Scl

Sri Suryacharit Mahakavyam

Pandit Taradatta Panth

PDF Proofread

Front matter

No text on this page.

da- Anaadlate dilion. Janmas SARAN WOWelmmammy Andation PNA सुगवद्विभूति अन्यमालायाः प्रथमं रत्नम् daonwea ream Prammam HAINDIAN श्रीसूर्यचरितं महाकाव्यम् .

No text on this page.

श्रीभगवतिभूति-श्रन्थमालायाम्-- WAMI प्रथमं रत्नम् । श्रीसूर्यचरित-महाकाव्यम् । महामहोपाध्याय-६० श्रीनित्यानन्दपन्त -महोदयैरन्यैश्च मान्यैर्विद्भिरनुमोदितम् । है साहित्याचार्य-व्याकरण-तीर्थ- ० श्रीतारादत्तपन्त-विरचितम् । LE.Cs तेनैव टिप्पण्या सनाथीकृतम् संशोधित, प्रकाशितञ्च । सुप्रभात-संपादकेन श्रीकेदारशर्मणा सम्पादितम् । श्रीरामेश्वर पाठकेन तारायन्त्रालये मुद्रितम् । सर्वेऽप्यधिकाराः ग्रन्थकाराधीनाः मूल्यम् ।) Registered under Act XXV of 1867.

No text on this page.

समर्पणम् । श्रीभगवते नमः। अखिल-ब्रह्माण्डनायकस्य भगवतः कृपया, गुरुजन महदनुग्रहे रण, पितृ-जन-पुण्येन च मङ्गलपूर्वकमेव समाप्तिमितम्-भगवद्विभूति वर्णनात्मकं सूर्यचरितप्रयोज्यमृतुचरितं महाकाव्यम्- आदित्यानामहं विष्णुज्योतिषां रविरंशुमान, नक्षत्राणामहं शशी मासानां मार्गशीर्षाहम् , ऋतूनां कुसुमाकरः, सरसामस्मि सागरः स्थावराणां हिमालयः, वर्षाणां भारतं वर्षम् , खण्डानान्तु कुमारिका स्रोतसामस्मि जाह्नवी। यावन्न जायेत पराऽवरेस्मिन् , विश्वेश्वरे द्रष्टरि भक्तियोगः, तावत् स्थवीयः पुरुषस्य रूपम् , क्रियावसाने प्रयतः स्मरेत. इत्यादिवचनान्यनुसरदेव,- नराणाञ्चनरेन्द्रोऽहम् , गुरुर्देवोगुरुर्गतिः, जननीजन्मभूमिश्च- इत्यादि-वचनानुसारेण नृप-गुरु-जनयितृरूपाभ्यो भगवद्विभूतिभ्य एव समय॑ते । समर्प्यते च ज्ञानमूर्तिभ्यो मान्येभ्यो विद्वद्भय इतिशम् । प्रसीदन्तु सर्वा भगवद्विभूतय-इति-विनयः - wwmal काशीस्थ-विश्व-विद्यालय-सम्बन्धि रणवीर-पाठशालाध्यापकस्य श्रीतारादत्तपन्तस्य ।

विषयानुक्रमो दृष्टव्यः, किं भूमिकया ? নন तत्र प्रथमेसर्गे इष्ट-स्मरण-पूर्वकमनुबन्ध-चतुष्टय-निर्देशः, गोललनणं तस्य ज्ञानोपायोऽवान्तरभेदा देशकालयोः, देशकालज्ञानस्य परमावश्यकता शास्त्रे लोके च, वर्तमानकालप्रशंसा कार्यात्माह-पोषिका, वर्तमानकर्तव्य निर्देशः तत्र दृष्टान्ताः, देवदेवा:- इति षोडशभिः श्लोकैर्देशकालजिज्ञासा विशदीकृता । भूगोलखगोल-ज्ञानसाधन-भ्रमणोपयोपगि देववाहन,-वर्णनम् । भिन्नानां देव-वाहनानां कार्यनस्माकं कियदुपकारकम्, इत्यादि-निर्देशपूर्वके, भारतीय-प्रजायास्त्रैकालिकी स्थितिः,-साम्राज्यमेषामनादिकालात १००० कलिपर्यन्तं सर्वस्या भूमे रिति दर्शितम् । द्वितीये भारतस्य लक्षणं, वर्णनं, भूमेः, नवखण्डविभागश्च । तृतीये लङ्कातो भारतवर्षमात्रे वसन्तस्य कथं कदा कुत्र प्रादुर्भाव-इति विशदं दर्शितम् । चतुर्थे ऋतूनां परस्परमैत्री विरोधश्चा कस्य केनेति ऋतु- कुटुम्बकल्पनया सुष्ठु दर्शितम्, वसन्तस्य व्यापकत्वञ्च शास्त्रार्थरीत्या साधितम् । पञ्चमसर्गाच्चतुर्दश-सर्गपर्यन्तं, शास्त्रीयदृष्ट्या ततच्छास्त्रपदार्थाः प्रयोज्यप्रयोजकभाव-कार्यकारण-भावादयः, धर्मशास्त्रीयदृष्ट्या तद्वाक्यानामुपपत्तिः, राजनीतिदृष्ट्या कथं सार्वभौमोभवेयमिति- चिन्ता, ज्योतिःसंहिता-दृष्ट्या रवि-विधुचारानुसारेण वसन्तादि वर्णनम् , गोलाध्यायदृष्ट्या गोलएव काव्यरीत्या वर्णितः, आयुर्वे- दानुसारेण त्रिविध-देश-द्विविध-काल-पञ्चविध ऋतुवर्णनया दिन- चर्या, ऋतुचर्या, आरोग्यरक्षिका-इतेि दर्शितम् , रसिकदृष्ट्या, अर्थान्तर-संक्रमित-गुणीभूत-व्यङ्ग्यप्रधानतया, वसन्तादि वर्णन- स्याऽन्यवैलक्यण्येनास्वाद-जनकता सुष्टु दर्शिता, पौराणिकदृष्टया भक्तिमार्गः सुष्टुदर्शितः, अन्तेच सर्गद्वयेनापसंहारः कथं-दर्शित इति काव्यार्थ भावाना-विदो भवन्त एव प्रमाणम् । -:(-)*(-):--- .. विनिवेदना। भूगोल-विज्ञाने, खगोल विज्ञाने च संस्कृत साहित्ये महती साम- ग्रो वरोवर्ति। सा च संस्कृत-पण्डितानां शैथिल्येन, अनवधानतया च तिरोहिता, नास्माकं किमप्युपकृतिमापादयितु प्रभवति । पाश्चा- त्याश्च तयैव सामग्र्या भारतीय-भूगोल-विद्यायां, खगोल-विद्यायाञ्च महती समुन्नतिमकार्षः। अस्माकं देशे भगवान् वराहमिहिराचार्यों भूगोल-खगोल-विषये प्रचुरमन्वेषणं कृतवान् । ईशवीय-नवम-शतको- त्पन्नः कविसम्राट राजशेखरोऽपि भूगोल विज्ञान-विषयकं कमपि भुव- नकोषमरीरवत् । तदनन्तरं शनैः शनैः प्रतिभानाशे समुपस्थिते, अव- च्छेकता-युगे, परिडतानां जटिल-शब्द-जालजडीकृतायां प्रतिभायाम्, भूगोल-विद्या, खगोल-विद्या, विज्ञान-विद्या च शनैः शनैः हासमग- मत् । यद्यपि ज्योतिःशास्त्रज्ञेषु वरीवर्ति साम्प्रतमपि भूगोलज्ञानम्, परन्तु तन्नितरां दुर्बलं गणितमात्रोपयुक्तञ्चेति संस्कृत-वाङ्मये वर्तमाना सैषा भूगोलविद्या सर्वथा विनाशमनुभवतीति नाविदित- चरं सहृदयानां मार्मिकविदुषाम् । संस्कृत काव्येषु कविकुलगुरोः कालिदासस्य प्रबन्धेषु भूगोलस्य कश्चन परिचयो वरीवति । अन्येषु संस्कृतकाव्येषु नास्ति तादृशे भूगोल-परिचयः । भूगोल-विद्या, खगोल-विद्या, विज्ञान-विद्या च साम्प्रतकाले परमुत्कर्ष प्राप्ताः सन्ति । परन्तु दुर्भाग्यवशात् संस्कृत- विदुषां नात्र दृष्टिदोदृश्यते । यदि कविताद्वारा भूगोलादिलुप्त- विद्यानामुद्धारः क्रियेत चेत्; सर्वथा तासां प्रचारे सौकर्य सम्भवेत् । प्राच्यकालेऽपि छन्दोनिबद्धाः ज्योतिर्निबन्धाः, आयुर्वेदप्रबन्धाश्च साम्प्रतं जीवन्ति, प्रचरन्ति चेति संस्कृते भूगोल-विद्या-विषयकस्य कस्यचन काव्य-प्रबन्धस्य नितान्तमावश्यकताऽऽसीत् । तथा च प्रस्तुतमिदं सूर्यचरित' नाम महाकाव्यं, नितरामद्भुतम्, संस्कृत-संसारे नवीनम्, उपयुक्तम्, स्पृहणीयम्, समादरणीयञ्च महाकाव्यमिति निर्विवाद वक्तुं पारयेमहि । एतस्य कश्चनांशः सुप्र- सिद्ध संस्कृत-पत्रे सुप्रभाते मुद्रित आसोत् । तदा प्रभृत्येवास्माकं तत्र १ महती श्रद्धा, महानानन्दश्च प्रादुरासीत् । मया च सानुरोधं निवे. दिताः श्रद्धया, मान्याः, साहित्याचार्याः, व्याकरणाचार्याः, साहित्य- व्याकरणतीर्थाः, श्रीमन्तः श्रीतारादत्तपन्त-पर्वतीय--महोदयाः, काव्यमदो निर्मितवन्तः। एतस्य लेखकानां कविवराणां पण्डितप्रकाराडानां श्रद्धेय-श्रीता- रादत्तपन्त-महोदयानां विषये नास्ति विशेष-वक्तव्यमस्माकम् । यतस्तेषामस्माकञ्च विद्यते घनिष्ठतरः सम्बन्धः । तथापीदं साभिमानं सहर्ष वक्ष्यामा यत् मृत-कल्पे संस्कृत-समाजे पन्त-महोदय-सदृशानां विस्तृतज्ञानशालिनामध्ययनशीलानां गवेषक-विदुषां महतीत्रुटिर्वि- द्यते । किम्बहुना, ग्रन्थावलोकनेनैव तेषां विस्तृता प्रतिभा (General Knowledge ) प्रतीयेत । एकमात्रमस्माकमियमेव विनिवेदना यत् विद्वाँस इदं सुचिरं सावधानञ्च विचारयेयुः । छात्रावावश्यकविषयममु सुतरां निभालयन्तु। एतद्धि सर्वथा नवीनं संस्कृत-महाकाव्यम् । वयमेतस्य प्रचुरं प्रचारमभिलषामः। विनीत:- रणवीर-पाठशाला, श्रीकेदार नाथ शर्मा, (हिन्दूविश्वविद्यालयः) सुप्रभात-सम्पादकः, काशी मन्त्री, २ । ४ । २७ संस्कृत-साहित्य समाजस्य FOREWORD. It is a pleasure to have to introduce a book of intrinsic merit to the public. Original contributions to the Sanskrit literature have become so few and far between that it is gratifying to find a Kavya of a high poetic order seeing the light of day in this age of general decadence. The muse of Sanskrit poetry has so long been mute that, if for no other reason but for this, Sanskrit men of letters deserve every encouragement in attempts like these at our hands, if resusciation of Sanskrit poetry is wished for. It is an interesting question, much worth an academic debate, to enquire if an ultra prosaic subject like that of Surya Charit can form the theme of a good Kavya. Surya Charit does not take its stand in episode of love or war which monopolise the romances and epics. It does not narrate the story of a feud between rival factions nor does it depict in glowing colours the sway of love on human mind. Its is an essentially prosaic, humdrum, matter. At least it appears so to one's mind. Common facts of physical science and astronomy have been taken up and poetically dealt with. The poem is a charming monograph on the cause, nature and beauty of the six seasons that adorn the Indian Sky. The author starts with the dictum that the sun is the life principle of the universe and the varying changes in the atmospheric phenomena of the world are due to its all controlling influence and power. Scientific books have been written on the subject, so also have poems. But whereas the former are devoid of the charm of poetry, the latter fail to observe the common decencies of scientific truth. In the present work, these two have been tried to be blended together. But it must never be forgotten that this is not a scientific treatise from the pen of a man of science and looked at from that standpoint it may fall to the ground. It has to be judged and weighed in the golden scale of poetry. The vividness of description, the easy flow of language, the charm of treatment, the skill of narration,--all reveal the hand of an artist. The function of poetry is to afford substantial joy by striking every chord of human heart. or may not add to the knowledge of the reader. But when it does both, it is the better on that account. The author is to be congratulated on his successful attempt and it is hoped that this poem will command the reception it deserves. Benares City GANESH DATT SHASTRI, April 2. 1927. M.A., LL. B. It may शुद्धि पत्रम् । पृ० पं० अशुद्धम् २२ सम्पदः घेण ॥२७॥ युग्मम् सम्पदः मध्यतः अनुकरण घमप्रसरः षाढयन् ঋড়ি १८ ૨૨ २६ ૨૨ २२ २२ अनुक्करण धर्मप्रसरः षायन अद्धि २८ २६ ३१ १८ १ गुत्तरती पर्ष शलिताम् सम्मुखी or रूचिर ६ २१ गुत्तरता वर्ष शालिताम् सम्मुखीन रुचिर सूचना यमा ३? चिनु सेवि सचना ५१ ५३ १ यमाः? चिन सेसवि ५६ ५६ २ २५ दलै हिरूक गयता भारभ्य याभ्यो नभिनां पर्मता ॥ इति ॥ दलैः हिरुक णीयता मारस्य याम्यो नाभीनां पर्वता ६४ ५ ११ श्रीभगवते गणेशायनमः। सूर्यचरितम् । प्रथमः सर्गः। देशकालजिज्ञासा । जगदुपकृतये नानाऽनुरूप रूपाणि दर्शयन् यो नः । वितरति वाचं नन्दथुचर्वणचतुरान् विभावयेवः सः ॥ प्रात:स्मरणीयगुणाः सुखलभ्याः सकललोकसंदृश्याः। मनसः स्थिरताकृतये स्मरामि भगवद्विभूतीस्ताः ॥ सूर्योदयास्तावच्छिन्नो भूगोलश्च खगोलकः । गति सूर्यस्य पश्यन्तु गोलजिज्ञासवोजनाः ॥ १॥ देशकालगतिः सूक्ष्मा स्थूला च परिदृश्यते । तयोहि कारणं सूर्यपरिस्पन्दै इहेष्यते ॥ २ ॥ क्षणादिकल्पपर्यन्ताः कालभेदास्तदीरिताः । परमायवादिगोलान्ता देशभेदास्तदाश्रयाः॥ ३ ॥ महाप्रमाणको देशो गोलशब्देन कथ्यते । महाप्रमाणकः कालः कल्पान्त इति गद्यते ॥४॥ १ ग्रन्थस्यैव मङ्गलमयत्वेपि मङ्गलोत्कर्षार्थः सूर्यशब्दस्यादौ प्रयोगः। २ स्वजन्यविभागप्रागभावावच्छिन्नं कर्म तदेव क्षणः।

२
सूर्यचरिते।
मध्यमौ काल देशौ तु दिनग्रामादयो मताः ।
घ्यणुकः परमाणुश्च त्रसरेणुश्च सूक्ष्मकौ ॥ ५ ॥
न विना देशकालाभ्यां किञ्चित्कार्य भवेदिति ।
ज्ञातव्यौ मनुजैनित्य देशकालौ तु मध्यमौ ॥ ६ ॥
कथया व्यवहारेण भूचित्रेणापि वार्तया ।
स्थूलसूक्ष्मौ तु गणितागुम्यौ तत्त्वबुभुत्सुना ॥ ७ ॥
कस्मिन्काले मम जनिः कस्मिन्देशे च कीदृशे ।
व्यवहारे वर्तितव्यमिति मत्वा कृति चरेत् ॥८॥
तत्रकालः सप्तमोऽयं, मन्वन्तर उदाहृतः ।
तत्रापि कालिकालोय मष्टाविंशः प्रकीर्तितः ॥ ९ ॥
यस्मिन्परीक्षा वीराणा-मष्टादशदिनामिका ।
कुरुक्षेत्रेऽभवत्कृष्ण-साक्षित्वे वीरलोकदा ॥ १० ॥
वीरत्त्वं कातरत्वञ्च, यस्मिन्भूलोकवासिनाम् ।
क्षत्राणां दर्शितं तस्मि-न्दृष्टि कुरुत-मानवाः ॥ ११ ॥
अयं पुण्यतमः कालः, स्वल्पायासफलप्रदः।
भूतेषु सौहृदाकाक्षी, हिंसकानां भयप्रदः ॥ १२ ॥
निन्दां कुरुत गोघ्नानां, सर्वतोभावमास्थिताः ।
लेखनाद्भाषणादापि, कलिर्वाक्कलहमियः ॥ १ ॥
केवलन्नैवगोनानां, प्राणिघ्नानाञ्च सर्वशः ।
अभावे भूतले जाते, किन्नस्यादितिमन्महे ॥ १४ ॥
भारते कर्मभूमौ तु विशेषाद्धिसयाऽधुना ।
रोगः शोकश्च दैन्यश्च बुद्धिभंशोनृणां कृतः ॥ १५ ॥
तस्माद् यतद्धं मनुजा नराणाम् , हिंसारतिर्येन न भारते
स्यात्
गवादिकानां परिरक्षणार्थम् , दृष्टान्तभूता इह देवदेवाः ॥ १६ ॥

प्रथमः सर्गः। ३ वृषद्धजेनाऽथ खगध्वजेन, भूलोकस्वलॊकसुखैकहेतू । पश्चण्डजौ दर्शितसत्वसारौ कृतौ जगत्पूज्यतमौ स्ववहात् ॥१७॥ मयूरहंसौ परदर्शनीयौ परं विषघ्नौ नररक्षणीयौ । इतीव वाणीकमलासनाभ्याम्, निदर्शनायैव कृतौ स्ववाहो ॥ १८॥ आखुःखनन् भूमितलं विलानि, विचित्ररूपाणि करोति यत्नात् । भूदुर्गवास जगतीपतीनाम्, निदर्शयन् गूढतमं हि मन्त्रम् ॥१९॥ गुणज्ञतायाः परदैवतेन, विनायकेनाखुमयं स्वगेहम् । कृतं, मृदस्त्वाखुबिलस्य यज्ञे, राज्याभिषेके च महोपयोगः ॥२०॥ विजाः ! शशं रक्षत वाडवानाम्, राजा न कुप्येन्निजवाहनध्ने । शशन्नसौ वेदयति प्रजेशान् , यत्प्राणवाधे शशत क्षणेन ॥ २१ ॥ गजांस्तुरङ्गान्करभानखरांश्च, वाहान्नराणां किमुतामराणाम् । महोपकाराय विधातृसृष्टान् मूढोऽपिजानाति न हन्ति कोऽपि ॥२२॥ गवामभावे महिषीभवेन, दुग्धेन-तस्याऽपि सुदुर्लभत्वे । छाग्या हविःकर्म करोतु नित्य मित्यत्रमानं यमवह्निदेवौ ॥ २३॥ अजापयः सर्वगुणैरुपेतम्, तिक्तौषधी सेवनजातसत्वम् । कृष्णारजोधूलितमेव पीत्वा, नश्यन्ति रोगा जठरस्थिता ये ॥२४॥ एवं मृगाणामथवा पशूनाम् , गुणान्विदित्वा न नरः प्रहण्युः । तत्रापि दुग्धादि-कृतोपकारान्, हत्वाऽमनुष्यो' भवितु क इच्छेत् २५ न मानवानाङ्किलकर्म चैतत् वेदे यदुक्तन्त्वमनुष्यकेभ्यः । मनुर्दयालुनिजशिष्यकेभ्यो हिंसानिषेधन्वदिश द्विशेषात्॥ २६ ॥ क्यं मानवा भारतीया यमादीन, सदाचारमूलान्सुगूढान्स्वधर्माद । त्यजेम, प्रभो ? प्रेरेयस्व त्वमेव, विशुद्ध दयादौ न दीना भवेम ॥२७॥ भूतलं भारतीयानां सर्वमेवपुराभवद् अधुना वैपरीत्येन कथं दूना वयं विभो ? ॥ २८ ॥ . १ रक्षः पिशाचादिः।

सूर्यचरिते। श्रूयन्ते हि पुराणेषु कथा भारतवासिनाम् । नृपाणां सार्वभौमानां विभो ? विश्वजयैषिणाम् ॥ २६ ॥ सार्वभौमनृपचिन्तया वयम्, चिन्तयाम सततं प्रजाहितम् । देश एव कलिकाल एष च दौष्ट्यमाचरति मानवान्पति ॥३०॥ मानवास्त्यजत मा कदाचन मानवीं सरणि 'मन्तमेदुराम् । मन्मथैकदमना हि दानवात् जेतुमिच्छत शमैकमानसाः ॥ ३१॥ मानसैक्यमवलम्व्यमीश्वरम्, भारतीयसुखदं नुताऽधुना। गोल एष मनुवंश्यभूभुजाम्, सृष्टितः कलिसहसूकावधि ॥ ३२ ॥ इति श्रीभगवद्विभूतिवर्णने सूर्यचरिते महाकाव्ये प्रथमः सर्गः ॥ द्वितीयः सर्गः। अथ कुमारिकादेशवर्णनम् । लौहित्यैसिन्धुकमनीयनिवीतशोभम् गङ्गाकलिन्दतनयारमणीयहारम् । कैखासशेखरमिमं हिमवद्भुजाढयम्- यं सिंहलासनमिति प्रवदन्ति विज्ञाः ॥ १ ॥ वेधा जल भगवता निहितं समन्तात- अस्यैच सागरहिमालययोः समृद्धया । १ परिणामरमणीयाम् । २ मनुमार्गानुयायिनो मानवास्तद्विप- रीतादानवाइत्यभिप्रायः । ३ लौहित्यो ब्रह्मपुत्रनदः। ४ सिन्धुः प्रसिद्धोनदः । इमौ द्वावपि मानसागतो कुमारिकायाः पूर्वपरवाहिनौ । ३यसर्ग २३ श्लोकेद०। ६ सिंहल उपद्वीपः अस्मिन्नेवरावणराज- धानी -१५ सर्गे द्रष्टव्यम्।

द्वितीयः सर्गः । अत्रैव पई-तव आजलधेहिमान्तम्- आविर्भवन्ति जगतः परिपालनाय ॥२॥ अत्रैव वर्षति यथातथमन्नतोः पजय॑ एषभगवान्तपतीत्थमत्र । कार्यास-धान्य गुड-गोरस-सम्पदा अत्रैव पुष्पफलसंपदपीति वित्त ॥ ३ ॥ रत्नानि मौक्तिकनिभानि तथैव धातून स्वर्णादिकाञ्चसलिलानलवातपक्कान् यन्माक्षिकादिकमुखानुपधातुसंज्ञान् सते ह्ययं सकललोकमुखान् पदार्थान् ॥ ४ ॥ एतेन भूमिरतुलाचलकाशिना यत् स्वौकसामपि पदानि दधाति नित्यम् । तत्सर्वलोकमणिरेष महार्णवेन विष्वग्वृतश्चरणतस्त्वितिम तर्कः ॥ ५ ॥ सोयं विभय॑खिलरोगहरा नराणाम् या ओषधीरमृतविन्दुभवा वदन्ति । ताभिनरो जगति नोपकृति क इच्छेत् यस्मै भिषग्जडगुणज्ञ इतीरयेत ॥ ६ ॥ नद्यो विभान्ति विपुलाचल चञ्चलायाः पाषाण-ताडित-गुणाट्य-जलाः समन्तात् । यत्सेवनेन यनुजा विरुजो वलाढया अप्यन्यदेशजनुषः किमुतेह जाताः ॥ ७ ॥ १ ऋकारैकदेशेन रेफेण सहश्रुत्या गुरुत्त्वम् । २ तर्के उत्प्रक्ष- णात्स्वभाववर्णनं फलितम् ।

