Bharti Bhawan Library Allahabad

Dasakumaracharita

Pt. Harihar Shastri

PDF Proofread

Front matter

8132
THE
DASAKUMARACHARITA
OF
DANDIN
WITH
MANORAMA COMMENTARY.
Vyakaranacharya Pt. Krishna Shastri
CORRECTED BY
Pt. HARIHAR SHASTRI
PUBLISHED BY
Gangavishnu Shrikrishnadas.
Proprietor, Laxmi Venkateshwar Steam Press,
KALYAN, BOMBAY.
1931.

ASMROSASARAMDImmanePARAJULITARAI
मुद्रक और प्रकाशक ।
गङ्गाविष्णु श्रीकृष्णदास,
मालिक-"लक्ष्मीवेङ्कटेश्वर" स्टीम् प्रेस, कल्याण-बंबई.
सन् १८६७ के आक्ट २५ के
अनुसार
रजिष्टरी सब हक्क
प्रकाशकने अपने आधीन रखा है,
HAIR

किञ्चित्प्रास्ताविकम् ॥ अस्मिञ्जगतीतले प्राचीनतर-कविवर-दण्डिनो महत्त्वं कीदृशं वरीवति इति द्विरचितकाव्यादर्शादिग्रन्थदर्शनेन वर्णयितुं शक्यते-उक्तं च- त्रयो वेदास्त्रयो लोका यथा वा पावकास्त्रयः। प्रबन्धा यस्य राजन्ते स दण्डी केन नेडयते ॥ त्रयोऽमयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः। त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः॥ प्राचीनतरत्वे कविवरत्व च इत्थं वचनम्- जाते जगति वाल्मीको कविरित्यभिधाऽभवत् । कवी इति ततो व्यासे कवयस्त्वयि दण्डिाने । इत्यादिभिर्वाक्यैरस्य कवेरलङ्कारादिशास्त्रेषु नितरां निष्णातत्वं प्रतिभा- शालित्वं च दरीदृश्यते एव अतो विशेषरूपेण परिचयदानस्यापेक्षा नास्ति । साम्प्रतं सर्वे जानन्त्येव "काणादं पाणिनीय च लवशास्त्रोपकारकम् ।' इति वचनेन सम्यक्तया परिशीलितशास्त्रद्वयवानेव अनेकशास्त्रेवधिकारी भवतीति । अत एतच्छास्त्रद्वयज्ञानवता दुरवगाहमपि साहित्यशास्त्रमनायासेन अल्पीयसा अनेहसा करतलामलकवत्कर्तुं शक्यते । मन्दमतीनां व्युत्पित्सूनां कविवरदण्डिप्रणीत-दशकुमारचरितस्थ--ललितवाक्सुधामधुरमधुझरामास्वादाय- तुमसमर्थानां शीघ्रतया बोधार्थमस्योपार चित्ताह्लादजनकव्याख्यानाभावेन सर्वेषामुपकारार्थमवश्यकरणीयत्वं चावेक्ष्य "श्रीवेङ्कटेश्वर " स्टीम्-मुद्रणयन्त्रा- लयाध्यक्ष श्रीक्षेमराजात्मज-रावसाहिबयदान्वित-श्रीर नाथ- श्रीनिवास-श्रीष्टि- महोदयानां व्याख्यानिर्माणविषये आज्ञां चोररीकृत्य यथामति दशकुमारचार- तस्य अन्वर्थी मनोरमाख्यां व्याख्यां व्यरीरचम् । इदं च तेभ्य एव श्रीवङ्कटेश्वर-" स्टीम्-मुद्रणयन्त्रालयाध्यक्षेभ्यः सर्वथा पुनर्मुद्रणाद्यधिकारपुरःसरं सादरं समर्पितवान् । अस्य दशकुमारचरितस्य पूर्वपीठिकायाम, उत्तरपीठिकायाम् , कथोपसंहारे च यानि यानि क्लिष्टपदानि तेषां समास-विग्रहादिद्वारा विभागं प्रदर्श तत्त- ७ त्पदानामर्थान् भावसंदर्भादींश्च निरूप्य तत्रतत्र कोश-व्याकरणसूत्राणि च सम्य- क्तया प्रतिपादितानि । अतोऽस्य ग्रहणेनाध्ययनाध्यापनादिना सर्वे विद्वांसो मत्परिश्रमान् सफलीकुर्वन्तु इति प्रार्थये संशोधनकाले सत्वरतया अवलोकनेन सीसकाक्षरयोजकदोषेण वा मनुष्य धर्मत्वाद्यदि दोषा गोचरीभूता भवेयुश्चेत्तार्ह- न चात्रातीव कर्तव्यं दोषदृष्टिपरं मनः । दोषो ह्यविद्यमानोऽपि तच्चित्तानां प्रकाशते ॥” इत्युक्तिं संस्मृत्य गुणैकपक्षपातिभिर्विद्वद्वरैरवश्यं क्षन्तव्याः इति च ! मनोरमाख्या व्याख्येयमिषस्य विजयातिथौ । समाप्तिमगमद्भौमे वस्वष्टाङ्केन्दुवैक्रमे ।। प्रधाननिवासस्थानम्- आश्चिन, शुक्ल-विजयादशमी १० काशी, मोह. घासीटोला, मंगळवार, शके १८५३. इसवी ता. २० अक्टोम्बर १९३१, घर नम्बर १०, विद्वज्जनकृपाभिलाषी- मुंबईस्थ-"श्रीवेङ्कटेश्वर" स्टीम्-मुद्रण- यन्त्रालयस्य प्रधानशास्त्री पौराणिको-पाख्यः कृष्णशर्मा श्रीः। दशकुमारचरितम्। पूर्वपीठिका। प्रथमोच्छवासः। ब्रह्माण्डच्छत्रदण्डः शतवृतिभवनाम्भोरुहो नालदण्डः क्षोणीनौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः । ज्योतिश्चक्राक्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोऽछिदण्डः श्रेयवैविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ॥ मनोरमा। यद्दयालवमात्रेण पुरुषार्थचतुष्टयम् । लभ्यते तमहं बन्दे वेङ्कटेशमहर्निशम् ॥ १ ॥ कुमारकाणां दशकस्य यत्पुरा चरित्रमाख्यायि कवीन्द्रदण्डिना। अध्येतृवर्गस्य सुखेन बुद्धये गीर्वाणटीका क्रियते मनोरमा ॥ २ ॥ नाहं रसज्ञो नच भाववेत्ता नैवाप्यलंकारविदल्पबुद्धिः । तथाऽप्यनुज्ञां शिरसा वहन्प्रभोः करोमि टीका दयता रमेशः ॥ ३ ॥ इह किल वसुधातले " कविर्दण्डी कविर्दण्डी” इत्यादिना मुक्तकण्ठमुद्धोषितो वागधिष्टा- ज्यैव, कुकवीन्प्रति यथार्थनामाऽपि अयथार्थनामा सदन्तेवासिनः प्रत्युत करुणानिलयो दण्डी कविकुलशिरोमणिः “काव्यं यशसेऽर्थकृते व्यवहारविदे-" इत्यादिना काव्यस्य निखिल- कल्याणसाधनतां विचिन्त्य " दशकुमारचरितम्" नाम श्राव्यं काव्यं बिरिरचयिषुः "मङ्गलादीनि-" इत्यादिवचनानुसारेण “ आशीर्नमस्किया वस्तुनिर्देशो वाऽपि तन्मुखम् । इत्यभियुक्तोक्कलक्षणलक्षितं स्वेष्टदेवतासकाशादाशी प्रार्थनारूपं मङ्गलं विधाय शिष्यवो- धाय तद्रन्थस्यादौ निबध्नाति--ब्रह्माण्डेति । आदौ त्रिगुरुकस्य मगणस्योपादानादभी- ष्टासिद्धिः सूच्यते । " मो भूमिः श्रियमातनोति विपुलाम् " इत्यभिधानात् । ब्रह्माण्डमेव छत्रमातपत्रम् । 'हैमं छत्रं त्वातपत्रम्' इत्यमरः। तस्य दण्डो लगुडः । 'दण्डोऽस्त्री लगुडेऽपि स्यात् ' इत्यमरः । शतधृतेः ब्रह्मणो भवनं वा म् । ' भवनागारमन्दिरम् इत्यमरः । तथाभूतं यदम्भोरुट् कमलं तस्य । “ बिसनसूनराजीवपुष्कराम्भोरुहाणि च " इत्यमरः । क्षोणी वसुंधरा । क्षोणी ज्या काश्यपी क्षितिः' इन्टामानः । सैव नौः तराणः । स्त्रियां नौस्तरणिस्तारः' इत्यमरः । तस्याः कूपदण्डो वाय्वानुकूल्यार वस्त्रबन्धनस्तम्भः गुणवृक्षकः इत्यमरः । क्षरन्ती प्रस्नुवन्ती चासौं अमरसरित स्वर्गङ्गा । ।

दशकुमारचरितम् । [ पूर्वपीठिकायां अस्ति समस्तनगरीनिकपायनागा शश्चगण्यापण्यविस्तारितमणिगणादिवन्तु- जातव्याख्यातरत्नाकरमाहात्म्या मगधदेशशेखरीभूता पुष्पपुरो नाम नगरी । तत्र वीरभटपटलोत्तरङ्गतुरङ्गकुञ्जरमकरभीषणलकलरिपुगणकटकजलनिधिमथनमन्द- रायमाणसमुदण्डभुजदण्डः, पुरंदरपुराङ्गणवनविहरणपरायणगीर्वाणतरुणगणिका- 'नदी सरित् ' इत्यमरः। सैव पट्टिका ध्वजवस्त्रखण्डः । तस्याः केतुदण्डो ध्वजदण्डः । उयोतिषां नक्षत्रादीनां यच्चक्रं समुदायस्तदेव चक्र स्थानम् 'चक्रं रथाङ्गम्' इत्यमरः तस्याक्षदण्डोऽप्रकीलकम् 'पिण्डिकानाभिरक्षाप्रकीलके' इत्यमरः । त्रयाणां भुवनानां विष्टपानां समाहारत्रिभुवनम् । 'विष्टपं भुवनं जगत्' इत्यमरः । तद्धितार्थ' इति समासो द्विगुः । ' पात्राद्यन्तस्य न ' इति निषेधान्न स्त्रीत्वम् । तस्य विजयः स्वायत्तीकरणं तद्योतकः स्तम्भ- दण्डः स्थूणादण्डः । 'स्थूणा स्तम्भेऽपि वेश्मनः' इत्यमरः । विवुधान्सुरान्द्विषन्ति नित्यम् इति ते 'सुप्यजातौ' इति णिनिः । तेषां दानवानां कालदण्डो यमकरतलवी दण्डस्तद्वद्भयानक इति यावत् । 'कालो दण्डधरः श्राद्धदेवः' इत्यमरः । त्रयो विक्रमाः पादविन्यासा यस्य वामन- रूपधारिणः स त्रिविक्रमस्तस्यायं त्रैविक्रमः । 'तस्येदम्' इत्यण् । एवंभूतः अघ्रिश्चरणः पदनि- श्चरणोऽस्त्रियाम् इत्यमरः । स दण्ड इव । ते तुभ्यं पठितृभ्यः इति यावत् । सामान्येनैकवचनम् । श्रेयः कल्याणं वितरतु ददातु । ' स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः । अत्र स्रग्धरावृत्तम् । 'नम्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' । इति वृत्तरत्नाकरे ॥ चिकीर्षितां कथामुपक्रमते-अस्तीति । समस्तानां निखिलानां नगरीणां पुरीणां मध्ये नि- कषः सुवर्णवर्षणशिलेवाचरतीति निकषायमाणा।' समस्तनिखिलखिलानि इत्यमरः पूः स्त्री पुरीनगयौँ वा' शाणस्तु निकषः कषः' इति च । कर्तुः क्यङ् सलोपश्च' इति क्यङ् । शश्चत् पुनः पुनरगण्यान्यसंख्यानि, पण्यानि विन्यारेणि, विस्तारितानि आप- णेषु इतस्ततः प्रसारितानि यानि मणिगणादिवस्तूनां पदार्थानां जातानि निकुरम्बाणि तैः व्याख्यातं प्रथितं रत्नाकराणां समुद्राणां माहात्म्यं महिमा यत्र सा ।' : पुनः पुनः शश्वत्' 'विक्रेयं पणितव्यं च पण्यम् ' ' रत्नाकरो जलनिधिः' इति सर्वत्रामरः । मगधदेशस्य शेखरीभूता शिरोऽलंकारभूता । ' शिखास्वापीडशेखरौ' इत्यमरः । तत्रेति । तादृक्समृद्धि- मत्यां नगर्याम् । वीरा बलवन्तो ये भटा योधास्तेषां पटलेन समूहेनोत्तरङ्ग उच्छ्रितोभिः तुरङ्गा वाहाः कुञ्जरा दन्तावलाः एतैरेव मकरैर्नक्रादिभिषिणो भयानकः, एवंभूतो यः सकल- रिपुगणानां समग्रवैरित्रातानां कटकं वलयमेव जलनिधिः समुद्रस्तस्य मथने विलोडनकर्मणि मन्दराचल इवाचरन् समुद्दण्डो बलीयान् भुजदण्डो बाहुदण्डो यस्य । योद्धारः '' समूहे पटलं न ना ' ' वीचिस्तरङ्गः 'तुरंगाश्चतुरंगमाः करी दारुणं भीषण भीष्मम् । 'रिपौ वैरि सपत्नारि-' 'समवायश्चयो गणः ' कटकं वलयोऽस्त्रियाम् ' 'भुजबाहू प्रवेष्टो दोः' इति सर्वत्रामरः । पुरंदरेति। पुरं- दरस्य शुनासीरस्य पुराङ्गणे नगरीचत्वरे वर्तमानं यन्नन्दनाख्यं वनं तत्र विहरणे क्रीडायां भटा योधाच . • कुञ्जरो वारणः ।

AMAYANS-Mana प्रथमोच्छ्वासः मनोरमाख्यव्याख्यासहितम् । गणजेनीयमानयातिमान्या शरदिन्दुकुन्दघनसारनीहारहारमृणालमरालसुरग- जनीरक्षीरगिरिशाट्टहासकलासकाशनीकाशमूर्त्या रचितदिगन्तरालपूर्त्या कीर्त्या- ऽभितः सुरभितः, स्वलोकशिखरोरुरुचिररत्नरत्नाकरवेलामेखलावलयितधरणी- रमणोलौभाग्यभोगभाग्यवान, अनवरतयागदक्षिणारक्षितशिष्टविशिष्टविद्यासंभा- रभानुरभूसुरनिकरः, विरचितारातिसंतापेन प्रतापेन सतततुलितवियन्मध्यहंसः, , . 6 वी , स्यु- F छा परायणा आसत्ता या गीर्वाणानां देवानां तरुणगणिका युवत्यो बारस्त्रियस्तासां गणेन जेगीयमानाऽत्यन्त गीयमाना तया । अतिमानयेयत्ताशुन्यया । वृद्धश्रवाः शुनासीरः पुरुहूतः पुरंदरः अङ्गणं चत्वराजिरे, गीर्वाणा दानवारयः वयस्यस्तरुणो युवा वारस्त्री गणिका वेश्या' । प्रमाण हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु ' इति चामरः धातोरेकाचो हलादेः-' इति यान्तात्कणि रूपं जेगीयमानयोति । शरदिति । इन्दु- चन्द्रमाः । कुन्दं माध्यप्रसूनम् । घनसारः कर्पूरः । नीहारो हिमम् । हारो मुक्तावली । नृणालं विसन् । नराली हंसः । गज ऐरावतः । नीरं जलम् । क्षीरं दुग्धम् । गिरिशस्य महादेवस्याट्टहासो महान्हासः । काशस्तृणविशेषः । एभिर्नीकाशा निभा मूर्तिस्तनूर्यस्यास्तया इन्दुः कुमुदवान्धवः ''कुन्दं माध्यम् धनसारश्चन्द्रसंज्ञः अवश्यायस्तु नीहारः हारो मुक्तावली' 'मृणालं विसम् ' 'नीरक्षीराम्बु शम्बरम् ' 'दुग्ध क्षीरं पयः समम् गिरीशो गिरिशो मृडः' निभसंकाशनीकाश-''स्त्रियां मूर्तिस्तनुस्तनूः' इति सर्वत्रा- मरः । रचिता कृता दिगन्तरालानां हरिन्मध्यभागानों पूर्तिः संपूर्णता यया तादृश्या कीर्त्या यशसाऽभितः सर्वत्र प्रदेशेषु सुरभितो मनोरमः। ‘दिशस्तु ककुभः काष्ठा ' ' अभ्यन्तरं स्वन्तरालम् ' 'यशः कीर्तिः समज्ञा च ' इत्यमरः । स्वलॊकेति । स्वर्लोकस्य सुमेरोः शिखराणि शशाणीवोरूणि पृथूनि रुचिराणि मनोरमाणि च रत्नानि मणयो यस्मिंस्तादृशस्य रत्नाकरस्य पारावारस्य या वेला जलोनतिमर्यादा सैव मेखला रशना तया वलयिता परि- वष्टिता या धरणी पृथिव्येव रमणी सुन्दरी तस्याः सौभाग्यस्य भौगे सुखानुभवे भाग्यवान् भागधेयसंपन्नः । 'कूटोऽस्त्री शिखरं राजम् ''वडोरु विपुलम् ' ' सुन्दरं रुचिरं चारु' रत्नं मणियोः ' ' अध्यम्बुविकृतौ वेला ''स्त्रीकट्यां मेखला काञ्ची' “धरा धरित्री धराणिः । 'सुन्दरी रमणी रामा'' भोगः सुखे ख्यादिभृतौ' 'दैवं दिष्टं भागधेयं भाग्यम् इति सर्वत्रामरः । अनवरतेति । अनवरतं निरन्तरमनुष्ठितेषु यागेवध्वरेषु दीयमानाभि- दक्षिणाभिहतुभी रक्षितः, शिष्टाः सदाचरणसंपन्नाः, विशिष्टविद्यानां संभारेण भासुरा भास- मानाश्च ये भूसुरा ब्राह्मणास्तेषां निकरो व्यूहो येन सः। नित्यानवरताजस्रम् ' 'यज्ञः सवोऽबरो यागः 'द्विजात्यग्रजन्मभूदेववाडवाः' ' स्तोमौघनिकर-' इति चामरः । विरचितोऽरातीनां शत्रूणां संतापः पीडा येन तादृशेन प्रतापेन पराक्रमेण आतपेन च सततं निरन्तरं तुलितः स्वेनोपमिते वियतो व्योम्नो मध्यभागे. यो हंसः सूर्यो येन । ' अभिघाति- पति- 'सततानारताश्रान्त-: "वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी ' ' रविश्वेतच्छदौ - . छत्र । , লাখলিলু। [पूर्वपीठिकायां राजहंसो नाम धनदर्पकन्दर्पसौन्दर्यसोदर्ययनिरवद्यरूपो भूपो बभूव । तस्य वसुमती नाम सुमतो लीलावतीकुलशेखरमणी रमणी बभूव ! रोषणेक्षणेन निदि- लक्षणन भस्मीकृतचेतने मकरकेतने तदा भयेनानवद्या वनितति मत्वा, तस्य रोल- म्बावली केशजालम् , प्रेमाकरो रजनीकरो विजितारविन्दं वदनम्, जयध्वजाय- मानो मीनो जायायुतोऽक्षियुगलम्, सकलसैनिकाङ्गवीरो मलयसमारो निःश्वासः, पथिकहहलनकरवालः प्रवालश्चाधराबिम्बम, जयशो बन्धुरा लावण्यवरः Paran कचः हंसौ' इति सर्वत्रामरः । धनः सान्द्रो दो गर्यो यस्यैवंभूतस्य कंदर्पस्य कामस्य यत्सौन्दर्य लावण्यं तेन सोदर्य समानं, हृद्यं सुन्दरं, निरवयं दोषरहितं च रूपमाकृतिर्यस्य सः । भूपो राजा। तस्येति । राजहंसस्य । लीलावतीनां विलासवतीनां कुलस्य शेखरमणिः शिरोरत्न- भूता। ' ठूलोपे' इति दीर्घः । रोषणेति । कोपसंरक्तचक्षुषा । 'ईक्षणं चक्षुरक्षिणी' इत्य- मरः । निटिले भालदेशे ईक्षणं नयनं यस्य तेन । महेश्वरेणेत्यर्थः । ' गोधिललाटमलिकं निटिलं भालमर्धकम् ' इति पञ्चतत्त्वप्रकाशः । भस्मीकृत चेतनं शरीरं यस्य तस्मिन् । मकरो यादो- विशेषः केतनं ध्वजचिह्न यस्य तस्मिन् । ' केतनं ध्वजमस्त्रियाम् ' इत्यमरः । तदा मदनदा- हानन्तरम् । अनवद्याऽनिन्द्या । 'अवधपण्यवर्यागा' इत्यादिनिपातनात्साधुः । मत्वा मनसि विचार्य । तस्य मन्मथस्य । रोलम्बावली भ्रमरपङ्क्तिः । 'वाथ्यालिरावलिः पङ्क्तिः' इत्यमरः ? केशानां शिरोरुहाणां जालं वृन्दः । केशः शिरोरुहः जालं समूह आनायगवाक्ष- क्षारकेष्वपि ' इति सर्वत्रामरः । प्रेम्ण आनन्दरसस्य आकरः खनिः । 'प्रेमा ना प्रियता हार्दम्' 'खनिः स्त्रियामाकरः स्यात् ' इत्यमरः । रजनीकरश्चन्द्रमाः । 'त्रियामा क्षणदा क्षपा। विभा- वरीतमस्विन्यौ रजनी' 'नक्षत्रेशः क्षपाकरः' इत्यमरः । विजितं पराभूतमरविन्दं पहां येन तादृशं वदनं मुखम् । वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् ' 'वदनं तुण्डमाननं लपन मुखम् ' इति चामरः । मीनो मत्स्यः। 'पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः इत्यमरः। जायया पत्न्या युतः सहितः । “भार्या जायाऽथ 'भूनि दाराः स्यात्तु कुटुम्विनी इत्यमरः । अक्षियुगलं चक्षुर्युग्मम् । ‘ईक्षणं चक्षुरक्षिणी' 'युग्मं तु युगलं युगम् ' इति चामरः । सकलानां सैनिकानां सेनासमवेतानां मध्येऽङ्गवीरः प्रधानभटः सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते ' 'शूरो वीरश्च विक्रान्तः' इति चामरः । मलयसमीरो मलयाच- लवायुः। 'समीरमारुतमरुत् इत्यमरः । पथिकानामध्वगानां हृदो मनसो दलने विदारणे करवालः खड्गः । 'पान्थः पथिक इत्यपि ' 'स्वान्तं हृन्मानसं मनः' 'कौक्षेयको मण्डलाम: करवालः कृपाणवत्' इति सर्वत्रामरः । प्रवालः पल्लवः । प्रवालोऽस्त्री किसलयं वीणादण्डे च विद्रुमें' इति मेदिनी । अधरो रदनच्छदो बिम्बं विम्बनाम्ना प्रख्यातं फलमिवाधरबिम्बम् । ओष्ठाघरौ तु रदनच्छदौ दशनवाससी' इत्यमरः । जये सति वाद्यमानः शंखः कम्बुः । 'शंखः स्यात्कम्बुरस्त्रियाम् ' इत्यमरः । बन्धुरा उन्नतानता । 'बन्धुरं तूनतानतम् ' इत्यमरः । लावण्यवरा अतिसौन्दर्यशालिनी। कन्धरा ग्रीवा । 'कण्ठो गलोऽथ ग्रीवायां शिरोधिः - ' प्रथमोच्छ्रासः] मनोरमाख्यव्याख्यासहितम्। कंधरा, पूर्णकुम्भौ चक्रवाकानुकारौ पयोधरौ, ज्यायमाने मार्दवासमाने बिस- लते च बाहू, ईषत्फुल्ललीलावतंसकल्हारकोरको गङ्गावर्तसनाभिनभिः, दूरीक- तयोगिमनोरथो जैत्ररथोऽतिघनं जघनम्, जयस्तम्भभूते सौन्दर्यभूते विनित- यतिजनारम्भेरम्भे चोल्युगम्, आतपत्रसहस्रापत्रं पादद्वयम्, अस्त्रभूतानि प्रसूनानि तानीतराण्यङ्गानि च समभूवन्निव । विजितामरपुरे पुष्पपुरे निवसता सानन्त- भोगलालिता वसुमती वसुमतीव मगधराजेन यथासुखमन्वभावि ! OSAN १ , १ . .. कन्धरेत्यपि इत्यमरः । पूर्णकुम्भौ मङ्गलकलशौ । कुम्भी घटेभमूर्धाशौ' इत्यमरः । चक्रवाको स्थानावनुकुरुत इति । 'कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः' इत्यमरः । पयोधरौ कुचौ । 'त्रीस्तनाब्दौ पयोधरौ' इत्यमरः । ज्या मौर्वीवाचरन्त्यौ ज्यायमाने। ' मौर्वी ज्या शिजिनी गुणः इत्यमरः । मार्दवेन कोमलतयाऽसमाने असदृशे । कोमलं मृदुलं मृदु ' इत्यमरः । बिसे मृणाळे लते बल्लयाविव । 'मृणालं विसम् ' 'घल्ली तु व्रततिर्लता इत्यमरः । बाहू भुजौ । 'भुजबाहू प्रवेष्टो दोः' इत्यमरः । ईषत्फुल्लः किञ्चिद्विकसितो लीला- वतंसः लीलया कर्णधार्यालंकारभूतश्च य: कल्हारस्य सौगन्धिकस्या कोरकः कलिका । 'फुल्ल- श्चैते विकसिते ' इत्यमरः । 'अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः' इति निपातनात्साधुः । 'पुंस्यु- त्तंसावतंसौ द्वौ कर्णपूरे च शेखरे'इत्यमरः । सौगन्धिकं तु कल्हारम्' " कलिका कोरकः पुमान् इति च । गङ्गाया जाह्नव्या आवर्ती जलभ्रमण तेन सनाभिः 'ज्योतिर्जनपद इति सादेशः । सहशः 'गङ्गा विष्णुपदी जह्नुतनया सुरनिन्नगा' 'स्यादावर्तोऽम्भसा भ्रमः' इत्यमरः । नाभिस्तुन्दकूपः । दूरीकृता निष्कासिता योगिनां मनोरथा वाञ्छा येन तादृशः । ' इच्छा कांक्षा स्पृहेहा तृवाञ्छा लिप्सा मनोरथः' इत्यमरः। जैत्रो जयनशीलो रथः स्यन्दनः । 'शताङ्गः स्यन्दनो रथः इत्यमरः । अतिघनमत्यन्तसान्दै जघनं कटिपुरोभागः । ‘पश्चानितम्बः स्त्रीकटयाः क्लीबे तु जघनं पुरः' इत्यमरः । विनिताः प्रतिहता यतिजनानां संन्यासिनामारम्भाः कार्याणि याभ्यां तादृशे रम्भे कदल्यौ । कदली वारणबुसा रम्भा मोचांऽशुमत्फला' इत्यमरः । ऊरयुगं सक्थि- युगलम् । 'सक्थि क्लीबे पुमानूरुः' इत्यमरः । आतपत्रं छत्ररूपं सहस्रपत्रं कमलम् । 'हैमं छत्रं त्वातपत्रम्' “सहस्रपत्रं कमलं शतपत्रं कुशेशयम्' इति चामरः । पादद्वयं चरणद्वितयम् । 'पाद: पदघ्रिश्चरणोऽस्त्रियाम् ' इत्यमरः । अस्त्रभूतानि प्रहरणरूपाणि । प्रसूनानि कुसुमानि । तानि सुप्रसिद्धानि । इतराण्युक्तावयवातिरिक्तानि । अङ्गानि अवयवाः । 'आयुधं तु प्रहरणं शस्त्र- मस्त्रमथास्त्रियौ' 'प्रसूनं कुसुमं सुमम्' 'अङ्गं प्रतीकोऽवयवः' इति सर्वत्रामरः । विजितेति । विजितं धिक्कृतममरपुरममरावत्याख्यं येन तादृशे । अनन्तैः अपरिमित गैः सुखसाधनैर्ला- लिताऽऽनन्दिता । धरापक्षेऽनन्तस्यादिशेषस्य भोगैः फणैधृताऽखिलेति यावत् । 'अनन्तः केशवे शेषे पुमाननवधौ त्रिषु ' इति मेदिनी । 'भोगः सुखे ख्यादिभृतावहेश्च फणकाययोः' इति नानार्थेऽमरः । वसुमती पृथिवी राज्ञो महिषी च । 'सर्वसहा वसुमती वसुधा' इत्यमरः । अन्वभावि अनुभूता । अनुपूर्वाद्भुधातोः सत्तार्थकात्कर्मणि लुडिं चिणि रूपम् ।

दशकुमारचरितम् । [पूर्वपीठिकाया तस्य राज्ञः परमावधेया धर्मपालपनोद्भवसितवर्मनामधेया धीरधिषणावधी- रितविबुधाचार्यविचार्यकार्यसाहित्याः कुलामात्यास्त्रयोऽभूवन । तेषां सितव- मणः सुमतिसत्यवर्माणौ, धर्मपालस्य सुमन्त्रसुमित्रकामपालाः, पद्मोद्भवस्य सुश्रु- तरत्नोद्भवाविति तनयाः समभूवन् । तेषु धर्मशीलः सत्यवा संसारासारतां बुद्ध्वा तीर्थयात्राभिलाषी देशान्तरमगमत् । विटनटवारनारोपरायणो दुविनोतः कामपालो जनकाग्रजन्मनोः शासनमतिक्रम्य भुवं बभ्राम । रत्नोद्भवोऽपि वाणि- ज्यनिपुणतया पारावारतरणमकरोत् । इतरे मन्त्रिसूनवः पुरंदरपुरातिथिषु पितृषु यथापूर्वमन्वतिष्ठन् । ततः कदाचिन्नानाविधमहदायुधनैपुण्यरचितागग्यजन्यराजन्यमौलिपालिनि- । तस्यैति । राजहंसस्येत्यर्थः । विधेया विनीताः । विधेयो विनयग्राही वचने स्थित आश्रवः इत्यमरः । धोरयाऽतिगभीरया धिषणया मनीषयाऽवधीरितस्तिरस्कृतो यो विबुधो विशेषेण पण्डितो विबुधानां देवानां वाऽऽचार्यो गुरुवृहस्पतिरिति यावत् । तेनापि विचार्याणि विमृश्यानि सद्यः प्रत्युत्तरदानाशक्यानि यानि कार्याणि तेषु साहित्यं सहायता येषां ते । कुशाग्रमतय इति भावः । 'बुद्धिर्मनीषा विषणा' सन्सुधीः कोविदो बुधः १ 'त्रिदशा विबुधाः सुराः ' 'मन्त्रव्याख्याकृदाचार्यः' इत्यमरः । कुलामात्याः कुलपरम्परागतमन्त्रिणः । 'मन्त्री धीसचिवोऽमात्यः' इत्यमरः । अमा सह भवोऽमात्यः 'अमेहक्क-' इति वचनात्त्यम् । तेषामिति । धर्मपालपद्मोद्भवसितवर्मणां मध्ये । यतश्च निर्धारणम् ' इति षष्टी । तनयाः आत्मजाः । आत्मजस्तनयः सूनुः' इत्यमरः । संसारस्य प्रपञ्चस्यासारतां निःसारतां बुद्ध्वा अवगत्य । 'बुध अवगमने ' इत्यतः क्त्वा। अन्यो देशो देशान्तरम् ' मयूरव्यंसकादयश्च' इति निपातनात्साधुः । ‘नोवृज्जनपदो देशविषयौ तूपवर्तनम्' इत्यमरः । अगमद् गतः । गम्ल गतौ ' इत्यतः कर्तरि लुङि 'पुषादि-' इत्यादिनाऽडि रूपम् । विटाः पीठमर्दाः । 'पीठकेलिः पीठमा भविलश्छिदुरो विटः' इति त्रिकाण्डशेषः । नटाः सर्ववशिनः । 'सर्व- वेशी लयारम्भः स्यात्तालावचरो नटः ' इति च । वारनार्यो गणिकाः । वारस्त्रीगणिका वेश्या' इत्यमरः । तासु परायणो लम्पटः । दुविनीतो विनयशून्यः । बभ्राम चरति स्म । भ्रम अनवस्थाने ' । वाणिज्ये व्यापारे 'वाणिज्यं तु वणिज्या स्यात् ' इत्यमरः । वणिक- शब्दात 'गुणवचन-' इति ष्यञ् । तस्मिन्निपुणः प्रवीणः । 'प्रवीणे निपुणाभिज्ञविज्ञान- ष्णातशिक्षिताः' इत्यमरः । पारावारतरणं समुद्रातिक्रमणम् । 'समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः' इत्यमरः । इतरे सुमतिसुमन्त्रसुमित्रसुश्रुताः । पुरंदरपुरातिथिषु संस्थितेष्विति भावः । यथापूर्वं पूर्वमनतिक्रम्य । अन्वतिष्ठन् 'ष्टा गतिनिवृत्तौ ' इत्यतोऽनुपूर्वाल्लङि रूपम् । पाघ्राध्मास्थाना-' इत्यादिना तिष्ठादेशः । कदाचिदिति । नानाविधेष्वनेकप्रकारेषु महत्सु आतिकठिनेषु चायुधेषु प्रहरणेषु नैपुण्येन कृतहस्ततया रचितेषु विहितेषु अगण्यजन्येषु असंख्ययुद्धेषु राजन्यानां क्षत्रियाणां मौलि- HON प्रथमोच्छासः] मनोरमाख्यव्याख्यासहितम् । हितनिशितसायको मगधनायको मालवेश्वरं प्रत्यग्रसङ्ग्रामघस्मरं समुत्कटमान- सारंमानसारं प्रति सहेलं न्यकृतजलधिनि?षाहङ्कारेण भेरीझाङ्कारेण हठिकाकर्ण- नाक्रान्तभयचण्डिमानं दिग्दन्तावलवलयं विचूर्णयन्निजभरनमन्मेदिनीभरेणाय- स्तमुजगराजमस्तकबलेन चतुरङ्गवलेन संयुतः सामाभिलाषेण रोषेण महता- विष्टो निर्ययौ । मालवनाथोऽप्यनेकानेकपयूथसनाथो विग्रहः सविग्रह इव . क पालिषु मुकुटपङ्क्तिःषु निहिता आरोषिता निशितास्तीक्ष्णाग्राः सायका बाणा येन सः । आयुधं तु प्रहरणं शस्त्रम् ' इत्यमरः । 'युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ' ' मूर्धा- भिषिक्तो राजन्यः' इति च । 'किरीटे मौलिरक्लीबे चूडासंयतकेशयोः' इति रभसः ! पालि: त्ययङ्कपङ्क्तिषु इत्यमरः । निशितक्ष्णुतशातानि तेजिते 'शरे खङ्गेच सायकः' इति च । प्रत्यग्राणामभिनवानां संग्रामाणामाहवानां घस्मरो भक्षकः । 'प्रत्यग्रोड- भिनवो नव्यः 'अन्यामर्दसमाघातसंग्रामाभ्यागमाहवाः भक्षको घस्मरोऽमरः इति सर्वत्रामरः । “ सृघस्यदः क्मरच्' इति क्मरच् । समुत्कटोऽतिनिबिडो मानो गर्व एव सारे यस्य तम् । 'गर्वोऽभिमानोऽहंकारो मानश्चित्तसमुन्नतिः' इत्यमरः । मानसारेति राज्ञो नाम- धेयम् । सहेलं सलीलम् । हेला लीलेत्यमी हावाः' इत्यमरः । न्यकृतो दूरीकृतो जलधेः निर्घोषाहङ्कारो ध्वन्याडम्बरो येन तादृशेन । ' स्वाननिर्घोषनिहादनादनिस्वाननिस्वनाः इत्यमरः । भेरीणां दुन्दुभीनां झांकारेण शब्दविशेषेण । । भेरी स्त्री दुन्दुभिः पुमान् इत्यमरः । हठिकाकर्णनेन बलात् ध्वनिश्रवणेनाकान्तः प्राप्तः भयचण्डिमा भीत्याधिक्य यं तादृशं दिग्दन्तावलानां दिग्गजानां वलयं बृन्दम् । 'दन्ती दन्तावलो हस्ती' इत्यमरः । विघूर्णयन्कम्पयन् । निजस्यात्मनः सैन्यस्य भरेण नमन्ती प्रह्वीभवन्ती या मेदिनी मही तस्या भरेण गौरवेण । 'क्ष्माऽवनिर्मेदिनी मही' इत्यमरः । आयस्तं परिश्रान्तं भुजग. राजस्य शेषस्य मस्तकानां मूनों बलं पराक्रमो येन तथाभूतेन । आयूर्वात् 'यसु प्रयत्ने इत्यतो रूपमायस्तमिति । ' शेषोऽनन्तो वासुकिस्तु सर्पराजः' इति 'मूर्धा ना मस्तकोऽ स्त्रियाम् ' इति चामरः । ' द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च । शक्तिः पराक्रमः प्राणः' इति च । चतुरङ्गं ' हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् । इत्युक्तैरङ्गैरखिलैविशिष्ट यदलं सैन्यं तेन । ' वरूथिनी बलं सैन्यम् इत्यमरः । संग्रामाभिलाषेण युद्धकामनया । संग्रामाभ्यागमाहवाः 'कामोऽभिलाषस्तर्षश्च' इत्यमरः । रोषेण क्रोधेन । ' कोपः क्रोधा- मर्षरोषप्रतिघा रुटकुधौ स्त्रियौ ' इत्यमरः । आविष्टो व्याप्तः । निर्ययौ निर्गतवान् । या प्रापणे ' इत्यतो लिटि रूपम् । मालवेति । मानसारनामा। अनेकैरसंख्यैरनेकपानां हस्तिनों यूथैर्वृन्दैः सनाथो युक्तः। ' दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः ' 'सजातीयैः कुले यूथम् ' इत्युभयत्राप्यमरः । विग्रहः संग्रामः । ' अथ विग्रहः । संग्रामे प्रविभागे च देह- विस्तारयोरपि ' इत्यमरः । सविग्रहो मूर्तिमान् । शरीरं वर्म विग्रहः' इति च । साग्रह । - - ।

ans ভূহল। [ पूर्वपीठिकायां साग्रहोऽभिमुखीभूय सूया निर्जगाम । तयोरथ रथतुरगखुरक्षुण्णक्षोणीसमुद्भूते करिघटाकटवन्मधाराधौतमूले नव्यवल्लभवरणागतदिव्यकन्याजनजवनिका- पटमण्डप इव वियत्तलव्याकुले धूलोपटले दिविषद्ध्वनि विकृतान्यध्वनिपट- हध्वानबधिरिताशेषदिगन्तरालं शस्त्राशस्त्रि हस्ताहस्ति परस्पराभिहतसैन्य जन्यमजनि । तत्र मगधराजः प्रक्षीणसकलसैन्यमण्डलं मालवराजं जीववाहम- भिगृहा कृपालुतया पुनरपि स्वराज्ये प्रतिष्ठापयामास । ततः स रत्नाकरमेख- लामिलामनन्यशासनां शासदनपत्यतया नारायणं सकललोकैककारणं निरन्तर- मा स्यन्दनो रथः । S ७ . उत्कण्ठाविशेषण सह वर्तमानः 'तेन सहेति तुल्ययोगे ' इति बहुव्रीही 'बोपसर्जनस्य' इति सादेशः । अभिमुखीभूय संमुखो भूत्वा । तयोरिति । राजहंसमानसारयोः । रथानां शताङ्गानां तुरगाणां घोटकानां च समाहारो रथतुरगम् । सेनाङ्गत्वादेकवद्भावः । 'शताङ्गः घोटके वातितुरगतुरंगाश्चतुरंगमाः इति चामरः । तस्य खुरैः शफैः क्षुण्णा नितरामामर्दिता या क्षोणी मही ततः समुद्भुते समुत्पन्ने । 'शर्फ क्लीबे खुरः पुमानू' इत्यमरः। करिघटानां हस्तित्रातानां कटेभ्यो गण्डदेशेभ्यः सवन्त्यः प्रवहन्त्यो या मदधारा मदजल- प्रवाहास्ताभिधौतमार्दीकृतं मूलमधोभागो यस्य तस्मिनू । 'कुञ्जरो वारणः करी' 'करिणां घटना घटा ' गण्डः कटो मदो दानम् ' इत्यमरः । नव्यानां नूतनानां वल्लभानां प्रियाणां वरणाय स्वीकाराय आगतो यो दिव्यकन्याजनो देवाङ्गनावृन्दस्तस्य जवनिकापटैस्तिरस्करिणीवस्त्रैः कृतो यो मण्डपस्तत्तुल्ये इत्यर्थः । 'प्रत्यग्रोऽभिनवो नव्यः' 'दायितं वल्लभं प्रियम्' 'प्रतिसीरा जव- निका स्यात्तिरस्करिणी च सा' इति सर्वत्रामरः । 'अर्थ मण्डपोऽस्त्री जनाश्रयः' इति च । विय- तलब्याकुले आकाशगामिनि । धूलीपटले रजोवृन्दे । रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः' इत्यमरः । समूह पटलं न ना' इति च । दिवि सीदन्तीति दिविषदो देवास्तेषामध्वनि पथि । 'आदितेया दिविषदः' इत्यमरः । 'सत्सूद्विष-' इत्यादिना क्विप् । ' अयनं वर्त्ममार्गाव- पन्थानः पदवी मृतिः' इति चामरः । धिकृतस्तुच्छीकृतोऽन्येषां हस्त्यादीनां ध्वनिः शब्दो येन तथाभूतेन पटहध्वानेन ढक्कानिनादेन बधिरित श्रवणसामर्थ्यहीनमशेषदिगन्तरालं निखिलदि- मध्यभागो यस्मिन्कर्मणीति युद्धक्रियाविशेषणम् । 'स्याद्यशः पटहो ढक्का' 'शब्दे निनादानन- दध्वनिध्वानरवस्वनाः' इत्युभयत्रामरः । शस्त्रैः शनैः हस्तैर्हस्तैश्च प्रहृत्य प्रवृत्तमिदं युद्धं शस्त्रा- शस्त्रि हस्ताहस्ति च । ' तत्र तेनेदमिति सरूपे' इति समासे 'इच् कर्मव्यतिहारे ' इतीचि 'अन्येषामपि दृश्यते' इति दीर्घ च सिद्धं रूपम् । परस्परमन्योन्यमभिहताः सैन्याः सैनिका वास्मंस्तत् जन्यं युद्धम् । 'युद्धमायोधनं जन्यम्' इत्यमरः । अजनि जातम् ' दीपजनबुध- इति कर्तार वा चिण् । तत्र युद्धे । प्रक्षीणं सकलसैन्यमण्डलं यस्य तम् । जीवन्तं गृहीत्वति जीवग्राहम् । 'समूलकृतजादेषु हन्कृञ्चहः' इति णमुल । तत इति । इलां पृथ्वीम् । गौरि- ला कुम्भिनी क्षमा' इत्यमरः । न विद्यतेऽन्यस्य शासनं यस्यास्तादशीमखण्डामिति यावत् । शासत् शासनं कुर्वन् । 'नाभ्यस्ताच्छतुः' इति निषेधान्नुम् न । न विद्यतेऽपत्यं सन्ततिः यस्य प्रथमोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । मर्चयामास । अथ कदाचित्तदअमहिषी 'देवि, देवेन कल्पवल्लीफलमाप्नुहि । इति प्रभातसमये सुस्वप्नमवलोकितवती । सा तदा दायतमनोरथपुष्पभूतं गर्भ- मधत्त । राजापि सम्पन्न्यकृताखण्डलः सुन्नृपमण्डलं समाहूय निजसंपन्मनो- रथानुरूपं देव्याः सीमन्तोत्सवं व्यधत्त । एकदा हितैः सुहृन्मन्त्रिपुरोहितैः सभायां सिंहासनासीनो गुणैरहीनो लला- टतटन्यस्ता जलिना द्वारपालेन व्यज्ञापि-' देव ! देवसंदर्शनलालसमानसः कोऽपि देवेन विरच्यार्चना) यतिद्वारदेशमध्यास्ते ' इति । तदनुज्ञातेन तेन स संयमी नृपसमीपमनायि । भूपतिरायान्तः तं विलोक्य सम्यग्ज्ञाततदीयगूढचार- । । सोऽनपत्यस्तादृशतया । सकलानां लोकानां भुवनानामेककारणं प्रधानकारणभूतम् । निर- न्तरं सततम् । अचयामास पूजितवान् । अथेति । मानसारविजयानन्तरम् । कदाचिदे- कल्या रात्रौ । तदननहिली तस्य राजहंसस्य प्रधानपत्नी । 'कृताभिषेका महिषी भोगिन्यो- ऽन्या नृपास्त्रियः' इत्यमरः । कल्पः संकल्पो मनोरथ इति भावः । स वल्लीव तस्याः फलं मनो- रथसिद्धिमिति यावत् । प्रभातसमये उषःकाले । 'उषःप्रत्युषसी अपि । प्रभातं च' इत्यमरः। सुस्वप्नं शोभनं स्वापकालिकं ज्ञानम् । 'स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि ' इत्यमरः । सा वसुमती । दयितस्य प्रियस्य मनोरथस्य वाञ्छायाः पुष्पभूतं फलद्योतकम् इत्यर्थः। 'दायितं बल्लभं प्रियम्' 'वाञ्छा लिप्सा मनोरथः ' इति चामरः । संपदा समृद्ध्या न्यकृताखण्डलस्ति- रस्कृतेन्द्रः । 'अथ संपदि । संपत्तिः श्रीश्च लक्ष्मीश्च' 'आखण्डलः सहस्राक्षः' इत्यमरः । सुहृदां मित्राणां नृपाणां महीक्षितां व मण्डलं चक्रवालम् । अथ मित्रं सखा सुहृत् । 'नृपभुपम- हीक्षितः १ 'चक्रवालं तु मण्डलम्' इति सर्वत्रामरः । निजा आत्मीया या संपत् लक्ष्मीः मनोरथश्च तयोरनुरूपं सदृशम् । सीमन्तोत्सवं सीमन्तोन्नयनसंस्कारं व्यधत्त अकरोत् । एकदेति । हितैराप्तैः । सुहृन्मन्त्रिपुरोहितैर्मित्रसचिवपुरोधाभिः 'पुरोधास्तु पुरोहितः इत्यमरः । सभायां परिषदि । 'समज्या परिषगोष्टीसभासमितिसंसदः' । इत्यमरः । ललाटतटे भालदेशे न्यस्ताजलिनिवेशितकरयुगलः तेन । तौ युतावञ्जलिः पुमान् ' इत्यमरः । व्यज्ञापि सविनयमुक्तः। 'ज्ञा अवबोधने' इत्यतो हेनुमण्णिचि कर्मणि लुङ् । लालसमानसः उत्क- ण्ठितमनाः । लालसे प्रार्थनौत्सुक्ये' इत्यमरः । अर्शआदित्वादच् । 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । विरच्यार्चना.ऽनुष्ठेयपूजायोग्यः । यतिः स्ववशे- न्द्रियः ।' ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते' इत्यमरः । द्वारदेशं प्रतीहारवेदिकाम् । स्त्रीद्वाार प्रतीहारः' इत्यमरः । ' अधिशीस्थासां कर्म' इति कर्मता । अध्यास्तेऽधि- तिष्ठति। तदनुज्ञातेन राज्ञाऽऽज्ञप्तेन । तेन द्वारपालेन । संयमी यतिः । नृपसमीपं राजान्ति- कम् । 'समीपे निकटासन्नसंनिकृष्टसनीडवत् ' इत्यमरः । आनायि आनीतः। ' णीञ् प्रापणे' इत्यतो द्विकर्मकात् प्रधानकर्मणि 'गौणे कर्मणि दुह्यादेः प्रधाने नीकृष्वहाम् ' इति वचनात् । सम्यग्ज्ञातः सुष्ठ निर्धारितः तदीयगूढचारभावः तत्संबन्धिगुप्तगूढपुरुषत्वं येन तादृशः -- PRAST কলেজ্বিালি। [पूर्वपीठिकाया भावो निखिलगनुपरनिकर विज्य मन्त्रिजनसमेतः प्रणतमेनं मन्दहासमभा- पत- ननु तापस! देशं सापदेश भ्रसन्भवांस्तत्र तत्र भवद्भिज्ञातं कथयतु इति । तनाभाषि भूभ्रमणवलिना प्राञ्जलिना--" देव, शिरास देवस्याज्ञामा- दायायैनं निदोषं वे स्वीकृत्य मालवेन्द्रनगरं प्राविश्य तत्र गूढतरं वर्तमानस्तस्य राज्ञः समस्तमुदन्तजातं विदित्वा प्रत्यागमम् । सानी मानसारः स्वसौनिकायु- मत्तान्तराये संपराये भवतः पराजयमनुभूय वैलक्ष्यलक्ष्यहृदयो वीतदयो महा- कालनिवासिनं कालीविलासिनमनश्वरं महेश्वरं समाराध्य तपःप्रभावसंतुष्टादस्मात देकवीरारातिघ्नी भयदां गदा लब्ध्वात्मानमप्रतिभटं मन्यमानो महाभिमानो भवन्तमभियोक्तुमुद्युङ्क्ते । ततः परं देव एव प्रमाणन् ' इति । तदालोच्य निश्चिततत्कृत्यैरमात्यै राजा विज्ञापितोऽभूत्-'देव, निरुपायेन देवसहायेन । सन् । तदीयेत्यत्र 'त्यदादीनि च ' इति वृद्धसंज्ञायां 'वृद्धाच्छः' इति छः । 'चारश्च गूड- पुरुषश्चाप्तप्रत्यायितौ समौ ' इत्यमरः । अनुचरनिकर सहायसमुदायम् ।' अनुप्लवः सहायश्चा- नुचरोऽभिचरः समाः' इत्यमरः । विसृज्य विहाय । मन्त्रिजनैरमात्यवगैः समेतो युक्तः । मन्दो हासो हास्यं यस्मिन्कर्मणि इति क्रियाविशेषणमिदम् । नन्विति। आमन्त्रण इदम् । 'प्रश्ना- वधारणानुज्ञानुनयामन्त्रगे ननु ' इत्यमरः। सापदेशं सव्याजम् । 'व्याजोऽपदेशो लक्ष्यं च इत्यमरः । कथयतु सविस्तरं ब्रवीतु । भूभ्रमणे देशसंचारे बलिना समर्थेन । प्रबद्धोऽञ्जलिर्येन कृतप्रणामेनेति यावत् । देव राजन् । राजा भट्टारको देवः इत्यमरः । शिरसि आदाय मूर्धा धायित्वा । निर्दोषं दोषशून्यम् । वेषं नेपथ्यम् । 'आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्' इत्यमरः । प्रविश्य गत्वा । तत्र मालवदेशे । गूढतरमत्यन्तप्रच्छन्नं यथा तथा । उदन्तजात वृत्तान्तजातम् । 'वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यात्' इत्यमरः । विदित्वाऽवबुध्य । प्रत्यागनं प्रतिनिवृत्तः। गम्लु गतौ ' इत्यतो लुडि 'पुषादि-' इत्यङ् । मानीति। अहंकारवानि- त्यर्थः । । गर्योऽभिमानोऽहंकारो मानश्चित्तसमुन्नतिः' इत्यमरः । स्वस्यात्मनः सैनिकानां योद्धृणामायुष्मत्तायाचिरजीवित्वस्यान्तराये विघ्नभूते संपराये युद्धे प्रथमोत्पन्ने योधाश्च योद्धारः सेनारक्षास्तु सैनिकाः ' 'विनोऽन्तरायः प्रत्यूहः' इत्यमरः । स्कन्दनं संख्यं समीकं सांपरायिकम् ' इति च । पराभवं पराजयम् । अनुभूय प्रासाद्य । वैल- श्यलक्ष्यहृदयः दुःखाभिभूतचेताः। वीतदयो भवद्विषये निणः सन् । 'कृपा दयानुकम्पा स्थात् ' इत्यमरः । कालीविलासिनं गौरीपतिम् । अनश्वरं नाशरहितम् । समाराध्य उपास्य । 'एकमेव वीरं शूरमराति सपत्नं हन्तीति एकवीरारातिनी तादृशीम् । * आभघातिपराराति- 'प्रत्यर्थिपरिपन्थिनः इत्यमरः । अप्रतिभटं प्रतियोधरहितम् अभियोक्तुं विग्रहीतुम् । उद्युक्ते प्रयत्न करोति । देव एव प्रमाणमिति। इतिकर्तव्यतानिश्चतत्यर्थः । तत् मालवेश्वरस्य संग्रामाभिमुखत्वम् । निश्चिततत्कृत्यैः निर्धारितसमयोचितकायः । विज्ञापितो बोधितः । निरुपायेन देवसहायेन साधारणनृपात्मकसहायं विहाय ईश्वरस्यैव बलेनेत्यर्थः मृधमा- ।

mpered प्रथमोच्छासः] मनोरमाख्यव्याख्यासहितम्। यो मरातिरायाति । तस्मादस्माकं युद्धं सांप्रतमसांप्रतम् । सहसा दुर्गसंश्रयः कार्यः' इति तैर्बहुधा विज्ञापितोऽप्यखर्वेण गर्वेण विराजमानो राजा तद्वाक्य- मकृत्यमित्यनादृत्य प्रतियोद्भुमना बभूव । शितिकण्ठदत्तशक्तिसारो मानसारो यो मनसामग्रीभूय सामग्रीसमेतोऽक्लेश मगधदेशं प्राववश । तदा तदाकर्ण्य मन्त्रिणो भूमहेन्द्रं मगधेन्द्रं कथंचिदनुनीयरिपुभिरसाध्ये विन्ध्याटवीमध्येऽ धान्मूलबलरक्षितान्निवेशयामासुः । राजहंसस्तु प्रशस्तवीतदैन्यसैन्यसमेतस्ती- जगत्या निर्गत्याधिकरुषं द्विषं रुरोध । परस्परबद्धवैरयोरेतयोः शूरयास्तदा तदा- लोकनकुतूहलागतगगनचराश्चर्यकारणे रणे वर्तमाने जयाकांक्षी मालवदेशरक्षी विविधायुधस्थैर्यचर्याञ्चितसमरतुलितामरेश्वरस्य मगधेश्वरस्य तस्योपरि पुरा पुरारातिदत्तां गदां प्राहिणोत् । निशितशरनिकरशकलीकृतापि सा पशुपति- । । । शितिकण्ठः कपालभृत् । योद्धं युद्धाय । अरातिः शत्रुः । सांप्रतमिदानीं शत्रौ वलवति इत्यर्थः । एतर्हि संप्रतीदानीम- धुना सांप्रतं तथा' इत्यमरः । असांप्रतमयोग्यम् । “युक्ते द्वे सांप्रतं स्थाने ' इत्यमरः । सहसा शीघ्रमेव । अखर्वेण विपुलेन । 'खों ह्रस्वश्च वामनः' इत्यमरः । अकृत्यं कर्तुमयोग्यम् । इति। विचार्येति शेषः । अनादृत्य तिरस्कृत्य । प्रतियोद्धं प्रतिस्पर्धितुं मनो यस्य तादृशः । ' स्वान्त हृन्मानसं मनः' इत्यमरः । तुं काममनसोरपि ' इति वचनान्मकारलोपः । शितिकण्ठेन नीलकण्ठेन दत्ता या शक्तिरायुधविशेषः सैव सारो वलं यस्य तादृशः । 'उग्रः कपर्दी श्रीकण्ठः 'सारो बले स्थिरांशे च ' इत्यमरः । अग्रीभूय अग्रेसरो भूत्वा । अक्लेशमनायासेन । प्रविवेश प्रविष्टः । 'विश प्रवेशने' । तदेति। तम्मिन्समये । आकर्ण्य श्रुत्वा कथंचिदनुनीय महता यत्नेन सान्त्वयित्वा रिपुभिः सपत्नैः । 'रिपौ वैरिसपत्नारि-' इत्यमरः । असाध्ये दुष्प्रवेशे अवरोधानन्तःपुरवा सिनीयर्योषितः । 'स्त्रयगारं भूभुजामन्तःपुरं स्यादवरोधनम् । शुद्धान्तश्चावरोधश्च ' इत्यमरः । मूलबलै रक्षितान्प्रधानसेनिकैः पालितान् । निवेशयामासुः स्थापयामासुः । वतिं दैन्यं येषां तैर्महोत्साहैरिति यावत् । तीव्रगत्या शीघ्रगमनेन । अधिका रुट् कोपो यस्य तम् । 'कोपक्रोधामर्षरोषप्रतिघा रुटूक्रुधौ स्त्रियौ ' इत्यमरः । द्विषं शत्रुम् । 'द्विविपक्षाहितामित्र-' इत्यमरः । रुरोध अपावृतवान् । रुधिर् आवरणे' परस्परमन्योन्यं बद्धवै- रयोः धृतविरोधयोः । वैरं विरोधो विद्वेषः' इत्यमरः । तदेति । तस्य संग्रामस्यालोकनेऽवेक्षणे कुतूहलेन कौतुकेनागतानां गगनचराणां दिविषदामाश्चर्यस्य विस्मयस्य कारणे हेतुभूते — कौतूहलं कौतुकं स्यात्कुतुकं च कुतूहलम् ' इत्यमरः । रणे संग्रामे । आत्रियां समरानीकरणाः कलहविग्रहौ' इत्यपि । जयमाकांक्षतेऽभिलषतीति जयाकांक्षी । विविधानां नानाप्रकाराणा । मायुधानां प्रहरणानां स्थैर्येण सह या चर्याऽभ्यसनं तयाऽञ्चितं पूजितं श्लाघाह यत्समरं युद्ध तस्मिंस्तुलित उपमितः अमरेश्वरो वृत्रहा येन तादृशस्य । मंगधेश्वरस्य राजहंसस्य । प्राहि- गोत् प्रक्षिप्तवान् । ' हि गतौ वृद्धौ च ' इत्यतो लङ् । निशिताः तीक्ष्णाः । शकलीकृताऽपि । । ।

গজালিমু। [पूर्वपीठिकायो शासनस्यावन्ध्यतया सूतं निहत्य रथस्थं राजानं मूच्छितमकार्षीत् । ततो वीत- प्रग्रहा अक्षतविग्रहा वाहा रथमादाय देवगत्यान्तःपुरशरण्यं महारण्यं प्राविशन् । मालवनायो जयलक्ष्मीलनाथो मगधराज्यं प्राज्यं समाक्रम्य पुष्पपुरमध्यतिष्ठत् । तत्र हेतिततिहतिश्रान्ता अमात्या दैवगत्यानुत्क्रान्तजीविता निशान्तवातल- ब्धसंज्ञाः कथंचिदाश्वस्य राजानं समन्तादन्विप्यानवलोकितवन्तो दैन्यवन्तो देवीमवापुः । वसुमत तु तेभ्यो निखिलसैन्यक्षतिं राज्ञोऽदृश्यत्वं चाकण्याद्विन्ना शोकसागरमग्ना रमणानुगमने मतिं व्यधत्त । 'कल्याणि, भूरमणमरणमानिश्चि- तम् । किंच दैवज्ञकथितो मथितोद्धतारातिः सार्वभौमोऽभिरामो भविता सुकु- मारः कुमारस्त्वदुदरे वसति । तस्मादद्य तव मरणमनुचितम्' इति भूषितभा- खण्डिताऽपि । अबन्ध्यतयाऽवश्यंभाविफलकतया । 'वन्ध्योऽफलोऽवकेशी च ' इत्यमरः । सूतं सारथिम् । । सूतः क्षत्ता च सारथिः ' इत्यमरः। निहत्य विनाश्य । मूर्च्छितं मोह- मुपगतम् । वीतो रथान्मुक्तः प्रग्रहो राश्मिर्येषां ते । 'तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च' इत्यमरः । अक्षतोऽपीडितो विग्रहः शरीरं येषां तादृशाः। 'शरीरं वर्म विग्रहः' इति च । वाहा अचाः । वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः ' इत्यमरः । अन्तःपुरस्यावरोधस्य शरणे रक्षणे साधु ' तत्र साधुः' इति यत् । 'शरणं गृहरक्षित्रोः' इत्यमरः । जयलम्या सनाथो युक्तः । प्राज्यं संपूर्णम् 'अभूतं प्रचुरं प्राज्यम् इत्यमरः । समाक्रम्य स्वायत्तीकृत्य पुष्पपुरमित्यत्र ' अधिशीस्थासां कर्म ' इति कर्मता। अध्यतिष्ठत् अध्यास्ते स्म । तति । द्वितीये संग्रामे । हेतिततिभिः शस्त्रसंततिभिर्या हतिहननं प्रहारस्तेन श्रान्ताः खिन्नाः । 'खेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः' इत्यमरः । अमात्याः सचिवाः । दैवगत्या प्रालब्धवशात् । अनुत्क्रान्तजीविता अनिर्गतप्राणाः । निशान्तवातेन प्रातःकालिक- पवनेन लब्धसंज्ञाः प्राप्तचैतन्याः । नभस्वद्वातपवनपवमानप्रभञ्जनाः' इत्यमरः । 'संज्ञा स्याचेतना नाम ' इति च । कथंचिन्महता कष्टेन आश्वस्य समाहितचित्ता भूत्वा । समन्तात सर्वतः । आन्विष्य गवेषयित्वा । दैन्यवन्तो दुःखिताः सन्तः । तेभ्यो मन्त्रिभ्यः । निखिलसैन्यक्षतिं संपूर्णसेनाविनाशम् । उद्विग्ना विषण्णा । शोकसमुद्रे मन्युपारा- वारे मना निमज्जन्ती । 'मन्युशोकौ तु शुकू स्त्रियाम् । इत्यमरः । रमणानुगमने पत्या सह मरणे । मति व्यधत्त निश्चयं कृतवती । भूरमणस्य भूपतेः मरणं निधनमनिश्चितं न निर्धारितम् । दैवं मनुष्याणां भागधेयं जानन्तीति दैवज्ञा ज्योतिषिकास्तैः कथितः प्रोक्तः। 'सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि' इत्यमरः । मथिताः समर्दिता उद्धतारातय उन्मत्तशत्रवो येन तादृशः, सर्वभूमेरीश्वरः सार्वभौमः। 'सर्वभूमिपृथिवीभ्यामणौ ' इत्यण् प्रत्ययः । अभिराम:- सुन्दरः । भविता कालान्तरे उत्पत्स्यमानः । तृजन्तमिदम् । सुकुमारोऽत्यन्तकोमलः । सुकु- मारं तु कोमलं मृदुलं मृदु ' इत्यमरः । तवोदरे कुक्षौ । ' पिचण्डकुक्षी जठरोदरं, तुन्दम् : । - ।

प्रथमोच्छ्रासः] मनोरमाख्यव्याख्यासहितम्। वितैरमात्यपुरोहितैरनुनीयमानया तया क्षणं क्षणहीनया तूष्णीमस्थायि । अथा-. धरात्रे निद्रानिलीननेने परिजन विजने शोकपारावारमपारमुत्तर्तुमशक्नुवती सेनानिवेशदेश निःशब्दलेशं शनैरतिक्रम्य यस्मिन्रथस्य संसक्ततया तदानयन- पलायनश्रान्ता गन्तुमक्षमाः क्षमापतिरथ्याः पथ्याकलाः पूर्वमतिष्टस्तस्य निक- टवटतरोः शाखायां मृतिरेखायामिव क्वचिदुत्तरीयार्धेन बन्धनं मृतिसाधनं विरचय्य मार्तुकामाभिरामा वाङ्माधुरीविरसीकृतकलकण्ठा साश्रुकण्ठा व्यल- पत्-- 'लावण्योपमितपुष्पसायक, भूनायक, भवानेव भाविन्यपि जन्मनि वल्लभो भवतु' इति । तदाकर्ण्य नीहारकरकिरणनिकरसंपर्कलब्धावबोधो माग- - १ । इत्यमरः । ' प्रत्ययोत्तरपदयोश्च' इति त्वादेशः । अनुचितमयुक्तम् । भूषितं सचमत्कार भाषित वचनं येषां तैः । अनुनीयमानयाऽऽचासं प्राप्यमाणया । क्षणं स्वल्पकालमपि । 'कालाध्वनो:- इति द्वितीया। क्षणहीनया सन्तोषरहितया । क्षण उद्धर्षों मह उद्धव उत्सवः' इत्यमरः । तूष्णीमस्थायि मौनमवलम्ब्य स्थितम् । ‘मौने तु तूष्णीं तूष्णीकाम् ' इत्यमरः । 'ठा गति- निवृत्तौ ' इत्यस्माद्भावे लुङि रूपम् । अथेति । अर्धे रानरर्धरात्रः तस्मिानिशीथसमये । 'अर्ध- रात्रनिशीथौ द्वौ ' इत्यमरः। ' अर्धे नपुंसकम् ' इति समासे — अहः सवैकदेशसंख्यातपुण्याच रात्रेः' इति समासान्तेऽचि ' रानाहाहाः पुंसि' इति पुंस्त्वम् । निद्रया निलीने निमीलिते नेत्रे चक्षुषी यस्य तस्मिन् । परिजनेऽभिचरवर्गे। विजने जनसंचाररहिते एकान्तप्रदेशे इति यावत्। 'विविक्तविजनच्छन्ननिःशलाकास्तथा रहः' इत्यमरः । शोकपारावारं मन्युसागरम् । अपारं निःसीममुत्तर्तुमुल्लङ्घयितुम् । अशक्नुवती असमर्था । सेनाया निवेशदेशं शिविरप्रदेशम् । * निवेशः शिबिरम् ' इत्यमरः । निर्गतः शब्दस्य लेशोऽपि यस्मात्तादृशम् । शनैर्मन्दम् । संस- ततया संलग्नतया । क्षमापते राज्ञो रथ्या वाहाः । रथं वहनिया 'तद्वहति रथयुगप्रासङ्गम् ' इति यत् प्रत्ययः। पथि मार्गे आकुलाः सत्रस्ताः । निकटवटतरोः पार्श्ववर्तिन्यग्रोधवृक्षस्य । शाखायां विटपे । उत्तरीयार्धन संव्यानप्रान्तभागेन । 'संव्यानमुत्तरीयं च ' इत्यमरः । विरचय्य कृत्वा । ल्यपि लघुपूर्वात् , इति गरयादेशः । मत कामोऽभिलाषो यस्याः 'तुं कामलनसारपि ' इति मकारलोपः । अभिरामा सुकुमाराङ्गी । वाङ्माधुर्या वाणीमाधुर्येण विरसीकृतोऽधरितः कल- कण्ठः कोकिलः यया सा । कलोऽव्यक्तमधुरः कण्ठः कण्ठरवः यस्य स कलकण्ठः অস্ত্র बाष्पेण सहितः कण्ठो यस्याः सा । रोदनं चालमश्रु च' इत्यमरः । ' अङ्गगात्र• कण्ठेभ्यो वक्तव्यम्' इति डोषो वैकल्पिकत्वादत्र न । व्यलपत् रोदनं कृतवती । लावण्येति । लावण्येन सौन्दर्येणोपमितस्तुलितः पुष्पसायको मकरध्वजो येन तादृशः इत्यमरः । भाविन्यागामिनि । वल्लभः प्रियः । भवतु प्रार्थ- नायां लोट् । आकर्ण्य निशम्य । नीहारकरस्य हिमांशोः किरणनिकरस्य मयूखसमुदा- यस्य संपर्केण संयोगेन लब्धावबोधः प्राप्तचैतन्यः । अवश्यायस्तु नहिारस्तुषारस्तुहिनं । । ॥ पुष्पधन्वा रतिप- तिर्मकरध्वज आत्मभूः গজাবি। [पूर्वपीठिकाया घोऽगाधरुधिरविक्षरणनष्टचेष्टो देवीवाक्यमेव निश्चिन्वानस्तन्वानः प्रियवचनानि शनैस्तामाह्वयत् । सा ससंभ्रममागत्यामन्दहृदयानन्दसंफुल्लवदनारविन्दा तमुपो- पिताभ्यामिवानिमिषिताभ्यां लोचनाभ्यां पिबन्ती विकस्वरेण स्वरेण पुराोहता- मात्यजनमुञ्चैराहूय तेभ्यस्तमदर्शयत् । राजा निटिलतटचुम्बितनिजचरणाम्बुजा प्रशंसितदेवमाहात्म्यैरमात्यैरभाणि-'देव, रथ्यचयः सारथ्यपगमे रथं रभसादर- ण्यमनयत्' इति । 'तत्र निहतसैनिकग्रामे संग्रामे मालवपतिनाराधितपुरारातिना प्रार्हतया गया दयाहानेन ताडितो मूर्छामागत्यात्र वने निशान्तपवनेन बोधितोऽभवम्' इति महीपतिरकथयत् । ततो विरचितमहेन मन्त्रिनिवहेन विर- चितदैवानुकूल्येन कालेन शिविरमानीयापनीताशेषशल्यो विकासतानजानना- रविन्दो राजा सहसा विरोपितत्रणोऽकारि । विरोधिदैवधिकृतपुरुषकारो दैन्य- हिमम् ' ' बलिहस्तांशवः कराः' किरणोत्रमयूखांशु-.' इत्यमरः । मगधानां देशान राजा मागधः । ' द्वयञ्मगधकलिङ्गसूरमसादण्' इत्यण् । अगाधरुधिरस्य वहुशोणितस्य विक्षरणेन शरीरानिर्गमेन नष्टचेष्टो निश्चेष्टः । रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्' इत्य- मरः । निश्चिन्वानः सत्यत्वेन भन्वानः । तन्वानो विस्तारयन् । सेति । वसुमती । संभ्रमेण त्वरया सह वर्तत इति ससंभ्रमम् । संभ्रमस्त्वरा' इत्यमरः । अमन्देनात्युत्कटेन हृदयानन्देन मनःसन्तोषेण संफुल्लं वदनारविन्दं मुखकमलं यस्यास्तादृशी सती । उपोषिताभ्यामिव कृतोप- बासाभ्यामिव । न विद्यते निमिषितं पक्ष्मचालनं ययोस्तादृशाभ्याम् । पिबन्ती सादरमवलो- कयन्ती । पिकस्य कोकिलस्येव स्वरो खो यस्य तेन । 'वनप्रियः परभृतः कोकिल: पिक इत्यपि ' इत्यमरः । अदर्शयद्दर्शितवती । ' दृशिर प्रेक्षणे ' इत्यतो णिजन्तालङ । निटिलतटेन भालदेशेन चुम्बिते निजे राजकीये चरणाम्बुजे पादकमले यस्तादृशैः सद्भिः। मोधिललाट- मलिलं निटिलं भालमर्धकम् ' इति पञ्चतत्त्वप्रकाशे । प्रशंसितं श्लाघितं दैवमाहात्म्यं विधि- प्राबल्यं यैस्तैः । अभाणि उक्तः । 'भण व्यक्तायां वाचि इत्यतः कर्मणि लुङ् । देवेति । स्थ्यचयोऽश्ववृन्दः । 'समवायश्चयो गणः' इत्यमरः । सारथेः सूतस्यापगमे विनाशें जाते सति । 'सूतः क्षत्ता च सारथिः' इत्यमरः । अरण्यं काननम् । 'अटव्यरण्यं विपिनं गहन काननं वनम् ' इत्यमरः। मालवपतिना मा नसारेण । 'पतिः समास एव ' इति घित्वाना- देशः । प्रहितया प्रक्षिप्तया । ताडितो विद्धः। निशान्तपवनेन प्राभातिकसमीरणेन । बोधितो लब्धसंज्ञः । विरचितमहेन कृतोत्सवेन । मह उद्धव उत्सवः इत्यमरः । मन्त्रिनिवहेन सचिवसमूहेन । 'समूहानवहव्यूह-' इत्यमरः । कालेन समयेन 'कालो दिष्टोऽप्यनेहाऽपि समयः' इत्यमरः। शिबिरं निवेशम् । अपनीतानि शरीरानिष्कासितानि अशेषाणि शल्यानि वाणापाणि यस्य । ‘वा पुसि शल्यं शंकुर्ना ' इत्यमरः । आननमरविन्दामवति — उपमित व्याघ्रादिभिः--' इति समासः। विकसितं प्रफुलं निजमात्मीयमाननारविन्दं यस्य तादृशः । विरोपिताः शान्ति प्रापिताः व्रणा ईर्माणि यस्य तादृशः। 'व्रणोऽस्त्रियामीर्ममरुः' इत्यमरः । अकारि कृतः । डुकृञ् करणे' इत्यतः कर्मणि लुङ् । विरोधि आत्मनः प्रतिकूलं यद्देवं भाग्यं । । । - प्रथमोच्छ्रासः] मनोरमाख्यव्याख्यासहिनम् । व्याप्ताकारो मगधाधिपतिराधिकाधिकाविरमात्यसंमत्या मृदुभाषितया वसुमत्या मत्या कलितया च समबोधि-'देव, सकलस्य सूपालकुलस्य मध्ये तेजोवरिष्टो गरिष्टो भवानद्य विन्ध्यवनमध्ये निवसतीति जलबुद्दसमाना विराजमाना संपत्तडिल्लतेव सहसैवोदति नश्यति च । तनिखिलं देवायत्तमेवावधार्य कार्यम् । किं च पुरा हरिश्चन्द्ररामचन्द्रमुख्या असंख्या महीन्द्रा ऐश्वर्योपमितमहेन्द्रा देव- तन्वं दुःखयन्त्रं सम्यगनुभूय पश्चादनेककालं निजराज्यमकुर्वन् । तद्वदेव भवान् भविष्यति । कंचन कालं विराचितदैवसमाधिस्तिष्टतु तावत्' इति । ततः सकलसैन्यसमान्वतो राजहंसस्तपोविभ्राजमानं वामदेवनामानं तपो- धनं निजाभिलाषावाप्तिसाधनं जगाम । तं प्रणम्य तन कृतातिथ्यस्तस्मै कथित- कथ्यस्तदाश्रमे दूरीकृतश्रमे कंचन कालमुषित्वा निजराज्याभिलाषी मितभाषी सोमकुलावतंसो राजहंसो मुनिमभाषत- 'भगवन्, मानसारः प्रबलेन दैवबलेन । । तेन धिकृतपुरुषकारः तिरस्कृतपौरुषः । अधिकाधिकोऽतिमहान आधिर्मनोदुःखो यस्य सः । 'पुस्याधिर्मानसी व्यथा' इत्यमरः । संमत्याऽनुमत्या मृदुभाषितया मजुभाषिण्या। कलितया यथोचितया। मत्या धिया। 'धीः प्रज्ञा शेमुषी मतिः । इत्यमरः । समबोधि विज्ञापितः । अवगमने' इत्यतः कर्मणि लुङ् । देवेति । तेजसा पराक्रमेण वरिष्टोऽतिशयेनोर्महान् अतिशयेन गुरुर्गरिष्ठः । 'अतिशायने तमविष्टनौ' इतीष्टनि “प्रियस्थिरस्फिरोहबहुलगुरु- इत्यादिनोभयत्र वरादेशो गरादेशश्च । जलबुबुदसमाना पयःफोटसदृशी । क्षणिकेति भावः । तडिहतेव विद्युल्लतेव । तडित्सौदामिनी विद्युत् ' इत्यमरः । उदेति प्रादुर्भवति । ' इण् गतौ' दैवायत्तं भाग्याधीनम् । 'अधीनो निन्न आयतः' इत्यमरः । अवधार्य निश्चयनीयम् । पुरा पूर्वस्मिन्काले । असंख्या अपरिमिताः । ऐश्वर्येणोपमितस्तुलितो महेन्द्रो देवेन्द्रो यैस्तादृशाः । दैवतन्त्रं दैवायत्तम् । तद्वदेव हरिश्चन्द्रादिवदेव । विरचितदैवसमाधिः कृतदेवोपासनः । तत इति। विशेषेण भ्राजमानो जाज्वल्यमानः तम् । 'नाज दीप्तौ' । तप एव धनं यस्य तम् । निजः आत्मीयो योऽभिलाषो मनोरथस्तस्यावाप्तरुपलब्धेः साधनं हेतुभूतम् । 'वाञ्छा लिप्सा मनोरथः' 'कामोऽभिलाषस्तर्षश्च' इत्यमरः । प्रणम्य नमस्कृत्य । 'णमु प्रहत्वे शब्दे च' तेन वामदेवेन । कृतमातिथ्यमतिथिसत्कारो थस्य । अतिथये इदमातिथ्यम् । 'अतिथेयः इति तादर्से ज्यः प्रत्ययः । कथितकथ्यो निवेदितवृत्तान्तः । आसमन्तात् श्राम्यन्ति तपस्यान्त तापसा आस्मिन् इत्याश्रमः । श्रमु तपसि खेदे च 'पुंसि संज्ञायां घः प्रायेण' इत्यधिकरणे घः । दूरीकृतश्रमे परिहृतप्रयासे । उषित्वा निवासं कृत्वा । 'वस निवासे' इत्यतः क्त्वा । 'अहिज्या' इत्यादिना संप्रसारणे 'वसतिक्षुधोरिट्' इतीटि षत्वे च रूपम् । मितं भाषते तच्छीलतया मित- भाषी । 'सुप्यजातौ णिनिस्ताच्छील्य' इति णिनिः । सोमकुलस्य चन्द्रवंशस्यावतंसः शेखरी- भूतः। 'कुलान्यभिजनान्वयौ । वंशोऽन्ववायः' इत्यमरः । 'पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च train Mira । । ।

। जिका' इति वचनात्तपसेति तृतीया। रिपुकुलमर्दनः वैरिवंशविदारणः । नन्द्यादित्वालला. মহাকালু। [पूर्वपीठिकायां मां निर्जित्य सद्भोग्य राज्यमनुभवति । तद्वदहमप्युग्रं तपो विरचय्य तमरातिमु- न्मूलयिष्यामि लोकशरण्येन भवत्कारुण्यनति नियमवन्तं भवन्तं प्राप्नवम्' इति ततत्रिकालज्ञस्तपोधनो राजानमवोचल--'सखे, शरीरकार्यकारिणा तपसालम् । वसुमतागर्भस्थः सकलरिपुकुलमर्दनो राजनन्दनो नूनं संभविष्यति, कंचन कालं तूष्णीमास्त्र' इति । गगनचारिण्यापि वाण्या सत्यमेतत्' इति तदैवाबाचि। राजापि मुनिवाक्यमाङ्गीकृत्यातिष्ठत् । ततः संपूर्णगर्भदिवसा वसुमती सुमुहूर्ते सकललक्षणलक्षितं सुतमसूत । ब्रह्म- वर्चसेन तुलितवेधसं पुरोधसं पुरस्कृत्य कृत्यविन्महीपतिः कुमारं सुकुमारं जात- शेखरे' इति च । भगोऽस्यास्तीति भगवान 'ऐश्वर्यस्य समास्य वीर्यस्य यशसः श्रियः। ज्ञानवै- राग्ययोश्चैव षण्णां भग इतीरणा' इत्युक्तलक्षणो भगः । तदस्यास्त्यस्मिानिति मतुप्' : 'मादु- पधाया:--' इति वत्त्वम् । प्रबलेनात्युत्कटेन । निर्जित्याभिभूय । मया भोग्यमनुभाव्यम् । भुज पालनाभ्यवहारयोः' इत्यतः 'हलोर्ण्यत्' इति ण्यात 'चजोः कुघिण्ण्यतोः' इति कुत्वम् । तद्वत् तेन मानसारेण तुल्यम् । 'तेन तुल्यं क्रियाचेद्वतिः' इति वतिः । उग्रं दुष्क- रम् । विरचय्य कृत्वा । 'रच प्रतियत्ने' इत्यतः स्वार्थणिजन्तात् क्त्वो ल्यपि ल्यपि लघुपूर्वात्। इति शेरयादेशः । तं मानसारनामानम् । अराति प्रत्यर्थिनम् । ' अभिघातिपरारातिप्रत्यार्थि - परिपन्थिनः' इत्यमरः । उन्मूलयिष्यामि उद्गतमूलं करिष्यामि । राज्याझंशयिष्यामि इति यावत्। लोकानां शरणागतजनानां शरणे रक्षणे साधु लोकशरणम् । 'शरणं गृहराक्षित्रोः' इत्यमरः । तत्र साधुः' इति यत् । कारुण्येन कृपया । 'कारुण्यं कहणा घृणा' इत्यमरः । नियमवन्तं व्रतशी- लम् । 'नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम्' इत्यमरः। त्रीन् भूतभविष्यद्वर्तमानान्कालान् जानाति वेत्तीति त्रिकालज्ञः। 'आतोऽनुपसर्गे कः' इति कः । राजानं राजहंसम् । अवोचदुक्त- वान् । 'ब्रून् व्यक्तायां वाचि' इत्यतो लुडि 'ब्रुवो वविः' इति वचादेशे 'अस्यतिवक्ति इत्यङि 'वच उम्' इत्युमि रूपम् । सुख इति । शरीरस्य वपुषः काश्यं तनुत्वं करोतीति शरी- रकार्यकारि तेन । 'शरीरं वर्म विग्रहः' 'स्तोकाल्पक्षुल्लकाः सूक्ष्म श्लक्ष्णं दनं कृशं तनु' इत्य- मरः । तपसाऽलं तेन किमपि कार्य नास्तीत्यर्थः । 'गम्यमानाऽपि क्रिया कारकविभक्तौ प्रयो- राजनन्दनो राजकुमारः। तत एव ल्युः । नूनं संभविष्यति अवश्यमुत्पत्स्यते इति वितर्कये। 'नूनं तर्केऽर्थ निश्चये' इत्यमरः । तूष्णी मौनमाश्रित्य। 'मौने तु तूष्णीं तूष्णीकाम्' इत्यमरः ! गगनचारिण्यावाण्याऽऽकाशगिरा।तदैव ऋषिवाक्याव्यवधानेनवाअवाच्युक्तम् अङ्गीकृत्योरीकृत्य । तत इति । संपूर्णा गदिवसा यस्यास्तादृशी । सुमुहुर्ते शोभने मुहूर्ते । सकलैलक्षणैः युक्तम् । असूत प्रसूतवती । 'घूङ् प्राणिगर्भविमोचने ' । ब्रह्मवर्चसेन ब्राह्मण. तेजसा । 'ब्रह्महस्तिभ्यां वर्चसः' इति समासान्तोऽच् । तुलित उपमितो वेधा ब्रह्मा येन तादृशम् । 'स्रधा प्रजापतिर्वेधा' इत्यमरः । पुरोधसं पुरोहितम् । पुरस्कृत्याने कृत्वा । ' पुरोऽ- -- -- । -- - प्रथमोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । १७ संस्कारेण बालालङ्कारेण च विराजमान राजवाहननामानं व्यधत्त । तस्मिन्नेव काले सुमातिसुमित्रसुमन्त्रसुश्रुतानां मन्त्रिणा प्रमतिमित्रगुप्तमन्त्रगुप्तविश्रुताख्याँ महदभिख्याः सूनवो नवोद्यदिन्दुरुचश्चिरायुषः समजायन्त । राजवाहनो मन्त्रि- पुत्रैरात्ममित्रैः सह बालकेलीरनुभवन्नवर्धत । अथ कदाचिदेकेन तापसेन रसेन राजलक्षणविराजितं कंचिन्नयनानन्दकरं सुकुमारं कुमारं राज्ञे समयावाचि--'भूवल्लभ, कुशसमिदानयनाय वनं गतेन मया काचिदशरण्या व्यक्तकार्पण्याश्रु मुञ्चन्ती वनिता विलोकिता । 'निर्जने वन किंनिमित्तं रुद्यते त्वया' इति पृष्टा सा करसरोरुहैरश्रु प्रमृज्य सगद्दं माम- बोचत्--'मुने, लावण्याजतपुष्पसायके मिथिलानायके कीर्तिव्यापृत्सुधर्मणि व्ययम् ' इति गतित्वे 'कुगति-' इति समासे विसर्गस्य नमस्पुरसोर्गत्योः' इति सत्वम् । कृत्यविद् कर्तव्यज्ञाता सुकुमारमतिकोमलम् । 'सुकुमारं तु कोमलं मृदुलं मृदुः' इत्यमरः । जातसंस्कारेण उत्पत्तिकाले कर्तव्यसंस्कारावशेषोश । विराजमान देदीप्यमानम् । प्रमति-विश्रु- ताख्याः विश्रुतान्तो द्वन्द्वः । विश्रुता इत्याख्या नाम येषां ते । आख्याह्ने अभिधानं च नाम- धेयं च नाम च ' इत्यमरः । महतां स्वपित्रादीनामिवाभिख्या कान्तिोषी ते महदभिख्याः । महत्यभिख्या येषामिति तु न आन्महतः समानाधिकरणजातीययोः " इत्यात्वप्रसक्तेः । सुषमा परमा शोभाऽभिख्या कान्तियुतिश्छविः' इत्यमरः । सूनवः पुत्राः । “ आत्मजस्त- नयः सूनुः' इत्यमरः । नवो नूतनः उद्यन्नुदयं प्राप्नुवंश्च य इन्दुश्चन्द्रमास्तस्येव रुकान्तियेषां ते। 'नवीनी नूतनो नवः हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छ- विद्युतिदीप्तयः' इति सर्वत्रामरः । समजायन्त समुत्पन्नाः । 'जनी प्रादुर्भावे ' 'ज्ञाजनोर्जा' इति जादेशः । आत्ममित्रैः सह स्वसुहृद्भिः साकम् । ' अथ मित्रं सखा सुहृत् । 'साकं सत्रा समं सह' इत्यमरः । बालकेलीबालक्रीडाः । अवर्धत वृद्धिं गतोऽभूत् । 'धु बुद्धौ' अथेति । रसेन सानुरागम् । 'शृङ्गारादौ रसे वीर्ये गुणे रागे द्रवे रसः । इत्यमरः । राजलक्षणैनृपचिह्नविराजितं शोभितम् । 'चिह्न लक्ष्म च लक्षणम्' इत्यमरः । नयनयोर्गत्रयो- रानन्दकरं प्रीतिवर्धनम् । 'लोचनं नयनं नेत्रम् ' इत्यमरः । सुकुमारं कोमलम् अवाच्यूचे। कुशा दर्भाः समिध इध्मानि च तेषामानयनायाऽहरणार्थम् । 'अस्त्री कुशं कुथो दर्भः । इन्धन वेध इध्ममेधः समिस्त्रियाम् ' इत्यमरः । अशरण्याऽनाथा।' शरणं गृहरक्षित्रोः ' इत्यमरः । व्यक्तं प्रकटीभूतं कार्पण्यं दीनभावो यस्यास्तादृशी। अश्रु रादेनजलम् । 'रोदनं चास्रमश्रु च' इत्यमरः । वनिता वधूः । 'प्रतीपदर्शिनी वामा वनिता महिला तथा' इत्यमरः । विलो- किता दृष्टा । निर्जने विविक्ते। 'विविक्तविजनच्छन्न--' इत्यमरः । रुद्यतेऽश्रु विमुच्यते । रुदिर् अश्रुविमोचने ' । पृष्टाऽनुयुक्ता। प्रश्नोऽनुयोगः पृच्छा च इत्यमरः । प्रमृज्य निवार्य । सगद्गदं गद्दस्वरेण सहितम् । मुनिस्तपस्वी। मनुते जानाति सर्वान्विषयानिति 'मनेरुच ' इत्यौणादिक इन अत उकारादेशश्च । तल्लक्षणं तु-" दुःखेष्वनुद्विग्नमनाः सुखेषु पन्न . । २ . . शिचोः पोतः पाकोऽभको डिम्भः पृथुकः शावकः शिशुः । ভুক্তহবিলু। [पूर्वपीठिकायां निजसुलदो मगधराजस्य सीमन्तिनीसीमन्तमहोत्सवाय पुत्रदारसमन्विते पुष्पपु- रमुपेत्य कंचन कालमधिवसति समाराधितगिरीशो मालबाधाशा मगधराजं योद्ध- मभ्यगात् । तत्र प्रख्यातयोरेतयोरसंख्ये संख्ये वर्तमाने सुहृत्साहाय्यकं कुर्वाणो निजबले सति विदेहे विदेहेश्वरः प्रहारवर्मा जयवता रिपुणाभिगृह्य कारुण्येन पुण्येन विसृष्टो हतावशेषेण शून्येन सैन्येन सह स्वपुरगमनमकरोत् । ततो वन- मार्गेण दुर्गेण गच्छन्नधिकबलेन शबरवलेन रभसादभिहन्यमानो मूलबलाभि- रक्षितावरोधः स महानिरोधः पलायिष्ट । तदीयार्भकयोर्यमयोर्धात्रीभावेन परि- कल्पिताहं महुहितापि तीव्रगतिं भूपतिमनुगन्तुमक्षमे अभूव । तत्र विवृतवदनः कोऽपि रूपी कोप इव व्याघ्रः शीघ्रं मामाघ्रातुमागतवान् । भीताहमुदग्रमाणि- विगतस्पृहः । वीतरागभयक्रोधः स्थिरधीमुनिरुच्यते॥” इति भगवद्गीतायाम् । 'तपस्वी ताप- सः पारिकांक्षी वाचंयमो मुनिः । इत्यमरः । लावण्येन सौन्दर्येण जितः पराजितः पुष्पसायको रतिपतिर्थेन तादृशे। कीर्त्या यशसा व्यापृता व्याप्ता सुधर्मा देवसभा येन तथाभूते 'यशः कीर्तिः समज्ञा च ' इति । स्यात्सुधर्मा देवसभा' इति चामरः । सामन्तिनी वधूः। स्त्री योषिदबला योषा नारी सीमान्तिनी वधूः' इत्यमरः । पुत्रैः सुतैः दारैः कुटुम्विन्या च सम- न्विते युक्ते । ' दाराः स्यात्तु कुटुम्बिनी' इत्यमरः । उपेत्य प्राप्य। अधिवसति अधितिष्ठति सति । 'उपान्वध्याङ्वसः ' इति पुष्पपुरस्य कर्मत्वम् । गिरशिः शिवः । गिरीशो गिरिशो मृडः' इत्यमरः । अभ्यगात् आभिमुख्येन गतवान् । 'इश् गतौ' इत्यतो धातोः' इणो गा लुङि' इति गादेशः । तत्रेति । पुष्पपुरे । एतयो राजहंसमानसारयोः । संख्ये संपराये । मृधमास्कन्दनं संख्यं समांक सांपरायिकम् । इत्यमरः । वर्तमाने प्रचलति सति । सुहृदो राजहंसस्य । विदेहे त्यक्तवपुषि । रिपुणा वैरिणा मानसारण । 'रिपौ वैरिसपत्नारि-' इत्यमरः । अभिगृह्य गृहीत्वा । विसृष्ट उपेक्षितः । हतेभ्यः मृतेभ्योऽवशेषेणावशिष्टेन । शून्येन रिक्तेन । स्वपुरगमनं मिथिलानगरीगमनम् । दुर्गेण गन्तुमशक्येन । वनमार्गेण कान्तारवर्मना । अधिक- बलेनातिबलशालिना । शबरबलेन किरातसैन्येन । 'भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः' इत्यमरः। रभसात् वेगेनाभिहन्यमानः पीड्यमानः । मूलबलैः प्रधानसनिकैरभिरक्षितो गोपा- वितोऽवरोधोऽन्तःपुरं यस्य तादृशः सन्। 'ज्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् । शुद्धा- न्तश्चावरोधश्च' इत्यमरः । महानिरोध आग्रहो यस्य सः । पलायिट पलायनं कृतवान् । परा- पूर्वाद् 'अय गती' इत्यतो लुछि ' उपसर्गस्यायतौ' इति लत्वम् । तदीयेति । अर्भकयोः धात्रीभावेनोपमातृत्वेन । 'धात्री स्यादुपमाताऽपि क्षितिरप्यामलक्यापि ' इति नानार्थेऽमरः । परिकल्पिता स्थापिता। दुहिता कन्या। 'स्त्रियां त्वमी । आहुर्दुहितरं सर्वे' इत्यमरः । तीव्रगति शीघ्रगामिनम् । अक्षमे असमर्थे । तवेति । काननमध्ये । विवृतं विस्फारितं वदनमास्यं येन तादृशः । ' वास्ये वदनं तुण्डम् ' इत्यमरः । रूपी सशरीरः । व्याघ्रः शार्दूल: ' शार्दूलद्वीपिनौ . .. . । - - ।

। . प्रथमोच्छुासः] मनोरमाख्यव्याख्यासहितम् । स्खलन्ती पर्यपतम् । मदीयपाणिभ्रष्टो बालकः कस्यापि कापलाशवस्य क्रोडम- भ्यालीयत । तच्छवाकर्षिणोऽमर्षिणो व्याघ्रस्य प्राणान्बाणो बाणासनयन्त्रमुक्तो ऽपाहरत् । विलोलालको बालकोऽपि शबरादाय कुत्रचिदुपानीयत ! कुमारमप- रमुद्वहन्ती महुहिता कुत्र गता न जाने । साहं मोहं गता केनापि कृपालुना वृष्णिपालेन स्वकुटीरमावेश्य विरोपितत्रणाभवम् । ततः स्वस्थीभूय भूयःक्ष्माभ- तुरन्तिकमुपतिष्ठासुरसहायतया दुहितुरनभिज्ञाततया च व्याकुलीभवामि' इत्य- भिदधाना ' एकाकिन्यपि स्वामिन गमिप्यामि' इति सा तदैव निरगात् । अहमपि भवन्मित्रस्य विदेहनाथस्य विपन्निमित्तं विवादमनुभवस्तदन्वयां- कुर कुमारमन्विष्यत्तदैकं चण्डिकामन्दिरं सुन्दरं प्रागाम् । तत्र संततमेव- व्याने' इत्यमरः । शीघ्रं त्वरितम् । “अथ शीघ्रं त्वरित लघु क्षिप्रमरं द्रुतम् ' इत्यमरः । आघ्रातुं व्यापादयितुमिति यावत् । उग्रवादिग अत्युन्नते पाषाणे । 'पाषाणप्रस्तरमावोपला- ३मानः शिला दृषत ' इत्यमरः । मदीयेति । पाणिप्रष्टो हस्तादलितः । कपिलाया धेनोः शवो मृतशरीरं तस्य । कोउमुरःप्रदेशम् । 'न ना कोडं अजान्तरम् ' इत्यमरः । अभ्यलीय निलीनोऽभूत् । लीङ् श्लेषणे दिवादिः । अमर्षिणः क्रोधवातः ६ कोपक्रोधामर्षरोषप्रतिघा रुकुधौ स्त्रियौ' इत्यमरः । प्राणानसून् । 'पुंसि भून्यसकः प्राणाः' इत्यमरः । बाणः सायकः । बाणा अस्यन्ते क्षिप्यन्तेऽनेनेति जाणासनं धनुः । तस्माद बन्जमुक्तः प्रहितः । अपाहदपहृतवान् । हृञ् हरणे' । विलोलाश्चञ्चला अलकापूर्णकुन्तला यस्य तादृशः 'अलकाचूर्णकुन्तलाः' इत्यमरः । शवरैः किरातैः आदाय गृहीत्वा । जपानीयतः प्राप्तिः । उद्वहन्ती विभ्राणा । न जाने नाहमवगच्छामि। 'ज्ञा अवबोधने' ज्ञाजनोर्जा' इति जादेशः । मोहं गता नष्टचेतना । कृपालुना कारुणिकेन । 'स्यायालुः कालणिकः कृपाल: सूरतः समाः' इत्यमरः । वृष्णिपालेनाजापालकेन । 'मेट्रोरम्रोरणार्णायुमेषवृष्णय एडके' इत्यमरः । स्वकुटीरं निजवासस्थानम् । वासः कुटी द्वयोः शाला' इत्यमरः । 'कुटीशमी- शुण्डाभ्यो रः । इत्यल्पार्थे रप्रत्ययः। आवेश्य नीत्वा । विरोपिताश्चिकित्सिता व्रणा ईर्माणि यस्यास्तादशी । 'व्रणोऽस्त्रियामीममरः । इत्यमरः । स्वस्थीभूय कुशलिनी भूत्वा । भूय: पुनरपि । मामतुः प्रहारवर्मणोऽन्तिकमुपकण्ठम् । 'उपकण्ठान्तिकाभ्याम्पमा ' इत्यमरः । उपस्थातुं प्राप्तुमिच्छुपतिष्ठासुः। 'टा गतिनिवृत्तौ' इत्यतः सनि सनाशंसभिक्ष ः' इत्युप्रत्ययः । अनभिज्ञाततया कुत्र गजेत्यवबोधाभावेन । व्याकुलीभवामि उद्विग्नाऽस्मि । इतीति । अभिदधाना ब्रुवन्ती । एकाकिन्यपि असहायाऽपि । 'एकादाकिनिच्चासहाये इत्याकिनिन् । स्वामिनं प्रहारवर्माणम् । निरगात् निर्जगाम । ' इण गती'' इणो गा लुङि । इति गादेशः । विषादं शोकम् । तदन्वयाङ्कुर तत्कुलबीजम् । 'अङ्कुरोऽभिनवोद्भिदि' इत्यमरः । अन्दिध्यन् गेवषयन् । चण्डिकामन्दिरमम्बिकागारम् । 'मृडानी चण्डिकाऽम्बिका' भवनागारमन्दिरम् ' इत्यमरः । प्रागामगमम् । सन्ततमनवरतम् । एवंविधानां प्रहारवर्म सह- १० ७ । - १० লাবিব। [पूर्वपीठिकायो विधविजयासिद्धये कुमार देवतोपहार कारप्यन्तः किराताः 'महीरहशाखावल- म्बितमेनमसिलतथा वा, सैकततले खनननिक्षिप्तचरणं लक्षीकृत्य शितशरनि- करेण वा, अनेकचरणैः पलायमानं कुक्कुरबालकैर्वा दंशयित्वा संहानिष्यामः इति भाषमाणा मया समभ्यभाप्यन्त-'ननु किरातोत्तमाः, घोरप्रचारे कान्तारे स्खलितपथः स्थविरभूसुरोऽहं मम पुत्रकं कचिच्छायायां निक्षिप्य मान्बेप- णाय किंचिदन्तरमगच्छम् । स कुत्र गतः, केन वा गृहीतः, परीक्ष्यापि न वक्ष्यिते । तन्मुखावलोकनेन विनानेकान्यहान्यतीतानि । किं करोमि, कयामि, भवद्भिन किमदार्श' इति । द्विजोत्तम, कश्चिदत्र तिष्ठति । किमेष तव नन्दनः सत्यमेव । तदेनं गृहाण' इत्युक्त्वा दैवानुकूल्येन मह्यं तं व्यतरन् । तेभ्यो दत्ता- शीरहं बालकमङ्गीकृत्य शिशिरोदकादिनोपचारेणाश्वास्य निःशकं भवदत समा- नीतवानस्मि । एवमायुष्मन्त पितृरूपो भवानभिरक्षतात्' इति । राजा सुहृदा- शानां राज्ञां विजयस्य सिद्धये प्राप्तये । उपहारमुपायनम् । 'उपायनमुपग्राह्यमुपहारस्तथो पदा इत्यमरः । करिष्यन्तः कर्तुमुद्युक्ताः । किराता भिल्लाः । महीरुहस्य वृक्षस्य शाखायां स्कन्ध- देशेऽवलम्बितमधोमुखीभूय लम्बमानम् । 'वृक्षो महीरुहः शाखी' समे शाखालते स्कन्धशा- खाशाले ' इत्यमरः । असिलतया खड्न । 'खझे तु निस्त्रिंशचन्द्रहासासिरिटयः' इत्यमरः । सैकततले वालुकामये देशे। सैकतं सिकतामयम् ' इत्यमरः । खनने गर्ते निक्षिप्तौ निहितो चरणौ पादौ यस्य तादृशं कृत्वति शेषः । लक्षीकृत्य शरव्यं कृत्वा । "लक्ष्यं लक्षं शरव्यं च इत्यमरः । शितशरनिकरेण तीक्ष्णवाणसमुदायेन । कुकुरबालकः सारमेयशिशुभिः “ कौलेयकः सारमेयः कुकुरो मृगदंशकः' इत्यमरः । देशयित्वा दन्तैर्विदार्य । संहनिष्यामो मारयिष्यामः । समभ्यभाष्यन्त उत्ताः । नन्विति । किरातोत्तमा शबरश्रेष्ठाः । घोरप्रचारेऽतिदुर्गमे । कान्तारे बने । 'कान्तारं वर्त्म दुर्गमम् ' इत्यमरः । स्खलितपथो मार्गभ्रष्टः । 'ऋक्पूरब्धूःपथामानक्षे' इति समासान्तोऽप्रत्ययः । स्थविरभूसुरो वृद्धब्राह्मणः । ' प्रवयाः स्थाविरो वृद्धो जीनो जी! जरनपि' इत्यमरः। अनुकम्पितः पुत्रः पुत्रकः। 'अनुकम्पायाम्' इति कः। निक्षिप्य निधाय! मार्गान्वेषणाय अध्वगवेषणाय । अन्तरं दूरदेशम् । परीक्ष्यापि अन्विध्यापि । तन्मुखावलोकनेन विना तस्य मुखमदृष्ट्वा । 'पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् इति तृतीया।अहानि दिनानि । 'घस्रो दिनाहनी वा तु क्लीवे दिवसवासरौ' इत्यमरः । अतीतानि अतिक्रान्तानि । न किमदशि न दृष्टः किम् । ' दृशिर प्रेक्षणे इत्यतः कर्मणि लुङ् । अत्रास्मिन्मन्दिरे । नन्दनः पुत्रः । व्यत- रमददुः । व्युपवर्गात् 'तृ प्लवनतरणयोः.' दत्ताशीः कृताशीर्वादः । आशीहिताशंसाऽहिदंष्ट्रयोः' इति नानार्थेऽमरः । अङ्गीकृत्य स्वीकृत्य । शिशिरं शीतलम् । 'सुषीमः शिशिरो जडः । तुषारः शीतलः शीतः' इत्यमरः । आचास्य गतश्रमं कृत्वा । भवदङ्क भवत उत्सङ्गदेशम् । उत्सङ्गचिह्नयोरङ्कः इत्यमरः । एवम् आयुष्मन्तं दैववशाचिरजीविनम् । 'जैवातृक: - ।

. प्रथमोच्छुसः] मनोरमाख्यव्याख्यासहितम् । पन्निमित्तं शोकं तन्नन्दनविलोकनसुखेन किंचिधरीकृत्य तमुपहारवर्मनान्नाहूय राजवाहनमिव पुपोष । जनपतिरेकस्मिन्पुण्यदिवसे तीर्थस्नानाय पक्शनिकटमार्गेण गच्छन्नबलया कयाचिदुपलालितमनुपमशरीरं कुमारं कंचिवलोक्य कुतूहलाकुलस्तामपृच्छत्- * भामिनि, रुचिरमूर्तिः स राजगुणसंपूर्तिरसावर्भको भवदन्वयसंभवो न भवति कस्य नयनानन्दनः, निमित्तेन केन भवधीनो जातः कथ्यतां याथातथ्येन त्वया' इति । प्रणतया तया शवर्या सलीलमलापि- राजन्, आत्मपल्लीस- मीपे पदव्यां वर्तमानस्य शक्रसमानस्य मिथिलेश्वरस्य सर्वस्वमपहरति शबरसैन्ये मदयितेनापहृत्य कुमार एष मह्यमार्पतो व्यवर्धत ' इति । तदवधार्य कार्यज्ञो , , । .0 स्यादायुष्मान् ' इत्यमरः । पितृरूपः प्रशस्तः पिता तत्तुल्य इति यावत् । 'प्रशंसायां रूपप् इति रूपम्प्रत्ययः । अभिरक्षतात्पालयतात् । 'तुह्योस्ताता शिष्यन्यतरस्याम' इत्याशिषि ता- सङ् ! सुहृदः प्रहारवर्मणः या आपत् पथि जाता तनिमित्तं तत्कारणकम् । शोक मन्युम् । 'मन्यु- शोकौ तु शुक् स्त्रियाम्' इत्यमरः । अधरीकृत्य दूरीकृत्य । उपहारवर्मनान्नाऽऽहूय तस्योपहार- बर्मेति नामकर्मसंस्कारं कृत्वा । राजवाहनवत् स्वकीयपुत्रवत् । तेन तुल्या किया चेद्वतिः' इति वतिः। पुपोष पोषितवान् । 'पुष पुष्टौ ' नैयादिकः सकर्मकः । जनपतिरिति । राजहंसः । पुण्यदिवसे पुण्यदिने । पकणनिकटमार्गेण शबरालवानी- वर्तिनाऽध्वना । 'पक्वणः शबरालयः' इत्यमरः । अबलया योषिता । स्त्री योषिदबला योषा इत्यमरः । उपललितं सस्नेहं धारितम् । अनुपमशरीरम् अतिसुन्दरमूर्तिम् । कुतूहलाकुल: कौतुकाविष्टः । भामिनि हे सुन्दरि ! सुन्दरी रमणी रामा कोपना सैव भामिनी इत्यमरः । रुचिरमूर्तिः सुन्दरतनुः । 'सुन्दरं रुचिरं चारु ' ' लियां मूर्तिस्तनुस्तनूः इत्यमरः । राजगुणानां नृपचिहानां संपूर्तिः संपूर्णता यस्मिंस्तथाभूतः । अथवा" सराजगुण- सम्पूर्तिरित्येकं पदम् । राजगुणसंपूर्त्या सह वर्तमानः । अर्भकः शिशुः । । पोतः पाकोऽ- भको डिम्भः पृथुकः शावकः शिशुः' इत्यमरः । भवत्याः शवयः । अन्वयसम्भवः कुलोत्पन्नः । 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' इति पुस्त्वम् । नयनानन्दनः नेत्रोत्सवकारी पुत्र इति यावत् । भवत्या अधीन आयत्तः। अधीनो निन्न आयत्तः' इत्यमरः । कथ्यतामुच्यताम् । 'कथ वाक्यप्रबन्धे' याथातथ्येन वास्तवतया। प्रणतया नम्रया । अलापि उक्तः । 'लप व्यक्तायां वाचे ' कर्मणि लुङ् । आत्मपल्ल्याः निजघांषस्य । समीपे निकटे। 'घोष आभीरपल्ली स्यात् इत्यमरः । पदव्या मार्गे । 'अयनं वर्ममार्गावपन्थानः पदवी सृतिः' इत्यमरः । शक्रेण दिव- स्पतिना समानस्य तुल्यस्य । 'जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः' इत्यमरः। वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् । साधारणः समानश्च' इति च । मिथिलेश्वरस्य प्रहारवर्मणः । अपहरति चोरयति सति शबरसैन्ये किरातवले । मद्दयितेन मम पत्या। 'दयितं वल्लभ प्रियम्' : ।

সুলাল্মবিশ্বজু ! [पूर्वपीठिकायो । । राजा मुनिकथितं द्वितीय राजकुमारमेव निश्चित्य सामहानाभ्यां तामनुनीयाप- हारवमयाख्याय देव्यै वर्धय । इति समर्पितवान् । कदाचिद्वामदेवशिष्यः सोमदेवशर्मा नाम कंचिक बालकं राज्ञः पुरो निक्षि- प्याभाषत-" देव, रामतीर्थे स्नात्वा प्रत्यागच्छता मया काननावनौ वनितया कयापि धार्यमाणमेनमुज्ज्वलाकार कुमारं विलोक्य सादरममाणि-'स्थविरे, का त्वम् । एतस्मिन्नटवीमध्ये बालकमुद्रुहन्ती किमर्थमायासेन भ्रमसि' इति । वृद्ध- याप्यभाषि-मुनिवर, कालयवननानि द्वीपे कालगुप्तो नाम धनाढ्यो वैश्यवरः कश्चिदस्ति । तन्नन्दिनी नयनानन्दकारिणी सुवृत्तां नामैतस्माद्वीपादागतो मगध- नाथमन्त्रिसंभवो रत्नोद्भवो नाम रमणीयगुणालयो भ्रान्तभूवलयो मनोहारी व्यवहार्युपयन्य सुवस्तुसंपदा श्वशुरेण समानितोऽभूत् । कालक्रमेण नताङ्गी गर्भिणी जाता । ततः सोदराविलोकनकुतूहलेन रत्नोद्भवः कथंचिच्छशुरमनुनीय इति विश्वेष्यनिनेऽमरः । अवधार्य पर्यालोच्य । मुनिना वामदेवेन कथितं प्रोक्तम् । सामदा- नाभ्यामुपायाभ्याम् । तां शबरीमनुनीय समाधाय । अपहारवर्मेत्याख्याय तस्य कुमारस्य अपहारवर्मेति नामधेयं विधाय । देव्यै वसुमत्यै । समर्पितवान् अर्पयामास । कदेति । पुरः सन्निधौ । प्रत्यागच्छता प्रतिनिवर्तमानेन । काननावनौ अरण्यभूमौ । गहनं काननं वनम् । 'क्ष्माऽवनिर्मेदिनी मही' इत्यमरः । वनितया महिलया । 'प्रतीप- दर्शिनी वामा वनिता महिला तथा' इत्यमरः । धार्यमाणं हस्ताभ्यां गृह्यमाणम् । उज्ज्वला- कारं दीप्यमानम् । विलोक्य दृष्ट्वा । अभाण्युक्तम् । भण व्यक्तायां वाचि ।। स्थविरे हे युद्धे । प्रवयाः स्थविरो बुद्धो जीनो जीर्णो जरन्नपि ' इत्यमरः । अटवीमध्ये अरण्यमध्ये। व्यरण्यं विपिनम् ' इत्यमरः । उद्वहन्ती धारयन्ती। किमर्थं कं वा प्रयोजनमुद्दिश्य । भ्रमसि इतस्ततो विचरसि । भ्रम अनवस्थाने ' । अभाषि कथितम् । 'भाष व्यक्तायां वाचि' द्वीपे समुद्रमध्यदेशे। ' द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ' इत्यमरः । द्विर्गता आपोऽ- स्मिन्निति 'ऋक्पूरब्धःपथामानक्षे ' इति- समासान्तेऽप्रत्यये । 'द्वयन्तरुपसर्गेभ्योऽप ईत् ' इति इति च रूपमिदम् । धनेन द्रव्येणाढयः स्वामी! 'द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु इभ्य आढयो धनी स्वामी' इत्यमरः । तन्नन्दिनीं तत्पुत्रीम् । मगधनाथस्य राजहंसस्य यो मन्त्री पद्मोद्भवः तत्संभवः तत्पुत्रः । रमणीयानां मनोहराणां गुणानामालयः स्थानभूतः । ' गृहाः पुंसि च भूम्न्येव निकाय्य निलयालयाः' इत्यमरः । व्यवहारी व्यवहारज्ञाता । उपयम्य परिणीय । श्वशुरेण पत्नीपित्रा कालगुप्तेन । ' पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः इत्यमरः। समानितः सत्कृतः। नतान्यङ्गानि यस्यास्तादृशी सुवृत्ता । गर्भिणी गर्भवती तत इति । सोदरस्य भ्रातुः सुश्रुतस्य विलोकने दर्शने कुतूहलेन कौतुकेन । कथंचित । अट- । ।

, अम्मोऽर्णस्तोयपानीयनीर- प्रथमोच्छ्वासः] मनोरमाख्यव्याख्यासहितम् । चपललोचनयानया सह प्रवहणमारुह्य पुष्पपुरमाभिप्रतस्थे । कल्लोलमालिकाभि- हतः पोतः समुद्राम्भस्यमज्जत् । गर्भमरालसा तां ललनां धात्रीभावेन कल्पिताह कराभ्यामुद्वहन्ती फलकमेकमधिरुह्य दैवगत्या तीरभूमिमगमम् । सुहृज्जनपरि- वृतो रत्नोद्भवस्तत्र निमग्नो वा केनोपायेन तीरमगमद्वा नजानामि । क्लेशस्य परी काष्ठामधिगता सुवृत्तास्मिन्नटवीमध्येऽद्य सुतमसूत । प्रसववेदनया विचेतना सा प्रच्छायशीतले तरुतले निवसति । विजने वने स्थातुमशक्यतया जनपद्गामिन मार्गमन्वेष्टुमुटुक्तया मया विवशायास्तस्याः समीपे बालकं निक्षिप्य गन्तुमनु- चितमिति कुमारोऽध्यानायि' इति । तस्मिन्नेव क्षणे वन्यो वारणः कश्चिदव- इयत । तं विलोक्य भीता सा बालकं निपात्य प्राद्रवत् । अहं समीपलतागुल्मके प्रविश्य परीक्षमाणोऽतिष्ठम् । निपतितं बालकं पल्लवकवलमिवाददति गजपतौ महता कन्टेन । अनुनीय सान्त्वयित्वा । चपले चञ्चले लोचने नेत्रे यस्यास्तया।' लोचनं नयन नेत्रम् ' इत्यमरः । प्रवहणं जलयानम् । आरुह्याधिष्ठाय । प्रतस्थे प्रस्थानं चकार । 'टा गति- निवृत्तौ ' इत्यतः 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । अल्लोलानां महातरङ्गाणां मालि- काभिः श्रेणीभिः अभिहतो विद्धः । ‘महत्सूलोलकल्लोलो' इत्यमरः । पोतः प्रवहणम् । यानपात्रे शिशौ पोतः । इति नानार्थेऽमरः । अम्भासि जले। क्षीराम्बुशम्बरम्' इत्यमरः । अमज्जत् निमन्नोऽभूत् । 'टुमस्जो शुद्धौ' । गर्भनरेगालसा जडीभूतां तां सुवृत्ताम् । ललनां कान्ताम् । ' प्रमदा मानिनी कान्ता ललना च नितम्बिनी ? इत्यमरः। धात्रीभावे नोपमातृतया । 'धात्री स्थादुपमातापि वसुधाप्यामलक्यपि मरः । उद्वहन्ती धारयन्ती। फलकं काष्टम् । तीरभूमि तटप्रदेशम् । 'कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु' इत्यमरः । पारवृतः वेष्टितः । तत्र समुद्रजले । काष्टां मर्यादाम् । अधि. गता प्राप्ता । असूत प्रसूतवती । धूङ् प्राणिप्रसवे ' अदादिकः । प्रसववेदनया प्रसूति- कालिकदुःखेन । विचेतना निश्चेष्टा । प्रकृष्टा छाया प्रच्छायम् 'विभाषा सेनासुरा--' इत्यादिना नपुंसकत्वम् । तेन शीतले शीते। 'तुषारः शीतलः शीतः' इत्यमरः । तरोवृक्षस्य तले मूल देशे । 'वृक्षो महीरुहः शाखी विटपी पादपस्तरः' इत्यमरः । निवसति तिष्ठति । 'वस निवासे' । जनपदगामिनं देशगामिनम् । 'नीजनपदो देशविषयौ तूपवर्तनम्' इत्यमरः अन्वेष्टुं गवेषयितुम् । उद्युक्तया कृतोद्योगया । विवशाया विचेतनायाः । तस्याः सुवृत्तायाः । निक्षिप्य स्थापयित्वा । गन्तुमन्यत्र प्रयातुमयुक्तमनुचितम् । आनायि आनीतः । तस्मि निति । स्थविरायां ब्रुवन्त्यामेव सत्याम् । वने भवो वन्यः । तत्र भवः' इत्यधिकारे दिगादिभ्यो यत्' इति यत्प्रत्ययः । वारणः करी । 'कुञ्जरो वारणः करी । इत्यमरः । अह- इयत दृश्यते स्म । ' शिर् प्रेक्षणे ' कर्मणि लङ् । सा स्थविरा । निपात्य भूमौ परित्यज्य । प्राद्रवत् पलायिष्ट । 'दु गतौ । अहं सोमदेवशर्मा। समीपलतागुल्मके निकटवर्तिनि लता- निकुञ्ज । परीक्षमाणः कुमारस्य कावाऽवस्था भाविनीति पश्यन् । निपतितं भूमौ गलितम् । ७ १ । .4 । . । । - HAIR জুবিলু। [पूर्वपीठिकायां . । कण्ठीरवो भीमरबो महामहेण न्यपतत् । भयाकुलेन दन्तावलेन झटिति वियति समुत्पात्यमानो बालको न्यपतत् । चिरायुप्मत्तया स चोन्नततरुशाखासमासीनेन वानरेण केनचित्पवफलबुद्धया परिगृह्य फलेतरतया विततस्कन्धमूले निक्षिप्तोऽ- भत् । सोऽपि मर्कटः क्वचिद्गात् । बालकेन सत्त्वसंपन्नतया सकलक्लेशसहेना- भावि । केसरिणा करिणं निहत्य कुत्रचिदगामि । लतागृहान्निर्गतोऽहमपि तेज:- पुलं बालकं शनैरवनीरुहावतार्य वनान्तरे वनितामन्विप्याविलोक्यैनमानीय गुरवे निवेद्य तन्निदेशेन भवन्निकटमानीतवानस्मि' इति । सर्वेषां सुहृदामेकदै- वानुकूलदैवाभावेन महदाश्चर्य विभ्राणो राजा 'रत्नोद्भवः कथमभवत्' इति चिन्तयंस्तनन्दनं पुष्पोद्भवनामधेयं विधाय तदुदन्तं व्याख्याय सुश्रुताय विषाद- संतोषावनुभवंस्तदनुजतनयं समर्पितवान् । अन्येधुः कंचन बालकमुरसि दधती वसुमती वल्लभमभिगता । तेन 'कुत्रत्यो- पल्लवकवलमिव किसलयग्रासमिव । 'पल्लवोऽस्त्री किसलयम्' 'प्रासस्तु कबल: पुमान्' इत्य. भरः। आददति स्वीकुर्वति सति । कण्ठीरवः सिंहः । सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः । कण्ठीरवो मृगरिपुः ' इत्यमरः । भीमो घोरो खः गर्जना यस्य तादृशः । "घोर भीम भयानकम् ध्वनिध्वानरवस्वनाः' इत्यमरः । महताऽऽग्रहणावेशेन सह । चिरेति । चिरंजीवितया। उन्नतस्यात्युच्छ्रितस्य तरोमहीरहस्य शाखायां स्कन्धे समासीनेन स्थितेन बारणेन मर्कटेन 'मर्कटो वानरः कोशः' इत्यमरः । पवफलबुद्धया इदं पक्कं फलम् इति मनी- षया । परिगृह्य गृहीत्वा । फलेतरतया फलभिन्नतया । वितते विस्तृते स्कन्धयो मूले । निक्षिप्तः स्थापितः । सत्वसंपन्नतया बलशालितथा । सकलान्क्लेशान्दुःखानि सहते क्षमत इति सकल- क्लेशसहः तेन । अभावि भूतम् । केसरिणा सिंहेन । करिणं गजम् । अगामि गतम् । अहं सोमदेवः । तेजःपुर्ज नितान्ततेजस्विनम् । शनैः सावधानतया । अवनीरुहात् वृक्षात् । अव- तार्य अवरोप्य । वनान्तरे वनमध्ये । वनिता स्थविर सुवृत्तां च । अविलोक्यादृष्ट । गुरवे वामदेवाय । निवेद्य कथयित्वा । तस्य निदेशेन शासनेन । ' अववादस्तु निर्देशो निदेशः शासनं च सः' इत्यमरः । सर्वेषामिति । एकदैव एकस्मिन्नेव काले । अननुकूलतया प्रतिकूलतया । आश्चर्यमद्भुतम् । राजा राजहंसः । रत्नोद्भवः कथमभवत् समुद्रात्केनचिदुपाये- नोत्तीर्णो वा तत्रैव निमग्न इति । तदुदन्तं पुष्पोद्भवस्य वृत्तान्तम् । व्याख्याय सविस्तरं कथ- यित्वा। विषादसन्तोषौ निजमन्त्रिणो रत्नोद्भवस्य गत्यविज्ञानेन खेदम्, तत्पुत्रस्य लाभात आनन्दं च । समर्पितवान दत्तवान् । अन्येद्युरिति । अन्यस्मिनहनि अन्येयुः सद्यःपरुत्परारि' इत्येद्युस् । उरसि वक्षःप्रदेशे । * उरो वक्षं च वक्षश्च' इत्यमरः । दधती धारयन्ती । 'डुधाञ् धारणपोषणयोः' इत्यतः शतार "नाभ्यस्ताच्छतु:' इति मुमभावः। वल्लभं पति राजहंसम् । आभिगताऽऽभिमुख्यन प्राप्तवती । । । । । - प्रथमोच्छासः] मनोरमाख्यव्याख्यासहितम् । ३५ ऽयम्' इति पृष्टा समभाषत-'राजन्, अतीतायां रात्रौ काचन दिव्यवनिता मत्पु- रतः कुमारमेनं संस्थाप्य निद्रामुद्रितां मां विबोध्य विनीताब्रवीत्-'देवि, त्वन्म- न्त्रिणोधर्मपालनन्दनस्य कामपालस्य वल्लभा यक्षकान्ताहं तारावली नाम, नन्दिनी मणिभद्रस्य । यक्षेश्वरानुमत्या मदात्मजमेतं भवत्तनूजस्याम्भोनिधिवलयवेष्टित- क्षोणीमण्डलेश्वरस्य भाविनो विशुद्धयशोनिधे राजवाहनस्य परिचर्याकरणाया- नीतवत्यस्मि । त्वमेनं मनोजसंनिभमभिवर्धय' इति । विस्मयविकसितनयनया मया सविनयं सत्कृता स्वक्षी यक्षी साप्यदृश्यतामयासीत्' इति । कामपालस्य यक्षकन्यासंगमे विस्मयमानमानसो राजहंसो रजितमित्रं सुमित्रं मन्त्रिणमाहूय तदीयभ्रातृपुत्रमर्थपालं विधाय तस्मै सर्व वार्तादिकं व्याख्यायादात् । ततः परस्मिन्दिवसे वामदेवान्तेवासी तदाश्रमवासी समाराधितदेवकीर्ति । . कुत्र भवः कुत्रत्यः । अमेहकतसित्रेभ्य एव इति त्यप् । पृष्टाऽनुयुक्ता सती । समभाषत उक्त- वती । 'भाष व्यक्तायां वाचे अतीतायां रात्रौ पूर्वेकू रजन्याम्। दिव्यवनिता अद्भुतरूपा महिला । 'वनिता महिला तथा संस्थाप्य निधाय । निद्रया मुद्रितां विचेतनाम् । 'स्यानिद्रा शयनं स्वापः' इत्यमरः । विबोध्य उत्थाप्य । विनीता विशेषेण नम्रा सती । अब्रवीदुवाच । देवीति । तव मन्त्री सचिवः त्वन्मन्त्री 'प्रत्ययोत्तरपदयोश्च' इति त्वादेशः । यक्षकान्ता यक्षकुमारी । नन्दिनी पुत्री । अनुमत्या संमत्या । ममात्मजं पुत्रम् । 'प्रत्ययोत्तरपदयोश्च' इति मादेशः । आत्मजस्त- नयः सूनुः सुतः पुत्रः' इत्यमरः भवत्यास्तनूजस्य पुत्रस्य । अम्भोनिधिः समुद्र एव वलयः कटक तेन वेष्टितं व्याप्तं यत्क्षोणीमण्डलं भूचक्रवालं तस्येश्वरः पतिः । 'कटकं वलयोऽस्त्रियाम्' 'क्षोणी ज्या काश्यपी क्षितिः 'चक्रवालं तु मण्डलम्' 'इभ्य आढयो धनी स्वामी त्वीश्वरः पतिरीशिता' इति सर्वत्रामरः । भाविनः उत्पत्स्यमानस्य । भविष्यात गम्यादयः' इति णिनिः । विशुद्धस्य निर्मलस्य यशसः कीर्तेः निधिः स्थानं तस्य 'यशः कीर्तिः समज्ञा च' इत्यमरः। परिचर्याकरणाय उपासनार्थम् । वरिवस्यातु शुश्रूषा परिचर्याऽप्युपासना' इत्यमरः । मनसो जायते मनोजः कामः । "पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः' इत्यमरः । तेन सन्निभं तुल्यम् । अभिवर्धय पोषय "वृधु वृद्धौ' । णिजन्ताल्लोट् । विस्मयेन आश्चर्येण विकसिते प्रफुल्ले नयने चक्षुषी यस्यास्ताश्या । विस्मयोऽद्भुतमाश्चर्यम्' इत्यमरः । मया वसुमत्या । सत्कृता बहुमानिता । शोभने अक्षिणी नेत्रे यस्यास्तादृशी सुलोचनेति यावत्। 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्' इति षचि 'षिगौरादिभ्यश्च' इति डीम् । अदृश्यतां दृष्टेरगोचरताम् । अयासीदगात् । 'या प्रापणे' इत्यतो लुडि रूपम् । संगमे संयोगे । विस्मयमानं संजाताश्चर्य मानसं मनो यस्य सः। 'स्वान्तं हृन्मानसं मनः' इत्यमरः । रजितानि आनन्दितानि मित्राणि सखायो येन तम् । आहूयाकार्य । तदीयभ्राता कामपालः । अर्थपालं विधायार्थपालेति नामधेयं कृत्वा । व्याख्याय विस्तरेण कथयित्वा । अदात सम- र्पितवान् । 'डुदाइ दाने' लुङ् । तत इति । परस्मिन्दिवसेऽपरेशुः । 'अन्ते वसतीत्यन्तेवासी शिष्यः। छात्रान्तेवासिनौ । ..

दशकुमारचरितम्। [पूर्वपीठिकाई नित्सितमारमूर्ति कुसुमसुकुमार कुमारमेकमवगमथ्य नरपतिमवादीत- देव, तीर्थयात्राप्रसङ्गेन कावेरीतीरमागतोऽहं विलोलालकं वालक निजोत्सङ्गतले निधाय रुदती स्थविरामेको विलोक्यावाचम्- स्थावरे, का त्वम्, अयमक: करथ नयनानन्दकरः, कान्तारं किलामागता, शोककारणं किम्” इति । सा करयुगेन वाप्पजलमुन्मृज्य निजशोक शंकू-पाटनक्षममिव मामवलोक्य शोकहेतु- मवोचत्-द्विजात्मज, राजहंसमन्त्रिणः सितवर्मण्डः कनीयानात्मजः सत्यवर्मा तीर्थयात्रामिषेण देशमेनमागच्छत् । स कस्मिंश्चिदग्रहारे काली नाम कस्यचि- ड्रसुरस्य नन्दिनीं विवाह्य तस्या अनपत्यतया गौरी नाम तद्भगिनीं काञ्चन- कान्ति पारणाय तस्यामेकं तनयललभत । काली सासूयमेकदा धाव्या मया सह बालमेनमेकेन मिषेणानीय तटिन्यालेतल्यामक्षिपन् । करेणैकेन बालमुद्धृत्याप- - । शिष्ये' इत्यमरः । निर्भसिताऽधरीकृता मारस्य मन्मथस्य मूर्तिस्तनुर्थेन । ' मदनो मन्मथो "स्त्रियां मूर्तिस्तनुस्तनूः' इत्यमाः । कुसुममिव पुष्पमिव सुकुमारं कोमलम् 'प्रसून कुसुमं सुमम् ' ' सुकुमार कोमलं मृदुलं मृदुः' इत्यमरः । अवगमध्य राज्ञे समर्थे । अवपूर्वात् 'गम्लु गतौ' इत्यतो णिजन्तात् ल्यपि ल्यपि लघुपूर्वोत्' इति णेरयादेशः। नरपति राजहंसम् । अवादीदुवाच । 'वद व्यक्तायां वाचि' इत्यतो लुडि वदवजहलन्तस्याचः' इति वृद्धिः । हे देवेति । विलोलाश्चञ्चला अलकाचर्णकुन्तला यस्य तादृशम् । 'अलकाचूर्णकुन्तलाः इत्यमरः। निजोत्सङ्गतले आत्मीयेऽङ्कदेशे। निधाय स्थापयित्वा । रुदती परिदेवमानाम् । स्थविरां जरठाम् । प्रत्याः स्थविरो बद्धो जोनो जीर्णो जरनपि ' इत्यमरः । विलोक्य दृष्ट्वा । अवोचमब्रवम् । 'बेञ् व्यक्तायां वाचि ' लुङ् । अर्भकः शिशुः । 'पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः । इत्यमरः । कान्तारमरण्यम् । करयुगेन पाणियुगलेन ।' युग्मं तु युगलं युगम् ' इत्यमरः । बाष्पजलमश्रुसलिलम् । ' वाष्पमूधमाश्रु' इत्यमरः । उन्मृज्य निवार्य । निजशोकस्यात्मदुःखस्यैव शङ्कोः शल्यस्योत्पाटने निष्कासने क्षमं कुशलम् । वा पुंसि शल्यं शंकुर्ना ''क्षमं शक्ते हिते त्रिषु' इत्यमरः । शोकहेतु मन्युकारणम् । अवोचदुवाच । कनी- यान्यवीयान् । आत्मजः पुत्रः । तीर्थयात्राया मिषेण व्याजेन । अग्रहारे महीपतेः सकाशात प्रतिग्रहरूपेण प्राप्तप्रामादौ भूसुरस्य विप्रस्य । नन्दिनी कन्याम् । विवाह्य परिणीय । काञ्चन- कान्ति सुवर्णवत्प्रकाशमानाम् । 'चामीकर जातरूपं महारजतकाञ्चने' इति सुवर्णपर्यायेऽमरः। तस्याः काल्या भगिनमिनुजां स्वसारम् । 'भगिनी स्वसा' इत्यमरः। तनयं पुत्रमलभत प्राप्त- वान् । असूयया अक्षमया साहतम् । 'अक्षान्तिा । इत्यमरः । धात्र्योपमात्रा। 'धात्री स्यादुपमाताऽपि' इत्यमरः । मिषेण व्याजेन । तटिन्या नद्याम् । 'तरङ्गिणी शैवलिनी तटिनी हादिनी धुनी' इत्यमरः । अक्षिपत्त्यक्तवत् । क्षिप प्रेरणे' उद्धृत्य उद्गताशिरस्कं धारयित्वा । प्लवमाना तरन्ती। नदीवेगागतस्य सरिद्वेगेन प्राप्तस्य । तरोवृक्षस्य । 'विटपी पादपस्तरुः इत्यमरः । शाखामवलम्ब्य स्कन्धमाश्रित्य । शिशुं बालं निधाय स्थापयित्वा । ऊह्यमाना .. १ ।

८ वह प्रापणे प्रथमोच्छ्वासः] मनोरमाख्यव्याख्यासहितम् । रेण प्लवमाना नविगागतस्य कस्यचित्तरोः शाखामवलम्ध्य तत्र शिशु निधाय नदीवेगेलोह्यमाना केनचित्तरुलनेनकालभोगिनाहमदंक्षि । मदवलम्बीभूतो भूरु- होऽयमस्मिन्देशे तीरमगमत् ।गरलस्योद्दीपनतया मयि मृतायामरण्ये कञ्चन शरण्यो नास्तीति मया शोच्यते' इति । ततो विषमविषज्वालावलीढावयवा सा धरणी- तले न्यपतत् । दयाविष्टहृदयोऽहं मन्त्रबलेन विषव्यथाम्पनेतुमक्षमः समीपकु - प्वौषधिविशेषमन्विष्य प्रत्यागतो व्युत्क्रान्तजीवितां तां व्यलोकयम् । तद्नु तस्याः पावकसंस्कार विरचय्य शोकाकुलचता बालमेनमतिमादाय सत्यवर्मवृत्तान्तश्रव- णवेलायां तन्निवासाग्रहारनामधेयस्याश्रुततया तदन्वेषणमशक्यमित्यालोच्य भव- दमात्यतनयस्य भवानेवाभिरक्षितति भवन्तमेनमनयम्' इति । तन्निशम्य सत्यव- मस्थितेः सम्यगनिश्चिततया खिन्नमानसो नरपतिः सुमतये मन्त्रिणे सोमदत्तं नाम तदनुजतनयमपितवान् । सोऽपि सोदरमागतामिव मन्यमानो विशेषेण पुपोष । नीयमाना । वचिस्वापियजादीनां किति ' इति सम्प्रसारणम् । तरुलमेन वृक्षसमासीनेन । कालभोगिना कृष्णसर्पण । 'उरगः पन्नगो भोगी' इत्यमरः । अदक्षि दष्टा । 'दश दशने'। कमणि लुडि उत्तमपुरुषैकवचनमिदम् । ममावलम्बीभूत आश्रयभूतः । भूरुहो विटपी। तीरं तटम् । 'कूलं रोधश्च तीरं व प्रतीरं च तटं त्रिषु' इत्यमरः । अगमत् प्राप्तः । गरलस्य विषस्य । 'क्ष्वेडस्तु गरलं विषम्' इत्यमरः । उद्दीपनतया। अतिबाधकतया। मृतायां प्रेतायां सत्याम् । 'परासुप्राप्तपञ्चत्वपरेतप्रेतस्थिताः । मृतप्रमीतौ त्रिवेते' इत्यमरः . अरण्ये विपिने । अटव्यरण्यं विपिनं गहनं काननं वनम् ' इत्यमरः । शरण्यो राक्षता । शोच्यते शोकः क्रियते। 'शुच शोके' । तत इति । विषमस्यासह्यत्य विषस्य श्वेडस्य ज्वालाभि- रवलीढा व्याप्ता अवयवा अङ्गानि यस्यास्तादृशी। धरणीतले पृथिवीतले ।'धरा धरित्री धरणी' इत्यमरः । न्यपतत् पतिता । 'पत्ल पतने ' इत्यतो लुङि टदित्वादङ् । दयया कारुण्येनाविष्ट व्याप्तं हृदयं मानसं यस्य तथाभूतः । कृपा दयानुकम्पा स्यात् ' इत्यमरः । मन्त्राणां बलेन. सामर्थ्येन । विषव्यथां गरलजन्यसंतापम् । 'पीडा बाधा व्यथा दुःखम् ' इत्यमरः । अपनेतुं पारीहर्तुम् । अक्षमोऽसमर्थः । समीपकुञ्जेषु निकटवार्तषु लतागृहेषु । ' निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे' इत्यमरः। अन्विष्य मार्गयित्वा । प्रत्यागतः प्रतिनिवृत्तः । व्युत्क्रान्तं विनष्टं जीवितं जीवन यस्यास्तादृशीं मृतामिति यावत्। व्यलोकयमपश्यम् । लोक लोचने। तदन्विति। पावकसंस्कारं वह्निना दाहम् । कृशानुः पावकोऽनलः ' इत्यग्निपर्यायेऽमरः । विरचय्य कृत्वा । शोकाकुलचेताः दुःखाक्रान्तमनाः अगतिमनाथम् । आदाय गृहीत्वा । वृत्तान्तश्रवणवेलायां कथाकर्णनकाले । नामधेयस्य नाम्नः । अश्रुततयाऽनाकर्णिततया । तदन्वेषणं सत्यवर्मणो मार्ग- णम् । अशक्यं कर्तुमयोग्यम् । आलोच्य विचार्य । अमात्यतनयस्य मन्त्रिसूनोः । अभिर- क्षिता पालयिता । अनयं नीतवानस्मि । तदिति । निशम्य श्रुत्वा । स्थितेः निवासस्य सम्यग- निश्चिततया यथार्थत्वेनाज्ञाततया । खिन्नमानसः दुःखितचेताः । नरपती राजहंसः । अर्पित- वान् । ददौ । सोदरं समानोदरं सत्यवर्माणम् । आगतमिव प्राप्तमिव । पुपोष पोषयामास । -- । । ।

, জুহালংকিন্তু। [पूर्वपीठिकायां एवं मिलितेन कुमारमण्डलेन बालकेलीरनुभवन्नधिरूढानेकवाहनोराजवाहनो- ऽनुक्रमेण चौलोपनयनादिसंस्कारजातमलभत । ततः सकललिपिज्ञानं निखिलदे- शीयभाषापाण्डित्य पडङ्गसहितवेदसमुदायकोविदत्वं काव्यनाटकाख्यानकाख्या- यिकतिहासचित्रकथासहितपुराणगणनैपुण्यं धर्मशब्दज्योतिस्तर्कमीमांसादिसमस्त- शास्त्रनिकरचातुर्य कौटिल्यकामन्दकीयादिनीतिपटलकौशलं वीणाद्यशेषवाद्य- दाक्ष्यं संगीतसाहित्यहारित्वं मणिमन्त्रौषधादिमायाप्रपञ्चचञ्चुत्वं मातङ्गतुरङ्गादि- बाहनारोहणापाटवं विविधायुधप्रयोगचणत्वं चौर्यदुरोदरादिकपटकलाप्रौढत्वं च तत्तदाचार्येभ्यः सम्यग्लब्ध्वा यौवनेन विलसन्तं कृत्येप्वनलसं तं कुमारनिकरं निरीक्ष्य महीवल्लभः सः । अहं शत्रुजनदुर्लभः' इति परमानन्दममन्दमविन्दत।। इति श्रीदण्डिनः कृतौ दशकुमारचरिते कुमारोत्पत्तिर्नाम प्रथम उच्छ्रासः ॥ १ ॥ द्वितीयोच्छ्वासः ॥२॥ अथैकदा वामदेवः सकलकलाकुशलेन कुसुमसायकसंशयितसौन्दर्येण कल्पि- तसोदर्येण साहसापहसितकुमारेण सुकुमारेण जयध्वजातपवारणकुलिशाङ्कित- एवमिति । मिलितेन एकत्रीभूतेन । कुमारमण्डलेन बालकसमुदायेन । बालकेली कुमार- क्रीडाः । अनुभवन् उपभुजानः । अधिरूढानि अनेकानि वाहनानि अश्वादीनि येनैतादृशः। अनुक्रमेण क्रमशः । संस्कारजातं संस्कारकलापम् । अलभत प्रापत् । डुलभ प्राप्तौ । लिपि. ज्ञानमक्षरपरिचयम् । 'लिखिताक्षरविन्यासे लिपिलिबिरुभे स्त्रियौ'इत्यमरः । पाण्डित्यं नैपुण्यम्। कौटिल्यश्चाणक्याचार्यस्तेन कृते कामन्दकीयादिनीत्या नीतिशास्त्रस्य पटले कौशलं दाक्ष्यम् । संगीतसाहित्याच्या हारित्वमितरजनमनोवशीकरत्वम् । मायाप्रपञ्चेन मायाजालेन वित्तो माया- प्रपञ्चचञ्चुः तस्य भावम् । 'तेन वित्तश्चञ्चुपचणपौ' इति चञ्चुप्प्रत्ययः । मातङ्गो गजः । तुर- झोऽश्वः । प्रयोगे वित्तः प्रयोगचणः । पूर्वेणैव चणप्प्रत्ययः ।दुरोदरः द्यूतक्रीडा ! तत्तदाचार्येभ्य- स्तत्तद्विषयज्ञेभ्यः । सम्यक् साधुतया लब्ध्वा प्राप्य । अनलसम् अमन्दं चतुरामितिति यावत् । कुमारनिकरं बालकसमुदायम् । स राजहंसः । शत्रुजनदुर्लभः एतेषु शरेषु कुमारेषु वर्तमानेषु सत्सु रिपुजनैरसाच्यः । अमन्दं विपुलम् । अविन्दत संप्राप । 'विद्ल लाभे' ॥ इति दशकुमारचरितव्याख्यायां मनोरमाख्यायां प्रथम उच्छासः समाप्तः ॥ १॥ अथेति । मन्त्रिकुमारनिवर्हः साकं राजवाहस्य निखिलविद्याभ्यासानन्तरम् । एकदैक- स्मिन्काले । ' सवैकान्यायत्तदः काले दा' इति दाप्रत्ययः। सकलासु कलासु विद्यासु कुशलेन कृतिना । 'वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ' इत्यमरः । कुसुमसायकेन पुष्पधन्वनाऽपि संशयितमात्मन्येतादृशमस्ति वा नेति तर्कितं सौन्दर्य लावण्यं यस्य तादृशेन । शम्बरारिमनसिजः कुसुमेषुरनन्यजः' इत्यमरः । समानमुदरं येषां ते सोदरास्तेषां भावः सौदर्यम्, कल्पितं परस्पराबद्धं सोदर्य भ्रातृवात्सल्यं येनैतादृशेन । साहसेनापहसितः दूरीकृतः कुमारः क्रौञ्चदारणो येन तादृशेन । पाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः'इत्यमरः।सुकुमारेण । iellamma , सलगन्तो द्वितीयोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । करेण कुमारनिकरेण परिवेष्टितं राजानमानतशिरसं समभिगम्य तेन तां कृता परिचर्यामङ्गीकृत्य निजचरणकमलयुगलमिलन्मधुकरायमाणकाकपक्षं विदाल- प्यमाणविपक्षं कुमारचयं गाढमालिङ्गय मितसत्यवाक्येन विहिताशीरभ्यभाषत- 'भूवल्लभ, भवदीयमनोरथफलमिव समृद्धलावण्यं तारुण्यं नुतमित्रो भवत्पुत्रो- ऽनुभवति । सहचरसमेतस्य नूनमतस्य दिग्विजयारम्भसमय एषः । तदस्य सक- कोमलेन । ' सुकुमारं तु कोमलं मृदुलं मृदु' इत्यमरः । जयध्वजो विजयपताका, आतप- चारणं छत्रं, कुलिशं वज्रायुधम्, एतै राजचिह्नरङ्कितौ चिह्नितौ करौ हस्तौ यस्य तथाभूतेन । पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् ' 'हैमं छत्रं त्वातपत्रम् । 'हादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः' इत्यमरः । कुमारनिकरण बालबुन्देन । 'स्तोमौघनिकरबात-१ इति समूहपर्यायेष्वमरः । परिवेष्टितं व्याप्तम् । राजानं राजहंसम् । आनतं ननं शिरो मूर्धा यस्य तादृशम् । 'उत्तमाझं शिरः शीर्ष मूर्धा ना मस्तकोऽस्त्रियाम् ' इत्यमरः। समभिगम्य अभिमुखं गत्वा । वा ल्याप' इति वैकल्पिकत्वान्नानानुनासिकलोपः । कृता रचिताम् । परिचयों शुश्रूषाम् । वरिवस्या तु शुश्रूषा परिचर्याप्युपासना ' इत्यमरः । अङ्गीकृत्य रायमाणाः षट्पदा इवाचरन्तः काकपक्षाः शिखण्डका यस्य त्याभूतम् । पदड़ीघ्रश्चरणोऽ. स्त्रियाम् । 'सहस्रपत्रं कमलम् ' ' युग्मं तु युगलं युगम् । 'मधुव्रतो मधुकरो मधुलिण्म- धुपालिनः ' ' काकपक्षः शिखण्डकः । इति सर्वत्रामरः । मधुकरा इवाचरन्ति मधुकराय- माणाः । ' कर्तुः क्यङ् सलोपश्च ' इति क्यङ् । ' अकृत्सार्वधातुकयोर्दीर्घः । इति दर्षिः । विदलिष्यमाणा उन्मूलयिष्यमाणाः विपक्षा अमित्राः येन तथाभूतम् । 'द्विविपक्षाहिता- मित्रदत्युशात्रवशत्रवः' इत्यमरः । विपूर्वात् 'दल विशरणे ' इत्यतः कर्मणि लडन्तात 'लुटः सद्वा' इति शानच् । कुमाराणां चयं गणम् । समुदायः समुदयः समवाय- इत्यमरः । गाढं दृढतया । 'गाढबाढदृढानि च ' इत्यमरः । आलिङ्गय आश्लिष्य। 'लिगि संगमे । मितमल्पं सत्यमवितथं च यद्वाक्यं वचनं तेन । विहिता कृता आशाहिताशंसनं येन सः । 'आशीहिताशंसाऽहिदंष्ट्रयोः' इत्यमरः । अभ्यभाषत ब्रवीति स्म । 'भाष व्यक्तायां वाचि' । भूवल्लभेति। पृथिवीपते । भवदीयानां मनोरथानां मानसारविजय- कामनानां फलमनीप्सितसिद्धिमिव स्थितम् । समृद्धमतिबहुलं लावण्यं 'मुक्ताफलेषु च्छाया- यास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥' इत्युक्तलक्षणं सौन्दर्ये यस्मि- नेतादृशम् । तरुणस्य यूनो भावस्तारुण्यम् । 'वयस्यस्तरुणो युवा' इत्यमरः । नुतानि श्लाषितानि मित्राणि सुहृदो येन तादृशः । 'अथ मित्रं सखा सुहृत्' इत्यमरः । अनुभवति भुङ्क्ते । सहचरैः मन्त्रिकुमारैः समेतस्य युतस्य । नूनमवश्यम् । एतस्य राजवाहनस्य । दिग्विजयारंभसमय: दिग्विजयाय समुचितः कालः। तत् तस्मात्कारणात् । सकलानां क्लेशानां दिग्विजयकालिकानी दुःखानां सहस्य सोढुमर्हस्य । दिशां विजयाय प्रयाणं प्रस्थानं क्रियतामनुष्टीयताम् । अद्यैवायं त्वया प्रस्थापितव्य इति यावत् । कुमारा इति । मारो मदनः स इवाभिरामाः मनोहराः। श्चयो गणः mami ।

दशकुमारचरितम् । [पूर्वपीठिकायां लक्लेशसहस्य राजवाहनस्य दिग्विजयप्रयाणं क्रियताम् ' इति । कुमारा मारा- भिरामा रामाद्यपौरुषा रुषा भस्मीकृतारयो रयोपहसितसमीरणा रणाभियानेन यानेनाभ्युदयाशंलं राजानमकार्षुः । तत्साचिव्यमितरेषां विधाय समुचितां बुद्धिमुपदिश्य शुभ मुहूर्ते सपरिवार कुमार विजयाय विससर्ज। राजवाहनो मङ्गलसूचकं शुभशकुनं विलोकयन्देशं कञ्चिदतिक्रम्य विन्ध्या- टवीमध्यमविशत् । तत्र हेतिहतिकिणावं कालायलकर्कशकायं यज्ञोपवीतेनानु- मेयविप्रभावं व्यक्तकिरातप्रभावं लोचनपरुष कमपि पुरुष ददर्श । तेन विहित. पूजनो राजवाहनोऽभारत-ननु मानव, जनसङ्गरहिते मृगहित घोरप्रचारे ७ -- । ‘मदनो मन्मथो नारः' इत्यमरः। रामो दशरथपुत्रः श्रीरामः स आशे येषां ते लक्ष्मणादयः । तेषामिव पौरुषं पराक्रमः येषां ते । समाक्रोधेन । कोपक्रोधामर्षरोषप्रतिघा स्ट्रक्रुधौ बियौ' इत्यमरः । भस्मीकृता दग्धा अरयो रिपवो यैः । रिपो वैरिसपत्नारि-' इत्यमरः । रयेण वेगे- नोपहासितस्तिरस्कृतः समीरणः मरुन योतादृशाः । 'शरीरस्था इमे रहस्तरसी तु रयः स्यदः इत्यमरः । समीरमास्तमरुज्जगत्प्राणसमीरणाः' इति च । रणं युद्रमभिमुखीकृत्य यातीत्येता- दृशेन गानेन प्रस्थानेन । अभ्युदये दिग्विजये आशंसा प्रार्थना यस्यैतादृशम् । राजानं राजहंसम् । अकार्षः कृतवन्तः । 'डुकृञ् करणे' इत्यतो लुङ् । तस्य राजवाहनस्य साचिव्यं सहायकत्वम् । इतरेषां नवानां मन्त्रिकुमाराणाम् । विधाय कल्पयित्वा । समुचितां समीचीनाम् । उपदिश्य शिक्षयित्वा । शुभे मङ्गलदायके । 'श्व श्रेयसं शिवं भद्रं कल्याण मङ्गलं शुभम् इत्यमरः । कुमार राजवाहनम् । विससर्ज प्रेषयामास । 'सृज विसर्गे । राजेति । शुभशकुनं दक्षिणाङ्गस्फुरणादिकम् । विलोकयन्पश्यन् । अतिक्रम्योल्लङ्घय । अविशत्प्रविष्टवान् । तत्र विन्ध्यारण्यमध्ये । हेतिहतिभिः शस्त्रप्रहारैः जाता ये किणाः मांसग्रन्थिभेदास्त एवाताश्चिह्नानि यस्यैतादृशस्तम् । खेराचश्व शस्त्रं च वह्नि ज्वाला च हेतयः ‘कलङ्काको लाञ्छनं च चिह्न लक्ष्म व लक्षणम् ' इत्यमरः । कालं च तदयश्च कालायसं लोहः। अनोश्मायःसरसां जातिसंशयोः' इत्यच् । कालायसमिव कर्कशं क्रूरः कायो देहो यस्य तादृशम् लोहोऽत्री शस्त्रकं तीक्ष्ण पिण्डं कालायसायसी' 'कायो देहः क्लीबपुंसोः ' इति सर्वत्रामरः । यज्ञोपवीतेन उपवीततन्तुनैव केवलमनुमेयः । अयं ब्राह्मणः स्याद्यज्ञोपवीतित्वात् ' इति तकनीयः विप्र- भावो ब्राह्मण्यं यस्य तादृशम् । व्यक्तः प्रत्यक्षतया दृश्यमानः किरातानां शबराणां प्रभावः प्रभुता यस्य तथाविधम् । नेत्रयोर्दर्शकलोचनयोः परुषं भयानकम् । ददर्शाद्राक्षीत् । ‘दृशिर प्रेक्षणे । तेनेति । अटवीस्थपुरुषेण । विहितं संपादितं पूजन सत्कृतिर्यस्य तादृशः । जनसङ्गेन रहिते वर्जिते । मृगेभ्यो व्याघ्रादिभ्यो हिते प्रिये । कान्तारे दुर्गमे वर्मनि कान्तारं वर्म कर्कश कठिन क्रूरम् । । । ।

, विषयौ तूपवतनम्' इत्यमरः । बन्धने कारागृहे । कारा स्याइन्धनालये' इत्यमरः। निधाय द्वितीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । कान्तारे विन्ध्याटवीमध्ये भवानेकाको किमिति निवसति । भवदंसोपनीत यज्ञोपवीतं भूसुरभाव द्योतयति । हेतिहतिभिः किरातरीतिरजमीयते । कथय किमेतत्' इति । 'तेजोमयोऽयं मानुषमात्रपौरुषो नूनं न भवति । इति मत्वा स पुरुषस्तद्वयस्यमुखान्नामजनने विज्ञाय तस्मै निजवृत्तान्तमकथयत्--राजन- न्दन, केचिदस्यामटव्यां वेदादिविद्याभ्यासमपहाय निजकुलाचारं दूरीकृत्य सत्यशौचादिधर्मत्रातं परिहत्य किल्विषमविष्यन्तः पुलिन्दपुरोगमास्तदन्नमुप- मुजाना बहवो ब्राह्मण वा निवसन्ति, तेषु कस्यचित्पुत्रो निन्दापात्रचा- रित्रो मातङ्गो नामाहं सह किरातबलन जनपदं प्रविश्य प्रामेषु धानिनः स्त्रीबालसहितानानीयाटव्यां बन्धने निधाय तेषां सकलधनमपहरसुद्धृत्य वीत- यो व्यचरम् । कदाचिदेकस्मिन्कान्तारे मदीयसहचरगणेन जिघांस्यमान भूसुरमेकमवलोक्य दयायत्तचित्तोऽब्रवम्-'ननु पापाः न हन्तव्यो ब्राह्मणः दुर्गमम् ' इत्यमरः । एकाकी असहायः । “एकादाकिनिच्चासहाये इति स्वार्थे आकिनिन् । " एकाकी त्वेक एककः ' इत्यमरः । किमिति किमर्थन् । भक्तों से उपनीतं स्थापितम् । यज्ञो- प्रवीतं ब्रह्मसूत्रम् । द्योतयति प्रकाशयति । इतिहतिभिः शस्त्रायातः। किरातानां मिलानां रीतिः स्वभावोऽतुमीयते तय॑ते । 'माङ् माने ' इत्यतः ' कणि यकि “घुमास्था-' इती- त्वम् । प्रचुरं तेजोऽस्मिन्नस्तीति तेजोमयः । तत्प्रकृतवचने मयट्' इति नयट् ! मानुशमात्र मितरजनसाधारणं पौरुषं पुरुषकारो यस्यैतादृशो नूनं न भवति किन्त्वपूर्वविक्रम शालीति मृत्वा विचार्य । वयसा तुल्या वयस्या मित्राणि । 'नौवयोधर्म--' इत्यादिना तुल्यार्थे यत् तेषी मुखात् तद्वारा नामजनने राजवाहन इति नामधेयं मगधदेशावंतसात् राजहंसात् स्वमहिष्यां वसुमत्यामुत्पत्तिं च । विज्ञायावगत्य । निजवृत्तान्तमात्मकथाम् । वार्ता प्रवृत्तिवत्तान्तः' इत्यमरः । अकथयत् कथयामास । "कथ वाक्यप्रबन्धे' हे राजेति । राजकुमार ! अस्यामटव्यां विन्ध्यारण्ये। अटव्यरण्यं विपिनम्' इत्यमरः। अपहाय परित्यज्य । निज- कुलाचारं निजपूर्वजानुष्ठितमाचारं च दूरीकृत्य त्यक्त्वा । धर्मत्रातं धर्मसमुदायम् । किल्विषं पापम् । ' अस्त्री पङ्क्ष पुमान्पाप्मा पापं किल्विषकल्मषे । इत्यमरः । अन्विष्यन्तः गवे- षयन्तः । पुलिन्दा म्लेच्छजातिविशेषास्ते पुरोगमा अग्रेसरा येषां ते। 'भेदाः किरातशवर. पुलिन्दा म्लेच्छजातयः' 'पुरोगमः पुरोगामी' इत्यमरः । तेषां पुलिन्दादीनाम् अन्नमुपभुनानाः अदन्तः।आत्मानं ब्राह्मणं ब्रुवन्ति ब्राह्मणब्रुवाः । नाममात्रेण ब्राह्मणाः वस्तुतः नीचा इति यावत् । निन्दापात्रं निन्दायोग्यं चारित्रमाचारः यस्यैतादृशः ! जनपदं देशम् । 'नीज्जनपदो देश- । ० लिक्षिप्य । तेषां धनिनाम् । धनं वित्तम् । अपहरंश्चोरयन । वीताऽपगता या कृपा यस्मात सः।' कृपा दयाऽनुकम्पा स्यात् ' इत्यमरः । व्यचरं भ्रमन्नासम् । कदेति । कान्तारे वने । सहवरगणेनानुचरवर्गेण । जिघांस्यमानं हन्तुमिष्यमाणम् । 'हन हिंसागत्योः' इत्यस्मान् सनि 'अज्झनगमां सनि ' इति दीर्घ कर्मणि यकि रूपम् । भूसुर विप्रम् । अवलोक्य वीक्ष्य ।

॥ दयाया आयत्तम् अधीनं चित्तं चेतः यस्य तादृशः सन् । 'अधीनो निन्न आयत्तः दशकुमारचरितम् । [पूर्वपीठिकायां इति । ते रोषारणानयना मां बहुधा निरभर्स्यन् । तेषां भाषणपारुप्यमस- हिष्णुरहमवनिलुररक्षणाय चिरं प्रयुध्य तैरभिहतो गतजीवितोऽभवम् । ततः श्रेतपुरीमुपेत्य तत्र देहधारिभिः पुरुषैः परिवेष्टितं सभामध्ये रत्नखचितसिंहास- नासीनं शमनं विलोक्य तस्मै दण्डप्रणाममकरवम् । सोऽपि मामवेक्ष्य चित्रगुप्तं नाम निजामात्यमाहूय तमवोचत्-‘सचिव, नैषोऽमुष्य मृत्युसमयः । निन्दि- तचरितोऽप्ययं महीसुरानिमित्तं गतजीवितोऽभूत् । इतःप्रति विगलितकल्मष- स्यास्य पुण्यकर्मकरणे रुचिरुदेष्यति । पापिष्टैरनुभूयमानमत्र यातनाविशेष विलोक्य पुनरपि पूर्वशररिमनेन गम्यताम्' इति । चित्रगुप्तोऽपि तत्रतत्र संतप्ते- प्वायसस्तम्भेषु वध्यमानान्, आत्युष्णीकृते विततशरावे तैले निक्षिप्यमाणान्, लगुडैर्जर्जरीकृतावयवान्, निशितटकैः परितक्ष्यमाणानपि दयित्वा पुण्यवाद्धि- मुपदिश्य माममुञ्चत् । तदेव पूर्वशरीरमहं प्राप्तो महाटवीमध्ये शीतलोपचार १ । - इत्यमरः । 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इति च। अब्रवमवोचम् । पापा: हे नृशंसाः । 'नृशंसो घातुकः क्रूरः पापः' इत्यमरः । हन्तव्यो वध्यः । 'न ब्राह्मणं हन्यात्' इति धर्मशास्त्रात् । रोषेणामर्षेणारुणे ताने नयने चक्षुषी येषां ते । 'कोपक्रोधामर्षरोषप्रतिया मारकरेऽपि स्याद्वर्णभेदेऽपि च त्रिषु ' इत्यमरः । बहुधाऽनेकाभिर्विधाभिः । संख्याया विधार्थे धा' इति धाप्रत्ययः। निरभसयंस्तयामासुः । भाषणपारुष्यं वचननै- छुर्यम् । 'निष्ठुरं परुषम् ' इत्यमरः । असहिष्णुरसहनशीलः । 'अलंकृञ्-' इत्यादिनेष्णुच् । ततो नसमासः । अवनिसुररक्षणाय विप्रपारपालनाय । चिरं बहुकालपर्यन्तम् । प्रयुद्धय तैः सह समरं विरचय्य । अभिहतस्ताडितः । गतजीवितो मृत इत्यर्थः । तत इति । प्रेतपुरी यमनगरी संयमिनीमुपेत्य प्राप्य । रत्नमणिभिः खचितं संयोजितम् । आसीनमुपविष्टम् । शमन यमराजम् । शमनो यमराड्यमः' इत्यमरः । दण्डवत् प्रणामं नमस्कारम् । अकरवं कृतवान् । सोऽपि यमोऽपि । आहूय आकार्य । अवोचदुवाच। मृत्युसमयः मरणकालः । निन्दितच रितः दुराचारः। महीसुरनिमित्तं विप्रमुद्दिश्य । विगलितकल्मषस्य धूतपापस्य । 'पापं किल्बिष- कल्मषम्' इत्यमरः। अस्य मातंगस्य। रुचिः प्रीतिः । उदेष्यति उत्पत्स्यते । 'इण् गतौ'। अतिशयेन पापाः पापिष्ठाः । 'अतिशायने तमविष्टनौ' इतीष्टन् । अनुभूयमानं भुज्यमानम् । यातनाविशेषं दुःखविशेषम् । 'यातना तीव्रवेदना' इत्यमरः । विलोक्य दृष्टा । संतप्तेषु प्रज्व- लितेषु । आयसस्तम्भेषु लोहस्थूणाम् । अत्युष्णीकृते नितान्तं सन्तप्ते । वितते विस्तृते । शरावे पात्रविशेषे । तैलेस्नेहे निक्षिप्यमाणान प्रणुद्यमानान् । लगुडैदण्डैः। जर्जरीकृताश्चूर्णीकृताः अवयवा अङ्गानि येषां तादृशान् । 'अङ्गं प्रतीकोऽवयवः' इत्यमरः। निशितैस्तीक्ष्णैष्टकैः पाषाण- दारणयन्त्रैः 'टंकः पाषाणदारणः' इत्यमरः । पारतक्ष्यमाणांस्तनूक्रियमाणान् । 'तक्ष तनूकरणे' अमुञ्चन्मुक्तवान् । मुच्ल मोक्षणे' इत्यतो लङ् । 'शे मुचादीनाम् ' इति नुम् । तदेवेति । प्राप्तोऽधिगतः । शीतलं शतिम् । रचयता कुर्वता । विप्रेण ब्राह्मणेन । शिलायां ।

HO द्वितीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । रचयता महीसुरेण परीक्ष्यमाणः शिलायां शायितः क्षणमतिष्ठम् । तदनु विदि- तोदन्तो मदीयवंशबन्धुगणः सहसागत्य मन्दिरमानीय मामपक्रान्तत्रणमकरोत् । द्विजन्मा कृतज्ञो मह्यमक्षरशिक्षा विधाय विविधागमतन्त्रमाख्याय कल्मषक्षय- कारणं सदाचारमुपदिश्य ज्ञानेक्षणगभ्यमानस्य शशिखण्डशेखरस्य पूजाविधान- मभिधाय पूजां मत्कृतामङ्गीकृत्य निरगात् । तदारभ्याहं किरातकृतसंसर्ग बन्धु- कुलवर्गमुत्सृज्य सकललोकैकगुरुमिन्दुकलावतंसं चेतसि स्मरन्नस्मिन्कानने दूरी- कृतकलङ्को वसामि । 'देव, भवते विज्ञापनीयं रहस्यं किंचिदस्ति । आगम्य- ताम्' इति । स वयस्यगणादपनीय रहसि पुनरेनमभाषत-'राजन्, अतीते निशान्ते गौरीपतिः स्वप्नसंनिहितो निद्रामुद्रितलोचनंविबोध्य प्रसन्नवदनकान्तिः प्रश्रयानतं मामवोचत्-'मातङ्ग, दण्डकारण्यान्तरालगामिन्यास्तटिन्यास्तीरभूमौ सिद्धसाध्याराध्यमानस्य स्फटिकलिङ्गस्य पश्चादद्रिपतिकन्यापदपंक्तिचिह्नित- स्याश्मनः सविधे विधेराननामिव किमपि विलं विद्यते । तत्प्राविश्य तत्र निक्षिप्त पाषाणे । 'पाषाणप्रस्तरमावोपलाझ्मानः शिला इषत्' इत्यमरः । शायितः शयनं कारितः। तदनु तदनन्तरम् । विदितः ज्ञात उदन्तः प्रवृत्तिर्येन तादृशः । सहसा सत्वरम् । मन्दिरमा नीय गृहं प्रापथ्य । अपक्रान्ता निर्गता व्रणा ईर्माणि यस्य तादृशम् । अकरोचकार । द्विजन्मा महीसुरः । कृतमुपकारं जानाति इति कृतज्ञः । अक्षरशिक्षा लिप्यस्यासम् । कृत्वा विधाय । विविधागमानां नानाशास्त्राणां तन्त्रं सिद्धान्तम् । ' तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे इत्यमरः । आख्याय उपदिश्य । चक्षिङ् व्यक्तायां वाचि' इत्यस्य 'चक्षिङः ख्याञ् ' इति ख्यादेशः । कल्मषस्य पापस्य । क्षये नाशे । कारणं निमित्तभूतम् । सदाचारं शिष्टाचारम् । उप- दिश्य शिक्षायित्वा । ज्ञानेक्षणेन विज्ञानचक्षुषा । गम्यमानस्य ज्ञातव्यस्य । शशिखण्डः चन्द्रकला शेखरोऽवतेसो यस्य महादेवस्येत्यर्थः । पूजाविधानं पूजाविधिम् । अभिधाय कथयित्वा । पूजा सपर्याम् । निरगानिर्जगाम । तदारभ्य तस्मादिनात्प्रभृति । किरातैः सह कृतः संसर्गः संवन्धः येन तथाविधम् । बन्धुकुलवर्ग ज्ञातिसमुदायम् । 'सगोत्रवान्धवज्ञातिबन्धुस्वस्वजनाः समाः इत्यमरः । उत्सृज्य परिहृत्य । इन्दुकलावतंसं चन्द्रशेखरम् । चेतसि मनास । स्मरश्चिन्तयन् । कानने वने । दूरीकृतकलङ्कः धूतकल्मषः सन् । हे देवेति । विज्ञापनीयम् अवश्यकथनी- यम् । रहस्येकान्ते भवं रहस्यम् । गोप्यो वृत्तान्त इत्यर्थः । रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु' इत्यमरः । आगम्यतां मया साकमागमनं क्रियताम् । स मातङ्गः। वयस्यगणान्मित्रव- दिपनीय राजवाहनमन्यत्र नीत्वा । रहसि एकान्ते । अतीतेऽतिक्रान्ते । निशान्ते प्रभातकाले गौरीपतिमहेश्वरः । स्वप्ने निद्रायां सन्निहितः कृतसानिध्यः । विबोध्य उत्थाप्य । प्रश्रयेण विन- येनानतं नम्रम् । अवोचदुवाच । अन्तरालं मध्यभागः । तटिन्या नद्याः । तटिनी हादिनी धुनिः । इत्यमरः । तीरभूमौ तटोद्देशे । 'कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु ' इत्यमरः। सिद्धैः साध्यैश्च देवयोनिविशेषैः । आराध्यमानस्योपास्यमानस्य । पश्चात्पृष्ठदेशे। अद्विपतिकन्या हिमवत्पुत्री पार्वती तस्याः पदपङ्क्त्या चरणविन्यासश्रेण्या । चिह्नितस्याङ्कितस्य । अश्मनः पाषा- - ३ दशकुमारचरितम्। [ पूर्वपीठिकायां ताम्रशासन शासनं विधातुरिवसमादाय विधि तदुपदिष्टं दिष्टविजयामिव विधाय पाताललोकाधीश्वरेण भवता भवितव्यम् । भवत्साहाय्यकरो राजकुमारोऽद्य श्वो वा समागामिप्यति' इति । तदादेशानुगुणमेव भवदागमनमभूत् । साधनाभि- लाषिणो मम तोषिणो रचय साहाय्यम्' इति । 'तथा' इति राजवाहनः साकं मातङ्गेन नमितोत्तमाङ्गेन विहायाधरात्रे निद्रापरतन्त्रं मित्रगणं वनान्तरमवाप ! तदनु तदनुचराः कल्ये साकल्येन राजकुमारमनवलोकयन्तो विषण्णहृदयास्तषु तपु वनपु सम्यगन्विप्यानवेक्षमाणा एतदन्वेषणमनीषया देशान्तरं चरिष्णवोs- तिसहिष्णवो निश्चितपुनःसंकेतस्थानाः परस्परं वियुज्य ययुः । लोकैकवीरेण कुमारेण रक्ष्यमाणः संतुष्टान्तरङ्गो मातङ्गोऽपि विलं शशि- शेखरकथिताभिज्ञानपरिज्ञातं निःशङ्कं प्रविश्य गृहीतताम्रशासनो रसातलं पथा ग्रस्य । सविधे समीपे । विधवस्य । आननं मुखमिव । बिलं छिद्रम् । प्रविश्य प्रवेशं कृत्वा । निक्षिप्तं निहितम् । ताम्रफलके विलिखितं शासनं शिक्षाम् । समादाय गृहीत्वा । विधि विधा- नम् । भवितव्यं भवितुमर्हम् । श्वः आगामिदिवसे । तस्य परमेञ्चरस्य आदेशस्य अनुगुणमनु- रूपम् । अभूत् जातम् । साधनाभिलाषिणः भवत्साहाय्यरूपां सामग्रीमभिकांक्षमाणस्य । तोषिणः भवदागमेन जातानन्दस्य । रचय कुरु । साकं सह 'साकं सत्रा समं सह' इत्यमरः । नमितोत्तम- ड्रेन नम्रशिरसा। 'उत्तमाझं शिरः शीर्षम् ' इत्यमरः । विहाय त्यक्त्वा । रात्रेरर्धमर्धरात्रः । 'अहःसवैकदेशसंख्यातपुण्याच रात्रेः' इति समासान्तोऽन् । 'रात्राहाहाः पुंसि' इति पुंस्त्वम् । तस्मिनिशीथकाले । निद्रापरतन्त्रं स्वापाधीनम् । मित्रगणं सुहृद्वर्गम् । अन्यद्वनं वनान्तरम् । 'मयूरव्यंसकादयश्च' इति समासः ! अवाप प्राप्तवान् । तदन्विति । ततोऽनन्तरम् । तस्य राजवाहनस्यानुचरा अनुगामिनः सचिवकुमाराः । कल्ये प्रातःसमये 'प्रत्यूषोऽहर्मुखं कल्यम् इत्यमरः । साकल्येन सकलास्वपि दिक्षु ! अनवलोकयन्तः अनवेक्षमाणाः । विषण्णं दुःखा- मिभूतं हृदयं चेतः येषां तादृशाः सन्तः । सम्यक् साधुतयाऽन्विष्य गवेषयित्वा । एतस्य राजवाहनस्यान्वेषणमनीषया मार्गणबुद्धया । देशान्तरमन्यं देशम् । चरन्ति तच्छीलाश्च- रिष्णवः । 'अलंकृञ्--' इत्यादिनेष्णुच् । अत्यन्त सहनशीलाः अतिसहिष्णवः पूर्ववदिष्णुच् । निश्चितं निर्धारित पुनः संकेतस्य कालान्तरीयसंमेलनसंकेतस्य स्थानं यैस्तादृशाः सन्तः । वियुज्य विभक्का भूत्वा । ययुः प्रयाणं कर्तुमारेभिरे । 'या प्रापणे'। लोकेति । लोके भुवने एकवीरेण प्रधानशूरेण ।' पूर्वकालैकसर्व-' इति सामान्यतः प्राप्तमपि एकशब्दस्य पूर्वनिपातित्वं बाधित्वा 'पूर्वापरप्रथम-' इति वीरशब्दस्य पूर्वनिपाते प्राप्ते 'विशेषणं विशेष्येण बहुलम् ' इत्यत्र बहुलग्रहणादैकस्यैव पूर्व प्रयोगः 'एके मुख्यान्य- केवलाः' इत्यमरः । कुमारेण राजवाहनेन । रक्ष्यमाणः परिपाल्यमानः । 'रक्ष पालने' इत्यस्मात्कणि शानच् । संतुष्टान्तरङ्गः प्रसन्नमनाः । बिलं छिद्रम् । शशिशेखरेण महेश्वरेण । कथितं यदभिज्ञानं लक्षणं तेन परिज्ञातं विज्ञातम् । निःशङ्क शङ्कां विहाय । गृहीतं स्वायत्ती- कृतं ताम्रशासनं येन तादृशः । रसातलं पातालम् । अधोभुवनपातालं बलिसद्म रसातलम् । ७ । - -- । - द्वितीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । तेनैवोपेत्य तत्र कस्याचित्पत्तनस्य निकटे केलीकाननकासारस्य विततसारसस्य समीपे नानाविधेनेशशासनविधानोपपादितेन हविषा होमं विरच्य प्रत्यूहपार- हारिणि सविस्मयं विलोकयति राजवाहने समिदाज्यसमुज्ज्वलिते ज्वलने पुण्य- गेहं देहं मन्त्रपूर्वकमाहुतीकृत्य तडित्समानकान्ति दिव्यां तनुमलभत । तद्नु माणिमयमण्डनमण्डलमाण्डिता सकललोकललनाकुलललामभूतकन्यका काचन विनीतानेकसखीजनानुगम्यमाना कलहंसगत्या शनैरागत्यावानिसुरोत्तमाय मणि- मेकमुज्ज्वलाकारमुपायनीकृत्य तेन ' का त्वम् ' इति पृष्टा सोत्कण्ठा कलकण्ठ- खनन मन्दमन्दमुदञ्जलिरभाषत-'भूसुरोत्तम, अहमसुरोत्तमनन्दिनी कालिन्दी नाम । मम पितास्य लोकस्य शासिता महानुभावो निजपराक्रमासहिष्णुना - इत्यमरः। पथा मार्गेण । 'अयनं वर्ममार्गाध्वपन्धानः' इत्यमरः । उपेत्य गत्वा । तत्र पाताले ? पत्तनस्य नगरस्य ! पू: स्त्री पुरीनगयौँ वा पत्तनं पुटभेदनम् ' इत्यमरः । निकट आसन्न प्रदेशे। केलीकाननं क्रीडावन तस्य कासारः सर: तस्य ! 'कासारः सरसी सरः ' इत्यमरः । वितताः परितो निषष्णाः सारसाः पक्षिविशेषा चौताशस्य । समीपे निकटे । नाना- विधाः प्रकारा यस्यानेकप्रकारेण । ईशशासनविधानेन महादेवाज्ञानुसारतः । उपपादितन संपादि- तेन। हविषा होमद्रव्येण ! हूयते इति हविराज्यादि द्रव्यजातम् । होम हवनक्रियां विस्कटय संपाय! प्रत्यूहपारहारीणि विघ्नानां निवारके ! 'विन्नोऽन्तरायः प्रत्यूहः' इत्यमरः । सविस्मय साश्चर्यम् । 'विस्मयोऽद्भुतमाश्चर्यम्' इत्यमरः । विलोकयति पश्यति सति । समिद्भिरेधोभिराज्येन सर्पिषा च समुज्ज्वलितेऽत्यन्तं दीपिते जलनेऽसौ ! " कृपीटयोनिङ्घलनो जातवेदास्तनूनपात इत्यमरः । पुण्यगेहं सुकृतास्पदं देहं शरीरम् । मन्त्रः पूर्वो यस्मिंस्तथा । आहुताकृत्य हुत्वा । तडिता विद्युता समाना कान्तिः शोभा यस्याः सा तडित्समानकान्तिः ताम् । दिवि भवां दिव्याम् । दिगादिभ्यो यत् ' इति यत् । तनु शरीरम् । त्रियां मूर्तिस्तनुस्तनूः' इत्य- मरः । अलभत लब्धवान् । 'डुलभष् प्राप्तौ' । तदन्विति । मणिमयै रत्नविकारैर्मण्डनम - ण्डलभूषणजालैर्मण्डिताऽलंकृता। अलंकारस्त्वाभरणं पारष्कारो विभूषणम् । मण्डनं च' इत्यमरः! ललनाकुलललामभूता प्रमदावृन्दभूषणायमाणा ' ललाम पुच्छाचभूषाप्राधान्यकेतुषु' इत्यमरः। कन्यका काचित्कुमारी । विनीता विनययुक्ता । अनुगम्यमानाऽनुस्त्रियमाणा । कलहंसस्य काद- म्बपक्षिण इव गत्या गमनेन । ' कादम्बः कलहंसः स्यात् ' इत्यमरः । शनैर्मन्दम् । आगत्य निकटं प्राप्य । अवनिसुरोत्तमाय ब्राह्मणश्रेष्ठाय मातङ्गाय । मणि रत्नम् । उज्ज्वलाकार दीप्तम् । उपायनीकृत्य उपदात्वेन समर्म्य । तेन मातङ्गेन । पृष्ठाऽनुयुक्ता । सोत्कण्ठा सकौतुका। कलोऽ- व्यक्तमधुरः कण्ठः कण्ठरवः यस्य स कलकण्ठः कोकिल: तस्येव स्वनेन शब्देन । 'शब्द निनाद- निनदध्वानवानरवस्वनाः' इत्यमरः । उदञ्जलिः प्रोद्गतकरयुगला सती । अभाषत वक्तुमारभते स्म । 'भाष व्यक्तायां वाचि' । हे भूसुरोत्तमेति । अस्य पातालस्य । शासिता शिक्षक राजेति यावत् । 'शासु अनुशिष्टौ' इत्यतः कर्तरि तृच् । महाननुभावः प्रभावः यस्य सः । निज- १ । ।

