तरा समयुता सूची त्रिभनीयुतं पाणी चैकपदोत्तरौ (च) चतुरश्रं सूचिकं वैषमम् ॥ १२९ ॥ पद्मासनं नागबन्धो विषमान्तरपूर्वके । पद्मासनं तदा प्रोक्तं कूर्मासनमथापरम् ॥ १३० ॥ वर्धमानं यदि स्थानं षडलिकृतान्तरम् । नन्द्यावर्त तदेव स्यान्नृत्यभेदविशारदैः ॥ १३१ ॥ तिरश्चीनमुखौ पादौ पाणिभ्यां यत्र सङ्गती(?) । स्थानकं वर्धमानाख्यं तत्तदुन्नृत्यकोविदः ॥ १३२ ॥ पायेङ्गुष्ठयुतान्तरालमितिना ज्ञेयाश्चतुष्षट् च ता अङ्गुल्योयुगं वि+ (?) बाहुयुगलं स्वाभाविकं सौष्ठवम् । कर्णाग्रात् कटिगुल्फदेशसमता नाट्येऽहुरः कीदृशः (!) स्थानं तत् समुदाहृतं समपदं पुष्पाञ्जलिक्षेपणे ॥ १३३ ॥ मरिस्थानसंलग्मे मिथःश्लिष्टकनिष्ठिको । कुञ्चिती चरणौ यत्र स्थानं तत् स्वास्त(कर्मकम् ? कं मतम्) । सममेकपदं भूमावन्यत् किश्चिञ्च कुञ्चितम् । पुरःप्रसारितस्तिर्यस्थानकं वैष्णवं विदुः ॥ १३९ ॥ पाWङ्गुष्ठसमायोगात् स्थानकं पाणिविद्धकम् । पार्श्वस्यान्तर्गता पाणिः कीर्तितं पाणिपार्श्वकम् ॥ १३६ ।।

षष्ठमधिकरणम् । पार्ण्यङ्गुष्ठः समो यत्र तथा पायॆकनिष्ठकम् (१) । परावृत्तं परिज्ञेयं स्थानं स्थानककोविदः ॥ १३७ ।। भाकुम्चितोऽनिर्वामश्वेत् तदन्यो जानना भुवि । पश्चान्न्यस्तस्तदाख्यातं स्थानकं गारुडं बुधैः ॥ १३८ ।। चरणः कुञ्चितस्त्वेकस्तिर्यगन्यः प्रसारितः । ऊरुपाणिस्थितो भूमौ (खथिते ? कथितं) खण्डसूचिकम् ॥ १३० ।। भूलमः पाणिजबोरु तिर्यक् पादौ प्रसारितो यत्र तत् स्थानकं प्राहुः समसूचीति नामतः ॥ १४० ॥ न्य(न्त ! च)द्वामकपोलकं समपदं वा(म ? मा) कटी निर्गता किञ्चित् तिगिति स्थितोऽन्यचरणा वामाङ्गलम्यान्वितः । यद् वक्त्रं कटिपादमस्तकतलं नारीलसन्नर्तने विज्ञेयं ललितं त्रिभङ्गिकमिति स्थानं च तत्कोविदः ॥ १४१ ॥ एकपादः समो यत्र बहिस्तियङ्मुखोऽपरः । स्थानकं तत समुद्दिष्टमेकपाभिधं बुधैः ।। १४२ ॥ एकः समोऽधिय॑स्य स्येस्तहानुमस्तको (?) । बाबपाश्चकृताश्लेषमेकपादाभिधं बुधैः ॥ १४३ ॥ नन्द्यावत यदा सार्धं तालं चरणयोर्भवेत् । स्थानकं चतुरअं तत् कथयन्ति विचक्षणाः ॥ १४ ॥ पुरः पश्चाच चरणौ सूचिलक्षणलक्षितौ । तदा विषमसूचीति स्थानकं कथितं बुधैः ॥ १४५ ।। समसूचिस्थितौ नृतैः पादयो + नं यदा । क(रे? रो)ति नर्तकी तच्च पद्मासनमिति स्मृतम् ।। १४६ ॥ उपविष्टेऽस्य वामो + पृष्ठे स्याद् दक्षिणा यदा । जधास्थानं समेत्तस्यां नागबन्धाभिधं तदा (१) ॥ १४७ ।। तदेवान्तरपद्मासनमाभाति कृतं यदि । पादयोर्विषमं तच्च पद्मासनमुदीरितम् ॥ १४८ ।। उत्प्लुत्यापि प्रसार्याधी यस्तयोर्बन्ध अन्तरे । पद्मासनं तदेव स्यादन्तरं कथितं बुधैः ॥ १४९ ।।

सहीतसमयसारे
दक्षिणो नानुगुल्फेन पादस्पृष्टमहीतलः ।
वामपादश्च यत्र स्यात् स्थानं कूर्मासनं स्मृतम् ॥ १५० ॥
इति देशिस्थानलक्षणम् ॥
सरिकार्धपुराडी च स्वस्तिकः स्फुरिकस्तथा ।
निकुट्टकम्तलोत्क्षेपः पृष्ठोत्क्षेपश्च वेष्टनम् ।। १५१ ॥
मर्धस्खलतिका लुत्ता वराटी प्रावृतं तथा ।
उद्वेष्टनं ततोलाल: समस्खलतिका तथा ॥ १५२ ।।
लताक्षेपो डमरुको विक्षेपः कर्तरी तथा ।
तथलो(!) गारुडः पक्षो ललाटतिलकस्तथा ॥ १५३ ॥
फेल्लणालगपालौ च पालो निस्सरसस्ततः ।
पञ्चविंशतिपालाः स्युः कथिता लक्षणान्विताः ।। १५४ ।।
भूचराः खेचराश्चेति भेदस्तत्र समीरितः ।
पाला उप्परपालाश्च नाम तेषामुदाहृतम् ॥ १५५ ॥
केनाप्येकेन पादेन सरसं सरिका भवेत् ।
स्थितोवृत्तनिकुठून पादेनाभ्य(व)कुट्टनम् ॥ १५६ ॥
यदुपत्तस्य(!) पादस्य सा ज्ञेयापुराटिका ।
स्वस्तिकाकारघटना पादयोः स्वस्तिका भवेत् ।। १५७ ।।
मालीपृष्ठभागेन पादाभ्यां गमनं तु यत् ।
पुरतः पृष्ठतो वापि पार्श्वतः स्फुरिका भवेत् ॥ १५८ ।।
सा पुरिति प्रसिद्धा।
सम(रु ! कु)श्चि(त)पादाने स्थितिज्ञेया निकुट्टनी ।
पृष्ठतः पुरतो वापि कुश्चितेनाधिणा यदि ॥ १५९ ॥
जानुमात्रसमुत्क्षेपात् तलोत्क्षेपः स कथ्यते ।
पृष्ठतोऽञः समुत्क्षेपात् पृष्ठोत्क्षेपश्च कथ्यते ।। १६० ॥
स भरणीपुट इति प्रसिद्धः ।
एकाधिणा यदन्यस्य वेष्टनादेव वेष्टनः ।
स्खलनात् तिर्यगेकाझेरर्धस्वलतिका भवेत् ।। १६१ ॥
पदाणाहतिभूमे (१) खुत्ता नाम प्रकीर्तिता ।
तवृत्तां विनिकुठून मिथा प्रोक्ता पुराटिका (!) ॥ १६२ ॥

पष्ठमधिकरणम् ।
उवृत्तो यस्य पादः स्यात् सलीलं ललितं विदुः ।
प्रावृतं नाम विज्ञेयं क्रीडास्थानं मनोमुवः ॥ १.६३ ॥
पश्चात् प्रापणमझेर्यदुद्वेष्टनमुदीरितम् ।
उल्लोलाजि क्रमणोनि युग्मं सोलुल इष्यते (१) ॥ १६४ ।।
पुरतः पृष्ठतस्तिर्यक् पादयोः स्वलनं समः ।
समे स्खलतिका नाम पादः प्रोक्तो विचक्षणैः ।। १६५ ।।
एकस्य पृष्ठतः कृत्वा पुरतोऽधिं प्रसार्य च ।
निकुट्टने कृते तेन लताक्षेपः स कथ्यते ॥ १६६ ॥
एकाघ्रिणा क्षितौ स्थित्वा भ्रामयित्वेतरं पदम् ।
स्थापने तस्य जा + तु इतरेणोरुता + + ॥ १६७ ॥
+ ण्डिका भाषाकुशलैः पादो डमरुकः स्मृतः ।
पाणि तालान्तरं पार्श्व पुरोदेशं स्थिते पदे ॥ १६८ ॥
पादान्तराजुलीसङ्गमूर्विक्षेप ईरितः ।
विधाय चरणावेतौ कर्तरीयत्पुरस्थितौ (8) ॥ १६९ ॥
पादः कर्तरिसंज्ञेयो नृत्यशामविशारदैः।
नृते च करणे कार्या तदूरोरन्यपादतः ॥ १७० ।।
प्रधार्यतासनं तज्जैस्तट्टाल इति कथ्यते ।
कथ्यते गारुडः पक्षः समसूची पुरीयुता ॥ १७१ ।।
अमयित्वैकचरणं स्थापने तस्य लाघवात् ।
पादावानीय नर्तक्या पृष्ठतोऽष्ठसङ्गमम् ॥ १७२ ।।
कलाटेऽभिमुखं याते ललाटतिलकः स्मृतः ।
गतिः कुरुलयान चरणाभ्यां मनोहरा (1) ॥ १७३ ।।
फेल्लणापाल इत्येष कथितो नृत्यकोविदः ।
ऊरौ तदन्यपादेन सङ्गमो लगपालकः ॥ १७४ ।।
पुरीडिधावचरणस्तदन्यः (१) कुरुलयान्वितः ।
पालो विन्धवणः प्रोक्तो नृत्यविधाविशारदैः ॥ १.५ ॥
पिच्छिलापसृतं यद्वन्नर्तक्या नर्तने तथा ।
तिर्यपादापसरणं पादो निस्सरडाभिधः ॥ १७६ ॥

सङ्गीतममयसारे
पादौ समनखौ श्लिष्टौ विशिष्टौ च प्रयोगतः ।
चेच्चारी समपादाख्या नानास्थानसमाश्रया ॥ १७७ ।।
इति (पय?)पाललक्षणम् ॥
अथोत्प्लुतीकरणम् ।
(र ! कथ्यते दर्पसरणं विन्दुः सा लोहली तथा ।
अश्चितश्चेति चत्वारि योगभेदस्तदान्तरे ॥ १७८ ॥
वैष्णवस्थानके स्थित्वा तिर्यगावर्ति(तां प्रिम् ! ताधिकम् ) ।
तदुक्तं दर्पसरणं करणं नृत्तवेदिभिः ॥ १७९ ॥
बाम कूर्परमानिधाय भुवि तद् यत्तोत्तलस्थं शिरो-
निक्षिप्ताहितदीर्घकाः कटितटीकान्नूरुजङ्घाः क्षितौ ।
कृत्वान्यं चरणं तदूर्ध्वफलके तज्जानुमत्तस्थिती
बाहुस्तज्जलशायि नाम करणं यत् कथ्यते कोविदैः ॥ १८० ॥
स्थित्वा समपदेनैव पुरः प्लुत्योपवेशनम् ।
पुरोवलितदोःकाण्डं दिण्डुस्तत् करण मतम् ॥ १८१ ॥
तदेव दिण्डुकरणम(व)सानस्थितं यदि ।
अलगं किञ्चिदुद्वक्रं तदेवोलिगं मतम् ॥ १८२ ॥
अलगं नतपृष्ठं चेन्नितम्बालम्बिमस्तकम् ।
उत्तानस्थानकोपेतमतेरालगमुच्यते (?) ॥ १८३ ॥
(मा! ना)भीबाहोरस न शिरःस्पृष्टमहीतलम् ।
स्पृष्ट्वा पदाभ्यामत्तनं (! ) कपालं चूर्णनं भवेत् ।। १८४ ॥
समपादस्थितेरू यत्र त्रिकविवर्तनम् ।
उत्पत्य पतनं तिर्यग् लोहडी सैव कथ्यते ॥ १८५ ॥
लोहडीपतने यत्र स्फुरितेनाभिपातनम् ।
करणं तत् परभृत + + + निगद्यते ॥ १८६ ॥
उत्प्लुत्य समपादेन परावृत्य समस्थितिः ।
पश्चात् द्वयवि + भ भमम्बितं करणं विदुः (१)॥ १८७ ॥
(अ)श्चिते पतनं तिर्यक् परावृत्योपवेशनम् ।
करणं नृत्ततत्त्वज्ञैर्लहादहनमीरितम् ॥ १८८ ॥
अञ्चितस्थानके यत् स्यानितम्बालम्बिमस्तकम् ।
बेहोलं पाणि (!)चद्दाय द्रायबेहोलमुच्यते ॥ १८९ ॥

