Bharti Bhawan Library Allahabad
Bodhsarah No 108
Front matter
Registered under Aợt XXV. of 1867. ( ALL Rights RESERVED. ) BENARES SANSKRIT SERIES; А. COLLECTION OF SANSKRIT WORKS EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE, UNDER THE SUPERINTENDENCE OF R. T. H. GRIFFITH, M. A., O. I. E. AND G. THIBAUT, Pa. D. No. 108. & Co बोधसारः। श्रीविद्वद्वयनरहरिविरचितः । तच्छिष्यश्रीदिवाकरकृतयाऽर्थदीप्त्या सहितः । श्रीमदुदासीनवर्यस्वामिगोविन्दानन्दशिष्येण दयानन्दस्वामिना परिशोधितः। BODHASÂR, A TREATISE ON VEDÂNTA, ŜRİ NARAHARI, With a commentary by the author's pupil PANDIT DIVÁKAR. EDITED BY SwÀMI DAYANAND. Fasciculus VII. BENARES: Published by the Proprietor's Messrs. Braj B. Das & Co., AND SOLD BY H. D. GUPTA, Secretary, Chowkhamba Sanskrit Book Depot, Printed at the Vidyà Vilàs Press, BENARES. 1905. BY भारती-भवन पुस्तकालय क्रमिक संख्या १६७५ विमाग सूचीपत्रम्। २ TV 100 or orv ory है ० जातकतत्त्वम् ०१२ तत्वदीप तकसंग्रहः दत्तकमीमांसा धर्मशास्त्रसंग्रहः धातुपाठः (शिला ) धातुरूपावली नैषध चरित नारायणी टीका टाइप परिभाषापाठः पाणिनीयशिक्षा भाष्यसहिता प्रथम परीक्षा प्रथमपुस्तक हिन्दी प्रश्नभूषणम् ( प्रश्न विचार का बहुत उत्तम प्रन्थ) बीजगणितम (म० भ० पं० सुधाकरकृतटिप्पणीसहित) मनोरमा शब्दरतसहिता (टाइप) लघुकौमुदी टिप्पणीसहिता लघुकौमुदीभाषाटीका लक्षणावली लीलावती (म०म०पं० सुधाकरकृतटिप्पणीसहित) १ वसिष्ठसिद्धान्तः विष्णुसहस्रनाम शब्दरूपावली पृङ्गार सप्तशती समासचक्रम समासचन्द्रिका सरखतीकण्ठाभरणम सामयचन्द्रिका टिप्पणीसहिता साजन्यतत्त्वकौमुदी सिद्धान्तकौमुदी सिमान्तमुक्तावली दिनकरीटिप्पणीसहिता उपसगजात क्षेत्रकोमुदी सेनसहिता OMU . PHOTO 22494 2019 अहङ्काराबाधकत्वप्रदर्शनत्रयी । स्वानुभवानामिति । स्वानुभवानां स्वः स्वीय आत्मवि- षयकोऽनुभवोऽनुभूतिः, यद्वा तस्याप्यात्मनः पृथगसत्त्वा- स्वात्मभूतोनुभवो येषामस्ति ते तथोक्तास्तेषां जीवन्मुक्ताना ब्यवहारकाले बाधिताहङ्कारे बाधितोऽसत्वेन निश्चितो यो- ऽहङ्कारोऽहङ्कतिस्तस्मिन्सपि विद्यमानेपि समाधिभङ्गः समाधेः स्वात्माकारदृत्तिलक्षणस्य परपुरुषासक्तस्त्रीपरपुरुषस- नमुखाकारहत्तेरिव स्नेहातिशयाद्भङ्गो नाशो नास्ति न भवती- सेवमोंस्य प्रकरणस्य ज्ञेयः ॥६॥ इति श्रीनरह० दि० बोधसारार्थदीप्तौ नेच्छाचारार्थप्रकाश सप्तविंशः॥२७॥ अथाहङ्कारस्याबाधकत्वप्रदर्शनत्रयी। एवं स्वेच्छाचारपञ्चकं निरूप्येदानी ज्ञानिषु व्यवहारकाले- ऽहङ्कारसत्त्वेपि तस्य बाधितत्वेनाबाधकत्वं दर्शितमेव द्रढयितुं सदृष्टान्तमहङ्कारस्याबाधकत्वमदर्शनत्रय्याख्यं विश्लोकं प्रकर- णमभिदधान आह । अथाहकारस्याबाधकत्वप्रदर्शनत्रयी। अथेति । अथ स्वेच्छाचारपञ्चकनिरूपणानन्तरमहङ्काराबा- धकत्वमदर्शनत्रय्यहङ्कारस्याहंकृतेर्यदवाधकत्वमुक्तं तदेव प्र- यतेऽनया सा तादृशी त्रयी त्रयाणां श्लोकानां समाहार- वयी-एतनामकं प्रकरणमित्यर्थः, निरूप्यत इति शेषः, तत्र तावदादौ दृष्टान्तमाह साधैन । भित्तिचित्रकृतं सर्प दृष्ट्वा बालः पलायते । केन चिहालकेनोक्तं चित्रसोयमित्युत ॥ १ ॥ भित्तीति । बालोऽव्युत्पन्नो डिम्भो भित्तिचित्रकृतं भित्तौ ।
बोधसारे कुड्ये यानि चिब्राणि तेषु कृतं लिखितं सर्प भुजङ्गं दृष्ट्वाऽव- लोक्य पलायते ततः स्थानावरयाऽपसर्पति यदा सदा केन- चिदन्येन बालकेन किंचिद्व्युत्पन्नेन पोतेनायं भवदृष्टश्चित्रसपश्चि- वरूपः सर्पो भुजङ्गोऽस्तीत्युते से प्रकारेणोक्तं कथितम् ॥१॥ ततः प्रभृत्यसौ विद्वांस्तेनैव सह खेलति । तथात्मस्थमहंकारं श्रुत्वा मूढः पलायते ॥ २ ॥ सत इति । अमौ बालस्ततः प्रभृति तं कालमारभ्य वि- द्वान्सर्पमिथ्यात्वज्ञानवान्ततोन्यत्र सत्यसपै सर्पसत्त्वज्ञानवान्- तेनैव मिथ्यात्वेन ज्ञातेन चित्रसगा सहैव साकमेव खलति क्री- डति यथा । दान्तिकमाह तथेति, तद्वत्तथा मूढोऽज्ञानी: आत्मस्थमात्मनि प्रत्यगात्मनि स्थमधिष्ठितमहङ्कारमहंकृति श्रुत्वा शास्त्रोक्तं श्रवणेन निश्चित्य पलायते तद्भयेन समाधी लीनो भवति ॥२॥ तत्र सद्गुरुणा प्रोक्तं चिदेवास्तीह नेतरत् । ततः प्रभृत्यसौ विद्वांस्तेनैव सह खेलति ॥३॥ इति श्रीनरहरिकृतौ बोधसारेहङ्काराबाधकत्वप्रदर्शनत्रयी ॥ २८ ॥ तत्रेति । तत्राहङ्कारभाने तद्भये च सद्गुरुणा सन्नहङ्कारादि- जगन्मिथ्यात्वज्ञानपूर्वमात्ममाथार्थ्यज्ञानवान्यो गुरुमहावाक्यद्वा- राऽऽत्मयाथार्थ्यस्वरूपबोधकस्तेनेहाहङ्कारादिजगद्भाने चिदेव चेतनमेव प्रत्यगात्मचैतन्य मेव केवलमस्ति विद्यते नेतर- त्तदन्यत्किमपि अहङ्कारादिकं नास्तीत्येवं मोक्तं कथित यदा तदा ततः प्रभृति तत्कालमारभ्यासावुक्तलक्षणो मूढः पूर्व स च विद्वानहकारादिपियाज्ञानपूर्वमात्मयाथार्थ्यवेत्ता कात्यवस्थायां तेनैवाहकारादिजातापि सह. साकं बाधित- HAIYAAMIMARRAN प्रश्नोत्तरमुक्ताफलद्वयम् । सानिशर खेलति क्रीडति बाधिताहङ्कारस्य मुनौ बाध- कत्वं नास्तीति भावः ॥३॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्ता- घहडाराबाधकत्वप्रदर्शनत्रय्यर्थप्रकाशोऽष्टाविंशः ॥ २८ ॥ अथ प्रश्नोत्सरमुक्ताफलद्वयम् । एवमहङ्काराबाधकत्वमदर्शनत्रयीं निरूप्येमनीमात्मचि- न्तने स्वनाशभावनया तवानादरं जिज्ञासोरालक्ष्य तदभावं दयितुं जीवविषयवासनासम्बादप्रतिपादकं प्रश्नोतरमुक्ताफ- लद्वयाख्यं प्रकरणं द्विश्लोकं निरूपयिष्यन्नाह । अथ प्रश्नोत्तरमुक्ताफलद्वयम् । अथेति । अथाहकाराबाधकत्वप्रदर्शनत्रयीनिरूपणानन्तरं प्र- श्नोतरमुक्ताफलद्वयं प्रश्नोनुयोग उत्तरं प्रतिवचनं ते एवमुक्ताफले मौक्तिके तयोर्द्वयं युग्मेमतन्नामकं प्रकरणांमत्यर्थः, निरूप्यत इति शेषः, तत्रादौ जीवं प्रति विषयवासनाप्रश्नं निरूपयितुमाह । तत्र विषयवासनोवाच। तत्रति । तत्रात्मनाशासम्भावनायां विषयवासना विषयाः श ब्दस्पर्शादयस्तेषां वासनेच्छोवाच जीवं प्रतीति शेषः, कथया- मास । किमुवाच तदाह । अहिक्रीडा न कर्त्तव्या कर्त्तव्यं नात्मचिन्तनम् । अहो जीव महामूढ मरणं ते भविष्यति ॥ १ ॥ अहिक्रीडति । हे महामूढ हे महामूर्ख इति स्वेष्टनाशपतीत्या ऽऽक्रन्दपूर्वकं संवोधनम, अहो जीव अनेन संबोधनेन स्वजीवनहे- तुत्वाज्जीवहितवक्तव्यता स्वस्य सूचिता, त्वयाऽहिक्रीडाऽहि- ना सर्पण खनाशकारणत्वात्सर्पमदृशेनात्मना सह क्रीडा रति- ।
बोधसारे। -जीवनेच्छावता पुरुषेण सर्पण साकं रतिरिव न कर्तव्या न का- यी तदेव स्पष्टमाहाऽऽत्मचिन्तनमिति, आत्मनः प्रत्यगभिन्न- ब्रह्मणश्चिन्तनं स्मरणं न कर्तव्यं न कार्य कुत इत्यत आह म- रणमिति, ते तवोभयकरणेन मरणं मृत्युभविष्यति भवेदत उभयमपि समानमतो न कार्यामत्याशयः ॥ १॥ एवं प्रश्नमभिधायेदानीमुत्तरं वदन्नाह । स जीव उवाच । स इति । स उक्तरीसा विषयवासनया पृष्टो जीवः उवा- च साधिष्ठानबुद्धिस्थश्चिदाभासः कथितवान्, किमुवाचेत्यत आह। अहिनानेन ये दृष्टा अमरत्वं गता हि ते । अस्यामृतमयी दंष्ट्रा तत्क्रीडाम्यमुनाहिना ॥२॥ इति श्रीनरहरि० बो० प्रश्नोत्तरमुक्ताफलद्वयमेकोनत्रिशः ॥ २९ ॥ अहिनेति । अनेनात्मस्वरूपेणाहिना न हीयते नश्यती- सहिरविनाशिस्वरूपो जीवत्वनाशकत्वादहिरिव तेन ये वि- रला दष्टा भुक्तास्ते पुरूषाः शृकादयोऽमरत्वं न विद्यते म- रो मरणं यत्र तदमरं ब्रह्म तस्य भावस्तत्त्वं ब्रह्मत्वं गताः प्रा प्ता ब्रह्माभिन्ना जाता इयर्थः, हि मासिद्धमेतच्छृतिषु विद्वत्सु च । अथवा न हिनस्ति नाशयतीत्यहिर्जीवस्य जीवनहेतुत्वाद को 'ह्येवान्यात्कः प्राण्यायदेष आकाश अानन्दो न स्यादि'- ति श्रुतेः, अन्यत्समानं तत्तस्मात्कारणादमुना प्रयक्षेणाहिना- विनाशिस्त्ररूपेण मज्जीवनभूतेन चात्मना सह क्रीडामि रमे, ननु सर्पदंशे मृत्युरेव भवतीति प्रसिद्धिस्तत्कथमेतदहिदशेऽमर- स्वप्राप्तिः सम्भाव्येत्याशङ्कयाहाऽस्येत्ति, अस्यात्मसर्पस्य दंष्ट्रा दशक्रियाकरण रूपा वृत्तिविवेकाख्याऽमृतमयी-अमृतं मरणर- हितं ब्रह्मात्मत्वमेव प्रधानं यस्यां सा तथोक्ताऽस्ति अत ए- प्रश्नोत्तरचमत्कारत्रयी तदंशेऽमरत्वप्राप्तिनिश्चेतव्येति भावः ॥ २ ॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्तौ प्रश्नो त्तरमुक्ताफलद्वयार्थप्रकाश एकोनत्रिंशः ॥ २९ ॥ अथ प्रश्नोत्तरचमत्कारत्रयी। एवं प्रश्नोत्तरमुक्ताफलद्वयं निरूप्येदानी पूर्ण ज्ञानिष्वहङ्का- रस्यावाधकत्वमुक्तं तत्र ज्ञानिष्वहङ्कारस्य विद्यमानत्वे व्यवहा- रोपि स्यात्तस्मिश्च सति पूर्ववत्कामादीनां बलं स्यादिसाशङ्का तां निराकत प्रश्नोत्तरचमत्कारत्रय्याख्यं त्रिश्लोकं प्रकरणमभि- दधान आह । अथ प्रश्नोत्तरचमत्कारत्रयी । अथेति । अथ प्रश्नोत्तरमुक्ताफलद्वयानन्तरं प्रश्नोत्तरचम- कारत्रयी प्रश्नश्चानुयोग उत्तरं च प्रतिवाक्यं तयोश्चमत्कार: कौतुकं विलास इयर्थः, तस्य प्रतिपादिका त्रयी श्लोकत्रयरूपा प्रक्रियैतन्नामकं प्रकरणमित्यर्थः, निरूप्यत इति शेषः । तत्रादौ मोहादीनां कामादीन्प्रति प्रश्नवचनमुदाहरति । यथापूर्व न खेलन्ति यथापूर्व हसन्ति न । कैश्चित्कामादयः पृष्टाः भवन्तः किं हतप्रभाः ॥१॥ यथापूर्वमिति। भो कामादयो भवन्तो यथापूर्व पूर्वकाले यथा पद्वत्खेलन्तः स्थितास्तथेदानीं न खेलन्ति न क्रीडन्ति, किञ्च भवन्त इदानी हतप्रभा हता नष्टा प्रभा येषां ते तथोक्ताः किं कुतः कारणादित्येवं कैश्चिन्मोहादिविकारैः कामादयः कामोभि- लाप आदिमुख्यो येषां ते पृष्टा अनुयुक्ताः ॥ १ ॥ कामादीनामिदानी मोहादीन्प्रत्युत्तरं वदनाह ।
૧૨ बोधसारे। । कामादय उचुः । कामादय इति । कामादयः कामोभिलाष आदियेषां क्रोधादीनां ते तथोक्तास्त ऊचुः कथयामासुः, किमियत आह । अस्यान्पुष्णाति या नित्यं साऽस्माकं जननी मृता। सुखलुब्धेन पित्रा नः का चिदन्या कृता वधूः॥२॥ अस्मानिति । हे मोहादयो याऽविद्या निसं सर्वदा- ऽस्मान्कामादिविकारान्पुष्णाति पालयति साऽस्माकं कामादीनां जननी माता मृता नष्टा, ननु भवतां मातरि नष्टायामपि पितृतः पालनं भवतु तत्राहुः सुखलुब्धेनेति, नोऽस्माकं मुखलुब्धेन मुखं स्त्रीभोगजन्यं लोके । परमार्थतस्तु विद्यासुखं तस्मिल्लब्ध पासक्तस्तेन पित्राऽस्मत्पालनमनास पाति अस्मानिति पिता जनकोहङ्कारस्तेन काचिदपूर्वाऽनिर्वचनीयेति यावदन्या द्वि- तीया विद्याख्या वधूः स्त्री 'वधूर्जाया स्नुषा स्त्री चे'त्यनेकार्थः, वधति नाशयति सर्वमविद्याकृतं संसारमिति वधूर्विद्या कृता परिणीता संपादितेत्यर्थः ॥ २॥ ननु सा भवतां पालनं कुर्यात्तत्राह । अस्मान्द्विष्यति सा नित्यं न पुष्णाति कदाचन । दिनैः कतिपयैरेव गृहत्यागो भविष्यति ॥ ३ ॥ इति श्रीनरहरिकृती बोधसारे प्रश्नोतरचमत्कारत्रयी त्रिशा ॥ ३०॥ अस्मानिति | सासपत्नी माताऽस्मान्कामक्रोधादिविकारानो निसं सर्वदैव द्विष्यति द्वेष्टि दोषदृष्ट्याऽवलोकयतीत्यर्थः, किञ्च साविद्याऽस्मान्कामादीनविद्यापुत्रान्नः कदाचन कस्मिन्नपि समये न, पुष्णाति नैव पालयति, किञ्चाऽतः कतिपयैः स्तनपानलीलाष्टकम्। कतिचित्संख्यैदिनैर्दिवसरस्माकं कामादीनां गृहत्याग एवं गृह मन्दिरं शरीरं च तस्य त्यागो विसर्जनमपि भविष्यति भवे- द्विद्ययाऽविद्यानाशे कृतेप्यहङ्कारसत्वं कामादिपोषकं न भवति प्रत्युत्त विद्यासुखलोभेन तद्वेष एवातः क्रमेण कामादिविकार- लय एव सम्भाव्य इति भावः ॥ ३ ॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्तौ प्रश्नोत्तरचमत्कारत्रय्यर्थप्रकाशस्त्रिंशः ॥ ३०॥ अथ स्तनपानलीलाष्टकम् । एवं प्रश्नोत्तरचमत्कारत्रय्याहङ्कारसत्त्वेपि विद्वत्सु क्रमेण द- श्यमानकामादिनाशं सम्भात्रयित्वेदानीमहङ्कारसत्त्वेप्यहमावच्छि- अस्य विवाभासस्यापि विद्यायामेव रुचिमुत्पादयितुं स्तनपानली- लाष्टकाख्यमष्टश्लोकं प्रकरणमभिदधान आह । अथ स्तनपानलीलाष्टकम् । अथेति । अथ प्रश्नोत्तरचमत्कारत्रयी निरूपणानन्तरं स्तन- पानलीलाष्टकं स्तनयोः पानं स्तनपानं दुग्धपानमित्यर्थः, तद्रूपा लीला क्रीडा तस्याः प्रतिपादकमष्टकमष्टश्लोकसमूहरूपं प्रकरणं निरूप्यत इसर्थः। श्रीगुरुरुवाच । तत्रादौ श्रीगुरुः वैराग्यादिस्वरूपसंपत्तिमान हितोपदेष्टो- बाच कथयामास, किं कथयामास तदाह । उपमाता च माता च बाल मातृवयं हि ते। उपमातुः स्तनरसः कटुम्लमधुतिक्तकः ॥ १ ॥ उपमातेति । हे बाल हे पुत्र ते तब हि प्रसिदं मातृदयं मात्रोर्ज- बोधसारे। नन्योयं युग्ममस्ति, ननु मातृत्वे समाने तयोर्भेदः किं निबन्धनस्त- त्राहोपमातेति, उपमाता च धात्री-एका, माता च जननी च द्वितीया, पालकत्वेन मातृत्वे समानोप पोषकत्वजनकत्वरूपलक्षण्येन भेदो ज्ञेय इति भावः । प्रकृतार्थेतु हे बाल हे मूढ अनेन संबोधनेनो- पमातृतुल्याविद्यास्तनरसतुल्पविषयरसासत्त्या मूढत्वं त्वयि वि- शिष्टीमति घोतितं, हि प्रसिद्धं ते तत्र साधिष्ठानबुद्धिस्थचिदा- भासस्येसर्थः, मातृद्वयं मात्रोः परिच्छेदकारणरूपोपाध्योर्द्वयं द्विक- मस्तीति ज्ञेयं, ननु परिच्छेदहेतुत्वं समानं भेदहेतो_लक्षण्याभा. वात्तदभावे च कथं तयोईित्वं सम्भाव्यं तत्राहोपमाता चेति, उपमाता चोपमीयते परिच्छिद्यते, यद्वोपमीयत उपमाविषयी. क्रियत आत्माऽनयेति उपमाताऽविद्या माता च मीयते सा- क्षात्क्रियते जीवब्रह्मैक्यमनया सा माता विद्या च चकाराभ्या- मयन्तं वैलक्षण्यं सूचितम्, एवं मातृभेदं प्रदर्येदानी बालत्वादे- घोपमातरि विशेषप्रीतिमालक्ष्य तत्राप्रीति मातरि च प्रीतिं ज- नयितुमुपमातृस्तनरसस्वादं दर्शयति उपमातुरिति, हे बाल त- वोपमातुर्धात्र्याः स्वनरसः स्तनयोः कुचयो रसो रस्यत आ. स्वायत इति रसः पयः कट्वालमधुतिक्तकः कचम्लमधुतीक्ष्ण- भक्षणात्कटुरम्लो मधुस्तिक्तश्चानेकरसोऽत एव चित्रद्वैत- रसात्मकश्चित्रोऽनेकरसो द्वैतरसो भिन्नास्वादरूपोऽस्ति ॥१॥ स्वरूपं प्रदर्श्य फलमपि दर्शयति । जरामरणसंसर्गी चित्रद्वैतरसात्मकः । निजमाता तव तु या तन्माहात्म्यं वदाम्यहम् ॥२॥ जरेति । जरामरणसंसर्गी जरा वार्धक्यं तत्सदृशं नै- बल्यं वा मरणमपि अकालपरणं तत्सदृशं वा धर्मार्थका- ममोक्षानुपयोगिमूदजीवनं वा वे संसृज्यते प्राप्येते. अ- स्तनपानलीलाष्टकम् । , नेनेति स तथोक्तोऽस्मिन्नस्ति स तादृशो शेयः । प्रकृतार्थे तु हे बाल हे मूढ त उपमातुरविद्यायाः स्तनरप्तः स्तन्यन्ते ध्वन्य- न्ते नामभिः प्रतिपाद्यन्त इति स्तना इह लोकपरलोकभवा वि- षयास्तत्मापकमाधनपतिपादकानि शास्त्राणि च तेषां रसः मुखं तत्प्रतिपाद्यं च सुखं कद्वम्लमधुतिक्तक एवं कटुरम्लो मधुर्म- धुरस्तिक्तकस्तीक्ष्ण एवं चित्रद्वैतरसात्मकश्चित्रमाश्चर्यरूपं यद्वैतं भेदस्तद्विशिष्टो यो रसः सुखमात्मा स्वरूपं यस्य स तथोक्को- ऽस्ति, फलतोपि दोषं दर्शयति जरेति, जरा वार्धक्यं मरणं मृत्युस्ते संसृज्येते प्राप्येते अनेनेति स तथोक्तः सोऽस्मिन्नस्तीति स तथोक्तोऽस्ति अतस्तदादरो नैव कार्य इति भावः, ननु मम मातुस्तर्हि किंस्वरूपं तदेखाशङ्ख्याह निजेति । तच ते तुश- ब्दोऽत्रोक्तोपमातृतोऽस्या वैलक्षण्यद्योतनार्थः, या त्वज्जातौ प्र- सिद्धा निजमाता निजा स्त्रीया माता जनन्यस्ति तन्माहात्म्यं तस्यास्त्वदीयमातुर्माहात्म्यं महत्वं वदामि कथयामि अहं त्वदु- पदेष्टा ॥२॥ तत्मतिज्ञातमेवाह । सैव माता पिता सैव जगतामीश्वरी च सा । सा गतिः सा परं तत्त्वं तत्परं नास्ति किञ्चन ॥३॥ मैवेति । सैव तव माता जननीयं धात्री न ज. ननीयर्थः, तथा तत्र सैव जनन्येव पिता पालको जनक इसर्थः, जगतां सर्वेषामपि लोकानामीश्वरी धर्मशास्त्रे पूज्यत्वेन मतिपादिता सा माता बालानां गतिः शरणमस्ति तथा सा माता परं तत्त्वं बालानामुपास्या परब्रह्मरूपाऽतो बालानां तत्परं ततो मातृतः परमन्यत्सेव्यं श्रेष्ठं नास्ति न विद्यते किञ्चन किमपि । प्रकृतार्थे तु सैव विद्यैव माता मीयते साक्षादनुभूयते ५८६ बोधसारे। ब्रह्मानया सा माता विद्यैव माता नान्येसर्थः, तथा सैव वि. चैव पिता पालको मृत्युमुखरूपसंसाराद्रक्षकत्वादित्यर्थः, च पुनर्जगतां समस्तलोकानामीश्वरीश्वरोपाधित्वादीश्वररूपण पूज्या सा विद्यास्ति सा विद्या गतिर्मुमुक्षूणां शरणमस्ति किं च सा विद्या परं कार्यकारणातीतं तत्त्वमनारोपितं वस्तु अस्ति ब्रह्मेत्यर्थः, तत्परं ततो विद्यायाः परमन्यच्छेष्ठं किञ्च न किमपि नास्ति न विद्यतेऽतोऽविद्यां परित्यज्य त्वया वियैवाश्रयणीयेति भावः ॥३॥ भिन्नजातिवादपि धात्री त्याग उचित इति दर्शयन्धा- त्रीमानोर्जातिभेदमाह। उपमाता कुजातिस्ते माता तव सुजातिका । तां कुजातिं परित्यज्य सुजाति मातरं श्रय ॥ ४ ॥ उपमातेति । ते तवोपमाता धात्री कुजातिः कुरिसता नीचा जातिर्यस्याः सा कुजातिरस्ति तव ते माता जननी सुजातिका सु शोभना जातिर्यस्या सा तथोक्ता श्रेष्ठजात्युत्पन्ने- त्यर्थः, अतस्त्वं तामुक्तलक्षणां कुजाति कुत्सितजाति धात्री प- रित्यज्य विहाय मुजातिमुत्तमजाति मातरं जननीं श्रया- श्रितोभव, अन्यथा कुजातिमम्पर्के बुद्धिमालिन्येनाधर्माच- रणानरकपातः स्यादिति भावः । प्रकृतार्थे तु हे मूढ ते तवोप- मानोपमीयते परिच्छिद्यतेऽनया सोपमाताऽविद्या कुजातिः कुत्सितो जन्ममरणसुखदुःखादिमाजायत उत्पद्यते यया सा कुजातिया, तब ते माता मीयते साक्षादनुभूयते तत्तं यया सा तथोक्ताऽहंब्रह्मेत्याकारा प्रमा रूपा दृत्तिरित्यर्थः, मु. जातिका मुष्ठु शोभनो जायते भूयते यया सा तथोक्ता ब्रह्म- स्तनपानलीलाधकम् । स्वरूपो जायते ययेति भावः, ज्ञेया ऽतस्त्वं मुमुक्षुः कुजाति सु. खदुःखजन्ममरणादियुक्तस्त्रोत्पादनकी तामविद्यां परित्यज्य विहाय मुजातिं स्वस्य ब्रह्मभावोत्पादनकी मातरं मीयते सामाक्रियत आत्मतत्त्वमनया तां विद्यां श्रयाऽऽश्रितो भवा- ङ्गीकुर्वित्यर्थः, तथा च तव मोक्षोभवेदित्यर्थः ॥ ४ ॥ दुग्धगुणलक्षण्यतोपि धात्रीतो जनन्याः श्रेष्ठ्यमवि- द्यायाश्च विद्यायामपि श्रेष्ठ्य दर्शयति । निजमातुस्तनरसस्त्वद्वैतामृतवर्षणः । जन्मरोगजराध्वंसी सकृत्पीतोपि मृत्युजित् ॥५॥ निजमातुरिति ! हे वाल निजमातुर्निजा स्वीया या माता जननी तस्याः स्तनरसः स्तनयोः कुचयो रस्यत आ- स्वाद्यात इति रसः पयः, तुर्धात्रीदुग्धाज्जननीदुग्धस्यातिलक्षण्य- घोतकः, तदेवाहाऽद्वैतामृतवर्षणो 'यन्नदुःखेन सम्मिन्नमि'त्या- दिस्मृतिप्रतिपादितस्य स्वर्गमुखस्य नित्यनिरतिशयनिरुपम लप्रतीतेरद्वैतं निरुपमं यदमृनं मुखं स्वर्गसुखमिसर्थः, तस्य च धर्माधीनत्वाद्धर्मस्य च सुबुद्धिजन्यत्वात्सुबुद्धश्च कुजातिसम्प- कंपरित्यागेन स्वमातृदुग्धपानजन्यत्वात्परम्परयाऽद्वैनामूनस्व स्वर्गसुखस्य वर्षणः प्रापकोस्ति, किञ्च जन्मरोगजराध्वंसी ज- मैन दुःखदत्वाद्रोगः कुबुद्ध्या निषिद्धाचरणेन रोगो जायते जरा चाकालवाक्यं तयोर्वसी नाशकोऽस्ति सुबुद्धिजनक- बन रोगजरानाशक इत्यर्थः, किश्च सकृत्तीतोपि सकृदेकवा- स्मपि पीतः प्राशितो मृत्युजिन्मृत्युलोकस्य मृत्योश्च निवर्तको भवति स्वजननीदुग्धपानस्य सुबुद्धिजनकत्वेन तद्वाराऽमरत्व- प्रापकत्वात्मृत्युलोकमृत्युनिवर्तकत्वं ज्ञेयं, प्रकृतार्थे तु निजमातुः
बोधसारे।
स्वीयसाक्षात्कारकारणभूतविद्यायाः स्तनरसः स्तन्येते ध्वन्येते
अध्यारोपापवादौ यैस्ते स्तना उपनिषद्वाक्यानि तेषां रसः
मुखं 'रसो वै स' इति श्रुतेर्वेदान्तप्रतिपाद्यं ब्रह्मसुखमित्यर्थः,
तुपदेनाविद्यासुखाद्ब्रह्ममुखस्य वैलक्षण्यं सूचितं, सोद्वैता-
मृतवर्षणोऽद्वैतं भेदरहितं यदमृतं सुखं तस्य वर्षणो वृष्टिकर्ता
भवति, किञ्च जन्मरोगजराध्वंसी जन्म सदद्वैतानृतद्वैतयारक्यप्र-
तीतिरूपं तस्याऽत एक रोगवार्धक्ययोरपि नाशकः, किञ्च स
रसः सकृदपि एकवारमपि पीत: प्राशितः सन्मृत्युजिन्मरण-
निवर्तको भवतीति ज्ञेयम् ॥५॥
नन्वेतावत्कालमेतयो भैदः कुतो न ज्ञातस्तत्राह ।
न ज्ञातं मूढभावेन पूर्वमन्तरमेतयोः ।
इदानीमन्तरं ज्ञात्वा निजमातुस्तनं पिब ॥ ६ ॥
नेति । उभयपक्षे भवता बालेन मुमुक्षुगणा च मूढभावेन मो-
व्येन पूर्व प्रथमं मदुपदेशात्मागित्यर्थः, एतयो(त्रीमात्रोरवि-
धाविद्ययोश्चान्तरं वैलक्षण्यं न ज्ञातं न ज्ञानविषयीकृतमि-
दानीमधुना मदुपदेशेन कृत्वाऽन्तरं भेद ज्ञात्वा साक्षात्कृत्वा
निजमातुः स्वीयजनन्या विद्यायाश्च स्तनं स्तनस्थं दुग्धं स्तन्य
त उपदिश्यते ब्रह्म येन स स्तनो ब्रह्मोपदेशकवाक्यसमूहस्तं च
पिव प्राश्नीहि अङ्गीकुरु च एवमुभयत्र योज्यम् ॥ ६ ॥
ननु मद्धाच्या जीवनं मत्कृततत्स्तनपाननिमित्तकाऽन्नवस्त्रा-
दिप्राप्त्या भवति तत्स्तनपाने मया त्यक्ते तत्कथं स्यादिति त-
लेहेन तन्नाशमसहमानं प्रत्याह ।
त्वया स्तने परित्यक्ते सा विदीर्य म्रियेत चेतू
नश्येत्कुजातिसंसर्गो हितमेव तदा भवेत् ॥ ७ ॥
स्तनपानलीलाष्टकम् । त्वयेति । हे बाल त्वया भवता स्तने धात्र्याः स्तने धात्री स्तनपाने इत्यर्थः, परित्यक्ते विसृष्टे सति सा ध.त्री विदीर्य जी- बनचिन्तया कृषीभूय म्रियेत मृतिप्राप्नुयाचेयदि तर्हि कुजा- तिसंसगों नीचजातिसंपर्को नश्यन्नष्टो भवेत्तदा तर्हि धर्मेण स्व- र्गादिसाधनबुद्धीच्छोस्ते हितमेवेष्टमेव भवेत्स्यात् । प्रकृतार्थस्तु त्वयेति । त्वया मुमुक्षुणाऽविद्यायाः सने शब्दे कर्मादिप्रतिपा- दकवाक्यजाते परित्यक्ते सर्वभावेन तत्फलवासनया सह विसष्टे सति साऽविद्या विदीर्य कृशीभूय म्रियेत नश्यञ्चेद्यदि तहि कुजातिसंसर्गः कुत्सितः संसारी जायते यया सा कुजाति- रविद्या तद्वासना च तस्याः संसर्गः संपर्को नश्यन्नष्टो भवेद- तदा तर्हि मुमुक्षुत्वात्तत्र हितमेव मोक्षरूपमिष्टमेव भवेत्स्याद्, अविद्यानाशस्यैवमोक्षत्त्वप्रतिपादनादितिभावः ॥ ७ ॥ ननु कुजातिसम्पर्के मम काहानिरित्याशक्य पूर्वमेव हा- नेरुक्तलाज्ज्ञानित्वेनाबाधकत्वं मत्वा वक्षि चेन्निष्फलत्वाच तदाश्रयस्येत्याशयेनाह। मायाब्रह्ममयस्तात किमर्थ वर्णसंकरः । मायामेव परित्यज्य शुद्धब्रह्ममयो भव ॥ ८॥ इति श्रीनरहरिकृतौ बोधसारे स्तनपानलीलाष्टकमेकत्रिंशम् ॥ ३१ ॥ मायाब्रह्मभय इति । हे तात हे पुत्र मायाब्रह्ममयो माया कापव्यं ब्रह्म च ब्राह्मणकर्म तयोर्विकाररूपः सङ्करोऽन्य- जातिसंपृक्तब्राह्मणजातिरूप इत्यर्थः, अत एव वर्णसङ्करो व- र्णस्य ब्राह्मणवर्णस्य सङ्को भ्रष्टत्वं किमर्थं कस्मै प्रयोजनाय कर्तव्य इति शेषः, तर्हि किं कर्त्तव्यं तत्राह मायामिति, माया- मेव कापव्यं नीचयोनिजन्यसङ्कररूपं परिसज्य विहाय सर्व- भावेन परित्यज्य शुद्धब्रह्ममयः शुद्धमन्यजाससंपृक्तं ब्रह्म ब्रा- NEESHAARAAN बोधसारे। मागाजातिस्तन्मयः सा प्रधाना यस्य स तथोक्तो भवाssa | प्रकृतार्थे तु हे तात हे शिष्य माया जगत्कारणभूता सदस- यामनिर्वचनीया शक्तिब्रह्म च देशाधनवच्छिन्नं प्रत्यगभिन्न: परमात्मा तयोर्विकारभूतो वर्णसङ्करो वर्णयोः शुद्धाशुद्धयोः सङ्करो मेलनं मालिन्यमियर्थः, किमर्थः कोऽर्थः प्रयोजनं यस्यां क्रियायां त्वया क्रियन इति शेषः, जीवनस्यान्यथासिद्धत्वात्त- संपर्कस्य च दोषरूपत्वेन दुःखजनकत्वाचेति न कर्तव्य एव स इति भावः, अतो मायामव जगजननशक्तिमेच परिसज्य विहाग शुद्धब्रह्ममयः शुद्धं माययाऽस्पृष्टं ब्रह्म प्रत्यगमिन्नं त- न्मयस्तद्रूपो भव स्याः, तथा सति उभयसंयोगरूपसंसारसङ्करो न स्यादिति भावः ॥ ८॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्तौ स्तनपानलीलाएकार्थप्रकाश एकत्रिंशः ॥३१॥ अथाश्चर्थचतुष्टयो। एवं स्तनपानलीलानिरूपणमिषेण मायातकार्ययो रुचि परियाज्य शुद्धब्रह्मणि रुचिमुपायेदानीं तत्रैव स्थैर्य सम्पाद- नाय तत्स्वरूपज्ञानमपेक्षितमिति तत्स्वरूपं निरूपयितुमाश्चर्य- चतुष्टय्याख्यं चतुश्लोकं प्रकरणमभिदधान आह । अथाश्चर्यचतुष्टयी। अथेति । अथ स्तनपानलीलाष्टकनिरूपणानन्तरमाश्च- र्यचतुष्टयी आश्चर्यस्याश्चर्यरूपस्य ब्रह्मणो निरूपकत्वात्तत्स- म्बधिनी चतुष्टयी चतुःश्लोकसमूहात्मकं प्रकरणं निरूप्यत इनिं शेषस्तदेव ब्रह्मण आश्चर्यरूपत्वं निरूपयति ।
। आश्चर्यचतुष्टयी। अन्धः पश्यति सर्वच पगुर्याति पुरात्पुरम् । जडः कार्याणि कुरुते नीरसो रसमश्नुते ॥ १ ॥ अन्ध इति । अन्धश्चक्षुहीनः सर्व घटादिजातं पश्यति अवलोकयति, ननु विषयावलोकनमन्धस्य विरुद्धं कथं सम्भा. व्यमिति चेन्न 'पश्यसचक्षुरिति श्रुत्या ब्रह्मणोऽचक्षुष्ट्वेपि अव- लोकयितृत्वप्रतिपादनात्तया च श्रुयाऽचक्षुष्ट्वे प्रतिपादिते 'नि- कलं निष्क्रियमिति श्रुत्या च निरवयवत्वे च प्रतिपादिते तं विना जगदवलोकयितृत्वस्य 'नान्योतोस्तिद्रष्टे त्यादिश्रुखाऽस- स्वप्रतिपादनाच्चैतन्यं विना जगदत्रलोकनासिद्धेश्चान्धस्य जग- दवलोकयितृत्वमुक्तमविरुद्धं सम्भाव्यं, च पुनः पङ्गुः पाद- हीनः पुरात्पुरं पूर्वनगरात्पुरान्तरं याति गच्छति, ननु पादहीने गतिः कथं सम्भाव्येति चेन्न 'अपाणिपादो जवनो गृहीते'सा- दिश्रुतेब्रह्मणः पादराहित्येपि गतिमत्त्वप्रतिपादनानिष्कलं निष्क्रिय शान्तामति श्रुत्या च निरवयवत्वप्रतिपादनाच नि. रवयवत्वेनापि ब्रह्मणः पादराहिसे सिद्धे सबपि गतिमत्त्वप्रति- पादनाद्न्तुरपि ब्रह्मणो भिन्नस्यासत्त्वप्रतिपादनात्पङ्गुत्वं म- तिमत्त्वं च सिद्धं पुरमन शरीरं 'नवद्वारे पुरे देही'त्युक्तेः 'पुरमे- कादशद्वारमिति श्रुतेश्व, परात्परमिति पाठे तु त्वंपदवाच्यार्थ- त्यागेन लक्ष्यार्थकूटस्थचिन्मात्ररूपिणो 'निष्कलाम'ति श्रुत्या नि- रवयवत्वप्रतिपादनात्पादराहित्पेन पशुत्वं स एव ब्रह्मणोऽ- भिन्नत्वज्ञानात्स्वस्य परात्कारणादव्यक्ताख्यात्परं ततो भिन्नं तस्य कल्पितत्त्वात्तदस्पृष्टं च परमात्मरूपं याति प्रामो- तीत्यर्थः, यद्वा लोकप्रसिद्धपुरानगरात्पुरं नगरं याति प्राप्नो- तीत्यर्थ एवास्तु तस्यापि गन्तुर्ब्रह्मणः पृथगसत्वेन ब्रह्मत्वाद्ब्रह्म- णश्व 'निष्कलमिति निरवयवत्वप्रतिपादनाद'पाणिपाद' इति .
