Carnegie Mellon Univeristy

Panj-chatantrama~ 2nd And 3rd Tantra

Vishhnd-u Shaar^ma · 2006/02/8

PDF Proofread

Front matter

No text on this page.

The Department of Public Instruction, Bombay.
PANCHATANTRA II. & III.
EDITED, WITH NOTES,
BY
DR. G. BÜHLER, C.I.E.
FOURTH EDITION, REVISED.
5000 Copies.
Registered for Copyright under Act xxv. of 1867.
.
Bombay:
GOVERNMENT CENTRAL BOOK DEPÔT
1891
(All rights reserved.)
Price 6 Annas.
BOMBAY SANSKRIT SERIES No. 111

No text on this page.

5 10 अथेदमारभ्यते मित्रप्राप्तिकं नाम द्वितीयं तन्त्र यस्यायमादिमः श्लोकः । असाधना अपि प्राज्ञा बुद्धिमन्तो बहुश्रुताः । साधयन्त्याशु कार्याणि काकाखुमृगकूर्मवत् ।। १ ।। तद्यथानुश्रूयते । अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नाति- दूरेण महांश्छायावान्यग्रोधपादपो नानाविहंगोपभुक्तफलः कीटैरा- वृतकोटरश्छायाश्वासितपथिकजनसमूहश्च । अथवा युक्तम् । छायासुप्तमृगः शकुन्तिनिवर्विष्वग्विलुप्तच्छद: कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः । विश्रब्धं मधुपैनिपीतकुसुमः श्लाघ्यः सतां सत्तरुः सर्वाङ्गैर्बहुजीवसंघसुखदो भूभारभूतोपरः ॥ २॥ तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित्पा- णयात्रार्थ पुरमुद्दिश्य प्रचलितो यावत्पश्यति तावज्जालहस्तोतिकृष्ण- तनुः स्फुटितचरण ऊर्ध्वकेशो यमकिंकराकारो नरः संमुखो बभूव । 15 अथ तं दृष्ट्वा व्यचिन्तयत् । यदयं दुरात्माद्य ममाश्रयवटपादपसंमु- खोभ्येति । तन ज्ञायते किमद्य वटवासिनां विहंगानां विनाशो भवि- प्यति न वा । एवं बहुविधं विचिन्त्य तत्क्षणानिवृत्य तमेव वटपादपं गत्वा सर्वान्विहंगान्प्रोवाच | भो अयं दुरात्मा लुब्धको जालतण्डुल- हस्तः समभ्येति । तत्सर्वथा तस्य न विश्वसनीयम् । एष जालं प्रसार्य 20 तण्डुलान्प्रक्षेप्स्यति । ते भवद्भिः सर्वैरपि हालाहलसदृशा द्रष्टव्याः । एवं वदतस्तस्य स लुब्धकस्तत्र वटतल आगत्य जालं प्रसार्य सिन्दु- वारसदृशांस्तण्डुलान्प्रक्षिप्य नातिदूरं गत्वा निभृतः स्थितः । अथ ये पक्षिणस्तत्र स्थितास्ते लघुपतनकवाक्यार्गलया निवारितास्तांस्तण्डु- २ पञ्चतन्त्रम्. तन्त्रम् २. 5 10 लान्हालाहलाङ्करानिव वीक्षमाणा निभृतास्तस्थुः । अत्रान्तरे चित्र- ग्रीवो नाम कपोतराजः सहस्रपरिवारः प्राणयात्रार्थ परिभ्रमंस्तांस्त. ण्डुलान्दूरतोपि पश्यल्लंघुपतनकेन निवार्यमाणोपि जिहालौल्याङ्क्ष- णार्थमपतत्सपरिवारो निबद्धश्च । अथवा साध्विदमुच्यते । जिहालौल्यप्रसक्तानां जलमध्यनिवासिनाम् । अचिन्तितो वधोज्ञानां मीनानामिव जायते ॥ ३ ॥ अथवा न तस्य दोषोस्ति । उक्तं च । पौलस्त्यः कथमन्यदारहरणे दोष न विज्ञातवान् रामेणापि कथ न हेमहरिणस्यासंभवो लक्षितः। अक्षश्चापि युधिष्ठिरेण सहसा प्राप्तो ह्यनर्थः कथं प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते ॥ ४ ॥ तथा च ॥ कृतान्तपाशबद्धानां दैवोपहतचेतसाम् | बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ॥ ५ ॥ अत्रान्तरे लुब्धकस्तान्बद्धान्विज्ञाय प्रहष्टमनाः प्रोद्यतयष्टिस्तव- धार्थ प्राधावितः । चित्रग्रीवोप्यात्मानं सपरिवारं बद्धं मत्वा लुब्धक- मायान्तं दृष्ट्वा तान्कपोतानूचे | अहो न भेतव्यम् । उक्तं च | व्यसनेष्वेव सर्वेषु यस्य बुद्धिर्न हीयते । स तेषां पारमभ्येति तत्प्रभावादसंशयम् ॥ ६॥ तत्सर्वे हेलयोडीय सपाशजाला अस्यादर्शनं गत्वा मुक्ति प्रामुमः। नो चेद्भयविक्लवाः सन्तो हेलया समुत्पातं न करिष्यथ ततो मृत्युम- वाप्स्यथ । उक्तं च । तनवोप्यायता नित्यं तन्तवो बहुलाः समाः। बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् ॥ ७॥ तथानुष्ठिते लुब्धको जालमादायाकाशे गच्छतां तेषां पृष्ठतो भूमि- स्थापि पर्यधावत् । तत ऊर्ध्वाननः श्लोकमपठत् । 15 20 25 तन्त्रम् २. पञ्चतन्त्रम् 10 जालमादाय गच्छन्ति संहताः पक्षिणोप्यमी । यावच्च विवदिष्यन्ते पतिष्यन्ति न संशयः ॥ ८ ॥ लघुपतनकोपि प्राणयात्राक्रियां त्यक्त्वा किमत्र भविष्यतीति कुतू- हलात्तत्पृष्ठलमोनुसरति । अथ दृष्टेरगोचरतां गतान्विज्ञाय लुब्धको निराशः श्लोकमपठनिवृत्तश्च । न हि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमति नश्यति यस्य हि भवितव्यता नास्ति ॥ ९॥ तथा च । पराङ्मुखे विधौ चेत्स्यात्कथंचिद्रविणोदयः । तत्सोन्यदपि संगृह्य याति शड्डनिधिर्यथा ।। १० ॥ तदास्तां तावद्विहंगामिषालाभः । कुटुम्बवर्तनोपायभूतं जालमपि मे नष्टम् । चित्रग्रीवोपि लुब्धकमदर्शनीभूतं ज्ञात्वा तानुवाच । भो निवृत्तः स दुरात्मा लुब्धकः | तत्सर्वैरपि स्वस्थैर्गम्यतां महिलारोप्यस्य प्रागुत्तरदिग्भागे । तत्र मम सुहृद्धिरण्यको नाम मूषकः। सर्वेषां स पाशच्छेदं विधास्यति । उक्तं च | सर्वेषामेव मानां व्यसने समुपस्थिते । वामात्रेणापि साहाय्यं मित्रादन्यो न संदधे ॥ ११ ॥ एवं ते कपोताश्चित्रग्रीवेण संबोधिता महिलारोप्ये नगरे हिरण्य- कबिलदुर्ग प्रापुः । हिरण्यकोपि सहस्रमुखबिलदुर्ग प्रविष्टोकुतोभयः सुखेनास्ते । अथवा साध्विदमुच्यते । दंष्ट्राविरहितः सो मदहीनो यथा गजः । सर्वेषां जायते वश्यो दुर्गहीनस्तथा नृपः ॥ १२ ॥ तथा च ॥ न गमानां सहस्रेण न च लक्षण वाजिनाम् । तत्कर्म सिध्यते राज्ञां दुर्गेणैकेन यद्रणे ॥ १३ ॥ 15 20 25 पञ्चतन्त्रम्. तन्त्रम् २. 10 शतमेकोपि संधत्ते प्राकारस्थो धनुर्धरः । तस्माद्दुर्ग प्रशंसन्ति नीतिशास्त्रविदो जनाः ॥ १४ ॥ अथ चित्रग्रीवो बिलमासाद्य तारस्वरेण प्रोवाच । भो भो मित्र हिरण्यक सत्वरमागच्छ । महती मे व्यसनावस्था वर्तते । तच्छ्रुत्वा ॐ हिरण्यकोपि बिलदुर्गान्तर्गतः सन्प्रोवाच ! भोः को भवान् । किमर्थमा- यातः । किं कारणम् । कीदृक्ते व्यसनावस्थानम् । तत्कथ्यतामिति | तच्छ्रुत्वा चित्रग्रीव आह । भोश्चित्रग्रीवो नाम कपोतराजोहं ते सुहृत् । तत्सत्वरमागच्छ । गुरुतरं प्रयोजनमस्ति । तदाकर्ण्य पुलकिततनुः प्रहष्टात्मा स्थिरमनास्त्वरमाणो निष्क्रान्तः। अथवा साध्विदमुच्यते | सुहृदः स्नेहसंपन्ना लोचनानन्ददायिनः । गृहे गृहवतां नित्यमागच्छन्ति महात्मनाम् ॥ १५ ॥ तथा च । भवनेतिथयो यस्य समागच्छन्ति नित्यशः । यत्सौख्यं तस्य चित्ते स्यान्न तत्स्वर्गेपि जायते ॥ १६ ॥ अथ चित्रग्रीवं सपरिजनं बद्धमालोक्य हिरण्यकः सविषादमिद- माह । भोः किमेतत् । स आह । भो जाननपि किं पृच्छसि । उक्तं च यतः। यस्माच्च येन च यथा च यदा च यच्च यावच्च यत्र च शुभाशुभमात्मकर्म । तस्माच तेन च तथा च तदा च तच्च तावच्च तत्र च कृतान्तवशादुपैति ॥ १७ ॥ तत्याप्तं मयैतद्वयसनं जिह्वालोल्यात् । तत्त्वं पाशमोक्षं कुरु मावि- लम्बम् । तदाकर्ण्य हिरण्यकः प्राह । अध्यर्धाद्योजनशतादामिषं वीक्षते खगः । सोपि पार्श्वस्थितं दैवाइन्धनं न च पश्यति ॥ १८ ।। 15 20 25 तन्त्रम् २. पञ्चतन्त्रम्. ५ 10 तथा च । रविनिशाकरयोग्रहपीडनं गजभुजंगविहंगमबन्धनम् । मतिमतां च निरीक्ष्य दरिद्रतां विधिरहो बलवानिति मे मतिः ॥ १९ ॥ तथा च । व्योमैकान्तविहारिणोपि विहगाः संप्रामुवन्त्यापदं बध्यन्ते निपुणैरगाधसलिलान्मीनाः समुद्रादपि । दुर्नीतं किमिहास्ति किं च सुकृतं कः स्थानलाभे गुणः कालः सर्वजनान्प्रसारितकरी गृह्णाति दूरादपि ॥ २० ॥ एवमुक्त्वा चित्रग्रीवस्य पाशं छेत्तुमुद्यतं स तमाह । भद्र मा मैवं कुरु | प्रथमं मम भृत्यानां पाशच्छेदं कुरु तदनु ममापि च । तच्छु- त्वा कुपितो हिरण्यकः प्राह | भो न युक्तमुक्तं भवता यतः स्वामि- नोनन्तरं भृत्याः । स आह । भद्र मा मैवं वद | मदाश्रयाः सर्व एते वराकाः । अपरं स्वकुटुम्बं परित्यज्य समागताः। तत्कथमेतावन्मात्र- मपि संमानं न करोमि | उक्तं च । यः संमानं समाधत्ते भृत्यानां क्षितिपोधिकम् । वित्ताभावेपि तं दृष्ट्वा ते त्यजन्ति न कर्हि चित् ।। २१ ॥ तथा च । विश्वासः संपदा मूलं तेन यूथपतिर्गजः। सिंहो मृगाधिपत्येपि न मृगैरुपयुज्यते ॥ २२ ॥ अपरं मम कदाचित्पाशच्छेदं कुर्वतस्ते दन्तभङ्गो भवति । अथवा दुरात्मा लुब्धकः समभ्येति । तन्नूनं मम नरकपात एव । उक्तं च । सदाचारेषु भृत्येषु संसीदत्सु च यः प्रभुः। सुखी स्यानरकं याति परत्रह च सीदति ॥२३॥ तच्छ्रुत्वा प्रहष्टो हिरण्यकः प्राह । भो वेद्यहं राजधर्मम् । परं 15 20 25 ६ पञ्चतन्त्रम्. तन्त्रम् २. 5 10 मया तव परीक्षा कृता | तत्सर्वेषां पूर्व पाशच्छेदं करिष्यामि । भवा- नप्यनेन विधिना बहुकपोतपरिवारो भविष्यति । उक्तं च । कारुण्यं संविभागच यस्य भृत्येषु सर्वदा । संभवेत्स महीपालस्त्रैलोक्यस्यापि रक्षणे ॥ २४ ॥ एवमुक्त्वा सर्वेषां पाशच्छेदं कृत्वा हिरण्यकश्चित्रग्रीवमाह । मित्र गम्यतामधुना स्वाश्रये । भूयोपि व्यसने प्राप्ते समागन्तव्यम् । इति तान्प्रेष्य पुनरपि दुर्ग प्रविष्टः । चित्रग्रीवोपि सपरिवारः स्वाश्रयमग- मत् । अथवा साध्विदमुच्यते । मित्रवान्साधयत्यर्थान्दुःसाध्यानपि वै यतः । तस्मान्मित्राणि कुर्वीत समानान्येव चात्मनः ॥ २५॥ लघुपतनकोपि सर्व तं चित्रग्रीवबन्धमोक्षमवलोक्य विस्मितमना व्यचिन्तयत् । अहो बुद्धिरस्य हिरण्यकस्य शक्तिश्च दुर्गस्य सामग्री च। तदीदृगेव विधिर्विहंगानां बन्धनमोक्षात्मकः । अहं च न कस्य- चिद्विश्वसिमि चलप्रकृतिश्च । तथाप्येनं मित्रं करोमि । उक्तं च । अपि संपूर्णतायुक्तैः कर्तव्याः सुहृदो बुधैः । नदीशः परिपूर्णोपि चन्द्रोदयमपेक्षते ।। २६ ॥ एवं संप्रधार्य पादपादवतीर्य बिलद्वारमाश्रित्य चित्रग्रीववच्छब्देन हिरण्यकं समाहूतवान् । एह्येहि भो हिरण्यक एहि । तच्छब्दं श्रुत्वा हिरण्यको व्यचिन्तयत् । किमन्योपि कश्चित्कपोतो बन्धनशेषस्तिष्ठति 20 येन मां व्याहरति । आह च | भोः को भवान् । स आह | अहं लघुपतनको नाम वायसः। तच्छ्रुत्वा विशेषादन्तींनो हिरण्यक आह । भो द्रुतं गम्यतामस्मात्स्थानात् । वायस आह । अहं तव पार्श्व गुरुकार्येण समागतः । तत्किं न क्रियते मया सह दर्शनम् । हिरण्यक आह | नो मेस्ति त्वया सह संगमेन प्रयोजनमिति । स आह । भो- 25 चित्रग्रीवस्य मया तव सकाशात्पाशमोक्षणं दृष्टम् । तेन मम महती प्रीतिः संजाता | तस्कदाचिन्ममापि बन्धने जाते तव पार्थान्मुक्तिर्भ- वति | तक्रियतां मया सह मैत्री | हिरण्यक आह । अहो त्वं मोक्ता। 15 तन्वम् २. पञ्चतन्त्रम्. अहं ते भोज्यभूतः । तत्का त्वया सह मम मैत्री | तद्गम्यतां मैत्रीवि. रोधभावात् । उक्तं च । ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोर्मेत्री विवाहश्च न तु पुष्टविपुष्टयोः ॥ २७॥ तथा च । यो मित्रं कुरुते मूढ आत्मनोसदृशं कुधीः । हीनं वाप्यधिकं वापि हास्यतां यात्यसौ जनः॥ २८॥ तद्गम्यतामिति । वायस आह | भो हिरण्यक एषोहं तव दुर्गद्वार उपविष्टः । यदि त्वं मैत्रों करोषि ततोहं प्राणयात्रां करिष्यामि | अ- न्यथा प्रायोपवेशनं मे स्यादिति | हिरण्यक आह । भोस्त्वया वैरिणा 10 सह कथं मैत्रों करोमि । उक्तं च । वैरिणा न हि संदध्यात्सुश्लिष्टेनापि संधिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ २९ ॥ वायस आह । भोस्त्वया सह दर्शनमपि नास्ति कुतो वैरम् । तक्किमनुचितं वदसि । हिरण्यक आह । द्विविधं वैरं भवति सहज 15 कृत्रिमं च | तत्सहजरी त्वमस्माकम् । उक्तं च । कृत्रिमं नाशमभ्येति वैरं द्राकृत्रिमर्गुणैः । प्राणदानं विना नैव सहज याति संक्षयम् ॥ ३० ॥ वायस आह | भो द्विविधस्य वैरस्य लक्षणं श्रोतुमिच्छामि । तत्क- थ्यताम् । हिरण्यक आह । भोः कारणेन निर्वृत्तं कृत्रिमम् । तत्तद- 20 होपकारकरणाद्गच्छति । स्वाभाविकं च पुनः कथमपि न गच्छति । नद्यथा नकुलसर्पाणां शष्पभुखायुधानां जलवह्नयोर्देवदैत्यानां सार- मेयमार्जाराणामीश्वरदरिद्राणां सपत्नीनां सिंहगजानां लुब्धकहरिणानां श्रोत्रियभ्रष्टक्रियाणां मूर्खपण्डितानां पतिव्रताकुलटानां सज्जनदुर्जना- नाम् । न कश्चित्केनापि व्यापादितः । तथापि प्राणान्संतापयन्ति स्म | 25 वायस आह । तदकारणमेतत् । श्रूयतां मे वचनम् । 2 ८ पञ्चतन्त्रम्. तन्त्रम् २. 5 10 कारणान्मित्रतां याति कारणाद्याति शत्रुताम् । तस्मान्मित्रत्वमेवात्र योज्यं वैरं न धीमता ॥ ३१ ॥ तस्मात्कुरु मया सह समागमं मित्रधर्मार्थम् । हिरण्यक आह । भोः श्रूयतां नीतिसर्वस्वम् । सकृदुष्टमपीष्टं यः पुनः संधातुमिच्छति | स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ ३२ ॥ अथवा गुणवानहं न मे कश्चिद्वैरयातनां करिष्यत्येतदपि न संभा- व्यम् । उक्तं च । सिंहो व्याकरणस्य कर्तुरहरयाणान्प्रियान्पाणिने- मर्मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनि जैमिनिम् । छन्दोज्ञाननिधि जघान मकरो वेलातटे पिङ्गल- मज्ञानावृतचेतसामतिरुषां कोस्तिरश्चां गुणैः ।। ३३ ।। वायस आह । अस्त्वेतत्तथापि श्रूयताम् । उपकाराच लोकानां निमित्तान्मृगपक्षिणाम् । भयाल्लोभाच्च मूर्खाणां मैत्री स्यादर्शनात्सताम् ॥ ३४ ।। तत्साधुरहम् । अपरं त्वां शपथादिभिर्निर्भयं करिष्यामि । स आह । न मेस्ति ते शपथैः प्रत्ययः । उक्तं च । शपथैः संधितस्यापि न विश्वासं व्रजेद्रिपोः । अद्रोहशपथं कृत्वा वृत्रः शक्रेण सूदितः ॥ ३५ ।। न विश्वासं विना शत्रुर्देवानामपि सिध्यति । विश्वासाचिदशेन्द्रेण दितेर्गर्भो विदारितः ।। ३६ ॥ अन्यच । बृहस्पतेरपि प्राज्ञस्तस्मान्नैवात्र विश्वसेत् । य इच्छेदात्मनो वृद्धिमायुप्यं च सुखानि च ॥ ३७ ।। तथा च । सुसूक्ष्मेणापि च्छिद्रेण प्रविश्याभ्यन्तरं रिपुः । नाशयेच्च शनै: पश्चात्प्लवं सलिलपूरवत् ॥ ३८ ॥ 15 20 25 तन्त्रम् २. पञ्चतन्त्रम्. न विश्वसेदविश्वस्ते विश्वस्तेपि न विश्वसेत् । विश्वासाद्भयमुत्पन्न मूलान्यपि निकृन्तति ।। ३९ ॥ न बध्यते ह्यविश्वस्तो दुर्बलोपि बलोत्कटैः । विश्वस्ताश्चाशु बध्यन्ते बलवन्तोपि दुर्बलैः ॥ ४० ॥ सुकृत्यं विष्णुगुप्तस्य मित्राप्तिर्भार्गवस्य च | बृहस्पतेरविश्वासो नीतिसंधिस्त्रिधा स्थितः ॥ ४१ ॥ तथा च । महताप्यर्थसारेण यो विश्वासं समागतः । भार्यासु सुविरक्तासु तदन्तं तस्य जीवितम् ॥ ४२ ॥ तच्छुत्वा लघुपतनकोपि निरुत्तरश्चिन्तयामास । अहो बुद्धिप्राग- 10 ल्भ्यमस्य नीतिविषये । अथवात एवास्योपरि मैत्रीपक्षपातः । स आह । भो हिरण्यक। सख्यं साप्नपदीनं भी इत्याहुर्विबुधा जनाः । बलात्वं मित्रतां प्राप्तो वचनं मम तच्छृणु ।।४३॥ दुर्गस्थेनापि त्वया मया सह नित्यमेवालापो गुणदोष सुभाषितगो- 15 टीकथादिः सर्वदा कर्तव्यो यद्येवं न विश्वसिषि । तच्छुत्वा हिरण्य- कोपि व्यचिन्तयत् । विदग्धवचनोयं दृश्यते लघुपतनकः सत्यवाक्य- श्व | तद्युक्तमनेन मैत्रीकरणम् । परं कदाचिन्मम दुर्गे चरणपातोपि न कार्यः। उक्तं च । भीतभीतः पुरा शत्रुर्मन्दमन्दं विसर्पति । भूमौ प्रहेलया पश्चाज्जारहस्तोङ्गनास्विव ।। ४४ ॥ तच्छ्रुत्वा वायस आह । भद्र एवं भवतु | ततः प्रभृति हौ तावपि सुभाषितगोष्ठीसुखमनुभवन्तौ तिष्ठतः । परस्परं कृतोपकारौ कालं नयतः । लघुपतनकोपि मांस शकलानि मेध्यानि बलिशेषाण्यन्यानि वत्सलाहृतानि पक्कानविशेषाणि हिरण्यकार्थमानयति । हिरण्यकोपि 25 नण्डुलानन्यांश्च भक्षविशेषाल्लंघुपतनकार्थ रात्रावाहृत्य तत्कालाया- तस्यार्पयति । अथवा युज्यते इयोरप्येतत् । उक्तं च । 20 पञ्चतन्त्रम्. तन्त्रम् २. ज ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ ४५ ॥ नोपकारं विना प्रीतिः कथंचित्कस्यचिद्भवेत् । उपयाचितदानेन यतो देवा अभीष्टदाः ॥ ४६ ॥ तावत्तीतिर्भवेल्लोके यावहानं प्रदीयते । वन्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् ।। ४७ ।। पश्य दानस्य माहात्म्यं सद्यः प्रत्ययकारकम् । यत्प्रभावादपि द्वेषी मित्रतां याति तत्क्षणात् ॥ ४८ ।। पुत्रादपि प्रियतरं खलु तेन दानं मन्ये पशोरपि विवेकविवर्जितस्य । दत्ते खलेपि निखिलं खलु येन दुग्ध नित्यं ददाति महिषी ससुतापि पश्य ॥ ४९ ॥ किंबहुना । प्रीति निरन्तरां कृत्वा दुर्भद्यां नखमांसवत् । मूषको वायसचैव गतौ कृत्रिममित्रताम् ॥ ५० ॥ एवं स मूषकस्तदुपकाररचितस्तथा विश्वस्तो यथा तस्य पक्षमध्ये प्रविष्टस्तेन सह सर्वदैव गोष्ठीं करोति । अथान्यस्मिन्नहनि वायसो- श्रुपूर्णनयनः समभ्येत्य सगद्गदं तमुवाच । भद्र हिरण्यक विरक्तिः संजाता में सांप्रतं देशस्यास्योपरि । तदन्यत्र यास्यामि । हिरण्यक 20 आह । भद्र किं विरक्तेः कारणम् । स आह । भद्र श्रूयताम् । अत्र देशे महत्यानावृष्टया दुर्भिक्षं संजातम् । दुर्भिक्षत्वाज्जनो बुभुक्षापी- डितः कोपि बलिमात्रमपि न प्रयच्छति | अपरं गृहे गृहे बुभुक्षितज- नैर्विहंगानां बन्धनाय पाशाः प्रगुणीकृताः सन्ति । अहमप्यायुःशेष- तया पाशेन बद्ध उद्धरितोस्मि । एतद्विरक्तेः कारणम् । तेनाहं विदेशं चलित इति वाष्पमोक्षं करोमि । हिरण्यक आह । अथ भवान्क्क प्रस्थितः । स आह | अस्ति दक्षिणापथे वनगहनमध्ये महासरः । तत्र त्वत्तोधिकः परमसुहत्कर्मों मन्थरको नाम । स च मे मत्स्यमांसख- 15 25 तन्त्रम् २. पञ्चतन्त्रम्. ११ 10 ण्डानि दास्यति । तद्भक्षणात्तेन सह सुभाषितगोष्ठीसुखमनुभवन्सुखेन कालं नेष्यामि । नाहमत्र विहंगानां पाशबन्धनेन क्षयं द्रष्टुमि- च्छामि । उक्तं च । कोतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानों कः परः प्रियवादिनाम् ।। ५१॥ । विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान्सर्वत्र पूज्यते ।। ५२ ॥ तथा च । अनावृष्टिहते देशे सस्ये च प्रलयं गते । धन्यास्तात न पश्यन्ति देशभङ्गं कुलक्षयम् ।। ५३ ।। हिरण्यक आह । यद्येवं तदहमपि त्वया सहागमिष्यामि । ममापि महदुःखं वर्तते । वायस आह । भोस्तव किं दुःखम् । तत्कथय । हिर- ण्यक आह । भो बहु वक्तव्यमस्त्यत्र विषये। तत्रैव गत्वा सर्व सवि- स्तरं कथयिष्यामि | वायस आह । अहं तावदाकाशगतिस्तत्कथं भवतो मया सह गमनम् । स आह । यदि मे प्राणान्रक्षसि तदा स्वपृ- 13 ठमारोप्य मां तत्र प्रापयिष्यसि । नान्यथा मम गतिरस्ति । तच्छ्रुत्वा सानन्दं वायस आह । यद्येवं तद्धन्योहं यद्भवतापि सह तत्र कालं नयामि । अहं संपातादिकानष्टावुड्डीनगतिविशेषान्वेनि । तत्समारोह मम पृष्ठं येन सुखेन त्वां तत्सरः प्रापयामि हिरण्यक आह | उड्डीनानां नामानि श्रोतुमिच्छामि | स आह । संपातं विप्रपातं च महापातं निपातनम् । वर्क तिर्यक्तथा चोर्ध्वमष्टमं लघुसंज्ञकम् ।। ५४ ॥ तच्छ्रुत्वा हिरण्यकस्तत्क्षणादेव तदुपरि समारूढः । सोपि शनैःश- नैस्तमादाय संपातोड्डीनरस्थितः क्रमेण तत्सरः प्राप्तः । ततो लघुपतनकं मूषकाविष्ठितं विलोक्य दूरतोपि देशकालविदसामान्यकाकोयमिति 25 ज्ञात्वा सत्वरं मन्थरको जले प्रविष्टः । लघुपतनकोपि तीरस्थतरुको- टरे हिरण्यकं मुक्त्वा शाखाममारुह्य तारस्वरेण प्रोवाच । भो मन्थरक 20 १२ पञ्चतन्त्रम्. तन्त्रम् २. 5 10 आगच्छागच्छ । तव मित्रमहं लघुपतनको नाम वायसश्चिरात्सोत्क- ण्ठः समायातः । तदागत्यालिङ्गय माम् । उक्तं च । किं चन्दनैः सकपूरैस्तुहिनैः कि च शीतलैः । सर्वे ते मित्रगात्रस्य कलां नाहन्ति षोडशीम् ।। ५५॥ तच्छ्रुत्वा निपुणतरं ज्ञात्वा सत्वरं सलिलानिष्क्रम्य पुलकिततनुरा- नन्दाश्रुपूरितनयनो मन्थरकः प्रोवाच । एह्येहि मित्र आलिङ्गय माम् । चिरकालान्मया त्वं सम्यग ज्ञातः । तेनाहं सलिलान्तः प्रविष्टः । उक्तं च। यस्य न ज्ञायते वीर्य न कुलं न विचेष्टितम् । न तेन संगतिं कुर्यादित्युवाच बृहस्पतिः ॥ ५६ ।। एवमुक्ते लघुपतनको वृक्षादवतीर्य तमालिङ्गितवान् । अथवा साविदमुच्यते । अमृतस्य प्रवाहैः किं कायक्षालनसंभवैः । चिरान्मित्रपरिष्वङ्गो योसौ मूल्यविवर्जितः ॥ ५७ ॥ एवं बावपि तो विहितालिङ्गनौ परस्परं पुलकितशरीरौ वृक्षादधः समुपविष्टौ प्रोचतुरात्मचरित्रवृत्तान्तम् । हिरण्यकोपि मन्थरकस्य प्रणामं कृत्वा वायसाभ्यासे समुपविष्टः। अथ तं समालोक्य मन्थरको लघुपतनकमाह । भोः कोयं मूषकः । कस्मात्त्वया भक्षभूतोपि पृष्ठमारोप्यानीतः । तन्नात्र स्वल्पकारणेन भाव्यम् । तच्छ्रुत्वा लघुप- तनक आह । भो हिरण्यको नाम मूषकोयम् । मम सुहृद्वितीयमिव जीवितम् । तल्किं बहुना । पर्जन्यस्य यथा धारा यथा च दिवि तारकाः । सिकतारेणवो यद्वत्संख्यया परिवर्जिताः ॥ ५८ ॥ गुणाः संख्यापरित्यक्तास्तबदस्य महात्मनः । परं निर्वेदमापन्नः संप्राप्तोयं तवान्तिकम् ।। ५९ ।। मन्थरक आह । किमस्य वैराग्यकारणम् । वायस आह। पृष्टो मया। परमनेनाभिहितम् । यद्बहु वक्तव्यमस्ति तत्रैव गतः कथयिष्यामि । 15 20 25 तन्त्रम् २. पञ्चतन्त्रम्. १३ ममापि न निवेदितम् । तद्भद्र हिरण्यक इदानीं निवेद्यतामुभयोर- प्यावयोस्तदात्मनो वैराग्यकारणम् । सोब्रवीत् । कया १ अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे मठायतनं भगवतः श्रीमहादेवस्य । तत्र च ताम्रचूडो नाम : परिव्राजकः प्रतिवसति स्म । स च नगरे भिक्षाटनं कृत्वा प्राणयात्रां समाचरति.। भिक्षाशेषं च तत्रैव भिक्षापात्रे निधाय तद्भिक्षापात्रं नागदन्ते विलम्ब्य पश्चाद्रात्रौ स्वपिति | प्रत्यूषे च तदन्नं कर्मकराणां दत्त्वा सम्यक्तत्रैव देवतायतने संमार्जनोपलेपनमण्डनादिकं समाज्ञाप- यति । अन्यस्मिन्नहनि मम बान्धवैर्निवेदितम् । स्वामिन् मठायतने 10 सिद्धमनं मूषकभयात्तत्रैव भिक्षापात्रे निहितं नागदन्तेवलम्बित तिष्ठति सदैव । तद्वयं भक्षयितुं न शक्नुमः । स्वामिनः पुनरगम्यं किमपि नास्ति । तत्कि वृथाटनेनान्यत्र । अद्य तत्र गत्वा यथेच्छं भुक्ष्महे तव प्रसादात् । तदाकाहं सकलयूथपरिवृतस्तत्क्षणादेव तत्र गतः । उत्पत्य च तस्मिन्भिक्षापात्रे समारूढः। तत्र भक्ष्यविशेषा-15 णि सेवकानां दत्त्वा पश्चात्स्वयमेव भक्षयामि । सर्वेषां तृप्ती जातायां भूयः स्वगृहं गच्छामः । एवं नित्यमेव तदन्नं भक्षयामि | परिव्राज- कोपि यथाशक्ति रक्षति । परं यदैव निद्रान्तरितो भवति तदाहं तत्रारुह्यात्मकृत्यं करोमि । अथ कदाचित्तेन मम रक्षणार्थ महान्यत्न: 20 कृतः । जर्जरवंशः समानीतः । तेन सुप्तापि मम भयाद्भिक्षापात्रं ताडयति । अहमप्यभक्षितेप्यन्ने प्रहारभयादपसर्पामि । एवं तेन सह सकलां रात्रि विग्रहपरस्य कालो ब्रजति | अथान्यस्मिनहनि तस्य मठे बृहत्स्फिङ्गामा परिव्राजकस्तस्य सुहत्तीर्थयात्राप्रसङ्गेन पान्थः प्राघूर्णकः समायातः । तं दृष्ट्वा प्रत्युत्थानविधिना संभाव्य प्रतिपत्ति- पूर्वकमभ्यागतक्रियया नियोजितः । ततश्च रानावेकत्र कुशसंस्तरे25 द्वावपि प्रसुप्तौ धर्मकथां कथयितुमारब्धौ । अथ बृहत्स्फिक्कथागोष्ठीषु १४ पञ्चतन्त्रम्. तन्त्रम् २. 10 स ताम्रचूडो मूषकत्रासाद्व्याक्षिप्तमना जर्जरवंशेन भिक्षापात्रं ताडयंस्त- स्य शून्यं प्रतिवचनं प्रयच्छति । तन्मना न किंचिदुदाहरति । अथा- सावभ्यागतः परं कोपमुपागतस्तमुवाच । भोस्ताम्रचूड परिज्ञातस्त्वं सम्यङ्ग सुहृत् । तेन मया सह साहादं न जल्पसि । तद्रात्रावपि त्वदीयं मठं त्यक्त्वान्यत्र मठे यास्यामि । उक्तं च । एह्यागच्छ समाश्रयासनमिदं कस्माच्चिरादृश्यसे का वार्ता अतिदुर्बलोसि कुशलं प्रीतोस्मि ते दर्शनात् । एवं ये समुपागतान्प्रणयिनः प्रहादयन्त्यादरात् तेषां युक्तमशङ्कितेन मनसा हाणि गन्तुं सदा ॥ ६ ॥ गृही यवागतं दृष्ट्वा दिशो वीक्षेत वाप्यधः। तत्र ये सदने यान्ति ते शृङ्गराहिता वृषाः ।। ६१ ॥ नाभ्युत्थानक्रिया यत्र नालापा मधुराक्षराः । गुणदोषकथा नैव तत्र हर्ये न गम्यते ॥ ६२ ।। तदेकमठप्राप्त्यापि त्वं गार्वतः । त्यक्तः सुहृत्स्नेहः । नैतदेसि यत्त्वया मठाश्रयव्याजेन नरकोपार्जना कृता | उक्तं च । नरकाय मतिस्ते चेत्पौरोहित्यं समाचर । वर्ष यावत्किमन्येन मठचिन्ता दिनत्रयम् ॥ ६३ ॥ तन्मूर्ख शोचितव्यस्त्वं गर्व गतः । तदहं त्वदीयं मउं परित्यज्य यास्यामि | अथ तच्छ्रुत्वा भयत्रस्तमनास्ताम्रचूडस्तमुवाच । भो 20 भगवन् मा मैवं वद । न त्वत्समोन्यो मम सुहृत्कश्चिदस्ति | परं तच्छूयतां गोष्ठीशैथिल्यकारणम् । एष दुरात्मा मूषकः प्रोन्नतस्थाने धृतमपि भिक्षापात्रमुत्प्लुत्यारोहति भिक्षाशेषं च तत्रस्थं भक्षयति । तदभावादेव मठे मार्जनक्रियापि न भवति । तन्मूषकत्रासार्थमेतेन वंशेन भिक्षापात्रं मुहुर्मुहस्ताडयामि । नान्यत्कारणमिति | अपरमे- 25 तत्कुतूहलं पश्यास्य दुरात्मनो यन्मार्जारमर्कटादयोपि तिरस्कृता अस्योत्पतनेन । बृहत्स्फिगाह । अथ ज्ञायते तस्य बिलं कस्मिस्तत्म- 15