सूर्यचरिते । यत्पर्वतेषु मलयाचल सह्य-शैल- माहेन्द्र-ऋक्ष-गिरि-वेङ्कट-पारियात्राः । सर्व निर्दृतिकराः समीततापा- रोगघ्नवायुजल-जायु-युताः समेऽपि ॥८॥ गोधूम-धान्य-यव-मुद्ग-मसूर-माष- सिद्धार्थकादि मनुजस्य शरीरपोषम् पर्जन्यजन्यवनधर्मविचित्रपाके- देधोन्जतीह सततन्त्विह वर्षपाके ॥ ६ ॥ राकासुधाकर-कराः शरदीह चित्रम् । शस्ये पतन्ति सुधया परिपूरयन्तः । वेधोद्गतं सकुसुमं तुषखण्डपात्रम्- अन्नन्ततो भवति मेध्यतमन्तमोघ्नम् ॥ १० ॥ शान्ताः समाः सकरुणा: सम-भूतपाला: आमुष्मिकैहिक-विचित्र-विचारशीलाः। अत्रत्यवंशजनुषो मनुजा नितान्तम् । अस्मिन्भवन्ति हि जगन्ति पुनन्ति नित्यम् ॥ ११ ॥ एतस्य वर्णनमहं हृदिधारणीयम् भूगोलवर्णनविधौ सरलं करिष्ये । यावदिवाकराः प्रसरन्ति लोके । गोलः सएष इति विज्ञतमा विदन्तु ॥ १२ ॥ वेधा सएष दिनरात्रिगतेविभागात- सूर्यस्य, पूर्वपर गोल इतीहयानः । पूर्वेऽस्तिभूरि वसुधा परगोलकेतु- वर्षत्रयं भवति तद्भवतोऽप्युदीच्याम् ॥ १३ ॥ १ जायुरौषधम् । Intervation द्वितीयः सर्गः। 'मेरोश्चतुर्दिश मिलाकृतवर्षमाहुः वर्षत्रयन्तत उदक् त्रयमाहु रर्वाक्- एकं पुरः परत एक मुदाहरन्ति । एवं वदन्ति नवभागयुतान्धरित्रीम् ॥ १४ ॥ तस्याः सएष नवमोऽनवमो गुणैर्यः । भागः समुद्र गिरिराजविभक्तसीमा । पूर्वत्र चीन इति यस्य परे तुरुष्कः शास्त्रे प्रसिद्ध इति भारतवर्षनामा ॥ १५ ॥ तस्यास्तिमध्यमतमः किलवर्णनीयः भागो जगत्सु विदितो हि कुमारिकाख्यः । सिन्धोः पुरस्थिततया किल विन्ध्यवत्वाद् भाषासु हिन्दुसदनेन गतः प्रसिद्धिम् ॥ १६ ॥ विज्ञाः स्वयं वदत शिष्यगणेभ्य एवम् । विज्ञाय मे श्रममिमं सफलीकुरुद्धम् । भूवर्णनेन भगवान्स विराट् स्वरूपः प्रीणातु मे प्रथमतः सभवत्स्वरूपः ॥ १७ ॥ इह जगति वसन्तस्त्वासमुद्राद्धिमान्तम् । उदगय + मनुकुर्वन् भारतीयप्रदेशान् । कुसुमकिसलयाथै रज्जयन् रागपूर्णः भूमति सहकुटुम्बः पालयन् सर्वलोकान् ॥ १८ ॥ इति श्रीरविचरिते द्वितीयः सर्गः ॥ १ धुवो मेरु रित्येक एव पदार्थः । एवं गोलो ब्रह्माण्डश्च । २ पूर्वी चीन इति प्रसिद्धः। ३ टर्की इन् एशिया इति । + अयनम् = अयः भावे-परच-इत्यच्प्रत्ययः ।।

सूर्यचरिते। तृतीयः सर्गः। अथ ऋतुराज यात्रा । अतुत्रयं केचिदुदाहरन्ति, पञ्चैव केचित्त्वपरे षडाहुः । शीतोष्णवर्षाभिदया त्रयः स्युः हेमन्तशीतैक्यकृतस्तु पञ्च ।। सर्वत्र देशे न हि सर्व एव, प्रादुर्भवन्तीति चिदाङ्गुरु त्वम् । सौरैः करै श्वित्रतरैः कु-पाके चिहजगत्या नियतन्त्ऋतूनाम् ॥२॥ विभिन्नदेशेषु विभिन्नकाले, भिन्नोद्भिदामकुरकोरकाभ्याम् । पण्णामृतूनामिहजृम्भितानाम्, ज्ञेयं चरित्रं मनुजैर्धरित्र्याम् ॥३॥ गोलार्द्धरेखाविगतेऽहिमांशौ, रात्रिन्दिवं तुल्यमतो वसन्तः । सर्वत्रलक्ष्यो ऽयनरेखयोः सः, मध्ये समासेन वहिर्विचित्रम् ॥४॥ लेडा ऋतूनां सैदनं समेषाम् सदासमस्तत्र हि सौरतापः । समीरनीरे अपि तत्र शीत-मृदुच्च-युक्ते-नियत नितान्तम् ॥ ५॥ यदा रविस्तृत्तरतः प्रयातुम् प्रस्थातुकामो धनुषि स्थितोऽपि । तदैव केनाऽपि पथा समुद्रम् तीर्त्ता वसन्तो द्रविडेषु याति ॥ ६ ॥ ततस्तु कर्णाटकमद्रकादीन् प्राच्याँस्तुदेशाञ्जलधे स्तटस्थान् । तथापरान् कौङ्कणकेरलादीन् , मधू रसालाङ्कुरितान्करोति ।।७॥ उन्मादयन्पाणिगणं वसन्तो नवाङ्कुरोद्भेदकृतीरणेन । विपाचयन्कार्तिकवीजवापम् शस्यं जगत्सौख्यकरं यवादि ॥८॥ प्राच्ये क्रमादकपदे प्रसर्पन्नुदङ्मुखो विन्ध्यगिरि विलय । नक्रस्थितेऽर्के सकलां भुवं स, व्याप्नोति माकन्दमहीरुहस्थः॥९॥ १ भूमौ विजातीयतेजः संयोगे। २ रेखामध्यस्थितेयं लङ्का । ३ सर्वेषामृतूनां सूक्ष्मतया वसन्ते लीनत्वात् ।

तृतीयः सगः। प्रपूरयन्कुम्भगते तु कुम्भान् स्वसंपदा कोर्भरणे समर्थान् । करोति पृथ्वी मतिमात्र नूत्नाम्, प्रवाल पीताम्बरराजमानाम् ॥१०॥ मीने पुनर्मीनतखस्य मित्रम् राजा ऋतूनां हिमवन्प्रदेशान् । नेपाल-कूर्माचल-गाढवालान्, गयासुनान्पञ्चनदान्प्रयाति ॥११॥ पूर्ण स्वरूपं समवाप्य तत्र माधस्वयं यत्त इव असूनैः । विभात्ययं पर्वतपृष्ठसंस्थो, राजेव चित्राम्बरपल्लवान्तः ॥ १२ ॥ सम्पूर्णरूपः सहकारकेषु सर्जाकुरे वोधितरौ विभिन्नः ॥ विलक्ष्यरुपस्त्वथ सप्तलासु मधुर्विचित्रो गिरिमल्लिकासु । १३ । मधौ मधु दिमवाप्य तत्र, समाधवेनाथ सखित्वमिच्छन् । पणेन पाकस्य यवादिकानाम् पीताम्बरत्वाय हि माधवस्य ॥१४॥ सयामनु देशमवाप्य नूनम् स्वकल्पिताऽऽकल्पविचित्रमूर्तिम् । अपश्यतां यत्समदाजनानाम् तं माधवं वर्णयतां शृणोति ॥ १५ ॥ निधूनितप्रवलभौमहिमो महीयान् उत्फुल्लषोडश-सहस्र-लताबधूकः ॥ देदीप्यमान-नव-क व-कौस्तुभमानुकान्ति- रुद्भिन्नपल्लव-पटः सखि ! माधबोऽयम् ॥ १६ ॥ मधुःस्वमित्रं मदनं विचिन्त्य माध-स्वयं माधव-दर्शनेन । उच्चैस्तरां कूजति पक्षिसंघ-व्याजेन, चित्रं वचनं विचिन्वन्॥१७॥ स माधचाऽन्वेषण तत्परः सन् भूस्थानदेशान्हिमवद्गुणाढ्यान् । पाकेन पीतान्सकलान् यवादेः, तन्वन् वृषाऽर्केविशती विशालाम् १८ १ सप्तलानामकुसुमितत्वात् । २ मधौ चैत्रे, मधुर्वसन्तः ३माधव शब्दो विष्णु वैशाखार्थकतयाश्लिष्टः । ५ शतद्रोर्यमुनावधि यामुनादेशो गोले द्रष्टव्यः । ५ इकारोचितार्थः प्रश्लिष्टः।

सूर्यचरिते। विशालता मात्मन एव शक्तेः स सङ्गतो माधवधाम्नि तेन । प्रदर्शयन् युग्मगतेऽथभानौ करोति पीतान्सकणान्यवादीन् ॥१६॥ सरयू-गङ्गा-यमुना-शतद्रु-विपाशा-वितस्तासु । शुचि रिवशुचितां तन्वन् मूलान्वेषण माधवः स शुचौ॥२०॥ यवकणपाकं कुर्वन् प्रसादयन् मानवान् स कश्मीरान् गन्तुमना अपि भक्तो व्यग्रो गोधूमपाकेषु ॥ २१ ॥ यवादिपाको हि वमन्त-चिह्नम् निरूपितं विज्ञतमैः कवीन्द्रः । अतो मधु यंत्र यदा स्वलक्ष्म प्रकाशये तत्र निरूप्यते सः ॥२२॥ समानसस्याऽप्यथ दर्शनैषी कर्के रवौ तत्र गतिं विचिन्त्य । यातो दिविष्ठे विरलद्रुमे सः सवालुके मानसभक्तिरास्ते ॥२३॥ पमानि तत्र विकचानि सहंसकानि सम्मादयन् मधुरयडिल माधवात्मा। सौरांशुभिः सुमधुरैः सुतघ्रस्तरू न्स: स्वल्पं वसन्ततिल केन युतान् करोति ॥ २४ ॥ देवाऽवसत्स किल तत्र द्विधाकृतात्मा- वर्षतुमाधवतनू कलनेन धीरः। कामस्य पञ्चशर-कल्पनयैव पञ्च मासाञ् छरत्समुदयं समवेक्षमाणः ॥ २५ ॥ स मानसे तीर्थवरे निमजन्, विधा भुजाभ्यां भरतस्य भूमिम् । शिलष्यत्तदात्मीयतयैव तीर्थम् लौहित्यसिन्धूदितरूपकाभ्याम् ।२६ ददर्श तत्रैव तदैव तस्माद् द्रुतं प्रयातुं शतधा द्रवन्तीम् । शतद्रुनाम्नी यमुनापरस्तात् सैशाल्मले पञ्चनदे वहन्तीम् ॥१७॥ १ दिविष्ठोहणदेशः। २शिमला इति प्रसिद्धः।.

तृतीयः सर्गः । समाकुल स्तत्र मधु महात्मा सन्देशलेशं शरदे दिदेश । शतद्रुवक्त्रेण सुखस्थितायै समुद्रतीरस्थनिकेतनेषु ॥ २८ ॥ स्वयन्तु पूर्वोक्तनदौ द्विधैव विगाहमानः प्रययौ प्रतीच्याम् । कश्मीरदेशान् रमणीयरूपान् तन्वन् दर्दशाऽथ शरत्प्रवृत्तिम् ॥२९॥ मृद्धीका रसभरितां विपाचयन्तीम् पेश्यन्ती परिणतशस्यदाडिमीञ्च । कश्मीरान्मुदितरान्वितन्वतीन्ताम् सम्मेने मधुरपि हर्षिी स्वकान्ताम् ॥ ३० ॥ यवादिपाकेन स्वयं प्रवृद्धो कश्मीरदेशेषु ततो वसन्तः । पुनः परावृत्य शरत्समृद्धया लीनः स तत्रैव विचित्ररूपः ॥३१॥ लौहित्यमार्गेण गतोऽपि राजा हिमालयादुत्तरभागगेन । लासा, गतो हूणकराजधानीम् सम्मादय न्मयनिपानमत्तान् ॥३२॥ सिंहगे ग्रहपातौ स वसन्तः सर्वतो हिमचयैस्तुहिनांशोः । शम्भुशैलवसते विषयस्य सम्पदः पचति सुष्टु यवादीः ॥ ३३ ॥ दिविष्ठदेशे बहुधोपसर्पन क्वचिद्धिमाद्रेः शिखरादपश्यत् । प्रियां स्वकीयां परितः स्फुरन्तीम् हिमाद्रितो दक्षिणभूमिभागे॥३४॥ विचित्रफलभूषणां विविधनीरिणी क्षीरिणीम् सर:कमलशालिनी कलमशालिनी क्षेत्रकैः । नभो मुदिरमोचितं भुव मदर्दुरां तन्वतीम् दिविष्ठनिलयो मधुः स शरदन्नकिन्नीक्षते ॥ ३५ ॥ १ सञ्जातरसभरा मित्यर्थन रसमयत्वमेव तस्या व्यज्यते । २ पश्यन्ती मित्यनेन पाकावशेषोगम्यते । ३ अनेनशरद्वर्णनस्य प्रहर्षिणी मयता ज्ञाप्यते । ४ चतुर्थसर्गे 8-२६-श्लोके द्र० । ५ देशविशेषणम् । ६ पद्यमिदं वीजमेतद्ग्रन्थस्य ।

१२ सूर्यचरिते। दिविष्ठविषयोऽधुना यवमसूरगोधूमकैः सुपक-फलसंयुतै मधु-नीपीत आलक्ष्यते । अहो हिमसमागमो भवति तत्र चात्राधुना शरत्स्फुरति सर्वतो भवति तेन पृथ्वी गुरुः ॥ ३६ ॥ शरत्स्फुरणचारुता मलिनचारुताको मधुः क्वचित् क्षिपति चाऽऽत्मन स्तनुमिमां तनूकारिताम् । अहो प्रियसमागमान्मुदितया तथा सङ्गतो- रहः प्रियसमागमे व्यवहितिं क्वचित्काङ्क्षति ॥ ३७॥ क्वचित्समभव त्प्रभुर्मुकुलयन रसालाङ्कुरान् क्वचिच्च तृणवीरुधः क्वचिदपीहे धान्याङ्कुरान् । यवादिपरिपाकतः क्वचिदपीतिशक्तिं निजाम् नचैव जनयन्मुहु भवति माधवं भावयन् ॥ ३८ ॥ माधवोऽथ मधुना स्मृत एव मार्गशीर्षवपुषा निजरूपम् । आस्थितो यवमसूरकणादे रुद्भिदा स्मरति माधवलक्ष्म्याः ॥३९॥ मार्गशीर्षवपुषा स वसन्तस्त्वैक्य मिछति हरे चनेन । भूतलं हरितयन्नथ लङ्काम् सम्प्रयाति शरदा सहितः सन् ।।४।। भानुबम॑नि वसन्तयात्रया देशकालनिगमो भयाकृतः । नाऽत्रकिञ्चन कपोलकल्पितम् तोषमेतु बुधवर्गक स्ततः ॥ ४१ ॥ तुष्यतात् स कुसुमाकररूपः स्वागतेन वचसैव कृतेन । पीत एव हि भवेज्जगदात्मा भानुरेष सविता जगतोऽपि ॥ ४२ ॥ इतिश्रीभगवविभूतिवर्णने सूर्यचरिते महाकाव्ये वसन्तयात्रावर्णने जलदुर्गप्रवेशा नाम तृतीयः सर्गः। १ कर्मणिषष्ठी । २ सौम्यगोले । ३ मासानां मार्गशीर्षोह मृतूनां कुसुमाकरः। इति गीता, चतुथें सर्गः। ऋतुकुटुम्बः । श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीगुरुभ्यो नमः । वसन्तो नृप स्तस्य राज्ञीशरत्ता स्वकान्तेन सूप्तं यतः सा प्रसूते ।। प्रियावल्लभा वाभिमुख्यस्य भाजौ वपुः शीलशोभाविशेषैः समानौ ॥१॥ वसन्तः पुमानरोद्भेदकर्ता शरत्त्वङ्गना सर्वसम्पत्सवित्री ।। प्रमाणे त्विमावेव तुल्यौ न चान्यौ गुणैः सर्वलोकातिगौ दम्पती भोः !॥२॥ इमौ दम्पती चित्ररूपौ धरण्याम्- न शीतं सहेते न चोष्णं प्रभूतम् ।। गुणै विश्ववन्ये जगद् रज्जयन्तौ स्ववर्गः समेतौ विचित्रं प्रयातः ॥ ३ ॥ इमौ गोलभेदेन रूपं स्वीयम् मिथो वल्लभत्वान्मिथस्त्वपयन्तौ ॥ उदग्याम्यदेशेषु चित्रं भ्रमन्तौ सदा तिष्ठतो गोलमध्ये तु युग्मम् ॥ ४ ॥ यदा उत्तरे वल्लभो याति मीने तदा वल्लभा दक्षिणे याति तस्मिन् ॥ यदा चोत्तरे कामिनी कन्यकायाम् तदा कामुको याम्यभागेऽभियाति ॥५॥ १ मीने सूर्यचरिते। नृपस्याऽग्रतः शैशिरो याति नित्यम्- विना नीरवर्ष जगच्छीतयन् सः ।। महिष्या पुरः प्रावृडेषा प्रयाति- इमौ दम्पती राजभक्तौ नितान्तम् ॥ ६ ॥ वसन्तशरदोः सुत स्तपऋतु स्तयोः पृष्ठतः सदा चरति गोलयो विपरिवर्त्तमानो ध्रुवम् । तपेन पितरौ जय छिशिरमेव निर्मूलयन न चातिसुखदो नृणां न खलु सर्वपृथ्वीगतः ॥ ७ ॥ मादृट् शिशिरतनजो, हेमन्तो हिमसमूह हार्दकरः । पित्रो गुणपरिपाकाद् राझ्याः शरदः प्रियोऽनुचरः ॥८॥ वसन्तोऽमीनदये वर्चते भोः कुमारीद्वये तस्य कान्ता शरत्सा । कुमारीद्वये याभ्यगोले वसन्त:- शरन्मीनमेषव्ये चित्रमेतत् ॥ ९ ॥ यदा कर्कपार्वे व्रजेत्यावृडेषा तदा नक्रपार्च वजेदल्लभोऽस्याः । यदा नक्ररेखास्थिता प्राडेषा तदा शैशिरः कर्करेखासु रूढः ॥ १० ॥ इदं सम्मुखीनन्त्युितुबन्दयुग्मम् गुणै स्तुल्यरूपं मिथो मित्ररूपम् ॥ निदाघो हिमश्चेति वैरेण पूर्णी मिथः शोषणे क्लेदने यत्नभाजौ ॥ ११ ॥ निदाघस्य बर्षा विरोधाय यत्ता तदीयं तनूज हिमं सोऽपि हन्ति । १ सौम्यगोले।

चतुर्थः सर्गः। हिम स्तद्विरोधाय पूर्णो हिमाद्रौ न यत्र प्रभुस्यान्निदाघः कदापि ॥ १२ ॥ निदाघः समुद्रस्य सामीप्यदेशे वसन् हैमनं वासमा हिनस्ति । वहिः कर्कनका द्विचित्रं चरित्रम् ऋतूनामतो नैव साम्यं कदाचित् ॥ १३ ॥ भुजङ्गप्रयातं गजेन्द्रप्रयातम वसन्तप्रयातं न शक्यं निबोद्धम् । तथापीह वर्षे यथाऽस्य प्रयातम् तथा वर्णये प्रीतये कोविदानाम् ॥ १४ ॥ अयं भारतं नित्य मेवाधितिष्ठन् विशेषाद्रवौ मीनगे जृम्भतेऽत्र । रसालाङ्कुरोद्भेदनं पौषमासाद् इषं ब्याप्य विद्वन्दरीदृश्यतेऽत्र ॥ १५ ॥ दरीलीनताम्बो प्रकाशं प्रकाशम् विचित्रेषु वृक्षेषु भिन्नं स्वरूपम् । दधच्चैकमेवाऽथ भिन्नं शरीरम् ऋतूनां न जानामि चित्रं चरित्रम् ॥ १६ ॥ ऋतुद्वन्छ मेतत्त्वदीयं विरुद्धम् । कवीनां वचोभि स्तपे, त्यादिभिर्भोः ? कवित्वेन वैरं गुणो दूषणं वा ? विरोधोऽप्ययं भूषणं गोलसिद्धः ॥ १७ ॥ १ सर्पगमनम् । २ वा,=इवार्थः । ३ तपेन वर्षा शरदाहिमागम इत्यादिना ।

सूर्यचरिते। कथं वर्णितं तादृशं प्राक्तनैस्तत् ? तयोः पार्श्ववर्तित्वमात्रेण विछन् ! तथावण्यशक्त्युद्भवायेति विद्धि ! मदीयं पुनर्वर्णनं गोलयुक्तम् ॥ १८ ॥ न चेत्प्रत्ययस्तेऽत्र शास्त्रं पठत्वम् विना ज्यौतिषं दृष्टिहीनो मनुष्यः । विना व्याकृति वक्तुमेव प्रभु नों विना दर्शनै र्ना विचाराऽसमर्थः ॥ १९ ॥ रसालाङ्कुर श्वेवसन्तस्य चिह्नम् तदा सर्वदेशेषु कस्माद्वसन्तः न सर्वत्र माकन्दर्भू भूमिरेषा न वा यौगपद्याद्रसालाकुराः स्युः ॥ २० ॥ मधो लक्षणं तेऽस्ति गोधूमपाक:- कुतः पाक एषां न यत्राऽस्ति जन्म । जनि यत्र तत्रापि भिन्नो विपाक: दिविष्ठे यवाद्या स्तु वर्षे पचन्ते ।। २१ ।। अथो लक्षणं पुष्पजन्म वीषि- न कस्मिन्नृतौ पुष्पनिष्पत्तिरत्र । विशेषा त्पमूनोद्भव स्तेमतञ्चेत् भवत्सम्मतः को वसन्ते विशेषः ॥ २२ ॥ मधोः पाटलासूनसूति हि चिह्नम् न, सर्वेषु मासेषु सूति हि तस्य । १ वङ्गादौ । २ वर्षौ। ३ यसर्गे सिहगे इत्यादौ तथा ८ सर्गे श्लोके द्र०। sapana चतुर्थः सर्गः। विभिन्नेषु जातेषु चेन्नै कजातो- भवेदव्यक्तिभेदेन चेन्नैकगुच्छे ॥ २३ ॥ भवेद्देशभेदेन चेनैकदेशे- उपायैः मुधूपादिभि श्चेत् स्वभावात् । असत्यं ब्रवीषीति चेत् सत्यवादिन् ! निरीक्षस्व, नेपालकूर्माचैलादौ ॥ २४ ॥ अहो पल्लवोद्भेद एतस्य लक्ष्म सदा पल्लवत्वं सुभूम्युद्भवस्य । विशेषोद्भवे मेऽभिसन्धिर्नु सत्यम् विशेषोद्भवः किन्न मेघाऽवलोके ॥ २५ ॥ किमेतस्य चिह्नं वद त्वं शृणु त्वम् ? वसन्तः सदा सवर्गः सूक्ष्मरूपः । तदीया प्रिया तस्य रूपान्तरं सा तयोरात्मजस्तत्स्वरूपः सुतत्त्वात् ॥ २६ ॥ तयोः सेवको दम्पती तत्स्वरूपौ यतो भृत्यवर्गः स्वकीयोऽनुविम्बः । अतो लक्षणन्त्वस्य कर्तुं न शक्यम् विभुनित्य एषो हि पुष्पाकरश्च ॥ २७॥ कथं भेदषट्कं प्रसिद्धन्तु तेषाम् यथा कारके कर्तृतादेः प्रसिद्धिः। विभिनं पुनर्लक्षणं तत्र दृष्टम् विचित्रं चरित्रं त्वमत्राऽपि विद्धि ॥ २८ ॥ १ भूरुहपक्षे बहुब्रीहे, त्व प्रत्ययः । अन्यत्र सदा इत्यसमस्तः ।

१८ सूर्यचरिते। कथं वेद्मि विद्वन् ! बनाराम बुद्धया कवीनां वचोभिर्गुरुणां प्रसादात् । प्रमादस्य हानात्सदाशास्त्रदृष्टया- विजानीहि तत्पूरुषं दिष्टरुपम् ॥ २९ ॥ इति श्रीभगवद्विभूतिवर्णने श्रीसूर्यचरिते महाकाव्ये - ऋतुकुटुम्बवर्णनन्नाम चतुर्थः सर्गः । पञ्चमः सर्गः। अथ निदाघः । १ श्रीगणेशायनमः । श्रीगुरुभ्यानमः । शिरीषकुसुभप्रियः शिशिरमूलनिर्मूलको- निदापनिकरैर्महीं प्रतिदिनं समाशोषयन् । कचित्कुंटजभूरुहा न्कुसुमिता न्वितन्वन्नहो- कचिच नवमल्लिका विरमयस्तपोऽप्यागतः ॥ १ ॥ १ अत्रायं निष्कर्षः एक एव वसन्त ऋतुः, विषुववृत्ते तस्यैव सदा वर्तमानत्वात् । तस्मिन्नेव, पञ्चमसर्गस्य द्वाविंशश्लोकोक्तन्या- येन, दशाभेददर्शनादुषड्ऋतुकल्पनम् । तच्च मधुश्चमाधवश्च वास- न्तिकावृतू, इतिवेदोक्तमेव । अतएव वसन्तस्य व्यापकत्वम् सर्वकाल- सत्वात् । अतएवाऽस्मिन् ग्रन्थे, इहाद्यमधुमाधवावितिनिदाघे, 'गोधूमपाकनिरतैव दिविष्ठभूमिः, इति प्रावृषि, मन्येहं स हि भगवान् वसन्तरूपइति शरदि, सूक्ष्मं सर्वगतं वसन्तनरपंहेमन्तलीनंवदन इति हेमन्ते, मधुरयंकिलसर्वगतीविभुः, इति शिशिरे, इतिवसन्तस्य- तत्तदनुस्यूतत्वं प्रदर्शितम् । २ शीतम् । ३. गिरिमल्लिका कुरैया, इति प्रसिद्धा ।

