Asr,melkote

Vaisheshhikasutra Vrxtti:-

Deshika Tirumalataataachaar^ya · 2004/12/20

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

सुगमा
वैशेषिकसूत्रवृत्तिः
प्रणेता
(स्व०) देशिकतिरुमलताताचार्यः
सम्पादकः
वि० श्री० रङ्गनाथाचार्यः
ब्याख्याता प्रयागविश्वविद्यालये
गंगानाथझाकेन्द्रीयसंस्कृतविद्यापीठम्
प्रयागः
१६७६

प्रकाशक:
डा० गयाचरण त्रिपाठी
प्राचार्यः
गंगानाथझा केन्द्रीयसंस्कृतविद्यापीठम्, इलाहाबाद
मूल्यम्
मुद्रक :
इलाहाबाद ब्लाक वर्क्स, प्रा० लि०, जीरो रोड, इलाहाबाद ।

FOREWORD We are happy to place in the hands of the readers Sugamā of Desika Tirumalai Tátācārya which is a short and lucid commentary (Vrtti) on the Vaišeşikasūtras of Kaņāda. The Vaiseşikasūtras are considered to be the oldest philosophical sâtras among the orthodox systems of Indian Phiłosophy and are usually assigned to the 5th C. B. C. The philosophy of Vaišeşika, however, might be still older since one could easily show the influence of some of its theories on the formation of Buddhism and Jainism. In the early centuries of Christian era, Vaišeşika comes closer to Nyaya and the Prasastapāda bhāsya (4th C. A. D.) which is more of an independent work than a commentary on the Vaiseşikasūtras, shows a marked influence of the Nyāyabhişya of Vatsyāyana. So also is the case with the four commentaries (Vyomavati, Nyayakandali, Kiraņāvali and Lilavatī) on the Prasastapādabhaşya written between the 9th and 11th c. A. D. Corresponding to the development of the system, a few new sätras have been added to the Vaiseșikasūtras from time to time to make room for new ideas. Some efforts have been undertaken recently to reconstruct the original character of the Vaiseşikasūtras on the basis of contents analysis. Pt. Tatacarya accepts and follows the order of Sūtras as suggested by Virarāghavācārya. The Vștti aims at elucidating the sūtras in their own light devoid of foreign or later influence. How far the author has suceeded in his aim, scholars only can decide. The work is being published posthumously. Pt. Tatācārya was born at Tiruvarangam (Tamilnadu) in 1894 and died in 1974 at Madras He was undoubtedly one of the greatest scholars of Nyāya, Pūrvamimamsā and Viſiņtādvaita-Vedānta of his time in his region. He had the privilege of learning at the feet of such illustrious Gurus as Pt. Shrinivasacharya and Pt. Kuppuswami Shastri at Kumbakanam and Tiruvaiyāru., He taught Mimamsa at Tiruvaiyaru, was Reader at the Oriental Research Institute, Tirupati and even adorned the post of Principal of the Tirupati Sanskrit College. He has written over a dozen books on various darsanas and sāhitya and has created many literary works himself. He was closely associated with the preparation of Darśanakosa (a Lexicon of Indian Philosophy). For more than thirty years he edited and published a Sanskrit Magazine named Udyanapatrika. For his services towards Sanskrit, he was honoured by the President of India in 1965. The credit to bring the Sugama to light goes to Pt. Ranganathacharya, Lecturer in Tamil at the Allahabad University who is also related to the author. He picked up this work from amongst the manuscripts left by Pt. Tatacharya and brought it to Allahabad where he prepared a press copy by ably editing it. The work was originally published in the Vols. XXXII and XXXIII of the Journal of this Vidyapeetha. It is now being issued separately for the benefit of those who want to procure and possess it independently.

(iii) I am confident that this scholarly yet precise and transparent commentary shall be very helpful in introducing the readers to the original source of the Vaišeşika» Philosophy. G. C.Tripathi Principal G. N. Jha Kendriya Sanskrit Vidyapeetha ALLAHABAD. 25th March, 1979 तथा सम्पादकीयम् आस्तिकदर्शनेषु अन्यतमस्य वैशेषिकदर्शनस्य मूलं कणादकृतवैशेषिकसूत्राणि । दर्शनस्यास्य वैशेषिकदर्शन मिति प्रसिद्धिं, कणाद इति नाम्न : सार्थकत्वं, अस्य ग्रन्थस्य प्रतिपाद्यविषयं प्रति च यद्वक्तव्यं तत् वृत्तिकारः श्रीताताचायैरेव स्व- भूमिकायामुक्तमिति न तत्र व्याप्रियते । अस्या वृत्तः वशिष्टयमात्रमत्रातिसंक्षेपेण निरूप्यते। वैशेषिकसूत्राणां व्याख्यानरूपेणाद्योपलभ्यमानेषु ग्रन्थेषु प्रशस्तपादकृतभाष्यं, शङ्करमिश्रकृतः उपस्कारः, दरभङ्गाविद्यापीठात प्रकाशिता अज्ञातकतका काचन टीका, गायकवाड ओरियण्टल सीरिज़ द्वारा प्रकाशिता चन्द्रानननामकस्य पण्डितस्य टीका, पण्डितश्रीजयनारायणभट्टाचार्यस्य टीका, पण्डितश्रीचन्द्रकान्ततालङ्कारस्य टीका, मद्रासनगरीय-अभिनवदेशिक उतमूर-श्रीवीरराघवाचार्य : कृतं व्याख्यान च विशेषतः उल्लेखमर्हन्ति । मूलग्रन्थस्य दुरूहत्वे तत्प्रति गाद्यार्थस्य स्फुटी- करणाय व्याख्याननिर्माणे प्रवृत्तिरिति विदितं सर्वेषाम् । यदि मूलग्रन्थार्थप्रकाशन- मात्र व्याख्यानानामुद्देश्यं तत् कथमेकस्यैव मूलग्रन्थस्यानेकव्याख्यानानामुत्थितिः, एकेनैव पर्याप्तं किल इति शङ्का जायते । अस्या : शङ्काया: समाधानं विद्वद्भिः बहुधा क्रियते । स्थितं व्याख्यानं मूलग्रन्थाभिप्रेतं सर्वमप्यथं न प्रकाशयतीति बुद्धया व्याख्यानान्तररचनायां प्रवृत्तिर्जायते । अथवा मूलग्रन्थेनानभिप्रेत : स्वेष्ट: अर्थ : मूलोपरि आरोपित :, स : निराकरणीय :, मूलाभिमतार्थ : प्रकाशनीय इति मत्या अन्या व्याख्या विधीयते । अथवा केचन साहसिकाः स्वकपोलकल्पित- स्यार्थस्य बहुजनपरिग्रहेष्टया मूलग्रन्य शिरसि हठादारोपणाय व्याख्यानरचनायां प्रवर्तन्ते, यान् प्रति प्रसिद्धयमुक्तिः सूत्राभिप्रायसंवृत्त्या स्वाभिप्रायप्रकाशनात् । व्याख्यातं यैरिदं शास्त्र व्याख्येयं तन्निवृत्तये ।।

( ६ ) वैशेषिकसूत्राणां व्याख्यानेषु प्रशस्तपादमाष्यं एतच्छास्त्रव्युत्पित्सूना अत्यन्त. मुपकारकम् । सूत्रोक्तानर्थान् क्रोडीकृत्य, द्रव्यगुणादिपदार्थानामुद्देशं यथावत् कृत्वा, तेषां परस्परसाधयं गंभीरसुगमपंक्तिभिः विशदयति भाष्यमिदम् । सूत्राणि प्रातिस्विकरूपेणादाय, तद्गतपदानामर्थवर्णनं न करोति । “प्रणम्य हेतुमीश्वरं मुनि कणादमन्वतः । पदार्थधर्मसङ्ग्रह : प्रवक्ष्यते महोदयः” इत्यारम्भं कुर्व दिदं भाष्यं सूत्रानुसारेण ‘पदार्थधर्मसंग्रह' मेव करोति । प्रकारान्तरेणेदं भाष्यं स्वतन्त्रग्रन्थ इति व्यपदेष्टुमुचितम् । ये सूत्रगतपदानामर्थ, तदभिमततात्पर्यमा जिज्ञासन्ते, अधिक- विचारे न प्रविवृत्सन्ति तै:व्याख्यानान्तरमेवान्वेषणीयं भवति। शङ्करमिश्रकृतोपस्कारा- दिकमपि प्रौढमात्रोपकारकम् । अत्र प्रस्तूयमाना इयं वत्ति : सुगमा स्वनामानुरूपं सूत्रगतपदानामर्थमुपवर्ण्य, तदाशयमतिसरल : सुबोध : वाक्य : विव णोति । अल्पा- क्षरसूत्राणां यथावदवबोधनाय तेषां पूर्वापरसङ्गति जानमत्यन्तनावश्यकम् । इयं वत्तिः प्राय : सर्वेषां सूत्राणां परस्परसङ्गतिमवबोधयति । प्रथममवतारिकामा- रचय्य सूत्रपदानामन्वयं प्रदश्य, समस्तपदानि विगृह्य, यत्रापेक्षितं तत्र स्वल्पं विचार कृत्वा सूत्रोक्तार्थ समर्थ्य, वैशेषिकदर्शनबुभुत्सूनां महदुपकरोति । अत्र स्थालीपुलाक- न्यायेन कानिचन स्थलानि निदर्शयाम: । प्रथमाध्यायप्रथमाह्निके सप्तमं सूत्रं 'उत्क्षेपणमपक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि' इति । अत्रोत्क्षेपणं कर्म लक्षयत् प्रशस्तपादभाष्यं-शरीरा- वयवेषु तत्संबद्धषु च यदूर्वभाग्भि : प्रदेश : संयोगकारणमधोभाग्मिश्च प्रदेश : विभागकारणं कर्मोत्पद्यते गुरुत्वप्रयत्नमयोगेभ्य : तदुत्क्षपणम्, इति । इयं सुगमा वृत्तिस्त्वेवं लक्षयति-कस्यचिद्वस्तुन : ऊर्ध्व देशस योगानुकूलो व्यापार : इति । अनोः द्वयोर्लक्षणयोः दुर्गमसुगमत्व स्पष्टम् । एतत्सूत्रप्रतिपाद्यविषये काचन शङ्का भवति । अत्रानिर्दिष्टानि, एतेषु पञ्चसु अनन्तर्गतान्यपि कुलालक्रियमाणचक्र- भ्रमणादीनि सन्ति । तत्कथमस्मिन् सूत्रे पञ्चैव कर्माणि परिगण्यन्ते इति । अस्याः शङ्काया: समाधानं भ्रमणादिकर्माणि गमने अन्तर्भाव्य विहितं प्रशस्तपादभाष्ये, तदनुसारिव्याख्यानान्तरेषु च । परं स्वस्यां व तो 'पञ्चभ्य अतिरिक्तान्येवेमानि कर्मा- णि । तर्हि पञ्चधा विभागानुपपत्तिरिति चेत्, नात्र तथा विभाग इष्यते । इतिशब्दस्य प्रकारार्थत्वात् । इति-एव प्रकाराणि कर्माणि इत्यर्थात्, इति समाहितम् । अस्य समाधानस्यौचित्याधिक्यं समन्येरन् मनीषिण इति मन्यामहे । अस्मिन्नेवाह्निके द्वादश सूत्र "तथा भवतीति सापेक्षेभ्यो निरपेक्षेभ्यश्च' इति । अत्र सापेक्षशब्द : तन्त्वन्तरस युक्तः इति, निरपेक्षशब्दः तन्त्वन्तरसंयोगरहितः इति च, अनया व त्या व्याख्याती। अपरस्मिन्नेकस्मिन् व्याख्याने "असंयुक्ततया - - पटं प्रति सापेक्षाः, कृतसंयोगतया निरपेक्षाः, इति विवृतम् । सुगमायां सापेक्षनिर- पेक्षशब्दो संयुक्तत्वावस्थायां स्वस्थिती एकस्य तन्तो : अपरतन्त्वपेक्षायाः सत्त्वात् सापेक्षत्वम्, असंयोगावस्थायां पृथक् स्थितानां तन्तूनां स्वस्थिती तन्त्वन्तरापेक्षाविर- हात् निरपेक्षत्वमिति हेतूपन्यासपूर्वकं व्याख्यातौ । अत्र कृत : पक्षातरस्यापि उल्ले- ख : वृत्तिकाराणां परगतगुणानुमोदनं प्रकटयति । द्वितीयाध्यायद्वितीयाहिके नवमं सूत्रं नित्येष्वभावादनित्येषु भावात् कारणे कालाख्येति इति । अस्य सूत्रस्य प्रधानप्रतिपाद्य : अर्थः 'काल : सर्वकार्यकारण' मिति । सूत्रे तु केवलं कारणशब्द एवास्ति । न तु सर्वकारणमिति । वैशेषिक- रसायनाख्ये व्याख्याने उपाधिरूपे कारणे कालाख्येति हेतो : काल : सर्वकार्यकारण- मिति शेषपूरणेन व्याख्येयमिति अन्ते हेतूपन्यासपूर्वकं नियूंढम् । एतद्वयाख्यानु- सारेण अत्र सूत्रे काचिन्न्यूनता वर्तते, सा शेषपूरणेन समीकरणीया इति भाति । अस्यां वृत्तो पुन : सूत्रव्याख्यानारम्भ एव 'इयं न केवलमाकाशादितुल्ये कस्मिंश्चित् द्रव्ये, अपि तु कारणे सर्व कार्यकारणभूते । काल : सर्व कार्यकारणमित्यर्थ :' इति सूत्रगतपदान्येवाभोप्सितार्थ प्रतिपादयन्तीति सूचितम् । पञ्चमाध्यायद्वितीयाह्निके एकविंशं सूत्र द्रव्यगुणकर्मनिष्पत्तिव धात् भाऽभाव- स्तमः इति । अनेन सूत्रेण तम : न द्रव्यं, न वा गुण :, न वा कर्म, अपि तु प्रक'शाभाव एव तमः इति स्थाप्यते । अस्य सूत्रस्य आशयं पर्वक्रमेण द्वित्रिपद- घटित : कतिपयैरेव वाक्य : स्पष्टीकरोति इयं वत्तिः । 'एव तावत् तम : न द्रव्यं गुण: कर्म वा । कि तर्हि ? अभाव : । कस्य अभाव : ? माया : प्रकाशस्याभाव : । कस्मात् ? प्रकाशविरुद्धत्वात्। प्रकाशतमसोहि मिथो विरोधः।' इत्यादिविवरण- वाक्यानि अल्पज्ञानपि प्रतिबोधयितु समर्थांनीत्यत्र न सन्देह : । सप्तमाध्यायद्वितीयाह्निकत्रयोदशं सूत्रं 'युतसिद्धयभावात् कार्यकारणयो : संयोग- विभागो न विद्यते' इति । एतत्सूत्रघटकयुतसिद्धयभावात् इत्यस्य प्राय : सर्वेषु व्याख्यानेषु 'युतं अमिश्रितं, युतयोरमिश्रितो : असंबद्धयो : सत्ता युतसिद्धि : । संबन्धिनो: सत्ताकाले मिथ : कदाचिदसंबद्धत्वमिति यावत्' इति विवरणं कृतं दृश्यते । यद्यपि 'यु मिश्रणामिश्रणयो'रिति धातो: यतशब्द : निष्पन्न : तथाऽपि अमिश्रणार्थमात्रमादाय व्याख्यातम् । अस्यां तु वृत्ती मिश्रणामिश्रणरूपार्थद्वयमपि स्वीकृत्य कृत : निर्वाह : शब्दार्थविदां तोषाय कल्पेत ।

( ८ ) एवं पाठका : अस्यां वृत्तो बहून् गुणान् स्वयमवधारयेयु: । वृत्तिकाराः श्री ताताचार्यमहाशयाः सर्वशास्त्रविशारदा इति सस्कृतलोको जानात्येव। प्राचार्य- महोदय : स्वपीठिकायां तान् प्रति यद्वक्त व्यं तदुक्तमेव । अत : तद्विषये नास्माभि : विशिष्य किञ्चिदत्र लिख्यते । संस्कृतग्रन्थानां तत्रापि शास्त्रग्रन्थानां लेखका: अतिविरलाः। कथञ्चित् लेखनेऽपि तद्ग्रन्थानां मुद्राप्य प्रकाशनं दुष्करं वर्तते । इयं वृत्तिरपि वृत्तिकारेषु ताताचार्येषु जीवत्सु प्राकाश्यं नालभत । अद्य गंगानाथझा केन्द्रीय-संस्कृत विद्यापीठाधिकारिभिरियं वृत्ति: प्राकाश्यं नीता इति तद्विषये अस्माकं कृतज्ञतां निवेदयाम :। आशास्महे चानया वृत्त्या वैशेषिकदर्शनाध्येतारः अत्यधिक साहाय्यं प्राप्नुयुरिति । वि. श्री. रङ्गनाथाचार्यः

No text on this page.

भूमिका न्यायवैशेषिके, साङख्ययोगी, पूर्वोत्तरमीमांसे इति षड्दर्शनी प्रसिद्धा। तस्या बैशेषिकं प्राचीनतम मिति तत्स्वरूपं परिशीलयतां धीमतां निश्चयो न न भवेदित्यस्माकं दृढा मतिः । न्यायवैशेषिके : इत्यत्राल्पान्तरत्वात् न्यायशब्दस्य पूर्वनिपातः। न तु तस्य दर्शनस्य एतदपेक्षया कालत: प्राचीनत्वात् । कणाद इति कि दर्शनप्रवर्तकस्य महर्षेः पितृकृतं रूढं नाम अथवा निमित्त- विशेषाज्जातमिति न निश्चित्य किमपि वक्तुं शक्यते। प्रौलुक्यमित्यपि दर्शनमिदं व्यव- ह्रियते । तत्रापि हेतोरध्यवसानं दुष्करम् । महषिरयं दर्शन कारेभ्योऽन्येभ्यः सर्वेभ्यः प्राचीन इत्येतावन्मात्रमवगम्यते । न त्विदन्तया तज्जीवनकालः । बुद्धादप्ययं प्राचीन इति ग्रन्थकालचिन्तकाः सर्वे सम्प्रतिपन्नाः। सूत्रात्माऽयं ग्रन्थः दशाध्यायीमयः । प्रत्यध्यायं द्वे आह्निके । शासनात पदार्थ- तत्त्वबोधनात् शास्त्रमिदं भवति । पदार्थाः सत्यानि वस्तूनि । ते अस्य शास्त्रस्य विषयाः। कति, के ते, किस्वभावा इति तेषां विविच्य निरूपणमिह क्रियते। ते सप्त-द्रव्यं गुणः कर्म सामान्यं विशेषः सनवायः अभावः इति । एषु द्रव्यादीन् षडेव पदार्थान् प्रथम निदिश्य तेषां साधयंवैधाभ्यां तत्त्वज्ञानं सम्पाद्यं ज्ञापयति । प्रथमं निर्देशं विना अभावपदार्थ प्रत्यक्ष ज्ञानप्रकरणे नवमाध्याये निरूपयति । एवकरणेन प्रथमं भावाभाव- ररूपेण पदार्थों द्विविधः, तत्र भावः षड्विध इति पदार्थविभागे विशेषं ज्ञापयति । अस्मिन् शास्त्रे क्रियमाणं विषयाणां निरूपणं प्राकुलं सङ्गतिहीनं प्रौढशास्त्रो- चितप्रक्रियाशून्यं, असारं, पुनरुक्त, बहुषु स्थलेषु दुर्ग्रहं च सत्यं भाति । उक्तवन्तश्च केचित्- अतिविरसमसारं मानवाविहीनं प्रबिततबहुवेलप्रक्रियाजालदुःखम् । ... ... अवधिसममतन्त्र तन्त्रमेतदवदन्ति ॥ इति ।

( १०) अथापि अस्त्येव तत्र कश्चन क्रमश्च सङ्गतिश्च । तथा हि । उद्दिष्टेषु षट्सु पदार्थेषु चरमसमवायवर्ज इतरपञ्चकविवेचनं प्रथमाध्यायार्थः। तत्र द्रव्यगुणकर्मणां साधयंवैवयंप्रदर्शनं प्रथमाह्निके । सामान्यस्य विशेषपदार्थस्य च निरूपणं द्वितीये । 'अन्यत्रान्त्येभ्यो विशेषेभ्यः' इति सूत्र चरमव्यावर्तकत्वाभिधानेनैव विशेष पदार्थ स्वरूपादिकं प्रतिपादितं भवतीति मेने । अतस्तद्विषये न किञ्चिदन्यदुक्तम् । मात्ममनोव्यतिरिक्तद्रव्यसप्तकनिरूपणं द्वितीयाध्यायार्थः । तत्र भाकाशान्तपञ्चकस्य निरूपणं प्रथमाह्निके । अनन्तरे प्रथमं भूतानां गन्धादिगुणव्यवस्थोच्यते । तत्र पृथिव्या गन्धवत्त्वं अग्नेरुष्णसर्शवत्वं प्रपा शीतस्पर्शवत्वं च कण्ठोक्तम् । गन्धाधसमानाधिकरणस्पर्शवत्वं वायो शब्दवत्त्वमाकाशे व्यवस्थितमिति पूर्वमेवोक्तमिति नेहोच्यते । अनन्तरं क्रमप्राप्तकाल दिनिरूपणम् । तदनन्तर शब्दस्य द्रव्यत्वं निराकृत्य गुण- स्वादिकं स्थाप्यते । यद्यप्याकाशसाधनावसरे सर्वद्रव्यनिरूपणात्परं वा एतत् कर्तुं युक्त तथापि विस्तरापेक्षत्वात्, चेतनभूतात्मतद्धर्मज्ञानकरणमनोरूपद्रव्यान्तरनिरूपणात् पूर्व तकरणमुचितमिति बुद्धया चात्र तत्करणमिति ज्ञेयम् । पत्र प्रसङ्गात् प्रथम- संशयहेतूनाह । शरीरान्तर्वतिद्रव्य निरूपणं तृतीयाध्यायाधः । भात्मा मनश्च तादृशं द्रव्यम् । आत्मनिरूपणस्य आह्निकद्वयव्यापिरवेऽपि मनोगतेरपि प्रारम लिङ्गत्वात् मध्ये द्वितीया- ह्रिकारम्भे मनस्साधनम् । अत्र प्रथमाह्निके हेत्वाभासविवेचनं प्रासङ्गिकम् । पृथिव्यादीनां चतुर्णा द्रव्याणां नित्यानित्यभेदनिरूपणपरश्चतुर्थोऽध्यायः । तत्र नित्यविषये प्रथमाह्निके प्रसङ्गादेव तस्याप्रत्यक्षत्वं तत्कारणं अन्यस्य प्रत्यक्षकारणं चाह । एतत्प्रसङ्गात् रूपादिगुणोपलब्धिनिरूपणम् । द्वितीये अनित्यं त्रेधा विभज्य शरीरमात्रं निरूपयति । विषयः भोग्यवस्तुरूपः प्रसिद्ध इति मन्यते । इन्द्रियाणि प्रति बक्तव्यं अष्टमे ज्ञाननिरूपणावसरे ब्रवीति । यदुच्यते तत्सङ्गतमिति नियमः। न तु यद्यत्सङ्गतं तत्सर्वमुच्यत इति ।

( ११ ) इत्थं द्रव्यनिरूपणतत्परं द्वितीयाद्यध्यायत्रयम् । एतदनन्तरं निर्देशक्रमेण गुण- निरूपणे कर्तव्येऽपि भोक्त रात्मनः, भोग्यानां विषयाणां, भोगोपकरणानां शरीरे- न्द्रियाणां च निरूपणे कृते भोगहेतोः तद्व्यवस्थापकस्य च पुण्यपापरूपस्य कर्मणः तद्वारा कर्मसामान्यस्य च उपस्थित्या तनिरूपणं पञ्चमषष्ठाभ्यां क्रियते । अत्र लौकिकवैदिक- भेदेन कर्मविभागमभिप्रेत्य अध्यायभेदकल्पनम् । अनन्तरं सप्तमप्रभृति दशमान्तं अध्याय चतुष्टयं गुणनिरूपणपरम् । तत्र सप्त- माये रूपादयश्चत्वारो गुणाः परिमाणं च विषयीभवन्ति । द्वितीये सङ्खचापृथक्त्वे, संयोगविभागो परत्वापरत्वे च । अत्र संयोगेन शब्दार्थयोस्तदभावोपस्थापनद्वारा तत्सम्बन्धोपस्थापनात् तनिरूपणं संयोगविभागनिरूपणानन्तरं क्रियते । अत्रान्ते इहेद- मिति प्राधाराधेयभावव्यवस्थापकस्य समवायसम्बन्ध रूपस्य षष्ठपदार्थ-य लक्षणादिक- मुच्यते । अष्टमे नवमे च बुद्धिनिरूपणम् । तत्र विशिष्ट प्रत्यक्षस्य सकारणल्य अष्टमाये । विशिष्टप्रत्ययवत् बुद्धयपेक्षः शाब्दव्यवहारः इन्द्रियार्थसन्निकर्षेत्येतद्घटकार्थ- शब्दार्थः इन्द्रियाणां प्रकृतिश्च द्वितीये । बाह्यभावप्रत्यक्षेतरप्रत्यक्षं नवमाये । प्रत्यक्षप्रकरणे तद्विषयतया असदिति धमिप्राधान्येन च प्रमावं निरूपयन् उद्देशसूत्रे अनिर्देशेन ज्ञापितं तस्याप्राधान्यमत्र द्रढयति । प्रत्यक्षतरबुद्धिनिरूपणं द्वितीये । एतेन बाह्यभावप्रत्यक्षातिरिक्तज्ञाननिरूपणं नवमाध्यायकृत्यमिति फलति । सुखदुःखविषयं दशमस्य आद्यमाह्निकम् । इच्छाद्वेषप्रयत्नानां पञ्चमषष्ठयोः प्रसिद्धवद् व्यवहारेण तेषु विशेषेण निरूपणीयं नास्तीति मत्या तनिरूपणान् उदास्तेति भाति । द्वितीये कारणवैविध्यं निरूप्य यथोपक्रम धर्मस्य आम्नायप्रामाण्यस्य च कीर्त- नेन शास्त्रमुपसंह्नियते । ऋषिपदामिधानेन ईश्वरसाधनमत्र विशेषः । एवमापाततः प्राकुलत्वभानेऽपि सर्व सङ्गतमेवेति अवधानवता प्रतिपत्ति- भवत्येव । षण्णां पदार्थानां साधयंवैधाभ्यां तत्त्वज्ञानस्य उद्दिष्टत्वेऽपि द्रव्यगुण- कर्मणामेव तविशेषेण कुर्वन् तदितरेषां प्रप्राधान्यं ज्ञापयति । एकस्मिन् पूर्व १२ अस्य तन्त्रस्य वैशेषिकमिति यत् प्रसिद्धममिधानं तत्र निमितभूतं, अत एव स्वस्य प्रतितन्त्र सिद्धान्तभूतमपि विशेषपदार्थ अन्योप सर्जनतया प्रतिपादयन् एकेनैव सूत्रेण समवायं निरूपयंश्च दृष्टिविशेषेण तयोरत्यन्ताप्राधान्यं मन्यत इव । "आपो द्रवाः स्निग्याश्च" इति द्रवत्वस्नेही, “शब्दः स्पशंवतामगुणः" इति शब्द, "संस्कारादुत्तर” इति, “संयोगविभागवेगानां कर्म समानम्' इति च वेगसंस्कार, "संस्काराच्च स्मृतिः” इति भावनासंस्कारं, "संयोगामावे गुरुत्वात् पतनम्” इति गुरुत्वं, "इच्छाद्वषपूर्विका धर्माधर्मयोः प्रवृत्तिः” इति धर्माधमों चेति सप्त गुणान् अङ्गीकृतान् उपरि ज्ञापयन्नपि भादौ गुणोद्देशसूत्रे इमान् बिहाय अन्यान् सप्तदशैव निर्दिशति । तत्र कारणं चिन्तनीयम् । तत्र तत्र, कीर्तनेनवालम् । न तत्र विशिष्य वक्तव्यं किञ्चिदस्तीत्य- भिप्रायः स्यात् । उपरि निरूपणाय हि प्रथममुद्देशः । निरूपणस्याकर्तव्यत्वे किमर्थमुद्देशः । पदार्थानां विभज्य निरूपणे प्रथम प्रवृत्तोऽयं सूत्रकारः स्वोपन केनचिन्मार्गेण तत् करोति । धर्ममिविवेकः समीचीनव्यवहारनिदानम् । तत्सिद्धिः अस्य श स्त्रस्य परमं प्रयोजनम् । तत्साधनक्षममिदमित्यत्र नास्ति सन्देहः । द्रव्यस्य गुणकश्रियत्व- मुक्त्वा गुणेषु कर्मसु च गुणकर्माभावं पुनः पुनर्वदन् कणादः स्वकाले जनानां उक्त विषये वलवन्तं व्यामोहं स्थितं, तदपनोदनाय स्पस्य जातं महान्तं सम्भ्रमं च आवेदयति । परमाणूनां जगत्कारणत्वं शब्दप्रमाणस्य अनुमानेऽन्तर्भावं च वदन् अयं वेदान्तिनाम- नादरणीयोऽभवत् । तथापि पदार्थविवेचनव्युत्पत्तिकरत्वात् इदं शास्त्रं आस्तिकराहत- मेवासीत् । अत एवास्य अध्ययनाध्यापनसम्प्रदायोऽनुवर्तते । प्रसिद्धा चेयं प्राचामुक्तिः "काणादं पाणिनीयं च सर्वशास्त्रोपकारक" मिति । श्रीवीरराषवार्येण धीमता यः परिस्कृतः । सूत्रपाठोऽस्मदीयेयं वृत्तिस्तदनुसारिणी॥

.
विषयसूची
प्रथमाध्यायः
प्रथमाह्निकम् -धर्मव्याख्यानप्रतिज्ञा। धर्मलक्षणम् । तत्र प्रमाणं वेदः ।
पदार्थविभागः । द्रव्यगुणकर्मविभागः । एषां सावयंवैधये । १-१५
द्वितीयाह्निकम् - सामान्यम् ।
द्वितीयाध्यायः
प्रथमाह्निकम्-पृथिम्यादीनि पञ्च भूतानि ।
२५-३६
द्वितीयाह्निकम् - गुणव्यवस्था। कालदिशौ । संशयहेतवः । शब्दो न द्रव्यं
अपि तु गुणः । कार्यः, न तु व्यङ्ग्यः । त्रिविषकारणजन्यः ।
तृतीयाध्यायः
प्रथमाह्निकम्-प्रात्मसिद्धौ हेत्वाभासः । हेतुः ।
द्वितीयाह्निकम् - मनः। प्रात्मा । प्रात्मानो नाना ।
चतुर्याध्यायः
प्रथमाह्निकम् - भूतेषु नित्यानित्यभेदः । प्रत्यक्षाप्रत्यक्षकारणम् । ६२-६७
द्वितीयाह्निकम्-पृथिम्यादिकार्य त्रिविधम् । शरीरम् ।
६०-७१
पञ्चमाध्यायः
प्रथमाह्निकम्-शरीरसम्बन्धि कर्म ।
द्वितीयाह्निकम्-पृथिव्यादीनां कर्म । मनसः । योगः । प्रात्मकर्म ।
अदृष्टकारितम् । मोक्षः। तमः । निष्क्रियाणि ।
षष्ठाध्यायः
प्रथमालिकम्-वैदिकं कर्म । दानप्रतिग्रही । दुष्टादुष्टभोजनम् । पालविवेकः ।
परत्वादानम् । स्पर्धायां कर्तव्यम् ।

( १४ )
द्वितीयाह्निकम्-कर्मणां दृष्टप्रयोजनाभावेऽभ्युदयः प्रयोजनम् । उपधाऽनुपधे ।
शुच्यशुचिनी । रागः । तद्धतवः । धर्माधर्मप्रवृत्तिहेतुः । संसारः । ८६-६३
सप्तमाध्यायः
प्रथमाह्निकम्-रूपादयो गुणाः । परिमाणम् । नित्यमनित्यं च । अणुपरिमाणम् ।
मनोदिक्कालदिशां परिमाणम् ।
६३-६६
द्वितीयाह्निकम् -सङ ख्यापृथक्त्वे । संयोगविभागौ । शब्दार्थसम्बन्धः । परत्वा-
परत्वे । समवायः ।
१००-१०७
अष्टमाध्यायः
प्रथमाह्निकम्-बुद्धिः । घटादिज्ञानेषु आत्मा न विषयः । विशिष्टज्ञानका-
रणम् । निरपेक्षा बुद्धयः । बुद्धिक्रमः ।
१०८-११२
द्वितीयाह्निकम्-बुद्धयपेक्षः शब्दः । अर्थशब्दार्थः । इन्द्रियप्रकृतिः। ११३-११५
नबमाध्यायः
प्रथमाह्निकम्-चतुर्विधोऽभावः। प्रभावप्रत्यक्षम् । प्रात्मप्रत्ययम् ।
सन्निकर्षः।
११६-१२०
द्वितीयाह्निकम्-अनुमितिः। शाब्दम् । स्मृतिः। स्वप्नः । अविद्या ।
विद्या। भाषम् । सिद्धदर्शनम् ।
१२१-१२४
दयमाध्यायः
१२५-१२६
प्रथमालिकम्-सुखदुःखे ।
हितीयाह्निकम्-त्रिविधं कारणम् । धर्मः । ईश्वरः । वेदप्रामाण्यम् ।
१२७-१३०

No text on this page.

No text on this page.

वैशेषिकसूत्रवृत्तौ प्रथमाध्याये प्रथममाह्निकम् साधर्म्यवैधय॑विवेचनेन पदार्थतत्त्वावगमस्य सिद्धय । कृतं करणादेन महर्षिणा यत् वैशेषिकं तद् विवृणोमि शास्त्रम् ॥ सूत्रकारः स्वसूत्राणां यमर्थमभिसन्दधे । तं पश्यति यथा धीम तथा पश्यतु मा हरिः ।। येऽपि सुकुमारमतय- स्तेऽप्यक्लेशं कणादसूत्राणाम् । भावं बुद्धयन्तामिति वृत्तिमिमां वितनुमः सुगमाम् ॥ X - प्रथमाध्याये प्रथममाह्निकम् (१) अथातो धर्म व्याख्यास्यामः अथात इति पदद्वयं अर्थरहितं मङ्गलार्थतया शास्त्रारम्भे उच्चार्यते । यद्वा अथ अनन्तरम् । कस्मादनन्तरमित्यपेक्षायां व्याख्यानप्रयोजकं यत् पूर्ववृत्तं तस्यानन्तरमिति लभ्यते । तत् पूर्व वृत्तं येभ्यो व्याख्यानं, तेषां शिष्याणां उपसदनं "भगवन् धर्म नो व्याख्याहि" इति तत्कृतः प्रश्नश्चेति ततोऽन्यस्य उपस्थापकाभावात् । एवं च उपसन्नयोग्यशिष्यकृतप्रश्नानन्तर- मित्यथशब्दार्थः । अत:-शिष्यकृतात्प्रश्नादेव हेतोरित्यर्थः । योग्यैः शिष्यः प्रश्ने कृते हि अभिर्दयालुभिराचार्यः अवश्यमेव उपदेशः कर्तव्यः । "तस्मै युक्तम्।

प्रथमाध्याये प्रथमाह्निकम् स विद्वानुपसन्नाय सम्यक्” इति शास्त्रात् । तस्मात् प्रश्नो हेतुः । को धर्मः, इत्यनन्तरसूत्रेण वक्ष्यते । व्याख्यास्यामः - विशदीकरिष्यामः । श्रीः । (२) यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । अभ्युदयः मोक्षव्यतिरिक्त ऐहिकं आमुष्मिकं च फलम् । निःश्रेयसं मोक्षः। अनयोः सिद्धिः निष्पत्तिः प्राप्तिः यतः यस्मात् साधनात् भवति, स धर्मः । तत् साधनं धर्मवदवाच्यमित्यर्थः । पुण्यं सुकृतमिति चास्य व्यवहारः ॥२॥ "अभ्युदयनिःश्रेयतसिद्धिहेतुर्धर्म" इति वक्तव्पे "यतस्तत्सिद्धिः धर्मः" इति वचनं तस्य प्रमाणविशेषेण प्रसिद्धिसूचनार्थम् । किं तत्प्रमाणं येन तस्य प्रसिद्धिः ? इत्यत्राह स (३) तद्वचनादाम्नायस्य प्रामाण्यम् । इति । तस्य धर्मस्य अभ्युदयनिःश्रेयससाधनभूतस्य वचनात् बोधनात् उपदेशात्, आम्नायस्य वेदस्य, प्रामाण्यं प्रमाणत्वं भवतीति शेषः । आम्नायः प्रमाणमिति सर्वैरास्तिकैरभ्युपगतम् । कस्य प्रमेयस्य प्रमां जनयित्वा स प्रमाणं भवति । न तावत् प्रत्यक्षणानुमानेन वा अवगतस्य कस्यचित् । प्रमाणान्तरावगतार्थबोधकत्वे केवलमनुवादकत्वापत्तः प्रमाणत्वासंभवात् । अतः प्रमाणान्तरानवगतार्थबोधकत्वादेव तस्य प्रामाण्यं निर्वाह्यम् । प्रमाणान्तरानवगतोऽप्यर्थः प्रमाणान्तरावगतार्थविरुद्धो न भवितुमर्हति । बाधितार्थबोधकत्वेन अप्रामाण्यापत्तः । अग्निः शीत इति बोधयन् हि आम्नायः अप्रमाणं भवेत् । तस्मात् प्रमाणान्तरेण अनवगतः अबाधितश्च योऽर्थः तद्वोधकत्वादेव आम्नायः प्रमाणं भवति । सोऽर्थः अभ्युदयनिःश्रेयससाधनरूपो धर्म एव। आम्नायो हि "ज्योतिष्टोमेन स्वर्गकामो यजेत", "उद्भिदा यजेत पशुकामः" "कारीर्या वृष्टिकामो यजेत", "सौर्य चळं विर्वपेद्ब्रह्मवर्चसकामः", "ब्रह्मविदाप्नोति परम्", "ब्रह्म वेद ब्रह्म व भवति" इत्यादिभि: अभ्युदयसाधनतया वैशेषिकसूत्रवृत्तौं ३ कर्म, निःश्रेयससाधनतया ज्ञानं च बोधयति । न चैतत् केनापि प्रमाणान्तरेणावगतम् । न च बाधितम् । अतः अभ्युदयसाधनभूतकर्मात्मकस्य निःश्रेयससाधनभूत- ज्ञानात्मकस्य च धर्मस्य बोधकत्वात् आम्नायस्य प्रामाण्यम् । तदेवं सर्वैः आस्तिकः प्रमाणत्वेन परिगृहीतवेदबोधितत्वात् अभ्युदय निःश्रेयससाधनतया प्रसिद्धो योऽर्थः कर्मज्ञानरूपः स धर्मः । तमिदानी व्याख्यास्याम इति सूत्र- यार्थः ॥३॥ तस्य (४) धर्मविशेषप्रसूतात् द्रव्यगुणकर्म सामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधाभ्यां तत्त्वज्ञानानिःश्रेयसम् । धर्मस्य विशेषः काचन व्यक्तिः । इदमिति निर्देष्टुमशक्यं इह जन्मनि प्राक्तने वा निष्पन्नं किमपि सुकृतमित्यर्थः । तेन प्रसूतात् उत्पादितात् तत्त्वज्ञानात् । तत्त्वं यथावस्थितं अनारोपितं अकल्पितं रूपम् ज्ञानं वोधः तस्मात् । केषां तत्त्वस्य ज्ञानं ? पदार्थानाम् । वस्तूनामित्यर्थः । के ते पदार्थाः ? द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः इत्येते । काभ्यां संपन्नात् एषां पदार्थानां तत्त्वज्ञानात् । साधर्म्यवैधाभ्यां सम्पन्नात् । साधर्म्य समानधर्मवत्त्वम् । वैधयं इतरावृत्तिधर्मक्त्तम् । अनयोर्ज्ञानमिह विवक्षितम् । साधर्म्यज्ञानेन वैधय॑ज्ञानेन च सम्पन्नं यत् एषां पदार्थानां तत्त्वज्ञानं तस्मादित्यर्थः । पृथिवी रसवत्त्वेन अद्भिः समाना, रूपवत्त्वेन अद्भिः तेजसा च समाना, स्पर्शवत्त्वेन अप्तेजोवायुभिः समाना, अनुष्णाशीतस्पर्शवत्त्वेन अंप्तेजोभ्यां असमाना, वायुना समाना च, गन्धवत्त्वेन स्वेतरैः सर्वैः पदार्थः असमाना, इत्येवं साधर्म्यवैधर्म्यचिन्तया पृथिव्याः यत् तत्त्वं तस्य ज्ञानं संपद्यते। एवमन्यत्रापि, इति द्रष्टव्यम् । ईदृशात् एषां पदार्थानां तत्त्वज्ञानात् निःश्रेयस मोक्षरूपः परमः पुरुषार्थों भवति । अस्मिन् सूत्रे शास्त्रारम्भः । पदार्थानामिति विषयनिर्देशः । द्रव्यगुण- कर्मसामान्यविशेषसमवायानां इति पदार्थविभागः साधर्म्यवैधाभ्या- मिति पदार्थनिरूपणप्रकारकथनम् । तत्त्वज्ञानादिति शास्त्रप्रयोजनाभिधानम् ।

प्रथमाध्याये प्रथमाह्निकम्
अस्य
धर्मविशेषप्रसूतादिति सुकृतरहितानां दुर्लभत्वज्ञापनद्वारा
तत्त्वज्ञानस्य
स्तुतिः । अस्य स्वयं पुरुषार्थत्वाभावात् पुरुषार्थपर्यवसायित्वस्य, तत्रापि उत्तमपुरुषार्थ-
पर्यवसायित्वस्य ज्ञापनायोक्त तत्त्वज्ञानान्निःश्रेयसमिति !
ततः
शास्त्रस्य यत् साक्षात् प्रयोजनं द्रव्यादिपदार्थतत्त्वज्ञानं तस्मिजाते
नित्यानित्यहिता हितविवेकेन मोक्षे रागः अन्यत्र विरागश्च जायते ।
मोक्षोपायं परिगृह्णाति, हेयस्य हानोपायं च । ततो निःश्रेयसं प्राप्नोति ।
अतो महाफलत्त्वात् अस्य तत्त्वज्ञानस्य तत्प्रयोजनकमिदं शास्त्र युक्तारम्भ-
मिति भावः।
(५)
पृथिव्यापस्तेजो वायुराकाशं कालो दिगाला
द्रव्याणि ।
मन इति
परम् ।
प्रथमपदार्थस्य द्रव्यस्यायं नवधा विभागः । अत्र आकाशान्तानि पञ्चभूतानि ।
रूपं रसः स्पर्शः गन्धः इति चतुर्गुणायाः पृथिव्याः प्रथमं निर्देशः । गन्धवर्ज
त्रिगुणानामपां ततः । गन्धरसवर्ज द्विगुणस्य तेजसः
ततः
गन्धरसरूपवर्ज स्पर्शकगुणस्य वायोरनन्तरम् । गुणचतुष्टयेनापि रहितस्य
शब्दात्मकविशेषगुणान्तरवतः आकाशस्य ततः परम्
। आकाशवद्विभुत्वा-
न्नित्यत्वाज्जडत्वाच्च अनन्तरं कालो निदिश्यते कालपरिच्छेदकतया
कालत्वेनैव व्यवह्रियमाणपरिस्पन्दवता सूर्येणैव स्वोदयास्तमयाभ्यां निरूपणीयविशेषा
दिक् ततः परम् । अथ अजड आत्मा। तदुपकरणं अन्ते ।
पूर्व विभागस्याभिप्रेतत्वेऽपि आर्थिकत्वेन साक्षात् अचिकीर्षितत्वात्
पदार्थविशेषणतया द्रव्यादीनां समासेन निर्देशः । इह तु विभागस्यैव साक्षात्
चिकीर्षितत्वात् असमासः इतिकाराथं च । इति द्रव्याणि-इत्येतावन्त्येव ।
इतोऽधिकं द्रव्यं किमपि नास्ति इति सूत्रकारोऽत्र व्यवछेदं चिकीर्षन्
इतिपदं प्रयुङ्क्ते । मनांसि द्रव्याणि, इति समासे सति तद्धठनं न शो
।
भायै ॥५॥

(६) रूपरसगन्धस्पर्शाः सङख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वषो प्रयत्नश्च गुणाः ।। द्वितीयपदार्थों गुणो विभज्यते । रूपादयश्चत्वारो भूतमात्रगुणाः । बुद्धयादयः षट् आत्ममात्रगुणाः । अत्र सप्तदश गुणाः कण्ठोक्ताः । स्नेहशब्द- गुरुत्वद्रवत्वधर्माधर्मसंस्काराः अनुक्ताः चकारेण समुच्चीयन्ते उपरि तत्रतत्र सूत्रकृतव वक्ष्यमाणत्वात् अन्यदत्र विस्तरभिया न लिख्यते । ॥६॥ सप्त । व्यापारः अग्रभागस्य व्यापारः । (७) उत्क्षेपणमपक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि । तृतीयपदार्थः कर्म विभज्यते । उत्क्षपणं-कस्यचिद्वतुस्नः ऊर्ध्वदेशसंयोगानुकूलो व्यापारः अवक्षेपणं-कस्यचिद्वस्तुनः अवोदेशसंयोगानुकूलो व्यापारः आकुञ्चनं-कस्यचिद् वस्तुनः अग्रभागस्य मूलभागसामीप्यानुकूलो प्रसारणं-कस्यचिद्वस्तुनः मूलभागात् विप्रकर्षानुकूलो शरीरसन्निकृष्टसंयोगहेतुराकुञ्चनम् शरीरविप्रकृष्टसंयोगहेतुः प्रसारणम् इति केचित् । वक्रतासंपादकं कर्म आकुञ्चनम् । ऋजुतासंपादकं कर्म प्रसारणमित्यपरे । एवमिमानि चत्वारि सकर्मक- क्रियारूपाणि । गमनं कस्यचित् तादृशो व्यापारः येन स्वस्य स्वावस्थानदेशात् देशान्तरसंयोगो जायते । इयममिका क्रिया । ननु चक्रं भ्रमति । तत् कुलालः भ्रमयति । अस्य कुलालव्यापारस्य कुत्रान्तर्भावः ? न हि सः उत्क्षेपणादिषु पञ्चसु कर्मसु अन्यतमं भवति । उच्यते । पञ्चभ्योऽतिरिक्तमेवेदं कर्म । तर्हि पञ्चधा विभागानुपपत्तिरिति चेत्, नात्र तथा विभाग इष्यते । इतिशब्दस्य प्रकारार्थत्वात् । इति-एवम्प्रकाराणि कर्माणि इत्यर्थात् । ॥७॥ (८) सदनित्यं द्रव्यवत् कार्य कारणं सामान्यविशेषवदिति द्रव्यगुण- कर्मणामविशेषः। उक्तानां 'द्रव्यगुणकर्मणां त्रयाणां पदार्थानां साधम्यंमुच्यते ।

६ प्रथमाध्याये प्रथमाह्निकम् अविशेष:-विशेष: असाधारणधर्मः, तद्भिन्न: अविशेषः साधारणधर्मः, साधय॑म् । द्रव्यगुणकर्मणां सदिति अविशेषः । सदिति पदेन व्यवह्रियमाणं सत्ताजातिमत्त्वं साधर्म्यम् साधारणधर्म इत्यर्थः । सत्ताजातिः द्रव्यगुणकर्मसु निष्वेव पदार्थेषु वर्तते, नान्येषु । अतः इयं त्रयाणामेषां साधारणधर्मः। अनित्यमित्य- परः अविशेषः । अनित्यत्वं उत्पत्तिविनाशवत्त्वम् । इदमेव प्रागभावप्रतियोगित्वे सति प्रध्वंसाभावप्रतियोगित्वमित्युच्यते । घटादीनां कार्यद्रव्याणां, पाकजादीनां रूपादीनां संयोगादीनां च गुणानां, सर्वेषां च कर्मणामनित्यत्वात् अयमेषां साधारणधर्मः। द्रव्यवत्त्वमन्योऽविशेषः । यस्य द्रव्यं समवायिकारणं तद् द्रव्यवत् । द्रव्यसम- वायिकारणकमित्थः । तथात्वं एषां साधर्म्यम् । घटादीनां द्रव्याणां कपालादिरूपं द्रव्यं समवायिकारणम् । घठादिसमवेतानां रूपादीनां गुणानां कर्मणां च घटादि- द्रव्यं समवायिकारणम् । अतो द्रव्यवत्त्वं त्रयाणाम् । कार्यत्वं च । घटादीनां द्रव्यारण पाकजरूपादीनां संयोगादीनां च गुरणानां, सर्वेषां कर्मणां च कार्यत्वात् । प्रागभावप्रतियोगित्वं कार्य- त्वम् । कारणत्वं च । कपालादीनां द्रव्याणां घटादिकं प्रति, तन्तुसंयोगादीनां गुणानां पटादिकं प्रति, कर्मणां संयोगविभागादिकं प्रति च कारणत्वात् । सामान्यविशेषवत्त्वं च । सामान्यं जातिः । तस्या विशेषः अवान्तरभेदः द्रव्यत्वादिः । द्रव्येषु द्रव्यत्वस्य, गुणेषु गुणत्वस्य, कर्मसु कर्मत्वस्य च विद्यमानत्वात् एषां सामान्यविशेषवत्त्वम् ।।८।। (९) द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम् । (१०) द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् ॥ द्रव्यगुणकर्मणां त्रयाणां पदार्थानां साधर्म्यमुक्तम् । अथाद्य द्रव्यगुणयोर्द्वयोराह । अनयोः सजातीयारम्भकत्वं साधयम् । किमिदं सजातीयारम्भकत्वं ? तद्विवृणोति सूत्रान्तरेण । सजातीयं स्वमात्रवृत्ति जातिमत् वस्तु । तदारम्भकत्वं तदुत्पादकत्वम् । द्रव्यस्य स्वमात्रवृत्तिर्जातिः द्रव्यत्वम् । तद्वत् तस्य सजातीयम् । तदुत्पादक द्रव्यम् ।

वैशेषिकसूत्रवृत्ती ७ यथा तन्त्वात्मकानि द्रव्याणि पटात्मक द्रव्यान्तरं उत्पादयन्ति । तन्तुरूपात्मका गुणाश्च पटान्तरात्मकं गुणान्तरमुत्पादयन्ति । एवं द्रव्यगुणयोः सजातीयारम्मकत्वं साधर्म्यम् । अत्र तन्त्वपेक्षया तदारब्धः पटः द्रव्यान्तरम् । न तु तन्तव एव पटः। तन्तु- रूपापेक्षया पटरूपं गुणान्तरम् । तु तन्तुरूपमेव पटरूपम् इत्यपि ज्ञापितम् ।।९-१०॥ (११) भविष्यति पट इत्युपक्रियमाणेभ्यस्तन्तुभ्यः । तन्तुभ्यः इति पञ्चमी । उपक्रियमाणेभ्यः तन्तुवायेन तुरीवेमादिनिमित्तकारण- कलापसम्भरणेन तत्सहिततया क्रियमारणेभ्यः तन्तुभ्यः हेतुभूतेभ्यः पटः भविष्यति उत्पत्स्यते इति प्रतीतिव्यवहारौ भवत इति शेषः । तन्तुभ्यः पटस्यातिरिक्तत्वे युक्तिरियम् । न हि तन्तुषु भविष्यत्वप्रतीति- व्यवहारौ घटेते । तेषां विद्यमानत्वात् ॥११॥ (१२) तथाभवतीति सापेक्षेभ्यो निरपेक्षेभ्यश्च । यथा पटो भविष्यतीति प्रतीतिव्यवहारौ तथा भवतीत्यपि प्रतीतिव्यवहारौ भवतः ! केभ्यः। सापेक्षेभ्यो निरपेक्षेभ्यश्च । तन्तुभ्य इति पूर्वसूत्रादनुषज्यते । सापेक्षेभ्यः तन्त्वन्तरसंयुक्तेभ्यः । संयुक्तत्वावस्थायां स्वस्थितौ एकस्य तन्तोः अपरतन्त्व- पेक्षायाः सत्वात् सापेक्षत्वम् । निरपेक्षेभ्यः तन्त्वन्तरसयोगरहितेभ्यः। असंयोगा- वस्थायां पृथक् स्थितानां तन्तूनां स्वस्थितौ तन्त्वन्तरापेक्षाविरहात् निरपेक्षत्वम् । पटारंभाय तन्त्वन्तरसंयोगसापेक्षत्वात् असंयुक्तास्तन्तवः सापेक्षाः । तन्निरपेक्षत्वात् संयुक्तास्तन्तवो निरपेक्षा इत्यन्ये । वयनोपक्रमात् परं समाप्तेः पूर्व तन्तवः मिथः संयुक्ताः असंयुक्ताश्च भवन्ति । तस्यामवस्थायां तान् पश्यतां पटो भवति उत्पद्यते इति प्रतीतिव्यवहारौ भवतः, इत्यर्थः। इयमन्या युक्तिः । तन्तूनामेव पटत्वे एवं प्रती तिव्यवहारौ नोपपद्यते। तेषां चिरात्पूर्वमुत्पन्नत्वात् । इदानीमुत्पद्यमानत्वाभावात् । ननु "तथा अभूदिति निष्पन्न- सर्वसंयोगेभ्यः" इत्यपि युक्तं सूत्रयितुमिति चेन्न । उत्पन्नत्वस्य पट इव तन्तुष्वपि F.62 प्रथमाध्याये प्रथमाह्निकम अन्वयेन बाधविरहात् । अथ अभूत् अद्योत्पन्न मित्यर्थः । अतो न तन्तुष्वन्वयः । तेषां चिरात्पूर्वमुत्पन्नत्वेन अद्योत्पन्नत्वाभावात्, इति चेत् न, एवं समर्थनीययुक्तथ पन्या- सस्य सूत्रकारानभिमतत्वात् । एवं तन्तुभ्योऽतिरिक्ततया पटस्य, द्रव्यस्य द्रब्यान्तरारम्भकत्वं उपपन्न मिति दर्शितम् । पटस्य तन्तुभ्योऽन्यत्वे सिद्धे पटरूपस्य तन्तुरूपान्यत्वं सिद्धमेवेति गुणस्य गुणान्तरारम्भकत्वमपि सिद्धयति ॥१२॥ (१३) कम कम साध्यं न विद्यते । द्रव्यगुणयोर्द्वयोरेव सजातीयारम्भकत्वं साधर्म्यमुक्तम् । कर्मणः तत् कुतो नोच्यते ? इत्यत्राह-कर्मेति । कर्मजन्यं कर्म नास्ति । तत्सत्वे हि सजातीयारम्भ- कत्वं कर्मणो भवेत् । तदभावात् इदं नास्ति । तस्मान्नोच्यत इति ॥१३॥ (१४) न द्रव्यं कार्य कारणं च वधति । द्रव्यमिति द्वितीया। कार्य कारणमिति प्रथमा । वधतीति हन्तीत्यर्थे आष रूपम् । कार्य कारणं च (कर्तृ) द्रव्यं (कर्म) न वधति न नाशयति । द्रव्यस्य स्वकार्येण वा स्वकारणेन वा नाशो नास्तीत्यर्थः ॥१४॥ । शब्द- (१५) उभयथा गुणाः । गुणाः उभयथा स्वकार्यनाइयाश्च स्वकारणनाश्याश्च भवन्ति । परम्परायां पूर्वशब्दकार्येण उत्तरशब्देन पूर्वशब्दस्य नाशः । उपान्त्येन शब्देन अन्त्यशब्दकारणेन अन्त्यशब्दस्य नाशः । अतः उभयनाश्यत्वम् ॥ (१६) कार्यविरोधि कम। कार्यस्य विरोधि तस्मिन्नुत्पन्ने स्थित्यनहम् । तेन नाश्यमित्यर्थः । कर्म कार्य- नाश्यमित्युक्त भवति । कर्मणः कार्य उत्तरदेशसंयोगः । तेन कर्मणो नाशो भवति । न द्रव्यमित्यादिना सूत्रत्रयेण "द्रव्यं कार्यनाश्यत्वाभावकारणनाश्यत्वाभावो- भयवत् । गुणः कार्यनाश्यत्वकारणनाश्यत्वोभयवान् । कर्म कार्यनाश्यत्वमात्रवत् ।"