तन्त्रम् २.
पञ्चतन्त्रम्.
१५
देशे । ताम्रचूड आह । भगवन् न वेद्मि सम्यक् । स आह | नूनं
निधानस्योपरि तस्य बिलम् । निधानोष्मणा प्रकूदते । उक्तं च |
ऊष्मापि वित्तजो वृद्धिं तेजो नयति देहिनाम् ।
किं पुनस्तस्य संभोगस्त्यागकर्मसमन्वितः ॥ ६४ ॥
तथा च ।
नाकस्माच्छाण्डिलीमाता विक्रीणाति तिलैस्तिलान् ।
लुञ्चितानितरैर्येन कार्यमत्र भविष्यति ।। ६५ ।।
ताम्रचूड आह । कथमेतत् । स आह ।
कथा 2.
यदहं कस्मिंश्चित्स्थाने प्रावृद्धाले व्रतग्रहणनिमित्तं कंचिद्राह्मणं 10
वासार्थ प्रार्थितवान् । ततश्च तद्वचनात्तेनापि शुभूषितः मुखेन देवा-
र्चनपरस्तिष्ठामि । अथान्यस्मिनहनि प्रत्यूषे प्रबुद्धोहं ब्राह्मणब्राह्मणी-
संवादे दत्तावधानः शृणोमि । तत्र ब्राह्मण आह । ब्राह्मणि प्रभाते
दक्षिणायनसंक्रान्तिरनन्तदानफलदा भविष्यति । तदहं प्रतिग्रहार्थ ग्रा-
मान्तरं यास्यामि | त्वया ब्राह्मणैकस्य भगवतः सूर्यस्योद्देशेन किंचिद्भो- 15
जनं दातव्यम् । अथ तच्छ्रुत्वा ब्राह्मणी परुषतरवचनैस्तं भर्त्सयमाना
प्राह । कुतस्ते दारिद्र्योपहतस्य भोजनप्राप्तिः । तत्किं न लज्जस एवं
ब्रुवाणः । किंच न मया तव हस्तलमया क्वचिदपि लब्धं सुखं न
मिष्टानस्यास्वादनं न च हस्तपादकण्ठादिभूषणम् । तछुत्वा भयत्रस्तोपि
विप्रो मन्दमन्दं प्राह । ब्राह्मणि नैतद्युज्यते वक्तुम् । उक्तं च | 20
प्रासादपि तदर्ध च कस्मानो दीयतार्थषु ।
इच्छानुरूपो विभवः कदा कस्य भविष्यति ।। ६६ ।।
ईश्वरा भूरिदानेन यल्लभन्ते फलं किल ।
दरिद्रस्तच्च काकिण्या प्रामुयादिति नः श्रुतिः ॥ ६७ ॥
दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्धया । 25
कूपोन्तःस्वादुजलः प्रीत्यै लोकस्य न समुद्रः॥ ६८॥

१६ पञ्चतन्त्रम्. तन्त्रम् २. तथा च॥ अकृतत्यागमहिनो मिथ्या किं राजराजशब्देन | गोतारं न निधीनां कथयन्ति महेश्वरं विबुधाः ॥ ६९।। अपि च। सदादानः परिक्षीणः शस्त एव करीश्वरः । अदानः पीनगात्रापि निन्द्य एव हि गर्दभः ॥ ७० ॥ यच्छञ्चलमपि जलदो वल्लभतामेति सकललोकस्य । नित्यं प्रसारितकरो मित्रोपि न वीक्षितुं शक्यः ॥ ७१ ॥ एवं ज्ञात्वा दारिद्र्याभिभूतैरपि स्वल्पात्स्वल्पतरं काले पात्रे च देयम् । उक्तं च॥ सत्पात्रं महती श्रद्धा देशकालं यथोचितम् । यहीयते विवेक स्तदनन्ताय कल्पते ॥ ७२॥ तथा च । अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् । अतितृष्णाभिभूतस्य चूडा भवति मस्तके ॥ ७३ ॥ ब्राह्मण्याह । कथमेतत् । स आह । 10 15 कथा 3. अस्ति कस्मिंश्चिहनोद्देशे पुलिन्दः । स च पापाद्ध कर्तुं प्रस्थितः । अथ तेन प्रसर्पता महानञ्जनपर्वतशिखराकारः क्रोडः समासादितः । 20 तं दृष्ट्वा कर्णान्ताकृष्टनिशितसायकेन समाहतः । तेनापि कोपाविष्टेन चेतसा बालेन्दुद्युतिना दंष्ट्राग्रेण पाटितोदरः पुलिन्दो गतासुर्भूतलेप- तत् | अथ लुब्धकं व्यापाद्य सूकरोपि शरप्रहारवेदनया पञ्चत्वं गतः। एतस्मिन्नन्तरे कश्चिदासन मृत्युः शृगाल इतस्ततः परिभ्रमंस्तं प्रदेश- माजगाम । यावद्वराहपुलिन्दौ द्वावपि पश्यति तावत्महष्टो व्यचिन्त- 25 यत् । भोः सानुकूलो मे विधिः । तेनैतदप्यचिन्तितं भोजनमुपस्थितम् । अथवा साध्विदमुच्यते ।