षष्ठमधिकरणम् ।
एकपादां च, कर्तव्य, त,(2) भैरवाञ्चित, दण्डप्रणामग, स्वेच्छाकरण,
पमासान, समसूचि, विषमसूचि, गण्डसूचि, गरुडासन, कूर्मासन, गोमुखा-
सन, जानुभजत, नागबन्ध इति बहुविधस्थानकानि करणानामुपरि समे.
तानि चेत् स्थानकसहितानि करणनामानि भवन्ति ।
छत्रभ्रमरिका चैव चक्रभ्रमरिका तथा ।
अन्तर्भमरिका चैव बाहुभ्रमरिका तथा ॥ १९० ॥
कपालभ्रमरी चेति पन्च भ्रमारिकाः स्मृताः ।
अथ पूर्वैरनुक्तानि देश्यङ्गानि वदाम्यहम् ॥ १९१ ॥
मुखर(ब्धः सः)सौष्ठवं च ललिभावौ च तकली ।
अनुमानं प्रमाणं च झङ्का रेवा सुरेखता ।। १९२ ॥
अङ्गाणङ्गं ततो धालं धीलायि नवणिम्तथा ।
कित्तु(तरहरोल्ला)सौ वेवर्तनमतः परम् ।। १९३ ।।
स्थापनं च क्रमादेषां लक्षणं प्रतिपाद्यते ।
माल्याभरणवस्त्राद्यैर्नृत्यनै(क:प)थ्यकल्पनात् ॥ १९४ ॥
प्रमोदप्रभवा वऋकान्तिर्मुखरसाभिधः ।
वामदक्षिणपाश्चात्त्यपुरोभागेष्वनामितम् ॥ १९५ ॥
गात्रं यदि स्थितं सम्यक् सौष्ठवं तदुदाहृतम् ।
नहि सौष्ठवहीनाझं शोभते नाट्यनृत्तयोः ॥ १९६ ॥
नाट्यं नृत्तं च सर्व हि सौष्ठवे सम्प्रतिष्ठितम् ।
सङ्गीतसुखसञ्जातो लावण्यरसपोषकः ॥ १९७ ॥
हर्षोत्कर्षस्तु भाव.ललिरित्यभिधीयते ।
यदि मानं समार(ण्य ? भ्य) वाद्यतालसमुद्भवम् ॥ १९८ ।।
नर्तनौत्सुक्यजश्चित्तविकारो भाव उच्यते ।
स्थानकेन मनोज्ञेन स्थित्वा गम्भीरभावतः ॥ १९९ ॥
अजस्यान्दोलनं (सा) लसमानं सूकली भवेत् ।
यत्याभिनययोगाय नर्तकीचित्तदोलनम् ।। २०० ।।
अनुमानं समुदिष्टं प्रमाणं साम्यमुच्यते ।
वामे वा दक्षिणे वापि किश्चिदुद्धृतभावतः ॥ २०१ ॥

सहीतसमयसारे अनस्य चालना नृत्ये झकेति परिकीर्तिता । शिरस्पपाङ्गयोश्चैव पिश्चितुल्लोलता यदि (1) ॥ २०२ ॥ हक्ष्यते भावमाधुर्यात् सोक्ता रेवा विचक्षणैः । आनिकाभिनयो नृत्ये विकटाङ्गविवर्जितम् ॥ २०३ ॥ यदि प्रवर्तते तज्ज्ञैः सुरेखत्वं तदीरितम् । ताण्डवादिषु नृत्तेषु प्रस्तुतेषु पृथक् पृथक् ।। २०४ ।। उक्तोऽगमनमुद्दिष्टमणकं त्वन्यसंश्रयम् । ललिताभिनयाः सर्वे ललि(ता! )भावसमाश्रयाः ॥ २.५ ॥ नर्तकीचित्तसारस्यात् तस्माड्ढालं तदुच्यते । साने वा मन्दगमने नर्तक्यां यदि वक्ष्यते ।। २.६ ॥ ललितं गात्रशैथिल्यं पिल्लायीति निगद्यते । यदि धर्माजनमनमनायासेन वर्तते ॥ २०७ ।। विषमेषु प्रयोगेषु तवणिः समुदाहृता । भुजयोः स्तनयुग्मे वा तालपादसमं यदि ॥ २०८ ॥ (स्य ! स्पोन्दनं सुकुमारं स्यादेतत् कित्तु निगद्यते । नर्तने यदि मर्तक्याः स्तनयोः क्षिप्रकम्पनम् ॥ २०९ ॥ लक्ष्यते बाहुपर्यन्तमेतत् तरहरं विदुः । यदि वाद्यो + सदृशं नर्तक्यानं मुहुर्मुहुः ॥ २१० ॥ यद्युल्लसति भावेन तमुल्लासं प्रचक्षते । मानिकाभिनयो वाद्यपादानामुचितः समः ।। २११ ।। यदि प्रवर्तते तजस्तद् वैवर्तनमीरितम् । करणाभिनयस्यान्ते विषमस्यापरस्य वा ।। २१२ ॥ रूपसौष्ठवरेखाभिः स्थितिः स्थापनमुच्यते । क्रमेण पेरणादीनां पद्धतिः कथ्यतेऽधुना ॥ २१३ ।। नृत्तं ततश्च कैवारो घर्षरो वागडस्तथा । गीतं चेति बुधाः प्राहुः पेरणस्यानपञ्चकम् ॥ २१ ॥ नृतं तद् द्विविध ज्ञेयं ताण्डवं लास्यमित्यपि । तत्राप्युपलयाजः स्यात् प्रायस्ताललयाश्रयम् ।। २१५ ॥

: षष्ठमधिकरणम् । वर्णयित्वा गुणान् पूर्णान् पुरातनमहीभुजाम् । तसदगुणसमारोपः कैवारः स्यात् सभापतेः ॥ २१६ ॥ ठवणे वशतः क्षुद्रघण्टिकापयपालनाः । नालपाठ्याथवा प्रोक्ता घर्घरेति विचक्षणैः ॥ २१७ ॥ यन्मर्कटपिशाचादिहास्यवेषसमाश्रयम् । विकटाभिनयोपेतं वागडं तत् प्रचक्षते ॥ २१८ ॥ +धैः सङ्कीर्णरागैर्वा + + स्तालप्तिसंयुतम् । गीयते गीतमुक्तं तत् सभ्यचित्तानुरञ्जनम् ॥ २१९ ॥ रङ्गे स्थितान्तरान् वाद्यसमुदायत्रये कमात् (१) । उद्वाहादित्रयं यत्र गानं श्रेष्ठं तदीरितम् ॥ २२० ॥ समहस्तं भवेदादौ ततो रिप्पवणी भवेत् । ततः परं पदं ज्ञेयं वेसारं तदनन्तरम् ॥ २२१ ॥ तुडुकाख्यं ततो वाद्यं ततः पहरणाभिधम् । वाद्यपद्धतिरित्युक्ता पेरणस्य विचक्षणैः ॥ २२२ ॥ कारं वादयेत् पूर्व घल्लणं च ततः परम् । ततो वाद्यं च कपितामन्तरां च ततः क्रमात् ॥ २२३ ।। अवझामलपं चेति पेक्खणे वाधपद्धतिः । समहस्तं पहरणा ततम्त्वारभटाइयः ।। २२४ ॥ मुखवाद्यं ततो ज्ञेयं तकारं तदनन्तरम् । झेकारं च ततः पश्चाद् दुवकरसमाह्वयम् ॥ २२५ ।। ततो रिघमणि (वा ? )तत: पहरणाभिधः । तुडुकश्चेति विज्ञेया गुण्डलीवाद्यपद्धतिः ।। २२६ ॥ पेरणादित्रये गीतपद्धतिः कथ्यतेऽधुना । वाद्येन सह गीताया मेलायां तदनन्तरम् ॥ २२७ ।। तेनैव खलु तालेन वाद्यते गुष्कमन्तरा(?) । प्रतिरूपकपर्यन्तं यत्र सा शुद्ध(पद्धतिः ॥ २२८ ।। प्रथमं पाटकरणं बन्धाख्यं चित्रसंज्ञकम् । कैवारो वर्णसरकस्त्वन्ये वा पाटमिश्रिताः ॥ २२९ ।। L

सङ्गीतसमयसारे
प्रबन्धा यत्र गीयन्ते वाद्यन्ते च यथाक्षरम् ।
यथाक्षरं च नृत्यन्ते सा चित्रा शुद्धपद्धतिः ॥ २३० ॥
ध्रुवा मट्टश्च निस्सारुश्चण्डनिस्सारुकस्तथा ।
अढताली रासकिश्च तत: स्यादेकतालिका ॥ २३१ ॥
इत्येषा पद्धतिज्ञेया सालगाख्या विचक्षणैः ।
पेरण्याख्या च मण्डल्या शुद्धे छायालगे तथा ॥ २३२ ॥
दुवक्करं पहरणा यतिश्चान्तरवादनम् ।
पद्धतित्रितये शुद्धचित्रे सालगसंज्ञके ॥ २३३ ॥
तत्तत्पद्धतिभेदेन वाद्यं कुर्याद् यथोचितम् ।
यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः ॥ २३४ ॥
यतो मनस्ततो भावो यतो भावस्ततो रसः ।
यत्र व्यग्रावुभौ तत्र + + दृष्टिविलोकितैः ॥ २३५ ।।
त्रीलितेऽभिनयं कुर्याद् विमतैरर्धदर्शनैः ।
अङ्गेनालम्बयेद् गीतं हस्तेनार्थ प्रदर्शयेत् ॥ २३६ ॥
चक्षुभ्यां भावयेद् भावं पादाभ्यां तालनिर्णयम् ।
तालश्च कांस्यतालश्च घण्टिका जयपूर्विका ।। २३७ ।।
पटहश्च हुडुक्का च मृदकः करटा ततः ।
इत्यादिवाद्यसन्दोहो वाद्यते दण्डरासके ॥ २३८ ।।
रूपयौवनवर्णैस्तु समाना दीर्घलोचनाः ।
(शुक ? कृश)मध्या नितम्बाढ्याः पानावृत्तपयोधराः ॥ २३९ ॥
चल्लणैः कञ्चुकैर्युक्ता नानावर्णविचित्रितैः ।
• + + + । नु पुरालङ्कृताञ्जयः ॥ २४० ॥
माल्यानुलेपसम्पन्नाः सर्वाभरणभूषिताः ।
सावधानाः प्रगल्भाश्च स्त्रियः पात्रं प्रकल्पिताः ॥ २४१ ।।
पात्रद्वयं समारभ्य द्वे द्वे पात्रे विवर्धयेत् ।
भवेयुरष्टद्वन्द्वानि यावत् तावद् यथारूचि ।। २४२ ॥
अन्योन्या(व !)भिमुखं वापि परावृत्तमुखं तथा ।
मुखो दण्डानुविद्धं च (2)वाद्यतालसमन्वितम् ॥ २४३ ॥