কংঙ্কেলসিন্ধু। [पूर्वपीठिकाया विष्णुना दूरिकृतामरे समरे यमनगरातिथिरकार। तद्वियोगशोकसागरमग्न मामवेक्ष्य कोऽपि कालणिकः सिद्धतापसोऽभाषत-वाले, कश्चिदिव्यदेहधारी मानवो नव वल्लभस्तव भूत्वा सकलं रसातलं पालयिष्यति' इति । तदादेश निशन्य घनशब्दोन्मुखी चातकी वर्षागमनामिव तवालोकनकांक्षिणी चिरमति- ष्ठम् । मन्मनोरथफलायमानं भवदागमनमवगम्य मद्राज्यावलम्बभूतामात्याजु- मत्या मदनकृतसारथ्येन मनसा भवन्तमागच्छन् । लोकस्यास्य राजलक्ष्मीम- ङ्गीकृत्य मां तत्सपत्नी करातु भवान्' इति । मातङ्गोऽपि राजवाहनानुमत्या त तरुणी परिणय दिव्याङ्गनालाभेन हृष्टतमो रसातलराज्यमुररीकृत्य परमा- नन्दमाससाद। वञ्चयित्वा वयस्यगण समागतोराजवाहनस्तदवलोकनकौतूहलेन मुवं गमिष्णुः कालिन्दीदत्तं क्षुत्पिपासादिलेशनाशनं मणि साहाय्यकरणसन्तुष्टान्मातङ्गालब्धता पराक्रमस्य मत्पितृविक्रमस्यासहिष्णुना असहनशीलेन । 'अलंकज-' इतीष्णुच । विष्णुना भगवता नारायणेन दूरीकृताः पलायिता अमरा देवा यस्मात्ताइशे समरे रणे । 'अस्त्रियां समानीकरणाः इत्यमरः । यमनगरातिथिरकारि पञ्चत्वं प्रापितः इति भावः । 'डुकृञ् करणे' इत्यस्मात्कर्मणि लुङ् । तस्य मत्पितुः । वियोगेन विरहेणत्पन्नो यः शोकः मन्युः तस्मिन्नेव सागरेऽर्णवे मना निम- ज्जन्तीम् । अवेक्ष्य दृष्ट्वा । कारुणिको दयालुः । दिव्यमद्भुतं देहं कायं धारयति इति दिव्यदेह- धारी । 'सुप्यजातौ णिनिस्ताच्छील्ये' इति णिनिः । नवो नूतनः । वल्लभः प्रियः । रसातलं पाताललोकम् । पालयिष्यति गोपायिष्यति । ' पाल रक्षणे ' तदादेशं सिद्धतापसाज्ञाम् । निशम्याकर्ण्य । धनशब्दोन्मुखी मेघरवं प्रतीक्षमाणा । चातकी सारङ्गपक्षिणः स्त्री । वर्षागमन वृष्टिपातम्। वृष्टिवैषम् ' इत्यमरः। तवालोकनकाक्षिणी भवदर्शनेच्छावती चिरं बहुकालम् । अतिष्ठं स्थितवत्यास्म । “ट गतिनिवृत्तौ' । पाघ्रामास्था-' इत्यादिना तिष्ठादेशः । सन्मनोरथस्य मदीयकामनायाः फलायमानं फलरूपम् । अवगम्य विबुध्य । मद्राज्यस्यावलम्बभूत आश्रयीभूतो योऽमात्यः सचिवस्तस्य । अनुमत्या संमत्या । मदनेन मन्मथेन कृतं राचित सारथ्यं रथनियन्तृत्वं यस्य । 'नियन्ता प्राजिता यन्ता सूतःक्षत्ता च सारथिः' इत्यमरः । सारथेः कर्म भावो वा सार- थ्यम् । 'गुणवचनब्राह्मणादिभ्यः कर्मणि च' इति ष्यम्। एतादृशेन मनसा चित्तेन। आगच्छमागत- वती । 'गम्ल गतौ' इत्यतो लडि 'इपुगमियमां छः' इति छः। राजलक्ष्मी नृपसंपत्तिम् । अङ्गी- कृत्य स्वीकृत्य । समानः पतिर्यस्याः सा सपत्नी । नित्यं सपत्न्यादिषु' इति डीब्नुको । तस्या राजलक्ष्याः सपत्नीम् । करोतु विदधातु । उभे अप्यङ्गीकृत्य यथायोग्य परिपालयतु भवानि- त्यर्थः। मातङ्ग इति । राजवाहनस्य अनुमत्या संमत्या। तरुणीं युवतीम् । परिणीय पाणिग्रहणं कृत्वा । दिव्याङ्गनालाभेन अपूर्वसुन्दरीप्राप्त्या । अतिशयेन हृष्ट इति हृष्टतमः । 'अतिशायने तमाविष्टनौ' इति तमप् । रसातलराज्यं पातालराज्यम् । उररीकृत्याङ्गीकृत्य । आससाद प्राप । आङ्पूर्वात 'षद्ल विशरणगत्यवसादनेषु' इत्यतो लिट् । वञ्चयित्वेति । प्रतार्य । वयस्यगणे मित्रवर्गम् । तस्य मित्रवृन्दस्यावलोकने दर्शने कौतू- । । ।

, द्वितीयोच्छ्रासः] मनोरमाख्यव्याख्यासहितम्। कंचनाध्वानमनुवर्तमानं तं विसृज्य बिलपथेन तेन निर्ययौ । तत्र च मित्रगणम- नवलोक्य मुवं बभ्राम । भ्रमंश्च विशालोपशल्ये कमप्याक्रीडमासाद्य तत्र विशि- श्रमिपुरान्दोलिकारूढं रमणीसहितमाप्तजनपरिवृतमुद्याने समागतमेकं पुरुषमप- श्यत् । सोऽपि परमानन्देन पल्लवितचेता विकसितवदनारविन्दः 'मम स्वामी सोमकुलावतंसो विशुद्धयशोनिधी राजवाहन एषः। महाभाग्यतयाऽकाण्ड एवास्य पादमूलं गतवानस्मि । संप्रति महान्नयनोत्सवो जातः' इति ससंभ्रममान्दोलि- काया अवतीर्य सरभसपदविन्यासविलासिहर्षोत्कर्षचरितास्त्रिचतुरपदान्युद्गतस्य चरणकमलयुगलं गलदुल्लसन्मल्लिकावलयेन मौलिना पस्पर्श । प्रमोदाश्रुपूर्णो राजा पुलकिताङ्गं तं गाढमालिङ्गय । अये सौम्य सोमदत्त' इति व्याजहार । ततः कस्यापि पुनागभूरहस्य छायाशीतले तले संविष्टेन मनुजनाथेन सप्रणय- इलेन कुतुकेन । भुवं भूलोकम् । गमिष्णुगमिष्यन् । कालिन्या मातङ्गपत्न्या । दत्तं समर्पितम् । शुत् वुमुक्षा, पिपासा जलपानेच्छा, एतदादिल्लेशं दुःखं नाशयतीति क्लेशनाशनम् । मणिरत्नम् । साहाय्यकरणेन सन्तुष्टः जातानन्दो यो मातङ्गस्तस्मात् । लब्ध्वा प्राप्य । अध्वानं मार्गम् । अनु- वर्तमानमनुसृत्यागच्छन्तं तं मातङ्गनामानं ब्राह्मणम् । विसृज्य त्यक्त्वा निर्ययौ बहिराज- गाम । तत्रेति । विन्ध्याटव्याम् । अनवलोक्य अदृष्ट्वा ! बनाम भाम्यति स्म । 'प्रदु संच- लने' विशालाया नगर्या उपशल्ये प्रामान्तदेशे । 'ग्रामान्तमुपशल्यं स्यात् ' इत्यमरः । आक्रीडमुद्यानम् । 'पुमानाक्रीड उद्यानम्' इत्यमरः। आसाद्य गत्वा । विश्रमितुमिच्छर्विशि- श्रमिषुः । ' श्रम तपसि खेदे च' विपूर्वादस्मात्सन्नन्तात् 'सनाशंसभिक्ष ः' इत्युप्रत्ययः । आन्दोलिकारूढं दोलामधिरुह्य वर्तमानम् । रमणीसहितं सस्त्रीकम् । उद्याने उपवने । अपश्यत् ददर्श । 'दाशर प्रेक्षणे' ! 'पाघ्राध्मा-' इति दृशः पश्यादेशः । पल्लवितं प्रफुलं चेतो यस्य । सोमकुलावतंसः चन्द्रवंशभूषणम् । विशुद्धस्य यशसः कीनिधिः निक्षेपस्थानम् । महाभाग्य- तया अतिदैवानुकूल्येन । अकाण्डे अकाले । 'काण्डोऽत्रीदण्डबाणार्ववर्गावसरवारिषु' इत्यमरः । अस्य राजवाहनस्य । संप्रति इदानीम् । 'एतर्हि संप्रतीदानीमधुना सांप्रतं तथा' इत्यमरः । नयनोत्सवो नेत्रयोरानन्दः । जातः उत्पन्नः । ससंभ्रमं सत्वरम् । आन्दोलिकाया दोलायाः । अवतीर्य अवरोहणं कृत्वा । सरभसः सवेग: यः पदविन्यासश्वरणनिक्षेपस्तेन विलासि विलसन- शील, हर्षोत्कर्षेण आनन्दातिरेकेण विशिष्टं च चरितं संचारः राजवाहनं प्रति यस्मैतादृशः संन् । 'मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसंमदाः' इत्यमरः । त्रीणि वा चत्वारि त्रिचतुराणे । 'संख्य- याऽव्ययासन्नादूराधिकसंख्याः संख्येये' इति समासे 'त्र्युपाभ्यां चतुरोऽजिष्यते' इति समासा- न्तोऽच् । उद्गतस्योन्मुखतयाऽऽगतस्य । चरणकमलयुगलं पादपद्मद्वन्द्वम् । गलनधः पतन् अत- एव उल्लसन् विलसन् मल्लिकावलयः पुष्पविशेषमाल्यमर्धचन्द्राकारं यस्मिन्नेतादृशेन मौलिना शिरसा । 'मौलिः किरीटे धम्मिल्ले चूडायामनपुंसकम्' इति मेदिनी । पस्पर्श स्पृष्टवान् । प्रमो- दाश्रुपूर्णः आनन्दवाष्पाकुलः । पुलकिताङ्गं रोमाञ्चितगात्रम् । गाढं दृढम् । आलिङ्गयाश्लिष्य । व्याजहार उक्तवान् । तत इति । पुनागभूरहस्य नागकेसरवृक्षस्य । छायया शीतले शीते। । । ।

। ३० জুলাহালু। [पूर्वपीठिकाय. मभाणि--'सर, कालमेतावन्तं देशे कस्मिन्, प्रकारेण केनास्थायि भवताए संप्रति कुत्र गम्यते, तरुणी केयम, एप परिजनः संपादितः कथम्, कथय' इति । सोऽपि मित्रलदर्शनव्यतिकरापगतचिन्ताज्वरातिशयो मुकुलितकरकमलः सवि- नयमात्मीयप्रचारप्रकारमवोचत् ।। इति श्रीदण्डिनः कृतौ दशकुमारचरिते द्विजोपकृतिनाम द्वितीय उच्छासः ॥ २ ॥ तृतीयोच्छासः ॥३॥ 'देव' भवच्चरणकमलसेवाभिलापीभूतोऽहं भ्रमन्नेकस्यां वनावनौ पिपासा- कुलो लतापरिवृतं शीतलं नदसलिलं पिबन्नुज्ज्वलाकारं रत्नं तत्रैकमद्राक्षम् । तदादाय गत्वा कंचनाध्वानमम्बरमणेरत्युष्णतयागन्तुमक्षमो वनेऽस्मिन्नेव किमपि देवतायतनं प्रविष्टो दीनाननं बहुतनयसमेतं स्थविरमहीसुरलेकमवलोक्य कुश- तलेऽधः प्रदेशे। संविटेनासीनेन । सप्रणयं सस्नेहम् । अभाणि अभाषि । अस्थायि स्थितम् । संप्रतीदानीम् ! कथय ब्रूहि । 'कथ वाक्यप्रबन्धे' । सोऽपि सोमदत्तोऽपि । मित्रस्य राजवाह- नस्य संदर्शनव्यतिकरण दर्शनोपलम्भेनापगतो दूरीभूतः चिन्ताया एव ज्वरस्यातिशय आधिक्यं यस्य । मुकुलितकरकमल; कृतप्रणामः । आत्मीयः निजः यः प्रचारः देशाटनं तस्य प्रकार विधाम् । अवोचत् उक्तवान् ‘ब्रूञ् व्यक्तायां वाचि' । इति दशकुमारचीरतव्याख्यायां मनोरमाख्यायां द्वितीय उच्छासः समाप्तः ॥ २ ॥ अथ तृतीय उच्छासः॥ देवेति । हे राजन् ! — राजा भट्टारको देवः' इत्यमरः । भवतः चरणकमलयोः पाद- पद्मयोः सेवायां शुश्रूषायामभिलाषीभूतः अत्याग्रही । अहं सोमदत्तः । भ्रमन्पर्यटन् । ' भ्रम संचलने' बनावनौ काननभूमौ । ' गहनं काननं वनम् । 'क्ष्माऽवनिर्मेदिनी मही ' मरः । पातुमिच्छा पिपासा तयाऽऽकुलः पीडितः । “पा पाने' इत्यतः सन्नन्तात् 'अ प्रत्ययात्' इत्यकारः प्रत्ययः । 'उदन्या तु पिपासा तृट् तर्षः' इत्यमरः । लताभिव्रततिभिः परिवृतमावृतमतएव शीतलं तुषारम् । 'वल्ली तु व्रततिर्लता' 'तुषारः शीतलः शीतः। इत्यमरः । नदसलिलं सारद्विशेषस्थं जलम् । 'सलिलं कमलं जलम् ' पिबन तृष्णां निवार- यन् । 'पा पाने' इत्यतः शता । 'पाघ्रामा--' इति पिबादेशः । उज्ज्वलाकारं प्रस्फुरत्स्वरू- पम् । रत्नं मणिम् । तत्र नदकूले । अद्राक्षमपश्यम् । 'दृशिर प्रेक्षणे' लुङ् । आदाय गृहीत्वा । अचानं मार्गम् । अम्बरमणे: आकाशे रत्नवत्प्रकाशमानस्य सूर्यस्येत्यर्थः मम्बरम्' इत्यमरः । अत्युष्णतया तीक्ष्णातपतया । गन्तुं प्रयाणं कर्तुम् । अक्षमोऽसमर्थः । बने कानने । देव एव देवता तस्या आयतनमालयम् । देवात्तल् ' इति स्वार्थे तत्प्रत्ययः । चैत्यमायतनं तुल्ये ' इति गृहविशेषपर्यायेऽमरः । प्रविष्टः गतः । प्रपूर्वात् 'विश प्रवेशने' इत्यतः कर्तरि ‘गतिबुद्धि--' इत्यादिना क्तः । दीनं कृपणमाननं मुखं यस्य तादृशम् । 'आननं लपनं मुखम् ' इत्यमरः । बहुभिः प्रभूतैस्तनयैः पुत्रैः समेतं संयुक्तम् । 'प्रभुतं प्रचुरं प्राज्यमदनं बहुलं बहु' : आत्मजस्तनयः सूनुः सुतः पुत्रः' इत्यमरः । स्थविरमहीसुरं इत्य- - व्योम पुष्कर- CHASEEMARAT तृतीयोच्छ्रासः मनोरमाख्यव्याख्यासहितम्। लमुदितदयोऽहमपृच्छम् । कार्पण्यविवर्णवदनो महदाशापूर्णमानसोऽवोचदन- - 'महाभाग, सुतानेतान्मातृहीनाननेकैरुपायै रक्षन्निदानीमस्मिन्कुदेशे भैक्ष्य संपाच दददेतेभ्यो वसामि शिवालयेऽस्मिन्' इति । 'भूदेव, एतत्कटका- धिपती राजा कोऽस्य देशस्य, किंनामधेयः, किमत्रागमनकारणमस्य' इति पृष्टोऽभाषत महीसुरः--'सौम्य, मत्तकालो नाम लाटेश्वरो देशस्यास्य पालयितु- रिकेतोस्तनयां वामलोचना नाम तरुणारत्नमसमानलावण्यं श्रावंश्रावमवधूतदुर हितृप्रार्थनस्य तस्य नगरीमरौत्सीत् । वीरकेतुरपि भीतो महदुपायनमिव तनयां मन्तकालायादात् । तरुणीलाभहृष्टचेता लाटपतिः 'परिणेया निजपुर एव इति निश्चित्य गच्छन्निजदेशं प्रति संप्रति मृगयादरेणात्र बने सैन्यवासमकारयत् । वृद्धब्राह्मणम् । प्रवयाः स्थविरो वृद्धः' इत्यमरः । अवलोक्य दृष्ट्वा । कुशलं क्षेमवार्ताम् । 'भावुकं भविकं भव्यं कुशलं क्षेममन्त्रियाम् ' इत्यमरः । उदिता दया यस्य स जातानुकम्प: सन् । कृपा दयाऽनुकम्पा स्यात्' इत्यमरः। अपृच्छं पृष्टवान् । प्रच्छ ज्ञाप्सायाम्। इत्यतो लडि 'अहिज्या--' इति संप्रसारणम् । कार्पण्येन दैन्योन विवर्ण निष्कान्ति वदनमानन यस्यैतादृशः । महति कार्य आशया तृष्णया पूर्ण व्याप्त मानसं चित्तं यस्य तथाविधः । अवोचदुवाच । अग्रजन्मा ब्राह्मणः । 'द्विजात्यग्रजन्मभुदेववाडवाः' इत्यमरः । महाभा- गेति । हे भाग्यशालिन् ! सुतान्पुत्रान् । मातृहीनान् जननीरहितान् । 'जनयित्री प्रसूर्माता जननी ' इत्यमरः । रक्षन्परिपालयन् । इदानीमधुना । कुदेशे निन्यप्रदेशे । भैत्यं भिक्षाटनेन लभ्यं भक्ष्यपदार्थम् । संपाद्य समासाद्य । ददद्वितरन् । 'नाभ्यस्ताच्छतुः' इत्यनेनात्र न नुम् । एतेभ्यः पुत्रेभ्यः । शिवालये शम्भुमन्दिरे ! एतस्य समीपे दृश्यमानस्य कटकस्य शिवि- रस्याधिपतिः प्रभुः । किं नामधेयं यस्य सः। आगमनस्य कारणं निमित्तं किम् । अभाष- तोवाच । सौम्य हे भद्रमुख ! पालयितू राज्ञः ! तनयां पुत्रीम् । तरुणीषु युवतिषु रत्नं प्रकृ. टाम् । 'रत्नं स्वजातिश्रेष्ठेऽपि ' इत्यमरः । असमानमुपमारहितं लावण्यं 'मुक्ताफलेषु च्छाया- यास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥' इत्युक्तलक्षणं सौन्दर्य यस्य तथाविधम् । श्रावश्रावमसकृदाकर्ण्य । 'आभीक्ष्ये णमुल च ' इति णमुल् । 'नित्यवीप्सयोः इति द्वित्वं च । अवधूता तिररकृता दुहितुः कन्यायाः प्रधानकर्मणः प्रार्थना याच्या येन तादृशस्य। तस्य वारकेतोः । नगरौं पुरीम् । अरौत्सीदाबृतवान् । 'रुधिर् आवरणे ' लुङ् । वीरेति । भीतस्त्रस्तः । उपायनमुपहारमिव । ' उपायनमुपग्राह्यमुपहारस्तथोपदा इत्यमरः । तनयाँ कन्याम् । अदाद्ददौ । तरुणीलाभेन कन्याप्राप्त्या । हृष्टचेताः प्रसन्नमनाः । लाटपतिमत्तकालः । परिणेया विवाहारे । निजपुरे लाटदेशे एव । निश्चित्य निर्धार्य । निष्पूर्वात् 'चिञ् चयने इत्यतो ल्यपि ' ह्रस्वस्य पिति कृति तुक्' इति तुक । निजदेश प्रति लाटदेशमुद्दिश्य । अमितःपरितःसमयानिकरुषाहाप्रतियोगेऽपि' इति द्वितीया । संप्रति इदानीम् । मृगयाया- माखेटे आदरणाग्रहेण । 'आच्छोदनं मृगव्यं स्यादाखेटो मृगया नियाम् । इत्यमरः । सैन्यस्य सेनाया वासं निवासस्थानं शिबिरमित्यर्थः । अकारयत कारयामास । डुकृञ करणे' इत्यतो । ।

-11 १० . दशकुमारचरितम् । [पूर्वपीठिकायां कन्यासारेण नियुक्तो मानपालो नाम वीरकेतुमन्त्री मानधनश्चतुरङ्गबलसम- न्वितोऽन्यत्र रचितशिबिरस्तं निजनाथावमानखिन्नमानसोऽन्तबिभेद' इति । विप्रोऽसौ बहुतनयो विद्वान्निधनः स्थविरश्च दानयोग्य इति तस्मै करुणापूर्णमना रत्नमदाम् । परमाह्लादविकसिताननोऽभिहितानेकाशीः कुत्रचिदग्रजन्मा जगाम । अध्वश्रमखिन्नेन मया तत्र निरवेशि निद्रासुखम् । तदनु पश्चान्निगडितबाहुयुगल: स भूसुरः कशाघातचिह्नितगात्रोऽनेक स्त्रिंशिकानुयातोऽभ्येत्य माम् ‘असौ दस्युः' इत्यदर्शयत् । परित्यक्तभूसुरा राजभटा रत्नावाप्तिप्रकारं मदुक्तमनाकर्ण्य भयरहितं मां गाढं नियम्य रज्जुभिरानीय कारागारम् 'एते तव सखायः' इति निगडितान्कांश्चिन्निर्दिष्टवन्तो मामपि निगडितचरणयुगलमकार्षुः । किंकर्तव्यता- हेतुमणिचि लङ् । कन्यासारेण कन्यारूपश्रेष्ठवस्तुना 'सारो बले स्थिरांशे च मज्ज्ञि पुलि जले धने' इति मेदिनौ । नियुक्तः प्रेरितः । मानधनः अभिमानी । चतुरंगेण हस्त्यश्वरथपादातयु- केन बलेन सैन्येन समन्वितः युक्तः । रचितं शिबिरं सेनानिवासस्थानं येन तथाभूतः । तं मत्तकालम् । निजनाथस्य स्वराजस्य वीरकेतोः । अवमानेनऽवज्ञया खिन्नं दुःखाक्रान्तं मानसं चित्तं यस्य तादृशः । " रीढाऽवमाननाऽवज्ञाऽवहेलनमसूक्षणम् ' इत्यमरः । अन्तभिभेद मत्त- कालसैनिकानां मनसि परस्परमेव कलहं कारितवान् । विम इति ! बहुतनयः अनेकैः पुत्र- युक्तः । विद्वान्सुधीः। 'विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः' इत्यमरः । निर्धनो दारद्रः । स्थविरो वृद्धः । दानाय योग्यः अर्हः । करुणया कृपया पूर्ण मनो यस्यैतादृशः सन् ! अदां व्यतरम् । 'डदाने दाने' इत्यतो लुङि । 'गातिस्थाधु-' इति सिचो लुच् । परमाल्हा- देन आनन्दातिरेकेण विकसिताननः प्रफुल्लवदनः । अभिहिता प्रोक्ता अनेका आशिष आशी- यंदा येन सः। जगाम गतवान् । अध्वश्रमेण मार्गायासेन खिन्नेन दुःखितेन । तत्र देवतालये। निरवेशि उपभुक्तम् । निष्पूर्वात् 'विश प्रवेशने ' इत्यतः कर्मणि लुङि रूपम् । 'निर्वेशो भृतिभोगयोः ' इत्यमरः । तदन्विति । ततोऽनन्तरम् । पश्चात्पृष्ठभागे निगडितं शृंखला- भिर्वद्धं बाहुयुगलं दोर्युग्मं यस्य तथाविधः । 'शृंखला पुंस्कटी वस्त्रबन्धे च निगडे त्रिषु' इति मेदिनी । 'भुजबाहू प्रवेष्टो दोः ।। युग्मं तु युगलं युगम्' इत्यमरः । भूसुरो विमः । कशाया आघातैरम्बादिताडनाय लगुडान्तबद्धरज्जुविशेषस्य प्रहारैः । ' अश्चादेस्ताडनी कशा इत्यमरः । चिह्नितं लक्षितं गात्रं वपुर्यस्य सः । ' गात्रं वपुः संहननं शरीरं वर्म विग्रहः' इत्य- मरः । निस्त्रिंशोऽसिः प्रहरणं येषां ते नैत्रिशिकाः । 'प्रहरणम्' इत्यनेन ठकू ' खङ्गे तु निस्त्रिं- शचन्द्रहासासिरिष्टयः' इत्यमरः । तैरनुयातोऽनुगतः । माम् अभ्येत्य मत्समीपमागत्य दस्यु- स्तस्करः ' चौरैकागारिकस्तनदस्युतस्करमोषकाः ' इत्यमरः । अदर्शयदर्शयांचकार । परित्यक्त उज्झितो भूसुरो विप्रो यैस्ते । राजभटाः नृपाकराः रत्नावाप्तेर्मण्युपलम्भस्य प्रकारं रीतिम् । मदुक्तं मयाऽसकृत्कथितमपि । अनाकासंश्रुत्य भयरहितं निर्भीकम् । मां सोमदत्तम् । नियम्य बद्ध्वा । कारागारं बन्धनालयम् । एते बन्धागारे वर्तमानाः । सखायः सहृदः । निगडिताम्बद्धान् । निार्देष्टवन्तः निदर्शितवन्तः निगाडतचरणयुगलं शृंखलितपादयुग्मम् । अकार्षुः चक्रुः । किंकर्तव्य- । .

र * । तृतीयोच्छासः] मनोरमाख्यव्याख्यासहितम्। मूढेन निराशक्लेशानुभवेनावोचि मया--'ननु परुषा वीर्यपुरुषाः, निमित्तेन केन निर्विशथ कारावासदुःखं दुस्तरम् । यूयं वयस्या इति निर्दिष्टमेतैः, किमि- दम्' इति । तथाविधं मामवेक्ष्य भूसुरान्मया श्रुतं लाटपतिवृत्तान्तं व्याख्याय चोरवीराः पुनरवोचन्-'महाभाग, वीरकेतुमान्त्रिणो मानपालस्य किंकरा वयम् । तदाज्ञया लाटेश्वरमारणाय रात्री सुरङ्गाद्वारेण तदगारं प्रविश्य तत्र राजाभावेन विषण्णा बहुधनमाहृत्य महाटवीं प्राविशाम । अपरेयुश्च पदान्वे- पिणो राजानुचरा बहवोऽभ्येत्य धृतधनचयानस्मान्परितः परिवृत्य दृढतरं बद्धवा निकटमानीय समस्तवस्तुशोधनवेलायामेकस्यानर्घ्यरत्नस्याभावेनास्मद्वधाय माणि- क्यादानायास्मान्कलाशृङ्खलयन्' इति । श्रुतरत्नरत्नावलोकनस्थानोऽहम् “इद तदव माणिक्यम्' इति निश्चित्य भूदेवदाननिमित्तां दुरवस्थामात्मनो जन्म नाम- धेयं युष्मदन्वेषणपर्यटनप्रकारं चाभाप्य समयोचितैः संलापैमत्रीमकार्षम् । ततो- ऽर्धराने तेषां मम च शृङ्खलाबन्धनं निर्मिध तैरनुगम्यमानो निद्रितस्य द्वाःस्थगण- स्यायुधजालमादाय पुररक्षान्पुरतोऽभिमुखागतापटुपराक्रमलीलयाभिद्राव्य मान- तायां किं कर्तव्यमापद्यासन्नायामिति विचारे मूढेनासमर्थन । निराशः अनभीष्टः आक- स्मिक इत्यर्थः । तादृशः क्लेशानुभवो दुःखसाक्षात्कृतिर्यस्यैतादृशः । अवाचि अभिहितम् । नन्विति । परुषा निष्ठुरकर्माणः । निर्वशथ अनुभवथ । कारावासदुःखं बन्धनागारस्थितिजातं कष्टम् । दुस्तरमसह्यम् । वयस्था वयसा तुल्याः सवयसः । एतै राजपुरुषैः । मां सोमदत्तम् । अवेक्ष्य दृष्ट्वा । श्रुतमाकर्णितम् । लाटपतेर्मतकालनाम्नो वृत्तान्तं प्रवृत्तिम् । व्याख्याय कथ- यित्वा । किंकराः सेवकाः। तस्य वीरकेतोः। आज्ञया निदेशेन । मारणाय व्यापादनाय । रात्री निशायाम् । सुरङ्गाद्वारेण बिलपथा । विषण्णाः खिन्नाः। आहृत्य मोषयित्वा । प्रावि- शाम प्रविष्टवन्तो वयम् । अपरेधुरन्यस्मिनहनि । पदानि चरणविन्यासानन्विच्छन्ति अनुसृत्य मार्गयन्ति इति पदान्वेषिणः । अभ्येत्यास्मदभिमुखमागत्य । धृतः हस्ताभ्यां गृहीतः । धनस्य चयः समूहो यैस्तादृशान् । परितः समन्तात् । परिवृत्य वेष्टयित्वा । बवा नियम्य । निकटं शिबिरस्य समीपम् । समस्तानां वस्तूनां पदार्थानां शोधनवेलायामन्वेषणकाले। अनयरत्नस्य अमूल्यमणेः अभावेनानुपलब्धतयारीमाणिक्यस्य रत्नस्याआदानाय ग्रहणाय । अशंखलयन् निग- डितवन्तः। रत्नस्य स्थानं मत्तकालशिबिरम्, रत्नावलोकनस्थानं नदकूलमेतदुभयं श्रुतं राजपुरुष- मुखादाकर्णितं प्रत्यक्षतोऽनुभूतं च येन तादृशः । इदं नदकूलोपलब्धम् । तदेवान्वेषणकाले- उदृष्टमेव । निश्चित्य निर्धार्य । भूदेवाय ब्राह्मणाय । यद्दानं प्रतिपादनं तनिमित्तां तद्वेतुकाम् । दुर- वस्थां दुर्दशाम् । जन्म उत्पत्तिम् । आभाष्य कथयित्वा । समयोचितैः कालानुरूपैः सल्लापै : परस्परभाषणैः। संलापो भाषणं मिथः' इत्यमरः । मैत्री सख्यम् । अकार्षे सम्पादितवान् । तत इति । अर्धरात्रे निशीथसमये । 'अर्धरात्रनिशीथौ द्वौ ' इत्यमरः । शृंखलाबन्धनं निग- डरज्जुम् । निर्भिद्य विदार्य । भिदिर विदारणे' । तै राजपुरुषैः । अनुगम्यमान अनुयातः निद्रितस्य सुप्तस्य । द्वाःस्थगणस्य द्वारपालवर्गस्य । आयुधाजालं शस्त्रसमुदायम् । 'आयुधं तु । . - । ४३ दशकुमारचरितम् । [ पूर्वपीठिकार्यों पालशिबिरं प्राविशम् । मानपालो निजकिंकरेभ्यो मम कुलाभिमानवृत्तान्त तात्कालिक विक्रम च निशम्य मामार्चयत् । परेधुर्मत्तकालेन प्रेषिताः केचन पुरुषा मानपालमुपेत्य 'मन्त्रिन, मदीयराजमन्दिरे सुरङ्गया बहुधनमपहृत्य चोरवीरा भवदीयं कटकं प्राविशन् । तानपय । नो चेन्महाननर्थः संभाविष्यति' इति क्रूरतरं वाक्यमब्रुवन् । तदाकर्ण्य रोषारुणितनेत्रो मन्त्री 'लाटपतिः कः तेन मैत्री का, पुनरस्य वराकस्य सेवया कि लभ्यम्' इति तान्निरभसयत् । ते च मानपालेनोक्तं विप्रलापं मत्तकालाय तथैवाकथयन् । कुपितोऽपि लाटपति दोर्वीर्यगणाल्पसनिकसमेतो योद्धमभ्यगात् । पूर्वमेव कृतरणनिश्चयो मानी मान- पालः संनद्धयोधो युद्धकामो भूत्वा निःशङ्क निरगात् । अहमपि सबहुमान मन्त्रिदत्तानि बहुलतुरंगमोपेतं चतुरसारथिं रथं च दृढतरं कवचं मदनुरूपं चार्प च विविधवाणपूर्ण तूणीरद्वयं रणसमुचितान्यायुधानि गृहीत्वा युद्धसंनद्धो मदीयवलविश्वासेन रिपूद्धरणोद्युक्तं मन्त्रिणमन्वगाम् । परस्परमत्सरण तुमुलसं- प्रहरणं शस्त्रमन्त्रमथास्त्रियौ'इत्यमरः आदाय गृहीत्वा । पुररक्षानगरपालकान् । पुरतः नगरात् । पञ्चम्यास्तसिल्' इति तसिल् । अभिमुखं संमुखतयाऽऽगतान्प्राप्तान् । पटुपराक्रमस्यामन्द- शौर्यस्य । लीलया विलासेन । अभिद्राव्य पलायन कारयित्वा । मानपालस्य वौरकेतुसचिवस्य शिविरं सेनानिवासम् । प्राविशं प्रविष्टवान् । तस्मिन्काले भवं तात्कालिकम् । कालाह इति ठञ् । विक्रमं शौर्यम् । निशम्ब श्रुत्वा । आर्चयत बहुमानितवान् । 'अर्च पूजायाम्लङ्। राजमन्दिरे नृपागारे। सुरङ्गया बिलमार्गेण । अपहृत्य बोरयित्वा । चौरेषु वीराः तस्करश्रेष्ठाः कर्मधारये तु 'पूर्वापरप्रथम-' इति वीरस्य पूर्वनिपातः स्यात् । कटकं शिबिरं प्राविशन् प्रविष्टाः । अपय अस्मभ्यं देहि । 'ऋगतौ' इत्यतो हेतुमणिचि 'अर्तिहीलीरी-' इत्या- दिना पुक् । नो चेत् यद्येवं न करिष्यसि । संभविष्यति उत्पत्सते । क्रूरतरमतिपरुषम् । रोषेण कोपेनालाणते ताने नेत्रे यस्य सः । मन्त्री मानपालः । मैत्री सख्यम् । वराकस्य अधमस्य । सेवयाऽऽनयेणं । लभ्यं प्राप्यं प्रयोजनम् । निरभर्सयत तर्जयमास । ते राज- पुरुषाः । विप्रलापं विरुद्धवाक्यम् । 'विप्रलापो विरोधोक्तिः' इत्यमरः । तथैव तेनैव प्रकारेण 'प्रकारवचने थाल्' इति थाल् । कुपितः क्रुद्धः । दोर्वीर्यगर्वेण बाहुबलाहकारेण । अल्पेन सैनिकेन समेतो युक्तः । योर्दु युद्धं कर्तुम् । 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ' इति तुमुन् । पूर्वमेवा- दावेव । कृतः रणनिश्चयः समरोऽवश्यंभावीति येन तादृशः । मानी गर्वितः। सनद्धाः सज्जा योधा भटा यस्य सः । युद्धकामः रणाभिलाषी। निःशवं निर्भयम् । अहमिति । सोम- दत्तः । सबहुमानं सादरम् । तुरंगमा अश्वाः । चतुरो निपुणः सारथिर्यन्ता यस्य तादृशं रथं स्यन्दनम् । कवचं वर्म । चापं धनुः । 'धनुश्चापो धन्वशरासनकोदण्डकामुकम्' इत्यमरः तूणीरद्वयं इषुधिद्वन्द्वम् । ' तूणोपासतूणीरनिषङ्गा इषधिद्वयोः' इत्यमरः । रणसमुचितानि युद्धयोग्यानि । आयुधानि महरणानि । गृहीत्वाऽऽदाय । मदीयबले मामकीनशक्तौ विश्वासेन विलम्भेण । 'समौ विखम्भविश्वासौ ' इत्यमरः । रिपोः शत्रोरुद्धरणे उन्मूलने उद्युक्तं कृतोद्यो- । । - ।

तृतीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । गरकरमुभयसैन्यमतिक्रम्य समुल्लसद्भुजाटोपेन वाणवर्ष तदङ्गे विमुञ्चन्नरातीन प्राहरम् । ततोऽतिरयतुरंगमं मद्रथं तन्निकटं नीत्वा शीघ्रलचनापेततदी- यरथोऽहमरातेः शिरःकर्तनमकार्षम् । । तस्मिन्पतिते तवशिष्टसैनिकेषु पलायि- तेषु नानाविधहयगजादिवस्तुजातमादाय परमानन्दसंनतो मन्त्री ममानेकविधा संभावनामकार्षीत् । मानपालोषितात्तदनुचरादेनमाखिलमुदन्तजातमाकर्ण्य संतु- ष्टमना राजाभ्युदतो मदीयपराक्रमे विस्मयमानः समहोत्सवममात्यबान्धवानु- मत्या शुभादिने निजतनयां मह्यमदात् । ततो यौवराज्याभिषिक्तोऽहमनुदिनमा- राधितमहीपालचित्तो वामलोचनयानया सह नानाविधं सौख्यमनुभवन्भवद्विरह- वेदनाशल्यसुलभवैकल्यहृदयः सिद्धादेशेन सुहृजनावलोकनफलं प्रदेशं महाका- लनिवासिनः परमेश्वरस्याराधनायाद्य पत्नीसमेतः समागतोऽस्मि । भक्तवत्सलस्य । गम् । अन्वगामन्व्यालिषम् । मत्सरेण देशेण । 'मत्सरोऽन्यशुभद्वेषे ' इत्यमरः । तुमुलं निविडं संगर युद्धं करोतीति तादृशः । अथ प्रतिज्ञाजिसंविदापत्सु संगरः' इत्यमरः । 'संगरो युधि- चापदि ' इति मेदिनी च ! 'जो हेतुताच्छील्यानुलोस्टोछु' इति टः प्रत्ययः । अतिक्र- म्योल्लव्य । समुल्लसतोः प्रकाशमानयोः भुजयोर्दोष्णोराटोपेण गर्वेण । वाणवर्षे सायकवृष्टिम् । 'पृषत्कबाणविशिखा अजिह्मगखगाशुगाः' इत्यमरः । तस्य शत्रुसैन्यस्य ! अझे गात्रे । विमुञ्चन, प्रक्षिपन् । अरातीञ्छत्रून् । प्राहरम् आहतवान् । अतिरयो शीघ्रगामिनी तुरंगमावश्वौ यस्ति- नेतादृशम् । शीघ्रलयनेन झटिति समुत्पतनेनोपेतः प्राप्तः तदीयस्थः मत्तकालस्य स्यन्दनः येन तादृशः । अरातेः विपक्षस्य । शिरःकर्तन शीर्षच्छेदनम् । अकार्षमकरवम् । तस्मिन् मत्तकाले । पतिते भूमौ निपतिते । पलायितेषु विद्रुतेषु । हयोऽश्वः । वाजिवाहार्व- गन्धर्वहयसैन्धवसप्तयः । इत्यमरः । आदाय स्वायत्तीकृत्य । संभावनां सत्कारम् । प्रेषितात्प्रहितात् । उदन्तजातं वार्ताकलापम् । संतुटमनाः प्रसन्नचित्तः । वीरकेतुः । अभ्युद्गत आभिमुख्येनागतः । विस्मयमानः आश्चर्ययुक्तः। महोत्सवेन सह यथा स्यात्तथा । निजतनयां स्वकन्यां वामलोचनाम् । तत इति । युवा चासौ राजा च युवराजः । राजाहः सखिभ्यष्टच् ' इति टच् । तस्य भावः कर्म वा यौवराज्यम् ‘गुणवचन- ब्राह्मणादिभ्यः कर्माण च' इति व्यञ् । तस्मिन, युवराजपदव्यामिति भावः । अभिषिक्तः कृताभिषेकः । अहं सोमदत्तः । अनुदिनमहन्यहनि । आराधितं सन्तोषितं महीपालस्य वीरकेतोश्चित्तं येन तादृशः। सुखमेव सौख्यम् । इन्नन्तात्म्यञ् । अनुभवन्निर्विशन् । भवतो विरहेण वियोगेन जन्या या वेदना दुःखं सैव शल्यं शंकुस्तेन सुलभं सुगम वैकल्यं दैन्यं येन तथाविधं हृदयं यस्य तादृशः । वा पुंसि शल्यं शंकुर्ना' इत्यमरः । सिद्धादेशेन तापस- निदेशेन । सुहृज्जनस्य मित्रस्य भवतः अवलोकनं दर्शनरूपं फलं यस्मिन्मावि तादृशम् । महाकाले क्षेत्राविशेषे निवसतीति तथाविधस्य । आराधनाय पूजनाय । पत्न्या वामलोचनाभिधया सह- धर्मिण्या । 'पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी' इत्यमरः । भक्तेषु वत्सलस्य प्रियस्य राजा । दशकुमारचरितम्। [ पूर्वपीठिकार्या गौरीपतेः कारुण्येन त्वत्पदारविन्दसंदर्शनानन्दसंदोहो मया लब्धः' इति । तन्निशम्याभिनन्दितपराक्रमो राजवाहनस्तन्निरपराधदण्डे दैवमुपालभ्य तस्मै क्रमेणात्मचरितं कथयामास । तस्मिन्नवसरे पुरतः पुप्पोद्भवं विलोक्य ससंभ्रम निजनिटिलतटस्पृष्टचरणांगुलिमुदालिममुं गाढमालिङ्गयानन्दबाप्पसंकुलसं- फुल्ललोचनः 'सौम्य सोमदत्त, अयं स पुप्पोद्भवः' इति तस्मै त दर्शयामास । तौ च चिरविरहदुःखं विस्मृज्यान्योन्यालिङ्गनसुखमन्वभूताम् । ततस्तस्यैव महीरहस्य च्छायायामुपविश्य राजा सादरहासमभाषत-'वयस्य, भूसुरकार्य करिष्णुरहं मित्र- गणो विदितार्थः सर्वथान्तरायं करिप्यतीति निद्रितान्भवतः परित्यज्य निरगाम् । तदनु प्रबुद्धो वयस्यवर्गः किमिति निश्चित्य मदन्वेषणाय कुत्र गतवान् भवाने- काकी कुत्र गतः' इति । सोऽपि ललाटतटचुम्बदजालपुटः सविनयमलपत !! इति श्रीदण्डिनः कृतौ दशकुमारचरिते सोमदत्तचारतं नाम तृतीय उछासः ॥ ३ ॥ गौरीपतेः पार्वतीनाथस्य । कारुण्येनानुकम्पया । तव पदारविन्दयोश्चरणकमलयोः संदर्शनाजात आनन्दसंदोहः प्रमोदनिवहः । 'समूहनिवहव्यूहसंदोहविसरबजाः' इत्यमरः । लब्धः प्राप्तः । डुलभष् प्राप्तौ ' इतीति । अस्य द्वितीयोच्छ्वासावसानस्थेन अवोचत् इत्यनेन संबन्धः । तदिति । सोमदत्तस्य चरितं निशम्य श्रुत्वा । अभिनन्दितः श्लाधितः पराक्रमः मत्तकालमारणावसरे प्रदर्शितं येनैतादृशः । निरपराध भागसं विनैव प्राप्तो यो दण्डः कारा- गारनिवासरूपस्तत्र । 'आगोऽपराधो मन्तुश्च! इत्यमरः । देवं भाग्यमुपालभ्य दूषयित्वा । 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिविधिः' इत्यमरः । तस्मै सोमदत्ताय । आत्मचरित मातङ्गेन साकं बिलगमनादिकम् । कथयामास प्रोक्तवान् । अवसरे समये । पुरतोऽभिमुख- प्रदेशे । पुष्पोद्भवमेतदाख्यं मन्त्रिकुमारम् । विलोक्य दृष्ट्वा । ससंभ्रमं सत्वरम् । 'संभ्रमस्त्वरा' इत्यमरः । निजेनात्मीयेन निटिलतटेन भालदेशेन स्पृष्टाश्चरणांगुलयो राजवाहनस्य येनैतादृशम् । उदञ्जलिं कृतमणामाञ्जलिम् । अमुं पुष्पोद्भवम् । आलिङ्ग्याश्लिष्य । आनन्दबाष्पेण हर्षा- श्रुणा संकुले व्याप्ते संफुल्ले विकसिते च लोचने नयने यस्य सः । 'बाष्पमूधमाश्रु' इत्यमरः । अयमग्रे वर्तमानः । तस्मै सोमदत्ताय । तं पुष्पोद्भवम् । विसृज्य त्यक्त्वा । अन्वभूतामनुभूत- वन्तौ । अनुपूर्वात् 'भू सत्तायाम् ' इत्यतो लुछि ‘गातिस्थावुपाभूभ्यः-' इति सिचो लुक् तत इति । छायायामनातपे देशे । उपविश्य स्थित्वा । आदरेण हासेन च साकम् । वयस्य मित्र । करिष्णुः करिष्यन् । मित्रंगणः सुहृद्वर्गः विदितार्थों ज्ञातकार्यश्चेत् । सर्वथा सर्वेग प्रकारेण । अन्तरायं विनम् । 'विघ्नोऽन्तरायः प्रत्यूहः' इत्यमरः । निद्रितान्सुप्तान् । भवतो युष्मान् । प्रबुद्धः त्यक्तनिदः । कुत्र कस्मिन्प्रदेशे । 'सप्तम्यास्त्रल्' इति नल् ! एकाक्यसहायः । 'एकाकी त्वेक एकक इत्यमरः । 'एकादाकिनिचासहाये' इत्याकिनिन् । सोऽपि पुष्पो- द्भवोऽपि । ललाटतटे भालदेशे चुम्बन संश्लिष्यन् अञ्जलिपुटो यस्य तथाभूतः सन् । सविनयं प्रश्रयेण सह । अलपत् आत्मचरितमुवाच । इति दशकुमारचरितव्याख्यायां मनोरमाख्यायां तृतीय उच्छासः समाप्तः ॥ ३ ॥ शौर्य । । । -- चतुर्थोच्छ्वासः] मनोरमाख्यव्याख्यासहितम् । चतुर्थोंच्छासः ॥ ४ ॥ 'देव,महीसुरोपकारायैव देवो गतवानिति निश्चित्यापि देवेन गन्तव्यं देशं निर्णे- तुमशक्नुवानो मित्रगणः परस्परं वियुज्य दिक्षु देवमन्वेष्टुमगच्छत् । अहमपि देवस्यान्वेषणाय महीमटन् कदाचिदम्बरमध्यगतस्याम्बरमणेः किरणमसहि- ष्णुरेकस्य गिरितटमहीनहाय प्रच्छायशीतले तले क्षणमुपाविशम् । मम पुरो- भागे दिनमध्यसंकुचितसर्वावयवां कूर्माकृतिं मानुषच्छायां निरीक्ष्योन्मुखो गगनतलान्महारयेण पतन्तं पुरुषं कंचिदन्तराल एव दयोपनतहृदयोऽह- मवलम्ब्य शनैरवनितले निक्षिप्य दूरापातवीतसंज्ञं तं शिशिरोपचारेण विबोध्य शोकातिरेकेणोद्गतबाष्पलोचनं तं भृगुपतनकारणमपृच्छम् । सोऽपि कररुहरश्रु- अथ चतुर्थ उच्छ्रासः ॥४॥ देवेति । महीसुरस्य ब्राह्मणस्य उपकाराय उपकृतये एव । देवो भवान् । निश्चित्य निर्णाय । गन्तव्यं गन्तुमर्हम् । निर्णेतुं निर्धारयितुम् । अशक्नुवानः असमर्थः । 'शक्ल शक्तौ'। 'ताच्छील्य. वयोवचनशक्तिषु चानर' इति चानश् । शानच् तु न धातोरजात्मनेपदित्वात् । परस्परं मिथः । वियुज्य विभक्तो भूत्वा । अन्वेष्टुं गवेषयितुम् । अगच्छद्तवान् । अहमपि पुष्पोद्भवः अन्वेषणाय मार्गणाय । महोमवनीम् । 'क्ष्माऽवनिमदिनी मही' इत्यमरः । अटपरिभ्रमन् । अम्बरमध्यं व्योमाभागं गतस्य प्राप्तस्य । 'व्योम पुष्करमंबरम्' इत्यमरः । 'द्विती- याश्रितातीतपतितगतात्यस्तप्राप्तापनः । इति द्वितीयातत्पुरुषः । अम्बरमणेः सूर्यस्य । किरणं मयूखमेकमपि । असहिष्णुः सोडुमशक्तः । ' अलंकृञ्-' इत्यादिनेष्णुच् । गिरितटे पर्वतप्रदेशे वर्तमानो यो महील्हो वृक्षस्तस्य । 'अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः' इत्यमरः । 'वृक्षो महीरुहः शाखी' इति च । प्रकृष्टा छाया प्रच्छायं तेन शीतले शीते। 'विभाषा सेनासुराच्छाया--' इति नपुंसकता। तुषारः शीतलः शीतः' इत्यमरः । तलेऽवो. देशे ।क्षणं किञ्चित्कालपर्यन्तम् । उपाविशमतिष्टम् । पुरो भागेऽग्रतः । दिनमध्ये मध्याह्नकाले। संकुचिताः ह्रासं प्राप्ताः सर्वेऽवयवा अङ्गानि यस्यास्तादृशीम् ।' अङ्गं प्रतीकोऽव्यवः' इत्यमरः। कूर्मस्य कमठस्येवाकृतिः आकारः यस्यास्तादृशीम् । कूर्मे कमठकच्छपौ' इत्यमरः । मानु- षस्य मर्त्यस्य छायामनातपम् । ' मनुष्या मानुषा सा मनुजा मानवा नराः' इत्यमरः । छाया पङ्क्तौ प्रतिमायामर्कयोषित्यनातपे' इति मेदिनी । निरीक्ष्यावलोक्य । उन्मुखः ऊर्ध्वदृष्टिः। गगनतलादाकाशात् । 'नमोऽन्तरिक्षं गगनम् ' इत्यमरः । महता रयेण वेगेन । रंहस्तरसी तु रयः स्यदः । जवः' इत्यमरः । अन्तराले मध्य एव । 'अभ्यन्तरं त्वन्तरा- लम् ' इत्यमरः । दयोपनतहृदयः करुणाविष्टचेताः । अवलम्ब्य धारयित्वा । शनैर्मन्दम् । अव- नितले भुवि । निक्षिप्य स्थापयित्वा । दुरापातेन दूरदेशात्पतनेन बीतसंज्ञं विचेतनम् । शिशिरोपचारेण शीतलोपचारेण । विबोध्य संचेतनं कृत्वा । शोकातिरेकेण दुःखाधिक्येन । उद्गतमु द्भूतं बाध्य रोदनाश्रु याभ्यां तादृशे लोचने चक्षुषी यस्यैतादृशम् । भृगोः गिरिप्रपातात । - दशकुमारचरितम् । पूर्वपीठिकायां कणानपनयनभाषत-सौन्य, गधाविनाथामात्यस्य पद्मोद्भवस्यात्मसंभवो रत्नो द्भवो नामाहम् । वाणिज्यरूपेण कालयवनद्वीपमुपेत्य कामपि वणिकन्या पार- गीय तया सह प्रत्यागच्छन्नम्बुधौ तोरस्थानतिदूर एव प्रवहणस्य भग्नतया सर्वेषु निमग्नेषु कथंकथमपि दैवानुकूल्येन तीरभूमिमभिगम्य निजाङ्गनावियोग- दुःखार्णवे प्लवमानः कस्यापि सिद्धतापसस्यादेशादरेण पोडश हायनानि कथं- चिन्नीत्वा दुरवस्थापारमनवेक्षमाणो गिरिपतनमकार्पम् ' इति । तस्मिन्नेवावसरे किमपि नारीकूजितमश्रावि-'न खलु समुचितमिदं यत्सिद्धादिष्टे पतितनयमि- लने विरहमसहिष्णुर्वैश्वानरं विशसि' इति । तन्निशम्य मनोविदितजनकभावं तमवादिषम्-'तात, भवते विज्ञापनीयानि बहूनि सन्ति । भवतु । पश्चादाखिल- माख्यातव्यम् । अधुना नारीकूजितमनुपेक्षणीयं मया। क्षणमात्रमत्र भवता स्थीय- ताम्' इति । तद्नु सोऽहं त्वरया किंचिदन्तरमगमम् । तत्र पुरतो भयंकरज्या- लाकुलहुतभुगवगाहनसाहसिकां मुकुलिताञ्जलिपुटां वनितां कांचिवलोक्य । १ । पतने कारणं निमित्तम् । 'प्रपातस्त्वतटो भृगुः' इत्यमरः । अपृच्छमनुयुक्तवान् । 'प्रच्छ ज्ञप्सिायाम् ' । 'अहिज्या-' इति संप्रसारणम् । खोऽपीति । गिरेः पतितः । कररुहेर्नखैः । पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् ' इत्यमरः । अश्रुकणान्वाध्पाबन्दुन् । अपनयन् दुरीकुर्वन् । मगधाधिनाथस्य राजहंसस्य योऽमात्यः सचिवस्तस्य । आत्मसंभवः पुत्रः । आत्मजस्तनयः सूनुः सुतः पुत्रः इत्यमरः । वाणिज्यरूपेण व्यापारनिमित्तेन । उपत्य गत्वा । कामपि सुवृत्तानाम्नीम् । परिणीय उद्वाह्य ! प्रत्यागच्छन्प्रतिनिवर्तमानः । अम्बुधौ सागरे । तीरस्य रोघसः ‘कूलं रोधश्च तीरं च ' इत्यमरः । अनतिदूरे समीप एव । प्रवहणस्य नौकाविशेषस्य । भग्नतया विभिन्नतया । निमनेषु जलान्तर्गतेषु । कथं कथमपि महता परि- श्रमेण । तीरभूमि तटमभिगम्य प्राप्य । निजाङ्गनायाः सुवृत्तायाः पत्न्याः । वियोगदुःखाण। विरहव्यथासागरे। प्लवमानः निमज्जन् । आदेशे कथने । आदरेण श्रद्धया। हायनानि संवत्सरान् । 'संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः' इत्यमरः। नीत्वा यापयित्वा । दुरवस्थायाः कष्ट- दशायाः। पारमवसानम् । अनवेक्षमाणो न पश्यन् । गिरेः पतनम् । अकार्षमकरवम् । तस्मि- निति । पूर्वप्रकारेण भाषणावसरे । नार्या योषितः । कूजितमाक्रन्दनम् । अधावि. श्रुतम् । 'श्रु श्रवणे' इत्यतः कर्मणि लुङ् । खलु निश्चयेन । सिद्धेन तापसेनादिटे कथिते पतितनययोः भर्तृपुत्रयोः । मिलने संगमे । 'धवः प्रियः पतिर्भर्ता 'आत्मजस्तनयः सूनुः ' इत्यमरः । विरहं वियोगमसहिष्णुरसहमाना । वैश्वानरं वह्निम् । 'अग्निवैश्वानरो वह्निः' इत्यमरः । तद्रो- दनम् । निशम्य श्रुत्वा । मनसा विदितो निर्धारितो जनकभावः 'अयमेव मत्पिता रत्नोद्भवः, इति यस्य । तादृशं तं गिरेः पतितं पुरुषम् । तात हे पितः ! 'तातस्तु जनकः पिता' इत्यमरः । पश्चादागमनानन्तरम् । आख्यातव्य कथनीयम् । अधुनेदानीम् । अनुपेक्षणीयमुपेक्षितुमनुचितम्। मीयतां निवासः कार्यः। तदन्विति । ततः परम् । अहं पुष्पोद्भवः । त्वरया वेगेन । किञ्चित् । । । करवाया ।

। चतुर्थीच्छासः] मनोरमाख्यव्याख्यासहितम् । ससंभ्रममनलादपनीय कूजन्त्या वृद्धया सह मत्पितुरभ्यर्णमभिगमय्य स्थविरा- भवोचम् "वृद्धे भवत्यौ कुत्रत्ये। कान्तारे निमित्तेन केन दुरवस्थानुभूयते १ कथ्य- ताम्' इति । सा सगद्गदमवादीत्-'पुत्र, कालयवनद्वीपे कालगुप्तनानो वणिजः कस्यचिदेषा सुता सुवृत्ता नाम रत्नाद्भवन निजकान्तनागच्छन्ती जलधौ मग्ने प्रवहणे निजधान्या मया सह फलकमेकमवलम्ब्य दैवयोगेन कूलमुपेतासन्न- प्रसवसमया कस्यांचिदव्यामात्मजमसूत । मम तु मन्दभाग्यतया बाले वनमात- ड्रेन गृहीते मद्वितीया परिभ्रमन्ती “पोडशवर्यानन्तरं भर्तृपुत्रसंगमो भविष्यति' झत सिद्धवाक्यविश्वासादेकास्मिन्पुण्याश्रमे तावन्तं समयं नीत्वा शोकमपारं सोढुमक्षमा समुज्ज्वलिते वैश्वानरे शरीरमाहुतीकर्तुमुद्युक्ताऽऽसीत् । इति । तदा- कर्ण्य निजजननी ज्ञात्वा तामहं दण्डवत्प्रणम्य तस्मै मदुदन्तमखिलमाख्याय धात्रीभाषणफुल्लवदनं विस्मयविकसिताक्षं जनकमदर्शयम् । पितरौ तौ साभिज्ञान- अन्तरं किचदरम् । पुरतः अग्रे भयङ्करा भयानका या ज्वाला अर्चयस्ताभिराकुले हुतभुजि वही अवगाहने प्रवेशे साहसिका हठादुयुक्ताम् । हिरण्यरेता हुतभुग्दहहनो हव्यवाहनः । " वन्हेर्द्वयो- चालकालावाहेतिः शिखा स्त्रियाम् ' इत्यमरः । 'ओजसहोमसा वर्तते । इति ठन् ! वनिता स्त्रियम् । ससंभ्रमं सत्वरम् ! अनलात् कृशानोः 'कृशानुः पावकोऽनल: इत्यमरः । अप- नीय निवार्य । कूजन्त्या रुदत्या 'कूज अव्यक्ते शब्दे । वृद्रया स्थविरया मत्पितूरलोद्भवस्य । अभ्यर्णमन्तिकम् । । उपकण्ठान्तिकाभ्याभ्यना अप्यभितोऽव्ययम् इत्यमरः । अभिगमय्य प्रापव्य । वृद्ध इति। कुत्र भवे कुत्रत्ये। अमेहकतसित्रेभ्य एव ' इति त्यपू । कान्तारे दुर्गमे वर्मनि । 'कान्तारं वर्म दुर्गमम् ' इत्यमरः । निमित्तेन हेतुना । दुरवस्था दुदशा । अनुभूयते निर्विश्यते । कथ्यतामुच्यतम् । सा वृद्धा । सगद्दं गद्गदस्वरेण युक्तं यथा तथा । अवादीदुवाच । वद व्यक्तायां वाचि' । पुत्रेति । वणिजो वैश्यस्य । सुता कन्यका । निजकान्तेनात्मभा। आगच्छन्ती पुष्पपुरं प्रत्यायान्ती । जलधौ सागरे । प्रवहणे जलयाने । धान्योपमात्रा । फलकं काष्ठम् । अवलम्ब्य गृहीत्वा । दैवयोगेन भाग्यानुकूल्येन । कूलं तटम् । उपेता गता । आसनः सन्निकृष्टः प्रसवसमयः प्रसूतिकालः यस्याः सा। अटव्यामरण्ये । आत्मजं पुत्रम् । असूत प्रसूतवती धूङ प्राणिगर्भविमोचने वनमातङ्गेनारण्यगजेन अहं द्वितीया सहायिनी यस्यास्तथाभुता । सिद्धवाक्ये तापसादेशे । विश्वासाद्विस्त्रंभात् । सनौ वित्रम्भवि-चासौ ' इत्यमरः । तावन्त षोडशवर्षात्मकम् । नीत्वा यापयित्वा । अपारममर्यादम् । वैश्वानरे वहौ । आहुतीकर्तुमुत्स्रष्टुम् । तत् वृद्धाया वाक्यम् । निज जननीमात्ममातरम् । प्रगम्य नमस्कृत्य । तस्मै सुवृत्तासहिताय मत्पित्रे रत्नोद्भवाय । मदुदन्तं मम वृत्तान्तम् । धाच्या उपमातुर्भाषणेन फुलं पत्नीपुत्रलाभाद्विकसितं वदनं यस्य तम् । विस्मयेनाश्चर्येण विकसिते अक्षिणा यस्य तम् । 'बहनीही सक्थ्यक्ष्णोः स्वाङ्गात्पन्' इति समासान्तोऽन् । जनकं पितरंम् । माता च पिता च पितरौ । पिता इत्येकशेषः। 'मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ' इत्यमरः । अभिज्ञानेन चिहेन सहितं यथा तथा ! "A":" . १॥ । मात्रा दशकुमारचरितम् । [पूर्वपीठिकायां मन्योन्य ज्ञात्वा मुदितान्तरात्मानौ विनीतं मामानन्दानुवर्षेणाभिषिच्य गाढ- मालिप्य शिरस्युपात्राय कस्यांचिन्महीरुहच्छायायामुपाविशताम् । 'कथं निवसति महीवल्लभो राजहंसः' इति जनकेन पृष्टोऽहं तस्य राज्यच्युतिं त्वदी- यजननं सकलकुमारावाप्तिं तव दिग्विजयारम्भं भवतो मातङ्गानुयानमस्माकं युष्मदन्वेषणकारणं सकलमभ्यधाम् । ततस्तो कस्यचिदाश्रमे मुनेरस्थापयम् । ततो देवस्यान्वेषणपरोयणाऽहमखिलकार्यनिमित्तं वित्तं निश्चित्य भवदनुग्रहालब्धस्य साधकत्वस्य साहाय्यकरणदक्षं शिप्यगणं निष्पाद्य विन्ध्यवनमध्ये पुरातनपत्त- नस्थानान्युपेत्य विविधनिधिसूचकानां महीरहाणामधोनिक्षिप्तान्वसुपूर्णान्कलशान सिद्धाजनेन ज्ञात्वा रक्षिषु परितःस्थितेषु खननसाधनैरुत्पाद्य दीनारानसंख्यान राशीकृत्य तत्कालागतमनतिदूरे निवेशितं वणिकटकं कंचिदभ्येत्य तत्र बलिनो बलीवान गोणीच क्रीत्वान्यद्रव्यामिषेण वसु तद्गोणीसंचितं तैरुह्यमानं शनैः कट- कमनयम् । तदाधिकारिणा चन्द्रपालेन केनचिद्वणिक्पुत्रेण विरचितसौहृदोऽहम- मुनैव साकमुज्जयिनीमुपाविशम् । मत्पितरावपि तां पुरीमभिगमय्य सकलगुणनि- लयन बन्धुपालनाम्ना चन्द्रपालजनकेन नीयमानो मालवनाथदर्शनं विधाय तद्- नुमत्या गूढवसतिमकरवम् । ततः काननभूमिषु भवन्तमन्मष्टुमुधुक्तं मां परममित्रं बन्धुपालो निशम्यावदत्-'सकलं धरणितलमपारमन्वेष्टुमक्षमो भवान्मनोग्लानिं ज्ञात्वाऽवगत्य । मुदितान्तरात्मानौ संतुष्टहृदयौ । विनीतं प्रश्रयान्वितम् । उपाघ्रायाघ्राणं कृत्वा । 'घ्रा गन्धोपादाने' । उपाविशता निषीदतः स्म । कथमिति । केन वा प्रकारेण । महीवल्लभः भूपतिः । जनकेन पित्रा । तस्य राजहंसस्य । राज्याच्च्युति भ्रंश मानसारकर्तृकम् । अनुयानमुपकारायानुसरणम् । अभ्यधामहमुक्तवान् । अभिपूर्वात् 'डुधाञ् धारणपोषणयोः इत्यतो लुङि धुत्वात् ' गातिस्था-' इति सिंचो लुकू । आनमे उटजे । देवस्य भवतः । परा- यणस्तत्परः । अखिलानां कार्याणां निमित्तं कारणत्वेनावित्तं धनं । निश्चित्य निर्गीय । द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु ' इत्यमरः । साधकत्वस्य द्रव्योपार्जनशत। साहाय्यकरणे दक्षं कुशलम् । निष्पाद्य संपाद्य । पुरातनानां जीर्णानां पत्तनानां नगराणां स्थानानि । उपेत्य गत्वा निधिसूचकानां निक्षेपद्योतकानाम् । अधो मूलदेशे । निक्षिप्तान स्थापितान् । वसुपूर्णान्द्रव्यः संभृतान् । कलशान्घटान् । अञ्जनेन मस्या। रक्षिषु पालकेषु । पारतः समन्तात् । खननसाधनैः खनित्रप्रभृतिभिः । दीनारान्सुवर्णनाणकान् । असंख्यानपरिमितान् । राशीकृत्य समूहीकृत्य । वणिक्कटकं व्यापारिवन्दम् । बलीवर्दान्वृषभान् । 'उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः इत्यमरः। गोणीर्धान्यावपनानि । 'जानपदकुण्डगोण-' इति डीप् । क्रीत्वा द्रव्यप्रदानेन गृहीत्वा । 'डुक्रीज् द्रव्यावनिमये' । अन्यद्रव्यमिषेण धान्यादि द्रव्यान्तख्याजेन । वसु धनम् । तैषैः । उह्यमानं नीयमानम् । अमुना चन्द्रपालेन । उपाविशं प्राप्तवान् । मालवनाथस्य मानसारनाम्नः । गूढवसतिमप्रकटनिवासम् । तत इति । काननभूमिषु अरण्यप्रदेशेषु । धरणितलं भूगोलम् । - । । - चतुर्थीच्छासः] मनोरमाख्यव्याख्यासहितम् । विहाय तूष्णीं तिष्ठतु। भवन्नायकालोकनकारणं शुभशकुनं निरीक्ष्य कथयिष्यामि । इति। तल्लपितामृताश्वासितहृदयोऽहमनुदिनं तदुपकण्ठवर्ती कदाचिदिन्दुमुखी नवयौवनावलीढावयवां नयनचन्द्रिका बालचन्द्रिका नाम तरुणीरत्नं वणिङ्म- न्दिरलक्ष्मी मूामिवावलोक्य तदीयलावण्यावधूतधीरभावो लतान्तवाणवाणल- क्ष्यतामयासिषम् । चकितबालकुरङ्गलोचना सापि कुसुमसायकसायकायमानेन कटाक्षवीक्षणेन मामसकृन्निरीक्ष्य मन्दमारुतान्दोलिता लतेवाकम्पत । मनसाभि- मुखैः समाकुञ्चितै रागलज्जान्तरालवर्तिभिः साङ्गवर्तिभिरीक्षणविशेषनिजमनोवृ- त्तिमकथयत्। चतुरगूढचेष्टाभिरस्या मनोऽनुरागं सम्यग्ज्ञात्वा सुखसंगमोपायम- चिन्तयम् । अन्यदा बन्धुपालः शकुनैर्भवद्गतिं प्रेक्षिष्यमाणः पुरोपान्तविहारवनं मया सहोपेत्य कस्मिंश्चिन्महीरहे शकुन्तवचनानि शृण्वन्नतिष्ठत् । अहमुत्कलिका- । अपार निरवधिकम् । अनमोऽसमर्थः । मनसो लानि विषादम् । विहाय परित्यज्य । शुभशकुन- भारुडशाओतपक्षिरवादिकम् । तस्य बन्धुपालस्य लपितामृतेन भाषणपीयूषेणाश्वासितहृदयः समाहितचित्तः । अहं पुष्पोद्भवः । अनुदिनं प्रतिदिवसम् । तस्योपडण्ठेऽन्तिके वर्तमानः । इन्दुश्चन्द्र इव मुखं यस्यास्ताम् । नवयौवनेन नूतनतारुण्येनावलीडा आकान्ता अवयवा यस्या- स्तथाविधाम् । नयनयोश्चन्द्रिकां तद्वदाह्लादकारिणीम् । मूर्ती सशरीराम् । तदीयेन लावण्येन सौन्दर्थातिरेकेणावधूतो दूरीकृतो धीरभावो धैर्य यस्य तादृशः सन् । लतान्तबाणस्य ऋतुमा- युधस्य बाणानां सायकाना लक्ष्यतां शरव्यत्वमयासिषमुपगतः । 'लक्ष्य लक्षं शरव्यं च' इत्यमरः! 'या प्रापणे लुङ्ग । चकितो भीतो यो बालकुरङ्गो हरिणाशशुस्तस्येव लोचने नेत्रे यस्याःसा । 'मृगे कुरजवातावुहारणाजिनयोनयः' इत्यमरः । कुसुमसायकस्य मदनस्य सायक इव' बाण इवाचरता । कटाक्षवीक्षणेनापाङ्गदर्शनेन ‘अपाझौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने' इत्यमरः । असकृत्पुनःपुनः' मुहुः पुनःपुनः शश्वदक्षीक्षणमसकृत्समाः' इत्यमरः । मन्दमारुतेन स्वल्प. वायुना आन्दोलिता कम्पिता लता वल्लीव। अकम्पत सकम्पा जाता । मनसेति । अभिमुखैः मत्सम्मुखमागतैः । समाकुञ्चितैः परावृत्तः। अत्र च रागस्य प्रेम्णः, लज्जायात्रपायाश्चान्तराले मध्ये वर्तमानत्वं क्रमेण हेतुः । अङ्गवर्तिमिः शरीरपरिवर्तनैः सह वर्तन्ते इति तादृशैः । ईक्षणविशेषैर्दृष्टिपातविशेषैः । निजस्यात्मनो मनोवृत्तिं मनोरथम् । अकथयन्मयं सूचया- मास । चतुराभिर्मनोहराभिYढाभिर्गुप्ताभिश्च चेष्टाभिः । अस्या बालचन्द्रिकायाः । मनो- अनुराग हार्दिकं प्रेमाणम् । सम्यक् साधुतया । ज्ञात्वा विदित्वा । सुखेन यः संगमः संमिलन तत्रोपायं युक्तिम् । अधिन्तयं विचारितवान् । अन्यदाऽन्यस्मिन्काले । 'सर्वैकान्यर्कियत्तदः काले दा' इति दाप्रत्ययः । शकुनैः पक्षिभिः तद्रवौरत्यर्थः । 'शकुन्तिपक्षिशकुनिशकुन्त- शकुनद्विजाः ' इत्यमरः । भवतो रानवाहनस्य । गतिं गमनं कुत्रेति. प्रक्षिष्यमाणः विचार- यिष्यन् । पुरोपान्ते नगरान्तिके वर्तमानं विहारवनं क्रीडोद्यानम् । उपेत्य गत्वा । महीरहे वृक्षे । शकुन्तवचनानि पक्षिणां वाक्यानि । शृण्वन्नाकर्णयन् । अहं पुष्पोद्भवः । उत्कलि- 1122 ५० বিলু। [पूर्वपीठिकायां विनोदपरायणो वनान्तरे परिभ्रमन्सरोवरतीरे चिन्ताक्रान्तचित्तां दीनवदना मन्मनोरथैक भूमि बालचन्द्रिका व्यलोकयम् तस्याः ससंभ्रमप्रेमलजाकौतुकमनो- रम लीलाविलोकनसुखमनुभवन्सुदत्या बदनारविन्दे विषण्णभावं मदनकदनखे- दानुभूतं ज्ञात्वा तन्निमित्तं ज्ञास्यल्लीलया तदुपकण्ठमुपेत्यावोचम्-'सुमुखि, तव मुखारविन्दस्य दैन्यकारणं कथय' इति । सा रहस्यसंजातविश्रम्भतया विहाय लज्जाभये शनैरभाषत--'सौम्य, मानसारो मालवाधीश्वरो वार्धकर्त्य प्रबलतया निजनन्दनं दर्पसारमुज्जयिन्यामभ्यषिञ्चत् । स कुमारः सप्तसागरपर्यन्तं मही- मण्डलं पालयिष्यन्निजपैतृष्वसेयावुद्दण्डकाणौ चण्डवर्मदारुवर्माणौ धरणीभ- रणे नियुज्य तपश्चरणाय राजराजगिरिमभ्यगात् । राज्य सर्वमसपत्नं शासति चण्डवमणि दारुवर्मा मातुलाग्रजन्मनोः शासनमतिक्रम्य पारदार्यपरद्रव्यापहर- णादि दुष्कर्म कुर्वाणो मन्मथसमानस्य भवता लावण्यात्तचित्तां मामेकदा विलोक्य कन्यादूषणदोष दूरीकृत्य बलात्कारेण रन्तुमुद्युत तञ्चिन्तया दैन्यमग- काया उत्कण्ठाया विनोदेऽपनोदने परायणस्तत्परः । वनान्तरे अरण्यमध्यदेशे । परिभ्रमन् परितः संचरन् । सरोवरस्य कस्यचित्कासारश्रेष्ठस्य । तं पद्माकरस्तडागोऽत्री कासारः सरसी सरः' इत्यमरः । 'कूलं रोधश्च तीरं च' इति च । चिन्तयाऽऽकान्तं व्याकुलं चित्तं मनोय स्यास्ताम् । व्यलोकयं दृष्टवान् । 'लोक लोचने । संभ्रमस्त्वरा, प्रेमा स्नेहः लज्जा जपा, कौतुकं कौतूहलमेभिर्मनोहरं रमणीयम् । लीलया बद्विलोकन कटाक्षवीक्षणं तस्य सुख- मानन्दमनुभवनिर्विशन् । शोभना दन्ता यस्याः सा सुदती तस्याः। 'वयास दन्तस्त दत इति दत्रादेशः । विषण्णभावं विषादम् । मदनकदनेन कामबाणप्रहारेण यः खेदः दुःख तदनुभूतम् । तस्य निमित्तं कारणम् । ज्ञास्यन्नवगमिष्यन् । तस्या उपकण्ठमन्तिकम् । अवोचमब्रवम् । दैन्यस्य कार्पण्यस्य कारण हेतुम् । रहस्ये एकान्ते संजातविनम्भतया जात- विश्वासतया । विहाय दूरीकृत्य । सौम्येति । हे सुन्दर ! वार्धकस्य स्थविरतायाः । अबल- तया आधिक्येन । निजनन्दनमात्मसूनुम् अभ्यषिश्चत् अभिषेकं कृतवान् । षिच क्षरणे' 'शे मुचादीनाम्' इति नुम् । पालयिष्यन् पालयितुकामः । पैतृष्वसेयौ पितृष्वसुरपत्ये पुमांसौ । 'पैतृष्वसेयः स्यात्पैतृघ्वस्रीयश्च पितृष्वसुः ' इत्यमरः । 'ढकि लोपः' इति ढकि परे पितृघ्वसृशब्दस्यान्तलोपविधानादेव ज्ञापकाड्ढक् अन्त्यलोपश्च । उद्दण्डकर्माणौ क्रूर- कर्माणौ । धरणीभरणे भूपरिपालने । नियुज्याज्ञाप्य । राजराजगिरि कैलासम् । 'मनुष्यधर्मा धनदो राजराजो धनाधिपः' इति कुबेरपर्यायेऽमरः । असपत्नं विरोधिशून्यम् । शासति पालयति सति मातुलो मातुाता । दर्पसारः अग्रजन्मा ज्येष्ठनाता चण्डवर्मा तयोः ।' मातुर्धाता तु मातुल: ' इत्यमरः । अतिक्रम्यालय । परदारा एव दारा यस्य स परदारः । तस्य भावः कर्म वा पारदार्यम् । 'गुणवचन-' इति यज । परदारगमनमित्यर्थः । द्रव्यापहरणं परवित्तचौर्य चादिनी यस्य तादृशम् । दुष्कर्म निन्द्या प्रवृत्तिं कुर्वाण आचरन् । लावण्येन सौन्दर्येणात्तमा- कृष्टं चित्तं मनो यत्यास्तथाभूताम् । कन्याया दूषणे परामर्श दोषम् । रन्तुं विहर्तुम् । उद्युक्ते । ।

चतुर्थोच्छासः] मनोरमाख्यव्याख्यासहितम् । च्छम्' इति । तस्या मनोगतम् , मयि रागोद्रेकम् , मन्मनोरथसिद्धयन्तराय च निशम्य वाष्पपूर्णलोचनां तामाश्वास्य दारुवर्मणो मारणोपायं च विचार्य वल्लभामवोचम् --'तरुणि, भवदभिलाषिणं दुष्टहृदयमेनं निहन्तुं मृदुरुपाय: कश्चिन्मया चिन्त्यते । यक्षः कश्चिदधिष्टाय बालचन्द्रिका निवसति । तदाकार- संपदाशा,खलितहृदयो यः संबन्धयोग्यः साहसिको रतिमन्दिरे तयक्ष निर्जित्य तयैकसखीसमेतया मृगाक्ष्या संलापामृतसुखमनुभूय कुशली निर्गमिप्यति, तेन चक्रवाकसंशयाकरपयोधरा विवाहनीयति सिद्धेनैकेनावादीति पुरजनस्य पुरतो भवदीयैः सत्यवाक्यैर्जनैरसकृत्कथनीयम् । तदनु दारुवर्मा वाक्यानीत्थंविधानि श्रावश्रावं तूष्णीं यदि भिया स्थास्यति तर्हि वरम्, यदि वा दौर्जन्येन त्वया सङ्ग- मङ्गीकारण्यात, तदा स भवदीयैरित्थं वाच्यः-'सौम्य, दर्पसारवसुधाधिपामा- त्यस्य भवतोऽस्मन्निवाले साहसकरणमनुचितम् । पौरजनसाक्षिकं भवन्मन्दिर- मानीतया तोयजाच्या सह क्रीडनायुप्मान्यादि भविष्यात तदा परिणीय तरुणी मनोरथान्निविश' इति । सोऽप्यत्तदङ्गीकारप्यति । त्वं सखोवेषधारिणा मया प्रयतते । तस्या बालचन्द्रिकाया मनोगतमन्तःकरणगतमभिप्रायम् । रामोद्रेकमनुरागाति- शयम् । मम मनोरथस्य कामस्य सिद्धेश्न्तरायं विनं च । निशम्याकर्ण्य । आमात्य सान्त्व- यित्वा । वल्लभां प्रियाम् । भवदभिलाषिणं भवती कामयमानम् । निहन्तुं विनाशयितुम् । मृदुः सरलः । चिन्त्यते विचार्यते । यक्ष इति । अधिष्ठायाश्रित्य । ' अधिशीस्थासां कर्म ' इति बालचन्द्रिकायाः कर्मत्वम् । तस्याः वालचन्द्रिकाया आकारसंपदि सौन्दर्यसमृद्धौ भाशया आभिलाषेण शंखलितहृदयः निबद्धान्तःकरणः संबन्धाय योग्योऽर्हः । सहसा प्रवर्तते साहसिकः । ओजःसहोऽम्भसा वर्तते' इति ठक् । रतिमन्दिरे संभोगगृहे । निर्जित्य परिभाव्य । मृगस्य हरिणस्येवाक्षिणी यस्याः सा मृगाक्षी । 'बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गा- स्वच्' इति षाचे । 'षिद्गौरादिभ्यश्च' इति डोए । तया। कुशली क्षेमवान् यक्षेणानाहत इत्यर्थः । चक्रवाकविषयकं संशयं कुरुत इति चक्रवाकसंशयकरौ । तत्समानाविति यावत् । तादृशौ पयो- धरौ कुचौ यस्याः सा । विवाहनीया परिणेतुमर्हा । सिद्धन केनचित्तापसेनावादि भाषितम् । पुरजनस्य नगरलोकस्य । पुरतः अग्रे । सत्यवाक्यैः सत्यवादिभिः । असकृत्पुनःपुनः । इत्थं- विधानि पूर्वोक्तप्रकाराणि । श्रावधावमसकृत् श्रुत्वा । तूष्णीं त्वत्संगमे उद्योग विनैव । मिया साध्वसेन । 'भीतिभॊः साध्वस भयम् । इत्यमरः । वरमुचितम् । यदि वा तूष्णीमस्थिते । दौर्जन्येन दुर्जनतया । स दारुवर्मा । वाच्योऽभिधेयः । निवासे साधारणकुटीरे । साहसकरणं यक्षेण साकं स्वकीयवलप्रदर्शनम् । पुरे भवाः पौराः ते जनाः साक्षिणः साक्षाद्रष्टारो यस्मिन कर्मणि तद्यथा तथा । 'साक्षाद्दष्टार संज्ञायाम्' इति निपातनात्साधुः। भक्तो मन्दिर प्रासादम् । आनीतया प्रापितया तोयजाक्ष्या कमललोचनया बालचन्द्रिकयेति यावत् । क्रीडान्वह- रन् । आयुष्मान चिरजीवी । मनोरथान्कामानिर्विशोपभुव । सोऽपिति । दारुवर्मा । । । । ।

। ५२ दशकुमारचरितम्। [ पूर्वपीठिकायां सह तस्य मन्दिरं गच्छ । अहमेकान्तनिकेतने मुष्टिजानुपादाघातैस्तं रभसान्नि- हत्य पुनरपि जयस्यामिषेण भवतीमनु निःशङ्कं निर्गष्यामि । तदेनमुपायमङ्गी- कृत्य विगतसाध्वसलजा भवज्जनकजननीसहोदराणां पुरत आवयोः प्रेमातिश- यमाख्याय सर्वथास्मत्परिणयकरणे ताननुनयेः । तेऽपि वंशसंपल्लावण्याढयाय यूने मह्यं त्वां दास्यन्त्येव । दारुवर्मणो मारणोपायं तेभ्यः कथयित्वा तेषामुत्त- रमाख्येयं मह्यम्' इति । सापि किंचिदुत्फुल्लसरसिजानना मामब्रवीत्-'सुभग, क्रूरकर्माणं दारुवर्माणं भवानेव हन्तुमर्हति । तस्मिन्हते सर्वथा युष्मन्मनोरथः फलिष्यति । एवं क्रियताम् । भवदुक्तं सर्वमहमपि तथा करिष्ये' इति मामस- कृद्विवृत्तवदना विलोकयन्ती मन्दमन्दमगारमगात् । अहमपि बन्धुपालमुपेत्य शकुनज्ञात्तस्मात् 'त्रिंशदिवसानन्तरमेव भवत्सङ्गः संभविष्यति' इत्यशृणवम् । तदनु मदनुगम्यमानो बन्धुपालो निजावासं प्रविश्य मामपि निलयाय विससर्ज मन्मायोपायवागुरापाशलग्नेन दारुवर्मणा रतिमन्दिरे रन्तुं समाहूता बालच- न्द्रिका तं गमिष्यन्ती दूतिको मन्निकटमभिप्रषितवती । अहमपि माणनूपुरमे- खलाकङ्कणकटकताटङ्कहारक्षौमकज्जलं वनितायोग्यं मण्डनजातं निपुणतया तत्त- स्थानेषु निक्षिप्य सम्यगङ्गीकृतमनोज्ञवेषो वल्लभया तया सह तदागारद्वारोपा- न्तमगच्छम् । द्वाःस्थकथितास्मदागमनेन सादरं विहिताभ्युद्गतिना तेन द्वारोपा- एकान्तनिकेतने रहस्यमान्दरे । आघातैः ताडनैः । रभसाद्वेगेन । वयस्यामिषेण सखीव्याजेन । निःशङ्क भयरहितम् । विगते साध्वसो भयं लज्जा च यस्यास्तादृशी भूत्वा । आवयोः पारणयकरणे विवाहोद्योगे अनुनयेः बोधयेः । उत्तरं प्रतिवचनमाख्येयं कथनीयम् । किञ्चिदुत्फुल्लमीषद्विकसितं यत्सरसिज पद्मं तदिवाननं मुखं यस्यास्तथा भूत्वा । अर्हति समर्थो भवति । युष्माकं मनो- रथो मत्परिग्राहसम्बन्धी । फलिष्यति निष्पन्नो भविष्यति । क्रियतामनुष्टीयताम् । विवृत्तं गमन- समयेऽपि परावर्तितं वदनं यथा तादृशी सती । अगारं स्वगृहम् । अहमिति । पुष्पोद्भवः । बन्धुपालं शकुनं पश्यन्तं बालचन्द्रिकायाः पितरम् । भवता राजवाहनेन सह संगः सम्मेलनम् । अशृणवमाकर्णितवान् । 'श्रु श्रवणे' । ' श्रुवः च ' इति इनुः श्रादेशश्च । मयाऽनुग- म्यमानः अनुव्रज्यमानः । आवासं गृहम् । प्रविश्य गत्वा । निलयाय गृहं गन्तुम् । 'तुमर्थाच भाववचनात् ' इति चतुर्थी । विससर्जानुज्ञातवान् । मम मायोपायः कपटयुक्तिः सैव वागुरा मृगबन्धनी तस्याः पाशेषु रज्जुषु लग्नेन संसक्केन । वागुरा मृगबन्धनी' इत्यमरः। रतिमन्दिरे क्रीडा- गारे। समाहूताऽऽकारिता।दूतिकां काञ्चन परिचारिकाम्।प्रषितवती प्रेषयामास । नूपुरः पादकटकः, मेखला काटिभूषणम्, कङ्कणं करभूषणम्, कटकं वलयः, ताटकं कर्णभूषणम्, हारो मुक्तावली, क्षौमं काशेयं पट्टवस्त्रम्, कजलं नेत्राञ्जनमेतदादिकं वनितायोग्यं योषिदुपयुक्तं मण्डनजातं विभूषणसमुदायम् । निपुणतया कौशल्येनानिक्षिप्य धारयित्वााअङ्गीकृतो धृतो मनोज्ञवेषो मनोहारि नेपथ्यं येन तादृशः सन् । 'आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्' इत्यमरः। तया बालचन्द्रि- कया। तस्य दारुवर्मणः। आगारस्य भवनस्य द्वारोपान्तं प्रतीहारनिकटम् । अगच्छमगमम् । द्वाःस्थैः मा । . ।

. चतुर्थोच्छासः] मनोरमाख्यव्याख्यासहितम् । न्तनिवारिताशेषपारवारेण मदन्विता बालचन्द्रिका संकेतागारमनीयत । नगर- व्याकुलां यक्षकथां परीक्षमाणो नागारकजनोऽपि कुतूहलेन दारुवर्मणः प्रती- हारभूमिमगमत् । विवेकशून्यमतिरसौ रागातिरेकेण रत्नखचितहेमपर्यङ्के हंस- तूलगर्भशयनमानीय तरुणीं तस्यै मह्यं तमिस्रासम्यगनवलोकितपुंभावाय मनो- रमस्त्रीवेषाय च चामीकरमाणिमयमण्डनानि सूक्ष्माणि चित्रवस्त्राणि कस्तू- रिकामिलितं हरिचन्दनं कर्पूरसाहतं ताम्बूलं सुरभीणि कुसुमानीत्यादि- वस्तुजातं समर्प्य मुहूर्तद्वयमात्रं हासवचनैः संलपन्नतिष्ठत् । ततो रागा- न्धतया सुमुखीकुचग्रहणे मतिं व्यधत्त । रोषारुणितोऽहमेनं पर्यकृतला- ७ ': द्वारपालैः कथितं निवेदितं आवयोरागमनं यस्मै तथाविधेन । सादरमादरेण सह । विहिता कृताऽभ्युद्गतिराभिमुख्येनागमनं येन तादृशेन । द्वारोपान्ते द्वारबहिर्देशे एव निवारितो निषिद्धोऽ- शेषपरिवारो येन । मयाऽन्विताऽनुगता। संकेतागारं संकेतगृहमनीयत नीता । नगरेति। नगरे पुरे व्याकुलामुद्घोषिताम् । परीक्षमाणः किंवा करिष्यति दारुवर्मा' इति प्रतिपालयन् । नगरे भवो नागरिकस्तादृशो जनः । 'नगराड्ढन् ' इति वुअत्यशः । प्रतीहारभूमि द्वारदेशम् । 'स्त्री द्वारं प्रतीहारः' इत्यमरः । अगमत्प्राप्तः । विवेकेन कार्याकार्यविचारणया शून्या रहिता मतिबुद्धिर्यस्य । असौ दारुवर्मा । रागातिरेकेण प्रेमातिशयेन । रत्नैर्मणिभिः खचिते प्रत्युप्ते हेमपर्यके सुवर्णमञ्चे । “स्वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकम् शयन मञ्चपर्य- पुल्यकाः खट्वया समाः इत्यमरः । हंसानां तूलाः बालरोमाणि गर्भे यस्यैतादृशं शयनम् । आनीय प्रापथ्य । “अकथित च' इति द्विकर्मकः । तमिलायामन्धकारनिबिडायो रात्रौ सम्यक् साधुतयाऽनवलोकितोऽदृष्टः पुंभावः पुरुषत्वं यस्य तादृशाय। 'तमिस्रा तामसी रात्रिः इत्यमरः । मनोरमः सुन्दरः स्त्रिया इव वेषो यस्य तथाविधाय । चामीकरमयाणि सौवर्णानि मणिमयानि च मण्डनानि भूषणानि । * चामीकर जातरूपं महारजतकाञ्चने' 'अलंकार- स्त्वाभरणं परिष्कारो विभूषणम् । मण्डनम्' इत्यमरः । सूक्ष्माणि मृदुलानि । चित्राणि नाना- वर्णानि वस्त्राणि वासांसि । 'वस्त्रमाच्छादनं वासः' इत्यमरः । कस्तूरिकया मृगमदने मिलितं मिश्रितं हरिचन्दनं मलयजम् । मृगनाभिर्मगमदः कस्तुरी' इत्यमरः । कपूरेण घनसोरण सहितं योजितम् । अथ कर्पूरमस्त्रियाम् । धनसारश्चन्द्रसंज्ञो सिताम्रो हिमवालुका' इत्यमरः। ताम्बूलं नागवल्लीदलम् 'ताम्बूलवल्ली ताम्बूली नागवल्ली'इत्यमरः। सुरभीणि सुगन्धीनि । 'समाकर्षी तु निर्हारी सुरभि णतर्पणः।इष्टगन्धः सुगन्धिः स्यात्'इत्यमरः।कुसुमानि पुष्पाणि । 'त्रियः सुमनसः पुष्पं प्रसून कुसुमं सुमम्'इत्यमरः। इत्यादि वस्तुजातमेतदादि पदार्थनिचयम् । समय दत्त्वाद्विादशक्षणात्मकः कालो मुहूर्तस्तद्वयपर्यन्तम्।हासवचनैः परिहासप्रधानैर्वचोभिः। सलपन्मिथो भाषमाणः अतिष्ठस्थितवान्।तत इति । रागान्धतयाऽनुरागातिरेकेण विवेकशून्य- तया। सुमुख्या बालचन्द्रिकायाः कुचयोः पयोधरयोः ग्रहणो मति बुद्धिम् । व्यवत्त विदधे । रोषेण कोपेनारुणितो रक्तः । अहं पुष्पोद्भवः । एनं दारुवर्माणम् । पर्यकतलान्मञ्चोपारभागात् । । ।

সুলাললি। [पूर्वपीठिकाया निःशको निपात्य मुष्टिजानुपाघातैः प्राहरम् । नियुद्धरभसाविकलमलंकारं पूर्व वन्मलायित्वा भयकम्पितां नताशीमुपलालयन्मन्दिराङ्गणमुपेतः साध्वसकम्पित इवोचैरकूजमहम्-"हा, बालचन्द्रिकाधिष्ठितेन घोराकारेण यक्षेण दारुवर्मा निहन्यते । सहसा समागच्छत । पश्यतेमम्' इति । तदाकर्ण्य मिलिता जनाः समुद्यद्वाप्पा हाहानिनादन दिशो बधिरयन्तः बालचन्द्रिकामधिष्ठितं यक्ष बलवन्तं शृण्वन्नपि दारुवर्मा मदान्धस्तामेवायाचत । तदसौ स्वकीयेन कर्मणा निहतः । किं तस्य विलापेन' इति मिथो लपन्तः प्राविशन् । कोलाहले तस्मि- श्वटुललोचनया सह नैपुण्यन सहसा निर्गतो निजावासमगाम् । ततो गतेषु कतिपयादनेषु पौरजनसमक्षं सिद्धादेशप्रकारेण विवाह्य तामिन्दुमुखी पूर्वसंक- ल्पितान्सुरतविशेषान्यथेष्टमन्वभूवम् । बन्धुपालशकुनानार्दष्टे दिवसेऽस्मिन्निर्गत्य पुराद्धहिर्वर्तमानो नेत्रोत्सवकारि भवदवलोकनसुखमप्यनुभवामि' इति । एवं मित्रवृत्तान्तं निशम्याम्लानमानसो राजवाहनः स्वस्य च सोमदत्तस्य च निशंको निर्भाकः। निपात्य अवस्रस्य । प्राहरं ताडितवान् । नियुद्धे बाहुयुद्धसमये रमसेन वेगेन विकलं स्थानान्तरगतमलंकार भूषणम् । मेलयित्वा तत्तत्स्थाने निवेश्य । भयेन कम्पिता चकिताम् नतान्यङ्गानि यस्याः तां बालचन्द्रिकाम् । 'अङ्गगात्रकण्ठेभ्यो वक्तव्यम्' इति ङीष् । उपलालयन्समा चासयन् । मन्दिरस्य गृहस्य । अङ्गणं चत्वरम् । अङ्गणं चत्वराजिरे' इत्यमरः । उपेत आसन्नः। साध्वसेन भयेन कम्पित इव ' भौतिभॊः साध्वसं भयम् इत्यमरः । अकूजमाक्रोशं कृतवान् । 'कूज अव्यक्ते शब्दे ' हा कष्टम् । ' हा विषादशुग- तिधु' इत्यमरः । निहन्यते हिंस्यते । सहसा शीघ्रमेव । मिलिताः समागताः। समुद्यन्ति निर्ग- च्छन्ति बाष्पाणि अश्रूणि येभ्यः तथाभूतः । हाहानिनादेन हाहा इत्याकारकाक्रन्दनध्वनिना। 'शब्दे निनादाननदध्वनिध्वानरवस्वनाः' इत्यमरः । दिशः.सर्वा अप्याशाः। बधिरयन्तः श्रवण- शक्तिहीनाः कुर्वन्तः । बधिरशब्दात् 'तत्करोति तदाचष्टे' इति णिजन्तात्कर्तरि शता। अधि. ठितमाक्रम्य वर्तमानम् । शृण्वन्नाकर्णयन्नपि । मदेन गणान्धः कार्याकार्यविचारशून्यः । तामेव बालचन्द्रिकामेवायाचत पारणेतुं प्रार्थयामास । 'टुयाच याच्ञायाम् । किं तस्य विला- पेन तमुद्दिश्य पारदेवनेन किं प्रयोजनं न किमपीत्यर्थः । मिथोऽन्योन्यम् । 'मिथोऽन्योन्यं रहस्यपि इत्यमरः । लपन्तो भाषमाणाः। प्राविशन्यथागतं गताः । कोलाहले तादृशे कलकलनि- घोंषे । चटुललोचनया चञ्चलाक्ष्या । सहसा शीघ्रम् । निर्गतः तद्गृहाबहिरागतः । निजावास स्वमन्दिरम् । ततः इति । कतिपयदिनेषु केषुचिदिवसेषु गतेषु व्यतीतेषु । पौरजनानां नागरिकाणां समक्षं संमुखम् । विवाह्य पारणीय । पूर्वमेव संकल्पितान्मनसा कर्तव्यत्वेन निश्चि- तान् । यथेष्टं काममनतिक्रम्य । अन्वभूवमुपभुक्तवान् । निर्दिष्टे सूचिते । नेत्रयोरुत्सवकार आहादजनकम्। एवमिति । मित्रस्य सुहृदः पुष्पोद्भवस्य वृत्तान्तं चारतम् । निशम्याकर्ण्य। अम्लानमानसः । ।

पञ्चमोच्छ्रासः मनोरमाख्यन्याख्यासहितम् । वृत्तान्तमस्मै निवेद्य सोमदत्तम् 'महाकालेश्वराराधनानन्तरं भवद्वल्लभां सपरिवार निजकटकं प्रापथ्यागच्छ' इति नियुज्य पुष्पोद्भवेन सेव्यमानो भूस्वर्गायमान- मवान्तकापुरं विवेश । तत्र अयं मम स्वामिकुमारः' इति बन्धुपालादये बन्धुज- नाय कथयित्वा तेन राजवाहनाय बहुविधां सपर्या कारयन्सकलकलाकुशलो महीसुरवर इति पुरि प्रकटयन्पुष्पोद्भवोऽमुष्य राज्ञो मन्जनभोजनादिकमनुदिनं स्वमन्दिरे कारयामास ॥ इति श्रीदण्डिनः कृतौ दशकुमारचरिते पुष्पोद्भवचरितं नाम चतुर्थ उच्छासः ॥ ४ ॥ पञ्चमोच्वासः ॥ ५॥ अथ मीनकेतनसेनानायकेन मलयगिरिमहीरुहनिरन्तरावासिभुजंगमभुक्ताव शिष्टनेवसूक्ष्मतरेण धृतहरिचन्दनपरिमलभरणेव मन्दगतिनादाक्षिणानिलेनवियो गिहृदयस्थ मन्मथानल मुज्ज्वलयन, सहकाराकसलयमकरन्दास्वादनरक्तकण्ठानां प्रसन्नचित्तः । निवेद्य कथायित्वा । भवतो वल्लभां प्रियां वामलोचनाम् । नियुज्याज्ञाप्य । भुवि स्वर्ग इवाचरत्स्वर्गायमानम् । अवन्तिकापुरमुज्जयिनपित्तनम् । सपर्यो पूजाम् । 'पूजा नमस्या. पचितिः सपर्याऽ ऽहणाः समाः' इत्यमरः । सकलासु कलासु विद्यासु कुशलो निपुणः । महीसुरवरो ब्राह्मणश्रेष्टः। प्रकटयन्प्रख्यापयन् । अमुध्य राज्ञो राजवाहनस्य मन्वन मानम् । अनु- दिनं प्रत्यहम् । कारयामास अचीकरत् 'डुकृञ् करणे' इत्यतो गिजन्तलिटयामि अस्तेरनुप्रयोगः ।। इति दशकुमारचरितव्याख्यायां मनोरमाख्यायां चतुर्थ उच्छासः समाप्तः॥ ४ ॥ -अथ पञ्चम उवासः॥५॥ अथेति । राजवाहनस्य पुष्पोद्भवेन साकमवन्तिकानगरीगमनानन्तरम् । मीनः मत्स्यः केतने ध्वजे यस्य सः मन्मथः । 'पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् ' इत्यमरः । मदनो मन्मथो मारः प्रद्यम्नो मीनकेतनः इति च । तस्य सेनानायकेन चमूपतिना । ध्वजिनी वाहिनी सेना पृतनाऽनोकिनी चमूः अधिभूनायको नेता' इत्यमरः । ।। मलयाख्ये गिरौ पर्वते ये महीरुहा वृक्षास्तेषु निरन्तरं सततमावासिनः निवसन्तो ये भुजङ्गमाः सास्तेषां पवनाशित्वात् तैर्भुक्तादास्वा- दितादवशिष्टेनोरितेनेव स्थितेन । भुक्तावशिष्टत्वं सूक्ष्मतरत्वे हेतुः । 'सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः' इत्यमरः । सूक्ष्मतरेण अल्पीयसा धृतः स्वेनोढः हारचन्दनस्य परिमलभरः सौगन्ध्यातिशयो येन तथाविधेन । परिमलभारवाहित्वं च मान्ये सुगन्धित्वे च हेतुः । मन्दग- तिना शनैरागच्छता । दक्षिणानिलेन दक्षिणवायुना । —पृषदश्वो गन्धवहो गन्धवाहानिला- शुगाः ' इत्यमरः । वियोगिनां रमणीवियुक्तानां हृदयस्थं मनसि वर्तमानम् । 'सुपि स्थः इति कप्रत्ययः । मन्मथानलं कामाग्निम् । ' कृशानुः पावकोऽनलः ' इत्यमरः । उज्ज्वलयन प्रदीप्तं कुर्वन् । सहकारस्य रसालवृक्षस्य किसलयेषु पल्लवेषु यो मकरन्दः पुष्पमधु तस्थास्वाद- नेन लेहनेन रक्तः कण्ठो येषाम् । 'आम्रचूतो रसालोऽसौं सहकारोऽतिसौरभः । 'पल्लवोऽ १ .

a মাহলি। [पूर्वपीठिका मधुकरकलकण्ठानां काकलीकलकलेन दिक्चक्रं वाचालयन, भानिनीमान- सोकलिकामुमनयन्, भाकन्दासेन्दुवाररक्ताशोककिंशुकतिलकेषु कलिकामुपपा- दयन, मदनमहोत्सवाय रसिकमनांसि समुल्लासयन, वसन्तसमयः समाज- गाम । तस्मिन्नतिरमणीये कालेऽवन्तिसुन्दरी नाम मानसारनन्दिनी प्रियवय- स्यया बालचन्द्रिकया सह नगरोपान्तरम्योधाने विहारोत्कण्ठया पौरसुन्दरीसम- वायसमन्विता कस्यचिजूतपोतकस्य छायाशीतले सैकततले गन्धकुसुमहरिद्राक्ष- तचीनाम्बरादिनानाविधन परिमलद्रव्यनिकरेण मनोभवमर्चयन्ती रेमे । तत्र रतिप्रतिकृतिमवन्तिसुन्दरीं द्रष्टुकामः कामइव वसन्तसहायः पुष्पोद्भवसमन्वितो बी किसलयम्। 'मकरन्दः पुष्परसः' इत्यमरः । मधुकराणां मधुपानां कलकण्ठानां कोकिलानां च। मधुबतो मधुकरो मधुलिण्मधुपालिनः' इत्यमरः । काकलीकलकलेनाव्यक्तमधुरसूक्ष्मको- लाहलेन । ' काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे' 'कोलाहलः कलकल: इत्यमरः। दिशां चक्रं मण्डलम् वाचालयन्मुखरयन् । वागस्यास्तीत्यर्थे ' अलजाटचौ बहुभाषिणि ' इति आलचि 'तत्करोति तदाचष्टे' इति णिजन्ताच्छतरि रूपम् । मानिनीनां कुपितानामपि वनि- तानां मानसे चित्ते उत्कीलकामुत्कण्ठामुपनयनुत्पादयन् । 'प्रमदा मानिनी कान्ता ललना च नितम्बिनी' इत्यमरः। उत्कण्ठोत्कलिके समे' इति च । 'माकन्दः सहकारे स्यात् । इति मेदिनी । 'सिन्दुवारेन्द्रसुरसो निर्गुण्डीन्द्राणिकेत्यपि' इत्यमरः । पलाशे किंशुकः पर्णो वातपः । 'तिलकस्तिलकालकः' इति च । एतेषु वृक्षभेदेषु कलिका कोरकमुपपादयन्संजनयन् । 'कलिका कोरकः पुमान्' इत्यमरः । मदनमुद्दिश्य महोत्सवकरणाय । रसिकानां विलासिजनानां मनांसि चित्तानि । समुल्लासयन्प्रोत्साहयन् । वसन्तसमयः पुष्पोद्गमकाल: । समाजगाम संप्राप्तः । तस्मिन्निति । अतिरमणीयेऽत्यन्तं मनोहारिणि । मानसारस्य नन्दिनी कन्या। प्रियवयस्य- थाऽऽप्तसख्या । नगरस्योपान्ते समीपे यद्रम्य सुन्दरमुद्यानमाक्रीडस्तस्मिन् । पुमानाकोड उद्यानम् ' इत्यमरः । विहारे क्रीडायामुत्कण्ठयाऽभिलाषेण । पौरसुन्दरीणां नागारकरमणीनां समवायेन गणेन समन्विताऽनुगता। 'सुन्दरी रमणी रामा''समुदायः समुदयः समवाय- श्चयो गणः' इत्यमरः। चूतपोतकस्य बालसहकारतरोः । 'आम्रचूतो रसालोऽसौ ' ' पोतः पाकोऽभको डिम्भः' इत्यमरः । छायवाऽनातपेन शीतले शीते । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । तुषारः शीतलः शीतः' इति च । सैकततले सिकतामये प्रदेशे । 'तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्' इत्यमरः। गन्धश्चन्दनम् । कुसुमं पुष्पम् । हारिद्रा वरखार्णनी । अक्षतास्तस्तण्डुलाः। चीनाम्बरं चीनदेशोत्थं सूक्ष्ममंशुकम् 'स्त्रियः सुमनसः पुष्पं प्रसून कुसुमं सुमम् "निशाख्या काञ्चनी पीता हरिद्रा वरवर्णिनी, अम्बरं व्याम्नि 'वाससि.' इति सर्वत्रामरः । एतदादिना नानाविधनानेकप्रकारेण परिमलद्रव्यानिकरण सुगन्ध- वस्तुजातेन । मनोभवं मन्मथमर्चयन्ती पूजयन्ती । रेमे विहारं कृतवती । 'रम् क्रीडायाम् तत्रेति । उद्यानवने । रतेमदनकामिन्याः प्रतिकृति प्रतिनिधिभूतां तत्सदृशीमित्यर्थः । 'प्रति- कतिरा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ' इत्यमरः । द्रष्टुं कामो यस्य सः ।'तुं काममन- . । ।

पञ्चमोच्छासः] मनोरमाख्यव्याख्यासहितम् । राजवाहनस्तदुपवनं प्रविश्य तत्रतत्र मलयमारुतान्दोलितशाखानिरन्तरसमुद्भि- नकिसलयकुसुमफलसमुल्लसितेषु रसालतरुषु कोकिलकीरालिकुलमधुकराणामा- लापाश्रावंशावं किञ्चिद्विकसदिन्दीवरकहारकैरवराजीवराजोकलिलोलकलहं- ससारसकारण्डवचक्रवाकचक्रवालकलरवव्याकुलविमलशीतलसलिलललितानि सरांसि दशदर्शममन्दलीलया ललनासमीपमवाप । बालचन्द्रिकया 'निःशङ्क- मित आगम्यताम् ' इति हस्तसंज्ञया समाहूतो निजतेजोनिजितपुरुहूतो राज- वाहनः कृशोदर्या अवन्तिसुन्दा अन्तिकं समाजगाम । या वसन्तसहायेन समुत्सुकतया रतेः केलीशालभजिकाविधित्सया कंचन नारीविशेषं विरचय्या- सोरपि ' इति मकारलोपः । वसन्तः पुष्पोद्गमकालः सहायोऽनुचरो यस्य स तादृशः । काम इव पुष्पोद्भवेन समन्वितो युक्तः । उपवनमारामम् । “ आरामः स्यादुपवनम्' इत्यमरः । प्रविश्य गत्वा ! मलयमारतेन मलयाचलवायुनाऽन्दोलितास्वीषत्कम्पितासु शाखासु विटपेषु निरन्तर- मजलं समुद्भिन्नानि विकसितानि यानि किसलयकुसुमफलानि पल्लवपुष्पपक्कफलानि तैः समु- क्लासितेषु सुशोभितेषु । रसालतरुष्वानवृक्षेषु । कोकिलाः पिकाः, कीराः शुकाः, एतेषामालीनां पकानां कुलं मण्डलं तस्य मधुकराणां भ्रमराणां च ।' कोकिलः पिक इत्यपि कीरशुको समौ'' वीथ्यालिरावलिः पङ्क्तिः' इत्यमरः । “ मधुव्रतो मधुकरः ' इति च ! आलापान गीतरवान् । श्रावं श्रावं पुनः पुनः श्रुत्वा । किञ्चिद्विकसितानि ईषत्फुल्लानि यानीन्दीवराणि नीलकमलानि, कहाराणि सौगन्धिकपुष्पाणि, कैरवाणि कुमुदानि, राजीवाणि पद्मानि एतेषां राजीषु श्रेणीषु केलिलोलाः क्रीडासक्ताः ये कलहंसाः कादम्बपक्षिणः, सारसाः पुष्करपक्षिणः, कारण्डवाः पक्षिविशेषाः, चक्रवाकाः रथाङ्गपाक्षिणः एतेषां कलेनाव्यक्तमधुरेण खेण स्वनेन व्याकुलं व्याप्तं विमलं स्वच्छं, शीतलं तुषारं यत्सलिलं जलं तेन ललितानि मनोज्ञानि सरांसि तडागानि । 'इन्दीवरं च नीलेऽस्मिन् 'सौगन्धिकं तु कहारम् ' "सिते कुमुदकैरवे' 'बिसप्रसून- सजीवपुष्कराम्भोरुहाणि च ' 'श्रेणीरेखास्तु राजयः' कादम्बः कलहंसः स्यात् पुष्कराह्वस्तु कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः सलिलं कमलं जलम् ' 'पद्माकरस्त डागोऽस्त्री कासारः सरसी सरः' इति सर्वत्रामरः । दर्शदर्शमभीक्ष्णमवलोक्य । अमन्दया लीलया विलासेन । ललनायाः कान्तायाः अवन्तिसुन्दर्याः । अवाप गतवान् । निःशकं शङ्कां दूरीकृत्य । इतः अनेन मार्गेण । हस्तसंज्ञया करसंकेतेन । समाहूत आकारितः । निजेन तेजसा पराक्रमेण निर्जितः पुरुहूत इन्दो येन तथाविधः। 'वृद्धश्रवाः शुनासीरः पुरुहूतः पुरन्दरः' इत्यमरः । कृशमुदरं यस्याः सा । 'नासिकोदर-' इति ङीष् । भन्तिक समीपम् । येति । अवन्तिसुन्दरी। वसन्तः सहायः पारैजनो यस्य तेन मनसिजेन । समुत्सुकयाऽत्यौत्कण्ठयेन । रतः स्वप्रियायाः। तस्यै दातुमिति भावः । केल्यै क्रीडा) या शालभाजिका पुत्तलिका तस्या विधित्सया कर्तुमिच्छया विपूर्वात् 'डुधाञ् धारणपोषणयोः' इत्यत इच्छाथै सनि 'सनि मामाघुरभलभ-' इति इसि 'सस्यार्धधातुके ' इति सस्य तकारे ‘अत्र लोपोऽभ्यासस्य ' इत्यभ्यासलोपः । नारीविशेष . सारसः १ - Kutte । হান্তি। [पूर्वपीठिकायो त्मनः क्रीडाकासारशारदाराविन्दसौन्दर्येण पादद्वयम्, उद्यानवनदीपिकामत्तम मालिकागमनरीत्या लीलालसगतिविलासम्, तूणीरलावण्येन जो, लीलामन्दिन रद्वारकदलीलालित्येन मनोज्ञमूरुयुगम, जैत्ररथचातुर्येण धनं जवनम्, किंचिद्वि- कसलीलावतंसकहारकोरककोटरानुवृत्या गङ्गावर्तसनाभि नाभिम्, सौधारो हणपरिपाटया वलित्रयम, मौर्वीमधुकरपङ्गिनीलिमलीलया रोमावलिम्, पूर्णसु- वर्णकलशशोभया कुचद्वन्द्वम्, लतामण्डपसौकुमार्येण बाहू, जयशङ्खाभिख्यया कण्ठम्, कमनीयकर्णपूरसहकारपल्लवरागेण प्रतिबिम्बीकृतबिम्बं रदनच्छदम्, बाणायमानपुष्पलावण्यन शुचि स्मितम, अग्रदूतिकाकलकण्ठिकाकलालापमाधु- लोकातिरिक्तां काञ्चन सुन्दरीम् । विश्वव्य निर्माय । आत्मनो मन्मथस्य । क्रीडाकासारे विहारसरोवरे स्थितम् । 'कासारः सरसी सरः' इत्यमरः । शरदि भवं शारदम् । ' सन्धि. वैलातुनक्षत्रेभ्योऽण्' इत्यण । तादृशं च यदरविन्दं कमलं तस्य सौन्दर्येण चारुतया । उद्यान- वने या दीर्घिका वापी 'वापी तु दीपिका' इत्यमरः। तत्र स्थितानां मत्तानामतिपुष्टानां च मरालिकानां हंसीनां गमनरीत्या संचारविशेषेण । लीलया क्रीडयाऽलसं मन्दं गतिविलासं गमनचातुरीम् । तूणीरयोनिषङ्गयोः 'तूणोपासातूणीरनिषशा इषुधियोः' इत्यमरः । जंधे प्रसृते । लीलामन्दिरस्य क्रीडागृहस्य द्वारे प्रतीहारे ये कदल्यौ रम्भास्तम्भौ तयोलालित्येन सुषमया ।' कदली वारणबुसा रम्भा मोचोऽशुमत्फला' इत्यमरः । ऊरुयुगं सक्थिद्वयम् । 'सक्थि क्लीबे पुमानूरुः इत्यमरः । घनं निबिडम् । जघनं कटिपुरोभागम् । 'स्त्रीकट्या: क्लीवे तु जघनं पुरः' इत्यमरः । किञ्चिद्विकसन् ईषत्प्रफुल्लः लीलावतंसः विहारकालेऽलंकार- रूपेण कर्णे धार्यमाणश्च यः कहारकोरकः सौगन्धिककुसुमकालिका तस्य कोटरानुवृत्त्या विवरा- नुरोधेन । 'पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे' 'निष्कुहः कोटरं वा ना ' इत्यमरः । गङ्गायाः सुरनिम्नगाया आवर्तेन जलभ्रमेण सनाभि सदृशम् । नाभिमुदरगर्तम् । 'स्यादावतो- ऽम्भसां भ्रमः' इत्यमरः । सौधस्य सुधया रजितस्य प्रासादोपारतलस्य यदारोहणं सोपानं तस्य परिपाटया रीत्या । 'आरोहणं स्यात्सोपानाम् ' इत्यमरः । वलित्रयं त्रिवलीभङ्गम् । मौर्वीभूता धनुर्गुणरूपा या मधुकरपक्तिः भ्रमरश्रेणी तस्या नीलिमलीलया काष्ण्येन ' मौर्वी ज्या शिजिनी गुण: इत्यमरः । नीलस्य भावो नीलिमा ' वर्णदृढादिभ्यः ष्यञ्च ' इत्यत्र चदिमनिन् । रोमावलिं तनूरुहराजिम् ' तनूरुहं रोम लोम' इत्यमरः । कुचद्वन्दं स्तनयुगलम् । सौकुमार्येण प्रदिम्ना। बाहू भुजौ ' भुजबाहू प्रवेष्टो दोः' इत्यमरः। अभिख्यया कात्या ! । अभि- रव्या नामशोभयोः' इत्यमरः । कण्ठं गलम् । 'कण्ठो गलः' इत्यमरः । कमनीयो मनोहरः कर्णपूरः कर्णालङ्कारभूतश्च यः सहकारपल्लवः आम्रकिसलयं तस्य रागेण रक्ततया ।' आम्र. श्तो रसालोऽसौ सहकारोऽतिसौरभः' 'पल्लवोऽस्त्री किसलयम्' इत्यमरः । प्रतिबिम्बीकतं प्रतिच्छायात्वेन रचितं ततोऽप्यतिरक्ततया निराकृतमित्यर्थः । तादृशं बिम्बमेतन्नाम्ना प्रसिद्ध फलं येन तथाविधं रदनच्छदमधरम् । 'प्रतिमानं प्रतिबिम्ब प्रतिमा प्रतियातना प्रतिच्छाया 'ओष्ठाघरी तु रदनच्छदौ दशनवाससी इत्यमरः । बाणा इवाचरन्ति यानि पुष्पाणि । , । ।

पञ्चमोलासः] मनोरमाख्यव्याख्यासहितम् । येण वचनजातम्, सकलसैनिकनायकमलयमारुतसौरभ्येण निःश्वासपवनम्, जयध्वजमीनदर्पण लोचनयुगलम्, चापयष्टिश्रिया भ्रूलते, प्रथमसुहृदः सुधाकर- स्यापनीतकलङ्कया कान्त्या वदनम्, लीलामथूरबहभङ्गया केशपाशं च विधाय समस्तमकरन्दकस्तूरिकासंमितेन मलयजरसेन प्रक्षाल्य कर्पूरपरागेण संमृज्य निर्मितेव रराज । सा मूर्तिमतीव लक्ष्मीर्मालवेशकन्यका स्वेनैवाराध्यमानं संक- ल्पितवरप्रदानायाविर्भूतं मूर्तिमन्तं मन्मथमिव तमालोक्य मन्दमारुतान्दाोलता लतेव मदनावेशवती चकम्प। तदनु क्रीडाविश्रम्भान्निवृत्ता लज्जया कानिकान्यपि . अरविन्दमशोकं च चूतं च नवमल्लिका । नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः' इत्युक्त- नामानि कुसुमानि तेषां लावण्येन सौन्दर्येण । शुचि धवलं स्मितं मन्दहास्यम् । 'स्थादाच्छु- रतक हासः सोत्प्रासः स मनाक् स्मितम् ' इत्यमरः । अग्रदूतिका वसन्तसहायस्य मदनस्या- गमनं पुरो गत्वा दुतीय सूचयन्ती या कलकण्ठिका कोकिला तस्याः कलालापस्याव्यक्तमधुर- स्वरस्य माधुण मधुरतया । वचनजात बाग्जालम् । सकलानां सैनिकानां भटानां नायक- स्याधिपतेः मलयमारुतस्य मलयाचलवायोः सौरभ्येण सौगन्धयेन् । निश्वासपवन चासवायुम् । जयध्वजे विजयपताकायां वर्तमानयोर्मीनयोमत्स्ययोदर्पणावलेपेन लोचनयुगलं नेत्रद्वयम् । दोऽवलेपोऽवष्टम्भः इत्यमरः । चापयष्टेः धनुष्काण्डस्य श्रिया कान्त्या । भूलते लतासदृशे ध्रुवौ । 'ऊर्चे दृग्यां ध्रुवौ स्त्रियौ' इत्यमरः । प्रथमसुहृदः प्रधानमित्रस्य सुधाकरस्य चन्द्रमसः । अपनीत उद्धृतः कलङ्को लाञ्छनं यस्यास्तादृश्या कान्त्या शोभया वदनं सुखम् । कलकाको लाञ्छनं च चिह्न लक्ष्म च लक्षणम् ' इत्यमरः । लीलार्थ पोषिता ये मयूरा बहिणस्तेषां बहभझ्या पिच्छपरिपाटया केशपाशं कचकलापं च विधाय कल्प- यित्वा । 'मयूरो बहिणो बहीं' 'पिच्छबर्हे नपुंसके ' इत्यमरः । 'कचः केशः शिरोरुहः ' * पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' इति च । समस्तैर्मकरन्दैः पुष्परसैः कस्तूर- कया मृगमदेन संमितेन संयुक्तेन । 'मकरन्दः पुष्परसः ' 'मृगनाभिर्मगमदः कस्तूरी इत्यमरः । मलयजरसेन चन्दनजलेन । प्रक्षाल्य स्नापयित्वा । कर्पूरस्य धनसारस्य परागेण चूर्णेन । संमृज्य संशोध्य । निर्मितेव कल्पितेव । रराज शुशुभे । राजु दीप्तौ' लिट् । सेति । मूर्तिमती देहधारिणी । मालवेशस्य मानसारस्य कन्यका दुहिताऽवन्तिसुन्दरी । स्वेनात्मनाऽऽराध्यमानं पूज्यमानम् । संकल्पिता मनसा लिप्सिता ये वरास्तेषां वरस्य भर्तुर्वा प्रदानाय वितरणायाविर्भूतं तसांनिध्यम् । मन्मथमिव काममिव स्थितम् । तं राजवाहनमालोक्य दृष्ट्वा । मन्दमारुतेन मन्दवायुना । 'समीरमारुतमरुतू ' इत्यमरः । आन्दोलिता डोलायिता लता वल्लीव । मदनस्यावेश उद्वेगस्तद्वती तेन युक्ता । चकम्पेऽकम्पत । कपि किंचिञ्चलने' । तदनु ततः पश्चात् । क्रीडावित्रम्भात् विहारासक्त: । निवृत्ता पराङ्मु- खोभूता । लज्जया ब्रीडया मन्दाक्षं हीस्त्रपा ब्रीडा लज्जा' इत्यमरः । कानि कान्यपि नानाम: । ।

MEASUREMENT । ভূক্তশালি। [पूर्वपीठिकायां भावान्तराणि व्यवन्त । ललनाजनं सृजता विधाना नूनमेषा घुणाक्षर- न्यायेन निर्मिता । नो चेदब्जभूरेवंविधानिर्माणनिपुणो यदि स्वात्तर्हि तत्समा- नलावण्यामन्यां तरुणी किं न करोति' इति सविस्मयानुरागं विलोकयतस्तस्य समक्षं स्थातुंलजिता सती किंचित्सखीजनान्तरितगात्रा तन्नयनाभिमुखैः किञ्चि- दाकुञ्चितै रेचितभ्रूलतैरपाङ्गवीक्षितैरात्मनः कुरङ्गस्यानायायमानलावण्यं राज- वाहनं विलोकयन्त्यतिष्ठत् । सोऽपि तस्यास्तदोत्पादितभावरसानां सामन्या लब्धबलस्येव विषमशरस्य शरव्यायमाणमानसो बभूव । सा मनसोत्थमचिन्त- यत्-'अनन्यसाधारणसौन्दर्येणानेन कस्यां पुरि भाग्यवतीनां तरुणीनां लोच- नोत्सवः क्रियते । पुत्ररत्नेनामुना पुरन्ध्रीणां पुत्रवतीनां सीमन्तिनीनां का नाम काराणि । भावान्तराणि इशितविशेषान् । व्यवत्ताविष्कृतवती । ललनेति । कान्ताजनं सृज- तोत्पादयता। विधात्रा ब्रह्मणा । ' विधाता विश्वसनिधिः' इत्यमरः । नूनं निश्चयेन । 'नूनं तर्केऽर्थनिश्चये' इत्यमरः । एषाऽवन्तिसुन्दरी । घुणाक्षरन्यायेन नदीपुलिनादौ स्वैरं संचरन्तः कीटा यथाऽकस्मादेव कानिचिदक्षराणि स्वगतिरेखया निर्मिमते तत्परिपाटयव निर्मिताऽक- स्मादेवोत्पादिता. इतरवमितास्वेतादृक्सौष्ठवादर्शनात् । नौचेत् एवं न स्याद्यदि । अब्जभूः धाता । एवंविधानामित्थंप्रकाराणां सुन्दरीणां निर्माणे विधाने निपुणः समर्थः । यदि स्यात् भवे- चेत् । तदा तादृशनैपुण्ये सति । तयाऽवन्तिसुन्दा समानलावण्यां समानरूपाम् । तरुणीं सुन्द- रीम् । किं न करोति किमिति नोत्पादयति । किं पृच्छायां जुगुप्सने ' इति नानार्थेऽमरः । विस्मयोऽद्भुतमनुरागः प्रेमा ताभ्यां सह । 'विस्मयोऽद्भुतमाश्चर्यम् । इत्यमरः। विलोकयतः पश्यतस्तस्य राजवाहनस्य समक्षमभिमुखम् । लज्जिता पान्विता सती । सखीजनेनान्तरितं तिरोभूतं गात्रं वपुर्यस्यास्तादृशी । 'गात्रं वपुः संहननं शरीरं वर्म विग्रहः' इत्यमरः । 'अन्त- रंमवकाशावधिपरिधानान्तधिभेदतादर्थे । त तस्य राजवाहनस्य नयनयोरभिमुखैः संमुखैः । किंचिदाकुञ्चितैः संकोचेनेषत्प्रतिनिवृत्तैः । रेचिते वक्रीकृते भ्रूलते यस्तादृशैः । अपाङ्गवीक्षितैः नेत्रान्तविलोकनैः । 'अपाडौ नेत्रयोरन्तौ' इत्यमरः । आत्मनः कुरङ्गस्यावान्तिसुन्दरीरूपहार- णस्य । यथा जालेन हरिणो गृह्यते एवं तस्य सौन्दर्यावलोकनेनावन्तिसुन्दर्या अपि गृहीतमाय- त्वात् ।' मृगे कुरङ्गवातायुहरिणाजिनयोनयः' इत्यमरः । आनायो जालं तद्वदाचरलावण्य सौन्दर्य यस्य तम् । 'आनायः पुंसि जालं स्यात्' इत्यमरः । 'कर्तुः क्यङ् सलोपश्च' इति क्यङ् । विलोकयन्ती सादरमवेक्षमाणा । अतिष्ठदवर्तत । सोऽपीति । उत्पादितानां जनितानां भावानां लज्जादिशङ्गारानुभावाना रसस्य शृङ्गारस्य च सामय्या संपूर्णतया। लब्धं बलं धैर्य येन तथाविधस्य । विषमाः पञ्चसंख्याकाः शरा बाणा यस्य तादृशस्य कामस्य । शव्यं लक्ष्यं वेध्यमि- त्यर्थः । 'लक्ष्यं लक्ष शरव्यं च' इत्यमरः । तदिवाचरन्मानसं यस्य तादृशो बभूव सैजातः । इत्थ- सनेन प्रकारेण । 'इदमस्थमुः' इति निष्पन्नः। अनन्यसाधारणसौन्दर्येणालौकिकलावण्येन । नेत्रो- त्सवः नयनयोराहादः । क्रियते उत्पाद्यते । कुत्रत्य इति भावः । पुत्ररत्नेन श्रेष्ठेन पुत्रेण । पुरन्ध्रीणां कुटुम्बिनीनां पुत्रवतीनां पुत्रयुक्तानां सीमन्तिनीनां नरीणाम् । 'नारी सीमन्तिनी वधूः' इत्यमरः । । ७ ।

HAR an पञ्चमोच्यासः] मनोरमाख्यव्याख्यासहितम् । सीमन्तमौक्तिकीक्रियते । कास्य देवी। किमत्रागमनकारणमस्य । मन्मथो मामपहसितनिजलावण्यमनें विलोकयन्तीमसूययेवातिमात्रं मन्नान्निजनाम सान्वयं करोति । किं करोमि । कथमयं ज्ञातव्यः' इति । ततो बालचन्द्रिका तयारन्तर- नवृत्तिं भावविवेकैख़त्वा कान्तासमाजसंनिधौ राजनन्दनोदन्तस्य सम्यगाख्या- नमनुचितमिति लोकसाधारणैर्वाक्यैरभाषत---' भर्तृदारिके, अयं सकलकला- प्रवीणो देवतासांनिध्यकरण आहवनिपुणो भूसुरकुमारो मणिमंत्रौषधिज्ञः परि- चर्याहौँ भवत्या पूज्यताम् ' इति । तदाकर्ण्य निजमनोरथमनुवदन्त्या बालच- न्द्रिकया संतुष्टान्तरङ्गा तरङ्गावली मन्दानिलेनेव संकल्पजेनाकुलीकृता राजकन्या जितमारं कुमारं समुचितासनासीनं विधाय सखीहस्तेन शस्तन गन्धकुसुमाक्ष- तघनसारताम्बूलादिनानाजातिवस्तुनिचयेन पूजां तस्मै कारयामास । राजवा- हनोऽप्येवमाचिन्तयत्--- नूनमेषा पूर्वजन्मनि मे जाया यज्ञवती । नो चेदेत- । - सीमन्तमौक्तिकीक्रियते केशपाशगतमध्यरेखायो मौक्तिकत्वेन धार्यते । यस्याः पुत्र एतादृशा. सा सर्वाभिः श्लाघ्यैव भवितुमर्हतीति भावः । अस्य राजवाहनस्य देवी नहिषी का । अत्रोज- यिनीनगरे आगमनस्यापि किंवा कारणं निमित्तं स्यात् । मन्मथः कान: अपहसितं तिरस्कृतं निजलावण्यं कामस्य सौन्दर्य येन तथाविधमेनं राजवाहनं विलोकयन्तीं पश्यन्ती मामसूयया ईय॑येवातिमात्रं भृशं मथ्नन् पीडयन् निजनाम 'मन्मथ' इति स्वकीयमाभिधानं सान्वयनर्थ- सम्बन्धविशिष्टं मनो मथ्नाति पीडयति मन्मथः इति, करोति संपादयति । 'मन मथ्नाति सर्वेषां पञ्चबाणेन कामिनाम् । तन्नाम मन्मथस्तेन प्रवदन्ति मनीषिणः ॥' ब्रह्मवैवर्त- पुराणे । मन्थधातोः पचाद्यच् पृषोदरादित्वाहिलोपः । कथं केनप्रकारेण अयं राजवाहनों ज्ञातव्यः परिचेतव्यः । तत इति । अन्तरवृत्तिं मनोऽभिप्रायम् । भावविवेकैः मानसिकचेष्टा- भिः । ज्ञात्वाऽवगत्य । कान्तासमाजस्य स्त्रीजनसमुदायस्य सन्निधौ समक्षम् । उदन्तस्व वृत्तान्तस्य । सम्यक् स्पष्टतयाऽऽख्यानं कथनम् । अनुचितमनहम् । भर्तृदारिके हे राजकन्ये ! 'राजा भट्टारको देवस्तत्सुता भर्तृदारिका' इत्यमरः । आहवनिपुणः संग्रामकुशलः । ' संग्रा. माभ्यागमाहवाः' इत्यमरः । भूसुरकुमारः विप्रपुत्रः । मणिमन्त्रौषधिज्ञः तद्वत्ता । परिचर्याई: पूजायोग्यः । 'वरिवस्या तु शुश्रूषा परिचर्याऽप्युपासना ' इत्यमरः । पूज्यतां सक्रियताम् । निजमनोरथमनु स्वकीयकामनानुकूलं वदन्त्या कथयन्त्या । सन्तुष्टान्तरजा प्रसन्नान्तःकरणा । तरज्ञावली वीचिश्रेणी । ' भङ्गस्तरङ्ग ऊर्मिळ स्त्रियां वीचिः' इत्यमरः । मन्दानिलेन सूक्ष्म- वायुनेव । संकल्पजेन कामेन । आकुलीकृता पीडयमानाऽन्यत्र संचाल्यमाना । जितो मारो मदनो येन तम् । 'मदनो मन्मथो मारः' इत्यमरः । समुचिते योग्ये आसने फलके आसीन- मुपविष्टम् । शस्तेन प्रशस्तेन । पूजामहणाम् । पूजानमस्याऽचितिः सपर्याऽर्चाहणा: समाः' इत्यमरः । कारयामास संपादयामास । एवं वक्ष्यमाणप्रकारेण । नूनमवश्यम् । पूर्वज- न्मनि जन्मान्तरे । 'जनुर्जननजन्मानि' इत्यमरः । जाया भार्यां । ' पत्नी पाणिगृहीती च .

दशकुमारचरितम् । [पूर्वपीठिकायां स्यामेवंविधोऽनुरागो मन्मनसि न जायेत । शापावसानसमये तपोनिधिदत्त जातिस्मरत्वमावयोः सनानमेव ! तथापि कालजनितविशेषसूचकवाक्यैरस्या ज्ञानमुत्पादयियानि तस्मिन्नेव समये कोऽपि मनोरमो राजहंसः केलीवि- वित्सया तदुपकण्ठमगमत् । समुत्सुक्रया राजकन्यया मरालग्रहणे नियुक्तां बालचन्द्रिकामवलोक्य समुचितो वाक्यावसर इति संभाषणनिपुणो राजवाहनः सलीलमलपत्-'सखि, पुरा शाम्बो नाम कश्चिन्महीवल्लभो मनोवल्लभया सह विहारवाञ्छया कमलाकरमवाप्य तत्र कोकनदकदम्बसमापे निद्राधीनमानसं राजहंसं शनैहीत्वा बिसगुणेन तस्य चरणयुगलं निगडयित्वा कान्तामुखं सानुरागं विलोकयन्मन्दस्मितविकसितैककपोलमण्डलस्तामभाषत-~-'इन्दुमुखि, मया बद्धो मरालः शान्तो मुनिवदास्ते । स्वेच्छयानेन गम्यताम् ' इति । सोऽपि राजहंसः शाम्बमशपत्- महीपाल, यदस्मिन्नम्बुजखण्डेऽनुष्ठानपरायणतया परमानन्देन तिष्ठन्तं नैष्टिकं मामकारणं राज्यगणावमानितवानसि तदेतत्पा- मना रमणीविरहसंतापमनुभवः' इति । विषण्णवदनः शाम्बो जीवितेश्वरीवि- रहमसहिष्णुभूमौ दण्डवत्प्रणम्य सविनयमभाषत-'महाभाग, यदज्ञानेनाकरवं तत्क्षमस्व' इति । स तापसः करुणाकृष्टचेतास्तमवदत्-'राजन्, इह जन्मान भवतः शापफलाभावो भवतु । मद्वचनस्यामोघतया भाविनि जनने शरीरा- द्वितीया सहधर्मिणी । भार्या जाया' इत्यमरः । न जायेत नैवोत्पद्येत । जातिस्मरत्वं जन्मान्तर- स्मारकत्वम् । समानं सदृशमेव । कालजनितैः अवसरोचितैः विशेषसूचकैस्तत्स्मारकैश्च वाक्यैः संलापैः । राजहंसो हंसविशेषः। 'राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः' इत्यमरः । तयो- रुपकण्ठमन्तिकमगमत्प्राप्तः । समुत्सुकया समुत्पन्न कौतुकया । मरालस्य हंसस्य ग्रहण उपादाने । नियुक्त प्रेरिताम् । सलील सकुतूहलम् । सखीति । महीवल्लभो राजा । मनोवल्लभया प्रियया सह। विहारवाञ्छया क्रीडायामभिलाषण । कमलाकर तडागम् । कोकनदानां रक्तोत्पलानां कदम्बसमीपे षण्डनिकटे । 'रक्तोत्पलं कोकनदम् 'अब्जादिकदम्बे षण्डमस्त्रियाम्' इत्यमरः । बिसगुणेन मृणालसूत्रेण । 'मृणालं बिसम्” इत्यमरः। निगडयित्वा बद्ध्वा । कान्ताया यज्ञवत्याः। मुखमाननम् । सानुरागं प्रेम्णा सह। मन्दस्मितेनेषद्धास्येन विकसितमेकं कपोलमण्डलं गण्डप्रदेशो यस्य तथाविधः सन् । इन्दुमुखि हे चन्द्रानने ! । शान्तः क्षमायुक्तः । मुनिनातुल्यं मुनिवत् । 'तेन तुल्यं-' इति वतिः । स्वेच्छया यथाकामम् । महीपाल हे राजन! । अम्बुजखण्डे पद्म- निवहे । नैष्ठिकं ब्रह्मचर्ययुक्तम् । अकारणमनिमित्तम् । अवमानितवास्तिरस्कृतवान् । पाप्मना पापेन । 'अस्त्री पत पुमान्पाप्मा पापं किल्बिषकल्मषे' इत्यमरः । रमणीविरहेण स्त्रीवियोगेन जन्यं सन्तापं दुःखम् । अनुभवोपभुव । विषण्णं खिन्नं वदनं यस्य सः। जीवितेश्चयर्याः प्राणप्रियाया विरहमसहिष्णुः सोढुमशक्तः । प्रणम्य नमस्कृत्य । सविनयं प्रश्रयेण साकम् । महाभागेति । अज्ञानेनाविवेकेन । क्षमस्व मर्षय । शापफलस्याभावोऽनुपभोगः। अमो- । । नि पञ्चमोच्छासः] मनोरमाख्यव्याख्यासहितम् । न्तरं गताया अस्याः सरसिजाक्ष्या रसेन रमणो भूत्वा मुहूर्तद्वय मञ्चरणयुगल- बन्धकारितया मासद्वयं शृङ्खलानिगडितचरणो रमणीवियोगविषाद्मनुभूय पश्चा- दुनेककालं वल्लभया सह राज्यसुखं लभस्व ' इति । तद्नु जातिस्मरत्वमपि तयो- रन्वगृह्णात् । ' तस्मान्मरालबन्धनं न करणीयं त्वया । इति । सापि भर्तृदारिका तद्वचनाकर्णनाभिज्ञातस्वपुरातनजननवृत्तान्ता 'नूनमयं मत्प्राणवल्लभः' इति मनसि जानती रागपल्लवितमानसा समन्दहासमवोचत्--' सौम्य, पुरा शाम्बो यज्ञवतीसंदेशपरिपालनाय तथाविधं हंसबन्धनमकार्षीत् । तथा हि लोके पण्डिता अपि दाक्षिण्येनाकार्यं कुर्वन्ति ' इति । कन्याकुमारावेवमन्योन्यपुरातनजनन- नामधेये परिचिते परस्परज्ञानाय साभिज्ञमुक्त्वा मनोजरागपूर्णमानसौ बभूवतुः! तस्मिन्नवसरे मालवेन्द्रमहिषी परिजनपरिवृता दुहितृकेलीविलोकनाय ते देशमवाप ! बालचन्द्रिका तु तां दूरतो विलोक्य ससंभ्रम रहस्यनिर्भेदभिया हस्तसंज्ञया पुप्पोद्भवलेव्यमानं राजवाहनं वृक्षवाटिकान्तरितगात्रमकरोत् । सा मानसारमहिषी सखीसमेताया दुहितुर्नानाविधां विहारलीलामनुभवन्ती क्षणं स्थित्वा दुहिता समेता निजागारगमनायोचुक्ता बभूव । मातरमनुगच्छन्त्यव- न्तिसुन्दरी 'राजहंसकुलतिलक, विहारवाञ्छया केलीवले मदन्तिकमागतं घतया सत्यतया । 'मोघं निरर्थकम् ' इत्यमरः । रसेन प्रेम्णा ! रमणो भर्ता । विषाद पीडाम् । लभस्व प्राप्नुहि । जातिस्मरत्वं जातिस्मरणशीलत्वम् । अन्वगृह्णादनुग्रहबुद्ध्या प्रददौ । 'ग्रह उपादाने' । मरालबन्धनं हंसग्रहणम् । भर्तृदारिका राजकुमारी । तस्य राज्ञो वचनस्याकर्णनेन श्रवणेनाभिज्ञातो विदितो स्वपुरातनजननवृत्तान्तः निजजन्मान्तरवार्ता यया सा । जानती अवगच्छन्ती । रागेणानुरागेण । पल्लवितमानसा विकसितचित्ता । सौम्य हे सुभग ! । यज्ञवत्याः संदेशस्याज्ञायाः परिपालनाय संरक्षणार्थम् । दाक्षिण्येन वचनबद्धतया । परिचिते ज्ञाते अपि । साभिज्ञं प्रत्यभिज्ञया साकम् । मनोजरागेण कामाभिलाषेण पूर्णमानसी संमृतान्तःकरणौ । बभूवतुः संजातौ । तस्मिन्निति । अवसरे समये । मालवेन्द्रस्य मानसारनानो महिषी प्रधानपत्नी । * कृताभिषेका महिषी' इत्यमरः। दुहितुः कन्यायाः । केलीविलोकनाय क्रीडावेक्षणार्थम् । तं देशमुद्यानभूमिम् । अवापागता । दूरतो दूरादेव। ससंभ्रमं त्वरया । रहस्यस्य गुप्तभाषणस्य निर्भेदमिया 'प्रकाशो मा भूत्' इति भयेन । हस्तसंज्ञया करसंकेतेन । वृक्षवाटिकया गृहो- शानेन । 'वाटी वास्तौ गृहोद्यानकटयोः' इति हैमः । अन्तरितमाच्छादितं गात्रं शरीरं यस्य तथाविधमकरोच्चकार । दुहितुः कन्यायाः । नानाविधामनेकप्रकारां विहारलीलां क्रीडा- सुखमनुभवन्ती निर्विशन्ती । निजागारगमनाय स्वकीयगृहं प्रति गन्तुम् । उद्युक्ता संनद्धा। बभूव जाता । अनुगच्छन्त्यनुसरन्ती । राजहंसानां हंसविशेषाणां राजहंसनानो राज्ञो वा कुलस्य वंशस्य तिलक अलंकारभूत ! । विहारवाञ्छया क्रीडाभिलाषेण । केलीवने उद्याने । ।

यन्ती सादरं प्रेक्षमाणा । निजमन्दिर स्वागारम् । अगात् जगाम । तत्रेति। स्वगृहे। दशकुमारचरितम् । [पूर्वपीठिकायां भवन्तमकाण्ड एव विसृज्य मया समुचितमिति जनन्यनुगमनं क्रियते, तदनेन भवन्मनोरागोऽन्यथा मा भूत् इति मरालमिव कुमारमुद्दिश्य समुचितालाप- कलापं वदन्ती पुनः पुनः परिवृत्तदीननयना वदनं विलोकयन्ती निजमन्दिरम- गात् । तत्र हृदयवल्लभकथाप्रसङ्गे वालचन्द्रिकाकथिततदन्वयनामधेया मन्मथ- बाणपतनव्याकुलमानसा विरहवेदनया दिनदिने बहुलपक्षशशिकलेव क्षामक्षा- माहारादिसकलं व्यापार परिहृत्य रहस्यमन्दिरे मलयजरसक्षालितपल्लवकुसुमक- ल्पिततल्पतलावर्तितनुलता बभूव । तत्र तथाविधावस्थामनुभवन्ती मन्मथानल- संतप्तां सुकुमारी कुमारी निरीक्ष्य खिन्नो वयस्यागणः काञ्चनकलशसंचितानि हरिचन्दनोशीरधनसारमिलितानि तदभिषेककल्पितानि सलिलानि बिसतन्तु. ममान्तिकं समीपम् । आगतं प्राप्तम् । अकाण्डेऽनवसर एव । विसृज्य त्यक्त्वा । जनन्या मातुरनुगमनमनुयानं क्रियते विधीयते । तज्जनन्यनुगमनस्यात्यावश्यकत्वात् । अनेन मद्गमनेन । भवतो मनोरागः मानसिकोऽनुरागः । अन्यथा विपरीतः। मा भूत् मा भवतु। 'माडि लुङ्' इति लडि न माड्योगे' इत्यडभावः । इत्यनेन प्रकारेण । मरालमिव कुमारमुद्दिश्य हंस- मिषेण राजवाहनमेवोद्दिश्य। समुचितं समयानुरूपमालापकलापं वाक्यजालम् । पुनः पुनरसकृत् । परिवृत्ते प्रत्यावर्तिते दीने नयने यस्या एतादृशी सती । वदनं राजवाहनस्य मुखम् । विलोक- - Skin । हृदयवल्लभस्य राजवाहनस्य कथाप्रसङ्गे उदन्तकथनावसरे । बालचन्द्रिकया कथिते तस्यान्वय. नामधेये कुलनामनी यत्यैतादृशी । 'वंशोऽन्ववायः सन्तान:' 'आख्याढे अभिधानं च नामधेयं च नाम च' इत्यमरः । मन्मथस्य बाणानां शराणां पतनेन वर्षणेन व्याकुलं व्यग्रं मानसं यस्याः सा । विरहवेदनया वियोगोत्थपीडया । दिनदिने प्रतिदिवसम् । बहुलपक्षे कृष्णपक्षे । शशिन- श्चन्द्रस्य कलेव षोडशभाग इव । क्षामक्षामाऽत्यन्तं कार्यमापन्ना । 'क्ष हर्षक्षये' इत्यतः कप्रत्यये तस्य 'क्षायो मः' इति मादेशः। भृशार्थे द्विरुक्तिः। परिहृत्य परित्यज्य । रहस्य- मन्दिरे एकान्तगृहे । मलयजरसेन चन्दनरसेन क्षालितस्य धौतस्य, पल्लवैः किसलयैः पुष्पैः कुसुमैश्च कल्पितस्य रचितस्य तल्पस्य शय्यायास्तले उपारभागे आवर्तिनी इतस्तत: परि- भ्रमन्ती तनुर्लतेव स्थिता यस्यास्तथाविधा बभूव जाता ।' तल्पं शय्याट्टदारेषु स्त्रिया मूर्तिस्तनुस्तनूः' इत्यमरः । तत्र शय्यायाम् । अवस्था पीडाम् । मन्मथानलेन कामरूपा- मिना संतप्तां दग्धाम् सुकुमारी कोमलाङ्गीम् । कुमारीमवन्तिसुन्दरीम् । निरीक्ष्य दृष्ट्वा । खिनः सन्तप्तहृदयः । वयस्यागणः सखीजनः । काञ्चनकलशैः सुवर्णपटैः संचितानि समानीतानि 'चामीकरं जातरूपं महारजतकाञ्चने' इत्यमरः । हरिचन्दनः मलयजा, उशीरो नलदः, धनसारः कर्पूरः एतमिलितानि मिश्रितानि । उशीरमस्त्रियाम् । अभयं नलदं सेव्यम् ' इत्यमरः । ' अथ कर्पूरमस्त्रियाम् । घनसारश्चन्द्रसंज्ञः सिताम्रो हिमवा- लुका' इति च । तस्या राजकन्याया अभिषेकाय स्नानाय कल्पितानि रचितानि । सलिलानि पञ्चमोच्छासः] मनोरमाख्यव्याख्यासहितम् । मयानि वासांसि च नलिनीदलमयानि तालवृन्तानि च संतापहरणानि बहूनि संपाद्य तस्याः शरीरमशिशिरयत् । तदपि शीतलोपचरणं सलिलमिव तप्ततैले तदले दहनमेव समन्तादाविश्वकार । किंकर्तव्यतामूढां विषण्णां बालचन्द्रिका- भीषदुन्मीलितेन कटाक्षवीक्षितेन बाष्पकणाकुलेन विलोक्य विरहानलोष्णनिः- श्वासग्लपिताधरया नताङ्गथा शनैः शनैः सगदर्द व्यलापि--'प्रियसखि, काम: कुसुमायुधः पञ्चबाण इति नूनमसत्यमुच्यते । इयमहमयोमयैरसंख्यैरिषुभिरनेन हन्ये । सखि, चन्द्रमसं वडवानलादतितापकरं मन्ये । यस्मिन्नन्तः प्रविशति शुष्यति पारावारः, सति निर्गते तदैव बर्द्धते । दोषाकरस्य दुष्कर्म किं वयेते मया । यदनेन निजसोदाः पद्मालयाया गेहभूतमपि कमलं विहन्यते । विर- हानलसंतप्तहृदयस्पर्शेन नूनमुष्णीकृतः स्वल्पीभवति मलयानिलः । नवपल्लव- जलानि । " सलिलं कमलं जलम् इत्यमरः । विझतन्तुमयानि मृणालसूत्रकल्पितानि । वासांसि पारधेचलि। नलिनीदलमयानि कमलपत्रचितानि तालचन्तानि व्यजनानि । व्यजन तालमास्त्रियाम्' इत्यमरः । सन्तापहरणानि विरहपीडानिवारकाणे संपार संगृह्य । अशिशि- स्यत् शीतलोपचारं चकार । 'सुषीमः शिशिरो जडः' इत्यमरः । शिशिरशब्दात तत्करोति तदाचष्टे' इति णिाचे लङ्। तप्ततैले कथिते स्नेहे । दहन वाहें तापञ्च । आविश्वकारोत्पादयांबभूव । किंकर्तव्यतायामितिकर्तव्यतायां मूढामसमर्थाम् । विषण्णां खिन्नाम् । ईषदुन्मीलितेन किये दुन्मेषितेन । बाष्पकणैरश्रुबिन्दुभिराकुलेन व्याप्तेन । विलोक्य वीक्ष्य । विरहानलेन वियो- गाग्निना उष्णो यो निःश्वासस्तेन ग्लपितः ग्लानिं प्रापितः अधरो यस्यास्तया । नतान्यज्ञानि यस्याः सा तया संनतगात्र्याऽवन्तिसुन्दर्या । शनैः शनैर्मन्दमन्दम् । सगद्दं गद्गदस्वरेण साकम् । व्यलापि विलापः कृतः । प्रियसखीति । कुसुमानि पुष्पाण्यायुधानि प्रहरणानि यस्य सः । पञ्चैव बाणाः सायका यस्य सः । नूनमसत्यमुच्यते मन्मथमुद्दिश्य ' कुसुमेषुः पञ्चशरः' इति यल्लोककथनं तन्मृषैव । तेन मदीयशरीरे निपात्यमानानां बाणानामतिकठो. रत्वादपरिमितत्वाच्च । एतदेवोत्तरवाक्येन प्रकटयति । अयोमयैलौ संख्यैः परिमाणरहितः। इषुभिर्वाणैः । अनेन कामेन । हन्ये पीडथमानाऽस्मि । हन हिंसागत्योः' इत्यतः कर्मणि लडुत्तमैकवचनम् । एवं मदनं विनिन्द्य तद्वदेव तापकरत्वान्मदनसाहाय्यकरत्वाचन्द्रमिदानी- मुपालभते-चन्द्रमसमिति । बडवानलावडवामेरप्यपेक्षया। अतितापकरं बहुपीडाकरम् । मन्य तर्कये । अस्मिंश्चन्द्रमसि । अन्तः समुद्रमध्यं प्रविशति गच्छति सति । शुष्यति पारा- वारः समुद्रः शुष्को भवति । अतितापकरत्वाभावे वृद्धरेव भाव्यत्वात् । तत्तु न दृश्यते किन्तु निर्गत एव बाहिश्चन्द्रे सागरस्य वृद्धिदर्शनात् । दोषाकरस्य निशाकरस्य दोषाणामाकरः खनि- स्तस्य च । निजसोदर्या आत्मनैव समं समुद्रादुत्पन्नायाः । पद्मालयायाः लक्ष्म्याः।. लक्ष्मीः पद्मालया पद्मा' इत्यमरः । विहन्यते संकोच्यते। विरहानलेन विश्लेषाग्निना सन्तप्तं यन्मम हृदयं तस्य स्पर्शन संपर्केण नूनमवश्यमुष्णीकृतस्तापितः सन् मलयानिला स्वभावत: शीत- ५ । RAMATA an ६६ दशकुमारचरितम्। [पूर्वपीठिकायाँ कल्पित तल्पमिदमननानिशिखापटलमिव संतापं तनोस्तनोति । हरिचन्दनमपि पुरा निजवाटललेषवदुरगरदनलितोल्वणगरलसंकलितमिव तापयति शरीरम् । तस्मादलमलमारासेन शीतलोपचारे। लावण्यजितमारो राजकुमार एवागदङ्कारो मन्मथज्वरापहरणे । सोऽपि लव्धुमशक्यो मया । किं करोमि ' इति । बालच- न्द्रिका मनोजज्वरावस्थापरमकाष्ठां गतां कोमलाङ्गी तां राजवाहनलावण्याधी- नमानसामनन्यशरणामवेक्ष्यात्मन्यचिन्तयत्-~-'कुमारः सत्वरमानेतव्यो मया। नो चेदेनां स्मरणीयां गतिं नेष्यति मीनकेतनः । तत्रोद्याने कुमारयोरन्योन्या- वलोकनवेलायामसमसायकः समं मुक्तसायकोऽभूत् । तस्मात्कुमारानयनं सुक- रम्' इति । ततोऽवन्तिसुन्दरीरक्षणाय समयोचितकरणीयचतुरं सखीगणं नियुज्य राजकुमारमन्दिरमवाप । पुष्पबाणबाणतूणीरायमाणमानसोऽनङ्गतताव- यवसंपर्कपरिम्लानपल्लवशयनमधिष्ठितो राजवाहनः प्राणेश्वरीमुद्दिश्य सह पुष्पो । लोऽपि मलयाचलवायुः स्वल्पीभवति प्रक्षीणो जायते । नवतनैः पल्लवैः किसलयैः कल्पि- तम् । तल्पं शयनीयम् । अनङ्गामिशिखानां स्मराग्निज्वालानां पटलं चक्रमिव । तनोमच्छरीरस्य सन्तापं. व्यथां तनोति विदधाति । पुरा मलयाचलस्थितिकाले । निजयष्टौ काठे संश्लेषवन्तः संश्लिष्य स्थिता य उरगाः सर्पाः तेषां रदनेषु दन्तेषु लिप्तमुल्वणमसह्यं च यद्गरलं विषं तेन संकलितं मिश्रितमिव । 'उरगः पन्नगो भोगी रदना दशना दन्ताः वेडस्तु गरलं विषम् ' इत्यमरः । तस्माच्छैत्योपचारस्याकिंचित्करत्वात् । शीतलोपचारे तास्मिन्विषये । आयासेन परिश्रमेणालमलं न किंचित्साध्यम् । लावण्येन सौकुमार्येण जितः पराभूतो मारो मन्मथो येन । अगदकारः कृतहस्तो वैद्यः । 'रोगहार्यगदंकारो भिषग्वैद्यौ चिकित्सके ' इत्यमरः । 'कारे सत्यागदस्य ' इति मुम् । मन्मथज्वरस्य कामपीडारूपस्य ज्वरस्य । अपहरणे निवारणे । परमकाष्ठामुत्कटमर्यादाम् । अनन्यशरणां राजवाहनमन्तरा न विद्य- तेऽन्यो रक्षको यस्यास्तादृशीम् । 'शरणं गृहराक्षित्रोः' इत्यमरः । आत्मन्यप्रकाशं यथा तथा । अचिन्तयत् विचारयामास । सत्वरमाशु । 'सत्वरं चपलं तूर्णमविलम्बितमाशु च' इत्यमरः । आनेतव्य आहृतव्यः । नोचेदेवमानयनेऽकृते । स्मरणीयां 'काचिदासीत् मम प्रियस्सख्यवन्तिसुन्दरी नाम इति भूतपूर्वी गतिमवस्थाम् । मीनकेतनो मन्मथः । 'मदनो मन्मथो मारः प्रद्युम्नो मोनकेतनः' इत्यमरः । कुमारयो राजवाहनावन्तिसुन्दर्योः । 'पुमान् स्त्रिया' इत्येकशेषः । अन्योन्यावलोकनवेलायां परस्परवीक्षणसमये। असमसायकः कामः । सममेकदैव । मुक्ता लक्ष्यमुद्दिश्य प्रहिता सायका बाणा येनैतादृशः । तस्मादवन्तिसुन्दरीमुद्दिश्य राजवाहनस्य कामेन विद्वत्वात् । सुकरं प्रयासं विनैव कर्तुं योग्यम् । तत इति । नियुज्य संस्थाप्य । पुष्यबाणस्य कामस्य बाणानां शराणां तूणीरो निषङ्गः स इवाचरन्मानसं हृदयं यस्य स कामशरपरिपूर्णचित्तः इति भावः । अनशन कामेन तप्तानां संतप्तानामवयवानामझानां संप- कोम संसर्गेण परिम्लान संग्लपितं पल्लवशयनं किसलयकल्पितां शय्यामधिष्ठित आश्रितः। des ।

पञ्चमोच्छासः] मनोरमाख्यव्याख्यासहितम् । ६७ द्भवेन संलपन्नागतां प्रियवयस्यामालोक्य पादमूलमन्वेषणीया लतेव बालचन्द्रि- कागतेति संतुष्टमना निटिलतटमण्डनीभवदम्बुजकोरकाकृतिलसदञ्जलिपुटाम् 'इतो निषीद' इति निर्दिष्टसमुचितासनासीनामवन्तिसुन्दरीप्रेषितं सकर्पूरं ताम्बूलं विनयेन ददतीं तां कान्तावृत्तान्तमपृच्छत् । तया सविनयमभाणि-'देव, क्रीडावने भवद्वलोकनकालमारभ्य मन्मथमथ्यमाना पुष्पतल्पादिषु तापशमन- मलभमाना वामनेनेवोन्नततरुफलमलभ्यं त्वदुरःस्थलालिङ्गनसौख्यं स्मरान्ध- तया लिनुः सा स्वयमेव पत्रिकामालिख्य 'वल्लभायैनामर्पय' इति मां नियुक्त- वती' । राजकुमारः पत्रिका तामादाय पपाठ- सुभग कुसुमसुकुमारं जगदनवयं विलोक्य ते रूपम् । मम मानसमभिलपति त्वं चित्तं कुरु तथा मृदुलम् ।।' इति पठित्वा सादरमभाषत---- लखि, छायावन्मामनुवर्तमानस्य पुष्पोद्भवस्य बल्लभा त्वमेव तस्या मृगीदृशो बहिश्वराः प्राणा इव वर्तसे ! त्वचातुर्यमस्यां क्रिया- लतायामालवालमभूत् । तदखिलं करिष्यामि । नवाया मन्मनःकाठिन्यमा- ख्यातम् । यदा केलीवने कुरङ्गलोचना लोचनपथमवर्तत तदैवापहृतमदीयमानसा सा स्वमान्दरमगात् । सा चेतसो माधुर्यकाठिन्ये स्वयमेव जानाति । दुष्करः कन्यान्तःपुरप्रवेशः । तदनुरूपमुपायमुपपाद्य श्वः परश्वो वा नताङ्गी संगमि- संलपन्मिथो भाषमाणः । प्रियवयस्यां प्रियसखी बालचन्द्रिकाम् । अन्वेषणाया गवेष- यितुं योग्या लौषधिकली विरहज्वरनिवारिका पादमूलमात्मनश्चरणतलामिव । सन्तुष्टमनाः प्रसन्नचित्तः । निजे निटिलतले स्वकीये भालदेशे मण्डनीभवनलंकारभूतः, अम्बुजकोर. काकृतिः कमलकालिकासरूपः, विलसंश्वाञ्जलिपुटः करद्वयसंपुटः यस्यास्तादृशाम् । आसनासीन पीठोपविष्टाम् ! कान्तायाः प्रियाया अवन्तिसुन्दर्याः वृत्तान्तं कुशलोदन्तमपृच्छदनुयुयोज । तापस्य हृदयसंतापस्य शमनं शान्तिम् । अलभमाना न प्राप्नुवन्ती । वामनेन ह्रस्वपुरुषेण । खो ह्रस्वश्च वामनः ' इत्यमरः। तवोरःस्थलस्य वक्षसः आलिङ्गनेनाश्लेषेण जन्यं सौख्यम्। स्मरान्धतया कामासक्ततया । लिप्सुः प्राप्तुमिच्छन्ती । ' सनि मीमाधुरभलभ-' इतीस् । स्क्यमेव स्वहस्तकमलेनैव । पत्रिका पत्रम् । पपाठ वाचयामास । सुभगेति । हे सुन्दर ! कुसुमसुकुमारं पुष्पवन्मृदुलं जगदनवयं जगति लोकेऽनवा निर्दष्टं च ते तव रूपमाकृतिं विलोक्य समीक्ष्य मम मानसं चित्तम् अभिलषति त्वामेव प्राप्तुमिच्छति। त्वं भवांश्च तथा मत्कामनानुसारेण चित्तं मृदुलं माये सदयं कुरु विधेहि ॥ छायावत् प्रतिबिम्बमिव । मृगीदृशः कुरङ्गविलोचनायाः। वर्तसे प्राणभ्योऽप्यतिप्रिया त्वं तस्या इति भावः। तव चातुर्य कौशल्यमेव । अस्यां क्रियालतायामावयोः संयोजनकार्यरूपायां वल्ल्यामालवालमावापः । 'स्यादालवालमावापः' इत्यमरः । त्वचातुर्येणैवेदं संयोजनं जातमिति भावः । लोचनपथमवर्तत दृष्टिगोचरीभूता । अपहृतं मोषितं मदीयमानसं मचित्तं यया तादृशी जानाति वेत्ति । तस्य अनुरूपमन्तःपुरप्रवेशयोग्यम् । उपायं युक्तिम् । उपपाद्य विचार्य Nagitya । - 6 , সুজান। [पूर्वपीठिकाय? ज्यामि । मदुदन्तमेवमाख्याय शिरीषकुसुमसुकुमाराया यथा शरीरबाधा न जायेत तथाविधमुपायमाचर' इति । बालचन्द्रिकापि तस्य प्रेमगर्भितं वचन- माकर्ण्य संतुष्टा कन्यापुरमगच्छत् । राजवाहनोऽपि यत्र हृदयवल्लभावलाकेन सुखमलभत तदुद्यानं विरहविनोदाय पुष्पोद्भवसमन्वितो जगाम । तत्र चकोर- लोचनावचितपल्लवकुसुमनिकुरम्बं महीरुहसमूहं शरदिन्दुमुख्या मन्मथसमा राधनस्थानं च नताङ्गीपदपंक्तिचिह्नितं शीतलसैकततलं च सुदतीभुक्तमुक्तं माध- वीलतामण्डपान्तरपल्लवतल्पं च विलोकयल्ललनातिलकविलोकनवेलाजनितशे- पाणि स्मारंस्मारं मन्दमारुतकम्पितानि नवचूतपल्लवानि मदनाग्निशिखा इव चकितो दर्शदर्श मनोजकर्णेजपानामिव कोकिलकीरमधुकराणां कणितानि श्रावं श्रावं मारविकारेण कचिदप्यवस्थातुमसहिष्णुः पारिबभ्राम । तस्मिन्नवसरे धरणीसुर एकः सूक्ष्मचित्रनिवसनः स्फुरन्मणिकुण्डलमण्डितो मुण्डितमस्तकमानवसमेतश्चतुरवेषमनारमो यदृच्छया समागतः समन्ततोऽभ्यु- लसत्तेजोमण्डलं राजवाहनमाशीर्वादपूर्वकं ददर्श । राजा सादरम् ' को भवान् , कस्यां विद्यायां निपुणः' इति तं पप्रच्छ । स च 'विद्येश्वरनामधेयोऽहमैन्द्र- नताशी सङ्गमिष्यामि तया सह सङ्गतो भविष्यामि । आख्याय कथयित्वा । बालेतिर प्रेमगर्भितं स्नेहपरिपूर्णम् । 'प्रेमा ना प्रियता हार्दम्' इत्यमरः। आकर्ण्य श्रुत्वा । संतुष्टा प्रसन्ना सती । स्वकार्यस्य सिद्धप्रायत्वात् । विरहविनोदाय विरहखेदापनोदनार्थम् । तत्रोद्याने । चको- रलोचनया मृगाक्ष्याऽवचितं गृहीतं पल्लवानां किसलयानां कुसुमानां पुष्पाणां च निकुरम्बं संह- तिर्यस्मात्तादृशम् । मन्मथसमाराधनस्थानं कामपूजाप्रदेशम् । सुदत्याऽऽदौ भुक्तमनुभूतं पश्चान्मुक्त परिहृतं च । माधवीलतामण्डपस्यान्तरे मध्ये स्थितं पल्लवतल्पं किसलयशयनीयं चा विलोकयन्सादरं वीक्षमाणः । नवचूतपल्लवानि नूतनान्याम्रवृक्षस्य किसलयानि । 'आम्रचूतो. रमाल: स्यात् ' इत्यमरः। चकितो भीतः । दर्शदर्श पुनः पुनरवलोक्य । मनोजस्य कर्णेजपानां पिशुनानाम् 'कर्णेजपः सूचकः स्यापिशुनो दुर्जनः खलः' इत्यमरः । 'तत्पुरुषे कृति बहुलम् इत्यलुक् । कोकिलाः पिकाः, कीराः शुकाः, मधुकरा भ्रमराः एतेषां क्वणितानि कलरुतानि । वनप्रियः परमृतः कोकिलः पिक इत्यपि ' 'कीरशुको समौ'' मधुव्रतो मधुकरः' इत्यमरः । मारस्य कामस्य विकारण बाधया । पारबभ्राम इतस्ततो गच्छन्नेवातिष्ठत् । 'भ्रम अनवस्थाने। तस्मिन्निति । अवसरे परिभ्रमणकाले । धरणीसुरो ब्राह्मणः । सूक्ष्मं श्लक्ष्णं, चित्रं नाना- वणे रञ्जितं च निवसनमाच्छादनं यस्य तादृशः। 'सूक्ष्मं इलक्ष्णं दभ्रं कृशं तनु' 'चित्रकिर्मी- रकल्माषशबलेताश्च कबुरे' 'चैलं वसनमंशुकम्' इत्यमरः । स्फुरद्भया प्रकाशमानाभ्यां मणि- कुण्डलाभ्यां रत्ननिर्मितकर्णकटकाभ्यां मण्डितो भूषितः । 'कुण्डलं कर्णवेष्टनम् ' इत्यमरः । मुण्डितमपनीतकेशकं मस्तकं शिरो यस्य सः तादृशेन मानवेन केनचित्पुरुषेण समेतः सहितः । 'उत्तमाकं शिरः शीर्षे मूर्द्धा ना मस्तकोऽस्त्रियाम्' इत्यमरः । चतुरेण पेशलेन वेषेण आकल्पेन मनोरमः सुन्दरः। यदृच्छया दैववशात् । आशीर्वादः पूर्व यास्मिंस्तथा । निपुणः समर्थः । - ..