तन्त्रम् २. पञ्चतन्त्रम्. १७ अकृतेप्युद्यमे पुंसामन्यजन्मकृतं फलम् शुभाशुभं समभ्येति विधिना संनियोजितम् ।। ७४ ॥ तथा च। यस्मिन्देशे च काले च वयसा यादृशेन च । कृतं शुभाशुभं कर्म तत्तथा तेन भुज्यते ॥ ७९ ॥ तदहं तथा भक्षयामि यथा बहून्यहानि मे प्राणयात्रा भवति । तत्तावदेवं स्नायुपाशं धनुष्कोटिगतं भक्षयामि | उक्तं च । शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् । रसायनमिव प्रा हेलया न कदाचन ॥ ७६ ॥ एवं मनसा निश्चित्य चापचटितकोोर्ट मुखे प्रक्षिप्य स्नायुं भक्षितुं 10 प्रवृत्तः । ततश्च कर्तिते पाशे तालुदेशं विदार्य चापकोटिर्मस्तकमध्येन निष्क्रान्ता | सोपि मृतः । अतोहं ब्रवीमि । अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् । आतितृष्णाभिभूतस्य चूडा भवति मस्तके ॥ ७७ ॥ अथैवं सा तेन प्रबोधिता ब्राह्मण्याह । यद्येवं तदस्ति मे गृहे स्तोक- 15 तिलराशिः । ततस्तिलाल्लुञ्चित्वा तिलचूर्णेन ब्राह्मणं भोजायप्यामीति | ततस्तद्वचनं श्रुत्वा ब्राह्मणो ग्रामं गतः । सापितिलानुष्णोदकेन संमद्य कुटित्वा सूर्यातपे दत्तवती । अत्रान्तरे तस्या गृहकर्मव्यग्रायास्तिलानां मध्ये कश्चित्सारमेयो मूत्रोत्सर्ग चकार । तं दृष्ट्वा सा चिन्तितवती । अहो नैपुण्यं पश्य पराङ्मुखीभूतस्य विधेर्यदेते तिला अभोज्याः कृताः। 20 तदहमेतान्समादाय कस्यचिद्गृहं गत्वा लुञ्चितैरलुञ्चितानानयामि । सर्वोपि जनोनेन विधिना प्रदास्यतीति । अथ यस्मिन्गृहेहं भिक्षार्थ प्रविष्टस्तत्र गृहे सापि तिलानादाय प्रविष्टा विक्रय कर्तुम् । आह च । गृह्णातु कश्चिदलुञ्चित ञ्चितांस्तिलान् । अथ तद्गृहगृहिणी गृहं प्र- विष्टा यावदलुञ्चितै ञ्चितान्गृह्णाति तावदस्याः पुत्रेण कामन्दकि- 25 शास्त्रं दृष्ट्वा व्याहतम्। मातः अग्राह्याः खल्विमे तिलाः । नास्या अलु- १८ पञ्चतन्त्रम्. तन्त्रम् २. ञ्चितैलुञ्चिता ग्राह्याः । कारणं किंचिद्भविष्यति । तेनैषालुञ्चितैलृच्चि- तान्प्रयच्छति । तच्छ्रुत्वा तया परित्यक्तांस्ते तिलाः। अतोहं ब्रवीमि । नाकस्माच्छाण्डिलीमाता विक्रीणाति तिलैस्तिलान् । लुञ्चितानितरैर्येन कार्यमत्र भविष्यति || ७८ ॥ एतदुत्त्वा स भूयोपि प्राह | अथ ज्ञायते तस्य कमणमार्गः। ताम्र- चूड आह । भगवन् ज्ञायते यत एकाकी न समागच्छति । किं त्वसं- ख्ययूथपरिवृतः पश्यतो मे परिभ्रमन्नितस्ततः सर्वजनेन सहागच्छति याति च । अभ्यागत आह । अस्ति किंचित्खनित्रकम् । स आह । बाढमस्ति । एषा सर्वलोहमयी स्वहस्तिका । अभ्यागत आह । तर्हि 10 प्रत्यूषे त्वया मया सह बोद्धव्यं येन द्वावपि जनचरणामलिनायां भूमौ तत्पदानुसारेण गच्छावः । मयापि तद्वचनमाकर्ण्य चिन्तितम् । अहो विनष्टोस्मि यतोस्य साभिप्रायवांसि श्रूयन्ते । नूनं यथा निधानं ज्ञातं तथा दुर्गमप्यस्माकं ज्ञास्यति । एतदभिप्रायादेव ज्ञायते | उक्तं च । 15 .. 20 सकृदपि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य । हस्ततुलयापि निपुणाः पलप्रमाणं विजानन्ति ॥ ७९ ॥ वाञ्छेव सूचयति पूर्वतरं भविष्यं पुंसां यदन्यतनुजं त्वशुभं शुभं वा । विज्ञायते शिशुरजातकलापचिह्नः प्रत्युद्गतैरपसरन्सरसः कलापी ।। ८० ।। ततोहं भयत्रस्तमनाः सपरिवारो दुर्गमार्ग परित्यज्यान्यमार्गेण गन्तुं प्रवृत्तः । सपरिजनो यावदग्रतो गच्छामि तावत्संमुखो बृहत्कायो मार्जारः समायाति । स च मूषकवृन्दमवलोक्य तन्मध्ये सहसोत्पपात अथ ते मूषका मां कुमार्गगामिनमवलोक्य गर्हयन्तो हतशेषा रुधि- 25 रप्लावितवसुंधरास्तमेव दुगै प्रविष्टाः । अथवा साध्विदमुच्यते | छित्त्वा पाशमपास्य कूटरचनां भक्त्वा बलाद्वागुरां पर्यन्ताभिशिखाकलापजटिलानिर्गत्य दूरं वनात् | तन्त्रम् २. पञ्चतन्त्रम्. १९ ९ व्याधानां शरगोचरादपि जवेनोत्पत्य धावन्मृगः कूपान्तः पतितः करोतु विधुरे किंवा विधौ पौरुषम् ॥ ८१ ।। अथाहमेकोन्यत्र गतः । शेषा भूढतया तत्रैव दुर्गे प्रविष्टाः। अत्रा- न्तरे स दुष्टपरिव्राजको रुधिरबिंदुचर्चितां भूमिमवलोक्य तेनैव दुर्ग- मार्गेणागत्योपस्थितः । ततश्च स्वहस्तिकया खनितुमारब्धः । अथ तेन ; खनता प्राप्तं तनिधानं यस्योपरि सदैवाहं कृतवसतिर्यस्योप्मणा महा- दुर्गमपि गच्छामि । ततो हृष्टमनास्ताम्रचूडमिदमूचेभ्यागतः । भो भगवन् इदानीं स्वपिहि निःशङ्कः । अस्योष्मणा मृषकस्ते जागरणं करोति । एवमुक्त्वा निधानमादाय मठाभिमुखं प्रस्थितौ द्वावपि । अह- मपि यावन्निधानमागच्छामि तावदरमणीयमुद्धेगकारकं तत्स्थानं 10 वीक्षितुमपि न शक्नोमि । अचिन्तयं च किं करोमि । क गच्छामि। कथं मे स्यान्मनसः प्रशान्तिः । एवं चिन्तयतो महाकष्टेन स दिवसो व्यतिक्रान्तः। अथास्तमिते सोद्वेगो निरुत्साहस्तस्मिन्मठे सपरिवारः प्रविष्टः । अथास्मत्परिग्रहशब्दमाकर्ण्य ताम्रचूडोपि भूयो भिक्षापात्रं जर्जरवंशेन ताडयितुं प्रवृत्तः । अथासावभ्यागतः प्राह । सखे किम- 15 द्यापि निःशङ्को न निद्रां गच्छसि | स आह | भगवन् भूयोपि समा- यातः सपरिवारः स दुष्टात्मा मूषकः । तद्भयाज्जर्जरवंशेन भिक्षापात्रं ताडयामि । ततो विहस्याभ्यागतः प्राह | सखे मा भैषीः। वित्तेन सह गतोस्य कूर्दनोत्साहः। सर्वेषामपि जन्तूनामियमेव स्थितिः । उक्तं च | यदुत्साही सदा मर्त्यः पराभवति यज्जनान् । यदुद्धतं वदेद्वाक्यं तत्सर्वं वित्तजं बलम् ॥ ८२॥ अथाहं तच्छ्रुत्वा कोपाविष्टो भिक्षापात्रमुद्दिश्य विशेषादुत्कृर्दितो- प्राप्त एव भूमौ निपतितः । तच्छुत्वासौ मे शत्रुर्विहस्य ताम्रचूडमुवाच। भोः पश्य कौतूहलम् । आह च । अर्थेन बलवान्सर्वो अर्थयुक्तः स पण्डितः । पश्यैनं मूषकं व्यर्थ स्वजातेः समतां गतम् ।। ८३ ॥ 2) 25 २० पञ्चतन्त्रम्. तन्त्रम् २. cr - 10 तत्स्वपिहि त्वं गतशङ्कः । यदस्योत्पतनकारणं तदावयोर्हस्तगतं जातम् । अथवा साध्विदमुच्यते । दंष्ट्राविरहितः सर्पो मदहीनो यथा गजः । तथार्थेन विहीनोत्र पुरुषो नामधारकः ॥ ८४ ॥ तच्छ्रुत्वाहं मनसा विचिन्तितवान् । यतोङ्गुलिमात्रमपि कूर्दनश- क्तिर्नास्ति तद्धिगर्थहीनस्य पुरुषस्य जीवितम् । उक्तं व । अर्थेन च विहीनस्य पुरुषस्याल्पमेधसः । उच्छिद्यन्ते क्रियाः सर्वा ग्रीप्मे कुसरितो यथा ।। ८५ ॥ यथा काकयवाः प्रोक्ता यथारण्यभवास्तिलाः । नाममात्रा न सिद्धौ हि धनहीनास्तथा नराः ।। ८६ ।। सन्तोपि न हि राजन्ते दरिद्रस्येतरे गुणाः । आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिनी ।। ८७ ॥ न तथा बाध्यते लोके प्रकृत्या निर्धनो जनः । यथा द्रव्याणि संप्राप्य तैर्विहीनः सुखंधितः ।। ८८ ॥ शुष्कस्य कीटखातस्य वालिदग्धस्य सर्वतः । तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः ।। ८९ ।। शङ्कनीया हि सर्वत्र निष्प्रतापा दरिद्रता । उपकर्तुमपि प्राप्तं निःस्वं संत्यज्य गछति ।। ९० ॥ उन्नम्योनम्य तत्रैव निर्धनानां मनोरथाः । हृदयेष्वेव लीयन्ते विधवास्त्रीस्तनाविव ।। ९१ ।। व्यक्तेपि वासरे नित्यं दौर्गत्यतमसावृतः अग्रतोपि स्थितो यत्नान केनापीह दृश्यते ॥ ९२ ॥ एवं विलप्याहं भनोत्साहस्तन्निधानं गण्डोपधानीयकृतं दृष्ट्वा रवं दुर्ग प्रभाते गतः । ततश्च मद्धृत्याः प्रभाते गच्छन्तो मिथो जल्पन्ति । 25 अहो असमर्थोयमुदरपूरणेस्माकम् । केवलमस्य पृष्ठलग्नानां विडाला- दिविपत्तयः । तत्किमनेनाराधितेन । उक्तं च । 1.. 21 तन्त्रम् २. पञ्चतन्त्रम्. २१ यत्सकाशान लाभः स्यात्केवलाः स्युर्विपत्तयः । स स्वामी दूरतस्त्याज्यो विशेषादनुजीविभिः ॥ ९३ ॥ एवं तेषां वचांसि श्रुत्वा स्वदुर्ग प्रविष्टोहम् | यावन्न कश्चिन्मम संमुखोभ्येति तावन्मया चिन्तितम् । धिगियं दरिद्रता । अथवा साध्विदमुच्यते । मृतो दरिद्रः पुरुषो मृतं मैथुनमप्रजम् । मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ॥ ९४ ।। एवं मे चिन्तयतस्ते भृत्या मम शत्रूणां सेवका जाताः। ते च मामे काकिनं दृष्ट्वा विडम्बनां कुर्वन्ति । अथ मयैकाकिना योगनिद्रां गतेन भृयो विचिन्तितम् । यत्तस्य कुतपस्विनः समाश्रयं गत्वा तद्दण्डोप- 10 धानवर्तिकृतां वित्तपेटां शनैःशनैर्विदार्य तस्य निद्रावशं गतस्य स्वदुर्गे तद्वित्तमानयामि येन भूयोपि मे वित्तप्रभावेनाधिपत्यं पूर्ववद्भवति । उक्तं च । व्यथयन्ति पर चेतो मनोरथशतैर्जनाः । नानुष्टानैर्धनहींनाः कुलजा विधवा इव ॥ ९५ ॥ दौर्गत्यं देहिनां दुःखमपमानकरं परम् । येन स्वैरपि मन्यन्ते जीवन्तोपि मृता इव || ९६ ॥ दैन्यस्य पात्रतामेति पराभूतेः परं पदम् । विपदामाश्रयः शश्वोर्गत्यकलुषीकृतः ॥ ९७ ।। लज्जन्ते बान्धवास्तेन संबन्धं गोपयन्ति च । मित्राण्यमित्रतां यान्ति यस्य न स्युः कपर्दकाः ॥ ९८ ॥ मूत लाघवमेवैतदपायानामिदं गृहम् । पर्यायो मरणस्यायं निर्धनत्वं शरीरिणाम् ॥ ९९ ।। अजाधूलिरिव त्रस्तेर्मार्जनीरेणुवजनैः । दीपखट्वोत्थच्छायेव त्यज्यते निर्धनो जनैः ॥ १०० ॥ शौचावशिष्टयाप्यस्ति किंचित्कार्य क्वचिन्मृदा । निर्धनेन जनेनैव न तु किंचित्प्रयोजनम् ॥ १०१ ।। 17 20 25 २२ पञ्चतन्त्रम्. तन्त्रम् २. अधनो दातुकामोपि संप्राप्नो धनिनां गृहम् । मन्यते याचकोयं धिग्दारियं खलु देहिनाम् ॥ १०२ ॥ अतो वित्तापहारं विदधतो यदि मे मृत्युः स्यात्तथापि शोभनम् । उक्तं च । स्ववित्तहरणं दृष्ट्वा यो न रक्षत्यसौ नरः । पितरोपि न गृह्णन्ति तहत्तं सलिलाञ्जलिम् ।। १०३ ।। तथा च । गवार्थे ब्राह्मणार्थे च स्त्रीवित्तहरणे तथा । प्राणांस्त्यजति यो युद्धे तस्य लोकाः सनातनाः॥ १०४ ॥ एवं निश्चित्य रात्रौ तत्र गत्वा निद्रावशमुपागतस्य पेटायां मया छिद्रं कृतं यावत्तावत्प्रबुद्धो दुष्टतापसः । ततश्च जर्जरवंशप्रहारेण शिरसि ताडितः कथंचिदायुःशेषतया निर्गतोहं न मृतश्च । उक्तं च । प्राप्तव्यमर्थ लभते मनुष्यो देवोपि ते लवयितुं न शक्तः । तस्मान्न शोचामि न विस्मयो मे यदस्मदीयं न हि तत्परेषाम् ॥ १०५ ।। काककृर्मों पृच्छतः । कथमेतत् । हिरण्यक आह | 10 15 कथा ४. अस्ति कस्मिंश्चिन्नगरे सागरदत्तो नाम वणिक् । तत्स्नुना रूप- 20 कशतेन विक्रीयमाणः पुस्तको गृहीतः । तस्मिंश्च लिखितमस्ति । प्राप्तव्यमर्थ लभते मनुष्यो देवोपि तं लवयितुं न शक्तः। तस्मान्न शोचामि न विस्मयो मे यदस्मदीयं न हि तत्परेषाम् ।। १०६ ।। तदृष्ट्वा सागरदत्तेन तनुजः पृष्टः । पुत्र कियता मूल्येनैष पुस्तको गृहीतः । सोब्रवीत् । रूपकशतेन । तच्छ्रुत्वा सागरदत्तोब्रवीत् । 25 तन्त्रम् २० पञ्चतन्त्रम्. २३ धितर्ख त्वं लिखितेक लोकं पुस्तकं रूपकशतेन यगृहास्येतया बुद्ध्या कथं द्रव्योपार्जनं करिष्यसि | तदद्यप्रभृति त्वया मे गृहे न प्रवेष्टव्यम् । एवं निर्भय॑ गृहानिःसारितः । स च तेन निदेन विप्रकृष्टं देशा- न्तरं गत्वा किमपि नगरमासाद्यावस्थितः । अथ कतिपयदिवसैस्तन्न- गरनिवासिना केनचिदसौ पृष्टः । कुतो भवानागतः । किंनामा त्वम् । : असावब्रवीत् । प्राप्तव्यमर्थ लभते मनुष्यः । अथान्येनापि पृष्टेनानेन तथैवोत्तरं दत्तम् । एवं च तस्य नगरस्य मध्ये प्राप्तव्यमर्थ इति तस्य प्रसिद्धं नाम जातम् । अथ राजकन्या चन्द्रवती नामाभिनवरूपयौ- वनसंपन्ना सखीद्वितीयैकस्मिन्दिवसे नगरं निरीक्षमाणास्ति । तत्रैव च कश्चिद्राजपुत्रोतीव रूपसंपन्नो मनोरमञ्च कथमपि तस्या दृष्टि- 10 गोचरे गतः । तदर्शनसमकालमेव कुसुमबाणाहतया तया निजस- ख्यभिहिता । सखि यथा किलानेन सह समागमो भवति तथा त्वया यतितव्यम् । एवं च श्रुत्वा सा सखी तत्सकाशं गत्वा शीघ्रमन- वीत् । यदहं चन्द्रवत्या तवान्तिकं प्रेषिता । भणितं च त्वां प्रति तया । यन्मम त्वदर्शनान्मनोभवेन पश्चिमावस्था कृता । तद्यदि शीघ्रमेव 15 मदन्तिके न समेष्यसि तदा मे मरणं शरणम् । इति श्रुत्वा तेनाभिहि- तम् । यद्यवश्यं मया तत्रागन्तव्यं तत्कथय केनोपायेन प्रवेष्टव्यम् | अथ सख्याभिहितम् । रात्रौ सौधावलम्बितया दृढवरत्रया त्वया तत्रा- रोढव्यम् । सोब्रवीत् । यद्येवं निश्चयो भवत्यास्तदहमेवं करिष्यामि । इति निश्चित्य सखी चन्द्रवतीसकाशं गता । अथागतायां रजन्यांस 20 राजपुत्रः स्वचेतसा व्यचिन्तयत् । अहो महदकृत्यमेतत् । उक्तं च | गुरोः सुतां मित्रभार्या स्वामिसेवकगेहिनीम् । यो गच्छति पुमाल्लोके तमाहुर्बह्मघातिनम् ॥ १०७ ॥ अपरं च । अयशः प्राप्यते येन येन चापगतिर्भवेत् । स्वर्गाच्च भ्रश्यते येन तत्कर्म न समाचरेत् ॥ १०८॥ इति सम्यग्विचार्य तत्सकाशं न जगाम | अथ प्राप्तव्यमर्थः पर्यट- 25 4 २४ पञ्चतन्त्रम्. तन्त्रम् २. न्धवलगृहपार्श्वे रात्रावलम्बितवरत्रां दृष्ट्वा कौतुकाविष्टहृदयस्तामाल- रब्याधिरूढः । तया च राजपुत्र्या स एवायमित्याश्वस्तचित्तया स्नान- खादनपानाच्छादनादिना संमान्य तेन सह शयनतलमाश्रितया तद- ङ्गसंस्पर्शसंजातहर्षरोमाञ्चितगात्रयोक्तम् । युप्मदर्शनमात्रानुरक्तया ॐ मयात्मा प्रदत्तोयम् । त्वदर्जमन्यो भर्ता मनस्यपि मे न भविष्यतीति। तत्कस्मान्मया सह न ब्रवीषि । सोब्रवीत् । प्राप्तव्यमर्थ लभते मनुष्यः। इत्युक्ते तयान्योयमिति मत्वा धवलगृहादुत्तार्य मुक्तः । स तु खण्डदे- वकुले गत्वा सुप्तः । अथ तत्र कयाचित्स्वैरिण्या दत्तसंकेतको यावह- ण्डपाशकः प्राप्तस्तावदसौ पूर्वसुप्तस्तेन दृष्टो रहस्यसंरक्षणार्थमभिहित- 10 श्च । को भवान् । सोब्रवीत् । प्राप्तव्यमर्थ लभते मनुप्यः । इति श्रुत्वा दण्डपाशकेनाभिहितम् । यच्छून्यं देवगृहमिदम् । तदत्र मदीयस्थाने गत्वा स्वपिहि । तथा प्रतिपद्य स मतिविपर्यासादन्यशयने सुप्तः । अथ तस्य रक्षकस्य बृहत्कन्या विनयवती नाम रूपयौवनसंपन्ना कस्यापि पुरुषस्यानुरक्ता संकेतं दत्त्वा तत्र शयने सुप्तामीत् । अथ सा तमा- 15 यातं दृष्ट्वा स एवायमस्मबल्लभ इति रात्री घनतरान्धकारव्यामोहि- तोत्थाय भोजनाच्छादनादिक्रिया कारयित्वा गान्धर्वविवाहेनात्मानं विवाहयित्वा तेन समं शयने स्थिता विकसितवदनकमला तमाह | किमद्यापि मया सह विश्रब्धं भवान्न ब्रवीति । सोब्रवीत् । प्राप्तव्य- मयं लभते मनुष्यः । इति श्रुत्वा तया चिन्तितम् । यत्कार्यमसमीक्षि- 20 तं क्रियते तस्येदृक्फलविपाको भवतीति । एवं विमृश्य सविषादया तया निःसारितोसौ । स च यावद्वीथीमार्गेण गच्छति तावदन्य- विषयवासी वरकीर्ति म वरो महत्ता वाद्यशब्देनागच्छति | प्राप्तव्यम- र्थोपि तैः समं गन्तुमारब्धः । अथ यावत्लत्यासन्ने लग्नसमये राजमा- र्गासन्नश्रेष्टिगृहद्वारि रचितमण्डपवेदिकायां कृतकौतुकमङ्गलवेषा व- 25 णिक्सुतास्ते तावन्मदमत्तो हस्त्यारोहक हत्वा प्रणश्यज्जनकोलाह- लेन लोकमाकुलयस्तमेवोद्देशं प्राप्तः । तं च दृष्ट्वा सर्वे वरानुयायिनो वरेण सह प्रणश्य दिशो जग्मुः। अथास्मिन्नवसरे भयतरललोचनामे- तन्त्रम् २. पञ्चतन्त्रम्. २५ काकिनी कन्यामवलोक्य मा भैषीरहं परित्रातेति सुधीरं स्थिरीकृत्य दक्षिणपाणौ संगृह्य महासाहसिकतया प्राप्तव्यमर्थः परुषवाक्यैह- स्तिनं निर्भसितवान् । ततः कथमपि दैवयोगादपयाते हस्तिनि यावत्ससुहद्वान्धवोतिक्रान्ते लमसमये वरकीर्तिरागच्छति तावत्तां कन्यामन्यहस्तगतां दृष्ट्वाभिहितम् । भोः श्वशुरक विरुद्धमिदं । त्वयानुष्ठितं यन्मह्यं प्रदाय कन्यान्यस्मै प्रदत्तेति । सोब्रवीत् । भो अहमपि हस्तिभयपलायितो भवद्भिः सहायातो न जाने कि- मिदं वृत्तम् । इत्यभिधाय दुहितरं प्रष्टुमारब्धः। वत्से न त्वया सुन्दरं कृतम् । तत्कथ्यतां कोयं वृत्तान्तः । साब्रवीत् । यदहमनेन प्राणसंश- याद्रक्षिता तदेनं मुक्त्वा मम जीवन्त्या नान्यः पाणिं ग्रहीष्यतीति | 10 अनेन वार्ताव्यतिकरण रजनी व्युष्टा । अथ प्रातस्तत्र संजाते महा- जनसमवाये वा व्यतिकरं श्रुत्वा राजदुहिता तं देशमागता । कर्ण- परंपरया श्रुत्वा दण्डपाशकमुतापि तत्रैवागता | अथ तं महाजनसम- वार्य श्रुत्वा राजापि तत्रैवाजगाम | प्राप्तव्यमर्थ प्राह । यद्विश्रब्धं कथय कीदृशोसौ वृत्तान्तः । अथ सोब्रवीत् । प्राप्तव्यमर्थ लभते मनुष्य 15 इति! राजकन्या स्मृत्वाब्रवीत् । देवोपि तं लवयितुं न शक्तः । ततो दण्डपाशकसुताब्रवीत् । तस्मान्न शोचामि न विस्मयो म इति | तम- खिललोकवृत्तान्तमाकर्ण्य वणिक्सुताब्रवीत् । यदस्मदीयं न हि तत्प- रेषामिति । अभयदानं दत्त्वा राजा पृथक्पृथग्वृत्तान्ताज्ञात्वावगतत- त्वस्तस्मै प्राप्तव्यमर्थाय स्वदुहितरं सबहुमानं ग्रामसहस्रेण समं सर्वा- 20 लंकारपरिवारयुतां दत्त्वा त्वं मे पुत्रोसीति नगरविदितं तं यौवराज्ये- भिषिक्तवान् । दण्डपाशकेनापि स्वदुहिता स्वशक्त्या वस्त्रदानादिना संभाव्य प्राप्तव्यमर्थाय प्रदत्ता । अथ प्राप्तव्यमर्थेनापि स्वीयपितृमा- तरौ समस्तकुटुम्बावृतौ तस्मिन्नगरे संमानपुरःसरं समानीतौ । अथ सोपि स्वगोत्रेण सह विविधभोगानुपभुञ्जनः सुखेनावस्थितः । अतोहं 25 ब्रवीमि ।