पञ्चमः सर्गः। वै रवी रससुतारका-ग्रहणपीडितः सर्वतो रसं पिवति पोषितुं स्वतनुभव भोक्तुश्च ताः । अहो जगत एषष जननपालनादौ विभुः- स्वयन्तपति कस्तत स्तपभयात्समाश्रीयताम् ॥ २ ॥ इतीव जनचेतसां बहुवित्रान्विकल्पान्मुहुः- मुरारिरिव भेचको तरुवरै ग्लादैः कृतः । प्रफुल्लबहुपुष्पकै बहुविधैर्दुमै राजितो- वसन्तशरणो गिरिहिमयुतः समाधास्यति ॥ ३ ॥ हिमेन परितः सितो नयनचित्तसम्मोहको- सुरेन्द्रनगशयितो भगवत स्तु सौधायितः । अगम्यविषयो नृणां, विविधपादनौद्युतो- नरेन्द्रनरसवितो गिरिरिहाद्य संरक्षकः ॥ ४ ॥ जना इह महीरसो रसमितैन लभ्यः करैः- रसाङ्गुलिभिरार्द्रता मिलति तत्र शुष्कस्थले । इहाय हरितोऽपि नो मिलति तत्र गोधूमका:- विभान्ति बहुधाऽप्यहो हरितपीतसँछिन्नकाः ॥५॥ इहाऽद्य मधुमाधवौ स्मृतिपथं कदा चिद्गतौ- पर नयनगोचरौ भवत एव तत्राऽधुना । कचि च सहि फाल्गुनः सखिपथस्य संदर्शको- यवादिषु निास्तां हरितमनरी पश्यति ॥ ६ ॥ कचि विविविधभङ्गिभिः कटकशोभिनीभिर्युता- मही हरितपत्रकै रुचिरनालकै रालुभिः । १ कृतिका । २ दूर्वा । ३ मासः । अर्जुनश्च । ४ प्रसिद्धः शाकै सूर्यचरिते। कचि बहुमहीरुहै गंगनसर्पिभिः शोभिता- प्रशस्तजलमृत्तिका सुनिभृताऽथधान्यैः समा ॥ ७ ॥ निदाघविकला अहो नरवरा उशीराजिताम्- वृति दधति वारिणा तिमितिका स्ववातायने । हिमालयगता जना रुचिरकम्बलाद्यैः कृतम्- निचोल मथ विभ्रते शिशिरवातभीताङ्गके ॥ ८॥ रसालफलचूषणादिह जना निदाघार्दिता- निगाढपिटिकाभृतो लपनपाकरोगान्विताः । रसालतरुचूषणाद्धिमगिरौ जना नीरुजः प्रदीप्तजठराग्निका वलयुताः सुखं शेरते ॥ ६ ॥ रसालफलपाकतो भवति चाऽत्र पीता मही- हिमे हरितवर्णका तनुफलै रवीजै रहो। इहाऽस्तिगगने रजः प्रखरदाहयुक्तो मरुत- तते स्तु विमल नभः शिशिरके मरुद्वारिणी ॥ १० ॥ सुषीमजलवाञ्छया ध्रियत अत्र भृङ्गारकः कवोष्णकरणोधमः शिशिरनीरभीते स्ततः जना हिमगिरेः कथा मतिगिरं कथं वर्णये निदाघभयगोपने जगति नास्ति तादृक् परः ॥ ११ ॥ दिवाकरगति जनाः श्रयति रोहिणी सन्निधिम् ततस्तु निखरातपादिह करीषतुल्या मही । समुद्रतटनीवृतः प्रवलवृष्टिक्लिन्ना महीम् समे दधति शाहलां नवजलाञ्च सुह्मादयः ॥ १२ ॥ १महीविशेषणम् सर्वाऽविषमा च । २ इक्षुः । ३ मानवे,आर्यावत्ते। तत्र, हिमालये । ५ शांतम् । ६ कनकालुका । ७ शुष्कगोपयः।

२१ पञ्चमः सर्गः। शिलाप्रचुरभूतले गिरिमये तटे वारिधः । वलाहकविनिःसृतं जल मधः समाप्लावयत् अलब्दशरणं श्वसत् प्रखरतिग्मरश्मे करैः- करालितवपुः सितं श्वसिति भूमि माप्त न्वहो ॥ १३ ॥ इद जल मनिर्दशं पिवति नैव कश्चि नरः- परं भवति रोपणे बहुगुणं सुशीलेः कृषौ । निदाघसमये ऽप्यहो भवति तत्र संरोपणम् इहाद्य वसुधा सुधासदृशतापदात्री जले ॥ १४ ॥ गवामिह न लभ्यते तपऋतौ विशुष्कं तृणम्- ततो हरितमेचका यवसपूलिका भूरिशः । इहाद्य विफलामही तपनतापदुर्गायत:- सैदाफलमहीरुहैः फलवतीव तत्रा ऽस्ति भोः ॥ १५ ॥ समुद्रतटनीतो मलयमारुतेना ऽऽवताः सदा सुखमया जनाः ? नहि निदाघ एतादृशः । न वा शिशिरकाद्भयं भवति तत्र हेमन्तकात् कवोष्णलहरीः स्पृश जलनिधेरुद्वाति यत् ॥ १६ ॥ हिमालयतपालयौ हिमगिरिश्च विन्ध्यो मतौ तयोः समतले रवि स्तपति यादृशो मध्यतः तथा कच न दृश्यते भुवि करै रसाञ् शोषयन्- नहो झटिति वर्षणात्स भगवा समाधास्यति ॥ १७ ॥ कथं झटितिवर्षणं तवमतं समे भूतले, ह्यनूषर मनश्मकं विकृति मेति भूमे स्तलम् । १ चूर्णम् =चूना इति लोके । २ समासेप्ययं प्रकृतिभावः । ३ नालिकेरैः । ४ देशाः ।

રર सूर्यचरिते। इहाद्य सकलन्तपं तपति यधयंभास्करस्- तदैव धरणिः क्षमा भवति सर्वशस्योद्भवे ॥ १८ ॥ हिमालयजलालयौ शिशिरवातसंप्रेरकौ- । तयोस्तटघरा पुनर्विषमिता ऽद्रिपृष्ठस्थिता । अथोषरविराजितोपलकुलाकुला भूरिश: इतीह सततरवि निजकरै जलं यच्छति ॥ १९ ॥ इतस्तु समभूतले रविकरैः सुवाष्णायिते चतुर्भिरपि मासकैर्भवति शस्यजातिः सपा । यदीह सतन्तं रवि हिमजलालयप्रान्तवत् प्रवर्षतु तदा मही दलदलाकृता दुस्तरा ॥ २० ॥ न वीजवपनोचिता न च तृणाङ्कुरोद्भेदिका न चाऽपि फलपोषिका न तरुदायकृत्यां क्षमा ॥ अतो ह्युचितकार्ययं जगतप.व आत्मा रविः- यथा तथकृते जगत् परितप स्वयं पाति च ॥ २१ ॥ सुरम्भण-तपः-प्रवर्षण-फलाप्ति-हान्यादिभिः- ।। वसन्ततपनादिकाञ् जगति षड्ऋतून् प्रेरयन् । भवन्ति किल षड्डशा जगत एव सत्तादिकाः जनस्य सतन्तं रवि पियतीति बोधप्रियः ॥ १२ ॥ वसन्तकलिकां तपःपसरपोषपक्कामवन्- प्रवर्षणविवर्द्धितां फलवतीं विधातुं हरिः । हरिप्रिय इव स्वयं प्रतपना द्धरिवर्णकाम्- करोति मृगशीर्षग स्तुहिनयन्नवाग्गोलकम् ॥ २३ ॥ १ अनुक्करण मिदम् । २ सुरम्भणम्, तपनम्, प्रवर्षणम्, फल- प्रसवः, अपचय; हानिः, । ३ इतिसुरभिप्रभृतीनाम् , ऋतूनां कर्माणि । ४ जायते अस्तीत्यादि । जन्मादिका, इति च पादः । ५ तपः प्रसरोधर्म प्रसरः ।

पञ्चमः खर्गः। : .. यदा भवति वासरंमहिमशालि सौम्ये जना: ? तदा तनुतरं दिनं भवति यान्य गोलार्द्धके तथैव ऋतुपर्ययः क्रमत एव ज्ञेयः समः परन्त्विह यथावं भवति तादृशं नो कचित् ॥ २४ ॥ रविर्दशशतैः करै दशदिशः परन्तापयन् दशाऽपि हरतीन्द्रियप्रबलभावना साम्प्रतम् दशाऽघजनिताऽसुखन्तदिति भावयन्तो जनाः ? दशप्रगुणपुण्यदां दशहरां भजद्धचिरात् ।। २५ ॥ चिरस्य जलसंभृतां प्रखरभानुभि निजलाम्- इलामयमहाव्रतः सपदि मानवाः ? कारयन् । परस्य पुरुषस्य तां प्रियतरां भवा तारिणीम्- निबोधयति सेवितुं तपमहाभया निर्जलाम् ॥ २६ ॥ विधुः किल तपःप्रथां जगति जाग्रती हासयन् जनान् क्षणयितुं क्षणं क्षितिजमूर्ध्नि ज्येष्ठायुते । युनक्ति निजवाहनं स तु शशन् विलङ्ध्यैव खम् क्षणं परधरे गतः क्षणवती वितन्वन्क्षपाम् ॥ २७ ॥ यथा मृदुलरश्मिभि स्तपतौ मनो मोदयन्- नुदेति कुमुदप्रियः प्रियतमो नृणां तद्भवेत् । निशां यदि विशालतां प्रणिनयनिशाकर्तृताम् निजां पर मवजग तपमहाभया जायताम् ॥ २८ ।। ज्येष्ठानुरागपरिपूरितबिम्बकान्तौ- कान्ताननोपमिति मश्चति यामिनीशे । यास्य स्वयं पुन रहो तरणिः स्मर स्ताम्- ज्येष्ठां स्वतर्जनकरी जलधौ निमग्नः ॥ २९ ॥ १ हेमन्ते, राधापाद पराहत दत्यादौ ।

२४ सूर्यचरिते। जैवातक स्तत उदारकरैः स्वकीयैः । सजीवय न्भुवनमेव निदाद्यतप्तम्- भानौ नृयुग्मदयिते जलधौ निमग्ने । 'हे विशंगत इव ब्रुडति प्रतीपम् ॥ ३० ॥ सर्वेजना जलनिधि प्रणमन्त एव- माल्यार्घपुष्पपणगोरसनालिकेरैः । संतापभासुरसुवर्णविकाशिभानुम् - भानुं नृयुग्मपरिलम्वितसर्वबिम्बम् ॥ ३१ ॥ कल्लोलशेखर-गतं द्रुतजातरूप्य- दीप्ति, विचित्रकिरणा न्मुहु रर्पयन्तम् । दृष्वैव तद्भगवतः पुरुषोत्तमस्य- धिष्ण्यं. प्रसाद मगमै पुरुषोत्तमस्य ॥ ३२ ॥ युग्मम् क्षितितलनिलय महीरुहात्मा- जलनिधितीरगतै स्तरङ्गरुपः । उदयगिरिरसौ विचित्रवेषो- धरगतपुभि रदर्शि शैलशीलः ॥ ३३ ॥ इति श्री० भ० वि० व० श्रीसूर्य चरिते महाकाव्ये निदाघवर्णनन्नाम पञ्चमः सर्गः । १हा इति शोके । २ अलभन्त । ३ जगन्नाथस्य । ४ धरः पर्वतः २५ षष्ठः सर्गः। निदाघेशुचिः। अथ जना भगवत्परिपालिते- अधिवसन्त उभे पुटभेदने । रविविधू उदितास्तमनं गतौ- जलनिधे स्तनयोविति मेनिरे ॥ १ ॥ जनकदायहरः सुतरां सुतो- जलधिरिक्थ मिमौ हरतो यदि । जगत एव तदाऽऽतपवारणाच- छरणदौ भवतो जगतां पती ॥ २ ॥ इति जगत्पतिमन्दिरयो गताः- जलनिधे स्तटयोः परपूर्वयोः । भरतभूमिजुषो मनुजा हितम्- जगत एव समीहितु मानताः ॥ ३ ॥ युग्मम् अथ शशी जलधेः प्रिय पात्मजो- भुवनसेचनसम्मितवारिभिः। भृततनु नवमेघ इव स्वयम्- मुनिभृतं रविणैव संहोदितः ॥ ४ ॥ दिनकरः मुदिनाय सदोद्यतः सदयमेव तदा कुदिनञ्चरन् । निजकरै रमृतद्रवसम्मितम्- घनतनो निदधाति वनं ततः ॥ ५ ॥ १ समूहालम्बनात्मक भ्रमानुवादः ।.२ एकवचनेन पूर्वोक्त भ्रम निरासः । ३ अमावास्यासूचिता । ५ जलम् । चन्द्रषिम्बाक सूर्यचरिते। कियदहो जलमेष तनौ स्वके- विधु रयं विनिगूहयतीह नः । मतिरिमं विषयन्नविगाहते पेरिमिनोति परं रविचेष्टितात् ॥ ६ ॥ रविरयं हरमाण इतोजलम्- क्रमश एव करान् विनिवेशितुम् । *यसति तेन शशी क्रमशोऽर्चिषा- निजतनुं भरमाण इवेक्ष्यते ॥ ७ ॥ रविविधू जगदाकृतीङ्गिन्तात्- जलनिधि विशतस्तु सहाया । जलधरेण तदिङ्गितवोधने- जलमुचाऽधिनिशं किल भूयते ॥ ८ ॥ भुवनतृप्तिकरं भुवनन्विदम्- भवनभानकरं गृहमेधिनाम् । मम च पिङ्गलनागनिवासतो- हिमगिरेविषयागिरिशस्मृतेः ॥ ९ ॥ गिरि रयं गिरिशस्य परं प्रियो- विविधशृङ्गमही-झरिणी-करैः भुवनभोगसहै रथगहरैः परिगतो भुवनान्तरभास्वरः ॥ १० ॥ तुरयं गतः परितापक:- क सवितुः प्रखराः किरणा अमी। १ परित अनुमिनोति । २ विश्वनाथस्य भानकर मित्यन्वयः । ३ गुहामिः, पातालभुवनेश्वरादिभिः । * यसोनुपसर्गादितिश्यन् विकल्पः ।

षष्ठः सर्गः। २७ कच धरा परितापधराऽधुना- धरवरे मनसीति विचारयन् ॥ ११ ॥ क्षितितलात्कच दिमितनल्वके- कचन तद्विगुणे त्रिगुणे कचित् । कचन हीनतरेऽल्पककेप्यतः पथि चल न तप क्वच नाऽगमम् ।। १२ ॥ युग्मम् हिमगिरौ सकलाऽऽतमा मही- तृणचयः सुभृता हरिताऽकुरैः । प्रथमतो ऽप्यधुना परिपिजरा- कलमरोपणशोभितभक्तिका ॥ १३ ॥ क्वचन धान्यभृता घनमेचका- क्वचन कोद्रव-वाप-विराजिता । क्वचन मुद्द्रकुलत्थकमाषकैः- वसुमतीति यथार्थकतां गता ॥ १४ ॥ हिमगिरि मनसेति विवर्णयन्- नवतरङ्गिल चित्रशिलान्ततः । शकटवेगवशात् सकलां महीम्- तपयुतामनसेव दृशाऽस्पृशम् ॥ १५ ॥ अयि पुनर्वसुमान किल भास्करस्- तपति भूमितलं स यथापुरा । इह कृषि रभतेऽघकृषीवल:- सभगवान् परिपुष्यतु वर्षणात् ॥ १६ ॥ १ अस्या वर्णनं पञ्चदशसर्गे द्रष्टव्यम् । काठगोदाम इति स्थानाद् कोशमिते रानीवाग इति प्रसिद्ध । २ अनसा महाशकटेन ।

२८ सूर्यचरिते। अथ जना जगदीशविलोकनाद- द्रुतविलम्बितकेन पुनहान् । स्मृतिगतानुपगन्तु मतित्वराम- उपगताः किल दिक्षु चतुर्वपि ॥ १७ ॥ एवं तप विभवेन हिमालयादा- वन्यजूंदुस्तरगतौ प्रतिहायनेषु । साक्षात्कृते भगवतो मनुजाः कृतार्था- स्तन्वन्ति सूर्यगति भुत्तरतो गतार्थाम् ॥ १८ ॥ पूर्वत्र दारुमयमूर्ति रसौ परेशो- ग्रीष्म जन्यतपदुःखविशुद्धदेहः । आस्याय स्यन्दनवरं नृपचक्रयुक्तम्- भक्ताञ् चिराय किल दर्शयते स्वरूपम् ॥ १९ ॥ अथ तपनसुतप्त लोकमेत समन्तात्- मनुजनिकरदुःख स्यन्दनस्थःस दृष्ट्वा । घनपटपटलं द्राग् वेष्टयन् व्योमरूपः- घनवनपरिवृद्ध्यै योगनिद्रामवाप्तः ॥ २० ॥ सपदि पवननुन्ना-वारिवाहाः कुतोपि- वनभृत-धन-देहा व्योम्न्यदृश्यन्त नीलाः । रविमपि तिरयन्तो ध्वान मुच्चैः सृजन्त:- तप-विजयमृदङ्गं वादयन्तीह नूनम् ॥ २५ ॥ आदित्यस्त्वदिते स्तृतीयचरणे भक्त्या नतः साम्प्रतम् शुभांशुः शुचितां शुचेर्विशदयन्नाषायन् स्वगृहम् । ११ भूलोकम् । दुःखान्तमस्यैवविशेषणम् । २ हरिशयनीसूचिता ३ सज विसर्ग तुदादिः परस्मैपदी । .

सप्तमः सर्गः। २. आषाढी विदधाति वीजवपनव्यापार-संसूचिकाम् सर्वाषाढधरी गुरूनुपनमन्त्युप्त्यै गिरां भक्तितः ॥ २२ ॥ इति श्रीभगवद्विभूतिवर्णने सूर्यचरिते महाकाव्ये निदाघे भगव छात्रावणन्नाम शुचिसर्गः षष्ठः। अथ दक्षिणायनम् । सप्तमः सर्गः प्रवर्षणम् भगवति वसुनाथे ब्रह्मपुत्राद्धिसंगाद् उदयति पुन रस्त सिन्धुसंगे प्रयातुम् । शिखरविहितमार्गों भाति पूर्वापरस्थ:- भरतनृपतिभूमे भूषणं विन्ध्यशैलः ॥ १ ॥ रवि रपि किल पारं सागरस्याऽऽप्तुकामः सरसि नदयुगाब्द्धयोः संगमे स्नाति नित्यम् इति मनुजनुषोऽपि स्वीयसामीप्यदेशे । कचिदपि खलु तीर्थे स्नान्ति, विश्राणयन्ति ॥ २ ॥ भवजलधितरि र्वा कर्कसक्रान्ति रेषा- उदगयनगतस्यान्तस्थिता गोलरेखा। इति मनुजवरै यत्स्नानदानादि कार्यम् उदगयनमुखेऽस्मिन् दक्षिणाशामुखेन ।। ३ ॥ १ वृहत्संहितायां दृष्टव्यम् । २ ब्रह्मचारिणः । ३ पूर्वनिपात विधि रनित्यः। ४ आभ्यां वचनाभ्यां ग्रहणातिरिक्त काले रात्रिस्नाननिषे- धेन बाप्यते त्रिंशत्कट केपूर्वा इति ।

३० सूर्यचरिते। संक्रान्तिक्षणतः स एष भगवान्याम्याभिवक्त्रः स्वयम् सव्यैः सिन्धुजलन्तु दक्षिणतरैर्हस्तै वंचं मानसम् । स्वीकुर्वन् घनमण्डलं तिमितयंस्तच्चाऽपि निष्पीडयन्- नादत्तवरः पुनर्वसुयुतो नाप्नोति खेदं क्षणम् ॥ ४ ॥ गर्जन्त्यः पवनेरिता घनघटाः सम्यग्भृता वारिणा- साक्षादजनसन्निभाश्चपलया संभामुरा भूरिशः । वर्षन्त्यो भुवनं स्वमातृसदृशं धिन्वन्ति पुष्यन्त्यहो- पुष्यस्थे जगतोऽपि पोषणपरे पूषाभिधेये परे ॥५॥ वर्षाधीशः परो ऽयं विधिहुतविषयं स्वैः करैर्गृहमान- स्तेजस्वैक्येन वह्नः पुनरखिलमय स्तैजसापूर्वरूपम् । तन्वन्यज्ञ पुनस्तां भुवनहितकरी माप्यसृष्टिं सिमस्मै याथातथ्येन भागं वितरति जगता मात्मभूतः परेशः ॥६॥ आसारौषमपूर्णा स्थलजलजनिभि जन्तुभि र्जातजीवा जीवानां तापशान्त्या जनितनिजयथार्थत्वरूपा हि धात्री । धारापातै हंसन्तीधरजनित-नदीशोभनानेकहारा सोच्छ्वासा श्वेतनीरा जगदखिलमियं लालयन्ती कृतार्था ॥७॥ मही मायीनां महितयवसोत्पादनपरा समा श्यामा वामा कलुषतमनीरैकनिलया । नमः श्यामं मेधै मिहिरमहिमच्छादनपरैः तमालाभं सर्वं जगदिदमिदानी घनरुचा ॥८॥ वलाहकषटां नभस्तलगतां निरीक्षाधुना- प्रियं मुदितमानस तितनिषु नरीनृत्यति । mameramadimanamamydia १ सर्वस्मै।

मयूररमणी स्वरं प्रियतरं मुहु स्तन्वती तनोति नगरायितां भुवमरण्य-संवेष्टिताम् ॥९॥ अरण्यधरणि यथा धरवरे दरीदृश्यते मनोहरतमाऽसमा विरलपादपै राजिता तथा धनमहीरुहै रमितकपटकै वेष्टिता न भाति समभूतले जलदकालक्लिन्ना जनाः ? ॥१०॥ जना नगरवासिनो न विदुरेवमन्यातवम् निकेतनमये पुरे विदुरि ? वार्षिकं यादृशम् । इदञ्चधनकर्दमे पथि नितान्तसंपिच्छिले. यथा स्खलनभीतितो न तु तथा गुणै वार्षिकैः ॥११॥ कथ न विदु रे ! जना नगरवासिनः कृत्रिमे घनेऽखिलमहीरुहेऽखिललताभृते पुष्पिते । सदैव सकलावं सुनिपुणं दरीदर्शकाः पुना रुचिरविभ्रम जगत एव चर्कारकाः ॥१२॥ गङ्गासागरसङ्गात् पूर्वस्यां ब्रह्मपुत्रसङ्गोऽब्धः। कैटरेखा तस्माद् विन्ध्यगता सिन्धुसङ्गान्ता ॥१३॥ भारम्भोऽस्या वृष्टेः सप्ताश्वे मृगशीर्षगे तस्मात् क्रमतः प्रागुत्तरती वेला हिमगिरिमार्गतः पश्चात् ॥१४॥ गच्छन्तीयं सर्वां भूमि शस्योद्भवाय योजयति । मरुभूमिमेव मेका मयोग्यतायाः परित्यजति ॥१५॥ धन्येयं मरुभूमि विकृति या पाषाऽपि नो याति । क्षालितमृत्साऽपङ्का दर्दुरहीना नर्ददुरै दृष्टा ॥१६॥ १ हिमालये । २ अयं श्लोकः प्रथम श्लोकस्य टीकाभूतः । ३ मेघैः ।

३२ सूर्यचरिते। मरुभूमेः पश्चिमतः पञ्चनदं सर्वशस्यसंपन्नम् । कुर्वाणेयं वर्षा भारतवर्ष कृतार्थयति ॥१७॥ पञ्चनदे पर्जन्यो वर्षति नितरां समुद्रदूरस्थे सिन्धौ सिन्धुसमीपे नो वर्षति कापि दैवगतिः ॥ एवं वेलामार्गा त्सुह्मोत्कल-बङ्ग-तैलङ्गान् । कर्णाटक-पाण्ड्यादीन् मद्रविदर्भान महाराष्ट्रान् ॥१८॥ मालव-गुर्जर-कच्छानानन्न् सिन्धुसौवीरान प्राप्लाव्य पारसीकान् कम्बोजान् याति कश्मीरान् ॥१६॥ पश्चिमपवर्तपृष्ठे कौङ्कणदेशः समुद्रतीरस्थः । उत्तरतः केरलत स्तस्यपुरस्तात्कृशा वृष्टिः ॥२०॥ दृष्टिरियं रविकिरणः पवनेन विघट्टितै श्चित्रा । चित्रनिवेशै भूमे मेंघानां चित्रतायोगात् ॥ २१ ॥ भारतवर्षे तपन स्तपति यथा वर्षतीति नो चित्रम् । चित्रमिदं हिमबहुले तूत्तरभागे' कृशाष्टिः ॥ २२ ॥ अथवा रविसंक्रान्तरारब्धा ब्रह्मसङ्गमे सैषा। वर्षामानसभावा मानस-भूति विजानाति ॥ २३ ॥ हिमगिरि दक्षिणपार्वे नेपालादौ विचित्ररूपेयम् । जनयति नूनं नीरं भूमेरुदरादुदश्विता तुल्यम् ॥२४॥ गिरिधरणिरनेकैरश्मभिर्जातरोका, तपनकिरणतापात्तृष्यतीयन्ततोऽद्य । प्रपिवति घननीरं नीरसं तन्वती तत् वमति धवलभूतं वाष्पपाकेन नूनम् ॥ २५॥ १ अपशब्दोयं कलिङ्गस्थ । कालिङ्गान्-इति पाठःसाधुः। २ दिविष्ठादौ । ३ शीत संपत्तिम् । भाद्र ८ म० श्लोकादा द्रष्ट- व्यम्। ४लडन्तम् ।

सप्तमः सर्गः। ३३ ३ ३ जलमिदमतिमात्रं निर्मलं शस्यद्धयै- भवति मनुजपेयं श्वेतभावस्य शान्तेः । हिमगिरिमतिशौक्ल्यं प्रापयन्नीरपूरम्- वनति नदनदीनां चूषितानां सपेन ॥ २६ ॥ उपकृतमतिमात्रं मेदिनी, तापदानात् जलहरण-समर्था यत्कृता ग्रीष्मकेण । सवितुरयमथान्तवासिभावं प्रपन्नो- जगति किमिव कर्तुं शक्नुयान्नो महात्मा ॥ २७ ॥ अवनिरथ पिपासाव्याकुले वाद्यसोयम्- जलधरपरिमुक्तं शोषयन्ती स्वकोये ।। वपुषि तदनुपीना जन्मिनामुद्भिदाञ्च- खनिरिव किल जाता भूरिपानीय-पानात् ॥२८॥ दिनमणिकरतप्ता मेघसिक्ता नितान्तम्- खिलधरणि रनेकैः शाखिभिः शोभमाना। मदुतृणपरिपूर्णा क्लिन्नगात्रा सवाष्पा जनयति सुखराशिं पश्यतां सत्कवीनाम् ॥२६॥ विविधकृषिपरीता कर्षकैः सेव्यमाना- निविडतरविवन्धै र्वेष्टिता नीरपूर्णा । तनुकलमकृतार्घा पिजरा श्यामलाऽयो- रसिकनयनवन्ध सेवते क्षेत्रराजि: ॥३०॥ इतिकलमगुणाढ्यां पोषयन् पुष्ययातो- रुचिरकणिशगमैं र्धान्यजातैरिलां सः १ निर्माति, नीरपूरमित्यनेनान्वयः । २ ग्रीष्मकस्यमहावैधत्वं सुचितम् । ३ पुनः भूरिपानीयपानेन तदेव मेदिनीत्वमापतितमिति तदपचारः सूच्यते । ४ अप्रतिहता। वांझी इतिप्रसिद्धा । प्रथमसं. भोगखिन्ना नायिका व्यज्यते। ५. सामान्यवनितावलिय॑ज्यते। ५.

