Central Archaeological Library_asi_new Delhi

Sree Jivasanjivininatakam

C Venkataramanaiya

PDF Proofread

Front matter

॥श्रीः॥
जीवसञ्जीविनीनाटकम्
Ttvasanjivininatakam
अय ग्रन्थ:
नवरसोल्लासिन्याख्यव्याख्यासहितः
निवृत्तमहीशूरदेशीयसंस्कृतशालोपद्रष्टुपदेन चेन्नरायपत्तनामिजनेन
श्री वेङ्कटरमणार्येण
विरचितः
C. Venkata romaniah
8516
बेङ्गलुरु सेंट जोसेफ् कलाशालायां संस्कृतभाषाचार्यपदमलङ्कुर्वद्भिः
एम्. ए. सुपदालंकृतैः विद्वद्भिः
M
Ramakrishna
एम्. रामकृष्णभट्टमहोदयैः
Bhatta
वेङ्गलुरु वेदमहापाठशालायामध्यक्षपदमलवद्भिः
एम्. ए. सुपदालंकृतः विद्वद्भिः
एन्. मल्लिकार्जुनशास्त्रिपण्डतैश्च
Aranga: Mall
Sa8N
allikarjuna
Ven/R.M.
बेंगलूरु वि. वि. सुब्बय्य अण्ड् सन्सू मुद्राक्षरशालायां संमुद्रित:
CENTRAL ARCILAEOLOGICAL
विजयत
LIBRARY NEW DELHI.
Ace. No.....१९४५.12....
-१-4

CENTRAL ARCHAEOLOGIGA
LIBRARY, NEW DELHI,
Aoa. No,
16.3...52
Sa8N
De no one wameo-scena 60
...85.1.6..
Ven/RM.

iii प्रकटनम् एतद्वन्यसम्बन्धाधिकारः कोऽपि. ग्रन्थकर्ता नं वायत्तीकृतः । तस्माद्यदा कदावाप्यधिकानि पुस्तकान्यपेक्षितानि भवन्ति, तदा यस्य कख वा एतद्वन्यस्य पुनर्मुद्रणकायें भवति निरर्गलोऽधिकारः । परन्तु अन्यस्य स्वायत्तीकरणे न तस्याधिकारः। तथाप्ययं ग्रन्थः व्याख्यान्तर- समेतो वा, विवरणसहकृतो वा भाषान्तरपरिवर्तनपरिष्कृतो वा यदि भवेत, तदा तव्याख्यादिकर्तुः तत्प्रतिनिधेः, विश्वविद्यापीठादे, तादृश- ब्याख्याधुपेतस्यास्य ग्रन्थस्य न्यायत: स्वायत्तीकरणपूर्वकमेव सर्वे मुद्रणाद्यधिकाराः निश्चिताः, ग्रन्थकर्तृसम्मताश्च भवन्ति ॥ बेङ्गलुरु, श्रीवेङ्कटरमणायः २५.२-१९४५) ग्रन्थकत Announcement Copyright of this work is not reserved by the author, as the work is solely intended for the general enlightenment. So, if more copies are required at any time, any individual or agency may get the work reprinted in any number of copies, without claiming copyright for the work. If, however, any explanations or notes, or translation in any language is written on, and affixed to the work, then copyright may, justly and rightly, be claimed and reserved by any individual or his agent or representative or by Educational Institution, or by any other agency. Bangalore, 25th Feb. 1945 (Sd.) C. VENKATARAMANAIYA, Author.

कृतज्ञता। समयेऽस्मिन् एतद्वन्यपरिशीलनकार्थे साहाय्यमाचरितवतां श्रीमन्म. हीशूरमहाराजास्या नमहाविदुषां साहित्यरत्नमित्यादिसुपदालङ्कृतानांकन्न- म्बाडि गोपालकृष्णशास्त्रिषाम् , ग्रन्थशोधने मुद्रणकाले अक्षरस्खलनादि- दोषशोधने च परमसहायभूतानां बेङ्गलूरु सैण्टमोसेफ् कालेज् (महापाठ- शालायाम् ) संस्कृतभाषाचार्याणाम्, भारतमाषोपद्रष्टुणाम् एम्. ए. सुपदालङ्कृतानाम्, विद्वान् एम्. रामकृष्णभट्टमहोदयानाम्, बेंगलूरु वेदमहापाठशालायामध्यक्षपदमलकृतवतां एम्. ए. सुपदालतानां एन. मल्लिकार्जुनशास्त्रिणां च मुद्रणकार्ये अपेक्षितानुकूल्यानि कल्पितवतां श्रीमतां वि. बि, श्रीकण्ठसर्मणां तत्सुतानां च कृतज्ञो भूत्वा सप्रश्रयमभि- वन्दनसन्तति समर्पयेऽहम् । बेङ्गलूरु, श्रीवेङ्कटरमणार्यः ग्रन्थकर्ता- iv ॥ प्रस्ताव: ॥ राजमान्यैः राजश्रिया विराजमानैः विश्रांतमहीशूरसंस्थान- संस्कृतसर्वशालाध्यक्षैः सि. वेंकटरमणार्वमहाशयः निर्मितेषु अनेककाव्य- प्रबन्धेषु निसर्गरमणीयमिंद जीवसञ्जीविनीनाम नाटकमामूलाग्रमवालोकि । "गुणालंकारचारुत्वयुक्तमप्यधिकोवलम् । काव्यमाश्रयसंपत्या मेरुणेवा- मरद्रुमः ॥ तस्मात्कीर्तिमुपादातुमकीर्ति च व्यपोहितुम् । काव्यालंकार- शास्त्रार्थः संपाद्यः कविपुङ्गवः ॥ इत्यादिपुराणवचनानुसारेण प्रबंधान्त- रापेक्षया सत्काव्यानि प्रेक्षावतां लोकोत्तरचमत्कृतिमादधति हि । एतादृश- अव्यकाव्यापेक्षया नाटकाख्यदृश्यकाव्यस्य “काव्येषु नाटकं रम्यम्"। “नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम्" इति कवितिलककालिदास- सूक्त्यापि सहृदयहृदयाह्लादकत्वं निश्चप्रचम् । “मल्ली सुपचयविलसत्परिमल- मुचि वाचि यो न मोदेत । ब्रह्मदयूर्वा सुदयूर्वा मदयूर्वा किमेतेने"त्यभियुक्तो- क्तिमनुसन्दधानानां सरसोक्तिसुधारसैः सुधीस्वांतेषु नितांतममंदानंददायिनां रसालंकारगुणोल्लसितशब्दार्थसंघटनचातुरीधुरीणानां कविपुङ्गवानां सरणि- मनुसरन्तः तत्रभवंतः सि. वेंकटरमणार्याः पूर्व स्तुतिकुसुमांजलिसर्व- समवृत्तप्रभावहरिश्चन्द्रकाव्यकमलाविजयनाटकादीन् बहून् ग्रन्थान् व्यरी- रचन् । वार्धके तत्रापीक्षणपाटवशन्यवयोविभूषिता अपि असाधारणकविता- निर्माणमार्मिकधुरीणाः एते चारुतररचनाविद्यासपरिकर्मीणं रमणीयार्थ- प्रतिपादकं जीवसञ्जीविनीनाम नाटकमिदं निरमासिषुरिति पण्डितप्रकाण्डा- स्सर्वेपि आनंदसंदोहतुंदिलान्तरंगाः भवेयुरिति न केऽपि संशेरते । अस्मिंश्च नाटके तत्तच्छास्त्रप्रतिपादिताः दुरूहाः विषयाः विद्यार्थिनां स्वांतेषु आंजस्येन यथाधिगच्छेयुः तथा सम्यक् समग्रथ्नन् । दुरूहस्थले च सोपज्ञ- व्याख्यया सप्रमाणं ते ते विषयाः व्यवारिषत | तथाहि- V प्रथमांके प्रथम दृश्ये मार्गशीर्षमासस्य वैदिकाध्वप्रसिद्ध संवत्ल- आदित्वं सप्रमाण प्रसाध्य, अभिनवशाल्यादिधाम्यवास्तुकशाकादि- लित्वेन, शीतातपशून्यत्वेन च सुखहेतुत्वं लौकिकं च प्रदश्य 'कोदण्डस्थे सवितरि प्रत्यूषे कमलापतेः । सहस्त्रवार्षिकी पूजा दिनेनैके- । लभ्यते । हेमन्ते प्रथमे मासि नन्दवनकुमारिकाः" इत्यादिपुराणमाषण- र्यालोचनया, “मासानां मार्गशीर्षोऽह" मिति भगवदुक्त्या च मार्गशीर्ष- सस्य प्रशस्यत्वं स्फोरितम् । द्वितीये दृश्ये औपनिषददर्शनप्रसिद्धः पायाविचारः व्याख्यायां सप्रमाण परिशीलितः। सुश्प्ते अज्ञानं नास्तीति तनसिद्धान्तमारममाणानां पाश्चात्यविपश्चित्प्रदर्शितपथानुवर्तिनाम् आधु- निकानां च चेतसि यथा चमत्कृतिमावहेत् तथा “अविद्यात्मकत्वात् त्रयाणां तुरीयः” “राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात्" "अज्ञान- पस्ति च सुषुप्तिगतस्य पुंसः" इत्यादिभगवत्पादाचार्यसूक्तिसुमनोमाला शिरसि संधाय मूलाविद्या सुषुप्तेऽप्यस्तीति निर्धारितम् । तृतीये दृश्येऽपि योगशास्त्रप्रसिद्धः ज्योतिष्मतीसंयमः प्राचीनगुरुकुलादिषु विद्याभ्यास- क्रमः चतुर्दशविद्यास्थानं च आधुनिकविद्यार्थिव्यूहसौकर्याय प्रदर्शितम् । चतुर्थहश्येऽपि "कर्नादयो मवतीह सृष्टिनिवहेति श्लोके तद्व्याख्यायां च "पायत्येष तपत्येष वर्षत्येष गभस्तिभिः” इत्यादिशास्त्रतत्वं बालसुबोधार्थ सम्यक् निरूपितम् । तथा प्रश्नोपनिषत्प्रसिद्ध जगतः अग्नीषोमात्मकत्वमायु- वेदसृष्ट्यादिकं च सम्यगुपपादितम् । पञ्चमे दृश्येऽपि, जात्या न स्त्रीणां वेदाध्ययननिषेधः उपपत्या तु तदसाध्यम् इति शास्त्राकृतं तयाख्यायां च आधुनिकलौकिकहृदयावर्जकत्वेन विवृतम् । तथा भूलोके आयुर्वेदाधि- गमपरिपाटीं शास्त्रसंप्रदायरीत्या न्यभान्त्सीत् । इति बुधानामामोदः ॥ द्विती- येऽके प्रथम दृश्ये विद्यमानस्थले यन्त्रसाहाय्यात् दूरदेशस्थवृत्तांताधि- गमवत् स्वशरीरे दिव्यश्रोत्रमहिम्ना युगपत् सूक्ष्मव्यवहितविप्रकृष्टवस्तुग्रहण- सामर्थ्य भवेदिति अर्थप्रतिपादनपरः श्रोत्राकाशयोः “संबंधसंयमात् दिव्यं vi च श्रोत्रम्" इति योगशास्त्रप्रसिद्धो राद्धान्तः त्रिकालज्ञऋषिद्वारा प्रकाशितः। तृतीये दृश्येऽपि आयुर्वेदप्रसिद्धः शस्त्रचिकित्साक्रमः पूर्वमासीदेव, युद्धसमये शरीरप्रविष्टान् बाणाग्रशलाकादीन् सदशादिना निष्कृष्य सद्यो- व्रणविरोपणार्थमौषधं विलिप्य पानादिसेवनेन सुखं सुप्त्वा प्रातः पुनयुद्ध- सन्नद्धा बभूवुरिति भारतादिषु प्रसिद्धः । तथा सञ्जीविन्यौषधीभिः सञ्जीविनीमंत्रैश्च मृतस्वबंध्वादीनां प्राणाः प्रत्यागता आसन् । तथा महाभारते वनपर्वणि मृतं स्वकुमारं सञ्जीवनीमंत्रेण पुनः प्रत्युजीव्य " न नो मृत्युभयं- हि नः” इति प्रत्युत्तरेण विस्मयमादधताम् ऋषीणां वचनानि च. श्रूयते हि। तादृशलोकोत्तरचिकित्साविधानदक्षायुर्वेदशास्त्ररहस्यं ब्रह्मेन्द्रम- रद्वाजात्रेयकाश्यपविश्वामित्रदिवोदासादिद्वारा लोकोद्धारार्थ प्रसृमरमिति वैद्यशास्त्रप्रणयिनं तत्प्रकाशितच्यवनप्राशनादिमहौषधिरसायनादिकं सुलभया रीत्या अभिहितं सुमनसामामोदाय च मवेत् । तृतीयेऽके तावत् ललितपदविन्याप्तविशेषेण तत्तलौकिकव्यवहारानुगुण इति वृत्त- गुंमनेन “ यूनोरन्योन्यविषया परस्परविभाविका । स्पृहा या चित्तवृत्तीरति रित्यभिधीयते ॥” इत्यालंकारिकशास्त्रपरिपाट्या आलेख्यसन्दर्शन, परस्पर- वीक्षणस्पर्शनभाषणादिना च परां कोटिमापादितः यिभावः अलौकिकरसतां नीतः कामनीयकमतिशेते । रसोचितगुणा- लंकारवृत्तयः सर्वत्र साधिताश्च । वैवाहिकविधिनिवर्तनादिकं लोकमर्यादा नातिशेते । अतिशेते च वधूप्रषणकालिकः पित्रोरुपदेशः नाटकान्तर- स्थितं सन्देशम् । विशेषतः षोडशवार्षिकप्रौढकन्याप्रदानकालेऽपि “अष्ट- वर्षा भवेत्कन्या पुत्रवत् पालिता मया" इत्येव भाषमाणानां पुरोहिताना- मुक्तिः "इयद्वर्षा भवेत्कन्या" इति पाठपरिवर्तनेन परिष्कृता सती याथार्थ्य नीता । कलानिधिः कुमुदबंधुः चन्द्रिका सञ्जीविनी जीवदेवः न्योत्स्नावती इत्येवमादयश्शब्दाः तत्तत्पात्रस्वरूपाभिधायिनः रसानु- गुणतया परिकल्पिता। किं बहुना भवभूत्यादिमहाकविप्रणीतमालती- रत्याख्यस्था- ।

vii माधवादिग्रन्थकश्यासुः इदमपि नाटकं कृतपदविन्यासमिति पण्डित- प्रकाण्डा विदांकुर्वतु । नाटकेऽस्मिन् सर्वत्र लगप्रक्रियामनुसृत्य नृत्नतया अनेकानि वृत्तानि परिकल्प्य तल्लक्षणानि च स्वयं निर्माय उदाहरण- मुखेन संयोजितानीति कविपुंगवस्य अस्य वृत्तनिर्माणशैली असाधारणेति तद्विरचितसर्वसमवृत्तप्रमाबग्रंथेनैव परिज्ञायत इति हेम्नः परमामोदः ॥ चतुर्थोकेऽपि श्रीकालिदासादिमहाकविमिः प्रदर्शिताः गर्भिणीनां मृद्भक्षण दोहदनिर्वततं भूषणादित्यागः कुसुममालायामपि भारबुद्धिः एव- मादयः शास्त्रसम्मताः खलु । तामेव सरणिमत्यजन् एष कविः तत्प्रकरणानु- सारेण सर्व प्रादर्शयत् । तथा जातकर्मादिसंस्कारः पुत्रोत्पत्तिं श्रावयितुः तत्क्षणममूल्यामरण वितरणं शर्कराखंडभारभूषितशकटानां वीधीषु संचारणं जातकसंपत्तिः इत्येवमादयो विषयाः रमणीयतया विन्यस्ताः । “द्वादशाष्ट मजन्मस्थाः शन्योगारका गुरुः । कुर्वन्ति प्राणसंदेहं स्थानभ्रशं धनक्षयम् " इत्यादिप्रमाणेन जातकपरिशीलनराशिकुंडलीपरिष्करणादयः ग्रन्थस्थाः कवेरस्य ज्योतिश्शास्त्रेऽपि महापरिचय इति प्रफुल्लयन्ति ॥ तृतीयतुर्य- दृश्ययोः खलु अर्शः, पाण्डुरोगः कर्णशूलः शिरोवेदनादिरोगाणां तत्कालिकप्राप्तिमुपवर्ण्य तेषां निवारणोपायः ॥ मलायत्तं बलं पुंसां शुक्रा- यत्तं च जीवितम् । तस्माद्यत्नेन संरक्षेत् यक्ष्मिणो मलरेतसी ॥” इत्यादि- शास्त्रपुरस्कारेण रोगनिदानतत्परिहारोपायचिकित्साक्रमादिकं च सुविस्तरं प्रतिपादितम् , शिष्यजनशिक्षायै विन्यस्तमिति सर्वशास्त्रेषु कवेः प्रागल्भ्यं वरीवर्तीति कस्य वा चित्ते पदं न विधत्ते । पञ्चमाङ्केऽपि नायकस्य प्राप्तरोगो- पद्रवपरिहारद्वारा उभयोर्नायिकानायकयोः सर्वलोकसम्मतं गार्हस्थ्यधर्म समुपवर्ण्य समीचीनराज्यमारनिर्वहणधुरीणतां च तृतीयाश्रमधर्मानुष्ठान न्याय्यमित्येवामिप्रायः प्रकाशितः। प्रसंगात् शृङ्गारशान्तरसयोर्भेदोऽपि निरूपितः । ततः भक्तिध्यानादिना ज्ञानमार्गानुसरणं सम्मतमित्यभिधाय, जीवन्मुक्तानां च रीति प्रदर्य स्वपुत्रस्य पाणिग्रहणमंगलपूर्वकं राज्य viii समर्प्य स्वस्य जीवदेवस्य कृतकृत्यता ध्वनिता । एवमादयस्सर्वाः कथा: औचित्योपनिबम्धनतत्तद्रसोचलिताः गुणालङ्कारभरिताः शय्यारीति वृत्तिभिः परिकर्मिता इति नीवसञ्जीविनीनामनाटकमिदं सर्बसुमनोहरं रंजकं विद्यार्थिजनसौकर्याय सुव्याख्यानेन परिष्कृत लौकिकवैदिक- पुंगवपरिगृहीतं चिरायुर्जीयादित्यनवरतमाशास्ते ।। के. गोपालकृष्णशास्त्री अलंकाररक्षामणिः, साहित्यरत्नम्, आस्थानमहाविद्वान् , ४-८-१९४५. खिल्लेमोहल्ला, ८२१, मेसूरु.

ix उपोद्धातः इदमिदानीमावेद्यते महाजनानामवगाहनाय, यत्सनातनायुर्वेद- विषयकतत्वानि वेदेषु तत्र तत्र प्रपञ्चितानि, शास्त्रेषु सविस्तरं सुविशई प्रतिपादितानि, पुराऽत्र सर्वत्र प्रसिद्धिं नीतानीति । ताहशतत्वानि वेदशास्त्र. मुखाद्विदित्वा, तत्प्रयोजनं महदिति परिभाव्य, तन्निदर्शनपूर्वकं किंचिद्वि वक्षित ग्रन्थमुखात्परिकल्प्य, तदर्शनेऽपि दर्शनांतरेष्विव जनानां पुनः प्रत्ययमुत्पादयितव्यमित्युद्देशेन, विरचित्तेयं कृतिर्जी सञ्जीविन्याख्य- नाटकाकृतिः। अत्र तु, कविकल्पितमेव वस्तु । तथापि, कथानायकस्सूप्रसिद्धः, यतोऽन कल्पितनायक: जीवदेव एवं जीवः । स सर्वप्राणिषु वर्तत एवेति प्रसिद्धः । जीवस्यापद्यमानानां रोगाणां परिहारः आयुर्वेदचिकित्सायत्तः । चिकित्सात्वौषधविशेषसाध्या । औषधं पुनः ओषधिवनस्पतिजन्यम् । ओषधीषु मुख्या सञ्जीविनीलता । एतत्तत्त्वमर्यादया, सेव. सञ्जीविनीलता सञ्जीविनीति कल्पितनायिकाभूताऽपि सुप्रसिद्धेति भाव्यते। शृङ्गाररसोऽत्र प्रधानः, शान्तिरसोऽपि तत्समानः, अन्येऽपि रसाः तद्रसपोषकास्तदनुपान- भूताः । अतः "नवरसोल्लासिनी"ति स्वकृतव्याख्यायाः सार्थको निर्देशः कृतः ग्रन्थकी। अनेन नाटकमिदं शास्त्रोक्तलक्षणोपेतं भवेदिति भावयन्ति भावज्ञाः। संति चेदेसिन्नाटके ये केचित्काव्यगुणाः वृत्तिरीत्यादयः, रसपुष्टिकरा- श्चमत्काराः चमत्कृतिजनकाः विविधालङ्कारादिप्रकाराः, ते सर्वे विमर्शक- समालोचकांदिविद्वद्धरीणैस्सम्भाव्य, परिशील्य केनचित्प्रकारेण वा प्रकाश्यंत एव । न कापि तत्र व्यग्रताऽस्य कवेः। अस्मिन् नाटके पुनः प्रसिद्धवृत्तानां मध्ये कानिचिदप्रसिद्धवृत्ता- न्यपि संयोजितानि, तेषां लक्षणानि कल्पितानि, समुचितनामभिरभि- हितानि च । तादृशवृत्तान्यपि विविधछन्दोजातान्येवेति " प्रस्तारनष्टोद्दिष्ट लगक्रियासंख्याध्व" रूपषट्प्रत्ययाभिज्ञानां प्रत्ययो जायत एव । अनेन कविना विरचितस्य "सर्वसमवृत्तप्रभावा"ख्य ग्रन्थस्यान्ते निर्दिष्टानां परिशिष्टानामवलोकनेन च तादृशप्रत्ययः सुलभेन भवतीत्यभिप्रयते । ग्रन्थोऽयं कविना वाग्देवतानुग्रहानिर्मितः, स्वार्जितधनव्ययेन बहु- प्रयासात्समुद्रितः, गुणग्राहिणां हस्तपरिचयं प्रापितश्च । एतेनैव ग्रन्थकर्तुः कर्तव्य निर्ववर्तितम् । समुचितपात्रेभ्यः विनियोगवशात्प्रथममुद्रणोपेतानां पुस्तकानाम भाव: क्षिप्रं जायते । तदा ग्रन्थस्यास्य पुनर्मुद्रणप्रकाशादि कार्य तु, परोपकारनिरतानां देशवत्सलानां विद्वत्पक्षपातिनामुदारहृदयानां सभ्यानामायत्तं भवेदिति सप्रश्रयमाशास्ते । बेंगलुरु, अन्यकर्ता, श्री वेङ्कटरमणार्यः

No text on this page.

एतन्नाटकस्य वृत्तपरिचयः
अथवा
विषयानुक्रमणिका.
प्रथमेऽङ्के-प्रथमदृश्यम्
....
नांदी-मङ्गलाचरणम्
१-५
प्रस्तावना-नटीसूत्रधारयोः संभाषणम्-हेमंतर्तुवर्णनम्
६-१३
द्वितीयदृश्यम्
ब्रह्मलोके, परेशप्रासादे-परेशमहामाययोः, सख्युः सत्यप्रि-
यस्य च संभाषणम्
१४-१८
भूलोके मार्ताण्डदेशे तेजोवतीनगरे सूर्यवंशे प्रभावती-
प्रद्योतपुत्रस्य, कथानायकस्य जीवदेवस्य वृत्तांतश्रवणम्.... १८-२१
तृतीयदृश्यम्
भूलोके सर्वज्ञगुरोराश्रमे जीवदेवस्य प्रचलित विद्याप्रावीण्य
द्रष्टुं वृद्धब्राह्मणीब्राह्मणरूपेण महामायापरेशयोरागमनम् २२-२५
जीवदेवेन खेनाभ्यस्तविद्यानां विवरणम्
२५-२७
महामायापरेशयोरंतर्धानम्-जीवदेवेन तयोनिनस्वरूपकथनम्... २७-२९
चतुर्थदृश्यम्
सत्यलोके ब्रह्मसभा-वाणीब्रह्मणोः सरससल्लाप:
३०-३२
भूलोके कुमुददेशे ज्योत्स्नानगरे चन्द्रवंशे चन्द्रिकाकला-
निधिसंभूतायाः कथानायिकायाः सञ्जीविन्याः जन्मादि-
वृत्तांतकथनम् ।
....
....

xii ब्रह्मणा लक्षसंख्याकस्य आयुर्वेदशास्त्रस्य निर्माणप्रतिज्ञा- संजीविनीनामौषधिविशेषस्य मूर्तिरूपायाः सञ्जीविन्याः करस्पशेनव नायकस्य जीवदेवस्य प्राप्स्यमानविविध- रोगाणां परिहारप्राप्तिसूचनम् पञ्च महश्यम् ज्योत्स्नानगर्यो संगीतशालायां भगवत्प्रार्थना । गायिकागायकरूपेण तत्र सञ्जीविनी द्रष्टुं प्रस्थितयो- र्वाणीब्रह्मणोः मार्गे सरसोक्तिप्रसङ्गः तयोस्समीपे सञ्जीविन्या स्त्रीयाभ्यस्तविद्याकलादिकथनम् सञ्जीविन्या सगेयाभिनयप्रयोगप्रदर्शनम् ततस्तया केवलगेयकलाप्रदर्शनम् सञ्जीविन्याः वाणीब्रह्मणोराशीर्वाद: ४२-४३ .... ५१-१२ ५२-५३ .... ६४-६५ ... षष्ठदृश्यम् स्ववाहनभूतराजहंसमुखेन, अश्विनीकुमारौ आयुर्वेदाधि- गमाय ब्रह्माणं प्रति कठोरतपसि स्थिताविति विदितस्य ब्रह्मणो वाण्या सह तदनुग्रहार्थं प्रस्थानम् ५६-५८ मार्गे, तथैव तपसि स्थितस्य दक्षस्य आयुर्वेदरहस्योपदेशानुग्रहः ५८-५९ अश्विनीकुमारावनुग्रहीतुं वाणीब्रह्मणोत्तदन्तिकगमनम् ५९-६० ब्रह्मणः आजया अश्विनीकुमारयोः दक्षेण आयुर्वेदरह- स्योपदेशः द्वितीयेऽङ्के-प्रथमदृश्यम् इन्द्रसभा-इद्रेण अश्विनीकुमारयोरभिनन्दनम् शचीप्रार्थनया स्त्रीणां प्रसववेदनापादितरोगचिकित्सायामपि अश्विनीकुमारयोरवधानाकर्षणम् अमित ....

xiii ..... ७२ ७३ ७४ ७४-७५ भैरवेण स्वयंभुवश्शिरश्छिन्नमिति वार्ताश्रवणम् । तचिकित्सार्थ- मश्विनीकुमारयोः प्रस्थानम् द्वितीयदृश्यम् अश्विनीकुमारभ्यां स्वयंभुवश्छिन्नशिरस्सन्धानम् देवाप्तुरयुद्धे पूष्णो दन्तभंगस्य वार्ताश्रवणम् अश्विनीकुमाराभ्यां पतितदन्तानां समीकरणम् भगस्य नेत्रे नष्टे इति वार्ताश्रवणम् अश्विनीकुमाराभ्यां नेत्र- चिकित्सया तस्य नेत्रदृष्टिपाटवसाधनम् देत्यैरापादितास्त्रबलेन अमरपतेरिन्द्रस्य स्तंभीकरणम्-अश्विनी- कुमाराभ्यां तन्निवारणम् चन्द्रस्य राजयक्ष्मप्राप्तिः अश्विनीकुमाराभ्याम् ओषधिविशेष- मुखेन तत्परिहारकरणम् च्यवनः शापेन वार्धकप्राप्ति: अश्विनीकुमाराभ्यां रसायन- विशेषप्राशन विधिना तन्निवारणम् ७५-७६ अश्विनीकुमाराभ्यामिन्द्रस्य आयुर्वेदोपदेश:-इन्द्रेण आयु- वेदसंहितानिर्माणप्रतिज्ञा तृतीयदृश्यम् कश्यपभरद्वाजात्रेयमहर्षीगां परस्परसंभाषणम्- आत्रेय. भरद्वाजाभ्यां आयुर्वेदसंहितारचनवार्ता ७८-८१ विश्वामित्रमुखात् चरकसुश्रताभ्याम् आयुर्वेदशास्त्रनिर्माणकथनम् ८२-८५ चतुर्थदृश्यम् उद्यानक्ने जीवदेवप्रियदेवयोस्संभाषणावसरे शुद्धवायुप्रयोजन- विचारः त्योस्नातकत्रतोद्देशविचारः ८९-९१ स्नातकस्य स्वाभिमतकन्यावरणे अधिकारः ९२-९३ ७७ xiv पञ्चमदृश्यम् .... भुवनेश्वरीमन्दिरे सञ्जीविनीप्रियदेवीभ्यां देवीपूजावसरे सञ्जीविन्या संगीतमुखेन देवीप्रार्थना-तस्याः आकाश- वाणीमुखेन देव्याः अनुग्रहप्राप्तिः ९४.९७ प्रियदेव्या च तथा प्रार्थना-तस्याः च तथा देव्या अनुग्रहः ९८-१०० ताभ्यां मङ्गलगीताकलनम्-देवीप्रसादपुष्पस्वीकारः १०१ तृतीयेऽङ्के-प्रथमदृश्यम् ज्योत्स्नानगरोद्याने चन्द्रिकाकलानिधिसंभाषणावसरे सञ्जीविनी विवाहयोग्येति तस्याः जीवदेवएव अनुरूपो वर इति च सूचनम् १०२-१०७ देवयाजिनामकब्राह्मणमुखात् वराधिगमाय प्रद्योतराजस्य निकटं सञ्जीविन्या: आलेख्यप्रेषणम् १०८-१०९ द्वितीयदृश्यम् तेजोवतीनगरे राज्ञीराजभ्यां विप्रमुखात्प्रेषितं संजीविन्याः आलेख्यं वीक्ष्य तत्कन्यास्वीकारे स्वाभिमतनिश्चय- दर्शनम्, तथाङ्गीकारमधिगतुं प्रभावत्या पुत्रस्य जीवदेवस्य निकटागमनम्-चित्रदर्शने पुत्रस्य कुतुहलनिष्पादनञ्च... ११०-११५ चित्रदर्शननैव संमतिप्रदानपनुचितमिति साक्षात् कन्यादर्श- नेनैव तथा कर्तुमुचितमिति च जीवदेवेन स्वाभिप्राय- निवेदनम् ज्योत्स्नानगरप्रांतोद्याने जीवदेवस्य प्रेक्षणार्थ सञ्जीविनी- सन्निधानसंविधानकल्पनमावश्यकमिति विप्रमुखात्प्रति- संदेशप्रापणम ११६-११८ ....

XV. .... तृतीयदृश्यम् तदुपवने जीवदेवप्रियदेवप्रवेशः-सञ्जीविनीप्रियदेवीप्रवेशश्च, तयोस्तयोमिथसल्लापावसरे खस्वाभिप्रायसुचनम्-रचित- कुसुममालानयनाय प्रियदेवी प्रति सञ्जीविनीप्रार्थना- तथा कर्तुं प्रियदेव्याः निर्गमनम् ११९.१२८ पानीयसंपादनव्याजेन जीवदेवेन खसख्युः प्रियदेवस्य सान्निध्य परिहृत्य कासाराभिमुखगमनम्- सञ्जीविन्यास्तदर्शनप्राप्ति:, १२९ चतस्त्रो मालाः रचयित्वा प्रियदेव्या स्वोपयोगाय द्वे मालिके तत्रैव निक्षिप्य, सञ्जीविनी पूर्व यत्र स्थिता तत्र द्वयोः मालिकयोः संस्थापनम् १३. तदर्शनार्थ गतायाः कासारतटे स्थितायाः सञ्जीविन्याः जले प्रतिबिंबितां छायां दृष्ट्वा जीवदेवेन तत्सौन्दर्यवर्णनम्, मुखमुन्नमय्य तामेव साक्षात्पश्यतो जीवदेवस्य सञ्जीविनी- सौन्दर्यवीक्षणनितमोहावेशवशान्मूर्च्छना अत्रान्तरे पुष्पापचयार्थ प्रस्थितायाः प्रियदेव्याः मार्गे हठात् प्रियदेवस्य दर्शनम् । तयोस्सलापः । प्रिय- देवेन प्रियदेव्यामनुरागप्रदर्शनम् । तस्या अपि तस्मिन् अनुरागाविर्भावसूचना, पुनरागमनप्रत्ययोत्पादनानन्तरं तस्याः निर्गमनम् । १३२ सञ्जीविन्याः कासरतटात् करग्रहणपूर्वकं जीवदेवस्य स्वस्थान प्रत्यानयनं तदाश्वासनश्च । जीवदेवस्य संज्ञाप्राप्त्यनंतरं, नायिकानायकयोस्सरससलापेन परस्परपुष्पमालासमर्पण- द्वारा गान्धर्वविवाहसंपादनम् १३७ स्ववचनपालनेन पुनरागतया प्रियदेव्या सह प्रियदेवस्य पुनस्सरससंलापावसरे उभयोः परस्परानुरागप्रदर्शनम् ।

xvi १३९ अवशिष्टपुष्पमालासमर्पणद्वारा तयोरपि गान्धर्वविवाह- घटना जीवदेवप्रियदेवयोः परस्परमेलनवशात् स्वनगरं प्रति निर्गमनम् । तथैव सञ्जीविनीप्रियदेव्योरपि ज्योत्स्नानगर- प्रवेशः। १४२ चतुर्थदृश्यम् राज्ञे राझ्या स्वपुत्र्याः संप्राप्तसंतापकथनम् । तस्य परिहारः तस्याः जीवदेवेन सह विवाह एवेति निश्चयः, मन्त्रिणा स्वसुतापि ज्वरेण सन्तप्तेति निवेदनम् । स काम- ज्वर एवेति राझ्या समुदीरिते तस्या अपि प्रियदेवेन सह विवाहः प्रतीकारो भवतीति निश्चयः तदक्सर एव तेजोवतीनगरादागतस्य शीघ्रगामिनामदूतस्य मुखात् सञ्जीविनीजीवदेवयोः प्रकृतिस्थित्यावेदनपुरस्सरं तयोः क्रमेण सञ्जीविनीप्रियदेवीभ्यां सह विवाहस्य संपादनाय प्रभावतीप्रद्योतयोः प्रार्थना निवेदनम् प्रद्योताय राज्ञे लग्नपत्रिकाप्रेषणम् । शीघ्रगामिनो निर्गमनम् । विवाहार्थमपेक्षितसकलपरिकरसम्पादनाय मन्त्रिणे राजाज्ञा । पञ्चमदृश्यम् तद्वााविशेषेण संतृष्टानां विवाहमहोत्सवार्थमाहूतानां प्रद्योतप्रमावतीजीवदेवादीनां विश्वावसुभामतीप्रिय- देवानां परिवारयुतानां ज्योत्स्नानगरे कल्याणमङ्गल- साधनाय प्रस्थानं तत्पुरप्रवेशश्च तत्र राजयोग्यैर्महावैभवैः सञ्जीविनीजीवदेवयोः प्रियदेवीप्रिय- प्रियदेवयोश्च शास्त्रविधिना विवाहोत्सवसमारम्भः । पुरो- १४६ xvii हितपमुखैराशीमंगलानुशासनम् । वस्त्रभूषणादिभिस्सत्कृ- तानां सर्वेषां वरपक्षीयाणां स्वदेशं प्रति निर्गमनम् चतुर्थोऽङ्कः-प्रथमदृश्यम् सञ्जीविनी गर्भिणी जातेति वार्ताप्रचारः तस्याः दोहद- विचारः । पुत्रजननम्-“ ज्ञानसूर्य" इति शिशोः नाम- करणम् । सर्वेषां संमोदः १६६-१७५ द्वितीयदृश्यम् जीवदेवस्य संपत्स्यमानरोगबाधां ज्ञातवत्याः सञ्जीविन्याः मनोव्यथाप्राप्तिः १७६-१८० तद्विज्ञानात् कार्तान्तिकमुखैनींवदेवस्य जातकपरीक्षा । ग्रह- चारविषयावगतिश्च । तस्य तीव्रग्रहचारवशात् रोग- प्राप्तिरवश्यंभाविनीति त्रिकोलज्ञवचनम् । तत्परिहारोपाय- चिन्ता। १८१-१८३ देववरात् तत्परिहारः स्वहस्तस्पर्शन भवतीति सञ्जीविन्या निवेदनम् । व्याधिग्रस्तस्य समीपे तत्पत्नीसन्निधानं नोचितमिति सञ्जीविन्याः तत्पुत्रेण सह मातृगृहनि- वासाय प्रेषणम् । १८४-१८५ तृतीयदृश्यम् जीवदेवस्य अझरोगप्राप्तिः । राजवैद्यैस्तचिकित्सा । चिकित्साऽसाध्ये रोगे जीवदेवेन सञ्जीविनीस्मरणम् । विमानैरागतयाऽनया, राजवैद्यैर्निष्पादितानामौषधविशेषाणां परीक्षा । तस्या हस्तस्पर्शप्रभावात् तैरेवौषधविशेषै- स्तद्रोगपरिहारः । १८६-१९२ कालान्तरे, जीवदेवस्य पाण्डुरोगाक्रान्तिः। राजाज्ञया, xviii तत्र १९२-१९५ १९६-२०४ रोगस्य निदानं निवेद्य राजवैद्यैस्तत्परिहाराय शास्त्रोक्त. भैषज्यकरणम् । तेन तद्रोगेऽनिवारिते, पत्युः स्मरणादेव पूर्ववदागतायास्सञ्जीविन्यास्तद्भषज्येनैव तद्रोग- परिहारः तथैवान्यदा जीवदेवस्य राजयक्ष्मसंप्राप्तिः। तचिकित्साया- मपि राजवैद्यानां भैषज्यकौशलेन रोगपरिहारो भवती- त्याशसा। भग्नाशयेषु भिषगादिषु यथापूर्व जीवदेव- कृतस्मरणादेव सञ्जीविन्या तत्रागत्य तदोषधस्पर्शप्रभा- वात् राजयक्ष्मपरिहरणम् समयान्तरे तस्यैब कर्णशूलप्राप्तिः । कर्णरोगस्य निदान- प्रकारपरिहारविचारानन्तरम् उचितभैषज्यप्रयोगः । तत्रापि जातायां निराशायां तत्कर्णशूलस्यापि, यथापूर्व सञ्जीविनीहस्तस्पर्शात् तद्वैषज्येनैत्र कर्णशूलस्य सुतरां निरास: ततः तस्य जीवदेवस्य नेत्ररोगाविर्भावः तन्निवारणेऽपि राज- वैद्यप्रयतने निरर्थके जाते, पुनः जीवदेवेन स्वसतीस्मरणम् , तस्या आगमनम्। तया सिद्धवत्कृतस्य चिकि- सोपयोगिन औषधस्य परीक्षा, तत्स्पर्शनम् । तेनैव तदौषधे प्रभावाधिगमः, तत्प्रयोगेण तद्रोगनिवर्तनम् । सञ्जीविन्या अदर्शनम्। सर्वैः तद्भुतदर्शनसञ्जातहर्ष- प्रकर्षप्रदर्शनम् । ग्रहबलदेवतानुग्रहनिदर्शनम् पञ्चमेऽङ्के-प्रथमदृश्यम् सञ्जीविन्या स्वाधिगतदेववरप्रभावस्य स्वमाने निवेदनम् । पुत्रस्य ज्ञानसूर्यस्य स्वजनकगृहनिवासे आसक्तिप्रदर्शनेन तया मातापितृसम्मतिप्रार्थना, तावनुगतयोः चन्द्रिका- २०४.२०८ २०९-२१९ xix अत्रा- : कलानिध्योः तेजोवतीनगरे जामातृदशनम् । तयोः बन्धुजनैस्सम्भाषणम् । तादृशसंभाषणावसरे प्रद्योतेन प्रभुणा ऐहिकमुखे अनादरपूर्वकं जीवदेवे राज्यधुरा- मधिवेश्य वानप्रस्थाश्रमस्वीकारे अभिरुचिनिवेदनम् । तदेव शास्त्रसम्मतं क्षत्रियजनोचितमिति कलानिधिना स्वसम्मतिप्रदर्शनम् । तथाकरणे समुद्यमः । न्तरे तत्रागतां शान्तिप्रभां दृष्ट्वा सा ज्ञानसूर्यस्य पाणि- ग्रहणयोग्येति निश्चयः । पूर्व तावत्तयोः समुचित- विद्याभ्यास: प्रचलत्विति निष्कर्षः। २२१-२३४ द्वितीयदृश्यम् अभिनवराज्यधुरन्धरस्य जीवदेवस्य राज्यशासनधोरणीसूचना । जीवदेवेन, स्वमहिध्याः सञ्जीविन्याः वैषयिकसुखलालसा- संकल्पः । तदर्थ बन्धुननादीनामाह्वानम्, अपेक्षितानां मङ्गलवस्त्वादीनां सम्पादनम् । अनन्तरं सिंहासने ज्ञानसूर्य शान्तिप्रभां चोषवेश्य, तयोः प्रदर्शनम् । तदर्थ शृङ्गारविलास- संलापः। सञ्जीविन्या, स्वसुखपराङ्मुखेन प्रजारञ्जनार्थ सन्मा- गेंण राज्यशासने परमासक्तिरेव श्रेयस्करीति खभत्रै ललितोप- देशः तत्रत्ये हास्योक्तिसंदर्भ, स्वभार्याभिमतमेव स्वस्य सम्मतमिति राज्ञानुमोदः- प्रास्ताविके शान्तिप्रभाज्ञानसूर्य- योरुद्वाहसमारम्भे कर्तव्योद्यमसंपादनाय अपेक्षितसंभाराणां २३६.२४७ तृतीयदृश्यम् जीवदेवेन लोके यद्यदधिगतं तद्विवरणेन सञ्जीविन्याः किमन्या- पेक्षा मा भूदिति स्वतनये ज्ञानमूर्ये राज्यभारं निवेश्य वने वासः स्वाभ्यां कर्तव्य इत्युपदेशः। गृहवासवनवासप्रयोजनविचारः । सज्जीकरणम्.

XX
वनवास एव जीवन्मुक्तये परमसाधक इति सञ्जीवनी, तदर्थ
गृहवास एव श्रेयानिति जीवदेवः। अत्र वादप्रतिवादः ।
जीवन्नेव मुक्तो भवितुमुचितमिति निश्चयः। तत्साधनाय
ज्ञानसूर्यस्य राज्ये पट्टाभिषेकनिर्वतनं प्रथमं कर्तव्यमिति
पट्टाभिषेकव्यापारप्रचलनम् । तदवसरे पुरोहितैबन्धुजनैश्च
मङ्गलाशीर्मुखेन तयोः सदुपदेशः। यथोपदेशानुवर्तने ताभ्या-
मङ्गीकारप्रदर्शनम् । मङ्गलानुशासननिमित्तकं लोककल्याणाय
भरतवाक्यघोषणम् । एवमितिवृत्तसंग्रहनिरूपणम् २४८-२६७

xxi एतन्नाटकस्थपात्राणां विवरणम्. पुरुषपात्राणि. नटः सूत्रधारः वृद्धब्राह्मणः परेशस्य सखा. परेशः सत्यप्रियः प्रद्योतः विभावसुः जीवदेवः प्रियदेवः सर्वज्ञगुरुः तच्छिष्याः ब्रह्मा कलानिधिः कुमुदबंधुः राजहंसः दक्षः दस्रो इन्द्रः भैरवः स्वयंभूः पूषा नायकस्य जनकः प्रद्योतराजस्य मन्त्री. प्रद्योतस्य पुत्रः (नायकः) नायकस्य सखा. नायकस्य विद्यागुरुः नायकस्य सहाध्यायिनः सत्यलोकाधिपः (गायकवेषधारी) कुमुददेशाधिपः (नायकस्य श्वशुर:) कलानिधेः मन्त्री. ब्रह्मणो वाहनभूतः (पक्षिविशेषः) ब्रह्मणो मानसपुत्रः अश्विनीकुमारौ (देववैद्यौ) अमराधिपः ईश्वररूप: ब्रह्मरूपः सूर्यरूपः भगः चन्द्रः कश्यपभरद्वाजात्रेयाः सोमरूपः ऋषयः (आयुर्वेदसंहिताकर्तारः) xxii महर्षिः वैद्यशास्त्रकर्तारी ब्राह्मणः विश्वामित्रः चरकसुश्रुतौ देवयाजी ज्ञानसूर्यः सुधांशुः शीघ्रगामी जीवदेवस्य पुत्रः कलानिधिपुत्रः (ज्ञानसूर्यस्य श्वशुरः) दूतः अन्ये पुरोहितपौरसामाजिकसेवकादयः स्त्रीपात्राणि सूत्रधारस्य भार्या नटी महामाया प्रभावती वाणी चन्द्रिका कुमुदती सञ्जीविनी प्रियदेवीं परेशस्य भार्या प्रद्योतराजस्य महिषी (संजीविन्याः श्वश्रूः) ब्रह्मणः पत्नी (गायिकावेषधारिणी) कलानिधिराजस्य महिषी (संजीविन्याः जननी) मन्त्रिणः कुमुदबन्धोः भार्या चन्द्रिका-कलानिधिपुत्री (जीवदेवस्य महिषी-नायिका) मन्त्रिणःकुमुदबन्धोः पुत्री (सञ्जीविन्याः सखी) बालिकाः सञ्जीविन्या: सहानुयायिन्यः सुधांशोः पुत्री (शान्तिप्रायाः जननी) सञ्जीविन्याः प्रियसखी ज्ञानसूर्यस्य महिषी अन्याः सुमङ्गलाचेट्यादयः । सरूयः सुप्रमा लीलावती शान्तिप्रभा PM (airanditi ॥ श्रीरस्तु ॥ ॥ जीवसञ्जीविनीनाटकम् ॥ प्रथमोऽङ्कः-प्रथमदृश्यम्-रङ्गस्यलम् । - नान्दी वन्दे ब्रह्माणमायुष्करममृतकरं दक्षदनेन्द्रमूर्ति विष्णुं पापापनोदस्थिरमतिमगदाचार्यवर्षिरूपम् । शम्भुं संसाररोगप्रशमनसुखदं जीवसञ्जीविनीड्यं मायमोहान्धकारप्रहरणकिरणं ज्ञानसूयं परेशम् ॥१॥ कविना स्वेनैव रचिता "रसोल्लासिनी" - व्याख्या । रसेन नवरसेन उल्लसतीति, रसम्-जीवसञ्जीविनीरसम्-उल्लासयतीति वा रसोल्लासिनी । अथेदं "जीवसञ्जीविनी"नाम नाटकं चिकीर्षुः कविः आदौ तावदार्यागां ग्रन्थकाराणां प्राचीनसम्प्रदायमनुसृत्य त्रिविधमङ्गलान्तर्भूतं स्वेष्टदेवतानमस्काररूपमङ्गलमातनोति-'वन्दे" इत्यादिना । “परेशं वन्दे"। अहमिति शेषः । अनुक्तमपि कर्तृपदमत्र उत्तमपुरुषैकवचन क्रियापदसमभिव्या- हारेण सामानाधिकरण्यं प्राप्तस्य अध्याहरिष्यमाणस्य अहमित्युत्तम- पुरुषैकवचनपदस्य अभिव्यञ्जनं भवत्येव । अत्र महाकवीनां प्रयोग एव प्रमाणम् । यथा-"पार्वतीपरमेश्वरौ वन्दे"-इति रघुवंशे कालिदासः । “वन्दे वाञ्छितलाभाय कर्म किं तन्न कथ्यते” इति नीलकण्ठचम्पूकारः। कं वन्दे ? परेशम्-परश्चासौ ईशश्च-तम् । ईष्ट इति ईशः-'ईश' ऐश्वर्ये इति धातोः निष्पन्नोऽयं शब्दः । जगत्पतिरित्यर्थः । भूपतिरितिवत् । तस्य परत्वं नाम सर्वेभ्यो यः परः-यस्मात् परः अन्यो नास्ति स एव परः। “अव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः-" इति हि श्रुतिः । परमपुरुष इति यावत् । स एव परमात्मा परब्रह्मेति कथ्यते । तं नमस्करोमि- २ प्रथमोऽङ्कः ब्रह्मणः भावरूपेण स्थितां भक्तिं वचसोचार्यमाणवन्देइत्यादिपदद्वारेण, कराञ्जलिपुट- रूपकायिकसेवारूपेणाभिवादनेन च परमात्मने समर्पयामीति भावः । परमात्मनः निर्गुणत्वान्नीरूपत्वान्नमस्क्रिया अनुपपद्यत इति चेत् - तस्यैव दिव्यमङ्गलमूर्ति सगुणस्वरूपमाहत्य परेशशब्द उपात्तः- रूपरहितस्यापि तस्य सर्वरूपत्वात्-सर्वशब्दवाच्यत्वाच्च । तर्हि अयमेव सृष्टि-स्थिति-लयकर्ता भवितुमर्हतीति कथं पुनः ब्रह्मविष्णुशम्भुपदवोध्यदेवताविशेष विशिष्टविशेषण- पदाभिधानमिति ? सत्यम् ! विश्वरूपत्वात् परेश एव सृष्टिस्थितिलयप्रभ- विष्णुः । तथापि सृष्टयादिभिन्नव्यापारानुसारेण तस्यैव त्रिमूर्त्यात्मकत्वमङ्गी- क्रियत इति सर्वमुपपन्नम् । अथ वा-केचन ब्रह्मैव पर इति वदन्ति । अन्ये विष्णुरेव पर इति-परे केचित्-शम्भुपदवाच्यमहेश्वर एव पर इति स्वस्वामि- रुच्यमिसन्धिसम्प्रदायानुसारेण मन्यन्ते खलु । तेषामपि ध्यानाद्यनुसन्धा- नार्थ तत्तदभिमतदेवताविशेषवाचक विशेष्यं कर्तृपदं कलयित्वा अन्यानि पदानि विशेषणत्वेन परिगणयितुमपि सुशकम् । यथा प्राधान्ये-विष्णुंज्यापकं, शम्भु सुखकरम्-परेशं श्रेष्ठतमप्रभुरूपम्, ब्रह्माणं परमेष्ठिन वन्दे - नमस्करोमीत्येकोऽन्वयः । तथा विष्णुमधिकृत्य-ब्रह्माणम्- "अणोरणीयान् महतो महीयान्" इति श्रुत्या बृहन्तम् , शम्भु सुखकर परेशम्-श्रेष्ठतमप्रभुम्, विष्णु श्रीमन्नारायणम्-वन्दे नमस्करोमीति द्वितीयो- ऽन्वयः । तथा शम्भुपदे विशेष्ये ब्रह्माणं बृहन्तम्-विष्णु सर्वव्यापकम्-परेशं श्रेष्ठतमप्रभुम्-शम्भु महेश्वरं वन्दे-नमस्करोमीति. तृतीयोऽन्वयः । एतेन सर्वमताभिमतोऽयं भवति मङ्गलश्लोकः- तन्मूलादेव नाटकमपीत्याकृतम् । तथापि कविहृदयमनुसृत्यैव व्याख्यानमुपपद्यते । कथंभूत परेशम् ? ब्रह्माणम्- ब्रह्मस्वरूपम्-'बृहि' धातोः 'मनिन्' प्रत्ययः । नकारस्याकारे-'ऋतोरत्वम्' (उणादि ४-१४८) । कथंभूतं पुनः ब्रह्मस्वरूपम् ? आयुष्करम्-दीर्घायुःप्रदम्। "शतायुर्वं पुरुषः" (ऐ-बा) "आयुर्वर्षशतं नृणाम्” (ब-१-१०७) । "प्राणो हि भूतानामायुः तस्मात्सर्वायुषमुच्यते"इत्यादिश्रुतयः प्रमाणम् । अत्र 'प्राण' शब्देन ब्रह्मोच्यते । यथा-"ॐनमो ब्रह्मणे । नमस्ते वायो ।

जविसञ्जीविनीनाटकम् त्वमेव प्रत्यक्षं ब्रह्मासि" ( तै-उ) इत्यादि श्रुतिबलात् । पुनः कथंभूतम् ? अमृतकरम्-मोक्षप्रदमिति यावत्। "ब्रह्मलोके महीयते” इत्यादिवचनेन । तथा- दक्षदलेन्द्रमूर्तिम्-ब्रह्मणः मानसपुत्रेषु दशसु प्रजापतिषु मुख्यः “दक्षः' देववैयेषु श्रेष्ठौ “दत्रौ" -अश्विनीदेवते, इन्द्रः-स्वर्गाधिपतिः-अमराणां स्वामी- एतदात्मकं ब्रह्माणम् । कथम् ? “यस्मिन् सर्वाणि भूताति" इति श्रुत्या परमेष्ठिनो ब्रह्मणः सर्वात्मकत्वात् । अथवा “यद्यद्विभूतिमत्सत्वं श्रीमदूर्जित- मेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्" इत्यादिगीतावचनेन दक्षा- दयः भगवदशा एन । अंशांशिनोरभेदात्ते सर्वे ब्रह्ममात्मका एव । अत्र ब्रह्मा-अमृतकरः (चन्द्रः) दक्षः- दस्रौ-इन्द्रः इत्यादिशब्डैः सूच्यार्थसूचनमपि कृतं भवति । तत्तत्पात्रकृतप्रवेशे तत्तत्कार्यादीनि पुरतो व्यक्कानि भवन्ति । चन्द्रशब्दाऽपरवाच्यामृतकरशब्दप्रयोगेण ग्रन्यस्य मङ्गलं श्रोतॄणां अभिने- तृणां द्रष्टृणां च परमाह्लादश्च सूचितः । पुनःकथम्भूतं परेशम् ? विष्णुम्- सर्वव्यापकम्-विष्णुस्वरूपम् विष्' व्यापने इति धातोः 'नुक्' प्रत्ययः । (उणादि ३-३९) । “सर्व विष्णुमयं जगत्" इत्यभिजनोक्तिरत्र प्रामाणम्, "तद्विष्णोः परमं पदम्' इति श्रुतिश्च । कयंभूतं विष्णुस्वरूपम् ? पापानोट- स्थिरमतिम्-पापानां-सर्वाघाना-अपनोदे-परिहरणे स्थिरा हढा मतिः-धीः यस्य तम् । पापपरिहारकमिति यावत् । कथम् ? “यानि कनि च पापानि जन्मान्तरकृतानि च | तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे । पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः । त्राहि मां कृपया देव शरणागतवत्सल । अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष जनार्दन" । इति सर्वैरास्तिकैः देवपूजाकाले प्रतिदिनं प्रार्थ्यते खलु । अथवा-पापानां पापमतीनां दुष्टानामिति यावत् । अपनोदने-संहारे स्थिरा- निश्चला, मतिः-सङ्कल्पः यस्य तम् । “परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे" इति भगवद्वचनात् । पुनः कथंभूतं विष्णुस्वरूपम् ? अमलम्, न विद्यते मलं पापं यस्मिन् तम् । "निर्मलस्फटिकाकृतिम्" इति वचनबलात् । “निरञ्जनम्" इति प्रथमोऽ श्रुतितश्च । पुनः कथंभूतम् ? अगदाचार्यवर्यर्षिरूपम् । न विद्यन्ते गदाः- रोगाः-पापानि वा येषु ते आचार्याः- अथवा न गदः- अगदः-रोगाभावः- आरोग्यमित्यर्थः तस्य आचार्याः-उपदेष्टारः । आचारे तिष्ठन्तीत्याचार्याः- तेषां वर्याः श्रेष्ठाः- "आचिनोति हि शास्त्राणि चाचारे स्थापयत्यपि । स्वयमाचरते यस्मात्तस्मादाचार्य उच्यते । उपनीय तु यश्शिष्यं वेदमध्याप- येद्विजः । सकल्पं सरहस्यं च तमाचार्य प्रचक्षते" । इत्यादिवचनात् ऋषयः- व्यासादयः तद्रूपत्वात्-'व्यासो नारायणस्स्मृतः-'इत्यादिना, अथवा विष्णोस्स- त्मिकत्वात् । अत्र 'किणु पदेन क्वन्तरिस्सूचितः । पापापनोदस्थिरमती- त्यादिना रोगनिवारका इति, अमलपदेन-आरोग्यदायिन इति, अगदाचार्य- वर्षीत्यादिना भात्रेय, भरद्वाज, काश्यपादयो महर्षयः, अग्निवेश, चरक, सुश्रुतादयः, आचार्याश्च एतन्नाटकपात्रान्तर्गतमः मवन्तीति सूचितम् । पुनरपि- कयंभूतं परेशम् ! शम्भु-महेश्वरात्मकम् । कथम् ! शंम् सुखं भावयतीति शम्+म'धातोः 'ड' प्रत्ययेन सिद्धोऽयं शब्दः । “वन्दे शंभुमुमापति सुरगुरुं वन्दे जगत्कारणम् ," इत्यादिना स्पष्टोऽर्थः । कथंभूतं शंभुम् ? संसाररोगप्रशमनसुखदम्-संसारे-जन्ममरणात्मके जीविनां व्यवहारे-ये रोगा:- शारीरकाः मानसिकाध यानि तन्जनितदुःखानि त्रिविधानि- आध्यात्मि- काधिभौतिकाधिदैविकरूपाणि तेषां प्रशमनकरम्-निवारणदम्, तद्वारा सुखद सुखप्रदम् आरोग्यस्थितौ हि सुखानुभवः- जगदिषनमित्यर्थः । “भिषजेमव- रोगिणा” मिति स्मरणात् 'मिषक्तमं त्वा भिषजां शृणोमि' इति बचश्रुतेः । शिवः शङ्करः इत्यादिपदेस्तस्य सुखस्वरूपममिव्यज्यते । यथा लोके-यः पंचवान् स धनमन्येभ्यो दातुं शक्तः । यः बलवान सः वाश्रितेभ्यो बलं दातुं स्वबलेन सहायं कर्तुं वा प्रभवति । तथा यः सुखरूपी स एव स्वमक्तभ्यः सुखं सम्प्रदातुं समर्थ इति तात्पर्यम् । पुनः कथंभूतं शंभुम् ! जीवसञ्जीविनी- ज्यम्-लोके जीवा:-प्राणिनः ये तेषां सञ्जीविन्यः- जीवनप्रदाः देवताः याः भवन्ति-सुरनरादयः- ताभिस्सर्वामिः ईड्यं-स्तुत्यम् अत एव महादेवः महेश्वरः इत्यमिहित सर्वेश्वरम् । तस्य सर्वेश्वरत्वम्-"ॐ नमो हिरण्यलाहवे श्रीवलक्षीमिनीनाटकम् । सेनान्ये दिशां च पतये नमः" इत्यादिभिः कृष्णयजुर्वेदोक्तमन्त्रैः सम्यक्प्रति- पादितम् । अत्रापि - संसाररोगप्रशमनसुखदम्, जीवसृञ्जीविनीड्यम्-इति विशेषणद्वयेन जीवदेवाख्यस्य नायकस्य संसारे प्राप्तानां अर्थः पाण्ड्वादि- महारोगाणां महौषधीसमष्टिरूपतञ्जीविनीनामकनायिकाद्वारा परिहारश्चेति नाटकोक्तकथावस्तु संसूचितम् । पुनः कथंभूतं परेशम् ? मायामोहान्धकार- प्रहरणकिरणम्-मायया-भगवच्छक्तिरूपप्रकृत्या आपादितो यो मोहः पत्नी. पुत्रादिव्यामोहः अथवा उपाधिषशादध्यारोपितकर्तृत्वभोक्तृत्वाद्यभिमानः स एवं अन्धकारः-अविद्याकृतमज्ञानं समस्तदुःखकारकम्-तस्य प्रहरणरूपा:- नाशकाः किरणाः-मयूखाः-तेजश्शक्तिरिति यावत् यस्य तम्-समस्तशोकमोह- विनाशकमिति यावत्। "तत्र को मोहः कश्शोकः एकत्वमनुपश्यतः" इत्यादि- काठकश्रुतिः, “मायां तु प्रकृतिं विद्धि मयिनं तु महेश्वरम् । मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते" इत्यादिगीतावचनम्, "वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्ण तमसस्तु पारे" । “विद्ययामृत- मश्नुते" | "तरति शोकलात्मवित्" इत्यादिश्रुतयश्चात्र प्रमाणानि । पुनः कथंभूतं परेशम् ? ज्ञानसूर्यम्-तानभास्करमित्यर्थः। ज्ञानरूपः-सूर्यः-चिज्योति- रित्यर्थः। यथा सूर्यः स्वतेजसा अन्धकारं निरस्यति तथा स्वयंप्रकाशः परमात्मा खतेनोमहिम्ना मोहान्धकाररूपमज्ञानं विनाशयतीत्यर्थः । अत्र 'ज्ञानसूर्य' शब्देन जीवसञ्जीजिविनीपुत्रस्य नामनिर्देशः सूचितः । अनेन ज्ञानोदये सति अज्ञाननिवृत्तिरिति तत्त्वं सूचितम् । तथा कथानायकपुत्रः ज्ञानसूर्यः स्वीय- ज्ञानबलेन जन्ममरणरूपसंसारात्मकाविधाकार्यमपोह्य परमात्मप्रसादादनुगृही- तस्वरूपसाक्षात्कारेण जीवन्मुक्तोऽभूदिति कथाशरीरसारोऽन्यत्र ध्वन्यते । अयं नान्दीश्लोकः स्रग्धरावृत्तनिबद्धः। तल्लक्षणम्-"म्रभ्नैर्यानां त्रयेण त्रिमुनियति- युता स्रग्धरा कीर्तितेयम्” इति । इयं नान्दीरूपमङ्गलदेवता भक्तैरभिनेतृ- भिरर्पिता ननं सुरभिकुसुममालां धरतीति सौगन्ध्यप्रसादाभिञ्जनेन अनुरूपं वृत्तमादृतं कविनेति छन्दतत्वाभिमानिनां विदुषामाशयोऽम्यूह्य प्रकाशितः। वृत्तप्रस्तारस्तु-(--,-.., -Ir,w,x-1-,---, ...) मगण-रगण- ।

६ प्रथमोऽङ्कः १. (नान्द्यन्ते सूत्रधारः-परितोऽवलोक्य) भगण-नगण-यगण-यगण-यगणा:-त्रिमुनिसंख्यया सप्तभिस्सप्तमिस्सप्तमिर्य- तिर्भवति। अत्र शब्दालङ्काराः-आयुष्करममृतकरमित्यत्र रेफस्य द्विः 'दक्षदस्ये- न्द्र' इति दकारस्य त्रिः श्रवणात्, स्थिरमतिरगदाचार्ययर्षिरूपमित्यत्र रेफस्य त्रिः 'W' कारस्य द्विः प्रयोगात्, संसाररोगप्रशमनसुखदमित्यत्र सहारस्य त्रिः, "मायामोहान्धकारप्रहरणकिरणं ज्ञानसूर्य परेश" मित्यत्र मकारस्य द्विः, रेफस्य पञ्चकृत्वः सान्तरसमानव्यञ्जनप्रयोगात् 'छेकानुप्रासः' । प्रथमपादे 'ममृ' इति द्वितीयपादे 'पापाप' इति तृतीयपादे 'संसा' इति निरन्तरसमान- व्यञ्जनप्रयोगाद्वृत्यनुप्राप्तः । अयमेव अक्षरानुप्रास इति केचित् । प्रथमपादे 'करं करं" चतुर्थे-“प्रहरण किरण' इत्यत्र च यमकं बोध्यम् । “आवृत्ति वर्णसंघातगोचरां यमकं विदुः" इति साहित्यदर्पणे काव्यादर्श च । तृतीयपादे- जीवजीविनीतिप्रयोगेण शब्दार्थयोरभेदात्-तात्पर्ये भेदात् अयं लाटानुप्रासो भवितुमर्हति । "शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः" इति मम्मटः । अयमेव पदानुप्रास इति केचित् । एषां लक्षणादीनि काव्यप्रकाशादिग्रन्था- वलोकनेनविदितानि भवन्ति । अत्र ये केचिदर्थालङ्काराः- ओजःप्रसादमा- धुर्यादिकाव्यगुणाश्च सन्ति ते सर्वे सुधीभिरुन्नेयाः । ग्रन्थकर्ता व्याख्याता च एक एवेति हेतोः स्वेनैव स्वकृतेः शंसनमनुचित लज्जास्पदं विनयप्रतिबन्धक वाहङ्कारद्योतकं च भवेदिति धिया श्रद्धोपेतेयं संक्षेपोक्तिः भाविकथोक्तेः साधिका प्रसादिका च भूयात् ॥१॥ १. 'नांद्यन्ते सूत्रधारः' इति-अत्र नान्दीपाठकः सूत्रधारः एकः- तदनन्तरं प्रस्तावनार्थ प्रवेष्टा सूत्रधारः अन्यः-इति नाटके द्वौ सूत्रधारौ अङ्गी- क्रियेते कैश्चित् । एक एव सूत्रधारः नान्दीरूपं मङ्गलश्लोकं पठित्वा तदनन्तरं नान्द्यन्ते रङ्गस्थलं प्रवेष्टुमलं भवतीति केषाञ्चिदमिप्रायः । “यत्राष्टभिर्द्वादश- भिरष्टादशमिरेव वा । द्वाविंशत्या पदेोऽपि सा नान्दी परिकीर्तिता।” इति वचनबलात् नान्दीलक्षणं पदसंख्यया व्यवस्थापयान्ति केचित् । तत्रापि ।

जीवसनाविनीनाटकम् . । - ४.४.२. समागता एव सहृदयहृदयास्सर्वेः सामाजिकाः । ... ३. (ततः प्रविशति नटी) सूत्रधारः-४. अयि ! प्रिये! ममानुपदमेव त्वयाऽऽगन्तव्य- प्रकृतिप्रत्ययोपेतं व्यस्तपदं वा समस्तपदं वा श्लोकस्य पादं वा यथाभिलषित पदमामन्यन्ते । तथैव प्रयोगं कुर्वन्ति केचन कवयः। अत्र तु न पदव्यवस्था- हता । किन्तु "नन्दन्ति देवता अत्र" इत्यर्थे 'नन्द' धातोः 'घ' प्रत्ययः। मित्वादादिवृद्धिः । नान्दीलक्षणम्-"देवद्विजनृपादीनामाशीर्वचनपूर्विका । नन्दन्ति देवता यस्यां सा नान्दी परिकीर्तिता" इत्याद्यर्थबोधकमङ्गलरूपा नान्दी समाहतेत्यवगन्तव्यम् । सूत्रधारः- “नाट्यस्य यदनुष्ठानं तत्सूत्रं स्यात्सबीजकम् । रङ्गदैवतपूजाकृत्सूत्रधार इति स्मृतः” । इत्यादिलक्षणोपेतः । परितोऽवलोकन सामाजिकसंख्या पर्याप्ता भवति वा रसिकाः रसास्वादनचतुरास्समादरात्सन्निहिता वा इत्यवगन्तुम् । रसिकानां सान्निध्ये सति हि अभिनेतृणामुत्साहः स्वीयकार्यनिर्वाहाय । २. सहृदयहृदयाः-हृदयं-सारः-प्रियमिति यावत्-तेन सह वर्तन्त इति सहृदयानि-सप्रियाणि-प्रीतियुतानि-हृदयानि येषां ते-सहृदयहृदयाः-सारज्ञाः- दयालवः-प्रीतियुता इति तात्पर्यम् । सामाजिका:-समाजःसमावेशनमेव प्रयो- ननं येषां ते सामाजिकाः समाजे समवेताः साधव इत्यर्थः । अभिनयदर्शन कुतूहलिनो जनाः। विशेषेण नाटकाभिनयदर्शने रसिकाः विद्वज्जना इत्यर्थः । ३. नटस्य स्त्री-नटी। अत्र नटशब्दः नटप्रधानस्य सूत्रधारस्य बोधकः । तस्य पत्न्याः प्रवेशः पूर्वरङ्गप्रस्तावनार्थम् । “यन्नाट्यवस्तुनः पूर्व रङ्गविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गस्स उच्यते” इति पूर्व- रङ्गलक्षणम् । 'पूर्वरङ्गं विधायादौ सूत्रधरो निवर्तते' इति “पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः" इति च आलङ्कारिकाः । ४. यत्र स्नेहविशेषः सत्र 'अयि' इति सम्बोधनम् । कोमलामन्त्रणे- प्रयुक्तपदम् । 'प्रिये' इति भा-'प्रिय' इति भार्ययाऽसकृत्प्रयोगः सर्वत्र प्रथमोऽङ्क: मित्युक्त्वा अहं मन्दमन्दपदविन्यासेनानाऽऽगतः। सवाममनविलम्बे किं कारणम् ? नी-५. प्रिय प्राणकान्त ! अहमपि तवानुपदमेवाजिग- मिषुरासम् । कृषीवलैः परं यवादीनि नवधान्यानि असद्गहमानी- तानि । तानि तानि तत्तद्भाण्डेषु निर्वाधं निक्षिप्य कालविलम्बमयाद् द्रुतं द्रुतमागता । क्षम्यताम् । सूत्रधार:-६. प्रिये ! त्वं गृहिणी खलु । त्वया गृहकृत्यं साधु साधितम् । नितरां तुष्टोऽस्मि । पश्येमा सभां । अत्र समाविष्टा: शिष्टाः स्त्रीपुरुषाः अतीव पुष्टाः तुष्टाः भवन्ति । प्रसिद्धः । 'आयें' 'आर्यपुत्र' इति सम्बोधनं तु नायिकानायकाद्युत्तमपात्र- विषयकम् । अत्र नट्याः आगमनविलम्बस्व कारणविज्ञानाय सूत्रधारेण प्रश्नः । ५. नवानि - नूतनानि धान्यानि-नवधान्यानीति नवसंख्याकानि- धान्यानीति च अर्थोऽप्यत्रोपपद्यते । तेषां पुरो निर्दिश्यमाने आग्रहायणिके (मार्गशीर्षमासे) खलु नूतनधान्यानामुत्पत्तिरायश्च । नवसंख्याकानि धान्यानि तु-गोधूम - तण्डला-(यवावा) ढक-मुद्ग-चणक-बर्बर-तिल-माष-कुलत्याख्या- नि । एतान्येव आदित्यादि नवग्रहप्रीतिकराणीति सर्वे जानन्ति । अथवा-तत्तद्रह- प्रभावद्वारा तानि तानि धान्यानि प्रादुर्भवन्तीति भावः । तेषां प्रभावोपनयस्तु वृष्टिद्वारा । वृष्टिः ग्रहसञ्चारवशात् भवतीति एतत्कविना स्वीयसनातनवनस्पति- विज्ञानाख्ये सङ्ग्रहग्रंथे सम्यक् प्रदर्शितम् । निर्वाधम्-क्रियाविशेषणम् । मूषक- चोरादिभिः यथा बांधा न भवति तथा । ६. "गृहिणी गृहमुच्यते” इति लोकोक्या गृहस्य पत्नी गृहकृत्य- समर्षा भवतीत्यभिप्रायः । स्वगृहिण्या निवर्तितेन धान्यरक्षणरूपेण कर्मणा सूत्रधारस्थ तुष्टिः | आग्रहायणिके मासि सम्पन्नानां समासादितानां नूतन- धान्यानां चाहारवशात् सामानिकानां देहे पुष्टिः । यावत्संवत्सरमुपभोगाय- पर्याप्तानां पदार्थानां समागमेन तेषां मनसि तुष्टिरिति भावः ।

जीवसीविनीनाटकम् । MONDRISOD नटी-७. तेषां पुष्टितुष्टयोः किं कारणम् ? सूत्रधार:-८. काल एव। नटी--- ९. कथम् सूत्रधारः-१०, अयं हि कालः हेमन्तर्तुसंज्ञकः । ऋतुस्तु द्विमासात्मकः । तत्र प्रथमो मासः आग्रहायणिकनामा । नटी-११. आग्रहायणिको नाम ? सूत्रधारः-१२. हायनस्य अग्रे भवो हि आग्रहायणिकः । अत एव तस्य मार्गशीर्षः इति नामान्तरम् । नटी-१३. ज्ञातम् । उत्तमाङ्गमिव शरीरस्य संवत्सरस्सायं प्रधानो मासः । अतोऽस्य ऋतोःप्रभाव। ७. सामाजिकानां पुष्टितुष्टयोः कारणं पृच्छति । ८. "स्मृतं कालविशेषणम्" इति श्रुत्या काल एव हि ऋतुप्रवर्तकः। ९. कालतत्वावगमाय 'कथ' मिति प्रश्नः। १०. "द्वौ द्वौ माखादिमासौ स्याहतुः" इत्यमरः । तथाऽयं मार्गशीर्षपुष्यमासद्वयात्मको हेमन्तर्तुः। तयोर्मार्गशीर्षमासस्य 'आग्रहायणिक' इति प्रसिद्धिः। ११. आग्रहायणिकशब्दनिर्वचनं ब्रूहीत्याकूतम्-प्रश्नार्थद्योतक 'किम्' शब्दाप्रयोगेऽपि “नामे" त्यव्ययसमभिव्याहारेण प्रश्नः द्योत्यते १२. हायनस्य-संवत्सरस्य अग्रं प्रथमम् अग्रहायणः। रेफस्य योगात् नकारस्य णकारः। अग्रहायणमेव-आग्रहायणमिति निर्वचनम् । तद्रूपो मासः- आग्रहायणिकः। अथवा-अग्रे हायनम् अस्या इति आग्रहायणी, आग्रहायणी (पौर्णमासी) अस्मिन्नस्तीति आग्रहायणिको मासः । मार्गस्य-श्रौतकर्माचरणस्य शीर्ष प्राधानं प्रथम मिति यावत् । मार्गः-सूर्यस्य गति. पन्थाः, तस्य शीर्षम् आरम्भकः । “मासानां मार्गशीर्षोऽस्मि" इति गीतावचनादस्य प्राधान्यम् । १३. सूत्रधारस्याभिप्रायं नटी विवृणोति-अङ्गेषु उत्तमम्-उत्तमाङ्गम् । उत्तमं च तत् अङ्गं चेति वा । “सर्वस्य गात्रस्य शिरः प्रधानम्" इत्यादिना प्रथमोऽङ्कः सूत्रधारः-१४. यदि जानासि तत्प्रभावं तद्धेमन्तमधिकृत्य गीयता यत्किञ्चिद्गीतं रसिकजनचित्ताह्लादनाय । नटी-१५. तथा (इति गायति) "भज रे मानव हेमन्तम् । भज भज रे मानव हेमन्तम् । हेमन्तं बहुधीमन्तं भवभीमन्तं सुखसीमान्तम् । मासाचं नवघासाद्यं पशुहासाद्यं रविभासाघम् । धान्यादि हितकन्यादि हुतवन्यादि हृतजन्यादिम् । खेलाप्तं वनमालाप्तं सुखलीलाप्त जनशीलाप्तम् ॥२॥" यथा शरीरस्य शीर्ष प्रधान तथा संवत्सरशरीरात्मकसूर्यस्य मार्गशीर्षः । १४. हेमन्तप्रभावोद्भासि संगीतं त्वयाऽभ्यस्तं यदीत्यर्थः । १५. भज रे मानवेति ध्रुवपदस्थानीयं पल्लविनामकं वाक्यं न तु पद्यम् । हेमन्तं बहुधीमन्तमिति तु पद्यम् । तच्च गीतरूपेण गातुं साध्यम् । बहुप्रभावयुक्तं हेमन्तर्तुं मज-सेवख इति तस्य समुदायार्थः । भन-सेवाया- मिति धात्वर्थबोधकत्वात् । मानवेति सम्बोधनं स्त्रीपुरुषसाधारणम् । हेमन्त- शब्दोऽत्र प्रकृतार्थप्रयोजकः । हिमप्रधानो यः सः हेमन्तः । हिमप्रादुर्भा- वर्तुमित्यर्थः । "तुलायां जायते शीतं वृश्चिके तु विवर्धते । धनुष्के धनुराकारं मकरे मकरोपमम् । कुम्भे शीतमशीतं वा मीने शीतनिवारणम्" इति काल- विदां समाख्यानम् । हेमन्तमिति-हेमन्तं-हेमन्तर्तुम् । कथंभूतम् ? बहुधीमन्तम्- बहुविधा धीः अस्मिन् अस्तीति बहुधीमान्-तम् । मार्गशीर्ष हि प्राणिनां धीस्थानम् । हेमन्त:मार्गशीर्षपुरस्क:-अतस्तस्य धीमानिति संज्ञा युक्ता । मार्गशीर्षपुष्यमासयोः कृषीवलाः धान्यसंस्कारसङ्ग्रहादिकार्येषु स्वस्वबुद्धिं विनियुञ्जते, वणिजः वाणिज्यकार्ये निसर्गेण स्वस्वबुद्धिं प्रसारयन्ति । राजानः समरसंरम्भे वा देशाभिवृद्धिसमीक्षणकार्ये वा बुद्धियुक्ता भवन्ति कर्मठाः ब्राह्मणाः आग्रहायणेष्वादिलोकोपकारककर्मसु स्वस्वबुद्धि प्रेरयन्ति । नियतकार्यविश्रान्तिलामात् सर्वे जनाः तत्र तत्र मिलन्ति ।

जीवसजीविनीनाटकम् विविधविषयेषु चर्चा कुर्वन्ति । एतत्सर्वं बुद्धिसाध्यम् । तत्कालोचितकार्यस्य तात्कालिकबुद्धिरपेक्षणीयेति हेमन्ते बहुबुद्ध्यारोपः । भवभीमं तम् इति पद- च्छेदः । शीतवातास्पदत्वात् संसारे केवलसुखापेक्षिणां किञ्चिद्भयदायकम् । अथवा भवस्य-संसारदुःखस्य पापस्य वा भीमं निवारकम् । हेमन्ते किल धनधान्यादिसमृद्ध्या संसारदुःखं प्रशाम्यति । यज्ञयागादिकर्मव्याश्त्या पापं च नश्यतीत्यर्यः । सुखस्य सीमा-परा काष्ठा । तया अन्तं मनोहरम् । जनानामतिसुखदायकमिति यावत् । मासाद्यम्-आग्रहायणिकत्वात् । घासा- धम्-प्रभूतबालतृणसस्यतृणादीनां समृद्धिमत्वात् । अत एव पशूनांगवादीनां हासस्य तोषस्य आद्यं मूलभूतम् । रविभासाद्यं रवेः शिशिरवसन्तग्रीष्मकाल:- आदानकालः भूमिस्थद्रवमादातुं शोषयितुं योग्यः कालः-तम् । तथा वर्ष- शरद्धेमन्ततुकालः विसर्गकालः - वृष्टिविसर्जनकालः इति ऋतुतत्वमालोच्य रविमरीचिप्रसारणं हेमन्ते अत्यल्पमिति-अत एव तत्प्रसारणायायमारम्भ- काल इति सूचितम् । धान्यादि-धान्यायं व्याख्यातम् । हिताः कन्यादयः यस्मै सः हितकन्यादिः-तम् । अत्र 'कन्या' शब्दः प्रासार्थमाहत इति भाव्यते । वध्वादय इत्यर्थः। "हसन्ती च हसन्ती च हसन्तीं वामलोचनाम् । हेमन्ते ये न सेवन्ते ते नराः पुरुषाधमाः" इत्युक्त्यर्थोऽनुसन्धेयोऽत्र । हुतवन्यादिम् "उद्भिदा यजेत" इत्यादिश्रुतिमवलम्ब्य-हुताः- वनेभवाः-वन्याः ओषधयः यस्मिन् सः यज्ञार्थ पालाशाद्योषधिपदार्थाः ओषध्या सम्पन्नचरुपुरोडाशादयः हेमन्ते अग्नौ हूयन्त इति भावः । तदाहुः-“य आहिताग्निराग्रहायणेना- ऽनिष्ट्वा नवान्नं प्राश्नीयात् तत्र प्रायश्चित्तिरिति । सोऽनये वैश्वानराय द्वादशकपालं पुरोडाशं निर्वपेत् । गृहेषु नवधान्ये समागते सत्याग्रहायणेष्टिं कृत्वा पश्चादोक्तव्य"मिति वचनात् । श्रिताः-आश्रिताः जन्यादयः युद्धा- दयः यस्मिन तम् । समरयोग्यकालमित्ययः। खेलानां समस्तक्रीडानां आप्तम्- अनुकूलं हेमन्ते विद्यार्थिनां राजकार्ये नियुक्तानाम्-अन्येषां कारणान्तरेण विश्रान्तिर्दीयते । वनानां माला-वनमाला तस्याः। आप्तं तद्युक्तमिति यावत् । सुखकरा:-लीला:-विहाराः तासाम् आप्तम्-आश्रयभूतम् । जनानां शीलानि- १२ प्रथमोऽङ्कः सूत्रधार:-१६. अयि प्रिये ! तव गीतं श्रुतिनीतं पीतं पीयूषवत्सभास्तारैः । परमेते न रमन्ते वरमभिनयवस्तुदर्शनं हित्वा ॥३॥ तसात् श्री वेङ्कटरमणार्येण नूतनतया विरचितम् आयुर्वेदवस्तु- विराजितं "जीवसञ्जीविनी"नामनाटकम् अभिनीय सामाजिकानां मनोरञ्जनमञ्जसा सम्पादयावः । (नेपथ्ये) विजयतां विजयतां परेशो जगदीशः। विजयतां विजयतां महामाया जगजननी ॥ वृत्तानि-तेषाम्-आप्तम्-अभ्युदयकरम् । अस्मिन् काले जनाः प्रायेण साधुशीला भवन्तीति तात्पर्यम् । अत्र नाटकस्य प्रयोननं त्रिवर्गरूपं फलं सूचितम् । इं छन्दोबद्धं पद्यमपि. ध्रुवपदसङ्गत्या गीतवद्गीयते । इदं पद्यं धृत्यां (छन्दसि) अष्टादशाक्षरच्छन्दोनातेषु-२६२१४४ वृत्तेषु २५३६९ तम "चतुरुत्प्लव" वृत्तबद्धमिति ज्ञायते । तल्लक्षणम्-"म्सौ त्यौ भ्मौ गुणबाणाभ्यामथ बाणाभ्यां चतुरुत्प्लवः" इति । विशेषविज्ञानार्थ अनेन कविना विरचिते "सर्वसमवृत्त- प्रभावा"ख्ये ग्रंथे चतुर्थोऽनुबन्धः द्रष्टव्यः । एवमेव पुरः प्रयुज्यमानानाम् अप्रसिद्धवृत्तानां विषयेष्वपि ॥२॥ तवेति-गीतं नीतं पीतमिति छेकानुप्रासः । गीतस्य पानयोग्यत्वं कपमित्याशंक्य-श्रुतिनीतमित्युक्तम् । श्रुत्या-श्रवणेन पानं तु-श्रवणमेव-समाद- रेण श्रुतमिति तात्पर्यम् । कथं पीतम् ? पीयूषवत्-अमृतवत्-अमृतपानमिवा- ऽऽनन्दननकमित्यर्थः । कैः ? सभास्तारैः- सामाजिकैः । परं किंतु वरं श्रेष्ठम् अभिनयवस्तु - अभिनययोग्य वस्तु अभिनेयवस्त्वित्ययः। वस्तुदर्शनं वस्तु- बोधकनाट्यदर्शनं वस्तु-कथाशरीरम् । हित्वा-ताशनाटकदर्शनं विना एते न रमन्ते-सामानिकाः तुष्टिं न प्राप्नुवन्ति । तस्मादयं प्रदर्शनीय इति भावः । ।

जीवसञ्जीविनीनाटकम् सूत्रधारः-१७. (आकर्य) अयि प्रिये ! किं श्रुतम् । परेशः महामायया सह रङ्गस्थलमिदानीमेवायातीति । तदावामपि यथो. चितपात्रनिर्वहणाय सत्वरं सजीभवावः । नटी-१८. तथैव । (इति उभौ निष्क्रान्तौ) ॥ इति प्रस्तावना ॥ इदं वृत्तं गीतिनिबद्धम्-तलक्षणम्-"आर्या प्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयतिशोमां तां गीति गीतवान् मुजङ्गेशः। इति ॥३॥ १७-१८. परेशवेषः कश्चिन्नटः- महामायावेषधारिणी काचिन्नटी अभिनयाथ रङ्गस्थलं प्रविशतः । तस्मात्तयोर्नटीसूत्रधारयोरावश्यकपात्र- स्वीकाराय निष्क्रमणमुचितमिति सूचयति सूत्रधारः ।

॥ द्वितीयदृश्यम् ॥ ब्रह्मलोके परशप्रासाद:- (ततः प्रविशति सह महामायया ससखिपरिवार परेशः) (मञ्जुलाङ्गी मजुभाषिणीति द्वे बालिके स्वागतमाशंसतः) उभे-१. खागतं देव ते खागतं देवि ते स्वागतं वां प्रियं स्वागतं प्रार्थ्यते । जन्मिनां पुण्यतो दर्शनं वां भवेत्कर्मिणां धन्यता खागतेनैव वाम् ॥४॥ परेशा-२. भोः सखे सत्यप्रिय ! अस्ति किं किञ्चिदा- वेदनीयम् । द्वितीयदृश्यव्याख्या। १. उभे एवं स्तुवीतः सुष्ठु-सुखेन आगतम्-आगमनम्-स्वागतम् । स्वागतमिति-हे देव ते स्वागतम्-भोःपरेश तुभ्यं सुखागमनं भवतु । हे देवि ते स्वागतम्-भो महामाये तुभ्यं सुखागमनमस्तु । वां युवाभ्यां प्रियं स्वागतम्-सुखागमनं प्रियकर भवतु। स्वागतं प्रार्थ्यते-सुखागमनमेवाशास्यतेऽस्माभिः । जन्मिनां पुण्यतः-प्राणिनां स्वकृतसुकृतविशेषेण वां दर्शनं भवेत् - युवयोस्सन्दर्शनं जायेत कर्मिणां धन्यता-लोकव्यवहारपराणां पुरुषार्थः वां स्वागतेनैव - युवयोस्सुखागमनेनैव भवति । इदं स्रग्विणीवृत्तनिवद्धम् । तल्लक्षणम् । “रैश्चतुर्मियुता स्रग्विणी सम्मता"-इति ॥४॥ २. सत्ये प्रियं यस्य अथवा सत्यमेव प्रियं यस्य स सत्यप्रियः- परेशस्य सखा । अस्ति किञ्चिदावेदनीयमिति मुखसन्धौ बीनोपन्यासस्य सूचना।

जीवसञ्जीविनीनाटकम् सत्यप्रिय:-३. भो परेश ! न तावदविदितं किञ्चित्तव सर्वज्ञमूर्तेः। परेश:-४. तथापि त्वयाऽऽवेदितमेवाङ्गीकारमर्हति । अन्यथा उदासीनोऽहं खलु ? सअप्रियः-तर्हि श्रूयताम्- सूर्योऽयं तव नेत्रभूतयशसा लोकेष्वहो भासते मायेयं तव शक्तिरस्य महिषी संज्ञाभिधानापरा । तेजोऽशो युवयोविलासयुतयोजीवाभिधानस्तयोः संजातो धरणीतले विजयते सूर्यान्वये क्षत्रियः ॥५॥ ३. यतः परेशः सर्वज्ञः, परमात्मनः सगुणरूपत्वात्-तत्तस्य सर्व विदितं भवतीत्यभिप्रायः। “यस्सर्वज्ञः स सर्वविदि"ति श्रुत्यर्थोऽपि संसूचितः । ४. परेशः स्वतः उदासीनः प्रकृतिसन्निधानवशात् कर्तव मन्यते- तस्य सर्वशक्तिमत्वात् । तदा सर्वेषां निग्रहानुग्रहं च करोतीति भावः । वक्तव्यं कथयति- सूर्योऽयमिति-अयं सूर्यः-प्रत्यक्षतो दृश्यमानः तेजोराशिः सूर्यः तव-परे- शस्य नेत्रभूतः-"चक्षोस्सूर्यो अजायत" इति श्रुत्या चक्षुस्थानीयः इति यद्यशः महिमा तेन-तन्महिम्नैव तस्य भासकत्वम्-“न तत्र सूर्यो भाति........तस्य भासा सर्वमिदं विभाति" इति श्रुतिरेवात्र प्रमाणम् । लोकेषु-जगत्सु भासते- सर्वप्रकाशको भवति । तव नेत्रभूतसूर्यस्यैव एवं महिमा, तव महिमा तु अनि- र्वाच्यः इत्याशयं सूचयति 'अहो' इति निपात :। माया प्रकृतिः-अव्यक्तम्- पराशक्तिः- विद्याशक्तिरित्यादि नामभिर्विदिता शक्तिः । परमात्मनोऽभिन्नेति केचित् । एकैव शक्तिः- इच्छाशक्ति-ज्ञानशक्ति क्रियाशक्तिरूपेण चैतन्य- सान्निध्यबलात् जगद्व्यापार निवर्तयतीत्यन्ये । सैव सरस्वतीरूपा देवतेति परे । लक्ष्मीरित्यपरे । महेश्वरीत्यवरे । इयमिति महामायां प्रति अङ्गुल्या निर्देशः। यदा परेशलीलाविभूतिरेव सूर्यरूपेणाविर्भूता तदा तन्निष्ठमायारूपतेनःशक्तिख ।

प्रथमोऽङ्क: महामाया-५. भो महेश । सूर्यस्य त्वं पिता अहं मातेति सूचितं ननु । तव माता का ? परेशः-६. त्वम् । तव पिता का ? संज्ञेत्यभिधानेनाविर्भूता । अविनाभावसम्बन्धात् पतिपत्नीभावः। स च परेशम- हामायाविलासार्थमेव । अत एव "लोकवत्तु लीलाकैवल्य"मिति ब्रह्मसूत्रेषु निर्देशः। एवं विलासयुतयोः युवयोः तेजोंशः-तेजोभागः जीवाभिधानः जीवदेव इति । “सईशांचक्रे बहु स्यां प्रजायेय" इत्यादिश्रुतिवचनबलात् मायोपाधिक- चैतन्यमेव-अविद्योपाधिकं चेत् जीवसंज्ञा लपते । मायैव-अविद्या अविद्यैव माया इत्यङ्गीकारेऽपि, मायोपाधिकः स्वतन्त्रः वशीकृतमायः ईश्वरः, अविद्यो- पाधिकस्तु अस्वतन्त्रः मायावशः जीवः इत्येतावानेव भेदोप्यङ्गीक्रियते । तयो- संज्ञासूर्ययोस्सकाशादंशरूपेण धरणीतले-भूम्याम्-(धरणीतलविवरणम् उत्तरत्र प्रतिपाद्यते) सूर्यान्वये-सूर्यवंशे इति यावत् । क्षत्रियस्नातः-क्षत्रियरूपेण जातः। यद्यपि जीवस्य क्षत्रियादिवर्णभेदो न सम्पद्यते तथापि व्यवहारार्थ जीवाधिष्ठित- शरीराणां वर्णव्यवस्थामनुसृत्य क्षत्रिय इत्युक्तम् । क्षत्रियराजानां कुले जात इति तात्पर्यम् । अनेन “सूर्य आत्मा जगतस्तस्थुषश्च" इत्यादिश्रुत्या सर्वभूतानां चैतन्यशक्तिस्सूर्यद्वारा प्रसरतीति सूचितमिति स्फुटात्र वीजव्यक्तिः अर्थ- प्रकृतिरूपा-कथाशरीरकारणं वा भवति । अत्र महाकुलीनत्वं नाम उदात्त- नायकगुणवर्णनं स्पष्टम् । तल्लक्षणम्-"महाकुलीनता नाम कुले महति संभवः" इति । इदं पद्यं शार्दूलविक्रीडिनवृत्तनिवद्धम् । तल्लक्षणम्-'सूर्याश्वैर्म- सजास्ततास्सगुरवः शार्दूलविक्रीडितम्" इति । ५. परेशस्य चैतन्यांशः सूर्ये प्रसरतीति परेशः सूर्यस्य पिता-सूर्यो- ऽपि पाञ्चभौतिकसारः । पञ्चमहाभूतानि प्रकृतिजन्यानि । अहं प्रकृति- रूपिणी । अतस्सूर्यस्याहं माता । इदं युज्यते परन्तु तव माता का ? इति परिहासोक्तिः हास्यरसस्य स्थायित्वसम्पादिका । ६. 'त्वम्' इति परिहासोऽपि हास्यरसस्य स्थायी भवति । तव पिता क इति प्रतिप्रश्नः विनोदार्थम् । ?