२६ पञ्चतन्त्रम्. तन्त्रम् २ 10 प्राप्तव्यमर्थ लभते मनुष्यो देवोपि तं लङ्घायितुं न शक्तः। तस्मान्न शोचामि न विस्मयो मे यदस्मदीयं न हि तत्परेषाम् ॥ १०९ ॥ तदेतत्सकलं सुखदुःखमनुभूय परं विषादमागतोनेन मित्रेण त्वत्स- काशमानीतः । तदेतन्मे वैराग्यकारणम् | मन्थरक आह । भद्र भवति सुहृदयमसंदिग्धं यः क्षुत्क्षामोपि शत्रुभूतं त्वां भक्षस्थाने स्थितमेवं पृष्ठमारोप्यानयति न मार्गेपि भक्षयति । उक्तं च यतः । विकारं याति नो चित्तं वित्ते यस्य कदाचन । मेत्रस्य सुकुलीनस्य कारयेन्मित्रमुत्तमम् ॥ ११० ॥ विद्वद्भिः सुहृदामत्र चिह्नरेतैरसंशयम् । परीक्षाकरणं प्रोक्तं होमानेरिव पण्डितैः ॥ १११ ।। तथा च। आपत्काले तु संप्राप्ने यन्मित्रं मित्रमेव तत् । वृद्धिकाले तु संप्राप्ते दुर्जनोपि सुहृद्भवेत् ।। ११२ ॥ तन्ममाप्यद्यास्य विषये विश्वासः समुत्पनो यतो नीतिविरुद्धेयं मैत्री मांसाशिभिर्वायसैः सह जलचराणाम् । अथवा साध्विदमुच्यते | मित्रं कोपि न कस्यापि नितान्तं न च वैरकृत् । दृश्यते मित्रविध्वस्तः कार्याईरिप्ररक्षितः ॥ ११३ ॥ तत्स्वागतं भवतः । स्वगृहवदास्यतामत्र सरस्तीरे । यच्च वित्त- नाशो विदेशवासश्च ते संजानस्तत्र विषये संतापो न कर्तव्यः । उक्तं च । अभ्रच्छाया खलप्रीतिः सिद्धमन्नं च योषितः । किंचित्कालोपभोग्यानि यौवनानि धनानि च ॥ ११४ ॥ अत एव विवेकिनो जितात्मानो धनस्पृहां न कुर्वन्ति । उक्तं च । सुसंचितैर्जीवनवत्सुरक्षितै- निजेपि देहे न वियोजितैः क्वचित् । 15 20 25 तन्त्रम् २. पञ्चतन्त्रम्. २७ 5 10 पुंसो यमान्तं व्रजतोपि निष्ठुरै- रेतैर्धनैः पञ्चपदी न दीयते ॥ ११५॥ अन्यच्च । यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि । आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥ ११६ ॥ निर्दोषमपि वित्ताढचं दोषैर्योजयते नृपः । निर्धनः प्राप्तदोषोपि सर्वत्र निरुपद्रवः ॥ ११७॥ अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं धिगाः कष्टसंश्रयाः ॥ ११८ ॥ अर्थार्थी यानि कष्टानि मूढोयं सहते जनः । शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमामुयात् ॥ ११९ ॥ अपरं विदेशवासजमपि वैराग्यं त्वया न कार्यम् । यतः । को धीरस्य मनस्विनः स्वविषयः को वै विदेशः स्मृतो यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् । यहंष्ट्रानखलाङ्गुलप्रहरणैः सिंहो वनं गाहते तस्मिन्नेव हतहिपेन्द्ररुधिरैस्तृष्णां छिनत्त्यात्मनः॥१२० ।। अर्थहीनः परे देशे गतोपि यः प्रज्ञावान्भवति स कथंचिदपि न सीदति । उक्तं च । कोतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥ १२१ ।। 20 तमज्ञानिधिर्भवान प्राकृतपुरुषतुल्यः । अपरं प्राप्तोप्यर्थः कर्मप्रा- म्वा नश्यति । तदेतावन्ति दिनानि त्वदीयमासीत् । मुहूर्तमप्यात्मीयं भोक्तुं न लभ्यते स्वयमागतमपि विधिनापहियते । अर्थस्योपार्जनं कृत्वा नैव भोग समभुते । अरण्यं महदासाद्य मूढः सोमिलको यथा ॥१२२ ॥ हिरण्यक आह । कथमेतत् । स आह । 15 25 २८ पञ्चतन्त्रम्. तन्त्रम् २० कथा अस्ति कस्मिंश्चिदधिष्ठाने सोमिलको नाम कौलिको वसति स्म । सोनेकविधपटरचनारजितानि पार्थिवोचितानि सदैव वस्त्राण्युत्पाद- यति | परं तस्य चानेकविधपट्टरचननिपुणस्यापि न भोजनाच्छाद- 5 नाभ्यधिकं कथमप्यर्थमात्रं संपद्यते । अथान्ये तत्र सामान्यकौलिकाः स्थूलवस्त्रसंपादनविज्ञानिनो महर्द्धिसंपन्नाः । तानवलोक्य स स्वभा- माह | प्रिये पश्यैतान्स्थूलपट्टकारकान्धनकनकसमृद्धान् । तदधा- रणकं ममैतत्स्थानम् । तदन्यत्रोपार्जनाय गच्छामि | सा प्राह । भोः प्रियतम मिथ्या प्रलपितमेतद्यदन्यत्र गतानां धनं भवति स्वस्थाने न 10 भवति । उक्तं च ॥ उत्पतन्ति यदाकाशे निपतन्ति महीतले । पक्षिणां तदपि प्राप्त्या नादत्तमुपतिष्ठति ।। १२३ ।। तथा च । न हि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति ॥ १२४ ॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ १२५ ।। शेते सह शयानेन गच्छन्तमनुगच्छति । नराणां प्राक्तनं कर्म तिष्ठति तु सहात्मना ।। १२६ ॥ यथा छायातपो नित्यं सुसंबद्धौ परस्परम् । एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ॥ १२७ ॥ तस्मादत्रैव व्यवसायपरो भव । कौलिक आह । प्रिये न सम्यग- भिहितं भवत्या । व्यवसाय विना न कर्म फलति । उक्तं च। यथैकेन न हस्तेन तालिका संप्रपद्यते । तथोद्यमपरित्यक्तं न फलं कर्मणः स्मृतम् ॥ १२८ ।। पश्य कर्मवशात्माप्तं भोज्यकालेपि भोजनम् । हस्तोद्यम विना वक्त्रे प्रविशेन्न कथंचन ॥ १२९ ॥ 15 20 25 तन्त्रम् २. पञ्चतन्त्रम्.. २९ 5 तथा च । उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- दैवं हि दैवमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्वा यत्ने कृते यदि न सिध्यति कोत्र दोषः ॥ १३० ॥ तथा च ॥ उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य विशन्ति वदने मृगाः ॥ १३१ ॥ उद्यमेन विना राजन सिध्यन्ति मनोरथाः । कातरा इति जल्पन्ति यद्भाव्यं तद्भविष्यति ॥ १३२ ॥ 10 स्वशत्या कुर्वतः कर्म न चेसिद्धिं प्रयच्छति । नोपालभ्यः पुमांस्तत्र दैवान्तरितपौरुषः ॥ १३३ ।। तन्मयावश्यं देशान्तरं गन्तव्यम् । इति निश्चित्य वर्धमानपुर गत्वा तत्र वर्षत्रयं स्थित्वा सुवर्णशतत्रयोपार्जनं कृत्वा भूयः स्वगृह प्रस्थितः । अथापिथे गच्छतस्तस्य कदाचिदटव्यां पर्यटतो भगवान- 15 विरस्तमुपागतः । तत्र च व्यालभयात्स्थूलतरवटस्कन्ध आरुह्य प्रसुप्नो यावत्तिष्ठति तावन्निशीथे द्वौ पुरुषो रौद्राकारौ परस्परं जल्पन्ता- वशृणोत् । तत्रैक आह । भोः कर्तः त्वं किं सम्यङ्ग वेत्सि यदस्य सोमिलकस्य भोजनाच्छादनावृतेधिका समृद्धिर्नास्ति । तत्किं त्वयास्य सुवर्णशतत्रयं दत्तम् । स आह । भोः कर्मन् मयावश्यं दातव्यं व्यव- 20 सायिनां तत्र च तस्य परिणतिस्त्वदायत्तेति । अथ यावदसौ कौलिकः प्रबुद्धः सुवर्णग्रन्धिनलोकयति ताव- द्रिक्तं पश्यति । ततः साक्षेपं चिन्तयामास । अहो किमेतत् । महता कष्टेनोपार्जितं वित्तं हेलया क्वापि गतम् । यद्यर्थश्रमोकिंचनः कथं स्वपल्या मित्राणां च मुखं दर्शयिष्यामि । इति निश्चित्य तदेव पत्तनं 25 गतः । तत्र च वर्षमात्रेणापि सुवर्णशतपञ्चकमुपायं भूयोपि स्व- स्थानं प्रति प्रस्थितः । यावदर्धपथे भूयोटवीगतस्य भगवान्भानुरस्तं- ३० पञ्चतन्त्रम्. तन्त्रम् २. जगामाथ सुवर्णनाशभयात्सुश्रान्तोपि न विश्राम्यति केवलं कृतगृहो- कण्ठः सत्वरं व्रजति । अत्रान्तरे द्वौ पुरुषो तादृशौ दृष्टिदेशे समा- गच्छन्तौ जल्पन्तौ च शृणोति । तत्रैकः प्राह । भोः कर्तः किं त्वयै- तस्य सुवर्णशतपञ्चकं दत्तम् । तल् िन वेत्सि योजनाच्छादनाभ्य- 5 धिकमस्य किंचिन्नास्ति । स आह । भोः कर्मन् मयावश्यं देयं व्यव- सायिनाम् । तस्य परिणामस्त्वदायत्तः । तत्किं मामुपालम्भयसि । तच्छ्रुत्वा सोमिलको यावद्भन्थिमवलोकयति तावत्सुवर्ण नास्ति । ततः परं दुःखमापन्नो व्यचिन्तयत् । अहो कि मम धनरहितस्य जीवि- तेन । तदत्र वटवृक्ष आत्मानमुद्वध्य प्राणांस्त्यजामि । एवं निश्चित्य 10 दर्भमयी रज्जुं विधाय स्वकण्ठे पाशं नियोज्य शाखायामात्मानं निबध्य यावत्यक्षिपति तावदेकः पुमानाकाशस्थ एवेदमाह । भो भोः सोमिलक मैवं साहसं कुरु । अहं ते वित्तापहारको म ते भोजना- च्छादनाभ्यधिकं वराटिकामपि सहामि । तद्गच्छ स्वगृहं प्रति | अन्यच वदीयसाहसेनाहं तुष्टः । तथा मे न स्याव्यर्थ दर्शनम् । तत्मार्थ- 15 तामभीष्टो वरः कश्चित् । सोमिलक आह । यद्येवं तदेहि मे प्रभूतं धनम् । स आह । भोः किं करिष्यसि भोगरहितेन धनेन यनस्तव भोजनाच्छादनाभ्याधिका प्राप्तिरपि नास्ति । उक्तं च । किं तया क्रियते लक्ष्म्या या वधूरिव केवला । या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥ १३४ ॥ सोभिलक आह । यद्यपि भोगो नास्ति तथापि भवतु मे धनम्। उक्तं च। कृपणोप्यकुलीनोपि सदा संश्रितमानुषैः । सेव्यते स नरो लोके यस्य स्याद्वित्तसंचयः ॥ १३५ ।। तथा च। शिथिलौ च सुबद्धौ च पततः पततो न वा । निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥ १३६ ॥ पुरुष आह । किमेतत् । सोबवीत् । 20 25 तन्त्रम् २. पञ्चतन्त्रम्. ३१ कथा ६. कस्मिंश्चिदधिष्ठाने तीक्ष्णविषाणो नाम महावृषभो वसति । स च मदातिरेकात्परित्यक्तनिजयूथः शृङ्गाभ्यां नदीतटानि विदारयन्स्वेच्छ- या मरकतसदृशानि शष्पाणि भक्षयनरण्यचरो बभूव । अथ तत्रैव वने प्रलोभको नाम शगालः प्रतिवसति स्म । स कदाचित्स्वभार्यया । सह नदीतीरे सुखोपविष्टस्तिष्ठति । अत्रान्तरे स तीक्ष्णविषाणो जलार्थ तदेव पुलिनमवतीर्णः । ततश्च तस्य लम्बमानौ वृषणावालोक्य शृगा- ल्या भृगालोभिहितः । स्वामिन् पश्यास्य वृषभस्य मांसपिण्डौ लम्ब- मानी यथा स्थितौ | ततः क्षणेन प्रहरेण वा पतिष्यतः । एवं ज्ञात्वा भवता पृष्ठयायिना भाव्यम् । शृगाल आह । प्रिये न ज्ञायते कदाचि- 10 देतयोः पतनं भविष्यति वा न वा । तत्किं वृथा श्रमाय मां नियोज- यसि । अत्रस्थस्वावज्जलार्थमागतान्मूषकान्भक्षयिष्यामि समं त्वया मार्गोयं यतस्तेषाम् । अथ यक्ष त्वां मुकास्य तीक्ष्णविषाणस्य वृषभ- स्य पृष्ठे गमिष्यामि तागत्यान्यः कश्चिदेतत्स्थानं समाश्रयिष्यति । नैतद्युज्यते कर्तुम् । उक्तं च । यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ १३७ ।। शृगाल्याह भोः कापुरुषस्त्वं यत्किंचित्लाप्नं तेनापि संतोषं करोषि। उक्तं च । सुपूरा स्यात्कुनदिका सुपूरो मूषिकाञ्जलिः । सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ १३८ । तस्मात्पुरुषेण सदैवोत्साहवता भाव्यम् । उक्तं च । यत्रोत्साहसमारम्भो यत्रालस्यविनिग्रहः । नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम् ॥ १३९ ।। तदेवमिति संचिन्त्य त्यजेन्नोद्योगमात्मनः । अनुयोगेन नो तैलं तिलेभ्योपि हि जायते ।। १४० ॥ 15 20 25 5 ३२ पञ्चतन्त्रम्. तन्त्रम् २. 5 अन्यच्च । यः स्तोकेनापि संतोषं कुरुते मन्दधीर्जनः । तस्य भाग्यविहीनस्य दत्ता श्रीरपि मार्यते ॥ १४१ ।। यञ्च त्वं वदसि । एतौ पतिष्यतो न वेति । तदप्यमुक्तम् । उक्तं च । कृतनिश्चयिनो वन्द्यास्तुङ्गिमा नोपभुज्यते । चातकः को वराकोयं यस्येन्द्रो वारिवाहकः ।। १४२ ॥ अपरं मूषकमांसस्य निर्विण्णाहम् । एतौ च मांसपिण्डौ पतनप्रायौ दृश्यते । तत्सर्वथा नान्यथा कर्तव्यमिति । अथासौ तदाकर्ण्य मूषकमामिस्थानं परित्यज्य तीक्ष्णविषाणस्य पृष्ठमन्वगच्छत् । अथवा 10 साध्विदमुच्यते । तावत्स्यात्सर्वकृत्येषु पुरुषोत्र स्वयं प्रभुः । स्त्रीवाक्याङ्कुशविक्षुण्णो यावन्नो प्रियते बलात् ॥ १४३ ॥ अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम् । अभक्ष्यं मन्यते भक्ष्यं स्त्रीवाक्यप्रेरितो नरः॥ १४४ ।। एवं स तस्य पृष्टतः सभार्यः परिभ्रमंश्चिरकालभनयत् । न च तयोः पतनमभूत् । ततश्च निर्वेदात्पञ्चदशे वर्षे शृगालः स्वभार्यामाह। शिथिलौ च सुबद्धौ च पततः पततो न वा । निरीक्षितो मया भद्रे दश वर्षाणि पञ्च च ॥ १४५ ।। तयोस्तत्पश्चादपि पातो न भविष्यति । तत्तदेव स्वस्थानं गच्छावः। 20 अतोहं ब्रवीमि । शिथिलौ च सुबद्धौ च पततः पतनो न वा । निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥ १४६ ॥ पुरुष आह । यद्येवं तद्गच्छ भूयोपि वर्धमानपुरम् । तत्र द्वौ वणिक्पुत्रौ वसतः । एको गुप्तधनः । द्वितीय उपभुक्तधनः । ततस्तयोः 25 स्वरूपं बुबैकस्य वरः प्रार्थनीयः । यदि ते धनेन प्रयोजनमभक्षितेन ततस्त्वामपि गुप्तधनं करोमि । अथवा दत्तभोग्येन धनेन ते प्रयोजन तदुपभुक्तधनं करोमीति । एवमुक्त्वादर्शनं गतः । सोमिलकोपि वि- 15 तन्त्रम् २. पञ्चतन्त्रम्. स्मितमना भूयोपि वर्धमानपुरं गतः । अथ संध्यासमये श्रान्तः कथ- मपि तत्पुरं प्राप्तो गुप्तधनगृहं पृच्छन्कृच्छाल्लब्ध्वास्तमितसूर्ये प्रविष्टः । अथासौ भार्यापुत्रसमेतेन गुप्तधनेन निर्भय॑मानो हठागृहं प्रविश्योप- विष्टः । ततश्च भोजनवेलायां तस्यापि भक्तिवर्जितं किंचिदशनं दत्तम् । ततश्च भुक्त्वा तत्रैव यावत्सुप्तो निशीथे पश्यति तावत्तावपि हौ । पुरुषौ परस्परं मन्त्रयतः । तत्रैक आह । भोः कर्तः किं त्वयास्य गुप्तधनस्यान्योधिको व्ययो निर्मितो यत्सोमिलकस्यानेन भोजनं दत्तम् । तदयुक्तं त्वया कृतम् । स आह भोः कर्मन् न ममात्र दोषः । मया पुरुषस्य लाभप्राप्तिर्दातव्या । तत्परिणतिः पुनस्त्वदायत्तेति । अथासौ यावदुत्ति तावद्गुप्तधनी विसूचिकया खिद्यमानी रुजाभिभूतः क्षणं 10 तिष्ठति । ततो द्वितीयेति तोषेण कृतोपवासः संजातः । सोमिलकोपि प्रभाते तगृहान्निष्क्रम्योपभुक्तधनगृहं गतः । तेनापि चाभ्युत्थानादिना सत्कृतो विहितभोजनाच्छादनसंमानस्तस्यैव गृहे भव्यशय्यामारुह्य सु- वाप। ततश्च निशीथे यावत्पश्यति तावत्तावेव द्वौ पुरुषो मियो मन्त्र- यतः । अत्र तयोरेक आह । भोः कर्तः अनेन सोमिलकस्योपकारं 15 कुर्वता प्रभूतो व्ययः कृतः। तत्कथय कथमस्योद्धारकविधिर्भविष्यति । अनेन सर्वमेतद्व्यवहारकगृहात्समानीतम् । स आह । भोः कर्मन् मम कृत्यमेतत् । परिणतिस्त्वदायत्तेति । अथ प्रभातसमये राजपुरुषो राज- प्रसाद वित्तमादाय समायात उपभुक्तधनाय समर्पयामास । तदृष्ट्वा सोमिलकश्चिन्तयामास | संचयरहितोपि वरमेष उपभुक्तधनो नासौ 20 गुप्तधनः । उक्तं च । अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् । रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥ १४७ ।। तद्विधाता मां दत्तभुक्तधनं करोतु | न कार्य मे गुप्तधनेन । ततः सोमिलको दत्तभुक्तधनः संजातः । अतोहं ब्रवीमि | अर्थस्योपार्जनं कृत्वा नैव भोगं समश्नुते । अरण्यं महदासाद्य मूढः सोमिलको यथा ॥ १४८ ।। 25 ३ तन्त्रम् २ 5 10 ३४ पञ्चतन्त्रम्. तद्भद्र हिरण्यक एवं ज्ञात्वा धनविषये संतापो न कार्यः । अथ विद्यमानमपि धनं भोज्यबन्ध्यतया तदविद्याधनं मन्तव्यम् । उक्तं च। गृहमध्यनिखातेन धनेन धनिनो यदि भवामः किं न तेनैव धनेन धनिनो वयम || १४९ ॥ तथा च । उपार्जितानामर्थानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानां परिवाह इवाम्भसाम् ।। १५०॥ अन्यच्च । दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ।। १५१ ॥ एवं ज्ञात्वा विवकिना न स्थित्यथै वित्तोपार्जनं कर्तव्यं यतो दुःखाय तत् । उक्तं च । संतोषामृततृप्तानां यत्सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानामितश्वेतश्च धावताम् ।। १५२॥ पीयूषमिव संतोषं पिबतां निवृतिः परा । दुःखं निरन्तरं पुंसामसंतोषवतां पुनः ॥ १५३ ॥ निरोधाचेतसोक्षाणि निरुद्धान्यखिलान्यपि । आच्छादिते रवी मेधैः संछनाः स्युर्गभस्तयः ॥ १५४ ।। वाञ्चाविच्छेदनं प्राहुः स्वास्थ्यं शान्ता महर्षयः । वाञ्छा निवर्तते नाथैः पिपासेवाग्निसेवनैः ।। १५५ ॥ अनिन्द्यमपि निन्दन्ति स्तुवन्त्वस्तुत्यमुच्चकैः । स्वाफ्तेयकृते माः किं किं नाम न कुर्वते ॥ १५६ ।। धर्मार्थ यस्य वित्तहा तस्यापि न शुभावहा । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ १५७ ॥ दानेन तुल्यो विधिरस्ति नान्यो लोभाच्च मन्बोस्ति परः पृथिव्याम् । 15 .4 20 25 तन्त्रम् २. पञ्चतन्त्रम्. ३५ 10 विभूषणं शीलसमं न चान्यत् संतोषतुल्यं धनमस्ति नान्यत् ॥ १८ ॥ दारिद्रस्य परा मूर्तिर्यन्मानद्रविणाल्पता । जरद्वधनः शर्वस्तथापि परमेश्वरः॥ १५९ ॥ एवं ज्ञात्वा भद्र त्वया संतोषः कार्य इति । मन्थरकवचनमाकर्ण्य । वायस आह । भद्र मन्थरको यदेवं वदति तत्त्वया चित्ते कर्तव्यम् । अथवा साध्विदमुच्यते । सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १६० ॥ अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह । न एव सुहृदः प्रोक्ता अन्ये स्युर्नामधारकाः ।। १६१ ॥ अथैवं जल्पतां तेषां चित्राङ्गो नाम हरिणो लुब्धकत्रासितस्तस्मि- नेव सरसि प्रविष्टः । अथायान्तं ससंभ्रममवलोक्य लघुपतनको वृक्ष- मारूढः । हिरण्यकः शरस्तम्ब प्रविष्टः । मन्थरकः सलिलाशयमा- स्थितः । अथ लघुपतनको मृगं सम्यक्परिज्ञाय मन्धरकमुवाच । 15 एथेहि सखे मन्थरक मृगोयं तृषार्तोत्र समायातः सरसि प्रविष्टः । तस्य शब्दोयं न मानुषसंभव इति । तच्छ्रुत्वा मन्थरको देशकालोचि- तमाह । भो लघुपतनक यथायं मृगो दृश्यते प्रभूतमुच्छ्वासमुदहन्नु- द्वान्तदृष्ट्या पृष्ठतोवलोकयति तन्न तृषार्त एष नूनं लुब्धकत्रासितः । तज्ज्ञायतामस्य पृष्ठे लुब्धका आगच्छन्ति न वेति । उक्तं च | भयत्रस्तो नरः श्वासं प्रभूतं कुरुते मुहुः । दिशोवलोकयत्येव न स्वास्थ्यं व्रजति क्वचित् ॥ १६२ ॥ तच्छुत्वा चित्राङ्ग आह । भो मन्थरक ज्ञातं त्वया सम्यने त्रास- कारणम् । अहं लुब्धकशरप्रहारादुद्धारितः कृच्छ्रेणात्र समायातः । मम यूथं तैर्लुब्धकैप्पादितं भविष्यति । तच्छरणागतस्य मे दर्शय 25 किंचिदगम्यं स्थानं लुब्धकानाम् | तदाकर्ण्य मन्थरक आह । भोश्चि- त्राङ्ग श्रूयतां नीतिशास्त्रम् । 20 पञ्चतन्त्रम्. तन्त्रम् २. 10 दावुपायाविह प्रोक्तौ विमुक्तौ शत्रुदर्शने | हस्तयोश्चालनादेको द्वितीयः पादवेगजः ।। १६३ ।। तद्गम्यतां शीघ्रं धनं वनं यावदद्यापि नागच्छन्ति ते दुरात्मानो लुब्धकाः । अत्रान्तरे लघुपतनकः सत्वरमभ्युपेत्योवाच । भो मन्थरक 5 गतास्ते लुब्धकाः स्वगृहोन्मुखाः प्रचुरमांसपिण्डधारिणः । तचित्राङ्ग त्वं विश्रब्धो जलाद्वहिर्भव । ततस्ते चत्वारोपि मित्रभावमाश्रितास्त- स्मिन्सरसि मध्याह्नसमये वृक्षच्छायाधस्तात्सुभाषितगोष्ठीसुखमनुभ- वन्तः सुखेन कालं नयन्ति । अथवा युक्तमेतदुच्यते । सुभाषितरसास्वादबद्धरोमाञ्चकञ्चकम् विनापि संगमं स्त्रीणां कवीनां सुखमेधते ॥ १६४ ॥ तथा च । सकृदुक्तं न गृह्णाति स्वयं वा न करोति यः । यस्य संपुटिका नास्ति कुतस्तस्य सुभाषितम् ॥ १६९ ।। अथैकस्मिन्नहनि गोष्ठीसमये मृगो नायातः । अथ ते व्याकुलीभूताः 15 परस्परं जल्पितुमारब्धाः । अहो किमद्य सुहन्न समायातः । किं सिंहादिभिः क्वचियापादित उत लुब्धकैरथवानले प्रपतितो गर्ताविषमे वा नवतृणलौल्यादिति । अथवा साध्विदमुच्यते । स्वगृहोद्यानगतेपि स्निग्धैः पापं विशङ्कयते मोहात् । किमु दृष्टबह्नपायप्रतिभयकान्तारमध्यस्थे ॥ १६६ ॥ अथ मन्थरको वायसमाह । भो लघुपतनक अहं हिरण्यकश्च तावडावप्यशक्तौ तस्यान्वेषणं कर्तुं मन्दगतित्वात् । तद्गत्वा त्वमरण्य शोधय यदि कुत्रचित्तं जीवन्तं पश्यसीति । तदाकर्ण्य लघुपतनको नातिदूरे यावद्गच्छति तावत्पल्वलतीरे चित्राङ्गः कूटपाशनियन्त्रित- स्तिष्ठति । तं दृष्ट्वा शोकव्याकुलितमनास्तमवोचत् । भद्र किमिदम् । 25 चित्राङ्गोपि वायसमवलोक्य विशेषेण दुःखितमना बभूव । 20 तन्त्रम् २. पञ्चतन्त्रम्. 10 अथवा युक्तमेतत् । अपि मन्दत्वमापनो नष्टो वापीष्टदर्शनात् । प्रायेण प्राणिनां भूयो दुःखावेगोधिको भवेत् ॥ १६७ ॥ ततश्च वाष्पावसाने चित्राङ्गो लघुपतनकमाह । भो मित्र संजा- तोयं तावन्मम मृत्युः । तद्युक्तं संपन्नं यद्भवता सह मे दर्शनं संजा- 5 तम् । उक्तं च । प्राणात्यये समुत्पन्ने यदि स्यान्मित्रदर्शनम् । तहाभ्यां सुखदं पश्चाज्जीवतोपि मृतस्य च ॥ १६८ ।। तत्क्षन्तव्यं यन्मया प्रणयात्सुभाषितगोष्टीष्वभिहितम् । तथा हिर- ग्यकमन्थरको मम वाक्यावाच्यौ । अज्ञानाज्ज्ञानतो वापि दुरुक्तं यदुदाहृतम् । मया तत्क्षम्यतामद्य द्वाभ्यामपि प्रसादतः ॥१६९ ।। तच्छ्रुत्वा लघुपतनक आह । भद्र न भेतव्यमस्मद्विधर्मिविद्य- मानैः । यावदहं द्रुततरं हिरण्यकं गृहीत्वागच्छामि अपरं ये सत्पु- रुषा भवन्ति ते व्यसने न व्याकुलत्वमुपयान्ति । उक्तं च । संपदि यस्य न हर्षो विपदि विषादो रणे न भीरुत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥१७०॥ एवमुक्त्वा लघुपतनकश्चित्राङ्गमावास्य यत्र हिरण्यकमन्थरको तिष्ठतस्तत्र गत्वा सर्व चित्राङ्गपाशपतनं कथितवान्। हिरण्यकं च चित्रा- ङ्गपाशमोक्षणं प्रति कृतनिश्चयं पृष्ठमारोप्यभूयोपि सत्वरं चित्राङ्गसमीपे 20 गतः । सोपि मूषकमवलोक्य किञ्चिज्जीविताशया संश्लिष्ट आह । आपन्नाशाय विबुधैः कर्तव्याः सुहृदोमलाः । न तरत्यापदं कश्चिद्योत्र मित्रविवर्जितः ॥ १७१ ॥ हिरण्यक आह । भद्र त्वं तावन्नीतिशास्त्रज्ञो दक्ष इति । तत्कथ- मत्र कूटपाशे पतितः । स आह । भो न कालोयं विवादस्य तन्न 25 यावत्स पापात्मालुब्धकः समभ्येति तावद्दुततरं कर्तयेमं मत्पादपाशम् । तदाकर्ण्यविहस्याह हिरण्यकः । किं मय्यपि समायाते लुब्धकाद्विभेषि । 15 ३८ पञ्चतन्त्रम्. तन्त्रम् २. 5 ततः शास्त्रं प्रति महती मे विरक्तिः संपन्ना यद्भवद्विधा अपि नीति- शास्त्रविद एतामवस्थां प्रामुवन्ति । तेन त्वां पृच्छामि | स आह । भद्र कर्मणा बुद्धिरपि हन्यते । उक्तं च । कृतान्तपाशबद्धानां देवोपहतचेतसाम् । बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ॥ १७२ ॥ विधात्रा रचिता या सा ललाटेक्षरमालिका । न तां मार्जयितुं शक्ताः स्वशक्त्याप्यतिपण्डिताः॥१७३॥ एवं तयोः प्रवदतोः सुहृद्यसनसंतप्तहदयो मन्थरकः शनैः शनैस्तं प्रदेशमाजगाम | तं दृष्ट्वा लघुपतनको हिरण्यकमाह | अहो न शोभ- 10 नमापतितम् । हिरण्यक आह । किं स लुब्धकः समायाति । स आह। आस्तां तावल्लुब्धकवार्ता | एष मन्थरकः समागच्छति । तदनीतिर- नुष्ठितानेन यतो वयमप्यस्य कारणानूनं व्यापादनं यास्यामो यदि स पापात्मा लुब्धकः समागमिष्यति । तदहं तावत्खमुत्पतिष्यामि | त्वं पुनर्बिलं प्रविश्यात्मानं रक्षयिष्यसि | चित्राङ्गोपि वेगेन दिगन्तरं 15 यास्यति । एष पुनर्जलचरः स्थले कथं भविष्यतीति व्याकुलोस्मि । अत्रान्तरे प्राप्तोयं मन्थरकः । हिरण्यक आह । भद्र न युक्तमनुष्ठितं भवता यदत्र समायातः । तद्भूयोपि द्रुततरं गम्यतां यावदसौ लुब्धको न समायाति | मन्थरक आह भद्र किं करोमि । न शक्नोमि तत्रस्थो मित्रव्यसनामिदाघं सोढुम् । तेनाहमत्रागतः। अथवा साध्विदमुच्यते । दयितजनविप्रयोगो वित्तवियोगश्च केन सह्याः स्युः । यदि सुमहौषधकल्पो वयस्यजनसंगमो न स्यात् ॥१७४ ॥ एवं तस्य प्रवदत आकर्णपूरितशरासनो लुब्धकोप्युपागतः । तं दृष्ट्वा मूषकेण तस्य स्नायुपाशस्तक्षणात्खण्डितः। अत्रान्तरे चित्राङ्गः सत्वरं पृष्ठमवलोकयन्प्रधावितः । लघुपतनको वृक्षमारूढः । हिर- 28 ण्यकश्च समीपवर्ति बिलं प्रविष्टः । अथासौ लुब्धको मृगगमनाविष- ण्णवदनो व्यर्थश्रमस्तं मन्थरकं मन्दमन्दं स्थलमध्ये गच्छन्तं दृष्टवान्। अचिन्तयच्च । यद्यपि कुरंगो धानापहतस्तथाप्ययं कूर्म माहारार्थ 20 तन्त्रम् २. पञ्चतन्त्रम्. ३९ .. 5 संपादितः । तदद्यास्यामिषेण मे कुटुम् स्याहारनिर्वृत्तिविष्यति । एवं विचिन्त्य तं दर्भः संछाद्य धनुषि समारोप्य स्कन्धे कृत्वा गृहं प्रति प्रस्थितः । अत्रान्तरे तं नीयमानमवलोक्य हिरण्यको दुःखाकुलः पर्यदेवयत् । कष्टं भोः कष्टमापतितम् । एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य । तावद्वितीयं समुपस्थितं मे छिद्रेष्वना बहुलीभवन्ति ।। १७५ ॥ यदि तावत्कृतान्तेन मे धननाशो विहितस्तन्मार्गश्रान्तस्य मे वेश्रामभूतं मित्रं कस्मादपहतम् । अपरमपि मित्रं परं मन्थरकसमं 10 न स्यात् । उक्तं च । असंपत्तौ परो लाभो गुह्यस्य कथनं तथा । आपद्विमोक्षणं चैव मित्रस्यैतत्फलत्रयम् ॥ १७६ ॥ तदस्य पश्चान्नान्यः सुहन्मे | तत्कि ममोपर्यनवरतं व्यसनशरैर्व- पति हन्त विधिः । यत आदौ तावद्वित्तनाशस्ततः परिवारभ्रंशस्ततो 13 देशत्यागस्ततो मित्रवियोग इति । अथवा स्वरूपमेतत्सर्वेषामेव जन्तूनां जीवितधर्मस्य । उक्तं च । कायः संनिहितापायः संपदः पदमापदाम् । समागमाः सापगमाः सर्वमुत्पादभङ्गुरम् ॥ १७७ ॥ तथा च ॥ क्षते प्रहारा निपतन्त्यभीक्ष्णं धनक्षये वर्धति जाठराग्निः । आपत्सु वैराणि समुद्भवन्ति च्छिद्रेष्वना बहुलीभवन्ति ॥ १७८ ।। अहो साधूक्तं केनापि । प्राप्ने भये परित्राणं प्रीतिविम्भभाजनम् । केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १७९ ॥ 20 25 6 पञ्चतन्त्रम्. तन्त्रम् २. 5 10 अत्रान्तर आक्रन्दपरौ चित्राङ्गलघुपतनको तत्रैव समायातौ । अथ हिरण्यक आह । अहो किं वृथाप्रलपितेन । नद्यावदेष मन्थरको दृष्टिगोचरान नीयते तावदस्य मोक्षोपायश्चिन्त्यतामिति । उक्तं च । व्यसनं प्राप्य यो मोहाल्केवलं परिदेवयेत् । क्रन्दनं वर्धयत्येव तस्यान्तं नाधिगच्छति ॥ १८० ।। केवलं व्यसनस्योक्तं भेषजं नयपण्डितैः । तस्योच्छेदसमारम्मो विषादपरिवर्जनम् ।। १८१ ॥ अन्यच । अतीतलाभस्य च रक्षणार्थ भविष्यलाभस्य च संगमार्थम् । आपत्तपन्नस्य च मोक्षणार्थ यन्मन्यतेसो परमो हि मन्त्रः ।। १८२।। तच्छ्रुत्वा वायस आह । भो यद्येवं तक्रियतां मइचः । एष चित्रा- गोस्य मार्गे गत्वा किंचित्पल्वलमासाद्य तस्य तीरे निश्चेतनो भूत्वा 15 पततु | अहमप्यस्य शिरसि समारुह्य मन्दैश्चञ्चुप्रहारैः शिर उल्लेखि- प्यामि येनासौ लुब्धकोमुं मृतं मत्वा मम चचुप्रहारप्रत्ययेन मन्थरकं भूमौ क्षिप्त्वा मृगार्थे धावति । अत्रान्तरे त्वया दर्भमयबन्धनवेष्टनानि खण्डनीयानि येनासौ मन्थरको द्रुततरं पल्वलं प्रविशति | चित्राङ्गः प्राह । भो भद्रोयं दृष्टो मन्त्रस्त्वया । नूनं मन्थरको मुक्तो 20 मन्तव्यः । उक्तं च । सिद्धिं वा यदि वासिद्धिं चिनोत्साहो निवेदयेत् । प्रथमं सर्वजन्तूनां प्राज्ञो वेत्ति न चेतरः ॥ १८३ ।। नत्तदेवं क्रियताम् । तथानुष्ठिते स लुब्धकस्तथैव मार्गासन्नपल्व- लतीरस्थं चित्राङ्गं वायससनाथमद्राक्षीत् । तं दृष्ट्वा हर्षितमना व्यचि- 25 न्तयत् । नूनं पाशवेदनया वराकोयं मृगः सावशेषजीवितः पाशं नोटयित्वा कथमप्येतइनान्तरं प्रविष्टो यावन्मृतः । तद्श्योयं मे कच्छ- पः सुयन्त्रितत्वात् । तदेनमपि तावद्गृह्णामीत्यवधार्य कच्छपं भूतले तन्त्रम् २. पञ्चतन्त्रम्. ४१ 5 प्रक्षिप्य मृगमुपाद्रवत् । अत्रान्तरे हिरण्यकेन वनोपमदंष्ट्रापहारेण तर्भवेष्टनं तत्क्षणात्खण्डशः कृतम् | मन्थरकोपि तृणमध्यानिष्क्रम्य पल्वलं प्रविष्टः । चित्राङ्गोप्यप्राप्तस्यापि तस्योत्थाय वायसेन सह द्रुतं प्रनष्टः । अत्रान्तरे विलक्षो विषादपरो निवृत्ती लुब्धको यावत्पश्यति तावत्कच्छपोपि गतः । ततश्च तत्रोपविश्यमं श्लोकमपठत् । प्राप्तो बन्धनमप्ययं गुरु मृगस्तावत्त्वया मे हतः संप्राप्तः कमठः स चापि नियतं नष्टस्तवादेशतः । क्षुल्क्षामोत्र वने भ्रमामि शिशुकैस्त्यक्तः समं भार्यया यत्स्वामिन कृतं कृतान्त कुरु रेतत्रापि सज्जोस्म्यहम्॥१८४॥ एवं बहुविध विलप्य स्वगृहं गतः । अथ तस्मिन्दूरीभूते सर्वेपि ते 10 काककूर्ममृगाखवः परमानन्दभाजो मिलित्वा परस्परमालिङ्गय पुन- र्जातानिवात्मनो मन्यमानास्तदेव सरः प्राप्य महासुखेन सुभाषित- गोष्ठीविनोदं कुर्वन्तः कालं नयन्ति स्म । एवं ज्ञात्वा विवेकिना मित्र- संग्रहः कार्यः । तथा मित्रेण सहाव्याजेन वर्तितव्यम् । उक्तं च | यो मित्राणि करोत्यत्र कौटिल्येन न वर्तते । स दुःखं न पराभूतेः प्रामोति हि कथंचन || १८५ ।। ॥ समाप्तं चेदं मित्रसंप्राप्त्यभिधानं द्वितीयं तन्त्रम् 15 %3D ४२ पञ्चतन्त्रम्. तन्त्रम् ३. 5 अथेदमारभ्यते काकोलूकीयं नाम तृतीयं तन्वं यस्यायमादिमः श्लोकः। न विश्वसेत्पूर्वविरोधितस्य शत्रोश्च मित्रत्वमुपागतस्य । दग्धां गुहां पश्य उलूकपूर्णा काकप्रणीतेन हुताशनेन ।। १ ।। तद्यथानुश्रूयते । अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य समी- पेनेकखगसनाथोतिघनतरपत्रच्छन्नो महान्यग्रोधपादपस्तिष्ठति । तत्र 10 च मेघव! नाम वायसराजोनेककाकपरिवारः प्रतिवसति स्म |स तत्र विहितदुर्गरचनः सपरिजनः कालं नयति । अथान्योरिमर्दनो नामोलकराजोसंख्योलूकपरिवृतो गिरिगुहादुर्गाश्रयः प्रतिवसति स्म | स च रात्रावागत्य तस्य न्यग्रोधस्य समन्तात्परिभ्रमति | यं कंचिद्वाय- समासादयति तं व्यापादयति । एवं नित्याभिगमनाच्छनैः शनैस्तन्यग्रो- 15 धपादपदुर्ग निर्वायसं कृतम् । अथवा भवत्येवम् । यतः | य उपेक्षेत शत्रु स्वं प्रचरन्तं यदृच्छया । रोगं वालस्यसंयुक्तः स शनैस्तेन हन्यते ।। २ ।। तथा च । जातमात्रं न यः शत्रु व्याधि च प्रशमं नयेत् । महाबलोपि तेनैव वृद्धिं प्राप्य स हन्यते ।। ३ ।। अथान्येधुः स वायसराजः सर्वान्सचिवानाहूय प्रोवाच । भो उत्क- टस्तावदस्माक शत्रुरुद्यमसंपन्नश्च कालविनित्यमेव निशागमे समेत्य व्यापादनं करोति । तत्कथमस्य प्रतिविधातव्यम् । वयं तावद्रात्रौ न पश्यामो न च तस्य दुर्ग विजानीमो येन गत्वा प्रहरामः । तदत्र किं 25 युज्यते संधिविग्रहयानासनसंश्रयद्वैधीभावानामेकतमस्य क्रियमाण- स्य । अथ ते प्रोचुः । युक्तमभिहितं देवेन यदेष प्रभः कृतः। उक्तं च ।