७५ सप्तममधिकरणम् । स्थानकै + + + हस्तचलनैर्वर्तनैर्युतम् । नानाबन्धेः समायुक्तं लयत्र(य)समन्वितम् ।। २४ ४ ।। दण्डरायमिति प्रोक्तं नृत्तभेदविचक्षणैः ॥ २४४३ ।। इति सङ्गीताकरनामधेयधीपार्श्वदवविरचिने सङ्गीतममयसारे नृत्तलक्षणं नाम षष्ठमधिकरणम् ।। अथ सप्तममधिकरणम् । गीतं वाद्यं च नृत्तं च लयं ता(लं? ले) विराजते । तस्मात् तालस्वरूपं च वक्ष्ये लक्ष्यानुसारतः ॥ १ ॥ उपर्युपरिविन्यस्तपद्मपत्रशते सकृत् । यः कालः सूचिसम्भेदात् तत् क्षणं सादजं प्रति (!) ॥ २ ॥ लवः क्षणैरष्टभिः स्यात् काष्ठा चाष्टलवात्मिका । भष्टौ काष्ठा निमेषः स्यात् कालस्त्वष्टनिमेषकैः ।। ३ ।। कालैस्त्रुटिश्चतुर्भिः स्यात् ताभ्यामर्धद्रुतं भवेत् । अर्धद्रुताभ्यां बिन्दुः स्याद् बिन्दुभ्यां तु लघुर्भवेत् ॥ ४ ॥ लघुभ्यां तु गुरुः प्रोक्तो लैस्त्रिभिः प्लुत एव च । इति मानगतः प्रोक्तो मनोगा तालवेदिभिः ॥ ५ ॥ आवापादिध्रुवादिर्वा + + + परिकीर्तिताः । तत्रावा(पे ? पो)ऽथ निष्कामो विक्षेपोऽथ प्रवेशनम् ॥ ६ ॥ शम्या तालश्च विज्ञेयाः सन्निपातश्च सप्तमः । आवापसंज्ञकं ज्ञेयमुत्तानाङ्गुलिकुञ्चनम् ॥ ७ ॥ अतस्तलेन हस्तेन निष्कामाख्यं प्रसारणम् । तस्य दक्ष(ग)तः क्षेपो विक्षेपः परिभाष्यते ।। ८ ॥ भूयश्चाकुञ्चनं ज्ञेयं प्रवेशाख्यमतस्तलम् । शम्या दक्षिणपातस्तु तालो वामस्तु कीर्तितः ।। ९ ।। उभयोर्हस्तयोः पातः सन्निपात इति स्मृतः । ध्रुवका सर्पिणी कृष्या बन्धिनी च वि(व?स)र्जिता ॥ १० ॥ विक्षिप्ता च पताका च पतिता चाष्टमी मता । घनाभिघातो ध्रुवक: सर्पिण्यग्रे प्रसारिता ॥ ११ ॥ .

सङ्गीतसमयसारे
कृष्या कुश्चनमात्रा च बन्धाकारा च बन्धिनी।
विसर्जितोपरिष्ठेन विक्षिप्तोत्तानवामतः ॥ १२ ॥
मालिः पताका स्यात् पतिता पतिता पुनः ।
लध्वक्षराणां पञ्चानां मानमुच्चारणे हि यत् ॥ १३ ॥
तत्प्रमाणपरिज्ञेया मात्रा तालगता बुधैः ।
द्विमात्रा स्यात् कला चित्रे चतुर्मात्रानुवतिके ।। १४ ॥
अष्टमात्रा च विद्वद्भिर्दक्षिणे समुदाहृता ।
तालान्तरालवर्ती यः कालोऽसौ लयनाल्लयः ॥ १५ ॥
त्रिविधः स च विज्ञेयो द्रुतो मध्यो विलम्बितः ।
लययानाद् यतिः प्रोक्तश्चित्रादिषु यथाक्रमम् ॥ १६ ।।
समा स्रोतवहाख्या च गोपुच्छा चेति सा त्रिधा ।
अथ देशीगता जार्गा वक्ष्यन्ते लक्षसम्भवाः ॥ १७ ॥
तत्र चित्रतरश्चकस्तथा चित्रतमोऽपरः ।
अतिचित्रतमश्चेति तत्स्वरूपं निरूप्यते ॥ १८ ॥
मात्रा चित्रतरा ज्ञेया व्यर्ध चित्रतमे मता ।
अतिचित्रतमे मार्गे कला नु द्रुतमंज्ञिता ॥ १९ ।।
अथ चित्रादिमार्गेषु स तालः म्याच्चतुर्विधः ।
चतुरश्रम्तथा व्यश्री मिश्रः खण्डननामकः ॥ २० ॥
तत्र चच्चत्पुटः प्रोक्तश्चतुरश्री मनीपिभिः ।
स विधैककल: पूर्व द्विकलश्च चतुष्कलः ॥ २१ ॥
तथा चाचपुटस्त्रयश्रो युग्मो + + च मिश्रणात् ।
विश्लिष्टैरप्य(वि)श्लिष्टैस्ताला.यो द्रुतादिभिः ॥ २२ ॥
क्रियते बहुभङ्गीभिः स तालः खण्डसंज्ञकः ।
खण्डोऽपि चतुरश्राख्यस्त्रयो मिश्रस्तथैव च ॥ २३ ॥
सङ्कीर्णश्चेति निर्दिष्टश्चतुर्धा तालवेदिभिः ।
अथ तालोद्देशः
चच्चत्पुटश्चाचपुटः षपितापुत्रकस्तथा ॥ २४ ॥
सम्पर्केष्टक उद्घट्ट आदितालश्च दर्पणः ।
चचरी सिंहलीलश्च कन्दर्पः सिंहविक्रमः ॥ २५ ॥

सप्तममधिकरणम् ।
.
श्रीरको रतिशीलश्च रगताल: परिक्रमः ।
प्रत्यङ्गो गजलीलश्च विभिन्नो वीरविक्रमः ॥ २६ ॥
हसलीलो वर्णराजश्चूडामणिवरस्ततः ।
रोद्योतो राजतालः सिंहविक्रीडितस्ततः ॥ २७ ।।
वनमाली वर्णतालस्ततो रङ्गप्रदीपकः ।
हंसनादः सिंहनादो मल्लिकामोदसंज्ञकः ॥ २८ ।।
भवेच्छरभलीलश्च रकाभरण एव च ।
ततस्तुरगलील: म्यात् स्यात् ततः सिंहनन्दनः ।। २९ ।।
जयश्रीविजयानन्दः प्रतितालो द्वितीयकः ।
मकरन्दः कीर्तितालो विजयो जयमङ्गलः ।। ३० ।।
राजविद्याधरो मट्टो जयताल: कुडुक्क कः ।
ततो निस्सारुकः क्रीडा त्रिभङ्गिः केरलप्रियः ॥ ३१ ॥
श्रीकीर्तिबिन्दुमाली च समतालश्च नन्दनः ।
उदीक्ष(मा)णो म(टिक्का ? ट्टिका) च ढेविका वणुमट्टिका ॥३२॥
अभिनन्दो नरकीडा मल्लतालश्च दीपकः ।
अनङ्गतालो विषमो नान्दीपुकुन्दकन्दको ।। ३३ ।।
एकतालश्च कक्कालश्चतुस्तालश्च डोम्बुली।
अहागारायबेकोलस्तथैव लघुशेखरः ।। ३४ ॥
प्रतापशेखरश्चान्यो जगझम्पा चतुर्मुखः ।
झम्पा च प्रतिमश्च तथा ताल स्तृतीयकः ।। ३५ ॥
तस्मादुपरि विज्ञेयो वमतौ ललिनो रतिः ।
करणाख्ययतिश्चैव षट्टालो वर्धनस्तथा ॥ ३६ ॥
ततो वर्णयतिश्चैव राजनारायणः स्मृतः ।
मदनश्चैव विज्ञेयः पार्वतीलोचनस्ततः ।। ३७ ॥
ततो गारुकितालः स्यात् ततः श्रीनन्दनो जयः ।
लीलाविलोकितश्चान्यो ललितप्रियसावच (१) |॥ ३८ ॥
जनकटेश्चवलक्ष्मीको रागवर्धनसंज्ञकः (१) ।
उत्सवश्चेति तालानामे(को ! के)नाभ्यधिकं शतम् ॥ ३९ ॥

सङ्गीतसमयसारे चतुरश्रादितालानां मध्ये व्यवहारयोग्यताललक्षणं प्रस्तारसहितं वक्ष्ये । प्रस्तारे तालसम्बन्धि ह्यक्षरं स्याश्चतुर्विधम् । संज्ञया तत् परिज्ञेयं द्रुतं लघु गुरु प्लुतम् ॥ १० ॥ प्रत्येकं च द्रुतादीनां भवेत् पर्यायपञ्चकम् । अर्धमात्रं द्रुतं व्योम व्यञ्जनं बिन्दुकं तथा ॥ ४१ ॥ मात्रिक सरलं इस्वं लघु व्यापकमित्यपि । द्विमात्रिकं कला वक्रं गुरु दीर्घमिति स्मृतम् ॥ ४२ ॥ सामोद्भवं प्लुतं दीप्तं तथा व्यङ्गं त्रिमात्रिकम् । अथ द्रुतादिनिष्पन्नांस्तालान् वक्ष्यामि साम्प्रतम् ।। ४३ ॥ ताले चञ्चत्पुटे ज्ञेयं गुरुद्वन्द्वं लघु प्लुतम् । गुरुर्लघू गुरुश्चैव भवेच्चाचपुटाभिधे ॥ ४४ ॥ पलगा गलपाश्चैव षट्पतापुत्रके स्मृताः । मगणाद्यन्तं प्लुतं ज्ञेयं सम्पर्केष्टकसंज्ञकम् ॥ ४५ ॥ उद्घट्टे मगणस्त्वेक आदितालेश्च दधु स्मृतः (!) । अष्टकृत्वस्तु चच्चों विरामान्तो द्रुतौ लघु (१) ॥ ४६॥ सिंहलीले विधातव्यं लघ्वाद्यन्तद्रुतत्रयम् । सिंहविक्रमताले स्युर्मगणो लपला गपौ ॥ ४७ ॥ लचतुष्कं विरामान्तं गजलीले प्रकीर्तितम् । सविरामं लघुद्वन्द्वं ताले स्याद्धंसलीलके ॥ ४८ ॥ राजचूडामणे (?) ताले द्रुतौ नश्च द्रुतौ लगौ । द्वितयं यगणं चैव सिंहविक्रीडिते लपौ ॥ ४९ ॥ यगणाल्लो गुरुश्चैव सिंहनादे निरूपिताः । लघुद्रुतचतुष्कं लौ स्यातां शरभलीलके ॥ ५० ॥ तुरालीलताले स्याद् द्रुतद्वन्द्वं लघुस्ततः । तपो लगो द्रुतौ गौलः पलपाकश्च लद्वयम् ॥ ५१ ॥ निश्शब्दलचतुष्कं च ताले म्यात् सिंहनन्दने । लो द्रुतौ प्रतितालः स्याद् द्रुतौ लश्च द्वितीयके ॥ ५२ ।।