जीवसञ्जीविनीनाटकम् . महामाया-७. त्वम् । परेशः-८. कथम महामाया-९. त्वदुक्तं कथम् । परेशः-१०. अजोऽप्यहं मायाभूतत्वदुपाधिनैव परेशो जातः। निर्गुणोऽपि त्रिगुणात्मिकायास्तव संसर्गादहं सगुण:- नीरूपोऽपि सरूपः । अतस्त्वं मे माता। महामाया-११. त्वमपि शृणु । यदा त्वं सद्रूपमेकमपि "बहु स्याम्" इति सङ्कल्पितवान् तदेव तवेच्छाशक्तिरूपेण, यदा त्वं तपोऽतप्यस्तदा ज्ञानशक्तिरूपेण, यदा त्वं तदिदमसृजः तदा क्रियाशक्तिरूपेण मम सृष्टिरभूत् । अतः त्वं मम पिता। . rataliehtam त्वमित्युत्तर पूर्ववत् हास्यरसपोषकम् । ८. कथमिति तत्वनिर्धारणाय प्रश्नः । ९. त्वदुक्तं कथमिति प्रथमं परेशमुखात्तत्वावगमाय प्रतिप्रश्नः । १०. त्वं माया-त्वदुपाधिनाऽहं रूपवान् गुणवानिव जातः, अत- स्त्वं मातति ईश्वरस्य सगुणस्वरूपतत्वं बोधयति । ११. सृष्टेः पूर्व त्वं सदेवासीः । तदा मम जन्मैव नाऽऽसीत् । तव सङ्कल्पाज्जगदजायत । अहं तव मूलप्रकृतिरूपेण जगदुपादानार्थमुद्भूता । यदा जगन्नास्ति तदाऽहमपि नाऽस्मि । तदा त्वमेक एव । त्वत्सङ्कल्पाज्जा- तत्वात् मम त्वं पिता । इति तत्वबोधः । अत्र मूलप्रकृतिरित्युक्ता या सैव मूलावियेत्युच्यते । तस्याः ब्रह्मज्ञानेनैव बाधः न त्वन्यथा । व्यवहारदशायां सा अस्त्येव तदात्मिका एव जाग्रत्स्वप्नसुषुप्त्यवस्था:- तदभिमानिविश्वतैजसप्राज्ञभेदावस्थाश्च सुषुप्तिरपि अविद्यात्मिका । तदभिमानिप्राज्ञोपि अविद्यात्मकः । अत 3 प्रथमोऽङ्कः परेशः-१२. अस्तु तावदयं परिहासप्रसङ्गः । जीवदेवस्य विचारमवबुध्यावहै । भोः सत्यप्रिय ! कथय कथितव्यम् । सत्यप्रियः-१३. सोऽयं जीवदेवोऽद्य प्रथमाश्रमे स्थितः सर्वज्ञगुरोरन्ते अन्तेवासी भवति । तस्य प्रतिभा अन्यादृशीति श्रूयते । महामाया-१४. भो आर्य ! भूम्यां जीवदेवस्य जन्म कथ- मिति श्रोतुमिच्छामि। परेशः-१५. अहमपि शुश्रूषुः । सविस्तरं कथय । सत्यप्रियः-१६ श्रूयतां सावधानम् । अस्ति खल्वार्यावर्ते मार्ताण्डदेशे तेजोवती नाम नगरम् । एव न किंचिदवदिषमितित्यज्ञत्वप्रकटनम् । अत एव प्रकृष्टः अज्ञः प्राज्ञ इति व्युत्पत्तिः। एतद्दशायां कथं केन मूलाविद्या निरस्ता भवेत् । भवेन्नाम तथा असंप्रज्ञातसमाधौ ब्रह्मज्ञानदायेन । अतः तादृश्येव सुषुत्पिरिति प्रत्ययः न प्रमाजनित इति वेदान्तरहस्यमत्रानुसन्धेयम् । १२. जीवदेवस्य वृत्तान्तकथनाय सत्यप्रियं चोदयति । १३. प्रथमाश्रम:- ब्रह्मचर्याश्रम:- तस्मिन्-ज्ञानविज्ञानावगमक्षमे इति यावत् । ज्ञानं ब्रह्मज्ञानम्, विज्ञानं भौतिकादितत्वज्ञानं शिल्पादिकला- विज्ञानं वा । उभयमपि जीवदेवः सर्वज्ञगुरोस्समीपे ब्रह्मचर्यवृत्याऽधिगच्छति । तस्य प्रतिभाशक्तिरसदृशीति जनाः वदन्ति । प्रतिभा-नवनवोन्मेषिणी शेमुषी। तस्य प्रतिभा अन्यादृशीति श्रूयते इत्यनेन आरम्भरूपावस्था द्योतिता । तल्ल- क्षणम्-'औत्सुक्यमात्रमारम्भः फललाभाय भूयसे' इति । बीजं पूर्वमेव दर्शितम् । अतः आरम्भबीजसम्बन्धो मुखमन्धिरत्र प्रस्फुटः । १४. संज्ञासूर्ययोरंशः कथं जीवरूपेण जातः ? कथय । १५. देशकुलाद्यभिधानपूर्वकं विशदं कथय । अहमपि श्रोतुमिच्छामि। १६. आर्यावर्तपदेन समग्रो मरतखण्डो ग्राह्यः । नतु "आर्यावर्तः जीवसनीविनीनाटकम् महामाया-१७. ततः। सत्यप्रियः-१८. तामधिवसति सूर्यवंशप्रदीपः प्रद्योतनामा राजा येनेयं वसुमती राजन्नती कृता । तस्य धर्मपत्नी प्रभावती सूर्यप्रमेव राज्यलक्ष्मीरिव महिषीपदमलङ्करोति । कदाचित्तौ दम्पती अपत्यार्थ संज्ञासमेतं सूर्यदेवं तपसा तुष्टुवतुः । स भगवान् तयोः प्रसन्नः स्वतेजोंश एव तदपत्यं भवतीति अनुजग्राह । ततो युक्तसमये जीवदेवो जातः संवर्धितश्च । स पञ्चमे वर्षे कृतोपनयनः वेदशास्त्रा- ण्यभ्यस्यन्नास्ते । परेश:-१९. अयि महामाये ! किं जानासि मम प्रभाव जीवदेवे? पुण्यभूमिर्मध्यं विध्यहिमागयोः" इति प्राचीनेनिर्दिष्टः विन्ध्यस्योत्तरभूमाग एव । अतः- “प्राक्प्रत्यक्सागरान्तस्थो हिमसेतुकृतान्तरः । आर्यावर्त इति ज्ञेयः कालतो देशतो महान्' इत्यार्यावर्तस्य निर्देशोऽत्र क्रियते । मार्ताण्डदेश इति कल्पितनाम । तथान्यानि सूर्यस्योत्कर्षप्रदर्शनार्थ तदर्थपराणि नामान्यत्र कल्पितानि । अथवा भवतु नाम पूर्वस्यां दिशि वर्तमानस्य देशविशे- षस्य नाम । तत्र उष्णाधिक्यवशात् तस्य नाम “मार्ताण्ड" इति पर्यायेणोक्तम् । १७. 'तत' इति कथाश्रवणे कुतूहलं व्यज्यते । १८. "अधिशीङ्स्थासां कर्म" इत्यनेन तामिति सप्तम्यर्थे द्वितीया । यस्यां वसुमत्यां राजा सम्यक् प्रजाः परिपालयति सा राजन्वती । सूर्यस्य सूर्यप्रभेव, राज्ञः राजलक्ष्मीरिव तस्यानुवर्तिनी बभूवेति तात्पर्यम् । महिषीपदं राज्ञीपदम् । युक्तसमये गर्भोदयादशमे माप्ति । संवर्धितः- मातापितृभ्यां पोषितः । प्रभावशालिनां ब्राह्मणकुमाराणां यथा, तथा ताहशानां क्षत्रियकुमाराणामपि पञ्चमे वर्षे उपनयनं विहितमेव । १९. मम अनुग्रहादेव जीवदेवे विद्यासम्पत्तिरित्यभिप्रायः । इदम् उपक्षेपो नाम मुखसन्धेरङ्गम्-'बीजन्यास उपक्षेपः' इति वचनात् ।

२० प्रथमोऽङ्कः ? महामाया-२०. स्वामिन् ! जानामि । तस्मिन् मम प्रभाव- मपि द्रक्ष्यसि । परेशः-२१. तव प्रभावमपि । (स्वगतम्) कोऽयं भवेदस्या प्रभावः जीवदेवे ? (किञ्चिद्ध्यात्वा) (प्रकाशम्) ज्ञातम् । त्वमेत महारोगैः पीडयितुमिच्छसि । महामाया-२२. तथा । परेशा-२३. तथाऽपि तसिन् सकरुणा भव । महामाया-२४. तथा भवामि तदा, यदाऽहं तव सुता भवामि । परेशः-२५. तर्हि मदंशभूतस्सोमः त्वदशभूतायाम् ओषधी- देव्यां त्वदिच्छां सम्पादयत्वित्यनुग्रहं करोमि । महामाया-२६. कृतज्ञाऽसि । तदाऽहं तस्य कल्याणमेव करिष्ये। २०. कालान्तरे-महामायामहिमाप्यस्मिन् दृश्यत इत्यर्थः । २१. परेशः तदुक्त्या विस्मितः किश्चिदालोच्य सा तं रोगैः पीडयतीति ज्ञातवान् । २२. परेशेन यन्ज्ञातं तदेवानुमोदते महामाया । २३. रोगपरिहारोपायं चिन्तयेत्यभिप्रायः। अनेन चतुर्थाङ्क तृतीय- दृश्यकथावस्तु सूचितम् । २४. भूम्यां त्वदंशभूतस्य कस्यचिद्राज्ञः पुत्रीरूपेण यदा जनिष्ये इत्यभिप्रायः। २५. स्वांशभूतसोमदेवानुग्रहेण भम्यां सञ्जीविनी नायतामिति सञ्जीविनीप्रादुर्भावस्य बीजमप्यत्रोपक्षिप्तम् । २६. तदा सञ्जीविनीहस्तस्पर्शद्वारा तस्य रोगान् परिहरामीति जीवदेवे अनुग्रहश्च मूचितः । अनेन विमर्शसन्धेर्जीजमत्रोपन्यस्तम् ।

जीवसञ्जीविनीनाटकम् परेशः-२७. भवतु तावत् , इदानीं जीवदेवस्य अन्यादृशीं प्रज्ञा भूलोके स्वयं द्रष्टुमिच्छामि । मयामाया-२८. ममापि सैव स्पृहा । तथैव करवाव । २९. (इति सर्वे निष्क्रान्ताः) २७. सर्वज्ञगुरोराश्रमे जीवदेवस्यानुग्रहार्थं गच्छामि । २८. अहमपि त्वामनुयामीत्याशयः । २९. सत्यप्रियादिपरिवाराणां च निर्गमनसूचनायाऽत्र बहुवचन- प्रयोगः । इति द्वितीयदृश्यव्याख्या प्रथमोङ्कः ॥ तृतीयदृश्यम् ॥ भूलोके सर्वज्ञगुरोराश्रमः तत्र वटूनां विद्याभ्यासः प्रचलति । (ततः प्रविशतः वृद्धस्त्रीपुंसरूपेण महामायापरेशौ) जीवदेवः *(सन्निकृष्टे तो प्रत्युद्गम्य अभिवाद्य साष्टाङ्ग नमस्कारपूर्वकं प्रस्तुत्य स्वागतमाशंसति) (सविमर्श तयोः रूपसौन्दर्यमवलोक्य-वगतम् ) किं मानुषा- वेतौ वृद्धौ ? नेति शंसति मे हृदयम् । किं कौचिद्वेषधारिणौ देव- विशेषौ भवेताम् ? । नेति निश्चिनोति । परपुरुषावेवेति भावयति मे मनः । (प्रकाशम्) हे देव ! वारं वारं विभवकलितं रम्यसौम्यस्वरूपं सारं सारं मुनिजनहितं दिव्यतेजःप्रभावम् । तृतीयदृश्यव्याख्या *अध्ययनशालासमीपे । पुरः अभिमुखं किञ्चिद्दरं गत्वा आगतानां सभीपगमनव्यापार:-प्रत्युद्गमः। अभिवाद्य-प्रवरपुरस्सरमित्यर्थः । नमस्कारस्य अष्टाङ्गानि - 'उरसा शिरसा दृष्टया वचसा मनसा तथा । पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाङ्ग उच्यते' इति । "मनुष्यौ” इति न प्रतिपद्यते मे मनः इत्यभिप्रायेण एतादृशरूप- लावण्यं मनुष्येषु न कथञ्चित्सम्भवतीति हेतुस्मूचितः । “यादृशी भावना यत्र सिद्धिर्भवति तादृशी"-इति जीवदेवस्य आदावेव परमात्मतत्वनिश्चयेन सर्वदुःखनिवारणपूर्वकं जीवन्मुक्तिर्मविष्यतीति पञ्चमाङ्ककथावस्तुनो निर्वहण- सन्धेर्जीजमप्यत्र सूचितम् ।

जीवसञ्जीविनीनाटकम् ध्यायं ध्यायं जितमनसि तत्स्वात्मनि स्वात्मभावात् पायं पायं मुखदममृतं जन्म मे सार्थकं स्यात् ॥६॥ उभौ-१. सुखी भव ! सुखी भव !! वारं वारभिति-वारं वारं मुहर्महः-विभवकलितं विभुत्वद्योतकम्, रम्य रमणीयम् , सोम्यम् आह्लादजनक स्वरूपं चेति कर्मधारयः । मुनिजनेभ्यो हित योगिनां प्रियम् । तेजसः प्रभावः-कर्तुमकर्तुमन्यथाकतु च सामर्थ्यम्- दिव्यः दिवि भवः प्रभावः यस्य तदिति-रम्यसौम्यखरूपपदस्य विशेषणम्, ताह स्वरूपं सारं स्मार-स्मृत्वा-स्मृत्वा-आदराथै द्विर्भावः । एवमन्यत्रापि । स्मृते- रधिकरणं मनः मनसि स्मृत्वा स्मृत्वा, अनन्तरं स्वरूपसन्निधाने सति तत्रैव ध्यायं ध्यायं तादशरूपं ध्यात्वा ध्यात्वा, कुत्र ? स्वात्मनि-स्वहृदये, कथम् ? खात्मभावात् तद्रूपमेव-तेजोरूपमेव स्वस्यापि-उपाधिभूतनीवस्यापि, आत्मा- निरुपाधिकः नीरूप इति भावात-भावनया, जितमनसि मनसि लयं गते सति । अनेन ध्यानबलफलं संपूचितम् । तदा चित्तै काये किं भवति ? सुखदममृतम्- आनन्दरूपं मोक्ष मोक्षरूपम् आनन्दमिति च तात्पर्यम् । पायं पायम्-अमृत- रसास्वादनं कृत्वा-नित्यसुखमनुभूयेति यावत् । यदा ज्ञानस्थितिरेवं स्यात्तदैव जन्मसार्थक्यमिति द्योतनाथ-मम यद्यत् जन्म तत्सर्व सार्थक-सफलं स्यात्- भवेदित्याशंसा । अयमर्थो जीवन्मुक्तपरः । अन्यथा ब्रह्मज्ञानाग्निना आविद्यकजन्ममरणप्रवाहशोषणे सति-नित्यसुखरूपा मोक्षप्राप्तिरिति विदेह- मुक्तपरोऽर्थः सम्पतेत् । अतः “जन्म जन्मान्तरेऽपि त्वत्पादाम्भोरुह युग- भवा निश्चला भक्तिरस्तु" इति कुलशेखरगुरुवचनमत्रानुमन्धेयम् । अत्र वारं वारमित्यादि चतुर्दा पर्यायेषु 'आभीक्ष्ण्ये णमुल्' इति सुत्रेण पौनःपुन्येन णमुल्वशात् प्रयोगः । इदं पद्यं मन्दाक्रान्तावृत्तनिबद्धम् । तल्लक्षणम्- "मन्दाक्रान्ता जलधिषडगम्भौनतो तो गुरू चेत्" इति ॥६॥ १. आदरादाशिषो द्विरुक्तिः ।

प्रथमोऽङ्कः - जीवदेव:- वाणीश्वराभ्यां वरदायकाभ्यां लक्ष्मीश्वराभ्यां लघुतारकाभ्याम् । गौरीश्वराभ्यां गुरुभूतिदाभ्यां भूयो नमो वां परदम्पतिभ्याम् ॥७॥ उभौ-२. दीर्घायुरस्तु, कल्याणमस्तु । जीवदेवः- स्वागतं वां कलये सुखागतं वामागतः वां भजते सन्मानसं मे । तां गतिं वां श्रयते तद्यापराऽऽस्ते खागताद्वां जननं यन्मे परास्ते॥८॥ वाणीश्वराभ्यामिति--वाणी च ईश्वरश्च वाणीश्वरौ - सरस्वतीब्रह्माणौ वरदायकौ-स्वेष्टप्रदौ तद्पाभ्यां परदम्पतिभ्यां श्रेष्ठतमपतिपत्नीभावमङ्गीकृत- वद्भ्यां वां युवाभ्यां भूयो नमः- वां भूयो भूयो नमस्करोमीत्यर्थः। परत्रा- प्येवमेवान्वयः । लक्ष्मीश्वरौ-लक्ष्मीनारायणौ लघु - क्षिप्रं सुखेनेति यावत् । तारकौ-भवाम्बुधितारणे समर्थौ । तथा गौरीश्वरौ-गुरुं गुर्वी भूर्ति दत्त इति गुरुभूतिदौ सर्वसम्पत्प्रदौ इत्येव विशेषः। अत्र प्रत्येकनमस्कारप्रतिपादकान्व- योऽप्यपेक्षणीयश्चेत्स सुसाधः। त्रिमूर्त्यात्मको जगत्कारणभूतौ यौ ताभ्याम्- प्रकृते वृद्धवेषयुतदम्पतिभ्याम् एकत्वभावनया कायिकसेवारूपं नमस्कार करोमीति तात्पर्यार्थः। इदं पy इन्द्रवज्रावृत्तनिबद्धम् । तल्लक्षणम्-"स्यादिन्द्र- वज्रा ततजास्ततो गौ" इति । २. अनयाऽऽशिषा चिरंजीवित्वं कल्याणप्राप्तिश्च आशंसिते । स्वागतमिति - वां युवाभ्यां स्वागतं सुखागमनं कलये - कांक्षामि । अयमेवार्थः आदरातिशयद्योतनार्थं वां सुस्वागतमिति द्विरुदितः । सुस्वागत- मित्यत्र-“सु" इत्यनेन समीचीनं स्वागतमिति-मम पुण्येनैव दुःखपरिहारार्थ मत्सुखसम्पादनार्थं युवयोरागमनमिति तात्पर्यार्थद्योतनबलात् सत्यप्यर्थभेदे गानसौकर्याय ध्रुवपदमिव योनितमिति ज्ञायताम् । मे मम सन्मानसं सत्वोत्कर्ष. सहितं मनः अत्रागतौ वां युवां भजते-प्रपद्यते । अथवा मनते-सेवते-इत्यर्थः उभयथान्वये "अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते" इत्यादि गीता- जीवसाबिजाना esa उभौ-३. भो जीवदेव, आवां भृशं सन्तुष्टौ । त्वं जीव- मुक्तो भव । जीवदेवः-३. (a) अनुगृहीतोऽस्मि । परेश:-४. अयि कुमार, किमभ्यस्तमत्र भवता जीवदेवा-५, शृणोतु परेशः। चतुर्वेदेषु षड्दर्शनेषु इतिहास- पुराणकाव्यादिषु मेऽध्ययनमासीदिति विज्ञापये। बचनमत्र शरणम् । या गतिः परा-पराकाष्ठा आस्ते “सा काष्ठा सा परा गतिः' इति श्रुत्या वा युवयोस्संबंधिनी तां गति तत् मम मानसं श्रयते परमपदत्वेन आश्रयते । यत् मे जननम् (अस्तीति शेषः) अनुभवाविषयकं यदिति कुत्सितार्थ- द्योतकः शब्दः असारमिति तात्पर्यम् । तत्-वां युक्योः स्वागतात्-दर्शनादिति तात्पर्यम् । परास्ते-(दूरे तिष्ठतीति-न भवतीति) पराभूयते । पुनरुत्पत्तिरहितं यथा तथा नश्यतीत्यर्थः । अत्र वामिति प्रथमपादे चतुर्थी द्विवचने प्रयोगः । द्वितीयपादे द्वितीयाद्विवचने । तृतीयतुर्यपादयोः षष्ठीद्विवचने प्रयोगो भवति। इदं पद्यं गीतमिव भाति । विचारे छन्दोबद्धमेव । इदं द्वादशाक्षरात्मकजगती- छन्दोनातेषु ४०९६ वृत्तेषु ५६३ तमवृत्तमिति 'लगक्रिया' तत्वगणनया निर्धार्यते । सा तु अनेनैव कविना विरचिते सर्वसमवृत्तप्रमापाख्ये छन्दोग्रन्थे द्रष्टव्या । अस्य 'स्वागतामा' इति नाम च कल्प्यते । तल्लक्षणम्-"स्वागता- भा रममा योऽब्धित्रिवाणैः” इति ॥८॥ ३. तत्कृतस्तोत्रेण तयोस्सन्तुष्टिः । तस्मै समुचिताशीःप्रदानं च । अनेन नायकस्य मुख्यप्रयोजनमाभिहितम् । ३. (a) तथानुग्रहाय कृतज्ञतां सूचयति । ४. विद्यापरीक्षार्थमयं प्रश्नः । ६. चतुर्वेदास्तु-ऋग्यजुस्सामाथर्वणाख्याः । षड्दर्शनानि तु-सांख्य- योगन्यायवैशेषिकमीमांसावेदान्ताख्यानि । इतिहासाः- रामायणभारतादयः। पुराणानि - अग्निमत्स्यादीनि अष्टादशसंख्याकानि । काव्यानि विविधानि । - 4 प्रमोद महामाया-६. सङ्गीतमप्यभ्यस्तम् ? जीवदेवः-७. साङ्गोपाङ्गवेदाध्ययनेन तदप्यम्यस्तमेव । परेशः-८. किं योगाभ्यासे परिश्रमोऽस्ति ? जीवदेवः-९. मम गुरु सर्वज्ञः खलु । तस्यानुग्रहेण सोऽपि संवृत्तप्रायः। परेश:-१०. तर्हि विप्रकृष्ट-सूक्ष्म व्यवहितविषयान् ज्ञातु- मलं भवसि? जीवदेवः-११. ज्योतिष्मतीसंयमेन सर्व साध्यम् । यद्यपि अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश" इति चतुर्दशविद्यानामेव अभ्यर्हितत्वम्, तथापि तास्सर्वाः अत्रोक्तविद्यास्वेवान्तर्भूताः । इदं परिकराख्यं मुखसन्धेरङ्गम् । बीजस्य बहू- करणं परिकरः इति वचनात् । ६. अनेन प्रश्नेन स्त्रीणां सङ्गीते विशेषामिरुचिरिति ज्ञायते । साङ्गोपाङ्गशब्देन शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिष कल्पश्चेति षडङ्गानि आयुर्वेदधनुर्वेदगान्धर्ववदार्थशास्त्राख्याःचत्वार उप- वेदाश्च सङ्गृहीताः । ८. यद्यपि योगशास्त्रं षड्दर्शनान्तर्भूतं तथापि तत्र अभ्यास प्रति प्रश्नः। ९. 'संवृत्तप्रायः' इत्यनेन तत्र कश्चिद्भागः अनुभ्यस्तः अवशिष्टश्च इति बुध्यते । १०. विप्रकृष्टा:-दूरस्थाः। सूक्ष्माः अणोरपि सूक्ष्मतराः व्यवहिताः- आच्छादिताः- गुप्ता इति यावत् । ११. पातञ्जलयोगशास्त्रे तृतीयाध्याये अनेके संयमाः प्रदर्शिताः। धारण-ध्यान-समाधिगम्यो हि प्रतिसंयमः । तेषु ज्योतिष्मतीसंयमेन दिव्य- तेजोदर्शनात् विप्रकृष्टादि. सर्व प्रत्यक्षतः साक्षात्कारयोग्यं भवतीति प्रतिपादितम् ।

नीचसीबिनीनाटकम्
उभौ-१२. चिरंजीव । नित्यसुखी भव । (इत्युक्त्वा उभौ
अन्तर्दधाते) (अध्यापकाः अध्येतारश्च सर्वे क्षणं विसयमाना भवन्ति)
सर्वज्ञगुरु-१३. कौ तौ दम्पती !
शिष्याः-१४. वृद्धब्राह्मणाविव आस्ताम् ।
अध्यापकाः-१५. मा मैवम् । कथं नु सामान्यब्राह्मणानां
अन्तर्धानशक्ति ?
सर्वज्ञगुरु:-१६. जीवदेव, कस्तवाभिप्रायः !
जीवदेवः-१७. तौ जगदीश्वराविति मे भावना ।
सर्वज्ञगुरु-१८. कथम् !
जीवदेवः-१९. मया हि यथा भावनं तथा वचनं यथा
वचनं तथा कर्म कृतम्।
१२. नित्यसुखशब्देन मोक्ष इति भाव्यते । इदं युक्तिर्नाम मुखसन्धे-
रङ्गं भवति-बीजानुकूलसंघटनप्रयोजनवचनतो युक्तिरिति वचनात् ।
१३. तयोः निजरूपनिर्धारणासमर्थतया अयं प्रश्नः ।
१४. अत्र 'इव' शब्देन संशयः घोत्यते ।
१५. सामान्यब्राह्मणानां अन्तर्धानशक्त्यमावात् तौ दम्पती न
सामान्यब्राह्मणाविति निश्चयः ।
१६. जीवदेवः तौ वृद्धब्राह्मणौ स्तुतिभिस्तुष्टाव । अतस्तयोस्स्वरूपं
तस्य ज्ञातं भवेदिति भावयित्वा तदभिप्रायज्ञानायायं प्रश्नः ।
१७. 'मे भावनम्' इत्यनेन तस्य निश्चयज्ञानं सूच्यते ।
१८. तथा निश्चयस्यावबोधाय पुनः प्रश्नः ।
१९. यन्मनसा मनुते तद्वाचा वदति । यद्वाचा वदति तत्कर्मणा
करोतीति श्रुत्यर्थो बोध्यः। इदं परिन्यासो नाम मुखसन्धेरङ्गम्-बीननिष्पत्तिः
परिन्यास इति वचनात् ।

प्रथमोड सर्वज्ञगुरु-२०. त्वमेव धन्यः । अत्रैव पारमेश्वरानुग्रहो जातस्ते। त्वं सर्वविद्यासम्पन्नोऽसि । इदानी समावर्तनं कृत्वा स्नातको भव। जीवदेवा-२१. सद्गुरो, इदानीमहं सप्तदशवार्षिक: वर्षत्रयमितो मिताऽऽहारो योगानुष्ठानपरो भवितुमिच्छामि । दयया मामनुगृहाण। सर्वज्ञगुरुः–२२. तथास्तु । तदनन्तरमेव गृहमेधी भव । खम्त्यस्तु जीव बहुपुण्यसमाप्तजन्मन् खस्त्यस्तु तेऽद्य विभुदृष्टसमाप्तजन्मन् । वस्त्यस्तु भावपरिशुद्धिसमाप्तजन्म स्वस्त्यस्तु देवपदवीयुतमस्तु जन्म ॥९॥ २०. पारमेश्वरानुग्रहः-परमेश्वरकृतस्य अनुग्रहस्य त्वं पानमसि । अत एव त्वं धन्यः। समावर्तनं नाम-विद्याभ्यासपरिसमाप्तिसम्बन्धि किञ्चिद्गृह्यकर्म सूच्यते । अनन्तरम् अवभृथ-स्नानं विद्यार्थिना क्रियते । न तदा स्नातको भवति । स्नातककर्म तु उत्तरत्र द्वितीयाङ्के चतुर्थदृश्ये विशदीक्रियते । इदं विलोभनं नाम मुखसन्धेरङ्गम्-बीनगुणवर्णनं विलोभनमिति बचनात् । २१. अस्य विद्यारम्भः पञ्चमवर्षे आसीत् । इदानीमयं सप्त- दशवार्षिक' इत्यनेन द्वादशवर्षावधि विद्या अभ्यस्ता । तथापि योगानुष्ठानाय तत्रैव अधिकवर्षत्रयवासायायमनुज्ञां याचते गुरुम् । २२. तदनन्तरमेव-त्वयि वयसा विंशत्यधिकवार्षिके जाते सति गृहमेधी-गृहैः-दारैः मेधत इति गृहमेधी भव । दारशब्दोऽत्र "दाराः पुंसि च भूम्न्येव" इति निघण्टुबलात् पुल्लिङ्गबहुवचने प्रयुक्तः। तावन्मात्रेण नाऽऽशंकनीयमस्य परिग्रहबहुत्वम् । स्वस्त्यस्त्विति-हे जीव - जीवदेव, नामैकदेशग्रहणेन नामग्रहणम् । बहुपुण्यसमाप्तजन्मन्, बहुविधैः पुण्यकर्म- जीवसनीविनीनाटकम् सर्वे-२३. तथास्तु ! तथास्तु ! (इति निष्क्रान्तास्सर्वे) कल्याणम् अस्तु-भवतु-इत्याशीरथै लोट् । विभुदृष्टसमाप्तजन्मन् - विमुना परमात्मना हष्टानि-वीक्षितानि सपाप्तानि-निश्शेषाणि अन्मानि-जननानि यस्य-तस्य संबुद्धिः । भावपरिशुद्ध्या-शुद्धभावेनेति यावत् । समाप्तं लयं गतं जन्म यस्य सः त्वमसीति शेषः । अस्तु-भवत्विति सायुज्यप्रदेयमांशीः । देवपदवीयुतं परमात्मस्वरूपेण युतं समानरूपमिति यावत् । अस्तु-भवतु- इत्यनेन सारूप्यमुक्तिप्रदाशीस्सूचिता । अथवा - देवपदवीं मुक्तजीवदशा युतम्-प्राप्तम् अस्तु-भवत्विति सामीप्यमुक्तिप्रदा वा, देवपदव्यां देवस्य पढ़े- देवस्य स्थाने सत्यलोक वैकुण्ठ-कैलासादिमुक्तिस्थानेषु युतम्-स्थितम् अस्तु- भवत्विति सालोक्यमुक्तिप्रदावाशीस्सूचितेति तत्तदभिमतार्थोऽत्राभ्यूहनीयः । आशीर्लक्षणं तु वात्सल्याचत्रमान्येनकनिष्ठस्याभिधीयते । इष्टावधारकं वाक्यमाशीस्सा परिकीर्तितेति । इदं पद्यं वसन्तातिलकावृत्तनिबद्धम् । तल्लक्ष- लाम्-"उक्ता वसन्ततिलका तमना जगौगः" इति । २३. इमामाशंसां सर्वेऽनुमोदन्ते । ॥ इति तृतीयदृश्यव्याख्या ॥

प्रथमोऽ ॥ चतुर्थदृश्यम् ॥ INS सत्यलोके ब्रह्मसभा ( वाण्या सह ब्रह्मा प्रविशति) ब्रह्मा-१. हे वाणि, त्वमतीव प्रमोदस्थानं मे । यथा शृणु- वाणीपाणिग्रहणमहिमा कारणं सृष्टिकार्ये सृष्ट्वा सृष्ट्वा जगति विविधं भृतजातं सदाऽहम् । श्रान्तो भ्रान्तो गतमतिबलो नातितुष्टोऽस्मि देवि खान्तं मेऽतो विहरणपरं सांत्वनेन त्वयाऽऽस्ते ॥१०॥ वाणी-२, भो देव, त्वमपि मे तथा । शृणु- साधुशीलं देवमायं त्वामिहोदवालोकमान्या । सेवितुं त्वां शुद्धभावात बद्धभावाऽस्म्यन्तरङ्गे ॥११॥ चतुर्थदृश्यव्याख्या १. त्वं मम प्राणप्रिया भवति । निरन्तरं त्वं हर्षप्रदेति भावार्थः । वाणीति-हे देवि, वाणीपाणिग्रहणमहिमा-तव पाणिग्रहणप्रभावः (मे) सृष्टि- कायें-जगत्सृष्टिकर्मणि कारणं हेतुः तव सान्निध्यमात्रेण समस्तवस्तुसर्जने मे बुद्धिः प्रभवतीति तात्पर्यम् । अहं जगति बहुविध भूनजातं सृष्ट्वा सृष्ट्वा- बहूनि वस्तूनि सदा-अनवरतं सृजन् श्रान्तः आयासयुक्तः भवामि । भ्रान्तः-उत्तरसृष्टौ विकलबुद्धिर्भवामि । मम बुद्धेः इतोऽप्यधिकसृष्टौ न शक्तिरस्तीति भावः । अतः मे स्वान्तं ममान्तरङ्गं विहरणपरम्-विश्रान्तिपरं भवति । सा विश्रान्तिः त्वया कृतेनेति शेषः सान्त्वनेन आस्ते-त्वत्कृतसमा- धानोक्तिभिस्सम्पादनीयेति विलासोक्तिः । इदं पद्यं मन्दाक्रान्तावृत्त- निबद्धम् ॥१०॥ २. त्वमपि मे तथा प्रमोदस्थानमिति भावः । साधुशीलमिति- साधु-समीचीनमेकपत्नीव्रतरूपं शीलं वृत्तं यस्य तम् । आद्यं देवं लोकेश्वरं त्वां जीवसनीबिनीवाटकम् ? ब्रह्मा-३. हे देवि ! कथय भुवने कि विचित्रं पश्यसि ? वाणी-४. भोः परमेष्ठिन् तव सृष्टिवैचित्र्यं महदद्भुतं पक्ष्यामि। ब्रह्मा-५. कथम् वाणी-६. देव भूलोके सूर्यान्वये महान् क्षत्रियकुमारः सर्वविद्यासम्पन्नः भूत्यष्टकसिद्धः परतत्वज्ञानपरो भवति खलु । तस्यानुरूपा कन्या कुतो न सृष्टा ? कुत्र प्रादुर्भवेन्न जाने । इदमेव चित्रम्। इह इदानींतनस्थितौ रूदवा तव पाणिग्रहणेन कलिताऽहम् लोकमान्या लोके पूज्या भवामि । अतोऽहं त्वामेव शुद्धभावात्-परिशुद्धभावात्-पतिव्रताभावा- दिति यावत् । सेवितुम् अनपायिनी भूत्वा परिचरितुम् अन्तरङ्गे-हृदये, बद्धः- युक्तः भावः-स्नेहातिरेकः यस्याः सा बद्धभावा-त्वदेकायत्तचित्ता भवामीति पतिप्रशंसालोके शुद्धभावयोर्दम्पत्योस्सहजस्सुखानुभवः। इदं पद्यम्-अनुष्टुप्छ- न्दोजातेषु २५६ वृत्तेषु ३५ तमवृत्तं भवति । अस्य गीतेति नामनिर्देशः क्रियते । तल्लक्षणम्-"वेदतो तौँ गौ हि गीता" इति । ३, भुक्ने - लोकेषु-जात्येकवचनम् । विचित्रमाश्चर्यकरं यत्रकार्य- विशेषे कारणं न सम्यक् ज्ञायते तत्र आश्चर्यभावः उत्पद्यते । पश्यसि जानासीति प्रश्नः। ४, हे देव त्वया कृतविचित्रसृष्टिः महादाश्चर्य भवति । ५. कथमिति सृष्टिवैचित्र्यानबोधनार्थ प्रश्नः । ६, महान क्षत्रिय इति- बहुप्रभावोपेतस्य जीवदेवस्य प्रशंसाद्योत- नाय प्रयोगः । भूत्यष्टकसिद्ध:-अणिमा-महिमा-गरिमा लघिमा - प्राप्तिः- प्राकाम्यम् ईशत्वं वशित्वं चेत्यष्टभूतयः याः तासु सिद्धः ताभिस्सिद्धो वा- स्वेच्छया द्रष्टुं-दर्शयितुं च समर्थः । परतत्वज्ञानं ब्रह्मज्ञानम् । अत्रापि नाय- कस्य गुणवर्णनेन विलोभनं नाम मुखसन्धेरङ्गं स्पष्टम् । अनुरूपा-रूपेण- ।

१२ प्रथमो ब्रह्मा-७. ज्ञातासि तदा यदाऽऽवां सञ्जीविनीकलाकौशलं प्रत्यक्षतो द्रष्टुं लोके सञ्चरिष्यावः । वाणी-८. केयं सञ्जीविनी? ब्रह्मा-९. शृणु परमेश्वरांशभूतस्सोमराजः पारमेश्वरतेज:- प्रभावात्मिकया ओषर्धादेव्या सहधर्मचरो भवति । शीलेन गुणैश्च समाना तथा चोक्तम्-तेजसा-सौन्दर्येण-वंशेन-वयसा-शुभलक्षणैः- विद्यया यशसा च यःअसमानः सः वरः । कन्यापि-या पतिमतानुकूला सुकुमारशरीरा-सत्कुलप्रसूता-अभिज्ञा-सच्छीला-सा विवाहयोग्या । एतादृश- बधूवरयोरेव साम्यं भवेत् । प्रकृते ताहशवरगुणोपेतः जीवदेवः त्वया सृष्टः । तत्सदृशीं कन्यां न कुत्राऽपि पश्यामि ताशकन्यानिर्माणे तव औदासीन्यं कुतः इति तव सृष्टौ वैचित्र्यं पश्यामीत्याक्षेपोक्तिः । ७. ज्ञातासीति लुण्मध्यमपुरुषैकवचनं भविष्यदर्थे प्रयुक्तम् । तादृशीं कन्यां पश्यसीति पर्यायोक्तिः । सञ्जीविनीति नामनिर्देशेन कलाकौशलमिति बुद्धिप्रभावद्योतनेन च जीवदेवस्य अनुरूपा कन्या सृष्टा भवति । सा ह्यय विद्याभ्यासयोग्यवयोवती भवतीति ब्रह्मणा वाणीसंशयपरिहारः कृतः । तस्याः कलाकौशल्यं द्रष्टुमहमुत्सुको भवामि । त्वमपि मामनुगता भव । तदा मद्वचनं तव अनुभवसिद्धं भवतीति सूचितम् । अत्र नायिकायाः सञ्जीविनीति नामनिर्देशेन कलाकौशल्यमित्यनेन च मुखसन्धेरङ्गभूतौ उपक्षेपपरिकरौ निर्दिष्टौ । ८. सञ्जीविनीवृत्तान्तविशेषावगमाय प्रश्नः । ९. परमेश्वरांशभूतः सोमः- सर्वदेवात्मको हि परमेश्वरः । ओषधी- देवीति सोमराजपत्न्याः नाम । अत्र सोमः यतः ओषधीशः-ततः आयु- वेदानुगतकथावस्त्वपि सूचितं भवति । ओषधीनां तेजः प्रभावः सकलरोग- निवारणक्षमः स धर्मः सोमप्रमासक्रमणेनैव भवतीति भौतिकतत्वम् । अतः सहधर्मचरः इति प्रयोगोऽयं युक्तः ।

जीवसीविनीनाटकम् मया वाणी-१०. जाने । ततः । ब्रह्मा-११. भूलोके भारते पुनः कुमुददेशे ज्योत्स्नानगरे सोमवंशप्रभवः कलानिधिर्नाम राजा चन्द्रिकादेवीं परिणीय सर्वजना- ह्लादको भवति । तौं सोमौषधीतेजोंऽशौ । वाणी-१२. अतिकुतूहला भवाम्यहं शेषवृत्तमशेषं श्रोतुम् । ब्रह्मा-१३. तयोर्विहारपरयोः परिहाससंरंभावसरे - भाव्य. पत्यं पुत्र इति राज्ञा, पुत्रीति देव्या मिथः प्रतिज्ञा कृता । दीपे- णाऽपि कालेन उभयप्रतिज्ञा सफला नाभूत् । वाणी-१४. इदमपि चित्रम् । ब्रह्मा-१५. एवमेव जगद्यापारः। १०. जाने इत्यनन सोमराजौषधीदेव्योः दाम्पत्यभावः विदित इत्युक्तम् । तत इति सञ्जीविनीजननादिकथावबोधनाय सकौतुकः प्रश्नः। ११. कलानिधिः चन्द्रिकादेवीति नामव्यवहारेण सतीपत्योः राज्ञीराज्ञोः अविनाभावसम्बन्धस्सूचितः । यतः कलानिधिः नन्द्रः चन्द्रिका ज्योत्स्ना-तयोरविनामावसम्बन्धस्सहज एव । तादृशसम्बन्धः वाणीब्रह्मणोः लक्ष्मीनारायणयोः उमामहेश्वरयोः सीतारामयोः संज्ञासूर्ययोः भवत्येवेति लोकेऽपि सद्भार्याभोंस्सर्वांशेषु सर्वकार्येषु तादृशसम्बन्धो भूयादित्याशंला । १२. अशेष सम्पूर्णम् । १३. पुंसः पुत्रे, स्त्रियाः पुत्र्यां पक्षपातः स्वाभाविकः। अतः राज्ञा देव्या च विलासप्रप्तङ्गे भाव्यपत्यविषये क्रमेण पुंस्त्रीव्यक्तिप्राप्तिप्रतिज्ञा कृता । १४. अत्रापि किञ्चिच्चित्रम् । किं तत् ? तदुभयोराशाभङ्गः । १५. जगद्व्यवहारे जनानाम् ईदृशाः आशाभङ्गाः बहुधा भवेयुरेव । किमत्र चित्रमित्याकूतम् । ?

३१ प्रथमोऽङ्कः वाणी-१६. अन्यत्प्रतिज्ञातं दैवमन्यत्करोति । इदमपि तव सृष्टौ परं वैचित्र्यम् । ब्रह्मा-१७. धर्मपराः न कदाचियर्थमनोरथाः। वाणी-१८. कथावशेषः पुरश्चलतु । ब्रह्मा-१९. ततस्तौ दम्पती ओषधीमहिषीयुतं सोमराज- मुद्दिश्य महाव्रतान्याजगृहतुः । तदा तयोर्धर्मबुवाऽऽकृष्टौ ओषधी- सोमराजौ तयोस्खमयोः एकदैव पुत्रीजननमाशशंसतुः । कालक्रमेण जातं स्त्र्यपत्यम् । तस्य संजातं सञ्जीविनाति नाम । सा शिशुभाव एव सङ्गीतपराऽभूत् । सप्तमवर्ष एव विद्याभ्यासरता सा इदानीं तौर्यत्रिकमभ्यस्यतीति श्रूयते । वाणी-२०. तर्हि सैव जीवदेवस्थानुरूपा भार्या भवेत् । ब्रह्मा-२१. भवेदेव-परं जीवदेवस्य भविष्यं न सुख- भूयिष्ठमिति दिव्यदृष्ट्या विदितोऽसि । यत:- १६. "अन्यथा चिन्तितं कार्य दैवमन्यत्र कारयेत्" इत्यर्थ बोधयति । तथेदं कुतो भवितव्यमिति वाण्या चित्रधीनिष्ठा प्रदर्शिता । १७. धर्मवतां मनोरथाः सर्वदा सफला इति तात्पर्यद्योतनेन अधर्म- वता स्वीयकर्माण्येव आशाभङ्गे कारणानीति चित्रपरिहारः कृत इति ध्वनिः । १८. अवशिष्ट वृत्तान्तकथनाय प्रेरणम् । १९. महाव्रतानि-व्रतोपवासादीनि-अथवा-पुण्यक्षेत्रयात्रादीनि अथवा- तपोनपादीनि । तौर्यत्रिकं नृत्तगीतवाद्यरूपम् । अत्र सञ्जीविनीजन्मवृत्तान्तेन मुखसन्धौ तस्यैवाङ्गभूतौ उपक्षेपपरिकरौ च सूचितौ । इदानीमित्यनेन सञ्जीविनी तदा त्रयोदशवर्षवयस्केति परिगण्यते । २०. सा सञ्जीविनी जीवदेवस्य मार्या भवितेति भवतानुग्रहः कार्यः इति वाण्या अभिप्रायः। २१. भवेदेवेत्यनुमोदः । परमिति निपातेनैव त्वया शंसित पूर्ण जीवसञ्जीविनीनाटकम् demaamanaIRAL Pastelmaapasaramge संसारोऽयं कर्मबन्धो जनानां सोऽयं सृष्टौ पुण्यपापैर्निबद्धः। तस्साच्छान्तो जन्तुरत्रैव भुते खेनोप्तं यत्तत्फलानि क्रमेण ॥१२॥ वाणी-२२. भो देव ! त्वं करुणामयोऽसि । अतः दुःख- प्रत्यार्थप्रतीकारोऽपि चिन्त्यताम् । यतस्त्वं सर्वशक्त:- शरणागतभरणे हितकरणे करुणालो तरणिर्भवतरणे भयहरणे वरुणस्त्वम् । वैवाहिकसुखं जीवदेवस्य न सम्पद्यते इति गूढार्थः दुःखं भवतोति सूचयति । 'यत' इत्यादिना स्वाभिप्रायं विशदयति । संसारेति-अयं सर्वैरनुभूयमानः संसार:- जननमरणात्मकसंसृतिव्यवहारः, जनानां सर्वेषां प्राणिनां कर्मबन्धः- तत्तत्क- मानितफलानुभवाय नियमितो बन्धः । बद्धस्य स्वैरगतिर्न भवति । यया गोष्ठे बद्धाः गवादिपशुप्राणिनः स्थलान्तरसंचाराय सत्यामपीच्छायां गोष्ठ एव तिष्ठन्ति । यथामिरुचिघासादिचर्वणाय न समर्थाः स्वस्वामिदत्तकाष्ठपाय- कशुष्कतृणान्येव चरन्ति । भारावहशकटतैलयन्त्रादीन् दुःखदुःखमाकर्षन्नः सङ्कटमनुभवन्ति । तथा कर्मबद्धा जना; अपीति तात्पर्यम् । सोऽयं तादृश- कर्मबन्धःपुण्यपापैर्निबद्धः- स्वकृतपुण्यपापायत्त इति यावत् । तस्मात्-अतः जन्तु:-प्राणी शान्तस्सन्-प्रतीकारासमर्थः सन् अत्रैव-अस्मिन्नेव लोके स्वेनोप्तं यत्-स्वकृतमिति यावत्, तत्फलानि-तेषां कर्मणां फलानि सुखदुःवरूपाणि क्रमेण यथाकालं भुते-अनुभवति । शालिनीवृत्तम् । तल्लसगम्-"शालिन्यु का स्तौ तगौ गोब्धिलोकैः” इति ॥१२॥ २२. मो देव ! यदि तस्य सुखं न सम्पद्यते तत्प्रतिबन्धस्य परिहारो- पायोऽपि चिन्त्यतामिति प्रार्थनावचनम्-प्रतीकारकल्पने सामर्थ्यद्योतनाय त्वं सर्वशक्तोऽसीत्युक्तम् । शरणागतेति-शरणागतभरणे अन्यरक्षकाप्राप्त्या त्वामेव मजतां रक्षणे तेषां हितकरणे-आनुकूल्यसम्पादने च करुणालो-हे दयामूर्ते ।

प्रथमोऽङ्कः धरणीजनमरणाश्रयकरणातुरबाधा- हरणं तव करणं निजसराणि परिपाहि ॥१३॥ ब्रह्मा-२३. चिन्तितः । स सञ्जीविनीपाणौ समर्पितश्च । वाणी--२४. यद्येवं तर्हि तस्य तया पाणिग्रहणमनुजानीहि । त्वं ममर्थोऽसीत्यध्याहारः । तथा भवतरणे-बहुविधक्लेशात्मकसंसारसागरपार- गमनाय त्वं तरणिर्भव-योग्या नौः भवेति तात्पर्यम् । भयहरणे-शोकमोहा- दीनां जनकानि, तेभ्यो जातानि वा यानि भयानि तेभ्यः संरक्षितुं त्वं वरुण एव । वरुणः खलु भयपापपरिहाराधिष्ठानभूता देवता “मिनीमसि छवि द्यवि, यत्किञ्चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि । अचित्ती यत्तव धर्मायुयोपिम मानस्तस्मादेनसो देव रीरिषः" इति श्रुतिप्रमाणात् । धरणीजनमरणाश्रयकरणातुरबाधाहरणम्-धरणीजनाः-मनुष्याः तेषामेव जनन- मरणसद्भावः न त्वमराणाम् , तादृशमनुष्याणां मरणं नाश एव अत्यन्तदुःखं तदाश्रयकरणानि-विविधाः रोगाः तेभ्यः पीडिताः आतुराः-रूग्णाः तेषां बाधाः- सङ्कटानि तेषां हरण परिहारः तव करणं ते कर्तव्यम् । अन्यथा तव आर्तत्राणयोग्यत्वं नान्वयेत् । तस्मात्तव सरणिं नैनमार्ग परिपाहि- पालय । आतंत्राणनाशभीत्या अतिजागरूकतया संरक्षेति तात्पर्यम् । अनेन भक्तिमार्गधोरणी प्रदर्शिता । इदं वृत्तं अत्यष्टिच्छन्दोजातेषु १३१०७२ वृत्तेषु २८५४० तमवृत्तं भवति । अस्य दीप्ति' रिति नामनिर्देशः क्रियते । तल्लक्षणम्-“सनजैर्नमगगतो वसुशरयुग्युगदीप्तिः" इति । इदं करणीवृत्तमिव दृश्यते-नतु करणीवृत्तम् ॥१३॥ २३. चिन्तितः- मया दिव्यदृष्टया परिभावितः त्वदपेक्षितप्रती- कारः । स च सञ्जीविन्यायत्तो भवति । सञ्जीविनीद्वारा जीवदेवबाधा: निवृत्ता भवेयुरित्याकूतम् । २४. जीवदेवस्य अनुरूपकन्यायाः वृत्तान्तः प्रसक्तः । स एव अधुना वाण्या हढीक्रियते स्वाभिनन्दनाय । ।

जीवसजीविनीनाटकम् ब्रह्मा-२५. अनुजानामि । त्वमप्यनुजानीहि । त्वं ज्ञान- देवता किल। वाणी-२६. तथास्तु । इदमपि ज्ञातुमिच्छामि-किं तस्य भविष्यं यद्भवता सूचितम् ? ब्रह्मा-२७. बहुविधाऽऽमयाक्रान्तिरेव । वाणी-२८. गदानां धाता कः ? त्वं खलु । तेषां विधा- तापि त्वमेव भवितुमर्हसि । तदद्य प्रतिक्रियाव्यापारः कीदृशोऽङ्गी- कृतस्त्वया ब्रह्मा-२९. स न कदापि चिन्तितः । वाणी-३०, तर्हि न साध्वाचरितम् । यतः- कर्ता यो भवतीह सृष्टिनिवहे प्रारब्धदुःखोन्नते- २५. त्वमप्यनुजानीहीत्यनेन ज्ञानदेवतायाः वाण्याः अनुज्ञा, प्रसादश्च आवश्यकौ इति सूचितम् । विद्यावतोर्वधूवरयोर्विवाहः सकलयोग- क्षेमाय कल्पते इति प्रायशो बहुजनाभिप्रायः । अत्र परिन्यासो नाम मुख- सन्धेरङ्गं संभूचितम् । २६. ब्रह्मणा उपरि संसूचिते जीवदेवस्य भविष्यविषये पुनः प्रश्नः सुविशदं साकल्यार्थावगाहनाय । २७. चतुर्थाके जीवदेवस्य यो रोगानुभवः वर्ण्यते तस्य अवतरणि- कारूपेयं सूचना। २८. प्राणिकृतकर्मानुसारेण सृष्टिकार्ये धाता । शरणागतानां भक्तानां व्यसनपरिहाराय विधातेति एकस्यैव ब्रह्मणः भिन्नव्यापारवशात् भिन्नाभिधाने सम्यगुत्प्रेक्षिते अत्रेति बोध्यम् । २९. सः- प्रतिक्रियाविषयः मया नैवालोचित इत्यभिप्रायः । ३०. न साध्वाचरितमित्यसम्मतिद्योतकोऽयमुपालम्भः । कर्तेति-इह सृष्टिनिवहे-जगत्सर्गप्रताने, यः-ब्रह्मा प्रारब्धदुःखोन्नतेः प्रथमोऽङ्कः स्तस्यास्स्यात्परिहारकोऽपि स हितो लोकोपकारार्थतः। नो चेद्धा परिणाममत्र न जनो दुःखस्य सोढुं क्षमः सूर्योऽयं परितापदोऽपि हितदो वृष्टिप्रदानाद्भुवः ॥१४॥ ब्रह्मा-३१. ज्ञातम् । देवि यद्यनुग्रहं करोषि ज्ञानवैभवेन तदाऽहं प्रतिक्रियां सुलभं सम्पादयामि । यतः-- कर्ता भवति-फलोन्मुखरोगादिदुःखानां आधिक्यकरणे कारणं भवति स एव लोकोपकारतः- लोकाभ्युदयाय-प्रतीकारोपायनिर्माता, हितः- सुखप्रदश्च स्यात्-भवेत् । सुखं कल्पयेदित्यभिप्रायः । नो चेत-अन्यथा, अत्र जनः दुःखस्य परिणामं सोढुं न क्षमः- प्राणिनां शोकमोहादिद्वारा दुःखस्य परिणामः प्राणात्ययपर्यवसायी भवेत् । न तादृशपरिणामानुभवाय ते न शक्ताः । भवन्ति । अतः दुःखप्रदः त्वमेव दुःखनिवारकोऽपि भवेत्याकूतम् । अत्र निदर्शनम्-यद्यपि अयं सूर्यः अंशुभिः परितापकरः-ग्रीष्मे तापाधिक्याज्जनानां सन्तापकृत् इति प्रसिद्धम् । स एव मूर्यः वर्षाकाले वृष्टिप्रदानात् - वृष्टि. विसर्जनद्वारा सन्तापनिवारको भवति खलु । अत्र कश्चिद्विचारः । सूर्यस्य आदानविसर्गाख्यौ द्वौ कालौ भवतः । आदानकालः शिशिरः- वसन्तः- ग्रीष्म इति ऋतुत्रयात्मकः षण्मासा इति यावत् । तदा सूर्यः भूम्यां समुद्र- नदीतटाकादिषु स्थितं जलं स्वकिरणैरादत्ते विसर्गकाल:- वर्षाः- शरत्-हेमन्त इति ऋतुत्रयात्मकः- षण्मासाः । तदा स एव सूर्यः शोषितं जलं बाष्परूपमापन्नं वायुसाहचर्यात् स्वकिरणैरन्तरिक्ष नीत्वा तत्र पुनः तन्मेघरूपं विधाय भूम्यां वर्षरूपेण विसृजतीति वेदशास्त्र. संमतं वृष्टितत्वमत्र सङ्ग्रहेण निरूपितम् । शार्दूलविक्रीडितं वृत्तम् । ३१. हे वाणि तत्राभिप्रायो विदितः । तव सहायेन प्रतिक्रियोपार्य सुलभं कल्पयामि। यति-अन्धकारस्य तमसः निरासाय - प्रतिक्रिया रविप्रदीपः- सूर्यतेजः यथा, अग्नितेजोऽभिभवाय-अग्नेः प्रशमनाय-शान्तये तोयम्- शोषयतीति यावत् ।

जीवसीविनीनाटकम्
१
यथान्धकारस्य रविप्रदीपो यथाऽग्नितेजोऽभिभवाय तोयम् ।
यथा विषस्यामृतमीहितं स्यात्प्रतिक्रियैवं रुज ओषधिस्स्यात्॥१५॥
३२. भामिनि किंबहुना?
अद्यैवाहं तपसि नियतो लक्षसंख्यातमारा--
दायुर्वेद मनसि कलये लोकगुप्त्यै सुखाप्त्यै ।
सोमो जीवो रविरसबलं ह्योषधीवृन्दकाये
तद्विज्ञानादखिलभिषजो दुःखनाशे धुरीणाः ॥१६॥
जलम् । यथा, विषस्य प्राणापहारकवस्तुनः नाशाय-प्रतीकाराय अमृतं सुधा
यथा ईहितम्, एवं रुनः- समस्तरोगाणाम् (मात्येकवचनम्) ओषधिः-
सञ्जीविन्याद्योषधीभिः निष्पादितम् औषधं प्रतिक्रियापरिहारकारणं स्यात्
भवतीत्यर्थः । इदं पद्यम् उपेन्द्रवज्रावृत्तनिवद्धम् । तल्लक्षणम्-"उपेन्द्रवज्रा
जतजास्ततो गौ” इति ॥१५॥
३२. सङ्ग्रहेण ब्रवीमीति तात्पर्यम् ।
अद्यैवेति-अहंअद्यैव-इदानीमेव, तपसि नियतस्सन् - सम्यगालोच-
यन्, लक्षसंख्यातं लक्षग्रन्थ इति वेद्यमानम्, आयुर्वेद वैद्यशास्त्रम्, लोकगुत्प्यै-
प्रजारक्षणाय, सुखात्प्यै-प्रजानां सुखाधिगमाय च आरात्-शीघ्रमेव, मनसि
कलये-मनसा विभाव्य रचयामि । भोषधीवृन्दकाये-सर्वोषधीशरीरे सो-
मो जीवः चन्द्रः जीवो भवति । रसात्मकप्राणं जनयतीति यावत् । तादृक्-
प्राणभूतस्य रसस्य-ओषधीरसस्य, रविरसबलं रविणा - सूर्येण आपादितस्य
रसस्य - तेजोरूपस्य बलं शक्तिः, ओषधीलतासु चन्द्रकिरणसङ्क्रान्त्या
रसोद्भवः, सूर्यकिरणसङ्क्रमेण वीर्योद्भव इति ओषधितत्वं निरूपितम् ।
तद्विज्ञानात्-आयुर्वेदाध्ययनतदर्थतत्वविमर्शबलात्, अखिलभिषन:-सर्वे वैद्याः
दुःखनाशे-विविधरोगोद्भवदुःखपरिहारकर्मणि धुरीणा:- समर्थाः भवन्ति ।
अनेन आयुर्वेदसृष्टिरिहोपपादिता । मन्दाक्रान्तावृत्तम् ॥१९॥

REE वाणी-३५, तामेव द्रष्टुमुत्सुकाऽहम् । प्रथमोऽङ्कः वाणी-३३. गदानां प्रतिक्रिया सञ्जीविनीहस्ते कथं प्रत्यर्पिता। ब्रह्मा-३४. देवि अवहिता भव- सवौषधीषु निहितो रसधातुसार- स्सञ्जीविनीति विदितो गदतापहारी। तन्मूर्तिरेव जनिता कृतनामवेषा सञ्जीविनीति भुवि जीवसुजीवनाय ॥१७॥ ३३. प्रतीकारस्सञ्जीविनीपाणौ समर्पित इति पूर्व ब्रह्मणा यदुक्तं तदर्थावगमाय तद्विषयकप्रश्नः पुनरप्यत्रोत्थाप्यते वाण्या। ३४. 'अवहिता भवेत्यादिना वक्ष्यमाणश्लोकार्थावगाहनाय वाण्या अन्तःकरणमावय॑ते । सर्वोषधीध्विति-सर्वोषधीषु-सर्वेषु ओषधीविशेषेषु, रसधातुसारः- रसः (पृथिव्यप्तेजस्सक्रान्त्याऽऽपादितरस:) धातूनां सप्तधातूनां सारः- मूलभूतः निहितः प्रतिष्ठितः-ओषधीषु सारभूतो रसस्तिष्ठतीति यावत् । तासु सञ्जीविनीति प्रसिद्धा या लता भवति तत्सारः, गदतापहारी-गदेभ्यो रोगेभ्यो जातः य उपताप:- दुःखं, तस्य हारी-शमनप्रदो भवति । कृतनामवेषा-नाम च वेषश्च नामवेषौ - कृतौ नामवेषौ यया सा-सञ्जीविनीनाम्ना स्त्रीरूपेण भुवि-भूम्यां जनिता-जाता इयं सञ्जीविनी तन्नाम्नी नायिका, जीवसुनीवनाय- जीवाख्यनायकस्य प्राणरक्षणाय तन्मूर्तिरेव-सञ्जीविनीलतास्वरूपैव भवति । सञ्जीविनीलतैव जीवरक्षणार्थ मूर्तिमती सती सञ्जीविनीति स्त्रीरूपेण भूमौ तिष्ठतीति सारार्थः । अत्र परिन्यासविलोभननामके मुखसन्धेरङ्गे सूचिते । वसन्ततिलकावृत्तम् । ३९, एतच्छ्रवणेन वाण्याः सञ्जीविनीदर्शने औत्सुक्यमधिकम- भूदित्यभिप्रायः ।

जीवसञ्जीविनीनाटकम्
ब्रह्मा-३६. तर्हि आवां गायकखरूपेण भूलोके सञ्जीविनी-
दर्शनार्थ सञ्चराव ।
वाणी-३७. तथास्तु (इति-सानन्दमनुमोदते)
॥ इति निष्क्रान्तौ ॥
३६. तदर्थ गायकस्वरूपमास्थाय तत्र गच्छाव इति ब्रह्मणोऽभि-
सन्धिः।
३७. तदभिप्रायमेवानुमोदते वाणी।
॥ इति चतुर्थदृश्यव्याख्या ॥

प्रथमोऽङ्कः ॥पञ्चमदृश्यम् ॥ ज्योत्स्नानगरे सङ्गीतशाला (प्रातः देवताप्रार्थना प्रचलति) सर्वा बालिका:--श्रीशमुमेशं भावय चित्ते मुरहरशुभकरमघ- हरसुखदं। पूजय तं तं भक्तियुता त्वं मतिकरमतिबलपुरहरनिपुणम् । श्रीशमुमेशमिति-श्रीशमुमेशं नित्यं चित्ते भावयेति सङ्गीतशालायां सर्वाः बालिकाः भगवत्प्रार्थनावसरे परस्परोपदेशं कुर्वन्तीति तात्पर्यम् । अतः भावयेति मध्यमपुरुषैकवचनप्रयोगः । श्रीशं लक्ष्मीपतिम् , उमेशं गौरी- पति चित्ते-मनसि, नित्यं सर्वदा भावय-चिन्तयेति ध्रुवपदस्थानीयस्य प्रथम- पादस्य वाक्यांशस्यार्थः। तद्वाक्यशेषार्थः श्रीशमित्यस्य विशेषणरूपेणान्वेति । यथा-कीदृशं श्रीशम् ? मुरहरं मुरारिमिति यावत् । मुरनामकदैत्यनाशेनैव लोकानां शुभकरं कल्याणदायकं तथा अघानां पापानां नाशकं तन्मूला- त्सुखदं सुखप्रदायकम् एतादृशं तं श्रीशं त्वं भक्तियुता सती भक्क्योपेता सती पूजय-बाह्यकरणैः षोडशोपचारादिभिरर्चयेत्यर्थः । तथैव तम् उमेशम् । कीहशम् उमेशम् ! मतिकरम्-ज्ञानप्रदं तथा-अतिबलपुरहरनिपुणम्-अत्यन्त- बलयुक्तानां (समर्थानां-सेनायुक्तानाम् ) पुराणां त्रिपुरासुराणां हरे-संहारे निपुणं दक्षम् । तैरेव बाह्यकरणैः षोडशोपचारादिभिः पूजय-अर्चयेति सामान्यार्थः । लोकसुपालं जगतां सम्यपालनकर्तारं लोकसुलीलं लोकेषु (लोक- संबन्धिनीषु वा) समीचीना लीला यस्य तम् । एते द्वे "श्रीशम्" "उमेशंम्" इत्येतयोःक्रमेण विशेषणे भवतः । विष्णोः- स्थितिरूपलोकपालनाधिकारः, शिवस्य-लयरूपलीलया सर्वप्राणिनां समापततां शोकमोहादिदुःखानां परिहारा-

जीवसजीविनीनाटकम्
लोकसुपालं लोकसुलीलं सरि ग म प ध नि ज रसकृतकृतितो ।
गाय सुदैवं गाय सदैवं परपदगतिकरमनुपमवरदम् ॥१८॥
धिकारः सममिव्यज्यते । अथवा विशेषणद्वयमपि प्रत्येक "श्रीशम्"
"उमेशम्" पदयोः अन्वेतव्यम् तत्र पूजाविधानं कथम् । स रि ग म प ध
नि जरसकृतकृतितः- स - रि - ग - म - 4 - 4 - नि - इत्येतानि, षड्जर्षभ-
गान्धार-मध्यम-पञ्चम-धैवत - निषाधाख्यसप्तस्वराणां सङ्गीतशास्त्रसङ्केतना-
मानि । तेभ्यः- जाना जातानां रसानां शृङ्गार-वीर-करुणाद्भुतहास्य भयानक
बीभत्स - रौद्र - शान्तनामकनवरमानां मेलनेन, अथवा रसः- आनन्दरसः
तजनकरागाः अत्र लक्षणया गृह्यते । ते च रागाः षड्नमध्यपगान्धाराख्य-
ग्रामत्रयोत्थमूर्छनाविशेषैः सम्पाद्यन्ते इति च व्यज्यते । तैः कृता निर्वर्तिताः
रचिता वा या कृतयः-कर्माणि कीर्तनानि वा तेभ्यः इति पञ्चम्यास्तसिल ।
सङ्गीतपुरस्सरमाराधयेति तात्पर्यम् । अथवा-गायेत्यर्थः । सदा अनवरतम् एवं
पूर्वोक्तप्रकारेण । कुतः तमाराधयेत् ? सुदैव समीचीनां देवताम् इष्टदेवतामित्य-
भिप्रायः । कथम् ? परपदगतिकरम्-परम्-आमुध्मिकसम्बन्धि यत्पदं स्थानं
(स्थितिर्वा) तस्य गतिकरम्-प्रापणयोग्यम् अत एव अनुपमवरदम्-न विद्यते
उपमा येषां ते-तादृशान् वरान् भक्तेभ्यो ददातीति हेतोः । एतेन शिव-
विष्ण्वाराधनेन नित्यमुखं भवतीत्यभिसन्धिः । पद्यमिदं 'तुल्यगति' वृत्तनि-
बद्धम् । तत् अभिकृतिच्छन्दोजातेषु ३,३५,५४,४३२ संख्याकवृत्तेषु
१,६७,७६,३९१ तमवृत्तं भवति । तस्य तुल्यगतिरिति नामनिर्देशः क्रियते ।
तल्लक्षणम् - "तुल्यगति-मौं सो भनना ना वथगुरुरिषुशरवसुमुनिगयतिः"
इति । इदं क्रौञ्चपदावृत्तमिव दृश्यते । न तु तद्वृत्तं तश्च तस्मिन्नेव च्छन्दसि
जातवृत्तेषु १६७७४५६७ तमवृत्तं भवति । एतद्गणितसंख्यावबोधः
एतत्कविरचित "सर्वसमवृत्ता"ख्यग्रंथे
"सर्वसमवृत्ता"ख्यग्रंथे द्वितीयचतुर्थानुबन्धपरिशीलनेन
?
मवति ॥१८॥

प्रथमोऽङ्कः (ततः प्रविशतः गायिकागायकवेषधारिणौ गायन्तौ वाणीब्रह्माणौ) यथा-नन्दतु लोको हितसुखभावै- स्सुन्दरमूर्तेर्भजनविलासैः। वन्दितपादं भज भज मोदं बन्धुरदेवं बहुविधरूपम् ॥१९॥ वाणी-तव कृपया भवति सुखम् । ब्रह्मा-तव सुधिया जगति हितम् । वाणी-तव कृतितो भुवि सकलम् । ब्रह्मा-तव वशतो भुवनबलम् ॥२०॥ नन्दत्विति-लोकः-जनः सुन्दरमूर्तेः- मनोहराकृतेभगवतः, हित- सुखभावैः- हिताः अभीष्टाः सुखरूपाः- आनन्दजनकहेतवः भावाः- अन्तः- करणवृत्तयः येषां तैः । तादृशैः भजनविलासः भगवद्भजनमेव विलासाः- विनोदाः तैः । नन्दतु-आनन्दं प्राप्नोतु । किंच वन्दितपाद-सर्वैस्सुरनरादि- भिरभिवन्दितौ पादौ यस्य तम् । भन-सेवस्व । तया सेवया मोदम्-आह्लादं तोष वा भज प्राप्नुहि । कीदृशं सुन्दरमूर्तिम् ! बन्धुरदेवं मनोहरं देवं यदर्शनमात्रेण भक्तानां मनः आहियते तादृशं देवं द्योतनशीलं भगवन्तमित्य- भिप्रायः । न केवलमयं बन्धुरदेवः अपि तु बहुविधरूपः- अनेकप्रकाराणि रूपाणि धतुं शक्तः । तं भज ! इत्यनेन तत्रागतौ वाणीब्रह्माणौ स्वभावत: बन्धुरौ - बहुविवरूपधारणसामर्थ्यादिदानी गायकरूपधारिणौ सन्तावत्रा- गताविति ध्वनिरप्यूहनीयः । भगवत्सेवया अनिर्वचनीयानन्दस्समुद्भवतीति सारांशः । इदं पद्यं त्रिष्टुप्छन्दोनातेषु २,०४८ संख्याकवृत्तेषु ४८७ तमवृत्तं भवति । अस्य भूवृत्तमितिनामकल्प्यते । तल्लक्षणम् "पश्चरसै- भूर्भतनगगैस्स्यात् ।" इति ॥१९॥ तवेत्यादि पद्येन वाणीब्रह्मविलासोक्तिः प्रदर्शिता । यथा तव- (ब्रह्मणः) कृपया-दयया, सुखं-(जनानां) दुःखनिवृत्तिपूर्वकनिर्वृतिः भवतीति जीवसञ्जीविनीनाटकम् वाणी-तनु मम मोदम् । ब्रह्मा-भज मम पादम्। वाणी-भज मम पादम् ब्रह्मा-त्यज तव वादम् । वाणी-हर मम खेदम् । ब्रह्मा-भर मम वेदम् । बाणी-भर मम वेदम् । ब्रह्मा-त्यज तव खेदम् ॥२१॥ वाण्याः परिहासोक्तिः। तव-(वाण्याः) सुधिया-सन्मत्या जगति-लोके (जनाना- मिति यावत्) हितम्-इष्टार्थसिद्धिर्भवतीति ब्रह्मणस्तविलासप्रत्युक्तिः । तथा- तव (ब्रह्मणः) कृतित:-सृष्टिव्यापारवशात् , भुवि-जगति सकलं-सर्व भवतीति पुनः वाणीवचनम् । तव (वाण्याः) वशतः-अधीनात् भुवनबलंजगद्व्यापार- सामर्थ्यम् इति ब्रह्मोक्तिः। अनया परस्परपरिहासोक्तया वाणीब्रह्मणोापार- वशात् जगद्भरणमिति तात्पर्य सूचितम् । इदं पद्यं त्वरितगति' वृत्तनिबद्धम्- तल्लक्षणम्-"त्वरितगतिश्च न ज नगैः-" इति ॥२०॥ अन्याप रिहासोक्तिर्यथा तन्विति-मम-(वाण्याः) मोद हर्ष तनु-विस्तारयेति वाणीवचनम् । मय-(ब्रह्मणः) पादं चरणं भज-सेवस्वेति ब्रह्मवचनम् । अनेन पतिशुश्रूषया सत्यास्सुखमिति तत्वमभिहितम् । तथा मय (ब्रह्मणः) पादं चरणं भज- सेवस्वेति भणति किमिति वाण्याः आक्षेपोक्तिः । यदि मम पादसेवां त्वं नेच्छसि तर्हि वादं मया सह उक्तिप्रत्युक्तिरूपवाद त्यन विसर्जय । मत्सेवां विना तव मोदः कथं भवेदित्यभिप्रायः। पत्युस्सेवया सत्या मोदः इति ध्वनिः- तर्हि मे मोदः भवतु वा न वा मम खेद-दुःखम्-(पादसेवारूपदुःखं वा कारणा- न्तर ननिरखेदं वा) पररिहरेति वाणीभाषणम् । मम वेदं मत्प्रभूतवेदम् अथवा मन्महिमप्रतिपादिका या श्रुतयः ताः भर-पालयेति ब्रह्मवचनम् । समस्तदुःखनिवृत्तये वेदशास्त्रोक्तकर्मानुष्ठानं निदानमिति वा-वेदान्तोक्त- प्रथमोऽ सर्वाः-१. नमो वाम् ! नमो वाम् ! नमो वाम् ! गायको-२. स्वस्त्यस्तु ! शुभमस्तु ! सन्मङ्गलमस्तु का। सञ्जीविनी--३. सञ्जीविन्यहं शरणागताऽस्मि । गायक:-४. मत्सकाशाच्छरणं तवास्तु । लोकसञ्जीविनी भव! गायिका-५. मम करुणा त्वय्यस्तु । जीवसजीविनी भव ! ज्ञानार्जनं कारणमिति वा फलितार्थः । मम वेदं भरेति ब्रह्मवाक्यानुकरणेन, कुतोऽहं तब वेदं भरामि ! पालयामीति वाण्याः पुनराक्षेपोक्तिः । तव (वाण्याः) खेदं दुःखं त्यज त्वमेव परिहरेति ब्रह्मणः उपेक्षापूर्वकसामाधानो- क्तिः । अनया वेदशास्त्रोक्तविध्यनुष्ठानमन्तरा-भगवदाराधनं विना-आत्म- स्वरूपविज्ञानं विहाय संसारदुःखान्मोचयितुं न शक्यते इति आस्तिकतत्व- मत्र परिहाससल्लापोक्त्या निर्गलितम् । अत्र "शक्यते" इति 'कर्मणि' 'भावे वा' प्रयोगः । यदि कर्मणिप्रयोगोऽनाङ्गीक्रियते तदा “संसारदुःखात् मोचयितुम् इतिपदसंधातएव कव॒ पदं भवति तथा प्रयोग: 'तत्कर्तुं शक्यते' इति । अत्र मोचयितुं-मोचनमित्यर्थः । इदं पद्यं कुसुमविचित्रावृत्तनिबद्धम् । तल्लक्षणन्तु 'नयसहितौ न्यौ कुसुम विचित्रा' इति । १. वां युवाभ्याम् (गायकाभ्याम् ) नमः- वयं युवां वन्दामहे इत्यभिप्रायः। २, स्वस्तीत्यव्ययं सुखार्थबोधकम् । शुभशब्दः क्षेमवाचकः सन्म- ङ्गलपदं सम्पदभिधायकम् । एतत्समस्तं भवतीभ्यो भवतीत्याशीर्वचनम् । ३. अत्र दृढभक्ति: प्रदर्शिता । ४. अहं त्वां रक्षामीति भावः । लोकानां रोगपरिहारद्वारा कल्या- णं कुर्वित्याशीरर्थः। ५. ममानुग्रहः त्वयि भवत्वित्यभिप्रायः । जीवाख्यस्य तव भविष्य- हर्तुः सम्प्राप्यमाणानां रोगाणां परिहाराय त्वं परमौषधं भव । अनेन भाविकथा सूचिता ।

जीवसजीविनीनाटकम् गायक:-६. अयि ! कुमारि ! का: कलास्त्वयाभ्यस्ताः ? सञ्जीविनी - ७. श्रुतिस्मृत्यादयः- विशेषतोऽथर्ववेदः । गायक:-८. प्रमोदस्थानमेतत् । परन्तु स्त्रीणामपि वेदा. ध्ययनमुचितं कलयन्ति वाऽत्र सामाजिकाः । सञ्जीविनी-९. देव ! बहयो ब्रह्मवादिन्योऽपि भवन्त्यत्र गायिका १०. देव ! केयं विचिकित्सा अहमपि स्त्री किल । गायक:-११. ब्रह्मविद्यायामहमपि त्वया जित एव । गायिका–१२. या विद्यां मय्यनुमोदसे तामस्यां नानुमोदसे किल | पश्य- वाचक्नवी च मैत्रेयी गार्गीप्रभृतयोऽबलाः। ब्रह्मविद्याबलेनैव भूषिता जगतीतले ॥२२॥ ६. अत्र कैलाशब्द: विद्यावाचकः । ७. “विशेषतोऽथर्ववेदः” इत्यनेन अयं वेदः समग्रमभ्यस्तः । इतरे यथोचितमभ्यस्ता इति ध्वन्यते । ८. सामाजिका:- धर्मशास्त्रवेत्तारः । ९. अत्र स्त्रियःन केवलं वेदानभ्यस्यन्ति-अपि तु वेदान्तमपि (उपनिषदः) अभ्यस्य तत्वान्यवगच्छन्ति-इत्युत्तरम् । १०. अहं स्त्री अपि सकलविद्यापारङ्गतास्मि खल्वित्याकूतप्रदर्शनेन स्त्रीणां वेदवेदान्ताभ्यासः सर्वसम्मत इति स्वाभिप्रायं प्रकटयति गायिका । ११. ब्रह्मविद्यायां त्वं मत्तोऽप्यतिकुशलेति अहं मन्ये इत्यभिप्रायः। १२. देवतास्वरूपत्वात् मयि कथञ्चिद्ब्रह्मविद्याभ्यासमनुमन्यसे इत- रासु, विशेषतः अस्यां सञ्जीविन्यां तद्विषये संशयश्चेत्ते तत्संशयनिवारणार्थम् उदाहरणानि ददामीत्यभिप्रायः । वाचक्नवीति---वचक्नोः- पुत्री काचिद्ब्रह्मवादिनी । मैत्रेयी याज्ञ- वल्क्यमहर्षेः भार्या-स्वपतिनैव ब्रह्मविद्यायाम् उपदिष्टेति बृहदारण्योपनिषदा प्रथमोऽङ्कः गायक:-१३. जात्या न स्त्रीणां वेदाध्ययननिषेधः उपपत्या तु तदसाध्यमिति शास्त्राकूतम् । परं तु यत्र तत्साध्यं तत्र न निषेधप्रसक्तिः। विदितम् । गार्गी-काचित्तपस्विनी वेदान्तविचारे याज्ञवल्क्येन वादं कृतवतीति तत्रैवोक्तम् । प्रभृतिशब्देन अन्या ब्रह्मवादिन्यः बोध्यन्ते । अबलाः-ताः स्त्रिय एवेत्यर्थः । तास्सर्वाः जगतीतले लोकेषु ब्रह्मविद्याबलेनैव ब्रह्मवादिन्यः इत्यनेनैव कारणेन भूषिता:-प्रसिद्धा: यशस्विन्यो भवन्तीत्यर्थः । अनुष्टुप्- वृत्तम् ॥२२॥ १३. जात्या-स्त्रीजन्माधिगमेनैव स्त्रीणां वेदाध्ययननिषेधो न भवती- त्यनेन सर्वेषां वागिन्द्रियविभूतिमतां वेदाध्ययने न कोऽपि निषेध इत्यभि- प्रायस्मृचितः । तर्हि स्त्रीशूद्रादीनां तन्निषेधः शास्त्रेषु कथं विहित इति चेत्- तेषां वेदाध्ययनस्यानुपपत्या तदसाध्यमिति समाधानमुक्तम् । अनुपपत्तयस्तु- (१) स्त्रीणां शूद्रादीनां च उपनयनामावः । (२) वेदाक्षरोचारणे स्वरवर्ण- स्खलनम् (३) इतरेभ्यः उपदेशेऽनधिकारः (४) अत एव लोकप्रयोजनामावः (५) सततं कृष्यादिकार्येषु व्यापूतानां शूद्राणाम्, भूयः गर्भधारणेन अलसानां स्त्रीणां च वेदाध्ययनेऽनवकाशः विघ्नबाहुळ्यं च । (६) वेदकर्मानुष्ठानाभ्य- हित-स्नान-धौतवस्त्रधारणादिकामावाच्छूद्राणाम्, मासि मासि रजोदर्शनादि- ना मलिनानां स्त्रीणां च, अपेक्षितशौचामावः इत्यादयः । तासु मुख्यानुप- पत्तिः स्वरवर्णोच्चारणे प्रायो भ्रंश एव । तादृशभ्रंशो मा भूदित्याशयः । गुरुमुखेन शुद्धस्वरेण स्पष्टवर्णोच्चारणपूर्वकम् अधिकारिणामेव पारम्पर्येण वेदा- ध्ययनं विहितमिति रहस्यम् । परंतु यत्र साध्यं तत्र न निषेधप्रसक्तिरिति ब्रह्मवचनेनैव "उत्सर्गास्सापवादाः" इति न्यायमनुसृत्य स्त्रीशूद्राणां क्वचि- द्वेदाध्ययने अनुज्ञा दर्शिता | अतः निषादप्रमुखानां वेदाध्ययनमनुमन्यते भगवान बोधायनः। तथैव आंभ्रणी अर्वशी यमीप्रभृतयः स्त्रियोऽपि काश्चित् न केवलं वेदवेदियः ब्रह्मवादिन्यः, अपि तु मन्त्रद्रष्ट्रयश्च अभवन्निति स्पष्टमवगम्यते ।

जीवसऑविनीनाटकम् १९ गायिका-१४. तथैवान। गायक:-१५. त्वन्मतमेव मन्मतम् । गायिका-१६. जितमन्मथेयं कल्याणी । गायक:-१७. अस्याः कल्याणमस्त्वविलम्बेन । जितरतिरियं सीमन्तिनी। गायिका-१८. सीमन्तिनीनां पुरंध्रीणां धुरि प्रथमगण- नीयास्तु । सञ्जीविनी-१९. कृतार्थाऽस्मि । गायिका-२०. कलास्वप्यभ्यासः कृतो नु? सञ्जीविनी-२१. वेदवेदाङ्गशास्त्रादीनि चतुष्पष्टिकलान्त- भूतानि । गायिका-२२. रूढिमालम्ब्यैव प्रश्नः। १४. अत्राऽपि तत्साध्यमित्याकूतम् । १५. तर्हि तवाभिप्रायमहमनुमन्ये इत्यर्थः । १६. अतिसौन्दर्यशालिनीति जितमनस्केति च यावत् । १७. अख्याश्शीघ्र विवाहोऽस्त्विति श्लेषार्थः। स्त्रीषु रतिरिवेयमति- सुन्दरी। १८. पतिव्रताशिरोमणिरस्त्वित्याशीः । १९. एतादृशाशी जनमियमभदित्यस्याः कृतार्थता-धन्यता। २०. अत्र कलाशब्दः गीतादिष्वेवाभिप्रेतः । २१. वेदवेदाङ्गादिचतुष्पष्टिकलासु गीतादिकला अपि निवेशिता इति हेतोः पुनः प्रश्नस्य नावकाश इति साकूतं वचनम् । अथवा परिहासोक्तिः । २२. लोकरूढ्या "अङ्गनि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश" इत्याधुक्तिबलात् विद्याभ्यः गीतादि- कला अन्या इति परिभाव्य प्रश्नः कृतः इति गायिकया स्वप्रश्नसमर्थनम् । 7 'प्रथमोऽङ्क: सञ्जीविनी-२३. योगविदां रूढिस्साधारणा । गायिका-२४. तदहं रूढिगोचरा कलाः पृच्छामि । सञ्जीविनी-२५. तास्सर्वा अप्यभ्यस्ताः । गायिका-२६. नामतः १ सञ्जीविनी-२७. नामत:-विविधशिल्पा:- आलेख्य-गीति:- तौर्यत्रिकं स्युति:- अभिनया- लास्यमित्यादयः । २३. शब्दास्तावत्-यौगिकाः रूढाः इति द्विविधाः । यथा 'जलन' मित्युक्ते जले जातं जलजमिति व्युत्पत्या मत्स्यः, कूर्मः भेकः:- शैवलः कमलम् इत्याद्या भवन्ति । ते यौगिकाः । रूढिस्तु कमलमित्येव । तथाऽत्र कलाशब्देन यौगिकार्थः चतुष्पष्टिविद्याश्च । रूट्यर्थस्तु-चित्रगीतादिविद्या- स्वेव । अतः रूढिमाश्रित्य-"कलास्वप्यभ्यासः कृतो नु ?” इति प्रश्नस्समु. चित इत्युक्ते पूर्णपदार्थबोधकयौगिके रूढेः एकदेशत्वात् साधारणतया रूढिया भवति । केषाञ्चित् योगाविदां शब्दव्युत्पत्तिज्ञानादित्युत्तरम् । अत्र योगविदामित्यनेन योगानुष्ठानपराणां रूढ्योपस्कृताः ये ये शब्दाः ते सर्वे विदिता भवन्तीति श्लेषार्थोऽप्यभिव्यन्यते । २४. गीतं रूढिगोचरं खलु । तदुदिश्य पृच्छामीत्यर्थः । २५. रूढिगोचराः कला याः तास्सर्वा इति तच्छब्दार्थस्वारस्यमत्र । २६. तासां नामनिर्देशः क्रियतामित्यभिप्रायः । २७. विविधशिल्पाः- वास्तु - प्रासाद-देवतायतननिर्माण-ग्रावभेदन- विग्रहनिर्माण - अयोदारुयन्त्ररचनादिकमधिकृत्य शिल्पा अनेकविधा भवन्ति । आलेख्यं चित्रनिर्माणकला । गीतिः- सङ्गीतम् । तौर्यत्रिकं नृत्त- गीतवाद्योपेता कला | स्यूतिः-सूचीकला-कवचादिनिर्माणयोग्या । अमिनयः- सात्विकाङ्गिकाहार्यवाचिकनृत्यपरिकलितनर्तनम् । लास्यं ताण्डवाभिनयोधुक्त- परमेश्वरेण सह पार्वत्या प्रथममभिव्यक्तोऽभिनय विशेषः । एवमादयः । ।

जीवसनीदिनीनाटकम् गायिका-२८. तवाभिनयं प्रयोगतो द्रष्टुकामाऽहम् । सञ्जीविनी-२९. (सगेयमभिनयति) वन्दे सुन्दरदेवते भुवि बन्धुरे दिवि बन्धुरे बन्धाद्वारय मां स्त्रियं सर मां स्त्रियं भर मां स्त्रियम् । वन्दे बन्धुरवेषगौ परवेषगौ नरवेषगौ सिन्धोस्तारय मां भवाद्धर मां भवाद्धर मां भवात ॥२३॥ आदिशब्देन - कुसुममालारचनं मणिहारग्रथनं सुगन्धनिर्मितिः केशभूषणा- लङ्करणादिकलाः गृह्यन्ते । २८. अभिनयं कुरु पश्यामीति चोदयति । २९. वदनादायन्त्येवाभिनयं करोतीत्यर्थः । वन्दे इति-हे सुन्दरदेवते ! इति सम्बोधनं स्वमनोभीष्टदेवतापरमपि प्रकृते वाणीमभिमुखीकरोति । तद्देवतासौन्दर्य सुरनरैस्सम्यग्विदितमिति दर्शनाय भुवि - भूलोके दिवि-स्वादिषु च बन्धुरं मनोहरमिति सम्बोधन- प्रकारः । परमां तव अत्यन्तप्रियां स्त्रियम्-अबलां मां बन्धात् संसारबन्धात् वारय मोचयेत्यर्थः । स्त्रियं मां सर - सारयेति अन्तर्भावितणिज] प्रयोगः । अभ्युदयगतौ प्रेरयेत्यर्थः । अवलां मां भर-पोषय-ऐहिकसम्पःस- मृद्धया । परवेषगौ-श्रेष्ठवेषधारिणौ - नरवेषगौ मानवरूपधारिणौ सुन्दरवेषगौ- मनोहराकृतिधारिणौ वां गायिकागायकौ-वाणीब्रह्माणौ वन्दे नमस्कारोमि भवात् सिन्धोः भवसागरात् (व्यस्तरूपकम्) मां तारय-रक्ष । भवसागरे निमग्नां मामुद्धरेत्यभिप्रायः । भवात् संसारात्-हर-आहर । जननमरणात्म- कात्संसाराद्विमोच्य परमपदं प्रापयेत्यर्थः । भवात् संसारात् धर-उद्धर-संसार- जनितक्लेशापोहं कुरु इति गेयपदार्थः । इदं सङ्गीतज्ञैः समुचितरागेण गातुमपि सुशकम् । इदं पद्यं हरिणप्लुतवृत्तनिबद्धम् । तल्लक्षणम्- "म्प्सौ जो जो भरसंयुतं करिबाणकैर्हरिणप्लुतम्" । इति । ir, । ।

प्रथमा गायिका-३०. अहह ! असदृशोऽयमभिनयचमत्कारः। गायक:-३१. अयि ! अभिनयकलाविशारदे ! केवलगेयं किश्चिच्छोतुमभिलषामि। सञ्जीविनी-तथा । श्रूयताम् । जयतु गायको वेषधारको भवतु मङ्गलं ब्रह्मणस्पते । कलिविडम्बनं कर्तुमुत्सुको मम मनोरथं पातुमीहसे ॥२४॥ तव सखी प्रिया शारदा तथा मम कलेक्षणे गायिकाऽऽगता। मम हि भाग्यतो दर्शनं च वां सुखमभूदहं भाग्यशालिनी ।। ३०. अहहेति अन्यादृशाभिनयदर्शनेन जनितसन्तोषाश्चर्यसूचको निपातः । ३१. 'अभिनयकलाविशारदे' इति सम्बोधनेन गायिकायाः यथा गायकस्यापि तथा अभिनयदर्शनेन हर्षोत्कर्षस्समभूदिति द्योत्यते । जयविति-वेषधारकः-गायकवेषधारी, गायकः-ब्रह्मा जयतु-सर्वोत्कषण वर्तताम् । अनेन गायिकागायकयोः निजस्वरूपे सञ्जीविन्याऽवगते इति व्यज्यते । अतः ब्रह्मणस्पते इति सम्बोधनम्-हे परमेष्ठिन् ! ते मङ्गलं सर्वत्र शुभं भवतु । भवत्विति प्रार्थनायां लोट् । कलिविडम्बनं कलौ व्याजेन वेषादिकं यथा जनाः कुर्वन्ति तथा त्वं गायकवेषानुकरणं कर्तुमुत्सुकः- स्वीकर्तुमिच्छन् मम मनोरथं सङ्कल्पमेव पातुमीहसे-पालयसि । तवेति-प्रिया-प्रीतिकारिणी, तव सखी-तव अनपायिनी; शारदा- वाणी च तथा-यथा त्वं तथा सापि मम कलेक्षणे-अभिनयविद्यापरीक्षार्थम्- 'ईक्षणे' इति निमित्ते सप्तमीप्रयोगः । गायिकावेषधारिणी सती आगता- अत्र सन्निहिता, मम हि भाग्यतः- मम पुण्येनैव वा युवयोः दर्शनं साक्षा- कारः सुखं यत्नं विनैव अभूतू-सञ्जातम् । अहं माग्यशालिनी युवयोस्स- न्दर्शनेन धन्या भवामीति गीतार्थः । एतत्पद्यद्वयं सम्मतावृत्तनिबद्धम्. तल्लक्षणम्-"नरयुगं भवेत् सम्मता लगौ" । इति । । ।

जीवसजीविनीनाटकम् गायिका-३२. अहह ! गीतमिदं गोपिकागीतस्पर्धीव भासते। सञ्जीविनी-(३२०) हे माता- कलय मे करे वाणि ते करं शपथमीदृशं त्वं कुरुष्व मे। 'भवतु मङ्गलं सर्वदाऽवले तव हितैषिणी स्यामहं ध्रुवम् ॥२६॥ गायक:-३३. (अपवार्य) अलमलं देवि ! सकलकला- निपुणायाः अस्या विद्यापरीक्षयाऽलम् ! इयं योगमहिम्ना आवयो- निजस्वरूपमवगतवती । अतः अस्यै निजस्वरूपेणैवानुग्रहं करवाव । (इत्युक्वा गायिकागायको वाणीब्रह्मरूपेण पुरःस्थितौ) सञ्जीविनी-(३३०) (दिव्यस्वरूपिणौ तौ दृष्ट्वा) वन्दे वां पितरौ समस्तजगतां सृष्ट्यादिकार्ये रतौ वेदानां हितदौ जितेन्द्रियवतां खात्माभिरामौ शिवौ । ३२. अहहेत्याश्चर्यम् । इदं तव गीतं गोपिकागीतमिव भासते- तद्वृत्तेन निबद्धत्वात्, तत्र कृष्णमक्तिर्यथा तथाऽत्र देवभक्तियुक्तत्वात् गोपी- गीतमेवेत्याकलये इत्युपमप्रियोजनम् । ३२. कलयेति-भवत्याः केवलं मम गीताभिनयानुमोदेन नालम् । इदानी हे वाणि-शारदे ! मे करे-मम हस्ते ते करं तव हस्तं कलय-कुरु ईदृशं वक्ष्यमाणप्रकारं शपथं प्रतिज्ञां च कुरुष्व-कुरु । यादृशमित्याकांक्षायां हे अबले ! - सहायरहिते ते-तव सर्वदा-अनवरतं मङ्गल सकलसम्पत्समृद्धि भवतु-भूयात्-आशीरथे लोट् । अहं च ध्रुवं निश्चयेन तव हितैषिणी-त्वन्मनो- स्थपालनी स्यां भवामीति निर्बन्धोक्तिः भक्तिरसस्य धोतिका पोषिकेति च विभाव्यते । सम्मतावृत्तम् । ३३. यतः इयं बालिका सकलकलानिपुणा-सर्वासु विद्यासु विदुषी ततः तस्याः परीक्षा नोचिता इयं तु आवां वाणीब्रह्माणाविति योगप्रभावेण विदितवती । अतः इमां निनस्वरूपेणैव अनुगृह्णाव ।

