Allahabad University
Rasayan Khand
Front matter
आयुर्वेदीयग्रन्थमाका
दशमं पुष्पम् ।
श्रीनित्यनाथसिद्धविरचितो
रसरत्नाकरान्तर्गतश्चतुर्थों
रसायनखण्डः।
आचार्योपाहून त्रिविक्रमात्मजेन यादवशर्मणा
संशोधित: प्रकाशितश्च ।
AYURVEDIYA-GRANTHAMALA.
No. 10.
RASAYANAKHANDA
FOURTH PART OF
RASARATNAKARA.
BF
SHRINITYANATHASIDDHA.
EDITED BY
JADAVJÎ TRICUMJI ÂCHÂRYA,
372, BORA BAZĀR STREET, FORT, BOMBAT.
1913A.D.
Price8 anmas
Printed by R. Y. Shedge, at the Vimaya-agar' Press,
23, Kolbhat Line, Bombay and published by
Vaidya Jadavji Tricumji Acharya,
372, Bora Bazar Street,
Fort, Bombay.
निवेदनम् श्रीनित्यनाथसिद्धविरचितो रसरत्नाकरः रसखण्ड-रसेन्द्रखण्ड-वादि- खण्ड-रसायनखण्ड-मन्त्रखण्डाख्यः पञ्चभिः खण्डविभक्तः । यदुक्तं खेनैव ग्रन्था- रम्भे,-"पञ्चखण्डमिदं शास्त्रं साधकानां हितं प्रियम् । रसखण्डे तु वैद्यानां व्या- धितानां रसेन्द्रके॥ वादिनां वादखण्डे च वृद्धानां च रसायने । मत्रिणां मत्र- खण्डे च रससिद्धिः प्रजायते" इति । तेष्वेतावत्पर्यन्तं रसखण्डो सेन्द्रखण्डश्चेति खण्डद्वयं कलकत्तानगरे मुम्बय्यां च मुद्रितं वर्तते। वादिखण्डः, रसायनखण्डो मन्त्रखण्डश्चेति खण्डत्रयं बमुद्रितमेवास्ते । अमुद्रितेषु खण्डेध्वयं रसायन- खण्डो वैद्यानां चिकित्सायामुपयुक्त इति ज्ञात्वा स एव प्रथम प्रकाश्यते । अव- शिष्टं खण्डद्वयमपि यथावसरं प्रसेत्स्यत्येवास्यां ग्रन्थमालायाम् । अस्मिन् खण्डे रसायनतन्त्रं वाजीकरणतन्त्रं चेति तत्रद्वयं प्रतिपादितं दृश्यते। दृदयन्त चात्र बहवो नूतनयोगा अपि। यथा-अत्रोतो वालुकामीनप्रयोगः 'समक उल सेदा-रंगमाही' इति नाम्ना यवन(युनानी)वैद्येषु चिरकालात् प्रतिद्धोऽपि भारतीयवैद्यकप्रन्थे *नवीनं एवं। यद्यप्यस्मिन् ग्रन्थे रसायनवाजीकरणयोगानां गुणकथनावसरे 'आयुः स्याद्ब्रह्मणो दिनं' "रमयेत्कामिनीशतं' इत्यादिरूपा अतिशयोक्तिर्वतते, सा चार्थवादरूपैव; तथाऽप्येषां प्रयोगाणामायुध्यत्वं वाजीकरत्वं च मन्तव्यमेव । श्रीनित्यनाथसिद्धः कं देशं जन्मनाइलचकारेति निर्णतुं न किञ्चिदपि साधन- मुपलभ्यते । स चायं श्रीनित्यनाथसिद्धः खिस्तीयद्वादशशताब्दयां बभूवैय- नुमीयते, रसवाग्भटकृतरसरत्नसमुच्चये तन्नामोल्लेखातू । रसरत्नसमुच्चयकर्ता वाग्भट्टस्तु ख्रिस्तीयत्रयोदशशताब्दयां बभूवेतीतिहासविदां मतम् । प्रन्यस्यास्य शुद्धयर्थ आदर्शपुस्तकद्वयमुपलब्धं, एक मुम्बईनिवासिनां मदीयमुहृदां 'वैद्य दामोदर विठ्ठल दमणकर' इत्येतेषां, द्वितीयं च वटोदरनिवासिना मदीय- सुहृदां 'अमृत विनायक जाम्बेकर' इत्येतेषाम् । संशोधनावसरे तयोराद्यस्य क.इति द्वितीयस्य च ख. इति संज्ञा स्थापिताऽस्ति । ग्रन्थस्यास्य संशोधने यथामति कृतेऽपि यत्ने भ्रमप्रमादिवशाजातं स्खलनं काप्युपलभ्येत चेत्सुधीभिः संशोधनीयं संवेदनीयश्चाहमिति आश्विन शुक्ल १० सं १९६९. नं. ३७२, बोराबझारस्ट्रीट फोर्ट, मुंबई. यादवशर्मणः। १ अत एवानुभीयते यन्नित्यनाथसिद्धो भारतवर्षे यवनराज्यस्थापनानन्तरं बभूवेति। भारतवर्षे यवनराज्यस्थापनाकालस्तु खीस्तीये ११९४ वयें । 2 See History of Hindoo Chemistry Vol. I. Introduction page Sl. & Vol. II. pages 222-23. - रसायनखण्डान्तर्गतविषयानुक्रमणिका । पं. पृ. पं. विषयः क्षेत्रीकरणार्थमन्त्रभक्षण- विधिः ... ७ ... १३ " वज्रपञ्जररस: १२ वज्रेश्वररसः... वज्रधारारसः ... भैरवरसः ... " ६ ... " ... १ " कित्सा च विषयः पृ. प्रथमोपदेशः। मङ्गलाचरणम् देहसिद्धिप्रशंसा रसायनसेवनात्पूर्व देह- शुद्धिकरणम् रससेवने पथ्यानि २ वानि रसायनव्यापदः, तच्चि- ३ रससंक्रामणम् पारदमारणस्य प्रथमः प्रकारः,, द्वितीयः तृतीयः चतुर्थः गर्भयन्त्रलक्षणम् पारदमारणस्य पञ्चमःप्रकार:, षष्ठः सप्तमः अष्टमः १ ३ ... २२ ... " २ ... " १९ :: । ८ शिलावीररसः १९ अमृतार्णवरसः उदयादित्यरसः ४ गगनेश्वररसः १५ वटेश्वररसः २० अचलेश्वररसः ५ परमेश्वररसः १४ गन्धामृतरसः २१ कालकण्टकरसः २ अमृतेशरसः रसवीरमहारसः काञ्चायनरसः १८ परानन्दरसः २३ महाकालरसः हेमपर्पटकरसः श्रीकण्ठरसः खेचरबद्धरसः खयमग्निरतः कक्षपुटरसः १८ । महाशतिरसः नाटकेश्वररसः बालसुन्दररसः २'ब्रह्मपजररसः " १३ ३ " " ११ ... " ... नवमः १४ ४ दशमः ६ " ... "" १५ १६ १७ २१ १२ ... एकादशः वज्रादिमारणविधेरतिदेशेन कथनं मृतरसगुणाः द्वितीयोपदेशः। देहरक्षणोपदेशः ४ १७ ... २५ " १८ ... ६ ...
२ पृ. पं. ... ... पं. विषयः १७ कालान्तरससिद्धिकरण- प्रकार: चतुर्थोपदेशः। ५ देहसिद्धौ मूलिकाप्रशंसा ३७ २६ कान्तादिमहारसायनम् ३८ १५ रसायना अभ्रकयोगाः २२ रसायनाः कान्तयोगाः ३९ ७ ब्रह्मवृक्षकल्पः ४१ १९ श्वेतपलाशकल्पः ४३ २ मुण्डीकल्पः... २३ २. " ... १९ " ” " १० देवदालीकल्पः १८ श्वेतार्ककल्पः ... " १३ २२ १२ २१ १० २० ... " " १२ " विषयः शिवामृतरसः। १८ तृतीयोपदेशः। नृतसंजीवनी गुटिका वनेश्वरी वज्रसुन्दरी हेमसुन्दरी वजखेचरी व्योमसुन्दरी हाटकेश्वरी अर्कप्रभावती २३ सुरसुन्दरी वजतुण्डा कामसुन्दरी गान्धारी मार्तण्डी तारकेश्वरी गुटिका ... २५ विद्यावागीश्वरी,, २६ वज्रतुण्डा गगनेश्वरी आनन्दगुटिका वज्रखेचरी वटिका ... २८ रत्नेश्वरी गुटिका दिव्यखेचरी वटिका खर्णवैक्रान्तबद्धरसः वैकान्तवाटिका दिव्यखेचरीगुटिका ३१ प्रचण्डखेचरी ३२ कङ्कालखेचरी कालविध्वंसिकावटिका ३३ पश्चाननगुटिका ३४ शतवेधिकादिकागुटिकाः । ... २ २१ २५ " " . " ३ ८ " हस्तिकर्णकल्पः ३ रुदन्तीकल्पः निर्गुण्डीकल्पः २६ १८ रसायनं भल्लातकादितैलं ४६ कृष्णजीरकादितैलं अकोलतैलनस्य २६ रसायनः काकमाचीयोगः ४७ रसायनं गुडूच्यादिचूर्ण १४ शुनकशाल्मिकाकल्पः ६ रसायनं काकमाच्यादिचूर्णे, १५ त्रिफलादिरसायनयोगः ४८ मूलिकाकल्पेषु पारदयोगः, १६ रसायनकल्पेषु मन्त्रयोगः रसायनसेवनविधिः... २ पञ्चमोपदेशः। २४ पारदायुद्वर्तनम् १४ वज्रकापालिनीमूलााद्वर्तनं , ३ उत्पलायुद्वर्तन १५ द्वितीयं पारदायुद्वर्तनं २१ " १२ १ १६ २२ " ६ १८ २२ पृ. विषयः क्लीपलितनाशार्थ गन्ध- कयोगः... " ६ पं. षष्ठीपदेशः २ वाजीकरः मकरध्वजरसः ५६ ६ मदनोदयरसः ९ मदनेश्वररसः कामकलाख्यरसः कामदेवरसः २२ रतिकामरस: " मदनवर्धनरसः ४ वाजीकरी अनङ्गमुन्दरी- वटिका ११ वाजीकरः कामनायकरसः रसायनाथ कुश्योगः पलितनाशार्थ कान्तादियोगः,, सीसकादियोगः केशरजनार्थ नीलिका- दियोगः गुञ्जादियोगः हस्तिदन्तादियोगः ५१ त्रिफलादियोगः लोहकिहादियोगः सिन्दूरादियोगः शतपुष्पादियोगः " -- ... " " » पूर्णेन्दुरसः ... , २३ " • चूर्णादियोगः A . ३ " ६ " " " ... " " मदनकामरसः अभ्रकयोगः वानरीबीजाद्य- भ्रकयोगः ३ अश्वगन्धायक- योगः धात्रीलोहः ६२ पुनर्नवादियोगः १८ वटकयोगः वालुकामत्स्ययोगः नाभिलेपः माषयोगः कामेश्वरमोदकः सप्तमोपदेशः। १४ वीर्यस्तम्भकरी ब्रह्माण्ड- गुटिका ... २३ वीर्यस्तम्भकरः लिङ्गलेपः ६५ दीपयोगः इन्द्रवारुणीमूलादि- २ योगः २५ २ " नील्यादियोगः द्वितीयश्चूर्णादियोगः ५२ , कुरण्टपत्रादियोगः आम्रास्थ्यादियोगः काकमाच्यादियोगः केशरञ्जनं घृतं केशरञ्जनार्थ जपापुष्प- रसनस्य त्रिफलादितैलं काकतुण्डीबीजा- दियोगः... भृगराजादियोगः त्रिफलादियोगः कृष्णजीरकयोगः नील्यादितैलं... ५४ सीसकादियोगः कतिपयकेशशक्तीकरणयोगाः५५ . " ... " " . ” " " । ६ ११ " " " " ...
पृ . ... ३ " " विषयः वीर्यस्खम्भकरः रकापामार्ग- मूलयोगः ६५ पादलेपः सास्थिधारणयोगः नाभिलेपः कोकिलाक्षादियोगः , द्वितीयो नामिलेपः दीपयोगः शिवलिङ्गीबीजा- दियोगः... ., श्लेष्मातकादियोगः, सूरणादियोगः मार्जारनखादियोगः द्वितीयः पादलेपः ६७ लिङ्गलेपः पारदादियोगः हस्ते मुद्रिका- धारणयोगः पं. विषयः वीर्यस्तम्भकरःस्थलमीनयो.६८ १९ वनिताद्रावणार्थे जलौका. योगाः २५ लिङ्गवर्धनार्थे पारदादियोग:६९ वराहवसादिलेप: ६ अश्वगन्धादितैलं १० जम्बूतैलादियोगः ७० १३ " मुशलीचूर्णादिलेपः पिप्पल्यादियोगः माहिषघृतादिलेपः अश्वगन्धादियोगः २३ मास्यादियोगः २६ रोहितमत्स्यादियोगः, हरिद्रादियोगः १० जम्बूकपित्तादियोगः, गृहगोधादियोगः ७१ अष्टमोपदेशः। २५ श्रीशैलपर्वतसाधनम् " ४ . " " आयुर्वेदीयग्रन्थमाला। श्रीनित्यनाथसिद्धविरचितरसरत्नाकरस्य चतुर्थों रसायनखण्डः। प्रथमोपदेशः। मङ्गलाचरणम् । जयति स रसराजो मृत्युशङ्कापहारी सकलगुणनिधानं कायकल्पाधिकारी। वलिपलितविनाशं सेवितो वीर्यवृद्धिं स्थिरमपि कुरुते यः कामिनीनां प्रसङ्गम् ॥१॥ देहसिद्धेः प्रशंसा। अथातः संप्रवक्ष्यामि देहसिद्धिं सुशोभनाम् । यस्याः सिद्धौ मनुष्याणां जायन्ते सर्वसिद्धयः॥२॥ न देहेन विना किंचिदिष्टमस्ति जगत्रये । तस्मात्सर्वप्रयत्नेन तसिन् यलो विधीयताम् ॥३॥ रसायनसेवनस्य पूर्वकर्म। शुभनक्षत्रदिवसे वमने रेचने कृते । ततो विशेषशुवर्थ केतकीस्तनजं द्रवम् ॥४॥ त्रिदिनं कुडवैकैकं लोणंदोषहरं पिवेत् । विडङ्गं च वचा कुष्ठं केतकीस्तनसंयुतम् ॥ ५॥ कथितं त्रिदिनं पीतमम्लदोषहरं परम् । श्यामावह्निविडङ्गानि त्र्यूषणं त्रिफला वृषः ॥६॥ १'तस्याः'ख.। २ लवणभक्षणजनितदोषहरमित्यर्थः ।
२ समम् । आयुर्वेदीयग्रन्थमाला। [उपदेशः सैन्धवं देवदारुश्च मुस्ता चैतत्सम घृतैर्लेयं तु ककं सप्ताहात्सर्वदोषजित् ॥ ७॥ एवं विशुद्धदेहस्तु पूजयेद्देवता गुरुम् । कुमारी योगिनीचक्रं ततः कुर्याद्रसायनम् ॥ ८॥ रससेवने पथ्यानि । निर्वाते भूगृहे वाध्य बाह्यचिन्ताविवर्जितः । जितेन्द्रियो जितक्रोधः क्षीरशाल्यन्नमुग्भवेत् ॥९॥ षष्ट्योदनं यवान्नं च गोधूमं मुद्यूषकम् । जाङ्गलं भक्षयेन्मांसं केवलं क्षीरमेव वा ॥१०॥ बलानं वाऽथ भुञ्जीत शाकलोणविवर्जितम् । अभ्यङ्ग मस्तुना कुर्यात् स्वानं चैव सुखाम्बुना ॥११॥ काकिनी स्त्री भजेनित्यं खानुकूलां सुयौवनाम् रसेन्द्रे भक्ष्यमाणे तु कामान्धो जायते नरः॥ १२ ॥ मैथुनेन विना तस्स ह्यजीर्णो जायते रसः । अजीर्णे कम्पदाहार्ती हिक्का मूर्छा ज्वरोऽरतिः॥१३॥ कासश्वासारुचिच्छर्दिभ्रममोहा भवन्ति हि । सेवेत सुभगां तसादुर्भगां परिवर्जयेत् ॥ १४ ॥ रसायने वानि। अभ्यङ्गं कटुतैलेन काञ्जिकं मदिरां दधि । कलिङ्गकारवल्यम्लतैलकूष्माण्डराजिकाः॥१५॥ बिल्वच्छत्राकवार्ताकविदलं काकमाचिकाम् । मूलकं लशुनं तीक्ष्णं शीतमुष्णं च वर्जयेत् ॥ १६ ॥ १'देवताचक्र' ख.। २ 'यस्यास्तु कुञ्चिताः केशाः श्यामा या पद्मलो. चना । सुरूपा तरुणी भिन्नविस्तीर्णजघनस्थला ॥ सङ्कीर्णहृदया पीनस्तनभारेण नामिता । चुम्बनालिंजनस्पर्शकोमला मृदुभाषिणी ॥ अश्वत्थपत्रसदृशयोनि- देशसुशोभिता । कृष्णपक्षे पुष्पवती सा नारी काकिनी स्मृता ॥ रसबन्धे प्रयोगे च उत्तमा सा रसायने र.र.स.अ.६॥ ३-'दाहादि ख.।
रसरत्नाकरस्य रसायनखण्डः। रसायनव्यापचिकित्सा । १.] रात्री जागरणं त्याज्यं दिवाखापं च मैथुनम् । कलहोद्वेगचिन्ताश्च शोकं चैव विवर्जयेत् ।। १७॥ अवर्जनाद्भवेच्छूलं निद्राऽऽलसं ज्वरोऽरतिः। त्र्यहं पिवेत्तत्प्रशान्त्यै वारिणा कर्कटीफलम् ॥ १८॥ शुण्ठीसैन्धवचूर्ण वा मातुलुङ्गाम्लॅकलिइन् । सौवर्चलं गवां मूत्रैः पिवेद्वा तत्पशान्तये ॥ १९ ॥ वन्ध्याकर्कोटकी पुलां पातालगरुडी जलैः। काथयेदष्टगुणितैस्तदष्टांशं ससैन्धवम् ॥ २० ॥ पिबेत्सर्वविकारनं त्रिदिनं शिवभाषितम् । मूलं वा कारवल्युत्थं सैन्धवं वा गवां जलैः ॥२१॥ त्रिदिनं कर्षमात्रं तु पिबेत्सर्वविकारजित् । अपथ्यशीलिनामेतत् कथितं रससेविनाम् ॥ २२ ॥ अमुमेव विधिं कुर्याद्रसायनविधौ किल। अमृतं विधिसंयुक्तं विधिहीनं तु तविषम् ॥ २३ ॥ रससंक्रामणम् । चातुर्जातककर्पूरककोलं कटुकीफलम् । खादेत्ताम्बूलसंयुक्तं रससंक्रामणे हितम् ॥ २४ ॥ पारदमारणविधिः। अथात्र वक्ष्यते सम्यगादौ पारदमारणम् । समुखस्य रसेन्द्रस्य वासनामुखितस्य वा ॥२५॥ क्रमेण जारयेत्स्वर्ण समांशं पूर्ववत्ततः। तत्तुल्यं गन्धकं तस्मिन् दत्त्वा दिव्यौषधिद्रवैः॥ २६ ॥ मर्दयेत्रिदिनं खल्वे मूषायां चान्धितं ततः। करीषानौ दिवारानं त्रिरात्रं वा तुषाग्निना ॥ २७ ॥ १ 'मातुलुङ्गाकौलेहेत्' ख.। २ पुढामिति शरपुतामित्यर्थः । ३ 'स्वत्पा- दांशेन सैन्धवम् ख.
४ आयुर्वेदीयग्रन्थमाला। [उपदेशः खेदितं मर्दयेभ्यो बीजैर्दिव्यौषधोद्भवैः। तुल्यं खल्वे चतुर्यामं वज्रमूषान्धितं धमेत् ॥ २८ ॥ भसमूतं भवेत्तद्वै योज्यं सर्वरसायने । पारदमारणस्य द्वितीयः प्रकारः । शुद्धसूतं समं स्वर्ण याममम्लैर्विमर्दयेत् ॥ २९ ॥ प्रक्षाल्य ग्राहयेत् पिष्टी पिष्टयर्धं शुद्धगन्धकम् । गन्धाधु टङ्कणं दत्त्वा सर्वतुल्यां हरिद्रिकाम् ॥ ३०॥ स्त्रीपुष्पेण तु तत्सर्वं मर्थे रम्भाद्रवान्वितम् । दिनान्ते गोलकं कृत्वा वालुकायत्रगं पचेत् ॥ ३१ ॥ दिनं मन्दाग्निना तं वै समुद्धृत्य विचूर्णयेत् । चूर्णाशं गन्धकं दत्त्वा गर्भयत्रे त्र्यहं पचेत् ॥ ३२ ॥ तुषाग्निना लघुत्वेन जायते भस्मसूतकः। पारदमारणस्य तृतीयः प्रकारः। शुद्धसूतस्विभागः स्याद्भागैकं ताम्रचूर्णकम् ॥ ३३॥ दिनकं मर्दयेदम्लैः क्षालितं पिष्टिमाहरेत् । माक्षिकादौतसत्त्वं च पिष्टितुल्यं प्रकल्पयेत् ॥ ३४ ॥ तत्सर्वं त्रिदिनं मधु चक्रमर्ददलद्रवैः। तद्गोलं गर्भयत्रस्थं त्रिदिनं तुषवह्निना ॥ ३५ ॥ करीषानौ दिवारानं पचेद्वा भसतां व्रजेत् । पारदमारणस्य चतुर्थः प्रकारः। शुद्धसूतं व्योमसत्त्वं सुवर्णं च समं समम् ॥ ३६ ॥ सर्वतुल्यं बिडं दत्त्वा मर्य रम्भाद्रवैर्दिनम् । बीजैर्दिव्यौषधीनां च तुल्यैर्मधु दिनद्वयम् ॥ ३७॥ गर्भयत्रगतं पच्यान्प्रियते पूर्ववत्पुटे । १'-व्यौषधिद्रवैः' ख.। २ सूतभस्म' ख.। ३ 'गडुकायत्रग क..। ४ 'शुद्धसूतं त्रिधा गन्धं भागैकं' ख.। ५ पचेदनौ' ख.।
१.]
रसरत्नाकरस्य रसायनखण्डः।
गर्भयन्त्रलक्षणम्।
चतुरङ्गुलदीर्घ साद्विस्तारे चाङ्गुलत्रयम् ॥ ३८ ॥
मृण्मयं संपुटं कृत्वा छायाशुष्कं च कारयेत् ।
लवणं विंशभागं स्याद्भागमेकं तु गुग्गुलुम् ।। ३९ ॥
सर्व तोयैः अपिष्याथ तेनैव संपुटोदरम् ।
लिप्वा तत्र रसं रुन्थ्याद्गर्भयत्रमिदं भवेत् ॥ ४० ॥
पारदमारणस्य पञ्चमः प्रकारः।
विमला पारदं शुद्ध तुल्यं निर्मुण्डिकाद्वैः।
मर्दयेत्रिदिनं तं वै काचकूप्यां निवेशयेत् ।। ४१ ॥
काचकूप्या ह्यभावे तु निरन्ध्याच्छ्रावसंपुटे ।
पाचयेद्वालुकायत्रे चतुर्यामान्मृतो भवेत् ॥ ४२ ॥
पारदमारणस्य षष्टः प्रकारः।
माक्षिकाद्धौतसत्त्वं तु तत्समं शुद्धगन्धकम् ।
द्वाभ्यां तुल्यं शुद्धरसं दिनं निर्गुण्डिकाद्रवैः ।। ४३ ॥
तत्सर्वं मर्दितं गोलं वज्रमूषान्धितं पचेत् ।
दिनैकं वालुकायत्रे मृतं साद्रक्तवर्णकम् ।। ४४ ॥
पारदमारणस्य सप्तमः प्रकारः।
उध्वाधो गन्धकं तुल्यं दातव्यं शुद्धपारदे ।
उदरे पक्कमूषायाः काकमाचीद्रवं पुनः॥ ४५ ॥
द्वाभ्यां चतुर्गुणं दत्त्वा तामाच्छाद्य पचेच्छनैः।
क्रमानौ वालुकायत्रे चतुर्यामान्मृतो भवेत् ॥ ४६॥
पारदमारणस्याष्टमः प्रकारः।
स्नुह्या वा हेमवल्ल्या. वा क्षीरैः शुद्धरसं दिनम् ।
मर्दयेद्गन्धकं तुल्यं गर्भयत्रगतं पुटेत् ॥ ४७ ॥
पूर्ववत्क्रमयोगेन मृतं योगेषु योजयेत् ।
पारदमारणस्य नवमः प्रकारः।
शुद्धमूतसमं गुञ्जालाक्षोर्णामधुटङ्कणम् ॥ ४८ ॥
w पारदमारणस्य दशमः प्रकारः । आयुर्वेदीयग्रन्थमाला। [उपदेशः तत्सर्वं भृङ्गजैद्रावैर्दिनमेकं विमर्दयेत् । वज्रमूषान्धितं मातं म्रियते शशिसंनिभम् ॥ ४९ ॥ द्रवैस्तु कीटमारिण्या हजमोदाद्रवैश्च वा । अहिमार्या द्रवैर्वाऽथ किंवा श्वेताकुलद्रवैः ॥५०॥ मर्दयेत्पारदं शुद्धं समगन्धं दिनत्रयम् । संपुटे मृण्मये रुझा करीषानौ दिवानिशि ॥५१॥ पचेत्तुषाग्निना वाऽथ त्रिदिनान्प्रियते ध्रुवम् । पारदमारणस्यैकादशः प्रकारः । शुद्धमूतं मृतं वजं समांशं तप्तखल्वके ॥५२॥ हंसपाद्या द्रवैर्मयं त्रिदिनान्ते समुद्धरेत् । वीजैर्दिव्यौषधीनां च वज्रमूषां प्रलेपयेत् ॥ ५३ ।। तत्र पूर्वरसं रुडा त्रिदिनं तुषवह्निना। पाचयित्वा समुद्धृत्य तत्समं शुद्धपारदम् ।। ५४ ॥ एकीकृत्य त्र्यहं मर्य हंसपाद्या द्रवैदृढम् । तद्गोलं पूर्ववत्पच्यान्मृतं भवति शोभनम् ॥ ५५ ॥ वज्रादिमारणविधेरतिदेशेन कथनम् । वज्राभ्राद्यष्टलोहानां रसखण्डे यथोदितम् । मारणं वौदिखण्डे वा तथा ज्ञेयं रसायने ॥५६॥ मृतरसगुणाः। एवं मृतो रसवरः परमामृतः स्या- तत्सेवकाः सततमस्य दृढं तु तेषाम् । देहं करोति सहसा सुरसुन्दरीणां क्रीडाक्षमं परमसुन्दरमेव नित्यम् ॥ ५७॥ इति श्रीपार्वतीपुत्रनित्यनाथसिद्धविरचिते रसरमाकरे रसायनखण्डे रसमा- रणं नाम प्रथमोपदेशः ॥ १ 'वादखण्डे ख.। २'पदं ख.।
२.] रसरत्नाकरस्य रसायनखण्डः। द्वितीयोपदेशः। धर्म ः शिववत्सलैनिंजरत पैर्महासाधकैः सम्यग्दिव्यरसायनेन सततं कल्पान्तसीमावधि । रक्ष्यं गात्रमनन्तपुण्यनिचये मुक्तिश्च यसाद्भवे- तद्वक्ष्ये परमाद्भुतं सुखकरं साम्राज्यदं धीमताम् ॥१॥ क्षेत्रीकरणार्थमनकभक्षणविधिः। अभ्रक भक्षयेदादौ मारितं चामृतीकृतम् । मासैकं निष्कनिष्कं वै क्षेत्रीकरणहेतवे ॥२॥ यसादनं रसक्षेत्रं ततः कुर्याद्रसायनम् । अक्षेत्रीकरणे सूतो ह्यमृतो विषतां व्रजेत् ॥३॥ फलसिद्धिः कुतस्तस्य सुवीजस्सोषरे यथा । वज्रपजररसः। : वज्रपारदयोर्भस समभागं प्रकल्पयेत् ॥ ४ ॥ मूतपादं मृतं स्वर्ण सर्व मर्य दिनावधि । हंसपाद्या द्रवैरेव तगोलं चान्धितं पुटे ॥५॥ अर्कक्षीरैः पुनर्मयं तद्वद्गजपुटे पचेत् । भक्षयेत्सर्षपवृद्ध यावन्माषं विवर्धयेत् ॥६॥ शरण्यः साधकानां तु रसोऽयं वज्रपञ्जरः। चित्रकाकसिन्धूत्थमृततीक्ष्णसुवर्चलम् ।। ७ ।। समं सर्व सदा चानु भक्ष्यं स्यात्क्रामणे हितम् । मासषटूप्रयोगेण जीवेदाचन्द्रतारकम् ॥ ८॥ वलीपलितनिर्मुक्तो दिव्यकायो महाबलः। वज्रेश्वररसः। मृतसूतावादशांशं मृतं वज्रं प्रकल्पयेत् ॥ ९ ॥ 'देहमनन्तपुण्यविभवा भुक्तिश्च' ख.। २ 'श्रीमताम्' ख.।
८ आयुर्वेदीयग्रन्थमाला। [उपदेशः द्वाभ्यां तुल्यं मृतं कान्तं कान्ततुल्यं मृताभ्रकम् । तत्सर्वं भृङ्गावैर्मर्दितं भावयेत्र्यहम् ॥ १० ॥ त्र्यहं गोक्षुरकद्रावैः क्षौद्रर्माकं ततो लिहेत् । रसो वज्रेश्वरो नाम वज्रकायकरो नृणाम् ॥ ११ ॥ चतुर्मासर्जरां हन्ति जीवेद्ब्रह्मदिनं किल । भृङ्गराजस्य पञ्चाङ्गं चूर्णयेत्रिफलासमम् ॥ १२ ॥ पलैकं मधुना लेां क्रामकं परमं रसे। वज्रधारारसः। वज्रमताभ्रहेम्नां तु भस शुद्ध तु माक्षिकम् ॥ १३ ॥ तुल्यं सप्तदिनं मर्थे दिव्यौषधिरसैदृढम् । रुद्धा तं त्रिदिनं पच्याद्वालुकायत्रगं पुनः॥ १४ ॥ उद्धृत्य त्रिदिनं भाव्यं भृङ्गसाक्षिजैवैः । माषकं मधुसर्पिा वज्रधारारसं लिहेत् ॥ १५ ॥ मासषट्प्रयोगेण रुद्रतुल्यो भवेन्नरः। वलीपलितनिर्मुक्तो वायुवेगो महाबलः ॥ १६ ॥ पुनर्नवाभृङ्गतिलवाजिगन्धाः समांशकाः। सर्वतुल्या सिता योज्या चूर्णितं भक्षयेत्पलम् ॥ १७॥ भैरवरसः। सुवर्ण पारदं कान्तं मृतं सर्व समं भवेत् । शतावर्याः शिफाद्रावैर्भावयेद्दिवसत्रयम् ॥ १८ ॥ त्रिदिनं त्रिफलाकाथैभृङ्गद्रावैर्दिनत्रयम् । भावितं मधुसर्पियो भक्षयेद्भरवं रसम् ॥ १९ ॥ मारेकै वर्षमात्रं जीवेच्चन्द्रार्कतारकम् । मूलचूर्ण शतावर्याः कृष्णाजपयसा युतम् ॥ २० ॥ पलैकैकं पिवेच्चानु क्रामकं परमं हितम् । रसभस समं गन्धं शिलाजत्वम्लवेतसम् ॥ २१ ॥ शिलावीररसः।
२.]