सप्तममधिकरणम् । धकारश्व सकारश्च जयमङ्गलनामान । सकारान्महताले म्यान्निश्शब्दं च चतुष्टयम् ।। ५३ ॥ द्रुतद्वयं लघुद्वन्द्वं भवेत् ताले कुटुक्कके । लघुद्वन्द्वं विरामान्तं ताले निस्सारुके भवेत् ।। ५४ ॥ मट्टिकायां विधातव्या गुरुबिन्दुः प्लुतः क्रमात् । देविका रगणे न स्यात् केषाश्चित् सैव योजना ॥ ५५ ॥ एकेनैव द्रुतेन स्यादेकतालेति संज्ञया । चतुस्ताले गुरुः पूर्व ततो बिन्दुत्रयं भवेत् ॥ ५६ ॥ ए(कै) केन विरामेण लघुणा लघुशेखरः । प्रतापशेखरे व्यझा विरामान्त द्रुतद्वयम् ॥ ५७ ॥ व्योमद्वयं विरामान्तं लश्च झम्पाभिधे भवेत् । गलौ तु प्रतिमश्च ताललक्षणकोविदैः ॥ ५८ ।। तृतीयताले बिन्दुः स्याद् विरामान्तं द्रुतत्रयम् । ताले करणय(प्या? त्या ) ख्ये नेयं बिन्दुचतुष्टयम् ॥ ५९ ।। गररुगिट् कथ्यते तज्जैविरामान्तं चतुर्दुतम् । गरुषो + + + + + द्वात्रिंशल्लवगस्तथा ।। ६० ॥ चतुष्पष्टिद्रुता पाता चतुर्शाक्षिप्तिकस्तथा(?) । आक्षिप्तकः ॥ सप्त गुर्वक्षराण्यादौ दश लध्वक्षराणि च ॥ ६१ ।। (अहे ? अन्ते) च गुरुणी यत्र मद्रकः सोऽभिधीयते । भगः, उपभङ्गः, विभङ्गः, चच्चत्पुट, चाचपुट, उट, पिता. पुत्रक, सम्पर्केष्टक, हेलात्रिगता, मनत्कुट, नत्कुटी, खञ्ज, खञ्जिक, आक्री- डितविलम्बा (तु ति ! इति)द्वादश भङ्गाः(१) । आकुटिला, आक्षिप्तिका, ध्यश्रा, चतुरश्रा, चटुला, मिश्रा षडेते उप(भोगा ! भङ्गाः)। इतरे विभङ्गाः ।। तालमूलानि गेयानि ताले सर्व प्रतिष्ठितम् ॥ ६२ ॥ तालहीनानि गेयानि मन्त्रहीना यथाहुतिः ॥ ६२३ ।। इति सहीताकरनामधेयश्रीपार्श्वदेवविरचिते सातसमयसारे ताललक्षणं नाम सप्तममधिकरणम् ॥

सङ्गीतरामयसार
अथाष्टममधिकरणम् ।
गीते वाद्ये च नृत्ते च तत्तद्विद्याः परस्परम् ।
भवे(यु)र्वादिनस्तस्माद् वक्ष्यते (प? वा)दनिर्णयः ॥ १ ॥
परस्परसमाक्षेपो यो वादिप्रतिवादिनोः ।
स्वपक्षपरपक्षाभ्यां वादः स(ह!) इति कीर्तितः ॥ २॥
सभापतिश्च स(भा ? भ्या)श्च तो वादिप्रतिवादिनी ।
इति प्रोक्तं मतङ्गाद्यैर्वादस्याङ्गचतुष्टयम् ॥ ३ ॥
कथयामि क्रमादेषां लक्षणं च समासतः ।
आस्थानमण्डपे रम्ये सर्वलक्षणसंयुते ॥ ४ ॥
चित्राभासविचित्राल्य!)चित्रचित्रोपशोभिते ।
चन्दनागरुकर्पूरधूपैस्तु परिवासिते ।। ५ ॥
बहुवर्णपटीपट्टवितानपरिशोभिते ।
नानारत्नसमाकीर्ण नानालङ्कारशोभितम् ॥ ६ ।
सिंहासनं पूर्वमुखं मध्यतो विनिवेशयेत् ।
श्रीमान् दाता गुणग्राही भावज्ञः कीर्तिलम्पटः ।। ७ ।।
सङ्गीतगुणदोषज्ञः सर्वभाषाविचक्षणः ।
प्रियवा(ग ) वा(द)मध्यस्थः पारितोषिकदायकः ॥ ८ ॥
सभ्यवादी च शृङ्गारी मार्गदेशीप्रभेदवित् ।
धीमान् सर्वकलादक्षस्तदध्यासिनभूपतिः !! ९ ।।
रूपयौवनसम्पन्ना सदा शृङ्गारलोलुपा ।
सौभाग्यशालिनी भर्तुश्चित्तनेत्रानुसारिणी ॥ १० ॥
देवी चोप(वे ! वि) शे (तु ? भर्तुः) वामभागे महीपतेः ।
रूपयौवनसम्पन्नाः सर्वाभरणभूषिताः ॥ ११ ॥
भावाभावविलासाव्या विक्रमादिगुणान्विताः ।
विलासिनीमहीपस्य पश्चाद्भागे निवेशयेत् ॥ १२ ॥
कार्याकार्यविभागज्ञा नीतिशास्त्रविशारदाः ।
स्वामिभक्ताश्च सचिवाः सर्वकार्यकृतिक्षमाः ॥ १३ ॥

अष्टममधिकरणम् । ८१ स(भाः ! भ्याः) सङ्गीतशास्त्रज्ञास्तल्लक्ष्यज्ञा अनुद्धताः । मध्यस्था वादसमये गुणदोषनिरूपकाः ॥ १४ ॥ कवयो रसभावज्ञाश्छन्दोलङ्कारवेदिनः । अमन्दाः प्रतिभायुक्ता रीतिनिर्वाहकोविदाः ॥ १५॥ काव्यनाटकसञ्जातरसास्वादनलम्पटाः । रसिकाः सूक्ष्मभावार्थज्ञानानन्दितचेतसः ॥ १६ ॥ एते सर्वे यथायोग्यं भवेयुस्तस्य दक्षिणे । वाग्गेयकारकविताकारा ये नर्तकादयः ॥ १७ ॥ लक्ष्यलक्षणदक्षाश्च सङ्गीताङ्गविचक्षणाः । वामभागे महीपस्य स्यात् तेषामुपवेशनम् ॥ १८ ॥ अन्येऽपि ये यथायोग्यास्तत्तद्विद्याविशारदाः । भवेयुस्तस्य भूपस्य नातिदूरोपवेशिनः ॥ १९ ॥ अनुवाददृढप्रज्ञः स्वशास्त्रश्रवणान्वितः । परोक्तदूषणोद्धर्ता वादी स्यात् पक्षसाधकः ॥ २० ॥ वक्तारं शास्त्रवेत्तारं बुद्धिमन्तं + + + + । वादिप(क्षे! क्ष)निहन्तारं तं विद्यात् प्रतिवादिनम् ॥ २१ ॥ निर्वाहाधिक्यवाञ्छा च मत्सरः स्वामिकौतुकम् । स्वैरगोष्ठीपरिभवः कारणान्तरवैरता ॥ २२ ॥ प्रतिपत्तिः स्पृहासूया कीर्तिव्यसनता तथा । विद्यामदश्च निर्दिष्टास्तज्ज्ञैर्वादस्य हेतवः ॥ २३ ॥ स्त्रीपुंसयोवृद्धयूनोर्दरिद्रश्रीमतोस्तथा । विनीतोद्धतयोः खिन्नतुष्टमानसयोरपि ॥ २४ ॥ शि(ष्टो ? प्यो)पाध्याययोभिन्न विद्ययोर्भीरुशूरयोः । न वादोऽभिहितः सद्भिर्वादहेतुषु सत्स्वपि ॥ २५ ॥ वित्तेन विद्यया रूढ्या समयोवाद इष्यते । तस्मादत्र प्रवक्ष्यन्ते गुणा दोषाश्च वादिनाम् ॥ २६ ॥ प्रन्थार्थस्य परिज्ञानं तात्पर्यार्थनिरूपणम् । आपन्तमध्यव्याख्यानशक्तिः शास्त्रविदो गुणाः ।। २७ ।। M

सहीतसमयसारे
पूर्वापरविरोधानामज(तः ! त्व)मविदग्धता ।
निरुत्तरत्वं प्रश्नेषु सम्प्रदायविहीनता ॥ २८ ॥
इत्यादयस्तु शास्त्रर्दोषाः सद्भिरुदाहृताः ।
लक्षलक्ष्यं च यो वेति मार्गदेशीसमाश्रयम् ॥ २९ ॥
उत्तमः स परिज्ञेयः शास्त्रज्ञेषु मनीषिभिः ।
वेत्ति मार्गाश्रयं लक्ष्यं लक्षणं यः स मध्यमः ॥ ३० ॥
सम्यग् जानाति यो देशीलक्ष्म लक्षं च सोऽधमः ।
शास्त्रवादे समुत्पन्ने गुणदोषैस्तदीयकैः ।। ३१ ।।
तारतम्यं तयोर्ज्ञात्वा दद्या(न्त ? ज्ज)यपराजयौ ।
शब्दशास्त्रपरिज्ञानं छन्दोविचितिनैपुणम् ॥ ३२ ॥
अभिधानेषु दक्षत्वं कलानामपि कौशलम् ।
सप्तगीतिप्रवीणत्वं चातुर्य रसभावयोः ।। ३३ ॥
अलङ्कारेषु चातुर्य सु(र ? )तालत्वं सुरागता ।
सुस्वरत्वं सुगेयत्वं देशीरागेष्वभिज्ञता ॥ ३४ ॥
देशभाषापरिज्ञानं प्रभुचित्तानुवर्तनम् ।
नृत्ते वाद्ये प्रवीणत्वं तथैवास्थानशूरता ॥ ३५ ॥
प्रतिभानं वचस्वित्वं सभ्यचित्तानुरञ्जनम् ।
अनिवद्धस्वरबानं चतुर्धातुषु पा(द ? ट)वम् ।। ३६ ॥
सर्वप्रबन्धबोधश्च मुक्तिकाले प्रदक्षता ।
त्रिस्थानव्याप्तिसुभगः प्रयोगः कोपवर्जनम् ॥ ३७ ।।
आदिष्टार्थस्य निर्वाहः साश्चर्यकविता तथा ।
यथोचितपदन्यासप्रागल्भ्यं वश्यक(र्ण ! ण्ठता) ॥ ३८ ॥
सावधानत्वमेकाङ्गप्रौढिर्वक्त्रे प्रसन्नता ।
एते वाग्गेयकारस्य गुणाः सद्भिरुदाहृताः ॥ ३९ ॥
प्राम्योक्तिरपशब्दश्च तद्वदप्रस्तुतस्तुतिः ।
गमके च पदे जाड्यं प्रबन्धज्ञानहीनता ॥ १० ॥
रसानुरूपरागाणामज्ञत्वमाविदग्धता ।
क्रियानिर्वहणाज्ञत्वं मन्दशारीरता तथा ॥ ११ ॥