तन्त्रम् ३. पञ्चतन्त्रम्. 5 अपृष्टेनापि वक्तव्यं सचिवेनात्र किंचन | पृष्टेन त्वरितं पथ्यं वाच्यं च प्रियमप्रियम् ॥ ४॥ यो न पृष्टो हितं ब्रूते परिणामे सुखावहम् । मन्त्री च प्रियवक्ता च केवलं स रिपुः स्मृतः ॥५॥ सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ ६ ॥ तस्मादेकान्तमासाद्य मन्त्रः कार्यो महीपते । येन तस्य वयं कुर्मो नियमं कारणं तथा ॥ ७॥ अथ तस्यान्वयागताः पञ्च सचिवाः । तद्यथा नामानि | उज्जीवी संजीव्यनुजीवी प्रजीवी चिरंजीवी छ । स तेषामादौ ताबदुज्जीविनं 11 पृष्टवान् । भद्र एवं स्थिते किं मन्यते भवान् । य आह ! राजन् बल- वता सह विग्रहो न कार्यः । यतः स बलवान्कालाहर्ता च तस्मा- संधेयः । उक्तं च । बलीयसि प्रणमतां काले प्रहरतामपि । संपदो नापगच्छन्ति प्रतीप इव निम्नगाः ॥ ८॥ सत्याढयो धार्मिकश्चार्यो भ्रातृसंघातवान्बली | अनेकविजयी चैव संधेयः स रिपुर्भवेत् ।। ९ ॥ संधिः कार्योप्यनार्येण विज्ञाय प्राणसंशयम् । प्राणैः संरक्षितैः सर्व यतो भवति रक्षितम् ।। १०॥ योनेक युद्धविजयी स तेन विशेषात्संधेयः | उक्तं च । अनेकयुद्धविजयी संधानं यस्य गच्छति । तत्प्रभावेन तस्याशु वशमायान्त्यरातयः ।। ११ ॥ संधिमिच्छेत्समेनापि संदिग्धो विजयो युधि । न हि सांशयिकं कुर्यादित्युवाच बृहस्पतिः ।। १२ ॥ संदिग्धो विजयो नित्यं धृतेनापि हि युद्धयताम् । उपायत्रितयादू तस्माद्युद्धं समाचरेत् ।। १३ ।। 15 20 25 पञ्चतन्त्रम्. तन्त्रम् ३. 5 10 असंदधानो मानान्धः समेनापि हतो भृशम् । आमकुम्भ इवान्येन करोत्युभयसंक्षयम् ।। १४ ।। समं शक्तिमता युद्धमशक्तस्य हि मृत्यवे । दृषत्कुम्भमिवाभित्त्वा तावत्तिष्ठति शक्तिमान् ॥ ९५॥ भूमिर्मित्रं हिरण्यं च विग्रहस्य फल त्रयम् | नास्त्येकमपि यद्येषां विग्रहं न समाचरेत् ॥ १६ ॥ खननाखुबिलं सिंहः पाषाणशकलाकुलम् । प्रामोति नखभङ्गं हि फलं वा मूषको भवेत् ॥१७॥ तस्मान्न स्यात्कलं यत्र पुष्टं युद्धं च केवलम् । न हि तत्स्वयमुत्पाद्यं कर्तव्यं च कथंचन || १८ ॥ बलीयसा समाक्रान्तो वैतसीं वृन्तिमाश्रयेत् । वाञ्छन्नभ्रंशिनी लक्ष्मी न भौजंगी कदाचन ॥ १९ ॥ कुर्वन्हि वैतसीं वृत्तिं प्रामोति महतीं श्रियम् । भुजंगवृत्तिः पामोति वधमेव हि केवलम् ॥ २० ॥ कूर्भसंकोचमास्थाय प्रहारानपि मर्षयेत् । कालेकाले च मतिमानुत्तिष्ठेत्कृष्णसर्पवत् ॥ २१ ॥ भागतं विग्रहं दृष्ट्वा सुसाना प्रशमं नयेत् । विजयस्य ह्यनित्यत्वाद्रभसा न समुत्पतेत् ॥ २२ ॥ तथा चा बलिना सह योद्धव्यमिति नास्ति निदर्शनम् । प्रतिवातं न हि धनः कदाचिदुपसर्पति || २३ ।। एवमुज्जीवी साममन्त्रं संधिकारकं विज्ञप्तवान् । अथ तच्छ्रुत्वा संजीविनमाह | भद्र तवाभिप्रायं श्रोतुमिच्छामि । स आह । देव न ममैतत्प्रतिभाति यच्छत्रुणा सह संधानं क्रियते । उक्तं च | शत्रुणा न हि संदध्यात्सुश्लिष्टेनापि संधिना। सुतप्तमपि पानीयं शमयत्येव पावकम् ।। २४ ॥ अपरं च स क्रूरो लुब्धो धर्मरहितः । तत्त्वया विशेषादसंधेयः । 15 20 25 तन्त्रम् ३. पञ्चतन्त्रम्. ४५ उक्तं च । सत्यधर्मविहीनेन न संदध्यात्कथंचन । सुसंधितोप्यसाधुत्वादचिराद्याति विक्रियाम् ॥ २५ ॥ तस्मात्तेन योद्धव्यमिति मे निश्चयः । उक्तं च । क्रूरो लुब्धोलसोसत्यः प्रमादी भीरुरस्थिरः । मूढो योधावमन्ता च सुखोच्छेद्यो भवेद्रिपुः ॥ २६ ॥ अपरं पराभूनास्तेन वयम् । तद्यदि संधानं करिष्यथ तद्भूयोपि काकविनाशं करिष्यति । उक्तं च । चतुर्थोपायसाध्ये तु शत्रौ सान्त्वमपक्रिया । स्वेद्यमानज्वरं प्राज्ञः कोम्भसा परिषिञ्चति || २७ ।। सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः । सुतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥ २८ ॥ यश्चैतद्वदति देवो रिपुर्बलवांस्तदप्यकारणम् ! उक्तं च । प्रमाणाभ्यधिकस्यापि महत्सत्त्वमधिष्ठितः । पदं मूर्ध्नि समाधत्ते केसरी मत्तदन्तिनः ॥ २९ ॥ उत्साहशक्तिसंपन्नो हन्याच्छत्रु लघुर्गुरुम् । यथा कण्ठीरवो नागं भारद्वाजाः प्रचक्षते ॥ ३० ।। मायया शत्रवो वध्या अधिकाः स्युर्बलेन ये । यथा स्त्रीरूपमास्थाय हता भीमेन कीचकाः ॥ ३१॥ तथा च । मृत्योरिवोगदण्डस्य राज्ञो यान्ति वशं द्विषः । सर्वसहं तु मन्यन्ते तृणाय रिपवश्च तम् ॥ ३२ ॥ न जातु शमनं यस्य तेजस्तेजस्वितेजसाम् । वृथाजातेन किं तेन मातुर्यौवनहारिणा ।। ३३ ॥ या लक्ष्मीनानुलिपाङ्गी परिशोणितकुल मैः । कान्तापि मनसः प्रीति न सा धत्ते मनस्विनाम् ॥ ३४॥ 11 20 25 पञ्चतन्त्रम्. तन्त्रम् ३. 10 रिपुरक्तेन संसिक्ता तत्स्त्रीनेत्राम्बुभिस्तथा । न भूमिर्यस्य भूपस्य का श्लाघा तथा जीविते ॥ ३५ ॥ एवं संजीवी विग्रहमन्त्रं विज्ञापयामास । अथ तच्छुत्वानुजीविन- माह | भद्र त्वमपि स्वाभिप्राय वद । स आह । देवि दुष्टः स बलाधिको 5 निर्मर्यादश्च | तत्र तेन न संधिर्न विग्रहो युक्तः ॥ केवलं यानमह स्यात् । उक्तं च । बलोत्कृष्टेन दुष्टेन मर्यादारहितेन च । न संधिविग्रहो नैव विना यानं प्रशस्यते ॥ ३६ ॥ द्विधाकारं भवेद्यानं भये प्राणार्थरक्षणम् एकमन्यज्जिगीषोश्च यात्रालक्षणमुच्यते ॥ ३७ ।। कार्तिके वाथ चैत्रे वा विजिगीषोः प्रशभ्यते । यानमुत्कृष्टवीर्यस्य शत्रुदेशे न चान्यदा ।। ३८ ॥ अवस्कन्दप्रदानस्य सर्वे कालाः प्रकीर्तिता, व्यसने वर्तमानस्य शत्रोश्छिद्रान्वितस्य च ॥ ३९ ॥ स्वस्थानं सुदृढं कृत्वा शुरैश्वाप्नैर्महाबलैः । परदेशं ततो गच्छेत्प्रणिधिव्याप्तमग्रतः ॥ ४ ०॥ अज्ञात वीवधासारतोयसस्यो व्रजेत्तु यः । परराष्ट्र न भूयः स स्वराष्ट्रमपि गच्छति ॥ ४१ ॥ तत्ते युक्तं कर्तुमपसरणम् । अन्यच्च । तत्र युक्तं प्रभो कर्तुं द्वितीयं यानमेव च । न विग्रहो न संधानं बलिना तेन पापिना || ४२। अपरं कारणापेक्षयापसरणं क्रियते बुधैः । उक्तं । यदपसरति मेषः कारणं तत्महतु मृगपतिरतिकोपात्संकुचत्युत्पतिष्णुः । हृदयनिहितभावा गूढमन्त्रप्रचाराः किमपि विगणयन्तो बुद्धिमन्तः सहन्ते ।। ४३ ॥ 15 20 25 तन्त्रम् ३. पञ्चतन्त्रम्. 5 10 अन्यच्च । बलवन्तं रिपुं दृष्ट्वा देशत्यागं करोति यः । युधिष्ठिर इवानोति पुनर्जीवन्स मेदिनीम् ॥ ४४ ।। युध्यतेहंकृतिं कृत्वा दुर्बलो यो बलीयसा । स तस्य वाञ्छितं कुर्यादात्मनश्च कुलक्षयम् ॥ ४५ ॥ तद्बलवताभियुक्तस्यापसरणसमयोयं न संधिविग्रहश्च । एवमनु- जीविमन्त्रोपसरणस्य । अथैतदाकर्ण्य प्रजीविनमाह | भद्र त्वमप्या- मनोभिप्रायं वद | स आह । देव मम संधिविग्रहयानान्यपि त्रीण्येव न प्रतिभान्ति विशेषतश्चासनम् । उक्तं च । नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति । स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ।। ४६ ।। अन्यच्च । अभियुक्तो बलवता दुर्गे तिष्ठेत्प्रयत्नवान् । तत्रस्थः सुहदाह्वानं प्रकुर्वीतात्ममुक्तये ॥ ४७ ॥ यो रिपोरगमं श्रुत्वा भयसंत्रस्तमानसः । स्वस्थानं हि त्यजेत्तत्र न तु भूयो विशेञ्च सः ।। ४८ ॥ दंष्ट्राविरहितः सर्पो मदहीनो यथा गजः । स्थानहीनस्तथा राजा गम्यः स्यात्सर्वजन्तुषु ॥ ४९ ।। निजस्थामस्थितोप्येकः शतं योढुं सहेन्नरः । बलिनामपि शत्रूणां तस्मात्स्थानं न संत्यजेत् ॥ ५० ॥ तस्मादुर्ग दृढं कृत्वा वीवधासारसंयुतम् । प्राकारपरिखायुक्तं यन्त्रादिभिरलंकृतम् ॥ ५१ ॥ तिष्ठेन्माध्यगतो नित्यं युद्धाय कृतनिश्चयः । जीवन्संप्राप्स्यति राज्यं मृतो वा स्वर्गमेष्यति ॥ १२॥ 25 15 20 7 अन्यच्च । बलिनापि न बाध्यन्ते लघवोप्येकसंश्रयाः । प्रभजनविपक्षेण यथैकस्था महीरुहाः ॥ ५३ ।। महानप्येकजो वृक्षः सर्वतः सुप्रतिष्ठितः । सुमन्देनापि वातेन शक्यो धूनयितुं यतः ।। ५४ ॥ एवं मनुष्यमप्येकं शौर्येणापि समन्विताम् । शक्यं द्विषन्तो मन्यन्ते हिंसन्ति च ततः परम् ॥ ५५ ॥ एवं प्रजीविमन्त्रः । इदमासनसंज्ञकम् । एतत्समाकर्ण्य चिरंजी- विनमाह । भद्र त्वमपि स्वाभिप्रायं वद । स आह । देव षाड्गुण्य- 10 मध्ये मम संश्रयः प्रतिभाति । तस्यानुष्ठानं कायाम् । उक्तं च । असहायः समर्थोपि तेजस्वी किं करिष्यति । निर्वाते ज्वलितो वह्निः स्वयमेव प्रशाम्रपति || ५६ ॥ तदत्रैव स्थितेन त्वया कश्चित्समर्थ आश्रयणीयमे यो विपत्प्रतीकारं करोति । यदि पुनस्त्वं तव स्थानं त्यक्त्वा प्रयास्यसि तत्कोपि ते 15 वामात्रेणापि सहायत्वं न करिष्यति । उक्तं च । वनानि दहतो वह्नः सखा भवति मारुतः । स एव दीपनाशाय कृशे कस्यास्ति गौरव म् ॥ १७ ॥ अथवा नैष एकान्तो यद्वलिनमेकं समाश्रयेत् । लघूनामपि संश्रयो रक्षायै भवति | उक्तं च । संघातवान्यथा वेणुनिबिडैर्वेणुभिर्वृतः । न शक्यते समुच्छेत्तुं दुर्बलोपि तथा नृपः ॥ ५८ ॥ अथ ये संहता वृक्षाः सर्वतः सुप्रतिष्ठिताः । ते न रौद्रानिलेनापि हन्यन्तेन्योन्यसंश्रयात् ॥ ५९ ॥ महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः । प्रसह्य इव वातेन शक्यः स्यादपि मर्दितुम् ।। ६० ॥ यदि पुनरुत्तमे संश्रयो भवति तत्किमुच्यते । उक्तं च । 20 .. 23 पञ्चतन्त्रम्. 10 महाजनस्य संपदपः कस्य नोन्नतिकारकः । पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ।। ६१ ॥ ततः संश्रयं विना न कश्चित्पतीकारोभवति । तस्मात्संश्रयात्कार्यों विग्रह इति मेभिप्रायः । एवं चिरंजीविमन्त्रः । अथैवं तेनाभिहिते स मेघवर्णो राजा चिरंतनं पितृसचिवं दीर्घायुषं सकलनीतिपारं गतं 5 स्थिरजीविनामानं प्रणय प्रोवाच । तात यदेते मया पृष्टाः सचिवा- स्तावदत्र स्थितस्यापि तव तत्परीक्षार्थ येन त्वं सकलं श्रुत्वा यदुचितं तन्मे समादिशसि । तद्यधुक्तं भवति तत्समादेश्यम् । स आह । वत्स सर्वैरप्येतैर्नीतिशास्त्राश्रयमुक्तं सचिवैः । तदुपयुज्यते स्वकाले । पर- मेष द्वैधीभावस्य कालः । उक्तं च | अविश्वासं सदानिष्ठेत्संधिना विग्रहेण च । द्वैधीभावं च संश्रित्य पार्श्वे शत्रोबलीयसः ।। ६२ ।। तच्छतुं विश्वास्याविश्वस्तैर्लोभं दर्शयद्भिः सुखेनोच्छिद्यते रिपुः । उक्तं च ] उच्छेद्या विद्वांसो वर्धयन्त्यरिमेकदा । गुडेन भितः श्लेष्मा सुखं वृद्धया निपात्यते ।। ६३ ।। तथा च । स्त्रीणां शत्रोः कुमित्रस्य पण्यस्त्रीणां विशेषतः । यो भवेदेकभावोत्र न स जीवति मानवः ॥ ६४ ।। कृत्यं दोवद्विजातीनामात्मनश्च गुरोस्तथा । एकभावेन कर्तव्यं शेषं द्विर्भावमाश्रितैः ॥ ६५ ॥ एको भावः सदा शस्तो यतीनां भावितात्मनाम् । स्त्रीलुब्धानां न लोकानां विशेषेण महीभृताम् ।। ६६ ।। तद्वैधीभावं संश्रितस्य तव स्वस्थाने वासो भविष्यति लोभाश्रयाच शत्रुमुच्चाटयिष्यसि | अपरं यदि किंचिच्छिद्रं तस्य पश्यसि तद्गत्वा 25 व्यापादयिष्यसि । मेषवर्ण आह । तात मयाविदितः संश्रयस्तस्य । ग 15 20 ६ पञ्चतन्त्रम्. तन्त्रम् ३. 5 तत्कथं छिद्रं ज्ञायते तस्य । स्थिरजीव्याह वत्स न केवलं स्थानं छिद्राण्यपि तस्य प्रकटीकरिष्यामि प्रणिधिभिः । उक्तं च । गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति वै द्विजाः । चारैः पश्यन्ति राजानश्चक्षुामितरे जनाः ।। ६७ ।। उक्तं चात्र विषये। यस्तीर्थानि निजे पक्षे परपक्षे विशेषतः । गुप्तैश्चारैर्नृपो वेत्ति न स दुर्गतिमामुयात् ॥ ६८ ॥ मेघवर्ण आह । तात कानि नीर्थान्युच्यन्ते ऋतिसंख्यानि च । कीदृशा गुप्तचराः । तत्सर्व निवेद्यतामिति । स आह । अत्र विषये 10 भगवता नारदेन युधिष्ठिरः प्रोक्तः । यच्छत्रुपक्षेष्टादश तीर्थानि स्वपक्षे पञ्चदश । त्रिभिस्त्रिभिर्गुप्तचरैस्तानि ज्ञेयानि । तैीतैः स्वपक्षः परप- क्षश्च वश्यो भवति । उक्तं च नारदेन युधिष्ठिरं प्रति । कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञातैत्सि तीर्थानि चारौः ॥ ६९ ।। तीर्थशब्देनायुक्तकर्माभिधीयते तद्यदि तेषां कुदि तं भवति तत्स्वा- मिनोभिघाताय | प्रधानं भवति तदृद्धये स्यादिति । तद्यथा | मन्त्री पुरोहितः सेनापतिर्युवराजो दौवारिकोन्तर्वासिकः प्रशासकः समाहर्तृ- संनिधातृप्रदेष्टुज्ञापकाः साधनाध्यक्षो गजाध्यक्षः कोशाध्यक्षो दुर्गपा- लकरपालसीमापालपोत्कटभृत्याः । एषां भेदेन द्राग्रिपुः साध्यते । 20 स्वपक्षे च देवी जननी कक्षुकी मालिकः शय्यापालकः स्पाशः सांव- सरिको भिषग्जलवाहकस्ताम्बूलवाहकाचार्यावङ्गरक्षाकः स्थानचि- न्तक छत्रधरो विलासिनी । एषां वैरद्वारेण स्वपक्षे विधातः । तथा च । वैद्यसांवत्सराचार्याः स्वपक्षेधिकृताश्चराः । यथाहितुण्डिकोन्मत्ताः सर्व जानन्ति शत्रुषु ॥ ७० ॥ तथा च । कृत्वा कृत्यविदस्तीफरन्तः प्रणिधयः पदम् । विदांकुर्वन्तु महतस्तलं विद्विषदम्भसः ।। ७१ ।। 15 25 तन्त्रम् ३. पञ्चतन्त्रम्. ५१ - 10 एवं मन्त्रिवाक्यमाकात्रान्तरे मेघवर्ण आह । तात अथ किंनि- मित्तमेवंविधं प्राणान्तिकं दैत्र वायसोलूकानां वैरम् । स आह । वत्स कदाचिद्धंसशुकबकको चातकोलूकमयूरकपोतपारावतविष्किरप्र. भृतयः सर्वेपि पक्षिण समेत्य सोद्वेगं मन्त्रयितुमारब्धाः । अहो अस्माकं वैनतेयो राजा स च तावच्छीवासुदेवासक्तो नास्माकं कामपि । चिन्तां करोति । तत्किं तेन वृथास्वामिना यो लुब्धकपाशैनित्यं निव ध्यमानानां न रक्षां विधत्ते । उक्तं च । यो न रक्षति वित्रस्तान्पीद्यमानान्परैः सदा । जन्तून्पार्थिवरूपेण स कृतान्तो न संशयः ।। ७२ ॥ यदि न स्यानरपतिः सम्यड़ेता इमाः प्रजाः । अकर्णधारा पुरुषा विप्लवन्ते ह नौरिव ॥ ७३ । षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे | अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥ ७४ ।। अरक्षितारं राजानं भायाँ चाप्रियवादिनीम् । ग्रामकामं च गोपालं वनकामं च नापितम् ॥ ७५ ।। तत्संचिन्त्यान्यः कश्चिद्राजा विहंगमानां क्रियतामिति । अथ तेर्भ- द्राकारमुलूकमवलोक्य सर्वैरभिहितम् । यदेष उलूको राजास्माकं भविष्यति । तदानीयन्तां नृपाभिषेकसंबन्धिनः संभारा इति । अथ साधिते विविधतीर्थोदके प्रगुणीकृतेष्टोत्तरशतमूलिकासंघाते प्रदत्ते सिंहासने वर्तिते सप्तद्वीपवतीधरित्रीमण्डले प्रस्तारिते व्याघ्रचर्मण्या- 20 पूरितेषु हेमकुम्भेषु दीपेषु वाद्येषु च सज्जीकृतेषु दर्पणादिषु माङ्गल्य- वस्तुषु पठत्सु वन्दिमुख्येषु वेदोच्चारणपरेषु समुदितमुखेषु ब्राह्मणेषु गीतपरे युवतीजन आनीतायामग्रमहिष्यां कृकालिकायामुलूकोभिषेकार्थ यावसिंहासन उपविशति तावत्कुतोपि वायसः समायातः । सोचिन्त- यत् । अहो किमेष पक्षिमेलापको महोत्सवश्व । अथ ते पक्षिणस्तं 25 दृष्ट्वा मिथः प्रोचुः । पक्षिणां मध्ये वायसश्चतुरः श्रूयते । उक्तं च । 15 ५२ पञ्चतन्त्रम्.. तन्त्रम् ३. er नराणां नापितो धूर्तः पक्षिणां चैव वायसः । दष्ट्रिणां च शृगालस्तु श्वेतभिक्षुस्त स्वनाम् ।। ७६ ॥ तदस्यापि वचनं ग्राह्यम् । उक्तं च बहुधा बहुभिः सार्ध चिन्तिताः सुारूपिताः । कथंचिन्न विलीयन्ते विवद्भिश्चिन्तित नयाः ॥ ७७ ॥ अथ वायसः समेत्य तानाह । अहो कि भाहाजनसमागमोयं पर- ममहोत्सवश्व । ते पोचुः । भो नास्ति कश्चिद्विहंगानां राजा । तद- स्योलूकस्य विहंगराजाभिषेको निरूपितस्तिष्ठति समस्तपक्षिभिः । तत्त्वमपि मतं देहि । प्रस्तावे समागतोसि | अथासौ काको विहस्याह । 10 अहो न युक्तमेतद्यन्मयूरहंसकोकिलचक्रवाकशुकहारीतसारसादिषु पक्षिप्रधानेषु विद्यमानेषु दिवान्धस्यास्य करालवक्तस्याभिषेकः क्रिय- ते ! तन्नैतन्मम मतम् । यतः । वक्रनासश्च कर्काक्षो रौद्रश्चाप्रियदर्शनः । अक्रुद्धोयं दिवान्धः स्यात्क्रुद्धः कीदृग्भविष्यति ।। ७८ ॥ तथा च । स्वभावरौद्रमत्युग्रं क्रूरमप्रियदर्शनम् । उलूकं नृपतिं कृत्वा का नः सिद्धिर्भविष्यनि ॥ ७९ ॥ अपरं वैनतेये स्वामिनि स्थिते किमेष दिवान्धः स्वामी क्रियते । तद्यद्यपि गुणवान्भवति तथाप्येकस्मिन्स्वामिनि स्थिते नान्यो भूपः 20 प्रशस्यते । एक एव हितार्थो यस्तेजस्वी पार्थिवो भुवः । युगान्त इव भास्वन्तो बहवोत्र विपत्तये ।। ८० ॥ तत्तस्य नानापि यूयं परेषामगम्या भविष्यथ । उक्तं च । गुरूणां नाममात्रेपि गृहीते स्वामिसंभवे । दुष्टानां पुरतः क्षेमं तत्क्षणादेव जायते ॥ ८१ ।। 15 25 तन्त्रम् ३. पञ्चतन्त्रम्. ५३ तथा च ॥ व्य पदेशेन महतां सिद्धिः संजायते परा। शशिनो: न वसन्ति शशकाः सुखम् ।। ८२।। त ऊचुः । क त् । स आह । 5 गजराजः प्रोक्तः कथा १. अस्ति कस्मिा वतुर्दन्तो नाम महागजो यूथाधिपः प्रतिवसति स्म । तत्र कदा त्यनावृष्टिः संजाता प्रभूतवर्षाणि यावत् । तथा तडागदपल्वलस । शोषमुपागतानि | अथ तैः समस्तगजैः स व पिपासाकुला गजकलभा मृतप्राया अपरे मृताश्च । तदन्विष तां कश्चिजलाशयो यत्र जलपानेन स्वस्थतां 10 व्रजन्ति । ततश्चिरं यात्वा तेनाभिहितम् । अस्ति महाहूदो विविक्ते प्रदेशे स्थलमध्यगतः पातालगङ्गाजलेन सदैव पूर्णः । तत्तत्र गम्यता- मिति । तथानुतिष्ठे पञ्चरात्रमुपसर्पद्भिः समासादितस्तैः स हृदः । तत्र स्वेच्छया जलमवगाह्यास्तमनवेलायां निष्क्रान्ताः । तस्य च हृदस्य समन्ताच्छ शकबिला असंख्याः सुकोमलभूमौ तिष्ठन्ति । तेपि समस्तै- 13 रपि तैर्गजेरितस्ततो, भ्रमाद्भिः परिभन्नाः । बहवः शशका भग्नपादशि- रोग्रीवा विहिताः केचिन्मृताः केचिजीवशेषा जाताः । अथ गते तस्मिन्गजयूथे श शकाः सोद्वेगा गजपादक्षुण्णसमावासाः केचिद्भग्न- पादा अन्ये जर्जरि तकलेवरा रुधिरप्लुता अन्ये हतशिशवो वाष्पपिहि- तलोचनाः समेत्या मिथो मन्त्रं चक्रुः। अहो विनष्टा वयम् । नित्यमे- 20 वैतद्जयूथमागमिष्यति यतो नान्यत्र जलमस्ति । तत्सर्वेषां नाशो भविष्यति । उकं च । स्पृशन्नपि गजो हन्ति जिघन्नपि भुजंगमः । हसन्नपि नृपो हन्ति मानयनपि दुर्जनः ।। ८३ ।। तचिन्त्यता कश्चिदुपायः । तत्रैकः प्रोवाच | गम्यतां देशत्यागेन । 25 किमन्यत् । रक्तं च मनुना व्यासेन च ।