सूर्यचरिते। नयनहरणरूपां कारयन् कर्मसाक्षी सममपिजनवृन्दं नन्दयञ् श्लिष्यतीव ॥३१॥ अथ मुदितमनस्काः पीवरा नीर-लाभात् कुहरनिलयलीना भूतले वायुपानाः । उरग-इति-गदन्तः स्वीयनामाऽतिमात्रम् स्वभगतममुमारादादृतंकर्तुमुत्काः ॥३२॥ निखिलभुवनभानु भानुमेनं समेषाम्- मुखकलननिमग्नं ग्लानिहांनं प्रसन्नाः। पवनभजनपीनाः पूजयन्तीह नूनम्- त्विति जननिकारोऽपि प्यायते पूजया तान् ॥३३॥ सममपि भुवनं द्राक् श्लेषयन् मृतियोग्यम् कणिशनिचयगर्भ शस्यजात वितन्वन् । धरणिमखिलवीजोद्भेदपूरेण पिपद् , धरणिसुरमनांस्युत्कानि वेदे करोति ॥३॥ अवनिसुरमनास्युत्कानि तावन्न पाठे- यजनहवनतृप्तस्त्वोषधीर्यावदेषः॥ जनयति रवि रात्मा नो सिमस्यैव दृष्टः, यजनहवनलमानीति विश्वस्थशान्त्यै ॥३॥ उपाकृतिविधौ विधुर्विजगणं सुखन्नोदितुम्- श्रुतीङ्गनविभावनः श्रुतिगतः प्रतन्वन्तनुम् ।। उदेति हि पुरः क्षपां क्षपयितु न्नु तां भद्रिकाम- परेवि यथा हि सा भवति भद्रदा श्रावणी ॥ १६ ॥ अथो बिजगगणाः समे कचन तीर्थतीरे गताः १ क्रिया विशेषणम् । २ वर्द्धयते । ३ ओषधि-प्रादुर्भावस्यैवो- पाकर्म प्रयोजकत्वात् ।

अष्टमः सर्ग। त्रिकालतनुपावनं हरितगोमयं स्वाङ्गो । विलिप्य सकलाघकपशमनेन शुद्धाः श्रुते- रुपाकृतिविधि यथाविधि वितेनुरुत्काः शमे ॥ ३७ ।। कलानिधिरयं मृगे ग्रहपतिश्च कर्के गतो. विचित्रतरवाहनौ निजगति मिमातेऽधुना ।। इतीव धरणेः सुराः परिधिसूचनायाऽमुना विवेष्टय मणिवन्धकाञ् शमिति तन्वते तन्तुना ।। द्विजोत्तमगणो जगत्कुशलकरिभावान्वितो ॥३८॥ रिरक्षिषुरशेषतोऽखिलजनान्स्वकीयानिव गृहीतशुभसूत्रक श्चरति मेदिनीमात्रके अहो श्रवणगोचरा भवतु सर्वदा श्रावणी ॥३६॥ इति श्रीभ० वि० व० सू० म० काव्ये प्रवर्षणन्नाम- सप्तमः सर्गः॥ अष्टमः सर्गः वषर्षासु भाद्रः। अथ मघामधिगम्य विभावयन भुवन मेष पुरः मवितोदितः । रुचिरबिम्बफलारुणबिम्बको द्रुतमुवर्णनिभान् किरणान किरन् ॥ १ ॥ किरणजालमिदं विततं हिमे- स्फुरदतीव मनोहरतान्दधत- १ अनेन विशेषणेन, अग्रमग्रं चरन्तीनामोष धीनां रसं बने इत्यस्यार्थः सूचितः २ कस्याञ्चित् पौर्णमास्यां स्वस्यातीव रुग्ण- त्वात्पारोक्ष्यम् । ३ श्रवणनक्षत्रवती । श्रुतिविषया च । ४ हिमालये ।

सूर्यचरिते। जलनिधौ वचतोऽपि न गोचरम् - नियतिपक्तिविधि तनुते स्फुटम् ॥ २ ॥ नियत मेव कराः सवितुः स्वयम्- किमपि गूढतमं दधते पयः । मुदिरमण्डलके, मुदिरा यतो मुचिरता मुपयान्ति भुवस्तले ॥ ३ ॥ कादम्बिनी गगनमण्डल मावृणोति सौदामनी स्फुरति तत्र निशासवर्णा ॥ मुञ्चन्त्यथो धरणिधेयगुणा जलौघान्- मेघा हिरुक्स्वन महो महिता जनौधैः ।। ४ ।। ओघा अपां शिखरिपातविशीर्णरूपाः कपूरपुञ्जविमला धवलन्धरायाः। मासव्यं निविड-वर्षणधौत-मूर्त्याः शष्पैनिरुप्तवपुषो जलधि लुठन्ति ॥ ५ ॥ शस्यानि संप्रति जगन्ति. महान्ति कर्तुम् गर्भन्दधन्ति, विपुलत्व मितानि भान्ति । मा,कीशलोचनपथं भगवन् ! गमन् यत कीनाशतान्दधति शस्यमनाय कीशाः ॥ ६ ॥ कीशा अमी विविधमूलफलान्यरण्ये चूषन्ति शाखिषु तथा नवपल्लवानि । नद्यादितीरविगता स्तनुशैवलानि शाखामृगत्वमिति ते खलु पालयन्तु ॥७॥ सिंह रखौ रचितनूजममानवर्णा १मुचिरताम्, दातृभावम्, जलमोचनशलितामित्यर्थः । २ निशा=दरिद्रा, पीताविद्युइष्टिकारिणी । ३ श्यामाः इत्यर्थ ।

अष्टमः सर्ग। ३७ सर्वसहा, वसुमतीति यथार्थनामा । सर्वापि धान्यकणिशैः सुतरां प्रपूर्णा गोधूमपाक-निरतैव दिविष्ठभूमिः ॥ ८ ॥ भूम्यो दिविष्ठविषयस्य समुद्रतीराद् उच्छ्रायतान् दधति विंशतिनल्यतुल्याम् । कैलासमानस-विराजितमध्यभागाः पालेयशैलवलयाः शिवदुर्गरूपाः ॥ ९ ॥ हेमन्त एव सततं शिशिरेण साक- मास्तेऽत्र पूषणि गते खलु याम्धगोले । सौम्ये वसन्त इह राजति सूक्ष्मवृष्ट्या धान्यानि धर्मजलसूनि कथं भवेयुः ॥ १० ॥ पूर्वासु भास्वति गते परिपाकपिङ्गा पाच्या धरा धनवतीव हि धान्यवगैः । श्यामैव गर्भभृतमञ्जरिका विभाति श्याषावतार सदनं धरणि हुंदीच्या ॥ ११ ॥ रात्रिन्दिवं किल चरन्सविता स्वकीय- गेहं गतः, स्थगयतीव घनेन देहम् । श्यामत्वमेव जगत: कलयन् करोति- पूजोपदेशनविधि किल कृष्णधाम्नः ।। १२ ।। श्यामातरङ्गन्तरले धरणीतलेऽस्मिन्- श्यामाम्बरे प्रथममेव पुराऽवतीर्णे । श्यामे समस्तभुवने तमसा तमोघ्नः श्यामः स सूति मगमत्सुनिपीतवासाः ॥ १३ ॥ १ नल्वःकिकुचतुःशतम् । २ हि श्यामावतारसदनमिति- श्यामत्वे हेतुः। ३ यमुना।

३९ सूर्यचरिते । पीताऽथ धान्यकणिशैषणिः समस्ता पाकोन्मुखा भवति सर्वफलाय यत्ता । लोका यसन्ति धरणेः किल कल्पवल्लीम् सौभाग्यसन्तति-वितानपरम्पराढ्याम् ।। १४ ॥ दुर्वा, सदातनतनुं क्षितिवर्मभूताम्- कुम्भोद्भवोदयत एव पुरः प्रवृद्धाम् ! सर्वाघशोधनकरी ममृतमसूताम्- भूत्यै समर्चितु महो प्रतिवर्षमे ॥ १५॥ युग्मम् ।। सर्व तृणं रविकरैः परिशोष मेति दुर्वैव विश्वपशुपालनबद्धचित्ता । ग्रीष्मेऽपि जीवति जनाबनकल्पवल्ली- हीत्यचयन्ति वनिता किल तां नभस्ये ॥ १६ ॥ कुम्भोद्भवोऽथ कलुषं जगतः समस्तम्- निर्णाशयन् व्रजति दृष्टिपथं जनानाम् । दुर्वाक्षतादिभि रथो नरपास्तदर्य- दानेन, चाऽऽत्मकलुषं क्षपयन्ति नूनम् ॥ १७ ॥ सूरोपि धान्यपचनाय यसन् सदाऽयम् अर्यमिण भे तपति तीव्रकरः सवर्षम् । वृष्टि दिवैव न निशामु स लोकचक्षु:- पश्यन् सगर्भकलमान् सदयङ्करोति ॥ १८ ॥ शुभांशु रेष मनुसम्मितभन्तदानीम् सूर्यागतो निजतनुं सकलं प्रदीप्तम् । १ दिवैवेत्यादिना रात्रिवृष्टे रतिवृष्टश्च सगर्भकलमाहितकारित्वं सूचितम् । अतएव लोकचक्षुः सदयमितिपदस्वारस्यं सहृदयै रास्वादनीयम् ।

अष्टमः सर्गः। ३६ कुर्वमनन्तकिरण विशदैरनन्तम्- अर्चन् गतः शतभिषक्कृपयेव पूर्वाम् ।। १६ ॥ सम्पूरयन् कलमवीजनिधानपात्रान् सम्पारयन्प्रथमधान्यकणान् सुधांशुः । सायं वियद्धवलयन्भुवनं सिसिक्षुः सौधाकरी किरति कामपि कौमुदीं सः ॥ २० ॥ इति सुधाकरतीवूकराविमौ भुवनपालन सम्मितसम्पदाम् । प्रजनिकां गृहिणी भुपकुर्वतीम्- स्वचरितै र्नुदतः परिचारिकाम् ॥ २१ ॥ अथ विधो रुपरिस्थगणाः समे- युषसि सोमपहव्यभुगादयः । अभिलषन्ति जगन्त्यपि पालितुम् सहगति महितां रविकन्ययोः ॥ २२ ॥ सहगती रविकन्यकयो रियम् सुखयितुं सकलं भुविजायताम् । रविरसौ भगवान्प्रतपन् पुनर् निजगृहादभिगच्छति कन्यकाम् ॥ २३ ॥ इति सूर्यचरिते वर्षतौ भरणनामाष्टमः सर्गः ।

नवमः सर्गः। शरद्वर्णनम् । कन्यायां सवितरि सम्मुखीवृत्तौ- भूलोकेऽधिकतरतोऽजनामवर्षे । राजन्ती नृपगृहिणी शरद स्वगेहम- शोभाढ्यं बहुविधसम्पदा करोति ॥ १ ॥ शालीनां परिणतमज्जरीभरेण शालीना-इव कुरुते हि भूमिभक्तीः । मेघानां धनवनवर्षणात्सितानाम् मालाभिः स्फटिक विभूषणान्दिगन्तान् ॥ २ ॥ बारामान बहुकुसुम-प्रतानपूर्णान्- चित्राभिः फलततिभिर्वितीर्णहारान् । वापीनां विमलजलैमरोलवद्भिः संसिक्तानिव परितस्तनोति सेयम् ॥ ३॥ युग्मम् ॥ नद्यो याः कलुषजलाः कुसङ्गतः प्राग- आमूलाद्धवसदनान्तमार्गभागान् । कन्यायाः करमिलनाय मित्रचारे ब्रह्मषौं भगवति दृश्यमानमूतौ ॥ ४ ॥ ओच्छासाद्विमलवना मरालरम्याः क्लिन्नत्वाद् घनपुलिनाः प्रफुल्लपद्माः । १ अस्मिन्नेव सर्गे श्लोके ४४ तमेद्रष्टव्यम् । २ जलम् । ३ हंसाः। ४ सूर्यः। ५ अगस्त्ये । दृश्यते स किलहस्तगतेऽके इति वराहोक्तः। ६ापरीवाहात।

नवमः सर्ग। सफुल्लैस्तटजनिभिस्तु काशसधैः सेवन्ते मृदुकृति चामरश्रियन्ताः ॥ ५॥ युग्मम् ॥ भूमि ये घनशकला निरीक्षितुं दाग डीयन्ते सपदि समागता बनेन । संशुष्का धरणिमिमां मुहू रसालाम् शीकन्ते यजनमहोत्सवैः मुतृप्ताः ॥ ६॥ घश्यानां प्रथमत एव पूजनेन संप्रीताः पुनरपि देवता यजन्ते । कन्यायां शरदि नरास्तु लोकबन्धौ बन्धुत्वं निजकृतिभिर्निदर्शयन्ते ॥ ७॥ पर्जन्यः स हि भगवानिकामवर्षी वर्षौ जनयति चौषधीः समग्राः । सामग्यात्परिपचनेन शारदीन्ताम्- सामग्री जनहितकारिणी करोति ॥८॥ नारीयं शरदथवा नरो न जाने- संसूते सकलफलं वसन्तवापम् वापं वा खलु तनुते वसन्तलक्ष्म्यै चित्रायां तरणिगमे शरदिचित्रा ॥६॥ एकत्र स्फुरति जगद्यवादिवापाद- अन्यत्र स्फुरति ततोऽपि धान्यलूने: देधेदं नृपगृहिणीवशंवदं द्राग्- अव्यग्रं परिकुरुते कृति विचित्राम् ॥ १० ॥ १ रसालामिमाधरणिं संशुष्कां सतीम् मुहुः शीकन्ते सिञ्चन्ति । १२ यजन्तः, इति वा पाठः । ३ च पुनरिदानी, सामग्र्यात साकल्येन, तासां, परिपचनेन, इत्यन्वयः । ६ सूर्यचरिते। मृबीकाप्रभृतिफलानि शैलराजे- सूक्ष्मैलामभृति तु सागरस्य तीरे । तन्वाना जगदखिलं शरत्प्रहृष्टम् हृष्टात्मा स्वयमपि भाति हर्षिणीनाम् ॥ ११ ॥ कर्कन्धूप्रभृति-फलानि शैशिराय- दिसन्ती कुसुमजनि तनोति तेषु । मन्येऽहं शिशिरऋतुर्न चोष्णसोढा यत्वस्याः शिशिरतराणि याचतेऽसौ ॥ १२ ॥ एतस्यां जननिचयाः प्रसन्नचित्ताः पूज्यानां यजनमहैः कृतावदानाः । वेषाढयाः स्वयमपि मण्डयन्ति वाहान्- यन्नूनं विविधकृतिज्ञता फलाय ॥ १३ ॥ राजानो विजयदशां निदर्शयन्तः शस्त्राणां धनतरघर्षणेन धाराः। सन्तीब्राः कठिनतमाः शिलास्वकुण्ठाः कारयतिपटु योजयन्ति वारा ॥ १४ ॥ वङ्गीया विविधजपादिभक्तिनिष्ठाः वंहिष्ठां बहुतरपूजयोपतुष्टाम् । दुर्गाया बहुविध-वाद्य-गीत-घोषम् । मूर्तिन्तां जनकुतुकं विसर्जयन्ति ॥ १५ ॥ आर्याणां जयदशमी जयाय नूनम् यत्त्वस्यां जननिवहः प्रसन्नचेताः कर्मत्वाऽविवक्षया षष्ठयेव । एनामिति वा पाठः। २ शरदि, वक्ष्यमाणायां दशम्याम्वा । ३ कृतिशता कार्यनिपुणता। ४ लाहकारैः। ५ वारा पानीयेन, पानी इति प्रसिद्धिः।

नवमः सर्ग। साम्यम् । शान्तात्मा भयरहितः समः समोऽपि- सम्मेलं भजति वहिः प्रकाममय ॥ १६ ॥ इति सौम्य गोलः। चित्रा. भगवति पूष्णि संप्रयाते मृबङ्गे नवतरकन्यकोपभोगात् । राज्ञीयं छुमणिवलं ग्रहीतुकामा- दण्डे तं किल निदधाति पूर्वपश्चात् ॥ १७ ॥ आरुढः स हि भगबांस्तुलान्तदैव दाक्षिण्यात् स्वयमुचितं ग्रहीतरश्मिः । गोला? समतुलया तनोति दम्पत्यो रुचिरतरं शरत्सुरभ्योः ॥ १८ ॥ तेनेयन्नृपरमणी वसन्तरागान् ज्ञीप्सन्ती तनुतरपाटलासु भावान् । तन्वाना मृदुकलिकोत्करांश्च तासु- वासन्तीं श्रियमपि जेतुमिच्छतीव ॥ १९ ।। मन्येऽहं स हि भगवान् वसन्तरूप: गूढोऽस्यां जगति ततो विभूतिमूर्तिः । नैवञ्चेत् कथमियमेकदैव सम्पत्- सम्पूर्ण, जगदरिवलं करोति चित्रों ।। २० ॥ एतस्मिन् समयवरे स चौषधीश: साकल्यं परिकलयन् स्वमण्डलस्य । १ अद्यत्यनेन सूचित एतस्य काव्यस्य निर्माण-समयः । ग्रन्थस्तु सम्वत् १४२ आश्विन सुदि प्रतिपदि प्रारब्धः । २ चातुर्यात् =दक्षिणगोल-गामित्वाच । ३ लिया। शरद विशेषणम् ।

सुर्यचरिते। अश्विन्यां परिगत एव तत्कुमारा- वोषध्यो रसबहुला-इतीव वक्ति ॥ २१ ॥ सर्वे ते वरभिषजः सुसूचनेन तस्यैवं स्वसदनतो गता उदीच्याम् गृह्णन्ति प्रखररुजः समूलघातम् । इन्तुन् तान् , विधुकिरणैः समृद्धजायून् ॥ २२ ॥ लोकानां जगति सुखं सऽदायमिच्छु: शुभांशुः शरदि विचित्र-रश्मिजालः । तीक्ष्णांशु स्वते-इति सूचनाय जाग्रत्- +कौमुद्यां जननिकरं प्रमादयेत ॥ २३ ॥ तीक्ष्णांशुः स च किरणैः सुधांशुपुरैः- संसेकं जलधिजलेषु वर्षणेन । मुक्तादीनखिलनिधीन धरातलेऽस्मिन् तन्वानः सपदि समागतः समीरे ॥ २४ ॥ चारोऽयं रविशरदोः सुरम्यरूपः- कं रम्यं रमयति नो वसुन्धरायाम् । भू रम्या गगनतलन्त्वतीव रम्यम्- रन्तु यज्जडमतिकोऽपि सम्प्रतीच्छेत् ॥ २५ ॥ भारोय फलभरनामिताननानाम्- मारो वा ऋतुरमणीप्रतानिनीनाम् । निश्चेतुं नहि मुधियाऽपि शक्य एष:- शङ्केऽहं खलु शरदो विचित्रपाकः ॥ २६ ॥ १ अश्विन्यां स्थितत्वाद्विचित्रेत्यस्य चित्रा विरुद्धोप्यर्थः २ वाक्ये संहिताया अविवक्षया सन्ध्यभावः। स्वत सुष्टु-प्रत स्वात्यां गच्छे स्वर्थः +श्लिष्टः । इक्रियाविशेषणम् । समीरे स्वात्याम्। पूनमनहेतुः।

नवमः सग। - पाकोऽयं न हि शरदः सहसूरश्मे- रुमाणां धरणितलेन कोऽपि बन्धः । येनेयं बहुविधभौतिकविकारैः- संभिन्ना भवति विचित्रसन्निवेशा ॥ २७ ॥ भूस्थानाज्जननिकराः प्रयान्तिभूमिम् शीतार्ताः सपशुपरिच्छदाः सुतूर्णम् । चित्रं यच्छरदिह भाति सर्वतः सा तत्र दाग हिम ऋतुरेव पश्चिमार्द्धः ॥ २८ ॥ ऊर्जेऽस्मिन्प्रथमत एव मानवानाम् मानार्थी ऋषिपितृदेवताः प्रसन्नाः । शस्येष्टया पुनरपि तर्पिता निवासान् वीक्षन्ते गगनतलस्पृशान् सदीपाने ॥ २६ ॥ दीपानां ततिनिकरैनितान्तगौरै- दीप्त्योर्ज धरणितलं रवीन्दुबिम्बम् । बिम्बाभं किल विदधत् कुहूश्च राका- राकेशौ घटयति शोभया हसन्तीम् ॥ ३०॥ गङ्गायां तरणिगता जनास्तु सायम्- गच्छन्ती जवमहतीं तरि स्वकीयाम् । दीप्त्याऽऽसामुभयत एव लोकयन्तो- बिम्बं तत्कुत इति भान्ति मार्गवन्तः ॥ ३१ ॥ मार्गेषु प्रथिततरेष्वथोऽप्रसिद्ध- वामूलात्सकलगृहं सचन्द्रशालम् । १ सम्बन्धः गन्ध इति वा पाठः, गन्धोगन्धक प्रामोदे लेथे सम्बन्धः गर्वयोरिति विश्वः। २ आकाशदीपवर्णनम् । ३ दीपावली प्रारभ्यते ।

सूर्यचरिते। रश्मीनाममितकसंख्यया परीतम् बिम्ब तत्परिमिनुते सहस्त्ररश्मेः ॥ ३२ ॥ पञयं शरदि समस्तवस्तुसंस्था पमानामलमनया कथा-प्रसक्त्या। इत्येवं धरणिकृषो न केवलन्ताम् विश्वेऽपि स्वजनयुता यजन्ति भत्त्या ॥ ३३ दिसन्तस्तृणनिचयन्त्वरं पुराऽयम् धेनुभ्यो रविकिरणहीतसारः। बोभोति प्रतिपदि मानवा गवेन्द्रम्- साहाऱ्या विविधमहं महन्ति नूनम् ॥ ३४ ॥ लोकानां कुतुकभरस्तु कार्तिकेऽस्मिन्- किं वयः प्रतिदिनमेव माधवस्य । लीलायां स्नपनजपादिभक्तिमार्गे सल्लग्ननरनिकरै भृतौ हि मार्गाः ॥ ३५ ॥ मार्गा ये शिशिरवधू-विकारिताः प्राक् संक्लिन्ना घनतरवर्षणेन भिन्नाः । वर्षोजै स्तृणनिचौरलक्ष्य-लक्ष्याः लक्ष्यन्ते शरदि विशीर्ण-सर्वदोषाः ॥ ३६ ।। दोषाणां प्रवलचयस्य हिंसनेन मार्गाणां शमन-विशोधनादिधर्मः । जायूनां परिपचनेन संग्रहेण- साधर्म्यं दधति शरद्भिषग्वराः किम् ॥ ३७॥ १ भूमिस्पृशः, वैश्या इत्यर्थः । २सगोवर्धनपर्वतम् । ३ भृताः पूर्णाः । ४ ऋतुकुम्बे ११ श्लोकेद्रष्टव्यम् ।

नवमः सर्गः। निर्दोषे जगति कृते शरदगुणोधैः खद्योते भगवति चाऽऽगते द्विदेवे। राधाया धव इति बोधयन्निवाऽहम्- संमुप्तस्त्वहिशयनोऽपि जागृतः किम् ॥ ३८ ॥ कः का किं विधिविहितं करोति तस्मिन्- संपूज्येऽखिलजगतोऽपि पालके नो । संमुप्ते तपसमयादपां प्रवृत्यै- सम्बुद्धे भगवति सर्वतः शिवाय ॥ ३६ ॥ राधायाश्चरण-युगोपभोगखिन्ने मन्दाभे भगवति पूषमण्डलस्थे । उद्विग्ना ऋतुरमणी सुधांशुपाई- सर्वन्तत्किल गदितुं स्थितेति मन्ये ॥ ४० ॥ भूगोलः किलपरिमण्डलः सवाद्धिः नो भूमिस्त्वियमिह भिन्नभिन्नखण्डा । इत्येवं परिकलयन्विधुः सचित्र: संध्यायामुदयगिरि समाधिरूहः ॥ ४१ ॥ पूर्णोऽयं शशधरमण्डलः समन्तात्- रायाकामुदयगिरेः किरीटकोटौ। तिष्ठन्वा जगदखिलं करैर्हिमाभम् कुर्वाणो विशदयति स्वकीयमप्त्वम् ॥ ४२ ॥ शरदि विचित्रा भूमिगगनतलं सचित्रमेवाऽध । पशवः सम्मदभाजः प्रमदाः समदा नराः प्रमदाः ॥ m १ राधानक्षत्रे। २ शुचौ द्रष्टव्यम् । ३ विशाखातृतीयचरणा- त्मकदिनत्रयावशिष्टा शरदित्यर्थः। ४ अनेन चन्द्रविम्बाकारं भूगोल विलिख्य तत्र कलङ्काकारा पृथिवी चित्रयितव्येति सूचितम् ।