- भूमिका न्यायवैशेषिकें, साङ ख्ययोगौ, पूर्वोत्तरमीमांसे इति षड्दर्शनी प्रसिद्धा। तस्या बैशेषिक प्राचीनतममिति तत्स्वरूपं परिशीलयतां धीमतां निश्चयो न न भवेदित्यस्माकं दृढा मतिः। न्यायवैशेषिके इत्यत्राल्पान्तरत्वात् न्यायशब्दस्य पूर्वनिपातः। न तु तस्य दर्शनस्य एतदपेक्षया कालतः प्राचीनत्वात् । कणाद इति कि दर्शनप्रवर्तकस्य महर्षेः पितृकृतं रूढं नाम अथवा निमित्त- विशेषाज्जातमिति न निश्चित्य किमपि वक्तुं शक्यते. पोलूक्यमित्यपि दर्शनमिदं ब्यव- ह्रियते । तत्रापि हेतोरध्यवसानं दुष्करम् । महर्षिरयं दर्शनकारेभ्योऽन्येभ्यः सर्वेभ्यः प्राचीन इत्येतावन्मात्रमवगम्यते । न त्विदन्तया तज्जीवनकालः । बुद्धादप्ययं प्राचीन इति ग्रन्थकालचिन्तकाः सर्वे सम्प्रतिपन्नाः । सूत्रात्माऽयं ग्रन्थः दशाध्यायीमयः । प्रत्यध्यायं द्वे आह्निके । शासनात पदार्थ- तत्त्वबोधनात् शास्त्रमिदं भवति । पदार्थाः सत्यानि वस्तूनि । ते अस्य शास्त्रस्य विषयाः । कति, के ते, किस्वभावा इति तेषां विविच्य निरूपणमिह क्रियते। ते सप्त-द्रव्यं गुणः कर्म सामान्य विशेषः सनवायः अभावः इति । एषु द्रव्यादीन् षडेव पदार्थान् प्रथम निर्दिश्य तेषां साधयंवैधाभ्यां तत्त्वज्ञान सम्पाद्यं ज्ञापयति । प्रथम निर्देशं विना अभावपदार्थ प्रत्यक्ष ज्ञानप्रकरणे नवमाध्याये निरूपयति । एवं करणेन प्रथम भावाभाव- रुपेण यदार्थों द्विविधः, तत्र भावः षड्विध इति पदार्थविमागे विशेष ज्ञापयति । अस्मिन् शास्त्रे क्रियमाणं विषयाणां निरूपणं प्राकुलं सङ्गतिहीनं प्रौढशास्त्रो- चितप्रक्रियाशून्यं, असारं, पुनरुक्त, बहुषु स्थलेषु दुर्ग्रहं च सत्यं भाति । उक्तवन्तश्च केचित्- अतिविरसमसारं मानवार्ताविहीनं प्रबिततबहुवेलप्रक्रियाजालदुःखम् । । " अवधिसममतन्त्रं तन्त्रमेतद्वदन्ति ॥ इति ।

१० प्रथमाध्याये प्रथमाह्निकम् (१६) एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम् । एकमेव द्रव्यं समवायिकारणं यस्य तत् एकद्रव्यम् । पटादीनि अवयवि- द्रव्याणि समव यिक रणभूतेषु बहुषु अवयवेषु व्यासज्य वर्तन्ते । तथा द्वित्वादयः संख्याः संयोगादयश्च अनेकत्र । तथा न कर्म । एकस्मिन्नेव स्वसमवायिकारणभूते द्रव्ये वर्तते सर्व कर्म । अनेकवृत्ति सजातीयवन्तौ द्रव्यगुणौ अतथाभूतं कर्मेति इदमस्य तदुभयापेक्षया वैधर्म्यम् । अगुणं गुणशून्यम् । पूर्व अगुण इत्युक्त नञ्तत्पुरुषभ्रान्तिर्भवेदिति तत्परि- हाराय अगुणवानित्युक्तम् । अत्र तु लिङ्गन बहुव्रीहित्वनिश्चयात् न तथा भ्रान्ति- प्रसङ्ग इति अगुणमित्येवोक्त, न तु अगुणवदिति । पदार्थत्रये गुणवदिति द्रव्यलक्षणकथनेन इतरयोः गुणरहितत्वं द्रव्यापेक्षया वैधर्म्यमिति अन्योन्यापेक्षया साधर्म्यमिति च व्यञ्जितम् । अत्र एकद्रव्यमगुण- मित्युक्त्या “एकद्रव्यत्वे सति अगुणत्वं कर्मणो गुणापेक्षया वैधर्म्य, एकद्रव्यभिन्नत्वे सति अगुणत्वं कर्मापेक्षया गुरणस्य वैधर्म्यम्" इति ज्ञापितं भवति । संयोगविभागेषु-संयोगान् प्रति विभागान् प्रति च । न विद्यते अपेक्षा यस्य तत् अनपेक्षम् । तच्च' तत् कारणं च अनपेक्षकारणम् । अपेक्षा समवायसंबन्धेन कारणान्तरस्य । तथाच समवायसंबन्धेन कारणान्तरनिरपेक्षं संयोगविभागकारणं यत् तत्कर्मेति कर्मलक्षणम् । कर्मणा विभागः, पूर्व देशसंयोगनाशः, उत्तरदेश- संयोगश्च जायते । तत्र विभागस्य पूर्व देशसंयोगनाशं प्रति कारणत्व, न तूत्तरदेशसंयोगं प्रत्यपि । कुलालपितुर्घट प्रतीव अन्यथासिद्धत्वात् । पूर्वदेश- संयोगनाशस्य कारणत्वेऽपि समवायसंबन्धेन कारणत्वाभावात् न कर्मणोऽन- पेक्षत्वभङ्गः । एतेन संयोगोत्पत्तौ समवायिकारणद्रव्यसापेक्षत्वात् कर्मणो निरपेक्षत्वं नास्तीति प्रत्युक्तम् । समवायिकारणस्य तादात्म्यसंबन्धेनैव कारणत्वात् । समवाय- संबन्धेन कारणत्वाभावात् । संयोगविभागकारणत्वमात्रस्य लक्षणत्वे द्रव्ये संयोगविभागसमवायिकारणेऽ- तिव्याप्तिः स्यात् । अतोऽनपेक्षकारणत्वोक्तिः । द्रव्यस्य कर्मसापेक्षत्वादतिव्याप्ति- बारणम् । अनपेक्षकारणत्वं च समवायसंबन्धेन विवक्षितम् । अतः अवयविसंयोगं ( ११ ) इत्थं द्रव्यनिरूपणतत्परं द्वितीयाद्यध्यायत्रयम् । एतदनन्तरं निर्देशक्रनेण गुण- निरूपणे कर्तव्येऽपि भोक्त रात्मनः, भोग्यानां विषयाणां, भोगोपकरणानां शरीरे- न्द्रियाणां च निरूपणे कृते भोगहेतोः तद्व्यवस्थापकस्य च पुण्यपापरूपस्य कर्मणः तद्वारा कर्मसामान्यस्य च उपस्थित्या तनिरूपणं पञ्चमषष्ठाभ्यां क्रियते । अत्र लौकिकवैदिक- भेदेन कमविभागमभिप्रेत्य अध्यायभेदकल्पनम् । अनन्तरं सप्तमप्रभृति दशमान्तं अध्यायचतुष्टयं गुणनिरूपणपरम् । तत्र सप्त- माद्ये रूपादयश्चत्वारो गुणाः परिमाणं च विषयीभवन्ति । द्वितीये सङ्खचापृथक्त्वे, संयोगविभागो परत्वापरत्वे च । अत्र संयोगेन शब्दार्थयोस्तदभावोपस्थापनद्वारा तत्सम्बन्धोपस्थापनात् तनिरूपणं संयोगविभागनिरूपणानन्तरं क्रियते । अत्रान्ते इहेद- मिति प्राधाराधेयभावव्यवस्थापकस्य समवायसम्बन्ध रूपस्य षष्ठपदार्थ य लक्षणादिक- मुच्यते । प्रष्टमे नवमे च बुद्धिनिरूपणम् । तत्र विशिष्टप्रत्यक्षस्य सकारणल्य अष्टमाये । विशिष्टप्रत्ययवत् बुद्धयपेक्षः शाब्दव्यवहारः इन्द्रियार्थसन्निकरेत्येतद्घटकार्थ- शब्दार्थः,इन्द्रियाणां प्रकृतिश्च द्वितीये । बाह्यमावप्रत्यक्षेतरप्रत्यक्षं नवमाये। प्रत्यक्षप्रकरणे तद्विषयतया असदिति धमिप्राधान्येन च अमावं निरूपयन् उद्देशसूत्रे अनिर्देशेन ज्ञापितं तस्याप्राधान्यमत्र द्रढयति । प्रत्यक्षतरबुद्धिनिरूपणं द्वितीये । एतेन बाह्यभावप्रत्यक्षातिरिक्तज्ञाननिरूपणं नवमाध्यायकृत्यमिति फलति । सुखदुःखविषयं दशमस्य माद्यमाह्निकम् । इच्छाद्वेषप्रयत्नानां पञ्चमषष्ठयोः प्रसिद्धवद् व्यवहारेण तेषु विशेपेण निरूपणीयं नास्तीति मत्या तनिरूपणात् उदास्तेति भाति । द्वितीये कारणवैविध्यं निरूप्य यथोपक्रमं धर्मस्य आम्नायप्रामाण्यस्य च कीर्त- नेन शास्त्रमुपसंह्नियते । ऋषिपदामिधानेन ईश्वरसाधनमत्र विशेषः । एवमापाततः प्राकुलत्वभानेऽपि सर्व सङ्गतमेवेति अवधानवता प्रतिपत्ति- भवत्येव । षण्णां पदार्थानां साधयंवैधाभ्यां तत्त्वज्ञानस्य उद्दिष्टत्वेऽपि द्रव्यगुण- कर्मणामेव तविशेषेण कुर्वन् तदितरेषां प्रप्राधान्यं ज्ञापयति । एकस्मिन् पूने १२ प्रथमाध्याये प्रथमाह्निकम् - (२४) गुणवैधान्न कर्मणां कम । कर्मणां कर्म समानं कारणं न भवति । कस्मात् । गुणवैधात् । स्यन्दन- कारणं द्रवत्वरूपो गुणः। पतनकारणं गुरुत्वगुणः । चेष्टाकारणं प्रयत्नगुणः । अत्र सर्वत्र तत्तत्क्रियोत्पत्तेः पूर्व स स गुणः वर्तते । तत्तत्कार्यनियतपूर्ववृत्तित्वात् कारणं भवति । न त्वेवं कर्मोत्पत्तेः पूर्वं किमपि कर्म वर्तते । उत्तरदेशसंयोगे उत्पन्ने तज्जनकं कर्म नश्यति । नष्टं अविद्यमानं तत् कथं अन्यत्कर्म जनयेत् । अतो नियत- पूर्ववृत्तिभ्यो गुणेभ्यः नियतपूर्वनाशतया विलक्षणं कर्म कर्मणां कारणं न भवति । इदमभिप्रेत्यैव पूर्वमुक्त "कर्म कर्मसाध्यं न विद्यते" इति । ननु संयोगजसंयोगवत् कर्मजं कर्म कुतो न भवतीति चेन्न, हस्तपुस्तकसंयोगे सति पुस्तकसंयुक्तः कायः इत्यपि व्यवहारस्य सत्त्वात् तस्य मुख्यत्वोपपत्तये संयोगज- संयोगोऽङ्गीक्रियते । हस्तचलने सति कायश्चलति इति व्यवहारस्य मुख्यत्वं न शक्य- मुपपादयितुम् । हस्तसंयोगादतिरिक्तस्य कायसंयोगस्येव हस्तचलनातिरिक्तस्य कायचलनस्य दुर्वचत्वात् । चलनं हि क्रिया जाता विभाग, पूर्वसंयोगनाशं, संयोगान्तरं च अवश्यं जनयेत् । अन्यथा क्रियात्वस्यैवासंभवात् । न च हस्तचलनजनितविभा- गाद्यपेक्षया व्यतिरिक्त कायचलनजनितं विभागादिकं किञ्चित्सुवचम् । अतो न संयोगजसंयोगवत् कर्मजं कर्म शक्यमङ्गीकर्तुम् । कायश्चलतीति प्रतीतिः अवयबे अवयविशब्दप्रयोग इति औपचारिक्येव ॥२४॥ २५. द्रव्याणां द्रव्यं कार्यं सामान्यम् । द्रव्यगुणकर्मणां कारणभावेन साधारणत्वतदभावौ पञ्चभिः सूत्ररुक्तौ । अथ इतः प्रभृति तेषामेव कार्यभावेन साधारणत्वमाह। कार्यभावोऽपि अनेककारण- निरूपित इह अभिप्रेतः । कपालद्वयस्य घटरूपमेकं कार्य समानम् । तन्तूनां बहूनामेकः पटः । तदत्र अनेकद्रव्य विषये द्रव्यरूपमेकं कार्य समानमित्युक्तम् ॥२५॥ २६. द्वित्वप्रभृतयः संख्याः पृथक्त्वसंयोगविभागाश्च । अनेकद्रव्याणां एते गुणाः कार्यभावेन समानाः । द्वित्वप्रभृतयः–एकत्व व्यतिरिक्ताः । अनेकवटसत्त्व एव हि द्वित्वादिसंख्या जायन्ते । पृथक्त्वं एकपृथक्त्वप्रभृति ।

वैशेषिकसूत्रवृत्ती
१३
सर्वम् । यत: घटान्तरसत्त्व एव अयं तस्मात् पृथगिति प्रतीतिव्यवहारौ भवतः ।
एकस्यैव घटस्य समवायिकारणत्वेऽपि स्वतन्त्रान्वयव्यतिरेकशालित्वात् घटान्तर-
स्यापि कारणत्वं वाच्यमेव । तत्तु निमित्तकारणत्वम् । अथापि अनेकघटकारणकत्व-
मक्षतम् । न च एकत्वस्येव एकपृथक्त्वस्य स्वभावसिद्धत्वात् न कारणापेक्षति
वाच्यम् । तथा सति घटः शुक्लः एक इति घटान्तरादिवस्त्वन्तरनिरपेक्षप्रतीति-
व्यवहारवत् पृथागत्यपि तदापत्तेः । न च सूत्रकारः स्वाभिप्रायं एवं क्वचित्प्रकाशयति ।
प्रत्युत अस्मिन् सूत्र संयोगादिभिः
सह अविशेपेण पृथक्त्वपाठात् सर्वं पृथक्त्वं तदा
तदा उत्पद्यत इति ज्ञापयति ।
संयोगस्य द्रव्यद्वयनिष्ठत्वात् सः अनेकद्रव्यस्य एक कार्य समानम् । एवं
विभागोऽपि द्रव्यद्वयस्य समान कार्यम् । संयुक्तयोरेव विभागात् ॥२६॥
(२७) असमवायात सामान्यकार्य कर्म न विद्यते ।
अनेकद्रव्यस्य यथा द्रव्यं गुणश्च उक्तरीत्या समानं कार्य तथा कर्म न भवति ।
कस्मात् ? कर्मणः एकद्रव्यमात्रवृत्तित्वात् । अनेकद्रव्ये समवायाभावात्, अवर्त-
मानत्वात् ।
(२८) संयोगानां द्रव्यम् ।
अथानेकस्य गुणस्य सामान्य कार्यमाह । कार्य सामान्यमित्यनुवर्तते । संयोगानां
तन्तुगतानां बहूनां पटरूपं एक द्रव्यं समानं कार्यम् ॥२८॥
(२६) रूपाणां रूपम् ।
तन्तुगतानां बहूनां रूपाणां एक सामान्य कार्य पटगतं एक रूपम् । पूर्व
द्रव्यस्य समानकार्यत्वमुक्तम् । अत्र गुणस्य ॥२६॥
(३०) गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् ।
उत्क्षिप्यमाणवस्तुगतं गुस्त्वं, उत्क्षेप्तुः प्रयत्नः, वस्तुनः उत्क्षेप्तृहस्तसंयोगः,
इत्येषां गुणानां एकमुत्क्षेपणात्मकं कर्म समानं कार्यम् । अत्र कर्मणः समानकार्यत्व-
मुच्यते ॥३०॥

प्रथमाध्याये प्रथमाह्निकम (३१) संयोगविभागाश्च कर्मणाम् । द्रव्याणां गुणानां च समानं कार्यमुक्तम् । अद्य कर्मणां समान कार्यमाह । कारणानेकत्वप्रकरणात् कर्मणामित्यनेन संयुज्यमानयोवियुज्यमानयोर्वा उभयोः कर्माणि गृह्यन्ते । तेषां संयोगा विभागाश्च समानकार्यभूताः ॥३१॥ (३२) कारगसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम । ननु "संयोगविभागाश्च' कर्मणा"मिति पूर्वसूत्रे कर्मणां संयोगविभागरूय- गुणमात्रं समानं कार्यमुक्तम् । द्रव्याणां यथा द्रव्यं गुणश्चेति द्वपं गुणानां च यथा द्रव्यं गुणः कर्म चेति त्रयं समान कार्यमुक्तं तथा कर्मणां कुतो नोच्यते इति शङ्का- परिहाराय पूर्वोक्तं स्मारयति--कारणसामान्य इति । कारणसामान्ये । कारणं सामान्यमिति यत्रोक्तं तत्प्रकरणमिह कारणसामान्य- पदेनाभिधीयते । तत्र "न द्रव्याणां कर्म” इति कर्म द्रव्यकारणं न भवतीत्युक्तम् । "गुणवैधान्न कर्मणां कर्म" इति कर्मकारणं न भवतीति च । इत्थं द्रव्यकर्मणी प्रति कर्म न कारणमित्युक्तत्वात् द्रव्यकर्मणी कर्मणः कायें न भवत इत्यप्युक्तप्रायम् । तथा च कर्मणां द्रव्यं कर्म वा यस्मान्न कार्य भवति तस्मात् कर्मणः द्रव्यं कर्म वा किञ्चित् समानं कार्यं भवतीति वचनस्य नास्त्यवसरः । अतो नोच्यत इति भावः ।। अस्मिन् आह्निके द्वात्रिंशत् सूत्राणि । तत्र प्राद्यानि त्रीणि औपोद्धातिकं धर्म- विषयं एकं प्रकरणं भवन्ति । चतुर्थमेकं शास्त्रस्य विषयप्रयोजननिर्देशपरं द्वितीयं प्रकरणम् । पञ्चमषष्ठसप्तमानि आद्यत्रिपदार्थी विभजनपरं तृतीयम् । अष्टमात्प्रभृति पञ्चविंशतिः सूत्राणि द्रव्यगुणकर्मणां साधर्म्यवैधर्म्यनिरूपणाय प्रवृत्तमेकं महा- प्रकरणम्। तत्र अष्टमं त्रयाणां साधर्म्यमाह। नवमदशमे द्रव्यगुणयोः साधर्म्यमाहतुः। इदमनयोः साधर्म्य कर्मापेक्षया अनयोधर्म्यमपि भवति । एकादशद्वादशसूत्रे अवयविनो द्रव्यान्तरत्वं समर्थयती पूर्वसूत्रयोः शेषतां गच्छतः । त्रयोदशं सूत्रं कर्मणः सजातीया- नारम्भकत्वेन द्रव्यगुणापेक्षया वैवयं ब्रूते । एवामियं पट्सूत्री त्रयाणां पदार्थानां नाश्य- नाशकभावेतरधर्मः साधर्म्यवैधर्म्यकथनतत्परा एकमवान्तरप्रकरणम् ।

वैशेषिकसूत्रवृत्ती चतुर्दशादीनि त्रीणि सूत्राणि नाश्यनाशकभावपुरस्कारेण त्रयाणां साधर्म्य- वैधये प्रतिपादयन्ति । सजातीयारम्भकत्वं हि पूर्व प्रस्तुतम् । तेनोपस्थितं नाशकत्व- मनन्तरं तन्त्रीक्रियते । इदमपरमवान्तरप्रकरणम् । सप्तदशप्रभृतीनि त्रीणि त्रयाणां पदार्थानां लक्षणकथनपराणि । लक्षणं अति- व्याप्तिरहितत्वेन इतरपदार्थापेक्षया वैधयं भवति । अव्याप्तिरहितत्वेन सजातीय- सर्वापेक्षया साधयं भवति । विंशप्रभृतिभिः पञ्चभिः सूत्रः द्रव्यगुणकर्माणि एषामेव कारणभावेन साधर्म्य- वैधर्म्यरूपाणि भवन्तीत्युच्यते । इदमन्यदवान्तरप्रकरणम् । एषामेव कार्यभावेन साधर्म्यवैवात्मकत्वप्रतिपादकं पञ्चविंशादारभ्य अष्टसूत्रात्मकं अंतिममवान्तर- प्रकरणम् । एवमुत्तरत्र सर्वत्र प्रकरणविभागो द्रष्टव्यः ।। इति कणाद सूत्रवृत्तौ सुगमायां प्रथमाध्यायस्य प्रथममाह्निकम् ॥ प्रथमाध्याये द्वितीयाह्निकम् । (३३) कारणाभावात, कार्याभावः।१ द्रव्यगुणकर्माणि साधर्म्यवैधाभ्यां निरूपितानि । अथ सामान्यं निरूपणीयम् । तत्र सामान्यसत्त्वे किं प्रमाणं इति चेत् । तद्वक्तव्यम् । तत्र प्रत्यक्षमेव प्रमाणमिति सुवचम् । घटदर्शने हि अयं सन्, इदं द्रव्यं, इयं पृथिवी, अयं घटः, इति चाक्षुषं प्रत्यक्षं जायते । तथापि द्रव्यगुणातिरिक्तं सामान्य मिति किं नाम तत्रोपलभ्यते इत्याक्षिपन्तं प्रति इदमिति निर्दिश्य तत्प्रदर्शनं न शक्यते कर्तुम् । अतस्तस्य अनुमानं प्रमाणं प्रदर्शनीयम् । तत्र प्रथमं व्याप्तिं प्रदर्शयति अनेन सूत्रेण । कार्याभावः कारणाभाव- प्रयुक्तः इति सूत्रस्याक्षरार्थः । तेन यत्र कारणाभावः तत्र कार्याभाव इति व्यतिरेक- व्याप्तिः प्रदर्शिता भवति । यत्र कार्य तत्र कारणमिति अन्वयव्याप्तिश्च अर्थलभ्या। द्रव्यं सत्, गुणः सन्, कर्म सत्, इत्यनुगताकारा प्रतीतिर्भवति । न चेयं बाधिता । अतः F.63 प्रथमाध्याये द्वितीयाह्निकम् प्रमासत्ताविषयेयं प्रतीतिः । कार्या च, चक्षुर्जन्यत्वात् । प्रतीतौ च विषयः कारणम् । न हि विषयं विना प्रतीतिर्भवितुमर्हति । तथा च अनुगतप्रतीत्यात्मककार्यरूपलिङ्गात् कारणं सामान्यमनुमीयते, इत्युक्तं भवति । (३४) न तु कार्याभावात, कारणाभावः ॥२ कार्यं व्याप्यं, कारणं व्यापकमिति कृत्वा पूर्वसूत्रोक्ता व्याप्तिः समीचीना। तन्मूलकमनुम नं च । एतद्विवेकाय कारणं व्याप्यं, कार्य व्यापकमिति कृत्वा गृह्यमाणा तु व्याप्तिः दुष्टा, तन्मूलमनुभानं च दुष्टमिति अनेन सूत्रेण बोध्यते । कार्याभावप्रयुक्तः कारणाभाव इति तु न संभवति । धटानुत्पत्तावपि दण्डस्य सम्भवात् । प्रतीतिविरहेऽपि भूम्यन्तगंतजलस्य विद्यमानत्वात् । तथा च यंत्र कार्याभावः तत्र कारणाभाव इति व्यतिरेकेण वा, यत्र कारणं तत्र कार्यमित्यन्वयेन वा व्याप्तेरभावात् कारणात् कार्यानुमानं न सम्भवति । एवमनुमानं प्रयुज्यमानं आभासरूपं स्यात् । न च एवंविवं कार्यात् कारणानुभानम् । अतः अनुगतप्रतीत्या सिद्धयति तद्विषयभूतं सामान्यम् । (३५) सामान्यं विशेष इति बुध्यपेक्षम् ॥३ सामान्यं द्विविधं केवलसामान्यं विशेषात्मकसामान्य मिति, इति विभागमभि- प्रेत्य सामान्य मिति विशेष इति च व्यवहारे नियामकमाह । इति-इतिव्यवहरण- मित्यर्थः । बुद्धि अपेक्षत इति, बुद्धेरपेक्षा यस्येति वा बुद्धयपेक्षम् । अपेक्षा अधीन- प्रवृत्तिकत्वम् । समानाकारबुद्धिजनने तज्जनको धर्मः तां बुद्धिं निमित्तीकृत्य सामान्य- मिति व्यवह्रियते । व्यावृत्तिबुद्धिजनने तज्जनको धर्मः तां बुद्धि निमित्तीकृत्य विशेष इति व्यवह्रियते । स्वकार्यभूतसमानाकारबुद्धिवशात् धर्मस्य सामान्यमिति व्यवहारः प्रवर्तते । तथा स्वकार्यभूतव्यावृत्तबुद्धिवशात् विशेष इति व्यवहारः। तत्र कश्चन धर्मः समानाकारामेव बुद्धिं जनयतिः न तु व्यावृत्तबुद्धिम् । स धर्मः केवलसामान्यम् । कश्चन धर्मः उभयी बुद्धि जनयति अनुवृत्तबुद्धिं च व्यावृत्तबुद्धि च । स धर्मः विशेषात्मक- सामान्यम् । सामान्यं च विशेषश्चेति यावत् । समानाकारप्रतीतिजनकत्वं बुद्धौ कृत्वा सामान्यमिति व्यवहरन्ति । व्यावृत्तप्रतीतिजनकत्वं बुद्धौ कृत्वा विशेष इति व्यवहरन्ति, इति वा बुद्धयपेक्षत्वमुपपादनीयम् । तत्र केवलसामान्यं तस्य तथात्वे हेतुकथनपूर्वकं दर्शयति- १७ वैशेषिकसूत्रवृत्ती (३६) भावोऽनुवृत्तरेव हेतुत्वात, सामान्यमेव ।।४ भावः सत्ता । भूवातुर्हि सत्तावाची । सामान्यमेव न तु विशेषोऽपि । केवल- सामान्यमिति यावत् । कुतः । अनुवृत्तेरेव हेतुत्वात् । अनुवृत्तिरिह प्रतीतेविवक्षिता। एकस्यां व्यक्तौ यादृशी प्रतीतिः तादृश्या एव व्यक्तयन्तरेषु उत्पत्तिः अनुवृत्तिः । अस्या एव हेतुः सत्ता । पृथिव्यादीनि द्रव्याणि सन्ति, रूपादयो गुणाः सन्तः, कर्माणि उत्क्षेपणादीनि सन्ति, इति त्रिष्वपि पदार्थेषु सत्तया प्रतीत्यनुवृत्त रेव जायमानत्वात् । द्रव्यं न गुणः, न कर्म, सत्वादिति सत्ताहेतुकव्यावृत्तिप्रतीतेरजायमानत्वात् । सत्ता हि गुणे कर्मणि च विद्यमानत्वात् गुणभेदे कर्मभेदे वा न हेतुः । यद्यपि द्रव्यं न सामान्यं सत्त्वात् इति सामान्यादिव्यावृत्तिप्रतीतो हेतुर्भवत्येव सत्ता, तथापि जातिमतां द्रव्यगुणकर्मणां मिथो भेदप्रतीतेरेव व्यावृत्तिपदेन विवक्षितत्वात् ईदृशव्यावृत्तिहेतु- त्वाभावाच्च सत्तासामान्यस्य, इदं केवलसामान्यमेवेति युक्तो निर्णयः । (३७) द्रव्यत्वं गुणत्वं कम त्वं च सामान्यानि विशेषाश्च ॥५ सामान्यस्य द्वितीयां विधामिह दर्शयति । पृथिव्यादिषु नवस्वपि द्रव्येषु द्रव्यं द्रव्यमित्यनुगतप्रतीतिहेतुत्वात् द्रव्यत्वं सामान्यम् । पृथिवी न गुणः, न कर्म, द्रव्यत्वात् इति व्यावृत्तिप्रतीतिहेतुत्वात् विशेषश्च । एवं गुणत्वकर्मत्वयोरपि द्रष्टव्यम् । अत इमानि विशेषात्मकानि सामान्यानि । न पर एत एव विशेषाः सामान्यरूपा भवन्ति, अपि तु अन्येऽपि बहवो विशेषाः तथाविधाः सन्तीति ज्ञापयन् अर्थात् सामान्यादनन्तरं निदिष्टं पञ्चमं पदार्थमपि लक्षयति- munde (३८) अन्यत्रान्त्येभ्यो विशेषेभ्यः ॥६ विशिष्यते व्यावय॑ते भिन्नतया बोध्यते अनेनेति विशेषः । अन्ते यावन्तो विशेषाः तेषां चरमे स्थाने भवाः अन्त्याः । यदपेक्षया अपरो विशेषो नास्ति ते अन्त्या विशेषाः। जलादिपरमाणू नां सर्वथा एकरूपत्वात् मियो भेदसिद्धयर्थं एककस्मिन् परमाणौ एकैको विशेषोऽस्तीत्यभ्युपगम्यते । एकपरमाणुमात्रवृत्तित्वेन एककोऽपि विशेषः केवलं विशेष एव । न तु कथमपि सामान्यम् । अनेकवृत्तित्वे हि सामान्यत्वं स्यात् । न चास्य सामान्यत्वाभावे एतदपेक्षया अपरो विशेषः संभवति । अतः इमे अन्त्या १८ प्रथमाध्याये द्वितीयाह्निकम् विशेषाः । अन्यत्रेत्यव्ययं अन्येत्यर्थे प्राचीनप्रयोगसिद्धम् । अन्त्येभ्यो विशेषेभ्योऽन्ये ये विशेषाः ते सर्वे सामान्यानि विशेषाश्च भवन्तीति पूर्वसूत्रादनुवर्त्य योज्यम् । न परं ते विशेषा एव अपि तु सामान्यान्यपि भवन्तीत्यत्र तात्पर्यम् । द्रव्यत्वं यथा सकलद्रव्य- वृत्तितया सामान्यं, गुरणादिव्यावर्तकतया विशेषश्च तथा पृथिवीत्वं सकलपृथिवी- वृत्तित्वेन सामान्यं, अनादिव्यावर्तकतया विशेषश्च, तथा घटत्वं सकलघटवृत्तित्वेन सामान्यम्, परादिव्यावर्तकतया विशेष श्च । एवं गुणत्वव्याप्यधर्मेषु रूपत्वशुक्ल- त्वादिषु, कर्मत्वव्याप्यधर्मेषु पाकत्वगमनत्वादिष्वपि द्रष्टव्यम् । एवं शब्दतः द्रव्यत्वगुणत्वकर्मत्वव्यतिरिक्ताः अन्त्य विशेषभिन्नाश्च बहवो विशेषाः सामान्यात्मानः सन्तीति प्रतिपादनेऽपि, विशेषाः द्विविधाः सामान्यरूपाः केवलाश्चेति विभागः, पदार्थनिर्देशसूत्रे विशेषपदेन केवला एव विवक्षिताः, तेषां च अनुगताकारप्रतीतिहेतुत्वाभावे सति व्यावृत्तिप्रतीतिहेतुत्वं लक्षणमिति ज्ञापनं च अर्थतोऽभिप्रेतमिति ज्ञेयम् । इमे अन्त्या विशेषाः सर्वनित्यद्रव्यवृत्तयः ॥ इत्थं सामान्ये प्रमाणमुक्तम् । विभागश्च कृतः । अथ तत्र अन्यत् किमपि वक्तुं सत्तायाः पूर्वोक्तां प्रमाणतः सिद्धिमनुवदति । (३९) सदिति यतो द्रव्यगुणकम सु सा सत्ता ॥७ अत्र प्रतीतिरित्यध्याहार्यम् । द्रव्येषु गुणेषु कर्मसु च परस्परं भिन्नेष्वपि सदिति एकाकारा प्रतीतिः विषयविधया हेतुभूतात् यस्मात् पदार्थात् भवति स पदार्थः सत्ता सत्ताशब्दवाच्या । पूर्व भाव इत्युक्तोऽर्थः इह सत्ताशब्दप्रयोगात् विवृतः ।। विवक्षितमाह- (४०) द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता॥ - अन्योऽर्थः अर्थान्तरम् । सत्ता न द्रव्यं, न गुणः, न कर्म । अपितु पृथक्पदार्थान्तर- मित्यर्थः । सन्ति बहवः सामान्यतदाश्रययोरभेदं वदन्तः । ते न सम्यग्दर्शिनः । अन्यत्सामान्यम् । अन्यश्च तदाश्रयः । प्रतीतिबलादिति भावः ।।

वैशेषिकसूत्रवृत्ती १६ ननु आश्रयाश्रयिभावात् व्यक्तिभेद: सिद्धयतु । पदार्थान्तरत्वं तु कथं इत्यत्राह: (४१) गुणकम सु च भावान्न कम न गुणः ॥ गुणाश्च कर्माणि च, तेषु । चकारः द्रव्यममुच्चये । यथा द्रव्येषु तथा गुण- कर्मसु च सत्ता वर्तते । भावो वृत्तिः विद्यमानत्वम् । यस्माद् गुणेषु च वर्तते तस्मात् सत्ता न कर्म न गुणः । यस्मात् कर्मसु च वर्तते तस्माच्च सा न कर्म न गुणः । सत्ता न गुणः गुणवृत्तित्वात् । द्रव्यभेदवत् कर्मभेदवच्च । एवं सत्ता न कर्म कर्मवृत्तित्वात् । द्रव्यभेदवद् गुणमेदवच्चेत्यपि प्रयोगो द्रष्टव्यः । न चाप्रयोजकत्वम् । गुणानां कर्मणां वा गुणवत्त्वे कर्मवत्त्वे वा प्रमाणाभावात् । न हि पृथिवी गन्धवतीत्यादिवत् गन्धः एतद्गुणवान् एतक्रियावान् इत्यादिरीत्या कुत्रचित् कदाचित् कस्यचित् प्रतीतिरस्ति । न च गन्ध एकः इति संख्यारूपो गुणः, रसः पृथक् इति पृथक्त्वगुणश्च गुणेषु वर्तते । एवं कर्मस्वपीति वाच्यम् । गन्धाश्रयस्य द्रव्यस्यैकत्वेन तद्गतस्य गन्धस्यैकत्वव्यवहार इत्येवमुपपत्तौ गन्धस्य' स्वातन्त्र्येण संख्याश्रयत्वायोगात् । एवं पृथक्त्वाश्रयत्वमपि न युज्यते । द्वे ज्ञाने इति ज्ञानद्वित्वं विषयगतेन ज्ञातृगतेन कालोपाधिद्रव्यगतेन वा द्वित्वेनोपपाद्यम् । द्वौ शब्दाविति अभिव्यञ्जकवायुगतेन । द्वे क्रिये इति आश्रयद्रव्यभेदे सति तद्गत द्वित्वेन अन्यथा कालोपाधिद्रव्यगतेन । एवं सर्वत्र अन्यथैव प्रतीत्युपपत्तिसम्भवात् गुणकर्मणोः गुणो वा कर्म वा नास्तीति निश्चीयते । अस्ति तु सत्तासामान्यम् । अतो नेदं गुणः कर्म वा । ननु यद्यप्येवं सत्ता न गुणः नापि कर्म । अथापि द्रव्यं स्यात् । न हि द्रव्ये भावान्न द्रव्यमिति ववतुं शक्यम् । अवयवद्रव्ये अवयविद्रव्यस्य वर्तमानत्वात् इति चेन्न, गुरणकर्मसु च भावादित्यनेन द्रव्यमात्रवृत्तित्वाभावादिति हेत्वन्तरस्याप्याक्षिप्तत्वात् । तथा च सत्ता न गुणः कर्म वा द्रव्यमात्रवृत्तित्वाभावात् इति यथाऽस्य हेतोः गुणकर्म भेदसाधकत्वं तथा "न द्रव्यं, द्रव्यमात्रवृत्तित्वाभावात्, गुणभेदवत्कर्मभेदवद्वा" इति द्रव्यभेदसाधकत्वमप्यव्याहतम् । अतः “सत्ता न द्रव्यं द्रव्यवृत्तित्वात् गुणवत्कर्मवद्वा" इत्यनुमानस्य साध्याभाववति अवयविद्रव्ये हेतोः सत्वेन अनेकान्तिकत्वादसाधकत्वेऽपि न दोषः । अत्र गुणेषु भावान्न गुणः । कर्मसु भावान्न कर्म, इति यथासंख्यं न विवक्षित- - , २० प्रथमाध्याये द्वितीयाह्निकम् वा मिति ज्ञापनाय गुणकर्मसु इति समासकरणं, उपरि न कर्म न गुण इति क्रमान्तरा- श्रयणं चेति ज्ञयम् । (४२) सामान्यविशेषाभावेन च ॥१० सत्तायाः द्रव्यगुणकर्मभ्योऽर्थान्तरत्वे हेत्वन्तरमिदम् । सामान्यस्य सामान्यात्मकविशेषस्प वा सत्तायामभावाच्च सत्ता द्रव्यं वा गुणो वा कर्म वा न भवति । द्रव्ये सत्तासामान्यं द्रव्यत्वं च, गुणे सत्ता गुणत्वं च, कर्मणि सत्ता कर्मत्वं च इत्युभयमस्ति । न चैवं सत्तायामस्ति । न तावत् तत्र सत्ता वर्तते । स्वस्य स्ववृत्तित्वा- योगात् । नापि द्रव्यत्वादिकम् । इयं द्रव्यं गुणः कर्म वा इति प्रतीतिविरहात् । अतः सामान्यविशेषाभावात् सत्ता न द्रव्यं गुणः कर्म वा । ननु सत्तायां सत्ताद्रव्यत्वादिविरहेऽपि सामान्यत्वं नाम सामान्यं वर्तत एव । अतः सामान्य विशेषाभावेनेति हेतुरसिद्ध इति चेन्न । सामान्यमिति हि समानधर्म उच्यते । अतोऽस्य भावः सामान्यत्वं समानधर्मत्वमेव । सखण्डपदार्थरूपमिदं न सत्ताद्रव्यत्वादिवत् अखण्डधर्मरूपं सामान्यं भवति । न च सतो भावः सत्तेति सत्ताऽ पि सखण्डपदार्थ एवेति शङ्कयम् । शब्दस्यैवं व्युत्पादनेपि अखण्डधर्मस्यैव तेन वाच्यत्वात् । अनवस्थात्मकं जातिबाधकं चात्र द्रष्टव्यम् । (४३) अनेकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम् ।। ११ द्रव्यत्वस्य द्रव्यादिभ्यः पदार्थान्तरत्वं साधयितुं प्रथमं तस्य प्रमाणसिद्वत्वं स्मारयति । द्रव्यत्वं सामान्य मिति पूर्वमुक्तम् । केन हेतुना । सर्वेषु द्रव्येषु द्रव्यं द्रव्यमिति अनुगतप्रतीतिहेतुत्वेन । अनेकानि द्रव्याणि अनुगतप्रतीतिविषयमित्वेन अस्य वर्तन्त इति अनेकद्रव्यवत् । तत्त्वेन । अत्र अनेकद्रव्यगत्वेनेति, अनेकद्रव्य- मतत्वेनेति वा किं पाठान्तरमस्तीति विमर्शनीयम् । अत्र द्रव्यगुणकर्मभ्योऽर्थान्तरं द्रव्यत्वम् । सामान्यत्वात् सत्तावदिति अतिरिक्त- त्वमपि उक्त अनुसन्धेयम् । अतिरिक्तत्वे पूर्ववत् हेत्वन्तरमाह वैशेषिकसूत्रवृत्ती २१ (४४) सामान्यविशेषाभावेन च ॥ १२ - इति । न द्रव्यत्वे सत्ता वर्तते । द्रव्यं सत् इत्यादिरूपाया एवानुगतप्रतीतेः सत्वात् । द्रव्यत्वं सदित्येवंरूपायाः अभावात् । ननु द्रव्यत्वमस्तीति व्यवहारोऽस्त्येव । तेन द्रव्यं सदिति प्रत्ययोऽपि अस्तीत्येवाभ्युपगन्तव्यमिति चेन्न । एतादृशव्यवहारस्य अस्ति प्रमाविषयः, मत् कालसंवन्वि, इत्याद्यन्ति रपरत्वात् । सत्तासामान्यपरत्वा- भावात्, इत्थं द्रव्यत्वं द्रव्यमित्यादिप्रतीतिविरहात् द्रव्यत्वादिकमपि तत्र नास्तीति ज्ञेयम् । एवं सामान्य विशेषाभावेन द्रव्यत्वं न द्रव्यं, न गुणः, न कर्म । (४५) तथा गुणेषु भावात गुणत्वमुक्तम् ॥ १३ गुणत्वसामान्यस्य पदार्थान्त रत्वोपपादनाय पूर्वोक्तां तस्य सिद्धिमनुवदति । यथा त्रिषु पदार्थेषु अनुगतप्रतीतिविषयतया विद्यमानत्वेन सत्ता सिद्धा, यथाच सर्वेषु द्रव्येषु तथाविधप्रतीतिविषयतया विद्यमानत्वेन द्रव्यत्वं सिद्धमित्युक्त, तथा सर्वेषु गुणेषु अनुगतप्रतीतिविषयतया विद्यमानत्वेन गुणत्वमपि सिद्धमित्युक्त- मित्यर्थः । द्रव्यगुणकर्मभ्योऽर्थान्तरं गुणत्वम् । सामान्यत्वात् । सत्तावत् द्रव्यत्ववच्चे- त्यप्युक्तमित्यनुसंधेयम् । अत्र पूर्ववत् 'अनेकगुणवत्त्वेन गुणत्वमुक्तम्' इति सुवचम् । पूर्वमेव वा "द्रव्येषु मावाद् द्रव्यत्वमुक्तम्” इति । तथापि अनेकव्यक्तिवृत्तित्वं सामान्यस्य जीवितमित्येतत्स्फुटीकरणाय बहुवचनगम्य मिदं पूर्व कण्ठोक्तम् । अत्र तत्सुगममिति बहुवचनमेव प्रादृतमिति ज्ञेयम् । अस्मिन् सूत्रे तथेत्येतत् किं सूत्रकारेणैव प्रयुक्त, अवतारिकारीत्या पश्चात् कैश्चिद्योजितं वेति युक्ता चिन्ता । (४७) सामान्यविशेषाभावेन च ।। १४ पूर्ववत् गुणत्वस्य द्रव्यगुणकर्मभ्योऽर्थान्तरमिदम् । न हि गुणत्वे सत्ता वा दव्यत्वादिकं वा अस्ति । अतः तेभ्यः पदार्थान्तरमिदम् ।

२२ प्रथमाध्याये द्वितीयाह्निकम् (४७) कम सु भावातकर्म त्वमुक्तम, ।। १५ कर्मत्वसामान्यसिद्धिं पूर्वोक्तां स्मारयति । सर्वेषु कर्मसु अनुगतप्रतीति विषयतया विद्यमानत्वात् कर्मत्वं सिद्धमित्युक्तम् । कर्मत्वं द्रव्यगुणकर्मभ्योऽर्थान्तरं ज्ञेयम् । सामान्यत्वात् सत्तादिवत्, इति अर्थान्तरत्वमप्युक्त ज्ञेयम् । (४८) सामान्यविशेषाभावेन च ॥ १६ अर्थान्तरत्वे पूर्ववत् हेत्वन्तरमिदमिति स्पष्टम् । (४६) सदिति लिङ्गाविशेषात विशेषलिङ्गाभावाच्चैको भावः ।। १७ सामान्यसत्त्वे प्रमाणं तद्वैविध्यं तस्य पदार्थान्तरत्वं च स्थापितम् । अथास्य एकत्वं स्थापयति । अनेकासु व्यक्तिषु एकाकारा प्रतीतिः सामान्ये प्रमाणमित्युक्तम् । या इमाः अनेकवस्तुपु समानप्रकारा बुद्धयः ताः सर्वाः तद्वस्तुवृत्त्येकधर्मप्रयुक्ताः, समानाकारबुद्धित्वात् । एकमेव दण्डं क्रमेण धारयत्सु पुरुषेषु, अयं दण्डी अयं दण्डीति जायमानबहुबुद्धिवत् इत्यनुमानं तत्राऽभिप्रेतम् । या नैवं ता नैवं यथा घटपटदण्डकुण्डलादिप्रकारकबुद्धयः, इति व्यतिरेक्यनुमानं च । एवं एकैकमपि सामान्यं प्रमाणेन सिद्धयत् एकमेव सिद्धयति । अनेकत्वसंशयस्यापि नास्त्यवसरः । तथाऽपि मन्दमतिः कोऽपि तथा मा शङ्किण्टेति, अनेनैव प्रकारेण वस्त्वन्तरेषु एकत्वं साधनीयमिति उत्तरत्र प्रतिपादनसौकर्याय च सिद्धमेव सत्तायाः एकत्वं साधयत्यनेन सूत्रेण । सदिति अनुवृत्तप्रतीतिरूपं यत् लिङ्गं ईदृशप्रतीतिर्मिकं समानाकारत्व- हेतुकं यदनुमानं तदिह लिङ्गपदेन विवक्षितम् । तस्य अविशेषात्, विशेषाभावात्; सत्तासामान्यस्य एकत्वविरोधिनानात्वापादकाकारस्य अभावात् । सदिति प्रतीतिरेव वा लिङ्गमिति विवक्षिता। एकस्मिन् पदार्थे सदिति प्रतीतिर्याशी तादृश्येव साक्षात् पदार्थान्तरेऽपि । न मात्रयाऽपि वैलक्षण्यम् । अतो नानात्वहेतोरभावात् एकैव सत्तेति प्रतितिष्ठति । यद्यपि सावकप्रमाणे नास्ति स विशेष: येन सत्तानानात्वं भवेत्, तथापि प्रमाणान्तरेण तत् किं न भवेदित्यत्राह - विशेषलिङ्गाभावाच्चेति । विशेष ।

वैशेषिकसूत्रवृत्तों २३ च तत् लिङ्गं च विशेपलिङ्गम् । तस्या भावात् । लिङ्ग ज्ञापक प्रमाणमित्यर्थः तन्नानात्वबोधकं प्रसारण.न्तरमपि किमपि नास्तीति । सत्तासाधक- प्रमाणस्य एकत्वमात्रबोधकत्वेन नानात्वबोधकप्रमाणान्तराभावेन च सत्ता एकंव, न नानेत्यर्थः । अत्र सत्ताया एकत्वं न सङ्खयारूपम् । अपि तु स्वसजातीयद्वितीयरहितत्व- रूपम् । द्रव्य मिति लिङ्गाविशेषात् विशेषलिङ्गाभावाच्चैक द्रव्यत्वमित्याद्यपि बोध्यम् । इति कणादसूत्रवृत्ती सुगमायां प्रथमाध्याये द्वितीयमाह्निकम् । F.64

No text on this page.