पञ्चमोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । जालिकविद्याकोविदो विविधदेशेषु राजमनोरञ्जनाय भ्रमन्नुज्जयिनीमद्यागतो ऽस्मि' इति शशंस । पुनरपि राजवाहनं सम्यगालोक्य ' अस्यां लीलावनी पाण्डुरतानिमित्तं किम् । इति साभिप्राय विहस्यापृच्छत । पुष्पोद्भवश्च निज- कार्यकारणं तर्कयन्नेनमादरेण बभाषे-' ननु सतां सख्यस्याभाषणतया चिरं रुचिरभाषणो भवानस्माकं प्रियवयस्यो जातः । सुहृदामकथ्यं च किमस्ति । केलीवनेऽस्मिन्वसन्तमहोत्सवायागताया मालवेन्द्रसुताया राजनन्दनस्यास्य चाकस्मिकदर्शनेऽन्योन्यानुरागातिरेकः समजायत । सततसंभोगसिद्धथुपाया भावेनासावीशीमवस्थामनुभवति ' इति । विद्येश्वरो लज्जाभिरामं राजकुमार- मुखमभिवीक्ष्य विरचितमन्दहासो व्याजहार- देव, भवदनुचरे मयि तिष्ठति तव कार्यमसाध्यं किमस्ति । अहमिन्द्रजालविद्यया मालवेन्द्र मोहयन्परिजनस- मक्षमेव तन्तनयापरिणयं रचयित्वा कन्यान्तःपुरप्रवेश कारयिष्यामीति वृत्तान्त एष राजकन्यकायै सखीमुखेन पूर्वमेव कथयितव्यः' इति । सन्तुष्टमना मही- पतिरनिमित्तं मित्रं प्रकटीकृतकृत्रिमक्रियापाटवं विप्रलम्भकृत्रिमप्रेमसहजसौ- हार्दवेदिनं तं विद्येश्वरं सबहुमान विससर्ज । कोविदः पण्डितः । विद्वान्विपश्चिद्दाषज्ञः सन्सुधीः कोविदो बुधः' इत्यमरः । राज्ञा मनसो रज्ज- नाय विनोदनाय । शशंस कथयामास 'शंसु स्तुतौ' । लीलावनी विहारदेशे। विलासास्पदे तव मुखे च पाण्डुरताया धूसरितत्वस्य वैवर्ण्यस्य च साभिप्रायं सव्याजमुभयानुयोगात् । विहस्य मन्द- हासं विधाय । निजकार्यस्यावन्तिसुन्दर्यन्तःपुरप्रवेशरूपस्य करणं साधकतमम्। तर्कयन्पर्यालोच- यन् । सतां सत्पुरुषाणां सख्यस्य मैत्र्याः आभाषणं पूर्व यस्य तादृशतया किश्चित्कालाभाषणेनैव सतां मैत्र्या जायमानत्वादिति भावः। अत्र च कालिदासः-'सम्बन्धमाभाषणपूर्वमाहुः' इति । चिरं बहुकालपर्यंत रुचिरं मञ्जुलं भाषणं कृतं येन तादृशः । अकथ्यं गोपनीयम् । अकस्मा- द्भवमाकस्मिकं यदृच्छाजातं, तादृग्दर्शने जाते सति । अन्योन्यं मिथः रागातिशयोऽनुरागोद्रेकः । समुदपद्यत समुत्पन्नोऽभूत् । सततं निरन्तरं तया सह यः संभोगस्तस्य सिद्धरुपायाभावेन युक्त्यनुपलम्भेन । ईदृशी विवर्णाननत्वादिरूपामवस्था दशामनुभवति भुङ्क्ते । लज्जयाऽभिरामं मनोहरम् । व्याजहार बभाष । भवतोऽनुचरे सहाये, मालवदेशानामिन्द्रं राजानं मानसारम् । मोहयन्ध्रममुत्पादयन् । पौरजनानां नगरवासिजनानां समक्षं प्रत्यक्षमेव । तत्तनयाया राजकु- मार्याः परिणयं पाणिग्रहणं रचयित्वा संसाध्य । कारयिष्यामि भवन्तमिति शेषः । कथयि- तव्यो निवेदनीयः। महीपती राजा राजवाहनः । अनिमित्तं मित्रं किंचित्प्रत्युपकारमनपेक्ष्यैव निबद्धस्नेहं सखायम् । प्रकटीकृतमाविष्कृतं कृत्रिमाक्रियायामैन्द्रजालिकविद्याप्रयोगे पाटर्व निपुणता येन तथाविधम् । विप्रलम्भं परकृतां प्रतारणां, कृत्या निवृत्तं कृत्रिमं प्रेमाणं स्नेहं, सहज स्वाभाविकं सौहार्द सख्यं वेत्ति विविच्यावगच्छतीत्येतादृशम् । 'डुकृञ् करणे' इत्यतः द्वितः वित्रः 'ओमनित्यम् ' इति सूत्राभ्यामुत्पन्नः कृत्रिमशब्दः । विससर्ज अमुञ्चत् । Came 0 । Pate Patia LING::mi-Mini---hinbivintimain কুঞ্জোবি। [पूर्वपीठिकायां अथ राजवाहनो विद्यश्वरस्य क्रियापाटवेन फलितमिव मनोरथं मन्यमानः पुप्पोद्भवेन सह स्वमान्दरमुपेत्य सादरं बालचन्द्रिकामुखेन निजवल्लभायै मही- सुरक्रियमाणं संगमोपाय वेदयित्वा कौतुकाकृष्टहृदयः 'कथामिमां क्षपां क्षपयामि इत्यातष्ठत् । परेधुः प्रभाते विद्येश्वरो रसभावरीतिगतिचतुरस्तादृशेन महता निज- परिजनेन सह राजभवनद्वारान्तिकमुपेत्य दौवारिकनिवेदितनिजवृत्तान्तः सहसो- पगम्य सप्रणामम् 'ऐन्द्रजालिकः समागतः' इति द्वाःस्थैर्विज्ञापितेन तदर्शन- कुतूहलाविष्टेन समुत्सुकावरोधसहितेन मालवेन्द्रेण समाहूयमानो विद्येश्वर:- 'कक्षान्तरं प्रविश्य सविनयमाशिषं दत्त्वा तदनुज्ञात: परिजनताड्यमानेषु वाद्येषु नदत्सु, गायकीषु मदकलकोकिलामजुलध्वनिषु, समधिकरागरञ्जितसामाजिक- मनोवृत्तिषु पिच्छिकाभ्रमणेषु, स परिवारं परिवृत्तं भ्रामयन्मुकुलितनयनः क्षण- मतिष्ठत् । तदनु विषमं विषमुल्बणं वमतः फणालंकरणा रत्नराजिनीराजित- राजमन्दिराभोगा भोगिनो भयं जनयन्तो निश्वेरुः गृध्राश्च बहवस्तुण्डैरहिपती- - - । अथेति । विद्येश्वरस्यैतन्नाम्न ऐन्द्रजालिकस्य । क्रियापाटवेन कर्मणि कौशल्येन । फलित सिद्ध मिव । महीसुरेण विप्रेण क्रियमाणं विधीयमानम् । सङ्गमोपायं संमेलनाय निर्धारितां युक्तिम् । वेदयित्वाऽवगमय । क्षपां रात्रिम् । 'त्रियामा क्षणदा क्षपा' इत्यमरः । क्षपयामि यापयामि आतियप्रतीतेः। अतिष्ठन्निद्रां विहायैव स्थितः, न तु निद्रामुपलेभे। परेयुः परस्मिन्दिने । प्रभाते कल्ये । ' रसाः शृङ्गारादयः, भावाः रत्यादिस्थायिभावाः, रीतिरैन्द्रजालिकविद्यायाः पद्धतिः पूर्वैराचारता, गतिः समयानुकूला प्रवृत्तिः एतासु चतुरो दक्षः। तादृशेन आत्मना तुल्येन। दौवारिकायों द्वाःस्थाय निवदितो कथितः निजवृत्तान्तो येन तादृशः । सहसोपगम्य सत्वरम- न्तिकं प्राप्य सप्रणामं नमस्कारपुरःसरम् । इन्द्रजालेन दीव्यतीत्येन्द्रजालिकः। ' तेन दीव्यति खनति जयति जितम्' इति ठक् । समुत्सुकैरवरोधैरन्तःपुरजनैः सहितेन । समाहृयमान आका- र्यमाणः । कक्षान्तरमन्तहम् । परिजनैः ताज्यमानेष्वाहन्यमानेषु वाद्येषु मुरजादिषु । नदत्सु शब्दायमानेषु सत्सु । गायकीषु गीतकारिणीवनितासु मदेन कला अव्यक्तमधुरस्वना याः कोकिलाः पिकाङ्गनास्तासामिव मञ्जुल: श्राव्यो ध्वनिः शब्दो यास तासु । समधिकरागै- नानावर्णविशेषै रजिता वशीकृता सामाजिकानां प्रेक्षकाणां सभ्यानां मनोवृत्तियैस्तथाविधेषु । 'सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते' इत्यमरः । पिच्छिकाया मयूरबर्हसमुदायानां भ्रमणेषु इतस्ततः संचालनेषु । स विद्येश्वरः । परिवारं परिजनवर्गम् । परिवृत्तमभितः । भ्राम- यन्पूर्णयन् । मुकुलिते निमीलिते नयने येन तथाविधः । अतिष्ठत् स्थितः । तदन्विति । ततोऽनन्तरम् । विषममुल्बणं विषं गरलं वमन्त उदिरन्तः । फणालंकरणा विस्तारितस्फटाः । स्फटायां तु फणा द्वयोः' इत्यमरः । रत्नराजिभिः शिरोरत्नश्रेणिभिनीराजितोऽत्यन्तं प्रका- शितो राजमन्दिराभोगो राजगृहोद्देशो यैस्तथाविधाः । भोगिनः सर्गः । उरगः पन्नगो भोगी' इत्यमरः । भयं भीति जनयन्त उत्पादयन्तो निश्चेनिश्चक्रमुः । गृध्रा दाक्षाय्याश्च । । ।

पञ्चमोच्छ्रासः] मनोरमाख्यव्याख्यासहितम्। ७१ नादाय दिवि समचरन् । ततोऽग्रजन्मा नरसिंहस्य हिरण्यकशिपोदैत्यश्वरस्य विदारणमाभिनीय महाऽऽश्चर्यान्वितं राजानमभाषत-'राजन् , अवसानसमये भवता शुभसूचकं द्रष्टुमुचितम् । ततः कल्याणपरम्परावाप्तये भवदात्मजाकाराया- स्तरुण्या निखिललक्षणोपेतस्य राजनन्दनस्य विवाहः कार्यः' इति । तदवलो. कनकुतूहलेन महीपालेनानुज्ञातः स संकल्पितार्थसिद्धिसंभावनासंफुल्लवदनः सकलमोहजनकमजनं लोचनयोनिक्षिप्य परितो व्यलाकयत् । सर्वेषु तदैन्द्र- जालिकमेव कर्म' इति साद्भुतं पश्यत्सु रागपल्लवितहृदयेन राजवाहनेन पूर्व- संकेतसमागतामनेकभूषणभूषिताङ्गीमवन्तिसुन्दरीं वैवाहिकमन्त्रतन्त्रनैपुण्येनाग्नि साक्षीकृत्य संयोजयामास । क्रियावसाने सति 'इन्द्रजालपुरुषाः, सर्वे गच्छन्तु भवन्तः' इति द्विजन्मनोच्चैरुच्यमाने सर्वे मायामानवा यथायथमन्तर्भावं गताः। राजवाहनोऽपि पूर्वसंकल्पितेन गूढोपायचातुर्येणैन्द्रजालिकपुरुषवत्कन्यान्तःपुरं विवेश ! मालवेन्द्रोऽपि तदद्भुतं मन्यमानस्तस्मै वाडवाय प्रचुरतरं धनं दत्त्वा विधेश्वरम् । इदानीं साधय ' इति विसृज्य खयमन्तमन्दिरे जगाम । ततोऽव- न्तिसुन्दरी प्रियसहचरीवरपरिवारा वल्लभोपेता सुन्दर मन्दिरं ययौ । एवं दैव- वक्त्रास्ये बदन तुण्ड ग १ । दाक्षाय्यगृध्रौ इत्यमरः । बहवोऽनेके । तुण्डैरास्यैः । इत्यमरः । अहिपतीन्भुजङ्गेन्द्रान भुजङ्गोऽहि जङ्गमः इत्यमरः । दिव्यम्बर समचरचुडीयन्ते स्म । अग्रजन्मा ब्राह्मणः । विदारणं मारणमभिनीयाभिनयपुरःसरं प्रकाश्य । महताऽऽश्चर्येण विस्मयेनान्वितं युक्तम् । 'आन्महतः समानाधिकरणजातीययोः' इत्यात्वम् । अवसानसमये इन्द्रजालसमाप्तिकाले । शुभसूचकं मङ्गलकारि किंचित् कलाकौशल्यम् । भव- दात्मजाया भवत्कन्याया आकार इवाकारः स्वरूपं यस्यास्ताश्यास्तरुण्या युवत्याः । अनुज्ञात: कृतानुमतिः । संकल्पितार्थस्याभीष्टकार्यस्य सिद्धिसंभावनया फलोत्पत्त्या संफुल्लवदनो विकसि. ताननः । सकलानां जनानां मोहजनकं भ्रमोत्पादकमजन कजलम् । निक्षिप्य विलिप्य। तत् राजकुमरयोर्विवाहरूपं कर्मापि । ऐन्द्रजालिकं माया निर्मितमेव । पश्यत्सु प्रेक्षमाणेषु । रागेणा- नुरक्त्या पल्लवितं विकसितं हृदयं यस्यैतादृशेन । पूर्वमेव बालचन्द्रिकाद्वारा कृतेन संकेतेन रहस्य- सूचनेन समागतामुपागताम् । वैवाहिकेषु विवाहयोग्येषु मन्त्रेषु तन्त्रेषु च नैपुण्येन प्रावीण्येन । संयोजयामास संयोगं कारयामास । क्रियायाः इन्द्रजालविद्याप्रयोगरूपाया अवसाने विरामे । उच्चैहनतस्वरेण । मायया निष्पन्ना मानवाः पुरुषाः । अन्तर्भावं गताः तिरोधानं संप्राप्ताः । पूर्व पुरैव संकल्पितेन मनसैवंकरणीयमिति निर्धारितेन । गूढे गुप्ते उपाये चातुर्येण चतुरतया । विवेश प्रविष्टवान् । 'विश प्रवेशने' । तदैन्द्रजालिकं कर्म । वाडवाय विप्राय । 'द्विजा- त्यमजन्मभूदेववाडवाः' इत्यमरः । प्रचुरतरमतिबहुलम् । विसृज्य गन्तुमनुज्ञाप्य । वल्लभेन पत्या राजवाहनेनोपेता युक्ता । मनोरथस्याभिलाषस्य साफल्यं सिद्धिमुपेतः संप्राप्तः । - ।

জুলাহালু [पूर्वपीठिका] मानुषवलेन मनोरथसाफल्यमुपेतोराजवाहनः सरसमधुरचष्टाभिः शनैः शनैहरिण लोचनाया लज्जामपनयन्सुरतरागमुपनयन रहा विश्रम्भमुपजनयन्संलापे तदनु- लापपीयूषपानलोलचित्रचित्रं चित्तहारिणं चतुर्दशभुवनवृत्तान्तं श्रावयामास ।। इति श्रीदण्डिनः कृतौ दशकुमारचरितेऽवन्तिसुन्दरीपरिणयो नाम पञ्चम उछासः। समातेयं दशकुमारचरितपूर्वपीठिका । हरिणलोचनायाः कुरङ्गाक्ष्या अवन्तिसुन्दर्या लजामपत्रपामपनयन्दुर्राकुर्वन् । सुरते संभोगे रागमासक्तिमुपनयन्नुत्पादयन् । रह एकान्ते विनम्भं विश्वासं चोपजनयन्संप्रापयन् । 'समौ विसम्मविश्वासी' इत्यमरः । संलापेऽन्योन्यभाषणे तस्या अनुलापो मुहुराभाषणं स एवं पीयूषममृतं तस्य पान आस्वादने लोलचञ्चलः। 'संलापो भाषणं मिथः ' 'अनुलापो मुहु- भाषा' 'पीयूषममृतं सुधा' इत्यमरः सर्वत्र । चित्रचित्रमत्यद्भुतम् । चित्तहाारणं मनसो रजकम् । चतुर्दशानामपि भुवनानां लोकानां वृत्तान्तं प्रवृत्तिं श्रावयामास बोधयामास । 'श्रु श्रवणे' णिजन्तालिट् ॥ इति दशकुमारचरितव्याख्यायां मनोरमाख्यायां पञ्चम उच्छ्वासः समाप्तः ॥ ५॥ समाप्ता चेयं पूर्वपीठिका। है श्रीः। दशकुमारचरितम्। हासयुक्तं यथातथा । 'स्यादाच्छारतकं हासः सोत्प्रासः स मनाक् स्मितम उत्तरपीठिकायाः प्रथमोच्यासः । श्रुत्वा तु भुवनवृत्तान्तमुत्तमाङ्गना विस्मयविकसिताक्षी सस्मितमिदमभाषत- दयित, त्वत्प्रसादाद्य मे चरितार्था श्रोत्रवृत्तिः । अद्य मे मनसि तमोऽपह- स्त्वया दत्तो ज्ञानप्रदीपः । पक्कमिदानीं त्वत्पादपद्मपरिचर्याफलम् । अस्य च त्वत्प्रसादस्य किमुपकृत्य प्रत्युपकृतवती भवेयम् । अभवदीयं हि नैव किंचि- न्मत्संबद्धम् । अथवास्त्येवास्यापिजनस्य क्वचित्प्रभुत्वम् । अशक्यं हि मदिच्छया विना सरस्वतीमुखग्रहणोच्छेषणीकृतो दशनच्छद एष चुम्बयितुम् । अम्बुजास- उत्तरपीठिकायाः प्रथम उल्लासः ॥ १॥ श्रुत्वेति । भुवनानां चतुर्दशानामपि जगतां वृत्तान्तमुदन्तं श्रुत्वा समाकर्ण्य । ' वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यात्' इत्यमरः । उत्तमा लोकातिशायिन्यङ्गना वनिताऽवन्तिसुन्दरी । अंगशब्दात् 'लोमादिपामादिपिच्छादिभ्यः शनेलचः' इति नप्रत्ययः । 'विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना' इत्यमरः । विस्मयेनाश्चर्येण विकासते अक्षिणी यस्यास्तादृशी सती 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाहात्पन्' इति षप्रत्ययः । षित्वान्ङीष् च । सस्मितं मन्द- अभाषतावोचत् । 'भाष व्यक्तायां वाचि'। दयित हे वल्लभ ! । 'दयिते वल्लभं प्रियम्' इत्य- भरः । तव प्रसादाद्वृत्तान्तकथनरूपादनुग्रहात् । अद्य अस्मिन्दिने । चरितार्था सफला जाता । श्रोत्रवृत्तिः कर्णव्यापारः । 'कर्णशब्दग्रही श्रोत्रं श्रुतिः स्त्री श्रदणं श्रवः' इत्यमरः । तमोs- ज्ञानरूपमन्धकारमपहन्ति निवारयतीति तमोऽपहः । ज्ञनप्रदीपो विवेकरूपो दीपः । 'अपे क्लेशत- मसोः' इति डप्रत्ययः। दत्तः समुद्दीपितः । पक्कं सिद्धम् । 'पचो वः' इति क्तप्रत्ययतकारस्य वकारः। परिचर्यायाः उपासानायाः फलम् । 'वरिवस्या तुशुश्रूषा परिचर्याऽप्युपासना' इत्यमरः। उपकृत्योपकारं विधाय । भवत इदं भवदीयम् । भवतष्ठक्छसौ' इति छस्प्रत्ययः । तन भवतीत्यभवदीयम् । मत्संबद्धं ममाधीनम् । राजवाहनेऽतिविस्रब्धत्वात्सहेलमाह-अथवेति । कचित् केषुचित्कार्येषु । प्रभुत्वं स्वामित्वम् । मदिच्छया विना ममानुमतिमन्तरेण । पृथग्विनाना- नाभिस्तृतीयाऽन्यतरस्याम्' इति तृतीया 'पृथग्विनाऽन्तरेणर्ते हिरुड्नाना च वर्जने ' इत्यमरः सरस्वत्या वाण्या मुखग्रहणेन वदनचुम्बनेनोच्छेषणीकृत उच्छिष्टः दशनच्छद एव भवदीयोऽय- मधरः । ' ओष्ठाधरौ तु रदनच्छदौ दशनवाससी ' इत्यमरः । चुम्बयितुमास्वादयितुम् । । । । REACHES Hiroinind - ज्यादागतैः भ्रमरनिचयैव्याकुलेन मिच्छबहे नपुंसके ' इत्यमरः । मधुकरकुलैः पुष्पसौग. दशकुमारचारितम् । [उत्तरपीठिकाया नास्तनतटोपभुक्तमुरःस्थलं चेदमालिशयितुम् ' इति प्रियोरसि प्रावृडिव नभ- युपास्तीर्णगुरुपयोधरमण्डला प्रौढकन्दलीकुड्मलमिव रूढरागरूषितं चक्षुरुल्ला- सयन्ती बाहिबर्दावली विडम्बयता कुलुमचन्द्रकशारेण मधुकरकुलव्याकुलेन केश- कलापन स्फुरदलणकिरणकेसरकरालं कदम्बमुकुलमिव कान्तस्याधरमणिमधीर- माचुचुम्ब । तदारम्भस्फुरितया च रागवृत्त्या भूयोऽप्यावर्ततातिमात्रचित्रोपचा- रशीफरो रतिप्रबन्धः । सुरतखेदसुप्तयोस्तु तयोः स्वप्ने बिसगुणनिगडितपादो जरठः कश्चिन्जालपादोऽदृश्यत । प्रत्यबुध्येतां चोभौ । अथ तस्य राजकुमारस्य कमलमूढशशिकिरणरजुदामनिगृहीतमिव रजतशृङ्खलोपगूढं चरणयुगलमासीत् । चुबि बक्त्रसंयोगे ‘णिजन्तात्तुमुन् । अम्बुजासनायाः पद्मालयायाः स्तनतटेन कुचाभोगेनो- पभुकमालिङ्गितम् । उःस्थलं भवदीयं वक्षःप्रदेशं च । आलिङ्गायितुमाश्लेषयितुम् । ' लिगि संगमे णिजन्तात्तुमुनत्रापि । इति अनेन प्रकारणालपन्ती । प्रियस्य हृदयवल्लभस्य राजवाहनस्थ उरसि वक्षसि । 'उरो वक्षं च वक्षश्च' इत्यमरः । विशेषणद्वयेन विष्णुरूपतया वर्णनाद्भाविसार्व- भौमत्वं द्योतितम् । प्राबद्धर्षा इव । नभस्याकाशे । 'नभोऽन्तरिक्षं गगनम्' इत्यमरः । उपास्तीर्ण विस्तारितं, गुरु पीनं च, पयोधरयोः स्तनयोः, पयोधराणां मेघानां च मण्डलमाभागः हश्च यया तादृशी सती । 'स्त्रीस्तनाब्दौ पयोधरौ' इत्यमरः । प्रौढा या कन्दली कदलीविशेषः तस्याः कुड्मलं मुकुलमिव । 'कुड्मलं मुकुलोऽस्त्रियाम् ' रूढेन प्रबुद्धेन रागेणानुरागेण रकिना व रूषितं व्याप्तम् । चक्षुर्नयनम् । उल्लासयन्ती विकासयन्ती । कुसुमानि पुष्पाणि चन्द्रका बहनेत्राणीव कुसुमचन्द्रकाः । ' समौ चन्द्रकमेचको ' इत्यमरः । तैः शरेण शबलेन । ' शबले मारुते शारः' इति विश्वः । अत एव बर्हिणां मयूरागां बर्दावली पिच्छश्रेणी विडम्बयता सरन्तोऽरुणा रक्ताश्च ये किरणा अधरमयूखासरास्ते केसराः किजल्का इव तैः करालं रूषितम् । किञ्जल्कः केसरोऽस्त्रियाम्' इत्यमरः । कदम्बस्य नीपवृक्षस्य मुकुलं कुड्मल- मिव । 'कदम्बनीपप्रियककदम्बास्तु हारप्रियः' इत्यमरः । अधीरं धाष्टथै विना । आचुचुम्ब आस्वादितवती । तदारम्भेति । तदारम्भेणाधरचुम्बनस्य प्रारम्भेण स्फुरितया समुद्दीप्तया रागवृत्त्याऽनुरागप्रसरेण । भूयः पुनरपि । अतिमात्रेणापरिमितेन चित्रोपचारेण वीटिकाप्रदानादि. नानाप्रकारेणोपचारेण शीफरो रमणीयः । 'शीफरः स्फीतरम्ययोः' इत्यजयः । रतिप्रबन्धः सुरतोत्सवः। सुरतखेदेन संभोगपरिश्रमेण सुप्त योनिद्रांगतयोः। स्वप्ने निद्राकाले । बिसगुणै, मृणालतन्तुभिर्निगडितौ बद्धौ पादौ यस्यैतादृशः । जरठो वृद्धः ! जालपादो हंसः । 'अथ शृंखले । अन्दुको निगडोऽत्री स्यात् ' ' तदस्य संजातं तारकादिभ्य इतच्' इतीतच् प्रत्ययः । 'जालपादः श्वेतगरुचक्राङ्गो मानसप्रियः' इति वैजयन्ती । अदृश्यत विलोकितः । प्रत्यबुभ्यतामजागारष्टाम् । प्रतिपूर्वात् । 'बुध अवगमने ' इत्यतो लङ् । कमलमूढः कमल- -to , Katariatvara प्रथमोच्छासः] मनोरमाख्यव्याख्यासहितम् । उपलभ्यैव च 'किमेतत्' इत्यतिपरित्रासविह्वला मुक्तकण्ठमाचक्रन्द राजकन्या । यन च तत्सकलमेव कन्यान्तःपुरमग्निपरीतमिव पिशाचोपहतमिव वेपमानमनि- रूप्यमाणतदात्वायतिविभागमगण्यमानरहस्यरक्षासमयमवनितलविप्रविध्यमान- गात्रमाक्रन्दविदीर्यमाणकण्ठमश्रुस्रोतोऽवगुण्ठितकपोलतलमाकुलीबभूव । तुमुले चास्मिन्समयेऽनियान्त्रतप्रवेशाः 'किं किम् ' इति सहसोपसृत्य विविशुरन्तर्वन शिकपुरुषाः । ददृशुश्च तदवस्थं राजकुमारम् । तदनुभावनिरुद्धनिग्रहेच्छास्तु सद्य एव ते तमर्थं चण्डवर्मणे निवेदयांचक्रुः । सोऽपि कोपादागत्य निर्दहन्निव दहनगर्भया दृशा निशाम्योत्पन्नप्रत्यभिज्ञः कथं स एवैष मदनुजमरणनिमित्त- भूतायाः पापाया बालचन्द्रिकायाः पत्युरत्यभिनिविष्टवित्तदर्पस्य वैदेशिकवणि- त्वेन संदेहमापन्नो यः शशी चन्द्रमास्तस्य किरणैर्मयूखैरेव जुदामभिः संदाननिगृहीतं निबद्धमिद । 'किरणोखमयूखांशुगभस्तिवृणिरश्मयः' 'न पुसि. दाम संदानम् ' इत्यमरः । रजतशृंखलया रूप्यनिगडेनोपगूढमावृतम् । 'दुर्वर्ण रजतं रूप्यं खजूरं श्वेतमित्यपि ' इत्यमरः । उपलभ्य विदित्वा । अतिपरित्रासेनोद्वेगेन विह्वला विवशा । मुक्तः कण्ठः यस्मिन्कर्मणि तद्यथा तथा। आचक्रन्द आक्रोशति स्म । 'ऋदि आह्वाने रोदने च' । येन याशेन रोदनेन । अग्निपरीतमनलावृतम् । वेपमान कम्पमानम् । तदात्वं तत्कालः, आयतिरुत्तरकालः, अनयो- विभागोऽनिरूप्यमाणो न निर्धार्यमाणो येन तथाविधम् । 'तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः' इत्यमरः । अगण्यमानो न चिन्त्यमानः केनाप्यन्तःपुरजनेन रहस्यरक्षायाः राज. वाहनावन्तिसुन्दरीसंगमरूपरहस्यगुप्तेः समयः येन तथाभूतम् । अवनितले भूदेशे विप्रविध्यमान विशेषणाहन्यमानं गात्रं वपुर्यन तादृशम् । अश्रुस्रोतसा बाष्पजलप्रवाहेण । 'रोदन चास्रमश्रु च ' 'स्रोतोऽम्बुसरणं स्वतः स्रोतोऽम्बुसरणं स्वतः' इत्यमरः । अवगुण्ठितं व्यापृतं कपोलतलं गण्ड- देशो यस्य तादृशम् । आकुलीबभूव व्याकुलमभूत् । अनाकुलमाकुलं भवति इत्यर्थे 'कृस्वस्ति- योगे संपद्यकरिचिः' इति च्चिप्रत्यये 'अस्य च्चौ' इतीदादेशः। तुमुले संकुले । अनिय- न्त्रितः न निवारितः प्रवेशो येषां तथाविधाः। किंकिमितीति । पृच्छन्त इति शेषः। विविशुः कन्यान्तःपुरमध्यं प्रविष्टाः । अन्तर्वशिकपुरुषा अवरोधाधिकारिणः । 'अन्तःपुरे त्वधिकृतः स्यादन्तर्वशिको जनः' इत्यमरः । तदवस्थं निगडितचरणयुगलम् । तस्य राजवा- हनस्यानुभावेन सामर्थ्येन निरुद्धा कुण्ठिता निग्रहे नियमने इच्छा येषां तथाविधास्सन्तः । सद्यस्तस्मिन्नेव क्षणे । “सद्यः सपदि तत्क्षणे' इत्यमरः । निवेदयांचकुर्विज्ञापयामासुः । सोऽपि. चण्डवर्माऽपि । निर्दहन्मस्मीकुर्वन्निव । दहनोऽग्निगर्भेऽन्तर्यस्यास्तादृश्या । निशाम्य दृष्ट्रा । जनीजकसुरक्षोऽमन्ताश्च' इत्यमन्तलक्षणतया प्राप्तमपि मित्त्वं ' शमोऽदर्शने' इति नियम- नान भवति । उत्पन्ना प्रत्याभज्ञा 'सोऽयम्' इत्याकारको दृष्टपूर्वत्वावगाही ज्ञानविशेषः यस्य तादृशः सन् । ममानुजस्य कनिष्ठभ्रातुर्दारुवर्मणो मरणस्य निधनस्य निमित्तभूतायाः। 'मरणं निधनोऽस्त्रियाम् ' इत्यमरः । पापमस्यामस्तीति पापा ' अर्शआदिभ्योऽच् ' इत्यच् । तस्याः ।

--- Are ७६ दशकुमारचरितम्। [ उत्तरपीठिकाया क्पुत्रस्य पुष्पोद्भवस्य मित्रं रूपमत्तः कलाभिमानी नैकविधविप्रलम्भोपायपाटवा- चार्जितमूढपौरजनमिथ्यारोपितवितथदेवतानुभावः कपटधर्मकञ्चुको निगूढपाप- शीलश्चपलो ब्राह्मणब्रुवः । कथमिवैनमनुरक्ता मादृशेष्वपि पुरुषसिंहेषु सावमाना पापेयमवन्तिसुन्दरी । पश्यतु पतिमद्यैव शूलावतंसितमियमनार्यशीला कुलपां- सनी ' इति निर्भर्त्सयन्भीषणभृकुटिदूषितललाटः काल इव काललोहदण्डकर्क- शेन बाहुदण्डेनावलम्ब्य हस्ताम्बुजे रेखाम्बुजरथाङ्गलाञ्छने राजपुत्रं सरभस- माचकर्ष । स तु स्वभावधीरः सर्वपौरुषातिभूमिः सहिष्णुतैकप्रतिक्रियां देवी- मेव तामापदमवधार्य ' स्मर तस्या हंसगामिनि, हंसकथायाः । सहस्व वासु, भासद्वयम् इति प्राणपरित्यागरागिणीं प्राणसमां समाश्वास्यारिवश्यतामयासीत् । अथ विदितवार्तावातौं महादेवीमालवेन्द्रौ जामातरमाकारपक्षपातिनावात्म- धूर्तायाः । 'पापो धूर्तस्तु वञ्चकः' इत्यमरः । पत्युर्धवस्य । 'धवः प्रियः पतिर्भर्ता' इत्यमरः । अत्यमिनिविष्टो नितरामुत्पन्नः वित्तदो द्रव्यमदो यस्य तादृशस्य । विदेशे भवो वैदशिकः। बहुचोऽन्तोदात्ताञ्' इति ठञ् । तादृशस्य वणिक्पुत्रस्य वैश्यकुमारस्य । मित्रं सुहृत् । बैकविधेषु नानाप्रकारेषु विप्रलम्भोपायेषु वञ्चनयुक्तिषु पाटवेन नैपुण्येनावर्जिता वशीकृता ये मूढा बुद्धिहीनाः पौरजना नगरवासिनस्तैः मिथ्या मुधैवारोपितः वितथोऽकिञ्चित्करो देवतानु- भावो देवमाहात्म्यं यस्मिन्नेतादृशः। कपटधर्मा एव कञ्चुकं यस्य तैराकृत इत्यर्थः । निगूढं गुप्तं यथातथा पापशील: पापनिरतः । चपलः स्त्रीषु लोलः । कुत्सितो ब्राह्मणो ब्राह्मणब्रुवः । कथमिव केन वा प्रकारेण । पुरुषाः सिंहा इव पुरुषसिंहास्तेषु । ' उपामितं व्याघ्रादिभिः सामा- न्याप्रयोगे' इत्युपमितसमासः । सावमानाऽवज्ञाकारणो । पश्यत्विति । अद्य सपद्येव । शूलावंतासितं लोहदण्डारोपितम् । अनार्यशीला दुःस्वभावा । कुलपसिनी कुलदूषिणी । 'पसिनः कुलदूषकः' इति वैजयन्ती । निर्भर्ल्सयस्तर्जयन् । भीषणाभ्यां भयानकाभ्यां भ्रुकुटिभ्यां दूषितं ललाटमलिकं यस्यैतादृशः । कालोऽन्तक इव । 'कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तक: इत्यमरः । काललोहदण्डः कालायसयष्टिरिव कर्कशः कठिनस्तेन । अवलम्ब्य गृहीत्वा । रेखा- रूपे अम्बुजं कमलं, रथाङ्गं चक्र, ते लाञ्छने ययोस्ते ।' चक्रं रथाङ्गम्' इत्यमरः । सरमस सवेगम् । आचकर्षाकृष्टवान् । स्वभावधौरः सहजगाम्भीर्ययुक्तः । सर्वस्य पौरुषस्य पराक्रम- स्यातिभूमिरधिष्ठानम् । सहिष्णुता सहनमेवैका मुख्या प्रतिक्रिया प्रतीकारो यस्यास्तादृशीम् । दैवी भाग्यवशाजाताम् । आपदं विपत्तिमवधार्य निश्चित्य । स्मर चिन्तय । हंस इव गच्छतीति हंसगामिनी तत्संबुद्धिः । 'अधीगर्थदयेशां कर्मणि' इति कथाशब्दात्षष्ठी । वासु हे बोले । 'अथ बाला स्याद्वासूः' इत्यमरः । प्राणपरित्यागेऽसुविसर्गे रागिणी कृतनिश्चयाम् । समाश्चास्य सान्त्वयित्वा । अरेः शत्रोचण्डवर्मणो वश्यतामधीनत्वमयासीद्गतः। या प्रापणे ' इत्यतो लुङ् । अथेति । विदितवातौं विज्ञातसमाचारौ । आतौ दुःखितौ । जामातरं स्वकन्यावल्लभम् । 'जमाता दुहितुः पतिः' इत्यमरः । आकारे राजवाहनस्य सौन्दर्ये पक्षपातिनौ पक्षपातका- .0 - । ।

प्रथमोच्छासः] मनोरमाख्यव्याख्यासहितम्। परित्यागोपन्यासेनारिणा जिघांस्यमानं ररक्षतुः । न शेकतुस्तु तमप्रभुत्वादुत्ता- रयितुमापदः । स किल चण्डशीलश्चण्डवर्मा सर्वमिदमुदन्तजातं राजराजगिरौ तपस्यते दर्पसाराय सदिश्य सर्वमेव पुष्पोद्भवकुटुम्बकं सर्वस्वहरणपूर्वकं सद्य एव बन्धने क्षिप्त्वा कृत्वा च राजवाहनं राजकेसरिकिशोरकमिव दारुपञ्जरनि- बद्धं मूर्धजजालविलीनचूडामणिप्रभावविक्षिप्तक्षुत्पिपासादिखेदं च तमवधूतदुहि- तृप्रार्थनस्याङ्गराजस्योद्धरणायाङ्गानभियास्यन्ननन्यविश्वासान्निनाय । रुरोध च बलभरदत्तकम्पश्चम्पाम् । चम्पेश्वरोऽपि सिंहवर्मा सिंह इवासह्यविक्रमः प्राकार भेदायित्वा महता बलसमुदायेन निर्गत्य स्वप्रहितदूतवाताहूतानां साहाय्यदाना- यातिसत्वरमापततां धरापतीनामचिरकालभाविन्यपि संनिधावदत्तापेक्षः साक्षा- दिवावलेपो वपुष्मानक्षमापरीतः प्रतिबलं प्रतिजग्राह । जगृहे च महति संपराये ७ . रिणौ ! आत्मपरित्यागोपन्यासेन 'यदि त्वमेनं शूलमारोप्य घातयिष्यसि तदा वयं न जीवितं धारयिष्यामः' इत्यादिकथनेन ! अरिणा शत्रुणा । जिघांस्यमानं हन्तुमिष्यमाणम् । 'हन हिंसा- गत्योः' इत्यतः सनि · अज्झनगमां सनि' इति दौर्षे च कर्मणि रूपम् । ररक्षतुः गोपया- मासतुः । अप्रभुत्वादाज्यस्य चण्डवाधीनतया स्वस्मिन्सामर्थ्याभावात् । उत्तारयितुमापदः विपदः सकाशादुद्धर्तुम् । चण्डशीलः दूरस्वभावः । उदन्तजातामदमत्रत्यं वृत्तान्तमखिलम् । राजराजस्य कुबेरस्य गिरी पर्वते कैलासे। राजराजो धनाधिपः' इत्यमरः । तपस्यते तपः कुर्वते । 'तपसः परस्मैपदं च ' इति क्यङ् परस्मैपदं च । संदिश्य दूतादिमुखेन विज्ञाप्य । सर्वस्वहरणपूर्वकं सर्वमप्यर्थजातमपहृत्य । बन्धने कारागृहे । कारा स्याद्वन्धनालयः इत्यमरः । क्षिप्त्वा प्रवेश्य । राजकेसरिकिशोर श्रेष्ठं सिंहबालकामव । सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः' इत्यमरः। दारुणा काष्टेन कृतायःपञ्जरं पशुपक्ष्यादिवन्धन- गृहं तस्मिन्निबद्धम् । मूर्धजजाले केशकलापे विलीनस्य गुप्ततया स्थापितस्य चूडामणे:- शिरोधार्यरत्नस्य मातङ्गपत्न्या कालिन्द्या दत्तस्य प्रभावेण महिन्ना विक्षिप्तो दूरीकृतः क्षुबुभुक्षा, पिपासा तृष्णा, एतदादीनां खेदः पीडा यस्य तथाभूतम् । अङ्गराजस्योद्धरणाय तदुन्मूलनाय । अनन्यविश्वासात् अन्येषु मालवेन्द्रतन्महिष्यादिषु विस्रम्भाभावात् । रुरोधेति अभियुक्तवान् । बलभरेण सैन्यबाहुल्येन दत्तः समुत्पादितः कम्मः येन तादृशः सन् । चम्पामङ्गदेशस्य प्रधानराजधानीम् । असह्यो चौरभिः क्षन्तुमशक्यः विक्रमः पौरुषं यस्य सः। प्राकारं नगरावरणभूतां भित्तिम् । 'प्राकारो वरणः साल: ' इत्यमरः । भेदयित्वा विदार्य । निर्गत्य नगराबहिरागत्य । स्वप्रहितरात्मना प्रेषितैः दूतव्रातः प्रेष्यवगैराहूतानामाकारितानाम् । साहाय्यदानाय युद्धे साहाय्यं कर्तुम् । आपततामागच्छताम् । धरापतीनां राज्ञाम् । अचिरकाल- भाविनि शीघ्रमेव जनिष्यमाणेऽपि सन्निधौ सामीप्ये । अदत्तापक्षः स्वभुजदात् प्रतीक्षाम- कुर्वाणः । अवलेपो गर्वः । अक्षमापरीतः क्रोधाविष्टः । प्रतिबलं चण्डवर्मणः शत्रोः सैन्यम् । प्रतिजग्राह निरोदुमुद्युक्तवान् 'ग्रह उपादाने' इत्यस्मालिट् । जगृह इति । महति तुमुलं यथा । ।

HAMARINA Diwali Pane as.ru ७ হঙ্গাবিষ্ণু। [उत्तरपीठिकार्या क्षीणसकलसैन्यामण्डलः प्रचण्डाहरणशतभिन्नमा सिंहवर्मा करिणः करिणमव- प्लुत्यातिमानुषमाणवलेन चण्डबर्मणा । स च तदुहितर्यम्बालिकायामबलारत्न- समाख्यातायामतिमात्राभिलापः प्राणैरेनं न व्ययूयुजत् । अपि त्वनीनयदपनी- ताशेषशल्यमकल्यसंधो बन्धनम् । अजीगणञ्च गणकसंधैः । अथैव झपावसाने विवाहनीया राजदुहिता' इति । कृतकौतुकमङ्गले च तस्मिन्नेकपिङ्गाचलात्प्र- तिनिवृत्त्यैणजङ्घो नाम जङ्घाकरिकः प्रभवतो दर्पसारस्य प्रतिसंदेशमावेदयत्-- * अयि मूढ, किमस्ति कन्यान्तःपुरदूषकेऽपि कश्चित्कृपावसरः । स्थविरः स राजा जराविलुप्तमानावमानचित्तो दुश्चरितदुहितृपक्षपाती यदेव किंचित्प्रलपति त्वयापि किं तदनुमत्या स्थातव्यम् । अविलम्बितमेव तस्य कामोन्मत्तस्य चित्र- वधवार्ताप्रेषणेन श्रवणोत्सवोऽस्माकं विधेयः । सा च दुष्टकन्या सहानुजेन तथा प्रवर्तमाने । संपराये संग्रामे। क्षीणं विनष्टं सकलं सैन्यमण्डलं सैनिकचक्रवालं यस्यैतादृशः। प्रचण्डैः कुरैः प्रहरणशतैरसंख्यैरायुधैर्भिन्नं विदीरितं मर्म सन्धिस्थानं यस्य तथाविधः । आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ' इत्यमरः । अवप्लुत्य उत्पत्य । अबलासु वनितासु रत्नत्वेन समाख्यातायां प्रसिद्धायाम् । अतिमात्रो गाढोऽभिलाषो यस्य ताशः । प्राणैरेनं व्ययूयुजत सिंहवाणं प्राणहीनं नाकरोत् किन्तु केवलं वन्धने स्थापयामास । विपूर्वात युजिर योगे' इत्यतो णिजन्ताल्लुङ् । अनीनयनाययति स्म । 'योञ् प्रापणे णिजन्ताल्लुङ् अपनीतानि दूरीकृतान्यशेषाणि शल्यानि बाणापाणि यस्मात्तादृशम् । अकल्यसन्धः सत्यप्रतिज्ञः। संघा प्रतिज्ञा मर्यादा 'इत्यमरः । बन्धनं कारागारम् । अजीगणञ्च गणितशास्त्रं विचार्य स्थापयामास । 'गण संख्याने' । 'ईच गणः' इतीत्वम् । गणकसंधैज्योतिर्विदृन्दैः। 'सांव- त्सरो ज्योतिषिको दैवज्ञगणकावपि' इत्यमरः । क्षपाया रात्र्या अवसानेऽन्त्यभागेश्व:प्रभात इति यावत् । विवाहनीया परिणेतुमहीं । राजदुहिता राजकन्या । कृतं विहितं कौतुकाय विवाहमहोत्सवाय मङ्गलं कङ्कणबन्धनादि येन तथाविधे सति । तस्मिंश्चण्डवर्मणि । एकपिङ्गस्य यक्षस्य कुबेरस्याचलात्कैलासात् । ‘यक्षकपिङ्गैलविलश्रीदपुण्यजनेश्वराः' इत्यमरः । प्रतिनि- वृत्य प्रत्यागत्य । जंघाकारकोऽतिशीघ्रगामी । 'जंघालोऽतिजवस्तुल्यो जंघाकारकजांघिको इत्यमरः । प्रभवतो राज्याधिकारिणः । प्रतिसंदेशं प्रत्युत्तरम् । आवेदयत्सूचयामास । यि संबोधने । कन्यान्तःपुरस्य अवरोधस्थकन्याजनस्य दूषके कलङ्कयितार। कृपाया दयाया अव- सरः । अस्ति किं ? नास्तीत्यर्थः । स्थविरो वृद्धः स मानसाराख्यः । जरया वाक्येन विलुप्तौ विनाशं गमितौ मानावमानौ यस्य तादृशं चित्तं यस्य तथाविधः । दुश्वारिता दुराचारा । ताह- श्यामपि दुहितार कन्यायां पक्षपाती आग्रहयुक्तः । यदेव किंचित्प्रलपति यत्किचित्प्रलापमनर्थकं कृतवांश्चेत् । प्रलापोऽनर्थकं वचः' इत्यमरः। अविलम्बितं शीघ्रमेव । 'सत्वरं चपलं तूर्ण- मविलम्बितमाशु च ' इत्यमरः । तस्य राजवाहनस्य । चित्ररूपेण नानाप्रकरण यो वधो मारणं तस्य वार्ताप्रेषणेन समाचारनिवेदनेन । श्रवणयोः कर्णयोरुत्सवः सन्तोषः मुहूर्त ।

-- । प्रथमोच्छसि] मनोरमाख्यव्याख्यासहितम् । कीर्तिसारेण निगडितचरणा चारके निरोद्धव्या' इति । तच्चाकर्ण्य प्रातरेव राजभवनद्वारे स च दुरात्मा कन्यान्तःपुरदूषकः संनिधापयितव्यः । चण्डपो- तश्च मातङ्गपतिरुपचितकल्पनोपपन्नस्तत्रैव समुपस्थापनीयः । कृतविवाहकृत्य- श्वोत्थायाहमेव तमनार्यशीलं तस्य हस्तिनः कृत्वा क्रीडनकं तदधिरूढ एव गत्वा शत्रुसाहाय्यकाय प्रत्यासीदतो राजन्यकस्य सकाशवाहनस्यावग्रहणं करिष्यामि' इति पार्श्वचरानवेक्षांचक्रे। निन्ये चासावहन्यन्यस्मिन्नुन्मिपत्येवोपारागे राजपुत्रो राजाङ्गणं रक्षिभिः । उपतस्थे च क्षरितगण्डश्चण्डपोतः । क्षणे च तस्मिन्मुमुचे तङ्घ्रियुगलं रजतशृङ्खलया । सा चैनं चन्द्रलेखाच्छविः काचिदप्सरा भूत्वा प्रदक्षिणीकृत्य प्राञ्जलिव्यजिज्ञपत्-- देवे, दीयतामनुग्रहार्द्र चित्तम् । अहमस्मि सोमरश्मिसंभवा सुरतमञ्जरी नाम सुरसुन्दरी ! तस्या मे नभसि नलिनलुब्ध- विधेयः उत्पाशः । निगडितौ शृंखलाबद्धौ चरणौ पादौ यस्याः सा चारके बन्धनालये । चारको बन्धनालयः' इति वैजयन्ती । निरोद्धव्या निग्रहातव्या । तच्चेति । दर्पसा- रस्य सन्देशवचनम् । आकर्ण्य श्रुत्वा । राजभवनस्य राजगृहस्य द्वारे प्रतीहारे । श्री द्वारं प्रतीहारः' इत्यमरः । स च दुरात्मा दुयो राजवाहनः । संनिधापनीयः उप- स्थाप्यः। मातङ्गपतिर्गजश्रेष्ठः । 'मातङ्गवारणमहामृग-' इति हैमः। उपचिताभिः सम्पूर्णाभिः कल्पनाभिर्गजसज्जीकरणैरुपपन्नो युक्तः । 'कल्पना सज्जना समे' इत्यमरः । तत्रैव राजगृहवार्येव ! कृतविवाहकृत्यः समाप्तपरिणयमङ्गलकार्यः । अनार्यशीलं दुःस्वभावं तं राजवाहनम् । हस्तिनः गजस्य । 'दन्ती दन्तावलो हस्ती' इत्यमरः । क्रीडनकं क्रीडासाधनभूतं वस्त्विव । शत्रोः सिंहवर्मणः साहाय्यकाय सहायतां विधातुम् । प्रत्यासीदतः समीपमागच्छतः । राजन्यकस्य राजवृन्दस्य । 'अथ राजकम् । राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् ' इत्यमरः । राज न्यशब्दात् ' गोत्रोक्षोष्ट्रोरभ्रराजराजन्यवत्समनुष्याजाद्रु' इति बुञ् । कोशेन धनसंचयेन वाह- नेन रथादिना च सहितस्य । अवग्रहणं बन्धनं करिष्यामि विधास्यामि । पार्श्वचराननुचरान् । अवेक्षांचक्रे सहेलमभिवीक्षांचके । निन्य इति । उपनीतः। असौ राजवाहनः । ‘णीञ् प्रापणे' इत्यस्य 'दुह्याच्यच् दण्डधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् । कर्मयुक्स्यादकाथित तथा स्यानीहकृष्वहाम्' इत्युक्त्या द्विकर्मकत्वात् : गौणे कर्माणि दुह्यादेः प्रधाने नोकृष्वहाम्' इति वचनानुरोधेन प्रधानकर्मणो राजपुत्रस्यात्राभिहितत्वात्प्रथमा ! उषोरागे प्राभातिके प्रकाशे उन्मिषति समुत्पद्यमान एव । राजाङ्गणं राजगृहस्य चत्वरम् । 'अङ्गणं चत्वराजिरे' इत्यमरः । रक्षिभिर्बन्धनालयाधिकारिभिः । उपतस्थ इति । समुपस्थित इत्यर्थः ' उपाद्देवपूजासङ्ग- तिकरणमित्रकरणपथिष्विति वाच्यम् ' इत्यात्मनेपदम् । क्षीरतो मदजलस्रावी गण्डः कटो यस्य तादृशः । मुमुचे निर्मुक्तमभूत् । 'मुच्ल मोक्षणे' इत्यतः कर्मणि लिट् । तस्य राजवाहन- स्थाघ्रियुगलं पादयुग्मम् । चन्द्रलेखाया इन्दुकलाया इव छविः कान्तिः यस्याः सा । 'स्युः प्रभारुशुचिस्त्विड्भाभाइछविद्युतिदीप्तयः' इत्यमरः । व्यजिज्ञपत्कथयामास । विपूर्वात 'ज्ञा मिच्च' इति ' चौरादिकण्यन्ताल्लुङ् । देव हे राजन् ! सोमरश्मेरेतन्नान्नो गन्धर्वात्संभवो जननं ।

* সুজ্জাস্থালে। [उत्तरपीठिकाया मुग्धकलहंसानुबद्धवक्त्रायास्तनिवारणक्षाभविच्छिन्नविगलिता हारयष्टिर्यदृच्छया जातु हैमवते मन्दोदके ममान्मनस्य महमार्कण्डेयस्य मस्तके मणिकिरणद्विगु- जितपलितमपतत् । पातितश्च कोपितेन कोऽपि तेन मयि शाप:--'पापे, भजस्व लोहजातिमजातचैतन्या सती ' इति । स पुनः प्रसाद्यमानस्त्वत्पादपद्म- द्वयस्य मासद्वयमात्रं संदानतामेत्य निस्तरणीयामिमामापदमपरिक्षीणशक्तित्व चेन्द्रियाणामकल्पयत् । अनल्पेन च पाप्मना रजतशृङ्खलीभूतां मामैक्ष्वाकस्य राज्ञो वेगवतः पौत्रः, पुत्रो मानसवेगस्य, वीरशेखरो नाम विद्याधरः शंकर- गिरौ समध्यगमत् । आत्मसात्कृता च नाहमासम् । अथासौ पितृप्रयुक्त- वैरे प्रवर्तमाने विद्याधर चक्रवर्तिनि वत्सराजवंशवर्धने नरवाहनदत्ते विरसाशय- स्तदपकारक्षमोऽयमिति तपस्यता दर्पसारेण सह समसृज्यत । प्रतिश्रुतं च तेन तस्मै स्वसुरवन्तिसुन्दाः प्रदानम् । अन्यदा तु वियति व्यवदायमानचन्द्रिके यस्यास्तादृशी । नभस्याकाशे । 'नभोऽन्तरिक्षं गगनम् ' इत्यमरः । नलिने कमले तद्भक्षण इति यावल्लुब्धो लोलुपः मुग्धः मूढो मदीयमेव मुखं यतः कमलं विचारितवान् एतादृशश्च यः कलहंसस्तेनानुबद्धं गृहीतं वक्र मुखं यस्यास्तादृश्याः । मुग्धः सुन्दरमूढयोः इत्यन मरः । तस्य कलहंसस्य निवारणे दूरीकरणे क्षोभेणायासेन विच्छिन्ना त्रुटिताऽतएव विगलिता प्रच्युता च हारयष्टिरकावली । जातु कदाचित् । हिमवति भवं हैमवतं तस्मिन्हैमवते . मन्दो. दके स्वल्पजलयुते स्वल्पसरसि । पूर्व मनः पश्चादुन्मनो बहिनिष्क्रान्तो मनोन्मनः एतादृशस्य । मस्तके मूर्ध्नि । मणिकिरण रत्नमयूखैः द्विगुणितं वर्धितं पलितं जरसा शौक्ल्यं यथा तथा। अपतत्पतिता । 'पल पतने' इत्यतो लङ् । कोपः सञ्जातोऽस्येति कोपितः तेन । तदस्य संजातं तारकादिभ्य इतच्' इतीतच्मत्ययः । तेन मार्कण्डेयेन । पापे हे दुराचारे! । भजस्व प्राप्नुहि । 'भज सेवायाम् ' । प्रसाद्यमानः प्रणामादिना संतोष्यमाणः । सन्दानता पादबन्धनत्वम् । 'सन्दानं पादबन्धनम्' इत्यमरः। एत्य प्राप्य । निस्तरणीयां निवारणी- याम् । इमामापदं शृंखलारूपप्रापकं शापम् । अपरिक्षीणाऽविनष्टा शक्तिः येषां तादृशत्वं पूर्व- कथाज्ञातृत्वमिति यावत् । अनल्पेन बहुलेन पाप्मना पापेन । ' अस्त्री पत पुमान्पाप्मा पाएँ किल्विषकल्मषे ' इत्यमरः । इक्ष्वाकोरपत्यं पुमानैक्ष्वाकः । तस्यापत्यम् ' इत्यर्थे ' जनपद: शब्दात्क्षत्रियाद ' इत्यजि 'दाण्डिनायनहास्तिनायन-' इत्यादिना निपातनादुलोपः । शंकगिरौ कैलासपर्वते । समध्यगमत् संप्राप्तवान् । 'गम्ल गतौ ' इत्यतो लुडि 'पुषादि' इत्यङ् । आत्मसात्कृता स्वायत्तीकृता। 'तदधीनवचने ' इति सातिप्रत्ययः । अथेति । अनन्तरम् । असौ वीरशेखरः। पित्रा मानसवेगेन प्रयुक्तमुत्पादितं वैरं विरसः कारुण्यरहित आशयोऽभिप्रायो यस्य सः । तस्य नरवाहनदत्तस्यापकारे वैरनिर्यातने क्षमः समर्थः । तपः करोति तपस्यति । 'तपसः परस्मैपदं च ' इति क्यच् । तादृशेन । सम- सृज्यत संगतोऽभूत् । प्रतिश्रुतं प्रतिज्ञातम् । स्वसुर्भगिन्याः । भगिनी स्वसा' इत्यमरः । । - । शत्रुता यस्यैतादृशे । andistringikaRARMERaeki.

बलात्मना मया पादपद्मयोयुगलं तव निगडयित्वा सरोषरभसमपासरत्। प्रथमोच्छवासः] मनोरमाख्यव्याख्यासहितम्। मनोरथप्रियतमामवन्तिसुन्दरी दिक्षुरवशेन्द्रियस्तदिन्द्रमन्दिरद्युति कुमारीपुरमु- पासरत् । अन्तरितश्च तिरस्करिण्या विद्यया । स च तां तदा त्वदङ्कापाश्रयां सुरतखेदसुप्तगात्री त्रिभुवनसर्गयात्रासंहारसंबद्धाभिः कथाभिरमृतस्यन्दिनीभिः प्रत्यानीयमानरागपूरां न्यरूपयत् । स तु प्रकुपितोऽपि त्वदनुभावप्रतिबद्धनिग्र- हान्तराध्यवसायः समालिङ्गथेतरेतरमत्यन्तसुखसुप्तयोर्युवयोर्दैवदत्तोत्साहः पाण्डु- अवसितश्च ममाद्य शापः। तच्च मासद्वयं तव पारतन्त्र्यम् । प्रसीदेदानीम् । किं तव करणीयम् ' इति प्रणिपतन्तीं 'वार्तयानया मत्प्राणसमा समाश्वासय इति व्यादिश्य विससर्ज। तस्मिन्नेव क्षणान्तरे 'हतो हतश्चण्डवर्मा सिंहवर्मदुहितुरम्बालिकायाः पाणि- स्पर्शरागप्रसारित बाहुदण्ड एव बलबदलम्ब्य सरभसमाकृष्य केनापि दुष्कर- कर्मणा तस्करेण नखप्रहारेण राजमन्दिरोद्देशं च शवशतमयमापादयन्नचकित- वियति गगने । व्यवदायमाना निर्मलतया प्रकाशमाना चन्द्रिका कौमुदी यल्मिस्तादृशे । 'दैप् शोधने ' इत्यतोऽव्यवपूर्वाच्छानच् । ' चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । द्रष्टुमिच्छर्दि- दृक्षुः । दृशेः सन्नन्तादुः। अवशानि न निगृहीतानि इन्द्रियाणि चक्षुरादीनि येनैतादृशः विषया- सक्तः इत्यर्थः । इन्द्रमन्दिरस्येव द्युतिः शोभा यस्य तत् । कुमारीपुरमवन्तिसुन्दा अन्त:- पुरम् । उपासरत्प्रविवेश । अन्तरितः प्रच्छन्नकायः। स वीरशेखरः। तामवन्तिसुन्दरीम् । तव अङ्क उत्संगे अपाश्रयः शिरोभागो यस्यास्तादृशीम् । 'उत्सङ्गचिह्नयोरङ्कः' इत्यमरः । अपाश्रयः शिरोभागः' इति वैजयन्ती च । त्रिभुवनस्य लोकत्रयस्य सर्गः सृष्टिः, स्थितिः, संहारो लयः, तत्संबद्धाभिरेतद्विषयाभिः । अमृतस्यन्दिनीभिः सुधालाविनीभिस्त- द्वदतिमधुराभिरिति यावत् । प्रत्यानीयमानः पुनरप्युत्पाद्यमानो रागपूरोऽनुरागप्रवाहो यस्या- स्तादृशीम् । न्यरूपयदवलोकयामास । स तु वीरशेखरः। प्रकुपितो स्टोऽपि । तवानुभावेन । प्राबल्येन प्रतिबद्धो निवारितः निग्रहे तव मारणादौ आन्तरो मानसिकोऽव्यवसाय उत्साहो यस्यैतादृशः सन् । समालिङ्गय समाश्लिष्य । दैवेन दत्तोत्साहनोरतः सन् । पाण्डुलोहशंखला रजतसन्दानं तदात्मना तद्रूपया । निगडयित्वा निबध्य । सरोषरभसं अमर्षेण वेगेन च समम् । अपासरनिर्गतवान् । अवसितः समाप्तः। षोऽन्तकर्मणि' 'यतिस्यतिमा-' इतीत्वेक्त- प्रत्यये । च रूपम् । पारतन्त्र्यं पराधीनता । प्रणिपतन्ती नमस्यन्तीम् । मत्प्राणसमामवन्तिसुन्दरी- मिति शेषः । व्यादिश्य नियोज्य । विससर्ज मुमोच । तस्मिन्निति । तादृशे एव प्रसङ्गे । हतो हत इत्यत्र संभ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः' इति वार्तिकेन द्विशक्तिः । पाणिस्पर्शाथै हस्तग्रहणाय रागेणानुरागण साकं यथा तथा प्रसारिते। बलवदवलम्ब्य हठादृहीत्वा । सरभसं वेगेन । दुष्करकर्मणा प्रचण्ड- कर्मकारिणा । तस्करण चोरेण । 'चोरैकागारिकस्तेनदस्युतस्करमोषकाः' इत्यमरः । शवशत- यात्रा । । । ।

" दशकुमारचरितम् । [उत्तरपीठिकार्या गतिरसौ विहरति । इति वाचः समभवन् । श्रुत्वा चैतत्तमेव मत्तहस्तिनमुद्- स्ताधारणो राजपुत्रोऽधिरुह्य रहसोत्तमेन राजभवनमभ्यवर्तत । स्तम्बरमरयाव- धूतपदातिदत्तवा च प्रविश्य वेश्याभ्यन्तरमभ्राभ्रनिर्घोषगम्भीरेण स्वरेणा- भ्यधात्-'कः स महापुरुषो येनैतन्मानुषमात्रदुष्करं महत्कर्मानुष्ठितम् । आग- च्छतु । मया सहेमं मत्तहस्तिनमारोहतु । अभयं मदुपकण्ठवर्तिनो देवदानवै- रपि विगृह्णानस्य ' इति । निशम्यैवं स पुमानुपोढहर्षो निर्गत्य कृताञ्जलिरा- क्रम्य संज्ञासंकुचितं कुञ्जरगात्रमसक्तमध्यरुक्षत् । आरोहन्तमेवैनं निर्वर्ण्य हर्षोत्फुल्लदृष्टिः 'अये, प्रियसखोऽयमपहारवमैव' इति पश्चान्निषीदतोऽस्य बाहु- दण्डयुगलमुभयमुजमूलप्रवेशितमप्रेऽवलम्ब्य स्वमङ्गमालिङ्गयामास । स्वयं च पृष्ठतो वलिताभ्यां मुजाभ्यां पर्यवेष्टयत् । तत्क्षणोपसंहृतालिङ्गनव्यतिकरश्चाप- । मयं बहुमृतकायप्रचुरम् । तत्प्रकृतवचने मयट्' इति मयट् । आपादयन्प्रकुर्वन् । अच- किताऽविकुण्ठिता गतिरितस्ततः संचारो यस्यैतादृशः । समभवन्समुत्थिताः । तमेव चण्ड- पोतनामानम् । मत्तहस्तिनं मत्तगजम् । उदस्तो नीचैः पातित आधोरणो हस्तिपको . येन तादृशः। 'आधोरणा हस्तिपका हस्त्यारोहा निषादिनः' इत्यमरः । राजपुत्रो राजवाहनः । अधिरुह्याधिष्ठाय । रंहसा वेगेन । 'रहस्तरसी तु रयः स्यदः । जवः ' इत्यमरः । अभ्यवर्तत आभिमुखमागतः। स्तम्बेरमो हस्ती । ' इभः स्तम्बरमः पद्मी ' इत्यमरः । 'स्तम्बकर्णयो रमिजपोः' इति अच्मत्ययः । ' तत्पुरुषे कृति बहुलम् ' इति सप्तम्या वैभाषिकोऽलुक् । तस्य रयेण वेगेनावधूतैर्निवारितः पदातिभिः पादातिकैजनैः दत्तं वितीर्ण वर्त्म मार्गो यस्मै तादृशः सन् । पदातिपत्तिपदगपादातिकपदाजयः' इत्यमरः । अयनं वर्म मार्गाच- पन्थानः पदवी मृतिः' इति च । वेश्माभ्यन्तरं राजभवनाभ्यन्तरम् । अदम्रो बहुलो योऽ- भ्रनिर्घोषः मेघध्वनिस्तद्वद्गम्भीरेण धीरतरेण । 'अदभ्रं बहुलं बहु' 'अभं मेघो वारिवाहः' इत्यमरः। अभ्यधादभिहितवान् । अभिपूवात 'डधाञ् धारणपोषणयोः' इत्यतो लुडि 'गातिस्था' इति सिचो लुकू । मानुषमात्रदुष्करं केनापि मनुजेन कर्तुमसाध्यम् । अनुष्ठितं विहितम् । ममोपकण्ठवर्तिनः समीपनिवासिनः । विगृह्णानस्य विग्रहं कुर्वतः । निशम्येति । श्रुत्वा । उपोढहर्षः प्रवृद्धानन्दः । संज्ञाभिः संकेतैः संकुचितं संकोचं प्राप्तिम् । कुञ्जरस्य हस्तिनो गात्रं शरीरम् । असक्तं निराबाधम् । अध्यक्षत आरूढवान् । “रुह बीजजन्मनि प्रादुर्भावे च ' इत्यतः शल इगुपधादनिटः क्सः' इति क्सः । निर्वर्ण्य सम्यग्दृष्ट्वा । 'निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् ' इत्यमरः । हर्षेण स्वमित्र- समागमजनितेनानन्देनोत्फुल्लदृष्टिः विकसितनयनः । प्रियश्चासौ सखा च प्रियसखः । 'राजाह:- सखिभ्यष्टच्' इति टच् । पश्चात्पृष्ठभागे निषीदत उपविशतः । उभयभुजयोः द्वयोर्बाहोः मूले तद्वारा प्रवेशितं विस्तारितमने पुरोभागेऽवलम्ब्य गृहीत्वा । वलिताभ्यां तिर्यकृता- भ्याम् । पर्यवेष्टयदालिङ्गितवान् । तदिति। तस्मिन्नेव क्षणेऽवसरे उपसंहृतः समापितः ।

। प्रथमोच्छासः] मनोरमाख्यव्याख्यासहितम् । हारवर्मा चापचक्रकणपकर्पणप्रासपाहशमुसलतोमरादिप्रहरणजातमुपयुञ्जानान बलावलिप्तान्प्रतिबलवीरान्बहुप्रकारायोधिनः परिक्षिपतःक्षितौ विचिक्षेप । क्षणेन चाद्राक्षीत्तदपि सैन्यमन्येन समन्ततोऽभिमुखमभिधावता बलनिकायेन परिक्षिप्तम्। अनन्तरं च कश्चित्कर्णिकारगौरः कुरुविन्दसवर्णकुन्तलः कमलकोमलपाणि- पादः कर्णचुम्बिदुग्धधवलस्निग्धनीललोचनः कटितटनिविष्टरत्ननखः पट्टनि- बसनः कृशाकृशोदरोरःस्थलः कृतहस्ततया रिपुकुलमिषुवर्षेणाभिवर्षन्पादांगुष्ठ- निष्ठुराववृष्टकर्णमूलेन प्रजविना गजेन संनिकृष्य पूर्वोपदेशप्रत्ययात् । अयमेव स देवो राजवाहनः' इति प्राजालः प्रणम्यापहारवमणि निविष्टदृष्टिराचष्ट-- त्वदाादिष्टेन मार्गेण संनिपातितमेतदङ्गराजसाहाय्यदानायोपस्थितं राजकम् । A आलिङ्गनव्यतिकरः समाश्लेषणव्यापारो येन सः । चापो धनुः । धनुश्चापो धन्वशरासन को दण्डकार्मुकम्' इत्यमरः । चक्रमायुधविशेषः ! 'चक्रं रथाङ्गे सेनायां छद्मन्यत्रान्तरेऽपि च इति भागरिः । ऋणप आयसस्तम्भः १ 'लोहस्तम्भस्तु कणापः' इति वैजयन्ती । कर्पणो बाणविशेषः । 'कुटिलाग्रस्तु कर्पणः' इति च वैजयन्ती ! प्रासः कुन्तः । पटिशोऽत्रभेदः । मुसलो धान्यकण्डनायुधम् । तोमरः शर्वला । इत्यादि प्रहरणजातमन्दम् । उपयुञ्जानान् प्रयुञ्जतः । बलेन शक्त्युद्रेकेण अवलिप्तान् गर्वितान् । बहुप्रकारं नानाविधं यथा तथा आयो- धिनो युद्धं कुर्वतः । क्षितौ भूम्याम् । विचिक्षेप पातयामास । समन्ततः पारतः । अभिधा- वताऽऽगच्छता । बलनिकायेन सैन्यसमूहेन । परिक्षिप्तं विद्रावितम् अनन्तरमिति । कार्णकारो द्रुमोत्पलः । अथ द्रुमोत्पल: । कर्णिकारः परिव्याधः इत्यमरः । तद्वद्गौरोऽवदातः । 'अवदातः सितो गौरः । इत्यमरः । कुरुविन्देन नीलरत्नन सवर्णाः सदृक्षाः कुन्तलाश्चिकुरा यस्य तादृशः। 'चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः' इत्यमरः । कमलमिव कोमलं सुकुमारं पाणिपादं यस्य सः। पाणी च पादौ च तेषां समाहार इति पाणिपादम् । 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ' इति प्राण्यङ्गत्वादेकवद्भावः । कर्णचुम्बिनी आकर्णमायते दुग्धधवले क्षीरवच्छुने स्निग्धे मसणे नीले मध्यदेशे कृष्णे च लोचने नयने यस्यैतादृशः । कटितटे श्रोण्युद्देशे निविष्टा स्थापिता इति यावत् । रत्नवत् स्थिता नखा: करहा यस्य । कृशमतिसूक्ष्ममुदरमकृशमतिपीनमुरःस्थलं वक्षश्च यस्य सः। कृतहस्ततया धनुर्विद्यायां निष्णाततया । 'कृतहस्तः सुप्रयोगविशिखः कृतपुंखवत् ' इत्यमरः । रिपुकुलं शत्रुवर्गम् । इषुवर्षेण शरवृष्टया । पादांगुष्ठाभ्यां निष्ठुरं कठिनं यथातथाऽवष्टं निपीडितं कर्णयोर्मूलं यस्य तेन । प्रजविनाऽतिवेगवता । गजेन मातङ्गेन । सनिकृष्य समीपमागत्य । पूर्वमेवापहारक्मणा कृतो य उपदेशो राजवाहनस्वरूपचिह्नादीनां प्रत्ययात्स्मरणात् । प्राञ्जलिरजलिबन्धयुतः। प्रणम्य नमस्कार विधाय । निविष्टा तदाभमुखं स्थापिता दृष्टियन तादृशः । आचट अभिहितवान् । 'वक्षिा व्यक्तायां वाचि' इत्यतो लङ् । सन्निपातितं समीपमानतिम् । अङ्गराजस्य सिंहवर्मण: साहाय्यदानाय युद्धे सहायतां विधातुम् । उपस्थितं तत्तद्देशादागतम् । राजकं राज्ञां समूहः । । ।

জুকাহিন্দ্রবিন্দু। [उत्तरपीठिकाया अरिबलं च विहितविध्वस्त श्रीबालहायशस्त्रं वर्तते । किमन्यत्कृत्यम् ' इति । हृष्टस्तु व्याजहारापहारवर्मा- देव, दृष्टिदानेनानुगृह्यतामयमाज्ञाकारः । सोऽय- मेव यमुना रूपण धनमित्राख्यया चान्तरितो मन्तव्यः स एवायं निर्गमय्य बन्धनादङ्गराजभपवार्जतं च कोशवाहनमेकीकृत्यास्मद्गृह्येणामुना सह राजन्य- प्राप्त केनैकान्ते सुखोपविष्टमिह देवमुपतिष्ठतु यदि न दोषः' इति । देवोऽपि “यथा ते रोचते' इति तमाभाष्य गत्वा च तन्निर्दिष्टेन मार्गेण नगराद्वहिरतिमहतो रोहिणद्रुमस्य कस्यचित्क्षौमावदातसैकते गङ्गातरङ्गपवनपातशीतले तले द्विरदा- दवततार । प्रथमसमवतीर्णेनापहारवर्मणा च स्वहस्तसत्वरसमीकृते मातङ्ग इव भागीरथीपुलिनमण्डले सुखं निषसाद । तथा निषण्णं च तमुपहारवर्मार्थपाल- प्रमतिमित्रगुप्तमन्त्रगुप्तविश्रुतमैथिलेन च प्रहारवर्मणा, काशीभा च कामपालेन चम्पेश्वरेण सिंहवर्मणा सहोपागत्य धनमित्रः प्रणिपपात । देवोऽपि हर्षाविद्ध- मभ्युत्थितः । कथं समस्त एष मित्रगणः समागतः को नामायमभ्युदयः' इति कृतयथोचितोपचारान्निर्भरतरं परिरभे। काशीपतिमैथिलाङ्गराजांश्च सुहृन्निवेदिता- पितृवदपश्यत् । तैश्च हर्षकम्पितपलितं सरभसोपगूढः परमभिननन्द । ततः प्रवृ- ७ । । गोत्रोक्षोष्ट्र-' इति बुञ् । अरेश्चण्डवर्मणो बलं सैन्यम् । स्त्रीभिरबलामिः बालैः शिशुभिरपि हार्यमाक्रष्टुमर्ह शस्त्र प्रहरणं यस्यैतादृशम् । हृष्टः प्रसन्नः स्वकार्यानुकूल्यसंपादनात् । व्याज. हार ब्रवीति स्म । देवेति ! आज्ञाकरः किङ्करः । अयमेव पुरो वर्तमान एव । अमुना रूपेण मद्रूपेण धनमित्राख्यया तन्नाम्ना च अन्तरितो द्विधा भिन्नः मन्तव्यो ज्ञेयः। अस्य मम च केवलं शरीरत एव भेदः, प्राणास्तु एकीभूता इत्यर्थः । निर्गमय्य मोचयित्वा। बन्धनात्कारागृहात् । इतस्ततो विक्षिप्तम् । कोशं धनसंचयं वाहनं रथादि सैन्यं च । एकीकृत्य संगृह्य । अस्माकं गृह्येण पक्षपातिना । 'गृह्यः पक्षस्थ उच्यते ' इति वैजयन्ती । राजन्यानां क्षत्रियाणां समूहो राजन्यकम् । 'अथ राजकम् । राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात्' इत्यमरः। 'गोत्रो- क्षोष्ट्र-' इत्यादिना वुञ् । तम् । देवमुपतिष्ठतु भवन्तं सेवितुमागच्छतु। ते प्रीयमाणः' इति संप्रदानता । तनिर्दिष्टेनापहारवर्मप्रदर्शितेन । रोहिणद्रुमस्य वटवृक्षस्य । 'न्यग्रोधो रोहिणो वटः' इति वैजयन्ती । क्षौमवढुकूलवदवदातो धवल: सैकतः वालुकामयप्रदेशो यस्मिंस्तादृशे । 'सिकताशर्कराभ्यां च ' इत्यण् । गङ्गातरङ्गाणाममरधुनीवीचीनां पवनस्य वायोः पातेन शीतले तले वृक्षाधादेशे । द्विरदादस्तिनः । 'दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः' इत्यमरः । अवततारावरोहाते स्म । स्वहस्ताभ्यामपहस्ताभ्यां सत्वरमाशु समीकृते समतां प्राषिते । मातङ्ग इव गजवदुन्नत इत्यर्थः । भागीरथ्या गङ्गायाः पुलिनमण्डले तोयोत्थि- तपुञ्ज । निषसादोपविवेश । तथेति । निषण्णमुपविष्टम् । तं राजवाहनम् । मैथिलेन मिथिला- धिपतिना। धनमित्रो मित्रमपहारवर्मणः। प्रणिपपात नमश्चकार । अम्युत्थितोऽभिमुख- मुद्गतः। अभ्युदयः भाग्यपरम्परा । निर्भरतरं गाढम् । परिरेभे आलिङ्गितवान् । सरभसोपगूढः तुभ्यम् 'रुच्यर्थानां ।

6 द्वितीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । तासु प्रीतिसंकथासु प्रियवयस्यगणानुयुक्तः स्वस्य च सोमदत्तपुष्पोट्टेवयाश्चरि- तमनुवर्ण्य सुहृदामपि वृत्तान्तं क्रमेण श्रोतुं कृतप्रस्तावस्तांश्च तदुक्तावन्वयुक्त । तेषु प्रथमं प्राह स्म किलापहारवर्मा-- इति श्रीदण्डिनः कृतौ दशकुमारचरिते राजवाहनचारतं नाम प्रथम उच्छासा द्वितीयोच्छ्यासः ॥२॥ 'देव, त्वयि तदावतीर्णे द्विजोपकारायासुरविवरं त्वदन्वेषणप्रसृते च मित्रगणे अहमपि महीमटन्नङ्गेषु गङ्गातटे बहिश्चम्पायाः ‘कश्चिदस्ति तपःप्रभावोत्पन्नदि- व्यचक्षुर्मरीचिर्नाम महर्षिः ' इति कुतश्चित्संलपतो जनसमाजादुपलभ्यामुतो बुभुत्सुस्त्वद्गतिं तमुद्देशमगमम् । न्यशामयं च तस्मिन्नाश्रमे कस्यचि पोत- कस्य छायायां कमप्युद्विग्नवर्ण तापसम् । अमुना चातिथिवदुपचरित: क्षणं विश्रान्तः ‘कासौ अगवान्मरोधिः, तस्मादहमुपलि सुः प्रसङ्गप्रोषितस्य सुहृदो तानन्दमाश्लिष्टः । परमभिननन्द सन्तोषस्य परां काष्टामाप ! तत इति । प्रवृत्तासु प्रसङ्गा- स्कृतासु । प्रीतिसंकथासु प्रियालापगोष्टीषु । अनुयुक्तः पृष्टः । अनुवर्ण्य कथयित्वा । वृत्तान्तं वार्ताम् । तदुक्तौ स्वस्वचरिताख्याने । अनुयुक्त प्रेरितवान् । प्राह स्मावदत् । ब्रूज व्यक्तायां बाचि' इत्यतो लटि 'ब्रुवः पञ्चानामादित आहो ब्रुवः ' इति णल आहादेशश्च इति स्मयोगे भूतेऽपि लट् ॥ इति दशकुमारचरितव्याख्यायां मनोरमाख्यायामुत्तरपीठिकायां प्रथम उच्छ्वासः समाप्तः ॥१॥ अथोत्तरपीठिकायां द्वितीय उच्छासः॥२॥ देवेति । हे राजन् । त्वयि भवति राजवाहने । तदा तस्यां निशायाम् । अवतीर्णे कृत- प्रवेशे । द्विजोपकाराय मातङ्गनाम्नो विप्रस्योपकृतये। असुरविवरं पाताललोकम् । तवान्वेष- गाय मार्गणाय प्रसृते विभज्य नानादेशं प्रविष्टे । मित्रगणे सुहृद्ध । अहमपहारवर्माऽपि । महीं भुवमटन्परिभ्रमन् । चम्पाया अझदेशप्रधानराजधान्याः। तपःप्रभावेण तपोमहिन्ना उत्पनं दिव्यचक्षुर्ज्ञाननेत्रं यस्यैतादृशः । संलपतो मिथो भाषमाणात् । जनसमाजालोकनिवहात् । उपलभ्य ज्ञात्वा । अमुतो मरीचिमहर्षेः। अदश्शब्दात 'पञ्चम्यास्तसिल ' इति तसिल । बुभुत्सुरवगन्तुकामः । 'वुध अवगमने सन्नन्तादुः । तव गति मार्गम् । उद्देशं स्थानम् । अगमं गतवान् । 'गम्ल गतौ' लुङ् । लदित्त्वादङ् । न्यशामयं दृष्टवांश्च । निपूर्वात् 'शम लक्ष आलो- चने' इत्यतो णिचि लङि रूपम् । 'शमोऽदर्शने' इति दर्शने पर्युदस्तत्वान मित्त्वम् । चूतपो- तकस्य बालाम्रवृक्षस्य । आम्रवतो रसालोऽसौ सहकारोऽतिसौरभः' पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः' इत्यमरः । छायायामनातपे देशे। उद्विग्नवणे विगतमुखशो- भम् । तापसं मुनिम्। उपचरितः सत्कृतः । क्षणं किंचित्कालपर्यन्तम् । 'कालाध्वनोरत्यन्त- संयोगे' इति द्वितीया । उपलिप्सुरुपलब्धुं ज्ञातुमिच्छुः। प्रसङ्गेन कारणवशेन प्रोषितस्य प्रवासं १ ।

R - সুজুলাংম্বাবলু। [ उत्तरपीठिकार्या गतिम्, आश्चर्यज्ञानविभवो हि स महर्षिर्मला विश्रुतः' इत्यवादिषम् । अथासा- दुष्णमायतं च निःश्वस्याशंसत-* आसीताशो मुनिरस्मिन्नाश्रमे । तमेकदा काममा जरी नामाङ्गपुरीवतंसस्थानीया वारयुवतिरश्रुविन्दुताराकितपयोधरा सनि- वैदमभ्येत्य कीर्णशिखण्डास्तीर्णभूमिरभ्यवन्दिष्ट । तस्मिन्नेव च क्षणे मातृप्रमुख स्तदाप्तवर्गः सानुक्रोशमनुप्रधावितस्तत्रैवाविच्छिन्नपातमपतत् । स किल कृपा- लुस्तं जनमाया गिराश्वास्यार्तिकारणं तां गणिकामपृच्छत् । सा तु सवीडेव सविषादेव सगौरैवेव चाब्रवीत् । भगवन् ! ऐहिकस्य सुखस्याभाजनं जनोऽय- मामुष्मकाय श्वोवसीयायार्ताभ्युपपत्तिवित्तयोर्भगवत्पादयोर्मूलं शरणमभिप्रपन्नः' इति । तस्यास्तु जनन्युञ्जलिः पलितशाराशिखण्डबन्धस्पृष्टभुक्तभूमिरभाषत- 'भगवन्, अस्या मे दोषमेषा वो दासी विज्ञापयति। दोषश्च मम स्वाधिकारानुष्ठा- पनम् । एष हि गणिकामातुरधिकारो यहुहितुर्जन्मनः प्रभृत्येवाङ्गक्रिया, तेजोबलवर्णमेधासंवर्धनेन दोषाग्निधातुसाम्यकृता मितेनाहारेण शरीरपोषणम्, गतस्य । आश्चर्यकारको ज्ञानस्य विभवो महिमा यस्यैतादृशः । स मरीचिः । विश्रुतः प्रख्यातः। अवादिषमुक्तवान् । अथेति । असौ चूतवृक्षाधोवर्ती तापसः । आयतं दीर्घ यथा तथा । अशं- सत कथयति स्म । तादृशस्त्वदुक्तप्रकारेण दिव्यचक्षुः। एकदा कदाचित् । अङ्गपुर्याश्चम्पानगर्या अवतंसस्थानीयाऽलंकारायमाणा । वारयुवतिर्गणिका । 'वारनी गणिका वेश्या रूपाजीवा' इत्यमरः। अश्रुबिन्दुभिर्नेत्रजलपृषद्भिः । पृषन्तिबिन्दुपृषताः पुमांसो विपुषः स्त्रियाम् । इत्यमरः । तैस्तारकितौ व्याप्तौ पयोधरौ कुचौ यस्याः सा । तारकाः सजाता अनयोरिति तारकिती तदस्य संजातं तारकादिभ्य इतच् ? इतीतच् । 'स्त्रीस्तनाब्दौ पयोधरौ' इत्यमरः । सनिर्वेद विरक्त्या साकम् । अभ्येत्य तस्य मरीचेः समीपमागत्य । कीर्णेन विक्षिप्तेन शिखण्डेन केशक- लापेनास्तीर्णा पिहिता भूमिययतादृशी सती । अभ्यवन्दिष्ट प्राणसीत् । तस्मिन्नेवेति । मातृप्रमुखो जनन्यादिः । तस्याः काममञ्जर्या आप्तवर्गों बन्धुजनः । सानुक्रोशं सदयम् । 'कृपा दयाऽनुकम्पा स्यादनुक्राशोऽपि' इत्यमरः । अनुप्रधावितः पश्चात्त्वरितमागतः । आर्द्रया सकृपया । गिरा वाण्या । आश्वास्य सान्त्वायित्वा । आर्तिकारणं दुःखनिमित्तम् । अपृच्छत पृष्टवान् । 'प्रच्छ ज्ञोप्सायाम् ' इत्यस्य 'अहिज्या-' इति संप्रसारणम् । सब्रीडा सलज्जा । सविषादा खिन्ना । इह भूलाके भवमैहिकम् । अभाजनं न पात्रीभूतः । अमुष्मिन्स्वर्गलोके भवमामुष्मिकं तस्मै श्वोवसीयाय कल्याणाय । श्व:श्रेयसं स्कात्कल्याणं चोवसीयं शिवं शुभम् इति हलायुधः । आर्तानां पीडितानामभ्युपपत्त्या परिपालनेन वित्तयोः ख्यातयोः । शरणमभि- प्रपन्नः रक्षकत्वेनाश्रितवान् । जननी माता । उदञ्जलिरूर्वीकृतकरयुगला । पलितेन वार्धक्य- धवलतया शारः कर्बुरो यः शिखण्डबन्धः केशसंहतिस्तेनादौ स्पृष्टा पश्चान्मुक्ता भूमिर्यया तादृशी सती । 'पूर्वकालैकसर्व-' इति समासः । वो दासीति । काममजर्या इदानीं भवदा- श्रयत्वादिति भावः । स्वस्य वेश्याजनस्य योऽधिकार उपरि वक्ष्यमाणः तस्यानुष्ठापनं प्रवर्तनम्। दुहितुः कन्यायाः । अङ्गक्रिया अवयवानां सुष्टुतया स्थापनम् । दोषा वातादयस्त्रयः, अग्नि- द्वितीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । आपञ्चमाद्वर्षात्पितुरप्यनतिदर्शनम्, जन्मादने पुण्यदिने चोत्सवोत्तरो मङ्गल- विधिः, अध्यापनमनङ्गविद्यानां साङ्गानाम् , नृत्यगीतवाद्यनाट्यचित्रास्वाद्यगन्ध- पुष्पकलासु लिपिज्ञानवचनकौशलादिषु च सम्यग्विनयनम् , शब्दहेतुसमयवि- द्यासु वार्तामात्रावबोधनम् , आजीवज्ञाने क्रीडाकौशले सजीवनिर्जीवासु च द्यूतकलास्वभ्यन्तरीकरणम् , अभ्यन्तरकलासु वैश्वासिकजनात्प्रयत्नेन प्रयोग- ग्रहणम् , यात्रोत्सवादिप्वादरप्रसाधितायाः स्फीतपरिबहायाः प्रकाशनम् , प्रसन ङ्गवत्या संगीतादिप्रियायां पूर्वसंगृहीतैाह्यवाग्भिः सिद्धिलम्भनम् , दिङ्मुखेषु तत्तच्छिल्पवित्तकैर्यशःप्रख्यापनम् , काान्तिकादिभिः कल्याणलक्षणोद्धोषणम्, पीठमर्दविटविदूषकैभिक्षुक्यादिभिश्च नागरिकपुरुषसमवायेषु रूपशीलशिल्प- सौन्दर्यमाधुर्यप्रस्तावना, युवजनमनोरथलक्ष्यभूतायाः प्रभूततमेन शुल्केनावस्था- . रादरिकः, धातवः सतनाड्यः एतेषां साम्यमन्यूनानतिरिक्तत्वं करोतीति तथाविधेन ! मितेन नातिबहुना । आपञ्चमात्पञ्चमायालः प्रकृति । उत्सवोत्तर उत्सवप्रधानः । उद्धव उत्सवः' इत्यमरः । अध्यापन पाठनम् । अनविज्ञान कामशास्त्राणाम् । आस्वाद्यकला मोदकादिभक्ष्यपाकः । पुष्पकला माल्यादीनां विचित्रतया प्रथनम् ! बिनयानं शिक्षणम् । शब्द- विद्या व्याकरणम् । हेतुविद्या तर्कशास्त्रम् । समयविद्या ज्योतिषशास्त्रम् । 'समयाः शपथावार- कालसिद्धान्तसंविदः' इत्यमरः । वार्तामानावबोधनं संग्रहेण सारांशमात्रशिक्षणम् । आजीवज्ञाने जीवनोपायचातुर्ये । ' आजीवो जीविका वार्ता ' इत्यमरः । क्रीडाकौशले नर्मकेलिनैपुण्ये ।। द्रवकेलिपरीहासाः क्रीडा खेला च कूर्दनम् ' इत्यमरः । सजीवाः कुक्कुटादयः, निर्जीवाः पाशकादयः तद्रूपासु । अभ्यन्तरीकरण मर्मज्ञत्वेन विनयनम् । अभ्यन्तरकलासु रतिक्रीडाकाले अवयवस्पर्शनादिषु । ' साऽभ्यन्तरकला यत्तु स्पृश्याङ्गस्पर्शनं रतौ' इति वात्स्यायनः । वैश्वासिकः आप्तजनः । प्रयोगग्रहणमितिकर्तव्यताज्ञापनम् । प्रसाधितायाः भूषितायाः । 'प्रसााधताऽलंकृतश्च भूषितश्च परिष्कृतः' इत्यमरः । स्फीतः प्रचुरः परिबों राजाहच्छत्र- चामरादिवस्तुनिवहो यस्यास्तथाभूतायाः । 'परिवाँ नृपाहेऽर्थे ' इत्यमरः । प्रसङ्गवत्यां प्रसङ्गाज्जातायाम् । पूर्वमेव संगृहीतर्धनदानादिना वशीकृतैः । ग्राह्याऽऽप्तत्वबुद्धयाऽऽदरणीया वाक् येषां तैः । सिद्धेः स्वकार्यसिद्धेः लम्भनं प्रापणम् । तत्तच्छिल्पवित्तकैर्नानाविध- कलासु विख्यातैः। 'प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः' इत्यमरः । कान्तिको हस्तरेखादिलक्षणज्ञानवान् । 'कार्तान्तिको लक्षणज्ञः इत्यमरः । कल्याणानि शुभकराणि अस्या लक्षणानि इत्युद्धोषणं प्रख्यापनम् । पीठमर्दो मानिनीनां प्रसाधकः । ' पीठमर्दोऽतिधृष्टे स्यानाटयोक्त्यां नायकप्रिये' इति विश्वः । विटष्षिद्गः । षिद्गः पाल्लविको विटः' इत्यमरः। विदुषको हास्यरसोलादकः। विकृताङ्गवचोवेषैस्यिकारी विदूषकः' इति रसरत्नहारः भिक्षुकी तापसी । ' श्रमणा भिक्षुकी मुण्डा' इति हैमः ।' भिक्षुः परिव्राट् कर्मन्दी पाराश- यपि मस्करी' इत्यमरश्च । समवायेषु समूहेषु । ' समवायश्चयो गणः' इत्यमरः । लक्ष्यभू. । म লাহিল। [उत्तरपीठिकायां पनम् , स्वतो रागान्धाय तद्भावदर्शनोन्मादिताय वा जातिरूपवयोऽर्थशक्ति- शौचत्यागदाल्यदाक्षिण्यशिल्पशीलमाधुर्योपपन्नाय स्वतन्त्राय प्रदानम्, अधिक- गुणायास्वतन्त्राय प्राज्ञतमायाल्पेनापि बहुव्यपदेशेनार्पणम् , अस्वतन्त्रेण वा गान्धर्वसमागमेन तद्गुरुभ्यः शुल्कापहणम् , अलाभेऽर्थस्य कामस्वीकृते स्वामि- न्याधिकरणे च साधनम्, रक्तस्य दुहित्रैकचारिणीव्रतानुष्ठापनम् , नित्यनैमित्ति- कप्रीतिदायकतया हृतशिष्टानां गम्यधनानां चित्ररुपायैरपहरणम् , अददता लुब्धप्रायेण च विगृह्यासनम्, प्रतिहस्तिप्रोत्साहनेन लुब्धस्य रागिणस्त्याग- शक्तिसंधुक्षणम् , असारस्य वाक्संतक्षणैर्लोकोपक्रोशनैर्दुहितनिरोधनौंडो- त्पादनैरन्याभियोगैरवमानैश्चापवाहनम् , अर्थदैरनर्थप्रतिघातिभिश्चानिन्धैरिभ्यः रनुबद्धार्थानर्थसंशयान्विचार्य भूयोभूयः संयोजनामिति । गणिकायाश्च गम्य प्रति लज्जतैव न सङ्गः । लत्यामपि प्रतिौ न मातुर्मातृकाया वा शासनाति- वृत्तिः । एवं स्थितेऽनया प्रजापतिविहितं स्वधर्ममुल्लङ्घय कचिदागन्तुके रूपमात्र- ताया विषयीभूतायाः । प्रभूततमेनातिभूयसा । शुल्केन देयद्रव्येण । उन्मादिताय जात. चित्तविक्षेपाय । दाक्षिण्यमुदारता 'दक्षिणे सरलोदारौ ' इत्यमरः । माधुर्य मृदुभाषिता । अस्वतन्त्रः पित्राद्यधीनश्चेत्तस्मै अल्पेनापि स्वल्पमेव धनं गृहीत्वा समापि बहुव्यपदेशेन तदन्यनिकटे अस्मात्पुरुषादधिकमेतावत्परिमितं गृहीतमस्माभिः इति ख्यापनपूर्वकं समर्प- णम् । तद्गुरुभ्यः युवजनपित्रादेः सकाशात् । शुल्कापहरणं भर्त्सनादिपुरःसरं द्रव्यग्रहणम् । स्वीकृते वशीकृते । अधिकरणे न्यायालयादौ । साधनं व्यवहारकरणम् । एकचारिणीव्रतं पातिव्रत्यम् । गम्या विटाः 'गम्यो विटः पाल्लविको भुजङ्गः' इति भागुरिः। चित्रैर्नाना- प्रकारैरुपायैयुक्तिभिः । अददता न प्रयच्छता । विगृह्य विरोधं कृत्वा । 'प्रतिहस्ती प्रातिवेश्यः। इति वैजयन्ती । लुब्धस्य कृपणस्य । त्यागशक्तेरौदार्यस्य संधुक्षणमुद्दीप्तीकरणम् । असारस्य दरिद्रस्य । वासंतक्षणैः परुपैचोमिः । लोकानां जनानामुपक्रोशनैर्निन्दाभिः । ' उपक्रोशस्तु गर्हणम्' इति वैजयन्ती । ' उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे' इत्यमरः । दुहितुः कन्याया निरोधनैः शयनगृहगमनप्रातेबन्धनैः । ब्रीडा लज्जा । अन्याभियोगैः इतरजनप्रेर- णाभिः । अपवाहनं गृहाद्वहिर्यापनम् । अर्थदैर्धनप्रदानशीलैः । अनर्थप्रतिघातकैः संकटनिवा- रकैः । इभ्यैधनिकैः । इभ्य आन्यो धनी स्वामी ' इत्यमरः । अनुबद्धाः तादृशधानिकसंब- न्धिनो ये अर्थानान्प्रयोजनाप्रयोजनानि । विचार्य सम्यङ् निर्णीय । भूयोभूयो वारंवा. रम् । गम्यं विटपुरुषं प्रति ! 'गम्यो विटः पाल्लविको भुजङ्गः' इति भागुरिः । सज्जतव सन्नाह- मात्रम् । मातृका मातामही । 'मातुर्माता तु मातृका' इति वैजयन्ती । शासनातिवृत्तिराज्ञो लंघनम् । एवमिति । अनया काममञ्जरीनाम्न्या मढहित्रा । प्रजापतिविहितं विधिबोधितम् । स्वधर्म गणिकाधर्मम् । उल्लंध्य दूरीकृत्य । रूपमेव रूपमात्रम् ‘मात्रं कात्स्न्येऽवधारणे' इत्यमरः । E ।

द्वितीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । me Mind 'धने विप्रयूनि स्वेनैव धनव्ययेन रममाणया मासमात्रमत्यवाहि । जनश्च भूयानर्थयोग्यः प्रत्याचक्षाणयानया प्रकोपितः । स्वकुटुम्बकं चाव- सादितम् एषा कुमतिर्न कल्याणो' इति निवारयन्त्यां मयि वनवासाय कोपात प्रस्थिता । सा चेदियमहानिश्चया सर्व एष जनोऽत्रैवानन्यगतिरनशनेन संस्था- स्यते' इत्यरोदीत् । अथ सा वारयुवतिस्तेन तापसेन ‘भद्रे ! ननु दुःखाकरोऽय वनवासः। तस्य फलमपवर्गः स्वर्गो वा । प्रथमस्तु तयोः प्रकृष्टज्ञानसाध्यः प्रायो दुम्संपाद एव, द्वितीयस्तु सर्वस्यैव सुलभः कुलधर्मानुष्ठायिनः । तदशक्यारम्भा- दुपरम्य मातुर्मते वर्तस्व' इति सानुकम्पमभिहिता ' यदीह भगवत्पादमूलमशर- णम, शरणमस्तु मम कृपणाया हिरण्यरेता देव एव इत्युदमनायत । स तु मुनिरनुविमृश्य गणिकामातरमवदत्---'संप्रति गच्छ गृहान् । प्रतीक्षस्व कानि चिदिनानि यावदियं सुकुमारा सुखोपभोगसमुचिता सत्यरण्यवासव्यसनेनोद्वे- जिता भूयोभूवश्चास्माभिर्विवाध्यमाना प्रकृतावेव स्थास्यति' इति । ' तथा' नतु रूपातिरिकं किश्चिद्धनमस्ति यस्य तादृशे । विप्रयूना ब्राह्मणतरुणेन ! धनव्ययेन द्रव्य- विनियोगेन । अत्यवाहि अतिवाहितम् । 'वह प्रापणे ' लुटि कर्मणि रूपम् । प्रत्याचक्षाणया प्रत्याख्यायंत्या । प्रकोपितः नितरां क्रोधयुक्तः कृतः । कुटुम्बकं गृहजनः । अवसादितं द्रव्यो- पार्जनोपायं परित्यज्य पुर्जितं च मासेनैकेन विनाश्य संकटे स्थापितम् । कुमतिविपरीता बुद्धिः । न कल्याणी न श्रेयस्करी ! साचेति । अहार्यनिश्चया दृढमतिः । अत्रैव भवदाश्रम एव । संस्थास्यते मरणं प्राप्स्यति । ' संस्थानं मरणं मतम् ' इति वैजयन्ती । 'टा गतिनिवृत्ती इत्यस्य संपूर्वकत्वे ' समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । अरोदीत् अश्रुविसर्जनं कृतवती । । रुदिर् अश्रुविमोचने ' । अथेति । सा काममंजरी। तेन तापसेन मरीचिनाना ( मयेति यावत् ) । भद्रे हे कल्याणि ! । दुःखाकरः अनिष्टोत्पादकः 'दुःखात्प्राति- लोम्ये ' इति डाच् । अपवर्गो मोक्षः । “ मुक्तिः कैवल्यनिर्वाणश्रेयोनिश्रेयसामृतम् । मोक्षोऽपवर्गः ' इत्यमरः । प्रथमो मोक्षः । प्रायः बाहुल्येन । दुःसंपादो दुर्लभ एव । द्वितीयः स्वर्गः । अशक्यः कष्टदायितया दुःसाध्यो य आरम्भो वनवासोद्योगस्तस्मात् । उपरम्य विवृत्ता भूत्वा । सानुकम्पं दयया सह । 'कृपा दयाऽनुकम्पा स्यात् ' इत्यमरः । अभिहिता प्रोक्ता । अशरणं रक्षकं न स्यात् । 'शरणं गृहरक्षित्रोः' इत्यमरः । कृपणाया: आर्तायाः । हिरण्यरेता अग्निः । हिरण्यरेता हुतभुग्दहनो हव्यवाहनः' इत्यमरः । यदि भवताऽहं परित्यक्ता भविष्यामि ततोऽनौ प्रविश्यातूंस्त्यक्ष्ये इति तात्पर्यम् । इति 'ब्रुवन्ती' इति शेषः । उदमनायत दुःखितचित्ता संजाता। 'कर्तुः क्यङ्ग सलोपश्च' । इति क्यङ् सलोपौ । अनुविमृश्य किंचित्कालं पर्यालोच्य ! संप्रत्यधुना । गृहान निजमन्दिरम् । 'गृहाः खुसि च भूम्न्येव निकाय्यानलयालयाः' इत्यमरः। प्रतीक्षस्त्र प्रतिपालय । सुकुमारा मृद्गी सुखोपभोगायानन्दानुभवाय समुचिता योग्या । सतीत्यस्य उद्वेजितेत्यनेन सहान्वयः । प्रकृती .4 .. ।

सैव कालेनान्वर जयत् । एकदा च रहसि रक्तं तमुपलक्ष्य मूढः खलु लोको হাজানি । [ उत्तरपीठिका इति तस्याः प्रतियाते स्वजने सा गणिका तषिमलघुभक्तिधौतोद्गमनीयवासिनी नात्यातशरीरसंस्कारा वनतरूपोतालवालपूरणैर्देवतार्चनकुसुमाञ्चयावचयप्रयासै- नैकाविकल्पोपहारकर्मभिः कामशासनार्थे च गन्धमाल्यधूपदीपनृत्यगीतवाद्यादिभिः क्रियाभिरेकान्ते च त्रिवर्गसंबन्धिनीभिः कथाभिरध्यात्मवादैश्चानुरूपैरल्पीय- । । यत्सह धर्मेणार्थकामावपि गणयति' इति किंचिदस्मयत । 'कथय वासु, केना- शेनार्थकामातिशायी धर्मस्तवाभिप्रेतः' इति प्रेरिता मरीचिना लज्जामन्थरमार- भताभिधातुम्---'इतः किल जनाद्भगवतस्त्रिवर्गवलाबलज्ञानम् । अथवैतदपि प्रकारान्तरं दासजनानुग्रहस्य । भवतु, श्रूयताम् । ननु धर्मादृतेऽर्थकामयोरनु- त्पत्तिरेव । तदनपेक्ष एव धर्मों निवृत्तिसुखप्रसूतिहेतुरात्मसमाधानमात्रसाध्यश्च । खधर्मे । प्रतियाते परावृत्य गते। स्वजने मात्रादिवन्धुवर्ग। अलधुरतिदृढा भक्तिर्यस्यास्तादृशी। धौते प्रक्षालिते उद्गमनीये वस्त्रे वस्ते परिधत्ते इति धौतोगमनीयवासिनी 'वस आच्छादने तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोयुगम्' इत्यमरकोशेन धौतशब्दमन्तराऽप्युक्तार्थसिद्धौ पुनौं- तशब्दः करिकलभन्यायेन केवलवस्त्रपरम् । यथाच-' कलभः कार शावकः' इति कलभशब्दस्य कारजन्यशिशौ शक्तिसत्त्वेऽपि उभयप्रयोगे करिजन्यत्वरूपविशेषणपरित्यागेन केवलबालत्वरूप- विशेष्यपरत्वम् । “विशिष्टवाचकानां पदानां सति विशेषणवाचकपदसमवधाने विशेष्यमा- अपरत्वम् । तरूपोतो बालवृक्षः 'पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः' इत्यमरः । आलवाले जलाधारे पूरणैः जलसेचनैः । कुसुमोच्चयस्य पुष्पपुञ्जस्यावचयो लवनम् । नैकवि- कल्पैः नानाप्रकारैः उपहारकर्मभिः बलिकर्मभिः । कामशासनार्थे श्रीमहादेवार्थम् । एकान्ते रहसि । त्रिवर्गो धर्मार्थकामाः ‘त्रिवर्गो धर्मकामाथुश्चतुर्वर्गः समोक्षकैः । अध्यात्मवादेर्वेदान्तविचारैः । अन्वरजयत् स्वस्मिन्ननुरागं तस्य मरीचेर्जनयामासेत्यर्थः । एकदेति । कस्मिंश्चिदहनि । रक्तमनुरागयुक्तम् । तं मरीचिम् । उपलक्ष्य ज्ञात्वा । मूढोऽ- ज्ञानावृतः । खलु निश्चयेन । सह धर्मेण पुरुषार्थत्वरूपसाधर्येण धर्मसमानश्रेण्याम् । गणयति विचारयति । अस्मयत स्मितं कृतवती । मिङ् ईषद्धसने । वासु हे बाले । ' अथ बाला स्याद्वासूः' इत्यमरः । केनांशेन कीदृशोत्कृष्टगुणांशेन । अर्थकामातिशायी तदपेक्षयोत्कृष्टः । प्रेरिताऽनुयुक्ता। आरभतोपक्रान्तवती । अभिधातुमर्थकामापेक्षया धर्मस्योत्कर्षमुपन्यस्तुम् । इतो जनात् मादृशाल्लोकातू । त्रिवर्गस्य धर्मार्थकामानां बलाबलज्ञानमुत्कर्षापकर्षावगतिः। एत- दपि अज्ञवनियोजनमपि । दासजनेषु योऽनुग्रहः कृपा तस्य प्रकारान्तरं रीत्यन्तरम् । धर्माइते धर्ममन्तरेण । 'पृथग्विनान्तरेणर्ते हिरुड्नाना च वर्जने ' इत्यमरः । 'अन्यारादितरते-' इति पञ्चमी । अनुत्पत्तिरेव नैव तौ अर्थकामौ स्वयं धर्म विनोत्पन्नौ भवत इति भावः। निवृत्तिसुखस्य मोक्षज्ञानस्य प्रसूतावुत्पत्तौ हेतुः कारणीभूतः । आत्मनो मनसो यत्समाधानं निग्रह ऐकाय्यमिति यावत् । तन्मात्रेण साध्यः संपादनीयः। 'आत्मा यत्नो धृतिबुद्धिः स्वभावो ब्रह्म वर्म च इत्यमरः । .

द्वितीयोच्छ्वासः] मनोरमाख्यव्याख्यासहितम् । सोऽर्थकामवद्वाह्यसाधनेषु नात्यायतते । तत्त्वदर्शनोपबृंहितश्च यथाकथंचिदम्य नुष्टीयमानाभ्यां नार्थकामाभ्यां बाध्यते । बाधितोऽपि चाल्पायासप्रतिसमाहित स्तमपि दोषं निहत्य श्रेयसेऽनल्पाय कल्पते । तथाहि पितामहस्य तिलोत्तमाभि- लापः, भवानीपतेमुनिपत्नीसहस्रसंदूषणम्, पद्मनाभस्य षोडशसहस्रान्तःपुर- विहारः, प्रजापतेः स्वदुहितर्यपि प्रणयप्रवृत्तिः, शचीपतेरहल्याजारता, शशा- कस्य गुरुतल्पगमनम्, अंशुमालिनो वडवालङ्घनम्, अनिलस्य केसरिकलत्रसमा गमः, बृहस्पतेरुतथ्यभार्याभिसरणम् , पराशरस्य दाशकन्यादूषणम् , पाराशर्यस्य भ्रातदारसंगतिः, अत्रेम॑गीसमागम इति । अमराणां च तेषु तेषु कार्येप्वासुर- विप्रलम्भनानि ज्ञानबलान्न धर्मपीडामावहन्ति । धर्मपूते च मनसि नभसीव न जातु रजोऽनुषज्यते । तन्मन्ये नार्थकामौ धर्मस्य शततमीमपि कलां स्पृशतः' इति । श्रुत्वैतषिरुदीर्णरागवृत्तिरभ्यधात्-~'अयि विलासिनि, साधु पश्यसि न इत्यमरः । बाह्यसाधनेषु लौशिकसामग्रीषु । नात्यायतते अत्यन्त कष्टं नोत्पादयतीति भावः । 'यती प्रयत्ने' तत्त्वदर्शनेन वास्तविकतत्त्वविचारेण ! उपबंहितो वृद्धि गमितः । 'बृह बृहि वृद्धौ । न बाध्यते प्रतिहतो न भवति । प्रतिसमाहितः विन्नशान्ति गमितः निहत्य दुरीकृत्य । श्रेयसेऽनल्पाय अत्युत्कृष्टनिश्रेयसपदप्राप्तिरूपकल्याणाय । कल्पते समर्थो भवति । सामर्थे । 'क्लपि संपद्यमाने च ' इति चतुर्थी ! तथा हीति । येषां पितामहादीनां धर्मोऽ. थकामाभ्यां प्रतिहतोऽपि पुनरल्पायासेन पूर्वप्रकृति गमितः सन् निरतिशयसुखप्राप्तिहेतुरभूक्ते उदाहरिष्यन्ते इति भावः । भवानीपतेर्महादेवस्य । संदूषणं गमनम् । पद्मनाभस्य श्रीकृष्णा- वतारस्य विष्णोः । स्वदुहितरि निजकन्यायामेव । प्रणयेनानुरागेण प्रवृत्तिगमनायोद्योगः । शचीपत्तेः सहस्राक्षस्य । अहल्याजारता गौतमधर्मपत्नीदूषकत्वम् । ' जारस्तूपपतिः समौ' इत्यमरः । गुरोः बृहस्पतेः । तल्पं स्त्री । 'तल्पं शय्यादृदारेषु' इत्यपि । अंशुमालिनः सूर्यस्य । वडवाऽश्वयोषा । अनिलस्य वायोः केसरिकलत्रेण तन्नामवानरनार्याऽजनाभिधया साकं समागमः।- 'कलत्रं श्रोणिभार्ययोः' इत्यमरः । उतथ्यस्य तन्ननो निजज्येष्ठभ्रातुः। दाशकन्या धीवर. दुहिता योजनगन्धाभिधा तस्या दूषणम् । 'कैवर्ते दाराधीवरौ' इत्यमरः । पाराशर्यस्य पराशरपुत्रस्य व्यासस्य । 'व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः' इत्यमरः । पराशर- स्थापत्यं पाराशर्यः' गर्गादिभ्यो यज्' इति यञ् । भ्रातुर्विचित्रवीर्यनानो दारैः पत्नीभिरम्बिका- दिभिः । अमराणां च देवानामपि । आसुरविप्रलम्भनानि अकृत्याचरणानि । ' अकृत्याचरण यत्तदासुरं विप्रलम्भनम्' इत्यजयः । ज्ञानस्य बलादाधिक्यात् । धर्मस्य पीडामुपघातम् । आवहन्त्युत्पादयन्ति । पूते परिशुद्धे । 'पवित्रः प्रयतः पूतः इत्यमरः । नभस्याकाशे। रजो रजोगुणः पांसुगणश्च । जातु कदापि नानुषज्यते संसृष्टं न भवति । “षज संगे' तन्मन्ये तस्मात्कारणादहं साधारणया मदीयबुद्धया विचारयामि । कलां न स्पृशत इति । अर्थकामौ शतांशेनापि धर्मसादृश्यं नैव प्राप्नुत इति भावः । उदीर्णरागवृत्तिः संजातकामा- ।

९२ স্কুঞ্জলাঞ্জন্ধুি? [ उत्तरपीठिकार्या । धर्मस्तत्त्वदाशिनां विषयोपभोगेनोपरुध्यत इति । किंतु जन्मनः प्रभृत्यर्थकामवा- निभिज्ञा वयम् । ज्ञेयौ चेमौ किंरूपी 'किंपारीवारी किंफलौ च' इति । सा त्ववादीत---'अर्थस्तावदर्जनवर्धनरक्षणात्मकः, कृषिपाशुपाल्यवाणिज्यसंधिविन- हादिपरिवारः, तीर्थप्रतिपादनफलश्च । कामस्तु विषयातिसक्तचेतसोः स्त्रीपुंसयो- निरतिशयसुखस्पर्शविशेषः । परिवारस्त्वस्य यावदिह रम्यमुज्ज्वलं च । फलं पुनः परमाह्नादनम् , परस्परविमर्दजन्म, स्मर्यमाणमधुरम् , उदीरिताभिमानम- नुत्तमम् , सुखमपरोक्षं स्वसंवेद्यमेव । तस्यैव कृते विशिष्टस्थानवर्तिनः कष्टानि तपांसि, महान्ति दानानि, दारुणानि युद्धानि, भोमानि समुद्रलङ्घनादीनि च नराः समाचरन्ति' इति । निशम्यैतन्नियतिबलान्नु तत्पाटवान्नु स्वबुद्धिमान्द्यान्नु स्वनियममनादृत्य तस्यामसौ प्रासजत् । सा सुदूरं मूढात्मानं च तं प्रवहणेन नीत्वा पुरमुदारशोभया राजवीथ्या स्वभवनमनैषीत् । अभूच्च घोषणा 'श्वः कामोत्सवः' इति । उत्तरे द्युः वातानुलिप्तमारचितमझुमालमारब्धकामिजनवृत्तं भिलाषः । अयीत्यामन्त्रगे। साधु पश्यसि तत्त्वांशं सम्यग जानासीत्यर्थः । तत्त्वदार्शना तत्त्वज्ञानवताम् । विषयोपभोगेन स्रक्चन्दाद्यनुभवेन । उपरुध्यते बाधितो भवति । अर्थका- मयोतियां वृत्तान्तविषये अनभिज्ञा अपरिचिताः । ज्ञेयौ ज्ञातुमुचितो। किंपरिवारौ कौश- सामग्रीसाध्यौ । सा काममंजरी । कृषिः सस्याद्युत्पादनम् । तीर्थेषु सत्पात्रेषु प्रतिपादनं दानम् । 'विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ' इत्यमरः । विषयेषु नगादिषु अतिसक्तचेतसोर्लोलुप- चित्तयोः । स्त्रीपुंसयोः नरनार्योः । 'अचतुरविचतुर-' इत्यादिनाऽदन्तत्वं निपातितम् । स्पर्श- विशेषः आलिङ्गनादिरूपः । यावगम्यं मनोहरवस्तुजातमात्रमित्यर्थः । यावत्तावच साकल्ये इत्यमरः । परस्परविमर्दनजन्मेतरेतरालिङ्गनचुम्बुनादिजन्यम् । स्मर्यमाणं सन्मधुरं स्मृतावपि माधुर्यं यत्र तस्य साक्षादनुभवे मधुरता किमिति वक्तव्येति भावः। अनुत्तमं श्रेष्ठतमम् । स्वसंवेद्यं स्वयमेव ज्ञातव्यं नतु कस्यचिद्वचसेति भावः। तस्यैवेति । कृते तादृशकामार्थमेव । 'अर्थे कृतेऽ. व्ययं तावत्तादर्थं वर्तते द्वयम्' इत्यजयः । विशिष्टस्थानवर्तिनो गंगातीरादिपुण्यक्षेत्रनिवासिनः । कष्टानि कृच्छ्रसाध्यानि । दारुणानि भयानकानि । भीमानि भौतिकराणि । 'दारुणं भीषण भीष्मं घोरं भीम भयानकम् ' इत्यमरः । समाचरन्ति कुर्वन्ति । निशम्येति । आकर्ण्य । नियतिबलादेवप्राबल्यात् । 'दैवं दिष्टं भागधेय भाग्य स्त्री नियातीवधिः' इत्यमरः । तस्याः काममंजर्याः पाटवाद्वाक्चातुर्यात् । स्वस्य बुद्धिमान्याद्बुद्धिभ्रंशाद्वा । नु वितर्के सर्वत्र । स्वनि- यमं तपश्चरणादिकं नित्यविधिम् । अनादृत्य पारत्यज्य । असौ मरीचिः। प्रासजदनुरक्तो जातः । प्रवहणेन नरवाह्यवाहनविशेषेण । भाषायां तु 'पालकी ' इति प्रसिद्धिः । उदाराऽतिमहती शोभा यस्य तादृशेन । स्वभवन निजगृहमनेषीत्प्रापयामास। घोषणा वाद्यविशेषवादनेन जनानेकी. कृत्य वक्तव्यसूचनम् । उत्तरेयुः परस्मिन्दिवसे । 'सद्यःपरुत्प-' इति निपातनात् साधुता । पूर्व स्नातं पश्चादनुलिप्तं स्नातानुलिप्तम् । 'पूर्वकालैकसर्व-' इत्यादिना समासः। आ समन्तात्कण्ठा- । -- । - A0" द्वितीयोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । निवृत्तस्ववृत्ताभिलाष क्षणमात्रे गतेऽपि तया विना दूयमानं तमृद्धिमता राजमा- गेंणोत्सवसमाज नीत्वा कचिदुपवनोदेशे युवतिजनशतपरिवृतस्य राज्ञः सनिधौ स्मितमुखेन तेन 'भद्रे, भगवता सह निषीद' इत्यादिष्टा सविभ्रमं कृतप्रणामा सस्मितं न्यषीदत् । तत्र काचिदुत्थाय बद्धाञ्जलिरुत्तमाङ्गना 'देव, जितानया- हम् । अस्यै दास्यमद्यप्रभृत्यभ्युपेतं मया' इति प्रभु प्राणसीत् । विस्मयहर्षमूलश्च कोलाहलो लोकस्योदजिहीतं । हृष्टेन च राज्ञा महाहै रत्नालंकारैर्महता च परि- बर्हणानुगृह्य विसृष्टा वारमुख्याभिः पौरमुख्यैश्च गणशः प्रशस्यमाना स्वभवनम- गत्वैव तमृषिमभाषत--'भगवन, अयमञ्जलिः, चिरमनुगृहीतोऽयं दासजनः, स्वार्थ इदानीमनुष्ठेयः' इति । स तु रागादशनिहत इवोद्धाम्याब्रवीत्-~-'प्रिये, किमेतत् । कुत इदमौदासीन्यम् । क गतस्तव मय्यसाधारणोऽनुरागः, इति । अथ सा सस्मितमवादीत्--'भगवन् , ययाद्य राजकुले मत्तः पराजयोऽभ्युपे- तस्तल्याश् मम च कस्मिंश्चित्संघर्षे "मरीचिमावर्जितवतीव श्लाघसे' इति तया- स्म्यहमधिक्षिप्ता । दास्यपणबन्धेन चास्मिन्न) प्रावर्तिषि । सिद्धार्थी चास्मि त्वत्प्रसादात्' इति । स तया तथावधूतो दुर्मतिः कृतानुशयः शून्यवन्न्यवर्तिष्ट । यस्तयैवं कृतस्तपस्वी तमेव मां महाभाग, मन्यस्व । स्वशक्तिनिपिन्तं रागमुद्धृत्य । दिषु रचिता धृता मञ्जुर्मनोहरा माला येन तथाविधम् ! निवृत्तोऽवसन्नः स्ववृत्ते तपोनुष्ठानरूपे आभिलाषः आसक्तिर्यस्य तथाभूतम् । दूयमानं विषादं प्राप्नुवन्तम् । ऋद्धिमता तोरणाद्यलं- कारसंपन्नेन । उत्सवसमाज कामकेलिमण्डपम् । 'पशूनां समजोऽन्येषां समाजोऽथ सधर्मि- णाम्' इत्यमरः । युवतिजनशतपरिवृतस्य तरुणगणिकाजनपरिवेष्टितस्य । राज्ञः सिंहवर्मनाम्नः । आदिष्टा दत्तानुमतिः । न्यषीददुपविशति स्म । जिता पराभूतास्मि । अभ्युपेतमङ्गीकृतम् । 'अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः । इत्यमरः। कोलाहलः कलकलरवः । उदजिहीत उत्थितः । 'ओहाङ् गतौ' । हृष्टेन संतुष्टेन । महाहैरधिकमूल्यैः । परिबर्हेण राजाहवस्तुजातेन । विसृष्टा गृहगमनायानुमता । गणशः राजवीथिषु संघश एकीभूय । प्रशस्यमानाऽभिनन्यमाना । स्वभवनमगत्वैवं मध्येमार्गमेव । अञ्जलिनमस्कारः । स्वस्य भवतोऽर्थः कृत्यं वनगमनरूपम् । अशनिहत इव वज्राभिहतवत् । उभाम्य भ्रान्तचित्तः सन् । असाधारणो नितरां रूढमूलः । संघर्षे विवादे । श्लाघसे आत्मस्तुतिं करोषि । अधिक्षिप्ता निन्दिता । दास्यपणबन्धेन ' यदि मरीचिर्मया वशीक्रियते तर्हि त्वया मद्दास्यं करणीयं नोचेत्तवाहं दासी भविष्यामि ' इति प्रति- ज्ञापूर्ववचनेन । आस्मिन्नर्थे भवद्वशीकरणात्मके प्रावर्तिषि प्रवृत्ताऽभूवम् । सिद्धार्था जातप्रयो- जना । तव प्रसादादनुग्रहात् । स इति । मरीचिः । तया काममंजर्या । तथा पूर्वोक्तप्रका रेणावधूतः मध्येमार्गमेव परित्यक्तः । न्यवर्तिष्ट स्वतपोवनं प्रति निवृत्यागतः । एवमुक्तरूपेण तपस्वी कृतः शोच्यत्वेन विहितः । 'तपस्वी चानुकम्पाहः' इत्यमरः । मन्यस्वावगच्छ । 'मनु - হালাল। उत्तरपीठिकायां तयैव बन्धक्या महबैराग्यमार्पितन् । आचिरादेव शक्य आत्मा त्वदर्थसाधनक्षमः कर्तुम् ! अस्यामेव तावद्वसापुर्या चम्पायाम्' इति । स्थ तन्मालन्युततमःस्पर्शभियेवास्तं रविरगात् । ऋषिमुक्तच रागः संध्या- लनास्फुरत् । तत्कथादत्तवैराग्याणीव कमलवनानि समकुचन् । अनुमतमुनि- शासनस्त्वहममुनैव सहोपास्य संध्यामनुरूपाभिः कथाभिस्तमनुशय्य नीतरात्रिः प्रत्युन्मिषत्युदयप्रस्थदावकल्पे कल्पद्रुमकिसलयावधीरिण्यरुणाचिषि तं नम- स्कृत्य नगरायोदचलम् । अदर्श च मार्गाभ्याशवर्तिनः कस्यापि अपणकविहा- रस्य बहिर्विविक्ते रक्ताशोकषण्डे निषण्णमस्पृष्टसमाधिमाधिक्षीणमग्रगण्यमनभि- . 1 । । , अवबोधने ' । निषितमुत्पादितम् । उदृत्यापनीय । बन्धक्या कुलटया ! पुंश्चली धर्षणी बन्धक्यसती कुलटेवरा' इत्यमरः । त्वदर्थसाधनक्षमः तवापहारवर्मणः योऽर्थः मित्रा ( राज. वाहनाच) न्वेषणरूपः तत्र क्षमः समर्थः । वस निवासं कुरु । अथेति । मरीचिवृत्तान्तकथानन्तरम् । तन्मनसञ्चयुतं गलितं यत्तमोऽनुरूप रजश्च तस्य स्पर्शः मण्डले संक्रमणं तस्माद्भिया भयेनेव । इवशब्दोऽत्रोत्प्रेक्षायाम् । रजस्स्पर्शभौति- वास्तगमनहेतुतयोत्प्रेक्ष्यते । रविः सूर्यः । 'तपनः सविता रविः' इत्यमरः । अगामाप्नोति स्म ।' इण गतौ' इत्यस्माल्लुङि रूपम् । इणो गा लुडि' इति गादेशः। रागोऽनुरागो रक्तिमा च । अस्फुरत्प्रकाशते स्म । दत्तवैराग्याणि जनितनिर्वेदानि । समकुचन निमीलिता- न्यभूवन् । अमुना मरीचिना सह साकम् ! 'सहयुक्तऽप्रधाने' इति तृतीया । कथाभिः भाषणैः । तं मरीचिमुनिमुद्दिश्य अनुशव्य पश्चात्तापं कृत्वा ।' अथानुशयो दीर्घद्वेषानुतापयोः । इत्यमरः । यदात्वनोः मरीचिना सहान्वयं कृत्वा ‘पश्चाद् शयनं कृत्वा ' इत्यर्थकरणं, तदनु- रोधाच ' अनुर्लक्षणे ' इति कर्मप्रवचनीयतायो ‘कर्मप्रवचनीययुक्त द्वितीया ' इति द्वितीया तमित्यत्रेति व्याख्यानं तदाऽनोर्गतित्वाधभावात् ल्यप् दुर्लभः । प्रत्युन्मिपति उदयं प्राप्नुवति । उदयः पूर्वाचलः । 'उदयः पूर्वपर्वतः' इत्यमरः। तस्य प्रस्थे सानुनि 'स्नुः प्रस्थः सानु- रस्त्रियाम् ' इत्यमरः । यो दावो वनाग्निः 'दवदावौ वनानलौ ' इत्यमरः । तत्कल्पे तत्समाने कल्पद्रुमस्य देवदारुविशेषस्य किसलयानि नवीनंपल्लवान्यवधारयति तिरस्करोतीति तादृशे । अरुणस्य सूर्यस्याषि कान्तौ । नमस्कृत्य प्रणामं कृत्वा । नगराय नगरं गन्तुम् । क्रियार्थोऽ- पपदस्य च कर्मणि स्थानिनः' इति चतुर्थी । उदचलं प्रस्थितवान् । अदर्श चेति । दृष्टवा- नित्यर्थः । 'दृशिर प्रेक्षणे ' अस्माल्लाङ 'रितो वा' इत्यङि 'ऋदृशोऽङि गुणः ' इति गुणे रूपम् । मार्गाभ्याशेऽध्वनिकटे वर्तिनो विद्यमानस्य । 'सदेशाभ्याशसविधसंनिकृष्टसनोडवत् इत्यमरः । क्षपणकविहारस्य सौगतालयस्य । विविक्ते विजने पवित्रे वा।' विविक्तौ पूत- विजनौ । इत्यमरः । रक्तानामरुणवर्णानामशोकानां षण्डे कदम्बे। कदम्बे कदम्बे षण्डम- स्त्रियाम् । इत्यमरः । निषण्णमासीनम् । अस्पृष्टसमाधि ध्यानशून्यम् । 'समाधिनियमे ध्याने इति विश्वकोशः । आधिना मानसिकदुःखातिरेकेण क्षीणं कृशगात्रम् । पुस्याधि- द्वितीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । रूपाणां कृपणवर्ण कमपि क्षपणकम् । उरसि चास्य शिथिलितमलनिचयान्मुखा- निपततोऽश्रुबिन्दूनलक्षयम् । अप्राक्षं चान्तिकोपविष्टः--- 'क्क तपः,क च रुदितम्। न चेद्रहस्यमिच्छामि श्रोतुं शोकहेतुम्' इति । सोऽब्रूत-'सौम्य, श्रूयताम् । अहमस्यामेव चम्पायां निधिपालितनान्नः श्रेष्ठिनो ज्येष्ठसूनुर्वसुपालितो नाम । वैरूप्यान्मम निरूपक इति प्रसिद्धिरासीत् । अन्यश्चात्र सुन्दरक इति यथार्थनामा कलागुणैः समृद्धो वसुना नातिपुष्टोऽभवत् । तस्य च मम च वपुर्वसुनी निमि- त्तीकृत्य वैर वैरोपजीविभिः पौरधूतैरुदपाद्यत । त एव कदाचिदावयोरुत्सवसमाजे स्वयमुत्पादितमन्योन्यावमानमूलमधिक्षेपवचनव्यतिकरमुपशमय्य 'न वपुर्वसु वा पुंस्त्वमूलम् , अपि तु प्रकृष्टगणिकाप्रार्थ्ययौवनो हि यः स पुमान् । अतो युवतिललामभूता काममञ्जरी यं वा कामयते स हरतु सुभगपताकाम्' इति व्यवास्थापयन् । अभ्युपेत्यानां प्राहिणुव तस्यै दूतान् । अहमेव किलामुष्याः स्मरोल्मादहेतुरासम् । आसीनयोचावयोमीमेवोपगम्य सा नीलोत्पलमयमिवा- पाङ्गदामाङ्गे मम मुञ्चन्ती त जनमपत्रपयाधोमुख व्याधत्त । सुभगंमन्येन च .. । -- मानसी व्यथा' इत्यमरः । अग्रगण्यं प्रथमतो गणनीयमनभिरूपाणां विरूपाणाम् । कृपणवर्ग मुखशोभारहितम् । क्षपणकं बौद्धम् । उरसि वक्षःस्थले । शिथिलितोऽश्रुधारापातेन विलंसितो मलनिचयः पङ्कराशियस्तादृशान् । अश्रुबिन्दून् रोदनपय कणान् । 'रोदनं चास्त्रमनु ब' इत्यमरः । अन्तिके समीपे उपविष्टो निषण्णः । केति । वेति द्विरुपादानं तपोऽनुष्ठानरोदनयोः परस्परविरुद्धत्वं दर्शयति । श्रेष्ठिनः व्यापारिवर्यस्य । ज्येष्ठसूनुः ज्यायान्पुत्रः । वैरूप्यात् कुत्सितरूपवत्तया । प्रसिद्धिः प्रख्यातिः । अत्र चम्पायाम् । यथार्थनामा वस्तुतः सुन्दर एवेत्यर्थः । नातिपुष्टः साधारणः । वपुर्वसुनी आकृतिद्रव्ये । वैरोपजीविभिरुदासीनयोः द्वयोः परस्परं द्वेषमुत्पाद्यास्मात्तस्माच द्रव्यं गृहीत्वा ये जीवन्ति तैः । धूतैः वञ्चकैः । उदपाद्यत उत्पादितम् । अधिक्षेपवचनानां तिरस्कृतिवाक्यानां व्यतिकरं प्रसरम् । उपशमव्य शान्तं कृत्वा । प्रकृष्टगणिकयोत्कृष्टवाराङ्गनयाऽपि प्रार्थ्यमभिलषणीयं यौवनं तारुण्यं यस्य तादृशः। बुषतिषु तरुणीषु मध्ये ललामभूता शिरोऽलंकारायमाणा । कामयतेऽभिलषति । 'कमु कान्तौ' कमेणिङ्' इति गिङ् । हरतु प्राप्नोतु । व्यवास्थापयन व्यवस्थां कृतवन्तः। अभ्युपेत्य तत्कृत- व्यवस्थामनुमन्य । प्राहिणुव प्रेरितवन्तौ । ' हि गतौ वृद्धौ च ।। 'हिनुमीना' इति णत्वम् । तस्यै तां काममंजरीमानेतुमित्यर्थः । क्रियार्थोपपदस्य-' इति चतुर्थी । अहमेवेति । अर्थ- वणे यस्मानानर्थकपरिग्रहः। 'सुरूपधनिनोर्वेश्या गृह्णाति धनिनं ततः ॥ इति न्यायेन मम धनिकतया रूपवन्तमपि तं परित्यज्य मामेव स्वीकृतवतीति भावः । स्मरोन्मादे कामपारवश्ये हेतुर्निमित्तभूतः । उपगम्य पतित्वेन स्वीकृत्य । ' वा ल्यपि ' इति अनुनासिकलोपाभावपक्षे । अपाङ्गदाम कटाक्षवीक्षणश्रेणीम् । मुञ्चन्ती प्रसारयन्ती। तं जनं सुन्दरकम् । अपत्रपया लज्जया। लज्जा साऽपत्रपान्यतः' इत्यमरः । सुभगमात्मानं मन्यते इति सुभगंमन्यः तेन । 'आत्ममाने । ।

- ফুঞ্জনা অবিন্দু। [उत्तरपीठिकायो मया स्वधनस्य स्वगृहत्य स्वगणस्य स्वदेहस्य स्वजीवितस्य च सैवेश्वरीकृता । कृतश्चाहमनया मलमल्लकशेषः हृतसर्वस्वतया चापवाहितः प्रपद्य लोकोपहास- लक्ष्यतामक्षमश्च सोढुं धिकृतानि पौरवृद्धानामिह जैनायतने मुनिनैकेनोपदि- टमोक्षवा सुकर एष वेषो वेशनिर्गतानामित्युदीर्णवैराग्यस्तदपि कौपीनमज- हाम् । अथ पुनः प्रकीर्णमलपङ्कः प्रबलकेशलुञ्चनव्यथः प्रकृष्टतमक्षुत्पिपासा- दिदुःखः स्थानासनशयनभोजनेष्वपि द्विप इव नवग्रहो बलवतीभियंत्रणाभिरुद्वे- जितः प्रत्यवामृशम् । ' अहमस्मि द्विजातिः । अस्वधर्मो ममैष पाखण्डिपथा- वतारः । श्रुतिस्मृतिविहितेनैव वर्त्मना मम पूर्वजाः प्रावर्तन्त । मम तु मन्द- भाग्यस्य निन्द्यवेषममन्ददुःखायतनं हरिहरहिरण्यगर्भादिदेवतापवादश्रवणनैर- न्तर्यात्प्रेत्यापि निरयफलम् अफलं विप्रलम्भप्रायमीहशमिदमधर्मवलं धर्मवत्स- माचरणीयमासीत्' इति प्रत्याकलितस्वदुर्नयः पिण्डीषण्डं विविक्तमेतदासाद्य खश्च' इति खश्प्रत्यये शित्त्वात् श्यनि खित्त्वात् । अरुषिदजन्तस्य मुम् ' इति मुमि रूपम् । ईश्वरीकृता स्वामिनीकृता । मलमलके कौपीनमेव शेषोऽवाशिष्टं यस्य तथाविधः । आच्छादन संपिधानं कौपीनं मलमल्लकम् ' इति वैजयन्ती । अपवाहितः परित्यक्तः । उपहासलक्ष्यताई निन्दापात्रताम् । धिक्कृतानि निन्दावाक्यानि । जैनायतने क्षपणकदेवालये । उपदिष्टं मोक्ष- वर्म मुक्तिमार्गो यस्मै तथाभूतः । सुकरः सुखसाध्यः । वेशनिर्गतानां वेश्यागृहाबहिराग- तानाम् । उदीर्ण समुत्थितं वैराग्यमासक्त्यभावो यस्य तादृशः सन् । अजहां परित्यक्तवा- नास्मि । 'ओहाक् त्यागे' लङ्। केशलुञ्चनं शिरोरुहसमुत्पाटनम् । द्विपो गजः । नवग्रहः नूतनतया गृहीतः । यन्त्रणाभिः निर्बन्धैः । उद्वेजितः खेदं प्रापितः। प्रत्यवामृशं विचारं कृत- वान् । द्विजातिः वैश्यकुलजातः । अस्वधर्मः स्वधर्मविरुद्धः। पाखाण्डिनां बौद्धानां पन्थाः पाखाण्डपथः । 'ऋक्पूरब्धूःपथामानक्षे' इति समासान्तोऽप्रत्ययः। तस्मिन्नवतारः प्रवेशः । वर्मना मार्गेण । पूर्वजाः पितृपितामहाद्याः । प्रावर्तन्त चरन्ति स्म । मन्दभाग्यस्य भागधेयवि- होनस्या दैवं दिष्टं भागधेय भाग्यं स्त्री नियतिविधिः' इत्यमरः । निन्धो वेषो यस्मिन्नेतादृशम् । आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् ' इत्यमरः । अमन्दानां बहुलानां दुःखानामुपद्रवाणा- मायतनं स्थानभूतम् । हिरण्यगर्भो ब्रह्मा। 'हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः' इति ब्रह्मप- ोयेऽमरः । देवतानामपवादस्य दुषणस्य श्रवणमाकर्णनं तस्य नैरन्तर्यानिरन्तरं जायमानत्वात् । प्रेत्यापि जन्मान्तरेऽपि । 'प्रेत्यामुत्र भवान्तरे' इत्यमरः । निरयो नरक एव न तु स्वर्ग: फलं यस्यैतादृशम् 'स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ' इत्यमरः । अफलं विशि- टफलशून्यम् । विप्रलम्भप्रायं वचनात्मकम् । ‘विप्रलम्भो विसंवादो विरहो वञ्चना तथा इति विश्वकोशः। धर्मवत् धर्मेण तुल्यतया । 'तेन तुल्यं क्रिया चेद्वतिः' इति वतिः । समाचरणीयमासीदनुष्ठानाहमभूत् । प्रत्याकलितः पुनः पुनः परामृष्टः स्वस्यात्मनो दुर्नयः दुष्टव्यवहारः येन तथाविधः सन् । पिण्डीखण्ड रक्ताशोकनिकुरम्बम् । अशोकः पिण्डिका पिण्डी' इति वैजयन्ती । ' कदम्बे षण्डमस्त्रियाम् ' इत्यमरः । विविक्तं जनबाधारहितम् । . 6 । -.

- . वस निवास । द्वितीयोच्छ्ासः] मनोरमाख्यव्याख्यासहितम् । पर्याप्तमनु मुञ्चामि' इति । श्रुत्वा चैतद्नुकम्पमानोऽब्रवम्-- भद्र, क्षमस्व । कंचित्कालमत्रैव निवस । निजेन घुम्नेनासावेव वेश्या यथा त्वां योजयिष्यति तथा यतिष्ये । सन्त्त्युपायास्तादृशाः' इत्याश्वास्य तमनूत्थितोऽहम् । नगरमा- विशन्नेव चोपलभ्य लोकवादालुब्धसमृद्धपूर्ण पुरमित्यर्थानां नश्वरत्वं च प्रदर्य प्रकृतिस्थानमून्विधास्यन्कर्णीसुतप्रहिते पथि मतिमकरवम् । अनुप्रविश्य च द्यूतसभामक्षधूतैः समगसि । तेषां च पञ्चविंशतिप्रकारासु सर्वासु द्यूताश्रयासु कलासु कौशलमक्षभूमिहस्तादिषु चात्यन्तदुरुपलक्ष्याणि कूटकर्माणि तन्मूलानि 'विविक्तौ पूतविजनौ' इति विश्वः ' विविक्तविजनच्छन्ननिःशलाकास्तथा रहः' इत्यमरः । आसाद्य प्राप्य । 'षद्ल विशरणगत्यवसादनेषु' इत्यतो ल्यप् । पर्याप्तं यथेच्छम् । अश्रु रोदनोदकम् । 'रोदनं चास्त्रमश्रु च' इत्यमरः । मुञ्चामि विसृजामि । 'मुच्ल मोक्षणे' इत्यतो लटि ‘शे अबादीनाम् ' इति नुम् । श्रुत्वेति । आकर्ण्य । अनुकम्प- मानः तदुपरि दयां कुर्वन् । कृपा दयाऽनुकम्पा स्यात् ' इत्यमरः । कश्चित्कालं कतिपय- दिवसपर्यन्तम् । कालाबनोरत्यन्तसंयोगे' इति द्वितीया । अत्रैदास्मिन्नेव जैनायतने । निवस निवासं कुरु । निजेन स्वकीयेन धुन्नेन धनेन् । 'हिरण्यं द्रविणं घुम्नमर्थ विभवा अपि' इत्यमरः । असावेव काममजयेव । वेश्या बाराशना । वारली गणिका वेश्या इत्यमरः । योजयिष्यति निजधनं त्वद्धस्तगतं करिष्यति । यतिव्ये प्रयत्न करिष्यामि । 'यती प्रयत्ले' । उपायाः साधनानि । तादृशाः त्वगृहीतधनप्रत्यर्पणे समर्थाः । तं वसुपालितं विरूपक इति प्रसिद्धम् । आश्चास्य सान्त्वयित्वा ! अनु सान्त्वनानन्तरम् । उत्थितः चम्पा गन्तुमुदतिष्ठम् । नगरं चम्पापुरीमाविशन्नेव प्रविशन्नेव मार्गमध्ये इत्यर्थः । उपलभ्य विदित्वा । लोकवादात् जनव्यवहारात् । लुब्धाः अतिकृपणाः समृद्धाः श्रीमन्तश्च ये जनास्तैः पूर्ण युक्तम् । तत्रत्यजनानां धनसंपन्नत्वेऽपि कार्पण्यं श्रुत्वेत्यर्थः । अर्थानां धनानाम् । अर्थ विभवा अपि ' इत्यमरः । नश्वरत्वं विनाशशालित्वमेकत्र स्थिरतयाऽविद्यमानत्वमिति यावत् । 'आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु ' इत्यधिकारे ' इण्णशजिसर्तिभ्यः करप्' इति करप् प्रत्ययः । प्रदर्श्य चम्पानगरनिवासिजनान् अवगमय्य । प्रकृतिस्थान्स्वधर्माचरणतत्प. रान् । विधास्यकरिष्यन् । कर्णीसुतेन चौर्यशास्त्रनिर्मात्रा ‘कर्णीसुतः करटकः स्तेयशास्त्रस्य कारकः' इति वैजयन्ती । प्रहिते प्रदर्शिते पथि चौर्यवर्मनीति भावः । मति बुद्धिम् । अकरवं कृतवान् । अनुप्रविश्येति । द्यूतसभामक्षक्रीडामण्डपम् । अक्षधूतः पाशक्रीडायां निपुणैः । 'धूर्ती निपुणवञ्चकौ ' इति वैजयन्ती । ' सप्तमी शौण्डैः' इति समासः । समगंसि तैः सह मिलितोऽभूवम् । ' गम्लु गतौ ' इत्यतो लुडि 'समो गम्वृच्छिभ्याम् ' इत्यात्मनेपदे रूपम् । तेषामक्षिकाणाम्। द्यूताश्रयासु द्यूतसंबन्धिीषु । अक्षाः शाराः । 'अक्षो ज्ञानार्थशकटव्यवहारेषु पाशके । रुद्राक्षेन्द्राक्षयोः सर्प विभीतकतरावपि । चक्रे कर्षे पुमान् ' इति मेदिनी । भूमिः तत्पातनस्थानम् । हस्तः करः एतत्प्रभृतिषु । अत्यन्तं नितरां दुरुपलक्ष्याणि दुःखे- नापि ज्ञातुमशक्यानि । कूटकर्माणि कपटाचरणानि । तन्मूलानि कपटकर्मनिमित्तकानि । १ । । ।

জুকালালাহল। [उत्तरपीठिकायां सावलेपान्यधिक्षेपवचनानि जीवितनिरपेक्षाणि संरम्भाविचेष्टितानि सभिका त्ययव्यवहारान्न्यायनलप्रतापप्रायानजीकृतार्थसाधनक्षमान्बलिषु सान्त्वनानि दुर्बलेषु भत्सितानि पक्षरचनानैपुणमुच्चावचानि प्रलोभनानि ग्लहप्रभेदवर्णनानि द्रव्यसंविभागौदार्यमन्तरान्तराश्लीलप्रायान्कलकलानित्यतानि चान्यानि चानु- भवन्न तृप्तिमध्यगच्छम् । अहसं च किंचित्प्रमाददत्तशारे कचिकितवे । प्रति- कितवस्तु निर्दहन्निव क्रोधताम्रया दृशा मामभिवीक्ष्य ‘शिक्षयसि रे द्यूतवर्ल्स हासव्याजेन । आस्तामयमशिक्षितो वराकः । त्वयैव तावद्विचक्षणेन देवि- प्यामि' इति घृताध्यक्षानुमत्या व्यत्यषजत् । मया जितश्चासौ षोडशसहस्राणि १ अवलेपो दर्पस्तद्युक्तानि । “वोपसर्जनस्य ' इति सहस्य सादेशः । 'दर्पोऽवलेपोऽवष्टंभः ' इत्यमरः । अधिक्षेपवचनानि तिरस्कृतिवाक्यानि । जीविते प्राणधारणेऽपि निरपेक्षाण्यासक्तिर- हितानि । संरम्भेण कोपेन सहितानि विचेष्टितानि कर्माणि । 'संरंभः संभ्रमे कोपे' इत्यमरः । अङ्गीकृतः पणत्वेनानुमतः योऽर्थः धनं तस्य साधने स्वायत्तीकरणे क्षमानुपयुक्तान् । न्याय- बलप्रतापप्रायान् तदुपबंहितान् । सभिको द्यूताध्यक्षः 'सभिको इतकारकः' इत्यमरः । तस्य प्रत्ययव्यवहारान् विश्वासजनकानि शपथपूर्वकाणि च भाषणानि । 'प्रत्ययोऽधीनशपथज्ञान- विश्वासहेतुषु ' इत्यमरः । सान्त्वनानि समाधानपुरःसरवाक्यानि । भसितानि भीत्युत्पाद- वाक्यानि । पक्षरचनायां जयवत आत्मपक्षीयत्वेन कथने नैपुणं चतुरताम् । गुणवचनब्राह्म- णादिभ्यः कर्मणि च' इत्यत्र ब्राह्मणादिगणे पाठात् व्यञ् तत्र 'पृथ्वादिभ्य इमनिज्वा । इत्यतो वापदानुवृत्त्याऽणादिसमावेशोऽपि' इत्युक्त्याऽत्र निपुणशब्दाद्भावेऽण् । उच्चावचानि नानाप्रकाराणि । 'उच्चावचं नैकभेदम्' इत्यमरः । प्रलोभनानि प्रतारणानि । ग्लहस्य पणस्य । पणोऽक्षेषु ग्लहो मतः' इत्यमरः । तस्य प्रभेदाः ' त्वत्तोऽप्यधिक मया स्थाप्यते ' इत्यादि रूपास्तेषां वर्णनानि निरूपणानि । द्रव्यस्य संविभागे विनियोगे औदार्य दातृत्वप्रकटनम् । अन्त- रान्तरा मध्येमध्ये । अश्लीलमायानसभाहवचनमयान् । 'अश्लील ग्राम्यभाषणम् ' इति वैज- यन्ती । कलकलान् कोलाहलान् । 'कोलाहलः कलकलः' इत्यमरः । अनुभवन्पश्यञ्छृण्वंश्च । न तृप्तिमध्यगच्छं सभाप्रवेशं विना केवलदर्शनादिना न मे तृप्तिर्जातेति भावः । अहसमिति । प्रमादेनासमवधानतया दत्तो निक्षिप्तः शारः पाशः येन तादृशे । 'शारः शारिश्च खेलनी' इति महीपः । क्वचित्कस्मिंश्चित् । कितवे अक्षधूर्ते।'धूर्तोऽक्षदेवी कितवोऽक्षधूर्ती द्यूतकृत्समाः।' इत्यमरः। प्रतिकितवः प्रतिपक्षीयधूर्तः । निर्दहन्भस्मीकुर्वन्निव । क्रोधेनाक्रोशेण ताम्रया रक्तवर्णया । शा दृष्टया । 'लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी । दृग्दृष्टी' इत्यमरः । हास- व्याजेन हास्यापदेशेन । आशिक्षितो न पण्डितः । आस्तां तूष्णीं तिष्ठतु। वराकः शोच्यः । वराकः साधुशोच्ययोः ' इति वैजयन्ती । विचक्षणेन कृतहस्तेन । देविष्यामि यूतं कार. प्यामि । द्यूताध्यक्षस्य सभिकस्यानुमत्या संमतिपुरःसरम् । व्यत्यषजत् द्यूताय संलग्नोऽभूत् । घज सङ्गे ' इत्यतो लङि' देशसञ्जस्वजां शपि ' इति नलोपे 'प्राकू सितादड्व्यवायेऽपि । । ।

NHAI ७. द्वितीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । दीनाराणाम् । तदर्ध सभिकाय सभ्येभ्यश्च दत्त्वार्ध स्वीकृत्योदतिष्ठम् । उद्- तिष्ठंश्च तत्रगतानां हर्षगर्भाः प्रशंसालापाः । प्रार्थयमानसभिकानुरोधाच्च तद्- गारेऽत्युदारमभ्यवहारविधिमकरवम् । यन्मूलश्च मे दुरोदरावतारःस मे विमर्दको नाम विश्वास्यतरं द्वितीयं हृदयमासीत् । तन्मुखेन च सारतः कर्मतः शीलतश्च सकलमेव नगरमवधार्य धूर्जटिकण्ठकल्माषकालतमे तमास नीलनिवसना|रु- कपरिहितो बद्धतीक्ष्णकौक्षेयकः फणिमुखकाकलीसंदशकपुरुषशीर्षकयोगचूर्ण- योगवर्तिकामानसूत्रकर्कटकरज्जुदीपभाजनभ्रमरकरण्डकप्रभृत्यनेकापकरणयुक्तो गत्वा कस्यचिल्लुब्धेश्वरस्य गृहे संधि छित्त्वा पटभाससूक्ष्मच्छिद्रालक्षितान्तह- इति षत्वम् । मयेति । जितः पराभूतः। दीनाराणां सुवर्णमुद्राविशेषाणाम् । अत्र दुह्या- च्पच्दण्डूरुधिप्रच्छिीचशासुजिमन्थमुषाम् । कर्मयुक्स्यादकथितं तथा स्यानीहकृष्वहाम् इति जयतेः द्विकर्मकतायाम् 'अप्रधाने दुहादीनां प्रधाने नीहृकृष्वहाम् इत्यप्रधान- माभिधायिनीयं निष्टा । हर्षगर्भाः आनन्दभारताः । प्रशंसालापा: श्लाघावचनानि । प्रार्थयमानस्य प्रार्थनां कुर्वतः । समिकस्य यूताध्यक्षल्यानुरोधाचनानुसारेण । तस्यागारे गृहे । " भवनागारमन्दिरम् ' इत्यमरः । अत्युदारं नितरामुत्कृष्टमान्यवहारविधि भोजनकर्म । यन्मूलो यनिमित्तकः । दुरोदरे द्यूतक्रीडायामवतारः प्रवेशः । दुरोदरो छूतकारे पणे छूतेऽपि पाशके ' इति महीपकोशः अमरश्च । विश्चास्यतरमत्यन्तविश्वासाल्पदम् । द्वितीयं हृदयमासीत् मित्रतां गत इति भावः । अवधार्य निश्चित्य । पूर्जटेमहादेवस्य कण्ठे गलोद्देशे वर्तमान यत्कल्माष कालिमा तद्वत्कालतमेऽतिनीलवर्णे। ‘धूर्जटिनीललोहितः' इति 'कण्ठो गल: ' इति चामरः ॥ "सितेतरः स्यात्कल्माषम्' इति शाश्वतकोशः । तमस्यन्धकारे । नील- निवसनं नीलवर्ण वस्त्रं तन्मयं यदोरुकसूर्वर्धभागपर्यन्तव्यापि अोरुकं वरस्त्रीणां स्याच्च- ण्डातकमस्त्रियाम् ' इत्यमरः । तेन परिहित आच्छादितः । बद्धस्तीक्ष्णो निशितधारः कौक्षयकः करवालो येन तादृशः। कौक्षेयको मण्डलानः करवाल: कृपाणवतू ' इत्यमरः । 'इतिकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु' इति ढकन् । फणिनः सर्पस्येव मुखं यस्यैतदादयः आयुधविशेषाः । फणिमुखं भित्त्यादिखननसाधनम् । काकली वायप्रभेदो यतो मोध्य गृहवर्तिजनानां निद्राजागरणादिज्ञानं जायते 'काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे इत्यमरः। संदंशकं भित्त्यादौ कृते खनने तत्रत्येष्टकादीनां बहिर्निष्कासनोपकरणम् । पुरुष- शीर्षक काष्टादिविहितं पुरुषस्येव मस्तकम् । अस्योपयोगस्तु कृतच्छिद्रायां भित्तौ स्वशिरोऽ- प्रवेश्यास्यैव प्रवेशनम् । येन च गृहस्थानां जागरणेऽपि स्वस्यापायो न भवेत् । योगचूर्ण यत्साहाय्यात गृहे कुत्रचिनिक्षिप्तानामपि धनानामवगमनं भवति । योगवर्तिका अस्याश्च प्रज्वलनेनाभितो नागाश्चक्षुर्विषया जायन्ते। मानसूत्रं सुरक्षाकरणे स्वशरीरानुरूपतया इय- पर्यन्तं खननीयमिति परिमाणसूत्रम् । कर्कटकः कुलीराकारो यन्त्रविशेषः । रज्जुः सौधा- युपरितलारोहणसाधनीभूता । दीपभाजनं संपुटान्तरितो दीपः । भ्रमरकरण्डक गृहस्थ. हस्तवर्तिदीपस्य विनाशनाय शलभसमुद्कः । संघिमिष्टकासंयोगम् । छित्त्वा निर्भेद्य । पट- १ ।

ܐܝܛܘ १०० জুলাংদায় [उत्तरपीठिकायों प्रवृत्तिव्यथो निजगृहनिशाजुप्रविश्य जीवीं सारमहतीमादाय निरगाम् । नील- नौरदनिकरपीवरतमोनिबिडितायां राजवीथ्या झटिति शतदासंपातमिव क्षण- मालोकमलक्षयम् । अथासौ नगरदेवतेव नगरमोषरोपिता निःसंवाधवेलायाँ निःसृता सैनिकृष्टा काचिदुन्मिषद्रूपणा युवतिराविरासीत् । 'कासि वासु, क यासि' इति सदयमुक्ता त्रासगद्गदमगादीत्-'आर्य, पुर्यस्यामर्यवर्यः कुबेरदत्त- नामा वसति । अस्म्यहं तस्य कन्या । मां जातमात्रां धनमित्रनानेऽत्रत्यायैव कस्मैचिदिभ्यकुमारायान्वजानाभायाँ मे पिता । स पुनरस्मिन्नत्युदारतया पित्रोरन्ते वित्तैनिजैः क्रीत्वेवार्थिवर्गाहारियं दरिद्रति सत्यथोदारक इति च प्रीतलोकाधिरोपितापरलाध्यनामानि वरयत्येव तस्मिन्मां तरुणीभूतामधन इत्य- भासो गवाक्षद्वारम् । 'पटभासः प्रेक्षणकम् ' इति वैजयन्ती । तस्य सूक्ष्मेण च्छिद्रेण विवरेण तद्वाराऽऽलक्षिता विदिताऽन्तहे मन्दिरमध्ये वर्तमानानां प्रवृत्तिर्निद्रारूपो ब्यापारः येन तादृशः सन् । अव्यथो भयशून्यः। नीवीं मूलद्रव्यपेटिकाम् । 'मूलद्रव्यं परिपणो नीवी' इति हेमचन्द्रः । सारेणान्तःस्थितामूल्यवस्तुजातेन महतीं गुर्वीमपि । आदाय यत्नपुर:- सरं गृहीत्वा । नीलेति । नीला ये नीरदा मेघास्तेषां निकरवत् संघवत् पीवरेण गाढेन तम- सान्धकारेण निबिडितायां व्याप्तायाम् । झटिति शीघ्रमेव। शतदा विद्युत् । 'शम्पाशत- हृदाहादिन्यैरावत्यः क्षणप्रभा । तडित्सौदामिनी विद्युत् ' इत्यमरः । तस्याः सम्पातं समुद्गमनमिव । ' संपातस्तु समुद्गमः' इत्यमरः । आलोकं प्रकाशम् । 'आलोकौ दर्शन- द्योती' इत्यमरः । अलक्षयं विलोकितवान् । 'लक्ष आलोचने । अथेति । नगरस्य चम्पा- पुर्याः मोषेण चौर्येण रोषिता रोपं गतवती । निःसंबाधवेलायां जनबाधारहितकाले । संकटं ना तु संबाधः' इत्यमरः । संनिकृष्टा समीपमागतवती । उन्मिषन्ति समुज्ज्वलन्ति भूष- णान्याभरणजातानि यस्यास्तादृशी। युवतिस्तरुणी । 'यूनस्तिः' इति तिप्रत्ययः.। वासु हे बाले ! “अथ बाला स्याद्वासूः' इत्यमरः । सदयं कृपायुक्तं यथा तथा । त्रासेनोद्वेगेन गद्गदं स्वरभंगविशेषयुक्तं यथा तथा । अगादीत् कथयामास । “गद व्यक्तायां वाचि'' अतो हलादेर्लघोः' इति वैकल्पिकी वृद्धिः। अस्यां पुरि नगर्याम् । 'पू: स्त्री पुरीनगर्यो वा इत्यमरः । अर्यवर्यः वैश्योत्तमः। 'अर्यः स्वामिवैश्ययोः' इति निपातः । जातमात्रां प्रसूत- प्रायां तस्मिन्नेव काले इति भावः । अत्रत्याय चम्पापुरीभवाय 'तत्र भवः' इत्यर्थे । अमेह- कतसित्रेभ्य एव' इति त्यम् । इभ्यकुमाराय धनिकपुत्राय । इभ्य आढयो धनी स्वामी, इत्यमरः । अन्वनानाद्भार्यों जायात्वेन दातुं संकल्पं कृतवान् । सः मत्पिता कुबेरदत्तः । अस्मिन्धनमित्रे अत्युदारतया नितरां दानशीलत्वेन । 'उदारो दातृमहतोः' इत्यमरः । पित्रोरन्ते मातापित्रोमरणानन्तरम् । 'पिता मात्रा ' इत्येकशेषः । वित्तैर्धनैः । द्रव्य वित्तं स्वापतेयम् । इत्यमरः । क्रीत्ववेत्यत्र इवशब्देन दरिद्रीभावं प्रति स्वकीयधन- विनियोगो मूल्यतयोत्प्रेक्ष्यते । अर्थिवर्गाद्याचकलोकात् । दरिद्रति दरिद्रता प्राप्नुवति पीतैः सन्तुष्टैः लोकैरधिरोपितमारोपित 'उदारकः ' इति नामान्तरं यस्यैतादृशे सति । । - Panoramay द्वितीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । दत्त्वार्थपतिनाने कस्मैचिदितरस्मै यथार्थनान्ने सार्थवाहाय दित्सति मे पिता। तदमङ्गलमद्य किल प्रभाते भावीति ज्ञात्वा प्रागेव प्रियतमदत्तसंकेता वञ्चित- स्वजना निर्गत्य बाल्याभ्यस्तेन वर्त्मना मन्मथाभिसरातद्गारमभिसरामि तन्मां मुञ्च । गृहाणैतद्भाण्डम् ' इत्युन्मुच्य मह्यमार्पितवती । दयमानश्वाहमब्रवम्-- "एहि साध्वि, त्वां नयेयं त्वत्प्रियावसथम्' इति त्रिचतुराणि पदान्युदचलम् । आपतञ्च दीपिकालोकपारीलुप्यमानतिमिरभारं यष्टिकृपाणपाणि नागरिकबल- मनल्पम् । दृष्ट्वैव प्रवेपमानां कन्यकामवदम्-'भद्रे, मा भैषीः । अस्त्ययमसि- द्वितीयो मे बाहुः अपि तु मृदुरयमुपायस्त्वदपेक्षया चिन्तितः। शयेऽहं भावि- तविषवेगविक्रियः । त्वयाप्यमी वाच्याः 'निशि वयमिमां पुरीं प्रविष्टाः । . । तस्मिन्नुदारके तरुणीभूतां प्राप्तयौवनां मां वरयति प्रार्थयमाने सत्येव । अधनो दरिद्र इदानीमस्ति इति हेतोः अदत्त्वाऽऽवयोर्विवाहमविधाय । यथार्थनान्ने अर्थस्य धनस्य पतिः इत्यन्वर्थनान्ने । सार्थवाहाय बैदेशिकमणिपुत्राय । दित्सति दातुमाभिलपति । सनीवन्तर्ध-' इति इसभ्यासलोपश्च । तदिति । अमङ्गलमर्थपतये दानरूपमप्रियाचरणम् । प्रभाते प्रातःकाले । भावि भाविष्यमाणं 'भविष्यति गम्यादयः' इति मिनिप्रत्ययः । प्राक्पूर्व- मेव । प्रियतमेनाभीष्टनायकेनोदारकेण दत्तः कृतः संकेतो यस्याः सा ताशी सती। वञ्चिता प्रतारिताः स्वजनाः पित्रादयः यया सा । बाल्यात्प्रभृत्यभ्यस्तेन परिचितेन । मन्मथ एवाभिसर: सहायभूतो यस्याः । 'अनुप्लवः सहायश्चानुसरोऽभिसरः समाः' इत्यमरः । तस्योदारकस्यागारं गृहं प्रति अभिसरामि गच्छामि ।' कान्तार्थिनी तु या याति संकेतं साऽभिसारिका' इत्यभिसारिकालक्षणम् । भाण्डमलङ्कारम् । 'भाण्डं भूषाचभूषयोः' इत्यमरः । उन्मुच्य स्वश- रौरानिष्कास्य ।अर्पितवती दत्तवती चोरत्वे सति तेनैव तुष्टः सन्गमिष्यतीति बुद्धया। एहीति । मया सहायेन सहागच्छेत्यर्थः । साध्वि हे पतिपरायणे । 'सती साध्वी पतिव्रता ' इत्यमरः । तव भवत्याः यः प्रियोऽभीष्टो भर्ता तस्यावसथं मन्दिरम् । त्रीणि वा चत्वारि त्रिचतुराणि । 'संख्ययाऽव्यासन्ना-' इति बहुव्रीही 'त्र्युपाभ्यां चतुरोऽजिष्यते' इत्यच् समासान्तः । पदानि तावत्पर्यन्तमित्यर्थः । उदचलं प्रस्थितः । आपतत् ममाभिमुख्येनागच्छति स्म । दीपिकालोकेन दीपप्रकाशेन परिलुप्यमानः विनाशं प्राप्यमाणः तिमिरस्यान्धकारस्य भारः पुनः थेन तादृशम् । यष्टयः वेत्राणि कृपाणाः खड्गाश्च पाणौ यस्य तथाविधम् । ' खड्ने तु निस्त्रिंश- श्चन्द्रहासासिरिष्टयः । कौक्षेयको मण्डलायः करवाल: कृपाणवत्' इत्यमरः । नागरिकाणां रात्री नगररक्षकाणां बलं सैन्यम् । प्रवेपमानां भीतिप्रस्ताम् । असिर्द्वितीयः सहायो यस्मिन् तादृशः। त्वदपेक्षया त्वामुद्दिश्य । शये शयनं करोमि । 'शीङ् स्वप्ने' इत्यस्य शीङः सार्वधातुके गुण: इति गुणः । भाविता सव्याज प्रकटीकृता विषवेगस्य गरलवेगस्य विक्रिया विकारो नि:संज्ञत्वादि- रूपो येन तादृशः सन् । 'श्वेलस्तु गरलं विषम्' इत्यमरः । वाच्याः विज्ञापयितुमुचिताः । निशि रात्रौ । वयमहं मत्पतिश्च । अस्मदो द्वयोश्च ' इति द्वित्वविवक्षायामपि बहुवचनम् । । - लिन् । [उत्तरपीठिकाया दष्टश्च मध बायको उकिरणामुमिन्सभागृहकोणे । यदि वः कश्चिन्मंत्रावित कृपालुः स एननुज्जीवयम्मान प्राणानाहरेदनाथायाः' इति । सापि वाला गत्यन्त- राभावावगहवरा बाष्पहार्दैनाक्षी बद्धवेपथुः कथंकथमपि गत्वा मदुक्तमन्व- तिष्ठत् । अशशिष चाहं भाक्तिविषविक्रियः । तेषु कश्चिन्नरेन्द्राभिमानी मां निर्वर्ण्य मुद्रातंत्रमंत्रध्यानादिभिश्चोपक्रम्याकृतार्थः 'गत एवायं कालदष्टः । तथा हि स्तब्धश्यावमङ्गम् , रुद्धा दृष्टिः, शान्त एवोप्मा । शुचालं वासु, श्वोऽग्निसा- करिष्यामः । कोऽतिवर्तते दैवम् ' इति सहेतरैः प्रायात् । उत्थितश्चाहमुदार- काय तां नीत्वाब्रवम्-- 'अहमस्मि कोऽपि तस्करः । त्वद्गतेनैव चेतसा सहायभू- तेन त्वामिमामभिसरन्तीमन्तरोपलभ्य कृपया त्वत्समीपमनैषम् । भूषणमिद- मस्याः' इत्यंशुपटलपाटितध्वान्तजालं तदप्यर्पितवान् । उदारकस्तुं तदादाय । - - . r दर्वीकरेण सर्पण । 'दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः' इत्यमरः । सभागृहस्य नानापथि- कोद्देशेन धर्मार्थ विसृष्टमठस्य कोण एकदशे । वो युष्माकं मध्ये । 'बहुवचनस्य वस्नसौ' इति वस् प्रकृतिप्रत्यययोरुभयोमिलित्वाऽऽदेशः 1 कृपालुदयावान् । 'त्याद्दयालुः कारुणिकः कृपालुः सूरत: समाः' इत्यमरः । एनं मम भर्तारम् । उज्जीवयन्विषनिःसारणपूर्वकं ससंझं कुर्वन् । आहरेत् प्रत्यर्पयेत् । गत्यन्तराभावाद्रक्षकोपायान्तरस्याप्राप्त्या । बाष्पदुर्दिनाक्षी अश्रुकणपूरितनयना । बहुव्रीहौ सक्थ्यक्ष्णोः स्वाहात्यच् ' इति षधि ‘षिगौरादिभ्यश्च ' इति डोष् । बद्धः संजातो वेपथुर्गाप्रकम्पो यस्याः सा । ' टुवे कम्पने' इत्यतो 'द्वितोऽथुच् ' इत्यथुच्प्रत्ययः । कथंकथमपि महताऽऽयासेन । मदुक्तं पूर्वोत्तप्रकारेण वचनाप्रायवाक्यकथनमन्वतिष्ठत्कृतवती । नरेन्द्राभिमानी नरेन्दो विषचिकित्सकोऽहमित्यभिमानो गर्व एव केवलं न तु चिकित्सापरिज्ञान वस्तुतया यस्य तादृशः । नरेन्द्रो वार्तिके राज्ञि विषवैद्य च कथ्यते' इति विश्वः । निर्वर्ण्य परीक्ष्य । निवर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः । उपक्रम्य चिकित्सां कृत्वा । 'उपक्रमश्चिकित्सा स्यात् ' इति वैजयन्ती। न कृतः संपादितोऽर्थः विषावतारणरूपो येन तादृशः । गत एव मृत एवेति भावः । कालदष्टः कृष्णसर्पदष्टः । स्तब्धं निष्कम्पम् । श्यावं धूम्रवर्णम् । ऊष्मा शरीरोष्ण्यम् । शुचा शोकेनालं न किमपि प्रयोजनमस्तीत्यर्थः । श्व आगा- मिदिने । अग्निसाहनाधीनम् ' तदधीनवचने' इति सातिः । कोऽतिवर्तते दैवमिति । न कोऽपीत्यर्थः । सहेतरैरन्यैः सहचरैः सार्धं प्रायात् गतवान् । तामुदारकममिसरन्ती कन्याम् । उदारकाय नीत्वा तं प्रापय्य ।' गत्यर्थकर्मणि द्वितीयाचतुथ्यौँ चेष्टायामनध्वनि इति चतुर्थी । अहमस्मीति । अपहारवर्मा नाम । तस्करः चोरः कारणवशात् न तु स्वभावात् इति भावः । चोरैकागारिकस्तेनदस्युतस्करमोषकाः । इत्यमरः । चेतसा मनसा । अन्तरा मार्गमध्ये इत्यर्थः । उपलभ्य दृष्ट्रा । अनैषं प्रापितवानस्मि । अंशूनां भुषणत्विषां पटलेन पुजेन पाटितं विदारितं ध्वान्तजालमन्धकारसमूहो यस्य तथो- । ।

