Jayakar Library , Pune
Vaiyasikanyayamala
Front matter
April आनन्दाश्रमसंस्कृतग्रन्थावलि ग्रन्थाङ्क: २३ वैयासिकन्यायमाला। अर्थात् वेदान्ताधिकरणन्यायमाला परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थमुनिप्रणीता तत्तदधिकरणप्रदर्शकमहर्षिवेदव्यासप्रणीत- ब्रह्मसूत्रैविभूषिता। जयपुरमहाराजाश्रितेन संस्कृतपाठशालाध्यापकेन दाधीचपण्डितशिवदत्तेन संशोधिता। सा च महादेव चिमणाजी आपटे इत्यनेन पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशिवा। शालिवाहनशकाब्दाः १८१३ खिस्ताब्दाः १८९१ ( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः) मूल्यं पादोनरूपकद्वयम् ।
वैयासिकन्यायमालायामधिकरणानुक्रमणिका। अधि० अधि. प्रथमाध्यायप्रथमपादे- ७ चैतन्यस्य सर्वजगद्गासकत्वम् । १ ब्रह्मणो विचार्यत्वम् । ८ परमेश्वरस्याङ्गुष्ठमात्रत्वम् । २ ब्रह्मणो लक्षणम् । ९ देवादीनामप्यधिकारित्वम् । ३ ब्रह्मणो वेदकर्तृत्वम् । १० शूद्रस्य ब्रह्मविद्यायामनधिकारि- ब्रह्मणो वेदैकमेयत्वम् । त्वम् । ४ वेदान्तानां ब्रह्मैकपरत्वम् । ११ ईश्वरस्यैव कम्पनहेतुत्वम् । वेदान्तानां ब्रह्मण्यवसानम् । १२ ब्रह्मण एव ज्योतिष्वम् । ५ ब्रह्मण एव सच्छब्दवाच्यत्वम् । १३ ब्रह्मण एव नामरूपनिर्वाहकत्वम् । ६ ब्रह्मण आनन्दमयत्वम् । १४ ब्रह्मण एव विज्ञानमयत्वम् । ७ परमेश्वरस्यैव हिरण्मयपदवाच्य- प्रथमाध्यायचतुर्थपादे- त्वम् । १ कारणशरीरस्यैवाव्यक्तशब्दवा. ८.ब्रह्मण एवाऽऽकाशशब्दवाच्य- च्यत्वम्। त्वम् । २ तेजोबन्नात्मकप्रकृतेरेवाजात्वम् । ९ ब्रह्मण एव प्राणशब्दवाच्यत्वम् । ३ प्राणादीनामव पञ्चजनत्वम् । १० ब्रह्मण एव ज्योतिःशब्दाभिधे ४ जगद्योनौ ब्रह्मण्येव वेदान्तवाक्य- यत्वम् । समन्वयः। ११ ब्रह्मण एव प्राणशब्दव्युत्पाद्य- ५ परमात्मन एव जगत्कर्तृत्वम् । ६ परमात्मन एव दर्शनयोग्यात्म- प्रथमाध्यायद्वितीयपादे- १ ब्रह्मण एव मनोमयत्वम् । ७ ब्रह्मण एवोपादाननिमित्तकारण- २ ईश्वरस्यैवात्तृत्वम् । ३ जीवब्रह्मणोरेव गुहाप्रविष्टत्वम् । ८ ब्रह्मण एवं जगत्कारणत्वम् । ४ ब्रह्मण एवाक्षिगतत्वम् । ५ परमेश्वरस्यैवान्तर्यामित्वम् । परमेश्वरस्यैव भूतयोनित्वम् । द्वितीयाध्यायस्य प्रथमपादे- ७ परमेश्वरस्यैव वैश्वानरत्वम् । १ सांख्यस्मृतेर्बाध्यत्वम् । प्रथमाध्यायतृतीयपादे २ योगस्मृतेर्बाध्यत्वम् । १ ब्रह्मण एव शुभ्वाचायतनत्वम् । ३ वैलक्षण्याभासस्य जगत्कारण- २ परमात्मन एव भूमत्वम् । त्वाबाधकत्वम् । ३ ब्रह्मण एवाक्षरत्वम् । ४ काणादादिमतैर्बाध्यत्वाभावः। ४ परब्रह्मण ईक्षतिकर्मत्वम् । ५ द्वैतस्य भोक्तृभोग्याकारभासमा ब्रह्मण एव दहराकाशत्वम् । नत्वम् । ६ ईश्वरस्यैवाक्षिपुरुषत्वम् । ६ ब्रह्मण्यद्वैतस्यैव तात्त्विकत्वम् । त्वम् । - त्वम् । त्वम् । - २ वैयासिकन्यायमालायाम्- - त्वम् । - अधि० अधि. ७ परमेश्वरस्य हिताहितभागित्वा- १४ जीवस्य कर्तृत्वम् । भावः। १५ जीवस्याध्यस्तकर्तृत्वम् । ८ अद्वितीयब्रह्मण एव नानावि- १६ ईश्वरस्य जीवप्रवर्तकत्वम् । धसृष्टिकर्तृत्वम् । १७ जीवेश्वरव्यवस्था । ९ ब्रह्मणः परिणामित्वम् । द्वितीयाध्यायचतुर्थपादे- १० ब्रह्मणोऽशरीरस्यैव मायासद्भावः। १ इन्द्रियाणां परमात्मजन्यत्वम् । ११ तृप्तस्यापि ब्रह्मण एव जगत्स्रष्टः २ इन्द्रियाणामेकादशत्वम्। ३ इन्द्रियाणामणुत्वम् । १२ ब्रह्मणो वैषम्यनैर्वृण्याभावः। ४ प्राणस्य जन्यत्वम् । १३ निर्गुणस्यापि ब्रह्मणः प्रकृतित्वम्। ५ प्राणस्य तत्त्वान्तरत्वम् । द्वितीयाध्यायद्वितीयपादे ६ प्राणस्याणुत्वम् । १ प्रधानस्य जगद्धतुत्वाभावः । ७ इन्द्रियाणां देवपरतन्त्रत्वम् । २ ब्रह्मणो विसदृशजगदुत्पत्तौ का ८ इन्द्रियाणां प्राणात्तत्त्वान्तरत्वम् णादीयदृष्टान्तसद्भावः । ९ ईश्वरस्यैव नामरूपव्याकर्तृत्वम् । ३ परमाणुकारणवादनिराकरणम् । ४ वैनाशिकखण्डने समुदायासिद्धिः। तृतीयाध्यायस्य प्रथमपादे- ५ विज्ञानवादनिराकरणम् । १ जीवस्य भूतसूक्ष्मवेष्टितस्यैव पर- ६ आर्हतानां सप्तभङ्गीनिराकरणम्। लोकगमनागमने । ७ तटस्थेश्वरवादनिराकरणम् । २ स्वर्गादवरोहतो जीवस्य सानुश- ८ जीवोत्पत्तिवादनिराकरणम् । द्वितीयाध्यायतृतीयपादे- ३ पापिना स्वर्गे गत्यभावः। १ आकाशस्य ब्रह्मजन्यत्वम् । ४ स्वर्गादवरोहे जीवस्याऽऽकाशा- २ वायोब्रह्मजन्यत्वम् । दितुल्यत्वम् । ३ सब्रह्मणोऽजन्यत्वम् । ५ स्वर्गादवरोहतां त्वराविलम्बौ । ४ तेजसो ब्रह्मजन्यत्वम् । ६ स्वर्गादवरोहतां बीह्यादौ संश्लेषः। ५ अपां ब्रह्मजन्यत्वम् । तृतीयाध्यायद्वितीयपादे- ६ पृथिवीमात्रस्यान्नशब्दवाच्यत्वम् १ स्वप्नसृष्टेमिथ्यात्वम् । ७ सोपाधिकब्रह्मण एव कार्यकार- २ सुषुप्तौ जीवस्य हृत्स्थब्रह्मणैक्यम् । णत्वम् । ३ मुप्तस्यैव जागरणम्। ८ लयक्रमनिरूपणम् । ४ मूर्छाया अवस्थान्तरत्वम् । ९ प्राणादिसृष्टौ क्रमनिरूपणम् । ५ ब्रह्मणो नीलरूपत्वम्। १० जीवस्य जन्ममरणराहित्यम् । ६ ब्रह्मणो निराकरणाविषयत्वम् । ११ जीवस्य नित्यत्वम् । ७ ब्रह्मातिरिक्तवस्तुनिराकरणम् । १२ जीवस्य चिद्रूपत्वम् । ८ काराधितेश्वरस्यैव फलदातृत्वम् १३.जीवस्य सर्वगतत्वम् । तृतीयाध्यायतृतीयपादे- यत्वम् । - अधिकरणानुक्रमणिका । "-- - अधि. आधि० १ सर्ववेदान्तप्रत्ययोपासनाया एक- २८ वायुप्राणोपासनयोः प्रयोगभेदः । त्वम्। २९ मनश्चिदादीनां स्वतन्त्रत्वम् । २ शाखान्तरोक्तस्याप्युपसंहारः । ३० आत्मनो देहातिरिक्तत्वम् । ३ उद्गीथविद्याया भिन्नत्वम् । ३१. उक्थादिधियोः शाखान्तरेऽनु. ४ उद्गीथस्योंकारविशेषणत्वम् । वृत्तिः। ५ वसिष्ठत्वादीनामाहार्यत्वम् । ३२ वैश्वानरविद्यायां समस्तोपासनम्। ६ आनन्दादीनामुपसंहारः। ३३ शाण्डिल्यादिविद्यानां भिन्नत्वम्। ७ पुरुषस्यैव ज्ञेयत्वम् । ३४ अहंग्रह विद्यायां विकल्पनियमः। ८ ईश्वरस्यैवाऽऽत्मशब्दवाच्यत्वम्। ३५ लौकिकप्रतीकेषु याथाकाम्यम् । ९ प्राणविद्यायामनग्नताबुद्धेरेव विधे- ३६ कर्माङ्गप्रतीकेषु याथाकाम्पम् । यत्वम् । तृतीयाध्यायचतुर्थपादे- १० शाण्डिल्यविद्यायाः समानत्वम् । १ आत्मज्ञानस्य स्वतन्त्रत्वम् । ११ नाम्नोर्व्यवस्था । ५ कर्मत्यागिन एव