अथ द्वितीयाध्याये प्रथममाह्निकम् - द्रव्यगुणकर्मसामान्यानि सामान्यतो निरूपितानि । अथ विशेषतो निरूपण- मारमते । तत्र प्रथमं द्रव्यविशेषनिरूपणम् । ५०. रूपरसगन्धस्पर्शवती पृथिवी ।। १ ।। रूपं रसः स्पर्शः गन्धः इत्येतेश्चतुभिगुगर्युक्ता पृथिवी । एते चत्वारो गुणाः शब्देन सह पञ्च पञ्चानां भूतानां गुणाः । तत्र आकाशेतरभूतचतुष्टयवृत्तित्वेन एते चत्वारो गुणाः एकराशीभवन्ति । अतः पूर्वं गुणनिर्देशे अत्र च एषां समासकरणम् । तत्र भूतनिर्देशकमेण गन्धरसरूपस्पर्शा इति, अथवा चतुस्त्रिद्वयकभूतवृत्तित्त्वानु- रोधेन स्पर्शरूपरसगन्धा इति, एतद्वती पृथिवीति च एषां गुणानां निर्देश उचितः । तथापि इन्द्रियेषु चक्षुषः प्रधानत्वात् तद्ग्राह्यस्य रूपस्य प्राथम्यम् । द्रव्यत्रयप्रत्यक्षत्वे हेतुत्वाच्चैवम् । तदानन्तयं द्रव्यद्वयवर्तिनो रसस्य । एतदानन्तयं एकभूतमात्रवर्तिनो गन्धस्य । भूतचतुष्टयवतिष्नो स्वस्थानाद् भ्रष्टस्य स्पर्शस्यान्ते निवेशः । ५१. रूपरसस्पर्शवत्य पापो द्रवाः स्निग्धाश्च ॥२॥ उक्तेषु चतुर्दा गन्धवजं अन्ये त्रयो गुणाः अपाम् । द्रवत्वं स्नेह इति अन्यौ च दो गुणौ। ५२. तेजो रूपस्पर्शवत॥३॥ रसगन्धवर्ज द्वौ गुणी तेजसः । रूपस्पशी । पूर्वसूत्रवत् रूपस्पर्शवत् तेज इति युक्तं वक्तुम् । तथापि गुणसंख्याया अल्पीभावज्ञापनाय क्रमान्तराश्रयणम् । एवमुतरत्रापि । ५३. वायुः स्पर्शवान् ॥४॥ चतुषु गुणेषु स्पर्श एको वायोः, न रूपम् । न रसः, न गन्धः ।

१२ ५४. त आकाशे न विद्यन्ते ।।५।। एते चत्वारोपि गुणाः आकाशे पञ्चमे भूते न सन्ति । एभिः पञ्चभिः सूत्रः पञ्चानां भूतानां मिथः साधर्म्यवैधये उक्त भवतः। उक्तगुणचतुष्टयशून्यत्वं आकाशस्य पृथिव्यादिभ्यश्चतुर्थो वैधर्म्यम् । स्पर्शवत्त्वं चतुर्णा मिथः साधर्म्यम् । रूपवत्त्वं त्रयाणां मिथः साधर्म्यम् । वायो(धर्म्य च । रसवत्त्वं द्वयोः मिथः साधर्म्यम् । तेजोवायुभ्यां वैधयं च । गन्धः पृथिव्या वैधर्म्यमिति । ५५. सपिर्जतुमधूच्छिष्टानां पार्थिवानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम् ॥६॥ "आपो द्रवाः स्निग्धाश्च" इति द्रवत्वं स्नेहश्च अपां इतरेभ्यो वैधय॑म् । पृथिव्या गन्धवदिति ज्ञापितम् । तत्र द्रवत्वे कञ्चन विशेषं अनेन अनन्तरेण च सूत्रणाह। । सपिः घृतम् । जतु लाक्षा। मधूच्छिष्टं मध्वपूपः। इमानि द्रव्याणि पृथि- वीत्वजातिमन्ति, पृथिवी विकारभूतानि । एष्वपि द्रवत्वमस्ति । परं तु तत् जल इव न सांसिद्धिकम् न नैसर्गिकमित्यर्थः । अपि तु अग्निसंयोगरूपनिमित्तात् जाय- मानं नैमित्तिकम् । एतेन द्रवत्वं द्विविधं, स.सिद्धिकं नैमित्तिकमिति । एवं विशेष- सत्त्वेऽपि सामान्यतो द्रवत्वं सपिरादिरूपायाः पृथिव्याः अद्भिः सामान्यम्, सां सिद्धिक- द्रवत्वं तु अपां इतरेभ्यो वैधम्यं पूर्वमभिप्रेतमिति ज्ञापितं भवति । ५६. पुसीसलोहरजतसुवर्णानां तैजसानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम् ॥७॥ अपुप्रभृतयो लोहविशेषाः प्रसिद्धाः । अत्र लोह इति अयोरूपो लोहविशेषो विवक्षितः। ताम्रमपि। एतानि द्रव्याणि तेजसानि । एष्वपि अग्निसंपर्कनिमित्तकं द्रवत्वमस्ति । अतः पूर्ववत् सामान्यतो गृहीतं द्रवत्वं एषां तेजोद्रव्याणां सपिः- प्रभृतिभिः पार्थिवद्रव्यैः साधर्म्यम् । सांसिद्धिकद्रवत्वमेव तु अपां इतरेभ्यो वैधयं- मिति ।

वैशेषिकसूत्रवृत्तिः भूतानां साधर्म्यवैधयंप्रकरणं समाप्तम् । आद्यानि त्रीणि भूतानि प्रत्यक्षाणि । रूपवत्त्वात् । वाय्वाकाशौ अप्रत्यक्षी, रूपरहितत्वात् । अत इमो अनुमानगम्यौ । प्रत्यक्षमित्र अनुमानमपि हि वस्तु सिद्धौ प्रमाणन् । तत्र वायो अनुमानं प्रदर्शयिष्यन् तत्र वक्ष्यमाणविशेषसुग्रहत्वाय प्रथमं ततो विलक्षणं किञ्चिदनुमानं दर्णयति । ५७. विषाणी ककुमान् प्रान्तेवालधिः सास्नावानिति गोत्वे दृष्टं लिङ्गम् ॥ ८॥ विषाणी शृङ्गवान् । ककुत् वृषभाणां गलपृष्ठमन्धौ उद्गतो भागः । तद्वान् ककुद्यान् । प्रान्ते वालधिः प्रकृप्टोऽन्तः प्रान्तः शरीरस्य अधोभागः यो भूमि स्पृशतीव । तत्र तदवधि प्रलम्बः वालधिः पुच्छं यस्य प्रलम्बतमवाल: इत्यर्थः। नहि गोरिव अन्येषां पशूनां तथा प्रलम्बो बालः । सास्ना बालकम्बलः। तद्वान्, इति एतैः शब्दः गम्यं यत् तत् । गोत्वे विशेषसामान्ये साध्ये । इदमुपलक्षणं अश्व वरादिभेदस्य । दृष्टं साध्येन सह पक्षे विद्यमानतया प्रत्यक्षविषयीकृतम् । लिङ्गं हेतुः । गां अश्व च असकृद् दृष्टवान् पुरुषः विपाणित्वप्रभृतीनां गोत्वेन अश्व- भेदेन च व्याप्ति गृहाति । ततः अल्पत्रकाशे क्वचित् स्थले मृगं कञ्चन पश्यन् सन्दिग्धे गौर्वा अयं, अन्यो वेति । ततः सावधानं पश्यन् विषाणे दृष्टे नायमश्वः विषाणित्वादित्यवधारयति । ककुदर्शने अयं गौः नाश्वः ककुमत्त्वात् इति निश्चि- नोति । एवं प्रान्तेवालवित्वमास्नावत्वदर्शनेऽपि, इति द्रष्टव्यम् । इत्थं विपाणित्वादीनि अश्वादिभेदे गोत्वे च लिङ्गानि भवन्ति । प्रत्यक्षेण गवि व्याप्तिग्रहणाच्च दृष्टलिङ्गानि भवन्ति । , ५८. स्पर्शश्च वायोः ॥६॥ लिङ्गमित्यनुवर्तते । सर्शश्च लिङ्गम् । प्रथा विपाणित्वादिकं तथा स्पर्शोऽपि लिङ्गम् अनुमितिहेतुः । तत् सर्वं गोत्वस्य लिङ्गम् । स्पर्शः कस्य । वायोः चतुर्थस्य भुतस्य पृथिव्यादिवदप्रत्यक्षस्य । रथ्यायां स्पर्श उपलभ्यते । तेनानुमीयते अत्र केनचिद् द्रव्येण भवितव्यम् । स्पर्शो हि गुणः । न चायं गुणः द्रव्यं विना वर्तत इति । तदाश्रयो ६४ यद् द्रव्यं स एव वायुः । एवं स्पर्शः वायोलिङ्गम् । अत्र पूर्व “गोत्वे" इतिवत् “वायो" इति युक्त वक्तुम् । तथापि षष्ठीसप्तम्योरविशेष इति ज्ञापनायेह षष्ठीति ज्ञेयम् । ननु अाश्रयभूतद्रव्यविरहे गुणोपलम्भानुपपत्त: तादृशं द्रव्यं किञ्चन सिध्यतु । स वायु- रेवेति कथमित्यत्राह- ५६. न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः॥ १० ॥ नहि स स्पर्शः पृथिव्याः अपां तेजसो वा । इमानि हि भूतानि प्रत्यक्षारिण। यद्येषां अन्यतमं तद् द्रव्यं तहि प्रत्यक्षं दृश्येत । न च दृश्यते । न च स आकाशः । तस्य स्पर्शशून्यत्वात् । पृथिव्यादीनां तु स्पर्शाश्रयत्वं संभवति । तथापि तत्र स्थितिर्न सम्भवति । प्रदर्शनात् । स्थितौ हि दर्शनं अवश्यम भविष्यत् । रूपिद्रव्यत्वात् । अतो भूतान्तरेभ्यो व्यतिरेके सिद्धे स वायुरिति निश्चीयते । परं अस्य स्पर्शरूपस्य वायु- लिङ्गस्य गोत्वलिङ्गेभ्यः विषाणित्वादिभ्यः अस्ति कश्चन विशेषः। गोत्वेन व्याप्ति- मत्तया प्रत्यक्षं गोषु दृष्टानि विषाणित्वादीनि लिङ्गानि । तस्माद् वृष्ट लङ्ग गोत्वम् । स्पर्शस्तु वायुना सह तथा न दृष्ट: । वायोः नीरूपस्याप्रत्यक्षत्वात् । तथापि स्पर्शो गुणः । अतः स आश्रयं द्रव्यविशेषं विना न भविष्यतीति तत्र भवितव्यं केनचिद् द्रव्येण । तद् द्रव्यं न पृथिवी, नापः, न तेजः । अनुपलब्धः। अतः परिशेषाद् वायु- रिति स्पर्शो वायोलिङ्ग भवत्येव । परं तु अदृष्टं लिङ्गम् । न तु विषारिणत्वादिवत् दृष्टं, इति विशेषः । अत्र वायोरदृष्टं लिङ्गमिति वक्तुमौचित्ये सत्यपि अदृष्टलिङ्गो वायुरित्युक्तिः साध्यत्वेन तस्य प्राधान्यात् । उत्तरत्रानुषङ्गसौकर्याच्चेति बोध्यम् । ६.. अद्रव्यवत्त्वेन द्रव्यम् ॥ ११ ॥ न विद्यते द्रव्यं प्रारम्भकावयवत्वेन येषां ते अद्रव्याः चरमावयवाः पर- माणवः । ते अस्य सन्ति आरम्भकावयत्ववेन, समवायिकारणत्वेन, इति अद्रव्यवान् । तस्य भावः तेन । वायुरिति अनुवर्तते । अवयवकार्यभूतावयवित्वेन वायोः स्पर्श- लिङ्गेनानुमीयमानस्य द्रव्यत्वं सिध्यति । न हि द्रव्येतरपदार्थस्य अवयवित्वं संभव- तोति । यद्यपि स्पर्शरूपगुणवत्त्वेनैव द्रव्यत्वं सिद्धं, तथापि कण्ठोक्तया तत्साधन- ब्याजेन तस्य अवयवित्वं अत एवानित्यत्वं चात्र प्रतिपिपादयिषतीति ज्ञेयम् ।

वैशेषिकसूत्रवृत्तिः २१ ६१. क्रियावत्त्वाद् गुणवत्त्वाच्च ॥ १२ ॥ वानरूपक्रियावत्त्वात् संयोगविभागपरत्वापरत्वादिबहुगुणान्तरवत्त्वाच्च वायुद्रव्यम् । अत्रापि स्पर्शतरबहुधर्मवत्त्वप्रतिपादने तात्पर्यम् । गुणवत्त्वस्य प्रथमा- भिधाने युक्त ऽपि गुणशब्देन क्रियाजन्यसंयोगादिकं विवक्षितमिति ज्ञापन य किया- वत्त्वस्य प्रथमाभिधानम् । ६२. अद्रव्यत्वेन नित्यत्वमुक्तम् ॥ १३॥ प्रपूर्वसूत्रे परमाणुवाचकतया अद्रव्यशब्दः प्रयुक्तः । तस्य समवायिकारण- रहितं द्रव्यमित्यर्थः। कारणराहित्ये च कार्यत्वाभावात् नित्यत्वं वायुपरमाणुनामुक्त भवतीत्यर्थः । वायुविविधः नित्योऽनित्यश्चेति । नित्य: परमाणुरूपः अनित्यः कार्यरूप इति वायुविभागोऽत्राभिप्रेतः । ६३. वायोर्वायुसम्मूर्छनं नानात्वलिङ्गम् ॥ १४ ॥ ननु स्पशंलिङ्गेन तस्याश्रयः कश्चिदस्तीति, स द्रव्यमिति काममनुमानेन सिद्धयतु । सोऽवयवीति, स परमाणुभिरारब्ध इति कथं सिद्धयति । स एको निरवयव इति किं न स्यात्, इत्यत्र आह । वायोः वायुकर्मकं, वायुसम्मूर्छनं वायुकर्तृ कोऽभिघातः वायुकर्तृकः वायुकर्म- कोऽभिघातो वा वायोः नानात्वे मिथो भेदे, अनेकत्वे लिङ्ग ज्ञापकम् । प्राच्यां दिशि एको वायुः प्रतीच्यामपरः। उभावपि वेगेन वान्तो हि परस्परमभिहत इति तृण- पांसुपर्णादीनामुत्पतनेन असंदिग्धं जानीमः। तेनानेकत्वं निश्चीयते । तत्र एक- कोऽपि एकोऽवयवी । अवयवी चावयवारब्ध इति युक्तः पूर्वकृतो निर्णयः । ननु स्पर्शलिङ्गेन तदाश्रयः सिद्ध्यतु । स पृथिव्यादिव्यतिरिक्त इत्यपि काममस्तु । वायुरिति तस्य विशेषतोऽभिधानं तु कथमित्याक्षिपति- ६४. वायुसन्निकर्षे प्रत्यक्षाभावात दृष्टं लिङ्ग न विद्यते ॥ १५ ॥ स्पर्शलिङ्गं विषाणित्वादिलिङ्गवत् न दृष्टं लिङ्गमिति भवतैवोक्तम् । कस्मात् तत् । वायो वाति सति त्वगिन्द्रियं तेन सनिवृष्यते । एवं विषयेन्द्रियंस नि- - ३० कर्षे प्रत्यक्षज्ञानोत्पत्तिकारणे सत्यपि वायोः प्रत्यक्षं न जायते । रूपाभावात् । एवं वायोरदृष्टलिङ्गत्ववादिना भवता तस्याप्रत्यक्षत्वमभ्युपगतम् । अप्रत्यक्षस्य तस्य "अयं वायु"रिति संज्ञाकरणायोगात् वायुरिति विशेषाभिधानं अप्रामाणिकम् । गौः प्रत्यक्षः । तं दृष्टवान् कश्चित् "अयं गौरिति व्यवहर्तव्यः" इति सङ्केतमकरोदिति युज्यते । न तु अप्रत्यक्षे पदार्थे । अभिधेये वस्तुनि अदृष्टे अभिधानाकांक्षाविरहात् । नन्वनुमानावगतस्यार्थस्य अभिधानाकाङ्क्षा किं न घटत इत्यत्राह- ६५. सामान्यतोदृष्टाच्चाविशेषः ॥ १६ ॥ अनुमापकं लिङ्गं द्विविधं-विशेषतो दृष्टं सामान्यतो दृष्टं चेति । पक्षे तत्स- जातीये वा धर्मिणि साध्यसाधनयोः प्रत्यक्षेण व्याप्तिग्रहणे सति तत् साधनं विशेष- तो दृष्टम् । यथा विषामित्वादि । यत्र न तथा तत्रत्यं साधनं सामान्यतो दृष्टम् । यथा सूर्ये गत्यनुमाने पूर्व मन्यत्र दृष्टस्य पश्चादन्यत्र दर्शनम् । प्रकृतं स्पर्शरूपं वायुलिङ्ग च सामान्यतो दृष्टमेव । यत्र स्पर्शः तत्र वायुरिति विशिष्य व्याप्तिग्रहणाभावात् । तेन अनेन लिङ्गन जायमानायां बुद्धौ कश्चिदाश्रयोऽस्तीति सामान्यमेव विषयः । न तु वायुत्वरूपो विशेषः । अगृहीते चास्मिन् विशेषे तदभिधायितया पदविशेष- कल्पनमशक्यम् । सामान्यमेव गृह्यते । न तु विशेष इति सूत्रार्थः। ततो जायमानः प्रत्ययः अविशेषः विषयतया वायुत्वरूपविशेषरहित एवेति वा । तस्मिन् विशेषाभाव - इति वा। - तर्हि वायुरिति अनादिः सार्वत्रिको व्यवहारः कथम् । तत्र हि उपपत्तिर्वक्तव्या, इत्यत्र स्वमतमाह आक्षेप्ता- ६६. तस्मादागमिकम् ॥१७॥ आगमे वेदे भवं आगमिकम् । लिङ्गमिति व्यवधानेऽप्यनुवर्तते । लिङ्गं ज्ञापकम् । यस्मात् विशिष्य वायुत्वेन वाय्ववगतौ वा तदभिधायित्वेन वायुपदसिद्धौ वा प्रत्यक्ष वा अनुमानं वा न निदानं भवितुमर्हति, तस्मात् आगमे तत्प्रतिपादकं वाक्यमेव तन्मूल- मित्यर्थः । यद्वा वायुत्वावच्छिन्नं द्रव्यमस्तीति तदभिधायि वायुपदमिति च आगमादेवा- बगत मित्यर्थः॥

वैशेषिकसूत्रवृत्तिः
AD
-
अत्र अनभिमति व्यञ्जयन शास्त्रकारः स्वमतमाह-
६७. संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम ॥१८॥
आगमोऽपि प्राक्सिद्धाभिधेयाभिधाननिबन्ध एव । अतस्तत्रापि मूलं वक्तव्यम् ।
तदुच्यते । वेदस्तावत् प्रमाणम् । शिष्टस्तथा परिगृहीतत्वात् । तद्विहितानां कर्मणां
स.फल्यदर्शनाच्च । दोषमूलत्वानुपलम्भाच्च । तत्र वायुत्वावच्छिन्नवाचितया,
तत्संज्ञात्वेन, वायुशब्दप्रयोगो दृश्यते। तल्लिङ्ग, अस्मदपेक्षया अतिशयितशक्तिमन्तः
पुरुषा प्रासन, ये अस्मदिन्द्रियागोचरानपि अर्थान् साक्षात्कृत्य संज्ञां चरित्यत्र ।
संज्ञाकर्म अतीन्द्रियाणामपि अर्थानां संज्ञाकरणं पूर्ववृत्तं, अस्मदिति पञ्चमी
अस्मदपेक्षया विशिष्टानां विलक्षणशक्तिमतां, तथाविधाः पुरुषा पासन्नित्य स्मिन् विषये
लिङ्गमिति सूत्रस्याक्षरार्थः । ते वायोः वायुरिति संज्ञां चक्रुः । अतो न काचिदनुप-
पत्तिरिति भावः । तुकारः पूर्वमतानङ्गीकारसूचकः ॥
६८, प्रत्यक्षप्रवृ त्तत्वात् संज्ञाकर्मणः ॥१६॥
प्रत्यक्षेण न त्वनुमानेन भ्रमेण वा प्रवृत्तत्वात् निष्पन्नत्वात् संज्ञाकर्मणः सर्वेषां
वस्तूनां नामकल्पनस्य । वाय्वाद्यतीन्द्रियवस्तुवाचकस ज्ञाकल्पनं अस्मदपेक्षया विशिष्टा
आसन्नित्यत्र लिङ्गं भवतीति पूर्वेणान्वयः॥
-
अवसितं वायुप्रकरणम् । अथ आकाशप्रकरणम् तत्र अप्रत्यक्षस्य आकाशस्य
सिद्धौ साधनं परेषामभिमतं दर्शयति--
६६. निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् ॥२०॥
गृहानिष्कामति, गृहं प्रविशति, इति निष्क्रमणं प्रवेशनं च प्रसिद्धम् । तत्र
यत्र भित्तिरस्ति तत्र तन्न सम्भवति । अतः पृथिब्यादिभ्यः मूर्तद्रव्यादिभ्यः अतिरिक्त
किञ्चिद् द्रव्यं तत्कारणमस्तीत्यभ्युपगन्तव्यम् । तद् द्रव्यमाकाश इति निष्क्रमणं प्रवेशनं
च प्राकाशस्य लिङ्गमिति ।
.
-
इदं निराकरोति-
७०. तदलिङ्गमेकद्रव्यत्वात् कर्मणः ॥२१॥

३२ २ तत् उक्त निष्क्रमणं प्रवेशनं च अलिङ्ग दुष्टं लिङ्गम् । प्राकाशसाधनाक्षम- मित्यर्थः । कुतः । कर्मणः एकद्रव्यत्वात् । एकमेव द्रव्यं समवायिकारणतया आश्रय- भूतं यस्य तत्त्वात् । कर्म निष्क्रमणादिरूपं एकस्मिन्नेव द्रव्ये समवैति । न संयोगादिवत् द्रव्यद्वये । तत्र यः पुरुषः निष्क्रामति प्रविशति च तस्मिन् तत्कर्म वर्तत इति सर्वसम्मतं, दुरपह्नवम् । तथा सति तदाश्रयतया द्रव्यान्तरापेक्षा नैवास्ति । कथं द्रव्यान्तरं सिद्ध यत् । ननु आश्रयतया द्रव्यान्तरापेक्षा नास्तीति सत्यमेतत् । तथाऽपि निमित्तकारण- तया तदपेक्षाऽस्त्येव । पृथिव्यादीनि द्रव्याणि अवकाशं न ददति । तेन निष्क्रमणा- दिकं न जायते । अतः अवकाशदानक्षम द्रव्यान्तरमपेक्ष्यते । तदाकाशमिति भवत्येव निष्क्रमणादिकमाकाशस्य लिङ्गमित्यत्राह- ७१. कारणानुक्लुप्तिवैधाच्च ।।२२।। कारणस्य अनुक्लृप्तिः अवधारणम् तस्य वैधात् विरुद्धधर्मवत्त्वात् । इदं कारणमित्यवधारणे अनुकूलः नियामकः धर्मः अन्वयव्य तिरेकवत्त्वम् । अस्मिन् सति कायं भवति । असति न भवतीति ! निष्क्रमणादिकं प्रति आकाशस्य तन्नास्ति । आका- शस्य अवर्जनीयतया सन्निधिः । न तु कार्य निष्पत्तये अपेक्षितत्वात् । अतोऽन्वयो- नास्ति । आकाशस्य विभुत्वेन नित्यत्वाच्च क्वचिदपि कदाचिदपि तदभावो नास्तीति व्यतिरेकोऽपि नास्ति । एवं कारणत्वावधारणोपयुक्त यत् अन्वयव्य तिरेकवत्त्वं तद्वि- रुद्धस्य तदभाववत्त्वस्यैव आकाशे विद्यमानत्वात् निष्क्रमणादेः निमित्तकारणमपि न भवितुमहँतीति न तदपेक्षावशेनापि तदाकाशं साधयितुमलमित्यर्थः॥ ननु द्वारदेशे तदवच्छिन्नाकाशोऽस्ति । तस्मिन् सति निष्क्रमणादि मवति । कुड्यादौ तदभावे न भवतीति एवान्वयतिरेको, इति चेत् अत्राह- ७२. संयोगादभावः कर्मणः॥२३॥ कुडयम भिगच्छन् पुरुषः तेन संयोगं प्राप्नोति । ततः परं गन्तुं न शक्नोति । तेन निष्क्रमणाभावः । एवं च मूर्तद्रव्यसंयोगःनिष्क्रमणप्रतिबन्धकः । तदभावात् द्वारदेशे निष्क्रमणं भवतीत्येवमुपपत्तौ नाकाशकल्पनमावश्यकम् ॥

पलब्धः। वैशेषिकसूत्रवृत्तिः एवं परोक्त लिङ्गं निरस्य स्वयं शब्दं तल्लिङ्ग ददन् प्रथमं तस्य वायुपर्यन्तद्रव्य- चतुष्टयगुणत्वाभावे एकं हेतुमाह- ७३. कारणगुणपूर्कः कार्यगुणो दृष्टः ।।२४।। कारणस्य यो गुणः सः पूर्वः नियतपूर्ववर्ती, कारणमिति यावत्, यस्य सः कारणगुणपूर्वकः । कारणगुणकारणक इत्यर्थः। कार्यस्य गुरणः कार्यगुणः । एकैकेन्द्रिय- ग्राह्याः भोगार्हा विशेषगुणा: रूपरसगन्धस्पर्शा विवक्षिताः। पृथिव्यादिकार्यद्रव्य- वर्तिनः इमे गुणाः कारणभूतावयवस्थगुणकारणका एव । न तदतिरिक्त कारण- मपेक्षन्ते । पाकजा गुणाः यद्यपि पाकम पेक्षन्ते तथाऽपि पृथिव्या यत्किञ्चिद्रूपवत्त्वं स्वाभा- विकम् । पाकः रूपविशेषे हेतुः । न तु सामान्यतो रूपवत्त्वे । रूपरहितपार्थिवद्रव्यस्यानु- अथवा पीलुपाकवादिनां अवयवगुणानामेव अग्निसंयोगापेक्षा । न त्व- वयविगुणानाम् । अत इमे कारणान्तरनिरपेक्षा एव । कारणगुणमात्रपूर्वकाः । दृष्ट इति । न चात्र काचन विप्रतिपत्तिरस्तीति भावः । न च शब्द ईदृशः। द्रव्यान्तरसंयोगादिरूपकारणान्तरापेक्षत्वात् । कोणेन डने सति हि मेरी ध्वनति । विदलने च वेणुः । अतः शब्दः न स्पर्शवतां आद्यानां चतुर्णा भूतानां गुणः । अयं प्रयोगः । शब्दः स्पर्शवतां न गुणः, कारण गुणेतरकारणकत्वात् । यन्नैवं तन्नैवम् । यथा रूपरसगन्धस्पर्शाः। इति ॥ हेत्वन्तरं प्रतिज्ञया सह प्रदर्शयति- ७४. कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः ।।२।। अन्यत् कार्य कार्यान्तरम् । तस्य अप्रादुर्भावात् अनुत्पत्तेश्च । कार्येषु यो गुणः सः अवयवगुणस्य कार्यः। अस्मात् अवयवगुणकार्यात् अवयविगुणात् कार्यान्तरं न प्रादुर्भवति । न ह्यवयविगुणः स्वाश्रये वा अन्यत्र वा स्वसजातीयं गुणान्तरं जनयति । जनयति तु शब्दः । भेरीतः कर्णपर्यन्तं वर्तमानायां शब्दपरम्परायां पूर्व- पूर्वस्य शब्दस्य उत्तरोत्तरशब्दजनकत्वात् । अतः स्पर्शवद्गुणवैधात् शब्दः न स्पर्श- वतां गुणः। प्रयोगश्च । शब्दः न स्पर्शवतां गुणः, सजातीयकार्यान्तरजनकत्वात् । यन्नवं तन्न वम् । यथा रूपादय इति । चकारः पूर्वहेतुं समुच्चिन्वन् तत्रापि इयमेव प्रतिजति ज्ञापयति । , . भेरीताडने तत्र, समुद्रघोष सति जले, दवानलदह्यमानवेणुस्फोटे अग्नी, वेणु- वादने वायौ च शब्दप्रतीतेः तेषामन्यतमस्य गुणो भवितुमर्हति शब्द इति मतिः सहजेन जायेत । सा सूत्रद्वयेन निवतिता । कालस् : दिशो वा गुणः स्यादिति शङ्क'या नास्त्य- वसरः । इदानीं शब्दः इति प्रतीतिस्तावत् इदानी घटः अत्र घटः, इदानीं रूपं अत्र रूपं इत्यादिसर्वपदार्थान्तरविषयप्रतीत्यविशिष्टत्वात् कालिकदैशिकसम्बन्धेन शब्दवत्तां गोचरयति । न तु समवायेन । न च समवायेन तयोस्तद्वत्त्वशङ्काजनकं हेत्वन्तरं किमप्यस्ति । अतः तद्गुणत्वनिषेधोऽनपेक्षित इति मत्वा चरमद्रव्यद्वयगुणत्वं निषेधति । ७५. परत्न समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः ।।२।। परत्र आत्मा यत्र अहमिति प्रतीयते शरीरप्रदेशेऽन्तः ततोऽन्यत्र । बहिर्देश इत्यर्थः । तत्र समवायात् विद्यमानत्वात् । “अयं शब्दः" "अत्र शब्दः" इति बहिर्देश- सम्बन्धितयैव हि स प्रतीयते । अतः स तत्रैव वर्तते । न त्वात्मनि । अहं शब्दी मयि शब्द इति प्रतीतिविरहात् । अतो नात्मगुणः । मनोगुणोऽपि स न भवति । प्रत्यक्ष- त्वात् । मनो ह्यणु । तद्वृत्तिश्चेत् शब्दः कथं प्रत्यक्षः स्यात् । प्रत्यक्षश्च सः । नहि परमाणुवृत्ति रूपादिकं प्रत्यक्षम् । यद्यपि शब्दः आत्मनो मनसो वा गुण इति शङ्काया नैव कश्चन हेतुरस्ति तथाऽपि वक्ष्यमाणपरिशेषसिद्धय यदि कश्चित् वयात्यादेव तथा ब्रूयात् तन्निरसनो- पयुक्तप्रबलहेतुकथनाय च इदमुक्तमिति ज्ञयम् । यद्यप्यनेन न्यायेन दिक्कालगुणत्व- निषेधोऽपि कण्ठोक्तया कर्तु युक्तः तथाऽपि चरमनिर्दिष्टद्रव्यद्वयगुणत्वनिषेधे कृते ततः प्राङ्निदिष्टद्रव्यगुणत्वनिषेधोऽपि स्वाभिमत इति, तत्र हेतोः सुगमत्वधिया स्वेन कण्ठोक्तिर्न कृतेति च श्रोतारो भोत्स्यन्त इति महषिर्मन्यत इति मन्यामहे । ७६. परिशेषाल्लिङ्गमाकाशस्य ॥२७॥ शब्द इत्यनुषङ्गाल्लभ्यते । शब्दः आकाशस्य लिङ्गम् । ज्ञापकम् । कथम् । परिशेषात् । अन्येषां अष्टानां द्रव्याणां तेन तेन हेतुना वर्जनानन्तरं कल्पनीयस्य अस्य एकस्वैव तदाश्रयत्वार्हतया शिष्यमाणत्वात् । शब्दः पृथिव्यादिद्रव्याष्टंकव्यतिरिक्त- वैशेषिकसूत्रवृत्तिः किञ्चिद्व्याश्रितः, तदनाश्रितत्वे सति गुणत्वात् । यो यदनाश्रितो गुणः सः तदतिरिक्त- किञ्चिद्रव्याश्रितः यथा जलाधनाश्रितो गुणो गन्धः पृथिव्याश्रितः । यत् तत् अतिरिक्तं द्रव्यं स आकाश इति । अत्र "वायुसन्निकर्षे प्रत्यक्षाभावात् दृष्टं लिङ्गं न विद्यते'' इत्यादि सूत्र- पञ्चकं वायुपदस्थाने आकाशपदं प्रक्षिप्यानुसन्वेयम् । प्रपूर्वसूत्रे "शब्दः स्पर्शवताम- इत्युक्तम् । “नात्मगुणो न मनोगुणः" इत्यनन्तर सूत्र इव न स्पर्शवद्गुणः इत्येव वक्तुं युक्तम् । तथापि "स्पर्शवद्गुणभिन्नः आत्मगुण भिन्नश्च शब्दः परिशेषा- ल्लिङ्गमाकाशस्य" इति सूत्रत्रयमेकवाक्यतया योजनीयमिति ज्ञापयन् महर्षिः अनेनैव प्रकारेण आकाशसाधनं सुशकमिति तत्र स्वनिर्भरत्वं प्रकाशयति । ७७. तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥२८॥ तस्य आकाशस्य द्रमत्वं नित्यत्वं च वायुना वायोः द्रव्यत्वनित्यत्वसाधको यो हेतुरुक्तः तेनेत्यर्थः । व्याख्याते निरूपिते भवत इत्यर्थः । शब्दस्य संयोगादीनां गुणा- न्तराणां च आश्रयत्वं सिद्धयति । वायुपरमाणुवत् अद्रव्यत्वेन नित्यत्वं सिद्धयति । नहि आकाशस्य आरम्भकं समवायिकारणभूतं द्रव्यमस्ति । मानाभावात् । अतः सः अद्रव्यः । अतः कार्यत्वाभावात् नित्यत्वम् । । ७८. तत्त्वं भावेन ॥२६॥ तस्य भावः तत्त्वम् । एवं अभेदस्य एकत्वस्य च प्राचां व्यवहारः। प्रकृते एकत्वं विवक्षितम् । आकाशः एकः कथम् । तद् भावेन सतासामान्येन व्याख्यातम् । यया युक्तया सत्ताया एकत्वं सावितं तयैव युक्तया आकाशस्य एकत्वं सिद्धयती- त्यर्थः । तां युक्ति प्रकृतानुगुण्येन ऊहित्वा स्वयमेव दर्शयति । ७६. शब्दलिङ्गाविशेषात् विशेषलिङ्गामावाच्च ॥३०॥ शब्दः सर्वत्र उपलभ्यते । अतस्तदाश्रयेण आकाशेनापि सर्वत्र वर्तितव्यम् । न च उत्तरस्यां दिशि अन्य आकाशः दक्षिणस्यामन्य इति नानात्वग्राहकं विशेषलिङ्ग- मस्ति । तस्मात् सत्तावत् आकाश एक एव । इदं सूत्र कैश्चिन्न पठ्यत इत्याहुः ।

३६ ८०. तदनुविधानादेकपृथक्त्वं चेति ॥३१॥ तस्य एकत्वस्य अनुविधानात् अनुवर्तनात् आकाशस्य एकपृथकत्क्वं च गुणोऽस्तीति ज्ञयमिति भावः । यत्र एकत्वं तत्र एकपृथक्त्वमपि, इति एकत्वानुविधानं एकपृथक्त्वस्य । एकवस्तुनिष्ठं पृथक्त्वम् । इमो घटौ इतरेभ्यः पृथगित्यत्र घटद्वयनिष्ठं द्विपृथक्त्वम्, एवं त्रिपृथक्त्वादि ज्ञेयम् । इतिशब्दपाठः प्रामाणिकश्चत् प्रकरणस्य अह्निकस्य च अवसानसूचनार्थः । इति करणादसूत्रवृत्तौ सुगमायां द्वितीयाध्याये प्रयममाह्निकम् । . द्वितीयमाहिनकम् ८१. पुष्पवस्त्रयोः सति सन्निकर्षे गुणान्तरा प्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम् ॥१॥ यदा कश्चित् पुष्पं मालारूपेण ग्रथितं मुक्तकं वा वस्त्रेण परिगृह्य आनयति तदा तस्मिन् वस्त्रे तस्य पुष्पस्य यो गुणः गन्धः स प्रादुर्भवति तत्स्थतया घ्रारण- विषयो भवति । गुणान्तरं ततोऽन्यो गुणः पुष्पगन्धादतिरिक्तो गन्धः न प्रादुर्भवति । अयं गुणान्तरप्रादुर्भावः वस्त्रे पुष्पगन्धाभावस्य लिङ्ग ज्ञापकम् । पुष्पसम्पर्कात् प्राक् तत्र सः गन्धो नासीत् । तदनन्तरमुपलभ्यते। अतः अन्वयव्यतिरेकाम्यां स गन्धः पुष्पस्यैव न वस्त्रस्येत्यवधार्यते । द्रव्येषु गुणव्यवस्थायां अयं न्यायोऽनुसर्तव्य इति भावः । उक्तन्यायसिद्धां व्यवस्थामाह---- ८२ व्यवस्थितः पृथिव्यां गन्धः॥२॥ सुरभि जलं, सुरभिर्वायुः इति जले वायौ च प्रतीयमानो गन्धः पृथिवीसम्पर्का- घांनः । न तयोः स्वाभाविकः । तत्सम्पर्कोभावे तदनुपलब्धः, संपर्के सति तस्यैवोप- लब्धेश्च । अतः पृथिव्यां गन्धो व्यवस्थितः । तदितराबृत्तित्वे सति तत्तित्वं व्यवस्थितत्वम् ।

वैशेषिकसूत्रवृत्तिः ५३. एतेनोष्णता व्याख्याता ॥३॥ एतेन अर्थ गुरगः अस्यैव द्रव्यस्य इति व्यवस्थायां यो न्यायः प्रपूर्वसूत्रे उक्तः तेन उष्णता उष्णस्पर्शः व्याख्याता पृथिव्या गुणो नेति ज्ञापिता। उष्णमन्न, उष्णा भूमिरिति प्रतीतो सत्यामपि अस्या उष्णतायाः तेजस्संसर्गान्वयव्यतिरेकाभ्यां तेजः- सम्बन्धित्वावधारणात् न पार्थिवीयमिति निश्चीयते । इदमाह- ८४. तेजस्युष्णता ॥४॥ व्यवस्थितेति विपरिणामेनानुषङ्गः। उष्णं जर्ल उष्णो वायुरित्यपि तेजः- सन्निकर्षप्रयुक्त एव व्यवहार इति भावः । ८५. अप्सु शीतता॥५॥ व्यवस्थितेति पूर्ववत् । शीतं स्थलं, शीतो वायुरिति प्रतीतिव्यवहारयोः अप्संसर्ग एव निमित्तमिति । ननु प्रथमं शीतता वक्तव्या। पश्चादुष्णतेति चेत् सत्यम् । किन्तु उष्णताशीततयोः तेजोजलयोव्यवस्थाकथनात् पृथिवीवाय्वोः अनुष्णाशीततेति ज्ञापितम् । अस्य तृतीयस्य स्पर्शस्य सर्वत्र अनुष्णाशीत इत्येव व्यवहारः । न तु क्व- चिदपि अशीतानुष्ण इति । अतोऽत्र प्रतियोगितया निविष्टस्पर्शद्वयनम बुद्धौ कृत्वा उष्णतायाः प्रथमाभिधानमिति ज्ञेयम् । वायो व्यवस्थितो गुणो नास्ति । अतस्तदनुक्तिः । शब्दलिङ्ग नैव आकाशस्य साधनात् सः तस्य व्यवस्थितो गुण इत्यनुक्तिसिद्धम् । ८६. अपरं परं युगपदयुगपच्चिरं क्षिप्रमिति काललिङ्गानि ॥६॥ पञ्च भूतानि तत्सम्बन्धिनो विशेषगुणाश्च उक्ताः । गुणकथनं न तन्निरूपण- परत्वेन । अपि तु साधयंवैधाभ्यां द्रव्यतत्त्वविवेकायैव । अथाद्य क्रमप्राप्तकाल- निरूपणं क्रियते। तत्र प्रथमं तत्सिद्धौ प्रमाणमाह । अपरं अपरत्वाख्यगुणवत् । परं परत्वाख्यगुणवत् । ज्यायसि परत्वम् । कनीयसि अपरत्वम् । तत्र परत्वं विप्रकृष्ट- फा०-१० किञ्चित्सम्बन्धजन्यम् । अपरत्वं सन्निकृष्टकिञ्चित्सम्बन्धजन्यम् । अबाधितप्रतीति- ब्यवहाराभ्यां अनयोः गुणयोः सिद्धयोः यत्सम्बन्धेन इमौ गुणौ जायते स कालः, इति परत्वमपरत्वं च काललिङ्गम् । गुगपत् समकालम् । अयुगपत् भिन्नकालम् । चिरं दीर्घ कालम् । क्षिप्रं अल्पेन कालेन । इति एवंरूपाः प्रत्ययाः, तन्मूलाः व्यवहाराश्च कालस्य लिङ्गानि तत्सत्त्वे प्रमाणानि । अनुमापका हेतव इत्यर्थः । इमे प्रतोतिव्यवहाराः यथार्थाः, अबाधितविषयत्वात्; प्रमात्मकगोत्वादिप्रतीतिवदित्य- नुमानप्रयोगः। अपरस्मिन् परमिति केषाञ्चित् पाठः । उपरि पदद्वन्द्वद्वयवत् इदमपि समानरूपं द्वन्द्वमिति युक्तम् । ८७. द्रव्यत्वनित्यत्वे वायुना व्याख्याते ।।७।। तस्येति आकाशसूत्रवदनुसन्धेयम् । तस्य कालस्य द्रव्यत्वं च वायुप्रकरणोक्त- न्यायेन सिद्ध्यति । इदमिदानीमस्ति, इदं पूर्वमासीत्, इदं परस्ताद् भविष्यति, इदं सर्वदाऽस्ति, इति व्यवहारबलात् द्रव्यगुणकर्मात्मकसर्वाधारत्वं कालस्य सिद्धम् । यद्यपि सर्वाधारत्वं न समवायसम्बन्धेन पृथिव्यादेर्गन्धाद्याधारत्वमिव, तथापि विलक्षणेन “कालिकः" इत्येवमेवाभिधीयमानेन सम्बन्धेन । तदप्याधारत्वं मुख्यमेव । यथा समवायसम्बन्धन कपालस्येव संयोगसम्बन्धेन भूतलस्य घटाधारत्वम् । न च द्रव्यगुणकर्माधारत्वं अद्रव्यस्य सम्भवतीति वायुवत् कालस्यापि द्रव्यत्वम् । तस्य अवयवारब्धत्वे प्रमाणाभावेन कार्यत्वाभावान्नित्यत्वम् । वायुपरमाणोरिव । ८८. तत्त्व भावेन ॥८॥ अपरं परमिति लिङ्गाविशेषात् विशेषलिङ्गाभावाच्च सत्तान्यायेन एकत्वं कालस्य । ननु कालस्यैकत्वे भूतभविष्यद्वर्तमानभेदः कथम् । कथं च क्षणमुहूर्तादि- भेदः । उपाधिभेदात् । ध्वस्तस्य घटस्य भूतः कालः । विद्यमानस्य वर्तमानः । अनुत्प- नस्य भविष्यन् । एवं एकक्षणावस्थायिपदार्थावच्छिन्नः कालःक्षणः । मुहूर्तकालावस्थायि- पदार्थावच्छिन्नः मुहूर्तः । सूर्यदर्श नावच्छिन्नः कालो दिनम् । अदर्शनावच्छिन्नः कालो रात्रिः । मेघावरणादिनाऽदर्शनमादाय दोषोद्भावनपरिहाराय यथोचितं परिष्कारे यतितव्यम् ।

। वैशेषिकसूत्रवृत्तिः ८६. नित्येष्वभावादनित्येषु भावात् कारणे कालाख्येति ॥६॥ कालस्य आकाशादिव्यावृत्तं सर्वकार्यकारणत्वाख्यं विशेषमाह । इत्याख्या व्यवहारः । इयं न केवले आकाशादितुल्ये कस्मिंश्चिद् द्रव्ये, अपितु कारणे सर्वकार्यकारणभूते। कालः सर्वकार्यकारणमित्यर्थः । कुतः अन्वयव्यतिरेकाभ्याम् । इदमाह नित्येष्विति । कस्य भावोऽभावश्च । अस्मिन् काले इदमुत्पद्यत इति व्यवहार- स्य । वसन्ते पुष्पाणि जायन्ते । वर्षासु देवो वर्षति । शरदि पर्णानि पतन्ति । इत्यादेः । नैष नित्येषु भवति । उत्पत्तेरेवाभावे तस्यां कालविशेषान्वयायोगात् । अनित्येपु भवति च । इदानी घटो जातः । इदानीं इदं पक्वम् इति । ननु इदानीमिति सामग्रीसन्निधा- नमुच्यते, न काल इति चेन्न । इदानी मित्यस्य पदस्य काल एव शक्तत्वात् । सामग्रीस- निधानस्य तदवच्छेदकत्वात् । वसन्ते वृक्षाः पुष्प्यन्ति फलन्ति चेति व्यवहारतुल्य एवायं व्यवहारः । यदा सामग्री सन्निहिता तदा घटो जायते, इति कालस्य कारणत्वमभिप्रेत्यैव व्यवहार इति स्पष्टम् । आकाशः सर्वदाऽस्ति, घटः पूर्वमासीत्, इत्यादिभिर्व्यवहारैः कालस्य सर्वाधारत्वं प्रतीयत इत्यन्यदेतत् । वसन्ते पुष्पाणि जायन्त इत्यादिभिर्व्यवहारैः तस्य सर्वकार्यकारणत्वमन्यत्रोच्यत इत्यवधेयम् । इतिशब्दः कालप्रकरणावसान- सूचनार्थः। ६०. इत इदमिति यतस्तद् दिश्यं लिङ्गम् ॥१०॥ व्यवहितमपि अपरं परमित्येतदनुषज्यते । इतः अस्माद् वस्तुनः, इदं वस्तु अपरं, परमिति प्रतीतिः व्यवहारश्च यतः यस्माद् विषयतया हेतुभूतात् भवति, अपरत्वं परत्वं च दिश्यं दिक्सम्बन्धि लिङ्गम् । दिशः साधकं प्रमाणमित्यर्थः । दक्षिणसमुद्रस्य हिमाचलात् विन्ध्यः अपरः । अस्मात् हिमाचलः परः । अपरत्वं सन्नि- कृष्टदिक्संयोगात् जायमानो गुणः । परत्वं विप्रकृष्टदिक्संयोगात् जायमानो अस्य अपरत्वस्य विन्ध्ये, परत्वस्य हिमाचले च जनकं हि किञ्चित् कारणं वाच्यम् । तत् कारणं दिगित्युच्यते। ६१. द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥११॥ तस्याः द्रव्यत्वं नित्यत्वं च वायुन्यायेन सिद्धम् । द्रव्याद्याधारत्वात् द्रव्य- त्वम् । कार्यत्वाभावेन वायुपरमाणुवन्नित्यत्वम् । गुणः। N ६२. तत्त्व भावेन ॥१२॥ परमपरमिति लिङ्गाविशेषात् विशेषलिङ्गाभावाच्च सत्तान्यायेन दिशोऽप्ये- कत्वम् । सर्वत्र तत्तद्धेतुभूतानां आकाशकालदिशामेकत्वे सति विभुत्वमपि सिद्ध्यति । ६३. कार्यविशेषेण नानात्वम् ॥१३॥ स्वरूपतः एकस्या अपि दिशः कार्याणां तत्रोत्पद्यमानानां उपाधीनां विशेषेण भेदेन नानात्वं विभिन्नव्यवहारविषयत्वं भवति । कथम् ? तदुच्यते- ६४. प्रादित्यसंयोगाद् भूतपूर्वाद् भविष्यतो भूताच्च प्राची ॥१४॥ आदित्यसंयोग इत्यविशेषेणोक्तावपि अर्थात् योग्यो विशेषोऽनुसन्धेयः। आदि- त्यस्य प्रथमसंयोगो यत्र भवति स दिग्भागः प्राचीत्युच्यते । न च "आदित्यस्य प्रथमः संयोगः क्षणिकः । तस्मिन् अजाते वा नष्टे वा प्राचीत्वं न स्यात्' इति शङ्कनीयम् । चिराद् भूतपूर्वो वा श्वः प्रभृति भविष्यत् वा प्रद्य प्रातर्भूतो वा यः कश्चन संयोगो गृह्यताम् । तदवच्छिन्ना दिक् प्राची। ६५. तथा दक्षिणा प्रतीची उदीची च ॥१५॥ तथा प्रादित्यसंयोगविशेषैरेव अन्या अपि दिशो भवन्ति । प्राङ्मुखं स्थितस्य पुरुषस्य दक्षिणपार्श्वे प्रसृतः रश्मिभिः यया दिशा आदित्यः संयुज्यते सा दक्षिणा । एकस्मिन् दिने आदित्यस्य चरमः संयोगः यत्र भूतपूर्वो भविष्यन् भूतो वा सा प्रतीची । प्राङ्मुखस्य पुरुषस्य वामपाचे प्रसृतः रश्मिभिः यया दिशा आदित्यः संयुज्यते सा उदीची । कर्कटादिषु षट्सु मासेषु आदित्यः यया संयुज्यते सा दक्षिणा । मकरादिषु षट्सु यया संयुज्यते सा उदीची, इत्यपि सुवचम् । ६६. एतेन दिगन्तरालानि व्याख्यातानि ॥१६॥ एतेन प्राच्यादिनिरूपणेन दिगन्तरालानि, दिशोदिशोर्मध्यानि, दिक्कोणा:, विदिशः, लक्षितानि भवन्ति । प्रारदक्षिणा, प्रत्यग्दक्षिणा, प्रत्यगुदीची, प्रागुदीचीति । अवसितं दिक्प्रकरणम् ।

वैशेषिकसूत्र . ६७. सामान्य प्रत्यक्षाद् विशेषाप्रत्यक्षाद् विशेषस्मृतेश्च संशयः ॥१७॥ शब्दस्य गुणत्वं कार्यत्वं च सिद्धं कृत्वा तेन प्राकाश सिद्धिः पूर्वमुक्ता। तस्य तदुभयसाधनाय अद्य प्रकरणान्तरमारभ्यते । तत्र संशयपूर्वकत्वाद् विचारस्य प्रथमं संशयमेव तद्धेतुमिनिरूपयति । एकस्मिन् विरुद्धनानाप्रकारकं ज्ञानं संशयः। स कथं जायत इति चेदुच्यते । सामान्यस्य धर्मिद्वयसाधारणस्य धर्मस्य ऊर्ध्वत्वादेः प्रत्यक्षात् इन्द्रियजन्यज्ञानात, विशेषस्य एकर्मिमात्रवृत्तेः इतरव्यावर्तकस्य स्थाणुत्वपुरुषत्वादेः अप्रत्यक्षात् प्रत्यक्षज्ञानाभावात्, विशेषस्य स्थाणुत्वपुरुपत्वादेः स्मृतेः स्मरणाच्च भवतीति । अनतिप्रकाशे स्थले ऊवं 'वस्तु' किमपि दृष्ट्वा संशेरते “अयं स्थाणु र्वा पुरुषो वेति' । तत्र इदं हेतुत्रयमस्ति । अथवा इदं समुदितं एको हेतुः ॥ १८. दृष्टं च दृष्टवद् द्रष्टा ॥१८॥ संशये हेत्वन्तरमाह । दृष्टं पूर्व दृष्टं यज्ञदत्तं दृष्टवत् पूर्वदृष्टकञ्चुकोष्णीषधारि देवदत्तमिव, एतद्वत् कञ्चुकोष्णीषधारिणमित्यर्थः । द्रष्टा च, एवं दर्शनाच्च संशयो भवति । अयं यज्ञदत्तो देवदत्तो वेति । यज्ञदत्तस्य आकारविशेषः, देवदत्तवेषः तेन ध्रियमाणश्चेति द्वौ विशेषौ दृश्यमानी विशेषान्तरद्ववावगाहिनं संशयं जनयतः । चकारेण हेत्वन्तरसमुच्चयः प्रतीयते । मुखं व्यादाय स्वपितीत्यत्र पूर्वकालत्वस्येव दृष्ट्वा संशयः इत्यत्र समानकर्तृकत्वस्याविवक्षा। ६. यथा दृष्टमयथादृष्टं चोभयथा दृष्ट त्वात् ॥१६॥ प्रथमं चैत्रः शिखावान् दृष्टः । ततः कृत्तशिखः । एवमुभयथा दर्शनानन्तरं पुनः कदाचिद् दूरे दृष्टः । तदानीं तस्य शिखावत्त्वे 'चैत्रः शिखारहितोऽपि भवति तस्मादयं चैत्रो न वे'ति संशयो भवति । विशिखत्वेऽपि स शिखावानपि तदयं स वा न वेति संशयो भवति । तस्मादेकस्य पूर्वमुभयथा दर्शनमपि पश्चात् संशयहेतुः ।। १००. विद्याऽविद्यातश्च संशयः ॥२०॥ विद्या ज्ञानम् । अविद्या ज्ञानाभावः । ताभ्यामपि संशयो भवति । ज्ञाने जाते विद्यमानमपि रजतं ज्ञायते । अविद्यमानमपि शुक्तौ । तस्मात् विषयो वस्तुतो विद्यते , ।

४२ - न वेति संशयो भवति । ज्ञानाभावेऽपि विद्यमानस्यापि ज्ञानाभावो भवति । यथा भूम्यन्तर्गतस्य जलस्य । तस्मात् किं विद्यमानस्य ज्ञानाभावः उत अविद्यमानस्येति संशयो भवति । "उपलब्ध्यनुपलब्ध्यव्यवस्थातः संशयः" इति तन्त्रान्तरे यदुक्त तदेवात्रापीति युक्त ग्रहीतुम् । संशय इति पुनरुक्तिः संशयप्रकरणसमाप्तिसूचनाय । यद्यप्यत्र सर्वत्र “सामान्यग्रहणात् विशेषाग्रहणात् विशेपस्मृतेश्च संशयः” इति प्रथमः प्रकारः समन्वित इति दर्शयितुं शक्यते तथापि मुख्यतः इमे प्रकारभेदाः सन्तीन्येतन्नापह्नवाहम् । एवं सामान्यतः संशयहेतून् उक्त्वा शब्दविषयो विचाराङ्गभूतो यः संशयः तद्वेतुभूतं विशेषं दर्शयति- १०१. श्रोत्रग्रहणो योऽर्थः स शब्दः ॥२१॥ श्रोत्रं श्रवणेन्द्रियं ग्रहणं ग्राहक यस्तादृशः यः अर्थः द्रव्यगुणकर्मान्यतमरूपः पदार्थः सः शब्दः शब्दपदवा यः । श्रोत्रग्राह्यत्वं शब्दस्य विशेषः असाधारणधर्म इत्युक्तं भवति ॥ अनेन विशेषेण जायमानं संश माह- १०२. तस्मिन् द्रव्यं गुणः कर्मति संशयः ॥२२॥ अस्मिन् श्रोत्रग्राह्यत्वरूपविशेषवति शब्दे संशयः किमिति । द्रव्यं वा गुणो वा कर्म वेति । सत्तासामान्यवत्त्वात् शब्दत्वरूपसामान्यविशेषवत्त्वाच्च द्रव्यगुणकर्मान्यतमत्वं सिद्धम् । तेषु किमिति संशयः । तत्रहेतुमाह- १०३. तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषयोरुभयथा दृष्टत्वात् ॥२३॥ शब्दो गुण इति कृत्वा तस्याश्रयतया आकाशस्य सिद्धिरिति पूर्वमुक्तम् । तेन गुणाः तस्य सजातीयाः । द्रव्याणि कर्माणि चार्थान्तराणि । अन्ये पदार्थाः विजातीया इत्यर्थः । शब्दस्य श्रोत्रग्राह्यत्वरूपो यो विशेषः सः तुल्यजातीयेषु गुणेष न विद्यते । अतुल्यजातीयेषु द्रव्यकर्मस्वपि न विद्यत इत्युभयथा दृष्टः । एवमस्योभयथा दृष्टत्वात् संशयो भवति । श्रोत्रग्राह्योयं अतथाभूतत्वात् सर्वेषां गुणानां गुणो न भवितुमर्हति । तथैव द्रव्याणां कर्मणां च सर्वेषां श्रोत्रग्राह्यत्वाभावात् द्रव्यं वा कर्म वा न भवितुमर्हति । भवितव्यं तु एषामन्यतमेन । सत्तासामान्यवत्त्वात् । तत् द्रव्यं वा गुरणो वा कर्म वा वैशेषिकसूत्रवृत्तिः अयमिति । सत्तया अन्यतमः पदार्थो भवितुमहंतीति प्रतीतिमवति । विशेषस्योभयथा दर्शनात् न भवितुमर्हतीति प्रतीतिर्भवति । अनयोः प्रतीत्योविरोधात् संशयः विरुद्धप्रतीति जननद्वारा संशयहेतुः उभयया दृष्टो विशेषः । नन्वसाधारणधर्मस्य एतन्मते संशयहेतुत्वं नास्तीति चेन्न । प्रत्यक्षं सूत्रकारे तद्वदति तदितरोक्त रश्रद्धेयत्वात् । परमतमभ्युपेत्येदमुक्तमिति वा मन्यताम् । अथ गन्त्रवत्त्वरूपं विशेषमादाय पृथिव्यामपि द्रव्यं गुणः कर्मेति संशयः “तुल्यजातीयेष्वर्थान्तर भूतेषु विशेषस्योभयथा दृष्टत्वात्" इति सुवचम् । स्नेहमादायाप्स्वपि । तत् कथं शब्दमात्र एवं विचार इति चेदुच्यते । पृथिव्यादौ गुणत्वादिवादो न कैश्चिदवलम्बितः। शब्दे द्रव्यत्ववादस्तु मीमांसकैः प्रवर्तितः । तनिराकरणाय विशिष्य शब्देऽयं विचार इति ॥ तत्र द्रव्यत्वकोटि निवर्तयति- १०४. एकद्रव्यत्वान्न द्रव्यम् ॥२४॥ एकमेव समवायिकारणभूतं द्रव्यं यस्य तत् एकद्रव्यम् । तस्य भावः तत्त्वम् । तस्मात् । शध्दः न द्रव्यम्, एकद्रव्यत्वात्, कर्मवत् । शब्दः कार्यमिति वक्ष्यते । स यदि द्रव्यं, अनेकद्रव्यारब्धो भवेत् घटपटवत् । न चैवं सः । आकाशात्मककद्रव्यारब्धत्वात् । अतः न द्रव्यम्। अथ गुणत्वकोटेरिष्टत्वात् कर्मत्वकोटि निवर्तयति- १०५. नापि कर्माचाक्षुषत्वात प्रत्ययस्य ॥२५॥ शब्दः कर्मापि न, प्रत्ययस्य तद्विषयकस्य ज्ञानस्य अचाक्ष षत्वात् । चाक्षुष- भिन्नत्वात् । चक्ष जन्यज्ञानभिन्नत्वात् । चक्षुरजन्यज्ञानविषयत्वादित्युक्तं भवति । अत्र चक्ष पदं कर्मग्रहणयोग्येन्द्रियपरम् । ईदृशेन्द्रियाजन्यप्रत्यक्षज्ञानविषयत्वादिति पर्यवसितो हेतुः । गन्वादिवदित्युदाहरणं द्रष्टव्यम् । अथाभिमतं गुणत्वमनुवदन् कर्मत्वशङ्काबीजं प्रकारान्तरेणोपपादयति । १०६. गुणस्य सतोऽपवर्गः कर्मभिः सामान्यम् ॥२६॥ बलवन्नुन्ने शरे पतनात्पूर्व कर्मपरंपरा जायते । पूर्व कर्म नश्यति । अन्यत् कर्म जायते । इदं नश्यति । पुनरन्यत् कर्म जायते । एवमान्तम् । एवमेव भेर्या जातात् शब्दात् कर्णगोचरशब्दपर्यन्तं महती शब्दपरम्परा । पूर्व शब्दो नश्यति । अन्यः शब्दो जायते ।