बोधसारे ५९२ श्रुत्या पादराहित्ये गनिमत्त्रप्रांतपादनात्पगुत्वं गन्तृत्वं च सम्भाव्यमिति दिक्, आश्चर्यान्तरमाह जड इति, जडश्चैतन्या- त्मनो विविक्तो जीवः कार्याणि कर्तव्यतया विहितानि क- मर्माणि कुरुत आचरति चैतन्याद्भिन्नस्य जाड्यं प्रसिद्धमेव त- स्यैव कर्तृत्वमपि सर्वशास्त्रेषु प्रतिपादितं तदधिकारेणैव सर्व- शास्त्रविधानाचात्मनेपदप्रयोगेण च कर्मफलमपि तनिष्ठमि- त्यांप मूचितं, यद्रा चेत्यरहितत्वेन चिदात्मन एव जडवत्त्वा- ज्जडत्वं कर्मकप ततः पृथगसत्त्वप्रतिपादनाज्जडत्वं कर्मक- तृत्वं च सम्भाव्यम्, अस्मिन्नपि पक्षे कर्तृतजाध्ये ब्रह्मण्येव स- धिष्ठानत्वात्सम्भाव्ये इति भावः, यद्वा जडो मायातकार्य- रूपः प्रपञ्चो ब्रह्मविष्णुरूद्रादिरूपः कार्याणि कर्माणि उत्प- त्यादीनि कुरुत आचरांत 'तदेतज्जडं मोहमात्रमिति श्रुसा मा- याया जडत्वप्रतिपादनात्तकार्यस्यापि ब्रह्मादिप्रपञ्चस्य ज- डलं 'जीवेशावापासेन करोति माया चाविद्या च स्वयमेव भ- चती'ति श्रुत्या तस्या एवं कर्तृलप्रतिपादनादात्मनेपदेन च कर्मफलं तनिष्टमेनेति ब्रह्मणः कर्तृत्वभोक्तृत्वराहित्यं सूचि- तमिति भावः, यद्वा मायातकार्ययोरुभयोरपि जडत्वात्तस्या- स्तकार्यजीवेश्वरयोरपि ब्रह्मणोऽभिन्नत्वाघद्यतो न भिन्नं त- चदेवेति लोके शास्त्रे च मभिद्धेः परमात्मैव जडस्तं विना कर्तारं कार्यनिर्वाहायोगात्स एव कार्याणि आकाशादिब्रह्माण्डान्तानि तदादिपिपीलिकान्तानि च कुरुत उत्पादयति एवं जडे कार्य- कारित्वमाश्चर्यमेवेति भावः, आश्चर्यान्तरमाह नीरस इति, रस्यत आस्नायनेऽनेनोन रसना तद्रहित आत्मा रसं माधुर्यादिकम- इनुतेऽनुभवति 'नान्योतोस्ति द्रष्टे सादिश्रुते रसयितुरात्मन पृथ- क्सत्ताभावप्रतिपादनानिष्फलामति श्रुतेश्च निरवयवात्मत्वम- तिपादनाच रसनारहिततेप्यात्मनो रसानुभवितृत्वं सम्भाव्य- आश्चर्यचतुष्टयी। मिति भावः, यद्वा 'रसो वै स' इति श्रुते रसाः सुखानि विषय- जन्यानि निर्गतानि निहत्तानि यस्मात्स नीरसस्ततोपि रख यितुः पृथगसत्त्वप्रतिपादनानीरसत्वं रसानुभवितृत्वं चात्म- न्येव सम्भाव्यमिति भावः ॥१ अन्यान्यप्याश्चर्याण्याह । निश्वेता निश्चिनोत्यन्तं विरक्तो भोगमञ्चति । सर्वस्पर्शविहीनोपि ब्रह्मसंस्पर्शमश्नुते ॥ २ ॥ निश्चेता इति । निश्चेता निर्गतं निवृत्तं चेतोऽन्तःकरणं यस्मात्स तथोक्त आत्मा सोऽसन्तमतिक्रान्तमन्तानाशा- दित्यसन्तं प्रसगभिन्न ब्रह्म निश्चिनोति निदिध्यासति स्वयम- श्रोत्रममनऽस्कमिति श्रुत्याऽऽत्मनो निर्मनस्कत्वप्रतिपादनाद्- आत्मनश्च मनसः पृथगसत्वाचात्मनो निर्मनस्कत्वं तं विना च केवलमनसो पदार्थनिश्चयाऽशक्तेनिश्चेतस आत्मन एव पर- मार्थनिश्चायकत्वं सम्भाव्यमिति भावः, असर्थमिति पाठे तु अर्थ सत्त्वमतिक्रान्तमसज्जगनिश्चिनोति असत्वेन निश्च- यविषयीकरोतीयर्थः, अन्यदप्याश्चर्यमाह विरक्त इति, विष- याणां मिथ्यात्वादात्मनः परिपूर्णत्वाच विरक्तो रागर- हित आत्मा तं विना च भोक्तृत्वासिद्धेः स एव भोगं भु- ज्यत इति भोगस्तं सुखदुःखाद्यनुभवमञ्चति मामोति अन्य- दप्याश्चर्यमाह सर्वेति, सर्वस्पर्शविहीनोपि सर्वे समस्ता ये स्प- शाः स्पृश्यन्ते काठिन्यादिविषया यैस्ते स्पर्शास्त्वगिन्द्रियाणि स्पृश्यन्ते त्वगिन्द्रियेणानुभूयन्त इति स्पर्शास्त्वग्विषयास्तै- विहीनोपि रहितोपि आत्मेन्द्रियणां विषयाणां चात्मनः पृ. १ निश्चिनोत्यर्थे । ७५
बोधसारे।
थगसवात्सर्वस्पर्शविहीनत्वमात्मनः सम्भाव्यं, स ब्रह्मसंस्पर्धा
ब्रह्मणा देशकालवस्तुकृतपरिच्छेदशून्येन वस्तुना संस्पर्शमै.
क्यमभुते पामोति ॥ २॥
प्राश्चर्यान्तराण्यप्याह ।
सर्वाहारी निराहारमुदरे धारयत्ययम् ।
मुग्धो भुनक्ति पाण्डित्यं सिद्धान्तं वक्ति मौनवान्॥३॥
सर्वाहारीति । सर्वाहारी सर्वस्य समस्तस्याहारः भो-
जनं विद्यते यस्य स तथोक्त आत्मा पृथगसत्त्वमेव जगत
आत्मनो भोजनं कालरूपेण वा भोजनं समस्तजगतः सो
यमात्मोदरे जठरे निराहारं निर्गतो निवृत्त आहारो भो-
जनं यस्मात्तयथा तथा धारयति स्थापयति सर्वतस्य मिथ्या-
त्वाचदाहारस्यापि तथात्वानिराहारत्वं ज्ञेयं, साहारत्वे च
श्रुतिः, 'यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः, मृत्युर्यस्यो-
मेचनं क इत्था वेद यत्र स' इति, अन्यदप्याश्चर्यमाह मुग्ध
इति, मुग्धो ज्ञेयस्यासत्वात्तद्विषयकज्ञानस्यापि तथात्रात्तद-
भावकत्वेन मुग्धत्वमात्मनो ज्ञेयं, स आत्मा पाण्डिसं पण्डितस्य
भाकः पाण्डिसं वैदुष्यं समदृष्टित्वलक्षणं 'शुनि चैत्र श्वपाके च
पण्डिताः समदर्शिन' इति भगवदुक्तेः, भुनक्ति पालयति अभ्यव-
हरति वा, अन्यदप्याश्चर्यमाह सिद्धान्तामति, मौनचान्मौनी सि-
द्धान्तं वाचां विषयो नेति सर्ववेदान्तसिद्धान्तस्तं चक्ति ब्रूते
'प्रवचनेनैव प्रोवाच, सह तूष्णीं बभूवेति श्रुतेः, यद्वा वामिन्द्रि-
यस्य मिथ्यात्वात्तद्रहितो मौन्यात्मा सः सिद्धान्तं सर्वशास्त्र-
सिद्धान्तनिर्णयं वक्तुरपि ततः पृथमसत्त्वात्स एच वक्ती
इत्यर्थः ॥ ३॥
आश्चर्यचतुष्टयी। किं चान्यदप्याश्चर्यमाह। निवैरो जयमाप्नोति निष्कामः पूर्णकामताम् । सुप्तो जागर्ति विज्ञानी मृतोप्यमृतमश्नुते ॥४॥ इति श्रीनरहरिकती बोधसार आश्चर्यचतुष्टयी ॥ ३२ ॥ निर्वैर इति । समत्वात्स्त्रस्य द्वेष्यविषयमिथ्यात्वाच निर्वैरो निर्गत निवृत्तं वैर विरोधो यस्मात्स तथोक्त प्रात्मा जयं सर्वो- घोगफलरूपं मोक्षमाप्नोति लभते, आश्चर्यान्तरमाह निष्काम इति, काम्यविषयाणामसत्वात्स्वस्य च पूर्णत्वानिष्कामो निर्गताः कामा यस्मात्स तथोक्तः स एवात्मा पूर्णकामतां पूर्णाः पर्याप्त कामा यस्य यस्मिन्वा स तथोक्तस्तस्य भावस्तत्ता तामामोति. 'सर्वान्कामान् समश्नुत' इति श्रुतेः, आप्तकामत्वादपीत्यर्थः, किं चान्यदप्याश्चर्यमाह सुप्त इति, विज्ञानी विज्ञानमात्मानुभवः स विद्यते यस्य स तथोक्तः पुरुषः मुप्तः प्रपञ्चस्य बाधितत्वेन तद्विषय- कज्ञानस्यापि बाधितत्वादज्ञानतेन सुप्तत्वं स जागर्ति जाग्रद्विषया- ननुभवति, यद्वा । 'या निशा सर्वभूतानां तस्यां जाति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनरिति भगवदुक्तेः ॥ प्रपञ्चे मुप्तत्वं स्वरूपे जाग्रत्वं चेति मुप्ते जाग्रत्वं संभाव्यं, यद्वा जाग्रदयस्थावत एव विश्वस्य स्वस्वरूपे मुसत्वात्प्रपञ्चे जागरयां चेति सुते जागृतिसम्भका सम्भाव्यः, यद्रा लोकदृष्ट्या मुप्तस्यैव जाग्रत्त्वं तत्रापि अज्ञानानन्दत्रिपुथ्यो। सत्वेन जाग्रल्लक्षणसद्भावादित्यर्थः, अन्यदाश्चर्यान्तरमाह मृतो- पीति, मृतोपि जीवत्वनाशं प्राप्तोति अमृतं न विद्यते मृत मरणं यस्मिस्तदमृतं ब्रह्माऽनुते प्राप्नोति, यद्वा लोकप्रसिद्ध बोधसारे। मरणवानपि स्वाधारं ब्रह्मैव पामोति, यज्ञह लोके मृतोपि अ- न्यलोकेऽमृतं सुधामश्नुते प्राप्नोति पुण्येन कर्मणेत्यर्थः ॥ ४॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीता- वाश्चर्यचतुष्टय्यर्थप्रकाशो द्वात्रिंशः ॥३२॥ अथ तुरीयतुलसीपूजा। एवमाश्चर्यचतुष्टयीनिरूपणमिषणाश्चर्य स्वरूपं ब्रह्म निरूप्ये- दानी तत्साक्षात्कारवतस्तुरीयबुद्धित्तिभिस्तत्पूजां निरूपयितुं तुरीयतुलसीपत्रपूजाख्यं षट्श्लोकं प्रकरणमभिदधान आह । अथ तुरीयतुलसीपत्रपूजा। अथेति । अथाश्चर्यचतुष्टयीनिरूपणानन्तरं तुरीयतुलसीपत्र पूजा तुरीया जाग्रदाद्यपेक्षया चतुर्थ्यात्मसाक्षात्कारवती बुद्धिः सैव तुलसी विष्णोर्जगद्व्यापकस्यात्मनः प्रियत्वात्तस्याः पत्राणि विशेषभावगर्भवत्तयस्तैः पूजाऽर्चा तनिरूपकत्वादस्य प्रक- रणस्याप्येतदेव नाम निरूप्यत इति शेषः, तत्रादौ तन्निरूपणमेव प्रतिजानीते। तुरीयतुलसीपत्रैर्विष्णुपूजा निरूप्यते । प्रेमप्रधानभावेन शृङ्गाररसरूपिणी ॥ १ ॥ तुरीयेति । मया प्रेमप्रधानभावेन प्रेम्णः स्नेहस्य प्रधानो मुख्यो भावः सत्ता यत्र मयि तेन मया शृङ्गाररसरूपिणी शृङ्गारः शुचिर्यो रसो रूप्यते प्रकाश्यतेऽस्यां सा तथोक्ता तुरीयतुलसी- पत्रैस्तुरीया स्वात्मसाक्षात्कारवती बुद्धिः सैव तुलसीव विष्णो जगन्यापकस्य विष्णोरात्मनः भियत्वाचुलसी तस्याः पत्राणि वृत्तिविशेषास्तैर्विष्णुपूजा विष्णोर्जगद्व्यापकस्यात्मनः पूजाऽचर्चा । तुरीयतुलसपित्रपूजा। ध्यानमित्यर्थः, लौकिकपक्षे विष्णुः प्रसिद्धस्तुरीयेच मुक्तिदा सुखदा च तुलसी शेषं समानम् ॥ १ ॥ तत्र गोपीवाक्यम् । तत्रोभयलक्षणायां पूजायां गोपीवाक्यं गोपस्य स्त्री गो- पी तस्या वाक्यं वचनम् । प्रकृतेर्थे गा इन्द्रियाणि पातीति गोपी बुद्धिस्तस्याः वाक्यं वचनं, यद्वा गां महावाक्यरूपां वाणी पाति रक्षतीति गोपी बुद्धिस्तुर्यस्वरूपा तस्याः शान्त्यादिसखीः प्रति वाक्यं वचनमिन्द वक्ष्यमाणं ज्ञेयमित्यर्थः, तद्वाक्यमुदाहृय दर्शयति । दृष्ट्या मया मधुरया कलितोऽधुनायं यत्कामिनीजनमनोहरणो मुकुन्दः । तं चिन्तयामि हृदये न सुखं गृहेस्मि- स्तस्मिन्बने भवतु तेन सहैव वासः ॥ २॥ दृष्टयेति । लोके तात्रदर्थो यः प्रसिद्धः कामिनीजनमनोह- रणः कामिनीनां कृष्णेन सह भोगकामवतीनां गोपिकानां जनः समूहस्तस्य मनसो हरणो वशीकर्ता मुकुन्दो मुक्तिप्रदः श्रीकृष्णो मया राधाख्यया मधुरया मूक्ष्मप्रेमभावगर्भितया सुखरूपयेत्यर्थः, दृष्ट्या दृशाऽधुनेदानीमयं मत्पुरोवर्ती कलितो वशीकृतो दृष्टश्च तं साक्षादृष्टमेव श्रीकृष्णं हृदये मनसि चिन्तयामि स्मरामि अतो मम मेऽतः परमस्मिन्प्रत्यक्ष गृहे वेश्यनि तत्कृत्ये च मुखं शर्म न विद्यते तीतः परं किमिच्छ- सीति चेत्तत्राह तस्मिन्निति, तस्मिन्यत्र दृष्टस्तत्रैव बने हुंदा- वने तेन श्रीकृष्णेन सहैव साकमेव वासः स्थितिभवतु अ- बोधसारे स्तु इति प्रार्थयामीत्यर्थः । प्रकृतार्थे तु यः प्रसिद्धः 'सत्यं ज्ञानम- नन्तं ब्रह्मेत्यादिश्रुतिषु कामिनीजनमनोहरण: कामोभिलाष आत्मसुखविषयकः स यासु विद्यते ताः कामिन्य आत्मस्नेह- तयस्तासां जनः समूहस्तस्य मन आत्मविषयकसंशयरू- पान्तःकरणत्तिस्तस्य हरणः स्वविषयकनिश्चयोत्पादनेन नाशकोऽत एव मुकुन्दो मुक्तिपदः परमात्मा मया तुर्या- ख्यया बुद्ध्या मधुरया स्वात्ममुखातुभवत्या सूक्ष्मया च दृष्ट्या दृश्यते साक्षादनुभूयत आत्मा यया सा दृष्टिरहं ब्रह्मा- स्मीति प्रमा रूपा वृत्तिस्तयाऽयं प्रयक्षपराक्षवरहितो भाग- लक्षणया कलितो ज्ञातः प्राप्तश्च, अतोऽधुनेदानी व्यवहा- रसमयेपीयर्थः, अहं तुर्या बुद्धिस्तं ब्रह्माभिन्नं प्रत्यगात्मानमेव हृदये हरति संर्व द्वैतमिति हृदयमपचादस्तमयते प्रामोतीति त- तथोक्तं सर्वदैतापवादावधिकान्तःकरणवृत्तिस्तस्मिंश्चिन्तयामि ध्यायामि अत एवास्मिन्प्रत्यक्षे गृहे गृह्यते स्वात्मतयाङ्गी क्रियत इति गृहं शारीरं तन्निमित्तो व्यवहारश्च तस्मिन्सुखं शर्म मम न न विद्यतेऽत इतः परं तस्मिन्नुपनिषदुक्ते बने वनषणसम्भक्तौ इति प्रकृतिकत्वादनशब्दस्य सम्भजने जीव- ब्रह्मक्यचिन्तन इत्यर्थः, मम चिदाभासविशिष्टतुर्याख्यबुद्धेस्तेन प्रत्यगभिन्नपरमात्मना सहैव साकमेव वासः स्थितिर्भवतु प्रस्तु इति प्रार्थयामीत्येवं भाव एवैकं पत्रमिति भावः ॥२॥ एवं निजेच्छां सख्यग्रे प्रकटीकृत्येदानी कृष्णसंगात्पूर्ववृ- त्तान्तमनुस्मृत्य राधिका सख्यग्ने निरूपयति । गोपालिकास्मि चतुरा न च मे मनीषा देहश्रिता विविधगोरसवासना मे । किम्वा विधेयमिति चिन्तयती स्थिताह आश्चर्यचतुष्टयी। तावबलान्मिलित एव मया मुकुण्दः ॥ ३ ॥ गोपालकति । अहं गोपालिकाऽऽभीरकुलोत्पन्ना ग्रामी णेत्यर्थः, अस्मि भवामि तथासांप मे मम मनीषा बुद्धिः चतुरा चातुर्यवती न न विद्यते तत्रापि मे मम विविधगोरसवासना विविधोऽनेकपकारो दुग्धदधितक्रनवनीतादिरूपो गोरस- स्तस्य वासना गन्धो देहश्रिता देहे शरीरे श्रिताऽऽश्रिताऽस्ति एते सर्वे दोषाः श्रीकृष्णचित्तरञ्जने प्रतिकूला एव मयि सन्ति अतः श्रीकृष्णचित्तरञ्जने मया किं विधेयं किं कर्तव्यमित्येवं चिन्तयती चिन्तां कुर्वत्यहं राधिका यावत्कालं स्थिता स्थित- वती तावत्तत्कालमेव मुकुन्दो मुक्तिप्रदो भक्तानां श्रीकृष्णो मया सह बलात्स्वेच्छयैव मिलितः प्राप्तः। प्रकृतार्थे तु तुरीया बुद्धिः स्वात्मसाक्षात्कारात्पूर्ववृत्तान्तं स्वस्यां अनुस्मरन्ती शान्त्यादि- वृत्तीः प्रत्याह गोपालिकति । अहं बुद्धिः प्रपञ्चनिश्चयात्मिका- वृत्तिोपालिका मा इन्द्रियाणि पालयति रक्षति असौ गोपा- लोऽहङ्कारो मोहो वा तस्य स्त्री तद्गोगकरणत्वागोपालिका- ऽस्मि भवामि मोहसंबद्धाऽहङ्कारसंबद्धा वेत्यर्थः, अत एक मे मम मनीषा मतिश्चतुराऽऽस्मानात्मविवेचने कुशला न न विद्यते च पुनर्मे मम विविधगोरसवासना विविधोऽनेकमकारो गवा- पिन्द्रियाणां रसः मुखं तस्य वासनेच्छा देहश्रिता देहे लिङ्गदेहे श्रिता लग्नाऽस्ति तिष्ठति एतादृश्यामात्मसाक्षात्कार- प्रतिकूलसामग्घ्रां मयि विद्यमानायां साध्ये स्वात्मसाक्षात्कारे मया किं वा विधेयं किं कर्तव्यमिसेवं चिन्तयती विचारं कुर्वती यावत्कालपर्यन्तं स्थिता स्थितवत्यस्मि तावत्तत्कालमेव ब- लात्स्वयमेव मुकुन्दो मुक्तिप्रदः प्रत्यगभिन्न परमात्मा मया त- चिन्तावत्या तुर्याख्यबुद्ध्या सह मिलित एवं प्राप्तः साक्षादनु बोधसारे। भूत इत्यर्थः, इतीदं द्विनीयं पतं ज्ञेयम् ॥ ६॥ इदानीं स्वस्याः कष्णेन सह रतिमदृष्टवतीनामपि सखी- नां स्मितमुखान्यवलोक्य तत्र कारणं चानिश्चित्य विस्मितमु- खी राधिका प्रियसखी प्रत्याह । एकाकिनी बत गतास्मि वने निशीथे कुले निलीय रमणस्य रसो गृहीतः । चित्रं भजामि कलयामि न तत्र हेतुं सर्वाः प्रसन्नवदना यदिमा वयस्याः ॥ ४ ॥ एककिनीति । हे सखि एकाकिन्येकलाऽहं राधिका निशीथे. ऽर्धरात्रे अर्धरात्रीनशीथौद्वा वित्यमरः' वने वृन्दावने गता याता- ऽस्मि बत हर्षेण ततस्तत्र कुञ्जे लताद्यातस्थाने 'निकुञ्जकुञ्जौ वा क्लीवे लतादिपिहितोदरे' इसमरः, निलीयान्तर्धाय लोकदर्शना- विषयीभूयेत्यर्थः, रमणस्य रतिसुखदातुः श्रीकृष्णस्य रस आ- नन्दो भोगमुर्खामात यावद् गृहीतोऽङ्गीकृतस्तत्र श्रीकृष्णन सह भोगमुखाङ्गीकारे यद्यस्मात्कारणदिमा एता मत्पुरो ह. श्यमानाः सर्वाः समस्ता वयस्या मक्रीडासहायिन्यः सख्यः प्रसन्नवदनाः प्रमन्नं हास्यशोभितं वदनं मुखं यासां तास्तथोक्ताः सन्ति तं हेतुं कारणं न कलयामि न जानामि तासां मया सह गमनाभावे मत्कृतसम्भोगस्य तासामदर्शने च कुञ्जन्तर्हितया मया कृष्णेन सह रतिसुखङ्गीकृते चैतासां तज्ज्ञानं कथं संजातं तज्ज्ञानाभावे च सत्यपि मां दृष्ट्वैतासां मुखे स्मितं दृश्यतेऽतोत्र हेतुनिश्चयाभावे केवलं चित्रमाश्चर्य भजामि सेवा- मि । प्रकृतार्थे तु इदानीं तुरीया स्वस्या ब्रह्मणा सहैक्यसुखा- नुभषे तदननुभवित्रीणां शान्यादिवृत्तीनां प्रसन्नतां लक्ष्यीकृय तुरीयतुलसीपत्रपूजा। तत्कारणं चानिश्चित्य विस्मितवती सविकल्पसमाधिवृत्ति प्र- स्याहैकाकिनीति । हे सखि 'जों खं ब्रह्मेति श्रुया ब्रह्मणः खा- भिधानेन प्रतिपादनात्सह खेन वर्तत इति सखी ब्रह्मणा सह चर्तमाना वृत्तिः सविकल्पसमाध्याख्या तस्याः सम्बोधने हे सखि, बतेति तस्या एव कोमलसम्बोधनात्मकमव्ययं हर्षायक वा, एकाकिन्यसहायिन्यद्वितीयेत्यर्थः, भूत्त्वेत्यध्याहार्य, वने सम्भजनार्हे ब्रह्मणि वनधातोः सम्भजनार्थत्वात्तत्प्रकृतिको वन- शब्दः, निशीथे गाढान्धकारतया विषयादर्शनमित्र ब्रह्म- ग्यपि द्वितीयाऽदर्शनानिशीथमिव निशीथं ब्रह्म तस्मिन्गता प्राप्ताऽस्मि भवामि ‘या निशा सर्वभूतानामिति भगवदुक्त, ततः कुळे कुंकुत्सितं मायां तत्कार्यं च जयति वशीकरोतीति कुञ्जमी- श्वरतत्त्वं तस्मिनिलीय तदाकारतां प्राप्य, यद्वाकु क्षेत्रं बुद्ध्यादिकं जयति स्ववशतया स्वस्वकार्ये प्रेरयतीति कुजं ब्रह्माभिन्न प्रस- गात्मस्वरूपं तस्मिन्निलीयैकीभूय कुः पृथ्वी सा यथा वीजस्याने- करूपेणाविभूतिकारणा तद्वदात्मनानात्वप्रतीतिसाधना बुद्ध्यादि. क्षेत्ररूपा कुमाब्देन ग्रामात्र, रमणस्य रमयति सुखयति जगदिति रमणं ब्रह्म तस्य 'एष ह्येवानन्दयातीति, श्रुतेः, 'एतस्यैवानन्द- स्यान्यानि भूतानि मात्रामुपजीवन्ती'सादिश्रुतेश्च रस आनन्दो 'रसौ वै स' इति श्रुतेहीतोऽङ्गीकृतोऽनुभूत इयर्थः, तत्र मम ब्रह्म सुखानुभवे यद्यस्मात्कारयादेतासां शान्यादीनां लौकि- कवृत्तीनां च मत्सहचारित्वाभावे सति मदनुभूतब्रह्मसुखस्य तामु प्रतीत्यभावे च सतीमा मम ब्रह्माकारायाः प्रकाश्यत्वेन दृश्यमाना वयस्या मत्समवयस्का विवेकममय एव मत्सहि- तानां शान्त्यादिवृत्तीनामुत्पतेः शान्यादिवृत्तयः सर्वाः समाप्ता: प्रसन्नवदनाः प्रसन्नं निर्मलं रागादिहीनं वदनं 'चेतामुख' इति बोधसारे। ૬૯૨ श्रुतेविषयभोगसाधनमग्रमेवान वदनं मुखं यासां तास्तथोक्ताः सन्ति तं हेतुं कारणमहं तुर्याख्या बुद्धिन कलयामि न जानामि किं च केवलं चित्रमाश्चर्य भजामि सेवामि ममात्मसुखानुभवे सति मद्भिन्नानामेतासां कथमानन्दानुभव इति विस्मयामि केवलं तद्धेतुं न जानामीत्येव भावस्तुर्याख्यतुलस्यास्तृतीयं पत्रं ज्ञेयम् ॥