प्रथमोऽङ्कः पुण्यानां फलदौ भवाब्धितरणे नावौ महत्यौ परे देवानां जयदौ मुमुक्षुसुखदौ सञ्जीविनीप्राणदौ ॥२७॥ वाणीब्रह्माणौ-३४. अयि धर्मशीले ! तव दृढभक्या आवा भृशं सन्तुष्टौ । त्वं यदा यदा यद्यदपेक्षसे असदनुग्रहेण तत्तत्सिद्धिः अप्रतिबन्धमस्तु । सञ्जीविनी-३५. धन्यास्सि ! वन्दे इति-समस्तजगतां निखिलभुवनानां पितरौ - मातापितृभूतौ युवां वाणीब्रह्माणौ वन्दे-नमस्करोमि । तौ पृष्टयादिकार्ये- पृष्टिस्थितिलय- कार्येष्वित्यर्थः। रतौ आसक्तौ । वेदानां श्रुतीनां हितदौ पालको जितेन्द्रिय- वताम्-ऋषिजनानाम् उपदेशमुखेन तदुक्तधर्मरक्षणेन च स्वात्माभिरामौ- स्वात्मनि (सप्तमी) अभिरामौ स्वस्वरूपज्ञाने विहरन्तौ शिवौ-लोकक्षेमकरौ पुण्यानां प्राणिभिस्सम्पादितसुकृतविशेषाणां फलदौ-फलं दत्त इति फलदौ (फलप्रापकावित्यभिप्रायः) भवाब्धितरणे - संमारसागरतारणायेत्यर्थः परे- उत्कृष्टे, महत्यौ इरावतीसदृशौ, नावौ नौस्थानभूतौ । देवानाम्-इन्द्रादीनां जयदौ-दैत्यदानवादिभिः सह युद्धे प्रचलिते देवानां जयमापादयन्तौ । मुमुक्षुसुखदौ-मुक्तिमिच्छूनां सुखप्राप्तिकरौ । सञ्जीविनीप्राणदौ-सञ्जींविन्या- ख्यस्तोत्रीप्राणरक्षको (सञ्जीविन्याख्यायाः मम प्राणरक्षणं युवयोरन्ग्रहादेव भवितव्यमित्यभिप्रायः) अत्र सञ्जीविनीप्राणदौ इत्यनेन सञ्जीविनीनामौषधी- प्रभावात् प्राणरक्षणं भवतीति व्यज्यते । सकलरोगाः विविधौषधीप्रयोगेण निवार्या इति ध्वनिः । शार्दूलविक्रीडितं वृत्तम् । ३४. सन्तुष्टान्तरङ्गावावामेवं त्वामनुगृह्णीवः त्वं यदा यदपेक्षसे तदा तदस्मत्प्रसादेन निष्प्रत्यूह सिद्धं भवति । एतादृशेऽनुग्रहे सर्वानुग्रहाः प्रविष्टा- भवन्तीति भावः । इदं नायिकाविषये युक्तिर्नाम मुखसन्धेरङ्गम् । ३५. मम जन्म सार्थकमित्यभिप्रायः । ।

जीवसनीविनीमाटकम्
१५
वाणीब्रह्माणौ-३६. कल्याणमस्तु ।
।। इत्युक्त्वा निर्गतौ ॥
सर्वे निष्क्रान्ता:-
३६. कल्याणमस्त्विति प्रस्थानसमये साम्प्रदायिकाशी। जीवदेवेन
सह तव कल्याणं विवाहोऽस्त्विति च ध्वनिः ।
इति पञ्चमदृश्यव्याख्या।

प्रथमोऽ ॥ षष्ठदृश्यम् । तपोवनमार्गः (वाणीब्रह्माणौं गच्छन्तौ आकाशे किमपि तेजोवस्तु पश्यतः) ब्रह्मा-१. अहो ! किमेतत्तेजोबिन्दुः आकाशे दृश्यते ? (परिभाव्य) नायं तेजोबिन्दुः, किंतु पतङ्ग इव दृश्यते । (विमृश्य) पतङ्ग एव न तु खद्योतः । खद्योतस्य एतादृशप्रकाशः कुतः १ तर्हि पतङ्गस्सूर्यो भवेद्वा ? (सम्यक् परिशील्य) नायं सूर्यः स ज्योतिर्मयः सर्वप्रकाशकः अयं त्वल्पप्रकाशकः । अतः पतङ्गः पतङ्ग एव । यतस्स पक्षाभ्यां डयमान इव दृश्यते । (समीपे सम्यगवलोक्य) न-न-नायं साधारणपतङ्गः । पतङ्गराज एव मद्वाहनभूतो राजहंसः । १. तेजोबिन्दुः- गगने दूरस्थचलद्वस्तु निराकारमिव दृश्यते । तस्य प्रकाशस्तु सूर्यप्रकाशादेव अत एव तेजोबिन्दुरित्युक्तम् । परिभावन सम्यकदर्शनं सम्यगालोचनं वा । नेति पूर्वभावितं विकल्पयति । पतङ्गः-पतन् उत्प्लवमानो गच्छतीति व्युत्पत्या एतच्छब्दार्थः खद्योत:- सूर्ये-पक्षिणि-च उपयुज्यते । तथा च महाकविप्रयोगाः- “पतङ्गवद्वह्रिमुख विविक्षुः" (कुमारसम्मवे ३-६४) "विकसति हि पतङ्गस्योदये पुण्डरीकम्" (उत्तररामचरिते-६-१२) "नृपःपतङ्गं समधत्त पाणिना" (नैषधे-१-१२४) इत्यत्र क्रमेण तदर्थाः बोद्धव्या इति दर्शिताः । अतोऽत्र द्वितीयपर्याये खद्योतभावना तस्या अपि सम्यग्विमर्शन सूर्य इति तृतीयो विकल्पः । द्वितीयभावनापरित्यागे दृष्टवस्तुनः खद्योतासाधारणः विशेषप्रकाश एव हेतुः। पुनः परिशीलनेन सूर्यभावनां परित्यज्य पक्षीति निश्चयज्ञाने विकल्पितवस्तुनः सर्वप्रकाशकामाव एव हेतुः । पक्षीति सामान्यप्रतीत्यनन्तरं राजहंस एवेति ज्ञानं पूर्वपरिचयादुद्भूतमिति सर्वविकल्पेभ्योऽत्र वस्तुस्वरूपनिश्चयः । - जीवसऑविनीनाटकम् वाणी-२. किमेवं परिभावयसि सर्वज्ञोऽपि सामान्यजन इव । ब्रह्मा-३. अहमिदानी गायकः सामान्यजनवदेव परिभाव- यामि। वाणी-४. तत्रोद्देशः कः ? ब्रह्मा-५. तत्वोपदेशः। वाणी-६. किं तत्तत्त्वम् ? ब्रह्मा-७. प्राकृतदृष्टेः दूरस्थवस्तुनः निजस्वरूपं न गोचरं भवति । समीपवं चेत् तत्स्वरूपमवगम्यते । इदमेव तत्त्वम् । वाणी–८. अहं त्वमिव सर्वज्ञा । तो मे तचोपदेशः ? २. सर्वज्ञेन सर्वदा सर्व ज्ञायते दर्शनालोचनमात्रादेव । तथा त्वया कुतो न झटिति ज्ञातम् इति प्रश्नस्याकृतम् । ३. सामान्यमनानां भ्रान्त्या एवं विकल्पस्सम्भवतीति ज्ञापना- येत्युक्तमित्युत्तरम् । ४. कारणं पृच्छति । ५. तत्त्वप्रतिपादनमेवोदेशः । ६. तत्त्वप्रकारं ज्ञातुमिच्छति वाणी । प्राकृतदृष्टीनां सामान्यननानां साधनान्तराणि विना दूरस्थ- वस्तुनः स्वरूपनिश्चयविज्ञाने एवं भूता विकल्पाः स्वभावतो नायन्त एव । यतः- दूरात् द्रष्ट्राभिमुखं चलतो वस्तुनः स्वरूपं न विशदं भवति । अत्यन्त- सन्निहिते तस्मिन् इदमित्थमिति निश्चयावबोधो भवति । योगिनां देवादीनां च दूरस्थस्यापि-सूक्ष्मस्यापि व्यवहितस्यापि वस्तुनः प्रथमदर्शनादेव ज्ञानबलेन स्वरूपविज्ञानं भवत्येव । इदमेव तत्त्वम् । ८. चिद्रूपायाः आत्मकलायाः वाण्या अपि सर्वज्ञताप्रसिद्धिः प्रसज्जितात्र प्रथमोऽङ्कः ब्रह्मा-९. त्वमपीदनी सामान्यजन इव गापिकावेषधारिणी खलु। वाणी-१०. युज्यते। (अत्रान्तरे राजहंसः अवप्लुत्य तयोस्समीपमायाति) राजहंसः-११. (प्रणम्य) प्रभुवर्य ! भो जगत्पते ! भो जगज्जननि ! प्रणमाम्यहं वां देवेशौ। वाणीब्रह्माणी-११(१) अयि ! हंसश्रेष्ठ ! चिरं जीव । ब्रह्मा-१२. कुतोऽत्रागच्छसि ? राजहंस:-१३. स्वामिन् ! अश्विनीकुमारी त्वामुद्दिश्य कठोरतपसि स्थितौ । तयोस्तपोज्वालाकुलाः महर्षयः एतत्सन्देश- निवेदनाय मां देवस्य सकाशं प्रेषयन्ति स्म । भाविकार्ये देवः प्रमाणम् । ब्रह्मा-१४. देवि ! हंसवाहनारूढौ आवाम् आयुर्वेदाधिगमार्थ तपसि स्थितयोः अश्विनीकुमारयोरनुग्रहाय साधयावः । परन्तु तदर्थमेव तपसि. स्थिताय मम मानसपुत्राय दक्षब्रह्मणे प्रथमम् आयुर्वेदज्ञानमनुगृह्य तन्मुखाइस्रावनुगृह्णाव । ९. गायकवेषेण सामान्यजनवदृश्यमानायाः तस्याः प्राकृतदृष्टि- संभवः न्याय्य एवेति समाधानम् । १०. तदुक्तिमङ्गीकरोति । ११. प्रभुवर्येति सम्बोधनं स्वामिभक्तिद्योतकम् । ११. (..) चिरं जीवेति तयोराशीः । १२. तवात्राऽऽगमने कारणं किम् ? १३. भाविकार्ये-नासत्ययोः- तपःकारणं विदित्वा तयोरनुग्रहप्रदान- रूपे कायें। १४, सर्वज्ञत्वात् ब्रह्मा 'अश्विनीकुमारौ आयुर्वेदाधिगमाय तपः कुरुत' इति दिव्यदृष्टयाऽवगतवान् इत्यर्थः । टा जीवसञ्जीविनीनाटकम् वाणी-१५ तथा। (तौ दक्षतपोवने उभौ सन्निहिती) दक्षः-१६. अभिवादयेऽहं मातापितरौ । वाणीब्रह्माणौ-१७. असद्दर्शनमात्रेण तव सङ्कल्पसिद्धि- भवति । परंतु त्वम् आयुर्वेदरहस्यं सर्वम् अश्विनीकुमारयोरुपदिश । तन्मूला त्रिभुवनक्षेमं भूयात् । आवामपि तयोस्तपोनिष्ठामवलोक- यितुं तत्समीपं गच्छावः । दक्षः-१८. यथा रोचते पितृभ्याम् । वाणीब्रह्माणौ-१९. खस्त्यस्तु ! (इत्युक्त्वा अधिष्ठितहंसयानौ नासत्ययोस्समीपे सनिदधतुः) अश्विनीकुमारी-२०. (नेत्राण्युन्मील्य) नमस्कुवों वां नगजनको। १५. तथा करवावेत्यनुमोदते । १६. दक्षः ब्रह्मणः मानसपुत्रः । अतोऽस्य ब्रह्मा पिता | कथमख्य वाणी भातेति चेत्-उच्यते । स्वस्य जननी वा अजननी वा स्यात् पितुर्भार्या मातेत्यभ्युपगम्यते । अथवा-यतस्सर्वशक्त्यात्मिका वाणी जगन्मातेति गीयते, भतोऽस्यापि मातेति समाधानम् । १७. भगवदर्शनेनाकृष्टस्सङ्कल्पः सिद्धिं जनयति खलु । अतः दक्षः ब्रह्मदर्शनमहिम्ना आयुर्वेदज्ञानमधिगतवानिति मानसिकवृत्तितत्त्वमत्र सूचितम् । दक्षस्य, तन्मुखादश्विनीदेवतयोः आयुर्वेदोपदेशः जगत्क्षेमार्थमिति भावः । १८. भवतोराज्ञां परिपालयामीत्यभिप्रायः । १९. तमाशिषानुगृहीतः । २०. तपसि स्थितस्य नेत्रनिमीलनेन हग्वृत्तिरन्तर्मुखीभूता ऐका- ग्र्यसंपादनाय सहायिका भवतीति योगरहस्यम् । नेत्रोन्मीलने तु तपसी सा

प्रथमोऽङ्कः
वाणीब्रह्माणौ–२१. दीर्घायुष्मन्तौ भवतम् ।
ब्रह्मा-२२. अयि द्रस्रो, कुतो वां तपोव्यापारः ?
दसौ–२३. देव ! भूतले जनाः विविधविचित्ररोगाक्रान्ताः
अन्तिमां गतिमालिङ्गन्ति सुराश्च असुरबाधार्दिताः सुदुःखमनु-
भवन्ति । तेषां दुःखपरिहाराय कमपि प्रतीकारमासादयितुं
भवदनुग्रहपरौ भवावः ।
ब्रह्मा-२४. मया पुरैवेदं ज्ञात्वा लक्षसंख्यात्मकः आयुर्वे-
दस्सृष्टः । दक्षब्रह्मणे उपदिष्टोऽस्ति । तमुपगच्छतम् । स एव वां
आयुर्वेदरहस्यमुपदिशति ।
अश्विनीकुमारौ-२५. यथाज्ञापयति देवः ।
ब्रह्मा-२६. किं वामनुग्रहान्तरापेक्षा ?
बहिर्मुखो भूत्वा पुरस्थितान् विषयान् पश्यति ।
२१. तावाशीभिरनुगृहीतः ।
२२. दस्रकृततपःकारणं ज्ञातमपि परीक्षार्थ प्रश्नः। परीक्षा-तु
स्वसङ्कल्पस्याश्रयीभूतलक्ष्ये तदेकनिष्ठाऽभूद्वा न वेति विज्ञानाय ।
२३. विविधाः-अनेके, विचित्रा:-निदानापरिज्ञानात् जनानामा-
श्चर्यजनका: । अन्तिमाङ्गति मरणम् । आलिङ्गन्ति - प्राप्नुवन्ति-नियन्ते
इति यावत् । असुरकृतबाधास्तु-युद्धकाले सुराणां शिरश्छेदः- अङ्गवैकल्यं
नेत्रोत्पाटनमित्यादिरूपाः । सुदुःखम् - अत्यन्तव्यसनम् । परिहाराय-प्रतीकारं
शस्त्रचिकित्सां च भवत्प्रसादेन लब्धुमावां तपोनिरतौ मवाव इत्युत्तरम् ।
२४. उपदेशः केषुचिदंशेष्वेव ।
२५. तथा करवात्र इत्यर्थः ।
२६, अस्त्यन्याऽपि वाञ्छा वाम् इति पृच्छति ।
a; स्वामिन्निति-स्वामिन-भो देव ! आवां (अश्विनीकुमारौ) देवदेवस्य
तव प्रसादात-अनुग्रहात् , तपसि-समाधौ नियतौ-तत्परौ-अभवावेति शेषः ।

जीवसीविनीनाटकम् अश्विनीकुमारौ-खामिनावा तपसि नियतौ देवदेवप्रसादा- दक्षाद्वैद्य तव महिमतो दृष्टमन्त्रावभिज्ञौ । रोगज्ञानाद्विविधकरणैश्शान्तिमार्गान्विदित्वा त्वत्कारुण्यात्सुरनरकृते देववैद्यौ भवावः ॥२८॥ वाणी-२७. मनीषिणीषु नारीमणिष्वपि युवयोघृणा सुसम्पा- दिता भवतु । उभौ-२८. नैजोऽयं स्त्रीपक्षपातः लोकमातुस्तव । आवां तु निष्पक्षपातेन निर्व्याजं सकलभूतहितचिन्तकौ भवाव इति सविनयं सशपथं विज्ञापयावहे। इदानीं तव महिमतः- तवानुग्रहप्रमावात् दक्षात्-दक्षब्रह्मद्वारा वैये-अयुर्वेदे दृष्टमन्त्रौ-उपदेशबलेन प्राप्तायुर्वेदरहस्यौ ‘भवावः' इत्यध्याहारः । रोग- ज्ञानात-व्याधीनां निदानमवबुध्य विविधकरणैः औषधविशेषः शास्त्रविशेषैश्च शान्तिमार्गान - परिहारोपायान् विदित्वा ज्ञात्वा, त्वत्कारुण्यात्-तवानुग्रहात, सुरनरकृते - रुग्णानां देवानां मनुष्याणां च रक्षणाय देववैद्यौ - देवमिषजौ भवावः- भविष्यावः । अत्र वर्तमानसामीप्ये भविष्यदर्थे- 'लट' प्रयोगः । भत्र 'सुरनरकृते' इत्यनेन अस्मत: उपदेशं प्राप्य काश्यपप्रभृतयः शिष्य- परम्पराद्वारा लोकक्षेमं कुर्वन्तीति ध्वनिः । मन्दाक्रान्तावृत्तम् । २७. मनीषिणीषु विदुषीषु नारीमणिष्वपि - कुशलस्त्रीजनेष्वपि युवयोघृणा अनुकम्पा-सुसम्पादिता-प्रदर्शितेतियावत् । भवतु-इत्यनेन वनिता- ननचिकित्साविषये युवां जागरूको भक्तमिति कुशलमतीनां स्त्रीणामप्यु- पदेशं दत्वा ताः प्रसूतितन्त्रनिपुणाः कुरुतमिति च ध्वन्यते । २८. लोकमातुः-जगज्जनन्यास्तव स्त्रीपक्षपातः- स्त्रीजनेषु विशेषा- भिमानः नैनः- स्वाभाविक एव-स्त्रीत्वात् इति काकुः । जनन्याः स्वापत्य- विषये पक्षपातः न युक्त इत्यभिसन्धिः । अयमुत्तरवाक्येन विशदीक्रियते । आवां तु निष्पक्षपातेन सर्वेष्वेकरीत्या, निर्व्याज इयं स्त्री-अयं पुमान-एष ६२ प्रथमोऽङ्कः वाणीब्रह्माणौ--- २९. महाकार्येष्वपि सर्वदा युवयोः अप्रति- हतकार्यसिद्धिरस्तु । युवां कामचारौ च भवतम् । ३०. (इत्युक्त्वा अन्तर्दधतुः) (अश्विनीकुमारावपि दक्षादधि- गतायुर्वेदमन्त्रप्रभावौ खस्थानं जग्मतुः) सर्वे निष्क्रान्ताः ॥ ॥ इति प्रथमोऽङ्कः॥ बन्धुः- असावन्यः- अयं धनं ददाति-एष न ददाति-अयं साहाय्यं करोति- असौ न करोति अयं प्रबल:- असौ दुर्बल:-एष सुरः- असौ नरः इत्यादि- निमित्तान्यनपेक्ष्यैव सर्वप्राणिनां क्षेमङ्करकार्येषु व्यापृतौ भवाव इत्यभिप्रायः। २९, छिन्नशिरस्सन्धानादिगुरुतरचिकित्साकर्मसु सर्वदा सर्वत्र सिद्धिरस्त्विति वाणीब्रह्मणोराशी: । कामचाराय तद्वरानुग्रहश्च । ३०, स्वस्थानं-देवलोक-स्वर्गमिति यावत् । इति षष्ठदृश्यव्याख्या । इति श्रीवेङ्कटरमणार्यविरचिते 'जीवसञ्जीविनी' नामनाटके प्रथमाङ्कस्य स्खीया 'रसोल्लासि'न्याख्या व्याख्या-समाप्ता । is opport जीवसञ्जीविनीनाटकम् ॥ द्वितीयोऽङ्कः॥ प्रथमदृश्यम्-इन्द्रसभा। (शचीयुतो महेन्द्रः सभा प्रविशति) सर्वे-१. विजयताम् ! विजयताम् ! त्रिभुवनपालको महेन्द्रः महाराज्ञी पुलोमजा। सेवका:-२. इत इतो देवः अमरेशः। सेविकाः-३. इत इतो देवी इन्द्राणी। वन्दिमागधौ-जय जय जय जय जय जय भोः सुरवर वर- करकरवशगा। मदकृतकृतिपरपरबलिनो युधि युधि जितदितिवरतनय ॥१॥ १. पुलोमना-इन्द्राणी-शचीति यावत् । २. देवः-प्रभुः सुरपतिरिति यावत् । अमर एव अमराणामीशो भवितु- मर्हति खलु । अतः इंद्रोऽपि अमर इत्यनेन अमरत्वस्य स्थायित्वं सूच्यते । ३, 'इदि' परमैश्वर्ये इत्यस्माद्धातोः इन्दतीति व्युत्पत्या 'रन्' प्रत्यये 'इन्द्र' इति रूपम् । ततः इन्द्रस्य स्त्री इत्यर्थे “इन्द्रवरुण....आनुक्" इत्यनेन आनुक्-डी पृ-इत्येताभ्यां इन्द्राणीति रूपं भवति । इन्द्रस्य पत्नीत्यर्थः। जयेति-येन शत्रुपराजयपूर्वकं स्वस्य जयस्सम्पाद्यते तस्य कृते 'जय जय' इति जयघोषो युक्तः । अथवा सम्प्राप्यमाणजये आशंसा । अत्र उभयार्थस्संभवति । सुरवर-हे अमरश्रेष्ठ, तव वरकरे-सबलहस्ते करवशगाः- करेण-राज्ञे दीयमानद्रव्येण, वशगाः स्वाधीनं गताः । के ? मदेन-अहं बलीत्यहंकारेण कृताः- आचरिताः याः कृतयः- कार्याणि-परहिंसादिरूपाणि तासु पराः आसक्ताः । परवलिनः- परेषु-शत्रुषु ये बलिन:- ते इति पूर्वेणा- न्वयः । युधि युधि-प्रतियुद्धे जिताः- पराजिताः दिते:- कश्यपमार्यायाः द्वितीयोऽ ऋषय:-४. भो महेन्द्र ! हरिहरपदसक्ता भक्तिरव्याजभावा- दमरवरपते त्वां रक्षतु प्रत्यहं भोः । जगति बलयुतानामाभयश्रेयसे स्या- दबलपरिजनानां भूतये नीतिरेषा ॥२॥ महेन्द्रः-५. भो महर्षयः ! भवतामाशीमें सर्वश्रेयोनिदानम् । इदानीमश्विनीकुमारौ जगत्पतेब्रह्मणोऽनुज्ञया दक्षणायुर्वेदे सम्यगुप- दिष्टाविति विदितम् । अश्विनीकुमारौ-६. तथैव महाप्रभो! वरतनया:- श्रेष्ठपुत्राः दैत्या इति यावत् येन सः तस्य सम्बुद्धिः । अत एव इन्द्रस्य 'जिष्णु:-' वृद्धश्रवाः इत्यादिनामानि । इदं वृत्तं अतिजगती- छन्दसि जातेषु १६३८२ संख्याकवृत्तेषु ४०९६ तमं 'हिताल्यं' वृत्त भवति । तल्लक्षणम् 'श्रुतियुगशरननननगहिता' इति ॥१॥ ४. बहवो भवन्ति किल महीन्द्राः त्वं तु महेन्द्रः सर्वाधिकप्रभुरिति सम्बोधनाभिसन्धिः हरिहरेति-भो अमरवरपते - सुरश्रेष्ठ अव्याजभावात् निर्निमित्तं हरिहरपदसक्ता-विष्णो: शिवस्य च पदेषु सक्का-विहिता, भक्ति:- प्रेमभावः त्वां-प्रत्यहं-सर्वदा, रक्षतु-पालयतु । त्वयि रक्षिते वयं सर्वे रक्षिता एव । कथम् ? जगति-लोके, बलयुतानां-प्रबलानां श्रेष्ठानामिति यावत् । आश्रयः- अवलम्बनम् अबलपरिजनानां-दुर्बलसेवकजनानां श्रेयसे भूतये च स्थिरसुखयशसे, सर्वसम्पदभिवृद्धये च स्यादिति-एषा नीतिः इयं लोकोक्तिः महतामाश्रयः कर्तव्य इत्यमिसन्धिना दर्शिता । इन्द्रस्य श्रेयःप्रार्थनारूपेय- माशीः । मालिनीवृत्तम् ॥२॥ ५. भवतामाशीमें सर्वश्रेयोनिदानमित्यनेन ननभावस्सूचितः । अथ अश्विनीकुमारयोः प्रशस्तिप्रसङ्गः महेन्द्रेण क्रियते । तपैवेत्यनुमोदः । । ।

जीवसीविनीनाटकम् १५ ! महेन्द्रः-७. ताविह अमरभिषजौ भवितुमर्हत इति ममामि- प्रायः। भवतां मतमत्र किम् ? ऋषयः-८. सम्मतमेवेदं सर्वेषाम् । त्रिकालज्ञः-९. देव ! इतः परं त्रिभुवने रोगमयं न सम्प- द्यते इति मन्ये । शची-१०. अपि च स्त्रीणां रोगः प्रसवसहजो नित्य इत्युच्यते हा तासामाभ्यां समयरचिता सत्फला स्थाञ्चिकित्सा । मातापत्यं कुशलकलिते तोषभाजी तयेति प्रत्याशा मे सपदि भवतां सन्निधौ नन्दयेत्तौ ॥३॥ इह-स्वर्गलोके नासत्ययोर्देवभिषपदानुग्रहाय स्वयं शक्तोऽपि शक्रः ऋषिजनानामङ्गीकारं प्रार्थयते । अनेन राष्ट्रसम्बन्धिमहाकार्येषु राज्ञा प्रजानुमतिरवश्य सम्पादनीयेति ध्वनिः । ८. सर्वसम्मतिं दर्शयन्ति ऋषयः । कुतः ? सर्वामराणां प्रतिनिधय इति भावेन । ९. अश्विनीकुमारमुखादायुर्वेदप्रभावः सर्वत्र प्रचलति । तेन सर्वेषाम् उपतापनिवारणं भवतीत्याशयः । १०. 'अपि चेति' शचीवचनम् उत्तरश्लोकामिप्रायगमकम् । स्त्रीणामिति-स्त्रीणां पतिवत्नीनां प्रसवसहजः- प्रसूतिकाले स्वभावतः उत्पद्यमानो रोगः- प्रसूतिबाघोपतापः नित्यः- नियतः । या प्रसवित्री सा नियमेन प्रप्तवबाधामनुभवत्येवेत्याकूतम् । 'उच्यते' इत्यनेन इदं सर्वविदित- मित्यभिप्रायः। 'हे'ति खेदमूचको निपातः शच्या स्वयमनुभूतप्रसववेदना- ज्ञानेन सर्वामिः प्रसवित्रीभिः एतादृशबाधा अनुभूयते इत्यन्तापं सूचयति । तासां तादृशस्त्रीणाम् आभ्याम्-अश्विनीकुमाराभ्यां समयरचिता चिकित्सा- प्रसवकाले कृता चिकित्सा, सत्फला स्यात्-प्रयोजनकरा स्यादित्यनेन प्रसव- 9 ६६ द्वितीयोऽङ्कः महेन्द्रः-११. देवि ! अभिज्ञासि । तव अभिनन्दनेन एतावाश्विनेयौ स्त्रीरोगचिकित्सायां विशेषावधानपरौ भवेतामिति ममापि प्रत्याशा। त्रिकालज्ञः-१२. भो देवि ! मोदेव ! किमत्राशङ्का । इमौ वाणीब्रह्मणोरनुग्रहेण महाकार्येष्वपि प्रतीकारप्रमविष्णू इति चिन्त्यताम् । महेन्द्रः-१३. प्रयोगसिद्धिरेव प्रतिष्ठास्थानं भिषजाम् । त्रिकालज्ञः-१४. किमद्यापि चिकित्सायां विचिकित्सा ? पश्य भैरवेणेदानी स्वयंभुवः शिरश्छिन्नम् । तत्संहननाथ देवादयः दरसाहाय्यमपेक्षन्ते । काले सूतिकागृहे वा, महाननोपयुक्तसूतिकाशालायां वा सवैद्यसान्निध्य- बलात् सुमङ्गलास्सुखप्रसवेन मङ्गलभाजो भवंत्वित्यभिप्रायः । तया-तादृश- चिकित्सया माता-प्रसवित्री अपत्यं गर्भस्थशिशुर्वा भायमानशिशुर्वा, जात- शिशुर्वा उभे कुशलकलिते, क्षेमयुक्ते सती, तोषमानी-सन्तोषपात्रे भवताम् इति मम प्रत्याशा-निरीक्षणमिति यावत् । सपदि भवतां सन्निधौ-इदानीं सर्वेषां युष्माकं सन्निधाने, तौ नन्दयेत्-अश्विनीकुमारौ प्रोत्साहयेत् । मत्प्रार्थनया नासत्यौ स्त्रीजनप्रसूतिचिकित्सायां विशेषेणावधानपरौ भवता- मिति सारांशः । मन्दाक्रान्तावृत्तम् ॥३॥ ११. इन्द्रः शचीमभिस्तुत्य तस्याः अभिप्रायमेव प्रकटयति । १२. तदितराऽसाध्येषु महाव्याधिष्वपि चिकित्सासिद्धिमेतौ वाणी- ब्रह्मणोरनुग्रहेण प्राप्ताविति भूतार्थ प्रकाशयति त्रिकालज्ञः । १३. प्रयोगः- भैषज्यप्रयोगः । तस्य सिद्धिः रोगपरिहारो भवति चेत्-तदैव तत्प्रयोक्तृणां कौशलं प्रागल्भ्यं च लोकविदितं भवतीत्यभिप्रायः । १४. चिकित्साविषये कुतस्संशयः। तत्परीक्षावसरः प्राप्तः किल । यतोऽद्य नासत्याभ्यां भैरवेण छिन्नस्य ब्रह्मणश्शिरसः सन्धानकार्य क्रियते । तय ताभ्यां तत्रेदानीमेव गम्यते ।

जीवसञ्जीविनीनाटकम् महेन्द्रः-१५. कथं विदितमिदं भवता ।न कोऽपि सन्देश केनापि प्रेषितः किल । ऋषयः-१६. महेन्द्र ! अयं त्रिकालज्ञो महर्षिः । लोके यत्र कुत्रापि जातः शब्दः तदुत्पत्यनुपदमेवास्य श्रोत्राकासमधितिष्ठति । महेन्द्रः-१७. किमिदमाकाशस्य विक्षुत्वात् ? ऋषयः-१८. न केवलमाकाशस्य विभुत्वात् - ऋषिजनानां प्रभुत्वाचा महेन्द्रः-१९. तर्हि सर्वेषां भवतु भवतां प्रभुत्वम् । ऋषयः-२०. तद्भवेद्यदि नो बहिर्मुखं न भवेच्चित्तम् । अस्य त्रिकालज्ञमहर्षस्तु दैवानुग्रहेण इच्छामात्रादन्तर्मुखं भवति चित्तम् । तदा शब्दयोगमहिना सर्व निमेषकाले विदितं भवति । १५. केनापि तद्वृत्तान्तो न निवेदितः । तदधिगमनं भवतः कथ- मासीदिति प्रश्नस्य तात्पर्यम् । १६. अयं भूतमवद्भविष्यवृत्तान्तामिज्ञः। यत्र कुत्र प्रचलितवार्तामयं झटित्यवगच्छति । १७. आकाशो विभुः । तत्तस्मिन्नुहृताः शब्दतरङ्गाः देशादेश- मेकदैव प्रसपैतीति हेतोः किमित्याशंसाऽभ्यर्थितोऽयं प्रश्नकाकुः । १८. यथा शब्दप्रसरणाय आकाशस्य विभुत्वं कारण तथा तदधि- गमाय योगविदा प्रभावोऽपि कारणमित्युत्तरम् । १९. तथा चेद्भवन्तस्सर्वे प्रभाववन्त एव । तत्कुतो नाधिगम्यते भवद्भिस्ताहशवार्ता । २०. वयं त्रिकालज्ञ इस न तदैकनिष्ठाः अन्तर्मुखाः । अस्मत्समा- धिः चिरस्थायी न, मवति । अतः वयं समाधिस्था अपि निमित्तमात्रेण सुलभं बहिर्मुखा भवामः । अस्य चित्तं तु दैवयोगात् क्षणेन समाधिनिरूढं मवति । तत्प्रभावेणायं दूरस्थं विप्रक्रष्टं सूक्ष्मं च पश्यति-शृणोति च ।

द्वितीयोऽ महेन्द्रः-२१. सत्यम् । किन्तु तत्र अश्विनीकुमारयोस्सान्निध्ये कालविलम्बो भवति किल । पतितशिरसि तावत् रक्तशोषणेन सन्धानशक्तिः कुण्ठिता भवेदिति शङ्के । त्रिकालज्ञः-२२. न किश्चिदत्र शङ्कास्थानम् । इमौ नासत्यौ देवदेवप्रसादात् लब्धकामगतिकौ । महेन्द्रः-२३. तर्हि भो नासत्यौ ! गच्छतं तत्र शिरस्संहन- नाय । अहमपि कामरूपेण यद्यचिकित्साकार्य युवाम्यां सम्पाद्यते तत्सर्व दृष्टिगोचरं करवाणि । सर्व-२४. तथास्तु । ( सर्वे निष्क्रान्ताः) २१. इन्द्रः एतद्योगप्रभावमुररीकृत्य विचारान्तरे व्यापृतस्सन् अश्वि- नीकुमारयोः तत्राविलम्बेन सान्निध्यमपेक्ष्य तदर्थ हेतुं दर्शयति । छिन्नशिरसि शोणितं शोषितं चेत् यथावत्सन्धानं दुष्करमिति शङ्के। २२. भगवत्प्रसादलब्धवरप्रभावात - अश्विनीकुमारौ स्वेच्छागत्या क्षणादेव तत्र सान्निध्याय प्रभवत इति समाधानम् । २३. ब्रह्मणश्शिरस्सन्धानाय अश्विनीकुमारयोरनुज्ञां दत्वा इन्द्रः ताभ्यां करिष्यमाणं चिकित्सासंविधानं साक्षाद्रष्टुं स्वयमपि कामरूपेण तत्र सन्निहितो भवतीति सूचितवान् । २४. तत्सर्वेऽनुमोदन्ते । इति प्रथमदृश्यव्याख्या ।

जीवसनाविनीनाटकम् ॥ द्वितीयदृश्यम् ॥ ! - विविधप्रदेशाः (ब्रह्मर्षयः प्रविशन्ति) ब्रह्मर्षय:-१. आः ! कष्टम् ॥ कष्टम् ॥ स्वयंभुवश्शिर क्रुद्धेन भैरवेण च्छिन्नमत्र पतितं वर्तते - तस्माद्रक्तं प्रवहति - तत्सन्धानाय आश्विनेयावाहूतौ-तावद्यापि नागतौ । रक्त शोषणं गते तत्सन्धान- मसाध्यम् । किं कुर्मः । हा देवाः । (तदैवाश्विनीकुमारौ सशस्त्रौ प्रविशतः । कामरूपी इन्द्रोऽपि अश्विनीकुमारयोश्चिकित्साचातुर्य सन्द्रष्टुमदृश्यस्सन्निहितः) ब्रह्मर्षय:-२. (ऊर्ध्वमवलोक्य) अहो आगतावेव नासत्यौ ! भो अश्विनौ ! स्वागतं वाम् । प्रकृतकार्यमविलम्बेन साधयतम् । इदं स्वयंभूशिरः । इदं शीर्षरहितं तद्वमं । अनयोस्सन्धानमिदानी- मपेक्ष्यते। द्वितीयदृश्यव्याख्या १, 'आः' इति निपातः अश्विनीकुमारागमनविलम्वेन जनितं व्यसनं सूचयति । कष्टं कष्टमिति पदद्वयं तव्यसनमुद्बोधयति । अतिशयार्थे द्विरुक्तिः। छिन्नशिरस्थितिमुपवर्ण्य देवभिषगागमने विलम्बं परिभाव्य “किं कुर्मः हा देवाः" इति व्यसनस्योत्कटावस्थां प्रकटयन्ति ब्रह्मर्षयः । २. ऊर्ध्वावलोकनेन नासत्ययोरागमनं वीक्ष्य सविस्मयहर्षेण तयो- स्वागतमाशंस्य शिरस्सन्धानकायें तौ प्रेरयन्ति। अत्र 'अहो' इति निपातः विस्मयं प्रशंसां च द्योतयति । तथा चोक्तम्-"अहो धिगर्थे शोके च करुणार्थविषादयोः । सम्बोधने प्रशंसायां विस्मये पादपूरणे । असूयायां वितर्के च प्रायशोऽहो प्रयुज्यते । अहो बतानुकम्पायां खेदाऽऽमन्त्रणयो- स्तथा" इति।

द्वितीयोऽङ्कः । अश्विनौ-३. नमो वो ब्रह्मर्षिभ्यः । कर्तव्यमचिरात्सम्पाद्यते। (इति पटान्तरं कृत्वा रुण्डस्योपरि शिरस्सन्धाय तत्परितः औषध- विशेषेण लेपमाधाय सूच्या परिसाव्य सञ्जीविनीरसं वक्तेऽभिष्यन्ध मूलमन्त्रैरभिमन्व्य स्वयंभुवं सशिरस्कं सजीवितं कुरुतः) सर्वे–४. चित्रम् ! चित्रम् !! पूर्वक्षणे गतशिरस्कः उत्तर- क्षण-एव सन्नद्धशिरा भवति स्वयंभूः । अहो ! अश्विनीदेवतयोः चिकित्साप्रभावोऽन्यादृशः । मो दसौ- । ३. ब्रह्मर्षीन्नमस्कृत्य प्रकृतकार्ये व्याप्रियेते । चिकित्सा पटान्तरे कुतः क्रियते इति चेदुच्यते । (१) शस्त्रचिकित्साकार्यमतिजागरूकतया निवर्तितव्यं खलु । तदर्थ निश्चलावधानमावश्यकम् । जनबहुले स्थले तस्य नावकाशः । (२) चिकित्स्यमानजनसम्बन्धिनो बन्धुजनाः यदि चिकित्सा पश्येयुः तदा ते करुणाईचित्ताः विलपेयुः । तेन चिकित्सकस्यावधान प्रचाल्यते । तेन महान् प्रमादोऽपि सम्भवेत् । (३) शिरस्संविधानादि- महाचिकित्सोपदेशः गुरुजनात्प्राप्तः । तत्र भगवद्ध्यानपूर्वकं रहस्यमन्त्रो- ञ्चारणमपि कदाचिदावश्यकम् । तत् प्रकाशेन न कार्यम् । एतादृशप्रतिबन्ध- निवारणाय चिकित्सा पटान्तरे विहिता । आधुनिकचिकित्साकोविदैरपि तथा क्रियत इति इदमुपपन्नम् । मुण्डस्योपरि रुण्डस्य स्थापनं तत्सन्धिमागस्य सूच्या सीवनं तत्परितः औषधविशेषलेपनं कार्पासादिनाऽऽच्छादनं समुचित- पटपेश्या लघुबन्धनमित्यादीनि साधारणचिकित्साकर्माणि । तत्र प्राणप्रवे- शस्तु असाधारणं कार्यम् । तदैवानुग्रहेण सद्गुरूपदेशबलेनैव भवितव्यम् । तत्र धुरीणावश्विनाविति तयोर्माहात्म्यं तथैव ब्रह्मशिरस्सन्धानकृतिमुखा- त्प्रदर्शितमिति प्रकृतार्थः । ४. संहितशिरस्कं सजीवं ब्रह्माणं दृष्ट्वा सर्वे आश्चर्ययुक्ताः अहुत- चिकित्साकर्तारौ अश्विनीकुमारौ बहुधा प्रशंसन्ति यथा-ME जीवसजीविनीनाटकम् मोदामहे भृशमहो भवदीयविद्या- चातुर्यमत्र सुसमीक्ष्य विभिन्नशीर्षे । सन्धानमाशुफलदं बहुशंसनीयं जीयास्तमत्र विमवैर्जगतीहिताय ॥४॥ स्वयम्भूः-५. तथास्तु ! तथास्तु !! भो नासत्यौ इतः परं- युवभ्यामिह हासाध्यं युवाभ्यां साधितं मयि । आशिषा मे युवां लोके भवतं यज्ञभागिनौ ॥५॥ अश्विनीकुमारौ-६. भो देव ! धन्यौ स्वः । कृतज्ञौ स्वः । नेपथ्ये-७. हा ! देवासुरसमरे पूष्णो दन्ताः भग्नाः । भो नासत्यौ ! तचिकित्सार्थ क्षणादागच्छतम् । मोदामहे-इति अत्र-अस्मिन् शिरस्सन्धानकार्ये भवदीयविद्याचातुर्य युवाभ्यां प्रदर्शितकलाकौशलं विभिन्नशीर्षे सन्धान ब्रह्मणःशिरसंहनन- कार्यञ्च, सुसमीक्ष्य दृष्ट्वा, भृशं मोदामहे-अत्यन्तं तुष्टा भवामः। एतत्कार्यम् आशुफलदं सद्यस्सिद्धमिति हेतोः, बहुशंसनीयं बहुभिर्बहुधा स्तूयमानं भवति । अतः जगतीहिताय-लोकोपकाराय युवां नासत्यौ विभवैः समस्तपरि- करैः (ज्ञानवैभवादिभिरिति यावत् ) जीयास्तं-दीर्घकालं जयशालिनौ भूयास्त- मिति ऋषिजनाशीः । वसन्ततिलकावृत्तम् ॥४॥ ५. तदनुमोदेन ब्रह्माप्येवमाशास्ते । युवभ्याभिति-इह-अस्मिन् जगति युवभ्यां युवाभ्यां यौवनदशामनुभवद्भयां भवद्भ्यां मयि-मच्छिरस्सन्धानविषये असाध्यं साधितम्-इतरभिषगसाधारणं कर्म निर्वतितम् । 'ह' इत्यवधारणे । एतदुपकाराय मे आशिषा-मम आशीर्बलेन भवन्तौ लोके भूलोके यज्ञ- मागिनौ भवतं यज्ञभागं प्राप्नुतम् इति प्रत्युपकाररूपानुग्रहः ब्रह्मणा कृतः॥५॥ ६. एतदसाधारणानुग्रहाय धन्यवादः कृतज्ञता च प्रदर्शिता अश्विनी- कुमाराभ्याम् । ७. पूषेति सूर्यस्य नामान्तरम् । तञ्चिकित्सार्थ दन्तबन्धार्थम् । ।

द्वितीयोऽङ्कः ! अश्विनीकुमारौं–८. (श्रुत्वा - सर्वानभिवन्ध पूष्णस्समीप- मागतौ) पूषा-९. अभिवादये वां देवभिषजौ । इदानीमहं युवाभ्यां रदनचिकित्सामपेक्षे । अश्विनीकुमारौ-१०. नमस्ते पूषन् । व्यादीयतामास्यम् । पूषा-११. इदं व्यात्तम् । अश्विनीकुमारौ-१२. भोः पूषन् ! क्षणं स्तिमितो भव । अचिरात्सुस्थितो भवसि । (इति वदन्तौ पतितदन्तान् समीकृत्य दन्तमूलेषु निक्षिप्य ओषधीविशेषरसेन विलिप्य अभिमन्व्य यथा- वदकुरुताम्) पूषा-१३. कृतज्ञोऽस्मि । पतिता दन्ता भूयो ह्यदिता युवयोः प्रसादतो मेऽद्य । सुलभं खाद्यादीनां चर्वणमास्यस्य भूषणं वाचः ॥६॥ ८, सर्वान-पूर्वस्मिन् चिकित्सास्थाने ये सन्निहिताः तानित्यर्थः । ९. रदनचिकित्सां भग्नानां दन्तानां पुनर्यथावबन्धनरूपाम् । १०. वक्तविवरं विस्तारयेत्यभिप्रायः- दन्तानां पूर्वस्थानानि परीक्ष्य तत्रापेक्षितलेपनादिकार्यसौकर्यार्थम् । ११. पूष्णा तथा कृतम् । १२. स्वल्पकालं निश्चलस्थित्या तदुत्तरक्षणमेव स्वस्थो भवतीति तात्पर्यम् । अत्र दन्तबन्धनकर्मविधानानि सर्वसाधारणान्यपि नैनैः दद्भिरेव बन्धनसिद्धिः 'अभिमन्त्र्य' पदेन घोतिता मन्त्रप्रभावेण सम्पादितेति विशेषः । १३. उत्तर श्लोकेन कृतज्ञतां दर्शयति- पतिता इति-मे-मम पतिता दन्ताः-आख्यात् च्युताः,च्याविताश्व रदना युवयोः अंसादेन-युष्मचिकित्साबलेनेति यावत् । अद्य उदिता हि-पूर्वस्थि- जविसजीविनीनाटकम् ७३ नेपथ्ये-१४ हा ! भगस्य नेत्रे नष्टे । कुत्रस्थावश्विनौ । अश्विनीकुमारौ-१५. (श्रुत्वा) इदमिदमस्त्यवगतम् । आवा- मागतौ । (इति भगस्यान्तिके सन्निहितौ । नष्टनेत्रस्थानयोः सिद्धा- अनलेपेन नेत्रगोलके पुनस्सन्धाय नेत्रमलं रजतशलाकया निस्सार्य रक्तवाहिनीर्धमनीस्संशोध्य-परिष्कृत्य - बीजमन्त्रबलेन पूर्ववन्नेत्रदृष्टि- पाटवं साधितवन्तौ) भग:-बुद्धीन्द्रियेषु प्रमुखं हि नेत्रं तद्धीनमन्धं प्रवदन्ति सन्तः। अदृष्टदृष्टिर्नहि तुष्टिदात्री प्रयत्नतो रक्षत दृष्टदृष्टिम् ।।७।। तिमापन्ना इत्यभिप्रायः। अनेन खाद्यादीनाम्-आदिपदेन भोज्यमपि गृह्यते । चर्वणं भोजनद्रव्यस्य रसरक्तादिपरिणामेन सात्मतानयनाय विशेषेण वदने दन्तव्यापारेण मार्दवकरणमत्यावश्यकम् । आस्यस्य भूषणं वदनालङ्कारः । दशनविहीनाः युवानोऽपि वृद्धा इव दृश्यन्ते किल । वाचो भूषणं स्पष्टोच्चा- रणसामर्थ्यम् । भग्नदन्तानां वचनानि शिशुवचनानीवाऽस्पष्टानि खलु । एतत्सर्वमिदानीं सुखेन निर्दुष्टं भवति । एतत्कार्य युवयोः प्रसादेन साधित- मिति कृतज्ञतासूचनम् ॥६॥ १४. मग इति सूर्यस्यैव रूपान्तरनिमित्तकं नामान्तरम् । एतदनि- रीक्षितकार्यमपि देवासुरयुद्धे असुरैरेव कृतमित्यर्थः । १५, एतच्छ्रवणानुपदमेव अश्विनीकुमारयोर्भगस्य समीपे सान्नि- ध्यशक्तिः ब्रह्मणो वरादिति मन्तव्यम् । प्रथममञ्जनलेपः-तदुपरि नेत्रगोल- कस्थापनं नेत्रमलनिस्सारणं धमनीशोधनमित्यादयः नेत्रचिकित्सापरिकर्माणि। बीजमन्त्रबलेन यस्य यस्य इन्द्रियस्य यस्य यस्य रोगपरिहारस्य वा या या देवता विहिता तस्यास्तस्याः प्रभावाभिधायकाः श्रुतिप्रसिद्धाः मूलमन्त्राः । ततः तबलातु चिकित्सासिद्धिरित्यार्याणां श्रद्धा । बुद्धीन्द्रियेति-ज्ञानेन्द्रिय- नाम्ना विदितेषु-त्वचक्षुश्श्रोत्रजिह्वाघ्राणेषु प्रथम प्रधान नेत्रमेवातिमुख्य- मिति । तद्धीनमन्धं नेत्रहीनम् अन्धमिति च प्रवदन्ति सन्तः-तत्त्वविदां मतं 10 द्वितीयोऽङ्कः । -- नेपथ्ये-१६. (अहो ! दैत्यानां समरप्रागल्भ्यम् । स्तम्भी- कृतोऽमरपतिः। देवसेनाः सर्वत्र क्षताः। अद्य नासत्यावेव नश्शरणम् ।) अश्विनीकुमारौ-१७. (श्रुत्वा) इमावावामागच्छावः । (इति तूर्णं रणाङ्गणं गत्वा क्षतं देवसैन्यं विविधैरौषधैर्लेपविशेषैश्च अक्षतं विधाय वैद्यकलया मन्त्रशक्त्या च वज्रिणो भुजस्तम्भनं निवारयतः) नेपथ्ये-१८, (अहो ओषधीनां राजा राजयक्ष्मणा पीड्यते तत्परिहारः आश्विनेययोहस्तगतः) अश्विनीकुमारौ-१९. (श्रुत्वा) (परिधाव्य राजयक्ष्मणो निदान ज्ञात्वा तत्परिहारमचिरात्सम्पाद्य चन्द्रेणैवं प्रशंसितौ) लोकानुभवश्च । अदृष्टदृष्टिः-न दृष्टा (न ज्ञाता)-अदृष्टा (अज्ञाता) अहष्टा च सा दृष्टिश्च (दर्शनशक्तिश्च) - अदृष्टदृष्टिः । यस्याः दृष्टे शनशक्ति नष्टेति तात्पर्यम् । सा दृष्टिः तुष्टिदात्री न-तृप्ति न जनयतीत्यर्थः दर्शनयोग्यता. भावात् । मनुष्याणां सर्वदा अष्टाऽवलम्बनं न श्रेयस्करमिति श्लेषोऽपि ध्वन्यतेऽत्र । अतः प्रयत्नतः सर्वप्रकारेणापि दृष्टदृष्टिं रक्षत-दृष्टा-ज्ञाना (स्वेन वा अन्यैर्वा विदितेत्यर्थः) च सा दृष्टिश्च (दर्शनशक्तिश्च) दृष्टदृष्टिः दृष्टिः दर्शनयोग्या यथा भवति तथा तामवतेत्यनेन दृष्टं फलं यत् तत्साधने प्रयत्नं कुरुतेति अर्थान्तरमपि ध्वन्यते । देवपुरुषकारयोः पुरुषकारः बलीयान् इति पुरुषकारवादसमर्थकः । वृत्तमु जातिः ॥७॥ १६, देवेन्द्रस्य स्तम्भनं तत्सेनायाः क्षतिरित्यादिकं दैत्यानां समर- विद्याकौशल्यप्रदर्शकमिति भावः । १७. स्तम्भनक्षत्यादिचिकित्सा वैद्यविद्याप्रभावेण मन्त्रशक्या च साधितेत्यभिप्रायः । १८. ओषधीनां राजा-चन्द्रः । “ओषधीशो निशापतिः" इति नामलिङ्गानुशासनम् | राजयक्ष्मा-प्रबलरोगविशेषः - क्षयरोगः । १९. निदानं रोगकारणम् । परिहार -औषधेन मन्त्रजपादिना च सम्पादित इत्यभिप्रायः । तथा चोक्तम्-"पूर्वजन्मकृतं पापं व्याधिरूपेण जीवसञ्जीविनीनाटकम् रोगनिवारणमोषध्या राज्ञि मयीदृशमोषध्या । रोगमवाधमपोटुं भो भूरि युवामिह शक्तौ भोः ।।८।। नेपथ्ये-२०. अहो ! च्यवनऋषिः शापेन वृद्धो भूतः विकृति च गतः । स इदानीं स्वस्थ वीर्यवर्णस्वरसम्पादनाय नासत्यौ प्रार्थयते । कुत्र स्तस्तो । बाधते । तच्छान्तिरौषधैर्दानैः जाहोममुरार्चनैः” इति । क्षयग्रस्तः यथा दिने दिने कृशो भवति तथा चन्द्रकलाः कृष्णपक्षे प्रतिपदारभ्य अमावास्या- पर्यन्तं क्रमेणादृश्या भवन्तीति कारणेनात्र चन्द्रस्य क्षयः उत्प्रेक्षितः । तन्निवारणम् अश्विनीकुमारमुखात्सम्पादितमिति च उत्प्रेक्षावचनमेव । वस्तु- तत्त्वं तु कृष्णपक्षे चन्द्रस्य भूमेस्सुदूरं सञ्चारवशात् सूर्यतेजमा चन्द्रप्रभाया तिरोधानात् रात्रौ चन्द्रः अस्पष्टमसम्पूर्ण दृश्यते । अमावास्यायां सम्पूर्ण कलाः तिरोहिता भवन्ति । अश्विनीनक्षत्रसन्निधानेन चन्द्रप्रकाशः वर्धते । इषमासे पूर्णिमा अश्विनीनक्षत्रयुक्ता भवति । तदा चन्द्रस्य प्रकाशः विशेषेण भवति । अत अत्यन्तशुक्लं वस्तु शरच्चन्द्रचन्द्रिकाधवलमिति कविभिर्व- य॒ते । इति चात्र ज्योतिश्शास्त्रतत्त्वम् । रोगनिवारणमिति-ओषध्याः राज्ञि-ओषधीशे मयि ईदृशं रोग- निवारणं मम राजयक्ष्मपरिहारः ओषध्या-औषधप्रभावात्सम्पादितः । भो भोः हे अश्विनीकुरौ रोगमबाधमपोढुं सुखेन रोगपरिहारकार्ये इह युवां भूरि- शक्तौ-युवामेव बहुधा शक्नुथः नान्ये इति प्रशंसावचनम् । इदं पधं उष्णिक् छन्दोजातेषु ५१२ तमवृत्तेषु ५५ तमं वृत्तं भवति । तस्य हंसपदीति नामनिर्देशः क्रियते । तल्लक्षणम्-"हंसपदी मममैः ख्याता" । इति । २०. शापेन-कस्यचिन्महानुभावस्य शापेन । वीर्यवर्णस्वरसम्पादनाय- शरीरे वीर्य (बलम्) अङ्गेषु वर्णः (कान्तिः) वाचि स्वरः (ध्वनिशक्तिः) तेषां पुनरधिगमाय ।

द्वितीयोऽङ्कः अश्विनीकुमारौ-२१. आवामत्रैव स्वः अचिरात्तत्र भवावः । (इति स्वयमनुचिंत्य च्यवनं प्राप्य रसायनविशेषप्राशनेन तं युवानं सुवर्ण सुखरं च कुरुतः) च्यवनः-२२. भो आश्विनेयौ ! भवदनुग्रहेणाहमिष्टसिद्धो भवामि । भवतोभैषज्यकौशल्यं देवेषु यथा, अस्सादृशेषु ऋषिजनेषु यथा तथैव भूलोके रोगपीडितानां जनानां विषयेषु सद्धिषङ्मुखात् प्रसरतु । अश्विनीकुमारौ--२३. तथास्तु । (तदा इन्द्रः प्रत्यक्षो भवति । तं दृष्ट्वा) अश्विनीकुमारो-२४. अभिवादयावहे अमराधिपमस्मत्स्वा- मिनम् । इन्द्रः-२५. दीर्घमायुर्भवतु भवतोः। अहं कामरूपो भूत्वा युष्मदापादितं सर्वमपश्यम् । ममापि युवाम् आयुर्वेदोपदेशे गुरुस्था- नीयौ भवतमित्यभ्यर्थये। २१. रसायनविशेष प्राशनेन - अस्मिन्नौषधविशेषे रसः पादरस' इति विदितो धातुविशेष एव मुख्य इति व्युत्पत्या रसादिधातुविशेषकृतौष- धविशेषस्य प्राशनेन-सेवनेन च्यवनस्स्वस्य यौवनं सुवर्णरूपं निजस्वरं च पुनस्सम्पादितवानित्यभिप्रायः । २२. ब्रह्मादिदेवेषु-च्यवनादिऋषिजनेषु च नासत्ययोः वैद्यप्रमावो विदितः तथा योग्यानां भिषजाम् आयुर्वेदतत्वान्युपदिश्य तन्मुखान्मर्त्यलोक- निवासिनामपि आरोग्यभाग्यं तन्वाथां युवामित्याशयः । २३. अश्विनीकुमाराभ्यामेतदङ्गीक्रियते । २४. अस्मत्स्वामिनं प्रभुम् । २५. भवन्तौ गुरुस्थानीयौ भवतम्-मम आयुर्वेदोपदेशं कुरुतमित्य- शिपाय:।

जीव सञ्जीविनीनाटकम् अश्विनीकुमारी-२६. किमाश्रितजनेष्वप्यभ्यर्थना? आत्मने यद्रोचते तत्सम्पाद्यते । अप उपस्पृशतु भवान् । इन्द्रः-२७. (तथा कृत्वा) अवहितोऽसि । उपदिश्यताम् । अश्विनीकुमारौ-२८. (कर्णे एवमेवमिति दक्षादीतां स्वीया- मायुर्वेदसंहिता उपदिशत!) इन्द्रः- हे अश्विनौ ! आयुर्वेदोपदेशादहमिह सुकृती संहिता सङ्ग्रहार्थी निर्मायाऽस्याविशेषाद्भुवनहितमतिः क्षेमचिन्तापरीन् । आत्रेयादीन् सकाले भुवि समुपदिशन् रोगबाधां जनानां हृत्वा श्रित्वाधिपत्यं त्रिभुवनकलितं भामि कीाप्तदेहः ॥९॥ २६. इन्द्रः स्वामी अश्विन्यादयः आश्रिताः । अपां स्पर्शन मूलमन्त्रोपदेशसिद्धयर्थं सम्प्रदायानुगतम् । २७. एकाग्रचित्तो भवामि । २८. कर्णे एवमेवभित्यादिना मूलमन्त्र एवोपदिश्यते । तत्प्रमावेग उपदेष्टव्यज्ञातव्यांशास्सर्वे प्रतिभान्तीति द्योत्यते । आयुर्वेदेति - इह - त्रिभुवने, आयुर्वेदोपदेशात् - अश्विनीभ्या- मुपदिष्टस्यायुर्वेदस्य प्रभावात् अहं सुकृती-अहं (इन्द्रः) कृतकृत्यो भवामि सङ्ग्रहार्थी संहिता निर्माय-सङ्ग्रहरूपामायुर्वेदसंहितामारचय्य अस्याः विशेषाद्भुवनहितमतिः- अनया संहितया भुवनस्य विशेषहितं भवत्विति बुद्धया क्षेमचिन्तापरान् आत्रेयादीन् - लोकहितैषिणः आत्रेयादिमहर्षीन् सकाले समुपदिशन्-यदा यदा ऋषयः मदन्तिकमागच्छन्ति तदा तदा तेषामुपदेशं कुर्वन् जनानां रोगबाधां हृत्वा विविधाऽमयप्तञ्जातीनि दुःखानि निवार्य त्रिभुवनकलितम् आधिपत्यं श्रित्वा-त्रिलोकप्रभुत्वमाश्रित्य कीर्त्याप्त- देहः भामि-यशोवान् भूत्वा प्रकाशे । अनेन इन्द्रेणापि सङ्ग्रहरूपायुर्वेद संहिता निर्मिता-सा ऋषिभिरधिगतेति भावार्थो बोध्यः। स्रग्धरावृत्तम् ॥९॥ - द्वितीयोऽङ्कः अश्विनीकुमारौ-२९. तथास्तु । तदेव प्रियमावयोः । इन्द्रः- जीवे सञ्जीविनी भूयान्मत्प्रसादाद् भिषङ्मणिः । भिषजां जायते वैये परीक्षा तन्मुखाद्भुवि ॥१०॥ अश्विनीकुमारो-३०. अस्सदनुग्रहेण सर्वे भिषजः यदा चिकित्सापेक्षा तदा तत्परीक्षायां विजयेन समुत्तीर्णा भवन्त्वित्या- शास्वहे। इन्द्रः-३१. प्रमोदस्थानमेतत् । अश्विनीकुमारौ–३२. साधयामः । (इति सर्वे निष्क्रान्ताः) २९. तदेव प्रियं लोकक्षेमकरणमेवाऽऽवाभ्यां रोचते । जीवेति-मत्प्रसादात् - मदनुग्रहात् जीवे - जीवदेवनामकराजपुत्रे सञ्जीविनी-तन्नाम्नी तत्पत्नी भिषङ्मणिभूयात्-भैषज्यकुशला भूयादित्याशीः । इयमाशीः कथं प्रकरणोचितेत्युक्ते-मया ऋषिभ्यो यदुपदिश्यते पारम्पर्येणो- पदिष्टानां तत्र निष्णातानां भिषग्वराणां तद्वैद्यकौशल्यं सञ्जीविनी कृतपरीक्षया विदितं भवतीत्युच्यते । यथा-मुवि-भूतले भिषनां वैये परीक्षा-वैद्यानां चिकित्साविद्यापरीक्षा तन्मुखाज्जायते -सञ्जीविन्या क्रियते । इत्यनेन अश्वि- नोरभिप्रेतं लोकक्षेमं मर्त्यलोकभिषगायत्तं तेषामायुर्वेदपाण्डित्यं समीचीनं पूर्ण रोगनिवारणक्षमं भवति वा न वेति परीक्षया निर्धारितव्यमित्याकूतम् । ३०. परीक्षायां सर्वे भिषजः विजयिनो भवन्त्विति तेषामाशासन- मश्विनीकुमाराभ्यां कृतम् । ३१. यदि ते विजयिनः तदा ममापि सन्तोष इत्यभिप्रायः । ३२. स्वस्वस्थानं गच्छाम इति यावत् । ॥ इति द्वितीयदृश्यव्याख्या ॥ gi जीवसीविनीनाटकम् ७९ ॥ तृतीयदृश्यम् ॥ ( विष्कम्भः) (आत्रेयभरद्वाजकाश्यपविश्वामित्रादय ऋषयः प्रविशन्ति) काश्यपः-१. भो महर्षिवयों आत्रेयभरद्वाजौ ! भवतो- रिन्द्रलोकगमने कोऽयमुद्देशः, कृपया कथ्यताम् । भरद्वाजः-२. सुरलोकंप्रति आवाभ्यामेकदैव नागम्यत । आत्रेयः-३. मयैव प्रथममगम्यत । मदुद्देशस्तु- चिन्ताक्रान्तो विविधगदतः पीडितान जन्मिनोऽहं दृष्ट्वा श्रुत्वा परिहृतिरतो गोत्रभिद्धस्तगेति । आयुर्वेदाधिगमधिषणः प्राप्य तं प्राप तं भू- लोके रोगापहरणकृते संहिता संस्कृतास्ते ॥११॥ वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । संक्षेपार्थस्तु विष्कमो मध्यपात्रप्रयोजितः ।" इति विष्कम्भलक्षणम् । अत्र मध्यपात्र इत्यस्य शुद्धपात्र इत्यर्थोऽभिधेयः अस्मिन्नाटके सर्वैरपि संस्कृतभाषयैव व्यवहार- सिद्धिरिति हेतोः । १. इन्द्रस्य सकाशादात्रेयभरद्वाजौ आयुर्वेदसंहितामधिगतवन्ताविति कयामवतारयितुमयं काश्यपस्य प्रश्नः । कृपयेत्यनेन वृत्तान्तश्रवणेऽत्यादर- स्सूच्यते । २. आत्रेयभरद्वाजौ विभिन्नकाले सुरलोकमगमगच्छतामिति कथ- नार्थमयं निषेधः । अगम्यतेति भाव लङि प्रयोगः ३. प्रथमगतः आत्रेयः स्वोद्देशं प्रकटयति- द्वितीयोऽङ्कः काश्यपः-- ४. भृशं सन्तुष्टास्मः । भवताऽधिगतायुर्वेदस्य खकृतसंहितां शिष्यमुखात्प्रचारयति भवानिति मन्ये । आत्रेयः-५. उपदिष्टाः खलु आग्निवेशादयः । कृतानि तैस्तन्त्राणि श्रुतानि तानि साध्वित्यनुमोदितानि च । काश्यपः-६. भो महर्षे ! भूतलवासिनां सौभाग्यमेतत् । भगवन् ! भरद्वाज ! भवान् खोदन्तं प्रकटयितुमनाः किम् ? भरद्वाजः-७. शृणुत भो:- दृष्ट्वाऽहं रोगबाधा जनततिविसृताः कायदा वर्मणां ताः। चेष्टानां बाधिका या निजबलसरणे रोधका धीतमोदाः। कारुण्यादेवलोकेऽधिगतपरिहतिर्वज्रिणाऽऽदिष्टमार्गे ख्यातायुर्वेदराशौ परिचयवशतो रुग्विनाशाय शक्तः॥१२ चिन्तेति-विविधगदतः-अनेकरोगेभ्यः-'गदतः-' इत्यत्र पञ्चम्यास्त- सिल्-गदेभ्य इत्यर्थः । पीडितान जन्मिनः-बाधितान् जनान् अहं दृष्ट्वा श्रुत्वा-कुत्रचित् प्रत्यक्षतो दृष्ट्वा क्वचिच्छुत्वा (साक्षाद्वा-कर्णाकर्णिकया वा) अतः परिहृतिः-तादृशरोगेभ्यः परिहारोपायः, गोत्रभिद्धस्तगेति-सुत्रामायत्तेति श्रुत्वा आयुर्वेदाधिगमधिषणः-आयुर्वेदोपदेशप्राप्तिपरः, प्राप्य तं इन्द्रमधिगत्य प्राप. तम्-आयुर्वेदोपदेशमधिगतवान् । किंच भूलोके-मर्त्यलोके रोगापहरणकृते- सर्वव्याधिप्रशमनाय संहिता संस्कृताऽऽस्ते-काचित्संहिता मया रचिताऽस्ति । मन्दाक्रान्तावृत्तम् । ४. संहिताप्रचार विधानं पृच्छति काश्यपः । ५. तदेवाऽऽत्रेयो विशदयति । स्वशिष्या अपि पृथक् पृथक संहिता रचितवन्तः तास्सर्वा निर्दुष्टा इति कथयति । ६. मरद्वाजवृत्तान्तश्रवणाय पुनः प्रश्नः । ७, भरद्वाजः कथयति- जीवसीविनीनाटकम् किं बहुना ! आयुर्वेदप्रभावेणाऽहं अन्ये रोगपीडिता ऋष- योऽपीदानी हतगदाश्चिरायुषो भवामः ! काश्यपः-८. किं भवतापि काचित्संहिता रचिता ? भरद्वाजः-९. रचिता प्रकटिता च शिष्यमुखात् । हृष्ट्येति—लोके-भूतले या रोगबाधाः चेष्टानां बाधिकाः-प्राणिनां शरीरावयवेन्द्रियैनिसर्गेण कर्तव्यानां व्यापाराणां प्रत्यर्थिन्यः निजबलसरणे रोधिका:- रसरक्तप्रचलने प्रतिबन्धिकाः वीतमोदा:- बुद्धिमान्यप्रदाः ताः वर्मणां कार्यदाः- शरीरकार्यकारिण्यः ननततिविमृताः- जनसमूहे व्याप्ताः रोगबाधाः- विविधोपतापजनितदुःखानि दृष्ट्वा-विदित्वा कारुण्यात्-पञ्जातानु- कम्पस्सन् देवलोके अमरलोके वज्रिणोपदिष्टमार्गे - इन्द्रेणोपदिष्टरीत्या अधिगतपरिहृतिम्सन - प्राप्तरोगप्रतीकारस्सन् ख्यातायुर्वेदराशौ-प्रसिद्धवैद्य- शास्त्रे परिचयवशत:- सम्यगभ्यासबलात् रुग्विनाशाय शक्तः- रोगनिवारणं कर्तुं प्रभवामि । अत्र पदस्वारस्यम्-'जनततिविस्ता' इत्यनेन ग्रन्थ्यादि- साक्रामिकरोगा अभिहिताः । 'वर्मणां कार्यदाः' इत्यनेन क्षयादयः, 'चेष्टानां बाधिकाः' इत्यनेन धनुर्वायुपार्श्ववाय्वादयः, 'निजबलसरणे रोधिकाः' इत्यनेन आमजनितन्वरादयः 'वीतमोदाः' इति पदेन मूर्छापस्मारादयः गृहीताः। 'कारुण्या'दित्यनेन भरद्वाजस्य व्याधिग्रस्तेषु प्राणिषु कियती करुणेति ध्वन्यते । परिहृतिरित्यनेन साध्यसाधनयोरभेदप्रतिपत्तिरङ्गीकृता । स्त्रग्धरावृत्तम् । अथ भरद्वाजेन वन्मित्रबन्धुभिश्चानुभूता आयुर्वेदोक्ता औषधशक्ति- रत्र निदर्शनमुखात्सूचिता। ८. भरद्वाजेनापि आयुर्वेदसंहिता रचितास्ति वेति ज्ञातुमयं प्रश्नः कृतः। ९. स्वेन रचिता संहिता प्रसिद्धा भवतीति तात्पर्यम् ।

द्वितीयोऽङ्कः स विश्वामित्र:-१०. अहो ! आयुर्वेदप्रभावः । भरद्वाज:-११. भवतापि तत्प्रभावः श्रुतपूर्वः ? विश्वामित्रः-१२. सर्वविदितमेतत् यदादिशेषः मत्स्यमूर्ते- भगवतो विष्णोस्सकाशादधिगतवेदः आयुर्वेदेऽप्युपदिष्टः । कदाचिद्भुवि चरो भूत्वा जनैरनुभूयमानान् विविधाऽऽमयान् वीक्ष्य कृपया रोगपरिहाराय यत्तन्त्रं निर्मितवान् तदेव 'चरक' नाम्ना विश्रुतम् । आत्रेयः-१३. बहुमन्तव्योऽयं व्यापारः । साधवो लोक- हिताय प्रगल्भन्ते । विश्वामित्र:-१४. शृणुतेमामन्यां कथाम् - त्रिजगत्पालको महेन्द्रः धरण्यां प्रसृतान् विविधविचित्ररोगान् साक्षाद्वीक्ष्य कृपा- १०. विदितायुर्वेदप्रभावः विश्वामित्रः सन्तोष प्रदर्शयति । ११. कथं तस्य आयुर्वेदप्रभावपरिचय इति पृच्छति । १२. चरकग्रंथनिर्माणकारणं विशदयति । अत्र चरतीति चरः (चरधातोष्ट' प्रत्ययः)- गुप्तवेषधारी आदिशेषः, प्राणिभिरनुभूयमानानां दुःखानां समीक्षणार्य भुवि कृतसञ्चारवशादादिशेषस्य 'चरक'इति नाम । तत्कृतग्रंथस्यापि 'चरक' इति नाम । अयमेव पतञ्जलिरिति च विदितः । यथा"योगेन चित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन । योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि" इत्यादि वचनान्यत्र प्रमाणानि । अनेन योगसूत्रकर्ता-व्याकरणभाष्यकर्ता - चरकसंहिताकर्ता-च एक एव पतञ्जलिरादिशेषावतार:- स एव चरकनाम्ना विदितो भातीति स्पष्टमभि- हितम् । १३. साधूनां नैनो व्यापारः सूच्यते । १४. अत्र धन्वन्तरिप्रादुर्भावकारणमावेद्यते स इन्द्रस्याऽऽज्ञया अवततारेति कथासारः । तस्य दिवोदासनाम्ना काश्यां प्रसिद्धिः तन्मुखा- ।

जीवसनीविनीनाटकम्
चेताः खसभायां स्थितं धन्वन्तरिमाहूय-"त्वं दिवोदासनाम्ना काश्यां
प्रादुर्भूया" इत्यादिदेश । तथैव सः काशीराजो भूत्वा काले तपो-
वृत्तिमाश्रित्य रोगनिदानतत्परिहारोपायकलितां संहितां चकार
तच्छिष्यास्तमधीत्य लोके भिषग्वरा भवन्ति ।
काश्यपः-१५. क एते तच्छिष्याः कथयतु भवान् ।
विश्वामित्र:-१६. तेऽप्यनेके । तेष्वेको मत्सुतः ।
सर्वे-१७. तव सुतोऽपि भिषग्वरः १ कथं कथम् ?
विश्वामित्र:-शृण्वन्तु भवन्त:-
दिवोदासो नाम्ना ह्यजनि भुवि धन्वन्तरिरयं
स काश्या राजा सन् भिषगतिहितं तन्त्रमकरोत् ।
ममादेशात्पुत्रस्तमगमदलं शिष्यविधिना
तदीये तन्त्रे सौ सुचिरमुपदिष्टः करुणया ॥१३॥
दनेकशिष्याणामायुर्वेदोपदेशः । तेभ्यः भूओके सर्वत्रायुर्वेदप्रचारः इत्यादिकं
सूचितम् ।
१५. धन्वन्तरिशिष्याणां नाम्ना परिचयार्थमयं प्रश्नः ।
१६. अनेकेऽपि ते विश्वामित्रसुतः 'सुश्रुतः' तेष्वेक इति सूचितम् ।
१७. कयं कथमिति द्विरुक्तिः सुश्रुतवृत्तान्तश्रवणे कुतूहलं कथयति ।
दिवोदास इति-धन्वन्तरिरयं धन्वन्तरिमहर्षिः दिवोदासो नाम्ना
ह्यजनि भुवि-दिवोदासनाम्ना भुवि अवततारेत्यर्थः । सः- दिवोदासः काश्या
राजा सन-काश्यां राज्यशासनं कुर्वन्नेव मिषगतिहितं तन्त्रमकरोत्-वैद्यानां
बहुपयोगकरं वैद्यग्रन्थं रचयामास । ममादेशात्पुत्रः- मम पुत्रः मे आज्ञया
अलं शिष्यविधिना तमगमत्-शिष्यैराचरितव्याः पूर्णा ये विधयः- समिदा-
हरणादिरूपाः तैस्सहेत्यभिप्रायः, तं दिवोदासमधिगतवान् । करुणया तदीये
तन्त्रे असौ सुचिरमुपदिष्टः-स दिवोदासः दयालु त्वा स्वीये आयुर्वेदशास्त्रे
बहुकालं मम पुत्रमध्यापयामासेति सङ्ग्रहार्थः । शिखरिणीवृत्तम् । तल्लक्षणम्-
"रसै रुदैश्च्छिन्ना यमनसभला गः शिखरिणी" इति ॥१३॥

द्वितीयोऽङ्कः सर्वे-१८. ततस्ततः। विश्वामित्र:-१९. मत्सुतोपदिष्टं सर्व सुश्रुतं शिष्यवगैः । तेनाऽयं 'सुश्रुत' इति विश्रुतः। तदीयतन्त्रमपि 'सुश्रुत' मिति श्रूयते । सर्वे- वयमिह परितुष्टाः पुण्यगण्यप्रभावा- द्भिषगमलसुबोधादायुरारोग्यकार्यात् । जनहितहृदयास्ते सन्तु भूमौ सुकीर्त्या रुगपनयविचारे बुद्धिरेषां प्रभायात् ॥१४॥ १८. तदनन्तरवृत्तान्तश्रवणकुतूहलेन ततस्तत इति पृच्छा । १९, यतः विश्वामित्रसुतेनाध्यापितं सर्व शिष्यैस्सुश्रुतं सम्यगवगतं ततस्तस्य सुश्रुत इति नाम प्रसिद्धमभूत् । तत्कृतग्रंथस्यापि सुश्रुतमिति तन्नाम्ना प्रसिद्धिः यथा शिशुपालवधकाव्यस्य 'माघ' इति नाम-किरातार्जु नीयस्य 'भारवीति । वयमिति-इह - अत्र, पुण्यगण्यप्रभावात् - पुण्याश्च ते गण्याश्चेति विशेषणोभयपदकर्मधारयः पुण्यशालिनः गणनीयाश्च ये भिषग्वराः तेषां महिमश्रवणात् । वयं परितुष्टा:- सन्तुष्टा भवामः । ते-मिषनःभिषगमल- सुबोधात्-अन्येषां भिषजा शुद्धोपदेशात् आयुरारोग्यकार्यात्-दीर्घायुःप्रदानि आरोग्यसम्पादकानि यानि कार्याणि तेभ्य इत्यर्थः । भूमौ-मुवि सुकीर्त्या- कीर्तिमन्तो भूत्वा जनहितहृदया:- प्राणिभ्यः हितं हितकरं हृदयं मनः येषां ते ताग्रूपा भवन्तु । अपि च तेषां बुद्धिः- भिषङ्मतिः रुगपनयविचारे प्रमा- यात् रोगपरिहारविषये संस्फुर्यादित्याशंसोक्तिः । प्रभायात्-'मा' धातोः आशीलिंङि रूपम् । मालिनीवृत्तम् ॥२४॥ प्राकाश्यते इति-अत्र-अस्मिन् लोके जीवे गदाहततनौ सति-जीवदेवः यदा रोगग्रस्तो भवति तदा भिषजां समूहैरनेकैरायुर्वेदविशारदैः विधिवत्- शास्त्रोदितमार्गेण कृता अमला दोषरहिता चिकित्सा . वैद्यप्रयोगरीतिः सञ्जीविनीवरसतीकरतोऽभिजाता - सञ्जीविनीनामकजीवदेवधर्मपत्न्याः हस्त- जीवसअविनीनाटकम् ८५ विश्वामित्रः प्राकाश्यतेत्र विपुला भिषजां समूहै- जीवे गदाहततनौ विधिवचिकित्सा । सञ्जीविनीवरसतीकरतोऽभिजाता तस्या मुदे विपदि जीवहिताय तेषाम् ॥१५॥ सर्वे-२०. तथास्तु । तथास्तु ॥ निष्क्रान्तास्सर्वे ॥ स्पर्शमहिमयुक्ता सती जीवहिताय स्वपतिभूतजीवदेवस्य रक्षणाय विपदि- जटिलरोगाक्रान्तिरूपाऽऽपत्काले प्राणिजातक्षेमाय तस्याः- सञ्जीविन्याः तेषां मिषनां च मुद्दे-फलितस्वकृतभिषक्प्रयोगजातसन्तोषाय प्राकाश्यते- सर्वत्र विशेषेण प्रसिद्धिं नीयते । अनेन नायिकानायकयोः परस्परानुरागः परस्परक्षेमचिन्तनं लोकहितकपरता च ध्वनिता। प्राकाश्यते इत्यत्र प्रपूर्वक- आङ् पूर्वक 'काशृ'धातोः कर्मणि लटि प्रयोगः । वसन्ततिलकावृत्तम् । २०. अत्र तयास्त्विति ऋषिजनानुमोदः चतुर्थाङ्कविमर्शसन्धौ जीवदेवाख्यनायकस्य चिकित्साकाले सम्यक् फलदो भवतीत्युन्नेयम् । आत्रेयादिमहर्षिभिः चरकादिभिराचार्यैः सुश्रुतवाग्भटादिमिभिषग्वरैश्च महता प्रयत्नेन यदायुर्वेदरहस्यमविगतं तत्सर्व देववरात् सञ्जीविन्या सुखेन प्राप्त- मिति विष्कम्भमुखात् प्रकरणसङ्गतिरभ्यूह्या । ॥ इति तृतीयदृश्यव्याख्या ॥

द्वितीयोऽङ्कः ॥ चतुर्थदृश्यम् ॥ - तेजोबतीनगरप्रान्तोद्यानम् - (ततः प्रविशति जीवदेवः प्रियदेवश्च) (उभौ शिलापीठे उपविशतः) जीवदेवः-१. भो मित्र ! अपि सेवितो वायुः ? प्रियदेवः-२. अदृष्टः पदार्थः कथं सेव्यते ? जीवदेवः-३. चक्षुषाऽदृष्टोऽपि वायुरिन्द्रियस्य गोचर एव । प्रियदेवः-४. कस्बेन्द्रियस्य ? जीवदेव:-५. स्पर्शेन्द्रियस्य । प्रियदेवः-६. तर्हि स्पर्शेनैव वायोस्सचं किमनुमीयते ! चतुर्थदृश्यव्याख्या १. जीवदेवः स्वसखेन मन्त्रिपुत्रेण प्रियदेवेन सह कदाचिद्वायुसेव- नार्य विहारोद्यानं गत्वा तत्र शिलापट्टिकायामुपविश्य तत्रानुभूतो वायुः शुद्धः आप्यायमान इति स्वयं बुध्वा सरव्युरभिप्रायं पृच्छति । २. मृत्यः दृष्टमेव स्वामिनं सेवते - परिचरतीति यावत् । भक्तः दृष्टमेव देवताविग्रहं देवमन्दिरे सेवते पूजयतीत्यर्थः । बुभुक्षुः दृष्टमेवानं सेवते अत्तीत्यभिप्रायः । परं तु वायुः न दृष्टः कथमयं सेव्यते इत्याशयः । ३. सत्यं वायुर्नेत्राभ्यां न दृश्यते तथाप्ययमिन्द्रियगोचर एव । ४. नेत्रमपीन्द्रियमेव तस्यागोचरो वायुः कस्येन्द्रियस्य गोचर इति प्रश्नः ५. त्वचः-स्पर्शेन्द्रियस्येति समाधानम् । ६. स्पर्शः गुणः । त्वचानुभूयमानस्पर्शगुणेन किं वायुद्रव्यमनु मीयते ? इति संशयग्रहणेन पुनः प्रश्नः ॥

जीवसभीविनीनाटकम् ? जीवदेवः-७. तथा शास्त्राणामभिप्रायः । यथा शब्देन आकाशस्य सत्वम् । प्रियदेव: -८. 'अस्तु तावदयं शास्त्रविचारः । भो मित्र ! वायुसवनेन प्रयोजनं वा किम् ! जीवदेवा-९. प्रयोजनं नाभविष्यवेदिह बहुजना बहिस्थले शुद्धवायुसेवार्थ न समचरिष्यन् । प्रियदेवः-१०. वायोश्शुद्धत्वं नाम ? जीवदेवा-भृणु- भूतान्यव्याजशुद्धान्यत इह पवनस्सेव्यतेऽसौ प्रयत्ना- देहे प्राणः प्रवेशाद्रसपरिणतये भाति निःश्वासरूपः । उच्छ्वासाख्यो विशेषाद्भवति हि मलिनो धातुसंसर्गतोऽयं देहाद्याति स्वशक्त्या प्ररुगुदयकरो देहसंरक्षणार्थम् ॥१६ प्रियदेवः-११. स्यानाम । कथमयं बहिरेव शुद्धः? जीवदेवः-शृणु प्राणतत्वमिदम् । ७. तथैव । गुणभूतशब्दश्रवणेन आकाशद्रव्यमनुमीयते इति दृष्टान्तः। एताहशानुमानं द्रव्यगुणयोस्समवायसम्बन्धमङ्गीकृत्य साध्यते । अन्ये तार्किकाः समवायसम्बन्धस्य नित्यत्वात् गुणप्रत्यक्षेण तदाश्रयद्रव्यमपि प्रत्यक्षम् । अतः वायोः त्वाचप्रत्यक्ष वदन्ति । वेदान्तिनस्तु समवायमेव नाङ्गीकुर्वन्ति परंतु तेषां द्रव्यं यथा प्रत्यक्षं गुणोऽपि तथैवेति मन्यन्ते । ८. शुद्धवायोः जनानां प्रयोजनं पृच्छति । ९. प्रयोजनमङ्गीकृत्यैव सर्वे वायु सेवन्ते इत्यभिप्रायः । १०. शुद्धवायुस्वरूपावगमाय प्रश्नः । भूतानि इति - भूतानि - पृथिव्यप्तेजोवाय्वाकाशात्मकपञ्चमहाभूतानि अव्याजशुद्धानि-स्वभावतः परिशुद्धानि । अतः-इति हेतोः पवनः-एतादृश- शुद्धवायुः, प्रयत्नादिह सेव्यते-हितकांक्षिमिः प्रयत्नपूर्वक संपाद्य अस्मिन् द्वितीयोऽङ्कः निश्वासोच्छ्वासधारा प्रवहति सततं घ्राणमूलाऽत्र जन्तो- देहान्तर्बाह्यदेशे शुचिकृदशुचिकृद्वायुमाहात्म्यमेतत् । सङ्क्रात्या शुद्धवायुस्तदितरगुणवान् जायते सान्द्रदेशे सङ्क्रान्तेर्वारणार्थ हितकरपवनस्सेव्यते ग्रामबाह्यः ॥१७॥ लोके निश्श्वासक्रिययानुभूयते निश्श्वासरूपः-नासापुटद्वारेण शरीरांतःप्रविष्टः, असौ-शुद्धवायुः देहे प्रवेशात्-शरीरप्रवेशनिमित्तेन, प्राणः- प्राणसंज्ञां भजन् रसपरिणतये-अन्नरसपरिणामसाधको भूत्वा-भाति - प्रकाशते, शरीरधारणं करोतीत्यर्थः। अयं शरीरे प्रविष्टो वायुः धातुसंसर्गतः-रसरक्तमांसमेदोऽस्थिम- ज्जाख्यषड्धातुनिष्ठमलसम्पर्केण विशेषात् मलिनः अत्यन्तमलिनो भवति । सप्तमधातुभूतशुक्रे मलो न भवति शुक्रं सप्तवारं पुटपाकेन शुद्धं सुवर्णमिव शुद्धमिति वैद्यशास्त्राभिप्रायः । तथामलिनः वायुः प्ररुगुदयकरः- अनेक- रोगाणामुत्पादकः; अतोऽयं स्वशक्त्या-स्वभावत इत्यर्थः देहात्-शरीरात् नासापुटद्वारा उच्छ्वासाख्यः याति-उच्छ्वासरूपेण बहिर्गच्छति । इयं उच्छवासक्रिया देहसंरक्षणाय शरीरारोग्यसम्पादनाय भवति । स्रग्धरा वृत्तम् ॥१६॥ ११. वायुः उद्यानादिबाह्यप्रदेशेष्वेव शुद्ध इति कथमिति प्रश्नः । निश्वासेति-अत्र . अस्मिन् लोके विद्यमानस्य जन्तोः- प्राणिनः घ्राणमूलात् - नासापुटद्वारा नि:श्वासोच्छ्वासधारा नि:श्वासरूपेण, उच्छ्वास- रूपेण च वायोर्गतिः देहान्तर्बाह्यदेशे - सततं प्रवहति-शरीरस्य अन्तर्बहिश्च क्रमेण अनवरतं निद्रादशायामपि प्रचलति खलु । तत्र निश्वासरूपो वायुः शुचिकृत-शुद्धः उच्छ्वासरूपस्तु अशुचिकृत्-अशुद्धः- एतत्-इदमेव वायु- माहात्म्यं वायो:प्रभावः-तत्त्वमिति यावत् । शुद्धवायुः सांद्रदेशे सङ्क्रान्त्या तदितरगुणवान् जायते-जनैः पश्वादिभिश्च निबिडे प्रदेशे शुद्धवायुः अशुद्ध- सम्पर्केणाशुद्ध एव भवति। सङ्क्रान्तेर्वारणार्थं तत्सङ्क्रमणं मा भूदिति दृष्टया हितकरपवनः सेव्यते-शुद्धवायुं भजन्ति जनाः ग्रामबाह्यः- ग्रामात्-लक्षणया जीवसनविनीनाटकम् प्रियदेवः-१२. सखे ! तद्यथा वा भवतु । कुतस्तवायं वेपः ? शिरसि शीर्षकं श्मश्रुखण्डनं श्रवणकुण्डले दण्डधारणम् । उरसि मालिका पादपादुके करगते हिते छत्रभोज्यके ॥ जीवदेवः-१३. अहमद्य स्नातकव्रतस्थः । प्रियदेवः-१४. स्नातकव्रतं विप्राणाम् । यत्र यत्र अशुद्धवायुप्तङ्क्रान्तेरवकाशोऽस्ति तत्प्रदेशादित्ययः । बाह्यः बहिः- प्रदेशेषु - तादृशसङ्क्रान्तेरनवकाशप्रदेशेषु लभ्यमानो वायुरेव हितकर:- शुद्धत्वात् सेव्यते-उपयुज्यते । इति वायुतत्त्वं सङ्ग्रहेण निरूपितम् । स्त्रग्धरावृत्तम् ॥१७॥ १२. तदुत्तरेण तृप्तः प्रियदेवः जीवदेवस्य स्नातकवतोद्देश्यक- वेषं दृष्टा तद्विचारं करोति । शिरसीति-शिरसि शीर्षकं शीर्षे उष्णीषम्, श्मश्रुखण्डनं श्मश्रुवर्धनेन श्मश्रुप्रवृद्धिं खण्डयित्वा अलङ्कारार्थ सूक्ष्मश्मश्रुधारणम् । श्रवणकुण्डले- श्रोत्रे परितो वा श्रोत्रयोरधोभागयोर्वा वृत्ताकारकुण्डलवारणम् । दण्ड- धारणम् “दण्डो दशगुणो भवेत्" इति न्यायेन सञ्चारशीलानाम् अध्वगादीना हस्ते दण्डधारणं यथा तथा हस्तेन दण्डावलम्बनम् । उरसि मालिका- कण्ठमावृत्य तदधोवक्षस्थले रत्नहारादिधारणम् । बादपादुके-पादयोः उपानद्धारणम्, करगते हिते-छत्रभोज्यके एकस्मिन् करे वर्षातपनिरोधार्थ छत्रधारणम् अन्यस्मिन् करे बद्धपाथेयवस्त्रग्रन्थिधारणम् । अयमेव स्नातकस्य शास्त्रविहितो वेषः । तद्वानयं जीवदेवः । एतादृशवेषः कुत इति सख्युः प्रश्नः । समतावृत्तम् । तल्लक्षणम्-"नरयुगं भवेत्संमता लगौ।" इति ॥१८॥ १३. स्नातकस्य विहित वेषं धारयामीत्यर्थः । १४, विप्रेषु स्नातकव्रताचरणं बहुलमित्यवबुध्यैवमुक्तिः । 12 द्वितीयोऽङ्कः mAMAN DAE जीवदेव:-१५. न तथा । यदि जन्मतो वर्णशुद्धिः तदा स्नातकव्रतं भवति सर्वेषां द्विजशब्दशब्दितानां त्रैवर्णिकानाम् । प्रियदेवः-१६. स्नातकवतोद्देशः कः ? जीवदेवः-१७, द्वौ एक: खेनाभ्यस्तानां सर्वविद्यानां देशान्तरेषु तत्र तत्र स्थितासु विद्वत्सभासु परीक्षावकाशः । तदथ देशसञ्चारः । अन्यः सत्कुलप्रसूतायाः खानुरूपायाः कन्यायाः अन्वेषणम् । लब्धा चेत्सा तद्वरणम् । प्रियदेवः-१८. किमुभावपि साधितौ त्वया । जीवदेवः-१९. प्रथमोद्देशः फलितः । यथा- १५. 'न तथे' त्यनेन सोऽयममिप्रायः न समञ्जन इत्युक्तम् । द्विजशब्दशब्दितानां द्विज इति व्यवहृतानां सर्वेषां त्रैवर्णिकानां स्नातकवतं विहितमेव । परं तु ब्राह्मणक्षत्रियवैश्येषु तद्वतं जन्मतो वर्णशुद्धिमपेक्षते । जन्मतो वर्णशुद्धिस्तु मातापितरौ अधिगतषोडशसंस्कारौ यदि भवतः तज्जातपुत्रस्य जन्मतो वर्णशुद्धिरित्यभिप्रायः । १६. इदानीं स्नातकवतोदेशविचारः। १७. ब्रह्मचर्याश्रमसमाप्तिसूचकसमावर्तनकर्मानन्तरं स्नातको भूत्वा एकवर्षपर्यन्तं देशेषु सञ्चारं कृत्वा विद्वत्समासु कृतपरीक्षा प्रत्यागच्छेत् इत्येकोदेशः । मार्गे यत्र कुत्र वा अनुरूपकन्यावरणमित्यपरोद्देशः । इति द्वौ उद्देशौ प्रदर्शितौ । १८, शास्त्रोद्देशानुसारेण उभौ साधितौ वेति प्रश्नः । १९. प्रथमोद्देशः साधितः । तमेव विवृणोति । सञ्चारेति-योग्येषु देशेषु-सञ्चारार्थ विहितेषु देशविशेषेषु मया सञ्चारो बहुधा विहितः- बहुप्रकारेण मया सञ्चारः कृतः । स्वयमार्जितासु विद्यासु परीक्षामुखादल विजयः प्राप्तः-मयाभ्यस्तविद्यास्वहम् अलं परीक्षित:- अलमुत्तीर्णो भवामि । अलमितिना परीक्षा बहुक्लिष्टापि तत्र विनयः जीवसञ्जीविनीनाटकम् सञ्चारो बहुधा मयाऽध विहितो देशेषु योग्येष्वलं विद्यासु स्वयमार्जितासु विजय प्राप्तः परीक्षामुखात् । सत्कीर्ति(वि साधिता बुधवरस्तुत्यप्रशस्त्यास्पदा विद्यायां गुरुदत्तशिक्षणफलं सम्भाव्यते सार्थकम् ॥१९॥ प्रियदेव:-२०. द्वितीयानुगतेन त्वया द्वितीयोऽप्युद्देशः किं तथैव साधितः १ जीवदेवः-२१. पित्रादेशं विना तदुद्देशः कथं साध्यते । प्रियदेव:-२२. किं विवाहप्राप्तये वधूवरणाय मातापित- सम्मतिः प्रधाना? जीवदेवः-२३. तथैव सम्प्रदायः यतस्तौ हितकारिणौ अन्वयशुद्धौ बद्धादरौ दम्पत्योश्श्रेयस्साधनाऽऽकांक्षिणौ । प्रथमश्रेण्या प्रथम इति विद्याप्रागल्भ्यं व्यज्यते । बुबवरस्तुत्यप्रशस्त्यास्पदा- सुत्कीर्ति वि साधिता-विद्वन्दिः प्रशंसापूर्वकं नानाविधसन्मानानि प्रदत्तानि मे । तथा सघशः लोके मया लब्धमित्यभिप्रायः । विद्यायां मयाभ्यस्त. विद्यासु, गुरुदत्तशिक्षणफलं सर्वज्ञमुखगुरुभिर्मे कृतं विद्या शिक्षणं सार्थक सम्भाव्यते-स -सफलकमभूदिति ज्ञायते । मम गुरवः मे सम्यग्विद्याशिक्षणं दत्तान्त इति तात्पर्यम् । अहं विद्यासु सुशिक्षित इति भावः। शार्दूलविक्री- डित वृत्तम् ॥१९॥ २०. अनुरूपकन्याप्यधिगतेति प्रश्नः । २१. बपितृनन कार्यमित्युत्तरम् । २२. मातापित्रादिगुरुजनैरेव स्वाय विवाहार्य कन्यावरणं कार्य किम् ? २३. एवमेवार्यसम्प्रदायः । कुलस्य शुद्धत्वं कन्यायाः आनुरूप्यं नवोढयोर्दम्पत्योः भाविक्षेममार्गस्यानुचिन्तनमेवमाद्यभ्युदयविचाराध अननु- भवशालिसुतेभ्योऽपि तद्गुरवः विशेषतः समर्था इति भावः । .