अष्टममधिकरणम् । माने न्यूनाधिकाज्ञत्वं रीतिभङ्गं तथा पुनः । छायापरिच्युतिस्तद्वद् गानं चांसमये तथा ॥ १२ ॥ अश्राव्यं लक्षणं त्यक्त्वा धातुत्रातूकरोति यः । दोषैरेतैरुपेतो यो निन्धवाग्गेयकारकः ॥ ४३ ॥ सूडक्रमवशादेषां तारतम्यमथोच्यते । शुद्धसालगयोः सूडं विषमं प्राञ्जलं तथा ॥ १४ ॥ करोति (ब! गे)यकारो यः स भवेदुत्तमोत्तमः । फर्ता विषमसूलस्य तयोरुत्तममध्यमः ॥ १५ ॥ तयोः प्रान्जलसूडम्य कर्ता स्यादुत्तमाधमः । यः कुर्यात् सालगे सूडं विषमं प्राञ्जलं तथा ॥ १६ ॥ जघन्येषूत्तमः सोऽयमुद्दिष्टो(यं ! गे)यकारकः । फर्ता विषमसूडस्य सालगे तेषु मध्यमः ॥ ४७ ॥ सालगे प्राञ्जलस्यैव कर्ता तेष्वधमः स्मृतः । अधमो मातुकारश्च मध्यम + + + + + ॥ १८ ॥ धातु(त्रा)तुक्रियायुक्त उत्तमः परिकीर्तितः । वाग्गेयकारयोर्वादे सूडं गातुं प्रदापयेत् ।। ४९ ।। उत्तारं बन्धगीतं वा वट्टान्तरमथापि बा । कुरुपुङ्गं ततस्तद्वद् गुणदोषान् निरूपयेत् ॥ ५० ।। तारतम्यं तयोज्ञात्वा दधाज्जयपराजयौ । अनिन्द्याश्चैव निन्द्याश्च द्विविधा गायका मताः ॥ ५१ ॥ क्रमेण वक्ष्यते तेषां लक्ष्मोद्देशपुरस्सरम् । क्रियापरः क्रमस्थश्च गतिस्थ: सुघटस्तथा ॥ ५२ ॥ खुसचः शिकषश्चै *(व) रसिको भावकस्तथा । रर्दकः पररीतिज्ञः सुगन्धोऽनियमस्तथा ॥ ५३ ।। मालप्तिगायनो गीतगायणश्चोपणस्तथा । वितालश्च विबन्धश्च मिश्रश्चानिन्धगायकाः ॥ ५४॥ अथाशास्त्रप्रयोगेण मार्गदेशीयमेव च । यो गायति विना दोषान् कथ्यते स क्रियापरः ॥ ५५ ॥ लक्षणकयने 'शिकाकार' इति 'रजक' इति च पश्यते ।

सङ्गीतसमयसारे : उत्तमोत्तमसूडादि सूडान् गायति यः क्रमात् । प्रतिरूपकपर्यन्तं क्रमस्थः स उदाहृतः ॥ ५६ ॥ वश्यकण्ठतया सम्यग् गमकान् यः पृथक् पृथक् । गमयेल्लक्षणोपेतं गतिस्थः स तु कीर्तितः ।। ५७ ॥ स्वरो वर्णश्च तालश्च व्यक्तं पाटयति त्रयम् । शोभनध्वनिसंयुक्तं सुघटं तं प्रचक्षते ॥ ५८ ॥ सुशारीरवशात् तत्तद्रागं च (स्व)कृतिक्ष(म):। अनायासेन गीतज्ञः सुसञ्चः परिकीर्तितः ।। ५९ ॥ द्रुतं यः शिक्षते गीतं विषमं प्राञ्जलं तथा । शुद्धे छायालगे सम्यक् शिकाकारः स कथ्यते ॥ ६० ।। सुश्रयं गीतमाकर्ण्य भवेद् यः पुलकान्वितः । आनन्दाश्रुकणाकीर्ण : सोऽयं रसिकगायकः ।। ६१ ॥ निरसं (स)रसं कुर्वन् निभावं भावसंयुतम् । श्रोतुश्चित्तं परिज्ञाय यो गायेत् स तु भावकः ॥ ६२ ॥ चेतोहरेण गीतेन विदित्वा श्रोतुराशयम् । रहं गीते विधत्ते यो र(ज? अ)कः सोऽभिधीयते ॥ ६३ ॥ गीतशारीरचेष्टा(ना)मालप्तौ चानुकारकृत् । गीतोत्तमगुणैर्युक्तः पररीतिज्ञ इष्यते ॥ ६४ ।। विषमं प्राञ्जलं वापि सुचिरं यस्य गायतः । कण्ठे न याति माधुर्य सुगन्धः स तु कीर्तितः ॥ ६५ ॥ विषमं प्राञ्जलं वापि गतिस्त्ववधिवर्जिता । वर्तते यत्र गीतज्ञैरनियमः स तु कीर्तितः॥ ६६ ॥ गीतादपि यदालप्तिः श्रुतौ सौख्यविधायिनी । आलप्तिगायनः सोऽयं निर्दिष्टो गीतवदिभिः ॥ ६७ ॥ आलप्तेरपि यद् गीतं भवेदतिमनोहरम् । उको गायकभेदः सोऽयं रूपकगायणः ॥ ६८ ॥ शुद्धे छायलके चैव गीतमालप्तिसंयुतम् । यो गायति (वसि ? स वि)ज्ञेयश्चोप(टो : णो) गीतवेदिभिः ।। ?

अष्टममाधिकरणम् । ध्वनिशारीरयोर्यस्य नानादेशेषु रीतयः । विलगन्ति स विज्ञेयो वितालो गीतवेदिभिः ।। ७० ॥ नानाविधं विभक्तं च ध्वनौ यश्चि(त्त न्त)येद् गतिम् । विबन्धः स परिज्ञेयो गीततत्त्वविचक्षणः ॥ ७१ ।। रागे + + + + + + + + + द् दोषवर्जितम् | प्रवीणत्वेन यो गायेत् सो(ऽयं) (श्रम ! मिश्र उ)दाहृतः ।। सन्दष्टः कपिलो भीतः शङ्कितः सानुनासिकः । उद्धृष्टश्च तथा काकी शूत्कारी चाव्यवस्थितः ॥ ७३ ॥ कराली झोम्बको (वक्री प्रसारी च ) निमीलकः । तथा निरवधानश्च वि(त्त ! ता)लश्चोष्ट्रकी तथा ॥ ७४ ।। उद्धडो मिश्रकश्चेति निन्द्या एकोनविंशतिः । (स! द)न्तसन्दष्टतो गाता सन्दष्टः परिकीर्तितः ॥ ७१ ।। न्यूनाधिकैः स्वरैर्गाता कपिलः समुदाहृतः । यो गाय(ति भ)या (विष्ट)स्तं भीनं गायणं विदुः ।। ७६ ॥ शहाकुलस्तु यो गायेत् स शकित उदाहृतः । गीतं नासिकया गायेद् विज्ञेयः सानुनासिकः ।। ७७ ॥ उद्धृष्टः सर्वतः क्षुब्धो गायन् गायण इष्यते । काकस्येव स्वरो यस्य स काकी परिकीर्तितः ॥ ७८ ।। शूत्कारी शूत्कृतिप्रायो गायकः कथितो बुधैः । अव्यवस्थित इत्युक्तः स्थानकेष्वव्यवस्थितः ॥ ७९ ॥ उद्धाव्य वदनं गायन् करालीति निगद्यते । उत्फुल्लगल्लनयननासिको झोम्बकः स्मृतः ॥ ८ ॥ गायन वक्रीकृतग्रीवो नाम्ना वक्री प्रकीर्तितः । गीतस्यातिप्रसारेण प्रसारीति निगद्यते ॥ ८१ ॥ निमीत्य नयने गायन् कथितोऽसौ निमीलकः । गीतावधानरहितः स स्यान्निरवधानकः ॥ ८२ ॥ वितालो गायकः प्रोक्तो वितालं यस्तु गायति । गायन्नुष्ट्रवदासीन उष्ट्रकी संप्रकीर्तितः ।। ८३ ॥

सनीतसमय सारे
हनुसंचलनाद् गायछागवद् गमकान्वितः ।
उद्धडः सोपहा + + + कीर्तितो गीतवेदिभिः ।। ८४ ।।
फरोति शुद्धरागस्यच्छायागलविमिश्रणम् ।
मिश्रकः स परिज्ञयो गीततत्त्वार्थदर्शिभिः ।। (५ ॥
(वा ! ए)कलो यमलौ चैव सामुदायिक इत्यपि ।
गायत्यन्यानपेक्षो यः सुगीतं लक्षणान्वितम् ॥ ८६ ॥
एकलो गायकः स स्याद् द्वौ चेद् यमलगायकौ ।
मिलित्वा बहुभिर्यस्तु गीतं गायति गायणः ।। ८७ ।।
स वृन्दगायणस्तेषां पूर्वः पूर्वो भवेद् वरः ।
गुणैर्बहुभिरल्पैश्च तारतम्यमथोच्यते ॥ ८८ ॥
विविधालप्तिचातुर्य ग्रहे मोक्षे च दक्षता ।
स्थानत्रयप्रयोगश्च गम्भीरमधुरध्वनिः ॥ ८९ ॥
सर्ववस्तुषु गातृत्वं तालज्ञत्वं सुरेखता ।
प्रयोगे (घु ? सु)घटवं च रागरागाङ्गकौशलम् ॥ ९० ।।
जितश्रमत्वं कण्ठस्य वश्यत्वमवधारणा ।
मध्ये मध्ये च रागस्य प्रौढौचित्योपवेशनम् ॥ ९१ ॥
शिक्षा च तदुपाध्यायादुत्तमे गायके गुणाः ।
(ये ! ए)षां मध्ये गुणैर्द्विवैविहीनो मध्यमः स्मृतः ॥ १२ ॥
चतुर्भिः पञ्चभिर्वापि गुणहीनः कनिष्ठकः ।
उत्तमोत्तमपूर्व च भेदजातमथोच्यते ।। ९३ ।।
शुद्धं छायालगं चैव गीतमालाप्तिसंयुतम् ।
स्थानत्रयेण यो गायेद् गीतौ स्यादुत्तमोत्तमः ।। ९४ ॥
स्थानकद्वितयेनैतद् गायन्नुत्तममध्यमः ।
स्थानेनैकेन यो गायेत् स भवेन्मध्यमाधमः ॥९५ ॥
गीतं छायालगं सम्यक् सम्यगालप्तिमीदृशीम् ।
स्थानत्रयेण यो गायेत् स कनिष्ठोत्तमः स्मृतः ॥ ९६ ॥
स्थानद्वयेन यो गायेत् स कनिष्ठेषु मध्यमः ।
स्थानेनैकेन यो गायेत् स कनिष्ठाधमः स्मृतः ॥९७ ॥