द्वितीयोच्छासः] मनोरमाख्यव्याख्यासहितम्। सलज्जं च सहर्षे च ससंभ्रमं च मामभाषत-'आर्य, त्वयेवेयमस्यां निशि प्रिया मे दत्ता । वाक्पुनर्ममापहृता । तथा हि न जाने वक्तुं त्वत्कमैतदद्भुतमिति । न ते स्वशीलमद्भुतवत्प्रतिभाति । नैवमन्येनापि कृतपूर्वमिति प्रतिनियतैव वस्तु- शक्तिः । न हि त्वय्यन्यदीया लोभादयः । त्वयाद्य साधुतोन्मीलितेति तत्प्रा- यस्त्वत्पूर्वावदानेभ्यो न रोचते । दृष्टमिदानीमौदार्यस्य स्वरूपमिति त्वदाशय- मननुमान्य न युक्तो निश्चयः । त्वयामुना सुकृतन क्रीतोऽयं दासजन इत्यसा- रमतिगरीयसा क्रीणासीति स ते प्रज्ञाधिक्षेपः । प्रियादानस्य प्रतिदानमिदं शरीरमिति तदलाभे निधनोन्मुखमिदमपि त्वयैव दत्तम् । अथवैतावत्र प्राप्त- रूपम् । अद्यप्रभृति भर्तव्योऽयं दासजनः' इति मम पादयोरपतत् । उत्थाप्य चैनमुरसोपश्लिष्याभाषिषि-'भद्र, काद्य ते प्रतिपत्तिः' इति । सोऽभ्यधत्त-'न शक्नोमि चैनामत्र पित्रोरनभ्यनुज्ञयोपयम्य यम्य जीवितुम् । अतोऽस्यामेव यामिन्यां ज्ज्जलमित्यर्थः । तदपि भूषणमणि अर्पितवान्दत्तवान् । आदाय गृहीत्वा । सलज्ज ब्रीडया सह यथा तथा । अत्र च हेतुस्तत्कृतपरिणयोयोगस्य परेण मया ज्ञातत्वम् । सहर्षे सानन्दम् । अत्र तु ज्ञातेऽप्यन्येन स्वव्यापारे स्वाभिलषितकन्याप्राप्तिः । “मुत्प्रीतिः प्रनदो हर्षः प्रमोदामो- दसंमदाः ' इत्यमरः । ससंभ्रमं साश्चर्यम् । अत्र तु चौरस्य ममाद्भुतकर्मदर्शनात् । वागिति। त्वामुद्दिश्य किमप्यहं वक्तुं न समर्थोऽस्मि स्वस्य बुद्धिसामर्थ्याभावादिति भावः । उपरिस्थानी सर्वेषामिति शब्दानामत्रत्येन वक्तुं न जाने ' इत्यनेनान्वयः । अद्भुतवदाश्चर्यवत् । एवमीका- कारेणान्येन केनचित्पुरुषान्तरेण न कृतपूर्वं पूर्व कृतं न भवति इत्यपि वक्तुं न जाने न समर्थोंs- स्मि यतो वस्तुशक्तिः तत्तत्पदार्थस्वभावः प्रतिनियतैव तत्तद्यक्त्यधीनैव । नहि तन्तुभिर्घटो- त्पत्तिदृश्यते कुत्रापि, यथा तादृशघटोत्पादकत्वरूपशक्तः कपालादावेव नियमेन स्थितिः। तथा ईदृशचमत्कारजनककार्यकारित्वं भवादृशेषु पुरुषविशेषष्वेव तिष्ठति नतु साधारणपुरुषे इति भावः । अन्यदीयां इतरपुरुषसाधारणाः । त्वयाऽद्याधुना साधुता साधोर्भावः । उन्मीलिता प्रकटीकृता । तदद्येतिकथनं पूर्वावदानेभ्यः पूर्वं कृतश्लाध्यकर्मभ्यः। 'अवदानं कर्मवृत्तम् । इत्यमरः । न रोचते संमतं नैव भवति । 'रुच्यर्थानां प्रीयमाणः' इति चतुर्थी । औदार्यस्य । महत्त्वस्य 'उदारो दातृमहतोः' इत्यमरः । त्वदाशयं भवदभिप्रायमननुमान्य सम्यगविदित्वा । अमुना सुकृतेन प्रियार्पणरूपसत्कर्मणाऽयं दासजनः सेवकः क्रीतः स्वायत्तीकृतः। असारं तुच्छम- किंचित्करं माम् अतिगरीयसा महत्तरण कर्मणा कोणासि इति हेतोः स मत्कृतभवत्स्तवः ते प्रज्ञाया: बुद्धरधिक्षेपो निन्दारूप एव भवेदिति भावः। तस्याः प्रियाया अलाभे अप्राप्तौ । निधनोन्मुखं मरणाय कृतनिश्चयमिदं मच्छरीरमपि। दत्तं स्थिरीकृतम् । एतावदेतन्मात्रमेव प्राप्तरूपं वक्तु- मुचितमित्यर्थः । अद्यप्रभृति इदानीमारभ्य । भर्तव्यः पोषणीयः । पादयोरपतत्साष्टाङ्गं प्रणाम कृतवान् । नमस्कारस्याष्टांगता च 'उरसा शिरसा दृष्टया वचसा मनसा तथा। पद्भयां कराभ्यां काभ्यां प्रणामोऽष्टांग उच्यते' इत्युक्तम् । उपश्लिष्य गाढमालिंग्य । प्रतिपत्तिः कर्तव्यता। 'प्रतिपत्तिः कर्तव्ये प्रतिभाविज्ञातगौरवेषु' इत्यमरः। पित्रोरनभ्यनुज्ञया तदनुमति विना । । । ।

दशकुमारचरितम् । [उत्तरपीटिकायां देशमिमं जिहासानि' को वाहम् , यथा त्वमाज्ञापयास' इति । अथ मयो- तम्-'अस्त्येतत् । स्वदेशो देशान्तरमिति नेयं गणना विदग्धस्य पुरुषस्य । किंतु बालेयमनल्पसौकुमार्या । कष्टाः प्रत्यवायभूयिष्ठाश्च कान्तारपथाः । शैथि- ल्यामिव किंचित्प्रज्ञासत्त्वयोरनथेनेहशेन देशत्यागेन संभाव्यते । तत्सहानया सुखमिहैव वस्तव्यम् । एहि । नयावैनां स्वमेवावासम्' इति । अविचारानुमतेन तेन सद्य एवैनांतद्गृहमुपनीय तयैवापसर्पभूतया तत्र मृद्भाण्डावशेषमचोरयाव । ततो निष्पत्य क्वचिन्मुषितकं निधाय समुच्चलन्तौ नागरिकसंपाते मार्गपार्श्वशा- यिनं कंचिन्मत्तवारणमुपरिपुरुषमाकृष्याध्यारोहाव । अवेयप्रोतपादयुगलेन च मयोत्थाप्यमान एव पातिताधोरणपृथुलोरःस्थलपरिणतः पुरीतल्लतापरीतदन्त- काण्डः स रक्षिकबलमक्षिणोत् । अध्वंसयाव चामुनवार्थपतिभवनम् । अपवाह्य च कचन जीर्णोद्याने शाखाग्राहिकया चावातराव । स्वगृहगतौ च स्नाती शयनमध्यशिश्रियाव। - । उपयम्य परिणीय । यामिन्यां रात्रौ । 'विभावरी तमस्विन्यौ रजनी यामिनी तमी' इत्यमरः। जिहासामि परित्यक्तुमिच्छामि । को वाऽहमिति । एतादृशकार्यविचारे त्वदपेक्षया मम मन्द- बुद्धित्वादित्यर्थः । विदग्धस्य समर्थस्य । अनल्पसौकुमार्या मृदुतरगात्रीति यावत् । प्रत्यवाय- भूयिष्ठाः विघ्नबहुलाः। 'विनोऽन्तरायः प्रत्यूहः' इत्यमरः । कान्तारपथा वनमार्गाः। 'कान्तारं वर्त्म दुर्गमम् ' इत्यमरः । ऋक्पूरब्धःपथामानक्षे' इति समासान्तः अप्रत्ययः । शैथिल्यं न्यूनता । वस्तव्यं स्थातव्यम् । आवासं गृहम् । अविचारानुमतेन मदुक्तं वचनं 'साधु बा असाधु वा' इति विचारमकृत्वैव स्वीकुर्वता । तेनोदारकेण । उपनीय प्रापथ्य । अपसर्प- भूतया गुप्तपुरुषीभुतया । ' अपसर्पश्चरः स्पशः' । इत्यमरः । तत्र कुबेरदत्तगृहे । मृद्भाण्डा- वशेष विवाहाथै सजीकृतानामन्येषां सर्वेषां पदार्थानां मोषितत्वेन केवलं मृद्भाण्डानि मृन्मयपा- त्राण्येवावशेषितानि यथा स्युस्तथा । निष्पत्य बहिरागत्य । मुषितकं चोरितद्रव्यजातम् । निधाय स्थापयित्वा । समुचलन्तौ स्वगृहं गच्छन्तौ । नागरिकाणां संपाते संमुखतयाऽऽगमने जाते सति । मत्तवारणमुन्मत्तं गजम् । उपरिपुरुषमुपरिस्थमाधोरणम् । आकृष्य बलानीचैर्नि- पात्य । अवेयं कण्ठरज्जुः । 'ग्रीवाविभूषणे रज्जौ ग्रैवं अवेयमित्यपि ' इति वैजयन्ती । तत्र प्रोतं स्थापितं पादयुगलं येन तथाविधेन । पातितो नीचैः क्षिप्तः य आधोरणो हस्तिरक्षक- स्तस्य पृथुले विस्तीर्ण उर:स्थले वक्षःप्रदेशे परिणतः विहिततिर्यग्दन्तमहारः। आधोरणा हस्तिपका हस्त्यारोहा निषूदनाः' इत्यमरः तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः । इति हलायुधः । पुरीतल्लतयाऽन्त्रनाडघा 'अन्त्रं पुरीतत् । इत्यमरः । परीतो व्याप्तो दन्तकाण्डो यस्य तथाविधः । रक्षिकबलं रात्रिसंचारि पौरसैन्यमक्षिणोत् नाशयामास । "क्षिणु हिंसायाम् । अध्वंसयाव ध्वस्तं कृतवन्तौ । अमुनैव वारणेन । अपवाह्य प्रापय्य । शाखाग्राहिकया शाखां गृहीत्वेत्यर्थः । धात्वर्थनिर्देशे ण्वुल् वक्तव्यः' इति वार्तिकेन ण्वुल् । अवातरावावतीणौँ । अध्यशिश्रियाव आश्रितवन्तौ । " श्रियं सेवायाम्' इत्यतो लुडुत्तमद्विवचनम् ।

१०५ द्वितीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । तावदेवोदगादुदधेरुदयाचलेन्द्रपद्मरागशृङ्गकल्पं कल्पद्रुमहेमपल्लवापीडपाटलं घृतङ्गमण्डलम् । उत्थाय च धोतवक्त्रौ प्रगेतनानि. मङ्गलान्यनुष्ठायास्मत्कर्म- तुमुलं पुरमनुविचरन्तावशृणुव वरवधूगृहेषु कोलाहलम् । अथार्थैरर्थपतिः कुबेर- दत्तमाश्वास्य कुलपालिकाविवाहं मासावधिकमकल्पयत् । उपह्वरे पुनरित्यशि- क्षयं धनमित्रम्-'उपतिष्ठ सखे, एकान्त एव चर्मरत्नभस्त्रिकामिमां पुरस्कृत्या- डराजम् । आचक्ष्व च जानात्येव देवो नैककोटिसारस्य वसुमित्रस्य मां धन- मि' नामैकपुत्रम् । सोऽहं मूलहरत्वमेत्यार्थिवर्गादस्म्यवज्ञातः । मदर्थमेव संव- धितायां कुलपालिकायां महारियदोषात्पुनः कुबेरदत्तेन दुहितर्यर्थपतये दित्सि- तायामुढेगादुझितुमसूनुपनगरभवं जरद्वनमवगाह्य कण्ठन्यस्तशखिकः केनापि जटाधरण निवार्यैवमुक्त:-'किं ते साहसस्य मूलम्' इति । मयोक्तम्-'अवज्ञा- and । ताबदेवेति । तस्मिन्नेव समये । शृङ्गेण समानं शृङ्गकल्पम् — ईषदसमाप्तौ कल्पप्-' इति अल्पप्प्रत्ययः । कल्पद्रुमस्य सुरक्षविशेषत्य संबंधिनी तादाश्रितेत्यर्थः । या हेमलता सुवर्णवल्ली तस्याः पल्लवापीडः किसलयसमूहः “आपीड: शेखरे बाते ' इति वैजयन्ती । तद्वत पाटलम् ईषद्रक्तवर्णम् । ' तरक्तस्तु पाटल: ' इत्यमरः । पतङ्गमण्डलं सूर्यबिम्बम् । पतझौ पंक्षिसूर्यों च 'इत्यमरः । धौतवक्रौ प्रक्षालितमुखौ । प्रगे उषःकाले भवानि अगेतनानि तंत्र कर्तुमुचितानीत्यर्थः । 'प्रगे प्रातः प्रभाते' इत्यव्ययवर्गेऽमरः । 'सायचिरंणालेप्रोऽव्यये- भ्यष्टयुटयुलौ तुट् च ' इति सूत्रेण टयुल तुडागमश्च । अस्मत्कर्मणा ममोदारकस्य कर्मणा चौर्यरूपेण तुमुलं संकुलम् । अनुविचरन्तौ अज्ञवचरन्तौ । अणुव श्रुतवन्तौ । ऋच ' इति उप्रत्ययः श्रवादेशश्च । वरो जमाताऽर्थपतिनामा, वधूः कन्या कुलपालि- कानानी कुबेरदत्तस्य तयोर्गृहेषु । कोलाहलमार्तनादम् । अथैनैः । अर्थरैविभवा अपि' इत्यमरः । आश्वास्य समाहितं कृत्वा । कुलपालिकायास्तन्नाम्न्याः कन्याया विवाह परिणयं मासोऽवधिर्यस्य तथाविधमकल्पयत् निश्चितवान् । विवाहोपयमौ समौ । तथा परिणयोद्वाहोपयामाः पाणिपीडनम् ' इत्यमरः । उपहरे एकान्ते । 'रहोऽन्तिकमुपहरे' इत्य- मरः । उपतिष्ठेति । चर्मरत्नस्य श्रेष्टचर्मणो भस्त्रिका प्रसेविकाम् । “रत्नं स्वजातिश्रेष्टेऽपि' इति, 'प्रसेविकोच्यते भत्रा' इति च कोशः। अल्पा भत्रा भस्त्रिका। अल्पे' इति कनि भलेषाजा-' इति इत्त्वे च रूपम् । अङ्गराजं चम्पेश्वरम् । नैककोटिसारस्य अनेककोटि- मूलद्रव्ययुक्तस्य । मूलमपि हरति विनाशयति मूलहरस्तादृशत्वमकिञ्चनत्वामिति यावत् । एत्य प्राप्य । आर्थिवर्गात् याचकलोकात् । अवज्ञातोऽस्मि इदानीं लोकैरवमानितोऽस्मि । मदर्थमेव मामेव पतिमुद्दिश्य संवर्धितायां पोषितायाम् । दित्सितायां दातुमिष्टायाम् । उद्वेगाच्छुचा । 'उद्वेगौ शोकसंभ्रमौ' इति वैजयन्ती । उज्झितुमसून् प्राणान्परित्यक्तुम् । “उज्झ उत्सर्गे' पुसि भूम्न्यसवः प्राणाः' इत्यमरः । उपनगरभवं नगरसमीपवार्त। अवगाह्य प्रविश्य । कण्ठे गले तच्छेदार्थ न्यस्ता स्थापिता शत्रिका छुरिका येन तादृशः । जटाधरेण तपस्विना । एवं वक्ष्यमाण- । - কুঙ্কজান্দ্রবিন্দু। [उत्तरपीठिकार्या । सोदय दारिद्रयम्इति । स पुनरेवं कृपालुरन्वग्रहीत्-'तात, मूढोऽसि । नान्य- त्पापिष्ठतममात्मत्यागात् । आत्मानमात्मनानवसाचैवोद्धरन्ति सन्तः । सन्त्यु- पाया धनार्जनस्य बहवः कोऽपि च्छिन्नकण्ठपातेसंधानपूर्वस्य प्राणलाभस्य । किमनेन । सोऽस्म्यहं मंत्रसिद्धः । साधितयं लक्षग्राहिणी चर्मरत्नभस्त्रिका । चिरमहमस्याः प्रसादात्कामरूपेषु कामप्रदः प्रजानामवात्सम् । मत्सरिण्यां जरसि भूमिस्वर्गमत्रोद्देशे प्रवेक्ष्यन्नागतः । तामिमां प्रतिगृहाण । मदन्यत्र चेयं वणिग्भ्यो वारमुख्याभ्योवा दुग्धे इति हि तद्गता प्रतीतिः । किंतु यत्सकाशादन्यायापहृतं तत्तस्मै प्रत्यर्पणीयम् । न्यायाजितं तु देवब्राह्मणेभ्यस्त्याज्यम् । अथेयं देवतेव शुचौ देशे निवेश्याय॑माना प्रातः प्रातः सुवर्णपूर्णेव दृश्यते । स एष कल्पः' इति बद्धाजलये मह्यमेनां दत्वा किमपि प्रावच्छिद्रं प्राविशत् । इयं च रत्न- भूता चर्मभस्त्रिका देवायानिवेद्य नोपजीव्येत्यानीता । परंतु देवः प्रमाणम्' इति । राजा च नियतमेवं वक्ष्यति-'भद्र, प्रीतोऽस्मि । गच्छ । यथेष्टामिमा- मुपमुक्ष्व' इति । भूयश्च ब्रूहि-'यथा न कश्चिदेनां मुष्णाति तथानुगृह्यताम् । प्रकारेण। साइसत्य हठप्रवृत्तेः। अवज्ञायाः अवमाननायाः सोदय बन्धुभूतं तत्सहितमिति भावः। 'समानोदर्यसौदर्यसंगभ्य॑सहजाः समाः' इत्यमरः । ' सोदराद्यत् ' इति यत्प्रत्ययः । अन्वग्रही- दनुग्रहं कृतवान् । पापिष्ठतममतिनिन्द्यमिति भावः । अनवसाय विनाशं न गमयित्वा । धनार्जनस्य द्रव्यसंपादनाय । छिनस्य कृत्तस्य कण्ठस्य प्रतिसंधानं पुनर्मेलनं तत्पूर्वकस्य प्राणलाभस्य जीवोपलब्धेरुपायो नैकोऽपि कश्चिदपि नास्तीति भावः । क्रिमनेन क्रूरकर्मणा । मन्त्रैः सिद्धः सिद्धि गतः । साधिता सिद्धियोगालब्धा। लक्षग्राहिणी प्रतिदिनं लक्षं सुवर्णमुद्रा प्रायति इति ताशी । कामरूपेषु तन्नामकदेशेषु। कामप्रदः प्रजानां जनमनोरथसंपादयिता । मत्सरिण्यामनभीष्टायो जरासि वृद्धावस्थायाम् 'पलितं जरसा शौक्लयं केशादौ विलसा जरा' इत्यमरः । 'जराया जरस- न्यतरस्याम्' इति जरसादेशः । भूमिस्वर्ग भुवि स्वर्ग इव तं तत्तुल्यमित्यर्थः। प्रतिगृहाण स्वीकु- रुष्व । इयं च चर्मभस्त्रिका । मदन्यत्र मां विना वणिग्भ्यो वैश्येभ्यो वारमुख्याभ्यो गणिकाभ्यश्च दुग्धे स्वाभीष्टं ददाति । इत्येवंप्रकारेण तद्गता भस्त्रिकासंबंधिनी प्रतीतिः प्रसिद्धिः। अन्याये- नापहृतं गृहीतम् । प्रत्यर्पणीयं पुनः प्रतिदेयम् । त्याज्यं वितरणीयम् । शुचौ पवित्रे । अर्य- माना पूज्यमाना। प्रात मातः प्रतिदिनं प्रभाते । एष कल्पः प्रकारो दोहनस्येति शेषः प्रावच्छिदं पाषाणविवरं प्राविशत् प्रविष्टवान् । इयं चेति । रत्नभूता श्रेष्ठा । देवायानिवेद्य चम्पानगर्या राजानं भवन्तमविज्ञाप्य नोपजीव्योपभोकव्या न भवतीति हेतोः। अविज्ञाप्येवोप- भोगे मदुपार चौर्यशंका जनस्य भविष्यतीति भयेनेति भावः । आनीता भवत्सकाशं प्रापिताS- स्ति । देवः प्रमाणमनन्तरकरणीयाज्ञापको भवानेवति भावः । नियतमवश्यमेव । एवं वक्ष्यमाण- प्रकारेण । मुष्णाति चोरयति । मुष स्तेये' तथाऽनुगृह्यतां मद्गृहे राजपुरुषादिस्थापनेनानु- ।

द्वितीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । इति । तदप्यवश्यमसावभ्युपैष्यति । ततः स्वगृहमेत्य यथोक्तमर्थत्यागं कृत्वा दिने दिने वरिवस्यमानां स्तेयलब्धेरथैनक्तमापूर्य प्राङ्के लोकाय दयिष्यास । ततः कुबेरदत्तस्तृणायमत्वार्थपतिमर्थलुब्धः कन्यकया स्वयमेव त्वामुपस्थास्यति । अथ कुपितोऽर्थपतिर्व्यवहर्तुमर्थगर्वादभियोक्ष्यते । तं च भूयश्चित्ररुपायैः कौपी- नावशेष करिष्यावः । स्वकं चौर्यमनेनैवाभ्युपायेन सुप्रच्छन्नं भविष्यति' इति । हृष्टश्च धनमित्रो यथोक्तमन्वतिष्ठत् । तदहरेव मन्नियोगाद्विमर्दकोऽर्थपतिसेवा- भियुक्तस्तस्योदारके वैरमभ्यवर्धयत् । अर्थलब्धश्च कुबेरदत्तो निवृत्त्यार्थपतेर्धन- मित्रायैव तनयां सानुनयं प्रादित्सत । प्रत्यबध्नाचार्थपतिः । एष्वेव दिवसेषु काममञ्जाः स्वसा यवीयसी रागमञ्जरी नाम पञ्चवीरगोष्टे संगीतकमनुष्ठास्यतीति सान्द्रादरः समागमन्नागरजनः । स चाहं सह सख्या धनमित्रेण तत्र संन्याधिषि । प्रवृत्तनृत्यायां च तस्यां द्वितीयं रङ्गपीठं ममाभू- इण् गतौ - कार्य इत्यर्थः । असौ राजा चम्पापुर्याः । अभ्युपैष्यति अङ्गीकारष्यति । लट् । यथोक्तमर्थत्यागं अन्यायार्जितं ययतस्तत्तस्मै प्रत्यर्पणीय, न्यायार्जितं तु देवब्राह्मणेभ्य- स्त्याज्यम् ' इति पूर्वोक्तविधिना द्रव्यविनियोगम् । वरिवस्यमानी पूज्यमानाम् । 'वारवस्या तु शुश्रूषा परिचर्याऽप्युपासना ' इत्यमरः । 'नमो वरिवश्चित्रङ क्यच् ' इति क्यजन्ताच्छा- नन् । स्तेयलब्धैश्चौर्यप्राप्तः । नकं रात्रौ । प्राढे प्रभातकाले। कुबेरदत्तः कुलपालिकायाः पिता तृणाय मत्वाऽर्थपति तं तृणवदनादृत्येत्यर्थः । 'मन्यकर्मण्यनादरे विभाषाऽप्राणिषु' इति चतुर्थी । अर्थलुब्धः द्रव्यासक्तः। त्वामुदारकम् । उपस्थास्यति भवत्समीपमागमिष्यति स्वकन्या- स्वीकारार्थ सानुनयं ब्रुवन्निति भावः । अथेति । कुपितो रुष्टः स्वस्मै दातुं निश्चिताया अन्यस्मै दानोद्योगश्रवणादित्यर्थः। व्यवहाँ विवादं कर्तुम् । अभियोक्ष्यते उद्योग करिष्यतीत्यर्थः । त चार्थपतिम् । चित्रैरनेकप्रकारैरुपायैः साधनैः। कौपीनावशेषं मलमल्लकशेषम् । अनेनैवाभ्युपायेन चर्मभस्त्रिकाप्रकटीकरणरूपेणोपायेन । सुप्रच्छन्नं गुप्ततरम् । यथोक्तं चर्मभस्त्रिको दर्शयित्वा राज- सविधे मदुक्तकथनम् । अन्वतिष्ठदाचरितवान् । तदहरेवेति । तस्मिन्नेव दिने । विमर्दको द्यूत- स्थले यो मित्रतां गतः। अर्थपतेः सेवायां शुश्रूषायामभियुक्तः नियुक्तः सन् । तस्यार्थपतेः । वैरं विरोधम् । निवृत्यार्थपतेः अर्थपत्यपेक्षयोदारकस्यैव चर्मभस्त्रिकया धनाढयत्वं विचार्या- र्थपतये कन्यां न दित्सुस्ततः परावृत्य । सानुनयं सान्त्वनवाक्यपुरःसरम् । प्रादित्सत दातु- मिच्छां कृतवान् । 'डुदाञ् दाने' इत्यतः सनि 'सनि मीमाधुरभलभशकपतपदामच इस्' इतीसभ्यासलोपश्च । प्रत्यबध्नाच्च विन्नमाचरितवानित्यर्थः। एम्वेवेति । एतेष्वेव वासरेषु । स्वसा यवीयसी कनिष्ठभगिनी । 'भगिनी स्वसा' इत्यमरः । पञ्चवीरगोष्ठे जनपदसम्बन्धिन्यां सभायाम् ' तत्पश्चवीरगोष्ठं तु यत्तु जानपदं सदः इति कोशसारः । संगीतकं गीतादित्रिकम् । 'गीतं वायं च नृत्यं च त्रिभिः संगतिकं विदुः इति संगीतकसर्वस्वे । अनुष्टास्यति करिष्यति इति श्रुत्वेति शेषः । सान्द्रो गाढस्तच्छ्रवणे आदरो यस्यैतादृशः। तत्र संगीतकसभामण्डपे संन्यधिषि सन्निहितोऽभूवम् । प्रवृत्तमारब्धं नृत्यं यथाः ।

Senthomnars सन् । 'भोजन लेह आहारः, इच्छाकांक्षा स्पृहहा तद्धाञ्छा लिप्सा मनोरथः যক্তনাবিল। [ उत्तरपीठिकायां न्मनः । तदृष्टिविभागोत्पलबनसचापाश्रयश्च पञ्चशरो भावरसानां सामग्यात्स- मुदितवल इव मामतिमात्रमव्यथयत् । अथासौ नगरदेवतेव नगरमोषरोषिता लीलाकटाक्षमालालाभिनीलोत्पलपलाशश्यामलाभिर्मामबन्नात् । नृत्योत्थिता च सा सिद्धिलाभशामिनी-'किं विलासात्, किमभिलाषात, किमकस्मादेव वा न जाने,--असकृन्मां सखीभिरप्यनुपलक्षितेनापाङ्गप्रेक्षितेन सविभ्रमारेचित- लतमभिवीक्ष्य, सापदेशं च किंचिदाविष्कृतदशनचन्द्रिकं स्मित्वा, लोकलोच. नमानसानुयाता प्रातिष्ठत । सोऽहं स्वगृहमेत्य दुर्निवारयोत्कण्ठया दूरीकृताहार- स्पृहः शिरःशूलस्पर्शनमपदिशन्विविक्ते तल्पे मुक्तैरवयवैरशयिषि। अतिनिष्णातच तादृश्याम् । रंगपीठं नृत्यस्थानम् । तस्या रागमंजर्या ये दृष्टिविभ्रमा अपाङ्गविलासास्तद्रूपं यदुत्प- लवनं नीलोत्पलसमुदायस्तदात्मक सन्तं कामिजनमनोवेधने समर्थ चापं शरासनमाश्रयतीति तादृशः । नत्कटाक्षरूपस्त्रसामग्रीसहितः सन्नित्यर्थः । पञ्चशरो मन्मथः । 'कामः पञ्चशरः स्मृतः' इत्यमरः । भावानां विभावानुावसात्त्विकव्यभिचारिणां रसस्य शृङ्गारस्य " बाह्यार्थालम्बनो यस्तु विकारो मनसो भवेत् । स भावः कथ्यते सद्भिस्तस्योत्कर्षों रसः स्मृतः इत्युक्तरूपस्य च सामथ्यात्संपूर्णतया । समुदितबलः नितरां पुष्ट इव। मामपहारवर्माणमतिमात्र निर्भरमव्यथयात् पीडितवान् । अथेति । नृत्यावसने इत्यर्थः । असौ रागमंजरी । नगरे बम्पापुर्या मोषेण चौर्यकर्मणा रोषिता कोपं प्राप्ता । लीलायुक्ता विलासयुक्ता याः कटाक्षमाला अपाङ्गश्रेण्यः ताभिरेव शृंखलाभिः । नीलोत्पलपलाशानि नीलोत्पलदलानि पत्रं पलाश छदनं दलं पण छदः घुमान् ' इत्यमरः । तद्वत् श्यामलाभिः कृष्णवर्णाभिः । 'कालश्यामलमेचकाः' इत्यमरः । अवघ्नानाति स्म ! गृहीते चौरे तस्योचितत्वाइन्धनस्येति भावः । नृत्योत्थिता लास्याद्विरता । ताण्डवं नटनं नाट्य लास्यं नृत्यं च नर्तने ' इत्यमरः । सा रागमंजरी । सिद्धिलाभेन ख्याति- लाभेन शोभिनी । सखीभिरप्यनुपलक्षितेनाज्ञातेनापाझप्रक्षितेन कटाक्षविलोकनेन । ' अपाझौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने ' इत्यमरः । सचिभ्रमं सविलासमारेचिते वक्रीकृते भूलते यस्मिन् कर्मणि तद्यथा तथेति क्रियाविशेषणम् । सापदेशं व्याजसहितम् । 'व्याजोऽपदेशो लक्ष्यं च ' इत्यमरः । किश्चिदीषदाविष्कृता प्रकटीकृता दशनचन्द्रिका दन्तकान्तिस्मिन्कणि तद्यथा तथा स्मित्वा हासं कृत्वा । रदना दशना दन्ता रदाः' इत्यमरः । लोकानां जनानां लोवन- श्वक्षुभिर्मानसैहृदयैश्वानुयाताऽनुसृता । प्रातिष्ठत स्वगृहाय प्रतस्थे । दुनिवारया दुःखेनापि निवारयितुमशक्ययोत्कण्ठया स्वाभीष्टरागमञ्जरीप्राप्तौ कालविलम्बासाहष्णुतया । 'स्याचिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे' इत्यमरः । दुरीकृताहारस्पृहः परित्यक्तभोजनाभिलाषः शिरःशूलस्पर्शन मस्तकवेदनाप्राप्तिमपदिशन्कपटेन कथयनित्यर्थः । विविक्त एकान्ते तले शव्यायाम् ।' तल्पं शय्याटदारेषु ' इत्यमरः । मुक्तैरङ्गैः शिथिलैरवयवैः । अशयिषि शयनं 'कृतवान् ।' शीइ स्वप्ने' अतिनिष्णातश्च मदनतन्त्रे कामशास्त्रे नितरां निपुणः। प्रवीणे । ७ ।

। द्वितीयोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । मदनतंत्रे मामभ्युपेत्य धनमित्रो रहस्यकथयत्-' सखे, सैव धन्या गणिका- दारिका, यामेवं भवन्मनोऽभिनिविशते । तस्याश्च मया सुलक्षिता भाववृत्तिः । वामप्यचिरादयुग्मशरः शरशयने शाययिष्यति । स्थानाभिनिवेशिनाश्च वामय- नसाध्यः समागमः। किंतु सा किल वारकन्यका गणिकास्वधर्मप्रतीपगामिना भद्रोदारेणाशयेन समगिरत-'गुणशुल्काहम् , न. धनशुल्का । न च पाणिग्रहणा- हतेऽन्यभोग्यं यौवनम्' इति । तच्च मुहुः प्रतिषिध्याकृतार्था तद्भगिनी काममञ्जरी माता च माधवसेना राजानमश्रुकण्ठ्यौ व्यजिज्ञपताम्-'देव, युष्मदासी राग- मजरो रूपानुरूपशीलशिल्पकौशला पूरयिष्यति मनोरथानित्यासीदस्माकमतिम- हत्याशा साद्य मूलच्छिन्ना । यदियमतिक्रम्य स्वकुलधर्ममनिरपेक्षा गुणेभ्य एव स्वं यौवनं विचिक्रीषते कुलस्त्रीवृत्तमेवाच्युतमनुतिष्ठासति । सा चेदियं देवपादाज्ञयापि तावत्प्रकृतिमापद्येत तदा पेशलं भवेत्' इति । राज्ञा च तदनु- रोधात्तथानुशिष्टा सत्यप्यनाश्रवैव सा यदासीत्, तदास्याः स्वसा माता च रुदितनिर्बन्धेन राज्ञे समगिरताम्-'यदि कश्चिद्भुजङ्गोऽत्मदिच्छया विनैना १ । निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः' इत्यमरः। 'तन्त्रं कुटुम्बकृत्ये स्यात्करणे च परिच्छदे । शास्ने प्रधाने सिद्धान्ते' इति विश्वः । निनदीभ्यां स्नातेः कौशले' इति मूर्धन्यः । सैव रागमंजर्येव धन्या श्लाघ्या । एवमनेन प्रकारेण । भवन्मनो भवदीयं चित्तम् । अभिनिविशते अभिलषति । 'नेविंशः' इत्यात्मनेपदम् । 'अभिनिविशश्च' इत्यनेन कर्मता 'याम्' इत्यत्र । सुल- क्षिता दृष्टा भावप्रवृत्तिर्मनोवृत्तिः । अयुग्मशरः कामः। शरशयने बाणतल्पे शाययिष्यति पात- यिष्यति। स्थानाभिनिवेशिनोयुक्तनायिकानायकाभिलाषवतोः। "युक्ते द्वे साम्प्रतं स्थाने' इत्यमरः। अयत्नसाध्यः सुकरः। किन्विति। वारकन्यका गणिकादारिका । गणिकानां वेश्यानां य: स्वधर्मः शुल्कग्रहणरूपस्तस्य प्रतीपगामिना विरुद्धेन आशयेनाभिप्रायेण समगिरत प्रतिज्ञां कृत- वती । 'गू निगरणे' इत्यस्मात् 'समः प्रतिज्ञाने' इत्यात्मनेपदम् । गुणाः शौर्यादय एव शुल्क देयद्रव्यं यस्यास्तादृश्यहं न धनशुल्का शुल्कत्वेन धनं न ग्रहांच्यामि, यस्तु गुणी स एव मे स्वामी. भवितुमर्हति । पाणिग्रहाहते परिणयं विना 'अन्यारादितरतेंदिक्' इति पञ्चमी । अन्येन परपुरुषेण मे यावनं तारुण्यं भोग्यं न च नैवोपभोक्तुमुचितम् । तच्च रागमञ्जर्याः प्रतिज्ञावाक्यम् । अवैकण्ट्यौ रोदनजलेन गद्गदकण्ठ्यौ । व्यजिज्ञपतां विज्ञापितवत्यौ । सा आशा । मूलच्छिन्ना समूलं विनष्टा जाता । यद्यस्मात्कारणात् । स्वकुलधर्म वेश्याधर्म शुल्कादानरूपमतिक्रम्योल्लंघ्य । अर्थनिरपेक्षा द्रव्यनिस्पृहा । विचिक्रीषते विक्रेतुमिच्छति । कुलस्त्रीणां पतिव्रतानां वृत्तं धर्ममेवाच्युतमविच्छि- भतयाऽनुतिष्ठासति आचरितुमिच्छति । प्रकृतिमापयेत स्वकुलधर्म प्राप्नुयात् । पेशलं क्षेमम् । अनुशिष्टा शिक्षिता। अनाश्रवैव तद्वचनानुरोधेन न वर्तमाना । 'वचने स्थित आश्रवः इत्यमरः । राज्ञे समगिरतां प्रतिज्ञापूर्वकं राजानमुक्तवत्यौ। । समः प्रतिज्ञाने' इत्यात्मनेपदम् । भुजङ्गो विटः । भुजङ्गो विटसर्पयोः' इति विश्वः । अस्मदिच्छया विना अस्माकं संमतिमन्तरेण । - Monaprastricalindialists भद्र, कस्तवार्थी यत्प- জুম্মাহলি। [ उत्तरपीठिकाया बालांवित्रलभ्य नाशयिष्यति स तस्करवद्वध्यः' इति । तदेवं स्थिते धनाहते न तत्वजनोऽनुमन्यते । न तु धनदायासावभ्युपगच्छतीति विचिन्त्योऽत्राभ्युपायः' इति । अथ मयोक्तम्-'किमत्र चिन्त्यम् । गुणैस्तामावय॑ गूढं धनस्तत्वजनं तोषयावः' इति । . ततश्च कांचित्काममञ्जाः प्रधानदूती धर्मरक्षितां नाम शाक्यभिक्षुकीं चीवरपिण्डदानादिनोपसंगृह्य तन्मुखेन तया बन्धक्या पणबन्धमकरवम्-'अजि- नरत्नमुदारकान्मुषित्वा मया तुभ्यं देयम्, यदि प्रतिदानं रागमञ्जरी' इति । सोऽहं संप्रतिपन्नायां च तस्यां तथा तदर्थ संपाद्य मद्गुणोन्मादिताया रागमञ्जर्याः करकिसलयमग्रहीषम् । यस्यां च निशि चर्मरत्नस्तेयवादस्तस्याः प्रारम्भे कार्या- न्तरापदेशेनाहूतेषु शृण्वत्स्वेव नागरमुख्येषु मत्प्रणिधिर्विमर्दकोऽर्थपतिगृह्यो नाम - । विप्रलभ्य वञ्चयित्वा । तस्करवत् वध्यो चोरेण तुल्यं हन्तव्यः । तेन तुल्यं क्रियाचेद्वतिः' इति वतिः । धनाहते धनदानं विना। तस्या रागमजाः स्वजन आप्तवर्गो भगिन्यादिः । नानुमन्यते सम्मतिं नैव करोति । धनदाय शुल्कद्रव्यं प्रयच्छतेऽसौ रागमजरी न अभ्युपगच्छति नैवाङ्गीकरोति । इत्युभयतः स्पाशारज्जुः इतिवत् धनदाने दानेऽपि तत्संमेलनस्य दुष्करत्वाद्धे- तोरत्र तस्याः संगमेऽभ्युपायो विचिन्त्यः विशेषेण चिन्तनीयः इति भावः । आवयं वशीकृत्य । तोषयावः संतोषयावः। ततश्चेति । अथ कदाचित् । प्रधानदूती प्रियदूतिकाम् । शाक्यभिक्षुकी बौद्धमतावल- म्बिनीं तापसीम् । चीवरमाच्छादनं, पिण्डः आहारः एतदादिना तत्प्रदानेनोपसंगृह्य वशवर्तिनी कृत्वा । तन्मुखेन धर्मरक्षिताद्वारा । तया बन्धक्या कुलटया काममचर्या सह । 'पुंश्चली धर्षणी बन्धक्यसती कुलटेत्वरी' इत्यमरः । पणबन्धं रागमञ्जर्यर्थं शुल्कनियमम् । मुषित्वा चोरयिस्वा । यदि प्रतिदानं रागमजरी रागमजरी चेन्मह्यं भवती दास्यतीति भावः। संप्रति- पन्नायां च तस्यां काममजर्यामझीकृतवत्याम् । तथा तमर्थे संपाद्य चर्मभस्त्रिका तस्यै समयेति यावत् । मम गुणैरुन्मादितायाः कामावस्थामुन्मादाख्यां गतायाः। करकिसलयमग्रहीषम् उद्वा- हमकरवम् । निशि रात्रौ । निशा निशीथिनी रात्रि :' इत्यमरः । 'पद्दन्नोमासूहृनिशसन्' इति निनादेशः। चर्मरत्नस्तेयवादः 'श्रेष्ठभुता चर्मभत्रिकोदारकगृहात्केनापि मुषिता' इति जनश्रुतिः । तस्याः प्रारम्भे तद्वात्रिपूर्वभागे । कार्यान्तरापदेशेन कार्यान्तरमिषेण 'व्याजोऽपदेशो लक्ष्य च' इत्यमरः । आहूतेष्वेकत्र सनिधापितेषु । शृण्वत्स्वाकर्णयत्सु । नागरमुख्येषु नगरप्रधान- जनेषु । मम प्रणिधिगूढपुरुषः। 'यथार्हवर्गः प्रणिधिरपसर्पश्चरः स्पशः। चारश्च गूढपुरुषः अर्थपतेह्यो नाम भूत्वा तत्पक्षपातीव स्थितः सन् । अतर्जयद्भीषयामास । उक्तं चेति । कस्तवार्थः किंवा ते प्रयोजनामत्यर्थः । अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' ।

, D १ द्वितीयोच्छ्वासः] मनोरमाख्यव्याख्यासहितम् । रस्य हेतोर्मामाकोशसि । न स्मरामि स्वल्पमपि तवापकारं मत्कृतम्' इति । स भूयोऽपि तर्जयन्निवाब्रवीत्-‘स एष धनगो नाम, यत्परस्य भार्या शुल्कक्रीता पुनस्तत्पितरौ द्रव्येण विलोभ्य स्वीचिकीर्षसि । ब्रवीषि च-'कस्तवापकारो मत्कृतः' इति, ननु प्रतीतमेवैतत् 'सार्थवाहत्यार्थपतेविमर्दको बहिश्चराः प्राणाः' इति । सोऽहं तत्कृते प्राणानपि परित्यजामि । ब्रह्महत्यामपि न परिहरामि । ममैकरात्रजागरप्रतीकारस्तवैष चर्मरत्नाहंकारदाहज्वरः ' इति । तथा ब्रुवाणश्च पौरमुख्यैः सामर्षे निषिध्यापवाहितोऽभूत् । इयं च वार्ता कृत्रिमातिना धन- मित्रेण चर्मरत्ननाशमादावेवोपक्षिप्य पार्थिवाय निवेदिता । स चार्थपतिमाहूयो- पहरे पृष्टवान् 'अङ्ग, किमस्ति कश्चिद्विमर्दको नामात्रभवतः' इति । तेन च मूढात्मना 'अस्ति देव, परं मित्रम्' । कश्च तेनार्थः' इति कथिते राज्ञोक्तम्- अपि शोषि तमाहातुम् ' इति । 'बाढमस्मि शक्तः' इति निर्गत्य स्वगृहे बेशवाटे हातलभायानापणे च निपुणमान्वयनोपलब्धवान् । कथं वोपलभ्येत इत्यमरः । परस्य हेतोरर्थपतेहेतोः, आक्रोशसि निन्दति । स विगर्दकः । धनगर्योनाम प्रत्यह धर्मभस्त्रिकया लभ्यते यल्लक्षमुद्रात्मकं धनं तज्जनितो मद एव । परस्य भार्यामर्थपतेर्भार्यात्वेन निश्चितां शुल्केन देयद्रव्येण क्रीतां स्वीकृताम् । तस्याः कुलपालिकायाः पितरौ मातापितरौ । विलोभ्य वञ्चयित्वा । स्वीचिकीर्षसि ग्रहीतुमिच्छसि । प्रतीतं प्रसिद्धमेव । बहिश्चराः प्राणाः माणतुल्यस्नेहविषय इति भावः । सोऽहं विमर्दकः । तत्कृतेऽर्थपतिमुद्दिश्य । ब्रह्महत्या ब्राह्मण- वधमपि । एका चासौ रात्रिश्चैकरात्रः । 'अहःसर्वैकदेशसंख्यातपुण्याच रात्रेः' इति समासान्ते- sचि रात्राहाहाः पुंसि' इति पुंस्त्वे च रूपम् । एकरात्रे यो जागरो निद्रापरित्यागः स एव तावन्मात्रप्रतीकारश्चिकित्सारूपः यस्य तादृशस्तवैष चर्मरत्नजनितो योऽहंकारो गर्वस्तद्रूपो दाहज्वर उष्णज्वरः एकस्यामस्यामेव रात्री जागरणं कृत्वा तव चर्मरत्नमपि मुषित्वा तज- नितं तवाहंकारं नाशयिष्यामीति प्रकरणार्थः । ब्रुवाणः कथयन् । सामर्षे कोपेन । ' कोपक्रो- धामर्षरोषप्रतिघा रुजुधौ स्त्रियौ' इत्यमरः । निषिध्यानिवार्यापवाहितो बहिनिष्कासितः । इयं च वार्तेति । विमर्दककृतभर्त्सनरूपा । कृत्रिमा कपटेन दर्शिता आर्तिः पीडा यस्यैवं- भूतेन । 'डुकृञ् करणे' 'ड्वितः क्रिः' 'ऊर्मन्नित्यम्' इति कृत्या निर्वृत्ता कृत्रिमा । 'आतिः पीडाधनुष्कोटयोः' इत्यमरः । चर्मरत्नस्य नाशं चौर्यमादावेव पूर्वमेवोपक्षिप्य प्रस्तूय । प्रस्तावः इति वैजयन्ती । उपहरे एकान्ते । अङ्गति संबोधनमव्ययम्। 'स्युः प्याट् पाडङ्ग है हे भोः' इत्यमरः । मूढात्मना पूर्वापरविचारशून्येन । परं मित्रं नितरां विश्चासभा- जनम् ! आह्वातुमत्रानेतुम् । वेशवाटे वेश्यागृहवीथिकायाम् । 'वेशो वेश्यागृहम्' इति हैमः । आपणे पण्य वीथ्यां च । 'आफ्णस्तु निषद्यायां विपणिः पण्यवीथिका' इत्यमरः । निपुणं सम्य- कायापन्विष्यन्मार्गयन् । नोपलब्धवान्न ददर्श । कथंवेति । केन वा प्रकारेण स बराको धूर्ती । स्यादुपक्षेपः । - -- ११२ दशकुमारचरितम् । [उत्तरपीठिकायो स बराकः । स खलु विमर्दको भग्राहितत्वदभिज्ञानचिह्नो मन्नियोगात्त्वदन्वे- अण्णायोजयिनी तदहरेव प्रातिष्ठत ! अर्थपतिस्तु तमदृष्ट्वा तत्कृतमपराधमात्मसं. बद्ध भत्या मोहाड्याद्वा प्रत्याख्याय पुनर्धनमित्रेण विभाविते कुपितेन राज्ञा निगृह्य निगडबन्धनमनीयत । तेष्वेव दिवसेषु विधिना कल्पोक्तेन चर्मरत्नं दोग्धुकामा काममरी पूर्व- दुग्धं क्षपणीभूतं विरूपकं रहस्युपसृत्य ततोऽपहृतं सर्वमर्थजातं तस्मै प्रत्यय सप्रश्रयं च बनुनीय प्रत्यागमत् । सोऽपि कथंचिन्निग्रन्थिकग्रहान्मोचितात्मा मदनुशिष्टो हृष्टतमः स्वधर्ममेव प्रत्यपद्यत । काममञ्जयपि कतिपयैरेवाहोभि- रश्मन्तकशेषमजिनरत्नदोहाशया स्वमभ्युदयमकरोत् । अथ मत्प्रयुक्तो धनमित्रः पार्थिवं भिथो व्यज्ञापयत्-'देव, येयं गणिका काममञ्जरी लोभोत्कर्षाल्लोभम- जरीति लोकावक्रोशपात्रमासीत्, साद्य मुसलोलखलान्यपि निरपेक्षं त्यजति । TREENA । विमर्दक उपलभ्येत प्राप्तो भविष्यति । खलु निश्चयेन । मयाऽपहारवर्मणा ग्राहितानि संदिष्टानि तव राजवाहनस्य अभिज्ञानचिह्नानि स्मारकलक्षणानि यस्मै ताशः सन् । मम नियोगादाज्ञया । तदहरेव तस्मिन्नेव दिवसे । प्रातिष्ठत प्रस्थितवान् । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । आत्मनि स्वस्मिन्संबद्धमारूढं मत्वा विचार्य । प्रत्याख्याय राजसंनिधौ विमर्दकादर्शने कारणा- न्तरं विपरीतमुक्त्वा । 'प्रत्याख्यानं निरसने विपरीतविजल्पिते इत्यजयः। विभाविते. तददर्शने मचर्मरत्नचौर्यमेव वस्तुतः कारणमित्याविष्कृते सति । निगडबन्धनं पादबन्धन तत्पुरःसरं कारागृहमिति यावत् । अनीयत प्रापितः । 'णी प्रापणे' तेष्वेवेति । पूर्वोक्तेष्वेव दिनेषु । कल्पोकेन विधिना चर्मरत्नदोहनकल्पकथितेन प्रकारेण । दोग्धुकामा ततः स्वाभीष्टानि लब्धुमिच्छुः । 'तुं काममनसोरपि ' इत्यनुस्वारलोपः । पूर्वदुग्धं पुरैव निर्धनीकृतमत एव क्षपणीभूतं जैनमतावलम्बिनं विरूपकं तन्नामानं वैश्यमुपसृत्य गत्वा । अर्थजातं द्रव्यनिचयम् । सप्रश्रयं विनयवाक्यपुरःसरम् । अनुनीय सान्त्वयित्वा । सोऽपि विरूप- कश्च । निर्ग्रन्थिकप्रहाजैनमतसिद्धान्तात् । 'निर्ग्रन्थोऽर्हन् क्षपणकः श्रमणो जिन इत्यपि ' इति वैजयन्ती । मोचित आत्मा येन तादृशः सन् । मदनुशिष्टः 'इतः वेश्यागृहं मा गमः' इति सम्यङ्मया शिक्षितः। स्वधर्म वैश्याचारमेव । प्रत्यपद्यताचरति स्म । अश्मन्तकमधिश्रयणी तदेव शेषो यस्मिन्कणि तद्यथा तथा । ' अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका ' इत्यमरः । अजिनरत्नस्य चर्मरत्नस्य दोहे आशया कामनया। अभ्युदयं मङ्गलकर्माकरोत्कृतवती । अथेति । मया प्रयुक्तः प्रेरितः। पार्थिवं राजानं मिथो रहसि व्यज्ञापयनिवेदयामास । देव हे राजन् ! ' राजा भट्टारको देवः' इत्यमरः । लोभोत्कर्षात्तृष्णोदेकात् । लोकानां जनानामव- क्रोशस्य पात्रं आस्पदम्। मुसलोलूखले धान्यानां निस्तुषीकरणसाधनीभूते । अयोऽयं मुसलोऽस्त्री स्यादुलूखलमुदूखल इत्यमरः । तदादीन्यपि निरपेक्षमविचायैव त्यजति ददाति । १ MER द्वितीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । ११३ तन्मन्ये मञ्चमरनालाभं हेतुम् । तस्य खलु कल्पस्तादृशः । वणिग्भ्यो वारमु- ख्याभ्यन्ध दुग्धे नान्येभ्य इति हि तद्गता प्रतीतिः । अतोऽमुष्यामस्ति मे.शङ्का इति । सा सद्य एव राज्ञा सह जनन्या समाहूयत । व्यथितवर्णेनेव मयोपहरे कथितम्-'नूनमार्ये, सर्वस्वत्यागादतिप्रकाशादाशङ्कनीयचर्मरत्नलाभा । तदनु- योगायाङ्गराजेन समाहूयसे । भूयोभूयश्च निर्बद्धया त्वया नियतमस्मि तदा- गतित्वेनाहमपदेश्यः । ततश्च मे भावी चित्रवधः । मृते च माये न जीविष्य- त्येव ते भगिनी । त्वं च निःस्वीभूता । चर्मरत्नं चधनमित्रमेव प्रतिभजिप्यति । तदियमापत्समन्ततोऽनर्थानुबन्धिनी । तत्किमत्र प्रतिविधेयम्' इति । तया तज्जनन्या चाश्रूणि विसृज्योक्तम्- 'अस्त्येवैतदस्मद्वालिश्याग्निभिन्नप्रायं रहस्यम् । राज्ञश्च निर्बन्धाद्विस्त्रिश्चतुर्निइत्यापि नियतमागतिरपश्यैव चरितस्य त्वयि । त्वाय त्वपादिष्टे सर्वमस्मकुटुम्बसवसीदेत् । अर्थपतौ च तदपयशो रूढम् । अङ्गपुरप्रसिद्धं च तस्य कोनाशस्यालाभिः संगतम् । अमुनैव तदस्मभ्यं दत्त- मित्यपदिश्य वरमात्मा गोपायितुम् इति मामभ्युपगमच्या राजकुलमगमताम् । राज्ञानुयुक्ते च 'नैष न्यायो वेशकुलस्य यदातुरपदेशः । न हाथैयार्जितैरेव तत्तस्मात्कारणादेतादृशदानस्य हेतुं निमित्तं मचर्मरत्नलाभ तत्प्राप्तिमेव मन्ये निश्चिनोति । तादृशः 'अन्यायार्जितं यद्यतस्तस्मै प्रतिदेयम्, न्यायार्जितं तु देवब्राह्मणेभ्यो देयम् । इति कल्प, विधिः। तद्गता चर्मरत्नसंबन्धिनी प्रतीतिः प्रख्यातिः।अमुष्या काममञ्जाम् । शंका चौर्यशङ्का व्यथितवर्णेनवे कृत्रिमतया प्रकटितमुखवैवर्थेन । उपरे रहसि । नूनं निश्चयेन । अतिप्रकाशात प्रसिद्धतरात् । आशंकनीयस्त्वयि संदेहविषयीभूतश्चर्मरत्नलाभो यस्यास्तादृशी। तदनु- योगाय तत्प्रश्नाय । 'प्रश्नोऽनुयोगः पृच्छा च ' इत्यमरः । समाहूयसे आकारिताऽसि । निर्बद्धया भीषितया। नियतमवश्यम् । अगतित्वेन गत्यन्तराभावात् । अपदेश्योऽस्मि कथ- नीयोऽस्मि । भावी चित्रवधो भविष्यत्येव । 'भविष्यति गम्यादयः' इति णिनिः । न जीवि- ध्यत्येव पातिव्रत्यात्तस्याः साऽवश्यं मरिष्यतीति भावः । निःस्वीभूता दारिद्रतां गता। निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः' इत्यमरः । धनमित्रमेव प्रतिभजिष्यात तस्मा एव प्रत्यर्पितं भविष्यति । अनर्थानुबन्धिनी अनर्थोत्पादयित्री । अत्रास्मिन्कार्ये । किमत्र प्रतिविधयं को वा उपाय आश्रयणीयः । बालिशस्य भावो बालिश्यं तस्मादस्मन्मात् । 'अज्ञे मूढयथाजातमूर्खवैधेयवालिशाः' इत्यमरः । निकुत्यापि मिथ्याभाषणेन प्रच्छाद्यापि । आगतिः प्राप्तिः । अवसदेत विनाशं गच्छेत् । तदपयशश्चर्मरत्नहरणा कीर्तिः। कीनाशस्य क्षुइस्य । ' कीनाशः कर्षकक्षुद्रोपांशुधातिषु वाच्यवत् । यमे ना' इति मेदिनी । ' कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु' इत्यमरः । संगतं मित्रता । अमुनवार्थपतिनैव । तचर्मरत्नम् । अपदिश्य मिथ्योक्त्वा । आत्मा गोपायितुं रक्षितुं वरं शक्य इति यावत् । 'गुपू रक्षणे। अगमतां गच्छतः स्म । ' गम्ल गतौ । 'पुषादिद्युतादि-' इत्यङ् । अनुयुक्ते पृष्टे सत्यौ। Malabar ma । । ।

ভলাহি उत्तरपीठिकाया पुरुषा वेशमुपातिष्ठन्ति इत्यस्कृतिप्रणुध कर्णनासाच्छेदोपक्षेपभोषिताभ्यां दग्ध- बन्धकीभ्यां सा एक तपस्वी तस्करनाथपतिराह्यत । कुपितेन च राज्ञा तस्य प्राणेपूछतो दण्डः । प्राचलिना धनमित्रेणैव प्रत्यषिध्यत--'आर्य, मौर्यदत्त एष वरो वणिजाम ईदृशेष्वपराधेप्वसुभिरवियोगः।यदि कुपितोऽसि हृतसर्वस्वो निर्वा- सनीयः पाप एषः' इति । तन्मूला च धनमित्रस्य कीर्तिरप्रथत । अप्रीयतच भर्ता। पटचरच्छेदशेषोऽर्थपतिरर्थमत्तः सर्वपौरजनसमक्षं निरवास्यत । तस्यैव द्रव्याणां तु केनचिबयवेन सा वराकी काममञ्जरी चर्मरत्नमृगतृष्णिकापविद्धसर्वस्वा सानुकम्प धनमित्राभिनोदितेन भूपेनान्वगृह्यत । धनमित्रश्चाहनि गुणिनि कुलपालिकामुपायंस्त । तदेवं सिद्धसंकल्पो रागमञ्जरीगृहं हेमरत्नपूर्णमकरवम् । अस्मिश्च पुरे लुब्धसमृद्धवर्गस्तथा मुषितो यथा कपालपाणिः स्वैरेव धनैर्म- द्विश्राणितैः समृद्धीकृतस्यार्थिवर्गस्य गृहेषु भिक्षार्थमभ्रमत् । न ह्यलमतिनिपुणो- । 20 दादुरपदेशस्तनामप्रकटीकरणम् । वेशं गणिकामन्दिरम् । असकृत्युनःपुनः । मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः' इत्यमरः । अतिप्रणुद्य नितरां पीडयित्वा । कर्णनासाच्छेदस्य तत्कर्तनस्योपक्षेपेण प्रस्तावेन प्रस्तावः स्यादुपक्षेपः' इति वैजयन्ती। भीषिताभ्यामुद्वेगं प्रापिताभ्यां दग्धबन्धकीभ्यां हतभाग्यकुलटाभ्याम् । तपस्वी निर्दोषतया शोच्यभूतः । 'तपस्वी बानुकम्पार्हः ' इत्यमरः । अग्राह्यत ग्राहितोऽभूत् । दण्डः शिक्षा । प्रत्यषिव्यत निवारितः। मौर्यो राजनीतिकारकस्तेन दत्तः । अपराधेष्वागस्सु। असुभिरवियोगः प्राणहानिर्न कार्येति । निर्वासनीयो देशाबहिष्कार्यः । तन्मूलाऽर्थपतिप्राणरक्षणहेतुकी । अप्रथत ख्याताऽभूत् । पटञ्चर- च्छेदो जीर्णवस्त्रखण्डः शेषो यस्य तथाकृतः। 'पटचरं जीर्णवस्त्रम् ' इत्यमरः । सर्वपौरजन- मक्षं समस्तनागरिकजनसंनिधाने निरवास्यत बहिनिष्कासितः । तस्यैवार्थपतेरेव । अवयवे- नांशेन । चर्मरत्नमृगतृष्णकया तदाशयाऽपविद्धं परित्यक्तं सर्वस्वं यया तादृशी । सानुकम्प दयायुक्तम् । 'कृपा दयाउनुकम्पा स्यात् ' इत्यमरः । धनमित्रेणाभिनोदितेन प्रार्थनापूर्वक प्रेरितेन । अन्वगृह्यतानुगृहीता । अहनि गुणिनि शुभदिवसे 'घस्रो दिनाहनी वा तु क्लोबे दिवस- बासरौ' इत्यमरः । कुलपालिकामेतन्नान्नी कुबेरदत्तकन्याम् । उपायंस्त पर्यणैषीत् । उपरमे' उपपूर्वः । परिणयाथें । ततो लुङ् । एवमिति । पूर्वोत्तप्रकारेण सिद्धः परिपूर्ण संकल्पः मनोरथः विरूपकस्य स्वधनप्राप्तिपूर्वकं स्वधर्म एव स्थापनम्, मरीचिविरूपकयोरपका- रिण्याः काममंजर्या अवमाननम् , कुलपालिकाधनमित्रसंयोजनम्, तद्विधातकार्थपतिनिष्कासनम्, एतद्रूपः यस्य तथाविधः सन् । अस्मिश्चेति । चम्पापुर इत्यर्थः । लुब्धानां वितरणे कृपणानां समृद्धानां धनसम्पन्नानां च वर्गः समुदायः । तथा तेन प्रकारेण मुषितः चोरितः । यथा येन प्रकारेण कपालं शिरोऽस्थि- खण्डः पाणौ भिक्षाटनार्थं यस्य तथाविधः सन् । स्यात्कर्परः कपालोऽस्त्री' इत्यमरः । मया अपहारवर्मणा विश्राणितैः दत्तः। ' त्यागो विहापितं दानमुत्सर्जनविसर्जने । विश्राणनं वितरणं . । -- । ।

द्वितीयोच्छासः मनोरमाख्यव्याख्यासहितम् । ऽपि पुरुषो नियतिलिखितां लेखामतिक्रमितुम् । यतोऽहमेकदा रागमञ्जाः प्रणयकोपप्रशमनाय सानुनय पायितायाः पुनः पुनः प्रणयसमर्पितमुखमधुगण्डू- बमास्वादमास्वादं मदेनास्पृश्ये । शीलं हि मदोन्मादयोरमार्गेणाप्युचितकर्मवेव प्रवर्तनम् । यदहमुपोढमदः ' नगरमिदमेकयैव शर्वर्या निर्धनीकृत्य त्वद्भवनं पूरयेयम्' इति प्रव्यथितप्रियतमाप्रणामाञ्जलिशपथशतातिवर्ती मत्तवारण इव रभसच्छिन्नशृङ्खलः कयापि धात्र्या शृगालिकांख्ययानुगम्यमानो नातिपरिक- रोऽसिद्वितीयो रंहसा परेणोदचलम् । अभिपततोऽपि नागरिकपुरुषानशङ्कमेव विगृह्य तस्कर इति तैरभिहन्यमानोऽपि नातिकुपितः क्रीडन्निव मदावसन्नहस्त- पतितेन निस्त्रिंशेन द्विवानेव हत्वावपूर्णमानताम्रदृष्टिरपतम् । अनन्तरमार्तरवा- स्पर्शनं प्रतिपादनम् ' इत्यमरः । समृद्धीकृतस्य पूरितस्यार्थिवर्गस्य याचकलोकस्य । गृहेषु भवनेषु । गृहाः पुंलि च भूम्न्येव निकाल्यानिलयालयाः' इत्यमरः । अनमत्परिभ्रमति स्म । 'भ्रम अनवस्थाने या भ्राशमलाशत्रमुकमुलमुत्रसित्रुटिलपाः' इति इयनोऽभावपक्षेत्र शम् । नह्यलं निश्चयेन समर्थो न भवति । 'अलं भूषणपर्याप्तिशक्तिवारणवाजामू' इत्यमरः । अति- निपुणो नितरां चतुरोऽपि । नियतिलिखितां लेखां विधिना ललाटे लिखित लिपिम् । 'दैव दिष्टं भागधेयं भाग्यं स्त्री नियतिविधिः' इत्यमरः । अतिक्रमितुमुलंघयितुम् । प्रणयकोपस्य स्नेहकलहस्य प्रशमनाय तनिवारणार्थम् । सानुनयं प्रश्रयपूर्वकम् । प्रणयसमर्पित नेहेन दत्तं मुखमधु गण्डूषं मुखादुच्छिष्टमदिरम् । आस्वादमास्वादं पुनः पुनः पीत्वा । "आभीक्ष्ण्ये णमुल च ' इति णमुलि 'नित्यवीप्सयोः' इति द्विरुक्तिः । मदेनास्पृश्ये उन्मत्तोऽहमभूवामित्यर्थः । अमार्गेणापि कुत्सिताचरणेनाप्युचितकर्मस्वेवाभ्यस्तकार्येष्वेव । 'अभ्यस्तेऽप्युचितं न्याय्ये ' इति वैजयन्ती । प्रवर्तनमनुष्ठापनम् । उपोढमदः पूर्णमदः । शर्वर्या रजन्या ! 'अथ शर्वरी । निशा निशीथिनी रात्रिः' इत्यमरः । निर्धनीकृत्य दरिद्रीकृत्य । प्रव्याथिता स्वनायकोपरि चौर्ये कृते काप्यापदापतिष्यतीति विह्वलीभूता या प्रियतमा रागमञ्जरी तस्याः प्रणामाजलौनां नमस्काराञ्जलीनां शपथानां च शतमतिक्रम्य वर्तत एवंशीलः सन् । मत्तवारणो मत्तगज इव । मतङ्गजो गजो नागः कुञ्जरो वारणः करी' इत्यमरः । रभसेन बेगेन छिन्ना भामा शृंखला पादबन्धनं येन तादृशः । धात्र्योपमात्रा। 'धात्री स्यादुपमाताऽपि क्षितिरप्यामलक्यपि इत्यमरः । न विद्यतेऽत्यन्तं परिकरो युद्धसामग्री यस्य तादृशः । असिः खङ्गो द्वितीयः सहा- यभूतो यस्य सोऽसिद्वितीयः । खड्ञ तु नित्रिंशचन्द्रहासासिरिष्टयः' इत्यमरः । परेण रहसा महता वेगेन । उदचलं प्रस्थितवान् । आभिपततः आभिमुख्येनागच्छतः । विगृह्य तैः सह युद्धं कृत्वा । ' अत्रियां समारानीकरणाः कलहविग्रहौ' इत्यमरः । तस्कर इति 'चौरोऽयम् इति बुद्धया । 'चौरैकागारिकस्तेनदस्युतस्करमोषकाः' इत्यमरः। अभिहन्यमानस्ताड्यमानः । नातिकुपितः मदोद्रेकात्कोपं न गतः सन् । मदेनावसन्नः दुर्बलीभूतो यो हस्तः करस्तस्मात पतितेन गलितेन निस्त्रिंशेन खझेन । द्वौ वा त्यो वा द्वित्रास्तान् । 'संख्ययाऽव्ययासनादूराधिक- ॥ ।

সুজুবিন্দু। [उत्तरपीठिकाय विसृजन्ती गालिका भनाभ्याशसागमत् । अवध्ये चाहमारभिः । आपदा तु, मदापहारण्या सच एक बोधितस्तत्क्षणोपजातया प्रतिभया व्यचीचरम्-'अहो, ममेयं मोहमूला महत्यापदापतिता । प्रस्मृततरं च सख्यं मया सह धनमि- त्रस्य, मत्परिग्रहत्वं च रागमञ्जाः । मदेन सा च सौ प्रोणुतौ श्री नियनं निग्र- हिष्यते। तदियमिह प्रतिपत्तियानुनीयमादया मन्नियोगतस्तौ परित्रास्यते । मा. च कदाचिदनादितस्तारयिष्याते' इति कमायुपायमात्सनैव निर्णीय शृगालि- कामगादिषम्-'अपेहि जतिके, या तामर्थलुब्धा दग्धगणिकां रागमजारका- मजिनरत्नमत्तेन शत्रुणा मे मित्रच्छद्मना धनमित्रेण संगमितवती, सा हतासि । तस्य पापस्य चर्मरत्नमोषादुहितुश्च ते साराभरणापहारादहमद्य निःशल्यमुत्स्ट- जेयं जीवितम्' इति । सा पुनरुद्धटितज्ञा परमधूर्ता साश्रुगद्गदमुदञ्जलिस्तान , संख्याः संख्येये' इति समासे : बहुव्रीहौ संख्यये डजबहुगणात्' इति समासान्तो प्रत्ययः । अवघूर्णमाने परिभ्रमन्त्यौ ताने दृष्टी नयने यस्य तादृशः । 'घुण घूर्ण भ्रमणे'। अनन्तरामिति । आरिवान्दीनशब्दान् । शब्दे निनादनिनदध्वनिध्वानरवस्वना: मरः । अभ्याशं निकटम् । 'सदेशाभ्याशसविधसमर्यादसवेशवत् ' इत्यमरः । आगमदानता अबध्ये बद्धोऽभूवम् । आरीभिः शत्रुभिनागरिकजनैः । 'रिपौ बरिसपत्नारिद्विषद्वेषणदुहृदः ' इत्यमरः । मदापहारिण्या मदनिवारणशीलया । बोधितः सचेतीकृतः । तत्क्षणे तस्मिन्नेवावसरे: उपजातयोत्पन्नया प्रतिभया 'प्रज्ञा नवनवोल्लासमालिनी प्रतिभा मता' इत्युक्तप्रज्ञाविशेषेण व्यची. चरं विचारं कृतवान् । मोहमूला अज्ञाननिमित्तिका ! महती दुस्तराऽऽपद्विपत्तिरापतिता जाता है. प्रसृततरं विख्यातप्रायम् । मत्परिग्रहत्वं मत्पत्नीत्वम् । 'पत्नीपरिजनादानमूलशापाः परिग्रहा: इत्यमरः । मदेनसा मम दुरितेन । कलुषं वृजिनैनोऽधमहोदारतदुष्कृतम्' इत्यमरः । तै रागमञ्जधिनामत्रौं । प्रोणुतावाच्छादितौ ? 'अणुन् आच्छादने' । श्व आगामिनि दिवसे । निय- तमवश्यमेव । निग्रहीयेते बद्धौ भविष्यतः इयमुपरि वक्ष्यमाणस्वरूपा प्रतिपत्तिारतिकर्तव्यता परित्रास्येते आपदो मोचितौ भविष्यतः । 'त्रैङ् पालने ' इत्यतः कर्मणि लट् । तारयिष्यतीय प्रतिपत्तिः कदाचिन्सामपि उद्धरिष्यति । आत्मनैव निर्णीय स्वयं मनस्येवाशु निश्चित्य । अगा- दिषमुक्तवान् । “अतो हलादेर्लघोः' इति वैकल्पिकी बुद्धिः । अपेहीति । दूरस्थिता भव । इण् गतौ' जरतिके हे वृद्धे ! अर्थलुब्वा धनाशापूर्णाम् । मित्रमिति छद्म कपटो यस्य तथा- विधेन । 'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः । संगमितवती संयोजितवती । सा हताऽसीति । मत्परिग्रहस्य रागमञ्जर्या अन्येन धनमित्रेण सह संमेलनरूपापराधात्त्वा सद्य एवावसादयिष्यामीति भावः । तस्य पापस्यैव परकलनगमनशीलस्य दुष्टस्य धनमित्रस्य चर्मरत्नमोषाचर्मभास्त्रिकायाश्चौर्यात् । दुहितुश्च ते तव कन्याया रागअर्याः साराभरणानां मुख्या- लकाराणामपहरणान्मोषणेन । सा शृगालिका वचनाचातुर्यायथार्थनान्नी । उद्घट्टितं धनमित्ररा- गमआर्योर्मया सह विरोधाविष्करणरूपापदुद्धारोपायस्व सूचनं जानातीति उद्घट्टितज्ञा । 'सूचन ।

द्वितीयोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । पुरुषान्सप्रणाममांसादितवती सामपूर्व मम पुरस्तादयाचत-भद्रकाः, प्रतीक्ष्यता कचित्कालं यावदस्मादस्मदीयं सर्व मुषितमर्थजातमवगच्छेयम् ' इति । तथेति लैः प्रतिपन्ने पुनर्मत्समीपमासाद्य ' सौम्य, क्षमस्वास्य दासीजनस्यैकमपराधम् । अस्तु स कामं त्वत्कलत्राभिमर्शी वैरास्पदं धनमित्रः । स्मरंस्तु चिरकृतां ते परि- ‘चर्यामनुग्रहीतुमर्हसि दासी रागमञ्जरीम् । आकल्पसारो हि रूपाजीवाजनः । तब्रूहि क निहितमस्यां भूषणम्' इति पादयोरपतत् । ततो दयमान इवाहमन- वम्-'भवतु, मृत्युहस्तवर्तिनः किं ममामुष्या वैरानुबन्धेन' इति तब्रुवन्निव कर्ण एवैनामशिक्षयम्-'एवमेवं प्रतिपत्तव्यम्' इति ।सा तुप्रतिपन्नार्थेव जीव चिरम् , 'प्रसीदन्तु ते देवताः, देवोऽप्यङ्गराजः पौरुषप्रीतो मोचयतु त्वाम् , एतेऽपि भद्रमुखास्तव दयन्ताम्, इति क्षणादपासरत् । आनीये चाहमारक्षकनायकस्य शासनाचारकम् । अथोत्तरेधुरागत्य दृसतरः सुभगनानी सुन्दरंमन्यः पितुरत्ययादचिराधिष्ठिता- . । १ मुट्टनं बोधिः । इत्यजयकोशः । 'इगुपधज्ञाप्रीकिरः कः' इति कप्रत्ययः । तान्पुरुषान् नगररक्षकान् । आसादितवती समीपं गतवती सती । सामपूर्व सान्त्वनवाक्यपुरःसरम् । अयाचत प्रार्थयामास । भद्रका हे सौम्यपुरुषाः! प्रतीक्ष्यतां कंचित्कालं भवद्भिः कियत्काल- पर्यन्तं प्रतिपालनं कर्तव्यमित्यर्थः । मुषितं चोरितमर्थजातमाभरणवस्तुजालम् । अक्गच्छेयं जानीयाम् । प्रतिपन्नेऽङ्गीकृते । आसाद्य प्राप्य । स धनमित्रः । कामं यथेष्टम् । त्वत्कलत्राभि- मर्शी भवद्भार्यादूषकः । वरस्यास्पदं पात्रम् । चिराद्बहुकालात् कृतां विरचितां परिचर्या सेवाम् । आकल्पः अलंकारः सारः प्रधानभूतो यस्य तथाविधो हि निश्चयेन रूपाजीवाजनो गणिका- वर्गः। आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् वारस्त्री गणिका वेश्या रूपाजीवा' इत्यमरः । ब्रूहि कथय । क कुत्रस्थाने । निहितं स्थापितम् । मृत्युहस्तवर्तिनः अवश्यं नागार- कैर्मारयिष्यमाणस्य । वैरानुबन्धेन वैरदाळपादनेन । किं न किमपि प्रयोजनमस्तीत्यर्थः । तत् आभरगनिधनास्थानम् । कर्ण एव यथा नागरिका न शृण्वन्ति तथेति भावः । प्रतिपत्तव्यम- नुष्ठातव्यम् । प्रतिपन्नः प्राप्तः अर्थ आभरणजातरूपो यया तादृशीव । प्रसीदन्त्वनुग्रहं कुर्वन्तु । पौरुषेण तव पराक्रमेण प्रीतः सन्तुष्टः । एते पुरोवर्तिनो राजपुरुषाश्च । तव त्वाम् । 'अधीग- र्थदयेशां कर्मणि' इति कर्मार्थे षष्टी । अपासरडूरं गतवती । आरक्षकाणां नगरपालानां नायकस्य प्रधानाध्यक्षस्य शासनादाज्ञया । चारकं कारागृहम् । अथेति । मम कारागृहगमनादनन्तरम् । उत्तरेयुः परस्मिन्दिवसे । 'सद्यःपरुत्परायैष-' इत्यादिना निपतिः । दृप्ततरो नितान्तं गर्वयुक्तः । 'गर्वितो दृप्त उद्धतः' इति वैजयन्ती । सुभ- गमात्मानं मन्यते सुभगमानी। 'सर्वोन्नतत्वं सौभाग्यं तद्वान्सुभग उच्यते' इति दिवाकरः । सुन्दरंमन्यः 'सुन्दरोऽहम्' इत्यभिमानयुतः । 'आत्ममाने खश्च' इति खश् चाणिनिः । अरुषिदजन्तस्य मुम्' इति मुमागमः । पितुरत्ययानाशादनन्तरमाचरादिदानीमेवाधिष्ठितः । বেন্দ্রবিন্দু। उत्तरपीठिका धिकारस्तारुण्यामदादनातयकः कान्तको नाम नागरिकः किंचिदिव भसयित्वा मां समन्यधन्त--- न चेद्धनमित्रस्याजिनरत्नं प्रतिप्रयच्छसि, न चेद्वा नाग- रिकेन्यचोरितकानि प्रत्यर्पयसि, द्रक्ष्यसि पारमष्टादशानां कारणानामन्ते च मृत्युमुखम् इति । मया तु मयमानेनाभिहितम्-'सौम्य,यद्यपि दद्यामाजन्मनो मुषितं धनं न त्वर्थपतिदारापहारिणः शत्रोर्मे मित्रमुखस्य धनमित्रस्य चर्मरत्नप्र- त्याशां पूरयेयम् । अदत्त्वैव तद्युतमपि यातनानामनुभवेयम् । इयं मेसाधीयसी सन्धा' इति । तेनैव क्रमेण वर्तमाने सान्त्वनतर्जनप्राये प्रतिदिनमनुयोगव्य- तिकरेऽनुगुणान्नपानलाभात्कतिपयैरेवाहोभिर्विरोपितव्रणः प्रकृतिस्थोऽहमासम् । अथ कदाचिदच्युताम्बरपीतातपत्विषि क्षयिाणि वासरे हृष्टवर्णा शृगालि कोज्ज्वलेन वेषेणोपमृत्य दूरस्थानुचरा मामुपश्लिप्याब्रवीत्-' आर्य, दिष्टया प्राप्तोऽधिकारो येन तादृशः । तारुण्यमदाद्यौवनगर्वात् । अनतिपक्को शमादिरहितः। नागरिकाः कारागृहाधिपतिः । कारापतिनागरिकः । इति वैजयन्ती .। समभ्यवत्त प्रोक्तवान् । न चेदिति । प्रतिप्रयच्छसि प्रतिददासि । 'दाण दाने 'पाघ्राध्मास्था-' इत्यादिना यच्छा- देशः । नागारकेभ्यो नगरवासिजनेभ्यः । चोरितकानि मुषितवस्तुजातानि । कारणानां यातना. नाम्। कारणा तु यातना तीव्रवेदना' इत्यमरः। अन्ते कारागृहवासःखभोगानन्तरम् । मृत्युमुखं यममुखम् । स्मयमानेन हासं कुर्वता । 'मिङ् ईषद्धसने ' । अभिहितं कथितम् । 'डधान् धारणपोषणयोः' इत्यतो निष्टायां 'दधातैर्हिः' इति ह्यादेशः । शत्रोम मद्रिपोः । इदं तु कथनं तयोरापद्यथा न भवेत्तथोपायविचारपूर्वकम् । मित्रमुखस्य कपटसुहृदः । मुखं तु वदने मुख्ये ताने छडानि वा पुमान्' इति भागरिः । चर्मरत्नस्य प्रत्याशां पुनः प्राप्त्यभिला- षम् ' प्रत्याशा पुनराप्तीच्छा' इति वैजयन्ती । पूरयेयं संपादयेयम् । तच्चर्मरत्नमदत्त्वैव न पुन- दत्त्वा । यातनानां तीव्रवेदनानां सहस्रमपि। साधीयसी बलवत्तरा सन्धा प्रतिज्ञा । 'सन्धा प्रतिज्ञा मर्यादा' इत्यमरः । तेनैव क्रमेण प्रतिदिनं कान्तकेन पूर्वोकप्रकारेण तर्जन क्रियते, मया चेत्थमेवोत्तरं दीयते इत्यनेन प्रकारेण । सान्त्वनमनुनयनम्, तर्जनं भीषणं तत्माये तद्बहुले। अनुयोगव्यतिकरे प्रश्नप्रकारे अनुगुणस्यानपानादेलामात्प्राप्त्या। विरोपितत्रणः चिकित्सितक्षतः। 'विरोपित उपशान्तश्चिकित्सितः' इति बोपालितः। 'व्रणोऽस्त्रियामीर्ममरुः' इत्यमरः । प्रकृतिस्थः शरीरस्वास्थ्ययुक्तः। अथेति । अच्युतो नारायणस्तस्याम्बरं वस्त्रम् पीताम्बरोऽच्युतः शाही' व्योम्नि वाससि ' इत्यमरः । तद्वत् पतिाऽऽतपानां सूर्यप्रकाशानां विट् कान्तियस्मिंस्तथा- विधे।' प्रकाशो द्योत आतपः'' स्युः प्रभारग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः' इत्यमरः । क्षयिणी क्षयोन्मुखे दिवसावसाने इत्यर्थः । हृष्टवर्णा उज्ज्वलाकारा । उपसृत्य मत्समीपमागत्य दूरस्थाः काराभवनाद्बहिरेव स्थिता अनुचरा यस्याः सा । उपालिष्य गाढमालिङ्गय । अब्रवीत । । । 'अम्बर ।

। द्वितीयोच्छ्वासः] मनोरमाख्यव्याख्यासहितम् । वधस । फलिता तव सुनीतिः । यथा त्वयादिश्ये तथा धनमित्रमेत्यानवम्- आर्य, तवैवमापन्नः सुहृदित्युवाच- अहमद्य वेशसंसर्गसुलभात्पानदोषाद्धः । त्वया पुनरविशङ्कमद्यैव राजा विज्ञापनीयः--'देव, देवप्रसादादेव पुरापि तद- जिनरत्नमर्थपतिमुषितमासादितम् । अथ तु भर्ता रागमञ्जर्याः कश्चिदक्षतः कलासु कवित्वेषु लोकवार्तासु चातिवचक्षण्यान्मया समसृज्यत तत्सम्बन्धाच वस्त्राभरणप्रषणादिना तद्भार्या प्रतिदिनमन्ववर्ते । तदसावशाङ्कष्ट निकृष्टाशयः कितवः । तेन च कुपितेन हृतं तश्चर्मरत्नमामरणसमुद्कश्च तस्याः । स तु भूयः स्तेयाय भ्रमन्नगृह्यत नागरिकपुरुषैः । आपन्नेन चामुनानुसृत्य रुदत्यै रागम- जरीपरिचारिकायै पूर्वप्रणयानुवर्तिना तद्भाण्डानिधानोदेशः कथितः । ममापि चर्मरत्नमुपायोपक्रान्तो यदि प्रयच्छेदिह देवपादैः प्रसादः कार्यः' इति । तथा निवेदितश्च नरपतिरसुभिर्मामवियोज्योपच्छन्दनैरेव स्वं ते दापयितुं प्रयतिष्यते तन्नः पथ्यन् ' इति । श्रुत्वैव च त्वदनुभावप्रत्ययादनतित्रस्नुना तेन तत्तथैव संपादितम् । अथाहं त्वदामिज्ञानप्रत्यायिताया रागमञ्जर्याः सकाशाद्यथप्सितानि वसूनि लभमाना राजदुहितुरम्बालिकाया धात्री माङ्गलिकां त्वदादिष्टेन मार्गे- कथयामास । दिष्टया दैववशात् । आदिश्ये उपदिष्टाऽहम् । आपनः विपदं गतः आपत्प्राप्तः स्यात् ' इत्यमरः । वेशसंसर्गेण वेश्यागृहसंपर्केण सुलभात् । पूराऽपि पूर्वमपि । आसादितमुपलब्धम् । अक्षधूर्तः छूतकितवः । लोकवार्तासु लौकिकव्यवहारेषु । अत्यन्तं वैच- क्षण्यात् पाण्डित्यात् । मया समसृज्यत मित्रत्वं प्राप्तः । अन्ववर्ते अनुसृत्य स्थितः । अशङ्किष्ट स्वभार्यापहारित्वेन मां शङ्कितवानानिकृष्टाशयः दुरभिप्रायवान् । आभरणसमुद्गकः अलंकारमंजूषा समुद्रकः संपुटकः' इत्यमरः । तस्याः स्वभार्याया रागमञ्जर्याः स्तेयाय चौर्यार्थम् । आपनेन विपत्तिं गतेन । अनुसृत्य पश्चादागत्य । रुदत्यै रौदनशीलायै । पूर्वप्रणयं पूर्वस्नेहमनुवर्तते तादृशेन । तद्भाण्डनिधानोद्देशः अलंकारसंपुटस्थापनभूमिः । उपायेन सामान्यतरेण उपक्रान्तो वशीकृतः सामदाने भेददण्डावित्युपायचतुष्टयम्' इत्यमरः । उपक्रमो वशीकारे समारम्भे चिकित्सने इति वैजयन्ती। इह चर्मरत्नपुनःप्राप्तिविषये । नरपती राजा असुभिर्मामवियोज्य मम प्राण- दण्डं न विधाय । उपच्छन्दनैः सान्त्वनैरव ते स्वं चर्मरत्नात्मकम् । पथ्यं हितकरम् । त्वदनु- भावे तव पराक्रमे प्रत्ययाद्विश्वासात् । अनतित्रस्नुनाऽनुद्वेगिना । 'सिधि-' इति ताच्छील्ये क्नुप्रत्ययः । तेन धनमित्रेण । तथैव त्वदुक्तप्रकारेणैव । अथेति । त्वदभिज्ञानः तव चिहै: "त्वत्स्वामी अपहारवर्मा राजपुरुषैर्न विपत्तिं गमितः सुखं जीवति"इति बोधकैः प्रत्यायितायाः विश्वास प्रापिताया । ' प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु ' इत्यमरः । वसूनि लभमानानि द्रव्याणि प्राप्नुवन्ती । धात्रीमुपमातरम् । त्वयाऽऽदिष्टेन कथितेन । अन्वरजयं सन्तोषितक्ती। . । । - HALCHAR জুলহজ্জলি। [उत्तरपीठिकार्या णान्वर जयम् । तामेव च संक्रनीकृत्य रागम जर्याचाम्बालिकायाः सख्यं परमवीवृधम् । अहरहच नवनवानि प्राभूतान्युपहरन्ती. कथाश्चित्राश्चित्तहारिणीः कथयन्ती तस्याः परं प्रसादपात्रमासम् । एकदा च हर्म्यगतायास्तस्याः स्थान- स्थितमपि कर्णकुवलयं त्रस्तमिति समादधती प्रमत्तेव प्रच्याव्य पुनरुक्षिप्य भूमे- स्तेनोपकन्यापुरं कारणेन केनापि भवनाङ्गणं प्रविष्टस्य कान्तकस्योपरि प्रवृत्त- कुहरपारावतत्रासनापदेशात्प्रहसन्ती प्राहार्षम् । सोऽपि तेन धन्यमन्यः किंचि- दुन्मुखः स्मयमानो सत्कर्मप्रहासिताया राजदुहितुावैलासप्रायमाकारमात्माभिला- षमूलमिव यथा संकल्पयेत्तथा मयापि संज्ञयैव किमपि चतुरमाचेष्टितम् । आकृ- ष्टधन्वना च मनसिजेन विद्धः सन्दिग्धफलेन पत्रिणातिमुग्धः कथंकथमप्यपा- तामेव माङ्गलिकामेव संक्रमांकृत्योपायत्वेनाब्लम्ब्य । 'प्रत्युपाये संक्रमे च निश्रेण्या संक्रमो मतः' इत्युत्पलिनीकोशः । अवीवृधं वर्धितवती । नवनवानि नूतननूतनानि । प्राभृतान्युपाय- नानि । 'प्रामृतं तु प्रदेशनम् । उपायनमुपग्राह्यमुपहारस्तथोपदा ' इत्यमरः । चित्तहारणी- मनोरञ्जनकारिणीः । तस्या अम्बालिकायाः । प्रसादपात्रमनुग्रहभाजनम् । एकदेति । एक- स्मिन्दिवसे । हर्म्यगतायाः राजमन्दिरोपरिभागवर्तिन्याः । 'हादिर्धनिनां वासः' इत्यमरः । तस्या अम्बालिकायाः। स्थानस्थितमपि यथाप्रदेशवत्यपि कर्णकुवलयं श्रोत्रालंकारीभूतनीलो- स्पलम् । सस्तमिति गलितं वर्तते इति व्याजेनोक्त्वा । समादधती यथोचितस्थाने विन्यस्यन्ती। प्रच्याव्य नीचैः पातयित्वा । कन्यापुरस्य कन्यान्तःपुरस्य समीपे उपकन्यापुरम् । 'अव्यय विभक्ति-' इत्यादिना सामीप्ये समासः । भवनस्य गृहस्याङ्गण चत्वरं प्रविष्टस्यागतस्य । 'भव- नागारमन्दिरम् ' ' अङ्गणं चत्वराजिरे' इत्यमरः । कान्तकस्योपरि कारागृहाध्यक्षस्य शिरोभागे प्रवृत्तमारब्धं कुहरं सुरतिक्रीडा याभ्यां तौ प्रवृत्तकुहरौ । 'कुहरं सुषिरे दम्भे नागलोके रतेऽपि च'इत्यजयः । पारावतश्च पारावती च पारावतौ । 'पुमान्स्त्रिया' इत्येक शेषः। आरब्धसुरतौ यौ पारावतौ कपोतपक्षिणी 'पारावतः कलरवः कपोतः'इत्यमरः। तयोस्त्रासनापदेशात् भीषणव्याजेन। प्रहसन्ता ईषद्धासं कुर्वन्ती सती । प्राहा प्रक्षिप्तवती । सोऽपीति । कान्तकश्च । तेन कर्णोत्प- लपातनेन स्वस्मिन्नंबालिकाया महती प्रीतिरस्तीति सूचनेन । धन्यमन्यः आत्मानं कृतार्थ मन्य- मानः । 'आत्ममाने खशू च' इति खशि शित्त्वात् श्यनि अरुषिदजन्तस्य मुम्' इति मुमि च रूपम् । किंचिदुन्मुखः अम्बालिकादर्शनार्थमीषदुन्नमितमुखः । स्मयमानः स्वस्याप्यम्बालिकायां महान्नेहोऽस्तीति द्योतनाथै मन्दहासं कुर्वन् । 'मिङ् ईषद्धसने ' । मम कर्मणा पारावतकेलि- निवारणरूपेणैव न तु कान्तकासक्त्या प्रहासितायाः हास्य कारितायाः । विलासप्रायं हास्यादि- भावबहुलमाकारं मुखप्रसादादिचिह्नमात्मनि योऽभिलाषः अनुरागः तन्मूलं तदेककारणम् । संकल्पयेदवगच्छेत् । संज्ञयैव हस्तनेत्रादिचेष्टयैव न तु वाचा 'संज्ञा स्यान्चेतना नाम हस्तायै. श्वार्थसूचना' इत्यमरः । आकृष्टं धनुर्येन स आकृष्टधन्वा । धनुषश्च ' इति समासान्तोऽनङ् । कर्णान्तमाकर्षितचापेन । धनुश्चापो. धन्वशासनकोदण्डकार्मुकम् ' इत्यमरः । तादृशेन मन- सिजेन पुष्पधन्वना । ' शम्बरारिमनसिजः कुसुमेषुरनन्यजः' इत्यमरः । ' तत्पुरुषे कृति बहु- लम् ' सप्तम्या अलुक् । विद्धस्ताडितः। 'व्यध ताडने' । संदिग्धं विषलिप्तं फलमग्रभागो । - ।

द्वितीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । १२१ सरत् । सायं च राजकन्यांगुलीयकमुद्रितां वासताम्बूलपट्टांशुकयुगलभूषणावय- वगी च वङ्गेरिकां कयाचिद्वालिकया ग्राहयित्वा रागमञ्जर्या इति नीत्वा कान्तकस्यागारमगाम् । अगाधे च रागसागरे मनो नावमिव मामुपलभ्य परम- हृप्यत् अवस्थान्तराणि च राजदुहितुः सुदारुणानिब्यावर्णयन्त्या मया स दुर्मतिः सुदूरमुदमाद्यत । तत्प्रार्थिता चाहं त्वत्प्रियाप्रहितमिति ममैव मुखताम्बूलो- च्छिष्टानुलेपनं निर्माल्यं मलिनांशुकं चान्येधुरुपाहरम् । तदीयानि च राजकन्यार्थ- मित्युपादाय च्छन्नमेवापोढानि । इत्थं च सन्धुक्षितमन्मथाग्निः स एवैकान्ते मयोपमन्त्रितोऽभूत्--'आर्य, लक्षणान्येव तवाविसंवादीनि ! तथा हि मत्प्रा- तिवेश्यः कश्चित्काान्तिकः ‘कान्तकस्य हस्ते राज्यामिदं पतिष्यति, तादृशानि तस्य लक्षणानि ' इत्यादिक्षत् । तदनुरूपमेव च त्वामियं राजकन्यका कामयते । तदेकापत्यश्च राजा तया त्वां समागतमुपलभ्य कुपितोऽपि दुहितुर्मरणभयानो- यस्य तथाविधन पत्रिणा बाणेन । 'विषाक्त दिग्धलिप्तको १ पत्री रोप इधुर्द्वयोः ' इत्यमरः । 'लाभे सस्ये शराद्यग्रे व्युष्टौ च फलके फलम्' इति शाश्वतः । अपासरत्स्वगृहं गतः। सायमिति । दिनावसानकाले । राजकन्याया अम्बालिकाया अंगुलीयकेनांगुल्याभरणेन मुद्रितां चिह्निताम् । वासताम्बूलं कर्पूरैलादिभिः सुरभीकृतं नागवल्लीदलम् ! — घनसारादिभि- यत्तु वासितं वासमुच्यते ' इति वैजयन्ती । पटांशुकयुगलं क्षौमवत्रद्वयम् । 'बैलं वसनमंशु- कम्' इत्यमरः ! भूषणावयवाः कानिचिद्भूषणानि च गर्भे मध्यभागे यस्यास्तथाविधां वङ्गे- रिकां वेत्रमंजूषाम् । बङ्गेरी वेत्रपुटिका' इति वैजयन्ती। रागमञ्जर्या इति तदर्थ नीयते इति मिषेण कथयित्वा । अगां प्राप्तवती। ' इणो गा लङि' इति गादेशः । अगाधेऽधस्तलस्पर्शा- योग्ये । रागसागरेऽनुरागपयोनिधौ मनो निमन्जन । नावमुत्तरणसाधनमिव । स्त्रियां नौस्तर- णिस्तरिः' इत्यमरः। उपलभ्य प्राप्य । परमहृष्यत् नितरां प्रसन्नोऽभूत् । अवस्थान्तराणि काश्यनिद्राक्षयादिरूपान् मदनावस्थाविशेषान् । सुदारुणानि भयंकराणि । दुर्मतिर्मूढाशयः । उद्- मायत उन्माद प्रापितः । तेन कान्तकेन प्रार्थिता याचिता । तव प्रियया कांतया प्रहित प्रेषितम् । उपाहरमुपायनीकृतवती । तस्य कान्तकस्येमानि तदीयानि । 'त्यदादीनि च इति वृद्धसंज्ञायां ' वृद्धाच्छः । इति छप्रत्ययः । छन्नमेव गुप्तमेव यथा तथाऽपोढानि परित्य- कानि ।' अपोढमपविद्धं च विस्पष्टं त्यक्तमित्यपि ' इति वैजयन्ती । इत्थंचेति । पूर्वोक- प्रकारेण संधुक्षितो वर्द्धितो मन्मथाग्निः कामानलो यस्य तथाविधः । स एव कान्तक एव । उपमन्त्रितः अम्बालिकाप्राप्त्युपायमुपदिष्टः । अविसंवादीनि राजकन्यापारणेतृत्वयोग्यतायां विसं- वादरहितानि । मम प्रातिवेश्यः प्रतिगृहवर्ती । कान्तिकः सामुद्रिकलक्षणज्ञानवान् । कार्ता- न्तिको लक्षणज्ञः' इति वैजयन्ती । तस्य लक्षणानि कान्तकस्य हस्तचिह्नानि । आदिक्षत्कथ. यामास । 'दिश अतिसर्जने ' इत्यतो लुडि 'शल इगुपधादनिटः क्सः' इति क्सः। तदनु- रूपं राज्यप्राप्त्यनुकूलतयैव । कामयते वाञ्छति । सैवाम्बालिका एकमपत्यं कन्या यस्य तादृशः। अपत्यं तोकं तयोः समे ' इत्यमरः । उपलभ्य विदित्वा । मरणभयात् मृतिभीतः । - १ ।

intestaurahul , বুলারিজু। [ उत्तरपीठिकायो च्छेत्स्यति । प्रत्युत प्रापयिष्यत्येव यौवराज्याम् । इत्थं चायमर्थोऽर्थानुबन्धी । किमिति तात, नाराध्यते । यदि कुमारीपुरप्रवेशाभ्युपायं नावबुध्यसे । ननु बन्धनागारामतव्यमित्रयमन्तरालमारा मप्राकारस्य केनचित्तु हस्तवतैकागारि- केण तावती सुरङ्गां कारयित्वा प्रविष्टस्योपवनं तवोपरिष्टादस्मदायत्व रक्षा। 'रक्ततरो हि तस्याः परिजनो न रहस्यं भेत्स्यति' इति । सोऽब्रवीत्- साधु भद्रे, दर्शितम् । अस्ति कश्चित्तस्करः खननकर्मणि सगरसुतानामिवान्यतमः ।। स चेल्लब्धः क्षणेनैतत्कर्म साधयिष्यति । इति । 'कतमोऽसौ, किमिति न लभ्यते' इति मयोक्त 'येन तद्धनमित्रस्य चर्मरत्नं मुषितम्' इति त्वामेव निरदिक्षत् । ' यद्येवमहि, त्वयास्मिन्कर्माण साधित चित्ररुपायैस्त्वामहं मोच- यिष्यामीति शपथपूर्व तेनाभिसन्धाय सिद्धेऽर्थे भूयोऽपि निगडयित्वा 'योs- सौ चारेः स सर्वथोपक्रान्तः, न तु धाष्टर्यभूमिः प्रकृष्टवैरस्तदजिनरत्नं दर्शाय- प्यति' इति राज्ञे विज्ञाप्य 'चित्रमेनं हनिष्यसि, तथा च सत्यर्थः सिद्धयति, रहस्यं च न स्रवति' इति मयोक्ते सोऽतिहृष्टः प्रतिपद्य मामेव त्वदुपप्रलोभने नियुज्य बहिरवस्थितः प्राप्तमितः परं चिन्त्यताम् ' इति । प्रीतेन च मयोक्तम्, नोच्छत्स्यति हिंसां तव न करिष्यति । अयमर्थः-राजकन्यासमागमात्मकः अर्थानुबन्धी राज्यप्राप्ति- रूपमङ्गलदायी । तातेति । निजत्वद्योतकमिदं संबोधनम् । नाराध्यते अयमुपायो नाश्रीयते । बन्धनागारभित्तेः कारागृहकुडयादारभ्य । 'भित्तिः स्त्री कुडयमेडूकम् ' इत्यमरः । व्याम- त्रयं विस्तृतभुजयुगलमध्यरूपपरिमाणविशेषत्रिकम् । 'व्यामो बाहोः सकरयोस्ततयोस्तिर्यगन्त- रम्' इत्यमरः । अन्तरालं मध्यभागम् । आरामप्राकारस्योपवनावरणभित्तेः ।' आरामः स्यादु. पवनम् 'प्राकारो वरणः सालः ' इत्यमरः । हस्तवता खनने हस्तचातुर्ययुक्तेन । ऐका- गारकेण स्तेनेन । ' चौरैकागारिकस्तेनदस्युतस्करमोषकाः' इत्यमरः । ' ऐकागारिकट चौरे इति निपातनात्साधुता । तत्प्रमाणं व्यामत्रयात्मकं यस्यास्तादृशीम् । ' यत्तदेतेभ्यः परिमाणे वतुप्' इति वतुप् । सुरङ्गां भूमिच्छिद्रम् । उपरिष्टादुपवनप्रवेशानन्तरम् । रक्षा गुप्तिरस्मदायत्तै- वास्मदधीनैव । अवश्यं वयं त्वां गोपायिष्यामः इति भावः ।' अधीनो निन्न आयत्तः इत्यमरः । भेत्स्यति प्रकटीकरिष्यति । सगरसुतानां सगरराजपुत्राणां मध्येऽन्यतम इव तद्वदति- निपुणः इत्यर्थः । लब्धो वशीभूतः । निरदिक्षदादिष्टवान् । एहि मया साकमागच्छ । चित्रै - नाविधैः । तेन चर्मरत्नमोषकेणापहारवर्मणाऽभिसंधाय प्रतिज्ञा कृत्वा । निगडयित्वा निबध्य । सर्वथा सर्वैः प्रकाररुपक्रान्तो वशीकृतोऽपि । धाष्यभूमिधैर्यशाली । तथा च सतीति । सुरङ्गा- करणानन्तरं तस्य चित्रवधे च कारिते । अर्थः राजकन्यासंगमरूपकार्यम् । न स्त्रवति लोकैर्विदितं न भवति । स कान्तकः । प्रतिपद्य मदुक्तमङ्गीकृत्य त्वदुपप्रलोभने तव वञ्चनार्थम् । नियुज्य प्रेर. यित्वा । इतःपरमस्मादनन्तरं प्राप्तं कर्तव्यं चिन्त्यतां त्वयैव विचार्य कथ्यताम् । प्राप्त युग्यं च कर्तव्यम् ' इति वैजयन्ती। प्रीतेनेति । कर्णे यथा मयोपदिष्टं तथैवाचरणात्तुष्टेन । । । - HINE द्वितीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । मदुक्तमल्पम् , त्वन्नय एवात्र भूयान् । आनयनम् ' इति । अथानीतेनामुना मन्मोचनाय शपथः कृतः, अहं च रहस्यानिर्भेदाय विनिगडीकृतश्च स्नानभो- जनविलेपनान्यनुभूय नित्यान्धकाराद्भित्तिकोणादारभ्योरगास्येन सुरङ्गामकरवम् । अचिन्तयं चैवम्-'हन्तुमनसैवामुना मन्मोचनाय शपथः कृतः । तदेनं हत्वापि नासत्यवाददोषेण स्पृश्ये' इति । निष्पततश्च मे निगडनाय प्रसार्यमाणपाणेस्तस्य पादेनोरसि निहत्य पतितस्य तस्यैवासिधेन्वा शिरो न्यकृन्तम् । अकथयं च शृगालिकाम्-'भणभद्रे, कथंभूतः कन्यापुरसनिवेशः ? महानयं प्रयासो मा वृथैव भूत् । अमुत्र किंचिच्चोरयित्वा निवर्तिष्ये' इति । तदुपदर्शितविभागे चावगाह्य कन्यान्तःपुरं प्रज्वलत्सु मणिप्रदीपेषु नैकक्रीडाखेदसुप्तस्य परिजनस्य मध्ये महि- तमहार्घरत्नप्रत्युप्तसिंहाकारदन्तपादे हंसतूलगर्भशय्योपधानशालिनि कुसुमवि- च्छुरितपर्यन्ते पर्यङ्कतले दक्षिणपादपायॆधोभागानुवलितेतरचरणाप्रपृष्ठम् , ईष- द्विवृत्तमधुरगुल्फसांधे, परस्परालिष्टजवाकाण्डम् , आकुञ्चितकोमलोभयजानु, त्वन्नयो भवत्या एव नीतिः। भूयानधिकः । आनयैनं बहिः स्थितं कान्तकमन्तराह्वय । रह- स्यस्य गोप्यस्यानिर्भदायाप्रकाशनार्थम् । विनिगडीकृतो बन्धनान्मोचितः । नित्यमेवान्धकार- स्तमो यत्र तशात् । उरगास्येन फणिमुखाकारेण खननोपकरणेन । हन्तुमनसैव सुरक्षाकरणा- नन्तरं नियमेन मां हन्तुमुद्युक्तेनैव । 'तुं काममनसोरपि' इत्यनुस्वारलोपः । एनं हत्वाऽपि अस्य हनने कृतेऽपि । असत्यवाददोषेणं मिथ्याभाषणजनितपापेन । मे निगडनाय मां ब८ निष्पततः आगच्छतः । निहत्य ताडयित्वा । असिधेन्वा छुरिकया 'छुरिका चासि- धेनुका ' इत्यमरः । न्यकृन्तं छिनद्मि स्म । 'कृती छेदने ''शे मुचादीनाम् ' इति नुम् । भण कथय । कन्यापुरस्य सनिवेशः संस्थानम् । 'संस्थान सन्निवेशे च' इति वररुचिः। अयं प्रयासः सुरक्षाकरणे यत्नः । मा वृथा भूत निष्प्रयोजनो न सम्पद्यताम् । 'न माड्योगे' इत्यडभावः। अमुत्र कन्यान्तःपुरप्रदेशे। तदुपदार्शतेति । तया शुगालिकाभिधया परि- चारिकयोपदार्शते निर्दिष्टे प्रविभागे प्रदेशे । अवगाह्य प्रविश्य । कन्याया राजकुमार्या अम्बा- लिकानाम्न्या अन्तःपुरमवरोधगृहम् । मणिप्रदीपेषु रत्नमयदीपिकासु । नैकाः नानाप्रकारा याः क्रीडा विहारास्तासां खेदेन तजनितपरिश्रमेण 'सुप्तस्य निद्रितस्य । महितैः श्रेष्ठेमहाधै- रमूल्यैश्च रत्नैर्वजादिभिः प्रत्युप्ताः खचिताः सिंहाकाराः सिंहसदृशाश्च दन्तपादा गजदन्तकृताः पादा यस्य तथाविधे इति पर्यकविशेषणम् । हंसतूला हंसरोमाणि गर्भ मध्यदेशे ययो- स्तादृशाभ्यां शय्योपधानाभ्यामास्तरणोपबहा॑भ्यां शालिनि शोभिते । “उपधान तूपबर्हः इत्यमरः । कुसुमैः सुमनोभिर्विच्छुरितः व्याप्तः पर्यन्तः परिसरप्रदेशो यस्य तथाभूते । स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्' इत्यमरः । ‘पर्यन्तभूः परिसरः' इति च । पर्यतले मञ्चस्योपरिभागे शयनं मञ्चपर्यंकपल्यंकाः खट्या समाः' इत्यमरः । दक्षिणपादपाणे: दक्षिणचरणपाश्चात्यभागस्य अधोभागेनानुवलित ईषन्नमितः इतरचरणस्य वामपादस्याग्रपृष्ठ अग्रभागाधस्तलं यास्मिन्कणि तद्यथा तथेति वक्ष्यमाणं च सर्व क्रियाविशेषणम् । पाणिः । -- জুয়েলংবে। उत्तरपीठिकायां किंचिद्वेलितोरुदण्डयुगलम्, अधिनितम्बलस्तमुक्तैकमुजलताप्रपेशलम् , अपाश्र- यान्तनिमिताकुचितेतरसुजलतोन्तानतलकरकिसलयम् , आमुन्नश्रोणिमण्डलम् , अतिम्निष्टचीनांशुकान्तरीयम् , अनतिवलिततनुतरोदरम्, अतनुतरनिःश्वासार- म्भकम्पमानकठोरकुचकुड्मलम् , आतिरश्चीनबन्धुराशिरोधरोदेशदृश्यमाननिष्ट- ततपनीयसूत्रपर्यस्तपद्मरागरुचकम् , अर्धलक्ष्याधरकर्णपाशनिभृतकुण्डलम् , उप- रिपरावृत्तश्रवणपाशरत्नकार्णकाकिरणमञ्जरीपिचारतविषयव्याविद्धाशथिलशि- । । 'पुमान्पाणिस्तयोरघः' इत्यमरः । ईषद्विवृत्तौ किंचिद्वक्रीकृतौ मधुरौ मनोज्ञौ च गुल्फसंधी यस्मिम् "कर्मणि । 'तद्वन्थी धुटिके गुल्फौ' इत्यमरः । परस्पराश्लिष्टावन्योन्यं मिलितौ जंघाकाण्डौ यस्मिन् • कर्मणि तथा ।'जंघा तु प्रस्ता' इत्यमरः । आकुञ्चिते ईषद्वक्रीकृते कोमले मनोहरे च उभे जानुनी ऊरुपर्वणी यस्मिन् । 'जानूरुपष्ठिीवदत्रियाम् ' इत्यमरः । ऊरुदण्डौ सक्थिस्तम्भौ । 'सक्थि क्लीवे पुमानूरुः' इत्यमरः । अधिनितम्ब कटिपश्चाद्भागे 'अव्ययं विभक्ति- इत्यव्ययीभावः' सस्तमुक्तः निक्षिप्तरेकभुजलताया अप्रैरंगुलिभिः पेशलं मनो यथा तथा । पश्चानितम्बः स्त्रीकटयाः' इत्यमरः । अपाश्रयान्ते शिरोभागैकदेशे निमितं निक्षिप्तम् । डुमिञ् प्रक्षेपणे । इत्यतः क्तः। आकुञ्चिताया वक्रीकृताया इतरभुजलताया अन्यबाहुवल्ल्याः उत्तानतलम् ऊर्ध्व स्थापितपुरोभागम् यत् करकिसलयं पल्लववदतिमृदुलो हस्त इत्यर्थः । तादृशं करकिसलयं शिरो- भागे निहितं यस्मिन्कर्मणि । 'भुजबाहू प्रवेष्टो दोः' ‘बलिहस्तांशवः कराः ' इत्यमरः । “पल्लवोऽत्री किसलयम्' इति च । आभुग्नं किञ्चित्संकुचितं श्रोणिमण्डलं कटिमण्डलं यथा तथा । 'कटिःश्रोणिःककुभती इत्यमरः । अतिश्लिष्टं नितरां साधुतया संबद्धं चीनांशुकस्य चैनदेशवस्त्रस्या- न्तरीयमधोवस्त्रं यथा तथा । 'वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्' अन्तरीयोपसंव्यान- परिधानान्यधोंऽशुके' इत्यमरः । तनुतरमतिकृशमुदरं कुक्षिदेशो यथा तथा । 'पिचण्डकुक्षी जठरोदरं तुन्दम् । इत्यमरः । अतनुतरोऽतिदी? यो निःश्वासस्तस्यारम्भेग कम्पमानौ किंचिच्च- चलौ कठोरौऽतिकठिनौ च कुचकुड्मलौ मुकुलाकारौ स्तनौ यस्मिन्कर्मणि तथा । ' कठोर कठिनं तीक्ष्णम्' इति हैमः । 'स्तनौ कुचौ' 'कुड्मलो मुकुलोऽस्त्रियाम्' इत्यमरः । आतिरधीन इषत्तिर्यकृतः बन्धुरो मनोज्ञश्च यः शिरोधरोद्देशः प्रीवाप्रदेशः । अथ ग्रीवायां शिरोधिः कन्धरेत्वपि' इत्यमरः । तत्र दृश्यमानः । अवलोक्यमानः, निष्टप्ततपनीयसूत्रे नितान्तं वह्निशुद्ध- स्वर्णतन्तौ पर्यस्तः प्रोतः पद्मरागत्वकः पद्मरागरत्नमयाभरणविशेषः अवलोक्यमानो यथा तथा । तपनीयं शातकुम्भ गांगेयं भर्म कर्बुरम्' इत्यमरः । “ रुचकोऽङ्गुलिकामणिः' इति वैजयन्ती । अर्धलक्ष्यम् ईषदृश्यमान अधरकर्णपाशः शयने नीचैः स्थापितकर्णदेशः तत्र निभृतं निश्चलतया स्थितं कुण्डलं कर्णभूषणमर्धलक्ष्यं यस्मिल्कमणि । ' अधस्तादपिचाधरः ।' कर्ण- शब्दग्रही श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । उपरि परावृत्तः शयनकाले उत्तानतया स्थापितो यः श्रवणपाशस्तत्रत्याया रत्नकर्णिकाया रत्नकृतकर्णवेष्टनस्य किरणमञ्जर्या कान्तिश्रेण्या पिञ्जरितः पिशङ्गीकृतः विषमव्याविदो वक्रतया बद्धः वेणीकृत इति यावत् । अत एवाशिथिलः । - .

SE0.. 9. 2 द्वितीयोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । खण्डबन्धम् , आत्मप्रभापटलदुर्लक्ष्यपाटलोत्तराधरविवरम् , गण्डस्थलीसंक्रान्त- हस्तपल्लवदर्शितकर्णावतंसकृत्यम्, उपरिकपोलादर्शतलनिषक्तचित्रावतानपत्रजा- तजनितविशेषकक्रियम्, आमीलितलोचनेन्दीवरम्, अविभ्रान्तभ्रूपताकम् , उद्भिद्यमानश्रमजलपुलकाभिन्नशिथिलचन्दनतिलकम्, आननेन्दुसंमुखालकलतं. च विश्रब्धप्रसुप्तामतिधवलोत्तरच्छदानिमग्नप्रायैकपार्श्वतया चिरविलसनखेदान- श्चलां शरदम्भोधरोत्सङ्गशायिनीमिव सौदामिनी राजकन्यामपश्यम् । दृष्ट्वैव स्फुरदनरागश्चकितश्चोरयितव्यनिस्पृहस्तयैव तावच्चोर्यमाणहृदयः किंकर्तव्यता- मूढः क्षणमतिष्ठम् । अतर्कयं च-'न चेदिमा वामलोचनामाप्नुयां न मृष्यति न स्रस्तश्च शिखण्डबन्धः केशपाशः यथा तथा । 'कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम् इत्यमरः । कर्णललाटात्कनलंकारे' इति कन् । आत्मनोरुत्तराधरोष्ठयोः प्रभापटलेन कान्ति- जालेन दुर्लक्ष्यं विविच्य ज्ञातुमेयाग्यं पाटलयोः श्वेतरक्तयोरुत्तराधरयोयोरोष्ठयोः विविरं रन्ध्र मध्यदेशः यस्मिन्कर्मणि यथा तथा : श्वेतरक्तस्तु पाटलः' इत्यमरः । गण्डस्थल्यां कपोलदेश संक्रान्तः संश्लिष्टो यो हस्तपल्लवः कराकिसलयं तेनैव दर्शितं प्रकटितं कृतमिति यावत् । कर्णा- वतंसस्य कर्णभूषणस्य कृत्यं कार्य यथा तथा । उपार कपोल: शयनकाले उत्तानतया स्थितो गण्डदेशः स एवादर्शो नैर्मल्यात् दर्पणस्तस्य तले निषक्तं प्रतिफलितं यचित्रवितानमुल्लोचस्त- ऋत्येन पत्रजातेन तिलकविशेषजालेनैव जनिता संपादिता विशेषकक्रिया चित्रकरचना यस्मिन् कणि । 'दर्पणे मुकुरादशौं 'अस्त्री वितानमुल्लोचः' 'तमालपत्रतिलकचित्रकाणि विशेषकम् ' इत्यमरः । अविभ्रान्ते निद्रावस्थया निश्चले भ्रूपताके यथा तथा । उद्भिद्यमानैरुत्पद्यमानैः श्रमज- लपुलकैः स्वेदबिन्दुभिः भिन्नं मिश्रितमत एव शिथिलं ललाटात्प्रच्युतं चन्दनतिलकं यस्मिन्कर्माण। 'पुलको बिन्दुरोमाञ्चयोरपि ' इति वैजयन्ती । आननेन्दोमुखचन्द्रस्य संमुखास्तत्र प्रलम्बमाना अलकलतापूर्णकुन्तलवल्यो यथा तथा। 'अलकाश्वर्णकुन्तलाः' इत्यमरः । विश्रब्धप्रसुप्तां निःशङ्क निद्रिताम् । अतिधवले नितान्तं शुभ्रे उत्तरच्छदे उत्तरास्तरणे निमग्नप्रायः प्रायेणान्तरितः एकः पार्चः यस्यास्तादृशतया । चिरं बहुकालपर्यन्तविलसनेन स्फुरणेन यः खेदः आयासस्तेन निश्चला निष्कम्पतया स्थिताम् । शरदम्भोधरस्य शरन्मेघस्योत्सङ्गशायिनीमकवर्तिनीम् । सौदामिनी विद्युतमिव । ' उत्सङ्गचिह्नयोरङ्कः ' 'तडित्सौदामिनी विद्युत् ' इत्यमरः । अपश्यं दृष्टवान् । दृष्ट्वेति । दर्शनसमकालमेव । स्फुरन्समुत्पद्यमानः अनङ्गरागो मन्मथानुरागो यस्य तादृशः । 'कन्दो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः' इत्यमरः । चकितो राजकन्या मां वीक्ष्य रक्षकेभ्यः प्रदास्यतीति भयात्कम्पितः । चोरयितव्ये मोषणीयवस्तुजाते निःस्पृहः निरभिलाषः । तयैवाम्बालिकया चौर्यमाणमपहियमाणं हृदयं मनो यस्यैतादृशः सन् । 'चित्तं चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । किंकर्तव्यतामूढः ततः परं किं वा कर्तव्य- मित्यत्र विषयेऽसमर्थः । क्षणं कियत्कालपर्यन्तमतिष्ठं तूष्णीमासम् । अतर्कयं चेति । वक्ष्यमाणप्रकारेण मनसा विचार च कृतवान् । वामे लोचने यस्यास्तां सुन्दराक्षीमित्यर्थः " হুগল্পঃখলায়। [उत्तरपीठिकार्या मां जीवितु बसन्तबन्युः । अलंकेतितपरामृष्टा चेयमतिबाला व्यक्तमार्तस्वरेण निहन्यान्मे मनोरथम् । ततोऽहमेवाहन्येच ! तदियमत्र प्रतिपत्तिः' इति । नाग- दन्तलग्ननिसकल्कवर्णितं फलकमादाय मणिसमुद्रकाद्वर्णवर्तिकामुद्धृत्य तां तथाशयानां तस्याश्च मामाबद्धाञ्जलिं चरणलग्नमालिखमार्या चैताम्-- त्वामयमाबद्धाञ्जलि दासजनस्तामममर्थमर्थयते । स्वपिहि मया सह सुरतव्यतिकरखिनेव मा मैवम् ।।' हेमकरण्डकाच्च वासताम्बूलवीटिकां कर्पूरस्फुटिकां पारिजातकं चोपयुज्यालक्त- । 9 । 'वामौ वल्गु प्रतीपौ द्वौ' इत्यमरः । न चेत् आप्नुयां यदि न प्राप्स्ये न मृध्यति न सहिष्यते, 'मृष तितिक्षायाम्' इत्यतो ' वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यदर्थे लट् । वसन्तः कुसुमोद्गमसमयः बन्धुः सहायो यस्य स मन्मथ इत्यर्थः । असंकेतितपरामृष्टा पूर्व गालिका- दिद्वारा संकेतमकृत्वैवेदानी मया स्पृष्टा सती । व्यक्तं स्फुटमार्तस्वरेण दैन्यसूचकस्वरेण मे मनोरथ- मभिलाषं निहन्यानिष्फलीकुर्यात् । ततः आर्तस्वरश्रवणानन्तरमहमवापहारवाऽऽहन्येय हिंसितो भविष्यामीत्यर्थः । रक्षकपुरुषैरिति शेषः। तत्पूर्वोक्तप्रकारेणानर्थोत्पत्तेः जायमान- त्वात । इत्थं वक्ष्यमाणप्रकारा प्रतिपत्तिः कर्तव्यता । इति मनसि विचार्येत्यर्थः । नागदन्तोऽ- वलम्बनदारु । ' नागदन्तो द्विपरदे गृहानिर्गतदारुणि' इति विचः । तत्र लनं विन्यस्त निर्यासकल्केन मसृणद्रव्यरसेन वर्णितं चित्रितं च फलकं काष्ठफलकम् । मणिसमुद्गकादनमय- संपुटात् 'समुद्कः संपुटकः' इत्यमरः । वर्णवर्तिको चित्रलेखनीम् । 'तूलिका वर्णवर्तिका' इति वैजयन्ती । तथा पूर्वोक्तप्रकारेण शयानां निद्रा कुर्वतीं तामम्बालिकाम् । तस्याश्च चरणलन पादयोः पतितम् आबद्धाञ्जलिं कृतप्रणामाजालि मामपहारवर्माणमिमामा च वक्ष्यमाणमार्या- वृत्तलक्षणपटितपयं चालिख लिखितवान् । 'यस्याः प्रथमे पादे द्वादश मात्रास्तथा तृतीयेऽपि .! अष्टादश द्वितीये चतुर्थक पञ्चदश साऽऽर्या' इति श्रुतबोधबोधितं च लक्षणं ज्ञेयम् । त्वामिति । अयम् अपहारवर्माख्यो दाखजनः सेवकः आबद्धाञ्जलि कृताञ्जलि यथातथा त्वाम् अम्बालिकाभिवामनराजकन्याम् तमिममर्थम् अनुपदं वक्ष्ममाण कार्यम् अर्थयते याचते । 'दुह्याच्पच्-' इत्यत्राथग्रहणस्य भाष्यकारष्टत्वादन द्विकर्मता । मया सह सुरतव्यतिकरखिनेव यः सुरतव्यतिकरः रतिक्रीडाव्यापारस्तन खिन्ना क्लेशं प्राप्ता सत्येव स्वपिहि निद्रां कुरु । एवम् एकाकिनी मां विना मा मा निद्रा मा कुर्वित्यर्थः । 'अत्यन्तमनुचिता तवैकाकिन्या निद्रेति द्योतनाय माडो द्विरुक्तिः । हेमकरण्डकात काञ्चनमजूषायाः। 'हिरण्यं हेम हाटकम् ' इत्यमरः । वासताम्बूलवीटिका 'धनसारादिभिर्यत्तु वासितं वासमुच्यते' इति वैजयन्त्युक्तप्रकारेण सुरभीकृतां नागवल्लीदलवीटीम् । 'नागवल्लीपलाशानां त्वेलाकाना रसालतः। वेष्टनं वीटिका प्रोक्ता चन्द्रमन्दारवर्णयुक्' इति बीटिकालक्षणं वात्स्यायने प्रसिद्धम्। कर्पूरस्फुटिकां घनसारगोलीम् । पारिजातकं सुवासित द्वितीयोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । कपाटलेन तद्रसेन सुधाभित्तौ चक्रवाकमिथुन निरष्ठीवम् । अंगुलीयकविनिमय च कृत्वा कथंकथमपि निरगाम् । सुरङ्गया च प्रत्येत्य बन्धागारं तत्र बद्धस्य नागरिकवरस्य सिंहघोषनाम्नस्तष्वेव दिनेषु मित्रत्वेनोपचरितस्य एवं मया हत- स्तपस्वी कान्तकः, तत्त्वया प्रतिभिद्य रहस्यं लब्धव्यो मोक्षः' इत्युपदिश्य सह शृगालिकया निरक्रामिषम् । नृपतिपथे च समागत्य रक्षिकपुरुषैरगृह्ये । अचिन्तयं च--'अलमस्मि जवेनापसर्तुमनामृष्ट एवैभिः । एषा पुनर्वराकी गृह्येत । तदिदमत्र प्राप्तरूपम्' इति तानेव चपलमभिपत्य स्वपृष्ठसमर्पितकूपरः पराङ्मुखः स्थित्वा 'भद्राः, यद्यहमस्मि तस्करः बनीत माम् । युप्माकमयमाधिकारः, न पुनरस्या वर्षीयस्याः' इत्यवादिषम् । सा तु तावतैवोन्नीतमदभिप्राया तान्स- प्रणाममभ्येत्य 'भद्रमुखाः, ममैष पुत्रो वायुप्रस्तश्चिरं चिकित्सितः । पूर्वेद्यः प्रसन्नकल्पः प्रकृतिस्थ एव जातः । जातास्थया मया बन्धनानिष्क्रमय्य स्वापि- तोऽनुलेपितश्च परिधाप्य निष्प्रवाणियुगलमभ्यवहार्य परमान्नमौशीरेऽद्य.कामचारः - । । खदिरसारं चोपयुज्यास्वाद्य । अलक्तकवतू यावकवत्पाटलेन रक्तवर्णेन तद्रसेन ताम्बूलवीटिका- रसेन । सुधाभित्तौ स्नुहीरजिते कुडये। ' सुधालेपोऽमृतं स्नुही इत्यमरः । चक्रवाकमि- थुनं रथाङ्गयुग्मम् । 'कोकश्चक्रश्चक्रवाको रथाङ्गह्वायनामकः ' 'स्त्रीपुंसौ मिथुन द्वन्द्वं युग्मं तु युगलं युगम् ' इत्यमरः । निरष्टीवं मुखात्ताम्बूलरसस्थथूत्करणेनैव चित्रितवानित्यर्थः । ‘ष्टिवु निरसने 'टिवुलमुचमा शिति' इति दीर्वः । अंगुलीयकयोरूमिकयोविनिमयं विपर्यासम् । 'अंगुलीयकमूर्मिका ' इत्यमरः । कथकथमपि महता श्रमेण निरगां बहिरागतः। प्रत्येत्य प्रतिनिवृत्य । तेष्वेव दिनेषु मम बन्धनालयनिवासकाले इत्यर्थः । तपस्वी शोचनीयः। प्रतिभिद्य प्रकाश्य । रहस्य ‘कान्तकेन राजकन्यासंगमार्थ बद्धचोरद्वारा सुरक्षा कारिता इत्येवरूपं गोप्यम् । मोक्षः कारागृहान्मुक्तिः । नृपतिपथे राजमार्गे । 'ऋक्पूरब्धःपथामानक्षे इति समासान्तोऽप्रत्ययः । अगृह्ये गृहीतः। अचिन्तयमिति । अलमस्मि शको भवामि । जवेन वेगेनापसतुं गन्तुम् । अनामृष्टोऽस्पृष्टः । वराकी कृपणा । प्राप्तरूपं कर्तुमुचितम् । चप- लमाशु । 'सत्वरं चपलं तूर्गमविलम्बितमाशु च' इत्यमरः । स्वपृष्ठदेशे समर्पितो न्यस्तः कूर्परः कमोणिर्येन तादृशः सन् ।' स्यात्कफोणिस्तु कूपरः' इत्यमरः । अयमाधिकारो बन्धना- विकारः। वर्षीयस्याः स्थविरायाः। 'प्रवयाः स्थविरो वृद्धोजीनो जीर्णो जरनपि । वर्षीयान्' इत्यमरः । तावतैव तावन्मात्रभाषणेनैवोन्नति ऊहितो मदभिप्रायो यया तादृशी सती । वायुप्रस्तः वातरोगाक्रान्तः । ईषत्प्रसन्नः स्वास्थ्यं प्राप्तः प्रसन्नकल्पः ।। ईषदसमाप्तौ कल्पब्देश्यदेशीयरः । इति कल्पप् । जातास्थया उत्पन्नादरया। निष्क्रमय्य मोचयित्वा । निष्प्रवाणियुगलं नूतनवत्रयुगम् । अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे इत्यमरः । अभ्य- वहार्य भोजयित्वा । औशीरे वीरणाख्यतृणविशेषमूलकृते शयने । 'स्याद्वीरणं वीरतरं मूलेऽस्यो- शीरमस्त्रियाम् इत्यमरः । 'औशीरं शयनासनम् ' इति हलायुधः । कामचारः स्वेच्छाकारी ।

"*"* জুমলাৰিব । [ লাঠিচ্চাকা ऋतोऽभूत् । अथ निशीथे भूय एवं वायुनिन्नः 'निहत्य कान्तकं नृप-- तिदुहिता रमेय ' इति रहला परेण राजपथमभ्यपतत् । निरूप्य चाहं पुत्रमेवंग- तमस्यां वेलायामनुधावामि । तत्प्रसीदत । बद्ध्वैनं मह्यमर्पयत इति यावदसौ क्रन्दति तावदहं स्थविरे, केन देवो मातरिश्वा बद्धपूर्वः । किमेते काकाः शौड़े- यस्य मे निग्रहीतारः । शान्तं पापम्' इत्यभ्यधावम् । असावप्यमीभिः त्वमेवो. न्मत्ता यानुन्मत्त इत्युन्मत्तं मुक्तवती। कस्तमिदानी बध्नाति' इति निन्दिता कद- थिता रुदत्येवमामन्वधावत् । गत्वा च रागमजरीगृहं चिरविरहखदविह्वलामिमा बहुविधं समाश्वास्य तं निशाशेषमनयम् । प्रत्यूषे पुनरुदारकेण च समगच्छे । अथ भगवन्तं मरीचिं वेशकृच्छुदुत्थाय पुनः प्रतितप्ततपःप्रभावप्रत्यापनदि- व्यचक्षुषमुपसंगम्य तेनास्येवभूतत्वदर्शनमवगमितः । सिंहघोषश्च कान्तकाप- चार निर्भिद्य तत्पदे प्रसन्नेन राज्ञा प्रतिष्ठापितः तेनैव चारकसुरङ्गापथेन कन्या- पुरप्रवेशं भूयोऽपि मे समपादयत् । समगंसि चाहं शृगालिकामुखनिःसृतवार्ता- का । निशीथेऽधरात्रे । 'अर्धरात्रनिशीथौ द्वौ इत्यमरः । भूयः पुनरपि । वायुनिलो वायु- रोगाधीनः । अधीने निन्न आयत्तः' इत्यमरः । रमेय विहरिष्यामि । रंहसा परेण महता वेगेन । ' रंहस्तरसी तु रयः स्यदः । नवः' इत्यमरः । अभ्यपतदभिमुखीकृत्य धावति स्म । निरूप्य दृष्टा । अस्यां वेलायां निशीथकाले। अनुधावामि पश्चाद्धावामि । प्रसीदतानुग्रहं कुरुत । असौ शगालिका । क्रन्दत्याक्रोशति । स्थविरे हे वृद्धे ! मातरिश्वा वायुः । ' श्वसनः स्पर्शनो वायुर्मातारश्वा सदागतिः' इत्यमरः । पूर्व बद्धो बद्धपूर्वः । काका वायसतुल्याः । शौङ्गेयस्व पक्षिविशेषस्य तत्तुल्यस्येति यावत् । 'तिलच्छदस्तु शौङ्गेयो विहङ्गारातिरित्यपि' इति वैजयन्ती निग्रहीतारो बन्धकाः। शान्तं पापमित्यनाकाक्षायाम् । एतत्कर्तृकमद्वन्धनं स्वप्नेऽप्यनाका- क्षितमिति भावः । अभ्यधाव वेगेन पलायनं कृतवान् । 'धावु गतिशुद्धयोः' । उन्मत्ता उन्मादवती । मुरूवती बन्धनान्मोचितवती । कदर्थिता विकृता । चिरविरहखेदेन बहुकालिक- वियोगदुःखेन पीडितां बहुविध नानाप्रकारेण समावास्य सान्त्वयित्वा । निशाशेषं रात्र्यवशेषम् । अनयं यापयामि स्म । प्रत्यूषे प्रातःकाले । 'प्रत्यूषोऽहर्मुखं कल्यम् ' इत्यमरः । समगच्छे संमिलितोऽभूवम् । ' समो गम्वृच्छिभ्याम् ' इत्यात्मनेपदम् । अथेति । कारागृहानिर्गमनानन्तरम् । भगवन्तम् ‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशस: श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीझना ' इत्युक्तषडैश्वर्ययुक्तम् । वेशकृच्छ्रात् वेश्या- गृहसंकटात् । उत्थाय परावृत्य । प्रत्यापनं प्राप्तं दिव्यचक्षुनिचक्षुर्येन तादृशम् । उपसंगम्य तत्समीपं गत्वा । तेन मरीचिना । अवगमितोऽस्मि वोधितोऽस्मि । कान्तकस्यापचारं कन्या- दुषणोद्योगरूपदुष्कृत्यं निर्भिद्य प्रकाश्य । तत्पदे कान्तकस्य स्थाने कारागृहाधिकारित्वरूपे । चारकसुरङ्गापथेन मद्विहितेन बन्धनागारस्थेन बिलमार्गेण । समपादयत्कारयामास । समगसि मंगच्छे स्म । शृगालिकाया मुखानिःसृताभिनिर्गताभिर्वार्ताभिर्मत्कथाभिरनुरक्तया प्रजात- है द्वितीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । नुरक्तया राजदुहित्रा । तप्ववे दिवसेषु चण्डवर्मा सिंहवर्मावधूतदुहितप्रार्थनः कुपितोऽभियुज्य पुरमवारुणत् । अमर्षणश्चाङ्गराजो यावदारः पारग्रामिक विधि- माचिकीर्षति तावत्स्वयमेव प्राकारं निर्मिद्य प्रत्यासन्नानपि सहायानप्रती- क्षमाणो निर्गत्याभ्यधिकबलेन विद्विषा महति संपराये भिन्नवर्मा सिंह- वर्मा बलादगृह्यत । अम्बालिका च बलवदभिगृह्य चण्डवर्मणा हठात्परि- णेतुमात्मभवनमनीयत । कौतुकं च स किल क्षपावसाने विवाह इत्य- बनात् । अहं च धनमित्रगृहे तद्विवाहायैव पिनद्धमङ्गलप्रतिसरस्तमेवमवोचम्- 'सखे, समापतितमेवाङ्गराजाभिसरं राजमण्डलम् । सुगूढमेव संभूय पौरवृद्धस्त- दुपावर्तय । उपावृत्तश्च कृत्तशिरसमेव शत्रु द्रक्ष्यसि' इति । 'तथा' इति तेना- भ्युपगते गतायुषोऽमुष्य भवनमुत्सवाकुलमुपसमाधीयमानपरिणयोपकरणमित- स्ततः प्रवेशनिर्गमप्रवृत्तलोकसंबाधमलक्ष्यशालिकः सह प्रविश्य मङ्गलपाठकै- रम्बालिकापाणिपल्लवमौ साक्षिण्याथर्वणेन विधिनायॆमाणमादित्समानस्याया- मिनं बाहुदण्डमाकृष्य च्छुरिकयोरसि माहर्षम् । स्फुरतश्च कतिपयानन्यानपि प्रीत्या । अभियुज्यावमान्य ' अभियोगस्त्वभिभवः' इति हैमः । पुरं चम्पापुरीछ । अवारुणत् युद्धायावतवान् । अमर्षणः तत्कृतावमानमसहमानः । अरिः शत्रुश्चण्डवर्मा । पारग्रामिक पर- प्रामे शत्रुनगरे भवं पारग्रामिकं तद्ध्वंसनादिकमाचिकीर्षति कर्तुमिच्छति । तावत् तत पूर्वमेव । प्राकारमा वरणभित्तिम् । 'प्राकारो वरणः सालः' इत्यमरः । निर्भिद्य विदार्य । प्रत्यासन्नान समीपमागतानू । अप्रतीक्षमाणः न प्रतिपालयन् । विद्विषा शत्रुणा । संपराये युद्धे । भिन्नं कृतं वर्म कवचं यस्य तादृशः । 'तनुत्रं वर्म देशनम्' इत्यमरः । अगृह्यत निगृहीतः । परिणेतुं पाणिग्रहणार्थम् । आत्मभवनं स्वगृहम् । प्रधाने नीहकृष्वहाम् ' इत्युक्त्या प्रधानकर्मणोऽम्बालि- काया अभिहितत्वात्प्रथमा । कौतुकं मजलकङ्कणम् । क्षपावसाने रात्रिशेषे श्वः प्रभात इत्यर्थः । तद्विवाहायैव तस्या अम्बालिकायाः एव पाणिग्रहणार्थम् । पिनद्धः बद्धः मङ्गलप्रतिसरं माज- लिकहस्तसूत्रं येन तादृशः सन् । 'ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् ' इत्यमरः । तं धनमित्रम् । अङ्गराजस्य सिंहवर्मणः अभिसरं साहाय्यदायि । अनुप्लवः सहायश्चानुचरोs- भिसरः समाः' इत्यमरः । सुगूढं गुप्तमेव । सम्भूय पौरबद्धर्नागरिकमुख्यैमिलित्वा । तदाजम- ण्डलमुपावर्तय योग्यस्थाने निवेशय । उपावृत्तश्च पुनरागतश्च । कृत्तं छिनं शिरो यस्यैतादृश- मेव । ' कृती छेदने । शत्रुममित्रं चण्डवर्माणम् । अभ्युपगतेऽजीकृते । गतायुष आसन्नमृत्योः। अमुष्य चण्डवर्मणः । उपसमाधीयमानं संनिधाप्यमानं परिणयोपकरणं विवाहाहंसामग्री यस्मि- नेतादृशम् । संबाधं निबिडीकृतम् । 'संकटं ना तु संबाधः' इत्यमरः । अलक्ष्या प्रच्छन्नी- कृता शस्निका छुरिका यस्य तथाविधः सन् । मङ्गलपाठकैस्तत्याठाथै गच्छद्भिः विगैः सह । आथर्वणेन पुरोहितेन । 'आथर्वणः पुरोधाः स्याच्छान्तिपुष्टिकरो द्विजः । इति कामन्दकीये। विधिना श्रुत्युकप्रकारेण, आदित्यमानस्य ग्रहीतुकामस्य । आयामिनमतिदीर्घम् । शुरिकया - । ९ কুলাং আলি। उत्तरपीठिकार्या यमविषयमगमयम् । हतविध्वस्तं च तद्गृहमनु विचरन्वेपमानमधुरगात्री विशाल- लोचनामाभिनिशान्य बहालिङ्गनसुखमनुभूपुस्तामादाय गर्भगृहमविक्षम् ! अस्मिन्नेव क्षणे तबादि नवाम्बुवाहस्तनितगम्भीरेण स्वरेणानुगृहीतः' इति । श्रुत्वा च स्मित्वा च देवोऽपि राजवाहनः कथमसि कार्कश्येन कर्णासुत- मायतिक्रान्तः' इत्यभिधाय पुनरवेक्ष्योपहारवर्माणम् आचश्व, तवेदानीमवसरः इत्यभाषत । सोऽपि सस्मितं प्रणम्यारभताभिधातुम् । इति श्रीदण्डिनः कृतौ दशकुमारचारतेऽपहारवर्मचारतं नाम द्वितीय उच्छ्वासः तृतीयोच्छासः। एषोऽस्मि पर्यटन्नेकदा गतो विदेहेषु । मिथिलामप्रविश्यैव बहिः कचिन्म- ठिकायां विश्वमितुमेत्य कयापि वृद्धतापस्या दत्तपाद्यः क्षणमलिन्दभूभाववा- स्थिषि । तस्यास्तु मद्दर्शनादेव किमप्याबद्धधारमश्रु प्रावर्तत । ' किमेतदम्ब, कथय कारणम्' इति पृष्टा सकरुणमाचष्ट-'जैवातृक, ननु श्रूयते पतिरस्या शन्त्रिकया। प्राहा प्रहृतवान् । यमविषयं धर्मराजदेशम् । 'नीजनपदो देशविषयौ तूप- वर्तनम् ' इत्यमरः । अगमयं प्रापयामि स्म । तगृहं चण्डवर्मगृहम् । वेपमानानि कम्प- मानानि मधुराणि मनोहराणि च गात्राणि अङ्गानि यस्याः ताहशीम् । अभिनिशाम्य सादर- मवलोक्य । शमो दर्शने' इति मित्त्वनिषेधादर्शने ह्रस्वो न भवति । अनुबुभूषुरनुभवि- तुमिच्छुः । आदाय गृहीत्वा । गर्भगृह वासगृहम् । नवो नूतनो योऽम्बुवाहो मेघस्तस्य स्तनितवद्गर्जितवद्गम्भीरेण । अनुगृहीतः सन्तोष प्रापितः। श्रुत्वेति । कार्कश्येन क्रौर्येण । कर्णीसुतं चौर्यशस्त्रप्रवर्तकमपि । अभिधाय कथयित्वा । आचश्व कथय । 'चक्षिक व्यक्तायां वाचि' । अक्सरः कथनाय योग्यः समयः । सोऽप्युपहा- रवर्मा । प्रणम्य नमस्कृत्य । अभिधातुं स्ववृत्तान्तं वर्णयितुमारभतोपक्रान्तवान् । इति श्रीदशकुमारचरितव्याख्यायां मनोरमाख्यायामुत्तरपीठिकायां द्वितीय उच्छवासः ॥२॥ अथोत्तरपीठिकायां तृतीय उच्छालः ॥३॥ इदानीमात्मवृत्तवर्णनायोपक्रमत उपहारवर्मा-एषोऽस्मीति । अस्मीत्यहमर्थेऽव्ययम् । पर्यट- नितस्ततो भवदन्वेषणार्थ भ्रमन् । विदेहेषु तदाख्येषु देशेषु । मिथिलां तन्नामिकां विदेहराजधा- नीमप्रविश्यैव ततो बहिरेवेत्यर्थः । क्वचिन्मठिकायां कस्मिंश्चिक्षुद्रमठे । 'मठश्छात्रादिनिलयः' इत्यमरः । अल्पे' इति सूत्रेण कन्प्रत्ययः । विभ्रमितुमध्यायासं परिहर्तुमेत्य गत्वा । पादार्थमुदकं पाद्यं पादार्घाभ्यां च ' इति यत्प्रत्ययः । 'पाचं पादाय वारिणि ' इत्यमरः । दत्तं पाद्यं यस्मै तादृशः । क्षणं किञ्चित्कालपर्यन्तम् । अलिन्दभूमौ द्वारबाहिदेशे । प्रघाणप्रघणालिन्दा बहिवार- प्रकोष्ठके ' इत्यमरः । अवास्थिषि उपविष्टः । समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । आबद्ध- धारमावच्छिन्नसंपातमश्रु नेत्रोदकं प्रावर्तत निःसरति स्म । अम्ब हे मातः 11' अम्बार्थनद्यो- हस्वः' इति ह्रस्वः । कथय कारणमश्रुपातस्येति शेषः । आचष्ट प्रोक्तवती । जैवातृक हे १ । ।

MAHARI । । । तृतीयोच्छासः] मनोरमाख्यव्याख्यावहितम् । मिथिलायाः महारवर्मा नामासीत् । तस्य खलु मगधराजो राजहंसः परं मित्र- मासीत् । तयोश्च वल्लभे बलशम्बलयोरिव वसुमतीप्रियंवदे सख्यमप्रतिममध- त्ताम् । अथ प्रथमग भिनन्दितां तां च प्रियसखी दिदृक्षुः प्रियंवदा वसुमती सह भी पुष्पपुरमगमत् । तस्मिन्नेव च समये मालवेन मगधराजस्य महज- न्यमजनि । तत्र लेशतोऽपि दुर्लक्ष्यां गतिमगमन्मगधराजः । मैथिलेन्द्रस्तु मा- लवेन्द्रप्रयत्नप्राणितः स्वविषयं प्रतिनिवृत्तो ज्येष्टस्य संहारवर्मणः सुतैविकटवर्म- प्रभृतिभिर्याप्त राज्यमाकर्ण्य स्वस्रीयात्सुह्मपतेर्दण्डावयवमादित्सुरटवीपदमवगाह्य लुब्धकलुप्तसर्वस्वोऽभूत् । तत्सुतेन च कनीयसा हस्तवर्तिना सहैकाकिनी वनचर- शरवर्षभयपलायिता वनमगाहिषि । तत्र च मे शार्दूलनखावलीढनिपतितायाः चिरंजीविन् ! 'जैवातृकः स्यादायुष्मान' इत्यमरः । तस्य प्रहारवर्मगः । तयोः राजहंसप्रहार- वर्मणोः । वल्लभे प्रियमहिष्यौ । अप्रतिमं नितरां दृढमित्यर्थः । प्रथमगर्भेण आइगर्भधारणे- नाभिनन्दितां परितुष्टाम् । दिक्षुः मुटुकामा सती । सह भा स्वनायकेन प्रहारवर्मणा साकम् । पुष्पपुरं तन्नामिकां मगधदेशराजधानीम् । अगमत् गता। तस्मिन्नेवेति । पुष्पपुरगमनकाले इत्यर्थः । मालवेन तद्देशाधिपेन मानसाराख्येण शत्रुणा सह । जन्यं युद्धम् । ' युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् । इत्यमरः । अजनि उत्पद्यते स्म । ' जनी प्रादुर्भावे' इत्यतः कर्तरि लुडि 'दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ' इति च्लेश्चिण । तत्र तस्मिन्युद्धे । लेशतोऽपि किंचिदपि । दुर्लक्ष्यां ज्ञातुमशक्याम् । गति दुरवस्थाम् । मगधराजो राजहंसः । * राजाहःसखिभ्यष्टच्' इति समासान्तः टच प्रत्ययः । मालवेन्द्रस्य मानसाराख्यस्य । प्रयत्नेन किचित्साहाय्यादिति भावः । प्राणितः जीवितः दयया सजीवः परित्यक्त इति यावत् । स्वविषयं विदेहाभिधं स्वदेशम् । नीवृज्जनपदो देशविषयौ तूपवर्तनम् ' इत्यमरः । प्रतिनिवृत्तः प्रत्यागतः ज्येष्ठस्य ज्येष्ठधातुः । सुतैः पुत्रैः । 'आत्मजस्तनयः सूनुः सुतः पुत्रः' इत्यमरः । व्याप्तमा- क्रान्तम् । आकर्ण्य निशम्य । स्वसुरपत्यं स्वस्त्रीयस्तस्मात् । स्वसुश्छः ' इति छप्रत्ययः । स्वस्त्रीयो भागिनेयः स्यात् ' इत्यमरः । दण्डावयवं किंचित्सैन्यायम् । ' दण्डोऽस्त्री शासने राज्ञां हिंसने दमसैन्ययोः' इति भागुरिः । आदित्सुग्रहीतुमिच्छुः । अटवीपथमरण्यमार्गम् । 'अटव्यरण्यं विपिनं गहने काननं वनम् ' इत्यमरः। ऋवपूब्धूःपथामानक्षे ' इति समा. सान्तोऽप्रत्ययः । अवगाह्य प्रविश्य । लुब्धकैयाधैः लुप्तमपहृतं सर्वस्वं यस्यैतादृशः । 'व्याथो मृगवधाजीवो मृगयुर्छब्धकोऽपि सः' इत्यमरः । तत्मुतेनेति । प्रहारवर्मणः पुत्रेण । कनीयसा कनिष्ठेन । 'युवाल्पयोः कनन्यतरस्याम्' इति युवनशब्दस्य कनादेशः। हस्तवर्तिना मकरस्थितेना एकाकिनी पुरुषान्तरसाहाय्यरहिता 'एकाकी त्वेक एककः' इत्यमरः । एकादाकिनिच्चासहाये इत्याकिनिन् । वनचराणां वनवासिनां व्याधानां शरवर्षाद्वाणवृष्टेर्यद्भयं साध्वसं तेन पलायिता धावनायोद्यता । अगाहिषि प्रविष्टा । 'गाहू विलोडने' इत्यतो लुङ् । शार्दूलस्य व्याघ्रस्य कस्य- चित् नखैः कररहैः अवलोढाया विक्षताया अत एव निपतिताया भूमौ पतितायाः । शार्दूलद्वी. aar ८ १३२ গুলাংলু। [उत्तरपीठिका: पाणिभ्रष्टःस बालकः कस्यापि कृषिलाशवस्य कोडमभ्यलीयत । तच्छवाकर्षिणश्च व्याघ्रस्वासूनियुरिष्वसनयंत्रमुक्तः क्षणादलिक्षत् । मिल्लदारकैःस बालोऽपाहार । सात्वहं मोहलता केनापि वृष्णिपालेनोपनीय स्वं कुटीरमाबेश्य कृपयोपक्रान्तत्रणा स्वस्थीभूय स्वभत्रन्तिकमुपतिष्ठासुरसहायतया यावद्व्याकुलीभवामि तावन्ममैव दुहिता सह यूना केनापि तमेवोदेशमागमत् । सा भृशं रुरोद । रुदितान्ते च सा सार्थघाते स्वहस्तगतस्य राजपुत्रस्य किरातभर्तृहस्तगमनम् ,आत्मनश्च केनापि वनचरेण ऋणविरोपणम्, स्वस्थायाश्च पुनस्तेनोपयन्तुं चिन्तिताया निकृष्टजाति- संसर्गवैकुव्यात्प्रत्याख्यानपारुष्यम् , तदक्षमेण चामुना विविक्ते विपिने स्वशिरः- कर्तनोधमम् , अनेन यूना यहच्छया दृष्टेन तस्य दुरात्मनो हननम्, आत्मन- श्रोषयमनमित्यकथयत् । स तु पृष्टो मैथिलेन्द्रस्यैव कोऽपि सेवकः कारणवि- , पिनौ व्याघ्र 'पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्' इत्यमरः । पाणिभ्रष्टः हस्ततलात्प्रच्युतः कपिलाशवस्य मृतगोविशेषस्य । कोडं भुजमध्यभागम् । 'न ना कोडं भुजान्तरम् ' इत्यमरः । अभ्यलीयत तत्रान्तर्हितोऽभूत् इत्यर्थः । असून्प्राणान् । 'पुसि भूम्न्यसवः प्राणाः' इत्यमरः । इधुर्वाणः। 'कलम्बमार्गणशराः पत्रीरोप इषुयोः' इत्यमरः । इषवोऽस्यन्ते प्रक्षिप्यन्तेऽनेने- तीध्वसनम् । 'करणाधिकरणयोश्च' इति ल्युट् । 'धनुश्चापो धन्वशरासनकोदण्डकार्मुकम् । इध्या- सोऽपि' इत्यमरः । तद्रूपं यद्यन्त्रं तस्मान्मुक्तः प्रेरितः । अलिक्षदपहृतवान् । 'लिह आस्वादने" शल इगुपधादनिटः क्सः' इतिक्सः। भिल्लदारकैः किरातपुत्रैः। स बालो मम हस्तात्प- तितः । अपाहारि नीतः। मोहसुप्ता मूर्छया व्याप्ता। वृष्णिपालेनाजापालकेन गोपेन वा। 'मेषवृष्णय एडके इत्यमरः । वृष्णियंदुषु गोपेषु' इत्यजयकोशश्च । स्वं कुटीरं स्वकीय गृहम् । 'कुटीशमीशुण्डाभ्यो र?' इति ह्रस्वार्थे रः । कृपयाऽनुकम्पया । उपक्रान्तवणा चिकि- सितक्षता । ' उपक्रमश्चिकित्सायाम्' इति वैजयन्ती । ' व्रणोऽस्त्रियामीममरुः ' इत्यमरः । स्वस्थीभूय प्रकृतिमापन्ना सती स्वभतुर्निजपालकस्य प्रहारवर्मणोऽन्तिकं समीपमुपतिष्ठासुगन्तु- मिच्छुः । व्याकुलीभवामि विह्वलीभवामि । तावत्तदानीम् । दुहिता कन्या । यूना तरुणपुरु- घेण । भृशमत्यन्तम् । सायंघाते समूहविभ्रंशे जाते सति । राजपुत्रस्य प्रहारवर्मज्येष्टसूनोः । किरातभर्तुः भिल्लस्वामिनो हस्ते गमनं प्राप्तिम् । व्रणाविरोपणं व्रणचिकित्सनम् । तेन वनचरेणो- पयन्तुं परिणतुं चिन्तिताया निश्चितायाः। निकृष्टजात्या किरातजात्या सह यः संसर्गः संबन्ध- स्तत्र वैक्लव्यात् दुःखात् । प्रत्याख्याने विरुद्धभाषणे पारुष्यं काठिन्यम् । तदक्षमेण परुषोक्ति- मसहमानेनामुना वनेचरेण । विविक्ते निर्जने विपिने वने । 'विविक्तविजनच्छन्ननिःशलाका- स्तथा रहः' इत्यमरः । स्वस्य मम कन्यायाः शिरःकर्तनोयमं मस्तकच्छेदे प्रयत्नम् । यह- च्छया दैववशात् । हननं मारणम् । उपयमनं परिणयः। इतीति। एतत्पर्यन्तमुक्कं निज- वृत्तान्तं मत्कन्याऽकथयत्प्रोक्तवती । स तु यदृच्छया दृष्टो युवा । मैथिलेन्द्रस्य प्रहारवर्मण एव । ।

PLEMENalive HOMEMAHISHA तृतीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । लम्बी तन्मार्गानुसारी जातः । सह तेन भर्तुरन्तिकमुपसृत्य पुत्रवृत्तान्वेन श्रोत्रमस्थ देव्याः प्रियंवदायाश्वादहाव । स च राजा दिष्टदोषाज्ज्येष्ठपुत्रश्चिरं विगृह्य पुनरसहिष्णुतयातिमात्रं चिरं प्रयुध्य बद्धः । देवी च बन्धनं गमिता। दग्धा पुनरहमस्मिन्नपि वार्धके हतजीवितमपारयन्ती हातुं प्रव्रज्यां किलाग्रही- षम् । दुहिता तु मम हतजीविताकृष्टा विकटवर्ममहादेवीं कल्पसुन्दरीं किला- शिश्रियत् । तौ चेद्राजपुत्रौ निरुपद्रवावेवावर्धिष्येताम् , इयता कालेन तवेमां वयोवस्थामस्प्रक्ष्येताम् । तयोश्च सतोर्न दायादा नरेन्द्रस्य प्रसह्यकारिणो भवेयुः इति प्रमन्युरभिरुरोद । श्रुत्वा च तापसीगिरमहमपि प्रवृद्धबाष्पो निगूढमभ्य- धाम्-'यद्येवमम्ब, समाश्वसिहि । नन्वस्ति कश्चिन्मुनिस्त्वया तदवस्थया पुत्रा- भ्युपपादनार्थ याचितस्तेन स लब्धो वर्धितश्च । वार्तेयमतिमहती । किमनया । सोऽहमस्मि । शक्यश्च मयासौ विकटवर्मा यथाकथंचिदुपश्लिष्य व्यापादयितुम् । अनुजाः पुनरतिबहवः, तैरपि घटन्ते पौरजानपदाः। मां तु न कश्चिदिहत्यः 9 कारणविलम्बी केनचित्कारणेन विलम्बमानः । तेन सह मत्कन्याभर्ना साकम् । भर्तुः प्रहारवर्म- णोऽन्तिकं समीपमुपसृत्य प्राप्य । पुत्रयोर्मया मत्कन्यया च धृतयो राजकुमारयोवृत्तान्तेन 'आवाभ्यां धृतौ भवत्पुत्रौ सैन्यभ्रंशे पाणि भ्रष्टौ जातौ न जानीवहे ताविदानी कुत्र वर्तेते इति कथनेन । देव्या राजपत्न्याः । अदहाव भस्मीकृतवत्यौ । तयोर्महत्कटमुत्पादितवत्या- विति भावः । सचेति । प्रहारवर्मा । दिष्टदोषात् निर्भाग्यतावशात् । 'दैवं दिष्ट भागधेयं भाग्य स्त्री नियतिर्विधिः' इत्यमरः । ज्येष्ठपुत्रैविकटवर्मादिभिः । चिरं बहुकालपर्यन्तं विगृह्य वैरं कृत्वा । प्रयुद्धथ रणं विधाय बद्धो निगडितः । देवी राजमहिषी प्रियंवदाख्या बन्धन कारा- गृहम् । दग्धा निर्भाग्या । वार्धके वृद्धदशायामपि । अपारयन्त्यशक्नुवती । हातुं परित्यक्तम् । 'ओहाक त्यागे' प्रव्रज्या संन्यासम् । अग्रहीषं स्वीकृतवती । कल्पसुन्दरीमेतन्नानीम् । आशे- श्रियत् आश्रितवती । "श्रियं सेवायाम्' इत्यतो लुङि 'णिश्रिनुनुभ्यः कर्तरि चङ्' इति चङ् । ताविति । मया मत्कन्यया च त्यक्तौ । अवर्धिष्येतां वृद्धिं गतौ भवेताम् । 'लिनिमित्त लङ् क्रियातिपत्ता' इति लङ् । राजपुत्रयोंवृद्धिक्रियाद्यभावस्तु तापस्था मनःकल्पितो न तु वास्त- विकः । दायादा बान्धवा विकटवर्मादयः । ' दायादौ सुतबान्धवौ' इत्यमरः । प्रसह्यकारिणः बलाद्वाज्यापहारिणः । प्रमन्युर्दुःखिता सती । तापस्या गिरं वचनम् । ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती' इत्यमरः । प्रवृद्धवाष्पः संजातोष्माश्रुकणः । 'बाष्पमूष्माश्रु' इत्यमरः । निगूढं प्रच्छन्नम् । अभ्यधामवोचम् । समाश्वसिहि समाधानं प्राप्नुहि । तदवस्थया व्याघ्रनख- विदारितया । पुत्राभ्युपपादनार्थ तदन्वेषणार्थम् । याचितः प्रार्थितः। तेन मुनिना सबालो लब्धः प्राप्तः। इयं वार्ता कथाऽतिमहती नितरां विस्तृता । यथाकथंचित्केनापि प्रकारेण । उपश्लिष्य समीपं गत्वा । व्यापादयितुं हन्तुम् । अतिबहवो दुर्योधनापेक्षयाऽप्यसंख्याः । तैर्विकटवर्मा- दिभिः पौरजानपदा नगरवासिनो देशवासिनश्च घटन्ते संगता भविष्यन्ति । इहत्यः एतहे- - iyaantatiohinmantrition স্কুঃন্ধুি। [ उत्तरपीठिकाया ईक्तया जनो जानाति ? पितरावापि तावन्मां न संविदाते, किमुतेतरे । तमे- नमर्थमुपायेन साधायिष्यामि इत्यगादिषम् । सातु वृद्धा सरुदितं परिष्वज्य मुहः शिरस्युयानाय प्रस्तुतस्तनी लगभगदत्-'वत्त, चिरं जीव ! भद्रं तव । प्रसन्नोऽद्य भगवान्विधिः। अथैव प्रहारवर्मण्यधि विदेहा जाताः, यतः प्रलम्ब- मानपीनबाहुभवानपारमेतच्छोकसागरमद्योत्तारयितुं स्थितः । अहो, महद्भा- गधेयं देव्याः प्रियंवदायाः' इति हर्षनिर्भरा स्नानभोजनादिना मामुपाचरत् । अशिश्रियं चास्मिन्मठैकदेशे निशि कटशय्याम् । अचिन्तयं च विनोपधिना. यमर्थो न साध्यः । स्त्रियश्चोपधीनामुद्भवक्षेत्रम् । अतोऽन्तःपुरवृत्तान्तमस्या अव- गम्य तद्द्वारेण किंचिजालमाचरेयम्' इति । चिन्तयत्येव माये महार्णवोन्मन्नमार्तण्डतुरंगमश्वासरयावधूतेव व्यावर्तत त्रियामा । समुद्रगर्भवासजडीकृत इव मन्दप्रतापो दिवसकरः प्रादुरासीत् । - शीयः । 'अमेहकतसित्रेभ्य एवं' इति भवार्थे त्यम् । ईदृक्तया राजपुत्रतया । पितरौ मम माता- पितरौ प्रियंवदाप्रहारवर्माणौ । संविदाते न सम्यक् जानीतः। विदिप्रच्छिस्वरतीनामुपसंख्या- नम्' इत्यात्मनेपदम् । किमुतेतरे नागरिका नैव ज्ञास्यन्तीति भावः । एनमर्थ विकटवर्महस्तात्स्व- राज्यप्रतिप्राप्तिरूपं प्रयोजनम् ।अगादिषमुक्तवान् । परिष्वज्यालिङ्गय । प्रस्तुतौ क्षरत्पयसौ स्तनौ यस्यास्तादृशी सती । वत्स हे पुत्रक । भद्रं मङ्गलम् । प्रहारवर्मण्यधि तदधीना इत्यर्थः । अधिरीश्वरे' इत्यधेः कर्मप्रवचनीयत्वम् । ' यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी । इति यनिरूपितमीश्वरत्वमथवा यनिष्ठमीश्वरत्वमित्युभयविधार्थेऽन्तिममर्थमादाय तद्वाचका- दधिरामे भूरितिवा सप्तमी । प्रलम्बमानौ नितरामायतौ पीनौ पुष्टिं गतौ च बाहू भुजौ यस्य तथाविधः। शोकसागरं दुःखार्णवम् । स्थितः सन्निहितः। भागधेयं भाग्यम् । हर्षनिर्भराऽनन्द- भरिता। मठस्य छात्रादिनिवासस्यैकदेशे कस्मिंश्चित्कोणे । कटशव्यां तृणविशेषविहितं शय- नम् । अचिन्तयमिति । उपधिना विना कपटं हित्वा। ' कपटोऽस्त्री व्याजदम्भोपध- यश्छद्म कैतवे' इत्यमरः । उद्भवक्षेत्रमुत्पत्तिस्थानम् । अस्या वृद्धायाः सकाशात् । अवगम्य ज्ञात्वा । तद्द्वारेण तापसीमुखेन । जालं कपटम् । ' जालं समूह आनाये गवाक्षे कपटेऽपि च? इति वैजयन्ती । आचरेयं करिष्यामीत्यर्थः । चिन्तयतीति । पूर्वोक्तप्रकारेण विचारं कुर्वाणे सत्येत्र । महार्णवात्समुद्रादुन्मन्नस्योद्गतस्य मार्तण्डस्यार्कस्य 'विकर्तनार्कमार्तण्डमिहिरारुणपूषणः' इत्यमरः । तुरंगमाणामश्चानां श्वास- रयेण निश्वासपवनवेगेनावधूतेव प्रणुन्नेव । 'घोटके वीतितुरगतुरंगाश्चतुरंगमाः' इत्यमरः। व्यावर्तत निवृत्ताऽभूत । त्रियामा रात्रिः। 'निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा इत्यमरः । समुद्रस्य गर्भे मध्ये वासेन स्थित्या जडीकृतः शीतलीकृत इव 'सुषीमः शिशिरो जडः। तुधारः शीतलः शीतः' इत्यमरः। मन्दप्रतापः स्वल्पातपः। दिवसकरोऽर्यमा । प्रादुरासीदुदितः। ।