उत्तरोत्तरमेवम् । एवं यतः पूर्वपूर्व नाशः कर्मपरम्परायामिव शब्दपरम्परायामस्ति अतः शब्दः कर्मेति शङ्क्येत । तत्रोच्यते । गुणस्य सतः गुण भूतस्यैव शब्दस्य अपवर्मः पूर्वपूर्वस्य नाशः कर्मभिः सामान्यसाधारणधर्मवत्त्वम् ननु कर्मत्वापादकौ हेतुः । न हि बलवता प्रमाणेन भिन्नजातीयत्वेन अवधूतानां पदार्थानां साधर्म्यमात्रेण एकजातीयत्वं भवतीति भावः । शब्दगुणप्रकरणं समाप्तम् । अथ तदनित्यत्वप्रकरणम् । तत्र प्रथमं तस्य श्रवणपूर्वापरकालसत्त्वे प्रमाणा भावमाह-- १०७. सतो लिङ्गाभावात ॥२७।। सतः श्रवणकालात् पूर्वमनन्तरं च सतः विद्यमानस्य शब्दस्य लिङ्गं ज्ञापक प्रमाणं तस्याभावात् । अयमनित्य इत्युपर्यन्वय. । नित्यो हि त्रिकालवर्ती । श्रवण- कालात्पूर्वमनन्तरं चासन् कथं नित्यः स्यात् । तत्र असत्वं कथमिति चेत् सत्वावेदक- प्रमाणाभावात् । नहि अप्रमाणकं किञ्चिदभ्युपगमर्महति । १०८. नित्यवैधात् ॥२८॥ अनित्यत्वे प्रमाणमाह । नित्यात् पदार्थात् वैधात् विलक्षणत्वात् । तदवृत्तिधर्मत्वादित्यर्थः। नित्यो हि सर्वकालवर्ती। अयं तु कादाचित्क: अल्पकाल- वर्ती द्विक्षणावस्थायी अतो न नित्यः ।। १०९. अनित्यश्चायं कारणतः ॥२६॥ अयं शब्दः काररणतः तज्जनकोच्चारणादिकारणवत्त्वाच्चानित्यः उत्पत्ति- विनाशवान् । अनित्यश्च । न परं गुणः अनित्यश्च त्यपि चकारयोजना। "सदकारणवन्नित्यम्'' इति नित्यलक्षणं वक्ष्यति । तत्र प्रपूर्वसूत्रोक्तः सत्त्वा- भावः गतसूत्रोक्तः अकारणवत्त्वाभावश्च' मध्ये “नित्यत्ववैधात्" इत्यनेनाभि- प्रताविति सुवचम् ॥ ननु उच्चारणादिकं न शब्दस्योत्पत्तिकारणम् । शब्दस्य कार्यत्वे सिद्ध हि तत् तत्र कारणमिति गृह्णीयाम । शब्दो नित्यः । उच्चारणादिकमभिव्यञ्जकमिति कि व स्यात् । अत्राह- बंशेषिकसूत्रवृत्तिः ११०. न चासिद्ध विकारात ॥३०॥ अनित्यत्वे हेतुतया निर्दिष्टं कारणवत्त्वं न च नैव असिद्ध पक्षे असत्त्वरूपा- सिद्धिदोषवत् । कुतः। विकारात् । शब्दे हि अवस्थान्तररूपो विकारो भवति । यथा-"दधि" इति स्थितः इकारः "दध्यत्र" इति यकाररूपेण विक्रियते । न च भकार्यस्य विकारो भवेत् । तस्मात् कार्यः, उत्पत्तिमान् शब्दः । अत एव कारण- वांश्च । अतो नासिद्धिहेतोः ।। न केवलं साधकसत्त्वात् कार्यत्वं शब्दस्य । अपितु अभिव्यक्ती बाधकसत्वाच्चे- त्याह- १११. अभिव्यक्ती दोषात ॥३१॥ यधुच्चारणात् प्रागपि शब्दोऽस्ति तहि कुतो नोपलभ्यते । तिरोधानादिति चेत् केन । किञ्चिदस्ति, यत् तिरोदधाति, इति चेत् यद्यस्ति उपलभ्येत न चोपल- भ्यते । उच्चारणात् प्राक् शब्दस्य सत्त्वकल्पना, अनुपलभ्यमानतहेतुभूतवस्तुकल्पना, इति अप्रामाणिककल्पनापरम्परारूपो दोष आपतति । तस्मानाभिव्यक्तिः शब्दस्य । अपितु उत्पत्तिरेव । अतः सिद्ध शब्दस्य कार्यत्वम् ।। ११२. संयोगाद्विभागाच्छब्दाच्च शब्दनिष्पत्तिः ॥३२॥ भेरीदण्डसंयोगात् शब्दो जायते । तथा वेणुदलविभागात् । प्राभ्यां शब्दाभ्यां च तदुत्तरी शब्दौ । एवं त्रेधा शब्दो जायते । त्रिविधोऽप्ययं ध्वन्यात्मकः । अयं घटपटादिवत् स्वकारणादुत्पद्यत इति प्रत्यक्षमसन्दिग्धं पश्यामः । नात्र व्यङ्ग्य- त्वशङ्काया मनागप्यवसरः । एवमेव वर्णात्मकशब्देऽपि शङ्का न युज्यत इति भावः॥ ११३. लिङ्गाच्चानित्यः ॥३३।। वेदादपि शब्दस्यानित्यत्वमध्यवसेयमित्याह । वेदस्यापि अनुमानविधयंव प्रमाणत्वात् "बुद्धिपूर्वा वाक्यकृतिदे" इति वक्ष्यमाणरीत्या वेदस्यानुमितिविशेषे हेतुत्वाच्च लिङ्गशब्देन तदभिधानम् । न केवलं उक्ताभिर्युक्तिभिः शब्दोऽनित्यः । अपि तु वेदादपि इति चकारार्थः । अनित्य इत्यस्य धर्मी शब्द इति प्रकरणाल्लभ्यते । फा--११ यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः। तस्य प्रकृतिलीनस्य यः परः स महश्वरः।" इति श्रुतिः। सर्ववेदमूलस्य प्रणवस्य प्रकृतिरकार इहोक्तः । प्रकृतिः उपादानकारणम् । तदिह वर्णानां प्रकृतिविकारभावोक्तेः तेषामनित्यत्वं प्रतिपादितं भवति । वेद एव शब्दस्यानित्यत्वमाहेत्येतच्छुत्वा वैदिकः प्रत्यवतिष्ठते । ११४. द्वयोस्तु प्रकृत्योरभावात ॥३४॥ तुकारः पूर्वोक्ते आठोपसूचनार्थः । शब्दस्यानित्यत्वे आर्चायस्य शिष्यस्य चेति द्वयोः क्रमेण वेदविद्यादानरूपाया प्रवृत्तिः, या च तद्ग्रहणरूपा प्रवृत्तिः तयोर- भावप्रसङ्गः । प्राचार्येणोच्चारितस्य शब्दस्य तदैव नाशात् शिष्येण तद्ग्रहणासम्भ- वात्, अभावप्रसङ्गान्न शब्दोऽनित्यः इति पूरणमल्लभ्यते। ११५. प्रथमाशब्दात ।।३।। अत्र "त्रिः प्रथमामन्याह' इति विधिस्थः प्रथमाशब्दोऽभिप्रेतः । एकादशासु ऋक्ष प्रथमा त्रिरावर्तनीयेति विधिवाक्यार्थः। शम्दो नित्श्वेत् ऋक् त्रिरावय॑त इति युज्यते । तदनित्यत्वे तु प्रथमपठिता ऋक् तदैव नष्टा भवति । द्वितीयवारं पठ्यमाना अन्यैव ऋक् भवति । एवं तृतीयवारं पठ्यमानाऽपि । तथा च आवृत्तिनं घटते । द्वितीयतृतीययोःप्रथमात्वपि न घटते । अतः शब्दनित्यत्वं वेदादवगम्यते । ११६. सम्प्रतिपत्तिभावाच्च ॥३६॥ सम्प्रतिपत्तिः स एवायमिति प्रत्यभिज्ञा । तस्या भावाच्च सत्त्वाच्च शब्द- नित्यत्वम् । सोयं गकारः इति हि प्रत्यभिज्ञा सार्वत्रिकी। चकारः पूर्वहेतुसमुच्चयमिव पूर्वपक्षावसानमपि द्योतयति । ११७. सन्दिग्धा सति बहुत्वे ॥३७॥ बहुत्वे सति, अनित्यत्ववादिनां अस्माकं सिद्धान्तिनां शब्दा बहवः । तदा तदा उच्चार्यमाणा गकारादयो भिन्नभिन्नाः सन्तो बहवो भवन्ति । तत्र आचार्यणोच्चारि- तस्य वर्णस्य नाशेऽपि तन्मूलतत्सजातीयवर्णपरम्परायामेकः शिष्यकणं प्राप्त! तेन गृह्यते । अतो द्वयोः प्रवृत्त्यभावप्रसङ्गरूपो हेतुः सन्दिग्धः । अनेकान्तिकः ।

वैशेषिकसूत्रवृत्तिः हेत्वाभास इत्यर्थः । प्रथमाशब्दोपि कथञ्चिदुपपादनीय इति सोऽपि हेत्वाभासः । एवं प्रत्यभिज्ञाऽपि । स एव ब्रीहिरिति हि व्यक्तिभेदेपि जात्येकत्वप्रयुक्तो व्यवहारः । प्रबलप्रमाणवशात् अनित्यत्वे, तेन बहुत्वे च सिद्धे सति एकताहेतवः असाधका हेत्वा- मासा भवन्तीत्यर्थः। ११८ संख्याभावः सामान्यतः ॥३॥ संख्यायाः प्रथमात्वस्य द्वितीयतृतीयपठितयोः ऋचोः भावः सामान्यतः ऐकरूप्यात् शब्दव्यक्तिभेदेऽपि वर्णात्मकानां शब्दानां शब्दानुपूच्चि समानत्वादि- त्यर्थः। उपपादनीय इति शेषः। श्रुतिरपि दृष्टानुरोधेनैव नेयेति ज्ञापनार्थमस्य पृथगुक्तिः। आकाशगुणस्य शब्दस्य गुणत्वानित्यत्वस्थापनस्य कालदिनिरूपणात् पूर्वमेव औचित्येऽपि प्रात्मनो भोगे "प्रसिद्धा इन्द्रियार्थी" इत्यनुपदं निर्देक्ष्यमाणानां रूपरसगन्धस्पर्शशब्दानां भोग्यविषयतया प्रधानत्वस्य, अदृष्टानुरोधेन क्लृप्ते काले देशे च भोग इत्यधिकरणतया देशकाल योरुपसर्जनत्वस्य च व्यञ्जनाय शब्दविचा- रस्य कालदिनिरूपणानन्तरं अध्यायान्ते निबन्ध इति बोध्यम् ॥ इति कणादसूत्रवृत्ती सुगमायां द्वितीयाध्याये द्वितीयमाह्निकम् ।।

No text on this page.

अथ तृतीयेऽध्याये प्रथममाह्निकम् ११६. प्रसिद्धा इन्द्रियार्थाः ॥ १ ॥ इन्द्रियाणां अर्थाः इन्द्रियकरणकभोगविपयाः। भोग्यपदार्था इति यावत् । ते च पञ्चभूतगुणाः रूपरसगन्धस्पर्शशब्दाः पञ्च । ते प्रसिद्धाः । प्रामाणिकतया स्थापिता इति भावः । अनेनातीताध्यायद्वयप्रधानप्रतिपाद्यार्थ उक्तः ।। ततः किमित्यत्राह :- १२०. इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः ॥ २ ॥ इन्द्रियार्थप्रसिद्धिः तात्त्विकतया स्थापिता इन्द्रियार्था इत्यत्र तात्पर्यम् । इन्द्रियार्थेभ्योऽर्थान्त रस्य, भोगोपकरणभूतेन्द्रियेभ्यः भोग्येभ्यो रूपरसादिभ्यश्च, अन्तरस्य-व्यतिरिक्तपदार्थस्य, आत्मन इति भावः । हेतुः ज्ञापकं प्रमाणम् । भोग- करणानि इन्द्रियाणि । भोग्या रूपादयः। इन्द्रियः करणः रूपरसादीन् यो भुङक्ते तेन केनचिद्भवितव्यम् । यः सः स आत्मेति आत्मसाधकोऽयं हेतुरित्यर्थः। एतेन कालदिनिरूपणानन्तरं क्रमप्राप्तात्मनिरूपण मिह क्रियते, इति ज्ञापितम् । यद्यपि प्रसिद्धिरिति व्याप्तिग्रह उच्यते तथाऽपि प्रकृते सोऽर्थो न विवक्षितः ।। इमं पक्षं दूषयति १२१. सोज्नपदेशः॥ ३ ॥ सः आत्मसाधकतया उक्तः इन्द्रियार्थरूपो हेतुः अनपदेशः, अपदेशः हेतुः तद्भिन्नः हेत्वाभासः । अर्थाः प्रत्यक्षाः । तद्ग्राहकतया इन्द्रियाण्यपि सिद्धानि । एतैरान्रं तु कथं सिद्धयेत् । न हि तेनैतानि सम्बद्धानि दृष्टानि । स्वसत्ताया- मितरापेक्षाणि वा । भोक्तारं विना मोगकरणानि भोगविषयाश्च कस्य भोगं जनयन्तीति चेत्, इन्द्रियाणामेव वा, शरीरस्य वा। एतेभ्यो व्यतिरिक्तः कश्चित् भोक्ते ति तु कथमेतेभ्योऽवगच्छेम । तस्मादयमहेतुरिति ।। कस्तहि हेतुरिति चेत् ज्ञानमिति दर्शयन्नाह : १२२. कारणाज्ञानात् ।। ४ ।। अयं घटः, अयं पट: इति ज्ञानं तावत् तत्तद्विषयावगाहि प्रसिद्धम् । अहं जानामि स जानातीति नियमेन किञ्चिदाश्रितत्वप्रतीते: तस्य गुणत्वं आश्रयसापेक्षत्वं वैशेषिकसूत्रवृत्ती घ सिद्धम् । स आश्रयः क इति विमर्श इन्द्रियशरीरादिषु क्लुप्तद्रव्येष्वन्यतमं वा अतिरिक्त वा किञ्चिदिति कोटिद्वयं स्फुरति । तत्र पूर्वा कोटिनोंपपद्यते । इन्द्रिय- शरीरादिकं हि नाञ्चभौतिक कार्यम् । तस्य चेद् ज्ञानं गुणः तहि तेन कारणगुणपूर्व- केण भाव्यम् रूपादिवत् । न च तत्कारणेषु परमाणुषु ज्ञानमस्तीत्यत्र किञ्चन प्रमाणमस्ति । अतः परमाणूनां कारणानां अज्ञानात् ज्ञानाभावात् न कार्याणां शरीरेन्द्रियादीनां ज्ञानं गुणः ।। ननु, शरीरादेरेवेदं ज्ञानं गुणः । कार्ये विद्यमानोऽयं कारणेष्वपि सन्तमनुमाप- यतीत्यत्राह :- १२३. कार्येषु ज्ञानात् ॥ ५ ॥ कार्येषु ज्ञानम् न तु कार्याणाम् । कार्यविषयकं ज्ञानं भवति । न तु कार्याश्रितम् । "अस्तीन्द्रियं, इदं शरीरं" इत्येवंरूपा हि प्रतीतिः । न तु "चक्षुति, शरीरं ज्ञातृ" इति । अतः कार्येषु ज्ञानस्याविद्यमानत्वात् न कारणेषु तदनुमानं शक्यम् । एतेन आकाशस्य शब्द इव शरीरादेरकारणगुणपूर्वक एव गुणो ज्ञानमिति निरस्तम् । ज्ञानस्य कार्याश्रितत्वासिद्धेः ॥ कार्य गुणात्वा भावे हेत्वन्तरमाहः १२४. अज्ञानाच्च ॥ ६ ॥ सुषु तो ज्ञानसामान्यं नास्ति । यदि शरीरादिकार्यगुणो ज्ञानं तर्हि एवं ज्ञाना- भावो न स्यात् । तद्गुणानां यावत्स्वरूपभावित्वात् । अतो न तद्गुणः ज्ञानम् । एवं क्लनद्रव्येषु यस्य कस्यापि ज्ञानाश्रयत्वायोगात् अतिरिक्त द्रव्य तदाश्रयभूतमस्तीत्यनु- मीयते । तद्रव्यमात्मा ॥ एवमात्मसाधकहेतुकथनेन फलितमाहः- १२५. अन्यदेव हेतुरित्यनपदेशः॥ ७ ॥ उक्तरीत्या इन्द्रियार्थेभ्योऽन्यत् ज्ञानमेव हेतुः आत्मसाधकं प्रमाणमिति हेतोः इन्द्रियार्थरूपो हेतुः पूर्वोक्तोऽनपदेशः अहेतुः ।। एकस्य हेतुत्वे अपरस्य अहेतुत्व कथं भवेत् । सोऽपि हेतुः कुतो न भवेत् । न टेकस्यानुमेयस्य एक एव हेतुरित्यस्ति नियमः । क्रियावत्त्वाद्गुणवत्त्वाऽच्चेति स्वय- मुक्तः । अत्राह- तृतीयाध्याये प्रथममाह्निकम् १२६. अर्थान्तरं ह्यान्तरस्यानपदेशः ॥ ८ ॥ अन्योऽर्थः अन्यस्यार्थस्य अनपदेशो हि भवति । न हि घटः पटस्य पटो वा घटस्यापदेशो भवति । तहि कथं ज्ञानमात्मनोऽपदेशो भवति । अन्यद्धि ज्ञानम् । अन्यश्चात्मा। सत्यम् । मिथः असम्बद्धयोर्द्वयोरर्थयोः एक इतरस्य हेतुर्न भवती- त्युक्तम् । ज्ञानात्मानौ तु मिथः सम्बद्धौ । आश्रयाश्रयिभावश्च सम्बन्धः । तेन आश्रय ज्ञानं आश्रयस्यात्मनः हेतुर्भवति । असम्बद्धत्वात्तु इन्द्रियार्था न हेतवो भवन्ति । ननु भोग्यभोक्तृभावसम्वन्धस्तत्रास्तीत्युक्तम् । सत्यमुक्तम् । किन्तु शरीरेन्द्रियादेरेव तद्भोक्तृत्वमस्त्विति तत्रान्यथासिद्धिदोष उक्तो न विस्मर्तव्यः । उक्तार्थविवेकद्रढिम्ने हेतुभावार्हान् सम्बद्धान् अर्थान् विभज्य दर्शयति :- १२७. संयोगि समवाय्येकार्थसमवायि विरोधि च ॥६॥ धूमोऽग्निना संयुक्तः अग्नेर्हेतुः । आकाशे समवेतः शब्दः तस्य । स्पर्शन एक- स्मिन्नेवार्थे समवेतं रूपं तस्य । रक्तमुखो नकुलः हतस्य सर्पस्य चेति । यद्वा एवं सम्बन्धवन्तोऽप्यर्थाः अनपदेशा मवन्तीति पूर्वसूत्रात् अनपदेशपदमनुषज्य योज्यम् । तत्र च इमान्युदाहरणानि । अग्निघूमस्य । सत्ता द्रव्यस्य । स्पर्शों रूपस्य । मार्जारो मूषिकस्येति ॥ सद्धेतवस्तहि के इत्यत्र तेषामुपलक्षणानि कानिचिदाह चतुभिः सूत्र १२८. कार्य कार्यान्तरस्य॥ १० ॥ अपदेशो भवतीति शेषः । यथा आम्रफले रूपान्तरं रसान्तरस्य ।। १२६. अभूतं भूतस्य ।। ११ ॥ अनिष्पन्न निष्पन्नस्यापदेशो भवति । यथा अपतिता वृष्टिः वाय्वभ्रसंयो- गस्य निष्पन्नस्य । वायुना विशकलिता हि मेघा न वर्षन्ति ।। १३०. भूतमभूतस्य ॥ १२ ॥ निष्पन्नमनिष्पन्नस्य । यथा पतिता वृष्टिः असञ्जातस्य वाय्वम्रसंयो- गस्य॥ १३१. भूतो भूतस्य ॥ १३ ।। निष्पन्नो निष्पन्नस्य । यथा प्रसवो गर्भाधानस्य । पूर्व अभूतं भूतमिति वैशेषिकसूत्रवृत्ती सामान्ये नपुंसकम् । अत्र अपदेशं बुद्धौ कृत्वा पुंस्त्वम् ।। एते परं कथं हेतवो भवन्तीत्यत्र नियामकमाह- १३२. प्रसिद्धिपूर्वकत्वादपदेशस्य ॥ १४ ॥ प्रसिद्धिः प्रमात्मको दृढो व्याप्तिनिश्चयः । तस्मिन् सत्येव कश्चिदर्थः अन्या- नुमितिहेतुर्भवति । अन्यथा न । एवं प्रसिद्धिपूर्वकत्वात् सद्धेतोः उक्तानां हेतूनां च निश्चितव्याप्तिकत्वात् ते सर्वे सखेतवो भवन्तीति भावः। यस्मिन् फले रूपान्तरं तस्मिन् रसान्तरं, यदा पतनाहीं वृष्टिः न पतति तदा वाय्वभ्रसंयोगः, यदा वृष्टिः पतिता तदा उक्तसंयोगाभावः, या प्रसूते सा ततः प्राक् आहितगर्मा, इत्यस्ति निश्चिता व्याप्तिः। अत इमे सम्यञ्चोऽपदेशाः । व्याप्तिर्हेतोर्हेतुत्वापादिका । तदभावे हेतुरहेतुरिति सारार्थः॥ सम्प्रति विवेकसिद्धये असद्धेतून निरूपयति :- १३३. अप्रसिद्धोन्नपदेशोऽसन् संदिग्धश्चानपदेशः ।।१५।। अप्रसिद्धः एको हेत्वाभासः । असन् संदिग्धश्च अन्यौ द्वौ हेत्वाभासौ। आहत्य त्रयो हेत्वाभासाः। प्रसिद्धः निश्चितव्याप्तिकः। तद्विरुद्धः निश्चितविपरीतव्याप्तिकः अप्रसिद्धः । विरुद्ध इत्यर्थः। असन् पक्षेऽवर्तमानः। असिद्ध इति प्रसिद्धः। संदिग्धः सपक्षविपक्षोभयवृत्तितया पक्षे साध्यसंदेहजनकः, अत एव संदिग्ध इत्युक्तः सव्य- मित्रारः अनेकान्तिकापराभिधानः॥ अत्र आद्ययोर्द्वयोरुदाहरणम्- १३४. यस्माद्विषाणी तस्मादश्वः ॥ १६ ॥ गां पक्षीकृत्य "अयमश्वः यस्माद्विषाणी" इति प्रयोगे विषारिणत्वस्य अश्वत्वाभावव्याप्तत्वेन साध्यविरुद्धार्थसाधकत्वात् विरुद्धोऽयं हेतुः। अश्व पक्षीकृत्य तथा प्रयोगे विषाणित्वस्य हेतोः पक्षेऽश्व अवर्तमानत्वेन असिद्धोऽयम् ॥ अन्त्यमुदाहरति- १३५. यस्माद्विषाणी तस्माद् गौरिति चानकान्तिकस्योदाह- रणम् ॥१७॥ विषाणित्वस्य गोत्वाभाववति महिषेऽपि विद्यमानत्वात् अनेकान्तिकत्वम् । -- तृतीयाध्याये प्रथममाह्निकम् ५३ इति चेत्यादि हेत्वाभासप्रकरणावसानज्ञापकम् । पूर्वसूत्रे "इत्यप्रसिद्धासतोरुदा- हरणमित्यनुसन्धेयम्' इत्यपि ज्ञापकमिदम् । यदर्थमिदं विस्तृतं सदसद्धेतुनिरूपणं तदिदानीमाह १३६. आत्मेन्द्रियार्थसन्निकर्षाद्यनिष्पद्यते तदन्यत् ॥ १८ ॥ आत्मा इन्द्रियेण संयुज्यते । इन्द्रियमर्थन । ततो यत् निष्पद्यते उत्पद्यते तत् । कि तत् ? ज्ञानम् । अन्यत् । निरूपितेभ्यो हेत्वाभासेभ्यो भिन्नम् । सर्वदोष- विमुक्तः प्रात्मसाधकः सद्धेतुरित्यर्थः । ज्ञानस्य उत्पत्तिकारणं आत्मेन्द्रियार्थसन्नि- कर्षः। आश्रयः आत्मा। उत्पद्यमानं ज्ञानं आत्मन्युत्पद्यत इति यावत् । इतरे सर्वे पदार्थाः आत्मनो भोगापवर्गसाधनत्वात् तस्य शेषभूताः। तस्य सिद्धिः ज्ञानात् निर्दोषाद्धेतोरिति एतदाहिकप्रधानार्थप्रतिपादकं प्रात्मसाधनोपसंहारपरं चेदं सूत्रम् ॥ प्रमातुः स्वात्मानुमानमेवं स्यात् । परशरीरेऽप्यात्मास्तित्वज्ञानं कथं भवेदि- त्यत्राह :- १३७.. प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् ॥१६॥ प्रवृत्तिः फलाद्याहरणार्थः शारीरो व्यापारः । निवृत्ति: अनिष्टपरिहारार्थः सः। यथा सर्पदंशभिया पलायनम् । इमे। प्रत्यञ्चति अहमिति स्वमेव गृह्णाति, इति प्रत्यङ् । स चासौ आत्मा च प्रत्यगात्मा तस्मिन् । स्वस्मिन्नित्यर्थः । शरीरद्वारा स्वसंबन्धितयेति भावः। दृष्टे ज्ञाते । परत्र परात्मनि लिङ्ग ज्ञापकं प्रमाणम् । स्वयं हि इष्टमनिष्टं वा ज्ञात्वा इच्छन् जिहासन् वा प्रवर्तते निवर्तते वा। ईदृश्यो प्रवृत्तिनिवृत्ती परशरीरे पश्यन् प्रमाता ते अपि मत्प्रवृत्तिनिवृत्तिवत् तत्रत्यात्मज्ञाने- च्छाप्रयुक्त इत्यध्यवस्यति । तस्मात् परात्मनि परशरीरस्थे स्वशरीरस्थप्रबृत्तिनिवृति- तुल्ये प्रवृत्तिनिवृत्ती लिङ्गमिति ॥ इति कणादसूत्रवृत्ती सुगमायां तृतीयाध्याये प्रथममाह्निकम् ॥

अथ तृतीयाध्याये द्वितीयमाह्निकम् मनोनिरूपणपूर्वकं आत्मसंबन्धिनो बहून् विषयान् प्रतिपादयितुं इदमाह्निकं प्रवर्तते। १३८. प्रात्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् ॥१॥ आत्मेन्द्रियार्थसन्निकर्षे ज्ञानं निष्पद्यत इत्युक्तम् । तत्र आत्मसंयुक्तस्य चक्षुषः घटेन सन्निकर्षे सति कदाचित् घटज्ञानं जायते । कदाचिन्न जायते च । तत् कस्मादिति चेत् तत्र एवं वक्तव्यम् । चक्षुर्व्यतिरिक्तमपि किञ्चिदिन्द्रियमस्ति । आत्मा यदा तेन संयुज्यते, तच्च चक्षुषा, चक्षुश्च घटेन, तदा घटज्ञानस्य भावः उत्पत्तिः । यदा तु आत्मसंयुक्त तदतिरिक्तमिन्द्रियं चक्षुषा न संयुज्यते तदा चक्षुर्घटसन्निकर्षे सत्यपि घटज्ञानस्यानुत्यत्तिः अभावः इति । यत् तदतिरिक्तमिन्द्रियं तन्मन इति आत्मादि- सन्निकर्षे सति ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् ।। १३६. तस्य द्रव्यत्वनित्यवे वायुना ध्याख्याते ॥ २ ॥ तस्य उक्तयुक्तया सिद्धस्य मनसः क्रियावत्त्वात् संयोगसंख्यापरिमाणादि- गुणवत्त्वाच्च वायुवत् द्रव्यत्वं सिद्धयति । अद्रव्यत्वात् वायुपरमाणुवन्नित्यत्वम् । - अथ सङ्ख्योच्यते- १४०. प्रयत्नायौगपद्यात् ज्ञानायोगपद्याच्चैकम् ॥ ३ ॥ एकमेव मनः एकस्यात्मनः । जानाति इच्छति यतत इति ज्ञानेच्छाप्रयत्ना प्रात्मनि मनःसंयोगाज्जायन्ते । तत्र यदि युगपद् अनेकं ज्ञानं वा इच्छा वा प्रयत्नो वा उत्पद्यत तर्हि तत्कारणतया अनेकं मनः कल्प्येत । न च तथाऽस्ति । एकस्मिन् काले एकमेव ज्ञानं, तन्मूलेच्छा, प्रयत्नश्च । अतोऽनेकमनःकल्पने हेत्वभावात् एकमेव मन इति । यद्यपि ज्ञानायौगपद्यादित्येकेनवालं हेतुना तथाऽपि ज्ञानप्रयोज्यस्य प्रयत्न- स्यैकत्वात् प्रयोजकं ज्ञानमप्येकमेव, न तु कदाचिदप्यनेकमिति तदेकत्वद्रढिम्ने प्रयत्नायो- गपद्यमपि हेतूकृतमिति ज्ञयम् ॥

तृतीयाध्याये द्वितीयमाह्निकम् ५५ १४१. प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकारा सुख- दुःखप्रयत्नाश्चात्मलिङ्गानि ॥ ४ ॥ प्राणः प्राणनं, प्राणवायोबहिः निस्सारणम् । अपानः अपाननं, प्राणवायो- रन्तराकर्षणम् । निमेषोन्मेषो चक्षुषो निमीलनोन्मीलने । जीवनं शरीरधारणम् । मनोगतिः मनसः तेन तेनेन्द्रियेण सन्निकर्षाय सञ्चारः । इन्द्रियान्तरविकारः अनुभूतसुगन्धिरसाढ्यफलदर्शनेन आस्ये दन्तोदकसंप्लवः । एते सुखदुःखादयश्च आत्मनो लिङ्गानि । आत्मनः सत्त्वे प्रमाणानि इत्यर्थः । आत्मनः इमानि काणि । आत्मानं विना नैतानि भवेयुः। मृतशरीरे एषामभावात् । अतः ज्ञानवदेतान्यपि तल्लिङ्गानीति भावः । भोक्तुरात्मनः करणत्वेन शेषत्वात् निर्देशे पश्चात्तनस्यापि मनसः मनोगतेरप्यात्मलिङ्गत्वकथनसौकर्याय पूर्व निरूपणमिति स्पष्टम् । शरीरे यद्यद्भवति तत्सर्वमात्मायत्तमिति तत्प्रावान्यख्यापनाय इयतामात्मलिङ्गत्वोक्तिः । अत्र प्राणापानयोरात्मलिङ्गत्वाभिधानात् आत्मन, प्राणव्यतिरिक्तत्वं, निमेषो- न्मेषोक्तया चारिद्रियात्, मनोगत्युक्तया मनसः, इन्द्रियान्तरविकारोक्तचा सर्वेन्द्रि- यान्तरेभ्यः, सुखाद्युक्तया तेभ्यश्च व्यतिरिक्तत्वं ज्ञापितम् । एवमात्मा साधितः । अथ तद्गतान् विशेषानाह :- १४२. तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥ ५ ॥ तस्य पात्मनः द्रव्यत्वं ज्ञानादिगुणाश्रयत्वात् वायुवत् सिद्धम् । मद्रव्यत्वान्नि स्यत्वं वायुपरमाणुवत् ॥ वायाविव आत्मनि आगमिकत्वपूर्वपक्षं कुर्वन् प्रथमं तत्र दृष्टं लिङ्ग नास्तीत्याहः- १४३. यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावात् दृष्टं लिङ्ग न विद्यते ॥ ६॥ अयं यज्ञदत्त इति तच्छरीरप्रत्ययजनके सन्निकर्ष सति तच्छरीरिण प्रात्मना प्रत्यक्षाभावात् तस्मिन् तल्लिङ्गस्य ज्ञानादेः गवि गोत्वादिलिङ्गस्य विषाणित्वककुयत्वा- देरिव दृष्टत्वाभावात् प्रात्मनि दृष्टं लिङ्ग न विद्यत इत्यर्थः॥ - अथ तृतीयाध्याये द्वितीयमाह्निकम् मनोनिरूपणपूर्वकं आत्मसंबन्धिनो बहून् विषयान् प्रतिपादयितुं इदमाह्निकं प्रवर्तते। १३८. प्रात्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् ॥१॥ आत्मेन्द्रियार्थसन्निकर्षे ज्ञानं निष्पद्यत इत्युक्तम् । तत्र आत्मसंयुक्तस्य चक्षुषः घटेन सन्निकर्षे सति कदाचित् घटज्ञानं जायते । कदाचिन्न जायते च । तत् कस्मादिति चेत् तत्र एवं वक्तव्यम् । चक्षुर्व्यतिरिक्तमपि किञ्चिदिन्द्रियमस्ति । आत्मा यदा तेन संयुज्यते, तच्च चक्षुषा, चक्षुश्च घटेन, तदा घटज्ञानस्य भावः उत्पत्तिः । यदा तु आत्मसंयुक्त तदतिरिक्तमिन्द्रियं चक्षुषा न संयुज्यते तदा चक्षुर्घटसन्निकर्षे सत्यपि घटज्ञानस्यानुत्यत्तिः अभावः इति । यत् तदतिरिक्तमिन्द्रियं तन्मन इति आत्मादि- सन्निकर्षे सति ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् ।। १३६. तस्य द्रव्यत्वनित्यवे वायुना ध्याख्याते ॥ २ ॥ तस्य उक्तयुक्तया सिद्धस्य मनसः क्रियावत्त्वात् संयोगसंख्यापरिमाणादि- गुणवत्त्वाच्च वायुवत् द्रव्यत्वं सिद्धयति । अद्रव्यत्वात् वायुपरमाणुवन्नित्यत्वम् । - अथ सङ्ख्योच्यते- १४०. प्रयत्नायौगपद्यात् ज्ञानायोगपद्याच्चैकम् ॥ ३ ॥ एकमेव मनः एकस्यात्मनः । जानाति इच्छति यतत इति ज्ञानेच्छाप्रयत्ना प्रात्मनि मनःसंयोगाज्जायन्ते । तत्र यदि युगपद् अनेकं ज्ञानं वा इच्छा वा प्रयत्नो वा उत्पद्यत तर्हि तत्कारणतया अनेकं मनः कल्प्येत । न च तथाऽस्ति । एकस्मिन् काले एकमेव ज्ञानं, तन्मूलेच्छा, प्रयत्नश्च । अतोऽनेकमनःकल्पने हेत्वभावात् एकमेव मन इति । यद्यपि ज्ञानायौगपद्यादित्येकेनवालं हेतुना तथाऽपि ज्ञानप्रयोज्यस्य प्रयत्न- स्यैकत्वात् प्रयोजकं ज्ञानमप्येकमेव, न तु कदाचिदप्यनेकमिति तदेकत्वद्रढिम्ने प्रयत्नायो- गपद्यमपि हेतूकृतमिति ज्ञयम् ॥

तृतीयाध्याये द्वितीयमाह्निकम् यद्येवं तर्हि अहंशब्दार्थः अहंप्रत्ययगोचरः प्रात्मेत्येव तन्निरूपणं सुकरम् । कि ज्ञानादिलिङ्गकानुमानोपन्यासव्यसनेनेत्यत्राह- १४८. दृष्ट आत्मनि लिङ्ग एक एव दृढत्वात, प्रत्यक्षवत प्रत्ययः॥११॥ यद्यप्यहमिति प्रत्यक्ष प्रात्मा तथापि सः शरीरसंपृक्तः पयोमिश्रं नीरमिव न स्फुटो भासते । शरीरमेवाहमर्थ इति मतिर्भवति । तत्र प्रदर्शितरीत्या ज्ञानलिङ्गन शरीरेन्द्रियादिव्यतिरिक्ततया आत्मनि निश्चिते 'अहं' जानामीति प्रत्यक्षमात्मानं तत्स्थं ज्ञानं च पश्यति । एवं स्वात्मनि दृष्टेन लिङ्गेन परात्मनि यः प्रत्ययो जायते स एक एव दृढत्वात् सन्देहानहत्वात् प्रत्यक्षवत् अनुमितिरूपत्वेऽपि प्रत्यक्षतुल्यः प्रत्ययो भवति । एवं च स्वात्मनि अहंप्रत्ययस्य विविक्तविषयत्वसिद्धये परात्मनि दृष्ट- लिङ्गेन दृढानुमितिसिद्धये च पूर्वं ज्ञानलिङ्गेन आत्मसाधनमिति भावः ॥ अहं देवदत्तः अहं यज्ञदत्त इति प्रत्यक्षं प्रतिपादयता देवदत्तादिसंज्ञाः आत्म- वाचिन्यः इत्युक्त भवति । तथा सति 'देवदत्तो गच्छति' 'यज्ञदत्तो गच्छति' इति व्यवहारः कथम् ? न हि गमनक्रिया आत्मनि समवैति । शरीरवृत्तित्वात् । अत्राह- - १४६. देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचारात, शरीरे प्रत्ययः ।। १२ ।। अस्मिन् व्यवहारे आत्मवाचिनो देवदत्तादिशब्दस्य शरीरे उपचारः अमुख्य- वृत्तिः । तेन औपचारिकोऽयं प्रत्ययः॥ १५०. सन्दिग्धस्तूपचारः॥ १३ ॥ आत्मवाचिनो यज्ञदत्तादिशब्दस्य शरीरे उपचार इति सन्दिग्धमेतत् । मुख्य- वृत्त्या शरीरवाची । उपचारादात्मवाचीति किं न स्यात् ।। इति शङ्कायां परिहारमाह- - अथ तृतीयाध्याये द्वितीयमाह्निकम् मनोनिरूपणपूर्वकं आत्मसंबन्धिनो बहून् विषयान् प्रतिपादयितुं इदमाह्निक प्रवर्तते। १३८. प्रात्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् ॥१॥ आत्मेन्द्रियार्थसन्निकर्षे ज्ञानं निष्पद्यत इत्युक्तम् । तत्र आत्मसंयुक्तस्य चक्षुषः घटेन सन्निकर्षे सति कदाचित् घटज्ञानं जायते । कदाचिन्न जायते च । तत् कस्मादिति चेत् तत्र एवं वक्तव्यम् । चक्षुर्व्यतिरिक्तमपि किञ्चिदिन्द्रियमस्ति । आत्मा यदा तेन संयुज्यते, तच्च चक्षुषा, चक्षुश्च घटेन, तदा घटज्ञानस्य भावः उत्पत्तिः । यदा तु आत्मसंयुक्त तदतिरिक्तमिन्द्रियं चक्षुषा न संयुज्यते तदा चक्षुर्घटसन्निकर्षे सत्यपि घटज्ञानस्यानुत्यत्तिः अभावः इति । यत् तदतिरिक्तमिन्द्रियं तन्मन इति आत्मादि- सन्निकर्षे सति ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् ।। १३६. तस्य द्रव्यत्वनित्यवे वायुना ध्याख्याते ॥ २ ॥ तस्य उक्तयुक्तया सिद्धस्य मनसः क्रियावत्त्वात् संयोगसंख्यापरिमाणादि- गुणवत्त्वाच्च वायुवत् द्रव्यत्वं सिद्धयति । अद्रव्यत्वात् वायुपरमाणुवन्नित्यत्वम् । - अथ सङ्ख्योच्यते- १४०. प्रयत्नायौगपद्यात् ज्ञानायोगपद्याच्चैकम् ॥ ३ ॥ एकमेव मनः एकस्यात्मनः । जानाति इच्छति यतत इति ज्ञानेच्छाप्रयत्ना प्रात्मनि मनःसंयोगाज्जायन्ते । तत्र यदि युगपद् अनेकं ज्ञानं वा इच्छा वा प्रयत्नो वा उत्पद्यत तर्हि तत्कारणतया अनेकं मनः कल्प्येत । न च तथाऽस्ति । एकस्मिन् काले एकमेव ज्ञानं, तन्मूलेच्छा, प्रयत्नश्च । अतोऽनेकमनःकल्पने हेत्वभावात् एकमेव मन इति । यद्यपि ज्ञानायौगपद्यादित्येकेनवालं हेतुना तथाऽपि ज्ञानप्रयोज्यस्य प्रयत्न- स्यैकत्वात् प्रयोजकं ज्ञानमप्येकमेव, न तु कदाचिदप्यनेकमिति तदेकत्वदढिम्ने प्रयत्नायो- गपद्यमपि हेतूकृतमिति ज्ञ यम् ।।

। तृतीयाध्याये द्वितीयमाह्निकम् १५३. सन्दिग्धस्तूपचारः ॥१६॥ तुकारः आक्षेपद्योतकः। अहंशब्दस्य पात्मवाचकत्वेन निश्चितत्वात् तत्सा- मानाधिकरण्येन प्रयुक्तो देवदत्तादिशब्दोऽपि आत्मवाचीति सिद्धयति । तेन देवदत्तो गच्छतीत्यादिषु व्यवहारेषु देवदत्तादिशब्दः शरीरे औपचारिक इत्युक्तम् । इदानीं तु अहंशब्दोऽपि शरीरपरः प्रयुज्यत इत्युच्यते । अत्र ब्रूमः। अहंशब्दः शरीरपरः मुख्य एवास्तु । एवं देवदत्तादिशन्दोऽपि । किमुपचाराङ्गीकारेण । मुख्यत्वसंभवे अमुख्यत्वाङ्गीकारायोगात् । अतोऽत्र भवता उच्यमान उपचारः संदिग्धः अङ्गीका- रानहः॥ पूर्वसूत्रे देवदत्तो गच्छतीत्युपचारात् इत्ययं भागः अनपेक्षितः । अभिमानात् तावदिति हेतुकथनात् उपचारो न तत्रोक्त इति, तेन 'संदिग्धस्तूपचारः' इत्यनेन सूत्र णोपचारखण्डनमन्यथा नोपपद्यते, इति च मन्यमानॉजित इति मन्यामहे ।। इममाक्षेपं परिहरति- १५४. न तु शरीरविशेषाद यज्ञदत्तविष्णुमित्रयोर्ज्ञानं विषयः ॥१७॥ तुकारः पूर्वपक्षं व्यावर्तयति । समागतो यज्ञदत्तविष्णुमित्रो अन्योन्यस्य शरीरविशेषं पश्यतः । परंतु अस्येदानीमिदं ज्ञानं वर्तत इति परस्परस्य ज्ञानं परस्परस्य नैव विषयो भवति । नैव ज्ञातं भवतीत्यर्थः । यदि शरीरगुणः स्यात् ज्ञानं तर्हि तद् ज्ञातं स्यात् । न तु ज्ञानं भवति । तस्मात् शरीराद्यतिरिक्तस्य कस्यचित् गुण इति दुरपह्नवमिदम् । देवदत्तोऽहं जानामीति असन्दिग्धाबाधितप्रतीति- बलात् सः अहमथं आत्मेति, देवदत्तादिशब्दः तस्यैव वाचक इति च निश्चीयते । एवं यज्ञदत्तो गच्छति, अहं गच्छामि इति प्रतीतिव्यवहारो औपचारिकाविति उपपाद्यौ। यदि तु पूर्वपक्षरीत्या अहंशब्दः देवदत्तादिशब्दश्च शरीरस्य मुख्यवाचको तर्हि अहं जानामि देवदत्तो जानातीत्यत्र अहंशब्ददेवदत्तशब्दयोरर्थः कः ? न तावच्छरीरम् । तस्य ज्ञानाश्रयत्वासंभवात् । नाप्यात्मा । शरीरस्याहमर्थत्वे तदतिरिक्तस्याहमर्थस्या- प्रसिद्धः। असिद्धस्य च औपचारिकतयाऽपि वाच्यत्वायोगात् । तस्मात् इमौ शब्दो आत्मनि मुख्यो। शरीरे औपचारिकाविति इयमेव व्यवस्था युक्त ति न सन्दिग्धता ६. वैशेषिकसूत्रवृत्ती । उपचारस्येति । आत्मनोऽनागमिकत्वप्रकरणमिदमुपसंहरति :- १५५. अहमिति मुख्ययोग्याभ्यां शब्दवद्, व्यतिरेकाव्यभिचाराद् विशेषसिद्ध गमिकः॥ १८ ॥ आत्मा नागमिकः । प्रकारान्तरेणव विशेषस्य अहन्त्वरूपस्य आत्मत्वस्य सिद्धेः अवधारणात् । किं तत् प्रकारान्तरम् ? अहमिति प्रत्ययस्य व्यतिरेकाव्यभिचारः इतरेभ्यः सर्वेभ्यः व्यावृत्तत्वनियमः । नियमेन व्यावृत्तिरिति यावत् । अहमिति प्रत्ययः प्रत्यक्षात्मकः । लिङ्गविशेषाजन्यत्वात् । साक्षात्काररूपत्वात् । स चायं प्रत्ययः सर्वेभ्यो विषयान्तरेभ्यो व्यावृत्तः आत्मैकविषयः । कस्मात् । मुख्ययोग्याभ्यां अन्वय- व्यतिरेकाभ्याम् । मुख्यौ साक्षादुपलभ्यमानौ । योग्यो सन्देहविपर्ययरहितौ । आत्मनि भवतीत्यन्वयः । अन्यस्मिन् यस्मिन् कस्मिन्नपि न भवतीति व्यतिरेकः । शब्दवदिति दृष्टान्तः । “अहमिति शब्दस्य व्यतिरेकान्नागमिक" इति पूर्वमुक्तम् । तद्वत् अहमिति प्रत्ययस्यापि व्यतिरेकाद् विशेषसिद्धेन गमिक आत्मा । अथात्मनः सङ्ख्यामाह- १५६. सुखदाखज्ञाननिष्पत्त्य विशेषादैकात्म्यम ॥ १६ ॥ ऐकात्म्यं प्रात्मनः एकत्वम् । तदभ्युपगन्तव्म् । कुतः ? सुखाद्युत्पत्तिविषये अविशेषात् । शब्दस्य सर्वत्रोपलम्भादाकाश एक इत्युक्तम् । परापरव्यवहारस्य सार्वत्रि. कत्वात् तत्कारणभूतः कालः एक इत्युक्तम् । तथा सुखदुःखादेः सर्वेषु शरीरेषूपलम्मात् तदाश्रय आत्मापि एको भवितुमर्हतीति पूर्वः पक्षः॥ सिद्धान्तमाह- १५७. नानात्मानो व्यवस्थातः॥ २० ॥ आत्मानः नाना बहवः। कुतः ? सुखदुःखव्यवस्थानात् । यदा एकस्मिन् शरीरे सुखं वा दुःखं वाऽनुभूयते तदा तत् सर्वस्मिन् शरीरे नानुभूयते । यद्येक एवात्म तहि सर्वत्र तदनुभवेन भाव्यम् । न परं एवं एकस्य सवंत्रानुभवाभावः । अपि तु विपरीतानुभवोऽप्यस्ति । यदा एकः सुखी तदाऽन्यो दुःखी भवति । सुखदुःखे च भिन्न- मिन्ने तारतम्यवती च भवतः । एवं व्यवस्थादर्शनात् प्रतिशरीरं, विभिन्न एक - तृतीयाध्याये द्वितीयमाह्निकम् प्रात्मेति अनन्ता आत्मानः ॥ १५८. शास्त्रसामर्थ्याच्च ॥ २१ ॥ आत्मनो बहुत्वं सिद्धयति । शास्त्राणि वेदाः स्मृतयश्च । तेषां सामर्थ्य तात्त्वि- कार्थबोधकत्वशक्तिः । "नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां शान्तिः शाश्वती नेतरेषाम् ।" "वीतरा- गभयकोघा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥” इत्य- नयोः श्रुतिस्मृत्योः प्रात्मनां बहुत्वं कण्ठोक्तम् । तदस्तु । तत्तद्विधिनिषेधपरारिण सर्वाणि प्रमाणवचनानि साघुकर्मकारी समीची गतिमाप्नोति, अमाधुकर्मकारी दुर्गति गच्छतीति बोधयन्ति आत्मनानात्वं सुस्पष्ट ज्ञापयन्तीति, "शास्त्राच्च" इत्येवं असूत्र- यित्वा "शास्त्रसामर्थ्याच्च" इति सूत्रयतो भावः ।। इति कणादसूत्रवृत्ती सुगमायां तृतीयाध्याये द्वितीयमाह्निकम् ॥