, सूर्यचरिते। इत्येवं नृपरमणी, मण्डयमाना निजं गेहम् । अर्यमचरणत्रितयाद्राधाचरणत्रयं यावत् ।। ४४ ॥ भगवति राधानाथे ब्रनमये चलति दक्षिणाभिमुखे' अनुचरपार्थे त्यक्त्वा सर्व याताऽथ लंकायाम् ॥ ४५ ॥युग्मम् । इति विविधविलासै ालयन्ती जगत्सा रूचिरफलविपाकैयॊजयन्ती स्थिरञ्च । दृढतरतनुदोषाञ् शोधयन्ती पुराणान तरणिसरणिसारी नूतनं तत्तनोति ॥ ४६ ॥ पापानां किल शमनाय धर्मराजः- सम्पूज्यो बहुविधसम्पदा सुभोजः । भ्रातॄणां, यमयमुनाप्रचारितं प्राग्- विश्वस्मिन्नपि शरदस्तमालपत्रम् ॥ ४७ ॥ इति श्रीभारद्वाजगोत्र-पन्तवंशावतंस दुर्गादत्त पन्त सुरे सूनास्तारादत्तपन्तस्य कृतौ भगवद्विभूतिवर्णने सूर्यचरिते महाकाव्ये शरद्वर्णने सम्पत्प्र- सवोनाम नवमः सर्गः। १ याम्यगोलाभिमुखे । २ तरणिसरणिसारा इत्यनेन निर्गमप्रवे- शाभ्यां सौम्य-याम्यगोलयोःशरद्वसन्तप्रादुर्भावःसूचितः, सच ऋतु- कुटम्वे, वसन्तप्रादुर्भावे चास्मिन्नेव ग्रन्थे स्पष्टः । ३ सिंहावलोकनन्यायेन, यात्रासमये तिलककरणस्य, लोका. चारस्यसचनार्थ यमद्वितीयापश्चाद्वर्णिता ।

दशमः सर्गः। , हेमन्त वर्णनम् राधा-साक्षितया वसन्तगृहिणी-त्यक्तां विभूतिं पराम् हेमन्तः समवाप्य कीटनिलयं भानुं पुरो लोकयन् ॥ लोकानां शरेदं सुभोगनिपुणं सम्पच्चयं रक्षितुम् । मन्दो] दिवस स्तुषाररहित स्तान्प्रेरयन्भासते ॥ १॥ यत्र कापि यवादिवापनिरता आवापसक्ताःकचित्- धान्यादेः सतन्तन्नरा न विरता आकार्तिकाकार्यतः । सूर्याश्वैविरते विदेवचरणे घसेऽपि खर्वात्मके- लोका रात्रिचराः कृतौ प्रकुरुते शार्दूलविक्रीडितम् ॥ २ ॥ हेमन्तो मधुसन्निभोऽमलगुणैः कृष्णांशरूपः पुरः नो इन्हें सहते न वर्षति परं वापेन संपूरयन् । भूमि भूमिशयान्विलेशयतरान्तु ससन्देशयन्- पालेयाद्रितटान्महीमवतरन्कष्टं समुज्जृम्भृते ॥ ३ ॥ हेमन्ते प्रथमे दले क्षितिरिय सिक्ता क्वचित्कुल्यया । वापाप्ता कचिदप्यहो सहरिता काप्यकुरैः कषुरा । कृष्टा कापि बिलूनशस्यनिचया च्छन्नाकचिच्चाऽर्जुनै:- सूर्ये वृश्चिकपीडिते नटयति स्वीयाँ विभिन्ना दशाः ॥ ४ ॥ कुन्दागस्त्य-सहस्त्रपत्रदलकैः कुत्राऽपि संशोभिता- पद्माकैस्तु विशीर्णप्रत्नदलकैः मोद्भिन्नपुष्पैर्हिमे । Hign १. विशाखा-चतुर्थचरणस्य वृश्चिकराशिगतत्वेन तत्साक्षित्वम् । २ हायनमभिव्याप्य, अत्यन्तसंयोगे द्वितीया । ३ विशाखा। ४ स्वीया- इत्यनेनधरणि-तरणि-सम्बन्धोऽलौकिकः सूचितः।

सूर्यचरिते। भिन्ना भाति धरा धराधरनृपमान्तेषु भिन्नेह भोः ? राधापश्चिमपादघातविकले बध्नेऽनुराधानुगे ॥५॥ मल्लोयंकुसुमाकरस्य गृहिणीरक्षार्थ मम्युधतस्- तत्सूतं सकलं पदार्थनिचयं संरक्षितुं वाप्यहो। मासानामथवा विलक्षणतरः सारः ससम्पच्चयः मन्ये मार्गवपुः स एष भगवान राधाऽनुराधानुगः ॥ ६ ॥ इथूणां परिपीडनाय मनुजाः सञ्चेष्टमानाः कचित्- धान्यानां क्रयविक्रयाय वणिजः संवेष्टमाना नरान् । नद्यादौ धनपुञ्जवन्धुसहिताः सांयात्रिकाः सर्वतः लक्ष्यन्ते विविधागमेषु निरता लोका हिमे सत्वराः ॥७॥ कोदण्डा विविधा इमे जगति यद्धेमन्तमल्लस्थ हा भज्यन्ते नितराङ् कुचक्रनिचयैर्यत्पूरूपैर्निर्दयम् । तद्धमन्तभटेन शीकरचयैः संसावितः को प्यहो- तौषारः प्रहितः प्रयोग इति ते संसेवितो भास्करम् ॥ ८॥ राधापादपराहतस्तदनुजा संल्लत्तितः सर्वथा- निःशङ्कं पुनरप्यहो स भगवाञ ज्येष्ठाऽनुरक्तस्तया निस्तेजाः परिभूत एव नितरां विश्वैर्दिनस्तजित:- कष्टं मार्गनिविष्ट एव स तथा ! मूलं श्रितः किञ्चरेत् ॥६॥ भानुं मार्गयमाण एष भगवान् राजा बिजानां क्वचित् पूर्णाङ्गः समुदेति पूर्वशिखरिप्रस्थे मृगं लोकयन् ।। मार्गाद्भष्ट इवाऽथ भास्वति गते प्रत्यग्धरे मार्गिकः- मार्गीमेव तनोति किन्नु तनुतां रूढो मृगाङ्के स्वयम् ॥१०॥ १ आदिकर्मणिक्तः सेवितुमारद्धा इत्यर्थः । २ सूर्यभोगस्य एकस्मिन्नक्षत्रे १३ । २० दिनपलानां सत्वादत्र स्थूलतयाविश्वैरित्येवोक्तम् ।

दशमः सर्गः। , कीटार्थ धनुषि स्थितो दिनमणिर्नक्रादिभीतस्तत:- सङ्कोच्येव स्वकीयरश्मिनिकरं सौम्याईतो दक्षिणे। गोले, वह्निमयं शरौघमकिरन्नक्रालयं शोषितुम् - हमन्तेऽपि तप प्रचण्डकिरणः सूते विरुद्धन्विदम् ॥ ११ ॥ पौषो राजिसमं दिनं शुचिसमं तापन्तु नक्रालये- शीतं लक्षगुणं दिन लघुतमं कर्कालये कारयन् ।। रात्रिञ्चोत्तरमेरुसन्निहितके तलैपरीत्ये दिनम् पूष्णा भूरिकृति विचित्रफलकां सम्पोषयन्सार्थकः ॥१२॥ धान्यानां लवनं तथा च वपनं वङ्गोत्कलादौ कचिद्- अाम्राणां कुसुमोद्गमञ्च जलधिप्रान्तेषु संभावयन् गोधूमादिकृषि कचिद्धिमगिरिप्रान्तेषु संपारयन्- पद्माकै विकसद्भिरङ्किततनुः श्वेताम्बरः कोऽप्ययम् ॥१३॥ शिमूणां कुसुमोद्भवेन रचयन् श्वेताम्वरत्वं स्वकम् मौनं मौनसुमोद्गमेन गमयपद्माककैः पावयन्- अन्यैर्गौग्सुमै ललाटपटलं सम्यक्समं भूषयन् ।। पालेयाद्रिगृहो विभूतिधवलः शम्भुः स एवाऽयमाः ? ॥१४॥ दम्पत्यो रुचिरां प्रयोगनिपुणां निम्लानि लीलाकृतिम् कर्तुं शिक्षयमाण एष रजनीमायामयन् राजते नास्मिन्ग्लानिरवाप्यते निधुवने कामाग्निसंसेविते निर्दोषे सलिलेऽनिले नविकृते दीप्ते पिण्डानले ॥१५॥ ग्राम्या निर्मलमारुतानलजलस्वादैकबद्धादराः नित्यं नूत्नपयोघृतानविभुजः पृथ्वीशया नीरुजः । १ मुनेरगस्त्यस्येदमौनम्ः सुमम् कुसुमम् प्रसून कुसुमं सुमम् इति पाठाभिप्रायेणाऽयं प्रयोगः सर्वत्रास्मिन्काव्ये । २ जाठराग्नौ। CHAVAN ५२ सूर्यचरिते । पालालं विमलं नितान्तसुलभं लब्द्धा परं विष्टरम् सौधौत्सङ्गनिषण्णशीतविकलान हा तन्वते नागरान् ॥१६॥ श्वानो भैरवसेवकाः समजगद्रक्षेकचित्ताः सदा- भूतानां गुणवेदनैककुशलाः शीतातपाक्तां महीम् ॥ उत्खायाऽथ निजाकृति मृदुतमं गत विधायाऽधुना- सौम्ये शीतनिवारणं विदधते याम्ये तु धर्माऽवनम् ॥१७॥ भास्वान्भूमितलं करैः परिमृशन्नासन्नलक्षस्तपम् दूरस्थस्तुहिनन्तनोति नितरामित्येव चन्द्रश्चिरम् । आसन्नः सवितुर्नलक्ष्यमुतनुस्तापेन लीनः कचित्- प्रोद्यन्साकमनेन वा विनिमये पक्षान्ततो वोधयेत् ॥१८॥ सूर्येन्द्रोः सहवास एष हि तटे सिन्धो रसाले सुमम्- प्रोद्भाव्याऽथ निजैकरागरसिकानास्वादयन् तत्समम् । सूक्ष्म सर्वगतं वसन्तनरपं हेमन्तलीनं वदन्- भूसंस्थान-जलाऽनिलादि-सहित-प्राज्योस्रभूति वदेत् +॥१९॥ पूर्वामाप्तवतो दिवाकरवरस्याऽद्योसूकाणाञ्चयः- प्रस्थानप्रविभक्तरीतिनिपुणः संशोभते सोत्तरः ।। क्रामन्नूर्द्धमुखः क्रमेण दिवसं संवर्द्धयन्-लोकयोः चैतन्यं प्रचिनोति शीतरजनी-नीहारनिरिकः ॥२०॥ विद्याभ्यासरता विचारपरमा आध्यानमगठादिकान्- व्यापारान्सहजान्सलालस महो निर्वाध मातन्वते ॥ १ धान्यतृणमयम् । हा तन्वते शोचन्ति । २ निदाघहेमन्तयोः सौम्य याम्ययोर्वैपरीत्येन वृत्तिः। + उभयत्रशक्यर्थेलिङ् । * रोदस्योः। ३ आध्यानमुत्कण्ठा पूर्वकं स्मारणम् । ४ मराठः कण्ठी करणम् । ५. निर्वाधमित्यनेन निदाघ वैधयंदर्शितम् ।

दशमः सर्गः। ५३ 'सौम्ये शीतनिवाणाय चिनते शीतालु रग्निन्तमीम्- चित्रोऽयं यजमान एव सुलभो हेमन्तमल्लो नरैः ॥ २१ ॥ सप्ताश्वस्य करा विलक्षणतरा अद्यापि पूर्णरसम् ।। सप्तस्वैव रसालजातिषु समं माधुर्यधुर्यायितम्- कर्तुं सुष्टु यतन्त एव नितरां लोकास्त्वरन्ते च तान्- पीडित्वा गुडशर्करोपल भिदा-तुष्ट जगन्मण्डलम् ॥ २२ ॥ इथूणांरसनिःसृतिहिमता वन्यैव संदृश्यते- माघादौ न तथा नवा शरदि सा पक्तिर्दरीदृश्यते । शङ्के तदनुषिस्थितेन रविणा कापीदृशी कारिका यत्तेष्वेव क्रियेत हैमनरसास्वादस्य शक्तिर्यया ॥ २३ ॥ आर्सेतो मनुजा अहो रविरयं रक्तोऽद्य ता मुत्तराम- सा नक्रे विनिवेशयिष्यति हहा ? का स्माक मेवं गतिः । इत्येवं प्रविचिन्त्य सूर्यतनयां सम्बोध्य दुःखार्णवाद- मोक्तुं साक मनेन, साक्षिकतया धर्मद्रवाया भुवम् ॥ २४ ॥ अद्यत्वे पुनरप्यहो स भगवान् स्वर्भानुना गृह्यते इत्येवं प्रवदन्ति देवगणनादत्तावधाना बुधाः ॥ प्रस्थातुं प्रयतन्त एव सुतरां त्यक्ता पथं दक्षिणम् । गङ्गासूर्यसुताविभूषिततनुं द्रष्टुञ्चता मुत्तराम् ॥२५॥ युग्मम् ॥ इति विचित्रपराक्रमशाल्ययम् जगति नो विकृति महिषीभटः । प्रतनुतेऽखिलरक्षणतत्परः रविकरै मधुरै रविकारकैः ॥ २६ ॥ anam.nindmtant man meip- १ याम्येतु विपरीत मितिसुचितम् । तथा च निर्वाधमित्यत्र सावाध, मिति तृतीयपादे, याम्ये तापनिवारणाय तनुते तृपालु रद्या. निलम् इति च पठनीयम् ।

सूर्यचरिते । अथ भटस्यकृति किल पोषयन्- विधु रयं समुदेति धरातलात् । उदयशैलगतः कुमुदायितम्- निखिल मेव जगत्तनुते चिरम् ॥ २७ ॥ 'मौनव्रतः स भगवान् द्विजराजदेवः देवस्य दीप्तिशरणस्य रणाय नक्रे । गत्वा विधुन्तुदतनुं व्यवधास्यतीला- बिम्बेन चाऽत्मवपुषा व्यवधास्यतीनम् ॥ २८ ॥ 'चिन्वन्तेऽसुखकरमत्रपर्वराजे राज स्तद्धननिचयेन पुण्यराशिम् । राजन्ते प्रवरवुधा हि तीर्थराजे- धुन्वन्तेऽहितकरमात्मपङ्क राशिम् ॥ २६ ॥ इत्येवं रविसचिवैः प्रणोद्ययानाः भूपालाः सह ऋतुभिः परिभ्रमन्तः । संप्राप्ता भरतभुवः प्रधानाभूमिम्, कालिन्दी-सुरसरितोः पयोरसज्ञाम् ॥ ३०॥ इति श्री भावि-व-सूर्य चरिते महाकाव्ये हेमन्तवर्णने सम्पद्रक्षणन्नाम दशमः सर्गः । समाप्तं दक्षिणायनम् । । १ मौनवत इति विशेषणेन, भाविस संक्रान्ति-साहित्यं सूचितम् । २-३ उभयत्र-अन्ते इत्यस्योत्तरपदेन समासे सप्तम्या अलुक ।

अथोत्तरायणम् । एकादशः सर्गः। शिशिरः अथ वसन्त सखः शिशिरः शशन् जगति सर्वरसान्परिवर्तितम् । रविकरैर्यतमान इवा ऽऽगतः ध्रुवमुखैरथ नक्र-मुख-स्थितैः ॥१॥ सपदि नीरसमेव विलोक्यते जगदहो तरणौ मकराऽऽकुले ॥ तुहिनवर्षणशीकृतचूषिता- इव, रसाललता विकृता यतः ॥२॥ भजति विश्वरसेषु पुरःसृतिम् बहुगुणाढ्यतया मधुरो रसः । मधुरपूरितदण्डधरा इमा:- स्थितियुता बहुपर्वविराजिताः ॥३॥ अथ विमिन्नरसाः सुषिरै युताः- नरनिपीडनशेषित-यष्टिकाः ॥ कथ मिमा ? इति चौषधिनायकात्- श्रुतगुणा रविणा किल चूषिताः ॥४॥ भजतुसर्वरसेन समर्थताम्- अयि नरा ? मकरग्रहणातुरः १ प्रतनीकरणं नूतनीकरण प्रयोजकमिति सखित्वम् । २ शशन इत्यनेनाऽसार्वत्रिकत्वं सूचितम् । विग्रहश्च दर्शितः । ३ भभुत गुणा ओषध्यो न सेसवितव्या इति व्यज्यते ।

५६ सूर्यचरिते। क इव सेक्षुरसो भवतामहो भगवतस्तुनुपीडनमोचने ॥५॥ भजत तीर्थवरं निधिसञ्चयम् कुरुत पात्रवरेषु विचारतः ॥ बुधवरा विकला न भवेयुरे ? रविरयं भगवान्विबुधः परः ॥६॥ त्यजत दुर्ग्रह मात्मविवेकतः कतम एषु नरेषु सुपूजितुम् ॥ उचित एव मितीह विचार्यते 'पुरत एव ततः क्रियते कृतिः ॥७॥ शृणुत चाऽऽत्महितं विवुधोत्तमः । श्रुतिगतो भगवानितिपूज्यते ॥ विकुसुमैस्तवभिश्च विकल्पितम् । परिणतः स्वदलै परिपूजितुम् ॥८॥ कुरुतसँस्कृति मात्मकुलागताम् सुकृत-सन्तन्ति-कौतुक-तानिनीम् ॥ यजतं सर्वजगत्तनुपालक मकरषट्कैगते मिहिरे जनाः ! ॥६॥ मकरपीडितकः श्रुतिसङ्गतः शशधरेणं पुनः परिहापितः ।। + प्राचीन कविप्रयुक्ततया प्रयुक्तः। स्यात्पुरः पुरतोऽग्रत इत्यमरः। पुरतः प्रमेगे चाने-इति विश्वः । १ उत्तरायणे । २ शशधरेणेति विशेषणेन शीघ्र गामित्वं सूचितम् । ३ सहचरेण त्याजितः। स्वयं त्यक्तोवा, एयर्थस्या विवक्षणात् ।

4 एकादशः सर्गः। पू७ द्युमणिरात्मकरैः सकलौषधीः परिपचन् पिवति स्वरसं किमु ॥ १०॥ न हि समस्तरसं पिवतीह नः प्रणिददाति सहसूकरोऽर्यमा । इति वदन्निव माध्यसुमोद्गमो जगति शिक्षयति प्रथितं प्रजाः॥११॥ जयति सर्वसुमेषु सुमन्विदम् नरवरद्विजमानकरं यतः । अथ नितान्तमुमैः सततं भृता जयति कुन्दलतैव सुसूतिका ॥१२॥ न विकृता शिशिरानिलवेगिता न च तुषारभृता रहिता दलैः । रविकरैर्न च पाचितपत्रका जयति कुन्दलता मधुनायिका ॥१३॥ मधुरयन्लि सर्वगतो विभुर् मधुररूपधरस्तनुताङ्गतः । ऋतुषु राजति गुप्ततरोऽन्यदा स्वसमये पुरुरूपधरो वरः ॥ १४ ॥ तरणिरात्मतनुः श्रुतिपूदितः जगत एच, ततः श्रुति-सङ्गतः । हरति विश्वरसं प्रतनं, नवम् वितरितुं किल गूढ-विचेष्टितः ॥१५॥ १ अत्र कविना स्वसमान-भावना देवे दर्शिता । यथात्मनि तथा देव, इति न्यायात्।

सूर्यचरिते। अथ ददाति यवादि विपक्तये- रुचिर मेव रसं पचनप्रियः । इह यवादिगणः पचतीव भोः हिमगिरौ सततं परिवर्द्धते ॥ १६ ॥ इपिरसेवनसुन्दरमन्दिरै- मिहिरसेवनमेदुरचत्वरैः। इह नरैः शिशिरस्त्वजिरादिषु गुंपिलतुल्यसुखं किल नीयते ॥ १७ ॥ हिमऋतुः शिशिरो न पृथक्तन अयनभिनगती सवितुस्त्विमे विकृतवायुतुषार समीरणाद् हिमऋतु: शिशिराय 'विकल्पते ॥ १८ ॥ मकरतुण्डगतो मिहिरो जनाः ? परिनिपीडित एव उदङमुखः। तत ऋतु: शिशिरो विकृतिं गतः ज्वलनमार्गगुणा विकृता यतः ।। १६ ।। तुहिनदग्धदलन्न विराजते. हिममृतुं परितः कदलीवनम् । शिशिरकेण पुनर्दशनच्छदा अपि, सुखं तुलिता सह रम्भया ॥ २० ॥ अलमहो कथया विकृतेनराः । सुकृतमेव विचारयत क्षणम् । १ क्षितितले । २ अग्निः। ३ सूर्यः। ४ इरच् प्रत्ययन्ताः सर्वे- ऽजिरादिषु इति च सूचितम् । ५ राजा । ६ याप्यते । ७ समासेपि, ऋत्यकः प्रवर्तते। ८ शिशिरात्मकत्वेन परिणमति । ज्वलनमार्ग उत्तरायणम् , आयुर्वेदप्रसिद्धः ।

एकादशः सर्ग: ॥ क्षणयुतः शिशिरः किल, पञ्चमी- सुखमिता* कुसुमाकरदृतिका ॥ २१ ॥ परिणता सुतरां यवमञ्जरी विनिमृता सहकारकवल्लरी । जगति पीतिमरीतियुजो जनाः ? नर-हिताः कृतयो न हि शेषिताः ॥ २२ ॥ दिशत भोजयत प्रगुणं महङ्- कुरुत पूजयताऽथ सरस्वतीम् । अथ निपीतपटैस्तनुमण्डनम्- तनुत नूतनरूपधराः स्वयम् ॥ २३ ॥ जयति विश्ववपुः सविता स्वयम् अभिजिता श्रुतिसङ्गतया सह । विहरमाण उदङ्मुखरश्मिभिः परिणमञ् जगतः सकलाः कृतीः ॥ २४ ।। अथ गतो भगवान्स धनिष्ठिकाम् मकरभीत इवाऽद्धगतोरणम् ॥ सकलशामथ सा कलशे रविम् चरणयुग्मगतं विनिगृहयेत् ॥ २५ ॥ अघसमूहविनाशन-हेतुकाम् जपतपः श्रवणादिकरी मघाम् ॥ अधिगतो भगवानुडपो रविम् क्षितिजकूटगतः परिवीक्षते ॥ २६ ॥ १ उत्सवः ।*इता, प्राप्ता २ कृतयइत्यनेनान्वयः।३परिणमयनित्यर्थः । ४शरणम्। भीतस्य गहनमेवोचितम्,शक्यथैलिङ् कुम्भसंक्रान्तिरियम्।

सूर्यचरिते । कलशलीनतनुः सुतरामहो क्षितिजमूलनिविष्टवपुः पुनः ! कथमसौ तरणिर्देशि गोचरो- विधुरयं जडिमप्रकृतिं गतः ॥ २७ ॥ मिहिरतारकयोयदि सङ्गमो- भवतु पीनरुचा शशिना सह । क इव सर्गगुणो भुवि जायताम्- इतिविचारण-कातर-मानसः ॥ २८ ॥ स समयो दिनमानतपादिभि- विनिमयेन जनाः ? पुनरागत: तरणिरेष पतन्नुत गोलयो- रुपचयापचयेन भिनत्ति तम् ॥ २६ ॥ धनवती किल सा श्रवणाऽनुजा दिनमिय द्धि यया परिवर्द्धितम् । गुणवती च पर मिहिरो गया- मकरगुप्ततनुभिषजेऽर्पितः ॥ ३० ॥ सुकृतिनां सरणिः शरणागते- ह्युपकृतिः स्थितिमुक्तिदयादिभिः प्रकटिता विशदन्नु धनिष्ठया जगति सा तरणेरुपकारतः ॥ ३१ ॥ अभिमुखं द्युमणेर्दिवसातपा- वुपचयं व्रजतः खलु गोलयोः । विषुवतो भरतस्य धरा हुंदक्- न कथमेति दिन पृथुतामदः ॥ ३२ ॥ १ अन्तः, तप-शब्दो निदाघवाची सान्तो धर्मवाची।

एकादशः सर्गः। ६१ इह मही यवपाकविचित्रिता हिमगिरौ यवनाल-विराजिता । अतसिकादिचयः क्रियतेऽत्र भोः कुसुमिताऽतसिका सह सर्षपैः ॥ ३३ ॥ -अतुरयं क्रमशोऽनुसरन् सुवम् ऋतुपतेः किल मार्गनिदर्शकः । अथ जगत्पतनीकरणोद्यतः नवकृतौ सुषमा परिपोषकः ॥ ३४ ॥ शिशिरदत्तजलानिलसेवनात्- शिथिलबन्धनपीतिमराजिताः । मुहिररूपयुता विटपिच्छदा:- मुचिरतामनुमान्ति महीरुहाम् ॥ ३५ ॥ न सलिलं कलिलं शिशिरे जनाः ? न गगन मलिनं नलिनं कथम् । मुकुलितं, तुहिनाऽनिलभूगुणैः किमपि गुप्ततरन्वभिचारितम् ।। ३६ ॥ अयि शिवात्मक एष ऋतुर्यतः समुपयाति शिवा क्षणदा इति । तरुदलैः परितः परिपिञ्जरैः भवभयस्य हरं हरमर्चति ॥ ३७॥ विटपिभिः किल सर्वगतो विभुः शिशिरपर्वणि सर्वदलैः शिवः । १ यत्तदोनित्यसम्बन्धात्तत्रेति,-हिमगिरिवाचक प्रातिप्यते । २ मुहिरः सुन्दरः। ३ मुचिरोदाता । ४ विवन्तोयम् ।