रसरत्नाकरस्य रसायनखण्डः।
अमृतार्णवरसः।
यामैकं मर्दयेत्सर्वं मधुसर्पिर्युतं लिहेत् ।
निष्कैकैकं वर्षमात्रं शिलावीरो महारसः ॥ २२ ॥
जराकालं निहन्त्याशु जीवेद्वर्षशतत्रयम् ।
पलार्ध मुशलीचूर्ण भृङ्गराजरसैः पिबेत् ॥ २३ ॥
धात्रीफलरसैर्वाऽथ कामकं ह्यनुपानकम् ।
मेघनादद्वैमर्थ शुद्धसूतं दिनत्रयम् ॥ २४ ॥
विडङ्गं द्विनिशं व्योषं समं चूर्ण प्रकल्पयेत् ।
आरग्वधस्य मूलं तु चूर्णस्य द्विगुणं भवेत् ॥ २५ ॥
चूर्ण द्विगुणं चाज्यं धौद्रं चैव चतुर्गुणम् ।
सर्व पूर्वरसे क्षिप्त्वा मृद्वग्नौ चालयन् पचेत् ।। २६ ।।
तत्पिण्डं कर्षमेकैकं भक्षयेदमृतार्णवः ।
वर्षमात्राजरां हन्ति जीवेद्वर्षशतत्रयम् ॥ २७॥
बाकुचीचूर्णकर्षे धात्रीफलरसैः पिबेत् ।
उदयादित्यरसः।
पारदाद्विगुणं गन्धं शुद्धं सर्व विमर्दयेत् ॥ २८ ॥
मुण्ड्याकरसैः खल्वे त्रिसप्ताहं पुनः पुनः।
एतत्तुल्यं शुद्धतानं संपुटे तन्निरोधयेत् ।। २९ ॥
वेष्टयेद्वस्त्रखण्डेन वज्रमृत्तिकया बहिः।
लिप्वा विशोषयेत्तं वै सम्यग्गजपुटे पचेत् ॥ ३०॥
उद्धृत्य संपुटं चूर्ण्य देवदाल्या द्रवैस्यहम् ।
भङ्गीपुनर्नवाद्रावैः पृथग्भाव्यं त्र्यहं त्र्यहम् ॥ ३१ ॥
तत्तुल्यं नागराचूर्ण क्षिप्त्वा मध्वाज्यसंयुतम् ।
लिहेन्माषद्वयं नित्यं यावत्संवत्सरावधि ॥ ३२ ॥
रसोऽयमुदयादित्यो जरामृत्युहरः परः।
पुनर्नवादेवदालीभृङ्गचूर्ण समं समम् ॥ ३३ ॥
आयुर्वेदीयग्रन्यमाला। [उपदेशः
मध्वाज्याभ्यां लिहेत्कर्षमनु सात्क्रामणं परम् ।
गगनेश्वररसः।
पारदो गगनं कान्तं तीक्ष्णं च मारितं समम् ॥ ३४॥
भृङ्गधात्रीफलद्रावैश्छायायां भावयेत्र्यहम् ।
सितामध्वाज्यकैस्तुल्यं सर्व भाण्डे निरोधयेत् ॥ ३५॥
धान्यराशौ स्थितं मासं ततो निष्कत्रयं समम् ।
भक्षयेच पिबेत्क्षीरं कर्फेकं त्रिफलामनु ॥ ३६॥
रात्रौ शुण्ठी कणां खादेव(कादमरो भवेत् ।
जीवेद्ब्रह्मदिनं वीरः स्याद्रसो गगनेश्वरः ॥ ३७॥
वटेश्वररसः।
वटक्षीरस्यहं मध गन्धं शुद्धरसं समम् ।
वटकाष्ठाग्निना पच्यान्मृत्पात्रे यामपञ्चकम् ॥ ३८॥
क्षिपन् क्षिपन् वटक्षीरं तत्काष्ठेनैव चालयेत् ।
समुद्धृत्य त्र्यहं भाव्यं देवदालीदलद्रवैः ॥ ३९ ॥
उष्णकाले तु गुजैकं ताम्बूलपत्रसंयुतम् ।
चन्द्रवृद्धया सदा भक्ष्यं यावत् षोडशगुञ्जकम् ॥४०॥
चूर्णमुचरवारुण्या बाकुच्या देवदालिजम् ।
मध्वाज्याभ्यां लिहेत्कर्ष क्रामकं ह्यनुपानकम् ॥४१॥
वर्षमात्राजरां हन्ति जीवेद्वर्षशतत्रयम् ।
रसो वटेश्वरो नाम वज्रकायकरो नृणाम् ॥ ४२ ॥
अचलेश्वररसः।
मृतं सूतं शुद्धगन्धं त्रिफलां गुगुग्लुं समम् ।
सर्व वातारितैलेन मिश्रं कर्ष लिहेत्सदा ॥४३॥
षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
तस्स मूत्रपुरीषेण शुल्वं भवति काञ्चनम् ॥४४॥
अजस्य वृषणं पाच्यं गवां क्षीरेण तं निशि।
सितायुक्तं पिबेचानु रसोऽयमचलेश्वरः॥४५॥
२.]. रसरत्नाकरस्य रसायनखण्डः। परमेश्वररसः। रसं वज्रं स्वर्णकान्ते मुण्डं च मारितं समम् । माक्षिक गन्धकं शुद्धं सर्व जम्बीरजैवैः॥४६॥ सप्ताहं मर्दयेत्खल्वे तद्गोलं चान्धितं पुटेन । भूधरे दिनमेकं तु ख्यातः सिद्धरसः परः ॥ ४७ ॥ मापैकं मधुना लेह्यं वर्षान्मृत्युजरापहम् । दिव्यकायो नरः सिद्धो भवेद्विष्णुपराक्रमः ॥४८॥ श्वेतपौनर्नवं मूलं क्षीरपिष्टं सदा पिवेत् । भक्षयेद्वा सिता सार्ध क्रामकं परमे रसे ॥ ४९ ॥ गन्धामृतरसः। मृतस्तस्य द्विगुणं शुद्धं गन्धं विमिश्रयेत् । दिनैकं कन्यकाद्रावैर्मर्दयित्वा निरोधयेत् ॥ ५० ॥ दिनैकं मधुना पच्यानिष्कैकं मधुना लिहेत् । गन्धामृतो रसो नाम वत्सरान्मृत्युजिद्भवेत् ।। ५१ ।। समूलं भृङ्गराजं तु छायाशुष्कं विचूर्णयेत् । तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ।। ५२ ।। एकीकृत्य पलैकैकं भक्षयेदनुपानकम् । कालकण्टकरसः। पारदानं मृतं तुल्यं द्वाभ्यां तुल्यं तु गन्धकम् ।। ५३॥ तत्सर्व भृङ्गजैद्रावैमर्दयेदिनसप्तकम् । षड्वारं चाकुलीतैलैर्भावयित्वाऽथ भक्षयेत् ॥ ५४ ॥ माषमात्रं तु वर्षे रसोऽयं कालकण्टकः। पिष्टवा करञ्जपत्राणि गवां क्षीरैः पिवेदनु ॥ ५५ ॥ जरामृत्युविनिर्मुक्तो जीवेब्रह्मदिनं नरः । अमृतेशरसः। मृतस्ताभ्रकं कान्तं विषं ताप्यं शिलाजतु ॥५६॥ १ 'परमेश्वरे' ख.। २'बाकुचीतैलै-'ख.।
१२ आयुर्वेदीयग्रन्थमाला। [उपदेशः तुल्यांशं मधुसर्पिा लिहेद्गुञ्जात्रयं सदा। पण्मासेन जरां हन्ति जीवेद्ब्रह्मादिनं नरः ॥ ५७॥ अश्वगन्धामूलचूर्ण सप्तभागधृतैः समम् । भागाष्टकं गुडं तसिन् क्षिपेद्भागं च पिप्पलीम् ॥५८॥ मृद्वग्निना च तत्सर्वं पिण्डितं भक्षयेत् पलम् । क्रामकं ह्यमृतेशस रसराजस्य सिद्धये ॥ ५९॥ रसवीरमहारसः। त्रिगुणं शुद्धसूतस्य योजयेच्छुद्धगन्धकम् । लोहपर्पटिकाचूर्ण मूततुल्यं विनिक्षिपेत् ॥ ६॥ स्नुह्यर्कपयसा मर्थे तत्सर्वं दिवसत्रयम् । तच्छुष्कं चान्धितं पच्यात्करीषागौ दिवानिशम्॥६१।। ततश्च टङ्कणं काचं दत्त्वा रुद्धा धमेदृढम् । गुञ्जकं मधुना खादेद्रसवीरो महारसः॥ ६२ ॥ अब्दैकेन जरां हन्ति जीवेदाचन्द्रतारकम् । मुशलीमूलचूर्ण तु गुञ्जापत्रद्रवैः पिवेत् ।। ६३ ।। छागीमूत्रेण वा तं वै कसैंकं कामकं परम् । काञ्चायनरसः। मृतमूतसमं गन्धं काकमाच्या द्रवैर्दिनम् ॥ ६४ ॥ मर्दितं चान्धितं पच्यात्करीषानौ दिवानिशम् । दिव्यौषधदलद्रावैर्दिनं मधु तमन्धयेत् ॥६५॥ ध्मातं तस्मात्समुद्धृत्य तत्तुल्यं हाटकं मृतम् । एकीकृत्य घृतैर्लेय मापैकं वत्सरावधि ॥६६॥ जरां मृत्यु निहन्त्याशु सत्सं काञ्चायनो रसः । काकमाचीद्रवैर्भाव्यं चूर्ण धात्रीफलोद्भवम् ॥६७ ॥ १'सादेन करवीरों' ख.।
२.] रसरत्नाकरस्य रसायनखण्डः। १३ परानन्दरसः। मधुना भक्षयेत्कर्षमनु सात्क्रामकं परम् । मृतमूताभ्रक गन्धं तुल्यं सप्तदिनावधि ॥ ६८ ॥ शिवमूलद्रवैमा तद्गोलं भाण्डमध्यगम् । रुडा पच्याल्लघुत्वेन शाककाष्ठर्दिनावधि ॥ ६९ ॥ परानन्दो रसो नाम घृतैर्निष्कं सदा लिहेत् । दिनकं त्रिफलाकाथैः कुष्ठं सम्यग्विपाचयेत् ॥ ७० ॥ तच्छुष्कं चूर्णितं कर्ष मध्वाज्याभ्यां लिहेदनु । संवत्सरप्रयोगेण जीवेदाचन्द्रतारकम् ॥ ७१ ॥ महाकालरसः। मृतमूताभ्रक तुल्यं मृतलोहं तयोः समम् । लोहांशं शोधितं गन्धं भावयेदिनसप्तकम् ॥ ७२ ॥ तत्सर्व त्रिफलाकाथैभृगशिग्रुकचित्रकैः । द्रवैः पृथक्पृथग्भाव्यं सप्तधा सप्तधा क्रमात् ॥ ७३ ॥ सप्तधा कटुकीकाथै वितं चूर्णयेत्पुनः चूर्णतुल्यं कणाचूर्ण पुरातनगुडैः समैः ॥ ७४ ॥ सर्वमेकीकृतं खादेनिष्कैकं वत्सरावधि । महाकालो रसो नाम जराकालभयङ्करः ॥७५ ॥ तिलकोरण्टपत्राणि गुडेन भक्षयेदनु । हेमपर्पटकरसः। मृतपारदसंतुल्यं लोहपर्पटकं भवेत् ॥ ७६ ।। त्रिगुणं गन्धकं मूतात्सर्व दिव्यौषधवैः । मर्दितं तद्दिनं रुघा ध्मातो बद्धो भवेद्रसः ॥ ७७॥ तस्मिन् पादं मृतं स्वर्ण क्षिप्वा वह्नयाकद्रवैः। मर्थ यामं विचूाथ व्योषजीरकसैन्धवैः ॥ ७८ ॥ तुल्यं पूर्वरसं तुल्यं निष्कैकैकं च भक्षयेत् । जरामृत्युं निहन्त्याशु हेमपर्पटको रसः॥ ७९ ॥ २
आयुर्वेदीयग्रन्थमाला। [उपदेशः
अश्वगन्धासमां यष्टिं धात्रीफलरसर्दिनम् ।
भावितां लेहयेत्क्षौद्रैः पलैकां क्रामकं परम् ।। ८० ॥
श्रीकण्ठरसः।
स्वर्णताराकान्तं च तीक्ष्णं वा मारितं समम् ।
कृष्णाभ्रसत्त्वमाक्षीकं प्रत्येकं वर्णतुल्यकम् ।। ८१ ॥
तत्सर्व चान्धितं धाम्यं तत्खोटं मृतपारदम् ।
समं मूतान्मृतं वज्रं पादांशं तत्र योजयेत् ॥ ८२ ।।
सर्व जम्बीरजैवैस्तप्तखल्वे विमर्दयेत् ।
दिनैकं तं निरुध्याथ भूधरे पाचयेदिनम् ॥ ८३ ॥
उद्धृत्य गन्धकं तुल्यं दत्त्वा रुवा धमेद्रुतम् ।
तचूर्ण मधुनाऽऽज्येन माषमानं लिहेत्सदा ॥ ८४ ॥
रसः श्रीकण्ठनामाऽयं खेचरत्वं प्रयच्छति ।
संवत्सरप्रयोगेण जीवेत्कल्पान्तमेव च ॥ ८५ ॥
तस्स मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् ।
पलैक गन्धकं क्षीरैः क्रामकं चानु पाययेत् ।। ८६॥
खेचरबद्धरसः।
शुद्धताम्रस्य भागैकं द्विषट् शुद्धरसस्य च ॥
त्रयं भूनागसत्त्वस्य भागमेकत्र कारयेत् ॥ ८७ ॥
सर्व मर्च तप्तखल्वे जम्बीराणां द्रवैर्दिनम् ।
तत्सर्व कच्छपे यत्रे क्षिप्वा तत्रैव गन्धकम् ॥ ८८॥
कासमदरसैः पिष्ट तुल्यं दत्त्वा निरुध्य च ।
यावजीर्ण पुटे पच्यादेवं षड्गुणगन्धकम् ॥ ८९ ॥
जारयेत्क्रमयोगेन समुद्धृत्याथ मर्दयेत् ।
याम जम्बीरजीवैस्ततो निश्चन्द्रमभ्रकम् ॥ ९० ॥
अम्लवेतससंतुल्यं मर्दितं दापयेद्रसे।
षोडशांशं तसखल्वे चणकाम्लं च तालकम् ॥ ९१॥
२.] रसरत्नाकरस्य रसायनखण्डः। १५ कासीसं च दशांशेन दत्त्वा मध दिनावधिः। तत्सर्व पक्कमूषायां क्षिप्ता वस्त्रेण बन्धयेत् ॥ ९२ ॥ दोलायत्रे सारनाले त्र्यहं लघ्वग्निना पचेत् । उद्धृत्य क्षालयेदुष्णः काञ्जिकैीर्यते यदि ॥ ९३ ॥ अजीर्ण चेत्पचेद्यत्रे कच्छपाख्ये विडान्वितम् । एवं पुनः पुनर्जाय गगनं मूततुल्यकम् ॥ १४ ॥ शिखिपित्तप्रलिप्तानि स्वर्णपत्राणि तस्य वै । चतुःषष्ट्यंशयोगेन दत्त्वा खल्वे विमर्दयेत् ।। ९५ ॥ खेदयेत्पूर्ववद्यत्रे जीर्णे स्वर्ण च दापयेत् । इत्येवं षोडशांशं तु स्वर्ण जायं रसस्य वै ॥ ९६ ॥ ततो जार्य मृतं वज्रं पोडशांशं च हेमवत् । तालकासीसजम्बीरयुक्तं मयं च तत्परम् ॥ ९७ ॥ ततो दिव्योषधद्रावैस्तं मूतं मर्दयेत्र्यहम् । वज्रमूषान्धितं धाम्यं बद्धं साचूर्णयेत्पुनः ॥ ९८ ॥ मधुशर्करया सार्धं गुञ्जामानं च भक्षयेत् । रसः खेचरबद्धोऽयं पण्मासान्मृत्युजिद्भवेत् ॥ ९९ ॥ वलीपलितनिर्मुक्तो महाबलपराक्रमः। सप्ताहं भृङ्गावैर्नीलीमुण्डीफलत्रयम् ॥ १० ॥ भावयेन्मधुसर्पिा कर्षमात्रं लिहेदनु । स्वयमग्निरसः। शुद्धमूतं द्विधा गन्धं कुर्यात्खल्वेन कज्जलम् ॥१०१॥ तयोस्तुल्यं कान्तचूर्ण तीक्ष्णं वा मुण्डमेव वा । सर्वमेकीकृतं खल्वे मर्दयेत्कन्यकाद्वैः ॥१०२ ॥ दिनैकं गोलकं कृत्वा ताम्रपात्रे निवेशयेत् । आच्छाद्यैरण्डपत्रैस्तु यामाघेऽत्युष्णतां ब्रजेत् ॥१०३॥ धान्यराशौ न्यसेत्तं तु द्विदिनान्ते समुद्धरेत् ।
कक्षपुटरसः।
आयुर्वेदीयग्रन्थमाला । [उपदेशः
कन्याभृङ्गीकाकमाचीमुण्डीनिर्गुण्डिचित्रकम् ॥१०४॥
कोरण्टबाकुचीब्राह्मीसहदेवीपुनर्नवाः ।
शाल्मलीविजयाधूर्ता द्रवैरेषां पृथक्पृथक् ॥ १०५ ॥
सप्तधा सप्तधा भाव्यं सप्तधा त्रिफलोद्भवैः ।
कषायैर्भावितं चूयें जातीफललवङ्गकम् ॥ १०६ ॥
त्रिकटु त्रिफला चैला चूर्णयेन्नवकं समम् ।
तचूर्णं पूर्वचूर्ण च समं क्षौद्रेण कर्षकम् ।। १०७ ॥
वकं लेहयेन्नित्यं जराकालप्रशान्तये ।
स्वयमग्निरसो नाम सिद्धानां सुमुखागतः ॥१०८ ॥
तिलाश्वगन्धयोचूर्णं पलार्धं मधुना लिहेत् ।
निर्गुण्डी नीलिका वज्री ब्रह्मदण्डी त्रिदण्डिका ॥१०९॥
शतपुष्पा मुद्गपर्णी श्वेतार्को वानरी जया ।
पेटारीकृष्णधत्तूरविजयाक्षीरकन्दकम् ॥ ११० ॥
एतैः समस्तैर्व्यस्तैर्वा द्रव्यैर्मर्च दिनत्रयम् ।
शुद्धसूतं तप्तखल्वे तत्कल्कं क्षीरकन्दके ॥ १११॥
वज्रकन्देऽथवा रुझा तन्मजाभिर्मदा पुनः ।
तं कन्दं वज्रमूषायां रुडा लघुपुटे पचेत् ॥ ११२ ।।
पुनर्मयं पुनः पाच्यमित्येवं सप्तधा क्रमात् ।
रसः कक्षपुटो नाम गुञ्जकं मधुना लिहेत् ॥ ११३ ।।
जीवेद्ब्रह्मदिनैकं तु वलीपलितवर्जितः ।
वर्षेकेन न संदेहो रसकायो भवेन्नरः ॥ ११४ ॥
भल्लातबीजचूर्ण च हयगन्धामृताघृतैः ।
पलैक भक्षयच्चानु कामकं परमं हितम् ॥ ११५ ॥
महाशक्तिरसः।
मृतमूताभ्रकं वज्र कान्तताराहाटकम् ।
तीक्ष्णं च तुल्यतुल्यांशं सर्वेषां गन्धकं समम् ॥११६॥
रसरत्नाकरस्य रसायनखण्डः। १७ सर्व पालाशतलेन मर्दयेद्दिनसप्तकम् । महाशक्तिरसो नाम क्षौद्रापं लिहेत्सदा ॥११७॥ पण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् । वत्सरात्सप्तकल्पानि जीवत्येव न संशयः ॥११८॥ इच्छावेगी महासिद्धः पराशक्तिसमो भवेत् । तस्य मूत्रपुरीपाभ्यां तानं भवति काञ्चनम् ॥ ११९ ।। पालाशवीजजं तैलं क्षौद्रर्लेयं पलाष्टकम् । क्रामकं ह्यनुपानं सात्सम्यक्छक्त्या प्रकाशितम् ॥१२०॥ नाटकेश्वररसः। लोहितं वाऽथ वा कृष्णं वैक्रान्तं मारितं पलम् । स्वर्णचूर्णपलैकं च द्विपलं शुद्धपारदम् ॥ १२१ ॥ वालरण्डाजमूत्राभ्यां तत्सर्वं मर्दयेद्दिनम् । शरपुङ्खा मेषशृङ्गी साक्षीकडतुम्बिका ॥ १२२ ॥ इन्द्रवारुणिका चैषां द्रवमर्च दिनत्रयम् । तद्गोलं गर्भयत्रे तु रुवा पच्याद्दिनत्रयम् ॥ १२३ ॥ तुषाग्निना लघुत्वेन समुद्धृत्य विचूर्णयेत् । सप्तधा भृङ्गार्भावितं चूर्णयेत्पुनः॥ १२४ ॥ त्रिफलात्र्यूषमध्वाज्यैः समं चूर्ण विमिश्रयेत् । मारेकैकं सदा खादेद्रसोऽयं नाटकेश्वरः ॥ १२५ ॥ सर्वरोगजरामृत्यून् वत्सरानाशयत्यलम् । दिव्यतेजा महाकायो जीवेदाचन्द्रतारकम् ॥ १२६॥ मूलत्वचं ब्रह्मवृक्षाच्छायाशुष्कां विचूर्णिताम् । पिवेनिष्कद्वयां तः कामकं परमं शुभम् ॥ १२७ ॥ बालसुन्दररसः। सुशुद्ध श्वेतवैक्रान्तं सप्ताहं भाव्यमातपे । अम्लवेतससंपिष्टं तेनैव द्रुतिमाप्नुयात् ।। १२८ ॥ वेफलोषणमध्वाज्यैः' ख.। २ 'हाटकेश्वरः' क.।
१८ आयुर्वेदीयग्रन्थमाला । [उपदेशः एतद्रुति शुद्धमूतं समं क्षौरैर्दिनत्रयम् । मर्दित लेहयेन्माष मासादालो भवेन्नरः ॥ १२९ ॥ वत्सराद्ब्रह्मतुल्यः स्याद्रसोऽयं बालसुन्दरः। बाकुचीबीजककं मध्वाज्याभ्यां लिहेदनु ॥ १३०॥ ब्रह्मपञ्जररसः। चतुःपलं शुद्धसूतं पलैकं मृतहाटकम् । पलाशकुमलद्रावैस्तत्तैलैश्च दिनत्रयम् ॥ १३१॥ मर्दयेत्तप्तखल्वे तु स्वर्णतुल्यं च गन्धकम् । शोधितं निक्षिपेत्तसिन् पूर्वोक्तैर्मर्दयेदिनम् ॥ १३२ ॥ माषमात्रां वटी खादेद्वत्सरान्मृत्युजिद्भवेत् । जीवेब्रह्मदिनं वीरो रसोऽयं ब्रह्मपञ्जरः॥ १३३ ॥ वानरीकाकतुण्ड्युत्थवीजचूर्ण समं समम् । शाल्मलीत्वग्दलद्रावैर्भावयेदिवसत्रयम् ॥ १३४ ॥ त्र्यहं च मृङ्गजेंद्रावैर्भावित चूर्णयेत्ततः । पुरातनगुडैस्तुल्यं करेकमनु भक्षयेत् ॥ १३५ ।। शिवामृतरसः। रक्तभूमौ तु भूनागान् ग्राहयित्वा परीक्षयेत् । छेदे निर्याति रक्तं चेत्तान् स्वीकुर्यात्प्रयत्नतः॥१३६॥ कृष्णवर्णगवाज्येन समेन सह तान् पचेत् । लोहजे चालयन् पात्रे यावत्सिन्दूरवर्णकम् ॥ १३७ ॥ तत्सर्व जायते भस तत्तुल्यं मृतपारदम् । मधुनाऽलोडितं सर्व गुञ्जार्धा विवर्धयन् ॥ १३८ । पश्चाद्गुञ्जां सदा खादेद्यावत्संवत्सरावधि । शिवामृतो रसो नाम जरामृत्युहरो नृणाम् । आयुर्ब्रह्मदिनं दत्ते शिवाम्बु पाययेदनु ॥१३९ ।। १ 'तिलैः सह ख.।
३.] रसरत्नाकरस्य रसायनखण्डः। १९ एवं दिव्यरसायनैः समुचितैः सारातिसारैः शुभैः सिद्धं देहमनेकसाधनवलायेषां तु दृष्टं मया । तानाराध्य च तेषु सारमखिलं संगृह्य शास्त्रादपि भूपानां विदुषां महामतिमतां प्रोक्तं हितार्थाय वै ॥१४० इति श्रीपार्वतीपुत्रनिवनाथसिद्धविरचिते रसरत्नाकरे चतुर्थे रसायनखण्डे दिव्यरसदेहसाधनं नाम द्वितीय उपदेशः ॥ २ ॥ . अथ तृतीयोपदेशः। दिव्ययोगगुटिकारसायनं क्रामणेन रहितं न सिध्यति । शीघ्रसिद्धिकरमेव सेव्यतां क्रामणार्थमनुपानमत्र वै ॥१॥ मृतसंजीवनीगुटिका। काकतुम्बी काकमाची निर्गुण्डी च कुमारिका । गोजिह्वा सैन्धवं गुञ्जा ह्याकं च समं समम् ॥२॥ पिष्ट्वा तेन प्रलेप्सव्या मूषा सर्वाङ्गुलावधि । पारदं व्योमसत्त्वं च कान्तं तीक्ष्णं च मुण्डकम् ॥३॥ ताप्यसत्त्वं च तुल्यांशं सर्व संचूर्ण्य मर्दयेत् । दिनं जम्बीरजैवैस्तन्मूषायां विनिक्षिपेत् ॥ ४ ॥ आच्छाद्यालेप्य कल्केन चान्धयित्वा विशोषयेत् । करीपानौ दिवारानं पुटे पक्त्वा समुद्धरेत् ॥ ५॥ पुनः प्रलिप्समूषायां क्षिप्त्वा रुद्धा पुटेत्ततः। इत्येवं दशमूपासु प्रलिप्तासु विपाचयेत् ॥ ६॥ जायते गुटिका दिव्या मृतसंजीवनी परा। वके शिरसि कण्ठे वा कर्णे वा धारिता करे ॥७॥ हेम्ना सुवेष्टिता सम्यग्वयःस्तम्भकरी परा । वलीपलितकालाग्निमृत्युशङ्काविनाशनी ॥८॥ १ 'देहसिद्धिकरमेव' ख.। २ 'बाधां हरेदियम्' ख.।