४॥ ननु श्रीकृष्णभोगजन्यं मुखं कीदृशं तत्कथयेसाशय त- स्यानिर्वचनीयत्वनिरूपण पूर्वकं चिह्नरेव तन्निरूपयति । किं वर्णयामि पुरतः किल कस्य वर्ण्य किं वर्णितेन सखि वर्णयितुं न शक्यं । अङ्गानि मे विगलितानि सहैव नीव्या दष्टे धरे रतिरसे रतिनायकेन ॥ ५ ॥ किमिति । कस्य पुरतो यस्याग्रे वर्णनीयं तस्य तदनुभवा- भावान कस्याप्यग्रे वर्णनीयमित्यर्थः, तथा कस्य वयं वचन- विषयं भवन्न कस्यापीत्यर्थः, अनुभवितृवकोः क्रियाभेदेन क- तभेदादन्यानुभूतस्यान्येनकथनाशक्तेरनुभवित्रानुभूतस्य मुख- स्य वक्तुर्वचनविषयत्वासम्भवादिति भावः, वर्णितेन श्रीकृ- ष्णसंभोगजन्यमुखवर्णनेन कृतेनापि किं किं फलं न किपि फ. लमित्यर्थः, अतो हे सखि हे आलि तत्सुखं वर्णीयतुं वर्णनं कर्तुं न शक्यं न सामर्थ्य विषयमतः किं वर्णयामि कथं वर्ण- यामि न कथमपि वर्णयामीतियावद्, अत एव लक्षणेनैव तल्ल- क्ष्यमित्याशयेन श्रीकृष्णभोगसुखाविर्भावेऽस्यां लक्षणानि त- स्कालीनान्याहाऽङ्गानीति, रतिनायकेन रतिमुखस्य पुरुषा. धीनस्वादतर्मैथुनमुखस्य नायकः स्वामी श्रीकृष्णस्तेनाधरे- ऽधरोष्ठे दुष्टे चुम्बिते सति ततो तिरसे रतमैथुनस्य रसः तुरीयतुलसीपत्रपूजा। ६०३ मुखं तस्मिन्नाविर्भूत इति शेषः, मे मम नीव्याऽधरवस्त्र- बन्धेन सहैव साकमेवाङ्गानि हस्तपादादीनि विगलितानि शि- थिलानि जातानि एतेनैव लक्षणेन श्रीकृष्णेन सह रतिमुखं जानीहि न तु तद्वचनेन निरूपयितुं शक्यमिति भावः, प्रकृता- थेपि तुरीया बुद्धिः स्वसमीपवर्तिनी सविकल्पसमाधिरूपां वृत्तिं प्रति ब्रह्मसुखानुभवस्यावर्णनीयत्वनिरूपणपुरःसरं तत्सुखं स्वानुभुनं स्वस्यां तच्चिनैर्लक्षयाति किमिति । कस्य पुरतो न क- स्यापीयर्थः, ब्रह्मसुखाकाराया मम द्वितीयाभात्रादिति भावः, तथा कस्य वक्तुस्तत्सुखं वर्ण्य वर्णनविषयं भवेन्न कस्यापीयर्थः, 'यतो वाचो निवर्तन्त' इत्यादिश्रुया ब्रह्मसुखस्य वागविषयत्व- प्रतिपादना नान्योतोस्ति दृष्ट'त्यादिश्रुत्या वक्तुरप्यतः पृथगस- चप्रतिपादनाचेति भावः, अत एव किं कर्णितेन तद्वर्गानस्य प्र- लापत्वादुपहासास्पदेन तद्वर्णनेन कृतेनापि किं फलं न किम- पीत्यर्थः, व्यर्थश्रममात्रं तदिति भावः, अतो हे सखि तुर्यानुकू- ल्यान्मित्रत्वेन सविकल्पसमाधिमुद्दिश्य तुर्याख्यबुद्धिकृतं सम्बो- धनं योज्यं तत्सुखं वर्णयितुं वर्णनविषयीकर्तुं न शक्यं न सा- मीविषयमस्ति अतः किं वर्णयामीत्युदासीनता वाक्प्रपञ्चे स्वस्याः दर्शिता ब्रह्मसुखानुसन्धानविरोधित या वाक्प्रपञ्च- स्येति दुःखरूपत्वेन निष्फलत्वेन चेति भावः, अतस्तच्चिनैव दर्शयति अङ्गानीति, रतिनायकेन रते रमणस्य सुखस्येत्यर्थः, नायकेन स्वामिना ब्रह्माभिन्न प्रत्यगात्मना 'एष ह्येवानन्दया- तीति श्रुत्या जगदानन्दयितृत्वप्रतिपादनात्मुखस्यात्माधीनखे- नात्मनस्तत्स्वामित्वमिति भावः, अधरे 'मनसैवेदमाप्तव्यमित्या- दिश्रुत्या वृत्तिव्याप्यत्वपतिपादनात्तस्या एव वृत्तेब्रह्मणोऽधः- स्थितत्वात्तुर्याख्यबुद्धेममांशत्वेनाधरत्वं तस्मिन्, यद्वा धरतीति akforman बोधसारे। ६०४ धरः प्रपञ्चधारकोऽविवेकांशस्तस्मिन्दष्टे सति नाशिते सति, वृत्तिपक्षे स्पृष्टे सतीसर्थः, खैक्ये सम्पादिते सनीति वा, ततो रतिरसे रते रमणस्य प्रत्यगभिन्न ब्रह्मज्ञानलक्षणक्रीडाया रसे मुखे निरतिशयानन्द आविर्भूते सतीति शेषः, मे मम तुर्याख्य- बुद्धनीव्या सहैवाधरवस्त्रबन्ध इव वस आच्छादन इति धा- तोर्वस्त्रशब्दनिष्पत्तेस्तस्य चाच्छादनार्थत्वेन शरीरस्याप्यात्मा- च्छादकत्वेन वस्त्रसादृश्यात्तस्यात्मनश्च सम्बन्धहेतुत्वादहङ्कार एव नीची सादृश्यानीवीशब्देनात्र ग्राहस्तेन सहैव साकमेवा- शानि अनुभवित्रनुभवानुभवितव्याख्यानि त्रिपुटीरूपाणि कि- गलितानि नष्टानि अन्यानि प्रसिद्धानि शरीराणि च नष्टानि अनेनैव लक्षणेन तत्सुखमनुमेयमिति भावः ॥ ५॥ इदानीं स्वस्याः कृष्णेन सह सम्भोगे पूर्वसुकृतमेव कारणं निश्चित्य सख्यग्रे निवेदयति । नन्वेतदेव सुकृतं फलितं मदीयं यत्कामिनीषु रसलंपट एष कृष्णः । लक्ष्मीपतेरितरथा न भवेदकस्मा- दस्मासु गोपवनितासु कथाप्रसङ्गः ॥ ६ ॥ नन्विति । एतत्कृष्णेन सह भोगफलकं मदीयं ममेदं मदीयं मत्पूर्वकृतमित्यर्थः, मुकृतमेव पूर्वजन्मकृतं पुण्यकमैंव फलितं श्रीकृष्णभोगरूपेण परिणतं नन्विति वितर्कयामि कुत इसत माह पदिति, यद्यस्मात्कारणादेष मत्पुरोवर्ती श्रीकृष्णो भूमानन्दरूपं ब्रह्मैवास्ति । 'कृषिभूवाचकः शब्दो णश्च नितिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥
तुरीयतुलसीपत्रपूजा। ६०५ इत्युक्तेस्तस्य च निष्कामेष्वेव साक्षादृश्यत्रोक्तेरस्माकं सर्वदा दृश्यमानः, किञ्च कामिनीषु कामवतीषु अस्मासु प्रा. कृतस्त्रीषु रसलम्पटो रसः मुखमस्मत्सम्भोगजन्यं मुखं त- स्मिल्लम्पटो लुब्धोऽस्ति तस्मात्कारणादिति योज्यं, तदुक्त. मेव व्यतिरेकेण द्रढयात लक्ष्मीपतेरिति, इतरथाऽन्यथा ऽस्मत्सुकृतोदयाभाव इत्यर्थः, लक्ष्मीपतेरिति हेतुगर्भ विशेषणं स्त्रीलुब्धत्वं यदि श्रीकृष्णे यदि सम्भाव्यं तर्हि सर्वस्वीरत्नं ल. क्ष्मीस्तस्या ब्रह्मादिप्रार्थनीयत्वं प्रसिद्ध तथा सति तस्यास्तेषु चा- चल्यं प्रसिद्ध, तस्या एव श्रीकृष्ण स्थैर्य दृश्यते शास्त्रेषु च लक्ष्मी- पतित्वं चास्य प्रसिद्धं, किश्चास्य तस्यामुदासीनत्वादपि तस्थैर्य- मिति तस्य श्रीकृष्णस्याकस्माद्विना साधनानुष्ठानं तत्र हेतुर्गोपच. नितासु गोपानामाभीराणां वनितासु स्त्रीषु अस्मासु राधिका- द्यासु कथाप्रसङ्गः कथायां वार्तायामपि प्रसङ्गः संबन्धो न भ. वेन स्यात् किं पुनर्वक्तव्यं सम्भोगप्रसङ्गो न स्यादिति तस्मात्पू- सुकृतमेव फलितमिति निश्चयः । प्रकृनार्थे तु तुर्या बुद्धिः स्वस्या ब्रह्मैक्याकारवृत्तिजन्यमुखानुभूवे पूर्वानन्तजन्मसम्पादितमुकृतमेव कारणं निश्चित्य सविकल्पसमाधिमेव पुरोवनिनी लक्ष्यीकृत्य तदने निवेदयति नन्विति, एनत्स्वस्या जीवब्रह्मैक्यमुखाप्तिरूप- मिदं मदीयं ममेदं मदीयं मयैवानन्तजन्ममु सम्पादितमित्यर्थः, सुकृतं पुण्यमेन सम्पादितं फलितं जीवब्रह्मैक्यभावज्ञानरूपेण त- त्सुखावाप्तिरूपेण च परिणतं नन्वित्येवं निश्चिनोमि कुत इत्यत आह यदिति, एष मत्पुरः साक्षादृश्यमानोऽयं कृष्णो ब्र. मानन्दोऽस्ति । कृषिभूवाचकः शब्दो णश्च नितिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥
बोधसारे इत्युक्तस्तस्य तु निष्कामेष्वेवानुभूयमानत्वप्रसिद्धरस्मासु अहंकारविशिष्टासु अत एव गोपवनितासु गा बुद्धिवृत्तीरात्मस- त्वारोपेण पातीति गोपो बुद्धिवृत्तिपालकोऽहंकारस्तस्य वनिता- स्तद्भजनरता वयं तुर्याया आप अहंकारसम्बन्धवत्वाद्गोपवनिता- त्वमन्यत्तिवदेव ज्ञेयं, वमधातोः सम्भजनार्थत्वाद्वनिताशद्वस्य च तत्मकृतिकत्वाचेतिभावः, तत्रापिकामिनीषुमारब्धशेषपर्यन्तं लो- कविषयेच्छावतीषु निष्कामेष्वेव ब्रह्मसुखानुभवप्रतिपादनादिति भावः, यद्वा कामयितुं ब्रह्मसुखमर्थयितुं शीलं यामां तास्तथो- तास्तासु स्वरूपसुखस्य नित्यमाप्तत्वादपि तदिच्छागि तदनुभवे बाधकैवेति तत्कामवतीष्वपि तत्साक्षात्कारो दुर्लभ इति भावः, तदेव व्यतिरेकेण द्रढयति लक्ष्मीपतेरिति, इतरथाऽन्यथाऽस्म- त्सुकृतफलोदयोन्मुखताभावे सतीत्यर्थः, लक्ष्मीपतेर्लक्ष्मीरत्र गुरुवाक्यस्थिता भद्रा ग्राह्या 'भट्टैषां लक्ष्मीनिहिताधिवाची ति श्रुतेस्तस्या मोक्षलक्ष्म्याः पतिः पालकः स्वामी परमा- स्मा तस्य मोक्षलक्ष्मीदातुः परमात्मनो गुरोश्चाकस्माच्छीघ्रं अस्मासु तुर्यादिनाम्नीषु गोपवनितासु बुद्धिवृत्तीरि- न्द्रियाणि च पाति रक्षतीति गोपो महामोहोऽहङ्कारो वा तं वनन्ति सम्भजन्तीति गोपवनिता अज्ञानवृत्तयोऽहङ्कारसं- बद्धाश्च तादृशीषु प्रारब्धपर्यन्तं सर्वतिष्वपीत्यर्थः, कथाप्रसङ्गः कथया वार्तया प्रसङ्गः संबन्धो न भवेन्नस्यात्तत्र किं वक्तव्यं साक्षादनुभवो न भवेदिति अनोत्र सर्वदा सर्वत्तिषु अस्माक- मात्मानुभवेऽस्मत्सुकृतमेव कारणमिति निश्चेतिव्यमिति भावः॥६॥ इदानीमेतत्तुरीयतुलसीपत्रैरात्मानुसन्धानलक्षणे पूजने फ- लितमाह । तुरीयतुलसीपत्रैर्वनमाली सुपूजितः ।
हेतुमालाहीरावली। अस्मिन्वने महामिष्टं यत्फलं तत्प्रयच्छति ॥ ७ ॥ इति श्रीनरहरिकृती बांधसारे तुरीयतुलसीपत्रपूजा त्रयस्त्रिंथा ॥३३॥ तुरीयेति । अधिकारिशरीरं प्राप्य पुरुषेण तुरीयतुलसीपत्र- स्तुरीयमिव मोक्षफलदात्री तुलसी तस्याः पत्राणि दलानि तैः कृत्वा वनमाली वनमालाऽऽपादलम्विनी माला स्रग्विद्यते यस्य स श्रीकृष्ण 'आपादलम्बिनीं मालां वनमालां विदुर्बुधा' इति कोशोक्तेः, सुपूजितः मुष्ठ प्रेम्णा पूजितोऽर्चितश्चेद्यदि तीत्यध्याहार्यम् , अस्मिल्लोकप्रसिद्ध वने कर्माद्युपासनान्तल- क्षणे सम्भजने यन्महामिष्टं प्रमिद्धमत्यन्तसुखरूपं फलं सर्व- जन्मकृनकर्मणामुपासनानां च फलत्वात्तदेवफलं प्रेमलक्षणं त- त्प्रयच्छति ददाति । प्रकृतार्थे तु अधिकारिणा तुरीयतुलसीपत्र- स्तुरीयाऽऽत्मसाक्षात्कारवती बुद्धिरेव तुलसीव विष्णुमियत्वा- दात्मप्रियत्वाच्च तस्याः पत्राणीव तद्वृत्तय उक्तलक्षणास्तै - नमाली वनं तुर्यबुद्धयाऽऽत्मानुसन्धानलक्षणं भजनं तेन मा- लाते शोभते इति वनमाली तुर्यानुभूतः परमात्मा सुपूजितो नैरन्तर्येणानुसन्धत्तश्चेत्तर्हि अस्गिनकाण्डत्रयवेदप्रसिद्ध वने क- मोपासनाज्ञानलक्षणे सम्भजने यांद्ववेकिमसिद्धं महामिष्टं नि- रतिशयसुखस्वरूपं मोक्षाख्यं फलं तत्प्रयच्छति ददाति ॥ ७ ॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्ती- तुरीयतुलसीपत्रपूजार्थप्रकाशस्त्रयस्त्रिंशः ॥ ३३ ॥ अथ हेतुमालाहीराक्ली । एवमात्मानुसन्धानरूपां तुरीयतुलसीपत्रपूजां निरूप्ये- दानी ज्ञानवतां जन्माभावादिधर्माः शास्त्रेषु कथितास्तेषां हेतू- नप्रतिपादयितुं तेषां बहुत्वेन च हीरकघटितमालेब कण्ठशोभा- बकाया बोधसारे। कारित्वाद्धेतुमालाहीरावल्याख्यं द्वाविंशति श्लोकं प्रकरणं मा- रममाण आह । अथ हेतुमालाहीरावली। अथेति । अथ तुरीयतुलसीपत्रपूजानिरूपणानन्तरं हेतुमा- लाहीरावली तूनां कारणानां माला स्रगेव हीरावली हीरक- स्रगतदाख्यं प्रकरणमित्यर्थः, निरूप्यत इति शेषः, नतु ज्ञा- निषु जन्माभावादिगुणाः श्रुत्युक्ताः सन्ति श्रुतीनां च सर्वम- माणांशरोमणित्वातदुक्तथै प्रामाण्यमेवातः किन्तदर्थहेतुविचा- रणेसाशयाह । श्रतिप्रामाण्यसिद्धेऽर्थे हेतुभिः किं तथापि हि । अपूर्वरचानात्मत्वादलङ्कारो महान्यतः ॥ १ ॥ श्रुतीति । श्रुनिप्रामाण्यसिद्धे श्रुतीनां स्वतः प्रमाणभूतानां वेदवाक्यानां प्रामाण्यं प्रामाणिकत्वं सर्वप्रसिद्धं तेन चोक्ते कथितेऽर्थे पदार्थ आस्तिकानां सर्वेषामपि निश्चयारूढत्वा- द्धतुभिः कारणमश्चैस्तनिरूपणैश्च किं किं प्रयोजनं न किम- पीत्यर्थः, तथापि हेतुनिरूपणस्य निष्पयोजनत्वेपि हि यतोऽपू- रचनात्मत्वादस्य प्रकरण स्यापूर्वा पूर्वाचायनिरूपितत्वाभा- वात्संग्रहण नोक्ता रचना घटना यस्याः सा तथा भूता ऽऽत्मा स्वरूपं यस्य प्रकरणस्य तस्य भावस्तत्त्वं तस्मादस्य प्रकरणस्य निरूपणेन साफल्यमस्तीति भावः, हेवन्तरमाहा- लङ्कार इति, यतः कारणादिदं हेतुमालानिरूपणं तद्रचनं च कण्ठे धृतेऽधिकारिणां महानतिश्रेष्ठोऽलङ्कारो भूषणं भवेद- तोस्य निरूपणं सफलमेवेति भावः, हेतुमाला निरूप्यत इति १ हेतुमालायाः।
हेतुमालाहौरावली। ६०९ चा पाठः, भवो हेतुमाला हेतूनां कारणानां माला स्रगिवैतत्म- करणं निरूप्यते प्रतिपाद्यत इत्यर्थः ॥ १॥ तत्रादौ ज्ञानिषु जन्माभावकथनस्य हेतुं दर्शयति । जन्म नामासतः सत्ता जातसाक्षात्कृतिर्मुनिः । सद्रूपतामेव गतस्तेन जन्म न विद्यते ॥ २॥ जन्मेति । असतोऽहंकारादेः सत्ता स्वात्मसत्तारोपेण सत्व- प्रतीतिः स्वात्मतादात्म्यमित्यर्थः, जन्यं जननं नाम प्रसिद्धमस्ति तदुक्त विद्यारण्यस्वामिभिः । सदद्वैतेऽनृतद्वैते यदन्योन्यैक्यवीक्षणम् । तस्यान्तकालस्तद्भेदबुद्धिरेव न चेतरः ॥ इति । तथा सति जातसाक्षात्कृतिर्जातोत्पन्ना साक्षात्कृतिरद्वैता- त्मसाक्षात्कारो यस्य स तथाभूतो मुनिर्मननवान्सद्रूपतां सतो ब्रह्मणो रूपमाकारस्तस्य भावस्तत्ता तां गत एव तेन हेतुना तस्य मुनर्जन्म सदसदैक्यप्रतीतिरूपं जननं न विद्यते नास्तीति प्रतिपादितं श्रीतभिरिति शेषः सर्वत्र कर्त्तव्यः ॥२॥ इदानी ज्ञानिषु मरणाभावप्रतिपादने हेतुं दर्शयति । प्राप्तवानमृतं ब्रह्म जातसाक्षात्कृतिर्मुनिः । अमृतं येन संप्राप्तं स मृतत्वं कथं ब्रजेत् ॥३॥ प्राप्तवानिति । अमृतं न विद्यते मृतं मरणं यत्र तदमृतं ब्रह्म देशकालवस्तुकृतपरिच्छेदशून्यं वस्तु प्रत्यगभिन्नमात्मानमियर्थः, प्राप्तवाल्लब्धवानत एव जातसाक्षात्कृतिर्जातोत्पन्ना साक्षा- स्कृतिमरणरहितात्मसाक्षात्कारो यस्य स तथोक्तो मुनिन्यि स्ति अतो हतार्येन मुनिनाऽमृतं मरणरहितं ब्रह्म समाप्तं लब्धं ७७ बोधसारे। निःसंशयमहमिनि स्वात्मत्वेनाङ्गीकृतमियर्थः, स मुनिर्मूतवं मरगाभावं कथं केन प्रकारेण व्रजेत्माप्नुयात् ॥ ३ ॥ तत्रैव प्रकारान्तरेण हेत्वन्तरमाह । मृतिः शरीरसंत्यागो जातसाक्षात्कृतिर्मुनिः । शरीरं त्यक्तवान्पूर्व मृतस्य मरणं किमु ॥ ४ ॥ मृनिरिति । मृतिलोकप्रसिद्धा शरीरसन्यामः शरीरस्य दे- हस्य सन्यागः सम्यक्त्यागो विसर्जनं प्रसिद्धा तथा सति जा- तमाक्षत्कृतिर्जानोद्भूना साक्षात्कृतिमरगाहितदेहायतीतात्म. माक्षात्कारो यस्य स तथोक्तो मुनिानी शरीरं देहं पूर्वलो- कप्रसिद्धमरणात्यागेव त्यक्तवान्विसृष्टवानतो हेतोप॑तस्य त्यक्त- देहस्य भरणं मृत्युः किमु किमिव कथमिव न कथमपि भवती. त्यर्थः, अनो ज्ञानिनो मरणं नास्तीत्युक्तं ज्ञेयम् ॥ ४ ॥ इदानी ज्ञानिपुं कर्तृत्वाभानोक्त हेतुं दर्शयति । अहन्तया सहैवायं जातसाक्षात्कृतिर्मुनिः। कर्तृवमत्यजत्तस्मात्कर्मभिर्न स लिप्यते ॥ ५ ॥ अहन्तयेति । जातसाक्षात्कृतिजातात्पन्ना साक्षात्कृ- तिम्हङ्कारातीतात्मसाक्षात्कारो यस्य स तथोक्तो मुनि- न्ययं प्रकृतोऽहन्तया सहैवाहङ्कारेण साकमेव कर्तृत्वं कती कर्मेन्द्रियैः सहितो विज्ञानमय स्तस्य मावस्तादात्म्यमत्यजत्य- क्तवान्तस्मादेतोः स मुनिः कर्मभिः क्रियाभिन लिप्यते लिप्तो न भवतीति ज्ञेयम् ॥ ५ ॥ ननु कर्मभिज्ञानिनां लेपो नास्तीत्युक्तं तत्र पापजनकैः क- मभि लेपो माभूत्युण्य कर्मभिस्तु स्यादवेत्याशा तैरपि ज्ञानिनां लेषा नास्तीति कथयन्तत्रापि हेतुं वर्शयति ।
हेतुमालाहीरावली। स्वयमेव पवित्रात्मा जातसाक्षात्कृतिर्मुनिः । न च पुण्यैः पवित्रोऽसौ तेन पुण्यैर्न लिप्यते ॥६॥ स्वयमेवेति । जातसाक्षात्कृतिर्जावोत्पन्ना साक्षात्कृति- रात्मसाक्षात्कारो यस्य स तथाभूतो मुनानी स्वयमेव स्वत एव पवित्रात्मा पवित्रः पावन प्रात्मा स्वरूपं यस्य स तथा भूतो- ऽस्ति असौ ज्ञानी पुण्यैः पुण्यकर्मभिः पवित्रः पावनो न च नैव भवेत्तेन हेतुना पुण्यैः पवित्रकर्मभिन लिप्यते न लियो भवति स्वतः पवित्रस्य ज्ञानिनो न पुण्यकर्मकृतपवित्रत्वलेष इति भावः ॥ ६ ॥ ननु तर्हि पापैरेव लेपोस्तु ज्ञानिनस्तत्राह । अत्यन्तशुद्धरूपोऽसौ जातसाक्षात्कृतिर्मुनिः । तत्करोति पवित्रं यत्तन पापैर्न लिप्यते ॥ ७ ॥ असन्तेति । जातसाक्षात्कृतिर्जातोत्पन्ना साक्षात्कृतिरा- स्मसाक्षात्कारो यस्य स तथोक्तो मुनिन्यिसौ ज्ञान्यस्यन्त- शुद्धरूपोऽत्यन्तमुत्कृष्टं शुद्धं निर्मलं रूपमात्मा यस्य स तद्विधोऽस्ति अतः यत्मसिद्धं शास्त्रविहितं कर्म शुद्धं निर्मलमति तत्करोति आचरति तेन स्वतः शुद्धतेन हेतुना शुद्ध कर्माचरगोन हेतुना च पापैः किल्विषैन लिप्यते न लिप्तो भवति, यद्वा पापकर्मा- नाचरणं हेतुः शुद्धत्वे शुद्धत्वं च पापालेपे हेतु यः ॥ ७ ॥ इदानीं ज्ञानिषु हर्षा भावोक्तेर्हेतुं दर्शयति । सहजानन्दरूपत्वाजातसाक्षात्कृतिर्मुनिः । येन हृष्यति तन्नास्ति तस्मादेष न हृष्यति ॥ ८ ॥ सहजेति । सहजानन्दरूपत्वात्सहजः स्वाभाविको य भा.