६. वैशेषिकसूत्रवृत्ती । उपचारस्येति । आत्मनोऽनागमिकत्वप्रकरणमिदमुपसंहरति :- १५५. अहमिति मुख्ययोग्याभ्यां शब्दवद्, व्यतिरेकाव्यभिचाराद् विशेषसिद्ध गमिकः॥ १८ ॥ आत्मा नागमिकः । प्रकारान्तरेणव विशेषस्य अहन्त्वरूपस्य आत्मत्वस्य सिद्धेः अवधारणात् । किं तत् प्रकारान्तरम् ? अहमिति प्रत्ययस्य व्यतिरेकाव्यभिचारः इतरेभ्यः सर्वेभ्यः व्यावृत्तत्वनियमः । नियमेन व्यावृत्तिरिति यावत् । अहमिति प्रत्ययः प्रत्यक्षात्मकः । लिङ्गविशेषाजन्यत्वात् । साक्षात्काररूपत्वात् । स चायं प्रत्ययः सर्वेभ्यो विषयान्तरेभ्यो व्यावृत्तः आत्मैकविषयः । कस्मात् । मुख्ययोग्याभ्यां अन्वय- व्यतिरेकाभ्याम् । मुख्यौ साक्षादुपलभ्यमानौ । योग्यो सन्देहविपर्ययरहितौ । आत्मनि भवतीत्यन्वयः । अन्यस्मिन् यस्मिन् कस्मिन्नपि न भवतीति व्यतिरेकः । शब्दवदिति दृष्टान्तः । “अहमिति शब्दस्य व्यतिरेकान्नागमिक" इति पूर्वमुक्तम् । तद्वत् अहमिति प्रत्ययस्यापि व्यतिरेकाद् विशेषसिद्धेन गमिक आत्मा । अथात्मनः सङ्ख्यामाह- १५६. सुखदाखज्ञाननिष्पत्त्य विशेषादैकात्म्यम ॥ १६ ॥ ऐकात्म्यं प्रात्मनः एकत्वम् । तदभ्युपगन्तव्म् । कुतः ? सुखाद्युत्पत्तिविषये अविशेषात् । शब्दस्य सर्वत्रोपलम्भादाकाश एक इत्युक्तम् । परापरव्यवहारस्य सार्वत्रि. कत्वात् तत्कारणभूतः कालः एक इत्युक्तम् । तथा सुखदुःखादेः सर्वेषु शरीरेषूपलम्मात् तदाश्रय आत्मापि एको भवितुमर्हतीति पूर्वः पक्षः॥ सिद्धान्तमाह- १५७. नानात्मानो व्यवस्थातः॥ २० ॥ आत्मानः नाना बहवः। कुतः ? सुखदुःखव्यवस्थानात् । यदा एकस्मिन् शरीरे सुखं वा दुःखं वाऽनुभूयते तदा तत् सर्वस्मिन् शरीरे नानुभूयते । यद्येक एवात्म तहि सर्वत्र तदनुभवेन भाव्यम् । न परं एवं एकस्य सवंत्रानुभवाभावः । अपि तु विपरीतानुभवोऽप्यस्ति । यदा एकः सुखी तदाऽन्यो दुःखी भवति । सुखदुःखे च भिन्न- मिन्ने तारतम्यवती च भवतः । एवं व्यवस्थादर्शनात् प्रतिशरीरं, विभिन्न एक - चतुर्थाध्याये प्रथममाह्निकम् तदुच्यते तस्य कार्य लिङ्गमिति । यदेवं नित्यं वस्तु सिध्यति तस्य परमाणुरिति व्यवहारः॥ - कार्यात्कारणानुमानं साधु । कारणात् कार्यानुमानं तु असाधु, इति पूर्वोक्तं स्मारयन्नाह- १६१. कारणभावात. कार्यभावः ॥ ३॥ कारणस्य सत्त्वे हि कार्यस्य सत्ता। न तु तस्य असत्त्वे । अतो व्याप्तिसत्त्वात् सद्धेतुरयमिति भावः । ननु कार्यात्कारणं सिद्धयतु । तन्नित्यमिति कथं सिद्धय दिति चेन्न । परिमाणविशेषविशिष्टं हि कार्य तदनुगुणमेव कारणमनुमापयति । नित्यमेव च चरमं कारणं तदनुगुणम् ॥ एवं परमाणुरूपं नित्यं कारणं प्रसाध्य तस्य ये अनित्यत्वमाहुः तान् निरस्यति- १६२. अनित्यमिति च विशेषतः प्रतिषेधभावः ॥४॥ परमाणुरूपं कारण द्रव्यं अनित्यं, रूपादिमत्त्वात्, घटादिवत् इति यः नित्यत्वप्रतिषेधः क्रियते सः विशेषतः प्रतिषेधः। कारणद्रव्यस्यानुमीयमानस्य अनित्यत्व- रूपेण विशेषेण प्रतिषेधः। न तु स्वरूपेण । परमाणुमभ्युपेत्य तस्य नित्यत्वं प्रति- षिद्धयत इति यावत् । अयं प्रतिषेधः तदा भवेत् यदि नित्यत्वानित्यत्वविशेषाववारणं विना परमाणुस्वरूपं अस्माभिः साधितं भवेत् । निरवयवं अतएव नित्यं किञ्चित कारणमस्ति । स एव परमाणुरिति ह्यस्माभिः साध्यते । तत्र धर्मिग्राहकप्रमाणेन नित्यत्वेनैव तत्सिद्धौ तस्यानित्यत्वानुमानं कालात्ययापदिष्टं भवतीति भावः । बाधितमि- ति यावत् । “विशेषतःप्रतिषेधाभावः' इति पाठे "अनित्यमिति विशेषतो यः प्रतिषेधः तस्याभावः" उक्तरीत्याऽनवकाश एवेत्यर्थः। न परं साधकप्रमाणसत्त्वात्, बाधक प्रमाणाभावाच्च नित्यपरमाणु सिद्धिरिति चकारार्थः ।। १६३. अविद्या च ॥५॥ अथोच्यते परमाणुरेव नाङ्गीक्रियते, नतरां तस्य नित्यत्वमिति, तत्र ब्रूमः । तथा सति अविद्या अनुमित्यात्मकविद्यायाः ज्ञानस्यामावः । पक्षाभावेन हेतोराश्रया- ६. वैशेषिकसूत्रवृत्ती । उपचारस्येति । आत्मनोऽनागमिकत्वप्रकरणमिदमुपसंहरति :- १५५. अहमिति मुख्ययोग्याभ्यां शब्दवद्, व्यतिरेकाव्यभिचाराद् विशेषसिद्ध गमिकः॥ १८ ॥ आत्मा नागमिकः । प्रकारान्तरेणव विशेषस्य अहन्त्वरूपस्य आत्मत्वस्य सिद्धेः अवधारणात् । किं तत् प्रकारान्तरम् ? अहमिति प्रत्ययस्य व्यतिरेकाव्यभिचारः इतरेभ्यः सर्वेभ्यः व्यावृत्तत्वनियमः । नियमेन व्यावृत्तिरिति यावत् । अहमिति प्रत्ययः प्रत्यक्षात्मकः । लिङ्गविशेषाजन्यत्वात् । साक्षात्काररूपत्वात् । स चायं प्रत्ययः सर्वेभ्यो विषयान्तरेभ्यो व्यावृत्तः आत्मैकविषयः । कस्मात् । मुख्ययोग्याभ्यां अन्वय- व्यतिरेकाभ्याम् । मुख्यौ साक्षादुपलभ्यमानौ । योग्यो सन्देहविपर्ययरहितौ । आत्मनि भवतीत्यन्वयः । अन्यस्मिन् यस्मिन् कस्मिन्नपि न भवतीति व्यतिरेकः । शब्दवदिति दृष्टान्तः । “अहमिति शब्दस्य व्यतिरेकान्नागमिक" इति पूर्वमुक्तम् । तद्वत् अहमिति प्रत्ययस्यापि व्यतिरेकाद् विशेषसिद्धेन गमिक आत्मा । अथात्मनः सङ्ख्यामाह- १५६. सुखदाखज्ञाननिष्पत्त्य विशेषादैकात्म्यम ॥ १६ ॥ ऐकात्म्यं प्रात्मनः एकत्वम् । तदभ्युपगन्तव्म् । कुतः ? सुखाद्युत्पत्तिविषये अविशेषात् । शब्दस्य सर्वत्रोपलम्भादाकाश एक इत्युक्तम् । परापरव्यवहारस्य सार्वत्रि. कत्वात् तत्कारणभूतः कालः एक इत्युक्तम् । तथा सुखदुःखादेः सर्वेषु शरीरेषूपलम्मात् तदाश्रय आत्मापि एको भवितुमर्हतीति पूर्वः पक्षः॥ सिद्धान्तमाह- १५७. नानात्मानो व्यवस्थातः॥ २० ॥ आत्मानः नाना बहवः। कुतः ? सुखदुःखव्यवस्थानात् । यदा एकस्मिन् शरीरे सुखं वा दुःखं वाऽनुभूयते तदा तत् सर्वस्मिन् शरीरे नानुभूयते । यद्येक एवात्म तहि सर्वत्र तदनुभवेन भाव्यम् । न परं एवं एकस्य सवंत्रानुभवाभावः । अपि तु विपरीतानुभवोऽप्यस्ति । यदा एकः सुखी तदाऽन्यो दुःखी भवति । सुखदुःखे च भिन्न- मिन्ने तारतम्यवती च भवतः । एवं व्यवस्थादर्शनात् प्रतिशरीरं, विभिन्न एक - चतुर्थाध्याये प्रथममाह्निकम् नित्यानित्यभेदेन द्रव्यविभागमभिप्रेत्य तत्र नित्यं अनित्येन साधयामास । कुत एवमनुमानेन साधनं, प्र.क्षमेव किं न सम्भवतीति शङ्कां परिहरन् प्रत्यक्ष- कारणमुक्त्वा तदभावात् प्रत्यक्षं न संम्भवति इति प्रतिपादयामास । अथ प्रत्यक्ष- कारणप्रसङ्गात् गुणप्रत्यक्ष कारणमपि बदन् प्रथम प्रस्तुतरूपप्रत्यक्षस्यैव कारणमाह-- १६७. अनेकद्रव्यसमवाया पविशेषाच्च रूपोपलब्धिः ॥ ६ ॥ अनेक बहु द्रव्यं समवायिकारणं यस्य तत् अनेकद्रव्यम् । महत्तरिमाणवद्रव्य- मित्यर्थः । तत्र समवायात् समवायसंबन्धेन वृत्तः, रूपविशेषात्, अनुभूतत्वाभिभूतत्व- प्रयुक्तायोग्यत्वावस्थारहितात् रूपाच्च रूपं प्रत्यक्षं भवति । घटपटादिरूपे इदमुमय- मस्ति । अतस्तत्प्रत्यक्षम् । अनेकद्रव्यसमावापाभावात् परमाणुरूपानुपलब्धिः। अनु- द्भूतत्वात् निदाघोमादी रूपानुपलब्धिरित्याहुः । अभिभूतत्वात् उष्णजल संपृक्ताग्नि- रूपानुपलब्धिः ॥ १६८० तेन रसगन्धस्पर्शोषु ज्ञानं व्याख्यातम् ॥ १०॥ तेन रूपेण, रसगन्धसशेषु यद् ज्ञानं तत् अनेन कारणेनेति व्याख्यातम् । अनेकद्रव्यसमवायात् रसविशेषाच्च रसोपलब्धिः । अनेकद्रपसमवायाद् गन्ध- विशेषाच्च गन्धोपलब्धिः । अनेकद्रव्यसमवायात् स्पर्शविशेषाच्च स्पर्शोपलब्धिः । इति रूपस्येव एषामपि उपलब्धिकारणमनुसन्वेयमिति भावः । ननु रूपं यथा स्वप्रत्यक्षे कारणं तद्वत् गुणान्तरप्रत्यक्षेऽपि कारणम् । तत्र पृथिवीजलयोः रूपवत्त्वात् तद्गुणयोः गन्धरसयोः प्रत्यक्षं मवतीति उपपन्नमिदम् । वायो तु रूपामावेऽपि स्पर्शोपलम्नात् कारणाभावेऽपि कार्यसत्त्वरूपो व्यभिचारो भवतीति चेत् अत्राह- १६६. तस्याभावादव्यभिचारः।।११। तस्य रूपस्य वायावभावात् यो व्यभिचार आशङ्कयते स वस्तुतो नास्ति । कुतः । वायो स्पर्शप्रत्यक्ष रूपस्य कारणत्वाभावात् । कारणत्वाभावश्च तद्ग्राहकप्रमा- - ६. वैशेषिकसूत्रवृत्ती । उपचारस्येति । आत्मनोऽनागमिकत्वप्रकरणमिदमुपसंहरति :- १५५. अहमिति मुख्ययोग्याभ्यां शब्दवद्, व्यतिरेकाव्यभिचाराद् विशेषसिद्ध गमिकः॥ १८ ॥ आत्मा नागमिकः । प्रकारान्तरेणव विशेषस्य अहन्त्वरूपस्य आत्मत्वस्य सिद्धेः अवधारणात् । किं तत् प्रकारान्तरम् ? अहमिति प्रत्ययस्य व्यतिरेकाव्यभिचारः इतरेभ्यः सर्वेभ्यः व्यावृत्तत्वनियमः । नियमेन व्यावृत्तिरिति यावत् । अहमिति प्रत्ययः प्रत्यक्षात्मकः । लिङ्गविशेषाजन्यत्वात् । साक्षात्काररूपत्वात् । स चायं प्रत्ययः सर्वेभ्यो विषयान्तरेभ्यो व्यावृत्तः आत्मैकविषयः । कस्मात् । मुख्ययोग्याभ्यां अन्वय- व्यतिरेकाभ्याम् । मुख्यौ साक्षादुपलभ्यमानौ । योग्यो सन्देहविपर्ययरहितौ । आत्मनि भवतीत्यन्वयः । अन्यस्मिन् यस्मिन् कस्मिन्नपि न भवतीति व्यतिरेकः । शब्दवदिति दृष्टान्तः । “अहमिति शब्दस्य व्यतिरेकान्नागमिक" इति पूर्वमुक्तम् । तद्वत् अहमिति प्रत्ययस्यापि व्यतिरेकाद् विशेषसिद्धेन गमिक आत्मा । अथात्मनः सङ्ख्यामाह- १५६. सुखदाखज्ञाननिष्पत्त्य विशेषादैकात्म्यम ॥ १६ ॥ ऐकात्म्यं प्रात्मनः एकत्वम् । तदभ्युपगन्तव्म् । कुतः ? सुखाद्युत्पत्तिविषये अविशेषात् । शब्दस्य सर्वत्रोपलम्भादाकाश एक इत्युक्तम् । परापरव्यवहारस्य सार्वत्रि. कत्वात् तत्कारणभूतः कालः एक इत्युक्तम् । तथा सुखदुःखादेः सर्वेषु शरीरेषूपलम्मात् तदाश्रय आत्मापि एको भवितुमर्हतीति पूर्वः पक्षः॥ सिद्धान्तमाह- १५७. नानात्मानो व्यवस्थातः॥ २० ॥ आत्मानः नाना बहवः। कुतः ? सुखदुःखव्यवस्थानात् । यदा एकस्मिन् शरीरे सुखं वा दुःखं वाऽनुभूयते तदा तत् सर्वस्मिन् शरीरे नानुभूयते । यद्येक एवात्म तहि सर्वत्र तदनुभवेन भाव्यम् । न परं एवं एकस्य सवंत्रानुभवाभावः । अपि तु विपरीतानुभवोऽप्यस्ति । यदा एकः सुखी तदाऽन्यो दुःखी भवति । सुखदुःखे च भिन्न- मिन्ने तारतम्यवती च भवतः । एवं व्यवस्थादर्शनात् प्रतिशरीरं, विभिन्न एक - चतुर्थाध्याये प्रथमाह्निकम् गुणग्रहणे तवृत्तिगुणत्वस्य सत्तायाश्च, एवं रसनया रसस्य, घ्राणेन गन्धस्य, त्वचा स्पर्शस्य च ग्रहणे एषु गुरणेषु विद्यमानयोश्च तयोः प्रत्यक्ष भवति । श्रोत्रग्रहणो योऽर्थः सः शब्द इति पूर्वोक्तरीत्या श्रोत्रेण शब्दग्रहणे तद्वृत्त्योः तयोः श्रोत्रजन्यप्रत्यक्षविषय- त्वमप्यस्तीति सर्वेन्द्रियजन्यं ज्ञानमनयोः । द्रव्यत्वस्य चक्षुः त्वगिति इन्द्रियद्वपजन्यमेव ज्ञानम् ! कर्मत्वस्य चाक्षुषज्ञानविषयत्वमेवेति न सर्वेन्द्रियजन्यं ज्ञानम् ।। इति कणादसूत्रवृत्ती सुगमायां चतुर्थाध्याये प्रथममाह्निकम् ॥

अथ चतुर्थाध्याये द्वितीयमाह्निकम । पृथिव्यादिचतुष्टयं पुनः प्रकारान्तरेण विभज्य किञ्चिदाह- १७३. तत् पुनः पृथिव्यादिकार्यद्रव्यं त्रिविधं शरोरेन्द्रियविषय- संज्ञकम् ॥१॥ तत् पूर्व "तस्य कार्य लिङ्ग" इति सूत्रे निर्दिष्टं पृथिव्यादिचतुर्द्रव्यरूपं काय- द्रव्यं त्रिविधं शरीरेन्द्रियविषयनामकम् । शरीरेन्द्रियविषयभेदात् इति यावत् ।। तत्र शरीरविषये मतान्तरं निरस्यति- १७४. प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात पञ्चात्मकं न विद्यते ॥२॥ शरीरं पृथिव्या जलेन तेजसा वायुना वा एकेनैव भूतेन आरब्धमिति सिद्धान्तः । तत्र ये “पञ्चभिर्मूर्तरारब्धम् । अतएव पञ्चात्मकम्,” इति वदन्ति, तेषां निरसनमिह क्रियते । तत्र वाय्वाकाशी इतरैः त्रिभिः संयुक्तो शरीरमारभते इति तावन्न युक्तम् । अप्रत्यक्षौ हि तो। इतराणि त्रीणि प्रत्यक्षाणि । प्रत्यक्षाप्रत्यक्षद्रव्यसंयोगो न प्रत्यक्षः। न हि घटाकाशसंयोगः प्रत्यक्षो भवति । तथा च वाय्वाकाशाभ्यां संयोगस्य पृथिव्यादिषु त्रिषु अप्रत्यक्षत्वात् पृथिव्यादिभिरारब्धे शरीरे वाय्वाकाशावपि तदारम्भकतया स्थिताविति कथं ज्ञायते ? वाय्वाकाशयोरप्रत्यक्षत्वात् साक्षात्- प्रत्यक्षेण तयोरारम्भ फत्वं न ज्ञायते । तत्संयोगस्याप्यप्रत्यक्षत्वात् तद्द्वारेणाऽपि न ज्ञायते। अतः प्रमाणाभावात् तयोः शरीरारम्भकत्वं नास्ति इति न पञ्चात्मक शरीरमिति भावः॥ अन्यदपि मतं निरस्यति- १७५. गुणान्तराप्रादुर्भावाच्च न च्यात्मकम ॥३॥ अप्रत्यक्षी वाय्वाकाशौ विहाय पृथिवीजलतेजोभिः प्रत्यक्षः त्रिभिर्भूतैरारब्ध- मिदं शरीरम् । त्रीणींमानि प्रत्यक्षान्येव । तथा तेषां संयोगोऽपि । तस्मात् श्यात्म- चतुर्थाध्याये द्वितीयमाह्निकम् ६६ कमिदम् । त्रिभिरारब्धमित्यर्थः । इदमपि मतं न सम्यक् कुतः । गुणान्तराप्रादुर्भावात् । यदि भूतत्रयपरमाणुभिः परस्परसंयुक्त: शरीरात्मकं अवयविद्रव्यमुत्पाद्यते तहि ये तेषां व्यवस्थिता गुणाः ते तथैव शरीरवर्ति पार्थिवाद्यंशेषु नोपलभ्येरन् । उपलभ्यन्ते च । न तु विलक्षणं गुणान्तरं किमपि प्रादुर्भूतं दृश्यते । गन्धोऽनुष्णाशीतस्पर्शञ्च पार्थिवांशे। शीतस्पर्शो जलांशे । उष्णस्पर्शः तेजोंऽशे । अवय विनि एकस्मिन् विरुद्धा इमे गुणा न खलु समवेयुः। न च गुणान्तरं एतेभ्यो व्यतिरिक्त किमप्युपलभ्यते । भतो न त्र्यात्मकमिति ॥ यद्येवं एकभूतारब्धे शरीरे भूतान्तरोपलम्भः कथमित्यत्राह- १७६. अणुसंयोगस्त्वप्रतिषिद्धः ॥ ४॥ शरीरारम्भकाणां एकभूतपरमाणूनां भूतान्तरपरमाणुभिः संयोगस्तु अप्रति- षिद्धः नास्माभिः प्रतिषिध्यते । नानुपपन्न इति भावः । पार्थिवशरीरारम्भकाः पृथिवीपरमाणवः जलपरमाणुभिः तेजःपरमाणुभिश्चः संयुक्ता वर्तन्ते । ते यदा शरीरमारभन्ते तदा जलपरमाणवः जलात्मकमवयविनं तेजःपरमारणवः तेजोमय. मवयविनं च आरभन्ते । अनयोरवयबिनोः पार्थिवशरीरात्मकेनावयविना संयोगो भवति । तेन हेतुना तत्र जलतेजोरूपभूतान्तरोपलब्धिः । एवं जलतेजोमयशरीर- योरपि द्रष्टव्यम् । एवं भूतान्तरोपलम्भस्योपपन्नत्वात् एकभूतपरमाण्वारब्धे शरीरे भूतान्तरपरमाणूनां नारम्भकत्वमिति सर्वशरीरं एकभूतात्मकमेव ।। एवं शरीरस्वरूपं निरूप्य तद् विभजते- १७७. तत्र शरीरं द्विविधं योनिजमयोनिजं च ॥५॥ योनिजं गर्भ स्थित्वा उत्पन्नम् । अन्यदयोनिजम् । योनिजं प्रत्यक्षसिद्धं निर्विवादम् । अयोनिजे विप्रतिपत्तिः स्यात् । अतस्तत्साधयन् हेतूनाह- १७८. अनियतदिग्देशपूर्वकत्वात् ॥६॥ एतदादीनां हेतूनां उत्तरत्र "सन्त्ययोनिजा" इत्यत्रान्वयः । अयोनिजशरीर- वैशेषिकसूत्रवृत्ती वन्तश्चेतनाः सन्तीति तस्य सूत्रस्यार्थः। नियतौ दिग्देशौ पूौं कारणतया पूर्ववर्तिनी यस्य तत् नियतदिग्देशपूर्वकम् । तत्त्वाभावात् । शरीरोत्यत्तेरिति शेषः । प्राची- प्रभृतयो दश दिशः । तत्र स्वर्गभूपाताललोकादयो देशाः । शरीरेऽपि उदरं वा कों वा मुखं वा ऊरुर्वा पादो वेति देशाः । एतेषु दिग्देशेषु अत्रैव शरीरमुत्पद्यते नान्योति नियमो नास्ति । अस्मिन् लोके शरीरगर्भात् शरीरमुत्पद्यत इति पश्यामः । इदं दर्शनं शरीरगर्भात् शरीरमुत्पद्यत इत्यत्र प्रमाणम् । न त्वन्यत्र नोत्पद्यत इत्यत्र । गोमयाद्धृश्चिकादिशरीरस्य, तण्डुलादिभ्यः क्रिमिशरीरस्य च उत्पत्तिदर्शनात् । न च मनुष्यशरीरमन्यत्र नोत्पद्यत इति नियमः । अस्माकमिदानीमदर्शनमात्रेण तथा नियमासिद्धेः । न च तत्रानुमानमागमो वा प्रमाणमस्ति । इत्थमयोनिजपुरुषशरीरसत्त्वे बाधकप्रमाणं नास्तीत्युक्तम् । अथ साधक प्रमारणान्याह- १७६. धर्मविशेषाच्च ॥ ७ ॥ सर्वफलसाधनं हि धर्मः। गर्भवासं विनव शरीरपरिग्रहानुकूलो धर्मों यदि कस्यचित् भवति तसा तथा तत्प्राप्तौ को विधातः। श्रूयन्ते च तथा शरीरभाजः सीताद्रौपदीसरोमुनिप्रभृतयः॥ १८०. समाख्याभावाच्च ॥८॥ पद्मभवः, ऊरूद्भवा, हिरण्यगर्माङ्गभूः इत्यादि समाख्यासत्त्वाच्च । अन्वर्था हि इमाः समाख्याः न साङ्केतिक्यः केवलम् । १८१. संज्ञाया प्रादित्वात ॥६॥ प्रलयावसाने तस्मिन् तस्मिन् पदार्थे उत्पन्ने अस्य इयं संज्ञा, अनेन शब्देन अयमर्थोऽभिधेयः, इति संज्ञा कैश्चित् कृता । तत्र यः प्रथमः पुरुष उत्पन्नः तस्य पुरुष इति संज्ञां, या प्रथमा स्त्री उत्पन्ना तस्याः स्त्रीति संज्ञां तेन तस्यां यो जातः तस्य पुत्र इति संज्ञां च ये अकुर्वन् तेषां यानि शरीराणि तानि पुरुषादिसंज्ञायाः पुरुषादि- संज्ञापेक्षया आदित्वात् पूर्वमावित्वात् अयोनिजान्येव भवन्ति । उक्त विविधसंज्ञायाः चतुर्थाध्याये द्वितीयमाह्निकम् कारणत्वादिति वा॥ १८२. सन्त्ययोनिजाः ॥१०॥ न अयोनिजशरीरवन्तः विशिष्टाश्चेतनाः सन्तीत्येतत्सूत्रार्थ उक्तः । इत्थमयोनिजं शरीरं युक्तया साधितम् । तत्रेयं चरमा युक्तिरिति केनचित्प्रकारेण व्यञ्जयितुमिच्छन् सूत्रकारः पूर्वसूत्रे चकारं न प्रायुङ्क्तति विभाव्यम् ॥ १८३. वेदलिङ्गाच्च ॥ ११ ॥ "प्रजापतिः प्रजा असृजत" इत्याह श्रुतिः । तत्र सङ्कल्पादेव सृष्टिरभिप्रेता, मिथुनीभावेन । सङ्कल्पजा च सृष्टिरयोनिजैव । वेदे स्थितात् वेदवाक्यरूपत्वाद्वा उक्तविधात् लिङ्गाच्च सन्त्ययोनिजा इत्यर्थः । यद्यपि वेदलिङ्ग न स्यात् तथापि सिद्धय देव अयोनिजं शरीरमिति ज्ञापनार्थ पूर्व प्रतिज्ञा पूरयित्वा पश्चात् लिङ्गोक्तिः । शरीरं निरूपितम् । पञ्चेन्द्रियाणि प्रसिद्धानि । विषयाश्च भोग्यपदार्था निरूपिताः प्रसिद्धाश्च । अत एषां निरूपणं न क्रियते । इति वैशेषिकसूत्रवृत्तौ सुगमायां चतुर्थाध्याये द्वितीयमाह्निकम् ॥

वैशेषिकसूत्रवृत्ती वन्तश्चेतनाः सन्तीति तस्य सूत्रस्यार्थः। नियतौ दिग्देशौ पूौं कारणतया पूर्ववर्तिनी यस्य तत् नियतदिग्देशपूर्वकम् । तत्त्वाभावात् । शरीरोत्यत्तेरिति शेषः । प्राची- प्रभृतयो दश दिशः । तत्र स्वर्गभूपाताललोकादयो देशाः । शरीरेऽपि उदरं वा कों वा मुखं वा ऊरुर्वा पादो वेति देशाः । एतेषु दिग्देशेषु अत्रैव शरीरमुत्पद्यते नान्योति नियमो नास्ति । अस्मिन् लोके शरीरगर्भात् शरीरमुत्पद्यत इति पश्यामः । इदं दर्शनं शरीरगर्भात् शरीरमुत्पद्यत इत्यत्र प्रमाणम् । न त्वन्यत्र नोत्पद्यत इत्यत्र । गोमयाद्धृश्चिकादिशरीरस्य, तण्डुलादिभ्यः क्रिमिशरीरस्य च उत्पत्तिदर्शनात् । न च मनुष्यशरीरमन्यत्र नोत्पद्यत इति नियमः । अस्माकमिदानीमदर्शनमात्रेण तथा नियमासिद्धेः । न च तत्रानुमानमागमो वा प्रमाणमस्ति । इत्थमयोनिजपुरुषशरीरसत्त्वे बाधकप्रमाणं नास्तीत्युक्तम् । अथ साधक प्रमारणान्याह- १७६. धर्मविशेषाच्च ॥ ७ ॥ सर्वफलसाधनं हि धर्मः। गर्भवासं विनव शरीरपरिग्रहानुकूलो धर्मों यदि कस्यचित् भवति तसा तथा तत्प्राप्तौ को विधातः। श्रूयन्ते च तथा शरीरभाजः सीताद्रौपदीसरोमुनिप्रभृतयः॥ १८०. समाख्याभावाच्च ॥८॥ पद्मभवः, ऊरूद्भवा, हिरण्यगर्माङ्गभूः इत्यादि समाख्यासत्त्वाच्च । अन्वर्था हि इमाः समाख्याः न साङ्केतिक्यः केवलम् । १८१. संज्ञाया प्रादित्वात ॥६॥ प्रलयावसाने तस्मिन् तस्मिन् पदार्थे उत्पन्ने अस्य इयं संज्ञा, अनेन शब्देन अयमर्थोऽभिधेयः, इति संज्ञा कैश्चित् कृता । तत्र यः प्रथमः पुरुष उत्पन्नः तस्य पुरुष इति संज्ञां, या प्रथमा स्त्री उत्पन्ना तस्याः स्त्रीति संज्ञां तेन तस्यां यो जातः तस्य पुत्र इति संज्ञां च ये अकुर्वन् तेषां यानि शरीराणि तानि पुरुषादिसंज्ञायाः पुरुषादि- संज्ञापेक्षया आदित्वात् पूर्वमावित्वात् अयोनिजान्येव भवन्ति । उक्त विविधसंज्ञायाः अथ पञ्चमाध्याये प्रथममाह्निकम् भोक्ता आत्मा निरूपितः। द्रव्यानन्तरं निर्दिष्टेषु गुणेषु भोग्यतया प्रधान- भूता रूपादयो विशेषगुणा अपि वहुधा निरूपिताः । अथ गुणान्तरनिरूपणं पश्चात् करिष्यन् भोक्त र्मोगहेतुभूतं कर्म निरूपयितुमारभते । तत्र प्रथमं शरीरगतं कर्म कारणतो निरूपयति- हस्ते यत् । १८४. आत्मसंयोगप्रयत्नाभ्यां हस्ते कम ॥१॥ कर्म जायते तस्य द्वे कारणे। एक आत्मसंयोगः। य आत्मा तच्छरीरमधितिष्ठति तेन संयोगः हस्तस्य । तस्य आत्मनः हस्तेन संयोग इति वा। शरीरे जायमानस्य सर्वस्य कर्मणः इदं साधारण कारणम् । मृतशरीरे कर्मणोऽभावात् । हस्ते यत् कर्म तत्र तदनुकूलः प्रयत्नः असाधारणकारणम् । प्रयत्नः प्रात्मन एव गुण इति तस्यात्मवृत्तित्वं स्वयं लम्यते । मुसलं पश्यति । तत्कर्मकादान क्रिया हस्ते जायता- मिति इच्छति । तद्विषयः प्रयत्नो जायते । ततो हस्ते क्रिया भवति । ईदृशो यत्नो यदि न जायते तहि इयं क्रिया नैव हस्ते जायेतेति द्वितीयमिदं कारणम् १८५. तथा हस्तसंयोगाच्च मुसले कर्म ॥२॥ तथेति हस्तस्य विशेषणम् । तादृशेत्यर्थः । आत्मसंयोगप्रयत्नाभ्यां कर्मवत्त्वाई- दशापन्नो यो हस्तः तत्संयोगादित्यर्थः । हस्तेन मुसलं गृहीत्वा उत्क्षिपति अवक्षिपति च । उक्षेपणावक्षेपणात्मिके क्रिये हस्ते, उद्गमनाघोगमनात्मिके क्रिये मुसले च जायते । तत्र हस्तक्रिययोः कारणमुक्तम् । मुसल क्रिययोः कारणं विशिष्टहस्तसंयोगः । आत्म- संयोगप्रग्यस्नयोः हस्तसंयोगद्वारंव मुसलक्रियाहेतुत्वात् तावत्र अन्यथासिद्धौ । हस्ते कर्म मुसले च कर्मेति चकारयोजना । १८६. अभिधातजे मुसलादौ कर्मणि व्यतिरेकादकारणं हस्त- संयोगः ॥३॥ ।

वैशेषिकसूत्रवृत्ती वन्तश्च तनाः सन्तीति तस्य सूत्रस्यार्थः । नियतौ दिग्देशौ पूौं कारणतया पूर्ववर्तिनी यस्य तत् नियतदिग्देशपूर्वकम् । तत्त्वाभावात् । शरीरोत्यत्तेरिति शेषः । प्राची- प्रभृतयो दश दिशः । तत्र स्वर्गभूपाताललोकादयो देशाः । शरीरेऽपि उदरं वा कों वा मुखं वा ऊरुर्वा पादो वेति देशाः । एतेषु दिग्देशेषु अत्रैव शरीरमुत्पद्यते नान्योति नियमो नास्ति । अस्मिन् लोके शरीरगर्भात् शरीरमुत्पद्यत इति पश्यामः । इदं दर्शनं शरीरगर्भात् शरीरमुत्पद्यत इत्यत्र प्रमाणम् । न त्वन्यत्र नोत्पद्यत इत्यत्र । गोमयाद्धृश्चिकादिशरीरस्य, तण्डुलादिभ्यः क्रिमिशरीरस्य च उत्पत्तिदर्शनात् । न च मनुष्यशरीरमन्यत्र नोत्पद्यत इति नियमः । अस्माकमिदानीमदर्शनमात्रेण तथा नियमासिद्धेः । न च तत्रानुमानमागमो वा प्रमाणमस्ति । इत्थमयोनिजपुरुषशरीरसत्त्वे बाधकप्रमाणं नास्तीत्युक्तम् । अथ साधक प्रमारणान्याह- १७६. धर्मविशेषाच्च ॥ ७ ॥ सर्वफलसाधनं हि धर्मः। गर्भवासं विनव शरीरपरिग्रहानुकूलो धर्मों यदि कस्यचित् भवति तसा तथा तत्प्राप्तौ को विधातः। श्रूयन्ते च तथा शरीरभाजः सीताद्रौपदीसरोमुनिप्रभृतयः॥ १८०. समाख्याभावाच्च ॥८॥ पद्मभवः, ऊरूद्भवा, हिरण्यगर्माङ्गभूः इत्यादि समाख्यासत्त्वाच्च । अन्वर्था हि इमाः समाख्याः न साङ्केतिक्यः केवलम् । १८१. संज्ञाया प्रादित्वात ॥६॥ प्रलयावसाने तस्मिन् तस्मिन् पदार्थे उत्पन्ने अस्य इयं संज्ञा, अनेन शब्देन अयमर्थोऽभिधेयः, इति संज्ञा कैश्चित् कृता । तत्र यः प्रथमः पुरुष उत्पन्नः तस्य पुरुष इति संज्ञां, या प्रथमा स्त्री उत्पन्ना तस्याः स्त्रीति संज्ञां तेन तस्यां यो जातः तस्य पुत्र इति संज्ञां च ये अकुर्वन् तेषां यानि शरीराणि तानि पुरुषादिसंज्ञायाः पुरुषादि- संज्ञापेक्षया आदित्वात् पूर्वमावित्वात् अयोनिजान्येव भवन्ति । उक्त विविधसंज्ञायाः पञ्चमाध्याये प्रयममाह्निसम् गुरुत्वात् कथं पतनमेव, न क्रियान्तरमित्यत्राह- १६१. नोदनविशेषाभावानोवं न तिर्यग्गमनम् ॥ ८॥ गुरुत्वं पतनमात्रे हेतुः । उद्गमने वा तिर्यग्गमने वा तदनुरूपं नोदनमपि कारणम् । एतदभावे सति केवलं पतनमिति । १९२. प्रयत्नविशेषान्नोदनविशेषः ॥४॥ नोदनविशेषस्य कारणमत्रोच्यते । वस्त्वन्तरसमवेतक्रियाहेतुभूतसंयोगसमाना- धिकरणं कर्म नोदनम् । ऊर्ध्वगमनप्रयोजकत्वं तिर्यग्गमनप्रयोजकत्वं वा तस्य विशेषः । अयं प्रयत्नविशेषाद् भवति । रुवं नुग्दामीतीच्छाजनितः प्रयलःऊर्ध्वनोदनस्य कारणम् । ततो विलक्षण: तिर्यङ्नुदामीतीच्छाजनितः प्रयत्नः तिर्यङ् नोदनस्य कारणम् । १९३. नोक्नविशेषादुइसनविशेषः ।। १० ॥ नोदनविशेषस्य कार्यमत्रोच्यते । ऊर्ध्वनोदनरूपो यो नोदनविशेषः तस्मात् कारणात् नुद्यमानस्य वस्तुनः स्वोदसनं स्वोत्क्षेपणं नाम क्रियाविशेषो भवति । एतेन तिर्यङ्नोदनरूपो यो नोदन विशेषः तेन नुद्यमानस्य वस्तुनः तिर्यगामनरूपः क्रियाविशेषो भवतीत्यप्युक्त वेदितव्यम् । अत्र “नोदनविशेषादुद्गमनम्" इत्येवं सूत्रपाठेन भवितं युक्तम् । १९४. हस्तकर्मणा दारककर्म व्याख्यातम् ॥ ११ ॥ द्विविधं हस्तकर्म पूर्वमुक्त-पात्मसंयोगप्रयत्नाभ्यां जायमानं, अभिधातवता मुसलेन संयोगाज्जायमानं चेति । तेन दारककर्म शिशुकर्म व्याख्यातं निरूपितं भवति । स्वात्मसंयोगप्रयत्नाभ्यां तस्य कदाचित् कर्म भवति । यदा स्वयमेव पाणिपादं विक्षिपति । कदाचित् परसंयोगाधीनम् । यदा माता हस्तावालम्ब्य तं सञ्चारयति । शरीरे अन्यत्र च प्रयत्नाधीनं तदनधीनं च कर्म निरूप्य तदिदानी उदाहरणा- न्तरेण स्मारयामास । अथ यदर्थमिदं स्मारणं तदाह- १६५. तथा दग्धस्य विस्फोटने ॥१२॥ अग्निना दग्धस्य वेणोः यद् विस्फोटनं सशब्दं विदलनं तत्र कारणं तथा हस्त- दारककर्मवद् द्रष्टव्यम् । सामान्यतः हस्तदारककार्यवदित्युक्तावपि योग्यतावशात् तयोः प्रयत्नानधीनं यत् कर्म तद्वदिति ज्ञेयम् । अभिघातवन्मुसलसंयोगो हस्तकमणीव, क्रिया- वन्मातृहस्तसंयोगो दारककर्मणीव च वह्निसंयोगो दह्यमानवेणविदलने कारणम् । मत इदं प्रयत्नानधीनं कर्म ।

वैशेषिकसूत्रबृती १६६. यत्नाभावे प्रसुप्तस्य चलनम, ॥ १३ ॥ तथेत्यनुषग्य तादृशमित्यर्थों वाच्यः । पुरुषप्रयत्नाभावे सति सुषुप्तस्य पुरुषस्य चलनं यद् भवति तद् दावानलदह्यमानवेणु विस्फोटनवत् प्रयत्नेतरकारणकं द्रष्टव्य- मित्यर्थः । जाग्रहशायां प्रयत्नानधीनं शारीरं कर्म पूर्वमुक्तम् । अथ स्वापावस्थाया- मुच्यते। आहारपरिणामप्रयुक्ततेजोवायुसंयोगविशेषाधीन मिदं चलनमिति भावः । १६७. तृणे कर्म वायुसंयोगात् ॥ १४ ।। सर्वथा पुरुषसंयोगरहिते, मार्ग प्ररूढे तृणे यच्चलनं तद् वायुसंयोगादिति असन्दिग्धमेतत् । तद्वदेव प्रसुप्तचलनमपि पुरुषप्रयत्नेतरकिञ्चित्कारणकम् । १९८. मणिामनं सूच्यभिसर्पमित्वदृष्ट कारणकम् ॥ १५ ।। स्तेन निर्धारणार्थं विसृष्टो मरिणः यत् स्तेनमभिगच्छति, सूची यत् अयस्का- न्तमभिसर्पति, यच्च एतादृशमन्यत् कर्म तत् सर्व अदृष्ट कारणकम् । न दृष्टं प्रत्यक्षेरण वानुमानेन वाजवगतं कारणं यस्य तत् । अस्ति कारणम् । तत्तु इदमिति विशिष्य वक्त न शक्यत इति भावः । एतेन दृष्टकारणादृष्टकारणभेदात् कर्म द्विविधा- त्यपि विभागवदिति ज्ञापितम् । १६६. इषावयुगप्रत्संयोगविशेषाः कर्मान्यत्वे हेतुः॥ १६ ॥ धनुषि सन्धाय मुक्त इषौ यावल्लक्ष्यप्राप्ति एकमेब कर्मेति न मन्तव्यम् । भिन्नभिन्नमनेकं कर्म तत्र भवति । कोऽत्र हेतुः । कि तब लिङ्गम् । किं प्रमाणमिति यावत् । अयुगपत्संयोगविशेषः । संयोगानां विशेषाः भिन्नभिन्ना व्यक्तयः । ते च अयुगपत् न एककालभाविनः अपितु क्रमभाविनः । प्रथम दिग्विशेषावच्छिन्नाकाशसंयोगो जायते । तेन तज्जनकं कर्म नश्यति । अनन्तरं अन्यः संयोगोऽपरदिग्विशेषावच्छिन्नाकाशेन । तेन तज्जनकं कर्म नश्यति । एवमुत्तरोत्तरसंयोगनाश्यत्वात् तत्तज्जनकस्य कर्मणः न एक कर्म प्रान्तमनुवर्तते । अपितु यावन्तः संयोगाः तज्जनकानि तन्नाश्यानि च कर्माणि तावन्ति भवन्तीत्यर्थः । २००. नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरं च ।। १७ ॥ यदि प्रथममुत्पन्नं कर्म तज्जन्यसंयोगानश्यति तहि अनन्तरं कुतो जायत इत्य- त्राह । नोदनादाद्यमिषोः कर्मेति ज्ञातमेतत् । तेन प्राद्यन कर्मणा उत्तरदेशसंयोगवत् वेगाख्यः संस्कारोऽपि कार्यते उत्पाद्यते । तस्माच्च संस्कारात् उत्तरं द्वितीयं कर्म जायते । तथा तेनैव प्रकारेण उत्तरमुनरं च सर्व कर्म जायत इति कर्मानेकत्वमुपपन्नम ।

पञ्चमाध्याये प्रयममाह्निकम् वेगे सति कर्म भवतीति वेगस्य गमनात्यकर्म प्रति कारणत्वेऽन्वय उक्तः । अथ व्यतिरेकमाह- २.१. संस्कारामावे गुरुत्वात्पतनम् ॥१८॥ लक्ष्याभिधातेन वा नोदनमान्यन वेगस्य मध्य एव शान्ती वा उपरि गमनं न भवति । किन्तु पूर्वोक्तरीत्या गुरुत्वहेतुकं पतनमेव । अतो वेगः उत्तरोत्तरगमनं प्रति कारणमिति। इति वैशेषिकसूत्रवृत्तौ सुगमायां पञ्चमाध्याये प्रथममाह्निकम् upad वैशेषिकसूत्रबृती १६६. यत्नाभावे प्रसुप्तस्य चलनम, ॥ १३ ॥ तथेत्यनुषग्य तादृशमित्यर्थों वाच्यः । पुरुषप्रयत्नाभावे सति सुषुप्तस्य पुरुषस्य चलनं यद् भवति तद् दावानलदह्यमानवेणु विस्फोटनवत् प्रयत्नेतरकारणकं द्रष्टव्य- मित्यर्थः । जाग्रहशायां प्रयत्नानधीनं शारीरं कर्म पूर्वमुक्तम् । अथ स्वापावस्थाया- मुच्यते। आहारपरिणामप्रयुक्ततेजोवायुसंयोगविशेषाधीन मिदं चलनमिति भावः । १६७. तृणे कर्म वायुसंयोगात् ॥ १४ ।। सर्वथा पुरुषसंयोगरहिते, मार्ग प्ररूढे तृणे यच्चलनं तद् वायुसंयोगादिति असन्दिग्धमेतत् । तद्वदेव प्रसुप्तचलनमपि पुरुषप्रयत्नेतरकिञ्चित्कारणकम् । १९८. मणिामनं सूच्यभिसर्पमित्वदृष्ट कारणकम् ॥ १५ ।। स्तेन निर्धारणार्थं विसृष्टो मरिणः यत् स्तेनमभिगच्छति, सूची यत् अयस्का- न्तमभिसर्पति, यच्च एतादृशमन्यत् कर्म तत् सर्व अदृष्ट कारणकम् । न दृष्टं प्रत्यक्षेरण वानुमानेन वाजवगतं कारणं यस्य तत् । अस्ति कारणम् । तत्तु इदमिति विशिष्य वक्त न शक्यत इति भावः । एतेन दृष्टकारणादृष्टकारणभेदात् कर्म द्विविधा- त्यपि विभागवदिति ज्ञापितम् । १६६. इषावयुगप्रत्संयोगविशेषाः कर्मान्यत्वे हेतुः॥ १६ ॥ धनुषि सन्धाय मुक्त इषौ यावल्लक्ष्यप्राप्ति एकमेब कर्मेति न मन्तव्यम् । भिन्नभिन्नमनेकं कर्म तत्र भवति । कोऽत्र हेतुः । कि तब लिङ्गम् । किं प्रमाणमिति यावत् । अयुगपत्संयोगविशेषः । संयोगानां विशेषाः भिन्नभिन्ना व्यक्तयः । ते च अयुगपत् न एककालभाविनः अपितु क्रमभाविनः । प्रथम दिग्विशेषावच्छिन्नाकाशसंयोगो जायते । तेन तज्जनकं कर्म नश्यति । अनन्तरं अन्यः संयोगोऽपरदिग्विशेषावच्छिन्नाकाशेन । तेन तज्जनकं कर्म नश्यति । एवमुत्तरोत्तरसंयोगनाश्यत्वात् तत्तज्जनकस्य कर्मणः न एक कर्म प्रान्तमनुवर्तते । अपितु यावन्तः संयोगाः तज्जनकानि तन्नाश्यानि च कर्माणि तावन्ति भवन्तीत्यर्थः । २००. नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरं च ।। १७ ॥ यदि प्रथममुत्पन्नं कर्म तज्जन्यसंयोगानश्यति तहि अनन्तरं कुतो जायत इत्य- त्राह । नोदनादाद्यमिषोः कर्मेति ज्ञातमेतत् । तेन प्राद्यन कर्मणा उत्तरदेशसंयोगवत् वेगाख्यः संस्कारोऽपि कार्यते उत्पाद्यते । तस्माच्च संस्कारात् उत्तरं द्वितीयं कर्म जायते । तथा तेनैव प्रकारेण उत्तरमुनरं च सर्व कर्म जायत इति कर्मानेकत्वमुपपन्नम ।

पञ्चमाध्याये द्विनीयमाह्निकम् ७६ २०७. नोदनापीडनात, संयुक्तसंयोगाच्च ॥ ६ ॥ अपामारोहणमित्यनुषज्यते । नोदनापीडनादिति समाहारः । श्रोत्रियाणामध्य- जलं यध्वं गच्छति तन्नोदनात् । शिलातले पतितं तोयं यदुद्गच्छति तदापीडनात् अभिघातात् । गच्छता पुरुषेण शिरसि धृतात् कुम्भात् यदाप उच्चलन्ति तत् संयुक्त- संयोगात् । ६०८. वृक्षाभिसर्पणमित्यदृष्टकारितम् ॥ ७॥ भूमिष्ठा आपः यद् वृक्षमारुह्य सर्वत्र व्याप्नुवन्ति फलानामन्तश्च प्रविश्य तिष्ठन्ति एतदादिकं अपां कर्म अदृष्टकारितम् । प्रापः कुर्वन्ति । अदृष्टं कारणं ताः कारयति । पार्थिवीनामपां कर्मणः कारणमुक्तम् । अथ दिव्यानामुच्यते-- २०६. अपां सङ्घातो विलयनं च तेजःसंयोगात ॥ ८ ॥ सङ्घातः संहननरूपं कर्म । अवयवानां काठिन्यापरपर्याय निविडसंयोगानुकूलो व्यापारः संहननम् । द्रवत्वप्रत्यापत्यनुकूलो व्यापारः विलयनम् । संहता आपः करका भवन्ति । एवं करकावस्थाप्राप्तिः पुनर्द्रवीभावश्च तेजःसंयोगात् । कश्चन तेजःसंयोगः सङ्घातहेतुर्भवति । ततो विलक्षणः कश्चन तेजःसंयोगो विलयनहेतुर्भवति । ननु दिव्यास्वप्सु तेजःसयोगोऽस्तीति कथं ज्ञायत इत्यत्राह- २१०. तत्र विस्फूर्जलिङ्गम ॥६॥ तत्र दिव्यानामपां तेजःसंयोगसत्त्वे विस्फूर्जथुः अशनिपातः लिङ्गप्रमाणम् । अशनिहि तेजोमयः । वृक्षादिदाहात् । सः मेघानिर्गत्य पतन् मेघस्थानां अपां अस्ति तेजःसंयोग इति गमयति । २११. वैदिकं च ॥१०॥ तत्र लिङ्गमित्यनुषज्यते । “चतुष्टय्यो वा आपः । मेघो विद्युत् । स्तनयित्नु- वृष्टिः ।" इति श्रूयते विद्युत् तेज एवेति । ननु मेघेषु विद्युत् प्रत्यक्षदृष्टव । तत्र किं वेदोदाहरणेन । सत्यम् । परन्तु अद्भिः संयोगवत्तया सा न दृश्यते । वेदे तु अस्त्व- कीर्तनात् संयोग मूलोऽयं तेजोद्रव्यस्य अप्त्वव्यपदेश इति गम्यते । अतो युक्त वैदिक लिङ्गमिति । मेघात् अशनिपाते हेतुमाह- २१२. अपां संयोगाद् विभागाच्च स्तनयित्नोः ॥ ११॥ स्तनयित्नोः मेघस्य सम्बन्धिन्यः या आपः तासां मिथः गाढसंयोगात संयुक्ताना विभागाच्च विस्फूर्जथर्भवतीति योजना। -- वैशेषिकसूत्रबृती १६६. यत्नाभावे प्रसुप्तस्य चलनम, ॥ १३ ॥ तथेत्यनुषग्य तादृशमित्यर्थों वाच्यः । पुरुषप्रयत्नाभावे सति सुषुप्तस्य पुरुषस्य चलनं यद् भवति तद् दावानलदह्यमानवेणु विस्फोटनवत् प्रयत्नेतरकारणकं द्रष्टव्य- मित्यर्थः । जाग्रहशायां प्रयत्नानधीनं शारीरं कर्म पूर्वमुक्तम् । अथ स्वापावस्थाया- मुच्यते। आहारपरिणामप्रयुक्ततेजोवायुसंयोगविशेषाधीन मिदं चलनमिति भावः । १६७. तृणे कर्म वायुसंयोगात् ॥ १४ ।। सर्वथा पुरुषसंयोगरहिते, मार्ग प्ररूढे तृणे यच्चलनं तद् वायुसंयोगादिति असन्दिग्धमेतत् । तद्वदेव प्रसुप्तचलनमपि पुरुषप्रयत्नेतरकिञ्चित्कारणकम् । १९८. मणिामनं सूच्यभिसर्पमित्वदृष्ट कारणकम् ॥ १५ ।। स्तेन निर्धारणार्थं विसृष्टो मरिणः यत् स्तेनमभिगच्छति, सूची यत् अयस्का- न्तमभिसर्पति, यच्च एतादृशमन्यत् कर्म तत् सर्व अदृष्ट कारणकम् । न दृष्टं प्रत्यक्षेरण वानुमानेन वाजवगतं कारणं यस्य तत् । अस्ति कारणम् । तत्तु इदमिति विशिष्य वक्त न शक्यत इति भावः । एतेन दृष्टकारणादृष्टकारणभेदात् कर्म द्विविधा- त्यपि विभागवदिति ज्ञापितम् । १६६. इषावयुगप्रत्संयोगविशेषाः कर्मान्यत्वे हेतुः॥ १६ ॥ धनुषि सन्धाय मुक्त इषौ यावल्लक्ष्यप्राप्ति एकमेब कर्मेति न मन्तव्यम् । भिन्नभिन्नमनेकं कर्म तत्र भवति । कोऽत्र हेतुः । कि तब लिङ्गम् । किं प्रमाणमिति यावत् । अयुगपत्संयोगविशेषः । संयोगानां विशेषाः भिन्नभिन्ना व्यक्तयः । ते च अयुगपत् न एककालभाविनः अपितु क्रमभाविनः । प्रथम दिग्विशेषावच्छिन्नाकाशसंयोगो जायते । तेन तज्जनकं कर्म नश्यति । अनन्तरं अन्यः संयोगोऽपरदिग्विशेषावच्छिन्नाकाशेन । तेन तज्जनकं कर्म नश्यति । एवमुत्तरोत्तरसंयोगनाश्यत्वात् तत्तज्जनकस्य कर्मणः न एक कर्म प्रान्तमनुवर्तते । अपितु यावन्तः संयोगाः तज्जनकानि तन्नाश्यानि च कर्माणि तावन्ति भवन्तीत्यर्थः । २००. नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरं च ।। १७ ॥ यदि प्रथममुत्पन्नं कर्म तज्जन्यसंयोगानश्यति तहि अनन्तरं कुतो जायत इत्य- त्राह । नोदनादाद्यमिषोः कर्मेति ज्ञातमेतत् । तेन प्राद्यन कर्मणा उत्तरदेशसंयोगवत् वेगाख्यः संस्कारोऽपि कार्यते उत्पाद्यते । तस्माच्च संस्कारात् उत्तरं द्वितीयं कर्म जायते । तथा तेनैव प्रकारेण उत्तरमुनरं च सर्व कर्म जायत इति कर्मानेकत्वमुपपन्नम ।

। पञ्चमाध्याये द्वितीयमाह्निकम् सति तेन हेतुना आत्मसंयुक्तं मनः त्वगिन्द्रियेण संयुज्य वेधज्ञानं जनयति । तेन दुःखम् । सर्व सुखदुःखं च मनःकर्माधीनम् । २१७. तदनारम्भ आत्मस्थे मनसि शरीरस्य दुःखाभावः। स योगः ॥१६॥ तस्य सुखदुःखहेतुभूतस्य सन्निकर्षस्य अनारम्भे अनुत्पादने सति । कथं तद- नुवादनमित्यत्राह-प्रान्मस्थे मनसीति । अम्यामवशीकृते मनमि अत्मचिन्तामात्रपरे सतीत्यर्थः । आत्मनि तिष्ठतीति आत्मस्थम् । तस्मिन् । स्थितिश्च तदेकचिन्तनम् । अभ्यासपाटवेन मनसि आत्मनिष्ठे सति विषयान्तरेभ्यो विमुखं तत् तत्मन्निकर्षहेतुभूत- कर्मरहितं भवति । अतो न सन्निकर्षोत्पादन मिति भावः । शरीरस्य दुःखाभावः शरीर- सम्बन्धि तत्प्रयुक्त यद् दुःखं तस्यामावो भवति । यद्यपि दुःखाभाव इत्येवालम् । तथापि शरीरसम्बन्धप्रयुक्तमेवात्मनः सर्व दुःख मिति ज्ञापनाय शरीरस्य दुःखाभाव इत्युक्तिः । “सशरीरस्य दुःखाभावः' इति पाठः किमस्तीति युक्तमन्वेष्टुम् । शरीरे सत्यपि दुःखाभाव इति तदर्थः । स योग: । सः दुःखहेतुभूतार्थसन्निकरिम्भक- कर्मरहितस्य मनसः आत्मनि स्थितिः योग: योगशव्दाभिधेयो मोक्षोपाय इत्यर्थः। आत्मनि स्थितिः तत्स्मृतिसन्ततिः। पूर्वसूत्रे सुखदुःस्त्रयोरुभयोरुपादानात् इहापि उभ- योरभावो वक्त मुचितः । तथाऽपि प्राज्ञः वैषयिकस्य सुखस्य अल्पत्वास्थिरत्वादिहेतुभिः दुःखकोटौ परिगणनात् दुःखाभाव इति उभयाभाव एवाभिप्रेत इति ज्ञेयम् । सुखदुःखा- भाव इति स्पष्टानभिधानं तु आत्मचिन्ताजन्यस्य सुखस्य तदानीं विद्यमानत्वेन सामान्यतः सुखाभावानिधानं न घटत इत्यभिप्रायेण । एवं मनसा साक्ष्यो मोक्षोपाय उक्तः । अथ मोक्षं निरूपयितुकामः यस्मान्मोक्षो विवक्षितः तस्य ब-धस्य स्वरूपं प्रतिपादयिष्यन् तदुपयोगितया किञ्चिदाह - २१८. कायकर्मणा आत्मकर्म व्याख्यातम ॥ १७ ॥ आत्मा विभुः । तस्य कर्म नास्ति । तथापि कायस्य यत् कर्म तदेव प्रात्म- कर्मतया उपचर्यते व्यवहारसौकर्याय । तत्रानुपपत्तिर्न शङ्कनीया। व्यवहारस्य औप- चारिकत्वात् । कायकर्मणा ज्ञातेन प्रात्मकपि ज्ञातं भवति । अव्यतिरिक्तत्वादिति सूत्रार्थः । अथ बन्धस्वरूपं सकारणमाह- २१६. अपसर्पणमुपसर्पणमशितपीतसंयोगाः कार्यान्तरसंयोगाश्चा- दृष्टकारितानि !! १८॥ - वैशेषिकसूत्रबृती १६६. यत्नाभावे प्रसुप्तस्य चलनम, ॥ १३ ॥ तथेत्यनुषग्य तादृशमित्यर्थों वाच्यः । पुरुषप्रयत्नाभावे सति सुषुप्तस्य पुरुषस्य चलनं यद् भवति तद् दावानलदह्यमानवेणु विस्फोटनवत् प्रयत्नेतरकारणकं द्रष्टव्य- मित्यर्थः । जाग्रहशायां प्रयत्नानधीनं शारीरं कर्म पूर्वमुक्तम् । अथ स्वापावस्थाया- मुच्यते। आहारपरिणामप्रयुक्ततेजोवायुसंयोगविशेषाधीन मिदं चलनमिति भावः । १६७. तृणे कर्म वायुसंयोगात् ॥ १४ ।। सर्वथा पुरुषसंयोगरहिते, मार्ग प्ररूढे तृणे यच्चलनं तद् वायुसंयोगादिति असन्दिग्धमेतत् । तद्वदेव प्रसुप्तचलनमपि पुरुषप्रयत्नेतरकिञ्चित्कारणकम् । १९८. मणिामनं सूच्यभिसर्पमित्वदृष्ट कारणकम् ॥ १५ ।। स्तेन निर्धारणार्थं विसृष्टो मरिणः यत् स्तेनमभिगच्छति, सूची यत् अयस्का- न्तमभिसर्पति, यच्च एतादृशमन्यत् कर्म तत् सर्व अदृष्ट कारणकम् । न दृष्टं प्रत्यक्षेरण वानुमानेन वाजवगतं कारणं यस्य तत् । अस्ति कारणम् । तत्तु इदमिति विशिष्य वक्त न शक्यत इति भावः । एतेन दृष्टकारणादृष्टकारणभेदात् कर्म द्विविधा- त्यपि विभागवदिति ज्ञापितम् । १६६. इषावयुगप्रत्संयोगविशेषाः कर्मान्यत्वे हेतुः॥ १६ ॥ धनुषि सन्धाय मुक्त इषौ यावल्लक्ष्यप्राप्ति एकमेब कर्मेति न मन्तव्यम् । भिन्नभिन्नमनेकं कर्म तत्र भवति । कोऽत्र हेतुः । कि तब लिङ्गम् । किं प्रमाणमिति यावत् । अयुगपत्संयोगविशेषः । संयोगानां विशेषाः भिन्नभिन्ना व्यक्तयः । ते च अयुगपत् न एककालभाविनः अपितु क्रमभाविनः । प्रथम दिग्विशेषावच्छिन्नाकाशसंयोगो जायते । तेन तज्जनकं कर्म नश्यति । अनन्तरं अन्यः संयोगोऽपरदिग्विशेषावच्छिन्नाकाशेन । तेन तज्जनकं कर्म नश्यति । एवमुत्तरोत्तरसंयोगनाश्यत्वात् तत्तज्जनकस्य कर्मणः न एक कर्म प्रान्तमनुवर्तते । अपितु यावन्तः संयोगाः तज्जनकानि तन्नाश्यानि च कर्माणि तावन्ति भवन्तीत्यर्थः । २००. नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरं च ।। १७ ॥ यदि प्रथममुत्पन्नं कर्म तज्जन्यसंयोगानश्यति तहि अनन्तरं कुतो जायत इत्य- त्राह । नोदनादाद्यमिषोः कर्मेति ज्ञातमेतत् । तेन प्राद्यन कर्मणा उत्तरदेशसंयोगवत् वेगाख्यः संस्कारोऽपि कार्यते उत्पाद्यते । तस्माच्च संस्कारात् उत्तरं द्वितीयं कर्म जायते । तथा तेनैव प्रकारेण उत्तरमुनरं च सर्व कर्म जायत इति कर्मानेकत्वमुपपन्नम ।