द्वितीयोऽङ्कः प्रियदेव:-२४. तर्हि स्नातकफलोदेशो विफलो भवति । जीवदेवः-२५. न तथा । पित्रनुमत्या स्नातकोऽपि स्वाभि- मतां कन्यां वृणुयात् । संस्कारास्सर्वदा पाल्याश्श्रेयोऽवाप्तिधुवान तैः । उदाराश्शास्त्रकर्तारस्सर्वेषां शुभशंसिनः ॥२०॥ अतः पितृप्रसादादहमचिरात्सद्वितीयो भवामि । प्रियदेवः-२६. पुण्यवांस्त्वं द्वितीयाधिगमेन द्वितीयाश्रम- प्रवेशाय। २४. स्नातकव्रतस्य द्वितीयोद्देशः न फलितः। अतस्स व्यमिचरित इति सोल्लुण्ठनवचनम् । २५. न तया भाव्यम् । शास्त्रोदेशः न कदापि व्यभिचरति । पित्रादीनामनुज्ञां लब्ध्वा वरोऽपि कन्यां वृणुयात् । संस्कारेति-संस्काराः- विवाहादिसंस्काराः सर्वदा-निरन्तरं पाल्या:- अनुवर्तनीयाः । अत्र तैः श्रेयोऽवाप्तिर्बुवा-अस्मिन् लोके संस्कारानुवर्तनेन सर्वाभ्युदयः निश्चितः । शास्त्रकर्तारः- श्रौतस्मातकर्मनिर्णयकाराः उदाराः न कदापि संकुचितदृष्टयः नापि लघुचेतसः । अपि तु दीर्घदर्शिनः विशाल- हृदयाः- अत एव सर्वेषां शुभशंसिनः । “नित्यं लोकास्समस्तास्सुखिनो भव- न्त्वि"ति सर्वदाऽऽशंसमाना भवन्ति ॥२०॥ अतश्शास्त्रकारमतमवलम्ब्य पितरौ स्नातकस्य मम अनुरूपकन्याधिगमेन शीघ्र विवाहं निर्वर्तयत इति मम भावना। २६. एतच्छ्रुत्वा प्रियदेवः स्वपितरौ स्वस्य विवाहाय न प्रयतेते इत्यनुसन्धानेन पुण्यवांस्त्वमिति साबूतं वदति । ।

जीवसञ्जीविनीनाटकम् जीवदेवः-२७. त्वमपि मत्सखः । तवाप्यभिलषितं मया सहैव साधयेत्तव भागधेयम् । अलमतिमतिकृतायासेन । साध्याव- स्तावनिजाऽऽवासम् । ॥ इति निष्क्रान्तौ ।। २७. पुरः यद्भविष्यति तदेव सत्वजुषां मनसि स्फुरतीति द्योतना- येव स्वविवाहेन सह स्वस्य सख्युर्विवाहोऽपि भविष्यतीति समाधानोक्ति वचनमङ्गयाऽऽविष्करोति । अलमित्यादिना 'नोचितमावयोरेवं प्रश्नोत्तर- परम्परया कालयापनम्' इति सूचितम् । ॥ इति चतुर्थदृश्यव्याख्या ॥

द्वितीयोऽङ्कः ॥ पञ्चमदृश्यम् ॥ ॥ भुवनेश्वरीमन्दिरम् ॥ (ततः प्रविशति पूजापरिकरपात्रहस्ता सञ्जीविनी सखी प्रियदेवी च) सञ्जीविनी-१. सखि प्रियदेवि ! अपि स्नाता त्वम् ? प्रियदेवी-२. अस्नाता देवीगृहप्रवेशं नार्हति । सञ्जीविनी-३. किमर्थं तव देवीपूजेच्छा ? प्रियदेवी-४. तदर्थम्, बदर्थं त्वमत्राऽऽगता। सञ्जीविनी-५. मम देवीपूजेच्छा तक्नुग्रहप्राप्तये । प्रियदेवी-६. कमुद्दिश्य तदनुग्रहप्राप्तीच्छा ? सञ्जीविनी-७. 'कि' पदस्थाने 'क' पदप्रयोगः किमुद्देश- पूर्वकः । ॥ पञ्चमहश्यब्याख्या ।। १. स्नानेन धौतवस्त्रधारणेन शुचिर्भूत्वा देवमन्दिर प्रविशेदिल्याकूते- नायं प्रश्नः। २. अतः एतत्सम्प्रदाय सम्यग्विदितवत्या प्रियदेव्या सदुत्तरं कृतम् । ३. सञ्जीविनी सखीहृदयविज्ञानाय पृच्छति । ४. देवपूज्मेदेश उभयोरेक एवेति इति कथितम् । ५. "भक्त्या तुष्यन्ति देवताः" इति देवीपूजया तदनुग्रहः सम्पा- दितो भवति । ६. कम्-“अनुरूपं पतिमनुगृहाण मे" इति तव देवीपूजोद्देशः कीमिति पृच्छति । ७. 'क' शब्दः पुल्लिङ्गः । तत्प्रयोगे तवाऽऽशयः कः ? । ।

जीवसञ्जीविनीनाटकम् प्रियदेवी–८. ममोद्देशः तव कल्याणं भूयादिति । सञ्जीविनी-९. तवाऽपि तद्भवत्येव । यतः पूजोदेशः एक एवाऽऽवयोः। प्रियदेवी-१०. प्रचलतु पूजा । सञ्जीविनी-११. तव गीतेन सह प्रचलति । प्रियदेवी-१२. गानशीला त्वम्, त्वमेव प्रथमं गाय किमपि सुगीतम् । तदनु तदर्थं त्वामनुसरामि । सञ्जीविनी-१३. यथा रोचते ते-(इति गायन्ती देवीं पूजयीत) ८. यदा पुल्लिङ्गनिर्देशो मया कृतस्तदा तल्लिङ्गबोध्यपुव्यक्त्यात्म- कवरेण सह तव विक्षहो भवत्वित्यभिप्रायः श्लेषभङ्गया तव शुभं भवत्विति सव्याजमभिहितम् । ९. अनेन सख्या उद्देशस्सम्मत इति सूचितम् । १०. इदानीं देवीपूजाव्यापारे प्रविशति तयोर्मतिः । ११. देवतापूजासमारम्भे पुरुषाणां मन्त्रा यथा स्त्रीणां गीतानि तथेति प्रतीतिः । तदनुसारेण गीतेन सह पूजाप्रचलनार्थ किमप्युचितं गीतं प्रारमखेति सखी प्रेरयति । १२. सञ्जीविनी गाने निपुणेति सर्वत्र प्रसृतप्रतीत्यनुरोधेन "त्वमेव प्रथमं गीतं प्रारमस्व त्वामनु अहमपि गायामि" इति सखीवचनम् । १३. “यथा रोचते ते” इत्यनेन स्वस्या गीतकौशलमनुमोद्य गायति । सुरनारीति-सुरनारी हितबोधे - देवतास्त्रीणां यानि यानि हितानि तेषां प्राप्त्युपायान् ताभ्यः उपदिशतीति तात्पर्यम् । वरदे-असकृदासा- मन्येषां च इष्टार्थान् स्वयं ददातीति वरदा तस्यास्सम्बुद्धि:- वरदे । अहं पदि मोदे-तव पादारविन्दपूनायै मम चित्तं हर्षयुक्तं भवति । यतस्त्वं वरदा मत्कृतपूजया सन्तुष्टा मम वरं दास्यतीत्याकूतम् । मे दैन्यजभावं हर-एता- द्वितीयोऽङ्कः सुरनारीहितबोधे वरदे ते पदि मोदे हर मे दैन्यजभावं कुरु मे वाञ्छितलाभम् । अजजाये हरिजाये हरजाये कुरु जायां जननि वं भुवि मां मे जननं स्याद्रहुभव्यम् ॥२१॥ आकाशवाणी-१४. सन्तुष्टाऽसि कल्याणं भवतु । वत्पर्यन्तं ममानुरूपो वरो न सम्पादित इति या चिन्ता तन्जनितव्यप्तनं यत् तत्परिहर । मम पतिं देहीति भावः । अथवा मम भविष्यत्पतेः अनेके रोगाः प्रादुर्मवन्तीति यन्मे दैन्यं तज्जनितदुःखं परिहृत्य मामनुगृहाणेति अभिप्रायः । मम वाञ्छितं कुरु-ऐहिकसुखविषयकं यद्वर्तते तत्सम्पादनाय च मामनुगृहाणेत्यर्थः । हे जननि भुवि मां जायां कुरु-वरवरानुग्रहेण मम विवाहकार्य साधय । एतत्कार्यं त्वयैव साध्यम् । कुतः ? त्वमपि परम- पुरुषस्य जाया भवसि तत्साधने तवानुभवोऽस्ति । तदनुभवेन मावपि तथा कुर्विति ध्वनिः । त्वया सम्पादितताहग्वरः परमपूरुषः । स अनः-जननमरण. वर्जितः । स हरि:- पापपरिहारकः स हरः-संसारतापहारकश्च । अत एवं अजजाये हरिमाये हरजाये इति त्वां सम्बोधये । अथवा त्वमेव अनजाया- सरस्वती हरिजाया-लक्ष्मीः हरजाया-गौरीति देवतात्रयस्वरूपा अतस्त्वत्पूजया मे विद्याप्तम्पत् भाग्यसम्पत् सौभाग्यसम्पञ्च भूयादिति समुचिता सात्विक प्रार्थना व्यञ्जनावृत्या द्योतते । मे जननं मम जन्म, बहुभत्र्यं स्यात्-सर्वसम्प- समृद्ध्या विलसत्वियाशंसा । इदं पद्यं गुणभूषावृत्तनिबद्धम् । तल्लक्षणम्-"लघु- युग्मादधिकाद्या मइनार्ता गुणभूषा" । अथवा-“सभतैर्युग्यप्तगैर्युग्यतितुर्या गुणभूमा" इति । इदमष्टयाख्यच्छन्दोनातेषु ६६५३६ वृत्तेषु १३१०८ तमवृत्तं भवति । अस्य गुगभूषेति नामनिर्देशः । अनेन कविना स्वीयग्रन्थेषु स्तुतिकुसुमाञ्जल्यादिषु तद्वृत्तं प्रयुक्तम् ॥२१॥ १४. आकाशे स्वयमुद्भूता वाक् आकाशवाणी। यतः आकाशः विभुः ततः केनाप्यापादितानां शब्दानां तरङ्गाः विद्युत्तरङ्गभावमापादिताः . ।

सीबसविनीनाटकम् सञ्जीविनी-१५. किमिदमाचर्यम् ! कृत आगतेयमाशी ! सखि ! किमियं त्वदुक्तिप्रभवा ? भ्रान्ताऽसि तत्त्वं मां बोधय । प्रियदेवी-१६. प्रियसखि ! तव भल्या प्रसबा देवी स्वामेवमनुगृह्णाति । सञ्जीविनी-१७. गीतेन त्वमपि सम्पादय देवीप्रसादम् । प्रियदेवी तथा । (इति गायति) पदनूपुरकलशिञ्जितमुखवेदितकरुणे करुणारसहृदये मम हृदयेश्वरि सदये । सर्वतः एकदैव अपेक्षितयन्त्रविशेषद्वारा पूर्वध्वनिमुत्पादयन्तु नाम । परन्तु केनाप्यनापादितशब्दः ध्वनि कथमुत्पादयतीति संशये "चिच्छतेस्सर्वसास्त्रि- त्वमङ्गीकृत्य देवतानां सर्वशक्तिमत्वात् यत्र कुत्र वा सर्वात्मकबुध्या देवता पूज्यते - तन्मुखाच्छब्दोत्पत्तिरङ्गीक्रियते । “परोक्षप्रिया इव हि देवाः।" इति श्रुतिवचनबलात् परीक्षभूतदेवता ननितवाक् आकाशवाणीत्यास्तिकानां श्रद्धालूनां समाधानं कार्यकारणवादिनां समाधानाय एवमुच्यते । अतः चिच्छक्तिरूपा श्यामलादेवी "सर्वनादात्मिके, सर्वशब्दात्मिके" इति कालिदासेत श्यामला दण्डके संबोधिता । 'यादृशी भावना यत्र सिद्धिर्भवति तादृशीं'इत्यभिजनोच्या यदा अन्तःकरणवृत्तिः एकाग्रस्थित्या कर्मिविद् व्यापारे प्रवृता भवति तदा तव्यापारसिद्धयभिधायिका काचिद्वाक् प्रसनेव कर्णमूलमा तेव परिभाव्यते । सेवाकाशवागी । इदमाध्यात्मिकतत्वं सम्य- विचार विमान विज्ञायते । इत्यलमत्र तद्विचारेण । अत्र पूजया देवता- सन्तुष्टिः तानुहवचनं च सूचितम् । १५. अशरीरवाणीसरणेन आश्चर्ययुक्ता सञ्जीविनी सा वाणी सखीमुखोत्पादितति भ्रान्त्या मन्यते । १६. देवतानां महिमा ईदशः इति भ्रान्तिपरिहारोकिः । १७. तर्हि त्वमपि सगीतां पूजां कृत्वा देव्या अनुग्रहं सम्पादयेत्यर्थः।

द्वितीयोऽङ्कः सदयाकृतशरणागतवनिताजनभरणे भरणं मम करणं तब सुखदा भव वरदा ॥२२॥ आकाशवाणी-१८. सन्तुष्टालि कल्याणं भवतु । प्रियदेवी-१९. चित्रमिदम् ! कैवं कदति ! सखि सञ्जीविनि देव्या त्वदर्थकृतं प्रसन्नमाशीर्वचनमनुवदसि किम् सञ्जीविनी-२०. अहमिव त्वमपि प्रान्ताऽसि । देवतानुग्र- हस्सततमीदृशः। पदेति-पदनूपुरकलशिञ्जितमुखवेदितकरुणे-भुवनेश्वरीपदयोः विधृतौ यौ सकिङ्किणीको मञ्जीरौ ताभ्यां जनितः यदव्यक्तमधुरो ध्वनिविशेषः तन्मूलान्निवेदिता करुणा यस्यास्तस्याससंम्बुद्धिः। तव करूमानुग्रहं तव चरण- मञ्जीरध्वनिरेव अस्मानावेदयतीति तात्पर्यम् । त्वं करुणारसहृदया दयारस- एव हृदये यस्यास्मा तस्यास्प्लम्बुद्धिः । मम हृदयेश्वरि मम हृदयस्य प्रभुस्थानीया या तस्यास्सम्बुद्धिः । मम दुहराकाशे त्वामनुचिन्तयामीति भावः । अत एव सदये-दयाशालिनि-दुःखपरिभूतानां भक्तानां अनुग्रहाय अलं प्रभवसीति तात्पर्यम् । अत्र करुणारसहृदयत्वं स्वाभाविक सदयत्वं भक्तिसहभावोदितमिति भेदाङ्गीकारात नार्थपौनरुत्यमिति वेदितव्यम् तदेव विशदयति-सदयाकृतशरणागतवनिताजनभरणे-शरणागतानां (पूनादिना) स्त्रीणां रक्षणं त्वदायत्तमिति भावः । मम भरणं मद्रक्षणं तव करणं-तव कार्यम् । अतः मम त्वं सुखदा वरदा च भव-मे सुखं वरं च देहीत्याकूतम् । मुक्तपदग्रस्तमिदं पद्यं करिणीवृत्तनिबद्धम् । तल्लक्षणम्-"सनना अपि नमसाः शरयतिभिर्यदि करिणी" । इति । १८. पूर्ववदशरीरिण्या वाचा देव्यानुग्रहः सूचितः । १९. अस्या अपि आकाशवाणीश्रवणे भ्रान्तिः । २०. समुचितोक्या भ्रान्तिपरिहारः कृतः ।

जीबसलीबिनीनाटकम् ! प्रियदेवी-२१. आवामुझे भुवनेश्वरीप्रसादभाजौ । अस्वि- बम् । किमत्राऽऽगमने त्वं मात्राऽनुज्ञाता ? सञ्जीविनी-२२. तस्याः प्रेरणयात्र ममागमनम् । किं त्वमपि मात्रा अत्र प्रेषिता? प्रियदेवी-२३. सखि ! शृणु-"सजीविनी यत्र गच्छति स्वं तत्र गच्छ, सा यदाचरति तदेव त्वमाचर । सा यदनुभवति त्वमपि तदेवानुभव" इति मे मातुराज्ञा अतस्त्वां कृतदेवीपूजामनोरथां श्रुत्वा तदाज्ञयात्राऽऽगताऽहम् । सञ्जीविनी-२४. प्रियं मे, प्रियं मे । प्रियदेवी-२५. सखि ! अहम्- प्रियदेवी नियामि प्रियं देवी ददाति ते । प्रियस्य त्वं प्रिया भूया इति देव्याः प्रियं वचः ॥२३॥ २१. सञ्जीविनी देवीपूजार्थ स्वयमेवाऽऽगता वा मातुराज्ञयाऽऽगता- वेति निर्धारणायाऽयं प्रश्नः । २२. मात्रा प्रेरिता आगतेत्युक्त्वा सख्या आगमननिर्धारणाय पृच्छति । २३. अनेनोत्तरेण सञ्जीविनीप्रियदेव्योस्सहचारित्वं दृढीकृतम् । २४. 'प्रिय मे' इति बचनं सहचारित्वश्रवणजातप्रीतिमावं क्सनक्ति। २५, अहमित्यादिना प्रियशब्दमनुकृत्य देव्या अनुग्रहस्य भावं प्रपञ्चयति । प्रियदेवीति-देवीं भुवनेश्वरी ते प्रियं वरं ददाति-अनुगृह्णाति । त्वं प्रियस्य-भर्तुः प्रिया-इष्टा भूया:- भवेति देवीप्रियं वचः- मुषनेश्वर्याः प्रीतिपूर्वकोक्तम् आकाशवाणीद्वारा प्रयुक्तं वचनम् अहं प्रियदेवी-तन्नामिका सली प्रियावच्मि-प्रेमभावेन ते निवेदयामि । अनुष्टुप वृक्षम् | ", द्वितीयोऽङ्कः सञ्जीविनी-२६. कथं जानासि देवताहृदयम् ? प्रियदेवी-२७. तथा शंसति मे हृदयम् । सञ्जीविनी-२८. अतस्त्वम्- प्रिया देव्याश्च यस्मात्वं कथ्यमे देवताप्रिया । प्रियदेवकरस्पर्शात प्रिया तस्यास्ययि प्रिये ॥२४॥ साधु । देवतायै मङ्गलगीतमाकलयावः । प्रियदेवी-२९. तथास्तु । उभे-मङ्गलानि तवेश्वरि प्रियमङ्गलं जयमङ्गलं मङ्गलेश्वरि सङ्गकारिणि मङ्गलं शुभमङ्गलम् । २६. देवताया अभिप्रायः सख्या कथं विदित इति प्रश्नः । २७. मम मनसि इदानीं यत्प्रेरणं तत्प्रमाणेनेवाऽहमेवं शप्लामि । इत्यनेन भाविसम्भवः शुद्धचित्ते प्रस्फुरतीति मनस्तत्त्वमभिहितम् । एवमेव "सतो हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तय"इते कालि- दासोक्तिः । २८. अतस्त्वमिति सखीप्रशंसा । यथा- प्रियेति-प्रिया देवी यस्याम्सेति प्रियदेवीशब्दनिर्वचनेन सा सख्यपि भुवनेश्वर्याः परमप्रियेत्याकृतं प्रदर्शितम् । अयमर्थः- त्वं प्रिया-देवताप्रियेति बाक्येन व्याख्यातम् । अयि प्रिये-सखि ! त्वं प्रियदेवकरस्पर्शात्-प्रियदेवा- ख्यवरस्य पाणिग्रहणेन तस्य प्रिया इष्टा भार्या असि-मवसीति साशंसावचनम् । पूजासमाप्तिसूचकमङ्गलाचरणाय प्रेरणम् । २९. अनुमोदः प्रदर्शितः । मङ्गलाङ्गीति-हे मङ्गलागि ईश्वरि-हे मङ्गलदेवते जगज्जननि तव प्रियमङ्गलं जयमङ्गलं भवत्विति शेषः । मङ्गलाचरणमुत्सवान्ते पूजान्ते वा क्रियते । तस्योद्देशस्तु मया कृता पूना तव इष्टा जयप्रदा भवस्विति मङ्गलाशंसा | हे मजलेश्वरि मङ्गलदेवते-सर्वमनलमारल्येत्यादिना प्रसिद्ध ।

जीवसीविनीनाटकम् अङ्गनाजनमङ्गलार्थिनि मङ्गलं जयमङ्गलं सङ्गदायकभावशालिनि मङ्गलं शुभमङ्गलम् ॥२५॥ सञ्जीविनी-३०, प्रियसखि प्रियदेवि! देवीचरणकमल- प्रसादपुष्पं स्वीकुरु । अहमपि तच्छिरसि धारयामि । (इति प्रसाद- पुष्पेण केशपाशमलङ्करोति) प्रियदेवी-३१. यथा वदति प्रियसखी । (इति खयापि तथा करोति) सञ्जीविनी-३२. मा भूत्कालविलम्बः । गृहं गच्छावः । प्रियदेवी-३३, तथा करवाव । (इति निष्क्रान्ते) ॥ इति द्वितीयोऽङ्कस्समाप्तः॥ सङ्गकारिणि-वधूवरघटनकारिणि तव मङ्गलं शुभमङ्गलं भवत्विति पूर्ववन्मङ्ग- लाशंसा । अङ्गनाजनमङ्गलार्षिनि - स्त्रीजनमाङ्गल्याभिवर्षिनि सङ्गदायकभाव- शालिनि-सच्छीलयोर्दम्पत्योस्सर्वदा शुमाकांक्षिणि शुभदायिनि तव मङ्गलं शुभमङ्गलं भवत्विति प्रार्थनाशंसा । ३०. पूजाप्रसादग्रहणाय सखी प्रचोद्य स्वयमपि प्रसादपुष्प स्वकेशपाशे धारयति । ३१. सखी च तथा करोति । ३२. गृहं प्रति देवीमन्दिरान्निर्गमनाय सूचना । ३३. स्वानुमोदः । ॥ इति पञ्चमहश्यव्याख्या ॥ इति श्रीवेङ्कटरमणार्यविरचिते 'जीवसञ्जीविनी"नामनाटके द्विती- याङ्कस्य स्वीया 'रसोल्लासिन्याख्या व्याख्या समाप्ता ।

॥ तृतीयोऽङ्कः ॥ प्रथमदृश्यम् ज्योत्स्नानगरोद्यानम् नेपथ्ये-१. (a) अहो ! अस्मत्स्वामी कलानिधिः कलानिधि संवृत्तः । यतः लोकान् हादयति स्तुतैश्शुचिकरैमिंत्राप्ततेजोमयै- नित्यं तोषयति प्रशस्तविबुधान् हस्तैस्सुधास्वंदिभिः । ससान् पोषयति प्रशीतलजलयलासुसम्पादितैः कौमुद्याऽहितभासुरास्य वसुधा राजन्वती राजते ॥१॥ (ततः प्रविशति कलानिधिः, सह सख्या महिषी चन्द्रिका च) १. (a) यहो इत्याश्चर्या को निपातः । आश्चर्य तु अस्मत्वामी कलानिधिः-कलानिधिर्नामाऽस्मत्प्रभुः कलानिधित्मवृत्तः-चन्द्र इव भवतीति । यत इति तयोरौपम्यवर्णनमूचनम् । लोकानिति—यथा कलानिधिश्चन्द्रः मित्राप्ततेजोमयः-सूर्यादधिगत- तेजोरूपैः स्तुतैः- शंसनीयैः शुचिकरैः- शुद्धकिरणैः-ज्योत्स्नयेति यावत् । लोकान् ह्रादयति-प्राणिनः प्रीणयति । प्रशस्तविबुधान्-श्रेष्ठानमरान् सुधा- स्यन्दिभिः हस्तै:- अमृतबर्षिभिः किरणैः तोषयति-तर्पयति । सस्यान् तरुलतादीन् यत्नात्सुसम्पादितैः-प्रयत्नपूर्वकं प्राप्तैः शीतलजलैः-शीतवारिभिः पोषयति-अभिवर्धयति । अत एव अस्य कौमुद्या-चन्द्रस्य चन्द्रिकया वसुधा जगती आहितभासुरा प्राप्तप्रकाशा राजन्वती-चन्द्रवती राजते-प्रकाशते । तथैव अयं कलानिधिः- राजा-मित्राप्ततेजोमयः मित्रैः-मन्त्रिसचिवादिद्वारा आप्तं - समधिगतं तेजः- राज्यधौरन्धर्यसामर्थ्य तद्रूपैः स्तुतैः- सः प्रशंसितैः शुचिकरैः सत्येनासादितषोडशांशरूपवलिभिः लोकान्-समस्तप्रजाः

जीवसविनीनाटकम्
SainathukarRAXI
।
कलानिधिः-१. (७) देवि ! पश्यात्र वसन्तविलासम् -
ऋतुरयमनिलान्यो भाति भूरिप्रसूनै-
शुकपिककलहंसैस्सारसैर्वृक्षवृन्दैः ।
आह्लादयति-सन्तोषयुक्ताः करोति । अनेन अयं रामा मन्त्रिपुरोहितादि-
भिस्सह राज्यमन्त्रालोचनं कृल्या शास्त्रोक्तरीत्या करान प्रनाम्पः अयित्वा
दक्षतया प्रशस्तनया राज्य पालयतीति सूचितम् । प्रशस्तविबुधान-स्वदेशस्थान्
श्रेष्ठान विद्वदादीन सुधास्यन्दिनिः हस्तैः अमृतवर्षवत्सन्तुष्टि जनकदक्षिणादि-
बहुमानैः तोषयति-प्रींणयति । अनेन अयं राजा उदारशीलः-साधुननरक्षकः
अनाथपालक इति सूचितम् । यत्नात्सुसम्पादितैः- विशेषधनमुपयुन्य महा-
नदीप्रमुख नलाश्रयेभ्यः माविनेन बारिवारणादिनलाशयेन घटीयन्त्रमहा-
कुल्याक्षुदकल्यादिद्वारा प्रापितनीरव राप्रसारैः प्रशीतल जलैः- सर्वसस्याभि-
वृद्ध्यनुकूलशीतवारिभिः सस्यान् पोथति । यवगोचूमादिपस्यान् आम्रौ-
दुम्बरादिवृक्षान् जातीमल्लिकादिलताविशेषान् समृद्धान् करोति । अनेन राज्ये
कृषीवलादीनां यद्धिा तत्तत्सम्पादनेन सर्वान् समृद्धाहारवस्त्रादियुतान्
करोतीति सूचित्तम् । अस्य वसुधा राज्यं कौमुना-कोः मुत्-कमुत्-भुवनतोष
इति यावत्, तत्सम्बन्धिनी कौमुदी-तोषावहकार्याणि तया आहितभानुरा-
तेभ्यस्सम्पादितकीर्तिशोभि भाति । अत एव सा वसुधा तद्राज्य राज-
न्वती-समीचीनो राजा यस्याम्सा-योग्यराजयुक्तेति भावः सुराजपालित
मितियावत् । राजते-भकाशते । अत्र सलिलमयश्चन्द्रः सूर्यकिरणमूर्छनेन
प्रकाशवान् भवतीति ज्योतिस्तत्वम्-ओषधीशश्चन्द्र इति श्रुतितत्वम्-देवाः
चन्द्रकला विजन्तीति पौराणिककथासारः चन्द्रकिरणद्वारा सस्यादिषु
रसनिष्पत्तिरिति भौतिकविज्ञानतत्वम्-राजा प्रजाभ्यः विशेषतः कृषीवलेभ्यः
षोडशांशमेव करं गृह्णीयादिति धर्मशास्त्रनियमः सप्ताङ्गोपेतराज्यशासनेन
राजा कीर्तिमान् भवतीति अर्थशास्त्रोक्तराजनीतिरित्यादयः विद्वद्भिरूह्याः ।
अत्र पूर्णोपमा रूपकमित्यादयोऽलङ्कारा भवन्ति । स्रग्धरावृत्तम् ॥१॥

वृतीयोSE: तरणिकिरणमालातापतताऽबलानां बलकुदतिमुदं यो योगवित्सन्तनोति ॥२॥ अत्र शान्तिरसोदयस्भूचितः। वक्ष्यमाण अणवसन्त वर्णनादिकं यथायोग्य शमाख्यस्थायिभावस्य विभावानुभावयमिचारिभावत्वं संपद्यते । अत्र रसविचारः- प्रयमाङ्के तावत् प्रताबनायां नटी सूत्रधार सल्लापे "हास्यरसः" जीवदेवस्य विद्याभ्यासावसरे महामायापरेशसंदर्शनेन, संनीनिन्याः सङ्गीतकलाभ्यासकाले वाणीब्रह्मसंदर्शनेन च, अद्भुतरसादयः भवतीति आपाततो द्योत्यते । विचारिते रमतत्त्वे, संजीविनीजीवदेवयो ल्यवयस्क- योस्सतोः तयो रत्यादिस्थायिभावानां समुदयस्य नावकाशः । अनूढयो- स्तयोः कथं वा नायिकानायकव्यवहारः । तदभावे तयोः तात्कालिक- रत्यादिमावा: गौणा एव, आलङ्कारिकमते । तथैव द्वितीयाङ्ककथाविमर्शन करुणभयानकबीभत्साद्भुतहास्यशांन्तिरसस्फुरणं च पर्वोक्तहेतुमिः गौण- मेव । इति संग्रहोक्तिः । १ (क) वसन्तविलासः- वसन्तौ विद्यमाना वस्तुस्थितिः । ऋतुरिति-अयमृतुः- वसन्तर्तुः अनिलाब्यस्मन् • मन्दमातेन युतस्मन् भूरिप्रसूनैः- अनेकविवपुष्पैः शुकविककलहंसः- शुकाः पिकाः कलहंसाश्चेति बहुपदद्वन्द्वः । एवंजातीयपक्षिविशेषैः- सारसपक्षिभिश्च कमलैर्वा वृक्षवृन्दैः- तरुसम्हैः भाति-प्रकाशते । किंच तरणिकिरणमाला- तापतप्ताऽबलानाम् • आतपतापबाधया व्याकुलितानामध्वगानां प्रोषितमर्नु काणामिति यावत् । बलकृत्-वृक्षच्छायायां श्रान्तिनिवारणेन-विविधफलसेवनेन शैत्यसौरभ्यमान्यगुणोपेतवायुसेवनेन च शरीरस्य बलम्, शुकपिकादिप्रकृति सौन्दर्याऽवलोकनेन मनोजलम् अस्मिन् वसन्ते जनानां तत्रापि मार्गचारिणां स्वभावतो भवतीति तात्पर्यमनुसन्धाय बलकृदित्युक्तम् । तथा योगवित- भार्याभर्तृसंयोगस्य-वियोगिनामेकत्र सम्मेलनस्य योगाभ्यासादितपोरूपकार्याणा घ विवाहोपनयनादिसकलकल्याणकार्यकलापानां च अवकाशप्रदोऽयं काल जीवसञ्जीविनीनाटकम् wo चन्द्रिका-२. न मे मोदावहोऽयम् । कलानिधिः-३. कुतः? चन्द्रिका-४. मच्चित्तमन्यत्र । कलानिधिः--५. अन्यत्र कुत्र चन्द्रिका-६. सञ्जीविन्याम् । कलानिधिः-७. किमसावसुखवती ? चन्द्रिका-८. न सा, अहमेव तादृशी। कलानिधिः-९. कथं त्वं तादृशी, किं शरीरतापेन ? चन्द्रिका-१०. हृदयसन्तापेन । कलानिधिः-११. अयि कुतस्तेऽयं सन्तापः ? चन्द्रिका-१२. अयं सञ्जीविनीनिमित्तकः । शृणु भो देव । इति योगविच्छब्देन व्यज्यत । एवं गुणोपेतस्सन अतिमुदं परमहरु सन्तनोति कलयति-जनयतीति तात्पर्यम् । मालिनीवृत्तम् ॥२॥ २. कर्मिंश्चित् विशेषविषये व्यापृतमनस्कत्वात् चन्द्रिकायाः अयं वसन्तविलासः न सन्तोषजनक इत्युत्तरम् । ३. तल्कारणावगमाय प्रश्नः । मम मनोव्यापारः विषयान्तरे वर्तते इत्युत्तरम् । तं विषयमेवावगन्तुमिच्छामीति प्रश्नस्य भावः । ६. स्वमुतायास्सञ्जीविन्या विषये । किं दुःखपरीतेति यावत् । तादृशीत्यनेन अहमेव व्यसनाक्रान्तेति राड्या अभिप्रायः । ९. तद्व्यसनं शरीख्याधिनिमित्तकं किमिति प्रश्नः । १०. मनसि चिन्तयेत्युत्तरम् । ११. सन्तापकारणं पृच्छति राजा । १२, सञ्जीविनीनिमित्तकचिन्तेति यदुक्तं तदुत्तरपद्येन स्पष्ट- तृतीयोऽङ्कः - सञ्जीविनीयं सरसीरुहाक्षी तन्वी सुहासा बहुसुन्दराजी । विद्यावती गीतकलाविलासा गृहे विलासात्परिशोभतेसा ॥३ कलानिधिः-१३. ज्ञायते। चन्द्रिका- विवाहयोग्या भवतीह माग्यावरं वृणीते स वरो यदि सात् । स कुत्र को वाऽस्ति विचार्य कार्य विवाहकार्य विभवस्तवार्य ।। इति मम चिन्ता। कलानिधिः- चिन्तयाऽलं चन्द्रिले ते चिन्तयेऽहं चञ्चलेऽद्य । चित्रलेख्यं चित्रबुध्या प्रेषयामो ब्राह्मणेन ॥५॥ भाभिधीयते । सञ्जीविनीति-इयं सञ्जीविनी-अस्मत्सुता, सरसीरुहाक्षीत्यनेन मुखनेत्रशोमा, तन्वीत्यनेन शरीरसौष्ठवं सुहासा-इत्यनेन सर्वदाऽऽनन्दयुक्त- मनोभावः सुन्दराङ्गीति विशेषणेन शरीरसौन्दर्य विद्यावतीपदेन कलाकौशल्य गीतकलाविलासेत्यनेन तस्यास्सङ्गीते विशेषाभिरुचिः एतास्तम्पदोऽभिहिताः। अस्मद्गृहे सर्वदा विलासयुक्ता परिशोनते-प्रकाशते इति तात्पर्यार्थः । उपजातिवृत्तम् ॥३॥ १३. सञ्जीविनीवृत्तान्तस्य सम्यग्विदितत्वात् ज्ञायते इत्युररीकारः। विवाहेति-इयं सञ्जीविनी विवाहयोग्या भवति-अस्याः विवाहस्यायं योग्यकाल इति भावः । भाग्यात्-दैवात् सः-वरः वरस्स्याद्यदि अनुरूपवरो भवति चेत् तं वरं वृणीते सन्नोषेण पाणिग्रहणं करोति । अभिहितकालख्या- पेक्षितत्वात् लट् प्रयोगः । हे आर्य पून्य प्राणकान्त ! स वरः को वा भवति कुत्र भवति इति विचार्य-विचारं कृत्वा तव विभवैः विवाहकार्य कार्यम्-राजवैभवानुसारेण तेन सह तस्या विवाहः निर्वर्तितव्य इत्यभिप्रायः । उपेन्द्रवज्रावृत्तम् ॥४॥ इति चन्द्रिका स्वचिन्तामाविष्कृतवती । ।

जीवसञ्जीविनीनाटकम् चन्द्रिका-१४. सञ्जीविन्या आलेख्यं कुत्र प्रेष्यते कलानिधिः-१५: यत्र यत्र योग्यवरस्य सम्भवः तत्र तत्र । चन्द्रिका-१६. न तथा । अस्ति खलु माताण्डदेशे तेजो- वतीनगरे प्रद्योतनामा नृपतिः । कलानिधिः-१७. श्रूयते । चन्द्रिका-१८. तस्य सुकुमार कुमारः जीवदेव एव अनु- रूपो वर इति मन्ये । अमत्कुमार्या आशयोऽपि तथैव । कलानिधिः-१९. तर्हि तत्रैव गम्यतामालेख्यधरो विप्रवरः । चिन्तयेति-हे चञ्चले चन्द्रिके-अयि चालचित्ते प्रिये चिन्तयाऽलम् । त्वं एतद्विषयकचिन्तां मा कुरु । अहमद्य चिन्तये-अहमिदानीमेवं परि- भावयामि । चित्रबुध्या वरस्य चित्रमानाय्य तदानुरूप्यं द्रष्टव्यमिति पत्या कलिता वयं ब्राह्मणेन चित्रलेख्य प्रेषयामः- ब्राह्मणमुखात्सञ्जीविनीचित्र वरस्य तद्वन्धुजनानां च दर्शनानुमोदनानुकूल्याय सम्प्रेषयामः । इदं पयं अनुष्टुप्छन्दोजातेषु २५६ वृत्तेषु ३५ तमवृत्तं भवति । अस्य चञ्चलेति नामनिर्देशः क्रियते । तल्लक्षणम्-“तौं श्रुतिभ्यां चञ्चला गौ" इति ॥५॥ १४, के देश प्रति चित्रं प्रेष्यते इति प्रश्नः खाभिमतवर विना अन्य प्रति न प्रेषितव्यमित्याकूतेन कृतः । १५. अनुरूपवरसम्पादनं यत्र यत्र शक्यं तत्र तत्रेति कलानिधेरभि- प्रायः। १६. 'न तथेत्यादिना आलेख्यप्रेषणयोग्य स्थलं निर्दिष्टम् । १७, प्रद्योतराजवृत्तान्तः मया विदित इत्यनुमतिः । १८. प्रद्योतभूपतिकुमारः जीवदेव एव सञ्जीविन्धाः अनुरूपो वर इति स्वामिप्राय सञ्जीविन्या अभिप्रायं च सूचयति । तच्छृत्वा राजा प्रद्योतनिकटं चित्रलेख्यप्रेषणमङ्गीकरोति । १९ तृतीयोऽङ्कः - चन्द्रिका-२०. अचिरात्सम्पाद्यतामयं कार्यभारः। कलानिधिः--२१. आगच्छ प्रासादमासाद्य अद्यैव ब्राह्मण- माहापयामः। (इति पत्न्या सह निष्क्रम्य प्रासादे भद्रासनमारूढो नृपः विप्रवरमाहापयति) कलानिधिः-२२. सेवक ! देवयाजी ब्राह्मणोऽत्रानीयताम् । सेवका-२३. यथाज्ञापयति देवः । (निर्गत्य ब्राह्मणेन सह पुनरागत्य) भो देव सम्प्राप्तोऽयं देवयाजी। कलानिधिः चन्द्रिका च २४. गुरुवर्यम्यः। देवयाजी-२५. दीर्घायुष्मान् भव । दीर्घसुमङ्गला भव । भो राजन् किं कर्तव्यं मया ! कलानिधिः-२६. भवन्तः कुमार्याः आलेख्यं प्रद्योतनृप- तेर्हस्तं प्रापय्य तस्य कुमारस्थालेख्यमानयन्तु । तत्र जीवदेवस्य तन्मातापित्रोचाशयं विदित्वा तमसत्कर्णगोचरं कुर्वन्त्विति प्रार्थये देवयाजी-२७. तथा । (इत्यालेख्यमादाय निष्क्रान्त:) २०. शीघ्रं तथा क्रियतामित्यादरः प्रकाशितः। २१. तथा करोमीति राजा तां समादधाति । २२. देवयानीति ब्राह्मणस्य सङ्केतनाम । २३. ब्राह्मणोऽत्रानीत इति यावत् । २४. राज्ञी राजा च ब्राह्मणस्याभिवादनमाचरत २१. उमाभ्यामुचिताशीः क्रियते ब्राह्मणेन । २६.. ब्राह्मणेन कर्तव्यव्यापारः निर्दिश्यते । आशयं विदित्वा मम सुतां वधूत्वेन परिग्रहाय प्रभावतीप्रद्योतयोरभिप्रायम्, भार्यात्वेनाङ्गी- काराय जीवदेवस्याभिप्रायं च सम्भाषणमुखेन ज्ञात्वेत्यभिप्रायः । २७. तथा यथोपदेश सर्व सम्पादयामीति ब्राह्मणवचनम् ।

जीवसीविनीनाटकम्
कलानिधिः-२८. वयमप्यभ्यवहारकार्य निर्वर्तयाम ।
चन्द्रिका-२९. तथा।
॥ सर्वे निष्क्रान्ताः ॥
२८. भोजनकार्य सम्पादयामेति राना सूचयति ।
२९. तदेवानुमोदते राज्ञी ।
॥ इति प्रथमहश्यव्याख्या ॥

॥ द्वितीयदृश्यम् ॥ : तेजोवतीनगरम् (विप्रः तेजोवतीनगरं प्रविश्य-स्वगतम्) विप्र:- मार्ताण्डेषु सुखावहा वरपुरी तेजोवती राजते प्रासादोऽत्र समुन्नतो विलसति स्वर्णाश्चितै!पुरैः । प्रद्योतोऽपि धराधिपो गृहगतस्सान्तःपुरो वर्तते भात्येवं सुविराजितैः प्रचलितैदीपैः क्रमाकेतुभिः ॥६॥ १. परंतु प्रासादप्रवेशाय द्वारपालप्रसादः कथं भवेदिति चिन्तयामि । (किञ्चिदालोच्य) ज्ञातं केनचिगहुमानेन तोषयितव्या एते भृत्याः । (पुनः पर्यालोच्य) न न एते न कश्चिदपि बहुमान- मार्ताण्डेविति-मार्ताण्डेषु मार्ताण्डदेशे सुखावहा - सर्वेषां सुखा- वासयोग्या तेजोवती-सकलसम्पत्समृध्या शोमितत्वात्तेजोवतीति प्रसिद्धा वरपुरी श्रेष्ठा नगरी राजते-विद्वद्भिः- विदुषीभिः- ब्राह्मणोत्तमैः क्षत्रियवीरैः- धनिकवैश्यैः- बलाढ्यैरितरैजनैः प्रकाशते । अत्र अस्यां नगर्यो प्रासादः- महाराजस्य निवासस्थानं स्वर्णाञ्चितैर्गोपुरैविलसति-स्वर्णेन निर्मितगोपुरकल- शादिभिश्शोभते । धराधिपः प्रद्योतोऽपि - प्रद्योतनामा भूपतिरपि सान्तः- पुर:- अवरोधजनस्सह गृहगतः- गृहे एव वर्तते सन्निहितो भवति क्रमात्- क्रमेण सुविराजितैर्दीपैः- बहुप्रकाशवद्भिः दीपराजिभिः प्रचलितैः केतुभिः- सर्वदा प्रचलद्भिः ध्वजपताकांबरैश्च एवं भाति-उक्तप्रकारेण राजते । शार्दूल- विक्रीडितवृत्तम् ॥६॥ १. विप्रः स्वयमेवालोचयति । राजनि प्रासादस्थेऽपि प्रासाद- प्रवेशः द्वारपालकानामनुमति विना न घटते । सामान्यतः अल्पभृतिकाः तृतीयोऽ: -- मपेक्षन्ते । अस्मिन् देशे सर्वे धर्मपराः खलु । तर्हि सामवचनैः प्रीणयाम्येतान् (प्रासादद्वारमभिसाध) (प्रकाशम् ) भो द्वारपाला । निवेदयत युष्मत्स्वामिने "ज्योत्स्नानगरादागतः कश्चिद्धामणः चित्रफलकहस्तः राजचूडामणि द्रष्टुमपेक्षते” इति । द्वारपालः-२. विप्रवर्य ! उपविश्यतामत्र क्षणकालम् । अहं प्रभुवित्तमरमत्य त्वामचिरात्तदन्तिकं नयामि। विप्रः-३. तथास्तु। द्वारपालक:-४. (अन्तः प्रविश्य-प्रणम्य) भो देव ! ज्योत्स्नानगरादागतः कश्चिद्विप्रः देवं द्रष्टुमाज्ञां निरीक्षते । प्रद्योत:-५. किमयं सविशेषचिह्नः ? द्वारपालका-६. आंप्रमो तस्स हस्ते चित्रफलकमस्ति । प्रभावती-७ वरान्वेषणायेति मन्ये । सेवकाः कैश्चिद्बहुमानैस्सुमुखा भवन्ति । यत्र “यथा राना तथा प्रजाः' इति न्यायेन सेवका अपि धर्मासक्ताः सत्यपरायणाः तत्र तेषां बहुमाना. पेक्षापि न भवति किल । तथैवाऽत्रेति पूर्वभावं परित्यजति । अत्र प्रियवचन- रेव प्रार्थनापुरस्सरमेते अनुकूला भवन्तीति पुनरभिसन्दधाति । तथैवाय विप्रः स्वस्यागमनं राज्ञे द्वारपालकमुखान्निवेदयति । २. कश्चिद्वारपालकः तं विप्रमुपचर्य राज्ञे तस्यागमनं निवेदयितुं शच्छति । विप्रश्व राजद्वारे राजाज्ञां निरीक्षमाणस्तिष्ठति । ४. सेवकः विप्रस्यागमन राज्ञे निवेदयति । ५. किमप्ययं हस्ते कृत्वागत इति राजा पृच्छति । तस्य हस्ते आलेख्यफलकमस्तीति निवेदयति । विप्रः सचित्रहस्त इति श्रुत्वा राज्ञी एवमयूहति । ३. AR जीवसञ्जीविनीनाटकम् प्रद्योत:-८, भवेनाम । इदानीमेव ज्ञायते । भोः सेवक तमिह शीघ्र प्रवेशय । द्वारपालः-९, यथाज्ञापयति देवः । (इति निवृत्य विप्रेण साकं प्रत्यागच्छति) उभौ-१०. (प्रद्योतः प्रभावती च सिंहासनादुत्थाय) प्रणम्यसे महाभाग! विप्रः-११. शचीन्द्रसम्पत्समृद्धिरस्तु युवयोः । प्रद्योतः-१२. उपविश्यतामसिनासने । विप्रः--१३. ( उपविश्य ) इदं कलानिधेर्दुहितुश्चित्रम् । सुवीक्ष्यतां । (इति राज्ञो हस्ते चित्रफलकं समर्य, एवं वदति ।) कन्येयं कमनीयकान्तिरुचिरा कामप्रिया कामिनी कान्ता वा कनक्केन कल्पिततनुर्जीवाश्रया जीवति । कान्ताया गुणशीलवृत्तलसितः कान्तो भवेत्वत्सुतः कोऽन्यस्तत्सदृशोत्र भूरि सुकृती दाम्पत्ययोगे भवेत् ।। ८. राजापि तथैवाऽशङ्कते । विप्रस्याऽऽगमनोद्देशं वेदितुमुत्सहते । अतस्तत्प्रवेशमाज्ञापयति । ९. सेवकस्तं विप्रं राजनिकटं प्रापयति । १०. राजा राज्ञी च तमभिवादयेते । ११. राज्ञे इन्द्रसम्पत् रायै शचीसम्पयादिति तस्याशीः । इन्द्र इव बलेन जयशाली भूत्वा शत्रून्निनित्य प्रजाः सुखेन पालयेति, शचीव सर्वसम्पत्सम्पन्ना लोकाननुगृहाणेति च क्रमेण आशीरर्थः सूच्यते । १२, प्रथममासनोपवेशोपचारः सम्मानसूचकः कार्यसिद्धियोत- कन्ध मवति। १३. सब्जीविनीचित्रं राज्ञो हस्ते समीक्षणार्थ समर्प्य, एवमाशंसते।

द्वितीयोडा प्रद्योत:-१४. देवि! पश्येमां चित्रमतामार्याम्- रतिमिव सुमनोज्ञां भारतीभूतिविज्ञा कमलनयनशोभा भार्गवीसम्पदाभाम् । कन्येति-इयं-यस्या रूपमालेख्ये चित्रिताऽऽस्ते सा कन्या-सञ्जीविनी कमनीयकान्तिरुचिरा-मनोहरलावण्योपेता-अनेन सौन्दर्यातिशयः द्योतितः । अत एव कामप्रिया कामिनी-शृङ्गारयोनेः कान्ता रतिरिव वर्तते इति वर्ण- नम् । कनकेन कल्पिततनुः कान्ता वा-सुवर्णनिर्मितस्त्रीविग्रहो वा सर्वाङ्गे- ब्वेकरूपं सुवर्ण द्योतयितुमियमुत्प्रेक्षा । कनकनिर्मितविग्रहोऽपि जड एवेत्य- स्वारस्यं मनसि कृत्वा जीवाश्रया जीवतीत्युक्तम्-जीवेन युक्तः कनकनिर्मित- विग्रह इव वर्तते इत्यभिप्रायः । जीवतीत्यनेन या जीविनी सा जीवति न तु जडा अत एवेयं सञ्जीविनीनाम्नीति च ध्वनिः । अत्र श्लेष- मर्यादया इयं वधूः जीवाश्रया जीवति-जीवदेवेन सञ्जातविवाहा यदि तदा लोकेऽस्याः जीवितं सार्थकमित्यर्थो व्यज्यते । अयं व्यङ्गयार्थः सम्यग्ज्ञायते वा न वेति अभिधावृत्या वाच्यार्थ एव “कान्तायाः कान्तो भवेत्त्वत्सुतः" इत्यभिहितः । गुणशीलकान्तिलसितः- गुणैः- शौर्यधौदार्यादिगुणैः शीलेन सत्यार्जवादिशीलेन वृत्तैः- परोपकारादिसच्यापारैः लसितः शोभित इति वरस्य प्रशंसा । त्वत्सुत इति राजप्रशंसाऽत्र द्योत्यते । अत्र बहु सुकृती यः स एव तस्या दाम्पत्ययोगे भवेत् । तव सुतादन्यः को वा तत्सहशोऽस्ति । त्वत्सुतसहशोऽस्ति वा तस्याः सञ्जीविन्यात्सदृशः- समानवरोऽस्तीति वा अर्थः। न कोऽपींति तात्पर्यम् । सुकृतीत्यनेन यस्तां परिणयति स एव धन्य इति ध्वनिश्च । शार्दूलविक्रीडितवृत्तम् ॥७॥ १४. देवि पश्येति-चित्रगतामार्यो सञ्जीविनीस्वरूपावबोधकामा- लेख्यं दृष्ट्वा तवामिप्रायं निबोधयेत्यर्थः । रतिमिति-रतिमिव सुमनोज्ञा-सुन्दरीम् , भारतीभूतिविज्ञाम-सरस्वती- सम्पदमिज्ञाम्-विद्यावतीमित्यर्थः। कमलनयनशोमां सरोजाक्षीम्, भार्गवी- 15 জীৱলীলা विमलसुगुणशीला पार्वतीमव्यशीला- ममरनरवधूनां सुन्दरी सुन्दरीणाम् ॥८॥ प्रभावती-१५. (प्रियहस्ताचित्रमानीय तां पश्यन्ती-) इयं चन्द्रिकाप्रतिबिम्बमिव भाति । प्रद्योत:-१६. काऽसौ चन्द्रिका ? प्रभावती-१७, ज्योत्स्नानगराधिपस्य कलानिधिराजस्व महिषी। प्रद्योतः-१८. तव परिचितैव सा सम्पदामां लक्ष्मीमिव तेजसा दीप्यमानाम्, विमलसुगुणशीलां सुगुणवतीम् , पार्वतीभव्यशीला सर्वमङ्गलामिव मङ्गलकराम्, सुन्दरीणाम् अमरनरवधूनां सुन्दरी सौन्दर्यवतीनां सुरनरनारीणां मध्ये अतिसुन्दरीम्-पश्येत्यन्वयः । अनेन रूपसौन्दर्ये इयं रतिः विद्यायां वाग्देवता भाग्ये कमलनयना कमला मङ्गलविषये सर्वमङ्गला गुणवतीति मन्यमानस्य राज्ञः कन्यावलोकन विधिः सम्यक् सम्पादितः । मालिनीवृत्तम् ॥८॥ अत्र केवलचित्रदर्शनेन चित्रमातृकाभूतव्यक्तेः गुणशीलवृत्तादि- विज्ञानं कथं भवतीति प्रश्नः समुदेति । तस्य, चित्रशास्त्राभिज्ञः चित्रलेखकः व्यक्तिगतगुणशीलवृत्तादिक शिल्पचमत्कारेण कलाकौशलेन च आलेख्य- दर्शनबोधनक्षम कर्तुं कुशलो भवतीत्युत्तरं स्यात् । १५. इयं रूपेण मातरं चन्द्रिकामनुसरतीति राजीवचनम् । १६. राझ्याः चन्द्रिका परिचिता । राज्ञस्तु तस्याः परिचयो जास्ति । अतः प्रश्नः । १७. राज्ञी स्वपरिचयं विशदयति । १८. सा कृतपरिचयेति रानाऽभ्यूहति ।

हितीयोः प्रमावती- मञ्जुलवाग्गम्भीरा सञ्चितपुण्येन मातृसञ्जाता । अञ्जलिसुखसम्पुष्टा वश्चितयोषिजनाप्तसौन्दर्या ॥९॥ १९. एवमेव सा । तथैषा सुकुमारी तत्कुमारी । प्रद्योतः-२०. भवतु, कुमारस्याऽऽशयं जानीहि । अहं विप्रेणात्रैव सम्भाषमाणस्तिष्ठामि । प्रभावती–२१. तथा । (इति गत्वा-कुमारालये वसुताय जीवदेवाय चित्रं दर्शयित्वा) कुमार ! पश्येदं चित्रम् । जीवदेवः-२२. मातः ! एतचित्रदर्शनेन वञ्चिता मा भूः। मजुलेति-सा चन्द्रिका मन्जुलवाग्गम्भीरा-कोमलगम्भीरभाषिणी, सश्चितपुण्येन मातृसञ्जाता - मात्रा कृतसुकृतवशात् तस्यास्सा जाता। अन्नलिसुखसम्पुष्टा-मातुः करेण सुखेन पालिता । वञ्चितयोषिजनाप्त- सौन्दर्या-नारीजनेष्वतिसुन्दररूपिणी-इति चन्द्रिकावर्णनेन चित्रगता कन्या चन्द्रिकाप्रतिबिम्बमिवेत्यनेन च मातृवदियमप्यतिसौन्दर्यशालिनीत्युक्तम् । तदवलोकनेन स्वस्या अपि वधूत्वेन परिग्रहणाय सम्मतिर्दर्शिता । वृत्तं गीतिः ॥९॥ १९. रूपेण गुणैश्च पुत्री प्रायशः मातरमनुकरोतीत्युक्तिं विशदयति । २०. आवयोस्सम्मतिौणी । कुमारस्याऽऽशय एव मुख्य इत्याकलय्य तस्याभिप्रायविज्ञानाय प्रभावतीं प्रेरयति । २१. माता पुत्रस्य चित्रं दर्शयति । २२. "चित्रेण व्यक्तिस्वरूपनिश्चयो नाधिगम्यते" इति स्वस्या- भिप्रायः । स एव प्रकटीक्रियते ।

श्रीवसजीविनीनाटकम् यतः-चित्रकारो विचित्राङ्गी कुरूपामपि साधयेत् । आलेख्ये परमोहार्थ तच्चित्रं मे न सम्मतम् ॥१०॥ प्रभावती २३. पुत्र जीव देव ! किं सञ्जीविनी परिणयसे ? जीवदेवः-२४. परिणये तां यदि सा मम प्राणसञ्जीविनी भवेत् । मातः, किंबहुना प्रत्यक्षतो दृष्टा सा मम प्रत्ययमादधाति । प्रभावती–२५. तदस्यास्सन्दर्शनाय अपेक्षितं संविधान रचयामि । मङ्गलं भवतु ते । (प्रत्यावृत्य) नाथ ! असत्प्रियसुतः सञ्जीविनीदर्शनकुतूहलवानिव प्रतिभाति । किमत्र कार्यम् ? प्रद्योतः-२६. भो विप्रवर्य ! आवेदय युष्मत्स्वामिने-मम कुमारः तस्य कुमारी सजीविनी प्रत्यक्षतो द्रष्टुमिच्छति । अत: आगामिनि सोमवासरे ज्योत्स्नानगरोपवनमुपयातु सा सञ्जीविनी । चित्रकार इति-चित्रकार:- आलेख्यनिर्माणचण: आख्ये - चित्रे कुरूपामपि विचित्राङ्गी साधयति-विकृतरूपिणी स्त्रियं सुन्दरीमिव घटयितुं शक्नोति । अतः परमोहार्थ निर्मितं चित्रं मे न सम्मतं । चित्रं दृष्ट्वा सामान्यजन इवाहं मोहपरवशो भूत्वा सम्मति न ददामीत्यभिप्राय सूचितवानय कुमारः । अनुष्टुप् वृत्तम् ॥१०॥ २३: तस्य निर्धारवचनं प्राप्तुं तव सञ्जीविन्या सह विवाहस्सम्मतो वे"ति स्पष्टं पृच्छति । २४. प्रत्यक्षतस्तां दृष्ट्वा सा मम प्राणप्रिया भवेद्वेति विज्ञाय अनन्तरं ममाशयं निवेदयामीति वदति । २५. स्वसुतस्य तस्यास्साक्षाद्दर्शनाय. संविधानं रचयामीत्युक्या तद्वृत्तान्तं राज्ञे निवेदयति । २६. पुत्रस्याशयं विदितवता राज्ञा न्योत्स्नानगरोपवने वधूवरयोः परस्परदर्शनार्थमपेक्षित कार्य साधयितव्यमिति प्रतिसन्देश: ब्राह्मणमुखात्प्रे- व्यते।

द्वितीयो
तत्रं मम सुतोऽपि सन्निहितस्सन् तद्रूपलावण्यसुधा खचक्षुषवापीय
अन्योन्यप्रणयभरात् परिणयपरो भवतीति ।
विप्रः-२७. दीर्घायुष्मान् भवतु भवान् । दीर्घसुमङ्गला
भवतु भवती!
(इत्याशास्य स्वनगरं प्रतियाति)
प्रद्योत:-२८. कस्कोऽत्र भोः।
सेवकः-२९. देव अयमहमस्मि ।
प्रद्योतः-३०. कुमारमत्राऽऽनय ।
सेवकः-३१. यथाज्ञापयति देवः (गत्वा पुनरागत्य कुमार
पितृसविधं प्रापयति)
जीवदेवः--३२. अभिवादयेऽहं जीवनामा ।
प्रद्योतः-३३. चिरंजीव ।
प्रभावती-३४. शीघ्रमेव कल्याणमस्तु ।
२७. तत्सन्देशमासाद्य विप्रः तावाशिषा अनुगृह्य तदनुज्ञया
ज्योत्स्नानगरं प्रति गच्छति ।
२८. सेवकमाह्वयति ।
२९. स सन्निहितो भवति ।
३०. राजा तनयाऽऽनयनाय सेवकमाज्ञापयति ।
३१. स कुमारमानयति ।
३२. कुमारः पितरावभिवादयते ।
३३. चिरंजीवेति दीर्घायुराशीः ।
३४. कल्याणमस्त्विति विवाहघटकरूपाऽऽशंसा ।

जीवसविमीनाटकम् प्रद्योतः-३५. भोर कुमार! आगामिनि सोमवासरे त्वममात्य- पुत्रेण तव सख्या सह इतः प्रस्थाय ज्योत्स्नानगरोपवने सञ्जीविनी नाम सीमन्तिनीमणिं दृष्ट्वा प्रत्यागच्छ । प्रभावती-३६. यथाऽवसरं तया सह संलापोऽप्यस्तु ते ममाऽनुज्ञया। जीवदेवः-३७. यथा रोचते पितृभ्याम् (इति निर्गत:)-(सर्वे निष्क्रान्ता:-) ३५. कुमारस्य वधूसन्दर्शनाय ज्योत्स्नानगरोपवनं प्रति प्रस्थानार्थ पित्रादेशः। ३६. तस्यैव मातृसन्देशः। ३७. पुत्रेण तदादेशाऽनुमोदः । ॥ इति द्वितीयदृश्यव्याख्या ॥

॥ तृतीयदृश्यम् ॥ -- ज्योत्स्नानगरोपवनम् (ततः प्रविशति जीवदेवः सख्या प्रियदेवेन सह) प्रियदेवः-१. सखे जीवदेवं ! एतदुपवनागमने कोऽयमुद्देशः? जीवदेवः-२. सखे प्रियदेव ! अस्ति कश्चित्तं जानास्य- चिरात्त्वमेव । पश्यात्र- शाखी शाखी सुमफलभरैस्सौरभाप्यायधमैं रोलम्बानां शकुनिनिवहस्याऽऽतिथेयो विभाति । १. तत्राऽऽगमनस्य निमित्तं पृच्छति । २. स्वमित्रस्य चित्तमन्यत्राऽऽऋष्टुं त्वयात्र अनुभवेनैव तन्निमित्तं विदितं भवतीत्युक्तम् । शाखीति-शाखी शाखी- एकैको वृक्षः सौरमाप्यायधभैः कुसुम- फलभरैः-मधुकरादीनां दूरादपि सौरभेणैव तदुत्पत्तिस्थानं प्रति आकर्षणं स्वाभाविक प्रसिद्धं च-तदाघ्राणेनैव तेषामाह्लादो जायते । अथवा-तत्सौर- भजनकपुष्पादिस्थाने तत्रस्थमकरन्दास्वादनेन आह्लादो भविष्यतीति सौरभ- प्राप्त्यैव सन्तोषः । तद्वद्भिः पुष्पफलनिकुरुम्बैः । अत्र रोलम्बानां तृप्तिः न केवलं पुष्परसास्वादनेनैव अपि तु क्वचित् फलगतरसास्वादनेनापीति फलपद- प्रयोजनम् । अयत्रा रोलम्बानां पुष्परसेन यथा शकुनिनिवहानां फलेनापि तथा तुष्टिर्भवतीति तात्पर्यम् । रोलम्बानां भ्रमराणां शकुनि- निवहस्य - शुक-पिकादीनामातिथेयो विभाति-अतिथिषु साधुः अतिथि- सत्कारकर्तेव दृश्यते इति गम्योत्प्रेक्षायाः प्रकृतिसौन्दर्यवर्णने तात्पर्यम् ।

जीबसीविनीनाटकम् आतिथ्यं तद्वरमतिथयोऽवाप्य गानेन मोदात् शंसन्तीव प्रतिहतभयास्साधवस्साधुयोगात् ॥११॥ प्रियदेव:-३. इदमपि पश्यतु सखा । लता जात्या ह्यानं मरुदभिवृताऽऽश्लिष्यति स्नेहयुक्ता स शाखाबाहाभिलसितमनसाऽऽलिङ्गतीमां प्रमोदात् । अतिथयः- रोलम्बशकुनिप्रभृतयः प्रतिहतभयाः- निर्भयास्सन्तः वरं तदातिथ्यमवाप्य - वृक्षणकृतमन्याहशमातिथ्यं प्राप्य सन्तुष्टाः सन्तः गानेन-कलकलारावेण तम् - आतिथेयीभूतवृक्षं शंसन्तीव वर्तन्ते । प्रशंसा कुर्वन्तीवेत्युत्प्रेक्षा साधवस्साधुयोगादिवेत्युपमया अनुप्राणिता । अत्र उपमो- त्प्रेक्षयोस्संसृष्टिः । साधवः- सदाचारवन्तः आतिथेयाः साधुयोगात्-सत्पुरु- षानार्यान् प्राप्य यथाऽऽतिथ्यं कुर्वन्ति, तानातिथेयान् अतिथयः यथा स्तोत्रादिना प्रशंसन्ति तथैवेत्युपमार्थः । प्रशंसन्नीवेत्यत्र विद्यमान 'इव' शब्दः उत्प्रेक्षोपमानोभयव्यञ्जकः । अनेनात्र माधुर्य द्योत्यते । रोलम्ब- शकुन्यादीनां वृक्षाणामसकृत्परिचयवशात् वृक्षानुसर्पणे न केवलं भयं प्रति- हतमेव - अपि तु स्नेह एव जायते । तथा साधूनां साधुयोगात् भयं न जायते किंतु हर्ष एव समुत्पद्यते इति सहनां प्राणिवृत्तिं द्योतयति । प्रति- हतमयाः इति विशेषणमुभयत्रान्वेति । मन्दाक्रान्तावृत्तम् ॥११॥ ३. प्रकृतिसौन्दर्यदर्शनासक्तस्य मित्रस्याशयः यथा- लतेति-जात्याःलता-जातीपुष्पलतेति यावत् । आनं, रसालतरुम् मरुदभिवृता-मरुता (प्रेरणकर्ता) आम्रख्य परितः वृता-आवृता सती, अत: स्नेहयुक्ता - स्नेहः द्रवद्रव्यविशेषः बन्धकधर्मः तयुक्ता आनं - परितः आवारयति सहकारिशक्तियुता श्लिष्यति-आश्लिष्यति-आम्रमनुबध्नाति । अत्र प्रतिपदं व्यङ्गयबोधकम् । अतः सत्कुलप्रसूता काचिद्वनिता मरुत- सदृशस्य कस्यचित् महापुरुषस्य सहायेन रसालभूतं कंचिदनुरागिणं प्रीति- पूर्वकं सङ्गतवतीत्यर्थो ऽभिव्यज्यते । सोऽपि-आम्रवृक्षोऽपि शाखाबाहामिः जीवसजीविनीनाटकम् युवा पश्येदेता यदि परक्शो मोहपाशेन बद्धो निवापं कुर्याद्धा नियमविधये दोषलजाभयेभ्यः ॥१२॥ जीवदेवः-४. भोः प्रियदेव ! अलमलमतिविलासेन । सुविलासेनागच्छतहि ससखीका-सा सञ्जीविनी । बाहाकाराभिश्शाखामिः लसितमनसा-उल्लसितहृदयेन इमां जातीलतां प्रमो- दात्-हर्षेण आलिङ्गति आश्लिष्यति । अत्रापि सुगुणोपेतः सोऽनुरागी स्वचा- हुभ्या. तां वनितां सहर्षपालिङ्गतीति ध्वनिस्स्पष्टः। अत्र इमामिति स्वपुर- स्थलतायाः हस्तेन निर्देशः। अत्रापि सञ्जीविनीसान्निध्यवशात् स्वासखं जीवदेवं प्रति इमामिति हस्तेन निर्देशः युक्तोऽपि तस्याः अदर्शनेन तदर्थो न सङ्ग- च्छते । तथापि इमां जातीलतामाम्रः यथाऽऽश्लिष्यति तथा त्वमपि काञ्चि- त्प्रियां समधिगच्छसीति पर्यायोक्त्या प्रकृतार्थः समर्थयितुं शक्यते । युवा यःकोऽपि यौवनसम्पन्नः एतां पश्येद्यदि-जातीलतयाऽभिनिवर्तितव्यापरं वीक्षते चेत् मोहपाशेन बद्धः-अहमप्युचितस्त्रियमेवमाश्लिष्येयमित्यनुरागेण युक्तः- अतः परवशः- युक्तायुक्तविवेकरहितः कामुको भूत्वा नियमविधये-शास्त्र- चोदितविधिभ्यः दोषलज्जाभयेभ्यः- अकार्यकरणं दोषः- पापमिति यावत्, वस्य सत्कुलप्रसूतिमपरिभाव्य पापरतिः, तज्जातानि लज्जाभयादीनि, लज्जा- साधवःमत्कृतकार्य विज्ञाय मां निन्दन्तीति मत्या जनिता व्रीडा, निन्दिता- चरणे ममेहामुत्रच प्रतिफल रूपा शिक्षा भवतीति ज्ञानाद्भयम् । इत्यादिभ्यश्च निवापं कुर्यात्-तिलाञ्जलिं वितरेत् । शास्त्रमुत्सृज्य दोषलग्जामयान्यविगणय्य खापेक्षितं कार्य करोत्येवेत्यभिप्रायः। अनेन प्रकृतिसौन्दर्यवर्णनेन का मिज- नव्यापार उद्घाटित इति दीपकालङ्कारम्सूचितः । वृत्तं मेघविस्फूर्जितम् । तल्लक्षणं "रसवश्वैय्मौन्सौररगुरुयुतं मेघविस्फूर्जितं स्यात्"। इति । ४. प्रकृतोद्दिष्ट कार्यनिर्वाहाय अलमलमित्यवधानाकर्षणमन्यत्र व्या- पारात् । स व्यापारोऽत्र संसखीका सा आगच्छतीत्यनेन तदर्शनादिरूप इति व्यज्यते ।

१२२ तृतीयोऽ: प्रियदेवा-५. सञ्जीविनी! का सा कामिनी ? काऽस्था- स्सखी ? कोऽस्या विलासः ? जीवदेवः-६. सर्व ज्ञास्यते । किञ्चिजोषमास्त्र । वृक्षालान्त- रितौ शृणवाव तत्संलापसरणिम् । प्रियदेव:-७. तथा। (तदा प्रविशति सञ्जीविनी सख्या प्रियदेव्या सह) प्रियदेवी-८. सखि सञ्जीविनि ! कुतोऽत्रावयोरागमनम् । सञ्जीविनी-९. स्वयमेव वेत्सि ! कुतो मां पृच्छसि प्रियदेवी-१०. न किञ्चिद्वेनि । किं वा रहस्यम् । कथय मम करें। सञ्जीविनी-११. कुतस्तव कर्णे ! निभृतमाकर्णय कारणम् । प्रियदेवी-१२. सावधानासि । कथय कथय । ५. पूर्ववृत्तान्तानभिज्ञतया विस्मयेन सञ्जीविनीपदानुकरणं का सा कामिनीत्यादिप्रश्नश्च । ६. सब्जीविन्यास्तत्सख्याश्च सम्भाषणेन का सेति विदिता भवतीति समाधानोक्तिः। जोष स्थितेन वृक्षान्तरितेन मया सर्व ज्ञायते इत्यनुमोदः । ८. उपवनं प्रति आगमनोद्देशमजानत्यास्सख्याः प्रश्नः । ९. तया तदुद्देशः ज्ञात एवेति मन्यमानायाः प्रतिवचनम् । १०, तद्रहस्यमेवेति यस्याः मतिः तस्या रहस्यमेदनाय प्रार्थना । ११. उपवनागमनकारणरहस्यं मयेदानी कथ्यत इत्यभिप्रायः । १२. अतिकुतूहलजनकवार्ताश्रवणेऽवधान निश्चलं भवत्येवेत्यभि- प्रायः।

जीवसजीविनीनाटकम् १२५ सञ्जीविनी-१३. भृणु । अनुरूपवराधिगमाय मम चित्रं विप्रमुखाचेजोवतीराजनिकटं प्रापितम् । प्रियदेवी-१४. इदमपि कुतूहलं जनयति । ततः ? सञ्जीविनी-१५. ततः किम् ? यो वरस्स मामत्र द्रष्टुकाम इति विप्रमुखाद्विदितवृत्तांतेन जनकेनेयं वार्ता मन्मातुः परिचयं नीता। प्रियदेवी-१६. प्रमोदस्थानं खलु । ततः । सञ्जीविनी-१७. मातुरनुमत्या त्वया सहाऽहं दीक्षां वहामि । प्रियदेवी-१८. दीक्षा । किमत्र यज्ञः १ अन्यथा कथं दीक्षानियमः ! सञ्जीविनी-१९. सत्यं यज्ञ एव । अस्मिन् यज्ञे मम मनो- रथाऽऽज्यं प्रियहृदयवैश्वानरे हूयते । प्रियदेवी-२०. अपूर्वोऽयं प्रलापः । १३. अनुरूपवरप्राप्तये चित्रप्रेषणविचारः कथितः । १४. स एव अवशेषवृत्तान्तश्रवणे अधिककुतूहलजनको मवति । १५. तादशवरः कन्यारूपदर्शनायाऽनाऽऽगच्छतीति अवशेषकथा- सूचनम् । १६. एतच्छ्रवणेन सख्याः हर्षप्रदर्शनपूर्वकं वक्ष्यमाणकथाश्रवणे कौतुकं व्यनक्ति । १७. अत्र दीक्षाशब्दः स्वारसिकः । १८. यज्ञे हि यजमानस्य पत्नी दीक्षा वहति । किमस्मदागमोऽत्र यज्ञ इति प्रश्नकाकुः । १९. यज्ञविधि साधयति । यथा-वराधिगमः यज्ञः सञ्जीविनी यज- मानरूपा, तस्या मनोरथः आन्यं प्रियहृदयमग्निः मनोरथसमर्पणं होम इति । २०. एतादृशयज्ञविधिः अहष्टपूर्व इति सख्या ममिप्रायः ।

तृतीयोऽङ्कः सञ्जीविनी-२१. अपूर्व एव ममादृष्टमिव दृष्टफलं साधयति । प्रियदेवी–२२. भाषणे त्वमतिनिपुणा। त्वद्वचनार्थः मम मतिं नावगाहते। सञ्जीविनी-२३. त्वमपि संलापेन निपुणा भवसि । प्रियदेवी-२४. केन सह संलापः ? सञ्जीविनी-२५. प्रियदेवि ! प्रियदेवेन सह । प्रियदेवी-२६. लज्जास्पदमिदम् । . (Nakoti २१. सामयज्ञे निर्वर्तिते तस्मादपूर्वनामकःकश्चित्पुण्यविशेषः जायते। स यजमानं स्वर्ग प्रापयतीति कर्मठानां मीमांसकानामभिप्रायः शास्त्रसम्मतः। यद्यप्येतादृश अपूर्वः अदृष्टफलं स्वर्गप्राप्तिरूपं यजमानस्य प्रायणानन्तरं प्रयच्छति । सञ्जीविन्या अभीप्सितः वरदर्शनरूपोऽपूर्वः तत्परिणयरूपयज्ञ- जनितापूर्वफलं सद्य एव प्रयञ्छतीति चमत्कारवचनर्मत्र दर्शितम् । ममादृष्ट- फलमिव दृष्टफलमपि साधयतीत्यत्र अदृष्टशब्दस्य व्यङ्गयमर्यादया भाग्य- मित्यर्थलाभेन श्लेषोक्तिरत्राऽतिरम्या भवति । २२. सचमत्कारभाषणे त्वं कुशला । अहं तु तदर्थ ज्ञातुमप्य- समर्था । २३. "संलापो भाषणं मिथः" इति मनसि कृत्वा मिथस्सलापे त्वमपि निपुणा भवतीत्युक्तम् । Fai २४. केन सहेति संलापे आसक्तिः प्रदर्शिता । २५. मन्त्रिपुत्रेणेति यावत् । aff२६ प्रियदेवेनेत्यनेन प्रियाः देवाः यस्य तेनेत्यर्थवत: तन्नामक- मन्त्रिपुत्रस्य नाम्नोऽप्यपरिचितत्वात् स्वप्रियसख्या परिहसितेति ज्ञानेन लज्जास्पदमित्युक्तम् । Listry जीवसभीविनीनाटकम् - .00 सञ्जीविनी-२७. निर्लज्जा भवास मनसिजसहयोगे। प्रियदेवी-२८. इदमपि नावगाहते मे बुद्धिम् । सञ्जीविनी-२९. बुद्धिमतानामीदृशी विलासोक्तिः । प्रियदेवी-३०. कदाऽऽगच्छति तव प्रियः ? सञ्जीविनी-३१. यदाऽऽगछति तव प्रियः । प्रियदेवी-३२. मम प्रियस्य वार्तापि मां न स्पृशति । सञ्जीविनी-३३. हस्तस्तावत्स्पृशेत् । प्रियदेवी-३४, तर्हि तव प्रियेण सह कश्चित्सखा आयाति किम् ? सञ्जीविनी-३५. आम् ! स सखैव तव प्रियो भवति । २७. तल्लज्जापदेनैवोत्तरप्रदान सहयोगशब्दप्रयोगस्य वचनचमत्कृ- तिमङ्गिदर्शयति । २८. तदर्थावधारणं सूचयत्यत्र 'इदं पदम् । २९. विज्ञायाः स्वस्या अज्ञत्वप्रदर्शनं क्लिासार्थमिति भावः । ३०. सञ्जीविनीप्रियः कदाऽऽगच्छतीति पृच्छा | Dar ३१. “यदाऽऽगच्छति तव प्रिय" इत्युत्तरं न केवलं वचनको शलं द्योतयति किंतु प्रियदेव्या हृदये सन्तोषं च जनयति । मम प्रियेण सह तव प्रियोऽप्यागच्छतीत्यभिप्रायेण यदि मम प्रियः मां वधूत्वेनाङ्गी- करोति तदा तत्सखः त्वां पत्नीत्वनाङ्गीकरोतीति, स्वसख्या: अपि वरागमः, बहुमत इति ध्वनिरत्र प्रतिमाति ३२. तदनुषपन्नम् । असम्भावितमिति तात्पर्य हेतूक्तिः । ३३. हस्तस्तावत् स्पृशति-वरः तब पाणिग्रहणं करोतीति वचन- चमत्कारभङ्गिः शृङ्गाररसं पोषयति ३.४... स्वस्या अपि कश्चिद्वरोऽत्रागच्छतीत्यौत्सुक्यं द्योतयति । ३५. यो मत्प्रियमनुगच्छति स एव तव भर्ता भवतीति स्पष्टं वचनम्।

तृतीयोऽ प्रियदेवी-३६. (सलजम्) त्वमिव नाहमदृष्टशालिनी। सञ्जीविनी-३७, त्वमदृष्टशालिनी प्रियदृष्टिशालिनी भवसि । प्रियदेवी-३८. पश्येमां सरस्थाश्शोभाम्- कमलवसनदीप्ता शैवलाकन्चुकाता तरणिकिरणकीर्णा प्रेमनीरेण पूर्णा । ३६. शीघ्र विवाहप्राप्तये त्वमिव नाहं भाग्यशालिनी-अत्रापि वचनसौन्दर्यमस्ति । ३७. त्वं न केवलं भाग्यशालिनी तवानुरूपं वरमपि पश्यसीति पुनश्चमत्कारोक्तिः । ३८. सञ्जीविन्याश्चित्तं कुत्रास्तीति विज्ञानार्थ तस्या मनः अन्यत्रा. sकर्षति सुखी। कमलेति-या सरसी कमलवसनदीप्ता-कमलमेव वसनं परिधानं तेन दीप्ता-आवृता-अलङ्कृतेति यावत् । अनेन अस्यां सरस्यां विपुलानि पद्मानि सन्ति तैराच्छदितेयं सरसीत्यभिप्रायः । शैवलाकञ्चकाप्ता-शैवालमेव भासमन्ताबद्धः कचुकः-उरसः आच्छादकवस्त्रं 'निचुल' इति प्रसिद्धम् । तेन मुक्ता । यत्र पद्मानि सन्ति तत्र शैवालेनाच्छादितेयं सरसीति तात्प- यम् । तरणिकिरणकीर्णा सूर्यस्य रश्मिभिः प्रचुरा व्याप्तेत्यर्थः । लक्षणया स्पृष्टा-संयुक्तेति तात्पर्यम् । सूर्यस्य रश्मिसम्पर्कात् पद्मानि विकसितानि मवन्ति । तद्विकासेन सरस्याः शोमा सहजेति निष्कृष्टामिप्रायः। प्रेमनीरेण पूर्णा-प्रेमविषयीभूतं नीरं तेन पूर्णा भरितेत्यभिप्रायः, इयं सरसी जलपूर्णेति मावः । पशुपतगपिपासापूरणे कारणं-द्विपाश्चतुष्पान्जन्तूनामपि इष्टार्थप्रदाने हेतुः किमुत मनुष्याणामिष्टार्थप्रदानविषये । अनेन उदारशीलेति व्यज्यते । पशवः- गवादयः- पतगा:- शुकादयः ये ते अस्यां सरस्यां जलपानेन तृप्ता मवन्तीति प्रकृतार्थः । तस्यां-एताहशसरस्यां त्वं विगतमीः निर्भया स्नानपा- जीवसजीविनीबाटकम् १९ पशुपतगपिपासापूरणे कारणं या विहर विगतभीस्त्वं स्नानपानेन तसाम् ॥१३॥ सञ्जीविनी-३९. यत्र प्रकृतेविहारः तत्र विहरामि । प्रियदेवी-४०. प्रकृतेर्विहारोऽत्रैन । प्रकृत्येदं रम्यं यदुपवनमाढ्यं वनरुहै- स्सुखस्नानावाप्त्यै भवति बहुकासारवसतिः । नेन विहर-स्नानं कुरु जलं पिब यथाभिमतं विहारं कुरु । अत्र प्रथमपादे रूपकालङ्कारस्स्पष्टः । नूतनसुन्दरपीताम्बरकञ्चकालङ्कृता प्रियसङ्गमपेक्षमाणा प्रेमभरिता दयावती इयं वधूः- अस्यां त्वं यथेप्सितं विहारं कुर्विति कंचिद्ध- धूपियं प्रति कयाचिद्वंधूसख्या सूचितोक्तिरिति च व्यज्यते । अपवा इयं सरसीरूपा वधूः रतिकलाकुशला अस्याः स्नेहेन एषा तव सखीभूया तवेष्टार्थ साधयतीति च ध्वनिः। अत्र रत्याख्यस्थायिभावस्य बीजमुद्घाटि- तम् । मालिनीवृत्तम् ॥१३॥ ३९. प्रकृते:- स्खमावस्य-मनस इत्याकृतम् । प्रकृतिशब्दस्य श्लेषेण जगत्सृष्टेमूलमूतं प्रधानमित्यवगम्य सृष्टिवैचित्र्यमत्र विमातीति सखीवचनम् । प्रकृत्येति • इदमुपवनमयमारामः प्रकृत्या स्वभावेन वनरुहैः रम्यं- वृक्षमनोहरः। अत्र सुखस्नानावाप्त्यै-सुखेन स्नानाथ बहुकासारवसतिर्भवति- अनेकसरोवरेषु (विविधजनानुकूल्यार्थ) बहुविधानुकल्यानि कल्पितानि भवन्ति । सर्वत्रस्था-उपरिप्रदेशेषु अधः प्रदेशेषु च वर्तमाना शिला आसनगर्ति कलयति । अत्र शिलाशब्दस्य जात्यैकवचने प्रयोगः- अनेकानि- प्रस्तरफलकानि इति यावत् उपवेशार्हाः भवन्तीति तात्पर्यम् । त्वं स्नात्वा शिलायामुपविश्य विनोदार्थ यत्किञ्चित् गीतं गातुं प्रवर्तसे यदि ते गानविषये श्रुतिपदं त्वद्गानस्य गीतस्वरबलाधायकवाद्यमूलकश्रुतिवत् • श्रुतिसम्पादनाय द्विरेकारावः अलं भृङ्गसङ्कारः पर्याप्तो भवति । द्विरेका:- द्वौ रेफौ येषां ते तृतीया शिला सर्वत्रस्था कलयति सुखादासनगति द्विरेफारावस्ते श्रुतिपदमलं गानविषये ॥१४॥ सञ्जीविनी-४१. सखि ! अलमनेन विनोदेन अहमत्रैव तिष्ठामि त्वं तत्र तत्र गत्वा विकसितकुसुमान्यपचित्याऽऽहर । सैश्वतम्रो माला रचयावः । प्रियदेवी-४२. मा भूत्तव परिश्रमः । अहमेव माला: आरचंय्याऽऽनयामि । विनादयात्राऽऽत्मानं प्रकृतिसौन्दर्यसन्दर्श- नेन । (इत्युक्त्वा पुष्पापचयार्थं गच्छति) जीवदेवः-४३. सखे प्रियदेव ! पिपासाकुलोऽहम् । तत्र परिदृश्यमानं कासारं गत्वा जलमापीय निवर्तिष्ये । त्वमत्रैव स्थित्वा मामनुपालय (इत्युक्त्वा गच्छति) जीवदेवः-४४. (मार्गे प्रियदेवीं दृष्ट्वा) (स्वगतम्) केयं कामवधूः १ किमियं सञ्जीविनी ? (प्रकाशम्) आर्ये का त्वम् द्विरेफाः द्वयो रेफयोः संयुक्तोचारणात् र र इतिसंरावविशेषो जायते । स एव कुष्टस्वरकलितो झङ्कारोभवति इति केचित् । भ्रमरपदे द्वौ रेफौ भवतः अतः भ्रमरस्य दिरेफसंज्ञेत्यन्ये । अत्र शृङ्गाररसस्य स्थायीभूतरतेः पुष्टयर्थ- उद्दीपनविभावानां बीजोपन्यासोऽवगम्यते । शिखरिणीवृत्तम् ॥१४॥ ४१. स्वप्रियस्य दर्शनभाषणयोरौत्सुक्येन सख्याः सुदमपसारणा- यायं पुष्पाहरणसन्नाहप्रसङ्गः । ४२. पुष्पमालारचनयापि परिश्रमो भवतीत्युत्प्रेक्षया सञ्जीविन्या- स्सुकुमाराङ्गत्वं द्योत्यते । ४३. अत्रापि जीवदेवेन एकान्ते प्रियादर्शनापेक्षया पिपासाशम- नच्छद्मना सख्युस्सकाशानिर्गमनं कृतम् । अनेन रत्याख्यस्थायिभावस्या- स्कुरोदयः सूचितः। 9. मनीविनीसखी सञ्जीविनी मन्यमानस्य मायकस्य केय 90 जीवसञ्जीविनीनाटकम् १ ! - कुत्र गच्छस्येकाकिनी? प्रियदेवी-४५. आर्य ! नाहमार्यापदसम्बोधनमामि । जीवदेवः-४६. काऽन्या तदर्हति ? प्रियदेवी-४७. मम प्रियसखी सञ्जीविनी। जीवदेवः-४८. कुत्र सा प्रियदेवी-४९. तत्रैव कासारतीरे । अहं तत्सखी पुष्पाव- चयार्थ गच्छामि । जीवदेवः-५०. गच्छ ! गच्छ ! कल्याणमस्तु ते (जल- पानाय मन्दं मन्दं कासारसोपानमनुसरति । तं दृष्ट्वा) सञ्जीविनी- कामो वा कामपिता रूपेणाऽयं जयति सुरानखिलान् । मां रतिमाकलयेचेदहमपि सहसा जयामि सुरनारीः ॥१५॥ कामवधूरिति मोहपरवशस्योक्तिः । ४५. सम्बोधनं सखीजनविषयेऽनुचितमित्यभिप्रायः । ४६. काऽन्या तदहतीत्याशंसया त्वमेवाहसीत्याशयेन तदापि भ्रान्त्या सञ्जीविनीबुद्धिः जीवदेवमनुसरतीति ध्वनिः । ४७. “आर्ये' इति सम्बोधनार्दा सञ्जीविनी । स्वयं तु तत्सखीति सखीपदश्रवणेन भ्रान्तिर्निवारिता । तदर्शने औत्सुकयं तु तेन न त्यक्तम् । ४८. अतस्तस्यास्सन्निधिस्थानावगमायायं प्रश्नः । ४९. ये कासारं प्रति स गच्छति, तस्य तीरे सञ्जीविनीस्थिति- राख्याता। ५०. सञ्जीविनीसख्या अपि कल्याण (विवाहः) सूचितम् । काम इति-अयं पुरोवर्ती युवा (जीवदेवः) कामो वा-मन्मथो वा कामपिता वा-पुण्डरी-काक्षो वा भवेत् । यतः अयं रूपेण अखिलान् सुरान् जयति- Evion तृतीयोऽ । ५१. (अत्रान्तरे प्रियदेवी द्वे पुष्पमाले सनथ्य सञ्जीविनी- निकटमासाद्य पुनः पुष्पावचयाथं निर्गच्छति । सञ्जीविनी ते माले पक्राच्छाद्य जलं पिबन्तं जीवदेवं वीक्षितुं कासारनिकटतटमारोहति । तस्याश्छाया रविकिरणमनुगता कासारनीरे प्रतिफलति) जीवदेव:-(तां दृष्ट्वा-) शरीरसौन्दर्येण सर्वानमरान् जयतीत्यनेन दिव्यरूपसम्पन्नोऽयमिति सूचितम् मन्मथसहशोऽयं मां रतिराकलयेञ्चेत् मन्मथप्रियां रतिदेवीमित्र (सौन्दर्यवती। मिति यावत्) भावयति यदि, अहमपि सहसा सुरनारीः जयामि-शीघं सवा अमरवधूः सौन्दर्येण जयामि । यद्यपि मां सुन्दराङ्गीति जनाः वदन्ति-तथापि सुन्दराङ्गेण तेन तथा भाव्याऽहमित्यनेन मां स्वख्यानुरूपां कन्यां भाव्यति व- न वेति स्वहृदयमनया प्रकाशितम् । शंगाररसपरिपोषणे आधारभूतरत्याख्य- स्थायिमावख्य पोषकः तत्कारणभूतः आलंबनविभावोदयः प्रकाशितः । वृत्तं गीतिः । ५१. नायिकानायकयोर्मियस्सलापावसरे पुष्पमालाप्रापणाय सखी- प्रवेशो नोचित इति सुसमये अन्योन्यं सुममालार्पणाय तत्र तत्सिद्धिरा- वश्यकीति चाभिसन्धाय पूर्वमेव पुष्पमालाप्रापणायात्र सखीप्रवेशसंविधानम् । इयमिति-इयं कासारस्य स्वच्छ नले प्रतिबिम्बिता सूर्यकिरणैर्वेदीपिता छायारूपा कन्या, तटिद्वा-विद्युद्वा रविकिरणसङ्क्रान्ता जलतरङ्गतरङ्गिता सौदामिनीव भासत इति हेतोः तटिवेत्युप्रेक्षा । तटिनीवपूर्वा-जलकन्येति यावत्। विम्बभूतकन्यामदृष्ट्वा जले तच्छायाया दृष्टत्वात एवमुत्प्रेक्षा । भुजङ्गकान्ता- नागकन्या वा-मुजङ्गकन्याः कासारनीराधःप्रदेशे पाताललोके वसन्तीति प्रसिद्ध्या काचिन्नागकन्या पातालान्निर्गत्य अस्मिन् कासारे प्रियदर्शनायागते- त्युत्प्रेक्षा । भुजगाश्रयाप्ता-भुजाभ्यां गच्छतीति भुजगः-शेषः स आश्रयः तल्पं यस्य स विष्णुः । तस्य आप्ता-प्रिया लक्ष्मीर्वा । क्षीरसागरगता हि लक्ष्मीः अत्र कासारे विपुलं क्षीरवन्नीरं भवतीति परिभावनया अयमेव क्षीर. गति भान्तिः। अत: नत्र प्रस्तता कन्यामपळाया लकमी: मवेदित्य- जीवसजीविनीनाटकम् १३० கண் इयं तटिद्वा तटिनीवधूर्वा भुजङ्गकान्ता भुजगाश्रयाप्ता। सुरेशयोषिन्महिषी सरारेनरेषु जन्मास्ति न होगस्याः ॥१६॥ ५२. (मुखमुन्नमय्य सञ्जीविनीं दृष्ट्वा तदद्भुतसौन्दर्यदर्श- नेन मूच्छा गच्छति । एवं स्थितिमापनं तं दृष्ट्वा सञ्जीविनी सत्वर- मवार्य शिरसि वक्षसि च जलमासिच्य नलिनीदलैर्मुखसम्मुखे वीजयति । तयैवं समाश्वासितो राजकुमारः नेत्रे उन्मील्य शनै- रुत्थाय तत्पाण्यवष्टम्भेन तटदेशमुपगच्छति । तं तरुणपर्णशय्यायां शाययित्वा खपीताम्बराञ्चलेन वीजयन्ती समाश्वासयति सञ्जीविनी) (अत्रान्तरे प्रियदेवी मालाद्वयहस्ता गच्छन्ती यदृच्छया प्रियदेवस्थ समीपवर्तिनी भूत्वा तं दृष्ट्वा चकितहृदया पश्चात्परिधाव्य माला- द्वयं मल्लिकागुल्मे निक्षिप्य शनैः शनैः पदविन्यासानश्चयति ।) त्प्रेक्षा । हरेशयोषित्-इन्द्राणी वा। स्मरारे:- परमेश्वरस्य महिषी पार्वती वा उभयत्र स्नानार्थं तदागमनमभिसन्धाय तथोत्प्रेक्षा कृतेति मन्तव्यम् । नरेषु-मनुष्येषु अस्याः ईदृग्जन्म एतादृशकन्यारत्नस्य जननं नास्ति न भवतीति मोहितस्योक्तिः । प्रतिबिम्बे एतादृशसौन्दय चेत् बिम्बे तत्कीदृशं भवेदिति ध्वनिः । उपेन्द्रवज्रावृत्तम् । ५२. अत्यद्भुतवस्तुदर्शनेन मनोवृत्तयः स्तब्धा भवन्ति । अतः कश्चित्कालं संज्ञा प्रतिरुद्धा भवति-सैव मूर्छा । सञ्जीविनी तत्क्षणं तत्र गत्वा तं शैत्योपचारैरुपचरतीत्यनेन आलम्ब. नविभावस्सूचितः । तस्याः पाण्यवष्टम्भेन तस्य तटदेशप्रापणरूपबाह्यव्यापारो- ऽपि तमेवालम्बनविभावं पुष्यति । नायिकानायकयोरुभयोरप्ययं स्थायिनः परस्परालम्बनमिति विवेकः । प्रियदेवीप्रियदेवयोरपि रत्याख्यस्थायिनः आलम्बनपोषार्थ हठात् परस्परदर्शनाय संविधानमिदानीम् । प्रियदेव्या हृदयं निर्जनस्थले परपुरुषदर्श- नेन चकितं भवतीति सात्विकप्रकृतिरस्यास्सचिता ।