ब्रह्मनिष्ठत्वम् । १२ संभृत्यादीनामनुपसंहारः । संन्यासिन एव ब्रह्मनिष्ठत्वम् । १३ पुरुषविद्याया विभिन्नत्वम् । ३ रसतमत्वादीनां ध्येयत्वम् । १४ वेधादिमन्त्राणां विद्याङ्गत्वनिरा. ४ आख्यानस्य विद्यास्तुत्यर्थत्वम् । करणम् । ५ आत्मज्ञानस्य कर्मानपेक्षत्वम् । १५ ज्ञानिनः कर्मणां हान्युपायने । ६ ज्ञानोत्पत्तौ यज्ञशमदमाद्यपक्ष- , विधूननशब्दस्य परित्यागार्थक- त्वम् । ७ आदि सर्वानभोजनानुज्ञा । १६ उपासकानां कर्मत्यागव्यवस्था। ८ यज्ञादीनामाश्रमविद्योभयहेतुत्वम् १७ उपासनया ब्रह्मलोकगन्तृणामेव ९ अनामिणोऽपि ब्रह्मज्ञानम् । मार्गव्यवस्था । १० आश्रमाणामवरोहनिराकरणम् । १८ सर्वास्वेवोपासनामु मार्गकल्पना। ११ ऊर्ध्वरेतसः पातित्ये प्रायश्चित्तम् । १९ तत्त्वज्ञानिनां मुक्तिनैयत्यम् । १२ भ्रष्टस्य कृतप्रायश्चित्तस्याप्यव्य- २० निषेधोपसंहारः । वहार्यत्वम् । २१ 'पिबन्तौ''द्वा मुपर्णा' इतिमन्त्र- १३ ऋत्विकृताङ्गध्यानस्य स्वामि- द्वयस्य विद्यैक्यम् । गामित्वम् । २२ उषस्तकहोलयोविचैक्यम् । १४ मौनस्य विधेयत्वम् । २३ देहादित्यमण्डलवयुपासनाया १५ भावशुद्धेरेव बाल्यशब्दाभिधेय- विद्याभेदः। त्वम् । २४ सयविद्या। १६ आत्मज्ञानस्यैहिकामुष्मिकत्वव्य- २५ दहरहार्दाकाशयोरुपसंहारः। वस्था। २६ उपवासे प्राणाहुतिलोपः। १७ मुक्तेरेकविधत्तम् । २७ अङ्गावबद्धोपास्त्पनयत्यम् । त्वम् ।
oc वैयासिकन्यायमालायामधिकरणानुक्रमणिका । आधि० . . अधि० चतुर्थाध्यायस्य प्रथमपादेः ७ तत्त्ववित्पाणानां परमात्मन्येव १ श्रवणमननादीनामावृत्तिः। लयः। २ आत्मत्वेन ब्रह्मणो ग्रहणम् । ८ तत्त्वविद्वागादिलयस्य निःशेष- ३ प्रतीकेऽहंदृष्टिनिराकरणम् । त्वम् । ४ उपास्ये ब्रह्मष्टिः। ९ उपासकोत्क्रान्तविशेषः । ५ अङ्गेष्वादित्यत्वादिधीकरणम् । १० रात्रिमृतस्यापि रश्म्यनुसारित्वम् ६ उपासन आसनावश्यकत्वम् । ११ तत्त्वविदो दक्षिणायनेऽपि विद्या- ७. उपासने दिगादिनियमनिराकर- फलम् । णम् । चतुर्थाध्यायतृतीयपादे- ८ उपासनानामामरणावर्तनत्वम् । १ अचिरादिकस्यैव ब्रह्मलोकमार्म- ९ ज्ञानिनः पापलेपनिराकरणम् । त्वम् । १० ज्ञानिनः पुण्यलेपनिराकरणम् । २ वायोः निवेशः। ११ ज्ञानादनारब्धपुण्यपापयोरेव नि ३ वरुणादिलोकानां व्यवस्था । ४ अचिरादीनामातिवाहिकत्वम् । १२ अग्निहोत्रादिनित्यकर्मणो नाश ५ कार्यब्रह्मण एवोत्तरमार्गगम्य- निराकरणम्। त्वम् । १३ नित्यकर्मणो विद्यासाधनत्वम् । ६ प्रतीकोपासकानां ब्रह्मलोकगति- १४ अधिकारिणामपि मुक्तिसंभवः । निराकरणम्। चतुर्थाध्यायद्वितीयपादेः चतुर्थाध्यायचतुर्थपादे- १ वागादीनां मनसि वृत्तिलयः। १ मुक्तेर्नवीनत्वनिराकरणम् । २ मनसः प्राणे लयः। २ मुक्तेब्रह्मभिन्नतानिराकरणम् । ३ प्राणानां जीवे लयः । ३ सविशेषत्वादिव्यवस्थानिराकर- ४ ज्ञान्यज्ञानिनोरुत्क्रान्तिसामान्यम् णम् । ५ उपासकस्य ब्रह्माण स्वरूपेण ४ परलोकगोपासकस्य भोग्यवस्तु- लयनिराकरणम् । सृष्टौ संकल्पहेतुत्वम् । ६ ज्ञानिनः प्राणानां देहादन- ५ देहभावाभावयोरेंच्छिकत्वम् । कान्तिः। ६ ज्ञानिनोऽनेकदेहेषु सात्मकत्वम् । ७ ज्ञानिनो जगत्स्रष्टुत्वनिराकरणम्। वृत्तिः। -- ॥ वैयासिकन्यायमालाधिकरणानुक्रमणिका समाप्ता ॥
॥ वैयासिकन्यायमालाभूमिका ॥ ॥ श्रीमद्ब्रह्मणे नमः॥ यस्मिन्भेदः प्रपञ्चस्य प्रपञ्चे नास्ति यद्भिदा। नाश्यं दृश्यमदृश्यं च यजलान्सोऽहमक्षरः ॥ १ ॥ गोपालसेवासतवानुरक्तश्रीमाधवाधीशसुदृष्टिपुष्टे । लक्ष्मीसमुल्लासितकान्तिचन्द्रामात्यप्रसादन निरन्धकारे ॥२॥ डुण्ढारदेशे जयपत्तनेऽस्मिन्नधीतिना संस्कृतशास्त्रसार्थे । दाधीचविद्वच्छिवदत्तनाम्ना प्रयत्यवे शोवनभूमिकार्थम् ॥ ३ ॥ 'धर्मार्थकाममोक्षाख्यपुरुषार्थचतुष्टयसपात्तार्ह वेदार्थज्ञानाधीना' इत्यत्र न केषाम- प्यार्याणां विप्रतिपत्तिः । वेदश्च "मन्त्र ब्राह्मणयोर्वेदनामयम्" इत्यापस्तम्बाधुक्तेर्म- अब्राह्मणोभयात्मकः कर्मोपासनाज्ञानप्रतिपादकः तत्र-देवद्रव्योभयसाध्यो यागादिः कर्म; ब्रह्मजीवयोरुपास्योपासकत्वदृष्टिरुपासना, जीवब्रह्मणोरभेद एवात्र ज्ञानम् । तत्र च वेदे पूर्वीपरविरोधादिना वास्तवार्थविचिकित्सायां प्रसक्तायां तद्वारणाय मीमासाशास्त्रं रचितम् । तत्र-कर्मसाधिकानां श्रुतीनां विचाररूपो भागः पूर्वकाण्डप- थमतत्रशब्दवाच्यो मीमांसात्वेन प्रसिद्धो जैमिनीयत्वेन ख्यातिं गतः । उपासनाज्ञान- साधिकानां श्रुतीनां विचाररूपो वेदान्तत्वेन प्रसिद्धो भागः शारीरकशब्दवाच्यो वैया- सिकत्वेन ख्यातिं गतः । बहूनामृषीणां मीमांसकत्वेऽपि जैमिनीयत्व-वैयासिकत्वमा- त्रख्यातौ कारणं तु देवा एव जानन्ति । वैयासिकेत्वेन ख्यातेऽस्मिन्वेदान्तापरपर्याये मीमांसामागे षट्पञ्चाशदुत्तरा पञ्चशती सूत्राणां वर्तते । द्विनवत्युत्तरशतकमधिकरणा- नामस्ति । समुदितस्यापि मीमांसाशास्त्रस्योपरि वृत्तिर्व्याकरणाचार्यभगवत्पाणिनिगुरु- वर्षसहोदरेण कथासरित्सागरोपवर्णितनन्दराज्यसमयोत्पन्नभगवदुपवर्षेणाकारि । तथा- चोक्तम् "एक आत्मनः शरीरे भावात्" (ब्र० सू० ३ । ३ । ५३ ) इत्यत्र भाष्ये शंकरभगवत्पादैः-"अत एव च भगवतोपवर्षेण-~-प्रथमे तत्रे आत्मास्तित्वाभिधान- तु , उत्कोचादिजन्यान्यायरूपान्धकारशून्ये। २ अत एव शास्त्रसमाप्तिसूत्रावतरणिकायाम् “नन्वेव सति सातिशयत्वादन्तवत्वमैश्वर्यस्य स्यात्, ततश्चैषामावृत्तिः प्रसज्येत, इत्यत उत्तरं भगवान्बादरायणः पठति" इति भाष्ये "शास्त्रसमाप्ति सूचयन्सूत्रकारं पूजयति-भगवानिति” ॥ इति रत्नप्रभायां चोक्तम् । बादरायणस्तु व्यास एव । तथा चोक्तं त्रिकाण्डशेषे- "कृष्णद्वैपायनौ वेदव्यासः स्यात्सत्यभारतः । पाराशरिः सात्यवतो माठरो बादरायणः, इति ।