-
अथ पञ्चमाध्याये
प्रथममाह्निकम्
भोक्ता आत्मा निरूपितः । द्रव्यानन्तरं निर्दिष्टेषु गुणेषु भोग्यतया प्रधान-
भूता रूपादयो विशेषगुणा अपि वहुधा निरूपिताः। अथ गुणान्तरनिरूपणं पश्चात्
करिष्यन् भोक्त भॊगहेतुभूतं कर्म निरूपयितुमारभते । तत्र प्रथमं शरीरगतं कर्म कारणतो
निरूपयति-
१८४. आत्मसंयोगप्रयत्नाम्या हस्ते कमे॥१॥
हस्ते यत् कर्म जायते तस्य द्वे कारण। एक आत्मसंयोगः । य आत्मा
तच्छरीरमधितिष्ठति तेन संयोगः हस्तस्य । तस्य आत्मनः हस्तेन संयोग इति वा।
शरीरे जायमानस्य सर्वस्य कर्मणः इदं साधारणं कारणम् । मृतशरीरे कर्मणोऽभावात् ।
हस्ते यत् कर्म तत्र तदनुकूलः प्रयत्नः असाधारणकारणम् । प्रयत्नः प्रात्मन एव गुण
इति तस्यात्मवृत्तित्वं स्वयं लम्यते । मुसलं पश्यति । तत्कर्मकादान क्रिया हस्ते जायता-
मिति इच्छति । तद्विषयः प्रयत्नो जायते । ततो हस्ते क्रिया भवति । ईदृशो यत्नो
यदि न जायते तहि इयं क्रिया नैव हस्ते जायेतेति द्वितीयमिदं कारणम् ।
१८५. तथा हस्तसंयोगाच्च मुसले कर्म ॥२॥
तथेति हस्तस्य विशेषणम् । तादृशेत्यर्थः । आत्मसंयोगप्रयत्नाभ्यां कर्मवत्त्वाह-
दशापन्नो यो हस्तः तत्संयोगादित्यर्थः । हस्तेन मुसलं गृहीत्वा उत्क्षिपति अवक्षिपति च ।
उत्क्षेपणावक्षेपणात्मिके क्रिये हस्ते, उद्गमनाघोगमनात्मिके क्रिये मुसले च जायते ।
तत्र हस्तक्रिययोः कारणमुक्तम् । मुसलक्रिययोः कारणं विशिष्टहस्तसंयोगः । आत्म-
संयोगप्रग्यस्नयोः हस्तसंयोगद्वारंव मुसलक्रियाहेतुत्वात् तावत्र अन्यथासिद्धौ। हस्ते कर्म
मुसले च कर्मेति चकारयोजना ।
१८६. अभिधातजे मुसलादौ कर्मणि व्यतिरेकादकारणं हस्त-
संयोगः ॥३॥

वैशेषिकसूत्रवृत्ती क्रियारहिता गुणाः यथा कारणं भवन्ति तथव दिगपि क्रियारहितव परत्वा- परत्वे प्रति कारणं भवतीति ज्ञयमिति भावः । २२८. कारणेन कालः ।। २७॥ व्याख्यात इति विपरिणतमनुषज्यते । क्रियारहित एव कारणमिति ज्ञापित इति तदर्थः । कारणेन "नित्येष्वभावादनित्येषु भावात् कारणे कालाख्या" इति कालः कारणमिति वदता सूत्रेणेत्यर्थः। वसन्ते पुष्पाणि, ग्रीष्मे तापः, वर्षास वष्टिः इत्यबाधितप्रतीतिबलात् काल: कारणमित्युक्तम् । तत्र क्रियानिरपेक्षस्य स्वरूपसत एव हि कालस्य कारणत्वं विवक्षि- तम् । अतः निष्क्रिय एव कालः कारणमिति स्थितम् । दिक्कालयोः स्वातिरिक्ततत्तद्रव्यगतपरत्वापरत्वकारणं निष्क्रिययोः कथं भवतीति स्वरसतः शङ्का भवतीति कृत्वा निष्क्रिययोरेव तयोः कारणत्वं सम्भवती. त्युक्तम् । आकाशस्य "दिक्कालावकाशं व क्रियावद्वैधानिष्क्रियाणि" इति निष्क्रि- यत्वेनोक्तस्य द्रव्यान्तरगतक्रियाधीनसंयोगविभागशब्दकारणकशब्दसमवायित्वेनानु- मीयमानस्य “निक्रियस्य तस्य कथं शब्दाश्रयत्वम्” इति शङ्का नैवोदेतीति नास्याः परिहारं करोति सूत्रकारः। इमं विशेषमभिप्रेत्यैव "दिक्कालाकाशानि" इति समासम- कृत्वा "आकाशं च" इति पृथङ् निर्देश इति विभाव्यम् । इति वैशेषिकसूत्रवृत्तौ सुगमायां पञ्चमाध्याये द्वितीयमाह्निकम्

-
अथ षष्ठाध्याये
प्रथममाह्निकम्
लौकिकक्रियारूपं कर्म निरूपितम् । अथ वैदिकक्रियारूपं तनिरूप्यते । तत्र
वेदप्रामाण्य सिद्धये तत्कर्तुराप्तत्वं वक्ष्यन् प्रथमं तस्य कर्तृ मत्त्वं सावयति-
२२६: बुद्धिपूर्वा वाक्यकृति वंदं ।। १ ॥
लौंकिकस्य अस्मदादिप्रत्यक्षस्य एतन्मूलकस्यानुमानस्य च अगोचरो योऽर्थः
तद्वोधकः ऋग्यजुःसामाथर्वभेदेन विभज्यमानः शब्दराशिर्वेदः। तत्र यानि वाक्यानि
सन्ति तानि सर्वाणि केनचित् कैनिद्वा कर्तृभिः कृतानीति वक्तव्यम् । रामायणमहा-
भारतादिवाक्यवत् । न हि वक्तारं पुरुषं विना लोके किञ्चन वाक्यं दृश्यते । अशरी-
रिणी वागस्तीति चेत् सत्यम् । न तु अवक्तृका वागस्ति । तत्रापि अदृश्यस्य वक्त र-
वश्यम्भावात् । वाक्यानां कर्ता च सः, यः तदर्थवोधवान् । पाहुर्हि अर्थ बुवा शब्दरच-
नेति । अनेन वाक्यरचनां प्रति वक स्तद्वाक्यार्थबोधः कारणमित्युक्तं भवति । अनया
व्याप्त्या वेदवाक्यरचनाऽपि तदर्थबोधपूर्विकेति सिद्धयति । इदमुच्यते-'बुद्धिपूर्वा
वाक्यकृतिर्वेदे' इति । बुद्धिोध , स च वाक्यार्थविषय इत्याल्लभ्यते । न च
बुद्धिर्बोद्धारं विनेति कर्तृ सिद्धिः ।
एवमनुमानात् सिद्धस्य वेदकर्तुराप्तत्वं साधयति-
२३०. ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम् ॥२॥
मन्त्री ब्राह्मणमिति वेदस्य द्वौ भागौ। तत्र ब्राह्मणभागे अलौकिकानां कर्मणां
अन्येषां च स्वर्गनरकादिरूपाणां अर्थानां संज्ञाः दृश्यन्ते ! संज्ञाश्च "प्रत्यक्षप्रवृत्तत्वात्
संज्ञाकमणः" इति पूर्वोत्तरीत्या तदर्थसाक्षात्कारसमर्थ रेव कृता भवितुमर्हन्ति । अतः
ब्राह्मणे दृश्यमाना याः अलौकिकानामर्थांनां संज्ञाः तासां कर्म क्रिया, तत्कर्तृणां,
तत्करणपूर्वकं ता उपयुज्य वेदवाक्यानि रचितवतां पुरुषाणां, सिद्धौ अतीन्द्रियार्थसाक्षा-
स्कारसामर्थ्य, लिङ्गप्रमाणं भवति । तथा च अनेन लिङ्गन अवगतशक्तिविशेषाणां
वेदकर्तृणां वेदवाक्यरचनहेतुभूतं ज्ञानं प्रमात्मकमेवेति तेषां यथार्थदर्शित्वरूप प्राप्तत्वं
निश्चीयते। अतस्तत्कृतस्य वेदस्य प्रामाण्यं निविघातमिति भावः ।
एवं वेदप्रामाण्यं प्रसाध्य अथाद्य तत्प्रमेयं धर्ममाह-
२३१. बुद्धिपूर्वो ददातिः॥३॥

M . वैशेषिकसूत्रवृत्ती दानार्थकधातुवाची ददातिशब्दः अत्र दद्यादिति दानविधिमाह । सः बुद्धि- पूर्वः, "दाने कृते इदं फलं भवति । अतः एतत्फलकामैः दान कर्तव्यम् । तच्च एवं कर्तव्यम् ।" इति बुद्धिपूर्वकः । अनया बुद्धया वेदकर्ता दानविधि वेदे निबद्धवानित्यर्थः । एवं विहितं दानं "अभ्युदयसाधनतया" वेदेन बोधितत्वात् “यतोऽभ्युदयनिःश्रेयस- सिद्धिः स धर्मः' इत्युक्तलक्षणाक्रान्तं भवतीति धर्मपदवाच्यं भवति । अध्ययनं इज्या दानमिति धर्म स्त्रिविधः । वेदबोधितः । तत्र अध्ययनं वेदग्रह- णधारणार्यतया दृष्टफलमिति स्पष्टम् । कालान्तरानुभाव्यस्वर्गादिफला इज्या अदृष्ट- फलेत्यपि स्पष्टम् । अतो धर्मानुष्ठानप्रथमसाधनशरीरधारणोपयुक्तदानप्रतिग्रह- विषये किञ्चित् वक्त कामः प्रथमं दानस्य धर्मत्वं अत्राब्रवीदिति ज्ञयम् । २३२. तथा प्रतिग्रहः ॥४॥ परेण दीयमानस्य स्वीकरणं प्रतिग्रहः, सोऽपि तथा बुद्धिपूर्वः । प्रतिग्रहः कदा कस्मात् कथं कर्तव्य इति बोधपूर्वकं निबद्ध इति भावः । यथाविधि क्रियमाणः प्रति- ग्रहो धर्मो भवति । अन्यथा नेत्युक्त भवति । दानेऽप्येतदनुसन्धेयम् । २३३. प्रात्मान्तरगुणानामात्मान्तरगुणेष्वहेतुत्वात ॥५॥ प्रतिग्रहं विना दानस्यानिष्पत्त्या दानान्तर्भूत एव प्रतिग्रहः । तत् कथमस्य दानापेक्षया पृथक् धर्मत्वमिति शङ्कापरिहारार्थमिदं सूत्रम् । सत्यं दानं केनचित् क्रिय- माणं परेण क्रियमाणं प्रतिग्रहमपेक्षते । न तु तावता दानांशः प्रतिग्रहः । दानं हि नाम वस्तुनि स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वापादनम् । अस्मा इदं न मम, इति ज्ञानवि- शेषः। अयं दातृनिष्ठः। तन्निष्ठफलजनकः । दात्रा स्वस्वत्व निवर्तनपूर्वकं आपा- द्यमानस्य परस्वत्वस्य "इदं वस्तु मदीयं भवतु" इति परेण क्रियमाणा अनुमतिः प्रतिग्रहः । अयमपि ज्ञानविशेषात्मा। परनिष्ठः तनिष्ठफलहेतुः । एवं दानभिन्नस्य दातृभिन्ननिष्ठगुणरूपस्य प्र-िग्रहस्य दातृनिष्ठफल विशेषात्मकगुणहेतुत्वाभावात् प्रतिग्रहीतृनिष्ठफलजनकत्वाच्च दानात् पृथाधर्मत्वमवश्यं वाच मिति भावः । सूत्रे प्रथमः आत्मान्तरशब्दः प्रतिग्रहीतृपरः । द्वितीयः दातृपरः । आत्मान्तरगतं ज्ञातं इच्छा अदृष्टं वा प्रात्मान्तरगताया इच्छायाः प्रवृत्तेः सुखादेर्वा हेतुर्न भवति । तथा प्रकृतेऽपीति दृष्टान्तज्ञापनाय गुणानां गुणेष्विति बहुवचनम् । २३४, तद् दुष्टभोजने न विद्यते ॥६॥ अभ्युदयसाधनतया धर्मभूतस्य दानस्य इतरस्माद् विविच्य बोधाय इतरद् दर्शयति अनेन सूत्रेण । तद् उक्तविधबुद्धिपूर्वकत्वं, दुष्टस्य पुरुषस्य भोजने, णिज- न्तात् ल्युटि इदं रूपम् । आशने इत्यर्थः । दुष्टाय अन्नदाने इत्युक्त भवति । न विद्यते नास्ति । दुष्टाय क्रियमाणं अन्नदानं न धर्मः । अदुष्ट सम्प्रदानकस्यैव दानस्य उक्तविधवेद- ।

पप्ठाध्याय प्रथममाह्निकम् कर्तृ बुद्धिपूर्वक वेन धर्मत्वादिति भावः । अत्र भोजामिति द्रव्यान्तरदानानामप्युग- लक्षणम् । को दुष्ट इत्यत्राह- २३५. दुष्टं हिंसायाम ॥ ७ ॥ हिसायां सत्यां तस्या हिसायाः करि पुरुष दुष्टं विजानीयात् । तराय भोजनं न धर्मः । नाभ्युदया। ननु हिंसारहितः पुरुषो लोके दुर्लभः ! अन्नतः मशकपिपीलिकादिहिंसाया अवर्जनीयत्वात् । अत्राह- २३६. तस्य सममिव्याहारतो दोषः ॥ ८ ॥ हिंसाकारितया दुष्ट इत्यत्र दुष्ट इत्यनेन विवक्षितो यः पुरुषः तस्य समभि- व्याहारतः संसर्गात् दोषः पातित्यं भवति । पातक्रिसंसर्गो हि पातित्यहेतुः । अतः यस्य संसर्गात् इतरस्य पातकं भवति तादृशः ब्रह्महत्यादिकरणात् पातकवान् कापुरुषः दुष्ट इतीहाभिप्रेतः । तस्य भोजनं नाभ्युदयहेतुः । न धर्म इति भावः । २३७. तददुष्टे न विद्यते ।। ।। तत् “तद् दृष्टभोजने न विधते" इत्युक्तमबुद्धिपूर्वकत्वं तन्मूलकं अभ्युदयाहेतु- त्वं वा अदुष्टे उक्तविधदुष्टमिन्ने भोक्तरि सति न विद्यते । तस्य भोजनस्य बुद्धिपूर्व- कत्वं भवतीति भावः । “तददुष्टे विद्यते” इति नब्रहितः पाठः किमस्तीति युक्तमन्वे- षणम् । अदुष्टेन भोक्त्रा तद्विद्यत इति योजनं यद्यपि सङ्गतं तथापि न स्वारसिकम् । दोषाभावमात्रेणापि पुरुषो दानयोग्यो भवतीति सूत्रकार इह विवक्षति । यद्यप्येवं तथापि गुणा अपि यत्र सन्ति स पात्रीकर्तव्य इत्याह- २३८. पुनर्विशिष्टे प्रवृत्तिः ॥ १० ॥ पुनः किन्तु विशिष्टे स्वापेक्षयाऽपि अभिजनविद्यावृत्तादिभिः अधिके, उत्कृष्टे, पुरुषे प्रवृत्तिः दानविषयो यत्नः । कर्तव्येति शेषः । २३६. समे होने वा प्रवृत्तिः ॥ ११ ॥ विशिष्टस्यालाभे, आभिजात्यादिभिः स्वस्य ममे सदृशे, हीने अपकृष्टे वा प्रवृत्तिः कार्या । न तु अदुष्टलाभमात्रेण तृप्तिः कार्या । यथा यथा प्रतिग्रहीता गुणवान् तथा तथा दानस्य वीर्यवत्तरत्वादिति भावः । अत्र प्रवृत्तिरिति अनुषङ्गादेव लामात् पुनः पाठः एतद्ज्ञापनार्थः। २४०. एतेन हीनसमविशिष्टधामि केभ्यः परत्वादानं व्याख्यातम, ॥१२॥ ।

वैशेपिकसूत्रवृत्तो यथा दाने सम्प्रदानगुणेषु विवेकः कर्तव्यः तथा प्रतिग्रहे अपादानयुणेष्वपि विवेकः कार्य इत्याह । एतेन गुणवद्विषयक्रमनिरूपणेन । परस्वानां परकीयद्रव्याणां परैर्दीयमानानां आदानं ग्रहणं प्रतिग्रहः । व्याख्यातं ज्ञापितं भवति । कथम् । हीनसम- विशिष्टधार्मिकेभ्य इति । वृत्तिका प्रतिग्रहो धर्म्यः । तत्र पतितात् प्रतिग्रहो दोष- हेतुः । अदुष्टात् प्रतिग्रहे न कश्चन विशेषः । यदा तु धार्मिकेभ्यः गुणवद्भयः प्रतिग्नहः क्रिपते तदा हीनधार्मिकात् प्रतिग्रहः प्रथमः कल्पः। मन्दधार्मिके हि तस्मिन् तस्य द्रव्यस्य उपयोगः न तथा प्रयोजनवान् यथा ततो विशिष्टे प्रतिग्रहीतरि। असति हीनामिके समधार्मिकात् प्रतिग्नहोऽनुकल्पः । अस्मिन्नप्यसति विशिष्टधार्मिकात् प्रतिग्रहः तस्याप्यनुकल्प इति । प्रतिग्रहे स्पर्धालुप्रसङ्गे कर्तव्यमाह- २४१. तथा विरुद्धानां त्यागः ॥ १३ ॥ विरुद्धानां प्रतिग्रहे प्रतिबन्धमाचरतां दीयमानं द्रव्यं स्वयं लब्धुमिच्छतां, जनानां त्यागः निरासः तथा परस्वादानवत् व्याख्यातः । स्पर्धाप्रसङ्ग त्यागः कर्तव्यः । सोऽपि विवेकेन कर्तव्य इति भावः । विवेक स्वयमेव दर्शयति- २४२. होने परे त्यागः ॥ १४ ॥ परे विरोधिनि हीने स्वस्मादवरे सति तस्य त्यागः निवारणं, कर्तव्यम् । स्वस्मिन् हि दीयमानस्य वस्तुनः उपयोगः प्रयोजनवत्तरो भवेत् ।। २४३. समे आत्मत्यागः परत्यागो वो ॥१५॥ विरोधिनि समे सति आत्मनो वा प्रतिग्रहात् निवर्तनं परस्य वेति विकल्पः । उभयत्र विशेषाभावात् । २४४. विशिष्टे प्रात्मत्याग इति ॥१६॥ विरोधिनि विशिष्टे सति प्रात्मनो निवर्तनम् । स विरोधी प्रतिग्रहीता कर्तव्यः। दीयमानं हि वस्तु तेनोपयुज्यमानं प्रयोजनवत्तरं भवेत् । इतिशब्दः दान प्रतिग्रहप्रकरणावसानबोधकः ॥ इति वैशेषिकसूत्रवृत्तौ सुगमायां पष्ठाऽध्याये प्रथममालिकम् ।

अथ षष्ठाध्याये द्वितीयमाह्निकम् ॥ वैदिककर्मसामान्यं प्रति वक्तव्यं अस्मिन् आदिके उच्यते । २४५. दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय ॥१॥ वैदिकानि कर्माणि द्विविधानि । दृष्टप्रयोजनानि अदृष्टप्रयोजनानि च । दृष्टं प्रत्यक्षावगतं प्रयोजनं नास्ति येषां तान्यदृष्टप्रयोजनानि । अध्ययनं अक्षरराशि- ग्रहणार्थतया दृष्टप्रयोजनम् । नित्याग्निहोत्रादिकं अदृष्टप्रयोजनकम् । अदृष्ट- प्रयोजनानां कर्मणां वेदोपदिष्टानां तत एव हेतोः निष्प्रयोजन त्वं न मन्तव्यम् । प्रमाणभूतवेदोपदिष्टत्वात् तेषां दृष्टप्रयोजनविरहेऽपि अदृष्टं किञ्चित् प्रयोजनम- स्तीति प्रत्येतव्यम् । किं तत् अदृष्टं प्रयोजन मिति चेत् यत् तानि अभ्युदयाय भवन्ति तत्प्रयोजनम् । अभ्युदयः कालान्तरे इह वा परत्र वा अनुभाव्यं सुखम् । दृष्टादृष्ट- प्रयोजनानां दृष्टाभावे प्रयोजनमुच्यते । तानि अभ्युदयाय भवन ति सूत्रयोजना । प्रयोजनं प्रयोगः । अनुष्ठानमिति वा । ननु अदृष्टप्रयोजनानामित्येतावद्वक्तव्यम् । किं दृष्टा दृष्टेत्यधिकेन । उच्यते । दृष्टप्रयोजनेष्वपि पुनः प्रयोजनान्तरापेक्षाऽस्ति । यथा अध्ययनेन किमर्थमक्षरराशिग्रहणम् । पुस्तकपाठेनापि तत्सम्भवात्, इति । तत्राध्ययनेन तद्ग्रहणे अभ्युदयो भवतीति वक्तव्यम् । तदर्थ दृष्टेति । अदृष्टप्रयोजनानि कानिचित् कर्माणि काश्चन नियमांश्च दर्शयति- २४६. अभिषेचनोपवासब्रह्मचर्य गुरुकुलवासवानप्रस्थयज्ञदानप्रोक्षण- दिङ् नक्षत्रमन्त्रकालनियमाश्चादृष्टाय ॥२॥ अभिषेचनं स्नानम् । अस्य मलापकर्षणार्थत्वेऽपि शास्त्रोक्तरीत्या करणं अदृष्टाय प्रयोजनाय । उपवासः शास्त्रचोदितं अनशनम् । ब्रह्मचर्य उपनीतस्य तदर्थविहितव्रत- परिपालनम् । गुरुकुलवासः तत्र वसा त्रियमाणा गुरुशुश्रूषा । नैष्ठिकब्रह्मचर्य वा । वानप्रस्थं कुटुम्ब मरं पुढेष्वपयित्वा वनमागत्य वसतां तदहधर्मपरिपालनम् । यज्ञाः दर्शपूर्णमासज्योतिष्टोमादयः देवेभ्यो द्रव्यत्यागरूपाः । दानं मनुष्येभ्यो द्रव्यत्यागः । प्रोक्षणं जलबिन्दुभिः संस्कारः। एतानि अदृष्टप्रयोजनानि । शरीरसंस्कारः स्नानं प्रथममुक्तम् । ततो भोजनप्रसक्त्या तन्निवृत्तिरूप उपवासः । अथ आश्रमेषु प्रथमं ब्रह्मचर्य तत्सम्बन्धी गुरुकुलवासश्च । गृहादन्यत्र बास- साम्यात् ततः परं वानप्रस्थम् । अथ गृहस्थकर्माणि यज्ञादीनीति निर्देशनमः । यज्ञदाने वैशेषिकसूत्रवृत्ती । wortus प्रधानकर्मणी। प्रोक्षणमङ्गम् । अथ नियमाः दिनियमः । प्राङ्मुख उदङ्मुखो वा उपविश्य आचामेदित्यादिः । नक्षत्रनियमः अस्मिनक्षत्रे इदं कर्म कर्तव्यमिति । यथा पुनर्वस्वोरादधीतेति । मन्त्रनियमः विहितमन्त्रेण स्मृत्वैव तत्तत्कर्म कर्तव्यमिति । कालनियमः सायं जुहोति, प्रातर्जुहोति , पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायां अमावास्यया यजेतेति । अभिषेचनोपवासयोः सन्यासिसाधारणत्वात्, सन्यासिनां गृहस्थादीनां यज्ञादिवत् विशिष्य वक्तव्यकर्मविशेषाभावात् सन्न्यासाश्रमस्य मोक्ष प्रधानतया अदृष्टार्थत्वस्य स्पष्टत्वाच्च तदीयं कर्म किमप्यत्र नोक्तमिति ज्ञेयम् । एवं वैदिकं कर्म दृष्टादृष्टप्रयोजनभेदेन द्वेधा विभज्य दर्शितम् । अथ उपधा- नुपधाभेदेन विमजति, उपधारूपं परित्याज्य मिति ज्ञापनाय- २४७. चातुरात्रभ्यमुपधा अनुपधाश्च ॥ ३ ॥ चतुर्यु ब्रह्मचर्यादिषु आश्रमेषु स्थितानां कर्तव्यतया विहितानि कर्माणि उपधा- रूपाणि अनुपधारूपाणि च भवन्ति । उपधानुपधाशब्दो स्वयमेव व्याचष्टे- २४८. भावदोष उपधाऽदोषोऽनुपधा ॥४॥ उपधाशब्देन भावदोषः प्रवृत्तिलिमित्ततया उच्यते । तदभावः अनुपधाशब्देन । तथा च पूर्वसूत्रे चतुराश्रमसम्बन्धीनि कर्माणि भावदुष्टानि भावदोपरहितानि, इति द्विविधानीति विवक्षितमिति भावः । भावः आशयः, अभिसन्धिः। अश्रद्धया सत्कार- लाभपूजादिहेतोः क्रियमाणानि भावदुष्टानि । श्रद्धया भगवत्प्रीत्थं लोकक्षेमार्थं च क्रियमाणानि भावदोषरहितानि । पूर्वाणि अभ्युदयाय न भवन्ति । तस्मात् तानि न कर्तव्यानीति । यद्यपि अन्तिमाश्रमिणां यज्ञदानादिरूपं कर्म नास्ति ताऽपि भिक्षाचरण- जपादिरूपं किञ्चित् अस्तीति चातुराश्रम्योक्तिः ।। २४६. यदिष्टरूपरसगन्धस्पर्श प्रोक्षितमभ्युक्षितं च तच्छ चि॥ ५ ॥ इष्टाः प्रियाः अनुभाव्याः रूपादयः यस्य तद् वस्तु इष्टरूपरसगन्धस्पर्शम् । यद्वस्तु ईदृशं प्रोक्षितं अम्युक्षितं च तत् शुचि शुद्धम् उपयोगाहमित्यर्थः । इष्टरूपत्वादिः दृष्टा शुद्धिः । प्रोक्षणाभ्युक्षणजन्या अदृष्टा । समन्त्रकं प्रोक्षरणम् । अमन्त्रकं तदेव अभ्युक्षणमिति वदन्ति । भावदोषाभावः शुचिभोजनात् । अशुचिभोजनात्तु भावो दुष्यतीति ज्ञापनाय प्रथमं शुचिलक्षणमस्मिन् सूत्रे ब्रवीतीति ज्ञेयम् । अथ प्रशुचिपदार्थमाह- २५०. अशुचीति शुचिप्रतिषेधः।। ६॥ न शुचि अशुचि । अशुचीत्यनेन यन्न शुचि भवति तदुच्यत इत्यर्थः । यदनिष्ट- रूपादि अप्रोक्षितमनभ्युक्षितं च तत् अशुचीत्युच्यत इति यावत् ।। -- षष्ठाध्याये द्वितीयमाह्निकम् GA- अन्योऽप्यर्थ अस्य शब्दस्यास्तीत्याह २५१. अर्थान्तरं च ॥७॥ न केवलमुक्तरीत्या यत् शुचि तद्भिन्नं अशुचिशब्दाभिधेयं, अपि तु यत् जात्या आश्रयेण निमित्तेन वा दुष्टं तदपि तदभिधेपमित्यर्थः। कलञ्जगृञ्जनादिकं जातिदुष्टम् । अभिशस्त पतितादिद्रव्यमाश्रयदुष्टम् । उच्छिष्टकेशाद्य पहतं निमित्त- दुष्टम् । भावदोषानुत्पत्तिकामैः इदं सर्व न भोक्तव्यम् । शुचिभोजनमेव कर्तव्यम्, इति भावः ।। अथ क्वचित् शुचि भोजनमपि न फला कल्पत इत्याशङ्कय परिहरति- २५२. प्रयतस्य शुचिभोजनादभ्युदयो न विद्यते। विद्यते वाऽर्थान्तर- त्वात् यमस्य ॥८॥ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः। यस्य एते सन्ति सः यतः । यस्य न सन्ति सः अयतः । अस्य अयतस्य यमरहितस्येत्यर्थः। शुचिभोजनात् शुद्धाहारसे- वनात्, अभ्युदयः भावदोषाभावरूपः, विहित कर्मानुष्ठानयोग्य तारूपः, फलविशेषः न विद्यते नास्ति । नोत्पद्यते । कुतः । नियमाभावात् । एते हि यमाः विहितकर्मानुष्ठान- साद्गुण्यापादकाः अत एव तदङ्गभूता नियमा भवन्ति । शुचिना हि शास्त्रचोदितं कर्म कर्तव्यम् । न च हिंसादिकर्तुः यमरहितस्य शुचित्वमस्ति । न चाशुचिना क्रियमाणं भोजनं भुज्यमानस्य शुचित्वेऽपि फलाय कल्पेत । अतोऽभ्युदयो न विद्यत इति पूर्वः पक्षः । अत्र सिद्धान्तमाह-विद्यते वेत्यादिना । वकारः पक्षान्तरोपस्थापनद्वारा पूर्व- पक्षनिरसनबोधकः । विद्यत एवाभ्युदयः अयतस्यापि शुचिभोजनात् । कुतः । अर्थान्तरत्वाद् यमस्य । यमः भोजनाद्यङ्गभूतनियमेभ्योऽर्थान्तरम् । अहिंसादीनां यमानां योगाङ्गत्वं पुरुषार्थत्वं वा । न तु भोजनादिकार्थत्वम् । तथा विधानाभावात् । स्नातेन भोक्तव्यम्, पञ्च महायज्ञान् कृत्वा भोक्तव्यम्, भगवते निवेदितं भोक्तव्यम्, इत्येवमादीनामेव नियमानां तदङ्गत्वात् ।। उक्तमेव द्रढमन्नाह- २५३. असति चाभावात् ॥ ६॥ शुचिभोजनानङ्गभूते यमेऽसत्यपि अङ्गभूतनियमामावस्याभावात्, अङ्गभूत- नियमसत्त्वादित्यर्थः। विद्यत इत्यनुपक्तन अन्वयः। यद्वा अङ्गभूतनियमे असत्येव शुचिभोजनजन्यस्य अभ्युदयस्य अभावात् । न तु अनङ्गभूते यमे असतीत्यर्थः । असति च भावादिति पाठः किमस्तीत्यन्वेष्टव्यम् ॥ अथ धर्माधर्मरूपर; कर्मणः संसारबन्धहेतुत्वं वक्ष्यन् कर्मणि पुरुषप्रवृत्तेर्हेतुं वदति- । -

वैशेषिकसूत्रवृत्ती
-
२५४. सुखाद् रागः॥१०॥
सुखं स्वयमभिलाषविषयः । येन सुखं जायते तस्मिन् सुखसाधने कर्मणि
पुरुषस्य रागः इच्छा स्वयमभिलषितात् फलभूतात् सुखात् जायते ॥
२५५. तन्मयत्वाच्च॥ ११ ॥
तन्मयत्वं रागप्रचुरत्वम् । तस्माच्च रागो भवति । न परमिह जन्मनि क्रिया-
विशेषजन्यं सुखं ज्ञात्वा तस्यां क्रियायां पुरुषो रज्यति । किन्तु प्राक्तनानन्तजन्म-
परम्परानुभवजनितसंस्कारद्वारा रागप्रचुरत्वाच्च तस्मिन् तस्मिन् कर्मणि रागो
जायत इत्यर्थः । अत एव हि जातमात्रस्य शिशोः स्तन्यपाने प्रवृत्तिः । आहुश्च “वीत
रागजन्मादर्शनात्" इति ॥
२५६. अदृष्टाच्च ॥ १२॥
पुण्यापुण्यरूपात् अदृष्टाच्च कर्मणि रागो जायते । विचित्रफलकारणं हि
अदृष्टम । तत् कदाचित् अनभ्यस्तपूर्वेऽपि कर्मणि रागं जनयेत् ॥
२५७. जातिविशेषाच्च ।। १३ ।।
जातिर्जन्म । तद्विशेषाच्च केषाञ्चित् केषुचित् कर्मसु रागो जायते । यथा
केषाञ्चित् मधुरभक्षणे । केषाञ्चिल्लवणभक्षणे । यथा च केषाञ्चित् परिवादे । अन्येषां
मिथ्यास्तुती, इतरेषां मौने, इति । इत्थं चतुभिः सूत्रः रागकारणान्युक्तानि। तत्र
सुखादित्यस्य स्थाने दुःखादिति निवेश्य द्वेषकारणप्रतिपादकतायऽपि इमानि सूत्राणि
योजनीयानि ।।
एवं हेतुमुक्त्वा तद्धेतुका पुरुषस्य कर्मसु प्रवृत्तिरित्याह-
२५८. इच्छाद्वषपूर्विका धर्माधर्मयोः प्रवृत्तिः ॥ १४ ।।
रागशब्दार्थविशदीकरणायात्र इच्छाशब्देन तदुक्तिः। इच्छाद्वेषो पूर्वी कारणे
यस्याः सा । धर्मे पुरुषस्य प्रवृत्तिः अधर्म च । प्रवृत्तिः आचरणम्। स्वर्गपश्वादि-
कामस्य तत्साधने यज्ञकर्मणि रागात् प्रवृत्तिः । शनुद्वेषात् तद्वधकर्मणि रागः । तेन च
तत्र प्रवृत्तिः । पापे द्वषात् नित्यकर्मणि रागः । सन्ध्यावन्दनादिनित्यकर्मपरित्यागे
हि पापं भवेत् । तेन तदनुष्ठानम् । तात्कालिकसुखाभासे रागात् सुरापानादी
प्रवृत्तिः। तात्कालिकदुःखे द्वेषात् अवश्यकर्तव्यकर्मबर्जनम् । एवमिच्छाद्वेषाभ्यां धर्म
अधर्मे च पुरुषस्य प्रवृत्तिः ॥
एवं धर्माधर्मरूपं कर्म इच्छाद्वेषहेतुकमित्युक्तम् । अथाद्य एवंरूपकर्महेतुक
जननमरणप्रबन्धरूपः संसार इत्याह-
२५६, तत् संयोगो विभागः ॥१५॥

पष्ठाध्याये द्वितीयमाह्निकम् तदित्यव्ययम् पञ्चम्यन्तार्थकम् । तस्मात् धर्माधर्मात्मककर्मरूपात् हेतोः संयोगः जीवात्मनः देहसम्बन्धः। जन्मतत्प्रयुक्तसुखदुःखानुभवश्चेति भावः । विभागः देह- वियोगः । मरणमिति यावत् । पुनः संयोगः विभागः। पुनरपि संयोगः विभाग इति परम्पराऽनुवर्ततेति ज्ञापनाय चकाराप्रयोगः । एवं कर्मकृतः संसार इत्युक्त तस्मान्मुक्तिः कथमिति जिज्ञासा स्वरसतो जायते । तत्र पूर्व मेवेदमुक्तमित्याह-- २६०. आत्मकर्मसु मोक्षो व्याख्यातः ॥ १६ ॥ आत्मकर्मसु "कायकर्मणा आत्मकर्म ब्याख्यातम्" इत्यादिषु पञ्चमाध्याय- द्वितीयाह्निकसूत्रेषु त्रिषु मोक्षः व्याख्यातः कथं भवतीति निरूपितः । अत इह पुनर्नोच्यत इति भावः ॥ - इति वैशेषिकसूत्रवृत्ती सुगमायां षष्ठाध्याये द्वितीयमाहिकम् ॥

No text on this page.

पूर्वतोऽनुवर्तमाना- सुगमाभिधा वैशेषिकसूत्रवृत्तिः डी. टी. ताताचार्यकृता अथ सप्तमेऽध्याये प्रथममाह्निकम् २६१. उक्ता गुणाः॥१॥ द्रव्यगुणकर्मसु गुणेभ्यः परं निर्दिष्टस्यापि कर्मणः हेतुविशेषेण तेम्यः पूर्वमेव निरूपणं कृतम् । प्रथाद्य गुणा निरूप्यन्ते । तत्र के गुणा इत्याकांक्षायां उक्ता एव ते पूर्व "रूपरसगन्धस्पर्शाः" १-१-६ इत्यादिनेत्येतदत्रोच्यते । २६२. पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च ॥ २॥ प्रथमं आद्यानां चतुर्णा गुणानां नित्यत्वानित्यत्वे उच्यते । ते अनित्याः। कस्मात् । द्रव्यानित्यत्वात् । प्राश्रयद्रव्यनाशादेते नश्यन्ति । अतोऽनित्या इत्यर्थः। अनित्याश्च ति चकारेण समुच्चितं नित्यत्वं सहेतुकमाह-. २६३. एतेन नित्येषु नित्यत्वमुक्तम् ॥३॥ एतेन द्रव्यानित्यत्वहेतुकानित्यत्वोक्त्या नित्येषु एषु द्रव्येषु विद्यमानानां रूपादीनां गुणानां नित्यत्वमुक्तमिति भावः । पाश्रयद्र नित्यत्वे हि एपामनित्यत्वं भवेत् । तदभावात् नित्येषु एषु द्रव्येषु विद्यमाना एते गुणा नित्या एव भवन्ति, न त्वनित्या इति । तत्र विशेषमाह- २६४. अप्सु तेजसि नायौ च नित्याः द्रव्यनित्यत्वात् ॥ ४॥ द्रव्यनित्यवाद् यन्नित्यत्वमुक्त तत् अप्तेजोवाय्वात्मकभूतत्रयसम्बन्धिनित्य- द्रव्येषु-परमाणुषु-विद्यमानानां रूपादीनामेव । न तु पृथिवीपरमाणषु नित्येषु स्थिता- नाम् । तेषामनित्यत्वं वक्ष्यते ।। पृथिव्यादिचतुष्टयानित्यद्रव्यगतरूपादीनां अनित्यत्वं पूर्वोक्त स्मारयति- २६५. अनित्येष्ननित्या द्रव्यानित्यत्वात् ॥५॥ पूर्वसूत्रोक्त द्रव्यनित्यत्वहेतुकं रूपादिनित्यत्वं प्रबादिषु त्रिष्वेव । न तु पृथिव्याम् । द्रव्यानित्यत्वहेतुक्रमनित्यत्वं तु चतष्वपि द्रव्येष्विति भावः । - 94 ६४] वैशेषिकसूत्रवृत्ती २६६. कारणगुणपूर्वकाः पृथिव्यां पाकजाः ॥ ६॥ एवं रूपादीनां चतुर्णा गुणानां नित्यानित्यभेदेन विभाग उक्तः । अनित्यद्रव्यग- तानां तेषां अनित्यत्वेनः साधयं, पृथिवीतरपरमाणुगतानां नित्यत्वेन साधर्म्य, चोक्तम् । एतेन अबादित्रितयपरमारणगतानां पृथिवीपरमारणगतानां च नित्यत्वानित्य- त्वाभ्यां वैधर्म्यमपि ज्ञापितम् । अथानित्यद्रव्यगतानां एषामुभयेषां पाकजत्वापाकज- त्वाभ्यो वैधय॑माह- २६७.. एकद्रत्यत्वात् ॥७॥ रूपादीनां कार्य द्रव्यवतिना कारणगुणपूर्वकत्वं पूर्वमुक्तम्- "कारणगुणपूर्वकः कार्यगुणो दृष्टः' इति । इदं कारणगुणपूर्वकत्वं पार्थिवादिषु चतुर्वपि कार्यद्रव्येषु स्थितानां रूपादीनां समानम् । साधय॑मिति यावत् । किन्तु पार्थिवकार्यद्रव्यवतिन इमे पाकजाः । इतरे न पाकजा इति वैधय॑मप्यस्तीति भावः । पाकजत्वं परमाणुगुण-- द्वारा बोध्यम् ।। ननु अनित्यानि द्रव्याणि सन्ति । तत्रत्या गुणाः रूपादयः कारणगुणपूर्वका इति यदुच्यते तन्न युक्तम् । कार्यस्य अणुसङ्घातरूपत्वेन अनित्यद्रव्यान्तराभावात् । द्रव्यान्तरस्यैवाभावे तत्र गुणान्तराप्रसक्तया तेषां कारणगुणपूर्वकत्वोक्तेरयोगात् इति चेदत्राह- एक द्रव्यं प्राश्रयभूतं यस्य तस्य भावः, तस्मात् । रूपं प्रन्यो वा विशेषगुणः एककस्मिन् परमाणो वर्तते । न त्वनेकस्मिन् व्यासज्य । अत इमे एकद्रव्या इति निश्चि- तम् । घटो रूपवानित्यत्र एकमेव रूपं भासते । तस्य चाश्रयेण एकेन भाव्यम् । अतो न परमाणुसङ्घातमात्रात्मा घटः । अपि तु तैरारब्धं द्रव्यान्तरमेकम् । तदीयमेकरूपं च अवयवरूपेभ्योऽन्यत् । तच्च अवयवगुणकरणकमेवेति युक्त कारणगुणपूर्वकत्वं अवय- विरूपादीनामिति ॥ प्रवमनिदिष्टाः रूपादयश्चत्वारो गुणा निरूपिताः । अथः सङ्ख्यानिरूपणं प्राप्तम् । तथाऽपि सङ्ख्यायाः एकपृथक्त्वं द्विपृथक्त्वमित्यादिव्यवहारेषु पृथक्त्वविशेषण-- तया तत्सम्बद्धत्वेन प्रतीतेः तन्निरूपणात् पूर्व तां निरूपयितुमिच्छन् सम्प्रतिः परिमाणनिरूपणं प्रक्रमते । तत्र प्रथमं तद्विषये पूर्वं यदुक्त तत् स्मारयति- २६८. अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते ।। ८ ।। उपलब्धिपदस्य अल्पान्तरत्वात् पूर्वनिपातः । अणोरनुपलब्धिः प्रत्यक्षाभावः,, महत उपलब्धिश्च नित्ये नित्यद्रव्यसाधके चतुर्थाध्याये प्रथमाह्निके 'महत्यनेकद्रव्यव- त्त्वात्' इयादिना सूत्रद्वयेन प्रतिपादिते इत्यर्थः ।। - सप्तमेऽध्याये प्रथममाह्निकम् [९५ RAIN एवं अरण प्रमाणं महत्प्रमाणं चोपस्थाप्य तद्विषये यदत्र विवक्षितं तदाह- २६६. कारणबहुत्यात् कारणमहत्त्वात् प्रचयनिशेषाच्च महत् ॥६॥ कारणबहुत्वात् कायं महत् भवति। महत्परिमाणवद् भवतीत्यर्थः । त्रिमि- द्वणुकैः आरब्धे त्यणुके महत्परिमाणं आरम्भकारणां द्वयणुकानां त्रित्वरूपेण बहुत्वेन जायते । न तत्र कारणमहत्त्वं वा प्रचयविशेषो वा कारणम् । द्वाभ्यां तन्तुभ्यामारब्धे पटे महत्परिमाणं कारणगतमहत्परिमाणेनैव जायते । न तु कारणबहुत्वात् प्रचयविशे. षाद्वा । त्रिप्रभृतिभिस्तन्तुभिरारब्धे पटे तु तज्जनने उमयोः कारणयोः सन्निपातः । कारणबहुत्वस्य तन्महत्त्वस्य च । अथवा कारणबहुत्वमन्यथासिद्धम् । तन्महत्त्वमेव कारणम् । पीडनादिना धनीभूतस्य तूलपिण्डस्य प्रारम्मकाणां अवयवानां यदा हस्ता- म्यां व्यासः क्रियते तदा तेषां प्रचय विशेषो भवति । शिथिल: संयोग इत्यर्थः। तदानीं तस्य पिण्डस्यावयविनः परिमारणं च महद् भवति । न तत्र कारणबहुत्वं वा महत्त्वं वा कारणम् । पूर्वमपि तयोः स्थितत्वात् । तदानीं तदुत्पादनाभावात् । यदा तु प्रचयव- दवयवारब्धाभ्यां तूलपिण्डाभ्यां तादृशस्तूल पिण्डैर्वा महत्तरपिण्डारम्भः तदा तत्रत्यस्य महत्त्वस्य अवयवमहत्त्वमेव कारणम् । न तु प्रचयः । अन्वयव्यतिरेकाभावात् ॥ २७०. अतो विपरीतमणु ॥१०॥ यत् उक्तः कारणर्न जन्यते तत्परिमारणं अणु । मतः उक्त कारणजन्यात् परि- माणात् विपरीतं उक्तकारणाजन्यत्वात् नियमेन तद्वयधिकरणं परिमाणमण्विति सूत्रस्यामरार्थः । परमाणो द्वयणके च उक्तकारणाजन्यत्वादणुपरिमाणम् । अन्यत्र सर्वत्र महत् ॥ शङ्काविशेष परिहरन्नाह- २७१. अणु महदिति तस्मिन् निशेषभावाद् विशेषा- भावाच्च ॥ ११॥ तस्मिन् एकस्मिन् वस्तुनीत्यर्थः। प्रण महदिति उभयथा व्यवहारोऽस्ति । तत्र यदुक्तं परिमाणद्वयं नियमेन व्यधिकरणमिति तन्न युज्यते । अत्रोच्यते । सत्यमेवं अण्विति प्रती तिव्यवहारविषय एव वस्तुनि महदिति प्रतीतिव्यवहारो स्तः । तथा मह- दिति प्रतीतिवयवहारविषय एव वस्तुनि अण्विति प्रतीतिव्यवहारी। तथापि अनयोः परिमाणयोः वैयधिकरण्यनियमोक्तिनं विरुध्यते । न हि वस्तुतः अणो महवि च वस्तुतः महत्त्वमणत्वं चास्ति, इति कृत्वा एवं प्रतियन्ति व्यवहरन्ति वा । अपि तु ६६ ] वैशेषिकसूत्रवृत्ती भणी महत्त्वप्रतीतिव्यवहारयोः अस्ति विशेषः अपेक्षारूपः । चन्दनपरमाणुः मृत्परमाण्वपेक्षया महानित्युच्यते । तदिदं महत्त्वं आपेक्षिक औपचारिकम् । अपेक्षारूप- मिमं विशेष विना स्वभावतोऽणुत्वं मुख्यं तस्य । न च मुख्यौपचारिकयोरणुत्वमहत्त्व. योविरोधोऽस्ति येन वैयधिकरण्यनियमभङ्गो भवेत् । एवमेव स्वयं महति बदरीफले नारिकेलापेक्षया अणुत्वप्रतीतिव्यवहारौ सापेक्षौ । महत्त्वप्रतीतिव्यवहारौ तु निरपेक्षा- विति तत्रापि विशेषभावः विशेषाभावश्च बोध्यः । ननु किमेवं मुख्यौपचारिकभावेन विरोधपरिहारः क्रियते । प्रथमं अणु पश्चान्महत् । अतो न विरोध इति कुतो नोच्यत इत्यत्राह--- २७२. एककालत्वात् ॥१२॥ अरणत्वे सत्येव महत्त्वं, महत्वे सत्येव अणुत्वं च किल व्यवहरन्ति । न चेदं एक कालिकत्वं एकस्मिन् वस्तुनि मुख्ययोरणुत्वमहत्त्वयोः सम्भवति । २७३. दृष्टान्ताच्च ॥१३॥ अस्ति च दृष्टान्तः यत्र मिथो विरुद्धयोः द्वयोधर्मयोर्व्यवहारः क्रियते, ययोरेको मुख्यः अन्य औपचारिकः; स च मुखं चन्द्रः, अग्निर्माणवकः इत्यादिः । अत्र हि मुखत्वं माणवकत्वं च मुख्यम् । चन्द्रत्वं अग्नित्वं च प्रौपचारिकम् ।। २७४. अणुत्वमहत्त्वयोरणुत्वामहत्त्वाभावः कर्मगुणैर्व्याख्यातः ॥१४॥ अणु महदित्यनयोः विजातीययोद्धयोः परिमाणयोः यत्र वस्तुतः एकमस्ति तत्र अपरपरिमाणव्यवहारः प्रापेक्षिकः औपचारिक इत्युक्तम् । तेन वस्तुतः तत्र परिमाणा- न्तरस्याभाव एवेत्युक्त भवति । इदानीं अनयोः परिमाणयोः सजातीयं विजातीयं वा परिमाणान्तरं नास्ति । अतः अण्वणु, महाणु, अणुमहत्, महामहदिति व्यवहाराः, प्रौपचारिकतया नेयाः,इत्यभिप्रेत्य तयोस्तदभावमाह। अणुत्वे अणुत्वमहत्त्वयोः, महत्त्वे च तयोः अभावः कर्मगुणः ध्याख्यातो भवति । ज्ञापितो भवतीति यावत् । “एकद्रव्यमगुणं" इति कर्मणि गुणाभाव उक्तः । 'द्रव्याश्रय्यगुणवान्' इति गुरणे गुणाभाव उक्तः । तेनैव अणुत्वमहत्त्वयोः अणुत्वमहत्त्वरूपगुणाभावः ज्ञापितो भवतीति भावः। ननु गुणे गुणाभावस्य पूर्वमुक्तत्वात् अणुत्वादेर्गुणस्य अणुत्वादिगुणवत्त्वं नास्तीति कामं ज्ञापितं भवति। कर्मणि गुणाभावोक्तया तु कथं तद् ज्ञापितं भवेत् । उच्यते । अनन्तरसूत्रे तद् व्यक्त भविष्यति ॥