आयुर्वेदीयग्रन्थमाला। [उपदेशः वर्षमात्रान्न संदेहो जीवेद्वर्षशतत्रयम् । शुद्धगन्धपलैकं तु गवां क्षीरैः पिबेत्सदा ॥९॥ अनेन त्वनुपानेन देहे संक्रमते रसः। वनेश्वरीगुटिका । समुखं पारदं कान्तं मुण्डलोहाभ्रसत्त्वकम् ॥ १० ॥ ताप्यसत्त्वं मृतं वज्रं सर्व जम्बीरजैवैः । सप्ताहं मर्दयेत्तुल्यं कृत्वा गोलं समुद्धरेत् ॥ ११ ॥ निर्गुण्डी सैन्धवं क्षौद्रं गोजिह्वा काकतुण्डिका । पिष्ट्वा तु लेपयेगोलं सर्वतोऽङ्गुलमात्रकम् ॥ १२ ॥ तं रुढवा वज्रमूषायां पचेद्यामं तु भूधरे । लिप्वा रुवा पुनः पाच्यमित्येवं पक्षमात्रकम् ॥१३॥ यवचिञ्चापलाशोत्थराजीकार्पासवीजकैः। सुपिष्टैर्लेपयेन्मूषां तन्मध्ये पूर्वगोलकम् ॥ १४ ॥ टङ्कणं श्वेतकाचं च दत्त्वा पृष्ठे निरुथ्य च । खदिराङ्गारयोगेन धमेद्यावद्रुतं भवेत् ॥ १५ ॥ ततस्तं बिडलिप्तायां मूषायां च निवेशयेत् । तत्तुल्यं दापयेत्स्वर्ण जारयेत्तं धमन् धमन् ॥ १६ ॥ जीर्णे स्वर्ण समुद्धृत्य तप्तखल्वे विमर्दयेत् । त्र्यहं दिव्यौषधिद्रावैर्वज्रमूषान्धितं धमेत् ॥ १७ ॥ जायते गुटिका दिव्या नाम्ना वज्रेश्वरी परा । वस्था सा जरां मृत्यु हन्ति संवत्सरात्किल ॥१८॥ शस्त्रस्तम्भं च कुरुते ब्रह्मायुगच्छति ध्रुवम् । कृष्णाष्टम्यां समादाय सहदेवीं सुचूर्णयेत् ॥ १९ ॥ कका भक्षयेदाज्यैरनु स्यात्क्रामणे हितम् । वज्रसुन्दरीगुटिका। आरक्तं मेघनादं तु तथा पाषाणभेदकम् ॥ २० ॥ पनिहन्धयेत्' ख.। १ रसरत्नाकरस्य रसायनखण्डः। २१ स्त्रीस्तन्यसहितं पिष्ट्वा तेन मूपां प्रलेपयेत् । भागेकं मृतवज्रस्य वर्णचूर्णस्य पोडश ॥ २१ ॥ क्षिप्वा तस्यां निरुन्ध्याथ याममात्रं दृढ़ धमेत् । उद्धृत्य निक्षिपेत्खल्वे शुद्धमूतं च तत्समम् ॥ २२ ॥ मर्दयेचाकद्रावैर्यावद्भवति गोलकः। चण्डालीकन्दमादाय स्त्रीस्तन्येन सुपेपयेत् ॥ २३॥ अनेन गोलकं लिप्वा वज्रमप्यां निरोधयेत् । पक्त्वा गजपुटे ग्राह्या गुटिका वनमुन्दरी ॥२४॥ वकं धारयेद्वक्रे जीवेब्रह्मदिनत्रयम् । ब्रह्मवृक्षस्य त्वक्चूर्ण क्षीरनित्यं पलं पिवेत् ॥ २५ ॥ क्रामणं ह्यनुपानं स्यात्साधकस्यातिसिद्धिदम् । तदुद्भवमलैंलिप्तं तानं तु धमनेन हि ॥ २६ ।। जायते कनकं दिव्यं सत्यं शङ्करभापितम् । हेमसुन्दरीबटिका । समुखस्य रसेन्द्रस्य पूर्ववत्काञ्चनं समम् ॥ २७ ॥ जारयेद्विडयोगेन ततो मर्थे दिनत्रयम् । दिव्योषधैः सगोमूत्रैर्वत्रमूषान्धितं धमेत् ॥ २८ ॥ उद्धृत्य धारयेद्वके गुटिका हेमसुन्दरी। पलार्धं गन्धकं चाज्यर्द्विगुणैर्लेहयेदनु ॥ २९ ॥ वर्षेकेन जरां हन्ति जीवेदाचन्द्रतारकम् । वज्रखेचरीगुटिका। शुद्धमूतं मृतं वज्रं व्योमसत्त्वं सहाटकम् ॥ ३० ॥ अम्लवर्गे समं सर्व मर्दयेदिवसत्रयम् । तोलकं दृढं कृत्वा छायायां शोषयेत्ततः॥३१॥ ब्रह्मकापासबीजानि राजिका यवचिश्चिका । वन्ध्या सर्व समं पिष्ट्वा पूर्वगोलं प्रलेपयेत् ॥ ३२ ॥ । 'क्षिप्त्वा तु मर्दयेचानु आर्द्रकस्य द्रवैः पुनः' ख.। २ 'सुरसुन्दरी ख.।
२२ आयुर्वेदीयग्रन्थमाला। [उपदेशः रुवा गजपुटे पच्यात्समुद्धृत्याथ लेपयेत् । रुवा मूण्यां धमेद्गाढं गुटिका वज्रखेचरी ॥३३॥ जायते धारिता वक्र वत्सरान्मृत्युनाशिनी । भूतारवटचूर्ण तु पलैक सितया युतम् ॥ ३४ ॥ भक्षयेत्क्रामणार्थ तु ब्रह्मायुर्जायते नरः। व्योमसुन्दरी वटिका। कार्पासाः काकमाच्याश्च कन्यायाश्च दलद्रवैः ॥ ३५॥ शुद्धसूतं दिनं मधु क्षाल्यमम्लैः समुद्धरेत् । तसं निष्कचत्वारि निष्काध ताम्रचूर्णकम् ॥ ३६ ॥ पादोननिष्कमभ्रोत्थं सत्त्वं पादं च हाटकम् । हेमतुल्यं मुण्डचूर्ण सर्वमम्लैर्विमर्दयेत् ॥ ३७॥ दिनान्ते गोलकं कृत्वा जम्बीरस्योदरे क्षिपेत् । त्रिदिनं दोलकायत्रे पाचयेत्सारनालके ॥ ३८ ॥ उद्धृत्य धारयेद्वके गुटिका व्योमसुन्दरी । वर्षमात्राजरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥ ३९ ॥ चित्रमूलस्य चूर्ण तु सक्षौद्रं कान्तपात्रके । आलोच्य भक्षयेत्कर्षमनु स्यात्क्रामणे हितम् ॥ ४० ॥ हाटकेश्वरीगुटिका। निष्कमेकं स्वर्णपत्रं त्रिनिष्कं शुद्धपारदम् । जम्बीरशरपुलोत्थद्रवैर्मयं दिनावधि ॥४१॥ तद्गोलं बन्धयेद्वस्त्रे पचेगोक्षीरपूरिते। दोलायचे दिवारानं गुटिका हाटकश्वरी ॥ ४२ ॥ जायते धारिता के जरामृत्युविनाशिनी । वर्षमात्राम संदेहो जीवेद्वर्षायुतं नरः ॥४३॥ दिनैकं त्रिफलाचूर्ण काथैः खदिरबीजकैः। भावितं मधुसर्पियो पलैकं कामकं लिहेत् ।। ४४ ॥ १ 'भूतावरटचूर्णे ख.।
रसरत्नाकरस्य रसायनखण्डः। अर्कप्रभावती गुटिका। रसनिष्कत्रयं शुद्धं निष्कैकं ताम्रचूर्णकम् । चिश्चाफलाम्लतक्राभ्यां खल्वे मद्य दिनावधि ॥४५॥ तद्गोलं बन्धयेदखस्तक्रचिश्चाम्लपूरिते । दोलायत्रे दिनं पच्याद्गुटिकार्कप्रभावती ॥ ४६॥ वर्षेकं धारयेद्वके सूर्यतुल्यो भवेन्नरः। पालाशवीजज तैलं गोक्षारः कर्षमात्रकम् ।। ४७ ।। क्रामकं ह्यनुपानं स्थाजरामृत्युहरं परम् । सुरसुन्दरी वटिका। वर्णमेकं कान्तमेकं पञ्चतारं द्विपारदम् ॥४८॥ त्रिभाग व्योमसत्वं स्यात् पड़ागं शुल्वचूर्णकम् । सर्वमेतत्कृतं मूक्ष्मं तप्तखल्वे दिनत्रयम् ॥ ४९ ॥ मर्दयेदम्लवर्गेण दोलायत्रे सकाञ्जिके। तद्गोलं त्रिदिनं पच्याद्गुटिका सुरसुन्दरी ॥ ५० ॥ जायते धारिता के वर्षान्मृत्युजरापहा । भूतारवटमूलं च कर्ष क्षीरैः पिवेदनु ॥५१॥ वज्रतुण्डाबटिका । स्वर्णतारार्कमुण्डं च वङ्गसीसाभ्रसत्त्वकम् । एतत्सर्वं समं चूर्ण चूर्णीशं मृतवत्रकम् ॥ ५२ ॥ सर्वतुल्यं शुद्धमूतं सर्व दिव्योपधिद्वैः । मर्दयेदिनमेकं तु वज्रमूषान्धितं धमेत् ।। ५३ ॥ गुटिका वज्रतुण्डेयं जायते धारिता मुखे । जरामृत्युं शस्त्रसंघ नाशयेद्वत्सरात्किल ॥ ५४ ।। वज्रकायो महावीरो जीवेद्वर्षशतत्रयम् । कुमार्याः स्वरसं ग्राह्यं गुडेन सह लोडयेत् ॥ ५५ ॥ 'भूतावरटमूलं' ख.
आयुर्वेदीयग्रन्थमाला। [उपदेशः पलैक कामकं लेह्यमनुपानं सदैव हि । कामसुन्दरीगुटिका। स्वर्णचूर्णं तु भागैकं त्रिभागं शुद्धपारदम् ॥ ५६ ॥ पादभागं मृतं वनं तत्सर्वं क्षीरकन्दजैः। द्रवैश्च देवदाल्युत्थैस्तप्तखल्वे दिनावधि ५७॥ मर्दयेत्कान्तचूर्णं च वज्रतुल्यं क्षिपेच्च वै । वज्रमूषान्धितं धाम्यं गुटिका कामसुन्दरी ॥ ५८ ॥ जायते धारिता वशे वर्षान्मृत्युजरापहा । निष्कत्रयं ब्रह्मतैलं गवां क्षीरं पलद्वयम् ॥ ५९॥ मिश्रितं पाययेचानु लक्षायुर्जायते नरः। गान्धारीगुटिका। लोहपात्रे द्रुते गन्धे पादांशं पारदं क्षिपेत् ॥ ६०॥ किंचिच्चाल्यं तु काष्ठेन मुहूर्तादवतारयेत् । शतावरी क्षीरकन्दो वज्रवल्लीन्द्रवारुणी ॥ ६१॥ पाठा पुनर्नवा चिञ्चा लाङ्गली सुरदालिका । एतासां वस्त्रपूतैश्च द्रवैमर्च दिनत्रयम् ॥ ६२ ॥ तसिन् पात्रे लोहमुष्टया छायांशुष्कं वटीकृतम् । लोहसंपुटगं रुद्धा संधि मूलवणैर्दृढम् ॥ ६३ ॥ तं धमेत्खदिराङ्गारे यावदारक्तमुद्धरेत् । उत्खन्योत्खन्य तन्मध्यादुद्धरेत्तद्रसं पुनः ॥ ६४ ॥ काचटङ्कणसंयुक्तं मूषायां चान्धितं पचेत् । गान्धारीगुटिका सिद्धा वर्षे वक्रे स्थिता सदा ॥६५॥ काकतुण्डीवीजतैलं ककं नस्यमाचरेत् । क्रामकं ह्यनुपानं साजीवेद्वर्षसहस्रकम् ॥६६॥ मार्तण्डी गुटिका। शुद्धस्तसमं गन्धं मर्दनात्कजलीकृतम् । १'शुष्कं तं च बिचूर्णयेत्' ख.
३.] रसरत्नाकरस्य रसायनखण्डः। २५ तत्ताम्रसंपुटे रुद्धा लवणेन मृदा दृढम् ॥ ६७ ॥ शुष्कं दीपाग्निना पच्याद्यामैकं भसयत्रके ॥ ६८ ॥ संपुटसोललग्नं तत्समुद्धृत्याथ मर्दयेत् । तुल्यपारदसंयुक्तं पूर्ववत्संपुटे पचेत् ॥ ६९ ॥ उद्धृत्य तुल्यम्तेन संयुक्तं मर्दितं पचेत् । इत्येवं सप्तधा कुर्यात्पुनः पारदटङ्कणम् ।। ७९ ॥ तुल्यं तुल्यं क्षिपेत्तसिन् दिनं सर्वं विमर्दयेत् । वज्रमूषागतं रुद्धा ध्माते खोटो भवेद्रसः ॥ ७१ ॥ मार्तण्डी गुटिका ह्येषा वर्षकं यस वक्रगा। वलीपलितमुक्तोऽसौ जीवेदाचन्द्रतारकम् ॥ ७२ ॥ पलाशवीजजं तैलं पलैकं क्षीरतुल्यकम् । क्रामणं प्रपिवेन्नित्यं तत्क्षणान्मूर्च्छितो भवेत् ॥७३॥ तस्य वके गवां क्षीरं स्तोकं स्तोकं निषेचयेत् । प्रबुद्धे क्षीरमनं साद्भोजने परमं हितम् ।। ७४ ॥ तस्य मूत्रपुरीषाभ्यां तानं भवति काञ्चनम् । वायुवेगो महासिद्धश्छिद्रां पश्यति मेदिनीम् ॥७५ ॥ तारकेश्वरीगुटिका । काकमाच्यमृताद्रावैः पारदं तालकं समम् । मर्दयेदिनमेकं तु कृत्वा गोलं विशोषयेत् ॥ ७६ ॥ निक्षिपेद्वज्रमूषायामाच्छाद्य लोहपर्पटैः । रुडा सन्धि धमेगाढं खोटबद्धो भवेद्रसः ।। ७७॥ लोहपर्पटकं दत्त्वा तद्वद्धाम्यं त्रिधा पुनः । वर्षेकं धारयेद्वक्के गुटिका तारकेश्वरी ॥७८ ।। बाकुचीबीजकर्फकं गवां क्षीरैः पिबेदनु । 'दीप्ताग्निना' ख.। २'बद्धो' ख.। ३ 'पर्पटीरसैः' ख। ३ आयुर्वेदीयग्रन्थमाला। [उपदेशः विद्यावागीश्वरी गुटिका । व्योमसत्त्वं मृतं वनं स्वर्णतारार्कमुण्डकम् ॥ ७९ ॥ तीक्ष्णं कान्तं तालकं च शुद्धं कृत्वा विमिश्रयेत् । सूक्ष्मचूर्णं समं सर्वं चूर्णाशं शुद्धपारदम् ॥ ८० ॥ त्रिदिनं चाम्लवर्गेण मर्दितं चान्धितं धमेत् । विद्यावागीश्वरी ख्याता गुटिका वत्सरावधि ॥ ८१॥ यसं वक्रे स्थिता तस्य जरा मृत्युन विद्यते । कर्ष ज्योतिष्मतीतैलं कामणार्थ पिबेत्सदा ॥ ८२ ॥ वाक्पतिर्जायते धीरो जीवेच्चन्द्रार्कतारकम् । वज्रतुण्डावटिका। कान्तपाषाणमाक्षीकं टङ्कणं कर्कटास्थि च ॥ ८३ ॥ मुह्यकक्षीरभूनागं सर्वमेतत्समं भवेत स्त्रीस्तन्येन दिनं मर्च तेन मूषां प्रलेपयेत् ॥ ८४ ॥ तन्मध्ये द्रुतमूतं तु वज्रभस समं समम् । क्षिप्त्वा रुवा पुटे पच्याद्गजाख्ये याममात्रकम् ॥ ८५॥ ततः प्रलिप्तमूषायां क्षिप्त्वा रुवा धमेद्धठात् । एवं पुनः पुनः कार्य वज्रसूतं मिलत्यलम् ।। ८६ ॥ ततस्तस्यैव दातव्यं समं काचं सटङ्कणम् । एवं मूषाशते देयं तुल्यं तुल्यं धमन् धमन् ॥ ८७ ।। तेजःपुञ्जो रसेन्द्रोऽसौ भवेन्मार्तण्डसंनिभः । गुटिका वज्रतुण्डेयं वक्रस्था मृत्युनाशिनी ।। ८८ ॥ वर्षमात्रान संदेहो रुद्रतुल्यो भवेन्नरः । तस्स मूत्रपुरीषाभ्यां पूर्ववत्काञ्चनं भवेत् ॥ ८९ ॥ पञ्चाङ्गं भक्षयेत्कर्ष रुदन्त्या मधुसर्पिषा । गगनेश्वरीगुटिका। टङ्कणं कर्कटास्थीनि ऊर्णा चैव शिलाजतु ॥ ९० ॥ १'शुद्धसूतं' ख।
रसरत्नाकरस्य रसायनखण्डः। २७ महिपीकर्णनेत्रोत्थं मलं स्त्रीस्तन्यकैः समम् । पिष्ट्वा तल्लिप्तमूषायामभ्रसत्वं क्षिपेद्धमेत् ॥ ९१ ।। सत्त्वतुल्यं क्षिपेत्तत्र पूर्ववद्रुतपारदम् । द्रवं दिव्योषधीनां च दत्त्वा तत्रैव तद्धमेत् ॥ ९२ ॥ मिलितो जायते बद्धः पूर्ववत्काचटङ्कणः । ध्मातो मूषाशतेनायं तेजःपुञ्जो भवेद्रसः॥९३ ॥ वर्षेकं धारयेद्वक्रे शिवतुल्यो भवेन्नरः । अजरामरकारीयं गुटिका गगनेश्वरी ।। ९४ ।। बिल्वबीजोत्थितं तेलं निष्कमानं पिवेदनु । उदरे जायते वह्निः पिबेत्क्षीरं पुनः पुनः॥९५ ॥ साक्षाजातिसरत्वं च कवित्वं श्रुतधारणम् । खेचरत्वमदृश्यत्वं जायते नात्र संशयः ॥ ९६ ॥ आनन्दगुटिका। अग्निमन्थो वज्रवल्ली मूरणं वनमरणम् । चित्रकश्च द्रवैरेषां शुद्धमतं दिनावधि ॥ ९७ ॥ मर्दयेत्तप्तखल्वे तु तं रसं पलमात्रकम् । पलं पलं तालवङ्गो तत्सर्वं चाम्लवेतसः॥९८॥ मर्दयेदिनमेकं तु कृत्वा तं गोलकं पुनः। चतुःपलां नागमूषां कृत्वा तस्यां तु तत्क्षिपेत् ॥ ९९॥ चतुष्पले शुद्धताम्रसंपुटे तां निरोधयेत् । मृण्मूषायां तु तां रुहा आरण्योत्पलकैः पुटेत् ॥१०॥ शतद्वयप्रमाणेस्तु स्वाङ्गशीतं समुद्धरेत् । सर्व दिव्योषधद्रावैर्मर्दयेद्दिवसत्रयम् ।। १०१ ॥ चतुर्निष्कमिता कार्या वटिका, शोषयेत्ततः। एकैकां वज्रमूषायां रुड्वा तीवाग्निना धमेत् ।। १०२॥ १ पूर्ववच्छुद्धपारदम्' ख.।
२८
आयुर्वेदीयग्रन्थमाला। [उपदेशः
आनन्दगुटिका ह्येषा वस्था मृत्युनाशिनी ।
वत्सरान्नात्र संदेहो जीवेद्ब्रह्मदिनत्रयम् ॥ १०३ ॥
तैलं वातारिबीजोत्थं गोक्षीनिष्कमात्रकम् ।
क्रामणार्थ पिबेनित्यं शीघ्रसिद्धिकरं परम् ।। १०४ ।।
वनखेचरिकावटिका।
वज्रभससमं सूतं हंसपाद्या द्रवैस्यहम् ।
मर्दितं द्वन्द्वमूषायां लिप्तायां चान्धितं पुटेत् ॥ १०५ ॥
धराख्ये दिवारात्रौ समुद्धृत्याथ तस्य वै ।
पूर्वाशं पारदं दत्त्वा हंसपाद्या द्रवैस्यहम् ॥ १०६ ॥
मार्दतं द्वन्द्वलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं धमनाच्छोध्यं काचटङ्कणयोगतः॥१०७॥
नक्षत्राभं भवेद्यावत्तावद्धाम्यं पुनः पुनः।
तसं व्योमसत्वं च काञ्चनं च समं समम् ॥१०८॥
समावर्त्य ततः कार्या गुटिका वक्रमध्यगा।
वज्रखेचरिका नाम वत्सरान्मृत्युनाशिनी ॥ १०९॥
वलीपलितनिमुक्तो दिव्यकायो भवेन्नरः।
निर्गुण्डीमुनिचूर्ण तु कर्षमाज्यैः पिबेदनु ॥ ११० ॥
रत्नेश्वरी गुटिका।
कान्तं शुल्वं समं चूयं वज्रमूषान्धितं धमेत् ।
तत्खोटसिद्धचूर्ण तु गन्धकाम्लेन मर्दयेत् ।। १११ ॥
रुवा सम्यक्पुटे पच्यात्ममुद्धृत्याथ मर्दयेत् ।
पूर्ववत्क्रमयोगेन पुटेद्वारांश्चतुर्दश ॥ ११२ ॥
वज्रेण द्वन्द्वितं स्वर्णमनेनैव तु रञ्जयेत् ।
मूषामध्ये धमन्नेवं सप्तवारं समं क्षिपेत् ॥ ११३ ॥
तत्खोटं चूर्णितं भाव्यं स्त्रीपुष्पेण दिनावधि ।
तत्तुल्यं द्रुतसूतं तु सर्वं यामं विमर्दयेत् ॥ ११४ ॥
३.] रसरत्नाकरस्य रसायनखण्डः। २९ वेष्टयेद्भूर्जपत्रेण वस्त्रे बट्टा पचेत्र्यहम् । दोलायत्रे सारनाले जातं गोलं समुद्धरेत् ॥ ११५ ॥ गान्धारी जीवनी चैव लागली चेन्द्रवारुणी । एतासां पिण्डकल्केन वेष्टयेत्पूर्वगोलकम् ॥ ११६ ॥ अन्धयित्वा दिनं पच्याद्भूधरे तं समुद्धरेत् । पुनर्लेप्यं पुनः पाच्यं चतुर्दशदिनावधि ॥ ११७॥ गुटिका जायते दिव्या नाम्ना रत्नेश्वरी तथा । वक्रस्था वर्षमात्रं तु नन्दितुल्यो भवेन्नरः॥ ११८ ।। जीवेद्वर्षसहस्राणि दिव्यतेजा महाबलः। वर्षद्वादशपर्यन्तं यस्य वक्रे स्थिता तु सा ॥ ११९ ।। तस्य प्रस्खेदसंपर्कादष्टलोहानि काञ्चनम् । जायन्ते नात्र संदेहः सत्यमीश्वरभाषितम् ॥ १२० ॥ पञ्चाङ्गचूर्ण मध्वाज्यै रुदन्त्युत्थं लिहेदनु । खणं कृष्णाभ्रसत्त्वं च तारं तानं सुचूर्णितम् ॥१२१॥ समांशं द्वन्द्वलिप्तायां मूषायां चान्धितं धमेत् । तत्खोटं भागचत्वारि भागैकं मृतवज्रकम् ।। १२२ ॥ माक्षिकं तीक्ष्णकान्तं च भागैकैकं सुचूर्णितम् । समस्तं द्वन्द्वलिप्तायां भूषायां चान्धितं धमेत् ॥ १२३॥ तत्खोटं सूक्ष्मचूर्णं तु चूर्णीशं द्रुतमृतकम् । त्रिदिनं तप्तखल्वे तु मर्य दिव्यौषधिद्रवैः ।। १२४ ॥ रुवाऽथ भूधरे पच्यादहोरात्रात्समुद्धरेत् । द्रुतमूतं पुनस्तुल्यं दत्त्वा मर्च पुटेत्तथा ॥ १२५॥ इत्येवं सप्तवारांस्तु द्रुतं सूतं समं समम् । दत्त्वा मद्य पुटे पच्याजायते भस्मसूतकः ॥ १२६ ॥ भसस्तसमं गन्धं दत्त्वा रुद्धा धमेदृढम् । जायते गुटिका दिव्या विख्याता दिव्यखेचरी ॥१२७ दिव्यखेचरीवटिका।