[२] प्रसक्तौ शारीरके वक्ष्यामः- इत्युद्धारः कृतः" इति । एतत्सूत्रभाष्यादित एव 'जैमि- नीयवैयासिकयोरेकग्रन्थत्वम्' इत्यपि प्रतीयते । ततश्चोक्तवृत्तेर्दुर्लभत्वम् , भाष्यस्य दुरू- हत्वं चावलोक्य भाष्यकृच्छंकरभगवद्विद्यावंशजेन श्रीभारतीतीर्थयतीन्द्रेणेयं वैया- सिकन्यायमाला रचिता । अयं श्रीभारतीतीर्थयतीन्द्रश्च जैमिनीयन्यायमालाविस्त- रकर्तुः श्रीमाधवाचार्यस्य गुरुरिव प्रतिभाति । तथा चोक्तं माधवाचार्येण विस्तरे- "इन्द्रस्याऽऽङ्गिरसो नलस्य मुमतिः शैब्यस्य मेधातिथि- धौम्यो धर्मसुतस्य वैन्यनृपतेः स्वोजा निमेौतमिः ॥ प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत्कुलगुरुर्मन्त्री तथा माधवः ॥ १॥ स खलु प्राज्ञजीवातुः सर्वशास्त्रविशारदः॥ अकरोज्जैमिनिमते न्यायमालां गरीयसीम् ॥ २ ॥ तां प्रशस्य सभामध्ये वीरश्रीबुक्कभूपतिः । कुरु विस्तरमस्यास्त्वमिति माधवमादिशत् ॥ ३ ॥ स भव्यागारतीतीर्थयतीन्द्रचतुराननात् ॥ कृपामव्याहतां लब्ध्वा पराय॑प्रतिमोऽभवत् ॥ ४ ॥ निर्माय माधवाचार्यो विद्वदानन्ददायिनीम् ।। जैमिनीयन्यायमालां व्याचष्टे बालबुद्धये" ॥ ५॥ इति ।। पञ्चदशीव्याख्यात्राऽपि- "नत्वा श्रीभारतीवीर्थविद्यारण्यमुनीश्वरौ ।" इति प्रतिप्रकरणं व्याख्यामङ्गलश्लोके माधवस्यैव द्वितीयनामविद्यारंण्यतो बह्वचत्वेऽप्य- भ्यर्हितत्वेन भारतीतीर्थस्यैव पूर्वनिपातः कृतः । अनेन श्रीभारतीतीर्थयतीन्द्रेण पञ्च. दश्यामपि कतिचन प्रकरणानि निर्मितानि ।। व्याससूत्रवृत्तिकर्ता रङ्गनाथस्तु "विद्यारण्यकृतैः श्लोकैर्नृसिंहाश्रमसूक्तिभिः ॥ संदृब्धा व्याससूत्राणां वृत्तिर्भाष्यानुसारिणी" ॥ इति लिखन्विद्यारण्यनामप्रख्यातमाधवाचार्यकृतत्वमेवास्या अपि न्यायमालाया मन्यते । तन्न विचारसहम् । माधवीयत्वमुद्राभूतस्य बुक्कभूपतिवर्णनस्यात्राभावात् । यदि तु-षोडशाध्यायमितस्य समुदितन्यायमालाग्रन्थस्यैकत्वेन माधवाचार्यकृतत्वं न विरुध्यते इत्युच्यते । तदा- १ संन्यासग्रहणोत्तरं माधवस्यैव विद्यारण्य इति नाम जातमिति दाक्षिणात्यानां किंवदन्ती ।
[३] "प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् ॥ वैयासिकन्यायमाला श्लोकैः संगृह्यते स्फुटम्" । इति पृथग्मङ्गलाचरणस्य वैयर्थ्यापातात् || नच-जैमिनीय-वैयासिकमागसूचनायै- व पृथग्मङ्गलकरणम्-इति वाच्यम् , विस्तरकरणस्यापि पृथक्पतिज्ञाकरणापत्तेः ।। अस्मन्मते तु काव्यप्रकाशादिवत्सव्याख्यकारिकाणामेव न्यायमालात्वम् । अत एवा- ध्यायादिसमाप्तौ--व्याख्यासमाप्तावेव 'श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्याय- मालायाम्' इत्येवोपलभ्यते ॥ इत्यलं काकदन्तगणनया ॥ वेदान्तीयसिद्धान्तानां करामलवदनायासदर्शकस्यास्य न्यायमालाग्रन्थस्योपादेय. त्वमत्यावश्यकमिति हेतोरस्य प्रकाशनमुचितमिति सकलप्राचीनदुर्लभग्रन्थप्रकाशन- शीलैः सकलविद्वत्सुहृत्तमैः 'आपटे' इत्युपाख्यैश्चिमणाजीत्याख्यया प्रसिद्धानां विप्रव- र्याणां वनयैर्महादेवशर्मभिरस्य न्यायमालाग्रन्थस्य शोधनायानुमोदितोऽहमपि यथा- मवि शोधनमकार्षम् । तस्यैतस्यातिदुर्लभस्य ग्रन्थस्य शोधनार्थ यैर्महात्मभिर्यथार्थान- न्दाश्रमविधायिभ्य उक्तमहाशयेभ्यः पुस्तकप्रेषणेन साहाय्यमकारि, तेषामुपकारवर्णनाय किमुरगराजेन शक्यम् , किंवा हैहयाधिपेन ॥ पुस्तकप्रेषकनाम । पुस्तकनाम । पुस्तकपत्राणि । वटोदरनिवासिनां पटवर्धनोपाह्वानां श्री० रा० रा० कृष्णराव भीमाशंकर इत्येतेषाम्- ९४ बडलीग्रामनिवासिनां चिदम्बरदीक्षितकुलोत्पन्नानां श्री० वेशा०सं०रा०रा० मार्तण्डदीक्षितानाम्- 'ख' इति । १९१ मोहमयीनिवासिनां वे० शा० सं० जयकृष्णमहारा- जानाम्- 'ग' इति । १३० एवं पुस्तकत्रयाधारेण यथामति शोधने कृतेऽपि यदि मनुजधर्मत्वात्प्रमादो भवेत, त्तर्हि क्षन्तव्यम् । यतः गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥ इति प्रार्थयति विदुषामनुचरः शिवदत्तशर्मा ॥ 'क' इति । N १ अनेन-अधिकरणीयानां सर्वेषां पदार्थानां सुग्राह्यत्वं सूचितम् ॥
वेदान्तभागे मीमांसकानामृषीणां नामानि । ऋषिः १ १ . मीमांसकऋषिनामविशिष्टसूत्रम् अध्याये पादे सूत्रे "साक्षादप्यविरोध जैमिनिः" २ २८ "अभिव्यक्तरित्याश्मरथ्यः" २ २९ "अनुस्मृतेर्बादरिः" २ ३० "तदुपर्यपि बादरायणः संभवात्" "उक्रमिष्यत एवंभावादित्यौडुलोमिः" २१ "अवस्थितेरिति काशकृत्स्नः" २२ "चरणादिति चेन्नोपलक्षणार्थेति कार्णाजिनिः" ३ "स्वामिनः फल श्रुतेरित्यात्रेयः” जैमिनिः आश्मरथ्यः बादरिः बादरायणः औडुलोमिः काशकृत्स्नः कार्णाजिनिः मात्रेयः १ ४ 10 ४ १ ९ x ४४ . H BUL ॐ तत्सब्रह्मणे नमः ॥ वैयासिकन्यायमाला। श्रीभारतीतीर्थमुनिप्रणीता ॥ - , - रिप्सितग्रन्थस्याविनेन परिसमाप्तये प्रचयगमनाय शिष्टाचारपरिपालनाय च विशिष्टेष्टदेववातत्त्वं गुरुमूर्युपाधियुक्तं नमस्कृत्य ग्रन्थं प्रविजानीवे- प्रणम्य परमात्मानं श्रीविद्यातीर्थरू पिणम् ॥ वैयाँसिकन्यायमाला श्लोकैः संगृह्यते स्फुटम् ॥ १॥ प्रणम्येति।व्यासेनोक्ता वैयासिकी वेदान्तवाक्यार्थनिर्णायकान्यधिकरणानि न्यायाः, तेषामनुक्रमेण ग्रथनं माला । यद्यप्येषा सूत्रभाष्यकारादिभिः प्रपश्चिता, तथाऽपि सूत्रादीनामतिप्राज्ञविषयत्वान्मन्दबुद्धयनुग्रहाय श्लोकैरेषा माला स्फुटं संगृह्यते ॥ तत्रैकैकमधिकरणं पञ्चावयवम् । विषयः, संदेहः, संगतिः, पूर्वपक्षः, सिद्धान्त- श्चेति पश्चावयवाः । तेषां संग्रहप्रकारं दर्शयति- एको विषयसंदेहपूर्वपक्षावभासकः ॥ श्लोकोऽपरस्तु सिद्धान्तवादी संगतैयः स्फुटाः ॥ २॥ वत्रैकैकस्याधिकरणस्य संग्राहको द्वौ द्वौ श्लोकौ । तयोराद्यश्लोकस्य पूर्वार्धन द्वाव- वयवौ संगृह्यते । उत्तरानैकः । द्वितीयश्लोकेन चैकः । यद्यपि संगत्याख्य एवोऽव- यवः शिष्यते, तथाऽपि-प्रत्यधिकरणं न पृथक्संग्रहीतव्यो भववि । सद्व्युत्पन्नस्य पुरुषस्य स्वयमेवोहितुं शक्यत्वात् ।। संगति विभज्य व्युत्पादयवि- शास्त्रेऽध्याये तथा पादे न्यायसंगतयस्त्रिधा ॥ शास्त्रादिविषये ज्ञाते तत्तत्संगतिरूपताम् ॥ ३ ॥ शास्त्रप्रतिपाद्यम्, अध्यायप्रतिपाद्यम् , पादप्रतिपाद्यं चार्थमवगम्य शास्त्रसंगतिः, अध्यायसंगतिः, पादसंगतिश्च,-इवि तिस्रः संगतय ऊहितुं शक्यन्ते ।। * “वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्' अयं प्रारम्भश्लोकः 'ख. ग.' पुस्तकयोरधिकोऽस्ति । १ ख. ग. तस्य । २ क. ग. 'शिष्ट । ३ ख. 'त्य वैयासिकीत्युत्तरार्धेन प्र । ४ क. ख. 'यासकिन्या । ५ ग अत्रैक । ६ क. 'तये स्फुटः ॥ २ ॥। ७ क. केनैकः । ८ क. 'पि नासौ प्र। ९ ख. 'अपु । १० ख. 'षयज्ञाने त । ११ ख. तत्संगतिरुदाहृता ॥ ३ ॥ शा। -- .