भष्टममधिकरणम् । जाते नायकयोर्वेदे शुद्धच्छायालगेऽथवा । सूडौ ठायौ तयोरत्र प्रवक्ष्येते यथाक्रमम् ॥ ९८ ॥ एळा विषमकालस्य झोम्बडं च प्रदापयेत् । आलप्तिं तादृशीमेव थायामेकादशाङ्गुलम् ॥ ९९ ॥ सूडं छायालगे दद्याद् ध्रुवादिविषमं तथा । + + + + + + + + थायीमपि दशाङ्गुलम् ॥ १०० ॥ गायन्या यदि वादः स्याच्छुद्धे छायालगेऽथवा । स्थाय्यामेव विशेषोऽस्ति सूडालप्तिस्तु पूर्ववत् ॥ १०१ ॥ चतुर्दशाङ्गुला स्थायी शुद्धे दद्याद् विचक्षणैः । श्राव्ये छायालगे (द)द्याद् द्वादशाङ्गुलसम्भिता ॥ १०२ ॥ अत्युच्चस्थानकं गीतं तालपादैरलङ्कृतम् । प्रयोगबहुलं रूक्षविषमं वादिवल्लभम् ।। १०३ ।। जयश्च विजयो नन्दो महानन्दाभिधम्तथा । वंशाश्चत्वार इत्युक्ता वादेषु भरतर्षिणा ॥ १०४ n अथ सूडाश्च थार्यश्च वामे नियमकल्पना । इत्युक्तेन प्रकारेण + + + + निरूप्य च । १.५॥ तारतम्यं तयोर्ज्ञात्वा दद्याज्जयपराजयो । जितेन्द्रियः प्रगल्भश्च स्थिरासनपरिग्रहः ।। १०६ ॥ शरीरसौष्ठवोपेतः करयोर्विजितश्रमः । सावधानो भयत्यक्तो रागरागाङ्गतत्त्ववित् ॥ १०७ ।। गीतवादनदक्षश्च वैणिकः कथितो वरः । वृत्तित्रयानवगतिरवधानविहीनता ॥ १०८ ॥ अलङ्कारस्वराज्ञत्वं विकलाङ्गत्वमेव च । रागगीतस्वराणां च वादनेष्वसमर्थता ॥ १०९ ।। इत्यादयः समुद्दिष्टा दोषा वैणिकसंश्रयाः । पौरत्वं सुस्वरत्वं च घनत्वं फूत्कृते गुणाः ॥ ११० ॥ अर्षमुक्तिरमुक्तिश्च मुक्तिश्चेत्यङ्गुलीवहाः । महुलीसारणा गम्यगमकेषु च सप्तसु ॥ १११ ।।

सङ्गीतसमयसारे
स्वस्थानता सुरागत्वं दक्षता गतिवादने ।
क्रियाभाषाविभाषासु रागरागारयोरपि ॥ ११२ ॥
स्वस्थाने चाप्यवस्थाने रागनिर्माणनैपुणम् ।
गातृणां स्थानदातृत्वं तदोषच्छादनं तथा ॥ ११३ ॥
एवमादिगुणैर्युक्तो वांशिकः प्रवरो मतः ।
फूत्कारस्खलितस्तोकयमलम्फूत्कृतस्तथा ॥ ११४ ।।
निन्दनीया इमे प्रोक्ता वंशविद्याविशारदैः ।
वहणिः कम्पितो मूर्धस्वस्थानाप्राप्तिरेव च ॥ ११५ ॥
मिथ्याप्रयोगप्राचुर्यमज्ञत्वं गीतवादने ।
एते दोषा विशेषेण वांशिकस्य प्रकीर्तिताः ॥ ११६ ।।
रागं च गमकं गतिं शुद्धे छायालगेऽथवा ।
यो वादयेत् स विज्ञयो वादकैरुत्तमोत्तमः ।। ११७ ॥
वाद्यन्ते रागगमका येन रागश्च केवलाः ।
तावुभौ च क्रमाद् ज्ञेयावुत्तमे मध्यमाधमौ ॥ ११८ ॥
रागं च गमक गीतं शुद्धे यो वादयेत् तथा ।
वादकः स परिज्ञेयो गीतज्ञैर्मध्यमोत्तमः ।। ११९ ॥
वाद्यन्ते रागगमका येन रागश्च केवलाः ।
तावुभौ च क्रमाज ज्ञेयौ मध्यमे मध्यमाधमौ ॥ १२० ॥
रागं च गमकं गीतं (ता ? सा)लगे यश्च वादयेत् ।
वादकः स परिज्ञेयो जघन्येषूत्तमो बुधैः ॥ १२१ ॥
वाद्यन्ते रागगमका येन रागश्च केवलाः ।
तावुभौ च क्रमाज्ज्ञेयौ जघन्ये मध्यमाधमौ ॥ १२२ ।।
प्रत्येकं नवधा ज्ञेयावित्थं वैणिकवांशिकौ ।
वादे वैणिकयोर्जाते तथा वांशिकयोरपि ॥ १२३ ॥
वादने रागगमको तालपाठ्याः प्रदापयेत् ।
शुद्धमालगयोः सूडौ पूर्ववच्च परस्परम् ॥ १२४ ॥
तारतम्यं तयोर्ज्ञात्वा दद्याज्जयपराजयौ ।
विद्वान् कुलीनो मतिमान् नीरोगो रूपवाछुचिः ॥ १२५ ॥

८१ अष्टममाधिकरणम् । षण्मार्गकालभेदज्ञो यतिग्राहविशारदः । आलापादिक्रियाज्ञश्च तथैव ध्रुवकादिवित् ॥ १२६ ॥ यथा वाद्याक्षराणां च पाटप्रकटने पटुः । कर्ता कुलकवाद्यस्य तालवाद्यविधानवित् ॥ १२७ ॥ यथाक्षरविनिष्पत्तिस्तथैव यतिपूरकः । चतुरश्रादितालेषु बन्धवाद्यकृतिक्षमः ।। १२८ ॥ वाद्याक्षराणां सम्बन्धेष्वर्थोत्पादनकोविदः । प्रशस्तकविताकारो गुणैरेभिः समन्वितः ।। १२९ ॥ एभ्यो ये विपरीतास्ते दोषाः सद्भिरुदाहृताः । अर्थयुक्तस्य वाद्यस्य कर्ता स्यादत्तमाभिधः ॥ १३० ॥ तथैव बन्धवाद्यस्य कर्ता मध्यम इष्यते । कर्ता कुलकवाद्यस्य कनिष्ठः कथितो + + ॥ १३१ ।। कविताकारयोर्वादे गुणदोषैस्तदीयकैः । तारतम्यं तयोर्ज्ञात्वा दद्याज्जयपराजयौ ।। १३२ ॥ सर्वेन्द्रियेष्वविकलो निपुणो निश्चलः स्वयम् । अङ्गदोषपरित्यक्त आलापस्य प्रमाणवित् ॥ १३३ ॥ सुस्वरातोद्य(वादित्र)वादिता सांप्रदायिकः । नादवृद्धिक्षयज्ञश्व ग्रहमोक्षेऽप्य लक्षितः ॥ १३४ ॥ तालप्रपञ्चकुशलः समादिग्रहवेदिता । भ्यासापन्यासकालज्ञस्तालकोणप्रहारवित् ॥ १३५ ।। लघुहस्तो वितानज्ञः कालवेत्ता जितश्रमः । तालानुगो लयज्ञश्च तालगीतानुगस्तथा ॥ १३६ ॥ ज्ञाता कुलकवाद्यस्य न्यासापन्यासकोविदः । गीते वाद्ये च नृत्ते चच्छिद्रावरणपण्डितः ॥ १३७ ॥ दृढप्रहारोऽप्यक्षुब्धो रञ्जको वादकः शुभः । स्विन्नाङ्गत्वं जडत्वं च भीतिनिरवधानता ॥ १३८ ॥ चञ्चलस्वमदक्षत्वमप्रगल्भत्वमेव च । रागरागाधिकत्वं च शास्त्रश्रवणहीनता ॥ १३९ ।। N । सङ्गीतसमयसारे इत्यादयः समुद्दिष्टा दोषा वादकसंश्रयाः । स्कन्धस्य मणिबन्धस्य कूपराङ्गुष्ठयोरपि ॥ १४०॥ वामस्य चरणस्यापि कम्पात् सञ्चस्तु पञ्चधा । सञ्चभेदात् पाटहिकस्त्रिधा हौडुक्ककोऽपिच ॥ १४१ ॥ उत्तमादेप्रकारेण तत्स्वरूपं निरूप्यते । अङ्गुष्ठमणिबन्धोद्य(स ? त्स)श्चात् पाटहिकः शुभः ॥ १४२ ॥ सञ्चात् कूर्पर(जो ? तो) जातामागेबन्धाच्च मध्यमः । स्कन्धकूपरसञ्चेन यो वादयति सोऽधमः ॥१४३ ॥ त्रिसन्धिचालनाज्जातसञ्चाद्धडककः शुमः । सञ्चात् कूर्परतो जातान्मणिबन्धाच्च मध्यमः ॥ १४४ ॥ वामपादप्रकम्पोत्थसञ्चाद्धौकिकोऽधमः । दक्षिणे वार्तिके तालवाद्यं नैवावगच्छति ॥ १४५ ॥ शेषलक्षणसंयुक्तः स भवेदुत्तमाधमः । शुद्धसालगीतानां येन नृरात्रयस्य च ॥ १४६ ॥ तत्त(ल)क्ष्मानुसारण स स्यान्मध्यममध्यनः । येन सालगीतानां नृतानां प्रतिकौशलम् ॥ १४७ ॥ वाद्यते लक्षणोपेतं स भवेन्मध्यमाधमः । + + + पेरणाख्यस्य गुण्डल्या पेक्खणस्य च ॥ १४८ ॥ येन लक्षणसं + + + जघन्योत्तमः स्मृतः । पेरणस्य च गुण्डल्या वादकस्तेषु मध्यमः ॥ १४९ ॥ + + + + + कस्तज्ज्ञैरधमः परिकीर्तितः । यदि वादो भवेत् तालवाद्यवादकयोस्तदा ॥ १५० ॥ तालवाद्यं चन्द्रकलां त्रिगुणां च प्रदापयेत् । गीतवादकयोवादे सूडमेकादिसंज्ञकम् ॥ १५१ ॥ चित्रां च पद्धतिं दद्याद् वादन्यायः पुरोदितः । नृत्तवादकयोर्वादे वाद्यमोतादि दापयेत् ।। १५२ ॥ तत्तद्विद्यावशादेव मान्यानपि परीक्ष्य च । तारतम्यं तयोर्ज्ञात्वा दद्याज्जयपराजयौ ।। १५३ ॥

अष्टममधिकरणम् ।
सर्वप्रयोगकुशलः सुरेखातमुखस्तथा(?) ।
प्राज्ञः कलाजस्तालज्ञो नर्तनासु विशारदः ॥ १५४ ॥
(गी)तितालकलाभिज्ञो लयविनिर्जितेन्द्रियः ।
पात्तसंक्रमणोपा(य)कुशलो नर्तकः स्वयम् ॥ १५५ ॥
संक्रामतः प्रयोगाणां मुखनृत्तस्य वादेता ।
शिष्यनिष्पादको यूनाधेिकविद् गतमत्सरः ।। १५६ ।।
चार्यहारकुशलः खण्डमण्डलपण्डितः ।
नानादेशसमुत्थस्य देशीनृत्तस्य वेदि(ता) ॥ १५७ ।।
स गीताद्योतानपुणो नर्तकः प्रवरः स्मृतः ।
वाद्यतालयतीनां च माने न्यूनाधिकेऽज्ञता ॥ १५८ ॥
स्वरो लास्यविहीनत्वं रसहावाविवेकिता ।
वैरूप्यमङ्गवैकल्यं प्रयोगेष्वप्यकौशलम् ॥ १५९ ॥
देशीमार्गविभेदेन नृत्तशिक्षास्वनैपुणम् ।
इत्यादयः समुद्दिष्टा दोषा नर्तकसंश्रयाः ॥ १६ ॥
यथोक्तलक्षणोपेतं मार्गदेशीयमेव च ।
नृत्तं सुशिक्षयेद् (यस्तु) स भवेन्नर्तकोत्तमः ॥ १६१ ॥
केवलं मार्गनृत्तं यः शिक्षयेत् स तु मध्यमः ।
अधमः स परिज्ञेयो देशीनृत्तस्य शिक्षकः ।। १६२ ॥
भावकत्वं रसिकता नानाभाषासु नैपुणम् ।
नानादेशसुचारित्रव्यवहारेषु दक्षता ॥ १६३ ॥
पञ्चाङ्गपरिपूर्णत्वं रजकत्वं विदग्धता ।
प्रौ(ढि ? ढिः) प्रस्ताववाक्येषु विकृतांशविदग्धता ॥ १६४ ॥
अपलानं(?) तथा रागरागा(गा)दिप्रवीणता ।
इत्यादयः समुद्दिष्टा (गुणाः) पेरणिसंश्रयाः ॥ १६५ ॥
एभ्यो ये विपरीतास्ते दोषाः (सद् )भिरुदाहृताः ।
+ + + + + विज्ञेयः पञ्चाङ्गः सम्यगन्वितः ॥ १६६ ॥
घर्षरागीतकैवारप्रौढो मध्यम इष्यते ।
नृत्तं वागन्ध(१)कैवारानेपुणस्त्वधमो मतः ॥ १६७ ॥