५४ पञ्चतन्त्रम्. तन्त्रम् ३. ८४ ॥ 5 ॥ त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थ आत्मार्थे पृथिवीं त्यजेत ।। मनुः क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिक परित्यजेन्नृपो भूमिमात्मार्थमविचारय ८५ ॥ आपदर्थे धनं रक्षेदारानक्षेद्धनैरपि । आत्मानं सततं रक्षेदारैरपि धनैरपि ततश्चान्ये प्रोचुः । भोः पितृपैतामहं स्थान शक्यते सहसा त्यक्तुम् । तक्रियतां तेषां कृते काचिद्विभीषिर त्किथमपि देवान 10 समायान्ति | उक्तं च । निर्विषेणापि सर्पण कर्तव्या महती फट विषं भवतु मा वास्तु फटाटोपो भयंकर ॥ ८७॥ अथान्ये प्रोत्रुः । यद्येवं ततस्तेषां महविभी कास्थानमस्ति येन नागमिष्यन्ति । सा च चतुरदूतायत्ता विभीषिकः । यतो विजयदत्तो 15 नाम राजास्मत्स्वामी शशकश्चन्द्रमण्डले निवसति। तत्प्रेष्यतां कश्चि- न्मिथ्यादूतो यूथाधिपसकाशं यच्चन्द्रस्त्वामत्र हूद आगच्छन्तं निषेध- यति यतोस्मत्परिग्रहोस्य समन्ताइसति । एवमभि हिते श्रद्धेयवचना- कदापि निवर्तते । अथान्ये प्रोचुः । यद्येवं तदस्ति लम्बकों नाम शशकः | स च वचनरचनाचतुरो दूतकर्मज्ञः । स तत्र प्रेष्यतामिति । 20 उक्तं च | साकारो निःस्पृहो वाग्मी नानाशास्त्रविचक्षणः । परचित्तावगन्ता च राज्ञो दूतः स इष्यते ।। ८८ ॥ अन्यच्च । यो मूर्ख लौल्यसंपन्नं राजहारिकमानरेत् । मिथ्यावादं विशेषेण तस्य कार्य न सिध्यति ॥ ८९॥ तदन्विष्यतां यद्यस्माद्यसनादात्मनां सुनिर्मुक्तिः । अथान्ये पोचुः। अहो युक्तमेतत् । नान्यः कश्चिदुपायोस्माकं जीवितस्य । तथैव क्रिय- 25

No text on this page.

Panj-chatantrama~ 2nd And 3rd Tantra

Author
Vishhnd-u Shaar^ma
Other authors
Buhler G (ed.)
Title
Panj-chatantrama~ 2nd And 3rd Tantra
File name
Panchatantra 2nd And 3rd Tantra
Text
OCR done
Citation
1891
Published
2006/02/8
Publisher
Government Central Book Depot, Bombay
Language
Sanskrit
Pages
58
Library
Carnegie Mellon Univeristy
Classification
Fiction. Prose Narrative
Keywords
collection of fables
DLI number
495549
Barcode
1990020084945.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Copyright Permitted
VMLT id
EABlZU9DRdI
Download PDF

Panj-chatantrama~ 2nd And 3rd Tantra