। तृतीयोच्छ्वासः] मनोरमाख्यव्याख्यासहितम् । उत्थायावसायितदिनमुखनियमविधिस्तां मे 'मातरमवादिषम्-'अम्ब, जाल्मस्य विकटवर्मणः कच्चिदन्तःपुरवृत्तान्तमभिजानासि' इत्यनवसितवचन एव मयि काचिदङ्गना प्रत्यदृश्यत । तां चावेक्ष्य सा मे धात्री हर्षाश्रुकुण्ठितकण्ठमांच- ष्ट-पुत्रि पुष्करिके, पश्य भर्तृदारकम् । अयमसावकृपया मया वने परित्यक्तः पुनरप्येवमागतः' इति । सा तु हर्षनिर्भरनिपीडिता चिरं प्ररुद्य बहु विलप्य शान्ता पुनः स्वमात्रा राजान्तःपुरवृत्तान्ताख्याने न्ययुज्यत । उक्तं च तया- कुमार,कामरूपेश्वरस्य कलिन्दवर्मनाम्नः कन्या कल्पसुन्दरी कलासु रूपे चा- प्सरसोऽप्यतिक्रान्ता पतिमभिभूय वर्तते । तदेकवल्लभः, स तु बह्ववरोधोऽपि विकटवर्मा ' इति । तामवोचम्- 'उपसर्पेनां मत्प्रयुक्तैर्गन्धमाल्यैः । उपजनय चासमानदारनिन्दादिना स्वभरि द्वेषम् । अनुरूपभर्तृगामिनीनां च वासवद- त्तादीनां वर्णनेन ग्राहयानुशयम् । अवरोधनान्तरेषु च राज्ञो विलसितानि सुगू- ढान्यपि प्रयत्नेनान्विष्य प्रकाशयन्ती मानमस्या वर्धय' इति । पुनारदमम्बा. । अवसायितः समाप्तिं गमितः दिनमुखनियमविधिः प्रातः कालिकनित्यक्रिया येन तथाविधोऽहम् मे मातरं मम धात्रीम् । अम्बेति।हे धात्रि ! जाल्मस्य दुष्टस्य । 'जाल्मोऽसमीक्ष्यकारी स्यात्' इत्यमरः । 'जडो जाल्मश्च निबुद्धौ स्तब्धेऽनालोच्यकारिणि' इति वैजयन्ती । कञ्चिदित्यनुयोगे। अनवसितवचनेऽसमापितवाक्ये । अङ्गना योषित् ।' विशेषास्त्वङ्गना भीरु: कामिनी वामलोचना' इत्यमरः । प्रत्यदृश्यत प्रत्यक्षाऽभूत् दृश्धातोः कर्मणि लङ् । अवेक्ष्य दृष्ट्वा । हर्षाश्रुभिरानन्दबाष्पोदकबिन्दुभिः कुण्ठितोऽवरुद्धः कण्ठः कण्ठरवः यस्मिन्कर्मणि तद्यथा तथा । आचष्ट कथयामास । भर्तृदारकं राजकुमारम् । अकृपया निरनुकम्पया। हर्षनिर्भरेणानन्दा- तिरेकेण निपीडिता व्याप्ता सती । शान्ता विलापादुपरता । राज्ञो विकटवर्मणोऽन्तःपुरवृत्तान्तस्य अवरोधसमाचारस्याख्याने कथने न्ययुज्यत प्रेरिताऽभूत् । तया पुष्करिकया। कुमार हे राजपुत्र । कामरूपेश्वरस्य तदाख्यदेशाधिपतेः। कलासु चतुःषष्टिकलासु । रूपे शरीरकान्तौ च ! अप्स. रसोऽप्यतिक्रान्ता देवाङ्गना अपि तिरस्कुर्वती । अभिभूय परिभूय । बहवो अवरोधा अन्तःपुर- त्रियो यस्य तथाविधोऽपि स विकटवर्मा तदेकवल्लभः सा कल्पसुन्दर्येवैका मुख्या वल्लभा प्रिय. तमा यस्य तादृशः। 'एके मुख्यान्यकेवला:' इत्यमरः। अवरोधस्तिरोधाने राजदारेषु तद्गृहे ' इति मेदिनी । तां पुष्करिकाम् । उपसति । एनां कल्पसुन्दरीम् । मत्प्रयुक्तैर्मया विसृष्टैः । उपजनयोत्पादय। असमानः अयं भर्ता त्वया तुल्यो नास्ति इति दोषकथनेन तन्निन्दया च । द्वेषं विरक्तिम् । अनुरूपभर्तृगामिनीनामनुगुणं भर्तारं प्राप्तवतीनाम् । अनुशयं पश्चात्तापम् । अवरोधनान्तरेषु अन्यासु शुद्धान्तवासिनीषु योषित्सु । भूभुजामन्तःपुरं स्यादवरोधनम् ' इत्यमरः। विलसितानि शृङ्गारचेष्टितानि । सुगूढान्यपि नितान्तमज्ञेया- न्यपि । प्रकाशयन्ती कल्पसुन्दः पुरः कथयन्ती । मान योषिदन्तरेण सह स्वनायकस्य विलासासहिष्णुताम् । दम्पत्योर्भाव एकत्र सतोरप्यनुरक्तयोः । स्वाभीष्टाश्लेषवाक्षादिनिरोधी দুয়াহাব। [ उत्तरपीठिकायाँ भवोच्चम् --'इत्यमेव त्वयान्यनन्यच्यापारया नृपाङ्गनासावुपस्थातव्या । प्रत्यह व यद्यत्तत्र वृत्तं तदस्मि त्वयैव बोध्यः, मदुक्ता पुनरियमुदस्वादुनोऽस्मत्क- मणः प्रसाधनाय च्छायेवालपायिनी कल्पसुन्दरीमनुवर्तताम्' इति । ते च तमर्थ तथैवान्त्रविष्ठताम् । केषुचिहिनेषु गतेष्वाचष्ट मा मदम्बा 'वत्स, माधवीव पिचुमन्दालोषिणी यथासौ शोच्यमात्मानं मन्येत तथोपपाद्य स्थापिता । किं भूयः कृत्यम्' इति । पुनरहमभिलिख्यात्मनः प्रतिकृतिम् इयममुष्यै नेया । नीता चैनां निर्वर्ण्य सा नियतमेवं वक्ष्यति । 'नन्वस्ति कश्चिदीदृशाकारः पुमान्' इति । प्रतिबद्ये- नाम्-'यदि स्यात्ततः किम्' इति । तस्य यदुत्तरं सा दास्यति तदहमस्मि प्रति- बोधनीयः' इति । सा तथा' इति राजकुलमुपसंक्रम्य प्रतिनिवृत्ता भामेकान्ते न्यवेदयत-वत्स, दर्शितोऽसौ चित्रपटस्तस्यै मत्तकाशिन्यै । चित्रीयमाणा चासौ भुवनमिदं सनाथीकृतं यद्देवेऽपि कुसुमधन्वनि नेदृशी वपुःश्रीः संनि- धत्ते । चित्रमेतचित्रतरम् । न च तमवैमि य ईदृशमिदमिहत्यो निमिमीते । मान उच्यते ॥ इत्युज्ज्वलकोशः । अनन्यव्यापारया कार्यान्तररहितया । नृपाङ्गना राजमहिनी असौ कल्पसुन्दरी । उपस्थातव्या सेवनीया । प्रत्यहमहरहः। तत्र राज्ञोऽन्तःपुरे। अस्मि इत्यहमर्थेऽव्ययम् । एवकारस्यास्मीत्यनेनान्वयः। तेन मत्प्रवृत्तिर्न कस्यचिनिकटे कथनीयेति भावः । बोध्यः निवेदनीयः । उदर्केण उत्तरकालेऽवश्य भाविना फलेन । स्वादुनः रमणीयस्य । ६. उदकः फलमुत्तरम्' इत्यमरः । प्रसाधनाय निष्पादनाय । छायेव प्रतिविम्नवत् । अन. पायिनी अविच्छिन्ना । अनुवर्ततामनुसृत्य तिष्ठतु । तेच तापसीपुष्करिके । तमर्थ मदुक कार्यम् । अन्वतिष्ठतां सम्पादयामासतुः। । केचिदिति । कतिपयेषु । गतेष्वतीतेषु सत्सु । माधवी वसन्तकालोद्भवा काचिल्लता 'बासन्ती माधवी लता' इत्यमरः । पिचुमन्दं निम्बवृक्षमाश्लिष्यत्यालिङ्गत्येवंशीला । असो कल्पसुन्दरी। शोच्यं पश्चातापाहम् । मन्येत विचारयेत । उपपाद्य सहेतुकं पतिदोषाविष्कार कृत्वा । भूयः पुनरपि । कृत्यमनुष्ठातुमर्हम् । अभिलिख्य चित्रयित्वा । प्रतिकृति चित्रपटम् । अमुष्य कल्पसुन्दय नेया प्रापयितव्या । निर्वर्ण्य सादरमभिवीक्ष्य । नियतमवश्यमेव । वक्ष्यति कथयिष्यति । ईदृशाकारः चित्रपटस्थपुरुषसमानाकारः । यदि स्यादिति । अस्य परपुरुषत्वेन स्वोपभोगानहत्वान किंचित्तव प्रयोजनमिति भावः । इदं च तस्याः कल्पसुन्दाँ मनोगता- रायपरिज्ञानार्थमुक्तम् । उत्तरं प्रतिवचनम् । प्रतिबोधनीयः निवेदनीयः । सा ममोपमाता तामसी । उपसंक्रम्योपसृत्य । एकान्ते रहसि । मत्तकाशिन्यै श्रीविशेषान्तर्गतायै कल्पसुन्दथें । वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी' इत्यमरः । चित्रीयमाणा तचित्रमद्भुतं मन्यमाना । सनाथीकृतं सार्थक संपादितम् । कुसुमधन्वनि कामदेवे । वपुःश्रीः शरीरलावण्यम् । संनिधत्ते अनिहितं वर्तते । चित्रतरमत्याश्चर्यकारकम् । अवैमि जानामि । इहत्यश्चम्पानिवासी भूलोकवासी । -- । ।

CAME तृतीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । केनेमालिखितम्, इत्यादृतवती व्याहृतवती च । मया च स्मेरयोदीरितम्-- 'देवि, सदृशमाज्ञापयसि । भगवान्मकरकेतुरप्येवंसुन्दर इति न शक्यमेव संभावयितुम् । अथ च विस्तीर्णेयमर्णवनेमिः । कचिदीदृशमपि रूपं दैवशक्त्या संभवेत् । अथ तु यद्येवंरूपो रूपानुरूपशिल्पशीलविद्याज्ञानकौशलो युवा महा- कुलीनश्च कश्चित्संनिहितः स्यात् , स किं लप्स्यते' इति । तयोक्तम्-'अम्ब, किं ब्रवीमि । शरीरं हृदयं जीवितमिति सर्वमिदमल्पमनह च। ततो न किंचि- ल्लप्स्यते न चेदयं विप्रलम्भस्तस्यामुष्य दर्शनानुभवेन यथेदं चक्षुश्चरितार्थं भवे- तथानुग्रहः कार्यः' इति । भूयोऽपि मया दृढतरीकर्तुमुपन्यस्तम्- 'अस्ति कोऽपि राजसूनुनिगूढं चरन् । अमुष्य वसन्तोत्सवे सहसखीभिर्नगरोपवनविहारिणी रतिरिव विग्रहिणी यदृच्छया दर्शनपथं गतासि । गतश्चासौ कामशरैकलक्ष्न्यता मामन्ववर्तिष्ट । मया च वामन्योन्यानुरूपैरन्यदुर्लभैराकारादिभिर्गुणातिशयैश्च प्रेर्यमाणया तद्रचितैरेव कुसुमशेखरस्रगनुलेपनादिभिश्चिरमुपासितासि । सादृश्य च स्वमनेन स्वयमेवाभिलिख्य त्वत्समाधिगाढत्वदर्शनाय प्रेषितम् । एष चेदर्थों निश्चितस्तस्यामुष्यातिमानुषप्राणसत्त्वप्रज्ञाप्रकर्षस्य न किंचिदुष्करं नाम । तम- वा । निर्मिमीते संपादयति । आइतवती आदरान्विता । व्याहृतवती कथितवती । स्मेरया कृतमन्दहास्यया । 'नमिकम्पिस्म्यजसकमहिंसदीपो रः' इति रप्रत्ययः । उदीरितमभिहितम् । देवीति । हे राज्ञि । सदृशं यथायोग्यम् । मकरकेतुर्मदनः । संभावयितुं विचारयितुमपि न शक्यं किं पुनरभिधातुमिति भावः । अर्णवनेमिः समुद्रमेखला पृथिवीत्यर्थः । अथ तु तिष्ठत्वियं वार्तेति भावः । तिष्ठत्वित्यभिधेये स्यादास्तामथ तु चाव्ययम्' इत्यजयः । एवं चित्रपटे दृश्यमानतुल्यं रूपं सौन्दर्य यस्य स एवरूपः । शिल्पं कार्यसामर्थ्यम् । शीलं सत्स्वभावः। विद्या- श्चतुर्दशाष्टादश वा । ज्ञानं व्यवहारज्ञानमेतेषु कौशलो निपुणः । महाकुलीनः महति वंशे उत्पन्नः। * महाकुलादखौं' इत्यत्रान्यतरस्यामित्यनुवृत्त्या पक्षे ख इत्युक्त्यात्र खप्रत्ययः । संनिहितः उपस्थितः । तया कल्पसुन्दर्या । अनहें निर्मूल्यम् । विप्रलम्भः प्रतारणम् । इदं मदीयमित्यर्थः । चरितार्थ सफलम् । दृढतरीकर्तुं कल्पसुन्दाश्चित्तवृत्तिं त्वयि निश्चलां विधातुम् । अस्तीति । रानसूनुः नृपतिकुमारः । निगूढं प्रच्छन्नं यथा तथा । विप्रहिणी सशरीरा । 'शरीरं वर्म विप्रहा इत्यमरः । कामशराणा मदनसायकानां लक्ष्यतां शरव्यत्वं गतः प्राप्तः । लक्ष लक्ष्यं शव्यं च' इत्यमरः । मामन्ववर्तिष्ट भवत्याः प्राप्तिविषये मामेव सहायतयोपसृतवान् । वां तव तस्थ व । 'त्यदादीनां मिथः सहोत्तौ यत्परं तच्छिष्यते' इति युमच्छब्दस्यैकशेषः । अन्योन्यानु- रूपैः परस्परं योग्यैः । प्रेर्यमाणया नियुज्यमानया । तेन राजपुत्रेण राचेतैः कृतैः कुसुमशेखरः पुष्पकृत आपीडः शिरोधार्यः । खड्माल्यम् । उपासिताऽऽराधिता । स्वयं निजहस्तेनैव । तव समाधेर्मनोऽभिनिवेशस्य गाढत्वदर्शनाय दाय निर्णेतुम् । एषोऽर्थस्तवाप्यस्मिन्पुरुषे आसक्तिरस्ती- ल्यवेरूपः । निश्चितस्तेन पुरुषेण निर्धारितः। प्राणो बलम् । सत्त्वं पराक्रमः । प्रज्ञा बुद्धिरेतेषां । . । ।

10. লাজু। [उत्तरसीठिकार्या चैव दर्शयेयम् । संकेतो देयः' इति । तया तु किंचिदिव ध्यात्वा पुनराम- हितम्--- अम्ब, तब नैतदिदानी गोप्यतमम् । अतः कथयामि । मम तातस्य राज्ञा प्रहारबर्मणा सह महती प्रीतिरासीत् । मातुश्च मे मानवत्याः प्रियव- यस्था देवी प्रियंवदासीत् । ताभ्यां पुनरजातापत्याभ्यामेव कृतः समयोऽभूत्- 'आवयोः पुत्रमत्याः पुत्राय दुहितमत्या दुहिता देया' इति । तातस्तु मां जातां प्रनष्टापत्या प्रियंवदेति प्रार्थयमानाय विकटवर्मणे दैवाहत्तवान् । अयं च निष्ठुरः पितृद्रोही नाप्युपपन्नसंस्थानः कामोपचारेवलब्धवैचक्षण्यः कलासु काव्यनाटकादिषु मन्दाभिनिवेशः शौर्योन्मादी दुर्विकथनोऽनृतवादी चास्था- नवर्षी । नातिरोचते म एष भर्ता विशषेतश्चैषु वासरेषु यदयमुद्याने मदन्तरङ्ग- भूतां पुष्करिकामप्युपान्तवर्तिनीमनादृत्य माय बद्धसापत्न्यमत्सरामनात्मज्ञा- मात्मनाटकायां रमयन्तिको नामापत्यनिविशेषं मत्संवर्धितायाश्चम्पकलतायाः । प्रकर्षोऽधिकत्वम् । अतिमानुष इतरजनासाधारणः प्राणादिप्रकर्षों यस्य तथाभूतस्य । न किंचिद् दुष्करं नाम किमपि दुःसाध्यं न वर्तते । सर्वमप्ययं शीघ्रमेव साधयिष्यतीति भावः । तं तादृशं युवानम् । अद्यास्मिन्नेव दिने । ध्यात्वा पर्यालोच्य । न गोप्यतममावयोर्घटनोयुक्तायाम् त्वयि न किमपि प्रच्छादनीयं गोपायने च स्वस्यैव कार्यहानिरिति भावः । अतः त्वत्सन्निधाववश्यं कथ. नीयत्वात् । ममेति । तातस्य जनकस्य कलिन्दवर्मणः । प्रियवयस्याऽऽतसखी । अजाताप- पत्याभ्यामेव अनुत्पन्नसन्ततिभ्यां मज्जननात्प्रागेवेत्यर्थः । समयः प्रतिज्ञा 'समयाः शपथाचार- कालसिद्धान्तसंविदः' इत्यमरः । आवयोर्मध्ये पुत्रवत्याः या पुत्रं जनयति तस्याः पुत्राय दुहितमत्या कन्यामात्रा । प्रनष्टमदृश्यतां गतमपत्यं यस्यास्तादृशी ‘णश् अदर्शने । दैवाद्दत्तवान्म. दिच्छां विनवार्पितवान् । निठुरः क्रूरः । पितृद्रोही पितृतुल्यो यः प्रहारवर्मा पितृव्यस्तोही । उपपन्नमनुगुणं संस्थानं गात्रं यस्यैतादृशोऽपि न विकृताङ्ग इति भावः। 'उपपन्नं समृद्धे च संपन्नेऽनुगुणेऽपि च ' इति केशवः । संस्थानं मरणे गात्रे संनिवेशे च वर्तते ' इति भागरिः। कामोपचारेषु रतितन्त्रेषु । अलब्धचक्षण्योऽमाप्तचातुर्यः मन्दबुद्धिारति यावत् । कलासु चतुःषष्टिसंख्यासु विद्याकलासु । मन्दः स्वल्पोऽभिनिवेश आसक्तिर्यस्य स काव्यादिष्वरसिक इत्यर्थः । दुर्विकत्थनः दुष्ट आत्मश्लाघाकारी 'विकत्थनं स्तवः श्लाघा' इति हलायुधः । अनु- तवादी मिथ्यावादी । अस्थानेऽसत्पात्रे मद्यपातकारिवाराङ्गनादिषु ददातीत्येवंशीलः । मे मह्यम् । नातिरोचते किंचिदपि प्रीतिकरो न भवति । 'रुच्यर्थानां प्रीयमाणः' इति म इत्यत्र संप्रदानतायां चतुर्थी। यदिति । यस्मात्कारणादयं विकटवर्मा । उद्याने उपवने। ममान्तरङ्गभूता- मत्यन्तमाप्तप्रियसखीभूताम् । उपान्तवर्तिनीमासन्नवर्तिनीम् । अनाहत्याविगणय्य । 'अनादरः परिभवः परीभावस्तिरस्क्रिया। रीढाऽवमाननाऽवज्ञा' इत्यमरः । बद्धः स्थिरीकृतः सापत्न्येन समानपतिकत्वेन जायमानो यो मत्सरो द्वेषो यया तादृशीम् । अनात्मज्ञां स्वयोग्यताविचार- शून्याम् । आत्मनो नाटकीयां नृत्तकरीम् । नाटकीयो नृत्तकरः' इत्यजयः। यथा राज्ञा Nan तृतीयोच्छासः] मनोरमाख्यव्याख्यासहितम्। स्वयमवचिताभिः सुमनोभिरलमकार्षीत् । मदुपभुक्तमुक्ते चित्रकूटगर्भवेदिका- गते रनतल्पे तया सह व्यहार्षीत् । अयोग्यश्च पुमानवज्ञातुं च प्रवृत्तः । तत्कि- मित्यपेक्ष्यते परलोकभयं चैहिकेन दुःखेनान्तरितम् । अविषह्यं हि योषितामन- ङ्गशरनिषङ्गीभूतचेतसामनिष्टजनसंवासयंत्रणादुःखम् । अतोऽमुना पुरुषण ममाद्योद्यानमाधवीगृहे समागमय । तद्वार्ताश्रवणमात्रेणैव हि ममातिमात्रं मनो नुरक्तम् । अस्ति चायमर्थराशिः । अनेनामुष्य पदे प्रतिष्ठाप्य तमेवात्यन्तमुप- चर्य जीविष्यामि' इति । मयापि तदभ्युपेत्य प्रत्यागतम् । अतः परं भर्तृ- दारकः प्रमाणम् ' इति । ततस्तस्या एव सकाशादन्तःपुरनिवेशमन्तर्वशिकपुरुषस्थान् प्रमदवनप्रदेशा- । स्वसन्निधाने नर्तकी काचित्साधारणत्री रतिप्रेमास्पदत्वेन न स्वीकार्या तद्वदयोग्याम् इति भावः । अपत्यनिर्विशेषमौरसपुत्रादपि विशिष्टस्नेहेन मया संवार्धतायाः पोषितायाः। स्वयं स्वकरेणैवा- वचिताभिहाताभिः सुमनोभिः पुष्पैः । 'स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्' इत्यमरः । अलमकार्षीभूषयामास । मया पूर्वमुपभुक्तेऽनुभूते पश्चान्मुक्त परित्यक्ते । चित्रकूटो विहारगिरि- स्तस्य गर्ने मध्यभागे या वेदिका परिष्कृता भूस्तद्गते तत्र स्थापिते । रत्नतल्पे रत्नपर्यङ्के । तया रमयन्तिकया सह व्यहार्षीक्रीडति स्म । अयोग्यः स्वयं योग्यतारहितोऽपि पुमान्मे भर्ताऽवज्ञातुं मामवमन्तुमपि प्रवृत्तः उद्युक्तः ऐहिकेन इह भूलोके भवेन । अन्तरितं दूरीकृतम् । एतादृशभर्ना सह निवासो नरकादप्यतिकष्टतर इति मे भातीत्यर्थः । अविषह्यं सोढुमयोग्यम् । अनङ्गशराणां मन्मथबाणानां निषङ्गीभूतं तूणीरमिव तत्परिपूर्णमिति यावत् । 'तूणोपासङ्गतूणीरनिषङ्गा इषुधि- ईयोः' इत्यमरः । तादृशं चेतो मनो यासां तथाविधानां योषितां स्त्रीणाम् । 'त्री योषिदबला योषा नारी सीमन्तिनी वधूः इत्यमरः । अनिष्टेनानभीप्सितेन जनेन भी साकं यः संवासो निवासः तस्य यन्त्रणया अवश्यं याबजीवं त्वयाऽनेन साकं वस्तव्यम्' इति नियमनेन जायमानं दुःखम् । अत इति। विकटवर्मणा सहवासस्य ममानभीष्टतया । अमुना चित्रे दृश्यमानेन । उद्यानमाधवीगृहे उपवनवर्तिनि वासन्तीलतागृहे । 'वासन्ती माधवीलता इत्यमरः । समागमय संयोजय । तस्य राजकुमारस्य वार्ताश्रवणमात्रेण वृत्तान्ताकर्णनात्प्रभृत्येव । अतिमात्रं गाढम् । अर्थराशिर्धनपुजः । अमुष्य विकटवर्मणः पदे राजत्वरूपे मद्भर्तृत्वरूपे च स्थाने । तमेव चित्रे दृश्यमान युवानमेव । उपचर्य सेवां कृत्वा । तयुवयोः संमेलनमभ्युपेत्य स्वी- कृत्य प्रत्यागतं पुनरायातम् । भर्तृदारकः राजकुमारो भवानेव । प्रमाणं कार्यनिर्धारक इति भावः। तत इति । तस्या एव वृद्धतापस्या एव सकाशान्निकटात । अन्तःपुरस्यावरोधगृहस्य निवेशं संस्थानम् । अन्तर्वशिकपुरुषा अवरोधरक्षकाः । 'अन्तःपुरे त्वधिकृतः स्यादन्तवैशिको जनः' इत्यमरः । तादृशपुरुषास्तिष्ठन्ति यत्र तादृशान् प्रमदवनस्य विहारोद्यानस्य प्रदेशान् । 'विज्ञेयं प्रमदवनं पुरोपकण्ठे शुद्धान्तैः सह रमते नृपस्तु यास्मिन् ' इति हलायुधः । 'स्यादेतदेव । । ।

२४० India । । জুয়েলারি। [उत्तरपीठिकार्या नापि विभागलावगन्या, अत्तगिरिकूटपातभितशोणित इव शोणीभवति भानु- बिम्बे, पश्चिमान्बुधिषयःपालनिर्वापितपतङ्गाङ्गारधूमसंभार इव भरितनभास तमासि विजृम्भिते, परदारपरामर्शोन्मुखस्य ममाचार्यकमिव कर्तुमुत्थिते गुरुपरि- ग्रहश्नाधिनि ग्रहानेसरे क्षपाकरे, कल्पसुन्दरीवदानपुण्डरीकेणेव मदर्शनातिराग- प्रथमोपनतेन स्मयमानेन चन्द्रमण्डलेन संधुक्ष्यमाणतेजसि भुवनविजिगीपोद्यते देवे कुसुमधन्वान, यथोचितं शयनीयमभजे । व्यचीचरं च-सिद्धप्राय एवाय- मर्थः । किंतु परकलालचनाद्धर्मपीडा भवेत्, साप्यर्थकामयोर्द्वयोरुपलम्भे शास्त्र- कारैरनुमतैवेति । गुरुजनबन्धमोक्षोपायसधिना मया चैष व्यतिक्रमः कृतः, तदपि पापं निहत्य कियत्यापि धर्मकलया मां समग्रयोदति । अपि त्वेतदाकर्ण्य प्रमदवनमन्तःपुरोचितम् ' इत्यमरश्च । विभागेन पृथक्पृथग्विविच्यावगम्यः ज्ञात्वा । अस्तगिरे- रस्ताचलस्य कूटे शिखरे 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । पातेन संघटनेन क्षुभितं निःसृतं शोणितं रक्त यस्मात्तादृश इव । इवशब्दोज हेतूत्प्रेक्षायाम् । 'रुधिरेऽग्लोहितास्ररक्तक्षतज- शोणितम् ' इत्यमरः । शोणाभवति रक्तवर्णतामापन्ने । लोहितो रोहितो रक्तः शोण: कोक- नदच्छविः' इत्यमरः । भानुबिम्बे सूर्यमण्डले । पश्चिमाम्बुधेः पश्चिमसमुद्रस्य पयसि जले पातेन निपतनेन.निर्वापितः निळलीकृतः पतङ्गः सूर्य एवाशारः ज्वलत्काष्ठखण्डः तस्मादुत्थितः धूमस्य संभारे पुज्ञे तत्सनिभे इत्यर्थः । पतंगौ पक्षिसूर्यों च ' इत्यमरः । भरितं पूरितं नम आकाशं येन तादृशे तमस्यन्धकारे विजृम्भिते सर्वतो व्याप्नुवति । परदाराणां परामर्शे दूषणे उन्मुखस्योयुक्तस्य ममोपहारवर्मणः । आचार्य पौरोहित्यम् । 'मन्त्रव्याख्याकृदाचार्यः । इत्यमरः। गुरोः बृहस्पतेः परिग्रहं पत्नी श्लाघतेऽत्युत्कृष्टतया स्तौति इति गुरुपरिग्रहश्लाघी अनेन च तद्गमनमपि विवक्षितम् । तादृशे प्रहाणां नवानामप्रेसरे मुख्ये क्षपाकरे चन्द्रे । नक्षत्रेशः क्षपाकरः' इत्यमरः । मम दर्शनेऽवलोकनेऽतिरागेणात्यासत्या प्रथम कल्पसुन्दाग- मनात्मागेवोपनतेन मम संनिधिमागतेन स्मयमानेन मन्दहास्यं कुर्वता कल्पसुन्दाः वदनपुण्ड- रीकेण तत्तुल्येन । चन्द्रमण्डलेन चन्द्रबिम्बेन । 'प्रतीपमुपमानत्योपमेयत्वप्रकल्पनम् ' इत्या- लंकारिकोक्तलक्षणस्यात्र सत्त्वादत्र प्रतीपाख्योऽर्थालंकारः। संधुक्ष्यमाणमुद्दीप्यमानं तेजः परा- क्रमो यस्य तादृशे । भुवनानां त्रयाणां विजिगीषया जेतुमिच्छयोद्यते उद्युक्ते कुसुमधन्वनि कामे । यथोचितं यथायोग्यं शैत्यकारीति यावत् । व्यचीचरमिति | विचारं कृतवान् । अयमर्थः कल्पसुन्दरीप्रप्तिः शत्रुमारणपूर्वक स्वराज्यप्राप्तिा । सिद्धप्रायः किंचिन्यूनः सिद्धः तमंशमपि सद्यः साधयिष्यामीत्यर्थः । परकलत्रलचनात्परस्त्रीगमनात् । 'कलत्रं श्रोणिभार्ययोः' इत्यमरः । धर्मस्य पीडा हानिः। साऽपि धर्महानिरपि । उपलम्भे प्राप्तौ सत्याम् । शास्त्रका(मन्वादिभिः स्मृतिकारैः । अनुमता समतैव । गुरुजनयोर्मम मातापित्रोः प्रहारवर्मप्रियंवदयोबन्धनान्माक्षो मुक्तिस्तत्रोपायसंधिना तन्मुक्तिसाधनीभूतोऽयं मार्ग इति बुद्धिना । व्यतिक्रमो धर्मविरुद्धव्यव- हारः । तदपि पापं परस्त्रीगमनजन्यं दोषमपि निहत्य दूरीकृत्य कियत्यापि धर्मकलया पित- ।

तृतीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । देवो राजवाहनः सुहृदो वा किं नु वक्ष्यन्ति' इति चिन्तापराधीन एव निद्रया परामृश्ये । अदृश्यत च स्वप्ने हस्तिवको भगवान् । आहस्म च-'सौम्य उपहा- रवर्मन्, मा स्म ते दुर्विकल्पो भूत् । यतस्त्वमास मदंशः । शंकरजटाभारलाल- नोचिता सुरसरिदसौ वरवर्णिनी। च कदाचिन्मद्विलोडनासहिष्णुर्मामश- पत्-‘एहि मर्त्यत्वम्' इति । अशप्यत मया च-'यह बहुभोग्या तथा प्राप्यापि मानुप्यकमनेकसाधारणी भव' इति । अभ्यर्थितश्चानया 'एकपूर्वा पुनस्त्वामेवो- । - मोक्षणजन्येन केनचिद्धर्माशेन मां समायेद्योजयेत् । केवलम् अर्थकामयोर्द्वयोः प्राप्तावपि अनुमताऽस्ति चेत्सा धर्मपीडा मया विधीयमाना स्वराज्यस्य कल्पसुन्दर्याः पितृमोचनस्य च अर्थ- कामधर्माणां साधयित्री न दोषावहेति भावः । अपिरिवति । एतन्मम परकलनगमनम् । आकर्य श्रुत्वा । मुहदो मित्राणि । वक्ष्यन्ति कथयिष्यन्ति । चिन्तापराधीनः विचारप्रस्तः । निद्रया परामृश्ये निद्रां गतोऽहामीति भावः । स्वप्ने सुषुप्तिकाले । हस्तिवको गजाननः। आह उवाचेत्यर्थे विभक्तिप्रतिरूपकमव्ययम् । ते तब ! दुर्विकल्पः मम कृत्यामिद दुष्टमदुष्टं वा' इति दुष्टता- संदेहो माभूत् मा भवतु । समीचीनमेवाति निश्चिनुहौति भावः । यतो यस्मात्कारणात्त्वमु- पहारवर्मा ममांशो मम कलयोत्पन्नः । शंकरण महादेवेन जटामारे स्वमूर्धनि लालनाय रम- यितुमुचिता योग्या तत्र वासिनीत्यर्थः । सुरसारिदेवनदी गति यावत् । असो बरवार्णनी इयं कल्पमञ्जरी । 'वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी' इत्यमरः । सा चेति । गङ्गा ! मद्विलो- डनं मत्कृतजलताडनं न सहते एवंशीला सती । अशपन्ममोपरि शापं दत्तवती । मत्यत्वं मनुष्यतामहि प्राप्नुहि । वस्तुतस्तु सपत्नीतनयत्वमेव कारणं जलताडनं तु व्याजीकृत्य शापो- दत्तः । एतच्च टिप्पणीस्थपाठान्तरादवगन्तव्यम् । इह देवलोके । बहुभोग्या बहुभिर्जनैः स्नान- पानादिना भोग्या भोक्तुमुचिता । मानुष्यकं मनुष्यभावं प्राप्यापि गत्वा । 'योपधाद्गुरूपोत्त- माद्बञ्' इति वुञ् । अनेकसाधारणी एकाधिकैः भोग्या। अभ्यार्थतः प्रार्थितोऽनया गङ्गया। । १ 'तां च कदाचिद्गजाननो जलक्रीडां कुर्वन्नतिव्यगाहत । सा च सप- नीतनयविहितां विलोडनामसहमाना तमशपत'. 'सोऽप्यहेतुकशापप्रदा. नात्क्रुद्धस्तामशपत्' 'ततस्तेन प्रतिशप्ता सा विलक्षेव मामुपसृत्य खगद्गद- मगदत्-'स्वामिन्, अहमनवरतभवञ्चरणवरिवस्याविधायिनी नशापाहीं इति । तदाकर्ण्य कृपाक्रान्तमनसामयोक्तम्-'प्रिये, नास्य शापोऽन्यथा भवि- तुमर्हति । परं त्वदनुग्रहार्थमहमात्मनोंऽशं द्विधा विभज्य विकटवर्मनृपरूपेण मिथिलापतिप्रहारवर्मात्मजोपहारवर्मात्मना च मर्त्यलोकेऽवतरिष्यामि । त्वं च कामरूपाधिपतेः कलिङ्गवर्मनाम्नः कन्या कल्पसुन्दरी नाम भूत्वा ज्यायला मदंशेन विकटवर्मणा प्रथममल्पीयांसमनेहसं संगता तस्मिन्विक- टवर्मणि मन्मूर्तावेव लयमुपगते पुनरुपहारवर्मात्मकं कनीयांसं मदेशमुप- लभ्य तेन साकं विविधसुखोपभोगमनुभविष्यसि । इति पाठान्तरम् ।

'eting PANNAggagarata Direpare उत्तरपठिकार्या पचर्य यावजीव रमेयम् इति । तदनों भव्य एव अवता निराशंक्यः' इति । प्रतिबुध्य च प्रीतियुक्तस्तदहरमिनियासंकेतव्यतिकरादिस्मरणेनाहमनैषम् । अन्येारनन्यथावृत्तिरलङ्गो मय्येवेषुवर्षमवर्षत् । अशुष्यच्च ज्योतिप्मतःप्रभामयं सरः । प्रासरच तिमिरमयः कर्दमः । कार्दमिकनिवसनश्च दृढतरपरिकरः खड्गपाणिरुपहृतप्रकृतोपस्करः । स्मरन्मातृदत्तान्यभिज्ञानानि राजमन्दिरपरिखा- मुदम्भसमुपातिष्टम् । अथोपखातं मातृगृहद्वारे पुष्करिकया प्रथमसंनिधापितां वेणुयष्टिमादाय तया शायितया च परिखाम् , स्थापितया च प्राकारभित्तिमल- वयम् । अधिरुह्य पक्केष्टकचितेन गोपुरोपरितलाधिरोहेण सोपानपथेन भुवमवा- - एकपूर्वा पूर्व केनचिकेन भुक्ता सती! उपचर्य सेवित्वा । थावजीवं जीवकालपर्यन्तम् । अयमर्थः परस्त्रीगमनरूपः । भव्यः कल्याणकदेव ! 'भावुकं भविकं भव्यं कुशलं क्षेममस्त्रि- थाम्' इत्यमरः । निराशंक्यः नान्यथा विचारणीयः । प्रतिबुध्य निद्राया उत्थाय । प्रियायाः कल्पसुन्दर्याः संकेतस्य तत्स्थानस्य, व्यतिकरस्य तत्र कर्तव्यव्यापारस्य च स्मरणेन चिन्तया । अनैषं यापयामि स्म। अन्येयुरिति । परस्मिन्दिवसे संगमार्थ संकेतितदिने इति यावत् । न वर्ततेऽन्यथा मदुपार बाणवर्षणातिरिक्ता वृत्तिः चेष्टा यस्य सः व्यापारान्तरं सर्व परित्यज्येत्यर्थः । अनः कामः । इषुवर्षे बाणवृष्टिम् । अशुष्यन्निर्जलीभूतम् । ज्योतिष्मतः सूर्यस्य प्रभामयं प्रकाशात्मकं सरः कासारः । अस्तगमनकालस्यासन्नत्वानिस्तेजा जातः सूर्य इत्यर्थः । पद्माकरस्तडागोऽत्री कासारः सरसी सरः' इत्यमरः । तिमिरमयः अन्धकाररूपः। अन्धकारोऽस्त्रियां वान्तं तमित्रं तमिरं तमः' इत्यमरः । तथाविधः कर्दमः पङ्कः प्रासरत्सर्वत्र व्याप्त आसीदित्यर्थः । सरःशोषे यथा कर्दमो बहिनिस्सरति तथा सूर्ये निष्प्रभेऽन्धकारो निःसृत इति भावः । 'निषद्वरस्तु जम्बालः पङ्कोऽत्री शादकर्दमौ' इत्यमरः । कर्दमेन पडून रक्तं कार्दमिकम् । तेन रक्तं रागातू' इत्यधि- कारे 'लाक्षारोचनाहक्' इत्यत्र 'शकलकर्दमाभ्यामुपसंख्यानम् ' इतिवार्तिकादत्र ठक् । तादृशं निवसनं वस्त्रं यस्य तथाविधः सन् । दृढतरः परिकरः कच्छबन्धः यस्य तथाभूतः कक्षाबन्धः पारकरः' इति वैजयन्ती। उपहृतः स्वीकृतः प्रकृतस्य कार्यस्य स्त्रीसंगरूपस्य उपस्करः तदुपयो- गिसामग्री येन तथाभूतः । स्मरन्मनसा पुन:पुनरावर्तयन् । मात्रा धान्या तापस्या दत्तानि कथि- तानि अभिज्ञानानि लक्षणानि । राजमन्दिरस्य राजप्रासादस्य परिखा भागचतुष्टयेऽपि खनितां स्वल्पनदीम् । उदम्भसं परिपूर्णजलाम् । उपातिष्ठं तत्समीपं गतोऽभूवम् । अथेति । खातस्य परिखायाः समीपे इत्युपखातमित्यव्ययीभावः । प्रथमं मत्मस्थानात्मागेव सनिधापितां स्थापि- ताम् । वेणुयष्टिं वंशकाष्ठम् । शायितया कूलद्वये स्थापितया तया वंशयष्ट्या । स्थापितया भूमौ प्राकाराग्रे च निहितया । प्राकारभित्तिमावरणकुड्यमलंघयमुलंधितवान् । 'प्राकारो वरण: सालः' इत्यमरः । पक्वामिरिष्टकाभिमुत्पिण्डविशेषैश्चितेन निर्मितेन । 'इष्टकेषीकमालानां चिततू- लभारिषु इति पूर्वपदस्य ह्रस्वः । गोपुरस्य पुरद्वारस्योपरितले ऊर्वभागे अधिरोहः यस्येति एता- ।

- सब्दम् । 'कोकचकचक्रवाको रायाजाह्वयनामकः' 'स्त्रीपुंसौ उपरचिता निर्मिता रत्नवेदिका यस्मिनेतादृशं माधवीलतानां तृतीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । तरम् । अवतीर्णश्च बकुलवीथीमतिक्रम्य चम्पकावलिवर्मना मनागिवोपमृत्यो त्तराहि करुण चक्रवाकमिथुनरवमशृणवम् । पुनरुदीचा पाटलिपथेन स्पर्शलभ्य- विशालसौधकुडयोदरेण शरक्षेपमिव गत्वा पुनः प्राचा पिण्डीभाण्डीरषण्डमण्डि- तोभयपाधैन सैकतपथेन किंचिदुत्तरमतिक्रम्य पुनरवाची चूतवीथीमगाहिषि । ततश्च गहनतरसुदरोपरचितरत्नवेदिकं माधवीलतामण्डपमीषद्विवृतसमुद्कोन्मि- षितभासा दीपवर्त्या न्यरूपयम् । प्रविश्य चैकपाधै फुल्लपुष्पनिरन्तरकुरण्टपो- तपंक्तिभित्तिपरिगतं गर्भगृहम्, अवनिपतितारुणाशोकलतामयमभिनवकुसुमको- रकपुलकलाञ्छितं प्रत्याप्रवालपटलपाटलं कपाटमुद्घाट्य प्राविक्षम् । तत्र चासी- दृशेन सोपानपथेन मार्गेण । 'पुरद्वारं तु गोपुरम्' । 'आरोहणं स्यात्सोपानं निःश्रेणिस्त्वधिरोहिणी' इत्यमरः । 'ऋक्पूर-' इति अप्रत्ययः । अवातरमवतीर्णवान् । बकुलवीथीं बकुलवृक्षपक्तिम् । 'वाथ्यालिरावलिः पङ्क्तिः श्रेणी' इत्यमरः ! अतिक्रम्यातीत्य । चम्पकावलिवमना चम्पकवृक्ष- श्रेण्यावृतमार्गेण । मनागिवोपसृत्य किंचिडूरं गत्वा । उत्तराहि उत्तरस्यां दिशि । दिक्छब्देभ्यः सप्तमी-' इत्यधिकारे 'उत्तराञ्च' इत्याहिप्रत्ययः । करुणं दीनतायुक्तं यथातथा । चक्रवाकयोः मिथुनं द्वन्द्वम्' इत्यमरः । अश्णवमाकर्णितवान् । उदीचोत्तरदिग्गामिना। स्पर्शलभ्यं हस्तप्राप्यं विशालस्यातिमहतः सौधकुडयस्य राजगृहभित्तेरुदरं मध्यदेशो यत्र स्थितस्य पुरुषस्यैतादृशेन । 'सौधोऽत्री राजसदनमुपकार्योपकारिका' इत्यमरः । भित्तिः स्त्री कुड्यमेडूकम्' इति च ! शरक्षे- 'पमिव क्षिप्तः शरो यावडूरं गच्छेत्तावरपर्यन्तम् । प्राचा पूर्वदिग्गामिना । पिण्डीनां रक्ताशो- कवृक्षाणां भाण्डीराणां मल्लिकालतानां च परस्परं स्त्रीपुंसवद्वेष्टितानां षण्डः समूहः । 'रक्ताशोके तु पिण्डी स्यात् ' इति वैजयन्ती । भाण्डीरो मल्लिकाबन्धः' इत्यजयः । तेन मण्डितो उभौ पाचौं यस्यैतादृशेनं । सैकतपथेन वालुकामार्गेण । परिष्कृतौ ' तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्' इत्यमरः । अवाची दक्षिणदिग्गामिनीम् । 'प्राच्यवाचीप्रतीच्यस्ताः पूर्वदाक्षण- पश्चिमाः। उत्तरा दिगुदीची स्यात्' इत्यमरः । चूतत्रीथीं रसालावलिम् । 'आम्रचूतो रसालश्च' इत्यमरः । अगाहिषि प्रविष्टवान् । ततश्चेति । गहनतरमत्यन्तं निबिडम् । उदरे मध्यदेशे द्विवृतात किंचिदुद्धाटितात्संपुटादुन्मिषिता बहिनिःसृता भाः कान्तिर्यस्यास्तथाविधया दीप- वा दीपकशिखया न्यरूपयमवलोक्यम् । एकपात्रे कस्मिंश्चिद्भागे । फुल्लपुष्पैर्विकसित- प्रसूनैर्निरन्तराणां व्याप्तानां कुरण्टपोतानां बालकुरवकवृक्षाणां पङ्क्त्यैव भित्त्या परिगतमा- वृतम् । गर्भगृहं निवासगृहम् । 'गर्भागारं वासगृहम्' इत्यमरः । अवनिपतिता भूमिपर्यन्तं लम्बमानाः या अरुणाशोकलतास्तन्मयं तद्रूपम् । अभिनवा नूतना ये कुसुमकोरकाः पुष्पकलि. कास्तेषां पुलकैरुद्भदैलाञ्छितं चिह्नितम् । प्रत्यग्राणां नवानां प्रवालानां किसलयानां पटलेन समूहेन पाटलं किंचिद्रक्तवर्णम् । 'श्वेतरक्तस्तु पाटल: ' इत्यमरः । कपाटं गृहद्वारापिधानमुद्घाटया पसार्य।

मा दशकुमारचरितम् । । उत्तरपीठिका स्वास्तीर्ण कुसुमशयन, सुरतोषारणवस्तुगर्भाश्च कमलिनीपलाशसंपुटाः, दन्तमयस्तालअन्तः, सुरमिलाललभरितच कारकः । समुपविश्य मुहूर्त विश्रान्तः परिमलमतिशयवन्तमाघ्रासिषम् । अनीषं च मन्दमन्दं पदशब्दम् । श्रुत्वैव संकेतगृहानिर्गत्य रक्ताशोकस्कन्धपार्श्वव्यवहिताङ्गयाष्टिः स्थितोऽस्मि । सा च सुभ्रूः सुषीमकामा शनैरुपेत्य तत्र मामदृष्ट्वा बलवव्यथिष्ट । व्यस्सृजन मत्तराजहंसीव कण्ठरागवलगुगद्दा गिरम्-'व्यक्तमस्मि विप्रलब्धा । नास्त्यु- पायः प्राणितुम् । अपि हृदय, किमिदमकार्य कार्यवध्यवसाय तदसंभवेन किमेवमुत्ताम्यसि । भगवन्पञ्चबाण, कस्तवापराधः कृतो भया यदेवं दहसि, न च भस्मीकरोषि' इति । अथाहमाविर्भूय विवृतदीपभाजनः “भामिनि, ननु । - प्राविक्षं प्रविष्टवान् । “विश प्रवेशने ' इत्यतो लुडि ' शल इगुपधादनिटः क्सः इति क्सः। तत्र चेति । गर्भगृहाभ्यन्तरे। कुसुमशयनं पुष्पमयी शय्या । सुरतोपकरणानि रतिकोलिकालोचितानि वस्तूनि गर्भे येषां तथाविधाः कमालिनीपलाशानां नलिनीपत्राणां संपुटा द्रोणाः । तालवन्तो व्यजनम् । सुरभिणा सुवासितेन जलेन भारतः पूरितः भृङ्गारकः पात्रविशेषः 'मृझारः इनकालुका । इत्यमरः । विश्रान्तः अध्वश्रमहीनः । परिमलं वासनाविशेषम् । 'स्याद्विमर्दै परिमलो गन्धे जनमनोहरे' इति शाश्चतः। आघ्रासिषम् आघ्रातवान् । 'घा गन्धोपादाने ' इत्यतो लुङि 'यमरमनमातां सक्व' इतीट्सकौ । अौषमिति । आक- र्णितवान् । पदशब्दं चरणविन्यासरवम् । श्रुत्वैव तदाकर्णनानन्तरमेव । संकेतगृहातू कल्पसुन्दर्या सह संभोगार्थ नियमितान्माधवीलतामन्दिरात् । निर्गत्य बहिरागत्य । रक्ताशोकस्य स्कन्धपाः शाखैकदेशे व्यवहिता तिरोभूताऽङ्गायष्टिर्यस्य तथाविधः 'सन् । सा च सुत्रः कल्पसुन्दरी ! सुषीमे शैत्योत्पादकस्थले संकेतस्थान इति यावत् कामो यस्याः सा । मद्विरहतप्ता संकेतगृहमा- गत्य मत्संयोगेनात्मानं शीतलयितुमिच्छन्तीति भावः । 'सुषीमः शिशिरो जडः' इत्यमरः । शनैः हंसवन्मन्दया गत्या । तत्र लतामण्डपे । बलवत्सुतरामव्यथिष्ट खेदं प्राप्तवती । मत्त. राजहंसीवोन्मत्तपक्षिविशेषकामिनीव । राजहंसास्तु ते चञ्चुचरणैलोहितः सिताः' इत्यमरः । कण्ठरोगेण वल्गु मनोहराम् । गद्गदां स्वरभङ्गयुक्तां च गिरं वाणीम् असृजत्कथयामासेत्यर्थः । व्यकं स्पष्टमेव विप्रलब्धा वृद्धभिक्षुक्या प्रतारिता भवामि । प्राणितुं जीवितुम् । आये इत्या- मन्त्रणे । अकार्य कर्तुमनुचितमिदं परेण पुरुषेण संगरूप कार्यवत् कर्तव्येणं तुल्यमध्यवसाय निश्चित्य । तस्य पुरुषान्तरसंयोगस्यासंभवादघटनात् । उत्ताम्यसि विषीदसि । 'तमु कांक्षायाम्। 'शमामष्टानां दीर्घः श्यनि' इति दीर्घः । भगवन्नितिपञ्चबाण हे कामदेव । दहसि पीडयसि । नच भस्मीकरोषि तदा तु मम दुःखाभावात्समीचीनमेव कृतं स्यादिति भावः । अथेति। पूर्वोक्त- विधिना तस्याः मदासक्तिविशेषद्योतिकां वाणीमाकयेत्यर्थः। आविर्भूय तस्याः समीपस्थो भूत्वा । विवृतमुद्घाटितं दीपभाजनं दीपकसंपुटो येन तादृशः सन् । भामिनि । इति कुपिताया नायि- . ।

तृतीयोच्छ्वासः] मनोरमाख्यव्याख्यासहितम् । बह्वपराद्धं भवत्या चित्तजन्मनो यदमुष्य जीवितभूता रतिराकृत्या कदार्थता, धनुष्टिधूलताभ्याम्, भ्रमरमालामयी ज्या नीलालकद्युतिभिः, अत्राण्यपाङ्ग- वीक्षितवृष्टिभिः, महारजनरञ्जितध्वजपटांशुकं दन्तच्छदमयूखजालैः, प्रथमसुहृ- न्मलयमारुतः परिमलपटीयसा निःश्वासपवनेन, परभृतोऽतिमञ्जुलैः प्रलापैः, पुष्पमयी पताका भुजयष्टिभ्याम्, दिग्विजयारम्भपूर्णकुम्भमिथुनमुरोजकुम्भ- युगलेन, क्रीडासरो नाभिमण्डलेन, संनाह्यरथः श्रोणिमण्डलेन, भवनरत्न- तोरणस्तम्भयुगलमूरुयुगलेन, लीलाकर्णकिसलयं चरणतलप्रभाभिः । अतः स्थान एव त्वां दुनोति मीनकेतुः । मां पुनरनपराधमधिकमायासयतीत्येष एव - । कायाः संबोधनम् । कोपना सैव भामिनी' इत्यमरः । बह्वधिकमपराद्धमपराधः कृतः । चित्त. जन्मनो मन्मथस्य । तत्कृतानपराधानेवाह-यदित्यादि चरणतलप्रभाभिारत्यन्तम् । अमुष्य कामदेवस्य ! जीवितभूता प्राणतुल्या रतिः कामपत्नी आकृत्या सौन्दर्येण । कदर्थिता तिरस्कृता । भ्रमरमालामयी षट्पदश्रेणीरूपा ज्या मौवी । मौनी ज्या शिजिनी गुणः' इत्यमरः । नीलाना- मतिकृष्णवर्णानामलकानां चूर्णकुन्तलानां युतिभिः प्रभामिः । 'युः प्रमानाचिस्त्विड्भाभाश्छवि- युतिदप्तियः' इत्यमरः । अपाङ्गवीक्षितानां कटाक्षदर्शनानी वृष्टिमिः ३ महारजनं कुंकुमम् । स्यात्कुसुम्भ वह्निशिखं महारजनमित्यपि ' इत्यमरः । तेन रञ्जितं चित्रितं रक्तवर्णमित्यर्थः ध्वजपटांशुक पताकावस्त्रखण्डः। 'पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् ' इत्यमरः । दन्तच्छदयोरोष्ठयोर्मयूखजालैः किरणसन्दोहैः। मलयमारुतो दक्षिणवायुः। 'समीरमारुतमरुतू.' इत्यमरः । परिमलेन सौगन्थ्येन पटीयसा मलयवायुतिरस्कारे समर्थेन । निःश्वासपवनेन श्वास- वायुना । परभृतः कोकिलः । 'वनप्रियः परभृतः कोकिल: पिक इत्यपि' इत्यमरः । अतिम - लैरतिमनोहरैः प्रलापैः सुभाषणैः ‘कान्तं मनोहरं रुच्यं मनोज्ञ मञ्जु मञ्जुलम्' इत्यमरः । पताका ध्वजयष्टिः । दिग्विजयारम्भे दिग्विजयार्थ प्रस्थानारम्भकालेऽभिमुखतया स्थाप्यमानं पूर्णकुम्भयोमिथुनं युगलम् । उरोजकुम्भयोः घटवत्पीनोन्नतयोः स्तनयोर्युगलेन द्वन्द्वेन । क्रीडा- सरो जलकेल्यर्थं निर्मिता सरसी । सन्नाह्यरथो दिग्विजयाथै नियुक्तः स्यन्दनः । भवने कामदेवस्य गृहे तवारदेशे इत्यर्थः। रत्नयुक्तानां तोरणानां बन्धनाथै स्थापितौ या स्तम्भौ कदलीकाण्डौ तयों- युगलम् । लीलायां विहारकाले कर्णकिसलयं श्रवणालंकारीभूतः पल्लवः चरणतलस्यातिरक्तपा- दाधोभागस्य प्रभाभिः कान्तिभिः । अत्र सर्वत्र पूर्वोक्तस्य 'कर्थिता' इत्यस्य पदस्य यथायोग्य लिङ्गवचनविपर्यासेनान्वयो ज्ञेयः । अतः त्वया तं प्रति बहूनामपराधानां कृतत्वात् । स्थाने युक्तमेव । युक्ते द्वे सांप्रतं स्थाने' इत्यमरः । दुनोति संतापयति । 'टुडु उपतापे ' स्वादिः । मीनो मत्स्यः केतौ ध्वजे यस्य ताशो मदन इत्यर्थः । एतावतः प्रकरणस्य मन्मथसामग्रीतो. प्यतिकोमलैरवयवैस्त्वमसि निर्मितेति तत्संतोषार्थ नायिकास्तवने एव तात्पर्यम् । मां पुनरिति । अनपराध नैकोऽप्यपराधो मया कृत एतादृशं मां तु आयासयति पीडयात । एष एवानपराधिनों १० । । दशकुमारचरितम् । [उत्तरपीठिकार्या तस्य दोषः । तत्प्रसीद सुन्दार, जीवय मां जीवनौषधिभिरिवापाडैरनङ्गभुजंग- दुष्टम्' इत्याश्लिष्टवान् । अरीरमं चानङ्गरागपेशलविशाललोचनाम् । अवसि- तार्था चारक्तवलितेक्षणामीपत्स्वेदरेखो दजरितकपोलमूलामनर्गलकलकलप्रला- पिनीमकरुणदशनकररुहार्पणव्यतिकरामत्यर्थपरिश्नथाङ्गीमाामिव लक्षयित्वा मानसीं शारीरीं च धारणां शिथिलयन्नात्मानमपि तया समानार्थमापादयम् । तत्क्षणविमुक्तसंगतौ रतावसानिक विधिमनुभवन्तौ चिरपरिचिताविवाति- रूढविश्रम्भौ क्षणमवातिष्ठावहि । पुनरहमुष्णमायतं च निःश्वस्य किंचिद्दीन- दृष्टिः सचकितप्रसारिताभ्यां भुजाभ्यामेनामनतिपीडं परिष्वज्य नातिविश- दमचुम्बिषम् । अश्रुमुखी तु सा 'यदि प्रयासि नाथ, प्रयातमेव मे जीवित गणय । नय मामपि । न चेदसौ दासजनो निष्प्रयोजनः' इत्यञ्जलिमवतं- सतामनैषीत् । अवादिषं च ताम्-'अयि मुग्धे, कः सचेतनः स्त्रियमाभ- कामयमानां नाभिनन्दति । यदि मदनुग्रहनिश्चलस्तवाभिसंधिराचराविचार मदुपदिष्टम् । आदर्शय रहास राज्ञे मत्सादृश्यगर्भ चित्रपटम् । आचक्ष्व च मम पीडनमेव । प्रसीद मां प्रति प्रसन्नचित्ता भव । जीवनौषधिभिरिव मृतसंजीवन भूलिकातुल्यैः अपाझैः कटाक्षावलोकनैः । अनङ्ग काम एव भुजङ्गः सर्पस्तेन दष्टम् । इतीत्यनन्तरं कथयन्निति शेषः । आश्लिष्टवान् आलिङ्गितवान् । अरीरमं रमयामि स्म । अनङ्गरागेण कामानुरागेण पेशले मनोज्ञे विशाले दीर्घ च लोचने नयने यस्यास्तादृशी कल्पसुन्दरीम् । अवसितः समाप्तोऽर्थों वीर्यधारणरूपं प्रयोजनं यस्यास्तथाविधाम् । आरक्त किंचिदरुणवर्णे । वलिते वक्रीकृते च ईक्षणे नयने यस्यास्ताम् । स्वेदरेखाया धर्मजलधाराया उद्भेदेन निःसरणेन जरितं स्विनं कपोलयोर्ग- ण्डयोमूलमधस्तलं यस्यास्तथाविधाम् । अनर्गलमप्रतिरुद्धं यथा तथा कलकलपलापिनीमव्यक्त- मधुरं वदन्तीम् । अकरुणो दयारहितो दशनानां दन्तानां कररुहाणां नखानां च अर्पणव्यतिकरो मत्कृतः क्षतीकरणव्यापारो यस्यास्ताम् । अत्यर्थमत्यन्तं परिश्लथानि दुर्बलीभूतान्यङ्गानि यस्या- स्ताम् । आता पीडिताम् । लक्षयित्वा दृष्ट्वा । मानसीं शारीरी चेति । 'शरीरधारणा यत्तु भौतिकं तु निरीक्षणम् । मानसं तु मुनीनां स्यादाश्रमेषु विसर्पणम् । अभ्यासाद्धारयेद्रेतो यावत् त्याच्च्युतिनिर्वृतिः ॥' इति वात्स्यायनोकप्रकारो धारणाम् । तया कल्पसुन्दा । समानार्थ सह- शम्। रतावंसानिक सुरतावसानकालोचितम् । अतिरूढः नितरां बद्धमूलो विश्रम्भो विश्वासो ययोस्तौ । अवातिष्ठावहि स्थितौ। आयतं दीर्घ यथा तथा । अनतिपीडं न जायतातिपीडा यस्मिन्कर्मणि तद्यथा तथा। परिष्वज्यालिङ्गथ । प्रयातमुच्छिन्नप्रायमेव गणय विचारय । नय भव. द्वासं मामपि प्रापय । अञ्जलिं पाणियुगलम् । ' पाणिनिकुन्जः प्रमृतिस्तौ युतावञ्जलिः पुमान्' इत्यमरः । अवतंसतां शिरोभूषणताम् । सचेतनः विचारशाली । अभिकामयमानां स्वयमेव पुरुषा- भिमुखमेत्य प्रार्थयमानाम् । नाभिनन्दति नश्लाघते न स्वीकुर्यादिति भावः । व्यजितमिदं कालिदा. सेन शाकुन्तले 'लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो जनः' इत्यनेनार्दैन। अभिसंधिराशयः । आचर विधेहि । अविचारं न विचारं कृत्वैव राज्ञे विकटवर्मणे । मंत्सादृश्य । तृतीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । किमियमाकृतिः पुरुषसौन्दर्यस्य पारमारूढा न वा' इति । बाढमारूढा इति नूनमसौ वक्ष्यति । ब्रूहि भूयः--' यद्येवम्, अस्ति कापि तापसी देशा- न्तरभ्रमणलब्धप्रागल्भ्या मम च मातृभूता। तयेदमालेख्यरूपं पुरस्कृत्याहमुक्ता- 'सोऽस्ति तादृशो मन्त्रो येन त्वमुपोषिता पर्वणि विविक्तायां भूमौ पुरोहित - तमुक्त सप्ताचिपि नक्तमेकाकिनी शतं चन्दनसमिधः, शतमगुरुसमिधः कर्पूर- मुष्टीः पट्टवस्त्राणि च प्रभूतानि हुत्वा भविष्यस्येवमाकृतिः । अथ चालयिष्यसि घण्टाम् । घण्टापुटक्कणिताहूतश्च भर्ती भवत्यै सर्वरहस्यमाख्याय निमीलिताक्षो यदि त्वामालिङ्गत्, इयमाकृतिरमुमुपसंक्रामेत् । त्वं तु भविष्यसि यथापुरा- कारैव यदि भवत्यै भवप्रियाय चैवं रोचेत, न चास्मिन्विधौ विसंवादः कायः' इति । ' वपुश्चदिदं तवाभिमतं सह सुहृन्मान्त्रिभिरनुजैः पौरजानपदैश्च संप्रधार्य तेषामप्यनुमते कर्मण्यभिमुखेन स्थेयम् । इति । स नियतमभ्युपैष्यति । पुनर- स्यामेव प्रमड़वनवाटीशृङ्गाटिकायामाथर्वणिकन विधिना संज्ञपितपशुनाभिहत्य मम प्रतिकृतिर्गर्भे मध्ये यस्य तथाविधम् । आचश्व वक्ष्यमाणविषया प्रश्नं च कुरु । पारमुपरि- तनी सीमाम् । आरूढा प्राप्ता । बाढं नूनम् । आरूढा पुरुषलावण्यस्य परां काष्टां प्राप्ता । असौ विकटवा । वक्ष्यति कथयिष्यति । ब्रूहीति । विकटवर्माणं पुनः कथय । एवं सर्वसौन्दर्या- तिशायिनी चेत् । देशान्तरभ्रमणेन नानादेशपर्यटनेन लब्धं प्रागल्भ्यं चातुर्य तथाविधा। मातृभूता मातृवाद्विश्वासयोग्या। आलेख्यरूपं चित्रपटम् । पुरस्कृत्य मम सन्निधौ निधाय । स: प्रसिद्धः । उपोषिता निराहारा सती। 'उपवासः स विज्ञेयः सर्वाहारविवर्जितः' इति स्मृतिः। पर्वण्यमावास्यादिवसे । विविक्तायां निर्जनायो विशुद्धायां च। 'विवित्तौ पूतविजनौ' इत्य- मरः । पुरोहितैवैदिकब्राह्मणैः । पूर्व हुतः पश्चान्मुक्त हुतमुक्तः! 'पूर्वकालैकसर्वजरत्-' इति समासः। एतादृशे सप्ताचिषि वहौ । ' सप्ताचिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः' इत्यमरः नक्तं रात्रौ । एकाकिनी असहायवती । 'एकादाकिनिन्चासहाये' इत्याकिनिच्प्रत्पयः। चन्दन- समिधः चन्दनदारूणि 'काष्ठं दार्विन्धनं वेध इध्ममेधः समित्नियाम्' इत्यमरः । कर्पूरमुष्टी: मुष्टिपरिमितकर्पूरान् । 'मुष्टिबद्धकरे' इति विश्वः । पट्टवस्त्राणि क्षौमवसनानि । प्रभूतानि बहु- लानि । 'प्रभूतं प्रचुर प्राज्यमददँ बहुलं बहु' इत्यमरः। हुत्वाऽग्निसात्कृत्वा । एवमाकृतिरेवं चित्रे दृश्यमानाकृतिसदृशी आकृतिः स्वरुप यस्याः सा । क्वणितेन शब्देनाहूत आकारितः । आख्याय कथयित्वा । निमीलिताक्षो मुद्रितलोचनः । अमुं विकटवर्माग तक भर्तारम् । उपसंक्रामेत् संक्रान्ता भवेत् । पुरा यथा आकार आसीत्तद्वदेवेदानीमपि जात आकारो यस्याः सा यथा- पुराकारा । भवत्प्रियाय तव पत्ये च । 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानता । रोचेत प्रीतिकरं स्यात् । विसंवादोऽन्याथाभावः । एवमेव वैजयन्ती । वपुः शरीरम् । अभिमतमि- ष्टम् । संप्रधार्य निर्णयं कृत्वा । अभिमुखेन भवतोयुक्तैन स्थेयं वर्तितव्यम् । स ते पूर्वमा विकटवर्मा । अभ्युपैष्यत्यङ्गीकारष्यति । प्रमदवनवाट्या अन्तःपुरविहारवनस्य शृङ्गाटिकायां ।

दशकुमारचरितम् । [ उत्तरपीठिकारी क मुक्ते हिरण्यरेतसि धूमपटन संप्रविष्टेन मयास्मिन्नेव लतामण्डपे स्थातव्यम् । लं पुनः प्रगाढायां प्रदोषवेलायामालपिप्यसि कणे कृतनमस्मिता विकटवर्मा- णम्-'धूर्तोऽसि त्वमकृतज्ञश्च । मदनुग्रहलब्धेनापि रूपेण लोकलोचनोत्सवा- यमानेन भत्तपत्नीरभिरमायिष्यसि । नाहमात्माविनाशाय वेतालोत्थापनमाचरे- यम् ' इति । श्रुत्वेदं त्वद्वचः स यद्वदिष्यति तन्मह्यमेकाकिन्युपागत्य निवेदार- प्यसि ततः परमहमेव ज्ञास्यामि । मत्पदचिह्नानि चोपवने पुष्करिकया प्रमार्जय' इति । सा ' तथा ' इति शास्त्रोपदेशमिव मदुक्तमाहत्यातृप्तसुरतरागैव कथंकथ- मप्यगादन्तःपुरम् । अहमपि यथाप्रवेशं निर्गत्य स्वमेवावासमयासिषम् । अथ सा मत्तकाशिनी तथा तमर्थमन्वतिष्ठत् । अतिष्ठच तन्मते स दुर्मतिः । अभ्रमञ्च पौरजानपदेप्वियमद्भुतायमाना वार्ता-'राजा किल विकटवर्मा देवी- मंत्रबलेन देवयोग्यं वपुरासादयिष्यति । नूनमेष विप्रलम्भो नातिकल्याणः । कैव । । । । संकुचिते चतुष्पथे। ' शृङ्गाटकचतुष्पथे' इत्यमरः । 'ह्रस्वे' इति कन् । आथर्वणिकेन पुरो- हितेन । आथर्वणः पुरोधाः स्याच्छान्तिपुष्टिकरो द्विजः ' इति कामन्दकीयः । विधिना विधिमनुसृत्य । संज्ञपितेन हतेन । ' संज्ञपितं विशसितं समालब्धम् ' इति वररुचिः । मुक्त पुरोधसा परित्यक्ते ॥ हिरण्यरेतस्यग्नौ । धूम इव कृष्णवर्णः पटो यस्य तेन स्थातव्यं स्थातुमाचे- तम् । प्रगाढायामतिदृढायाम् । 'गाढबाढदृढानि च' इत्यमरः । प्रदोषवेलायां रात्र्यारम्भकाले आलपिध्यसि कर्णे गुप्तं यथा तथा कथयिष्यसि । कृतं नर्मस्मितं परिहासहास्यं यया ताशी सती । ' द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च' इत्यमरः। धूर्तोऽसीति । वञ्चकस्त्वमि- त्यर्थः । 'पापो धूर्तस्तु वञ्चकः' इत्यमरः । न च कृतमुपकारं निरतिशयसौन्दर्यप्रापणरूप जानासीत्येवंशीलश्च त्वमसि । तदेव स्पष्टयति । ममानुग्रहेण कृपया लब्धेन प्राप्तेन । लोकलोच- नानां जनदृष्टीनामुत्सवायमानेनाश्चर्यकारिणा रूपेण लावण्येन अभिरमयिष्यसि सन्तोषयिष्यसि अस्माद्धेतोरहमात्मनो ममैव विनाशाय हानये वेतालोत्थापनं भूतावशेषप्रकटनं नाचरेयं नैव करिष्यामीत्यर्थः । स विकटवर्मा । उपागत्य मन्निकटमागत्य । ज्ञास्यामि यथोचितं विचार्य करिष्यामीति भावः । मम पदचिह्नानि चरणन्यासलक्षणानि । प्रमार्जय निष्कासय । अन्यथा रहस्यमावयोः प्रकटीभविष्यतीति भावः । सा कल्पसुन्दरी। आइत्यादरेण श्रुत्वा । यथाप्रवेश यथापूर्वं लतागृहं प्रविष्टस्तेन मार्गेणेति यावत् । स्वमेवावासं मम निवासस्थानं भिक्षुकीगृह- हमिति भावः । अयासिषं गतवाम् । अथेति । पूर्वोक्तप्रकारेण कल्पसुन्दरीमुपभुज्येतिकर्तव्यतां चोपदिश्य मयि गृहं गते सति । सा मत्तकाशिनी वरवर्णिनी कल्पसुन्दरी । तमर्थ मदुपदिष्टं कार्यमन्वतिष्ठञ्चकार । स दुर्मतिर्विकट- वर्मा तस्याः मतेऽभिप्रायेऽतिष्ठदासक्तो जातः। अद्भुतायमानाऽऽश्चर्यकारिणी । मन्त्रबलेन मन्त्र- सामर्थेन । देवयोग्यममरोचितमतिसुन्दरमिति यावत् । वपुः शरीरमासादयिध्याति प्राप्स्यति । । ।

AHAmhindi । S तृतीयोच्छासः] मनोरमाख्यव्याख्यासहितम्। कथा प्रमादस्य । स्वस्मिन्नेवान्तःपुरोपवने स्वाग्रमहिष्यैव संपाद्यः किलायमर्थः । तथाहि बृहस्पतिप्रतिमबुद्धिभिमंत्रिभिरप्यभ्यूह्यानुमतः । यद्येवं भावि नान्यदतः- परमस्ति किंचिद्भुतम् । अचिन्त्यो हि मणिमंत्रौषधीनां प्रभावः' इति प्रसृतेषु लोकमवादेषु प्राप्ते पर्वदिवसे, प्रगाढायां प्रौढतमासे प्रदोषवेलायामन्तःपुरोद्याना- दुदैरयद्भूर्जटिकण्ठधूम्रो धूमोद्गमः । क्षीराज्यदधितिलगौरसर्षपवसामांसरुधिराहु- तीनां च परिमलः पवनानुसारी दिशिदिशि प्रावात्सीत् । प्रशान्ते च सहसा धूमोद्गमे तस्मिन्नहमविशम् । निशान्तोद्यानमगाञ्च गजगामिनी । आलिंग्य चमां सस्मितं समभ्यधत्त-'धूर्त, सिद्धं ते समीहितम् । अवसितश्च पशुरसौ । अमुष्य प्रलोभनाय त्वदादिष्टया दिशा मयोक्तम्-'कितव, न साधयामि ते सौन्दर्यम् । एवं सुन्दरो हि त्वमप्सरसामपि स्पृहणीयो भविष्यसि, किमुत मानुषीणाम् ।मधु- कर इव निसर्गचपलो यत्र कचिदासज्जति भवादृशो नृशंसः' इति । तेन तु मे पादयोनिपत्याभिहितम-'रम्भार, सहस्व मत्कृतानि दुश्चरितानि । मनसापि न चिन्तयेयमितःपरमितरनारीम् । त्वरस्व प्रस्तुते कर्मणि इति। तदहीहशेन वैवा- हिकेन नेपथ्येन त्वामभिसृतवती । प्रागपि रागाग्निसाक्षिकमनङ्गेन गुणरूपा दत्तैव विप्रलम्भो वञ्चनात्मकः । अतिकल्याणः श्रेयस्करो न भवति । प्रमादस्यानवधानतायाः । 'प्रमा- दोऽनवधानता' इत्यमरः । अन्तःपुरस्योपवने क्रीडोद्याने । स्वस्याग्रमहिष्या प्रधानराझ्या कल्प- सुन्दयेव ! संपाद्यः साधनीयः । अयमर्थः निरतिशयरूपप्राप्तिरूपः । बृहस्पतिप्रतिमा तत्तुल्या बुद्धिर्येषां तैः मन्त्रिभिः सचिवैरपि । 'मन्त्री धीसचिवोऽमात्यः' । अभ्यूह्य सम्यग्विचार कृत्वा । एवमुक्तप्रकारेण भावि यदि भविष्यति चेत् । अचिन्त्यो इयत्तया निर्णतुमशक्यः प्रभावो महिमा । लोकप्रवादेषु जनानां भाषणेषु । प्रौढतमसि गाढान्धकारयुतायां प्रदोषवेलायां रजनी- मुखसमये उदैरयत्समुत्थितोऽभूत् । धूर्जटेः शिवस्य कण्ठवत् धूम्रः नीलरक्तः। धूमोद्गमः । प्रसरः। गौरसर्षपः श्वेतवर्णः सिद्धार्थः। सिद्धार्थस्त्वेष धवलः ' इत्यमरः । वसा वपा । 'हृन्मेदस्तु वपा वसा' इत्यमरः। मांसमामिषम्। 'पिशितं तरसं मांस पललं क्रव्यमामिषम्' इत्य- मरः । रुधिरमसक् । परिमलो गन्धः । पवनानुसारी वायुमनुसृत्य गच्छन् । दिशिदिशि प्रतिदि- शम् । प्रावात्सीत्प्रसरति स्म । सहसा शीघ्रमेव धूमस्योद्गमे पटले प्रशान्ते उत्सन्ने सति । तस्मिन् लतामण्डपे । निशान्तोद्यानं गृहोपवनम् । गजवद्गच्छतीति गजगामिनी । समभ्यधत्ताचचक्षे। धूर्त हे बचनापटो ! समीहितं वाञ्छितम् । असौ विकटवर्मात्मकः पशुरवसित आसन्नमरणो वर्वत इत्यर्थः । प्रलोभनाय वञ्चनार्थः । त्वयाऽऽदिष्टया दिशा कथितया रीत्या। कितवेति । साध- यामि संपादयिष्यामि । अप्सरसां देवकन्यानामपि स्पृहणीयोऽभिलषणीयः । मानुषीणां मनुष्य- स्त्रीणाम् । मधुकरः षट्पदः। निसर्गचपला स्वभावादेव चलचित्तः । यत्रक्वचिद्यत्रकुत्रापि । नृशंसः क्रूरः । अभिहितं कथितम् । मया कृतान्याचरितानि दुश्चरितानि दुष्कृत्यानि । इतरनारी त्वद्वयतिरिक्तां स्त्रियम् । त्वरस्व शीघ्रतामवलम्बस्व । वैवाहिकेन विवाहयोग्येन नेपथ्येन वेषेण । । । । . । । । ।

mini---1.............. Manistan.-"... दशकुमारचरितम्। [ उत्तरपीठिकायो तुभ्यमेषा जाया । पुनरपीमें जातवेदसं साक्षीकृत्य स्वहृदयेन दत्ता इति प्रप- देन चरणपृष्ठे निप्पीडयोरिक्षप्तपादपाणिरितरेतरव्यतिषक्तकोमलांगुलिदलेन भुजलताद्वयेन कंधरां ममावेष्टय सलीलमाननमानमथ्य स्वयमुन्नमितमुखकमला विभ्रान्तविशालदृष्टिरसकृदभ्यचुम्बत् । अथैनाम् इहैव कुरण्टकगुल्मगर्ने तिष्ठ यावदहं निर्गत्य साधयेय साध्यं सम्यक् ' इति विसृज्य तामुपसृत्य होमानल- प्रदेशमशोकशाखावलम्बिनी घण्टामचालयम् । अकूजञ्च सा तं जनं कृतान्त- दूतीवाह्वयन्ती । प्रावर्तिषि चाहमगुरुचन्दनप्रमुखानि होतुम् । आयासीच्च राजा यथोक्तं देशम् । शङ्कापन्नामिव किंचित्सविस्मयं विचार्य तिष्ठन्तमब्रवम्'ब्रूहि सत्यं भूयोऽपि मे भगवन्तं चित्रभानुमेव साक्षीकृत्य । न चेदनेन रूपेण मत्स- । अभिसतवती प्राप्ताऽस्मि । पुरैव पूर्वमेव । रागोऽनुराग एवाग्निः साक्षी साक्षाद्रष्टा यस्मिन् कणि स्था तथा । गुरुणाऽऽचार्यस्थानापन्नेनानङ्गेन कामदेवेन । जाया पत्नी । इमं पुरोवर्तिनं जातवेद- समग्निं साक्षीकृत्य साक्षित्वेन स्थापयित्वा 'साक्षादृष्टरि संज्ञायाम्' इति इनिप्रत्ययान्तात् च्विः । स्वहृदयेन ममैव मनसा । दत्ता अर्पिता । प्रपदेनेति । स्वकीयपादाग्रेण । ' पादानं प्रपदम् इत्यमरः । चरणपृष्ठे मदीयपादोपरिभागे । उत्क्षिप्तौ ऊर्ध्वं धृतौ पादयोः पाणी पादाधोभागी यया तादृशी सती । 'पुमान्पाणिस्तयोरधः' इत्यमरः । इतरेतरमन्योन्य व्यतिषतानि योजि तानि कोमलानि मृदूनि अतएवांगुलयो दलानि किसलयानीव यस्य तथाविधेन एककरांगु- लीरन्यकरांगुलिभिः संवेष्टयेत्यर्थः । भुजौ लते इव भुजलते । ' उपमितं व्याघ्रादिभिः सामा- न्याप्रयोगे । इति समासः। तयोर्द्वयेन युग्मेन । कन्धरां प्रीवाम् । अथ ग्रीवायां शिरोधिः कन्धरेत्यपि ' इत्यमरः । आवेष्ट्याश्लिष्य । आननमानमव्य मदीयं मुखं किंचिन्नम्रीकृत्य । स्वयं चोनमितमूर्तीकृतं मुखं कमलमिव यया तादृशी सती । असकृत्पुनः पुनः। अभ्यचुम्ब- चुम्बितवती । 'चुवि वसंयोगे'। अथेति । एनां कल्पसुन्दरीम् । कुरण्टकानां श्वेतवर्णकु- रखकानां गुल्मस्य स्तम्बस्य गर्ने मध्यदेशे। कुरण्टकः काण्डस्तम्बगुल्मौ' इत्यमरः । साध्यं कर्तव्यं कर्म । सम्यक् साधु यथा तथा । उपमृत्य तत्समीपमत्य । अचालयं नादितवानित्यर्थः । अकूजत् शब्दमुत्पादयामास । कूज अव्यक्त शब्द' । तं जनं विकटवर्माणम् । कृतान्तदूतीव यमकिंकरीवत् । 'कृतान्तो यमुनाभ्राता शमनो यमराड्यमः' इत्यमरः । आह्वयन्त्याकारयन्ती । प्रावर्तिषि उद्युक्तोऽभूवम् । होतुमग्नौ प्रक्षेनुम् । आयासीदागत्य स्थितः । ' या प्रापणे'। 'यमरमनमातां सक् च ' इति सगिटौ यथोक्तं पूर्वसंकेतितम् । शङ्कापन्नमिवेति । नूतनं रूपं प्राप्ता कल्पसुन्दरीवेयमन्या काचि. दिति मामालोक्य संदेहं कुर्वन्तमिव । सविस्मयं कथं मन्महिण्येवरूपा जाताऽहो महानयं मन्त्राणां माहमेति आश्चर्ययुक्तम् । ब्रूहि सत्यं यथावत् सर्वं कथय । चित्रभानु साक्षीकृत्यानि- साक्षिकमित्यर्थः । 'सप्ताचिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः' इत्यमरः । अनेन रूपेण मया । 'तत्र शोणे कुरबकस्तत्र पीते अप्र- ? ।

तृतीयोच्छासः] मनोरमाख्यव्याख्यासहितम् । पत्नीरभिरमयिष्यसि, ततस्त्वयादं रूपं संक्रामयेयम् । इति । स तदैव ' देव्येवे- यम्, नोपधिः ' इति स्फुटोपजातसंप्रत्ययः प्रावर्तत शपथाय । स्मित्वा पुन- मेयोक्तम्-'किं वा शपथन । कैव हि मानुषी मां परिभविष्यति । यद्यप्स. रोभिः संगच्छसे, संगच्छस्व कामम् । कथय कानि ते रहस्यानि । तत्कथनान्ते हि त्वत्स्वरूपभ्रंशः' इति । सोऽब्रवीत-'आस्ति बद्धो मत्पितुः कनीयान्भ्राता प्रहारवर्मा । तं विषान्नेन व्यापाद्याजीर्णदोषं ख्यापयेयमिति मन्त्रिभिः सहा- ध्यवसितम् । अनुजाय विशालवर्मणे दण्डचक्रं पुण्ड्रदेशाभिक्रमणाय दित्सितम् । पौरवृद्धश्च पाञ्चालिकः परित्रातश्च सार्थवाहः खनतिनानो यवनाद्वजमेकं वसुं- धरामूल्यं लघीयसार्पण लभ्यामिति ममैकान्तेऽमन्त्रयेताम् । गृहपतिश्च ममान्त- रङ्गभूतो जनपदमहत्तरः शतहलिरलीकवादशीलमवलेपवन्तं दुष्टग्रामण्यमनन्त- सीरं जनपदकोपेन घातयेयामिति दण्डधरानुद्धारकर्मणि मत्प्रयोगानियोक्तुम- । m । संपाद्यमानेन । अभिरमयिष्यसि संतोषयिष्यसि । ततस्तहीत्यर्थः । संक्रामयेयं सलनं कार- ध्यामि । स विकटवर्मा । तदैव मद्वचनानन्तरमेव । देव्येव मदीयानमाहिष्येव । नोपधिर्नात्र कश्चन कपटोऽस्ति । “कपटोऽस्त्री व्याजदम्भोपधयश्छमकैतवे' इत्यमरः । स्फुट व्यक्तमुप- जीतसंप्रत्ययः समुत्पन्नविश्वासः । प्रावर्तत शपथाय शपथान्कर्तुमुयुक्तो जातः । स्मित्वा किंचि- द्विहस्य । मानुषी मनुष्याङ्गना । परिभविष्यत्यवमानयिष्यति । अप्सरोभिः सुराङ्गनाभिरुवंशी- प्रमुखाभिः। संगच्छसे संगतो भवसि । 'समो गम्वृच्छिभ्याम्' इत्यात्मनेपदम् । कामं स्वेच्छया । रहति भवानि रहस्यानि गुप्तकार्याणि । तत्कथनान्ते रहस्याभिधानावसाने । तव स्वरूपस्य विकृताकारस्य भ्रंशः परिवृत्तिः। स विकटवर्मा । अस्ति बद्धः पादौ निगडथ्य कारागृहे निक्षिप्तो वर्तते । मत्पितुः संहारवर्मणः कनीयान्धाता कनिष्ठसहोदरः। विषानेन विषमिश्रितभोज्येन । व्यापाद्य मारयित्वा । अजीर्णदोषं ख्यापयेयम् 'अजीर्णज्वरेण मृतो मम पितृव्यः प्रहारवर्मा' इति लोके प्रसिद्धिं कुर्याम् । मन्त्रिभिः सहामात्यैः सार्धमध्यवसितं निश्चयः कृतो मया । दण्डचक्रं सैन्यजातम् । 'दण्डो यमे मानभेदे लगुडे दुमसैन्ययोः' इति विश्वः । पुंड्रदेशस्य तन्नामकस्य राष्ट्रस्य अभिक्रमणाय बलादाक्रमणं कर्तुम् । दित्सितं दातुं निश्चितम् । पाञ्चालिक- स्तदाख्यः कश्चन पौरमुख्यः । परित्रातः कस्माचित्संकटान्मया परिक्षितः । सार्थवाहः एत- दाख्यः कश्चन व्यापारी । यवनात्तुरुष्कात् । वजं हीरकरत्नम् । वसुन्धरा भूमिरेव मूल्यं प्रतिदानं यस्य भुवः संपूर्णायाः प्रतिदानेऽप्यलभ्यम् । लघीयसाऽर्धेण स्वल्पेन मूल्येन । अमन्त्र- येतां गुप्तमुक्तवन्तौ । 'मत्रि गुप्तपरिभाषणे ' गृहपतिमाधिकारी । 'ग्रामाध्यक्षो गृहपतिः ' इति विश्वः । अन्तरंगभूतः प्रियतमः। जनपदमहत्तरो देशमुख्यः । शतहलिरेतनामकः । अलीकवादशीलमसत्यभाषिणमवलेपवन्तं गर्विष्ठम् । दुष्टं दुष्टत्वेन ममाभिमतं प्रामण्यं प्रामाध्य- क्षम् । अनन्तसीरमेतन्नामधेयकम् । जनपदकोपेन नगरवासिनां को तस्मिन्नुत्पाद्येत्यर्थः । घातयेयं विनाशयिष्यामि । दण्डधरांश्चमूनायकान् । उद्धारकर्मणि तस्यानन्तसीरस्य राज्यानि- দুলহনি। [ उत्तरपीठिकायां भ्युपागमत् । इत्थमिदमविरप्रस्तुत रहस्यम् ।' इत्याकर्ण्य-तम् ' इयत्तवायुः। उपपद्यस्व स्वकनोचितां गतिम्' इति च्छुरिकया द्विधाकृत्य कृत्तमानं तस्मि- नेव प्रवृत्तस्फीतसपिषि हिरण्यरेतस्यजूहवम् । अभूचासौ भस्मसात् । अथ स्त्रीस्व- भावादीषाद्विवला हृदयवल्लभा समाश्वास्य हस्तकिसलयेऽवलम्ब्य गत्वा तद्गृह- मनुज्ञयास्याः सर्वाण्यन्तःपुराण्याहूय सद्य एव सेवां दत्तवान् । सविस्मितवि- लासिनीसार्थमध्ये कंचिद्विहृत्य कालं विसृष्टावरोधमण्डलस्तामेव संहतोरूमूरू- पपीडं मुजोपपीडें चोपगुह्य तल्पेऽभिरमयन्नल्पामिव तां निशामत्यनैषम् । अलभे च तन्मुखात्तद्राजकुलस्य शीलम् । उपसि स्नात्वा कृतमङ्गलो मन्त्रिभिः सह समगच्छे । तांश्चानवम्---'आर्याः, रूपेणैव सह परिवृत्तो मम स्वभावः । य एष विषान्नेन हन्तुं चिन्तितः पिता मे स मुक्त्वा स्वमेतद्राज्यं भूय एव ग्राह- । . । तिनकार्ये । मन्नियोगान्ममाज्ञया । नियोक्तुं प्रेषयितुमभ्युपागमदशीचकार । इत्थं पूर्वोक्तप्रका- रेण । अचिरप्रस्तुतं समीपकाले प्रकृतम्। आकये श्रुत्वा । तं विकटवर्माणम् । तव आयुर्जी- वितकाल इयदेतावत्पर्यन्तमेव नेतोऽप्यवशिष्ठमस्तीति भावः । उपपद्यस्व प्रामुहि । स्वकर्मोचितां निजदुष्कर्मयोग्याम् । छुरिकया शस्त्रेण । द्विधाकृत्वा छित्त्वा । कृत्तमात्रं तन्मस्तकच्छेदानन्तर- मेवेति भावः । प्रवृत्तं हुतं स्फीतं बहुलं सर्पिराज्यं यास्मिनेतादृशे हिरण्यरेतसि वह्नौ । 'हिरण्य- रेता हुतभुग्दहनो हव्यवाहनः ' इत्यमरः । अहवं प्रक्षिप्तवानित्यर्थः । असौ विकटवर्मा भस्मसाद्भस्मप्रायो जातः । स्त्रीस्वभावादवलास्वभावतः । ईषद्विह्वला किंचिद्भयाक्रान्ताम् । हृदयवल्लभां मन्मनःप्रियां कल्पसुन्दरी समावास्य सान्त्वयित्वा । हस्तकिसलये पल्लवसदृशे तस्याः करे अवलम्ब्य गृहीत्वा । सेवां दत्तवान् — सर्वा अपि यूयमस्याः कल्पसुन्दाः परिचर्यामधारभ्य कुरुत इत्याज्ञापितवान् । सविस्मितानामाश्चर्ययुक्तानां विलासिनीनां कामिनीनां सार्थः संघस्तस्य मध्ये । विहृत्य क्रीडां कृत्वा । विसृष्टं परित्यक्तमवरोध- मण्डलमितरान्तःपुरवासिकामिनीचक्र येन तादृशः सन् । तामेव कल्पसुन्दरीमेकां केवलम् । संहतौ परस्परं श्लिष्टौ ऊरू यस्यास्तादृशीम् । संहतशफलक्षणवामादेश्च ' इत्यूङ् स्त्रीप्रत्ययः। ऊर्वोः उपपीडय मर्दयित्वोरूपपीडम् । भुजाभ्यामुपपीडथ भुजोपपीडम् । 'सप्तम्यां चोपपीड- रुधकर्षः' इति सप्तम्यन्ते तृतीयान्ते चोपपदे णमुल् । उपगुह्याश्लिष्य । तल्पे मञ्चे । अभिर- मयंस्तस्याः प्रीतिमुत्पादयन् । अल्पामिव नानाविधविलासैः शीघ्रमेव सा रात्रिर्व्यतीताऽभूदिति भावः ! अनैषं यापितवान् । अलभे इति । ज्ञातवानित्यर्थः । तन्मुखात्कल्पसुन्दरीवक्रात् । शीलं स्वभावम् । उपसि प्रातःकाले । 'प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि ' इत्यमरः । कृतमङ्गलोऽनुष्टितनित्यकर्मा । समगच्छे संमिलितोऽभूवम् । आर्या हे श्रेष्ठाः । रूपेणैव सह ममरूपं यथा परिवृत्तं जातं तद्वदिति यावत् । परिवृत्तो विनिमितः । मम क्रूरस्वभावो गत इदानी सौम्यस्वभावश्चागतो ममेति भावः । पिता मे मम पितृतुल्यः पितृव्य इत्यर्थः । मुक्त्वा । । ।

मे तृतीयोच्छासः] मनोरमाख्यव्याख्याताहतम्। यितव्यः । पितृवदमुष्मिन्वयं शुश्रूषयैव वर्तामहे । न ह्यस्ति पितृवधात्परं पात- कम् ' इति । भ्रातरं च विशालवर्माणमाहूयोक्तवान--' वत्स, न सुभिक्षाः सांप्रतं पुण्ड्राः । ते दुःखमोहोपहतास्त्यक्तात्मानो राष्ट्रं नो न समृद्धमभिद्रवेयुः । अतो मुष्टिवधः सस्यवधो वा यदोत्पद्यते तदाभियास्यसि, नाद्य यात्रा युक्ता' इति । नगरवृद्धावप्यलापिषम्--' अल्पीयसा मूल्येन महार्ह वस्तु मास्तु लभ्यं धर्मरक्षाय, तदनुगुणेनैव मूल्येनादः क्रीयताम् ' इति । शतहलिं च राष्ट्र- मुख्यमाहूयाख्यातवान्-'योऽसावनन्तसीरः प्रहारवर्मणः पक्ष इति निनाश- यिषितः, सोऽपि पितरि मे प्रकृतिस्थे किमिति नाश्येत, तत्त्वयापि तस्मिन्सं- रम्भो न कार्यः' इति । त इमे सर्वमाभिज्ञानिकमुपलभ्य ' स एवायम्' इति निश्चिन्वाना विस्मयमानाश्च मां महादेवीं च प्रशंसन्तो मन्त्रबलानि चोद्घोष- यन्तो बन्धनात्पितरौ निष्कामय्य स्वं राज्यं प्रत्यपादयन् । अहं च तया मे धाच्या सर्वमिदं ममाचेष्टित रहास पित्रोरवगमय्य प्रहर्षकाष्ठाधिरूढयोस्तयोः । - बन्धनान्मोचयित्वा । ग्राहयितव्यः ग्राहयितुमुचितः। पितृवज्जनके इव । 'तत्र तस्येव' इति वतिप्रत्ययः । शुश्रूषयैव परिचारकवृत्त्यैव । वर्तामहे तिष्ठामः । परं पातकारकटं पापम् । सुभिक्षाः सुभिक्षयुक्ताः । सांप्रतमिदानीम् । दुःखमोहाभ्यामुपहताः पीडिताः । त्यतात्मानः दौर्भिक्ष्येणात्मधारणेऽप्यशक्ताः । नोऽस्माकम् । अभिवेयुः पीडयेयुः । अतोऽस्मात्कारणात् । मुष्टिवधः यस्मिन्काले सस्यबीजानि मुष्टिनोरिक्षप्य वपन्ति कृषकाः स कालः । सस्यवधः पक्कस- स्यच्छेदकालः । शत्रून्प्रति अभियानकालश्च याज्ञवल्क्येनाभिहितः । 'यदा सस्यगुणोपेतं परराष्ट्र तदा व्रजेत् ' इति । अभियास्यसि युद्धाय गमिष्यसि । यात्रा युद्धाय प्रयाणम् । नगरवृ- द्धाविति । पाञ्चालिकसार्थवाहाख्यौ नागरिकमुख्यौ । अलापिषमुक्तवान् । अल्पीयसा स्वल्प- तरेण मूल्येन निष्क्रयेण, महानों मूल्यद्रव्यं यस्यैतादृक् । धर्मरक्षायै धर्मपालनाय । तदनुगु- शेन तद्योग्येन । अदो वज्राख्यं रत्नम् । क्रीयतां स्वीक्रियताम् । पक्ष इति पक्षपातीति मत्वा । पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु ' इति वैजयन्ती । निनाशयिषितं नाशयितुं निर्धारितः। प्रकृतिस्थे पूर्वप्रकृति गते राजनि सतीत्यर्थः । किमिति नाश्येत किमर्थं नाशनीय इत्यर्थः । तस्मिन् शतहलौ । संरम्भोऽमर्षों न कायः कर्तव्यः । त इम इति । मन्त्रिणः विकटवर्मणः । आभिज्ञानिक विकटववायं रूपान्तरं प्राप्तः' इति विश्वासजनकं वाक्यम् । स्वार्थे ठकू । उपलभ्याकर्ण्य । स एवायं विकटवमैवायम् । निश्चिन्वानाः निश्चयं कुर्वन्तः । विस्मयमानाः कथमेताइशं सुन्दरं रूपमापन्नो विकटवर्मा इति आश्चर्य प्राप्ताः सन्तः । प्रशंसन्तः स्तुवन्तः । मन्त्रबलानि मन्त्रप्रभावानुदोषयन्तः प्रकाशयन्तः । पितरौ मम जनको प्रियंवदाप्रहारवाणौ । निष्कामव्य मोचयित्वा । प्रत्यपादयन्प्रत्यर्पयामासुः । इदमाचेष्टितं न विकटवर्माऽहं किन्तु भवतोः पुत्रः उपहारवर्मा, मया चोपायेन स विकटवर्मा मारितो, लब्धं राज्यमपि । इत्येत- चरितम् । अवगमव्य बोधयित्वा । प्रहर्षस्थानन्दस्य काष्ठां परां सीमामधिरूढयोः प्राप्तयोः । , - ..... 100RAL IN.....................10001 , জুনানি [उत्तरपीठिकायो पादमूलमभजे । अभज्ये व यौवराज्यलक्ष्न्या तदनुज्ञातया। प्रसाधितात्मा देव- पादाविरहदुःखदुर्भगान्भोगाग्निर्विशन्भूयोऽस् ऽस्य पितृसखस्य सिंहवर्मणो लेख्या- चण्डवर्मणश्चमाभियोगमवगम्य 'शत्रुवधो मित्ररक्षा चोभयमापि करणीयमेव ' इत्यलघुना लघुसमुत्थानेन सैन्यचक्रेणाभ्यसरम् । अभवं च भूमिस्त्वत्पादलक्ष्मी- साक्षाक्रियामहोत्सवानन्दराशेः' इति । श्रुत्वैतद्देवो राजवाहनः सस्मितमवादीत्--' पश्यत पारतल्पिकमुपधियुक्त- मपि गुरुजनबन्धव्यसनमुक्तिहेतुतया दुष्टामित्रप्रमापणाभ्युपायतया राज्योप- लब्धिमूलतया च पुष्कलावर्थधर्मावप्यरिधत् । किं हि बुद्धिमत्प्रयुक्तं नाभ्यु- पैति शोभाम् ' इति। अर्थपालमुखे निधाय स्निग्धदीर्घा दृष्टिम् ' आचष्टां भवा- नात्मीयचरितम् । इत्यादिदेश । सोऽपि बद्धाञ्जलिराभिदधे ।। इति श्रीदण्डिनः कृतौ दशकुमारचरिते उपहारवर्मचरितं नाम तृतीय उच्छासः ॥ ३ ॥ पादमूलमभजे पितृचरणसेवया कालं नीतवान् । तदनुज्ञातया पितृसंमतया । प्रसाधितः कार्येणे सफलीकृतः आत्मा बुद्धिः यस्य तथाविधः । 'आत्मा यत्नो धृतिबुद्धिः' इत्यमरः । देवस्य राज्ञो राजवाहनस्य तव पादयोर्विरेहदुःखेन वियोगखेदेन दुर्भगानिरर्थकतया मम भासमानान् ! निर्विशन्ननुभवन् । 'निर्वेशो भृतिभोगयोः' इत्यमरः । पितृसखस्य पितुमित्रस्य । राजाह:- सखिभ्यष्टच्' इति टच ! लेख्यात्पत्रिकायाः । चण्डवमणस्तत्कर्तृकं चम्पाभियोगं चम्पाराज- धानीनिरोधम् । अवगम्य ज्ञात्वा । करणीयं कर्तुमुचितमेव । अलघुना बहुलेन । लघु शीघ्रमेव समुत्थानं शत्रून्प्रति गमनं यस्यैतादृशेन । 'लघु क्षिप्रमरं द्रुतम्' इत्यमरः । अभ्यसरम् सिंहव• मणः साहाय्यदानार्थमाभिमुख्येनागतवान् । भूमिः स्थानम् । तव राजवाहनस्य पादलक्ष्म्या: साक्षाक्रिया प्रत्यक्षदर्शनमेव महोत्सवस्तस्मादुत्पन्नो य आनन्दराशिः सन्तोषसंदोहस्तस्य । श्रुत्वेति । एतत्संपूर्णमुपहारवर्मणश्चरितम् । सस्मितं किंचिद्धासयुक्तं यथा तथा । इदं वक्ष्यमाणम् । पश्यत विलोकयत । हे सुहृदः । इति शेषः । पारतल्पिकं परस्त्रीगमनं कर्तृ । उपाधियुक्तं कपटाचारसहितम् । कपटोऽस्त्री व्याजदम्भोपधयइछद्मकैतवे' इत्यमरः । गुरु- जनस्य मातापित्रोः बन्धव्यसनात्कारागृहनिवाससंकटान्मुक्तेरुद्धारस्य हेतुतयोपायत्वेन । दुष्ट- स्यामित्रस्य शत्रोः प्रमापणे मारणेऽभ्युपायतया हेतुत्वेन ।' द्विविपक्षाहितामित्रदस्युशात्रवश- वः''प्रमापणं विशसनं मारणं प्रतिघातनम् ' इत्यमरः । राज्यस्योपलब्धेः पुनः प्राप्तेमूलतया मूलकारणत्वेन च । पुष्कलौ समग्रौ । अरीरघत्साधयामास । 'राध साध संसिद्धौ । हि यस्मा. कारणाबुद्धिमता प्रयुक्तं कृतं किंवा शोभा नाभ्युपैति प्राप्नोति बुद्धिमत्कृतं सर्वमपि शोभत एवे- त्यर्थः । निधाय निक्षिप्य । आदिदेशाज्ञापितवान् । सोऽप्यर्थपालश्च । अभिदधे कथितवान् । इति श्रीदशकुमारचरितव्याख्यायां मनोरमाख्यायामुत्तरपीठिकायां तृतीय उच्छासः ॥३॥ । । .

चतुर्थोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । चतुर्थोच्छ्रासः ॥ ४ ॥ देव, सोऽहमप्यभिरेव सुहृद्भिरेककोर्मिमालिनोमिभूमिवलयं परिभ्रमन्नुपासरं कदाचित्काशीपुरीं वाराणसीम् । उपस्पृश्य मणिभङ्गनिर्मलाम्भसि मणिकर्णिका- यामविमुक्तेश्वरं भगवन्तमन्धकमथनमभिप्रणम्य प्रदक्षिणं परिभ्रमन्पुरुषमेकमाया- मवन्तमायसपरिघपीवराभ्यां भुजाभ्यामाबध्यमानपरिकरमविरतरादितोच्छूनता- प्रदृष्टिमद्राक्षम् । अतर्कयं च-'कर्कशोऽयं पुरुषः, कार्पण्यमिव वर्षात क्षीणतारं चक्षुः, आरम्भश्च साहसानुवादी, नूनमसौ प्राणनिःस्पृहः किमपि कृच्छ्रे प्रिय- जनव्यसनमूलं प्रतिपत्स्यते । तत्पृच्छेयमेनम् । अस्ति चेन्ममापि कोऽपि साहा- य्यदानावकाशस्तमेनमभ्युपेत्येत्यपृच्छम्-'भद्र, संनाहोऽयं साहसमवगमयति । अथ चतुर्थ उच्छ्रासः ॥ ४ ॥ अधुनाऽऽजप्तो राजवाहनेन स्वकथामभिधातुमुपक्रान्तवानर्थपाल:-देव, सोऽहमपीति । सुहद्भिरेककर्मा सुहृदो यथा भवन्तमन्वेषितवन्तस्तद्वदहमपि भवन्तमन्विष्यन्नित्यर्थः । ऊर्मि- माली समुद्रो नेमिरवधिर्यस्याः समुद्रपर्यन्ताया इत्यर्थः। तादृझ्या भूमेलयं मण्डलम् । नेमिस्तु चक्रधारायां सीमधर्मव्यवस्थयोः' इत्यजयः । पारभ्रमन्नटन् । उपासरं प्राप्तवान् । वाराणसीम् वरणाऽसीति प्रसिद्धयोयोनद्योरदुरभवं कंचन पुण्यस्थल विशेषम् । ' अदूरभवश्व' इत्यण् । पृषोदरादित्वात्साधुता । 'वरणाऽसीति नद्यौ द्वे पुण्ये पापहरे उभे । तयोरन्तर्गता भूमिव॒धै-- वाराणसी स्मृता ॥ इति पुराणेषु स्पष्टम् । उपस्पृश्याचमनं कृत्वा । मणिभङ्गवद्रत्नशकलवनिर्मल स्वच्छमम्भो जलं यत्र तादृश्यां मणिकार्णकायां तदाख्यया प्रसिद्ध नद्यवतरणमार्गविशेषे । अविमुक्तेश्वरमेतन्नान्ना विख्यातम् । अन्धकमथनमन्धकासुरसंहारकं महादेवमित्यर्थः। अभि- प्रणम्य नमस्कृत्य । आयामवन्तमतिदीर्घकायम् । आयसपरिघवलोहार्गलवत्पीवरौ पुष्टौ ताभ्याम् । 'अर्गलः स्यात्तु परिघः' इति वैजयन्ती । आबध्यमानः सज्जीक्रियमाणः परिकरः मरणार्थ कक्षाबन्धो येन तथाविधम् । 'कक्षाबन्धः परिकरः' इति वैजयन्ती । अविरतमनिशं रुदितेन रोदनेनोच्छूने वृद्धिंगते ताने रक्तवर्णे च दृष्टी लोचने यस्य तथाविधम् अद्राक्षमालोकितवान- हम् । 'सततानारताश्रान्तसन्तताविरतानिशम्' इत्यमरः । अतर्कयमिति । वक्ष्यमाणप्रकारेण विचारं च कृतवान् । कर्कशः क्रूरस्वभावः । 'कर्कशं कठिनं क्रूरम् ' इत्यमरः । कार्पण्यं दीन- स्वभावं वर्षतीव प्रकटयतीवेत्यर्थः । क्षीणा ग्लानिं गता तारा कनीनिका यस्यैतादृशं चक्षुर्लोचनम् । 'तारकाऽक्ष्णः कनीनिका' इत्यमरः । आरम्भः प्रयत्नः । साहसानुवादी साहसस्य तुल्यः । सहक्सशसंवादिसजातीयानुवादिनः' इति दण्डी। नूनं निश्चयेन । प्राणनिःस्पृहः जीवि- तेच्छाशून्यः । किमपि निर्वतमशक्यं मरणरूपमित्यर्थः । कृच्छ्रे कष्टम् । ' स्यात्कष्टं कृच्छ्रमा- भीलम् ' इत्यमरः । प्रियजनानामाप्तलोकानां यद् व्यसनं दुःखं तदेव मूलं निदानकारणं यस्य तथाविधम् । प्रतिपत्स्यते लप्स्यते । पृच्छेयं प्रश्नं करोमीत्यर्थः । साहाय्यदानाय सहायता दातुमवकाशः समयः । एनमभ्युपेत्यास्य समीपं गत्वा । सन्नाहोऽयं कक्षाबन्धनोद्योगः । । । . - कि हम হানাহৰিব। [उत्तरपीठिकायां न चेद्रोप्यमिच्छामि श्रोतुं शोकहेतुम् । इति । स मां सबहुमानं निर्वर्ण्य ' को दोषः, श्रूयताम् ' इति । कचित्करवीरतले मया सह निषण्णः कथामकार्षीत- * महाभाग, सोऽहमस्मि पूर्वेषु कामचरः पूर्णभद्रो नाम गृहपतिपुत्रः । प्रयत्न- संवर्धितोऽपि पित्रा दैवच्छन्दानुवर्ती चौर्यवृत्तिरासम् । अथास्यां काशीपुर्याम- येवर्यस्य कस्यचिद्गृहे चोरयित्वा रूपाभिग्राहितो बद्धः । वध्ये च मयि मत्तहस्ती मृत्युविजयो नाम हिंसाविहारी राजगोपुरोपरितलाधिरूढस्य पश्यतः कामपाल- नाम्न उत्तमामात्यस्य शासनाजनकण्ठरवद्विगुणितघण्टारवो मण्डलितहस्तकाण्डं समभ्यधावत् । अभिपत्य च मया निभयन निर्भसितः परिणमन्दारखण्डसुषि- रानुप्रविष्टोभयभुजदण्डघटितप्रतिमानो भीतवन्न्यवर्तिष्ट । भूयश्च नेत्रा जातसं- रम्भेण निकामदारुणैर्वागंकुशपादपातैरभिमुखीकृतः । मयापि द्विगुणाबद्धमन्युना साहसं जीवनेऽनासक्त्या क्रियमाणं कर्म । अवगमयति प्रकटयति । शोकहेतुं मन्युकारणम् । सबहुमानमादरेण सह । निर्वर्ण्य वीक्ष्य । करवीरतले वृक्षविशेषाधोभागे प्रतिहासशतप्रास- चण्डातहयमारकाः । करवीरे' इत्यमरः । निषण्ण उपविष्टः सन् । कथामकार्षीदात्मनः शोक- कारणीभूतं चरितमुक्तवान् । पूर्वेषु पूर्वदिग्वर्तिदेशेषु कामचरो यथेच्छं गमनशीलः । अथवा पूर्वेषु काम' इति प्रसिद्ध देशविशेषे चरतीति तादृशः । गृहपतेामाध्यक्षस्य पुत्रः । प्रयत्नेन महताऽऽयासेन संवर्धितः पोषितः । दैवच्छन्दै भाग्यवशमनुवर्ततेऽनुसृत्य करोतीति तादृशः । भाग्यवशादित्यर्थः । ' अभिप्रायवशौ छन्दौ' इत्यमरः । चौर्यत्तिः स्तेयकारीत्यर्थः । अर्यव- यस्य वैश्यवरस्य । 'अर्यः स्वामिवैश्ययोः' इति निपातः। रूपेण मुषितेन नाणकेन सह अभिग्राहितः गृहीतो नागरिकैरिति शेषः। 'रूपमाकारसौन्दर्ये नाणकश्लोकयोरपि' इति शाश्वतः। वध्ये वधोचिते । मत्तहस्ती मत्तो गजः । हिंसाविहारी जनहिंसैव विहारो यस्यैवंभूतः। राजगोपुरस्य राजगृहद्वारस्योपरितलमुपरितनी भूमिमधिरूढस्य प्राप्तस्य । 'पुरद्वारं तु गोपुरम्' इत्यमरः । उत्तमामात्यस्य प्रधानमन्त्रिणः । मन्त्री धासचिवांऽमात्यः' इत्यमरः । शासना- दाज्ञया । जनानां प्रेक्षकलोकानां कण्ठरवेण कण्ठनादेन द्विगुणितः द्विरावृत्तो बृहित इत्यर्थः । तादृशः घण्टायाः रवः यस्यैवंभूतः सन् । मण्डलितः वक्रीकृतः हस्तकाण्डः शुण्डादण्डो यस्मिन् कणि तद्यथा तथा । समभ्यधान्मां प्रति शीघ्रं धावति स्म । अभिपत्याभिमुख्येन घावित्वा । 'निर्भत्सितस्तर्जितः परिणमन् तिर्यग्दन्तप्रहारं कुर्वन् । तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः' इति वैजयन्ती। दारखण्डस्य वृक्षखण्डस्य सुषिरे रंध्रे अनुप्रविष्टौ संलग्नौ उभौ भुजदण्डौ यस्य तादृशः । घटितं संघृष्टं दारुखण्डेनेत्यर्थात् प्रतिमानं दन्तद्वयमध्यं यस्यैतादृशश्च सन् । 'दन्तयोरुभयोर्मध्यं प्रतिमानं प्रचक्षते ' इति वैजयन्ती। भीतवदुद्विग्न इव । न्यवर्तिष्ट परावृत्य गतः । नेत्रा हस्तिपालेन । जातसंरम्भेण स्वाज्ञालंघनात् जातकोपेन । निकामदारुण- रतिकठोरैः । वाक् तर्जनरूपा वाणी । अंकुशः हस्तिशासनदण्डविशेषः 'अंकुशोऽत्री सृणिः स्त्रियाम् ' इत्यमरः । पादपातः कर्णमूले पादाभ्यां घट्टनम् । अभिमुखीकृतः मम सम्मुख- तयाऽऽनीतः । मयाऽपीति । द्विगुणं यथा तथाऽऽबद्धः मन्युः कोपो येन तादृशेन । 'मन्यु- - .. ।

१५७ , चतुर्थोच्छासः] मनोरमाख्यव्याख्यासहितम् । निर्भयाभिहतो निवृत्यापाद्रवत् । अथ मयोपेत्य सरभसमाक्रुष्टो राष्टश्च यन्ता हन्त, मृतोऽसि कुञ्जरापसद्' इति निशितेन वारणेन वारणं मुहुर्मुहुरभिन्न- निर्याणभागे कथमपि मदभिमुखमकरोत् । अथावाचम्-'अपसरतु द्विपकीट एषः । अन्यः कश्चिन्मातङ्गपतिरानीयताम् । येनाहं मुहूर्त विहृत्य गच्छामि गन्तव्यां गतिम् ' इति । दृष्ट्वैव स मां रुष्टमुद्गर्जन्तमुत्क्रान्तयन्तुनिष्ठुराज्ञः पला- यिष्ट । मन्त्रिणा पुनरहमाहूयाभ्यधायिषि- भद्र, मृत्युरेवैष मृत्युविजयो नाम हिंसाविहारी । सोऽयमपि तावत्त्वयैवंभूतः कृतः । तद्विरम्य कर्मणोऽस्मान्मली- मसात्किमलमसि प्रतिपद्यास्मानार्यवृत्त्या वर्तितुम् ' इति । यथाज्ञापितोऽस्मि' इति विज्ञापितोऽयं मया मित्रवन्मय्यवर्तिष्ट । पृष्टश्च मयैकदा रहसि जातवि- श्रम्भेणाभाषत स्वचरितम्-' आसीत्कुसुमपुरे राज्ञो रिपुंजयस्य मन्त्री धर्मपालो नाम विश्रुतधीः श्रुतऋषिः । अमुप्य पुत्रः सुमित्रो नाम पित्रैव समः प्रज्ञागुणेषु । तस्यास्मि द्वैमातुरः कनीयान्भ्राताहम् । वेशेषु विलसन्त मामसौ विनयरुचि- । दैन्ये बतौ क्रुधि' इत्यमरः। अभिहतस्ताडितः । निवृत्त्य पराङ्मुखो भूत्वा । अपाद्रवत्पला- यितवान् । सरभसं सकोपम् । आक्रुटो निन्दितः रुष्टः क्रुद्धः । यन्ता हस्तिपालः 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः । हन्तेति खेदे । कुञ्जरापसद गजाधम । 'निहीनोऽपसदो जाल्मः'' कुञ्जरो वारण: करी' इत्यमरः । निशितेन तीक्ष्णेन वारणेनांकुशेन वारणं गजम् । 'वारणस्तु गजे प्रोक्तो वारणं तन्निवारणे' इत्यजयः। मुहुर्मुहुः पुनः पुनः । अभिन्नस्ताडयत् । निर्याणभागेऽपाङ्गभागे । अपाङ्गदेशो निर्याणम् ' इत्यमरः । कथमाफि महता पारश्रमेण । अपसरविति । दूरं नीतो भवतु । द्विपकीटः क्रिमितुल्यो गजः । मातङ्ग- पतिरुत्तमो हस्ती । आनीयतां मद्वधायोपस्थाप्यतां नास्य मद्धे शक्तिरस्तीति यावत् । विहृत्य क्रीडां कृत्वा । गन्तव्यां गति मरणमित्यर्थः । स गजः । उद्गर्जन्तमाकोशं कुर्वन्तम् । उत्क्रा- न्तोल्लंपिता यन्तुराधोरणस्य निष्ठुरा क्रूराऽऽज्ञा येनैथंभूतः सन् पलायिष्ट पलायितवान् । मन्त्रिणा कामपालाख्येन सचिवेन । अभ्यधायिष्युक्तः । भद्रे हे सौम्य । मृत्यरेव यमतुल्य इति यावत् । एवंभूतः कृतः पराजित इत्यर्थः। तत् तस्मात्कारणात्तव शौर्ययुक्तत्वादिति भावः । विरम्योपरतो भूत्वा । मलीमसान्मलिनादस्मात्कर्मणश्चौर्यरूपादित्यर्थः । अस्मान्प्रतिपद्याश्रित्य । आर्यवृत्त्या सभ्यवृत्त्या । वर्तितुं स्थातुं किमलमास शक्तो भवसि । यथाऽऽज्ञापितोऽस्मि भवता यथाऽहमा. ज्ञापितस्तथैव वर्तिच्यामि इति मित्रवदाप्ततुल्यतया । अवतिष्ट स्थितः । पृष्ट इति । स्वचारत- वर्णनाय मया प्रेरितः । रहस्येकान्ते । जातेनोत्पन्नेन विनम्भण विश्वासेन । कुसुमपुरे पुष्पपुरीति नानाऽधुना प्रसिद्ध । रिपुञ्जयस्य राजहंसपितुर्नामेदम् । विश्रुतधीः प्रख्यातबुद्धिः। श्रुतोऽधीतः ऋषिवेदो येन तादृशः।' ऋषिस्तु वेदे भृग्वादौ ज्ञानवृद्धे दिगम्बरे ' इति वैजयन्ती । अमुष्य धर्मपालस्य । पित्रैव समः पितृसदृशः । प्रज्ञागुणेषु ‘शुश्रूषा ग्रहणं चैव श्रवणं चावधारणाम् । ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः । इति कामन्दकीयोक्तबुद्धिगुणेषु । द्वयोर्मात्रोरपत्यं । .. । । । ।

१५८ কুঞ্জাবি। उत्तरपीठिकायो रवारयंत् । अवार्यदुनयबाहमपत्नृत्य दिङ्मुखषु भ्रमन्यहच्छयास्यां वाराणस्या प्रमदवाने मदनदमनाराधनाय निर्गत्य सहसखीभि कन्दुकेनानुक्रीडमानां काशी- भर्तुश्चण्डसिंहस्य कन्यां कान्तिमती नाम चकमे । कथमपि समगच्छे च । अथ छन्नं च विहरता कुमारीपुरे सा मयासीदापन्नसत्त्वा । कंचित्सुतं च प्रसूतवती । मृतजात इति सोऽपविद्धो रहस्य निर्भेदभयात्परिजनन क्रीडाशैले । शबर्याच श्मशानाभ्याशं नीतः । तयैव निवर्तमानया निशीथे राजवीथ्यामारक्षिकपुरुषै- रभिगृह्य तार्जतया दण्डपारुप्यभीतया निभिन्नप्रायं रहस्यम् । राजाज्ञया निशी- थेऽहमाक्रीडनगिरिदरीगृहे विश्रब्धप्रसुप्तस्तयोपदार्शतो यथोपपन्नरज्जुबद्धः श्मशा- नमुपनीय मातङ्गोद्यतेन कृपाणेन प्राजिहीये । नियतिबलालूनबन्धस्तमसिमा- SHAR । । द्वैमातुरः । तस्यापत्यम् । इत्यधिकारे 'मातुरुत्संख्यासंभद्रपूर्वायाः । इत्युदादेशोऽप्रत्ययश्च । सुमित्रस्य यः पिता धर्मपालस्तस्मात्पत्न्यन्तरे जात इत्यर्थः । वेशेषु गणिकागृहेषु । विलसन्तं विलासशीलम् । असौ सुमित्रः। विनयरुचिनियोत्सुकस्तयुक्त इति यावत् । अवारयत्प्रतिरुणद्धि स्म । अवार्यो निरोद्भुमशक्यो दुर्नयो दुर्व्यवहारो यस्यैताडशोऽहम् । अपमृत्य गृहाद्वहिरागत्य । यदृच्छया दैववशात् । वाराणस्यां काशीपुर्याम् । प्रमदवने विहारोगाने । ६ स्यादेतदेह प्रमहवन- मन्तःपुरोचितम् । इत्यमरः । मदनदमनस्य मन्मथशनोः शिवस्याराधनायोपासनार्थम् । कन्दुकेन केल्युपकरणविशेषेण । 'गेन्दुकः कन्दुकः' इत्यमरः । अनुक्रौडमानां विहरन्तीम् । 'क्रीडोऽनुसंपार- भ्यश्च ' इत्यात्मनेपदस्य विहितत्वादत्र शानच् । काशीभर्तुः काशीराजस्य । चकमे प्राप्तुमिच्छा- मकरवम् । 'कमु कान्तौ ' इत्यस्माणिडभावपक्षे रूपम् । कथमपि केनाप्युपायेन । समगच्छे संगतोऽभवम् । 'समो गम्युच्छिभ्याम्' इत्यात्मनेपदम् । छन्नं गुप्तं यथा तथा। विहरता कान्तिमत्या सह नानाविधाः क्रीडाः कुर्वता। सा कान्तिमती। आपनसत्त्वा गर्भवती । 'आपनसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी व गर्भिणी' इत्यमरः । सुतं बालकम् । सुतवती सुषुवे । मृत- जातः पूर्वमुदर एव मृतः ततोऽन्तरं जातः इति भ्रमात् । अविद्धः । कुत्रचित्त्यक्तः । रहस्यस्य गोप्यस्य निर्भेदात्प्रकटीभावाद्यद्भयं तस्मात् । क्रीडाशैले केलिपर्वते । शबर्या कयाचित्पुलिन्द- स्त्रिया । श्मशानस्य शवदाहस्थलस्य अभ्याशं समीपं नीतः प्रापितः । श्मशानं स्यापितृवनम् इत्यमरः । निवर्तमानया प्रत्यागच्छन्त्या तयैव शबराङ्गनयैव । निशीथेऽर्धरात्रे। अभिगृह्य गृहीत्वा तर्जितया भीषितया । दण्डपारुष्याच्छिमाक्रौर्यादीतया भयमापन्नया । रहस्य 'काम- पालनाम्नः कस्यचित्सकाशाद्राजकन्यायां कान्तिमत्यां गूढं कश्चित्पुत्रो जातस्तमिदानी पितृभूमि नीत्वाऽऽगच्छामि' इत्येवंरूपं सर्वे निर्मिन्नप्रायं प्रायशः कथितमेवाभूत् । राज्ञश्चण्डसिंहस्य आज्ञया निदेशेन । आक्रीडनगिरेः क्रीडाशैलस्य दरीगृहे गृहतुल्ये कन्दरे 'दरीतु कन्दरो वा स्त्री' इत्यमरः । विस्तब्धं निःशङ्कं यथा तथा प्रसुप्तो निद्रितः । तया शबर्या । उपदर्शितः 'अयमेव स कामपाल: इति निर्दिष्टः । यथोपपन्नाभिर्यथासौकर्य मिलिताभिः रज्जुभिः पाशै- बंद्धः। श्मशानं पितृवनम् । मातङ्गोद्यतेन चण्डालघृतेन । 'चण्डालप्लवमातङ्गदिवाकीर्ति- । ।

UPANENDS चतुर्थोच्छासः] मनोरमाख्यव्याख्यासहितम् । च्छिद्यान्त्यजं तमन्यांश्च कश्चित्प्रहृत्यापासरम् । अशरणश्च भ्रमन्नटव्यामेकदा- श्रुमुख्या कयापि दिव्याकारया सपारचारया कन्ययोपास्थायिषि । सा मामज- लिकिसलयोत्तसितेन मुखविलोलकुन्तलेन मूनी प्रणम्य मया सह वनवद्रुमस्य कस्यापि महतः प्रच्छायशीतले तले निषण्णा, 'कासि वासु, कुतोऽस्यागता, कस्य हेतोरस्य मे प्रसीदसि ' इति साभिलापमाभाषिता मया वाङ्मयं मधुवर्ष- मवर्षत्-'आर्य, नाथस्य यक्षाणां मणिभद्रस्यास्मि दुहिता तारावली नाम । साहं कदाचिदगस्त्यपत्नी लोपामुद्रां नमस्कृत्यापावर्तमाना मलयगिरेः परेता- बासे वाराणस्याः कमपि दारकं रुदन्तमद्राक्षम् । आदाय चैनं तीव्रस्नेहान्मम पित्रोः संनिधिमनैषम् । अनैषीच मे पिता देवस्यालकेश्वरस्यास्थानीम् । अथाह- माहूयाज्ञप्ता हरसखेन, 'बाले बालेऽस्मिन्कीदृशस्ते भावः । इति । औरस इवास्मिन्वत्से वत्सलता' इति मया विज्ञापितः 'सत्यमाह वराकी' इति तन्मूलामतिमहती कथामकरोत् । तत्रैतावन्मयावगतम् त्वं किल शौनक: शूद्रकः कामपालश्चाभिन्नः । बन्धुमती विनयवती कान्तिमती चाभिन्ना । वेदि- मत्यार्यदासी सोमदेवी चैकैव । हंसावली शूरसेना सुलोचना चानन्या ! नन्दिनी शरणं गृहर- जनंगमाः' इत्यमरः । कृपाणेन खड्झेन । प्राजिहीर्ये प्रहर्तु चिन्तितः । नियतीति । देवप्रब. लतया ! लूनबन्धश्छिन्नबन्धः। असिं खड्गम् आच्छिद्य चण्डालहस्ता(लादाकृष्य । अन्त्य चण्डालम् । प्रहृत्य मारयित्वाऽपासरं पलायिषि । अशरणोऽनाथो गृहरहितो वा क्षित्रोः' इत्यमरः । अटव्यामरण्ये । अश्रुमुख्या रोदनाजलव्याप्ताननया । उपास्थायिषि उपस्थितः। अनलिकिसलयेन पल्लववदतिमृदुना करयुगलेनोत्तसितेन भूषितेन । मुखे विलोलाश्चञ्चलाः कुन्तलाश्वर्णकुन्तला यस्यैतादृशेन मूर्धा मस्तकेन । महतोऽतिविस्तृतस्य । प्रकृष्टा छाया यस्मि- नेतादृशेऽत एव शीतले शिशिरिते । तलेऽधोदेशे । निषण्णोपविष्टा । वासु हे बाले। प्रसीदास प्रसादं करोषि । साभिलाषं सस्पृहम् । आभाषिता पृष्टा । वाङ्मयं वाणीरूपम् । आर्येति । हे पूज्य पुरुष । यक्षाणां नाथस्य देवयोनिविशेषाधिपस्य । 'विद्याधराप्सरोयक्षरक्षोगन्धर्वकि- भराः ! पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः' इत्यमरः । दुहिता कन्या । अपावर्तमाना प्रत्यागच्छन्ती । परतावासे श्मशानभूमौ । दारकं कुमारम् । अदाक्षं दृष्टवती ! तीव्रस्नेहात्प्रचुरवा- त्सल्यात् । सन्निधिं समीपम् । अलकेचरस्य यक्षराजधानीपतेः कुबेरस्य । आस्थानी सभामण्डपम् । कैलासः स्थानमलका पूर्विमानं तु पुष्पकम्' इत्यमरः । 'आस्थानी क्लीबमास्थानम्' । इति च । हरसखेन कुबेरेण । 'कुबेरख्यम्बकसखः' इत्यमरः ! भावश्चित्तवृत्तिः । औरस इवेति । यथा स्वस्यैवोदराज्जाते पुत्रे मातुश्चित्तवृत्तिः स्यात्तथैव ममास्मिन्वाले इति भावः । वत्सलता स्नेहः । वराकी दयनीया । तन्मूलां पुत्रमूलाम् । एतावदियदेव। अवगतं ज्ञातम् । त्वं किलेति तारा- बल्याः कामपालं मा प्रत्युक्तिः । किलेति निश्चयार्थेऽव्ययम् । न भिन्नोऽभिन्नः एक एवेत्यर्थः । - -- दशकुमारचरितम्। [उत्तरपीठिकार्या रङ्गपताकेन्द्रसेना चापृथग्भूता । या किल शौनकावस्थायामग्निसाक्षिकमात्मसा- कृता गोपकन्या सैव किलार्यदासी पुनश्चाद्य तारावलीत्यभूवम् । बालश्च किल शूद्रकावस्थे त्वय्यार्यदास्यवस्थायां मय्युदभूत् । अवयत च विनयवत्या स्नेह- वासनया । स तु तस्यां कान्तिमत्यवस्थायामद्योदभूत् । एवमनेकमृत्युमुखपरिभ्रष्टं दैवान्मयोपलब्धं तमेकपिङ्गादेशाद्वने तपस्यतो राजहंसस्य देव्यै वसुमत्यै तत्सु- तस्य भाविचक्रवर्तिनो राजवाहनस्य परिचर्यार्थ समर्प्य गुरुभिरभ्यनुज्ञाता कृतान्तयोगात्कृतान्तमुखभ्रष्टस्य ते पादपद्मशुश्रूषार्थमागतास्मि' इति । श्रुत्वा तामनेकजन्मरमणामसकृदाश्लिष्य हर्षाश्रुमुखो मुहुर्मुहुः सान्त्वायत्वा तत्प्रभाव- एवमेवोत्तरत्र । अपृथग्भूतैकैव । आनिसाक्षिकमग्निं साक्षित्वेन स्थापयित्वाऽऽत्मसात्कृता विवाहिता । स्नेहवासनया वात्सल्यसंस्कारेण । उदभूत्समुत्पन्नः । अत्रत्यप्रकरणबोधार्थमिदं चक्रमत्रोलिख्यते- RRBATO शौनकावस्थायां बन्धुमती वेदमती हंसावली नन्दिनी गोपकन्या शूद्रकावस्थायां विनयवतीx आर्यदासी शूरसेना रजपताका आर्यदासीx कामपालावस्थायां कान्तिमती * सोमदेवी सुलोचना इन्द्रसेना तारावली* .. शूद्रकावस्थायां द्वितीयजन्मनि विनयवत्या प्रसूतः पुत्र आर्यदास्या पोषितः । तृतीय- जन्मनि कामपालावस्थायां कान्तिमत्या प्रसूतः पुत्रः तारावल्या वसुमत्यै दत्तः पोषणाय ! । एवम पूर्वोक्तविधया। अनेकेभ्यो नानाप्रकारेभ्यो मृत्युमुखेभ्य आपद्भय इति यावत्परिभ्रष्टं दैववशान्मुक्तम् । उपलब्ध प्राप्तम् । तं वालकमर्थपालनामानम् । एकपिङ्गः यक्षः 'यक्षकपि- झैलविलश्रीदपुण्यजनेश्वराः' इत्यमरः । तस्यादेशादाज्ञया । तपस्यतस्तपस्यां कुर्वतः। 'तपसः परस्मैपदं च ' इति वार्तिकेण क्यान्ताच्छता । देव्यै अग्रमहिन्यै । तत्सुतस्य राजहंसपुत्रस्य । भाविचक्रवर्तिनः सार्वभौमतया भविष्यतः । परिचर्यायै सेवनार्थम् । समय॑ दत्त्वा । गुरुभि मतिपत्रादिभिः अभ्यनुज्ञाता समता सती । कृतान्तयोगाईवयोगात्कृतान्तमुखभ्रष्टस्य यमानना- त्प्रच्युतस्य । 'कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ' इत्युभयत्र विश्वः । ते कामपालं प्रत्यु- क्तिरियं तारावल्याः । पादपद्मयोश्चरणपङ्कजयोः शुश्रूषार्थ परिचरणमुद्दिश्य । आगताऽस्मि आयाताऽस्मि । श्रुत्वेति । अनेकेषु जन्मसु रमणीं ममैव भार्याम् । असकृत्पुनः पुनः आश्लि- ध्यालिङ्गय । हर्षाश्रु आनन्दवाष्पो मुखे यस्यैतादृशः सन् । मुहुमुहूरसकृत् । सान्त्वयित्वा चतुर्थोच्छासः] मनोरमाख्यव्याख्यासहितम् । दर्शिते महति मन्दिरेऽहनिशं भूमिदुर्लभान्भोगानन्वभूवम् । द्वित्राणि दिनान्य- तिक्रम्य मत्तकाशिनी तामवादिषम्-'प्रिये, प्रत्यपकृत्य मत्प्राणद्रोहिणश्चण्डसिं- हस्य वैरनिर्यातनसुखमनुबुभूषामि' इति । तया सस्मितमभिहितम्-'एहि कान्त, कान्तिमतीदर्शनाय नयामि त्वाम् । इति । स्थितेऽर्धरात्रे राज्ञो वासगृ- हमनीये । ततस्तच्छिरोभागवतिनीमादायासियष्टिं प्रबोध्यैनं प्रस्फुरन्तमब्रवम्- अहमस्मि भवज्जामाता । भवदनुमत्या विना तव कन्याभिमी । तमपराध- मनुवृत्त्या प्रमाटुंमागतः' इति । सोऽतिभीतो मामभिप्रणम्याह-'अहमेव मूढोs- पराद्धः यस्तव दुहितृसंसर्गानुग्राहिणो प्रहप्रस्त इवोत्क्रान्तसीमा समादिष्टवान् म् । तदास्तां कान्तिमती राज्यमिदं मम च जीवितमप्यद्यप्रभृति भवदधीनम्' इत्यवादीत् । अथापरेषुः प्रकृतिमण्डलं संनिपात्य विधिवदात्मजायाः पाणिमग्रा- हयत् । अश्रावयञ्च तनयवार्ता तारावली कान्तिमत्य, सोमदेवीसुलोचनेन्द्रसे- NIOS । समाधाय । तस्या मत्प्रियायास्तारावल्याः प्रभावण महिन्ना स्वस्य यक्षिणीत्वाद्दर्शिते मन्दिरे भक्ने । अहर्निशमहोरात्रम् । भूमौ मर्त्यलोके दुर्लभान्दुरासदानवे वा त्रीणि वा वित्राणि । संख्ययाऽव्ययासन्न-' इति समासे बहुव्रीहौ संख्येये डजबहुगणात् ' इति डन् । अति- क्रम्य यापयित्वा । मत्तकाशिनीमुत्तमाङ्गनाम् । ' वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी । इत्यमरः । अवादिषमुक्तवान् । प्रिये हे वल्लभे । प्रत्यपकृत्य प्रत्यपकारं विधाय । मम प्राण- द्रोहिणः केवलं कन्यासंगमरूपेऽपराधे प्राणशिक्षा विहितवतः । चण्डसिंहस्य तदाख्यस्य काशीभर्तुः । वैरनिर्यातनेन वैरप्रतीकाराचरणेन यत्सुखं तत् । 'वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा' इत्यमरः । अनुवुभूषाम्यनुभवितुमिच्छामि । तया तारावल्या। अभिहितमुक्तम् । एहि मया सहागच्छ । अर्धरात्रे निशीथसमये। राज्ञश्चण्डसिंहस्य वासगृहं गर्भागारम् । 'गर्भागार वासगृहम् ' इत्यमरः। अनीये नीतः। तस्य चण्डसिंहस्य शिरोभागे वर्तत एवंभूतामसियाष्टिं खड्गम् । प्रबोव्योत्थाप्य । प्रस्फुरन्तं कम्पमानम् । भवतो जामाता कन्याभर्ता । दुहितुः पतिः' इत्यमरः । भवतोऽनुमत्या विना संमतिमन्तरैव । 'पृथग्विनानानाभि-' इति तृतीया । कन्याभिमर्शी कन्यास्पर्शी । तमपराधं कन्यास्पर्शजन्यमपराधम् । अनुवृत्त्याऽनुचर- वृत्त्या प्रमाष्टुं दुरीकर्तुम् । स इति । चण्डसिंहः । अतिभीतः नितरां त्रस्तः सन् । अभिप्रणम्य नमस्कृत्य । अपराद्धः कृतापराधः । दुहितुसंसर्गरूपेण कन्यास्वीकाररूपेण कार्येण अनुग्राहिणोऽ- नुग्रहं कृतवतः । अनुग्रहश्च कन्यापितुः वरान्वेषणादिक्लेशमन्तरैव योग्यवरलाभात । ग्रहप्रस्तः पिशाचाविष्ट इव । उत्क्रान्तसीमोल्लंधितमर्यादः स्वल्पेऽपराधे प्राणदण्डविधानात् । वर्ष चित्र. वधम् । कान्तिमती तनामिका मदीया कन्या । राज्यामिदं वाराणसीपुरी । भवतोऽधीनमायत्त. मास्तां भवतु । 'आस उपवेशने' । अपरेयुः परस्मिनहनि । प्रकृतिमण्डलं राज्याझ्चक्रम् । संनिपात्यैकत्रीकृत्य । विधिवद्विधानपूर्वकम् । आत्मजायाः स्वकन्यायाः कान्तिमत्याः । पाणि- मग्राहयद्विवाहं कारयामास । अश्रावयच्छ्रावयामास । तनयस्य पुत्रस्यार्थपालस्य वाती कथाम . जामाता - ।

दशकुमारचरितम्। [उत्तरपीठिकायां नाभ्यश्च पूर्वजातिवृत्तान्तम् । इत्थमहं मंत्रिपदापदेशं यौवराज्यमनुभवान्विहरामि विलासिनीभिः' इति । स एवं मादृशेऽपि जन्तौ परिचर्यानुबन्धी बन्धुरेकः सर्वभूतानामलसकेन स्वर्गते श्वशुरे, ज्यायसि च श्याले चण्डघोषनानि स्त्रीप्व- तिप्रसङ्गात्प्रागेव क्षयक्षीणायुषि, पञ्चवर्षदेशीय सिंहघोषनामानं कुमारमभ्यषे- चयत् । अवर्धयञ्च विधिनैनं स साधुः । तस्याद्य यौवनोन्मादिनः पैशुन्यवादिनी दुर्मन्त्रिणः कतिचिदासन्नन्तरङ्गभूताः । तैः किलासावित्थमग्राह्यत-'प्रसदैव स्वसा तवामुना भुजङ्गेन संगृहीता । पुनः प्रसुप्ते राजनि प्रहर्तुमुद्यतासिरासीत् । तेनास्मै तत्क्षणप्रबुद्धेन भीत्यानुनीय दत्ता कन्या । तं च देवज्येष्ठं चण्घोष विषेण हत्वा बालोऽयमसमर्थ इति त्वमद्यापि प्रकृतिविश्रम्भणायोपेक्षितः । क्षिणोति च पुरा स कृतघ्नो भवन्तम् । तमेवान्तकपुरमभिगमयितुं यतस्व' इति । । - - मृतजात इति अपविद्धोऽपि वस्तुतोऽमृतो मयोपलभ्य वसुमतीहस्ते गुप्तं यथा तथा रक्षणाय समर्पितोऽस्ति । इत्येवंरूपाम् । पूर्वजातिवृत्तान्तं 'पूर्वमत्यैव कामपालस्य पन्यो यूयम्, अतोऽस्मिन्नपि जन्मनि तस्मिन्कामपाले भर्तृवदाचरत' इत्येवंरूपां वार्ताम् । मन्त्रिपदापदेश- ममात्याधिकारख्याजेन । विलासिनीभिः कामिनीभिः पूर्वोकाभिः पञ्चभिः । इति । काम- पालः । मादृशेऽपि जन्तौ मत्सदृशेऽपि प्राणिनि । परिचर्यानुबन्धी सेवानुबन्धा । बन्धुराप्तमित्रम् । सर्वभूतानामखिलपाणिनाम् । अलसकेन क्षयरोगेण । क्षयस्त्वलसको मतः । इति वैजयन्ती । स्वर्गते । देवलोकमासादितवति मृते इत्यर्थः । श्वशुरे जायापितार चण्डसिंहे। श्याले पत्नी- प्रातरि । 'श्यालाः स्युर्घातरः पन्याः' इत्यमरः । अतिप्रसङ्गानितरां सेवनात् । प्रागेव पितृमर- णात्पूर्वमेव । क्षयेण अतिप्रसक्तिजनितालसकेन क्षीणमायुर्यस्यैतादशि । पञ्चवर्षदेशीयमीषदसमा- सपञ्चवर्षवयस्कम् । ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' इति देशीयर्प्रत्ययः । कुमारं बालकम् । अभ्यषेचयद्राजस्थानेऽभिषिच्य स्थापितवान् । अवर्धयदपोषयच । एनं सिंहघोषम् । स काम- पालः । साधुः कपटरहितः। तस्येति । सिंहघोषस्य । अद्यास्मिन्काले । यौवनेन तारुण्येन उन्मादिनः उन्मत्तस्य कृतघ्नस्येति यावत् । पैशुन्यवादिनः पिशुनः खलोऽयं ते मन्त्री कामपाल इति कामपालोपरि दुष्टत्वं मिथ्यैवारोप्य कथयन्तः। 'पिशुनो दुर्जनः खलः' इत्यमरः । दुर्मन्त्रिणो दुष्टामात्याः । अन्तरङ्गभूता अत्याप्ता इत्यर्थः । तैः दुर्मन्त्रिभिः असौ सिंहघोषः । इत्थं वक्ष्यमाणप्रकारेण अग्राह्यत बोधितोऽभूत् । प्रसदैव बलात्कारेणैव । स्वसा भगिनी । अमुना कामपालेन । भुज न धूर्तेन । 'भुजङ्गो विटसर्पयोः' इत्यमरः । संगृहीता स्वायत्तीकृता । न तु कन्यया स्वानुरागेण वृतोऽसौ, न वा राज्ञा तद्गुणादितुष्टेन कन्या दत्तेति भावः । पुनः अथ कस्मिंश्चिद्दिने । प्रह मारयितुमुद्यतासिहीतखड्गः । तेन राज्ञा । अस्मै कामपालाय । प्रबुद्धेन जागरितेन । भीत्या मारयिष्यति मामिति साध्वसेन । अनुनीय समाधानं कृत्वा । देवस्य भवतो ज्येष्ठं ज्येष्ठभ्रातरम् । विषेण गरलेन । अयं बालः सिंहघोषः। असमर्थो न क्षमः । प्रकृतिविनम्भणाय प्रजाविश्वासाय । उपक्षितः परित्यक्तोऽसि । क्षिणोति च पुरा हिंसिष्यती. । । । aaNAME HIHAR चतुर्थीच्छासः] मनोरमाख्यव्याख्यासहितम्। स तथा दूषितोऽपि यक्षिणीभयानामुष्मिन्पापमाचरितुमशकत । एषु किल दिवसेष्वयथापूर्वमाकृतौ कान्तिमत्याः समुपलक्ष्य राजमहिषी सुलक्षणा नाम सप्रणयमपृच्छत्-'देवि, नाहमायथातथ्येन विप्रलम्भनीया । कथय तथ्य केने- दुमयथापूर्वमाननारविन्दे तवैषु वासरेषु' इति । सा त्ववदीत्-'भद्रे, स्मरसि किमद्याप्यायथातथ्येन किंचिन्मयोक्तपूर्वम् । सखी मे तारावली सपत्नी च किमपि कलुषिताशया रहसि भ; मगोत्रापदिष्टा प्रणयमप्युपेक्ष्य प्रणम्यमाना- प्यस्माभिरुपोढमत्सरा प्रावसत् । अवसीदति च नः पतिः । अतो मे दौर्म- नस्यम्' इति । तत्प्रायेणैकान्ते सुलक्षणया कान्ताय कथितम् । ' अथासौ नि- भयोऽद्य प्रियतमाविरहपाण्डुभिरवयवैधैर्यस्तम्भिताश्रुपर्याकुलेन चक्षुषोष्मश्वास शोषिताभिरिवानतिपेशलाभिर्वाग्भिर्वियोगं दर्शयन्तम् , कथमपि राजकुले का- णि कारयन्तम् , पूर्वसंकेतितैः पुरुषैरभिप्रायावन्धयत् । तस्य किल स्थाने स्थाने । । त्यर्थः । “ यावत्पुरानिपातयोर्लट्' इति भविष्यदर्थे लट् । तं कामपालमेव अन्तकपुरं यमनग- रीम् । 'कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः' इत्यमरः । अभिगमयितुं प्रापयितुं यतस्वी- योग विधेहि । स इति । सिंहघोषः । तथा पूर्वोक्तविधया दुषितो दुष्टतां प्रापितः । यक्षिणी यक्षकन्या तारावली तद्भयात्सा किंचिदनिष्टं करिष्यतीति भयेन । अमुष्मिन्कामपाले । पापं हिंसाकर्म । नाशकन्न शक्तो बभूव । अयथापूर्व पूर्वस्मात्किंचिद्विपरतिम् । समुपलक्ष्य दृष्ट्वा । राजमहिषी सिंहघोषराजपत्नी । सप्रणयं सस्नेहम् । अयाथातथ्येनासत्येन । विप्रलम्भनीया वचनीया । तथ्यं वास्तवम् । अयथापूर्व पूर्वविपरीतम् । आननारविन्दं मुखपद्मम् । वासरेषु दिनेषु । सा कान्तिमती । अयाथातथ्येनासत्यतया । पूर्वमुक्तमुक्तपूर्वम् । समानः पतिर्यस्याः सा सपत्नी । 'नित्यं सपत्न्यादिषु' इति डीप नुक् सभावश्च निपातितः । किमपि निष्कारणम् । कलुषिताशयाऽप्रसन्नचित्ता । खण्डिता भूत्वेत्यर्थः । ज्ञातेऽन्यासङ्गविकृते खण्डिताकषायिता' इति च तलक्षणम् । रहस्येकान्ते । भर्ना पत्या कामपालेन । मम गोत्रेण नाम्नाऽपदिष्टाऽऽहता। गोत्रं नाम्न्यचले कुले' इति वैजयन्ती । प्रणयं स्नेहम् । प्रणम्यमाना नमस्क्रियमाणा । उपो- ढमत्सरा वृद्धवैरा । प्रावसत्प्रवासं गता । अवसीदति दुःखितो भवति । नः पतिः कामपालः । दौर्मनस्यं प्रसन्नताभावः । तत् यक्षिणीप्रवसनादिकम् । कान्ताय भर्ने सिंहघोषाय । अथेति । यक्षिणीप्रवासश्रवणानन्तरमसौ सिंहघोषः । निर्भयो भयरहितः। प्रियतमायाः तारावल्या: विरहेण पाण्डुभिः श्वेतवर्णैः अवयवैरङ्गैः । धैर्येण स्तम्भितमपरित्यक्तं यदश्रु रोदनजलं तत्पर्याकुलेन तद्वयाप्तेन । ऊष्मश्चासेनोष्णनिश्चासवायुना शोषिताभिः शुष्कतां प्रापितैरिव । अनतिपेशलाभिन तिमनोहराभिः। वाग्भिर्वाणीभिः । वियोग विरहं तारावल्याः । दर्शयन्तं प्रकटयन्तम् । कथमपि महताऽऽयासेन । पूर्वसंकेतितः पूर्वोक्कैः । पुरुषैर्दुमन्त्रिभिः । अभि- ग्राह्य ग्राहयित्वा । अबन्धयद्वन्धनालये स्थापयामास । तस्य कामपालस्य । स्थानेस्थाने सर्वत्रे- । । ।

সুজলাহিল [उत्तरपीठिकायो दोषानुद्धोप्य तथोद्धरणीये चक्षुषी यथा तन्मूलमेवास्य मरणं भवेत् ' इति । अतोऽत्रैकान्ते यथेष्टमनु मुक्त्वा तस्य साधोः पुरः प्राणान्मोक्तुकामो बध्नामि पारेकरम्' इति । मयापि तत्पितृव्यसनमाकर्ण्य पर्यश्रुणा सोऽभिहितः-'सौम्य, किं तव गोपायित्वा । यस्तस्य सुतो यक्षकन्यया देवस्य राजवाहनस्य पादशु- श्रूषार्थं देव्या वसुमत्या हस्तन्यासः कृतः सोऽहमस्मि । शक्ष्यामि सहलमपि सुभटानामुदायुधानां हत्वा पितरं मोचयितुम् । अपि तु संकुले यदि कश्चित्पा- तयेत्तदङ्गे शस्त्रिका सर्व एव मे यत्नो भस्मानि हुतमिव भवेत्' इति । अनवसि- तवचन एव माय महानाशीविषः प्राकाररन्ध्रेणोदेरयच्छिरः । तमहं मंत्रौषध- बलेनाभिगृह्य पूर्णभद्रमब्रवम्-‘भद्र, सिद्धं नः समीहितम् । अनेन तातमलक्ष्य- माणः संकुले यहच्छया पतितेन नाम दंशयित्वा तथा विषं स्तम्भयेयं यथा मृत इत्युदास्येत । त्वया तु मुक्तसाध्वसेन माता मे बोधयितव्या-' या यक्ष्या वने देव्या वसुमत्या हस्तार्पितो युष्मत्सूनुः सोऽनुप्राप्तः पितुरवस्था मदुपलभ्य बुद्धिबलादित्थमाचरिष्यति । त्वया तु मुक्तत्रासया राज्ञे प्रेषणीयम्- 'एष खलु क्षात्रधर्मो यद्वन्धुरबन्धुर्वा दुष्टः स निरपेक्षं निग्राह्य इति । स्त्रीधर्मश्चैष यददुष्टस्य दुष्टस्य वा भर्तुर्गतिर्गन्तव्येति । तदहममुनैव सह चिताग्निमारोक्ष्यामि । युवति- । - -- त्यर्थः । दोषानपराधान् । उद्घोष्य डिण्डिमादिवायेन घोषयित्वा । उद्धरणीये निष्कासनीये। तन्मूलं नयनोत्पाटननिमित्तकमेव । अस्य कामपालस्य । अतोऽस्माद्धेतोः । एकान्ते विजने । रोदनसलिलम् । साधोर्निरपराधिनः । पुरः तन्मृतेः पूर्वमेवेत्यर्थः । मोक्तुकामः त्यक्तु- मिच्छुः । परिकर कक्षावन्धम् । मयापीति । पितृव्यसनं पितुरापदम् । आकर्ण्य श्रुत्वा । पर्यश्रुणाऽश्रुमुखेन । स पूर्णभद्रः। अभिहितः कथितः। गोपायित्वाऽकथायित्वा । हस्ते न्यासो निक्षेपः । शक्ष्यामि समर्थोऽस्मि ! उदायुधानां गृहीतशस्त्राणाम् । संकुले जनबाहुल्ये। तस्य मपितुः कामपालस्य । शस्त्रिका खड्गम् । अनवसितवचनेऽसमापितवाक्ये एव । आशीविषः सपः । 'आशीविषो विषधरश्चक्री व्यालः सरीसृपः । इत्यमरः । प्राकाररन्ध्रण प्राकाराबलेन । उदैरयदुद्गमयति स्म । तं सर्पम् । अभिगृह्य स्ववशीकृत्य । समीहितमभीष्टम् । अनेन सर्पण । तातं पितरम् । अलक्ष्यमाणः न दृश्यमानः । संकुले जनसंबाधे । यदृच्छया दैवगत्या । तथा तेन प्रकारेण । स्तम्भयेयं स्तम्भितं कुर्याम् । उदास्येत राजपुरुषैरुपेक्षितो भवेत् । मुक्तसाच सेन त्यक्तभयेन । मे माता कान्तिमती । देव्या राजहंसमाहिष्याः । युष्माकं सूनुः पुत्रः । अनु- प्राप्तः समीपमागतः । पितुः कामपालस्यावस्थामापद्दशाम् । मत्तो मत्सकाशादुपलभ्य श्रुत्वा । मुक्तत्रासया वीतसाध्वसया । क्षत्रधर्मः क्षत्रियजातिधर्मः । निरपेक्षं निर्विचारं निग्राह्यो दण्ड- नीयः । स्त्रीधर्मः पतिव्रताकुलधर्मश्च । गन्तव्याऽनुसरणीया । अमुनैव पत्या सहैव । चिताग्निं दाहामिम् । 'चिता चित्या चितिः स्त्रियाम् ' इत्यमरः । आरोक्ष्यामि प्रवेक्ष्यामि । युवति- - ।

चतुर्थीच्छासः] मनोरमाख्यव्याख्यासहितम् । जनानुकूल: पश्चिमो विधिरनुज्ञातव्यः' इति । स एवं निवेदितो नियतमनुज्ञा- स्यति । ततः स्वमेवागारमानीय काण्डपटीपरिक्षिप्ते विविक्तोद्देशे दर्भसंस्तरणम- धिशाय्य स्वयं कृतानुमरणमण्डनया त्वया च तत्र संनिधेयम् । अहं च बाह्यक- क्षागतस्त्वया प्रवेशयिष्ये । ततः पितरमुज्जीव्य तदभिरुचितेनाभ्युपायेन चष्टि- प्यामहे' इति । स 'तथा' इति हृष्टतरस्तूर्णमगमत् । अहं तु घोषणस्थाने चिञ्चा- वृक्षं घनतरविपुलशाखमारुह्य गूढतनुरतिष्ठम् । आरूढश्च लोको यथायथमुच्चै- स्थानानि । उच्चावचप्रलापाः प्रस्तुताः । तावन्मे पितरं तस्करामिव पश्चाद्वद्धभु- जमुद्धरध्वनि महाजनानुयातमानीय मझ्याश एव स्थापयित्वा मातङ्गखिरघो- षयत्-“एष मंत्री कामपालो राज्यलोभाद्भर्तारं चण्डसिंहम् , युवराजं चण्डघोष च विषान्नेनोपांशु हत्वा पुनर्देवोऽपि सिंहघोषः पूर्णयौवन इत्यमुष्मिन्पापमाच- रिप्यन्विश्वासाद्रहस्यभूमौ पुनरमात्यं शिवनागमाहूय स्थूणमङ्गारवर्ष च राजव- धायोपजप्य तैः स्वामिभत्त्या विवृतगुरो राज्यकामुकत्यास्य ब्राह्मणस्यान्धतम- जनानुकूलस्तरुणीजनयोग्यः । पश्चिमो विधिरन्त्यः संस्कारोऽनुगमनरूपः । 'अन्तो जघन्यं चर- ममन्त्यपाश्चात्त्यपश्चिमाः' इत्यमरः । अनुज्ञातव्यो भवता संमन्तुमुचितः । स राजा सिंहघोषः । नियतमवश्यमेव । अनुज्ञास्यति समस्यते । अगारं गृहम् । काण्डपटीपरिक्षिप्ते तिरस्कारण्या- वृते । 'अपटी काण्डपट्टः स्यात्प्रतिसीरा जवन्यपि । तिरस्कारणी ' इति हैमः । विवित्तोद्देश जनशून्यस्थले । दर्भसंस्तरणं कुशशय्याम् । अधिशाव्य शाययित्वा । कृतम् अनुमरणाय सह- गमनाय भण्डनमलंकरणं ययैवंभूतया । संनिधेयं संनिहितया भवितव्यम् बाह्यकक्षागतो बहिः प्रकोष्ठं प्रविष्टः सन् । 'कक्षा प्रकोष्ठे हादेः काच्या मध्येभवन्धने' इत्यमरः । त्वया पूर्णभद्रेण । प्रवेशयिष्ये प्रवेशितो भविष्यामि । उज्जीव्य जीवयित्वा । तदभिरुचितेन पितृसंमतेन । चेष्टि- ध्यामहे राजनिग्रहार्थे यतिष्यामहे । स पूर्णभद्रः । तूर्णमाशु । अगमन्मातरं कान्तिमती प्रति सर्व कथयितुं गतः । घोषणास्थाने डिण्डिमवादनस्थले । चिञ्चावृक्षमम्लतरुम् । 'तिन्तिडी चिञ्चाऽ- म्लिका' इत्यमरः । धनतरा निबिडा विपुला विस्तृताश्च शाखा यस्मिन्नेतादृशम् । गूढतनुरलक्षि- तगातः। आरूढ आरुह्य स्थितः। यथायथं यथालाभम्। उच्चैःस्थानानि उन्नतप्रदेशान् । उच्चा- वचंपालापा नानाविधभाषणानि । प्रस्तुता आरब्धाः । मे पितरं कामपालम् । तस्कर चोरमिव । पश्चात्पृष्ठभोग बद्धौ निगडितौ भुजौ यस्यैवंविधम् । उद्धरध्वनि विशृखंलनादसाहितं यथा तथा । 'उद्धरं तु विशृंखलम्' इति हैमः । महाजनैर्मान्यपुरुषैरनुयातमनुसृतम् । ममाभ्याशे समीपे । मातङ्गश्चण्डालः । 'चण्डालप्लवमातङ्ग-' इत्यमरः । त्रिरित्रयम् । 'द्वित्रिचतुर्थ्यः सुच्' । इति क्रियाभ्यावृत्तिगणने सुच् । अघोषयद्धोषणां कृतवान् ।' राज्यस्य लोभात्प्राप्तीच्छया। भर्तारं राजानम् । उपांशु रहसि। पूर्णयौवनस्तारुण्य प्राप्तः । अमुध्मिन् सिंहघोषेऽपि । पापं हिंसाकर्मा- चरिष्यन् विधास्यन् । शिवनागस्थूणाझारवर्षा अमात्याः। उपजप्य अन्तः कलहं विधाय । 'उपजापः कृतो भेदः' इत्यमरः । तैः शिवनागादिभिः। स्वामिभक्त्या राजविश्वासात् । विवृतगुह्यः - ।

दशकुमारचरितम् । [उत्तरपीठिकायां सप्रवेशो न्याय्य इति प्राडिवाकवाक्यादक्ष्युद्धरणाय नीयते । पुनरन्योऽपि यदि स्यादन्यायवृन्तिस्तमप्येवमेव यथाhण दण्डेन योजयिष्यति देवः' इति । श्रुत्वैत- दूद्धकलकले महाजने पितुरङ्गे प्रदीप्तशिरसमाशीविषं व्याक्षिपम् । अहं च भीतो नामावप्लुत्य तत्रैव जनादनुलीनः क्रुद्धव्यालदष्टस्य तातस्य विहितजीवरक्षो विषं क्षणादस्तम्भयम् । अपतञ्चैष भूमौ मृतकल्पः । प्रालपं च 'सत्यमिदं राजावमा- निनं दैवो दण्ड एव स्पृशतीति । यदयमक्षिभ्यां विनावनिपेन चिकीर्षितः, प्राणै- व वियोजितो विधिना' इति । मदुक्तं च केचिदन्वमन्यन्त,अपरे पुनर्निनिन्दुः। दर्वीकरस्तु तमपि चण्डालं दृष्ट्वा रूढत्रासद्रुतलोकदत्तमार्गः प्राद्रवत् । अथ मदम्बा पूर्णभद्रबोधितार्था तादृशेऽपि व्यसने नातिविह्वला कुलपरिज- नानुयाता पद्भथामेव धीरमागत्य मत्पितुरुत्तमाङ्गमुत्सङ्गेन धारयन्त्यासित्वा राजे समादिशत्- 'एष मे पतिस्तवापकर्ता न वेति दैवमेव जानाति । न मेऽनयास्ति चिन्तया फलम् । अस्य तु पाणिग्राहकस्य गतिमननुप्रपद्यमाना भवत्कुलं कलङ्क- येयम्' । अतोऽनुमन्तुमर्हसि भर्ना सह चिताधिराहणाय माम्' इति । श्रुत्वा चैतत्प्रीतियुक्तः समादिक्षत्क्षितीश्वरः-'क्रियतां कुलोचितः संस्कारः । उत्सवो प्रकाशितरहस्यः । राज्यस्य कामुकोऽभिलाषी । 'कमेरनिषेधः' इति प्रतिप्रसवात् 'न लोका- इति षष्ठीनिषेधो न । अन्धतमसे गाढान्धकारे प्रवेशः । अन्धं तमोऽन्धतमसम् । 'अवसमन्धे- भ्यस्तमसः' इति समासान्तोऽच्प्रत्ययः । न्याय्यो न्यायप्राप्तः । 'धर्मपथ्यर्थन्यायादनपेते इति यत्प्रत्ययः । प्राडिवाकानां न्यायाधीशानां वाक्यात् । 'द्रष्टार व्यवहाराणां प्राड्विाकाक्षद. शेकौ' अक्ष्युदरणाय नेत्रोत्पाटनाय । अन्यायवृत्तिरन्यायाचरणशील: । देवो राजा सिंहघोषः । श्रुत्वेति । बद्धकलकले कृतकोलाहले । आशीविषं सर्पम् । भीतो नाम भीत इव । अवप्लुत्य नाचैः पतित्वा । जनादनुलीनः व्यवहितः ' अन्तधौँ येनादर्शनमिच्छति' इत्यपादा- नता। व्यालदष्टस्य सर्पदष्टस्य । 'चक्री व्यालः सरीसृपः । इत्यमरः । तातस्य पितुः । विहित- जीवरक्षः कृतप्राणरक्षः । अस्तम्भयं निरोधितवान् । मृतकल्पो मृततुल्यः । अवनिपेन राज्ञा । चिकीर्षतः कर्तुमिष्टः । विधिना दैवेन ! अन्वमन्यन्तान्वमोदन्त । दकिरः सर्पः । “दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः' इत्यमरः । चण्डालं मातङ्गम् । रुढत्रासो जातभयोऽत एव दुत: पलायितो यो लोकस्तन दत्तमार्गो दत्तसराणिः सन् । प्राद्रवत् कुत्रचिद्गतोऽभूत् । 'द्रु गतौ' अथेति । ममाम्बा माता कान्तिमती । पूर्णभद्रेण बोधितार्थाऽवगमितवृत्तान्ता ! व्यसने. संकटे । न अतिविह्वला कातरा । धीरं मन्दम् । उत्तमाझं शिरः । “उत्तमा शिरः शीर्षम् । इत्यमरः । उत्सङ्गेनाङ्केन । आसित्वा स्थित्वा । 'आस उपवेशने' । समादिशनिवेदनं चकार । अपकर्ताऽपकारी । चिन्तया विचारेण । पाणिग्राहकस्य पत्युः गति मरणरूपाम् । अननुप्रपद्य- मानाऽप्राप्नुवन्ती । कलङ्कयेयं दूषितं कुर्याम् । चिताधिरोहणाय चितिमारोढुम् । समादिक्षदाज्ञा कृतवान् । 'दिश अतिसर्जने' 'शल इगुपधादनिटः क्सः' इति क्सः । क्षितीश्वरो राजा ७ A इत्यमरः। - - ।

।. चतुर्थोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । त्तरं च पश्चिमं विधिसंस्कारमनुभवतु मे भगिनीपतिः' इति । चण्डाले तु मन्त्र तिषिद्धसकलमंत्रवादिप्रयासे संस्थिते 'कामपालोऽपि कालदष्ट एव' इति स्वभ- वनोपनयनममुष्य स्वमाहात्म्यप्रकाशनाय महीपतिरन्वमस्त । आनीतश्च पिता मे विविक्तायां भूमौ दर्भशय्यामधिशाय्य स्थितोऽभूत् । अथ मदम्बा मरणमण्डनमनुष्ठाय सकरुणं सखीरामन्त्र्य, मुहुरभिप्रणम्य भव- नदेवता यत्ननिवारितपरिजनाक्रन्दिता पितुर्मे शयनस्थानमेकाकिनी प्राविक्षत् । तत्र च पूर्वमेव पूर्णभद्रोपस्थापितेन च मया वैनतेयतां गतेन निर्विषीकृतं भर्तार- मैक्षत । हृष्टतमा पत्युः पादयोः पर्यश्रुमुखी प्रणिपत्य मां च मुहुर्मुहुः प्रस्तुतस्तनी परिष्वज्य सहर्षबाष्पगद्गदमगदत्-'पुत्र, योऽसि जातमात्रः पापया मया परि- त्यक्तः, स किमर्थमेवं मामतिनिघृणामनुगृह्णासि । अथवैष निरपराध एव ते जन- यिता । युक्तमस्य प्रत्यानयनमन्तकाननात् । क्रूरा खलु तारावली या त्वामुप- लभ्यापि तत्त्वतः कुबेरादसमर्व मह्यमर्पितवती देव्यै वसुमत्यै सव वा सदृशका- रिणी। नहि तादृशाद्भाग्यराशेविना साहशो जनोऽल्पपुण्यस्तवार्हति कलप्रला- पामृतानि कर्णाभ्यां पातुम् । एहि, परिप्वजस्व' इति भूयोभूयः शिरसि जिघ्र- । । । । । सिंहघोषः । कुलोचितः कुलाचारयोग्यः । उत्सवोत्तरमुत्सवप्रधानम् । पश्चिमं चरमम् । भगिनी- पतिरावृत्तः। चण्डाले मत्पितृचक्षुरुत्पाटनाय नियुक्ते मातङ्गे । मया प्रतिषिद्धाः सकलानां मन्त्रवादिनां मान्त्रिकाणां प्रयासा विषावरोपणक्लेशा यस्यैतादृशे । संस्थिते मृते। 'परेतप्रेतसं. स्थिताः' इत्यमरः । कालदष्टो यमदष्टो मृत एवेति विचाति शेषः । स्वभवनोपनयनं स्वगृह प्रति प्रापणम् । अमुष्य मत्पितुः कामपालस्य प्रकाशनाय प्रकटीकरणाय । महीपती राजा सिंह- घोषः। अन्वमस्तानुज्ञातवान् । विविक्तायां जनान्तररहितायाम् । दर्भशय्यां कुशास्तरणम् । अधिशाय्य शाययित्वा। अथेति । पितुः कामपालस्य स्वगृहानयनानन्तरम् । मरणमण्डनमनुमृत्युचितभूषणम् । अनुष्टाय धारयित्वेत्यर्थः । सकरुणं सदयम् । यत्नेनायासेन निवारितं परिजनानामाक्रन्दित रोदनं यया तादृशी सती । एकाकिन्यसहाया । प्राविक्षदासादितवती । “विश प्रवेशने' इत्यतः शल इगुपधा-' इति क्सः । पूर्णभद्रेणोपस्थापितः प्रवेशितस्तेन । वैनतेयतां गतेन गरुडतामा- पन्नेन । निर्विषीकृतं विषमवरोप्य निरुपद्रवतया स्थापितं भर्तारं पति कामपालम् । प्रणिपत्य नम- स्कृत्य । प्रस्तुतस्तनी क्षरत्पयःस्तनी । पुत्रेति । जातमात्र उत्पन्न एव । पापया दुराचारया । किमर्थ कमुपकारं मया मात्रा कृतमुद्दिश्य । आतनिघृणां निरनुकम्पाम् । जनयिता पिता अन्तकाननात्कालमुखात्प्रत्यानयनं पुनरुज्जीवनम् । उपलभ्य तत्त्वतो मत्पुत्रत्वेन विदित्वाऽपि । वा पक्षान्तरे । सदृशकारिणी युक्तकारिणी । तादृशाद्वसुमतीभाग्यसदृशात् । अल्पपुण्यः स्वल्प- पुण्यः । कलान्यव्यक्तमधुराणि प्रलापामृतानि वचनपीयूषाणि । पातुमाकर्णयितुमित्यर्थः । ।

दशकुमारचरितम् । [उत्तरपीठिकायाँ न्त्यमारोपयन्ती, तारावली गर्हयन्त्यालिङ्गयन्त्यश्रुभिरभिषिञ्चती चोत्कम्पि- ताशयष्टिरन्याशीव क्षणमजनिष्ट । जनयितापिमे नरकादिव स्वर्गम् , ताह- शाद्व्यसनात्तथाभूतमभ्युदयमारूढः पूर्णभद्रेण विस्तरेण यथावृत्तान्तमावेदितो भगवतो मघवतोऽपि भाग्यवन्तमात्मानमजीगणत् । मनागिव च मत्संबन्ध- माख्याय हर्षविस्मितात्मनोः पित्रोरकथयम्-'आज्ञापयतं काद्य नः प्रति- पत्तिः' इति । पिता मे प्राब्रवीत्- वत्स, गृहमेवेदमस्मदीयमतिविशालप्राकार- वलयमक्षय्यायुधस्थानम् । अलवथतमा च गुप्तिः । उपकृताश्च मयातिबहवः सन्ति सामन्ताः । प्रकृतयश्च भूयस्यो न मे व्यसनमनुरुध्यन्ते । सुभटानां चानेकसह- नमस्त्येव ससुहृत्पुत्रदारम् । अतोऽत्रैव कतिपयान्यहानि स्थित्वा बाह्याभ्यन्तर- ङ्गान्कोपानुत्पादयिष्यामः । कुपितांश्च संगृह्य प्रोत्साह्यास्य प्रकृत्यमित्रानुत्थाप्य सहजांश्च द्विषः, दुर्दान्तमेनमुच्छेत्स्यामः' इति । 'को दोषः, तथास्तु' इति तातस्य मतमन्वमंसि। तथास्मासु प्रतिविधाय तिष्ठत्सु राजापि विज्ञापितोदन्तो जातानुतापः पारग्रा- । अङ्कमुत्सङ्गम् । गर्हयन्ती निन्दन्ती । अश्रुभिरानन्दबाध्यकणैः । अन्यादृशीवान्येव । 'त्यदादिषु दृशोऽनालोचने कञ्च' इति सूत्रे 'समानान्ययोश्चेति वक्तव्यम्' इति वार्तिकात्कञ् । 'आ सर्वनान्नः । इत्यात्वम् । 'टिड्ढाणञ्-' इति डीप् च । व्यसनान्नयनोत्पाटनसंकटात् । अभ्युदयं कल्याणम् । आरूढः प्राप्तः आवेदितो बोधितः। मघवतो देवेन्द्रादपि । अजीगणद्णयामास । 'गण संख्याने' इति चौरादिरदन्तः । तस्मात् लुडि 'ई च गणः' इतीत्वम् । मनागल्पम् । हर्षेण सन्तोषेण विस्मितात्मनोरद्भुतायमानचेतसोः । प्रतिपत्तिः कर्तव्यता । अस्माकमिदमस्मदीयम् । दीनि च ' इति वृद्धसंज्ञायां 'वृद्धाच्छः' इति छः । अतिविशालो नितरां विस्तृतः प्राकारवलयः सालवलयो यस्यैवभूतम् । न क्षेतुं शक्यानि अक्षय्याणि 'क्षय्यजय्यौ शक्यार्थे ' इत्ययादेशः। तादृशानामायुधानां शस्त्राणां स्थानं निधानभूमिः अलंध्यतमाऽनुत्क्रमणीया गुप्तिर्भूगर्तः । गुप्तिः कारागृहे प्रोक्ता भूगर्ते रक्षणे यमे' इति विश्वः । सामन्ता अधीश्वराः । समीपवर्तिनो राजानः। 'सामन्तः स्यादधीश्वरः' इत्यमरः। भूयस्योऽनेकाः । अनुरुध्यन्ते कांक्षन्ते । 'अनो रुध कामे' । ससुहृत्पुत्रदारं मित्रपुत्रकलंत्रसहितम् । कतिपयान्यहानि कानिचिद्दिनानि ! प्रोत्साह्य तेषामुत्साहं जनयित्वा । अस्य सिंहघोषस्य । प्रकृत्यमित्रान् स्वभावत एव वैरिणः । उच्छेत्स्यामो विनाशं प्रापयिष्यामः । तातस्य पितुः । अन्वमंसि अनुमोदितवानहम् । मनु अवबोधने'। तथेति । पूर्वोक्तप्रकारेण । प्रातविधाय तन्निर्मूलनोपायं कृत्वा । तिष्ठत्सु वर्तमानेषु । विज्ञापितोदन्तः पूर्वोक्तदुर्मन्त्रिाभिर्विज्ञापितः 'नासौ कामपालो मृतः किन्तु तत्साहाय्याय तत्पु- त्रोऽर्थपालोऽप्यागतोऽस्ति' इति वृत्तान्तो यस्मै सः। जातानुतापः 'कथं सर्पदष्टो मृतः स्यादि- । - । । चतुर्थोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । मिकान्प्रयोगान्प्रायः प्रायुत । ते चास्माभिः प्रत्यहमहन्यन्त । अस्मिन्नेवावकाशे पूर्णभद्रमुखाच राज्ञः शय्यास्थानमवगम्य तदैव स्वोदवासतभित्तिकोणादारभ्यो- रगास्येन सुरङ्गामकार्षम् । गता च सा भूमिस्वर्गकल्पमनल्पकन्यकाजनं कमप्युद्देशम् । अव्यथिष्ट च दृष्ट्वैव स मां नारीजनः । तत्र काचिदिन्दुकलेव स्वलावण्येन रसातलान्धकारं निढुवाना, विग्रहिणीव देवी विश्वंभरा,हरगृहिणी- वासुरविजयायावतीर्णा, पातालमागता गृहिणीव भगवतः कुसुमधन्वनः, राज- लक्ष्मीरिवानेकदुपदर्शनपरिहाराय महाविवरं प्रविष्टा, निष्टप्तकनकपुत्रिकेवा- बदातकान्तिः कन्यका, चन्दनलतेव मलयमारुतेन, मदर्शनेनोदकम्पत । तथा- भूते च तस्मिन्नङ्गनासमाजे, कुसुमितेव काशयष्टिः, पाण्डुशिरसिजा स्थविरा काचिच्चरणयोर्मे निपत्य त्रासदीनमब्रूत-'दीयतामभयदानमस्मा अनन्यशरणाय स्त्रीजनाय । किमसि देवकुमारो दनुजयुद्धतृष्णया रसातलं विविक्षुः । आज्ञापय- त्युपेक्षितोऽस्माभिः' इति जातपश्चात्तापः ! पारामिकान्परराष्ट्रे कर्तव्यान् उपरुन्ध्यारिमासीत राष्ट्र चास्योपपीडयेत् । दूषयेचास्य सततं यवसानोदकेन्धनम्॥” इत्युक्तरूपान् । प्रायः बहुलान् । प्रायो वयसि बाहुल्ये' इति वैजयन्ती । प्रायुक्त प्रयुक्तवान् । अहन्यन्त प्रतिरुध्यन्ते स्म । अवकाशेऽवसरे । अवगम्य ज्ञात्वा । स्वोदवसितभित्तिकोणानिजगृहकुड्यैकदेशात् । 'गृहं गेहो- दवसितवेश्मसमनिकेतनम् । “भित्तिः स्त्री कुड्यमेडूकम् ' इत्यमरः । उरगास्येन सर्पमुखाच- तिना खननोपकरणविशेषेण । सुरझा गुप्तबिलद्वारम् । सा सुरङ्गा । भूमिस्वर्गकल्पं भुवि स्वर्ग- समानम् । अनल्यो बहुलः कन्यकाजनो यत्रैतादृशम् । अव्यथिष्ट भीति प्राप्तः । इन्दुकला शीतरश्मिकला । स्वस्यात्मनो लावण्येन 'मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदनेषु तल्लावण्यमिहोच्यते ॥' इत्युक्तलक्षणेन सौन्दर्यविशेषेण । रसातलान्धकार पातालकति तमो निढुवाना दूरीकुर्वती । विग्राहिणी मूर्तिमती। 'शरीरं वर्म विग्रहः' इत्यमरः । विश्वभरा भूमिः । हरगृहिणी महादेवपत्नी कालीव । असुरविजयाय शुम्भादिदानवसंहारार्थमवतीर्णा कृतावतारा । कुसुमधन्वनो गृहिणी कामपत्नी रतिः । अनेकेषां दुर्नृपाणां दर्शनस्य परिहाराय तत्परिहर्तुमित्यर्थः । महीविवरं भूमिच्छिद्रम् । निष्टतकनकपुत्रिका वह्निशुद्भस्वर्णपुत्तलिकेव । अवदातकान्तिः स्वच्छकान्तिः । मलयमारुतेन मलयानिलवायुना । उदकम्पत कम्पयुक्ताऽभूत्। तथाभूत इति । तादृशीमवस्थामापन्ने । अङ्गनासमाजे स्त्रीसमुदाये । कुसुमिता पुष्पिता काशयष्टिर्वेतसलता । पाण्डुशिरसिजा जरापलितकेशी । स्थविरा वृद्धा । त्रासदीनं भयकातर यथातथा । अस्मा अनन्यशरणायेत्यत्र ' एचोऽयवायावः' इत्यायादेशे ' लोपः शाकल्यस्य इति यकारलोपः । पुनः सवर्णदीर्घस्तु न भवति ‘पूर्वत्रासिद्धम् ' इति सवर्णदीर्धे कर्तव्ये यलो- पस्यासिद्धत्वात् । अनन्यशरणाय रक्षकान्तररहिताय । दनुजैरसुरैः साकं युद्धतृष्णया रणाभिला- षेण । रसातलं पातालं विविक्षुः गन्तुकामः । 'अधोभुवनपातालबलिस रसातलम्' इत्यमरः । । - .. ।