सङ्गीतसमयसारे
पेरणीनोरे + + + + र्गुण + भा + + ति(?) ।
तारतम्यं तयोर्ज्ञात्वा दद्याज्जयपराजयौ ॥ १६८ ॥
प्रागल्भ्यं सौष्ठवं रूपं यौवनं च सुरेखता ।
लाघवं गात्रवश्यत्वं गीतवाद्यानुवर्तनम् || १६९ ॥
सौमनस्यमरोगित्वं स्मितपूर्वाभिभाषणम् ।
नात्यु (चवामन)स्थूलकृशेदहत्वमेव च ॥ १७० ॥
वलनं वर्तनं गात्रे दक्षत्वं ग्रहमोक्षयोः ।
चारीतालगतिज्ञत्वं श्यामत्वं गौरताथवा ॥ १७१ ॥
अव + + सुमेधत्वं दीर्घलोचनता तथा ।
चरणन्यासचातुर्य मलपादिषु कौशलम् ॥ १७२ ॥
पाटज्ञता रङ्गशोभा नानादेशप्रदर्शिता ।
एवंगुणगणोपेता प्रशस्ता नर्तकी मता ॥ १७३ ।।
अञ्चिताद्यैश्च विषमं प्राञ्ज + + + + + + |
(या) नृत्यति समीचीनं पेख्खणे सोत्तमा मता ॥ १७४ ।।
या (नृत्य)ति समीचीनं नृत्तगीतसमाश्रयम् ।
विषमत्वं समीचीनं पेरुखणे सा तु मध्यमा ॥ १७५ ॥
विषमं तु समीचीनं सा मा + + + + + + |
+ + + + + रिजया पेरुखणे सा कनीयसी ॥ १७६ ॥
नर्तसोय्य + + + + पेरुखणे तद्गुणागुणैः ।
तारतम्यं तयोर्ज्ञात्वा दद्याज्जयपराजयौ ॥ १७७ ॥
+ ळिभावौ तूकली च तथा + + + + ++
+ + + + भिता कान्तष्टिगाम्भीर्य + + स्तथा ॥ १७८ ॥
ततो बहुलिकत्वं च रञ्जकत्वं विदग्धता ।
अङ्गानगपरिज्ञानप्रौढिमत्सरहीनता ॥ १७९ ॥
+ नि श्रेष्ठं च शारीरतारे गानं मनोह(रम्) ।
+ + + + + + + + [येठापश्चांशकपूर्वकः ॥ १८० ॥
इत्यादयस्तु गुण्डल्या गुणाः सद्भिरुदाहृताः ।
एभ्यो ये विपरीतास्ते दोषास्तज्जैरुदाहृताः ॥ १८१ ॥

३ नवममधिकरणम् । यत्र गीतं च नृत्तं च + + मतिमनो + + | + + + + + + + + + + लीषूत्तमा बुधैः ॥ १८२ ।। सामान्यनर्तनं यत्र सभ्य गीतं प्रवर्तते । मध्यमा कथिता सेयं गुण्डलीति मनीषिभिः ॥ १८३ ।। यत्र प्रवर्तते सद्य नृत्तर्गतं तु मध्यमः । अधमा सा + + + + + + + + + + क्षणैः ॥ १८४ ।। गुण्डल्योर्यदि वादः स्यादेभिरेव गुणागुणैः । तारतम्यं तयोर्जात्वा दद्याज्जयपराजयौ ।। १८५ ।। मतेन पणबन्धेन वादिनोर्वादकल्पना । + + + + + + + + + + + पणशेषतः ॥ १८६॥ अत्युक्ति देहदण्डं च सर्वस्वहरणं तथा । दुर्वाक्यं चैव कैवारं वादकाले सभापतिः ॥ १८७ ॥ मीमांसाद्वयवेदान्तन्यायवैशेषिकागमैः । + + + + + + + + गम्यो गीतेन सङ्करः ॥ १८८ ॥ पाराशर्यपराशरौ भृगुमयौ संवर्तकाायना- वापस्तम्बबृहस्पती सलिखितौ हारीतदक्षौ मनुः । विष्वगग्रीवसगौत(म) + + + + + + पि दाक्षाय सर्वे मोक्षदमित्यु(छ ? श)न्ति मुनयो गीतं तदेवोक्तितः ॥१८९॥ इति सङ्गीताकरनामधेयश्रीपार्श्वदेवविरचिते सङ्गीतसमयसारे गीताधिकरणमटमम् ॥ + अथ नवममधिकरणम् । तालस्य लक्षणं + + + + + + + + + + | तथा सलक्षणं वक्ष्ये पूर्वशास्त्रानुसारतः ॥ १ ॥ श्रीसोमेश्वरदत्तिलप्रभृतिभिस्तालस्वरूपं पुरा प्रोक्तं सर्वजगद्धिताय चतुरश्रादिप्रभेदा + + । + + + (तादि !) तादिभेदसहितं तालस्य षट्प्रत्ययं सङ्गीताकरसूरिणा निगदितं चित्रायमानं भुवि(?) ।। २ ।।

सङ्गीतसमयसारे तालद्वयं कंसमयं त्रिहस्त- शाखान्त + + यवमानपिण्डम् । गुञ्जाप्रमाच्छिद्रितनिम्नमध्यं + + + + मेव च + + ॥ ३ ॥ परस्परं सन्निभवर्तुलाननं प्रचित्रपट्टावलि + + बन्धितम् । कनिष्ठिकानामिकमध्यमाङ्गुली प्रसार्य साङ्गुष्ठकतर्जनोधृतम् ॥ ४ ॥ सव्येन हस्तेन तु ताण्ड + + + + + + + + + रमणीयनादम् । बिन्दुद्भवं शक्तिशिवरवरूप- माधारका + + + + शादनिन्त्यम् (१) ॥ ५ ॥ मनोगा हस्तगा चास्य द्विविधा मानकल्पना । प्रमाणं मानसं य: चतुर्भाग इतीरितः ॥ ६ ॥ हस्तागमनमानं यत् तदर्थाद् द्रुतमुच्यते (१) । अङ्गुलीद्वयसंयोगान्मनोगः सार्धपादकः ॥ ७ ॥ छोटिकावपमानं यद् बिन्दुस्तालस्ततस्ततः । बिन्दुभ्यां तु लघु प्रोक्तं लघुभ्यां तु गुरुः स्मृतः ॥ ८ ॥ लैत्रिभिश्च प्लुतो ज्ञेय इति मान उदाहृतः । समतालसुमध्यविवर्जितः समयोऽयमभूल्लयालयः ॥ ९ ॥ द्रुतमध्यविलम्बितमाननास्त्रविधो लयभेद उदाहृतः । प्रोक्ता यतिः स्याल्लययानमाना त्रेधे + पश्चादनतिक्रमण । चित्रादिमार्गेषु यतिः समा स्यात् स्रोतोवहा गोकुलपुच्छिकेति ॥ १० ॥ प्रस्तारसंख्यया युक्तं (नष्ट)मुद्दिष्टमेव च ॥ ११ ॥ एकयादिलघूपेतमध्वयोगं प्रचक्ष्महे । दलगपपिण्डं प्राक्तनपिण्डं भित्त्वा यथाक्षरं रचयेत् । तत्सममालिख पुरतो यावल्लघु बिन्दुतामेति ॥ १२ ।। ॥प्रस्तारः॥

नबममधिकरणम् । पीयूषद्युतिलोचनत्रिपुरजिदिव्याम्बरं दिव्यदृग्. ग्रन्थोपेतदशाङ्कमालिख पुरा तत्रान्तिमाजद्वयम् । एकैकान्तरितकराशिसहितं राशिं विदध्यात् सुधीः सङ्गीताकरदेवनिर्मितद्रुतोत्संख्यार्थमाप्तोक्तितः ॥ १३ ॥ ॥द्रुतसंख्या।। हिमकरनयनाम्भोराशिसंख्यां लिखेत् तत्- त्रयमिलितमधस्तात् तद्वदासन्नसंस्थम् । उपरितननिविष्टामङ्कमालां क्रमेण त्यज लधुगणनार्थ यावदस्ति प्रयोगः ॥ १४ ॥ ॥ लघुसंख्या॥ संख्याराशावपहर तथा नष्टतालप्रमाणं शेष तस्मिन्नपिचं सदृशे लेख्यहीने च तत्र । वर्णः कार्यः स्वपरसहित चेन्न वर्णः परेण प्रागक्रेन द्वयमपि पुनदीर्घमेतत् प्लुतं वा ॥ १५ ॥ ॥ नष्टम् ॥ लगपानामधस्ताद् यत् तदंशकं लोप्यमेव च ॥ १६ ॥ संख्यातं तु तदुद्दिष्टं निर्दिष्टं शेषदर्शनात् । ॥ उदेष्टम् ॥ बिन्दुप्रस्तरणात् परं ।लख तथा व्यन्तं क्रमाद् यादिना यत्तत् तद्यमेकशोऽप्यपहृतं द्वन्द्वं मिलित्वाधुना । आसन्नद्वयमेलनाद् द्रुतलघुप्रान्तं तदूर्ध्वक्रमा- देफैकान्तारतोऽतः परिमितं दीर्घ प्लुतं धीमता ॥ १७ ॥ ॥ द्रुतस्यैकद्वयादिलघुक्रिया ॥ एक द्विपञ्चक्रमतो मिलिस्वा लघुप्रसंख्याद्वितयादियुक्तम् । अधो विखासन्नगतित्रिराशलध्वादि(सं)ख्यापरिमाणहेतोः (१) || ॥ लध्वेकव्यादिलघुक्रिया ॥

सजीतसमयसारे नवममधिकरणम् । आलिख्य तालसंख्यां तत्संख्यां द्विगुणयेत् पुनर्धीमान् । तत्रैकविहीनं चेदगुल्यः स्याः क्रमादध्वे (१) ॥ १९ ॥ ।। अध्वयोगः॥ द्वादशाङ्गुलिभिस्तु वितस्तिस्तद्द्येन तु हस्त इति स्यात् । तञ्चतुर्दण्ड तद्विसहस्रक्रोशतद्वार्धयोजन एकः (१) ॥ २० ॥ नानाराजसभान्तराल(सरि ! रसि)कस्तुत्यश्रुतिज्ञानस- चक्रेशो रसभावभेदनिपुणः साहित्यविद्यापतिः । सङ्गीताफरनामधेयविबुधश्रीपार्श्वदेवो + + चित्रं सर्वजगत्प्रियं व्यरचयत् तालस्य षट्प्रत्ययम् ॥ २१ ॥ इति श्रीमदभिनवभरताचार्यसरविमलहेमणार्यविद्यापुत्र श्रुति- ज्ञानच (क)वर्तिसङ्गीताकरनामधेयपार्श्वदेवविरचिते सङ्गीतसमयसारे तालषट्प्रत्ययलक्षणं नाम नवममधिकरणम् ॥ शुभं भूयात् ।