२ श्रीभारतीतीर्थमुनिप्रणीता- [उपोद्धावः] ३ S शास्त्रप्रतिपाद्यम् , अध्यायपतिपाद्यं च दर्शयति- शास्त्रं ब्रह्मविचाराख्यमध्यायाः स्युश्चतुर्विधाः ॥ समन्वयाविरोधौ द्वौ साधनं च फलं तथा ॥ ४ ॥ सर्वेषां वेदान्तवाक्यानां ब्रह्मणि तात्पर्येण पर्यवसानं प्रथमेनाध्यायन प्रतिपाद्यते । द्वितीयेन संभावितविरोधः परिहियते । तृतीयेन विद्यासावननिर्णयः । चतुर्थेन विद्या- फलनिर्णयः। इत्येतेऽध्यायाँनामर्थाः ॥ वत्र प्रथमाध्यायगतपादार्थान्विभजते- समन्वये स्पष्टलिङ्गमस्पष्टत्वेऽप्युपास्यगम् ॥ ज्ञेयगं पदमात्रं च चिन्त्यं पादेष्वनुक्रमात् ॥ ५ ॥ स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमपादे चिन्त्यम् । तद्यथा--"अन्तस्तद्धर्मोपदे- शात्" [ ब्र० सू० १।१ । २० ] इत्यत्र सार्वइय--सार्वात्म्य-सर्वपापविर- हादिकं ब्रह्मणोऽसाधारणतया स्पष्टं लिङ्गम् । अस्पष्ट ब्रह्मलिङ्गत्वे सत्युपास्यविषय- वाक्यजातं द्वितीयपादे चिन्त्यम् । तद्यथा---प्रथमाधिकरणविषये शाण्डिल्योपास्ति- वाक्ये मनोमयत्वप्राणशरीरत्वादिकं सोपाधिकब्रह्मणो जीवस्य च साधारणत्वादस्पष्टं ब्रह्मलिङ्गम् । तृतीयपादे त्वस्पष्टब्रह्मलिङ्गत्वे सति ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम् । तद्यथा-प्रथमाधिकरणे मुण्डकगतब्रह्मात्मतत्त्ववाक्ये धुपृथिव्यन्तरिक्षपोतत्वं सूत्रा- त्मनः परब्रह्मणश्च साधारणत्वादस्पष्टं ब्रह्मलिङ्गम् । यद्यपि द्वितीयपादे कठवल्यादि- गतब्रह्मतत्त्ववाक्यानि विचारितानि, तृतीयपादे च दहरोपासनवाक्यं विचारितम् । तथाऽप्यवान्तरसंगविलोभेन तद्विचारस्य प्रासङ्गिकत्वान्न पादार्थयोः सांकर्यापत्तिः । इत्थं पादत्रयेण वाक्याविचारः समापितः । चतुर्थपादेनाव्यक्तपदमजापदं चेत्येवमादि संदिग्धं पदं चिन्त्यम् ॥ द्वितीयाध्यायगतपादार्थान्विभजते तितर्काभ्यामविरोधोऽन्यदुष्टता ॥ तेरप्यविरुद्धता ॥६॥ दस्मृतिभिः सांख्यादिपयुक्तकैश्च विरोधो वेदान्त- पाद-सांख्यादिमतानां दुष्टत्वं दर्शितम् । तृतीय- १२ १४ ३ क. रिक्षीय । ४ क. 'यार्थाः । ५ क. 'स्वदः ग. “यप्रा' । ९ ख. "रीरादिकमौपा। १० ग. नत्वं । १३ क. झवा । १४ क. "दे त्वव्य ।
[उपोद्धातः] वैयासिकन्यायमाला। -- पादे--पूर्वभागेन पञ्चमहाभूत श्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुती- नाम् । चतुर्थपादे--लिङ्गशरीर श्रुतीनां विरोधपरिहारः ।। तृतीयाध्यायगवपादार्थान्विभजते- तृतीये विरतिस्तत्त्वंपदार्थपरिशोधनम् ।। गुणोपसंहृतिर्ज्ञानबहिरङ्गादिसाधनम् ॥ ७ ॥ प्रथमपादे-जीवस्य परलोकगमनागमने विचार्य वैराग्यं निरूपितम् । द्वितीय- पादे-पूर्वभागेन त्वंपदार्थः शोधितः, उत्तरमागेन तत्पदार्थः । तृतीयपादे---सगुण- विद्यासु गुणोपसंहारो निरूपितः । निर्गुणे ब्रह्मण्यपुनरुक्तपदोपसंहारश्च । चतुर्थ- पादे च-निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूतश- मदमनिदिध्यासनादीनि च निरूपितानि || चतुर्थाध्यायगवपादार्थान्विभजते- चतुर्थे जीवतो मुक्तिरुत्क्रान्तेर्गतिरुत्तरा ।। ब्रह्ममाप्तिब्रह्मलोकाविति पादार्थसंग्रहः॥ ८॥ प्रथमपादे-श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता । द्वितीयपादे-~-नियमाणस्योत्क्रान्तिकारो निरूपितः । तृतीयपादे-सगुणविदो मृतस्योत्रमार्गोऽभिहितः । चतुर्थपादे-~-पूर्व- मागेन निर्गुणब्रह्मविदो विदेहकैवल्यमाप्तिरभिहिता । उत्तरभागेन सगुणब्रह्मविदो ब्रह्म- लोके स्थितिनिरूपिता । एवं पादार्थाः संगृहीताः ।। सन्त्वेवं शास्त्राध्यायपादप्रतिपाद्या अर्थाः । किं तत इत्यत आह- ऊहित्वा संगतीस्तिस्त्रस्तथाऽवान्तरसंगतीः॥ ऊहेदाक्षेपदृष्टान्तप्रत्युदाहरणादिकाः ॥ ९ ॥ तद्यथा-ईक्षत्यधिकरणे-“दैवत" इवि वाक्यं प्रधानपरं, ब्रह्मपरं वा, इति विचार्यते । तस्य विचारस्य ब्रह्मसंबन्धित्वाद्ब्रह्मविचारशास्त्रसंगतिः । 'वाक्यं ब्रह्मणि तात्पर्यवत्' इति निर्णयात्समन्वयाध्यायसंगतिः । ईक्षणस्य चेतने ब्रह्मण्य- साधारणत्वेन स्पष्टब्रह्मलिङ्गत्वात्प्रथमपादसंगतिः । एवं सर्वेष्वप्यधिकरणेषु यथायथं संगविषयमूहनीयम् । अवान्तरसंगतिस्त्वनेकधा भिद्यते-आक्षेपसंगतिः, दृष्टान्तसं- गविः, प्रत्युदाहरणसंगतिः, प्रासङ्गिकसंगविः; इत्येवमादिः ॥ , . १ख. गश्रु । २ क. 'नबहि । ३ क. 'दे मृतस्य सगुणविद उत्त । ४ ख. 'णानि च ॥ ९॥ त । ५ ग. 'दिकम् ॥ ९ ॥ त । ६ ख. चारः शा। ७ ग. शास्त्रे से । ८ क. 'तनन। ९ स्व. सर्वाधि'। १० क. थायोग्यं सं'।
२ ३ श्रीभारतीतीर्थमुनिप्रणीता- [उपोद्वावः] शास्त्रप्रतिपाद्यम् , अध्यायमतिपाद्यं च दर्शयति- शास्त्रं ब्रह्मविचाराख्यमध्यायाः स्युश्चतुर्विधाः ।। समन्वयाविरोधौ द्वौ साधनं च फलं तथा ॥ ४ ॥ सर्वेषां वेदान्तवाक्यानां ब्रह्मणि तात्पर्येण पर्यवसानं प्रथमेनाध्यायेन प्रतिपाद्यते । द्वितीयेन संभावितविरोधः परिहियते । तृतीयेन विद्यासाधननिर्णयः । चतुर्थेन विद्या- फलनिर्णयः । इत्येतेऽध्यायॊनामर्थाः ॥ वत्र प्रथमाध्यायगतपादार्थान्विभजते- समन्वये स्पष्टलिङ्गमस्पष्टत्वेऽप्युपास्यगम् ।। ज्ञेयगं पदमात्रं च चिन्त्यं पादेष्वनुक्रमात् ।। ५ । स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमपादे चिन्त्यम् । तद्यथा-"अन्तस्तद्धर्मोपदे- शात्" [ ब्र० सू० १ । १ । २० ] इत्यत्र सार्वझ्य---सार्वात्म्य-सर्वपापविरं- हादिकं ब्रह्मणोऽसाधारणतया स्पष्टं लिङ्गम् । अस्पष्टब्रह्मलिङ्गत्वे सत्युपास्यविषय- वाक्यजावं द्वितीयपादे चिन्त्यम् । तद्यथा--प्रथमाधिकरणविषये शाण्डिल्योपास्ति- वाक्ये मनोमयंत्वप्राणशरीरत्वादिकं सोपाधिकब्रह्मणो जीवस्य च साधारणत्वादस्पष्टं ब्रह्मलिङ्गम् । तृतीयपादे त्वस्पष्ट ब्रह्मीलङ्गत्वे सति ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम् । तद्यथा-पथमाधिकरणे मुण्डकगतब्रह्मात्मतत्त्ववाक्ये धुपृथिव्यन्तरिक्षपोतत्वं सूत्रा- स्मनः परब्रह्मणश्च साधारणत्वादस्पष्टं ब्रह्मलिङ्गम् । यद्यपि द्वितीयपादे कठवल्यादि- गत ब्रह्मतत्त्ववाक्यानि विचारितानि, तृतीयपादे च दहरोपासनवाक्यं विचारितम् । तथाऽप्यवान्तरसंगविलोभेन तद्विचारस्य प्रासङ्गिकत्वान्न पादार्थयोः सांकर्यापत्तिः । इत्थं पादत्रयेण वाक्यविचारः समापितः । चतुर्थपादेनाव्यक्तपदमजापदं चेत्येवमादि संदिग्ध पदं चिन्त्यम् ॥ द्वितीयाध्यायगतपादार्थान्विभजते- द्वितीये स्मृतितर्काभ्यामविरोधोऽन्यदुष्टता ॥ भूतभोक्तश्रुतेलिङ्गश्रुतेरप्यविरुद्धता ॥ ६ ॥ प्रथमपादे-सांख्ययोगकाणादादिस्मृतिभिः सांख्यादिप्रयुक्ततकैश्च विरोधो वेदान्त- समन्वयस्य परिहृतः । द्वितीयपादे-सांख्यादिमतानां दुष्टत्वं दर्शितम् । तृतीय- १२ १४ mme १ ग, पाइप्रतिपायं च । २ ख थमाध्या'। ३ क. रिक्षीय । ४ क. 'यार्थाः। ५ क. 'स्वदः क्र। ६ ख. ग. रहत्वादि । ७ क. धिवा । ८ ग. 'या' । ९ ख. रीरादिकमौपा। १० ग. "टलि। ११ क. ब्रह्मत । १२ क. रिक्षावायतनत्वं । १३ क. "ह्मवा । १४ क. 'दे त्वव्यं । १५ क. दिग्धप ।
३ Himma- . [उपोद्धातः] वैयासिकन्यायमाला। पादे-पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुती- नाम् । चतुर्थपादे-लिङ्गशरीरश्रुतीनां विरोधपरिहारः ।। तृतीयाध्यायगतपादार्थान्विभजते- तृतीये विरतिस्तत्त्वंपदार्थपरिशोधनम् ।। गुणोपसंहृतिर्ज्ञानबहिरङ्गादिसाधनम् ॥ ७ ॥ प्रथमपादे-जीवस्य परलोकगमनागमने विचार्य वैराग्यं निरूपितम् । द्वितीय- पादे-पूर्वभागेन त्वंपदार्थः शोधितः, उत्तरमागेन तत्पदार्थः । तृतीयपादे--सगुण- विद्यासु गुणोपसंहारो निरूपितः । निर्गुणे ब्रह्मण्यपुनरुक्तपदोपसंहारश्च । चतुर्थ- पादे च-निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूतश- मदमनिदिध्यासनादीनि च निरूपिवानि ॥ चतुर्थाध्यायगवपादार्थान्विभजते- चतुर्थे जीवतो मुक्तिरुत्क्रान्तेर्गतिरुत्तरा ।। ब्रह्ममाप्तिब्रह्मलोकाविति पादार्थसंग्रहः॥ ८ ॥ प्रथमपादे-श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता । द्वितीयपादे--नियमाणस्योत्क्रान्तिकारो निरूपितः । तृतीयपादे-सगुणविदो मृतस्योत्तरमार्गोऽभिहितः । चतुर्थपादे-पूर्व- भागेन निर्गुणब्रह्मविदो विदेहकैवल्यप्राप्तिरभिहिता । उत्तरभागेन सगुणब्रह्मविदो ब्रह्म- लोके स्थितिनिरूपिता । एवं पादार्थाः संगृहीताः ।। सन्त्वेवं शास्त्राध्यायपादपतिपाद्या अर्थाः । किं तत इत्यत आह ऊहित्वा संगतीस्तिस्रस्तथाऽवान्तरसंगतीः ।। ऊहेदाक्षेपदृष्टान्तप्रत्युदाहरणादिकाः ॥९॥ तद्यथा-ईक्षत्यधिकरणे-"तदैक्षव" इति वाक्यं प्रधानपरं, ब्रह्मपरं वा, इति विचार्यते । तस्य विचारस्य ब्रह्मसंबन्धित्वाद्ब्रह्मविचारशास्त्रसंगतिः । 'वाक्यं ब्रह्मणि तात्पर्यवत्' इति निर्णयात्समन्वयाध्यायसंगतिः । ईक्षणस्य चेतने ब्रह्मण्य- साधारणत्वेन स्पष्टब्रह्मलिङ्गत्वात्पथमपादसंगतिः । एवं सर्वेष्वप्यधिकरणेषु यथायथं संगतित्रयमूहनीयम् । अवान्तरसंगतिस्त्वनेकधा भिद्यवे-आक्षेपसंगतिः, दृष्टान्तसं- गतिः, प्रत्युदाहरणसंगतिः, प्रासङ्गिकसंगतिः, इत्येवमादिः ।। - . १ख. 'गश्रु। २ क. 'नबहि। ३ क. 'दे मृतस्य सगुणविद उत्त । ४ ख. णानि च ॥ ९॥त। ५ ग. 'दिकम् ॥ ९॥ त । ६ ख. 'चारः शा'। ७ ग. शास्ने सं। ८ क. तनवी ९ स्त्र. सर्वाधि'। १० क. थायोग्यं सं। . .