आयुर्वेदीयग्रन्थमाला। [उपदेशः वर्षे धारयेदके जीवेत्कल्पसहस्रकम् । तस्य मूत्रपुरीषाभ्यां सर्वलोहस्स लेपनात् ॥ १२८ ॥ जायते कनकं दिव्यं समावर्ते न संशयः। पलद्वयं भृङ्गराजद्रवं चानु पिबेत्सदा ॥ १२९ ॥ पूर्वोक्तं भसमूतं वा गुञ्जामात्रं सदा लिहेत् । वर्क मधुनाऽऽज्येन लक्षायुर्जायते नरः ॥ १३०॥ वलीपलितनिर्मुक्तो महाबलपराक्रमः । वर्णवैक्रान्तबद्धरसः । स्वर्ण वैक्रान्तसत्त्वं च द्वन्द्वितं जारयेद्रसे ॥ १३१ ।। समांशं तु भवेद्यावत्ततस्तेनैव सारयेत् । समेन जायते बद्धो धारयेत्तं मुखे सदा ॥ १३२ ॥ संवत्सरप्रयोगेण जराकालापमृत्युजित् । कुमार्या दल द्रावं सितायुक्तं पिबेदनु ॥ १३३ ॥ स्वर्णवैकान्तबद्धोऽयं ब्रह्मायुर्यच्छते नृणाम् । वैकान्तवटिका। वैक्रान्तसत्त्वतुल्यांशं शुद्धसूतं विमर्दयेत् ॥ १३४ ॥ दिनं दिव्यौषधद्रावैस्तद्गोलं निगडेन वै । लिस्वा लवणगर्भायां वज्रमूष्यां निरोधयेत् ॥ १३५ ॥ छायायां शोषयेत्सन्धिं त्रिदिनं तुषवहिना । स्वेदयेद्वा करीषाग्नौ दिवारात्रमथोद्धरेत् ॥ १३६ ॥ तगोलं निगडेनैव लित्वा तद्वनिरुध्य च । छायाशुष्कं धमेद्गाढं बन्धमायाति निश्चितम् ॥१३७।। वर्षे धारयेद्वके जीवेद्ब्रह्मदिनत्रयम् । वैकान्तगुटिका ह्येषा सर्वकामफलप्रदा ॥ १३८ ॥ ककं त्रिफलाचूर्ण मध्वाज्याभ्यां लिहेदनु । १'जारयेत् ख.।
३.] रसरत्नाकरस्य रसायनखण्डः। दिव्यखेचरीगुटिका। हेम्ना यवन्द्रितं वज्रं कुर्यात्तत्सूक्ष्मचूर्णितम् ।। १३९ ।। एतद्देयं गुह्यमते मूषायामधरोत्तरम् यादमानं प्रयत्नेन रुवा सन्धि विशोषयेत् ॥ १४०॥ भूधराख्ये दिनं पच्यात्समुद्धृत्याथ मर्दयेत् । दिव्योषधफलद्रावस्तप्तखल्वे दिनावधि ॥ १४१ ।। रुवाऽथ भूधरे पच्याद्दिनं लघुपुटैः पुटेत् । समुद्धृत्य पुनस्तद्वन्मयं रुद्धा दिनत्रयम् ॥ १४२ ।। तुषाग्निना शनैः खेद्यमूर्ध्वाधः परिवर्तयन् । जायते भसम्तोऽयं सर्वयोगेषु योजयेत् ॥ १४३ ॥ द्रुतमूतस्य भागैकं भागैकं पूर्वभसकम् । शुद्धनागस्य भागैकं सर्वमम्लेन मर्दयेत् ॥ १४४ ॥ अन्धमूषागतं धाम्यं खोटो भवति तद्रसः। धमेत्प्रकटमूषायां यावन्नागक्षयो भवेत् ॥ १४५ ॥ द्रुतमूतप्रकारेण द्रावयित्वा विमं रसम् । निक्षिपेत्कच्छपे यत्रे विडं दत्त्वा दशांशतः ।। १४६।। स्वर्णादिसर्वलोहानि क्रमेणैव च जारयेत् । प्रत्येकं षड्गुणं पश्चाद्वजद्वन्द्वं च जारयेत् ॥ १४७ ॥ त्रिगुणं तु भवेद्यावत्ततो रत्नानि वै कमात् । जारयेद्रावितान्येव प्रत्येकं त्रिगुणं शनैः ॥ १४८ ॥ ततो यत्रात्समुद्धृत्य दिव्यौषधद्रवैर्दिनम् । मर्थ रुवा धमेद्गाढं जायते गुटिका शुभा ॥ १४९ ॥ पूजयेदकुशीमत्रैर्नाम्नेयं दिव्यखेचरी। यस वक्रे स्थिता ह्येषा स भवेझैरवोपमः ॥१५० ॥ दिव्यतेजा महाकायः खेचरत्वेन गच्छति । यत्रेच्छा तत्र तत्रैव क्रीडते ह्यङ्गनादिभिः ।। १५१ ॥
३२ आयुर्वेदीयग्रन्थमाला। [उपदेशः महाकल्पान्तपर्यन्तं तिष्ठत्येव न संशयः। तस्य मूत्रपुरीषाभ्यां तानं भवति काञ्चनम् ॥ १५२॥ पलाशपुष्पचूर्ण तु तिलाः कृष्णाः सशर्कराः । सर्व पलत्रयं खादेनित्यं स्यात् क्रामणे हितम् ॥१५३॥ प्रचण्डखेवरीगुटिका । चूर्णमश्वखुरस्यैव गुह्यसूते समं क्षिपेत् । त्रिदिनं मातुलुङ्गाम्लैस्तत्सर्वं मर्दयेदृढम् ॥ १५४ ॥ मूततुल्यं मृतं वज्र तस्मिन् क्षिप्वाऽथ मर्दयेत् । तप्तखल्वे दिनं चाम्लैस्तद्गोलं चान्धितं पुटेत् ॥ १५५॥ दिनैकं भूधरे यत्रे भागैकं पूर्वपारदम् । क्षिप्ता तसिन् दृढं मर्च मातुलुङ्गद्रवैर्दिनम् ॥ १५६ ।। रुद्वाऽथ पूर्ववत्पच्यात्पुनर्देयश्च पारदः। मर्च पाच्यं यथापूर्वमेवं कुर्याच्च सप्तधा ।। १५७ ॥ रसं पुनः पुनर्दत्त्वा सादेवं भसस्तकः । योजयेत्सर्वयोगेषु जरामृत्युहरो भवेत् ॥ १५८ ॥ भागैकं नागचूर्णस्य भागैकं पूर्वभसनः । द्रुतस्तस्य भागैकं खोटं कुर्याच पूर्ववत् ॥ १५९ ॥ तद्वद्धाम्यं गते नागे द्रावितं जारयेत्पुनः । पूर्ववल्लोहरत्नान्तं जीणे बद्धा स्थिता मुखे ॥ १६० ॥ प्रचण्डखेचरी नानी गुटिका खे गतिप्रदा । पूर्ववल्लभते वीरः फलमत्यन्तदुर्लभम् ॥ १६१ ॥ निर्गुण्डीमूलचूर्ण तु कर्ष तक्रः पिवेदनु । कङ्कालखेचरीगुटिका। शुद्धसूतस्य दातव्यं कलांशं मृतवज्रकम् ।। १६२ ॥ तत्सर्वमम्लवर्गेण तप्तखल्वे दिनत्रयम् । मर्दयित्वा ततस्तेन लेपयेत्समभागतः ॥ १६३ ॥ १'आरितं द्रावयेत्युनः' ख.।
रसरत्नाकरस्य रसायनखण्डः।
कालविध्वंसिका वटिका ।
पक्कबीजस्य पत्राणि तानि भानुदलैः पुनः ।
वेष्टितानि निरुध्याथ निखनेचुल्लिगर्भतः ॥ १६४ ॥
आच्छाद्य ज्वालयेत्तत्र काष्ठानि दिवसत्रयम् ।
उद्धृत्य द्वन्दलिप्तायां मूषायां तं निरोधयेत् ॥ १६५ ॥
करीषाग्नौ पुटे पच्यादहोरात्रात्समुद्धरेत् ।
वासनामुखिते मूते तुल्यमेतद्विनिक्षिपेत् ॥ १६६ ॥
अम्लेन मर्दयेद्यामं जातं गोलं समुद्धरेत् ।
क्षिपेजम्बीरगहें तं वस्त्रे बद्धा त्र्यहं पचेत् ॥ १६७ ॥
दोलायत्रे सारनाले जायते गुटिका शुभा।
कङ्कालखेचरी नाम्ना वक्रस्था मृत्युनाशिनी ॥१६८॥
वर्षेकं धारयेद्यस्तु स जीवेद्रह्मणो दिनम् ।
गन्धकं गुग्गुलुं तुल्यमाज्यैः कर्ष लिहेदनु ॥ १६९ ॥
कृष्णाभ्रकस्य सत्त्वं तु कान्तमाक्षीककाञ्चनम् ।
तीक्ष्णं सौवीरचूर्ण च तुल्यं रुद्धा धमेदृढम् ॥ १७०॥
तत्खोटं सूक्ष्मचूर्णं तु द्रुतसूतसमं भवेत् ।
सूताध मारितं वज्रं सर्वमम्लेन मर्दयेत् ॥ १७१ ॥
दिनैकं तप्तखल्वे तु तं रुवा भूधरे पचेत् ।
अहोरात्रात्समुद्धृत्य तत्सम पूर्वमूतकम् ॥ १७२ ॥
दत्त्वा दिव्योषधद्रावैर्मर्य सर्व दिनावधि ।
पूर्ववद्भूधरे पच्याद्दुतस्तं पुनः समम् ।। १७३ ॥
दत्त्वा मधु पुनः पच्यादित्येवं सप्तवारकम् ।
एतद्भस्मसमं गन्धं दत्त्वा चान्ध्यं धमेदृढम् ॥ १७४ ॥
जायते गुटिका दिव्या कालविध्वंसिका परा।
यस्य वक्रे स्थिता ह्येषा तस कालः करोति किम् १७५
वर्षषटुप्रयोगेण जीवेत्कल्पसहस्रकम् ।
तद्गावखेदमात्रेण सर्वलोहानि काञ्चनम् ॥ १७६ ॥
आयुर्वेदीयग्रन्थमाला। [उपदेशः जायन्ते नात्र संदेहः शिवाम्बु कामकं पिबेत् । पञ्चानना गुटिका। खर्णताराकान्तं च तीक्ष्णचूर्ण समं समम् ॥ १७७॥ द्वन्द्वमेलापलिप्तायां मूषायां चान्धितं धमेत् । तत्खोटं चूर्णितं कृत्वा चाभिषिक्तं तु पूर्ववत् ॥ १७८॥ समुखे जारयेत्स्ते यावत्पञ्चगुणं क्रमात् । दिव्यौषधद्रवैस्तं वै मर्दयेदिवसत्रयम् ॥ १७९ ॥ अन्धमूषागतं ध्मातं जायते गुटिका शुभा । नाम्ना पञ्चानना धार्या व संवत्सरावधि ।। १८०॥ वलीपलितनिर्मुक्तो जीवेचन्द्रार्कतारकम् । हस्तिकर्णी समूला तु चूा मध्वाज्यसंयुता ॥ १८१॥ स्निग्धभाण्डे तु तां रुद्धा धान्यराशौ निवेशयेत् । त्रिसप्ताहात्समुद्धृत्य पलैकं भक्षयेदनु ॥ १८२ ॥ शतवेधिकादिगुटिकाः । ऋद्धिखंण्डे तु यत्प्रोक्तं विविधं रसबन्धनम् । अत्र तस्यैव वक्ष्यामि देहवेधक्रमं यथा ॥ १८३ ॥ जारितैर्बन्धितैस्तैस्तै रसराजैः पृथक्पृथक् । कारयेद्गुटिकां दिव्यां बदराण्डप्रमाणकाम् ॥ १८४॥ सा धार्या वत्सरं वके स्वानुरूपफलप्रदा। गुटिका शतवेधी सायुगायुष्यकरी नृणाम् ॥ १८५॥ सहस्रवेधी गुटिका अष्टकल्पान्तरक्षिका । लक्षवेधकरी या तु सा दत्ते विष्णुवरलम् ॥ १८६ ॥ वेधिका दशलक्षे या सा रुद्रपददायिनी। कोटिवेधकरी या सा ईश्वरत्वकरी नृणाम् ॥ १८७ ॥ वेधिका दशकोटीनां सा सदाख्यपदप्रदा। १ ऋद्धिखण्डे इति वादिखण्डे इत्यर्थः। २ 'तथा' ख.
रसरत्नाकरस्य रसायनखण्डः । गुटिकार्बुदवेधी या सा श्रीकण्ठपदप्रदा ॥ १८८ ॥ सम्यग्भवपदं दत्ते गुटिका शङ्खवेधिका । धूम्रवेधी तु या सिद्धा सा शक्तिपददायिनी ॥ १८९॥ पराशक्तिपदं दत्ते स्पर्शवेधकरी तु या। शब्दवेधकरा या तु सा यस्य वत्सरावधि ॥ १९० ॥ वक्रे स्थिता स वै सिद्धो नित्यं नित्यपदं लभेत् । खेच्छाचारी वज्रकायो वज्रपातैर्न भिद्यते ॥ १९१ ॥ तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् । जायन्ते स्वेदसंपर्कागात्रसंस्पर्शनादपि ॥ १९२ ॥ सर्वेषामुक्तयोगानामनु साच्छुद्धगन्धकम् । पलार्धं भक्षयेन्नित्यं रससंक्रामणे हितम् ।। १९३ ।। कालि कालि महाकालि मांसशोणितभोजिनि । रक्तकृष्णमुखे देवि रससिद्धिं ददस्व मे ॥१९४॥ स्वाहा अनेन सिद्धमत्रेण शक्तिचक्रं प्रपूजयेत् । कालिकां भैरवं सिद्धान् कुमारी साधितं रसम् ॥१९५ ततो रसायनं दिव्यं सेवयेत् सिद्धिमाप्नुयात् । गुटिकां धारयेद्वके पूर्वमत्रं जपेत्सदा ॥ १९६ ॥ रसमत्रप्रयोगेण शीघ्रं सिद्धिमवाप्नुयात् । कालान्तरससिद्धिकरणप्रकारः कालान्तरससिद्धिर्या प्रोक्ता मन्थानभैरवे ॥ १९७ ॥ तदर्थ पञ्च तत्त्वानि षष्ठं जीवं च साधयेत् । काकिन्याः पुष्पकाले तु सङ्गं कृत्वा समाहरेत् ॥१९८ तद्योनिस्थं रजोबीजं गगनं तं विदुर्बुधाः । काकिन्युत्पन्नपुत्रस्य सद्योविड्वायुरुच्यते ॥ १९९ ॥ तेजस्तु काकिनीपुष्पं जलं तत्पुत्रशोणितम् । १ अस्याग्रे 'ऐं ह्रीं श्रीं श्रीं' इत्यधिकं ख. पुस्तके ।
३
आयुर्वेदीयग्रन्थमाला। [उपदेशः
काकिनीपुत्रसर्वाङ्गं पृथिवीतत्त्वमुच्यते ॥ २०० ॥
रससेवकदेहोत्थवीर्य जीवस्तु कथ्यते ।
तत्प्रत्येकं कोटिवेधं कक्कं रससंयुतम् ॥ २०१॥
कृत्वा संरक्षयेद्भिन्नं सुपिष्टं गोलकीकृतम् ।
उन्नतं पौरुषं यावद्विस्तारेण तदर्धकम् ॥ २०२॥
कुर्यात्ताम्रकटाहं तु स्थूलं यावत् षडङ्गुलम् ।
चतुर्मुखस्य कोष्ठस्य पृष्ठे धार्य दृढं यथा ॥ २०३॥
गोघृतं नरतैलं च समभागेन मेलयेत् ।
तेनापूर्य कटाहं तं सिद्धचक्रं ततोऽर्चयेत् ॥ २०४ ॥
कुमारीगुरुदेवाग्नीन् भैरवं भैरवीयुतम् ।
तर्पयेद्वलिमांसेन क्षेत्रपालं च पूजयेत् ॥ २०५ ॥
धमनं तत्र कुर्वीत चतुर्दिक्षु शनैः शनैः।
चतुर्मिर्वकनालैश्च खदिराङ्गारयोगतः ॥ २०६॥
सुतप्तं फेननिर्मुक्तं निधूमं च यदा भवेत् ।
चन्द्रार्कग्रहनक्षत्रदेवताभुवनानि च ॥ २०७॥
नमस्कृत्य गुरुं देवं देहं तत्र विनिक्षिपेत् ।
सुद्भुतं तं विजानीयानिक्षिपेत्पार्थिवं रसम् ।। २०८ ॥
धमन्नत्रैव यत्नेन यावत्तत्कल्कतां व्रजेत् ।
अप्तचाख्यं रसं तसिन् क्षिपेद्रक्तं भवेत्तु तत् ॥ २०९
वायुयुक्तं रसं क्षिप्त्वा शुभ्रवर्ण प्रजायते ।
तजोयुक्तं रसं क्षिप्याद्धनीभूतं भवेत्तु तत् ॥ २१० ॥
तत आकाशसंयुक्तं रसं तत्र विनिक्षिपेत् ।
आवर्तितं सुवर्णाभं जायते तत्र निक्षिपेत् ॥ २११॥
जीवयुक्तं रसं दिव्यं ततो हुङ्कारमुच्चरेत् ।
कृत्वा तत्र महारावं हुङ्कारत्रयसंयुतम् ।। २१२ ॥
ततथोत्तिष्ठते सिद्धः पूर्वाह्न भास्करो यथा ।
दिव्यतेजा महाकायो महाबलपराक्रमः ॥२१३ ॥
रसरत्नाकरस्य रसायनखण्डः। नवनागसहस्राणां वलं तस्याधिकं भवेत् । जीवते वज्रदेहः सन् सत्यं सत्यं शिवोदितम् ॥२१४॥ जराजर्जरिताङ्गानामन्धानां पङ्गुकुष्ठिनाम् । नष्टवाग्जडपण्डानां कुब्जानां कुष्ठदेहिनाम् ॥ २१५ ॥ अनेकव्याधियुक्तानां प्रान्तोन्मत्तपिशाचिनाम् । किं पुनः स्वच्छदेहानां भूपानां रससेविनाम् ॥ २१६॥ वीराणां साधकानां च दिव्यसिद्धिप्रदो भवेत् । तस्माद्वीरतरो योऽत्र भैरवोऽसौ न संशयः॥ २१७ ॥ वज्रकायो भवेत्सिद्धो मेधावी दिव्यरूपवान् । अर्धयोजनविस्तीर्ण विमानं चाप्सरोयुतम् ॥ २१८ ॥ आयाति नात्र संदेहस्तस्य सिद्धस्य संमुखम् । तत्रारूढो रुद्रलोके क्रीडते भैरवो यथा ॥ २१९ ॥ क्षुत्पिपासाविनिर्मुक्तो जगन्नाशे न नश्यति । भुञ्जानः सर्वभोगांश्च योगिनां स प्रियो भवेत् । इच्छासिद्धो महावीरो नित्यानन्दमयो भवेत् ॥२२०॥ दृष्ट्वा समस्तमनुभूय रसायनेषु सारातिसारसुखसाध्यतरं नराणाम् । देहस्य दाबकरणे गुटिकाप्रयोगाः प्रोक्ताः परं शिवकराः सततं सुसिध्यै ॥ २२१ ॥ इति पार्वतीपुत्र श्रीनित्यनाथसिद्धविरचिते रसरत्नाकरे रसायनखण्डे गुटिकारसायनं नाम तृतीयोपदेशः । अथ चतुर्थोपदेशः। मूतगन्धगगनायसशुल्वं मारितं च परमामृतीकृतम् । इष्टमेकमपि मूलिकागणं देहसिद्धिकरमाशु सेवितम् ॥१॥ १'योगिनीनां ख.।
आयुर्वेदीयग्रन्थमाला।
[उपदेशः
कान्तादिमहारसायनम् ।
मृतकान्ताभ्रक मूतं गन्धं भृङ्गविडङ्गकम् ।
त्वग्वज बिल्वबीजं च प्रत्येक पलषोडश ॥२॥
त्रिंशत्पलं त्र्यूषणं च त्रिंशत्रिंशद्धृतं मधु ।
चित्रमूलं दशपलं सर्व चूर्ण विलोडयेत् ॥ ३॥
पलानि त्रिफलायास्तु विंशपूर्व चतुःशतम् ।
काथ्यमष्टगुणैस्तोयैाह्यमष्टावशेषितम् ॥ ४ ॥
कषायं भावयेत्तेन मासैकं पूर्वलोडितम् ।
लोहपात्रे खरे धर्मे तत्पलार्ध सदा पिबेत् ॥ ५॥
क्षीरैः शयनकाले तु वर्षान्मृत्युजरापहम् ।
बालो निबिडसंधिश्च जीवेच्चन्द्रार्कतारकम् ॥ ६॥
महारसायनं दिव्यं कामिनीशततोषकम् ।
रसायना अभ्रकयोगाः ।
अग्निवर्ण क्षिपेत्क्षीरे कृष्णानं वह्नितापितम् ॥ ७॥
भिन्नपत्रं ततः कृत्वा जलमध्ये विनिक्षिपेत् ।
त्रिंशत्पलानि यत्नेन मरिचं पलपञ्चकम् ॥ ८॥
चूर्णितं निक्षिपेत्तसिंस्त्रिदिनान्ते समुद्धरेत् ।
तत्सर्व पेषयेच्छूक्ष्णं सितवस्त्रेण बन्धयेत् ॥ ९ ॥
जलपूर्णे घटे धर्मे दोलायत्रेण धारयेत् ।
शुष्क तोये पुनस्तोयं दद्याद्यावजले गतम् ॥१०॥
तदभ्रकं ततो वस्त्रं संत्यजेद्रक्षयेजलम् ।
त्रिंशद्भागं ततः कुर्यात्तजलं साधकं सुधीः ॥ ११ ॥
तद्भागैकेन संलोड्य पलैकं श्वेततण्डुलात् ।
त्रिंशत्पले गवां क्षीरे तत् पचेच्चाथ शीतलम् ॥ १२॥
मध्वाज्यर्द्विपलैर्युक्तं निष्कैकैश्च मरीचकैः।
साधको भक्षयेनित्यं मासान्मृत्युजरापहम् ॥ १३ ॥
४.] रसरत्नाकरस्य रसायनखण्डः। केशा दन्ता नखास्तस्य पतन्ति छुद्भवन्ति च । वज्रकायो भवेत्सिद्धो वायुवेगो महाबलः ॥ १४ ॥ अमृताम्रकयोगोऽयं शम्भुना गदितः पुरा । मृतानं गन्धकं शुद्धं कणा सर्व समं घृतः ॥१५॥ ककं भक्षयेन्नित्यं वर्षान्मृत्युजरापहम् । कोरण्टकस्य पत्राणि मृतानं गन्धकं समम् ॥ १६ ॥ तत्सर्वं नीलिकाद्रावैः सप्ताहं भाव्यमातपे । तत्कर्षेकं पिबेत्क्षीरैरब्दान्मृत्युजरापहम् ॥ १७ ॥ मृताभ्रकस्य कर्षेकं गवां क्षीरं पलं तथा । समूलपत्रां साक्षी सां। पिष्ट्वा च गन्धकम् ॥ १८॥ एकीकृत्य पिबेत्सर्वं वर्षेकन जरां जयेत् । वज्रकायः खेचरश्च जीवेद्ब्रह्मदिनत्रयम् ॥ १९ ॥ मृतानं कान्तलोहं च त्रिफला मागधी समम् । पञ्चाङ्गं बदरीचूर्णमभ्रतुल्यं नियोजयेत् ॥ २० ॥ सितामध्वाज्यसंयुक्तं पलार्धं भक्षयेत्सदा । हन्ति वर्षाजरां मृत्युमायुः स्याब्रह्मणो दिनम् ॥ २१ ॥ 'अमृतक्रीडे विष्णुसंवरणि स्वाहा ॥' अनेन मत्रेण सर्वे अभ्रकयोगा अभिमन्य भक्षणीयाः । रसायनाः कान्तयोगाः। मृतं कान्तं तिलाः कृष्णा बदरीफलचूर्णकम् । काकतुण्डीबीजचूर्ण सर्व तुल्यं प्रकल्पयेत् ॥ २२ ॥ शाल्मलीमल्लिपत्राणां द्रवर्भाव्यं दिनत्रयम् । त्रिदिनं भृङ्गार्भावितं शोषयेत्पुनः ॥२३॥ तसिंस्तुल्यं गुडं क्षिप्वा वटिकाः कर्षमात्रकाः। रुदन्त्युत्थद्वैः क्षीरैर्मध्वाज्याभ्यां पिबेत्सदा ॥ २४ ॥ १ 'महासिद्धो' ख.। २ 'सा' ख.। ३ 'कर्षकम्' ख.।
आयुर्वेदीयग्रन्थमाला। [उपदेशः वर्षेकेन जरां मृत्यु हन्ति सत्यं न संशयः। मृतं कान्तं कृष्णतिलांत्रिफला चूर्णयेत्समम् ॥ २५ ॥ शाल्मलीकेतकीद्रावैर्लोडितं कान्तपात्रके। स्थितं रात्रौ पिबेत्प्रातः पलार्ध मृत्युनाशनम् ॥ २६ ॥ वत्सरैकाजरां हन्ति जीवेद्ब्रह्मदिनत्रयम् । कान्तभम कणाचूर्ण निम्बनिर्यासमेव च ॥ २७ ॥ त्रिफलातुल्यतुल्यांशं मध्वाज्याभ्यां पलार्धकम् । लिहेन्मासाष्टकं नित्यं जीवेद्ब्रह्मदिनं नरः ॥ २८ ॥ कुष्ठखण्डानि संपाच्य कषाये त्रैफले समे। शोषयित्या विचूाथ तानि कान्तं मृतं समम् ॥२९॥ मध्वाज्याभ्यां लिहेत्कर्ष वर्षान्मृत्युजरापहम् । कोरण्टपत्रचूर्ण तु कान्तभस तिला गुडम् ॥ ३० ॥ तुल्यं भक्ष्यं पलाधं तद्वर्षान्मृत्युजरापहम् । कान्तभस समं गन्धं तैलैयॊतिष्मतीभवैः ॥ ३१ ॥ लिहेनित्यं चतुर्निष्कं ब्रह्मायुर्जायते नरः । बृहस्पतिसमो वाचा वत्सराद्भवति ध्रुवम् ॥ ३२ ॥ मृततीक्ष्णं त्रयो भागाः शुद्धगन्धाष्टभागकम् । धर्मे भाव्यं त्रिसप्ताहं तत्सर्वं कन्यकाद्रवैः ॥३३॥ गोक्षीरैस्तत्पिवेत्कर्ष जीवेद्ब्रह्मदिनत्रयम् । वर्षमात्रान संदेहो दिव्यतेजा महाबलः ॥ ३४॥ मृतं कान्तं शिला शुद्धा तुल्यं मध्वाज्यकैलिहेत् । निष्कं निष्कं तु वर्षेकं जीवेद्ब्रह्मदिनत्रयम् ॥ ३५ ॥ त्रिनिष्कं मृततीक्ष्णं तु मुण्डं वा कान्तमेव वा। पिबेदारोष्यपयसा वयःस्तम्भकरं नृणाम् ।।३६ ॥ वर्षदयप्रयोगेण जीवेदाचन्द्रतारकम् । १'वर्षयप्रयोगेण ख.