बौघसारे। ६१२ नन्दो निरतिशयमुखं स एव रूपं यस्य स तथोक्तस्तस्य भा. वस्तत्त्वं तस्माद्धेतोर्जातसाक्षात्कृतिर्जातोत्पमा साक्षा- कृविरानन्दात्मसाक्षात्कारो यस्य स तथोक्तो मुनिज्ञानी येन पदार्थेन हृष्यति हर्षे मामोति तत्पदार्थजातं नास्ति न वि- घते ज्ञानिदृष्ट्या 'नेह नानास्ति किञ्चने यादिश्रुया द्वैतजातस्य समस्तस्य बाधितत्वादिति भावः, तस्मात्स्वतः मुखरूपत्वादन्यस्य मुखकारणविषयस्यासत्त्वाद्धेतोश्चैष प्रकृतो ज्ञानी न हृष्यति हर्ष नामोति स्वाभाविकानन्यरूपत्वं द्वैतासत्त्वं च हर्षाभावे हेतुद्वर्य नेयम् ॥ ८॥ इदानी ज्ञानिषु द्वेषाभावोक्तेर्हेतुं दर्शयति । नापक क्षमः कश्चिजातसाक्षात्कृतेर्भवेत् । अपकर्तृरभावेन स तु न दृष्टि कंचन ॥ ९ ॥ नेति । जातसाक्षात्कृतेर्जातोत्पन्ना साक्षात्कृतिः स्वात्म- साक्षात्कारो यस्य स तथाविधस्तस्य मुनेानिनोऽपकर्तुमपकार कर्तुं क्षमः समर्थः कश्चित्कोपि न न विद्यते निर्विकारात्मस्वरू- पत्वाज्ज्ञानिनोऽपकर्तुरपि पृथगसत्वाचापकर्तुरप्यात्मत्वाचेति भावः, अतोऽपकर्तुरभावेनापकारकारिणोऽसत्वेनं हेतुना स तु ज्ञानी तु कञ्चन कमपि न द्वेष्टि नाप्रियं मनुते ॥९॥ इदानी ज्ञानिनां शोकाभावोक्तेहेतुं सोपपत्तिकं दर्शयति । अप्राप्यमवशिष्टं किं जातसाक्षात्कृतेर्मुनेः । हानिर्नास्ति ततो हेतोर्न शोचति कदाचन ॥ १० ॥ अप्राप्यमिति । जातसाक्षात्कृतेर्जातोत्पन्ना साक्षात्कृतिः सर्वात्मसाक्षात्कारो यस्य तस्य मुनेरणाप्यं न प्राप्तुं लब्धं योग्यमप्राप्यमवशिष्टमुर्वरितं किं किं वस्तु अस्ति न किमपी- हेतुमालाहीरावली। त्यर्थः, सर्वात्मप्राप्त्यैव सर्वप्राप्तिसिद्धेरिति भावः, अतो हानि- नाशो ज्ञानिनो नास्ति न विद्यते ततस्तस्माद्धेनोः कारणात्क- दाचन कस्मिन्नपि समये न शोचति शोकं न करोति ॥१०॥ इदानीं ज्ञानिषु इच्छाभावोक्तेर्हेतुं दर्शयति । केनाप्येष प्रकारेण जातसाक्षात्कृतिर्मुनिः । ब्रह्म सर्वात्मकं प्राप्य न कांक्षति किमप्युत ॥११॥ केनापीति । एष प्रकृतो जातसाक्षात्कृतिर्जातोत्पन्ना सा- क्षात्कृतिः स्वात्मसाक्षात्कारो यस्य स तथोक्तो मुनिर्मननवा- सर्वात्मकं सर्वस्य द्वैतजातस्यात्मा तत्त्वं ब्रह्म देशकालवस्तुकृतप- रिच्छेदशून्यं वस्तु प्राप्य लब्ध्वा केनापि प्रकारेण केनापि हे- तुना किमपि किञ्चिदपि वस्तु न काङ्क्षति नेच्छति ॥ ११ ॥ इदानीं ज्ञानिषु भयाभावोक्तेहेतुं दर्शयति । न ह्यन्यो बलवान्कश्चिजातसाक्षात्कृतेर्भवेत् । यस्माद्विभेति तन्नास्ति तस्मादेष विभेति न॥ १२॥ नहीति । जातसाक्षात्कृतेः र्जातोत्पन्ना साक्षात्कृतिनिर्भ- यात्मसाक्षात्कारो यस्य तस्याऽन्यो द्वितीयः कश्चित्कोपि बल- वान्बली न भवेन स्याद्धि प्रसिद्धमेतत्सर्वविवेकिषु यस्गा- त्पुरुषायाघ्रादेर्वा विभेति ज्ञानी भयं प्रामोति तत्पुरुषजातं व्या- घ्रादिकं वा नास्ति न विद्यते 'नेह नानास्ति किञ्चने ति श्रुया सर्वस्य द्वैतजातस्य बाधितत्वादिति भावः, 'द्वितीयादै भयं भवतीति श्रुसा द्वितीयस्य भयहेतुत्वप्रतिपादनाचात्मनोन्यस्य निर्बलत्वाचेति तस्माद्धेतो रेष ज्ञानी न बिभेति न भयं प्रा- मोति ॥ १२॥ इदानीं ज्ञानिषु विषादाभावोक्तेर्हेतुं दर्शयति ।
६१४ बोधसारे यदस्य कार्य परमं जातसाक्षात्कृतेर्भवेत् । तत्सर्वमेव संसिद्धं न तस्मात्स विषीदति ॥ १३ ॥ यदिति । अस्य प्रकृतस्य जातसाक्षात्कृतेर्जातोत्पन्ना साक्षात्कृतिः स्वात्मसाक्षात्कारो यस्य तस्य मुनेानिनो य- सर्वशास्त्रेषु विद्वत्सु च प्रसिद्ध परमं श्रेष्ठं मुख्यमित्यर्थः, कार्य कर्तव्यं साध्यमित्यर्थः, तत्कार्य सर्व समस्तमपि संसिद्धं फल- तमेव न त्ववशिष्टं किञ्चिदपि कार्यमस्ति आत्मज्ञाने सर्वकर्म- समाः, तदुक्तं भगवता । 'सर्व कर्माखिल पार्थ ज्ञाने परिसमाप्यत' इति । तस्मात्सर्वकर्मफलभूतज्ञानोत्पत्तेहेतोः स ज्ञानी न विषीदति विषादं न पामोति ॥ १३ ॥ इदानीं ज्ञानिषु मानाभावोक्तेहेतुं दर्शयति । मान्यस्तु पद्मजादीनां जातसाक्षात्कृतिर्मुनिः । मानितो यदि लोकेन स तु मानं न विन्दति ॥१४॥ मान्यस्विति । जातसाक्षात्कृतिर्जातोत्पन्ना साक्षात्कृ. तिब्रह्मादिमान्यात्मसाक्षात्कारो यस्य स तथाविधो मुनिर्म- ननशीलो ज्ञानी सर्थः, पद्मजादीनां पद्मात्कमलाजात उत्पन्न: पाजो ब्रह्मा स आदिमुख्यो येषां विष्ण्वादीनां तेषां मा- न्यस्तु मानितुं योग्य एवास्ति स ज्ञानी लोकेन सामान्य- जनेन यदि यहि मानितः पूजितस्तहि स तु ज्ञानी तु मा पूज्यत्वाभिमानं न विन्दति न प्राप्नोति नाङ्गीकरोतीसर्थः, यथा सूर्यस्य स्वतः प्रकाशरूपस्य लोकैः पूजायां दीपोज्ज्वलने कृते- ऽपि तत्प्रकाशानङ्गीकार इत्र ज्ञानिन आत्मरूपत्वेन ब्रह्मादि- हेतुमालाहीरावली। साक्षा- सिद्धत्वाल्लोककृतपूजाऽन्यमानविकारान- गीकरणामिति भावः ॥ १४ ।। इदानीं ज्ञानिनोऽपमानाभावोक्तपि हेतुं दर्शयति । मान्य एव सुरेन्द्राणां जातसाक्षात्कृतिर्मुनिः । न मानितो यदि जनैरपमानं न विन्दति ॥१५॥ मान्य इति । जातसाक्षात्कृतिर्जातोत्पन्ना स्कृतिब्रह्मादिमान्यात्मसाक्षात्कारो यस्य स तथा भूतो मुनि- आन्यात्मवात्सुरेन्द्राणां सुराणां देवानामिन्द्रा ईश्वरा ब्र- मादयस्तेषां मान्य एवं पूज्य एवास्ति अतो यदि यहि जनः सामान्यलोकैन मानितो न पूजितस्तर्हि सोपमानमना- दरं न विन्दति न प्राप्नोति ॥ १५ ॥ इदानीं ज्ञानिषु शत्रुमित्रयोः समदृष्टित्वोक्तहेतुं दर्शयति । उपकारापकारी हि जातसाक्षात्कृतेर्मुनेः । शक्यौ न के नं चित्कर्तुं तुल्यो मित्रारिपक्षयोः ॥१६॥ उपकारोत । जातसाक्षात्कृतेर्जातोत्पन्ना शवुमित्रत्व- रहितात्मसाक्षात्कृतिर्यस्य तस्य मुनेानिनो हि यस्मात्कार- जादुपकारापकारावुपकारः, कस्मिंश्चिदपि कार्ये साहाय्य- मपकारश्च कस्मिन्नपि कार्ये प्रतिकूलता तौ केन चिकेनापि पुरुषेण कर्तुमाचरितुं न शक्यौ न सम्भाव्यावतो ज्ञानी मित्रारिपक्षयोर्मित्रं हितकारि अरिवाहितको शतुस्तयो: पक्षावनुकूलप्रतिकूलाचरणरूपौ तयोस्तुल्यः समः ॥ १६ ॥ इदानी स्तुतिनिन्दाजन्यविकारानङ्गीकारोक्तशानिषु हेर्नु दर्शयति । गुणदोषदशातीतं जातसाक्षात्कृतिर्मुनिः ।
बोधसार। OM प्राप्तवान्परमं धाम तुल्यनिन्दास्तुतिर्हि सः॥ १७ ॥ गुणेति । जातसाक्षात्कृत्तिर्जातोत्पन्ना साक्षात्कृतिणु- णदोषरहितात्मसाक्षात्कारो यस्य स तथोक्तो मुनिर्ज्ञानी गु- णदोषदशातीतं गुणाश्चोत्तमाः शौचादयो दोषाश्चाशौचा- दयो दैवासुरीप्रकृतिरूपास्तेषां दशा अवस्थाः शुचित्वाशुचि- वादिरूपास्ताभ्योऽतीतं विमुक्तमप्त एवं परमं कार्यकार- पातीतं धाम स्वरूप प्राप्तवाल्लब्धवान् हि यतः कारणात्स ज्ञानी तुल्यनिन्दास्तुतिस्तुल्ये निरर्थकत्वेन समे निन्दा गर्दा स्तु- तिश्च प्रशंसनं च यस्य स तथोक्तो भवति ॥ १७॥ इदानीं ज्ञानिषु अनिकेतत्वोक्तहेतुं दर्शयति । गेहादिममता नास्ति जातसाक्षात्कृतेर्मुनेः । तेनानिकेत इत्युक्तो यत्र सायं गृहो मुनिः ॥१८॥ गेहादीति । जातसाक्षात्कृतेर्जातोत्पन्ना साक्षात्कृतिः स्वा- स्मसाक्षात्कारो यस्य स तथोक्तस्तस्य मुने िनिनो गेहादिम- मता गेहं गृहमादि मुख्यं येषु पुत्रदारादिषु तेषु ममता मदीय. त्वाभिमानो नास्ति न विद्यतेऽतो मुनि नी यत्र यस्मिन्स्थाने सायं सायंकालो भवति तत्रैवेत्यध्याहार्य गृहो गृहं मन्दिरं यस्य स तथोक्तो मतुबर्थेऽपत्ययः, भवति तेन हेतुनाऽनिकेतो न विद्यते निकेतं गृहं यस्य स तथोक्त इत्येवमुक्तः कथितः ॥१८॥ इदानीं ज्ञानिषु निर्योगक्षेमत्वोक्तहेतुं दर्शयति । अप्राप्तं प्राप्तवान्बोधं जातसाक्षात्कृतिर्मुनिः । स तु नक्षीयते तेन निर्योगक्षेम आत्मवान् ॥१९॥ अमाप्तामति । जातसाक्षात्कृतिर्जातोत्पन्ना साक्षात्कृति- हेतुमालाहीरावली। निर्योगक्षेमात्मसाक्षात्कारो यस्य स तथोक्तो मुनिर्जन्य- प्राप्तं न प्राप्तो लब्धोऽप्राप्तस्तत्स्वरूपत्वाबोधं ज्ञानं प्राप्तवाल्लं- ब्धवानप्राप्तप्राप्तेरेव योगशब्देन प्रतिपादनादिति भावः, स तु स बोधश्च न क्षीयते न विनश्यति तेन हेतुना प्राप्तपरिर- क्षणस्यैव क्षेमशब्दार्थत्वप्रतिपादनेनेसर्थः, आत्मवानात्मसाक्षा- कारवानियोगक्षेमो निर्गतौ नित्तौ योगक्षेमचिन्ते यस्य स तथाविधोऽस्ति ॥ १९ ॥ ननु ज्ञानिनः स्तुतिनिन्दयोः समत्वे किं तत्स्तुसा प्रयोजन तवेसाशङ्ग्याह । समो यद्यपि सर्वत्र जातसाक्षात्कृतिमुनिः । तथापि तत्स्तावकस्य मम स्तुतिफलं महत् ॥२०॥ सम इति । जातसाक्षात्कृतिर्जातोत्पन्ना साक्षात्कृतिः स- मात्मसाक्षात्कारो यस्य स तथाविधो मुनिर्बानी यद्यपि यी- पि सर्वत्र स्तुतिनिन्दयोः सर्वपदार्थेषु च सम एकरूप एवाऽस्ति तथापि तथा सत्यपि तत्स्तावकस्य तस्य मुनेः स्तावकस्य स्तु- तिकर्तुमर्म मे स्तुतिफलं मत्कृतस्तवनस्य फलं पुण्यरूपं म- योजनं महच्छ्रेष्ठमस्ति मद्भावनयैव तत्सिद्धेः, तथा च श्रुतिः, 'उपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्यामिति ॥२०॥ इदानीमस्य प्रकरणस्य प्रयोजनकथनपुरःसरं कण्ठे धा- रणं विधत्ते। हेतुमालामयी धार्या कण्ठे हीरावली बुधैः । अपूर्वरचनात्मत्वादलङ्कारो महान्यतः ॥ २१ ॥ इति श्रीनरहरिकृती बोधसारे हेतुमालाहीरावली चतुस्त्रिंशा ॥ ३४॥ हेतुमालामपीति । बुदैविकिभितुमालामयी हेतूना बोधसारे। आहापूर्वेति, कारणानां माला पतिस्तन्मयी तत्पचुरा हीरावली वज्रम- णिस्रगियं कण्ठे गले धार्या धर्नु योग्यास्ति कुत इत्यत यतः काणादपूर्वरचनात्मत्वादपूर्वाऽत्याश्चर्य- रूपा रचना घटना सैवात्मा स्वरूपं यस्याः सा तथाक्ता तस्य- भावस्तत्त्वं तस्मादयमेतत्प्रकरणरूपो महानतिश्रेष्ठोऽलंकारो भूषणं भवेदत तस्याः कण्ठे धारणं विहित- मिति भावः ॥ २१ ॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदी- प्तौ हेतुमालाहीरावल्यर्थप्रकाशश्चतुस्त्रिंशः ॥ ३४ ॥ mmmmmmmmmmHDHRA । अथ कैवल्यकुञ्चिका। इदानीं श्रीगुरुः परमकारुणिकत्वेन जिज्ञासुजनोद्धरणाय सेषामेव कैवल्यपदप्राप्तये कैवल्यकुश्चिकाख्यं द्वाविंशच्छोकं म- करणमारभमाण आह । अथ कैवल्यकुञ्चिका। अथेति । अथ हेतुमालाहीरावलीनिरूपणानन्तरं कैवल्य- कुश्चिका कैवल्यस्य मोक्षस्य कुश्चिकाऽज्ञानकपाटोद्घाटनाय क. रणतात्कुचिकेत्र कुश्चिकैतन्नामकं प्रकरणमित्यर्थः, निरूप्यन इति शेषः, तत्रादावेतत्प्रकरणश्रवणे शिष्यं संमुखीकरोति । कैवल्यकुञ्चिकां तात त्वं सम्यगवधारय । उद्घाटय कपाटं च बोधरत्नं करे कुरु ॥ १ ॥ कैवल्येति । हे तात हे शिष्य तं भवान्कैवल्यकुञ्चिकां कैवल्यस्य मोक्षस्य कुञ्चिकेव कुश्चिकैतन्नामकं प्रकरणमिसर्थः, स- म्यग्दं यथा भवति तथाऽवधारय शृणु भरेयर्थः, सम्यग्धृत्वा कैवल्यकुञ्चिफा । च किङ्कार्यं तदाहोद्घाटयेति, त्वं तया कैवल्यकुञ्चिकया कपार्ट के मुखं पाटयति आवृणोति तत्कपाटमज्ञानं, यद्वा कं मुखं पा- टयति छिनति तत्कपाटमहंकारस्तमुद्घाटय निवारय ततश्च बोधरत्नं बोधस्वरूपं रत्नं स्वयं प्रकाशरूपं ब्रह्म करे हस्तेऽपरो- क्षमित्यर्थः, कुरु कर्त्तव्यमित्यर्थः॥ १ ॥ एवं शिष्यं संमुखीकृत्य तत्रादौ दृष्टश्रुतानुभूतेषु सर्वपदा- थेषु पञ्चधा शकलीकरणं विधत्ते । दृष्ट्या श्रुत्याऽनुभूत्या वा यो योभावः परिस्फुरेत् । तं भावमविलम्बेन पञ्चधा शकलीकुरु ॥ २ ॥ दृष्ट्येति । दृष्ट्या चक्षुषा श्रुत्या श्रवणेनाऽनुभूत्याऽनुभ- वेन वा यो यो घटः पटो वा पदार्थः परिस्फुरेत्प्रकाश्येत तं तं तमित्यावृत्तिः कार्या तं तं घटपटादिरूपं भावं पदार्थमविल- म्बेन स्मरणादिस्फुरणसमकालमेव पञ्चधा पञ्चप्रकारं यथा भ- वति तथा शकलीकुरु खण्डभावेन सम्पादय ॥ २ ॥ तान्येव शकलानि पञ्च स्वयमेव कृत्वा दर्शयति । अस्ति भाति प्रियं रूप नाम चेत्यशपञ्चकम् । आयं त्रयं ब्रह्म रूपं मायारूपं ततो द्वयम् ॥ ३ ॥ अस्तीति । अस्ति विद्यत इत्येवं शकलमेकं, भाति प्रका- शत इति द्वितीयं शकलं, प्रियं मुखमित्येवं तृतीयं, रूपमाकृति- रित्येवं चतुर्थ, नाम तु नामापि वाचकशब्द इत्येवं पञ्चमोशः, इत्येवमंशपञ्चकमंशानां शकलानां पञ्चकं पञ्चसमूहस्तत्रैव- मंशपञ्चकं प्रदर्यदानीं तेषु मायाब्रह्मणोरंशान्विभज्य दर्श- यति आद्यमिति, आद्यमादौ प्रथमं भवमाद्यमस्ति भाति प्रि- यमिति त्रयं त्रिकं ब्रह्मरूपं ब्रह्मणो रूपं स्वरूपं ज्ञेयं ब्रह्मणः बोधसारे सच्चिदानन्दरूपत्त्वादिति भावः, ततोऽनन्तरं द्वयं द्विकं नामरू- पसंझं मायारूपं मायायाः सदसद्रूपशक्त रूपं स्वरूपमस्ती- तिज्ञेयम् ॥ ३॥ तत्र नामरूपाभ्यामस्पृष्टं ब्रह्म लक्षयितुं तयोरसच्वं दर्शयति। नामरूपे तु नैव स्तस्तत्र हेतुं वदाम्यहम् । नाम तु व्यवहारार्थ कल्पितं न तु वास्तवम्।॥४॥ नामेति । नामरूपे तु नाम सर्वपदार्थानामभिधानं रूपं चाकारस्ते द्वे अपि तुपदेन ब्रह्मांशत्रयाद्विविक्तत्त्वं नामरूपयोः सूचितं ज्ञेयं, नैव स्तः सती नैव भवतः कुत इत्याशक्य तत्र हे- तुनिरूपणं प्रतिजानीते तत्रेति, तत्र नामरूपासच्चे हेतुं कारण- महं वदामि कथयामि तत्र प्रतिज्ञाते नामरूपासचहेतुनिरूपणे प्रथमं नानोऽसत्त्वहेतुं प्रदर्शयति नाम विति, नाम तु रूपतो वि- लक्षणं विविक्तं सदभिधानं व्यवहारार्थ व्यवहियते व्याप्रिय- तेऽनेनेति व्यवहारो व्यापारः स एवार्थः प्रयोजनं यस्य त- तथाभूतं कल्पितमारोपितं कल्पनया स्थापितमित्यर्थः, अस्ति न तु वास्तवं नैव सयं लोकेपि कल्पितस्य रज्जुसदेरस- स्वदर्शनादिति भावः ॥ ४॥ एवं नामासत्त्वे कल्पितत्वं हेतुं प्रदर्य तदेव द्रढयितुं त- त्रैव हेत्वन्तरमाह। घटो न घो नापि च टस्तावुभौ यत्त्वमाश्रितो । घः कष्ठ्यष्टश्च मूर्धन्यस्तावुभावपि नैकदा ॥ ५ ॥ घट इति । घटो घटपदवाच्यो मृद्विकारः पृथुबुनोदरा- कारो दृश्यमानो न घो घकारो न न भवति च पुनष्ट- कारवर्णरूपोपि न न भवति अतो मृद्विकारे कारटकारयो- कैवल्यकुश्चिका। रदृश्यमानत्वात्तद्घटितनाम्नस्त्रत्र कल्पितत्वं निश्चेतव्यमिति भावः, तत्रैव हेत्वन्तरमाह तावुभाविति, यधस्मात्कारणातौ घ- कारटकारावुभौ द्वौ स्वमाकाशमाश्रितावाश्रिय स्थिती तयो- वाग्रूपत्वाद्वाचश्चाकाशकार्यत्वावाकाशस्यापि शून्यरूपत्वात्त- योरपि तथात्वेनासत्त्वमितिभाकः, तयोरपि स्वस्मिन्नेवासवे- ऽन्योन्योच्चारसमये व्याहत्तत्वं दर्शयति घ इति, घः कवर्गीयो घवर्णः कण्ठ्यः कण्ठे गले भवः कण्ठ्यः कण्ठस्थानजन्योऽस्ति टश्च टकारोपि मूर्धन्यो मूर्ध्नि भवो मूर्धास्थानोत्पन्न इत्यर्थः, अत एव तौ घकारटकारावुभावपि द्वावपि एकदैकस्मिन्समये न न विद्यते तयोरन्योन्यवाभावे विद्यमाने तघटितनाम्नो- ऽसत्त्वं स्वस्मिन्नपि सिद्धमिति भावः ॥ ५॥ उक्त घटनामासचमन्यत्राप्यतिदिशति । एवं नामानि सर्वाणि रूपमङ्ग विचारय । घटस्तु पृथिवीरूपं सा जडा जलरूपिणी ॥ ६ ॥ एवमिति । एवमनेन प्रकारेण सर्वाणि समस्तानि ब्रह्मा- दिपिपीलिकान्तपदार्थानां नामानि अभिधानानि काल्पतानि ज्ञेयान, एवं नाम्नोऽसत्त्वं प्रदर्येदानी रूपस्यापि तथात्वं द- शयितुं तच्छ्रवणे शिष्यमभिमुखीकरोति रूपमिति, हे अङ्ग हे शिष्य त्वमिदानी रूपमाकारं विचारय वक्ष्यमाणविचारेण जानीहि तमेव विचारमभिनीय दर्शयति घट इति, घटस्तु ना- म्नो विविक्तो घटपदनाच्यो घटः पृथुबुनोदराकारवान्दृश्य- मानः पदार्थस्तस्य च तत्कारणभूतपृथिव्याः सकाशात्पृथगस. चात्पृथिवीरूपं पृथिच्या भूमेरेच रूपमाकृतिरस्ति कार्यस्य कारणानन्यत्वादेनं सर्वत्र, सा पृथिवी जडाऽचिद्रूपाऽनेना- बोधसारे। રરર प्रकाशरूपेण रूपस्यासत्त्वमुक्तं सर्वरूपोपलक्षणमेतत्सा पृथिवी जलरूपिणी जलमुदकमेव रूपमस्याः सा तथोक्ता जल- कार्यत्वात्पृथिव्यास्तत्कारणभूतजलव्यक्तिभिन्नव्यक्त्यभात्रो ज्ञेय इति भावः, भूमेर्जलकार्यत्वे श्रुतिः 'अद्भ्यः पृथिवी ति ॥ ६ ॥ ननु जलस्य शुक्लरूपत्वं प्रतीयते तदेव पारमार्थिकमस्तु नेसाह । तेजसो जलमुत्पन्नं तहायोः स च खोद्भवः । खादि सर्वमहङ्कारात्स च प्रकृतिसम्भवः ॥ ७ ॥ तेजस इति । तेजसोऽग्नेः सकाशाज्जलमुदकमुत्पन्न जातमास्ति तेजसो जलस्य पृथगसत्त्वं तत्कार्यत्वादिति भावः, तर्हि तेजस एव पारमार्थिकत्वमस्तु तत्राह तदिति, तत्तेजो वायोः सकाशादुत्पनं सम्भूतं तस्यापि वायुकार्यत्वाद्वायुव्यतिरिक्त रूपं नास्तीति भावः, तर्हि वायोरेव पारमार्थिकत्वमस्तु तत्राह स चेति, स च वायुरपि खोद्भवः खादाकाशादुद्भव उत्पत्तिर्यस्य स तथोक्तोऽस्ति तस्यापि शून्यरूपाकाशतः पृथक्सत्त्वं नास्तीति भावः, ताकाशस्यैच पारमार्थिकत्वमस्वित्याशङ्ख्याह खादी- ति, खादि खमाकाशमादि प्रथम यस्य तत्वादि सर्व समस्त जगदहङ्कारादहङ्कारतत्त्वादुत्पन्नमिन्द्रियाणि विषया देवाश्च भू- तानि सर्वपदेन ग्राह्यास्ते सर्वे त्रिगुणात्माहङ्कारादुत्पन्ना अहङ्कारात्पृथक्सत्त्वं सर्वेषां नास्तीति भावः, तर्हि तस्यैत्र स- चमस्तु तत्राह स चेति, स चाहङ्कारोपि प्रकृतिसम्भारः प्र- कृतेः सर्वजगत्कारणभूतपरमात्मशक्तेः सम्भव उत्पत्तिर्यस्य स तथोक्तोऽस्ति अहङ्कारस्यापि प्रकृतिकार्यत्वान्न तस्य ततः पृ- थक्सत्त्वमिति भावः ॥ ७ ॥ ननु तर्हि प्रकृतेरेत्र सत्त्वमस्तु तत्राह । १ रूपमात्रो कैवल्यकुञ्चिका। गुणात्मा प्रकृतिर्मार्या माया मय्येव नास्ति सा । नामरूपे ततो न स्तोऽथास्तीत्यादि विचारय ॥८॥ गुणात्मेति । गुणात्मेति हेतुगर्भ विशेषणं प्रकृतिः सर्वज- गदुपादानभूता परमात्मशक्तिर्गुणात्मा गुणाः सत्त्वरजस्तमो- भिधास्त प्रात्मा स्वरूपं यस्याः सा तथोक्ताऽस्ति तेषां च गु- णानामन्योन्यव्यात्तत्वेनासत्त्वात्सा प्रकृतिर्माया स्वतोऽसद्रु- पत्वेन मायाऽनिर्वचनीयाऽतः सा त्रिगुणसाम्यावस्थारूपा प्रकृतिमिथ्याभ्रमरूपाऽतः सा सच्चिदानन्दरूप आत्मनि मयि नास्येव नैव विद्यते ब्रह्माभिने प्रसगात्मनि तस्या असत्त्वमेवे- त्यर्थः, उक्तं नामरूपासत्त्वमुपसंहरति नामरूपे विति, ततस्त- स्मात्कारणानामरूपे नामाभिधानं रूपं चाकारस्ते द्वे न स्तो न विद्यत इति सिद्धीमति भावः, एवं नामरूपासत्त्वं निरूप्येदानी पूर्वाशत्रयविचारे शिष्यं प्रेरयति अथेति, हे शिष्य त्वमथ ना- मरूपासत्त्वविचारानन्तरमस्तीत्यादि अस्ति सचेत्येवं विभाग आदिर्यस्य तत्तथोक्तमस्तीत्यादित्रिकमित्यर्थः, विचारय वि- वेचय ॥८॥ तदेव शकलीकरणं स्वयमभिनीय दर्शयति । अस्ति सत्ता भाति चिच्च प्रियमानन्दलक्षणम् । सच्चिदानन्दरूपं तत्कैवल्यमवशिष्यते ॥ ९॥ अस्तीति । अस्ति सत्तेत्येवमंश एक स ब्रह्मणः सत्ता ज्ञेया, भातीत्यंशश्चिद्रह्मणश्चेतनता ज्ञेया, प्रियं च प्रियमित्यंशोपि आनन्दलक्षणं ब्रह्मण आनन्दरूपत्वस्य लक्षणं चिदं ज्ञेयं, तत्सत्ता चितिः प्रियं चेत्यंशत्रयं सच्चिदानदरूपं सत्कालत्रयाबाध्य चिचेतनमानन्दः सुखं चेयेतत्त्रयमभिन्न रूपमाकृतिर्यस्य त- बोधसारे। ६२४ तथोक्तं कैवल्यमखण्डैकरसं ब्रह्मावशिष्यते नामरूपबाधेनावशि- एमनुभूयते ॥ ९॥ इदानी सच्चिदानन्दलक्षणस्य ब्रह्मणो नामरूपतो विवेचनं यदर्थमुक्तं तदाह । समाधिस्तत्र कर्तव्यो ह्ययमर्थानुबंधितः । अथ शब्दानुविद्धं तु समाधि कथयामि ते ॥१०॥ समाधिरिति । तत्र सच्चिदानन्दरूपे ब्रह्मणि समाधिरन्त:- करणवतेः सच्चिदानन्दमात्राकारः परिणामः कर्त्तव्यः कार्यः, एवं लक्षणसमाधेः साध्यतां विधाय तद्दं दयितुमुक्तसमाधे- रभिधानमाहायमिति, अयमुक्तलक्षणः समाधिरर्थानुवेधितो- ऽर्थों रूपं तेनानुविद्धत्वादर्थद्वारा वानुविद्धत्वादानुविद्ध- नामा समाधिया, समाध्यन्तरं निरूपयितुं प्रतिजानीतेऽथेति, अथार्थानुविद्धसमाधिनिरूपणानन्तरं तु ततो विलक्षणं शब्दानु- विद्धं शब्दद्वारानुविद्धः सिद्धस्तं समाधि समाधानं ते तत्र क- थयामि निरूपयामि वं शृण्विति शेषः ॥ १० ॥ तमेवाह पञ्चभिः । नित्य एवास्मि शुद्धोस्मि चिद्रूपोस्मि निरन्तरः । सहजानन्दरूपोस्मि न मे माया न मे मलः॥११॥ नित्य इति । अहमहंपदलक्ष्यः कूटस्थचिद्रूपो निखो ऽविनाश्यस्मि भवामि ‘अविनाशी वा अरेयमात्मा, नित्यो नि- त्यानां चेतनश्चेतनानां, नित्यं विभुं सर्वगतं मुमुक्ष्ममि'इत्यादिश्रु- तिभ्यः, अन्यथा नाशस्यापि साक्षिनित्यचैनन्यापेक्षसिद्धिकत्त्वा- तदसिद्धेस्तस्यापि मिद्ध्यायाऽत्मनित्यत्वमङ्गीकार्यमिति भावः, किचाहमहंपदलक्ष्य आत्मा शुद्ध एवाऽस्मि भवामि अत एव कैवल्यकुञ्चिका। चिदूपश्चिचैतन्यं रूपं स्वरूपं यस्य स तथोकोऽहमहं पदलक्ष्य आत्माऽस्मि भवामि 'चेतनश्चेतनानामिति श्रुतेः, अचेतनस्या- हङ्कारादर्जगतस्तत्भकाशकं मां विना प्रकाशानुपपत्तरिति भावः, किञ्च निरन्तरो निर्गतं निवृत्तमन्तरं मेदो यस्मात्स तथोक्तो- ऽखण्डैकरस इत्यर्थः, अहंपदलक्ष्य आत्माऽस्मि भवामि भेदकोपा- धेरहङ्कारादिजगतः कालत्रयेप्यसत्त्वेनाखण्डैकरसत्वमात्मन्पङ्गी- कार्यमिति भावः, किश्च सहजानन्दरूपोस्मि सहजः स्वाभाविको प प्रानन्दः मुखं निरूपाधिक आनन्द इत्यर्थः, स एव रुपमा- कृतिर्यस्य स तथाभूतोऽहमहंपदलक्ष्य आत्माऽस्मि भवामि मे मम प्रसगभिन्नब्रह्मरूपस्य माया जगजननसामर्थ्यरूपाशक्तिर्न न विद्यते तस्या मत्तः पृथक्सत्त्वाभावादिति भावः, किश 'वि- ज्ञानमानन्दं ब्रह्म, आनन्दो ब्रह्मेति व्यजानादित्यादिश्रुतेर- न्यथा जगज्जीवनानुपपत्तरानन्दरूपत्वमात्मनः सिद्धमिति भावा, आत्मानन्दाभावे जगज्जीवनानुपपत्तौ श्रुतिः ‘कोहोवान्यात्कः प्राण्याद्, यदेष आकाश आनन्दोन स्याद्, एष वेवानन्दयातीति' अत एव मे मम मलो रागादिरूपो न न विद्यते स तु अन्त:- करणस्यैवाविवेकिभिरात्मनि व्यर्थमारोप्यत इति भावः॥