30 श्रीभारतीतीर्थमुनिप्रणीता- [अ०१पा०१अधि०१] सेयमवान्तरसंगवियुत्पन्नेनोहितुं शक्यते । अतस्तां व्युत्पादयति- पूर्वन्यायस्य सिद्धान्तयुक्तिं वीक्ष्य परे नये ॥ पूर्वपक्षस्य युक्तिं च तत्राऽऽक्षेपादि योजयेत् ॥ १० ॥ तद्यथा प्रथमाधिकरणे 'ब्रह्मविचारशास्त्रमारम्भणीयम्' इति सिद्धान्तः । तत्र युक्तिः–'ब्रह्मणः संदिग्धत्वात्' इति । द्वितीयाधिकरणस्य 'जगज्जन्मादि ब्रह्मलक्षणं न भवति' इति पूर्वपक्षः । वत्र युक्तिः-'जन्मादेर्जगन्निष्ठत्वात्' इति । तदुभयमव- लोक्य तयोराक्षेपसंगति योजयेत् 'संदिग्धत्वाद्ब्रह्म विचार्यम्' इत्येतदयुक्तम् । जन्मादेरन्यनिष्ठत्वेन ब्रह्मणो लक्षणाभावे सति ब्रह्मैव नास्ति, कुतस्वस्य संदिग्धत्वं विचार्यत्वं च-इत्याक्षेपसंगतिः । दृष्टान्तप्रत्युदाहरणसंगती चात्र योजयितुं शक्यते । 'यथा संदिग्धत्वेन हेतुना ब्रह्मणो विचार्यत्वम्, तथा-जन्माद्यन्यनिष्ठत्वेन हेतुना ब्रह्मणो लक्षणं नास्ति' इति दृष्टान्तसंगतिः । 'यथा विचार्यत्वे हेतुरस्ति, न तथा लक्षणसद्भावे हेतुं पश्यामः' इति प्रत्युद्दाहरणसंगतिः । ते एते दृष्टान्तप्रत्युदाहरणसं- गती सर्वत्र सुलभे । पूर्वाधिकरणसिद्धान्तेवदुत्तराधिकरणपूर्वपक्षे हेतुमत्त्वसाम्यस्य, उत्तराधिकरणसिद्धान्ते हेतुशून्यत्ववैलक्षण्यस्य च मन्दैरप्युत्पेक्षितुं शक्यत्वात् । आक्षेपसंगतिर्यथायोगमुन्नेया । अथ प्रासङ्गिकसंगतिरुदाह्रियते-देववाधिकरणस्याधि- कौरविचाररूपत्वात्समन्वयाध्याये ज्ञेयब्रह्मवाक्यविषये तृतीयपादे च संगत्यभावेऽपि बुद्धिस्थावान्तरसंगविरस्ति । तथाहि-पूर्वाधिकरणे ‘अङ्गष्ठमात्रवाक्यस्य ब्रह्मपरत्वा- दङ्गुष्ठमानत्वं ब्रह्मणो मनुष्यहृदयापेक्षम् , मनुष्याधिकारत्वाच्छास्त्रस्य' इत्युक्तम् । तत्प्रसङ्गेन देवताधिकारो बुद्धिस्थः। सेयं प्रासङ्गिकसंगतिः । वदेवं न्यायसंगविनिरूपिवा।। , . ... भ अथेदानी प्रत्यधिकरणमवयवचतुष्टयं श्लोकाभ्यां संगृह्यते- ( तत्र ( प्रथमे ब्रह्मणो विचार्यत्वाधिकरणे ) शास्त्रस्य प्रथमं सूत्रम् ॥) अथातो ब्रह्मजिज्ञासा ॥१॥ प्रथमाधिकरणमारचयति- अविचार्य विचार्य वा ब्रह्माध्यासानिरूपणात् ॥ असंदेहाफलत्वाभ्यां न विचारं तदहति ॥ ११ ॥ अध्यासोऽहंबुद्धिसिद्धोऽसङ्गं ब्रह्म श्रुतीरितम् ।। मुक्तिभावाच्च विचार्य ब्रह्म वेदतः ॥ १२ ॥ । २ क. पक्षोक्तयु। ३ क. 'तद्युक्तम् । ४ ग. वे ५। ५ व. ७ क. 'कारित्वा । ८ क. ग. "तियुत्पादिता । ९ ग. 'वास्यामवि।
[अ०१पा०१अधि०२] वैयासिकन्यायमाला । "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" [ बृह० २। ४ । ५ ] इत्यत्राऽऽत्मदर्शनफलमुद्दिश्य तत्साधनत्वेन श्रवणं विधीयते । श्रवणं नाम वेदान्तवाक्यानां ब्रह्मणि तात्पर्य निर्णेतुमनुकूलो न्यायविचारः । तदेतद्विचारविधा- यकं वाक्यं विषयः । न च-अयं विषयः श्लोकयोन संगृहीतः-इति शङ्कयम् , संदेहसंग्रहेणैवार्थात्तत्संग्रहपतीतेः । 'ब्रह्मविचारात्मकं न्यायनिर्णयात्मकं शास्त्रमनार- भ्यम् , भारभ्यं वा,' इति संदेहः । पूर्वोत्तरपक्षयुक्तिद्वयं सर्वत्र संदेहबीजमुन्नेयम् । तत्र 'भनारभ्यम्' इति वावत्याप्तम् , विषयप्रयोजनयोरभावात् । संदिग्वं हि विचारवि- षयो भवति । ब्रह्म त्वसंदिग्धम् । तथाहि-तत्किं ब्रह्माकारेण संदिह्यते, आत्माकारेण वा नाऽऽद्यः, “सत्यं ज्ञानमनन्तं ब्रह्म" । तैत्ति० २।१।१] इति वाक्येन ब्रह्मा- कारस्य निश्चयात् । न द्वितीयः, अहंप्रत्ययेनाऽऽत्माकारस्यापि निश्चयात्-अध्य- स्वात्मविषयत्वेन भ्रान्तोऽहंप्रत्ययः-इति चेत् । न, अध्यासानिरूपणात् । तमः- प्रकाशबद्विरुद्धस्वमावयोर्जडाजडयोदेहात्मनोः शुक्तिकारजतवदन्योन्यतादात्म्याच्यासो न निरूपयितुं शक्यते । तस्मादभ्रान्ताभ्यां श्रुत्यहंप्रत्ययाभ्यां निश्चितस्यासंदिग्धत्वा- द्विचारस्य न विषयोऽस्ति । नापि प्रयोजनं पश्यामः, उक्तप्रकारेण ब्रह्मात्मनि निश्चि- वेऽपि मुक्त्यदर्शनात् । तस्मात् 'ब्रह्म विचारानहम्' इति शास्त्रमनारम्भणीयम्- इति पूर्वपक्षः। अत्रोच्यते-शास्त्रमारम्भणीयम् । कुतः-विषयप्रयोजनसद्भावात् । श्रुत्यहंप्र- त्यययोर्विप्रतिपत्त्या संदिग्धं ब्रह्माऽऽत्मवस्तु । "अयमात्मा ब्रह्म" [बृह० २।५ । १९ ] इति श्रुविरसङ्गं ब्रह्मात्मत्वेनोपदिशति । 'अहं मनुष्यः' इत्याद्यहंबुद्धिर्देहवा- दात्म्याध्यासेनाऽऽत्मानं गृह्णाति । अध्यासस्य च दुर्निरूपणत्वमलंकाराय । तस्मात्सं- दिग्धं वस्तु विषयः । वनिश्चयेन मुक्तिलक्षणप्रयोजनं श्रुत्या विद्वदनुभवेन च प्रसि- द्धम्। तस्मात्-वेदान्तवाक्यविचारमुखेन ब्रह्मणो विचारार्हत्वाच्छास्त्रमारम्भणीयम्- इति सिद्धान्तः॥ 4 (द्वितीये ब्रह्मणो लक्षणाधिकरणे सूत्रम् |) जन्माघस्य यतः॥२॥ द्वितीयाधिकरणमारचयति- , क. र्थात्संदेहसं । ख. र्थात्संन । २ क. योजनाभा । ३ क. 'म न विचारमहति' ग. 'झ तत्त्वविचारमहति' इ । ४ ख. 'स्तु विषयः । “अ ५. क. 'देहादिता । ६ क. 'पत्व। ७ ख. 'न्तवि। ८ ख. सिद्धम् ।
w श्रीभारतीतीर्थमुनिप्रणीता- [अ०१पा०१अवि०३] लक्षणं ब्रह्मणो नास्ति किंवाऽस्ति, नहि विद्यते ॥ जन्मादेरन्यनिष्ठत्वात्सत्यादेश्चाप्रसिद्धितः ॥ १३ ॥ ब्रह्मनिष्ठं कारणत्वं स्याल्लक्ष्म स्रग्भुजङ्गवत् ॥ लौकिकान्येव सत्यादीन्यखण्डं लक्षयन्ति हि ॥ १४ ॥ "यतो वा इमानि भूतानि जायन्ते, येन जावानि जीवन्ति, यत्प्रयन्त्यभिसंवि- शन्ति, वद्विजिज्ञासस्व तद्ब्रह्म" [ तैत्ति० ३ । १ । १] इति, “सत्यं ज्ञानमनन्तं ब्रह्म" [ वैत्ति० २।१।