दशकुमारचरितम् । [ उत्तरपीठिकाया कोऽसि । कस्य हेतोरागतोऽसि' इति । सा तु मया प्रत्यवादि-'सुदत्यः, मास्म भवत्यो भैषुः । अहमास्मि द्विजातिवृषात्कामपालाद्देव्यां कान्तिमत्यामुत्पन्नोऽर्थ- पालो नाम । सत्यर्थे निजगृहान्नृपगृहं सुरङ्गयोपसरन्निहान्तरे वो दृष्टवान् । कथ- यत के स्थ यूयम् । कथामिह निवसथ' इति । सोञ्जलिरुदीरितवती-भर्तृदा- रक, भाग्यवत्यो वयम् , यास्त्वामेभिरेव चक्षुाभरनघमद्राक्ष्म । श्रूयताम् । यस्तव मातामहश्चण्डसिंहः, तेनास्यां देव्यां लीलावत्यां चण्डघोषः कान्तिमतीत्यपत्य- द्वयमुदपादि । चण्डघोषस्तु युवराजोऽत्यासङ्गादङ्गनासु राजयक्ष्मणा सुरक्षयम- गादन्तर्वन्या देव्यामाचारवत्याम्। अमुया चेयं मणिकर्णिका नाम कन्या प्रसूता। अथ प्रसववेदनया मुक्तजीविताचारवती पत्युरन्तिकमगमत्। अथ देवश्चण्डसिंहो मामाहूयोपहरे समाज्ञापयत्-'ऋद्धिमति, कन्यकेयं कल्याणलक्षणा । तामिमां मालवेन्द्रनन्दनाय दर्पसाराय विधिवद्वधयित्वा दित्सामि । बिभोम च कान्ति- मतीवृत्तान्तादारभ्य कन्यकानां प्रकाशावस्थापनात् । अत इयमरातिव्यसनाय कारिते महति भूमिगृहे कृत्रिमशैलगर्भोत्कीर्णनानामण्डपप्रेक्षागृहे प्रचुरपरिबर्हया भवत्या संवयताम् । अस्त्यत्र भोग्यवस्तु वर्षशतेनाप्यक्षय्यम्' इति । स तथो- क्त्वा निजवासगृहस्य द्वधंगुलभित्तावर्धपादं किष्कुविष्कम्भमुद्धृत्य तेनैव द्वारेण । सा तु वृद्धा । प्रत्यवादि प्रत्युक्ता । सुदत्यो हे शोभनदन्तवत्यः । वयसि दन्तस्य दत' इति दत्रादेशः। द्विजातिवृषाद्विजवर्यात् । सत्यर्थे प्रयोजने कस्मिंश्चिद्वर्तमाने । उपसरन् गच्छन् । अन्तरे मध्ये । वो युष्मान् । सा वृद्धा । उदौरितक्त्युक्तवती । अनघं निष्पापम् । अद्राक्ष्म दृष्टवत्यः। मातामहो मातुः पिता । अपत्यद्वयं पुत्रयुगलम् । उदपायुत्पादितम् । अत्यासङ्गादतिविषया- सक्तः । अङ्गनासु स्त्रीषु । सुरक्षयं देवलोकम् । अगाद्गतः । अन्तर्वत्न्यां गर्भवत्याम् । 'आपन्न- सत्त्वा ल्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी' इत्यमरः । अन्तर्वत्पतिवतोर्नु' इति नुक् डीप च । अमुयाऽऽचारवत्या चण्डघोषमहिन्या। मुक्तजीविता त्यतप्राणा । पत्युश्चण्डघोषस्यान्तिक समीप स्वर्गलोकमित्यर्थः। उपह्वरे एकान्ते। समाज्ञापयनिर्दिष्टवान् । कल्याणलक्षणा शुभलक्षणा। मालवेन्द्रो मालवदेशाधीशो मानसारस्तनन्दनाय तत्पुत्राय । दित्सामि दातुमिच्छामि । कान्ति- मत्या मत्कन्याया वृत्तान्तात् 'कुतश्चिदागतं कामपालं नाम कंचन पुरुषमाश्रितवती' इत्येवरूप-- समाचारदर्शनादारभ्य । प्रकाशावस्थापनात् बहिः स्थापनात् । अरातिव्यसनाय शत्रुरक्षायै। कारिते निर्मिते । कृत्रिमशैलस्य विहाराथै निर्मितस्य पर्वतस्य गर्ने मध्यदेशे उत्कीर्णानि निर्मि- तानि नानामण्डपाः प्रेक्षागृह्माणि नृत्यशालाश्च यत्रैतादृशे । प्रेक्षा नृत्येक्षणं प्रज्ञा' इति हैमः। प्रचुरपरिबहया बहूपभोग्यवस्तुयुक्तया । 'परिच्छदो नृपाहेऽर्थे परिबर्हः ' इत्यमरः । संवर्ध्यता पोज्यताम् । भोग्यवस्तूपभोग्यसामग्री । अक्षय्यं क्षेतुमशक्यम् । 'क्षय्यजय्यौ शक्यार्थे इत्य- यादेशः । स चण्डसिंहः। निजवासगृहस्य स्वकीयगर्भागारस्य । द्वयंगुलभित्तौ अंगुलिद्वयपरि- - ।

TARA RailwPAROGRA चतुर्थीच्छासः] मनोरमाख्यव्याख्यासहितम् । स्थानमिदमस्मानवीविशत् । इह च नो वसन्तीनां द्वादशसमाः समत्ययुः । इयं च वत्सा तरुणीभूताः । न चाद्यापि स्मरति राजा । काममियं पितामहेन दर्प- साराय संकल्पिता । त्वदम्बया कान्तिमत्या चेयं गर्भस्थैव द्यूताजिता स्वमात्रा तवैव जायात्वेन समकल्प्यत । 'तन्त्र प्राप्तरूपं चिन्त्यतां कुमारेणैव' इति । तां पुनरवाचम्- 'अद्यैव राजगृहे किमपि कार्य साधयित्वा प्रतिनिवृत्तो युष्मासु यथाई प्रतिपत्स्ये' इति । तेनैव दीपदर्शितविलपथेन गत्वा स्थितेऽर्धरात्रे तदर्ध- पादं प्रत्युद्धृत्य वासगृहं प्रविष्टो विस्रब्धसुप्तं सिंहघोषं जीवग्राहमग्रहीषम्।आकृप्य च तमहिमिवाहिशत्रुः स्फुरन्तममुनैव भित्तिरन्ध्रपथेन त्रैणसंनिधिमनैषम् । आनीय च स्वभवनमायसनिगडसंदितचरणयुगलमवनामतमलिनवदनमश्रुबहु- लरक्तचक्षुषमकान्ते जनयित्रोरदर्शयम् । अकथयं च बिलकथाम् । अथ पितरौ प्रहृष्टतरौ तं निकृष्टाशयं निशाम्य बन्धने नियम्य तस्या दारिकाया यथार्हेण कर्मणा मां पाणिमप्राहयेताम् । अनाथकं च तद्राज्यमस्मदायत्तमेव जातम् । प्रकृ- च्छिन्नकुड्ये । 'तत्पुरुषस्यांगुलेः संख्याव्ययादेः' इति समासान्तोऽन् । अर्धपादं पाषाणविहित- पिधानकम् । किष्कुः परिमाणविशेषः। 'किष्कुर्हस्ते वितस्तौ च इत्यमरः । किष्कुर्हस्तपरिमितो विष्कम्भः परिणाहः विशालतेतियावद्यस्य तादृशम् । 'परिणाहस्तु विष्कम्भः' इति वैजयन्ती । 'परिणाहो विशालता' इत्यमरश्च। उद्धृत्योद्घाटय । अवीविशत्प्रवेशयामास । नोऽस्माकम् । वसन्तीनां निवास कुर्वतीनाम् । समा वत्सराः । 'संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः'इत्यमरः । समत्ययुः समतीता अभूवन् । तरुणीभूता यौवनं प्राप्ता । कामं यथेच्छम् । इयं मणिकर्णिका । पितामहेन पितुःपित्रा चण्डसिंहेन । संकल्पिता दातुं निश्चिता । त्वदम्बया तव मात्रा । गर्भ- स्थोदरवर्तिन्येव । द्यूतजिता द्यूतक्रीडायां जिता । स्वमात्राऽऽचारवत्या । जायात्वेन पत्नीभावेन । समकल्प्यत संकल्पिताऽभूत् । प्राप्तरूपं युक्तियुक्तम् । तांबद्धामृद्धिमतीम् । अद्यैवेदानीमेव । साधयित्वा विधाय । प्रतिनिवृत्तः प्रत्यागतः । यथाई यथोचितम् । प्रतिपत्स्ये करिष्यामि । बिलपथेन सुरङ्गामार्गेण । अर्धपादं शिलाच्छादनम् । विश्रब्धसुप्तं विश्वस्तनिद्रितम् । जीवनाहं जीवेन सह गृहीत्वा । 'समूलाकृतजीवेषु हन्कृग्रहः, इति णमुल् । अग्रहीषं गृहीतवान् । अहिं सर्पम् । ' सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः' इत्यमरः । अहिशत्रुर्गरुडः । बैणस- निधि स्त्रीसमुदायसमीपम् । तस्य समूहः' इत्यर्थे 'स्त्रीपुंसाभ्यां नजनजौ भवनात् ' इति नञ् प्रत्ययः । अनैषं प्रापितवान् । आयसनिगडेन लोहशेखलया संदितं बद्धं चरणयुगलं यस्यैवंविधम् । ' बद्धं ' बद्धं निगडितं दितम् । इति वैजयन्ती । अवनमितं मलिनं च. मुखं यस्यैतादृशम् । अश्रुबहुले. अस्रव्याकुले रक्ते लोहितवर्णे च चक्षुषी यस्यैवंभूतम् जनयित्रोः पित्रोः कान्तिमतीकामपालयोः । बिलकथां बिलवर्तिकन्यावृत्तान्तम् । निकृष्टाशय दुष्टचेतोवृत्तिम् । निशाम्य विलोक्य । बन्धने कारागारे नियम्य स्थापयित्वा । दारिकायाः कन्याया मणिकर्णिकायाः । यथार्हेण यथोचितेन । पाणिभग्राहयतां विवाह कारितवन्तौ । अना ।

10-10 १७२ दशकुमारचरितम् । [उत्तरपीठिकार्या तिकोपभयान्तु मन्मात्रा मुमुक्षितोऽपि न मुक्त एव सिंहघोषः । तथास्थिताश्च वयमङ्गराजः सिंहवर्मा देवपादानां भक्तिमान्कृतकर्मा चेत्यमित्राभियुक्तमेनम- भ्यसराम । अभूवं च भवत्पादपङ्कजरजोऽनुम्राह्यः । स चेदानी भवञ्चरणप्रणाम- प्रायश्चित्तमनुतिष्ठतु सर्वदुश्चरितक्षालनमनार्यः सिंहघोषः' इत्यर्थपालः प्राजलि: प्रणनाम । देवोऽपि राजवाहनः 'बहु पराक्रान्तम्, बहूपयुक्ता च बुद्धिः, मुक्त- बन्धस्ते श्वशुरः पश्यतु माम् ' इत्यभिधाय भूयः प्रमतिमेव पश्यन्प्रीतिस्मेरः प्रस्तूयतां तावदात्मीयं चरितम्' इत्याज्ञापयत् । इति श्रीदण्डिनः कृतौ दशकुमारचारितेऽर्थपालचरितं नाम चतुर्थ उच्छ्वासः । पञ्चमोच्छ्वासः। सोऽपि प्रणम्य विज्ञापयामास-'देव देवस्यान्वेषणाय दिक्षु भ्रमन्नभ्रंकषस्यापि विन्ध्यपार्श्वरूढस्य वनस्पतेरधः, परिणतपतङ्गबालपल्लवावतंसिते पश्चिमदिगङ्ग- थकै राजहीनम् । अस्मदायत्तमस्माकमधीनम् । प्रकृतिकोपभयात् प्रकृतयः कुपिता भवि- प्यन्तीति भीतः । मुमुक्षितो मोक्तमिष्टोऽपि । कृतकर्मा कृतोपकारः । अमित्रेण शत्रुणा चण्ड- वर्मणाऽभियुक्तमुपद्रुतम् । एनं सिंहवर्माणम् । अभ्यसराम साहाय्यार्थमागताः । अनुप्लवः सहायश्चानुसरोऽभिसरः समाः' इत्यमरः । भवतो राजवाहनस्य पादपङ्कजरजोभिश्चरणकमल- धूलिभिरनुग्राह्योऽनुकम्पितुमुचितः । स चेति । सिंहघोषः । भवतश्चरणप्रणामरूपं पादवन्दना- स्मकं प्रायश्चित्तमनुतिष्ठतु आचरतु । सर्वेषां दुश्चरितानां दुराचारतानामस्मान्प्रति कृतानामपरा- वानां च क्षालनं दूरीकरणम् । अनार्योऽसाधुः। प्रणनाम नमस्कारं कृतवान् । पराक्रान्तं परा- क्रमः कृतः । श्वशुरः श्वशुरानुज इति भावः । पत्नीसंबन्धादयं श्वशुरानुजः । मातृसंबन्धात्तु मातुल इत्यवगन्तव्यम् । अभिधायोक्त्वा । प्रीत्या स्मेरः मन्दस्मितयुक्तः । 'नमिकम्पिस्म्यजस- कमहिंसदीपो रः' इति रप्रत्ययः । प्रस्तूयतामुपक्रम्यताम् । आज्ञापयदाज्ञां दत्तवान् । इति श्रीदशकुमारचरितव्याख्याने मनोरमाख्याने चतुर्थ उच्छ्रासः समाप्तः ॥ ४ ॥ अथ पञ्चम उच्छ्वासः ॥ ५॥ इदानीमात्मनश्चरितवर्णनायोपक्रमते प्रमतिः-देव, देवस्येति । देवस्य राजकुमारस्य भवतो राजवाहनस्यान्वेषणाय गवेषणार्थम् । भ्रमन्पर्यटन । अभ्रंकषणस्याकाशव्यापिनो मेघ- मण्डलातिक्रामिणो वा । 'द्योदिवौ द्वे स्त्रियामनं व्योम पुष्करमम्बरम् ' 'अभं मेघो वारि- वाहः स्तनयित्नुर्बलाहकः' इत्युभयत्रामरः। ' सर्वकूलानकरीरेषु कषः' इति खचि 'अरुर्द्वि- षदजन्तस्य मुम् ' इति मुमागमः । विन्ध्यपार्श्वे रूढस्य समुत्पन्नस्य । वनस्पतेव॒क्षविशेषस्य । वानस्पत्यः फलैः पुष्पात्तैरपुष्पावनस्पतिः' इत्यमरः । अधोऽधोभागे। परिणतो वृद्धावस्था प्राप्तः अस्तं गमिष्यनिति भावः । अतएव रक्तवर्णसाम्यात्पतङ्गः सूर्य एव बालपल्लवो नूतनः केसलयः 'पतङ्गौ पक्षिसूयौँ च ' 'पल्लवोऽस्त्री किसलयम्' इत्यमरः । तेनावतंसितेऽलंकृते ॥

, पञ्चमोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । नामुखे पल्वलाम्भस्युपस्पृश्योपास्य संध्याम्, तमःसमीकृतेषु निनोन्नतेषुः गन्तुमक्षमः क्षमातले किसलयैरुपरचय्य शय्यां शिशयिषमाणः, शिरास कुर्वन्नञ्जलिम्, 'यस्मिन्वनस्पती वसति देवता सैव म शरणमस्तु शरारुच: ऋचारभीषणायां शर्वगलश्यामशार्वरान्धकारपूराध्मातगभीरंगह्वरायामस्यां महा- इत्युपधाय वामभुजमशयिषि । ततः क्षणादेवा- वनिदुर्लभेन स्पर्शनासुखायिषत किमपि गात्राणि, आह्लादयिषतेन्द्रियाणि, अभ्यमनायिष्ट चान्तरात्मा, विशेषतश्च हृषितास्तनूरुहाः, पर्यस्फुरन्मे दक्षिण- सुजः । * कथंन्विदम् ' इति मन्दमन्दमुन्मिषन्नुपर्यच्छचन्द्रातपच्छेदकल्प शुक्लांशुकवितानमैक्षिपि । वामतश्चलितदृष्टिः समया सौधभित्ति चित्रास्तरणशा- टव्यामककस्य प्रसुप्तस्य १ ८ सति पश्चिमदिगेवाङ्गना स्त्री तस्या मुखे । पल्बलाम्भासि स्वल्पसर स्थितजले। 'वेशन्तः पल्वलं चाल्पसरः ' ' अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ' इत्यमरः । उपस्पृश्याचम्य । तम्- सान्धकारेण सनीकतेषु निन्नोनतभागाक्रमणेन समतामापादितेषु। क्षमातले भूप्रदेशे। किस- लयैतनदलैः । उपाचव्य संपाच । शिशयिषमाणः शयनं कर्तुमिच्छुः । अञ्जलिं करयुग्मम् । 'तौ युत्तावञ्जलिः पुमान् ' इत्यमरः। शरणं रक्षयित्री । शरारुचक्रस्य सिंहव्याघ्रादिहिंसक- जन्तुवर्गस्य चारेणेतस्ततः संचारेण भीषणायामतिभयानकायाम् । 'शरारुर्धातुको हिंस्रः' इत्व- मरः । शर्वगलवन्महादेवकण्ठवत् श्यामेन कृष्णवर्णेन शर्वर्या रात्र्या अयं शावर एतादृशेनान्ध- कारपूरेण तमोनिवहेनाध्मातानि पूरितानि गभीराणि गहराणि गिरिबिलानि बत्रैतादृश्यां महा- टव्यां महति वने । 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः । एककस्यासहायस्य एकादाकिनिन्चासहाये' इति चात्कन् । 'एकाकी त्वेक एकक: ' इत्यमरः । प्रसुप्तस्य निद्रा गतस्य । इति प्रार्थ्यति शेषः । उपधायोपधानतया स्थापयित्वा । तत इति । शयनानन्तरम् । असुखायिषत सुखितान्यभूवन् । 'सुखादिभ्यः कर्तृवेदनायाम् ' इति क्यङ् । गात्राग्यङ्गानिः । आल्हादयिषताल्हादं प्राप्तानि । 'ह्लादी सुखे च' इत्यात्मनेपदिनो धातोर्लङ् । अभ्यमनायिष्ट नितर सुतुष्टो जातः ' कर्तुः क्यङ् सलोपश्च' इति क्यङ्सलोपौ अडागमस्तु पृथक्कृत्योपसर्ग मध्ये प्रवृत्तः । अन्तरात्माऽन्तःकरणम् । हृषिता उत्थितास्तनूरुहा रोमाणि 'हर्लोमसु' इतीडागमः। पर्यस्फुरत स्फुरितोऽभूत् ।भुजस्पन्दश्चेष्टप्राप्तिसूचकस्तदुक्तं वसन्तराजेन । 'स्पन्दो भुजस्येष्टसमाग- माय' इति । तत्र दक्षिणस्फुरणात्पुंसां वामस्फुरणात्त्रीणां चाभीष्टसिद्धिारति प्राहुः पुराविदः । तथैक च वर्णितं कालिदासेन । 'तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलोऽभूत् । वामे- तरः संशयमस्य बाहुः केयूरबन्धोच्छुसितैर्नुनोद' इति । कथंन्विति । इदं स्पर्शविशेषादिकं दक्षि- णभुजस्फुरणं च । मन्दमन्दं शनैः शनैः, उन्मिषन्नेत्रे उन्मोलयन् । उपरि सुप्तस्य ममोपरिभागे । अच्छो निर्मलो यश्चन्द्रातपच्छेदश्चन्द्रिकाखण्डस्तत्कल्पं तत्तुल्यम् । ईषदसमाप्तौ कल्पब्देश्य देयीयरः ' इति कल्पप्प्रत्ययः । शुक्लांशुकवितानं शुभ्रवर्णवनोलोचम् । अस्त्री वितानमुलोचः' इत्यमरः । ऐक्षिषि विलोकितवान् । वामतो वामभागे चलितदृष्टिः प्रसारितनयनः । समया १७४ दशकुमारचरितम्। [उत्तरपीठिकायां यिनमतिविश्रब्धप्रसुप्तमङ्गनाजननलक्षयम् । दक्षिणतो दत्तचक्षुरागलितस्तनांशु काम्, अमृतफेनपटलपाण्डुरशयनशायिनीम, आदिवराहदंष्ट्रांशुजाललग्नाम, अंसनस्तदुग्धसागरदुकूलोत्तरीयाम्, भयसाध्वसमूच्छितामिव धरणिम्, अरु- णाधरकिरणबालकिसलयलास्यहेतुभिराननारविन्दपरिमलोद्वाहिभिनिःश्वासमा- तरिश्वभिरीश्वरेक्षणदहनदग्धं स्फुलिङ्गशेषमनङ्गमिव संधुक्षयन्तीम, अन्त:सुप्त-- पटूपदमम्बुजमिव जातनिद्रमामीलितलोचनेन्दीवरमाननं दधानाम, ऐरावत- मदावलेपलनापविद्धामिव नन्दनवनकल्पवृक्षरत्नवल्लरी कामपि तरुणीमालोकयम्। अतर्कयं च--' क गता सा महाटवी, कुत इदमूर्ध्वाण्डसंपुटोल्लेखि शक्तिध्वज- - - सौधभित्तिं सौषभित्तेः समीपे । 'समयाऽन्तिकदूरयोः' इत्यमरः । ' अभितःपारीतःसमया' इति तद्योगे द्वितीया च । दक्षिणतो दक्षिणभागे । आगलितमषित्रस्तं स्तनांशुकं कक्षुकपद- वाच्यं कुचोत्तरीयं यस्या एवंविधाम् । अमृतस्य देवासुरैर्मथितस्य यत्फेनपटलं डिण्डीरसमुच्चय- स्तद्वत्पाण्डुरे श्वेतवर्णे शयने पर्यके शेते एवंशीलाम् । 'डिण्डीरोऽब्धिकफः फेनः।। शुक्लशुन- शुचिश्चेतविशदश्वेतपाण्डुराः ''शयन मञ्चपर्यङ्कपल्यताः खवया समाः' इत्यमरः । आदि- चराहस्य वराहरूपधारिणो विष्णोर्दष्ट्रायास्तीक्ष्णदन्तविशेषस्यांशुजाले प्रभापटले लमामासत्ताम् । अंसात्स्कन्धदेशात्तस्तं विगलितं क्षीरसागरः क्षीरार्णव एव दुकूलोत्तरीयं क्षौमांशुककृतस्त- नावरणं यस्या एवंविधाम् । स्कन्धो भुजशिरोऽसोऽस्त्री ' इत्यमरः । भयं विष्णावनुरागः भयं भीत्यनुरागयोः' इति कोशः । साध्वसं भीतिर्दानवात् ताभ्यां भूच्छितां मूछी प्राप्ता- मिव धरणिमवनिम् । 'धरा धारीत्री धरणिः । इत्यमरः । अरुणा रक्तवर्णा येऽधरस्याधरो- 'टस्य किरणा प्रभास्त एव बालकिसलयानि नूतनपत्राणि तेषां लास्ये नर्तने हेतुभिर्निमित्तभूतैः नात्यायतैरिति यावत् । आननारविन्दस्य मुखकमलस्य परिमलं सौरभ्यविशेषमुद्वहन्तीत्येवं- शोलैः । निश्चासमातरिश्चभिर्निश्वासपवनैः । श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः' इत्यमरः । ईश्वरस्य त्रीक्षणस्येक्षणदहनेन तृतीयलोचनाग्निना दग्धं भस्मीकृतम् । स्फुलिङ्ग- शेषं कृतेऽपि भस्मीकारे स्फुलिङ्गता ज्वलत्काष्ठखण्डरूनता शेषो यस्यैतादृशमनझं मन्मथ संधुक्षयन्तीमिव पुनरुज्जीवयन्तीमिव स्थिताम् । अन्तर्मध्यभागे सुप्तौ निद्रांगतौ षट्पदौ श्रमर- मिथुनं यत्रैवंभूतं तदैव जातनिद्रं संकुचितं यदम्बुजं कमलं तद्वत् स्थितमामीलिते ईषन्नि- मीलिते लोचने इन्दीवरे इव यस्मिन्नेतादृशमाननमास्यं दधानां धारयन्तीम् । ऐरावतस्य सुरराजवाहनस्य गजस्य मदांवलेपन गर्वातिरेकेणं लूनां छिन्नां पुनरपविद्धां भूमौ पातिता- मिव । नन्दनवने इन्द्रोद्याने स्थितस्य कल्पवृक्षस्य कल्पतरोः संबन्धिनी तदायिणीति यावत् । या रत्नवल्लरी रत्नमञ्जरी तामिव वर्तमानाम् । 'वल्लरी मञ्जरी स्त्रियौ' इत्यमरः । तरुणीं युवतिम् आलोकयं विलोकितवानहम् । अतर्कयं चेति । पर्यालोचितवान् । ऊचाण्डमुपरितनं कपाल- माकाश इति भावः । ' अप एव ससर्जादौ तासु वीर्यमपासृजत् । तदण्डमभवतॊमं सहस्रांशु- । ।

RRENA पञ्चमोच्छ्वासः] मनोरमाख्यव्याख्यासहितम् । १७५ शिखरशूलोत्सेधं सौधमागतम्, क च तदरण्यस्थलीसमास्तीर्ण पल्लवशयनम्, कुतस्त्यं चेदमिन्दुगभस्तिसंभारभासुरं हंसतूलदुकूलशयनम्, एष च को नु शीत- रश्मिकिरणरजुदोलापरिभ्रष्टमूच्छित इवाप्सरोगणः स्वैरसुप्तः सुन्दरीजनः, का चेयं देवीवारविन्दहस्ता शारदशशाङ्कमण्डलामलदुकूलोत्तरच्छदमधिशेते शयन- तलम् । न तावदेषा देवयोषा, यतो मन्दमन्दमिन्दुकिरणैः संवाह्यमाना कम्- लिनीव संकुचति । भग्नवृन्तच्युतरसबिन्दुशवलितं पाकपाण्डु चूतफलमिवोद्भिन्न- स्वेदरेखं गण्डस्थलमालक्ष्यते, अभिनवयौवनविदाहनिर्भरोष्मणि कुचतटे वैव- येमुपैति वर्णकम् । वाससी च परीभोगानुरूपं धूसरिमाणमदर्शयतः, तदेषा १ समप्रभम् ॥ तस्मिञ्जज्ञे स्वयं ब्रह्मां सर्वलोकपितामहः । नहिरण्यगर्भः स तदण्ड बिभिदे समम् ॥ ताभ्यां स शकलाभ्यां च दिवं भूमि व निममे' इति स्मृतिकारमनुवचनात् । तदेव संपुटस्तदुलेखि व्योमपर्यन्तमुन्नतमित्यर्थः । शतिध्वजः कुमारस्वामी । सेनानीः क्रौञ्चशत्रुश्च कुमारः शकिकेतनः' इत्यजयः । तस्य शिखरमालयाप्रभागस्तत्र स्थापितं यच्छूलं तस्यैवो- खेघ औन्नत्यं यस्यैतादृशम् । सौधं राजगृहम् । “सौधोऽत्री राजसदनमुपकार्योपकारिका' इत्यमरः । अरण्यस्थल्यामकृत्रिमवनोद्देशे । 'जानपदकुण्डगोणस्थल-' इति ङीष् । आस्तीर्ण विस्तारितम् । कुत आगतं कुतस्त्यम् । अमेहक्वतसित्रेभ्य एव ' इति त्यम् । इन्दुगभस्तिसं- भारश्चन्द्रकिरणसंदोहस्तद्वद्भासुरं प्रकाशमानम् । 'हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः 'किरणोत्रमयूखांशुगभस्तिवृणिरश्मयः' इत्यमरः । हंसतूलदुकूलशयनं मध्ये हंसतनूरुहैः पूरित क्षौमवस्त्रकृतं च शयनम् । एष चेति । वामभागे शयान इत्यर्थः । न्वित्याशंकायाम् । शीतरश्मेश्चन्द्रस्य किरणा एव रज्जवो दामानि तत्कृता या दोलाऽऽन्दोलिका ततः परिभ्रष्टोऽ- 'सावधानतया पतितः अत एव मूछितः एतादृशोऽप्सरोगणो देवाङ्गनानिवहः स इव । स्वैर- सुप्तः निरातङ्क निद्रां गतः । अरविन्दहस्ता पद्मकरा लक्ष्मीरित्यर्थः ।' पद्मप्रिये पमिनि पद्महस्ते पद्मालये पद्मदलायताक्षि । विष्णुप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मं मयि संनिधत्स्व इति लक्ष्मीध्यानोकवचनात् । शरदि भवः शारदः एतादृशो यः शशाङ्कश्चन्द्रस्तस्य मण्डलं बिम्बमिवामलो दुकूलोत्तरच्छद उपर्यावरणकौशेयं यस्यैवंभूतं शयनतल मञ्चोपरिभागमधि- शेतेऽधिरुह्य निद्रां करोति । 'अधिशीस्थासां कर्म ' इति कर्मता । देवयोषा देवाङ्गना । स्त्री योषिदबला योषा' इत्यमरः । यतो यस्मात्कारणातू । संवाह्यमाना मर्धमाना सती संवाहनं मर्दन स्यात् । इति हैमः । संकुचति निद्रां प्राप्नोति । । आदित्या ऋभ- वोऽस्वप्नाः' इत्यमरकारेण देवानां निद्राराहित्यस्योपन्यस्तत्वादत्याश्च निद्रितत्वान्नेयममराङ्गनेति भावः । भन्नालूनावृन्तात्प्रसवबन्धाच्च्युता ये रसबिन्दवो रसकगास्तैः शबलितं नानावर्णयुतम्। वृन्तं प्रसवबन्धनम् ' इत्यमरः । पाकेन पाण्डु श्वेतवर्णम् ।चूतफलमाम्रफलमिव । 'आम्रचूतो रसालः' इत्यमरः । उद्भिन्नस्वेदरेखं संजातघर्मोदकबिन्दुकम् । गण्डस्थलं कपोलपाली। अभि- जवयौवनस्य नवीनतारुण्यस्य यो विशिष्टो दाहःसंतापनं तेन निर्भरोधमणि प्रगाढोष्माण । वर्णक १ ।

কুয়ঙ্কলাম্পবিলু। [उत्तरपीठिकायां भानुप्येव । दिष्टया चानुच्छिष्टयौवना, यतः सौकुमार्यमागताः सन्तोऽपि संहता इवावयवाः प्रस्निग्धतमापि पाण्डुतानुविद्धव देहच्छविः, स्मरपीडानभिज्ञतया नातिविशदरागो मुखे, विद्रुमद्युतिरधरमणिः,अनत्यापूर्णमारक्तमूलं चम्पककुड्म- लदुलमिव कठोरं कपोलतलम्, अनङ्गबाणपातमुक्ताशकं च विस्रब्धमधुरं सुप्यते, न चैतद्वक्षःस्थलं निर्दयविमर्दविस्तारितमुखस्तनयुगलम् , अस्ति चानतिक्रान्त- शिष्टमर्यादचेतसो ममास्यामासक्तिः । आसत्त्यनुरूपं पुनराश्लिष्टा यदि, स्पष्ट- मातरवेणैव सह निद्रां मोक्ष्यति । अथाहं न शक्ष्यामि चानुपश्लिप्य शयितुम् । अतो यद्भावि तद्भवतु । 'भाग्यमत्र परीक्षिप्ये' इति स्पृष्टास्पृष्टमेव किमप्यावि द्धरागसाध्वसं लक्षसुप्तः स्थितोऽस्मि । सााप किमप्युत्कम्पिना रोमोझेदवता वामपार्थेन सुखायमानेन मन्दमन्दजृम्भिकारम्भमन्थराङ्गी, त्वङ्गदग्रपक्ष्मणोश्चक्षु- । । चन्दनादिविलेपः । वर्णकोऽस्त्री विलेपनम् ' इत्यमरः । वाससी वस्त्रयुगलम् । परीभोगस्य अनु- रूपं सदृशम् । 'उपसर्गस्य घञ्यमनुष्ये बहुलम् इति' दीर्घः । धूसारमाणे मलिनताम् । दिष्टये- ति। मम भाग्यवशादेवेत्यर्थः । अनुच्छिष्टमन्येन केनापि न भुक्तं यौवनं यस्या एतादृशीं । अनुच्छिष्टत्वे प्रमाणान्याह-यत इत्यादिना । सौकुमायें मृदुलस्वभावम् । संहताः संश्लिष्टाः न शिथिलीभूताः । अवयवा अङ्गानि । पाण्डतयाऽनुविद्धा युक्ता । देहच्छविः शरीरकान्तिः । स्मरपीडानभिज्ञतया मदनोपद्रवाणामपरिचिततया नातिविशदः नातिप्रकटः । रागोऽनुरागः । विद्रुमयुतिः प्रवालसदृशकान्तिः । अनत्यापूर्ण किश्चित्पूर्णम् । चम्पकस्य कुड्मलदलं मुकुलपत्र- मिव । अनवाणपातान्मदनबाणवृष्टेः सकाशान्मुक्ताशकं वीतभयं यथा तथा । विस्रब्धं विश्वासस्तेन मधुरं मनाझं यथा तथा च सुप्यते स्वापः क्रियते । किञ्चैतस्याः वक्षःस्थलमुरो- भागः निर्दयविमर्दैन निरनुकम्मं यथा तथा पुरुषहस्तसंघटनेन विस्तारितमुखं बहिः प्रकटीकृत- चूचुके स्तनयोयुगलं यस्मिन्नेतादृशमपि नास्ति । अनतिक्रान्ताऽनुलंघिता शिष्टमर्यादा येनैवविध चेतश्चित्तं यस्यैवंभूतस्य ममास्यामासक्तिरनुरागश्वोत्पन्नोऽस्ति । अत इयमनत्यभुक्ता मदुपभोग- योग्या च वर्तत इति रहस्यं ध्वनितम् । एवमात्मतुष्टिप्रमाणेनैव हि निश्चितवान् स्वोपभोग्यां शकु- न्तलां दुष्यन्तो राजा 'असंशयं क्षत्रपरिग्रहक्षमा यदायमस्यामभिलाषि मे मनः । सतां हि सन्दे- हपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः॥ इति । आसक्तेरनुरूपं सदृशम् । आरिवेणं दीनस्व- रेण । न शक्ष्यामि न समर्थो भविष्यामि । स्पृष्टास्पृष्टमेव किञ्चित्स्पृष्ट्वैत्यर्थः । आविद्धागसाध्वसं निरतिशयकन्यालाभाद्रागः, स्पृष्टा चेयमार्तनादं कारष्यतीति साध्वसं भयं ताभ्यां युक्तं यथा तथा । लक्षसुप्तः सा किंकरोतीति लक्षयन्सुप्त इव । साऽपीति । मत्पार्श्वशायिनी कन्या च । किमप्युत्कम्पिना किञ्चित्कंपनशालेन । 'किमप्यव्यपदेश्ये स्यादषिम्माने परात्मनि ' इत्यजयः । रोमोझेदवता रोमाञ्चितेन । सुखायमानेन समुत्पन्नसुखेन । मन्दमन्दं शनैः शनैः यो जृम्भि- कारम्भः गात्रभङ्गप्रारम्भः 'जम्भिका गात्रभङ्गः स्यात्' इत्यजयः। तेन मन्थराङ्गी सुन्दराङ्गी । । ।

सभयम् । अशयिष्ट शयनमकरोत् । अजनिष्ट जाता 'दीपजन- इति चिणभावपक्षे रूपम् । पञ्चमोच्छ्रासः मनोरमाख्यव्याख्यासहितम्। १७७ पोरलसतान्ततारकेपणानतिपकनिद्राकपायितापाङ्गपरभागेन युगलेनेषदुन्मिपन्ती, बासविस्मयपरागशङ्काविलासविभ्रमव्यवहितानि ब्रीडान्तराणि कानि कान्यपि कामेनाद्भुतानुभावेनावस्थान्तराणि कार्यमाणा, परिजनप्रबोधनोद्यतां गिर कामा- वेगपरवशं हृदयमङ्गानि च साध्वसायाससंबध्यमानस्वेदपुलकानि कथंकथमपि निगृह, सस्पहेण मधुरकूणितन्निभागेन मन्दमन्दप्रचारितेन चक्षुषा मदङ्गानि निर्वर्ण, दूरोपितपूर्वकायाहि तस्मिन्नेव शयने रूचकितमशयिष्ठ । अजनिष्ट मे रागाविष्टचेतसोऽपि किमपि निद्रा पुनरननुकूलस्पर्शदुःखायत्तगात्रः प्रावुध्ये प्रवुद्धल्य च सब मे महाटवी, तदेव तश्तलम् , स एव पन्नातरः ममाभूत् । विभावरी च व्ययासीन् । अभूच मे मनासि किमयं स्वतः किं विप्रलम्भो वा, मन्थरौ नत्रसुन्दरौं' इति वैजयन्ती ! त्वचञ्चलं त्वगि कम्पने ' इति धातोरपा तादृशमग्र- पक्षमा ययोस्तादृशोश्चक्षुपार्ने यनयोर्युगलेन युग्मेन । पुनः कथंभूतेन अलसे मद्दर्शनार्थमुबुन्ततया इतस्ततो गन्तुमशते तान्ते निद्राया अवशिष्टतया ईषत्खेदयुक्त तारके कनीनिक यस्यैवंभूतेन, अनतिपका ईषदपारसमाता या निद्रा तथा कपाबितः मिश्रितः परमागगुणोत्कर्षों यस्यैतादृशेन उन्मियन्ती निद्रा परित्यजन्ती । अपूर्वखुदर्शनानास उद्वेगः, तागलनप्रकारानवणमाद्विस्मय अश्चर्यम्, तदङ्गस्पर्शसुखानुभवाद्धर्ष आनन्दः, स्वानुरूपतया तमित्रागश्चित्तलयः, बलात्कार रेण यद्यहमनेन स्वाई समारोपिता तर्हि पितरौ सखीवर्गश्च किं. वदिष्यन्तीति शङ्का, विलासा नानाविधाः शृङ्गारचेष्टाः, विनमोऽलंकारादीनां स्थानस्थितानामपि अमात्स्थानान्तरे निक्षेपः अस्थाने भूषणादीनां विन्यासो विभ्रमो मतः' इति रसरत्नहारः । एतदादिभिः शृङ्गाररसस्य व्यभिचारिभावैः व्यवाहितानि । श्रीडा लना अन्तरा मध्ये येषां तादशानि कानि कान्यपि निर्वतमुचितानि ! अद्भुतानुभावन महाप्रभावक्ता कामेन मन्मथेन । कार्यमाणा विधाय्यमाना सती। परिजनप्रबोधनाय सखीवर्गजागरणाय उद्यतामोद्तामणि गिरं स्ववाणीम् । साध्वला- यासास्या भयखेदाच्या संबध्यमानत्वेदपुलकानि जायमानधर्मोदकविन्दुकानि । सस्पृहेण साभिलाषेण । मधुरं मनोज्ञं यथा तथा कूणिताः संकोचं प्रापितास्त्रयो भागा नेत्रस्यादिमध्यान्त 'भागा यस्यैवविधन कूण संकोचने ' इति चौरादिकाद्धातोः कूणितनिष्पत्तिः । निवर्य दृष्ट्वा । दूरोत्सर्पितपूर्वकाशाऽपि । पूर्व कायस्य पूर्वकायः पूर्वापराधरोत्तरमेकदेशिनकाधिकरणे ' इत्ये- कदेशिसमासः । दूरात्कियदूरपर्यन्तमुत्सर्पितः उत्थापितः पूर्वकायो यया एतादृश्यपि । सचकित । रागेणानुरागेणाविष्टचेतसो व्याप्तहृदयस्यापि । किमपि निष्कारणा । पुनरिति । अननुकूले नानभीष्टेन स्पर्शेन दुःखायत्तानि दुःखाधानानि गात्राण्यवयवा यस्यैवंविधः सन् । प्राबुले बोध प्राप्तवान् । सैव पूर्व यत्र शयितोऽहं सैवेत्यर्थः । विभावरी रात्रिः । विभावरीतमास्त्रिन्यौ रजनी यामिनी तमी' इत्यमरः । व्ययासीदतीताऽभूदित्यर्थः । विप्रलम्भः प्रतारणम् । असुरस्येय- । १२ दशकुमारचरितम्। [उत्तरपीठिकायां किमियमासुरी दैवी वा कापि माया । यद्भावि तद्भवतु । नाहमिदं तत्त्वतो नाव- बुध्य मोक्ष्यामि भूमिशय्याम् । यावदायुरत्रत्यायै देवतायै प्रतिशयितो भवामि' इति निश्चितमतिरतिष्ठम्। अथाविर्भूय कापि रविकराभितप्तकुवलयदामतान्ताङ्गयाष्टिः, क्लिष्टनिवसनो- त्तरीया, निरलक्तकरूझपाटलेन निःश्वासोष्मजर्जरितत्विषा दन्तच्छदेन बम- न्तीव कपिलधूमधूम्र विरहानलम्, अनवरतसलिलधाराविसर्जनाद्रुधिरावशेषमिव लोहिततरं द्वितयमक्ष्णोरुद्वहन्ती, कुलचारित्रबन्धनपाशविभ्रमेणैकवेणीभूतेन केशपाशेन,नीलांशुकचीरचूडिकापरिवृता पतिव्रतापताकेव संचरन्ती, क्षामक्षा- मापि देवतानुभावादनतिक्षीणवर्णावकाशा सीमन्तिनी, प्रणिपतन्तं मां प्रहर्षो- कम्पितेन भुजलताद्वयेनोत्थाप्य पुत्रवत्परिष्वज्य शिरस्युपाघ्राय वात्सल्यमिव स्तनयुगलेन स्तन्यच्छलात्प्रक्षरन्ती, शिशिरणाश्रुणा निरुद्धकण्ठी स्नेहगद्गद । । मासुर्यसुरकृतेत्यर्थः । नावबुध्याज्ञात्वा । यावदायुर्जीवनकालपर्यन्तम् । ‘यावदवधारणे' इत्य- व्ययीभावः । अत्रत्यायै महाटवीभवायै । 'अमेहकतसित्रेभ्य एव' इति त्याप्रत्ययः। तां देवता प्रष्टुमिति भावः । प्रतिशयितो यावद्देवताऽऽगत्य सर्व तत्त्वं कथयिष्यति तावनोत्थास्ये इति प्रतिज्ञापूर्वकं शयितः । इति पूर्वोक्तप्रकारेण निश्चितमतिरतिष्ठं स्थितः । अथेति । आविर्भूय प्रकटीभूय । रविकरैः सूर्याशुभिरभितप्तं म्लानिं गमित यत्कुवलयदाम उत्पलखा, 'स्यादुत्पलं कुवलयम्' इत्यमरः । तद्वत्तान्ता म्लानाऽजयष्टिर्यस्याः सा । क्लिष्टं दुर्बल. निवसनमधोऽशुकमुत्तरीयं च यस्याः सा । निरलक्तके रसविशेषविलेपनशून्येनात एव रूक्षण कर्कशेन पाटलेन स्त्रीजातिस्वाभाव्याच श्वेतरक्तेन । निश्वासोष्मणा श्वासपवनस्यौष्ण्येन दूरीकृता त्विट् कान्तिर्यस्येवंविधेन दन्तच्छदेन ओष्ठेन । वमन्त्युद्गिरन्तीव । कपिलः पिशङ्गवर्णो यो धूमस्तेन धूममीषदतनीलवर्णमेतादृशं विरहानलं विरहाग्निम् । 'कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ' इत्यमरः । 'धूमलौ कृष्णलोहिते ' इति च । अनवरतमजस्रं सलिलधाराया रोदनजलधाराया विसर्जनात त्यागात् रुधिरं रक्तमेवावशेषो यत्रतादृशमिव लोहिततरमतिरक्तवर्णम् । अक्षणोद्धि- तयं नयनयुगलम् । कुलं सत्कुलप्रसूतता, चारित्रं पतिव्रताधर्माचरणं तयोर्बन्धनाय बद्ध्वा स्वस्मिन्रक्षणार्थ यः पाशो रज्जुस्तस्येव विभ्रमो विलासो यस्यैवं स्थितेन । केशपाशेन शिरोरुहक- लायेनोपलक्षितेत्यध्याहार्यम् । 'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' इत्यमरः । नीलांशुकं नीलवस्त्रं, चीरचूडिका सभर्तृकाभिहस्ते धार्यमाणो वलयाकृतिरलंकारविशेषः, ताभ्यां परिवृता संवीता । पताका वैजयन्ती । एवमेव वैजयन्ती । संचरन्ती संचरणशीला । क्षामक्षामाऽपि नितरां दुर्बलाऽपि । देवतानुभावाद्देवतामाहात्म्यात् । अनतिक्षीणो नात्यन्तक्षीणो वर्णः शरीरकान्तिः अवकाशः शरीरसंस्थानं च यस्या एतादृशी । सीमन्तिनी काचिदङ्गना । 'नारी सीमन्तिनी वधूः' इत्यमरः । महर्षादानन्दातिरेकादुत्काम्पितेन प्रसारितेन । परि- ध्वज्यालिङ्गय । वत्सलाया भावो वात्सल्यं स्नेहस्तदिव । स्तने भवं स्तन्यपयस्तच्छलात्तन्मिषेण ।

पञ्चमोच्छासः] मनोरमाख्यव्याख्यासहितम् । व्याहार्षीत--'वत्स, यदि वः कथितवती मगधराजमहिषी वसुमती मम हस्ते बालमर्थपालं निधाय कथां च कांचिदात्मभर्तृपुत्रसखीजनानुबद्धां राजराजप्रव- तितां कृत्वान्तर्धानमगादात्मजा मणिभद्रस्येति' साहमस्मि वो जननी । पितुर्यों धर्मपालसूनोः सुमंत्रानुजस्य कामपालस्य पादमूलान्निष्कारणकोपकलुषिताशया प्रोप्यानुशयविधुरा स्वप्ने केनापि रक्षोरूपेणोपेत्य शप्तास्मि--'चण्डिकायां त्वयि वर्षमात्रं वसामि प्रवासदुःखाय' इति ब्रुवतैवाहमाविष्टा प्राबुध्ये । गतं च तद्वर्ष अर्पसहस्रदीर्घम् । अतीतायां तु यामिन्यां देवदेवस्य त्र्यम्बकस्य श्रावस्त्यामुत्स- वसमाजमनुभूय बन्धुजनं च स्थानस्थानेभ्यः संनिपातितमभिसमीक्ष्य मुक्तशापा पत्युः पार्श्वमभिसरामीति प्रस्थितायामेव मयि, त्वमत्राभ्युपेत्य 'प्रतिपन्नोऽस्मि शरणमिहत्यां देवताम्' इति प्रसुप्तोऽसि । एवं शापदुःखाविष्टया तु मया तदा न तत्त्वतः परिच्छिन्नो भवान् अपि तु शरणागतस्त्वविरलप्रमादायामस्यां महा- दव्यामयुक्तं परित्यज्य गन्तुमिति मया त्वमपि स्वपन्नेवासि नीतः । प्रत्यासन्नेच तस्मिन्देवगृहे पुनरचिन्तयम्- 'कथमिह तरुणेनानेन सह समाज गमिष्यामिः प्रक्षरन्ती मुश्चन्ती । शिशिरेण पुत्रतुल्यस्य मम दर्शनाच्छीतलेनाश्रुणाऽऽनन्दबाष्पेण । निरुद्ध प्रतिहतः कण्ठो यस्याः सा । 'स्वाङ्गाचोपसर्जनादसंयोगोपधात्' इत्यत्र संयोगोपचत्वानिषिद्धोऽपि डोष् ' अङ्गगात्रकण्ठेभ्यो वक्तव्यम्' इति वार्तिककृता प्रतिप्रसूतः । व्याहार्षीत्कथयामासेत्यर्थः । वत्सेति । हे पुत्रक । मगधराजस्य राजहंसस्य महिषी पत्नी । “कृताभिषेका महिषी इत्यमरः। अनुबां तदाश्रयिणीम् । राजराजेन कुबेरेण प्रवर्तितामुपन्यस्ताम् । राजो धनाधिपः ' इत्यमरः । कृत्वा मनिकटे कथयित्वेत्यर्थः । अन्तर्धानं तिरोभावम- गागता । आत्मजा तनया तारावलीनान्नी । सा या वसुमत्या कथिता । जननी मातृस्थानीया निष्कारणं निमित्तमन्तरैव कोपेन ' सपत्नी तोषितवावानयं मे भर्ता' इति भ्रमजनितक्रोधेन कलुषिताशया दूषितचित्ता । प्रोष्य प्रवासं कृत्वा । अनुशयविधुरा पश्चात्तापेन दह्यमाना सती । शप्ताऽस्मि शापं प्रापिताऽस्मि । चण्डिकायां कोपनायां त्वयि । वर्षमात्रमेकवर्षपर्यन्तम् । प्रवासदुःखाय तस्मिन्काले दुःखजननार्थमित्यर्थः । आविटाऽऽक्रान्ता । वर्षसहस्रवद्दीर्घमति- दुस्तरमिति भावः । अतीतायां यामिन्यां पूर्वदिवसरात्रौ । रजनी यामिनी तमी' इत्यमरः । त्र्यम्बकस्य महादेवस्य । श्रावत्यामेतन्नाम्न्यां पुर्याम् । स्थानस्थानेभ्यो नानास्थानेभ्यः। सन्निपातितं सन्निहितम् । अभिसमीक्ष्य दृष्ट्वा । मुक्तशापा शापावसान प्राप्ता । पत्युः कामपा- लाभिधस्य काशीपुर्यमात्यस्य । अभिसरामि गच्छामि । त्वं प्रमतिः । अत्र महाटव्याम् । इहत्यामत्र वर्तमानाम् । अमेहक्वतसत्रेभ्य एव' इति त्यप् । प्रसुप्तोऽसि निद्रां गतोऽसि । एवं पूर्वोक्तप्रकारेण शापदुःखेनाविष्टया भूतावेशं प्राप्तया । तत्त्वतः परिच्छिन्नो भवान् ईदृशतथा न ज्ञातः । अविरला बहुलाः प्रमादा यस्यामेतादृश्याम् । स्वपनेव निद्रां कुर्वन्नेव । प्रत्यासने समीपवर्तिनि सति । देवगृहे देवतायतने । तरुणेन यूना । समाज समितिं पशूनां समजोऽ- राज- ॥ । ।

१८० সুনালু। [उत्तरपीठिकाय इति । अथ राज्ञः श्रावस्तीश्वरस्य यथार्थनानो धर्मवर्धनस्य कन्यां नवमालिका धर्मकालसुभगे कन्यापुरविमानहातले विशालकोमलतलं शय्यातलमधिशयान यदृच्छयोपलश्य दिष्टयेयं सुप्ता, परिजनश्च गाडनिद्रः । शेतामयमत्र मुहूर्तमान ब्राह्मणकुमारो यावत्कृतकृत्या निवर्तेय ' इति त्वां तन शाययित्वा तमुद्देशोंग- मम् । दृष्ट्वा चोत्सवश्रियम्, निविश्य च स्वजनदर्शनसुखमभिवाद्य च त्रिभुवने- श्वरमात्मालीकप्रत्याकलनोपासढसाध्वसं च नमस्कृत्य भक्तिप्रणतहृदयाँ भगव- तीमम्बिकाम्, तया गिरिदुहित्रा देव्या सस्मितम् - आयि भद्रे, मा भैषीः । भवेदानीं भर्तृपार्श्वगामिली । गतस्ते शापः' इत्यनुगृहीता सद्य एवं प्रत्यापन्नम- हिमा प्रतिनिवृत्त्य दृष्ट्वैव त्वां यथावदभ्यजानाम्---'कथं मत्सुत एवार्य बत्य- स्यार्थपालस्य प्राणभूतः सखा प्रमतिरिति पापया मयामित्रज्ञानाहौदासीन्यमा- चरितम् । अपि चायमस्यामासक्तभावः । कन्या चैनं कामयते युवानम् । उभौ चेमौ लक्षसुतौ त्रपया साध्वसेन वान्योन्यमात्मानं न विवृण्वाते । गन्तव्यं च मया । कासाघ्रातयाप्यनया कन्यया रहस्यरक्षणायन समाभाषितः सखी- जनः परिजनो वा । नयामि तावत्कुमारम् । पुनरपीममा लब्धालो यथोपर नैरुपायैः साधयिष्यति' इति मत्प्रभावप्रस्थापितं भवन्तमेतदेव पन्त्रशयनं प्रत्य. MI 102 न्येषां समाजः' इत्यमरः । श्रावस्तीश्वरस्य तमगराधिपस्य । यथार्थ : धर्म वर्धयति धर्म- वर्धनः' इत्यर्थयुक्तनाम यस्यैवंविधस्य । धर्मकाले ग्रीष्मतविधि सुभगो शैत्यादिगुणयुक्तत्वा- मनोहरे । उपलभ्य विलोक्य । दिष्टया दैवयोगात् । इयं नवमालिका। गाढनिद्रो दृढनि द्राक्रान्तः । शेतां शयनं करोतु । अयं त्वं प्रमतिरित्यर्थः । कृतकृत्या कृताप्तविलोकना सती । निवतेय प्रत्यागच्छामि । तत्र तस्या मच्चे । शाययित्वा निद्रां कारयित्वा । तमुद्देशं समाज, मित्यर्थः । निर्विश्यानुभूय । स्वजनदर्शनसुखं बन्धुवर्गदर्शनानन्दन । अभिवाद्य नमस्कृत्य । आत्मनो मम योऽलीकोऽपराधो भर्तृत्यागरूपः । अलीकमपराधे स्यादसत्याप्रिययोरपि । इत्यजयः । तस्य प्रत्याकलने पुनः स्मरणेनोपारूडसाध्वसं संजातभयं योति क्रियाविशेषणम् । भाक्तप्रणतहृदयां भक्त्यधीनहृदयाम् । अम्बिकां गिरिराजकन्यकाम् । गिरिदुहिना अम्बिकया। सस्मितं मन्दहास्यसहितं यथा तथा । अयीत्यामन्त्रणेऽव्ययम् । भद्रे हे कुशालिनि । भर्तुः पार्श्वगामिनी समीपं प्राप्ता भव । प्रत्यापनो लब्धमहिमा । दृष्टैव त्वां दर्शनमात्रेणैव तव । यथा वत् तत्त्वतः। अभ्यजानां ज्ञातवत्यस्मि । प्राणभूतो जीविततुल्यः । पापया दुर्भाग्यया । औदासीन्यमुदासीनभावः । अपिचेति । अयं प्रमतिः ! अस्यां नवमालिकायामासक्तभावों रक्तचित्तः । कामयतेऽभिलपति । लक्षसुप्तौ परस्परं लक्षयित्वा सुप्तौ । त्रपया लज्जया । साच सेन भयेन । कामाघ्रातयाऽपि कामाविष्टयाऽपि । रहस्यरक्षणाय गोप्यरक्षणाय । इममर्थ नवमा- लिकासंगरूपम् । लब्धलक्षो लब्धावकाशः। चथोपपनैर्यथोचितैः । मम यक्षिण्याः प्रभावेण oper ।

RAMAMAnirgistra MKDANA पञ्चमोच्छ्वासः । मनोरमाख्यव्याख्यालहितम् । लेपन ! एवमिदं वृत्तम् । एमा चाहं पितुस्ते पादमूलं प्रत्युपसर्पयम्' इति नाबालि न भूयोभूयः परिप्वज्य शिरस्युपाघ्राय कपोलयोचुम्बित्वा स्नेहविह्वला सायातीत् । अहं च पञ्चबाणवश्यः श्रावस्तीमभ्यवातिषि। भार्गे च महति निगमे नैगमानां ताम्रचूडयुद्धकोलाहलो महानासीत् । अहं च तत्र संनिहितः किंचिदपि । सनिधिनिषण्णस्तु मे वृद्धविटः कोऽपि ब्राह्मणः शनकः दिलतहतुमच्छत् । अनवं च--कथमिव नारिकेलजाते. प्राच्यवाटकुकु- स्य भतीलयबाटः पुरुषैरसमीक्ष्य बलाकाजातिस्तानचूडो बलप्रमाणाधिकस्यैवं भातवितृष्टः' इति । लोऽपि तज्ज्ञः किम रेभिर्युत्पादितः । लूप्णीमाव' इत्यु- वहस्तिकायालाम्बूलं कर्पूरसहितमुद्धृत्य मी दुत्वा चित्राः कथा कथयन्क्षणम्- लिष्टत् । प्रायुध्यत चातिलरव्यामनुप्रहारप्रवृत्तस्वपक्षमुक्तकण्ठीरवरवं विहङ्गम-- शन ! जितवाली प्रतीच्यवादकुटः । सोऽपि विटः स्ववाटकुक्कुटविजयदृष्टः, नाये क्योविदं सत्यमुपेत्य तहहरेव स्वगृहे मानभोजनादि कारयित्वोत्तरेयुः श्रावस्ती प्रति यात माननगन्य मतव्योऽदिन लत्व इति मित्रवाहिज्य महिना प्रत्यापितं निद्रितम् । प्रत्यनेषं प्रत्यानीतवत्यस्मि । कपोलयोगण्डयोः । लेहेन प्रेमा विहला व्याकुला । पञ्चबाणवश्यः कामपराधीनः सन् । श्रावस्ती नदमालिका यत्र ताराबल्या कथिता तादृशी नगरीम् । अभ्यवर्तिषि अभिमुखीकृत्य प्रस्थितवान् । मा क्षति । मध्येमागीमत्यर्थः । निगमे निषद्यायाम् । 'निगमः सुरे । वेदे वणिक्पथे मार्गे " इति नहीपः । जैगमानां वणिजाम् । ताम्रचूडयोः कुक्कुटयोर्युद्रेन कोलाहलः कलरवः कृकवाकुस्तात्रचूडा कुक्कुटवरणायुधः इत्यमरः । संनिहितः समीपं गतः । अस्मेषि स्मितं कृतवान् । संनिधिनिषण्णः । समीपवर्ती । शनकैः शनैः । स्मितहेतुं हास्य कारणम् । कथमिव केन वा . साक्ष्यविधया । नारिकेलजातिः बलाकाजातिश्चेति कुक्कुटजातिविशेषौ । दीर्घश्रीवः सितवपुर्महाप्राणः सवन्मनाः । बलाकाजातिरित्युक्तो नालिकेरस्तदन्यजः ॥” इति च तलक्षणम् । प्राच्यबाटः प्रतीच्यवाटश्च प्राच्यप्रतीच्यश्रेणीभूतौ । 'वाटः पुमाथि श्रेणी : इति वररुचिः । असमीक्ष्य सम्याग्विचारमकृत्वा । बलं सत्त्वं प्रमाणमाकृतिस्ताभ्यामधिकस्य -श्रेष्ठत्य प्रतिविसृष्टः प्रतिद्वन्द्वितथा नियमितः । सोऽपि वृद्धनिटः । तज्ज्ञः कुक्कुटजातिभेदज्ञः। व्युत्पादितैः याथार्थ्यमवबोधितः । तूष्णी मौनमाश्रित्य । आस्व तिष्ठ । उपहस्तिकायास्ता- म्बूलभस्त्रायाः । 'पूगायावपनी चर्मभस्त्रिका चोपंहस्तिका' इति वैजयन्ती । प्रायुध्यत युद्धम- करोत् । अतिसंरब्ध क्रुद्धम् । अनुग्रहोर कुक्कुटान्तरव्यधने प्रवृतो यः कुक्युटः तस्य स्वपक्षः स्वजनैः मुक्तः कण्ठीरवस्य सिंहत्येव रवो नादो यथा तथा । विहङ्गमद्वयं पक्षियुगलम् । जितः पराभूतः । सोऽपि मत्पार्श्ववर्तीत्यर्थः । वयसा भिन्नवयसा विरुद्धं विपरीतम् । तदहरेव तस्मि नेव दिने । यान्तं गच्छन्तम् । अनुगम्य पश्चादागत्य । अर्थे प्रयोजने सति स्मर्तव्योऽस्मि CARE । १ द । --- হাবিশ্ব। [उत्तरपटिकाया प्रत्ययासीत् । अहं गत्वा श्रावस्तीमध्वश्रान्तो बाह्योद्याने लतामण्डपे शयितोऽ. स्मि ! हंसरवप्रबोधितश्चोत्थाय कामपि कणितनूपुरमुखराभ्यां चरणाभ्यां मद- न्तिकमुपसरन्ती युवतीमद्राक्षम् । सा त्वागत्य स्वहस्तवर्तिनि चित्रपटे लिखित मत्सदृशं कमपि पुरूपं मां च पर्यायेण निर्वर्णयन्ती सविस्मयं सवितर्क सहर्ष च क्षणमवातिष्ठत । मयापि तत्र चित्रपटे मत्सादृश्यं पश्यता तदृष्टिचेष्टितमनाक- स्मिकं मन्यमानन 'ननु सर्वसाधारणोऽयं रमणीयः पुण्यारामभूमिभागः। किमिति चिरस्थितिक्लेशोऽनुभूयते । ननूपवेष्टव्यम्' इत्यभिहिता सा सस्मितम् 'अनुगृही- तास्मि' इति न्यषीदत् । संकथा च देशवार्तानुविद्धा काचनावयोरभूत् । कथा- संश्रिता च सा 'देशातिथिरसि । दृश्यन्ते च तेऽध्वश्रान्तानीव गात्राणि । यदि न दोषो मद्गृहेऽद्य विश्वामितुमनुग्रहः क्रियताम्' इत्यशंसत् । अहं च 'आयि मुग्धे, नैष दोषः, गुण एव' इति तदनुमार्गगामी तद्गृहगतो राजाहेण स्नानभोजनादि- नोपचारतः, सुखं निषण्णो रहसि पर्यपृच्छथे--महाभाग, दिगन्तराणि भ्रमता कच्चिदास्ति किंचिद्भुतं भवतोपलब्धम्' इति । ममाभवन्मनसि 'महादिदमाशास्प- दम् । एषा खलु निखिलपरिजनसंवाधसंलक्षिताया: सखी राजदारिकायाः । चित्रपटे चास्मिन्नपि तदुपरि विरचितसितवितानं हयंतलम्, तद्गतं च प्रकाम- । स्मरणीयोऽहम् । प्रत्ययासीत्परावृत्य गतः। अध्वान्तः मार्गखिन्नः । शयितः कृतशयनः। हंसानां रवेण वाणितेन प्रबोधितस्त्याजितनिद्रः । वाणताभ्यां शब्दं कुर्वद्भयां नूपुराभ्यां पादाङ्गदाभ्यां मुखराभ्यां वाचालाभ्याम् । ममान्तिकं निकटम् । उपसरन्तीमाग च्छन्तीम् । पुंरूपं पुरुषाकृतिम् । पर्यायेण क्रमेण । निवर्णयन्त्यवलोकयन्ती । सविस्मयं साश्चर्यम् । सवितक 'किमयं स एव ' इति तर्कसहितम् । सहर्षे ‘स एवायम्' इति निश्चयात्सानन्दम् । अवातिष्ठतावस्थिता । ' समवप्रविभ्यः स्थ: इत्यात्मनेपदम् । मयाऽपीति । त्यक्तनिद्रेणापि निद्रितेनेव वर्तमानेन । तत्र तत्करधृते । ममैव सादृश्यं प्रतिरू- पम् । तस्यास्तरुण्या दृष्टिचोष्टितं दृग्विलासमनाकस्मिकं नाकस्माजातं किन्तु मध्यनुरागेण जात- मेव मन्यमानेन निश्चिन्वता । ननु हे सुन्दरि । आमन्त्रणार्थ इदमव्ययम् । सर्वसाधारणोऽखिल- जनोपभोग्यः । पुण्यश्चारामभूमिभागः उपवनोद्देशः। किमिति किमर्थम् । चिरं स्थितिक्लेशोऽनुपर पेशदुःखम् । अभिहिता कथिता । न्यषीददुपविष्टा । संकथा देवगोष्ठी । देशवार्ता लोकसमा- चारस्तदनुविद्धा तन्मिश्रिता। देशातिथिर्देशान्तरादागन्तुकः। अध्वश्रान्तानि मार्गखिन्नानि । गात्राण्यवयवाः । विश्रमितुमध्वखेदमपनेतुम् । अशंसत्कथयामास । तदनुमार्गगामी तन्मार्ग- मनुसृत्य गच्छन् । राजाहेण राजयोग्येन । निषण्ण उपविष्टः । पर्यपृच्छये पृष्टः । कचिदिति प्रश्ने । उपलब्धं दृष्टम् । आशास्पदमाशाबन्धकम् । निखिलपारजनानां संवाघे समूहमध्ये सल- क्षिताया दृष्टायाः। राजदारिकाया राजकुमार्याः । विरचितसितवितानं चित्रितश्वेतोलोचकम् । ।

। पञ्चमोच्छासः] मनोरमाख्यव्याख्यासहितम् । १८३ विस्तीर्ण शरदभ्रपटलपाण्डुरं शयनम्, तदधिशायिनी च निद्रालीढलोचना ममै- वेयं प्रतिकृतिः । अतो नूनमनङ्गेन सापि राजकन्या तावती भूमिमारोपिता । यस्यामसह्यमदनज्वरव्यथितोन्मादिता सती सखीनिर्बन्धपृष्टविक्रियानिमित्ता चातुर्येणैतद्रूपनिर्माणेनैव समर्थमुत्तरं दत्तवती । रूपसंवादाच्च संशयादनया पृष्टो भिन्द्यामस्याः संशय यथानुभवकथनेन' इति जातनिश्चयोऽब्रवम्-'भद्रे, देहि चित्रपटम्' इति । सा त्वर्पितवती मद्धस्ते । पुनस्तमादाय तामपि व्याजसुप्ता- मुल्लसन्मदनरागविह्वलां वल्लभां तत्रैवाभिलिख्य ' काचिदेवंभूता युवतिरीदृशस्य पुंसः पार्श्वशायिन्यरण्यानीप्रसुप्तेन मयोपलब्धा । किलैष स्वप्नः' इत्यालपं च । हृष्टया तु तया विस्तरतः पृष्टः सर्वमेव वृत्तान्तमकथयम् । असौ च सख्या मन्निमित्तान्यवस्थान्तराण्यवर्णयत् । तदाकर्ण्य च यदि तत्र संख्या मदनुग्रहो- न्मुखं भानसम् । गमय कानिचिदहानि । कमपि कन्यापुरे निराशङ्कनिवासकर- णमुपायमारचय्यागमिष्यामि' इति कथंचिदेनामभ्युपगमय्य गत्वा तदेव खर्वर्ट वृद्धविटेन समगसि । ससंभ्रम सोऽपि विश्रमय्य तथैव स्नानभोजनादि कार- यित्वा रहस्यपृच्छम्-'आर्य, कस्य हेतोरचिरेणैव प्रत्यागतोऽसि । प्रत्यवा- दिषमेनम्-'स्थान एवाहमार्येणास्मि पृष्टः । श्रूयताम् । अस्ति हि श्रावस्तीनाम नगरी । तस्याः पतिरपर इव धर्मपुत्रो धर्मवर्धनो नाम राजा । तस्य दुहिता, an हऱ्यातलं प्रासादतलम् । प्रकामविस्तीर्णमतिविशालम् । शरदभ्रपटलवच्छरन्मेघजालवत्पाण्डुरं धवलवर्णम् । प्रतिकृतिः सादृश्यम् । नूनमवश्यमनझेन कामेन साऽपि राजकन्या तावती भूमि कार्यादिमन्मथावस्थादशके दशमी शेषयित्वा नवमीपर्यन्तमित्यर्थः। आरोपिता प्रापिता । यस्यां नवमावस्थायां जातायामसोन मदनज्वरेण व्यथिता पीडितोन्मादितोन्मत्ततां गता च सती। सखीभिर्निर्बन्धेनाग्रहपुरःसरं पृष्टमनुयुक्तं विक्रियाया मदनविकारस्य निमित्तं यस्या एवं. भूता । चातुर्येण निपुणतया । एतद्रूपनिर्माणेन मत्प्रतिरूपचित्रीकरणेन न तु वाचा ! समर्थ यथायोग्यम् । रूपसंवादाच्चित्ररूपस्य मद्रूपस्य च परस्परसाम्यात् । यथानुभवकथनेन वास्तवा- ख्यानेन अस्याः संशयं छिन्द्यां निवारयेयम् । जातनिश्चयः कृतमतिः। तामपीति । राजक- न्यामपि । व्याजसुप्तां कपटनिद्रिताम् । उल्लसता मदनरागेण विह्वलामाकुलाम् । तत्रैव चित्रपटे तस्मिन्नेव । अरण्यानीप्रसुप्तेन महावने निद्रितेन । 'महारण्यमरण्यानी' इत्यमरः। उपलब्धा विलोकिता। किल परंतु । आलपमकथयम् । असौ राजकन्यासखी । सख्या राजकन्यायाः। मनिमित्तानि मदप्राप्तिहेतुकानि । अवस्थान्तराणि नानावस्थाः । मदनुग्रहोन्मुखं ममोपरि प्रसन्न मानसं चित्तम् । गमय यापय । निराश भयरहितं यथा तथा यो निवासस्तस्य कारणं मूलभू- तम् । आरचय्य कृत्वा । अभ्युपगमध्याजीकार्य । खोटं वणिक्पथम् । समगंसि संमिलितः विश्रमय्य श्रमपरिहारं कारयित्वा । अचिरेण शीघ्रमेव । स्थाने युक्तमेवेत्यर्थः । ' युक्ते दे । । a হালালি। उत्तरपीठिकाया प्रत्यादेश इव श्रियः, प्राणा इव कुसुमधन्वनः, सौकुमार्यविम्बितनवमालिका, नमालिका नाम कन्यका । सा मया समापत्तिदृष्टा कामनाराचपतिमिव ऋटाक्षमाली मान मर्मणि व्यकिरत् । तच्छल्योद्धरणाक्षनच धन्वन्तरिसह- शस्त्वहते लेतरोऽस्ति वैद्य इति प्रत्यागतोऽस्मि । तत्प्रसीद कांचिदुपायमा- चरितुम् । अयमहं परिवर्तितस्त्रीवेषस्ते कन्या नाम भवेयम् । अनुगतच भया त्वमुपगम्य धर्मासनगतं धर्मवर्धनं वक्ष्यसि----मनेयमेकैव दुहिता । जातमात्रायां स्वस्यां जनन्यस्याः संस्थिता । माता च पिता च भूत्वाहमेव व्यवर्धयम् । एत- दर्थमेव विद्यामयं शुल्कमाजनुं गतोऽभूदवन्तिनगरीमुज्जयिनीमस्मद्वैवाह्यकुलज: कोऽपि विप्रदारकः । तस्मै चेयमनुमता दातुमितरस्मै न योग्या । तरुणीभूता चेयम् । स च विलम्बितः । तेन तमानीय पाणिमस्या ग्राहयित्वा तस्मिन् ज्यस्तभारः संन्यसिप्ये । दुरभिरक्षतया तु दुहितृणां मुक्तशैशवानाम् , विशेषत- श्वामातृकाणाम्, इह देवं मातृपितृस्थानीय प्रजानामापन्नशरणमागतोऽस्मि । यदि वृद्धं ब्राह्मणमधीतिनमगतिसतिथिं च मामनुप्राह्यपक्षे गणयत्यादिराजचरित- धुर्यो देवः, सैषा भवद्भुजतरुच्छायामखण्डितचारित्रा तावद्ध्याता गावस्या क साम्प्रतं स्थाने ' इत्यमरः । प्रत्यादेशः प्रत्याख्यानम् । ' प्रत्याख्यानं निरसन प्रत्या- देशो निराकृतिः । इत्यमरः । श्रियो लक्ष्मीदेव्याः । प्राणा असवः । कुसुमधन्वनो मन्म- थस्य । सौकुमार्येण मार्दवैन विडम्बिता दूरीकृता लवा नूतना नालिका लग्ययैतादृशी। समापत्तिदृष्टा यादृच्छिकसंगत्या विलोकिता । कामनाराचपंक्तिं मदनसायकत्रेणीम् । 'प्रश्वे- उनास्तु नाराचाः ' इत्यमरः । मर्मणि जीवितस्थाने । 'जीवस्थानं भवेन्मर्म ' इति हला- बुधः । व्यकिरद्विक्षिप्तवती । तच्छल्योद्धरणे मद्देहान्मदनबाणाप्रसमुन्नयनेऽक्षमोऽनिपुणः । धन्वन्तरिसदृशो धन्वन्तरिसमानात् । त्वहते त्वां विना । 'अन्यारादितरते..' इति पञ्चमी । परि- वर्तितस्त्रीवेषो धृताजनारूपः । कन्या नाम दुहितेव । जातमात्रायामुत्पन्नायाम् । जननी माता । संस्थिता मृता । परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः । इत्यमरः । एतदथै कन्यामेनामेवो- द्दिश्य । विद्यालयं विद्यारूपम् । शुल्क जामात्रा देयं वस्तु । 'शुल्कमस्त्री जामात्रा यच्च दीयते' इति कोशः । अर्जितुं संपादयितुम् । विवाहाय योग्यं वैवाह्यं तादृशं यत्कुलं गोत्रं तज्जस्तनो- त्पन्नः । विप्रदारको ब्राह्मणकुमारः। तरुणीभूता यौवनं प्राप्ता । न्यस्तो निक्षिप्तो भारः कुटुम्ब- भारो येनैतादृशः सन् । संन्यसिष्ये संन्यासाश्रमं स्वीकरिष्यामि । दुरभिरक्षतया खलजननि- विडिते काले देशे च रक्षयितुमशक्ततया । मुक्तशैशवानां तरुणीनामित्यर्थः । अमातृकाणां जन- नीरहितानाम् । देवं राजानम् । आपन्नानां विपदं गतानां शरणं रक्षयितारम् । अधौतिनं विहितवेदाभ्यासम् । अगतिं निरवलम्बम् । अनुग्राह्यपक्षे दयनीयकोटौ । आदिराजो मनु- स्तचरितस्य धुर्यो धूर्वहः । 'धुरो यड्ढको' इति यत् । अखण्डितचारित्राऽकलङ्कितकन्याधर्मा । । ।

'साऽस्मिन्पौर्णमासीति' इत्यण । पञ्चमोच्छासः] मनोरमाख्यव्याख्यासहितम्। पाणिग्राहकमानयेयम्' इति । स एवमुक्तो नियतमभिमनायमानः स्वहितसं- निधी मां बालयिष्यति । गतस्तु भवानागामिनि मासि फाल्गुने फल्गुनीषूत्त-- रासु राजान्तःपुरजनस्य तीर्थयात्रोत्सवो भविष्यति । तीर्थस्थानात्याच्यां दिशि गोस्तान्तरमतिक्रम्य, वानीरवलयमध्यवर्तिनि कान्तिकेयगृहे करतलगतेन शुक्ला- बरयुगलेन स्थास्यस्ति । स खल्बहमनभिशङ्क एवैतावन्तं कालं सहाभिविहृत्य राजकन्थया भूयत्तस्मिनुत्सवे गङ्गाम्भसि विहरन्विहारव्याकुले कन्यकासमाजे मनोपस्कृतस्त्वदन्याश एवोन्मक्ष्यामि। पुनस्त्वदुपहृते वाससी परिधायापनीत-- द्वारिकावेषो जामाता नाम भूत्वा त्वामेवानुगच्छेयम् । नृपात्मजा तु मामित- स्ततोऽन्विप्यानासादयन्ती तया विना न मोक्ष्ये । इति रुदन्त्येवावरोधने स्थास्यति । तन्मूले च महति कोलाहले, क्रन्दत्सु परिजनेषु, रुदत्सु सखीज- नेषु, शौचस्सु पौरजनेषु, किंकर्तव्यतामूढे सामात्ये पार्थिवे, त्वमास्थानीमेत्य मां स्थापयित्वा वक्ष्याति-- देव, स एष मे जामाता तबाहति श्रीभुजाराधनम् । अधीती चतुर्वाधायेषु, गृहीती बबङ्गेषु, आन्वीक्षिकीविचक्षणः, चतुःषष्टि- अध्यास्तामाश्रित्य निवसतु । ' अधिशोथासां कर्म ' इति कर्मता । पाणिग्राहक पाणि- पोडकत्वेनानुमतम् स राजा । अभिमनायमानोऽनुमन्यमान:। फल्गुननिक्षत्रेण युक्ता पौर्णमासी फाल्गुनी नक्षत्रेग युक्तः : कालः' इत्यण् । सा पौर्णमास्यस्मिन्मासे इति फाल्गुनो बादः श्रूयते ताबडूरम् । वानीरवलयस्य देत साख्यतृणविशेषमण्डलस्य मध्यवर्तिनि । कार्तिकेय- गृहे सुब्रह्मण्यायतने । कृत्तिकाणामपत्य कार्तिकेयः। स्त्रीभ्यो ढक ' इति ढक् । करतलगतेन हस्तविकृतेन । शुक्लाम्बरयुगलेन धौतवस्त्रयुग्मेन । अनभिशं को निराशंकः । अभिविहृत्य क्रीडित्वा। गजाम्भा से भागीरथीतोये। विहारव्याकुले जलकीडातत्परे। मनोपरतो मज्जित्योपस्मृतः । तवा- झ्याशे सनीपे । उन्मश्यामि जलानिर्गतो भविष्यामि । त्वयोपहते आनीते वास ती परि- बानीये। अपनीतदारिकावेषस्त्यक्तकन्यानेपथ्यः। जामाता नाम कन्यापतिरिव । नृपात्मजेति राजकन्या नवमालिका । इतस्ततो नानादिक्षु । अन्विष्य गवेषयित्वा । अनासादयन्स्यनाप्नुवन्ती । मोक्ष्ये भोजनं करिष्यामि । रुदन्ती क्रन्दन्ती । अवरोधनेऽन्तःपुरे । तन्मूले राजकुमारी वयस्याऽ- दर्शननिमित्ते । कोलाहले कलकलध्वनौ । किंकर्तव्यतामूढे इतिकर्तव्यताज्ञानरहित । सामात्ये मन्त्रिसहिते पार्थिवे राजनि । आस्थानी सभामण्डपम् सभासमितिसंसदः। आस्थानी- कीवमास्थानम् ' इत्यमरः । देव हे राजन् ! जामाता कन्यापतिः। अधीती कृताध्ययन: । इटादिभ्यश्च' इति कर्तरीनिप्रत्ययः । आनायेषु वेदेषु । 'क्तस्येन्विषयस्य कर्मण्युपसंख्यानम् इति सप्तमी । एवमेव गृहीती षट्स्वङ्गषु ' इत्यत्राप्यूह्यम् । अङ्गानि च- शिक्षा व्याकरण छन्दो निरुक्तं ज्योति तथा । कल्पश्चोते पडङ्गानि वेदस्याहर्मनीषिणः ' इत्युक्तात्मकानि । 6 -- ।

SEE ड জুলষিবিন্দু। [उत्तरपीठिकार्या कलागमप्रयोगचतुरः, विशेषेण गजरथतुरङ्गतंत्रवित्, इष्वसनास्त्रकर्मणि गदायुद्धे च निरुपमः, पुराणेतिहासकुशलः, कर्ता काव्यनाटकाख्यायिकानाम्, वेत्ता सोपनिषदोऽर्थशास्त्रस्य, निर्मत्सरो गुणेषु, विश्रम्भी सुहृत्सु, शक्लः, संविभाग- शीलः, श्रुतधरः, गतस्मयश्च । नास्य दोषमणीयांसमप्युपलभे। न च गुणेष्व- विद्यमानम् । तन्मादृशस्य ब्राह्मणमात्रस्य न लभ्य एव सम्बन्धी। दुहितरमस्मै समर्प्य वार्धकोचितमन्त्यमाश्रमं संक्रमेयम् , यदि देवः साधु मन्यते' इति । स इदमाकर्ण्य वैवाक्रान्तवक्रः परमुपतो वैलक्ष्यमारप्स्यतेऽनुनेतुमनित्यतादिसं- कीर्तनेनात्रभवन्तं मांत्रिभिः सह । त्वं तु तेषामदत्तश्रोत्रो मुक्तकण्ठं रुदित्वा चिरस्य बाष्पाकुण्ठकण्ठः काष्ठान्याहृत्याग्निं संधुक्ष्य राजमन्दिरद्वारे चिताधि- रोहणायोपक्रमिष्यसे । स तावदेव त्वत्पादयोर्निपत्य सामात्यो नरपतिरनूनैरथै- स्त्वामुपच्छन्द्य दुहितरं मह्यं दत्त्वा मद्योग्यतासमाराधितः समस्तमेव राज्यभारं आन्वीक्षिक्या तर्कशास्त्रे विचक्षणो निष्णातः। तन्त्रविच्छास्त्रवित् । इध्वसनास्त्रकर्माण धनुषो बाणमोक्षे । पुराणान्यष्टादश मात्स्यादीनि । 'सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च । वंशानुचरित चैव पुराणं पञ्चलक्षणम्' इति लक्षणं तेषाम् । इतिहासः पुरावृत्तम्' इत्यमरः । स च भारतादिः । काव्यं रघुवंशादि अदाषौ सगुणौ सालंकारौ शब्दार्थों काव्यम्' इति । नाटकं शाकुन्तलादि। तलक्षणं च साहित्यदर्पणे- " नाटकं ख्यातवृत्तं स्यात्पञ्चसंघिसमन्वितम् । विलासर्यादिगुणवद्युक्तं नानाविभूतिभिः ।। भुखदुःखसमुद्भूतिनानारससमन्वितम् । पञ्चाधिका दशपरास्तत्राङ्काः परिकीर्तिताः ॥ प्रख्यातवंशो राजर्षिीरोदात्तः प्रतापवान् । दिव्योऽथ दिव्यादिव्यो वा गुणवान्नायको मतः ॥ एक एव भवेदशी शृङ्गारो वीर एव वा । अङ्गमन्ये रसाः सर्वे कार्य निर्वहणेऽद्भुतम् ॥ चत्वारः पञ्च वा मुख्याः कार्यव्याहतपूरुषा गोपुच्छाग्रसमाग्रं तु बन्धनं तस्य कीर्तितम्॥” इति। अख्यायिका 'नोवल ' पदवाच्यः प्रबन्धविशेषः कादम्बर्यादिरूपः । 'प्रसृतानाकुलश्रव्यशब्दा. थपदवृत्तिना । गयेन युक्तोदात्तार्था सोच्छासाऽऽख्यायिका मता।' इति तल्लक्षणम् । सोपनि- पदोऽर्थशास्त्रस्य कर्मकाण्डज्ञानकाण्डयोरित्यर्थः। विनम्भी विश्वासयुक्तः । शक्लः प्रियवादी। शक्लः प्रियंवदे प्रोक्तः' इति हलायुधः । श्रुतधारः सकृच्छ्रवणमात्रेण तद्धारयतीति तादृशः । धारणाशक्तियुक्तश्च । गतस्मयो वीतगर्वः । अणीयांसं स्वल्पतरम् । ब्राह्मणमात्रस्य साधारणवि- प्रस्य । संबन्धी कन्याग्रहणरूपसंबन्धकर्ता । दुहितरं कन्याम् । वार्धकोचितं वृद्धावस्थायां योग्यम् । अन्त्यं चरम संन्यासमिति भावः । संक्रमेयमाश्रयेयम् । वैवर्येन मालिन्येनाकान्तवक्रः । वैलक्ष्य लज्जाम् । 'विलक्षो लज्जयाऽन्विते ' इति हैमः । अनुनतुं समाधातुम् । अदत्तश्रोत्रोऽदत्तकर्णः । चिरस्य चिरम् । षष्ठीप्रतिरूपकमव्ययमिदम् । बाष्पेणाश्रुणा कुण्ठो निरुद्धः कण्ठो यस्यैतादृशः। काष्ठान्याहृत्य दारूणि संचित्य । संधुश्य वयित्वा । चिताधिरोहणाय चितिमारोढुम् । उपक्रमि- ध्यसे प्रारप्स्यसे । स राजा। तावदेव तत्क्षणादेव । अनूनैः सम्पूर्णैः । उपच्छन्द्य सान्त्वयित्वा । - - षष्टोच्छासः] मनोरमाख्यव्याख्यासहितम् । मयि समर्पयिष्यति । सोऽयमभ्युपायोऽनुष्ठेयो यदि तुभ्यं रोचते' इति । सोऽपि पटुर्विटानामग्रणीरसकृदभ्यस्तकपटप्रपञ्चः पाञ्चालशर्मा यथोक्तमभ्यधिकं च निपुणमुपक्रान्तवान् । आसीच मम समीहितानामहीनकालसिद्धिः । अन्वभवं च मधुकर इव नवमालिकामाईसुमनसम् । अस्य राज्ञः सिंहवर्मणः साहाय्यदानं सुहृत्संकेतभूमिगमनमित्युभयमपेक्ष्य सर्वबलसंदोहेन चम्पामिमामुपगतो दैवा- देवदर्शनसुखमनुभवामि' इति । श्रुत्वैतत्प्रमतिचरितं स्मितमुकुलितमुखनलिनः विलासप्रायमूर्जितम् , मृदु- प्रायं चेष्टितम् , इष्ट एष मार्गः प्रज्ञावताम् । ' अथेदानीमत्रभवान्प्रविशतु इति मित्रगुप्तमैक्षत क्षितीशपुत्रः ॥ इति श्रीदण्डिनः कृतौ दशकुमारचरिते प्रमतिचरितं नाम पञ्चम उच्छासः ॥ ५॥ षष्ठोच्यासः ॥ ६॥ लोऽप्याचचक्षे-देव, सोऽहमापि सुहृत्साधारणभ्रमणकारणः सुज्ञेषु दामलि- साह्वयस्य नगरस्य बाह्योद्याने महान्तमुत्सवसमाजमालोकयम् । तत्र कचिदति- मुक्तकलतामण्डपे कमपि वीणावादेनात्मानं विनोदयन्तमुत्काण्ठितं युवानमद्रा- मम योग्यतया । समाराधितः प्रसन्नः सन् । तुभ्यं रोचते तव प्रीतिकरो भवति । 'रुच्यर्थानों प्रीयमाणः' इति संप्रदानता । पटुः कार्यानपुणः । अग्रणीरप्रेसरः । असकृन्मुहुरभ्यस्ताः परि० चिताः कपटप्रपञ्चा मायाप्रपञ्चा येन तादृशः। निपुणं चातुर्ययुक्तमुपान्तवानुपायमाचचार । समीहिताना मनोरथानामहीनकालेन नातिचिरेण कालेन सिद्धिः । मधुकरः षट्पद इव । नव- मालिकां नूतनस्रजं तन्नामराजकन्यां च, आईसुमनसं सरसकुसुमां संजातातवां च । साहाय्यदान साहाय्याचरणं सुहृदां मित्राणां भवदादीनां संकेतभूमेः संकेतितस्थानस्य गमनं प्राप्तिश्च । उभय- मपेक्ष्य कार्यद्वयमुद्दिश्य । सर्वबलसंदोहेन समस्तसैन्यसमूहेन । उपगतः प्राप्तः ॥ श्रुत्वेति । स्मितेन मन्दहासेन मुकुलितं मुखनलिनमाननकमलं यस्य तादृशः । विलासमायं विलासप्रचुरम् । प्रज्ञावतां बुद्धिमताम् । अत्र स्वार्थवर्णनकर्मणि । क्षितीशपुत्रो राजकुमारो राजवाहन:।। इति श्रीदशकुमारचरितव्याख्याने मनोरमाख्याने पञ्चम उच्छ्रासः समाप्तः ॥५॥ अथ षष्ट उच्छ्रासः ॥ ६ ॥ प्रस्तोत्यधुनाऽऽत्मचरित्रं मित्रगुप्तः-देवेति । सुहृत्साधारण तत्समानं भवदन्वेषरूपं भ्रमण-- कारणं देशाटननिमित्तं यस्यैवंभूतः। सुह्येषु तदाख्यदेशेषु । दामलिप्ताह्वयस्य तन्नामकस्य । 'अथाह्वयः। आख्याहे अभिधानं व नामधेयं च नाम ' इत्यमरः । बाह्योद्याने बहिर्वति- न्युपवने । 'पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् ' इत्यमरः । उत्सवसमाजमुत्सवार्थ समि- लितं जनसमुदायम् । आलोकयं विलोकितवान् । तत्रोपवने । क्वचित्कस्मिंश्चिदेकदेशे । अतिमु- तकलताः पुण्ड्रकवल्ल्यः । 'अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता' इत्यमरः । तास - Hist-2 তুগালহিন্দু। [उत्तरपीठिकार्या सम् । अप्राक्ष च--'भद्र, को मामायनुत्सवः, किमर्थं वा समारब्धः, केन वा निमित्तेनोत्सवमनाइत्यैकान्ते भवानुत्कण्ठित इव परिवादिनीद्वितीयस्तिष्ठति इति । सोऽभ्यधत--सौम्य, सुह्मपतिस्तुङ्गधन्वनामानपत्यः प्रार्थितवानमुष्मि- मायतने विस्तृतविन्ध्यवासराग बसन्त्या विन्ध्यवासिन्याः पादमूलादपत्य- द्वयम् । अनया च किलात्मै प्रतिशयिताय स्वप्ने समादिष्टम्- समुत्पत्स्यते तवैकः पुत्रः, जनिप्यते चैका दुहिता । स तु तस्याः पाणिग्राहकमनुजीविष्यति। लातु सप्तमाद्वर्षादारभ्यापरिणयनात्मतिमासं कृत्तिकालु कन्दुकनृत्येन गुणव- द्भर्तृलाभाय मां समाराधयतु । यं चाभिलपेल्सामुष्मै देया । ल चोत्सवः कन्दु- कोत्सवनामास्तु' इति । ततोऽत्सीयसा कालेन राज्ञः प्रियमहिषी मेदिनी नामैक पुत्रमसूत ! समुत्पशा चैका दुहिता । साद्य नाम कन्या कन्दुकावती सोमापीडां देवीं अन्दुकाविहारेणाराधयिष्यति । तस्यात्तु सखी चन्द्रसेना नाम धात्रेयिका मम प्रियासीत् । सा चैषु दिवसेषु राजपुत्रेण भीमधन्वना बलवदनुरुद्धा । तदह- मुत्कण्ठितो मन्मथशरशल्यदुःखोद्विग्नचेताः कलेन वीणारवेगात्मानं किंचिदा- श्वासयन्विविक्तमध्यासे' इति । मण्डपे । वीणावादेन वल्लकीवादनेन । विनोइयन्तमाहादयन्तम् । ' उत्काण्ठितं चिन्ताग्रस्तम् । उत्कण्ठितश्चिन्तयानः' इति वैजयन्ती । अदाक्ष पश्यानि म । अप्राक्षमनुयुक्तवान् । उत्सवो महः । 'मह उद्धव उत्सवः इत्यमरः । किमर्थ दिप्रयोजनमुद्दिश्य । समारब्धः प्रस्तुतः । उत्सवमनादृत्य तत्रोपेक्षा कृत्वा । परिवादिनी वीणाभेदः । ‘विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी' इत्यमरः । तद्वितीयस्तयुक्तः। स उपवनवर्ती पुरुषः । अनपत्यः पुत्रेण कन्यया वा रहितः । आयतने देवगृहे। विस्मृतो विन्ध्यवासे विन्ध्याचलनिवासे रागः प्रीतियस्मिकर्मणि तबथा तथा । विन्ध्यवासिन्याः काल्याः। अनया देव्या । अस्मै तुङ्गधन्बने । प्रतिशयिताय निद्रिताय । समादिष्टं कथितम् । समुत्पत्स्यते उत्पन्नो भविष्यति । दुहिता कन्या । स तु भव. त्पुत्रस्तु । तस्या भवत्कन्यायाः । पाणिग्राहक भर्तारमनुजीविष्यति आश्रित्य जीविष्यति । आपरिणयनाद्विवाहपर्यन्तम् । प्रतिमासं मासेमासे । कृत्तिकासु तन्नामकनक्षत्रेषु । कन्दुकनृत्येन गेन्दुकक्रीडया । गुणवतो गुणयुक्तस्य भर्तुलाभाय प्राप्तये । समाराधयतु पूजयतु । यं चेति । आभलषेत्स्वपतित्वेन कामयेत । सा भवत्कन्या । अमुष्मै कन्याभिलषितपुरुषाय । कन्दुकोत्सव- नामा तदाख्यया प्रसिद्धः । अल्पीयसा स्वल्पतरेण । असूत प्रसूतवती । कन्दुकावतीत्यत्र 'मतौ बह्वचोऽनजिरादीनाम् । इति दीर्घः । सौमापीडां चन्द्रशेखराम्। कन्दुकविहारेण तत्क्रीडया । सखी प्रियवयस्या । धात्रेयिकोपमातृस्थानीया। प्रिया भार्यात्वेन स्वीकर्तुमाष्टा । सा च चन्द्र- सेना । बलवद्धठात् । अनुरुद्वा मत्सङ्गमान्निवारिता। उत्कण्ठितश्चिन्ताविष्टः । मन्मथशरशल्य- दुःखेन कामबाणाप्रपीडयोद्विग्नं त्रस्तं चेतश्चित्तं यस्यैतादृशः । कलेनाव्यकमधुरण। वीणारवेण बल्लकीनादेन । आवासयन्विनोदयन् । विविक्तमेकान्तप्रदेशम् । अध्यासे अधितिष्ठामि । अधिशीङ्स्थासां कर्म' इति विविक्तस्य कर्मता। 2 ।

षष्ठोच्छासः] मनोरमाख्यव्याख्यासहितम्। अस्मिन्नेव च क्षणे किमपि नूपुरकणितमुपातिष्ठत् । आगता च काचिदङ्गाना दृष्दैव सा एनामुत्फुल्लदृष्टिरुत्थायोपगूढकण्ठश्च तग्रा तत्रैवोपाविशत् । अशंस- सैया से प्राणसमा, यद्विरहो दहन इव दहति माम् । इदं च मे जीवितमपह- रता राजपुत्रेण मृत्युनेव निरुप्सतां नीतः । न च शक्ष्यामि राजसूनुरित्यमुष्मिन् पापमाचरितुम् । अतोऽनयात्मानं सुदृष्टं कारयित्वा त्यक्ष्यामि निष्प्रतिक्रियान प्राणान्' इति । सा तु पर्यश्रुमुखी समभ्यधात्-'मा स्म नाथ, मत्कृतेऽध्य- वस्यः साहसम् । यस्त्वमुत्तमात्सार्थवाहादर्थदासादुत्पद्य कोशदास इति गुरुभिर- भिहितनामधेयः पुनर्मदत्यासङ्गादेशदास इति द्विषद्भिः प्रख्यापितोऽसि, तस्मि... स्त्वय्युपरते यद्यहं जीवेयं नृशंसो वेश इति समर्थयेयं लोकवादम् । अतोऽचैक नय मामीप्सितं देशम् इति । स तु मामन्यवत्त-'भद्र, भवदृष्टेषु राष्ट्रेषु कत- मत्समृद्धं संपन्नसत्यं सत्पुरुषभूयिष्टं च ' इति ! तमहमीपद्विहस्याब्रवम्- भद्र वित्तीयनर्णयाम्बरा । न पर्यन्तोऽस्ति स्थानस्थानेषु रम्याणां जनपदानाम् अपितु न चहिद युवयोः सुखनिवासकारणं कमायुपायनुत्पादयितुं शकुन्याम् । ततोऽहमेव भवेयमध्वदर्शी' । तावतोदैरत रणितानि मणिनूपुराणाम् ! अधासो अस्मिन्नेवेति । पूर्वोक्तप्रकारेण भाषणावसरे एव । नूपुरवाणितं पादकटकाव्दितम् । पादाङ्गदं तुलाकोटिर्मजीरो नूपुरोऽस्त्रियाम्' इत्यमरः । उपातिष्ठत्समीपे उत्पन्नमभूत् । अजना योषित् । स पूर्वोतोपवनवर्ती पुरुषः। उत्फुल्लदृष्टिविकसितनयनः । उपगूढकण्ठः श्लिष्टकण्ठः । अशंसकथितवान् । प्राणसमा प्राणतुल्या । यस्या विरहः वियोगः । दहनोऽग्निरिव । 'हिरण्य- रेता हुतभुग्दहनो हव्यवाहनः ' इत्यमरः । दहति भस्मीकरोति । इदं च मे जीवितं प्राणभूता- मनां चन्द्रसेनाम् । अपहरता निरुन्धानेन ! निहष्मता निस्तेजस्त्वम् । शक्ष्यामि समर्थोऽस्मि ।' राज्ञः सूनुः पुत्र इति हेतोः । अमुष्मिन्भीमधन्वनि राजपुत्रे। पापं दुष्कृत्यमाचरितुं विधातुम् सुदृष्टं सम्यगवलोकितम् । निष्प्रतिक्रियान्प्रतीकाररहितान् । साविति । चन्द्रसेना ! पर्य- मुखी अलव्याप्तानना । समभ्यधादुवाच । मत्कृते मामुद्दिश्य । साहसं कठोरं कर्म । म स्माध्यवस्यो मा कुरु । अध्यवपूर्वात् 'षो अन्तकर्मणि' इति धातोः ‘स्मोत्तरे लङ् च ' इति लङ् । सार्थवाहाद्वैश्यश्रेष्ठात् । उत्पद्योत्पनो भूत्वा । अभिहितनामधेयः कृतनामा । मदत्यासज्ञात मध्यतिप्रीतिकरणात् । वेशस्य गणिकागृहत्य दासो वेशदासः मिद्भिस्त्वद्वैरिभिः । प्रख्यापितः प्रसिद्धीकृतः । उपरते मृते । नृशंसः क्रूरो वेशो गणिकाजनः । समर्थयेयं सार्थकं कुर्याम् लोकवादं जनभाषणम् । नय प्रापयस्व । भवता दृष्टेषु विलोकितेषु । राष्ट्रेषु देशेषु । सत्पुरुषभूयिष्ठं साधुजनबहुलम्। तं वेशदासम् । विहस्थ मन्दहास्य विधाय । अर्णवाम्बराऽवनिः । पर्यन्तः शून्यता स्थानस्थानेषु पदेपद इत्यर्थः । रम्याणां मनोहराणाम् । इह सुह्मदेशे। सुखेन यो निवासस्तस्य कारणम् । न शक्नुयां चेत् यदि समर्थो नास्मि । ततस्तहि । अध्वदर्शी मार्गदर्शकः। तावता तस्मिन्द्र समये इत्यर्थः । उदैरतोत्पन्नान्यभूवन् । : ईर गतौ कम्पने च' इति जौहोत्यादिकाद्धातोर्लदि । । J दशकुमारचरितम् । [उत्तरपीठिकार्या जातसंभ्रमा — प्राप्तवेयं भर्तृदारिका कन्दुकावती कन्दुकक्रीडितेन देवीं विन्ध्या बासिनीमाराधयितुम् । अनिषिद्धदर्शना चेयमस्मिन्कन्दुकोत्सवे । सफलमस्तु युप्मचक्षुः । आगच्छतं द्रष्टुम् । अहमस्याः सकाशवर्तिनी भवेयम्' इत्ययासीत् । तामन्वयाव चावाम् । महति रत्नरङ्गपीठे स्थितां प्रथमं ताम्रोष्ठीमपश्यम् । आतिष्ठच सा सद्य एव मम हृदये । न मयान्येन वान्तराले दृष्टा । चित्रीयावि- टचित्तश्चाचिन्तयम्-'किमियं लक्ष्मीः । नहि नहि । तस्याः किल हस्ते विन्यस्त कमलम् , अस्यास्तु हस्त एव कमलम् । अमुक्तपूर्वा चासौ पुरातनेन पुंसा पूर्व- राजैश्च, अस्याः पुनरनवद्यमयातयामं च यौवनम् ' इति चिन्तयत्येव माय, सानघसर्वगात्री व्यत्यस्तहस्तपल्लवानस्पृष्टभूमिरालोलनीलकुटिलालका सविभ्रम भगवतीमभिवन्द्य कन्दुकममन्दरागरूषिताक्षमनङ्गमिवालम्बत । लीलाशिथिल च भूमौ मुक्तवती । मन्दोत्थितं च किंचित्कुञ्चितांगुष्ठेन प्रसृतकोमलांगुलिना । प्रथमबहुवचनम् । रणितानि वाः । मणिनूपुराणां रत्नमजीराणाम् । अथेति। नूपुरवाकर्णना- नन्तरम् । असौ चन्द्रसेना । प्राप्तवागतैव । भर्तृदारिका राजकन्या । कन्दुकक्रीडितेन कन्दुकवि- हारेण । अनिषिद्धं कन्यानां पुन्दर्शनायोग्यत्वेऽपि देवीसंनिधौ कैनाप्यनिवारत दर्शनं यस्या एवं- स्भूता । सफलं प्रयोजनसहितं युष्माकं चक्षुर्लोचनम् । आगच्छतं द्रष्टुं कन्यादर्शनार्थमायातम् । अस्याः कन्दुकावत्याः सकाशवर्तिनी निकटस्थायिनी । अयासीद्ता । तां चन्द्रसेना कन्दुकावती वा। अन्वयावानुगतौ । आवामहं मन्त्रगुप्तः स च कोशदासः। रत्नरङ्गपीठे मणिमये नृत्यस्थाने । प्रथममादौ ! ताम्रोष्टी ताम्रौ रक्तवर्णों ओष्ठौ यस्या एवंभूतां कन्दुकावतीम्। 'नासि कोदरौष्ठ-' इति डाः । अपश्यं विलोकितवान् । अतिष्टदारुह्य स्थिता । सद्यो दर्शनकाल एव । अन्तराले मध्ये । चित्रीयाविष्टचित्तः विस्मयाक्रान्तहृदयः। 'चित्रीया विस्मयोऽद्भुतम्' इत्यमरः । किमियं लक्ष्मीः। नहि नहीति । अत्र चाक्षेपालंकारः । 'आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् ' इंति हि तल्लक्षणमुक्तं चन्द्रालोके । तस्या लक्ष्म्याः । विन्यस्तं निहितम् । कमलं पङ्कजम् । अभुतपूर्वा पूर्वमननुभूता । पुरातनेन पुराणेन पुंसा विष्णुना । पूर्वराजैर्मन्वादिभिः । 'राजाह सखिभ्यष्टच ' इति समासान्तष्टच । अनवद्यं निर्दोषम् । अयातयामं सरसम् । 'जीर्ण च परिभुक्तं च यातयामामिदं द्वयम् ' इति निघण्टुः । सा कन्दुकावती । अनघानि निर्दोषाणि सर्वाणि गात्राण्यङ्गानि यस्या एवंविधा । 'अङ्गगात्रकण्ठेभ्यो वक्तव्यम् ' इति डी) । व्यत्य- स्ताभ्यां विनिर्मिताभ्यां हस्तपल्लवयोः करकिसलययोरग्राभ्यामंगुलिभ्यामिति भावः । स्पृष्टा भूमिर्यया तादृशी । आलोला ईषत्कम्पा नीलाः कृष्णवर्णाः कुटिला वक्रीभूताश्चालकाचूर्ण- कुन्तला यस्यास्सा । सविभ्रमं सविलासम् । आभिवन्ध नमस्कृत्य । अमन्देन सान्द्रेण रागेण प्रीत्या रूषिताक्षं ताम्रविलोचनमनङ्ग कामदेवमिव । आलम्बत क्रीडार्थमुद्धृतवती। लीलया खेलया शिथिलं गलितम् । मुक्तवती विक्षिप्तवती । मन्दोत्थितं किंचिदुद्गतम् । कुञ्चिता- ।

षष्ठोच्छ्वासः] मनोरमाख्यव्याख्यासहितम् । पाणिपल्लवेन समाहत्य हस्तपृष्ठेन चोन्नीय, चटुलदृष्टिलाञ्छितं स्तबकमिव भ्रम- रमालानुविद्धमवपतन्तमाकाश एवाग्रहीत् । अमुञ्चच्च । मध्यविलम्बितद्रुतलये मृदुमुदु च प्रहरन्ती तत्क्षणं चूर्णपदमदर्शयत् । प्रशान्तं च तं निर्दयप्रहारैरुद- पातयत् । विपर्ययेण च प्राशमयत् । पक्षमृज्वागतं च वामदक्षिणाभ्यां कराभ्यां पर्यायेणाभिन्नती शकुन्तमिवोदस्थापयत्। दूरोत्थितं च प्रपतन्तमाहृत्य गीतमार्ग- मारचयत् । प्रतिदिशं च गमयित्वा प्रत्यागमयत् । एवमनेककरणमधुरं विह- रन्ती रङ्गगतस्य रक्तचेतसो जनस्य प्रतिक्षणमुच्चावचाः प्रशंसावाचः प्रतिगृह्णती, प्रतिक्षणारूढविभ्रम कोशदासमंसेऽवलम्ब्य कण्टकितगण्डमुत्फुल्लेक्षणं च मय्य- भिमुखीभूय तिष्ठति तत्प्रथमावतीर्णकन्दर्पकारितकटाक्षदृष्टिस्तदनुमार्गविलसि- तलीलाञ्चितभ्रूलता, श्वासानिलवेगान्दोलितैर्दन्तच्छदरश्मिजालीलापल्लवैरिव मुखकमलपरिमलग्रहणलोलानलिनस्ताडयन्ती, मण्डलभ्रमणेषु कन्दुकस्याति- गुष्ठेन वक्रितांगुष्ठेन । प्रसृता विस्तृताः कोमला मृदुलाश्चांगुलयो यस्यैवंविधेन । पाणिपल्लवेन करकिसलयेन । समाहत्य पीडयित्वा । उन्नीयोत्क्षिप्य । चटुलानी केलिदर्शनलोलानां दृष्टिभि- नयनाञ्छितं सस्पृहं वीक्षितम् । स्तबकं सुमनोगुच्छम् । भ्रमरमालानुविद्धं मधुकरश्रेणी- परिगतम् । अवपतन्तं नीचैः पतन्तम् । अग्रहीद्गृहीतवती । अमुञ्चदूर्व क्षितवती । मध्यः साधारणः, विलम्बितोऽतिमन्दः, द्रुतोऽतिशीघ्रश्च लयः पतनं यस्यैवंविधे सति कन्दुके । मृदु- मृदु मन्दमन्दम् । प्रहरन्ती हस्तेन ताडयन्ती। चूर्णपदं कन्दुकक्रीडाविशेषम् ।' गत्याग- त्योरानुले म्यात यन्न्यूनाधिक्यक्षेपणं तच्चूर्ण पदम् । इति कन्दुकतन्त्रे । अदर्शत्प्रदर्शया- मास । प्रशान्तमुद्गमनादुपरतम् । निर्दयप्रहारैः कठिनताडनैः । उदपातयदूर्ध्वपतितमकरोत् । पर्यायेण क्रमेण । अभिन्नती प्रहरन्ती । शकुन्तं पक्षिणम् । 'शकुन्तिपक्षिशकुनिशकुन्त- शकुनद्विजाः' इत्यमरः । उदस्थापयदुत्पतितमकरोत् । आहृत्य गृहीत्वा । गीतमार्गम् दशपदचङ्क्रमणं गीतमार्ग विदुः' इति कन्दुकतन्त्रे । प्रत्यागमयत्प्रतिनिवृत्तमकरोत् । एवं पूर्वोक्तविधयाऽनेककरणैर्नानाचेष्टितैः मधुरं मनोरमं यथा तथा । विहरन्ती क्रीडन्ती । रङ्गगतस्य प्रेक्षास्थानवर्तिनः। रक्तचेतसो दर्शनासक्तमनसः । उच्चावचा नानाप्रकाराः । प्रशंसावाच: स्तुतिवाक्यानि । प्रतिक्षणं क्षणेक्षणे आरूढविभ्रमं जातविस्मयं यथा तथा । अंसे स्कन्धदेशे । अवलम्ब्य गृहीत्वा । तत्प्रथमावतीर्णस्तदानीमेवादौ सञ्जातः कन्दपः कामः ‘कन्दो दर्पकोऽ. इत्यमरः । तेन कारितोत्पादिता कटाक्षदृष्टिरपाङ्गदर्शनं यस्याः सा । तस्य कन्दुकस्यानुमागै मार्गमनुसृत्य विलसितलीलया खेलाविलासेनाञ्चिते कुटिलीभूते भूलते यस्याः सा । वासानिलस्य मुखमारुतस्य वेगेन जवेनान्दोलितोलायितैः । दन्तच्छद- रश्मिजालैरधरकिरणनिवहैः । मुखकमलस्याननपद्मस्य परिमलग्रहणे सौरभादाने लोलान्सतृष्णान् । नङ्गःकामः पञ्चशरःस्मर:

জুলাবালি। [उत्तरपीठिकाय इत्यमरः । अलिनः शीघ्रप्रचारतया विशन्तीव महर्शनलज्जया युप्पस्मयं पञ्जरम्, पञ्चबिन्दुप्रसृतेषु बच्चापि पञ्चवाणवाणान्युगपदिवाभिएततासेनावघट्टयन्ती, गोमूत्रिकाप्रचा खु धनदर्शितरागविमा विद्युल्लतामिव विडम्बयन्ती, भूषणमणिरणितदुत्तल यसंवाडिपादचारम, अपदेशस्मितप्रमानिषिक्तबिम्बाधरम् ,अंसस्त्रंसितप्रतिसमा हितशिखण्डभारम्, समाघट्टितकणितरत्नमेखलागुणम्, अञ्चितोत्थितपृथुनितम्ब विलम्बितविचलदंशुकोज्ज्वलम्, आकुञ्चितमस्मृतवेल्लितभुजलताभिहतललित- आवर्जितबाहुपाशन, उपरिपरिवर्तितत्रिकविलग्नलोलकुन्तलम् , अब गलितकर्णपूरकनकपत्रप्रतिसमाधानशीघ्रतानतिक्रमितप्रकृतक्रीडनम् , असकृदुः लोलश्चलसतृष्णयो घट्पदान् । 'मधुव्रतो मधुकरो मधुलिण्मधुपालिन: इत्यमरः । ताडयन्ती निवारणाय प्रहरन्ती अतिशीघ्रप्रचारतयाऽऽशुगामितया । विशन्तीय बजरं मजूषायां निलीयमानेव । मम दर्शनादवलोकनालज्जया लिया । पुष्पमयं कुसुमप्रचुरम्म् । पञ्चबिन्दुप्रसूतेषु पञ्चावर्तप्रहारस्तु पञ्चबिन्दुरुदाहृतः इति कन्दुकतन्त्रोक्तकन्दुक्रपञ्चक- साध्यक्रीडाविशेषेषु । पञ्चापि । अरविन्दमशोकं च चूतं च नवमल्लिका । नीलोत्पलं च पञ्चैते पञ्चवाणस्या सायकाः' इत्युक्तापञ्चसंख्याकानपि । पञ्चवाणस्य कामदेवस्य बाणान्सायकान् । युगपदेककालमेव । अभिपततः सम्मुखमागच्छतः । बालेनोद्वेगेनावघयन्ती प्रहृत्य दूरीकुर्वती मोभूत्रिकाप्रचारेषु गोमूत्रिकेति विद्वद्भिश्चारः सातहदो मतः' इत्युक्तकन्दुककीडाविशेषेषु । धनं सान्ने यथा तथा दर्शितः प्रकटीकृतः रागवित्रमोऽनुरागचेष्टितं यया तादृशी। धनेन मेधेन दर्शितः प्रकाशितः रागविश्रमः सन्ध्यारुण्यविलासो यस्यामेवंविधाम् इति विभक्ति- विपर्यासेन विद्युल्लताया अपि विशेषणभधेयम् । विडम्बयन्त्यनुकुवैती । भूषणमणीनामलंकार- रत्नानां राणितेन शिजितेन दत्तः कृतो यो लयस्तालस्तत्संवादी तदनुगुणः पादचारश्चरणनि- क्षे यस्मिन्कणि तद्यथा तथा । अपदेशस्मितस्या व्याजमन्दहसितस्य प्रभया कात्या निषिक्तो व्याप्तो बिम्बामिवाधरो यति क्रियाविशेषणम् । असे स्कन्धदेशे रसितः शिथि- लवन्धः सम्पतितः, अनन्त, प्रतिसमाहितो यथापूर्व बद्धः शिखण्डभारः केशपाशो यस्मिन् 'कर्मणीति । समाहित इतस्ततो हस्तप्रसरणात्संघृष्टः अतएव क्वणितः शब्दायमानः रत्नमेख- लागुणो मणिमयकाञ्चीसूत्रं यस्मिन्क्रमणि तथा ! “ स्त्रीकटयां मेखला काञ्ची' इत्यमरः । आञ्चितोस्थिते नतोनते पृथौ स्थूले च नितम्बे काटिपश्चाद्भागे विलम्बितेन संसक्तेन, विचलता वाग्वादिना किञ्चिद्दरीभवतांऽशुकेनोजवलं मनोहरं यथा तथा । 'पथानितम्बः लीकटयाः । चैलं वसनमंशुकम् ' इत्यमरः । आकुञ्चितया संकोचितया, प्रसूतया विस्तारतया, वेलि- तया वक्रीकृतया च भुजलतयाऽभिहतस्ताडितो ललितः सुन्दरः कन्दुको यस्मिन्कमणि तयथा तथा, उपार परिवर्तिते ऊर्चस्थतया स्थापिते त्रिके काटिकायां प्रीवाशिरःसन्धिपश्चादाने विलमाः संसक्ता लोलाश्चञ्चलाः कुन्तला अलका यस्मिन्कर्मणि त्रिक. कृकाटिकाय च पृष्ठवंशाधरेऽपि च ' इति वैजयन्ती । अवगालतस्य स्वस्तस्य कर्णपूरस्य कर्णावतंसस्य कनकप- त्रुस्य काञ्चननिर्मितललाटतिलकस्य च प्रतिसमाधाने पुनर्यथोचितस्थानयोजनकर्मणि शीघ्रतया . षष्टोच्छासः] मनोरमाख्यव्याख्यासहितम् । रिक्षष्यमाणहस्तपादवाह्याभ्यन्तरभ्रान्तकन्दुकम् , अवनमनोन्नमननैरन्तर्यनष्टदृष्ट- मध्ययष्टिकम् , अवपतनोत्पतननिर्व्यवस्थमुक्ताहारम् , अंकुरितधर्मसलिलदूषि- तकपोलपत्रभङ्गशोषणाधिकृतश्रवणपल्लवानिलम् , आगलितस्तनतटांशुकनियम- नव्यापृतकपाणिपल्लवं च निषद्योत्थाय निमील्योन्मील्य स्थित्वा गत्वा चैवाति- चित्रं पर्यक्रीडत राजकन्या । अभिहत्य भूतलाकाशयोरपि क्रीडान्तराणि दर्श- नीयान्येकेनैव वानेकेनैव कन्दुकेनादर्शयत् । चन्द्रसेनादिभिश्च प्रियसखीभिः सह विहृत्य विहृतान्ते चाभिवन्द्य देवीं मनसा मे सानुरागेणेव परिजनेनानुग- म्यमाना, कुवलयशरमिव कुसुमशरस्य मय्यपाङ्गं समर्पयन्ती, सापदेशमसकृ- दावय॑मानवदनचन्द्रमण्डलतया स्वहृदयामिव मत्समीपे प्रेरितं प्रतिनिवृत्तं न वेत्यालोकयन्ती, सह सखीभिः कुमारीपुरमगमत् ! अहं चानङ्गविह्वलः स्ववेश्म गत्वा कोशदासेन यत्नवदत्युदारं स्नानभोजना- दिकमनुभावितोऽस्मि । सायं चोपसृत्य चन्द्रसेना रहसि मां प्रणिपत्य पत्युरंस- मंसेन प्रणयपेशलमाघट्टयन्त्युपाविशत् । आचष्ट च हृष्टः कोशदासः-'भूया- समेवं यावदायुरायताक्षि, त्वत्प्रसादस्य पात्रम्' इति । मया तु सस्मितमभि- हितम्-' सखे, किमेतदाशास्यम् । अस्ति किंचिदजनम् । अनया तदक्तने- । आशुकारितयाऽनतिक्रमितं न परित्यक्तं प्रकृतं क्रीडनं यस्मिन्कमणि यथा तथा । अवनम- नोनमनयोनैरन्तर्यान्निरन्तरभावानष्टाऽदर्शनं प्राप्ता दृष्टा विलोकिता च मध्ययष्टियस्मिन्कर्मणि तयथा तथा । अवपतने उत्पतने च कर्मणि निर्व्यवस्थश्चञ्चलो मुक्ताहारो यस्मिन्कर्माणि । अंकु- रितेन प्रादुर्भूतेन धर्मसलिलेन स्वेदजलकणेन दूषितस्यार्दीकृतस्य कपोलयोर्गण्डयोः पत्रभङ्गस्य चित्रकस्य शोषणे आर्द्रतादूरीकरणे अधिकृतो नियोजितः श्रवणपल्लवानिलः कर्णावतंसवायुर्यस्मिन् कर्मणि । आगलितस्येषत्नस्तस्य स्तनतटांशुकस्य कुचकंचुकस्य नियमने पुनःसंयोजने व्यापृतो नियोजितः एकः पाणिपल्लवः करकिसलयं यत्रति क्रियाविशेषणम् । निषद्योपविश्य । अतिचित्रं नितरामाश्चर्यजनकं यथा तथा । पर्यक्रीडत क्रीडितवती । ' क्रीडोऽनुसंपारीभ्यश्च ' इत्यात्मने- पदम् । अभिहत्येति । कन्दुकं ताडयित्वा । क्रीडान्तराणि नानाविधान्विहारान् । विहृतान्ते क्रीडावसाने । समर्पयन्ती निक्षिपन्ती । सापदेशं सव्याजमसकृत्पुनः पुनरावर्त्यमानं वदनं चन्द्रमण्डलमिव यस्यास्तादृशतया । प्रेरितं प्रेषितम् । प्रतिनिवृत्तं स्वसमीपं प्रत्यागतम् । अग.. मद्गता । दित्त्वादङ् । अहं चेति । मन्त्रगुप्तः । अनङ्गविह्वलः कामपराधीनः । स्ववेश्म निजगृहम् । यत्नवद- तिप्रयत्नेन । अनुभावितः कारितः । प्रणिपत्य नमस्कृत्य । असं स्कन्धदेशम् । प्रणयपशेलं. स्नेहमधुरं यथा तथा, आघट्टयन्ती स्पृशन्ती । उपाविशन्निषण्णा । यावदायुर्जीवनपर्यन्तम् । त्वत्प्रसादस्य भवत्कृपायाः पानं भाजनम् । आशास्यं प्रार्थनीयम् । अञ्जनं सिद्धकज्जलम् ! १३ ..

१९४ दशकुमारचरितम् । [उत्तरपीठिकायो त्रया राजसूनुरुपस्थितो वानरीमिवैनां द्रक्ष्यति, विरक्तचैनां पुनस्त्यक्ष्यतिर इति । तया तु स्मेरयास्मि कथित:-'सोऽयमार्यणाज्ञाकरो जनोऽत्यर्थमनु- गृहीतः, यदस्मिन्नेव जन्मनि मानुषं वपुरपनीय वानरीकरिष्यते । तदास्तामि- दम् । अन्यथापि सिद्धं नः समीहितम् । अद्य खलु कन्दुकोत्सवे भवन्तमपहसि- तमनोभवाकारमभिलषन्ती रोषादिव शम्बरद्विषातिमात्रमायास्यते राजपुत्री । सोऽयमों विदितभावया मया स्वमात्रे तया च तन्मात्रे, महिप्या च मनुजे- न्द्राय, निवेदयिप्यते । विदितार्थस्तु पार्थिवस्त्वया दुहितुः पाणिं ग्राहयिष्यति । ततश्च त्वदनुजीविना राजपुत्रेण भवितव्यम् । एष हि देवतासमादिष्टो विधिः । त्वदायत्ते च राज्ये नालमेव त्वामतिक्रम्य मामवरोद्धं भीमधन्वा । तत्सहतामयं त्रिचतुराणि दिनानि' इति मामामन्त्र्य प्रियं चोपगूह्य प्रत्ययासीत् । मम च कोशदासस्य च तदुक्तानुसारेण बहुविकल्पयतोः कथंचिदक्षीयत क्षपा । क्षपान्ते च कृतयथोचितनियमस्तमेव प्रियादर्शनसुभगमुद्यानोदेशमुपागतोऽस्मि । तत्रैव चोपसृत्य राजपुत्रो निरभिमानमनुकूलाभिः कथाभिर्मामनुवर्तमानो मुहू- तैमास्त । नीत्वा चोपकार्यामात्मसमेन मानभोजनशयनादिव्यतिकरणोपा- चरत् । तल्पगतं च स्वप्नेनानुभूयमानप्रियादर्शनालिङ्गनसुखमायसेन निगडेना- तदत्तनेत्रया अञ्जनलिप्तलोचनया । विरक्तः प्रीतिरहितः । एनां चन्द्रसेनाम् । स्मेरया कृतम- न्दहसितया । नमिकम्पिस्म्यजस-' इति रः । वपुः शरीरम् । इदमञ्जनम् । अन्यथा अञ्जन विनैव । समीहितमिष्टम् । खलु निश्चयेन । अपहसितस्तिरस्कृतो मनोभवस्य कामस्याकारो येनैवंविधम् । अभिलषन्ती कामयमाना। रोषात्स्वशत्रुपक्षपातित्वजनितकोपात् । शम्बरद्विषा मनसिजेन । 'शम्बरारिमनसिजः' इत्यमरः । अतिमात्रं निर्मर्यादमायास्यते पाड्यते । अत्र च प्रत्यनीकमलंकारः 'प्रत्यनीकमशक्तौ यच्छत्रुपक्षे पराक्रमः' इति लक्षणात् । अयमर्थः कन्यायास्त्वय्यनुरागप्रादुर्भावरूपः । विदितभावया ज्ञातकन्याशयया । तन्मात्रे कन्याजनन्यै । तया महिष्या राजपत्न्या । मनुजेन्द्राय राज्ञे तुङ्गधन्वने । निवेदयिष्यते कथितो भविष्यति । दुहितुः कन्यायाः कन्दुकावत्याः । त्वां मन्त्रगुप्तमनुसृत्य जीवत्येवंशीलेन । राजपुत्रेण भीम- धन्वना । देवतया काल्या विन्ध्यवासिन्या समाविष्ट आज्ञप्तः । विधिः प्रकारः । त्वदायत्त त्वदधीने । नालमेव नैव समर्थों भवति । अयं मे पतिः कोशदासः । त्रिचतुराणि त्रीणि चत्वारि वा ! उपगृह्य गाढमालिङ्गय । प्रत्ययासीत्प्रतिनिववृते । तदुक्तानुसारेण चन्द्रसेनाकथि- तमार्गेण । बहु नानाविधं विकल्पयतोश्चिन्तयमानयोः । अक्षीयत क्षपा रात्रिरवसन्नाऽभूत् । क्षपान्ते प्रातःकाले । प्रियादर्शनेन प्राणवल्लभाविलोकनेन सुभगं सुन्दरम् । निरभिमानं गर्वरहित यथा तथा । कथाभिर्वार्तालापैः । उपकार्यां राजभवनम् । ' सौधोऽत्री राजसदनमुपका- योपकारिका ' इत्यमरः । स्नानादीनां व्यतिकरण प्रबन्धेन । तल्पगतं मच्चे निद्रां कुर्वन्तम् ।

षष्टोच्छासः] मनोरमाख्यव्याख्यासहितम् । तिबलबहुपुरुषैः पीवरभुजदण्डोपरुद्धमबन्धयन्माम् । प्रतिबुद्धं च सहसा सम्- भ्यधात्-- 'अयि दुर्मते, श्रुतमालपितं हतायाश्चन्द्रसेनाया जालरन्ध्रनिःसृतं तचेष्टावबोधप्रयुक्तयानया कुब्जया त्वं किलाभिलषितो वराक्या कन्दुकावत्या तव किलानुजीविना मया स्थेयम् , त्वद्वचः किलानतिक्रमता मया चन्द्रसेना कोशदासाय दास्यते' इत्युक्त्वा पार्श्वचरं पुरुषमेकमालोक्याकथयत्--'अक्षि- पैनं सागरे' इति । स तु लब्धराज्य इवातिहृष्टः 'देव, यदाज्ञापयसि' इति यथादिष्टमकरोत् । अहं तु निरालम्बनो भुजाभ्यामितस्ततः स्पन्दमानः किमपि काष्टं देवदत्तमुरसोपश्लिष्य तावदप्लोषि, यावदपासरद्वासरः शर्वरी च सर्वा । प्रत्युषस्यदृश्यत किमषि वहित्रम् । अमुत्रासन्यवनाः ते मामुद्धृत्य रामेपुनाने नाविकानायकाय कथितवन्तः- 'कोऽप्ययमायसनिगलबद्ध एव जले लब्धः पुरुषः । सोऽयमपि सिञ्चत्सहस्रं द्राक्षाणां क्षणेनैकेन ' इति । अस्मिन्नेव क्षणे नैकनौकापरिवृतः कोऽपि मद्गुरभ्यधावत् । अविभयुर्यवनाः । तावदतिजवा नौकाः धान इव वराहमस्मत्पोतं पर्यरुत्सत । प्रावर्तत संप्रहारः । पराजयिषत । स्वप्नेनावस्थाविशेषेणानुभूयमानं प्रियायाः कन्दुकावत्या दर्शनालिङ्गनसुखं येनैवंविधम् । आयसेन निगडेन लोहमव्या शृंखलया । पीवरैः पुरैर्भुजदण्डैरुपरुद्धं निरुद्धं यथा तथा स्थापित माम् । प्रतिबुद्धं निद्रायाः समुत्थितम् । सहसा शीघ्रम् । समभ्यधात्कथयामास । अयीत्याम- न्त्रणे । आलपितं भाषणम् । हताया दुष्टाया। जालरन्प्रेण गवाक्षच्छिद्रेण निःसृतं बहिरागतम् । जाले गवाक्ष आनाये । इत्यमरः । तच्चेटावबोधाय चन्द्रसेनाव्यापारज्ञानार्थ प्रयुक्तया मत्प्रेरितया । कुब्जया हीनाङ्गया कयाऽपि वृद्धया। अभिलषितः पतित्वेन कामितः। वराक्या धूर्तया । अनुजीविना भृत्यभावमापन्नेन । अनतिक्रमताऽनुलंघयता। दास्यते दत्ता भविष्यति । पार्श्वचरं समीपवर्तिनं पुरुषं किंकरम् । सागरे समुद्रे । लव्धराज्यः प्राप्तराज्यः । यथादिष्टं भीमधन्वाज्ञासदृशम् । अहं. विति। निरालम्बनोऽवलम्बरहितः । स्पन्दमानः संचरजले उत्तरन्नित्यर्थः । काष्ट दारखण्डम् । उपश्लिष्यालिङ्गय । अप्लोषि जलात्तीरं प्रति प्लवमान आसम्। शर्वरी रात्रिः । प्रत्युषसि प्रभातसमये । वहिनं समुद्रयानम् । यवनास्तुरुष्काः । उद्धृत्य जलाद् गृहीत्वा । रामेषुनान्ने तदभिधाय । नाविकनायकाय नौकावाहकमुख्याय । नावा तरति नाविकः। ६ नौ द्वयचष्टन् ' इति ठन् । आयसनिगलबद्धौ लोहशंखलानिगडितः । लब्धः प्राप्तः । सिञ्चेज्ज- लेनार्दीकुर्यात् । द्राक्षाणां मृद्वीकालतानाम् । 'मृद्वीका गोस्तनी द्राक्षा' इत्यमरः । नैकनौका- परिवृतो बहुस्वल्पनौपरिवेष्टितः । मद्गुः प्लवः । 'मद्ः कारण्डवः प्लवः इत्यमरः। अबिभयुः जस्ता अभुवन् । अतिजवा अतिवेगयुक्ताः । श्वानः कुकुराः । 'श्वा विश्वकद्रुर्मुगयाकुशल: सरमा शुनी ' इत्यमरः । वराहं सूकरम् । ' वराहः सूकरो घृष्टिः कोल: पोत्री किरिः किटिः । इत्यमरः । अस्मत्पोतं यवनसंबन्धिवहिनम् । संप्रहारः कलहः । पराजयिषत पराभूताः । J दशकुमारचरितम् । [उत्तरपीठिकाया यवनाः । तानमगतीनवसीदतः समाश्वास्यालपिषम्- 'अपनयत मे निगलब- न्धनम् । अयमहमवसादयामि वः सपत्नान्' इति । अमी तथाकुर्वन् सर्वांश्च तान्प्रतिभटान्मल्लवार्षिणा भीमटकृतेन शाङ्गेण लवलवीकृताङ्गानकार्षम् । अव- प्लुत्य हतविध्वस्तयोधमस्मत्पोतसंसक्तपोतममुत्र नाविकनायकमनाभसरमभिपत्य जीवनाहमग्रहीषम् । असौ चासीत्स एव भीमधन्वा । तं चाहमवबुध्य जात- ब्रीडमनवम्-'तात, किं दृष्टानि कृतान्तविलसितानि' इति । ते तु सांयात्रिका मदीयेनैव शृङ्खलेन तमतिगाढं बद्ध्वा हर्षकिलकिलारवमकुर्वन्मां चापूजयन् । दुर्वारा तु सा नौरननुकूलवातनुन्ना दूरमभिपत्य कमपि द्वीपं निबिडमाश्लिष्ट- वती । तत्र च स्वादु पानीयमेधांसि कन्दमूलफलानि संजिघृक्षवो गाढपातित- शिलावलयमवातराम । तत्र चासीन्महाशैलः । सोऽहम् 'अहो रमणीयोऽयं पर्व- तनितम्बभागः,कान्ततरेयं गन्धपाषाणवत्युपत्यका,शिशिरमिदमिन्दीवरारविन्द १ अगतीशरणरहितान् । अवसीदतो दुःखितान् । आलपिषमुक्तवान् । निगलबन्धनं पादशृंख- लाम् । अवसादयामि विनाशयिष्यामि । सपत्नाञ्शत्रूनू । रिपौ वैरिसपत्नारि- इत्यमरः । अमी यवनाः । तथा मां विशंखलम् ! भल्लवर्षिणा भल्लायुधवृष्टिं कुर्वता । भीमः शत्रुभयजनकटंकृतो ज्याशब्दविशेषो यस्यैवंविधेन । शाङ्ण चापेन । ' शाङ्गै चाफे हरेश्चापे' इति वैजयन्ती । लालवीकृतानि खण्डशः कृत्तान्यज्ञानि येषामेवंभूतान् । अकार्षे संपादितवान् । अवप्लुत्य निपत्य । हता मारिताः, विध्वस्ताः खण्डिताङ्गाश्च योधा भटा यस्मिन्नेतादृशम् । अस्माकं पोतेन संसक्तं मिलितं पोतं प्रतिरोधिवत्रिम् । अमुत्र तस्मिन् पोते । अनभिसरमसहायतया वर्तमानम् । ' अनुप्लवः सहायश्चाभिसरोऽनुसरः समाः' इत्यमरः । जीवग्राहं जीवेन सह गृहत्विा । 'समूलाकृतजीवेषु हनकृञ्ग्रहः' इति णमुल् । असौ नाविक- मुख्यः । स एव मद्विरोधी । अवबुध्य ज्ञात्वा । जातवीडमुत्पन्नलज्जम् । कृतान्तविलासितानि यमयातनाः । 'कृतान्तो यमदेवयोः' सांयात्रिका ः पोतवाहकाः। 'सांयात्रिकः पोतवणिक् " इत्यमरः । हर्षेण मुदा किलकिलारवं शब्दविशेषम् । दुर्वारा निवारयितुमशक्या । नौस्तरिः । स्त्रियां नौस्तरणिस्तरिः ' इत्यमरः । अननुकूलवातेन प्रतिकूलवायुना नुन्ना प्रेरिता । आश्लि- टवती प्राप्तवती । पानीयं सलिलम् । 'अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ' इत्यमरः । एधोसि काष्ठानि । 'काष्ठं दाविन्धनं त्वेधः' इत्यमरः । संजिवृक्षवो ग्रहीतुमिच्छवः । गाढं दृढं यथा तथा पातितः शिलायां तीरवर्तिनि पाषाणे वलयः नौकाबद्धशृंखलाग्रवलयो यस्मिन् कर्मणि तद्यथा तथा । अवातराम अवतीर्णा अभूम । शैलः पर्वतः । पर्वतस्य नितम्बभागः कटक- प्रदेशः । 'कटकोऽस्त्री नितम्बोदेः' इत्यमरः। गन्धपाषाणवती मनःशिलादिधातुसंयुक्ता। 'शैलेयं गन्धपाषाणः शिलापुष्पं च कथ्यते' इति हैमः । उपत्यका पर्वतासन्नभूः । 'उप- त्यकाऽदेरासन्ना भूमिः' इत्यमरः । शिशिरं शीतलम् । इन्दीवरं नीलकमलम्, अरविन्द रक्तक- .. । ।

। पष्टोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । मकरन्दविन्दुचन्द्रकोत्तरं गोत्रवारि, रम्योऽयमनेकवर्णकुसुममञ्जरीभरस्तरुव- लाभोगः' इत्यतृप्ततरया दृशा बहुबहु पश्यन्नलक्षिताध्यारूढोणीधरशि- खरः शोणीभूतमुत्प्रभाभिः पद्मरागसोपानशिलाभिः किमपि नालीकपरागधूसर सरः समध्यगाम् । स्नातश्च कांश्चिदमृतस्वादून्विसभङ्गानास्वाध, अंसलनकहार- स्तीरवर्तिना केनापि भीमरूपेण ब्रह्मराक्षसेनाभिपत्य 'कोऽसि, कुतस्त्योऽसि' इति निर्भर्सयताभ्यधीये । निर्भयेन च मया सोऽभ्यधीयत-सौम्य, सोऽहम- स्मि द्विजन्मा । शत्रुहस्तादर्णवम् , अर्णवाधवननावम् ,यवननावश्चित्रमावाणमेनं शर्वतप्रवरं गतः, यहच्छयास्मिन्सरसि विश्रान्तः,भद्रं तब' इति । सोऽब्रूत-न चेद्रवीपि प्रश्नान , अनामि त्वाम् इति । मयोक्तम्-'पृच्छ तावत् । भवतु' इति । अथावयोरेकयार्ययासीत्संलाप:- " किं क्रूर स्त्रीहृदयं किं गृहिणः नियहिताय दारगुणाः । कः कामः संकल्पः किं दुष्करसाधनं प्रज्ञा !! तत्र धूमिनीगोमिनीनिम्बवतीनितम्बवत्यः प्रमाणम्' इत्युपदिष्टो मया सोऽ- मलं, तयोर्मकरन्दबिन्दुभिः पुष्परसकणैश्चन्द्रकोत्तरं संजातमेचकम् । 'वा पुंसि पन नलिनमरविन्द महोत्पलम् । इन्दीवरं च नीलेऽस्मिन् । : पुष्परसः । 'समौ चन्द्रकमेचको' इत्यमरः । -गोत्रवारि पर्वतसलिलम् ।'अद्रिगोत्रगिरिमावा-'इत्यमरः । अनेकवर्णानां नानावर्णयुक्तानां कुसुमा- मञ्जरीणां पुष्पगुच्छानां भरो यत्रैतादृशः । तस्वनाभोगः तरुवनप्रदेशः । अलक्षितं ध्यानमदत्त्वैवा- ध्यारूढं क्षोणीधरस्य गिरेः शिखर येनैवंविधः । 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । शोणीभूतं रक्तवर्णम् । उत्प्रभाभिरुटसच्छोभायुक्ताभिः । पद्मरागो रत्नविशेषः तन्मयीभिः सोपानशिलाभि- रारोहणपाषाणैः । नालीकानां पद्मानां परागै—लिभिः धूसर किंचिच्छे तवर्गम् । 'नालीकं पद्मवाणयोः' इत्यमरः । सरः कासारम् । अमृतस्वादूनीयूषसमरसान् । विसभङ्गान्मृणालख- ण्डान् । 'मृणालं बिसम्' इत्यमरः । आस्वाद्य भक्षयित्वा । अंसे स्कन्धदेशे लग्नानि स्थापितानि प्रियाविरहानलपीडाशमनायेति भावः । कह्वाराणि सौगन्धिकपुष्पाणि यस्यैवंभूतः । भीमरूणा भयंकराकृतिना । अभिपत्य मत्समीपमागत्य । कुत आगतः कुतस्त्यः। अभ्यधीये पृष्टोऽभूवम् । निर्भयेन शङ्कारहितेन । स राक्षसः । अभ्यधीयंत उक्तः । अर्णवं समुद्रम् । चित्रग्रावाणं नाना- वर्णशिलायुक्तम् । पर्वतप्रवरं गिर्युत्तमम् । विश्रान्तः कृताध्वखेदापनयनः । भद्रं क्षेमम् । न चेद्रवीषि यदि नं प्रत्युत्तरसि । प्रश्नाननुयोगान् । अनामि भक्षयामि । ' अश भोजने । भवतु इति । मयाऽवश्यमेव प्रत्युत्तराणां दास्यमानत्वाद्भक्षणकर्म तावदूरे तिष्ठस्विति भावः । आवयो राक्षसस्य मम मन्त्रगुप्तस्येति च । आर्यया पद्यविशेषेण । आर्यालक्षणं तु पूर्वोक्तम्, तत्तु न विस्मर्तव्यम् । सलापो मिथो भाषणं प्रश्नोत्तररूपमू- किमिति । गृहिणो गृहस्थाश्रमवासिनः । प्रियहिताय प्रियाय हिताय क्षेमाय च । दारगुणाः पत्नीगुणाः । संकल्पः 'इयं मम पत्नी, इमे मे पुत्राः, इमाश्च कन्या मदीयाः, इदं च गृह मदीयम् ' इत्येवंरूपोऽध्यवसायः । दुष्करसाधनं दुष्करस्यापि कार्यस्य साधन मकरन्दः १९८ दशकुमारचरितम् । [ उत्तरपीठिकायाँ बेत--'कथय, कीदृश्यस्ताः' इति । अत्रोदाहरणम्-' अस्ति त्रिगतॊ नाम जन- पदः। तत्रासन्गृहिणस्त्रयः' स्फीतसारधनाः सोदा धनकधान्यकधन्यकाख्याः । तेषु जीवत्सु न ववर्ष वर्षाणि द्वादश दशशताक्षः, क्षीणसारं सस्यम्, ओषध्यो वन्ध्याः, न फलवन्तो वनस्पतयः, क्लोबा मेघाः क्षीणस्रोतसः सवन्त्यः, पङ्क- शेषाणि पल्वलानि, निनिस्यन्दान्युत्समण्डलानि, विरलीभूतं कन्दमूलफलम् , अवहीनाः कथाः, गलिताः कल्याणोत्सवक्रियाः, बहुलीभूतानि तस्करकुलानि, अन्योन्यमभक्षयन्प्रजाः, पर्यलुठन्नितस्ततो बलाकापाण्डुराणि नरशिरःकपा- लानि, पर्यहिण्डन्त शुष्काः काकमण्डल्यः, शून्याभूतानि नगरपामखर्वटपुटभे- दनादानि । त एते गृहपतयः सर्वधान्यनिचयमुपयुज्याजाविकटं गवलगणं गवां यूथं दासीदासजनमपत्यानि ज्येष्ठमध्यममार्ये च क्रमेण भक्षयित्वा · कनिष्ट- - १ .. - निदानभूतम् । प्रज्ञा बुद्धिविशेषः । प्रमाणमुदाहरणभूता इत्यर्थः । कीदृश्यः कथंभूताः । ता धूमिन्यादयः । अत्र पूर्वोक्तविषये । उदाहरणं निदर्शनम् । अस्तीति । जनपदो देशः नीजनपदौ देशविषयौ तूपवर्तनम् ' इत्यमरः । गृहिणो गृहस्थाश्रमवासिनः । स्फीतं प्रचुरं सारधनं मूलद्रव्यं येषां तथाविधाः । सोदा समानगर्भजाता। ' समानोदर्यसोद- येसगर्यसहजाः समाः' इत्यमरः । 'सोदरायः' इति यप्रत्ययो जातार्थे । न ववर्ष जलधार न चकार । वर्षाणि द्वादश तावत्संवत्सरपर्यन्तम् । 'कालाधनोरत्यन्तसंयोगे ' इति द्वितीया दशशताक्षः सहस्रलोचन इन्द्रः 'आखण्डलः सहस्राक्षः' इत्यमरः । ओषध्यः पक्के फले विनाशिन्यः। ओषध्यः फलपाकान्ताः' इत्यमरः । बन्ध्या निष्फलाः। 'वन्ध्योऽफलोड. वकेशी च' इत्यमरः । वनस्पतयोऽपुष्णा वृक्षविशेषाः। तैरपुष्पादनसतिः'इत्यमरः। क्लीबा निर्जलाः। मेघा वारिधराः । क्षीणस्रोतसोऽल्पजलप्रवाहिन्यः । स्रवन्त्यो नद्यः । ' स्रवन्ती निम्नगाऽऽपगा। इत्यमरः । पंकशेषाणि कर्दमावशिष्टाने । पल्वलानि स्वल्पसरांसि । 'वशन्तः पल्वलं चाल्पसरः । इत्यमरः । निर्निस्यन्दानि प्रक्षरणशून्यानि । उत्समण्डलानि निर्झरमण्डलानि । 'उत्सः प्रस्रवणं वारिप्रवाहो निझरो झरः' इत्यमरः । विरलीभूतं नष्टप्रायम् । बहुलीभूतानि प्रचुराणि । तस्क- रकुलानि चौरसमुदायाः । पर्यलुठन्नितस्ततो भ्रमन्ति स्म । बलाका विहगविशेषः 'बालाका बिसकण्ठिका' इत्यमरः । तद्वत्पाण्डुराणि श्वेतवर्णानि । पर्यहिण्डन्त परिभ्रमन्ति स्म । 'हिडि भ्रमणे' । काकमण्डल्यो वायसकुलानि । पुटभेदनं पत्तनं 'पू: स्त्री पुरीनगयौँ वा पत्तनं पुट- भेदनम्' इत्यमरः । त एते इति । पूर्वोक्ता धनकादयः । सर्वमपि धान्यनिचयं धान्यसंग्रहम्। उपयुज्य व्ययं कृत्वा । अजाइछाग्योऽवयो मेषाः । 'अजा छागी शुभच्छागबस्तच्छगलका अजे। 'अवयः शैलमेषार्काः' इत्यमरः । तेषां समूहमजाविकटम् । 'संघाते कटच्' इति कटच् प्रत्ययः । गवलगणं महिषवृन्दम् । ' गवलो महिषेऽस्त्री तु तस्य शृंगेऽपि वर्तते ' इति वैजयन्ती । यूथं कुलं 'सजातीनां कुलं यूथम् ' इत्यमरः । अपत्यानि पुत्रान्कन्याश्च । क्रमेण पर्यायेण ।

षष्ठोच्छासः] मनोरमाख्यव्याख्यासहितम् । भार्या धूमिनी श्वो भक्षणीया' इति समकल्पयन् । अथ कनिष्ठो धन्यकः प्रियो स्वामतुमक्षमस्तया सह तस्यामेव निश्यपासरत् । मार्गक्लान्तां चोद्वहन्वनं जगाहे । स्वमांसामृगपनीतक्षुत्पिपासां तां नयन्नन्तरे कमपि निकृत्तपाणिपादकर्णनासि- कमवनिपृष्ठे विचेष्टमानं पुरुषमद्राक्षीत् । तमप्यााशयः स्कन्धेनोद्वहन्कन्दमूल- मृगबहुले गहनोद्देशे यत्नरचितपर्णशालश्चिरमवसत् । अमुं च रोपितव्रणमिंगु- दीतैलादिभिरामिषेण शाकेनात्मनिर्विशेषं पुपोष । पुष्टं च तमुद्रिक्तधातुमेकदा मृगान्वेषणाय च प्रयाते धन्यके सा धूमिनी रिरंसयोपातिष्ठत । भत्सितापि तेन बलात्कारमरीरमत् । निवृत्तं च पतिमुदकाभ्यर्थिनम् — उद्धृत्य कूपात्पिब, रुजति मे शिरः शिरोरोगः' इत्युदञ्चनं सरज्जु पुरश्चिक्षेप । उदञ्चयन्तं च ते कूपादपः, क्षणात्पृष्टतो गत्वा प्रणुनोद । तं च विकलं स्कन्धेनोदुह्य देशाद्दे. शान्तरं परिभ्रमन्ती पतिव्रताप्रतीति लेभे, बहुविधाश्च पूजाः । पुनरवन्तिरा- जानुग्रहादतिमहत्या भूत्या न्यवसत् । अथ पानीयार्थिसार्थजनसमापत्तिदृष्टोद्धृ- । । an । । श्व आगामिनि दिने । समकल्पयनिश्चितवन्तः। प्रियां स्वामात्मपत्नीम् । अत्तुं भक्षयितुम् । 'अद भक्षणे' । निशि रात्रौ । अपासरद्देशाद्वहिः पलायितः । 'सृ गतौ' । मार्गक्लान्तामध्वखिन्नाम् । उद्वहन्स्कन्धे धारयन् । जगाहे प्रविष्टवान्। 'गाहू विलोडने । स्वस्यात्मनो मांसनासृजा क्षतजेन च क्रमेणापनीते निवारिते क्षुद्भोक्तुमिच्छा, पिपासा जलपानतृष्णा च यस्या एतादृशीम् । अन्तरे मार्गमध्ये । निकृत्तं छिन्नं पाणिपादकर्णनासिकं करचरणश्रवणनासं यस्यैतादृशम् । 'द्वन्द्वश्च प्राणितूर्यसेनाझानाम्' इत्येकवद्भावः । अवनिपृष्ठे भूतले । आर्द्राशयोऽनुकम्पितचित्तः । स्कन्धेन. अंसदेशेन । गहनोद्देशे वनस्थले । 'गहनं काननं वनम् ' इत्यमरः । यत्नेन बहुपरिश्रमेण रचिता कृता पर्णशाला पत्रकुटीरं येनैवंभूतः सन् । चिरं बहुकालम् । अमुं चेति । मार्गे दृष्टं पुरुषम् । रोपितवणं चिकित्सितारुष्कम् । 'व्रणोऽस्त्रियामीममरुः' इत्यमरः । इंगुदी वृक्षविशेषः। 'इंगुदी तापसतरुः' इत्यमरः। आमिषेण मांसेन । 'पललं क्रव्यमामिषम् । इत्यमरः । आत्मनि- विशेषमात्मतुल्यम् । पुपोष पुष्टकायमकरोत् । उद्रिक्तधातुं प्रवृद्धधातुम् । मृगान्वेषणाय मृगहन- नाय । प्रयाते बहिर्गते । रिरंसया रन्तुमिच्छया । उपातिष्ठतोपस्थिताऽभूत् ' उपाद्देवपूजासंग- तिकरणमित्रकरणपथिाध्विति वाच्यम् ' इति वार्तिकेन संगतिकरणे आत्मनेपदम् । भर्सिता भयं प्रापिताऽपि । बलात्कारं तस्य खजतया हठात् इत्यर्थः । अरीरमत्सुरतक्रीडां चकारेत्यर्थः । निवृत्तं वनात्मत्यागतं पति धन्यकम् । उदकाभ्यर्थिनं जलं याचमानम् । कूपात्प्रहेः। 'पुंस्थे- वान्धुः प्रहिः कूप उदपानं तु पुसि वा ' इत्यमरः । रुजति पीडयति । उदश्चनं जलोद्धरणभा- जनम् । ' उत्सेचनं सेकपात्रं तथोदञ्चनमित्यपि ' इति वैजयन्ती । सरज्जु रज्जुसहितम् । पुरोऽ- प्रदेशे । चिक्षेप त्यक्तवती । उदञ्चयन्तं निष्कासयन्तम् । अपः सलिलानि । प्रणुनोद कूपे पातयामास । विकलं होनाङ्गम् । उदुह्य धृत्वा । पतिव्रताप्रतीति सतीयमिति प्रख्याति लेभे प्राप । भूत्यैश्चर्येण । विभूतिभूतिरैश्चर्यम् ' इत्यमरः । अथेति । पानीयार्थिभिर्जलकामुकैः ।

दशकुमारचरितम्। [ उत्तरपीठिकायां तमवन्तिषु भ्रमन्तमाहारार्थिनं भर्तारमुपलभ्य सा धूमिनी येन मे पतिर्विकली- कृतः स दुरात्मायम्' इति तस्य साधोश्चित्रवधमज्ञेन राज्ञा समादेशयांचकार । धन्यकस्तु दत्तपश्चाद्वन्धो वध्यभूमि नीयमानः सशेषत्वादायुषः ' यो भया विकलीकृतोऽभिमतो भिक्षुः, स चेन्मे पापमाचझीत, युक्तो मे दण्डः' इत्यदी. नमधिकृतं जगाद । ' को दोषः । इत्युपनीय दर्शितेऽमुष्मिन्स विकल: पर्यश्रुः यादपतितस्तस्य साधोस्तत्सुकृतमसत्याश्च तस्यास्तथाभूतं दुश्चरितमार्यबुद्धिराच- चक्षे । कुपितेन राज्ञा विरूपितमुखी सा दुष्कृतकारिणी कृता श्वभ्यः पाचिका । कृतश्च धन्यकः प्रसादभूमिः । तद्रवीमि-स्त्रीहृदयं क्रूरम्' इति । पुनरनुयुक्तो गोमिनीवृत्तान्तमाख्यातवान्-' अस्ति द्रविडेषु काञ्ची नाम नगरी । तस्यामनेककोटिसारः श्रेष्टिपुत्रः शक्तिकुमारो नामासीत्। सोऽष्टादश- वर्षदेशीयश्चिन्तामापेदे-'नास्त्यदाराणामनुगुणदाराणां वा सुखं नाम । तत्कथं नु गुणवद्विन्देयं कलत्रम्' इति । अथ वरप्रत्ययाहृतेषु दारेषु यादृच्छिकी संपत्तिमनभिसमीक्ष्य काान्तिको नाम भूत्वा वस्त्रान्तपिनद्धशालिप्रस्थो सार्थजनैः संघशः कुत्रचिद्गच्छद्भिोकैः । समापत्त्या यदृच्छया दृष्टं विलोकितं पुनरुतं च कूपात् । उपलभ्य दृष्ट्वा । विकलीकृतः छिन्नगात्रः कृतः । साधोर्निरपराधस्य । अज्ञेन वस्तु- स्थित्यनभिज्ञेन । समादेशयांचकाराज्ञां दापितवती। वध्यभूमि वधस्थलम् । अशेषत्वादायुषी जीवितावशेषात् । विकलीकृत इति अभिमतः संमतो धूमिन्या ! पापं क्रूरकर्म। आचक्षीत कथयेत् । अदीनं सधैर्यम् । अधिकृतं वधाधिकारिणं प्रतीत्यर्थः । उपनीय समीपमागमव्य । असत्याः कुलटायाः । ' असती कुलटेत्वरी' इत्यमरः । आर्यश्रुद्धिः साधुबुद्धिः। कुपितेन रुटेन । विरूपितमुखी दूषितानना । प्रसादभूमिरनुग्रहपात्रम् । तत्तस्मात्कारणात् । स्त्रीणां कामि- नानां हृदयं चेतः क्रूरमतिनिर्दयम् । तदेवोक्तमाचार्यैरपि । 'मधु तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम् । अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताडयते न विषेणम शस्त्रेण नामिना न च मृत्युना । निर्मिताः केवलं नार्यः स्त्रीभिरेव स्त्रियः कृताः ॥' 'हृदयं क्षुरधाराभं वचनं सुधया समम् । यासामेतासु नारीषु विश्वासो विपदे ध्रुवम्" । इत्यादि । पुनरिति । अनुयुक्तो राक्षसेन पृष्टः । 'प्रश्नोऽनुयोगः पृच्छा च कोटिसारः बहुकोटिपरिमितमूलद्रव्ययुक्तः । 'सारो बले स्थिरांशे च मज्ज्ञि पुंसि जले धने' इति मेदिनी । अष्टादशवर्षदेशीयः किंचिन्न्यूनाष्टादशवयस्कः । ईषदसमाप्तौ-' इति देशीयर् । आपेदे प्राप्तवान् । अदाराणां भार्याविधुराणाम् । अननुगुणाः प्रतिकूलाचरणशीला दारा येषामेव- विधानां च । सुखं नाम सुखलेशोऽपि नास्ति । ' यस्य नास्ति सती भार्या गृहेषु प्रियवादिनी। अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ' इत्युक्तत्वात् । कथं नु केन प्रकारेण । गुणवदनुकू- लगुणविशिष्टम् । विन्देयं प्रामुयाम् । कलत्रं भार्याम् । वरस्य जामातुः प्रत्ययार्थ गुणवती वा नवेति विश्वासार्थमाहृतेष्वानीतेषु । दारेषु भार्यासु । यादृच्छिकी यदृच्छयोत्पन्नां संपत्तिं गुणसां- । इत्यमरः । अनेक षष्टाच्छासः] मनीरमाख्यव्याख्यासहितम् । भुवं बभ्राम । ' लक्षणज्ञोऽयम्' इत्यमुष्मै कन्याः कन्यावन्तः प्रदर्शयांबभूवुः । यां कांचिल्लक्षणवती सवर्णा कन्यां दृष्ट्वा स किल स्म ब्रवीति-'भद्रे, शक्नोषि किमनेन शालिप्रस्थेन गुणवदन्नमस्मानभ्यवहारयितुम्' इति । स हसितावधूतो गृहाद्गृहं प्रविश्याभ्रमत् । एकदा तु शिविषु पट्टने सह पितृभ्यामवसितमहधिम्- बशीर्णभवनसारां धात्र्या प्रदर्घामानां कांचन विरलभूषणां कुमारी ददर्श । अस्यां संसक्तचक्षुश्चातयत्-'अस्याः खलु कन्यकायाः सर्व एवावयवा नाति- स्थूला नातिकृशा नातिह्रस्वा नातिदीर्घा न विकटा मृजावन्तश्च । रक्ततलांगुली यवमत्स्यकमलकलशाधनेकपुण्यलेखालाञ्छितौ करौ, समगुल्फसंधी मांसलाव- शिरालौ चांघ्री, जो चानुपूर्ववृत्ते, पीवरोरुग्रस्ते इव दुरुपलक्ष्ये जानुनी, सकृ- द्विभक्तश्चतुरस्रः ककुन्दरविभागशोभी रथाङ्गाकारसंस्थितश्च नितम्बभागः तनु- तरमीषन्निम्नं गम्भीरं नाभिमण्डलम् , वलित्रयेण चालंकृतमुदरम् , उरोभागव्या- पिनावुन्मनचूचुकौ विशालारम्भशोभिनौ पयोधरौ, धनधान्यपुत्रभूयस्त्वचिह्नले- खालाञ्छिततले स्निग्धोदनकोमलनखमणी ऋज्वनुपूर्ववृत्ततानांगुली संन्नतांसदेशे निभ्याम् । अनभिसमीक्ष्याप्रतीक्षमाणः सन् । कार्तान्तिको नाम लक्षणज्ञ इव वेषं धृत्वेत्यर्थः । 'कान्तिको लक्षणज्ञः' इति वैजयन्ती । वस्त्रान्ते वसनाञ्चले पिनद्धो बद्धः शालिप्रस्थ: प्रस्थपरिमितं ब्रीहिधान्यं येनैवंविधः। कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ' इत्यमरः । प्रदर्शयांवभूवुर्दर्शितवन्तः । सवर्णो समानजातीयाम् । गुणवद्गुणयुक्तम् । अन्नं भक्तम् । 'भिस्सा स्त्री भक्तमन्धोऽनमोदनोऽस्त्री सदीदिविः' इत्यमरः । अभ्यवहारयितुं भोजयितुम् । हसितेना- वधूतस्तिरस्कृतः । शिबिषु कावेरीदक्षिणतीरस्थदेशविशेषेषु । 'शिबिर्मरुदृधायास्तु दक्षिणं तीरमिष्यते' इति बैजयन्ती। पितृभ्यां मातापितृभ्यां सह साकमवसिता विनष्टा महती ऋद्धिर्यस्यास्तादृशीम् । पितृहीनामसंपन्नां चेत्यर्थः । अवशीर्णा इतस्ततो गता भवने गृहे स्थिता साराः स्थिरद्रव्याणि यस्या एवंविधाम् । धात्र्योपमात्रा । विरलभूषणां स्वल्पालंकाराम् । संसक्त- चक्षुः सलमदृष्टिः । नातिस्थूला नितरां पुष्टा अपि न सन्ति न चातिकृशाः दुर्बलाः। समा इति भावः । मृजावन्तः शुद्धाः । यवादिभिरनेकपुण्यलेखामिः शुभरेखाभिलाञ्छितौ चिह्नितौ । समौ गुल्फसंधी घुटिकाबन्धौ ययोरेवंभूतौ । 'तगन्थी धुटिके गुल्फी' इत्यमरः । मांसलौ सम- पुष्टौ । अङ्ग्री चरणौ । 'पदख्रिश्चरणोऽस्त्रियाम् ' इत्यमरः। जङ्ग्रे प्रसृते। अनुपूर्ववृत्ते क्रमशः पावरे । पावराभ्यामूरुभ्यामष्टीवद्भयां प्रस्ते कवलिते इव दुरुपलक्ष्ये दुर्दशैं। सद्विभक्ते समं विभक्ते । 'एकवारे समे सकृत् ' इत्यजयः । ककुन्दरस्य नितम्बकूपकद्वयस्य विभागेन शोभते एवंशीलः । कूपको तु नितम्बस्थौ द्वयहींने ककुन्दरे ' इत्यमरः । स्थाझाकारतया चक्राकारतया संस्थितः संनिवेशितः । नितम्बभागः कटिपश्चाद्भागः ‘पश्चानितम्बः स्त्रीकटया' इत्यमरः । तनुतरमतिसूक्ष्मम् । गम्भीरमतलस्पर्श च । उन्मनचूचुकौ उत्थितायौ । चूचुकं तु कुचाग्रं स्यात् ' इत्यमरः । पयोधरौ स्तनौ । धनादीनां भूयस्त्वचिह्नलेखाभिर्बहुत्वद्योतकलक्षणै- लाञ्छितं तलं ययोस्ते । ऋजवोऽवका अनुपूर्व वृत्ताः पुष्टाश्च ताम्रा अंगुलयो ययोस्ते । । १ .