१३२ तृतीयोऽङ्कः प्रियदेवः-५३. (तां दृष्ट्वा - स्वगतम्) केयं कल्याणी ? अपि नाम कलानिधिसुता सञ्जीविनी ! (समीपं गत्वा) का त्वं सुभगे ? प्रियदेवी-५४. अहं राजकुमार्याः प्रियसखी प्रियदेवी । प्रियदेवः-५५. कुत्राऽस्ति सा राजकुमारी ? प्रियदेवी-५६. कासारतटे तिष्ठति । प्रियदेवः-५७. (स्वगतम् ) तर्हि पिपासाशमनार्थ कासार- मुपगतस्य राजकुमारस्य तया सह परिचयो भवेत् । अत एव मम सखा प्रत्यागन्तुं विलम्ब तनोति । भवतु अयमेव ममाप्यवकाशः। अनया प्रियदेव्या सह संलापेन किञ्चित्प्रयोजनं भवेन्मे । (इत्या- लोच्य) (प्रकाशम्) भो कन्यामणे । त्वमूढा वा ? प्रियदेवी-५८. मम वय एव शंसत्यनूवेति । ५३. तस्यापि सा सञ्जीविनीति म्रान्तिः सञ्जीविनीदर्शनागमनोदेश- जन्या अविदिततत्सख्यागमनसहकृता । सुभगेति सम्बोधनं शृङ्गाररसोदयस्य बीजम् । ५४. राजकुमार्यपि देवी भविष्यत्येव । तस्मात् प्रिया देवी यस्या- सा-प्रियदेवीति तस्या नाम सार्थकम् । अतस्सा प्रियसखी । ५५, राजकुमारी-सञ्जीविनीं । अयं प्रश्वः स्वमित्रेण जीवदेवेन तत्स्थानं विदितं भूयादिति आशंसा बुध्या कृतः। ५६. एतच्छ्रवणेन तस्याशंसा सफला जाता । अतः उत्तरवाक्ये स्वगतालोचनं सूचितम् । ५७. परिचयो भवेदिति तस्याऽभ्यूहः । जीवदेवेन प्रत्यागमने विलम्बः कृत इति यत्-तत्तमभ्यूह द्रढयति । तत्सख्या सह संलापेन प्रयो- जनं तु आत्मानं वरत्वेनाङ्गीकाराय संमतिप्रकाश एव । ५८, वयसैव अनूटेति निर्धारः कर्तव्य इत्यभिप्रायः।

जीबसविनीनाटकम् ११३ ? प्रियदेवः-५९. कि ते वयः । ? प्रियदेवी-६०. मम सख्या वयसोऽपि किञ्चिन्यूनम् । प्रियदेव:-६१. तस्यास्तु ! प्रियदेवी-६२. षोडश । प्रियदेवः-६३. षोडशवयस्काप्यनूदा ? प्रियदेवी-६४. सा क्षत्रिया राजकन्या । प्रियदेवः-६५. त्वम् । प्रियदेवी-६६. क्षत्रियां मन्त्रिपुत्री। प्रियदेवः-६७. अहं मन्त्रिपुत्रः । ६९. वयः किमिति तन्निर्धाराय प्रश्नः । ६०. सञ्जीविन्याः सामान्यतः समानवयस्का । ६१. सञ्जीविनीवयोनिर्णयाय प्रश्नः । ६२. षोडशेत्यनेन तद्वयसः पूर्व क्षत्रियकन्यानां विवाहो न रूट इति सूच्यते । ६३. प्राप्तयौवनप्रायाप्यनूढेति विस्मयः । षोडशवर्षे हि स्त्री पुष्पवती-पुरुषः-श्मश्रुमान् भवतीतीदं यौवनस्य बाह्य लिङ्गम् । ६४. क्षत्रियेष्वयं सम्प्रदायः । क्षत्रियराजकन्येत्यनेन क्वचित क्षत्रियेतराः राजानो भवन्तीति क्षत्रियेतरेषु यदि कदाचिद् ब्राह्मणो राजा भवति तद्वंशे तादृशसम्प्रदायः न रूढ इति च व्यज्यते । ६५, क्षत्रियशब्दश्रवणात् सखीजात्यवगमाय कुतूहलं जातम् । ६६. मन्त्रिपुत्रीति श्रवणेन स्वस्थानुरूपेयं कन्या विवाहायेति भावः सूचितः । ६७. अहं मन्त्रिपुत्र इत्युद्धोषः जात्या स्वस्यापि श्रेष्ठत्वप्रकाश- नाय।

तृतीयोऽङ्कः प्रियदेवी-६८. किं तेन ? प्रियदेवः-६९. मन्त्रिपुच्याः मन्त्रिपुत्रो योग्यो वर इति । प्रियदेवी-७०. (सलजा तिष्ठति) प्रियदेवः-७१. लजयाऽलम् । किं तवाऽऽकूतम् । प्रियदेवी-७२. (परिधावति) प्रियदेवः-७३. कुत्र गच्छसि ? प्रियदेवी-७४. पुष्पमालिके मल्लिकागुल्मे निक्षिसे आहरामि ते। प्रियदेवः-७५. प्रियं भवति मे । तथा कुरु । अचिरादा- याहि । (प्रियदेवी निर्गच्छति) (अत्रान्तरे जीवदेवः संज्ञां लब्ध्वा सञ्जीविनी वक्ष्यि) जीवदेवः-७६. हे प्रिये- ६८. स्पष्टं तदभिप्रायावगमाय प्रश्नः । ६९. त्वं मम भार्या भवितुमर्हसीति अभिसन्धि पर्यायेण बोध- यति । ७०. लज्जाविर्भावः सात्विकभावः प्रकृतिजन्यः । ७१. निर्लज्जा तवाभिप्रायं कथयेति-निर्लज्जोक्तिः । ७२. मातापित्रादेशं विना कन्यायाः वरवरणमनुचितमिति भावनया परिधावनम् । ७३. तया सह परिणये उत्कटेच्छया एवं भाषणम् । ७४. त्वदर्थमानयामि । 'ते' मालिके आनयामीति उभयथान्वयः । ७५. “आहगमि ते" इत्यनेन मदर्थमियं पुष्पमालामानयति मां वृत्वा मत्कण्ठेऽर्पयतीनि बुध्या तद्गमनाय सम्मतिदर्शिता । ७६. हे प्रियेति सम्बोधनेन स्वस्येयं प्रियकारिणी प्रिया (भार्या) भवितुमर्हतीति ध्वनिः ।

जीवसभीविनीनाटकम् तन्वीं त्वां तरुणेन्दुशेखरसतीस्पर्धा धिनोतीव ते प्रत्यङ्गं लसिताम्बुजाऽब्जरतिवल्लावण्यधारावहाम् । वस्तूनां धृतरामणीयकदृशां माङ्गल्यरूपेव मे मान्या त्वं गुणशीलवृत्तविभवैस्तुत्याऽसि सञ्जीविनी॥१७ सञ्जीविनी-७७. भो आर्य ! ममापि त्वमेवं प्रतिभासि । तन्वीति-तन्वीं त्वां कोमलावयवां त्वां तरुणेन्दुशेखरसतीस्पर्धा-तरुणश्चासौ इन्दुश्च स एव शेखरः यस्य सः परमेश्वरः- तस्य सती पार्वती तया स्पर्धा पार्वत्या सह स्पर्धाबुद्धिरिति यावत् । धिनोति-तोषयति । पार्वती खलु सर्वाङ्ग- सुन्दरीति प्रसिद्धा । तत्सौन्दर्यवर्णनं "कुमारसम्भवे" "ललिताऽष्टोत्तरे" च विशदीकृतम् । तस्याः सौन्दर्यादपि तव (सञ्जीविन्या) सौन्दर्यमुत्कृष्टतर- मिति तात्पर्यम् । तत्कथम् । प्रत्यङ्गं सर्वावयवेषु लसिताम्बुजाऽजरतिवल्ला- वण्यधारावहां-विकसितपद्मे इव नेत्रे हस्तौ पादौ पूर्णचन्द्र इव मुखं रतिरिव शरीरं भवतीति सौन्दर्यप्रवाहधाराम् इति विशेषणं-शृङ्गाररसमत्यन्तं पोषयति । धृतरामणीयकदृशां वस्तूनां माङ्गल्य-सौन्दर्ययुक्तानां पदार्थानां प्रधानम् । अनेन विशेषणेन उपमानभूतानां सर्वेषां त्वमुपमानं भवतीति ध्वनिय॑ज्यते । अतिसुन्दराङ्गीति तात्पर्यम् । एतदन्याहशसौन्दर्यवर्णनमुद्दीपनविभावद्यो- तकम् । अत एव एवं मे मान्या त्वमित्युक्तम् । मम अत्यन्तप्रीतिकरी मया सम्मानयितुं योग्येति तात्पर्यम् । न केवलं सुन्दररूपेणैव त्वं मान्या किन्तु गुणशीलवृत्तविभवस्त्वं स्तुत्यासि-सकलसद्गुणैः सच्छीलेन सद्वृत्तेन सर्वसम्पद्भिश्च त्वं स्तोत्रार्दा भवसि । अनेन सात्विकभावाश्च प्रपञ्चिताः । अत्र नायके शृङ्गाररसपरिणत्याधारभूतरत्याख्यस्थायिभावपोषणाय नायिका- रूपसौन्दर्यदर्शनं नाम आलंबविभावोत्पादकमिति बोध्यम् । शार्दूलविक्रीडितं वृत्तम् ॥१७॥ ७७. आर्येति वरस्य सम्बोधनं विवाहात्पूर्वमुचितम् । रविरिति-त्वं रविरिव भासि-सूर्य इव प्रकाशसे । कथम् ! रवेः भग इति तृतीयोऽङ्कः ॥ रविरिव सुभगस्त्वं तेजसा भासि स त्वं मदन इव मनोज्ञः कायभूत्या विधिज्ञः । गुह इव रणवीरः शूरवज्रीव धीरो हितनिजगुणधामा मानसोल्लाससीमा ॥१८॥ नाम त्वं सुभगः-मनोहरः। रविः स्वतेजसा भाति तेजोमयत्वात्-त्वमपि क्षत्रिय- तेजसा प्रज्ञाभासा च भासि । अनेन तस्य पराक्रमः विद्वत्वमित्यादिगुणाः सूचिताः । मदन इव मनोज्ञः-मन्मथ इव सुन्दर:- आत्मज्ञश्च । कायभूत्या- विधिज्ञः- मदनः स्वस्य कायः देहः तस्य भूतिःभस्मीभावः तया विधि कारण स्वकार्यापादितं परमेश्वरस्य कोपरूपं जानातीति कायभृत्या विधिज्ञः । त्वं कायस्य-शरीरस्य भूतिः- सम्पत्-दाय-बलमिति यावत् । तया विधीन्- कर्तव्यव्यापारान् जानासीति विधिज्ञः । अनेन प्राप्तावसरेषु तत्तत्कालोचित- कार्याणि कर्तुं समर्थ इति सूचितम् । गुह इव रणवीरः- सेनानीरिव सम- राङ्गणे पराक्रमयुक्तः। तारकासुरेण युद्धे कुमारस्वामी यथा स्वशौर्य प्रकटित- वान् तथा त्वं शत्रुभिस्सह युद्धे पराक्रमं प्रकाशयितुं समर्थः । अनेन वीररसोदयोऽत्र सूचितः । शूरवज्रीव शूरः धीरः- वज्री इन्द्रः यथा सर्वाप- त्वपि धैर्ययुक्तः त्वमपि तथा धैर्यवान् । त्वं हितनिजगुणधामा-निजाः स्वाभाविकाः नतु नैमित्तिकाः गुणाः-शौर्यौदार्यादिगुणाः तेषां धामानि तेजांसि बलानि वा निजगुणधामानि हितानि निजगुणधामानि यस्य सः हितनिजगुणधामा । सुगुणशालीति यावत् । मानसोल्लाससीमा-मम मनो. हर्षस्य त्वमेव आधारः अवधिस्थानं त्वदायत्तं मज्जीवितमित्यमिसन्धिः । एवं परस्पररागप्रदर्शनेन शृङ्गाररसः उन्नीवितः। अत्र शान्तिरसस्यालम्बन- मपि द्योत्यते । यथा-गुह इव रणधीरः इत्यनेन यद्यपि अत्र नायकः समरे शत्रुभिस्सह न युध्यते तथापि कामक्रोधादिषड्रिपून जयति । शूरवज्रीव धीरः इत्यनेन प्राणापहारकरोगैः पीडितोऽपि धैर्य न त्यजति । हितनिनगुणधामेत्य- नैन शमदमादिवैराग्योत्पादकगुणसम्पन्न इति । मानसोल्लाससीमेत्यनेन सर्वदा जीवसीविनीनाटकम् जीवदेवः-७८. सञ्जीविनि, अद्यैव मम मूर्छातस्संज्ञा- विधानेन त्वं प्राणसंजीविनी भवसि । प्राणकान्तापि भवितुमिच्छसि किम् ? सञ्जीविनी-७९. (सलजम्) जीवसन्निधाने हि सञ्जीविनी- प्रभावः। जीवदेवः-८०. स्त्रियः वचसि कुशलाः । तासु प्रत्ययः कथं कार्यः। सञ्जीविनी-८१. अयमेव प्रत्ययः। (इति मालामेका जीव देवस्य कण्ठे समर्पयति) सन्तुष्टान्तरङ्ग इति च व्यज्यते । नायिकापि तथैव शमदमादिवैराग्यगुण- प्रधानेति पञ्चमाङ्के जीवदेवस्य तया कृततत्वोपदेशेन ज्ञायते । अन्त्ये उभावपि जीवन्मुक्तौ भवत इति शान्तिरसस्य इमौ आलम्बनमिति आल- म्बनविभावः। यस्य कस्य वा रसस्य यदा आलम्बनविभावस्सिध्यति तदनन्तर- मेव भावान्तरसत्वनिरूपणम् । अत्र धीरोदात्तनायकगुणास्सूचिताः ॥१९॥ ७८. प्राणकान्तापि भवितुमिच्छसि किमिति अकैतवः प्रश्नः । सञ्जीविनीमनोरथावेदनाय खलु तत्र तस्य सान्निध्यम् । एवंरूपसम्भाषणाय तस्य मातुरनुज्ञापि वर्तते । ७९. सञ्जीविनीनामौषधिविशेषस्य प्राशस्त्यं जीवरक्षणाय यथा तथैव ऽज्जीवितसाफल्य जीवदेवसन्निधाविति श्लेषार्थद्योतनेन तत्पाणिग्रहणाय तस्यास्सम्मतिस्सूचिता। ८०. पुरुषानतिशेतुं समर्थाः । तासां वचने कथं प्रत्ययः इत्युक्तिः तस्याः सुस्पष्टमनोरथावगाहनाय । ८१. अयमेवेति तस्य संशयच्छेदनार्थ कार्यतः तत्प्रत्ययं दर्शयन्ती सञ्जीविनी प्रियस्य कण्ठे पुष्पमालां समर्पयति । अत्र नायकस्य हृदये शृङ्गार- रसोपष्टंभकरतेः अनुभावरूपमिदं पुष्पमालासमर्पणमिति विवेकः । माया। 18 तृतीयोऽङ्कः जीवदेवः-८२. (सहर्ष) त्वं कुलवधूरसि । (इति वदन् अन्यां माला गृहीत्वा सञ्जीविनीकण्ठे समर्पयति) । (तदानीं वर्ष- बिन्दवः सुरभिगन्धोदकविन्दव इव पतन्ति । मन्दमारुतः व्यजन- भरुदिव शनैरुपवीजयति । वृक्षेषु शकुन्ताः सगीतवाद्यामिव कलकला- रावं कुर्वन्ति) जीवदेवः-८३. धन्योऽहम् । त्वं मम पाणिग्रहणमना इति भावये। सञ्जीविनी-८४. मम पाणिग्रहणेनैवोत्तम्भितस्त्वं कासार- स्य नीरदेशात्तीरदेशं प्रापितः । जीवदेवः-८५. कृतज्ञोऽहम् । इदानीं साधयावः । इतः परं कर्तव्यांशाः गुरुजनायत्ताः । (इति निष्क्रामति) ८२. तेन हृष्टो जीवदेवोऽपि स्वस्य मनोरथप्रदर्शनाय तस्याः कण्ठे पुष्पमालां समर्पयति । एवं तौ गान्धर्वविधिना विवाहितौ । अनेन नायिका- हृदये शृङ्गाररसोपष्टंभकरतेः अनुभावोदयः सुस्पष्टमवगम्यते । वर्षपतन- मरुद्वीजनशकुनिकृतारावाः स्वाभाविका अपि तत्काल एव तेषां सम्भवात् तयोविवाहाय देवताविशेषाणां महाहर्ष मूचयति । ८३. ब्राह्मविधिनापि पाणिग्रहणमावश्यकं तदर्थ प्रश्नः । ८४. निमित्तान्तरेण कृतेन हस्तावलम्बनेन पाणिग्रहणं कृतमिति विलासोक्तिः। अनया श्लेषोक्त्या नायिकायां रत्याख्यस्थायिभावपोषकानुभावो दयः सूचितः । ८५. मूछितस्य संज्ञाऽऽधानार्थं कृतोपकारायास्तव अहं कृतज्ञो- ऽसीति तात्पर्यम् । मातापितृरूपगुरुजनैस्तयोः प्रत्यक्षतो विधिवत्पाणिग्रहण- संपादनारंभ एव कर्तव्यांश इत्याकूतम् ।

जीवसाविनीनाटकम् १३९ ८६. (अत्रान्तरे प्रियदेवः पुष्पमालाहस्तां प्रियदेवीं समीप. मानीय एका पुष्पमालां गृहीत्वा तस्याः कण्ठे समर्पयति । सारी तूष्णींभावनैव अन्यां मालां तस्य कण्ठे समर्पयति) प्रियदेवः-८७. त्वं मम धर्मपत्नी भवितुमर्हसि । प्रियदेवी-८८. प्रिय प्रियदेव, यदा त्वं देवप्रियः ममापि प्रियो भवसीति कैमुतिकन्यायसिद्धम् । प्रियदेवः-८९. निपुणा त्वं सम्भाषणे । त्वत्सखी निपुण - तरेति शङ्के। प्रियदेवी–९०. सा मितभाषिणी । प्रियदेवः-९१. त्वम् । प्रियदेवी-९२. अल्पभाषिणी । प्रियदेव:-९३. अनल्पभाषिणीव भासि । ८६. एवमेव प्रियदेवीप्रियदेवयोः परस्परं पुष्पमाल्यसमर्पणेन तयो- रपि गान्धर्वविधिना विवाहो निर्वर्तित इति सूच्यते । १७. भार्या भवेति स्पष्टं वचनम् । ८८. यो देवप्रियः स ममापि प्रिय इत्युक्त्या तस्य भार्या भवितुं स्वस्यास्सम्मतिर्दत्ता। ८९. तस्याः वचनचातुर्य परिभाव्य वदति तथा तत्सख्याः भापण- नैपुण्यं ततोऽप्यधिकं मन्यते । ९०. सा मितभाषिणीति प्रतिवचनम् । ९१. त्वमित्यनेन त्वमपि तथा मितभाषिणी कुतो न स्या इत्या- क्षिपति । ९२. सा तथैवेति स्थापयति । ९३. स्वानुभवात्सा बहुभाषिणीति पुनस्तामाक्षिपति । TER तृतीयोऽङ्कः प्रियदेवी-९४. निषिध्यते निषेधोऽत्र। प्रियदेव:-९५. भवतु साधयावः । मम सख्युः राजकुमा- रस्य वृत्तान्तं ज्ञात्वा शुभोदकं साधयामि । प्रियदेवी-९६, अहमपि सख्याः राजकुमार्याः प्रवृत्ति- मभिवीक्ष्य कल्याणसंपदं प्रतीक्षमाणा भवामि । (इत्युभौ निष्क्रान्तौ) (तदनुपदं प्रियदेवः जीवदेवेन प्रियदेवी सञ्जीविन्या मिलित्वा परस्प- रानुभूतविषयान् परस्परमावेद्य वस्ववसतीः प्रतिगता) (निष्क्रान्तास्सर्वे) ९४. अनल्पभाषिणीति पदे निषेधबोधकनकारस्य निषेधः कार्यः । नकारः परिहियतामित्यनेन स्वयमल्पभाषिणीति साधितम् । ९५. प्रत्येकं निर्गमनाय कारणमभिहित प्रियदेवेन । ९६. तथैव कारणं निर्दिष्टं प्रियदेव्या । ॥ इति तृतीयदृश्यव्याख्या ॥

॥ चतुर्थदृश्यम् ॥
-
?
?
ज्योत्स्नानगरम्
(ततः प्रविशति राजा कलानिधिः राज्ञी चन्द्रिका परिवारश्च)
कलानिधिः-१. प्रिये चन्द्रिके, किं विषण्णहृदयेव त्वम् ।
चन्द्रिका-२. तथा ।
कलानिधिः-३. कारणम् ?
चन्द्रिका-४. कुमारी सञ्जीविनी ।
कलानिधिः-५. कथम् १ तस्यास्स वरोऽवरः १ नाङ्गीकार्यः?
चन्द्रिका-६. तदङ्गीकारादेवाऽनङ्गतापः ।
कलानिधिः-७. मङ्गलाङ्गयाः अनङ्गतापः ?
॥ चतुर्यदृश्यव्याख्या ॥
"आकारेणैव सुहशस्तर्कयन्ति परेङ्गितम्" इति नीत्यनुसारेण
राझ्याः मुखवीक्षणेनैव राजा तस्या विषादभावं विजानन् तस्य कारणं
पृच्छति ।
२. तथ्यम् । अहं विषण्णहृदयेति भूतार्थनिवेदनम् ।
३. विषादस्य निमित्तं किमिति प्रश्नः ।
४. सुता सञ्जीविन्येव निमित्तमिति कारणं दर्शयति ।
५. अवरः-अनुत्तमः । तस्य पाणिग्रहणं नानुमोदते किम् ?
६. तमेवाङ्गीकरोति । अतः कन्दर्पदोऽस्याम् ।
(अनेन विप्रलंभशृङ्गाररसोदयस्सूचित)
७, कोमलाङ्गी खलु कुमारी । तामनङ्गः कथं बाधते ।।
इत्यनेन प्रबलमन्मथावेशस्य सा नाहवयस्केत्याकूतम् ।
-

तृतीयोऽङ्कः चन्द्रिका-८. सर्वाङ्गेषु सुप्रतः कलानिधिः-९. तदत्र का चिकित्सा ? चन्द्रिका-१०. न कापि कायचिकित्सा प्रभवति । कलानिधिः-११. स तापः किं मानसचिकित्सामपेक्षते ? चन्द्रिका-१२. तथैव । कलानिधिः-१३. तर्हि भिषग्वरान् समाह्वापयामि । चन्द्रिका-१४. धन्वन्तरिणापि चिकित्सा न पार्यते । कलानिधिः-१५. तर्हि ब्रूहि त्वमेव किमत्र कार्यम् । चन्द्रिका-१६. तस्याः हृदयप्रियस्थ मुखावलोकनेन तत्पा- णिग्रहणेन तत्संलापेन निवार्यते स सन्तापः । कलानिधिः-१७. तस्या विवाहो निर्वतितव्य इति किल तवाऽऽकूतम् ? ८. अनङ्गोऽपि कामः- तस्यास्सर्वाङ्गेषु प्रविशतीत्यनेन सा काम- ज्वरपीडिता इत्युक्तं मवति । ९. कायिकोपताप: वैद्यचिकित्सासाध्य इति भावयति । १०. कायचिकित्सया न किमपि प्रयोजनं भवतीति राज्ञी निवेदयति। ११. किं मानसचिकित्सा कार्येति पृच्छति । १२. तथैवेत्याबेदयति । १३. सा भिषक्साध्येति मन्यते । १४. सा न मिषक्साध्येति अभिप्रैति । १५. तामेव परिहारोपायं पृच्छति । १६. स्वेनैव वृतस्य प्रियस्य दर्शनादियोग एवं तत्परिहार इति सूचयति । १७. तेन सह तस्या विवाहः कार्य इति तवाभिप्राय इतिः शङ्के।

जीवसभीविनीनाटकम् चन्द्रिका-१८. तथैव प्रिय ! कलानिधिः-१९. अचिरान्निर्वय॑ते । (सेवकं दृष्ट्वा) भौः सेवक ! प्रधानमन्त्रिणमिह प्रापय । सेवकः-२०. (गत्वा मन्त्रिसहितः पुनः प्रविश्य) प्रभो ! अयमागतो मन्त्रिपुङ्गवः। मन्त्री-२१. प्रणमामि राजशेखरम् अभिवादये राज्ञीमणिम् । उभौ-२२. अप्रतिहतमतिमान् भव । कलानिधिः-२३. मन्त्रिन् कुमुदबन्धो ! मम पुत्र्याः विवाहप्रसङ्गो भवति । तत्सकलसंविधानमचिरेण कारयितव्यम् । यतः। १८. त्वया साधु शङ्कितः परिहारोपायः । अनेन राज्ञापि स्वस्याः आकूतमेव ज्ञातमिति भावितम् । १९. विवाहकार्यसाधनाय प्रधानमन्त्रिणमाह्वापयति । २०. मन्त्रिणः आगमन सेवकः राज्ञे निवेदयति । २१. सुम्प्रदायमनुसृत्य मन्त्री प्रणाममाचरति । २२. तस्मै समुचिता आशीः कृता । २३. राजा प्रवृत्तवृत्तान्तं सर्व मन्त्रिणे आवेदयति । यथा- सेयमिति-सेयं बाला-मम पुत्री सञ्जीविनी अत्र इयमिति निर्देशः यस्याः विवाहाथ संविधानमादिष्टं सेति राज्ञः हृदयस्थस्य वस्तुनः वृत्तान्त- ज्ञापनाय । मदुपवनगता-मम उद्यानं प्राप्ता सती तत्र-इह तेजोवत्याः नरपतिः यः तस्य पुत्रं गुणाड्यं जीवदेवं संगता-तेजोवतीराजस्य सुगुणशीलं जीवदेवा ख्यं कुमारं समक्षत । प्रायः तेन सह सरससंलापमप्यतनोदिति मन्ये । अनन्तरं प्रेम्णा बद्धा सा दुस्सहात् तद्वियोगात् शयनमधिगता-इदानीं सा तस्मिन्ननुरागेण युक्ता सोढुमशक्यात तद्विरहात् मनोरोगपीडिता भवति ।

तृतीयोऽङ्कः सेयं बाला मदुपवनगता संगता जीवदेवं तेजोवत्या नरपतिरिह यस्तस्य पुत्रं गुणाढ्यं । प्रेम्णा बद्धा शयनमधिगता दुस्सहात्तद्वियोगा- तत्तेनास्याः परिणयविधितः स्याचिकित्सा तदहीं ॥१९॥ कुमुदवन्धुः-२४. महाराज! भवत्कुमार्याः शरीरसन्तापस्य कारणं विदितम् । तादृशकारणं विना मम कुमारी प्रियदेवी केना- प्यामयेन पीडिता भवति । का वाऽत्र चिकित्सा न जानामि । चन्द्रिका-२५. न साऽऽमयग्रस्ता । किंतु सन्तापपीडिता । कुमुदबन्धुः-२६. कथम् ? कथयतु भवती। चन्द्रिका-२७. तस्या अपि स्वप्रियस्य मुखावलोकनेच्छा। कुमुदबन्धुः-२८. क एष तत्प्रियः ? चन्द्रिका-२९. प्रियदेवः । जीवदेवस्य प्रियसखः। । तत्तेनास्याः परिणयविधितः चिकित्सा तदाँ स्यात्-तस्मात्-तेन सह तस्या विवाहःसम्पाद्यते चेत् तदा तद्रोगपरिहारो भवेत् । चित्रलेखावृत्तम्-तल्लक्षणम्- "मन्दाक्रान्ता नपरलघुयुता कीर्तिता चित्रलेखा" इति ॥१९॥ २४, एतत्कारणं श्रुत्वा मन्त्री तादृशकारणं विनापि स्वपुत्र्यपि रोग- पीडिता भवतीति राज्ञे निवेदयति । तच्चिकित्सायाम् अज्ञानं च सूचयति । २५, तत्कारणज्ञा राज्ञी “न सा कायिकरोगपीडिता किंतु मानसिकतापेन पीडिते"ति सूचयति । २६. तद्विज्ञानाय सोत्सुकं पृच्छति मन्त्री । २७. तस्या अपि स्वप्रियदर्शनयोगेच्छा भवतीति राज्ञी कथयति । २८, अज्ञातस्वसुतावृत्तान्तः मन्त्री कस्तस्याः प्रिय इति पृच्छति। २९. स्वसुतायाः प्रियस्य जीवदेवस्य सखा प्रियदेव इति राज्ञी तमावेदयति

जीवसीविनोनाटकम्
कुसुदबन्धुः-३०. स सखा कश्चित्सेवको भवेत् । तादृशः
कथं प्रियो भवेन्मम कुमार्याः क्षत्रियाण्या:।
चन्द्रिका-३१. स न सेवकः, मन्त्रिपुत्रः क्षत्रियः ।
कुमुदबन्धुः-३२. कथमिदं भवत्या ज्ञातम् ?
चन्द्रिका–३३. मम कुमारीमुखात् ।
कुमुदबन्धुः-३४. तत्रि कर्तव्योपायः ?
चन्द्रिका-३५. विवाहः ।
कुमुदबन्धुः-३६. अपरिचितस्सह कथं विवाहप्रसंगः ?
चन्द्रिका-३७. तव कुमार्याः परिचित एव विवाहयोग्यो
वरः।
कुमुदबन्धुः-३८. वरस्य गुरुजनानुमतिन ज्ञायते किल ।
चन्द्रिका-३९. तन्न चित्यम् । प्रधानसम्मतौ तदितरानु-
मतिरप्रधाना।
३०. सः स्वसुताया विवाहयोग्यो भवति वा न वेति संशयः ।
३१. सोऽपि मन्त्रिपुत्रः क्षत्रियः । योग्य एव वर इत्यभिप्रायः ।
३२. राझ्याऽयं विषयः कथं ज्ञात इति पृच्छति ।
३३. मम सुता वृत्तांतमशेषमकथयदित्याशयः ।
३४. तापपरिहारोपायं पृच्छति ।
३५. तस्याः तत्प्रियेण सह विवाहकार्यमेव ।
३६. वरस्य बान्धवाः अपरिचिताः । कथं विवाहो भवेत् ?
३७. मन्त्रिपुत्र्याः स वरः परिचित इति रहस्यप्रकाशः ।
३८. मातापित्रोरावयोरनुज्ञां विना मत्सुतायाः कथं तत्प्रियस्य
परिचयो जात इत्याशङ्का ।
३९. वध्वा स्वयं वरणं मुख्यम् । पित्राद्यनुमतिरमुख्या किल |

तृतीयोऽङ्कः सेवक:-४०. जयतु जयतु महाराजः । तेजोवत्याः कश्चि- सन्देशहारी द्वारि तिष्ठति । चन्द्रिका-४१. शीघ्रं तं प्रवेशय । सेवकः-४२. यथाज्ञापयति महाराज्ञी । (तथा करोति) सन्देशहारी-४३. (सभां प्रविश्य) सकुटुम्बपरिवारं महाराज- मभिवादयेऽहं शीघ्रगामी प्रद्योतराजभृत्यः । सर्वे-४४. आयुष्मान् भव । कुमुदबन्धुः-४५. भोः शीघ्रगामिन् राजसन्देशः कः ? शीघ्रगामी-४६. इदं पत्रम् । (पत्रं मन्त्रिहस्ते निक्षिपति) कलानिधिः-४७. वाच्यताम् । कुमुदबन्धुः-४८. (वाचयति) श्रीमद्भारतभूमण्डलमण्डनायमानकुमुद्वतीदेशाधिपं ज्योत्स्नान- गरराजधानीमधितिष्ठन्तं कलानिधिवदाबादकरं कलानिधिभूपति सविश्वासं भुजद्वयेनालियङ्ग मित्रभूपोऽहं . प्रद्योतः कुशलप्रश्न- ४०. तस्मिन्नवामरे तेजोवतीनगरादागतः शीघ्रगामिनामा कश्चित्सं- देशहारी सेवकः प्रविश्य विज्ञापयति । ४१. तस्य प्रवेशाय आज्ञा कृता । ४२. तत्प्रवेशः कृतः। ४३. तेन तत्रस्थेभ्यः प्रणामाचरणं कृतम् । ४४. तत्कृते आशीः कृता । ४५. कश्चित्सन्देशः आनीत इति प्रश्नः । ४६. सन्देशपत्रसमर्पणम् । ४७. तद्वाचनाय राजाज्ञा । ४८. तद्वाचनम्-श्रीद्भारतभूमण्डलमण्डनायमानेत्यनेन कुमुदतीदेशः अतिप्रसिद्ध इति गम्यते । राजधानीपधितिष्ठन्तमित्यत्र “अधिशीङ्स्थाप्सां जीवसञ्जीविनीनाटकम् पूर्वकमेवं विज्ञापयामि । भवत्कुमायश्चित्रदर्शनेन अहं मम महिषी प्रभावती च अत्यन्ततुष्टावभूव । परन्तु मम पुत्रः आलेख्यस्य सत्यतापरीक्षणाय ज्योत्स्नानगरोपवने भवत्कुमारी सञ्जीविनी सर्व- प्राणसञ्जीविनी दृष्ट्वा यदा प्रत्यावर्तत तदारभ्य तत्प्रेमवियोगा- कुलमानसः ज्वरादिभिरतिपीडितः । तनिवारणोपायः सञ्जीविनी- पाणिग्रहणमेवेति निश्चित्य तत्साधनाय भवन्तमम्यर्थये । असिन्न- वसरे मन्त्रिपुत्रवृत्तान्तोऽपि किञ्चिदुच्यते । मम मन्त्रिणः विमा- वसोः प्रियकुमारः प्रियदेवः जीवदेवस्य सखा तेन सह प्रस्थितः-त्वदु- पवने सञ्जीविनीसख्या भवन्मन्त्रिपुत्र्या प्रियदेव्या सह संलापेन तस्यां जातानुरागः स्वामित्रवत्सन्तापतप्तो भवति । इमां वार्ता भवन्मन्त्रिपुङ्गवस्य श्रुतिपथमानीय मम मन्त्रिपुत्रेण तत्कुमार्या विवाहोऽप्येकदा सम्पादयितुं कृपया भवद्भिर्यतितव्यमिति च विज्ञापयेऽहं भवत्सुहृद्वरः प्रद्योतः- ज्योस्नानगरम्-मधुमास:-सितपक्ष:- द्वितीया तिथि:-सौम्यवासरः। कर्मेति" कर्मपदम् । कलानिधिवदाह्लादकरमित्यनेन चन्द्रमिव प्रजानां सन्तोष- प्रदमिति उपमार्थः । भुजाभ्यामालिङ्गनं समयोभित्रयोः पुरुषयोरपि प्राचीन- मिदं साधुसम्प्रदायाचरणम् । मित्रभूपोऽहमित्यादिना तयोस्सौहार्द सुप्रतिष्ठितमिति ज्ञायते । विज्ञापनाप्रकारः- भवत्कुमार्याः- सञ्जीविन्याः चित्रदर्शनेन-ब्राह्मणमुखात्प्रेषितालेख्यस्य प्रेक्षणेन अत्यन्तसन्तुष्टौ-इत्यनेन प्रभावतीप्रद्योतयोः स्वसुतस्य सञ्जींविन्या सह विवाहाय सम्मतिः प्रदर्शिता । "परंतु" इत्यनेन तात्कालिकप्रतिबन्धसूचना । स प्रतिबन्धः- स्वपुत्रस्य चित्रस्य सत्यतायां सन्देहः । तत्सत्यतापरीक्षार्थ ज्योत्स्नानगरोपवने सञ्जीविनीदर्शनप्रयत्नः । सर्वप्राणसञ्जीविनीम् इत्यनेन सर्वरोगपरिहारचिकित्सा सञ्जीविनीहस्तायत्तेति ध्वन्यते ।

तृतीयोऽङ्कः चन्द्रिका-४९. भो मन्त्रिन् ! किं सत्यं कलयसि मम वचनम् ? कुमुदबन्धुः-५०. सतीमणीनां वचनं न कदाप्यसत्यं भवति । कलानिधिः-५१. भो मन्त्रिन् ! प्रतिसन्देशोऽपि अस्यैव सेवकस्य हस्ते निक्षिप्यताम् । कुमुदबन्धुः-५२. लेख्यांशः कृपया सूचनीयः । प्रेमवियोगाकुलमानसः- इत्यनेन तस्य सञ्जीविनीपाणिग्रहणे आदरो भव- तीति सूचना । ज्वरादिभिरित्यनेन कामज्वरोऽत्र गृह्यते । तन्निवारणोपायः- परिहारविधिः सञ्जीविनीपाणिग्रहणं सञ्जीविन्या सह विवाहविधिः । तत्साध- नाय-विवाहनिर्वर्तनाय । अभ्यर्थये-इत्यनेन सञ्जीविनी जीवदेवयोः विवाहाय आलेख्यप्रेषणावसरे मां प्रति भवतः प्रार्थना इदानीं तदर्थमेव त्वां प्रति मम प्रार्थनेति ध्वनिरभ्यूह्यः । प्रियकुमारः मत्कुमारः यथा मम प्रियः तस्य तत्कुमारोऽपि तथा प्रिय इत्यभिप्रायः । जीवदेवस्य सखा इत्यनेन उमौ समवयस्कौ तस्मान्जीवदेवस्य विवाहेन साकं तस्य पुत्रस्य विवाहनिर्वर्तनमप्यु- चितमिति ध्वनिः । जातः अनुरागः यस्य सः जातानुरागः- बद्धप्रेमति यावत् । श्रुतिपथमानीय श्रावयित्वेत्यभिप्रायः । मम मन्त्रिपुत्रेण-प्रियदेवेन तव मन्त्रिकुमार्याः प्रियदेव्याः। एकदा-एकस्मित् काले । कृपयेत्यनेन मदर्थ करुणाचित्तस्सन्निति व्यज्यते । अपरिचितस्य मन्त्रिणः प्रयत्नादपि परिचित- स्य राज्ञः प्रयत्नेन कार्यलाभः सुशकस्सुगम इति भावनयेयं प्रार्थना । स्थान कालादिनिर्देशः पत्रलेखने सांप्रदायिकः । ४९. कुमुदबन्धुपुत्र्याः प्रियदेव्याः विषये राझ्या चन्द्रिकया यदा- शङ्कितं तदानुकूल्यघटनोदन्तं पत्रिकामुखाद्विदितक्त्याः राझ्या वचनमेतत् । ५०. रायोदितं सत्य सम्पन्न मिति तस्याः प्रशंसा । ५१. प्रतिसन्देशप्रेषणे राजाज्ञा । ५२. लेख्यांशापेक्षा।

जीवसाविनीनाटकम् कलानिधिः-५३. मम पुत्र्याः मन्मन्त्रिणः पुच्याश्च एकदा मधुसितदशर्मागुरुवासरे विवाहमाहोत्सवो निश्चितः । तदर्थ कुटुम्ब- परिवारसमेता आगच्छन्तु भवन्त इति । कुमुदबन्धुः-५४. तथा । (पत्रं विलिख्य) इदं लिखितम् । शीघ्रगामिन् इदं गृहीत्वा शीघ्रं प्रद्योतराजस्य हस्तं प्रापय । शीघ्रगामी-५५. यथाऽऽज्ञापयत्यार्यः । प्रणमामि सर्वान् । (प्रस्थितः) कलानिधिः-५६. भो मंत्रिन ! प्रेष्यन्तां विवाहमहोत्सवा- ह्वानपत्रिकास्सर्वत्र। सीक्रियन्तामस्मद्गौरवोचितास्सकलपरिकराः मित्रराजसामन्तभूपतिमन्त्रिसचिवब्राह्मणादिसर्ववर्णप्रजासम्मानार्हाः समस्तवैभवोपात्ताः चन्द्रिकाहृदयतृप्तिकराश्च । चन्द्रिका-५७. अम्बरं भूषणं गाहनं भोजनं दीपिका मालिकाक्रीडिकाऽऽश्वासिका। मन्दिरं वाहनं गीतकं वीक्षणं पाचका वाचकास्सेवकारसेविकाः॥२० ५३. उभयविवाहनिश्चयोपात्तमङ्गलपत्रिकारीतेस्सूचनम् । ५४. शीघ्रगामिनामकसन्देशहारिद्वारा आह्वानपत्रिकाप्रेषणम् । ५५. शीघ्रगामिनो निष्क्रमणम् । ५६. सर्वेषां मङ्गलपत्रिकाप्रेषणाय विवाहापेक्षितसकलसम्भारसज्जी- करणाय च मन्त्रिणे राजाज्ञा । सकलपरिकरपर्याप्तिनिश्चयाय राज्यास्सम्मति- रावश्यकीति च सूचिता। ६७. अम्बरमिति-अम्बरं-वध्वाः वधूजनानाम्, वरस्य-तबन्धूना- माहूतानां राज्ञां तत्परिवाराणां प्रजाप्रमुखानां सेवकजनानाम्-अतिथ्या- दीनां तत्तद्योग्यतानुसारेण बहुमानार्हाणि वस्त्राणि । भूषणं तादृशानि भूषणानि । गाहनं-स्नानोपकरणानि । भोजनम्-अभ्यवहारायावश्यकपदार्थाः, दीपिका-दीपमालादिप्रकाशसाधनानि । मालिका-विविधविचित्रपुष्पमालिकाः तृतीयोऽङ्कः सुष्टु साध्यते- इत्यादि सर्व समृद्धं भवतु । कुमुदबन्धुः-५८. सर्व त्वयि राज्ञि त्वयि राज्यां युवयोराज्ञा मयाद्य सन्धार्या । परिकरकलने सुजना निरताश्शक्तास्सुमोदभरितास्ते ॥२१॥ कलानिधिः-५९. सुप्रीतोऽहम् । साधयामः ॥ ॥ निष्क्रान्तास्सर्वे ॥ क्रीडिका-तत्तद्विहारयोग्योपकरणानि । आश्वासिका शय्याछत्रचामराव्यः । मन्दिरम्-आहूतानां विविधस्थलवसुतयः । वाहनं गजाश्वरथादयः । गीतकं भेरीमृदङ्गकाहलादीनि, वीणादितन्त्रीवाद्यानि मुरजादित्वङनद्धवाद्यानि, वेण्वादिमुखवाद्यानि, तालादिकालमूचकलयगतिसाधकवाद्यानि, तदाश्रय- भूतनटनटीगायकगायिकादयः । वीक्षणं-दर्शनप्रदर्शनार्हस्थलद्रव्यादीनि । पाचकाः-पाककर्मकुशलाः। वाचकाः-पुरोहितादयः । सेवकाः-भृत्याः। सेविका:- परिचारिकाः । एते सर्वे सम्यक् सन्जी क्रियन्तामिति मन्त्रिणे राज्ञीकृताज्ञा । स्त्रग्विणीवृत्तम् । तल्लक्षणम्-"रैश्चतुर्भिर्युता स्त्रग्विणी सम्मता" इति ॥२०॥ ५८. सर्व सम्पाद्यते इति मन्त्रिणा राज्ञः राज्याश्च आज्ञानुपालने खस्यादरः सुच्यते । यथा- त्वयीति-त्वयि-कलानिधौ राज्ञि आज्ञाकर्तरि सति त्वयि-चन्द्रिका- देव्यां राझ्या आज्ञाको सत्यां युवयोराज्ञा-राजदम्पत्योरादेशः मयाऽद्य, सन्धार्या- मया श्रद्धाभक्तिपूर्वकं निर्वर्तितव्यः । सुजनाः- भवत्प्रनाः परि- करकलने-सकलसामग्रीसम्पादने निरताः- आदरयुक्ताः शक्ताः- समर्थाः प्रमोदभरिताः- स्वयमेव प्रीतियुक्ताश्च भवन्ति । गीतिवृत्तम् ॥२१॥ ५९- तव वचनं मे सन्तृप्ति ददाति । स्वस्वव्यापारनिर्वर्तनाय - । गच्छामः। ॥ इति चतुर्थदृश्यव्याख्या ॥

॥ पञ्चमदृश्यम् ॥ नेपथ्ये- तेजोवत्याः प्रमोदात्सपरिकरनृपो मन्त्रिमुख्याश्च विप्रा- स्सञ्जीविन्याश्च सख्याः परिणयविधयेत्रागतास्सावरोधाः । विश्रम्यालं विशेषाद्गजतुरगरथाधिष्ठितानां जनानां स्थाने स्थाने च तेषां पथि पथि बहुधा कल्पिते सौख्ययोग्ये ॥२२॥ कलानिधिः-१. भो मन्त्रिसचिवा! कन्यापक्षीया वयमि- दानी वरपक्षीयाणां प्रत्युद्गमेन स्वागताशंसनाय सपरिवार प्रचलिष्या- मः। समुचितानि वाहनान्यारुह्य सजीभवत सर्वे । ॥ पञ्चमहश्यव्याख्या ॥ तेजोवत्या इति-सपरिकरनृपः-सकलपरिवारसहितो राजा प्रद्योतः मन्त्रिमुख्याः- प्रधानमन्त्रिणः । विप्राः- ब्राह्मणाः । सञ्जीविन्याः-तन्नामक- राजकुमार्याः सख्याश्च-सञ्जीविनीसख्याः प्रियदेव्याश्च,परिणयविधये-विवाहार्य तेजोवत्याः- तन्नामकनगरसकाशात्, प्रमोदात् - अत्यन्तहर्षेण, अनागता:- ज्योत्स्नानगरं प्रत्यायाताः । कथमायाताः । तेषां राजादीनां विशेषात् गजतुरगरथाधिष्ठितानां जनानां-तत्रापि हस्त्यश्वरथारूढानां सौख्ययोग्ये- सुखावासभूते, पथि पथि-प्रतिमार्ग, बहुधाकल्पिते-अनेकप्रकारेण निर्मिते, स्थाने स्थाने-तत्र तत्र स्कन्धावारशिबिरार्हेषु स्थलेषु, अलं विश्रम्प-सम्पूर्ण मार्गसंयानजनितायात परिहृत्य आगता इत्यर्थः । स्रग्धरावृत्तम् ॥२२॥ १. रामा कलानिधिः वरपक्षीयाणां सम्प्रदायानुसारेण प्रत्युद्गमनार्थ सर्वानाज्ञापयति ।

तृतीयोऽङ्कः सर्वे-२. यथाऽऽज्ञापयति प्रभुवयः। (मङ्गलवाद्यानि प्रच- लन्ति । अन्तःपुरनार्यः शिबिका स्थांश्च आरोहन्ति । सर्वे राज- पुरस्सरं प्रचलन्ति) कलानिधिः-३. (स्थाऽवरोहणानुपदमेव प्रयोतभूपतिमा- श्लिष्य तद्वरकुमारं जीवदेवं वरं पाणिपीडनेन सम्भाव्य स्वागतं पृच्छति । यथा-) अपि क्षेमं राज्ये तव सचिववगै जनततो सुखं जातं यानं समुचितविहारेण कलितम् । अपि स्वास्थ्य जीवे प्रणयजनयोगाय विहिते भवद्योगाद्राजन्! वयमिह सुधन्यास्सुकृतिनः ॥२३॥ २. सर्वे तथा मङ्गलद्रव्यसहिताः प्रतिष्ठन्ते । ३. समयोराश्लेषः असमयोः पाणिपीडनमित्यादि बन्धुसत्कारमर्यादा- शास्त्रविहिता । कुशलप्रश्नश्च कृतः । यथा- अपीति–राज्ये-भवतां देशेषु, सचिववर्ग-सचिवाद्यधिकारिषु, जन ततौ-प्रजासु, अपि क्षेम-कुशलं किम् ? अत्र 'अपि' शब्दः प्रश्नार्थकः । समुचितविहारेण कलितं यानं-राजाहपरिच्छदपरिकरेण सम्पादितं प्रस्थानम्, अपि सुखं जातं ?-निर्वाधं नातं किम् ? सुखेनागता यूयं किमित्यर्थः प्रणयननयोगाय विहिते, सञ्जीविनीपाणिग्रहणाय सङ्कल्पिते, जीव-जीवदेव- नामके तव पुत्रे, अपि स्वास्थ्य-शरीरस्वास्थ्यं भवति किम् ? सञ्जीविनीवियोगेन सुन्तप्तमानसो जीवदेवः इदानीं सुमनाः भवति किमिति ध्वनिः। प्रणय- जनवियोगेन विमनस्कत्वं तेन शरीरसन्तापाद्याविर्भावः ताहशजनसुयोगेन सुमनस्कत्वम् । तदद्य सम्पद्यत इति शरीरेऽपि हर्षोत्कर्षाद्रोमाश्चाद्याविर्भाव: भवतीत्याकृतेनैवंविधः प्रश्नः । अत्र प्रणयिजन एव विप्रलंमसंमोगशृंगारा- ख्यरसाधारकरत्याख्यस्थायिभावस्य आलम्बनविभावः । तद्वियोगसुयोगौ क्रमेण उद्दिपनविभावौ, विमनस्कत्वाङ्गाव्यापारौ क्रमेणानुभावव्यंजको, शरीर- - जीवसनीविनीनाटकम् ५६ प्रद्योतः-४. वयमपि भवतां कुटुम्बे कुशलं पृच्छाम: बान्धव्यं घटते परस्परमहापुण्येन सम्पादितं सम्पायें सुजनैर्विवाहविधिना कन्यावरोत्साहिना । येनेदं चलतीह कार्यबहुलं संसारचक्रं सदा रोधेष्वस्खलितं सुखेन कलितं नीचोच्चमार्गेष्वपि ॥२४॥ (स्त्रियः स्त्रियो मन्त्रिणो मन्त्रिणः सचिवास्सचिवान् पुरोहिताः पुरोहितान् सेनापतयस्सेनापतीन् भृत्याः भृत्यवर्गान् कुशलानि आपृच्छय तत्तदुचितवाहनेष्वारोप्य यथायोग्यकल्पितावसथेषु प्रवशे- यन्ति । उपाहारान् समर्पयन्ति अपेक्षितानि सौकर्याणि कल्पयन्ति । यथातुष्टि सभाजयन्ति) (परदिने शुभलग्ने सञ्जीविनीजीवदेवयोः प्रियदेवीप्रियदेव- योश्च विवाहमहोत्सवः प्रचलति) संतापहर्षोत्कर्षों क्रमेण व्यभिचारिमावौ भवत इति सूचनं ध्वनिविवेचन- चणानां रसतत्वविदामवगाहनाय पार्यते । हे राजन्-मित्र प्रद्योतभूप भव- द्योगात् भवद्भिस्सह जनिष्यमाणसम्बन्धेन वयं धन्याः सुकृतिनश्च भवामः । पुराकृतपुण्यविशेषेण भवद्भिस्सम्बंधो भवतीत्यभिसन्धिः । ॥२३॥ ४. प्रद्योतराजोऽपि कुशलप्रश्नं करोति यथा-बान्धव्यमिति- परस्परमहापुण्येन सम्पादित वधूवरबन्धुभिः सुकृतविशेषैरार्जित चान्धव्य घटते-विवाहसम्बन्धेन बन्धुत्वं सम्भवति । तादृशबन्धुत्वं सुननैः-पुण्यपुरुषैः कन्यावरोत्साहिना विवाहविधिना सम्प्रार्थ्य कन्यावरघटनापादकविवाह- संस्कारेणैव सम्पाद्यं भवति । यतः-येन विवाहघटनोपात्तदम्पतीमावेन कार्यबहुलं संसारचक्रं सदा चलति-आविवाहात्ययपर्यतं करिष्यमाणानेक- तृतीयोऽ पुरोहिताः-५. लग्नकालस्समुपस्थित:- कल्याणमण्डपं प्रवि- शन्तु वधूवरा:-तन्मातापितरः-तद्वान्धवा:- तत्पक्षीयास्सर्वे । (ततः एकत्र राजपुत्रीविवाहमण्डपं प्रविशन्ति कलानिधि- चन्द्रिका, वधूरसञ्जीविनी च, तथा प्रद्योतः प्रभावती वरो जीवदेवश्च । अन्यत्र मन्त्रिपुत्रीविवाहमण्डपं प्रविशन्ति कुमुदबन्धुः, कुमुद्वती, वधूः प्रियदेवी च, तथा विभावसुः भामती वरः प्रियदेवश्च । उभयत्र तूर्यमृदङ्गादिमङ्गलवाद्यैः विवाहविधिमन्त्रैस्सह विवाहमहोत्सवः प्रचलति) पुरोहिता:-६. निश्चितार्थों निश्चितार्थो निश्चितार्थः । विध कार्यभारतुमुलं शरीरयात्रारूपसंसारचक्रं प्रचलति । सुखदुःखपर्याय- परम्परास्पदव्यापारैर्निरन्तरं संसरति । यथा-रोधेवस्खलितं सत्-प्रतिबन्ध- सामग्रीवशान्निरुद्धमपि तदुपेक्षया वा मरणेन वा गतिविच्छेदरहितं सत्- नीचोच्चमार्गेष्वपि सुखेन कलितं सत् निम्नोन्नतकण्टकपाषाणपर्यावृतमार्गे- ध्वपि अविपर्यासेनैव गच्छत्सत् प्रचलतीति यावत् । सद्दम्पती सुखदुः- खादिषु अविकलमेकरूपेण स्वकार्याणि सर्वदा निवर्तयन्तो सुखदुःखमाजौ भवत इति तात्पर्यम् । अत एवोक्तं भवभूतिमहाकविना-"भद्रं तस्य सुमा- नुषस्य कथमप्येक हि तत्प्रार्थ्यते" इति । शार्दूलविक्रीडितवृत्तम् ॥२४॥ ५. लग्नकालः -निरीक्षणकाल इति यावत् सः वधूवरयोः प्रथम- सन्दर्शनापादकः । समुपस्थितः-प्राप्तः । ६. निश्चितार्थः-अर्थ:-इयं कन्या अस्मै वराय दीयते इति विषयः निश्चितः । वधूवरबन्धुभिरित्यर्थः । विवाहार्थेषु मुख्यकर्मसु इंझं प्रथम कामात पू प्रधानं च।

जावसविनीनाटकम् S सर्वे-७. तथास्तु! तथास्तु तथास्तु । (वधूवरयोः तन्मातापित्रोश्च शिरासां उपरि मन्त्राक्षतान् विकिरन्ति) पुरोहिता:-८. मधुपर्को मधुपर्को मधुपर्कः । सर्वे-९. तथास्तु तथास्तु तथास्तु । (मधुपर्कव्यापार: प्रचलति) पुरोहिताः-१०. निरीक्षणं निरीक्षणं निरीक्षणम् । सर्वे-११. निरीक्षणमुहूर्तः शुभमुहूर्तोऽस्तु । उभयत्र-वरः-१२. धर्मे च अर्थे च कामे च नातिचरि- तव्यम् । तत्काले सन्निहितास्सर्व साक्षिरूपेण ताहशनिश्चितार्थ “तथास्त्वि'- त्यङ्गीकुर्वन्ति । ८. मधुपर्कः-अस्मिन् कर्मणि कन्यादाता स्वपत्न्या सह विवाहार्थ मागतं वरं अतिथिवत् अर्घ्यपाद्यादिभिः पूजयति । अस्यैव "वरपूजा" इति लोके व्यवहारः । ९. महाजनाः तत्कर्मापि तथास्त्वित्यङ्गीकुर्वन्ति । १०. निरीक्षणं वधूवराभ्यां प्रथमतया परस्परावलोकनम्, एतत्काल एव विवाहलग्नकाल इति प्रायशो व्यवहारः । सर्वत्र त्रिरुक्तिः तत्तत्कर्म- 'समृद्धिस्संघटितइति ज्ञापनार्थम् । ११. पूर्ववत्सर्वे एतत्कर्माप्याशीनिस्सहानुमोदन्ते । १२. "धर्मे च अर्थ च कामे च नातिचरितव्यम्" इदमेव दाम्पत्य- वन्धनरूपं सूत्रप्रायिकं प्रतिज्ञावाक्यम् । अस्यार्थः- । धर्म-वरेण वा वध्वा वा आचरिष्यमाणदेवतापूजादिकार्येषु स्वस्वकर्तव्यविघ्युक्तव्यापारेषु अहिंसा- सत्यादिपालने दानधर्मादिव्यवहारेषु वा, ।

तुतीयोडा वधू:-१३. नातिचरामि । उभयत्र-वधूः-१४. धर्मे च-अर्थे च कामे च-नातिचरितव्यम्। वर:-१५. नातिचरामि । पुरोहिताः-१६. पाणिग्रहणमुहूर्तश्शुभमुहतोऽस्तु । सर्वे-१७. शुभमुहूर्तोऽस्तु । पुरोहिताः-१८. माङ्गल्यधारणमुहूर्तः शुभमुहूर्वोऽस्तु । सर्वे-१९. शुभमुहूर्तोऽस्तु । (माङ्गल्यधारणं प्रचलति) (ततः प्रधानहोमः- प्रचलति) (अग्निप्रदक्षिणानन्तरम् ), अर्थ-भूगृहादिभोग्यवस्तुसम्पादने विशेषकार्यनिर्वाहे, विद्यार्जने- द्रव्याजने-ज्ञानार्जने, कामे-सन्मार्गेण सम्पादितवस्तूपभोगे, पारत्रिकसुखाद्य- पेक्षायां, विविधसङ्कल्पेषु च, नातिचरितव्यम्-पत्नीं विना पतिः पति विना पत्नी नातिचरेत्-उभयसाधारणतया यावज्जीवं साधयेदिति सङ्ग्रहार्थः । अत्रविवाहे नातिचरितव्यमिति वरः पत्नी ब्रूते । १३. नातिचरामीति वधूः प्रतिनानीते । अयमेव वधूवरयोः प्रतिज्ञाबन्धः यावज्जीवं संसारे तावनुबध्नाति । १४. तथैव नातिचरितव्यमिति वधूः वरं प्रति ब्रूते । १५. तथैव नातिचरामीति वरः प्रतिमानीते १६. विवाहो निर्विघ्नं निर्तित इति सूचनार्थमिदं पुरोहितकृतं प्रार्थनावचनम् । १७. इदं महाजनाभ्युपगममूचकमाशीर्वचनम् । १८. माङ्गल्यधारणम्-सुवर्णपदकसहित सुवर्णादिनिर्मितसूत्रं वरः वधूकण्ठे बध्नाति । इदं सूत्रं यावज्जीवं वध्वा धार्यम् । इदमेव सौमङ्गल्य- सूचकं पतिजीवितसूचकं च । १९. महाजनाः साक्षतमङ्गलद्रव्यसमर्पणेन वधूमाशीभिरभिनन्दन्ति । ततः प्रधानहोमानन्तरं वेदमन्त्राशिषा महाजनसत्कारेण च विवाहः पूर्णा

।
भवति
जीवसनीदिनीनाटकम्
पुरोहिताः-२०. सप्तपदीकर्मसमृद्धिरस्तु । (तदनु वेद-
घोषैः ब्राह्मणाशीर्वादा: प्रचलन्ति)
अनन्तरम्-
कलानिधिः-२१. (वधूपिता कलानिधिः जीवदेवहस्ते सञ्जी-
विनीहस्तमधिवेश्य-)
इयद्वर्षा भवेत्कन्या पुत्रवत्पालिता मया ।
इदानीं तव सेवार्थ दत्ता स्नेहेन पालय ॥२५॥
(कुमुदबन्धुरपि प्रियदेवहस्ते प्रियदेवीहस्तमधिवेश्य तथैवाशंसते-)
। अयं विवाहविधिः देशभेदेन सूत्रकारमतभेदेन च विभिद्यते ।
अत्र तु आन्ध्न-कर्णाटकसम्प्रदायमनुसृत्य निर्देशः कृतः । विवाहस्य उद्देशस्तु
सर्वत्र आर्येषु एकरूप एव ।
२०. सप्तपदीकर्म तु सप्तपदविन्यासेन प्रधानहोमाग्निप्रदक्षिण-
रूपम् । अनेनकर्मणा विवाहः निरूढो भवतीति धर्मशास्त्रकाराः ।
२१. वरस्य स्वगृहप्रवेशात्पूर्व वधूप्रस्थानावसरे वरहस्ते वधूहस्तं
निक्षिप्य एवं ब्रवीति श्वशुरः कलानिधिः-इयदिति-कन्या-इयं वधूः
सञ्जीविनी इयद्वर्षा भवेत् षोडशवर्षा भवतीति प्रकृतार्थः । यत्र शास्त्रविहितः
सम्प्रदायः प्रचलति, तत्र 'अष्टवर्षा' 'नववर्षा' 'दशवर्षा' इनि इयद्वर्षशब्दार्थो
ज्ञेयः । रजस्वलादशानन्तरं प्रायशः कन्या दूषिता भवतीति रजस्वलादशाकाल:
एकादशवर्षादारभत इति च मत्वा शास्त्रकारैर्बाल्यविवाहो विहितः । तथा
चोक्तम्-“अष्टवर्षा भवेत्कन्या नववर्षा तु रोहिणी । दशवर्षा भवेगौरी तत
ऊर्ध्वं रजस्वला" इति । निषेकनामकदम्पतीसंयोगकालस्तु षोडशवर्षेभ्यः
अनन्तरमेव भवतीति सर्वशास्त्रसम्मतं विधानं विहितम्, सम्प्रदायानुष्ठितं च
वर्तते । पुत्रवत्पालिता मया-मयेयं पुत्रनिर्विशेष संरक्षिता भवति । इदानीं तव
सेवार्थ दत्ता-अद्य तवायत्ता कृता इतः परमियं तव सेवापरा भवति । स्नेहेन
पालय-इमां प्रीतिमावेन एकदेहन्यायेन परिपालयेति प्रार्थनावचनम् । इदं
श्लोकवृत्तम् ॥२५॥

तुतीयो कलानिधिः (प्रद्योतं प्रति-) आवयोबन्धुसंयोगो दैवेनापादितो यतः। इतः परं स्नेहभावो भूयाद्भोश्शाश्वतोत्र नः ॥२६॥ प्रद्योत:-२२. तथास्तु । पुत्रवध्वोनिर्विशेषस्नेहो भवति मे सदा । प्रभावत्यास्तथैवेति ज्ञायता मित्रभूपते ॥२७॥ चन्द्रिका-(प्रभावती प्रति.) भवतु ते गृहे भव्यमङ्गलं मम सुता भवेत्ते सुता यथा । जयतु मे सुता भर्तृवश्यका तव सुतोऽपि तां पालयेत्प्रियात् ॥२८॥ आवयोरिति-मोः अयि प्रद्योतभूपते ! आवयोः बन्धुसंयोगः-अस्म- दुभयपक्ष बान्धव्यं यतः-यस्मात् कारणात् दैवेनापादितं-विधिना सम्पादितम्- तस्मात् कारणात् इतःपरं यावज्जीवं नः-अस्माकम् अत्र-भूम्यां स्नेहभावः शाश्वतः भूयात्-प्रीतिः निरन्तरा भूयादिति कलानिधेराशंसा ॥२६॥ २२. तथास्त्विति प्रद्योतस्यानुमोदः। तथैवाशंसति-यया कलानिधि- राजेनाशंसितम् । पुत्रेति-मे-मम सदा-निरन्तरं पुत्रवध्वोः-जीवदेवसञ्जीविन्योर्विषये, निर्विशेषः स्नेहो भवति-निष्पक्षपातेन एकरूपैव प्रीतिर्भवति । मित्रभूपते- अयि मत्सुहृत्कलानिधे ! प्रभावत्यास्तथैवेति ज्ञायताम्-मत्प्रियायाः प्रभावत्याः तयोविषये तद्वन्निविशेषस्नेहो भवतीत्यवगच्छेति प्रद्योतस्य प्रत्युत्तरम्॥२७॥ भवत्विति–ते गृहे भव्यमङ्गलं भवतु मम सुताया:-सञ्जीविन्याः युष्मद्गृहप्रवेशे-युष्मन्निकेतने क्षेमङ्कराणि शुभकार्याणि प्रसरन्तु । ममसुता ते तव सुता यथा तथा भवेत्-त्वं मत्सुतां सञ्जीविनीं तव वधूं, तव सुतां सुप्र- मामिव आद्रियस्वेति तात्पर्यम् । मे सुता सञ्जीविनी भर्तृवश्यका जयतु पत्यु:

जीवसीविनीमाटकम्
जननिवत्प्रिया त्वं सदाऽव तां जनकवत्पतिस्तेऽत्र पातु ताम् ।
इति निजाशयं वेदयामि ते सखि तवाशयं बोधयाशु माम् ॥२९॥
प्रभावती-
तनया ते मम पुत्री मद्गहवासस्त्वदीयगृहवासः ।
भर्ता मे स पिताऽस्याः प्रेम्णा भापि पालयत्यार्याम् ॥३०
1250
सहधर्मिणी-तन्मार्गानुरोधिनी सती सर्वोत्कृष्टा वर्तताम् । तव सुतोऽपि-जीव-
देवोऽपि तां-सञ्जीविनीं प्रियात् पालयेत्-प्रेम्णा रक्षतु ॥२८॥
जननीति-व-त्वमपि सदा-अनवरतं तां-तव वधू सञ्जीविनी जन-
निवत्-मातृवत् मातृस्थानीया सती प्रिया-प्रीतिकारिणी भूत्वा अव
परिपालय । 'जन्' धातोः 'अनि' प्रत्यये कृते 'जननि' इति इकारान्तरूपं
भवति । ते-तव पतिः-प्रद्योतराजोऽपि तां-सञ्जीविनी जनकवत् कलानिधिवत
पितृस्थानीयो भूत्वा अत्र-अस्मिन् प्रपञ्चे पातु-पालयतु । इति-एवं निजाशयं
तव वेदयामि-मम सहनाभिप्राय ते ज्ञापयामि । सखि अयि सखि
प्रभावति ! आशु इदानीमेव तवाशयं मां बोधय-तवाभिप्रायमपि मे
निवेदय, इति प्रभावतीं प्रति चन्दिकायाः प्रार्थनावचनम् । सम्मता-
वृत्तम् ॥२९॥
तनयेति–ते तनया-तव सुता सञ्जीविनी मम पुत्री-मम सुता
मवतीति भावय । मद्गृहवासः- अस्याः मम गेहे निवासःत्वदीयगृहवास:-
तव गृहनिवासो भवतीति श्रद्धत्स्व । मम भर्ता (यः) सोऽस्याःपिता-मत्पतिः
प्रद्योतः सञ्जीविन्याः पितेवाचरतीति सुदृढं जानीहि । भर्ताऽपि-तत्पतिः
जीवदेवोऽपि आर्यों मान्यां तां सञ्जीविनी प्रेम्णा पालयति-प्रीतिपूर्वकं रक्ष-
तीति निस्संशयं मन्यस्वेति प्रभावत्या कृतं प्रत्याशास्पदं वचनम् । वृत्तं-
!
गीतिः ॥३०॥

१६. तृतीयोSE: 2 कुमुद्वती-(भामती प्रति.) भामति प्रियकरी त्वमवेहि स्तुत्यवाक् सुवशगा प्रियदेवी । चारुहासकलितां मम पुत्री पालयाम्ब सुखिनी तव गेहे ॥३१ भामती- संशयं त्यज सुधी कुमुद्वति त्वत्सुता मम गृहे सुखाद्वसेत् । मत्पतिः प्रियसुतोऽपि तां हिताद्रक्षतो भवति सा यशस्करी ॥३२॥ मामतीति-मामति-अयि सखि विभावसुप्रिये ! प्रियदेवी मम सुता तब वधूः प्रियकरी-प्रीतिवर्धिनी । स्तुत्यवाक्-मितमधुरभाषिणी । सुवशगा-गुरुजनानां विधेया त्वन्मतवर्तिनी भवति । तां चारुहासकलितां मम पुत्रीं तव गृहे सुखिनी पालय-मातः हसन्मुखी मत्सुतां प्रियदेवीं युष्मन्निवासे सुखितां कुर्विति प्रद्योतमन्त्रिमा- भामती प्रति-कलानिधि- मन्त्रिणः कुमुदबन्धोः भार्यायाः कुमुद्रत्याः सप्रेमवचनम् । स्वागतावृत्तम्- तल्लक्षणम्-"स्वागतेतिरनभागुरुयुग्मम" इति ॥३१॥ संशयमिति-सुधीः सुमते अयि कुमृद्वति-सखि प्रियदेवीजननि ! संशयं त्यज-तवपुत्रीविषये कातरता मास्तु ते । त्वत्सुता- तव पुत्री प्रियदेवी मम गृहे सुखाद्वसेत्-भर्तृगृहे सुखेन निवसति । अत्र निश्चयार्थे 'लट्' स्थाने 'विधिलिङ' प्रयोगः । मत्पतिः प्रियसुतोऽपि मम मर्ता विभावसुः, तस्यामनुरागभाक् मम पुत्रः प्रियदेवश्च तां हिताद्रक्षतः-तव सुतां प्रियदेवीं हितकरबुध्या परिपालयतः । सा यशस्करी भवति । सा- त्वत्सुता त्वद्वंशस्य कीर्तिप्रदा भवतीति भामत्याः प्रत्याशाजनक प्रतिवचनम् । रथोद्धतावृत्तम् तल्लक्षणम्-'"रान्नराविह रथोद्धता लगौ" इति ॥३२॥ प्रियदेवीति-भो मन्त्रि विभावसो ! गेहे-तव गृहे-गुणलुब्धां प्रियदेवीं पालय-सुगुणशालिनी मम पुत्रीं तव वधू संरक्ष । मित्र अयि संखे विभावसो अस्या रक्षणाय-प्रियदेवीसंरक्षणविषये मम कार्य तव कार्य विद्धियथा मया कर्तव्यं तथा त्वया कर्तव्यमिति जानीहि । मत्स्थाने त्वं जीवसञ्जीविनीनाटकम् कुमुदबन्धुः- (विभावसुं प्रति) प्रियदेवी गुणलुब्धां पालय गेहे विभावसो मन्त्रिन् । मम कार्य तव कार्य विद्धि त्वं मित्र रक्षणायास्याः ॥३३॥ विभावसुः- सुतेव पाल्या मम ते सुता स्यात्वं विद्धि धैर्यान्मम सत्प्रतिज्ञाम् । अथान्यथा चेत्कुलपांसुरमि सुतो ममेहक् शपथेन बद्धः ॥३४॥ कुमुदबन्धुः-२३. महान्प्रमोदः । (ततः भोजनसन्मानादिकं प्रवर्तते । युक्तकाले वरपक्षीयाः सर्वे नववधूम्यां सह प्रस्थानायोयुक्ताः) प्रद्योत:-२४. गम्यतेऽस्माभिः, अचिरात्पुनर्दर्शनमस्तु । कलानिधिः-२५. भवतां पन्थानः निरन्तराया भवन्तु । स्थित्वा तां पितृवत्सम्यक् परिपालयेति तात्पर्यम् । इदं प्रियदेवजनकं प्रति प्रियदेवीजनकवचनम् । वृत्तं गीतिः ॥३३॥ सुतेवेति-ते सुता मम सुतेव पाल्या स्यात्-तव पुत्री प्रियदेवी मम पुत्रीव परिपालनार्दा भवति । अन्यथा चेत्-अहम् अन्यथा तां संभाव- यामि चेत् कुलपांसुरस्मि-वंशदूषको भवामि । मम सुतोऽपि ईदृक्शपथेन बद्धः-मम पुत्रः प्रियदेवोऽपि एवमेव शपथं करोतीति विद्धि इति विभावसोः प्रमाणवचनम् । उपजातिवृत्तम् । वा पादान्तं विकल्पेन इति शासनादत्र तृतीयपादान्तस्थलघुवर्णः गुरुरिति भाव्यम् ॥३४॥ २३. एतत्प्रमाणवचनं श्रुत्वा कुमुदबन्धुः भृशं सन्तुष्टः । २४. वयं स्वदेशं प्रति गच्छामः । देवानग्रहेण भवतां पुनदर्शनं शीघ्रमेव भूयादिति प्रयाणायाज्ञाप्रार्थनारूपं साम्प्रदायिकं वचनम् । २५. मार्गे तावत् प्रयाणस्सुगमो भवत्वित्यनुज्ञावचनम् । 91

तृतीयोऽङ्कः
सञ्जीविनी-२६. प्रणमामि मातापितरौ ।
चन्द्रिका-
श्वश्रूप्रीतिश्श्वशुरहितमतियातमैत्री त्वयार्थ्या
भतृस्नेहस्तदनुजकरुणा सख्यमेवात्तिकादौ ।
देवे भक्तिः परिजन भरणं नम्रमावस्त्वयार्था-
स्सच्छीलेनोभयकुलसुयशः पात्रभूतान भूयाः ॥३५॥
कलानिधिः-
सर्वानुरोधात्कलहो न गेहे वर्तख सर्वैश्च यथाऽहता स्याः ।
पतिव्रता सा पतिमार्गगा या स्तुता भव त्वं गुणशीलवृत्तैः ॥३६॥
२६. पतिगृहगामिन्या नूतनवध्वा मातापितृवन्दनं तदुक्ताशी:-
परिग्रहणमपि सम्प्रदायानुगृहीतम् । श्वश्रूप्रीतिरिति-अयि पुत्रि सञ्जीविनि
तव श्वश्रूवाः प्रभावत्याः प्रीतिः वात्सल्यं त्वयि-तव तस्यां विश्वासपूर्वकगौरवं
च । श्वशुरहितमतिः-तव श्वशुरस्य प्रद्योतराजस्य विषये सेवा बुद्धिः भक्तिश्च ।
तव कृते तस्य हितचिन्तनम् । यातृभैत्री-देवरपत्नीषु स्नेहः । तासां त्वयि
प्रीतिः एतास्सर्वाः त्वयार्थ्याः त्वया प्रार्थनीया इति यावत् । भर्तुस्नेहः-
पत्युस्सकाशात्प्रेम-पत्यौ भक्तिः प्रेम च । तदनुजकरुणा-देवरादिषु तव
दया तेषां त्वयि आदरः । अत्तिकादौ सख्यमेव-पत्युः भगिनीस्वसृजनेषु
ते सहोदरीभावः तासां त्वद्विषये सखीधीः । तथा देवे भक्ति:-देवताविषये
श्रद्धाभक्तिः । परिजनभरणं-आश्रितजनानां पोषणम् । नम्रमावः-सर्वेषु विनय-
प्रदर्शनम् । एतेऽपि त्वयााः- त्वया सम्पादनीया भवन्ति । अत्र
अन्तिमं विशेष्यपदं पुल्लिङ्गे वर्तते तदनुसारेण पुल्लिङ्गविशेषणम् । बहुवचन-
प्रयोगस्तु द्वन्द्वसमासनिमित्तकः । त्वं सच्छीलेन उभयकुलसुयशःपात्रभूताऽत्र
भूया:-त्वं पातिव्रत्यरक्षणादिसुवृत्तेन जातप्रविष्टकुलयोः- जनकश्वशुरकुलयोः
कीर्तिसम्पादनाय योग्या भवेति मात्रा चन्द्रिकया स्वसुतायास्सञ्जीविन्या
उपदिष्टा: श्रेयस्कर्यः हितोक्तयः । चित्रलेखावृत्तम् ॥३५॥

जीवसजीविनीनाटकम् सञ्जीविनी-२७.पित्रोरुपदेशाशविलेन पालयेऽहं स्वकर्तव्यम् । प्रियदेवी-२८. गुरुजनानभिवादये । कुमुद्वती-२९. देव्या चन्द्रिकया स्वसुतायै कृतोपदेश एव ममोपदेशस्ते इति जानीहि । प्रियदेवी-३०. सम्यगवगतम् । कुमुदबन्धुः-३१. कुमारि देवेन कलानिधिना विहिताशिव त्वामनुशासि । सर्वेति-गेहे.गृहे सर्वानुरोधात्-सर्वैस्सह अनुकूलवर्तनात् न कलहः- परस्परविरोधो न जायते । अतः त्वं सर्वैः-गृहे स्थितैरखिलैः यथादृता स्याः-येन प्रकारेण सम्भाविता भवे: तेन प्रकारेण वतस्व-आचर। या पतिमार्गगा सा पतिव्रता-पतिमतानुवर्तिनी या सैव पतित्रता पतिप्रिया च भवति । तस्मात्त्वं गुणशीलवृत्तै:- दयाविनयौदार्यादिसुगुणैः- सत्यशौचादिसुशीलेन गुरुनन- सेवादिसुवृत्तैश्च स्तुता भव-सर्वैः प्रशंसिता सन्मानिता च भवेति स्वसुतायाः कलानिधेस्सदुपदेशः । वृत्तमुपजातिः। २७. मातापितृकृतहितोपदेशान् तदाशीलेनैव पालयामीति सञ्जी- विन्याः प्रशंसनीया विनयोक्तिः । २८. प्रियदेव्यपि स्वस्या मातापितरावभिवन्द्य प्रस्थानायाऽनुज्ञा प्रार्थयते । २९. सञ्जीविन्यै स्वमातृकृतोपदेश एव प्रियदेव्यै तन्मातृकृतोपदेश इति भावयितव्यमिति कुमुदती स्वसुतामभिवदति। ३०. तत्सर्वं सम्यङमयाऽ वधारितमिति प्रियदेवी वदति । ३१. कलानिधिना स्वपुत्र्याः कृतानुशासनमेव स्वसुतायाः स्वकृतानु- शासनमिति कुमुदबन्धुः स्वसुतामाशास्ते ।

तृतीयोऽङ्कः
प्रियदेवी-३२. धन्याऽस्मि ।
(स्त्रीजनाः वधूजनैरनुज्ञाताः स्वोचितवाहनान्यारोहन्ति । सर्वे
तेजोवतीमनुयान्ति)
(सर्वे निष्क्रान्ताः)
इति श्रीवेङ्कटरमणार्यविरचिते
"जीवसञ्जीविनीनाटके"
॥ तृतीयोऽङ्कः ॥
-
३२. प्रियदेवी तावतैव कृतज्ञा कृतानुज्ञा च भवति
इति पञ्चमहश्यव्याख्या
इति श्री वेङ्कटरमणार्यविरचिते
जीवसञ्जीविनीनाटके
तृतीयाङ्कस्य स्वेनैवरचिता
"रसोल्लासिन्याख्या" व्याख्या समाप्ता।

॥ चतुर्थोऽङ्कः ॥ ॥ - प्रथमदृश्यम् - तेजोवतीनगरम् - (नेपथ्ये-) जीवासक्ता वरगुणयुता गर्भिणी वर्षभोगा- द्भोगाऽऽसक्ता रसवति फले भोजने व्यञ्जनादौ । चतुर्थाङ्के-प्रथमदृश्यव्याख्या जीवेति-इयं सञ्जीविनी-श्वशुरगृहं प्रविष्टा वधूः जीवासक्ता-जीवदेवे परमप्रीतियुक्ता वरगुणयुता-सर्वश्लाघ्यगुणोपेता वर्षभोगात्-पत्या सह एक- हायनसम्भोगमात्रादेव गर्भिणी-गर्भ धृतवती। रमवति फले आम्रादिषु, भोजने मिष्टान्नसेवने, व्यञ्जनादौ, उपदंशलेयचोष्यादिषु - षडूमोपेतशाकसूपादिषु च प्रथमं भोगासक्ता उपभोगरता तदनु प्रतिदिनं प्रत्यहं दोहदात् परिचित- पदार्थेषु वैरस्यं प्राप्य अपरिचितासाधारणपदार्थेषु अपेक्षावशात् कृशतनुरपि, तृतीय-चतुर्थमासयोः देहे कार्य प्राप्तापि पञ्चममासादारभ्य क्रमेण पुष्टगर्भा- हितमितपक्वाहारस्संवृद्धगर्मा बन्धुस्नेहादधिगतसुखा भाति - श्वश्रूश्वशुरयात- देवरात्तिकास्वस्त्रादिबन्धुभिः प्रीतिपुरस्सरमुपचरिता सुखभागिनी सती चका- स्तीत्यर्थः। अत्र रसविचार:-"जीवासक्ता" इत्यनेन संभोगशृङ्गार रसस्य स्थायि- भूतायःरतेः आलंबनविआवः. “भोगासक्ता" इत्यनेन उद्दीपनविभावः, "रस- वतिफले व्यञ्जनादौ" इत्यनेन अनुभावाः, 'बन्धुस्नेहादधिगत सुखा' इत्य- नेन यथोचितव्यभिचरिभावाः सूच्यन्ते । तैः पुष्टस्थायिन्याः रतेः परिणाम- रूपः शृङ्गाररसः “वर्षमोगाद्गर्भिणी" इत्यनेन सुस्पष्टमभिव्यन्यते इति ।

? RANKEDINNALANDAN चतुर्थोऽङ्कः कार्य प्राप्ता प्रतिदिनमसौ दोहदात्पुष्टगर्भा बन्धुस्नेहादधिगतसुखा भाति सञ्जीविनीयम् ॥१॥ (ततः प्रविशति प्रभावती - पूर्णगर्भा सञ्जीविनी - सखी लीलावती) प्रभावी-१. (जनान्तिकम्) लीलावति ! धृतगर्भा खलु तव सखी । तस्याः कस्मिन् पदार्थे दोहदम् ? लीलावती-२. देवि मत्सख्याः कश्चित्कालं प्रत्यहं श्वेत- मृत्तिकायामासीदादरः। प्रभावती–३. राजगृहेऽपि मृद्भक्षणम् ? मृष्टान्नेऽनादरः । सुधियो विभावयन्तु । अत्रैव विशेषविचार:-मातुराहारागर्भपोषणं कथमित्यत्र भावप्रकाशे मावमिश्रः एवमाह-"गर्भस्य नाभिनाड्या तु नाडी रसवहा (आहाररसवहा) स्त्रियाः। संलग्ना तेन गर्भस्य वृद्धिर्भवति नित्यशः । निश्वासोच्छ्वाससंक्षोभस्वप्नांशान् सोऽधिगच्छति । मातुर्निश्वासोच्छ्वाससंक्षो- भस्वप्नसंभवात् । गर्भस्य नामिमध्ये तु ज्योतिस्थानं ध्रुवं स्मृतम् । तथा धमति वातश्च देहस्तेनास्य वर्धते । उष्णेन सहितस्यापि दारयत्यस्य मारुतः । ऊर्ध्व तिर्यगधस्ताच्च स्रोतांसि तु यथा तथा" । मन्दाक्रान्ता ॥१॥ १. धृतगर्भा-गर्भिणी। तल्लक्षणं (भावप्रकाशे)- "स्तनयोर्मुख- कार्यम्-रोमराज्युद्गमः- अक्षिपक्ष्मसम्मीलनम् - पथ्यभोजनस्यापि छर्दनम्- गन्धोद्वेजनम्-प्रसेकः- सादः- इत्येतद्गर्भिण्या लिङ्गम् । दोहदापेक्षा-दोहम्- आकर्ष ददातीति दोहदः "इन्द्रियार्थास्तु यान् यान् सा मोक्तुमिच्छति गर्भिणी । गर्भबाधाभयात्तांस्तान् भिषगाहृत्य दापयेत् ।" इत्यायुर्वेदशासन- मनुसृत्य एवं प्रश्नः कृतः राड्या । २. श्वेतमृत्तिकाभक्षणं गर्भिणीनां साधारणम् । तत्रस्थासुगन्ध एव मक्षणाकर्ष करोतीति भाव्यते । ३. मृष्टान्नं परिहत्य मृद्भक्षणेऽभिरुचिः कुत इति देव्याः शङ्का । - जीवसीविनीनाटकम् । । लीलावती-४. देवि! श्वेतमृदि माधुर्यमस्ति । प्रभावती-५. तदस्ति शर्करायां द्राक्षायां मधुनि च । लीलावती-६. तत्र कृतकम् । तदितरदत्र । पश्य- वृष्टिः पतिता भूमौ श्वेतायामादधाति माधुर्यम् । स्त्रीणां गर्भवतीनामामोदो भवति सेवनेनास्याः ॥२॥ प्रभावती-७. किमस्ति वस्त्रभूषणापेक्षा अस्याः १ लीलावती-८. सा अत्रैवायाति । तामेव पृच्छतु भवती । ४. श्वेतमृत्तिकायां क्षारो नास्ति । अतो मधुरिमा । ५. शर्करादिपढार्थेष्वपि माधुर्यमस्ति । तत्कुतः तान्विहाय श्वेत- मृत्तिकाभक्षणाशेति देव्या आक्षेपोक्तिः । ६. इक्षुरसविकारो हि शर्करा । द्राक्षा तुआमदशायां प्रायशोऽम्ल- प्रधाना शुष्कदशायां मधुना सिक्ता खादुर्भवति । पुष्परसः सर्वत्र स्वादु- रेवेति वक्तुमशक्यम् । स एव मधुलिडिश्चोष्यमाणः रविकरसम्पर्कवशात् स्वादुत्वमाप्नोतीति कृतकम् । अत्र श्वेतमृत्तिकायां तु तदितरत्-कृतकादन्यत् । सहनमित्याकूतम् । तमर्थमेव पुरस्तात्साधयति पश्येत्यादिना वृष्टिरिति-वृष्टिः- वर्षे श्वेतायां-भूमौ पतिता सती श्वेतमृत्स्नासंयोगेन तत्र माधुर्यमादधाति- स्वादुत्वं जनयति । गर्भवतीनां स्त्रीणां-गर्भिणीनाम् अस्याः सेवनेन आमोदो भवति-श्वेतमृत्तिकाभक्षणेन हर्षो जायते । आमोदः सुगन्धः आसमन्तान्मोदः- सन्तोष इति नानार्थः । पृथिवी गन्धवतीत्यादिना मृत्तिकायामामोदः सम- वायाद्वर्तते । तदाघ्राणनेन च कश्चिदनिर्वाच्यतोषो जायते । तल्लोभात्तद्भक्षणे दोहदेच्छा भवत्यन्तर्वत्नीनाम्-इति सूक्ष्मं तत्वम् । वृत्तं गीतिः ॥२॥ ७. कीदृशं वसनं परिधेयम् ? कीदृग्भूषणं सन्धार्यमिति तस्य आशा। ८. तदा तत्रागच्छन्ती सञ्जोविनीं दृष्ट्वैवं वदति सखी । । ।

चतुर्थोऽङ्कः
प्रभावती–९. वत्से सञ्जीविनि ! कुतस्ते भूषणत्यागः १
पीताम्बरेऽनादरः?
सञ्जीविनी-अम्ब-
पीताम्बरवरमोदा भूषणहृदया मृदन्नसन्तुष्टा ।
पीताम्बरमपि भारो भूषणमपि मे न रोचते स्वान्ते ॥३॥
९. 'वत्से' इति प्रीत्यतिशयात्सम्बोधनम् । भूषणत्यागः-आभरण-
धारणे अनास्था । पीताम्बरे-अनादरः- पट्टवस्त्रादिधारणेऽनभिरुचिः।
पीताम्बरेति-पीताम्बरात् वर:- अमूल्यवस्त्रादिभ्योऽपि श्रेष्ठः मोदः-
तोषः यस्यास्सा-पीताम्बरधारणाद्यो मोदः जायेत तस्मादप्यधिकमोदो भवति
मे । यतः पीताम्बर:-विष्णु:- "पीताम्बरोऽच्युतश्शाङ्गी" इत्यमरः । तस्य ।
वरः-अनुग्रहः स एव मोदः यस्यास्सा। भगवत्प्रसादेन सन्तुष्टास्मीत्याकूतम् ।
अत एव अभूषणहृदया-भूषणे-आमरणादौ हृदयं मनः यस्यास्प्ला भूषणहृदया-
स न भवतीत्यभूषणहृदया। अथवा-भूषणः-विष्णुः स एव हृदये यस्यास्सा
भूषणहृदया परमात्मध्यानपरा । परमात्मध्यानं त्वस्याः नित्यं वा भवतु
धृतगर्भस्सफलो भृत्वा विष्णुप्रसादेन मम पुमपत्यं जायतामिति काम्यं वा
भवतु । मृदन्नसन्तुष्टा-मृत्-मृत्तिकैव अन्नं-आहारः तेनैव सन्तुष्टाऽस्मि किं
मृष्टान्नेन मे स्यात्-इत्यभिप्रायः । अथवा मदेव भूमिरेव बीजे सहकारिकारण-
वशात् अन्नत्वेन परिणमति खलु । तर्हि विकारभूतान्नात् अविकारिणी मृदेव
त्मे आहाराय वरमिति वाऽर्थः । पीताम्बरमपि भारगर्भिणीनां शरीरे कंचि-
कालं काश्यं दृश्यते आहारादौ अनादरात् । तदा पवस्त्रधारणं केवलं
भारावहमिति ज्ञायते । तथा भूषणादि । अतस्तयोर्धारणं स्वान्ते-मनसि अद्य
गीर्भणीदशायां-मे न रोचते मम नेष्टं भवति । एतत्स्वभावोत्या दर्शितम् ।
अत्र भगवद्भजनसन्तुष्टमानसानां मृष्टान्नभोजनपीताम्बरधारणकनकाभरण-
धारणादौ प्रायशोऽनादर एवेति ध्वनिरपि व्यज्यते । वृत्तं गीतिः ॥३॥

जीवसनीविनीनाटकम् -- प्रभावती- आयि- मजुलभाषिणि बाले त्वमञ्जसा भवसि नीतभारात्र । धारामाराधारो भारस्ते गर्भगतकुमारस्थात् ॥४॥ सज्जीविनी-१०. अम्ब ! तवाऽऽशीनिजाशयं पुष्णातु । प्रभावती-वत्से कान्त्या गोरी त्वमसि विमलाऽऽपन्नसत्वा शुभाङ्गी भासा लक्ष्मीस्तनुगतरुचां भाग्यरूपा मनोज्ञा । वाचा वाणी मधुररसवत्प्रीतिदा ज्ञानदात्री रम्या सौम्या रमण शरणा राजसे दौहृदेन ॥५॥ मञ्जुलेति-अयि मजुलभाषिणि-मनोज्ञवचनशीले बाले-वधु सञ्जीविनि इति संबोवनेन प्रभावत्याः सञ्जीविनीवचनामृतपानेन अत्यन्तहर्षो जात इति ध्वनिः । अत्र-मम गृहे अञ्जमा-शीघ्रण त्वं नीतभारा भवसि सुखप्रसव- क्शात्तव गर्भधारणभारः निवर्तितो भवतीत्यर्थः । गर्भधारणमारस्त्वद्य ते असह इति जानामि यतः- ते भार:-अद्य भारभूतः गर्भगतकुमार:-गर्भस्थ- शिशुः- (पुमपत्यमेव भवतीति सातिशयश्रद्धया कुमार इत्युक्तम्) । धारामाराधारस्स्यात्-धरायाः भारः धराभारः-मूभार इति यावत् । धराभार एवं धाराभारः तस्य आधारः- आश्रयः स्यात्-भवेत्-भूभारवहनक्षमः राज्यधुरन्धरः भवेदित्याकांक्षा । गुरुजनानामाशीरेवंविधैव । तथाह महा- कविः कालिदासः- शाकुन्तले-"पुत्रमेवंगुणोपेतं चक्रवर्तिनमाप्नुहि" इति । वृत्त-गीतिः ॥४॥ १०. तव वचनं सफलं भवतु इति सञ्जीविनीवचनेन तस्या अपि पुमत्यापेक्षा क्षिप्रप्रसवश्च अभिप्रेत इति व्यज्यते । 22