- सप्तमेऽध्याये प्रथममाह्निकम् [६७ २७५. कर्मभिः कर्माणि गुणैश्च गुणा व्याख्याताः ॥१५॥ कर्मभिः कर्माणि व्याख्यातानि निरूपितानि भवन्ति । कथमिति । निणा- नीति । कस्मात् । तानि हि कर्माणि "क्रियावद् गुणवत् समवायि कारणमिति द्रव्य लक्षणम्' इति द्रव्यलक्षणभूतानि स्वयं प्रद्रव्याणि । न चाद्रव्याणि गुणवन्ति भवन्ति । गुणानामपि द्रव्यलक्षणत्वात् अद्रव्यत्वम् । एवमद्रव्यभूतैः कर्मभिः कर्माणि निर्गुणतया ज्ञापितानि भवन्ति । गुणश्च गुणाः । एवञ्च पूर्वसूत्रे कर्मगुरगरद्रव्यैः अणुत्वमहत्त्वे अद्रव्य- तया अणुत्वमहत्त्वरूपगुणरहिते इति ज्ञापिते भवतः इति विवक्षितत्त्वान्नोक्तशङ्काव- काश इति भावः। २७६. अणुत्वमहत्त्वाभ्यां कर्म गुणाश्च व्याख्याताः ॥१६॥ यथा कर्मगुणैः अणत्वमहत्त्वे अणुत्वमहत्त्वाभाववत्तया व्याख्याते भवतः तथा कर्मगुणा अपि प्रणत्वमहत्त्वाभ्यां प्रणत्वमहत्त्वाभाववत्तया व्याख्याता भवन्तीत्यर्थः । अद्रव्यत्वेन गुणसामान्यशून्यत्वादेवमिति भावः । कर्मणां गुणानां च गुणानाधारत्वप्रति- पत्तिदाढर्याय इत्थं पुन. पुनः भङ्गयन्तरेणोक्तिरिति ज्ञेयम् ॥ २७७. एतेन दीर्घत्वह्रस्वत्वे व्याख्याते ॥१७॥ अणुत्वमहत्त्वनिरूपणेनव दीर्घत्वह्रस्वत्वरूपे अपि परिमाणे निरूपिते भवत इत्यर्थः । दीर्घमेव वस्तु दीर्घतरवस्त्वन्तरापेक्षया ह्रस्वमिति व्यवह्नियते । तत्र दीर्घत्वं मुख्यम्। ह्रस्वत्वं तु प्रौपचारिकमिति ज्ञेयमिति भावः । महदेव दीर्घ भवति, नामहत् । तत्र गोलाकारस्य वस्तुनः कन्तुकादेः महत्त्वेऽपि दीर्घत्वव्यवहाराभावात् महत्त्वादन्यद् दीर्घत्वम् । तत्र महत्त्वस्य कारणमुक्तम् । दीर्घत्वस्य तु दिगन्तरद्वयापेक्षया दिगन्तरद्वये विद्यमानावयवाधिक्यं कारणम् । एकस्याणोः पार्श्व अपरोऽणुः तस्य पाव' अपरोऽणुः इत्येवमवस्थितः त्रिभिरधिकर्वा अणुभिरारब्धं द्रव्यं मुख्यवृत्त्या दीर्घ भवति । इहाणुरिति घणुकं विवक्षितम् । द्वयणुकं केवलं ह्रस्वम् । अन्यत्र सर्वत्र ह्रस्वत्वव्यवहारः आपेक्षिकः । औपचारिकः। नित्यानित्यभेदेन परिमाणविभागमभिप्रेत्य अनित्येषु द्रव्येषु अनित्यपरिमाणम- स्तीत्याह- २७८. अनित्येऽनित्यम् ॥ १८ ॥ अनित्य प्राश्रयः घटादिः यदा नश्यति तदा तदीयं परिमाणमपि नश्यति। अता तदनित्यम् ॥

६६ ] वैशेषिकसूत्रवृत्ती भणी महत्त्वप्रतीतिव्यवहारयोः अस्ति विशेषः अपेक्षारूपः । चन्दनपरमाणुः मृत्परमाण्वपेक्षया महानित्युच्यते । तदिदं महत्त्वं आपेक्षिक औपचारिकम् । अपेक्षारूप- मिमं विशेष विना स्वभावतोऽणुत्वं मुख्यं तस्य । न च मुख्यौपचारिकयोरणुत्वमहत्त्व. योविरोधोऽस्ति येन वैयधिकरण्यनियमभङ्गो भवेत् । एवमेव स्वयं महति बदरीफले नारिकेलापेक्षया अणुत्वप्रतीतिव्यवहारौ सापेक्षौ । महत्त्वप्रतीतिव्यवहारौ तु निरपेक्षा- विति तत्रापि विशेषभावः विशेषाभावश्च बोध्यः । ननु किमेवं मुख्यौपचारिकभावेन विरोधपरिहारः क्रियते । प्रथमं अणु पश्चान्महत् । अतो न विरोध इति कुतो नोच्यत इत्यत्राह--- २७२. एककालत्वात् ॥१२॥ अरणत्वे सत्येव महत्त्वं, महत्वे सत्येव अणुत्वं च किल व्यवहरन्ति । न चेदं एक कालिकत्वं एकस्मिन् वस्तुनि मुख्ययोरणुत्वमहत्त्वयोः सम्भवति । २७३. दृष्टान्ताच्च ॥१३॥ अस्ति च दृष्टान्तः यत्र मिथो विरुद्धयोः द्वयोधर्मयोर्व्यवहारः क्रियते, ययोरेको मुख्यः अन्य औपचारिकः; स च मुखं चन्द्रः, अग्निर्माणवकः इत्यादिः । अत्र हि मुखत्वं माणवकत्वं च मुख्यम् । चन्द्रत्वं अग्नित्वं च प्रौपचारिकम् ।। २७४. अणुत्वमहत्त्वयोरणुत्वामहत्त्वाभावः कर्मगुणैर्व्याख्यातः ॥१४॥ अणु महदित्यनयोः विजातीययोद्धयोः परिमाणयोः यत्र वस्तुतः एकमस्ति तत्र अपरपरिमाणव्यवहारः प्रापेक्षिकः औपचारिक इत्युक्तम् । तेन वस्तुतः तत्र परिमाणा- न्तरस्याभाव एवेत्युक्त भवति । इदानीं अनयोः परिमाणयोः सजातीयं विजातीयं वा परिमाणान्तरं नास्ति । अतः अण्वणु, महाणु, अणुमहत्, महामहदिति व्यवहाराः, प्रौपचारिकतया नेयाः,इत्यभिप्रेत्य तयोस्तदभावमाह। अणुत्वे अणुत्वमहत्त्वयोः, महत्त्वे च तयोः अभावः कर्मगुणः ध्याख्यातो भवति । ज्ञापितो भवतीति यावत् । “एकद्रव्यमगुणं" इति कर्मणि गुणाभाव उक्तः । 'द्रव्याश्रय्यगुणवान्' इति गुरणे गुणाभाव उक्तः । तेनैव अणुत्वमहत्त्वयोः अणुत्वमहत्त्वरूपगुणाभावः ज्ञापितो भवतीति भावः। ननु गुणे गुणाभावस्य पूर्वमुक्तत्वात् अणुत्वादेर्गुणस्य अणुत्वादिगुणवत्त्वं नास्तीति कामं ज्ञापितं भवति। कर्मणि गुणाभावोक्तया तु कथं तद् ज्ञापितं भवेत् । उच्यते । अनन्तरसूत्रे तद् व्यक्त भविष्यति ॥

सप्तमऽध्याये प्रथम माह्निकम् १६] २८३. तदभावादणु मनः ॥ २३ ॥ तस्य विभवस्याभावात् मनः आकाशवत् महत् न भवति । शरीरान्तर्मात्रवृत्ति- त्वात् तस्य विभवाभावः । मध्यमपरिमाणे च न किञ्चित् प्रमाणम् । तस्मात् तदणु । द्रव्यं हि तत् । ततस्तत्र अवश्यं किञ्चित् परिमाणं वाच्यम् । तत्र अन्यस्यानुपपत्त्या अणुत्वं निश्चीयते ॥ २८४. गुणैदिग्व्याख्याता ॥ २४ ॥ गुणः सर्वत्र विद्यमानपरत्वतत्प्रत्ययादिरूपैः गुणः दिगपि महत्परिमाणवत्तया शापितैवेत्यर्थः । २८५. कारणे कालाख्या ॥ २५ ॥ सङ्कोचे प्रमाणाभावात् 'कारणे' इत्यस्य 'सर्वकार्यकारणे' इत्यर्थः । तस्मिन् काल इत्याख्येति पूर्वमेवोक्तम् । कार्याणि सर्वत्रोत्पद्यन्ते । अतः सर्वत्र कालो वर्तत इति सोऽपि विभुमेहांश्चेति सिद्धयति । स्वनिष्ठगुणवशादेव आकाशात्मनोः विभुत्वं सिद्धयति । परनिष्ठगुणवशात् दिक्कालयोः । अनेन विशेषेण एषां निरूपणे क्रमोल्लङ्घनम् । तदभावादिति विभवस्य तच्छब्देन परामर्शसौकर्याय मनसः मध्ये निवेशः ।। इति कणादसूत्रवृत्ती सुगमायां सप्तमेऽध्याये प्रथममाह्निकम् -- ६६ ] वैशेषिकसूत्रवृत्ती भणी महत्त्वप्रतीतिव्यवहारयोः अस्ति विशेषः अपेक्षारूपः । चन्दनपरमाणुः मृत्परमाण्वपेक्षया महानित्युच्यते । तदिदं महत्त्वं आपेक्षिक औपचारिकम् । अपेक्षारूप- मिमं विशेष विना स्वभावतोऽणुत्वं मुख्यं तस्य । न च मुख्यौपचारिकयोरणुत्वमहत्त्व. योविरोधोऽस्ति येन वैयधिकरण्यनियमभङ्गो भवेत् । एवमेव स्वयं महति बदरीफले नारिकेलापेक्षया अणुत्वप्रतीतिव्यवहारौ सापेक्षौ । महत्त्वप्रतीतिव्यवहारौ तु निरपेक्षा- विति तत्रापि विशेषभावः विशेषाभावश्च बोध्यः । ननु किमेवं मुख्यौपचारिकभावेन विरोधपरिहारः क्रियते । प्रथमं अणु पश्चान्महत् । अतो न विरोध इति कुतो नोच्यत इत्यत्राह--- २७२. एककालत्वात् ॥१२॥ अरणत्वे सत्येव महत्त्वं, महत्वे सत्येव अणुत्वं च किल व्यवहरन्ति । न चेदं एक कालिकत्वं एकस्मिन् वस्तुनि मुख्ययोरणुत्वमहत्त्वयोः सम्भवति । २७३. दृष्टान्ताच्च ॥१३॥ अस्ति च दृष्टान्तः यत्र मिथो विरुद्धयोः द्वयोधर्मयोर्व्यवहारः क्रियते, ययोरेको मुख्यः अन्य औपचारिकः; स च मुखं चन्द्रः, अग्निर्माणवकः इत्यादिः । अत्र हि मुखत्वं माणवकत्वं च मुख्यम् । चन्द्रत्वं अग्नित्वं च प्रौपचारिकम् ।। २७४. अणुत्वमहत्त्वयोरणुत्वामहत्त्वाभावः कर्मगुणैर्व्याख्यातः ॥१४॥ अणु महदित्यनयोः विजातीययोद्धयोः परिमाणयोः यत्र वस्तुतः एकमस्ति तत्र अपरपरिमाणव्यवहारः प्रापेक्षिकः औपचारिक इत्युक्तम् । तेन वस्तुतः तत्र परिमाणा- न्तरस्याभाव एवेत्युक्त भवति । इदानीं अनयोः परिमाणयोः सजातीयं विजातीयं वा परिमाणान्तरं नास्ति । अतः अण्वणु, महाणु, अणुमहत्, महामहदिति व्यवहाराः, प्रौपचारिकतया नेयाः,इत्यभिप्रेत्य तयोस्तदभावमाह। अणुत्वे अणुत्वमहत्त्वयोः, महत्त्वे च तयोः अभावः कर्मगुणः ध्याख्यातो भवति । ज्ञापितो भवतीति यावत् । “एकद्रव्यमगुणं" इति कर्मणि गुणाभाव उक्तः । 'द्रव्याश्रय्यगुणवान्' इति गुरणे गुणाभाव उक्तः । तेनैव अणुत्वमहत्त्वयोः अणुत्वमहत्त्वरूपगुणाभावः ज्ञापितो भवतीति भावः। ननु गुणे गुणाभावस्य पूर्वमुक्तत्वात् अणुत्वादेर्गुणस्य अणुत्वादिगुणवत्त्वं नास्तीति कामं ज्ञापितं भवति। कर्मणि गुणाभावोक्तया तु कथं तद् ज्ञापितं भवेत् । उच्यते । अनन्तरसूत्रे तद् व्यक्त भविष्यति ॥

सप्तमेऽध्याये द्वितीयमाह्निकम् [१०१ । - ननु कुतो भ्रम इत्युच्यते । स्वसजातीयरहितत्वमेव तत्र एकत्वमित्युपचर्यते । तेन औपचारिकोऽयं प्रयोग इति कुतो नोच्यते । अत्राह- २६१. एकत्वाभावाद् भक्तिस्तु न विद्यते ॥६॥ तुकारः उक्ताक्षेपनिवर्तकः । भक्तिरुपचारः । सा न विद्यते । न सम्भवतीति यावत् । स्वस जातीयद्वितीयत्वं हि स्वस्वसजातीयवृत्तिद्वित्वसङ्खयापूरकत्वम् । द्वित्वं च स्ववृत्ति यदेकत्वं यच्च स्वसजीयवृत्ति एकत्वं तदुभयबुद्धिरूपापेक्षाबुद्धिजन्यः सङ्खयाविशेष इति वाच्यम् । न च वक्तुं शक्यते । स्वस्मिन् वा स्वजातीये रूपान्तरे वा एकत्वाभावात् । अतो नात्र उपचारः । अपि तु भ्रम एव । ननु प्राश्रयद्रव्यगत- मेकत्वं तत्र आरोप्य एकत्वव्यवहार इति चेत् तर्हि आहायंभ्रमोऽयं भवति । सर्वथा एक रूपमित्यादिव्यवहारस्य आहार्योऽनाहार्यो वा भ्रम एव मूलम् । अथात्र एकपदस्य एकद्रव्यवृत्तित्त्वे लक्षणे ति चेत् इष्टमेवैतत् । अयं कर्मगुणानामेकत्वनिषेधः एकपृथक्त्व- निवेधस्याप्युपलक्षकः ॥ एवं कर्मणां गुणानां च एकत्वकपृथक्त्वयोरभाव उक्तः । अथ द्रध्य एव क्वचित् ते न स्त इत्याह- २६२. कार्यकारणयोरेकत्रीकपृथक्त्वाभानादेकत्लैकपृथक्त्वं निद्यते ॥ ७ ॥ कार्यकारणयोः घटकपालयोः पटतन्त्वोः एवमन्ययोश्च एकत्वैकपृथक्त्वं एतदु- भयमित्यर्थः । न विद्यते नास्ति । कुतः। एकत्वकपृथक्त्वाभावात् । एकत्वं च एकपृयक्त्वं च अनयोः समाहारः एकत्वैकपृथक्त्वम् । तस्याभावात् । परस्परं भिन्नत्वादित्यर्थः । समवायिकारणात् कार्य हि भिन्नम् । न च मियो भिन्नयोः द्वयोः घटपटयोरिव एकत्वं वा एकपृथक्त्वं वा.सम्भवतीति । यद्यपि भेदप्रतिपादनतात्पर्येण एकत्वाभावमात्रस्य एकपृथक्त्वाभावमात्रस्य वा उक्तिः पर्याप्ता तथाऽपि एकत्वाभावस्येव एकपृथक्त्वाभा- वस्यापि मेदव्याप्यत्वेन तदुपस्थापनक्षमत्वव्यञ्जनाय तस्यापि ग्रहणमिति ज्ञेयम् ॥ २६३. एतदनित्ययोर्व्याख्यातम् ॥८॥ अनित्ययोः कार्यकारणयोः विद्यमानं एतत् एकत्वैकपृथक्त्वं व्याख्यात अनित्य- वृत्तिपरिमारणवत् अनित्यतया ज्ञयमित्यर्थः । नित्यवति नित्यमित्यपि ज्ञापितप्रायम् । एकत्वनिरूपणेन अनेकैकत्वबुद्धिरूपापेक्षाबुद्धिजानि द्वित्वादीन्यपि सङ्ख्या. न्तराणि निरूपितानि भवन्ति । एवमेकपृथक्त्वनिरूपणेन द्विपृथक्त्वादीन्यपि । एकत्व- न ६६ ] वैशेषिकसूत्रवृत्ती भणी महत्त्वप्रतीतिव्यवहारयोः अस्ति विशेषः अपेक्षारूपः । चन्दनपरमाणुः मृत्परमाण्वपेक्षया महानित्युच्यते । तदिदं महत्त्वं आपेक्षिक औपचारिकम् । अपेक्षारूप- मिमं विशेष विना स्वभावतोऽणुत्वं मुख्यं तस्य । न च मुख्यौपचारिकयोरणुत्वमहत्त्व. योविरोधोऽस्ति येन वैयधिकरण्यनियमभङ्गो भवेत् । एवमेव स्वयं महति बदरीफले नारिकेलापेक्षया अणुत्वप्रतीतिव्यवहारौ सापेक्षौ । महत्त्वप्रतीतिव्यवहारौ तु निरपेक्षा- विति तत्रापि विशेषभावः विशेषाभावश्च बोध्यः । ननु किमेवं मुख्यौपचारिकभावेन विरोधपरिहारः क्रियते । प्रथमं अणु पश्चान्महत् । अतो न विरोध इति कुतो नोच्यत इत्यत्राह--- २७२. एककालत्वात् ॥१२॥ अरणत्वे सत्येव महत्त्वं, महत्वे सत्येव अणुत्वं च किल व्यवहरन्ति । न चेदं एक कालिकत्वं एकस्मिन् वस्तुनि मुख्ययोरणुत्वमहत्त्वयोः सम्भवति । २७३. दृष्टान्ताच्च ॥१३॥ अस्ति च दृष्टान्तः यत्र मिथो विरुद्धयोः द्वयोधर्मयोर्व्यवहारः क्रियते, ययोरेको मुख्यः अन्य औपचारिकः; स च मुखं चन्द्रः, अग्निर्माणवकः इत्यादिः । अत्र हि मुखत्वं माणवकत्वं च मुख्यम् । चन्द्रत्वं अग्नित्वं च प्रौपचारिकम् ।। २७४. अणुत्वमहत्त्वयोरणुत्वामहत्त्वाभावः कर्मगुणैर्व्याख्यातः ॥१४॥ अणु महदित्यनयोः विजातीययोद्धयोः परिमाणयोः यत्र वस्तुतः एकमस्ति तत्र अपरपरिमाणव्यवहारः प्रापेक्षिकः औपचारिक इत्युक्तम् । तेन वस्तुतः तत्र परिमाणा- न्तरस्याभाव एवेत्युक्त भवति । इदानीं अनयोः परिमाणयोः सजातीयं विजातीयं वा परिमाणान्तरं नास्ति । अतः अण्वणु, महाणु, अणुमहत्, महामहदिति व्यवहाराः, प्रौपचारिकतया नेयाः,इत्यभिप्रेत्य तयोस्तदभावमाह। अणुत्वे अणुत्वमहत्त्वयोः, महत्त्वे च तयोः अभावः कर्मगुणः ध्याख्यातो भवति । ज्ञापितो भवतीति यावत् । “एकद्रव्यमगुणं" इति कर्मणि गुणाभाव उक्तः । 'द्रव्याश्रय्यगुणवान्' इति गुरणे गुणाभाव उक्तः । तेनैव अणुत्वमहत्त्वयोः अणुत्वमहत्त्वरूपगुणाभावः ज्ञापितो भवतीति भावः। ननु गुणे गुणाभावस्य पूर्वमुक्तत्वात् अणुत्वादेर्गुणस्य अणुत्वादिगुणवत्त्वं नास्तीति कामं ज्ञापितं भवति। कर्मणि गुणाभावोक्तया तु कथं तद् ज्ञापितं भवेत् । उच्यते । अनन्तरसूत्रे तद् व्यक्त भविष्यति ॥

सप्तमेऽध्याये द्वितीयमाह्निकम् [१०३ २६७. कर्मभिः कर्माणि गुणैर्गुणाः अणुत्वमहावाभ्यामिति ॥१२॥ कर्मभिः कर्माणि निर्गुणतया व्याख्यातानि । गुणैर्गुणाः तथा व्याख्याताः । अणुत्वमहत्त्वाभ्यां कर्म गुणाश्च व्याख्याता इति पूर्ववद्योज्यम् । एतद्ज्ञापनाय इति- कारः। संयोगविभागाभाववत्तया व्याख्याता इति विशेषः। इत्थं संयोगविभागयोः, गुणान्तरेषु, कर्मसु च संयोगविभागौ न स्त इत्युक्तम् । अथ कार्यकारणद्रव्ययोरपि नास्तीत्याह- २६८. युतसिद्धयभावात् कार्यकारणयोः संयोगविभागौ न विद्यते ॥१३॥ घटकपालतन्तुपटादिरूपयोः कार्यकारणद्रव्ययोः संयोगविभागौ न स्तः। कुतः । युतसिद्धयभावात् । युते अमिश्र परस्परं सम्बन्धरहिते । तयोः सिद्धिः स्थितिः विद्यमानता । तस्या अभावात् । परस्परं सम्बन्ध विना पृथक् स्थितयोव्ययोः पश्चा- ज्जायमानः सम्बन्धः संयोगः । न च समवायिकारण तत्कार्यभूते द्रव्ये प्रथमं पृथक् स्थिते पश्चात मिथः संबद्ध यथा घटतदन्तर्वतिजले । अतः पूर्व पृथक् स्थित्यभावात् न तयोः संयोगः सम्बन्धः। यद्वा युते मिश्र, प्रथमं पृथक् स्थिते पश्चात् सम्बद्ध तयोः सिद्धिः तदभावात् । कार्यकारणे मिथः सम्बद्ध स्तः । न च ते पूर्व पृथक् स्थिते पश्चादेवं सम्बद्धे । अतो युत सिद्ध्यभावात् न तयोः संयोगः सम्बन्धः । अपि तु अन्य एव । यु मिश्रणा- मिश्रणयोरिति धातुः । तत्रामिश्रणार्थकत्वे विद्यमानस्य सम्बन्धस्य पृथक् स्थितिपूर्व- कत्वाभावादित्यर्थः । स प्रथममुक्तः । मिश्रणार्थकत्वे कार्यकारणयोः पृथक् स्थिति- पूर्वकसम्बन्धाभावादित्यर्थः । सः अनन्तरमुक्तः ॥ अथ शब्दार्थयोरपि संयोगो नास्तीति साधयन् प्रथमं हेतूनाह- २६ई. गुणत्वात् ॥१४॥ शब्दो हि गुणः । न च तस्य केनविदन्येन संयोगः सम्भवति । गुणं गुणानङ्गी कारात् ॥ ३००. गुणोऽपि विभाज्यते ॥१५॥ यथा वाचकः शब्दः तथा अर्थोऽपि केषाञ्चित् शब्दानां वाच्यः गुणः विभाव्यते प्रतीयते । न च गुणयोः मिथः संयोगः सम्भवति । द्रव्यवत् गुणोऽपि शब्देन बोध्यते । - & ६६ ] वैशेषिकसूत्रवृत्ती भणी महत्त्वप्रतीतिव्यवहारयोः अस्ति विशेषः अपेक्षारूपः । चन्दनपरमाणुः मृत्परमाण्वपेक्षया महानित्युच्यते । तदिदं महत्त्वं आपेक्षिक औपचारिकम् । अपेक्षारूप- मिमं विशेष विना स्वभावतोऽणुत्वं मुख्यं तस्य । न च मुख्यौपचारिकयोरणुत्वमहत्त्व. योविरोधोऽस्ति येन वैयधिकरण्यनियमभङ्गो भवेत् । एवमेव स्वयं महति बदरीफले नारिकेलापेक्षया अणुत्वप्रतीतिव्यवहारौ सापेक्षौ । महत्त्वप्रतीतिव्यवहारौ तु निरपेक्षा- विति तत्रापि विशेषभावः विशेषाभावश्च बोध्यः । ननु किमेवं मुख्यौपचारिकभावेन विरोधपरिहारः क्रियते । प्रथमं अणु पश्चान्महत् । अतो न विरोध इति कुतो नोच्यत इत्यत्राह--- २७२. एककालत्वात् ॥१२॥ अरणत्वे सत्येव महत्त्वं, महत्वे सत्येव अणुत्वं च किल व्यवहरन्ति । न चेदं एक कालिकत्वं एकस्मिन् वस्तुनि मुख्ययोरणुत्वमहत्त्वयोः सम्भवति । २७३. दृष्टान्ताच्च ॥१३॥ अस्ति च दृष्टान्तः यत्र मिथो विरुद्धयोः द्वयोधर्मयोर्व्यवहारः क्रियते, ययोरेको मुख्यः अन्य औपचारिकः; स च मुखं चन्द्रः, अग्निर्माणवकः इत्यादिः । अत्र हि मुखत्वं माणवकत्वं च मुख्यम् । चन्द्रत्वं अग्नित्वं च प्रौपचारिकम् ।। २७४. अणुत्वमहत्त्वयोरणुत्वामहत्त्वाभावः कर्मगुणैर्व्याख्यातः ॥१४॥ अणु महदित्यनयोः विजातीययोद्धयोः परिमाणयोः यत्र वस्तुतः एकमस्ति तत्र अपरपरिमाणव्यवहारः प्रापेक्षिकः औपचारिक इत्युक्तम् । तेन वस्तुतः तत्र परिमाणा- न्तरस्याभाव एवेत्युक्त भवति । इदानीं अनयोः परिमाणयोः सजातीयं विजातीयं वा परिमाणान्तरं नास्ति । अतः अण्वणु, महाणु, अणुमहत्, महामहदिति व्यवहाराः, प्रौपचारिकतया नेयाः,इत्यभिप्रेत्य तयोस्तदभावमाह। अणुत्वे अणुत्वमहत्त्वयोः, महत्त्वे च तयोः अभावः कर्मगुणः ध्याख्यातो भवति । ज्ञापितो भवतीति यावत् । “एकद्रव्यमगुणं" इति कर्मणि गुणाभाव उक्तः । 'द्रव्याश्रय्यगुणवान्' इति गुरणे गुणाभाव उक्तः । तेनैव अणुत्वमहत्त्वयोः अणुत्वमहत्त्वरूपगुणाभावः ज्ञापितो भवतीति भावः। ननु गुणे गुणाभावस्य पूर्वमुक्तत्वात् अणुत्वादेर्गुणस्य अणुत्वादिगुणवत्त्वं नास्तीति कामं ज्ञापितं भवति। कर्मणि गुणाभावोक्तया तु कथं तद् ज्ञापितं भवेत् । उच्यते । अनन्तरसूत्रे तद् व्यक्त भविष्यति ॥

सप्तमेऽध्याये द्वितीयमाह्निकम् [१०५ । तस्मादागतः तद्ज्ञानादुत्पद्यते नियतस्यास्य बोधः । चिरन्तनोऽद्य तनो वा सङ्केत एव शब्दार्थयोः सम्बन्ध इति भावः ।। संयोगविभागनिरूपणं वृत्तम् । अथ क्रमप्राप्तं परत्वापरत्वनिरूपणं क्रियते-- ३०६. एकदिक्काभ्यामेककालाम्यां सन्निकृष्टविप्रकृष्टाभ्यां पर- मपरञ्च ॥२१॥ एका दिक् ययोः ते एकदिक्के । ताभ्यां सन्निष्टविप्रकृष्टाभ्यां वस्तुभ्यां परमपरं च वस्तु ज्ञेयम् । एकस्यां दिशि विद्यमानयोर्वस्तुनोर्मध्ये यत् विप्रकृष्टं दूरे स्थितं तेन परं परत्वगुणविशिष्टं वस्तु ज्ञेयम् । यत् सन्निकृष्टं तेन अपरं अपरत्वगुण- विशिष्टं वस्तु ज्ञयम् । विप्रकृष्टे वस्तुनि परत्वं सन्निकृष्ट अपरत्वं च वर्तत इति ज्ञयमिति भावः। परमपरं चेत्यल सन्निकृष्टविप्रकृष्टाभ्यामित्यस्य यथासङ्ख्यान्वयो न विवक्षितः । अपितु "अव्यक्तव्यक्तरूपाय स्थूलसूक्ष्मात्मने नमः" इत्यत्रेव प्रातिलोम्ये- नान्वयः । इमे दैशिकपरत्वापरत्वे । अथ कालिकपरत्वापरत्वे । एककालाभ्यां सन्निकृष्ट- विप्रकृष्टाभ्यां परमपरं च ज्ञयमिति । एककालवर्तिनी द्वे शरीरे । तत्र एक दीर्घकालात् पूर्व जातम् । तत् परम् । तदपेक्षया अल्पकालात् पूर्व जातमपरम् । दूरदेशसन्निहितदेश- वर्तिनोः द्वयोः परस्परं दैशिकपरत्वापरत्वे । पूर्वकालानन्तरकालजातयोः मिथः कालिकपरत्वापरत्वे: मनु संयुक्तसंयोगपरम्परामा अल्लत्वं दैशिकः सन्निकर्षः । तस्या बहुत्वं विप्र- कर्षः । एवं कालावच्छेदकक्रियापरम्पराबहुत्वं कालिकः विप्रकर्षः । तदल्पत्वं सन्नि- कर्षः । उभयविघोऽप्ययं विप्रकर्ष एव वस्तुनः परत्वम् । सन्निकर्ष एव च अपरत्वम् । न तु तदतिरिक्तो गुणौ । न वा तत्र दिक्कालयोः कारणत्त्वम् । इति चेदत्राह- ३०७. कारणपरत्वात् कारणापरत्त्वाच्च परत्वापरत्वे ॥ २२ ॥ सन्निकर्षविप्रकर्षावेव परत्वापरत्वे । सन्निकर्षस्य व्यवधायकाल्पत्व- रूपतया, विप्रकर्षस्य व्यवधायकबहुत्वरूपतया च सखण्डपदार्थत्वात् परत्वापरत्वयोश्च प्रखण्डरूपत्वात् । परं विप्रकृष्टं अपरं सन्निकृष्टं, इति विवरणेऽपि गन्धवती पृथिवीत्यत्र गन्धवत्त्वपृथिवीत्वयोरिवात्यन्तं भेदात् । एतद्ज्ञापनायव पूर्व “सन्निकृष्टविप्रकृष्टाभ्यां परमपर च" इति विभक्तिभेदेन निर्देशः । तत्र एकस्यैव वस्तुनः आपेक्षिकपरत्वापर- त्वयोः प्रतीत्या अनयोरपेक्षाबुद्धिजन्यत्वं, अत एवानित्यत्वं च सिद्धम् । तत्र अभिमता महती अल्पा वा कालावच्छेदकक्रियापरम्परा परमपरमिति प्रतीयमाने बस्तुनि न - - - न तावत् १०६] वैशेषिकसूत्रवृत्ती वर्तते । तेन कथं सा तत्र परत्वं अपरत्वं वा जनयेदिति शङ्कायां सर्वाधारे काले अपेक्षा. बुद्धिसहिता सा परत्वापरत्वे जनयति, परापरकालसंयोगश्च वस्तुनि परत्वमपरत्वं च जन- यतीति सिद्ध कालस्य कारणत्वम् । एवं दिशि विद्यमाना संयुक्तसंयोगपरम्परा अपेक्षा- बुद्धिसहिता तस्यां परत्वमपरत्वं च जनयति । परापरदिक्संयोगश्च वस्तुगतं परत्वम- परत्वं च जनयतीति ।। ३०८. परत्वापरत्वेयोः परत्वोपरत्वोभावोऽणुमहावाभ्यां व्याख्यातः ॥ २३॥ यथाऽणुत्वमहत्त्वयोः अणुत्वमहत्त्वाभावः, अद्रव्यत्वात्, तथा परत्वापरत्वयोः परत्वापरत्वाभावः।। अद्रव्यत्वस्य तुल्यत्वात् ।। ३०६. कर्मभिः कर्माणि ॥ २४ ॥ कर्मभिरद्रव्यः कर्माणि गुणरहिततया अत एव परत्वापरत्वरहिततया व्याख्याताः। ३१०. गुणैर्गुणाः ॥ २५ ॥ गुण रद्रव्यैः गुणा: गुणरहिततया अत एव परत्वापरत्वरहिततया व्याख्याताः । अत्र प्राक्तनरीतिमनुसृत्य "अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च व्याख्याताः' इत्यप्यनुसन्धेयं प्रतीमः। बाह्यगुणनिरूपणं वृत्तम् । अथात्मगुणनिरूपणं अनन्तरेऽध्याये करिष्यति । पत्र तु प्रसङ्गात् षट्पदार्थ्या निरूपणाय अवशिष्टं अन्तिमं समवायं निरूपयन् प्रथम तस्य प्रमाणं लक्षणं च दर्शयति- ३११. इहेदमिति यतः कार्यकारणयोः स समवायः॥ २६ ॥ इह अस्मिन् वस्तुनि इदं एतद् वस्तु वर्तते, इति इत्येवंरूपः प्रत्ययः यतः यस्मात् सम्बन्धाद् भवति स सम्बन्धः समवायः समवायशब्दवाच्यः । नियामक सम्बन्धविशेषं विना इहेदमिति नियतः प्रत्ययो न भवितुमर्हति । अतः एतर त्प्रत्ययलिङ्गकमनुमानं समवाये प्रमाणम् । प्राधाराधेयभावहेतुभूतसम्बन्धत्वं तस्य लक्षणमिति भावः । न च भूतले घट इति प्रत्ययहेतो संयोगे अतिव्याप्तिरिति शङ्कयम् । आधाराधेयभ वाव्यभिचारिसम्बन्धत्वस्य लक्षणत्वात् । समानाधिकरणयो- मिथः संयुक्तयोरपि घटयोः आकाशघटयोश्च आधाराधेयभावविरहेण संयोगस्य तद्वयभि- चारित्वात् । अवयवेषु अवयवी, द्रव्ये गुणः कर्म च, द्रव्यगुणकर्मसु सामान्यम्, नित्य: - सप्तमऽध्याये द्वितीयमाह्निकम् [१०७ द्रव्येषु विशेषः, इति यत्र यत्र समवायः तत्र तत्र प्राधाराधेयभावस्य सत्त्वात् । न च कालिकसम्बन्धेऽतिव्याप्तिः । तद्भिन्नत्वस्यापि लक्षणे निवेशनात् । इहेदमिति प्रत्ययस्य बाह्यवस्तुविषयतया बाह्यगुणनिरूणानुपदं समवायनिरूपणमिति ज्ञेयम् । पूर्व कार्यकारणभूतयोर्द्रव्ययोः संयोगो नास्तीत्युक्तम् । कस्तहि तयोः सम्बन्ध इति जिज्ञासाशमनाय इह कार्यकारणयोरित्युच्यते । न तु इतरव्यवच्छेदाय । “इहेद- मिति यतः स समवायः" इत्येतावतव लक्षणसिद्धेः कार्यकारणयोरित्यस्य तद्धटकत्वा- योगात् ।। इत्थं इहेदमिति प्रत्ययनिर्वाहकतया समवायं प्रसाध्य तस्य द्रव्यादिभ्योऽति- रिक्तपदार्थत्वं साधयन्नाह- ३१२. द्रव्यत्वगुणत्वप्रतिषेधों भावेन व्याख्यातः ॥ २७ ॥ तस्येत्यध्याहारः । तस्य समवायस्य द्रव्यत्वप्रतिषेधः द्रव्यत्वाभावः, द्रव्यपदार्थे अनन्तर्भाव इति यावत् । गुणत्वप्रतिषेधः गुणत्वाभावः, गुणेष्वनन्तर्भाव इति यावत्, भावेन सत्तासामान्येन व्याख्यातः ज्ञापितो भवति । यथा गुणसामान्यशून्यत्वात् कस्य- चित् कार्यस्य समबायिकारणत्वाभावाच्च सत्ता न द्रव्यं तथा तत एव हेतोः समवायो न द्रव्यम् । यथा गुणकर्मसु च भावात् सन्ना न गुणः तथा समवायोऽपि गुणकर्मानु- बन्धित्वान्न गुणः । चलनात्मककर्मत्वाभावस्य स्पष्टत्वात् तत्प्रतिषेध इह न कण्ठोक्तः । आधाराधेयभावनिर्वाहकतया सिद्धयन् समवायः आधेयभूताभ्यां सामान्य विशेषाभ्याम- तिरिक्ततयैव सिद्धयतीति तद्वयतिरेकाभिधानमपि नापेक्षितम् । अतः द्रब्यादिभ्यः पञ्चभ्यः पदार्थेभ्योऽतिरिक्तः समवाय इति भावः।। समवायस्य एकत्वं साधयति- ३१३. तत्त्वं भावेन ॥२८ ।। तस्य तत्त्वं एकत्वं, भावेन सत्तासामान्येन व्याख्यातं ज्ञापितं भवति । इहेद- मिति लिङ्गाविशेषाद्विशेषलिङ्गभावाच्च एकः समवाय इति भावः ।। इति करणादसूत्रवृत्तौ सुगमायां सप्तमेऽध्याये द्वितीयं आह्निकम् mammsmamme १०८] वैशेषिकसूत्रवृत्ती अथाष्टमेऽध्याये प्रथममाह्निकम् परत्वापरत्वनिरूपणानन्तरं क्रमप्राप्तं बुद्धि निरूपणमारभते । बुद्धिर्ज्ञानमिति पर्यायो। ३१४. द्रव्येषु ज्ञानं व्याख्यातम् ॥१॥ द्रव्येषु द्रव्यनिरूपणपरेषु द्वितीयतृतीयचतुर्थेषु अध्यायेषु तदुपयौगितया रूपर- सादिकमिव ज्ञानमपि केनचिदाकारेण निरूपितमिति स्मारयत्यनेन सूत्रेण । 'आत्मेन्द्रि- यार्थसन्निकर्षात् यन्निष्पद्यते तदन्यत्' इति आत्मादिव्यतिरिक्तो ज्ञानरूपो गुणोऽस्तीति निरूपितमिति भावः । उपरि विशेषकथनाय इदं स्मारणम् । इह ज्ञानं प्रत्यक्षरूपम् । ३१५. तत्रात्मा मनश्चोप्रत्यक्षे॥२॥ तत्र आत्मेन्द्रिय घटादिसन्निकर्षात् निष्पद्यमाने ज्ञाने आत्मा न प्रत्यक्षः न विषयः । मनश्च न प्रत्यक्षम् । यथा मनोऽन्यद्वा करणं न प्रत्यक्ष तथा कर्ताऽऽत्माऽपि न प्रत्यक्ष इति भावः । केचिद् घटादिज्ञाने प्रात्मनोऽपि विषयत्वमाहुः घटमहं जाना- मीति । तन्निराकरण मिह क्रियते । तत्रात्मनो विषयत्वे न किमपि प्रमाणम् । अयं घट इत्येव प्रत्यक्षाभिलापादिति सूत्रकारो मन्यते । एतेन ज्ञानं स्वयमपि तत्र न विषय इत्यप्यस्य मतमिति ज्ञयम् । सूत्रद्वयमिदं प्रकारान्तरेणापि व्याख्यातुमुचितमिति भाति। ३१४. द्रव्येषु ज्ञानं व्याख्यातम् ।। द्रव्येष्विति विषयसप्तमी । द्रव्य विषयकं ज्ञानं निरूपितम् । द्रव्यविषयकं ज्ञानं अनेन कारणेन उत्पद्यत इति तदभावे नोत्पद्यत इति निरूपित मिति भावः । पृथिव्यप्ते- जस्सु “महत्यनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः। अद्रव्यद्रव्यत्वात्परमाणावनुपलब्धिः" इत्यु- क्तम् । वायो "रूपसंस्काराभावादतुपलब्धिः' इति च । अनेन आकाशकाल दिशामप्यनु- पलब्धिय॑ञ्जिता। ३१५. तत्रात्मा मनश्चाप्रत्येक्षे॥ तत्र तेषु द्रव्येषु वाथ्वाकाशकालदिश इव आत्ममनसी अपि अप्रत्यक्षे । रूप- - अथाष्टमेऽध्याये प्रथममाह्निकम् [१०६ राहित्यस्य तुल्यत्वात् । ननु ज्ञायत एवेदम् । किमर्था कण्ठोक्तिरिति चेत् आत्मनोऽ हम्प्रत्ययविषयत्वं पूर्वमुक्तम् । तेन घटपटादिवत् परकीयबाह्यप्रत्यक्षविषयत्वं मा शङ्की- त्येवमयं प्रात्मनोप्रत्यक्षरवमत्रोच्यते । नवद्रव्यप्रत्यक्षाप्रत्यक्षप्रकरणावसानव्यञ्जनाय नवसु चरमस्य मनसोऽप्यप्रत्यक्षत्वमुच्यत इति विभावनीयम् । ३१६. ज्ञाननिर्देशे ज्ञाननिष्पत्तिविधिरक्तः ॥३॥ ज्ञानस्य निर्देशे दव्यविशेषसाधनाय अभिघाने क्रियमाणे ज्ञानस्य तस्य निष्पत्ते: विधिः प्रकारः उक्तः प्रतिपादितः । “मात्मेन्द्रियार्थसन्निकर्षात् यनिष्पद्यते तदन्यत्" इति, "आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम्" इति च आत्म- मनस्साधनाय ज्ञाननिर्देशः कृतः । तत्र आत्मा इन्द्रियैः संयुज्यते । इन्द्रियाणि अर्थः संयुजन्ते । ततो ज्ञानं उत्पद्यत इति ज्ञानोत्पत्तिप्रकार उक्तो भवतीति भावः । मनःसिद्धी इन्द्रियशब्देन मनसोऽपि ग्रहणात् आत्मा मनसा, मनश्चक्षुरादिना, चक्षुरादिकं घटादि- नेति सुग्रहमेव । इत्थं ज्ञानसामान्यस्य कारणमुक्त 'स्मारितम् । अथ ज्ञानविशेषाणां विशेषकारणान्युच्यन्ते ॥ ३१७. गुणकर्मसु सन्निकृष्टेषु ज्ञाननिष्पत्तव्यं कारणम् ॥४॥ गुणस्य कर्मणो वा प्रत्यक्षरूपे ज्ञाने द्रव्यं स्वरूपतः कारणम् । कस्मात् । सन्नि- वर्षे सति हि प्रत्यक्षम्। गुणकर्मणोः प्रत्यक्षे च संयुक्तसमवायः सन्निकर्षः। द्रव्ये सत्येव इन्द्रियसंयुक्त तस्मिन् समवाय इत्ययं सन्निकर्षः सम्पन्नो भवेदिति । द्रव्यप्रत्यक्ष द्रव्यस्य साक्षादेव कारणत्वं न वक्तव्यमिति द्रव्यं विहाय गुणकर्ममात्रग्रहणम् ॥ ३१८. सामान्यविशेषेषु सामान्यविशेषाभावात् तत एव ज्ञानम् ॥५॥ गुणकर्मानन्तरपदार्थस्य सामान्यस्यापि प्रत्यक्षे पूर्ववद् द्रव्यं कारणमेव । अथापि तद्विशेष्यकज्ञानस्य स्वरसतोऽनुदयात् तदनुक्त्वा तत्प्रकारकप्रत्यक्षमनन्त रसूत्रे वक्ष्यन् तस्य प्रकारान्तरविशिष्टतया प्रतीतिर्नास्तीत्याह । सामान्यस्य विशेषम्य सामा- न्यविशेषस्य वा प्रत्यक्षं तत एव तस्मादेव सामान्यात् विशेषात् सामान्यविशेषाद्वा भवति, न तु सामान्यान्तरात सामान्य विशेषान्तराद्वा । कुतः। सामान्यान्तरादेर- भावात् । सामान्य विशेषप्रत्यक्षे सामान्यविशेषाः स्वयमेव कारणम् । नान्येऽपि सामान्य- विशेषाः । तदभावात् । सामान्यविशेषाः स्वरूपेणैव प्रत्यक्षे प्रकाशन्ते । न घन्तिर- विशिष्टतयेति भावः।

११०] वैशेषिकसूत्रवृत्ती ३१६. सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु ॥६॥ ज्ञानमित्यनुवर्तते । द्रव्यगुणकर्मविषयकं ज्ञानं सामान्यविशेषसापेक्षम् । तत्कारणकमित्यर्थः। द्रव्यगुणकर्मप्रत्यक्षे विशेषणतया सामान्यादिकं भाति । अतः इदं तत्र कारणमिति भावः । अयं घटः सन्निति प्रत्यक्षे सत्ताविशिष्टतया घटः प्रका. शते । सत्ता तु स्वरूपेण । न धर्मान्तर विशिष्टतया। अतः सत्ताज्ञानं सामान्यादि- निरपेक्षम् । तदेव तु घटज्ञानं भवत् सत्तारूपसामान्यसापेक्षम् । अयं घट इति प्रत्यक्षे घटत्वरूपो विशेषः स्वरूपेण, घटव्यक्तिः घटत्वरूपविशेषवत्तया च प्रकाशते । इदं द्रव्यं इदं पृथिवीत्यत्र द्रव्यत्वपृथिवीत्वे सामान्यविशेषौ स्वरूपेण प्रकाशेते । द्रव्यव्यक्तिविशे- षस्तु तद्वत्तया। एवं द्रव्ये ज्ञानं सामान्यविशेषापेक्षम् । एवं गुणे कर्मणि च बोद्ध- व्यम्। ३२०. द्रव्ये द्रव्यगुणकर्मापेक्षम् ॥७॥ द्रव्ये ज्ञानं द्रव्यगुणकर्माण्यपेक्ष्य भवति । अयं पुरुषो दण्डीति प्रत्यक्षे दण्डरूप- द्रव्यापेक्षम् । स्थूलः नीलः इत्यादिप्रत्यक्षे गुणापेक्षम् । गच्छति पचतीति प्रत्यक्ष कर्मा- पेक्षम् । द्रव्यगुणकर्मणां त्रयाणामपि सामान्य विशेषापेक्षज्ञानत्वं साधयं पूर्वसूत्रे उक्तम् । अथ द्रव्यस्य' गुणकर्मणोश्च वैधयं ज्ञापयन् अत्र द्रव्यज्ञानस्य द्रव्यगुणकर्मा- पेक्षत्वमाह । गुणकर्मज्ञानस्येदं नास्तीत्यर्थ सिद्धम् । ३२१. गुणकर्मसु गुणकर्माभावाद् गुणकर्मापेक्षं न विद्यते ॥८॥ गुणेषु कर्मसु च ज्ञानं गुणकर्मापेक्षं प्रकारतया गुणान्तर क्रियान्तरे अपेक्षमाणे नास्ति । कुतः। गुरणे गुणो वा कर्म वा नास्ति । एवं कर्मण्य पि गुणो वा कर्म वा नास्ति । इदं पूर्वमेवोक्तम् । अतः गुणकर्मप्रकारकं गुणकर्मप्रत्यक्षं नास्तीत्यर्थः। पूर्वसूत्र एव गुणकर्मणोः ज्ञानस्य द्रव्यगुणकर्मसापेक्षत्वविरहो ज्ञापितः । तथाऽपि गुणकर्मणोः द्रव्याश्रयत्वाभावस्य सुप्रसिद्धत्वात् तज्ज्ञानस्य गुणो द्रव्यवान् इत्याद्याकारत्वं न सम्भ- वतीति न वक्तव्यम् । चतुर्विंशतिगुणाः, रूपमुत्पद्यते, पञ्च कर्माणि, कर्मानुवर्तते इत्या- दिरीत्या गुणकर्माश्रयत्वस्य तु व्यवहारबाहुल्यात् प्रकारतया तदवगाहि प्रत्यक्षं गुण- कर्मणोभवितुमर्हतीति अस्ति भ्रमस्यावकाशः । अत इह स्पष्टोक्तिरिति ज्ञ यम् ॥

प्रथाष्टमेऽध्याये प्रथममाह्निकम् [१११ ३२२. समवायिनः श्व त्यात् श्वत्यबुद्धश्च श्वेते बुद्धिः । ते कार्य- कारणभूते ॥६॥ द्रव्ये समवैति समवायसम्बन्धेन वर्तते इति समवायि । तस्मात् श्वैत्यात् विष- यभूतात् श्वेतरूपात्, श्वैत्यबुद्धश्च तद्विपयकज्ञानाच्च विशेषणज्ञानरूपात् श्वेते द्रव्ये बुद्धिर्भवति अयं श्वेत इति । पूर्व प्रत्यक्षस्य तत्तत्सापेक्षत्वमुक्तम् । तत्र सापेक्षत्वं नाम किमिति चेत् तदिह वित्रियते । अश्वे श्वेतरूपं वर्तते । संयुक्तसमवायात् सन्निकर्षात् तस्य बुद्धिः ज्ञानं प्रत्याक्षात्मकं जायते । ततः "अश्वः श्वेत" इति विशिष्टप्रत्यक्षं जायते । ते या प्रथममुत्पन्ना श्वैत्यबुद्धिः या च पश्चादुत्पन्ना श्वेते श्वैत्यवति द्रव्ये बुद्धिः, इमे उभे मिथः कार्यकारणभूते । कारणं च कार्यत्र कार्यकारणे । अल्पाच्तरत्वात् कार्यशब्दस्य पूर्व निपातः । पूर्वोत्पन्ना श्दैत्यबुद्धिः कारणम् । अनन्तरोत्पन्ना श्वेतद्रव्यबुद्धिः तस्य कारणम्य कार्यम् । गुणसापेक्षमित्युक्त "गुणात् सनिकृष्टात् विषय- भूतात् तस्य ज्ञानं जायते । तस्मात् विशेषणज्ञानात् कारणभूतात् तद्गुणवद्रव्यज्ञाना- त्मकं विशिष्टज्ञानं कार्यभूतं जायते" इति कारणभूतविशेषणज्ञानद्वारा तदपेक्षं भव- तीति प्रतिपत्तव्यमिति भावः। श्वैत्यस्य स्वज्ञानद्वारा विशिष्टज्ञानं प्रति कारणत्वेऽपि विषयतया साक्षादपि कारणत्वमस्तीति श्वैत्यात् श्वैत्यबुद्धेश्चेति तुल्यवत् कारणत्वो- क्तिरविरुद्धा। कारणभूतं विशेषणज्ञानं निर्विकल्पकमाहुः । अन्यत्र सविकल्पकम् ।। ३२३. द्रव्येष्वनितरेतरकारणाः॥१०॥ बुद्धिरिति अनुषज्य बहुवचनान्ततया विपरिणमयितव्यम् । द्रव्येषु द्रव्यविषया बुद्धयः इतरेतरकारणा न भवन्ति । अयं घट इति बुद्धिः इदानीं जायते । अन्यदा घट इति । पुनरन्यदा स्तम्भ इति । आसां बुद्धीनां स्वतन्त्रत्वात् अन्योन्यकारणकत्वं न मवति । एका बुद्धिरितरस्याः कारणं न भवतीत्यर्थः । प्रासां बुद्धीनां मध्ये कार्यकारण- भावो नास्तीति यावत् । यद्यपि दण्डदण्डिबुद्धयोः तन्तुपटवबुद्ध योश्च अस्ति कार्य- कारणभावः तथाऽपि द्रव्यबुद्धयः सर्वाः द्रव्यान्तरबुद्धिकारणा न भवन्तीति नात्र विव- क्षितम् । अपि तु द्रव्येषु केषाञ्चन बुद्धिः द्रव्यान्तरबुद्धिकारणा न भवति । यथा अयं घट इति बुद्धिः पटबुद्धि नापेक्षत इति । एवंविधा न भवति श्वत्यरूपगुणवति द्रव्ये बुद्धिः । श्वैत्यबुद्धिकारणकत्वादिति पूर्वोक्तस्यार्थस्य व्यतिरेक- दृष्टान्तप्रदर्शनपरमिदं सूत्रम् । घटोऽयं नीलो महानिति गुणद्वयबुद्धयोरपि मिथ: कार्यकारणभावाभावात् ते अन्यत्र निदर्शनतामर्हतः ।। १ ११०] वैशेषिकसूत्रवृत्ती ३१६. सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु ॥६॥ ज्ञानमित्यनुवर्तते । द्रव्यगुणकर्मविषयकं ज्ञानं सामान्यविशेषसापेक्षम् । तत्कारणकमित्यर्थः। द्रव्यगुणकर्मप्रत्यक्षे विशेषणतया सामान्यादिकं भाति । अतः इदं तत्र कारणमिति भावः । अयं घटः सन्निति प्रत्यक्षे सत्ताविशिष्टतया घटः प्रका. शते । सत्ता तु स्वरूपेण । न धर्मान्तर विशिष्टतया। अतः सत्ताज्ञानं सामान्यादि- निरपेक्षम् । तदेव तु घटज्ञानं भवत् सत्तारूपसामान्यसापेक्षम् । अयं घट इति प्रत्यक्षे घटत्वरूपो विशेषः स्वरूपेण, घटव्यक्तिः घटत्वरूपविशेषवत्तया च प्रकाशते । इदं द्रव्यं इदं पृथिवीत्यत्र द्रव्यत्वपृथिवीत्वे सामान्यविशेषौ स्वरूपेण प्रकाशेते । द्रव्यव्यक्तिविशे- षस्तु तद्वत्तया। एवं द्रव्ये ज्ञानं सामान्यविशेषापेक्षम् । एवं गुणे कर्मणि च बोद्ध- व्यम्। ३२०. द्रव्ये द्रव्यगुणकर्मापेक्षम् ॥७॥ द्रव्ये ज्ञानं द्रव्यगुणकर्माण्यपेक्ष्य भवति । अयं पुरुषो दण्डीति प्रत्यक्षे दण्डरूप- द्रव्यापेक्षम् । स्थूलः नीलः इत्यादिप्रत्यक्षे गुणापेक्षम् । गच्छति पचतीति प्रत्यक्ष कर्मा- पेक्षम् । द्रव्यगुणकर्मणां त्रयाणामपि सामान्य विशेषापेक्षज्ञानत्वं साधयं पूर्वसूत्रे उक्तम् । अथ द्रव्यस्य' गुणकर्मणोश्च वैधयं ज्ञापयन् अत्र द्रव्यज्ञानस्य द्रव्यगुणकर्मा- पेक्षत्वमाह । गुणकर्मज्ञानस्येदं नास्तीत्यर्थ सिद्धम् । ३२१. गुणकर्मसु गुणकर्माभावाद् गुणकर्मापेक्षं न विद्यते ॥८॥ गुणेषु कर्मसु च ज्ञानं गुणकर्मापेक्षं प्रकारतया गुणान्तर क्रियान्तरे अपेक्षमाणे नास्ति । कुतः। गुरणे गुणो वा कर्म वा नास्ति । एवं कर्मण्य पि गुणो वा कर्म वा नास्ति । इदं पूर्वमेवोक्तम् । अतः गुणकर्मप्रकारकं गुणकर्मप्रत्यक्षं नास्तीत्यर्थः। पूर्वसूत्र एव गुणकर्मणोः ज्ञानस्य द्रव्यगुणकर्मसापेक्षत्वविरहो ज्ञापितः । तथाऽपि गुणकर्मणोः द्रव्याश्रयत्वाभावस्य सुप्रसिद्धत्वात् तज्ज्ञानस्य गुणो द्रव्यवान् इत्याद्याकारत्वं न सम्भ- वतीति न वक्तव्यम् । चतुर्विंशतिगुणाः, रूपमुत्पद्यते, पञ्च कर्माणि, कर्मानुवर्तते इत्या- दिरीत्या गुणकर्माश्रयत्वस्य तु व्यवहारबाहुल्यात् प्रकारतया तदवगाहि प्रत्यक्षं गुण- कर्मणोभवितुमर्हतीति अस्ति भ्रमस्यावकाशः । अत इह स्पष्टोक्तिरिति ज्ञ यम् ॥

अथाष्टमेऽध्याये द्वितीयमाह्निकम् ३२५. अयमेष त्वया कृतं भोजयनमिति बुद्धचपेक्षम् ॥१॥ बुद्धयपेक्षं प्रत्यक्षमुक्तम् । अथाद्य तदपेक्ष शब्दमाह । अयं पुरोवर्ती पुरुषः एष सदाचारसम्पन्नः श्रोत्रियः। पूर्व तस्य आचारसम्पन्नत्वं श्रोत्रियत्वं च ज्ञातवत एव एवं व्यवहारो भवति । त्वया कृतमिति व्यवहारोऽपि स्वच्छब्दवाच्यपुरुषस्य प्राक्तनी क्रियां ज्ञातवत एव । एनमित्यन्वादेशः । प्रथम इमं प्रति किञ्चिदुक्तमिति जानत एव एवमन्वादेशप्रयोगो भवति । एवमेते शब्दाः पूर्ववृत्तविषयबुद्ध यपेक्षाः । अत्र बुद्धिरिति प्राक्तनोऽनुभवो वा तज्जन्याऽद्यतनी स्मृतिर्वा ग्राह्या । "अर्थ विशिष्टः । त्वया पचनं कृतम् । अतस्त्वमेनं भोजये"ति वाक्यैकवाक्यताऽत्राभिप्रेतेति युक्त वक्तुम् । ३२६. दृष्टेषु भावाददृष्टेष्वभाबात् ॥२॥ दृष्टेषु पूर्व ज्ञातेष्वेव पुरुषादिषु ईदृशव्यवहारस्य भावात सत्त्वात्, अदृष्टेषु तेषु अभावात् असत्त्वाच्च अन्वयव्यतिरेकाभ्यां "अयमेष 'इति बुद्धधपेक्षम' इति पूर्वेण योज्यम् ॥ ३२७. अर्थ इति द्रव्यगुणकर्मसु ॥३॥ अर्थ इतीदं पदं द्रव्यगुणकर्मसु वर्तत इति शेषः । तद्वाचकमित्यर्थः । आत्मे- न्द्रियार्थसन्निकर्षजं ज्ञानमित्युक्तम् । तत्र ज्ञाने निरूपिते, इन्द्रियाणां यः सन्निकर्षः तस्य कारणं. तान् अर्थशब्देन विवक्षितान् विषयान् विशदीकरोति इदं सूत्रम् । यद्यपि सत्तादिसामान्यमपि विषयः, तत्सन्निकर्षोऽपि तज्ज्ञानकारणं, तथाऽपि भोगार्थमर्थ्य- मानानामेव विषयाणां इन्द्रियार्था इति प्रसिद्धत्वात् रूपरसादीनां गुणानां, तदाश्रयाणां द्रव्याणां, दर्शनश्रवणादीनां कर्मणां चैव तादृशविषयत्वात्, एते त्रय एव पदार्था अर्थपदवाच्यतयोक्ता इति ज्ञयम् । ३२८. द्रव्येषु पञ्चात्मकत्वं प्रतिषिद्धम् ॥४॥ द्रव्येषु कस्यापि भूतपञ्चक समुदायरूपत्वं नास्तीति पूर्वमुक्तम् । पृथिव्यादि- त्रिकरूपत्वं च प्रतिषिद्धमित्यपीहाभिप्रेतम । इन्द्रियार्थसन्निकर्पत्यत्र अर्थशब्दार्थ .