११॥ स्वस्य स्वाधीनकतया जगत्सवाप्रदातृतत्संहारकत्वाभ्यामै- श्वर्यमनुसन्धत्ते । अस्मिन्नसति सत्ता हि चिद्रूपेण मयार्पिता । उपसंहृत्य सत्तां तां स्वसत्तायामहं स्थितः ॥१२॥ अस्मिन्निति । एतावत्कालं हि प्रसिद्धाऽस्मिन्मत्यक्षेऽसति जगति या सत्ता सद्रूपता सा चिद्रूपेण चिच्चेतनमेव रूपमात्मा यस्य तेन मयाऽर्पिताऽऽरोपिताऽऽरोपस्थ चेतनाधीनता लोके प्रसिद्धति भावः, अतस्तां सत्तां नामरूपात्मकजगवध्यस्ता स- ६२६ बोधसारे। त्तामुपसंहृत्य जगतः पृथक्कृत्याऽहं सच्चिदानन्दस्वरूप आत्मा स्वसत्तायां स्वा स्वात्मरूपा या सत्ता सद्रूपता तस्यामेव स्थितो वर्ध्वमानो ऽस्मि ॥ १२ ॥ इदानीमात्मनोऽसङ्गत्वं लक्ष्यीकरोति । विकृत्या विकृति हं प्रकृत्या प्रकृतिर्न च । तथापि जातं मयि चेत्तर्हि जातमजातवत् ॥१३॥ विकृसेति । अयमहंपदलक्ष्यश्चिदात्मा विकृत्या विकारेण कार्येणेत्यर्थः, विकृतो विकारं प्राप्तो न नास्मि पुनश्च प्रकृत्या कारणेन जगत्कारणेनाव्याकृतेन वा प्रकृतिः कारणामव्याकृतं वाऽहमात्मा न न भवाभि एवं विकाररहिते मयि प्रत्यगभिन्ने ब्रह्मणि लोकदृष्ट्या जातं कार्यकारणरूपं द्वैतमुत्पन्नं चेयदि तर्हि तदा यज्जातमुत्पन्नमुत्पद्यमानस्याद्यन्तयोरसत्तेन मध्येप्यस- यादजातवन्न जातं तत्त्वत उत्पन्नं न तदजातं यन्मृगतृष्णाज- लादि तद्वन्मियैवेत्यर्थः ॥ १३ ॥ तस्याप्युपसंहारः स्वाधीन एवेत्याह । उपसंहर विश्वात्मन्निति यावद्वदाम्यहम् । उपसंहृतमेवेदं दृश्यते नैव तिष्ठति ॥ १४ ॥ उपसंहरेति । हे विश्वात्मन्विश्वस्यात्मा सत्ताप्रदस्तस्य संबो- धने हे विश्वात्मस्त्वं विश्वं जगदुपसंहर लीनं कुरु इसवं यावध- कालपर्यन्तं वदामि कथयामि अहमहंपदलक्ष्य आत्मा ताव- तत्कालमेवेदं जगदुपसंहृतमेव लीनमेव दृश्यते प्रतीयते म. दने नैव तिष्ठति न स्थितिं प्राप्नोति एतादृश्युत्पत्तिसंहा- रयोः स्वाधीनता मयि विद्यत इति भावः ॥ १४ ॥ नन्वेतादृशाशब्दानां स्वात्मानुसन्धायकत्वेन शब्दानुबिद्धस- કરાશે तस्य कैवल्यकुञ्चिफा । माध्यनुकूलस्वेपि तेषां प्रामाणिकत्वाभावेनाश्रद्दधानस्य तन्न स्यादियाशक्य तेषां प्रामाणिकत्वोपपादनपूर्व तदर्थचिन्तनेनो- क्तसमाधिसिद्धिमाह। इत्याद्युपनिषद्वाक्यपदतात्पर्यचिन्तया । शब्दानुविद्धनामा हि समाधिर्जायते मुनेः ॥ १५ ॥ इतीति । इयाद्युपनिषद्वाक्यपदतात्ययचिन्तयेति एवमु- तानि वाक्यानि आदीनि मुख्यानि येषां तानि उपनिषदा वाक्यानि उपनिषण्णं समीपे प्राप्यत्वेन स्थितं श्रेयो मोक्षरूपं यासु ता उपनिषदः स्वतः प्रमाणभूता वेदशिरोभूता ईशा- द्यभिधाः श्रुतयस्तासां वाक्यानि तेषां पदानि सर्वज्ञः सर्वान्त- यामीयादीनि तेषां तात्पर्यमर्थोऽखण्डैकरस आत्मा चिन्तया ध्यानेन करणेन हि प्रसिद्धः प्रकृतः शब्दानुविद्धनामा शब्दानुविद्ध इति नामाभिधानं यस्य स तथाविद्धः समाधि- वृत्तेध्येयाकारपरिणामरूपं समाधानं मुनेरुक्तशब्दार्थमननवतो ज्ञानिनो जायते भवति ॥ १५॥ एवं समाधिद्वयं ससाधनक्रमं निरूप्येदानीं यदर्थ समाधि- द्वयनिरूपणं तमुक्तसमाधिद्वयविलक्षणमुक्तसमाधिद्वषोपसंहारपू- कमाह। अर्थानुबंधितस्तूक्तस्ततः शब्दानुवेधितः । तावुभौ सम्यगभ्यस्य विशेन्निरनुवेधितम् ॥ १६ ॥ अर्थेति । तु प्रथममर्थानुवेधितोऽर्थातुविद्धनामा समा- धिरुतः कथिनस्ततोऽनन्तरं शब्दानुवेधितः शब्दानुबिद्ध- नामा समाधिरुक्तः कथितो नाम तु व्यवहारामियादिना- ऽयमातुनेधित इत्यन्तेन ग्रन्थसन्दर्भण मथमः, द्वितीयस्तु अथ त्वे च दृष्टान्तमाह। बोधसारे शबानुविद्वं वित्यादिना समाधिर्जायते मुनेरित्यन्तेन ग्रन्थेनो. तो जेयः, तावुक्तलक्षणो द्वौ समाधी सम्यग्दृढं यथा भवति तथा अभ्यस्याभ्यासेन स्वाधीनीकृत्य ततो निरनु धितमननुवि- द्धनामानं समाधि विशेमविशेव ॥ १६ ॥ पूर्वोक्तसमाधिद्वयस्य साधनत्वे निरनुविद्धसमाधेः साध्य- शर्कराद्वितयं धृत्वा प्रणवो लिख्यते यथा । समाधिद्वितयं धृत्वा प्रणवार्थोपि लिख्यताम् ॥१७॥ शार्करेति । यथा यद्वदनभ्यासक्तो बालस्य प्रणवलेखने शर्कराद्वितयं शर्करयोः सूक्ष्मवर्तुलपाषाणयोतियं युग्मं धृ- वा स्थापयित्वा प्रणव अकारो लिख्यते रेखाकारेण व्यक्ती- क्रियेत तथा तद्वत्समाधिद्वितयं समाध्योरानुविद्धशब्दानुकि- दसमाध्योतियं युग्मं धृत्वाऽभ्यस्य प्रणवार्थोषि प्रणवस्यो- कारस्यार्थो लक्ष्यार्थो निरनुविद्धसमाधिरूपोऽपि लिख्यता ब्रह्माहमस्मीति स्वात्मसाक्षात्कारवृत्तावनुभूयताम् ॥ १७ ॥ तस्मिश्च सिद्धौ पूर्वसमाधिद्वयानुपयोगमाप दृष्टान्तेनाह । पटोः प्रणवलेखेषु ते हि नावश्यके यथा । समाधिद्वितयं तद्वत्प्रणवार्थपटोरपि ॥ १८ ॥ पटोरिति । पटोःप्रणवलेखने कुशलस्य प्रणवलेखेषु प्रणवस्यो- झारस्य लेखा लेखनानि तेषु क्रियमाणेषु हि प्रसिद्ध ते शर्करे नावश्यके उपयोगिन्यौ न भवतो यथा यद्वत्तथा तद्वत्पणवार्थ- पटोः प्रणवस्योङ्कारस्यार्थोऽखण्डकरसरूप आत्मा तस्मिन्कु- शलस्यात्मसाक्षात्कारवतो मुनेः समाधिद्वितयमपि समाध्यो-
६२९
कैवल्यकुञ्चिका।
तियं युग्ममपि अर्थानुविखशब्दानुविशनामकं नावश्यकमुप-
योगि न भवति ॥ १८ ॥
एतत्पकरणविचारस्य फलमाह ।
निर्विकल्पसमाधाने निष्ठा सा बोधयोगिनः ।
कपाटोढाटने हेतुरियं कैवल्यकुञ्चिका ॥१९॥
निर्विकल्पेति । इयं मदुक्ता कैवल्यकुञ्चिका कैवल्यकु-
श्चिका नाम प्रकरणं कपाटोद्धाटने कं ब्रह्म पाटयति आणो-
तीति कपाटमज्ञानं तस्योद्घाटन उत्सादने हेतुः कारणं भवति
अतोस्य नामापि कैवल्यकुञ्चिकेति, अज्ञाननिवर्तकत्वमनिष्टनि-
वृत्तिरूपं फलमभिधायेदानीमिष्टप्राप्तिरूपं फलं प्रदर्शयितुं वि.
शिनष्टि निर्विकल्पेति, बोधयोगिनो बोधो जीवब्रह्मैक्यज्ञानमेव
योगः स्वात्ममाप्तिसाधनं यस्य विद्यते तस्य सोक्तलक्षणा
कैवल्यश्चिका निर्विकल्पसमाधाने निर्विकल्पकसमाधी निष्ठा
स्थितिरेव फलतो शेया ॥ १९ ॥
एतस्या माहात्म्यमाह।
रहस्यं हि रहस्यानां निधीनां परमो निधिः ।
युक्तीनां परमा युक्तिरियं कैवल्यकुञ्चिका ॥२०॥
रहस्यमिति । हि प्रसिद्धेयं कैवल्यकुञ्चिका कैवल्यश्चि-
कानाम्नी प्रक्रिया रहस्यानां गोप्यानां मध्ये रहस्यं गोप्य-
मस्ति तत्र हेतुर्निधीनां निधीयन्ते स्थाप्यन्ते द्रव्याणि येषु ते
तथोक्ता द्रव्यपूर्णभाण्डानि तेषां मध्ये परमः श्रेष्ठो निधि-
व्यपूर्ण भाण्डं सदात्मद्रव्यपूर्णत्वादतिश्रेष्ठो निधिरित्यर्थः, किश्च
युक्तीनां युज्यते प्राप्यत प्रात्मा आभिस्ता युक्तयो योगास्तेषां
मध्ये परमा श्रेष्ठा युक्तिर्योग इयं कैवल्य कुञ्चिका ज्ञेया ॥२०॥
बोधसारे। एतस्याः प्रामाण्याय परम्परागतत्वं दर्शयति । वसिष्ठव्यासपद्ध्यत्या शङ्कराचार्यमार्गतः । सा पुनः शङ्कराचार्यैः करुणारसनिरैः ॥२१॥ वसिष्टेति । वसिष्ठव्यासपद्भ्यया वसिष्ठो ब्रह्मपुत्रो व्यासः पराशरपुत्रस्तावेव पद्धती मार्गों ताभ्यां जातावेकवचनं, ततः शङ्कराचार्यमार्गतः शङ्कराचार्य एव मार्गः पन्थास्तस्मादागता प्राप्ता केन क्रमेणेत्यत आह सति, सा शङ्कराचार्य आगता पु- नस्तदनन्तरं करुणारसनिर्भरैः करुणा दया सैव रसस्तेन नि- भैरैः पूर्णः शङ्कराचार्यैः सर्वेषां कल्याणकर्तृभिराचार्यैः श्री- मदाचार्यैः ॥ २१॥ अर्पितानन्दबोधेभ्यस्तकमेण बुधैर्धता । अवधार्या विशेषण सेयं कैवल्यकुञ्चिका ॥ २२ ॥ इति श्रीनरहरिकृती बोधसारे कैवल्यश्चिका ॥ ३५ ॥ अर्पितेति । आनन्दबोधेभ्य आनन्दवोधनाम्ने शिष्याया- पिता समर्पिता दत्तेवः, ततो बुधैर्जानिभिस्तत्क्रमेण स उक्तो यः क्रमस्तेनानन्दबोधात्क्रमेणे यर्थः, धृता प्राप्ता सा परम्परया मम माता मया तुभ्यमियं प्रत्यक्षा दत्ता हे शिष्य सेयं कैवल्यकुञ्चिका विशेषेणात्यादरेण त्वयाऽवधार्या स्वा- धीनीकर्तव्या ॥ २२ ॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्तौ के- वल्यकुञ्चिकार्थप्रकाशः पञ्चत्रिंशः ॥ ३५ ॥ अथ बुद्धिप्रशंसा। इदानीं मुमुक्षूणां मोक्षस्यैवेष्टत्वात्तस्य च ज्ञानाधीनत्वात्त aro बुद्धिप्रशंसा । ज्ज्ञानं च यतो बुद्ध्यधीनमतो बुद्धावादरं विधातुं बुद्धिमाहात्म्य- निरूपकं बुद्धिप्रशंसानामकं चतुःश्लोकं प्रकरणमारभमाण आह । अथ बुद्धिप्रशंसा । अथेति । अथ कैवल्यकुञ्चिकानिरूपणानन्तरं बुद्धिप्रशंसा बुद्धेमतेः प्रशंसा स्तुतिरेतन्नाकं प्रकरणं निरूप्यत इति शेषः, तत्र तावदादौ सर्वलौकिकवैदिकव्यवहारस्य कारणत्वं बुद्धरेवाह । व्यवहारस्य सर्वस्य बुद्धिमूलं यथा भवेत् । तद्वत्तु परमार्थस्य निदानं बुद्धिरेव हि ॥ १ ॥ व्यवहारस्येति । सर्वस्य संसारमोक्षकारणभूतो यो व्यवहा- रस्तस्य बुद्धिरेव मतिरेव मूलं कारणं यथा यद्भवेत्स्यात्तथा तद्वत्परमार्थस्य मोक्षाख्यस्थार्थस्य तु अप्यर्थः, निदानमा- दिकारणं बुद्धिरेव मतिरेव हि प्रसिद्धमेतद्विवेकिनाम् ॥ १ ॥ ननु बोधरूपस्यात्मनो बुद्ध्यनपेक्षत्वात्कुतो बुद्धमहत्त्वमि- त्याशक्य बुद्धिबुद्धस्यैवात्मनो बुद्धत्वं नाबुद्धस्येति बुद्धेरेव म- हत्त्वमिसाशयेनाह। यहुद्धमप्यबुद्धं तद्न्या बुद्धं न चेत्तदा । बुद्ध्या बुद्धं तु यहुद्धं तन्नाबुद्धं कदापि च ॥ २ ॥ यदिति । यदात्मचैतन्यं चिन्मात्रत्वादुद्धर्माप बोधरूपमपि बुद्ध्याऽज्ञानमात्रनितिफलयाऽहं ब्रह्मास्मीति प्रमाख्यया वृसा बुद्धमज्ञाननिरासेन साक्षादनावृतं बुदं प्रकाशितं न चेन्न विद्यते यदि तदा तर्हि तदात्मरूपमबुद्धमज्ञातं भवति अज्ञातस्यात्मनः संसृतिकारणत्वान्न मोक्षसिद्धिरिति भावः, एवं बुद्धस्याप्यात्मनो बोअसारे। बुद्धत्वअननेन बुद्धेः त्रैष्ठ्यमभिधायेदानी बुद्धिवृत्तेः क्षणिकत्वेन बुद्धिवृत्तिनाशे तदुत्पन्नबुद्धत्वनाशादपि पुनरप्यात्मनि संसरण- प्रसक्तिरित्याशा तां निरस्यन्बुद्धिजन्यस्यात्मांन बुद्धत्वस्य नाशाभावनिरूपणेनापि तच्छृष्ठ्यं दर्शयति यत्त्विति, यत्तु यज्ज्ञा- निप्रत्यक्ष बुद्धमात्मचिन्मानं बुद्ध्या बुद्धं बुद्ध्याऽज्ञाननिवृत्तिमात्र प्रयोजनयाऽहं ब्रह्मास्मीति प्रमावृत्त्या बुद्धमनावृतं प्रकाशितं चे. दि सदनावृतमात्मचिन्मात्रमबुद्धमज्ञातं कदापि कस्मिन्नपि समये वृत्तिभावे तदभावे वा न भवेन्न स्याद्, एकवारं बुद्धिप्रका- शितस्यात्मचैतन्यस्य सर्वदा प्रकाशमानत्वेनापि बुद्धरेव महत्त्वं तज्ज्ञेयमियाशयः ॥२॥ इदानीमनात्मबुद्धाचात्मामकाशे ज्ञबुद्धौ चात्मप्रकाशे च बुद्धेरेव हेतुत्वेन श्रेष्ठ्यमाह । बुद्ध्या न बुद्धो यो बोधो द्वैतबोधबुधैरपि । बुद्ध्या बुद्धमिमं विद्धि बुद्धिसाक्षितया बुधैः ॥३॥ बुद्ध्येति । द्वैतबोधबुधैतस्य जगतो यो बोधो ज्ञानं कर्मो- पास्तिविषयं तस्मिन्ये बुद्धाः पण्डितास्तैः कर्तृभिर्बुद्ध्या को- पास्तिनिर्णायकमया करगाभूतया यो विवकिप्रयक्षो बोधश्चि- मात्र आत्मा स न बुद्धापि न साक्षात्कृतोपि तमिममात्मान- मात्मनि बोधरूपं बुधैर्जानिभिर्बुद्धिसाक्षितया बुद्धेरहं ब्र. मास्मीति वृत्तेः साक्ष्यव्यवधानेन प्रकाशक आत्मा तस्य भावः सत्ता तया बुद्ध्या मसैव बुडं ज्ञातं विडि जानीहि ॥३॥ इदानीमात्मबोधे केनापि प्रकारेणासाधमाने सत्यपि तत्र बुद्धेः कुशलतां दर्शयन्बुद्धेः श्रेष्ठ्यमाह । न बुद्धमपि यहुई यच्च बुद्धमबुद्धवत् रङ्गलीलालयी। बुद्धाबुद्धसमं बुद्ध्या बुद्धाबुद्दविलक्षणम् ॥ ४ ॥ इति श्रीनरहरिकृती बोधसारे बुद्धिप्रशंसा पत्रंशा ॥ ३६ ॥ न बुद्धमपीति। यज्ज्ञानिमत्यक्षमात्मरूपं न बुद्धमपि चेय- रहितचिन्मात्ररूपत्वान्न ज्ञातमपि बुद्ध ज्ञानस्वरूपमस्ति तस्थ ज्ञानरूपत्त्वाभाचे जगद्भानानुपपत्तेः, तथा च श्रुतिः-'यदैष मा- काश आनन्दो न स्यात् को ह्येवान्यात्कः प्राण्यादिति, किञ्च यच यदपि प्रात्मरूपमबुद्धवद्बुद्धिविषयत्वाभावात्स्वयं प्रकाशमान- वाचाविज्ञातमिव बुद्धं प्रकाशमानं वस्तुतश्च बुद्धाबुद्धयो- ज्ञाताज्ञातयोः समं सदैकरूपं, यद्वा बुद्धाबुद्धयो न्यज्ञानिनोः समं निर्विशेषं तथा च श्रुतिः । यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानतामिति ॥ अत एव बुद्धाबुद्धविलक्षणं बुद्धं बुद्ध्या विषयीकृतमबुद्ध बुद्ध्या न विषयीकृतं ताभ्यां विलक्षणं स्वयं प्रकाशमानं बुद्ध्या मया बुद्धं ज्ञातमतो बुद्धेरेव श्रेष्ठ्यमिति भावः ॥ ४॥ इति श्रीन शि० दि० वि० बो० बुद्धिप्रशंसार्थप्रकाशः षट्त्रिंशः॥३६॥ अथ रङ्गलीलात्रयी। एवं बुद्धिप्रशंसां निरूप्येदानीं जीवन्मुक्त जगत्पतीतेरवा धकत्तप्रदर्शनाय रङ्गलीलात्रय्याख्यं त्रिश्लोकं प्रकरणमभिधा- स्यन्नाह । अथ रङ्गलीलात्रयी। अथेति । बुद्धिप्रशंसानिरूपणानन्तरं रङ्गलीलात्रयी रङ्गस्य लीलाऽनायासेन धारणरूपा तन्निरूपिका त्रयी त्रिश्लोकावय- वैतन्नामकं प्रकरणमित्यर्थः, निरूप्यत इति गोषः, तत्र ताच- बोधसारे। द्वस्त्रं यथा यादृग्रङ्गे निक्षिप्यते तादृशं रङ्गं स्वस्मिन्धारयति तथा हृदयमपि यादृशरङ्गे निक्षिप्यते तादृशं रङ्गं धारयतीसाह । रञ्जितं रञ्जनैश्चित्रश्चित्रं जातं हृदम्बरम् । रङ्गे निरञ्जने क्षिप्तं रङ्गं प्राप्तं निञ्जनम् ॥ १ ॥ रजितमिति । रञ्जनै रजयन्ति स्वमंपृक्तं द्रव्यमिति रञ्जनानि अन्तःकरणविचित्रताकारणभूता विषयाश्चित्रांश्चत्र- यन्ति हृदयमिति चित्राणि जगत्पदार्थास्तै कृत्वा राजतं विचित्रितं सद्धृदम्बरं हृवृदयमेवाम्बरमाकाशं चित्रं वांच त्रमनकरूपमिति यावत्तज्जातं सम्पन्नं तन्मयेदानीमधुना नि- रज्जने निरुपाधिके स्वतः सिद्ध इत्यर्थः, रङ्गे रज्यते प्रकाश्यते जगदनेनेति रङ्गः परमात्मा तस्मिनक्षिप्तं स्थापितं सनिरञ्जनं निरुपाधिकं रङ्गं रजकमात्मानमित्यर्थः, प्राप्तं लब्धं जातम् । लौकिकार्थे तावद्रञ्जनै रञ्जयन्ति विचित्रयन्ति वस्त्रादिकं तानि रञ्जनानि तैश्चित्रैश्चित्रयन्ति स्वसंसृष्टं द्रव्यं तानि रञ्जकद्रव्या- णि तै रञ्जितं चित्रितं सद्धृदम्बरं हृद्धृदयमिवाम्बरं वस्त्रं चित्र विचित्ररूपं जातं सम्पन्नं तन्मया निरञ्जने निरुपाधिके रङ्गे रजके द्रव्ये स्वतः पीतादिद्रव्ये क्षिप्तं स्थापितं सन्निरजनं निरुपाधिकं पीतादिकं रङ्गं रागं प्राप्तं लब्धं भवतीति ॥१॥ ततश्च किं जातं तदाह । रङ्गं निरञ्जनं प्राप्तमिदानीं तु हृदम्बरम् । रञ्जितं रञ्जनैश्वित्रैरपि रङ्गं बिभर्ति न ॥ २ ॥ रङ्गमिति । तदृदम्बरं तु हृदगरूपमाकाशर्माप निरन्जनं निरुपाधिकं रङ्ग रज्यने प्रकाश्यते जगदनेनेति रङ्गः प्रकाशरूप आत्मा तं प्राप्तं लब्धं सदिदानीमधुना रञ्जनै रञ्जकाश्चत्र- चन्द्रिकाचन्द्रचमत्कारचतुष्टयी । श्चित्रसदृशैर्जगत्पदार्थैः परस्परविलक्षणै रञ्जिनं संपृक्तमपि रङ्गं जगत्पदार्थमम्बन्धं न बिभर्ति न धारयति व्यवहारदशायां जगत्पदार्थसम्बन्धवत्पनीतमपि ज्ञानिहृदयं वास्तवं सम्बन्धं न धारयतीति भावः । लौकिकार्थे तावद्धृदम्बरं हृद्धृदयबद्वदम्बरं वस्त्रं निरञ्जनं निरूपाधिकं गैरिकादिरञ्जनद्रव्यं प्राप्तं सदि- दानी तादृशरङ्गधारणानन्तरमस्मिन्काले चित्ररनेकै रञ्जन रजकद्रव्यरजिनमपि संपृक्तमपि रङ्ग रजनं स्वस्मिन्न बि- भर्ति न पूर्ववद्धास्यतीति ॥ २ ॥ इदानीमेतत्यकरणार्थधारणां तद्विचारं च विधत्ते । रङ्गलीलाद्वयीमेतां तात चित्तेऽवधारय । रङ्गं परीक्षय धिया साञ्जनं च निरञ्जनम् ॥ ३ ॥ इति श्रीनरहरिकृतौ बांधसारे रङ्गलीलात्रयी सप्तत्रिशा ॥ ३७ ॥ रङ्गलीलेति । हे तात्त हे शिष्य एतां मदुक्तां रङ्गलीला- द्वयीं रज्यतेऽनेनेति रङ्गः सोपाधिको निरुपाधिकश्च तस्या- नायाससिद्धत्वाल्लीला क्रीडा तस्याः प्रतिपादनकी द्वयी श्लोकद्वयात्मकं प्रकरणं तां त्वं चित्ते चेतमि अवधारय संगृह्णी- व ततश्च धिया बुद्ध्या साधनं चाज्यतेनेनेत्यज्जनमुपाधि- स्तेन सहित रङ्गं प्रकाशं निरज्जनं निरुपाधिक रङ्गं प्रकाशमात्मा- नान्मप्रकाशमिति यावत्तत्परीक्षयावलोकय ॥ ३ ॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्तौ रङ्ग लीलात्रय्यर्थप्रकाशः सप्तत्रिंशः ॥ ३७॥ + अथ चन्द्रिकाचन्द्रचमत्कारचतुष्टयी। एवं रङ्गलीलात्रय्या जीवन्मुक्त व्यवहारकाले जगत्प्रतीतापि बोधसारे। बाधकामावं प्रदश्येदानीं तदेव दृढीकुर्वञ्जगत्मकाशचैतन्यात्म- चैतन्ययोरभेदं दर्शयितुं चन्द्रिकाचन्द्र चमत्कारचतुष्टय्याख्यं च- तुःश्लोकं प्रकरणमारभमाण आह । अथ चन्द्रिकाचन्द्रचमत्कारचतुष्टयी अथेति । अथ रङ्गलीलात्रयीनिरूपणानन्तरं चन्द्रिकाचन्द्र- चमत्कारचतुष्टयी चन्द्रिका कौमुदी चन्द्रश्च सोमस्तयोश्चमत्कारो व्यवहारकौतुकं चन्दयति आनन्दयति जगदिति चन्द्रो ब्रह्मा- भिन्नः प्रत्यगात्माऽऽनन्द्ररूपत्वात्तस्येयं चन्द्रिका ज्योत्स्ना जगत्मकाशिका चेतनेयर्थः, तस्याश्चन्द्रस्य च परमसुखरूपत्वा- ज्जगदानन्दयितुः परमात्मनश्च यश्चमत्कारो भेदे प्रतीयमानेष्य- . भिन्नत्वाव्यभिचाररूपस्तस्य प्रतिपादयित्री चतुष्टयी श्लोकच- तुष्टयरूपा प्रक्रिया निरूप्यत इति शेवः, तत्र तावदादौ सर्वदा च- न्द्रचन्द्रिकयोरिवात्मचैतन्यजगत्प्रकाशचैतन्ययोर्षियोगाभावं प्र- तिपादयति । अचन्द्रे चन्द्रिका नास्ति न चन्द्रश्चन्द्रिका विना चन्द्रिकाचन्द्रसंयोगः कथं वा विनिवार्यताम् ॥१॥ अचन्द्र इति । अचन्द्र चन्दयति आनन्दयति सर्व ज- गदिति चन्द्रो निरतिशयस्वयंप्रकाशानन्दरूप आत्मा स न भवतीत्यचन्द्रोऽनात्मा तस्मिन्घटादिजगत्पदार्थे चन्द्रिका जग- दानन्दयित्री जगत्प्रकाशिका चेतना च नास्ति न विद्यते विद्य- माना न स्यादित्यर्थः, एवं चेज्जगदान्ध्य प्रसङ्ग इति भावः, ततश्च जगत्मकाशान्यथानुपपत्त्या तदानन्दानुपपत्त्या चात्मन: स- त्वमङ्गीकर्तव्यं तथा सति चन्द्रचन्द्रिकयोरिवारमचैतन्यजगत्म- काशचैतन्ययोरपि द्वित्वं स्यादिसाशङ्य चन्द्राच्चन्द्रिकाया इवा- REEN चन्द्रिकाचन्द्रचभत्कारचतुष्टयी । ऽऽत्मचैतन्याज्जगत्प्रकाशचैतन्यस्य पृथक् सत्त्वं निषेति नेनि, चन्द्रिका कौमुदी विना-ऋने चन्द्रः सोम इव चन्द्रिका जगत्म- काशकचेतनामृते चन्द्र आनन्दरूप आत्मा न नास्ति एक- सत्ताकत्वादुभयोरिति भावः, अतश्चन्द्रिकाचन्द्रसंयोगश्चन्द्रि- काया जगत्प्रकाशकचेतनायाश्चन्द्रस्य चात्मनः संयोग ऐक्यं कौमुदीचन्द्रयोरैक्यमपि कथं वा केन प्रकारेण विनिवार्यतां नि- षेध्यता न कथमपीत्यर्थः ॥ १॥ ननु तर्हि चन्द्रिकाया जगत्प्रकाशकचेतनायाश्च कादा- चिकत्वं कथं प्रतीयते तत्राह । विस्मृत्या चन्द्रिका नाता स्मृत्याऽऽप्तेव तु चन्द्रिका। चन्द्रिकाचन्द्रतादात्म्यं केनाहा विनिवारितम् ॥ २ ॥ विस्मृखेति । चन्द्रिका कौमुदी विस्मृत्या निद्रादिरूपवि. स्मरणेनात्मचेतनापि विस्मृत्याऽज्ञानरूपविस्मरेण नाप्ता न दृष्टाऽननुभूता च कस्मिंश्चित्समये स्मृत्या स्मरणेन ज्ञानेन चा- सेव प्राप्तेव प्रतीयते वस्तुतस्तु चन्द्रिकाचन्द्रसंयोगवियोगा- वात्मचैतन्यजगत्प्रकाशचैतन्यसंयोगवियोगी चैकरूप्यान स्तस्तत्मतीतिस्तु भ्रान्तिविलसितमितिभावः, अतोऽहो शिष्य चन्द्रिकाचन्द्रतादात्म्यं चन्द्रिकायाः कौमुद्याश्चन्द्रस्य च सोमस्य तादात्म्यमैक्यमात्मनो जगत्प्रकाशचेतनायाश्चक- स्वमभिन्नरूपत्त्रमियर्थः, केन निमित्तेन पुरुषेण वा विनिवारितं विनाशितं न केनापीयर्थः ॥ २ ॥ इदानीं शिष्यस्य चन्द्रचन्द्रिकाभिन्नत्वे प्रतीतेऽपि जीवन्मु- तेषु जगद्भानस्याप्यात्मभानवप्रदर्शने दृष्टान्तत्वेनाभिधानाद- स्य सप्रयोजनत्वं दर्शयति ।