रसरत्नाकरस्य रसायनखण्डः।
सम्यकान्तमये पात्रे धात्रीचूर्ण शिवाम्बुना ॥ ३७ ॥
रात्रौ पलैक संलिप्य प्रातरुत्थाय भक्षयेत् ।
वलीपलितनिर्मुक्तो वत्सरान्मृत्युजिद्भवेत् ॥ ३८ ॥
लेपयेत्कान्तपात्रान्तः पलैकं त्रिफलामधु ।
दिवारानं स्थितं पेयं तनित्यं तु शिवाम्बुना ।
वर्षान्मृत्यु बरां हन्ति जीवेद्वर्षशतत्रयम् ॥ ३९ ॥
हा अमृते अमृतशक्ति अमृतगन्धोपजीवि निष्पन
चन्द्रामृतं आज्ञापितं कुरु कुरु स्वाहा हे हे हं हः गम्' इति
गन्धकलोहयोर्भक्षणमत्रः॥
सर्वेषां लोहयोगानामनु स्यात्क्षीरपानकम् ।
आस्वादेत्स्वादुमुस्तानां स्वरसं दन्तपीडितम् ॥ ४०॥
मूलानि भक्षयेत्तासामास्यवैरस्पशान्तये ।
बद्धे कोष्ठे तु दीप्तानो तप्तं क्षीरं पिबेत्सदा ॥४१॥
स्नानमर्दनतीक्ष्णोष्णं विष्टम्भे सति वर्जयेत् ।
ताम्बूलं भक्षयेनित्यं सकर्पूरं मुहुर्मुहुः॥ ४२ ॥
सम्यग्जीर्णे तु दीप्तानो पिवेत्पश्चादुभुक्षितः।
शृतं क्षीरं ततोऽन्नं च सेव्यं लोहरसायने ॥४३॥
ब्रह्मवृक्षकल्पः।
ब्रह्मवृक्षस्य पञ्चाङ्गं छायाशुष्कं सुचूर्णितम् ।
मध्वाज्वाभ्यां लिहेत्कर्ष वर्षेकेन जरां जयेत् ॥ ४४ ॥
जीवेद्वर्षसहजैकं दिव्यतेजा महाबलः।
ब्रह्मवृक्षस्य पुष्पाणि छायाशुष्काणि कारयेत् ॥ ४५ ॥
त्रिंशत्पलं तु तचूर्ण चतुर्विंशत्पलं धृतम् ।
एकीकृत्य क्षिपेद्भाण्डे तं रुझा धान्यराशिगम् ॥४६॥
कृत्वा मासात्समुद्धृत्य भागान् कुर्याच्चतुर्दश ।
भागैकं भक्षयनित्यं भुञ्जीत कान्तभाजने ॥४७॥
४२ आयुर्वेदीयग्रन्थमाला। [उपदेशः एवं मासत्रयं कुर्याद्वजकायो भवेन्नरः । तस्य मूत्रपुरीषाभ्यां ताम्रमायाति काञ्चनम् ॥४८॥ ब्रह्मवृक्षस्य बीजानि चूर्णितानि घृतैः सह । पूर्ववद्धान्यमध्ये तु क्षिप्त्वा मासात्समुद्धरेत् ॥ ४९ ॥ पलेकैकं सदा खादेद्वत्सरान्मृत्युजिद्भवेत् । वलीपलितनिर्मुक्तो जीवेब्रह्मदिनत्रयम् ॥ ५० ॥ ब्रह्मबीजोत्थितं तैलं गवां क्षीरैः पलद्वयम् । तुल्यैः पिवेद्भवेन्मूर्छा सिञ्चेत्तस्य मुखे पयः ॥ ५१ ॥ बोधे क्षीरोदनं दद्यान्मासाज्ज्ञानी भवेबरः। द्वितीये शुक्रतुल्यः स्यात्तृतीये वज्रवद्भवेत् ॥५२॥ दूरभावी चतुर्थे तु पञ्चमे खेगतिर्भवेत् । मासषदे स्वयं कर्ता शिवतुल्यपराक्रमः॥ ५३॥ महाकल्पान्तपर्यन्तं जीवेदकसेवनात् । ब्रह्मवृक्षमतिस्थूलं छेदयेदू-भागतः ॥५४ ॥ अधो रक्ष्यं त्रिहस्तं स्यात्तस्य मूर्ध्नि बिलं कृतम् । पकंधात्रीफलैः पूर्य तत्काष्ठेन निरुध्य च ॥ ५५ ॥ कुशैस्तु वेष्टयेत्सर्व लेप्यं मृगोमयैः पुनः । आवेष्ट्य वस्त्रखण्डेन लिम्पेन्मृगोमयैस्ततः॥५६॥ शुष्के गजपुटं देयं परितोरण्यकोत्पलैः। खाङ्गशीतलमुद्धृत्य सद्रवाणि फलानि च ॥ ५७ ॥ क्षिपेन्मध्वाज्यसंयुक्ते भाण्डे तान्येव भक्षयेत् । यथेष्टं भूगृहान्तःस्थः क्षीराहारी जरां जयेत् ।। ५८ ॥ मौसद्वयन वसुधां छिद्रां पश्यति निश्चितम् । जीवेदनदिनं यावत्सर्पवत्कञ्चकं त्यजेत् ॥ ५९ ॥ २'तं तु धात्रीफलैः' ख.। ३ 'पाचितों' ख.। ४ "छिदं पश्यति मासाद्वै निधानानि च भूतले खः। १'महाबलः'ख.। .
४.]
रसरत्नाकरस्य रसायनखण्डः।
श्वेतपालाशकल्पः।
श्वेतपालाशपञ्चाङ्गं चूर्णितं मधुना सह ।
कक्कं भक्षयेन्नित्यं मासान्मृत्युजरापहम् ॥ ६०॥
ब्रह्मायुर्जायते सिद्धो वर्षमात्रान संशयः ।
अजाघृतेन तद्बीजमेकैकं भक्षयेत्सदा ॥६१॥
शरीरं भसना मद्य मासान्मृत्युजरां जयेत् ।
जीवेब्रह्मदिनं यावद्दिव्यकायो भवेन्नरः ॥ ६२ ॥
अन्ये योगा यथा रक्ते ब्रह्मवृक्षे च ये गुणाः।
तथैव श्वेतपालाशे भवेयुः साधकस्य वै ॥ ६३ ॥
'अमृतं कुरु कुरु अमृतमालिन्यै नमः ॥' अनेन मत्रेण
सर्वयोगाः सप्ताभिमत्रिता भक्षणीयाः।
मुण्डीकल्पः ।
शुक्लपक्षेऽथ पूर्णायां पुष्ये वा श्रवणे तथा ।
रेवत्यां वाऽथ संपूज्य मुण्डीपञ्चाङ्गमुद्धरेत् ॥ ६४ ॥
छायाशुष्कं तु तचूर्ण कर्ष गोपयसा सह ।
वर्षेकेन जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ ६५ ॥
तस्य मूत्रपुरीपाभ्यां तानं सौवर्णतां व्रजेत् ।
तचूर्ण तु घृतैर्लेयं तद्वत्सादलमद्भुतम् ॥ ६६ ॥
'ॐ नमोऽमृतोद्भवाय अमृतं कुरु कुरु स्वाहा ओं हां सः॥'
इति औषधभक्षणमत्रः।
देवदालीकल्पः ।
छायाशुष्कं देवदालीपञ्चाङ्गं चूर्णयेत्ततः ।
मध्वाज्याभ्यां लिहेत्कर्ष वर्षान्मृत्युजरां जयेत् ॥ ६७॥
जीवेत्कल्पसहस्रं तु रुद्रतुल्यो भवेन्नरः।
तचूर्ण कर्षमात्रं तु नित्यं पेयं शिवाम्बुना ॥ ६८ ॥
पूर्ववजायते सिद्धिर्वत्सरान्नात्र संशयः ।
तचूर्ण बाकुचीवह्निसाक्षीभृङ्गराट्समम् ॥ ६९ ॥
४४ आयुर्वेदीयग्रन्थमाला। [ उपदेशः चूर्णितं कर्षमात्रं तु नित्यं पेयं शिवाम्बुना। वर्षान्मृत्युं जरां हन्ति छिद्रां पश्यति मेदिनीम् ॥७०॥ पुनर्नवादेवंदाल्योर्नी रैर्नित्यं पिबेन्नरः। देवदाल्याश्च साक्ष्याः पलैकं वा शिवाम्बुना ॥७१ पिबेत्सात्पूर्ववत्सिद्धिर्वत्सरान्नात्र संशयः । देवदाली च निर्गुण्डी पिबेत्कर्षा शिवाम्बुना । वर्षेकेन जरां हन्ति जीवेदाचन्द्रतारकम् ॥ ७२ ॥ ॐ अमृतगण रुद्रगणाम्भः स्वाहा । अयं च ग्रहणमत्रः ॥ 'नमो भगवते रुद्राय हुं फट् स्वाहा । अयं साधकस्य शिखा- बन्धनमत्रः॥ ॐ चर र र। अयं भक्षणमत्रः॥ श्वेतार्ककल्पः। पुष्ये श्वेतार्कमूलं तु ग्राह्यं छायाविशोषितम् । चूर्णकर्ष गवां क्षीरैः पलद्वन्द्वैर्युतं पिबेत् ॥ ७३ ॥ मासषट्काजरा हन्ति जीवेद्ब्रह्मदिनत्रयम् । द्रवं श्वेतार्कपत्राणां भृङ्गराजद्रवैः समम् ॥ ७४ ।। एकीकृत्यातपे शुष्कं चूर्ण क्षीरैश्चतुर्गुणैः । मृद्वग्निना पचेतावद्यावत्पिण्डत्वमागतम् । तत्कर्षेकं घृतैर्लेचं वर्षात्स्यात्पूर्ववत्फलम् ॥ ७५ ॥ 'ॐ आं हं वासरमालिने स्वाहा ।' अयं भक्षणमत्रः॥ हस्तिकर्णकल्पः। ग्राह्यं सोमत्रयोदश्यां हस्तिकर्णस्य पत्रकम् । छायाशुष्कं तु तचूर्ण गवां क्षीरैः पिबेत्पलम् ।। ७६ ॥ वर्षमात्राजरां हन्ति जीवेद्ब्रह्मदिनं नरः। हस्तिकर्षख पञ्चाङ्गं छायाशुष्कं विचूर्णितम् ।। ७७॥ १ अयं पाठः ख. पुखके नोफ्लभ्यते। २'कर्षक तु ख.।
8.] रसरत्नाकरस्य रसायनखण्डः। ४५ कर्षमात्रं पिवेन्नित्यं मासैकमुदकैः सह । आरनालस्ततस्तक्रर्दविक्षीराज्यक्षौद्रकैः ॥७८ ॥ प्रत्येकेन क्रमात्सेव्यं मासकेन जरापहम् । जीवेब्रह्मदिनं साधं वज्रकायो महाबलः ॥ ७९ ॥ 'ॐ गरविषं दृष्टौ गृह्णामि स्वाहा ।' हस्तिकर्णग्रहणमत्रः॥ 'ॐ अमृतकुटीजातानां अमृतं कुरु कुरु स्वाहा ' अनेन पूजयेत् । ॐ अमृतोद्भवाय अमृतं कुरु कुरु नित्यं नमो नमः।' भक्षणमत्रः॥ रुदन्तीकल्पः । रुदन्त्याश्चैव पञ्चाङ्ग छायाशुष्कं विचूर्णयेत् । तदर्ध मुशलीचूर्णं मुशल्य फलत्रयम् ॥ ८० ॥ मूलानां कतकोत्थानां तैलं पातालयत्रके । ग्राहयेद्गर्भयत्रे वा तत्तैलं क्षालयेजलैः॥ ८१ ॥ नालिकेरजलैर्वाऽथ क्षाल्यं पञ्चांशवारकम् । एतत्तैलेन संयुक्तं पूर्वचूर्ण लिहेत्क्रमात् ।। ८२ ॥ कर्षादिवर्धनं कार्य पलान्तं चाथ वर्धयेत् । एवमब्दाजरां हन्ति आयुः स्याब्रह्मणो दिनम् ॥ ८॥ सिद्धयोगो ह्ययं ख्यातो वज्रकायकरो नृणाम् । निर्गुण्डीकल्पः। पुष्या ग्राहयेत्प्रातर्निर्गुण्डीमूलजां त्वचम् ॥ ८४ ॥ छायाशुष्का विचूाथ कर्षमेकं पिबेत्सदा । अजासूत्रपलैकन षण्मासादमरो भवेत् ॥ ८५ ॥ वर्षमात्रप्रयोगेण शिवतुल्यो भवेन्नरः। तचूर्ण क्षीरमध्वाज्यैर्लोडितं स्निग्धभाण्डके ॥ ८६ ॥ १ 'अमृतकुक्षिजातानां ख.। २ 'पञ्चांशवासरम्' ख.।
आयुर्वेदीयग्रन्थमाला। [उपदेशः रुद्धा क्षिपेद्धान्यराशौ मासादुद्धृत्य भक्षयेत् । द्विपलं वर्षपर्यन्तं जीवेचन्द्रार्कतारकम् ॥ ८७ ॥ तचूर्णापलं चाज्यैलिहेत्स्यात्पूर्ववत्फलम् । तचूर्णं त्रिफला मुण्डी भृङ्गी निम्बो गुडूचिका ॥ ८८॥ वचा चैषां समं चूर्ण मध्वाज्याभ्यां लिहेत्पलम् । वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥ ८९ ॥ निर्गुण्डीपत्र द्रावं भाण्डे मृद्वग्निना पचेत् । गुडवत्पाकमापन्नं पीतं वान्तिविरेककृत् ॥ ९० ॥ निर्यान्ति कृमयस्तस्य मुखनासाक्षिकर्णतः । राजयक्ष्मादिरोगांश्च सप्ताहेन विनाशयेत् । मासत्रयाजरां हन्ति जीवेद्वर्षशतत्रयम् ॥ ९१ ॥ 'ॐ नमो माय गणपतये भूपतये कुबेराय स्वाहा' इति भक्षणमत्रः॥ रसायनाः कतिपययोगाः। भल्लातकोऽभया वीरा काकतुण्ड्याः फलं वचा । लाली निम्बपत्राणि सहदेवी समं समम् ॥ ९२ ॥ एषां पातालयत्रेण तैलं ग्राह्यं प्रयत्नतः । तत्तैलं नीलिकामूलयुक्तमर्धपलं पिबेत् ॥ ९३ ॥ वत्सरात्पलितं हन्ति आयुः खाद्ब्रह्मणो दिनम् । तैलार्धनिष्के तन्नस्से कृते सात्पूर्ववत्फलम् ॥ ९४ ॥ कृष्णजीरकप्रस्थैकं तत्तुल्यं भृङ्गजद्रवम् । यष्टी नीलोत्पलं चैव प्रति प्रस्थार्धमाहरेत् ॥ ९५ ।। पादप्रस्थं तिलातैलं सर्वमेकत्र पाचयेत् । ग्राह्यं तैलावशेष तन्नस्यं तेनैव कारयेत् ।। ९६ ॥ नसं चाकोल्लतैलेन कुर्यान्मृत्युजरापहम् । निष्कानिष्कं वर्षेकं जीवेद्वर्षशतत्रयम् ।। ९७ ॥
४.] रसरत्नाकरस्य रसायनखण्डः । ४७ काकमाचीफलं पिष्ट्वा कर्फकमुदकैः पिबेत् । वत्सरात्पलितं हन्ति आयुः स्याब्रह्मणो दिनम् ।।९८॥ गुडूची मुशली मुण्डी निर्गुण्डी च शतावरी। विजया च समं चूर्ण सितामध्वाज्यसंयुतम् ॥ ९९ ॥ खादेत्कर्षद्वयं नित्यं वत्सरात्पलितं जयेत् । उक्तं गोरक्षनाथेन जीवेट्रह्मदिनत्रयम् ॥ १० ॥ शुनकशाल्मलिकाकल्पः। कृष्णाष्टम्यां कृष्णमूत्रवृक्षं शुनकशाल्मलेः । आवेष्ट्याघोरमत्रेण रात्रौ कृष्णाजकं बलिम् ॥ १०१॥ दत्त्वाऽघोरं जपेत्तत्र यावदष्टसहस्रकम् । तस्य मूलत्वचं ग्राह्यं छायाशुष्कं विचूर्णयेत् ॥ १०२॥ मध्वाज्याभ्यां सदा खादेत्पलैकं वत्सरावधि । वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः ॥१०३ ॥ तस्य पुष्पाणि संगृह्य गवां क्षीरैः सदा पचेत् । पुष्पवर्ज पिवेत्क्षीरं मासान्मृत्युजरापहम् ॥ १०४ ॥ फलैकं तस्य वृक्षस्य गवां क्षीरेण पाचयेत् । फलवर्ज पिबेत्क्षीरं क्षीरमेवं पिबेद्बुधः ॥ १०५ ॥ चतुर्मासप्रयोगेण वज्रकायो भवेन्नरः। जीवेत्कल्पान्तपर्यन्तं वायुवेगो महाबलः॥१०६ ॥ तस्य मूत्रपुरीषाभ्यां तानं भवति काञ्चनम् । काकमाची भृङ्गराजः साक्षी सहदेविका ॥ १०७ ॥ समूला देवदाली च निम्बबाकुचिबीजकम् । फलानि काकतुण्ड्याश्च मूलं ब्रह्माश्वगन्धयोः ॥ १०८॥ नीलकोरण्टपत्राणि त्रिफला च समं समम् । चूर्ण तत्कन्यकाद्रावैर्भावयेत्सप्तवासरम् ॥ १०९॥ छायायां शोषितं कुर्यात्सितामध्वाज्यसंयुतम् ।
४८ आयुर्वेदीयग्रन्थमाला। [उपदेशः भक्षेत्कर्षद्वयं नित्यं वर्षमात्राजरां जयेत् । जीवेच्चन्द्रार्कनक्षत्रं महाकायो महाबलः ॥ ११० ॥ 'ॐ ठः ठः ठः सः सः सः अमृते अमृतवर्षिणि अमृतसं- जीवनि सर्वकामप्रदे भगवान् सोमराज आज्ञापयति स्वाहा' इति भक्षणमत्रः॥ त्रिफलादियोगः। त्रिफला बाकुचीबीजं पिप्पली चाश्वगन्धिका । सर्व तुल्यं कृतं चूर्ण मध्वाज्याभ्यां लिहेत्पलम् । वर्षान्मृत्युं जरां हन्ति जीवेब्रह्मदिनत्रयम् ।। १११॥ 'ॐ हां ही हूं सः खाहा' अनेन मत्रेण भक्षयेत् ।। मूलिकाकल्पेषु पारदयोगः। मूलिकाकल्पयोगेषु गुजैकं मृतपारदम् । प्रतियोगयुतं खादेत्फलं शतगुणं भवेत् । रसेन्द्रस्य प्रभावेण शीघ्रं सिद्धिमवाप्नुयात् ॥ ११२ ॥ रसायनकल्पेषु मन्त्रयोगः। अस्थिमुद्राधरो मत्री लक्षमेकं श्मशानतः । जपेन्महाभयं हन्ति सिद्धिं दत्ते रसायनम् ॥ ११३ ॥ तेन भक्षितमात्रेण जीवेदाचन्द्रतारकम् । अजेयो देवदैत्यानां पर्वतानपि चालयेत् ॥ ११४ ॥ 'ॐ हीं महाभयेरुम् । रसायनसेवन विधिः। प्रातः पुण्यार्कमुख्ये विविघशुभदिने मत्रपूजाविधान- प्राचं दिव्योषधीनां फलदलकुसुमं मूलपत्रं रसं वा। सर्वा वाज्य सिध्यै सकलमभिनवं सेवयेद्ब्रह्मचारी क्षीरानं चोदकाचं हितमशनमिदं सर्वमन्यद्विवय॑म् ।। ११५॥ इति श्रीपार्वतीपुत्र श्रीनिलसिद्धनाथविरचिते श्रीरसरत्नाकरे रसायनखण्डे नानारसायनं नाम चतुर्थोपदेशः।
५.] रसरत्नाकरस्य रसायनखण्डः। अथ पञ्चमोपदेशः। उद्वर्तनं पलितहारि परं नराणां शोभावहं सुखकरं कचरञ्जनं च । वृद्धोपयोगिसुखसाध्यमनेकयुक्त्या वक्ष्ये सुसिद्धमनुभूतिपथेन दृष्टम् ॥ १॥ वलीपलितनाशाथै पारदाद्युद्वर्तनम् । पारदं गन्धकं तुल्यं नारीस्तन्येन मर्दयेत् । विष्णुक्रान्ता मेघनादा सर्पाक्षी मुनिमुण्डिका ॥२॥ आसां द्रवैर्दिनं खल्वे मर्दयेत्तत्समुद्धरेत् । यवचूर्ण तिलाश्चैव प्रत्येकं रसतुल्यकम् ॥ ३॥ क्षिपेत्तस्मिन् घृतैः क्षौद्रैः सर्वमालोज्य रक्षयेत् । अनेनोद्वर्तनं सम्यग्वलीपलितनाशनम् ॥४॥ वत्सरादिव्यदेहः साजीवेर्षसहस्रकम् । वलीपलितनाशार्थ वज्रकापालिनीमूलागुद्वर्तनम् । वज्रकापालिनीमूलं पारदं च समं समम् ॥५॥ शिवाम्बुना व्यहं मर्यमुद्वर्तात्पूर्ववत्फलम् । वलीपलितनाशार्थ उत्पलाद्युद्वर्तनम् उत्पलानि समूलानि पारदं च समं समम् ॥६॥ सप्ताहं मर्दयेत्खल्वे खकीयेनाशिवाम्बुना। तेनैव मर्दयेद्गात्रं जायते पूर्ववत्फलम् ॥७॥ वलीपलितनाशाथै पारदाद्युद्वर्तनम् । पारदस्य समांशेन ब्रह्मदण्डीयमूलकम् । क्षिप्त्वा सप्तदिनं मर्च स्वकीयेनाशिवाम्बुना ॥८॥ अनेनोद्वर्तयेद्गात्रं जायते पूर्ववत्फलम् । । 'बलकर' ख.।
५०
आयुर्वेदीयग्रन्थमाला।
[ उपदेशः
वलीपलितनाशार्थ गन्धकयोगः।
गन्धकं कटुतैलेन धर्मे भाव्यं दिनावधि ॥९॥
तत्पलार्धं सदा खादेदिव्यकायकरं नृणाम् ।
जायते स्वर्णवदेहो वत्सराद्वलिवर्जितः ॥ १० ॥
रसायनाथै कुष्ठयोगः।
कुष्ठचूर्ण समध्वाज्यं नित्यं कर्ष लिहेत्तु यः।
वत्सराद्दिव्यदेहः स्याद्गन्धेन शतपुष्पवत् ॥ ११॥
पलितनाशाथै कान्तपाषाणादियोगः ।
कान्तपाषाणचूर्णं तु तैलमध्वाज्यसंयुतम् ।
काकतुण्डीफलं सर्वं सममेतत्तु कल्पयेत् ॥ १२ ॥
भाण्डे रुडा क्षिपेन्मासं धान्यराशावथोद्धरेत् ।
अनेन लेपयेच्छीर्ष नसं कुर्यादनेन वै ॥ १३ ॥
त्र्यहाद्धमरसंकाशाः केशाः स्युर्वत्सरार्धकम् ।
पलितनाशार्थ सीसकादियोगः।
नागचूर्णपलैकं तु शङ्खचूर्णपलद्वयम् ॥ १४ ॥
पथ्याचूर्ण निष्कमेकं सर्व पेष्यं दिनावधि ।
अम्लदना युतं यत्नात्स्नात्वाऽऽदौ शिरसि क्षिपेत् ॥१५॥
मर्दयेटिकाधं तु वेष्ट्यमेरण्डपत्रकैः।
शिरः संवेष्ट्य वस्त्रेण प्रातः स्नानं समाचरेत् ॥ १६ ॥
इत्येवं त्रिदिनं यत्नात्कृत्वा केशांश्च रञ्जयेत् ।
केशरञ्जनार्थ नीलिकादियोगः ।
पश्चाङ्गं नीलिकाभृङ्गत्रिफलालोहचूर्णकम् ॥ १७॥
तुल्यं सर्व कृतं सूक्ष्ममिडासूत्रेण(?) वेष्टयेत् ।
दिनार्धं तेन कल्केन पूर्ववत्केशरञ्जनम् ॥ १८ ॥
केशरञ्जनाथै गुञ्जादियोगः ।
गुञ्जाबीजं तु त्वग्वयं कुष्ठैलादेवदारुकम् ।
तुल्यं चूर्णं दिन भाव्यं भृङ्गराजभवैवैः॥१९॥
५.]