११०] वैशेषिकसूत्रवृत्ती ३१६. सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु ॥६॥ ज्ञानमित्यनुवर्तते । द्रव्यगुणकर्मविषयकं ज्ञानं सामान्यविशेषसापेक्षम् । तत्कारणकमित्यर्थः। द्रव्यगुणकर्मप्रत्यक्षे विशेषणतया सामान्यादिकं भाति । अतः इदं तत्र कारणमिति भावः । अयं घटः सन्निति प्रत्यक्षे सत्ताविशिष्टतया घटः प्रका. शते । सत्ता तु स्वरूपेण । न धर्मान्तर विशिष्टतया। अतः सत्ताज्ञानं सामान्यादि- निरपेक्षम् । तदेव तु घटज्ञानं भवत् सत्तारूपसामान्यसापेक्षम् । अयं घट इति प्रत्यक्षे घटत्वरूपो विशेषः स्वरूपेण, घटव्यक्तिः घटत्वरूपविशेषवत्तया च प्रकाशते । इदं द्रव्यं इदं पृथिवीत्यत्र द्रव्यत्वपृथिवीत्वे सामान्यविशेषौ स्वरूपेण प्रकाशेते । द्रव्यव्यक्तिविशे- षस्तु तद्वत्तया। एवं द्रव्ये ज्ञानं सामान्यविशेषापेक्षम् । एवं गुणे कर्मणि च बोद्ध- व्यम्। ३२०. द्रव्ये द्रव्यगुणकर्मापेक्षम् ॥७॥ द्रव्ये ज्ञानं द्रव्यगुणकर्माण्यपेक्ष्य भवति । अयं पुरुषो दण्डीति प्रत्यक्षे दण्डरूप- द्रव्यापेक्षम् । स्थूलः नीलः इत्यादिप्रत्यक्षे गुणापेक्षम् । गच्छति पचतीति प्रत्यक्ष कर्मा- पेक्षम् । द्रव्यगुणकर्मणां त्रयाणामपि सामान्य विशेषापेक्षज्ञानत्वं साधयं पूर्वसूत्रे उक्तम् । अथ द्रव्यस्य' गुणकर्मणोश्च वैधयं ज्ञापयन् अत्र द्रव्यज्ञानस्य द्रव्यगुणकर्मा- पेक्षत्वमाह । गुणकर्मज्ञानस्येदं नास्तीत्यर्थ सिद्धम् । ३२१. गुणकर्मसु गुणकर्माभावाद् गुणकर्मापेक्षं न विद्यते ॥८॥ गुणेषु कर्मसु च ज्ञानं गुणकर्मापेक्षं प्रकारतया गुणान्तर क्रियान्तरे अपेक्षमाणे नास्ति । कुतः। गुरणे गुणो वा कर्म वा नास्ति । एवं कर्मण्य पि गुणो वा कर्म वा नास्ति । इदं पूर्वमेवोक्तम् । अतः गुणकर्मप्रकारकं गुणकर्मप्रत्यक्षं नास्तीत्यर्थः। पूर्वसूत्र एव गुणकर्मणोः ज्ञानस्य द्रव्यगुणकर्मसापेक्षत्वविरहो ज्ञापितः । तथाऽपि गुणकर्मणोः द्रव्याश्रयत्वाभावस्य सुप्रसिद्धत्वात् तज्ज्ञानस्य गुणो द्रव्यवान् इत्याद्याकारत्वं न सम्भ- वतीति न वक्तव्यम् । चतुर्विंशतिगुणाः, रूपमुत्पद्यते, पञ्च कर्माणि, कर्मानुवर्तते इत्या- दिरीत्या गुणकर्माश्रयत्वस्य तु व्यवहारबाहुल्यात् प्रकारतया तदवगाहि प्रत्यक्षं गुण- कर्मणोभवितुमर्हतीति अस्ति भ्रमस्यावकाशः । अत इह स्पष्टोक्तिरिति ज्ञ यम् ॥

अथाष्टमेऽध्याये द्वितीयमाह्निकम् [११५ रूपवत् तेज एव प्रकृतिः। स्पर्शमात्रग्राहकस्य अत एव गन्धरसरूपत्रितयासमानाधिक- रणस्पर्शवतः त्वगिन्द्रियस्य तादृशस्पर्शवान वायुरेव प्रकृतिः । शब्दमात्रग्राहकस्य श्रोत्रस्य आकाशात्मकस्य कार्यत्वाभावात् न प्रकृतिचिन्तेति बोध्यम् । करणादसूत्रवृत्ती सुगमायां अष्टमेऽध्याये द्वितीयमाह्निकम् ११६] वैशेषिकसूत्रवृत्ती अथ ववमेऽध्याये प्रथममाह्निकम् ३३१. नियागुणव्यपदेशाभावात् प्रागसत् ॥ १ ॥ ज्ञानात्मक गुणनिरूपरणप्रकरणमनुवर्तते । तत्र बाह्यभावप्रत्यक्षमुक्तम् । अद्य प्रभावप्रत्यक्षं विवक्षितम् । तत्र प्रथम अभाव एव निरूप्यते । कार्य वस्तु उत्पत्तेः प्राक् असत् अविद्यमानं भवति । विद्यमानं हि स्वोचिता क्रियां कुर्यात्, गुणाधारः स्यात्, "अयं घटः, इभमादाय जलमाहर" इत्यादिशाब्द- व्यवहारविषयः स्यात् । न चोत्पत्तेः प्राक् कस्यचिद्वस्तुन एते धर्माः सन्ति । अतस्तत् प्रागसत् । प्रागसत्त्वं प्रागभावः । एतेन प्रागभावो नाम कश्चिदस्तीति तन्निरूपणं कृतं भवति ।। ३३२. सदसत् ॥ २॥ सत् अद्य विद्यमानं कार्य वस्तु पश्चात् असद् अविद्यमानं भवति । क्रियागुण- व्यपदेशाभावात् । पश्चादसत्त्वं ध्वंसः । एतेन प्रध्वंसाभावो निरूपितो भवति ॥ ३३३. असत: वियागुणव्यपदेशाभावादर्थान्तरम् ॥ ३ ॥ ननु सत् असदिति वस्तुनो विशेषणे । कार्य घटपटादि अद्य सत् पूर्व पश्चाच्च असदिति । तथा च सत्त्वासत्त्वे एकस्य वस्तुनो द्वे अवस्थे । तत्र नागभावः प्रध्वंसाभाव इत्यतिरिक्तः पदार्थः कथं सिद्धयतीत्यत्रेदमुच्यते । अवस्था नाम धर्मविशेषयोगः । सत्त्व- मवस्थेति युज्यते । देशविशेषकाल विशेषसम्बन्धो हि सत्त्वं नाम । उपलब्धिविषयत्वं वा । इदं घटपटादिस्वरूपे सति भवति । अत इयं तस्यावस्था ! प्राक् पश्चाच्च धर्मि- स्वरूपमेव नास्ति । क्रियागुणव्यपदेशाभावात् । तस्य असत्त्वाभिधानमवस्थायोगः कथं भवेत् । तस्मात् अभावं नाम पदार्थान्तरमभ्युपगम्य प्रागभावप्रतियोगित्वं प्रागसत्त्वम्, प्रध्वंसाभावप्रतियोगित्वं पश्चादसत्त्वमिति असत्त्वव्यवहार उपपादनीयः। पूर्व पश्चाच्च असतो वस्तुनः क्रियागुणव्यपदेशाभावात् यतः स्वरूपमेव नास्ति अतस्तभ्य असत्त्वरूपावस्थाविशेषस्यासम्भवात् असत्त्वव्यवहारनिर्वाहकं अर्थान्त- रमङ्गीकार्यम् । तदर्थान्तरमभाव इति सूत्रार्थः ।

अथनवमेऽध्याये प्रथममाह्निकम् [११७ ३३४. सच्चासत् ॥ ४ ॥ तृतीयमभावं निरूपयति । चकार एवार्थे । सदेवासत् । पूर्वोक्त द्विविधमपि प्रसत्त्वं सत्त्वासमानकालिकम् । इदं तु तृतीयमसत्त्वं सत्त्वसमानकालिकम् । सदेव वस्तु असदपि भवति । कस्मात् । क्रियागुणव्यपदेशाभावात्। यथा घट: स्वस्वरूपेण सन्नेव पटस्वरूपेणासन् भवति । पटक्रियागुणव्यपदेशानामभावात् । इदमसत्त्वं अन्योन्याभाव इति भेद इति चोच्यते। । ३३६. असदिति ३३५. यच्चान्यदसदतस्तदसत् ॥ ५ ॥ चतुर्थमभावं निरूपयति । अतः उक्तात् त्रिविधादसतः अन्यत् अतिरिक्तं यदसत् तत् असत्, प्रागसत्, पश्चादसत् वर्तमानमेव असत् इति परिच्छेदं विना केवलमस द् भवति । कालिका: दिति यावत् । अनेन अत्यन्ताभाव उक्तः । वायौ रूस्य ईदृशोऽ भावः । चकारः तच्चासदिति समुच्चयाय: । अमावनिरूपणावसानज्ञापनार्थश्च । भूतप्रत्यक्षाभावात् भूतस्मृतेविरोधिप्रत्य- क्षवत् ॥ ६॥ एवं विषयं निरूप्य तत्प्रत्यक्षं सकारणमाह । असदिति असदित्येतत् । असदिति ज्ञानमित्यर्थः । तत् भूतप्रत्यक्षाभावात् भूतस्मृतेश्च उत्पद्यते । भूतं वस्तु। यद्वस्तु अस- दित्युच्यते अथवा प्रतीयते तस्य वस्तुनः प्रत्यक्षाभावे सति, स्मृतौ सत्यां च तद्वस्तु अस- दिति ज्ञानं जायते । भूतले फले दृश्यमाने "इह फलमसदिति" ज्ञानानुदयात् अस्य ज्ञानस्य फलप्रत्यक्षामावः कारणम् । अदृश्यमानस्य फलस्य स्मरणाभावेऽपि तस्य ज्ञान- स्यानुदयात् तत्स्मरणमपि कारणम् । तत्र दृष्टान्तमाह-विरोधीति । नकुल विहरणदेशे 'सा इह असन्तः' इति यथा तथेति । विरोधिप्रत्यक्ष इवेति सप्तम्यन्ताद्वतिः । विरोधि- प्रत्यक्षे सति यथा विरोध्यन्तरप्रत्यक्षाभावात् तत्स्मृतेश्च विरोध्यन्तरमसदिति ज्ञानं भवति तथा भूतले फलाभावे फलप्रत्यक्षाभावात् फलस्मृतेश्च फलमसदिति ज्ञानं भव- तीति भावः॥ ३३७. तथाऽभावे भावप्रत्यक्षत्वाच्च ॥ ७ ॥ यथा असतिं वस्तुनि तत्प्रत्यक्षाभावात् तत्स्मृतेश्च 'तदत्र असदिति' बुद्धिर्जा- यते । तथा तदभावेऽपि ताभ्यामेव हेतुभ्यां घटाभाववान् अयं देश इति । अथवाऽत्र घटाभाव इति । परंतु प्रत्र भावप्रत्यक्षत्वमपि अपरो हेतुः । भावः प्रतियोगी पदार्थः । तस्य प्रत्यक्षत्वं प्रत्यक्षयोग्यत्वम् । प्रत्यक्षयोग्यघटादिप्रतियोगिक वामावे उक्तहेतुभ्यां प्रत्यक्षात्मिका बुद्धिर्जायत इत्यर्थः।

११६] वैशेषिकसूत्रवृत्ती अथ ववमेऽध्याये प्रथममाह्निकम् ३३१. नियागुणव्यपदेशाभावात् प्रागसत् ॥ १ ॥ ज्ञानात्मक गुणनिरूपरणप्रकरणमनुवर्तते । तत्र बाह्यभावप्रत्यक्षमुक्तम् । अद्य प्रभावप्रत्यक्षं विवक्षितम् । तत्र प्रथम अभाव एव निरूप्यते । कार्य वस्तु उत्पत्तेः प्राक् असत् अविद्यमानं भवति । विद्यमानं हि स्वोचिता क्रियां कुर्यात्, गुणाधारः स्यात्, "अयं घटः, इभमादाय जलमाहर" इत्यादिशाब्द- व्यवहारविषयः स्यात् । न चोत्पत्तेः प्राक् कस्यचिद्वस्तुन एते धर्माः सन्ति । अतस्तत् प्रागसत् । प्रागसत्त्वं प्रागभावः । एतेन प्रागभावो नाम कश्चिदस्तीति तन्निरूपणं कृतं भवति ।। ३३२. सदसत् ॥ २॥ सत् अद्य विद्यमानं कार्य वस्तु पश्चात् असद् अविद्यमानं भवति । क्रियागुण- व्यपदेशाभावात् । पश्चादसत्त्वं ध्वंसः । एतेन प्रध्वंसाभावो निरूपितो भवति ॥ ३३३. असत: वियागुणव्यपदेशाभावादर्थान्तरम् ॥ ३ ॥ ननु सत् असदिति वस्तुनो विशेषणे । कार्य घटपटादि अद्य सत् पूर्व पश्चाच्च असदिति । तथा च सत्त्वासत्त्वे एकस्य वस्तुनो द्वे अवस्थे । तत्र नागभावः प्रध्वंसाभाव इत्यतिरिक्तः पदार्थः कथं सिद्धयतीत्यत्रेदमुच्यते । अवस्था नाम धर्मविशेषयोगः । सत्त्व- मवस्थेति युज्यते । देशविशेषकाल विशेषसम्बन्धो हि सत्त्वं नाम । उपलब्धिविषयत्वं वा । इदं घटपटादिस्वरूपे सति भवति । अत इयं तस्यावस्था ! प्राक् पश्चाच्च धर्मि- स्वरूपमेव नास्ति । क्रियागुणव्यपदेशाभावात् । तस्य असत्त्वाभिधानमवस्थायोगः कथं भवेत् । तस्मात् अभावं नाम पदार्थान्तरमभ्युपगम्य प्रागभावप्रतियोगित्वं प्रागसत्त्वम्, प्रध्वंसाभावप्रतियोगित्वं पश्चादसत्त्वमिति असत्त्वव्यवहार उपपादनीयः। पूर्व पश्चाच्च असतो वस्तुनः क्रियागुणव्यपदेशाभावात् यतः स्वरूपमेव नास्ति अतस्तभ्य असत्त्वरूपावस्थाविशेषस्यासम्भवात् असत्त्वव्यवहारनिर्वाहकं अर्थान्त- रमङ्गीकार्यम् । तदर्थान्तरमभाव इति सूत्रार्थः ।

प्रथनवमेऽध्याये प्रथममाह्निकम् [११६ - । तत् प्रात्ममनसोः संयोगविशेषात् । संयोगस्य विशेषः मनसः इन्द्रियसंयोगाप्रयोज- कत्वम् । ईदृशेन आत्ममनःसंयोगेन प्रात्मनः स्वप्रत्यक्षं जायते ।। ३४२. तथा द्रव्यान्तरेषु ॥ १२ ॥ पूर्वसूत्रे मात्मप्रत्यक्षमित्यतः प्रत्यक्षमिति विभज्येहानुपज्यते । द्रव्यान्तरप्रत्यक्ष- मपि आत्मन्येव जायते । अस्यैव ज्ञातृत्वात् । तदिदं द्रव्यान्तरविषयक प्रत्यक्षमपि तथा पारममनसोः संयोगविशेषादेव जायते । अत्र संयोगस्य विशेष: इन्द्रियसंयोगप्रयोजक- त्वम् । आत्ममनसोः संयोगः प्रात्मप्रत्यक्षे द्रव्यान्तरप्रत्यक्षे चावश्यकः । तत्र इन्द्रियेण मनःसंयोगाहेतुः स संयोगः आत्मप्रत्यक्षं जनयति । तद्धेतुस्तु द्रव्यान्तरप्रत्यक्षं जनय- तीति भावः ।। ३४३. असमाहितान्तःकरणाः उपसंहृतसमाधयस्तेषां च ॥ १३॥ ये निष्पन्नयोगा योगिनः ते यदा समाधौ वर्तन्ते तदा संयमबलेन ऐन्द्रियिक च अतीन्द्रियं च सर्व वस्तु प्रत्यक्षयन्ति । तदलौकिकं प्रत्यक्षम् । यदा तु ते समाधि न कुर्वन्ति, असमाहितमनसो भवन्ति, अथवा समाधि कृत्वा ततो व्युत्थिता भवन्ति तदा ते अयोगिवदेव वर्तन्ते । तेषां च अस्यामवस्थायां अन्येषामिव आत्मनि आत्म- मनसोः सन्निकर्षविशेषात् स्वप्रत्यक्ष वा द्रव्यान्तरप्रत्यक्ष वा लौकिकं भवतीत्यर्थः ।। ३४४. तत्समवायात् कर्मगुणेषु ॥ १४ ॥ तच्छन्देन द्रव्यान्तराणि परामृश्यन्ते । तेषु समवायात तत्समवायरूपात् सन्नि- कर्षात् तद्वतिषु कर्मसु गुणेषु च प्रत्यक्ष भवति । ३४५. आत्मसमवायादात्मगुणेषु ॥ १५ ॥ मनःसंयुक्तात्मसमवायरूपात् सन्निकर्षात् आत्मवतिषु गुरणेषु सुखदुःखादिषु प्रत्यक्षं भवति । प्रात्मनि काभावात् गुणमात्रोक्तिः । बाह्यवस्तुप्रत्यक्षनिरूपणानन्तरं प्रान्तरस्यात्मनः प्रत्यक्षनिरूपरणं क्रमप्राप्तम् । ज्ञानकारणे प्रात्मेन्द्रियार्थसन्निकर्षे घटकानां अर्थानामिन्द्रियाणां च विमर्शानन्तरं प्रातिलोम्येन आत्ममनसोरुपस्थिती तत्सन्निकर्षस्य विभिन्नज्ञानकत्वोक्तिरपि सङ्गतिबलात् प्रसक्ता। तत्प्रसङ्गाच्च द्रव्यान्तर- समवेतकर्मगुणप्रत्यक्षस्य आत्मसमवेतगुणप्रत्यक्षस्य च हेतुभूतः सन्निकर्ष उच्यत इति ११६] वैशेषिकसूत्रवृत्ती अथ ववमेऽध्याये प्रथममाह्निकम् ३३१. नियागुणव्यपदेशाभावात् प्रागसत् ॥ १ ॥ ज्ञानात्मक गुणनिरूपरणप्रकरणमनुवर्तते । तत्र बाह्यभावप्रत्यक्षमुक्तम् । अद्य प्रभावप्रत्यक्षं विवक्षितम् । तत्र प्रथम अभाव एव निरूप्यते । कार्य वस्तु उत्पत्तेः प्राक् असत् अविद्यमानं भवति । विद्यमानं हि स्वोचिता क्रियां कुर्यात्, गुणाधारः स्यात्, "अयं घटः, इभमादाय जलमाहर" इत्यादिशाब्द- व्यवहारविषयः स्यात् । न चोत्पत्तेः प्राक् कस्यचिद्वस्तुन एते धर्माः सन्ति । अतस्तत् प्रागसत् । प्रागसत्त्वं प्रागभावः । एतेन प्रागभावो नाम कश्चिदस्तीति तन्निरूपणं कृतं भवति ।। ३३२. सदसत् ॥ २॥ सत् अद्य विद्यमानं कार्य वस्तु पश्चात् असद् अविद्यमानं भवति । क्रियागुण- व्यपदेशाभावात् । पश्चादसत्त्वं ध्वंसः । एतेन प्रध्वंसाभावो निरूपितो भवति ॥ ३३३. असत: वियागुणव्यपदेशाभावादर्थान्तरम् ॥ ३ ॥ ननु सत् असदिति वस्तुनो विशेषणे । कार्य घटपटा दि अद्य सत् पूर्व पश्चाच्च असदिति । तथा च सत्त्वासत्त्वे एकस्य वस्तुनो द्वे अवस्थे । तत्र नागभावः प्रध्वंसाभाव इत्यतिरिक्तः पदार्थः कथं सिद्धयतीत्यत्रेदमुच्यते । अवस्था नाम धर्मविशेषयोगः । सत्त्व- मवस्थेति युज्यते । देशविशेषकाल विशेषसम्बन्धो हि सत्त्वं नाम । उपलब्धिविषयत्वं वा । इदं घटपटादिस्वरूपे सति भवति । अत इयं तस्यावस्था ! प्राक् पश्चाच्च धर्मि- स्वरूपमेव नास्ति । क्रियागुणव्यपदेशाभावात् । तस्य असत्त्वाभिधानमवस्थायोगः कथं भवेत् । तस्मात् अभावं नाम पदार्थान्तरमभ्युपगम्य प्रागभावप्रतियोगित्वं प्रागसत्त्वम्, प्रध्वंसाभावप्रतियोगित्वं पश्चादसत्त्वमिति असत्त्वव्यवहार उपपादनीयः। पूर्व पश्चाच्च असतो वस्तुनः क्रियागुणव्यपदेशाभावात् यतः स्वरूपमेव नास्ति अतस्तभ्य असत्त्वरूपावस्थाविशेषस्यासम्भवात् असत्त्वव्यवहारनिर्वाहकं अर्थान्त- रमङ्गीकार्यम् । तदर्थान्तरमभाव इति सूत्रार्थः ।

अथ नवमेऽध्याये । द्वितीयमाह्निकम् ३४६. अस्येदं कार्य कारणं संयोगि विरोधि समवायि चेति लैङ्गिकम् ॥ १ ॥ प्रत्यक्षानन्तरं अनुमानमुच्यते । लिङ्गादागतं लैङ्गिकम् अनुमितिरूपं ज्ञानम् । इदं विविधात् लिङ्गादुत्सद्यते । कयं वैविध्यम् । अस्य कारणस्य इदं कार्यमिति क्वचित् कारणं व्यापकं भवति कार्य च व्याप्यम् । एवं अस्य कार्यस्येदं कारणं, अस्य द्रव्यस्येदं संयोगि, अस्य वस्तुन इदं विरोधि, अस्य ( अस्मिन् ) इदं समवायोति । अस्य नियमेन एतत्सम्बन्धीत्यर्थः । तेनात्र व्याप्तिरभिप्रेता। कार्येण नदीपूरेण पूर्वदेशे वृष्टिरनुमीयते । सस्यवृत्या कारणेन कर्षक स्य हर्षः। उष्णेन जलेन अग्निसंयोगिनाऽग्निः । रक्तमुखेन नकुलेन हतः सर्पः । सौरभेण तद्वद् द्रव्यम् । प्रसिद्धि- पूर्वकत्वादपदेशस्येति व्याप्तिरेवात्र प्रधानम् । नान्यः कश्चन सम्बन्ध इति पूर्वमेवेद- मवघृतम् ॥ ३४७. अस्येदं कार्यकारणसम्बन्धश्चावयवाद् भवति ॥ २ ॥ अस्येदं कार्यकारणेति पूर्वसूत्रमुच्यते । तत्राभिप्रेतो यः नियतसम्बन्धः च्याप्त्य- भिधानः सः अवयवाद् भवति । अवयवः अङ्गम् । व्याप्तिनिश्चयस्याङ्ग उदाहरणम् । तस्माद् भवति । निश्चितो भवतीत्यर्थः । पूर्व नदीपूराणां वृष्टिहेतुकत्वदर्शनेन नदीपूर- वृष्टयोः व्याप्तिं निश्चिनोति पुरुषः । अद्यतनं नदीपूरं पश्यन् सः अयमपि वृष्टि- हेतुकः पूर्वदृष्टवत् इत्यनुमिनोति । अतो व्याप्त्यवधारणं पूर्वमावश्यकम् । तद् उदाहरणे भूयोदर्शनेन भवतीति भावः । अवयवादित्यत्र कि पाठान्तरमस्तीति युक्तमन्वेष्टुम् ॥ ३४८. एतेन शाब्दं व्याख्यातम् ॥ ३ ॥ एतेन अनुमाननिरूपणेन, शाब्दं शब्दप्रभवं ज्ञानं व्याख्यातं अनुमितिरूपं दर्शितं भवतीत्यर्थः । शब्दोऽपि अनुमानमेव । न तु पृथक् प्रमाणमिति भावः । चैत्रः पचतीति द्वे पदे उच्चार्यते । ताभ्यां द्वौ अयौ बोध्येते । तयोमिथः संसर्गस्य तु बोधकं किमपि नास्ति । अतः सः अनुमानगोचर इति । ।

११६] वैशेषिकसूत्रवृत्ती अथ ववमेऽध्याये प्रथममाह्निकम् ३३१. नियागुणव्यपदेशाभावात् प्रागसत् ॥ १ ॥ ज्ञानात्मक गुणनिरूपरणप्रकरणमनुवर्तते । तत्र बाह्यभावप्रत्यक्षमुक्तम् । अद्य प्रभावप्रत्यक्षं विवक्षितम् । तत्र प्रथम अभाव एव निरूप्यते । कार्य वस्तु उत्पत्तेः प्राक् असत् अविद्यमानं भवति । विद्यमानं हि स्वोचिता क्रियां कुर्यात्, गुणाधारः स्यात्, "अयं घटः, इभमादाय जलमाहर" इत्यादिशाब्द- व्यवहारविषयः स्यात् । न चोत्पत्तेः प्राक् कस्यचिद्वस्तुन एते धर्माः सन्ति । अतस्तत् प्रागसत् । प्रागसत्त्वं प्रागभावः । एतेन प्रागभावो नाम कश्चिदस्तीति तन्निरूपणं कृतं भवति ।। ३३२. सदसत् ॥ २॥ सत् अद्य विद्यमानं कार्य वस्तु पश्चात् असद् अविद्यमानं भवति । क्रियागुण- व्यपदेशाभावात् । पश्चादसत्त्वं ध्वंसः । एतेन प्रध्वंसाभावो निरूपितो भवति ॥ ३३३. असत: वियागुणव्यपदेशाभावादर्थान्तरम् ॥ ३ ॥ ननु सत् असदिति वस्तुनो विशेषणे । कार्य घटपटादि अद्य सत् पूर्व पश्चाच्च असदिति । तथा च सत्त्वासत्त्वे एकस्य वस्तुनो द्वे अवस्थे । तत्र नागभावः प्रध्वंसाभाव इत्यतिरिक्तः पदार्थः कथं सिद्धयतीत्यत्रेदमुच्यते । अवस्था नाम धर्मविशेषयोगः । सत्त्व- मवस्थेति युज्यते । देशविशेषकाल विशेषसम्बन्धो हि सत्त्वं नाम । उपलब्धिविषयत्वं वा । इदं घटपटादिस्वरूपे सति भवति । अत इयं तस्यावस्था ! प्राक् पश्चाच्च धर्मि- स्वरूपमेव नास्ति । क्रियागुणव्यपदेशाभावात् । तस्य असत्त्वाभिधानमवस्थायोगः कथं भवेत् । तस्मात् अभावं नाम पदार्थान्तरमभ्युपगम्य प्रागभावप्रतियोगित्वं प्रागसत्त्वम्, प्रध्वंसाभावप्रतियोगित्वं पश्चादसत्त्वमिति असत्त्वव्यवहार उपपादनीयः। पूर्व पश्चाच्च असतो वस्तुनः क्रियागुणव्यपदेशाभावात् यतः स्वरूपमेव नास्ति अतस्तभ्य असत्त्वरूपावस्थाविशेषस्यासम्भवात् असत्त्वव्यवहारनिर्वाहकं अर्थान्त- रमङ्गीकार्यम् । तदर्थान्तरमभाव इति सूत्रार्थः ।

- अथनवमेऽध्याये द्वितीयमाह्निकम् १२३ संस्कारजन्यं स्वप्नान्तरं स्वप्नान्तिकमुच्यते । पूर्वस्वप्नस्यान्ते निवृत्ती जायमा- नमिति। ३५४. धर्माच्च ॥६॥ धर्माच्च स्वप्नो भवति । न संस्कारादेव । यस्मिन् स्वप्ने देवः अन्यो वा प्रादुर्भूय किञ्चित् कर्तव्यमादिशति, तदनुसृत्य क्रियमाणा जागरे प्रवृत्तिः फनवती भवति, स स्वप्नो धर्मात् पुण्यात् । धर्म इति अदृष्टोपलक्षणम् । अधर्मादपि सत्यः स्वप्नो भवितुमर्हति । जागरे अनिरूपितयाथार्थोऽपि स्वप्नः तात्कालिकसुखदुःखहेतु- भूतराज्यलाभपुत्रमरणादिदर्शी धर्माधर्महेतुको भवेत् । धातुवैषम्यं संस्कारविशेषोद्वोधन- द्वारा स्वप्नविशेषहेतुः, न स्वतन्त्र हेतुरिति युक्तम् ।। ३५५. इन्द्रियदोषात् संस्कारदोषाच्चाविद्या ॥ १० ॥ अयथार्थज्ञानं निरूप्यते । अयथार्थप्रत्यक्षरूपा तथाविधानुमितिरूपा वाऽविद्या इन्द्रियदोषान्मूलभूताद् भवति । अयथार्थस्मृतिस्वप्नरूपा तु संस्कारदोषाद् भवति । काचकामलालोकमान्यादिरिन्द्रियदोषः । संस्कारस्य दोषः अपटुत्वम् । ३५६. तद् दुष्टज्ञानम् ॥ ११ ॥ अविद्येति विद्याया प्रभाव उक्त इति न मन्तव्यम् । दुष्टज्ञानमिह विवक्षितम् । अतोऽस्य इन्द्रियसंस्कारदोषजन्यत्वमुपपद्यते । अभावस्य हि तदनुपपन्नम् । दुष्टं अय- थार्थ, विफलं विपरीतफलं च । ३५७. अदुष्टं विद्यां ॥ १२ ॥ इदानी विद्याया अपि लक्षणं सुवचमित्यभिप्रेत्याह । विद्याशब्दो ज्ञानार्थाद् विदधातोनिष्पन्नः । ज्ञानं च दुष्टमदुष्टं वा भवेत् । तत्र दुष्टज्ञानमपि विद्यति स्यात् । तन्न । यददुष्टं ज्ञानं तदेव विद्याशब्दाभिधेयम् । न दुष्टं ज्ञानमपि । अदुष्टे रूढत्वात् ।। ३५८. आर्ष सिद्धदर्शनं च धर्मेभ्यः ॥ १३ ॥ उक्तेभ्यो ज्ञानेभ्योऽतिरिक्तमपि यथार्थज्ञानमस्ति । तदत्राह। ऋषीणां सम्बन्धि आर्षम् । इदं प्रतिभारूपतया प्रातिभमित्यप्युच्यते । इन्द्रियनिरपेक्षं जायमान- मिदं त्रैकालिकवस्तुविषयं यथार्थज्ञानम् । सिद्धदर्शनं अजनविशेषादिसंस्कृतरिन्द्रियर्जा- ११६] वैशेषिकसूत्रवृत्ती अथ ववमेऽध्याये प्रथममाह्निकम् ३३१. नियागुणव्यपदेशाभावात् प्रागसत् ॥ १ ॥ ज्ञानात्मक गुणनिरूपरणप्रकरणमनुवर्तते । तत्र बाह्यभावप्रत्यक्षमुक्तम् । अद्य प्रभावप्रत्यक्षं विवक्षितम् । तत्र प्रथम अभाव एव निरूप्यते । कार्य वस्तु उत्पत्तेः प्राक् असत् अविद्यमानं भवति । विद्यमानं हि स्वोचिता क्रियां कुर्यात्, गुणाधारः स्यात्, "अयं घटः, इभमादाय जलमाहर" इत्यादिशाब्द- व्यवहारविषयः स्यात् । न चोत्पत्तेः प्राक् कस्यचिद्वस्तुन एते धर्माः सन्ति । अतस्तत् प्रागसत् । प्रागसत्त्वं प्रागभावः । एतेन प्रागभावो नाम कश्चिदस्तीति तन्निरूपणं कृतं भवति ।। ३३२. सदसत् ॥ २॥ सत् अद्य विद्यमानं कार्य वस्तु पश्चात् असद् अविद्यमानं भवति । क्रियागुण- व्यपदेशाभावात् । पश्चादसत्त्वं ध्वंसः । एतेन प्रध्वंसाभावो निरूपितो भवति ॥ ३३३. असत: वियागुणव्यपदेशाभावादर्थान्तरम् ॥ ३ ॥ ननु सत् असदिति वस्तुनो विशेषणे । कार्य घटपटादि अद्य सत् पूर्व पश्चाच्च असदिति । तथा च सत्त्वासत्त्वे एकस्य वस्तुनो द्वे अवस्थे । तत्र नागभावः प्रध्वंसाभाव इत्यतिरिक्तः पदार्थः कथं सिद्धयतीत्यत्रेदमुच्यते । अवस्था नाम धर्मविशेषयोगः । सत्त्व- मवस्थेति युज्यते । देशविशेषकाल विशेषसम्बन्धो हि सत्त्वं नाम । उपलब्धिविषयत्वं वा । इदं घटपटादिस्वरूपे सति भवति । अत इयं तस्यावस्था ! प्राक् पश्चाच्च धर्मि- स्वरूपमेव नास्ति । क्रियागुणव्यपदेशाभावात् । तस्य असत्त्वाभिधानमवस्थायोगः कथं भवेत् । तस्मात् अभावं नाम पदार्थान्तरमभ्युपगम्य प्रागभावप्रतियोगित्वं प्रागसत्त्वम्, प्रध्वंसाभावप्रतियोगित्वं पश्चादसत्त्वमिति असत्त्वव्यवहार उपपादनीयः। पूर्व पश्चाच्च असतो वस्तुनः क्रियागुणव्यपदेशाभावात् यतः स्वरूपमेव नास्ति अतस्तभ्य असत्त्वरूपावस्थाविशेषस्यासम्भवात् असत्त्वव्यवहारनिर्वाहकं अर्थान्त- रमङ्गीकार्यम् । तदर्थान्तरमभाव इति सूत्रार्थः ।

अथ दशमाध्याये प्रथममाह्निकम् । ३५६. इष्टानिष्टकारणविशेषाद् विरोधाच्च मिथः ॥ १॥ बुद्धिनिरूपणं वृत्तम् । सुखदुःखे निरूप्येते । सुख दुःखं च मिथो मिन्नम् । कारणयोः विशेषात् भेदात् । चन्दनस्पर्शादि इष्टं सुखकारणम् । अग्निस्पर्शादि अनिष्टं दुःखकारणमिति । ननु सुखदुःखभेदः सुप्रसिद्धः । किञ्च सुखदुःखभेदादेव तत्साधनयोः इष्टत्वानिष्टत्वकृतो भेदो भवति । तत्कथं विपरीतमुच्यत इति चेन्न । केवित् अल्पवास्थिरत्वादिभिः सुखमपि दुःखमेवाहुः । तदोपचारिकम् । न तु सुखमेव नास्तीति मन्तव्यमिति प्रतिबोधनाय भेदाभिधानात् । अभ्यासवशात् चन्दनाग्निस्प- र्शादिकं लोके स्वत एवेष्टानिष्टवत् व्यवहरन्तीति तथात्वोक्त श्च । अर्थान्तरभावः भेदः। ३६०. संशनिर्णयान्तराभावश्च ज्ञानान्तरत्वे हेतुः॥ २॥ संशयनिर्णयरूपे ये अन्तरे ज्ञानभदो तयोरभावः सूखदुःखयोः ज्ञानान्तरत्वे ज्ञानाद् भिन्नत्वे हेतुः ज्ञापकः । केचित् सुखं दुःखं च ज्ञानमेवेति मन्यन्ते । तन्नेत्याह । ज्ञानं द्विविधं संशयो निर्णयश्चेति ज्ञानस्य विभागे न तृतीयः प्रकारोऽस्ति । अतः सुखं दुःखं वा यदि ज्ञानरूपं स्यात् तहि सुखे दुःखे वा वर्तमाने तस्य सविषयत्वात् कोटिद्वयं वा एक एव विषयो वा तत्र भायात् । तथा च तदा संशयो वा निर्णयो वा अस्तीति स्यात् । न चास्तीति शक्यं वक्त म् । उपलम्भाभावात् । अतः सुखे दुःखे वा वर्तमाने संशयो निर्णयो वाऽस्तीति दुवंचत्वेन तदभावात् वर्तमाने सुखदुःखे न ज्ञानरूपे इति तदन्यत्वं सिद्धम् ।। ३६१. तयोनिष्पत्तिः प्रत्यक्षलैङ्गिकाभ्याम् ॥ ३ ॥ सुखदुःखयोरुत्पत्तिः प्रत्यक्षात् अनुमितेश्च । चन्दनस्पर्शप्रत्यक्षात् पुत्रजन्म- श्रवणाच्च सुखम् । कण्टकस्पर्शप्रत्यक्षात् प्रियविश्लेषश्रवणाच्च दुःखम् ॥ ३६२. अभूदित्यपि ॥ ४ ॥ अभूदिति स्मरणादपि तयोनिष्पत्तिर्भवति । अत्र मे भगवद्दर्शनमभूदिति स्मरणात् सुखम् । अत्र मे शिशोः सर्पदंशोऽभूदिति स्मरणाद् दुःखम् । ।

१२६] वैशेषिकसूत्रवृत्तिः ३६३. सति च कार्यादर्शनात् ॥ ५ ॥ पूर्व कारणाभिधानात् तत्कार्यतया प्रतीते सुखदुःखे एवात्र कार्यपदेनाभि- धीयेते । कस्मिन् सतीत्यपेक्षायां च कार्यप्रतिसम्बन्धितयोपस्थितेः कारणे सतीति लभ्यते । तथा च कारणे सत्यपि कार्ययोः सुखदुःखयोरदर्शनादिति सूत्रार्थः सम्पद्यते । अयं हेतुः। का प्रतिज्ञेति चिन्तायां हेतुस्वरूपपर्यालोचनया "शरीरं न सुखदुःख- योराश्रयः” इति गम्यते । तेन "सुखदुःखे किमात्मगुणौ उत शरीरगुणो" इति संशयोऽपि व्यजितः । सुप्तस्य शरीरे चन्दनोक्षणेन सुखं न जायते । पिपीलिकादि- दंशेन दुःखमपि न जायते । अतो न तो शरीरगुणौ । ३६४. एकार्थसमवायिकारणान्तरेषु दृष्टत्वात् ॥ ६ ॥ तस्यैव प्रबुद्धस्य ताभ्याँ हेतुभ्यां सुखदुःखे जायेते । तथा च यो ज्ञाता तस्यैव ते इति निश्चिनुमः । तयोः प्रात्मवर्तिनोः एकस्मिन् तस्मिन्नात्मरूपे अर्थे पदार्थे समवा- येन वर्तमानं ज्ञानं कारणं भवति । एवं च तस्य कारणस्य पर्यालोचनया तत्कार्ये सुखदुःखे आत्मसमवेते इति निश्चीयते । पुत्रजननादिश्रवणेन अर्थनाशादिश्रवणेन च जायमानौ हर्षविषादौ श्रोतुः आत्मन एव भवितुमर्हतः । पूर्वसूत्रे शरीरावृत्तित्वे हेतुरुक्तः । अत्र तु आत्मवृत्तित्वे । ३६५. एकदेश इत्येकस्मिन् शिरः पृष्ठमुदरं मर्माणि तद्विशेषद्वि- शेषेभ्यः॥ ७॥ . ननु यदि सुखदुःखे आत्मगुणौ तहि कयं “पादे मे वेदना शिरसि मे वेदना' इत्यनुभव इति चेदत्राह । एकस्मिन् शरीरे एकदेश इति शिर आदीन्युच्यन्ते । मर्माणि गुह्यस्थानानि । ततः किमिति चेत् तद्विशेषेभ्यः तेषां एकदेशानां तत्सम्बन्धिभिः, तेषु जातः विशेषः छेदभेददाहकण्टकवेधादिभिः, तद्विशेषः दुःखस्य विशेषः ‘पादे वेदना, शिरसि वेदना' इत्यादि विभिन्नव्यवहारविषयत्वं भवति । आत्मनाऽनुभूयमानाया वेदनायाः अवच्छेदकप्रदेशा इमे । न त्वनेन व्यवहारेण एकदेशानां वा एकदेशिनः शरीरस्य वा वेदनाश्रयत्वं भवति । प्रबलैर्हेतुभिस्तन्निरासादिति भावः । सुखदुःखे प्रति विशिष्य वक्तव्यमुक्तम् । इच्छाद्वेषप्रयत्नाः पूर्व षष्ठे उक्ताः । तेषु वक्तव्याभावादिहोपेक्षा ॥ इति वशमेऽध्याये प्रथममाह्निकम् ॥

अथ दगमेऽध्याये द्वितीयमाह्निकम् ।। [१२७ अथ दशमेऽध्याये द्वितीयमाह्निकम् ३६६. कारणमिति द्रव्ये कार्यसमवायात् ॥१॥ द्रव्ये कारणमिति व्यवहारो भवति । कुतः कार्यस्थ तस्मिन् समवायात समवायसम्बन्धन उत्पत्तेः। द्रव्यं तादृशं कारणं भवति यत्र कार्यमुत्पद्यमान समवाय- सम्बन्धेन वर्तते, यथा तन्तुषु पटः, घटे रूपादिकञ्च । एतेन समवायिकारणं नाम किञ्चित् कारणमस्तीति बोधितं भवति । ३६७. संयोगाद्वा ॥२॥ कार्यसंयोगाद्वा द्रव्ये कारणमिति व्यवहारो भवति । यथा चक्रे उत्पद्यमानो घटः संयोगेन तत्र वर्तते। कुलालेन संयुक्तो भवति । एवं कार्यं यत्र संयोगि भवति वत् कारणं निमित्तकारणमुच्यते । परम्परया संयोगी दण्डोऽपि निमित्तकारणम् ॥ ३६८. कारणे समवायात् कर्मणि ॥ ३ ॥ कर्मणि कारणमिति व्यवहारः कारणे समवायात् कार्यसमवायिकारणे समवा- यात् । द्रव्ये समवेतं कर्म तस्मिन् द्रव्ये संयोगविभागौ वेगञ्च जनयति । तस्मात् कर्म कारणम् । इदमसमवायिकारणमुच्यते ॥ ३६६. तथा रूपे कारणकार्थसमवायाच्च ॥४॥ रूप इति गुणोपलक्षणम् । तथा गुणे । गुणेऽपि कारणे समवायात् कारण- व्यवहारो भवति । यथा पतति द्रव्ये पाद्यपतनसमवायिकारणे समवायात् गुरुत्वं आद्यपतनं प्रति कारणं भवति । एवं द्रवत्वं आद्यस्पन्दनसमवायिकारणे जले समवा- यात् तत्प्रति कारणं भवति । रूपादिर्गुणस्तु कारणकार्थसमवायाच्च कारणम् । पट- रूपस्य समवायिकारणं पटः । तेन सह एकस्मिन्नर्थे वस्तुनि तन्तौ समवायः तन्तुरूपस्य । तेन तन्तुरूपं पटरूपस्य कारणम् । इदमप्यसमवायि कारणम् ।। ३७०. कारणसमवायात् संयोगः पटस्य ॥५॥ पटसमवायिकारणेषु तन्तुषु समवायात् संयोगः पटस्य कारणम् । संयोगस्य गुणस्य असमवायिकारणत्वमिदमुक्त उत्तरत्र विशेषविवक्षया ।

१२८] वैशेषिकसूत्रवृत्तिः ३७१. कारणकारणसंयोगाच्च ॥६॥ न परं कारणे समवायात् संयोगः कारणं, अपि तु कारणकारणे समवायाच्च । कायपुस्तकसंयोगस्य समवायिकारणं कायः । कायस्य समवायिकारणं हस्तः । अस्मिन् समवायः हस्तपुस्तकसंयोगस्य । अयं कायपुस्तकसंयोगस्यासमवादि कारणम् ।। ३७२. संयुक्तसमवायादग्नेर्वैशेषिकम् ॥७॥ विशेष एव वैशेषिकम् । विशेषगुणः । असाधारणगुण इति यावत् । अग्ने- रसाधारणो गुणः उष्णस्पर्शः । सः संयुक्तसमवायात् स्वकार्यस्य यत्समवायिकारणं तेन यत् संयुक्त तत्र समवायात् कारणं भवति । पाकजरूपादीनां समवायिकारणं परमाणुः । तेन संयुक्तोऽग्निः। तत्र समवायः उष्णस्पर्शस्य । अयं पाकजरूपादेरसम- वायिकारणम् । एवं समवायिकारणं असमवायिकारणं निमित्तकारणमिति त्रिविधं कारणं निरूपितम् । उद्देशसूत्रे तत्त्वज्ञानान्निःश्रेयसमिति अन्ते पञ्चम्या तत्त्वज्ञानं कारणमुक्तम् । अत इह शास्त्रान्ते कारणनिरूपणमिति ज्ञेयम् । ३७३. दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय ॥८॥ कृतेन विस्तृतेन निरूपणेन पदार्थानां तत्त्वज्ञानं सम्पाद्य वेदविहितानि कर्माण्यनुष्ठेयानि । तत्रोपयुज्यमानानि द्रव्याणि गुणाश्च क्रियमाणानि कर्माणि च लोकसिद्धा एव पदार्थाः । तेषां प्रयोजनान्यपि लोकसिद्धानि तानि तानि भवन्ति । परन्तु तेषां यज्ञान्तर्गततया प्रयोगे दृष्टं फलं किमपि नास्ति । न हि हूयमानस्य हविषः चतुरो मुष्टीन निर्वपतीति विहितसङ्खयापरिमाणादेः प्रयाजानूयाजादिरूपकर्मणां च दृष्टं फलं किमप्यस्ति । न च तावता निष्फलत्त्वमेव । वेदविहितत्वात् । तहि किं फलमिति चेत् प्रभ्युदयः । अपूर्वद्वारा स्वर्गादिकं तत्र तत्र वेद एव श्रूयमाणम् । अथातो धर्म व्याख्या- स्याम इति प्रतिज्ञातं धर्मव्याख्यानं इत्थं अतिसंक्षेपात् कृतमिति ज्ञेयम् । ३७४. अस्मबुद्धिभ्यो लिङ्गमषेस्तद्वचनादाम्नायस्य प्रामाण्यम् ।६॥ आम्नायस्य प्रामाण्यं सिद्धं कृत्वा तत्प्रामाण्यं धर्मबोधकत्वादेव । अन्यथा इतरेषां सर्वेषामर्थानां प्रत्यक्षानुमानाभ्यामवगतत्वेन प्रमेयाभावात् तस्याप्रामाण्यमेव स्यात् । अतो वेदप्रामाण्यमङ्गीकुर्वद्भिः अत एव तत्प्रमेये धर्मे श्रद्धालुभिः तस्य ज्ञानं अथदशमेऽध्याय द्वितीयमालिकन [१२१ अवश्यं सम्पादनीयमित्यभिप्रेत्य "तद्वचनादाम्नायस्य प्रामाण्यम्" इति शास्त्रारम्भ उक्तम् । अधुना शास्त्रोपसंहारे तत्प्रामाण्यमेव कथमित्येतन्निरूपयति । प्राप्तोत्तत्वेन हि शब्दस्य प्रामाण्यम् । परम प्राप्तः ईश्वरः । तेन कृतत्वात् वेदस्य प्रामाण्यं निरा- बाबम् । इदमुच्यते तद्वचनादाम्नायस्य प्रामाण्यम् इति । तेन ऋषिणा सर्वज्ञेन सर्व- दोषप्रत्यनीकस्वभावेन सर्वेश्वरेण वचनात् उक्तत्वात् उपदिष्टत्वात् आम्नायस्य वेदाज्यस्य शब्दस्य प्रामाण्यं यथार्थबोधकत्वं भवति । - ननु सर्वेश्वरः कश्चिदस्तीति कथं प्रत्येतव्यम् । तत्सत्त्वे किं प्रमाणमित्यत्राह 'अस्मद्बुद्धिम्यो लिङ्गषे, इति । ऋषेः सर्वज्ञस्य सर्वेश्वरस्य लिङ्गं अनुमापको हेतुः, अस्माकं याः बुद्धयः अनुभवाः कार्यकारणविषयाः इदमस्य कार्यस्य कारणं इदमस्य कारणस्य कार्य, इत्यन्वयव्यतिरेकसम्पन्नाः निश्चयाः तेभ्यो लभ्यते, सम्पद्यते । प्रति- कार्य कारणं किञ्चित् पश्यामः । कारणं विना किञ्चित् कार्य भवेदिति शङ्कितुमपि न शक्यम् । एवं व्याप्तिविषयात् सुदृढात् निश्चयात् ईश्वरानुमानं सुकरं भवति । क्षित्य- ङ्करादिकं सकर्तृकं, कार्यत्वात्, घटवदिति । एवमनुमानसिद्धन आप्ततमेन भगवता कृत्वा उपदिष्टत्वात् वेदः प्रमाणमिति ॥ , इति कणादसूत्रवृत्तौ सुगमायां दशमेऽध्याये द्वितीयमाह्निकम् । समाप्तं शास्त्रम् अय्यन्तामृतसिन्धुमन्थनपरिस्पूर्जद्रसोाप्लव- व्यासङ्गातिशयात् तदन्यविषयव्यावृत्तचित्तस्य मे । तन्त्रे काणभुजेऽजनीत्थमधुना व्याख्याविधानोद्यमः सूत्राणां निजमर्थमाह विवृतियां साऽस्ति नकापि यत् ॥ अर्थों निबन्धेष्वयमक्षराणामित्येवमार्यरभिधेयमादी। स्याने ततो बुद्धिबलानुरूपो विधित्सितो वादझरीविहारः।। व्योमर्षिनन्दशीतांशुप्रमिते बाह्यवत्सरे । पूरणं कणभुक्सूत्रव्याक्रिया सुगमागमत् ।।

१३०]
वैशेषिकसूत्रवृत्तिः
पूर्वोत्तरमीमांसाचिरपरिचयसिद्धबुद्धिवेशद्यः।
श्रीशैलस्तातार्यः पण्डितराजो व्यधादिमां सुगमाम् ।।
--

No text on this page.

No text on this page.

No text on this page.

Vaisheshhikasutra Vrxtti:-

Author
Deshika Tirumalataataachaar^ya
Title
Vaisheshhikasutra Vrxtti:-
File name
Vaisheshika Sutra Vrutti
Text
OCR done
Citation
1979
Published
2004/12/20
Publisher
Ganganatha Jha Kendriya Sanskrit Vidya Peetam ,aallahabad
Language
Sanskrit
Pages
156
Library
Asr,melkote
Classification
Logic. Epistemology
Keywords
A commentary on Vaisheshika Sutra of Kanada
DLI number
383294
Barcode
1990020047575.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
EAUjRNhbvOs
Download PDF

Vaisheshhikasutra Vrxtti:-