पुनरङ्करैः सुर्यचरिते। शिवदिने मनुजैस्त्रिदलैरिति धरणिमूर्तिमयः पटु पूज्यते ॥ ३८ ॥ अपचितो भगवान्स सहोमया निजपदाय नरान्परिकल्पयन् । तरुगणापचिति सफलतां नयतीति विचित्रता ॥ ३१ ॥ तरुगणो जडता-न-परिच्युतः, कुसुमितोऽङ्करितः किल मोदते । इति जनैजेडचेतनभेदतः फलभिदाऽखिलकर्मसु मीयते ॥ ४० ॥ अथ जनाः शिवरात्रिदिने समे शिवमया वहि,-रान्तरवृत्तिभिः । शिवमहत्वविचारणतत्पराः शिवशिवध्वनिभिः सकलजगत् ॥ ४१ ॥ रहितदम्भमदादिकुवृत्तयः विगतमत्सरवैरशुगादयः । 'शि-शि-रवा-शिशिरेण सहैव वा शिवमयं किल कर्तुमिवोद्यताः ॥ ४२ ॥ युग्मम् । शतभिषक्कृपया तरुणोऽरुणो- निजकरैररुणैरवनि स्पृशन् । जनमनांसि नयनरुणस्पृहाम् अरुणिमपथनाय विचेष्टते ॥ ४३ ॥ अथ विधुर्जगदुत्कलिकाकुलम् कलितुमात्मकरैरमृतान्तैिः । १ अनुकरणमिदम् । २ वा-इवाएं। - ramananewNEPAalemaniym एकादशः सर्गः। ६३ हरिगतस्य हरेरयने सरन् धवलयन्वियदञ्चति फल्गुनीम् ॥ ४४ ॥ रविविधू विपरीतचराविमौ परिमिति वदतः किल गोलयोः । चरति येन पथा हरिगो रविः विधुरनेन तनोति हि फाल्गुनीम् ॥ ४५ ॥ ज्वलनरोचिरियं ज्वलनप्रिया- ज्वलनमध्यनिवेशितविग्रहा । जनमनस्सु मदं ज्वलयन्त्यहो ज्वलति भूमितले वत ! होलिका ॥ ४६ ॥ जगदहो निखिला खिलतामिमाम्- अखिलयत् खलतामिव चाऽऽत्मनः । खलतटस्खलनाभिनयेन भोः- प्रकटयत्कुरवैः स्यति होलिकाम् ॥ ४७ ॥ पूर्वायाश्चरणेषु लोलुपतया भास्वानयं भासते । वृक्षान् भङ्गुरपत्रकान् विरचयन् , शस्यं समुच्छोषयन् । निवीयं शिशिरं हिमालयतटमान्तेषु संप्रेषयन् हेमन्तेन सहैव, तन्नरपति भूमौ समुज्जम्भयन् ॥ ४८ ॥ तुरयं शिशिरः सवितुः करैः, विनिहतस्तुहिनाचलमास्थितः । अचल एष विभिन्ननिवेशकः,सम-ऋतूम्परिपाति सदा स्वयम्॥४६॥ इतिशिशिरनिदर्शित स्वमार्गम्, समनुसरन्नृपतिस्तु गोलमध्यात्। भगवति तरणौ झषाऽनुरक्ते,भरतभुवं परिमण्डयन् प्रवृत्तः ॥५०॥ इति श्रीभगवद्विभूतिवर्णने सूर्यचरिते महाकाव्ये, शिशिरवर्णने प्रतनीकरणं नाम, एकादशः सर्गः ॥ " न ६४ सूयचरिते। द्वादशः सर्गः। अथहोलादिवर्णनम् । वागिन्द्रियस्य विषयो निखिलं बचो भोः तृप्तन्न तावदिदमेव न वक्ति सर्वम् । औत्सुक्यमेतदति पालयमानमास्ते गायामि गोप्यमपि होलिकया कदा नु ॥ १ ॥ चेतःप्रसादनकरी परि-हासपुष्टा वाग्वह्निदत्तमदना दमना चुरायाः । वाणीलताकुसुमदाम-सुमेरुकल्पा होला स्वभावविकसबदना घटेऽर्के ॥ २ ॥ हास्याङ्कुरा घटगते तरणौ जनानाम् प्रादुर्भवन्ति हृदयेष्विव पादपेषु । ते कोरकोदयमिषेण हसन्ति यूयम् प्रत्यक्ष हास्यकल योदुगिरताऽङ्कुरान् तान् ।। ३ । हास्योदयाय सकलानपि वाग्विलासान् निर्मातुमेव रचिता मुनिभिस्तु होला हास्यं न चेन्जनमनस्तु नतद्विकासः ब्याकोशतां हिरुगहो प्रजनं कथं स्यात् ॥ ४ ॥ रत्या जगज्जनितमेव रतिः प्रसन्ना- हासं स्वदास्यचतुरं प्रथम प्रसूते । हास्याय बालकवचांसि यदि द्रवन्ति स्वोत्पत्तिहेतुरतिचेष्टितमेव यावत् ॥ ५॥ १ व्याकोशतां हिरूक्मनसोविकाशं विना । १ स्वशब्देन हास्यम्।

द्वादशः सर्गः। सेयं रतिभंजतु काममनन्यचित्ता वालाः कुंवन्तु सकलानपि वाग्विलासान् । भृण्वतु यूयमनिशं दिनपञ्चकेन वाग्देवतावयवगूढजपप्रयोगान् ॥ ६ ॥ के नाम नो प्रणिगदन्ति वचःप्रयोगान् गूढं प्रकाशमथवा सजने रहोवा । याः कुर्वते कृतिततीनच ता बिना तान् नैवाकृति दिशति जातु जानाय होला ॥ ७ ॥ एतबसन्ततिलकं भरतस्य भूमौ हास्यं नृणां मनसि पूषणि कुम्भगेऽद्य स्वाभाविकं मुनिवरैरपि नैव रुद्धम् वाचैव कामशमनेन नुतं परं तत् ॥८॥ यो नाम नेच्छति गिरा सकलान्प्रयोगान् गोप्यान्वसन्तकलिकोद्गम-कालकेऽपि । सोऽयं रहो वदति बाहुयुगोपगूढाम् वाला वलादिव विवोधयितु नवोढाम् ॥ ९ ॥ सौराः करा जगदहो विनियोजयन्ति- चित्रासु चित्तनिलयासु दशाऽवलासु । तन्नूतनाः कृतिततीः सुवतेऽवला स्ताः याभिः पुनर्नवमिदं सततं विभाति ॥ १० ॥ १ कुशब्दे । २ मानसंवा वाचिकम्वा शब्दप्रयोगं विना कस्यापि कार्यस्य कर्तुमशक्यत्वाद्, होलिका-प्रतिपाद्यस्यार्थस्य प्राणिमात्रे- णापि क्रियमाणत्वात् न केनापि वर्जयितु शक्या होला-इत्युक्तं, गूढं प्रकाशमित्यादि। ३ नास्ति कृतिर्यस्य विषयस्य तम् ।

दि सूर्यचरिते। एतादृशा यदि कराः प्रसरन्ति भूमौ ग्रीष्मेऽपि सौम्यदिशि शीततरे प्रदेशे । तस्मिस् तदैव सुरभिः सुरभिं करोति भूमि वसन्ततिलकेन नवाकुरेण ॥ ११ ॥ हासोद्गमो रविकरैर्वृषभस्य शृङ्गे स्पृष्टेऽडराश्च कलयन्ति नु 'केतुमाले । नूत्नानि मानवमनांसि विचित्रवाचाम्- प्रायः प्रयोगनिपुणान्यथ हास्यवन्ति ॥ १२ ॥ भद्रावके निजकरान्प्रतनोति भानु- रश्वास्यगो विविधभावकरानजस्त्रम् । एवं हरौ प्रकुरुतेऽथ हिरण्मयेन- साकं कुरून् भरतखण्डतिभान्करोति ॥ १३ ॥ वर्षन्तु भारतमिदं बहुचित्ररूपम्- रत्नाकरेण गिरिणा च समीरितेन । द्वेधैव कोष्णहिमशीतसमीरणेन- मिश्र, तनोति निखिलानपि भावसंघान् ॥ १४ ॥ लावण्यमत्र निखिलं लवणानिलेन- सजायतेऽथ सुषमा च सुषीमवातात् । शारीरकं वलमहो हरिदश्वतापाद्- यन्मानसश्च सलिलैरथ मानसाप्तः ॥ १५ ॥ सूरे कुलीरनिलये धरणीसुराणाम्- उत्कण्ठितानि हृदयानि तु पाठनाय । १ यूरोपप्रदेशे । तत्र, अप्रैलपूल इति हास्योदयः । २ महाचीनदेशे। ३ रूसप्रदेशे। ४ उत्तरअमेरिकाया दक्षिणेन- भागेन । ५ दक्षिणाऽमेरिका प्रदेशे।

द्वादशः सर्गः। १ गानाय सिंहसदने जनतामनांसि- विन्ध्येन साकमिव सोकलिकानि भान्ति ॥ १६ ॥ कन्यागते क्षितिभुजां तरणौ रणाय- सन्नद्धतामनुभान्ति मनांसि नूनम् । वाहा अभी सहजधर्भमनुव्रजन्तो दर्प स्वकीयकरणोन्नमितं वदन्ति ।। १७ ।। तौलौ विशां विशति चेतसि कोऽपि भाव:- स्वाभाविकः स्वधनराशिविभावको यः । येनैव कोशनिचयाश्च विशां कुमारा:- अल्पीयसैव गणयन्ति न विस्मयन्ते ॥ १८ ॥ दीव्यन्त्यतो, न, धनराशिजिहीर्षया, नु:- सत्ता न बा स्वविभवस्य, जिहासया वा, | एताः कला विकलता-हरणाय नृणाम्- स्फूत्यै स्वधर्ममननाय, न, विस्मयाय ॥ १६ ॥ सांकर्यभावविकलो नियतोऽपि भावो- ह्यन्यादृशः कुजनचेतसि भाति नूनम् । सम्भावयन्ति सुजना नियमेन भावान्- भावप्रयोगनिपुणान् भजतां बुभूवुः ॥ २० ॥ सर्वः प्रयोगविकलैर्विकलीकृतोऽयम्- प्राचार एष मनुजा ? मनुना प्रणीतः । १ अश्वा मुख्यसेनाङ्गाः, स्वाभाविकंधर्म, रणकर्मयोग्यामोजो- युतांस्फूर्तिम् , अनुरन्तः स्वकीयान्तः करणाद्भूतं दर्पम्, अन्तः सारमौ- त्कराव्यमितियावत्, वदन्ति प्रकाशयन्ति । २ अनुष्ठान प्रयोग निपु- णान, भाव्यते साध्यते फलं येन स भावः, इति–कर्तव्यतायुतो विधिः।

६८ सूर्यचरिते। त्रैवर्गसाधनमहो विपरीतमेव- पुष्णाति राक्षसकुलान्यविधि प्रयुक्तः ॥ २१ ॥ तथ्यमद्य सममेव वसन्तकेन- वासं विधत्त नितरां भरतस्य भूमौ । वासन्तिकी श्रियमिवात्मकृति तनुदम्- सर्व जगन्नवतमं कुरुते वसन्तः ॥ २२ ॥ यत्पत्नहानकरणेन नवाङ्कुराणाम् प्रादुर्भवोभवति भूमिरुहेषु भव्यः । भूयात्स एव च भवत्सु बुभूषुभाव:- भानुः स्वभानुभिरलं कुशलं करोतु ॥ २३ ॥ इति जगति पुराणं नूतनीक मेषः- नुदति किल वसन्तं सर्वभावेषु सन्तम् । प्रकटितमहिमाऽथो भाति पुष्पाकरोऽयम्- नवमिव भुवनं द्रागात्मशक्त्या सिसृक्षुः ॥ २४ ॥ विभजति जगतां यो भावसंघान् विचित्रम्, विविध-किरण-जाले लि- वयजीवलोकम् । त्रिदिवनर कभेदान् यः स्वगत्यैव भिन्ते, तमखिलकृतिशक्तं भानुमेनं नमामः ।। २५ ॥ इति श्रीभगवद्विभूतिवर्णने गोलविद्यायां श्रीसूर्यचरिते महाकाव्ये, हास्याङ्कुरसमालोचने वसन्ततिलकन्नाम द्वादशः सर्गः। १ तद्वै रक्षांसि गच्छति-इति स्मृतेः । २ सर्वभावेषु सन्तमित्यनेन व्यापकता वसन्स्य दर्शिता, न केवलं तरुलतादिष्वेव किन्तु भावभाडे वसन्तः, इति । , त्रयोदशः सर्गः। ऋतुचरिते-वसन्तोत्पत्तिः अजचरणतुरीयपादयाते- भगवति तस्य करा वरं स्पृशन्तः । नवमिव भुवनं चिकीर्षवो यत्- कमपि रसं व्यनिवेशयन् रसायाम् ॥ १॥ अयमतिचपलो रसो रसानाम् जननकरः करणं नवाङ्गुराणाम् । धरणितलनिविष्टमूलवल्कै- निपुणतरं परिपीयते महीजैः ॥२॥ अथ निखिलशरीरपूरितोऽयम् तनुकलिकाकलनेन वल्कलाग्रात् । अरुणकिरणकारणं प्रमिन्वन् कुसुमितकिंशुककानना{देति* ॥ ३ ॥ नसकलकरणेतिन्नराणा- मिव, विशदं भवतीह भिन्नजन्तोः । अथ तमसि नितान्त-निष्ठितानाम् भवति हि वाल्कलेमेव भूरुहाणाम् ॥ ४ ॥ अरुणसितनिपीतकृष्णरूपा- ग्यपि, नितरां न भजन्ति वल्कलानि । १ पूर्वाभाद्रपदा । २ करणः । ३ कतृभिः । ४ क्रियाविशेषणम् । कारणगुणाः कार्यगुणमारभन्ते, इति-नियमोदर्शितः। ५ एकेन, त्वगिन्द्रियेणैव वृक्षाणां सन्द्रियव्यापारः। * सूर्यचरिते। स्वजनितकुसुमैः समानभावम् सुरभिरयन्नु विचित्रशक्तिरीशः ॥ ६ ॥ सुरभिरयमथाऽम्रकुण्ड्मलानाम् समकलानां कलयन्तु वल्कलानाम् । व्यभिचरति तु पल्लवेषु यत्तद्- वदति जना ? नियतो नकोऽपि भावः ॥ ६ ॥ सममपि भुवनं नवं वितन्वन् कुसुमचयान्किरतीव भूरुहेषु । सममपि सुमनोभिरात्तवन्या मनसिंशयः शयनं भिनत्ति नूनम् ॥ ७ ॥ गणयितुमहमुत्सहे न वृक्षान- न च कुसुमैः खचिता वसन्तवल्लीः । कमिव न कुसुमानि पल्लवाँश्च- गमयति हन्त ! वसन्त एष वीरः ॥ ८ ॥ विकसति न च पल्लवानि वा यो- मधुसमयेऽपि दधाति नैष शाखी । अथ यदि विमतः करीर आस्ते मधुदयितः स च बढ़ते विपत्रः ॥ ६ ॥ अरुणिमपरिपूरिताः सखीः स्वाः कुसुमचयैः खचिता निमालयन्तीः । १ श्लोकढ़येन, सामान्य-विशेष-दृष्टान्त-दानेन, कारणगुणाः कार्यगुणमारभन्ते इति नियमो विघटितः । २मधुनाकृतकृपः । स्वयन्तु विपत्रः। ३ परिपूरिताः, खचिताः, इत्यतीतत्वं वसन्तानुरागस्य व्यज्यते तासाञ्च वृद्धत्वम् । +- त्रयोदशः सर्गः। हरितकिसलयविरोचमाला जयति विना कुसुमानि मालतीयम् ॥ १० ॥ न किमिति मधुवल्लभेयमीहक्- जगति लता नरिनति कापि नाऽन्या । किसलयनिचयान, पुनः पुनः स्वान् मधु-विनिगृहन-तोपणे समर्थान् ॥ ११ ॥ प्रतनदलयुतैव तन्वती या, जलधर-वर्षण हर्ष-जातपुष्पा । पुनरपि शरदः प्रवर्द्धमाना मधुसुपमा विनिगृहतीव नित्यम् ॥ १२ ॥ युग्मम् । कतिषु च तरुधु प्रसूनजन्म- कतिषु च पल्लवजन्मतः प्रसूनम् । कतिषु च युगपवयं प्रसूतन्- वितिगणयेयेत्सुरभिः स्वयं स्वयंभूः ॥ १३ ॥ वयमिह चकिता वसन्तलक्ष्स्या- स्थलजलपुष्कर-नाग-नाकभूषु । रचितनवयुगेष्विव क्षणेन नियतमहो सुरभिः स्वयं स ईशः ॥ १४ ॥ धुमणिरयमहो मणिः खमध्ये- 'जिगमिपुरेव तनोति नूतनत्त्वम् । श्रद्यापि हरितत्वेन विरोचमाना इति रुच धातुना, वर्तमार्थकेन शानचाचात्मनेपदेन स्थिरसौभाग्यवत्तया कुसु मोत्पत्तिपर्यन्तंकुसु- माकर-व्यापारवतो मालती इदानीन्तु विनापि कुसुमैरभिभवति मा- धवी-प्रभृतीलताः इति व्यङ्ग्यरीतिः। १ शरदः प्रभृतिवसन्तपर्यन्तम् । २ सायनमकर-संक्रमकुर्वन्नित्यर्थः ।

। सूर्यचरिते। अथ सविधगतो भ्रममन्नजत्रम् विषुवगतेः सुरभि जगत्करोति ॥ १५ ॥ अभिविषुवगतं मधुर्मदान्धस्- तदितरभागगतस्तु माधवोऽसौ । मिलित इह वसन्त उच्यते :- विषुवगतिमलयादवार दिगंशैः ॥ १६ ॥ मलयत उदगञ्चनेऽभियाति मनुनिमितांशगतस्तु विन्ध्यशैलम् । रविरथमनुजा नयात्युदीच्याम्- दिशि गिरिराजभयानिवर्तते किम् ॥ १७ ॥ यदि रविश्यमत्र शैलराजे कृतवसतिर्हिम एव मृतले नो नहि गिरिरितरः कचाऽपि ताक् न च हिमभू रविसनिधौ कचाऽपि ॥ १८ ॥ गिरिरयममितानि शृङ्गकाणि धरणितलादपि योजनोच्छ्रितानि । तुहिनविशदकानि तिक्ष्णकोटी- न्यतिधनराशिपिधत्सयैव धत्ते ॥ १६ ॥ न च सुरभिनिदाघसङ्गमेऽसौ गलितहिमो न च वर्षणेन धौतः । कथमिव शरदा क्रियेत नग्नः कथमिति तत्वत एष बुध्यतेऽद्रिः ॥ २० ॥ १ इदानीं योजनतः सार्द्धनल्वन्यूनतायामपि प्राचीन-हिमस्य स्फटिकतया परिणमनात्कृटानामौनत्यंभविष्यतीति मन्यते कविः।

त्रयोदशः सर्गः। सुरभिरयमथाऽत्र जन्तु-शून्ये विपितृणाकुरकोरकैविहीने । तनुहिमपरिगालनेन नद्यः सुरभिजला वितनोति हैभवत्यः २१ ॥ इममतिशिशिर हिमानिकायाः रविकिरणैर्गलितं निदाघकाले । अतिलघु जलधिं सुनीरपूरम्- नयति परो न, यथा तु धातृपुत्रः ॥ २२ ॥ कुरुषु च गिरिरस्ति शृङ्गवान् यः, तुहिनयुतो विषुवस्थितोऽपि नित्यम् । इति चकितमतीस्तु वच्मि वालान् नहि तुहिनाचलतोलकस्तथापि ॥ २३ ॥ अभिमननपरः पुरा गिरिः सः, क्षुभिततनुः परिवृत्तसन्निवेशान् । सह निजवपुषा कुरूँश्चकार, इति मम मानससाक्षिणी मनीषा ॥ २४ ॥ हिमगिरिरिव वर्षपर्वतोऽ मुनिवचनैरवगम्यते तथाऽपि । १ पूरो जलप्रवाहे स्यादिति मेदिनी । २ ब्रह्मपुत्र नदः परः प्रतिद्वन्द्वी सिन्धुनदः एतेन ब्रह्मपुत्रसागरसङ्गमे सागरहिमालययोरतीवसामीप्यं सूच्यतेऽन्यापेक्षया । अन्यस्तु सिन्धुनदःसाजात्यात् । ३ ऐन्डीज, इत्यादिनामभिः प्रसिद्धो दक्षिणेत्तरायतः । ४ मनसा संकल्पितं बुद्धया निश्चितम् तथा च मनीषायाम्तत्वपक्षपातो व्यज्यते तेन च परिवृत्तसन्निवेशत्वं पोष्यते इति गुणीभूतता तस्य । ५ पूर्वापरायत: त्वेन, उछितत्वेन, च । ऽयम्, सूयचरिते। उदगभिशिरसा न मान्य एषः, तुहिनसितोऽपि समुच्छ्रितोऽपि तादृक् ॥ २५ ॥ स्थितिगिरिरिति मत्स्यवर्णितोऽयम् , भुवनचतुर्दलपद्मकस्य विद्धन् ? 'त्रिषु पुनरपि पालयत्सु सीमाम्, अयमचलो जलधि कथं प्रविष्टः ॥ २६ ॥ जलधिरयमगाधखातरूपो- यदि न भवेत्सलिलं धरातलेऽस्मिन् । कियदिति परिमातुमादरो मे- सुरभिदशां विषयीकरोति साम्यात् ॥ २७ ॥ सुरभिरयमहो समानदर्शी- समकलना समयस्य देशसाम्यात् । जलधिगिरिवरैर्विचित्रितेयम् यदि न भवेद्धरणिः समा न किं स्यात् ॥ २८ ॥ न जलधिगिरिवर्जमस्ति भूमेः स्थितिरपि विश्वसृजा जलं पुरैव । दशगुणमधिकं भुवः प्रसृष्टम् धरणितलं कथमुन्नमेत्तदानीम् ॥ २६ ॥ यदि गिरिरहिता वसुन्धरेयम् जलधितरङ्गनिपीडिता विशीर्णा । १ त्रिषु गन्धमादने, हिमवति, माल्यवति च, गोलसूत्रे द्रष्टव्यम् भद्राश्व (चीन) भारत,-यूरोप ( केतुमाल ) उत्तरकुरु (दक्षिणा ऽमेरिका ) इति चत्वारि वर्षाणि चतुर्योमर्यादागिरिभ्योवहि, वन पद्मस्य चत्वारि दलानि, मध्येवर्षपञ्चकमित्यर्थः ।