चतुर्थों
(ततः प्रविशति राजा प्रद्योतः-तं दृष्ट्वा सख्या सह सञ्जीविनी
प्रासादान्तर्गता)
।
कान्त्येति-आपन्नसत्वा त्वं गर्भवतीति यावत् । शुमानि अङ्गानि
यस्यास्सा-अङ्गेषु जातसौन्दर्या अत एव कान्त्या गौरीव विमला भवति-
पार्वतीव सुन्दराङ्गी निर्मलाङ्गी च भवतीति तात्पर्यम् । गौरी प्रकृत्या सुन्दरी
खलु-अतोऽस्याः सुन्दरी - त्रिपुरसुन्दरीत्यादिपर्यायनामानि । तनुगतरुचां
शरीररोचिषां भासा-दीप्त्या त्वं लक्ष्मी:-श्रीवि भाससे । अत्र रुचां भासा
इति आनेडितं श्रूयते । रुक् शब्दस्य अर्थसंकोचो वा 'भा' शब्दस्य
अर्थविशेषो वा कार्यः रुचामिति बहुवचनेन मुखे प्रभा एका, बाह्वोः-शोभा
अन्या, पादयोद्युतिरपरा, इति समाधानेन तासां भाः-प्रकाशः इत्यर्थानु-
सन्धानेन सर्व समञ्जसं भवति । सैव लक्ष्मीरिव भाग्यरूपा-भाग्यशालिनी-
मनोज्ञा-मनोहरा । लक्ष्मीः रमा, त्वं रामा उभयत्र शक्यायः एक एवेति
कृत्वा मनोज्ञेत्युक्तम् । वाचा-वाक्पाटवेन त्वं वाणीव-शारदेव प्रतिभासि ।
यतः- सा मधुररसवत्प्रीतिदा-मधुररसः- अमृतं तद्वत्प्रियकरीं । अमृतं हि
पानमात्रेण सन्तृप्ति जनयति । वचनामृतमपि श्रवणमात्रेण सन्तुष्टिं करोति ।
त्वमपि तथा-सुवचनशीलेति यावत् । ज्ञानदात्री-यया वाग्देवी ज्ञानप्रदा त्वमपि
सकाले पत्युरपि कृत्याकृत्यविषये सुखबोधक्षमेति तात्पर्यम् । एतत्पञ्चमाके स्पष्टं
भवति । त्वं गौरीलक्ष्मीमारतीरूपा गुणशालित्वाद्रभ्या द्रष्टुं श्रोतुं कीर्तयितुं
च आकर्षणदा । तथैव सौम्या-सोमवदाह्लादकरी । रमणशरणा-रमणस्य-
पत्युः जीवदेवस्य शरणा-आश्रयीभूता-इदं चतुर्थाकथया विदितं भवति
शरणमस्या अस्तीति-शरणा अर्श आदित्वात् अचि टाप । अयवा-रमण एव
पतिरेव-शरणं-रक्षकः यस्यास्ता इति पतिव्रता पतिप्रियेत्यर्थो लभ्यते ।
दौहृदेन राजसे-गर्भिणी सती प्रकाशसे । द्वे हृदी यस्मिन् तत् दौहृदं-गर्भधा-
रणम् । मातृहृदयेन साकं शिशोहृदयं जरायुणा चध्यत इति गर्भिण्याः
द्विहृदया इति व्यवहारः । मन्दाक्रान्तावृत्तम् ॥५॥

जायसअविनीनाटकम् प्रद्योतः-११. अयि प्रिये ! प्रियंवदेव किमपि प्रियं वदसि, किं तत् ? प्रभावती-१२. नाथ! तव वधूः पूर्णगर्भा । तदचिराद्वैद्य- विदुषी सूतिकालयमलङ्करोतु । प्रथमगर्भः खलु वधूनां प्रसवकाले मनोव्याकुलतां जनयति। प्रद्योतः-१३. सर्व सजीभवति । अलमतिचिन्तया। सर्व शुभं भवति । सेविका-१४. (प्रविश्य) जयतु देवः- जयतु देवी । इदानी- मेव सञ्जीविन्याः प्रसवः सञ्जातः । प्रसूतः पुंशिशुः । एतद्दश्यस्य आरंभात् एतावत्पर्यन्तकथासंन्दर्भण शान्तिरसोदयस्य स्थायीभावो ध्वन्यते । ११. 'प्रियंवदेति शकुन्तलायाः काचित्सखी । सा सर्वदा स्वसख्या मानसोल्लासकराणि प्रियवचनान्येव भाषमाणाऽवर्ततेति शाकुन्तलनाटकाव- लोकनप्रणयिनां विदितं भवति । प्रियंवदेव स्वप्रियापि प्रियं वदतीति परिहास- वचनम् । १२. वधूः-सञ्जीविनी । तस्याः गर्भधारणादिदानी दशमो मासः प्रचलतीति तात्पर्यम् । तदित्यनेन अद्य वा श्वो वा प्रसवो भवतीत्याकूतमेव कारण व्यज्यते । स्त्रीणां प्रसववेदना सुदुस्सहा खलु । तत्सुलभप्रसवोपाय एव वेदनाशमनक्षमः । तदर्थ वैद्यानामानयनम् । १३. सन्निहिता एव वैद्या इति राज्ञि राझ्याः मनोव्याकुलतां जिहीर्षति सति- १४. सूतिकागृहात्काचि सेविका प्राप्ता सती पुंशिशुप्रसवं निवेदयति ।

चतुर्थोऽ । प्रभावती-१५. अहह! किं पुंशिशुः प्रसूतः । इदमस्म- द्भागधेयम् । गृहाणेदमाभरणम् । (इति तस्यै स्वकण्ठस्थं सुवर्णहारं प्रयच्छति) प्रद्योत:-१६. बहु प्रमोदामहे । कस्कोऽत्र भोः ! सेवकः-१७. किमाज्ञापयति देवः । प्रद्योतः-१८. क्षिप्रं कुमारमानयात्र । (सेवकस्तथा करोति) प्रद्योत:-१९. (आगतं प्रणमन्तं कुमारं दृष्ट्वा) कुमार! पुत्रसम्पन्नोऽसि । अचिरात्सरस्यवगाहनं कृत्वा सूतिकागृहे जातकर्म निर्वतय । जीवदेवः-२०. यथाज्ञापयति पितृपादः (तथैवाचरति)। १५. पुमपत्यजननवार्ताश्रवणेन प्रहर्षिता प्रभावती वार्ताहारिण्यै कार्तस्वरमालां पारितोषिकं ददाति । १६. अत्र बहुवचनप्रयोगः सर्वेषां सञ्जातस्य प्रमोदय सूचकः अथवा राजमिस्सर्वदा बहुवचनेनैव स्वाभिप्रायप्रकटनं राजत्वद्योतकम् । १७. सेवकाः स्वस्वामिन 'देव' शब्देनैव व्याहरन्तीति सम्प्रदायः। १८. जीवदेवस्यानयनं वक्ष्यमाण 'जातकर्म' निर्वर्तनोपदेशार्थम् । १९. आगतं प्रणमन्तं कुमारमित्यादिना सेबकेन कुमारस्तत्रानीतः, स पितरमभिवन्दितवान्-तं दृष्ट्वा राजा एवं वदतीत्यर्थो लभ्यते । अवगाहनं स्नानम् । जातकर्म सूतिकागृह एव निवर्तितव्यमिति सम्प्रदायविदो वदन्ति कारणं तु सद्योजातशिशोः बहिरानयनं शीतवातातपनिमित्त करुगापादक- मिति । २०. पितृपाद इति तीर्यपाद देवपाद इतिवत् गौरवार्थसूचकं श्रद्धा- भक्तिद्योतकं च ।

जीवसञ्जीविनीनाटकम् १७३ प्रद्योत:-२१. अयि प्रिये! एकादशे दिने शिशोनामकरण- महोत्सवः महता विजृम्भणेन आचरितव्यः । तदर्थ व्यवसिता भवामः । (इति उभौ प्रासादान्तः प्रविशत:) जना:-२२. किमिदं राजधान्यां सर्वत्र शर्कराखण्डभार भूषिताः शकटाश्चरन्ति । ब्राह्मणाः-२३. जीवदेवस्य पुत्रजननात् सर्वे सुखिनो भवन्ति । राजन्या:-२४. क्षत्रियवंशोऽद्य पावितो भवति । वैश्या:-२५, असदार्जितधनविनियोगस्य सदवकाशो जातः। इतरे-२६. वयमिदानी राज्ञः पौत्रजननवार्तया हर्षोत्कर्ष- मानसा भवामः । यद्यदाज्ञाप्यते तत्सर्वमविलम्ब निर्वय॑ते । (प्रधानमन्त्री विभावसुः प्रासादमुपयाति । सेवकः कश्चित्तस्या- गमनं राजे निवेदयति । मन्त्री राजाज्ञया राजसभां प्रविशति) २१. व्यवसिता भवामः- तदपेक्षितकार्यकलापसाधने व्यापृता भवामः। .. २२. अपत्ये-विशेषेण पुमपत्ये जाते बन्धुमित्रादिभ्यः शर्करा- समर्पगमानन्दसूचकम् । २३. “सर्वे जनास्सुखिनो भवन्त्वि" त्याशीर्वादः ब्राह्मणैः प्रायशः सर्वत्र सर्वदा क्रियते । विशेषतो राजपुत्रजननादिहर्षोत्कर्षापादकसमयेषु । २४. क्षत्रियाणां राजकुलपवित्रता समादरणीयैव । २५. स्वभावतो वणिजः दानधर्मपरायणाः राजपुत्रजन्मोत्सवादि- काले तैः विशेषतो धर्मार्थ धनविनियोगः सर्वत्र दृष्टचरः । २६. शूद्रादीनां सेवकजनानां च एतादृशमङ्गलमहोत्सवकालेषु सर्वप्रकारेण सेवाप्रदर्शनं स्वाभाविकराजभक्तिप्रदर्शनसूचकम् ।

चतुर्थोऽङ्कः विभावसुः-२७. प्रभो! भवदाज्ञया नामकरणमहोत्सवाय- सर्व सन्नद्धम्। प्रजास्सर्वे सभाङ्गगणभलङ्कर्षन्ति । पुरोहिताः पुण्याह वाचयन्ति । सर्वे भवदागमनं निरीक्षन्ते । प्रद्योत:-२८. अयमहमागतोऽस्मि । (समां प्रविश्य सिंहासने उपविश्य) भोः पुरोहिताः! शिशोः "ज्ञानसूर्य" इति नाम विधीयताम् । यतः- सूर्यो जातोऽत्रान्धकारश्च नष्टो ज्ञानस्फूतिः प्राणिनां कर्मनिष्ठा जीवामोदो जातहर्षा सवित्री किं वाऽपेक्ष्यं ज्ञानमूर्ये प्रदीप्ने ।।६।। २७. मन्त्रिमुख्यो विभावसुः नामकरणमहोत्सवाय सन्नीकृतव्या- पारान् राज्ञे निवेद्य महासभाप्रवेशाय तं प्रार्थयते । २८. शिशोः ज्ञानपूर्य इति व्यवहारनाम भवत्विति राजा पुरोहि- तेभ्यः सूचयित्वा तस्य कारणमेवं निर्दिशति । सूर्य इति-पुत्रे जाते सर्वत्र हर्षप्रकाशः जात इति सूर्यो जात इत्यु- क्तम् । सूर्यप्रभया यथा अन्धकारो नष्टो श्रवति तथा राजपुत्रजननात् न केवलं राजवर्गस्य अपि तु सर्वप्रजावर्गस्य च विविधव्यसनानि निरस्तानीति तात्पर्यम् । तथा प्राणिनां ज्ञानस्फूर्तिः सूर्योदये सति समस्तजन्तूनां बुद्धिवैशयं कार्यव्यापृतत्वं यथा भवति तथैव जनानां "इतः परमेवं भवति, वयं सुखिनो भवामः, अस्माभिरेतादृशकार्याणि देशाभ्युदयाय कर्तव्यानि, यज्ञयागादि- कर्माण्येवं निर्वर्तितव्यानी" त्यादिज्ञानप्रबोधो जातः । तथैव कर्मनिष्ठा-तत्त- व्यापारसाधनेच्छा च जातेत्यभिप्रायः | जीवानां प्राणिनाम्, आमोद-हर्षः जातः कारागृहे बन्धनस्थाः विसृष्टाः । पश्वादीनां बालतृणाघदनेन सन्तुष्टि- र्जातः । एवमादिजीवामोद अभ्यूहनीयः । सवित्री-माता जातहर्षा-हर्ष- निर्भरा अभूत् । प्रथममेव पुमपत्ये जाते कस्याः प्रसवित्र्याः एवं सन्तोषः न जायेत ! सूर्यसंबन्धिसंज्ञाख्यबुद्धिप्रचोदनशक्तिरत्र सवित्रीशब्देनोक्त- ।

जीवसीविनी नाटकम् पुरोहिताः-२९. (जीवदेवमुद्दिश्य) उच्यताम्-"एवं गुण- विशिष्टायां शुभतिथौ मम कुमारस्य नामकरणाख्यं कर्म करिष्ये" इति। जीवदेवः-३०. (तथा सङ्कल्प्य) अस्य शिशोः व्यवहार- नाम 'ज्ञानसूर्यः । पुरोहिताः-३१. नामकरणमुहूर्तश्शुभमुहूर्तोऽस्तु । सर्वे-३२. शुभमुहूर्तास्तु । (इत्यनुवदन्तो मन्त्राक्षतान् शिशोस्तन्मातापितोश्च मस्तकेषु प्रक्षिपन्ति । मङ्गलवाद्यानि प्रचलन्ति । वनिताः गीतानि गायन्ति । ब्राह्मणाः आशीमन्त्रानुद्धापयन्ति । अधिकारिणः सभासदस्सर्वान् गन्धपुष्पताम्बूलादिभिः सम्भा- वयन्ति । सर्वे हृष्यन्ति । समस्तमङ्गलानि मवन्ति) ॥ सर्व निष्क्रान्ताः॥ मित्यत्र धियो यो नः प्रचोदयादिति श्रुतिरेव प्रमाणम् । ज्ञानसूर्ये प्रदीप्ते ज्ञानरूपसूर्याविर्भावे किं वाऽपेक्ष्यं भवेत्-सर्व सुसम्पन्नं भवतीति विचारेण अस्य शिशोः ज्ञानसूर्याभिधानविधानाय राज्ञो मतिः प्रसृतेति भावः ते शालिनीवृत्तम् । तल्लक्षणम् "शालिन्युक्ता म्तौ तगौ गोब्धिलोकैः" इति ॥६ २९. पुरोहिताः नामकरणसंस्कारावसरे जीवदेवमुखेन सङ्कल्प कारयन्ति । ३०. जीवदेवः ज्ञानसूर्य इति तस्य शिशो: नाम प्रकाशयति । ३१. पुरोहिताः नामकरणमहोत्सवनिर्वनिमुद्घोषयन्ति । ३२. तदेव सभासदस्सर्वे अङ्गीकुर्वन्ति । ॥ इति प्रथमदृश्यव्याख्या ॥

।। चतुर्थाके ॥
॥ द्वितीयदृश्यम् ॥
-
प्रासादस्थानम् -
(ततः प्रविशति चेत्या सह प्रभावती)
प्रभावती-१. हळे ! अपि कुशलं तव स्वामिन्यास्सञ्जी-
विन्याः शिशोश्च?
चेटी—३. कुशलं शिशो:-मातुर्विषादः ।
प्रभावती-३. किं निमित्तम् ?
चेटी-४, न ज्ञायते । तसै अन्नपाने न रोचते-सखीसंलॉपो-
युद्वेजनकरः दीर्घ दी निश्वसिति । मुहुर्मुहुर्वाष्पं विमुञ्चति ।
प्रभावती-किं तथ्यं वदसि ?
॥ द्वितीयदृश्यव्याख्या ॥
१. अवरोधनियः अन्तःपुरे पृथगगारेषु निवसन्ति खलु । अतः
राझ्याः प्रभावत्यास्ववध्वास्सञ्जीविन्या विषये चेटीं प्रति कुशलप्रश्नः ।
२. 'कुशलं शिशोः' इत्यनेनैव मातुस्तु न तथेत्यवगम्यते । तथापि
मातुः शरीरनिमित्तकं व्यसनं न भवति-किन्तु मानसिकं भवतीति प्रकटनार्थ
मातुर्विषाद इत्युक्तम् ।
३. विषादकारणावगमाय प्रश्नः ।
४. चेट्या तत्कारणं कथं वा ज्ञायेत । अतः न ज्ञायते इत्युक्तम् ।
किन्तु चेटी सञ्जीविन्याः अन्तर्विषादजनितबाह्यव्यापारानेव कथयति ।
५. इदं परिहासवचो वा तथ्यवचनं वेति देव्यास्संशयः ।

जीवसञ्जीविनीनाटकम् चेटी-६. न कथञ्चिदुच्यते सेवकजनैरतथ्यम् । प्रभावती-७. तर्हि स्वयमेव तदन्तःपुरं गत्वा जानामि तस्याः विषादहेतुम् । (सञ्जीविनीसमीपमासाद्य) वत्से सञ्जीविनि कथं व्याकुल- चित्ता त्वम् ? सञ्जीविनी-८. अम्ब चिन्तया । प्रभावती-९. का चिन्ता? सञ्जीविनी-१०. क्षेमचिन्ता । प्रभावती-११. क्षेमस्य कस्य ? सञ्जीविनी-१२. (मौनेन तिष्ठति) प्रभावती-१३. किं स्वक्षेमस्य ? ६. चेटीजनाः परिहासाय न प्रगल्भन्ते इत्याकूतम् । ७. त्वं व्याकुलचित्तेति त्वच्चेटीमुखाद्विदितम् | किं तत्तथ्यम् । तथा चेत् कारणं किम् इत्यभिप्राय पचयत्यत्र कथंशब्दः । ८. चिन्तया व्याकुलचित्तास्मीत्यभिप्रायः । ९. "कीदृशी सा चिन्ते"ति चिन्ताहेत्ववगमाय पुनः प्रश्नः । १०. "कुशलविषये" इत्युत्तरम् । ११. कस्य कुशलविषये तव चिन्तेति प्रश्नान्तरम् । १२. स्वस्याः पत्युरिति वक्तुं लज्जया तूष्णींभावस्थितिः । १३. अनिर्धारितोत्तरया राया तव क्षेमविषये किं चिन्ता भवतीति प्रश्नः कृतः। 23 चतुर्थोंsz: सञ्जीविनी-१४. न । अहं तव हस्तपालिता सुक्षेमा। प्रभावती-१५. किं शिशोः ? सञ्जीविनी-१६. न । स मम हस्तपालितस्मक्षेमः। प्रभावती-१७. किं तव भर्तुः ? सञ्जीविनी-१८. आम् । तस्यैव महात्मनः ग्रहचारवशगस्य । प्रभावती-१९. कोऽयं ग्रहचारः? सञ्जीविनी-२०. लग्नराशौ रविकुजयोगः । अष्टमे शनिः । द्वादशे गुरुः। प्रभावती-२१. एवं सति किं भवति १४. नेति निषेध सूचयित्वा स्वस्याः श्वश्रूहस्तपालनेन श्वशुरगृहे वक्षेमाय न कापि चिन्तेति तस्य निषेधस्य हेतुं दर्शयति । १५. तहि शिशोः क्षेमविषये किं चिन्तेति प्रश्नः । १६. नेति निषेधमुखात् शिशुरक्षणविषये स्वयमतिजागरूकेति कथयति । १७. "किं तव भर्तुः" इत्ययं प्रश्नः प्रकरणोचितः । १८. आमित्यङ्गीकार एव समुचितमुत्तरम् । “तस्यैवे"त्यवधारणं "महात्मन" इति पत्युः शुद्धशीलत्वं "ग्रहचारवशगस्ये"ति तस्य संमविष्य- न्महापत्सूचनं च कृतम् । १९. ग्रहचारविचारावगमे समुत्सुकतया पुनः प्रश्नः । २०. कुनख्य रवेश्च जन्मराशौ शनेरष्टमे गुरोश्च द्वादशे स्थितिः सर्वापत्करेति सूचयति सञ्जीविनी । २१. तत्प्रकारावगमे कुतूहलं प्रदर्शयति राज्ञी ।

जीवसििवनीनाटकम् सञ्जीविनी–२२. किं भवेच्छृणु- "द्वादशाष्टमजन्मस्थाश्शन्याङ्गारका गुरुः । कुर्वन्ति प्राणसन्देहं स्थानभ्रंशं धनक्षयम्"।। प्रभावती-२३. धनक्षयान भीः । स्थानभ्रंशाद्रक्षणं सुकरम् । प्राणसन्देह इति केवलं मम प्राणान् दुनोति । भवतु मम प्राणप्रियाय इदं निवेदयामि स कलयतु कालोचितं रक्षणकार्य मम पुत्रस्य । (इति गत्वा प्रद्योताय सर्व निवेद्य तेन सह वधूनिवेशं गच्छति) प्रद्योतः-२४. जाते! तव विषादस्य कारणं विदितं मया। मा विषीद । क्षिप्रमप्रतिहतरक्षणोपायं कल्पयामि मम कुमारस्य ग्रहगतिफलपरिहाराय । कस्कोऽत्र भोः । सेवकः-२५ आज्ञापयतु देवः । प्रद्योत:-२६. पुरोहितान्-मन्त्रिसचिवान् - कान्तिकान्- कालज्ञांश्च क्षिप्रमत्र प्रापय । २२. अयं जीवति वा न वेति संशयः-स्थानभ्रंशः-धननाशः-इत्यादय एव तत्फलानीति दर्शितम् । २३. प्राणमन्देह इति वाक्येन वज्रपातेनेव विभिन्नहृदया राज्ञी सर्वमिदं राज्ञे निवेदयति । अत्र करुणरसस्य बीजमुपन्यस्तम् । २४. इदं वाक्यजातं खिन्नहृदयायास्सञ्जीविन्यास्समाधानार्थम् । अत्र 'जाते' इति स्नुषायाः सम्बोधनं राज्ञः तस्यां पुत्रीवात्सल्यं मूचयति । २५. सेवकः आज्ञाकरणाय सन्निहितः । २६. पुरोहिताः- पुरः- प्रत्यक्षं हिताः- इष्टप्राप्त्यनिष्टपरिहाराय अपेक्षितानि कर्माणि कृत्वा आलोचनान्युपदिश्य वा हितं कुर्वन्ति ।

चतुर्थोऽकः सेवकः-२७. (गत्वा तैस्सहाऽऽगच्छति) प्रद्योतः-२८. भोः पुरोहिताः मन्त्रिसचिवाः कान्तिका:- कालज्ञा:-शृणुत- जीवो में जीव एव प्रियहृदयसती साऽस्य सञ्जीविनीष्टा भाग्यान्मे ज्ञानसूर्यो धुमणिकुलमणिशैशवं प्राप्य भाति । दौर्भाग्याजीवधार्य ग्रहगतिवशतस्सम्भवेतिक भविष्य ज्योतिष्यानिश्चितार्थान् वयमिति विदिताशान्तिकर्माचराम॥७॥ - मन्त्रिणः- तत्तत्कालोचितराजनीति पुरस्कृतव्यापारान्बोक्यन्ति । सचिवाः- तत्तद्व्यापारसाधने सहायका भवन्ति । कार्तान्तिकाः- कृतान्तं विदन्ति । ग्रहादिकृतानि निमित्तानि फलानि च जानन्ति | कालज्ञाः-कालं भूतभवद्भ- विष्यरूपं आनन्ति, यद्यत्कर्तव्यं तत्सूचयन्ति । अतस्ते कालवेत्तारः । तानाह्वाययतीत्यर्थः । २७. ते सन्निहिता भवन्ति । २८. स्वपुत्रस्य ग्रहगतिविषयं तेभ्यो निवेदयति यथा- जीव इति-जीवः-जीवदेवः मे जीव एव-मम प्राणा एव अनेन तस्य यदापतति तत्स्वस्यैवाऽऽपततीति वचनेन पुत्रे परमप्रीतिर्दर्शिता । अस्य जीवदेवस्य प्रियहृदय मती - प्रियं हृदये यस्यास्सा-अथवा प्रिय एव हृदये यस्यास्पा अत एव मती-पतित्रता मा सञ्जीविनी इष्टा-मम प्रीतिपात्रभूता में भाग्यात्-अस्मद्भागधेयेन द्यु पगिकुलमणिः-सूर्यवंशप्रदीपः ज्ञानसूर्यः-सञ्जीविनी- जीवदेवयोः पुत्रः मम पौत्रः शैशवं प्राप्य भाति-शिशुदशायां वर्तते । दौर्भाग्यात्-अस्मदैवात् ग्रहगतिवशतः- ग्रहचारवशात् जीवधार्य जीवेन अनुभूयमानं किं भविश्यम्-इतः परं प्राप्त्यमानं किमनिष्टं सम्भवेत् । इति ज्योतिष्यात्-जातकावलोकनात् निश्चितार्थान्-विदितांशान् वयं विदिताः- जीवसञ्जीविनीनाटकम् लग्नं र.कु.शु बु गुरुः केतु: चं. श. त्रिकालज्ञः-२९. दीयतामस्य जातकम् । ग्रहचारं विज्ञाय फलं निश्चीयते । प्रद्योतः-३०. इदमिदं जातकम् । त्रिकालज्ञः-३१. (सम्यकपरिशील्य) सूर्याङ्गारकयोः जन्मराशिस्थिति:-सूर्यजस्या- राशिकुण्डली ष्टमस्थाने-जीवस्य द्वादशे। ज्ञातम् वर्षत्रयं जीवदेवस्य ग्रहगतिः प्रतिकूला। जन्मकाले शनिदशायां गतवर्षाणि एकादश एष्याणि अष्टौ । इदानीं केतुदशा प्रचलति । तत्र त्रीणि वर्षाण्यवशिष्टानि । अयमेकोनत्रिंशद्वर्षीयः । द्वात्रिंशवर्षे शुक्रदशा प्रारभते । तदनन्तरं यावद्विशतिवर्ष तस्य महोदयकालः । यतः- शुक्रः लग्ने प्रथमकेन्द्रे वर्तते । मीनः अस्य उच्चराशिः। अयं शुभग्रहः। शुभफलमेवातनोति । बुधः लग्रस्य सुयोगकारकः । स शत्रुक्षेत्रस्थितोऽपि धनस्थानस्थित्या उच्चस्थानस्थशनिना दृष्टत्वाच्च अनुकूलो भवति । चन्द्रोऽपि पश्चम- त्रिकोणे स्वक्षेत्रे भवति । अनेन मातुः सौख्यम् । किं बहुना बुध- शुक्रचन्द्रग्रहाः अनुकूला: । रविगुरुशनिकुजाः प्रतिकूलाः। तस्मा- दौषधोपचारेण नवग्रहशान्त्या-देवब्राह्मणपूजया च सर्वं शुभं भवति । एवं भवतीति निश्चित्य शान्तिक - तत्परिहारोचितकार्याणि आचराम- करवाम । स्रग्धरावृत्तम्-करुणरसत्य आलंबनविभावोऽत्र सूचितः । २९. त्रिकालज्ञः ग्रहगतिपरिशीलनाय जानकमपेक्षते । ३०. तत्तदानीमेव प्रत्यर्पितम् । ३१. जातकं परिशील्य सञ्जीविन्या यथोक्तं तथैव कथयति । राशि- कुण्डलस्थग्रहाणां बलाबलानि विदित्वा तद्दशाफलानि मूलोक्तप्रकारेण ब्रवीति । "पूर्वजन्मकृतं पापं व्याधिरूपेण पीडयेत् । तच्छान्तिरौषधैर्दा- चतुर्थो विभावसुः-३२. बहवस्सन्ति किल भिषङ्मणयोऽसिन् नगरे । ते धन्वन्तरिसदृशा इति सर्वे वदन्ति । तेषां हस्ताऽऽयत्ता भवति जीवदेवस्य शुभप्राप्तिः। कुतोऽत्र चिन्ता ? ईश्वरानुग्रहेण जीव- देवस्य क्षेमं भवतीति में प्रतिभाति । त्रिकालज्ञः-३३. यथेप्सितं वदन्तु भवन्तः । जीवदेव: महाव्याधिग्रस्तो भवति तत्परिहारः सञ्जीविनीकरस्पर्शादेव भवति । व्याधिग्रस्तस्य भर्तुस्सविधे तया न स्थतव्यम् । स युवा साऽपि युवती । महाननों भवेत् । चिन्त्यतां सुष्ठु चिन्त्यताम् । प्रभावती-३४. अयि सञ्जीविनि कस्तेऽभिप्रायः १ नै पहोमसुरार्चनैः” इति शास्त्रमनुसृत्य तच्छान्तिकर्माणि च सम्यङ्- निर्दिशति । ३२. न केवलं प्रासादे राजवैद्याः । अस्यां राजधान्यामपि अनेके वैद्यविशारदास्सन्ति । तेभ्यम्सकाशादधिगतचिकित्सः जीवदेवः भगव- कृपया अचिरात् स्वस्थो भवतीति मन्त्री समादधाति । ३३. वदन्तु नाम यथेष्टं "नहि वाचां दरिद्रता"- महाव्याधयः पुनः जीवदेव पीडयन्त्येव । तेषां निग्रहः- चिकित्सा, पण्डितप्रकाण्डेन न केनापि वैद्येन साध्यः । स च सञ्जीविनीकर्तव्यो भवति । परन्तु सा युवती । व्याधिग्रस्तस्य तस्य यूनस्समीपे वस्तुं नाहतीति त्रिकालज्ञस्याभिप्रायः। अत्र सूचितस्य महानर्थस्य हेतुः यूनोः सन्निधानम् । तच्च स्वस्थयोर्विषये शुभप्रदमेव । व्याधिग्रस्तयोर्विषये-व्याधिग्रस्तेन सह-स्वस्थायास्सयोगविषये- रोगिण्या सह नीरोगसम्बन्धविषये वा महानर्थपदं स्यात् । तच्च मा भू- दित्याकृतेन चिन्त्यतां चिन्त्यतामिति द्विरुक्तिः तयोरयोगाय कर्तव्यानुसन्धान क्रियतामित्यवधारणार्थिका भवति । ३४. अस्मिन् दुरूहव्यापारे श्वश्रूः बध्वाः अभिप्रायं पृच्छति ।

जीवसञ्जीविनीनाटकम् १८३ सञ्जीविनी-३५. गुरुजनाः यथाऽऽज्ञापयन्ति । प्रभावती-३६. तर्हि इयं जनकस्य गृहे वसतु कश्चित्कालम् । प्रद्योतः-३७. तत्कुमारोऽत्रैव असनिकटे वर्तेत ? प्रभावती-३८. सप्तमवयस्को बाल: मातृवियोगं कथं सहते ? प्रद्योतः-३९. तर्हि सोऽपि तया सह वसतु ज्योत्स्नानगर्याम् । अस्ति खलु तत्र तस्य विद्याभ्यासाय विशेषसौकर्यम् । सर्वे-४०. अनुमोदामहे। त्रिकालज्ञः-४१. सत्येवं, जीवे रोगग्रस्ते सञ्जीविनीकरस्पर्शा- बकाशः कथम् ? ३५. अहं गुरुजनमतानुवर्तिनी । अतः "भवत्यै यथा रोचते तथानुवर्ते" इति सविनयं समुचितमुत्तरं वध्वा अभिहितम् । ३६. जीवस्य यावद्गतिपरिहारः तावत्तस्याः स्वजनकगृहे वास- भनुमन्यते राज्ञी। ३७. तावत्पर्यन्तं तत्सुतस्य वासः कुलानुमन्यते इति राजा साक्षेप पृच्छति । ३८. मात्रा सहैवेति राझ्या अभिप्रायः । ३९. तमेवानुमोदते राजा । “अस्ति स्खलु तत्र विद्याभ्यासाय विशेषतौकर्यम्" इत्यनेन ज्योत्स्नानगरादपि तेजोवतीनगरे साधारणविद्या- भ्यासाय प्रौढविद्याभ्यासाय च परिकराः अधिका भवन्तीति चोत्यते । ४०. सर्वे तदेवानुमोदन्ते । ४१. जीवदेवेन प्राप्तेषु व्याधिषु सञ्जीविन्या हस्तचिकित्सावकाशः कथं कल्प्यते इति तर्कयति त्रिकालज्ञः ।

चतुर्थोऽङ्कः सर्वे-४२. एतदपि विशेषतश्चिन्तनीयम् । प्रभावती-४३. किं कुर्मः ? सञ्जीविनी-४४. अम्ब ! चिन्तां मा कुरु। यदृच्छागमनाय देववरोऽस्ति मे। यदा मम भर्ता रोगग्रस्तो वैद्यशिरोमणिभिश्चिकि- त्सितोऽपि दुःखितो भवति तदाऽयं मां स्मरतु । तदनुपदमेवाऽहमत्र सन्निधाय आत्मकर्तव्यव्यापारेण कृतकृत्या भवामि । सर्वे ४५. महान् प्रमोदः । तथैव क्रियताम् । प्रद्योतः-४६. प्रिये प्रभावति, प्रस्थापय प्रियवधूं सकुमाराम् । प्रभावती-४७. साऽस्मत्पुत्रस्य जीवदेवस्य अनुज्ञां सम्पादयतु । सञ्जीविनी-४८. तथा । (इति प्रियसीपमासाद्य सर्व वृत्तांतमस्मै आवेद्य प्रियस्य हस्ततलं स्वनेत्राभ्यां संस्पृश्य प्रणयपूर्वक प्रणम्य-तदनुज्ञां लब्ध्वा पुनरागत्य जननीगृहाय प्रयाणं कर्तु समुत्सुका भूत्वा इयमहं सर्वेभ्यः प्रणाममाचरामि। ४२. अयं महान् विचारः विमर्शाह इति जना अभिप्रयन्ति । ४३, अत्र न कोऽप्युपायं जानातीति श्वश्रूश्चिन्तयति । ४४. यदृच्छागमनाय स्वस्यै दत्तं देववरं निवेदयति सञ्जीविनी । युक्तकाले पत्या मम स्मरणादेव अहमत्रागत्य चिकित्सां कृत्वा तद्रोगान् परि- हरामीति प्रतिजानीते च । ४५. तच्छ्वणेन सर्वे सन्तुष्यन्ति । ४६, राजा वधूप्रस्थानसन्धानाय राज्ञी प्रेरयति । ४७. सा मतुराज्ञां प्राप्नोत्वित्यादिशतिः। ४८. स्वनेत्राभ्यां प्रियस्य · करतलस्पर्श:अनुरागातिशय सत्कुल- प्रसूतायाः गम्भीरवृत्तं च प्रकटयति ।

जीवसनाविनीनाटकम्
सर्वे-४९. कल्याणं भूयात् ।
प्रभावती-५०. मम पुत्रहिताय अचिरादायाहि गच्छ !
मङ्गलमस्तु।
प्रद्योतः-५१. अयि वधु ज्ञानसूर्यस विद्याभ्यासे त्वं
परमादरा भवेः । गच्छ सुखिनी भव । (सञ्जीविनी सर्वैरनुज्ञाता
कुमारेण सखीभिश्चानुगता सेनया रक्षिता रथाधिरूढा तेजोवती.
मनुयाति)
॥ सर्वे निष्क्रान्ताः॥
MartaraweTAPAINE
diwasi
४९. तस्याः शुभमाशंसन्ते सर्वे ।
५०. पुत्रहिताय-आपत्काले पुत्रं रक्षितुमित्यभिप्रायः ।
५१. कुमारस्य विद्याभ्यासार्थ जागरूका भवेत्युपदिश्य राजा
तस्याश्शुभोदयमाशंसते ।
॥ इति द्वितीयदृश्यव्याख्या ॥
24

॥ तृतीयदृश्यम् ॥ ॥ जीवदेवस्य प्रासादः॥ नेपथ्ये- सञ्जीविन्या वियोगात्कलुषितमनसो जीवदेवस्य देहे- संवारण्या सुतीक्ष्णाद्दरुगुदभवद् वातकोपायदर्शः तच्छान्त्यर्थं प्रसिद्धाश्शुभकरभिषजः कुर्वते तीववैद्यं देवा विप्राः कृतार्चाः ग्रहजपविषयस्साधितासम्प्रयोगैः ॥८॥ ।। तृतीयदृश्यव्याख्या ॥ नेपथ्ये-पटान्तरेऽभिनेतृजनाः एवं कथयन्ति । सञ्जीविन्या इति-सञ्जीविन्याः- स्वकलत्रस्य वियोगात् - मतृप्तम्मत्या खजनकगृहप्रवेशादारभ्य कलुषितमनसः-व्याकुलितचित्तस्य जीवदेवस्य देहे- शरीरमागे यदर्श:- तत्संज्ञका या गुदरुक्-गुदे रोगः उदभवत्-उद्भूता । गुदे कुत्र ? गुदे सार्धाशुलपरिमिताः याः शिम्बिगर्भसदृशाः विलकूपाः 'प्रवाहणी'-'विसर्जिनी' - संवरणीनामिकाः तिस्रो वलयो वर्तन्ते । तासु अन्तस्थतृतीयसंवरणीवलौ इत्यभिप्रायः । तस्य अर्शसो विप्रकृष्टहेतवः के इत्युक्ते-सुतीक्ष्णात्-अत्यन्तोष्णोद्रेकात् इत्यनेन तीक्ष्णं शोकः- वातातपस्पर्शः लङ्घनमित्यादयो हेतव इत्युक्तम् । सन्निकृष्टहेतुस्तु वातप्रकोपः । यद्यपि सर्वे रोगाः वातपित्तकफाख्यत्रिदोषनाः । यया-“पञ्चात्मा मारुतः पित्तं कको गुदवलित्रये । सर्व एव प्रकुष्यन्ती"नि। तपापि तत्तदाधिक्याझ्यपदेशभेदोऽङ्गी- कर्तव्यः। अतोऽत्र वाताधिक्यमिष्यते । तच्छान्त्यर्थं तत्परिहाराव प्रसिद्धाः- जगद्विख्याताः शुभकरभिषनः- हस्तशुद्धिभूषिताः वैद्याः तीववैद्य चरकसुश्रुत- भावप्रकाशादिषूक्तमकारेण निश्चितभैषज्यं कुर्वते - तन्वन्ति । तथैव देवाः- ? ।

जीवसनीचिनीनाटकम् (ततः प्रविशन्ति शय्याशरणो जीवदेवः- वैद्या:-बन्धुवर्गाः) जीवदेव:-१. हा हतोऽस्मि ! बाधा बाधा आसने तीव्रवाधा! प्रभावती-२. हा! पुत्रक! केन दुरदृष्टेन त्वामवमृशतीदमर्शः। (इति रोदिति) भिषजः-३. किमिदम् ? अमूल्यौपधिप्रयोगाणपि सुसूक्ष्म- शस्त्रचिकित्सयापि अर्थोऽदृश्यं न जातम् । किं करवाम ! एतावद- वधि अस्माभिरार्जितस्य सुयशसः कलङ्करसम्प्राप्तः । देवाः रक्षत रक्षत। विविधदेवताः विप्राः- ब्राह्मणाः कृतार्चा:- पूजिता इत्यर्थः । ग्रहनपविधयः- नवग्रहजपादयः सम्प्रयोगैः- शास्त्रोक्तविधिभिः साधिताः कृताः इति यावत् । तथापि रोगो न परिहत इत्यभिप्रायः । स्त्रग्धरावृत्तम् ।।८।। अत्र 'संजीविन्या वियोगात्कलुषितमन्यसः' इत्यनेन विप्रलंभशृङ्गारस्य बीनमुपक्षिप्तम् । १. गुदरोगग्रस्तो जीवदेवः बाधया हाहाकारेण प्रलपति । अत्रैव करुणरसस्य उद्दीपनविभावः केचिदनुभावाश्च सूचिताः । २. मातापि तद्बाधां दृष्ट्वा विलपति । ३. किमिदमिति अनौषधीप्रयोगेण सुविचिन्तितचिकित्सया च अर्श:परिहारः कथं न जात इत्युद्वेगभावप्रदर्शकम् । कलङ्करसंवृत्तः-यदीयं रुक न परिहियतेऽस्माभिः तदाऽसबैषज्ये शङ्कापावहन्तस्सर्वे अस्मान् दुष्यन्तीत्यभिप्रायः । किं करवाम-अनन्तरकरणीयमस्मदायत्तं न भवति । देवाः रक्षत रक्षत-दैवानुग्रहेणास्मञ्चिकित्सा सफला भूयात् । तेनास्मत्प्रसि- द्धिनिरन्तराया भूयादिति देवप्रार्थनापरा अभूवन सर्वे भिषङ्मणय इति भावः ।

चतुर्थोऽङ्कः प्रभावती-४. (रुदती) किमिदानीमुपेक्षा-पुत्रदुःखदुःखिताह न जीवामि। प्रद्योतः-५. साध्वीमणे ! यद्यत्साध्यं तत्सर्व कृतम् । दैव- मेवाऽत्र निदानम् । प्रभावती-६. नाथ किं विस्मरसि त्रिकालज्ञस्य वचनम्- "सञ्जीविनीकरस्पर्शादेव जीवदेवस्य व्याधिपरिहारो भवति" इति । प्रद्योतः-७. पुत्रक सर सञ्जीविनीं सर चिरात्तेऽर्शः शान्तं भवति। जीवदेवः-८. हा सञ्जीविनि कुत्रासि ? सञ्जीविनी-९. (सञ्जीविनी खिन्नहृदया व्योममार्गादायाता) (स्वगतम्) ४. सुतदुःखेन दुःखिता माता प्रलपन्ती, पतिः तमुपेक्षत इति तमाक्षिपति । ५. साध्यं सर्व प्रयतितम् । सर्वप्रयतनं निष्फलमासीत् । देवानुग्रह एवाद्यापेक्ष्यते इति राजा नां समादधाति । ६. सञ्जीविनीसान्निध्यमत्रापेक्ष्यते-त्रिकालज्ञवचनादिति पत्नी पति सारयति। ७. अशःशान्त्यर्थ सञ्जीविनी स्मरेति पुत्रमादिशति । ८. स तथा तां स्मरति । अत्र संजीविनीस्मरणमेव विप्रलम्भशृङ्गार- विभावस्य उद्दीपनवस्त्विति भाव्यम् । एवमुत्तरत्र जीवदेवस्य शोकदशासु । ९. देववरेण वस्तुस्थिति परिज्ञाय शोकविह्वला सञ्जीविनी अम्बरप- थादायाति । स्वान्तरङ्गे चिन्तयति च । अत्र खिन्नहृदये ति पदेन संजीवि- न्यामपि करुणरसोदयस्सूचितः । अर्श इति-जीव-जीवदेवाख्ये मम भर्तरि अर्यस्पर्शः गुदरोगः लग्न:- सञ्जातः तत्कारणात मातातातौ-तस्य पितरौ मम श्वश्रूश्वशुरावित्यर्थः। शोके जीवसनीदिनीनाटकम् अस्म्पिर्शी लग्नो जीवे शोके मग्नौ मातातातौ । वैद्याः श्रेष्ठा व्यर्थोद्योगाः देवा यूयं रक्षतामुम् ॥९॥ (प्रकाशम्) हे प्रियवान्धवाः । नाऽयं सम्प्रदायेन प्रणामस्थाव- सरः । हृदा केवलं सर्वे प्रणम्यन्ते । भो भिषजः काशी चिकित्सा कृता? भिषजः-१०. करञ्जचूर्ण तक्रेण सह पायितोऽसौ । गुदा- कुरोऽपि रजनीचूर्णलेपेनाच्छादितः । मग्नौ-दुखितौ भवतः । श्रेष्ठाः वैद्याः-भिषग्वराः अस्य चिकित्सायां व्यों- घोगाः- निष्फलप्रयत्ना भवन्ति । तेषां चिकित्सया तस्य रोगो न परिहृत इति तात्पर्यम् । हे देवाः- कर्तुमकर्तुमन्यथाकर्तुं च समर्थाः प्रभावशालिनः देवाः यूयं-यूयमेव अमुं रक्षेत-तं रोगबाधादक्षत तं रोग परिहृत्य मत्पति पालयतेति भावः। अत्र प्रार्थनायां 'विधिलिङ' प्रयोगः। देवतावरात् स्वहस्त- स्पर्शेनैव सोऽयं रोगः परिहृतो भवतीति जानत्यपि मानुषप्रयत्नः दैवबलमेवा- पेक्षते इत्याकूतेन स्वस्याः अबलत्वमबलात्वं च विज्ञाय देवाधीनं जगत्सर्व- मि"त्यादिना दैवमेव परं शरणं विदित्वा देवतानुग्रहोत्रावश्यक इति देव- भक्ति प्रदर्शयति सतीमणिः सञ्जीविनी । विद्युन्मालावृत्तम्-तल्लक्षण-"मो मो गो गो विद्युन्माला इति ॥९॥ कार्यत्वरावशात् यथायोग्यं सर्वेभ्यस्सम्प्रदायानुसारेण प्रणामाचरणाय नायं काल इति तात्पर्यम् । भिषग्वरान् चिकित्साविधाने पृच्छति १०. करञ्जचूर्ण तक्रेण सम्मिश्र्य उदरे प्रवेशितम् । करञ्जचूर्ण- लक्षणं तु-"चिरबिल्वाग्निसिन्धूत्यनागरेन्द्रयवारलु । तक्रेण पिवतोऽर्शासि निपतन्त्यसमा सहइति भावप्रकाशे । चिरबिल्वः- करञ्जः तस्य फलस्य (अत्र फलशब्देन मजा ग्राह्या) चूर्णम् करञ्जचूर्ण । अरलुः- शोणकः । तक्रेणेति किम्-"सतनं लवणं कुर्याद्वातवर्चानुलोमनम् । न प्ररोहन्ति गुदनाः ।

चतुथों सञ्जीविनी-११. साध्वनुष्ठितम् । तावेव चूर्णलेपावानीयेताम् । भिषजः-१२. कुमारि तो तब सन्निधौ वर्तेते । सञ्जीविनी-१३. अयि प्रिय इदं पिच । (इति करञ्जचूर्ण- सहितं तक्रं जीवदेवं स्वहस्तेन पाययति । रजनीचूर्ण च स्वहस्तेनैव लिम्पति) जीवदेवः-१४. आः तक्रपानेनेदानी हृष्टो भवामि । लेपेन तीक्ष्णबाधा परिहृता । अपरिहारो जातः । सञ्जीविनि त्वमेव जीवसञ्जीविनी ममार्शोरुग्निवारणाय । (सञ्जीविनी आकाशेऽन्तर्हिता भवति) पुनस्तकसमाहताः । तक्राभ्यासोऽर्शसेः कार्यः बलवर्णोऽग्निवृद्धये । स्रोतस्सु तक्रशुद्धेषु सम्यक् चरति तद्रसः। तेन पुष्टिः तथा तुष्टिः बलं वर्णश्च जायते" इति तक्रप्रयोजनं दर्शितम् । गुदाकुरोऽपि रजनीचूर्णेनाच्छादितः अत्र निर्दिष्ट- रजनीचूर्णलक्षणमेवं प्रदर्शितम् । “पिप्पली सैन्धवं कुठं शिरीषस्य फलं तथा । सुधादुग्धार्कदुग्धं वा लेपोऽयं गुदनान् हरेत्” इति-अथवा-हरिद्राजालिनी- चूर्ण कटुतैलसमन्वितम् । एष लेपो वरः प्रोक्तो हर्शसामन्तकारकः"। इति । वातजाशः- पित्तनाशः- कफजार्शः-तत्रिदोषजार्शः- शोणितजार्शः द्वन्द्वजार्श- श्चेति षड्विधम् । भर्शोरोगाणां अनेकविधाः चिकित्सा भवन्तीत्यत्र दिक्- प्रदर्शनम् । ११. तचूर्णलेपनद्रव्याऽऽनयनायादिशति । १२. तौ तथैव सन्निधापितौ। १३. सञ्जीविनी प्रियेति पति सम्बोध्य स्वहस्तेन जीवदेवं करञ्ज. चूर्णमिश्रितं तकं पाययति । लेपं च गुदवणस्योपरि लिम्पति । १४. तत्क्षणं परिहृतार्होबाधः जीवदेवः स्वपत्नी प्रशंसति ।

जीवसजीविनीनाटकम् । भिषजः-१५. हस्तशुद्धा वयं सत्यं वीयं चास्त्यौषधे महत् । सञ्जीविन्या स्तथाप्यत्र हस्तस्पर्शाजयोऽभवत् ॥१०॥ वयमिदानी धन्याः। शास्त्रविहितचिकित्सायां न दोषलेशः। मातापितरौ- जातो जीवः पुनर्जातो हस्तस्पर्शात्सतीमणेः । ईदृग्वधूसहावासाद्वयं धन्या महीतले ॥११॥ १५. हस्तेति-वयं हस्तशुद्धा इति सत्यम्-अस्मद्धस्तशुध्या अनके रोगाः परिहृता इति तात्पर्यम् । अन्तरशुध्या बहिश्शुध्या च हस्तशुद्धिर्भवतीति विवेकः । वैद्यानामन्तश्शुद्धिस्तु - अरिषड्वर्गपरित्यागः- शान्तचित्तता- करुणा-परोपकारबुद्धिः-धनाकर्षणे अनाकांक्षा परश्रेयोऽभिलाषः-इत्यादयः श्रेष्ठ- वृत्तयः | बहिश्शुद्धिस्तु-स्नानादिना देहशुद्धिः- निर्मलवस्त्रधारणम्-शुद्धौ- षधसङ्ग्रहः चिकित्सागृहनैर्मल्यव्यवस्था - चिकित्साशस्त्रशलाकादीनां सर्वदा- शुद्धीकरणम्-वाक्सौष्ठवम् - हस्तलाघवः- जागरूकता-इत्याद्यैर्भवति । औषधे महद्वीयं भवति - तत्तद्रोगनिवारकौषधीविशेषेषु शक्तिश्च महती भवत्येव । बथापि-इत्थं चापि अत्र अस्मिन् जीवदेवस्यासः चिकित्साविषये सञ्जी- विन्याहस्तस्पर्शाज्जयोऽभवत्-सञ्जीविनीहस्तस्पर्शद्वारा रोगोऽपहृतः । अत- स्वाऽत्र विजयकारणमिति सञ्जीविनीप्रशंसा ॥१०॥ तन्मुखादस्मद्वैद्यप्रभावः विजयी मवति । यतः-शास्त्रविहितचिकित्सायां- न दोषलेशः । अत एव अस्माभिस्सज्जीकृतचूर्गलेपप्रयोगेणैव अर्को निवारितं किल। जात इति-जातो जीवः पुनातः- आवाभ्यां जनितोऽयं जीवदेवः अशंसः परिहारादिदानी पुनर्मात इव भवतीत्यभिप्रायःकथम् ? सतीमणेः हस्तस्पर्शात्-साधुशीलायास्पञ्जीविन्याः हस्तस्पर्शमात्रेण अर्शः प्रनष्टमिति हेतोः । ईदृग्वधूसहावासात्-एतादृशसतीमणिना सह निवासात् महीतले वयं चतुर्थोऽङ्कः ? (कश्चित्कालं जीवदेवः अनामयेन सुखं जीवति) अन्तःपुरे-कालान्तरे-१६. हा! हा! जीवदेवः पाण्डुरोगग्रस्तः। तस्य त्वऍक्षा । मूत्रं कृष्णम् । नयने अरुणे । का गतिः । जीवदेवः-१७. हा ! हा! त्वचि तापः! मूत्रकोशे बाधा नयने दहतः। प्रभावती-१८. हा जात ! पुनरपि रोगपीडितस्त्वम् । अहं मन्दभागिनी । कुत्र मन्नाथः प्रद्योता-१९. अत्रैव वर्ते । किमापतितम् । कुतो रोदिषि। ब्रूहि प्रिये ब्रूहि । प्रभावती-२०. शीघ्रं कायचिकित्सा कार्यतां सुतस्य पाण्डु- रोगग्रस्तस्य । प्रद्योतः-२१. कुत्र वैद्याः ? धन्या भवामः लोके वयं पुत्रवन्त इति प्रख्यात्या कृतकृत्यास्म इति माता- पित्रोहर्षोक्तिः ॥११॥ १६. कालान्तरे पाण्डुरोगग्रस्तं जीवदेवं दृष्ट्वा जनाः भयशोका- भ्यामेवं प्रलपन्ति । पाण्डुरोगस्य चिह्नानि त्वचः काठिन्यम् - कृच्छ्रेण मूत्र- विसर्जनम् रक्ताक्षत्वमित्यादि । अत्र भयानकरसस्य बीज दर्शितम् । १७. पूर्वोक्तचिह्नान्येव निर्दिश्य जीवदेवः बाधया विह्वलो विलपति। १८. पुत्रव्यसनेन दुःखिता माता च प्रलपति-स्वपति संस्मरति च । १९, 'ब्रूहि' 'ब्रूहि' इति द्विरुक्तिः स्वपत्नीरोदनकारणविज्ञाने त्वरामासक्तिं च प्रकटयति । करुणरसस्य, भयानकरसस्य वा उद्दीपनमत्र स्पष्टम् । २०. वैद्यमुखात्पाण्डुरोगस्य परिहारोपायः कल्प्यतामित्याशयः । २१. वैद्यानां सन्निधापनाय सम्भ्रमोक्तिः ।

आवसायिनीनाटकम् वैद्याः-२२. अत्रैव सन्निहिताः सः प्रभो । प्रद्योत:-२३. किं रोगपरिहारस्साध्य ? वैद्याः-२४. किमसाध्यं जाग्रत्यायुर्वेदभानौ । प्रद्योतः-२५. साधयत चिकित्सा सुतस्य । वैद्याः-२६. तथा। किं बहुकालचिकित्सयापि पाण्डुरोगो न शान्तः! प्रभावती–२७, सञ्जीविनीसान्निध्यमेवापेक्ष्यते । प्रद्योतः-२८. पुत्र ! जीवदेव स्मर सञ्जीविनीम् । जीवदेवः-२९. हा प्रिये सञ्जीविनि ! कुत्रासि शीघ्रमायाहि ! सञ्जीविनी-३०. (तत्क्षणं तत्र सन्निधाय) अत्रासि मा भूदार्य- पुत्रस्य विषादः वैद्यमहोदयाः! कृतप्रतीकारप्रकाराः कीदृशाः ? २२, तत्रैव स्थितानां वैद्यानां प्रतिवचनम् । २३. रोगस्य साध्यासाध्यत्व पृच्छति । २४. आयुर्वेदोक्तचिकित्साप्रयोगेण सर्व साध्यं भवतीत्यमि- makarma प्रायः। २५. तर्हि मम सुतस्य पाण्डुरोगचिकित्सायां व्यापृता भवत इत्यादेशः । २६. बहुकालं भैषज्यप्रयोगे कृतेऽपि रोगो नापहृत इति चिन्ता- कान्ता भवन्ति वेद्याः । २७. तद्रोगचिकित्सा सञ्जीविनीप्रभावायत्तेति सारयति प्रभावती पतिदेवम् । २८. तस्याः स्मरणाय पुत्रं प्रेरयति पिता २९. तथा तां स्मरति रोगग्रस्तो जीवदेवः । ३०. तत्क्षणमन सन्निहिता सती सञ्जीविनी पति सूक्तिभिस्तमा- दधाति । वैद्यैः प्रयुक्तरोगप्रतीकारं विज्ञातुं तान् पृच्छति । 25 चतुर्थोऽङ्कः वैद्याः-३१. अयोरजः गोमूत्रैस्सप्तरात्रं भावितं पयसा सह पानमेकविधा चिकित्सा । सञ्जीविनी-३२. पाण्डुरोगस्य निदानं किम् ? वैद्याः-३३. पाण्डुरोगस विप्रष्टनिदानानि-अतिव्यवाय:- अतिशयेनाम्ललवणमद्यसेवा - मृद्भक्षणम्, दिवास्वापः-एतेषां सेवनेन वातपित्तकफाः शरीरमतितीक्ष्णं कृत्वा रक्तं विदूष्य त्वचि पाण्डुरत्वं जनयन्तीति भैपज्यशास्त्रम् । सञ्जीविनी-३४. अलं ज्ञातमन्यत् कतिप्रकाराः पाण्डुरोगाः । वैद्याः-३५. पञ्चप्रकाराः वातपित्तकफोद्भवास्त्रया-तत्सन्नि- पातोत्पन्नश्चतुर्थः- मृगक्षणहेतुकः पञ्चमः । सञ्जीविनी ३६. यूयमायुर्वेदपण्डितप्रकाण्डाः । आनयतात्रा गोमूत्रभावितमयोरजः पयश्च । वैद्याः-३७. इदमिदम् । ३१. अयोधूलिः सप्तरात्रं यावत् गोमूत्रे संस्कृत्य पयसा सम्मिश्य रुग्णस्य पानार्थ प्रदत्तेति कृतचिकित्साविधानं कथयन्ति भिपनः । ३२. रोगस्य निदानं पृच्छति । ३३. वैद्याः शास्त्रोक्तकारणानि विवृण्वन्ति । ३४. पाण्डुरोगप्रकारावगमाय पुनः प्रश्नः । ३५. सन्निपातोत्पन्नम् - वातपित्तककाख्यत्रिदोषाणामपि विषमाव- स्थया जातम् । पञ्चप्रकारेषु मद्भक्षणजन्योऽप्येक इति प्रकटितम् । ३६. तान् प्रशस्य तैः प्रकल्पितं गोमूत्रभावितमयोरजः क्षीरं च आनेतव्यमित्यपेक्षते । ३७. वैद्यास्तदानयन्ति।

जीवसअविनी नाटकम् - सञ्जीविनी- वातं वायोर्देवात्पित्तं सूर्यात्कफस्तथाऽब्दैवात् । तजन्यं पाण्डु ते जीवेशात्परिहरन्तु कारुण्यात् ॥१२॥ (इति देवान् सप्रार्थ्य जीवदेवमौषधं पाययति । स्वयमन्तर्दधाति) जीवदेवः ३८. किमिदमाश्चर्यम् ! त्वचि मार्दवम् मूत्रे सुवर्णतां- नयनयो मल्यमनुभवामि | पाण्डुरोगः प्रणष्ट इव भाति । श्लाघ्याः खल्वसद्वैद्यधुरीणा:- श्लाध्यतरमायुर्वेदभैषज्यम् । श्लाध्यतमा सा। प्रभावती-३९. सा का ? वातमिति-वातं वायोर्देवात-वातस्याधिदेवता वायुः, पित्तं सूर्यात्- पित्तस्य सूर्यः-कफस्तथाऽब्दैवात्-कफस्य आपः इत्यनेन तत्तदधिदेवताशक्ति- व्यापारेण तत्तदोषाः शरीरे प्रादुर्भवन्ति । यथा-बाह्य वायोःशरीरान्तःप्रसर- णेन- वाताधिक्यप्रचुरपदार्थ सेवनेन वा शरीरे वातधातुः- सूर्यस्य तापेन उष्णयुक्ताहारेण वा पित्तवातुः- तथा अपां गुणेन शीतेन शीतवस्त्वम्यव- हारेण वा कफघातश्शरीरे जायते । तेषां समावस्थायां शरीररक्षणायापे- सितानि कार्याणि कुर्वन्ति ते । विषमावस्थायां त एव रोगानुत्पादयन्तीति सङ्ग्रहेण त्रिदोषतत्त्वं ज्ञातव्यम् । ते-वायुसूर्या-देवताः तज्जन्यपाण्डु-वात- पित्तकफाख्यत्रिदोषवैषम्याज्जातं पाण्डुगदं जीवेशात्परिहरन्तु-परिहृत्य मम जीवेश-जीवदेवं रक्षन्त्विति पुनः देवताप्रार्थनां कृत्वा औषधं प्रयच्छति सञ्जीविनी जीवदेवाय । वृत्तं गीतिः ॥१२॥ ३८. नीरोगस्य अरुनो वा यथा त्वक् मृदुः-मूत्रं सुवर्णवर्ण नयने निर्मले च भवन्ति इति स्वानुभवं प्रकटय्य तथा परिणाममाश्चर्यमिव जानाति जीवदेवः। भिषजः भैषज्यं च प्रशंसंति । विशेषेण ताम् । अत्र अद्भुतरसो- दयस्मुचितः तत्तद्विभावानुमावैः । ३९. का, सेति माता सुतमनुयुद्धे ।

चतुर्योऽयः जीवदेवः- सा नारी गृहगौरी वारं वारं ममासः पाण्डोः। रक्षति या सविलासा हस्तस्पर्शन देवता जाता ॥१३॥ प्रभावती-४०. सञ्जीविनीप्रभावोऽनन्यसाधारणः । पुत्र जीवदेव इतः परं सुखेन जीवं धारय । कालान्तरे जनाः-४१ अहो! कष्टम् । जीवदेवः राजयक्ष्मणा पीडित इति श्रूयते । जीवदेवः-४२. हा ! किमिदं ममाङ्गेषु सादः प्रादुर्भूतः तालु शुष्यति । कफः संस्त्रवति ! कुत्र माता? अम्ब ! हा! अम्ब! सेति-सा नारी गृहगौरी-मम रोगपरिहाराय या कारणभूता सा स्त्री सर्वमङ्गलेव जगति गृहे सर्वमङ्गलस्वरूपा सर्वमङ्गलप्रदा च अस्तीति तात्प- र्यम् । देवताभूता या देवतास्वरूपा सती या वारं वारं हस्तस्पर्शेन-भूयः करस्पर्शात्केवलं मम अर्श:पाण्डुरुजौ साविलासा परिहरनि-मम आपदि अर्श:- पाण्डुरोगौ लीलया परिहृत्य मां रक्षतीति सन्तोषातिशयेन पत्नीप्रशंसोक्तिः । वृत्तं गीतिः । अत्र शृङ्गाररसोदयस्य वा, शान्तिरसोदयस्य वा आकार- स्सूचितः। ४०. माता स्ववध्वाः अनन्यसाधारणं हस्तस्पर्शप्रभाव संस्तुत्य सुतमाशिषानुगृह्णाति । ४१. एवं स्थिते पुनः कालान्तरे जीवदेवस्य देहे प्रादुर्भूतराजयक्ष्म- रोगं दृष्ट्वा जनाः एवं चिन्तयन्ति । ४२. सादः-कार्यम्-अङ्गेषु साद एव राजयक्ष्मणो लिङ्गम् । तथा तालुशोषणम्-कफसंत्रवणमित्यादि ।

जीवसजीविनीनाटकम् १९७ SEE ! प्रभावती-४३. (प्रविश्य) जीवदेव ! कुत एव प्रलपसि, किमापतितम् ! जीवदेवः-४४. अम्ब इदानी प्रलपामि । उत्तरक्षणे यमदूत- स्सँल्लपामि। प्रभावती-४५. चेटि ! शीघ्रं गत्वा प्रभुवर्यमानय । चेटी-४६. (तथा करोति) प्रद्योतः-४७. किमिदं ! "विपद्विपदमनुबध्नाति" इति लोको- क्तिर्न मृपाभवति । यत:- MERESTHeamsutar maratmarAmARuts RaigarAAREureme ANIMATIPMENYEATRESSES ४३. स्वसुतस्य पुनः किमापतितं कुतः प्रलपन मिति माता सुतं घृच्छति । ४४. राजयक्ष्मगा पीडितोऽहं बाधयाय प्रलपामि । उत्तरक्षणे यम- किङ्करैस्सह संलपामि-अचिरान्त्रिये इति भावः। अनेन शोकस्य पराकाष्ठां दशामनुभवता नायकेन करुणरसोद्वेगसम्यक् प्रदर्शितः अत्र प्रलपामि-संलपा- मीतिपदयोः 'प्र'-'सं' इत्युपसर्गद्वययोगात् - 'लप' धातोरर्थभेदः । तथा- चोक्तम्-"उपसर्गेण धात्वर्थो बलादन्यत्र नीयते” इति । सम् इत्यत्र अनुस्वारः अनुनासिकलकारो भवति लकारे परे । ४९. प्रभावती पतिमानेतुं चेटीमाज्ञापयति । ४६. पतिरागच्छति। ४७. एका विपद्यदा भवति तामेवान्यानुसरति-तदनन्तरमन्येति विपत्परंपराप्राप्तिः लोकदृष्टा । अत एवेयं लोकोक्तिः । अत्र तु प्रथममर्श:- अनन्तरं पाण्डुरोगः-इदानीं राजयक्ष्मा इति रोगाः बहुधा मम सुतं पीडय- न्तीति व्यसनाक्रान्तस्य पितुः प्रद्योतस्य वचनम् । तदेवेत्थं समर्थयते सः- अर्श इति-अयं मम पुत्रः जीवदेवः आदौ-प्रथमं अर्शीग्रस्त: गुदगदेन पीडितः चतुर्थोऽङ्कः अर्शीग्रस्तोऽयमादौ भिषगविषयतः पालितः स्वस्य पत्न्या पाण्डोश्चामुं प्रबाधा तदनु समदहद्रक्षितोऽसौ तयैव । अन्या काचित्कुमारं पुनरपि रुगसौ बाधयत्येव तीनं भूयो भूयो विशेषाद्रुगपहृततनुः पीड्य जीवदेवः ॥१४ विधिनियमो नातिलङ्घयः । सन्निहिता वा भिषजः ? भिषजा-४८. स्वामिन् ! सन्निहितास्मः। प्रद्योतः-४९, रोगस्य निदानं सम्यग्विदित्वा समुचित- चिकित्सां कुरुत। भिषजः-५०. प्रभो ! अयं रोगः राजयक्ष्मेति प्रतिभाति । इदमस्य निदानम् । भिषगविषयतः- वैद्यानां चिकित्साऽसाध्यतावशात् स्वस्य पत्न्या सञ्जीविन्या पालितः- रक्षितः । तदनु अनन्तरं पाण्डुः-पाडुरोगः अमुं-जींवदेवं समदहत्- अतपदित्यर्थः। तदापि तयैवासौ तदा तद्वाधापरिहारद्वारा रक्षितः-पालितः । पुनरपि कुमारं मम पुत्रमन्या काचिद्रुक्-कश्चिद्रोगः- राजयक्ष्मेति यावत् । बाधत एव पीडयत्येव । एवभित्थम् एषः जीवदेवः मम पुत्रः भूयोभूयः- पुन पुनः विशेषात्-अधिकतर रुगपहृततनुः-रोगग्रस्त इति यावत् । तीव्र-विशेषेण, पीड्यते-बाध्यते । स्रग्धरावृत्तम् । विधिनियमः- देवसङ्कल्पः नातिलंध्यः- अलंघनीयः देवादागतं यत्तदनुभवितव्यमेवेति तात्पर्यम् । वैद्यानां सान्निध्यं पृच्छति ॥१४॥ ४८. राजगृहे भिषनां सान्निध्यं प्रतिदिनं भवितव्यम् । विशेषतः राजसम्बन्धिनः यस्य कस्यापि रोगे प्राप्ते तेषां निरन्तरसान्निध्यम् अनिवार्य ४९. एवमियं वैद्यानां राजाज्ञा । १०. अस्य रोगस्य राजयक्ष्मति नाम । कारणं तु-

जीवसञ्जीविनीनाटकम्
वेगानां सन्निरोधात्क्षयकृतिवशतस्साहसादन्नदोषा-
द्रोधेन स्रोतसां तन्निहितहितरसो दह्यते तेन वातः ।
देहस्थो रोगमेतं जनयति कुपितोऽतिव्यवायस्य हेतो.
प्रक्षीणे शुक्रधातौ तदनु तदितरे धातवो यान्ति सादम्॥१५
वगानामिति-वेगानां वातमूत्रपुरीषाणां सन्निरोधात् - अतिमात्रं
निरुद्धप्रसरात् क्षयकृतिवशतः-क्षीयते अनेनेति क्षयः-धातुक्षयहेतुभूतकार्येभ्यः
इति यावत् । तानि कार्याणि-अतिव्यवाय:- अनशनम् ईयादय इति निर्दि-
ष्टानि । साहमात्-बलिष्ठस्सह मल्लयुद्धादिव्यापारात् अन्नदोषात्-विषमाश-
नात् विषमाशनलक्षणम्-"बहु स्तोकमकालं वा भुक्तं तद्विषमाशनम्" इति उक्त
भवति । स्रोतला रोधेन-रसवाहिनीमार्गेषु रुद्धेषु सत्सु तन्निहितः-रसवाहिनी-
शिरान्तस्थः हितः शरीरस्वास्थ्य कारी यो रस:- मुक्तानपानपरिपाकरूपो
रमविशेष:दह्यते-शुव्यतीति यावत् । तेन-तच्छोषणेन देहस्य:-शरीरान्ताप्तः
वात:-व्यानाख्यो वायुः प्रकुपितः दूषितस्मन् एतं रोगं राजयक्ष्माणं जनयति-
रोगजनने कार णं भवति । अतिव्यवायस्य-क्लप्तिरहितभैथुनव्यापारस्य हेतो-
रपि-कारणादपि अयं रोग:प्रादुर्भवतीति तात्पर्यम् । यत:-अतिव्यवायकारणेन
शुक्रधातौ प्रक्षीगे-अत्युत्कृष्टवल करनिर्मलरेतोनामधातौ क्षयं गच्छति सति
तदनु अनन्तरं तत्क्षयेण प्रतिलोमकमात् तदितरे घातबः मज्जादयः साद-
क्षयं यान्ति-प्राप्नुवन्ति । यथा-शुक्रक्षयेण-मज्जाक्षयः। तत्क्षयेणास्थिक्षयः ।
अस्थिक्षयेण मेदासयः । तत्क्षयेण मांसक्षयः । मांसक्षयेणामुक्क्षयः
रक्तक्षयेण र लक्षय इति प्रतिलोमक्षयव्यापारस्सर्वधातुषु प्रसरति । अनेन
व्यवायकार्य मानुषधर्मत्वेनानुगृहीतमपि शास्त्रविधीनुलंध्य कालदेशादिक-
मुपेक्ष्य स्वेच्छयाऽतिमात्रमाचरितं चेत्-तत् क्षयरोगस्य हेतु भवतीत्युक्तत्वात
"अति सर्वत्र वर्जयेत्" इत्यनुशासनमत्राप्यतिनागरूकतया पालनीयमित्युप-
देशेनायुर्वेदस्य परमोपकारकत्वं प्रदर्शित परमकारुणिकरायुर्वेदोपदेष्टुभिः ।
स्वाधरा वृत्तम् ॥१५॥

चतुर्थोऽङ्कः
अतः अस्य रोगस्य राजयक्ष्मा-क्षय:- शोष:- इति पर्याय-
नामानि
जीवदेवः-५१, हा तापः ! करयोस्ताप ! पादयोस्तापः !
ज्वरो मे सर्वाङ्गाणि तपति। हा ! हा !! हा !!! |
प्रभावती-५२. (रुदती) जात ! सहस्व देवादारोग्यं भवेत् ।
प्रद्योतः-५३. (प्रदुःखितः दीर्घ दीर्घ निश्वस्य) पण्डिताः !
क्रियतामाशु चिकित्सा-जीवतु जीवदेवः ।
पण्डितेष्वेकः-५४.
मलायत्तं बलं पुंसां शुक्रायत्तं च जीवितम् ।
तस्माद्यन्न संरक्षेद्यक्ष्मिणो मलरेतसी ॥१६॥
राजयक्ष्मा-"राज्ञश्चन्द्रमसो यस्मादभूदेष किलामयः । तस्मात्तं
राजयक्ष्मेति प्रवदन्ति मनीषिणः। वैद्यो व्याधिपता व्याधेर्यत्नेन यक्ष्यते
पूज्यते इति यक्ष्मशब्दस्य निरुक्तिः । धातुव्यापारक्षयकारित्वात्सयः ।
रसादिधातूनां शोषणात् शोणः इति च प्रदर्शिता ।
५१. रुग्णः जीदेवः करपादादिपर्वाङ्गेषु ज्वरतापप्रनुभवन् हाहा-
कारेण रोदिति। अनेन नायके तन्मातापित्रोश्च करुणरसोद्वारः प्रकटितः।
अतिव्यवायादिदोषकारणप्रसक्त्या बीभत्सरसस्यास्पदं बीजम भिहितम् ।
५२. प्रभावती सुतं शान्तवचनैस्समादधाति ।
५३. प्रद्योतोऽध्यत्यन्तव्यसनाक्रान्तः जीवदेवस्य रक्षणाय भिप-
गिमश्ची कित्सामपेक्षते ।
५४. मलेति-पुंसां बलम् मलायत्तं-मानवानां बलं । अतिसारादिना
मले नष्टे बलं क्षीयते मलेऽविनष्टे बलं तिष्ठति । धातुषु यः स्नेहः तदेव
ओमः, ओज एव बलम् । शुक्रायत्तं च जीवित-शुक्रधातुरक्षणेन प्राणधारणं
नियतं भवति । तस्मात्-अतः यक्ष्मिण:- क्षयरोगिमः मलरेतसी-मलश्च रतश्च
मलरेतसी यत्नेन-प्रयत्नपूर्वक संरक्षेत्-पालयेत् । इत्यायुर्वेदविधिः ।
अत्र बीभत्सरसस्य कारणभूता: उद्दीपनविभावाः प्रदर्शिताः ॥१६॥

जीवसविन नाटकम्
।
इति हि शास्त्रम् ।
अन्यः-५५. तदर्थम् ?
प्रथमः-५६. तदर्थ-"शालिषष्टिकगोधूमयवमुद्गादयो हिताः"
ते देयाः।
तृतीयः-५७, “सपिप्पलीकं सयवं सकुलत्थं सनागरम्
दाडिमामलकोपेतं स्निग्धमाज्यं रसं पिबेत्" इति भावप्रकाशोक्तां
चिकित्सां करवामः । (इत्यनेकविधाश्चिकित्सा बहुकालं कुर्वान्त)
प्रद्योतः-५८. किं भोः ! कुमारस्य यक्ष्मा परिहतः ।
भिषज? ५९. कुमारः यत्नेन चिक्षिसितः रोगस्तु चिकित्सा-
ऽसाध्य इव प्रतिभाति।
प्रभावती-६०, सञ्जीधिनीहस्तस्पर्श एव परमं भैषज्यं मन्ये ।
प्रद्योतः-६१. कुमार ! संस्मर प्रियभार्याम् ।
जीवदेव:-६२. भोः प्रिये ! किमियमुपेक्षा मयि ? प्रसीद ।
५९. मलतो रक्षणाय किं कार्यमिति पृच्छति ।
५६. शालिपष्टिकगोधूमयवमृद्गादयः पम्मासप्रभवशालिधान्यं गोधूम!
धान्य-यवा:- मुद्राः-सेवितव्या:- इत्युक्तम् ।
५७, मूलोक्तपिप्पल्यादिरसं पिबेदित्यन्या चिकित्सा ।
५८. चिकित्सापरिणामः कथं भवतीति राजा पृच्छति ।
५९. रोगश्चिकित्सासाध्यो न भवतीति भिषजामुत्तरम् ।
६०. सञ्जीविनीहस्तस्पर्शन रोगपरिहारो भवतीति स्मारयति राज्ञी ।
६१. तस्यास्सान्निध्याय तां सरेति पुत्रमादिशति पिता ।
६२. तां स्मृत्वा तथा उपेक्षा कृतेति उपालम्भं करोति पणः ।
अयमुपालमोऽपि विप्रलमशृङ्गारस्य अनुभावरूपेणालंबो भवति ।
26

चतुर्थों सञ्जीविनी-६३. (सन्निधाय) प्रसीदत्वार्यपुत्रः । नोपेक्षा में त्वयि भवति भोः कारणं स्मारणं ते क्षिप्राऽऽयाता स्मरणकलिता साधयाम्यद्य कार्यम् । दुस्साधोऽयं जगति विदितो राजयक्ष्मा तथापि प्राणनाणं सुकृतवशतो दैवयोगाद्भवेत्ते ॥१७॥ भो भिषग्वराः कृता भवद्भिर्गुणवचिकित्सेति मन्ये । भिषज:-६४. कृता चिकित्सा परन्तु सा गुणवती न जाता। सञ्जीविनी-६५. का सा चिकित्सा ? । ६३. सञ्जीविनी सन्निधाय पतिमेवं समादधाति । नोपेक्षेति-त्वयि मे उपेक्षा न भवति-मया त्वं नोपेक्षितः ते स्मारणं कारणं भवति-मम मान्निव्यविलम्बे त्वया मत्स्मरणविलम्ब एव हेतुः । अत्र स्मरणमेव स्मारणं स्वार्ये अण् प्रत्ययः। स्मरणकलिता क्षिप्रायाता-अद्य ते मम स्मरणं जातं स्मरणानुक्षणमेवाहमत्रागता । अद्य कार्य साधयामि-इदानीं मम कर्तव्यं निर्वतयामि । अयं राजयक्ष्मा दुस्साध इति जगति विदितः-क्षयचि- कित्सा न सुकरा इति लोके प्रसिद्धिः । तथापि-एवं सत्यपि ते प्राणत्राणं- तव प्राणरक्षण दैवयोगाद्भवेत्-देवताप्रमादेन भवतीति निश्चयार्थेऽत्र विधि- लिङ्' । मन्दाक्रान्तावृत्तम् । एतच्छलोकार्थेन विप्रलंभशृङ्गारस्य व्यभिचारि- भावा अपि केचित्सचिताः ॥१७॥ गुणवचिकित्सा-गुणकारी औषधप्रयोगः । ६४. कृतापि चिकित्सा गुणकारिणी नाभूदिति तथ्यं कथयन्ति भिषजः। ६५. कीशी चिकित्सा कृतेति पृच्छति ।

जीवसञ्जीविनीनाटकम् २०३ । भिषजः-६६. यवकुलत्थजलशेषमिश्रितं घृतसंस्कृतमौषधं दत्तम् । पिप्पलीनागरमिश्रितं कल्कं च प्रयुक्तम् । ककुभत्वक् नाग- बलावानीरवीजम्-एतानि चूर्णीकृत्य मधुघृतसहितं तच्चूर्ण पयसा पायितम् । सञ्जीविनी-६७. सर्व साध्वनुष्ठितम् । तत्पानं तत्कल्कं चानयत। भिषजः-६८. इदमुभयमत्र सन्निधापितम् । सञ्जीविनी-६९. (पानं स्वहस्तेन जीवं पाययति । कल्केन तदङ्गानि लिम्पति) प्रिय ! कथमिदानी ते तापः ? जीवदेवः-७०. अहह ! परिहततापोऽहं जातः । सञ्जीविनी- करस्पर्शेनानिरपि शीतो भवति । साध्वीमगे ! श्लाघ्यं ते जन्म । (सञ्जीविनी मौनेनैवान्तर्दधाति) प्रभावती-जात! इयं ते भायोऽलं तव भरणशक्ता वरयुता परं साध्वी स्त्रीणां कुलमणिरिवैषात्र जनिता । ६६. यद्यत्कृतं तत्सर्वमावेदयन्ति । ६७. भिषग्भिस्लम्पादितानामौषधविशेषपानकलकादीनामानयनाय वैद्यान् प्रेरयति । ६८, ते तानि सन्निधापयन्ति । ६९. सञ्जीविनी जीवदेवम् औषधरसं पाययति । कल्कं च प्रयुङ्के । तत्परिणामं च पृच्छति । ७०. तत्क्षणं परिहृतरोगः जीवदेवः स्वसतीमणि श्लाघते । अत्र संजीविनीकरस्पर्शेन अग्निरपि शीतो भवतीत्यतिशयोक्त्या अद्भुतरसस्यानु- भावः कश्चित्प्रदर्शितः।

चतुर्थोऽङ्कः रुजां शान्तः पत्यु भिषगमिनुता कीर्तिमहिता वयं धन्या लोके सुखपरवशास्तन्महिमतः ॥१८॥ (जीवदेवः कश्चित्कालं निरामयो जीवति) কান্তান जीवदेवः-७१. हा ! कर्णशूलं मां दहति । कुत्र मे माता? चेटी-७२. कुमार! ते माता अभ्यवहारं करोति । क्षिप्र. मायाति । किश्चिच्छय्यायां शयित्वा समाचासयात्मानम् । ! Aanyy NidhikSM । प्रभावत्यपि स्ववधूमे प्रशंसति- इयमिति-इयं ते भार्या-तव पत्नी एषा सञ्जीविनी अलं तव भरण- शक्ता-त्वां निखिलरोगेभ्यः परित्रातुं शक्नोति । कथम् ? सा वरयुता-सा देवैर्दत्तेन वरेण महिमशालिनी भवतीति तात्पर्यम् । परम्-इतोऽपि, साध्वी पतिव्रता-पतिव्रताप्रमावणापि सावित्रीव पतिं त्वां रोगेभ्यो रक्षितुं समर्थेति ध्वनिः । अन-अस्मिन् लोके कुलपाणिरिवैषा जनिता-नारीजनशिरोमणिरिव जाता । कुतस्तथा जाता ? पत्युः रुनां शान्तेः-भर्तृ रोगनिवारणाय । किंच सा भिषगभिनुता-सः राजवैद्यैः प्रशंसिता । कीर्तिमहिता-अतः यशसा समुज्ज्वला भवति । तन्महिमतः वयं सुखपरवशास्सन्तः लोके धन्या भवामः-तत्प्रभावातिशयेन जगति वयं मुखिनः सार्यक्रनन्मानश्च भवामः । शिखरिणीवृत्तम् । अत्र शान्तिरसोदयस्य स्थायिविभावानुभावव्यभिचारि- भावाः यथोचितमुपन्यस्ता इति ध्वन्यते ॥१८॥ एवं कश्चित्कालं यापयति सुखेन जीवदेवः । ७१. पुनः कर्णशूलेनाविद्धः शूलबाधामसहमानः मातरमाह्वयति । ७२. माता अभ्यवहारं करोतीति चेटी निवेदयति ।

जीवलक्षीविनीनाटकम्
!
!
.
जीवदेवः-७३ हा! हा! तोदः! बाधः ! ताप:! आह्वय!
आह्वयाम्याम् ।
प्रभावती-७४. (आगत्य) किं पुनः कर्णशूलम् ? रोगदेवते-
दानी तवेन्द्रियनिवासपरा । भवतु ! यदाऽपाण्डुयक्ष्मभ्योऽपि
राक्षतः कुमारः कर्णरोगोऽपि चिकित्सासाध्यो भवत्येव । चेटि!
वैद्यानत्र प्रापय।
भिषजा-७५. (समागत्य) कुतः कुमारोऽद्य शय्यायां निषक्तः।
प्रभावती-७६. कर्णरोगेण पीडितोऽयं कुमारः।
भिषजः-७७. हा ! दैवहतकोऽयं राजकुमारः। भवतु खकार्य
निर्वर्तयाम |
प्रभावती-७८. (चेटी प्रति) स्वामिने निवेदयेमा वार्ताम् ।
चेटी--७९. तथा।
MaraunromNAPURN.
७३, बाधायाः औल्मण्येन मातुरावानाय चेटी प्रेरयति ।
७४. किम् इन्द्रियनिवासपरा-श्रोत्रेन्द्रियरोगग्रस्तो भवति कुमार इति
मातुः शोकप्रलापः। चिकित्सालाध्यो भवति रोग इति आत्मनस्समाधानं च।
वैद्यानाहापयति ।
७५. शय्यायां रोगबाधाकुलितं जीवदेवं दृष्ट्वा पुनश्शय्याशयणाय
कारणं पृच्छन्ति भिषजः ।
७६. तस्य कर्णशूलबाधा जातेत्यावेदिताः ।
७७. भिषजोऽपि विषाद सूचयित्वा चिकित्सायां प्रवर्तन्ते ।
७८. सुती प्रभावती पति प्रद्योतं एनां वार्ता चेटीमुखात् श्रावयितु-
मिच्छति ।
७९. चेटी प्रद्योताय राज्ञे तद्वाता निवेदयति ।

चतुर्थोऽ: प्रद्योतः-८०. (तत्रायाति) (सुतं दृष्ट्वा-) कीडग्भाग्यहतस्त्वमत्र जनितो दौर्भाग्ययोगेन मे रोगो रोगमनुक्रमादहरहस्त्वां याति देहान्तकः । सन्तापस्त्वतिमात्रगो भवति नस्त्वदुःखसन्दर्शिनां कीदृग्वा स भवेदनुक्षणमहो रोगाभिभूतस्य ते ॥१९॥ भो भिषग्वराः! कर्णरोगा बहुप्रकारा इति श्रूयते । तेषु कतमोऽयम् ? येन मत्सुतोऽद्य शयने निपातितः। तस्य चिकित्सा च का? विशदयन्तु भवन्तः। भिपजा-८१. कर्णरोगाः अष्टाविंशतिप्रकाराः । ८०. पिता सुतस्य स्थितिं पश्यन्नेवं विलपति । कीगिति-मे दौर्भाग्ययोगेन-मम दुर्दैवेन अत्र अस्मिन् मम गृहे त्वं कीडामाग्यहतो जातः-त्वं निर्भाग्यस्सन् जनित इत्यात्मनिन्दावचनं तस्य महदन्तरङ्गव्यसनं सूचयति । अहरहः- प्रत्यहं क्रमात् देहान्तकः- शरीरनाशकः रोगः- एकः रोगः रोगमनु-अन्य रोगैमनसृत्य त्वां याति त्वां प्राप्नोति । एकस्य रोगस्य प्रादुर्भाव सति चिकित्सया तत्परि- हारावसर एव अन्यः रोगः प्रसरतीति तात्पर्यम् । त्दःखमन्दर्शिनां- त्वदीयरोगबाधां पश्यतां न:-अस्माकं सन्तापः-व्यसनम् अतिमात्रगो भवति- अतिशयेनोदितं भवति । रुग्णं पश्यतामेवं व्यसने प्रादुर्भूते अनुक्षणं रोगा- भिभूतस्य-सर्वदा रोगपीडितस्य ते-तव स सन्तापः कीदृग्वा भवेतू-कीदृश इति वक्तुमसाध्यमिति तात्पर्यम् । शार्दूलविक्रीडितं वृत्तम् । अनेन करुणरसस्य उद्दीपनविभावोदयस्सूचितः ॥१९॥ वैद्यान् कर्णरोगप्रकारान् तच्चिकित्साश्च पृच्छति राजा । ८१. अष्टाविंशतिः कर्णरोगप्रकाराः यथा-कर्णशूलम् - कर्णनादः- बाधिर्यम्-क्ष्वेड:- कर्णनावः- कर्णकण्डू:- कर्णगूयः- प्रतिनाहः- जन्तुकर्णः- -- नीवसञ्जीविनीनाटकम् एको भिषक्-८२. तत्र प्रथमं कर्णशूलं कुमारमापीडयति । अत्र चिकित्सा-समधुशृङ्गबेरं वा ससैन्धवतैलं वा कदुष्णं कर्णयोर्धाय भवति । अन्यः-८३. लशुनरसो वा आईकरसो वा शिरसो वा वारुणी वा मूलकरसो वा कदलीरसो वा कदुष्णः कर्णपूरको भवति । तृतीयः-८४. इदमपि शृणोतु देवः- अर्काङ्करानम्लपिष्टान् सतैललवणान्वितान् । सन्निध्यात्सुधाकाण्ड कोरिते मृत्स्नयावृते ॥२०॥ प्रद्योतः ८५. तां चिकित्सां साधयत-यया अचिरेण शूलोप- हतिस्वात् । भिषजः-८६. (ते तथाऽचरन्ति । तथापि शूलबाधा नापहता) प्रद्योतः-८७. कुमार ! सञ्जीविनी मनसि कलय । अचिरात्ते कर्णशूलं परिहतं भवति । द्विविधविद्रधिः- कर्णपाक:-पूतिकर्णः- चतुर्विधार्शः, सप्तविधार्बुदम्-चतुर्विध- शोफः- इति भिषजः वदन्ति । ८२. तत्र प्रथमभूतेन कर्णशूलेन कुमारः पीड्यो । तत्र चिकित्सा एवमिति आवेदयत्येको भिषक् । ८३, कदुष्णं लशुनरसम्-आर्द्रकरसं शिगुरस वारुणीरसं मूलकरसं कदलीरसं वा कर्णे प्रक्षिपेदित्यन्यो वैद्यविद्वानभिप्रेति । ८४. अर्काङ्कुरानिति मूले प्रदर्शितचिकित्मामुपदिशति तृतीयो मिषक् ॥२०॥ ८५. यया चिकित्सया शूलं निवार्यते तस्यास्सम्पादनाय प्रयति- तव्यम् इत्यादिशति राना। ८६. तथाऽऽचरणेनापि कर्णशूलं नापहृतम् । ८७. तदा राजा सल्जीविनीं स्मरेति पुनमादिशति ।

२० चतुर्थोऽङ्कः जीवदेवः-८८. अयि ! सञ्जीविनि ! कर्णशूलान्मां रक्ष ! कृपालुर्भव! सञ्जीविनी-८९, (सन्निधाय स्वगतम्) विपरिभर्यावत्य- श्चिकित्साः कर्तव्याः तावत्यः कृतप्राया एव । अत्र निदान पृच्छामि । (प्रकाशम्) भो ! वैद्यचूडामणयः ! कर्णशूलस्य निदानं वेदितुमिच्छामि। भिषजा-९०. समारगश्श्रोत्रगतोऽन्यथा चान् समन्ततः शूलमतीन गयोः । करोति दोश्च यथा समावृतः सकर्णशूल: कथितो दुरावरः ॥२१॥ इति वदन्ति शास्त्रविदः । सञ्जीविनी-९१. सत्यमभिहितम् । लशुनरसमाहरत । भिषजः-९२. अत्र वर्तते । सञ्जीविनी-९३. (तसं कर्ण योस्स्रावयति । शूलं निर्गच्छति) ८८. स तथा करोति । ८९. कृतास्सर्वाश्चिकित्साः फलप्रदा नाभूवन्निति विज्ञाय सञ्जीविनी रोगनिदानं यथावज्ञायते वा न वेति परीक्षितुकामा तान् रोगनिदान पृच्छति । २०, कर्णान्तः प्रविष्टो वायु. प्रतिलोममार्गेण चरन् पित्तकफरक्तैः शूलं जनयतीति शास्त्रोक्तप्रमाणमुदाहरन्ति ते । ९१. लशुनरसानयनाय सञ्जीविनी वैद्यान् चोदयति । ९२. तद्रसमाहरन्ति वैद्याः । ९३. तया तस्य कर्णे तद्रसस्त्रवणमात्रेण शूलवेदना विनष्टाऽभूत् । गतमिति-कर्णशूलं गतं गतं - कर्णशूलबाधा निवृत्तैव । आदरार्थे अवधारणार्थे वा द्विरुक्तिरत्र बोध्या । धर्मपत्न्या-मम भार्यया सञ्जीविन्या हितं कृत-कर्णशलपरिहारद्वारा मम परमोपकारः कृतः। सतां मतं, -- जीवसीविनीनाटकम् जीवदेवः- गतं गतं कर्णशूलं हितं कृतं धर्मपत्न्या । सतां मतं सम्प्रधार्य भिषग्वराः श्लाघ्यकार्याः ॥२२॥ (सञ्जीविनी अन्तर्दधाति । सर्वे सन्तुष्टा भवन्ति) (जीवदेवः निरामयो जीवति कश्चित्कालम्) कालान्तरे (मातापित्सुतादीनामेकनेकदा अभ्यवहारः प्रचलति) जीवदेवः-९४. अम्ब ! मम दक्षिणनेत्रं किञ्चिचिमचिमायते । प्रभावती-९५. पुरुषाणां दक्षिणनेत्रस्पन्दनं शुभोदकायेति श्रूयते । जीवदेवः-९६. न तु स्पन्दनम् अम्न ! किमपि नेत्रान्तस्तु- दति । बाष्पमपि स्रवति । विद्वदभिप्रायः संप्रधार्य बहुमन्तव्यः अनुसर्तव्यश्च । भिषग्वराः श्लाघ्य- कार्याः-एते राजवैद्याः स्तुत्यचिकित्सका इति प्रशंसनीयाः । इदं वृत्तं अनु- ष्टुप् छन्दोजातेषु षट्पञ्चाशदधिकद्विशत-(२५६) वृत्तेषु अष्टत्रिंशं (३८) वृत्तम् । अस्य मंदधारेति नामनिर्देशः क्रियते । तल्लक्षणम्-"जतौ गगौ मंद- धारा"इति । ९४. चिमचिमायते-इत्यनुकरणशब्दः नेत्ररोगसूचको भवति । ९५. इदं शकुनशास्त्रविदितम्-पुरुषाणां दक्षिणनेत्रस्पन्दनेन शुभ- मापद्यते इति । ९६. नेत्रान्तरे तोदः- नेत्रयो;ष्पाविर्भावश्च न शुभपूचक इति प्रतिवदति कुमारः।

सत्यम् ! प्रिय! चतुर्थोऽ: प्रद्योतः-९७. नेत्ररोगो भवेत् । कर्णशूलमनु नेत्ररोगः । एक. मेव हि दैवहीनस्य कुमारस्य जीवितकालपरिणामः । प्रभावती-९८. कथमयं देवहीनः वयमेवाधन्याः स तु श्रीकरपालितः। प्रद्योतः-९९. वयं लक्ष्मीकरास्फालिताः। प्रभावती-१००, न तु सञ्जीविनीकरस्पर्शवेदिनः । प्रद्योत:-१०१. किं श्रीरेव सञ्जीविनीति तवाशयः । प्रभावती-१०२. आम्, प्रद्योतः-१०३. बहुमतस्ते आशयः। भवतु काान्तिकमाहूय कुमारस्य भविष्यं पृच्छामः । कस्कोऽत्र मोः । ९७. नेत्ररोगो भवेदिति प्रद्योतस्याभ्यूहः । कर्णशूनानन्तरं नत्र- रोगमनुभवितुमयं देवहीन इत्यनुतापवचनम् । ९८. श्रीकरपालितत्वात् अयं न हतदेवः, वयमेवाधन्याः इनि राझ्या: अभिप्रायः । ९९. राज्ञां धन कनका दिम वृद्धिमत्त्वात् वयमपि लक्ष्मीप्रमादयुक्ता इति राज्ञः आशयः । १००. कुमारः जीवदेवस्मञ्जोविन्याः करम्पर्शप्रभावं जानाति । वयं तथा न जानीमः | तर्हि वयं कथं कुमार इव धन्या इति राझ्या आक्षेपः। १०१. "श्रीकरपालित:- सञ्जीविनीकरस्पर्शप्रभावज्ञः" इति वाक्य- द्वयतात्पर्यावगमात् किं श्रीरव सञ्जीविनीति राज्ञः पुनः प्रश्नः । १०२. 'आम्' इत्यङ्गीकारः । १०३. राजा तद्वचनं सम्भाव्य जीवदेवस्य भविष्यावगमार्थ कार्ता- न्तिकानयनाय सेवकमाह्वयति । ।