१] इति वाक्यद्वयं विषयः । प्रयन्ति म्रियमाणानीत्यर्थः । तंत्र-'श्रूयमाणं ब्रह्मलक्षणं न घटते, घटते वा'---इति संशयः। न घटते । तथाहि- किं जन्मादिकं तल्लक्षणम् , उत सत्यादिकम् । नाऽऽद्यः, तस्य जगन्निष्ठत्वेन ब्रह्मसंब- न्धाभावात् । द्वितीयेऽपि लोकप्रसिद्धेस्य सत्यज्ञानादेः स्वीकारे भिन्नार्थत्वादखण्डं ब्रह्म न सिध्यत्, अप्रसिद्धस्य तु सत्यादेर्लक्षणत्वमयुक्तम् । तस्मात्-तटस्थलक्षणं स्वरू- पलक्षणं च न विद्यते । अत्रोच्यते--यल्लक्षणं रूपानन्तर्भूतं सत्पदार्थान्तरव्यवस्थाहेतुः, तत्तटस्थलक्षणम् । जन्मादेरन्यनिष्टत्वेऽपि तत्कारणत्वं ब्रह्मणि कल्पनया संबद्धं वटस्थलक्षणं भविष्यति । “यो भुजङ्गः सा सक्" इतिवत् 'यजगत्कारणं तद्ब्रह्म' इति कल्पितेनापि लक्षयितुं शक्यत्वात् । भिन्नार्थानामपि पितृसुवभ्रातृजामात्रादिशब्दानामेकदेवदत्तपर्य- वसायित्वे यथा न विरोधः, तथा लोकसिद्धभिन्नार्थवाचिसत्यादिशब्दानामखण्डब्रह्मप- यवसायित्वे स्वरूपलक्षणसिद्धिः । इत्युभयेमप्युपपन्नम् ।। , वस्तुनोप- - Bihan . (तृतीये ब्रह्मणो वेदकर्तृत्ववेदैकमेयताधिकरणे सूत्रम् ॥ शास्त्रयोनित्वात् ॥३॥ वृतीयाधिकरणस्य प्रथमं वर्णकमारचयति- न कर्तृ ब्रह्म वेदस्य किंवा कर्तृ, न कर्तृ तत् ॥ विरूप नित्यया वाचेत्येवं नित्यत्ववर्णनात् ॥ १५ ॥ गिनायुक्तेनित्यत्वं पूर्वसाम्यतः ॥ कर्तत्वात्सर्वविद्भवेत् ॥ १६॥ । यजुर्वेदः सामवेदः" [बृह०२१४॥ देवस्य नित्यसिद्धस्य ब्रह्मणो निःश्वास सय । २ ख. ग. अत्र । ३ क. शये । न । ४ ख. 'दि त । ५ ख. ग. द्धसत्य- ज्ञानादिस्वी । ६ ख. ग. 'ते-जन्मा'। ७ ग. संबन्धं । ८ स्व. 'र्थवस्तूना । ९ ख. ग. 'यमुप'!
6 - . [अ०१पा०१अधि०३] वैयासिकन्यायमाला। इवायत्नेन सिद्धम्' इत्यर्थः-'ब्रह्म वेदं करोति, नकरोति वा'-इति संदेहः । न करोति, वेदस्य नित्यत्वात् । “वाचा विरूप नित्यया" इत्यस्मिन्मत्रे-'विरूप' इवि देवतां संबोध्य 'नित्यया वाचा स्तुति प्रेरय' इत्येवं प्रार्थ्यते । नित्या वाग्वेद एव, "अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः” । इति स्मृतेः । अतः-न वेदकर्तृ ब्रह्म । इति प्राप्ते, ब्रूमः-ब्रह्म वेदस्य कर्तृ भवितुमर्हति । कुतः-निःश्वसितन्यायेना- प्रयत्नोत्पत्त्यवगमात् । "तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे" इति, सर्वैर्यजै- हूयमानाद्यज्ञशब्दवाच्याब्रह्मणो विस्पष्टमेव वेदोत्पत्तिश्रवणाच्च । अप्रयत्नोत्पत्त्यैवार्थेषु बुद्धया रचितैः कालिदासादिवाक्यलक्षण्यादपौरुषेयत्वम् । प्रतिसगं पूर्वसाम्येनो- त्पन्नैः प्रवाहरूपेण नित्यता । सर्वजगद्व्यवस्थावभासिवेदकर्तृत्वनिरूपणेन ब्रह्मणः सर्व- ज्ञत्वं निरूपितं भवति ॥ द्वितीयं वर्णकमाह- अस्त्यन्यमेयताऽप्यस्य किंवा वेदैकमेयता ।। घटवत्सिद्धवस्तुत्वाद्ब्रह्मान्येनापि मीयते ॥ १७ ॥ रूपलिङ्गादिराहित्यान्नास्य मान्तरयोग्यता ॥ तं त्वौपनिषदेत्यादौ प्रोक्ता वेदैकमेयता ॥ १८ ॥ "तं त्वौपनिषदं पुरुषं पृच्छामि' [ बृह० ३ । ९ । २६ ] इति शाकल्यं प्रति याज्ञवल्क्येनोक्तवाक्ये परब्रह्मरूपस्य पुरुषस्योपनिषद्वेद्यत्वं प्रतीयते । तद्वाक्यं विषयः। वत्र-'ब्रह्मणः प्रत्यक्षादिगम्यत्वमस्ति, न वा' इति संशयः । पूर्वपक्षस्तु विस्पष्टः। रूपरसाद्यभावान्नेन्द्रिययोग्यता । लिङ्गसादृश्यादिराहित्याच नानुमानोपमानादि- योग्यता । 'उपनिषत्स्वेवाधिगतः' इति व्युत्पत्त्या “नावेदविन्मनुते तं बृहन्वम्" इत्यन्यनिषेधश्रुत्या च वेदैकमेयत्वम् । भाष्यकारैः "जन्मादि" सूत्रे-"श्रुत्यादयो- ऽनुभवादयश्च यथासंभवमिह प्रमाणम्" इत्यन्यमेयत्वमङ्गीकृतम्-इति चेत् । बाढम् । प्रथमतः श्रुत्यैव प्रमिते ब्रह्मणि पश्चादनुवादरूपेणानुमानानुभवयोरङ्गीकारात् । भवो वेदैकमेयं ब्रह्म ॥ १ क. श्रुतेः । २ ग. यज्ञे हुय । ३ ख. ग. "त्पत्तौ चार्थ बुद्ध्वा र । ४ ग. 'त्पत्तेः प्र । ५ ग. वा वैदिक । ६ क. मानान्त । ७ क. ख. षदित्या' । ८ क. विस्फुटः । ९ ख. रूपाद्य । १० ख. ग. 'मानादि।" ग. च वैदिक' । १२ ख. ग. प्रयत्नतः । १३ ग. 'तो वैदिकमें।
श्रीभारतीतीर्थमुनिप्रणीता- [अ०१पा०१अधि०४] (चतुर्थे वेदान्तानां ब्रह्मैकपरत्वाधिकरणे सूत्रम् ॥) तत्तु समन्वयात् ॥४॥ चतुर्थाधिकरणस्य प्रथमवर्णकमाह- वेदान्ताः कर्तृदेवादिपरा ब्रह्मपरा उत ॥ अनुष्ठानोपयोगित्वात्क दिपतिपादकाः ॥ १९ ॥ भिन्नप्रकरणाल्लिङ्गषवाच्च ब्रह्मबोधिकाः ॥ सति प्रयोजनेऽनर्थहानेऽनुष्ठानतोऽत्र किम् ॥ २० ॥ स्पष्टौ विषयसंदेहौ । जीवप्रकाशकवाक्यानि कर्तृपराणि । ब्रह्मप्रकाशकवाक्यानि देवतापराणि । सृष्टिप्रकाशकवाक्यानि साधनपराणि । तथा सवि वेदान्तानामनुष्ठानो. पयोगित्वं भविष्यति । ब्रह्मपरत्वे त्वनुष्टानासंभवानिष्प्रयोजनत्वं स्यात् । तस्मात्- वेदान्ताः कर्तृदेवतासाधनप्रतिपादकाः ।। अत्रोच्यते--ब्रह्मपरा वेदान्ताः । कुतः-भिन्नपकरणपठितानां तेषां कत्रादिप- तिपादकतया कर्मशेषत्वासंभवात् । तात्पर्य निश्चयहेतुलिङ्गषटकेन ब्रह्मपरत्वसंभवाच्च । लिङ्गषट्कं पूर्वाचार्यैदर्शितम्- "उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्ग तात्पर्यनिश्चये" इति । "सदेव सोम्येदमग्र आसीत्" इत्युपक्रमः । “ऐतदात्म्यामिदं सर्वम् । तत्सत्यं स आत्मा तत्त्वमसि' इत्युपसंहारः । तयोर्ब्रह्मविषयत्वेनैकरूँप्यमेकं लिङ्गम् । असकृत् "तत्त्वमसि' इत्युक्तिरभ्यासः। मानान्तरागम्यत्वमपूर्वत्वम् । एकविज्ञा- नेन सर्वविज्ञानं फलम् । उत्पत्तिस्थितिप्रलयप्रवेशनियमनानि पञ्चार्थवादाः । मृदादिदृष्टान्तों उपपत्तयः । एतैलिडैब्रह्मपरत्वं निश्चयम् । न चानुष्ठानमन्तरेण प्रयो. जनाभावः, 'नायं सर्पः' इत्यादाविव बोधादनर्थनिवृत्तेः संभवात् || द्वितीयं वर्णकमाह- प्रनिनि विधिसन्ति ब्रह्मण्यवसिता उत ।। वेधातारो मननादेश्च कीर्तनात् ॥ २१ ॥ त विधिः शास्त्रत्वं"शंसनादपि ॥ बोधाब्रह्मण्यवसितास्ततः ॥ २२ ॥ , क. 'वेऽनु । २ ग. 'त:-ब्रह्म। ३ ग. कर्तृत्वादि । ४ ख. 'यहेतुनिश्चयलि' । क. 'यलि' । ५ क. रत्वासं । ६ ग. निर्णये । ७ ख. ग. 'रूपत्वमे' । ८ ख. ग. 'म् । सृष्टिस्थि 5 ग. 'न्ताद्रुप । १० ख. 'लिङ्ग । ११ग. त्वात्ता वि । १२ न कर्तृ' । १३ ग. वं शासना। ..