प्रयोदशः सर्गः। कलुषजलमयी प्रपानकाभा- किमितितदा न विलोक्यते बुधेन्द्रैः ॥ ३०॥ धरणिजलसमीरनोदनेन तरणिरंय गगने चरञ्जगत्याम् । नवकृतिपरिवर्तनाय नूनम् विविधऋतून् गतिभेदतो विधत्ते ॥ ३१ ॥ अभिमुखपतिता मरीचिभर्तुः- शिशरवसन्ततपास्तु पृष्ठतोऽन्ये मकर-गतिकुलीर-यात्रयाऽमी- विबुधवरं परियन्ति चित्रगत्या ॥ ३२ ॥ इममिह नियमं बुधा विदन्तु- विषुवगमे सुरभिं तनोति भानुः । शरदमिह ततो विनिगम चेत्- किमिति तदा भवतीति याभ्यगोले' ॥ ३३ ॥ विषुवगतिमितो रविः समं तम्- यदवधि कारयते करैः स्वकीयैः । तदवधि सुरभिः समः समस्मिन्- धरणितले, तुहिनाचले तु चित्रः ॥ ३४ ॥ गिरिरयमिताराद्रिभिन्नरूपम्- तरुहरितैर्विषयैः परीत एव । स्वयमतिविततो महीकिरीटस्- तुहिनसितः स्वयमेव पुष्पिताग्रः ॥ ३५ ॥ १ऋतु कुटम्बे द्रष्टव्यम् ।

aca सूर्यचरिते। तुहिनगिरिगवेषु मुकेमादो- यवकणिशैः सुतरां सुपकवीजैः विषुवति तरणौ महीनिपीता सुरभिमिमं मुरभिं करोति धन्या ॥ ३६ ।। इति जगति समस्तान् भावयन् भावसंघान् घुमणिरयपिदानी रेवते रेवतीभ्यः । अथ शुभदिवसाय प्राप्यवर्षान्तवृद्विम् कृतसक्नजपार्चः सेवते ना नवत्वम् ।। ३७ ॥ विधुरयमिह देहं यन्निवाऽभानजस्त्रम्, निजतनुनवतायै नूतनत्वप्रियो हि। बजति तरणि विम्ब तेजसा दुर्विगाहम् नहि मिलति नवत्वं तानवं संविहाय ॥ ३८ ॥ इति श्री भ. वि. व. श्रीसूर्यचरिते महाकाव्ये वसन्त वर्णने नवीकरणन्नाम त्रयोदशः सर्गः। १लिकम इति लोके । आदि शब्दातू-अपर-ब्रह्मदेशः नेपाल- देशः । कूर्माचलदेशः। गाउवालदेशः। यामुन देशः पञ्चनदस्या, चीनो भागः । उत्तरीय-भागेषु ज्येष्टा-बाढ पर्यन्तम् यवादिपाकस्य दृश्यमानत्वात् । सर्वत्र भूस्थानेषु तुल्यमेव । अत्रेदं वोध्यम् । त्रिधा- भारत-भूमिः। प्रथमा हिमालयस्था सर्वोन्नता । द्वितीया विन्ध्यादि पृष्ठस्था, उन्नता मालपदवाच्या (प्लेटो) इति इङ्गलिश भाषा प्रसिद्धा। तृतीया समतला गङ्गादितीरस्था, हिमविन्ध्यमध्यवर्तिनी । सिन्धुतीरस्था च पञ्चनद-सिन्धु देशरूपा। यमुना पश्चिमस्था-पञ्च नदपर्यन्ता तु समतलापि, अन्याभ्य उन्नता, मरुभूमिः। समुद्रतीर स्था च कर्णाटक-भूमिः समतला, भारतस्य प्रसिद्धा । हिमालय-भूमिस्तु विचित्रा पदे पदे विभिन्न-सलिलानिल-विरोचमाना वर्णयितुम शक्या, स्थावराणां हिमालयः-इतिवचनमवयवशः सङ्गमयन्ती दृश्यते । तथापि सामान्यतस्त्रिधा । भूस्थानं, प्रायो हिमाच्छादिता भूमिः। ग्राम- नगराह --द्वितीया। तीरभूमिः, ग्रीष्मताप-बहुला ३ या। नित्यं हिमाच्छादितस्तु हिमपर्वतः, अगभ्य विषयः, इति निदाघे वर्णितः । , चतुर्दशःसर्गः। अथ बसन्त-सुपमा । बसन्त-सुषमां बुधा ? रवि-विधू सहैवोदितौ. समं विषुवरेखया रविदिनेऽश्विनी-सङ्गतौ । विचित्र-किरणाचिर्षा निखिलगोल संभासना- ज्जगज्जनकारकौ प्रकुरुतः स्वयं सांप्रतम् ॥ १ ॥ सहसकरदीधितिर्मकरकर्कयोः 'सांप्रतम्- तनोति रुचिरातपस्फुरित-तुल्यरात्रिन्दिवम् । न शीतविकलं जगन्न च निदाघतान्तन्तत- स्तृणाति नवतां नूषु स्वकृतिचातुरीचारिणीम् ॥ २ ॥ चिनोति कुसुमानि ना प्रचुरपाटलादीन्यहो- सुनोति विवुधान्समान्यजति नौति जोहूयते । जपेन पुनरप्यहो तरणिमण्डलस्थं परम्- धिनोति, वृषसेवया वितनुते जगन्मङ्गलम् ॥ ३ ॥ महीतलमहो ध्वजैररुणपीतपालाशकैः- सुरालयसमुच्छ्रितैः श्रयति पुष्कर, पुष्करैः । परीतमिव दर्शयन्बुधवचः खपुष्पाश्रयम्- करोति सफलं, बुधो वदति नाऽर्थशून्यं वचः ॥ ४ ॥ शरीर-परिरक्षणे विविधजायुसेवोत्सुका:- जनाः ! प्रथममद्य भोः कुरुत निम्बपत्राशनम् । १ सांप्रतमित्यनेन संवत्सर प्रवृत्तिः सूचिता । २ गगनारविन्दं सुरभि-इत्यादि ।

. सूर्यचरिते। प्रवालमुदितं, पुनः कुसुममुद्गत कोमलम्- विचित्र रमणयता-निलय एष निम्बद्रुमः ।।५। अरिष्टतरुवनं कुरुत सर्वतः सादरम् हरेदयमरिष्टदान् स्वयमरिष्टनामा गदान । प्रवाल-दलवल्कलैः सकुसुमैः सकाष्टैरहो- नृणामुपकृति विना नयनमेष कर्तुं क्षमः ॥ ६ ॥ कथां शृणुत गोलयोः : कृतयुगादिमानं समम्- रवीन्दुगतिभेदजं निलिलमेव तिथ्यादिकम् । सुवेषपरिमण्डिताः सकलवान्धवैः संगताः शरीर-सुषमां नवां तनुत वत्सरं सौख्यदाम् ॥ ७ ॥ प्रपश्यत कलानिधि गगनमण्डले मेचके- समानरुचिरप्ययं निकषहेमरेखोपमः। विवोधयति संगतां तिथिमिमां दितीयामहो कलागतिविचारणानिपुणतापरान् मानवान् ॥८॥ कलानिधिरय सरन्तरणिमण्डलात्स्वां कलाम्- प्रवर्द्धयति सांप्रतं क्रमश एव कान्ति दधद् । विवोधयति मानवानियमितीति गोलौर्द्धता- विबोधन-परान् सुरान् भजत पूजया मानवाः! ॥९॥ पुरा धरणिमण्डले वहति सारवे मारुते- वसन्तकुसुमोद्गमैरुचिरताममेयाङ्गते । अमेयगुणकीर्तनोऽगणितभूतिरीशः परः- स्वयन्नु कुसुमाकरोऽवतरतिस्मं विश्वाश्रयः ॥ १० ॥ १ नेत्रे निमील्येति-लोकोक्तिः। अचक्षुष्यमित्यपि-आयुर्वेदे २अत्यन्त संयोगे द्वितीया । ३ अष्टमीचन्द्रः।

७8 चतुर्दशः सर्गः। वसन्त-सुषमाप्रदां भजत घममध्यस्थिताम्- पुनर्वसु-युतां तिथिं नवकलात्म-चन्द्रान्विताम् । पुनर्वसुयुता ऋषीनतिथिदेवपितृन्मुदा- यजेम इति वाञ्छ.या नवकलात्मभत्त्या युताः ॥११॥ युता विविधवर्णकैः सितनिपीतशोणादिभि:- पलाशिीभैरियं मही न खलु रोचते मानवाः ? यथा सुरभिरूपिणो भगवतो विभूतीनवा:- प्रसोतुमिव बिभ्रती भजनदानपूतानरान् ।। १२ ॥ मही महिमशालिनी मुनिवरैर्मता मानवी- विशुद्धहृदया दयाधृतियुता कृतिर्मानवी । स्वयं यदि दुराग्रहा भवत मानवा दानवी- कृतिविरहिता कसा भवति यत्सुपूज्या मही ॥ १३ ॥ विचित्रतरुपल्लवा रुचिरपुष्पपत्राऽनिला विभिन्न-रवगकूजना-जनित-गीत-दिव्यस्वना । मनोहरनवोद्गतप्रचुरपत्ररम्भावजा, वसन्तसुषुमा मदं जनयितुन्नु यूनोः क्षां ॥ १४ ॥ क्षमातलसमुद्गतं किमपि गोलमुद्भासयन्- मुहुर्गगनमण्लं किमिति चित्रमाक्रामते । मनोजपरिजृम्भृणस्फुरितसर्वदिङमण्डला विकाशिवदना पुनर्भवति दिङ् मघोनी किमु ॥ १५ ॥ कलानिधिरयं रवेरपसरन्कलामात्रतो- भुनक्ति दिनमेककं क्रमश एव दाक्षायणीः । १ श्रवणं, कीर्तनं, विष्णःस्मरणं, पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् । इतिनवधाभक्तिः, भागवते ७ मे । २नावावर्णैः। ३ तरुभिः, मांसाशिभिश्च । ४ क्षमा इत्यत्र सूचितस्योद्दीपनस्य, निवे शयति स्वंमुखं क्षितिजगो मघोन्या मुखे-इत्यन्तेन, समासोक्त्या निर्शिता, संभोगजनकता।

200 सूर्यचरिते। चतुर्दशदिने रघरभिमुखं सगोलार्द्धकर्म प्रमाप्य स्वयमध्यहो क्रमश एव गोलायितः ॥ १६ ॥ अथो सकलकान्तिनिखिल-गोलमुन्मादयन् करैमृतगोचरैर्भुवनभेव संसेचयन् । विचित्रगतिरप्यहो विषुव एव चित्रां गतो- निवेशयति स्वं मुखं क्षितिजगो मघोन्या मुखे ॥ १७ ॥ अयं रविरहोऽश्विनीं त्यजति कष्टतः सांप्रतम्- हसन्निति विधुः पुनर्गगनमण्डल स्वञ्चति । रविस्त्वरुणमण्डलः श्रयति कुञ्चितो वारुणीम्- प्रतापनिधिरप्यहो जगति शीघूगाल्लज्जते ॥ १८ ॥ चतुर्दशगुणंरवेरपसर, जगन्मण्डलम् चतुर्दश,मितपदावतिभिखिराश्यशकैः । चतुर्दशकलाः क्रमादुपचयेन सन्दर्शयन्- चतुर्दशविपर्ययावदति गोलविद्यां समाम् ॥ १६ ॥ समाश्चरति भानुमान्-जगति भातुराश्यंशकान रवत्रिदिन ३६० कारकान् विधुरयं स्वमासेन तान् अहो द्विजनृपं वयं प्रतिदिनं यदेकोदयम् । प्रतीम इतिकल्पना कथमिहाऽद्य संगच्छते ॥ २० ॥ निर्दोषे नभसि सरन्सुधांशुरेषः स्वातन्त्र्यं कलयति नैज-वैभवेन ॥ संरूदान रविकिरणैर्हि भौमभावान् संसिञ्चन्नमृतकरैः करोति मासान् ॥ २१ ॥ १ सप्तमराशिस्थितत्वेन । २ पश्चिमगोलार्द्धम् । ३ अस्मिन्नुदये। ४ सुष्टगच्छति । ५ अत्रचन्द्रचारः सुष्टु दर्शितः। ६ दशाचतुष्टय- समाहारम्, इतं, प्राप्तं जगन्मण्डलं, गोलं सूचयन्नित्यर्थः ७ इमे अंशका एव अक्षांशकाः । ८ इह-एतस्मिन्गोले, अद्य-एतस्मिन कल्पे । , eypan १ चतुर्दशः सर्गः। चैत्रीय विधुकिरणानवाप्य चित्रान् राजन्ती रजनिमिमाः प्रियानुरक्ताः । सोत्कण्ठाः विरहवतीः प्रकुर्वती वी गोलार्द्ध तुहिनतनुं निवेश्य भाति ॥ २२ ॥ गोलार्द्ध तुहिनतनुः प्रमाप्य सम्यक कौमुद्या निखिल-निशीथिनी विरोच्य । पूर्वस्यामरुणकरैविभासितं खम् दृष्ट्वाऽगापियरजनिः परत्र गोले ॥ २३ ॥ संवेशोत्तमसि निलीन-सञ्ज्ञमेतत् संपश्यन्पुनरुदियाय लोकबन्धुः । ब्रह्माण्डं निजणिभिर्विभासयन्स्वम् याथार्थ्य दिनमणिभावमीहमानः ॥ २४ ॥ नाके वा वियति रसातले रसायाम् प्रज्ञायां मनसि निलीनमन्धकारम् । प्रोद्यन् यो लयमनयन्नयं जनाय कारुण्यान्नयति नमोऽस्तु भानवेऽस्मै ॥ २४ ॥ इत्येवं मनुजवरैः प्रणम्यमानः सर्गादेः स्मरणत एव सिद्धिकारी । सप्ताश्वः स तु भरणी-समीपयायी- व्यारोहत्त्रिककुदमेव सिंहलस्थम् ॥ २५ ॥ इति श्रीभगवद्विभूतिवर्णने सूर्यचरित-प्रयोज्ये ऋतुचरिते महाकाव्ये वसन्तसुषमा नाम चतुर्दशः सर्गः । १ वा-इवार्थे २ विषुवरेखायाम् । ३ पूर्वगोलार्द्धम् । पश्चिमगोलार्द्ध । ५ शयनात् । ६ लुप्त चेतनम् । ७ दयालुत्वं सूचितम् । ८ किरणः । त्रिकूट-पर्वतम् ।

पञ्चदशः सर्गः। गिरिदुर्गयात्रा उपद्वीपे सिंहलेऽस्मिन्भरणीतनुसन्निभे । भरण्यामागतः सूर्यो विभृयात्सकलजगत् ॥ १ ॥ उपदीपः सिंहलोऽयं पद्मपत्रनिमोऽम्भसि । क्षाराद्धे, स्त्रिककुन्मध्यो भारताभिमुखः स्वयम् ॥२॥ अवासन राक्षसा पूर्व भरणीगुणभागिनः । रामरावणयोर्युद्धनिनिष्पिष्टा लोककण्टकाः ॥ ३ ॥ मन्येऽहं भरणीभस्य दुष्टत्वमत एव हि । यद्राक्षसनिवासेन खगाञ्चारयति प्रभून् ॥ ४ ॥ अथवा भरणी सेयं राजनीतिविशारदा । अद्वितीयं वारिदुर्ग सिहलं नैव मुञ्चति ।। ५ ।। भरणीव नरा यूयं भारतीया ? न मुञ्चत । सिंहलं दुर्गराजञ्चेद्भरणी वो न पीडयेत् ॥ ६ ॥ सिंहलो भारतीयानां दुर्गराजो भवेद्यदि । सार्वभौमपदं प्राप्ता न च्यवेरन्कदाचन ॥ ७ ॥ सिंहलाक्रमणे भानुधिवं जनयत्यहो । माधवः सिंहलाक्रान्त्या विभीषणमसेचयत् ॥८॥ माधवः सिंहलं नित्यं विभीषण-वशंवदः । भानौ नक्रे च कर्के च न जहाति गुणप्रियः ॥६॥ १ उभयत्र समानार्थः । २ उत्तराप्रवणः ३ बसन्तं, वैशाखं वा । "सीतापतिः। ५ वैशाखपने धर्मः । ६विभीषणे भक्तिः, वैशाखपक्ष सूत्रंसूर्यमण्डलगतम् ।

ynop पञ्चदशः सर्गः। ३ अथवा माधवो नित्यं विषुवत्युभयाश्रयः विषुवस्योचरेणाऽयमक्षांशैः रसकैः स्थितः ॥ १० ॥ माधवेऽनात्र जलधौ सेतु बद्धाऽभिगम्य च । रक्षस्तुषारा निहता माधवेनेव मानिना ॥ ११ ॥ निस्तपे निस्तुपारेऽत्र निवसन्माधवः सदा । मासदयं विश्वरूपः प्रादुर्भवति सर्वतः ॥ १२ ॥ सेतुबन्धादुत्तरस्यां भारतं मानसावधि । सेतुबन्धे दशाक्षांशा मानसे खाग्नितोऽधिकाः ।। 'देवताराः श्रुतावुक्ता कृत्तिकाद्याश्चतुर्दश । तास्वेवाऽऽक्रमते भानुर्भूमाऽवस्यामुद्गगतः ॥ १४ ॥ देवभूमिर्वसन्तेन गच्छता मानसाय तु । कुमारिकाख्या सर्वाऽपि रोचते सहिमालया ॥ १५ ॥ कृत्तिकासु गते सूर्ये वसन्तो हिमपर्वते । विशेषान्मानसे खरडे राजते खण्डयञ्जडम् ॥ १६ ॥ मलयः सेतुबन्धश्च समरेखास्थितौ मतौ। मलयाद्विन्ध्यशैलोऽयं वर्णितः पूर्वमे हि ॥ १७ ॥ विन्ध्याचलादुत्तरस्यामक्षांशैस्त्रि, चतुः शरैः । हिमालयो मध्यमागाद्वायव्याभिमुखः क्रमात् ॥ १८ ॥ काश्या वायब्यदिग्भागे द्वात्रिंशदधिके शते । क्रोशे विराजते वांसवरेली, नगरी शुभा ॥ १६ ॥ त्रिंशत्क्रोशे चित्रशिला वरेलीनगरादुदक् । ततस्तु मानसो खण्ड उच्यते मानसाऽवधि ॥ २० ॥ १ अनुराधाद्या १४ मनुष्यताराः । २त्रयोशसर्गे मलयत उगञ्चनेभियातीत्यादिना । ३ धवलगिरिमारभ्य कश्मीरपर्यन्तम् ।

सूर्यचरिते। विचित्र तरुवल्लीभिरोषधीभिः समाते । मार्कण्डेयाश्रमे चित्रशिला विस्मय कारिणी ॥ २१ ॥ शिलेयं महती चित्रा नानारूपविचित्रितैः । विभाति दूरान्मनसि रचिता शकलैरिव ।। २२ ।। न मानवी कृतिरियं दानवी न च दैवती। अचिन्त्यशक्ति कमपि बोधयन्ती शिलास्थिता ॥२३॥ नानाप्रवालवणेय नानापुष्पनिभच्छविः । सदा सुरभिरूपाणि दधतीव विराजते ॥ २४ ॥ निर्मला रोचमानेऽयं मृदुला मृडरूपिणी । शर्करासु निलीनाऽध चित्रनद्याः प्रवाहतः ॥ २५ ॥ बोधिद्रुमाश्चित्ररूपाः शिलास्वपि वलादिव । कुतोऽऽप्यास्वाद्य नीराणि रोचन्तेऽङ्कुरिता अहो ॥२६॥ माधवस्तयन्ने माधवस्य कृतीनवाः । आरोहत्पञ्चनल्वो भूतलात्पष्टिखातके ॥ २७ ॥ तत्र भीमदं सप्त ह्रदान् नलहदन्तथा । नवकोणं दं दृष्ट्वाऽपश्यनारायणीह्रदम् ॥ २८ ॥ भूतलान्नवनल्बोद्धमाकाश इव निर्मितम् । देवखातमिदं देवैरधुना नगरायितम् ॥ २६ ॥ नगरं वलयाकारं राजते परितो इदम् । वसन्तकृपयोद्भूतै, गन्धर्वैरिव पूरितम् ॥ ३० ॥ एकोनविंशतिशतात्पूर्व सम्बदिदं वनम् । पशव्यमपि दुर्धर्ष पञ्चास्यनिलयोपमम् ॥ ३१ ॥ गुरण्डप्रायमधुना मध्यदेशनिवासिनाम् । वसन्तवातसेवायै निदाघनिलयायितम् ॥ ३२ ॥ १ नैनीताल इति प्रसिद्धम् । २ हिमवद्विन्ध्ययोर्मध्यं यत्प्रावि. नशनादपि । प्रत्यगेव प्रयागाच मध्यदेशः प्रकीर्तितः । इति मनुः । hibganatantan

पञ्चदशः सर्गः।
y
माधवः फाल्गुनेनैव फाल्गुनेनेव माधवः ।
भू-तापवारणार्थाय मासानमन्त्रयतीह किम् ॥ ३३ ॥
उत्तरस्यामितोऽल्मोडाप्रदेशः सुरभिः स्वयम् ।
सरयूशोभितः शम्भुधामविविराजितः ॥ ३४ ॥
अलमोडानगरी चित्ररूपा पवर्तपृष्ठगा।
माधवेन सदाक्रान्ता सुखदाद्वन्द्वमध्यमा ।। ३५ ॥
सरयूजल संस्पर्श-पूतानिल-निषेविते ।
नवनल्वोच्छिते शम्भुर्जागेशो दारुकावने ॥ ३६ ॥
सरयूपूर्वतो विप्रैर्मण्डितो माधवप्रियः ।
गङ्गावलीतिविषयः शिवसेवनतत्परैः ॥ ३७॥
मार्कण्डेय-पुराणोक्त-चरित्र-त्रयनायिका ।
कालीमहिषशुम्भादीन् पातुकाऽत्र पराक्रमीत् ॥ ३८ ॥
देवदारुवनस्थेयमन्विका-साहिता जनैः ।
पूज्यतेऽद्याऽपि सद्भत्या प्रत्यक्षक्षशकुना शिवा ॥ ३६ ।।
शिवायाः सविध ग्राम उपराज-इति स्मृतः ।
पन्तानां मूलवसतिर्वसन्तनिलयायते ॥ ४० ॥
कुसुमाकरसंपत्तिमुपभुङ्क्ते गुणाकरः ।
गुणाकरैः प्रपूर्णोऽयं पन्तैः पूरयते जगत् ॥ ४१ ॥ युग्मम् ।
देवदारुगिरावस्मानुत्तरस्मिन्गुहाशयः ।
भुवनेशो भवो भक्ताऽभीष्टभूमि विस्थितः ॥ ४२ ॥
भुवनेशगुहाभीमा भूरिभागा शिवप्रिया ।
वाराणसीगुहां यावद् धत्ते मार्ग प्रदृश्यताम् ।। ४३ ॥
ततः कोटीश्वरस्तबद् गुहासस्थः स ईश्वरः ।
पहशीतिगुहामाये पर्वते राजते विभुः ॥ ४४ ॥

Sony ६ सूर्यचरिते। तस्मादुत्तरतः पुगे श्वरः सर्वत्तुशौख्यदे । निझरेश्वरसंमृष्ट निर्मरानिलसेविते ॥ ४५ ॥ गौरीनद्याः परे भागे द्रष्टव्यः शिवदः शिवः देवदारुतरुच्छाया-पुष्पवाटीसमन्वितः ॥ ४६ ॥ युग्मम् अथ गौरीनदीपूर्व दिशि माधवसौख्यदः । पिङ्गलाचार्यवसति, मो वर्षायता'ऽभिधः ॥ ४७ ॥ वर्षायत्ता सर्व इमे ग्रामाः पर्वतसंस्थिताः । अयं जलोच्छ्वासयुतो वर्षायत्तस्तथाऽप्यहो ॥ ४८ ॥ रसाला विविधाश्चाऽत्र सरलाः पूतनादयः । वनौषध्यस्त, पूतं पवनेनैव तन्वते ॥ ४६ ॥ सर्व सुखदे ग्रामे नवचन्द्रनृपे शके । कल्याणचन्द्रदत्ते मे पूर्वजा न्यबसन्मुखम् ॥ ५० ॥ जन्मभूमिर्मदीयेयमिति नो वर्ण्यते मया । काश्याः कैलासगमने मार्गः स्कन्दोक्त एव हि ॥ ५१ ॥ वासिष्टीसविधे वालेश्वरं संपूज्य यत्नतः । पुष्पपत्रोद्गमैः सोऽयं सुरभिः प्रस्थितोऽधुना ॥ ५२ ॥ कृत्तिकायाः द्वितीयाङ्कौ भानुमान्मलयादुदग् । वसन्तस्तुहिनप्राय, भूस्थानादिषु संस्थितः ॥ ५३ ॥ विधुस्तु राधाभवनादुदेति रजनीमुखे । दिनं सौरकरैर्दीनं नितरां रज्जयजनम् ॥ ५४॥ रविविधूप्रथमान्त्यभयात्रया-मनुमिता इति निर्जरतारकाः । जगति वोधयतस्त्विति साक्षिणी,तिथिरिय महिता सहराधया राधया सहाचरन्सुधाकरः कानपीहकिरणान्किरत्ययम् । मानवा हि वदरीक्षणैषिणो, माधवो ब्रजति मानसोन्मनाः ५६ १ अतएव कृत्तिका भारभ्यदशादिपरिगणना ज्योतिःशास्त्रे । ..