बोधसारे। त्वयाऽनुभूतमेवास्ति चन्द्रिकाचन्द्रकौतुकम् । दृष्टान्तदर्शनायाङ्ग पुनस्तत्प्रकटीकृतम् ॥ ३ ॥ त्वयेति । त्वया भवता चन्द्रिकाचन्द्रकौतुकं चन्द्रिका जग- प्रकाशरूपा चेतना चन्द्रश्चेयरहिताचदानन्द आत्मा तयोः कौतुकमाभन्नत्वे सपि भिन्नत्वव्यवहारनिर्वाहरूपं कुतूहलमनु- भूतं ज्ञातमस्त्येव विद्यत एव ताई पुनः किमर्थं तन्निरूपां सत्राह दृष्टान्तेति, हे अङ्ग हे शिष्य पुनर्भूयस्ता दृष्टान्तदर्श- नाय दृष्टान्तस्योपमानस्य दर्शनाय निरूपणाय ब्रह्मचित्तचै. तन्ययोरभिन्नत्वं तच्चन्द्रिकाचन्द्रकौतुकमिषेण प्रकटीकृतं स्फुट- मुक्तमतोस्य न निष्पयोजनत्वमिति भावः ॥ ३ ॥ इदानी ब्रह्मचिच्चित्तचितोरनन्तत्वं चन्द्रिकाचन्द्रदृष्टान्ता- दैलक्षण्येन दर्शयति । तावती चन्द्रिका प्रोक्ता यावानेव हि चन्द्रमाः । अनाद्यन्तस्तु चन्द्रोयमनाद्यन्तास्य चन्द्रिका ॥४॥ इति श्रीनरहरिकृती बोधसारे चन्द्रिकाचन्द्रचमत्कारच- तुष्टय्यष्टात्रिंशा ॥ ३८॥ तावतीति । हे शिष्य हि विद्वत्सु श्रुतिषु च प्रसिद्धश्च. न्द्रमा चन्दयति आनन्दयति जगदिति चन्द्रमाः 'एष वानन्द- याती'त्यादिश्रुतेः परमात्मा यावानेत्र यत्परिमाण एवास्ति तारती तत्परिमाणा चन्द्रिका चेतना प्रोक्ता कथिता कियत्प- रिमाणश्चन्द्रो कियत्परिमाणा च चेतनारूपा चन्द्रिकत्या. शङ्याहानाद्यन्त इति, अयं विद्वत्पमिद्धश्चन्द्रः सकलजग- दानन्दकरः परमात्मा तु लोकप्रसिद्धचन्द्राद्विलक्षणोऽनाअन्तो न विद्यते आदिः कारणमन्तश्च नाशो यस्य स तथोक्तोऽ- अद्भुतशिरश्छेदपञ्चकम् । स्ति अस्य परमात्मचन्द्रस्य चन्द्रिका तु जगत्प्रकाशकचंतन- शक्तिरपि अनाघन्ता न विद्यते प्रादिरन्तश्च यस्याः सा तथोक्ता ऽस्ति उभावप्यनन्ताविति भावः ॥ ४ ॥ इति श्रीनरहरिशिष्यदिवाकविरचितायां बोधमारार्थदीप्तौ चन्द्रि- काचन्द्रचमत्कारचतुष्टय्यर्थप्रकाशोऽष्टात्रियः ॥ ३८ ॥ अथा द्भुतशिरश्छंदपश्चकम् । एवं ब्रह्मचैतन्यचित्तचैतन्ययोरभेदं प्रदर्येदानी मोक्षसा- धनेषु समस्तेषु मनावाधलक्षणस्य साधनस्य श्रैष्ठ्यं दर्शायतु- मद्भुनशिरश्छदपञ्चचकाख्यं पञ्चश्लोकं प्रकरणमारभमाण आह । अथाद्भुतशिरश्छेदपञ्चकम् । अथेति । अथ चन्द्रिकाचन्द्रचमत्कारचतुष्टयीनिरूपणानन्त- रमद्भुतशिरश्छेदपञ्चकमद्भुतोऽत्याश्चर्यरूपो यः शिरश्छेदः सर्व- प्राणिनां शिरश्छेदे मरणं जायत इति प्रसिद्धं यथा तथा मनसो बाधे जगत्राशसम्भवाज्जगतो मन एव शिरः शीर्ष तस्य च्छेदो बाधस्तस्य निरूपकं पञ्चानां श्लोकानां समू- हरूपं प्रकरणं निरूप्यांत इति शेषः, तदेव प्रतिपादयितुं सर्व- पदार्थेषु प्रयेकं विरागविवेकरूपसाधनेभ्यो विश्वविस्मृतिरूप- स्य श्रेष्ठ्यमाह। तत्तद्विचारवैराग्याहरिष्ठा विश्वविस्मृतिः । छेद्यस्य शिरसश्श्छेदः प्रत्यङ्गच्छेदनाद्वरः ॥ १ ॥ तत्तदिति । तत्तद्विचारवैराग्यात्तस्य टादिपदार्थस्य तत्तदाकारवृत्तेश्च तत्तद्रष्टुर्भोक्तुश्चेत्येवमादिस- मूहस्य विचारो विवेकस्तत्तद्विषयं वैराग्यं च वैवृष्ण्यमनयोः तस्य घ- MARRIETIES बोधसारे। समाहारैकवचनं तम्मान्मोक्षसाधनभूता विश्वविस्मृतिविश्वस्य जगतस्तत्कारणस्य मनसश्च विस्मृतिः-'नेह नानास्ति किञ्चने ति बाधपूर्व विस्मरणं मोक्षसाधन मिसर्थः, वरिष्ठा श्रेष्ठा तत्सम्भाव- यितुं दृष्टान्तमाह च्छेद्यस्येति । च्छेद्यस्य च्छतुं योग्यस्य शिरसःशी- र्षस्यच्छेदः कर्त्तनं प्रयङ्गच्छेदनात्मसकमङ्गानामवयवानां छेदना- कर्तनादरःश्रेष्ठः, अगं भावः, केन चित्तीब्रापराधेन कस्य चिद्वध्य- स्य वधे राज्ञाऽऽज्ञप्ते सति तदृष्ट्या विना शिरश्छेदं मृत्योरसम्भ- बात् पृथक्पृथगङ्गछेदनान्मृत्युसाधनभूताच्छिरकर्त्तनमेव मृत्यु- साधनं श्रेष्ठमिव मुमुक्षोर्मोक्षसाधनभूतात्तत्तत्पृथक्पदार्थविवेकवै- राग्याद्विश्वविस्मृतिलक्षणं मनोबाधं विना मोक्षासम्भवाद्विश्नोपल- क्षितमनोबाधलक्षणमाधनस्यैव श्रेष्ठ्यं मुमुक्षुदृष्ट्येति भावः ॥१॥ वध्यस्स्य प्रत्यङ्गच्छेदने कृतेऽपि शिरश्छेदं विना मृत्यस म्भवात्मङ्गच्छेदनवैय्यर्थ्यवन्मुमुक्षोः प्रत्येक विषयवैराग्यविचा- रयोः कृतयोरपि विश्वविस्मृतिलक्षणमनोनाशं विना मोक्षा- सम्भावात्मत्येक विषयविचारवैराग्ययोनिष्प्रयोजनत्वमाह । प्रत्यङ्गच्छेदनेप्यस्य च्छेद्यमेव शिरो यदि । प्रथमं तच्छिरञ्छिन्धि वृथा किं चेष्टयाऽन्यया ॥२॥ प्रत्यङ्गीत । हे शिष्य अस्य जगतः प्रयङ्गच्छेदनेपि अङ्गम झं प्रतीति प्रसङ्गं तस्य च्छेदने विकर्त्तने कृते सखपि पृथक्पृथ- गङ्गानां त्रिपुटीलक्षणां नाशे कृतेपीत्यर्थः, शिरः शिर इव जगज्जीवनकारणं मन एव तत्त्वज्ञानेन विशीयमाणत्वाच शिरस्तस्य जगतो नाशाय च्छेद्यमेव च्छेत्तुं विकर्तितुं योग्यमेव यदि यईि तत्तर्हि त्वं प्रथममादौ शीर्यते तत्त्वज्ञानाद्विनश्य- तीति शिरो मनो जगज्जीवन कारणत्वात्सर्वाङ्गेषु मुख्याङ्गं अद्भुतशिरश्छेदपञ्चकम् । शिर इत्र सप्तदशावयवेषु मध्ये मुख्यं मन एवेत्यर्थः, छिन्धि विकर्त्तयाऽन्यया पृथक्पृथक्तितुटीलयलक्षणया वृथाचेष्टया नि- पयोजनचेष्टया व्यापृया किं किं फलं न किमपित्यर्थः, ॥२॥ ननु मुनीनां दयाशीलत्वं प्रसिद्धं तथा च मृत्युकारणभूते शिरश्छेदनप्रवृत्याऽतीवनिंदयत्वप्रसिद्धेस्तां विहायाऽन्याङ्गच्छे- दनप्रवृत्तौ किञ्चिद्दयावत्वाच्छिरछदात्मङ्गच्छेदने श्रेष्ठ्यमिव मनोनाशात्मत्येकत्रिपुटीलयस्यैव श्रेष्ठ्यमस्त्वित्याशक्य शिर- श्छेदस्य प्रत्यङ्गच्छेदनस्य च दुःखरहितशीघ्रमरणहेतुत्वेन दुः- खहेतुत्वपूर्व मृत्युहेतुत्वेन चातीव वैलक्षण्यमेवेति प्रत्यङ्गच्छे- दाच्छिरश्छेदस्य श्रेष्ठ्यमिव दुःखमात्रकारणात्मत्येकं त्रिपुटी- लयाद्विश्च विस्मृया ममोनाशस्यैव श्रैष्ठ्यं दर्शयति । दयाशीला हि मुनयो मुनेः सापि दयालुता । यच्छिनत्ति मनः शीर्ष विनाङ्गच्छेदवेदनाम् ॥३॥ दयाशीला इति । मुनयो मननशीला बानिन इत्यर्थः, दयाशीला दया कृपा शीलं स्वभावो येषां ते तथोक्ताः सन्ति हि प्रसिद्धमेतच्छास्त्रेषु तर्हि कथं निर्दयवज्जगज्जीवनहेतुमन:- शीर्षच्छेदने प्रवृत्तिस्त्रबाह मुनेरिति । मुनेविवेकिनः सापि सैव दयालुता दयास्वभावता सा केत्यत आह यदिति, मुनिर- गच्छेदवेदनां विनाऽङ्गानां त्रिपुटीलक्षणानामवयवानां छेद- इछेदनं विकर्तनमित्यर्थः, तस्य वेदनां यातनामृते मनः शीर्ष मन एच शीर्ष शिरच्छिनत्ति विकत यतीति यद्या सेति योज्यम्, अयं भावः-प्रत्यङ्गच्छेदजन्यदुःखस्य बहुत्वादक- स्माच्छिरश्छेदे च तदभावान्मनःशिरश्छेदकर्तुर्मुनेरपि दया- लुत्वसिद्धिरिति भावः ॥३॥ ८१ बोधसारे। ननु विवेकिबुद्धौ तत्सिद्धावपि यस्य शिरश्छेद्यते तदृष्ट्या तु तदसिद्धिरेवेत्याशय तदृष्ट्यापि तत्सिद्धिं दर्शयति । सद्यो मम शिरश्छिन्धि मामित्याह मनो मम । मया सोढुं न शक्यन्ते प्रत्यङ्गच्छेददुर्दशाः ॥ ४ ॥ सद्य इति । वध्यपुरुष एवायमस्य प्रत्यङ्गं छेत्तव्यमिति राजा- ऽऽज्ञायां सत्त्यां प्रसङ्गच्छेदने दुःखबहुत्वं ज्ञात्वा वधकर्तारं बहु- द्रव्यं दत्वा मम शिरः सद्य एव च्छिन्धीति बदति तदृष्ट्या प्रत्यङ्गच्छेदनं कर्तुः सकाशाच्छिरश्छेदक-रि दयालुत्वं स्फु- रति यथा तथा मम मनोपि मे ज्ञानिनो मनोऽन्तःकरणं प्रत्यङ्ग- च्छेदने दुःखबाहुल्यं ज्ञात्वैव जगदाकारं मनो मम मे जगदाका- रस्य मनसः शिरस्तत्त्वज्ञानन विशीर्यमाणत्वाच्छिरोभूतं जग- ज्जीवनभूतं सङ्कल्परिकल्परूपं मनः सद्यः शीघ्र छिन्धि विकत येत्येव मां मुमुहूं तन्नाशकमाह कथयति । ननु जगदाकारस्य ते जीवनहेतुभूतमङ्कल्पविकल्पात्मकमनःशीर्षछेदने मरण हेतुभूते कुतो मां प्रेरयसीति पृष्टं मनो मां प्रति कथयामासेत्याह मयेति, मया जगदाकाररूपेण मनसा प्रत्यङ्गच्छेददुर्दशाः प्रसङ्गानां पृथक् पृथगङ्गानां त्रिपुटीरूपाणामवयवानामित्यर्थः, छेदो विकर्त्तनं त- ज्जन्या दुर्दशाः पीडाः सोढुं क्षन्तुं न शक्यन्ते तत्सहने नाहं समर्थ इयर्थः, अतः प्रत्येकमङ्गच्छेदने दुःखबहुत्वज्ञानादुःखा- भानेन तत्कालशिरश्छेदक दयालुत्वस्य वध्य पुरुषदृष्ट्या सि- द्धिरित्रानन्तत्रिपुटीलक्षणामङ्गानां प्रत्येकच्छेदनेन दुःखबहुत्वज्ञा- नाज्जगदाकारमनोदृष्ट्यापि तच्छीर्षभूतसङ्कल्पविकल्परूपमनोबा- धकर्तरि मयि दयालुत्वसिद्धिरिति भावः ॥ ४ ॥ किंच वध्यस्य प्रत्यङ्गच्छेदने कृतेपि वथाभाववदनन्तचित्ता श्रीगुरुप्रश्नामृतम्। ६४३ वयवानां कर्तनासम्भावात्तकर्तनेपि तन्नाशाभावाच शिरश्छे- द इब जगच्छिरो मन एव च्छिन्नमिसाह । असङ्ख्याश्चित्तजा भावा शक्याश्छेत्तुं क्रमात्कथम् । चित्तमेतत्समाछिन्नमत एव मया मुने ॥ ५ ॥ इति श्रीन बोधसारेऽद्भुतशिरश्छेदपञ्चकमेकोनचत्वारिंशम् ॥ ३९ ॥ असंख्या इति । हे शिष्य चित्तजाश्चित्तादुत्पन्ना भावा वि- कारा असङ्ख्या न विद्यते सङ्ख्या गणना येषान्ते तथाभूता अनन्ता इयर्थः, अत एव ते क्रमाक्रमेण च्छेत्तुं विकत्तितुं शक्या: सामर्थ्यविषयाः कथं केन प्रकारेण भवन्ति न कथमपीयर्थः, हे मुने इति सम्बोधनेन त्वमप्येवं जानास्येवेति सूचितम, अत एवास्मादेव कारणान्मया मनोनाशकत्रैतदिदं प्रयतं चित्तं मनः समाच्छिन्नं सम्यकपुनरुत्पन्नं न स्याद्यथा तथाऽऽच्छिन्नं वि- कर्तितं यदि वं मोक्षमिच्छसि तर्हि त्वयापि सङ्कल्पविकल्प- रूपमनोनाश एव कार्य इति भावः ॥ ५॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्तावद्भु- तशिरश्छेदपञ्चकार्थप्रकाश एकोनचत्वारिंशः ॥ ३९ ॥ अथ जातसाक्षात्कारं शिष्वं प्रति श्रीगुरोः प्रश्नामृतम् । इदानीमुपदिष्टार्थस्य शिष्ये स्थिरतापरीक्षणाय स्वप्रश्ना- नुदाहर्तुं श्रीगुरुप्रश्नामृताख्यं नव श्लोकं प्रकरणामभिदधान आह । अथ जातसाक्षात्कारं शिष्यं प्रति श्रीगुरोः प्रश्नामृतम् । अथेति । अथाद्भुतशिरश्छेदपञ्चकनिरूपणानन्तरं जात- साक्षात्कारं जात उत्पन्न: साक्षात्कारः स्वात्मप्रात्यक्ष्यं यस्य तं तथोक्तं शिष्यं प्रति शिष्यस्य प्रतियोगे द्वितीया श्रीगुरोः बोधसारे। ६४४ । श्रीगुरुकृतं कर्तरिषष्ठी प्रश्नामृतं प्रश्नानां पृच्छानाममृतं शिष्ये मुखाविर्भावकारणत्वादमृतमिवैतन्नामकं प्रकरणमिसर्थः, निरूप्यत इति शेषः, तत्रादौ परमपदानुभवो जातो वा नेति पृच्छति । नित्यानुभूतमपि यन्नानुभूतत्वमागतम् । अनुभूतिरसस्पर्शेरनुभूतं परं पदम् ॥ १ ॥ निसानुभूतमिति । यत्मसिद्धं विदुषां निखानुभूतमपि स्वयं प्रकाशरूपत्वात्रियं सर्वदाऽनुभूतमनुभवरूपमपि भाचे निष्ठा नानुभूतत्वं नानुभूतमनुभवाविषयस्तस्य भावस्तत्त्वं क- मणि निष्ठा नागतं न प्राप्तमवेद्यत्वात्तदुक्तलक्षणं परं कार्य- कारणातीतं कार्यकारणयोस्तत्रैव कल्पितत्वेनासत्त्वादित्यर्थः, पदं पद्यते श्रुतियुक्त्यनुभवैर्गम्यते तत्पदं प्रत्यगभिन्नं ब्रह्मा- नुभूतिरसस्पर्शेरनुभूतेरनुभवस्य यो रसः मुखविशेषस्तस्य स्पर्शाः साक्षात्कारास्तैस्त्वया कर्ताऽनुभूतं साक्षात्कृतं किं किमु न वेति एका प्रश्नः॥१॥ इदानी प्रत्यगात्मनि ब्रह्मलक्षणानि साक्षात्कृतानि न वेति पृच्छति। प्रत्यक्षलक्षणैरेव पराग्वृत्तिविलक्षणैः । साक्षात्कृतः शिवः साक्षात्सच्चिदानन्दलक्षणैः ॥२॥ प्रसक्षलक्षणैरिति । हे शिष्य त्वया पराग्वृत्तिविलक्षणैः पराग्वहिरञ्चन्ति गच्छन्तीति पराञ्च्यो बहिर्मुखा यो वृ- त्तयोऽन्तःकरणस्य घटाद्यनुभवकरणरूपा अंशास्ताभ्यो चि- लक्षणैरविषयभूतैर्विगतानि लक्षणानि चिह्नानि स्वलक्ष- कानि येभ्यस्तैः प्रयक्षलक्षणः प्रयक्षाणि अव्यवहितमकान- श्रीगुरप्रश्नामृतम् । ६४५ रूपाणि लक्षणानि चिह्नानि येषां तानि तेस्तेषां स्वयं प्रकाश- वेन सर्वदास्फुरणरूपत्वात्तत्मायक्ष्यं सर्वत्र सर्वदानुभूयमानमिति भावः, सच्चिदानन्दलक्षणैः सत्कालत्रयाबाध्यं चिज्ज्ञप्तिमात्रमा- नन्दः मुखमेतान्येवाभिन्नानि ब्रह्मणो लक्षकत्वाल्लक्षणानि तैः साक्षाच्छिचोऽव्यवहितप्रकाशरूप: शिवः मुखरूपस्त्वंपद- लक्ष्यः प्रत्यगात्मा साक्षात्मत्यक्षमनुभूतः किमीत पूर्वश्लो- कादावर्त्तनीयं किं किमु नर्वेति प्रश्नः ॥ २॥ इदानीं वेदान्तश्रवणेन जनिततत्तत्फलं ब्रह्ममुखाविर्भूखा निद्रायामिव सर्वदुःखविस्मरणं जातं नवेति पृच्छति । यशोदागीतमधुरैर्मृदुवेदान्तभाषितैः । लालितः प्रापितो निद्रां मुकुन्द इव मोदसे ॥३॥ यशोदति । हे शिष्य त्वं यशोदागीतमधुरैर्यशोदाया नन्दपल्या गीतानि गायनानि कृतानि यानि तेषां माधुर्याणि मृष्टानि मुखविशेषा इत्यर्थः, तैर्लालितः क्रीडितः सन्निद्रां मुषुप्तिसुखं प्रापितः प्राप्तः कृतः सन्मुकुन्दः श्रीकृष्णो यथा मोदते हृष्यति मुखितो भवतीत्यर्थः, तद्वत्त्वं यशोदागीतमधुरैः यशः कीर्ति ददातीति यशोदा विवेकवती बुद्धिर्विधेति या. वत्तया गीतानि गानानि कृतानि गुरुमुखाछुनानि वाक्यानि तेन माधुर्याणि मुखविशेषा येषु तानि तथोक्तानि तैदुवे- दान्तभाषितेदुनि कोमलस्पनि सूक्ष्मार्थत्वात्सुखजनकत्वा- च्चेसाशयः, यानि वेदान्तानामुपनिषदां भाषितानि वचांसि तैालितो विक्रीडितः सन्निद्रां प्रपञ्चविस्मृतिलक्षणात्मसमा- धिरूपां मुप्ति प्रापितः प्राप्तः कृतो मोदसे दृष्यसि न वेति प्रश्न: किं पदानुत्तिः कर्त्तव्यात्रापि ॥ ३ ।।
बोधसारे। इदानीं स्वरूपमुखानुभवेन तृप्तोसि किं न वेति पृच्छति । नवनीतरसग्रासैश्चमत्कारैः स्वसंविदाम् । अन्तराप्यायितो बालमुकुन्द इव खेलसि ॥ ४ ॥ नवनीतेति । हे शिष्य त्वं बालमुकुन्द इव यथा बालमुकुन्दो बालो बालभावापन्नो मुकुन्दो मुक्तिप्रदो भक्तानां श्रीकृष्णो नवनीतरसग्रासैनवनीतं हैय्यङ्गवीनं तस्यैव ग्रासाः कवला भोग्या येषां ते तथोक्तास्तैः स्वसंविदां स्वस्य श्रीकृष्णस्य सं. विदश्चेतना अन्तःकरणत्तयश्चिदाभासविशिष्टा इसर्थः, तासां चमत्कारैर्विलासैरन्तराप्यायितोऽन्तरेव तृप्तः सन्खेलति क्री- डति तद्वन्नवनीतरसग्रासैनवनीतस्य हैय्यङ्गवीनस्य रस इत्र तृ- प्तिकारकत्वाद्रसः सुखं 'रसो वै स' इतिश्रुतेस्तदेव ग्रामो भोजनं येषां तैः स्वसम्बिदा स्वाऽऽत्मरूपा याः सम्बिदो ज्ञानानि तासां चमत्काविलासैरन्तराप्यायितोऽन्तरात्मन्यव तृप्तः सन्खे लसि किं नवेति प्रश्नः ॥ ४ ॥ इदानी स्वानन्दे स्थितोसि किं न चेति पृच्छति । स्वात्मनि प्रलयं नीत्वा दृश्यमेकाकितां गतः । किं नृत्यसि निजानन्दे महादेव इवात्मनि ॥ ५॥ स्वात्मनीति । हे शिष्य त्वं महादेव इच यथा महादेवः शिवोऽहङ्कारदेवता रुद्र इति यावदृश्यं दर्शनविषयं जगत्- स्वात्मनि स्वरूपेऽहङ्कारे प्रलयं नाशं नीत्वा प्रापयित्वैका- कितामेकलत्त्वं गतः प्राप्तः सन्निजानन्दे स्वात्मसुखे स्थितो भूत्वा नृयति तद्वदृश्यं ज्ञानविषयं समस्तं जगत्स्वात्मनि ब्र- झाभिन्ने प्रयगात्मनि प्रलयं प्रकृष्टो निर्बीजो लयो नाशस्तं नीत्वा प्रापयित्वा बाधं कृत्वेत्यर्थः, तत एकाकितामद्वैतरु- श्रीगुरुप्रश्नामृतम् । पतां गतः प्राप्तः सनिजानन्दे निरतिशयात्मानन्द आत्मनि ब्रह्माभिन्ने प्रत्यगात्मनि स्थिता तृससि किं नृशं करोषि किं न वेति प्रश्नः ॥५॥ इदानीं मविकल्पममाघौ स्थितोसि कि नवेति पृच्छति । सायङ्काले समाध्याख्ये स्निन्धां सर्वाङ्गसुन्दरीम् । निजशक्तिमुमां पश्यन्महेश इव नृत्यसि ॥ ६ ॥ सायंकाल इति । हे शिष्य त्वं महेश इव यथा महेश: शिवः सायंकाले प्रदोषसमये स्निग्धां प्रेमवती सर्वाङ्गसुन्दरी सर्वाणि समस्तानि यानि अङ्गानि हस्तपादनासिकानेत्रादीनि तैः सुन्दरीं कमनायां निजशक्ति स्वशक्तिमुमां पार्वती पश्य- नवलोकयन्नृत्यति नृत्यं करोति तद्वत्समाध्याख्ये समाधि- नामनि सायंकाले सविकल्पसमाधिरूपप्रदोषसमये सविकल्पस्य समाधेः सर्वजगतो बाधपूर्व स्फूर्तिसत्त्ववत्त्वेन प्रदोषकालव- भावः, स्निग्धां स्वात्मनि प्रेमवती सर्वाङ्गमुन्दरी सर्वैः समस्तरङ्गैरवयवैरनुभाव्यानुभवानुभवितुरूपैः सुन्दरी कमनी- यरूपामु-उकारवाच्यं लिङ्गशरीरं समष्टिव्यष्टिरूपं द्विविधं तद- भिमानिद्रयाप तैजसाहरण्यगर्भाख्यं तन्माति साक्षाद्दश्यत्वे- नावलोकयति सा तथोक्ता तां, यद्वा-उ ब्रह्मैव प्रत्यगभिन्न माति अनुभवति सा तथोक्ता तां, 'यो जागार तमु सामानि यन्तीति श्रुनेनिजशक्ति निजा स्वीया शक्तिर्जगज्जननसामर्थ्यरूपा तां चिच्छक्ति पश्यन्सन्साक्षादवलोकयन्सन् किं नृत्यसि या- वत्प्रारब्धक्षयं व्यापृतिरूपं नृत्यं करोषि किमिति प्रश्नः ॥ ६ ॥ इदानीं दृश्यावलयपरिपाको जातो न वेति पृच्छति । दृश्यं निपीय गरलं पाचयित्वा तदात्मनि । 11 मिति भावः बोधसारे। मृत्त्युञ्जयपदं प्राप्तः किं हृष्यसि हरो यथा ॥ ७॥ दृश्यमिति । हे शिष्य त्वं यथा यद्धरो हरति भक्त- दुःखमिति हरः सदाशिवो दृश्यं सर्वदेवासुरादिग्विषयं गरलं समुद्रादुत्पन्नं हालाहलं निपीय निशेषं पीत्वा तद्धालाहलमात्म- नि स्वदेहे पाचयित्वा जारयित्वा मृत्युञ्जयपदं मृत्युञ्जयतीति मृत्युञ्जयस्तदेव पदं नाम प्राप्तः लब्धः सन् हृष्यति मोदते तथा तद्वद् दृश्यं ज्ञेयं सर्वं जगद्रलं गरं विषं तद्धर्म लाति अङ्गीकरोतीति गरलं स्वसेवकस्य नाशकत्वात्तनिपीय निःशेष पीत्वाऽऽत्मनः पृथगसत्त्वेनावलोकोयत्वेसर्थः, तद्भस्तं बाधितं जगदात्मनि प्रयगाभन्ने ब्रह्माण पाचयित्वा पक्कं कृत्वा पुन- रुदयाक्षमं कृत्वेत्यर्थः, मृत्युंजयपदं मृत्यु मृतिकारणं संसारं जयतीति मृत्युञ्जयो ब्रह्म तस्य पदं स्वरूप प्राप्तो यातः सन् ह- ष्पसि नित्यतृप्तो जातोसि किं न वेति प्रश्नः ॥७॥ इदानीमन्तःकरणकृत्तौ स्वात्मानं साक्षात्पश्यसि नवेति पृच्छसि । यथा संमुखतां नीत्वा मुकुरे मुखमीक्षितम् । अखण्डवृत्तौ च तथा स्वरूपं किं विलोकितम् ॥८॥ यथेति । हे शिष्य त्वया यथा यद्वत्सन्मुखतां स्वसन्मुख- तां दर्पणं मुकुरं नीत्वा प्रापयित्वा तस्मिन्मुकुरे दर्पणं मुखं वदनमीक्षितमवलोकितं तथा तद्वत्स्वरूपं स्वस्यात्मनो रूपमा. कृति स्वतो द्रष्टुमशक्यमापि अखण्डवृत्तौ ध्यानाभासेनाखण्डा- काराकारितायां वृत्तावब्रह्मास्मीत्याकारायामित्यर्थः, स्वरूपं स्वस्यात्मनो रूपं सचिदानन्दधनविलोकितं दृष्टं किं नवेति । प्रश्नः॥८॥ इदानीं मायायामन्तर्बहिश्वात्मानं जगद्रूपां मायां च दृष्ट्वा परमाश्चर्यचानातोसि कि नवेति पृच्छति ।
शिष्यप्रतिषचनम् । बहिरन्तहरिं पश्यन्मायां पश्यञ्जगन्मयीम् । विस्मयं परमं यासि मार्कण्डेय इवात्मनि ॥ ९ ॥ इति श्रीनरहरिकृती बोधसारे श्रीगुरुप्रश्नामृतं चत्वारिंशम् ॥४०॥ बहिरिति । हे शिष्य त्वं मार्कण्डेय इव यथा मार्कण्डेयो मृकण्डुपुत्रो बहिर्वाह्यदेशे वटपत्रस्थितं बालमुकुन्दरूपमन्तथ तद्देहे प्रविष्टः सन्स्वाश्रमे नारायणरूपं हरि विष्णुं पश्यन्नव- लोकयन् मायां च मुकुन्ददेहाबहिर्बाह्यदेशेऽन्तश्च तद्देहे ज- गत्स्वाश्रमादिदृश्यरूपां जगन्मयीं जगद्रूपां पश्यन्नवलोकयन्- सन्परममुत्कृष्टं विस्मयमाश्चर्यं यातः प्राप्तस्तद्वद्भहिर्जगतो बा- ह्यदेशे स्वस्वरूपे स्थितमन्तश्च जगति स्वदेहे सच्चिदानन्दरू- पेणानुवृत्तं हरिं सर्वदैतहरणशीलं प्रत्यगभिन्नं ब्रह्म पश्यन्न- वलोकयन्सन्मायामपि सदसत्त्वादिलक्षणैर्निरूपयितुमशाक्यां जगन्मयी जगद्रूपां पश्यन्नवलोकयन्सन्नात्मनि अन्तःकरणे परमं श्रेष्ठमुत्कृष्टमित्यर्थः, विस्मयमाश्चर्य यासि पामोषि कि किमु न वेति प्रश्नः ॥६॥ इति श्रीनरहरिशिभ्यदिवाकरविरचितायां बोधसारार्थदीप्तौ श्री- गुरुप्रश्नामृतार्थप्रकाशश्चत्वारिंशः ॥४०॥ अथ शिष्यप्रतिवचनम् । इदानीं शिष्यप्रतिवचनं निरूपयितुं शिष्यप्रतिवचना- ख्यमेक श्लोकं प्रकरणमभिदधान आह । अथ शिष्यप्रतिवचनम् । अथेति । अथ गुरुप्रश्नामृतनिरूपणानन्तरं शिष्यप्रतिवचनं शिष्यस्य च्छात्रस्य प्रतिवचनं प्रत्युत्तरणमेतनामकं प्रकरणं बोधसारे। निरूप्यत इनि शेषः, तदेवाह । श्रीगुरो सानुभावानां करुणापूर्णचेतसाम् । श्रीमतां कृपया ननमस्माकं किमु दुर्लभम् ॥१॥ इति श्रीनरहरिकृती बोधसारे शिष्यप्रतिवचनमेकचत्वारिंशम् ॥४१॥ श्रीगुरो इति । हे श्रीगुरो श्रिया स्वरूपसंपसा युक्तो गुरु- राचार्यस्तस्य संबोधने हे श्रीमुरो भनेन संबोधनेन त्वाम्गुरूणां कृपया शिष्याणां सर्व मुलभामिनि मूचित्तं, तदेव स्पष्टमाह सा- नुभावानामिति, सानुभावानामनुभावः प्रतापस्तेन सहितानां, य. दऽनुभावः स्वात्मानुभवस्तेन सहितानामियर्थः, अत एव करुणा- पूर्णचेतसां करुणगा दयषा पूर्ण भारतं चेतश्चित्तं येषां तेषां श्री. पतां स्वसाक्षात्कारसंपत्तिमतां युष्माकं कृपया दययाऽस्माकं त्व- च्छिष्यभावं प्राप्तानां नूनं निश्चयेन दुर्लभं दुःमापं किमु किमस्ति न किमपि सर्वमपि सुलभमेवेत्यर्थः ॥ १ ॥ इति श्रीनरहरिशिष्यदिवाकरविरचितयां बोधसारार्थदीप्ती. शिष्यप्रतिवचनार्थप्रकाश एकचत्वारिंशः॥ ४२ ॥ अथ चर्याचतुष्टयी। एवं शिष्यप्रतिवचनमभिधायेदानी शिष्याणां ज्ञानिवा- भिमानेन निषिद्धाचरणे प्रवृत्तिं वारयितुं पूर्णज्ञानिनां तत्र प्रह- तावपि तददोषं च दर्शयश्चर्याचतुष्टय्याख्यं चतुश्लोकं प्रकर- यामभिधास्यत्राह। अथ चर्याचतुष्टयी। अथेति । अथ शिष्यप्रतिवचननिरूपणानन्तरं चर्याचतुष्टयी चर्याया आचारस्य निर्णायिका चतुष्टयी चतुःश्लोकममूहरूपै- तंबामकं प्रकरणमित्यर्थः, निरूप्यत इति शेषः, तत्र तावदादौ चर्याचतुष्टयी। ६५१ । ब्रह्मविदो 'न मातृवधेन न भ्रूणहत्यये त्यादिश्रुत्या निषिद्धा- चरणस्य दोषाभावप्रतिपादनात्केवलं तत्रैव प्रतिर्माभूदिति तत्र प्रत्याऽशोभाकारित्वं सदृष्टान्तमाह। जात्या यद्यपिगौरमेव वदनं रूपस्य नास्ति क्षति- स्तरिक कजलकालिमा मुखतले संलापनीयो बुधैः । अस्तु ब्रह्मविदः कृतैरपि न तैर्दुष्कर्मभिश्चेत्क्षतिः किं कामादिकदर्थिता वरमहो निःसङ्गसौख्यं वरम् ॥१॥ जाखेति । हे शिष्य ब्रह्मविदो ब्रह्म देशकालवस्तुकृतपरि- च्छेदशून्यं वस्तु वेत्ति जानातीति ब्रह्मवित्तस्य ब्रह्मविदः कृतैरा- चरितैरपि तैनरकादिपापकैब्रह्महननादिभिदुष्कर्मभिर्दुष्टानि नि- पिदानि यानि कर्माणि तैः क्षति शोन नास्ति चेद्यदि तर्हि अस्तु भवतु दोषाभावः श्रुतिप्रामाण्यात्तथापि ब्रह्मविदः कामादिकद- थिता कामो विषयभोगेच्छाऽऽदियेषां क्रोधादीनां तैः कवर्थिता तुच्छता वरमुत्तमं किमहो किमुत निःसङ्गसौख्यं निःसङ्गं नाशा- दिभिरसंबद्धं सौख्यं मुखमेव सौख्यं निरतिशयं मुखमित्यर्थः, वरं श्रेष्ठं तद्वदेति शेषः, तत्र दृष्टान्तो वदनं यद्यपि मुख जात्या स्वभावेन गौरवर्णमस्ति अन एव तत्र लम्नपि कन्जल. रूपस्य क्षतिहानिर्नास्त्येव न विश्वत एवं परन्तु नेत्रप्रान्तभागेष्वेव लग्नेन कज्जलेन रूपस्य क्षतिर्नास्तीत्युक्तं सत्यमेव किश्च प्रत्युत रूपशोभाकार्येव तद्भवति तत्ततो हेतोर्बुधैर्विवेकिभिर्मुखतले बदनफलके कज्जलं कालिमा कजलस्य तैलादिमंयुक्तदीपोल्प. मस्य कार्यद्रव्यस्य कालिमा श्यामत्वं संलापनीयो लेपनीय इत्यर्थः, अयं भाव:-यद्यपि 'न मातृवधेने'त्यादि श्रुनिभिज्ञानिनां निषिद्धाऽऽचरणे दोषाभाव उक्तस्तथापि न तत्र विधिः किन्तु बोधसारे। तीव्रपारब्धवशेन जातोप तस्मिन् दोषाभाव उक्तोऽतस्तत्रैव न प्रवर्तितव्यमसङ्गात्मसुख एव रतिः संपाद्या यथा गौरवणे मु- खे लोकव्यवहारवशेन मुखशोभायै नेत्रयोरञ्जन कार्यमित्युक्ते- नेत्रयोः कज्जले जिते तच्छोभा स्यात्तस्मिश्च मुखतले सलापिते सति लोकेऽशोभैव स्यादेवं तीव्रप्रारब्धवेगेन कृतपि निषिद्धक- मणि तत्क्षयेन शुद्धिकारणत्वादन्तःकरणस्य ज्ञानिनो गुण एव तस्मिश्च बुद्धिपूर्वं कृते च मुखमण्डले कन्जललेप इव लोकहास- जन्यं दुःखमेव स्यात, किञ्च तदाचरणेन च नरकादिजन्यं दुःख- मेव स्यादतस्तत्र न प्रवृत्तिः कार्येति ॥ १ ॥ ननु विद्यावतां प्रबलश्रुयोक्तस्य निषिद्धाचरणे दोषाभा- वस्य सत्चात्तदाचरणे को दोष इसाशयाह । विद्यैवाधिगता सदामृतमयी विद्यावता तत्सुखं स्थेयं वर्त्मनि सङ्गदोषरहित्ते सङ्गः पुनः कीदृशः । किं भूषाऽस्य वरा स्थितिः स्तुतिमयी सा राजसिंहासने द्वारि द्वारि कपर्दिकार्थमटनं किं वाऽस्य राज्ञो वरम् ॥२॥ विद्यैवेति । विद्यावता ज्ञानिना विद्यैव ज्ञानमेवाऽधिगता प्राप्ता सा चामृतमय्यमूतं मुखं ब्रह्म तन्मयी तद्रूपाऽस्ति यदि पहि तत्तर्हि सुखं यथा भवति तथा सङ्गदोषरहिते सङ्गः का- मादिभिः सम्बन्धस्तजन्यो यो दोषो दुःखरूपमनिष्टं तेन र- हिते व्यतिरिक्त वमनि आचरणरूपे मार्गे स्थेयं स्थितिः कार्या पुनर्ज्ञानप्राप्तेरनन्तरं कीदृशः किं प्रकारः सङ्गा पा- पकर्मभिः सम्बन्धो भवेनैव भवेदियर्थः, ननु किं निःसङ्गसुखेन विदेहमुक्तिस्तु स्यादेव ज्ञानफलत्वात्तस्या इत्याशङ्म जीवतो मुक्तिसुखाननुभवे तस्या अप्यसिद्धिरिति निश्चित्य सङ्गसुखा- चर्याचतुष्टयी। निःसङ्गसुख आधिक्यं तदादराय प्रदर्शयन्दृष्टान्तेन पृच्छति किमिति, अस्य राजकुलोत्पन्नस्य प्राप्तराज्यस्य च पुरुषस्य रा- जसिंहासने राज्ञो नृपस्य यत्सिंहासनं पदं तस्मिल्लोकादरणी- यस्थान इयर्थः, सा प्रसिद्धा लोकपूज्या स्थितिः स्थानं सा वरा श्रेष्ठा भूषाऽलङ्कतिः स्तुतिमयी स्तोत्ररूपा कि किमु कि किंवाऽस्य प्राप्तराज्यस्य राज्ञो नृपस्य द्वारि द्वारि लोकानां द्वारे द्वारे कपर्दिकार्थ कपर्दकलाभेच्छयाऽटनं भ्रमणं वरं श्रेष्ठं तत्कथय निन्द्याचरणेन जीवन्मुक्तिसुखानुभवाभावाल्लोकनि- न्दाजन्यदुःखाधिक्याच विदेहमुत्त्यभावेन च नरकदुःखस्य विद्यमानत्वाच्च न निन्द्याचरणे प्रवर्तितव्यमिति भावः ॥२॥ ननु श्रुतिपावल्येन निन्द्याचरणे ज्ञानिनां प्रवृत्तिर्भवतु को दोव इसाशङ्ग्य प्रयोजनाभावान कार्येत्याशयेनाह । शिष्टाचारपथं विना यदि भवेदात्मप्रबोधो महां- स्त्याज्यस्तर्हि तु सर्वदैव विदुषा वर्णाश्रमाणां क्रमः । वर्ल्स ज्ञस्य विलक्षणं यदि कृतात्किचाकृतात्कर्मणः संगृह्णातु जनांस्तदा मुनिजनस्तेनापि नास्य क्षतिः॥३॥ शिष्टाचारेति । हे शिष्य तव शिष्टाचारपथं विना शि- ष्टानां श्रेष्ठानामाचारः कर्म तदेव पन्था मार्गः स्वर्गापवर्ग- कारणत्वात्तं तथोक्तं विना वर्जयित्वा निन्द्याचरणेनेसर्थः, म- हान्प्रबोधो दृढं ज्ञानं यदि यहिं भवेत्स्यात्तर्हि तु तथेत्र वि- दुषा ज्ञानिना वर्णाश्रमाणां वर्णाश्च ब्राह्मणाद्या आश्रमा ब्रह्मचर्याधास्तेषां क्रम आचारः सर्वदैव सर्वकालमपि त्याज्य- स्यक्तुं योग्यः स्यानिषिद्धाचरणेनैव ज्ञानप्राप्तौ सत्यां सर्वेषा- मेव मुक्तिः स्यादेवं च सर्वेषामपि तत्र प्रवृत्तौ सन्मार्गोच्छेद- बोधसारे। प्रसङ्गो न हि सन्मार्गगामिना प्रवृत्तिस्तत्र दृश्यते न हि च नि- षिद्धाचाराणां मुक्तिरपि सर्वेषां दृश्यते किन्तु केवलनरकमा- तिरेव दृश्यते श्रूयते चाऽतो निन्यकर्मणि प्रवृत्ति व कार्यात भावः, ननु 'नैनं कृताकृते तपतः, एत५ह वाव न तपति किमहर साधु नाकरवं किमहं पापमकरवमित्यादिश्रुतिभि निषु मुक- तदुष्कृतभयाभावप्रतिपादनाकि निष्फलसत्कर्माचार एवाग्रह इत्याशक्य लोकसंग्रहफलसद्भावान्मैवमित्याह वर्मेति, सस्य ज्ञा- निनो वाऽऽचरणरूपो मार्गः कृतात्कर्मणोऽकृतादकर्मणः कर्मयागादिसर्थः, यद्वा कृतात्कर्मफलात्स्वर्गादेरकृतान्मोक्षा- चात्र श्रुतिः। 'अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृताद् । अन्यत्र भूताच भव्याञ्च यत्तत्पश्यसि तद्वदेति ॥ विलक्षणं भिन्नमस्तीति यदि चेद्वदसि तदा तर्हि मुनिजनो मुनीनां ज्ञानिनां जनः समूहो जनाल्लोकान्कर्माधिकारिजीवा- निसर्थः, संगृह्णातु ग्राहयतु स्वयं कर्म कृत्वा लोकानपि कार- पतु इत्यर्थः, । 'लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसीति । भगवद्गीतोक्ते, ननु तर्हि लोकसंग्रहार्थमेव कर्मकुर्वतोपि तदाऽऽसत्त्या बन्धः स्यादित्याशयाह तेनापीति, तेनापि लोक- संग्रहार्थ कृतेनापि कर्मणाऽस्य ज्ञानिनो क्षति शो न न विद्यते निषिद्धाचारेण बन्धाभाव इव सत्कर्माचारेपि बन्धाभावाल्लोक- संग्रहाय सत्कर्माचार एव ज्ञानिना प्रवर्तितव्यमिति भावः ॥३॥ ननु तर्हि दत्तादीनां कथं तत्र तत्र पुराणेषु स्वेच्छाचार श्रूयते इत्याशङ्ग्याह । दुत्तोऽसावृषभो जडश्च भरतो मङ्किश्व संवर्तकः ।
झानगङ्गातरङ्गोनाशीतिकम। कर्मभ्रष्टपथं गताः कथममी चेत्पूर्वपक्षस्तव । साधो जागरितान्प्रतीदमुदितं पश्यन्ति शृण्वन्ति ये निद्रान्धा न विलोकयन्ति न पुनः शृण्वन्ति वाच्यानते ४ इति श्रीनरहरिकृती बोधसारे चर्याचतुष्टयी द्विचत्वारिंशा॥४२॥ दत्त इति । असौ पुराणेषु प्रसिद्धो दत्तो दत्तात्रेय ऋषभ ऋषभनामा राजा नाभेः पुत्रो जडो भरतो भागवते प्रसिद्धो जडभरतो मतिश्च मङ्किनामा मुनिरपि संवर्तकश्च संवर्तकनामे- त्येवमम्येते कर्मभ्रष्टपथं कर्मभ्यो विहितकर्मभ्यो भ्रष्टश्च्युतो यो पन्था मार्गस्तं गताः प्राप्ताः कथं कुत इति तव पूर्वप- क्षः प्रश्न श्वेयदि तर्हि हे साधो अनेन सम्बोधनेन तव सा- धकत्वादेव कथितमिति सूचितं, तदेव स्पष्टमाह जागरितानिति, ये पश्यन्ति अवलोकयन्ति जगद्गतपदार्थाननुभवन्तीत्यर्थः, किश्च शृण्वन्ति जगद्गतपदार्थनामानि श्रोत्रेणानुभवन्ति ता- भागरिताजाग्रदवस्थावत इयर्थः, इदं लोकसंग्रहार्थ कर्म कर्त- व्यमिसेवमुक्कं ये दत्तादय आत्मसाक्षात्कारानन्तरं न विलो- कयन्ति न जगत्पदार्थान्पश्यन्ति न च नैक शृण्वन्ति तत्तत्प- दार्थनामान्यपि श्रोत्रेण नानुभवन्ति ते निद्रान्धा निद्रया प्रप- चविस्मृतिलक्षणया सुप्त्याऽन्धाश्चक्षुहीनब्रह्मरूपास्ते पुरुषा न वाच्या न वचनास्तेिषां ब्रह्मरूपत्वाद्विधिनिषेधानधिका- रितया सत्कर्महीना आप न निन्द्या इति भावः ॥ ४ ॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्तौ चा- चतुष्टय्यर्थप्रकाशो द्विचत्वारिंशः ॥ ४२ ॥ Maitaneamere अथ शानगङ्गातरङ्गोनाशीतिकम् । एवं चर्या चतुष्टयीं निरूप्येदार्नी बहुसन्देहनिराकरणेन ज्ञा- बोधसारे। नदाक्य ज्ञानगङ्गातरङ्गोनाशीत्याख्यमेकोनाशीतिश्लोकं मक- रणमभिदधान प्राह । अथ ज्ञानगङ्गातरङ्गोनाशीतिकम् । अथेति । अथ चर्याचतुष्टयीनिरूपणानन्तरं ज्ञानगङ्गातर- जोनाशीतिकं ज्ञानं ज्ञप्तिः सैव गङ्गा पवित्रकारकत्वाद् । न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । इति गीतोक्तेः, यद्वा ज्ञानं ज्ञप्तिः सैवाऽऽत्मसन्मुखतया स- न्ततगतिमत्त्वात्सागरं प्रति सन्ततगमनवती गङ्गेच गङ्गा तस्या- स्तरका इवास्मिन्प्रकरणे निरूपयिष्यमाणाः श्लोकास्ते तत्तत्सं- शयमलनिवर्त्तकत्वात्तरङ्गा भङ्गास्तेषामेकेनोना न्यूनाऽशीतिस्तत्सं- ख्यानां श्लोकानां समूहरूपमेकोनाशीतिकं प्रकरणमुच्यत इति शेषः, तत्र तावदादावतत्प्रकरणप्रयोजननिरूपणेनैतच्छ्रवणे शिष्यं प्रेरयति । ज्ञानगङ्गातरङ्गोनाशीतिकं शृणु सांप्रतम् । एकनाप्यङ्गलग्नेन सर्वपापक्षयो भवेत् ॥१॥ ज्ञानगङ्गेति । हे शिष्य स्वं भवान्तांप्रतमधुना ज्ञानगङ्गा- तरङ्गोनाशीतिकं ज्ञानमहंब्रह्मास्मीतिप्रमारूपा वृत्तिस्तस्यैव ब्रह्मात्मविषये सन्ततप्रवाहवत्त्वात्पवित्रकारकत्वाच्च तदेव ग- ड्रेच गङ्गा तस्यास्तरङ्गास्तत्तद्विवेकरूपा वृत्तयस्तासां प्रतिपा- दकत्वादेतत्प्रकरणस्थ श्लोकानां ज्ञानगङ्गातरङ्गत्वं तदाश्रयत्वादे- तत्प्रकरणस्य च ज्ञानगङ्गात्वं तेषामूनाशी तिकमूना-एकोना या- ऽशीतिस्तत्परिमितानां श्लोकानां समूहरूपं वक्ष्यमाणं प्रकरणं समूहे कन्, शृणु श्रोत्रेणानुभव श्रोतव्यमियर्थः, ननु ममैतत्प- करणश्रवणेन किं फलं स्यादित्याशङ्गमाइकेनापीति, एके- ज्ञानगङ्गातरङ्गोनाशीतिकम् । मापि ज्ञानगङ्गातरङ्गेण लौकिकगङ्गातरङ्गेणेवाङ्गलग्नेनाङ्गे लिङ्गशरीरे लग्नेन विचारपूर्वं स्थिरीभूतेन गङ्गातरङ्गपक्षे शरी- रलग्नेन सर्वपापक्षयोऽखिलपापनाशो ज्ञानगङ्गातरङ्गपरामृष्टलि- बारीरे सन्देहपापक्षयो भवेत्स्यादत्तो मुमुक्षुणा त्वयाऽन्यै- श्वेदं प्रकरणं श्रोतव्यमिति भावः ॥ १ ॥ ननु चिद्रूपब्रह्मणो व्यापकत्वेन सर्वत्र विद्यमानत्वेपि कस्य चिल्लाभः कस्य चिदलाभोऽयुक्त इयाशङ्ग्य सदृष्टान्तं तत्सम्भावयति । वाङ्मयं खं हि सर्वत्र वाचो मूकस्य दुर्लभाः । चिन्मयं ब्रह्म सर्वत्र विद्याहीनस्य दुर्लभम् ॥२॥ वाङ्मयमिति । चिन्मयं चिन्मात्रं ब्रह्म देवाकालवस्तुक- तपरिच्छेदशून्यमात्मवस्तु सर्वत्र समस्तपदार्थेषु समस्तपाणि- वपि अस्ति विद्यते ज्ञानिदृष्ट्या तथा सत्यपि विद्याहीनस्य ज्ञानरहितस्य दुर्लभं दुःखेन श्रवरसादिम्यासेनैव लब्धुं शक्यं नानायासेन लब्धुं शक्यं साधनहीनस्य त्वमाप्यमेव तदिति भावः, तत्र दृष्टान्तो हि यथा वाङ्मयं शब्दमचुरमाकाशस्य शाब्दगुणवत्त्वात्खमाकाशं सर्वत्र समस्तप्राणिषु अस्ति तथापि मूकस्य मूकत्वफलकेन केन चित्कर्मणा वागिन्द्रियमप्राप्तस्य वाचो व्यक्तवाक्योच्चारा दुर्लभा दुःखेन तत्मापककर्माचरणेनाया- सेन लब्धुं शक्या नान्यथेयर्थः ॥ २॥ ननु ब्रह्मचैतन्यस्य स्वयं प्रकाशरूपत्वे सति कुतोऽन्तःक- रणवृत्यप्रकाश्यत्वमित्याशय सदृष्टान्तं तत्सम्भावयति । प्राचीमथ प्रतीची वा यत्र व चन गच्छतु । तमसा दृश्यते नैषा ब्रह्मचिह्नास्करो यथा ॥ ३ ॥ ८३ बोधसारे। प्राचीमिति । यथा यदत्तमसा राज्यन्धकारेण नेत्रपटल- रूपेण वाऽऽतनेत्र इति शेषः, पुरुषः प्राची पूर्वदिशं प्रति अ- थवा यद्वा प्रतीची पश्चिमां दिशं प्रति अथवा यद्वा यत्र क चन यत्र कुत्रापि दक्षिणस्यामुत्तरस्यामध ऊर्ध्व वेत्यर्थः, कुत्रापि सूर्यदर्शनाय गच्छतु यातु तथापि तत्तदिशां प्रकाशको भास्करः सूर्यो न दृश्यते नावलोक्यते स्वयंप्रकाशमानोपि सूर्यस्तिमि- रातचक्षुषा यथा नैव दृश्यत इति भावः, तथा तद्वत्तमसाऽ- ज्ञानेनावृतः पुरुषो यत्र क चनोपासनयेन्द्रलोकादिब्रह्मलो- कान्तं कर्मणा वा पितृलोकं निषिद्धकर्मणा वा नरकादिस्था- वरान्तं कुत्रापि गच्छतु यातु तथापि एषा विद्वत्तसक्षा ब्रह्म- चिद्देशकालवस्तुकृतपरिच्छेदशून्या चित्सर्वचेवसामान्यपका- शिका चेतना न दृश्यते नावलोक्यते तस्याः स्वयं प्रकाशरू- पत्रे संयपि अज्ञानावृतमाणिषु अप्रत्यक्षत्वं तदावरणशून्येषु- विद्वत्सु प्रत्यक्षत्वं चेति भावः ॥ ३ ॥ ननु प्रपञ्चासम्बद्धे ब्रह्मणि तदसम्बद्धप्रपञ्चस्य स्थितिः कथं सम्भाव्येत्याशय तदपि सदृष्टान्तं सम्भावयति । आकाशमण्डले शून्ये यथा नक्षत्रमण्डलम् । चिब्रह्ममण्डले शून्ये तथा संसारमण्डलम् ॥ ४ ॥ आकाशमण्डल इति । यथा यदृच्छ्न्ये वास्तववाय्वादि- सम्बन्धरहितत्वान्नक्षत्रमण्डलसम्बन्धरहित आकाशमण्डल आ- काशस्य वियतो मण्डले स्वरूपे नक्षत्रमण्डलं नक्षत्राणां ताराणां मण्डलं समूहोऽस्ति तथा तद्वच्छून्ये वास्तवमपञ्चमण्डलस- म्बन्धहिते स्वतोपि निराकारे प्रतीतिविषयत्वाभावाच्छून्य- रूपे च चिह्ममण्डले चिन्मात्रब्रह्मस्वरूपे संसारमण्डलं संसा- ज्ञानगगातरङ्गोनाशीतिकम् । राणां सर्गाणां मण्डलं समूहोऽस्ति आकाशस्य नक्षत्रमण्डलेन सह वास्तवसम्बन्धाऽभावेपि मातीतिकसम्बन्ध इव ब्रह्मसंसार- मण्डलयोरपि वास्तवसम्बन्धाभावेपि मातीतिक एवं सबन्धो ज्ञेय इति भावः ॥ ४ ॥ ननु मननवतो मुनेस्तुर्या स्थितियते तत्र तत्र शास्त्रेषु तां कथयेसपेक्षा शिष्यस्यालक्ष्य तां प्रदर्शयति । जाग्रत्स्वरूप एवायं पश्यन्त्स्वप्नमयं जगत् । सुषुप्त इव चिद्रूपे मुनेस्तुर्यस्थता ता ॥ ५ ॥ जाग्रदिति । सुषुप्ते निद्रायां सुषुप्त्यावृते प्रत्यगात्मनीति या- बत, तिष्ठन्वर्तमानः सन् स्वमरूपं प्रातिभासिकमित्यर्थः, इव यथा पश्यति तथा तद्वत्स्वरूपं स्वेनैवान्यनिरपेक्षतया रूप्यते प्र. काश्यत इति स्वरूपं तस्मिंश्चिद्रूपे मायोपाधिके जगत्कारण- भूते चिद्रूपेऽव्याकृताभिधे जाग्रजाग्रदवस्थायां प्रतीयमानं ज- जद्विश्वं स्वमवन्मिथ्याभूतं पश्यन्नवलोकयन् सन् तिष्टांत स्थिति करोति सैतादृशी मुनेझनिनस्तुर्यस्थता तुर्ये मायाशवले ब्रह्म- णि स्थितिस्तत्ता तद्रूपताऽद्भुताऽऽश्चर्यरूपाऽस्ति सा वक्तु- मशक्येति भावः ॥५॥ ननु तर्हि सा तुर्य स्थितिर्मुमुक्षोरपि मम कुतो न जायते तत्राह। मुमुक्षा दम्भमात्रं ते न ते तीव्रा मुमुक्षुता । तीब्रा यदि मुमुक्षा स्यान्न विलम्बो भवेदियान् ॥६॥ मुमुक्षेति । हे शिष्य ते तव मुमुक्षा मोक्षेच्छा दम्भमात्रं क- पटमेव केवलमस्ति लोकप्रदर्शनायै कवलं सा त्वया धृतेति भावः, ननु मम मोक्षेच्छायाः पारमार्थिकत्वमेवास्ति न तु दाम्भिकत्व ঘীঘাই। मतः कुतो मे सा न प्राप्यत इत्याशङ्कयाह नेति, हे शिष्य ते तक तीब्रा दृढा फलपर्यन्तमपरिच्छिन्ना मुमुक्षुता मोक्षेच्छावत्त्वं न न विद्यते, ननु मम मोक्षेच्छाया अदायं भवता कथं निश्चितं त- त्राह तीब्रेति, तीब्रा दृढा मुमुक्षा मोक्षेच्छा यहि स्याद्भवेत्तहीं- यानेतावान्विलम्बश्चिरकालस्तुर्यस्थितेनं भवेन स्यादतो दा- म्भिकमुमुक्षाया इदं फलं तदभावे वा तददायफलमिति नि- निश्चितमस्माभिरिति भावः ॥६॥ ननु तर्हि मुमुक्षावतोपि मे सा प्राप्ता भवेनवेति सन्देहं कु- वन्तं प्रत्याह । अभूत्कुहूमयं विश्वं पक्षः स मलिनो गतः । इदानीं निर्मला पक्षो जातं राकामयं जगत् ॥ ७॥ अभूदिति । सत्वयानुभूतो मलिनः कृष्णः पक्षो मासाधं गतो व्यतीतः कृष्णपक्षो गत इति कुतो ज्ञातं तत्राहाभूदिति, विश्वं दृश्यमानं पदार्थजातं कुहूमयं यस्याममावास्यायां चन्द्रकलाना- मत्यन्तमदृश्यता सा कुहू: 'सा नष्टेन्दुकला कहूरि'त्यमरसिंहः, अ- न्धकाररात्रिीह्या तन्मयं तत्मचुरमभूस्थितं पूर्व तदिदानी रा- कामयं राका पूर्णचन्द्रवती पूर्णिमा तया चात्र तद्रात्रिाद्या तया प्रकाशितं जगज्जगद्गतपदार्थजातं जातं संपन्नमत इदानी- मधुना निर्मलः शुक्ल पक्षो मासा विद्यतेऽत इदानीं मलिन- पक्षो गत इति निश्चेतव्यम, अयमाशयः-पूर्व तवान्तःकरणस्या- ज्ञानास्तत्वात् 'षोडश कला सोम्य पुरुषे' इति श्रुसोक्तपोडशक- लानां तदाऽऽस्तत्लेन तत्तांत्रपुटीरूपाणां तिथीनां मालिन्यमभू. तेन चान्धकाररात्रिषु स्थाबादौ चौरादिविपरीतज्ञानव दा- ऽऽत्मन्येच त्तत्तद्रूपत्रिपुटीरूपज्ञानं विपरीतज्ञानमेवस्थितं स पक्षो
ज्ञानगङ्गातरङ्गोनाशीतिकम् ।
मलिन इदानीं गत इदानीं शुक्लपक्ष इत्र प्रतिपदादिपूर्णिमा-
न्ततिथिषु चन्द्रकलाधिक्येन रात्रौ प्रकाशाधिक्याविपरीत-
ज्ञाननिवृत्त्या स्थावादिषु स्थावादियाथार्थ्यज्ञानांमधाज्ञान-
निवृत्या श्रवणादिपरिपाके जाते ज्ञानस्य यथोत्तरं वृद्ध्या प-
श्चदत्रिपुटीलक्षणतिथिषु त्रिपुटीबाधपूर्वमात्मयाथार्थ्यस्फुरणां
जायतेऽत इदानीं शुक्लपक्षस्य ब्रह्मपक्षस्यैव प्रवृत्तिर्जातेति
पूर्णमास्यां चन्द्रवत्पूर्ण ज्ञानमपि स्यादिति निश्चेतव्यमिति ॥७॥
ननु सूक्ष्मस्यापि मनसो यत्र स्थितिर्न सम्भाव्यते तत्र
मुनीनां पर्वतत्रस्थितिः कथं सम्भाव्या तत्राह ।
न तिष्ठति मनो यत्र गोः शृङ्गे सर्षपो यथा ।
शैला इव समाधिस्थास्तत्रैव स्थितिमागताः ॥८॥
नेति । यथा यद्गोनोः शृङ्गे विषाणे शृङ्गाग्र इयर्थः,
सर्षपः शिरीषबीजं न तिष्ठति नै स्थितिं प्राप्नोति तत्रैव शैला
इच यथा शिलानां समूहरूपा पर्वताः स्वभारेण तदाक्रम्य
स्थिति स्थिरतामागताः प्राप्ता इति सम्भाव्यते तद्वद्यत्र ब्र-
माभिने प्रयगात्मनि मनः सङ्कल्पविकल्पवदन्तःकरणं न ति-
तुति न विद्यमानं भवति असद्भवतीयर्थः, यद्वा न स्थिरं भ-
वति तत्रैव ब्रह्माभिन्ने प्रत्यगात्मन्येव समाधिस्थाः समाधौ नि-
विकल्पसमाधौ स्थिताः सन्तो मुनयः स्थितिमागताः स्थि-
रतां प्राप्ताः ॥ ८॥
ननु मुनीनां मननस्थितिः सा कथं ज्ञातव्येत्यपेक्षां शि-
ष्यस्यालक्ष्य गुरुराह।
जलप्रवाह इव याऽनवच्छिन्ना स्वभावतः ।
चतुर्दशधियां दूरे सा मुनेर्मननस्थितिः ॥ ९ ॥
बोधसारे। सा वर्ण- जलप्रवाहति । हे शिष्य जलप्रवाह इव यथा जलस्य तोयस्य प्रवाहः स्रोतः स्वभावतः स्वभावेनैवानांच्छन्नो निर- न्तरोऽखण्ड इयर्थः, अस्ति तथा तद्वद्या विवकिमसिद्धा स्व- भावतः स्वभावेनैवाऽनवच्छिन्ना नैरन्तर्येण वर्तमाना सोक्त- लक्षणा मुनेमननवतः पुरुषस्य मननस्थिांतर्मननस्य स्थितिः स्थिरताऽन्येषां तस्य च चतुर्दशधियां चतस्रो मनोबुद्ध्यह- ङ्कारचित्ताख्या धियो ज्ञानानि दश च ज्ञानेन्द्रियाणि पञ्च क- मेंन्द्रियाणि च पञ्चेति दश घियश्चैतामां चतुर्दशधियां चतुर्दश- सङ्ख्याकज्ञानानां दूरे वर्तमानाऽविषये सर्थः, अतः यितुं नैव शक्येति भावः ॥ ९ ॥ एवं मननस्थितेर्वचनाविषयत्वं निरूप्येदानी तामेव ल- क्षणेन लक्षयति । परमात्मपदभ्रष्टः स पुनः परमात्मताम् । यया प्राप्नोति विश्वात्मा सा मुनेमननस्थितिः ॥१०॥ परमात्मेति । पूर्वमज्ञानेन परमात्मपदभ्रष्टः परं कार्यका- रणातीतं यदात्मस्वरूपं पदं स्वरूपं तस्माद्भष्टश्च्युतः स एव पुनर्भूयो विश्वात्मा विश्वस्य जगत आत्मा स्वस्वरूपभूतः परमात्मतां परमः कार्यकारणास्पृष्टो य आत्मा तस्य भावस्तद्रूपता तां यया स्थित्या मानोति याति सोक्त लक्षणा मुनेमननयतः पु- रुषस्य मननस्थितिर्मननरूपा स्थितिरवस्था ज्ञेया ॥ १० ॥ तामेव पुनर्लक्षणान्तरेण लक्षयति । प्रतिबिम्ब न गृह्णाति निर्मलो निकटस्थितः । प्रपञ्चवञ्चने युक्तिः सा मुनेरेव नामुनेः ॥ ११ ॥ प्रतिविम्वमिति । कश्चित्रिमलः शुद्धो दर्पणो मुकुरः स- ज्ञानगङ्गातरङ्गोनाशीतिकम् । मीपवपि पदार्थानां नीलादिगुणवद्रव्याणां प्रतिबिम्बमा- भासं न गृह्णाति नाङ्गीकरोति चेत्तद्वन्निर्मलो रागादिमलशून्यो निकटस्थितो जगद्गतपदार्थानां निकटे समीप स्थिनो वर्तमान: सन्नपि तेषां पदार्थानां प्रतिबिम्बमाभासं न गृह्णाति नैवाङ्गी- करोतीति या स्थितिः सोक्तलक्षणा प्रपञ्चवश्चने युक्तिः प्रप- श्वस्य मंसारस्य यद्वञ्चनं निरसनं तस्मिन्युक्तिः कुशलता मुने- रेव मननवत एव भवति अनुनमननरहितस्य न न भवति ॥१२॥ इदानी मुनेः प्रतापं दर्शयति । अपसर्पन्त्विति प्रोक्ताः क्षणादपसरन्त्यमी । यदाज्ञया मनोभावाः स वशी कस्य नाहुतः ॥१२॥ अपसर्पन्विति । अनेन मुनिना अपसर्पन्त्विति अपस- पन्तु दूरं गच्छन्तु इसेवं प्रोक्ता आज्ञप्ताः सन्तोऽमी एते :- सक्षा मनोभावा मनसोन्तःकरणस्य विकाराः कामक्रोधा- दयो यदाज्ञया यस्य मुनेराज्ञा प्रेरणा तथा क्षणाक्षणमात्रका- लेनैवापसर्पन्ति निवृत्ता भवन्ति स मुनिर्ज्ञानी कस्य कस्य वि- कारस्यापि वशी वशवतॊ न न भवांत अतः सोऽद्भुतो लोकह- ष्ट्या विषयवशी प्रतीयमानोपि विषयावशित्वादाश्चर्यरूप इति भावः ॥ १२ ॥ नन्वज्ञानिना मनोवृत्ताधीनत्वं ज्ञानिनां तु तदनधीनत्व- मुक्तं तत्र मनस ऐक्ये पुरुषभेदेन विलक्षणकारित्वे को हेतुरि- साशा सदृष्टान्तं हेतृत्त्या तत्सम्भावयति । जारणात्कालकूटस्य शम्भोराशीविषा वशाः । मारणान्मनसस्तहन्मुनेरिन्द्रियवृत्तयः ॥ १३ ॥ जारणादिति । कालकूटस्य कालकूटनामकं यत्समुद्रो-
६६४
बोधसारे।
पन्नं विषं तस्य जारणात्पाचनाद्, एवं हि पौराणिकी कथा-
दुर्वाससः शापन त्रैलोक्यलक्ष्मीः समुद्रे मना तदा त्रैलोक्ये पी.