[भ०१पा०१अधि०५] वैयासिकन्यायमाला। एकदेशी मन्यते--ब्रह्मपरत्वेऽपि वेदान्ता न ब्रह्मण्येव पर्यवस्यन्ति । किं तर्हि पारोक्ष्येण ब्रह्मवत्वं प्रतिपाद्य पश्चादपरोक्षप्रतिपत्तिं विदधति । तथा च सति वेदा- न्तानां शासनाच्छास्त्रत्वमुपपद्यते । किंच 'श्रोतव्यः' इति श्रवणं शब्दज्ञानात्मकं विधायाथ “मन्तव्यो निदिध्यासितव्यः" इत्यनुभवज्ञानात्मकं मननादिकं स्पष्टमेव विधीयते । तस्मात्-प्रविपत्तेविधावारो वेदान्ताः । इति प्राप्ते, ब्रूमः-न प्रतिपत्तेविधिः संभवति, कर्तुमकर्तुमन्यथा वा कर्तुमशक्यत्वादपुरुषत- स्वात् । शास्त्रत्वं तु नानुष्ठेयशासनादेव नियवम्, सिद्धवस्तुशंसनेनापि तदुपपत्तेः । शॉब्दज्ञाने जावे पश्चादनुभवात्मकं मननादिकं विधीयते-इति वक्तुं न युक्तम् । 'दशसस्त्वमसि' इतिवच्छब्दस्यैवापरोक्षानुभवजनकत्वेन शाब्दबोधात्पुरैवासंभावना- दिनिवृत्तये व्यापाररूपस्य कर्तृतन्त्रस्य मननादेविधानात् । तस्मात् “तत्वमसि" इत्यादयो वेदान्ता ब्रह्मण्यवसिताः ।। । . . (पञ्चमे ब्रह्मण एव सच्छब्दवाच्यताधिकरणे सूत्राणि ||) ईक्षते शब्दम् ॥५॥ गौणश्चेन्नाऽऽत्मशब्दात् ॥ ॥६॥ तनिष्ठस्य मोक्षोपदेशात् ॥ ७ ॥ हेय- खावचनाच ॥८॥ स्वाप्ययात् ॥ ९॥ गति- सामान्यात् ॥ १०॥ श्रुतत्वाच ॥११॥ पञ्चमाधिकरणमारचयति- तदैक्षतेतिवाक्येन प्रधानं ब्रह्म वोच्यते ॥ ज्ञानक्रियाशक्तिमत्त्वात्पधानं सर्वकारणम् ॥ २३ ॥ ईक्षणाच्चेतनं ब्रह्म क्रियाज्ञाने तु मायया ॥ आत्मशब्दात्मतादात्म्ये प्रधानस्य विरोधिनी ॥ २४ छान्दोग्ये षष्टाध्याये-"सदेव सोम्येदमय आसीदेकमेवाद्वितीयम्" इति प्रस्तुत्य "वदेक्षत-बहु स्यां प्रजायेय इति तत्तेजोऽसृजत" इति श्रूयते । वत्र सांख्या मन्यन्ते--सच्छब्दवाच्यं सर्वजगत्कारणं प्रधानम् । न तु ब्रह्म, प्रधानस्य सत्त्वगुण- युक्ततया परिणामितया च ज्ञानशक्तिक्रियाशक्तिसंभवात् । निर्गुणस्य कूटस्थस्य ब्रह्म- णस्तदसंभवात्-इति । १ ग. णं शाब्द'। २ ग. 'ज्ञानार्थे म । ख. 'ज्ञानार्थम । ३ स्व. ग. 'क्यत्वेनापु। ४ क. शास्त्र- ज्ञाने । ५ क. 'ति तच्छ। ६ क. 'धिनि॥ २४ ॥ छा। ७ ग. ते-तच्छ। २ श्रीभारतीतीर्थ मुनिप्रणीता- [अ०१पा०१अधि०६] अत्रोच्यते-ईक्षितृत्वश्रवणाचेतनं ब्रह्म सच्छब्दवाच्यम् । अचेतनस्य प्रधान- स्येक्षितृत्वायोगात् । ज्ञानक्रियाशक्ती तु ब्रह्मणि मायया संभविष्यतः । किंच-"अने- न जीवेनाऽऽत्मनाऽनुपविश्य नामरूपे व्याकरवाणि" इति नामरूपव्याक: जगत्कारण. देवता स्ववाचकेनाऽऽत्मशब्देन चेतनं जीवं व्यपदिशति । तथा"तत्त्वमसि" इति चेत- नस्य श्वेतकेतोर्जगत्कारणतादात्म्य गुरुरुपदिशति । तदुभयमप्यचेतनस्य प्रधानस्य जगत्कारणत्वे विरुध्यते । तस्मात्-चेतनं ब्रह्म सच्छब्देनोच्यते || ( षष्ठे ब्रह्मण आनन्दमयताधिकरणे सूत्राणि ॥) आनन्दमयोऽभ्यासात् ॥ १२॥ विकारशब्दा- नेति चेन प्राचुर्यात् ॥ १३॥ तद्धेतुव्यपदे- शाच ॥ १४॥ नेतरोऽनुपपत्तेः ॥ १५ ॥ मान्त्रवर्णिकमेव च गीयते ॥ १६ ॥ भेदव्यप- देशाच्च ॥ १७॥ कामाच नानुमानापेक्षा ॥ ॥१८॥ तस्मिन्त्रस्य च तद्योगं शास्ति ॥१९॥ षष्ठाधिकरणमेकदेशिमतेनाऽऽह- संसारी ब्रह्म वाऽऽनन्दमयः, संसार्ययं भवेत् ॥ विकारार्थमयटशब्दापियाद्यवयवोक्तितः ॥ २५ ॥ अभ्यासोपक्रमादिभ्यो ब्रह्मानन्दमयो भवेत् ।। प्राचुर्यार्थो मयटशब्दः प्रियाद्याः स्युरुपाधिगाः ॥ २६ ॥ तैत्तिरीयके देहपाणमनोबुद्धयानन्दरूपा अन्नमय-प्राणमय-मनोमय-विज्ञा- नमयानन्दमय-संज्ञकाः पञ्च पदार्थाः क्रमेणैकैकस्मादान्तराः पठिताः । तत्र- 'सर्वान्तर आनन्दमयः संसारी, परमात्मा वा'-इति संदेहः । 'संसारी' इति प्राप्तम् । कृतः-'आनन्दस्य विकार आनन्दमयः' इति व्युत्पत्तेः संसारिणि संभ- वात् । अविकृते तु परमात्मन्यसौ न संभवति । किंच "तस्य प्रियमेव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा" इत्यान. न्दमयस्य पश्चावयवा उच्यन्ते । अपेक्षित विषयदर्शनजन्यं सुखं प्रियम् । तल्लाभ- जन्यो मोदः । तद्भोगजन्यः प्रमोदः । सुषुप्त्यादौ भासमानमज्ञानोपहितं सुखसामान्य- . १ क. जीवात्म । २ ग "ह्म तच्छ। ३ ख. 'धितः ॥ २६ ॥ तै'। ४ ख. ग. संशिताः । ५ ख. त्मनि नासौ भ'। ६ ख. तद'। ७ क. 'न्यमात्मा । नि' . [अ०१पा०१अधि०६] वैयासिकन्यायमाला। ११ मानन्दः । निरुपाधिकं सुखं ब्रह्म । प्रियादीनां पञ्चावयवानां शिरआदिरूपत्वं प्रति- पत्तिसौकर्याय कल्प्यते । पक्षित्वेन कल्पितस्याऽऽनन्दमयस्य शिरः पक्षौ च, इत्यवयव- त्रयम् , आत्मशब्देन मध्यशरीरं चतुर्थावयवत्वेनोच्यते, पुच्छमपरभागः, प्रतिष्ठा पादौ, अयं पञ्चमोऽवयवः । न च निरंशस्य परमात्मनोऽवयवा युक्ताः । तस्मात्- संसार्येवाऽऽनन्दमयः ॥ इत्येवं प्राप्ते,- ब्रूमः-आनन्दमयः परमात्मा । कुतः-अभ्यासात् “सैषाऽऽनन्दस्य मीमांसा भवति" "एतमानन्दमयमात्मानमुपसंक्रामति" इत्यादिनाऽऽनन्दमयोऽभ्यस्यते । अभ्यासश्च तात्पर्यलिङ्गम्-तात्पर्य च वेदान्तानां ब्रह्मण्येव-इत्यवोचाम । किंच "सत्यं ज्ञानमनन्तं ब्रह्म" इति ब्रह्मोपक्रमात "इदं सर्वमसृजत" इति सर्वस्रष्टुत्वा- दिभ्यश्चाऽऽनन्दमयो ब्रह्म । न च ब्रह्मणि मयटशब्दानुपपत्तिः, प्राचुर्यार्थत्वसंभवात् । प्रियाद्यवयवा अपि विषयदर्शनाधुपाधिकृवा भविष्यन्ति । तस्मात्-परमात्माऽऽन- न्दमयः-इत्येकदेशिनां मतम् ।। इदानीं स्वमतानुसारेणाधिकरणं रच्यते- अन्याङ्गं स्वप्रधानं वा ब्रह्म पुच्छमिति श्रुतम् ॥ स्यादानन्दमयस्याङ्गं पुच्छेऽङ्गत्वप्रसिद्धितः ॥ २७ ॥ लाङ्गलासंभवादन पुच्छेनाऽऽधारलक्षणा । आनन्दमयजीवोऽस्मिन्नाश्रितोऽतः प्रधानता ॥ २८ ॥ "ब्रह्म पुच्छं प्रतिष्ठा” इति यच्छ्रुतं ब्रह्म, तत्किमानन्दमयस्याङ्गत्वेन निर्दिश्यते, उत स्वयं प्राधान्येन प्रतिपाद्यते-इति संशयः आनन्दमयस्यावयवत्वेन-इति वावत्प्राप्तम् । लोके पुच्छशब्दस्यावयववाचित्वेन प्रसिद्धत्वात् । उच्यते-न पुच्छशब्दोऽवयववाची । किंतु लाङ्गलवाची । न चाऽऽनन्दमयस्य लाङ्गलं संभवति । लाङ्गलस्य गवादिलक्षणांन्नमयावयवत्वादानन्दमयस्यावयवत्वायोगात्। अवः पुच्छशब्देन मुख्यार्थासंभवे सति योग्यतावशादत्राऽऽधारो लक्ष्यते। ब्रह्म, न्दमयंस्य जीवस्याऽऽधारः, वत्कल्पनाधिष्ठानत्वात् । न च--आनन्दमयः परमात्मा, प्राचुर्यार्थस्वीकारेऽप्यल्पदुःखसद्भावप्रतीतेः । तस्मात्-जीवाधारो ब्रह्म प्राधान्येन प्रतिपाद्यते । तथाच- . . आन- १ ख. ग. पश्चाव । २ ग. च सर्व । ३ ख. ग. 'थसं। ४ क. पुच्छाङ्ग । ५ ख. णादन- मयाद्यव । क. णान्नमयावयवत्वमान। ६ क. ख. 'त्वात् । । ७ क. ग. 'शब्दस्य मु। ८ ग. 'यजी।क. 'यश्च जी। .