रसरत्वाकरस्य रसायनखण्डः।
५१
सर्वं चतुर्गुणे तैले पाचयेन्मृदुवहिना ।
तेनाभ्यङ्गेन केशानां रञ्जनं भ्रमरोपमम् ॥ २०॥
केशरञ्जनाथ हस्तिदन्तादियोगः।
हस्तिदन्तस्य दग्धस्य समं योज्यं रसाञ्जनम् ।
अजाक्षीरेण तत्पिष्ट्वा लेपनात्केशरञ्जनम् ॥ २१॥
केशरञ्जनार्थ त्रिफलादियोगः ।
त्रिफला लोहचूर्ण तु कृष्णमृमृङ्गजद्रवम् ।
इक्षुदण्डद्रवं चैव मासं भाण्डे निरोधयेत् ।। २२ ॥
तल्लेपाञ्जयेत्केशान् खाद्यावन्मासपञ्चकम् ।
केशरञ्जनार्थ लोहकिटादियोगः ।
लोहकिटं जपापुष्पं पिष्ट्वा धात्रीफलं समम् ॥२३॥
त्रिदिनं लेपितास्तेन कचाः स्युर्धमरोपमाः।
भृङ्गराजरसप्रस्थं तैलं कृष्णतिलोद्भवम् ॥ २४॥
तुल्यं च नीलिकाद्रावं सर्व यामं विमर्दयेत् ।
तल्लेपस्त्रिदिनं कार्यः केशानां रञ्जनं भवेत् ॥ २५॥
केशरञ्जनार्थ सिन्दूरादियोगः ।
सिन्दूरस्य समं चूर्ण साबुणं च तयोः समम् ।
तजले पेषितं लेप्यं तत्क्षणात्कचरञ्जनम् ॥ २६ ॥
केशरञ्जनार्थ शतपुष्पादियोगः ।
शतपुष्पा काकमाची तिलाः कृष्णाश्च रोचनम् ।
दिनं शिवाम्बुना सर्व मर्दयेल्लोहपात्रके ॥ २७॥
तल्लेपं त्रिदिनं कुर्यात्केशानां रञ्जनं भवेत् ।
केशरञ्जनाथ चूर्णादियोगः।
चूर्ण सर्जी यवक्षारं सिद्धार्थ काञ्जिकैः सह ॥ २८ ॥
नागपुष्पाद्रवैमर्थे तल्लेपाद्रञ्जनं भवेत् ।
केशरजनार्थ नील्यादियोगः ।
नीलीपत्राणि कासीसं भृङ्गराजरसं दधि ॥ २९॥
आयुर्वेदीयग्रन्थमाला।
[उपदेशः
लोहचूर्ण समं पिष्ट्वा तल्लेपं केशरञ्जनम् ।
केशरञ्जनाथै चूर्णादियोगः।
चूर्ण सिन्दूरमगारं कदलीकन्दसंयुतम् ॥ ३०॥
लोहपात्रे लोहमुष्ट्या मर्थे जम्बीरजैवैः।
दिनैकं च ततो लेप्यं केशानां रञ्जनं भवेत् ॥ ३१॥
केशरञ्जनार्थ कुरण्टकपत्रादियोगः।
कुरण्टकस्य पत्राणि नागमुष्टया विमर्दयेत् ।
तल्लेपं त्रिदिनं कुर्याजायते केशरञ्जनम् ॥ ३२ ॥
केशरञ्जनार्थमाम्रास्थ्यादियोगः ।
आम्रास्थि त्रिफला भृङ्गी प्रियजुर्मातुलुङ्गकम् ।
निशा नीली मृणालानि नागं लोहं च चूर्णितम्।।३३॥
समं कल्कं कान्तपात्रे निम्बतैलेन भावयेत् ।
मासमात्रं ततस्तेन लेपाद्भवति रञ्जनम् ॥ ३४ ॥
केशरञ्जनाथै काकमाच्यादियोगः।
काकमाचीयबीजानि समाः कृष्णतिलास्तथा ।
तत्तैलं ग्राहयेद्यत्रे तन्नसं केशरञ्जनम् ॥ ३५ ॥
केशरञ्जनं घृतम्।
गोघृतं भृङ्गजं द्रावं मयूरशिखया सह ।
मृद्वग्निना पचेत्तेन सानसं केशरञ्जनम् ॥ ३६॥
केशरञ्जनाथ जपापुष्परसनस्यम् ।
जपापुष्पद्रवं क्षौद्रं करेक नस्यमाचरेत् ।
सप्ताहाद्रञ्जयेत्केशान् सर्वनस्येष्वयं विधिः ॥ ३७ ।।
केशरञ्जनार्थ त्रिफलादितैलम् ।
त्रिफला लोहचूर्ण तु वारिणा पेषयेत्समम् ।
तत्तुल्येन च तैलेन भृङ्गराजरसेन च ॥ ३८ ॥
पचेत्तैलावशेष तत्स्निग्धभाण्डे निरोधयेत् ।
मासैकं भूगतं कुर्यात्वेन शीर्ष प्रलेपयेत् ॥ ३९ ॥
रसरत्नाकरस्य रसायनखण्डः। ५३ कारवल्या दलैर्वेष्ट्य ततो वस्त्रेण वन्धयेत् । निर्वाते क्षीरभोजी स्यात्क्षालयेत्रिफलाजलैः॥४०॥ नित्यमेवं प्रकर्तव्यं लेपनं दिनसप्तकम् । कपालरञ्जनं ख्यातं यावजीवं न संशयः॥४१॥ केशरञ्जनाथ काक्रतुण्ड्यादियोगः। बीजानि काकतुण्ड्याश्च सिर्यालीबीजसंयुतम् । तचूर्ण दिनचत्वारि भाव्यं निर्गुण्डिजद्रवः ॥ ४२ ॥ जपापुष्पद्वैस्तावत्ततः पातालयत्रके। तैलं ग्राह्यं तु तल्लेपाकेशानां रञ्जनं भवेत् ॥ ४३॥ बेष्ट्यमेरण्डपत्रैश्च निर्वाते क्षीरभोजनम् । कुर्यात्मानं काञ्जिकैश्च नित्यं सप्तदिने कृते ॥ ४४ ॥ यावजीवं न संदेहः केशाः स्युर्धमरोपमाः। केशरञ्जनाथ भृङ्गराजादियोगः । भृङ्गराज काचमाची समांशं जलंमण्डवीम् ।। ४५॥ संपिट्यापूपिकां कृत्वा तैलमध्ये विपाचयेत् पक्कां तां पेषयेत्तैलैर्लेपः स्यात्केशरञ्जनम् ॥ ४६॥ पूर्ववत्क्रमयोगेन सप्ताहात्तत्फलं भवेत् । केशरञ्जनाथ त्रिफलादियोगः । अयस्कान्तमये पात्रे रात्रौ लेप्यं फलत्रयम् ॥४७॥ भृङ्गराजद्रवैः सार्धं प्रातः केशान् प्रलेपयेत् । एवं कुर्यात्रिसप्ताहं जायते पूर्ववत्फलम् ॥ ४८ ॥ केशरञ्जनाथ कृष्णजीरकयोगः । प्रक्षिपेन्माहिषे शृङ्गे कृष्णजीरं तदन्धयेत् । गृहाग्रे कर्दमे क्षिप्वा षण्मासात्तत्समुद्धरेत् ।। ४९ ॥ तद्रुतं जायते कृष्णं कर्षे शिरसि क्षिपेत् । तीजकं समम्' ख.। २ 'जलमण्डया' ख.। ३ 'साक्ष्याऽपूपिका ख.।
५४ आयुर्वेदीयग्रन्थमाला। [उपदेशः वेष्टयेत्पूर्वयोगेन कपालरञ्जनं भवेत् ॥ ५० ॥ भ्रमराञ्जनसंकाशं यावज्जीवं न संशयः। केशरजनार्थ नील्यादियोगः। नीलीपत्रं भृङ्गराजं त्रिफला कृष्णमायसम् ॥ ५१ ॥ मदनस्य च बीजानि पुष्पं कोरण्टकस्य च । अर्जुनस्य त्वचं चूर्ण नलिनीमूलकर्दमम् ॥ ५२ ॥ सर्व तुल्यं क्षिपेद्भाण्डे लोहजे तनिरोधयेत् । पक्षमेकं क्षिपेद्भूमौ भाण्डात्कल्कं समुद्धरेत् ॥ ५३ ।। कल्काच्चतुर्गुणं तैलं तैलाच्चतुर्गुणं द्रवम् । भृङ्गत्रिफलजं योज्यं पचेत्तैलावशेषकम् ॥ ५४ ॥ परीक्षार्थ क्षिपेत्पक्षं बलाकाया यदा भवेत् । कृष्णवर्ण तदा सिद्धं पात्रे कृष्णायसे क्षिपेत् ॥ ५५॥ मासैकं धारयेत्तसिंस्ततः केशान् विलेपयेत् । तिष्ठन्ति मासषदं तु भ्रमरस्तोमसंनिभाः॥ ५६ ॥ केशरञ्जनार्थ सीसकादियोगः। वासापलाशचित्रोत्थैर्दण्डैर्वाऽश्वत्थदृढम् । नागं पात्रगतं चाल्यं यावद्भवति मूछितम् ॥ ५७ ॥ पलैक तत्समादाय लोहचूर्ण पलद्वयम् । त्रिपलं त्रिफलाचूर्ण दाडिमस्य फलत्वचः ।। ५८॥ शुष्कं चूर्ण पलैकं तत्सर्वेषां काञ्जिकं समम् । भाण्डे सर्वे पचेत्किचित्तं क्षिपेल्लोहभाजने ॥ ५९॥ भृङ्गराजकुरण्टोत्थद्रवं दत्त्वाऽऽतपे क्षिपेत् । त्रिसप्ताहं प्रयत्नेन द्रवो देयः पुनः पुनः ॥६०॥ ततस्तं रक्षयेत्तेन लेपात्यात्केशरञ्जनम् । उक्तानुक्तेषु लेपेषु वेष्ट्यमेरण्डपत्रकैः ॥ १॥ शिरो रात्रौ दिवा स्वानं युक्तिरेषा प्रशस्यते ।
५.] रसरत्नाकरस्य रसायनखण्डः। केशशुक्लीकरणयोगाः। वज्रीक्षीरेण सप्ताहं भावयेदभयाफलम् । तर्णयुक्ततैलस लेपाच्छुक्ला भवन्ति हि ॥ ६२ ॥ केशाश्च सर्वरोमाणि शङ्खवर्णा भवन्ति वै । सप्ताहं वज्रदुग्धेन सुश्वेतान् भावयेत्तिलान् ॥ ६३ ॥ तेभ्यस्तैलं गृहीत्वा तल्लेपाच्छुक्ला भवन्ति । गौरामलकचूर्ण तु वज्रीक्षीरेण सप्तधा ॥ ६४ ॥ भावयेत्तेन लेपेन शुक्लतां यान्ति मूर्धजाः । सिन्दूरं स्फटिकां श्वेतां जलेन सह लेपयेत् ॥ ६५ ।। तल्लेपेन तु रोमाणि सुशुक्लानि भवन्ति हि । मासैकं मागधीचूर्ण वज्रीक्षीरेण भावयेत् ॥ ६६ ॥ नराश्वगजवाजीनां शुक्लीकरणमुत्तमम् । इन्द्रगोपं तैलिनी च तालकं रजनीद्वयम् ॥ ६७ ।। मनःशिला च तुल्यांशं चूर्ण स्नुक्पयसा त्र्यहम् । भावयेदर्कजैः क्षीरैत्रिदिनं चातपे खरे ॥ ६८ ॥ ततः कूष्माण्डावैर्भावयेद्दिनसप्तकम् । कूष्माण्डस्य ततो गर्भे क्षिप्त्वा मासात्समुद्धरेत् ॥ ६९॥ तैलेन सर्वरोमाणि केशान् संलेपयेन्यहम् । वेष्टयेदर्कजैः पत्रैः शुक्लवर्णा भवन्ति च ।। ७० ॥ खाने कृते शुष्ककचेषु रात्रौ लेपे कृते पूर्वदलैस्तु वेष्टयम् । दना तिलैः स्नानमतः प्रभाते कुर्यात्र्यहं लेपनमित्थमेव ॥७॥ इति पार्वतीपुत्रश्रीनित्यनाथसिद्धविरचिते रसरत्नाकरे रसायनखण्डे उद्वर्तनकेशरजनाधिकारो नाम पञ्चमोपदेशः।
आयुर्वेदीयग्रन्थमाला। [उपदेशः अथ षष्टोपदेशः। येषां रामा रमणकुशला रागसक्ताः प्रगल्भाः कामासक्ता हरिणयनाश्चन्द्रबिम्बाननाश्च । तेषां वक्ष्ये मदनसुखदां वीर्यवृद्धिं प्रभूतां मंत्ताः सिद्धाः शतमपि दृढास्तादृशास्तोषयन्ति ।। वाजीकरो मकरध्वजरसः । वज्रहमार्कमताभ्रलोभस क्रमोचरम् । सर्व कन्याद्रवैमर्थ शाल्मल्याश्च द्रवैस्यहम् ॥ २ ॥ तद्रुद्धा काचकुप्यन्तर्वालुकायां त्र्यहं पचेत् । तत्कल्कं मुशलीकाथैर्वज्रार्कक्षीरसंयुतैः ॥ ३॥ दिनैकं मर्दयेत्खल्वे रुवाऽन्तर्भूधरे पुटे । यामादुद्धृत्य संचूण्य सिताकृष्णात्रिजातकैः ॥४॥ समैः समं विमिश्याथ मारेकं भक्षयेत्सदा। मागधी मुशली यष्टी वानरीबीजकं समम् ॥५॥ चूर्ण सिताज्यगोक्षीरैः पलाध पाययेदनु । कामिनीनां सहस्रकं रममाणो न मुह्यति । सेवनादृढकायः स्याद्रसोऽयं मकरध्वजः ॥६॥ वाजीकरो मनोदयरसः। शुद्धस्तं समं गन्धं रक्तोत्पलदलद्रवैः। यामं मधु पुनर्गन्धं साधं तत्र विनिक्षिपेत् ॥ ७॥ पूर्वद्रावैर्दिनं मधु रसाधं गन्धकं पुनः । दत्त्वा तद्वद्दिनं मधु काचकूप्यां निरोधयेत् ॥ ८॥ दिनैक वालुकायत्रे पकमुद्धृत्य चूर्णयेत् । भूकूष्माण्डीकषायेण भावयेदिनसप्तकम् ॥ ९॥ १ 'यस्यां सिद्धौ शतमपि वनितास्वादृशाखोषयन्ति'ख.। २ द्विदिनं' ख.।
रसरत्नाकरस्य रसायनखण्डः।
५७
छायायां तत्सितातुल्यं निष्कैकं भक्षयेत्सदा।
शणमूलं सबीजं च मुशली शर्करा समम् ॥ १०॥
गवां क्षीरैः पलार्धं तु अनु रात्रौ सदा पिबेत् ।
अनन्तं वर्धते वीर्य रसोऽयं मदनोदयः ॥११॥
वाजीकरो मदनेश्वररसः।
शुद्धसतसमं गन्धं बदरीचित्रकद्रवैः।
मर्थ चाङ्कोल्लावस्तप्तखल्वे दिनत्रयम् ॥ १२ ॥
सद्यो हताजमांसस्य पिण्डे न्यस्तं च सीवयेत् ।
तत्पिण्डं तिलतैलेन लोहपात्रे शनैः पचेत् ॥ १३ ॥
यावन्मांसं रक्तवर्ण ततः मूतं समुद्धरेत् ।
त्रिदिनं मुशलीका वितं सितया युतम् ॥ १४ ॥
निष्कैकं भक्षयनित्यं रसोऽयं मदनेश्वरः ।
विदारीकन्दचूर्ण तु क्षीराज्येन पलं पिवेत् ॥ १५ ॥
रमयेस्त्रीशतं नित्यं तच्यागादन्धतां ब्रजेत् ।
वाजीकरः कामकलाख्यरसः ।
मृतानं पारदं स्वर्ण तुल्यं मद्य दिनत्रयम् ॥ १६ ॥
मुशलीत्रिफलाकाथै,जिगन्धाकषायकैः।
कदलीकन्द वैस्तद्रगोलं चान्धितं पुटेत् ॥ १७ ॥
भूधरे दिनमात्रं तु समुद्धृत्याथ मर्दयेत् ।
दिनैकं पूर्वजै वैस्तदुद्धा पुटे पचेत् ॥ १८॥
पुनर्मद्य पुनः पाच्यमेवमष्टपुटैः पचेत् ।
शाल्मलीजातनिर्यासैस्तुल्यं शर्करया सह ॥ १९ ।।
खादेनिष्कद्वयं नित्यं द्रावयेद्वनिताशतम् ।
गोक्षीरैमर्कटीबीजं पलाधं पाययेदनु ॥२०॥
सर्वाङ्गोद्वर्तनं कुर्यात्सयवैः शाल्मलीद्वैः ।
रसः कामकलाख्योऽयं महावीर्यकरो नृणाम् ॥ २१ ॥
आयुर्वेदीयग्रन्थमाला । [उपदेशः वाजीकरः कामदेवरसः। मृतसूतं त्रयो भागा भागैकं हाटकं मृतम् । कदलीकन्दजै वैः शाल्मलीजद्रवैर्दिनम् ॥ २२ ॥ गोक्षीरैश्च दिनं मधु क्षणैकं पाचयेद्धृतैः। तन्मध्ये शर्करां द्राक्षां धात्री रम्भाफलं मधु ॥२३॥ गोक्षीरं मुशलीं माषान् कोकिलाक्षस्य बीजकम् । सूताच्चतुर्गुणं क्षिप्वा मधु शाल्मलिजैवैः ॥ २४ ॥ तत्सर्व दिनमेकं तु कामदेवो रसो भवेत् । निष्कमात्रं सदा भक्ष्यं गवां क्षीरं पिबेदनु ॥ २५॥ मैथुने दृढलिङ्गः स्याद्रावयेद्वनिताकुलम् । वाजीकरो रतिकामरसः। प्रारम्भरजसा स्त्रीणां मर्दयेद्भसमूतकम् ॥ २६ ॥ . मृतं तानं च तारं च गन्धकं च समं दिनम् । सितामध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिवेत्पयः॥२७॥ रतिकामरसो नाम कामिनीरमणे हितः। वानरीमूलगोधूमं कोकिलाक्षस बीजकम् ॥२८॥ माषाश्चक्षुरसैः सर्व लोडितं पाचयेद्धृतैः । तेनैव वटकाः कार्या नित्यं खादेवयं द्वयम् ॥ २९ ॥ अनुपानमिदं सिद्धं सेवनाद्रमयेच्छतम् । वाजीकरो मदवर्धनरसः । शुद्धमूतसमं गन्धं त्र्यहं कहारजैवैः॥३०॥ मर्दितं चान्धितं पच्याद्यामं वालुकयत्रके । रक्तागस्त्यद्रवैर्भाव्यं दिनैकं तु सितायुतम् ॥ ३१ ॥ निष्कमात्रं सदा खादेद्रसोऽयं मदवर्धनः । अजय वृषणं क्षीरे पकं तिलसितायुतम् ॥ ३२ ॥ यथेष्टं भक्षयेच्चानु रमयेत्कामिनीशतम् ।
रसरत्नाकरस्य रसायनखण्डः। वाजीकरः कामनायकरसः । वाजीकरी अनङ्गमुन्दरीवटिका । पलद्वयं द्वयं शुद्धं पारदं गन्धकं शुभम् ॥ ३३ ॥ कर्षे मारितं खर्ण पलैकं मृतताम्रकम् । रौप्यभस चतुर्निष्कं सर्व पञ्चामृतर्दिनम् ॥ ३४ ॥ मर्थ रुद्धा दिनं पच्याभूधरे तं समुद्धरेत् । पिष्ट्वा पञ्चामृतैः खादेटिकां बदराकृतिम् ॥ ३५ ॥ अनङ्गसुन्दरी ख्याता रामाणां रमते शतम्। शाल्मलीमूलचूर्ण तु मधुशर्करयान्वितम् ॥३६॥ पलैकं भक्षयच्चानु सिताक्षीरं तु पाययेत् । शाल्मल्युत् वैद्यः पक्षकं शुद्धपारदः ॥ ३७॥ शुद्धगन्धं त्रिसप्ताहं तवैमर्दयेत्पृथक् । समावेतौ पुनर्मों घृतैर्यामचतुष्टयम् ॥ ३८ ॥ तद्गोलं बन्धयेद्वस्त्रे घृतैर्यामद्वयं पचेत् । ततस्तं शाल्मलीद्रावैमर्दयेदिवसत्रयम् ॥ ३९ ॥ निक्षिपेत्काचकुप्यन्तर्वालुकायत्रगं पचेत् । क्षिपेच्छाल्मलिजं द्रावं कुप्या गर्ने दिनावधि ॥ ४०॥ सांद्रमेव समुद्धृत्य मिथ्यं तत्सितया समम् । निष्कमात्रं सदा खादेद्रसोऽयं कामनायकः ॥४१॥ मुशली ससितां क्षीरैः पलैकां पाययेदनु । कामिनीनां सहस्रं तु क्षोभयेनिमिषान्तरे ॥४२॥ वाजीकरः पूर्णेन्दुरसः। शुद्धस्तत्रयो भागा भागैकं ताम्रचूर्णकम् । कृत्वा पिष्टी निरुध्याथ रम्भाकन्दोदरे पुनः॥४३॥ मल्लिप्तं शोषितं पच्यादिनैकं करिषामिना । एवं सप्तदिनं पच्यात्कन्दे कन्दे दिनं दिला ॥४४॥ १'सुशीतला' ख.।
आयुर्वेदीयग्रन्थमाला। [उपदेशः
उद्धृत्य बन्धयेद्वस्त्रे दृढे चैव चतुर्गुणे ।
क्षुद्रशम्बूकमांसाक्तच्छागीरक्तगतं पचेत् ॥ ४५ ॥
दोलायत्रे त्र्यहं यावद्देयं रक्तं पुनः पुनः।
गुडूच्या गजपिप्पल्या कदल्या कोकिलाक्षकैः ॥४६॥
गोक्षुरीवानरीमूलजातीमूलस्य च द्रवैः ।
पाचयेत्तत्कषायैर्वा दोलायत्रे दिनत्रयम् ॥४७॥
ततः क्षीरे सितायुक्ते तद्वत्पच्यादिनावधि ।
उद्धृत्य मुशलीकाथैमधु यामचतुष्टयम् ॥ ४८॥
रसः पूर्णेन्दुनामाऽयं खादेन्मांसं सितायुतम् ।
गोक्षुरो वानरीबीजं गुडूची गजपिप्पली ॥ ४९ ॥
कोकिलाक्षस्य बीजानि मज्जा कार्पासबीजजा।
शतावरी च रम्भायाः फलं सर्व समं भवेत् ॥ ५० ॥
सर्वतुल्या सिता योज्या मधुना लोडितं लिहेत् ।
पलार्धमनुपानं स्यात्ततः पेयं गवां पयः ॥ ५१ ॥
कामिनीनां सहस्रकं रमते कामदेववत् ।
वाजीकरो मदनकामो रसः।
पद्मबीजं कसेरुं च कन्दं नालं च कर्णिकाम् ।। ५२ ॥
मुशली भृङ्गराट् द्राक्षा पकं श्लेष्मातकं फलम् ।
विजया मर्कटी माषाः शणबीजानि वै तिलाः॥५३॥
कोकिलाक्षस्य बीजानि भूकूष्माण्डी शतावरी ।
शृङ्गाटं चिर्भिट फञ्जीवीजानि चाश्वगन्धिका ॥५४॥
एतत्सर्व समं चूर्ण्य पादांशं चाहरेत्पृथक् ।
पादांशस्याष्टमांशेन शुद्धं सूतं विमिश्रयेत् ॥ ५५ ॥
पारदादष्टमांशं च कर्पूरं तत्र निक्षिपेत् ।
चातुर्जातकमेकैकं कर्पूराद्विगुणं भवेत् ॥ ५६ ॥
सूततुल्या सिता योज्या मर्य रम्भाद्वैर्दिनम् ।
तद्गोले डामरे यत्रे क्रमवृद्धामिना पचेत् ॥ ५७॥
रसरत्ताकरस्य रसायनखण्डः । दिनान्ते चोर्ध्वलग्नं तबाह्यं रम्भाद्रबैदृढम् । मर्दितं सितया तुल्यं माषैकं भक्षयेत्सदा ॥ ५८॥ रसो मदनकामोऽयं बलवीर्यविवर्धनः । दिव्यरूपा भजेद्रामाः कामाकुलकलान्विताः ॥ ५९॥ भागत्रयं तु यत्पूर्व पृथक्चूर्ण सुरक्षितम् । कुलीरमांसच्छागाण्डचटकाण्डानि वै पृथक् ॥ ६०॥ प्रत्येकं चूर्णयेत्तुल्यं सर्वतुल्यं गवां पयः । तत्सर्वं चालयन् पच्याद्यावत्पिण्डत्वमागतम् ॥ ६१ ॥ प्रसार्य काष्ठपात्रान्तश्छायाशुष्कं विचूर्णयेत् । अस्य चूर्णस्य कर्पूरं चतुःषष्ट्यंशकं क्षिपेत् ॥ ६२ ॥ चातुर्जातकचूर्ण तु क्षिपेट्वात्रिंशदंशतः । सर्वतुल्या सिता योज्या रक्षयेनूतने घटे ॥ ६३ ॥ कर्षद्वयं गवां क्षीरैरनुपानैः सदा पिबेत् । वाजीकरा अभ्रकयोगाः । निष्कैकं मारितं चानं खादेच्छर्करया समम् ॥ ६४ ॥ शाल्मलीमूलचूर्ण तु भृङ्गराजस्य मूलकम् । पलैकं सितया चानु सेवेत कामिनीशतम् ॥६५॥ वानरीकोकिलाक्षस्य बीजानि तिलमाषकाः। वासागोक्षुरयोर्मूलं सर्व चूर्ण समं भवेत् ॥ ६६ ॥ चूर्णतुल्यं मृतं चानं सर्वतुल्या तु शर्करा । एतत्कर्षे गवां क्षीरैः पिबेत् कामाङ्गनायकः ॥ ६७ ॥ तैलेन पकं चटकं खादेत्पूर्व तु भोजनात् । भोजनान्ते पिबेत्क्षीरं रामाणां रमयेच्छतम् ॥ ६८ ॥ अश्वंगन्धाशतावर्योः शाल्मल्याश्चित्रकस्य च । मूलं मुशलिज कन्दं कोकिलाक्षस्य बीजकम् ॥ ६९ ॥ ६ ६२ आयुर्वेदीयग्रन्थमाला । [उपदेशः विदारीपद्मिनीकन्दं वानरीबीजकं समम् । एतचूर्ण मृतानं तु तुल्यं शर्करया समम् ॥ ७० ॥ पलाध पाययेत्क्षीरैः खादेत्कुक्कुटमांसकम् । क्षीरपानं ततः कृत्वा रमयेत्कामिनीशतम् ॥ ७१ ॥ वाजीकरो धात्रीलोहः । धात्रीफलस्य चूर्ण तु भावयेत्तत्फलद्रवैः। एकविंशतिवारान् वै शोष्यं पेष्यं पुनः पुनः ॥ ७२ ॥ तत्पादांशं मृतं लोहं मध्वाज्यशर्करान्वितम् । पलैकं भक्षयेन्नित्यं सिताक्षीरं पिबेदनु ॥७३॥ धात्रीलोहप्रभावेन रमयेत् कामिनीशतम् । वाजीकरः पुनर्नवादियोगः। पुनर्नवा नागबला वाजिगन्धा शतावरी ।। ७४ ॥ गोक्षुरं मुशलीकन्दं मृतं सूतं समं समम् । चूर्ण मध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः॥७५॥ तण्डुलं वानरीवीजं चूर्णयेत्सितया समम् । आलोडयेद्गवां क्षीरस्तेन पच्यादपूपिकाम् ॥ ७६ ।। तां घृतैर्भक्षयच्चानु रमयेत्कामिनीकुलम् । वाजीकरो वटकः। वानरीबीजचूर्ण तु त्वग्वयं माषचूर्णकम् ।। ७७ ॥ नालिकेरोदकैर्भाव्यं यामान्ते पेषयेत्ततः । विंशत्यंशेन पिष्टस्य मृतम_ विमिश्रयेत् ॥ ७८ ॥ तद्धृतैर्वटकं पक्त्वा मध्वाज्याभ्यां तु भक्षयेत् । क्षीरं सितां चानुपिवेद्रामाणां रमते शतम् ॥ ७९ ॥ वाजीकरो वालुकामत्स्ययोगः । वालुकासंभवं मत्स्सं सुपकं भक्षयेद्धृतैः । घण्टोऽपि जायते कामी वीर्यस्तम्भः प्रजायते ॥ ८॥ १'धात्रीफलं'ख.।
६.] रसरलाकरस्य रसायनखण्डः। वाजीकरो नाभिलेपः। ऊर्णनाभिं समं क्षौद्रेः पिष्ट्वा नाभिं प्रलेपयेत् । मुच्यते बद्धषण्ढोऽपि क्षीरैर्वहिं पिवेदनु ॥ ८१ ।। खयमग्निरसं चात्र त्रिनिष्कं भक्षयेत्सदा । वाजीकरो माषयोगः घृताक्ता दलिता माषा क्षीरेण सह पाचिताः ॥ ८२॥ सिताज्यसंयुता भक्ष्या वीर्यवृद्धिकरा यलम् । क्षणे क्षणे भजेद्रामां यथा पारावतो ध्रुवम् ॥ ८३ ॥ मदनानन्दमोदकः । सम्यमारितमभ्रकं कटुफलं कुष्ठाश्वगन्धामृता मेथी मोचरसो विदारि मुशली गोकण्टकेस्रको । रम्भाकन्दशतावरी ह्यजमुदा मापास्तिला धान्यक यष्टी नागवला कंचोरमदनं जातीफलं सैन्धवम् ।। ८४॥ भार्गीकर्कटशूङ्गिभृङ्गत्रिकटु द्वौ जीरको चित्रक चातुर्जातपुनर्नवागजकणाद्राक्षाशणं वासकः । शाल्मल्यजि फलत्रिकं कपिभवं बीजं समं चूर्णये- चूर्णांशा विजया सिता द्विगुणिता मध्वाज्यमिश्रंतु तत्।। कर्षार्धा गुलिकां विलेह्यमथवा कृत्वा सदा सेवये- स्पेया क्षीरसिताऽनु वीर्यकरणे स्तम्भेऽप्यलं कामिनाम् । श्यामावश्यकरः समाधिसुखदः सङ्गेङ्गनाद्रावकः क्षीणे पुष्टिकरः क्षयक्षयकरो नानामयध्वंसकः॥८६॥ कासश्वासमहातिसारशमनो मन्दाग्निसंदीपनो ह्यासि ग्रहणीप्रमेहनिचयश्लेष्मातिसारप्रणुत् । नित्यानन्दकवेविशेषकवितावाचाविलासोद्भवं दत्ते सर्वगुणं महास्थिरदशां ध्यानावसाने भृशम्।।८७॥ १'कसेरुदमनं ख.।