READY FOR SALE. RS. AS. P. 793A (Stuti) by H. H. Svâti Srî Râma Varma Malârâjah. 1 0 0 F71aegageaita972: (Kavya) Syânandûrapuruvarnanaprabandha by H. H. Svâti Sri Rama Varma Mahârâ,jah, with the commentury Sundarī of Ra jarâ ja Varma Koil Tampuran. 2 0 0 . Trivandrum Sanskrit Series. No. 1-4 (Vyakarana) by Dera with Purushakâra of Krishnalilásukamuni. 100 No. 2-अभिनवकौस्तुभमाला-दक्षिणामूर्तिस्तवौ by Krislinalilâsukanuni. () 2 0 No. 3-aonyet: (Kavya) by Vâmana Bhatta Båna (Second Elition). 04 0 No. 4-faracteria: (Kavya) by Nilakantha Dikshita. 2 0 0 No. 5- pilaa*: (Alankâra) by Mahima Bhatta with commentary: 2 12 0 No. 6-gezila: (Vyakarana) by Sarana leva. 2 0 0 No. 7-Targa1fatat (Vedânta) by Sadîsivendra Sarasvati. 2 4 0 No. 8-jarigent (Nâtaka) by Ravi Varma Bhîpa. 1 0 0 No. 9-a99f1 (Vedanta) by Virupakshanâtha with the commentary of Vidyâchakravartin. 0 8 0 No. 10-lite (Gajalakshana) by Nilakantha, 8 0 No. 11-metiatura (Nâtaka) by Kulasekhara Varma with the commentary of Sivarama. 24 0 No. 12-HRARE (Vedanta) by Bhagavad Adisesha with the commentary of Raghav. ananda. 0 0 No. 13-Thiruary (Nataka) by Kulasekhara Varma with the commentary of Sivarama. 2 0 0 2 . RS. AS. P. No. 14-after: (Niti) by Kâmandaka, with the commentary of Sankarârya. 3 8 0 No. 15-46 (Nâtaka) by Bhâsa. (Second Edition). 1 8 0 No. 10-sqastriterpur (Nâtaka) by Bhâsa. 1 S 0 No. 17-14 Do. Do. 1 0 0 No. 18-arroftra (Stati) by Nârâ yana Bhatta with the commentary of Desainangala Vârya. 40 No. 19-ATTE: (Mimâmsa) by Nârâyana Bhatta and Nârâyana Pandita. 1 4 0 No. 20-free (Nâtaka) hy Bhâsa. 8 0 No. 21-arou Do. Do. 0 No. 22-मध्यमव्यायोग-दूतवाक्य-दूतघटोत्कच-कर्णभारोरुभङ्गानि (Nataka) by Bhâsa. 1 SO No. 23—aratetorasiata: (Kosa) by Kesavaswamin (Part I. 1st & 2nd Kandas). ] 120 No. 244-5 metafora: (Kavya) by Chakra kavi. 1 0 0 No. 25 --- refainali (Nyâya) by Gangadharasûri. 0 12 0 1 - No. 26-af071247 (Nâtaka) by Bhâsa. 0 120 No. 27-lea: (Kavya) by Kálidasa with the two commentaries, Prakâsikâ of Arunagirinatha and Vivarana of Nârâyana Pandita (Part I. 1st & 2nd Sargas). 1 12 No. 28--CERT: (Dharmasûtra) by Vikhanas. O 8 O No. 29-rayurasiaa: (Kosa) by Kesavaswâmin (Part II. 3rd Kânda)2 4 0 No. 30-aralan (Silpa). 0 12 0 No. 31mirarerforanstanta: (Kosa) by Kesavaswâmin (Part III. 4th, 5th & 6th Kândas). 1 0 0 3 RS. AS. P. No. 32-#*#9: (Kavya) by Kâlidâ sa with the two commentaries, Prakásika of Arunagirinâtha and Vivarana of Nârâyana Pandita (Part II, Srd, 4th & 5th Saryas). 2 8 0 No. 33-aRTataT: (Vyakarana) with the commentary Dipaprabha of Nârîyana. 08 0) No. 34-lorador: (Tegalege:) (Nyâya) by Râjachûdâmanimakhin. 1 4 0 No. 33-Hlorare: (35 Has:) (Nyâya) by Gopinâtlia. 180 No. 36-HRanta: (Kâvya) by Kâlidâsa with the two commentaries, Prakásikâ of Arunagirinâtla and Vivarama of Narayana Panditat (Part III. 6th, 7th & 8th Sargas). 3 0 0 No. 37—äritengah (Smriti) by Vararuchi with cominentury. () ( No. 38- TAISETITIETH (Kosa) by Amarasimha with the commentary Tikâsuurvasva of Vandyayhatîya Sarvânanda (P:ut I. Ist Kância). 2 (0) 0 No. 39-47 (Nataka) by Bliâsit. 0 12 0 No. 10-34ERE (Alankâra) by Râjânaka Sri Ruyyaka with the Alankâra sarvaswa of Sri Mankhukil and its commentary by Samudrabandha. 2 () S. No. 41-37ETATESE (Kaipa) by Apastambi with Vivarana of Sri Sankara Bhagavat l'ada. ( 4 0 No. 42-- fratre (Nataka) by Bhâsa. 1 S () No. 43— ARTET (Kosa) by Amarasimha with the two commentaries, Amarakoso. dghâtana of Kshiraswâmin and Tîkîsarvaswa of Vandyaghatîya Sarvananda (Part II. 2nd Kânda 1--6 Vargas). 28 ù 4 RS. AS. P. Do. 0 o No. 47 (Tantra) by Bhattâraka Srî Vedottama. O 4 0 No. 45–2664H (Prapanchahridaya). 1 0 0 No. 46-4f919Tęfa: (Vyakarana) by Nìlakantha Dikshita. ( 8 0 No. 47-ASIASTFTH (Vedanta) by Sri Krishnananda Sarasvatî. (Part 1). 1 12 0 No. 48 Do. (Part II). 2 No. 49-ujtectigat (Jyotisha) by Parameswara. 0 4 0 No. 50-talluargura: ( Alankâra ) by Singa Bhâpâla. 3 0 0 No. 51- AMEFIETY (Kosa) by Amarasimla with the two commentaries, Amarakosodghâtana of kshimswâinin and Tikasarvasna of Vanyaghatîya Sarvânanda (Part III. 2. Kända 7--10 Vargas). 2 0.0 No. 52-ACE TOT149H (liosa) by Amarasimha with the commentary Tikâ sarvaswa of Vandyaghatîyit Sariâmanda (Part IV. 3rd Kânda) 1 8 0 No. 33-azlausa: (Vecânta) by Prakânsatmayatîndra. 0 12 0 No. 54-izfaltraitant: (Vyakarana). 0 4 0 No. 55-HTPARTAMENT# (Nâtaka) by Srî Mahendra vikramavamman. 0 8 0 No. 56--ATC176a3ft (Silpa). 0 8 0 No. 57-agaicara (Kavya). 4 0 Nc. 58~fACT TTH (Veilânia) by Sri krishnananda Saraswatî (Part III). 2 0 0 No. 59-17TISH (Nataka) by Sriharshadeva with the commentary Nîgânandavimarsini of Sivarâmat. 3 4 0 1 No. 60—ografa: (Stuti) by Sri Laginubhattâraka with the commentary of Srî Râghayananda. 0 8 0 5 RS. AS. P. 0 No. 61-fergiata 37(Vedânta) by Srî Krishnananda Sarasvati (Part IV). 1 8 O No. 62-ATHRINE: (Sarvamatasangraha). 0 8 0 No. 63-facrargatan (Kavya) by Bharavi with the commentary Sabdârthadîpika of Chitrabhân (1, 2 and 3 Sargas). 2 O No. 64—AETAFSET: (Kavya) by Kalidasa with the commentary Pradipa of Dakshinâvartilnatha. 1 0 0 No. 65-HUHTE (Silpa) by Mayamuni. 3 S No. 66% HERTHW (Darsana) with the cominentary Parimala of Maheswarânauda. 2 8 0 No. 67 --Tat: (Tantra) by Nûrîyana with the commentary V'imarsini of Sankara (Part I. 1-0 Patalas). 3 I 0 No. 68-799&rt: (Agama) by Sri Bhojadova with the commentary Tâtparyadipikîi of Srî Kum:ıri. 2 0 0 No. 69-saigrayacaufa: (Tantra) by Isâuasivagurudevamisra (Part I. Sâmānyapaula). 1 0 No. 70-ngsfase: (Part I). 2 8 0 No. 71— TART: (Tantra) by Nârîyana with the commentary Vimarsini of Sankara (Part II. 7-12 Patalas). 3 8 u No. 72— Taraygarela: (Tantra) by Isanasivaguruderamisra (Part II, Mantrapada). 400 No, 73 - Sezalagf473: (Vedanta) by Sri Madhusudanasarasvati. 0 4 0 8 6 RS. AS. P. No. 74 Bftast efterat : (Dharmasastra) with the commentary Balakrîdå of Visvarâpâchârya. (Part I-Åchára and Vyavahâra Adhyâyas). 4 0 0 No. 75 frucah (Silpa) by Srîkumâra (Part I). 3 4 0 No. 76-rasfleste: (Part II). 3 4 0 No. 77—Baranfragedaugia: (Tantra) by Isanasiyagurudevamisra (Part III. Kriyapada 1-30 Patalas). 3 4 0 No. 78—371*Pertauern with the commentary Anavila of Haradattacharya. 5 0 0 No. 79--Prah of Kautalya with coinmentary by Mahamahopadhyaya T. Ganapati Sastri (Part I-1 & 2 Adhikararias). 8 0 0 No. 80-T of Kautalya with commentary by Mahamahopadhyaya T. Ganapati Sastri (Part 11—3 to 7 Adhikaranas). 8 0 0% No. 81-sfruta pergia: (Dharmasastra) with the commentary Balakrida of Visvar û pâchârya (Part II. Prâyaschittâdhyâya). 3 120 No. 82—- sea of Krutalya with cominentary by Mahamahopadhyaya T. Ganapati Sastri (Part III-8 to 15 Adhikaranas). 8 0 0 No. 83-tranfragegarafa: (Tantra) by Isanasivagurudevamisra (Part IV. Kriyapada 31–64 Patalas and Yogapada). 4 0 0 No. 84-rühsysiquery: (Part III). 2 12 0 No. 85—facereificar (Tantra). 4 8 0

RS. AS. P.
2 0 0
No. 86-- Herrafah (Kavya) of Sri Krishnakavi.
No. 87- KAKTUAR: (Sangita) of Sangitakara
Sri Pârsvadeva.
1 12 0
Apply to:
The Curator,
for the publication of Sanskrit Manuscripts,
Trivandrum.

DATE OF ISSUE
This book must be roturnod
within 3, 7, 14 duj of its issue. A
fine of ONE ASNA per day will
be cherged if the book is ovordus.

संगीतसमयसार

Author
Shaastrii Tii Ganapati
Title
Sangiitasamayasaar
File name
संगीतसमयसार
Text
OCR done
Citation
1925
Published
2005/06/13
Publisher
D Supritendenta, Gavarmenta Pres, Trivendrama
Language
Sanskrit
Pages
119
Library
Central Library, Bits- Pilani
Classification
LANGUAGE LINGUISTICS LITERATURE
DLI number
477508
Barcode
99999990177890.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
Rights
Copyright Permitted
VMLT id
Dxv0XkQR84b
Download PDF

संगीतसमयसार