षोडशः सर्गः। एवं वसन्तः प्रतिवर्षमेव, कैलासयात्रानिरतो झपार्कात् । मासयं भारतभूतलेऽस्मिन् , प्रादुर्भवन याति दिविष्टदेशम् ५७ इति श्री भ. वि. व. सूर्यचरिते वसन्तनृपति-गिरि-दुर्ग यात्रावर्णनम् पञ्चदशः सर्गः । management षोडशः सर्गः। अथ गिरिदुर्गप्रवेशः। कूर्माचलाधाति यथा वसन्तः कैलासदेशं सरलञ्च शीघ्रम् । तथा न नेपालकचक्रमादेः पञ्वापदेशाम च ब्रह्मपुत्रात् ॥ १॥ वालेश्वरायाति दिनत्रयेण व्यासाश्रमं मानव एव सम्यक् । चित्रं वसन्तस्तुहिनेन भीतः, मासळयं यापयतीव तत्र ॥ २ ॥ व्यासाश्रमादूर्द्धमहो मनुष्यरगम्य एवेति मधुर्महात्मा । आषाढमासे यवपाकतुष्टः,शाकंशकैर्याति दिविष्ठदेशम् ॥ ३ ॥ शका इमे हूणजनैः सहैव व्यापारकृत्यालवणादिकस्य । जीवन्ति भूस्थानगता न कृष्या कैलासयात्रानिरताः प्रवर्षम्।।४।। नभोनभस्यद्वयमत्र यातुम् मार्ग ददातीति मया पुरोक्तम् । विना शकानां कृपया न शक्ताः नरा, वतन्तः प्रसुरात्मनैव ॥५॥ १ अल्मोडा-मण्डलान्तःपात्ययं वालेश्वरः, उत्कलस्थाभिन्नः । २ व्याँस इति प्रसिद्धएव प्रदेशः । इयं भूस्थान (भूटान) भूमिः। ३ हिमाच्छादिताभूमिरित्यगम्या । ४ भूस्थानस्था द्विधा हि शकाः (जोहारी ) ( दर्मिया ) इति । ५ अल्मोडा भण्डले छे भूस्थान भूमी। ६ प्रतिवर्ष ।

सूर्यचरिते। हिमालयं विशतिनल्वतुल्यप्रस्थन केनाऽपि विलब्ध्य वीराः । कैलासदेशं शिवदुर्गरूपम् पश्यन्ति धन्या मधुना सहैव ॥ ६ ॥ अयं दिविष्ठो भरतस्य भागः परन्त्विदानी परदेश एव । अत्रत्यमाः शिव-धर्म,-बुद्ध विद्यागुरूणां सततं स्मरन्ति ॥७॥ घटां त्रिशूलं डमरु सशङ्खम, प्रेम्णा प्रयुज्यैव यजन्ति शम्भुम् । नृत्यन्ति यत्ताण्डवदर्शनाय विस्मापयन्तीव जगद्विचित्रम् ॥ ८॥ पृजावसाने डमरून्सहैव विवादयन्तः सहसोत्पतन्तः । स्कन्धेषु सप्ताष्टनवादिवीराः सर्वेऽपि नृत्यन्ति च यन्ति चोद्धम्॥९॥ आरोहतः पश्यति ना न चैतान, विस्मापितस्ताण्डवलाघवेन । परन्तु सर्वानपिताण्डवेन, मत्तान्नभस्युत्पतितानवैति ॥ १० ॥ शिवस्य लीलां विशदं वदन्तो धन्या अमी भक्षविचारशून्याः । एषां द्विजाः कुक्कुरगर्दभानाम् मासन खादन्ति जपन्ति मालाम् ।११। चीनस्य साम्राज्यमिहाऽस्ति, चीनः दिविष्ठतः पूर्वत एव दिव्यः । अन्नादिकात्पत्तिविधौ नरास्तुः वौद्धा, दिविष्ठादिषदेव भिन्नाः १२ दिविष्ठतः पश्चिमभूमिभागो कश्मीरदेशो रमणीयरूपः । वसन्तवासेन नितान्तगौरः, विचित्रमृत्साजलवायुरम्यः ॥ १३ ॥ दिविष्ठतः सिन्धुनदः परस्ताद वहन्नतो याम्यमुखः प्रयाति । एतेन भूमि वलयायितेऽयस विराजते मध्यगतेन चित्रा ॥ १४ ॥ दिव्याङ्गनाहासकरीः सुनारी:, विभूत्राल्लॅज्जयतेऽयमेव । सुरा दिविष्ठाः किलदिव्यरूपा दीव्यन्ति कश्मीरतले नृलक्षाः ।१५। १ उपलक्षणमेतत् । विंशतिनल्वेभ्योऽल्पत्वस्याऽसंभवात् । न्यूनता व्यावर्तकमेवेदम्, नाधिकताव्यावर्त्तकम् । २ 'ओम् णमो 'बुद्धय,' अोम्णमो शङ्कय, प्रोमणमा धम्मय, श्रोमणमो विद्यय, श्रोमणमो गुरपे, इति जप्यास्तेषाम् पञ्च । ३ प्रकाशयन्तः। ४ अपि इति श्रध्याहारलभ्यः ।

घोडशः सर्गः। E8 वितस्तया व्याप्ततला धरित्री तन्मूलखातेन विचित्रमध्या । फलानि सूतेऽमृतसम्मितानि करोति सार्थ स्ववसुन्धरात्वम् ॥१६॥ अयं दिविष्ठेन समं नृपस्य प्रियो निदाघार्तिशमेन देशः । द्राक्षादिसूत्या ऽनिलवारियोग-सौन्दर्यकीर्त्या नितरां प्रियोऽयम् ।। सिंहलेन सहिताविमौ यदा, सार्वभौमनृपदुर्गलक्षणौ । कस्यचित्करगतौ तदाजनाःसूद्यमः स जंगतीपतिर्भवेत् ॥ १८ ॥ सार्वभौमनृपलक्षणं पुरः शैलदुर्ग-इति कोविदैर्मतम् । वारिदुर्गसहितं द्वयं यदा शैलराजशिखरे किमुच्यते ॥ १९ ॥ भारतीयमनुजा ? गिरिराजे सर्वकाल-सुखदे निज-सँस्थाः ज्ञानरक्षणकला-चरकाणाम् सन्तनुध्वमचिराज्जयलाभः ॥२०॥ देशकाल-परिवर्तनशीलः शैलराजशिखरादुदितोऽयम् । मानसोन्मुखकरैर्मधुमासम् तानयन्निव नभस्पपि सूर्यः ॥ २१ ॥ दृष्टस्तापं पाप हानाय-दिन्सन् भानुर्भासा भासयन्मानसानि । पानीवाऽत्मैव विश्वस्यचितान्या- तन्यातन्वानःपातु भक्ताभिऽसेव्यः ॥ २२ ॥ इति सुरभिकृति प्रयोजयन्तौ रविशशिनौ गगने विचित्रचारौ । निजतनुपरिरक्षणाय भत्त्या सकलबुधान्प्रणिपत्य नौमि नित्यम् २३ गुरु जनचरणाब्जं ध्यानगम्यं विधाय पितृवचन गुणौघान् बुद्धि-गम्यान्विधाय । १ कुसुमाकरस्य।. २ द्राक्षादि सूत्याऽत्र शरत्समागमेनाऽति-प्रि- यता। एतेन महिषीसहितस्य दुर्ग प्रवेशः सचितः । ३ मानवस्य दानवस्य वा देवस्य। ४ भुवनपतिः । ६श्रावणेपि । अतएव तानयन्नित्युक्तम् । तत्र तदा सुरभेरेव सत्वात्।

80 सूर्यचरिते। रविचरितमुदार वर्णयित्वा सदार: सततसुखितचित्तो वर्णयिष्ये स्वगोत्रम् ॥ २४ ॥ आरोग्य दिशतु जनाय भास्करोऽयम् । चेतस्तज्जनयतु निर्मलं सचन्द्रः । सम्पत्ति वितरतु माधवः सभार्यो- निस्तन्द्रां स्मृतिममितामुमेश एषः ॥ २५ ॥ वाराणसी जयति भूमितले पुरीयम्- गंगातरङ्गा-पवनेन नितान्तपूता। यत्रत्य-वायु जलसेवन विश्वनाथ- साक्षात्कृतिः परिणता कवितात्मनैवम् ॥ २६ ॥ जयति जयति रूपं विश्व मेतन्मुरारेः- जयति सकलविश्वप्रेरको भानुरेषः । जयति जगतिरत्नं भारतं वर्षमेतत् जयति च गिरिरत्नं देवभूमि : *स दिव्यः ॥ २७ ॥ ॥ इति श्रीसूर्य च.म.काव्ये गिरि-दुर्गप्रवेशोनाम षोडशः सर्गः।। इति भगवदिभूतिवर्णने, गोल-विद्यायाम, रबि-चरिते, अतुचरितं महाकाव्यमू, समाप्तिमितम् । मि. अ. चैत्र ब. ८८३ । * स-इति विशेषणम् पुष्पाकरनिवासेन पूज्यत्वं बोधयति । श२।३। लिङ्गत्रय-विशिष्टविशेषणदानेन विचित्रशक्ति-शालित्वम् गिरिराजस्य सूचितमिति-जयन्तु सर्वाभगवद्विभूतयः । इतिशम् । इति श्रीकूर्माचलीय.-पन्तकुलावतंस-श्रौत-स्मार्त्त-विधि-विहित. पालकस्य लोकवन्यस्य दुर्गादत्त पन्त-सूरेः सुतस्य, पण्डितवर्यस्य पूर्णानन्दपन्तस्य-कनीयोभ्रातुःकवेः साहित्याचार्यस्य व्याकरणतीर्थस्य दार्शनिकस्य तारादत्तपन्तस्य कृती स्वरचित-सूर्यचरित महाकाव्ये- टिप्पणी समाप्ता । शुभम् ॥ टीकाऽपिलिखिता।

॥ अथ गोलविद्या॥
ईश्वरस्थ कृतौ गोला, अनन्ताः परिकीर्तिताः ।
अनन्ता रविविष्णवीश, ब्रह्माणस्तत्प्रवर्तकाः १ ॥
देशः सूर्यकराक्रान्तो, गोलशब्देन कथ्यते ।
भूगोलश्च खगोलश्च, सविधा परिकीर्त्यते ॥ २ ॥
यावदिवाकरका प्रसरन्ति जगत्त्रये ।
तावत्स एको गोलः स्थादेकार्ककिरणोज्ज्वलः ॥ ३ ॥
देधा स एष दिनरात्रिगतेर्विभागात् ।
सूर्यस्य, पूर्वपर-गो-इतोहया नः ।
पूवेऽस्ति भूरिवसुधा परगोलके तु
खण्डत्रयं भवति तद्भुदतोऽप्युदीच्याम् ॥ ४ ॥
उच्चस्थानं गता यूयं, सर्वतः परिपश्यत ।
उदयादस्तपर्यन्तम् , गोलार्दै पूर्वसंज्ञितम् ॥ ५॥
यावद्भवन्तः पश्यन्ति, गगनं गोल-मापकम् ।
तावदेव हि पश्यन्ति कुरुस्थाः पश्चिमार्द्धकम् ।। ६ ॥
जम्बूद्वीपो मिलित्वाऽयं, सर्व एव प्रकीर्तितः ।
नव-खण्डयुतो मेरुकर्णिको मुनिभिः स्मृतः ॥ ७ ॥
अन्ये छीपास्तु षट् सूक्ष्मा, मनुजानामगोचराः ।
वर्णितास्त्वेकरूपेण, पुराणेष्वत एव हि ॥ ८ ॥
जम्बूद्वीपस्य मध्ये यन्मेरुमुनिभिरिष्यते ।
अर्द्ध भूमेः, एशिया, वा जम्बूद्वीपः कथंभवेत् ॥ ६ ॥
यद्रभागावो मून, उपरिस्थः प्रदृश्यते ।
सभूभागो ध्रुवः ख्यात उपचारान्मनीषिभिः ॥ १० ॥

गोलविद्यायामः । स एव मेरुः कथितो, दिव्याग्भिमहर्षिभिः । सर्वस्मदुत्तरत्वात्तु, दूरादुच्चैस्तु सः ॥ ११ ॥ मेरोश्चतुदिशमिला,-वृत्तवर्षमाहुः । खण्डनयन्तत उदक त्रयमाहुरर्वा । एकं पुरः परत एकमुदाहरन्ति । एवं वदन्ति नवभागयुतान्धरित्रीम् ॥ १२ ॥ इलाटतादुत्तरतो रम्यकश्च हिरण्मयः । कुरुश्चेति क्रमाज्ञयाः खण्डा गोलार्द्धकेपरे ॥ १३ ॥ पखण्डाः पूर्वगोलार्दै भारतं किन्नरो हरिः। भद्राश्चकेतुपालौ च भूमेः खण्डा अमी नव ॥ १४ ॥ 'यूरालात्, पश्चिमो भागो यूरोपः केतुमालकः । भद्राश्वश्चीन-इत्युक्तः, षट्-खण्डाः क्रमतो छयोः ॥ १५ ॥ आष्ट्रेलिया, आफ्किाच पूर्वगोलस्य याम्यगौ । उपडीपौ समग्रस्य महादीपावपिस्वयम् ॥ १६ ॥ एवं सिंहल,जापान,-इलैण्डाद्याः समे तथा निविष्टा पूर्वगोलार्द्ध, जम्बूद्वीपोपगा अमी ॥ १७ ॥ अवाम् विबुवरेरवाया नक्ररेखादितः स्वयम् । आष्ट्रेलिया महाद्वीपो मरुमध्यस्त्रिधाप्यतः ॥ १८ ॥ दक्षिणोत्तरभदेन, द्विविधाचाऽऽफ्रिका मता । विषुवनेखया भिन्ना न समुद्र विभाजिता ॥ १६ ॥ १ हिमालथाद्ददक्षिणभागः पूर्वी, चीनतः 'टर्की इन्एशिया, पर्य- न्तं भारतवर्षम् । मैंगोलिया-चीनीटर्किस्तान टर्किस्तान-इतिनिधा- विभक्तं किन्नर वर्षम् । रूस-इति प्र० हरिवर्षम् । सैवेरिया ग्रीन्लेण्ड- भागा-इलावृतम् । उत्तर-अमेरिकाया उत्तरोभागः, रम्यक वर्षम् । दक्षिणभागो हिरण्मयवर्षम् । दक्षिणाऽमेरिका-कुरुवर्षम् ।

प्रथमाऽध्यायः
०
एवं परस्मिन्गोलेऽपि, दक्षिणोत्तरभेदतः ।
अमेरिका, विधा भिन्ना, रेखावारिधि-योगतः ॥ २० ॥
अर्द्धगोले प्राक्-परस्ताव, रेखा या विषुवस्मृता ।
सिद्धैरंशैरुदगवाक् ततोययनरेखिके ॥ २१ ॥
दक्षिणायनरेखा या, कर्करेखा वा तु विन्ध्यगा।
उत्तरायणरेखा तु नक्ररेखा ऽऽफ्रिकोदरे ॥ २२ ॥
दक्षिणाभिमुखे सूर्ये कर्कतो दक्षिणायनम् ।
उत्तराभिमुखे सूर्ये नक्रतस्तूत्तरायणम् ॥ २३ ॥
मध्यरेखागते सूर्ये सम राबिन्दिनं भवेत् ।
सन्निधानेन सूर्यस्य मध्येझायनरेखयोः ॥ २४ ॥
यस्य सन्निहितः सूर्यः समूझैपरि पश्यति ।
विप्रकृष्टस्तु यस्य स्थास्यास तीयङ्डीक्षते च तम् ॥२५॥
मस्तकोपरि पश्यन्ति विस्तीर्ण गगनञ्जनाः ।
तिर्यक् पश्यन्ति संकीर्ण उत्तत्वाद्भ खगोलयोः ॥ २६ ॥
अत एव दिन दीर्घ मस्तकोपरि गच्छतः ।
सवितुश्चलतस् तिर्यक् क्रमाद्-इस्वं दिन भवेत् ॥ २७ ॥
ध्रुवसन्निहिते देशे सदा दूरस्थितो रविः ।
रात्रि विधत्ते विपुलां कर्करेखागतो दिनम् ॥ २८ ॥
कर्क रेखागते सूर्येऽगस्त्यपाषं निशा मता ।
मकरे धवपार्श्वे तु, विषुवे समता तयोः ॥ २६ ॥
गोलमध्ये स्थिता लङ्का तत्र रात्रि दिव समम् ।
सदैव भवती,दानी जलमेवाऽत्र विद्यते ॥ ३० ॥
विषुवनेखया भिन्नः, पुनर्गोलो द्विधा मतः ।
सौम्य-याम्य-विभेदेन, सौम्ये भूरिधरा स्थिता ॥ ३१ ॥

স্বাত্মিারু ।
मेषादितः सौम्प-गोल-स्तुलादिम्धि-गोलकः ।
खगोलो रविगत्यैव विभक्तस्तादृशः परः ॥ ३२ ॥
खगोलस्यैव रेखाभिः सान्निध्यादुपचारतः ।
भूगोले व्यवहारोऽयं सो रेखादिना कृतः ॥ ३३ ये
पुनगोलो द्विधा भिन्नो दक्षिणोत्तर-रेखया ।
एवं चतुर्धा भिन्नोऽयं नवत्यशैस्त्रिराशिगैः ॥ ३४ ॥
गोले पूर्वापरा रेखा मध्यस्था विषुवं मता।
तथा याभ्योचरा बिज्ञैरक्षरेखा प्रकीर्तिता ॥ ३५॥
नवत्यंशाः पुरः पश्चात्ततो देशान्तरं मताः ।
एवं गोल दये ज्ञेयं षष्ट्युत्तरं-शतत्रयम् ॥ २६ ॥
याम्योत्तराणि वृत्तानि षष्ट्युत्तर-शतत्रयम् ।
गोले भवितुममर्हन्ति ध्रुवमोतानि विस्तृतम् ॥ ३७ ॥
देशान्तराणि तावन्ति गोले ज्ञेयानि मानवैः ।
त्रिंशत्क्रोशैः सपादै स्तु भूमौदेशान्तरं मतम् ॥ ३८ ॥
अक्षांशरेखाः संछिन्ना वृत्तैर्याम्यातरैर्यतः ।
स्ववर्गसम्मितान्देशान् विभजन्ते समाः समैः ॥ ३९ ॥
अहोरात्रेण गोलञ्चेत् क्रामते भगवानयम् ।
दशभिर्विकलाभिः स देशादेशान्तरं व्रजेत् ॥ ४० ॥
षट्त्रिंशच्छत-तुल्यास्तु पला, षष्टि-कला यतः ।
भक्ता देशान्तरलद्धिं दद्यादश-पलात्मिकाम् ॥ ४१ ॥
मनुष्यस्त्वेकघसूण देशादेशान्तरं ब्रजेत् ।
वर्षेण गोलं परियन् पुनः प्राप्नोति स्वं गृहम् ॥ ४२ ॥
इति श्रीगोलविद्यायां सामान्यतो गोलनिरूपणम् । प्र० प्रक०
अथ लेखनरीतिञ्च हृदि धारय कोविद ?
ध्रुवद्धयगतारेखा या लङ्कास्पर्शिनी भुवः ॥ १ ॥

সুমাত্রাঃ मध्यरेखा तु सा तस्याः प्राक्पश्चादेश-संस्थितिम् । निरक्षदेशे लङ्कायां विन्दु न्यस्य प्रकल्पयेत् ॥२॥ नवत्यंशान् पुरः पश्चादेवं गोलद्धये न्यसेत् । अवागुदक तथाक्षांशान् कल्पयेद् गोलवित् स्वयम् ॥ ४ ॥ इंगलैण्ड, स्थाद् ग्रंथनिन्,-स्थानात्पाश्चात्यैः कल्पितं यथा । तथा भूमध्यरेखातः सर्व कल्यं मनीषिभिः ॥ ४ ॥ मध्यरेखा भारतेतु मुनिभिः कीर्तिता यथा । "तत्वेन्दुयोजनैलङ्का-देवकन्यान्तरं स्मृतम् । तस्याः स्वामी खनागैस्तु विशत्या सागरः स्मृतः ॥ १ ॥ वत्स-गुल्मस्तलो दिग्नि रुज्जयन्य प्रपञ्चभिः । कुरुक्षत्रं खनागैस्तु सुमेरुस्तत्वपनगैः ॥ २ ॥ इति माने महान् भेदो भूचित्राद्वर्तमानकात् ॥ ५ ॥ निरासनीयः सन्देहो दैवज्ञप्रवरैस्ततः । निरक्षदेशो, लऽयम्, सिंहलस्था तु रक्षसाम् ॥ ६ ॥ भूचित्रं कारयिष्यामि पूर्वोक्तं शास्त्र सम्मतम् । देशाञ् चक्र लेखयिष्ये रेखातः प्राक्-परस्थितान् ।। ७ ।। इति श्रीतारादत्त पन्त-विरचिते गोले द्वितीयं प्रकरणम् ॥ श्रथ वर्षपर्वताः- निषधो माल्यवान् नीलो गन्धमादन-पर्वतः । इलावृतस्य क्रमशो ह्यवाक् पश्चा,दुदक्पुरः ॥ १ ॥ नीलः श्वेतः शृङ्गवाश्च गताः पश्चिम-गोलके । वर्षाणां रम्यकादीनां क्रमादुत्तरतः स्थिताः ॥ २ ॥ निषधो हेमकूटश्च हिमवान्पूर्वगोल के । हरिकिन्नरनाभीनां क्रमादुत्तरतः स्थिताः ॥ ३ ॥ Aamane गोलविद्याथाम् । माल्यवान् पर्वतो यस्तु केतुमाल-विभाजकः । गन्धमादननामा तु भद्रावस्य विभाजकः ॥४॥ अथ सुमेरु:- सर्वेषामेव वर्षाणां मेरुरुत्तरतः स्थितः । इत्येवं नियमाद्वित्त मेरुं भूगोल- कर्णिकाम् ॥ ५ ॥ सुरालयः सुवर्ण दिर्ममनुष्याणामगोचरः । मुनिभिर्वर्णितस्तस्मान्न मृत्पाषाण-पिण्डकः ॥ ६ ॥ सुमेरुशिखरे गङ्गा चतुर्धा जायते ततः । गिरि गिरि लङ्घयन्ती हिमाद्रि भारतं, तथा ॥ ७ ॥ भद्राश्ववर्ष सीता च गन्धमादन-पर्वतात् । माल्यर्वत्पर्मताच्चक्षुः केतुमालं तथा गताः ॥ ८ ॥ शृङ्गवत्पर्वताद् भद्रा, यात्युत्तरकुरूंस्तथा । ब्रह्मलोकादागताया गङ्गाया विजिर्यतः ॥ ९ ॥ सुमेरुशिखरे प्रोक्ता सा सूक्ष्मा नात्र विस्मयः । प्रत्यक्षा त्वस्मदादीनां मर्यादागिरिषुस्मृता ॥ १० ॥ तथा च विष्णुपुराणे- भरताः केतुमालाश्च भद्राश्वाः कुखस्तथा । पत्राणि लोकपद्मस्य मर्यादाशैलवाह्यत-इति ॥ पूर्वोक्तांश्चतुरो विद्धि मर्यादा-गिरिनामकान् । यस्मादलौकिकञ्चापि पुराणेषु समीरितम् ॥ ११ ॥ लौकिकाऽलौकिकत्वेन द्विधा सृष्टिः प्रकीर्तिता । लौकिका सर्वप्रत्यक्षा योगिगम्या त्वलौकिका ॥ १२ ॥ एवं प्लक्षादयोद्धीपा ब्रह्माण्डऽऽवरणात्मकाः । पृथिवी-जल-तेजांसि वाताऽऽकाशाऽवहङ्कतिः ॥ १३ ॥ -- प्रथमोऽध्यायः महतत्त्वं प्रधानञ्च ब्रह्माण्डावरणानि हि । पूर्वो व्याप्यो व्यापकस्तु परो तस्मादतः स्मृतम् ॥ १४ ॥ उत्तरोत्तरमेतेषां माने दशगुणाधिकम् । चैतन्याधिष्ठितं सर्व ध्येयत्वेन निरूपितम् ॥ १५ ॥ बिराट्म्वरूपं ब्रह्माण्डं सत्यान्तं मुनिभिः स्मृतम् । सूर्यप्रकाशो गोलस्तु महलोकान्तमेव हि ॥ १६ ॥ जनस्तपः सत्यलोकाः स्व-प्रकाशाः समीरिताः। पाताललोकाः पृथवी-पुटानीति निरूपितम् ॥ १७ ॥ नागादिवासो मणिभिः प्रकाशस्तेवु कीर्तितः। इति प्रकीर्णप्रकरणम् ।

लविद्याय श्रथ पर्वताः। पर्वतास्तु त्रिधा भूमौ सौम्या आमेयकाः समाः ॥ १८ ॥ शीताः सौम्यास्तापकरा भाग्नेयाः शेषकाः समाः । हिमेनाच्छादिताः सौम्या तरुच्छान्नाः समामताः । १६ । शिलोच्चया स्तापकरा विन्ध्य-पूर्वादि-पर्वताः। उदविवषुरेखाया नवांशै मलयो गिरिः ॥ २० ॥ द्वाविंशांशाद्विन्ध्यागिरिः सप्तविंशाधिमालयः । हियालयो घर्घरान्तो गिरिः पूर्वापरायतः ॥ २१ ॥ वाव्याभिमुखस्तस्मात्कश्मीरान्तं गतो महान् । व्याप्तमेकादशांशेषु दिविष्ठोत्सङ्गशोभिना ॥ २२॥ उच्चैः पर्वतराजेनाऽलौकिकं भूतलं कृतम् । दक्षिणाऽमेरिकास्थोऽपि शृङ्गवानुन्नतो गिरिः ॥ २३ ॥ याम्योत्तरायतश्चत्वारिंशन्नल्वोऽस्य कूटकः । विषुवत्सविधेऽस्मिन् हिमोऽस्ती न विस्मयः ॥ २४ ॥ त्रिंशन्नल्बोछितः कपि गिरिहिम-युतोभवेत् । हिमालयस्य कूटस्तु पश्चाशनल्यकोन्मितः ॥ २५ ॥ ऐब्रिष्ट, कूट-इयुक्तस्तन्नाम्ना मापितो यतः । निरूपयिष्ये ऽन्यान् कूटान् भारतस्य निरूपणे ॥ २६॥ इतिप्रथमोऽध्यायः

No text on this page.

भगवद्विभूति ग्रन्थमालायां निर्मितानि, पुस्तकानि। *04 ... ouse ... . 4... .... ॥) १) ११) श्रीसूर्यचरितं महाकाव्यम् (मुद्रितम् ) मू० गोलविद्या, गोलसूत्रञ्च, ( मुद्रितम् । भारतवर्ष-भूगोलः, (श्लोक--बद्धः ). ( श्रार्या-प्रवाहः ) पण्डित-गुरु-परम्परा-वर्णनं- दाशरथि-भरत चरितं नाटकं ( सप्ताङ्कम् ) भारतोद्धारः, प्रत्येकाध्यायस्य मल्यम्- इन्द्रियार्थ-मीमांसा (गद्यमयी.).... सौवरः ( स्वरमीमांसा ) गद्यमयः-... वर्णमाला-सूत्रम् , भाषा टीका सहितम् पाञ्चभैातिकम् ( दार्शनिकम् )... .MA RA । ) .... り ... - HARNAMA प्राप्ति स्थानम्- (१) अर्जुनराम योधराज- (.३ ) वा हरि कृष्ण दास गुप्त:---- संस्कृत-पाठशाला,काशी। कचौड़ी गली, काशी। २) तारादत्त पन्तः, रणवीर (४) शारदा-भवनम् , काशी संस्कृत पाठशाला, काशी। (५) सुप्रभात कार्यालयः काशी। (६) गौरीशंकर शर्मा, भास्कर पुस्तकालय-ठठेरीबाजार काशी ।

No text on this page.

Sri Suryacharit Mahakavyam

Author
Pandit Taradatta Panth
Other authors
Ccl
Title
Sri Suryacharit Mahakavyam
File name
Sri Suryacharit Mahakavyam
Text
OCR done
Citation
1867
Publisher
Sri Rameshwar Paatken Tara Yanthralay Mudritam
Language
Sanskrit
Pages
112
Library
Scl
DLI number
369256
Barcode
2020010008203.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
PAR Informatics, Hyderabad
VMLT id
E67WRCxyG1v
Download PDF

Sri Suryacharit Mahakavyam