आयुर्वेदीयग्रन्थमाला। [उपदेशः अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरा- त्सर्वेषां हितकारको निगदितः श्रीनित्यनाथेन वै वृद्धानामपि कामवर्धनकरः प्रौढाङ्गनासंगमे सिद्धोऽयं धनवस्त्वमोघसुखदो भूपैः सदा सेव्यताम्८८ इत्येतदुक्तं बहुवीर्यवर्धनं रात्रौ सदा क्षीरसितासमन्वितम् । भुक्तोत्तरं सेवितमाशु कामिनां विदग्धरामाकुलवश्यकारकम् ॥ इति पार्वतीपुत्र श्रीनित्यनाथसिद्धविरचिते श्रीरसरत्नाकरे रसायनखण्डे वीर्यवर्धनं नाम षष्ट उपदेशः ।। अथ सप्तमोपदेशः। वीर्य स्थिरं योनिमुखेषु येषां स्थूलं दृढं दीर्घतमं च लिङ्गम् । तेषां प्रगल्भाः प्रमदाश्च सर्वा भवन्ति तृप्ताः सुरतप्रसङ्गे ॥१॥ वीर्यस्तम्भकरी ब्रह्माण्डगुटिका । नागवल्लीदलद्रावैः सप्ताह शुद्धपारदम् । मर्दयेत्तप्तखल्वे तु क्षालयेत्काञ्जिकैस्ततः ॥२॥ तत्क्षिपेद्विषकन्दस्य गर्ने निष्कचतुष्टयम् । विषेण तन्मुखं रुडा स्थूलवाराहमांसके ॥३॥ पिण्डं गर्भे निरुन्ध्याथ मुखं सूत्रेण सीवयेत् । सन्ध्याकाले बलिं दत्त्वा कुक्कुट मदिरायुतम् ॥ ४ ॥ ततथूल्यां लोहपात्रे तैले धत्तूरसंभवे । तं विंशतिपले पच्यात्सपिण्डं मन्दवाहिना ॥ ५॥ संध्यामारभ्य यत्नेन यावत्सूर्योदयं तथा । हठाजागरणं कुर्यादन्यथा तन्न सिध्यति ॥६॥ प्रावरुद्धृत्य गुटिकां क्षीरभाण्डे विनिक्षिपेत् । तत्क्षीरं शुष्यति क्षिप्रमेतत्प्रत्ययमद्भुतम् ॥ ७ ॥ १'मम दृष्टप्रत्ययकरो' ख.।
रसरत्नाकरस्य रसायनखण्डः।
4
दृष्ट्वा तां धारयेद्वक्के वीर्यस्तस्भकरी रतौ ।
क्षीरं पीत्वा रमेद्रामाः कामाकुलकलान्विताः ॥ ८॥
मुखाद्धस्तं यदा प्राप्ता तदा वीर्य पतत्यलम् ।
ब्रह्माण्डगुटिका नाम शोषयन्ती महोदधिम् ।। ९॥
वीर्यस्तम्भकरो लिङ्गलेपः।
दग्धमङ्कोल्लमूलं तु कर्पूरं कुङ्कुमं तथा ।
रोचना सहदेवी च समं सर्व प्रपेषयेत् ॥ १० ॥
विषमुष्टिकतैलेन लिप्तलिङ्गो ह्यनेन वै ।
नरो नारीसहस्रकं गच्छन् वीर्य न मुञ्चति ॥११॥
वीर्यस्तम्भकरो दीपः।
श्वेतार्कतूलजां वर्तिं कृत्वा मूकरमेदसा।
यावज्वलति दीपोऽयं तावद्वीर्य स्थिरं नृणाम् ॥ १२॥
वीर्यस्तम्भकरी इन्द्रवारुणिकामूलाद्या वटीः ।
इन्द्रवारुणिकामूलं पुष्ये नमः समुद्धरेत् ।
त्र्यूषणैश्च गवां क्षीरैः पिष्ट्वा कुर्याद्वटीं दृढाम् ॥ १३॥
छायाशुष्का स्थिता वक्रे वीर्यस्तम्भकरी नृणाम् ।
वरमकोलतैलेन नाभिलेपोऽपि वीर्यधृक् ॥ १४ ॥
वीर्थस्तम्भार्थे रक्तापामार्गमूलयोगः ।
रक्तापामार्गमूलं तु सोमवारेभिमत्रयेत् ।
भौमे प्रातः समुद्धृत्य बन्धेत्कव्यां च वीर्यधृक् ॥१५॥
वीर्यस्तम्भकरः पादलेपः।
चटकानङ्कुलीतैलैः पादाधः संप्रलेपयेत् ।
न मुञ्चति नरो वीर्य शय्यां पादेन न स्पृशेत् ॥१६॥
वीर्यस्तम्भार्थ कट्यां सपास्थिधारणयोगः ।
डुण्डुमो नाम यः सर्पः कृष्णवर्णस्तमाहरेत् ।
तस्यास्थि धारयेत्कव्यां नरो वीर्य न मुञ्चति ॥१७॥
६६ आयुर्वेदीयग्रन्थमाला। [उपदेश तन्मुक्ते मुञ्चते वीर्य सिद्धयोग उदाहृतः। वीर्यस्तम्भकरो नाभिलेपः। सहदेवीयमूलं तु तत्समं पद्मकेशरम् ॥ १८ ॥ पिष्ट्वा मध्वाज्यसंयुक्तो लेपो नाभौ तु वीर्यधृक् । वीर्यस्तम्भकरी कोकिलाक्षादिवटी । श्वेतस्य कोकिलाक्षस्य बीजं मूलं समाहरेत् ॥ १९ ॥ पिष्टं तण्डुलसंभूतं बदरीणां फलं समम् । जलैः पिष्ट्वा वटी धार्या वीर्यस्तम्भकरी मुखे ॥ २० । वीर्यस्तम्भकरो नाभिलेपः । नागवल्लीपयापिष्टं लज्जामूलं प्रलेपयेत् । तन्नाभौ वीर्यधृक् पुंसां मूलं वा तुलसीभवम् ॥ २१ वीर्यस्तम्भकरो दीपः । मूलेन श्वेतगुञ्जाया वर्तिं कृत्वा प्रदीपयेत् । दीपं सूकरतैलेन वीर्यस्तम्भकरं नृणाम् ॥ २२ ॥ वीर्यस्तम्भकरी वटिका । बीजमीश्वरलिङ्ग्यास्तु मूतं वृश्चिककण्टकम् । सर्व पूगफलस्यान्तः क्षिप्त्वा वेष्ट्यं त्रिलोहकैः ॥ २३ । जिह्वोपरि स्थिते तसिन्नरो वीर्य न मुञ्चति । वीर्यस्तम्भार्थ श्लेष्मातकादियोगः । श्लेष्मातस्य कुरण्टस्य बीजं फयाः समाहरेत् ॥ २४ अजाक्षीरेण तं पिष्ट्वा कर्षे भुक्त्वा तु वीर्यधृक् । वीर्यस्तम्भार्थ सूरणादियोगः। सूरणं तुलसीमूलं ताम्बूलैः सह भक्षयेत् ॥ २५ ॥ न मुञ्चति नरो वीर्य ककेन पृथक्पृथक् । वीर्यस्तम्भार्थ मार्जारनखादिबन्धनम् । नखास्थीनि समादाय मार्जारस्य सितस्य वै ॥ २६ ॥ १'तुम्बस्तैलेन' ख.। २ 'तुलसी फजी ख.।
रसरत्नाकरस्य रसायनखण्डः ।
६७
श्वेतापराजितामूलं नीलीमूलं श्मशानजम् ।
सर्व बद्धा कटौ वीर्य चिरकालं न मुञ्चति ॥ २७ ॥
वीर्यस्तम्भकरः पादलेपः।
भूलता सिक्थकं तुल्यं लिम्पेनैलैः कुसुम्भः ।
पादौ वीर्यधरो भूयात्पन्यां शय्यां न संस्पृशेत् ॥२८॥
नवनीतेन वा लेप्यं चटकाण्डं च पूर्ववत् ।
इन्द्रवारुणिकामूलं उन्मत्ताजस्य मूत्रतः ॥ २९ ॥
भावयेत्तेन लेपेन नरो वीर्य न मुञ्चति ।
वीर्यस्तम्भकरो लिङ्गलेपः।
दाडिमस्य त्वचचूर्ण फलं भल्लातकाक्षयोः ॥३०॥
पिष्ट्वा तत्कटुतैलेन लेपः सात्पूर्ववत्फलम् ।
कर्पूरं टङ्कणं मूतं मुनिपुष्परसं मधु ॥ ३१ ॥
मर्दयित्वा लिपेत्तेन लिङ्गं यावत्समन्ततः।
जलैः प्रक्षालयेल्लिङ्गं भजेद्रामां यथोचिताम् ॥ ३२॥
वीर्य स्तम्भयते पुंसां याममात्रं न संशयः ।
वीर्यस्तम्भार्थ कव्यां पारदगुटिकाधारणम् ।
कृष्णधत्तूरतैलेन पारदं घर्षयेद्दिनम् ।। ३३ ।।
त्रिलोहेष्टितं बद्धं तत्कव्यां वीर्यधारकम् ।
वीर्यस्तम्भाथै पारदादियोगः ।
सूतं स्वर्ण व्योमसत्त्वं तारं तानं च रोचनम् ॥ ३४ ॥
बीजं वै शरपुङ्खायाः कृष्णधत्तूरबीजकम् ।
सर्व मर्च वटक्षीरैः कुबेराक्षस्य बीजके ॥ ३५ ॥
तत्क्षिप्वा धारयेदके वीर्यस्तम्भकरं चिरम् ।
वीर्यस्तम्भाथै हस्ते मुद्रिकाधारणम् ।
कुकलासस्य पुच्छाग्रं मुद्रिकाकारतां कृतम् ॥ ३६ ।।
उर्णनाभस्य जालेन वेष्टयित्वाऽथ धारयेत् ।
वामहस्ते कनिष्ठायां नरो वीर्यं न मुञ्चति ॥ ३७॥
६८ आयुर्वेदीयग्रन्थमाला। [उपदेशः वीर्यस्तम्भार्थ स्थलमीनयोगः । स्थलमीनं समादाय शुष्कं चूर्णेन लेपयेत् । उल्लिप्तं रक्षयेत्किंचिद्वक्रे धार्यश्च वीर्यधृक् ॥ ३८॥ जसलमेरोः पत्तने अमरचण्डेश्वरो नाम देवतायतनं, तस्साये वालुकामध्ये स्थलमीनास्तिष्ठन्ति, ते च वालुकामीनाः कथ्यन्ते ॥ वनिताद्रावणार्थ जलौकायोगाः। शुद्धसूते विनिक्षिप्य स्वर्ण वा नागमेव वा । अष्टमांशेन तत्सर्व मर्दयेत्तप्तखल्वके ॥ ३९ ॥ शाल्मल्याश्चैव पञ्चाङ्गरसं तत्र विनिक्षिपेत् । श्लेष्मान्तस्य फलं पकं कोकिलाक्षस्य बीजकम् ॥४०॥ तिलपिण्याकचूर्ण तु दत्त्वा तावद्विमर्दयेत् । जलौका जायते यावत्ततः कर्पूरटङ्कणम् ॥४१॥ कपिकच्छुकरोमाणि बाकुचीतैलकं पटु । मागधीं च जलैः पिष्ट्वा तत्सर्वं तप्तखल्वके ॥ ४२ ॥ क्षिपेत्पूर्वजलौकां च त्रिसप्ताहं विमर्दयेत् । सा योज्या कामकाले तु नारीणां योनिगहरे ॥४३॥ मददर्पहरा तासां मदविह्वलकारका । बाल्ये षडङ्गुला योज्या यौवने सा नवाङ्गुला ॥४४॥ द्वादशाङ्गुलिका योज्या प्रगल्भानां जलौकिका । यो वा तां धारयेन्मूर्ध्नि वीर्य तस्य स्थिरं भवेत् ॥४५॥ पारदादष्टमांशेन सुवर्ण नागमेव वा। योजयेत्तप्तखल्वे तु शाल्मलीत्वनिजद्रवैः॥४६॥ मुनिपत्ररसर्नीलीमूलद्रावैश्च मर्दयेत् । श्लेष्मातकफलं पकं कोकिलाक्षस्य बीजकम् ।। ४७॥
७.]
रसरत्नाकरस्य रसायनखण्डः ।
मजा सुपका बिल्वस्य क्षिपेत्तत्रैव मर्दयेत् ।
जलौका जायते यावत्ततस्तस्मात्समुद्धरेत् ॥४८॥
त्रिसप्ताहं तप्तखल्वे कर्पूराद्यैश्च पूर्ववत् ।
मर्दयेच्च फलं तद्वजायते नात्र संशयः ॥ ४९ ॥
रसादष्टमभागं तु सुवर्ण नागमेव वा ।
योज्यं च त्रिफला भृङ्गी शुण्ठी छागपयो.घृतम्॥५०॥
क्षौद्रं गोमूत्रकं चैव सर्वं सप्तदिनावधि ।
मर्दयेत्तदवच्छिन्नं जलौका यावता भवेत् ॥ ५१ ॥
कर्पूराद्यैः पुनर्मद्य तप्तखल्वे तु पूर्ववत् ।
पूर्ववजायते सिद्धिस्तद्वद्योगे न संशयः ॥ ५२ ॥
त्रिदिनं मर्दयेत्खल्वे सूतं निष्कचतुष्टयम् ।
त्रिफलायास्तु निर्यासं स्तोकं स्तोकं विनिक्षिपेत् ॥५३॥
पयश्चैव महाशृङ्ग्या दातव्यं मर्दनक्षमम् ।
जलौका मर्दनाख्येयं जायते सुखदा नृणाम् ।। ५४ ॥
रामाणां मदमत्तानां द्राविकाऽनौ घृतं यथा ।
पूर्ववत्क्रमयोगेन वीर्यस्तम्भकरी भवेत् ॥ ५५ ॥
लिङ्गवर्धनाः कतिपययोगाः ।
पारदं मरिचं कुष्ठं तगरं कण्टकारिका ।
अश्वगन्धातिलक्षौद्रसैन्धवश्वेतसर्षपाः ॥५६॥
अपामार्गो यवा माषाः पिप्पली च समं जलैः।
पिष्ट्वा विमर्दयेत्तेन लिङ्गं मासमहर्निशम् ।। ५७ ॥
वर्धते हस्तमात्रं तत्स्थौल्येन मुशलोपमम् ।
वराहवसया क्षौद्रर्लिङ्ग मासं विलेपयेत् ।। ५८ ।।
अतिदीर्घ दृढं स्थूलं जायते नात्र संशयः ।
अश्वगन्धा वचा कुष्ठं बृहती च शतावरी ॥ ५९॥
पाचयेत्तिलतैलेन मर्दयेत्तेन पूर्ववत् ।
लिङ्गं स्थूलं दृढं दीर्घ मासमात्रात्प्रजायते ॥६०॥
आयुर्वेदीयग्रन्थमाला। [उपदेशः जम्बूमुकरजं तैलं महाराष्ट्री च टङ्कणम् । मधुना सह लेपोऽयं मासाल्लिङ्गस्य वृद्धिकृत् ॥ ६१ ॥ मिश्रितं मुशलीचूर्ण माहिषनवनीतकैः । तद्भाण्डं धान्यराशौ च स्थितं सप्तदिनहरेत् ॥ ६२ ॥ तेन प्रलेपयेल्लिङ्गं वर्धते मासमात्रतः । पिप्पली मरिचं क्षीरं सिता तुल्यं विमर्दयेत् ॥ ६३ ।। मासैकं वृद्धिकृल्लिङ्गे नात्र कार्या विचारणा। माहिषं गोघृतं तुल्यं सैन्धवं च समं समम् ॥ ६४ ॥ अनेन लेपयेल्लिङ्गं स्थूलं स्यान्मासमात्रतः । अश्वगन्धापमार्गौ च सारिवाऽक्षफलं तिलाः॥६५॥ सर्षपेन्द्रयवं तुल्यमजाक्षीरेण पेषयेत् । तेन लिङ्गं तु मासैकं मर्दनाद्वृद्धिमाप्नुयात् ॥ ६६ ॥ मांसीमक्षफलं कुष्ठमश्वगन्धां शतावरीम् । तैले पक्त्वा प्रलेपोऽयं मासाल्लिङ्गस्य वृद्धिकृत् ॥६७॥ रोहीतमत्स्यजं पित्तं जलौका लाङ्गली समम् । अनेन लेपयेल्लिङ्गं स्यान्मासान्मुशलोपमम् ॥ ६८॥ निशा सिताऽश्वगन्धा च पारदं मर्दयेत्समम् । अनेन मर्दयल्लिङ्गं योनिकर्णस्तनांस्तथा । धन्ते मासमात्रेण नात्र कार्या विचारणा ॥ ६९॥ 'ॐ नमो भगवते उड्डामरेश्वराय सर प्रसर २ कुरु कुरु ठ ठः। अनेन मत्रेण सर्वे वर्धनयोगाः सप्ताभिमत्रिताः सिद्धा भवन्ति ।। जाम्बूमार्जारयोः पित्तं यवागूमर्दितं दिहेत् । मासैकाद्वर्धते लिङ्गं स्तनौ कौँ च मर्दनात् ॥ ७० ॥ १'वालं' क.।
रसरताकरस्य रसायनखण्डः ।
'ॐ नमो भगवते उड्डामरेश्वराय सर प्रसर प्रसर निकल
निकल निकालय निकालय स्वाहा ठः ठः ॥
गृहगोधा शुनो जिह्वा स्त्रीजरायुः समं समम् ।
पिष्ट्वा धार्य ताम्रपात्रे सप्ताहात्तं पुनः पचेत् ।। ७१ ॥
तिलतैलेन तत्तैलमर्दनाद्वर्धते खलु ।
लिङ्गं स्तनौ च कर्णौ च हस्तौ पादौ न संशयः॥७२॥
'ॐ नमो भगवते उड्डामरेश्वराय सर सर हिलि हिलि
खाहा ठः ठः॥
अतितरसुखसाध्यैर्योगराजैः प्रसिद्धैः
सततसुरतयोग्यं स्तम्भनं वर्धनं च ।
निपुणरसिकरामारञ्जकं मोहकं सा-
द्गदितमिह समस्तं भोगिनां सौख्यहेतुः ॥ ७३ ॥
इति पार्वतीपुत्र श्रीनित्यनाथसिद्धविरचिते रसरत्नाकरे रसायनखण्डे
वीर्यस्तम्भनलिनवर्धनं नाम सप्तमोपदेशः।
अथाष्टमोपदेशः।
श्रीशैले देहसिद्धिः प्रभवति सहसा वृक्षमृत्कन्दतोयै-
स्तच्छास्त्रं शम्भुनोक्तं प्रगहनमखिलं वीक्षितं यत्तु सारम् ।
व्याहृत्यानेकयुक्त्या सकलसुखकरं दृष्टसिद्धं तु यद्य-
त्तद्वक्ष्ये साधकानामनुभवपथगं भुक्तये मुक्तये च ॥१॥
मल्लिकार्जुनदेवस्य पुरतो गजसंनिभा।
शिला तिष्ठति या रात्रौ स्रवते गुग्गुलु सदा ॥२॥
पालाशचाटुना ग्राह्यं क्षिपेदलाबुपात्रके।
तद्गुग्गुलुसमं गन्धं निष्कैकं भक्षयेत्सदा ॥३॥
मासान्मृत्युजरां हन्ति जीवेदाचन्द्रतारकम् ।
तद्गुग्गुलु द्रुते ताने कोटिभागेन योजयेत् ॥४॥
७२ आयुर्वेदीयग्रन्थमाला। [उपदेशः तद्भवेत्कनकं दिव्यं जाम्बूनदसमप्रभम् । वामतो मल्लिनाथस्य घण्टासिद्धेश्वरः स्थितः ॥५॥ तबारे विद्यते कुण्डं तत्र घण्टा विलम्बते । रात्रौ कृष्णचतुर्दश्यां सोपवासैस्त्रिभिर्जनैः॥६॥ कर्तव्यं साधनं तत्र निर्विकल्पैरनिद्रितः। एकस्तु वापयेद्देवं जलमेकस्तु वाहयेत् ॥ ७॥ एकस्तु वादयेद्धण्टामविच्छिन्नं निशावधि । ततस्तुष्टो भवेच्छम्भुः खेचरत्वं प्रयच्छति ॥ ८॥ घण्टासिद्धेश्वरस्यैव दक्षिणे क्रोशमात्रके। निखनेदृश्यते तत्र मृगोरोचनसंनिभा ॥९॥ सिताक्षी रैः पिबेत्कर्ष सप्ताहादमरो भवेत् । चन्द्रोदकं प्रसिद्धं वै मल्लिनाथस्य पश्चिमे ॥१०॥ स्थितं वैशाखमासे तु पूर्णमास्यां सुसाधयेत् । साधको निर्विकल्पेन स्थित्वा तस्य समीपतः ॥११॥ रात्रौ जपं प्रकुर्वाणस्तत्तोयं चाधरात्रके । स्पष्टुं चन्द्रो यदा गच्छेत्तदा क्षिप्रं कराञ्जलिम् ॥ १२॥ कृत्वा तिष्ठेद्यदा याति तजलं तत्क्षणात्पिबेत् । वज्रकायो भवेद्वीरो जीवेदाचन्द्रतारकम् ॥ १३ ॥ श्रीशैलपूर्वद्वारे तु देवोऽस्ति त्रिपुरान्तकः । देवस्योत्तरदिग्भागे चिश्चावृक्षः समीपतः ॥ १४ ॥ विद्यते तस्य मूले तु भैरवो दृश्यते खयम् । तस्याग्रे निखनेद्भूमि पुरुषस प्रमाणतः ॥१५॥ दृश्यते तप्तकुण्डं तु नीलवर्णजलान्वितम् । चिश्चावृक्षस्य पत्राणि सम्यग्वस्त्रेण बन्धयेत् ॥ १६ ॥ १ 'जानुमात्रकम् ख.।
८.]
रसरत्नाकरस्य रसायनखण्डः।
७३
तस्मिन् कुण्डे विनिक्षिप्य तानि मीना भवन्ति वै।
संगृह्य तेन काष्ठेन पचेत्तेषां विवर्जयेत् ॥ १७ ॥
कण्टकानि शिरः पुच्छं शेषं भक्षेत साधकः ।
क्षणं मूर्छा भवेत्तेन प्रबुद्धो जायते स्वयम् ॥ १८ ॥
छिद्रं पश्यति मेदिन्यां जीवेद्वर्षायुतं नरः ।
त्रिपुरान्तकदेवस्य पश्चिमे गव्युतिद्वये ॥ १९ ॥
मणिपल्लिरिति ग्रामस्तस्य पश्चिमतो गिरिः।
तस्य पश्चिमदिग्भागे कपाटं दृश्यते शुभम् ॥ २० ॥
पूर्वाभिमुखः प्रविशेत्ततो गच्छेच्च दक्षिणम् ।
दशधन्वन्तरं यावदृश्यन्ते ज्वलनप्रभाः ॥२१॥
आम्राकाराः सुपाषाणा ग्राह्या वस्त्रेण बन्धयेत् ।
रक्तवर्ण भवेद्वस्त्रं क्षीरमध्ये क्षिपेत्ततः ॥ २२ ॥
तत्क्षीरं जायते रक्तं तत्क्षीरं साधकः पिबेत् ।
सप्ताहाद्वज्रकायः स्थाजीवेश्चन्द्रार्कतारकम् ॥ २३ ॥
त्रिपुरान्तकदेवस्य उत्तरे कोकिलाविलम् ।
विख्यातं सर्वलोकेषु कृत्वा वमनरेचनम् ।। २४ ॥
साधकः प्रविशेत्तत्र दशधन्वन्तरावधि ।
पाषाणाः कोकिलाकारास्तानि तिष्ठन्ति चाहरेत्।।२५।।
तेषां पृष्ठे तिलाः क्षिप्ताः स्फुटन्त्येव हि तत्क्षणात् ।
इत्येवं प्रत्ययं दृष्ट्वा तांश्च घृष्ट्वा परस्परम् ॥२६॥
क्षीरमध्ये क्षिपेत्तान् वै क्षीरं कृष्णं प्रजायते ।
आकण्ठान्तं पिबेत्तत्तु दिव्यकायो भवेन्नरः ॥ २७॥
वलीपलितनिमुक्तो जीवेद्ब्रह्मदिनत्रयम् ।
छिद्रं पश्यति मेदिन्यां वायुवेगो महाबलः ॥ २८॥
त्रिपुरान्तकदेवस्य पूर्वदिग्योजनान्तरे ।
देवः स्वर्गपुरी नाम विद्यते तत्र वै खनेत् ॥ २९ ॥
७४ आयुर्वेदीयग्रन्थमाला। [उपदेशः देवाग्रे भूमिकां जानुमात्रां तत्र फला इव । निर्गच्छन्ति तु पाषाणाः खरस्पर्शा भवन्ति वै ॥३०॥ त्रिपुरान्तकदेवस्य पश्चिमे योजनार्धके । विद्यते हि बिलद्वारं तन्मध्ये धनुषां त्रयम् ॥ ३१ ॥ गच्छेत्खरवृक्षो वै दृश्यते कृष्णवर्णकः । तत्फलानां रसं पीत्वा मूर्छा संजायते क्षणम् ॥३२॥ ततः संजायते सिद्धो जीवेच्चन्द्रार्कतारकम् । श्रीशैले दक्षिणे द्वारे जालेश्वरसुरेश्वरौ ॥ ३३॥ देवौ प्रसिद्धौ विद्यते निखनेत्तत्र भूमिकाम् । पाषाणाः श्रीफलाकारा निर्यान्ति स्पर्शभेदकाः ॥३४॥ देवो रामेश्वरस्तत्र विद्यते तस्य संनिधौ । रुद्राक्षाकारपाषाणाः खरस्पर्शा भवन्ति ते ॥ ३५ ॥ ज्योतिःसिद्धवटे वृक्षे एकपादेन तिष्ठति । आवर्तदेवको नाम तत्समीपे तु पश्चिमे ॥ ३६॥ विद्यते पर्वतस्तत्र पाषाणास्तालकोपमाः। आदाय तान् धमेत्तीनं दिव्यं भवति काञ्चनम् ॥३७॥ तत्रैव दक्षिणद्वारे देवः स्यात्कुण्डलेश्वरः । तत्समीपे खनेद्भूमि जानुमात्रां ततो हरेत् ॥ ३८॥ पाषाणाः श्रीफलाकारा रक्ताश्च स्पर्शवेधकाः। पुरुषेश्वरदेवस्य कुण्डमस्ति समीपतः ॥ ३९ ॥ गुञ्जा च रिहकश्चैव द्वौ वृक्षौ तत्र तिष्ठतः । तयोः पत्राणि संभक्ष्य तत्क्षणादमरो भवेत् ॥ ४०॥ तथा हस्तिशिला तत्र तस्या दक्षिणतः खनेत् । हस्तमात्रं ततः पश्येजम्बूफलसमाकृतिः॥४१॥ १'गच्छेदर्जुनवृक्षो' ख.।
रसरत्नाकरस्य रसायनखण्डः।
शिला तत्र समाख्याता स्पर्शग्राह्या प्रयत्नतः।
नाम्ना हस्तिशिरः ख्यातं सैव हस्तिशिला भवेत् ॥४२॥
तस्या दक्षिणदिग्भागे योजनकन तिष्ठति ।
छायाछत्रं प्रसिद्धं तच्छिवरूपं शिवोदितम् ॥ ४३ ॥
शतहस्तप्रमाणं तु तत्क्षेत्रं परिवर्तुलम् ।
योऽसौ गच्छति तस्याधो नासो केनापि दृश्यते॥४४॥
रुद्रतुल्यो भवेत्सिद्धः क्रीडते भुवनत्रये ।
अथवा साधयेदूरात्ख्यातं सिद्ध्यष्टकं तु यन् ॥ ४५ ॥
कान्तानं काञ्चनं मूतं मद्य क्रमगुणोत्तरम् ।
तद्गोलं वेष्टयेल्लोहेसिभिर्यत्नात्क्रमेण वै ।। ४६॥
वस्त्रे बवा तु तद्वस्त्रं वंशाग्रे बन्धयेदृढम् ।
मत्रयेत्कालिमन्त्रेण छायाच्छत्रे निवेशयेत् ॥ ४७ ॥
तद्वंशाग्रं क्षणैकेन जायते गुटिका तु ताम् ।
साधको धारयेद्वके खेचरत्वप्रदायिकाम् ॥४८॥
तालकं कुनटीं तद्वद्वंशे बद्ध्वा निवेशयेत् ।
ताभ्यामञ्जितनेत्रो यो निधिं पश्यति भूगतम् ॥४९॥
वंशे बढा क्षिपेत्खङ्गं पूर्वमत्रेण मत्रितम् ।
तत्खड्गं धारयेद्धस्ते त्रैलोक्यविजयी भवेत् ॥ ५० ॥