दशकुमारचरितम्। [उत्तरपीठिकाय सौकुमार्यवत्यौ निमनपर्वसंधी च बाहुलते, तन्वी कम्बुवृत्तबन्धुरा च कंधरा, वृत्तमध्यविभक्तरागाधरम् , असंक्षिप्तचारुचिबुकम्, आपूर्णकठिनगण्डमण्डलम् , संगतानुक्क्रनीलास्निग्धभूलतम्, अनतिप्रौढतिलकुसुमसदृशनासिकम्, अत्यसित. धवलरक्तत्रिभागमासुरमधुराधीरसंचारमन्थरायतेक्षणम्,इन्दुशकलसुन्दरललाटम, इन्द्रनीलशिलाकाररम्यालकपति द्विगुणकुण्डलितम्लाननालीकनालललितलम्ब श्रवणपाशयुगलमाननकमलम् , अनतिभंगुरो बहुलः पर्यन्तेऽप्यकपिलरुचिराया- मवानेकैकनिसर्गसमस्निग्धनीलो गन्धग्राही च मूर्धजकलापः । सेयमाकृतिर्न व्यभिचरति शीलम् । आसज्जति च मे हृदयमस्यामेव । तत्परीक्ष्यैनामुद्बहेयम् । । कम्युः शेखः । ' शंखः स्यात्कम्बुरस्त्रियौ' इत्यमरः । तद्ववृत्ता बन्धुरा मनोज्ञा च कन्धरा शिरोधिः । असंक्षिप्तं विशालं चारु मनोज्ञ चिबुकं दन्ताधोभागः यत्रैवविधम् । अनतिप्रौढं नातिप्रफुल्लं यत्तिलकुसुमं तन्नासिका यस्मिन्नेतादृशम् । अति नितरामसितो नीलः, धवलः, रक्तोऽरुणवर्णश्च ये त्रयो भागास्तैर्भासुरे शोममाने, मधुरे मनोहरे, अधीरसंचारे अति- चञ्चले, मन्थरे मन्दगती, आयते विस्तृते च ईक्षणे नयने यत्रैवंविधम् । इन्दुशकलवदर्धचन्द्र वत्सुन्दरं ललाटं भालदेशो यत्र तादृशम् । 'ललाटमलिकं गोधिः ' इत्यमरः । इन्द्रनीलशिला- कारा तद्वदतिनीलवर्णा रम्या च अलकपतिर्यत्रैवंभूतम् । नालोकनालं पद्मदण्डम् । 'नालीक: शरशल्यानेष्वब्जखण्डे नपुंसकम्' इति मेदिनी । अकपिलरुचिः कृष्णवर्णः । आयामवान्दैर्य- चान् । एकैकं प्रत्येक निसर्गेण स्वभावैनव समः न तु कर्तनेन समीकृतः । मूर्धजकलापः केशपाशः ! सेयमिति । इयमेतादृशी आकृतिः न शील व्यभिचरति सद्गुणसंपत्ति विना न भवति । आसज्जति लग्नं भवति । परीक्ष्य विमृश्य । उद्वहेयं पारणेध्यामि । एतादृश्या एव विवाहयोग्य- स्वमुक्तं वराहामीहरेणे-स्निग्धोन्नताग्रतनुताम्रनखौ कुमार्याः पादौ समोपचितचारुनिगूढगुल्फो । श्लिष्टांगुली कमलकान्तितलौ च यस्यास्तामुदहेद्यदि भुवोऽधिपतित्वमिच्छेत् ॥ मत्स्यांकुशाब्जय. बवज्रहलासिचिह्नावस्वेदनौ मृदुतलौ चरणौ प्रशस्तौ । जंधे च रोमरहिते विपुले सुवृत्ते जानुद्वयं सममतुल्यमसंघिदेशम् ॥ ऊरू घनौ करिकरप्रतिमावरोमावश्वत्थपत्रसदृशं विपुलं च गुह्यम् ।। विस्तीर्णमांसोपचितो नितम्बो गुरुश्च धत्ते रशनाकलापम् । नाभिगीरा विपुलाङ्गनानां प्रदक्षि- णावर्तगता च शस्ता ॥ मध्य स्त्रियान्त्रिवलनाल्पमरोमशं च वृत्तौ घनावविषमौ कठिनावुरोजी रोमप्रवर्जितमुरो मृदु चाशनानां ग्रीवा च कम्बुनिचितार्थसुखानि धत्ते ॥ बन्धुजीवकुसुमोप- मोऽधरो मांसलो रुचिरविश्वरूपधृक् । कुन्दकुड्मलनिभाः समा द्विजा योषितां पतिसुखा. मितार्थदाः॥ दाक्षिण्ययुक्तमशठं परपुष्टहंसवल्गुप्रभाषणमदीनमसौष्ठवं च । नासा समा समपुर रुचिरप्रशस्ता दृड्नीलनीरजलदे द्युतिहारिणी च ॥ नो संगते नातिपृथू न लम्बे शस्ते ध्रुवी बालशशाङ्कवके । अर्धेन्दुसंस्थानमलोमशं च शस्तं ललाटं न तलं न तुङ्गम् । कर्णयुग्ममपि युक्तमांसलं शस्यते मृदु समं समाहितम् । निग्धनीलमृदुकुञ्चितलम्बा मूर्धजाः शुभकराः शिर:- षष्टोच्छासः] मनोरमाख्यव्याख्यासहितम् । अविमृश्यकारिणां हि नियतमनेकाः पतन्त्यनुशयपरम्पराः' इति । स्निग्धदृष्टि- राचष्ट-'भद्रे, कच्चिदस्ति कौशलं शालिप्रस्थेनानेन संपन्नमाहारमस्नानभ्यवहा- रयितुम्' इति । ततस्तया वृद्धदासी साकूतमालोकिता । तस्य हस्तात्प्रस्थमात्रं धान्यमादाय कचिदलिन्दाद्देशे सुसिक्तसंमृष्टे दत्तपादशौचमुपावेशयत् । साकन्या तान् गन्धशालीन्संक्षुद्य मात्रया विशोप्यातपे मुहुर्मुहुः परिवर्त्य स्थिरसमाय भूमौ नालीपृष्ठेन मृदुमृदु घट्टयन्ती तुषैरखण्डैस्तण्डुलान्पृथक्चकार । जगाद च धात्रीम्-'मातः, एभिस्तुपैरार्थिनो भूषणमृजाक्रियाक्षमैः स्वर्णकाराः। तेभ्य इमान्दत्त्वा लब्धाभिः काकिणीभिः स्थिरतराण्यनत्यााणि नातिशुष्काणि काष्टानि मितंपचां स्थालीमुझे शरावे चाहर' इति । तथाकृते तया तांस्तण्डुला- । । । स्थिताः ॥' इति । अविमृश्यकारिणामविचार्य कुर्वताम् । नियतं निश्चयेन । अनुशयपरं- पराः पश्चात्तापधाराः । 'भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः' इति विश्वः । तदुक्तं कालि. दासेन ' सहसा विदधीत न क्रियामविवेकः परमापदों पदम् । वृगते हि विमृश्यकारिणं गुण- लुब्धाः स्वयमेव संपदः ॥' इति । स्निग्धदृष्टिः सप्रणयं निपतितनयनः । भद्रे इति । हे. कल्याणि । काञ्चदित्यनुयोगे। 'कञ्चित्कामप्रवेदने' इत्यमरः । कौशलं निपुणता । शालिप्र. स्थेन प्रस्थपारमितव्रीहिसंचयेन । प्रस्थः परिमाणविशेषः 'माषटंकाक्षबिल्वानि कुडव: प्रस्थ- माडकम् । राशिौणी खारिकेति यथोत्तरचतुर्गुणम् ॥ ' इति शार्ङ्गधरवचनात् सेरचतुटयामति भावः । संपन्नं समृद्धम् । अभ्यवहारयितुं भोजयितुम् । तया कन्यया। साकूतं साभिप्रायम् । आकृतं स्यादभिप्रायः' इति हलायुधः । आलोकिता दृष्टा । प्रस्थमात्रं तत्परिमितम् । 'मात्रा. परिच्छदे वर्णे मानेऽल्पे ' इति रत्नमाला । अलिन्दोद्देशे द्वारबहिःस्थले । 'प्रघाणप्रघणालिन्दा बहिरप्रकोष्टके' इत्यमरः । सुसिक्ते सम्यग्जलेन प्रोक्षिते पश्चात्संमृष्टे मार्जन्या दूरीकृत. रजस्के । दत्तं पादशौचं पादप्रक्षालनार्थ जलं यस्मै तादृशम् । उपावेशयदुपवेशितवती । गन्ध- शालीनगन्धयुक्तान् ब्रोहीन् । संक्षुध कुट्टयित्वा । मात्र या अल्पकालेन । विशोषय शुष्कं कृत्वा । आतपे सूर्यकिरणयुक्तप्रदेश्ने । स्थिरायां समायामनिम्नोन्नतायां च । नालीपृष्ठेन मुसलविशेषेण । मृदुमृदु शनैः शनैः । घट्टयन्ती मर्दयन्ती । तुषैर्धान्यत्वग्भिः । अखण्डैरच्छिन्नैः । 'पृथग्विना- नानाभि:-' इति तृतीया। पृथक्चकार वियोजितवती । धात्रीमुपमातरम् । आर्थिनः सप्र. योजनाः । भूषणानां स्वर्णालंकाराणां मुजाक्रियायां वहिशोधनकर्मणि क्षमैः समथैः । स्वर्णकाराः नाडिंधमाः । 'नाडिंधमः स्वर्णकारः कलादो रुक्मकारकः ' इत्यमरः । इमांस्तुषान् । काकि- गोभिः कपर्दिकाभिः । 'वराटकानां दशकद्वयं यत्सा काकिणी ' इति लीलावती । अन- त्याद्राणि नातिसरसानि । तथात्वे ज्वलने विलम्बसम्भवात् । नातिशुष्काणि अतिनीरसत्वे निःशेष ज्वलनप्रसंगात् । काष्ठानीन्धनानि । मितं स्वलं पचतीत्येवंशीलाम् । 'मितनखे च' इति खश् । अरुषिदजन्तस्य मुम्' इति मुम् च । शरावः पात्रविशेषः 'शरावो वर्धमानकः' इत्यमरः आहरानय । तथेति । आनीते सति । तयोपमात्रा वृद्धया । अनतिनिम्ना नातिगभीरा, ।

दशकुमारचरितम् । [उत्तरपीठिकायां ननतिनिनोत्तानविस्तीर्णकुक्षौ ककुभोलूखले लोहपत्रवेष्टितमुखेन समशरीरेण विभाव्यमानमध्यतानवेन व्यायतेन गुरुणा खादिरेण मुसलेन चतुरललितक्षेप- पणोत्क्षेपणायासितमुजमसकृदंगुलीभिरुद्धृत्योद्धृत्यावहत्य शूर्पशोधितकणकिंशा- रुकास्तण्डुलानसकृदद्भिः प्रक्षाल्य कथितपञ्चगुणे जले दत्तचुल्लीपूजा प्राक्षिपत् । प्रश्नथावयवेषु प्रस्फुरत्सु तण्डुलेषु मुकुलावस्थामतिवर्तमानेषु संक्षिप्यानलमुपहि- तमुखपिधानया स्थाल्यान्नमण्डमगालयत् । दा चावघट्य मात्रया परिवर्त्य समपक्केषु सिक्थेषु तां स्थालीमधोमुखीमवातिष्ठिपत् । इन्धनान्यन्तःसाराण्य- म्भसा समभ्युक्ष्य प्रशमिताग्नीनि कृष्णाङ्गारीकृत्य तदार्थभ्यः प्राहिणोत् । "एमिर्लब्धाः काकिणीर्दत्त्वा शाकं घृतं दधि तैलमामलकं चिञ्चाफलं च यथा- लाभमानय' इति । तथानुष्ठिते च तया द्वित्रानुपदंशानुपपाद्य तदन्नमण्डमाई- १ नात्युत्ताना, नातिविस्तीणा च कुक्षिमध्यभागो यस्यैवंविधे। ककुभोऽर्जुनवृक्षस्तन्मये उलूखले धान्यानां कुट्टनयन्त्रे । 'इन्द्रगुः ककुभोऽर्जुनः ' इत्यमरः । लोहपत्रेणायसकटकेन वेष्टितं मुख. मग्रभागो यस्यैवंविधन । समशरीरेण ऋज्वाकृतिना विभाव्यमानं दृश्यमानं मध्ये पाणिना महणार्थ तानवं कृशत्वं यस्यैवंभूतेन । ' इगन्ताच लघुपूर्वात् ' इति तनुशब्दाद्भावार्थेऽण् । व्यायतेना- तिदीर्घेण। खदिरस्य विकार : खादिरः। गायत्री बालतनयः खदिरो दन्तधावनः इत्य- मरः। 'पलाशादिभ्यो वा' इति विकारार्थेऽण् । मुसलेन धान्यकुट्टनसाधनेन । चतुरं निपुर्ण ललितं सुन्दरं च यथा तथा क्षेपणोत्क्षेपणाभ्यामवनमनोन्नमनाभ्यामायासितौ क्लेशितौ भुजौ यस्मिन्कर्मणि तद्यथा तथा । असकृद्वारंवारम् । अवहत्य घट्टयित्वा । शूर्पण वंशकृतपानाविशेषण शोधिताः पृथक्कृताः कणास्तण्डुलक्षुद्रावयवाः किंशारवः सूचीतुल्यधान्याग्रभागाश्च येभ्यस्ता- दृशान् । 'किंशासः सस्यशूकं स्यात्' इत्यमरः । 'प्रस्फोटनं शूर्पमस्त्री' इति च । आद्भः सलिलैः । कथितेऽग्निसंतप्ते, पञ्चमगुणे तण्डुलापेक्षया पञ्चगुणाधिके । दत्ता कृता चुल्याः अधिश्रयण्याः पूजा यया तादृशी सती । ' अश्मन्तमुद्धानमाधिश्रयणी चुल्लिरन्तिका ' इत्यमरः । प्राक्षिपत् पाकाथै निक्षिप्तवती । प्रश्लथाः शिथिलीभूता अवयवा येषामेवंविधेषु । प्रस्फुरत्सु क्वथत्सु । अनलमग्निं संक्षिप्य संकोच्य । उपहितं न्यस्त मुखे पिधानमाच्छादनं यस्या एवंविधया । अन्नस्यौदनस्य मण्डं निखावम् । 'मासराचामनिस्रावा मण्डे भक्तसमुद्भवे । इत्यमरः । अगालयनिष्कासयामास । दा खजाकया।' दर्विः कम्बिः खजाका च' इत्यमरः । मात्रया स्वल्पपरिमाणेन । समं पक्केषु पार्क प्राप्तेषु । पचो वः' इति निष्ठाया वः । सिक्थेषु भक्तपुला- केषु । अवातिष्ठिपदवस्थापयामास । तिष्ठतरित्' इतीदादेशः । इन्धनानि काष्टानि । अन्त:- साराणि बहिर्दग्धान्यापि मध्ये ससाराणि । अम्भसा वारिणा । कृष्णाङ्गारीकृत्य असितवर्णाना- रान्संपाद्य । तदर्थिभ्योऽशारार्थिभ्यः । प्राहिणोदुपमातृद्वारा विक्रयाथै प्रेषयामास । घृतमाज्यम् । आमलकं धात्रीफलम् । चिञ्चाफलं तिन्तिणीफलं च । यथालाभं यथाप्राप्तम् । द्विवान्कतिचित् । .. । । ।

षष्टोच्छासः] मनोरमाख्यव्याख्यासहितम् । वालुकोपहितनवशरावगतमिति मृदुना तालवृन्तानिलेन शीतलीकृत्य सलवणसं- भारं दत्ताङ्गारधूपवासं च संपाद्य, तदप्यामलकं श्लक्ष्णपिष्टमुत्पलगन्धि कृत्वा धात्रीमुखेन स्नानाय तमचोदयत् । तया च स्नानशुद्धया दत्ततैलामलकः क्रमेण सनौ । स्नातः सिक्तमृष्ट कुट्टिमे फलकमारुह्य पाण्डुहरितस्य त्रिभागशेषलूनस्या- ङ्गणकदलीपलाशस्योपरि दत्तशरावद्वयमार्द्रमभिमृशन्नतिष्ठत् । सा तु तां पेया- मेवाग्रे समुपाहरत् । पीत्वा चापनीताध्वक्लमः प्रहृष्टः प्रक्लिन्नसकलगात्रः स्थितोऽ- भूत् । ततस्तस्य शाल्योदनस्य दुर्वीद्वयं दत्त्वा सर्पिर्मात्रां सूपमुपदंशं चोपजहार । इमं च दना च त्रिजातकावचूर्णितेन सुरभिशीतलाभ्यां च कालशेयकाद्धि- काभ्यां शेषमन्नमभोजयत् । सशेष एवान्धस्यसावतृप्यत् । अयाचत च पानी- यम् । अथ नवभृङ्गारसंभृतमगुरुधूपधूपितमभिनवपाटलाकुसुमवासितमुत्फुल्लो- त्पलप्रथितसौरभं वारि नालीधारात्मना पातयांबभूव । सोऽपि मुखोपहित- उपदंशान्व्यञ्जनानि । आर्द्रया वालुकया मृद्विशेषेणोपहिते कृते नवे नूतने शरावे वर्धमाने गत: स्थापितामत्यर्थः । तालवृन्तस्य व्यजनस्यानिलेन वायुना ! लवणेन संभारेण हरिद्रामारचादि- चूर्णेन च सह वर्तत इति सलवणसंभारं तद् । श्लक्ष्णं मृदु यथा तथा पिष्टं चूर्णितम् । उत्पलस्येव गन्धोऽस्मिन्नस्तीति उत्पलगन्धि । ' उपमानाच' इति इदादेशः । बानाय स्नानं विधातुम् । क्रियार्थोपपदस्य च कर्मणि स्थानिनः । इति चतुर्थी । अचोदयत्प्रेषयामास । तया च वृद्धया । दत्तं तैलमामलकं च यस्मै सः । सन्नौ स्नानमाचचार । स्नात इति । कुहिमे परिष्कृतभूम्याम् । कुटिमोऽस्त्री निबद्धा भूः' इत्यमरः । फलकमासनपीठम् । आरुह्य तदुपर्युपविश्य । त्रयो भागाः शेषाः यस्मिन्कर्मणि तथा लूनस्य छिन्नस्य । अङ्गणे गृहचत्वरे वर्तमानायाः कदल्याः पलाशस्य पत्रस्य। 'पत्रं पलाशं छदनं दलं पणे छदः पुमान्' इत्यमरः। अभिमृशन्हस्तेन स्पृशन् । सा तु कन्या । पेयां ससिक्थाम् । 'सिक्थकै रहितो मण्डः पेया सिक्थसमन्विता । यवागू- बहुसिक्था स्याद्विलेपी विरलद्रवा' इति वैद्यकशास्त्रे । अग्रे आदौ । अपनीताध्वक्लमो गतमार्ग- श्रमः । प्रक्लिन्नं पेयापानात्स्वेदयुक्तं सकलं गात्रं यस्यैवंविधः । शाल्योदनस्य तण्डुलभक्तस्य । दीद्वयं तत्परिमितमन्नमित्यर्थः । सर्पिर्मात्रां स्वल्पमाज्यम् । सूपं पक्कमाढकदिलम् । उपदंश शाकादिव्यञ्जनम् । उपजहारानीतवती । त्रिजातकावचूर्णितेन त्रिजातकं कटुत्रयं तेनावचूर्णितेन आलोडितेन । सुरभिभ्यां वासिताभ्यां शीतलाभ्यां नात्युष्णाभ्यां च । कालशेयं गोरसः, काजिक तिन्तिणीचूर्णम्, ताभ्याम् । दण्डाहतं कालशेयमरिष्टमपि गोरसः ' 'आरनालकसौवीरकुल्मा. याभियुतानि च । अवन्तिसोमधान्याम्लकुञ्जलानि च कालिके' इत्यमरः । शेषमवशिष्टम् । अन्धस्यन्ने । 'भिस्सा स्त्री भक्तमन्धोऽनमोदनोऽस्त्री सदीदिविः' इत्यमरः । असौ शक्ति- कुमारः ! अतृप्यत्संतुष्टो बभूव । पानीयं जलम् । नवे नूने भृङ्गारे पात्रविशेषे संभृतं संचितम् । भृङ्गारः कनकालुका ' इत्यमरः । अभिनवैः प्रत्यप्रैः पाटलाकुसुमैर्वासितं सुरभीकृतम् । उत्फु. फ्लैर्विकचैरुत्पलैः कमलैर्ग्रथितमुत्पादितं सौरभं वासना यस्यैवंविधम् । नालीधारात्मना भृङ्गार- . १ .

पर्यचरत् । गृह- CON: दशकुमारचरितम्। [ उत्तरपीठिकाया शरावेण हिमशिशिरकणकरालितारुणायमानाक्षिपक्ष्मा धारारवाभिनन्दितश्रवणः स्पर्शसुखोद्भिनरोमाञ्चकर्कशकपोलः प्रबालोत्पीडपरिमलफुल्लनाणारन्धो माधुर्य- प्रकर्षावर्जितरसनेन्द्रियस्वदच्छं पानीयमाकण्ठं पपौ । शिरःकम्पसंज्ञावारिता च पुनरपरकरकेणाचमनमदत्त कन्या । वृद्धया तु तदुच्छिष्टमपोय हरितगोमयो- पलिते कुट्टिमे स्वमेवोत्तरीयकर्पटं व्यवधाय क्षणमशेत । परितुष्टश्च विधिवदु- पयभ्य कन्यां निन्ये । नीत्वैतदनपेक्षः कामपि गणिकामवरोधमकरोत् । ताम- प्यसौ प्रियसखीमिवोपाचरत् । पतिं च दैवतमिव मुक्ततन्द्रा कार्याणि चाहीनमन्वतिष्ठत् । परिजनं च दाक्षिण्यनिधिरामाधीनमकरोत् । तद्गुणवशीकृतश्च भर्ता सर्वमेव कुटुम्ब तदायत्तमेव कृत्वा तदेकाधीनजीवित- शरीरस्त्रिवर्ग निर्विवेश । तद्ब्रवीमि-'गृहिणः प्रियहिताय दारगुणाः ' इति । ततस्तेनानुयुक्तो निम्बवतीवृत्तमाख्यातवान्-'अस्ति सौराष्ट्रषु वलभी नाम नगरी । तस्यां गृहगुप्तनान्नो गुह्यकेन्द्रतुल्याविभवस्य नाविकपतेर्दुहिता रत्नवती नाम । तां किल मधुमत्याः समुपागम्य बलभद्रो नाम सार्थवाहपुत्रः पर्यणै- षीत् । तथापि नववध्वा रहसि रभसविनितसुरतसुखो झटिति द्वेषमल्पेतर च्छिद्रधारारूपेण। मुखे उपहितेन स्थापितेन शरावेग वर्धमानकेन । हिमवत्तुषारवच्छिशिरैः शीतलैः कणैर्जलबिन्दुभिः करालितानि व्याप्तान्यत एवारुणायमानानि रक्तीभूतान्यक्षिपक्ष्माणि नेत्रप्रान्तभागाः यस्यैवंविधः सन् । धारारवेण जलसंपातशब्देनाभिनन्दिते आह्लादिते श्रवणे कणों घस्य तादृशः । स्पर्शसुखेनोदिनैः संजातै रोमाञ्चै रोमोद्गमैः कर्कशौ कठिनौ कपोलौ गण्डौ यस्य तथाविधः । प्रवालोत्पीडस्य किसलयशेखरस्य परिमलेन वासनाविशेषेण फुल्ले विकसिते तृप्ते इति धावत्तादृशे घ्राणरन्द्रे नासाद्वारे यस्यैवंविधः । प्रवालोऽस्त्री किसलये वीणादण्डे च विद्रुमे' इति मेदिनी । माधुर्यप्रकर्षेण स्वादुतातिरेकेणावर्जितं सन्तोषितं रसनेन्द्रियं जिह्वा यस्यैवभूतः । पूर्वो- कविधया पञ्चानामपीन्द्रियाणामत्यानन्दं प्राप्तः सनित्यर्थः । अच्छे निर्मलम् । आकण्ठं कण्ठ- पर्यन्तम् । शिरःकम्परूपया संज्ञया संकेतेन वारिता जलधारापातनानिषिद्धा । 'संज्ञा स्याचेतना नाम हस्तायैश्चार्थसूचना' इत्यमरः । अपोह्य निष्कास्य । गोमयेन गोः पुषिण। गोश्व युरीषे' इति मयट् । तेनोपलिप्ते संमृष्टे। उत्तरीयकपटेन जीर्णसव्यानवासःखण्डेन । संव्या- नमुत्तरीयं च ' 'पटचरं जीर्णवस्त्रं समौ नक्तककर्पटौ' इत्यमरः । अशेत निद्रां चकार । उपयम्य परिणाय । नीत्वेति । एतस्यां कन्यायामनपेक्षः निरभिलाषः । गणिकां वारवधूम् । तामपि गणिकामपि । असौ विवाहिता कन्या । मुक्ततन्द्रा निरालस्या । अहीनमुत्तमप्रकारेण । आत्मा- धीनं स्ववशवर्तिनम् । तस्याः कन्याया गुणैर्वशीकृतः । तदायत्तं तदधीनम् । त्रिवर्ग धर्मार्थ- कामान् । त्रिवर्गो धर्मकामाथैः' इत्यमरः । निर्विवेशोपभुक्तवान् । 'निर्वेशो मृतिभोगयोः । इत्यमरः । दारगुणाः पत्नीगुणाः । तत इति । वृत्तं चरितम् । गुह्यकेन्द्रः यक्षश्रेष्ठः कुबेरः तत्तुल्यविभवस्य तत्समा- नैश्चर्ययुक्तस्य । मधुमत्याः तन्नाम्न्या नगर्याः । पर्यणैषीद्विवाहितवान् । नववध्वा नवोढ- । । - ।

२०७ : षष्टोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । अबन्ध । न तो पुनर्द्रष्टुमिष्टवान् । तद्गृहागमनमपि सुहृद्वाक्यशतातिवर्ती लजया परिजहार । तां च दुर्भगां तदाप्रभृत्येव 'नेयं रत्नवती, निम्बवती चेयम्। इति स्वजनः परिजनश्च परिबभूव । गते च कस्मिंश्चित्कालान्तरे सा त्वनुतप्य- माना 'का मे गतिः' इति विमृशन्ती कामपि वृद्धप्रत्राजिकां मातृस्थानीयां देवशेषकुसुमैरुपस्थितामपश्यत् । तस्याः पुरो रहसि सकरुणं रुरोद । तयाप्यश्रु- मुख्या बहुप्रकारमनुनीय रुदितकारणं पृष्टा त्रपमाणापि कार्यगौरवात्कथंचिद- ब्रवीत्-'अम्ब, किं ब्रवीमि दौर्भाग्यं नाम जीवन्मरणमेवाङ्गनानाम्, विशेषतश्च कुलवधूनाम् । तस्याहमस्म्युदाहरणभूता । मातृप्रमुखोऽपि ज्ञातिवर्गो मामव- ज्ञयैव पश्यति । तेन सुदृष्टां मां कुरु । न चेत्त्यजेयमद्यैव निष्प्रयोजनान्प्राणान् । आविरामाञ्च मे रहस्यं नाश्राव्यम्' इति पादयोः पपात । सैनामुत्थाप्योद्वाष्पो- वाच-'वत्से, माध्यवस्य साहसम् । इयमास्म त्वनिदेशवर्तिनी । यावति मयो- पयोगस्तावति भवाम्यनन्याधीना। यद्येवासि निविण्णा तपश्चर त्वं मदधिष्ठिता पारलौकिकाय कल्याणाय । नन्वयमुदर्कः प्राक्तनस्य दुष्कृतस्य, यदनेनाकारणे- शेन शीलेन जात्या चैवंभूतया समनुगता सती अकस्मादेव भद्वेप्यतां गतासि। यदि कश्चिदस्त्युपायः पतिद्रोहप्रतिक्रियायै दर्शयामुम् , मतिार्ह ते पटीयसी' इति । अथासौ कथंचित्क्षणमधोमुखी ध्यात्वा दीर्घोप्णश्वासपूर्वमवोचत्- 'भग- वति, पतिरेकदैवतं वनितानाम्, विशेषतः कुलजानाम् । अतस्तच्छुश्रूषणाभ्यु- पायहेतुभूतं किञ्चिदाचरणीयम् । अस्त्यस्मत्प्रातिवेश्यो वणिगभिजनेन विभवेन । भार्यया । रभसेन वेगेन विनितं कृतान्तरायं सुरतसुखं यस्यैतादृशः सन् । झटित्याशु । द्वेषं मत्सरमल्पेतरमधिकम् । सुहृदां मित्राणां वाक्यशतमतिवर्तते उल्लङ्ग्य चरतीत्येवंशीलः। परिजहार परितत्याज। दुर्भगा भर्तृ सौभाग्यरहिताम् । परिबभूवावमानितवान् । अनुतप्यमाना मनसि पश्चात्तापं विदधती । विमृशन्ती पर्यालोचयन्ती । वृद्धां स्थविरां परित्राजिका संन्यासि- नीम् । देवशेषकुसुमैरीचरनिर्माल्यैः। पुरोऽग्रे। रुरोद क्रन्दति स्म । तया परिवाजिकया। अनुनीय समाधाय ! रुदितकारण रोदनहेतुम् । त्रपमाणा लज्जमाना । 'त्रपूष् लज्जायाम् । अङ्गनानां योषिताम् । कुलवधूनां सत्कुलप्रसूतानां सतीनामिति भावः । उदाहरणभूता दृष्टान्त- भूता । मातृप्रमुखो जनन्यादिः । ज्ञातिवर्गो बन्धुसमूहः । अवज्ञयाइनादरेण । तेन ज्ञातिवर्गेण पत्या वा। आविरामादेतत्कार्यावसानपर्यन्तम् । नाश्राव्यं कस्यापि निकटे न वक्तव्यम् । उद्बाष्पा उत्थिताश्रुजला । माऽध्यवस्य मा विधेहि । साहसं प्राणत्यागरूपं क्रूरं कर्म । त्वनिदेशवर्तिनी तवा- ज्ञापालिका । नान्यस्य किन्तु तवैवाधीना क्शा । निर्विग्गा वैराग्यवती । पारलौकिकाय परलोक- भवाय कल्याणाय श्रेयसे। उदर्को भाविसुफलसूचकः 'उदर्कः फलमुत्तरम्' इत्यमरः । प्राक्तनस्य पूर्वमाचरितस्य । शीलेन स्वभावेन । अकस्मानिनिमित्तम् । भर्तुः द्वेष्यतामप्रीतिपात्रताम् । मतिर्बुद्धिः पटीयस्यतिनिपुणा । अथेति । असौ निम्बवती । वनितानां स्त्रीणाम् । आचरणीयं । ।

दशकुमारचरितम् । [ उत्तरपीठिकायां राजान्तरङ्गभावेन च सर्वपौरानतीय वर्तते । तस्य कन्या कनकवती नाम मत्समानरूपावयवया ममातिस्निग्धा सखी । तया सह तद्विमानहऱ्यातले ततोऽपि द्विगुणमण्डिता विहरिप्यामि । त्वया तु तन्मातृप्रार्थनं सकरुणसाभ- धाय मत्पतिरेतद्गृहं कथंचनानेयः । समीपगतेषु च युष्मासु क्रीडामत्ता नाम कन्दुकं भ्रंशयेयम् । अथ तमादाय तस्य हस्ते दत्त्वा वक्ष्यास-पुत्र , तवेयं भार्यासखी निधिपतिदत्तस्य सर्वश्रेष्टिमुख्यस्य कन्या कनकवती नाम । त्वामि- यमनवस्थो निष्करुणश्चेति रत्नवतीनिमित्तमत्यर्थं निन्दति । तदेष कन्दुको विप- झवनं प्रत्यर्पणीयम् ' इति । स तथोक्तो नियतमुन्मुखीभूय तामेव प्रियसखीं मन्यमानो मां बद्धाजलि याचमानायै मह्यं भूयस्त्वत्प्रार्थितः साभिलाषमाय- प्यात । 'तेन रन्ध्रेणोपश्लिप्य रागमुज्ज्वलीकृत्य यथासौ कृतसङ्केतो देशान्तरमा- दाय मां गमिष्यति तथोपपादनीयम्' इति । हर्षाभ्युपेतया चानया तथैव संपा- दितम् । अथैतां कनकवताति वृद्धतापसीविप्रलब्धो बलभद्रः सरत्नसाराभरणा- मादाय निशि नीरन्ध्रे तमसि प्रावसत् । सा तु तापसी वार्तामापादयत्-'मन्देन । । । कर्तव्यम् । अस्माकं प्रातिवेश्यः सम्मुखगृहवासी । वणिग्वाणिज्यकारी । अभिजनेन कुलेन । सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ । इत्यमरः । विभवेन संपदा। राज्ञोऽन्तरङ्गभावेन मित्रभूततया च । अतीत्यातिक्रम्य । तया कनकवत्या सह । तस्याः कनकवत्या विमानस्य सप्तप्रासादकगृहस्य हर्म्यतले प्रासादोपरिभागे। 'विमानो व्योमयाने च सप्तभूमिगृहेऽपि च । घोटके यानमात्रे च पुनपुंसकयोमतः' इति मेदिनी। ततोऽपि कनकवत्यपेक्षया । द्विगुणं यथा तथा मण्डिताऽलंकृता सती । तस्याः कनकवत्या मातुः । प्रार्थनं याच्याम् । कथंचन केनानि प्रकारेण । आनेयः इति व्याजेन प्रापणीयः । क्रीडामत्ता नाम कन्दुकक्रांडायामनव- हितेव । भ्रंशयेय निपातयेयम् । अथेति । तं कन्दुकमादायोरिक्षप्य । तस्य मद्भर्तुः । वक्ष्यसि कथयिष्यसि । भार्यायाः सखी वयस्या । इयं कनकवती । अनवस्थो निर्मादः । निष्करुणः अनपराधिन्याः स्वभार्यायास्त्यागाद्दयाशून्यः । रत्नवतीनिमित्तं रत्नवतीं त्वया त्यक्तां दृष्ट्वेत्यर्थः । अत्यर्थ बहु । विपक्षधनं शत्रुस्वम् । प्रत्यर्पणीयं प्रतिदेयम् । स मम भर्ता बलभद्रः । तथोक्त- प्रकारेण वृद्धया त्वया कथितः। तामेव कनकवतीमेव । त्वया वृद्धया प्रार्थितः । साभिलाषं सस्नेहम् । अर्पयिष्यति कन्दुकं दास्यति । रन्ध्रणोपायेन । उपश्लिष्य तस्य पत्युः संसर्ग प्राप्य । राग 'नेयं पूर्वभार्या किन्तु अन्या तत्सखी' इति विचारेण मय्यासक्तिम् । असौ मत्पतिर्बल- भद्रः । कृतसंकेतः मया सह देशान्तरगमनाय कृतसंज्ञः । उपपादनीयं कर्तव्यम् । हर्षेणानन्देन अभ्युपेत्तयाऽङ्गीकृतवत्या मदुक्तम् । अनया भिक्षुक्या । तथैव संपादितं मत्पतिरानीत इत्यर्थः अथैति । एतां निम्बवतीम् । वृद्धतापस्या विप्रलब्धो वञ्चितः। सरत्नसाराभरणां रत्नखचित. मुख्यालंकारसहिताम् । नीरन्ब्रे निबिड़े तमस्यन्धकारे । प्रावसद्देशान्तरं गतः। वार्ता जनश्रुतिम् । ।

। षष्टोच्छुासः] मनोरमाख्यव्याख्यासहितम्। २०९ मया निर्निमित्तमुपेक्षिता रत्नवती, श्वशुरौ च परिभूतौ, सुहृदश्चातिवर्तिताः । तत्रैव संसृष्टो जीवितुं जिह्वेमीति बलभद्रः पूर्वेद्युर्मामकथयत् । नूनमसौ तेन नीता व्यक्तिश्चाचिराद्भविष्यति' इति । तच्छ्रुत्वा तद्वान्धवास्तदन्वेषणां प्रति शिथिलयत्नास्तस्थुः । रत्नवती तु मार्गे कांचित्पण्यदासी संगृह्य तयोह्यमानपाथे- याद्युपस्करा खेटकपुरमगमत् । अमुत्र च व्यवहारकुशलो बलभद्रः स्वल्पेनैव मूलेन महद्धनमुपार्जयत् । पौराग्रगण्यश्चासीत् । परिजनश्च भूयानर्थवशात्समाज- गाम । ततस्तां प्रथमदासीम् ' न कर्म करोषि, दृष्टं मुष्णासि , आप्रियं ब्रवीषि' इति परुषमुक्त्वा वह्वताडयत् । चेटी तु प्रसादकालापाख्यातरहस्यस्य वृत्तान्तैक- देशमात्तरोषा निर्विभेद । तच्छ्रुत्वा लुब्धेन तु दण्डवाहिना पौरवृद्धसंनिधौ निधि- पतिदत्तस्य कन्यां कनकवतीं मोषणापहृत्यास्मत्पुरे निवसत्येष दुर्मतिर्बलभद्रः । तस्य सर्वस्वहरणं न भवद्भिः प्रतिबन्धनीयम्' इति नितरामभयंत । भीतं च बलभद्रमभिजगाद रत्नवती-'न भेतव्यम् । बहि, नेयं निधिपतिदत्तकन्या कन- कवती। वलभ्यामेव गृहगुप्तदुहिता रत्नवती नामेयं दत्ता पितृभ्यां मया च न्यायोढा । न चेत्प्रतीथ प्रणिधिं पहिणुतास्या बन्धुपार्श्वम् ' इति । बलभद्रस्तु निर्निमित्तं निष्कारणम् । उपेक्षिता परित्यक्ताऽसीत् । श्वशुरौ जायामातापितरौ । श्वशुरःश्ववार इत्येकशेषः । परिभूतावनादृतौ । अतिवर्तिता उपेक्षिताः । अत्रैवास्मिन्नेव देशे। संसृष्टः श्वशु- रादिभिः संगतः । जिमि लजां प्राप्नोमि । “ह्री लज्जायाम् । पूर्वद्युः पूर्वस्मिनहनि । नूनं निश्चयेन । असौ व्यक्तिः निम्बवती । तेन बलभद्रेण । तस्याः निम्ववत्या अन्वेषणां मार्गणां प्रति शिथिलयत्ना निरुद्योगाः। रत्नवती त्विति । पण्यदासी क्रयगृहीतां परिचारिकाम् । उह्यमानः धार्यमाणः पथि साधु पाथेयं 'पथ्यतिथि-' इति ढञ्। तदादिरुपस्करो यात्रामाण्ड यस्यां एवंभूता सती । खेटकपुरं साधारणग्रामम् । अमुत्र तस्मिन्ग्रामे । व्यवहारे वाणिज्यकर्मणि कुशलो निपुणः । मूलेन मूलद्रव्येण । उपार्जयत्संपादयामास । पौरेषु नगरवासिषु मध्ये अग्रगण्यः श्रेष्ठः । भूयान्बहुलः । अर्थवशात् धनाढयतया । समाजगाम ' सर्वे जनाः काञ्चनमाश्रयन्ति । इति न्यायेन तमाश्रित्यातिष्ठन् । प्रथमदासी पण्यकांता परिचारिकाम् । कर्म गृहकृत्यम् । दृष्टं पश्यतोऽप्यस्माननादृत्यति भावः । मुष्णासि चोरयसि । 'मुष स्तेये ' परुष कर्णकठोरम् । अताडयत्प्राहरत् । चेटी दासी । प्रसादकाले प्रसन्नावस्थायामुपाख्यातस्य दासीनिकटे रत्नवत्यैव प्रकाशितस्य रहस्यस्य गोप्यविषयस्य । आत्तरोषा जातकोपा । निर्बिभेद बहिः प्रकाशयामास । तच्छ्रुत्वेति । लुब्धेन किंचिद्धनग्रहणेच्छुना । दण्डवाहिना दण्डाधिकारिणा । मोषेण चौर्येण । न प्रतिबन्धनीयं न निवारणीयम् । अभय॑त भय प्रापितः । आभिजगाद कथयामास । न भेतव्यं भीतिर्न कार्या । ब्रूहि सर्वजनसमक्षं कथय । इयं मद्गृहवर्तिनी कन्या । वलभ्यामेक तदाख्यनगर्यामेव । गृहगुप्तस्यैतदाख्यस्य निधिपातदत्तव्यातोरक्तस्य कस्यचिच्छ्रेष्ठिनो दुहिता कन्या । दत्ता विवाहविध्यनुसारेणार्पिता । न्यायेनोटा परिणीता । न चेत्प्रतीथ यूयं यदि न । 0 । ।

কুয়ালাম। [उत्तरपीठिकार्या तथोक्त्वा श्रेणीप्रातिभाव्येन ताववातिष्ठत यावत्तत्पुरवृद्धलेख्यलब्धवृत्तान्तो गृहगुप्तः खेटकपुरमागत्य सह जामात्रा दुहितरमतिप्रीतः प्रत्यनैषीत् । तथा दृष्ट्वा रत्नवती कनकवतीति भावयतस्तस्यैव बलभद्रस्यातिवल्लभा जाता । तद्रवीमि- 'कामो नाम संकल्पः' इति । तदनन्तरमसौ नितम्बवतीवृत्तान्तमप्राक्षीत् । सोऽहमनवम्--'अस्ति शूरसेनेषु मथुरा नाम नगरी । तत्र कश्चित्कुलपुत्रः कलासु गणिकासु चातिरक्तः मित्रार्थ स्वभुजमात्रनिथूढानेककलहः, कलहकण्टक इति कर्कशैरभिख्यापिताख्यः प्रत्य- वात्सीत् । स चैकदा कस्यचिदागन्तश्चित्रकरस्य हस्ते चित्रपटं ददर्श । तत्र काचिदालेख्यगता युवतिरालोकमात्रेणैव कलहकण्टकस्य कामातुरं चेतश्चकार । स च तमब्रवीत्-'भद्र, विरुद्धमिवैतत्प्रतिभाति यतः कुलजादुर्लभं वपुः, आभि- जात्यशीसनी चन ता.पाण्डुर ":, अनतिपरिमुक्तसुभगा च तनुः, प्रौढतानुविद्धा च दृष्टिः। - चैषा प्रोषितभर्तृका, प्रवासचिह्नस्य वेण्यादेरदर्श- - विश्वसिथ 1 प्रणिधिं गूढपुरुषम् । प्रणिधिरपसर्पश्चरः स्पशः' इत्यमरः। श्रेण्याः निजवाण- गोष्ठयाः प्रातिभाव्येन प्रतिनिधिभावेन । तावत्तावदिनपर्यन्तम् । अवातिष्ठतावस्थितः । 'समव- प्रविभ्यः स्थः' इत्यात्मनेपदम्। तत्पुरवृद्धस्य खेटकणाममुख्यस्य लेख्येन पत्रिकया लब्धवृत्तान्तो ज्ञातसमाचारः । गृहगुप्तः रत्नवतीपिता । जामात्रा कन्यापत्या बलभद्रेण । दुहितरं कन्या रत्न- वतीम् । प्रत्यनैषीत्पुनः स्वनगरमानयामास । तथा दृष्ट्वा निधिपतिदत्तविमानोपरितलासीनां विलोक्य । भावयतो विचारयतः । अतिवल्लभा नितरां प्रीतिभाननम् । संकल्पो मनोनिर्धारणम् । तदनन्तरमिति । असौ ब्रह्मराक्षसः । अप्राक्षीदन्वयुक्त । अहं मित्रगुप्तः । शूरसेनेषु तन्ना- मकदेशेषु । कुलपुत्रः शुदः । 'कुलपुत्रः कुलीने च शदे च' इति वैजयन्ती । कलासु चतुःषष्टि- संख्यासु । गणिकासु वारनारीषु । मित्रार्थ मित्राण्युद्दिश्य । स्वभुजमात्रेणात्मीयेनैकेन भुजेनैव नियूंढाः सोडा: अनेके कलहा येनैवंविधः । अत एव 'कलहकण्टकः' रणकर्कशः इति कर्कशैः क्रूरपुरुषैरभिख्यापिताख्यः प्रसिद्धीकृतनामा । प्रत्यावात्सीत्प्रतिवसति स्म । आगन्तोर्देशान्तरा- दागतस्यातिथेः । चित्रकरस्य चित्रलेखकस्य । तत्र चित्रपटे । आलेख्यगता चित्रलि- खिता। आलोकमात्रेण दर्शनेनैव । कामातुरं कामपीडितम् । सचेति । कलहकण्टकः । तमागन्तुकम् । विरुद्धं विपरीतम् । कुलजानां सत्कुलोत्पन्नानां दुर्लभं दुष्पापम् । वपुः शरीरम् । आभिजात्यं कुलीनतां शंसति प्रकटयत्येवंशीला। 'अभिजातः कुलीनः स्यात्' इत्यमरः । नम्रता विनीतता । पाण्डुरा धवला । मुखच्छविरास्यकान्तिः । अनतिपरिभुक्ता स्वल्पमेवोप- भुक्ताऽतः सुभगा च तनुः शरीरम् । प्रौढतया प्रौढावस्थायोग्यशङ्गारचेष्टयाऽनुविद्धा युक्ता । आपोडशाद्भवेद्वाला तरुणी त्रिंशता मता । पञ्चपञ्चाशता प्रौढा वृद्धा स्याच ततः परम् इति वचनादतिक्रान्तत्रिंशद्वयस्का प्रौढा। प्रोषितः देशान्तरं प्राप्तो भर्ता यस्याः सा प्रोषित- भर्तृका । ' नद्यतश्च ' इति कप् । प्रवासचिह्नस्य हास्य परगृहे यानं समाजोत्सवदर्शनम् । ।

धष्टोच्छासः ] मनोरमाख्यव्याख्यासहितम् । नात् । लक्ष्म चैतदक्षिणपार्श्ववति । तदियं वृद्धस्य कस्यचिद्वणिजो नातिपुंस्त्वस्य यथासंभोगालाभपीडिता गृहिणी त्वयातिकौशलाद्यथादृष्टमालिखिता भवितुम- हेति' इति । स तमभिप्रशस्याशंसत्-'सत्यमिदम् । अवन्तिपुर्यामुज्जयिन्यामन- न्तकीर्तनान्नः सार्थवाहस्य भार्या यथार्थनामा नितम्बवती नामैषा सौन्दर्यवि- स्मितेन मयैवमालिखिता' इति । स तदैवोन्मनायमानस्तदर्शनाय परिवत्राजो- जयिनीम् । भार्गवो नाम भूत्वा भिक्षानिभेन तद्गृहं प्रविश्य तां ददर्श । दृष्ट्वा चात्यारूढमन्मथो निर्गत्य पौरमुख्येभ्यः श्मशानरक्षामयाचत । अलमत च । तत्र लब्धैश्च शवावगुण्ठनपटादिभिः कामन्यहन्तिकां नाम श्रमाणेकामुपासांचके तन्मुखन च नितम्बवतीमुपांशु मन्त्रयामास । सा चैनां निर्भनयन्ती प्रत्याच- चक्षे । श्रमणिकामुखाच दुष्करशीलभ्रंशां कुलस्त्रियमुपलभ्य रहास दूतिकाम- शिक्षयत्-'भूयोऽप्युपतिष्ठ सार्थवाहमार्याम् । बहि चोपह्वरे संसारदोषदर्शनात्स- माधिमास्थाय मुमुक्षमाणो मादृशो जनः कुलवधूनां शीलपातने घटत इति क घटते । एतदपि त्वामप्युदारया समृद्धया रूपेणातिमानुषेण प्रथमेन वयसोपपन्नां क्रीडां शरीरसंस्कारं त्यजेत्प्रोषितभर्तृका ॥' इत्यादिनोक्तस्य पतिप्रवासलक्षणस्य । वेण्यादेः वेणीरूपेण केशबन्धनादेः । 'वेणी कचस्य बन्धे स्यानदीनां सङ्गमेऽपि च ' इति विश्वः । लक्ष्म चिह्नम्। चिह्न लक्ष्म च लक्षणम् इत्यमरः । तत्तस्मात्कारणात् । वृद्धस्याति- कान्तयौवनस्य । नातिपुंस्त्वं यस्यैवंविधस्य । यथार्हस्य तारुण्ययोग्यस्य संभोगस्य सुरत- स्यालाभेनाप्राप्तः पीडिता खिन्ना । गृहिणी भार्या । यथादृष्टा तथा यथादृष्टम् । आलिखिता चित्रिता । स चित्रकारः । तं कलहकण्टकम् । अभिप्रशस्य श्लाघित्वा । अशंसत्कथयामास । सार्थवाहस्य वणिजः । यथार्थनामा नितम्बवती पृथुलनितम्बत्वात्तेनैव नाना विख्याता । सौन्दर्येण तलावण्येन विस्मितेनाश्चर्ययुक्तेन । स कलहकण्टकः । उन्मनायमानः उत्सुकः सन् । 'उत्क उन्मनाः' इत्यमरः । तद्दर्शनाय नितम्बवतीमवलोकयितुम् । परिवत्राज प्रतस्थे । भार्ग- बो नाम ज्यौतिषिक इव । 'भार्गवौ शुक्रदैवज्ञौ ' इति वैजयन्ती । भिक्षानिभेन भिक्षाव्याजेन 'निभो व्याजसदृक्षयोः' इति विश्वः । अत्यारूढमन्मथो निर्मर्यादमुत्पन्नकामः । श्मशानरक्षा पितृवनपालनम् । तत्र पितृवने । शवावगुण्ठनपटादिभिर्मतशरीराच्छादनचेलादिभिः, श्रमणिका बौद्धसंन्यासिनीम् । उपांशु रहसि । सा चेति । नितम्बवती । एनामर्हन्तिकाम् । प्रत्याचचक्षे प्रत्याख्यातवती । दुष्करः कष्टेनाप्यसंपाद्या शीलात्स्वभावाद्मशो यस्या एवंशीलाम् । उपलभ्य ज्ञात्वा । भूयोऽपि पुनरपि । उपहरे एकान्ते । संसारे पुत्रकलनादिरूपप्रपञ्चे दोषाणां बहूना दर्शनादनुभवात् । समाधि यमनियमादिम् । मुमुक्षमाणः मोक्षेच्छुः। शीलपातने स्वभाव- परित्याजने । बटते प्रयतते। क्व घटते कदाऽप्यसंभावितमेतदित्यर्थः । एतदपि पूर्वमुक्तमस्मद्व- चनमित्यर्थः । उदारया महत्या। ' उदारो दातृमहतोः । इत्यमरः । प्रथमेन वयसा तारुण्ये- । । - ALMAN दशकुमारचरितम्। [उत्तरपीठिकाया , किमितरनारीसुलभं चापलं स्पृष्टं न वेति परीक्षा कृता । तुष्टास्मि तथैवमदुष्ट- भावतया ! स्वामिदानी मुत्पन्नापत्यां द्रष्टुमिच्छामि । भर्ता तु भवत्याः केनचिद् ग्रहेणाधिष्ठितः पाण्डुरोगदुर्बलो भोगे चासमर्थः स्थितोऽभूत् । न च शक्य तस्य विनमप्रतिकृत्यापत्यमस्माल्लब्धुम् । अतः प्रसीद । वृक्षवाटिकामेकाकिनी प्रविश्य मदुपनीतस्य कस्याचिन्मंत्रवादिनश्छन्नमेव हस्ते चरणमर्पयित्वा तदाभम- न्त्रितेन प्रणयकुपिता नाम भूत्वा भर्तारमुरसि प्रहर्तुमर्हसि । उपर्यसावुत्तम- धातुपुष्टिमूर्जितापत्योत्पादनक्षमामासादयिष्यति । अनुवतिष्यते. देवीमिवात्र भवतीम् । नान शङ्का कार्या' इति । सा तथोक्ता व्यक्तमभ्युपैष्यति नक्तं मां वृक्षवाटिका प्रवेश्य तामपि प्रवेशयिष्यसि तावतैव त्वयाहमनुगृहीतो अवेयम् । इति ' इति । सा तथैवोपग्राहितवती । सोऽतिप्रीतस्तस्यामेव क्षपायां वृक्षवाटिकायां गतो नितम्बवती निम्रन्थिकाप्रयत्नेनोपनीतां पादे परामृश- निव हेमनूपुरमेकमाक्षिप्य छुरिकयोरुमूले किंचिदालिख्य द्रुततरमपासरत् । सा तु सान्द्रनासा स्वमेव दुर्णयं गर्हमाणा जिघांसन्तीव श्रमणिकां तद्- व्रणं भवनदीर्घिकायां प्रक्षाल्य दत्त्वा पटबन्धनमामयापदेशादपरं चापनीच नूपुरं शयनपरा त्रिचतुराणि दिनान्येकान्ते निन्ये । स धूतः - विक्रेप्थे । इति तेन नूपुरेण तमनन्तकीर्तिमुपाससाद । स दृष्ट्या मम गृहिण्या एवैष नेत्यर्थः । इतरनारीसुलभमन्यकामिनीसाधारणम् । चापलं बुद्धिवाञ्चल्यम् । अदुष्टभावतया साधाशयतया, उत्पन्नापत्यां जातापत्याम् । पाण्डुरोगेण क्षयविशेषेण दुर्बलो निरिन्द्रियः । भोगे सुरतकर्माणि । तस्य पुत्राविर्भावस्य विनमन्तरायमप्रतिकृत्यापरिहत्य । वृक्षवाटिकामुप- बनम् । मयोपनीतस्य प्राषितस्य, छन्नं गुप्तं यथा तथा । प्रणयकुपिता नाम कलहान्तरितेव । उरसि वक्षसि । प्रहर्तुं ताडयितुम् । उपरि पादप्रहारेण दुग्रहत्त्व दूरीकरणानन्तरम् । असी ते भर्ती । ऊर्जितानां वलिष्ठानामपत्यानामुत्पादेन क्षमा समर्थाम् । आसादयिष्यति प्राप्स्यति । अनुवर्तिष्यतेऽनुकूलनायको भविष्यति । शंका संदेहः । सति । नितम्बवती । व्यक्तं स्फुटम् । अभ्युपैष्यत्यङ्गीकरिष्यति । नक्तं रात्रौ । तावतैवैतत्कार्येणैव । साऽर्हन्तिका । उपप्राहितवती ऊरीकारयामास । स कलहकण्टकः । क्षपायां निशि । निर्ग्रन्थिकायाः श्रमणिकायाः प्रय- लेनोपनीतामानीताम् । परामशनिव मन्त्रोच्चारणार्थ स्पृशनिव। हेमनूपुरं सुवर्णमयं पादकटकम् । पादाङ्गदं तुलाकोटिमञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । आक्षिप्यादाय । छुरिकयाऽल्पशस्त्रेण । द्रुततरमतिशीघ्रम् । अपासरत्पलायिष्ट । सा नितम्बवती । सान्दत्रासा गाढभया ! दुर्णयं दुष्टव्य- वहारम् । गर्हमाणा निन्दन्ती । जिघांसन्ती हन्तुमिच्छन्तीव । तद्बणं शस्त्रक्षतमूरुस्थलम् । भवन- दीपिकायां गृहवापिकायां वापी तु दीर्घिका' इत्यमरः । पटबन्धनं वस्त्रखण्डेन वेष्टनम् । आमयापदेशात् पादे कोऽपि रोगो जातः' इति व्याजेन । अपनीय निष्कास्य । निन्ये यापया- मास । स धूर्तः कलहकण्टकः । विऋष्य मौल्यग्रहणेने नूपुर दीस्याम । अनन्तकीर्ति नितम्ब.

पष्टोच्छासः] मनोरमाख्यव्याख्यासहितम् । २१३ नूपुरः, कथमयमुपलब्धस्त्वया ' इति तमब्रुवाणं निर्बन्धेन पप्रच्छ । स तु वणिग्रामस्याग्रे वक्ष्यामि' इति स्थितोऽभूत् । पुनरसौ गृहिण्यै 'स्वनूपुरयुगलं प्रेषय' इति संदिदेश । सा च सलज्ज ससाध्वसं चाय रात्रौ विश्रामप्रविष्टायां वृक्षवाटिकायां प्रभ्रष्टो ममैकः प्रशिथिलबन्धो नूपुरः । सोऽद्याप्यन्विष्टो न दृष्टः । स पुनरयं द्वितीय इत्यपरं प्राहिणोत् । अनया च वार्तयामुं पुरस्कृत्य स वणिक वाणिग्जनसमाजमाजगाम । स चानुयुक्तो धूर्तः सविनयमावेदयत्-'विदितमेव खलु वः, यथाहं युप्मदाज्ञया पितृवनमभिरक्ष्य तदुपजीवी प्रतिवसामि। लुब्धाश्च कदाचिन्मदर्शनभीरवो निशि दहेयुरपि शवानीति निशास्वपि श्मशानमधिशये । अपरेार्दग्धादग्धं मृतकं चितायाः प्रसभमाकर्षन्ती श्यामाकारां नारीमपश्यम् । अर्थलोभात्तु निगृह्य साध्वसं सा गृहीता शस्त्रिकयोरुमूले यहच्छया किंचिदुल्लि- खितम् । एष च नूपुरश्चरणादाक्षिप्तः । तावत्येव द्रुतगतिः सा पलायिष्ट । सोऽयमस्यागमः । परं भवन्तः प्रमाणम्' इति । विमर्शेन च तस्याः शाकि- नीत्वमैकमत्येन पौराणामभिमतमासीत् । भर्चा चपरित्यक्ता तस्मिन्नेव श्मशाने बहु विलय पाशेनोद्वध्य मर्तुकामा तेन धूर्तेन नक्तमगृह्यत । अनुनीता च सुन्दार, त्वदाकारोन्मादितेन मया त्वदावर्जने बहूनुपायान्भिक्षुकीमुखेनो- पन्यस्य तेप्वसिद्धेषु पुनरयमुपायो यावज्जीवमसाधारणीकृत्य रन्तुमाचरितः । । बत्या एव भर्तारम् । उपाससाद प्राप्तवान् । निर्बन्धेनाग्रहातिशयेन । वणिग्ग्रामस्य सार्थवाह- समाजस्य । ससाध्वसं भयसहितम् । विश्रामप्रविष्टायां विश्रामार्थ प्रविष्टायाम् । प्रभ्रष्टः पादात्प- तितः। प्रशिथिलबन्धः श्लथसंनहनः । प्राहिणोत्प्रेषयामास । अनया च वार्तया 'मद्गृहिण्याः पादादेको नूपुरः श्वो रात्रा वृक्षवाटिकायां विश्रामप्रविष्टायां दैववशात्पतितः, स चानेनोपलब्धः, नायं च दातुमिच्छति' इत्येवंरूपया । अमुं कलहकण्टकम् । अनुयुक्तः पृष्टः । आवेदयन्नूपुरप्रा- प्तिमाख्यातवान् । लुब्धाः राजग्राह्यकरप्रदानेऽनिच्छावन्तः । भीरवो भीताः । दहेयुः शवसंस्कार कुर्युः । अपीति संभावनायाम् । अधिशये तत्रैव श्मशाने शयनं करोमि । दग्धादग्धमर्धदग्धम् । चितायाः काष्टसंचयात् । प्रसभं वलात् । आकर्षन्ती बहिनिष्कासयन्तीम् । श्यामाकारां मध्यता- रूण्ययुक्ताम् । 'श्यामा यौवनमध्यस्था' इत्यमरः । अर्थलोभात् श्मशाने देयद्रव्यलोभात् । निगृह्य साध्वसं भयं त्यक्त्वा । चरणात्पादात् । आक्षिप्तो बलाद्गृहीतः । तावत्येव तत्क्षणे एव । अस्य नूपुरस्यागमः प्राप्तिप्रकारः। विसर्जन विचारेण । तस्याः श्मशानागतायाः शाकिनीत्वं भूतविशेषत्वम् । ऐकमत्येन चित्तैकभावेन । अभिमतं समतम् । भाऽनन्तकीर्तिना । विलप्य रोदनं कृत्वा । उद्वध्य गलवन्धनं रचयित्वा अनुनीता सान्त्विता।सुन्दरीति । हे नितम्बवति तवाकारेण सौन्दर्येणोन्मादितेनोन्मादाख्यां कामावस्थां गतेन । तवावर्जने वशीकरणे । उपन्यस्व । - दशकुमारचरितम् । [उत्तरपीठिकाय तत्प्रसादानन्यशरणायास्मै दासजनाय ' इति मुहुर्मुहुश्चरणयोर्निपत्य, प्रयुज्य सान्त्वशतानि, तामगत्यन्तरामात्मवश्यामकरोत् । तदिदमुक्तम्-' दुष्कर- साधनं प्रज्ञा' इति। इदमाकर्ण्य ब्रह्मराक्षसो मामपूपुजत् । अस्मिन्नेव क्षणे नातिप्रौढ'नागमुकु- लस्थूलानि मुक्ताफलानि सह सलिलबिन्दुभिरम्बरतलादपतन् । अहं तु 'किं न्विदम्' इत्युच्चक्षुरालोकयन्कमपि राक्षसं कांचिदङ्गनां विचेष्टमानगात्रीमाकर्ष- न्तमपश्यम् । कथमपहरत्यकामामपि स्त्रियमनाचारो नैर्ऋतः इति गगनगम- नमन्दशक्तिरशस्त्रश्चातप्ये । स तु मत्संबन्धी ब्रह्मराक्षसः ‘तिष्ठ तिष्ठ पाप, कापहरास' इति भर्सयन्नुत्थाय राक्षसेन समसृज्यत । तां तु रोषादनपेक्षापवि- द्धाममरवृक्षमञ्जरीमिवान्तरिक्षादापतन्तीमुन्मुखप्रसारितोभयकरः कराभ्याम- ग्रहषिम् । उपगृह्य च वेपमानां संमीलिताक्षी मदङ्गस्पर्शसुखेनोद्भिन्नरोमाञ्चों तादृशीमेव तामनवतारयन्नतिष्ठम् । तावत्तावुभावपि शैलशृङ्गभङ्गैः पादपैश्च रभसोन्मूलितैमुष्टिपादप्रहारैश्च परस्परमापयेताम् । पुनरहमतिमृदुनि पुलिन- वति कुसुमलवलाञ्छिते सरस्तीरेऽवरोप्य सस्पृहं निर्वर्णयस्तां मत्प्राणैकवल्लभां राजकन्यां कन्दुकावतीमलक्षयम् । सा हि मया समाश्वास्यमाना तियङ्माम- भिनिरूप्य जातप्रत्यभिज्ञा सकरुणमरोदीत् । अवादीच-'नाथ, त्वदर्शनादु- पोढरागा तस्मिन्कन्दुकोत्सवे पुनः सख्या चन्द्रसेनाय त्वत्कथाभिरेव समा- श्वासितास्मि । त्वं किल समुद्रमध्ये सज्जितः पापेन मद्धात्रा भीमधन्वना' इति मन्त्रयित्वा । असाधारणीकृत्य त्वां ममैवाधीनां विधाय । सान्त्वशतानि सामवाक्यजालम् । दुष्करस्यापि कार्यस्य साधनं घटकम् । प्रज्ञा बुद्धिविशेषः । इदमिति । राक्षसकृतानां प्रश्नानामुत्तरमुदाहरणं च । अपूपुजबहुमानितवान् । नातिप्रौढानि अत्यन्तपरिणतानि यानि पुंनागस्य मुकुलानि कुड्मलानि तद्वत् स्थूलानि पृथूनि । सलिलबिन्दु- भिर्जलकणैः । अम्बरतलादाकाशात् । अहं भित्रगुप्तः । विचेष्टमानगात्री प्रवेपमानावयवाम् । अकामामनासक्ताम् । नैर्ऋतो राक्षसः । गगनगमने वियदुत्पतने मन्दगतिरसमर्थः । अतप्ये किं मयाऽद्य कर्तव्यमिति चिन्ताकुलोऽभूवम् । पाप दुराचार । समसृज्यत युद्धाय संसृष्टोऽभूत् । रोषात्कोपात् । अनपेक्षयोपेक्षणेनापविद्धां त्यक्ताम् । अमरवृक्षस्य कल्पद्रुमस्य मञ्जरी वल्लरीमिव अन्तरिक्षानभसः । 'नमोऽन्तरिक्षं गगनम् ' इत्यमरः । वेपमानां कम्पिताङ्गीम् । उद्भिनरोमाञ्चों सजातपुलकाम् । अनवतारयन्भूतले न विन्यस्यन् । तौ राक्षसौ । शैलशृङ्गस्य पवर्तशिखरस्य भङ्गैः खण्डैः । पादपैः वृक्षैश्च । रभसेन वेगेनोन्मूलितैरुत्पाटितैः । परस्परमक्षपयेतां विनाशया- मासतुः । द्वावपि मृताविति भावः । पुलिनवति सिकताप्रचुरे । कुसुमलवैः पुष्पलेशैलाञ्छिते लक्षिते । अवरोप्य हस्ताद्विन्यस्य । सस्पृहं साभिलाषं निर्वर्णयन्पश्यन् । साहीति । तिर्यगी- षटुक्रदृष्टया । अभिनिरूप्य दृष्ट्वा । जाता प्रत्यभिज्ञा ' ममैवायं प्राणकान्तः इत्याकारकं ज्ञानं यस्यास्तादृशी सती । उपोढरागा प्रवृद्धानुरागा । समा बासिता समाहिता । समुद्रमध्ये जल. ।

षष्ठोच्छासः] मनोरमाख्यव्याख्यासहितम् ।
श्रुत्वा सखीजनं परिजनं च वञ्चयित्वा जीवितं जिहासुरेकाकिनी क्रीडावनमु
पागमम् । तत्र च मामचकमत कामरूप एष राक्षसाधमः । सोऽयं मया भीत-
यावधूतप्रार्थनः स्फुरन्तीं मां निगृह्याभ्यधावत् । अत्रैवमवसितोऽभूत् । 'अहं च
दैवात्तवैव जावितेशस्य हस्ते पतिता । भद्रं तव' इति । श्रुत्वा च तया सहाव-
रुह्य, नावमध्यारोहम् । मुक्ता च नौः प्रतिवातप्रेरिता तामेव दामलिप्तां प्रत्यु-
पातिष्ठत् । अवरूढाश्च वयमश्रमेण 'तनयस्य च तनयायाश्च नाशादनन्यापत्य-
स्तुङ्गधन्वा सुह्मपतिनिष्कलः स्वयं सकलत्र एव निष्कलङ्कगङ्गारोधस्यनशनेनो-
परन्तुं प्रतिष्ठते । सह तेन मर्तुमिच्छत्यनन्यनाथोऽनुरक्तः पौरवृद्धलोकः' इत्य-
श्रुमुखीनां प्रजानामाक्रन्दमशृणुम । अथाहमस्मै राज्ञे यथावृत्तमाख्याय तदपत्य-
द्वयं प्रत्यर्पितवान् । प्रीतेन तेन जामाता कृतोऽस्मि दामालिप्तश्वरेण । तत्पुत्रो मद-
नुजीवा जातः । मदाज्ञप्तेन चामुना प्राणवदुज्झिता चन्द्रसेना कोशदासमभजत् ।
ततश्च सिंहवर्मसाहाय्यार्थमत्रागत्य भर्तुस्तव दर्शनोत्सवसुखमनुभवामि' इति ।
श्रुत्वा 'चित्रेयं दैवगतिः । अवसरेषु पुष्कलः पुरुषकारः' इत्यभिधाय
भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुलं चक्षुः पातयामास देवो राज-
वाहनः । स किल करकमलेन किंचित्संवृताननो ललितवल्लभारमसदत्तदन्त-
क्षतव्यसनविह्वलाधरमणिनिरोष्टयवर्णमात्मचरितमाचचक्षे ।
इति श्रीदण्डिनः कृतौ दशकुमारचरिते मित्रगुप्तचरितं नाम षष्ठ उच्छासः॥ ६ ॥
व्यन्तराले । मज्जितः प्लावितः । पापेन दुष्टेन । वञ्चयित्वा प्रतार्य । जिहासुस्त्यक्तुमिच्छन्ती
ओहाक् त्यागे । एकाकिन्यसहाया । अचकमत कामयते स्म । णिङभावपक्षे 'कमेश्चले-
श्वङ् वक्तव्यः' इति चङि रूपम् । कामरुपो मायावी । अवधूतप्रार्थनस्तिरस्कृतयाच्यावचनः ।
स्फुरन्ती कम्पमानाम् । निगृह्य बलाद्गृहीत्वा । अवसितो मृतोऽभूत् । भद्रं कुशलम् । अश्रमे-
णानायासेन । तनयस्य भीमधन्वनः पुत्रस्य, तनयायाः कन्यायाः कन्दुकावत्याः नाशाद-
दर्शनात् । अनन्यापत्यः विन्ध्यवासिन्यनुग्रहलब्धापत्यद्वयव्यतिरिक्तापत्यरहितः । निष्कलो
वृद्धः । निष्कलङ्के निष्पापें गङ्गारोधसि भागीरथीतीरे । अनशनेन व्रतविशेषेण । उपरन्तुं मर्तुम् ।
आक्रन्दं विलापम् । तत्पुत्रो भीमधन्वा । उज्झिता त्यक्ता ।
श्रुत्वेति । चित्राऽऽश्चर्यकारिणी । पुष्कल: संपूर्णः । पुरुषकारो धैर्यमित्यर्थः । हर्षेणों-
कुल्लं विकसितम् । स मित्रगुप्तः। किंचित्संवृताननः ईषदाच्छादितवदनः । ललिताया सुन्दा
वल्लभया कान्तया रभसेन हठात्तेन दन्तक्षतव्यसनेन दन्तखण्डनव्यापारेण विह्वलः खिन्नोऽधर-
माणिर्यस्यैवंभूतः। निरोष्टयवर्णम् ओष्ठे भवा ओष्ठयाः 'शरीरावयवाच' इति यत् तादृशा वर्णा
अक्षराणि पवर्गादीनि निर्गतानि यस्मादेतादृश आत्मनश्चरितम् । आचचक्षे कथयामास ।
उपूपध्मानीयानामौष्ठौ' इति पाणिनीयाः। वस्तुतस्तु कवेः सामर्थ्यप्रकटनमेतदित्यवगन्तव्यम्।
इति श्रीदशकुमारचरितव्याख्याने मनोरमाख्याने षष्ठ उच्छासः ॥ ६ ॥

. दशकुमारचरितम्। उत्तरपीठिकायां सप्तमोच्छासः ॥ ७ ॥ राजाधिराजनन्दन, नगरन्ध्रगतस्य ते गतिं ज्ञास्यन्नहं च गतः कदाचित्कलि- ङ्गान् । कलिङ्गनगरस्य नात्यासन्नसंस्थितजनदाहस्थानसंसक्तस्य कस्यचित्का- न्तारधरणिजस्यास्तीर्णसरसकिसलयसंस्तरे तले निषध निद्रालीढष्टिरशयिधि। गलति च कालरात्रिशिखण्डजालकालान्धकारे, चलितरक्षसि क्षरितनीहारे निजनिलयनिलीननिःशेषजने नितान्तशीते निशीथे घनतरसालशाखान्तरालनि- हादिीन नेत्रनिसिनी निद्रां निगृह्णत्, कर्णदेशं गतं 'कथं खलेनानेन दग्धसिद्धेन रिरंसाकाले निदेशं दित्सता जन एष रागेणानर्गलेनादित इत्थं खलीकृतः । क्रियेतास्याणकनरेन्द्रस्य केनचिदनन्तशक्तिना सिद्धयन्तरायः' इति किंकरस्य किंकर्याश्चातिकातरं रटितम् । तदाकर्ण्य ' क एष सिद्धः , का च सिद्धिः, किं चानेन किंकरेण करिष्यते' इति दिदृक्षाक्रान्तहृदयः किंकरगतया दिशा किंचि- दन्तरं गतस्तरलतरनरास्थिशकलरचितालंकाराक्रान्तकायम् , दहनदग्धकाष्ठ- । अथ सप्तम उच्छावः॥७॥ इदानी स्वचरितमुपवर्णयितुमारभते मन्त्रगुप्त:-राजाधीति । राजाधिराजस्य सार्वभौमस्या राजहंसस्य नन्दन कुमार हे राजवाहन । नगरंध्रगतस्य पर्वतबिलं प्रविष्टस्य ! ज्ञास्यनुपलप्स्यमानः कलिङ्गास्तदाख्यान्देशान् । नात्यासने किञ्चिद्दूरवर्तिनि संस्थितजनानां मृतप्राणिनां दाहस्थाने श्मशाने संसक्तस्य प्ररूढस्य । परेतप्रेतसंस्थिताः' इत्यमरः । कान्तारधरणिजस्य वनवृक्षस्य । आस्तीर्णानि सरसान्याणि किसलयानि पल्लवाः संस्तरः शयनमिव यत्र तादृशे तलेऽधोभागे । निषद्योपविश्य । निद्रयालीढदृष्टिीलितलोचनः । अशयिषि शयनं कृतवान् । गलति प्रसरति कालरात्रेमरणात्पूर्वदिवसरात्र्यास्तद्रूपाया अङ्गनायाः शिखण्डजालवत्केशपाशवत् काले कृष्णवर्णे अन्धकारे तमसि । चलितानि सर्वतो भ्रमन्ति रक्षांसि राक्षसा यस्मिन्काले तादृशे । क्षरितनीहारे निःसृततुषारे । निजनिलयेषु स्वस्वगृहेषु निलीना गुप्ता निःशेषा जना यस्मिन्नेतादृशे । निशोथे अर्धरात्रे । घनतराणामतिनिबिडानां सालशाखाना तरुशाखानामन्तराले मध्यदेशे निहादिनि सशब्दे। वृक्षो महीरुहः सालः' इति हैमः। 'नादनिर्घोषनिहादस्वाननिस्वाननिस्वनाः' इत्यमरः । नेत्रनिसिनी नयनस्पर्शिनीम् । 'णिसि चुम्बने'। निगृह्णत् निद्रायाः प्रतिबन्धकम् । कर्णदेशं श्रुतिप्रदेशं गतं प्रविष्टमभूदिति क्रियापदमत्राध्याहार्यम् । खलेन दुर्जनेन । रिसाकाले रतीच्छासमये । निदेशमाज्ञां दित्सता दातुकामेन । अनर्गलेनाप्रतिहतेन रागेणानुरागेणार्दितः पीडितः । खलीकृत उपद्रुतः । क्रियेत विधीयेत । संभावनायां लिङ् । अणकनरेन्द्रस्य गर्हित- मान्त्रिकस्य । पापाणके कुत्सितैः । इति समासः । अनन्तशक्तिना बहुपराक्रमवता सिद्धेरन्त- रायो विघ्नः। विन्नोऽन्तरायः प्रत्यूहः' इत्यमरः । अतिकातरमतिदीनं रटितमार्तरवः । दिदृक्षया विलोकयितुमिच्छयाऽऽकान्तहृदयो व्याप्तचित्तः । दिशा मार्गेण । किंचिदन्तरं दूरम् । तरलतरैरत्युज्ज्वलैनरास्थिशकलैर्मृतशरीरास्थिखण्डै रचितैः प्रथितैरलंकारैर्भूषणैराक्रान्तकायं व्याप्त- । ।

सप्तमोच्छ्रासः] मनोरमाख्यव्याख्यासहितम्। निष्टाङ्गाररजःकृताङ्गरागम्, तडिल्लताकारजटाधरम् , हिरण्यरेतस्यरण्यचक्रान्ध- कारराक्षसे क्षणगृहीतनानेन्धनप्रासचञ्चदर्चिषि दक्षिणेतरेण करेण तिलसिद्धार्थ- कादीनिरन्तरचटचटायितानाकिरन्तं, कंचिद्राक्षम् । तस्याग्रे स कृताञ्जलिः किंकरः ‘किं करणीयम् , दीयतां निदेशः' इत्यतिष्ठत् । आदिष्टश्चायं तेना- तिनिकृष्टाशयेन-'गच्छ, कलिङ्गराजस्य कर्दनस्य कन्यां कनकलेखां कन्यागृ- हादिहानय' इति । स च तथाकार्षीत् । ततश्चैनां त्रासेनालघीयसास्रजर्जरेण च कण्ठेन रणरणिकागृहीतेन च हृदयेन 'हा तात, हा जननि' इति क्रन्दन्ती कीर्णग्लानशेखरस्रजि शीर्णनहने शिरसिजानां संचये निगृह्यासिना शिलाशितेन शिरश्चिकर्तिषयाचेष्टत । झटिति चाच्छिद्य तस्य हस्तात्तां शस्त्रिका तया निकृत्य तस्य तच्छिरः सजटाजालम् , निकटस्थस्य कस्यचिजीर्णसालस्य स्कन्धरन्ध्रेन्यद- थाम् । तन्निध्याय हृष्टतरः स राक्षसः क्षीणाधिरकथयत्-'आर्य, कदर्यस्यास्य क़दर्थनान कदाचिन्निद्रायाति नेत्रे । तर्जयति त्रासयति च अकृत्ये चाज्ञां ददाति । तदत्र कल्याणराशिना साधीयः कृतम् । यदेष नरकाकः कारणानां नारकिणां । शरीरम् । 'तरलो हाररत्ने च चञ्चले चोज्ज्वलेऽपि च ' इति केशवः । “कायो देहः लीवपुंसोः' इत्यमरः । दहने शवसंस्कारकाले दग्धानि समुद्दीपितानि यानि काष्ठानि दारूणि तनिष्ठेनाङ्गाररजसा भस्मना कृताङ्गराग कृतविलेपनम् । तडिल्लताकारा विद्युत्समानास्तद्वत् पिश- झीर्जटा धारयतीत्येवंशीलम् । हिरण्यरेतसि हुतभुजि । 'हिरण्यरेता हुतभुग्दहनो हव्यवाहनः इत्यमरः । अरण्यचक्रस्य वनचक्रस्यान्धकाराणां तमसां राक्षसे तद्वद्भक्षके इत्यर्थः । क्षणेन गृहीतानामाक्रान्तानां नानेन्धनानां नानाकाष्टानां ग्रासेन कबलनेन चञ्चन्ति प्रसरन्ति अचीषि ज्वाला यस्यैवंविधे । दक्षिणेतरेण वामेन । सिद्धार्थकः श्वेतसर्षपः । सिद्धार्थस्त्वेष धवल: इत्यमरः । निरन्तरमनवरतं चटचटायितान् चटचटा' इति शब्दं कुर्वतः। आकिरन्तं प्रक्षिपन्तम् । 'कृ विक्षेपे ' धातुः । तस्येति । होमकर्तुः पुरुषस्याग्रे पुरोभागे । स किंकरः । निदेशः आज्ञा । आदिष्ट आज्ञप्तः । निकृष्टाशयेन दुष्टचित्तेन । एनां कनकलेखाम् । अलघीयसा गुरुणा त्रासेनोद्वेगेन । अस्रजर्जरणाश्रुक्लिन्नेन । रणरणिकागृहीतेन व्याकुलताक्रान्तेन । क्रन्दन्ती रुदतीम् । कीर्णा विक्षिप्ताऽतएव ग्लाना म्लानिमापन्ना च शेखरखक शिरोधृतमाला यस्मिन्नेता- दृशे । शीर्णनहने शिथिलबन्धे। ‘णह बन्धने' धातुः । शिरसिजानां शिरोरुहाणां संचये कलापे । निगृह्य गृहीत्वा । असिना खगेन । शिलावत् पाषाणवत् शितेन तीक्ष्णेन । शिरश्चि- कर्तिषया मस्तकं छेत्तुमिच्छया। झटित्याशु । आच्छिद्य बलादाक्षिप्य । शस्त्रमेव शत्रिका ताम् । निकृत्य छेदयित्वा । सजटाजालं जटाभारसहितम् । निकटस्थस्यासन्नवर्तिनः । जीर्ण- सालस्य जरदृक्षस्य । 'अनोकहः कुट: साल: ' इत्यमरः । स्कन्धरन्ध्रे शाखाद्वारे । न्यदधां निक्षिप्तवान् । निध्याय विलोक्य । क्षीणाधिगतमनोव्यथः । 'पुंस्याधिर्मानसी व्यथा' इत्यमरः। कदर्यस्य क्षुद्रस्य कदये कृपणक्षुद्रपिचानमितंपचाः' इत्यमरः । कदर्थनात्पीडनात् । क्लेशनं तु कदर्थनम् ' इत्यमरः। साधीयः कृतं समीचीनमाचरितम् । नरकाको गर्हितमनुष्यः । ।

२१८ दशकुमारचरितम् । [उत्तरपीठिकायां रसज्ञानाय नीतः शीततरदीधितिदेहजस्य नगरम्, तत्र दयानिधेरनन्त- तेजसस्तेऽयं जनः कांचिदाज्ञा चिकीर्षति । आदिश, अलं कालहरणेन' इत्यनंसीत् । आदिशं च तम्-'सखे, सैषा सज्जनाचरिता सराणः, यदीयसि कारणेऽनणीयानादरः संदृश्यते । न चेदिदै नेच्छसि सेयं संनताङ्गयष्टिरक्लेशाह सत्यनेनाकृत्यकारिणात्यर्थं क्लेशिता, तन्नयैनां निजनिलयम् । नान्यदितः किंचि- दस्ति चित्ताराधनं नः' इति । अथ तदाकर्ण्य कर्णशेखरनिलीननीलनीरजायितां धीरतरलतारका दृशं तिर्यकिंचिदश्चितां संचारयन्ती, सलिलचरकेतनशरासना- नतां चिल्लिकालतां ललाटरङ्गस्थलीनर्तकी लीलालसं लालयन्ती, कण्टकितरक्त- गण्डलखा, रागलज्जान्तरालचारिणी, चरणाग्रेण तिरश्चीननखाचिश्चन्द्रिकेण धराणितलं साचीकृताननसरसिज लिखन्ती, दन्तच्छदकिसलयलचिना हर्षास्रस- लिलधाराशीकरकणजालक्लेदितस्य स्तनतटचन्दनस्यातां निरस्यतास्यान्तरालनिः- सृतेन तनीयसानिलेन हृदयलक्ष्यदलनदक्षिणरतिसहचरशरस्यदायितेन तरङ्गि- । । कारणानां यातनाविशेषाणाम् । ' कारणा तु यातना तीव्रवेदना' इत्यमरः । नारकिणां नरकसं. बन्धिनाम् । रसज्ञानाय रसपरिचयार्थम् । शीतेतररश्मिरुष्णकिरणः सूर्यस्तदेहजस्य तत्पुत्रस्य यमस्येत्यर्थः । नगर संयमिनीपुरम् । अनन्ततेजसो बहुपराक्रमवतः । अयं जनः मदात्मकः । चिकीर्षति विधातुमिच्छति आदिशाज्ञापय । कालहरणेन समयविलम्बेनालं न किमपि प्रयोजनम् । अनेसीत्प्रगनाम । सज्जनैः साधुपुरुषैराचरिताऽनुष्ठिता सरणिः पद्धतिः । अणीयसि अत्यल्पे । अनणीयानतिबहुलः । आदरः सत्कारः । इदं मामुद्दिश्योपकार न चेन्नेच्छसि अवश्यमेव कर्तुमि- च्छसि यदि । सन्नताशयष्टिर्नताझी अक्लेशारे क्लेशं सोढुमशक्ता । अकृत्यकारिणाऽनुचितविधा- यिना । अनेन मान्त्रिकेण । अत्यर्थं नितरां क्लेशितोपद्रुता । निजनिलयं स्वगृहम् । इतोऽन्यदितः परम् । नोऽस्माकं चित्ताराधनं मनःसन्तोषणं नास्ति । अथेति ! कर्णशेखरे श्रवणावतंसे निलीन लग्नं यन्नीलनीरजं नीलकमलं तदायितां तद्वदाचरन्तीम् । धीरा निश्चला तरला कम्पायमाना च तारका कनीनिका यस्या एवंभूताम् । अञ्चितां कुटिलिताम् । सलिलचरो मत्स्यः केतनं ध्वज. चिहं यस्यैवंभूतस्य मन्मथस्य शरासनमिव धनुरिवानता वक्रीभूतां चिल्लिकालतां भ्रूवल्लीम् । ललाटं भालदेश एव रङ्गस्थली नृत्यस्थानं तत्र नर्तकी नृत्यं कुर्वतीम् । लीलया विलासेनालस सौम्यं मन्दं वा। अलसं मन्दसौम्ययोः' इत्यजयः । कण्टाकते संजातपुलके ' तदस्य संजातं तारकादिभ्य इतन्' इतीतच । रक्ते च गण्डलेखे कपोलपाल्यौ यस्यास्तादृशी। रागोड- जुरागो, लज्जा मन्दाक्ष तयोरन्तराले मध्ये चरतीत्येवंशीला । चरणाग्रेण प्रपदेन । तिरश्चीना- स्तिर्यक् प्रसरन्त्यो नखार्चिषो नखकान्तय एव चन्द्रिका यस्य तथाविधेन । धरणितलं भूतलम् । साचीकृतमधोमुखतया कृतमाननसरसिज मुखपड़ा यस्मिन्कर्मणि यथा तथा। दन्तच्छदकिसलय- मघरपल्लवं लङ्घयत्यतिक्रम्य गच्छतीत्येवंशीलेन । हर्षाखसलिलधाराशीकरकणजालेनानन्दबाष्प- संपातबिन्दुसन्दोहेन क्लेदितस्यार्दीकृतस्य । स्तनतटचन्दनस्थ कुचदेशे लिप्तमलयजस्य । निरस्यता चैनं सप्तमोच्छासः] मनोरमाख्यव्याख्यासहितम् । तदशनचन्द्रिकाणि कानिचिदेतान्यक्षराणि कलकण्ठीकलान्यसृजत्-'आर्य, केन कारणेनेनं दासजनं कालहस्तादाच्छिद्यानन्तरं रागानिलचालितरणराणिकातर- जिण्यनङ्गसागरे किरास । यथा ते चरणसरसिजरजःकणिका तथा चिन्त- नीया । यद्यस्ति दया तेऽत्रजने, अनन्यसाधारणः करणीयः स एव चरणाराध- नक्रियायाम् । यदिच कन्यागाराध्यासने रहस्यक्षरणादनर्थ आशङ्कयेत, नैतदस्ति। रक्ततरा हि नस्तत्र सख्यश्वेट्यश्च । यथा न कश्चिदेतज्ज्ञास्यति तथा यतिष्यन्ते' इति । स चाहं देहजेनाकर्णाकृष्टसायकासनेन चेतस्यतिनिर्दयं ताडितस्तत्कटाक्षकाला- यसनिगडगाढसंयतः किंकरानननिहितदृष्टिरगादिषम्-" यथेयं रथचरणजघना कथयति तथा चेन्नाचरेयम्, नयेत नक्रकेतनः क्षणेनैकेनाकीर्तनीयां दशाम् । जनं सह नयानया कन्यया कन्यागृहं हारणनयनया' इति । नीतश्चाहं निशाच- रेण शारदजलधरजालकान्ति कन्यकानिकेतनम् । तत्र च कांचित्कालकलां चन्द्राननानिदेशाच्चन्द्रशालैकदेशे तदर्शनचलिततिरतिष्ठम् । सा च स्वच्छन्दै दूरीकुर्वता । आस्यान्तरालान्मुखमध्यदेशानिःसृतेन बहिरागतेन । तनीयसापेन अनिलेन निश्वासमारुतेन । हृदयं कामिजनचेतोरूप लक्ष्यं शरव्यं यस्यैवंविधस्य, दलने मनोविदारणे दक्षिणस्यातिसमर्थस्य रतिसहचरशरस्य मदनसायकस्य स्यदायितेन वेगवदाचरितेन । 'रंहस्त- रसी तु रयः स्यदः। जवः ' इत्यमरः। तरङ्गिता दशनचन्द्रिका दन्तकान्तियस्तादृशानि । कलकण्ठी कोकिलाङ्गना तस्या इव कलान्यव्यक्तमधुराणि । आर्येति । कालहस्तान्मृत्युहस्तात् । आच्छिद्याक्षिप्य। रागोऽनुराग एवानिलो वायुस्तेन चालिता उत्क्षिप्ताः रणरणिकौत्सुक्यमेव तरङ्गा ऊमयस्तद्वति ताशतरङ्गपूर्णे । ' औत्सुक्यं रणरणिका' इति महीपः । अनङ्गसागरे कामसमुद्रे । अत्र परम्परितरूपकमलंकारः। किरसि निक्षिपसि । चरणसरसिजस्य पादकमलस्य रजःकाणिका धूलीलवः। अत्रजने मयीत्यर्थः । चरणाराधनक्रियायां पादशुश्रूषाकर्मणि । कन्यागारस्य मदीयान्तःपुरस्याध्यासने तत्र निवासे इत्यर्थः । रहस्यक्षरणाद्गोप्यवृत्तान्तभङ्गात् । चेटयः परि• चारिकाः । यतिष्यन्ते उद्यमं करिष्यन्ति । स चाहमिति । मन्त्रगुप्तः। देहजेन कामेन । आकर्ण श्रवणपर्यन्तं कृष्टमाकृष्टं सायकासनं धनुर्येनैवंविधेन । चेतसि मनसि । आतिनिर्दयं करु- णारहितम् । तस्याः कलिङ्गराजकन्यायाः कनकलेखायाः कटाक्षरपाङ्गदर्शनैरेवायसनिगडैलॊहश- खलाभिर्गाढं दृढं यथा तथा संयतो बद्धः सन् । किंकरस्यानने मुखे निहिता न्यस्ता दृष्टिर्येनः तादृशः । अगादिषमुक्तवान् । रथचरणं चक्रं तद्वज्जघनं कटिपुरोभागो यस्याः सा । 'पश्चानि- तम्बः स्त्रीकटयाः क्लीबे तु जधनं पुरः' इत्यमरः । नाचरेयं न कुर्याम् । नक्रकेतनो मन्मथः । अकीर्तनीयामवाच्यां दशामवस्थां मरणरूपामित्यर्थः । हरिणनयनया मृगाक्ष्या। निशाचरेण. राक्षसेन । शारदजलधरकान्ति शरन्मेघसमानतेजः । कन्यकानिकेतनं कन्यागृहम् । कालस्य समयस्य कलां लेशम् । चन्द्र इवाननं मुखं यस्या एवंविधायाः कनकलेखाया निदेशादाझ्या।

दशकुमारचरितम्। उत्तरपीठिकार्या शयानाः करतलालससंघटनापनीतनिद्राः काश्चिदधिगतार्थाः सखीरकार्षीत् । अथागत्य ताश्चरणनिहितशिरसः झरदस्रकरालितेक्षणा निजशेखरकेसराग्रसंलग्न- षट्चरणगणरणितसंशयितकलगिरः शनैरकथयन्-'आर्य, यदत्यादित्यतेजसस्त एषा तयनलक्ष्यतां गता, ततः कृतान्तेन न गृहीता । दत्ता चेयं चित्तजेन गरी- यसा साक्षीकृत्य रागानलम् । तदनेनाश्चर्यरत्नेन नलिनाक्षस्य ते रत्नशैलशिलात- लस्थिरं रागतरलेनालंक्रियतां हृदयम् । अस्याश्चरितार्थ स्तनतटं गाढालिङ्गनैः सहशतरस्य सहचरस्य च' इति । ततः सखीजनेनातिदक्षिणेन दृढतरीकृतस्नेह- निगलस्तया संनताङ्गया संगत्यारंसि । अथ कदाचिदायासितजायारहितचेतसि, लालसााललचनग्लानधनकेसरे, राजदरण्यस्थलीललाटालीलायिततिलके, ललितानङ्गराजाङ्गीकृतनिनिंद्रकर्णिका- चन्द्रशालायाः शिरोगृहस्यैकदेशे कस्मिंश्चित्प्रदेशे। 'चन्द्रशाला शिरोगृहम् ' इत्यमरः । तस्याः अन्याया दर्शनेन चलितधृतिर्गतधैर्यः । सा चेति। स्वच्छन्दं स्वेच्छया । शयाना निद्रा विदधतीः । करतलेनालसं मन्दं यत्संघटन ताडनं तेनापनीता दूरीकृता निद्रा यासां तथाविधाः । अधिगतार्था विदितमवृत्तान्ताः । चरणयोर्मत्पादयोनिहितं स्थापितं शिरः याभिरेवभूताः । क्षरता निःसरताऽस्त्रेणाश्रुणा करालितानि प्राप्तविकाराणीक्षणानि चषि यास ताः । निजशेखरकेसर- स्यात्मीयशिरोमाल्यस्याने कोटौ सलमाः सक्ताः ये षट्चरणा अमरास्तेषां गणस्य पङ्क्ते रणितसं- शयिता गुञ्जातुल्या कलाऽव्यक्तमधुरा च गीर्वाणी यासां ताः । अत्यादित्यतेजसः सूर्यातिशा- यितेजोयुक्तस्य । ते तव । एषा राजकन्या कनकलेखा। नयनलक्ष्यतां लोचनगोचरत्वं गता प्राप्ता । ततस्तस्माद्धेतोः । कृतान्तेन मृत्युना । चित्तजेन कामेन । गरीयसाऽतिमहता गुरुस्था- नापनेन च । साक्षीकृत्य साक्षितया स्थापयित्वा । रागमनुरागमेवानलं हुतभुजम् । आश्चर्येणा- श्चर्यजनकेनानेन रत्नेन कन्यारत्नेनेत्यर्थः । नलिनाक्षस्य कमलनेत्रस्य । रत्नशैलस्य मणिमयगिरेः शिलातलमिव स्थिर निर्भरम् । चरितार्थ सप्रयोजनम् । गाढं दृढं यथा तथाऽऽलिङ्गनैराश्लेषैः । सदृशतरस्यातितरामनुरूपस्य । सहचरस्य सहायस्य पत्युरिति भावः । अतिदक्षिणेन नितरां निपुणेन । दृढतरीकृतः स्नेहनिगलः प्रेमपाशो यस्यैवंविधः। संगत्य मिलित्वा असि क्रीडा: कृतवान् । 'रमु क्रीडायाम् । अथेति । एवं गुप्तरीत्या कन्यासंगानन्तरम् । कलिङ्गराजः क्रीडारसजातासक्तिरासीत्समय- विशेषे इति वक्ष्यन्कोऽसौ समय इत्याशंकानिरासाय समयं विशिनष्टि-आयासितेत्यादिना। आयासितं पीडितं जायारहितानां भार्यावियुक्तानां चेतो मनो यत्रैतादृशे । भार्या जायाऽथ पुंभन्नि दाराः स्यात्तु कुटुम्बिनी' इत्यमरः । लालसा मधुलुब्धा येऽलिनो मधुकरा- स्तेषां लङ्घनेन पलादाक्रमणेन ग्लानः घनः कुसुमानिबिडः केसरः पुनागवृक्षो यत्रैवविधे । पुन्नागे पुरुषस्तुङ्गकेसरो देववल्लभः' इत्यमरः । राजन्ती शोभमाना याऽरण्यस्थली वनभूमि- रूपा नायिका तस्या ललाटलीलायितों भालदेशतिलकवदाचरितस्तिलकस्तदाख्यवक्षविशेषो -- SMITA सप्तमोच्यासः] मनोरमाख्यव्याख्यासहितम्। रकाञ्चनच्छत्रे, दक्षिणदहनसारथिरयाहृतसहकारचञ्चरीककलिके, कालाण्ड- जकण्ठरागरक्तरक्ताधरारतिरणाग्रसंनाहशालिनि, शालीनकन्यकान्तःकरणसंक्रा- न्तरागलचितलजे, दर्दुरगिरितटचन्दनाश्लेषशीतलानिलाचार्यदत्तनानालतानृत्य- लीले काले, कलिङ्गराजः सहाङ्गनाजनेन सह च तनयया सकलेन च नगर- जनेन दश त्राणि च दिनादि दिनकरकिरणजाललङ्घनीये, रणदलिसङ्घलचितनत. लतापकिसलयालीढसैकततटे, तरलतरङ्गशीकरासारसङ्गशीतले सागरतीरकानने क्रीडारसजातासक्तिरासीत् । अथ संततगीतसंगीतसंगताङ्गनासहस्रशृङ्गार- हेलानिरर्गलानङ्गसंघर्षहर्षितश्च रागतृष्णैकतन्त्रस्तत्र रन्ध्र आन्ध्रनाथेन जयसिंहेन - क .. यत्रैवभूते । 'तिलकः क्षुरकः श्रीमान्' इत्यमरः । ललितः सुन्दराङ्गो योऽनङ्गः काम एव राजा तेनाङ्गीकृतं धृतं निर्निद्रो विकसितः कर्णिकारो द्रुमोत्पलः एव काञ्चनच्छत्रं स्वर्णातपत्रं यस्मि- नेतादृशे । 'अथ द्रुमोत्पलः । कर्णिकारः परिव्याधः ' इत्यमरः । दक्षिणेन दक्षिणदिग्जातन दहनसारथिनाऽग्निसहायेन वायुनेत्यर्थः । रयेण वेगेनाहृताः स्वगन्तव्या दिशमुत्तरां नीताः सह- कारे चूतवृक्षे वर्तमानाश्चञ्चरीका अलयः, कलिकाः कोरकाश्च यत्रैवंभूते । आम्रचूतो रसा- लश्च सहकारोऽतिसौरभ: 'कलिका कोरकोऽस्त्रियाम् ' इत्यमरः । कालाण्डजाः कोकिलाङ्गना- स्तासामिव कण्ठो यासां ता अतिमधुरभाषिण्य इति भावः । 'वनप्रियः परभृतः पिक: कालाण्डजः स्मृतः' इति वैजयन्ती । तादृश्यो रागरक्ता अनुरागविशिष्टाश्च या रक्ताधरा: उत्तमनायिकास्तासां रतिरणस्य सुरतयुद्धस्याग्रसन्नाहः प्रथमोद्योगस्तच्छालिनि तद्विशिष्टे । शालीना धैर्यरहिताः 'शालीनकौपीने अधृष्टाकार्ययोः' इति निपातनात्साधुता । तादृश्यो या: कन्यका अंकुरिततारुण्या बालास्तासामन्तःकरणे मनसि संक्रान्तो नवीनतया प्रादुर्भूतो यो रागस्तेन लंधिताऽतिकान्ता लज्जा पा यस्मिन्नेतादृशे । दर्दुराख्यस्य गिरेः पर्वतस्य तटे वर्त- मानानां चन्दनाना पटीराणामाश्लेषेण संपर्केण शीतलः शिशिरो योऽनिलो वायुस्तेनैवाचार्येण नृत्याचार्येण विटेन दत्ता कारिता नानालतानामेव वारवधूनामित्यर्थानृत्यलीला नर्तनक्रीडा यस्मिन्नेतादृशे । ' दर्दुरस्तोयदे भेके वाद्यभाण्डादिभेदयोः' इति मेदिनी । एतादृशे काले समये ग्रीष्माख्ये इति यावत् । कलिङ्गराजः कर्दनाख्यः । तनयया पुच्या कनकलेखया । दिनकरस्य तिग्मांशोः किरणजालेन रश्मिसमूहेनालंघनीयेऽनतिक्रमणीये । रणद्भिर्गुजारवं कुर्वद्भिरलिसंधैः भ्रमरश्रेणिभिलषितान्याक्रान्तान्यत एव नतानि नीचैरवलम्बमानानि यानि लताप्रवर्तीनि किस- लयानि पल्लवास्तैरालीढो व्याप्तः सैकततटो बालुकामयप्रदेशो यत्रैवविधे। 'तोयोत्थितं तत्पु- लिनं सैकतं सिकतामयम्' इत्यमरः । तरलाश्चञ्चला ये तरङ्गा ऊर्मयस्तेषां शीकरासारेण विन्दुप्र- सारेण सह सङ्गात्संपर्कातू शीतले शिशिरीकृते । सागरस्य समुद्रस्य तीरकानने तटवनोद्देशे । 'कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिधु, 'गहनं काननं वनम् ' इत्यमरः । क्रीडारसे विहाररसे जातासक्तिरुत्पन्नाभिलाषः । अथेति । संततमनवरतं गीते गाने संगीत नृत्यादौ च संगतमा. सक्तं यदङ्गनासहस्रं स्त्रीचक्रं तस्य शृङ्गारहेलया शृङ्गारलीलया निरर्गलो निष्प्रतिबन्धमुत्पन्नो यो ७ .

Came दशकुमारचरितम्। [उत्तरपीठिकाया सलिलतरणसाधनानीतेनानेनानेकसंख्येनानीकेन द्रागागत्यागृह्यत सकलत्रः सा बानीयत नासतरलाक्षी दयिता नः सह सखीजनेन कनकलेखा । तदाहं दाहे- मानणदहनजनितेनान्तरिताहारचिन्तश्चिन्तयन्दयितां गलितगात्रकान्तिरित्यतर्क- यम्-'गता सा कलिङ्गराजतनया जनयित्रा जनयित्र्या च सहारिहस्तम् । निरस्तधै- यस्ता स राजा नियतं संजिवृक्षेत् । तदसहा च सा सती गररसादिना सद्यः संति- प्टेत । तस्यां च ताशी दशां गतायां जनस्यास्यानन्यजेन हन्येत शरीरधारणा ! सा का स्यादतिः । इति । अत्रान्तर आन्ध्रनगरादागच्छन्नग्रजः कश्चिदैश्यत । तेन चेयं कथा कथिता- 'यथा किल जयसिंहनानेकनिकारदत्तसंघर्षणजिघांसितः स कर्दनः कनकलेखा- दुर्शनधितेन रागेणारक्ष्यत । सा च दारिका यक्षेण केनचिदधिष्ठिता न तिष्ठत्यग्रे नरान्तरस्य । आयस्यति च नरेन्द्रसार्थसंग्रहणेन तन्निराकरिष्यन्नरेन्द्रो न चास्ति सिद्धिः' इति । तेन चाहं दर्शिताशः शंकरनृत्यरङ्गदेशजातस्य जरत्सालस्य स्कन्धरन्ध्रान्तर्जटाजालं निष्कृप्य तेन जटिलतां गतः कन्थाचीरसंचयान्तरितस- ANING । मदनसंघर्षों मदनोद्रेकस्तन हर्षितः सन्तुष्टः । 'हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः इत्यमरः । रागोऽनुरागस्तृष्णा थोषिदागुपभोगेच्छा तयोरेकतन्त्रोऽधीनः । तत्र रन्ध्रे तस्मिन्नव- काशे। आन्ध्रनाथेन तद्देशाधिपेन । सलिलतरणसाधनं नौकारूपं तेनानीतेन तत्र प्रापितेन । अनौ- केन सैन्येन । द्रागाशु । अत्यागृह्यत गृहीतोऽभूत् । सकलत्रो भार्यादिसहितः । त्रासेन भयेन तरलाक्षी चञ्चललोचना । नोऽस्माकं दयिता प्रिया कनकलेखा । तदेति । दाहेनोष्मणा । अन- अदहनजनितेन कामानिसमुत्पादितेन । अन्तरिता दूरीकृताऽऽहारचिन्ता भोजनेच्छा यस्यैर्व- विधः । गलिता च्युता गात्रकान्तिः शरीरात्विङ् यस्य प्राप्तवैवर्ण्य इत्यर्थः । अतर्कयं विचार कृतवान् । अरिहस्तं शत्रुपाणिम् । निरस्तधैर्यो धैर्यहीनः । स राजा जयसिंहः। नियतमवश्य- मेव । संजिघृक्षेद्वशीकर्तुमिच्छेत् । तदसहा तत्सोडुमक्षमा। सती पतिव्रता । गररसादिनी विषमिश्रितजलादिना । संतिष्ठत त्यतप्राणा भवेत् । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । तादशी दशां गतायां मृतायां सत्यामित्यर्थः । अनन्यजेन कामेन । 'कुसुमेषुरनन्यजः । इत्यमरः । शरीरधारणा प्राणधृतिरित्यर्थः अत्रान्तर इति । अस्मिन्नवसर इत्यर्थः । अग्रजो ब्राह्मणः । ऐक्ष्यत दृष्टः । इयं वक्ष्य- माणा। अनेकनिकारैर्नानाविधापकारैर्दत्तसंघर्षणः कृतोपद्रवः । 'अपराधोऽपकारश्च निकारोऽपि समाः' इति वैजयन्ती । पूर्वोक्तरीत्या जिघांसितो हन्तुमिष्टश्च । कनकलेखाया दर्शनेनैधि- तेन संवर्धितेन । अरक्ष्यत रक्षितो न तु हृतः । दारिका कन्या । नरान्तरस्य पुरुषान्तरस्य । आयस्यति प्रयत्नं करोति । 'यसु प्रयत्ने । नरेन्द्रसार्थस्य मान्त्रिकसमूहस्य संग्रहणेनैकत्रीकरणेन । तं यक्षं निराकरिष्यन्दूरीभावयिष्यन् । नरेन्द्रो राजा जयसिंहः । दार्शताशः समुत्पादितपुनः- प्राप्तीच्छ: । जरत्सालस्य जीर्णवृक्षस्य । 'अनोकहः कुठः सालः' इत्यमरः । स्कन्धरन्धान्तः । १ a - . सप्तमोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । कलगात्रः कांश्चिच्छिष्यानग्रहीषम् । तांश्च नानाश्चर्यक्रियातिसंहिताज्जनादाकृष्टान्न- चेलादित्यागान्नित्यहृष्टानकार्षम् । अयासिषं च दिनैः कैश्चिदान्ध्रनगरम् । तस्य नात्यासन्ने सलिलराशिसशस्य कलहंसगणदलितनलिनदलसंहतिगलिताकजल्क- शकलशारस्य सारसश्रेणिशेखरस्य सरसस्तीरकानने कृतनिकेतनः स्थितः शिप्य- जनकथिताचित्रचेष्टाकृष्टसकलनागरजनाभिसंधानदक्षः सन्दिशिदिशीत्यकीयै जनेन-'य एष जरदरण्यस्थलीसरस्तीरे स्थण्डिलशायी यतिस्तस्य किल सकलानि सरहस्यानि सषडङ्गानि च छन्दांसि रसनाग्रे संनिहितानि, अन्यानि च शास्त्राणि, येन यानि न ज्ञायन्ते स तेषां तत्सकाशादर्थनिर्णयं करिष्यति। असत्येन नास्यास्य संसृज्यते । सशरीरश्चैष दयाराशिः । एतत्संग्रहेणाद्य चिरं चरितार्था दीक्षा । तञ्चरणरजःकणैः कैश्चन शिरसि कीणैरनेकस्यानक आतङ्कश्चिरं चिकित्सकैरसंहार्यः संहृतः। तदझिक्षालनसलिलसेकैर्निष्कलङ्कशिरसां नश्यन्तिक्षणेनैकेनाखिलनरेन्द्र- - - शाखाबिलान्तरालात जटाजालं सटाकलापम् । निष्कृष्यादाय । जटिलतां जटायुक्तताम् । लोमादिपामादिपिच्छादिभ्यः शनेलवः' इतीलच । कन्थाचीरसंचयेन कषायरक्तवस्त्रखण्डसं- हत्याऽन्तरितसकलगात्रो निगूढसर्वावयवः । शिष्यानन्तेवासिनः । 'छात्रान्तवासिनौ शिष्ये । इत्यमरः । अग्रहीषं वशीकृतवान् । नानाविधाभिराश्चर्यक्रियाभिरद्भुतजनकचेष्टाभिरातिसंहिता- प्रतारितात् । आकृष्टस्यावर्जितस्यानचेलादेर्भक्ष्यवस्त्रादेस्त्यागाद्वितरणात् । 'चेलं वसनमंशुकम्' इत्यमरः । अयासिषं गतवान् । नात्यासन्ने किञ्चिदूरवर्तिनी प्रदेशे । सलिलराशिसशस्य समुद्र तुल्यस्य । 'सदृक्षः सदृशः सहकू' इत्यमरः। कलहंसगणेन राजहंसविशेषसमूहेन दलितायाः खण्डि- ताया नलिनदलसंहतेः पद्मपत्रवृन्दागलितेन किजल्कशकलैः केसरखण्डैः शारस्य चित्रवर्णस्य । 'पत्रं पलाशं छइन दलं पणे छदः पुमान् ' 'स्त्रियां तु संहतिवन्दम् ' किंजल्क: केसरोऽस्त्रियाम्' 'मित्तं शकलखण्डे वा ' इति सर्वत्रामरः । सारसणिशेखरस्य जलचरपक्षिविशेषपङ्क्तिभूषि- तस्येत्यर्थः । सरसः कासारस्य । 'कासारः सरसी सरः' इत्यमरः । कृतनिकेतनो विहितनिवा- सस्थानः । शिष्यजनैश्छात्रवगैः कथिताभिस्तत्र तत्र प्रकटीकृताभिश्चित्रचेष्टाभिराश्चर्यक्रियाभि- राकृष्टानां मत्समीपमागतानां सकलनागरजनानामतिसंधाने प्रतारणकार्य दक्षो निपुणः । अकीत्यै प्रख्यातोऽभूवम् । य एष इति । जरदरण्यस्थलीसरस्तीरे जीर्णवनप्रदेशस्थिततडागरोधसि । स्थाण्डिले शेत इति स्थाण्डिलशायी । 'स्थण्डिलाच्छयितरि व्रते' इति णिनिः । यतिः संन्यासी । सषडङ्गानि शिक्षाद्यङ्गयुक्तानि । छन्दांसि वेदाः । रसनाग्रे जिह्वाग्रभागे । स यतिः । तत्सका- शाद्वेदशास्त्रसकाशात् । अर्थनिर्णय कार्यनिर्धारणम् । असत्येन मिथ्यावचनेन । आस्यं मुखं न संसृज्यते स्पृष्टमपि न भवति । सशरीरो मूर्तिमान् । एतत्संग्रहेण दयारक्षणेन । तस्य यतेः चर- गरजःकणैः पादधूलीलवैः । कीर्णैर्यदृच्छया पतितैः किमुत श्रद्धया धारितैरिति भावः । आतङ्कः पिशाचादिभयम् । चिकित्सकैर्मन्त्रवादिभिरसंहार्यो प्रतीकार्यः । संहृतो दूरीकृतः । तस्य यते- रन्रिक्षालनसलिलस्य पादमार्जनजलस्य सेकैरभिषेकैः निष्कलङ्क निष्पापं शिरो येषां तादृशानाम् । ।

२३४ মাৰিব। [ उत्तरपीठिकाय यन्त्रलविनश्चण्डतारा ग्रहाः । न तस्य शक्यं शक्तरियत्ताज्ञानम् । न चास्याहंकार- कणिका' इति । सा चेयं कथानेकजनास्यसंचारिणी तस्य कनकलेखाधिष्ठानधनदान ज्ञाकरनिराक्रियाक्रियातिसक्तचेतसःक्षत्रियस्याकर्षणायाशकत्।स चाहरहरागत्या- दरेणातिगरीयसार्चयन्नथैश्च शिप्यान्संगृहन्नधिगतक्षणः कदाचित्काक्षितार्थसाध- नाय शनैरयाचिष्ट। ध्यानधारः स्थानदर्शितज्ञानसंनिधिश्चैनं निरीक्ष्य निचाच्या कथयम्-'तात, स्थान एष हि यत्नः। तस्य हि कन्यारत्नस्य सकलकल्याणलक्षण- कराशेराधिगतिः क्षीरसागररशनालंकृताया गङ्गादिनदीसहस्रहारयाष्टिराजिताया घराङ्गनाया एवासादनाय साधनम् । न च स यक्षस्तदधिष्ठायी : केनचिन्नरे- न्द्रेण तस्या लीलाञ्चितनीलनीरजदर्शनाया दर्शनं सहते, तदन्न सह्यतां त्रीण्य- हानि, यैरहं यतिष्येऽर्थस्यास्य साधनाय' इति । तथादिष्टे च हृष्टे क्षितीशे गते निशि निशि निर्निशाकराचिषि नीरन्ध्रान्धकारकणनिकरनिगीर्णदशदिशि नि- द्रानिगडितनिखिलजनशि निर्गत्य जलतलनिलीनगाहनीयं नीरन्ध्र कृच्छ्राच्छि- : अखिलनरेन्दाणां निखिलमन्त्रवादिना यन्त्राणि चक्राणि लङ्घयन्त्यतिगच्छन्त्येवंशीलाः । चण्डतरा अतिकूरा प्रहाः शन्यादयः । इयत्ताज्ञानं परिमित्यवगतिः । अस्याहंकारकणिका गर्व. लेशोऽपि नास्ति । अनेकजनानामास्यसंचारिणी मुखान्मुखं प्रसरन्ती । कनकलेखा मत्प्रियाऽ- विष्ठानमाश्रयस्थानं यस्यैवंविधस्य धनदाज्ञाकरस्य कुबेरकिंकरस्य यक्षस्य निराक्रियायो दूरीमा चनेऽतिसक्तचेतसोऽत्यासक्तचित्तस्य तस्य क्षत्रियस्य जयसिंहस्यत्यर्थः । आकर्षणाय वशीकरणा- याशकत्समर्था जाता । स चेति । जयसिंहः । अहरहः प्रतिदिनम् । अतिगरीयसा महत्तरेण । अर्थैर्देविणैः । संग्रह वशीकुर्वाणः । अधिगतक्षणः प्राप्तावसरः सन् । कांक्षितस्याभीष्टस्यार्थस्य अक्षनिराकरणरूपप्रयोजनस्य साधनाय संपादनार्थम् । अयाचिष्ट प्रार्थितवान् । व्याने समान ध्यवस्थया धीरो निश्चलः । स्थानेऽवकाशे लब्धे सति दर्शिता ज्ञानस्य कालदेशादिव्यवहितज्ञानस्य संनिधिर्मयि सानिध्यं येनैतादृशः। निवाथ्य किंचिद्विचारं कृत्वा स्थाने युक्ततर इत्यर्थः । 'युक्ते द्वे सांप्रतं स्थाने ' इत्यमरः । यत्नो यक्षदूरीकरणोद्योगः । हि यस्मात्कारणात् । अधिगतिः प्राप्तिः क्षीरसागर एव रशना मेखला 'स्त्रीकटयां मेखला काञ्ची सप्तकी रशना तथा' इत्यमरः । तयाऽलंकृतायाः प्रासाधितायाः । गङ्गादिनदीसहस्रमेव हारयटिभुक्ताहारस्तया राजिताया: शोभमानायाः । धराभूमिरेवाङ्गना कामिनी तस्याः । आसादनायोपलब्धये । साधनं निमित्तम् । नरेन्द्रेण मान्त्रिकेण । लीलाञ्चिते विलासयुक्त नीलनीरजवनीलकमलवच्च दर्शने नयने यस्या- स्तादृश्याः । ' दर्शनं नयनस्वप्नबुद्धिधर्मोपलब्धिषु ' इति मेदिनी । सह्यतां क्षमा विधीयताम् । जीग्यहानि दिनत्रयपर्यन्तम् । 'कालावनारत्यन्तसंयोगे' इति द्वितीया । यतिध्ये प्रयत्न करिष्यामि । क्षितीशे राजनि जयसिंहे । निशि निशि प्रत्यहं रात्रौ । निर्निशाकराचिषि चन्द्र- प्रकाशरहितायाम् । नीरन्ध्रान्धकारस्य गाढतमसः कणनिकरण बिन्दुनिकुरुम्बेन निगीणोः कब- लिताः दश दिशो यत्रैवविधायाम् । निद्रया निगडिता: निमीलिता निखिलजनानां दृशो दृष्टयो । SALMER । ।

apkARRIANATABASANNAPPIN ANIMAT । सप्तमोच्छासः] मनोरमाख्यव्याख्यासहितम् । द्रीकृतान्तरालं तदेकतः सरस्तटं तीर्थासंनिकृष्टं केनचित्खननसाधनेनाकार्षम् । बनशिलेष्टकाच्छन्नच्छिद्राननं तत्तीरदेशं जनैरशङ्कनीयं निश्चित्य, दिनादिस्ना- ननिर्णिक्तगात्रश्च नक्षत्रसंतानहारयष्टयग्रप्रथितरत्नम् , क्षणदान्धकारगन्धहस्ति- दारणैककेसरिणम् , कनकशैलशृङ्गरङ्गलास्थलीलानटम् , गगनसागरघनतरङ्ग- राजिलचनैकनक्रम् , कार्याकार्यसाक्षिणम, सहस्राषिं सहस्राक्षदिगङ्गनाङ्गरा- गरागायितकिरणजालम् , रक्तनीरजाञ्जलिनाराध्य निजनिकेतनं न्यशिश्रियम् । याते च दिनत्रये, अस्तगिरिशिखरगैरिकतटसाधारणच्छाये । अचलराज- कन्यकाकदर्थनयान्तरिक्षाख्येन शंकरशरीरेण संसृष्टायाः संध्याङ्गनायाः रक्तच- न्दनचार्चतैकस्तनकलशदर्शनीये दिनाधिनाथे, जनाधिनाथः स आगत्य जनस्यास्य यस्यामेवंविधायाम् । जलतले सलिलभागे निलीनेन निमग्नेन गाहनीय प्रवेष्टुमुचितम् । छिद्रीकृतान्तरालमुत्स्वातमध्यम् । एकताः सरस्तटं तडागकूलसमीपे । 'एकत: कचिदन्तिके इति वैजयन्ती। 'एकतः सर्वतोयोगे शेषार्थे कम वेष्यते " इति द्वितीया। तीर्थस्य जलावरो- हणसोपानस्यासनिकृष्टमनासनवर्ति । खननसाधनेन सुरजात्येन यन्त्रेण । घनाभिगुरुभिः शिला- भिरश्मभिरिष्टकाश्चतुष्कोणपक्कमृत्खण्डैश्वाच्छन्नं पिहितं छिद्राननं विलमुखं यत्रैवंभूतम् । अशङ्क- नीथं सन्देहानास्पदम् । दिनादौ प्रभाते स्नानेनावगाहनेन निर्णिकगात्रः संशुद्धदेहः । निर्णित शोधितं मृष्टम् ' इत्यमरः । नक्षत्रसंतानस्य तारकाश्रेण्या एव हारयष्टेर्मुक्ताहारस्याने प्रथितमूतं रत्नं मध्यमणिमिव वर्तमानम् । क्षणदान्धकारो रजनीतमोनिवह एवं गन्धहस्ती उन्मत्तगजस्तस्य दारणे संहरणे एक मुख्यं क्षममिति भावस्तादृशं केसरिण सिंहम् । 'सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः' इत्यमरः । कनकशैलस्य सुवर्णाचलस्य सुमेरोः शृङ्ग शिखरमेव रङ्गं नृत्यवेदिका तत्र लास्यलीलायां नृत्यक्रीडायां नटं विटपुरुषम् । गगनमाकाश एव सागरो जल- धिस्तत्र वर्तमाना ये घना वारिधरास्त एक तरङ्गा ऊर्मयस्तेषां राज्याः परंपराया लवने तरणे एकन्न जलचरविशेषरूपम् । सहस्रार्चिषं सूर्यम् । सहस्राक्ष इन्द्रस्तस्य या दिक्पूर्वा तस्या एवा- अनाया योषाया अङ्गरागायितं गात्रविलेपनतुल्यं किरणजालं राश्मिकलापो यस्यैवंभूतम् । रक्त- नीरजाजलिना रक्तकमलयुताजलिजलधारया । आराध्योपास्य । निजनिकेतनं स्वगृहम् । न्यशिश्रियं प्राप्तवान् । याते चेति । अतीते सति । अस्तगिरिशिखराणामस्ताचलशृङ्गाणां गैरिकतटैः धातुविशेष- युक्तसानुभिः साधारणच्छाये समानकान्तौ । अचलराजकन्यका हिमवद्दुहिता गौरी तस्याः मदर्थया सापल्यप्रयुक्तेन कुत्सितवाक्येन । अन्तरिक्षाख्येन वियन्नाम्ना शंकरशरीरेण महादेववपुषा । गगनस्य शंकरवपुस्त्वं चाष्टमूर्तित्ववर्णनावसरे ' या सृष्टिः स्रष्टुराया ' इति श्लोके 'श्रुतिविषय- गुणा या स्थिता व्याप्य विश्वम् ' इति कालिदासेनाप्युक्तम् । संसृष्टायाः संगतायाः । सन्ध्याया एवाङ्गनायाः स्त्रियाः । रक्तचन्दनेन चर्चितो लिप्तः एकः स्तनकलशः कुचकुम्भस्तद्वद्दशनीये मनोहरे । दिनाधिनाथे सूर्ये । जनाधिनाथः स राजा जयसिंहः । धरणिन्यस्तयोभुवि निहितयो:- २२६ জলাৰবিন্দু। [उत्तरपीठिकाया वरणिन्यस्तचरणनखकिरणच्छादितकिरीटः कृता जलिरतिष्ठत् । आदिष्टश्च- 'दिष्टया दृष्टेष्टसिद्धिः। इह जगति हिन निरीहं देहिनंश्रियः संश्रयन्ते । श्रेयांसि च सकलान्यनलसानां हस्ते नित्यसांनिध्यानि । यतस्ते साधीयसा सञ्चारतेना- नाकलितकलङ्केनाचिंतेनात्यादररचितेनाकृष्टचेतसा जनेनानेन सरत्तथा संस्कृ- तम् , यथेह तेऽद्य सिद्धिः स्यात् । तदेतस्यां निशि गलादर्धायां गाहनीयम् । गाहनानन्तरं च सलिलतले सततगतीनन्तःसंचारिणः संनिगृह्य यथाशक्ति शय्याकार्या। ततश्च तटस्खलितजलस्थगितजलजखण्डचलितदण्डकण्टकाप्रदलित- देहराजहंसत्रासजर्जररसितसंदत्तकर्णस्य जनस्य क्षणादाकर्णनीयं जनिष्यते जल- संघातस्य किंचिदारटितम् । शान्ते च तत्र सलिलराटिते क्लिन्नगात्रः किंचिदा- रक्तष्टियेनाकारेण निर्यास्यति निचाय्य तं निखिलजननेत्रानन्दकारिणं न यक्षः शक्ष्यत्यप्रतः स्थितये । स्थिरतरनिहितस्नेहशृङ्खलानिगडितं च कन्यकाहृदयं क्षणेनैकेनासहनीयदर्शनान्तरायं स्यात् । अस्याश्च धराङ्गनाया नात्यातनिरा- कृतारिचक्र चक्र करतलगतं चिन्तनीयं न तत्र संशयः । तच्चेदिच्छस्यनेकशा- स्त्रज्ञानधारविषणैरधिकृतरितरैश्च हितैषिगणैराकलय्य जालिकशतं चानाच्या, .. श्चरणयोः पादयोर्नखानां किरणैः कान्तिभिश्छादितकिरीटः पिहितशिरोभूषणः सन् । आदिष्टश्चेति । मया कथितः । दिट्या भाग्यवशात् । इष्टसिद्धिर्मनीषितप्राप्तिः। निरीहं निष्कामम् । देहिनं पुरुषम् । श्रियः संपदः । न संश्रयन्ते नोपस्थिता भवन्ति । श्रेयांसि कल्याणानि । अनलसानासुशमिनाम् । नित्यसांनिध्यान्यनवरतसंनिहितानि । तदुक्तमाचार्य उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः ' इति । साधीयसाऽतिसमीचीनेन । अनाकलितकलकेन, अस्पृष्टदूषणेन । आकृष्टचेतसा वशीकृतचित्तेन । सरस्तडागः । निश्यायामर्धरात्रसमये ! सतत- गतीन्वायून् प्राणादीन् । 'मातरिश्वा सदागतिः' इत्यमरः । अन्तःसञ्चारिणो हृदयकोशव- तिनः । संनिगृह्य निरुध्य । तटात्सरःकूलात्स्खलितानां निपतितानां, जले स्थगिताना निमनानां, जलजखण्डस्य पझकदम्बस्य चलितः कम्पनशीलैः कण्टकात्रैः सूच्यग्रभागैर्दलितदेहानां क्षतगा- त्राणां राजहंसानां हसविशेषाणां त्रासजर्जरं भयकातरं यदसित दीनरवस्तत्र संदत्तकर्णस्याबहि- तश्रवणस्य । राजहंसास्तु ते चंचुचरणैर्लोहितैः सिताः' इत्यमरः । आकर्णनीय श्रोतुमुचितम् । आरटितं शन्दितम् । शान्त इति । उपरते सति । क्लिनगात्र आईशरीरः । आकारण स्वरूपेण । निर्यास्यति जलानिर्गमिष्यति । निचाव्य दृष्ट्वा । अग्रतः स्थितये पुरोमागे निमसितु- मित्यर्थः । स्थिरतरमतिदृढं यथा तथा निहितेन हृदये स्थापितेन स्नेहेनानुरागेणैव शृंखलया निगडितं बद्धम् । असहनीयो न क्षन्तुमुचितो दर्शने तडागोत्थितपुरुषधीक्षणेऽन्तरायो विन्नो यस्वैवंविधम् । नात्याइतमादररहितं यथा तथैव निराकृतं दूरीकृतमरिचक्रं शत्रुमण्डलं यस्मि- नेतादृशम् । धीरधिषणैस्तीक्ष्णबुद्धिभिः । बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः इत्यमरः । हितैषिगणैराप्तवर्ग:। आकलव्य सम्यग्विचार्य । जालिका आदायजीविनस्तेषां . ।

सप्तमोच्छासः] मनोरमाख्यव्याख्यासहितम् । अन्तरङ्गनरशतैर्यथेष्टदृष्टान्तरालं सरः क्रियेत, रक्षा • च तीरात्रिंशद्दण्डान्तराले सैनिकजनेन सादर रचनीया। कस्तत्र तज्जानाति यच्छिद्रेणारयश्चिकीर्षन्ति' इति । तत्त्वस्य हृदयहारि जातम् , तदधिकृतैश्च तत्र कृत्ये रन्ध्रदर्शनासहरिच्छां च राज्ञा कन्यकातिरागजनितां नितान्तनिश्चलां निश्चित्यार्थ एष न निषिद्धः । तथास्थितश्च तदासादनदृढतराशयश्च स आख्यायत- राजन् , अत्र ते जनान्ते चिरं स्थितम् , न चैकत्र चिरस्थानं नः शस्तम् । कृतकृत्यश्वेह न द्रष्टासि । यस्य ते राष्ट्रे ग्रासाद्यासादितं तस्य ते किंचिदनाचर्य कार्य गतिरार्यगा' इति । तत्रैतच्चिरस्थानस्य कारणम् । तच्चाद्य सिद्धम् । गच्छ गृहान् । यथार्हजलेन हृद्यगन्धेन स्नातः सितस्रगङ्गरागः शक्तिसदृशेन दानेनाराधितधरणितलतैतिल- गणस्तिलस्नेहसिक्तयष्टयग्रग्रथितवर्तिकाग्निशिखासहस्रग्रस्तनैशान्धकारराशिराग- त्यार्थसिद्धये यतेथाः' इति । स किल कृतज्ञतां दर्शयन्-'असिद्धिरेषा सिद्धिः, यसनिधिरिहार्याणाम् । कष्टा चेयं निःसङ्गता, या निरागसं दासजनं त्याज- यति । न च निषेधनीया गरीयसां गिरः' इति स्तानाय गृहानयासीत् । अहं च निर्गत्य निर्जने निशीथे सरस्तीररन्ध्रनिलीनः सन्नीपच्छिद्रदत्तकर्णः स्थितः । स्थिते चार्धरात्रे कृतयथादिष्टक्रियः स्थानस्थानरचितरक्षः स राजा जालिकजना- शतम् । 'जालं समूह आनाये गवाक्षेऽपि ' इत्यमरः । यथेष्टमप्रतिहतं यथा तथा ध्यान्तराल- मीक्षितमध्यम् । दण्डः प्रकाण्डः । ' दण्डोऽस्त्री लगुडे पुमान् । व्यूहभेदे प्रकाण्डे च ' इति मेदिनी । प्रकाण्डश्च षोडशहस्तविशिष्टपरिमाणविशेषः । काण्डान्तात्क्षेत्रे' इति सूत्रे तथा व्याख्यानात् । छिद्रेण रन्द्रेण । अरयः शत्रवः । चिकीर्षन्ति कर्तुमिच्छन्ति । तत्त्विति। मदुक्तम् । अस्य जयसिंहस्य । कन्यकायामतिरागेणात्यासक्त्या जनितामुत्पादिताम् । निता- न्तनिश्चलामतिढाम् । न निषिद्धो न निवारितः । तदासादने सरसि निमज्य रूपान्तरलाभे दृढतराशयो निश्चलमतिः । जनान्ते देशमध्ये। ‘जनो जनपदे प्रोक्तः' इति हलायुधः । न चिरस्थानं शस्तं यत्रास्तमितशायिनः' इति यतिधर्मनिरूपणात् । ग्रासादि कवलादिकम् । आसादितं मया प्राप्तम् । अनाचर्याविधाय । गतिर्देशान्तरगमनम् । आय: सज्जनगा निन्या । चिरस्थानस्य बहुकालनिवासस्य । हृद्यगन्धेन मनोहारिपरिमलयुक्तेन ! सिता शुभ्रा स्रङ्माला- रागो विलेपश्च यस्यैवंविधः । आराधितास्तोषिता धरणितले भूतले वर्तमानास्तैतिलपणाः देवा ब्राह्मणा येनैवंविधः । तिलस्नेहेन तिलतैलेन सितासु, यष्टीनां लगुडानामग्रे प्रथितासु बद्धासु वर्तिकासु यदग्निशिखासहवं तेन प्रस्तो विनाशितो नैशान्धकारराशिर्थेनैवंविधः यतेथा उद्यमं कुरुष्व । कृतज्ञतामुपकारस्मरत्वम् । असंनिधिरसांनिध्यम् । आर्याणां पूज्यानाम् । कष्टा दुःखदात्री । निःसङ्गता साधुसंगरहितता । निरागसमनपराधिनम् । आगोऽपराधो मन्तुश्च ' इत्यमरः । गरीयसामतिमहात्मनां गिरो वचनानि । अयासीदतः । अहं चेति । मन्त्रगुप्तः । सरस्तीरस्य तडागकूलस्य रन्ध्रे बिले निलीनः गुप्तः । छिद्रे सूक्ष्मविवरे दत्तकों निहितश्रवणः । कृताऽनुष्ठिता यथादिष्टं मदुपदेशानुसारेण किया येनैबभूतः दशकुमारचरितम्। [ उत्तरपीठिकायां नानीय निराकृतान्तःशल्यं शङ्काहीनः सरःसलिलं सलीलगतिरगाहत । गतं च कीर्णकेशं संहतकर्णनासं सरसस्तलं हास्तिनं नकलीलया नीरातिनिली जतया तं तथा शयानं कंधरायां कन्थया व्यग्रहीषम् । खरतरकालदण्डवट्टना तिचण्डैश्च करचरणघातनिर्दयदत्तनिग्रहः क्षणेनैकेनाजहारस चेष्टाम् । ततश्चा कृष्य तच्छरीरं छिद्रे निधाय नीरान्निरयासिषम् । सङ्गतानां च सैनिकानां तदत्यचित्रीयताकारान्तरग्रहणम् । गजस्कन्धगतः सितच्छत्रादिसकलराजचिह्नराजितश्चण्डतरदण्डिदण्डताडनत्रस्तजनदत्तान्तरा- लया राजवीथ्या यातस्तां निशां रसनयननिरस्तनिद्रारतिरनैषम् । नीते च जना- क्षिलक्ष्यतां लाक्षारसदिग्धदिग्गजशिरःसहक्षे शक्रदिगङ्गनारत्नादर्शेऽर्कचक्रे कृत- करणीयः किरणजालकरालरत्नराजिराजितराजार्हासनाध्यासी यथासदृशाचा- । सन् । स्थानस्थाने तत्र तत्र प्रदेशे रचितरक्षः कृतात्मगुप्तिः । स राजा जयासिंहः । जालिक- जनानायजीविपुरुषान् । निराकृतं त्यक्तमन्तःशल्यं मनोदुःखं यस्मिन्कर्मणि तद्यथा तथा। सर:- सलिलमगाहत तडागजले निमजति स्म । कीर्णा विक्षिप्ताः केशाः शिरोरुहा यस्यैवभूतम् । संहत पिहितं कर्णनासं श्रोत्रे नासिका च येनैवंविधम् । तलमधोभागम् । हास्तिनं गाजप्रमाणकम् । * पुरुषहस्तिभ्यामण् च ' इत्यणि ' इनण्यनपत्ये ' इति प्रकृतिभावः । नक्रस्य मकरस्येव लीलया विलासेन । नोरे जले अतिनिलीनया नितरां निमनया । 'नीरक्षीराम्बुशम्बरम्' इत्यमरः । कन्धरायां ग्रीवादशे । 'अथ ग्रीवायां शिरोधिः कन्धरेत्यपि' इत्यमरः । कन्थयाऽऽवरणवस्त्रेण कन्या मृन्मयभित्तौ च तथा प्रावरणान्तरे' इति मेदिनी । न्यग्रहीषं निरुद्धवान् । खरतरोऽति- कठिनः यः कालदण्डो यमहस्तस्थितलगुडस्तेन यनं प्रहरणं तद्वदतिचण्डैः सुदुःसहैः। कर चरणाघातैस्तत्प्रहारैः। निर्दयमनुकम्पाशून्यं यथा तथा दत्तनिग्रहः कृतशिक्षणः । अजहात्प- रितत्याज । 'ओहाक् त्यागे'। चेष्टां चैतन्यम् । तस्य जयसिंहस्य शरीरम् । छिद्रे रोधोबिले । निधाय स्थापयित्वा । नीराज्जलात् । निरयासिषं बहिरागतोऽहम् । खङ्गतानामिति । एकत्र संस्थितानाम् । सैनिकानां सेनासमवेतानाम् । अत्यचित्रीयत सुतरी विस्मयकारकं जातम् । आकारान्तरग्रहणं रूपान्तरधारणम् । गजस्य राजमातङ्गस्य स्कन्धंगत: अंसोपविष्टः । सितच्छत्रं श्वेतातपत्रम् । तदादिभी राजचिहै राजितः शोभितः। चण्डतरं निर्दय यद् दण्डिनां वेत्रपाणीनां किङ्कराणां दण्डताडनं यष्टिप्रहारस्तस्मात्रस्तैभीतर्जनैर्दत्तान्तरालया त्यक- मध्यया । राजवीथ्या राजमार्गेण । रसेन प्रीत्या नयनाद्यापनानिरस्ता निद्रारतिः निद्रानन्दो यस्यै- वंविधः । अनेषमतिवाहितवान् । जनाक्षिलक्ष्यतां लोकनयनगोचरताम् । लाक्षारसेनालक्तकलेपेन दिग्धं विलिप्तं यदिग्गजस्य शिरो मस्तकं तत्सदृशे तत्समाने । शकस्येन्द्रस्य या दिकू प्राची तस्या एवाङ्गनाया योषितो रत्नादशैं मणिमयमुकुरतुल्ये। 'दर्पणे मुकुरादर्शों ' इत्यमरः । अर्कचके सूर्यबिम्बे । कृतकरणीयो विहितसन्याद्याचारः । किरणजालैः प्रभापटलैः कराला व्याप्ता या रत्नान शाजिः पतिस्तया विराजितं शोभितं राजाहै राजयोग्यं च यदासनं सिंहासनं तदध्यास्ते एवं । १ HIND सप्तमोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । रदर्शिनः शङ्कायंत्रिताडान्सनिधिनिषादिनः सहायानगाहिषम् दृश्यता शक्तिपापी, यत्तस्य यतेरजेयरयन्द्रियाणां संस्कारेण नीरजसा.नीरजसांनिध्यशा- लिनि सहर्षालिनि सरसि सरसिजदलसनिकाशच्छायस्याधिकतरदर्शनीयस्या- कारान्तरस्य सिद्धिरासीत् । अद्य सकलनास्तिकानां जायेत लज्जानतं शिरः । तदिदानी चन्द्रशेखरनरकशासनसरसिजासनादीनां त्रिदशेशानां स्थानान्यादर- रचितनृत्यगीताराधनानि क्रियन्ताम् । ह्रियन्तां च गृहादितः क्लेशनिरसनस- हार्थिसाथैधनानि इति । आश्चर्यरसातिरेक हृष्टदृष्टयस्ते जय जगदीश, जयने सातिशय दश दिशः स्थगयन्निजेन यशसादिराजयशालि' इत्यसकृदा- शास्यारचयन्यथादिष्टाः क्रियाः । स चाहं दयितायाः सखी हृदयस्थानीयां शशाङ्कसेना. कन्यका कदाचित्कार्यान्तरागतां रहस्याचाक्ष- कच्चिदयं जनः कदाचिदासीदृष्टः' इति । अथ सा हर्षकाष्ठां गतेन हृदयेनेषदालक्ष्य दशनदी- धितिलतां लीलाल लालयन्ती, ललिताञ्चितकरशाखान्तरितदन्तच्छदकि- सलया, हर्पजलक्लेदजर्जरनिरञ्जनेक्षणा, रचिताबालिः 'नितरां जाने यदि न , - । शीलः। यथासदृशान्स्वस्वाधिकारयोग्यानाचाराबाजमर्यादा दर्शयन्त्येवंविधान् ! शङ्कया 'राज्ञोऽस्य रूपेण सह कदाचित्स्वभावोऽपि परिवृत्तो भवितुमर्हति, अतः किंवायं कथयिष्यति' इति भीत्या यन्त्रिताकानतिसंकुचितगात्रान् । संनिधिनिषादिनः समीपवर्तिनः । सहायानमात्यादीन् । अगादिषमादिष्टवान् । दृश्यतामिति । आर्षी ऋषिसंबन्धिनी । यतेर्मुनीश्वरस्य । अजेयस्ये- न्द्रियाणां चक्षुरादीन्द्रियैरनाकर्षणयोग्यस्य । वशीकृतेन्द्रियस्योति भावः । नीरजसा रजोगुणसं- पर्करहितेन । नीरजसांनिध्येन पमानां तत्र संनिहिततया शालिनि विशेषशोभान्विते । सहर्षा: मद्मस्थितमकरन्दास्वादनेन सानन्दा अलिनो मधुपा यस्मिन्नेतादृशे । सरसितडागे । सरसिजदलै. पद्मपलाशैः संनिकाशा समाना छाया कान्तिर्यस्यैवंविधस्य । सिद्धिरुपलब्धिः। नास्तिकानां निरीश्वरवादिनाम् । लजानतं त्रपयाऽधोमुखम् । चन्द्रशेखरो महादेवः । नरकशासनो विष्णुः ! सरसिजासनो ब्रह्मा तदादीनां त्रिदशेशानां देवमुख्यानां स्थानान्यायतनानि । ह्रियन्तां यथेष्टं गृह्यन्ताम् । गृहादितो मदीयराजगृहादित्यर्थः । क्लेशनिरसने कष्टनिवारणे सहानि समर्थानि । अर्थिसाथैर्याचकवगैः। आश्चर्यरसातिरेकेण विस्मयातिशयेन हृष्टदृष्टयः फुल्लनयनाः । जय सर्वो- त्कर्षेण वर्तस्व । स्थगयनिःसारीकुर्वन् । यशसा कीा। आदिराजानां मनुमान्धातृप्रमुखानाम् । आशास्य प्रार्थनां विधाय । आरचयन्व्यदधत । स चाहमिति। मन्त्रगुप्तः। दयिताया मत्प्रियायाः कनकलेखायाः । हृदयस्थानीयामत्यन्तरङ्गभुताम् । कार्यान्तरमुद्दिश्यागतां मनिकटं प्राप्ताम् । आचक्षि कथितवान् । कचिदिति प्रश्ने । हर्षस्यानन्दस्य काष्टामुपरितनी सीमाम् । दशनानां दन्तानां दीधितिलतां किरणश्रेणीम् । ललित सुन्दरं यथा तथाऽश्चितेनेषत्संकोचितेन करेण शाखयेवाऽन्तरितः पिहितो दन्तच्छद ओष्ठः किसलयः पल्लव इव ययैतादृशी सती। हर्षनलस्यानन्दबाष्पस्य क्लेदेनार्दीभावेन जर्जरं विशीर्णमत एव निर्गत चाजनं नेत्रकजल । । ।

Searnistar दशकुमारचरितम् । [उत्तरपीठिकाया स्यादैन्द्रजालिकस्य जालं किंचिदेतादृशम् । कथं चैतत् । कथय, इति स्नेह- निर्यन्त्रणं शनैरगादीत् । अहं चास्यै कास्न्येनाख्याय, तदाननसंक्रान्तन संदे- शेन संजनय्य सहचर्या निरतिशयं हृदयाह्नादम् , ततश्चैतया दयितया निरर्गली- कृतातिसत्कृतकलिङ्गनाथन्यायदत्तया संगत्यान्धकालिङ्गराजराज्यशासी तस्या- स्यारिणा लिलवयिषितस्याङ्गराजस्य साहाय्यकायालघीयसा साधनेनागत्यात्र ते सखिजनसंगतस्य यादृच्छिकदर्शनानन्दराशिलचितचेता जातः ' इति । तस्य तत्कौशलं स्मितज्योत्स्नाभिषिक्तदन्तच्छदः सह सुहृद्भिरभिनन्द्य 'चित्र- मिदं महामुनेवृत्तम् । अत्रैव खलु फलितमतिकष्टं तपः तिष्ठतु तावन्नर्म । हर्ष- प्रकर्षस्पृशोः प्रज्ञासत्त्वयाईष्टमिह स्वरूपम्' इत्यभिधाय, पुनः अवतरतु भवान्' इति बहुश्रुते विश्रुते विकचराजीवसदृशं दृशं चिक्षेप देवो राजवाहनः।। इति श्रीदण्डिनः कृतौ दशकुमारचरिते मन्त्रगुप्तचरितं नाम सप्तम उच्छासः ॥ ७ ॥ अष्टमोच्यासः ॥ ८॥ अथ सोऽप्याचचक्षे-'देव, मयापि परिभ्रमता विन्ध्याटव्यां कोऽपि कुमारः क्षुधा तृपा च क्लिश्यन्नक्लेशाहः कचित्कूपाभ्याशेऽष्टवर्षदेशीयो दृष्टः । स च याभ्यामवंभूते ईक्षणे नेत्रे यस्या एवंविधा सती । जालं कपटम् । स्नेहेन प्रेम्णा नियन्त्रणम- प्रतिरुद्धम् । कात्न्येन समग्रतया । तस्याः शशांकसेनाया आनने मुखे संक्रान्तेन प्रति- विम्बितेन । हृदयाह्लादं मनःसन्तोष संजनथ्योत्पाय । निरर्गलीकृतेन बन्धनान्मोचितेन, अत्यन्तं सत्कृतेन पूजितेन कलिङ्गनाथेन कर्दननाम्ना न्यायेन न्यायमनुसृत्य दत्तया मह्यमर्पितया ।। संगत्य रहासंगं प्राप्य । आन्ध्रकलिङ्गराजयोर्जयसिंहकर्दनयो राज्यं शास्तीत्येवंशीलः । आरिणा, शत्रुणा चण्डवर्मणा । लिलवयिापितस्याक्रान्तुमिष्टस्य । अङ्गराजस्य सिंहवर्मणः । अलघीयसा युद्धसामग्र्या सैन्येन सह । आगत्याङ्गदेशं प्राप्य । ते राजवाहनस्य, रपहारवर्मादिभिर्मित्रगणैः संगतस्य सहितस्य । यादृच्छिकमविवारणोत्पन्नं यद्दर्शनं तजनिते- नानन्दराशिना हर्षातिरेकेण लंधितचेता व्याप्तहृदयः । तस्येति । मन्त्रगुप्तस्य । कौशलं सामर्थ्यम् । अभिनन्य प्रशस्य । चित्रमाश्चर्यजनकम् । वृत्त- माचरणम् । अत्रैव भूलोक एव नर्म परिहासवचनम् । प्रजासत्त्वयोर्बुद्धिबलयोः । बहु यथा तथा श्रुतमधीतं राजनीत्यादिकं येन स तस्मिन् । चिक्षेप निहितवान् ॥ इति श्रीदशकुमारचरितव्याख्याने मनोरमाख्याने सप्तम उच्चासः समाप्तः ॥ ७ ॥ अथाष्टम उच्चासः ॥ ८॥ इदानी विश्रुतः स्वकथां वर्णथितुमारभते-देवेति । परिभ्रमता देशाटनं कुर्वता । क्षुधा बुभु- क्षया । तृषा जलपानाशया च । क्लिश्यन्दुःखमनुभवन् । अक्लेशाहः विषादायोग्यः सुकुमारगात्रः इति भावः । कूपस्योन्धोरभ्याशे निकटे 'पुंस्येवान्धुः प्रहिः कूपः इत्यमरः । अष्टवर्षदेशीयः महता साधनेन राजवाहनस्य, सखिजनै- । - MYSANKanti । अष्टमोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । त्रासगद्गदमगदत्-' महाभाग, क्लिष्टस्य मे क्रियतामार्य, साहाय्यकम् । अस्य में प्राणापहारिणी पिपासां प्रतिकर्तुमुदकमुञ्चन्निह कूपे कोऽपि निष्कलो ममैक- शरणभूतः पतितः । तमलमस्मि नाहमुद्धर्तुम्, । इति अथाहमभ्येत्य व्रतत्या कयापि वृद्धमुत्तार्य, तं च बालं वंशनालीमुखोद्धृताभिरद्भिः फलैश्च पञ्चषैः शरक्षेपोच्छ्रितस्य लकुचवृक्षस्य शिखरात्पाषाणपातितैः प्रत्यानीतप्राणवृत्तिमा- पाद्य, तरुतलनिषण्णस्तै जरन्तमनवम्-'तात, क एष बालः, को वा भवान्, कथं चेयमापदापन्ना' इति । सोऽश्रुगद्गदमगदत्-' श्रूयतां महाभाग विदर्भो नाम जनपदः तस्मिन्भोजवंशभूषणम् , अंशावतार इव धर्मस्य, अतिसत्त्वः, सत्यवादी, वदान्यः, विनीतः, विनेता प्रजानाम् , रजितभृत्यः, कीर्तिमान् , उद्ग्रः, बुद्धिमूर्तिभ्यामुत्थानशीलः, शास्त्रप्रमाणकः, शक्यभव्यकल्पारम्भी, संभावयिता वुधान, प्रभावयिता सेवकान्, उद्भावयिता बन्धून् , न्यग्भाव- ईषदपरिपूर्णाष्टवर्षः । 'ईषदसमाप्तौ कल्प-' इति देशीयः । बालेनोद्वेगेन गद्गदं स्वरभंगविशिष्टं यथा तथा । अगदाख्यातवान् । महाभाग हे सौम्यपुरुष । साहाय्यकं सहायभावः । पिपासां जलतृष्णाम् । प्रतिहत निवारयितुम् । उदञ्चन्कूपानिष्कासयन् । निष्कलः प्रवयाः। "निष्कल: स्थविरः समौ ' इति वैजयन्ती । तं कूपे निपतितं वृद्धम् । नालमस्म्यहं समर्थो नैव भवामि । अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ' इत्यमरः । व्रतत्या रज्जुस्थानमापादितया लतया । वल्ली तु व्रततिलता' इत्यमरः । उत्तार्योवृत्य । वंशनाली वेण्वग्रभागनिबद्धपात्रविशेषयुक्तं जलोद्धरणयन्त्रं तस्या मुखेनोद्धृताभिः । पञ्चषैः पञ्चभिः षड्भिर्वा । 'संख्ययाऽव्ययासन्न-' इति बहुव्रीहिसमासे 'बहुब्रोही संख्येये डजबहुगणात्' इति समासान्तो डच् । शरक्षेपो बाणानामूर्ध्व- पतनं तावत्पर्यन्तमुच्छ्रितस्योन्नतस्य । लकुचवृक्षस्य वृक्षविशेषस्य । 'लकुचो लिकुचो उहुः इत्यमरः । शिखरावृक्षापात् । पाषाणेनाश्मना पातितैः स्वसितैः । प्रत्यानीता जनिता प्राणवृत्तिः प्राणादिवायुसंचारो यस्यैवंभूतम् । तरुतले वृक्षाधोभागे निषण्ण उपविष्टः । जरन्तं जीर्णम् । 'प्रवयाः स्थविरोवृद्धो जीनो जीर्णो जरनपि' इत्यमरः । आपद्विपत्तिः कूपपतनरूपाऽऽपन्ना जाता। स युद्धः । श्रूयतामिति । जनपदो देशः । अशेन कलयाऽवतारः प्रादुर्भावः । अत्यधिकं सत्त्वं बलं गुणो वा यस्यैवंविधः । ' सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः। पिशावादावात्मभावे बले प्राणेषु जन्तुषु' इति हैमः । सत्यमेव वदतीत्येवंशीलः । 'सुप्यजातौ णिनिस्ताच्छील्ये' इति णिनिः । वदान्यो दानशौण्डः । 'स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे' इत्यमरः । विनीतो महत्सु पुरुषेषु नमनशीलः । विनेता विनयकारकः । रन्जिता द्रव्यादिदाननात्मनि प्रीतिमापादिता भृत्याः सेवका येनैवविधः । कीर्तिमान्यशस्वी । बुद्धिर्मनीषा, मूर्तिः शरीरं ताभ्यामुत्थानशील: उन्नतस्वभावः । शास्त्रमेव प्रमाण कार्याकार्यनिर्णायकं यस्यैवंभूतः । ' शेषाद्विभाषा' इति का । शक्यं स्वसाध्यम्, भव्यं श्रेयस्करम्, 'भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्' इत्यमरः । कल्पो न्यायादनपेतः। 'कल्पो न्याय्ये विधौ शास्त्रे संवते ब्रह्मवासरे। कल्पद्रुमे विकल्पे च' इति महीपकोशः। एतादृशमारभते शक्यभव्यकल्पारम्भी । संभावयिता बहुमन्ता । तृन्नन्तमेतन तु ।

दशकुमारचरितम् । [ उत्तरपीठिकायां यिता शत्रून्., असंबद्धप्रलापेष्वदत्तकर्णः, कदाचिदप्यवितृष्णो गुणेषु, अति- या नदीप्णः कलासु, नेदिष्ठो धर्मार्थसंहितासु, स्वल्पेऽपि सुकृते सुतरां प्रत्युपकर्ता, अत्यवेक्षिता कोशवाहनयोः, यत्नेन परीक्षिता सर्वाध्यक्षाणाम् , उत्साहयिता कृतकर्मणामनुरूपैर्दानमानैः, सद्यः प्रतिकर्ता दैवमानुषीणामापदाम्, पाड्गुण्यो- पयोगनिपुणः मनुमार्गेण प्रणेता चातुर्वर्ण्यस्य, पुण्यश्लोकः, :, पुण्यवर्मा नामा- सीत् । स पुण्यैः कर्मभिः प्राण्य पुरुषायुषम् , पुनरपुण्येन प्रजानामगण्यता- मरेषु । तदनन्तरमनन्तवर्मा नाम तदायतिरवनिमध्यतिष्ठत् । स सर्वगुणैः . - तृजन्तम् । तथा सति 'न लोकाव्ययनिष्टाखलर्थतनाम् ' इति षष्ठीनिषेधाप्रवृत्तेः 'कर्तृकर्मणोः कृति' इति सूत्रेण 'बुधान्' इत्यादौ षष्ठयापत्तेः । बुधान्पण्डितान् । प्रभावयिता सेवकान्वेत- नजीविनां विशेषकाले दत्तैरथैः प्रभावं द्रव्याब्यतां संजनयन् । न्यग्भावयिता तिरस्कुर्वाणः । असंबद्धेषु परस्परविरुद्धेषु प्रलापेषु निरर्थकवचनेषु । । प्रलापोऽनर्थकं वचः' इत्यमरः । अवि- तृष्णो न संतुष्टः अतिनदीष्णो निपुणतरः । ष्णा शौचे' इत्यस्मानापपदकात् 'आतोऽनुप- सर्गे कः' इति कप्रत्यये 'निनदीभ्यां नातेः कौशलें' इति षत्वम् । नेदिष्ठः समीपवर्ती । 'अन्ति- कवाढयोर्नेदसाधौ' इति नेदादेशः। 'नदीष्णाभिज्ञनिष्णातप्रवीणनिपुणा अपि.' इति कोशः । धर्मार्थयोः प्रतिपादिकासु संहितासु सूतादिमहर्षिप्रणीतपुराणादिरूपासु । शिष्टै च्यमानाचिति शेषः । सुतरां नितान्तम् । प्रत्यवेक्षिता स्वयमन्वेषणशीलः । कोशो धनसंचयालयः, वाहन गजादि, तयोः । सर्वेषामध्यक्षाणामधिकारिणाम् । उत्साहयितोत्साहजनकः । कृतकर्मणां संपा- दितमहाकार्याणाम् । दानवेतनवितरणर्मानैः पारितोषिकप्रदानैश्च । सबस्तत्कालमेव । दैवानां दैवजनितानां 'हुताशनो जलं व्याधिदुर्भिक्षं मरणं महत् । इति पञ्चविधं दैवम् ' इत्युक्तानां, मानुषीणां शत्रुवर्गजनितानां च । आपदा कष्टानाम् । षाड्गुण्यं ' संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणाः' इत्यमरोक्तगुणषट्कम् । 'चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् ' इति स्वार्थे ध्यप्रत्ययः । तस्योपयोगे प्रयोगे निपुणः कुशलः । प्रणेता शिक्षकः। चातुर्वर्ण्यस्य ब्राह्मणादिवर्णचतुष्टयस्य । पुण्यश्लोकः पूतयशाः। ‘पद्ये यशसि च श्लोकः' इत्यमरः । आतिसत्त्व इत्यादिनोक्तगुणानां राजन्यवश्यंभाव्यता च कथिता कामन्दकीये-न्यायेनार्जनमर्थस्य वर्धनं रक्षणं वथा । सत्पात्रप्रतिपत्तिश्च राजवृत्तं चतुर्विधम् । नयविक्रमसंपन्नः सूत्थानश्चिन्तये- च्छ्रियम् । नयस्य विनयो मूलं विनयः शास्त्रनिश्चयः ॥ शास्त्रं प्रज्ञा धृतिर्दाश्यं प्रागल्भ्य धारयि- कणुता । उत्साहो वाग्ग्मिता दाळमापत्क्लेशसहिष्णुता । 'प्रभावः शुचिता मैत्री त्यागः सत्यं कृत- ज्ञता । कुलं शीलं दमश्चेति गुणाः संपत्तिहेतवः।' इति । याज्ञवल्क्येऽपि-'ब्राह्मणेषु क्षमी स्निग्धे- ध्वजिह्मः क्रोधनो रिपौ । स्याद्राजा भृत्यवर्गे च प्रजासु च यथा पिता।' इति ॥ स इति । पुण्यवर्मा । पुरुषायुषं पुरुषाणां जीवनकालं शतसंवत्सरपर्यन्तमित्यर्थः । 'अचतुरविचतुर-' इत्यत्र निपातनात्साधुता । प्राण्य जीवित्वा । प्रजानां प्रकृतीनामपुण्येनाभाग्येन । अगण्यतामरेषु देवलोकं गत इति भावः । तदनन्तरं पुण्यवर्मणः स्वर्गवासानन्तरम् । तदायतिस्तस्मात्पुण्यवर्मण ।

अष्टमोच्छ्रातः] मनोरमाख्यव्याख्यासहितम् । समृद्धोऽपि दैवादण्डनीत्यां नात्याहतोऽभूत् । तमेकदा रहसि वसुरक्षितो नाम मंत्रिवृद्धः पितुरस्य बहुमतः प्रगल्भवागभाषत-'तात, सर्वैवात्मसंपदभिजनात्प्र- भृत्यन्यूनैवात्रभवति लक्ष्यते । बुद्धिश्च निसर्गपट्टी, कलासु नृत्यगीतादिषु चित्रेषु च काव्यविस्तरेषु प्राप्तविस्तरा तवेतरेभ्यः प्रतिविशिष्यते । तथाप्य- सावप्रतिपद्यात्मसंस्कारमर्थशास्त्रेषु,अनग्निसंशोधितेव हेमजाति तिभाति बुद्धिः। बुद्धिहीनो हि भूभृत्युच्छ्रितोऽपि परैरध्यारुह्यमाणमात्मानं न चेतयते । न च शक्तः साध्यं साधनं वा विभज्य वर्तितुम् । अयथावृत्तश्च कर्मसु प्रतिहन्यमानः स्वैः परैश्च परिभूयते । न चावज्ञातस्याज्ञा प्रभवति प्रजानां योगक्षेमाराधनाय । अतिक्रान्तशासनाश्च प्रजा यत्किंचनवादिन्यो यथाकथंचिद्वतिन्यः सर्वाः स्थिती संकिरेयुः । निर्मर्यादश्च लोको लोकादितोऽमुतश्च स्वामिनमात्मानं च भ्रंशयेत । - । । आयत्तिरुत्पतिर्यस्यैवंविधः तत्पुत्र इति यावत् । अवनिं भुवम् । अध्यतिष्ठदधिष्ठितोऽभूत् । 'अधि- शीथासां कर्म' इति कर्मताऽवनेः सर्वैरखिलैर्गुणै राजगुणैः । दैवाददृष्टवशतः । दण्डनीत्यां राज- नीत्यामर्थशास्त्ररूपायाम् । न अत्यातो नात्यादरयुक्तः । तमनन्तवर्माणम् । एकदा कस्मिंश्चित्समये मन्त्रिद्धः सचिवमुख्यः । मन्त्री धीसचिवोऽमात्यः' इत्यमरः । प्रगल्भा गम्भीरार्थयुक्ता वाग्वाणी यस्यैवंविधः । अभाषतोपदिदेश । अभिजनात्कुलात् । 'सन्ततिगोत्रजननकुलान्याभ- जनान्वयौ ' इत्यमरः । अन्यूना परिपूर्णैव । अत्र भवति त्वयि । निसर्गेण स्वभावत एव पट्टी निपुणा । 'वोतो गुणवचनात् ' इति ङीष् । इतरेभ्योऽन्यजनापेक्षया । प्रतिविशिष्यते समुत्कृष्टा वर्तते । आत्मनो बुद्धेः संस्कारं परिचयम् । अर्थशास्त्रेषु दण्डनीतिषु । अप्रतिपद्यालब्ध्वा । ६ आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः । इत्यमरः । अनग्निसंशोधिता वह्नावतप्ता । हेमजातिः सुवर्णजातिः। 'स्वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकम् ' इत्यमरः । नातिभाति नात्यन्तं प्रकाशयुक्ता भवति। भूभृद्राजा । अत्युच्छ्रितो नितरामुन्नतोऽपि । परैः शत्रुभिः। 'अभियातिपरारातिप्रत्यर्थिपरिपन्थिनः' इत्यमरः । अध्यारुह्यमाणमभिभूयमानम् । चेतयते- अवबुध्यते । 'चिती संज्ञाने 'साध्यं कार्यम् । साधनं कारणम् । विभज्य पृथग्विविच्य वर्तितुं व्यवहर्तुम् । अयथावृत्तो यथोचितव्यापाररहितः। कर्मसु कर्तव्याकर्तव्येषु । प्रतिहन्यमानः प्रतिरुद्धयमानः । स्वैरात्मीयजनैः । परैः शत्रुवगैः । परिभूयतेऽनादरं प्राप्यते। अवज्ञातस्य परिभूतस्य । प्रभवति शक्का भवति । योगः अप्राप्तप्राप्तिः, क्षेमः प्राप्तसंरक्षणम्, 'अप्राप्तप्रापर्ण योगः क्षेमः प्राप्तस्य रक्षणम् ' इति, तयोराराधनाय साधनाय । अतिक्रान्तशासना उल्लचितरा- जनिदेशाःयत्किंचनवादिन्यः स्वेच्छया कथयन्त्यः यथाकथंचिद्वर्तिन्यः स्वेच्छया व्यवहरन्त्यः। स्थितीमर्यादाः । संकिरेयुः संकीर्णा विदधीरन् । इतो लोकाद्भूलोकात् । अमुतः स्वर्गात् । स्वामिनं राजानम् । भ्रंशयेत पातयेत् । तदुक्तं याज्ञवल्क्येन- अरक्ष्यमाणाः कुर्वन्ति यत्किचि- त्किल्बिषं प्रजाः। तस्मात्तु नृपतेरधैं यस्मादृह्णात्यसौ करान्' । कामन्दकेनापि- अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा । वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ॥ स्वर्गानन्त्याय । .