जीवसलीचिनीनाटकम् सेवकः-१०४, आज्ञापयतु देवः । प्रद्योत:-१०५. शीघ्रं गत्वा ज्योतिषिकप्रवरमानयात्र । सेवकः-१०६. यथाऽऽज्ञापयति देवः । सेवकः १०७. (काान्तिकेन सहागत्य) स्वामिन् ! सनि हितोऽयं ज्योतिषिकप्रवरः। प्रद्योतः-१०८, कान्तिकप्रवरं प्रणमामि । कान्तिकः-१०९. दर्घाियुष्मान् भव । सर्वत्र राजकार्य- सिद्धिरस्तु । प्रभावती-११०. पूज्यपाद ! प्रभावत्यहं प्रणमामि । कान्तिकः-१११. कल्याणं भूयात् । प्रभावती-११२. कुमारस्य भविष्य पृच्छामि । १०४. सेवकः राजाज्ञां निरीक्षते । १०५. राजा कार्तान्तिकमानयेत्याज्ञापयति । १०६. सेवकस्तथेति गच्छति । १०७. तमानीय तद्वार्ता राज़ निवेदयति सेवकः । १०८. राजा तं प्रणामेन सम्भावयति । १०९. कान्तिकस्तमाशिषानुगृह्णाति । ११०. राज्यपि तथा तं प्रणमति । १११. तस्यै समुचिताशिर्ष प्रयुके कान्तिकः । ११२, जीवदेवस्य भविष्यविषये जिनणां करोति गजी ।

चतुर्योऽङ्कः कान्तिकः-११३. रविशन्यङ्गारकाः प्रतिकूलस्थानस्थाः कुमारस्य विविधरोगोत्पादका भवन्ति । अचिरात्ते शुभफलदा भवन्ति । प्रभावती-११४. कथम् ? कथम् अस्मत्कुमारोऽद्य नेत्र- रोगेण पीडितः१ कान्तिका-११५. इदमेवास्य चरमं रोगस्थानम् । इल: परमयं यावज्जीवं निरामयो भवति । उभौ-११६. महान् प्रमोदः । (कान्तिक सम्मानेन तोषयति राजा) (कार्तान्तिकः निर्गच्छति) जीवदेवः-११७. शय्या! शय्या नत्रे तीव्रवदना । (शय्यायां रुम्णो बाधां नाटयति प्रभावती ११८. कुत्र वैद्याः? सेवक:-११९. आगताः। ११३. प्रतिकूलस्थाः रविशन्यङ्गारकाः कुमारस्य तत्काले व्याधि- कारका अपि शीघ्रं शुभफलदा भवन्तीति न्यौतिषिको ब्रूते । ११४. नेत्ररोगपीडित कुमारे कथं तेषां शुभफलमिति राज्ञी कार्तान्तिकमनुयुते । ११५. नेत्ररोगपरिहारानन्तरं कुमारस्य कोऽपि रोगो न सम्भवति शुभमेव भवतीत्युत्तरम् । ११६. तद्वार्तया सन्तुष्टो राजा कान्तिकं बहुमानेन तोषयति । ११७. अत्रान्तरे जीवदेवः नेत्ररोगबाधा प्रकाशयति । ११८. राज्ञी वैद्यानां सन्निधानमपेक्षते । ११९ ते सन्निहिता भवन्ति ।

जीवसनीधिनीनाटकम् प्रभावती-१२०, भो भिषग्वरा: ! इदानी पुत्रस्य नेत्र- चिकित्सा महता यत्नेन साधयितव्या । यत:- "सर्वेन्द्रियाणां नयनं प्रधान" शास्त्राणि लोकाश्च वदन्ति नित्यम् । अन्धस्य वृत्तिर्जनयेज्जुगुप्सां नेत्रेण हीना न सुखं लभन्ते ॥२३॥ एको-भिषक्-१२१. नेत्रमण्डलं बङ्गुलायतस्थूलम् । तत्र पक्षम-वर्म श्वेतमण्डलं कृष्ण मण्डलम् - दृष्टिमण्डलं चेति पञ्चभागा। तत्र दृष्टिमण्डलं मध्यस्थम् । तदनन्तरं कृष्णमण्डलम् । तदुत्तरं श्वेत- मण्डलम् । तदनन्तरं वर्त्म । अन्तिमं पक्ष्मेति व्यवस्थितम् । प्रद्योतः-१२२. तत्रोत्पन्ना व्याधयः कति ? भिपक्-१२३. "नेत्रमण्डले अष्टसप्ततिव्याधयः। यथा-दृष्टि- मण्डले-चतुर्दश-कृष्णमार्गे चत्वारः-शुक्लभूमिकायामेकादश-वर्त्मनि- एकविंशतिः- पक्ष्मयोद्वौं-सन्धिषु-नव-अन्यत्र सप्तदश" इति । १२०. प्रभावती स्वपुत्रस्य नेत्रचिकित्सार्थ वैद्यानादिशति । सर्वेति-सर्वेन्द्रियाणां नयनं प्रधानपञ्चज्ञानेन्द्रियाणां मध्ये नेत्रमेव मुख्यतमम् । इदं तत्वं शास्त्राणि लोकाश्च नित्यं वदन्ति-इदं शास्त्रतः वेद्यते लोकतः ज्ञायते । अन्यस्य वृत्तिः-नेत्रहीनस्य व्यापारः, जुगुप्सां जनयेत- बीभत्साकरो भवति । नेत्रेण हीनाः - अन्धाः सुखं न लभन्ते-न किमपि सुखं तेषां भवतीत्यभिप्रायः । इन्द्रवज्रावृत्तम् ॥२३॥ १२१. पक्ष्मणोरन्तः श्वेताकारगोलकः तदन्तः कृष्णरूपावयवः- तदन्तः- मध्यमावयवः- तदन्तः कनीनिकेति नेत्राङ्गानां विवरणम् । १२२. प्रद्योतः नेत्ररोगप्रकारान् पृच्छति । १२३. भिषजामेकः नेत्रस्य पञ्चस्थानेषु अनिर्दिष्टस्थानेषुचोद्भवानां व्याधीनां संख्यां निर्दिशति ।

चतुर्थोऽङ्कः प्रद्योत:-१२४. तत्र निदानम् ? अन्यो भिषक्-१२५. उष्णाभितप्तस्य जलप्रवेश:-दूरेक्षणम् - स्वप्नविपर्यय:- स्वेदः-रजोधूमनिषेत्रणम्-छर्दिः-वमनम्-शुक्लारनालांबु- कुलत्थम् माष:- विण्मूत्रनिग्रहः- वातागमनिरोधः- रोदनम्-शोकः. ताप:- शिरोऽभिधात: अतिशीघ्रयानम् ऋतुविपर्यय:-क्लेशाभितापः- मैथुनम्-बाष्पग्रहः सूक्ष्मनिरीक्षणमित्यदि । प्रद्योता-१२६. भवतु नाम नेत्रशास्त्रविचारः । अद्य कुमारस्य नेत्ररुक् कीदृशी तचिकित्सा कथमिति निर्धार्य प्रसक्त- कार्य साधयत। भिषन:-१२७. यथाज्ञापयति प्रभुवर्यः । एको भिषक्-१२८. (जनान्तिकम्) कुमारः दृष्टिरोगाकुलितः। दृष्टिपटलानि चत्वारि । प्रथमं तेजो (रक्तम्) जला (रसा) श्रितं बाह्यपटलम् । द्वितीयं पिहिताश्रितम् । तृतीयं मेदआश्रितम् । चतुर्थ अस्थ्याश्रितम् । अन्यः-१२९, तत्रापि दृष्टेः द्वितीयमण्डलजनितोऽयं नेत्र- रोगः । यतः- दृष्टिवैक्तब्येन मक्षिकमशकान् केशांश्चाऽयं जालकांनीव १२४. राजा तेषां निदानं पृच्छति । १२५. अन्यो भिषक मूलोक्तरीत्या निदानानि कथयति । १२६, राजा तदा कुमारस्यापतित नेत्ररोगनिदानं परिभाव्य तत्प्र- तीकाररूपां चिकित्सां कुरुतेति समादिशति । १२७. तथेत्युक्त्वा ते परस्परमालोचयन्ति । १२८. तत्र एकः- कुमारस्य दृष्टौ रोगः रुक सम्पन्नः इत्युक्त्वा चतुर्गा दृष्टिपटलानां स्वरूपाणि निरूपयति । १२९. द्वितीयः कुमारेणानुभूयमानो रोग: द्वितीयपटलभूतमांसा- श्रय इति निर्धारयति । तदशायां व्याधिग्रस्त: यथा यथा रोगचिह्नानि प्रदर्श- BHASHA जीवसञ्जीविनीनाटकम् पश्यति । दूरस्थरूपाणि समीपस्थानीति-समीपस्थानि दूरस्थानीति मन्यते । यत्नतोऽपि सूचीच्छिद्रं न पश्यति । अयमेव दृष्टिविभ्रमः। तृतीयः-१३०. अस्य चिकित्सा-प्रोक्षणसेचनोत्सादनोद्वर्त- नानि । शालिमुद्यवाहारः । कटवम्लगुरुतीक्ष्णोष्णमाषनिष्पाव- मैथुनादिवर्जनमित्यादि। सर्वे-१३१. सर्व यथायथं साधयामः । (इति चिकित्सा कुर्वन्ति) भिषजः-१३२. कुमार ! जीवदेव! कथमास्ते ते दृष्टिबाधा? जीवदेवः-१३३. यथास्थितमास्ते । भिषजः-१३४. किं शास्त्रदृष्टा चिकित्सा वितथा भवति। प्रद्योतः-१३५. किं भोः ! साधिता नेत्रचिकित्सा ! किमसौ फलकारिणी ? किं कुमारः नीरोगस्संवृत्तः ? भिषजः-१३६. किं वदाम असदनुष्ठितं सर्वव्यर्थमिव भवति । यति तानि विवृणोति । १३०. तच्चिकित्साप्रकारान् विशदयति । १३१. सर्वे यथोक्तां चिकित्सां कुर्वन्ति । १३२. नत्रबाधा परिहृता वा न वति कुमारं पृच्छन्ति भिषनः । १३३. स नेति ब्रूते । १३४. शास्त्रोक्तचिकित्सा कथं निष्फलाऽभूत्' इत्याश्चर्यचकिता भिषनः । १३५. चिकित्सा कि सफछेति राजा पृच्छति । १३६. सा निष्फला अभूदिति ते विमुखास्सन्तो ब्रुवन्ति ।

चतुर्थोऽ. प्रभावती-१३७. न कदापि व्यर्थं भवति । किंतु सञ्जीविनी- हस्तस्पर्शमपेक्षते । भिषज:-१३८. अनुभववेद्येयं राजीवाणी । यत:- अस्स्पृिष्टे कुमारे तदनु बलवता पाण्डुरोगेण जुष्टे यक्ष्मायत्ते विमुग्धे चकितगतिगते कर्णशूलाभितप्ते । तत्तच्छास्त्रोपदिष्टा बहुनियमकृतास्सचिकित्साश्च सर्वाः सञ्जीविन्याः प्रसादात् सपदि सुफलितास्सैव सद्यो गतिनः ॥२४ १३७. सञ्जीविनीहस्तस्पर्शप्रभावेण सा सफला भवतीति राजी तान् समादधाति । १३८. पूर्वानुभवः दृष्टपूर्वगभावः इति ते तद्वचनमेवानुमोदन्ते । पूर्वानुभव स्मरन्ति । अर्श इति-प्रथमं कुमारे अर्श:स्पृष्टे जीवदेवे गुदरोगग्रस्ते तदनु अनन्तरं बलवता पाण्डुरोगेण जुष्टे-अत्युप्रेण पाण्डुव्याधिना पीडिते यक्ष्मा- यत्ते-राजयक्ष्माकान्ते विमुग्धे-तया बाधया मोहं गते चकितगतिगते-भया- भिभूते कर्णशूलाभितप्ते-कर्णरोगेण दुःखिते सति तत्तच्छास्त्रोपदिष्टाः-तत्तद्रो- गाय विहिताः बहुनियमकृताः- अत्यन्तजागरूकंतयाअस्माभिरनेकप्रकारेण प्रयुक्ताः सर्वास्तचिकित्साः-समीचीनास्सर्वे व्याधिपरिहारोपायाः सञ्जीविन्याः प्रसादात्-कुमारस्य सतीमण्याः साध्याः सञ्जीविन्याः हस्तस्पर्शादेव सपदि तत्क्षणं सुफलिताः फलदायकाः अभवन् । अतः सैव नः सद्योगतिः-अद्या- प्यस्माकं सञ्जीविन्येवाश्रयदात्री तद्धस्तस्पर्शेनैव नेत्ररोगोऽपि परिहृतो भवति । तेन अस्माभिः कृता चिकित्सा सार्थिका भवति । वयं यशस्विनो भवाम इति तात्पर्यम् । स्नग्धरावृत्तम् । अत्र जीवदेवेन अनुभूतरोगाणां निर्देशमात्रेण वक्तृश्रोत्रादिजनेषु भयानकरसे समुल्लसिते कीदृशी तावत्तद्र- सस्य व्याप्तिस्तदनुभवितरीति विद्वद्भिरूह्यम् । ।

जीवसञ्जीविनीनाटकम् प्रभावती-१३९. कुमार! तामेवाकलय मनसि ते । जीवदेवः-१४०. प्रिये ! सञ्जीविनि! प्राणरक्षिणि! तव हस्तस्पर्शमपेक्षते मे दृष्टिरोगः । सञ्जीविनी-१४१. (सन्निधाय) नेते दृष्टौ रोगो जातः कान्तस्याहं कान्ता जाता। वैद्येभ्योऽलं कार्यं जातं दैवात्कार्य भूयाजातम् ॥२५॥ भो वैद्यपण्डिताः! न विलंबः कार्यः। दृष्टितर्पणवस्तूनि क्षिप्रमाहरत। भिषजा-१४२. अत्रैवैतानि सर्वाणि । १३९. स्वप्रियां स्मरेति पुत्रमादिशति माता । १४०. स तां स्मृत्वा तद्वारा रोगनिवारणमाकांक्षते । १४१. सा तत्त्रायाति । नेत्रेति-नेत्रे दृष्टौ रोगो जातः- नेत्रगोलान्तर्गतदृष्टिपटले दृष्टि- विभ्रमाख्यो रोगः सम्भवति । कान्तस्य-मम प्राणप्रियस्य अहं कान्ता जाता- अहं प्रिया भवामि । अत एव 'कान्ता' हितकरणाय आकृष्टात्र तिष्ठामीति ध्वनिः । वैद्येभ्योऽलं कार्य जातम्-भिषग्वरैः या या चिकित्सा साध्या सा सा सम्यनिर्वतिता । अद्य दैवात्कार्यम्-इदानी देवतानुग्रहेण प्राप्तव्यफल- रूपव्यापारः जातं भूयात्-सम्पाद्यो भवति । अत्र प्रार्थनाशंसायामाशीलिङ् । अनेन सञ्जीविन्या हस्तस्पर्शे सकलरोगपरिहारप्रभावो भवेदपि तस्याः अह- म्मति विना देवाश्रयापेक्षा सुर्वदा अभूदिति उत्तमनायिकागुणाः व्यङ्गय- मर्यादया तात्पर्यार्थेन वा बोध्यन्ते ॥ विद्युन्मालावृत्तम् ॥२५॥ दृष्टितर्पणवस्तूनि-दृष्टिरोगपरिहारकौषधानीत्यर्यः ॥ १४२. तत्रस्थान्येव तानि निर्दिशन्ति वैद्याः । 28 चतुर्थोऽध: सञ्जीविनी-१४३. (तानि स्पृष्ट्वा स्वहस्तेनापयति । तत्क्षणं जीवदेवो नवदेही निरामयः सुदृष्टिमान् भवति) प्रद्योतः-१४४. जीवदेव चिरंजीव । मम कुलस्य जीवप्रदो भव। प्रभावती-१४५. चरमोऽयं यदि रोगो मम तनयो निजसुतेन सह पत्न्या। सुखवासे निरतश्चेद्वयमपि कृतिनो सवेभ लोकेऽस्मिन् ॥२६॥ जात ! त्वं पुनर्जातः इतः परं त्वं तक जातेन सुखमनुभव । जाते ! वधूमणे ! त्वमव नम जातेन सह निवस । । dese १४३. जीवदेवस्य नेत्रयोस्तान्यौषधानि स्वहस्तेनैव सञ्जीविनी सन्दधाति । रोगश्च झटिति परितो भवति । १४४. तेन प्रहृष्टः पिता सुनमाशीभिरनुगृह्णाति १४५. माताप्येवमाशंसते चरमति-अयं रोगो यदि चरमो भवति-जीवदेवानुभूतोऽयं व्याविः कार्तान्तिकवचनेन अन्त्यो भवेच्चेत् मम तनयः-कुमारः जीवदेवः सह पत्न्या- सञ्जीविन्या सह सह निजसुतेन-वस्य कुमारेण ज्ञानसूर्येण साकं सुखवासे- सुखेन वासं कर्तुं निरतः आसक्तो भवतीत्याशंसा । तथा चेत् क्यमपि तस्य माता पिता अन्ये बान्धवाश्च अस्मिन् लोके-इह कृतिनो भवेम धन्यास्स्याम । अत्र “सह पत्न्या सुखवाल" इत्यनेन दम्पत्योः रतिसौभाग्य- मितः परं सार्थक सफलं भूयादिसि "सुतेन सुखवास" इत्यनेन पुत्रस्य लालन- पालनादिव्यापारे हर्पोत्कर्षः भूयादिति च व्यङ्गयार्थः सुविशदं स्फुरति । तथा संभोगशृङ्गारोदयः पुनः प्रस्फुरति रसतत्वविदां विदुषाम् । वृत्तं पीलिया पर बगद्रे निवासाय वधं सञ्जीविनी चोदयति च प्रमावती॥२६

जीवस श्रीविनीनाटकम्
सञ्जीविनी-१४६. शीघ्र सम जातेन सहानागत्य तब जातेन
सह एतद्गह्मभिवामि । (इत्युक्त्वा आकाशेऽन्तर्दधाति)
सर्वे-१४७. अहह महदद्भुतं जातम् । वयं धन्याः।
मिषजः-११८. वयं सुऋतिनो जाताः । (ते राज्ञा सम्मा-
निता गच्छन्ति)
सर्वे निष्कामा
॥ इति श्रीवेकटरमगार्यक्रते जीवसञ्जीविनीनाटके चतुर्थोऽङ्कः॥
१४६, तथा करोनीत्युक्त्वा सञ्जीविनी अन्तर्हिता भवति ।
१४७. एतदद्भुतकार्याणि दृष्ट्वा सर्वे प्रहृष्टा भवन्ति ।
१४८. भिषजो धन्यभावं सूचयित्वा राज्ञा बहुपानिताः गच्छन्ति ।
अन्तरसानुभवानन्तरं शान्तिरमइयोऽत्र सूचितः ।
॥ इति तृतीयदृश्यस्य व्याख्या समाप्ता ।।
इति श्रीवेङ्कटरमणार्यविरचिते
जीवसञ्जीविनीनाटके चतुर्थाकस्य स्वेनैव रचिता-
"रसोल्लाप्तिन्याख्या" व्याख्या समाप्ता

॥ पञ्चमोऽङ्कः ॥ प्रथमदृश्यम् ॥ ज्योत्स्नानगरम् ।। (ततः प्रविशति सञ्जीविनी ज्ञानवर्यः चेटी च) ज्ञानसूर्य:-१. अम्ब' ह्यस्त्वं कुत्र गता । गतकालेषु च त्वं कश्चित्कालं गृहे नावात्सीः । किमत्र रहस्यम् । सञ्जीविनी-२. पुत्र! एतावत्पर्यन्तं तद्रहस्यमेव । इदानीं प्रकाश्यते । शृणु- पिता ते रोगेभ्यो विकलहृदयो मामिह यदा स्मरन्नासीद्वेगादहमतिभरात्तं गतवती । हितं स्पर्श कृत्वा रुगपहरणं साधितवती ममादृष्टात्सोऽयं सुखितमनसा जीवति चिरम् ॥१॥ A ॥ पञ्चमाङ्के प्रथमहश्यव्याख्या ॥ १. 'ह्यः' इति जीवदेवनेत्ररोगपरिहाराय सञ्जीविनींनिर्गमनकाल प्रति प्रश्नः । गतकालेब्वित्यनेन तत्पूर्वम् अर्शः पाण्डु-राजयक्ष्म कर्णशूलाप- नोदार्थ प्रस्थितान् समयान् प्रति प्रश्नः । रहस्यं गूढोद्देशः तद्वेदितुमपेक्षते बालः। २. यदेतावदोप्यमासीत् तदिदानी प्रकाशितं भवति । सावधान शृण्विति माता सञ्जीविनी सुतं ज्ञानसूर्य बोधयति । पितेति-ते पिता-तव जनक: जीवदेवः रोगेभ्यः विकलहृदयस्सन्- मर्शआदिव्याधिभ्यः दुःखेन विकृतमानसः वेगात्-आशु मामिह यदा जीवसििवनीनाटकम् २२१ त्वमपि भाग्यसम्पन्नः पितरमचिरात्पश्यसि । ज्ञानसूर्य:-३. तर्हि प्रस्थापय मां मजनकगृहाय । सञ्जीविनी-४. अहमपि त्वया सह यास्यामि। मित्रोरनुज्ञा प्रतीक्षे। ज्ञानसूर्य:-५. आगच्छ । गच्छाव गुरुजनसमीपम्। (इति मातामहसविधं प्राप्तौ) (तत्रैव चन्द्रिकापि स्थिता) चन्द्रिका-६. वत्से! एतावदवधि त्वमुद्विग्नमना इवासीः । अद्य त्वमत्युत्साहवतीव दृश्यसे । वत्स! मातृसन्निधिस्त्वां मोहयति । स्मरन्नासीत्-अवस्थां मां मनसाऽऽह्वयत् तदाहमतिरभसात् गतवती-अहं क्षिप्रं तत्सन्निधिं प्रति प्रस्थिता । तत्र गत्वा हितं स्पर्श कृत्वा-तस्य प्राप्तस्य तत्तद्रोगस्य निवारणाय वैद्यैस्सन्जीकृतान् औषधविशेषान् मद्धस्तेनैव प्रयुज्य रुगपहरण साधितवती-रोगपरिहारमकार्षम् । सोऽयं-तव पिता ममाद्दष्टात- मद्भागधेयात् सुखितमनसा-सुखी भूत्वा, शान्तहृदयेन चिरं जीवति-अद्य प्राणिति इतः परं चिरकालं दीर्घायुर्भूत्वा जीविष्यतीत्यभिप्रायः । शिखरिणी- वृत्तम् ॥१॥ तव अचिरात्पितृदयनमेव तबादृष्टमिति भावये। ३. विदितपितृवृत्तान्तः पुत्रः पितृसमीपं प्रति प्रस्थानाय मातर प्रार्थयते । ४. त्वया सह मयापि गन्तव्यम् । मातापित्रोरनुज्ञात्रावश्यकी। ५. तां लभावहे आगच्छति मात्रा सह मातामहीमातामहसमीपं गच्छति । ६. अयि कुमारि ! एतावत्पर्यन्तं त्वं चिन्ताक्रान्तेवासीः इदानी समुत्सुकेव प्रतिभासि कथमिति काकुः । मातृसन्निधानबलेन वृद्धानस्माना- पञ्चमोऽङ्कः किम् ? कुतो मौनं भजसे ! वद बद तव मञ्जुलवाणी श्रवणे मातामह हस्तेऽतिकुतूहली ज्ञानसूर्यः-७. त्वम् चन्द्रिका-८. अहमपि तथा । कथय कथितव्यम् । ज्ञानसूर्यः-९. कथयति मे माता अद्भुतकथाम् । मातृसान्नि-. मान्मे मोहः । पितृसानिध्यारोधः । तत्पितृगृहं गच्छामि । कलानिधिः--१०. जाते ! का सा अद्भुत कथा ? अत्रण- पारणां चिकीर्षुरहम् । चन्द्रिका-११. कथय तनये । निभृतं कथय । लक्षयसि । त्यज मौनभावं मन भाषणमरणिं यच्छ्रपणे तब मातामहस्य मम भर्तुः कुतूहलं भवतीति सञ्जीविनीमाता चन्द्रिका दौहित्रं पृच्छति । ७. यादे मातामहः कुतूहली त्वं न कुतुहलिनीति किम् ? ८. अहमपि त्वद्भाषणश्रवणे सञ्जातकुतूहला । अतः भाषस्व । ९. पृच्छ तव पुत्री मा कथयति विस्मयकरां कथाम् । अहं तु त्वद्वचनेनैव मातृमान्निध्येन मोहपरवशः । तथापि पितृसान्निध्यं गतस्य मम बोधो भवेदिति सोल्लुण्ठनवचनम् । अतः मोहपरिहारद्वारा बोधमुपलन्धु पितृसमीम गच्छामीति मातृप्रस्थानावलम्बकतदनुज्ञाप्राप्तये कृतं सचमत्कार- वचनम् । १ ... तव पुत्रेण सूचितां विस्मयकार वार्ता शुश्रूषुरस्मि । तो कथयेति पिता कलानिधिः सुता सञ्जीविनी प्रेरयति । ११, निर्भय निर्लज्ज कथयेति माता चन्द्रिका च सुतामुत्सु- कयति ।

जीवसञ्जीविनीनाटकम्
२२३
सञ्जीविनी-१२. अम पत्युर्जातकं किं दृष्टपूर्वम् ?
चन्द्रिका–१३. तब पतिरदृष्टशालीति विदितम् । तन्नजाता
जातकदर्शनापेक्षा।
सञ्जीविनी-१४. भगवदनुग्रहेण इतःपरं सोऽदृष्टशाली
भविष्यति।
चन्द्रिका-१५. किमितःपरामिति । एतावत्पर्यन्तम् ।
सञ्जीविनी-१६. दुरदृष्टशाली।
चन्द्रिका-१७. कथं कथं कथय ।
सञ्जीविनी-१८.
HAMAamausi
१२. पाणिग्रहणात्पूर्व जीवदेवस्य जातकं युष्माभिर्विचारित किमिति
पितरावनुयुते सुता।
१३. स माग्यशालीति श्रुतम् । अतः तज्जातकं न विचारितम् ।
१४. परमेश्वरप्रसादादितःपरं स भाग्यशाली भवेदित्याशंसावाक्येन
स एतावत्पर्यन्तं दुरदृष्टशालीति सूचितम् ।
१५. प्रश्नोत्तरेणायमर्थः विशदो भवति ।
१६. दुरदृष्टशालीति प्रतिवचनं तदुत्तरकथाश्रवणे संम्रमौत्सुक्य
जनयति ।
१७. अतः कथं कथमिति द्विस्त्या सम्भ्रमोक्तप्रश्नः ।
१८. अर्श इति-अशः-गुदरोग:। पाण्डु:- पाण्डुरोगः । यक्ष्मा-
राजयक्ष्मा । कर्णशूल:-कर्णरोगः । अक्षिवेदना-नेत्ररोग; एतैः पञ्चमिळधि-
भिः कर्शितः-पीडितः मम पतिः अन्नपानाम्बुवर्जितः- निरस्तबुभुक्षापिपासा-
वृत्तिः अभूत् ॥२॥

पञ्चमा ? अर्शः पाण्डुस्तथा यक्ष्मा कर्णशूलोऽक्षिवेदना । एतै रोगैः कर्शितोऽयमन्नपानाम्बुवर्जितः ॥२॥ अतिव्यथया पीडितः। चन्द्रिका-१९. तत्परिहारः १ । सञ्जीविनी-२०. राजवैद्यकौशलेन । चन्द्रिका-२१. कथमिदं त्वया ज्ञातम् ? सञ्जीविनी-२२. तत्र मत्सान्निध्यमासीत् । चन्द्रिका-२३. कदा सञ्जीविनी-२४. पञ्चवारम् । चन्द्रिका-२५. कुतः ? सञ्जीविनी-२६. औषधस्पर्शाय । अतिव्यथया पीडितः- बहूनि दुःखानि अन्वभूत-इति जीवदेवस्य रोगवृत्तान्तं कथयति सञ्जीविनी । १९. तेषां रोगाणां परिहारः कथमभूदिति पृच्छति तन्माता चन्द्रिका। २०. स्वहस्तप्रभावेण कृतेऽपि परिहारे राजवैद्यकौशलेनेत्युक्तिः सञ्जीविन्याः स्वाहङ्कारखण्डनं बिनयादिसौगुण्यं सत्कुलप्रभवादिसौजन्यं परगुणप्रशंसादिसौहार्दै च सूचयति । २१. देशान्तरे विद्यमानस्य जीवदेवस्य रोगप्राप्तेः तत्परिहारस्य च ज्ञानं कथमभवदिति प्रश्नः । २२. तत्राहं गता । प्रत्यक्षतो मया सर्व दृष्टमित्युत्तरम् । २३. तत्र त्वं कदा गतवनीति पुनः प्रश्नः । २४. पञ्चकृत्व इत्युत्तरम् । २५. प्रस्थानकारणं पच्छति चन्द्रिका । २६. मत्करस्पर्शेन औषधप्रयोगायेति वदति सञ्जीविनी।

जीवसीविनीनाटकम् २३५ चन्द्रिका-२७. किं निमित्तं तत्स्पर्श: ? सञ्जीविनी-२८. रोमपरिहारार्थम् । कलानिधिः २९. तत्परिहारः राजवैद्यकौशल्येनेत्युक्तं किल । सञ्जीविनी ३०. तथैक । तथापि मम हस्तस्पर्शः निमित्त को भवति। कलानिधिः-३१. कथम् ? सञ्जीविनी-३२. तथास्ति देववरः । कलानिधिः-३३. केन यानेन त्वया तत्राऽगम्यत? सञ्जीविनी-३४. व्योमयानेन । अथवा स्वेच्छायानेन । कलानिधिः-३५. कथं ते तादृशी शक्तिः? ? । २७. तब हस्तकपर्शः औषधप्रयोगे कुतः २८. तत्कारणादेव रोगपरिहारः २९. तस्य रोगपरिहारः राजवैधकौशल्येनेति पूर्व व्याहृतम् । तव हस्तस्पर्शादित्यध वदसि । तव वचने पूर्वापरविरोधो दृश्यते । कथं तत्परि- हार इत्याकूतम् । ३०. पूर्वं यदुक्तं तत्सत्यम । अद्य यदुक्तं तच्च सत्यम् । प्रथम- व्यापारस्य द्वितीयो निमित्तको भवति । ३१. तत्प्रकार एव श्रोतव्यः । ३२. तथा भवितव्यमिति जीवदेवस्य देवतानुग्रहः । ३३. कथ-तत्र गताऽऽसीरिति प्रश्नान्तरम् । ३४. व्योमयानेनेति निर्देशः । अथवेत्यनेन तत्र अरुचिं पश्यन्ती स्वेच्छयेत्युत्तरं दत्तवती । ३५. व्योमयानेन वा स्वेच्छया वा तत्न गन्तुं मानवसामान्यायाः तव शक्तिः कथमागतेति प्राश्निकस्याकूतम् ।

पञ्चमोऽ ? सञ्जीविनी-३६. वाणीब्रह्मप्रसादात् । कलानिधिः-३७. तत्प्रसादः कदाऽभूत् सञ्जीविनी-३८. यदाहं विद्यार्थिनी सङ्गीतशालायाम् । कलानिधिः ३९. तदा द्वौ वृद्धवानगावागतौ । ताभ्यां त्वं परीक्षिताऽऽसीरिति शृणुमः । सञ्जीविनी ४०. तावेव वाणीब्रह्माणौ । तदाशीबलं मत्प्राण- प्रियस्य प्राणरक्षणाय प्राभूत् । वतः- क्रियासिद्धिलोंके भवति हि सदा भक्तिवशत- स्सुरेष्वासक्तं तां जनयति विशुद्धं निजमनः । मनश्शुद्धिर्भाव्या स्थिरमतिबलात्संनियमत. स्तथासीन्मे भाग्यादिति मम करे सिद्धिरतुला ॥३॥ ३६. वाणीब्रह्मणोरनुग्रहात् तादृशशक्तिर्भवतीति तत्वकथनम् । .३७. तादृशानुग्रहः कदा प्राप्त इत्यनुयोगः । ३८. स्वस्याः विद्याभ्यासकाले इत्यावेदनम् । ३९. वृदब्राह्मणीब्राह्मणाभ्यां विद्याभ्यासदशायां मुञ्जीविनी परीक्षि- तेति यच्छ्रतं तदवबोधयति कलानिधिः । ४०. तौ वृद्धब्राह्मणौ वाणीब्रह्माणौ ताभ्यां मत्प्राणप्रियस्य रक्ष- णाय ताहशवरो मेऽनुगृहीत इति व्याकरोति । यथा- क्रियेति-लोके-जगति कियासिद्धिः- प्रियप्राणरक्षणसदृशकार्य- प्रभावः । सदा भक्तिवशतः भवति-यस्य देवे निरन्तरभक्तिः तस्य सा भव- तीत्यर्थः । अनेन सञ्जीविन्याः वाणीब्रह्मणोर्विषये सदा भक्तिरासीदिति व्यज्यते । सुरेषु देवेषु आसक्तं निवेशितं विशुद्धं निष्कल्मषं निजमन:- स्वस्य चित्तं तां परां भक्तिं जनयति-जननाय कारणं भवति । मनश्शुद्धिः- चित्तशुद्धिश्च स्थिरमतिबलात्-हृढसङ्कल्पात् सन्नियमतः-शास्त्रोक्तकर्मानुष्ठानेन जीवसञ्जीविनीनाटकम् ! उभौ-४१.धन्यासि जाते ! अनुरूपसहधर्मिणी त्वं जीवदवेस्य । सञ्जीविनी-४२. तमनुप्राप्तुं पित्रोरनुज्ञा प्रतिपालयामि । उभौ-४३. भार्यायाः पतिगृहवास एव श्रेयान् । यतः। च भाव्या-मवितुं भावयितुं वा योग्या। अनेन क्रियासिद्धेः कारणं निरन्तर- भक्तिः-तस्याः कारणं मनश्शुद्धिः-तस्याः कारणं सत्कर्मानुष्ठानमिति कारण- परम्परोक्याऽत कारणमालालङ्कारः द्योतितः। भाग्यात्-अदृष्टबलात् मे तथा- ऽऽसीदिति-मम एवं समपद्यतेति। मम करे-मे हस्ते अतुला सिद्धिर्भवति-इतर- जनासाधारणक्रियासिद्धिः देवतानुग्रहादायातेति वस्तुतत्वबोधः प्रकाशितः। शिखरिणीवृत्तम् ॥३॥ अत्र रसविचारः- "शृङ्गरहास्यकरुणरौद्रवीरभयानकाः । बीमत्साद्- भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ।" एतेषां स्थायिभावाः-"रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा। जुगु- प्साविस्मयश्चेति स्थायिभावाः प्रकीर्तिताः" इति काव्यप्रकाशे मम्मटभट्टेन अष्टावेव रसा अङ्गीकृताः । तथापि “रसो वै सः । “रसुग्ण ह्येवाऽऽयं लब्बानन्दीभवति" इत्यादिवेदान्तवाक्यप्रमाणेन शान्तिरप्यन्यो रसोऽस्ति तस्य शम एव स्थायिभावः इति नवरसाः कैश्चिदालङ्कारिकैरङ्गीकृताः। प्रकृते अस्मिन् श्लोके शान्तिरसस्य सन्नियमपदेन यः शमः द्योत्यते । स एव स्थायी । तस्य श्लोके प्रतिपादिताः कारणपरंपराः विभावाः भवन्ति । क्रियासिद्धिः अनुभावस्थाने भवति । उत्तरवाक्ये "धन्यासि जाते" इत्यनेनाभिव्यजित आनन्दातिशय एव व्यभिचारिभावो भवितुमहतीति बोध्यम् । ४१. चन्द्रिका कलानिधिश्च जीवदेवस्य सञ्जीविनी अनुरूपा भार्यति तां श्लाघेते । ४२. पतिसकाशानुगमाय पित्रोरनुज्ञां प्रार्थयते । ४३. भार्यावाः मतगृहे वास एव श्रेयस्करः । यतः- १२८ पञ्चमोऽ कन्या जाता कलयति शुचं गोत्रसम्बन्धहाना- दन्यं गोत्रं प्रविशति बलात्पालिता सा विवाहे । श्रेयान्वासो निजपतिगृहे दूषिता भूषिता वा मात्रावासाबहुलसमयाच्छङ्किता स्यात्कदाचित् ॥४॥ तस्मात्सहर्ष वयमध्यनुयायामस्त्वां जामातृक्षमदर्शनाय । सञ्जीविनी-४४. प्रियमिदं से। श्वः प्रभाते प्रयाणोधमः कृपया क्रियताम् । उभौ-४५. तथास्तु। (प्रभाते सर्वे प्रयाणेन तेजोवतीनगरं प्राप्ताः । प्रत्युद्गताः प्रद्योतस्य प्रासाद प्रविष्टाश्च । तत्र.) प्रद्योतः-४६ (राजानं कलानिधिमाश्लिष्य) चिराजातं मे भवदर्शनम् कन्येति-जाता कन्या-स्त्रीशिशुजननमात्रात् शुचं कलयति दुःखं जनयति 'दारिका हृदयदारिका पितुः' इति लोकोक्तिः किल । आविवाहा- त्पालिता-विवाहकालपर्यन्तं पितृगृहे रक्षिता सा विवाहे अष्टव दूर्ध्व गोत्र- हानात् पितृगोत्रपरित्यागपूर्वकम् अन्यं गोत्रं प्रविशति-भर्तुगौत्रं भजते । तस्याः निजपतिगृहे वासः श्रेयान्-तस्मान्नवोढायाः स्वमर्तृगृहे निवासश्रेयस्करः । सा दूषिता दोषयुक्ता भूषिता वा गुणयुक्ता वा स्यात् तस्यास्तत्रैव निवासः श्रेयान् योग्यः । अन्यथा बहुलसमयात दीर्घकालपर्यन्तं मात्रावासात् मात्रा सह निवासात्-मातृगृहे निवासेनेति यावत् । कदाचित्-प्रायशः सा शङ्किता स्यात्-असाध्वीत्वेन परिमाविता भवेत् । मन्दाक्रान्तावृत्तम् ॥४॥ ४४. उत्तरदिने प्रयाणायानुकूल्यं रचयितव्यमिति प्रार्थना । ४५. तथा क्रियते इति पित्रोरङ्गीकारः । तथैव प्रस्थानम् | ४६. समानयोः चिरकालादर्शनावसरे परस्पराश्लेषः साम्प्रदायिकः। अतः प्रद्योतराजः कालानिधिराजमालिङ्गय तदर्शने कृतार्थतां प्रकाशयति ।

जीवसञ्जीविनीनाटकम् कलानिधिः-४७. तथैव सखे मम हृदयम् । प्रभावती-४८. (चन्द्रिकामालिङ्गय) राज्ञि! भवत्या दर्श- नेन हृतकष्टा बहुदृष्टाऽहम् । चन्द्रिका-४९. त्वमेव धन्या । त्वत्सम्बन्धाद्वयमपि धन्या) सञ्जीविनी-५०. श्वश्रूजनं सश्रद्धं प्रणमतीयं वधूः। प्रभावती ५१. दीर्घसुमङ्गला भव ! कल्याणमस्तु ते । ज्ञानसूर्यः-५२. पितामहीं पितामहं च प्रणमाम्यहं प्रियपौत्रः। उभौ ५३. जात ! दीर्घायुष्मान् भव । सकलविद्यापारङ्गतो ज्ञानसूर्यः-५४. ज्योत्स्नान गरे यावत्साध्यं तावद्विद्यापारी- मोऽसि। उभौ-५५. महत्प्रमोदस्थानम् । अत्रापि समुचितविद्यामर्जय। ४७, कलानिविश्व प्रद्योतराजदर्शनेन तथैव कृतकृत्यतां प्रकाशयति । ४८. प्रभावती चन्द्रिकामाश्लिष्य तदर्शनेन सञ्जातं हर्ष प्रदर्श- यति। ४९. चन्द्रिकापि प्रमावत्याः धन्यवादानर्पयति । ५०. सञ्जीविनी श्वश्रू प्रणमति । ५१. प्रभावती तामाशिषानुगृह्णति । ५२. प्रभावती प्रद्योतं च नमस्करोति पौत्रो ज्ञानसूर्यः । ५३. सकलविद्यापारङ्गतो भवेति तयोराशिषो भाननं भवति बालकः । ५४. ज्योत्स्नानगरे स्वस्व विद्याभ्यासः प्रचलित इति कथयति । ५५, एतद्वार्तया प्रमुदितौ तावुभौ तेजोवतीनगरेऽपि तस्य प्रौढ- विद्याभ्यासः प्रचलिष्यतीति सम्भावयतः ।

पञ्चमोऽ: ज्ञानसूर्य:-५६. भवतु तथा भवदाशिषा । जीवदेवः-५७. सेवकः ! कुमारमानय । सेवकः-५८. (गत्वा कुमारेण प्रविश्य) देव! सन्निहितोऽयं कुमारः। सञ्जीविनी-५९. प्रणमाम्यहं सञ्जीविनी। जीवदेवः-६०. भद्रे ! भद्रमस्तु ते । ज्ञानसूर्यः-६१. तव पुत्रोऽहं साष्टाङ्गमाभिवादये। जीवदेवः-६२. साष्टाङ्गयोगासद्धिर्भवतु ते । (ततस्तौ वृद्धान् प्रणमतः) कलानिधिः-६३. (जामातुर्हस्तं निपीड्य) पश्यामस्त्वां प्रमोदात्परिगलितरुजं क्षेमदेहं सुशान्तं नास्मत्सान्निध्यमासीत्समुचितसमये तद्वयं क्षम्यवृत्ताः। एतत्संसारचक्रं भ्रमति बहुतरं द्वन्द्वभूयिष्ठनेमि प्रायो भुतेन दुःखं सुखमपि च जनो दिष्टकर्मार्जितं यत् ।।५।। ५६, तदाशिषमङ्गीकरोति ज्ञानसूर्यः । ५७. राजा जीवदेवानयनाय सेवक्रमाज्ञापयनि। ५८. सेवकस्तथा करोति-तदागमनमावेदयति च । ५९. आगतं पतिं दृष्ट्वा सती सञ्जीविनी प्रणमति । ६०. पतिस्सतीमाशिषानुगृह्णाति । ६१. ज्ञानमूर्यः पित्रे प्रणाममाचरति । ६२, तस्मै यथोचितामाशिषमनुगृह्णाति पिता । ६३. कलानिधिः जीवदेवस्य हस्तं स्वहस्तेन निपीड्य- पश्याम इति-परिगलितरुजं - परिगलिता रुक् यस्मात्त-नीरुजमिति यावत् । अथवा-परिगलिता-चिकित्सया निस्सारिता-अत एव विगता रुक vasionNEILAINEMAMANAS जीवन जीविनीनाटकम् ईश्वरानुग्रहेण भवतु ते भव्यसन्ततिः । जीवदेवः-६४. अनुगृहीतोऽसि । प्रद्योतः-६५. भोः कलानिधे ! वयमनुभूतराज्यसम्पदः । वार्धक्येऽद्य स्थिताः । तदिमां राज्यधुरां पुत्रायत्तां कृत्वा सत्क्षत्रिय- सम्प्रदायानुगत्या वानप्रस्थाश्रमरता भवामेति ममोद्देशः । कोऽत्र दबाऽऽशयः? यस्मात्तं क्षेमदेह-क्षेमेण युक्तं शरीरं यस्य तम् सुशान्तम्-अत एव शान्तमानस त्वा पश्यामः-त्वां वीक्षामहे-अत्र बहुवचनप्रयोगः गौरवार्थकः । समुचितस- मये-तव रोगप्राप्तिकाले असत्सान्निध्यं नासीत्-वयं नातागताः तत्-तस्मात् वयं क्षम्यवृत्ताः अस्मध्यापारः क्षम्यः-अस्मान् क्षमस्वेति तात्पर्यम् । द्वन्द्व- भूयिष्ठनेमि स्त्रीपुरुषरूपया चक्रस्य बाह्यवर्तुलपट्टिकया सङ्कलितम् एतत्सं- सारचक्र-सर्वैरनुभूयमानं जननमरणात्मकं संतरणशीलं चक्रम्, बहुतरं बहुधा- बहुवारं वा श्रमति-सञ्चरति । विष्टकर्मार्जितं यत्-यत्फलं दिष्टेन देवेन कर्मभिः- स्वकृतपुण्यपापरूपकर्मभिः आर्जित-सम्पादित दुःख सुखमपि च-दुःखकर मुखहेतुकं च तत्फलम्, अत्र जनः प्रायो भुङ्के-सामान्येनात्र प्राणी अनुभव- त्येव । अत्र दिष्टं च कर्माणि चेति द्वन्द्वसमासः । दिष्टशब्दार्थः दैवमिति । तच्च पूर्वजन्म कृतकमैव नान्यत् । तथा चोक्तम् “पूर्वजन्मकृतं कर्म तदेवमिति कथ्यते” इति । एतत्संसारतत्वविमर्शः अचिरादनुभूतानेक- रोगस्य जामातुर्मनस्समाधानार्थ कृत इत्यवधेयम् । अत्र रूपकालङ्कारस्सु- स्पष्टः । शान्तिरसाङ्कुरप्रवृद्धेः जलसेवनवत् उद्दीपनविभाववस्तुप्रदर्शन ज्ञेयम् । स्रग्धरावृत्तम् ॥५॥ एवं तस्मै भव्यसन्ततिमाशंसते श्वशुरः । ६४. कृतज्ञतां सूचयति जामाता । ६५. राजा प्रद्योतः कलानिधिराजाय स्वस्य प्राप्तां वार्द्धकदशामा- वेद्य - राज्यभारं पुत्रायत्तं कृत्वा कुलक्रमागतवानप्रस्थाश्रमस्वीकाराय खसङ्कल्पं च सूचयित्वा तस्याभिप्रायं पृच्छति ।

२३२ पञ्चमाऊक । ? कलानिधिः-६६. शास्त्रविहितं कुलक्रमागतं सम्प्रदायानु- यतं तवाभिप्रायं को वा निषिध्येत् । यता--- बाल्यं यौवनमार्याणामहिकार्थस्य साधिके । वाद्धक्यमन्तिमावस्था पारत्रिकपरायणे ॥६॥ इति हि शास्त्रम् । दिलीपरघुमुख्या ये सूर्यान्वयसमुद्भवाः । खराज्यं पुत्रसात्कृत्वा वानप्रस्थाश्रमे स्थिताः ॥७॥ इति हि कुलसम्प्रदायः। प्रद्योतः-६७. भवतु तथा । साधयावाद्य नित्यकर्मानुष्ठानाय । (इति निष्क्रान्ती) प्रभावती-६८. (शान्तिप्रभां दृष्ट्वा) केयं बालिका ? ६६. तस्य तथा सङ्कल्पः समुचितः शास्त्रानुगृहीतः सम्प्रदायागत. मार्ग एवेति स्वाभिप्राय द्योतयति । बाल्यमिति-आर्याणाम् - आर्यकुलप्रसूतानां बाल्यं यौवनं चेति द्वे अवस्थे ऐहिकार्थस्य साधिके-ऐहिकव्यवहारयोग्ये भवतः । वार्द्धक्यमन्ति- मावस्थेति द्वे दशे पारत्रिकपरायणे-परलोकसुखावाप्तिसाधिके भवतः इति शास्त्रमर्यादा । श्लोकवृत्तम् ॥६॥ दिलीपेति-दिलीपरघुमुख्याः सूर्यान्वयसमुद्भवाः ये-दिलीपः-रघु :- इत्यादिरघुवंशप्रभवाः राजानः स्वराज्यं पुत्रसात्कृत्वा-स्वेन स्वेनानुभूतं राज्यं स्वस्वपुत्रे निक्षिप्य वानप्रस्थाश्रमे स्थिताः- वानप्रस्थाश्रमरेता अभवन् । इति सम्प्रदायश्चोदाहृतः इदम पि ३लोकवृत्तम् ॥७॥ ६७. तस्याभिमतं विदित्वा राजा प्रद्योतः तदानी कर्तव्यसन्ध्या- दिनित्यकर्मानष्ठानाय सपरिवारोऽन्तर्गच्छति । ६८. चन्द्रिकाकलानिधिपुत्रः-सुधांशुः । सः प्रभावतीप्रद्योतपुत्रीं सुप्रभां परिणिनाय । तयोर्दुहिता शान्तिप्रभा । तां दृष्ट्वा बहुकालादपरि- चितत्वात् केयं बालेति पृच्छति ।

जीवसञ्जीविनीनाटकम् २३३ चन्द्रिका-६९. तव दौहित्री। प्रभावती ७०. किमियं मदुहितुस्सुप्रभायाः पुत्री ? चन्द्रिका ७१. आम् । मम पुत्रस्य सुधांशोर्वत्सला शान्ति- प्रभा। प्रभावती-७२. इयं ज्ञानसूर्यस- (इत्य|क्त) चन्द्रिका ७३. वधूभवितव्या। सञ्जीविनी-७४. तदेव मे रोचते । सुप्रभा-७५. अयमेव ममाभिप्रायः। सञ्जीविनी-७६. स्त्रीजनाभिप्रायेण किम् ६९. तव दुहितुः पुत्री दौहित्रीति चन्द्रिका तां मारयति । ७०. किञ्चित्स्मृत्वा किं मदुहितुः सुप्रभायाः पुत्रीत्यनुयुङ्क्ते । ७१. तथेत्युक्त्वा स्वपुत्रस्य सुधांशोवत्सला शान्तिप्रभा इति स्मारयति । अत्र सुधांशोत्सला इत्यनेन शान्तिप्रभा स्वजनकस्य सुधांशोरति- ? प्रियेति सूच्यते । ७२. ज्ञानसूर्यस्येति अर्थोक्ति: वधूभवितुमर्हतीति स्वाभिप्रायं चन्द्रि- कामिप्रायः संवदति वा न वेति विज्ञानाय । ७३. वधूभवितव्येति चन्द्रिका तद्वाक्यं पूरयति । अनेन तदभि- प्रायः स्वस्याप्यभीष्ट इति प्रदर्शितम् । ७४. भविष्या श्वश्रू सञ्जीविनी तां शान्तिप्रभां स्ववधूत्वेन परिग्रहणाय सम्मतिं सूचयति । ७५. शान्तिप्रभायाः. माता सुप्रभा तं सम्बन्धमेवाकाङ्क्षति । ७६. वयं सर्वे स्त्रीजनाः एवमभिप्रेमः तावता किम् ? । एता- दृशविवाहसम्बन्धव्यवस्थायाः पुंसामभिप्रायो मुख्यः । तेऽपि वयं यथा तथा अभिप्रयन्ति वा न वेति मम संशयः इत्याकृतम्। अनेनेय अनुकूल- नायकायत्तेति गम्यते । । ? 30

पञ्चमोऽ
सुप्रभा-७७. पुंसः स्त्रीजनानुरोधिनः ।
सञ्जीविनी-७८. यदि स्त्रियः पुरुषमतानुवर्तिन्यः ।
सुप्रभा-७९. तथा वयम् ।
सञ्जीविनी-८०. तर्हि तवेष्टार्थसिद्धिर्भवति ।
चन्द्रिका-८१- सर्वानुमतमिदम् ।
प्रभावती-८२. तदेतत्सम्पादनीयम् । प्रथमं तावत्प्रचलतु
विद्याभ्यासः ज्ञानसूर्यस्य - शान्तिप्रभायाश्च । आगच्छ, इदानीं
स्नानपूजादिकं साधयामः
इति सर्वे निष्क्रान्ताः
७७. पुसस्स्त्रीजनानुरोधिनः- इत्यनेनेयं स्वाधीनपतिकेति भाव्यते ।
७८. स्त्रियः कुशला अपि विदुष्योऽपि दक्षा अपि पुरुषमते
स्थिता एव शोभन्ते इति पतिव्रतातत्त्वमुपदिशति ।
७९. तथा वयमित्यनेन अहं वा मे माता वा न कदापि पतिमतो-
लंघिनीति प्रतिजानीते।
८०. यदि गृहे पत्नीपत्योरभिप्रायः एकरूपः तदा सर्वार्थसिद्धि-
भवति । प्रकृते तव वचनेन तव अभिमतं सिद्धिप्रदं भवतीति मन्ये ।
८१. न केवलमिदं ममामिमतं, परं सर्वानुमतम् ।
८२. तर्हि तत्सिद्धं सम्पादयामस्समुचितसमये । अयं तु
शान्तिप्रभायाः ज्ञानसूर्यस्येव विद्याभ्यासकाल; । प्रचलतु विद्याभ्यासः
कञ्चित्कालम् । अनन्तरमस्मिन् विषये प्रयत्नो भवत्विति सञ्जीविनी-
वचनमुररीकृत्य देवतापूजादिकार्यनिर्वर्तनाय सर्वा अन्तः प्रविशन्ति ।।
॥ इति प्रथमदृश्यव्याख्या ।।

॥ द्वितीयदृश्यम्.॥ Dawadem तेजोवतीनगरम् नेपथ्ये-१. उच्चस्थो जीवसूर्योऽधिगतवसुमतीभारनिर्वाहको यः प्रद्योतात्सुप्रभावात्करकलितजगद्भासकः शुद्धमूर्तिः । सत्त्वानि स्वस्वकर्मस्वनुगतकरणान्याशु संन्धाय सौम्य- स्सन्मार्गे चारशीलो जगति विजयते सत्यधर्मक्षणेन ॥८॥ १. स्वपित्रधिगतराज्यधुरंधरम्य जीवदेवस्य प्रभावम् एवं वर्णयन्ति जनाः। उच्चस्थ इति- यः जीवसूर्यः सुप्रभावात् प्रद्योतात अधिगत- वसुमतीभारनिर्वाहक:-महाप्रभावशालिन: प्रद्योतराजस्य सकाशात् लब्ध- राज्यस्य शासने अत्यन्तसमर्थः, यः करकलितगद्भासकः करैः प्रनाभि- दत्तैः कररूपधनैः कलितः-निवर्तितः जगद्भासकः-जनानां प्रीतिदायककार्य- जनितप्रभावः यस्य सः-अत्र भास्धातोः भावे घनि - भासः. ततः स्वार्थे कप्रत्ययः । यः उच्चस्थः- नूतनतया उन्नतस्थाने सिंहासने प्रतिष्ठा- पितः तादृशो जीवसूर्य:-सूर्यसदृशः जीवदेवः शुद्धमूर्तिस्सन् - निष्कपट- स्वभावस्सन् सत्वानि-प्राणिनः प्रजा इत्यर्थः । स्वस्वकर्मसु-तत्तद्योग्यवृत्तिषु अनुगतकरणानि-पारंपर्यादागतसाधनानि आशु सन्धाय-सपदि विधाय सौम्यः सर्वेषामिष्टार्थसाधने सुमुखो भूत्वा सन्मार्गे चारशील:-विहितपथ- मनुसरन् सत्यधर्मक्षणेन-सत्यरक्षणं-धर्मपरिपालन मिति यत-तदवेक्षमाणस्सन जगति विजयते-लोके प्रसिद्धो भवतीति प्रकरणार्थः । पूर्णोपमागर्मित- २३६ पञ्चमोऽङ्कः (ततः प्रविशति जीवदेवः सञ्जीविन्या महिष्या सह) जीवदेवः-२. प्रिये ! कथं ते सौख्यं कलयामि । सञ्जीविनी-३. प्रिय! असुखं कलयति सुसुखं कुमतिहाँ विषयरागबद्धस्सन् । यदि निजसुखपरता यादःखं दूरे भवेत्तदा पुंसाम् ॥९॥ रूपकार्थस्तु-प्रद्योतात सुप्रभावात - प्रकाशमानमहिम्ना अधिगतवसुमती- भारनिर्वाहक:- क्षोणीजातप्राणिवर्गसस्यप्रभृतीनामभिवृद्धिकायें दक्षः- सूर्यो- दये सति सर्वप्राणिनां बुद्धिर्विकसति, सर्वे स्वस्वकार्येषु तत्परा भवन्ति, सस्यादयः समृद्धिं यान्तीति तात्पर्यम् | “हिरण्ययेन सविता रथेन आ देवो याति" इति श्रुतिः । उच्चस्थः-उच्चस्थानं गतः-खमध्यस्थितिमाप्त इत्यर्थः । करकलितजगद्भासकः-स्वकिरणैस्सम्पादितजगत्प्रकाशकः। "विश्व- मामासि रोचनम्" इति श्रुतिः । अनुगतकरणानि सत्वानि स्वस्वकर्मसु आशु सुन्धाय सृष्टान् सर्वान् स्वस्वव्यापारपरान् कृत्वा - "निवेशयन् अमृतं मयं च" इति श्रुतिः । सौम्यः-प्रसन्नः-सोमाय-चन्द्राय हितस्सन इति वा “इतस्सिक्तं मूर्यगतं । चन्द्रमसे रसं कृधि" इति श्रुतिः । "सलिलमये शशिनि विमूच्छिता रवेर्दीधितयः” इति वराहमिहिरः । सन्मार्गे-आकाशे चारशील:-सञ्चरणस्वभावः “आसत्येन रजसा वर्तमानः" इति श्रुतिः । सत्यधर्भक्षणेन-सत्यं धर्मं च पालयन् “मिनीमसि छवि द्यवि" "यत्किचेद" मिति च श्रुतिः । जगति-विजयते उष्णप्रकाशदानेन लोकेषु सर्वोत्कृष्टो भवतीति सङ्ग्रहार्थः । यथा सूर्यः-तथा जीवदेवः प्रसिद्धो भवतीति भावार्थः । स्रग्धरावृत्तम् ॥८॥ २. स्वप्रियायामतिशयितानुरागेण तस्यास्सुखं कलयितृमिच्छति । ३. प्रियेति सम्बोधनं वक्ष्यमाणार्थविमर्शायावधानाकर्षणार्थम् । वैषयिकसखं न सखमिति सम्बोधयति पतिम् । यथा- जीवसविनीनाटकम् अन्नपानादिना वस्त्रभूषादिना गन्धमाल्यादिना गीतवाद्यादिना । हासतोषादिना वासशय्यादिना नैजरागादिना सौख्यमापद्यते ॥१० किमिदमेव सौख्यं कलयसि ? जावदेव:- कलयामि सर्व कलहंसयाने मम भावमेवं सुलभेन विद्धि । पतिभावनेन स्वहितं हितं मे प्रतिबोधय त्वं तव सेवकं माम् ॥११॥ असुखमिति - कुमतिः-बुद्धिहीनः विषयानुरागबद्धस्सन्-स्त्रक्चन्दन- वनितादिविषयपाशबद्धस्सन् असुखं सुसुखं कलयति-दुःखं सुखमिव भावयति । सुखाद्यं दुःखपरिणामि यत् तन्नित्यमुखमिति म्रान्त्या जानाति । हेति निपातः अज्ञजनेष्वनुतापं सूचयति । यदि निजसुखपरता स्यात- शाश्वतसुखसम्पादने यदीच्छा जायते तदा दुःख दूरे मवेत्पुंसः-तदा मनुष्यस्य दुःखं नश्यतीत्यर्थः । वृत्तं गीतिः ॥९॥ अन्नेति-सौख्यमन्नपानादिना-मृष्टान्नभोजनेन - अमृतपानेन वस्त्र- भूषादिना - पीतांबरादिधारणेन हारकेयूरादिभूषणेन गन्धमाल्यादिना- हरिचन्दनादिलेपनेन-जातीमल्लिकादिपुष्पधारणेन गीतवाद्यादिना-सङ्गीतेन- अभिनयादिना. हासतोषादिना-हास्यप्रधानवचनेन नाटकाद्यभिनयदर्शन- जनितसन्तोषादिना वासशय्यादिना - हर्म्यप्रासादादिषु वासेन-स्त्रिया सह सम्भोगादिना नैनरागादिना निर्व्याजप्रेमप्रदर्शनादिना आपद्यते प्राप्यते किल। प्राप्यतां नाम किमिदं सर्व वस्तुतः तात्विकं सुखं सम्पादयति ? नेतिभावः ॥१०॥ विषयलोलुपो जीवदेवः प्रतिवदति- कलयामीति-हे कलहंसयाने-हंसगमने प्रिये ! सर्व-पूर्वोक्तं सौख्य तनोतीत्यहं भावये । इति मम भावं मम हृद्गतामिप्राय सुलभेन विद्धि- त्वया वेदितुमेवं शक्यम् । त्वं पतिभावनेन-अहं तव पतिरिति गौरवेण स्वहितं- Nice ? २३० पचमोऽङ्कः सञ्जिविनी-४. (स्वगतम्) जटिलानुरागो विदुषामपि बुद्धि- मन्धयति । (प्रकाशम् ) मैवं वदत्वार्यः । अहमेव तव सेविका । किं तवाकूतम् ? विशदय मदनुग्रहाय । जीवदेवः-५. प्रिये । एतावत्पर्यन्तं त्वं पत्युदौर्भाग्यात् रतिसुखविमुखासि। आवामिदानीं यौवनपदभूषितौ । तथापि राज्य- परिपालननियुक्तौ । कथमनयोस्सुपथेन सञ्चारः? सञ्जीविनी-६. प्रिय आवां प्राप्तपुत्रौ । रतिसुखे मास्तु ते प्रलोभः। प्रजापालनासक्तिरेव प्रधाना भवतु । तव यद्धितं-मे हित-ममापि यद्धिन तदुर्दिश्य तव सेवकं मां प्रतिबोधय- तव सेवापरस्य मम उपदेशं कुर्विति ललितनायक इव दीनं दीनं प्रलपति । इदं पद्यं कोकरतावृत्तनिबद्धम् तल्लक्षणम् - “सयसैर्भवेत्को करता ययुक्तैः" इति । अत्र नायके पुनः विभावानुभावव्यभिचारिभावैः पुष्टःरत्याख्यस्थायि- भावः संभोगशृंगारात्मना परिणमते । नायिकायां तु शांतिरसस्य स्थायिभाव एव भवतीति ध्वन्यते । स ध्वनिः उत्तरवाक्येन अभिव्यज्यते ॥११॥ ४, इदमाकर्ण्य प्रतिभाशालिनी सञ्जीविनी स्वयमेवं चिन्तयति- जटिलानुरागः-प्रबलवैषयिकानुरागगतिः विद्वांसमपि अन्धयति-अन्धं करोति। मैवं वदत्वार्यः-सेवक इति वचनमनुचितम् । अहमेव तव सेविका । सती या सा पति सेवते इति लोकविदितं खलु । तवाशयं स्पष्टं वदेति प्रार्थना । ५. एताक्दवधि अहं रोगग्रस्तोऽभवम् । अतः पत्या सह तब भोगावकाशो नासीत् । आवयोरिदानी यौवनदशा । अतस्सम्भोगकालः । तथाप्ययैव राज्यशासनमारप्राप्तिः । उभयमपि कार्य कथं साधयितव्यमिति चिन्ता । ६. आवयोस्सम्भोगः पूर्वमेव सञ्जातः। जातश्च पुत्रमणिः । अतः इतः परं मा भूत्ते सदा भोगलालसा । प्रनापालनरीतिमेवानुचिन्तय जीवसीविनीनाटकम् . जीवदेवः-७. अयि सत्यशीले ! तव सहायेन प्रजापालनं मुलभेन अनन्यसाधारणं भवत्येव । त्वं गृहिणी खलु । सञ्जीविनी-८. अतो गृहिणीधर्म परिपालयामि। पूजाऽतिथीनां गृहदेवतानां श्वश्वादिसेवा पतिपादभक्तिः । रक्षाऽबलानां भरणं शिशूनां हितानुचिन्ता सततं प्रजानाम् ॥१२॥ जीवदेवः ९. इदानीं सुलभं जातं मत्कर्तव्यम् । सञ्जीविनी १०. न तथा। राज्यशासनरीतिर्न कदापि सुलभा। शृणु- ७. त्वं गृहिणी-जाया, अहं गृहस्थ:- पतिः। त्वं सत्यधर्मपरायणा- त्वत्सहायेनाहम पि प्रजापालनपरायणो भवामि । त्वया सह वर्तमानोहं न कठापि राज्यशासनमुपेक्षे इति तात्पर्यम् । ८. यदि मां गृहिणी मन्यसे तर्हि गृहिणीधर्म शृणु। पूजेति-अतिथीनां पूजा - इष्टदेवतानां कुलदेवतानां च समर्चनम् । श्वश्वादिसेवा - श्वश्रूश्वशुरप्रभृतिवृद्धबन्धुजनानामुपचारः । पतिपादभक्तिः- स्वपति देववद्भावयित्वा स्ववृत्तभक्तिप्रदर्शनम् । अबलानां रक्षा-स्त्रीणाम- सहायकानां च अन्नवस्त्रदानेन कष्टपरिहारेण च संरक्षणम् । शिशूनां भरणम्- बालानां पोषणम् । प्रजानां सततं हितानुचिन्ता-सर्वदा प्रजाभ्युदयाया- लोचनम् । वृत्तमुपजातिः । अत्रोक्ताः विषयाः शान्तिरसस्य अनुभावा- सन्तः शमाख्यस्थायिभावं पुष्यन्ति ॥१२॥ ९. एतत्सर्व विशेषतः प्रजापालनानचिन्तनमपि त्वं निवहसीति श्रुत्वा मम कर्तव्यं सुशकं भावयामीति सतीप्रशंसामुखेनात्मसम्भावना । १०. राज्यशाप्सनमार्गः न कदापि सुगमः । यतः-वृत्तीना- मिति- वृत्तीनां सुव्यवस्था-ये ये वर्णाः अन्तर्वर्णाश्च या या वृत्तीरव- लम्ब्य जीवेयुः तासां वृत्तीनां शासनपूर्वकं परिष्कारः। विविधपथजुषां- सत्वरजस्तमोगुणवलादनेकमार्गानुयायिनां - चोराणाम् नाराणाम् राजशास- पञ्चमा वृत्तीनां सुव्यवस्था विविधपथजुषां स्थापनं शान्तमा दुष्टानां दण्डनीतिः परबलहरणाद्राज्यरक्षासुनीतिः । इतनां शाम्यरीतिस्सुरगुरुचरणेष्वादरोत्पादनं चे- त्येवं स्याद्राज्यतन्त्रे बहुगहनकलाः साधनात्कीर्तिलाम।। शुकाः वृशेषु नोलंघिनाम्-राजद्रोहिणां जनानां, शान्तमार्गे स्थापनम्-सामदानभेददण्डा- ख्यचतुर्विधोपायैः सन्मार्गे प्रतिष्ठापनम् । दुष्टानां दण्डनीतिः-दुर्जनानां कपटहिंसकादीनां राजशासनानुसारेण कारागृहवासादिदण्डविधानम् । परबलहरणाद्राज्यरक्षासुनीतिः- शत्रुसैन्यं नाशयित्वा स्वराज्यरक्षायै या राजनीतिरावश्यकी तस्या अनुसरणम् । ईतीनां शाम्यरीति:- "अतिवृष्टिर- नावृष्टिर्मूषकाश्शलभाश्शुकाः। अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः" इत्यादिना यदा यदा, अतिवृष्ट्या गृहादीनां वारिवारणादीनां नाशो भवति, अनावृष्टिवशात् सस्याभिवृद्धिभङ्गेन धान्यादिलाभाभावात् जनाः क्षुत्पिपा. सापीडिताः क्षामडामरादिभिरर्दिता भवन्ति, मूषकाः सङ्ग्रहीतधान्यानि नाशयन्ति, शलभाः- संवर्धितानि सस्यानि नाशयन्ति, आम्रबहुबीनादिफलानि नाशयन्ति, राजानः अत्यासन्नाः देशपालकाः अतिधनाशया वारं वारं विविधाधयंकरशुल्कग्रहणैः प्रजाः बाधन्ते, तदा तदा तत्परिहाराय समुचितकार्योपायैर्देशपालनानुसरणम् । सुरगुरुचरणेष्वादरः- यज्ञयागजपतपोरूपपूजया देवताः- तृतीयचतुर्थाश्रमिणां क्षेमप्रदकायगुरूंश्च तोषयितुमौत्सुक्यम्, अथवा-तत्तत्कुलदेवतादिविषये तत्तन्मातापित्रादिगुरुजन- विषये च जनेषु यथादरः उत्पद्येत तथा व्यवस्थाकरणम् । एतादृश्यः बहुगहन- कलाः अतिक्लिष्टवर्तनानि राज्यतन्त्रे-राज्यशासनरीतौ भवन्तीति शेषः । साधनात्-सुराज्ञाम् अमात्यमन्त्रिसचिवपुरोहितादिसहायेन एतत्सर्वं सुष्ठु सा- धित चेत् कीर्तिलाभ:-अयं राजा धार्मिकः कार्यदक्षः-कुशलमतिः-प्रजास्सम्यक् पालयतीत्यादियशसां पात्रं भवतीति तात्पर्यम् । स्रग्धरावृत्तम् । एतादृश- जीवसञ्जाविनीनाटकम् जीवदेवः ११. त्वं मम आचार्यानी संवृत्ता। सञ्जीविनी-१२, यदा त्वमाचार्यः तदा त्वद्योगादहमा- चार्यानी। जीवदेवः-१३. वक्तव्यं विस्मृतम् । त्वमाचार्येत्याशयः। सञ्जीविनी-१४. अलमनेन परिहासवचनेन । जीवदेवः-१५. परिहासभाव एव मां प्रेरयति परिहसितुम् । सज्जीविनी-१६. नतु परिहासकार्यम् । । राजश्रेष्ठस्यैव युद्धवीरदानवीरधर्मवीर इति ख्यातिः । अनेन पत्नींबोधेन जीवदेवे समुत्साहो जात इति व्यंग्यमर्यादया उन्नेतुं शक्यते । तादृशोत्साह एव वीररसोदयस्य स्थायी भावतीति सहृदयानां सूक्ष्मांश:परिस्फुरति ॥१३॥ ११. “आचार्यानी तु पुंयोगे स्यादाचार्यापि च स्वतः" इत्यमरसिंहेन तयोरशब्दयोमेंदस्पष्टमभिहितः । “आचार्यादणत्वं च" (वा-४-१-४९) इति णत्वामावः । आचार्यानीशब्दार्थमपरिमाव्य जीवदेवेन स शब्दः प्रयुक्तः । १२. अतस्सञ्जीविन्या सदुत्तरमुपदिष्टम् । यथा-"त्वमाचार्यः यदा- तव पत्नी अहमाचार्यानीति" । १३. वक्तव्यशब्दो विस्मृत इति वदन् स समुचितार्ययोतकर 'आचार्या शब्दं पुनः प्रयुते । १४. भार्या भर्तुः कथं वा आचार्या-उपदेष्ट्री भवेत् ? इयं परि- हासोक्तिः, एतां त्यजेत्याकूतम् । १५. स्वमिन परिहासभावः प्रथममुदितः तमनुसृत्य परिहासवचन- मिति समाधानम् । अनेन नायके हास्यरसोदयः ज्ञेयः । १६. परिहासकार्य भोगरूपम् । तत्र नोद्यमः कार्य इत्यभिसन्धिः। अनेन नायिकायाः मनः शमप्रधानमेवेति स्पष्टम् ।

पञ्चमोऽङ्कः जीवदेव:-१७. तदपि भाववचने अनुवर्तते । सज्जीविनी-१८. किमयं समयः ? जीवदेवः-१९. चद्रोदयसमयः, पश्य । अस्तं याते दिनेशे तिमिरमपहरन्मित्रतेजोऽभिमृष्टो देवश्चन्द्रोऽत्र भासा कुवलयमभितो ह्लादयन् व्योग्नि याति । चेतोमोदो ह्यमोघो युवजननिचयो भोगयोग्यो नितान्तं तस्मादायां प्रियेऽद्य स्वहितकृतिपरौ धर्मदृष्ट्या भवाव ।।१४ १७. यथा परिहासभावमनुसृत्य परिहातवचनं प्रवृत्तं, तथा परिहास- भावं परिहासभाषणं चानुसृत्य परिहासकार्यमपि प्रवर्तते इत्यभिसन्धिः । १८. “किमयं समय" इत्यनेन अयं कालः परिहासकार्यप्रवर्तनस्य उचितो वेत्याकांक्षा। एतदर्थानुसंधाने तस्या अपि कालः उचितश्चेत् सम्भोगकार्यमभिमतं प्रदर्शितमिति वक्तुं शक्यते । तदनुचितम्-यतः- . लोकहितैषिण्यास्सञ्जीविन्यास्स्वसुखेऽनादरः पूर्व प्रकटितः । तदनुसारेण "किमयं समय" इति वाक्यस्य कावा अयं कालः सन्ध्यादिनित्यकर्मा- नुष्ठानाय युक्तः न तु पशुवत्क्रीडोपभोगायेति तस्या अभिप्रायस्याभ्यूहस्समु- चितः। १९. चन्द्रोदयसमयः संभोगस्योद्दीपकः तदर्थमभिसन्धाय वदति जीवदेवः । अत्र सम्भोगशृङ्गारस्य उद्दीपनविभावोऽपि प्रदर्शितः । सूर्यास्त- सूर्योदय-चन्द्रास्त-चन्द्रोदयवर्णनं नाटकेष्वभिमतमिति वाऽत्र चन्द्रोदयवर्णनम्। अस्तमिति-दिनेशे-सूर्ये अस्तं याते सति मित्रतेजोऽमिमृष्टः- सूर्य- तेजसा व्याप्तः- अत एव-देवः- ज्योत्स्नामुखाद्योतनशीलश्चन्द्रः तिमिरम- पहरन्.अन्धकारं नाशयन् अत्र-अस्मिन् लोके-अस्मिन् स्थाने वा अभितः- परित:- सर्वत्रेति यावत् । भासा तेजोऽभिमर्शेन कुवलय ह्लादयन्-भूमण्डलं तोषयन-कुमुदानि विकसितानि कुर्वन् व्योम्नि याति अन्तरिक्ष सञ्चरति ।

जीवसञ्जीविनीनाटकम् सञ्जीविनी-२०. धर्मदृष्टिः कात्र ? जीवदेवः-२१. पत्न्या धर्मस्वपतिसुखसम्पादनं स्तुत्यवृत्तै- स्तत्सौख्या विहितकरणं सर्वदा भर्तधर्मः । इत्यन्योन्यप्रियकरसृतौ शोभमानं समन्ता- दाम्पत्यं तजगति गदितं सार्थकं कीर्तिपात्रम् ॥१५॥ तदावाम्यां परस्परधर्मः पालयितव्यः । चेतोमोदः अमोघः- सर्वेषां हृदयालादः विशेषेण भवति । अतः युवनननि- चयःनितान्तं भोगयोग्यः- यौवनदशामापन्नाः स्त्रीपुरुषाः विशेषतो भोगा- सक्ता भवन्ति । अतः आवामपि स्वहितकृतिपरौ-अन्योन्येन अन्योन्यस्य. मिथः हित-सुखं यथा भवति तथा आचरणे रतौ भवाव । तच्चाचरणं तु धर्मदृष्ट्यैव-शास्त्रविधिनैव न तु वामाचारेण । शास्त्रमत्र सत्सन्तानसियनु- ग्राहकम् । अत एव "प्रनायै गृहमेधिनाम्" इत्यादिप्रयोगः । स्रग्धरा- वृत्तम् ॥१४॥ २०. तां धर्मदृष्टिं पतिमुखाद्वेदितुमयं प्रश्नः । २१. पतिसुखसम्पादनं सतीधर्मः । पत्नीसुखसम्पादनं पतिधर्म इति सामान्याकारेण निर्देशः । इममर्थमेव विशदयति पत्नीत्यादिना- पत्नीति-स्तुत्यवृत्तै:-प्रशस्ताचरणैः-स्वपतिसुखसम्पादनं पत्न्या धर्मः- येन प्रकारेण स्वभर्तुः सुखं भवेत् तयाचरणं पत्न्याः कर्तव्यम् । तथा तत्सौ- ख्यार्थ सर्वदा विहितकरणं भर्तृधर्म:-भार्यायास्मुखलाभाय यत्कर्तव्यं तत्पति- धर्मः । इत्यन्योन्यप्रियकरसतौ-पतिपत्न्योः मिथः सुखलामाय विहिते मार्गे समन्ताच्छोभमानं दाम्पत्य-सर्वथा धर्ममार्गे वर्तमानयोर्दम्पतिमावः सार्थक कीर्तिपात्रमिति जगति विदित-क्षेमकारि यशःप्रदमिति जनाः मन्यन्ते इत्यर्थः । मन्दाक्रान्तावृत्तम् । तस्मादावाभ्यामपि दम्पतिधर्मः अत्यन्त जागरूकतया रक्षितव्यः ॥१५ पञ्चमोऽङ्कः सञ्जीविनी-२२. रोगग्रस्ते त्वयि मया मम धर्मः पालितः। जीवदेवः-२३. आरोग्यस्थे माय मया ममधर्मोऽपि पाल्यते । सञ्जीविनी-२४. यथा ते रोचते तथास्तु । किन्तु अस्ति मे काचिचिन्ता। जीवदेव:- का चिन्ता मम कान्ते मयि सन्निहिते तवास्ति कथय त्वम् । चिन्तयसि यदिह कार्य तदहं सम्पादयामि यत्नात्ते ॥१६॥ सञ्जीविनी–प्रिय ! असत्पुत्रो ज्ञानसूर्यः इदानीं सकल- विद्यापारङ्गतवान् - विंशतिवत्सरो यौवनमधिगतवान् तस्यायं विवाहकाल इति मन्ये । जीवदेवः-२६. कुतोऽत्र चिन्ता-अनुरूपा कन्या लब्धा चेदचिरादेव परिणयविधिस्सम्पाद्यते। २२. जीवदेवः यदा अनेकरोगैः पीडितः तदा पत्नी समुचित. चिकित्सया तान. रोगान्परिजहारेति तस्या धर्मो निर्वर्तितः । २३, इदानीं स आरोग्यस्थितिमापन्नः। अतः स्वेन स्वस्य धर्मोऽपि पालनीय इति साकूतं वचनम् । २४. यथा ते रोचते इत्यनेन पतिमतानुसरणं प्रदय-पतिबुद्धेरन्यत्रा- कर्षणाय स्वस्याः काचिचिन्ता मूचिता । का चिन्तेति-हे मम कान्ते- प्राणप्रिये ! मयि सन्निहिते सति-मयि तव समीपवर्तिनि सति तव का चिन्ता अस्ति कथय । न कस्या अपि चिन्ताया अवकाशः । यत्किञ्चि- कार्यमिह चिन्तयसि यदि-यस्मिन् कस्मिन् कार्ये यदि काचिच्चिन्ता अस्ति ते तां से निबोधय । यत्नात्ते तदहं सम्पादयामि-एतत्क्षणेऽहं तां सर्वप्रयत्नेन तवेप्सितं साधयामीत्यर्थः । वृत्तं गीतिः ॥१६॥ २५, प्रिय ! अस्मत्पुत्रस्य विद्याभ्यासस्समाप्तः अस्यायं विवाह- योग्यः कालः । अस्मिन् विषये मम चिन्ता । २६. अनुरूपकन्याधिममेनास्य विवाहस्सम्पाद्यते ।

जीवसविनीनायकम् Sama सञ्जीविनी-२७. अस्ति तदनुरूपा कन्या। जीवदेव:-२८. कुत्र ? का? सञ्जीविनी-२९. तव श्वशुरगृहे - शान्तिप्रभा । जीवदेवः-३०. मत्स्वसुः सुप्रभाया दुहिता ? सञ्जीविनी-३१. तथा। जीवदेवा-३२. तयोर्वधूवरसम्पत्तिस्समुचिता । परन्तु अस्मत्स्त्रीजनाभिप्रायः कीदृशो वर्तते-न ज्ञायते । सञ्जीविनी-३३. ज्ञातः, सर्वसम्मत एव । जीवदेवः-३४. तर्हि पुरुषजनानामभिमतं च सम्पाद्य यथोचितकार्ये प्रवर्तामहे । सञ्जीविनी-३५. इदानीमहं निश्चिन्ता । २७. अनुरूपकन्याधिगमो भवतीति सूचितम् । २८, देशावबोधाय-व्यक्क्यवबोधाय च प्रश्नः । २९. तब "श्वशुरगृहे" इति देशनिर्देशः। "शान्तिप्रभे"ति व्यक्ति- निर्देशः । ३०. श्वशुरगृहे इति वस्तुनिर्धारणाय संशये सत्यपि शान्तिप्रभेति नामनिर्देशेन स्वमृदुहितेति संशयज्ञाननिवृत्तिपूर्वक व्यक्त्यवधारणज्ञानम् । ३१. तदेवाङ्गीक्रियते । ३२. तयोर्वधूवरानुरूप्यमङ्गीकृत्य स्त्रीजनानुमतिविषये शङ्कां करोति । ३३. पूर्वमेव निश्चितां सम्मतिमनुस्मृत्य वदति । ३४. स्त्रीजनानुमोदे पुरुषाणां सम्मतिस्सुसम्पायेति मत्वा तदनन्त- रीयकार्ये प्रवर्तनमनुमन्यते । ३६. अनेन धैर्यापादकवचनेन स्वस्याश्चिन्ता परिहृतेति वदति ।

पञ्चमोऽङ्कः १ जीवदेवः-३६. सर्वदा त्वं निश्चिन्ता भवितव्येति ममाशयः॥ सञ्जीविनी-३७, प्रियभर्तृका संवृत्ताऽहम् । जीवदेवः-३८. प्रियपत्न्याः प्रियभतयोगसाधारणः । सञ्जीविनी-३९. आवयोस्त्वसाधारणः। जीवदेवः-४०. तत्कथम् सञ्जीविनी- सुखे दुःखे भर्ता यदनुभवति स्वस्स गृहिणी विरागद्वेषा सा तदनुभवति प्रार्थनपरा । तथा पल्यास्सत्यास्सुखमसुखमप्यादरतया समं भक्त्वा भर्ताऽनुभवति तथा नौ समगतिः ॥१७॥ ३६, एवमेव सर्वदा त्वं निश्चिन्ता भवितव्येत्याशास्यते । ३७. एतत्प्रियस्य समाधानवचनं श्रुत्वा सा स्वत्याः प्रियपतित्व सूचयति । ३८. यथा सा प्रियभर्तृका-तथा सोऽपि प्रियभार्य इति परस्पर- साधारणभागधेय शंसति । ३९. तादृशमागधेयमन्येषां विषये साधारणमपि जीवसञ्जीविनी- विषयेऽसाधारणमिति साभिप्रायकं वचनम् । ४०. असाधारणमिति वचने हेतुमाकांक्षते । तदर्थं विशदयति सञ्जीविनी- सुखेति-भर्ता-पतिः सुखे दुःखे यदनुभवति-सुखदुःखयोगसम्मवे यया मन्मनोवृत्तिको भवति, विरागद्वेषा सा स्वस्य गृहिणी-रागद्वेषरहिता भार्यापि, प्रार्थनपरा-पत्युस्मुखदुःखमेवापेक्षमाणा तन्मनोवृत्तिका भवेत् । पतिः यदा दुखितः सापि तदा दुःखिता । स यदा सुखितः-सापि तदा सुखिता । स यदा तटस्थः सापि तदा तथैव । एवं दम्पत्योस्समुचित्तप्रवृत्तिस्सहना । न तु जीवसञ्जीविनीनाटकम् जीवदेव:-४१. इदमसद्भाग्यम् । साधयामस्तावदनन्तर- कार्यभारनिर्वहणाय। ॥ इति निष्क्रान्तौ ॥ रागद्वेषनन्या भवेदित्याशयः । यथा-पतिः देवताध्यानेन सुखी भवेच्चेत् मार्यापि मानुभूयमानसुखमपेक्ष्यैव सुखिनी भवेत्। नतु देवताध्यानेन इष्टार्थ- फलसिद्धिर्भवतीति तत्र रागेण । तथा-यदा पत्नी प्रसववेदनया दुःखिता भवति तदःखमपेक्ष्यत्र पतिरपि स्वभावादःखी मवेत् नतु प्रसववेदनाद्वेषेण । इत्यमन्यान्युदाहरणान्युन्नेयानि । तया पत्न्याः- भार्यायाः सुखमसुखमपि मुखदुःखे मर्ता सा भक्त्वा आदरतयाऽनुभवति-पतिरपि रागद्वेषौ विहाय समभागेन ते सुखदुःखे अनुभवेत् । इति दम्पत्योस्सुखदुःखाद्वैततत्वम् । तथा नौ समगतिः-आवयोः एवंविधानुभवो भवतीति अस्मदाम्पत्ययोगः असारधाण इत्युक्तमिति स्वाभिप्रायं प्रकटितवती सञ्जीविनी । शिखरिणी- वृत्तम् ॥१७॥ ४१. एवंविधदाम्पत्ययोगः स्वकृतसुकृतविशेषेण मंलब्ध इत्युक्त्वा तदनन्तरकरणीयोद्योगाय प्रवृत्तो भवति । ॥ इति द्वितीयदृश्यव्याख्या ॥

॥ तृतीयदृश्यम् ॥ ॥ ज्योत्स्नानगरम् ॥ (ततः प्रविशति जीवदेवम्सञ्जीविनी च) जीवदेवः-१. प्रिये ! सञ्जीविनि ! अवहिता भव । सञ्जीविनी-२. सावधानासि । जीवदेवः--३. अत्रास्माभिर्यद्यत्कर्तव्यं तत्सर्वं सम्यक् साधितम् । यथा- सद्विद्या विहिता सुखेन कलिता सेवा गुरूणां हिता राज्यं चाधिमतं प्रजास्सुविहिताम्सद्धर्ममार्गे स्तुताः। त्वद्योगाजनितस्सुशीलतनयश्शान्तिप्रभाभासितः किं कार्य न कृतं स्वजन्म फलितं शास्त्रैश्च सम्भावितम्॥१८ अत: असत्पुत्रं ज्ञानसूर्य राज्येऽभिषिच्य आवां जीव- न्मुक्ताविव परोपकारपरायणौ भवावः । ॥ तृतीयदृश्यव्याख्या ॥ १. वक्ष्यमाणवृत्तान्तविचाराय भार्याया अवधानमाकर्षति भर्ता जीवदेवः । २. सावधानं तद्वृत्तान्तविचाराय सा सन्नद्धा मवति । ३. "कर्तव्यं सर्व साधित" मित्यनेन ज्ञानसूर्यस्य शान्तिप्रभया सह विवाहोऽपि निवृत्त इति ध्वन्यते । सद्विद्येति-सद्विद्या विहिता आवाभ्यां शास्त्रेषु कलासु च आवश्यक विद्याभ्यास: बाल्ये निर्वर्तितः । गुरूणां हिता सेवा सुखेन कलिता-गार्हस्थ्य- दशायां मातापित्रादिगुरुजनानां सुखदायिनी सेवा-परिचर्या सुसुखं साधिता- ३४९ जीवसविनीनाटकम् सञ्जीविनी-४. एतादृशावसरे असत्कुलवृद्धस्तृतीयाश्रम- स्वीकृतः खलु । आवामपि तमनुसरावः । जीवदेव:-५. तृतीयाश्रमसिद्धा एव जीवन्मुक्ताः । राज्यं चाधिगतं-पितुस्सकाशाद्राज्यमधिगतम्-सिंहासने आवां पितृसमक्ष पट्टाभिषिक्ताविति तात्पर्यम्, स्तुताः प्रजाः सद्धर्ममार्गे सुविहिता:- धर्मपराः प्रशंसनीयाः अस्मत्प्रजाः-शास्त्रविहितेषु सम्प्रदायानुबद्धेषु सद्धर्मेषु स्थापिताः। त्वद्योगात्-त्वया सह पाणिग्रहणवशात् सुशीलतनयः जनितः-सद्वृत्तो ज्ञानसूर्याख्यः पुत्रो जातः । सोऽपि शान्तिप्रभाभासितः-शान्तिप्रभाख्य- वध्वा सह विवाहितस्लन् राजते । स्वजन्म फलितम्-आवयोः जन्म सफलं कर्तुं योग्यं शास्त्रैश्च सम्भावित-वेदशास्त्रानुगृहीतं किं कार्य न कृतं-किं व- कार्यमकृतमस्ति-सर्वं कृतमेव । अनेन पुरुषार्थप्रयोजनं सम्यक् साधिता मित्यभिप्रायः । अत्र व्यञ्जनावृत्त्या - ब्रह्मचर्यगार्हस्थ्यधर्मनिवर्तनानन्तरं सञ्जातज्ञानप्रकाशद्वारा - शान्तिदान्त्यादिचित्तवृत्तिसाधनद्वारा च तृतीया- श्रमप्रवेशाय अधिकारप्राप्तिः तद्वारा तुरीयाश्रमफलभूतमुक्तिप्राप्तये अव- काशप्राप्तिश्च सूचिता । तदर्थमेवाभिधावृत्त्या अत इत्यादिना विशदी- क्रियते । शार्दूलविक्रीडितं वृत्तम् ॥१८॥ अतः-अस्माद्धेतोः अस्मत्पुत्रं ज्ञानसूर्य राज्येऽभिषिच्य-राज्य तदायत्तं कृत्वा-जीवन्मुक्ताविव-जीवन्मुक्तानां वर्तनेन परोपकारपरायणौ भवावः लोकसेवानिरतौ भवावः । लोकोद्धार एव जीवन्मुक्तानां कार्योदेशः। ४. एवं स्थिते वानप्रस्थाश्रमस्वीकार एव आवयोः कर्तव्यः व्यापारः । एतादृशसन्दर्भ अस्मत्पूर्वजैरपि स एबोररीकृत इति भार्ययो- पदिष्टम् । ५. जीवन्मुक्तावस्था भऽपेक्षिता । तृतीयाश्रमवृत्तिः भार्यया । अतः जीवन्मुक्तदशापेक्षया त तुमूतः तृतीयाश्रमः अङ्गीकृत एवेति जीव- देवस्याभिसन्धिः ।

पञ्चमोऽङ्कः सञ्जीविनी-६. तदाश्रमस्वीकारानन्तरं हि तसिद्धिः । तदनन्तरं किल जीवन्मुक्तिप्रसङ्गः ? जीवदेवः-७. सुष्ठ भणितम् । आश्रमखीकारः न वेष- निबन्धनः । गृही गृहिणी च गृहस्थावेव वनौकसां वृत्तिमनु- सतुं शक्तौ। सञ्जीविनी-८. कथं ते गृहवासेऽभिनिवेशः ? जीवदेवा-९. कथं ते वनवासेऽभिरुचिः? सजीविनी-१०, यथा सीतायाः। जीवदेवः-११. राममनुसृतायाः । सज्जीविनी-१२. तथा । ६. कारणपूर्वकं कार्यमिति न्यायेन कारणभूततृतीयाश्रमस्वीकारः प्रथममपेक्षणीयः । तत्कार्यभूतजीवन्मुक्तप्रसङ्गः अनन्तरमादरणीय इति सञ्जीविन्या आकृतम् । आश्रमम्वीकारः काषायवस्त्रनिबन्धनो न भवति । गृहस्थाश्रम एव वानप्रस्थवृत्तिसाधनं भवत्येव केषांचिन्महात्मनाम् । अत: आवामपि- तथा गृहस्थावेव स्थितौ तापसवृत्तिमनुसराव इति जीवदेवोऽभिप्रैति । ८. कुतस्तस्य गृहवासाभिनिवेश इति पृच्छा। ९. कुतस्तस्या बनवासाभिनिवेश इति प्रतिपृच्छा। १०. सीतायाः यथा वनवासेऽभिरुचिर्नाता तथैव स्वस्या अपीति सञ्जीविन्या उत्तरम् । ११. पित्राज्ञापरिपालनार्थम् अरण्यवासोद्युक्तं श्रीराममनुसृत्यैव सीतायास्ताहशवनवासाऽभिरुचि तेति साक्षेपोक्तिः । १२. तद्वचनमङ्गीकरोति सञ्जीविनी तथेति । ।

जीवसञ्जीविनीनाटकम्
?
जीवदेवः-१३. मामनुसरन्त्यास्तव न तथा ।
सञ्जीविनी-१४. कुतः?
जीवदेवः-१५. मम वनवासे नाभिरुचिः ।
सञ्जीविनी-१६. साऽऽसीद्रामस्य ।
जीवदेवः-१७. निमित्तान्तरेण-नतु तृतीयाश्रमस्वीकारधिया ।
सञ्जीविनी-१८. सनिमित्तकोऽपि वनवासः स तृतीयाश्रम
एव।
१३. पतिमतमनुसृतायाः पत्ल्यास्सञ्जीविन्याः पत्युरिवाभिरुचि-
न जातेति परिहासमुखादाक्षेपः ।
१४. कथमिति पृच्छति सञ्जीविनी ।
१५. स्वस्य वनवासे नाभिरुचिरिति निजचित्तवृत्तिप्रकाशः ।
१६. सासीद्वामस्येत्यादिना रामस्य वनवासेऽभिरुचिरासीत् । तमा
नुसृत्य सीताया अपि वनवासामिरुचिर्नाता । अतः यदि तवापि तथ.
वनवासाभिरुचिस्स्यात्त्वं रामोपमो भवसि तदभिरुचिमत्याः ममापि सीतोपमा
भवेत् इत्युक्तम् । अनेन रामस्येव तवाऽपि वनौकसां वृत्त्यनुसरणं
युक्तमिति सूचितम् ।
१७. रामस्तृतीयाश्रमस्वीकारबुध्या अरण्यवासं न कृतवान् किंतु
पितुराज्ञापरिपालनार्थम् अरण्यवासाय चोदित इति सञ्जीविनीवाक्ये लाघवं
दर्शयति ।
१८, भवतु पितुराज्ञापरिपालनं निमित्तं श्रीरामस्य अरण्यप्रवे-
शाय । तथापि स अरण्यवासः तृतीयाश्रम एव । यतः वनौकसां धर्माः
अरण्ये रामेण पालिता:-इति रामस्य तृतीयाश्रमस्वीकारं साधयति
सञ्जीविनी ।

पञ्चमोऽ जीवदेवः-१९. तर्हि तदनन्तरं खलु कुशलवोत्पत्तिः। पुत्रो- त्पादनधर्मः गृहस्थाश्रमयोग्यः । तृतीयाश्रमाद्वितीयाश्रमाय प्रत्या- वृत्तिश्शास्त्रनिषिद्धा । तस्माद्रामस्य वनवासः निमित्तान्तरेण न तु आश्रमचोदितेन हेतुना। सञ्जीविनी-२०. भवतु-कुतस्तेऽरण्यवासो न रोचते ? जीवदेवः-२१. तत्र लोकानां सुखदुःखपरिज्ञानस्य वा तेषां हितसाधनकार्याचरणय वा अवकाशो न भवतीति । सञ्जीविनी-२२. तर्हि जीवन्मुक्तौ कथं भवाव ? जीवदेवः २३. मुक्तौ भूत्वा जीवन्तौ भवाव । १९. तस्याः वचने दौर्बल्यं ज्ञात्वा जीवदेवः एवमाक्षिपति । श्रीरामस्य अरण्यवासः तृतीयाश्रम इति मन्यसे त्वम् । अनन्तरं खलु कुशलवयोरुत्पत्तिः ताशपुत्रोत्पत्तिप्रवृत्तिः प्रायशः गृहस्थाश्रमस्थितयोर्द- म्पत्योरेव । तृतीयाश्रम स्वीकृत्य तदनु तं परित्यज्य द्वितीयाश्रमाय प्रत्या- वृत्तिः न शास्त्रसम्मता। मम्प्रदायविरुद्धेति हेतुं प्रदय रामस्य वनवाप्तः तृतीयाश्रमधिया न कृत इति साधयति । २०. भवत्विति तद्धे तुमङ्गीकरोति । तथापि तस्य कुतः वनवासे नाभिरुचिर्भवतीति तन्मनोऽभिप्रायावेदनाय तं पृच्छति । २१. वनवासिनां लोकपरित्रयस्य अवकाशाभावात्-लोकानां सम्प्रा- प्यमानदुःखपरिज्ञानाय-तादृशदुःखपरिहारद्वारा परोपकारसाधनाय आनुकूल्यं न भवति । अतः लोकमध्ये स्थितावावां जीवन्मुक्ताविव लोको- द्वारककार्याणि करवाव इति समाधानोक्तिः । २२. जीवन्मुक्ताविवेत्युच्यते त्वया - कथमावयोर्जीवन्मुक्तस्संभव इति पुनः प्रश्नोद्धाटनम् । २३. प्रथम मुक्तौ भवाव । अनंतरं जीवन्तौ च भवाव इत्युत्तरम् । च जीवसअविनीनाटकम् २४. सञ्जीविनी-२४. मुक्तस्य जीवनापेक्षा कुतः ? जीवदेवः-२५. परोपकाराय । परेषामुपकारस्तु-तेषां सर्वा- पद्भ्यः समुद्धरणम् । सञ्जीविनी-२६. ज्ञातं ज्ञातम् । तवाकूतं श्लाध्यतमम् । वन्मतमेवानुसरामि। खात्मोद्धारे जगति यतते प्रायशस्सजनोऽलं शास्त्रज्ञोऽपि स्थिरमतिरपि स्वार्थता तत्र दृष्टा । तत्वज्ञाता भवतु भुवने मुक्तयोग्यो विदेही ध्यानाद्भक्या तरतु जलधि जन्ममृत्युप्रवाहम् ॥१९।। जननमरणात्मकप्रवाइतरणमेव मुक्तिः । तर्हि मुक्तस्य जीवनापेक्षा पुनः कथं भवेदिति तत्त्वविमर्शायायं प्रश्नः । २५. जीवितं विना परोपकारः कथं क्रियेत । परोपकारस्तु लोकोद्धाररूपः । तत्करणे ममाभिनिवेश इत्युत्तरम् । २६. तस्य हृद्ताभिप्रायमद्य ज्ञात्वा भार्या पति प्रशंसति । यथा- स्वात्मेति-जगति-लोकेषु सज्जनः साधुमार्गावलम्बी जनः प्रायशः- सामान्यतः स्वात्मोद्धारे अलं यतते-स्वस्य वैषयिकसुखदुःखनिबर्हणपूर्वक निरतिशयानन्दावाप्तये सम्यक् प्रयत्नं करोति । ब्रह्मज्ञानेन अज्ञाननिवृत्ति. पूर्वकमात्मसाक्षात्काराय प्रवर्तते । तादृशस्सज्जनः भवतु नाम शास्त्रवेत्ता- तत्त्वमसीत्यादिमहावाक्यार्थज्ञः तत्वविद्भवतु नाम, स्थिरमतिः-निश्चलचित्तः- "योगश्चित्तवृत्तिनिरोधः" इति पतञ्जलिपूत्रानुसारेण निरुद्धसकलचित्तवृत्ति- रिति यावत् । तदा किं भवति ? "तदा द्रष्टवरूपमेव स्थानम्" इति पतञ्जलिः । “ब्रह्मविद्ब्रह्मैव भवति" इति उपनिषदः । एवमपि तत्र केवलं- खात्मोद्धारविषये स्वार्थता दृष्टा-स्वप्रयोजनमेव दृष्टं मवति । लोकहष्टया खार्थपरता निन्द्यापि स्वार्थता-स्वरूपसाक्षात्कार इति तत्वविदां शास्त्राणां च दृष्टिः- अभिप्रायः । मुवने-जगति यदि कश्चित्तत्वज्ञाता भवति स विदेही ?