वस्त्रे गोरोचनं बद्धवा वंशस्थं तत्र वेशयेत् ।
तेनैव तिलकं कुर्यादृष्ट्वा मोहयते जगत् ॥ ५१ ॥
स्रोतोञ्जनं कजलं च क्षिप्वा तत्रैव पूर्ववत् ।
तेन चाञ्जितनत्रो यो देवैरपि न दृश्यते ॥ ५२ ॥
पादुकां तेन योगेन क्षिप्त्वा पद्भ्यां तु धारयेत् ।
यत्रेच्छा तत्र तत्रैव गन्ता भवति तत्क्षणात् ॥ ५३॥
तद्वद्रक्तपटं तत्र क्षिप्त्वा संवेष्ट्य साधकः।
अदृश्यो जायते सम्यक्पटे मुक्ते तु दृश्यते ॥ ५४॥
आयुर्वेदीयग्रन्थमाला। [उपदेशः
कान्तानं काञ्चनं मूतं कृत्वा गोलं तु वेशयेत् ।
वंशाग्रस्थं मत्रयुक्तं स्पर्शवेधी भवेत्तु तत् ॥ ५५ ॥
श्रीशैले पश्चिमे द्वारे नाना ब्रह्मेश्वरेश्वरः।
तल्लिङ्गं स्पमित्याहुर्दुर्गा तत्रैव तादृशी ॥ ५६ ॥
नवमं यत्तु सोपानं नद्यां तत्तादृशं स्थितम् ।
देवस्य तिष्ठति द्वारे मुद्गवर्ण विलोकयेत् ॥ ५७ ॥
ब्रह्मेश्वरस्य नैर्ऋत्ये संस्थितं तिन्तिणीवनम् ।
तस्मिन् वने स्थितं कुण्डं तत्र तिष्ठति चण्डिका ॥५८॥
एकपादेन चिश्चाधस्तदृक्षात्पत्रमाहरेत् ।
बद्धा वस्त्रे क्षिपेत्कुण्डे स्नानं तत्र समाचरेत् ॥ ५९॥
खानान्ते पोटली ग्राह्या सर्वे मत्स्या भवन्ति ते ।
तत्काष्ठैः पाचयेत्तानि कण्ठं पुच्छं शिरस्त्यजेत् ॥६॥
भागं देवाय संकल्प्य द्वितीयमतिर्भवेत् ।
तृतीयं साधको भुक्त्वा क्षणं भवति मूछितः॥ ६१॥
तत्क्षणाजायते सिद्धश्छिद्रां पश्यति मेदिनीम् ।
अजरामरतां याति न बाध्यस्त्रिदशैरपि ॥ ६२॥
अलंपुरोत्तरे भागे ग्रामः स्याद्भीमपादुकः।
तस्य ग्रामस्य पार्श्वे तु हस्तमात्रं खनेद्भुवम् ॥ ६३ ॥
पाषाणाः सर्पवद्वका ग्राह्या स्पर्शा भवन्ति ते ।
योगेश्वरीति विख्याता देवता या त्वलंपुरे ॥ ६४॥
देव्या ह्यग्रे गुहा रम्या तन्मध्ये निखनेद्भुवम् ।
पाषाणा भेकसंकाशा ग्राह्या मार्जारविष्ठया ॥६५॥
मिश्रीकृत्य क्षिपेद्वङ्गे तद्वङ्गं तारतां व्रजेत् ।
मध्वाज्यसहितान् भक्षेत्पाषाणांस्तान्विचक्षणः॥६६॥
श्रीशैलखोचरद्वारे महेशो नाम देवता ।
भ्रमराम्रः स्थितस्तत्र तस्य पकफलानि वै॥ ६७॥
रसरत्नाकरस्य रसायनखण्डः। ७७ ८.] स्फोटयेत्तत्र निर्यान्ति भ्रमरा जीवसंयुताः । इत्येवं प्रत्ययं ज्ञात्वा भ्रमरांस्तान् परित्यजेत् ॥ ६८ ॥ फलानि पाचयेत्क्षीरैः पिवेक्षीरं यथेष्टकम् । किंचिन्मूर्छा भवेत्तेन ततो बोध पिवेत्पुनः ॥ ६९ ।। एवं कुर्यात्रिसप्ताहं वज्रकायो भवेन्नरः । वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ॥ ७० ॥ सर्ववाङ्मयवत्ता च वायुवेगी भवेन्नरः । तेनैवाम्रफलैकेन वर्जितभ्रमरेण च । सहस्रपलवङ्गं तु द्रावितं स्तम्भयेद्भुवम् ॥ ७१ ॥ क्षेपात्तारमवाप्नोति सत्यमीश्वरभाषितम् । तत्फलं छिद्रितं कृत्वा उत्पाट्य भ्रमरं ततः ॥ ७२ ॥ शुद्धपारदककं तत्तुल्यं कृष्णमभ्रकम् । क्षिप्त्वा तस्मिन्मुखं रुवा लिम्पेन्मृगोमयेन च ॥७३॥ छायाशुष्कं तदाम्रोत्थैः कांथैर्यामं विपाचयेत् । स्वभावशीतला ग्राह्या गुटिका फलमध्यगा ।। ७४ ॥ मुखस्था खेचरं दत्ते अदृश्यत्वं महाबला। काथे वाक्पतितुल्यः साजीवेदाचन्द्रतारकम् ॥ ७५ ॥ तारं तानं भुजङ्ग वा कोटिभागेन वेधयेत् । कृष्णानं शुद्धसूतं च पूर्ववत्तत्फले क्षिपेत् ॥ ७६॥ लिम्पेन्मृद्गोमयैस्तद्वदारण्योत्पलकैः पुटे । खभावशीतलं ग्राह्यं तद्रसं मधुसर्पिषा ॥ ७७॥ गुञ्जामात्रं सदा खादेन्मासाद्वालो भवेन्नरः । जीवेब्रह्मदिनं वीरो नवनागबलान्वितः ॥ ७८ ।। विद्यते लोकविख्यातः पूज्यः पञ्चोपचारकैः । ॐ हुं फट्कारमत्रेण निर्विकल्पेन साधकैः ॥ ७९ ॥ १ 'काष्र्याम ख.।
आयुर्वेदीयग्रन्थमाला। [ उपदेशः वीक्ष्य पश्चिमदिग्भागे ह्यन्तरिक्षे च तत्क्षणात् । पश्यदिव्यविमानानि जायते प्रत्ययो महान् ।। ८० ॥ ततः पश्चिमदिग्भागे गच्छेन्नदी तरेत्सुधीः। गहरं दृश्यते तत्र प्रविशेत्पश्चिमामुखम् ॥ ८१ ॥ योजनत्रितयं गच्छेदेकाकी निर्विकल्पकः । पञ्चयोजनविस्तीर्ण दृश्यते कदलीवनम् ॥ ८२॥ तस्स मध्येऽतिविस्तीर्ण जलपूर्ण सरोवरम् । सिंहासनं तु तन्मध्ये शुद्धस्फटिकसंनिभम् ॥ ८३ ।। तं दृष्ट्वा दण्डवभूमौ निपतेन्मत्रमुच्चरेत् । ॐ ह्रीं विद्यावागीश्वराधिपतये ह्रीं ॐ स्वाहा । स्नानं कृत्वा प्रयत्नेन लक्षमेकं जपेदनु । यथेष्टं भोजनं कृत्वा कन्दमूलफलादिकम् ॥ ८४ ॥ ततः सिंहासनस्योर्ध्वं शुद्धस्फटिकसंनिभः । चतुर्भुजस्त्रिनेत्रश्च दृश्यते परमेश्वरः ॥ ८५ ॥ स्तोत्रमत्रैनमस्कारैः प्रणिपत्य पुनः पुनः। वरं दत्ते यथेष्टं वै साधकस्य न संशयः ॥८६॥ शतमायतनं तत्र कूपानां च शतं नव । तावत्संख्यास्तथाऽऽरामा नन्दनाख्यवनानि च।। ८७॥ तथा नवशतं वाप्यो विद्यन्ते कदलीवने । बिलद्वाराणि तावन्ति कल्पवृक्षास्तथैव च ॥ ८८ ॥ तत्रैव मोकली नाम यक्षिणी प्रकटा स्थिता । सा वक्ति भोजनं देहि यदीच्छसि समीहितम् ।। ८९॥ ततस्तस्यै प्रवक्तव्यं दास्यामि परमेश्वरि । क्षीरानं वा फलाहारं तदने दापयेत्सुधीः॥९०॥ सा वक्ति मम पुत्रोऽयं क्षणं वक्षसि धार्यताम् । यदा न मुञ्चते भूमौ तदा सिद्ध्यष्टकं तव ॥ ९१ ॥ 2 ८.] रसरत्नाकरस्य रसायनखण्डः। ७९ दास्येऽहं नात्र संदेहो भोजनान्तेऽथवा पुनः । त्यक्ते करोमि संहारं तस्माद्यनेन रक्षय ।। ९२ ।। इत्येवं साधको वीरः कुर्यात्मिदिमवाप्नुयात् । गच्छेदुत्तरदिग्भागे तत्सरो योजनार्धकम् ॥ ९३ ॥ तत्रास्ति पुष्पसंपूर्ण दिव्याख्यं नन्दनं वनम् । पुष्पाणां घ्राणमात्रेण क्षुत्पिपासा न विद्यते ॥ ९४ ।। अथवा भक्षयेत्तस्मात्फलमेकं यथोचितम् । तेन भक्षितमात्रेण वज्रकायो भवेन्नरः॥ ९५ ॥ सरो दक्षिणदिग्भागं गच्छेद्योजनपादकम् । तत्र दाडिमसंपूर्ण दृश्यते नन्दनं वनम् ॥ ९६ ॥ तत्फलं भक्षयत्सिद्धो जीवेद्युगसहस्रकम् । तत्सरःपूर्वदिग्भागे गच्छेत्क्रोशार्धमात्रकम् ॥ ९७ ॥ तत्र धात्रीफलैः पूर्ण श्यामलं नन्दनं वनम् । फलानि भक्षयेत्तानि जीवेत्कल्पशतत्रयम् ॥ ९८॥ तत्सर पश्चिमे भागे गच्छेद्योजनमात्रकम् । तत्र विल्वफलैः पूर्ण दृश्यते नन्दनं वनम् ।। ९९ ॥ तत्फलं भक्षयेद्वीरो जीवेचन्द्रार्कतारकम् । तन्नन्दनवने रम्ये लिङ्गं स्यान्नीलवर्णकम् ।। १०० ॥ प्रविशेदुत्तरद्वारे तत्र नागो महाबलः । उग्रः सप्तफणाकारो दृश्यतेऽतिभयङ्करः ॥ १०१ ॥ तस्य कुर्यान्नमस्कार हु हु कुर्यात्समुद्धरेत् । तदाऽसौ वदते वाणीमदृश्यत्वं ददामि ते ॥ १०२॥ गच्छ त्वं पश्चिमद्वारे तत्रास्ति दिव्यकन्यका । गच्छेत्तत्र महावीरः साधको मन्त्रमुच्चरन् ।। १०३ ॥ १ 'हुंकारं च समुच्चरेत्' ख.।
आयुर्वेदीयग्रन्थमाला। [उपदेशः हारं दास्यति सा तुष्टा ने प्रवेशं प्रयच्छति । तं हारं धारयेत्कण्ठे साक्षाद्वागीश्वरो भवेत् ॥ १०४ ॥ ततस्तु दक्षिणं द्वारं गच्छेत्तत्र भयङ्करम् । मुक्तकेशं वक्रनेत्रं गदाहस्तं दिगम्बरम् ॥ १०५॥ नीलवर्ण क्षेत्रपालं दृष्ट्वा मत्रं समुच्चरेत् । ह हा हे हे हं हुंकारं फट् हुं स्वाहान्तमेव च ॥१०६॥ अनेन मत्रपाठेन क्षेत्रपालः प्रसीदति । ददाति खेचरी सिद्धिं न प्रवेशं कदाचन ॥ १०७॥ ततस्तु पूर्वदिग्भागे द्वारं तत्र गणेश्वरः । दृश्यते पूजयेत्तं वै साधकः प्रविशेत्ततः ॥ १०८॥ दृश्यते दिव्यचापं तु तथा लिङ्गं मनोहरम् । पूजयेच्छिवमत्रेण रकारेणैव नान्यथा ॥ १०९ ॥ ततस्तत्र जपं कुर्यादहोरात्रमुपोषितः । प्रत्यक्षो जायते रुद्रो वरं दत्ते यथेप्सितम् ॥ ११० ॥ इत्येवमादयः सन्ति सिद्धयः कदलीवने । अक्षरैलिखितं द्वारे तत्र पद्मावतीबिलम् ॥ १११ ॥ सरसः पूर्वदिग्भागे योजनैकेन तिष्ठति । वमनं रेचनं कृत्वा प्रविशेत्तत्र साधकः ॥ ११२॥ धन्वन्तरं शतं यावद्गच्छेत्तत्र मृदङ्गकम् । दृष्ट्वा तं वादयेद्वीरः सम्यक्पद्मावती ततः ॥११३ ॥ आगत्य चामृतं दत्ते यत्पानादमरो भवेत् । ततस्तं प्रार्थयत्येव आगच्छ मम मन्दिरम् ॥ ११४ ॥ दिव्यं कन्यापञ्चशतं परिवारण स्वीकुरु । अहं पत्नी भविष्यामि यावद्ब्रह्मा च जीवति ॥ ११५॥ १'प्रजेशत्वं ख.।
८.] रसरत्नाकरस्य रसायनखण्डः। ८१ तदन्ते परमं स्थानं गच्छामो नात्र संशयः । कदम्बेश्वरदेवस्तु आग्नेय्यां दिशि विद्यते ॥ ११६ ॥ तस्य पूर्वतटाकाग्रे स्थितो वृक्षः कदम्बकः । तस्य पत्राणि संगृह्य कटुतैलेन लेपयेत् ।। ११७ ।। तद्वृक्षवीजतैलैर्वा तत्काष्ठैः पाचयेत्सुधीः । मत्स्या भवन्ति ते सर्वे ताम्रपात्रे विनिक्षिपेत् ॥११८॥ कण्ठपुच्छशिरोवर्ज मध्वाज्याभ्यां तु भक्षयेत् । तत्क्षणाजायते सिद्धो रुद्रतुल्यो महाबलः ।। ११९ ॥ नदीस्थाने च यो वृक्षो विद्यते कुण्डलेश्वरे । पूर्ववत्क्रमयोगेन सिद्धिः सान्नात्र संशयः ॥ १२० ॥ कपोतेश्वरदेवस्योत्तरे पुष्पगिरिः स्थितः । तस्य कुर्यात् प्रयत्नेन त्रिवारं तु प्रदक्षिणम् ॥ १२१॥ ततः शिरः समारुह्य खेचरत्वं लभेन्नरः । तत्पूर्वोत्तरदिग्भागे छेलिकाद्वारसंस्थितम् ।। १२२ ॥ उत्तराभिमुखं तत्र प्रविशेद्धनुषां त्रयम् । मूषिकाकारपाषाणास्तिष्ठन्ति तान् समाहरेत् ॥ १२३ ॥ तकैः पिष्ट्वा तदेकं तु पिवेन्मूर्छामवाप्नुयात् । क्षणादुत्तिष्ठते सिद्धो जीवेब्रह्मदिनत्रयम् ॥ १२४ ।। स एव सर्वलोहानां स्पर्शवेधकरो भवेत् । अहोरात्रोषितो भूत्वा देवाग्रे सिद्धिमाप्नुयात् ॥१२५ ॥ कपोतेश्वरदेवस्य दक्षिणे देवताद्वयम् । तन्मध्ये कटिमात्रं तु खनेगोरोचनोपमाः ॥ १२६ ॥ पाषाणास्तान् समादाय मध्वाज्याभ्यां प्रपेषयेत् । तत्पानाजायते मर्त्यः कल्पायुनात्र संशयः ॥ १२७ ॥ १ 'अम्बिकाद्वार" ख..
आयुर्वेदीयग्रन्थमाला।
[उपदेशः
कपोतेश्वरदेवस्य वायव्ये हस्तमात्रकम् ।
खनेत्पारावतप्रख्याः पाषाणाः स्पर्शभेदकाः ॥ १२८॥
तिष्ठन्ति ग्राहयेदेकं देवताराधने कृते ।
मल्लिकार्जुनदेवस्य ऐशान्यां भृगुपातनम् ॥ १२९ ॥
विद्यते तत्समीपस्थं कुण्डं तसान्मृदाहरेत् ।
पञ्चगव्येन संमिश्रा खदिराङ्गारकैर्धमेत् ॥ १३० ॥
नीलोत्पलसमं लोहं पतत्येवाथ सेचयेत् ।
मध्वाज्याभ्यां सुतप्तं तत्सप्तवारं पुनः पुनः॥ १३१ ॥
तद्गोलं धारयेद्वक्रे विष्णुतुल्यो भवेन्नरः।
भृगुपातात् पूर्वभागे कोशोदधिकपाटके ॥ १३२॥
तस्याने अच्छतैलाख्यः पर्वतो नाम विश्रुतः।
तत्पश्चिमे बिलद्वारं तन्मध्ये धन्वपञ्चकम् ॥ १३३ ॥
गते तु दृश्यते कुण्डं रसो लाक्षारसप्रभः ।
अलाबुपात्रे संगृह्य कोटिवेधी भवेत्तु सः॥ १३४ ॥
मल्लिकार्जुनदेवस्य पूर्वतो लोकविश्रुतः।
प्राकारश्चन्द्रगुप्तस्य विद्यते तत्र मन्दिरम् ॥ १३५॥
तस्य पूर्वे स्थितश्चैत्यश्चैत्यपूर्वे महाशिला ।
मुद्गवर्णा च सा ख्याता स्पर्शवेधकरा तु सा ॥१३६॥
गजस्तत्रैव विख्यातस्तमारुह्य समाहितः ।
तस्य पृष्ठात्तृणं ग्राह्यं तत्सर्वं कनकं भवेत् ॥ १३७ ॥
गजस्य चोत्तरे पार्श्वे जानुमात्रं खनेद्भुवम् ।
जम्बूफलसमाकाराः सन्ति ते स्पर्शवेधकाः॥ १३८॥
गजस्याधः खनेद्वाऽथ जानुमात्रं लभेत्ततः ।
त्रिकोणगुटिकां सिद्धां लक्षवेधकरां पराम् ॥ १३९ ।।
श्रीशैलस्य तु वायव्ये तीर्थ देवहूदः स्थितम् ।
तत्र कुण्डे मुद्गवर्णाः पाषाणाः स्पर्शवेधकाः ॥ १४०॥
८.] रसरत्नाकरस्य रसायनखण्डः। तत्र कूर्मोपमं लिङ्गं स्पर्शवेधकरं परम् । कृत्तिकायां सुपूर्णायां कृत्वा पूजां ममाहरेत् ॥ १४१॥ गव्यूतिद्वयतस्तस्सान्नाम्ना नीलवनं स्मृतम् । तत्र लिङ्गं नीलवर्ण जलं चैव तु तादृशम् ॥ १४२ ॥ अश्वाम्रकाकसदृशाः पाषाणाः स्पर्शवेधकाः । सन्ति देवगृहस्यान्तः खनेजान्वन्तराद्धरेत् ॥ १४३ ।। श्रीशैलस्य तु नैऋत्ये नाम्ना गुण्डिप्रभा स्थिता । तस्याग्राद्गर्तमृद्राह्या पीतवर्णा पुटैर्दहेत् ॥ १४४ ॥ तस्मानिःसरते हेम स्फुरद्रूपं न संशयः। तत्रैव भ्रमराः स्युश्च पूर्ववत्फलदायकाः ॥ १४५ ॥ तथा तम्वीपुरे नाम्नि तीर्थे च विपुले शुभम् । सदाफलं तु विख्यातं पूर्ववत्साधयेत्सुधीः ॥ १४६ ॥ महानन्देश्वरं नाम श्रीशैलस्य तु नैर्ऋते । तस्य पूर्वोत्तरे पार्श्वे गच्छेद्राजपथेन तु ॥ १४७ ॥ कालवर्णेश्वरो नाम देवस्तस्याग्रकुण्डकम् । इन्द्रगोपकसंकाशस्तन्मध्ये विद्यते रसः ॥ १४८ ॥ तप्तानि सप्तलोहानि तत्सेकात्काञ्चनं भवेत् । श्रीशैलस्य तु ईशाने देवः स्यात्तुरलेश्वरः ॥ १४९ ।। तस्योत्तरे सुविख्यात उमापर्वत उत्तमः । तस्य मूर्ध्नि त्रिशूलाभा द स्तिष्ठन्ति शोभनाः ॥१५० तस्याधः कटिमात्रं तु खात्वा नीलां मृदं हरेत् । तां पचेदक्षजैः काष्टांग देवाय कल्पयेत् ।। १५१ ॥ अतिथेश्व तथाऽग्नेश्च भागं भागं प्रकल्पयेत् । भागमात्मनि भुञ्जीत जीवेत्कल्पायुतं नरः ॥१५२ ॥ तत्र कोटीश्वरं ख्यातमिलेश्वरसमीपतः। तस्याग्रे पुष्पमात्रं तु स्पर्शवेधकरं भवेत् ॥ १५३ ।।
८४ आयुर्वेदीयग्रन्थमाला। [उपदेशः अचलेशश्च तत्रैव स्पर्शवेधकरः परः । दक्षिणे अचलेशस्य योजनैकेन विद्यते ॥ १५४ ॥ अमरेश्वरदेवाख्यस्तत्र स्वर्णशिला शुभा । तस्य पृष्ठे च गोमांसं महामांसं च वा क्षिपेत् ॥१५५॥ प्रज्वाल्य बदरीकाष्ठैः प्रातः स्वर्णोपमा तु सा। दृश्यते रजसा स्त्रीणां भावितं वस्त्रखण्डकम् ॥ १५६ ।। तच्छिलालोडितं कुर्याद्रक्षेदलाबुपात्रके । तेन संस्पर्शमात्रेण लोहं भवति हाटकम् ॥ १५७ ।। श्रीशैले तत्र तत्रैव पाषाणा पिण्डभूस्थिताः । तचूर्ण त्रिफलासाधू कसैंकं भक्षयेत्सदा ॥ १५८ ॥ मासाधे तु जरां हन्ति जीवेदाचन्द्रतारकम् । नैर्ऋत्ये शैलराजस्य पटाहकर्ण ईश्वरः ॥ १५९ ॥ तस्य चेशानदिग्भागे पञ्चविंशतिधन्वके । द्विहस्तमात्रोर्वशिला तत्र हस्तद्वयं खनेत् ॥ १६० ॥ श्रावसंपुटसंकाशान् पाषाणांस्त्रिंशदाहरेत् । कृत्वा तानग्निवर्णाश्च सिञ्चेत्कूष्माण्डवैः ॥ १६१ ॥ तन्मध्यान्नवनीतं तु गृह्याद्देवाय भागकम् । अतिर्भागमेकं तु भागैकं भक्षयेदुधः ॥ १६२ ॥ मूर्छा भवेद्दिवारानं प्रबुद्धो जायते नरः । जीवेद्वर्षायुतं वीरो वलीपलितवर्जितः॥ १६३ ॥ तस्य देवस्य सोपानं द्वितीयं स्पर्शवेधकम् । तस्य देवस्य पार्श्वे तु पाषाणाः श्वेतपीतकाः॥१६४॥ सर्वस्पर्श न संदेह एकमेव समाहरेत् । तस्य देवस्य पूर्वे तु कूपः स्यानातिदूरतः ॥ १६५ ।। तन्मध्ये मेकसंकाशाः पाषाणा: स्पर्शवेधकाः । उत्तरे तस्य देवस्य विख्यातो लिङ्गपर्वतः ॥ १६६ ।।
८.]
रसरत्नाकरस्य रसायनखण्डः।
तस्य चोत्तरपार्श्वे तु नदी स्यात्पूर्ववाहिनी ।
नद्याः पश्चिमदिग्भागे लिङ्ग पिङ्गलवर्णकम् ॥ १६७ ॥
तत्र शैलोदकैः कुण्डं पूर्ण स्यात्क्षणवेधकम् ।
महेशाद्दक्षिणे भागे चण्डिका योजनद्वये ॥ १६८ ।।
पिण्डादेवीति विख्याता तस्या वायव्यकोणतः।
कूपस्तिष्ठति तन्मध्ये पाषाणा मुद्गवर्णकाः ॥ १६९ ॥
तथा पथ्यानिभाश्चैव सर्वे ते स्पर्शवेधकाः।
स्पर्शनादत्र सर्वेषां वेधयुक्तिर्विधीयते ॥ १७० ॥
स्थूलश्चेत्पेषयेच्छूक्ष्णं तेन मूषां तु कारयेत् ।
अष्टलोहानि तन्मध्ये समावानि कारयेत् ॥ १७१ ।।
तत्सर्वं जायते स्वर्णमेवं कुर्याद्यथेप्सितम् ।
सूक्ष्मश्चेदष्टलोहानां द्रुतानां यत्र कुत्रचित् ॥ १७२ ॥
तं सर्व निक्षिपेन्मध्ये सर्व तत्काञ्चनं भवेत् ।
मल्लिकार्जुनवायव्ये तीर्थ सर्वेश्वरं स्थितम् ।। १७३ ॥
तस्य दक्षिणदिग्भागे जलमार्गेऽर्धयोजने।
गते डाङ्गरिकं तत्र दृश्यते तस्य मूर्धनि ॥ १७४ ॥
धात्रीफलानि कृष्णानि विद्यन्ते तानि भक्षयेत् ।
यथेष्टानि तु सप्ताहं वज्रकायो भवेन्नरः॥ १७५ ॥
वलीपलितनिर्मुक्तो जीवेत्कल्पशतत्रयम् ।
तस्साच दक्षिणे भागे काकलेरीमहानवम् ॥ १७६ ॥
तत्रास्ति स्तम्भकदली प्रविशेत्तत्र साधकः ।
गच्छेत्क्रोशार्धमात्रं तु दृश्यते रसकुण्डकम् ॥ १७७ ॥
गृहीत्वाऽलाबुपात्रे तु कोटिवेधी भवेद्रसः।
तस्मिन् वने मयूरः स्यान्नीलवर्णशिलामयः ॥ १७८ ।।
मुखाग्रे तस्य कुण्डं तु द्वादशाङ्गुलनीलकम् ।
तन्मध्ये शुष्कवंशं तु क्षिप्ता स्याभूतनः क्षणात्॥१७९॥
आयुर्वेदीयग्रन्थमाला। [उपदेशः दिने पत्रं फलं पुष्पं जायते तस्य नान्यथा । तत्र पारदप्रस्थैकं क्षिप्त्वा तावजलं हरेत् ।। १८० ।। क्षौद्रतुल्यं पिवेत्तं वै तत्क्षणान्मूछितो भवेत् । मुहूर्ताल्लब्धराज्यः स्थाजीवेद्युगसहस्रकम् ।। १८१ ॥ शैलसानेयभागे तु गुटिकासिद्धकेश्वरः । विद्यते तस्य पुरतः पञ्चहस्तां खनेद्भुवम् ॥ १८२ ॥ पाषाणा बदराकाराः सन्ति खेगतिदायकाः। एकमेव समाहृत्य वक्रे धार्यः खगामिभिः ॥ १८३ ॥ श्रीशैले सर्वयोगानामुक्तानां विधिरुच्यते । मन्त्रन्यासं पुरा कृत्वा पश्वाल्लक्षं जपेदनु ॥ १८४ ॥ अघोरं तेन वै शीघ्रं तत्तत्सिद्धिमवाप्नुयात् । क्षेत्रदेवतामावाहयेत् । तत्र स्खमे देवता प्रत्यक्षीभूय वरं ददाति। एवं मत्रपरैः सुनिश्चलतरैर्भक्तैश्च तत्साधकैः शम्भोः पूजनतत्परः प्रतिदिनं पूजाविधेः पालकैः । कार्य श्रीगिरिसाधनं जपपरैराम्नायपारंगते- ! चेल्लेशकरं पराकृतमहो व्यर्थ भवेनिश्चितम् ॥१८५।। इति श्रीपार्वतीपुत्र श्रीनित्यनाथसिद्धविरचिते रसरत्नाकरे रसायनखण्डे श्रीपर्वतसाधनं नामाष्टमोपदेशः ॥ समाप्तोऽयं रसायनखण्डः। १ श्रीशैलपर्वतस्तु दक्षिणभारते कर्णाटकदेशे वर्तते ।
रसायनखण्डपाठसंशोधनम् । अपपाठः सुपाटः पृ. पं. - दिनावधि: ब्रह्मायुगच्छति द्वन्द्वमूषायां लिप्तायां "श्रीनित्यसिद्धनाथ १'बलकर' ख. 'मिडासूत्रेण (1)वेष्टयेत् गौरामलकचूर्ग शुद्धसतसम तद्धृतर्यटकं ३ दिनावधि ब्रह्मायुरीच्छति द्वन्द्व लिपायां मूषायां ૧૮ 'नित्यनाथसिद्ध १ बलकरं परमं ख.। 'मिडामृत्रेण मर्दयेन् गौर्यामलकचूर्ग शुद्धमूतसमं ६ घृतस्तद्वटकं ६२ २२ कामेश्वरमोदकः विदारिमुशलीगोकाटकेक्षरक ११ पश्चिमसमुद्रस्य तटे स्पष्ट २ स्तिवन्ति तांस्तु १८ धारय मुञ्चसे २६ . विदारि मुशली गोकण्टकेक्षुरको जसलमेरोः पत्तने स्पटुं तेन "स्वानि तिष्ठन्ति चार्यता मुश्चते १ख-पुस्तके पाठान्तरं, युक्तं चैतत् । असन्मित्रैः वैद्य धीरजराम करुणाशङ्कर इत्यतैर्भावनगराधिपतीनामाश्या कराचीबन्दर इति प्रसिद्धनगरात् पश्चिमतः पचाशन्म- लदूरथितार गुवाहर इत्याख्यस्थानात् समुद्रतीरत आनीताः खलु वालुकामीनाः ।