SERIES লালহিন । [उत्तरपीठिकाय आगमदीपदृष्टेन खल्बध्वला सुखेन वर्तते लोकयात्रा । दिव्यं हि चक्षुर्भूतभव- द्भविष्यत्सु व्यवहितविप्रकृष्टादिषु च विषयेषु शावं नामाप्रतिहतवृत्ति । तेन होनः सतोरण्यायतविशालयोलोचनयोरन्ध एव जन्तुरर्थदर्शनेष्वसामर्थ्यात् । अतो विहाय बाह्यविद्यास्वमिषङ्गमागमय दण्डनीतिं कुलविद्याम् । तदर्थानुष्टा- नेन चावर्जितशक्तिसिद्धिरस्खलितशासनः शाधि चिरमुदधिमेखलानुर्वीम्। इति एतदाकर्ण्य स्थान एव गुरुभिरनुशिष्टम् । तथा क्रियते' इत्यन्तःपुरमान- शत् । तां च बातों पार्थिवेन प्रमदासंनिधौ प्रसङ्गेनोदीरितामुपनिशम्य समी- पोपविष्टश्चित्तानुवृत्तिकुशलः प्रसादवित्तो गीतनृत्यवाद्यादिष्वबाह्यो बाह्यनारी- परायणः पटुरयंत्रितमुखो बहुभङ्गिविशारदः परमर्मान्वेषणपरः परिहासयिता । । धर्मोऽयं सर्वेषां वर्णिलिङ्गिनाम् । तस्याभावे च लोकोऽयं संकरानाशमाप्नुयात् । सर्वस्यास्य यथान्यायं भूपतिः संप्रवर्तकः । तस्याभावे धर्मनाशस्तदभावे जगच्युतिः ॥' इति । चाणक्ये- नाऽपि-'राज्ञि धमिर्माण धर्मिष्ठाः पापे पापाः समे समाः । लोकास्तमनुवर्तन्ते यथा राजा तथा प्रजाः ॥' इति । आगमो वेदः स एव दीपस्तेन दृष्टेन प्रकाशितेन । अध्वना मार्गेण ! लोकस्य यात्रा स्थितिः । दिव्यमनुत्तमम् । व्यवहितं तिरोभूतं, विप्रकृष्टं दूरवर्ति एतदादिषु । विषयेषु पदार्थेषु । अप्रतिहतवृत्ति अविहतव्यापारम् । तेन शास्त्ररूपचक्षुशा। सतोविद्यमानयो- रपि । आयतयोदीर्घयोविशालयोर्विस्तृतयोः । अन्धो दृष्टिरहित एव । अत एव कालिदासेनैवं वर्णितो राजा रघुः ।- कामं कर्णान्तविश्रान्ते विशाले तस्य लोचन्ने । चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना ' इति । बाह्यविद्यासु अन्यविद्यासु । अभिषङ्गमासक्तिम् । ' अभिषगस्त्व- भिभवे सङ्ग आक्रोशनेऽपि च ' इति वैजयन्ती । आगमय शिक्षय । दण्डनीतिमर्थशास्त्रम् । कुलविद्या राजकुलोचितां परम्पराप्राप्तां च । आवर्जिताऽऽत्मन्युत्पादिता शक्तिः प्रभावोत्साहम- न्यजत्वेन त्रिधारूपा, सिद्धिः कार्यसिद्धिश्च येनैवंविधः। अस्खलितशासनोऽच्युतनिदेशः । शाधि परिपालय। शासु अनुशिष्टौ'। 'शा हौ' इति शादेशः । उदधिमेखला समुद्रशनां तावत्पर्यन्तपरिमितामिति भावः । उर्वी भूमिम् । एतदिति । वसुरक्षितनान्नोऽमात्यवर्यस्यो- पदेशवाक्यम् । स्थाने एवोचितमेव । 'युक्त द्वे साम्प्रतं स्थाने ' इत्यमरः । अनुशिष्टमुपदि- टम् । अविशत्प्रविवेश । तां च वार्ता वसुरक्षितोपदेशवार्ताम् । पार्थिवेन राज्ञाऽनन्तवर्मणा । प्रमदासंनिधौ अवरोधस्त्रीसमाजसमक्षम् । प्रमदा मानिनी कान्ता' इत्यमरः । उदीरिता कीर्तिताम् । उपनिशम्य श्रुत्वा । चित्तानुवृत्तौ राज्ञोऽन्तःपुरवासिनीनों मनःसन्तोषणे कुशलो निपुणः । प्रसादेनावनीपत्यनुग्रहेण वित्तः लोकप्रसिद्धः । अबाह्यो न पृथग्भूतः तत्समयेऽवश्य- संनिहित इत्यर्थः । बाह्यनारीपरायणो वेश्याद्यासक्तः । अयन्त्रितं न पिहितं मुखं यस्यैवंविधः बहुभाषीत्यर्थः । बहुषु भङ्गीषु वक्रोक्तिषु विशारदः कुशलः । भङ्गी स्याद्वक्रभाषितम् । इति वैजयन्ती । परेषां मर्मणां छिद्राणामन्वेषणे प्रयत्नपुरःसरं ज्ञाने पर आसकः। परिवादोऽन्यनिन्दा तत्र साचः प्रीतिर्यस्यैवंभूतः। पैशुन्येन परमर्मप्रकाशनेन द्वयोरपि कलहोत्पोदने पण्डितः । - ।

अष्टमोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । परिवादरुचिः पैशुन्यपण्डितः सचिवमण्डलादप्युत्कोचहारी सकलदुर्नयोपा- ध्यायः कामतंत्रकर्णधारः कुमारसेवको विहारभद्रो नाम स्मितपूर्व व्यज्ञपयत्- देव, दैवानुग्रहेण यदि कश्चिद्भाजनं भवति विभूतेः, तमकस्मादुच्चावचैरुपप्र- लोभनैः कदर्थयन्तः स्वार्थ साधयन्ति धूर्ताः । तथाहि । केचित्प्रेत्य किल लभ्यै- रभ्युदयातिशयैराशामुत्पाद्य, मुण्डयित्वा शिरः, बद्ध्वा दर्भरज्जुभिः, अजिनेना- च्छाद्य, नवनीतेनोपलिप्य, अनशनं च शाययित्वा, सर्वस्वं स्वीकरिष्यन्ति । तेभ्योऽपि घोरतराः पापण्डिनः पुत्रदारशरीरजीवितान्यपि मोचयन्ति । यदि कश्चित्पटुजातीयो नास्यै मृगतृष्णिकायै हस्तगतं त्यक्तुमिच्छेत् । तमन्ये परि- वार्याहु:--' एकामपि काकिणीं कार्षापणलक्षमापादयेम, शस्खाहते सर्वशत्रून वातयेम, एकशरीरिणमापि मर्त्य चक्रवतिनं विदधीमहि, यामदुद्दिष्टेन मार्गे- णाचर्यते' इति । स पुनरिमान्प्रत्याह- कोऽसौ भार्गः' इति । पुनरिमे ब्रुवते- ननु चतस्रो राजविद्यालयी वान्विीक्षिकी दण्डनीतिरिति । तासु तिस्त्रास्त्र- सचिवमण्डलादमात्यवर्गात् । उत्कोचोऽधिकार विनाऽपि गुप्तरूपेण यद्गृह्यते धनं सः, तं हरति बलाद्गृह्णाति एवंशीलः । सकलानां दुर्नयानां दुष्टव्यवहाराणामुपाध्यायः शिक्षकः । कामतन्त्र कामशास्त्र तत्र कर्णधारः प्रेरयिता । कुमारसेवकः कौमारावस्थामारभ्यैव राज्ञः परि चारकः । व्यज्ञपयद्विज्ञापयामास । देवेति । हे राजन्ननन्तवर्मन् । भाजनं पात्रम् । विभूते राजसंपदः । अकस्मात्कारणं विनैव ! उच्चावचैनानाप्रकारैः । उपप्रलोभनैर्वञ्चनाप्रचुरवचनैः । कदर्थयन्तो दूषयन्तः । धूर्ता वञ्चकाः । प्रेत्य जन्मान्तरे स्वर्गादौ वा । ' प्रेत्यामुत्र भवान्तरे इत्यमरः । किलेल्यनिश्चिते । अभ्युदयातिशयैः श्रेयोविशेषैः । मुण्डयित्वा वपनं कारयित्वा । अजिनेन मृगचर्मणा । अजिनं चर्म कृत्तिः स्त्री ' इत्यमरः । नवनीतेन दघिसारेण । अनशनं निराहारम् । तेभ्योऽपि तदपेक्षयाऽपि घोरतरा अतिनिष्ठुराः । पाषाण्डिनो नास्तिकाः । मोचयन्ति परित्याजयन्ति । 'प्रकारवचने जातीयर् ' इति सूत्रेण जातीयर् पटुजातीय इत्यत्र । मृगतृष्णिकायै आशायै । इस्तगतं करस्थितं राज्यादिकम् । आहुः ब्रुवन्ति । ब्रुवः पञ्चाना- मादित-'इत्याहादेशो लट्प्रथमपुरुषबहुवचनस्योसादेशश्च । काकिणीं विंशतिवराटकान् । 'का- टकानां दशकद्वयं यत्सा काकिणी' इति भास्कराचार्यः । कार्षापणं । रुपया' इति प्रसिद्ध कर्षपरिमितं रजतम् । आपादयेम विदधीमहि । शस्त्रास्ते खड्गाद्यायुधं विनैव । 'अन्यारादि- तरते-' इति पञ्चमी । घातयेम विनाशयम ।' हन हिंसागत्योः' इत्यतो णिचि हो हन्ते- निन्नेषु' 'हनस्तोऽचिण्णलोः । इति कुत्वतादेशौ । एकशरीरिणमसहायमपि । मत्यै पुरुषम् । चक्रवर्तिनं बहुराष्ट्रप्रवर्तक सार्वभौममित्यर्थः । अस्माभिरुद्दिष्टेन प्रदर्शितेन ।आचर्यते गम्यते । स राजा । त्रयी त्रयो वेदाः। स्त्रियामुक्सामयजुषी इति वेदास्त्रयस्त्रयी' इत्यमरः । वार्ता जीविकार्जनतन्त्रम् । आन्वीक्षिकी तर्कशास्त्रम् । दण्डनीतिरर्थशास्त्रम् । आन्वीक्षिकी , । ।

दशकुमारचरितम् । [उत्तरपीठिकायां यीवार्तान्वीक्षिक्यो नहत्यो भन्दफलाच, तास्तावदासताम् ।.अधीव तावद्दण्ड नीतिम् । इयमिदानीमाचार्यविष्णुगुप्तन मौर्यार्थ पभिः श्लोकसहस्त्रैः संक्षिप्ता । सैवेयमधौत्य सम्यगनुष्ठीयमाना यथोक्तकर्मक्षमा' इति । स तथा' इत्यधीते । शृणोति च । तत्रैव जरां गच्छति । तत्तु किल शास्त्र शास्त्रान्तरानुबन्धि । सर्वमेव वाङ्मयमविदित्वा न तत्त्वतोऽधिगंस्यते । भवतु कालेन बहुनाल्पेन वा तदर्थाधिगतिः । अधिगतशास्त्रेण चादावेव पुत्रदारमपि न विश्वास्यम् । आत्म- कुक्षेरपि कृते तण्डुलैरियद्भिरियानोदनः संपद्यते । इयत ओदनस्य पाकायै- तावदिन्धनं पर्याप्तमिति मानोन्मानपूर्वकं देयम् । उत्थितेन च राज्ञा क्षालिता- क्षालिते मुखे मुष्टिमर्धमुष्टिं वाभ्यन्तरीकृत्य कृत्स्नमायव्ययजातमह्नः प्रथमेऽष्टमे वा भागे श्रोतव्यम् । शृण्वत एवास्य द्विगुणमपहरन्ति तेऽध्यक्षधूर्ताश्चत्वारिं- शतं चाणक्योपदिष्टानाहरणोपायान्सहस्रधात्मबुद्धथैव ते विकल्पयितारः । द्वितीयेऽन्योन्यं विवमानानां जनानामाक्रोशादह्यमानकर्णः कष्टं जीवति । तत्रापि प्राड्विवाकादयः स्वेच्छया जयपरौजया विधानाः, पापेनाकीर्त्या च । । । - दण्डनीतिस्तर्कविद्याऽर्थशास्त्रयोः' इत्यमरः । तत्तत्प्रतिपाद्यविषयास्त्वेवस् । 'भान्वीक्षिक्या तु विज्ञानं धर्माधर्मों त्रयीस्थितौ । अर्थानौँ च वार्तायां दण्डनीत्यां नयानयो ' इति मनुः । महत्याऽतिविस्तृता दुरवगाहाश्च । मन्दफला अल्पप्रयोजनाः। आसतामनावश्यककोटौ तिष्ठन्तु । अधीष्व पठ। मौर्याथै मौर्यराज निजशिष्यमुद्दिश्य । संक्षिप्ता संकोचेन प्रतिपादिता । अनुष्ठी- यमानाऽऽचर्यमाणा । यथोक्तकर्मसु शस्त्रं विनैव शत्रुमारणादिषु क्षमा शक्ता । अधीते पठितुमा- रमते । तत्रैव दण्डनीत्यभ्यासकाल एव । जरा वृद्धताम्। शास्त्रान्तरानुवन्धि अन्यशास्त्रसापेक्षम् । वाङ्मयं वाग्जालम् । अविदित्वा न बुद्ध्वा । तत्त्वतो यथार्थतया । नाधिगस्यतेऽवगता नैव भविष्यति । तदर्थस्य राजनीतिशास्त्रार्थस्यावगतिः परिज्ञानम् । अधिगतशास्त्रेण पठितवियेन । विश्वास्यं विश्वसितुमुचितम् । आत्मकुक्षेः स्वोदरस्यापि । इयानेतावत्परिमितः । किमिदभ्यां वो घः' इति परिमाणार्थे वतुप् वस्य घश्च । ओदनोऽन्नम् । पाकाय संस्काराय । इन्धनं दारु । मानः प्रस्थादिपरिमाणम् । उन्मानं तुलादिपरिमाणम् । ' तुलावच्छेद उन्मानं मानः प्रस्थादिभिः कृतः ' इति वैजयन्ती । तत्पूर्वकम् । उत्थितेन भोजनाद्विरतेन । मुष्टिं तत्परिमितं भक्ष्यावशिष्टम् । अभ्यन्तरीकृत्य कालान्तरार्थे संरक्ष्य । कृत्स्नं समस्तम् । श्रोतव्यमाकर्णनी- यम् । शृण्वत एवास्य आकर्णयन्तमप्येनं राजानमनादृत्य । 'षष्ठी चानादरे.' इति षष्ठी। अपहरन्ति मुष्गन्ति । अध्यक्षपूर्ता वञ्चकाधिकारिणः । आहरणोपायान् चौर्योपायान् । सहस्रधा सहस्रप्रकारेण । विकल्पयितारः संशयं कुर्वन्तः । द्वितीये इत्यादौ सर्वत्र ' अहो भाग' योजनीयम् । विवदमानानां कलहकारिणाम् । आक्रोशात् ' यः सनिन्द उपालम्भस्तत्र स्यात्प- रिभाषितम् । तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति ' इत्यमरः । प्रडिवाको व्यवहार- निर्धारकः । ' द्रष्टीर व्यवहाराणां प्राडिवाकाक्षदर्शको ' इत्यमरः । विदधाना निर्णयन्तः । इति । ।

अष्टमोच्छासः] मनोरमा ख्यव्याख्यासहितम् । भारमात्मनचार्योजयन्ति । तृतीये स्नातुं भोक्तुं च लभते । भुक्तस्य याव- दन्धःपरिणामस्तावदस्य विषभयं न शाम्यत्येव । चतुर्थे हिरण्यप्रतिग्रहाय हस्तं प्रसारयन्नेवोत्तिष्ठति । पञ्चमे मंत्रचिन्तया महान्तमायासमनुभवति । तत्रापि मंत्रिणो मध्यस्था इवान्योन्यं मिथः संभूय दोषगुणौ दूतचारवाक्यानि शक्याशक्यतां देशकालकार्यावस्थाश्च स्वेच्छया विपरिवर्तयन्तः, स्वपरमित्र- मण्डलान्युपजीवन्ति । बाह्याभ्यन्तरांश्च कोपान् गूढमुत्पाद्य प्रकाशं प्रशमयन्त इव स्वामिनमवशमवगृह्णन्ति । षष्ठे स्वैविहारो मंत्रो वा सेव्यः ॥ सोऽस्यैता- वान्वैरविहारकालो यस्य तिस्रस्त्रिपादोत्तरा नाडिकाः । सप्तमे चतुरङ्गबलप्र- त्यवेक्षणप्रयासः । अष्टमेऽस्य सेनापतिसखस्य विक्रमचिन्ताक्लेशः । पुनरुपा- स्यैव संध्याम् , प्रथमे रात्रिभागे गूढपुरुषा द्रष्टव्याः । तन्मुखेन चातिनृशंसाः शस्त्राग्निरसप्रणिधयोऽनुष्ठेयाः। द्वितीये भोजनानन्तरं श्रोत्रिय इव स्वाध्याय- भारभेत । तृतीये तूर्यघोषेण संविष्टश्चतुर्थपञ्चमौ शयीत किल । कथमिवास्या- । । भर्तारं राजानम् । अर्थैरुत्कोचरूपेण गृहीतल्यैः । लभतेऽनकाशमिति शेषः । भुक्तस्य कृत- भोजनस्य । 'तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः' इति सूत्रेण कर्माधिकरणयोरेर तस्य विधानेऽपि भुक्तमस्यास्तीत्यर्थे तान्तादर्श आद्यच् । यावत् यावता कालेन । अन्धसोऽ- नस्य परिणामः पाकः। विषभयं विषमन्ने केनचिन्मद्वैरिणा योजितं किं स्यात् ' इति भीतिः । न शाम्यति नैवापगता भवति । हिरण्यप्रतिग्रहाय स्वकीयकरद्रव्यादानाय । मन्त्रचिन्तया गुप्तभाषणविचारेणं । आयासं खेदम् । मध्यस्थास्तटस्था इव । मिथः संभूय परस्परं मिलिता: सन्तः । दूतः प्रेष्यः, चारो गूढपुरुषः, तयोर्वाक्यानिः । शक्याशक्यतां साध्यासाध्यत्वम् । अत्र शत्रोः इति शेषः । विपरिवर्तयन्तः विपर्यासं कुर्वन्तः । गूढमप्रकासम् । प्रकाशं प्रत्यक्षे । प्रशमयन्तः शान्ति कारयन्तः । अवशं स्वयं विचारशून्यम् । स्वैरविहारो यथेच्छया क्रीडनम् । खोऽस्येति । स्वैरविहारस्य काल: समयः । तिखत्रिपादोत्तरा नाडिका यामार्थपर्यन्तमिन त्यर्थः । चतुरङ्गं द्यूतक्रीडाप्रकारः। सेनापतिसखस्य चमूपतिसमेतस्य । 'राजाहःसखिभ्यष्टच् इति तत्पुरुषसमासान्तष्टच् । विक्रमचिन्ता स्वबलाबलविचारस्तज्जातः क्लेशो दुःखम् । द्रष्टव्याः विचारणीयाः । तन्मुखेन चारद्वारा । अतिनृशंसा नितरां क्रूराः । शस्त्रप्रणिधिः खङ्गादिना शात्राारयिता चारः। अग्निप्रणिधिहदाहादिना मारकः । रसप्रणिधिर्विषदायी चारः। 'शृङ्गा- रादौ विषे वीर्ये गुणे रामे वे रसः । इति मेदिनी । 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकं संबध्यते । इति न्यायेन प्रणिधिशब्दस्य शस्त्रादिना सह प्रत्येकमन्वयः । 'यथार्हवर्णः प्रणिधिरपसर्पश्चर: स्पशः' इत्यमरः । अनुष्ठेयाः प्रयोक्तव्याः। श्रोत्रियश्छन्दोऽध्येता। 'श्रोत्रियं छन्दोऽधीते' इति निपातनात्साधुताऽस्य । 'श्रोत्रियच्छान्दसौ समौ' इत्यमरः । 'एक शाखां सकल्पां वा षड्- भिररिधीत्य च । षट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित्' इति स्मृतिवचनं च । स्वाध्याय वेदाभ्यासम् । तूर्यघोषेण वाद्यविशेषशब्देन । संविष्टः शयितः। 'संवेशः शयने स्थाने सत्समा ।

दशकुमारचरितम् । [उत्तरपीठिकाया जस्रचिन्तायासविह्वलमनसो वराकस्य निद्रासुखमुपनमेत् । पुनः षष्ठे शास्त्र- चिन्ताकार्यचिन्तारम्भः । सप्तमे तु मंत्रग्रहो दूताभिप्रेषणानि च । दूताश्च नामोभयत्र प्रियाख्यानलब्धानर्थान्चीतशुल्कबाधवमनि वाणिज्यया वर्धयन्तः, कार्यमाविद्यमानमपि लेशेनोत्पाद्यानवरतं भ्रमन्ति । अष्टमे पुरोहितादयोऽभ्ये- त्यैनमाहु:-" अद्य दृष्टो दुःस्वप्नः । दुःस्था ग्रहाः शकुनानि चाशुभानि । शान्तयः क्रियन्ताम् । सर्वमस्तु सौवर्णमेव होमसाधनम् । एवं सति कर्म गुण- वद्भवति । ब्रह्मकल्पा इमे ब्राह्मणाः । कृतमेभिः स्वस्त्ययनं कल्याणतरं भवति । वे चामी कष्टदारिया बह्वपत्या यज्वानो वीर्यवन्तश्चाद्याप्यप्राप्तप्रतिग्रहाः । दत्तं चैभ्यः स्वर्ग्यमायुष्यमरिष्टनाशनं च भवति' इति बहु बहु दापयित्वा तन्मुखेन स्वयमुपांशु भक्षयन्ति । तदेवमहर्निशमविहितसुखलेशमायासबहुलम- विरलकदर्थनं च नयतोऽनयज्ञस्यास्तां चक्रवार्तता स्वमण्डलमात्रमपि दुरारक्ष्य भवेत् । शास्त्रज्ञसमाज्ञातो हि यद्ददाति, यन्मानयति, यत्प्रियं ब्रवीति, तत्सर्व- मतिसंधातुमित्यविश्वासः । अविश्वासता हि जन्मभूमिरलक्ष्म्याः । यावता च नयेन विना न लोकयात्रा स लोक एव सिद्धः नात्र शास्त्रेणार्थः । स्तनधयोऽ. । रोहणेऽपि च ' इत्यजयः । स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि ' इत्यमरश्च । शयीत निद्रां कुर्यात् । अजस्रं सर्वदा चिन्तया नानाविचारेण आयासेन श्रमेण च विह्वलमनसः खिन्न- चित्तस्य । वराकस्य शोचनीयस्य । उपनमेत् संनिहितं भवेत् । उभयत्र स्वसेव्यराजनि तच्छत्रौ च । प्रियाख्यानेन प्रियभाषणेन लव्धान्प्राप्तान । अर्थान्धनानि । वीताऽपगता शुल्कबाधा कर- दानोपद्रवो यत्रतादृशे वत्मनि मार्ग। वाणिज्यया क्रयविक्रयव्यापारेण । वर्धयन्तो द्विगुणं त्रिगुणं वाऽऽपादयन्तः । लेशेन स्वल्परूपेण । अनवरतमजनम् । “नित्यानवरताजस्रम् ' इत्यमरः । अभ्येत्य तत्समीपं गत्वा । दुःस्थाः क्रूरस्थानवर्तिनः । ग्रहा ख्यादयो नव । सौवर्ण सुवर्णमयम् । सर्वमपि होमसाधनं होमोपकरणम् । एवं सति होमोपकरणे सुवर्णनिर्मिते सति । गुणवत्फलदा- यकम् । ब्रह्मकल्पा मुखचतुष्टयवत्त्वरूपैकांशेन हीनत्वेऽपि अन्यांशे तत्समाना एव । 'ईषदसमाप्ती कल्पप्-' इति कल्पप्रत्ययः । स्वस्त्ययनं शान्तिकारकं कर्म कल्याणतरं श्रेयस्करतरम् । अप्राप्त- प्रतिग्रहा अकृतप्रतिग्रहाः । स्वयं स्वर्गप्रापकम् । आयुष्यमायुर्वर्धकम् । अरिष्टनाशनं कष्टनि- वारकम् । तन्मुखेन ब्राह्मणद्वाराऽपि । उपांशु रहसि । तदेवमिति । आयासबहुलं कष्टप्रायम् । नयतो यापयतः । अनयज्ञस्य न नीतिज्ञस्य । स्वमण्डलमात्रं निजराष्ट्रमेकमपि । शास्त्रज्ञसमाज्ञातो जातिशास्त्रज्ञत्वेन कीर्तितो लोकैः । 'यशः कीर्तिः समज्ञा च' इत्यमरः । अतिसंधातुं वञ्च- यितुम् । अविश्वासता विश्वासरहितत्वम् । जन्मभूमिरुत्पत्तिस्थानम् । अलक्ष्म्या दारिद्रयस्य । नात्र शास्त्रेणार्थोऽस्मिन्विषये शास्त्रं मन्दफलामति भावः । स्तनधयः शिशुः । नासिकास्तन- । १ चिन्तयैव नेयः कालः, अष्टमोच्लासः] मनोरमाख्यव्याख्यासहितम् । पि हि तस्तैरुपायैः स्तनपानं जनन्या लिप्सते तदपास्यातियन्त्रणामनुभूयन्तां यथेष्टमिन्द्रियसुखानि । येऽप्युपदिशन्ति ' एवमिन्द्रियाणि जेतव्यानि, एवम- रिषगस्त्याज्यः, सामा दिरुपायवर्गः स्वेषु परेषु चाजस्रं प्रयोज्यः, संधिविग्रह- स्वल्पोऽपि सुखस्यावकाशो न देयः' इति, तैरप्येभिर्म- न्त्रिबकैयुप्मत्तश्चौर्याजितं धनं दासीगृहेष्वेव भुज्यते । के चैते वराकाः । येऽपि मन्त्रकर्कशास्तन्त्रकर्तारः शुक्राङ्गिरसविशालाक्षबाहुदन्तिपुत्रपराशरप्रभृतयस्तैः- किमरिषड्वर्गो जितः, कृतं वा तैः शास्त्रानुष्ठानम् । तैरपि हि प्रारब्धेषु कार्येषु दृष्टे सिद्धयसिद्धी । पठन्तश्चापठद्भिरतिसंधीयमाना बहवः । नन्विदमुपपन्नं देवस्य, यदुत सर्वलोकस्य वन्द्या जातिः, अयातयामं वयः, दर्शनीयं वपुः, अप- रिमाणा विभूतिः । तत्सर्व साविश्वासहेतुना सुखोपभोगप्रतिबन्धिना बहुमार्ग- विकल्पनात्सर्वकार्येप्वमुक्तसंशयेन तन्त्रावापेन मा कृथा वृथा । सन्ति हि ते दन्तिनां दशसहस्राणि, हयानां लक्षत्रयम्, अनन्तं च पादातम् । अपि च पूर्णा- न्येव हैमरत्नैः कोशगृहाणि । सर्वश्चैष जीवलोकः समप्रमाप युगसहस्रं भुजानो न ते कोष्ठागाराणि रेचयिष्यति । किमिदमपर्याप्तं यदन्यायार्जितायासः क्रियते । । - योधेिटोः' इति खश 'अरुषिदजन्तस्य मुम्' इति मुम् । तैस्तैर्नानाविधैः । उपाय रोदनादिरूपैः । लिप्सते प्राप्तुमिच्छति । तत्तस्मात्कारणात् । अपास्य निराकृत्य । अतियन्त्रणां शास्त्रनिवन्धम् । इन्द्रियाणां चक्षुरादीनां सुखानि आह्लादजनकानि रूपादीनि । अरिषड्वर्गः कामा- दिशत्रुवर्गः । सामादिः सामदानभेददण्डाः । सन्धिः शत्रुणा सहैक्यभावः । विग्रहो युद्धम् । तयोश्चिन्तया विचारेण । मन्त्रिबकैः कुत्सितामात्यैः । 'अधोदृष्टिनैतिकः स्वार्थसाधनतत्परः। शठो मिथ्या विनीतश्च बकवृत्तिचरो द्विजः' इति मनुः । 'कुत्सितानि कुत्सनैः' इति समासः। चौर्जितमन्ययायेन गृहीतम् । दासीगृहेषु गणिकागृहेषु । भुज्यतेऽनुभूयते । वराका धूर्ताः । मन्त्रकर्कशा मन्त्रशास्त्रनिपुणाः । कृतं वा तैनँव कृतमिति भावः । प्रारब्धेषूपक्रान्तेषु । अपठ- द्भिरशास्त्रज्ञैः । अतिसंधीयमानाः प्रतार्यमाणानिन्विति। उपपन्नं साधुतरम् । वन्द्याऽऽराध्या। जातिः क्षत्रियजातिः । अयातयामं नूतनम् । अपरिमाणेयत्ताशून्या । विभूतिः सम्पत् । सर्वेषामुपर्यविचासस्याविश्रम्भस्य हेतुना निदानभूतेन । सुखोपभोगस्य सुखानुभवस्य प्रतिबन्धिना विनकारिणा ! अमुक्तः संशयो यत्रैवविधेन । सदा सन्देहयुक्तेनेत्यर्थः । तन्त्रावापेनात्मशत्रुराष्ट्र- चिन्तया 'तन्त्रः स्वराष्ट्रचिन्तायामावापः परचिन्तनम् ' इति कोशः । मा कथा वृथा निष्प्र- योजन मा कुरु । दन्तिनां हस्तिनाम् । हयानामश्वानाम् । अनन्तमपरिमितं पादातं पत्तिसमूहः सामूहिकोऽणत्र । पादातं पत्तिसंहतिः' इत्यमरः । कोशगृहाणि धननिक्षेपस्थानानि । समग्रं संपूर्णम् । भुञ्जानो भोजनं कुर्वन् । कोष्ठागाराणि धान्यसंचयस्थानानि । 'पुसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तह तथा' इत्यमरः । रेचयिष्यति धान्य रिक्तं करिष्यति । किमिदमपर्याप्तं न कि ३४० दशकुमारचरितम् । [ उत्तरपीठिकाय । जीवितं हि नाम जन्मवतां चतुःपञ्चान्यहानि । तत्रापि भोगयोग्यमल्पाल्पं वयः- खण्डम् । अपण्डिताः पुनरर्जयन्त एव ध्वंसन्ते । नाजितस्य वस्तुनो लवमप्या- "स्वादयितुमीहन्ते । किं बहुना राज्यभारं भारक्षमेष्वन्तरङ्गेषु भक्तिमत्लु समl, अप्सर प्रतिरूपाभिरन्तःपुरिकाभी रममाणो गीतसंगीतपानगोष्ठीश्च यथतु वन- न्यथाहं कुरु शरीरलाभम्' इति पञ्चाङ्गीस्पृष्टभूमिरञ्जलिचुम्बितचूडश्चिरमशेत ? आहसीञ्च प्रीतिफुल्ललोचनोऽन्तःपुरप्रमदाजनः । जननाथश्च सस्मितम् ' उत्तिष्ट, ननु हितोपदेशाद्गुरवो भवन्तः । किमिति गुरुत्वविपरीतमनुष्ठितम्' इति तमु- स्थाप्य क्रीडानिर्भरमतिष्ठत् । अथेषु दिनेषु भूयोभूयः प्रस्तुतेऽर्थे प्रेर्यमाणो मन्त्रिवृद्धेन, वचसाभ्युपेप्य मनसैवाचित्तज्ञ इत्यवज्ञातवान् । अथैवं मन्त्रिणो मनस्यभूत्---' अहो मे मोहाद्वालिश्यम् । अरुचितेऽर्थे चोदयन्न वाक्षिगतोऽ- हमस्य हास्यो जातः । स्पष्टमस्य चेष्टानामायथापूर्व्यम् । तथा हि । न मां स्निग्धं संपूर्णमिदं संपूर्णमेवेति भावः । यद्यस्मात्कारणात् । अन्यायेनामार्गेणार्जिते संपादने आयासो यत्नः । जीवितं हीति । जन्मवतां प्राणिनाम् । अहानि दिनानि । चतुःपञ्चानि चत्वारि पञ्च वा । 'संख्ययाऽव्यया--' इति समासे 'बहुव्रीहौ संख्येये--' इति डन् । भोगयोग्यं सुखा. नुभवे साधु । अल्पाल्पमत्यल्पम् । अर्जयन्तो धनसंपादनं कुर्वन्त एव । वसन्ते विनाशं गच्छन्ति । ध्वंसु अधःपतने' । लवमेकमप्यंशम् । आस्वादयितुमुपभोक्तुमीहन्ते इच्छन्ति । किं अधिकभाषणेन किमपि फलं नास्तीति भावः। भारक्षमेषु निर्वहणदक्षेषु अन्तरङ्गेषु आप्तेषु । भक्तिमत्सु राजनि त्वयि विश्वासयुक्तेषु । समय न्यस्य । अप्सर प्रतिरूपामिरमरवेश्यासह शीभिः । अन्तःपुरिकाभिरवरोधवासिनीभिरङ्गनाभिः । रममाणो विहरन् । यथतु ऋतुमनुसृत्य । बनन्कुर्वन् । यथा यथोचितम् । शरीरलाभं जन्मधारणम् । पञ्चानामझानां समाहार: पञ्चाङ्गी। ' तद्धितार्थोत्तरपदसमाहारे च' इति समासे 'अकारान्तात्तरपदो द्विगुः स्त्रिया- मिष्टः' इति स्त्रीत्वे — द्विगोः' इति डी । तया स्पृष्टा भूमिर्येनैवंभूतः । जानू बाहुद्वयं मूर्धा' इत्युत्पलिनी । अञ्जलिना करयुगलबन्धेन चुम्बिता स्पृष्टा चूडा यस्यैवंभूतः। चिरं बहुकालपर्यन्तम् । अशेत राजप्रणामाय पादयोः पतितस्तथैव स्थित इति भावः । प्रमदाजनः स्त्रीजनः । जननाथ इति । राजाऽनन्तवर्मा । गुरुवो गुरुस्थानमापन्ना ममत्यर्थः । किमिति किमर्थम् । गुरुत्वस्य विपरीत प्रतिकूलं गुरोरल्पवयस्कत्वेऽपि शिष्यं प्रति प्रणामनिषेधादिति भावः । तं विहारभद्रनामानम् । प्रस्तुतेऽर्थे प्रकृतकार्ये दण्डनीत्यभ्यासरूपे। प्रेर्यमाणः प्रयो- ज्यमानः । मन्त्रिबुद्धेनामात्यवर्येण वसुरक्षितनाना । वचसा 'स्थाने एव गुरुभिरनुशिष्ट, तथा क्रियते ' इत्यादिवाक्येन । अभ्युपेत्याजीकृत्य । अचित्तज्ञः पराभिप्रायमजानानः अवज्ञातवास्तिरश्चकार । बालिश्यं मूर्खता। 'मूर्खवैधेयबालिशाः' इत्यमरः । अरुचितेऽ- नभीष्टेऽर्थे कार्ये । चोदयन्प्रेरयन् । अर्थीव याचक इव । अक्षिगतो द्वेषमात्रता प्राप्तः । द्वेष्योऽक्षिगत इष्यते ' इति हलायुधः । हास्यो निन्दनीयः । आयथापूय॑ पूर्वविपरीतभावः। . । ।

www अष्टमोच्छ्वासः] मनोरमाख्यव्याख्यासहितम्। पश्यति, न स्मितपूर्व भाषते, न रहस्यानि विवृणोति, न हस्ते स्पृशति, न व्यसनेष्वनुकम्पते, नोत्सवेष्वनुगृह्णाति, न विलोभनवस्तु प्रेषयति, न मत्सु- कृतानि प्रगणयति, न मे गृहवार्ता पृच्छति, न मत्पक्षान्प्रत्यवेक्षते, न मामास- नकार्येष्वभ्यन्तरीकरोति, न मामन्तःपुरं प्रवेशयति । आपि च मामनहेषु कर्मलु नियुक्ते, मदासनमन्यैरवष्टभ्यमानमनुजानाति, मद्वैरिषु विश्रम्भं दर्शयति, मदुक्तस्योत्तरं न ददाति, मत्समानदोषान्विगर्हति, मर्मणि मामुपहसति, स्वमतमपि मया वर्ण्यमानं प्रतिक्षिपति, महार्हाणि वस्तूनि मत्प्राहितानि नाभिनन्दति, नयज्ञानां स्खलितानि मत्समक्षं मूखैरुद्धोषयति । सत्यमाह चाणक्यः-'चित्तज्ञानानुवर्तिनोऽना अपि प्रियाः स्युः । दक्षिणा अपि तद्भाव- बहिष्कृता द्वेष्या भवेयुः' इति । तथापि का गतिः। आविनीतोऽपि न परि. त्याज्यः पितृपितामहानुयातैरस्माइशेरयमाधिपतिः । अपरित्यजन्तोऽपि कमुप- कारमयमाणवाचः कुर्मः । सवथा नयज्ञस्य वसन्तभानोरश्मकेन्द्रस्य हस्ते राज्यमिदं पतितम् । अपि नामापदो भाविन्यः प्रकृतिस्थमेनमापादयेयुः । अन- थेषु सुलभव्यलीकेषु क्वचिदुत्पन्नोऽपि द्वेषः सवृत्तमस्मै रोचयेत् । भवतु भविता तावदनर्थः । स्तम्भितापिशुनजिह्वो यथाकथंचिभ्रष्टपदस्तिष्ठेयम् ' इति । एवं , । - । । स्निग्धं प्रणयसहितं यथा तथा । विवृणोति प्रकाशयति । व्यसनेषु संकटेषु। अनुकम्पते दयां करोति । अनुगृह्णाति मानदानादिना संभावयति। विलोभनवस्तु चित्तालादकपदार्थम् । मम सुकृतानि उपकारान् । गृहवाता कुटुम्बसमाचारं पृच्छत्यनुयुंक्ते । आसन्नकार्येषु पाप्तकार्येषु । अभ्यन्तरीकरोति विचारसहायतया स्थापयति । अनर्हेष्वयोग्येषु । अवष्ट- भ्यमानं बलादाक्रम्यमाणम् । विशम्भं विश्वासम् । उत्तरं प्रतिवचनमपि । प्रतिक्षिपति दूरी- करोति । महार्हाणि बहुमूल्यान्यपि । नयज्ञानां नीतिशास्त्रवेदिनाम् । स्खलितानि दूषणानि । मम समक्षमाभिमुख्य । उद्घोषयति प्रकाशयति । चाणक्यो नीतिशास्त्रप्रवर्तकः । चित्तज्ञानमनु- वर्तन्ते तदनुसारेण चरन्ति ये तादृशाः। प्रिया रुचिकराः । दक्षिणाः सरला अपि । तस्य चित्तस्य भावबहिष्कृता आशयविपरीताचाराः । द्वेष्या मत्सरपात्राणि । अविनीतो गर्वितोऽपि । न परित्याज्यो विहातुमनुचितः । पितृपितामहानुयातैः पित्रादिकुलपरम्परया सचिवपदंप्राप्तैः । अधिपतिः राजाऽनन्तवर्मा । कमुपकारं कुर्मः कमप्युपकारं न कुर्म इति भावः ।अश्रूयमाणा राज्ञाs- नाकर्ण्यमाना वाग्येषामेवंभूताः। अश्मकेन्द्रस्याश्मकदेशाधिपतेः। राज्यमिदं विदर्भनगरम् । अपि नामति संभावनायाम् । भाविन्यो भविष्यन्त्यः । प्रकृतिस्थं न्यायमार्गवर्तिनमेनमनन्तवर्माणम्। आपादयेयुः कुर्युः । क्वचिन्मादृशेषु पुरुषेधूत्पन्नोऽपि जातोऽपि द्वेषो मत्सरः सुलभव्यलोकेषु सुलभापराधेष्चनर्थेषु वैरिकृतोपद्रवेषु जातेषु सत्सु अस्मै राज्ञे सद्वृत्तं सन्मार्ग रोचयेत्प्रियं कुर्यात् । व्यलीकमपराधः स्यात् ' इत्यमरः । स्तम्भिता तूष्णींभावमापादिता पिशुनानां खलानां जिह्वा । : দুঙ্গাবিষন্দু। [ उत्तरपीठिकार्या गते मन्त्रिाणि, राजनि च कामवृत्ते, चन्द्रमालितो नामाश्वकेन्द्रामात्यस्येन्द्रपालि- तस्य सूनुः, असद्वृत्तः विनिर्वासितो नाम भूत्वा, बहुभिश्चारणगणैर्बह्वीमिरन- रूपकौशलामिः शिल्पकारिणीभिरनेकच्छन्नकिकरैश्च परिवृतोऽभ्येत्य विविधाभिः क्रीडाभिर्विहारभद्रमात्मसादकरोत् । अमुना चैव संक्रमेण राजन्यास्पदमलभत । लब्धरन्ध्रश्च स यद्यद्वयसनमारभते तत्तथेत्यवर्णयत्---' देव, यथा मृगया ह्यौप- कारिकी न तथान्यत् । अत्र हि व्यायामोत्कर्षादापत्सूपकर्ता दोर्याध्वलनक्षमा जवाजवः, कफापचयादारोग्यैकमूलमाशयाग्निदीप्तिः, मेदोपकर्षादङ्गानां स्थैर्यका- कश्यातिलाघवादीनि, शीतोष्णवातवर्षक्षुत्पिपासासहत्वम्, सत्त्वानामवस्था- न्तरेषु चित्तचेष्टितज्ञानम्, हरिणगवलगवयादिवधेन सस्यलोपप्रतिक्रिया, वृक- व्याघ्रादिधातेन स्थलपथशल्यशोधनम्, शैलाटवीप्रदेशानां विविधकर्मक्षमाणा- मालोचनम्, आटविकवर्गविनम्भणम्, उत्साहशक्तिसंधुक्षणेन प्रत्यनीकवित्रासन- रसना येनैवंविधः । पिशुनः सूचकः खलः इत्यमरः । अभ्रष्टपदोऽच्युतामात्यस्थानः । एवं गते इति । कामवृत्ते स्वेच्छाप्रवृत्तौ । सूनुः पुत्रः । असद्वृत्तों दुर्मार्गचारी : पित्रेन्द्रपा- लितेन निर्वासितो गृहादूरीकृतः । चारणगणैर्गायकनिवहैः ।' चारणो गायकः समौ ' इत्यमरः । छन्नकिकरैगुंढसेवकपुरुषैः । अभ्येत्य विहारमद्रान्तिकं प्राप्य । आत्मसादात्माधीनम् । तदधी- नवचने' इति सातिः । अमुना संक्रमेण नानाशिल्पप्रदर्शनद्वारेण । आस्पदं प्रतिष्ठाम् । 'आस्पदं प्रतिष्टायाम् ' इति साधुता । अलमत प्राप्तवान् । लब्धरन्त्रः प्राप्तावकाशः । स राजाऽनन्त- वर्मा । व्यसनम् 'नियोऽक्षा मृगया पानं वाक्पारुष्यार्थदूषणे । दण्डपारुष्यमित्येतन्महाव्यसन- सप्तकम् ' इति वैजयन्ती । 'मृगयाऽक्षो दिवास्वप्नः परीवादः स्त्रियो मदः। तीर्थ त्रिकं वृथाऽऽट्या च कामजो दशको गणः । पैशुन्यं साहसं द्रोह ईर्ष्याऽसूयाऽर्थदूषणम् । वाग्दण्डजं च पारुष्य क्रोधजोऽपि गणोऽष्टकः' इति मनुश्च । आरभते कर्तव्यत्वेन कथयति। देवेति । यथा येन प्रका- रण । मृगया मृगवधायाटनम् । औपकारिकी उपकारे साधुः 'तत्र साधुः' इत्यधिकारे 'गुडादि- भ्यष्ठम्' इति ठञ् । अत्र मृगयायाम् । व्यायामस्य शारीरकपारश्रमस्योत्कर्षादतिशयात् । आपत्सु सिंहव्याघ्रादिसंकटेषु । दीर्घस्यातिदूरस्थाप्यध्वनो मार्गस्य लंघने गमने क्षमः समर्थः । जंघाजवो जंघावेगः । कफस्य श्लेष्मणोऽपचयाद्विनाशात् । आरोग्यस्य नीरोगताया एकमूलं मुख्यकारणम् । आशयामेरुदरानेदर्दीप्तिरुज्ज्वलनम् । मेदयो मांसलताया अपकर्षात्संकोचात् । शीतादेः सहत्वं सहनसमर्थता । सत्त्वानां प्राणिनामवस्थान्तरेषु हर्षशोकादिनानादशासु । चित्तचेष्टितस्य मनो- व्यापारस्य ज्ञानमवगमः । हरिणा मृगाः । गवला अरण्यमहिषाः । रजस्वलो वाहरिपुः । इत्यारम्यान्ते 'अरण्यजेऽस्मिन्गवलः' इत्यभिधानचिन्तामणिः । गवया गोसदृशा मृगविशेषाः । तदादीनां दुष्टजन्तूनां वधेन संहरणेन । सस्यलोपस्य मृगादिकृतसस्यक्षयस्य प्रतिक्रिया प्रतीकारः' बृका ईहामृगाः। 'कोकस्त्वीहामृगो वृकः' इत्यमरः । स्थलपथस्य स्थलमार्गस्य शल्यशोधनं कण्ट- कापनयनम् । विविधकर्मसु क्षेत्रदेवतायतनप्रासादनिर्माणादिकार्येषु क्षमाणामुचितानामालोचनं । ।

अष्टमोच्छ्रासः] मनोरमाख्यव्याख्यासहितम्। मिति बहुतमा गुणाः । द्यूतेऽपि द्रव्यराशेस्तृणवत्त्यागादनुपमानमाशयौ दार्यम्, जयपराजयानवस्थानाद्धर्वविषादयोरविधेयत्वम् , पौरुषैकानिमित्तस्याम- बस्य वृद्धिः, अंक्षहस्तभूम्यादिगोचराणामत्यन्तदुरुपलक्ष्याणां कूटकर्मणामुपल- क्षणादनन्तबुद्धिनैपुण्यम्, एकविषयोपसंहाराञ्चित्तस्यातिचित्रमैकाग्र्यम्, अध्य- वसायसहचरेषु साहसेप्वतिरतिः, अतिकर्कशपुरुषप्रतिसंसर्गादनन्यधर्षणीयता, मानावधारणम् , अकृपणं च शरीरयापनमिति । उत्तमाङ्गनोपभोगेऽव्यर्थधर्मयोः सफलीकरणम्, पुष्कलः पुरुषाभिमानः भावज्ञानकौशलम् , अलोभक्लिष्टमाचे- ष्टितम् , अखिलासु कलासु वैचक्षग्यम्, अलब्धोपलब्धिलब्धानुरक्षणराक्षतोप- भोगमुक्तानुसंधानरुष्टानुनयादिप्वजस्रमभ्युपायरचनया बुद्धिवाचोः पाटवम् , उत्कृष्टशरीरसंस्कारात्सुभगवेपतया लोकसंभावनीयता, परं सुहृत्प्रियत्वम्, गरी- यसी परिजनव्यपेक्षा, स्मितपूर्वाभिभाषित्वम्, उद्रिक्तसत्त्वता, दाक्षिण्यानुवर्त- नम् । अपत्योत्पादनेनोमयलोकश्रेयस्करत्वामिति । पानेऽपि नानाविधरागभङ्ग- १ । । पर्यवेक्षणम् । अटव्यां भवा आटविकाः । तत्र भवः' इत्यधिकारे ' अध्यात्मादेष्टमिष्यते' इति ठञ् । विश्रम्भणं विश्वासजननम् । संधुक्षणेन वर्धनेन । प्रत्यनीकस्य शत्रुसैन्यस्य वित्रासन भयोत्पादनम् । द्यूतेऽपीति । अक्षक्रीडादिरूपे । द्रव्यराशेर्धनसंचयस्य । तृणवत्तृणेन तुल्यम् 'तेन तुल्यं क्रिया चेद्वतिः' इति वतिः । त्यागाद्वितरणात् । आशयस्य चित्तस्यौदार्य दातृशी- लता । ' उदारो दातृमहतोः' इत्यमरः । जयपराजययोरनवस्थानादस्थिरतया । हर्षविषादयोः सुखदुःखयोः । अविधेयत्वमनधीनता। अमर्षस्य कोपस्य । अक्षः पाशः । कूटकर्मणां कपट- व्यापाराणाम् । उपलक्षणाद्दर्शनात् । बुद्धेनैपुण्यं तीक्ष्णता । एकस्मिन्नेव विषये उपसंहाराञ्चित्त- 'स्थिरीकरणात् । चित्तस्य । अतिचित्रं मुनीनामपि दुष्करतयाऽऽश्चर्यजनकमैकायमेकाग्रता । अध्यवसाय उत्साहः सहचरो येषामेवंविधेषु साहसेषु हठकर्मसु । अतिरतिरत्यासक्तता । अति- कर्कशनिर्दयनरैः पुरुषैः सह प्रतिसंसर्गानिरन्तरसंपर्कात् । अनन्यधर्षणीयताऽन्यजनैरनाभिभवनीय- त्वम् । मानस्य चित्तसमुन्नतेरवधारणमात्मनि संरक्षणम् । अकृपणं दैन्यरहितं यथा तथा । शरीर- यापनं देहयात्रासंपादनम् । उत्तमाङ्गनेति । तासां विशिष्टस्त्रीणामुपभोगे सुखानुभवे । पुष्कल: संपूर्णः । भावज्ञाने परचित्ताशयवेदने कौशलं सामर्थ्यम् । अलोभक्लिष्टं कार्पण्येनादूषितम् । आच्चे- टितं व्यवहारः । अलब्धोपलब्धिरप्राप्तस्य प्राप्तिः । लब्धानुरक्षणं प्राप्तस्य परिपालनम् । रक्षितस्य उपभोगः सेवनम् । भुक्तस्यानुसंधानं कालान्तरे स्मरणम् । रुष्टानां कुपितानामनुनयः सान्त्वनमे- क्मादिष्वजस्रमनवरतमभ्युपायस्य रचनया करणेन । पाटवं नैपुण्यम् । उत्कृष्टमातिशययुक्तं यथा तथा शरीरस्य संस्कारान्मार्जनभूषणादिरूपात । लोकसंभावनीयता जनबहुमानयोग्यता । पर- मुत्कृष्टम् । गरीयस्यतिमहती । उद्रिक्तसत्त्वतोत्कृष्टगुणवत्त्वम् । दाक्षिण्यस्य सरलभावस्यानुवर्त- नमनुवृत्तिः । अपत्योत्पादनेन पुत्रजननेन । उभवलोकयोरिहामुत्र च श्रेयस्करत्वं कल्याणकरत्वम् । ।

दशकुमारचरितम् । [ उत्तरपीठिकायो पटीयसामासवानामासेवनात्स्पृहणीयवयोव्यवस्थापनम्, अहंकारप्रकर्षादशेषदुः- खतिरस्करणम् , अङ्गजरागदीपनादङ्गनोपभोगशक्तिसंधुक्षणम् , अपराधप्रमार्ज- नान्मनःशल्योन्मार्जनम् , अश्राव्यशंसिभिरनर्गलप्रलापैविश्वासोपहणम् , मत्स- राननुबन्धादानन्दैकतानता, शब्दादीनामिन्द्रियार्थानां सातत्येनानुभवः, संवि- भागशीलतया सुहृद्वर्गसंवर्गणम् , अनुपमानमङ्गलावण्यम् , अनुत्तराणि विल- सितान, भयार्तिहरणाच्च साङ्ग्रामिकत्वमिति । वाक्पारुष्यं दण्डो दारुणो दूष- णानि चार्थानामेव यथावकाशमोपकारिकाणि । नहि मुनिरिव नरपतिरुपश- मरतिरभिभावितुमरिकुलमलम् , अवलम्बितुं च लोकतन्त्रम् ' इति । असावपि गुरूपदेशमिवात्यादरेण तस्य मतमन्ववर्तत । तच्छीलानुसारिण्यश्च प्रकृतयो विशृङ्खलमसेवन्त व्यसनानि । सर्वश्च समानदोषतया न कस्यचिच्छिद्रान्वेष- । पानेऽपीति । नानाविधानामनेकप्रकाराणां रागाणां वर्णानां रक्तपीतादीनां भङ्गेन परिपाटया पटीयसामत्युत्कृष्टानाम् । आसवानां मदिराणाम् । मैरेयमासवः सीधुः' इत्यमरः । आसेव- नात्सम्यगुपयोगात् । स्पृहणीयस्य सर्वैरपि जनैरभिलषणीयस्य वयसो यौवनाख्यस्य व्यवस्थापन चिरकालपर्यन्तं स्थिरत्वापादनम् । अहंकारप्रकर्षात् गर्वातिरेकात् । अङ्गजो मनाजः । तस्य रागो मन्मथाभिलाषः । तस्य दीपनादुत्तेजनात् । अङ्गनोपभोगे स्त्रीरमणे शोः संधुक्षण संवर्ध- नम् । मनःशल्यानां मानसिकव्यथानामुन्मार्जनं निरसनम् । अश्राव्यमनाकर्णनीयं यथा तथा शंसन्ति कथयन्त्येतादृशैः । अनर्गलैरप्रतिहतैः प्रलापनिरर्थकवाक्यैः । प्रलापोऽनर्थकं वचः इत्यमरः । विश्वासस्य विश्रम्भस्योपबृंहणे वर्धनम् । मत्सरस्यान्यशुभद्वेषस्याननुबन्धादधारणात् । आनन्दैकतानता केवलमानन्दमयता । एकतानोऽनन्यवृत्तिः' इत्यमरः । इन्द्रियार्थानां श्रोत्रादितत्तदिन्द्रियविषयाणाम् । सातत्येनानवरतभावेन । अनुभव उपभोगः। संविभागशील- तया ‘स एतादृशः' इति विविच्य परिज्ञानयुक्ततया । सुहद्वर्गस्य मित्रगणस्य संवर्गणं संमेल- नम् । अङ्गलावण्य शरीरकान्तिविशेषः । भयं साध्वसम् । आतिः पीडा । ' भीतिीः साध्वसं भयम् ' ' आतिः पीडा धनुष्कोटयोः' इत्यमरः । तयोर्हरणानिरसनात् । सांग्रामिकत्वं युद्ध- शूरता । 'तत्र साधुः' इत्यधिकारे 'गुडादिभ्यष्ठञ् ' इति ठञ् । वाचां वाणीनां पारुष्यं क्रूरता । दारुणः कठिनः । यथावकाशं अवसरे सतीत्यर्थः । औपकारिकाणि उपकारे साधूनि उपशमरतिः शान्तस्वभावः । अभिभावितुं तिरस्कर्तुम् । आरकुलं शत्रुवर्गम् । नालं न समर्थों भवतीत्यर्थः । लोकतन्त्रं लोके कर्तव्यम् । 'तन्त्रं कुटुम्बकृत्ये स्थात्कारणे च परिच्छेद ' इति विश्वः। अवलम्बितुं स्वीकर्तुम् । असावपीति । असौ राजाऽनन्तवर्मा । अत्यादरेण अति- बहुमानपुरःसरम् । तस्येन्द्रपालितस्य । मतं सिद्धान्तम् । अन्ववर्ततानुसृत्याचरति स्म । तस्य राज्ञोऽनन्तवर्मणः शीलानुसारिण्यः स्वभावमनुकुर्वन्त्यः । प्रकृतयः ' स्वाम्यमात्यसुहृत्कोशराष्ट्र- दुर्गबलानि च । राज्यानानि प्रकृतयः' इत्युक्तानि राज्यानानि । विशृंखलमप्रतिबन्धमसेवन्त " Janear - । ।

अष्टमोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । गायायतिष्ट । समानभर्तप्रकृतयस्तन्त्राध्यक्षाः स्वानि कर्मफलान्यभक्षयन् । ततः क्रमादायद्वाराणि व्यशीर्यन्त । व्ययमुखानि विटविधेयतया विभोरहरहऱ्याव- धन्त । सामन्तपौरजानपदमुख्याश्च समानशीलतयोपारूढविश्रम्भेण राज्ञा सजा- नयः पानगोष्ठीष्वभ्यन्तरीकृताः स्वस्वमाचारमत्यचारिषुः । तदङ्गनासु चाने- कापदेशपूर्वमपाचरन्नरेन्द्रः । तदन्तःपुरेषु चामी भिन्नवृत्तेषु मन्दत्रासा बहुसुखै- रवर्तन्त । सर्वश्च कुलाङ्गनाजनः सुलभभङ्गिभाषणरतो भग्नचारित्रयन्त्रणस्तृ- शायापि न गणायित्वा भर्तृन्धातृगणमन्त्रणान्यशृणोत् । तन्मूलाश्च कलहाः साम- Kणामुदभवन् । अहन्यन्त दुर्बला बलिभिः । अपहृतानि धनवतां धनानि तस्करादिभिः । अपहृतपरिभूतयः प्रहताश्च पातकपथाः । हतबान्धवा हृतवित्ता वधवन्धातुराश्च मुक्तकण्ठमाक्रोशन्नश्रुकण्ठ्यः प्रजाः। दण्डश्चायथाप्रणीतो भय- क्रोधावजनयत् । कृशकुटुम्बेषु लोभः पदमधत्त । विमानिताश्च तेजस्विनोऽ- - उपभुंजते स्म । व्यसनानि 'त्रियोऽक्षा:-' इत्यादिना पूर्वोक्तानि । समानदोषतया परकीयाणां दोषाणां स्वस्मिनपि विद्यमानतयोत भावः। छिद्रान्वेषणाय दोषगवेषणाय । नायतिष्ट प्रयत्नं न चकार । तन्त्राध्यक्षाः कार्यनिर्वाहकाः । स्वानि कर्मफलानि स्वकृतकर्मफलभूतद्रव्याणि । अभक्षयन् स्वयमेवानुभवन्ति स्म न तु राज्ञे समर्पयामासुरित्यर्थः । क्रमात्कालक्रमेण ! आयस्य धनागमस्य द्वाराणि मुखानि। व्यीर्यन्त शिथिलान्यभूवन् । व्ययस्य धनविनाशस्य मुखानि । विटानां षिदानां विधेयतया वचस्करतया । विभो राज्ञोऽनन्तवर्मणः । व्यवर्धन्त बहुलीभूतानि । सामन्ता आस- नवर्तिनो राजान आत्मापेक्षया हीनाः। पौराः पुरवासिनो जनाः । जानपदा देशवासिनः । समा- नशीलतया आत्मवत् दुष्कार्यकारितयेति भावः। आरूढविश्रम्भेण जातविश्वासेन । सजानयों भार्यासहिताः । 'जायाया निङ्' इति बहुव्रीहिसमासान्तो निङ् । पानगोष्टीषु मद्यादिसेवनस- माजेषु । अभ्यन्तरीकृताः प्रियमित्रता प्रापिताः। स्वस्वमाचारं निजनिजकुलधर्ममत्यचारिषुरुल्लं- घयन्ति स्म । तेषां सामन्तादीनामङ्गनासु अन्तःपुरिकासु । अनेकापदेशपूर्व नानाविधकपटपुर:- सरम् । अपांचारद्वयभिचारमकरोदित्यर्थः। नरेन्द्रो राजाऽनन्तवर्मा । तस्यानन्तवर्मणोऽन्तःपुरेषु अवरोधेषु । अमी सामन्तादयः। भिन्नवृत्तेषु उच्छिनकुलधर्मेषु । मन्दत्रासा भयरहिताः । सर्वश्चेति । कुलाङ्गनाजनः कुलस्त्रीवर्ग:। भनिभाषणेषु 'वृषापेहि परक्षेत्रादायाति क्षेत्रपालकः' इत्यादिरूपवक्रोक्तिषु रतः आसक्तः। भाममुच्छिन्नं चारित्रस्य पातिव्रत्यस्य यन्त्रणमात्मनि धारणं यस्यैवंभूतः । तृणायापि न गणयित्वा तृणतुल्यमपि न विचार्य नितरामनाइत्येत्यर्थः ।' मन्य- कर्मण्यनादरे विभाषाऽप्राणिषु' इति चतुर्थी । धातृगणस्य जारवर्गस्य 'धाता जारे विधातरि' इत्यजयः । मन्त्रणानि गुप्तभाषणानि । तन्मूला स्त्रीचरित्रभङ्गनिमित्तकाः । सामर्षाणां कोपयु- कानाम् । पातकपथा दुष्टमार्गाः। वधे हननकर्मणि, बन्धे निग्रहे चातुरा आसकाः। आक्रोशन, विलपन्ति स्म । अश्रुकण्ट्य अस्रजलकणप्रतिरुद्धकण्ठस्वरा इत्यर्थः । दण्डः प्रजानां शिक्षा । अय- थाप्रणीतः अमार्गेण विहितः । अजनयदुत्पादयामास । कृशेषु निर्धनेषु कुटुम्बेषु गृहेषु । लोभोऽ- । । skynsrTimes PANANEWS Ena নাৰিব। [उत्तरपीठिकाया मानेनादान्त । तेषु तेषु चाकृत्येषु प्रासरन्परोपजापाः । तदा च मृगयुवेषभू- गबाहुल्यवर्णदेनाद्रिद्रोणीरनपसारमार्गाः शुष्कतृणवंशगुल्माः प्रवेश्य द्वारतोऽ- प्रिबिसगैः, व्याघ्रादिवधे प्रोत्साह्य तन्मुखपातनैः, इष्टकूपतृष्णोत्पाइनेनाति- दूरहारितानां प्राणहारिभिः क्षुत्पिपासाभिवर्धनैः, तृणगुल्मगूढतटप्रदरपातहे- तुभिविषममार्गप्रधावनैः, विषमुखीभिः क्षुरिकाभिश्चरणकण्टकोद्धरणैः विष्व- विसरविच्छिन्नानुयातृतयेकाकीकृताना यथेष्टधातनैः, मृगदेहापराबैनामेषुमो- क्षणैः, सपणबन्धमधिरुह्याद्रिशृङ्गाणि दुरधिरोहाण्यनन्यलक्ष्यैः प्रभ्रंशनैः, आट- विकच्छद्मना विपिनेषु विरलसैनिकानां प्रतिरोधनैः, अक्षयूतपक्षियुद्धयात्रोत्स- वादिसंकुलेषु बलवदनुप्रवेशनैः, इतरेषां हिंसोत्पादनैः,गूढोत्पादितव्यलोकेभ्योऽ- . व त्याशा। विमानिता अनाहतास्तेजस्विनः प्रतापवन्तः। अमानेन मानहान्या । अदह्यन्त नितरां विषण्णा जाताः 'संभावितस्य चाकीर्तिमरणादतिरिच्यते । इति न्यायात् । तेषु तेषु नानावि- धेषु अकृत्येषु दुष्कर्मसु । परेषां शत्रूणामुपजापा भेदाः । ' उपजापः कृतो भेदः' इत्यमरः । तदा चेति । तस्मिन्समये । मृगयुर्व्याधः 'व्याधो मृगवधाजीवो मृगयुर्लुब्धकश्च सः इत्यमरः । तद्वेषस्य तन्नेपथ्यस्य, मृगाणां हरिणादीनां बाहुल्यस्य भूयस्त्वत्ल च वर्णनेन कीर्तनेछ । अविद्रोणागिरिनितम्बान । 'अद्रिोणी स्यादापद्धतिः' इति वैजयन्ती । अनपसारमार्गान वर्ततेऽपसाराय बहिरागमनाय मार्गों यत्रैतादृशीः । शुष्काणामनार्द्राणां तृणानां वंशानां वेणूनां च गुल्मा स्तम्बा यत्रैवविधाः । 'स्तम्बो गुल्मस्तृणादिनः' इत्यमरः । प्रवेश्य प्रवेश कारयित्वा । द्वारतो द्वारदेशे । सार्वविभक्तिकस्ततिः । अनिविसगैह्निदानैः । व्याघ्रः शार्दूलः । प्रोत्साह्य उत्साहमुत्पाद्य । तन्मुखे व्याघ्रास्ये पातनैः । इष्टत्य तृषासमये वाञ्छितस्य कूपस्य प्रवेः तृष्णात्पादनेन 'अत्र कूपो वर्तते ' इति कथयित्वाऽऽशाजननेन । अतिदूर हारितानां नीता- नाम् । क्षुत्पिपासयोर्बुभुक्षातृषारभिवर्धनरुद्दीपनैः । तृणगुल्मैस्तृणपुलैगूढमाच्छादितं यत्तदं नद्यादेः कूल तत्र ये प्रदरा गर्तास्तेषु पातस्य निपतनस्य हेतुभिः कारणभूतैः । विषममार्गे दुर्गमाध्वनि प्रधावनैः पलायनैः । विषमुखीभिर्गरललिप्ताग्राभिः । छुरिकाभिरल्पशस्त्रैः । चरणयोः पादयोर्ये कण्टकाः पलायनकाले सलमा वेण्यादीनामग्रभागास्तेषामुद्भरणैस्तद्वयाजेनेति भावः । विष्वकू समन्ततः विसरात्सङ्घाद्विच्छिन्ना अन्यत्र गता अनुयातारः सहाया येषामेवभूततया । 'समूहनि- वहव्यूहसन्दोहविसरबजाः' इत्यमरः । 'समन्ततस्तु परितः सर्वतो विध्वनित्यपि ' इति च । एकाकीकृतानां निःसहायीकृतानाम् । यथेष्टं स्वेच्छया घातनैमारणैः । मृगदेहालक्ष्यभूताद्धरि- कायात् अपराद्वैर्नामान्यत्र स्खलितरिख । इषुमोक्षणैर्बाणप्रयोगैः । सपणबन्धम् ' अहं त्वया जितश्चेन्मदीयमियद्रव्यं त्वं गृहाण, त्वं मया जितश्चेदह ग्रहीष्यामि त्वदीयम्' इति निश्चयपुर:- सरम् । अः पर्वतस्य शृङ्गाणि शिखराणि । दुरधिरोहाणि आरोढुमशक्यानि । अनन्यलक्ष्यै. रितरदर्शनायोग्यैः। प्रभंशनैः निपातनैः । आटविकच्छद्मना वनवासिताप्रदर्शनव्याजेन । विपिनेष्वरण्येषु । विरलसैनिकानामल्पसैन्यानाम् । बलबद्बलात्कारपूर्वम् । अनुप्रवेशनैः प्रेरणैः - । - अष्टमोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । प्रियाणि प्रकाशं लब्ध्वा साक्षिषु तद्विख्याप्याकीर्तिगुप्तिहेतुभिः पराक्रमैः, पर- कलत्रेषु सुहृत्त्वेनाभियोज्य जारान्भर्तृनुभयं वा प्रहृत्य तत्साहसोपन्यासैः, योग्यनारीहारितानां संकेतेषु प्रागुपनिलीय पश्चादभिदुत्याकीर्तनीयैः प्रमापणैः, उपप्रलोभ्य बिलप्रवेशेषु निधानखननेषु मन्त्रसाधनेषु च विनव्याजसाध्या- पादनैः, मत्तगजाधिरोहणाय प्रेर्य प्रत्यपायनिवर्तनैः, व्यालहस्तिनं कोपयित्वा लक्ष्यीकृतमुख्यमण्डलेप्वपक्रमणैः, दायाद्यर्थे विवदमानानुपांशु हत्वा प्रतिपक्षे- प्वयशःपातनैः, सामन्तपुरजनपदेष्वयथावृत्तानप्रकाशमभिप्रहृत्य तद्वैरिनाम- घोषणैः, योग्याङ्गनाभिरहर्निशमभिरमय्य राजयक्ष्मोत्पादनैः, वस्त्राभरणमा- ल्याङ्गरागादिषु रसविधानकौशलैः, चिकित्सामुखेनामयोपबर्हणैरन्यैश्चाभ्युपायै- रश्मकेन्द्रप्रयुक्तास्तीक्ष्णरसदादयः प्रक्षपितप्रवीरमनन्तवर्मकटकं जर्जरमकुर्वन् । अथ वसन्तभानुर्भानुवर्माणं नाम वानवास्यं प्रोत्साह्यानन्तवर्मणा व्यग्राहयत् । तत्परासृष्टराष्ट्रपर्यन्तश्चानन्तवर्मा तमभियोक्तुं बलसमुत्थानमकरोत् । सर्वसाम- प गूढमव्यक्तं यथातथोत्पादितं व्यलोकं दुःखं यैस्तेभ्यः। लब्ध्वा ज्ञात्वा । विख्याप्य कथयित्वा अकीर्तेरप यशसो गुप्तौ प्रच्छादने हेतुभिः । परकलत्रेषु परभार्यासु । अभियोज्य संगमय्य ! जारानुपपतीन् । प्रहृत्य ताडयित्वा । योग्यनारीभिर्दारितानां सख्यादिप्रेषणेनाहूतानां पुरुषाणां संकेतेषु संगमार्थ निश्चितस्थानेषु । प्राक्पूर्वमेवोपनिलीय समीपे कुत्रचिद्गूढं स्थित्वा। प्रमापणैः मारणैः । 'प्रमापणं विशसनं मारणं प्रविघातनम् ' इत्यमरः । उपप्रलोभ्य वञ्चयित्वा । निधा- नखननेषु भूम्यन्तर्गुप्तधनोद्धरणेषु । व्यापादनैर्मारणैः। प्रेये उत्साहमुत्पाद्य । प्रत्यपायानामुपारतः पतनादीनां निवर्तनैजननैः । व्यालहस्तिनं दुष्टगजम् । 'व्यालो दुष्टगजः प्रोक्तः ' इति हलायुध- वचनादत्र करिकलभन्याय एवाश्रयणीयः। लक्ष्यीकृतस्य स्वहन्तव्यत्वेन निश्चितस्य मुख्येषु प्रधान- भूतेषु मण्डलेषु राष्ट्रेषु । अपक्रमणैः संचारणैः। दायाद्यर्थे पैतृकधनविभागार्थम् । विवदमानान कलह 'कुर्वतः । उपांशु रहसि । प्रतिपक्षेषु हतस्य वैरिषु । अयशःपातनैरकीर्तिसंपादनैः । अयथावृत्तानसाधुकारिणः । अप्रकाशं गुप्तं यथा तथा ! तस्य वैरिणां शत्रूणां नान्नां नामधेयामा घोषणैरुत्कीर्तनः। अभिरमय्य क्रीडां कारथित्वा । राजयक्ष्मणः क्षयरोगविशेषस्योत्पादनैः। रस- विधाने विषप्रयोगे कौशलैः सामथ्र्यैः । 'रसाधाने विषाधानम्' इति वैजयन्ती । चिकित्सामुखेन रोगशमनापदेशेन आमयानां रोगाणामुपबृहणैः परिवर्धनैः । 'स्त्री रुग्रुजाचोपतापरोगव्याधिगदा- मयाः' इत्यमरः । अश्मकेन्द्रेण तद्देशाधिपतिना वसन्तभानुना प्रयुक्ता विहिताः। 'तीक्ष्णा मर्मणि घातकाः' इति वैजयन्ती । रसं विषं ददाति रसदः तदादयः । प्रक्षपितप्रवीरं विनाशितप्रधा- नयोद्धृकम् । अनन्तवर्मणः कटकं सेनानिवेशस्थानम् । जर्जर प्रशिथिलम् । अथेति । वानवास्य वनस्वामिनम् । ' वानवास्यो वनप्रभुः' इति निघण्टुः । प्रोत्साह्य गुप्तं धनदानादिना सतोषितं कृत्वा । व्यग्राहयद्योधयामास । तेन भानुवर्मणा परामृष्टाः स्वायत्तीकृता राष्ट्रस्य पर्यन्ताः परि- सरभागा यस्यैवंविधः । तं भानुवर्माणम् । अभियोक्तुं निग्रहीतुम् । बलसमुत्थानं सैन्यसंग्रहम् । ।

মূলাল্লাবলু। उत्तरपीठिकाय न्तेभ्यश्चाश्मकेन्द्रः प्रागुपेत्यास्य प्रियतरोऽभूत् । अपरेऽपि सामन्ताः समगंयत । गत्वा चाभ्यणे नर्मदारोषसि न्यविशन् । तस्मिंश्वावसरे महासामन्तस्य कुन्त- लपतेरवन्तिदेवस्यात्मनाटकीयां मातलोर्वशी नाम चन्द्रपालितादिभिरातिप्रश- स्तनृत्यकौशलामाहूयानन्तवर्मा नृत्यमद्राक्षीत् । अतिरक्तश्च मुक्तवानिमा मधुम- त्ताम् । अश्मकेन्द्रस्तु कुन्तलपतिमेकान्ते समभ्यधत्त-' प्रमत्त एष राजा कल- त्राणि नः परामृशति । कियत्यवज्ञा सोढव्या । मम शतमस्ति हस्तिनाम् , पञ्चशतानि च ते । तदावां संभूय मुरलेशं वीरसेनमृचीकेशमेकवीरं कोङ्कण- पति कुमारगुप्तं सासिक्यनाथं च नागपालमुपजपाव । ते चावश्यमस्याविनय- मसहमाना अस्मन्मतेनैवोपावर्तेरन् । अयं च वानवास्यः प्रियं मे मित्रम् । अमुनैनं दुर्विनीतमप्रतो व्यतिषक्तं पृष्ठतः प्राहरेम । कोशवाहनं च विभज्य गृह्णीमः' इति । हृष्टेन चामुनाभ्युपेते, विंशतिं वरांशुकानाम् , पञ्चविंशति काञ्चनकुंकुमपलानाम्, प्राभृतीकृत्याप्तमुखेन तैः सामन्तः संमन्त्र्य तानपि स्वम- तावस्थापयत्। उत्तरास्तेषां सामन्तानां वानवास्यस्य च अनन्तवर्मा नयद्वेषा- दामिषत्वमगमत् । वसन्तभानुश्च तत्कोशवाहनमवशीर्णमात्माधिष्ठितमेव कृत्वा सर्वेभ्यः सामन्तेभ्यः समीपवर्तिभ्यो राजभ्यः । अश्मकेन्द्रो वसन्तभानुः । प्राक्पूर्वमेवोपेत्य साहाय्यदानार्थमिति व्याजेनागत्य । समगंसत संगता अभूवन् । 'समो गम्युच्छिभ्याम्' इत्यात्मनेपदम् । अभ्यर्णे निकटे । नर्मदाया नदीभेदस्य रोधसि कूले । 'कूलं रोधश्च तीरं च प्रतीरं च तट त्रिषु ' इत्यमरः । न्यविशन्सेनास्थानं कल्पयामासुः । 'निवेशः शरणं क्षयः' इति गृहपर्यायेऽमरः । कुन्तलपतेः कुन्तलदेशाधिपस्य । अवन्तिदेवस्यैतन्नाम्नः । आत्मनाटकीयां स्वकीयनृत्यकारिणीम् । क्ष्मातलोवंशी स्वस्तले यथोर्वश्यतिसुन्दरी तद्वद्भूतलेऽतिरमणीयाम् । अतस्तन्नाम्नैव विश्रुतां च । अतिप्रशस्यं सर्वश्लाघ्यं नृत्ये कौशलं सामर्थ्य यस्या एवंभूताम् । अद्राक्षात्पश्यति स्म । अतिरको नितरां तस्यामासक्तः । इमां मातलोवंशीम् । मधुना मयेन मत्तामस्वाधीनचित्ताम् । प्रमत्त इति । एष राजाऽनन्तवर्मा । कलत्राणि जायाः। नोऽस्माकम् । परामृशति स्पृशति । ता उपभुक्त इत्यर्थः । कियती किंपरिमाणाऽवज्ञाऽवमानना । सोढव्या क्षन्तव्या । स्वपत्नीपरामर्शस्तु न कदाऽप्यस्माभिः क्षन्तव्य इति भावः । हस्तिनां गजानाम् । संभूय परस्परं मिलित्वा मुरलेशं मुरलदेशाधिपतिम् । उपजयाव अनन्तवर्मोपरि दोषप्रकाशनेन तस्मात्पृथक्कुर्वः । ते च वीरसेनादयः । अस्यानन्तवर्मणोऽविनयं धाष्टर्यम् । वानवास्यः वनाधि- पतिः । अग्रतः पुरोभागे व्यतिषकं प्रतिरुद्धम् । अमुनाऽवन्तिदेवेन । अभ्युपेतेऽङ्गीकृते । वरांशुकानामुत्कृष्टदुकूलानाम् । काञ्चनानां सुवर्णानां कुंकुमानां काश्मीरजन्मनां पलानां परिमा- णविशेषाणाम् । प्राभृतीकृत्योपायनत्वेन दत्त्वा । 'प्राभृतं तु प्रदेशनम् । उपायनमुपग्राह्यमुप- हारस्तथोपदा' इत्यमरः । समन्व्य वार्तालापं कृत्वा । उत्तरेयुः परदिने । नयद्वेषादुर्भातेः । आमिषत्वं भोग्यवस्तुतामगमद्तो युद्धे मृतोऽभूदिति भावः । 'आमिषं पुन्नपुंसकम् । भोग्य- । । ।

प्रयास स्वस्त्रपरिश्रमानुरूपम्, यथाबलं निजनिजशक्त्यनुरूपं च । अंशेन येनापि अष्टमोच्छासः] मनोरमाख्यव्याख्यासहितम् । यथाप्रयासं यथावलं च विभज्य गृह्णीत । युष्मदनुज्ञया येनकेनचिदंशेनाह तुप्यामि' इति शाठ्यात्सर्वानुवर्ती, तेनैवामिषेण निमित्तीकृतेनोत्पादित- कलहः सर्वसामन्तानध्वंसयत् । तदीयं च सर्वस्वं स्वयमेवाग्रसत् । वानवास्यं केनचिदंशेनानुगृह्य प्रत्यावृत्य सर्वमनन्तवर्मराज्यमात्मसादकरोत् । अस्मिंश्चा- न्तरे मन्त्रिवृद्धो वसुरक्षितः कैश्चिन्मौलैः संभूय वालमेनं भास्करवर्माणम् , अस्यैव ज्यायसी भगिनीं त्रयोदशवर्षा मनुवादिनीम् , अनयोश्च मातरं महादेवी वसु- धरामादायापसर्पन्नापदोऽस्या भावितया दाहज्वरेण देहमजहात् । अस्मादशै- नित्रैस्तु नीत्वा माहिष्मतीं भर्तृद्वैमातुराय भ्रात्रे मित्रवर्मणे सापत्या देवी दर्शि- ताभूत् । तां चार्यामनार्योऽसावन्यथाभ्यमन्यत । नित्सितश्च तया 'सुतमि- यमखण्डचारित्रा राज्याह चिकीर्षति' इति नैघण्यात्तमेनं बालमजिघांसीत् । इदं तु ज्ञात्वा देव्याहमाज्ञप्त:-'तात, नालीजङ्घ, जीवतानेनार्भकेण यत्र कचि- वधाय जीव ! जीवेयं चेदहमप्येनमनुसरिष्यामि । ज्ञापय मां क्षेमप्रवृत्तः स्वबार्ताम्' इति ? अहं तु संकुले राजकुले कथंचिदेनं निर्गमय्य विन्ध्याटवीं व्यगाहिषि । पादचारिणं चैनमाश्वासयितुं घोषे कचिदहानि कानिचिद्विश्र- मय्य, तत्रापि राजपुरुषसंपातभीतो दुरध्वमपासरम् । तत्रात्य दारुणपिपासा- वस्तुनि संभोगेऽप्युत्कोचे पललेऽपि च । इति मेदिनी । तस्यानन्तवर्मणः कोशं धन- संग्रहं वाहनं गजादिकं च । अवशीण परिक्षिप्तम् । आत्माधिष्ठितं स्वाधीनमेव । यथा- भागेन । तुष्यामि सुतुष्टो भवामि । शाठ्यात्कपटाचरणात् । सर्वाननुसृत्य वर्तत इत्येवं- शीलः सर्वानुवर्ती । तेनैवावशिष्टकोशवाहनेन । अध्वंसययुद्धे परस्परं नाशयामास । तदीयं सामन्तानामपि सम्बन्धि । अग्रसत्कवलयामास । केनचिदंशेन स्वल्पारितोषिकेण । अनुगृह्य सन्तोष्य । आत्मसादात्माधीनम् । तदधीनवचने' इति सातिः। अस्मिश्चेति । अन्तरे अवसरे । मौलैः कुलपरम्परया वहुकालात् सेवकैः । संभूय मिलित्वा । ज्यायसी भगिनीं पूर्व- सहोदरीम् । अपसर्पन्देशाद्वहिः पलायनं कुर्वन् । भावितयाऽवश्यमुत्पत्स्यमानतया । देहमजहात् स्वर्ग गतः इति भावः । नीत्वा प्रापय्य । माहिष्मती तदाख्यां नगरीम् । भर्तुरनन्तवर्मणो द्वैमा- तुराय पितुर्द्वितीयभार्योत्पन्नाय । सापत्या भास्करवर्मणा पुत्रेण कन्यया मजुवादिन्या च सहिता। देवी अनन्तवर्मणो महिषी वसुन्धराख्या अन्यथा प्रकारान्तरेणागताम् । अभ्यमन्यत विचारित- वान् । अखण्डचारित्रा अक्षतपातिव्रत्या। राज्याह राज्ययोग्यं चिकीर्षति विधातुमिच्छति । नैपुण्यानिर्दयतया । अजिघांसीद्धन्तुमिच्छति स्म । अर्भकेण पुत्रेण । अववाय अवहितो भूत्वा । संकुले निबिडे । व्यगाहिषि प्रविष्टवान् । घोषं शबरालये । घोष आभीरपल्ली स्यात्पकणः शबरालयः' इत्यमरः । राजपुरुषाणां मित्रवर्मणः किङ्कराणां सम्मातादागमनाद्भतिस्त्रस्त : -- । Ear दशकुमारचरितम्। [उत्तरपीठिकार्या पीडितस्य वारे दातुकामः कूपेऽस्मिन्नपभ्रश्य पतितस्त्वयैवमनुगृहीतः । स्वमे- वास्यातः शरणमेधि विशरणस्य राजसूनोः' इत्यञ्जलिमबध्नात् । किमीया जात्यास्य माता' इत्यनुयुक्ते मयामुनोक्तम्-'पाटलिपुत्रस्य वणिजो वैश्रवणस्य दुहितार सागरदत्तायां कोसलेन्द्राकुसुमधन्वनोऽस्य माता जाता' इति । 'यद्ये- वमेतन्मातुर्मत्पितुश्चैको मातामहः' इति सस्नेहं तमहं सस्वजे । वृद्धेनोक्तम्- सिन्धुदत्तपुत्राणां कतमस्ते पिता' इति। 'सुश्रुतः' इत्युक्ते सोऽत्यहृप्यत् । अहं तु ' तपनयावलिप्तमश्मकनयेनैवोन्मूल्य वालमेनं पित्र्ये पदे प्रतिष्ठापयेयम्' इति प्रतिज्ञाय कथमस्यैनां क्षुधं क्षपयेयम्' इत्यचिन्तयम् । तावदापतितौ च कस्यापि व्याधस्य त्रीनिघूनतीत्य द्वौ मृगौ स च व्याधः । तस्य हस्तादव- शिष्टमिषुद्वयं कोदण्डं चाक्षिप्यावधिषम् । एकश्च सपत्राकृतोऽन्यश्च निष्पत्रा- कृतोऽपतत् । तं चैकं मृगं दत्त्वा मृगयवे, अन्यस्यापलोमत्वचः क्लोमापोह्य, दुरव्वं कण्टकाद्यावृततया दुर्गमं मार्गम् । ' उपसर्गादध्वनः' इति समासान्तोऽच् । 'व्यध्वो दुरध्वो विपथः कदवा कापथः समाः' इत्यमरः । अपभ्रश्य स्खलित्वा । शरणमोधि रक्षको भव । अस भुवि ' इत्यस्माल्लोण्मध्यमैकवचनम् । किमीयेति । कस्यां जाताउत्पन्नति प्रश्नाशयः । तत्र भवः' इत्यर्थे ' वृद्धाच्छः' इति छः । अस्य कुमारस्य भास्करवर्मणः । अनुयुक्त पृष्टे सति । मया विश्रुतेन । अमुना नालजंघेन बुटेन । पाटलिपुत्रस्य पाटलिपुत्राख्यनगरीनिवा- सिनः । वैश्रवणस्य तदाख्यस्य वणिजो व्यापारिणः । दुहितरि कन्यायाम् । कोसलेन्द्राकोसल- देशाधिपात् । एतन्मातुः एतस्य भास्करवर्मणो मातुः वसुन्धरायाः। मत्पितुश्च मम विश्रुतस्य पितुः सुश्रुतस्य । मातामहो मातुः पिता। 'मातृपितृभ्यां पितार डामहच् ' इमि डामहच् । सस्नेहं सप्रणयम् । तं भास्करवर्माणम् । अहं विश्रुतः। सस्वजे आलिङ्गितवान् । वृद्धेन नालीजं. घेन । तमश्मकं वसन्तभानुनामानमश्मकदेशाधिपम् । अनयेन दुर्भात्याऽवलिप्तं गर्वितम् । नयेना न्यायमार्गेणैव । उन्मूल्य राज्यभ्रष्टं विधाय । पित्र्ये पदे पितुरनन्तवर्णः संबन्धिनि स्थाने। 'पितु- र्यच्च' इति तत आगत इत्यर्थे यति च रूपमिदम् । प्रतिष्ठापयेयं प्रतिष्ठितं कुर्याम् । प्रातज्ञाय संकल्पं कृत्वा । कथं केन प्रकारेण । क्षुधं बुभुक्षाम् । क्षपयेयं शान्तां कुर्याम् । तावत्तस्मिन्समये । व्याधस्य मृगयोः । इन्वाणानतीत्योल्लंघ्य । मृगौ हरिणौ । अवशिष्टं मुक्ता- तिरिक्तम् । कोदण्डं धनुः । 'धनुश्चापो धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । आक्षिप्य गृहीत्वा । अवधिषम् प्रहृतवान् । 'हन हिंसागत्योः' इत्यतो लुडि 'लुडि च' इति वधादेशः। सपत्राकृतः पत्रेण पक्षेण सह विद्धः। सपुंखशरप्रवेशेन हृदये पीडितः सन मृत इति भावः । "वाहने तु च्छदे पत्रम् ति भागरिः। निष्पत्राकृतः शरपुंखस्य कायं विद्ध्वा बहिर्निर्गमान्मृतः सपत्रनिष्पत्रादतिव्यथने' इति डाच । मृगयवे व्याधाय । 'व्याधो मृगवधाजीवो मृगयुर्ख- ब्धक्रश्च सः' इत्यमरः । अपलोमा रोमरहिता त्वक्चर्म यस्यैवंभूतस्य । 'तनूरुहं रोम लोम । ।

अष्टमोच्छ्रासः मनोरमाख्यव्याख्यासहितम् । निप्कुलाकृत्य विकृत्योर्वशिग्रीवादीनि शूलाकृत्य दावाङ्गारेषु, तप्तेनामिषेण तयोरात्मनश्च क्षुधमतार्षम् । एतस्मिन्कर्मणि मत्सौष्ठवेनातिहृष्टं किरातमस्मि पृष्टवान्-'आप जानासि माहिष्मतीवृत्तान्तम्' इति । असावाचष्ट-' तत्र व्याघ्रत्वचो हताश्च विक्रीयाद्यैवागतः किं न जानामि । प्रचण्डवर्मा नाम चण्डव- मानुजो मित्रवर्मदुहितरं मझुवादिनी विलिप्सुरभ्येतीति तेनोत्सवोत्तरा पुरी इति । अथ कर्णे जीर्णमब्रवम्-'धूर्तो मित्रवर्मा दुहितरि सम्यक्प्रतिपत्त्या मातरं विश्वास्य तन्मुखेन प्रत्याकृप्य बालकं जिघांसति । तत्प्रतिगत्य कुशलमस्य मद्वार्ता च देव्यै रहो निवेद्य पुनः कुमारः शार्दूलभक्षित इति प्रकाशमाक्रोशनं कार्यम् । स दुर्मतिरन्तःप्रीतो बहिर्दुःखं दर्शयन्देवीमनुनेष्यति । पुनस्तया त्व- न्मुखेन स वाच्यः-'यदपेक्षया त्वन्मतमत्यक्रमिषं सोऽपि बालः पापेन मे परलो- कमगात् । अद्य तु त्वदादेशकारिण्येवाहम्' इति । स तथोक्तः प्रीति प्रतिपद्या- । । . इत्यमरः । लोन मस्तिष्कम् । 'तिलकं क्लीम मस्तिष्कम् ' इत्यमरः । अपोह्य निरस्य । निष्कु- लाकृत्य कुलमन्तरवयवानामस्थ्यादीनां समूहः । तन्निर्गतं यस्मादेवंभूतं विधाय । 'निष्कुलानि- कोषणे' इति डाच । विकृत्य खण्डयित्वा । 'कृती छेदने । शूलाकृत्य शूलाग्रे प्रोतं पक्त्वा । 'शूलात्पाके' इति डाच् । दावाझारेषु वनवह्निखण्डेषु । ' दवदावौ वनानले' इत्यमरः । तप्तेन परिपक्केनामिषेण मांसेन । अतार्षे निवारितवान् । एतस्मिन्कर्मणि मृगवधमांसनिष्कासनपा- कादौ । मम सौष्टवेन साधुकारितया। किरातं शबरम्। अस्मि अहमित्यर्थेऽव्ययम् । अपि जानासि वेत्सि किम् ? असौ किरातः । तत्रेति । माहिष्मतीनगर्याम् । व्याघ्रत्वचः शार्दूलचर्माणि । दृतीश्चर्मसंपुटाश्च । ' इतिश्चर्मपुटे मत्स्ये ना' इति मंदिनी । विक्रीय मौल्यग्रहणपूर्वकं दत्त्वा । आगतः प्रतिनिवृत्तः । किं न जानाम्यवश्यं जानामीति भावः । चण्डवर्मानुजः उत्तरपीठिका- प्रथमोच्छासे सिंहवर्मणा सह योद्धमागतो यस्तस्य चण्डवर्मणोऽनुजः कनीयान्भ्राता । मित्रव- मणो माहिष्मतीपतेर्दुहितरं कन्यास्थानीयां तद्भातृकन्यामित्यर्थः । विलिप्सुराप्तुमिच्छुः । अभ्ये- त्यागच्छति । इति हेतोरिति शेषः । उत्सवोत्तरोत्सवव्यग्रा । जीर्णं वृद्धं नालीजंघम् । धूर्त इति । वञ्चनाशीलः । सम्यक्साधु यथा तथा प्रतिपत्त्या यथोचितविवाहादिकार्यकरणेन । मातरं जननी वसुंधराम् । विश्चास्य विश्वासं जनायित्वा । तन्मुखेन तद्वारा । प्रत्या- कृष्य आनाय्य । जिघांसति व्यापादयितुमिच्छति । तत्तस्माद्धेतोः । प्रतिगत्य माहिष्मती पुनर्गत्वा । कुशलं क्षेमवार्ताम् । अस्य कुमारस्य भास्करवर्मणः । मम विश्रुतस्य वार्ता वृत्तान्तश्च । देव्यै अनन्तवर्मणोऽयमहिध्यै वसुंधरायै । रह एकान्ते । निवेद्य कथयित्वा । शार्दूलेन व्याघेण भक्षितो निगीर्णः। प्रकाशं जनसम्मुखम् । आक्रोशनं रोदनम् । स दुर्मतिः मित्रवर्मा । अन्तर्मनसि. प्रीतः स्वेन जिघांसितस्य दैवान्मृतबुद्धया संतुष्टः । अनुनेष्यति सान्त्वयिष्यति । यदपेक्षया यस्य पुत्रस्यापेक्षया तमुद्दिश्येत्यर्थः । अत्यक्रमिषमतिप्रवृत्ताऽहम् । मे पापेन दुष्कर्मणा । परलोक स्वर्गमगाद्गतः । त्वदादेशकारिणी तवाज्ञापालयित्री। 'वत्सनाभ ' इति विषभेदस्य नाम: । । । ।

२५२ दशकुमारचरितम् । [उत्तरपीठिकायां ७ भिपत्स्यति । पुनरनेन वत्सनामनाना महाविषेण संनीय तोयं तत्र मालां मज- यित्वा तया स वक्षसि मुखे च हन्तव्यः । स एवायमसिग्रहारः पापीयस-- स्तव भवतु यद्यस्मि पतिव्रता' । पुनरनेनागदेन संगमितेऽम्भसि तां मालां मज्जयित्वा स्वदुहित्रे देया । मृते तु तस्मिंस्तस्यां च निर्विकारायां सत्याम्, सतीत्येवैनां प्रकृतयोऽनुवर्तिष्यन्ते । पुनः प्रचण्डवर्मणे संदेश्यम्-' अनायक- मिदं राज्यम् । अनेनैव सह वालिकेयं स्वीकर्तव्या' इति । तावदावां कापालिक- वेषच्छन्नी देव्यैव दीयमानभिक्षौ पुरो वहिरुपश्मशानं वत्स्यावः । पुनरार्यप्रा- यापौरवृद्धानाप्तांश्च मन्त्रिवृद्धानेकान्ते ब्रवीतु देवी-'स्वप्नेऽद्य मे देव्या विन्ध्य- वासिन्या कृतः प्रसादः । अद्य चतुर्थेऽहनि प्रचण्डवर्मा मरिष्यति । पञ्चमेऽ- हनि रेवातटवतिनि मद्भवने परीक्ष्य वैजन्यम् , जनेषु निर्गतेषु कपाटमुद्धाट्य त्वत्सुतेन सह कोऽपि द्विजकुमारो निर्यास्यति । स राज्यमिदमनुपाल्य बालं ते प्रतिष्ठापयिष्यति । स खलु बालो मया व्याघ्रीरूपया तिरस्कृत्य स्थापितः । सा चेयं वत्सा मनुवादिनी तस्य द्विजातिदारकस्य दारत्वेनैव कल्पिता' इति । तदेतदतिरहस्यं युष्मास्वेव गुप्तं तिष्ठतु यावदेतदुपपत्स्यते' इति । स सांप्रतमति प्रीतः प्रयातोऽर्थश्चयायं यथाचिन्तितमनुष्टितोऽभूत् । प्रतिदिशं च लोकवादः । - । । पुंसि क्लीवे च काकोलकालकूटहलाहलाः । सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः । दारदो वत्सनाभश्च विषभेदा अमी नव ॥' इत्यमरः । संनीय मिश्रयित्वा । तोय जलम् । तत्र ताशे जले। हन्तव्यः । प्रहर्तव्यः असिप्रहारः खड्गताडनम् । अगदेनौषधेन । संगमिते योजितेऽम्भसि सलिले । स्वदुहित्रे निजकन्यकायै मञ्जुवादिन्यै । तस्मिन्मित्रवर्मणि । निर्विकारायां विषबाधा. रहितायाम् । सती पतिव्रता। सती साध्वी पतिव्रता' इत्यमरः । एनां वसुन्धराम् । संदेश्य विज्ञापनीयम् । अनायक राजहीनम् । स्वीकर्तव्योद्वहनीया। तावत्प्रचण्डवर्मणा राज्यमञ्जुत्रा- दिन्योः स्वायत्तीकरणात्पूर्वमेव । आवामहं विश्रुतोऽयं भास्करवा च । कापालिकः भिक्षार्थ कपालं गृहीत्वा चरतीत्येवंशीलः । तस्य वेषेण छनौ गूढौ । देव्या महिघ्या वसुन्धरयैव दीयमाना भिक्षा याभ्यामेवंविधौ । पुरो माहिष्मतीनगर्याः । उपश्मशानं पितृवनसमीपे । अव्ययं विभक्ति-' इत्यादिना सप्तम्यर्थेऽव्ययीभावः । वत्स्यावो निवासं करिष्यावः । पुनरिति । प्रसादोऽनुग्रहः । रेवातटवर्तिनि नर्मदाकूलस्थिते । मम भवने आलये । वैजन्यं जनराहित्यम् । कपाटं द्वारपिधानम् । निर्यास्यति बहिरागमिष्यति । स द्विजपुत्रः। ते वसुं- धराया वालं भास्करवर्माणम् । प्रतिष्ठापयिष्यति राज्येऽभिषिक्त करिष्यति । स बालस्त्वदीयः कुमारो भास्करवर्मा । खल्वित्यसंदेहे । मया विन्ध्यवासिन्या । तिरस्कृत्य व्यवहितं कृत्वा । द्विजातिदारकस्य ब्राह्मणकुमारस्य । दारत्वेन भार्यात्वेन । गुप्तमाच्छन्नं यथा तथा । एतत्प्र- चण्डधर्ममरणादिकम् । उपपत्स्यते निष्पन्नं भविष्यति । स नालीजंघो वृद्धः । यथाचिन्तित- - ।

म अष्टमोच्छ्रासः] मनोरमाख्यव्याख्यासहितम्। प्रासर्पत्-'अहो माहात्म्यं पतिव्रतानाम् । असिप्रहार एव हि स मालाप्रहार स्तस्मै जातः । न शक्यमुपधियुक्तमेतत्कर्मेति वक्तुम् । यतस्तदेव दत्तं दाम दुहिने स्तनमण्डनमेव तस्यै जातं न मृत्युः । योऽस्याः पतिव्रतायाः शासन- मतिवर्तते स भस्मैव भवेत्' इति । अथ महाव्रतिवेषेण मां च पुत्रं च भिक्षायै प्रविष्टौ दृष्ट्वा प्रस्तुतस्तनी प्रत्यु- स्थाय हर्षाकुलमब्रवीत्-'भगवन् , अयमञ्जलिः । अनाथोऽयं जनोऽनुगृह्यताम्। अस्ति ममैकः स्वप्नः स किं सत्यो न वा' इति । मयोक्तम्-‘फलमस्यायेक द्रक्ष्यसि' इति । 'यद्यवे बहु भागधेयमस्या वो दास्याः । स खल्वस्याः साना-- थ्यशंसी स्वप्नः' इति मदर्शनरागबद्धसाध्वसां मजुवादिनीं प्रणमय्य, भूयोऽपि सा हर्षगर्भमब्रूत-'तञ्चेन्मिथ्या सोऽयं युष्मदीयो बालकपाली श्वो मया निरो- व्यः' इति । मयापि सस्मितं मजुवादिनीरागलीनदृष्टिलीढधैर्येण 'एवमस्तु इति लब्धप्रेक्षः, नालीजङ्घमाकार्य निर्गम्य ततश्च तं चानुयान्तं शनैरपृच्छम्- कासावल्पायुः प्रथितः प्रचण्डवा' इति । सोऽब्रूत--'राज्यमिदं ममेत्यपास्त- शङ्को राजास्थानमण्डप एव तिष्ठत्युपास्यमानः कुशीलवैः' इति । ' यद्येवमु- द्याने तिष्ठ' इति तं जरन्तमादिश्य तत्प्राकारैकपार्श्वे कचिच्छून्यमाठिकायां मात्राः मिच्छानुसारेण । लोकवादो जनश्रुतिः । अहो इत्यद्भुतेऽव्ययम् । तस्मै मित्रवर्मणे । उपधि- युक्तं कपटयुतम् । दाम माला । स्तनमण्डनं कुचालङ्करणम् । शासनमाज्ञामतिवर्तते उल्लंघयति । अथेति । व्रतिवेषेण संन्यासिरूपेण । भिक्षायै भिक्षामादातुम् ।' क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इति चतुर्थी । प्रस्तुतो बाले स्वकीये वात्सल्यात्क्षरत्पयसौ स्तनौ यस्या एवं भूता । ' स्वाहाचोपसर्जनादसंयोगोपधात् ' इति ङीष् । प्रत्युत्थायाभिमुखमागत्य । अस्या स्वप्नस्य । अद्यैवास्मिन्नेव दिने । भागधेयं भाग्यम् । अस्या वसुन्धराया ममेत्यर्थः । नाथन रक्ष- केण सह वर्तते सनाथा तस्याभावः सानाथ्यं तच्छंसति सूचयतीत्येवंशीलः । मम विश्रुतस्य दर्शने रागेणासक्त्या बद्धमुत्पन्नं साध्वसं भयं पतित्वेन मनसा चिन्तितस्य प्रथमदर्शनकाले. कन्याना साधारणतयोत्पद्यमानं यस्या एवंभूतामै । प्रणमय्य नमस्कार्य । तत्स्वप्नदर्शनम् । मिथ्या निष्फलम् । बालः कुमारश्चासौ कपाली कपालधार्ययं भिक्षुकः । श्व आगामिनि दिने । सस्मितं मन्दहासयुक्तम् । मजुवादिन्या रागलीनयाऽनुरागनिमन्नया दृष्टया कटाक्षदर्शनेन लीड- मास्वादितं धैर्य यस्यैवंविधन । लब्धभैक्षः प्राप्तभिक्षानराशिः । 'भिक्षादिभ्योऽम्' इति भिक्षाशब्दात्सामूहिकोऽण् । आकार्य मम गमनानन्तरं पश्चादागन्तव्यं त्वयति सूचयित्वा । त व नालीजंघम् । अनुयान्तं पश्चाद्गन्तव्यम् । शनैर्मन्दस्वरेण । क्व कस्मिन् स्थाने। अल्पायु- रासन्नमरणः । अपास्तशंको निःशंकः । आस्थानमण्डपे सभामण्डपे । 'आस्थानी क्लीबमा.. स्थानम् ' इत्यमरः । उपास्यमानः परिचर्यमाणः । कुशीलवैनटैः। भरता इत्यपि नटाचार- णास्तु कुशीलवाः' इत्यमरः । उद्याने विहारवने । जरन्तं स्थविरम् । 'प्रवयाः स्थविरो वृद्धो जीनो । ।

दशकुमारचरितम् । उत्तरपीठिकायाँ 'जीव्या- समवतार्य, तद्रक्षणनियुक्तराजपुत्रः, कृतकुशीलववेषलीलः प्रचण्डवर्माणमेत्या.. वरजयम् । अनुरजितातपे तु समये, जनसमाजज्ञानोपयोगीनि संहृत्य नृत्य- गीवनानारुदितादिहस्तचङ्क्रमणमूर्ध्वपादालातपादपीठवृश्चिकमकरलङ्घनादीनि मत्स्योद्वर्तनादीनि च करणानि, पुनरादायादायासन्नवर्तिनां क्षुरिकाः ताभिरुपा- हितवा चित्रदुष्कराणि करणानि श्येनपातोत्क्रोशपातादीनि दर्शयन् , विंशति- चापान्तरालावस्थितस्य प्रचण्डवर्मणश्छुरिकयैकया प्रत्युरसं प्रहृत्य, द्वर्षसहस्रं वसन्तभानुः' इत्यभिगर्जन् , मद्गात्रमरकर्तुमुद्यतासः कस्यापि चार- भटस्य पीवरांसबाहुशिखरमाक्रम्य, तावतैव तं विचेतीकुर्वन् , साकुलं च लोक- जीर्णो जरत्नपि' इत्यमरः । आदिश्याज्ञाप्य । तस्य राजगृहस्य यः प्राकार आवरणभित्तिः। प्राकारो वरणः साल: ' इत्यमरः । तस्यैकपाधै कस्मिंश्चित्कोणे । शून्यायां निर्जनायां मठि- कायां स्वल्पमठे। 'मठछात्रादिनिलयः' इत्यमरः । “अल्पे' इति सूत्रेण कप्रत्ययः । मानाः जीर्णवस्त्रखण्डादीन भिक्षुकोपयोगिवेषान् । 'मात्रा परिच्छदेऽल्पेशे प्रवृत्तौ कर्णभूषणे । अक्षरावयवे माने ' इति वैजयन्ती । समवतार्य निक्षिप्य । तद्रक्षणे मात्रापालनकर्मणि नियुक्तो राजपुत्रो भास्करवर्मा येनैवम्भूतः। कृताऽझीकृता कुशीलवानां गायकानां देवलीला नेपथ्यशोभा येनैवभूतः । एत्य प्राप्य । अन्वरजयं गानवेषादिना तोषितवान् । अनुरक्षितेति । अनु. राजितोऽरुणवर्णतां प्राप्त आतपः सूर्यप्रकाशो यत्रैतादृशे समये सन्ध्याकाले इत्यर्थः । जनसमा- जस्य सभावर्तिलोकसमुदायस्य ज्ञाने परिचये उपयोगीनि उपयुक्तानि । संहृत्य समाप्य । नृत्य नर्तनम् । गीतं गानम् । नानारुदितानि कुक्कुटमार्जारश्चादिरवानुकरणानि । हस्तयोः करयो- अक्रमणमितस्त: प्रसारणम् । ऊर्ध्वपादमलातपादं च करणभेदौ । तदुक्तं नृत्याघ्याये भरता- चार्येण-' कराभ्यामवनी स्पृष्ट्वा मूर्धानं भ्रामयेन्मुहुः । उत्तानीकृत्य चरणावूर्ध्वपादं तदुच्यते ।। उद्धृत्यैकं तु चरणमन्यं कृत्वैव कुञ्चित्तम् । नृत्यत्यनुमतं तिर्यक्तदलातकमेव च ॥ इति । पीठेन बृश्चिकवत मकरवच लंघनं चंक्रमणम् । 'द्वन्द्वान्ते श्रूयमाणं-' इति न्यायात्मत्येकमन्वयो बोध्यः । मत्स्योद्वर्तनं मीनवद्विचोष्टितम् । करणानि कायिककर्मविशेषान् । आसनवर्तिनां समी- पस्थायिनाम् । क्षुरिकाः शस्त्राणि । उपाहितवमा प्रोतशरीरः । 'शरीरं वर्म विग्रहः' इत्यमरः । श्येनपातो नृत्यविशेषः 'परिक्रम्यान्तरिक्षण संप्राप्योचैरदृश्यताम् । आकस्मिकाभिपातेन श्येन- पात इतीरितः॥ इति भरतशास्त्रोक्तलक्षणः । उत्क्रोशपातस्तु ' उत्क्रोशकुररौ समौ' इत्यम- रोक्तस्य पक्षिविशेषस्येव पतनविशेषः प्रत्युरसमुरसि इत्यर्थः । विभक्त्यर्थेऽव्ययीभावेऽच् समासान्तः । प्रत्याहत्य । जीव्यादित्यादि वाक्यं तु स्वशत्रुपुत्रस्य भास्करवर्मणो माहिष्मत्या स्थित्या तन्मारणाय वसन्तभानुना प्रेषितोऽयं गूढपुरुषः, तेन च व्यक्तिपरिचयाभावात् प्रच- भडवर्मा हतः इति स्वस्य वसन्तभानुचारत्वप्रकाशनेन वसन्तमानौ दोषारोपणाय इत्यवधेयम् । अभिगर्जनाक्रोशमुच्चैः कुर्वन् । अरूकतुं वणितं विधातुम् । ' अर्मनश्चक्षुश्वेतोरहोरजसा - लोपश्च ' इति चिप्रत्ययः सलोपश्च । उद्यतासहीतशत्रस्य ! पीवरं मांसलम् । विचेतीकुर्वन PRANALHary अष्टमोच्छासः] मनोरमाख्यव्याख्यासहितम् । मुच्चक्षुकुर्वन् , द्विपुरुषोच्छ्रितं प्राकारमत्यलङ्घयम् । अवप्लुत्य चोपवने ‘मदनु- पातिनामेष पन्था दृश्यते' इति ब्रुवाण एव नालीजङ्घसमीकृतसैकतस्पृष्टपादन्या-- सया तमालवीथ्या चानुप्राकारं प्राचा प्रतिप्रधावितः; पुनरवाचोच्चितेष्टकचि- तत्वादलक्ष्यपातेन प्रद्रुत्य, लचितप्राकारवप्रखातवलयः, तस्यां शून्यमठिकायां तूर्णमेव प्रविश्य, प्रतिमुक्तपूर्ववेषः सह कुमारेण मत्कर्मतुमुलराजद्वारदुःखलब्ध- वा श्मशानोद्देशमभ्यगाम् । प्रागेव तस्मिन्दुर्गागृहे प्रतिमाधिष्टान एव मया कृतं भग्नपार्श्वस्थैर्यस्थूलप्रस्तरस्थगितबाह्यद्वारं बिलम् । अथ गलति मध्यरात्रे वर्षवरोपनीतमहाहरत्नभूषणपट्टनिवसनौ तद्विलमावां प्रविश्य तूष्णीमतिष्ठाव । देवी तु पूर्वेयुरेव यथार्हमग्निसंस्कारं मालवाय दत्त्वा प्रचण्डवर्मणे चण्डवर्मणे च तामवस्थामश्मकेन्द्रोपधिकृतामेव संदिश्य, उत्तरेयुः प्रत्युषस्येव पूर्वसंकेतितपौरामात्यसामन्तवृद्धैः सहाभ्येत्य भगवतीमर्चयित्वा अज्ञारहितं कुर्वन् । उच्चस्कुर्वन्नीकृतनयनानापादयन् । द्विपुरुषोच्छ्रितं पुरुषद्वयप्रमाणपर्यन्त- मुन्नतम् । प्राकारं सालम् । अवप्लुत्येति । निपत्य । मदनुपातिनां मामनुगच्छताम् । ब्रुवाणः कथयन् । नालीजंघेन समीकृतः समतां प्रापितः सैकते वालुकामयप्रदेशे स्पृष्टः संलग्न पादन्यासो मदीयश्वरणनिक्षेपो यत्रैतादृश्या । तमालवीथ्या तापिच्छश्रेण्या ! अनुप्राकारं प्राकार लक्षीकृत्य । उचिताभिर्धनाभिरिष्टकाभिः पक्कमृत्खण्डविशेषैश्चितत्वात्परिष्कृतत्वात् । ' इटके- धीकामालानां चिततूलभारिषु' इति ह्रस्वः । अलक्ष्यो न दृश्यः पातश्चरणनिपातो यत्रैवंविधेन । प्रहृत्य वेगेन पलाय्य । लंधितौ प्राकारवप्रः प्राकारभित्तिः खातवलयं जलगर्तश्च येनैवभूतः । तूर्ण सत्वरम् । प्रतिमुक्तपूर्ववेषः धृतभिक्षुवेषः । 'आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् इत्यमरः । मम विश्रुतस्य कर्मणा प्रचण्डवर्ममारणकृत्येन तुमुलं व्यग्रं यद्राजद्वारं तस्माद्दुःखेन लब्धवा प्राप्तसरणिः । श्मशानोद्देशं पितृवनप्रदेशम् । प्राक् पूर्वमेव । दुर्गागृहे देव्यायतने । प्रतिमाधिष्ठाने मूर्तिस्थाने । भन्नस्य त्रुटितस्य दुर्बलस्येतियावत् । तादृशस्य पार्श्वस्य देवीमू- त्र्येकभागस्य स्थैर्यार्थमिति व्याजेन स्थूलेन पृथुना प्रस्तरेण पाषाणेन स्थगितमाच्छादितं बाह्य- द्वारं बहिर्मुखं यस्यैवंविवं बिलं रन्ध्रम् । 'पाषाणप्रस्तरप्रावोपलाझ्मानः शिला दृषत्' इत्यमरः । अथेति । गलति व्यतिकामति सति । रात्रेमध्यं मध्यरात्रः। तस्मिन् वर्षवरेण षण्ढेन । पण्डो वर्षवरः' इत्यमरः। नालीजङ्घनान्नेतियावत् । उपनीतानि स्वसमीपं प्रापितानि महार्हाणि बहुमूल्यानि रत्नभूषणानि मणिमयालंकाराः पट्टवसनानि दुकूलांशुकानि च ययोः एतादृशौ । तद्विलं देव्यायतनान्तःकृतं रन्ध्रम् । आवामहं विश्रुतोऽसौ भास्करवर्मा च । तूष्णी निःशब्दं यथा तथा । देवी महिषी वसुंधरा ! यथार्ह यथायोग्यम् । मालवाय मालवदेशा- धिपतये । चण्डवर्मणे प्रचण्डवर्मानुजाय । तामवस्था मारणमित्यर्थः । अश्मकेन्द्रेण वसन्तभानु- नोपधिना कपटरूपेण कृतं विहितामेव । 'ऋपटोऽत्री व्याजदम्भोपधयश्छम कैतवे' इत्यमरः । संदिश्य दूतमुखेन निवेद्य । प्रत्युषस्येव प्रभातसमय एव । 'प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्यु- - २५६ নালিলু। [ उत्तरपीठिकाया समर्चनप्रत्यक्षं परीक्षितकुक्षिवैजन्यं तद्भवनं पिधाय दत्तदृष्टिः सह जनेन स्थित्वा, पटीयांसं पटहशब्दमकारयत् । अणुतररन्ध्रप्रविष्टेन तेन नादेनाहं दत्त- सज्ञः शिरसैवोत्क्षिप्य सप्रतिम लोहपादपीठमसलपुरुषप्रयत्नदुश्चलमुभयकरवि- धृतमेकपार्श्वमेकतो निवेश्य निरगमम् । निरगमयं च कुमारम् । अथ यथापूर्व- मर्चयित्वा दुर्गामुद्घाटितकपाटः प्रत्यक्षीभूय प्रत्ययहृष्टदृष्टि । स्पष्टरोमाञ्चमुद्य- ताञ्जलिरूढविस्मयं च प्रणिपतन्तीः प्रकृतीरभ्यधाम्-'इत्थं देवी विन्ध्यवासिनी मन्मुखेन युप्मानाज्ञापयति-मया सकृपया शार्दूलरूपैण तिरस्कृत्याद्य वो दत्त- मेनमद्यप्रभृति मत्पुत्रतया मन्दमातृपक्ष इात परिगृह्णन्तु भवन्तः । अपि च दुर्घटकूटकोटि घटनापाटवप्रकटशाठ्यनिष्ठुराश्मकघटघट्टनात्मानं मां मन्यध्वमस्य रक्षितारम् । रक्षानिर्देशश्चास्य स्वसेयं सुभ्ररभ्यनुज्ञाता मह्यमार्यया' इति । । । घसी अपि' इत्यमरः । पूर्वमेव संकेतिताः वसुन्धरया — अद्य चतुर्थेऽहनि प्रचण्डवर्मा मरि- ध्यति-' इत्यादिरूपेण सूचितदेवीप्रसादाः ये पौरादयस्तैः । अभ्येत्य भगवतीमन्दिरं प्राप्य। समर्चनस्याच॑मानदेवीमूर्तेः प्रत्यक्षं सम्मुखम् । परीक्षितं सम्यरिवलोकितं कुक्षेर्देव्यायतना- भ्यन्तरभागस्य वैजन्यं जनशून्यता यत्रैवविधम् । दत्तदृष्टिरितस्ततो विलोकयन्ती । पटीयांस- मतिमहान्तम् । पटहशब्दं भेरीनिनादम् । अणुतरमतिसूक्ष्मं यद्न्धं विवरं तेन तद्वारा प्रवि- टेन । नादेन भेरीवेण । दत्तसंज्ञः कृतसंकेतः । सूचितपौरागमन इत्यर्थः । सप्रतिमं देवी- मूर्तिसहितम् । अंसलैबलवद्भिः पुरुषैः प्रयत्नेनापि दुश्चलं चालयितुमशक्यम् । 'बलवान्मां- सलोऽसलः, इत्यमरः ! 'वत्सांसाभ्यां कामबले ' इति लन् । एकतः कस्मिंश्चित्काणे। निवेश्य स्थापयित्वा । निरगमं बहिनिःसृतवान् । अथेति । द्वयोनिर्गमनानन्तरम् । अर्चयित्वा संपूज्य । उद्घाटितकपाटः दूरीकृतद्वारपिधानः । प्रत्ययेन देव्या यथा स्वप्ने सन्दिष्टं तथा • पुरुषनिर्गमजनितेन विश्वासेन हृष्टा संतोषं प्राप्ता दृष्टयो नेत्राणि यास्मन्कर्माण तद्यथा तथा । रूढविस्मयं प्रभूताद्भुतम् । प्रणिपतन्तीनमस्कुर्वन्तीः। प्रकृतीः प्रजाः । अभ्यधामवादिषम् । इत्थमनेन प्रकारेण । ' इदमस्थमुः' इति प्रकारवचने थमुप्रत्ययः । मन्मुखेन मद्द्वारा । आज्ञा- पयति सदिशति । मया देव्या विन्ध्यवासिन्या । सकृपया साधुवर्गेषु दयायुक्तया। शार्दूल- रूपण व्याघ्रशरीरेण । तिरस्कृत्य मित्रवमनं जिघांसतीति भयेन व्यवहितं विधाय । वो युष्म- भ्यम् । दत्तं प्रत्यर्पितम् । एनं वसुन्धरापुत्रं भास्करवाणम् । मन्दः विरल: मातुर्वसुन्धरायाः पक्षः सहायः यस्यैतादृशः । इति हेतोः। परिगृह्णन्तु स्वीकुर्वन्तु । दुर्घटानां संभावयितुमश- क्यानां कूटकोटीनामसंख्यकपटानां घटनायामायोजने पाटवेन सामर्थ्येन प्रकटं लोकप्रसिद्धं शाठ्यं धौर्यं यस्यैवंविधस्य निष्ठुरस्य निर्दयस्य चाश्मकस्य तद्देशाधिपतेर्वसन्तभानोरेव घटस्य कलशस्य घनो ध्वंसक आत्मा स्वरूपं यस्यैवंभूतम् । मन्यध्वं विचारयध्वम् । अस्य कुमा- रस्य । रक्षितारं पालकम् । रक्षाया निर्देशो वेतनं च । स्वसा कनिष्ठभगिनी । इयं भजुवादिनी ।

२७ । - अष्टमोच्छासः] मनोरमाख्यव्याख्यासहितम् । श्रुत्वैतत् ' अहो भाग्यवान्भोजवंशः, यस्य त्वमार्यादत्तो नाथः' इत्यप्रीयन्त प्रकृतयः । सा तु वाचामगोचरां हर्षावस्थामस्पृशन्मे श्वश्रूः । तदहरेव च यथा- बाहयन्म वादिनीपाणिपल्लवम् । प्रपन्नायां च यामिन्यां सम्यगेव बिल प्रत्यपूरयम् । अलब्धरन्ध्रश्च लोको नष्टमुष्टिचिन्तादिकथनैरभ्युपायान्तरप्रयुक्तै- दिव्यांशतामेव मम समर्थयमानः, मदाज्ञां नात्यवर्तत । राजपुत्रस्यार्यापुत्र इति प्रभावहेतुः प्रसिद्धिरासीत् । तं च गुणवत्यहनि भद्राकृतमुपनाय्य पुरोहितेन पाठयन्नीतिं राजकार्याण्यन्वतिष्ठम् । अचिन्तयं च-राज्यं नाम शक्तित्रया- यत्तम् , शक्तयश्च मन्त्रप्रभावोत्साहाः परस्परानुगृहीताः कृत्येषु क्रमन्ते । मन्त्रेण हि विनिश्चयोऽर्थानाम् , प्रभावेण प्रारम्भः, उत्साहेन निर्वहणम् । अतः पञ्चा- ङ्गमन्त्रमूलः, द्विरूपप्रभावस्कन्धः, चतुर्गुणोत्साहविटपः, द्विसप्ततिप्रकृतिपत्रः, । । । अभ्यनुज्ञाता देयत्वेन निश्चिता । आर्यया देव्या विन्ध्यवासिन्या । श्रुत्वेति । भाग्यवान सभाग्यः । अहो इत्यानन्दे । नाथः रक्षकः । अप्रीयन्त प्रीता अभूवन । वाचां वाणीनामगो- बरामीवषयाम् । हर्षावस्थामाहादसीमाम् । श्वश्रू र्यामाता ! तदहरेव तस्मिन्नेव दिवसे । प्रपन्नायामुपस्थितायां यामिन्यां रात्रौ । प्रत्यपूरयं मृत्पाषाणादिस्थापनेन नीरन्धमापादितवान् । नष्टस्य कुत्रचिददर्शनं प्राप्तस्य, मुष्टेबंद्धकरस्थितस्य च वस्तुनः चिन्तायां प्रश्नविचारे सति कथनैः प्रत्युत्तरदानैः । अभ्युपायान्तरेण अन्येनोपायेन ज्योतिःशास्त्रपारज्ञानेनेत्यर्थः । प्रयुक्कैः कृतैः । दिव्यांशतामेव अपूर्वपुरुषतामेव । समर्थयमानो निश्चिन्वानः । नात्यवर्तत नैवोल्लंघया- मास । आर्यायाः देव्याः पुत्रः इति । प्रसिद्धिः प्रख्यातिः । गुणवति लमतारादिशुद्धिमति । अहनि दिवसे । भद्राकृतं मुण्डितम् । मद्रात्परिवापणे' इति सूत्रे 'भद्राच्चति वक्तव्यम्' इति बार्तिकेन डाच् । उपनाय्य यज्ञोपवीतसंस्कार कारयित्वा । पाठयन्नध्यापयन् । नीति राजनीतिम् । राज्यामिति । राज्ञो भावः कर्म वा । गुणवचनब्राह्मणादिभ्यः कर्माणे च इतिष्यञ् । शक्ति- त्रयस्य वक्ष्यमाणरूपस्यायत्तमधीनम् । 'अधीनो निन्न आयत्तः' इत्यमरः । मन्त्रप्रभावोत्साहास्त- दुक्कममरकारेण-'शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः' इति । परस्परमन्योन्यमनुगृहीता सहकृताः। कृत्येषु संधिविग्रहादिकार्येषु । क्रमन्ते समर्था भवन्ति न तु शक्तिमेकां विहायाभ्यां कृतसंपादन भवतीति भावः । तदेवोपपादयति-मन्त्रेणत्यादिना । अर्थानां कर्तव्याकर्तव्यकार्याणां विनि- श्चयो निर्धारणम् । प्रारम्भः कार्योपक्रमः । निर्वहणं कार्यसिद्धिलम्भनम् । पञ्चाङ्गोऽङ्गपञ्चकयुक्तो मन्त्र एव मूलं यस्यैवंविधः । अङ्गपञ्चकं च-सहायाः साधनोपाया विभागो देशकालयोः । विप- तेश्च प्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते॥' इति कामन्दकशास्त्रे स्पष्टम् । द्विरूपः 'स प्रतापः प्रभा. वश्च यत्तेजः कोशदण्डजम्' इत्यमरोक्तविधया कोशजन्यदण्डजन्यत्वरूपभेदद्वययुक्तो यः प्रभावः प्रतापः स एव स्कन्धो यस्यैवंविधः । चतुर्गुणो य उत्साहः स एव विटपाः शाखा यस्यैर्वरूपः ।

BREA ३५८ থালাহুবিন্দু। है [उत्तरपीठिकायाम् षड्गुणकिसलयः, शक्तिसिद्धिपुष्पफलश्च, नयवनस्पतिर्नेतुरुपकरोति । स चाय- मनेकाधिकरणत्वादसहायेन दुरुपजीव्यः । यस्त्वयमार्यकेतुर्नाम मित्रवर्ममन्त्री स कोसलामिजनत्वात्कुमारमातृपक्षो मन्त्रिगुणैश्च युक्तः तन्मतिमवमत्यैव ध्वस्तो मित्रवर्मा, स चेल्लब्धः पेशलम् ात । अथ नालीजचं रहस्यशिक्ष- यम्-'तात, आर्यमार्यकेतुमेकान्ते ब्रूहि-' को न्वेष मायापुरुषो य इमां राज्य- लक्ष्मीमनुभवति, स चायमस्मद्वालो भुजङ्गेनामुना परिगृहीतः । किमुद्गीर्यंत प्रत्येत वा' इति । स यद्वदिष्यति तदस्मि बोध्यः' इति । सोऽन्यदैवं मामा- बेदयत्-' मुहुरुपास्य प्राभृतैः, प्रवर्त्य चित्राः कथाः, संवाह्य पाणिपादम्, अति- विस्तम्भदत्तक्षणं तमनाक्षं त्वदुपदिष्टेन नयेन । साऽप्येवमकथयत्- भद्र, मैवं वादीः। अभिजनस्य शुद्धिदर्शनम् , असाधारणं बुद्धिनैपुणम् , अतिमानुषं प्राणवलम् , अपरिमाणमौदार्थम् , अत्याश्चर्यमस्त्रकौशलम् , अनल्पं शिल्पज्ञानम् , PATAN । । द्विसप्ततिः प्रकृतयः प्रजा एव पत्राणि दलानि यस्यैवविधः । षड्गुणाः सन्धिर्ना विग्रहो यान- भासनं द्वैधमाश्रयः' इत्युक्तरूपा एव किसलयानि नूतनपल्लवा यस्यैतादृशः । शक्तयः सिद्ध- यश्च तित्रः पुष्पाणि फलानि च क्रमेण यस्यैवविधः । नयो राजनीतिरेव वनस्पतिक्षविशेषः । नेतुः नीत्यनुसारेण वर्तमानस्य राज्ञः । स च नयवनस्पतिः । अनेकाधिकरणत्वाद्बह्वाश्रयतया । असहायेनैकाकिना ! दुरुपजीविन्यो दुःखेनाप्युपजीवितुमशक्यः । यत्स्विति । मित्रवर्मणो माहिष्मतीभूतपूर्वराजस्य मन्त्री सचियः । कोसलाभिजनत्वात्कोसलदेशसंभूतत्वात् । कुमारस्य भास्करवर्मणो मातुर्वसुन्धरायाः पक्षः सहायभूतः । युक्तः संपन्नः । तस्यार्यकेतोर्मति बुद्धिम् । अवमत्य तिरस्कृत्य । ध्वस्तो विनष्टः । स आयकतुश्चेद्यदि लब्धोऽस्माभिवंशी- कृतः । पेशलं युक्ततरं भवेदित्यथः । तातेति पूज्यं प्रति सम्बोधनम् । न्विति वितर्के । माया- पुरुषः कपटी मनुष्यः । अस्मद्वालोऽस्माकं राजकुमार भास्करवर्मा । भुजङ्गेन विटेन सर्पण च।' भुजङ्गो विटसर्पयोः' इत्यमरः । उद्गीर्यंत परित्यको भवेत् । अस्येत भक्षिता वा भवेत्। स आर्यकेतुः । स नालीजंघः । अन्यदा अन्यस्मिन्काले । “सबकान्यायित्तदः काले दा इति दाप्रत्ययः । आवेदयविज्ञापयामास । मुहुरसकृत् । प्रामृतैरुपहारैः। 'प्राभृतं तु प्रदेशनम् । उपायनमुपग्राह्यम् ' इत्यमरः । प्रवर्त्य कथयित्वा ।।चत्रा मनोहारिणीः। संवाह्य मर्दयित्वा । पाणिपादं पाणी च पादौ च । 'द्वन्दुश्च प्राणितूर्य-' इत्येकशेषः । अतिवित्रम्भेण मथ्यतितरां विश्वासेन दत्तक्षणं वितीर्णप्रश्नावसरम् । तमार्यकेतुम् । त्वयोपदिष्टेन नयेन नीतिमार्गेण । सोऽप्यार्यकेतुः । एवं वक्ष्यमाणप्रकारेण । मैवं वादीः कपटपुरुषत्वेन नैव स विचारणीय इति भावः । अभिजनस्य वंशस्य । असाधारणमनन्यजनसमानम् ।औदार्य दातृभावः । ' उदारो दातृमहतो इत्यमरः । अस्त्रकाशलं शस्त्रचातुर्यम् । अनल्पं महत् । शिल्पज्ञानं शिल्पपरिचयः । । ।

- अष्टमोच्छ्रासः] मनोरमाख्यव्याख्यासहितम् । अनुग्रहादै चेतः, तेजश्चाप्यविषयमभ्यमित्रीणम् , इत्यस्मिन्नेव संनिपातिनो गुणाः येऽन्यत्रैकैकशोऽपि दुर्लभाः। द्विषतामेष चिरबिल्वद्रुमः, प्रह्वाणां तु चन्दनतरुः, तमुद्धृत्य नीतिज्ञमन्यमश्मकमिमं च राजपुत्रं पित्र्ये पदे प्रतिष्ठित- मेव विद्धि । नात्र संशयः कार्यः' इति । तच्चापि श्रुत्वा भूयोभूयश्चोपदाभि- विशोध्य त मे मतिसहायमकरवम् । तत्सखश्च सत्यशौचयुक्तानमात्यान्वि- विधव्यञ्जनांश्च गूढपुरुषानुदपादयम् । तेभ्यश्चोपलभ्य लुब्धसमृद्धमत्युत्सिक्त- मविधेयप्रायं च प्रकृतिमण्डलमलुब्धतामाभिख्यापयन , धार्मिकत्वमुद्भावयन् , नास्तिकान्कदर्थयन् , कण्टकान्विशोधयन् , अमित्रोपधीनपनन्, चातुर्वर्ण्य च स्वधर्मकर्मसु स्थापयन् , अभिसमाहरेयमानर्थमूला हि दण्डविशिष्टकारम्भा नं चान्यदस्ति पापिष्ठं तत्र दौर्बल्यात् , इत्याकलय्य योगानन्वतिष्ठम् । अनुप्रहाई सकृपम् । चेतो मानसम् । तेजः प्रभावः । अविषां शत्रुभिर्दुःसहमित्यर्थः । अभ्य- मित्रीणः शत्रुपक्षे प्रसरणशीलम् । 'यो गच्छत्यालं विद्विषतः प्रति । सोऽभ्यमियोऽभ्यमित्री योऽप्यन्वमित्रीण इत्यपि इत्यमरः । 'अभ्यमित्राच्छ च' इति सूत्रे चात्खः । इति पूर्वोक्ताः कुलीनत्वादयो गुणाः । संनिपातिनः समानाधिकारवर्तिनः । अन्योतरपुरुषेषु । एकैकशोऽपि प्रत्येकमपि । दुर्लभा दुर्दर्शाः। द्विषतां शत्रूणाम् । चिरबिल्वद्रुमो विषवृक्षविशेषः। प्राणां विनय- वताम् । उदृत्य निर्मूल्य । नीतिज्ञोऽहमित्यभिमानवानीतिज्ञमन्यः । 'आत्ममाने खच' इति खशि 'अरुषिदजन्तस्य मुम्' इति मुम् । अश्मक वसन्तभानुम् । इमं राजपुत्रं भास्करवर्माणम् । पित्र्ये पितुरनन्तवर्मण आगते । तत आगतः' इत्यधिकारे “पितुर्यच्च' इति यत् । पदे स्थाने राजसिंहासन इत्यर्थः । विद्धि जानीहि । अत्र विषयेऽस्मिन् । तच्चेति । नालीजंघोक्त- मायकेतोर्मयि सदभिप्रायम् । उपदाभिरूपायनैः । विशोध्य परितुष्टं विधाय । तमार्यकेतुम् मतिसहायं मन्त्रिणम् । 'मन्त्री धीसचिवोऽमात्यः' इत्यमरः । अकरवं कृतवान् । तस्य सखा मित्रस्थानमापनस्तत्सखः । राजाहःसखिभ्यष्टच ' इति टच । सत्य यथार्थभाषणम् । शौचं शुद्धस्वभावस्ताभ्यां युक्तान् । विविधानि नानाप्रकाराणि व्यञ्जनानि लक्षणानि येषामेव- भूतान । गूढपुरुषांश्चारान् । उपपादयं संगृहीतवान् । तेभ्यो गूढपुरुषेभ्यः सकाशात् । उप- लभ्य ज्ञात्वा । लुब्धैर्धनकृपणैः समृद्धं संपूर्णम् । अत्युत्सितमतिगर्वयुक्तम् । अविधेया विनय- रहितास्तत्प्रायं तद्बहुलम् । प्रकृतिमण्डलं प्रजासमुदायम् । अलुब्धतां धनाशाराहित्यम् । अभि- ख्यापयन्प्रसिद्धीकुर्वन् । धर्म चरतीति धार्मिकः । ठक्प्रत्ययः । तस्यभावमुद्भावयन्प्रकटयन् । नास्तिकानीश्वरचिन्तारहितान् । 'अस्ति नास्ति दिष्टं मतिः ' इति ठक् ! कदर्थयन्कुत्सयन् । कण्टकान्वैरिणः । विशोधयन्दूरीकुर्वन् । अमित्राणामरीणामुपान् कपटानपन्नन्प्रतिकुर्वन् । चातु- वयं ब्राह्मणादिवर्गचतुष्टयम् । स्वार्थे व्यञ् । स्वधर्मकर्मसु निजनिजधर्मकार्येषु । स्थापयन स्थिरीकुर्वन् । अभिसमाहरेयं सांचनुयाम् । अर्थान्धनानि । अर्थमूला द्रव्यायत्ताः । पापिष्ठ- मतिपापम् । तत्र धनविषये । दौर्बल्याहुर्बलभावात् । आकलथ्य विचार्य । योगान् धनसंग्रह- गोपायान् । 'योगः सन्नहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । अन्वतिष्ठमाचरामि स्म । । ।

दशकुमारचरितम्। [उत्तरपीठिकावान् व्यचिन्तयं च सर्वोऽप्यतिरः सेवकवर्गों मयि तथानुरक्तो यथाज्ञया जीवितमपि तृणाच मन्यते । राज्यद्वितयसैन्यसामग्र्या च नाहमश्मकेशाद्वसन्त- भानोन्यूँनी नीत्याविष्टश्च ! अतो वसन्तभानुं पराजित्य विदर्भाधिपतेरनन्तवर्मण- स्तनयं भास्करवाणं पित्र्ये पदे स्थापयितुमलमस्मि । अयं च राजसूनुर्भ- वान्या पुत्रत्वेन परिकल्पितः । अहं चास्य साहाय्ये नियुक्त इति सर्वत्र किंव- दन्ती संजातास्ति । अद्यापि चैतन्मत्कपटकृत्यं न केनापि विदितम् , । अत्रस्था- श्वास्मिन्भास्करवर्माण राजतनये 'अयमस्मत्स्वामिनोऽनन्तवर्मणः पुत्रो भवान्याः प्रसादादेतद्राज्यमवाप्स्यति ' इति बद्धाशा वर्तन्ते । अश्मकेशसैन्यं च राजसू- नोर्भवानीसाहाय्यं विदित्वा 'देव्याः शक्तेः पुरो न बलवती मानवी शक्तिः' इत्यस्माभिर्विग्रहे चलचित्तमिवोपलक्ष्यते । अत्रत्याश्च मौलाः प्रकृतयः प्रथममेव राजसुताभ्युदयाभिलाषिण्य इदानीं च पुनर्मया दानमानाद्यावर्जनन विश्वासिता विशेषेण राजपुत्रमेवाभिकर्ताक्षन्ति । अश्मकेन्द्रान्तरङ्गाश्च भृत्या मदीयैर्विश्वा- स्यतमैः पुरुषैः प्रभूतां प्रीतिमुत्पाद्य मदाज्ञया रहसीत्युपजता:--- यूयमस्मन्मि- त्राणि, अतोऽस्माकं शुभोदकं वचो वाच्यमेव । अत्र भवान्या राजसूनोः साहा- य्यकाय विश्रुतं विश्रुतं मां नियुज्य तद्धस्तेनाश्मकेन्द्रस्य वसन्तभानोस्तत्पक्षे स्थित्वा ये चानेन सह योत्स्यन्ति तेषामण्यन्तकातिथिभवनं विहितम् । यावदश्म- - - व्यचिन्तयमिति । अतिशूरो नितरां युद्धकुशलः । सेवकवर्गः किंकरसमुदायः । मयि विश्रुते । आज्ञया मन्नियोगेन । जीवितं प्राणानपि । तृणाय मन्यते तृणवान गणयतीत्यर्थः । 'मन्यकर्मण्यनादरे विभाषाप्राणिधु' इति चतुर्थी । राज्ययोर्मित्रधर्मानन्तवर्मराट्रियोतियस्य युगलस्य सैन्यसामग्र्या युद्धोपकरणेन । अहं विश्रुतः । न्यूनो हीनबलः । पराजित्य राज्यभ्रष्टं विधाय । तनयं पुत्रम् । पित्र्ये पितुरागते । स्थापयितुमभिषेक्तुम् । अलमस्मि शक्तोऽस्मि । भवान्या देव्या विन्ध्यवासिन्या । साहाय्ये सहायभावे । नियुक्तः आज्ञप्तः । किंवदन्ती लोक- प्रवादः । ' किंवदन्ती जनश्रुतिः' इत्यमरः । संजाता प्रसृता । अद्यापीदानीमपि । कपटकृत्यं कूटकर्म देवीमन्दिराबिले गूढरूपतया स्वयं स्थितिरूपम् । विदितमवगतम् । अवस्था विदर्भ- निवासिनः । भवान्या ईश्वर्याः प्रसादादनुग्रहात् । एतद्राज्यं विदर्भनगरम् । अवाप्स्यति अधिगमिष्यति । बद्धाशाः सतृष्णाः । पुरः समक्षम् । मानवी पुरुषसम्बन्धिनी । विद्महे रणे। चलचित्तं निराशम् । राजसुतस्य भास्करवर्मणोऽभ्युदयाभिलाषिण्य औनत्यकाक्षिण्यः । आव- जनेन वशीकरणेन । भृत्या भूतिजीविनः। प्रभूतां बहुलाम् । उपजप्ता भेदिताः । अस्माकं मित्राणि सुहृदः । शुभ उदक आगामिफलं यस्यैवविधम् । उदकः फलमुत्तरम्' इत्यमरः । वचो वाक्यम् । विश्रुतं लोकप्रसिद्धम् । नियुज्याज्ञप्य । तस्य विश्रुतस्य हस्तेन । तत्पक्षे वसन्त- भानुपक्षे । अनेन राजसूनुना सह । योत्स्यन्ति विग्रहं करिष्यन्ति । अन्तकस्य यमस्यातिथि- अष्टमोच्छासः] मनोरमाख्यव्याख्यासहितम् । केन्द्रेण स जन्यवृत्तिन जातस्तावदेनमनन्तवर्मतनयं भास्करवर्माणमनुसरिष्यथ । स वीतभयो भूयसी प्रवृत्तिमासाद्य सपरिजनः सुखन निवत्स्यति न चद्भवानी- त्रिशूलवश्यो भविष्यति । भवान्या च ममेत्याज्ञप्तमस्ति यदेकवारं सर्वेषां कथय । अतो मया युष्माभिः सह मैत्रीमवबुध्य सर्वेभ्यो गदितम्' इत्याकर्ण्य तेऽश्मकेन्द्रा- न्तरङ्गभृत्या राजसूनाभवानीवरं विदित्वा पूर्वमेव भिन्नमनस आसन् । विशेष- तश्च मदीयमिति वचनं श्रुत्वा ते सर्वेऽपि मद्वशे समभवन् । एनं सर्वमपि वृत्ता. न्तमवबुध्याश्मकेशन व्यचिन्ति--'यद्राजसूनोमौलाः प्रजास्ताः सर्वा अप्येनमेव प्रमुमभिलषन्ति । मदीयश्च बाह्य आभ्यन्तरो भृत्यवर्गो भिन्नमना इव लक्ष्यते । एवं यद्यहं क्षमामवलम्ब्य गृह एव स्थास्यामि तत उत्पन्नोपजापं स्वराज्यमपि परित्रातुं न शक्ष्यामि । अतो यावता भिन्नचित्तेन मदवबोधकं प्रकटयता मदलेन सह मिथोवचनं न संजातं तावतैव तेन साकं विग्रहं रचयामि इत्येवं विहिते सोऽवश्यं मद्धेन क्षणमवस्थास्यते । इति निश्चित्यान्यायेन परराज्यक्रमणमाप- परितः ससैन्यो मृत्युमुखभिवास्मल्सैन्यमभ्ययात् । तमभ्यायान्तं विदित्वा राजपुत्रः पुरोऽभवत् । अतोऽश्मकेन्द्रमेव तुरगाधिरूढो यान्तमभ्यसरम् । तावन् सर्वा एव तत्सेना ' यदयमेतावतोऽपरिमितस्यास्मत्सैन्यस्योपर्येक एवाभ्याग- । । । भवनं मरणमिति भावः । विहितं देव्या कृतमित्यर्थः । जन्यवृत्तिर्युवृत्तान्तः । 'बुद्रमायोजन जन्यम् ' इत्यमरः । तावाद्धात्पूर्वमेव । अनुसरिष्यथ अनुयात । स य एवं भास्करवर्माणम- नुसरति सः। वीतभयो निर्भयः । भूयसी बहुलाम्। प्रवृत्तिं जीविकाम् । आसाद्य प्राप्य । भवा- न्यास्त्रिशूलस्य वश्यो वशगो वध्य इति यावत् । एकवारं सकृत् । कथय निवेदय । मैत्री सुहृद्भा- वम् । गदितं प्रकाशितम् । आकर्ण्य श्रुत्वा । भवान्या वरमनुग्रहम् । भिन्नमनसो वसन्तभानाव- नासकचित्ताः । एनमिति। राजसूनोदेवीवरदानादिरूपम् । व्यचिन्ति चिन्ता कृता । एनमेव भास्करवर्माणमेव । प्रभु राजानमभिलषन्तीहन्ते । क्षमा शान्तिमवलम्व्य स्वीकृत्य । उत्पनोपजापं कृतभेदम् । स्वराज्यममकदेशमपि । परित्रातुं रक्षितुम् । अतो हेतोर्यावता कालेनेति शेषः । ममावबोधकं शतीयत्तादिसूचकं वाक्यम् । मम बलेन सैन्येन । मिथः पर- स्परं वचनं भाषणम् । तेन साकं भास्करवर्मणा सह । विग्रह युद्धम् । 'अस्त्रियां समरानी करणाः कलहविग्रहौ' इत्यमरः । रवयामि स्वयमुत्पादयामि । विहिते कृते सति । स राजसूनुरवश्यं नियमेन । क्षणं कञ्चित्कालमपि नावस्थास्यते युद्धे मत्पुरतः स्थातुं नैव शक्कोतीत्यर्थः । 'समव- प्रविभ्यः स्थः' इत्यात्मनेपदम् । अन्यायेन दुर्नीत्या । परस्यानन्तवर्मणः राज्यक्रमणेन राज्या- भियोगेन जनितं यत्पापं तेन प्रेरितो नियोजितः। मृत्युमुखमन्तकाननमिव । अभ्यायान्तं युद्धार्थमभिमुखमागच्छन्तं तं वसन्तभानुम् । पुरः संमुखे । तुरगाधिरूढोऽचारूढः । तत्सेना ।

दशकुमारचरितम् । [उत्तरपीठिकायान् । च्छति तत्र भवानीवर एवासाधारणं कारणं नान्यत् ' इति निश्चित्यालेख्यालि- खिता इवावस्थिताः । ततो मयाभिगम्य संगराय समाहूतो वसन्तभानुः समेत्य मामसिग्रहारेण दृढमभ्यहन् । अहं च शिक्षाविशेषविफलिततदसित्रहारः प्रतिप्र- हारेण तं ग्रहत्यावकृत्तमश्मकेन्द्रशिरोऽवनौ विनिपात्य तत्सैनिकानवदम्-'अतः परमपि ये युयुत्सवो भवन्ति ते समेत्य मया युध्यन्ताम् । न चेद्राजतनय- चरणप्रणामं विधाय तदीयाः सन्तः स्वस्ववृत्त्युपभोगपूर्वकं निजान्निजानधिकारा- निःशङ्कं परिपालयन्तः सुखेनावतिष्ठन्तु ' इति । मद्वचनश्रवणानन्तरं सर्वेऽप्य- श्मकेन्द्रसेवकाः स्वस्ववाहनात्सहसावतीर्य राजसूनुमानम्य तद्वशवर्तिनः समभ- वन् । ततोऽहं तदुश्मकेन्द्रराज्यं राजसूनुसाद्विधाय तद्रक्षणार्थ मौलान्स्वानधि- कारिणो नियुज्यात्मीभूतेनाश्मकेन्द्रसैन्येन च साकं विदर्भानभ्येत्य राजधान्यां तं राजतनयं भास्करवर्माणमभिषिच्य पित्र्ये पदे न्यवेशयम् । एकदा च मात्रा वसुन्धरया सहावास्थितं तं राजानं व्याजज्ञपम्-'मयैकस्य कार्यस्यारम्भश्चिकीर्षितोऽस्ति । स यावन्न सिद्धयति तावन्मया न कुत्राप्ये- कत्रावस्थातुं शक्यम् । अत इयं मद्भार्या त्वद्भगिनी मञ्जुवादिनी कियन्त्यहानि युष्मदन्तिकमेव तिष्ठतु । अहं च यावदिष्टजनोपलम्भ कियन्तमप्यनेहसं भुवं विभ्रम्य तमासाद्य पुनरत्र समेष्यामि' इत्याकर्ण्य मात्रानुमतेन राज्ञाहमगादि- 'यदेतदस्माकमेतद्राज्योपलम्भलक्षणस्यैतावतोभ्युदयस्यासाधारणो हेतुर्भवानेव । वसन्तभानुचमूः । एतावत इयत्परिमितस्य । भवानीवरः देव्यनुग्रहः । आलेख्यलिखिता- श्चित्रिताः। संगराय युद्धाय । दृढं बलवत् । अभ्यहस्ताडयामास । शिक्षाविशेषेणाभ्यासपाटवेन विफलितो व्यर्थीकृतः तस्य वसन्तभानोरसिप्रहारो येनैवंविधः । अवकृत्तं छिन्नम् । अवनी भूतले । युयुत्सवो रणकामुकाः । तदीयास्तद्वचस्कराः । स्वस्ववृत्तेर्निजनिजजीविकाया उपभोग- पूर्वकमनुभवपुरःसरम् । सहसाऽऽशु । आनम्य नमस्कृत्य । राजसूनो स्करवर्मणोऽधीनं राज. सूनुसात् । तस्याश्मकराज्यस्य रक्षणार्थ परिपालनार्थम् । स्वानात्मीयान् । अभ्येत्य पुनरागत्य । अभिषिच्य राज्याभिषेकं कृत्वा । न्यवेशयं प्रतिष्ठापयामास । एकदेति । भास्करवर्मणः पित्र्ये पदे स्थापनानन्तरम् । अवस्थितं वर्तमानम् । राजानं भास्करवर्माणम् । मया विश्रुतेन । एकस्य कार्यस्य सुहृदन्वेषणरूपस्येत्यर्थः । चिकीर्षितः कर्तुं प्रतिज्ञातः । अवस्थातुं निवसितुम्। कियन्त्यहानि कानिचिद्दिनानि । युष्माकमन्तिकं समीपे । यावदिष्टजनोपलम्भं सुहृदो राजवाहनस्य दर्शनावधि । अनेहसं कालम् । ' कालो दिष्टोऽप्यने- हाऽपि समयः' इत्यमरः । तं सुहृदं राजवाहनमासाद्य प्राप्य । समेष्यामि प्रत्यागमिष्यामि अगाभिहितः । एतदाज्यत्व विदर्भनगरस्योपलम्भः पुनराप्तिः तल्लक्षणस्य तद्रूपस्य । अभ्युद्- । www.ganawmummy Viram Voin

No text on this page.

वाहनं शिवपूजार्थ निशि शिवालये स्थितं प्रातरनुपलभ्यावशिष्टाः सर्वेऽपि दशकुमारचरितम् । अथ कथोपसंहारः। ततस्ते तत्र संगता अपहारवर्मोपहारवर्मार्थपालप्रमतिमित्रगुप्तमन्त्रगुप्त- विश्रुताः कुमाराः पाटलिपुरे यौवराज्यमुपभुञ्जानं समाकारणे पूर्वकृतसंकेतं वामलोचनया भार्यया सह कुमारं सोमदत्तं सेवकैरानाय्य सराजवाहनाः संभूयावस्थिता मिथः सप्रमोदसंबलिताः कथा यावद्विधति तावत्युप्पपुरा- द्राज्ञो राजहंसस्याज्ञापत्रमादाय समागता राजपुरुषाः प्रणम्य राजवाहनं व्यजिज्ञपन्-* स्वामिन, एतजनकस्य राजहंसस्याज्ञापत्रं गृह्यताम् ' इत्याकर्ण्य समुत्थाय भूयोभूयः सादरं प्रणम्य सदसि तदाज्ञापत्रमग्रहीत् । शिरसि चाधाय तत उत्तार्योत्कील्य राजा राजवाहनः सर्वेषां शृण्वतामेवावाचयत्-'स्वस्ति श्रीः पुष्पपुरराजधान्याः श्रीराजहंसभूपतिश्चम्पानगरीमधिवसतो राजवाहनप्रमुखान् कुमारानाशास्याज्ञापत्रं प्रेषयति । यथा यूयमितो मामामन्त्र्य प्रणम्य प्रस्थिताः पथि कस्मिंश्चिद्वनोदेश उपशिवालयं स्कन्धावारमवस्थाप्य स्थिताः । तत्र राज- अथ कथोपसंहारः। तत इति । उत्तरपीठिकायाः प्रथमोडासोत्तरीत्या राजवाहनस्य स्वपितृशत्रुमालवाधीश- मानसारकन्ययाऽवन्तिसुन्दर्या सह संगमानन्तरं स्वभगिनीदूषणेन कुपितस्य सप्तसागरमेखलाधर. गीप्राप्त्यर्थ तपस्यतो दर्पसारस्याज्ञया तत्पैतृष्वस्त्रीयेन चण्डवर्मणा सिंहवर्मकन्याभिलाषिणा निगडितस्य चित्रवधार्थमात्मनैव साकमानीतस्याङ्गदेशं हननदिवसे मासद्वयावधिकस्य जन्मान्तरी- यस्य शापस्य विमोचनात् चण्डवर्मणश्च स्वमित्रेणैवापहारवर्मणा विनाशे जाते तत्रैवाङ्गदेशे सर्वे- पामपि मित्राणां समागमनेन हृष्टस्य तत्तन्मित्रवृत्तान्तश्रवणानन्तरम् । तत्राङ्गदेशे । संगताः संमिलिताः। उपभुञ्जानमनुभवन्तम् । समाकारणे आह्वाने । संभूयैकत्रीभूय । संप्रमोदसंवलिताः आनन्दरसभरिताः । आज्ञापत्रं निदेशलेखनम् । व्यजिज्ञपन्विज्ञापयामासुः । समुत्थाय पितार गौरवात् अभ्युत्थानं कृत्वा । सदसि अपहारवर्मादिमित्रगणगाष्ठयाम् । आधाय धृत्वा । उत्कील्य उद्घाट्य । शृण्वतामाकर्णयताम् । अवाचयत्पपाठ । स्वस्ति कल्याणमास्त्विति शेषः। श्रीः लक्ष्मीः । तस्याः कटाक्षावलोकनं सदा युष्मासु भवत्विति यावत् । चम्पानगरीमङ्गदेशराजधानीम् । 'अधि. शीस्थासां कर्म ' इति कर्मता । आशास्याशीर्वादं कृत्वेत्यर्थः । इतोऽस्माकं राजधान्याः पुष्प पुर्याः सकाशात् । पथि मार्गे । उपशिवालयं महादेवमन्दिरसमीपे । 'अव्ययं विभक्ति-' । १ पूर्वपीठिकायां द्वितीयोच्छ्वासे राजवाहनस्य मातजाभिधब्राह्मणस्य साहाय्याथै पातालगत - त्वेन वर्णनादत्र च शिवपूजार्थ शिवालये स्थितिवर्णनं पूर्वापरविरुद्धमिवाभाति । अत एव चास्यो- पसंहारस्य न दण्डिकृतत्वमिति केषांचिन्मतम् ।

कथोपसंहारः। कुमाराः ' सहैव राजवाहनेन राजहंस प्रणंस्यामो न चेत्प्राणांस्त्यक्ष्यामः' इति प्रतिज्ञाय सैन्यं परावर्त्य राजवाहनमन्वेष्टुं पृथक्प्रस्थिताः । एतं भवद्वृत्तान्तं ततः प्रत्यावृत्तानां सैनिकानां मुखादाकासह्यदुःखोदन्वति मग्नमनसावुभावहं युष्म- जननी च ‘वामदेवाश्रमं गत्वैतद्वृत्तान्तं तद्विदितं विधाय प्राणपरित्यागं कुर्वः' इति निश्चित्य तदाश्रममुपगतौ तं मुनिं प्रणम्य यावस्थितौ तावदेव तेन त्रिका- लवेदिना मुनिना विदितमेवास्मन्मनीषितम् । निश्चयमवबुध्य प्रावाचि-'राजन्, प्रथममेवैतत्सर्वं युष्मन्मनीषितं विज्ञानबलादज्ञायि । यदेत त्वत्कुमारा राज- वाहननिमित्ते कियन्तमनेहसमापदमासाद्य भाग्योदयादसाधारणेन विक्रमेण विहितदिग्विजयाः प्रभूतानि राज्यान्युपलभ्य षोडशाब्दान्ते विजयिनं राजवा० हनं पुरस्कृत्य प्रत्येत्य तव वसुमत्याश्च पादानभिवाद्य भवदाज्ञाविधायिनो भवि- प्यन्ति । अतस्तन्निमित्तं किमपि साहसं न विधेयम्' इति । तदाकर्ण्य तत्प्रत्य- याद्धैर्यमवलम्ब्याद्यप्रभृत्यहं देवी च प्राणमधारयाव । इदानीमासन्नवर्तिन्यवधौ वामदेवाश्रमे गत्वा विज्ञप्तिः कृता- स्वामिन् , त्वदुक्तावधिः पूर्णप्रायो भवति तत्प्रवृत्तिस्त्वयाद्यापि विज्ञायते' इति । श्रुत्वा मुनिरवदत्-' राजन् , राजवाहन- प्रमुखाः सर्वेऽपि कुमारा अनेकान्दुर्जयाञ्शत्रून्विजित्य दिग्विजयं विधाय भूव- लयं वशीकृत्य चम्पायामेकत्र स्थिताः । तवाज्ञापत्रमादाय तदानयनाय प्रेष्यन्ता शीघ्रमेव सेवकाः' इति मुनिवचनमाकर्ण्य भवदाकारणायाज्ञापत्रं प्रेषितमस्ति । अतःपरं चेत्क्षणमपि यूयं विलम्ब विधास्यथ ततो मां वसुमती च मातरं कथाव- शेषावेव ओव्यथेति ज्ञात्वा पानीयमपि पाथ भूत्वा पेयम्' इति । एवं पितुरा- ज्ञापत्रं मूनि विधृत्य गच्छेमेति निश्चयं चक्रुः । अथ वशीकृतराज्यरक्षापर्याप्तानि सैन्यानि समर्थतरान्पुरुषानाप्तास्थाने स्थाने नियुज्य कियता सैन्येन मार्गरक्षा इत्यव्ययीभावः । स्कन्धावारं सैन्यनिवहम् । अनुपलभ्य न दृष्टा । परावर्त्य निवर्त्य । पृथक प्रत्येकतः । दुःखोदन्वति विषादसागरे । ' उदन्वानुदधिः सिन्धुः' इत्यमरः । युष्माकं जननी वसुमती । तद्विदितं वामदेवमहर्षिणा झातम् । तं मुनि वामदेवम् । त्रिकालवेदिना भूतभविष्य- द्वर्तमानज्ञानवता । विदितं ज्ञातम् । अस्माकं मनीषितं वाञ्छितम् । निश्चयं प्राणपरित्यागविषये इत्यर्थः । विज्ञानबलाद्योगबलात् । अज्ञाव्यवगतम्। अनेहसं कालम् । आसाद्य प्राप्य । विक्रमेण प्रतापेन । प्रभूतानि बहूनि । उपलभ्य स्वाधीनं विधाय । प्रत्येत्य पुनरागत्य । आज्ञाविधायिनः आज्ञाकारिणः । किमपि साहसं प्राणत्यागरूपं कर्म । तस्य वामदेवस्य प्रत्ययात् यथार्थभाष्य- यामति विश्वासात् । आसन्नवार्तनि समीपस्थिते अवधौ षोडशाब्दरूपमर्यादायाम् । विज्ञप्तिनि- वेदना । तत्प्रवृत्तिः तेषां कुमाराणां वृत्तान्तः आकारणायाह्वानाय । विलम्ब कालातिवाहनम् । कथावशेषो मृताविति यावत् । पानीयं जलमपि । प्रस्थानानन्तरमेवेति भावः । मूर्ध्नि मस्तके । । ?

दशकुमारचरितम् । [ उत्तरपीठिकायान् ___ च्छति तत्र भवानीवर एवासाधारण कारणं नान्यत्' इति निश्चित्यालेख्याल- खिता इवावस्थिताः । ततो मयाभिगम्य संगराय समाहूतो बसन्तभानुः समेत्य मामसिप्रहारेण दृढमभ्यहन् । अहं च शिक्षाविशेषविफलिततदसिग्रहारः प्रतिप्र- हारेण तं ग्रहत्यावकृत्तमश्मकेन्द्रशिरोऽवनौ विनिपात्य तत्सैनिकानवदम्--'अतः परमपि ये युयुत्सवो भवन्ति ते समेत्य मया युध्यन्ताम् । न चेद्राजतनय- चरणप्रणामं विधाय तदीयाः सन्तः स्वस्ववृत्त्युपभोगपूर्वकं निजान्निजानधिकारा- निःशङ्कं परिपालयन्तः सुखेनावतिष्ठन्तु ' इति । मद्वचनश्रवणानन्तरं सर्वेऽप्य- श्मकेन्द्रसेवकाः स्वस्ववाहनात्सहसावतीर्य राजसूनुमानम्य तद्वशवार्तनः समभ- वन् । ततोऽहं तदश्मकेन्द्रराज्यं राजसूनुसाद्विधाय तद्रक्षणार्थ मौलान्स्वानधि- कारिणो नियुज्यात्मीभूतनाश्मकेन्द्रसैन्येन च साकं विदर्भानभ्येत्य राजधान्यां तं राजतनयं भास्करवर्माणमभिषिच्य पित्र्ये पदे न्यवेशयम् । एकदा च मात्रा वसुन्धरया सहावास्थितं तं राजानं व्याजज्ञपम्-'मयैकस्य कार्यस्यारम्भश्चिकीर्षितोऽस्ति । स यावन्न सिद्धयति तावन्मया न कुत्राप्ये- कत्रावस्थातुं शक्यम् । अत इयं मद्भार्या त्वद्भगिनी मजुवादिनी कियन्त्यहानि युष्मदन्तिकमेव तिष्ठतु। अहं च यावदिष्टजनोपलम्भ कियन्तमायनेहसं भुवं विभ्रम्य तमासाद्य पुनरत्र समेप्यामि' इत्याकर्ण्य मात्रानुमतेन राज्ञाहमगादि- यदेतदस्माकमेतद्राज्योपलम्भलक्षणस्यैतावतोभ्युदयस्यासाधारणो हेतुर्भवानेव । वसन्तभानुचमूः ३ एतावत इयत्परिमितस्य । भवानीवरः देव्यनुग्रहः । आलेख्यलिखिता- श्चित्रिताः। संगराव युद्धाय । दृढं बलवत् । अभ्यहस्ताडयामास । शिक्षाविशेषेणाभ्यासपाटवेन विफलितो व्यर्थीकृतः तस्य वसन्तभानोरसिप्रहारो यनैवंविधः । अवकृत्तं छिन्नम् । अवनी भूतले । युयुत्सवो रणकामुकाः । तदीयास्तद्वचस्कराः । स्वस्ववृत्तेनिजनिजजीविकाया उपभोग- पूर्वकमनुभवपुरःसरम् । सहसाऽऽशु । आनन्य नमस्कृत्य । राजसूनो स्करवमणोऽधीनं राज. सूनुसात् । तस्याश्मकराज्यस्य रक्षणार्थ परिपालनार्थम् । स्वानात्मीयान् । अभ्येत्व पुनरागत्य । अभिषिच्य राज्याभिषेक कृत्वा । न्यवेशयं प्रतिष्टापयामास । एकदेति । भास्करवर्मणः पित्र्ये पदे स्थापनानन्तरम् । अवस्थितं वर्तमानम् । राजान भास्करवर्माणम् । मया विश्रुतेन । एकस्य कार्यस्य सुहृदन्वेषणरूपस्येत्यर्थः । चिकीर्षितः कर्तु प्रतिज्ञातः । अवस्थातुं निवासितुम् । कियन्त्यहानि कानिचिदिनानि । युष्माकमन्तिक समीपे । यावदिष्टजनोपलम्भं सुहृदो राजवाहनस्य दर्शनावधि । अनेहसं कालम् । ' कालो दिष्टोऽप्यने- हाऽपि समयः' इत्यमरः । तं सुहृदं राजवाहनमासाद्य प्राप्य । समेष्यामि प्रत्यागमिष्यामि अगाभिहितः । एतदाज्यस्य विदर्भनगरस्योपलम्भः पुनराप्तिः तलक्षणस्य तद्रुपस्य । अभ्युद- । indian Nearn-derwardiasna अष्टमोच्छासः] मनोरमाख्यव्याख्यासहितम् । भवन्तं विना क्षणमप्यस्माभिरियं राज्यधून निर्वाया। अतः किमेवं वक्ति भवान्' इत्याकर्ण्य मया प्रत्यवादि-'युष्माभिरयं चिन्तालवोऽपि न चित्ते चिन्तनीयः। युष्मद्गृहे यः सचिवरत्नमायकेतुरस्ति स ईदग्विधानामनेकेषां राज्यानां धुरमुद्वोढुं शक्तः । ततस्तं तत्र नियुज्याहं गमिष्यामि' इत्यादिवचन- संदोहैः प्रलोभितोऽपि सजननीको नृपोऽनेकराग्रहमा कियन्तमपि कालं प्रयाणो- पक्रमात् न्यवर्तयत् । उत्कलाधिपतेः प्रचण्डवर्मणो राज्यं मह्यं प्रादात् । अहं च तद्राज्यमात्मसात्कृत्वा राजानमामन्त्र्य यावत्त्वदन्वेषणाय प्रयाणोपक्रमं करोमि तावदेवाङ्गनाथेन सिंहवर्मणा स्वसाहाय्यायाकारितोऽत्र समागतः पूर्वपुण्यपरि- पाकात्स्वामिना समगंसि' इति ।। इति श्रीदण्डिनः कृतौ दशकुमारचरिते विश्रुतचरितं नामाष्टम उच्छ्वासः ॥ ८ ॥ यस्य श्रेयसः । असाधारणो हेतुः मूलकारणम् । राज्यधू राज्यभारः । न निर्वाह्या वोढुं न शक्या । वक्ति कथयति । चिन्तालवो विचारलेशोऽपि । सचिवरत्नममात्यश्रेष्ठः । धुरं भारमु- द्वो धारयितुम् । तमायकेतुम् । तत्र राज्यनिर्वहणे । वचनसंदोहैः वाक्यकलापैः। 'समूह- निवहव्यूहसन्दोहविसरव्रजाः' इत्यमरः । प्रलोभितः समाहितः। आग्रहैर्निबन्धैः । कियन्त- मपि कालं किंचित्कालपर्यन्तम् । कालाध्वनो:-' इति द्वितीया। प्रयाणस्य भवदन्वेषणार्थ प्रस्थानस्योपक्रमादारम्भात् । न्यवर्तयन्निवारितवान् । तद्राज्यमुत्कलराज्यम् । आमन्त्र्य पृष्ट्वा । त्वदन्वेषणाय तव राजवाहनस्यान्वेषणाय मार्गणार्थम् । अङ्गनाथेनाङ्गदेशाधिपेन । स्वस्थ चण्डवर्मणा निरुद्धस्य साहाय्यकाय सहायतां कर्तुमाकारित आहूतः । अत्राङ्गदेशे । पूर्वपुण्यानों जन्मान्तरीयसुकृतानां परिपाकात्फलदानोन्मुखतया । स्वामिना भवता राजवाहनेन । समगंसि संगतोऽभूवम् । इति श्रीदशकुमारचरितव्याख्यायां मनोरमाख्यायामटमोच्छासः समाप्तः ॥ ८ ॥ । मसात् मान - ram satyaMINiu-maina MAHARASHTRADABHANDARITH ENA ভুয়াৰিল। अथ कथोपसंहारः। ततस्ते तत्र संगता अपहारवर्मोपहारवार्थपालप्रमतिमित्रगुप्तमन्त्रगुप्त- विश्रुताः कुमाराः पाटलिपुरे यौवराज्यमुपभुञ्जानं समाकारणे पूर्वकृतसंकेतं बामलोचनया भार्यया सह कुमारं सोमदत्तं सेवकैरानाय्य सराजवाहनाः संभूयावस्थिता मिथः सप्रमोदसंबलिताः कथा यावद्विधति तावत्पुप्पपुरा- द्राज्ञो राजहंसस्याज्ञापत्रमादाय समागता राजपुरुषाः प्रणम्य राजवाहनं व्यजिज्ञपन्-' स्वामिन, एतज्जनकस्य राजहंसस्याज्ञापत्रं गृह्यताम् ' इत्याकर्ण्य स समुत्थाय भूयोभूयः सादरं प्रणम्य सदसि तदाज्ञापत्रमग्रहीत् । शिरसि चाधाय तत उत्तार्योत्कील्य राजा राजवाहनः सर्वेषां शृण्वतामेवावाचयत्- स्वस्ति श्रीः पुप्पपुरराजधान्याः श्रीराजहंसभूपतिश्चम्पानगरीमधिवसतो राजवाहनप्रमुखान् कुमारानाशास्याज्ञापत्रं प्रेषयति । यथा यूयमितो मामामन्त्र्य प्रणम्य प्रस्थिताः पथि कस्मिंश्चिद्वनोदेश उपशिवालयं स्कन्धावारमवस्थाप्य स्थिताः । तत्र राज- बाहनं शिवपूजार्थं निशि शिवालये स्थितं प्रातरनुपलभ्यावशिष्टाः सर्वेऽपि अथ कथोपसंहारः। तत इति । उत्तरपीठिकायाः प्रथमोछासोक्तरीत्या राजवाहनस्य स्वपितृशत्रुमालवाधीश- भानसारकन्ययाऽवन्तिसुन्दर्या सह संगमानन्तरं स्वभगिनीदूषणेन कुपितस्य सप्तसागरमेखलाधर. गीप्राप्त्यर्थे तपस्यतो दर्पसारस्याज्ञया तत्पैतृष्वतीयेन चण्डवर्मणा सिंहवर्मकन्याभिलाषिणा निगडितस्य चित्रवधार्थमात्मनैव साकमानीतस्यादेशं हननदिवसे मासद्वयावधिकस्य जन्मान्तरी यस्य शापस्य विमोचनात् चण्डवर्मणश्च स्वमित्रेणैवापहारवर्मणा विनाशे जाते तत्रैवाङ्गदेशे सर्वे षामपि मित्राणां समागमनेन हृष्टस्य तत्तन्मित्रवृत्तान्तश्रवणानन्तरम् । तत्राङ्गदेशे । संगताः संमिलिताः। उपभुञ्जानमनुभवन्तम् । समाकारणे आह्वाने । संभूयैकत्रीभूय । संप्रमोदसंवलिता: आनन्दरसभरिताः । आज्ञापत्रं निदेशलेखनम् । व्यजिज्ञपन्विज्ञापयामासुः । समुत्थाय पितार गौरवात् अभ्युत्थानं कृत्वा । सदसि अपहारवर्मादिमित्रगणगोष्ठयाम् । आधाय धृत्वा । उत्कील्य उद्घाटय । शृण्वतामाकर्णयताम् । अवाचयत्पपाठ । स्वस्ति कल्याणमास्त्विति शेषः। श्री लक्ष्मीः। तस्याः कटाक्षावलोकनं सदा युष्मासु भवत्विति यावत् । चम्पानगरीमङ्गदेशराजधानीम् । 'अधि. शीड्स्थासां कर्म ' इति कर्मता । आशास्याशीर्वादं कृत्वेत्यर्थः । इतोऽस्माकं राजधान्याः पुष्प पुर्याः सकाशात् । पंथि मार्गे । उपशिवालयं महादेवमन्दिरसमीपे । 'अव्ययं विभक्ति-' १ पूर्वपीठिकायां द्वितीयोच्छासे राजवाहनत्य मातङ्गाभिधब्राह्मणस्य साहाय्यार्थ पातालगत त्वेन वर्णनादत्र च शिवपूजार्थे शिवालये स्थितिवर्णनं पूर्वापरविरुद्धमिवाभाति । अत एव चास्यो- पसंहारस्य न दण्डिकृतत्वमिति केषांचिन्मतम् । - . - । - कथोपसंहार ५ कुमाराः ' सहैव राजवाहनेन राजहंस प्रणस्यामो न चेत्प्राणांस्त्यक्ष्यामः' इति प्रतिज्ञाय सैन्यं परावर्त्य राजवाहनमन्वेष्टुं पृथक्प्रस्थिताः । एतं भवद्वृत्तान्तं ततः प्रत्यावृत्तानां सैनिकानां मुखादाकण्यासह्यदुःखोदन्वति मग्नमनसावुभावहं युष्म- जननी च ' वामदेवाश्रमं गत्वैतद्वृत्तान्तं तद्विदितं विधाय प्राणपरित्यागं कुर्वः इति निश्चित्य तदाश्रममुपगतौ तं मुनिं प्रणम्य यावस्थितौ तावदेव तेन त्रिका- लवेदिना मुनिना विदितमेवास्मन्मनीषितम् । निश्चयमवबुध्य प्रावाचि-'राजन्, प्रथममेवैतत्सर्वं युष्मन्मनीषितं विज्ञानबलादज्ञायि । यदेत त्वत्कुमारा राज- वाहननिमित्ते कियन्तमनेहसमापदमासाद्य भाग्योदयादसाधारणेन विक्रमण विहितदिग्विजयाः प्रभूतानि राज्यान्युपलभ्य षोडशाब्दान्ते विजयिनं राजवा- हनं पुरस्कृत्य प्रत्येत्य तव वसुमत्याश्च पादानभिवाद्य भवदाज्ञाविधायिनो भवि- प्यन्ति । अतस्तन्निमित्तं किमपि साहसं न विधेयम्' इति । तदाकर्ण्य तत्प्रत्य- याद्धैर्यमवलम्ब्याचप्रभृत्यहं देवी च प्राणमधारयाव । इदानीमासन्नवर्तिन्यवधौ वामदेवाश्रमे गत्वा विज्ञप्तिः कृता- स्वामिन् , त्वदुक्तावधिः पूर्णप्रायो भवति तत्प्रवृत्तिस्त्वयाद्यापि विज्ञायते इति । श्रुत्वा मुनिरवदत्-'राजन् , राजवाहन- प्रमुखाः सर्वेऽपि कुमारा अनेकान्दुर्जयाशत्रून्विजित्य दिग्विजयं विधाय भूव- लयं वशीकृत्य चम्पायामेकत्र स्थिताः । तवाज्ञापत्रमादाय तदानयनाय प्रेष्यन्ता शीघ्रमेव सेवकाः' इति मुनिवचनमाकर्ण्य भवदाकारणायाज्ञापत्रं प्रेषितमस्ति । अतःपरं चेत्क्षणमपि यूयं विलम्बं विधास्यथ ततो मां वसुमती च मातरं कथाव- शेषावेव श्रोष्यथति ज्ञात्वा पानीयमपि पथि भूत्वा पेयम्' इति । एवं पितुरा- ज्ञापत्रं मूनि विधृत्य गच्छेमेति निश्चयं चक्रुः । अथ वशीकृतराज्यरक्षापर्याप्तानि सैन्यानि समर्थतरान्पुरुषानाप्तास्थाने स्थाने नियुज्य कियता सैन्येन मार्गरक्षा इत्यव्ययीभावः । स्कन्धावारं सैन्यनिवहम् । अनुपलभ्य न दृष्ट्वा । परावर्त्य निवर्त्य । पृथक् प्रत्येकतः । दुःखोदन्वति विषादसागरे । ' उदन्वानुदधिः सिन्धुः' इत्यमरः । युष्माकं जननी वसुमती । तद्विदितं वामदेवमहर्षिणा ज्ञातम् । तं मुनि वामदेवम् । त्रिकालवेदिना भूतभविष्य- द्वर्तमानज्ञानवता । विदितं ज्ञातम् । अस्माकं मनीषितं वाञ्छितम् । निश्चयं प्राणपरित्यागविषये इत्यर्थः । विज्ञानबलाद्योगबलात् । अज्ञाघ्यवगतम्। अनेहसं कालम् । आसाद्य प्राप्य । विक्रमेण प्रतापन । प्रभूतानि बहूनि । उपलभ्य स्वाधीनं विधाय । प्रत्येत्य पुनरागत्य । आज्ञाविधायिनः आज्ञाकारिणः । किमपि साहसं प्राणत्यागरूपं कर्म । तस्य वामदेवस्य प्रत्ययात् यथार्थभाष्य- यामिति विश्वासात् । आसन्नवातिनि समीपस्थिते अवधौ षोडशाब्दरूपमर्यादायाम् । विज्ञप्तिनि- बेदना । तत्प्रवृत्तिः तेषां कुमाराणां वृत्तान्त आकारणाचाहानाय । विलम्ब कालातिवाहनम् । कथावशेषो मृताविति वावत् । पानीयं जलमपि । प्रस्थानानन्तरमेवेति भावः । मूर्षि , । । ।

२६६ दशकुमारचरितम् । । विधाय पूर्ववारण मालवेशं मानसार परााजत्य तदपि राज्यं वशीकृत्य पुष्पपुरे राज्ञो राजहंसस्य देव्या वलुमत्याश्च पादान्नमस्यामः । एवं निश्चित्य स्वस्वभार्या- संयुताः परिमितेन सैन्येन मालवेशं प्रति प्रस्थिताः । प्राप्य चोजयिनी तदैव सहायभूतैस्तैः कुमारैः परिमितेन राजवाहनेनातिबलवानपि मालवेशो मानसारः क्ष्णेन पराजिग्ये निहतश्च । ततस्तदुहितरमवन्तिसुन्दरीं समादाय चण्डवर्मणा तन्मत्रिणा पूर्व कारागृहे रक्षितं पुष्पोद्भव कुमारं सकुटुम्बं तत उन्मोचितं सह नीत्वा मालवेन्द्रराज्यं वशीकृत्य तद्रक्षणाय कांश्चित्सैन्यसाहितान्मांत्रणो नियु- ज्यावशिष्टपरिमितसैन्यसाहितास्ते कुमाराः पुष्पपुरं समेत्य राजवाहनं पुरस्कृत्य तस्य राजहंसस्य मातुर्वसुमत्याश्च चरणानभिवन्दितवन्तः । तौ च पुत्रसमागमं प्राप्य परमानन्दमधिगतौ । ततो राज्ञो वसुमत्याश्च देव्याः समक्षं वामदेवो राजवाहनप्रमुखानां दशानामपि कुमाराणामाभिलाषं विज्ञाय तानाज्ञापयत्-- भवन्तः सर्वेऽप्येकवारं गत्वा स्वानि स्वानि राज्यानि न्यायेन परिपालयन्तु । पुनर्यदेच्छा भवति तदा पित्रोश्चरणाभिवन्दनायागन्तव्यम् । इति । ततस्ते सर्वेऽपि कुमारास्तन्मुनिवचनं शिरस्याधाय तं प्रणम्य पितरौ च, गत्वा दिग्वि- जय विधाय प्रत्यागमनान्तं स्वस्ववृत्तं पृथक्पृथङ्मुनिसमक्षं न्यवेदयन् । पितरौ च कुमाराणां निजपराक्रमावबोधकान्यतिदुर्घटानि चरितान्याकर्ण्य परमानन्द- मागुताम् । ततो राजा मुनि सविनयं व्यजिज्ञपत्--'भगवन, तव प्रसादाद- स्माभिर्मनुजमनोरथाधिकमवाङ्मनसगोचरं सुखमाधिगतम् । अतःपरं मम स्वाभिचरणसंनिधौ वानप्रस्थाश्रममधिगत्यात्मसाधनमव विधातुमुचितम् । अतः पुप्पपुरराज्ये मानसारराज्ये चराजवाहनमाभषिच्यावशिष्टानिराज्यानि नवभ्यः कुमारेभ्यो यथोचितं सम्प्रदाय ते कुमारा राजवाहनाज्ञाविधायिनस्तदेकमत्या वर्तमानाश्चतुरुदधिमेखलां वसुंधरां समुद्धृत्य कण्टकानुपमुञ्जन्ति तथा विधेयं स्वामिना इति। तेषां तत्पितुर्वानप्रस्थाश्रमप्रहणोपक्रमानिषेधे भूयांसमाग्रहं विलोक्य मुनिस्तानवदत्-'भोः कुमारकाः, अयं युष्मजनक एतद्वयःसमुचिते पथि वर्त- अथेति । पितुः पत्रदर्शनानन्तरम् । नमस्यामः नमस्कुर्मः । पराजिग्ये पराजितः । 'सल्लिटोर्जे:' इति कुत्वम् । अभिवन्दितवन्तः प्राणसिषुः। तौ च वसुमतीराजहंसौ । अभिलाषं मनीषितम् । एकवारं सकृत् । आप्नुतं प्राप्तवन्तौ । वाक्च मनश्च वाङ्मनसे । 'अचतुरविचतुर--' इत्यादिना निपातितः । तयोर्गोचरं न भवतीत्येवरूपम् । अधिगतमासादितम् । आत्मसाधनं परमात्मचि- न्तनम् । यथोचितं येन येन यद्यदासादितं तत्तस्मै इति रीत्या। कण्टकाञ्छत्रून् समुद्धृत्योन्मूल्या विधेयं संपादनीयम् । तेषां राजवाहनादीनाम् । भूयांसमतिमहान्तम् । एतद्वयसः वार्धक्यस्य । - -- ।

कथोपसंहारः। मानः कायक्लेशं विनव मदाश्रमस्थो वानप्रस्थाश्रमाश्रयणं सर्वथा भवद्भिर्न निवा- रणीयः । अत्र स्थितस्त्वयं भगवद्भक्तिमुपलप्स्यते । भवन्तश्च पितृसंनिधौ न सुखमवाप्स्यन्ति' इति । महर्षेराज्ञामधिगम्य ते पितुर्वानप्रस्थाश्रमाधिगमप्रतिषे- धाग्रहमत्यजन् । राजवाहनं पुष्पपुरेऽवस्थाप्य तदनुज्ञया सर्वेऽपि परिजनाः म्वानि स्वानि राज्यानि प्रतिपाल्य स्वेच्छया पित्रोः समीप गतागतमकुर्वन् । एवमवस्थितास्ते राजवाहनप्रमुखाः सर्वेऽपि कुमारा राजवाहनाज्ञया सर्वमपि वसुधावलयं न्यायेन परिपालयन्तः परस्परमैकमत्येन वर्तमानाः पुरंदरप्रभृतिभि- रप्यतिदुर्लभानि राज्यसुखान्यन्वभूवन् । इति श्रीदण्डिनः कृतौ दशकुमारचरिते कथोपसंहारः । AMAN इति श्रीमहामहोपाध्यायकविकुलसार्वभौमनिखिलविद्याकुमुदिनी- शर्वरीधरसरस्वतीनिःश्वसितकविदण्डिपण्डित- विरचितं दशकुमारचरितं संपूर्णम् ॥ समुचिते योग्थे । कायक्लेशं शरीरायासम् । पितृसनिधौ तत्समक्षम् । तत्र संकोचादिति भावः । बसुधावलयं भूमण्डलम् । न्यायेन मन्वादिप्रणीतराजनीत्यनुसारेण । एकाऽविभिन्ना मतिर्येषां ते एकमतयस्तेषां भावेन । पुरन्दरप्रभृतिभिरिन्द्रादिभिरपि । अन्वभूवन्ननुभवन्ति स्म ॥ इति श्रीदण्डिनः कृतेर्दशकुमारचरितस्य श्रीयुतकाशीवास्तव्यकण्वशाखीयपण्डितपौरा- णिकोपाख्य-पाण्डुरङ्गाचार्यात्मजेन काशीस्थराजकीयप्रधानसंस्कृतपाठशालातो लब्धव्याकरणाचार्य-पोष्टाचार्यपदवीकेन कृष्णशास्त्रिणा विरचिता कयो- पसंहारव्याख्या मनोरमाख्या संपूर्णा ॥ शुभमस्तु Ramunwarwasena पुस्तक मिलनेका ठिकाना-- गङ्गाविष्णु श्रीकृष्णदास, खेमराज श्रीकृष्णदास, "लक्ष्मीवेंकटेश्वर " स्टीम-प्रेस, "श्रीवेंकटेश्वर" स्टीम-प्रेस, कल्याण-बंबई. खेतवाडी-दंबई.

Dasakumaracharita

Author
Pt. Harihar Shastri
Title
Dasakumaracharita
File name
Dasakumaracharita
Text
OCR done
Publisher
Gangavishnu Shrikrishnadas Bombay
Language
Sanskrit
Pages
275
Library
Bharti Bhawan Library Allahabad
DLI number
272818
Barcode
5990010894158.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
EDC9qvPhayi
Download PDF

Dasakumaracharita