पञ्चमोऽङ्कः
तादृकशीलः परहितकृते देहभागन्यजीवान्-
जीवन्मुक्तो भवगुणयुतान् भव्यमार्गेषु नत्विा ।
तत्वान्येषां परसुखकराण्यादरात्सम्प्रबोध्य
खात्मारामान् ह्यभयरमणान् साईचेताः करोति ॥२०॥
भवति-तत्वज्ञानेन प्रारब्धदेहपातानन्तरं सायुज्यरूपं विदेहमुक्ति-विदेहकैवल्यं
वा भजतीति तात्पर्यम् । अथवा ध्यानात्-परमात्मनि तैलधारावन्निरन्तरा-
विच्छिन्नलक्ष्यैकताचिन्तननिष्ठया भक्त्या-निरतिशयानन्यप्रीतिविशेषेण वा
मुक्तियोग्यो मवेचेत् स जन्ममृत्युप्रवाहं जलधि तरतु-जननमरणात्मकसंसृति-
प्रवाहं ती| परमपदे सालोक्य-सामीप्य-सारूप्यरूपनिरतिशयानन्दमनु-
भवत्विति सङ्ग्रहार्थः । मन्दक्रान्तावृत्तम् ॥१९॥
तादृगिति - तादृक्शील:- चतुर्विधमुक्तियोग्यस्सज्जनः परहितकृते-
परोपकार्थ देहभाक-शरीर मनुज्झित्वा अथवा स्वेटं देहं धरन् जीवन्मुक्तो-
मुक्तोऽपि लोद्धारकार्यार्थ जीवन् सन् भवगुणयुतान्भवे-संसारे गुणैः-सत्वर-
जस्तमोरूपत्रिगुणैः युतान्-बद्धान् अन्यजीवान्-स्वेतरप्राणिनः भव्यमार्गेषु
नीत्वा-स्वीयाचरणनिदर्शनेन श्रेयस्कर कार्येषु प्रवर्तयन् एषाम् अज्ञानां
परमसुखकराणि-मुक्तिदायकानि नित्यसुखप्रदानि वा तत्वानि ज्ञानमक्ति
वैराग्योत्पादकविषयकानिति यावत् । आदरात्सम्प्रबोध्य-निर्व्याजमुपदिश्य
साईचेतास्सन-करुणार्टान्तरङ्गस्सन् स्वेतरान् जनान् स्वात्मारामान्-स्वस्य
निजस्वरूपे रमणान-सन्तोषभरितानिति यावत् । अभयरमणान-जननमरणा-
त्मकभयाद्भिन्नम्-अभयं मोक्षरूपं वस्तु तस्मिन् आसक्तान् करोति-तनुते ।
विदेहमुक्तात् जीवन्मुक्तो वरीयानिति सारार्थः । मन्दकान्तावृत्तम् । श्लोक-
द्वयोक्तविषयानुसंधानेन वक्तृश्रोतृजनेषु अभिनेतरि नटे सामाजिकेषु वा
शान्तिरसोदयस्संभवतीति सुस्पष्टमेतत् ॥२०॥

जीवसञ्जीविनीनाटकम् २५३ GRamanna जीवदेवः-२७. त्वं ब्रह्मवादिनी । सञ्जीविनी-२८. ब्रह्मवादिसम्बन्धिनी । जीवदेवः-२९. शान्तिरसेऽपि शृङ्गाररसप्रसङ्गः । सञ्जीविनी-३०. यत्र वस्तुभेदप्रतिपत्या परस्परसम्बन्धेन सुखानुभवः तत्र शृङ्गारः। यत्र वस्त्वभेदप्रतिपत्या तादात्म्यसम्बन्धेन सुखानुभवः तत्र शान्तिरित्यनयोर्वस्तुतो न विशेषभेदः । २७. एतत्तत्वोपदेशं श्रुत्वा जीवदेवः स्वभार्या सञ्जीविनी ब्रह्मवादिनीति साकूतं तां प्रशंसति । २८. यदा जीवदेवः ब्रह्मबादी तदा तत्सम्बन्धात्सा सञ्जीविनी ब्रह्मवादिसम्बन्धिनी - ब्रह्मवादिनीत्यङ्गीकरोति अत्र शृङ्गारहास्यरसयोश्छाया प्रास्फुरति । २९ अत एव शान्तिरसेऽपि-पूर्वोक्ततत्त्वविमर्शद्वारा शान्तिरसोदय- सन्निवेशेऽपि शृङ्गाररसप्रसङ्ग:- तव भार्या भूत्वैवाहमेतानि तत्वानि जानामि इदं मे भाग्यं इत्यादिशृङ्गाररसद्योतकसरसवचनप्रयोग इति भावः । ३०. सम्भोगशृङ्गारो वा विप्रलम्मशृङ्गारो वा भवतु तत्र शृङ्गार- रसोदयाय नायिकानायकादिपदार्थद्वयसन्निधानमावश्यकमनिवार्य च । यत्र ज्ञाता ध्याता-कर्ता वा प्रशान्तचित्तेन ज्ञेय-ध्येय-कारणरूपं वस्तु अनन्य- चिन्तया परिभावयति तदा त्रिपुटैकीकरणेन वस्त्वेकमात्रं तिष्ठति । अथवा नायिकानायकौ परस्परमनन्यबुध्या सर्वदा प्रवर्तेते तत्र शान्तिरसोदयः । नवरसेषु शान्तिरसं नाटकादिषु नाङ्गीकुर्वन्ति केचिदालङ्कारिकाः । अन्ये केचित् शान्तिरस एव प्रधानतम इति साधयन्ति । अस्मिन् विचारे विशेषां- शावगमः भवति शास्त्रावलोकनेन भावप्रकाशन-मरतशास्त्रादिग्रंथपरिचय- मुखाच्च सुशकमिति दिक् । यदा अन्तःकरणं प्रशान्तं सत्त्वप्रधानं भवति तदैव रत्यादिभावः स्थायी भवति । स विभावानुभाव-व्यभिचारिभावैस्सम्पुष्टः

पञ्चमोऽङ्कः
जीवदेव:-३१. अस्तु तावत्तत्ववादः, प्रकृतमनुसरामः ।
सञ्जीविनी-३२. किं प्रकृतम् ?
जीवदेवः-३३. ज्ञानसूर्यस्य पट्टाभिषेकमहोत्सवः ।
सञ्जीविनी-३४. प्रचलत्वसौ ।
जीवदेवः-३५. सेवक!
सेवका-३६. अवहितोऽस्मि आज्ञापयतु देवः ।
जीवदेवः-३७. मन्त्रिसचिवानाह्वय ।
सेवकः-३८. तथा । (इति निर्गत्य मन्त्रिसचिवपुरस्सरं पुनः
प्रविश्य प्रभो ! मन्त्रिसचिवाम्सन्निहिताः।
शृङ्गारादिरसात्मना परिणमति इति रसविदां मतेनापि शान्तिशृङ्गारयोः
परस्परसंम्बन्धं विदित्वात्र कविस्तयोस्समप्राधान्यं संविधानप्रयोग
चमत्कारेण निरूपितवान् । अन्तरङ्गे-शान्ते खलु यः कोऽपि भावसस्थायी
भवेत् तस्मिन् विक्षिप्ते यस्य कस्यापि भावस्य तथा भवितुं नावकाशः।
३१. एतत्तत्वानुचिन्तनं प्रकरणवशादायातमिति सन्निकृष्टधिया
प्रकृतकार्यानुसन्धानायैवमुक्तिः ।
३२. तत्प्रकृतकार्यावधारणाय प्रश्नः ।
३३. पूर्वोक्तरीत्या ज्ञानसूर्यस्य पट्टाभिषेकसमारम्भस्य सूचना ।
३४. तं समारम्भं सम्पादयेत्यभिप्रायः ।
३५. सेवकस्य सम्बोधन आनन्तर्यकार्यारम्भाय ।
३६. आज्ञाधारकोऽस्मि । किमाज्ञापयति देव इति सेवकवचनम् ।
३७, मन्त्रिसचिवाहानाय राजाज्ञा ।
३८. तानानीय सेवकः राज्ञे तदागमनमावेदयति

जीवसीविनीनाटकम् मन्त्रिसचिवाः-३९. अभिवादयामहे प्रभुवर्यम् । जीवदेवः-४०. शुभं भवतु वः । भो मन्त्रिसचिवाः । असत्पुत्रवर्यस्य राज्यधौरन्धयविषये प्रजानुमतिः कीदृशी ? मन्त्रिसचिवाः-४१. सर्वाः प्रजास्तमनुमोदन्ते । जीवदेवः-४२. तर्हि सकलसम्भारान् सञ्जीकुरुत । मन्त्रिसचिवा-४३. अचिरात्सर्व सजीक्रियते । आह्वानानि सर्वत्र प्रेष्यन्ते । जीवदेव:-४४. तथा कुरुत । (मन्त्रिसचिवाः निर्गच्छन्ति) सेवक! कुमारमानय । सेवकः-४५. प्रभो कुमारोत्रागतः । जीवदेवः-४६. पुत्र ! ज्ञानसूर्य ! अचिरादेव ते शान्ति- प्रमापाणिग्रहोत्सवस्सम्पन्नः । इदानी राज्यलक्ष्मीपरिग्रहोऽपि भवति । ३९. साम्प्रदायिकमिदं राजप्रणामाचरणम् । ४०. आशीराशंसापि साम्प्रदायिका । ज्ञानसूर्यस्य राज्याभिषेक- विषये प्रजासम्मतिः किरूपेति राजा मन्त्रिसचिवान् पृच्छति ४१, सर्वसम्मतमिदं कार्यमिति ब्रुवन्ति मन्त्रिसचिवाः । ४२. तदर्थ सकलपरिकरसज्जीकरणाय राजा आज्ञापयति । ४३. तथेति तेषामङ्गीकारः । ४४. तथा कुरुतेत्युक्त्वा तान् प्रेषयति । ज्ञानसूर्यस्यानयनाय सेवकमाज्ञापयति । ४५. सेवकः कुमारमानयति । ४६. त्वमचिरादेव यथा शान्तिप्रभया विवाहित: तथेदानीं राज्य- धौरन्धर्ययोगेन राज्यलक्ष्मीयुतोऽपि भवसीति तस्य पट्टाभिषेकसमारम्भ सूचयति ।

पञ्चमोऽ ज्ञानसूर्यः-४७. गुरुजनाशीलेनैव मङ्गलपरम्परासम्भवः । जीवदेवः-४८. त्वं पुरोहितोपदेशं गृहीत्वा मङ्गलस्नानादिकं सम्पाद्य यथाविधि होमादिकर्मनिरतो भव । ज्ञानसूर्यः-४९. यथाज्ञापयति तीर्थपादः । (निर्गच्छति) जीवदेवः ५०. प्रिये । सञ्जीविनि ! त्वमपि वधू शान्तिप्रभा अभ्यञ्जनपट्टवस्त्रधारणनवरत्नखचितभूषणालङ्कारादिना सिहांसना- लङ्काराधिगमाय सज्जीकुरु । सञ्जीविनी-५१. तथैव करोमि । (शान्तिप्रभाया अन्त:- पुरं प्रविश्य यथोक्तं करोति) ५२. (महासभामण्टपे दिव्यरत्नखचितसिंहासने ज्ञानसूर्य शान्तिप्रभा चोपवेश्य तीर्थोदकैः अभिषेकमन्त्रैश्च तावभिषिञ्चन्ति ब्राह्मणोत्तमाः महाराजमन्त्रिसचिवादयश्च । दिव्यवाद्यान्वादयन्ति- आतोधकाः। गायन्ति वनिताः। स्तुवन्ति वन्दिनः। शंसन्ति मागधाः । शुभमाशंसन्ति सर्वे जनाः) ४७. एवं शुभपरम्पराप्राप्तिः गुरुजनाशोबलेन भवतीति खपितरि सविनयं पितृमक्तिं प्रदर्शयति । ४८. मङ्गलस्नानादिकं कृत्वा पुरोहितानुमत्या सनियमः विध्यु- तानि होमादिशुभकार्याणि निर्वतस्वेति राजा पुत्रमादिशति । ४९. पितुराज्ञां शिरसि धारयन् कर्तव्यसम्पादनाय गच्छति कुमारः । ५०. वधू' शान्तिप्रभामपि समुचितवस्त्रभूषणाद्यलङ्कारैर्महिषीपद- संपादनाहीं कुर्विति स्वमार्यामादिशति जीवदेवः । ५१. तथैव करोमीति निर्गत्य अन्तःपुरं प्रविश्य यथोपदेशं सर्व सम्पादयति सञ्जीविनी । ५२. "महासभामण्टपे दिव्यरत्नखचितसिंहासने ज्ञानमूर्य शान्ति- प्रमां चोपवेश्य तीर्योदकैः अभिषेकमन्त्रैश्च तावभिषिञ्चन्ति ब्राह्मणाः" जीवसञ्जीविनीनाटकम् पुरोहिताः- खस्त्यस्तु राज्ञे नृपवर्य तुभ्यं राज्यस्य रक्षाम्तु यशस्विनी ते । दीर्घायुरारोग्यसुसम्पदस्तु खेष्टार्थसिद्धिं कलयन्तु देवाः ॥२१॥ ज्ञानसूर्यः-५३. अनुगृहीतोऽस्मि । प्रद्योतः-- भासन्तां तव राज्यशासनपरास्सन्नीतयस्सौख्यदा वर्तन्तां त्वयि राजभक्तिमहिता धर्माश्रितास्सत्प्रजाः। सेवन्तां पितृवत्सुवत्सलगुणं त्वां भृत्यवर्गाः प्रिया- देधन्तां परदेवताकरुणया सर्वत्र सर्वे जनाः ॥२२॥ इत्यादिना पट्टाभिषेकाय यद्यद्विहितं यद्यदावश्यकं तत्सर्व साधितमित्यव- गम्यते । “आतोद्यकाः” इत्यनेन गीतकनर्तकादयोऽपि गृह्यन्ते । ततः प्रचलति मङ्गलाशी:- जयाशी:- प्रशंसाशीश्च । यथा-पुरोहिताः वेदमन्त्रैरेवं प्रकारेणाशासते । स्वस्त्यस्त्विति-हे नृपवर्य! - राजश्रेष्ठ! राज्ञे तुभ्यं राज्यधुरंधराय ते स्वस्त्यस्तु समस्तमङ्गलं भवतु । राज्यस्य-मार्ताण्डदेशस्य ते रक्षा त्वया करिष्यमाणं राज्यशासनं यशस्विनी अस्तु-कीर्तिपात्रं भूयात् । दीर्घायुरा. रोग्यसुसम्पदस्तु-चिरकालिकमायुष्यं शारीरकमानसिकशान्तिः- सकलेश्वर्य- प्राप्तिश्च भवतु । देवाः- इष्टदेवताः कुलदेवतास्सर्वे वेष्टार्थसिद्धिं कलयन्तु- तव मनोरथान् सर्वान् सफलान् कुर्वन्तु । इन्द्रवज्रावृत्तम् ॥२१॥ ५३. अनुगृहीतोऽसीति ब्राह्मणाशीर्वादान् परिगृह्णाति । वृद्धरानः प्रद्योतः पट्टाभिषिक्तं पौत्रमेवमनुशास्ति- मासन्तामिति-तव राज्यशासनपराः-राज्यस्य शासनार्थ त्वयोद्दिष्टाः, सौख्यदा:- प्रजानुकूलकारिण्यः सन्नीतयः- श्लाघ्याः राजनीतयः भासन्ता- सर्वत्र निरन्तरायाः प्रकाशन्ताम् । त्वया एवं कृते, त्वदेशे विद्यमानाः जनाः सत्प्रनास्मन्न:- स्तुत्यवमगाः सन्तः त्वयि राजभक्तिमहिताः तव विषये ।

पञ्चमोऽङ्कः ज्ञानसूर्यः-५४. कृतज्ञोऽसि । जीवदेव:- श्रिया जुष्टं सर्वं भवतु सुखदं स्वाश्रितवताम् धिया युक्तं शक्तं वदतु हितदं त्वां परिजनः । त्वया लब्धं सत्यं लसतु यशसा भव्यकलितम् मया दत्तं राज्यं वहसि निभृतं श्रेष्ठमधुना ॥२३॥ राजमक्तिमरिताः धर्माश्रिताश्च - स्वस्वधर्मपालनपराश्च वर्तन्तां-भवन्तु । भृत्यवर्गाः-रानद्वारे नियुक्तास्सेवकजनाः पितृवत्सुवत्सलगुणं त्वां-सुतान् पितरो यथा तथा प्रजाः वात्सल्येन पालयन्तं त्वां प्रियात् सेवन्तां-प्रीति- पुरस्सरं तवाज्ञां पालयन्तु । सर्वत्र-अस्मद्देशे विद्यमानाः सर्वेजना:-अखिलाः प्रजाः परदेवताकरुणया-जगदीश्वरानुग्रहेण एधन्तां-सकलाभ्युदयैरभिवर्धन्ताम् । शार्दूलविक्रीडितं वृत्तम् ॥२२॥ ५४. अनुगृहीतोऽस्मीति विनयेन प्रणमति । इदानी जीवदेवो राज्ये अभिषिक्तं स्वसुतमेवमाशिषाऽनुगृह्णाति- श्रियेति-स्वाश्रितवतां-त्वामाश्रितवतां त्वत्प्रजानामिति यावत् । सर्व यद्यदभीष्टं तस्सर्व श्रिया जुष्टं-सम्पत्करं सुखदं च भवतु-सुखकरं च भूयात् । प्रजाहितार्थ यद्यदपेक्ष्यते तत्सर्वं त्वं सम्पादयेति भावः । परिजन:-मन्त्रिसचिवा मात्यलेखकगणकभृत्यादिसेवकवर्गाः त्वां प्रति यद्यदावेदितव्यं तत्सर्व धिया युक्तं-सम्यगालोचितम् शक्त-कार्यकारि हितदं प्रयोजनकरं यथा भवेत्तथा वदन्तु । अनेन भृत्यवर्गाः राजाज्ञापरिपालकाः हितैषिणश्च भवन्त्वित्यभि- प्रायः द्योत्यते । त्वया लब्धं सत्यं त्वयानुवय॑माना सत्यपरिपालनधोरणी भव्यकलितं शुभोदर्केण युता यशसा लसतु-कीर्तिप्रदा प्रकाशताम् । अनेन सत्यधर्मपरिपालनरीतिरुपदिष्टा । मया दत्तं श्रेष्ठं राज्यं-अद्य मया त्वयि निवेशित-एतावत्कालपर्यन्तमकलङ्क परिपालितं अतः अनर्घमिदं राज्य अधुना निभृतं वहसि-निश्चलमनस्कस्सन् इदानीं वहसि । मद्राज्यमिदानीं तवाधीनम् जीवसाविनीनाटकम् ज्ञानसूर्यः-५५. गुरुजनानुग्रहः मम सर्वत्र शुभोदर्कसम्पाद- का । कृतज्ञोऽसि । कलानिधिः वरगुणगणसीमा वेदशास्त्रार्थधामा पितृकरकृतराजः पारिजातः प्रजानाम् । दिशतु तव हितार्थान् देववृन्दं समोदम् चिरमव तव राज्यं चारु कीर्तिं भजख ॥२४॥ ज्ञानसूर्यः-५६. मातामहस्याशिषमहं सातिशयं मन्ये । सुधांशु- माधवं त्वमुमाधवं भज सन्ततं निजसन्तति- र्जायतां तव जायया सहजायतां सहजायतिः । राजशेखर राजतां तव राजनीतिजरञ्जनम् जीव जीवज जागरो भव जीविजीवनजन्मने ॥२५॥ नीतम् । त्वद्राज्यमिह त्वं स्थिरमनसावहन् पूर्वोक्तप्रकारेण परिपालथेति पुत्रस्य पितुरनुशासनम् । शिखरिणीवृत्तम् ॥२३॥ ५५. गुरुजनानुग्रहबलान्मम सर्वत्र कार्यसिद्धिर्भवतीतिविनयोक्तिः । राज्ञः कलानिधेराशीस्वम्- वरगुण इति-त्वं वरगुणगणसीमा-श्रेष्ठगुणानामाश्रयः, वेदशास्त्रार्थ- धामा-श्रुतिस्मृत्युदितविधिवदाचारप्रचारनिपुणः, पितृकरकृतराजः- पित्राऽद्य- दत्तस्य राज्यस्य वोढा, प्रजानां पारिजातः-पञ्चानां देवतरूणां मध्ये पारिजात इव त्वं प्रजानां सकलेष्टार्थप्रदः । ईशस्य तव देवबृन्द-सर्वे देवाः- हितार्यान् क्शितु अभीष्टसिद्धिं कुर्वन्तु । तव राज्यं चिरमव त्वद्राज्ये बहुकालं सुस्थिरो भव । चारु कीर्ति भजस्व-प्रशस्तयशसा प्रसिद्धो भव । मालिनी- वृत्तम् ॥२४॥ ५६. इदं गुरुजनेषु प्रीतिगौरवं व्यनक्ति ।

तव निजा सन्ततिः-प्रकृतिसिद्धा पुनसन्ततिः जायतां-भूयात् । वंशाभिवृद्धि २६२ पञ्चमोऽङ्कः ज्ञानसूर्यः-५७. श्वशुरकृतशुभा शंसनं जामातरि सफलं भवत्विति प्रार्थये । (इदानीं पुरुषजनाः यथा ज्ञानसूर्यमाशीभिः प्रशं- सन्ति तथा स्त्रीजनाः ज्ञानसूर्यस्य पट्टमहिष्याः शान्तिप्रभाया- श्शुभमाशंसन्ति । यथा-) इयं सुधांशोराशंसा- माधवमिति-त्वं सन्ततं माधवं उमाधवं च भज-त्वं विष्णुं शिवं च सर्वदा पूजय, तावेकत्वेन भावय-न तु तयोरन्तरं पश्येति भावः । जगत्सृष्टि- स्थितिलयहेतुः परमात्मा एक एवेति भावनया भगवद्ध्यानपरो भव । त्वत्प्रजा अपि “यथा राजा तथा प्रजाः” इति न्यायेन यदा त्वामेवानुसरन्ति, तदा देवताविषयको मतकलहो विलयं याति । तेन राज्ये सर्वे ऐकमत्येन वर्तन्त इति बहुमतमतिनिरासायायमुपदेशः । तव जायया सह पत्नीसहितस्य- रस्तु इति तात्पर्यम् । वैराग्येण गृहस्थाश्रमं मा परित्यजेति ध्वनिः । सहना आयतिः जायतां-सर्वत्र सम्पदभिवृद्धिस्वभावाद्भवतु । यत्र राजा सुराना प्रजाश्च सत्प्रजाः तत्र स्वभावेन सकलश्रेयोभिवद्धिर्भवतीति तात्पर्यम् । हे राजशेखर ! - राजाधिराज ! तब राजनीतिजरञ्जनं राजताम्-ते राजनीति पुरस्कृतं प्रजानुरञ्जनं सर्वत्र प्रसिद्धं भवतु । अन्येषामादर्शकं भूयादित्याशंपा। हे जीवज-हे जीवदेवसुत जीवि-जीवनजन्मने-प्राणिनां जीवन कल्पनायैव त्वं जीव-प्राणान् धारय । तदर्थं जागरो भव तत्सम्पादनायाप्रमत्तो भव । त्वद्देशे सर्वे सुखेन जीविका सम्पादयन्तु एकोऽपि दरिद्रो मा भूदित्याकूतम् । इदं प्रद्यं हरिचतमवृत्तनिबद्धम् । तल्लक्षणम्-"रात्सजौ जमरा विदुर्वसुदिग्यतिह- रिचङ्कमः" । इति । ५७. सुधांशोः प्रशंसा स्वस्मिन सार्थिका भवत्विति प्रत्याशां प्रदर्शयति ।

जीवसञ्जीविनीनाटकम्
२६३
MAAL HAMALA
प्रभावती-
शान्तिप्रभ त्वं बहुभाग्यशालिनी त्वं ज्ञानसूर्ये अव भूतिकारिणी ।
कान्तप्रमोदं तनु शान्तवर्मना भूया नितान्तं जनवत्सलाऽनिशम् ।।
शान्तिप्रभा-५८. महाराज्यास्सदुपदेशमनुपालयामि ।
सञ्जीविनी-पतिसेवा निरता त्वं हितकार्य कुरु मोदा-
त्तव देवा वितरन्तु स्थिरभाग्यं भुवि योग्यम् ।
भव राज्ञी वरराज्ये कुरु सौख्यं सुजनाना-
मव कीर्ति रविवंशे प्रथिता स्था स्स्तुतवृत्तैः ॥२७
पितामही प्रभावती शान्तिप्रभामेवं प्रशंसति-
शान्तीति-हे शान्तिप्रभे! त्वं बहुमाग्यशालिनी-अत्यन्तादृष्टशालिनी
त्वं ज्ञानसूर्ये भूतिकारिणी भव-मर्तृहितचिन्तका भव । त्वं शान्तवर्मना भर्तृ-
प्रमोदं तनु कदाचित्क्रुद्धमपि पति त्वं क्षमायुक्ता शान्तमार्गेणैव तस्य सन्तोष-
मभिवर्षयस्व । त्वं नितान्तं जनवत्सला भूयाः-विशेषेण जनानुरञ्जनपरा भव ।
पुत्रवती स्वपुत्रे इव त्वं प्रजासु पुत्रवात्सल्यं कुर्विति वध्वाः हितोपदेशः ।
इन्द्रवंशावृत्तम् ॥२६॥
तल्लक्षणम्-"स्यादिन्द्रवंशाततजैरसंयुतैः" । इति ।
५८. महाराझ्या यदुपदिष्टं तदहं परिपालयामि ।
श्वश्रूस्सञ्जिविनी स्नुषामेवमुपदिशति-
पतिसेवेति-त्वं पतिसेवानिरता सती-पतिमतानुनी भूत्वेत्यर्थः ।
मोदात् हितकार्य कुरु-सहर्ष तस्य प्रियमेवाचर । देवाः-सर्वा देवताः तव
मुवि योग्य-तेऽत्र सम्भावितं स्थिरभाग्यं वितरन्तु-शाश्वतैश्चर्यमनुगृह्णन्तु ।
वरराज्ये त्वं राज्ञी भव-अस्मत्पूर्वजैरुपभुक्तश्रेष्ठराज्येऽद्य ममस्थाने त्वं श्रेष्ठराज्ञी
भव । सुजनानां सौख्यं कुरु साधवो ह्यस्मत्प्रजाः तासां सुखापादककार्याणि
राजमुखात् कारय-युक्तकाले त्वमपि तथा कुरु । कीर्ति अव-एतावत्पर्यन्तं
पूर्वामीराज्ञीभिराजितां सत्कीर्ति त्वमपि पालय । स्तुतवृत्तैः रविवंशे प्रथिता
:-अस्मिन् सूर्यवंशे त्वं गुणशीलवृत्तैः प्रसिद्धा भव । गुणभूषावृत्तम्॥२७॥

पक्षमोऽङ्कः - शान्तिप्रभा-५९. मातृजनाशी, मङ्गलसन्ततिमातनोति । कृतज्ञा भवामि । चन्द्रिका- सुमते भव सुमुखी जनपरिपालनविषये स्वपतिर्यदि विमुखो बहुकृतितोऽस्ति तदुदये। सकलापदि पतिमाश्रय हितदं निजसुखदम् मम वर्त्मनि चर सअनि हृतछमनि वसतात् ॥२८॥ शान्तिप्रभा–६०. सर्वत्र भवत्या वृत्तमनुसरामि । ५९. श्वश्रू मातृभावनया एवं वदति । अनेनास्याः सौजन्यं सौहार्द च स्पष्टं भवति । शान्तिप्रभायाश्चन्द्रिकया कृता प्रशंसा- सुमत इति-हे कुमारि सुमते ! - अयि बुद्धिमति ! जनपरिपालन- विषये प्रजानां बन्धुजनानां च संरक्षणविषये सुमुखी भव-त्वं प्रसन्ना भव । कदाचित्स्वपतिः बहुकृतितः-कार्यबाहुच्यात् यदि तदुदये विमुखोऽस्ति-प्रजा- रक्षणकार्य यदि कर्यचिदुपेक्षते तदा त्वं सुमुखी भव-प्रसन्ना भूत्वा तत्कार्य निर्वाहय । सकलापदि-सर्वेषु आपत्सुमयेषु हितदं निजसुखदं पति आश्रय- प्रियकरस्सुखकरश्च यस्तव भर्ता तमेव परमगतिकत्वेन भन । न कदापि स्वार्थहितैषिणी तं त्यजेति भावः । मम वर्मनि चर-मम मार्गमनुपर । हृतछ. अनि समनि-निष्कपटवति गृहे वसतात्-वस । अथवा हृतछद्म यथा-तथा गृहे निवसतात निवास कुरु । करिणी वृत्तम् ॥२८॥ ६०. त्वं यथा सर्वमान्यतया वर्तसे तथा वर्त इत्यभिप्रायः । सुप्रभया मात्रा एवमाशासिता दुहिता- अङ्गनेति-अयि अङ्गनामणे हे नारीमणे ! मङ्गलाङ्गि-शुभाङ्गि त्वं मङ्गलैस्सङ्गता भव-समस्तमङ्गलमाग्भव । मङ्गलाङ्गकरङ्गवत्पतिसङ्गतः- मङ्गल स्वरूपो यो रङ्ग:-रङ्गनाथ:-पदेकदेशे पदग्रहणं-जगन्नाट करङ्गस्य प्रभुः महा- जीवसञ्जीवनानटिकम् २६५ MMERama- सुप्रभा अङ्गनामणिमङ्गलानि सुसङ्गता भव मङ्गलै- मङ्गलाङ्गकरङ्गवत् पतिसङ्गतस्तनु मङ्गलम् । इन्दिरा हरसुन्दरी विधिसुन्दरी त्वयि सुन्दरि ! स्यन्दयेदिह सुन्दरानभिनन्दनान्दशनन्दनान् ॥२९॥ शान्तिप्रभा-६१, एतादृशी खलु जननीजनस्याशीः। त्वं प्रियवत्सला त्वदाशीमें मङ्गलमनवरतमातनोति । सर्वे-६२. हे जीवदेव ! किमन्यद पेक्षसे ? जीवदेवः-६३. सर्वमपेक्षितमत्र समधिगतं भगवदनुग्रहेण, भवदीशिर्बलेन च । इतोऽपि किमन्यदस्त्यपेक्षितव्यम् । तथापीद- मस्तु-(भरतवाक्यम्) विष्णुः स इव स्थितस्य तव भर्तुस्सहवासेन मङ्गलं तनु । सर्वेषामित्यध्या- हारः । "नाविष्णुः पृथिवीपति" रित्या दिना विष्णुसाम्यं समुचितमित्य- वधेयम् । हे अन्दरि ! अयि कोमलाङ्गि ! इन्दिरा-लक्ष्मीः, हरसुन्दरी- गौरी, विधिसुन्दरी-सरस्वती च, सुन्दरान्-रूपलावण्ययुक्तान् अभिनन्दनान्- गुणशिलवृत्तैरमिनन्दनकरान् दशनन्दनान-दशसंख्याकान् पुत्रान् त्वयि त्वदर्भात स्यन्दयेत्-उत्पादयतु । देवताप्रसादेन तव गर्ने गुणाढ्याः दस पुत्राः जायन्तामिति तात्पर्वम् । “दशास्यां पुत्रानाधेहि"-इति श्रुतिवचना- नुसारेण इयमाशीः कृतेति ध्वनिः | हरिचङ्कमवृत्तम् ॥२९॥ ६१ प्रायशः जनन्यः एवमेव दुहितृः आशासते । मयि तव प्रीतिरन्यादृशी । तवाशी लेनाहं पतिमती पुत्रवती च भवेयमिति प्रत्येमि । एतदर्थं अहं ते कृतज्ञा भवामीति पुत्र्याः प्रेममरितविनयोक्तिः । ६२ किमन्यदिच्छसीति नायकं प्रति बन्धुजनानां प्रश्नः । ६३. परेशप्रसादेन-भवतां द्विजादीनां बन्धुजनानां कृपाविशेषेण च अपेक्षितं स समधिगतम् । सर्वाभीष्टं फलितमिति भावयामि । इतोऽपि वाच्छितव्यं न किमपि विद्यते । तथापीदं लोककल्याणमपेक्ष्यते- ।

पञ्चमोऽङ्कः आर्योतकलावितानमधुना भूयोऽपि सन्धार्यता- मायुर्वेदपरप्रभावमहिमा जेगीयतां भूतले । आयुर्दीर्घनुदाचबुद्धिरतुला सम्पायता सज्जन- राभूतिपरम्परात्र सततं ज्ञानेन सम्भुज्यताम् ॥३०॥ आर्येति-आर्योद्भूतकलावितान-सनातनैः प्राचीनायः ये ये शिल्प- वैद्यचित्रकवितासङ्गीतकलादिलौकिकग्रन्थाः- धर्मशास्त्रादिस्मृतिग्रन्थाः- अर्थ- शास्त्रादिराजनीतिप्रधानग्रन्थाः- तेषां प्रकरः, अधुना भूयोऽपि सन्धार्यता- अधुनेत्यनेन एतावदवधि तनष्टप्रायमेव पुनरपि तैरेगोन्जीयतामित्यर्थः । आर्यविद्यामूलानि ज्योतिश्शास्त्रादीनि देशान्तरेष्वप्यद्य यथा प्रथां प्राप्तानि तथा आयरैवात्र पुनः प्रसिद्धिं नीतानि भवन्त्विति तात्पर्यम् । आर्यसंस्कृतिः तेजोहानादार्यावर्ते, अवनतिभाग्भवतीदानीम् । तत्तेनोबलं पुनस्सम्पाच अवनतिमुत्सार्थ समुन्नति प्राप्नुवन्त्वार्या इति कविहृतमावः । भूतले-लोकेषु आयुवेदपरप्रभावमहिला-चरकधन्वन्तरितुश्रुतादिकालेषु आयुर्वेदस्य सर्वो- त्कृष्टःप्रभावः- शक्तिः महिमा, प्रयोजनं यथा आसीत् तथैव पुनः जेगीयतां- महोन्नतिमारूढस्सर्वत्र वरीवर्ततामित्याशयः । दीर्घ आयु:- चिरायुष्कत्वं अतुला-असमाना उदात्तबुद्धिः- उदारमतिश्च सज्जनैः- सर्वैरास्तिकैः आर्य- संस्कृतिसमुन्नतिरतैः सम्प्राप्यतां इत्यभिप्रायः । आयुर्वेदोन्नतिकाले जनाः दीर्घायुषः भूतहितचिन्तया उदारबुद्धयोऽभूवन् । कारणान्तरैरिदानीमनेके तत्प्रतीपवर्तिलो भवन्ति । पुनः पूर्वदशासम्पन्ना भवन्त्विति प्रत्याशासूचको- क्तिः । आर्यैः प्राचीनार्यवंशोद्भवैः अत्र-अस्मिन् लोके सतत-सर्वदा ज्ञानेन- वेदशास्त्रकलाप्रभावज्ञानवैभवेन भूतिपरम्परा - सकलैश्वर्यसम्भूननिरतिशयसुखं सम्भुज्यतां-अनुभूयताम् । सुख सम्पादकसबैश्वर्ययुक्ता भवन्तु ते इति तात्प- यम् । शार्दूलविक्रीडितवृत्तम् ॥३०॥ ।

जीवसञ्जीविनीनाटकम्
२६७
सर्वे-६४. तथास्तु तथास्तु ।
इति निष्क्रान्तास्सर्वे
इति श्री वेङ्कटरमणार्यविरचिते 'जीवसञ्जीविनी नाटके
पञ्चमोऽङ्कः
॥ समाप्तमिदं नाटकम् ॥
जीवसञ्जीविनीनाम नाटकं रचितं मया।
वङ्कटरमणार्येन जीयादेतन्महीतले ॥
विक्रमाब्दे (कलि ५०४१) शुचौ मासे कृष्णपक्षद्वितीयके।
दिवसे भानुवारेऽस्मिन् संपूर्णासीदियं कृतिः ॥
नमस्तसन्मङ्गलानि भवन्तु
MASTER
me
६४. एतद्भरतवाक्याथै सर्वेऽनुमोदन्ते ।
इति तृतीयहमव्याख्या
इति श्री वेङ्कटरमणार्यविरचिते जीवसञ्जीविनीनाटके
पञ्चमास्य स्वेनैवंकृता रसोल्लासिन्याख्या व्याख्या समाप्ता।
समाप्ता च सम्पूर्णनाटकव्याख्या
॥ शुभं भूयात् ॥
विक्रमाब्दे मार्गकृष्णतृतीयाभौमवासरे।
या रसोल्लासिनी व्याख्या स्वीया पूर्णा जयत्यसौ ॥
शुभं भवतु

वि. बि. सुब्बय्य अण्ड सन्स, प्रिंटर्स, बेंगलोरसिटि.

( Appendix I) प्रथमः परिशिष्टः A श्री वेङ्कटरमणीयां सम्कृतग्रन्थावलिमधिकृत्योप. लब्धाः केषांचित्पण्डितानामभिप्रायाः। श्रीमत्परोपकार श्रीसुब्रह्मण्यसन्निधानसद्गुरुपीठमहाविद्वान् ज्योतिष- रत्नाकरं श्रीमहामहोपाध्यायश्रीशिवसुब्रह्मण्यराजयोगि सिद्धान्तिशिवशंकर- शास्त्रिसमनुगृहीतमंगळानुशासनम् । स्वाशयानन्दसूक्तिः श्री कुमारस्वामिशैले बेङ्गळूरु. (८-१-३९) १. स्तुतिकुसुमाञ्जलिरेषा श्रुतिहितचितभावरसविशेषाऽशेषा । नुतिपदसरणिरदोषा गतिदेह परत्र चेति सज्जनमाषा ॥ २. परिवतनकवितायाश्चातुर्य भावपुष्टिमाधुर्यम् । कमलानयरूपकना परिपाटी सरसवाग्वधूटीपेटी ।। ३. समवृत्तसरसरचना कमनीया कविजनेषु कल्याणकरी । वेङ्कटरमणार्योदितसांकल्पिककृतिषु सूक्तिरुचितोक्तिस्स्यात् ।। ४. विममत्वाहतविदुषा शिवशंकरनामकेन सत्वजुषा । विनयविवेकत्वपुषा शिवमस्त्विति विरचिता प्रशंसैषा ॥ प्रशस्तिपत्रम् । १९४४ क्रिस्ताब्दीयाक्टोबरमासस्य सप्तविंशदिवसीया लिपिरेषा । श्री कालीपदतर्काचार्यस्य (महामहोपाध्यायस्य) कलिकताराजकीय संस्कृत- महाविद्यालय-प्राच्य विभागीय-प्रधानाध्यापकस्य ।

ii
सुललितरीतिपरीतः परितप्तानां मुदां दाता |
काव्यप्तमुत्यग्रन्थः कविना दत्तो विलोकितोऽस्माभिः॥
श्रीमद्वेङ्कटरमण: क्रिस्य जयत्यतिप्राज्ञः ।
वैदिकविषयालम्बं य इदं व्यदधान्महागुणं काव्यम् ।।
काव्ये चात्र पवित्रा रसगुणचित्रा प्रिया रीतिः ।
जनयति मनसो ह्लादं मुनिपुणमनसां सदा निरावाधम् ।।
सहना कविताशक्ति कविरयमेति प्रतिश्लोकम् ।
यस्मादस्य विबन्धाः सौष्ठवमापुः समन्ततो दीप्तम् ॥
विद्याप्रकटनहेतोरत्र न किञ्चिद् वृतं विनैवार्थम् ।
सौष्ठवबीनं यद् यन्नापि च तत्तद् धिया परित्यक्तम् ॥
इत्थं वैदिकविषयानवलम्ब्य ललितकाव्यनिर्माता ।
कविरतिविरलो लोके वचनं यस्य प्रियं सतां ग्राह्यम् ॥
एतत्काव्य विमर्शाद वैदिकविषये क्वचिज्ञानम् ।
आयासेन विना स्यात् काव्यं भजतां सदा सनिबन्धम् ।।
नवयुवतीव रसाढ्या सगुणा सालकृतिः प्रियाकारा ।
रचनात्र सप्रसादा सुखाय भवति स्वयं समायाता ।।
सम्प्रति सुरभाषाया विषमे प्राप्तेऽभितो दशाभेदे ।
ईदृशकविताशक्ति विरलां लोके समालोके ॥
उमादर्शकाव्ये चितो दर्शनाथः, कवित्वप्रकर्षोऽपि तत्रातिपुष्टः ।
उमादर्शकाव्यं ततः सत्कवीनां मनस्तत्त्वसन्तर्पणं भूरि जीयात् ॥
रीत्यानया दयितया यदि सत्कवीनां यत्नः कृतौ भुवि मवेदिह भाग्ययोगात् ।
गीर्वाणवाङ् न खलु जीवति सा मृतेति लुप्तो भवेद् वितथ एष सदा प्रवादः ॥
एवं रीत्यानेककाव्यप्रणेता दीर्घ जीव्याद् वेङ्कटः प्राज्ञरत्नम् ।
प्राचीनानां येन धारा कवीनां नो विच्छिन्ना सम्प्रदायं विलुम्पेत् ॥

111- शुद्धिपत्राद बहिः किञ्चित् स्खलितं क्वचिदीक्ष्यते । तत्र ग्रन्थकृता दत्तमवधानमिहार्थ्यते ।। इति ॥श्रीः ॥ सि. आर. रामचन्द्र आचार्य, बि.ए., सिरस्तेदार, म्बकोर्ट, (रिटर्ड), नं. ३६ व्यासराव स्ट्रीट, कुम्भकोणम्. अचिरादद्राक्षमहं वेकटरमणार्यकोविदाम्यस्य । काव्यचतुष्टयलसितां कृतिमेतां सर्वविद्वदभिनन्द्याम् । ॥१॥ पद्यमयी कृतिरेषा श्राव्यग्रन्थेषु माननीयाऽऽस्ते । गुणयुक्तपदविभूषा रीतिर्यस्या लसत्यनिन्द्यार्था ॥२॥ सुव्यक्तार्थपदात्र श्लाघ्या शैली सुशब्दसंश्लिष्टा । काव्यालंकृतिविहिला शोभा यस्याश्चकास्ति सर्वत्र ॥३॥ काव्यानामेतेषां वस्तून्यात्तानि वेदशाखाभ्यः । इतिहासपुराणेभ्यः कतिपयकविभिहितानि काव्येषु ॥४॥ कविरेष तेषु मान्यः चातुर्यात्तत्कथासुविन्यासे । काव्यचतुष्टयमेतत् मान्यं संसत्सु यत्सतां नित्यम् ॥५॥ श्रितजननुतनामशललक्ष्मी- नृहरिपरार्ध्यवरप्रसादयोगात् । कविकृतिलतिका सतां हृदीयं विलसतु हृद्यफला च पुष्पिताना ॥६॥ इत्येवं संस्तुतं काव्यचतुष्टयमिदं मुदा । कमालुरामचन्द्रेण कुंभघोणनिवासिना ॥७॥ कुंभघोण २५.८.४४ कुं, रा. रामचन्द्राचार्यः ॥ } iv श्रीमद्भिः निवृत्त तहशीलदारपदैः रमाकांताचार्य: बापट्ल १-१-१९४४ प्रशंसारत्नपञ्चकम् श्रीवेङ्कटरमणकवे ! तावककविता स्वभावरमणीया । विद्वत्कविराणमानससरोवरमरालिकेव सञ्चरति ॥ आम्नायगर्भननिता यज्ञीयामलपरिमलोल्लसिता । ललितपदन्यासध्वनिरुचिरालंकारसुभगतन्वंगी ।। भवदीयकाव्यसमुदयनवविकचशिरीषकुमुममञ्जुलता । तत्रोक्तकथादर्शिततारोज्वलकान्तिमाशु लंघयति ॥ मृतकल्पानां हाथि न कदा साक्षात्करोति गीर्वाणी । अमृतमयी सुरवाणी नैगमवेणी कलाढ्यसुश्रोणी ॥ जयतु भवदशेषज्ञानविज्ञानधाटी प्रवचनपरिपाटी शारदारत्नपेटी । जयतु ऋषिकुमारागाधवेदानुरोध- प्रसृमरबहुगाधामूल्यदिव्यप्रबोधः ।। युष्मत्काव्यरसास्वादात् धन्योऽसीति समर्पये । काश्यपोऽहं रमाकान्तः प्रशंसारत्नपञ्चकम् । मंजूलाल दवे प्रिन्सिपाल श्यामसुन्दरम्यमोरियल कालेज चान्दोसी. यु. पि. (-११-३९ श्रीं वेङ्कटरमणार्येण विरचिताः कमलाविजयसर्वसमवृत्तप्रभावस्तुति- कुसुमांजलिनामकास्त्रयो ग्रन्या मया विहङ्गमदृष्टया परिशीलिताः परीक्षिताश्च । ताननुशील्य नितान्तमन्तस्सन्तोषमन्वभूवम् । तेषु कमलाविजयं नामैकमद्वितीयं नाटकमस्ति । काव्येषु नाटकमेव रम्यतरं काव्यमिति विदितमेव सर्वेषां सहृदयानाम् । यद्यप्येतत् “मालप्रड् टेनिसन्" विरचितस्य "कम्" नामकस्य नाटकस्य परिवर्तनमेव, किन्तु तद्गुःखान्तमा- सीत् । एतत्तु सुखान्तत्वपूर्वकं भारतीयनाटकाचारसमन्वितं स्वप्रतिमा- कल्पितनूतनविषयपरिवर्धितञ्च मुष्टु निर्भितमिति विदांकुर्वन्तु काव्यप्रण- यिनो विद्वांसः। अत्रागताः अबाधितरसास्वादनालङ्काराः एतत्पठतां चेतसि कमप्यनिर्वचनीयमानन्दमुद्भावयन्ति । अत्रत्यः प्रसादगुणस्तु काळि- दासस्वीकृतपरिपाटीमनुसरति । अत एवैतत् संस्कृतप्रणयिविद्यार्थिनां हित विधास्यतीति निर्विवादमेव । सर्वसमवृत्तप्रमावस्तु छन्दोविषयको ग्रन्थः “छन्दः पादौ तु वेदस्येति" छन्दः शास्त्रस्य साहित्यरसिकानां कृते महदुपयोगिवमिति विदितमेव सवषाम् । यद्यपि छन्दश्शास्त्रे, वृत्तरत्नाकर-छन्दोमंजरीत्यादयो बहवो ग्रंथास्सन्त्येव- किंतु पुनरपि ह्यस्मिन् ग्रन्थे एकवर्णात्मकवृत्तमारम्य षड्विंशतिवर्णात्मकवृत्तं यावत् सर्वेषामपि वृत्तानां बहूनि सरळानि स्वप्रतिभया विरचितानि नूत, नान्युदाहरणानि संयोजितानि सन्ति । एतदतिरिक्तं ग्रन्थका स्वकृतो- पोद्घाते छन्दोमाहात्म्यं गुरुलघुज्ञानोपायं वृत्तस्वरूपम्, वृत्तानां प्रयोग इत्यादीनि बहूनि वस्तूनि सम्यगुपवर्णितानि सन्ति । एतस्यावलोकनेनानुशील- नेन च विद्यार्थिनो महालाभमधिगमिष्यन्ति इत्याशास्यते । "स्तुतिकुसुमांजलिः" ईश्वराराधनविषयको ग्रन्थः । परमपदप्राप्त्यर्थ- मुद्भवस्थितिलयकारिणः परमपितुः परमात्मनः प्रसादनार्थ वा, ज्ञानध्यानादि- साधनानां मध्ये स्तुतिरपि एकं परमं साधनमस्ति । अस्मिन् ग्रन्थे प्रकृति- पुरुषादिविभिन्नपदवाच्यस्य परमात्मनो द्वैततत्वमुद्भावयन्त्यश्चतस्त्रो देवता- प्रार्थनादयः एकादश सुब्रह्मण्यादयस्स्तुतयः सरससरळमधुरत्वादिरूपेणास्तिक- जनानां चेतस्यमंदमानन्दमुत्पादयन्ति । एतदुपर्युक्तग्रन्थत्रयमन्शील्य सर्वे विद्वद्वराः परमानन्दमनुमविष्यन्तीति शम् ।

vi
अ. कुप्पस्वाम्यायः (अय्यर)
संस्कृतपण्डितः । (राजकीय महापाठशाला) गवर्नमेण्ट कालेज
(कोयमुत्तूरु)
१३-११-१९३९
आर्याः अभिरूपमणयः। सन्तु नमांसि भूयांसि । दृष्टा मवत्पत्रिका ।
प्राप्तं च सदयं प्रेषितं पुस्तकानां त्रयम् । कृतज्ञोऽसि ।
मनोहरसुमनोगुम्भितः स्तृतिकुसुमाञ्जलिर्वाचितः चित्तवैकल्यं व्यपोह्य
मनसश्शान्तिमातनोति । भक्तिं च द्रढयति ।
समवृत्तप्रभावो भवतां प्रतिमां प्रकटयति । अन्ते निबद्धा अनुबन्धाः
खलु विविधवृत्तकान्तारपायोधिमवगाहतां नितरामुपकुर्वन्ति ।
अभिनववस्तुरचनालंकृतं कमलाविजयनाटकं मनो विनोदयति ।
शुभौदर्कमिदं नाटकं भारतीयनाटकलक्षणलक्षितं मंजुळपदनिबद्धं सादरं पठितं
मया नितान्तमानन्दमजनयत् ।
श्रीमती ज्योतिर्मयी भारती काव्यव्याकरणसांख्यतीर्था,
चहग्रामः (बेङ्गाल)
जगत्पुराश्रमः १३४ ६ वङ्गाब्दीयसौराश्विनमासस्य
षड्विंशदिवसे (१३-१०-३९)
परमसम्मानास्पदानां श्रीमतां वेङ्कटरमणार्यमहोदयानां सविधे
ससमादरसंभाषणानंतरमेतदने निवेदनीयम् ।
महाभागाः !
समासादितं सांप्रतं मया भवतां स्तुतिकुसुमाञ्जलिः-सर्वसमवृत्तप्रमाव:-
कमलाविजयनाटकं चेति निबंधत्रयम् । समवलोकिता च तत्र तत्र निबन्धानां

vii सरसभावशब्दविन्यासवैदग्धी । यदेतेषु भवन्तः-पुरातनरीत्यनुसारेण स्वलेखनी रसपरिवेशने नियोजितवंतः, मन्ये तेन निरीक्षकाणां सर्वेषामेव सा स्वान्त समाकष्टुंमलं भवितेति । निबन्धान्तरमपि भवतामायतौ संस्कृतमाषाको- विदानां नयनगोचरीस्यादिति नेयमन्याय्यकल्पना । यतश्चैवमादिवचनजातमनिशमेव भवन्निबंधगुणसंदोहप्रकाशने, पाष्टर्य- मेव वा प्रकटयिष्यति नः समालोचकपदवीमारुरुक्षुशेमुषी । ततस्तु तत्पथे पदमव्यापारयन्ती मवदुपायनग्रहणेन चिरायाधमर्णायमानाया गीर्वाणवाणी- परिचारिकाया मे तन्वी लिपिकेयं ग्रंयरसास्वादनानन्दवा” मवस्यो विज्ञापयतु । कृतं भवदनसमयव्ययविधायिवाग्वितानेन । इति शम् । नागेशशास्त्री मुख्याध्यापका। श्री शंकराचार्यसंस्कृतपाठशाला, धारवाड. नूनं सातिशयं घिनोति नश्चित्तं लौकिककार्यधूर्वहामामपि मवतां निरंकुशं संस्कृतभाषाप्रमुत्वम् । नाटके संविधानसौष्ठवं वृत्तप्रभावे बाल- बोधनक्षमा मधुरतरा शैली कुसुमांजलौ ललितपदवेद्यस्तत्तद्देवतालंबनः शुद्धो भावश्च समाकर्षन्त्यन्तरंगं पठितृणाम् । सर्वथा समादरणीयतां भजतु जनानामे- तत्प्रबंधत्रयम्, भवदीयपरिश्रमश्च फलेग्रहित्वमित्याशास्महे । हाराणचन्द्रभट्टाचार्यः राजकीयसंकृतमहाविद्यालयः, कलकत्ता. १०-१०-३९ अस्मिन्नतिदारुणे काले प्रायेण सर्वेषां भारतीयजनानां चित्तानि पाश्चात्यसभ्यताप्रभावविमथितानि जातानि ; स्वदेशमाषानुरागश्च विलुप्तः । ..

viii परं तु सांप्रत भवाशानां संस्कृतवाङ्मयानुरागोऽतीव प्रशस्तियोग्यो दृश्य- मानोऽस्माकं प्रमोदमरं नितरामाविर्भावयति । भवदीया सरस्वती सुमधुरा सुप्रसन्ना चेति सर्वेषां सहृदयानां हृदर्य- मवश्यमावर्जयिष्यतीति मदीयो विश्वासो न कदाचिद्विफलमेष्यति । विदुषा- मनुग्रहाकांक्षी। मैसूरु. संगीतशास्त्ररत्न २८-११-३८ के. वासुदेवाचार्यः ससौहार्द युष्मत्प्रेषितपुस्तकानि सावधान नावलोक्य तत्रत्यसुललित- पदविन्यासादिकं च विलोक्य नितरां मुमुदे । इमं चैक विषयं समावेद- यितुं त्वरते में मनः | पुस्तकेवतेषु विद्यमानस्तोत्ररूपपद्यानि कानिचित् संगीतरूपेण गातुं साधु वर्तन्ते । गायतां श्रोतॄणां च मनोहराणि भवन्तीति विद्वज्जनपदानुयायी। आस्थानविद्वान् न्यायतीर्थः काव्यतीर्थश्च । के. जिनराज शास्त्री. श्रवणबेळगोळ (२४-८-३९) भवन्महामतिमथितविद्यासागरोद्धृतामृतं ग्रन्थत्रयमास्वाद्य आनन्द- सागरनिमग्नोऽहं ततो निस्सतुं न पारये इति आवेदयितुं तुष्यतितरां मे चेतः। गीर्वाणवाण्यामितोऽपि महत्कृतीः विरचय्य समस्तविद्वत्परिषत्स्तूयमानकीर्ति- पूरितभुवनोदरा आयुरारोग्यधनसमृद्धिमानः चिरं भारतभूमिमलंकुर्वन्तु भवन्त इति करुणाकरपरमेश्वरसन्निधौ प्रार्थये।

ix श्री शृंगेरि जगद्गुरुसंस्थानम्. गुरुसेवाप्रवीण कालटी (३-८-३९) यन्. श्रीकण्ठ शास्त्री. भवद्भिः सम्प्रेषितं स्वकर्तृत 'सर्वसमवृत्ताख्यग्रन्थं यथाशयं भवतां तत्रभवतां गुरुवराणां सन्निधौ समर्पितम् । श्री श्रीगुरुवरा अपि सादरं तत्र तत्र ग्रंथख्य रीतिं सारल्यं भवत्कौशलं तेन गीर्वाणभाषाध्येतॄणां संभाव्यमानप्रयोजन च प्रत्यक्षीकृत्य संतुष्टान्तरंगाः अन्वगृह्णन्भवतः इत्यावेदयितुमानन्दतुंदि- लितोऽस्मि । चामराजनगर. आस्थानविद्वान् ज्योतिर्विद्वान् १५-१-३९ सिद्धान्ति तम्मय्यशास्त्री तत्रभवद्भिर्भवद्भिः कृपापूर्वक प्रेषितोमादर्शकमलाविजयनाटकसर्वसम- वृत्तप्रमावस्तुतिकुसुमांजल्याख्यग्रन्थचतुष्टयं सादरमवापि । अतीव सन्तोषमेति मच्चेतः । तत्रस्यः स्तोत्रग्रन्यो निगमांतसार[भितस्सरसशैल्यालंकृतः अपूर्व- पदनिचयचयः अपूर्वपदव्याख्यासमलंकृतश्च राजते । इतरा-ग्रंथांश्च सावधाने- मालोकयिष्यामि । शैशवेभ्यस्तविद्यानां यौवने विषयैषिणां.। वार्धके मुनिवृत्तीनामित्यादि- काळिदासोक्तेः आदर्शीभूता भवन्तः लोकोपकृत्यै ग्रन्थावलोकनरचनादि- कार्यपरम्परासु निष्णाताः कृतकृत्याः खलु । एवं लोकोपकारकद्भ्यो भगवान् वः आयुरारोग्यादिकं दत्वा पालयत्विति आशास्तेऽयं जनः । एम्. रामकृष्णभट् आर्यभाषाध्यक्षः संकृतोपाध्यायश्च, १३-१२-३९ सेंट्र, जोसफ्स कालेज बेङ्गळूरु. अयि महाभागाः, समासादितं मया ग्रन्थत्रयं सदयं भवद्भिः प्रेषितं कतिपयदिनेभ्यः पूर्वम् ।

x । भवद्धिविरचिताः अन्यमणयो विपश्चितां कर्णिका भवितुमहन्तीति बाढं विश्वसिमि । यतनिध्वपि मधुरिमा शैल्याः, गरिमा वस्तुनः महिमा च प्रतिमायाः सर्वांगीणपरिपोषचणोऽञ्जमा प्रदर्शितः । तत्रत्यशय्या पाकरीति- गुणरसोत्कर्षः समाकर्षति मनांसि सहृदयानाम् । 'सर्वसमवृत्तप्रभावे' प्रतिभोन्मेषो दरीहश्यते । स्वोपज्ञं विपुलमुदाहरणंच समेषां विद्यार्थिनामध्यापकानां चोपयोगाय समीचीनतया न्यास्थन् भवन्तः । ग्रन्थान्ते प्रदर्शितः प्रस्तारक्रमः पाश्चात्यानामपि विपश्चितां सशिरःकंपा श्लाघामधिगच्छेदित्यत्र नास्ति संशयलेशोऽपि । तत्र गणितज्ञानपूर्वकं भव- द्भिरपूर्वा विस्मयजननी विद्वद्धितकारिणी संशोधन क्रिया व्यधायि । स्तुतिकुसुमां- जलिरपि रसवत्पदोल्लासेन रुचिरेण गेयपद्यवृन्देन सहृदयस्य चमत्कृतिमात- नोति । आस्तिकानां देवताभक्तिं च द्रढयति । दर्शनतत्वसारांश्च बोधयति बालान्। 'कमलाविजयनाटकम्' आलंकारिकसमयमनुसृत्य भवद्भिः सुखपर्य- वसायि कृतम् । नैतत्संस्कृतसाहित्यविदुषां न शोभामावहति । अत्रस्थाः पद्यमागाः गयभागाश्च सुललितपदनिबद्धाः द्राक्षापाकं वैदर्भीरीति कैशिकी- वृत्तिं च साधु प्रकाशयन्ति । लोकवृत्तानुसारि पाश्चात्यरूपकाणां दुरंतानामपि गर्वाण्यां वाण्यां विना विपरिणाम विन्यासः- लक्षणविरुद्धोऽपि-मगवत्याः सरस्वत्या उरोजमुक्ताहारो भवेदिति संभावयामि । इदं केवलं । मदीयं वैयक्तिक मतम् । मनीषिणामत्र विषये विप्रतिपत्तिः स्यादेव । भवतां कवित्वमाधुनिकानां संस्कृतपरिपंथिनां प्रत्ययोत्पादकं बलव- दुत्तरं भवति । यथा गैर्वाणी माषा नाद्याप्युपरता । किन्तु सर्वाभरणभूषिता प्रियंवदा तरुणीव सहृदयान् संमोहयत्युज्जीवयति च । सारस्वतमेवानिरतानां लोकोपकारगृभूनां भवतामाधिव्याधिरहित सुखै कतानं दीर्घमायुरस्तु भगवतो राधाननांबुरुहभृङ्गस्य गोपालपाकस्य करुण्येनेति मनसा आशासे ।

xi. विश्वेश्वरनामपाण्डितः, जोधपुर. २७-६-४४ काव्यसमुदयः। अयं शिक्षाप्रदप्राचीनकथामयः काव्यचतुष्टयात्मको ग्रन्यः कस्य नाम सहृदयस्य हृदयं नाह्लादयेत् ? श्रीमता कविवरेण श्री वेङ्कटरमणार्यमहो- दयेनैनमारचय्य सरलया भाषयातीवोपकृतः संकृतसाहित्य सौध प्रविविक्षु- च्छात्रवर्गः । विषमस्थलदिपिका दीपिकावच्च टिप्पन्यप्रि स्थाने कृताऽमुनव महाभागेन । प्रशस्योऽयं यथालक्ष्भ्यं संपादितो यत्नः । सोऽयं निबन्धुः प्रयासः सफलो भूयादित्याशासे । सी. कुन्हन् राजा. युनिवर्सिटि आफ् मद्रास, तिरुवल्लिकेणि ८-८-४४ प्रसीदन्तु तत्रभवन्तः । तत्रभवद्भिः प्रेषितः काव्यसमुदयाख्यो ग्रन्थः अद्य मामागच्छत् ; कालविलम्बं विनैव अवहितेन मया पठितश्च । एता- हशेषु ग्रन्थरत्नेषु इदानीमपि विरच्यमानेषु संस्कृतभाषा मृतेति किमिति वार्ता प्रायेणेषु कालेषु प्रसरतीति न वेद्मि । इयमेव काचनोपपत्तिः मे प्रतिभाति । मृता एव स्वर्गे वसन्ति । इयं च गैर्वाणी स्वर्गोत्था भाषा भवादृक्षिभिः प्रयुक्ता भूमावपि केवलं स्वर्गे इव विराजते इति स्वर्गसंबन्धात् भ्रान्त्या मृतत्वभाषणं संजातम्-इति । पद्यानि सर्वाण्यपि मधुराणि । शुद्धान्येव पदानि स्फुटव्युत्पत्तीनि च । ललिता ओजःखिनी च वाक्यघटना । एवं च लध्वी टीका अतिमन्दधिषणैरेव अपेक्ष्यते । बहून्येताहशानि काव्यरत्नानि उद्धर्तुं चिरंजीवन्तु तत्रभवन्त इति आशंसनया ग्रन्थप्रेषणे कृतज्ञतया च विरमामि विधेयः ।

xii पि. नारायणभट्टशर्मा. कासरगोडु। २६-६-१९४४ श्रीमतां श्री वेंकटरमणार्यमहोदयानां संनिधौ सविनया विज्ञप्तिः अयि महाभागाः, अनुगृहीतोऽस्मि च तत्रभवद्भिः सदयं सानुकंपं च प्रेषितेन काव्य- समुदयाख्येन ग्रंन्थेन । ललितपदबद्धं तत्वार्थसंरूढमूलं चैतद्वंन्यरत्नमवलोकयतो मे चेतः तुष्यति पुष्यति च । एतच्च ग्रंथरत्नं विरचयद्भिरत्रभवद्भिः न केवलं प्रतिपादितं अमर- भाषायाः अमरत्वं, किं तु भूषिता च वाग्देवी नवेनानेन भूषणेन इति सुदृढो मे अभिप्रायः । प्रशंसनीयश्च भवतां परिश्रमः ग्रंयस्यास्य प्रकाशने, यत् संग्राम- संक्षुब्धे चास्मिन्नवसरे अतीव खलु पुस्तकनिर्माणसामग्रीणां च अभावः। विजयतां गीर्वाणसरस्वती। वासुदेवशर्मा, त्रिशिरापुरम् ९-८-४४ स्वस्ति । आर्यमान्य। प्रणामसहस्रपूर्वकं विज्ञाप्यते त्रिशिरःपुरदेशीयविद्यालयसंस्कृत- द्राविडसेवापरेण उतथ्य श्री वासुदेवशमगा एवम् :- पुनः पुनः संभावितो- ऽस्मि मान्यैः भवदी रचितानां प्रबन्वरत्नानामुपहारेण | तान् दृष्ट्वा तद्विशदीकृतामिरायस्य गीर्वाणभाषाभत्त्या, अनितरसाधारणप्रतिभया, चिरन्तनविश्वसाहितीनिपुणतया च चमत्कृतः विस्मयपरकश एव वर्ते । किन्तु तान् ग्रन्यान्विम्रष्टुं वा गुणगणानीदृशानिति व्याचटुं वा नालमस्मि । विरली- भूते गीर्वाणभाषामाधुरीनिषेवणसमये जने, संस्कृताभ्यासे च निष्फलप्राये, भवतां सुरभारतीकाव्यरचनसंमुद्रणादिव्यापारं महत्साहसमिव समर्थये । तथाऽपि तत्वतः स व्यवसायः प्रशस्य एव । "चित्रं वा एतत्कर्म" "भवो हि लोकाभ्युदयाय ताहशाम्" । इत्येवाभिनन्दितुं शक्यते । अतः सश्लाघ समाप्यते लेखोऽयम् । APPENDIX II 1. The Indian Pen, May 1940. Pandit C. Venkataramanaiya is the author of two works reviewed by K. N. Watve in the January issue of 'Oriental Liter rary Digest'. The one is a play entitled Kamalavijaya Natakam which is based on Tennyson's 'The Cup'. The author has adopt. ed the original, writes Sri Watve not only to the Sanskrit dramatic technique but also to the Oriental Outlook, and reveals a wonderful command over classical Sanskrit the other work is one on Sanskrit prosody entitled "Sarvasamavritta Prabhava! which is a compendium of almost all the Samavrittas usually given in standard works. The introduction and indices provide useful information and the author has in many cases illustrated his definitions by original verses. The Government Branch Press, Mysore, is responsible for both volumes". 2. Mr. B. K. R. Iyengar, B.A., LL.B., Vakil, “Krishna Bhavan", Maradipalli, Secunderabad-Dn. 2-4-1940 "The drama 'Kamala-Vijaya Natakam ' is really a masterpiece production and is a book best fitted to adorn a good library. The English Original was my Text during my College days and reading of your adoption to Sanskrit now reminds me that the rendering has been done by the ablest of our poets who should be as famous or excel, the original authors". The Sarvasamavritta Prabhava is a book which can guide and throw very good light for those who are in quest of thoroughness in Prosody.

xiv The last but not the least, viz., Stutikusumanjali'is a very handy and a very useful book for the use of every one who are still following the traditions of ancient form of prayers. The stotras useful for all creeds of Hindus are very rythmical and very easy to be learnt by heart, and I am sure that by daily meditation over it, it will surely have its effect viz., manifesting the glories of Diety dedicated to by a person of first rate scholar in the Sanskrit language". 3. Mr. B. K. K. Chettiyar, Chief Auditor of E. I. Railways, Calcutta, 11-2--1940. The books reveal your wonderful mastery over the Sanskrit language. It is indeed a source of gratification for us to find that even in the present age there are scholars who can compose such beautiful poems in Sanskrit. I beg to tender my great regard to your literary merits". 4. K. Srikantaiya, Esq., B.A., B. N. Railways, Calcutta. 20-12-1936 I cannot help paying my humble tribute of admiration for your profound learning and deep culture which is prompting you even at this age to enlighten the hybrid products of East and West whose God is their brain and whose universe ends with their senses, with the result of your vast experience, ripe wisdom and mature scholarship in the shape of literary and scientific or devotional publications purely for the love of it. This is real Nishkamya Karma' for the Lokasangraha' Opinion by Dr. Ganganatha Jha, Ex-Vice-Chancellor of Allahabad University:- I have had the pleasure of meeting Pandit C. Venkataramaniya of Bangalore, and listening to his poems. It is a great consolation to find among us such writers of Sanskrit. His poems bear true mark of the true poet and bear testimony to his wonderful command over the language and its niceties. I hope he will find a publisher for his works. Works like his deserve to live. It would be a pity if they are lost for want of publicity. 28th. August 1933. GANGANATHA JHA, ху Haradatta Sarma Esq., M.A., Ph.D, Professor of Sanskri, S, D College, Cawnpore, writes :- I have had the great honour of reading with you, your compositions in Sanskrit. Your drama "Kamalavijaya" is not only replete with the technique of drama, but is full of poetic excellence and charm. Your command over the language, grammar and metrics is wonderful. It would be a great loss to Sanskrit literature if your work remains unpublished for lack of funds. It is only people like you who entirely disprove the malicious slur that our own brothren cast on Sanskrit by calling it a dead language. If new poetry and drama like your's are being daily created, then who can deny that Sanskrit is a living learruage ? I pray to God that ways and means be found to enable others also to taste the sweetness of your poetry. In the end I tender my homage to your learning and remain ever. 7th. November Yours sincerely, 1933. H. SHARMA. ber} Dr. Shama Sastry, B. A., Ph.D., Retd. Curator of Oriental Library, Mysore, writes :- Like many other things in the world, Sanskrit has her own share of likes and dislikes towards her. While there are many who not merely dislike, but hate her, the number of those who adore her is a legion. Besides these two classes, there are some who always work with zeal and contribute what they can to the store of her riches she has acquired through ages. It is to this last class that Mr. C. Venkataramaniah, Retired Inspector of Sanskrit Schools in Mysore, Bangalore, belongs. By publishing his Sanskrit hymns in praise of Gods first, then a treatise on Sanskrit metrics with illustrative examples of his own composition, and lastly “Kamalavijaya", a Sanskrit drama in five Acts, adapted from Tennyson's "The Cup”, he has made himself widely known to the world of Sanskrit scholars in India. His latest work entitled "Kavyasamudaya" or "Collection of Sanskrit Poetieal Works", now presented to the public, bids fair to establish xvi 37 his reputation as a distinguished Sanskrit scholar and poet. The present volume contains four different works entitled 1. "Harischandra" 2. "Nabhanedishtha" 3. "Visvamitra', 4. "Uma's Mirror.” The style of the author is simple and lucid. The diction is sweet and dignified and free from such fancies and conceits ar are found in the works of latest Sanskrit poets. What is more attractive is the author's own glossary on almost all difficult terms and phrases, and rare usages of words. Regarding the appreciation of his work by scholars, the author may rest content with saying in the words of Poet Bhavabhuti that the world is full of scholars wbo share the views of the author and appreciate his work. Mysore. 27-8-1942: R, Shama Sastry. KIRAN CHUNDER DUTT, M. R. A, S. (Lond.)" Lakshmi Nibas,” Lord Sinhe Road, MADHUPUR (S.P.) E. I. Ry. 25th November 1944 Dear Mr, Venkataramanaiya, I very much appreciate your high "Sankalpa" not only in writing these Sanskrit poems, dramas and treatises to enlighten your fellow-men, but the spirit of "Niskam Karma" embodied in it. Nothing is more laudable for an oriental scholar than to pxplore the avenues of our sacred heritage of Sanskrit learning and to distribute the same in a new and at the same time an original garb. The very little that I have been able to find in the two books now in hand has convinced me of your deep learning of the most ancient language of the world,—the "Deva Bharati of the Punyabhoomi of the land of the Bharathas.' Dr. Ganganatha Jha and Prof. Haradatta Sharma have really noted what every one interested in Sanskrit literature will opine in lestening to and reading of your works. Surely it would have xvii been a loss to the country if these gems, though little in comparison to the vast treasure of oriental learning, had not seen the daylight. In reality, 'Sanskrit is not a dead language. We, Europeanised Indians, are at present fascinated by western culture and, therefore, our hoary-headed language of the Rishis seems to us to be morbid, as we cannot find our ways to go and explore the treasure that lies embedded in it. Books of this kind will surely remove such a misconception. Your rendering of Tennyson's "Cup" into a Sanskrit Drama of five acts, is indeed charming and a better translation of that famous book of one of the Poet Laureattes of the world is most probably not to be found in any language. K. S. SHASTRI. Hooghly Mohsin College, Lecturer, Chinsura, 16. ix. 44. I have great pleasure in testifying to the high opinion I have formed about the KAVYA-SAMUDAYA, a collection of four poetical works in Sanskrit by Mr. C. Venkataramaniah, retired Inspector of Sanskrit Schools in Mysore, Bangalore. The themes of the work under review relate to three vedic episodes narrated in the first thres pieces and in the last one to a Vedantic idea versified in Sanskrit from the English lyric originally composed by Mr. Krishnaswami Iyer. These subject-matters have been very aptly put with a view to giving a clear idea in lücid poetical style. There are many good sayings in the book which can well pass on as SUBHASHITAS. It is not possible to quote them here, but instances like 'PREMAIVA BADANATI MANAMSI DEHINAM' (on p. 47), 'YOSHID YATHA PUSHPAVATI, PHALEGRAHIH' (on p. 51) and so on are quite enough to show that there is a real poet in him. His handling of inetres not ordi. narily used such as SVAGATA, CANCARIKAVALI, MATTAMA- VURA and so forth shows that he is an expert on metrics. At places so mnch excellences have been revealed from his pen as to set us thinking that he would fall in the category of the xviii SARASVATA type of poets. He bas himself written an exposition (VYAKHYA) on the important words technically known as TIPPANI. It is indeed gratifying to note that even after his retirement from active service he has devoted himself to the enrichment of Sanskrit lore by composing these works and particularly by publishing them in these hard days of war emergency. Dakshinaranjan Shastri, M. A., Lecturer, Sanskrit College, Calcutta, writes- From time immemorial the Deccan has the reputation of being a seat of Sanskrity learning. Poets like Bharavi and Bhababhuti, rhetoricians like Dandio, pbiloscphers like Sankara and Ramanuja, compilers like Eemadri and Madhavacharya and commentators like mallinatha and Sayanacharya flourished in South India. What is most striking is that although a Dravidian country, South India is uptil-now a centre of Vedic studies and culture. Even in these days, Vedic sacrifices are duly performed and Vedic hymns are recited by the Vedicists with great accuracy in this part of India. A correct elucidation of Vedic myths may hence be expected from the pen of a South Indian Scholar. Sri Venkataramanayya, a South Indian poet, has elucidated Vedic myths in his poetical work 'Kavya Samudaya'. In an age in which Sanskrit scholars are tired of Pouranic myths and are not in direct touch with the Vedic texts, the author has rendered a valuable service by popularisiug Vedic myths through his poems. This unique character of his work, the simplicity and lucidity of his style and his sweet and dignified diction are howover the great assats or assets on which this literary execution will count and for which it will have a permanent claim upon the indulgence of the readers who find an abiding interest in the study of Sanskrit literature. The elegant and graceful style of the book convinces its readers to a great extent that Sanskrit is still living; it is not yet dead.

xix Cohesion, lucidity, evenness, sweatness, tenderness, explicitness of meaning, pregnancy of expression, floridity, grace and transference, these ten poetic excellences are considered by Dandin. as the soul of the style of the poetical contributions of the South Indian posts. It is very pleasant to note that almost all the requisite qualities of the Vaidarbhi or South Indian style, enumerated by Dandin are present in the work of Mr. Venkataramanayya. He has disproved very sucessfully the disparaging observation of Bana that the South Indian poets are fond of poetical fancy only-Utpreksa dakshinatyanam'. We can safely commend this book of poetry to the lovers of Sanskrit literature for perusal not only for the elegance of its language but for the intrinsic worth of its subject matter. J. G. SHAH, Vallabhai Road- Principal, Ahmedabad, S.L.U. College for Women dated 20-6-1944. (Gujerat Mahila Pathasala) I am indeed very thankful to you for this...... I have gone through the book and I form very high opinion about your poetic glories. I entirely associate myself with what has been written about your poetic powers by Dr. Ganganath Jha, Prof. H. Sharma and Dr. R. Shama Sastry In my opinion the book deserves to be prescribed as a text-book for any of the Collegiate examinations in Arts Course by any University, which wants to patronise the Sanskrit learning. ARJUNA NATHA MATTU, M.A., Panchavati Khalsa College P.O. Amritsar, 9-6-44 Your labour is laudable and deserves praise. The foot-notes in easy and simple Sanskrit are a great asset and add to the dignity of the work. When Sanskrit scholars of your zeal and reputation live to guard its life and honour, Sanskrit can't possibly be called a 'Dead Language'.

Sri. A. SANKARAV, M. A., Ph. D. Curator, Govt. Oriental Manuscripts Library Tirupati, dated 11-6-1944. It is very heartening to learn that good poetry is being written in the old classical style even in these days. गुरूपदेशादध्येतुं शास्त्रं जडधियोप्यलम् । काव्यं त जायते तस्मात्कस्यचित्प्रतिभावतः ।। May Venkataramana bless you. P. K. ACHARYA, The University Allahabad, Dated 17th May 1944. Your poems are well-written, showing both a mastery of language and depth of poetic thoughts. I congratulate you beartily. The world of Sanskrit-loving people will appreciate your poems. I feel proud that there are still poets of your ability. I hope a time will come when poets like you will be sufficiently rewarded and encouraged by the country, > Fort, Bikaner, 24 --6--1944. K.MADHAVAKRISHNA SARMA, Curator, Anup Sanskrit M.O.L., Library & Director of Oriental Publications, Your poems contained in this Kavyasamudaya are excellent. Your command over the language is extraordinary. Your work which is especially praiseworthy in view of the fact that original productions in Sanskrit are fast becoming a thing of the past, has shown that Sanskrit is still full of life and vigour, and should earn the gratitude of the entire Sanskrit-loving world.

N P Chakravarthi, Dy. Director General of Archaeology in India, Simla, 19--5--1945 writes- I had a glance through the work and I am charmed with the command you possess over the Sanskrit language and metres. I hope more will follow your example in spending their leisure in such a way during retirement. Siddheshwar Varma, Retd. Professor of Sanskrit, Clo the Post Master, Jammu (Kashmir), 17-5-1944 writes- Pray accept my cordial thanks for a copy of your valuable work fiBT HET. Its language is chaste, diction lofty and yet simple, themes elevating, and metres aggreeable. D. P. Khathry, Honorary Secretary, All-India Federation of Educational Associations, Cawopore. 6-6-1944 writes. Yout efforts are laudable and would be welcome to all who love Sanskrit and ancient Hindu Culture, Your mastery of diction is superb and I have derived considerable pleasure by the perusal of your composition. VISVA-BHARATI Vidhusekhara Bhattacharya, China-Bhavana, Prof., Tan Yun-Shan, Santiniketan, Bengal, India, 3--11--1944 writes So far as I know you are the first poet who is the author of a Kavya based on a vedic story and I am really glad to note that your success is remarkable. Vidyaratna P. S. Subrahmanya Sastri, M.A., Ph.D., Professor of Sanskrit, Annamalai University, Annamalainagar, 8--7--1944. It is a great pleasure to go through it (your work). It reveals how the rasanubhaoz of the ancient Sans krit poets runs xxii through your veins. It is a divine blessing to spend the days of retirement in such pursuits and to enable the Sanskrit scholars reap the fruits of your experience. I wish that Brahmanas who are now prepard to do anything for gold resort to their original life of sacrifice. I have given your book to my students in the Sanskrit Honours class to read. Sri Ram Sharma, M.A., F.R. Hist.s.(London), Principal, Dayanand Anglo-Vedic College, Srinagar, 5-6-1944 writes- Thanks very much for your sending me a copy of your Sanskrit work, 'Kavya Samudayah'. I have no doubt that I will find it interesting. The Educational Officer, Kutch, 31--5--1944, writes- I beg to acknowledge with many thanks receipt of your publication, “Kavya-Samudaya" I am really grateful for your goodness to remember one of your fraternity working in a corner of India like Kutch. Pramathabhushan Paul Choudhury, M.A., B.L., F.R.S (Lond.)(R) Krishnagar, Nadia, 30-6-1944 writes- Your poems are merely splendid. I could not believe before I got your book that a poet of this century can write such lucid poetic correct masterly Sanskrit. You have infused life into this language which was dead long ago. Please accept sincere thanks of Nadia (Bengal) which was once the seat of Sanskrit learning.

॥ श्रीः॥ ॥जीवसञ्जीविनी नाटकम् ।। शुद्धाशुद्धपत्रिका । पत्रम्. पतिः ८ अशुद्धम् माय मोहा पापानोद शंम ३ १५ २२ स्वभक्तभ्यः " ६ २० शुद्धम् मायामोहा पापापनोद शम् खमक्तेभ्यः मायिनंतु सूत्रधार प्रधान श्रितजन्यादिम् दबेदि मित्यज्ञ सुषुप्ति जन्मा वसन्ततिलका Q २३ मयिनम् सत्रधर प्राधान हतजन्यादिम् दवादि मितित्यज्ञ सुषुत्पि जन्म वसन्ततिलका १० १८ १० १२ ११ २८ २९ ९ ऊढवा १९ महादाश्चर्य महदाश्चर्थ भवाम्यहं ३३ G भबाभ्यह ३८ शक्ताः १० २३ ४६ WAN नशक्ताः पररिहरेति सामाधानोक्तिः योगाविदां नमस्कारोमि परिहरेति समाधानोक्तिः योगविदाम् नमस्करोमि ५१ १ xiv १० अयुर्वेदे आयुर्वेद ६३ or ३ ८१ १९ १६ २६ मम मगच्छता तमोरा:- अलमितिना ९० १ ९ कीमिति ११ परमहरु मगच्छता धीतमोदाः अलमित्यनेन किमिति परमहर्ष स्वर्ग भूथ कृष्टस्वर सर्वा १२४ ९ स्वग १२ १५ भूया कुष्टस्वर १२७ १२८ १३० ११ सवा व वा १९ मिनी सौन्दर्य १५ १३१ १३२ मनी सौन्दर्य यस्यास्सा किं ते १६ यस्यासा १ कि ते समान समान मञ्जीवित १९ ऽञ्जीवित १ मृप्रतः प्रसृतः १५२ सक्लल्पिते २५ सङ्कल्पिते उद्दीपन दंपति शिरसा उद्दिपन दंपती शिरासां श्वश्रूवाः १५३ २ १६२ १२ श्वश्वा (वा.) OM १७ भूतायः रतेः भूताया रते:

xxv . १६५ १६८ १९ २० २२ १६१ १६९ २२ १५ भावः ते १८२ ७ व्यभिचरि व्यभिचारि श्वेष्ठः श्रेष्ठः त्मे कंचि कालं कश्चित्काल गीमणी गर्भिणी पुमत्या पुमपत्या मावः। स्थातव्यं स्थातव्यम् भूत्वा भूत्वा तपापि तथापि प्रयोगेणपि प्रयोगेणापि मन्यसः मनसः चूर्णम् करजचूर्णम् ; चर्ण-करजचूर्णम् ताऽत्र: तात्र सप्रार्थ्य संप्रार्थ्य देवाता देवता १७ १८७ द १२ २२ १८९ १९४ ११ १९५ १८ १ एव १९८ १ ५ पुना पुनः वगानामिति शोणः श्वीकित्सा २०० २०० २० पुनः पुनः वेगानामिति शोषः श्चिकित्सा समीरण लब्ध्वाऽऽनन्दी भर्तुर्गोत्रं कलानिधि सेवक २०८ समारण लब्ध्वाऽऽनिन्दी भर्तुगीन कालानिधि सेवकः ૨ ૨૭ ३२४ २५ २२८ २३० XXVI २१ ३ लोक २३२ २३६ श्लोक सन्धाय २३९ १२ त्वं गृहिणीं भवतीति १० २३९ २४१ २४६ २४९ २४९ २४ समचित्त ११ संन्धाय त्व गृहिणी मावतीति समुचित्त साधिता हेतुमतः तमानुसृत्य तथ कानिति. अनुगृहीतोऽस्मि १२ २५९ २० तस्सर्व १६ १५ साधित हेतुभूतः तमनुसृत्य तथा कानीति अनुगृहीतोऽस्मि तत्सर्व वृद्धि नुवर्तिनी दाशीबलेन परिवर्तन दर्शनार्थः सर्वेषाम् वद्धि २६२ २६३ १९ १० ii १३ नुर्तिनी दीशिर्बलेन परिवतन दर्शनाथ: सवषाम् नूत, टिप्पन्यपि भवाहक्षिभिः सुहढौ Sanskrit the ६ नूतv xi १७ xii xiii टिप्पण्यपि भवाग्भिः सुदृढो Sanskrit. The is Language xiv are XV Leanuage

MR. C. VENKATARAMANAIYA
RETIRED INSPECTOR OF
CHAMARAJPET,
BANGALORE CITY
SANSKRIT SCHOOLS IN MYSORE
श्रीवेङ्कटरमणार्यः
आर्यावास,
निवृत्तमैसूरुदेशीयसंस्कृतविद्याशालोपद्रष्टा ६, सेंट्रलूब्यांक वीथी, चामराजपटे
बेंगलूरुनगरम्
प्रसिद्धपत्रिका
अनेन कविना विरचिता: ग्रंथाः
संकृतभाषात्मका:-
काव्यसमुदयः- (चतुस्सर्गात्मकम्-हरिश्चन्द्रकाव्यम् , द्विसर्गात्मकं,
नाभानेदिष्ट काव्यम्, चतुस्सर्गात्मकं विश्वामित्र काव्यम्, द्विसर्गात्मकम्
उमादर्शकाव्यम् ) प्रकाशितः ।
विज्ञानसमुदयः-(सनातनभौतिक विज्ञानम् , सनातनभूविज्ञानम् , सनातन -
वनस्पतिविज्ञानम्, सनातनप्राणिविज्ञानम् ) प्रकाशितः।
स्तोत्रसमुदय:-नवकुसुमाञ्जलिः, स्तुतिकुसुमाञ्जलि: जगद्गुरुस्तोत्रशारदा-
ष्टकादिस्तुतिनिचयसमन्वितः- पुनः प्रकाश्यते ।
प्रकीर्णग्रन्थसमुदयः- मैसूरुदेशीयसंस्कृतविद्याभ्युदयचंपू:- प्रकाशितः ।
कमलाविजयनाटकम् - प्रकाशितपूर्वम् । जीवसंजीविनीनाटकम् - प्रकाशितम् ।
सर्वसमवृत्तप्रभावः- प्रकाशितः । आर्यादिवृत्तप्रभावः- प्रकाश्यमानः- एतैः
प्रत्येक संघटितः ।
कर्णाटभाषात्मका:-
नाट्यप्रयोगसारसंग्रहः
नीतिधर्मसंग्रहः
विद्यारण्यचरित्रम्
एतेषां सर्वेषां पुनर्मुद्रणप्रकाशनादिकार्येषु लोकोपकारनिरतानां
विद्याप्रणयिनां सर्वेषां भवत्यधिकार इति पुनरत्र विज्ञाप्यते ॥

Sree Jivasanjivininatakam

Author
C Venkataramanaiya
Title
Sree Jivasanjivininatakam
File name
Sree Jivasanjivininatakam
Text
OCR done
Citation
1945
Publisher
Benlaure
Language
Sanskrit
Pages
319
Library
Central Archaeological Library_asi_new Delhi
Classification
Literature
DLI number
284150
Barcode
5990010905136.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
Rights
In public domain
VMLT id
E4wi6rtV3zJ
Download PDF

Sree Jivasanjivininatakam