डित इन्द्रादिदेवैः सह ब्रह्मा विष्णुं शरणं जगाम तदा वि-
ष्णुना समुद्रमथने प्रेरितैर्देवासुरैमिलितैः समुद्रस्थितलक्ष्मी-
प्राप्यै समुद्रमथन आरब्धे सति ततः कालकूटं विषं प्रथममु-
स्पनं तेन च देवासुराः जगच सर्वे पीडिताः प्रलयकाल इव
तदा शिवं शरणं गतेषु मर्वेषु शिवेन तद्रक्षणाय तद्भक्षितं पा-
चितं चेति तत एव शम्भोः शम्भुनामप्राप्तस्य शिवस्याऽऽत्री-
विषा आशीषूरगदंष्ट्रामु विषं गरलं येषां ते तथोक्ताः सर्पाः
स्वबलं शिवे न्यूनत्वादकिञ्चित्करं ज्ञात्वा वशाः स्वाधीना
जाता यथा यद्वत्तद्वत्तथा मनसः सङ्कल्पविकल्परूपस्यान्तःक-
रणस्य मारणानाशान्मुने मननवतो
ज्ञानिन इन्द्रियवृत्तय
इन्द्रियाणामन्तःकरणादिसहितानां श्रोत्रादीनां वृत्तयः स्त्र-
खविषयग्राहका अंशाः वशाः स्वाधीना जाताः ॥ १३ ॥
ननु मुमुक्षूणां प्रथममहंममतयोस्त्यागे विहिते तदशक्तेन
किं कार्यमित्याशङ्याह ।
अहन्ताममतात्यागः कर्तुं यदि न शक्यते ।
अहन्ताममताभावः सर्वत्रैव विधीयताम् ॥ १४ ॥
अहन्तति । हे शिष्य यदि यर्हि अहंममतात्यागोऽह-
न्ताया देहादिष्वहंभावस्य ममतायाश्च पुत्रदारादिषु ममत्वस्य
च त्यागो विमर्गः कर्तुं सम्पादयितुं न शक्यते न पार्यते तर्हि
सर्वत्रैव सर्वपदार्थेषु आप अहन्ताममताभावोऽहन्ताया अह-
ङ्कारस्य ममताया ममत्वस्य चाऽभाचोऽसत्तैव विधीयताम-
नुसन्धीवतामनेनैवोपायन मोक्षो भवेदिति भावः ॥ १४ ॥
ज्ञानगङ्गातरङ्गोनाशीतिकम् । । इदानीं वर्णाश्रमधर्मेभ्यो विचारवैराग्ययोर्विशेषमादरं कर्तुं तच्छैष्ठ्यमाह । वर्णाश्रमवयोवेषाध्ययनाचारसुन्दराः । विना विचारवैराग्यैः पशुरेव न संशयः ॥ १५ ॥ वर्णोति । वर्णाश्रमवयोवेषाध्ययनाचारसुन्दरो वर्णो ब्रा- ह्मणादिस्तेनाऽऽश्रमश्च ब्रह्मचर्यादिस्तेन चयश्च तारुण्यं तेन वेषश्चालङ्कारः सौन्दर्यसम्पादनं तेन चाऽध्ययनं वेदादीनां प- ठनं तेनापि आचारश्च स्वविहितकर्मानुष्ठानं तेनापि मुन्दरो र- मणीयो दृश्यमानोपि स पुरुषो विचारवैराग्यैर्विचारः सद- सतोविवेको वैराग्यं च ब्रह्मपदान्तवस्तुषु काकविष्ठायामिव वैरस्यमादरे बहुवचनं तैर्विना ताभ्यां रहितश्चेत्पथुरेव तिर्य- ग्जन्तुरेव ज्ञातव्योऽत्र सन्देहः संशयो न नास्ति ॥१५॥ ननु अन्यसाधनानामभावे केवलविचारवैराग्ययोर्मोक्षसा- धकत्वासामर्थन सामान्यत्वमस्वित्याशङ्का तयोः प्रधानत्वं दर्शयति । तीक्ष्णे विचारवैराग्ये चित्ते यस्य निरन्तरे । स पण्डितः किमेतस्य साधनान्तराचिंत्तनैः ॥१६॥ तीक्ष्णे इति । हे शिष्य यस्य पुरुषस्य चित्तेऽन्तःकरणे तीक्ष्णे दृढे अज्ञानभेदने समर्थे इत्यर्थः, विचारवैराग्ये विचारो विवेको वैराग्यं च ब्रह्मलोकान्तविषये तृणवत्तुच्छत्वबुद्धिस्ते उभे निरन्तरे सर्वदा वर्तमाने भवतः स पुरुषः पण्डितो ज्ञानी ज्ञेय एतस्योक्तलक्षणस्य ज्ञानिनः साधनान्तरकल्पनैः साध- नान्तराणि अन्यसाधनानि तेषां कल्पनैः सङ्कल्पैः किं फलं न किमपि तैः प्रयोजनं तस्येत्यर्थः ॥ १६ ॥ ..
बोपसारे।
ननु मुमुक्षूणां मोक्षस्यैवेष्टत्वात्तस्यासन्निकं ज्ञानमेव सा-
धनमतस्तेनैव कृतार्थतास्तु किमापातिकेन वैराग्येणेत्याशय प्र-
पञ्चवृक्षस्य शुष्कताकारणेन वैराग्येण विना तदसम्भवात्केव-
लज्ञानेन प्रपञ्चवृक्षस्य दाह आयासबहुत्वमाकाष्ठदाह इवेति स-
माधत्ते द्वाभ्यां, तत्रादौ दृष्टान्तमाह ।
वर्धते मूलसेकेन मूलशोषण शुष्यति ।
भस्मसात्क्रियते वहिज्वालयेति तरुस्थितिः ॥१७॥
वर्धत इति । यथेत्यध्याहार्य यथा यद्वन्मूलसेकेन मूलेषु-
यः मेकः मिच्यतेऽनेनेति सेको जलार्पणं तेन वृक्षो वर्धते एधते
स एव मूल शोषेण मूलानां जलार्पणाभावेन यः शोषः शुष्कता
तेन शुष्यति शुष्को भवति ततश्च वह्निज्वालया वड्रग्नेाला की-
ला तया भस्ममाद्भस्मरूपः क्रियते सम्पावत इत्येवंप्रकारा त-
रुस्थिनिस्तरोवृक्षस्य स्थितिर्गतिर्भवति ॥ १७ ॥
वर्धते मनसः सेकैर्मनःशोषेण शुष्यति ।
भस्मसात्क्रियते बोधवालयोति भवस्थितिः॥ १८॥
मूलेति । तथा तद्वन्मनसः संसारवृक्षस्यापि मनोमूलं तस्य
तत्कलितत्वात्तस्य सेकैविषयजलार्पणरूपैः सिञ्चनैः प्रप-
वृक्षो वर्धत एधते स एव मनःशोषेण मनसः प्रपञ्चमूलभू-
तस्य शोषो वैराग्येण शुष्कत्वं तेन शुष्यति शुष्को भवति ततो
बोधनालया बोधस्य जीवब्रह्मैक्यज्ञानस्याहंब्रह्मास्मीत्या-
कारस्य ज्वालाऽचिस्तया भस्मसाद्भस्मरूपो बाधितत्वेन तु.
च्छरूप इसर्थः, क्रियने सम्पाद्यत इत्येवंरूपा भवस्थितिर्भव:
संसारस्तस्य स्थितिर्गतिर्भवति अतो ज्ञान इव मुमुक्षुभि.-
राग्गप्यादरो विधेय इति भावः ॥ १८ ॥
ज्ञानगङ्गातरङ्गोनाशीतिकम् । ६६७ ननूपाधौ विद्यमानायां तत्र चित्पतिविम्बः स्यात्तस्मिंश्च सति कथमद्वैतात्मस्वरूपसाक्षात्कारः स्याज्ज्ञानिनामिसाशा सदृष्टान्तं तं सम्भावयति । परपारस्थितं हंसं द्विघेव प्रतिबिम्बितम् । तथात्मानं विजानाति तटस्थः सत्त्यदर्शनः ॥१९॥ परेति । यथा यद्वत्स्वस्थानात्परपारस्थितं परमन्यद्यः पारं तटं नदीतडागादेस्तत्र स्थितं वर्तमानं हंसं हंसनामकं पक्षिणं प्रतिबिम्बित जलगतप्रतिबिम्वेन सह वर्तमानं द्विधेत्र द्विप्रकारेण प्रतीयमानमपि एकरूपं वेत्ति जानाति तथा तद्व- त्सयदर्शनः सत्यं सत्यात्मविषयं दर्शनं दृश्यतेनेनेति दर्शनं ज्ञानं यस्य स तथाविधोऽत एवं तटस्थस्तटेऽविद्यानधास्तीरे स्थितः सज्ञान्यन्तःकरणाग्रुपाधौ प्रतिबिम्बितेन सहाने- कधाप्रतीतमप्यात्मानं पारमार्थिकमेकरूपं विजानाति वत्ति अत उपाधौ सत्यपि तत्र च प्रतिविम्वेन सहानेकधाप्रतीयमानेप्या-- स्मनि एकत्वानुभवः सम्भाव्य इति भावः ॥ १६ ॥ ननु जानिनि प्रतिविम्बनिमित्तभूतान्ताकरणस्य विद्यमा- नवे पूर्ववत्संमारित्वापादनेन बन्धकं स्यादियाशङ्याह । चित्रमल्पेन कालेन बोधर्जितचेतसः । भर्जितस्येव बीजस्य कार्यसाधकता गता ॥२०॥ चित्रमिति । बोधभर्जितचेतसो बाधेन ज्ञानेन भर्जितं दग्धं यतोऽन्तःकरणं तस्याऽल्पनाऽचिरेण कालेन समगन कार्यमाधकता कार्यस्य संसारकल्पनारूपस्य कर्तव्य स्य साध- कता कारणता गता नष्टेदं चित्रमाश्चर्य यावान्कालो मनमः संसारकारणत्वसम्पादनेगक्षितस्तावान्न बोधस्य तन्नाशेऽपेक्षित बीघसारे। इत्येवमाश्चर्य ज्ञेयं, तत्र दृष्टान्तो भर्जितस्येति, यथा भर्जितस्या- ग्निपकस्य बीजस्य चणकादिबीजस्याऽङ्कुरजननादिरूपकार्य- साधकत्वं नश्यति तद्वद, अयमाशय:-भर्जितचणकादेर्भक्षणा- शुपयोगेन क्षुनिवारणादिकिंचित्कार्यसाधकत्वोप अङ्कुरादि- जननकार्यसाधकत्वाभाव इव मनसोपि ज्ञानभर्जितस्य प्रार- धभोगसाधकवेपि संसारबन्धनरूपकार्यसाधकत्वाभावस्तथा म. नसः संसारसङ्कल्पने यावान्कालोऽपेक्ष्यते तावान्कालो बोधेन त. नाशे नापेक्ष्यते यथा चणकादेरङ्करादिजनने यावान्कालोऽपेक्ष्यते तावान्कालोऽमिना तद्दाहे नापेक्ष्यते तद्वदित्याश्चर्यामिति ॥२०॥ ननु तन्तःकरणादीनामसन्तलयेन केवलं ब्रह्मसुखानुभव एव संपाद्यः किमन्तःकरणेन चक्षुरादिनिःसृतेन जगद्विषयास्त्रादे प्रवृत्त्येत्याशङ्ग्याह । पङ्गवस्तु कृता एवं गाद्या न चलन्ति यत् । अन्धानपि करिष्यामि न पश्यन्ति यथाजगत्॥२१॥ पङ्गच इति । हे शिष्य गाद्याः दृग्दष्टिराद्या प्रथमा येषां श्रोत्रादीनां ताः सर्वा वृत्तयः पङ्गवः पादहीनाः कृता एव संपादिता एव निश्चेतव्या भवता यद्यस्मात्कारणान च- लन्ति स्वविषयेषु न सरन्ति प्रतिस्तासां पङ्गुत्वं संपादितमिति भावः, अत ऊर्च तान्दृगादिपदार्थाश्चान्धानपि चक्षुह नानपि करिष्यामि संपादयिष्यामि यथा येनान्धत्त्वसंपादनेन जगद्विश्वं न पश्यन्ति नावलोकयन्ति ॥ २१ ॥ ननु ब्रह्मणि ज्ञातेऽज्ञाते वा जीवस्य ब्रह्मसत्तयैव जीवनं तथा सति ज्ञाने कोऽतिशयस्तत्राह । जानातु वा न जानातु ब्रह्म जीवस्य जविनम् । स झानगङ्गातरङ्गोनाशीतिकम् । ६६९ जानाति चेत्परो लामो न जानाति भयं महत्॥२२॥ जानात्विति । अयं जीवो ब्रह्म देशकालवस्तुकृतपरिच्छेद- शून्य वस्तु जानातु वेत्तु वाऽथवा न जानातु न वेलु तथापि उभयपक्षेपि तद्ब्रह्म जीवस्याऽधिष्ठानसहितबुद्धिस्थचिदाभा- सस्य सत्ताप्रदत्वेन जीवनं जीवनकारणभूतमस्येवैतत्ससमेत्र तर्हि ज्ञाने कोतिशयस्तत्राह जानातीति, अयं जीवस्तब्रह्म जा- नाति वेति चेद्यदि तर्हि परः श्रेष्ठो मोक्षरूपो लाभः प्राप्तिर- स्तीति ज्ञेया, स एव तन्न जानाति न वेत्ति चेदि तर्हि महन्मृ. युरूपं भयं भीतिर्भवेदयं ज्ञाने विशेष इति भावः ॥ २२ ॥ ननु ब्रह्मणि को विशेषो येन तज्ज्ञानेन तल्लाभः संपाय: किं तु कामधेनूपासनया तत्साक्षात्कारेणेप्सितकामलाभात्तदेव सम्पाद्यमित्याशय ब्रह्मणि ततो विशेषं दर्शयति । ब्रह्मधेनोः स्वभावोऽयं देवधेनोविलक्षणः । भोक्तैव तदुग्धपानात्सद्यस्स्तद्रपतां व्रजेत् ॥२३॥ ब्रह्मधेनोरिति । भौक्तव जीव एव सर्वविषपभोक्तृत्वेन प्रसिद्धः स तदुग्धपानात्तस्या ब्रह्मधेनोदुग्धं दुग्धवत्वृप्तिहेतुत्वा- सुखमत्र दुग्धपदेन ग्राह्य दुह्यते तृप्तिरनेनेति व्युत्पसा दुग्धं सुखं तस्य पानादास्वादनात्सद्यस्तत्कालमेव तद्रूपता ब्रह्मधेनुरूपत्व- मेरेयात्माप्नुयादयमुक्तलक्षणो ब्रह्मधेनोब्रह्म देशकालव- स्तुंकृतपरिच्छेदशून्यं वस्तु तदेव धिनोति प्रीणाति जगदिति धेनुरानन्दरूपत्वेन जगदानन्दमदत्त्वात्तस्याः स्वभावः शील- मस्ति स देवधेनोर्देवानिन्द्रादीन्धिनोति प्रीणातीति देवधेनु- स्तस्याः स्वभावाद्विलक्षणो चिचित्रो देवधेनोः स्वभावे तत्तत्का- मपूरकत्वेपि न स्वरूपमापकत्वं ब्रह्मधेनोस्तु तत्तत्सुखप्रापकत्वे बोधसारे। सति स्वरूपप्रापकत्वं विशेष इति भावः ॥ २३ ॥ इदानी ब्रह्मण्येव स्थिरतसंपादनाय तत्साधनाभ्यासे प्र- वृत्तये वृद्धसंमतिमाह । यदि योगें कृता बुद्धिः सप्तमी गच्छ भूमिकाम् । मग्नश्चेद्गच्छ पातालमिति नीतिविदां वचः ॥ २४ ॥ यदीति । हे मुमुक्षो यदि यहि त्वया साधकेन बुद्धिनि- श्चयात्मिकान्तःकरणवृत्तिः कृता योजिता तर्हि सप्तमी तुर्या- भिषां भूमिकां भुवं स्थितिमित्यर्थः, गच्छ व्रज ततस्तत्र यदि मनो लीनश्चेद्यदि तर्हि पातो माश आलीनो नष्टो यत्र तत्तथोक्तं ब्रह्म गच्छ प्राप्नुहि ली लय इति धातोराङ्फूर्वाद् 'अन्ये- भ्योपी'ति डष्टेलॊपश्च, इसेवं नीतिविदा नीति न्यायं विदन्ति ते नीतिविदस्तेषां वेदान्तिनामियर्थः, वचो वाक्यमतोऽस्य मा. माण्यं मत्त्वाऽभ्यास आदरो विधेय इति भावः ॥ २४ ॥ ननु केवलचिन्मात्राकारवृत्तौ सम्पादितायां मोक्षः स्या- दित्युक्तं तत्सत्यं तदशक्ती किं कर्त्तव्यं मुमुक्षुभिरिसाशयो- पायान्तरं तस्य सदृष्टान्तमाह । मध्याह्नभास्कर द्रष्टुं साक्षाद्यदि तु न क्षमम् । पटव्यवहितं पश्येजले वा प्रतिबिम्बितम् ॥२५॥ मध्याह्नभास्करमिति । मध्याह्नभास्कर दिने मध्यभागगतं सूर्य साक्षाचक्षुषेक्षितुं द्रष्टुं यदि यहि न क्षमं न शक्यं तर्हि सूर्यसाक्षादर्शनेच्छाचता पुरुषेण किं कर्त्तव्यं तदाह पटेति, तदा मध्याह्नमूर्य पटव्यवहितं पटेन सूक्ष्मवस्त्रेण व्यवहितमन्तर्हितं यथा तथा पश्येदवलोकयेद्वाऽथवा जल उदके प्रतिबिम्बितमामा सितं पश्यदव लाकयेत्ततश्च दृष्टेः स्थिरतायां सयां साक्षाद्रष्टुं स- ज्ञानगङ्गातरङ्गोनाशीतिकम् । मर्थोपि भवति भावः ॥ २५ ॥ दृष्टान्तमुक्त्वा दान्तिकमाह । तथा चिन्मात्रचण्डांशुं निर्विकल्यं न चेत्क्षमः । सर्वव्यापितया पश्येदन्तर्यामितयाऽथवा ॥ २६ ॥ तथेति । मुमुक्षुरपि तथा तद्वचिन्मात्रचण्डांशुं चैतन्यस्वरूप- चण्डांशुं तीक्षणांशुं सूर्यमित्यर्थः, निर्विकल्पं निर्गता निवृत्ता विकल्पा देहनामजात्यायु:कल्पना विपरीतकल्पना यस्मा- त्तथाभूतं ब्रह्माभिन्नप्रत्यगात्मानं साक्षादहमिति प्रत्यक्षं द्रष्टुम- वलोकयितुं क्षमः समयों न चेन्न भवेद्यदि तर्हि तदा सर्वव्या- पितया सर्वस्मिन्द्वैतजाते व्यापितया व्यापनस्वभावेन लक्षित- मात्मानं पश्येदवलोकयेच्चिन्तयदिसर्थः, अथवा तत्राप्यसामर्थ्य सति अन्तर्यामितया सर्वेषु भूतेषु भौतिकपदार्थेषु अन्तर्यम- यति प्रेरयति भूतानीति अन्तर्यामी तस्य भावस्तत्ता तया ल- क्षितमात्मानं पश्येदवलोकयेत्ततश्चान्तःकरणशुद्धिर्यथा यथा भ- वत्तथा तथाऽऽत्मसाक्षात्कारोपि स्यादिति भावः ॥ २६ ॥ ननु सर्वव्यापिधारणायामन्तर्यामिधारणायां वाऽभ्यस्य- मानायां सत्यामपि आत्मसाक्षात्कारस्तत्फलं भवेन वेसत्र को निश्चयः, किं च तनिश्चयेपि कियत्कालं साभ्यसनीयेत्याशङ्य त- निश्चयाय तदभ्यासविधिं च दर्शयितुं दृष्टान्तमाह । लक्षं शराः प्रयोक्तव्याः सूक्ष्मे लक्ष्येऽपि धन्विना । कदाचिदैवसंयोगादेकोपि तु लगिष्यति ॥ २७ ॥ लक्षमिति । धन्विना धनुष्मता पुरुषेण सूक्ष्मपिडगगोचरेपि लक्ष्ये वेधार्थे लक्षिते कस्मिंश्चित्पदार्थे लक्षं लक्षशः शराः सा- यकाः प्रयोक्तव्याः प्रयोजनीयाः, तथा कृते सति किं स्यात्तदाह बोधसारे। कदाचिदिति, दैवसंयोगाल्लक्ष्यवाणयोः संयोगजनक कर्म यदा पुष्टं सत्तत्संयोगफलोन्मुखं जातं तदत्र दैवपदेन ग्राह्यं तेन देवेन यः संयोगो बाणलक्ष्ययोः सम्बन्धो जायमानस्तस्मानि- मित्तादेकोपि तु एक एवापि लगिष्यति लक्ष्ये संयुक्तो भवि- व्यतीति संभावनीयम्, अपि संभावनार्थः ॥ २७ ॥ दृष्टान्तमुक्त्वा दार्शन्तिकमाह । सदैव चेतसो वृत्तिर्ध्यानाभ्यासे विधीयताम् । कदा चित्कृपया शम्भोरखण्डाकारता भवेत् ॥२८॥ सदैवेति । मुमुक्षुणा पुरुषेण चेतसोऽन्तःकरणस्य वृत्ति- श्चिदाभाससहिता निश्चयात्मिका बुद्ध्यपरपर्याया सदैव निर- न्तरमेव ध्यानाभ्यासे ध्यानमात्मविजातीयमसयानन्तरितात्म- सजातीयविषयवृत्तिप्रवाह इति लक्षणलक्षितं तस्याभ्यासः पुनः पुनरावृत्तिरूपस्तस्मिन्विधीयतां योज्यतां तथा कृते किं स्यात- दाह कदाचिदिति, कदाचित्कस्मिन्नपि काले ध्यानाभ्यासेन म. सादितस्य शंभोग सुखं भवति जीवेऽस्मादिति शम्भुः प्रत्यगा- स्मा तस्य कृपया दयया विवेकोत्पादनरूपयाऽखण्डाकारता- ऽखण्डं भेदरहितं यद्ब्रह्म तस्याकारः सच्चिदानन्दरूपस्तस्य स- त्ता तत्ता ब्रह्मरूपतेयर्थः, भवेत्स्यादतो निश्चयेन ध्याना- भ्यासो विधेय इति भावः ।। २८ ।। ननु ध्याने कृतेऽकृते वा ब्रह्मणि तत्कृतातिशयाभावाजी- वेपि तस्मिन्नुभये सति पारमार्थिकब्रह्मरूपत्वस्य सिद्धान्तित- त्वाच्च किं तदाकारत्युत्पादनायासेनेत्याशङ्का तदभावे मु- त्यभावं प्रतिपादयितुं ब्रह्माकारत्तिसम्पादने च प्रवयितुं ब्रह्माण तद्विदः सकाशान्न्यूनत्त्वदर्शनायोत्तरश्लोकद्वयं तत च पूर्वश्लोकस्यान्यार्यत्वप्रवीतेः प्रकृतार्थत्वं दयितुं स्वयमेवाइ ।
बनारससंस्कृतसीरीज़नानी वाराणसेयसंस्कृतपुस्तकावली । । ह० आ० इयं पुस्तकावली खण्डशो मुद्रिता भवति । अस्यां संस्कृतभाषा- निबद्धा बहवः प्राचीना दुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवा- दुसहिताश्च ग्रन्था मुद्रिता भवन्ति । तांश्च ग्रन्थान् काशिकराजकी- यसंस्कृतपाठशालीयपण्डिता अन्ये ऽपि विद्वांसः शोधयन्ति । या- हुकमहारायैरियं पुस्तकावली नियमेनाविच्छेदेन संग्राह्या तैस्तदे- कैकस्य खण्डस्य mJ मूल्यं प्रापणव्ययश्च :) देयः । अन्यैर्म- हाशययः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येक खण्डानां १८ मूल्यं प्रापणव्ययश्च =) देय इति ॥ तत्र मुद्रिता ग्रन्थाः। सिद्धान्ततत्त्वविवेकः खण्डानि ५ ५० अर्थसङ्ग्रह अंग्रेजीभाषानुवादसहितः १० तन्त्रवार्तिकम् खण्डानि १३ कात्यायनमहर्षिप्रणीतं शुक्लयजुःप्रातिशाख्यम् सभायं ख०६६ सांख्यकारिका चन्द्रिकाटीकागौडपादभाष्यसहिता १० वाक्यपदीयम खण्डानि ५ (प्रथमभागः प्रथमद्वितीयकाण्डे पुण्यराजटीकासहित खण्ड ३। द्वितीयभागः तृतीयाका- ण्डम् हेलाराजटीकासहित खण्ड २) रसगङ्गाधरः खण्डानि ९ परिभाषावृत्तिः खण्डे २ वैशेषिकदर्शन किरणावलीटीकासंवलितप्रशस्तपादप्रणीत- भाष्यसहितम् खण्डे २ शिक्षासङ्ग्रहः खण्डानि ५ नेकर्यसिद्धिः खण्डानि ४ महर्षिकात्यायनप्रणीतं शुक्लयजुस्सर्वानुक्रमसूत्रम समाप्यम ३ ऋग्वेदीयशौनकप्रातिशाख्यं सभाष्यम् खण्डानि ४ (वृहत्) वैयाकरणभूषणम् पदार्थदीपिकासहितम खण्डानि४४ विवरणोपन्यासः सटीकवाक्यसुधासहितः खण्डे २ तत्त्वदीपनम् (पञ्चपादिकाविवरणस्य व्याख्यानम) ख० ८८ वेदान्तदीपः (श्रीभगवद्रामानुजाचार्यविरचितः) खण्डानि ३ ३ टुप्टीका खण्डानि ४ २ ० ०