१२ श्रीभारतीतीर्थमुनिप्रणीता [भ०१पा०१भावि०७] "भसन्नेव स भवति असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः" इत्यादि ब्रह्माभ्यासः, "ब्रह्मविदाप्नोति परम्" इति ब्रह्मोपक्रमश्चानुकूलो भवति । ( सप्तमे परमेश्वरस्यैव हिरण्मयपदवाच्यताधिकरणे सूत्रे-) अन्तस्तदर्मोपदेशात् ॥२०॥ भेदव्यपदेशाच्चान्यः ॥२१ ॥ सप्तमाधिकरणमारचयति- हिरण्मयो देवतात्मा किं वाऽसौ परमेश्वरः ।। मर्यादाधाररूपोक्तेर्दैवतात्मैव नेश्वरः ॥ २९ ॥ सार्वात्म्यात्सर्वदुरितराहित्याच्चेश्वरो मतः ।। मर्यादाद्या उपास्त्यर्थमीशेऽपि स्युरुपाधिगाः ॥ ३०॥ छान्दोग्यस्य प्रथमाध्याये उद्गीथोपासनायामुपसर्जनान्युपास्यान्यभिधाय प्रधानमु- पास्यमभिवातुमिदमाम्नायते-"अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यवे" इति । तत्र-आदित्यमण्डले विद्याकर्मातिशयवशात्कश्चिज्जीवो देवभावमुपेत्य जगदधि- कारं निष्पादयन्नवतिष्ठते, ईश्वरश्च सर्वगतत्वान्मण्डलेऽपि वर्तते । अवस्तयोः संशयः । वत्र 'देवतात्मा' इति तावत्माप्तम् । कुतः-मर्यादाधाररूपाणामुच्यमानत्वात् । "ये चामुष्मात्पराञ्चो लोकाः, वेषां चेष्टे देवकामानां च" इत्यैश्वर्यमर्यादोक्तिः, "अन्तरा- दित्ये" इत्याचारोक्तिः, 'हिरण्मयः' इति रूपोक्तिः । न हि सर्वेश्वरस्य सर्वाधारस्य नीरूपस्य परमेश्वरस्यैश्वर्यमर्यादाधाररूपाणि संभवन्ति । तस्मात्-देवतात्मा । इति प्राप्ते,- उच्यते-हिरण्मय ईश्वरो भवेत् । कुतः-सर्वात्मत्वश्रवणात् ।"सैवर्क, वत्साम, तदुक्थम्, तद्यजः, तद्ब्रह्म" इति वाक्ये वच्छब्दैः प्रकृवं हिरण्मयं पुरुषं परामृश्य तस्य ऋक्सामाघशेषजगदात्मकत्वमुपदिश्यते । तच्चाद्वितीये परमेश्वरे मुख्यमुपपद्यते । न तु सद्वितीयायां देववायाम् । वथा-"स एष सर्वेभ्यः पाप्मभ्य उदिवः" इति श्रूयमाणं सर्वपापराहित्यं ब्रह्मणोऽसाधारणं लिङ्गम् । यद्यपि देवतायाः कर्मण्यनधिकाराक्रियमाणकरिष्यमाणपापयोरभावः । तथाऽप्यसुरादिनितदुःखसद्धा- , १ क. 'स्त्यर्थी ईशे' । २ ग, 'न्दोग्ये प्र। ३ क. यदेषों । ४ ख. ग. वताभा । ५ ग. 'ले च क । क. ण्यधि' । ७ ख. 'दिनिमित्तज'।
[भ०१पा०१अधि०८] वैयासिकन्यायमाला । १३ वासद्धेतुभूतं जन्मान्तरसंचितरितमनुवर्तत एव । मर्यादाधाररूपाणि तूपाधिधर्मतया सोपाधिके परमात्मन्युपास्ये वर्तितुमर्हन्ति । तस्मात्-ईश्वरो हिरण्मयः ।। . . । ( भष्टमे ब्रह्मण एवाऽऽकाशशब्दवाच्यताधिकरणे सूत्रम् ॥ आकाशस्तल्लिङ्गात् ॥२२॥ भष्टमाधिकरणमारचयति- आकाश इति होवाचेत्यत्र खं ब्रह्म वोऽत्र खम् ।। शब्दस्य तत्र रूढत्वाद्वाय्वोदेः सर्जनादपि ॥ ३१ ॥ साकाशजगदुत्पत्तिहेतुत्वाच्छौतरूढितः॥ एवकारादिना चात्र ब्रह्मैवाऽऽकाशशब्दितम् ॥ ३२ ॥ पूर्वोक्ताद्धिरण्मयवाक्यादुत्तरस्मिन्वाक्ये शालावत्येन महर्षिणा सर्वलोकाधारवस्तुनि पृष्टे सति प्रवाहणो राजोत्तरमाह । तत्रत्यं वाक्यमेतत्-"आकाश इति होवाच, सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते, आकाशं प्रत्यस्तं यन्ति, भाकाशो ह्येवेभ्यो ज्यायान, आकाशः परायणम्" इति । तत्र आकाशशब्दार्थों वियत्, ब्रह्म वा-इति संदेहः । रूढत्वात् 'वियत्' इति प्राप्तम् । सर्वभूतोत्पत्तिल- यहेतुत्वं च वियत उपपद्यते । “आकाशाद्वायुः, वायोरामः-"इत्यादौ वाय्वादीनां सर्वभूतानां वियत्कार्यत्वश्रवणात् ॥ भत्रोच्यते-ब्रह्मैवाऽऽकाशशब्दार्थः । “सर्वाणि ह वै".-इत्यत्रासंकुचितसर्वश- ब्देन वियत्सहितसर्वभूतोत्पत्तिहेतुत्वश्रवणात् । न च वियतो वियद्धे तुत्वं संभवति । रूढिस्तु लौकिकी वियत्येवास्तु । श्रीती तु ब्रह्मण्यपि । “आकाशो वै नामरूपयोनि- वहिवा" इति प्रयोगदर्शनात् । किंच-"आकाशादेव" इत्येवकारः कारणान्तरं व्युदस्यति । न चैताद्वयत्पक्षे संभवति, घटादिषु वियद्यतिरिक्तानां मृदादिकारणा- नामुपलम्भात् । ब्रह्मपक्षे तु ब्रह्मणः सद्रूपस्य सर्वानन्यवया कारणान्तरव्युदास उप- पद्यते । ज्यायस्त्वपरायणत्वे च श्रुत्यन्तरे ब्रौणः श्रूयेते-"ज्यायान्पृथिव्याः, ज्यायानन्तरिक्षात्", "विज्ञानमानन्दं ब्रह्म रातेतुः परायणम्" इति । 'कर्मफलं दातुं समर्थम्' इत्यर्थः । तस्मात्-ब्रह्मैवाऽऽकाशशब्देन विवक्षितम् ॥ " " न . 1. . . १ ख. वोत । २ न. 'वादेर्जनना | ३ क. 'पि ॥ ३१ ॥ आकाशजग । ग. "पि ॥ ३१ ॥ आकाशाज्जग । ४ ख. ग. 'क्तिहिर'। ५ ख. ग. धारे व । ६ ख. ग. णो नाम रा । ७ ग. तत्राऽऽद्यवा' । ८ ख. 'त. एवोप' । ९ क. रणब्यु। १० ख. ग. 'ह्माणि श्रु' ।
१४ श्रीभारतीतीर्थमुनिप्रणीता- [अ.१पा.१अधि.९-१०] ( नवमे ब्रह्मण एव प्राणशब्दवाच्यत्वाधिकरणे सूत्रम् ॥) अत एव प्राणः ॥ २३ ॥ नवमाधिकरणमारचयति- मुखंस्थो वायुरीशो वा प्राणः प्रस्तावदेवता ॥ वायुभवेत्तत्र मुप्तौ भूतसारेन्द्रियक्षयात् ॥ ३३ ॥ संकोचोऽक्षपरत्वे स्यात्सर्वभूतलयश्रुतेः ॥ आकाशशब्दवत्पाणशब्दस्तेनेशवाचकः ॥ २४ ॥ आकाशवाक्यादुत्तरस्मिन्वाक्ये प्रस्तावनाम्नः सामभागस्य देवतां प्रस्तोत्रा पृष्टा- यामुषस्तिरुत्तरं ददौ । तत्रत्यं वाक्यमेतत् "प्राण इति होवाच । सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति, प्राणमभ्युजिहते, सैषा देवता प्रस्तावमन्वायचा" इति । तत्र-'प्राणशब्दार्थों मुखबिलान्तर्वर्तिवायुः, ब्रह्म वा,—इति संदेहः । मुख- बिलान्तर्वर्वी वायुभवेत्, सर्वभूतलयस्य तत्र सुसंपादत्वात् । सुषुप्तिकाले सर्वभूतसारा- णामिन्द्रियाणां प्राणवायौ प्रविलयात् । इति प्राप्ते, उच्यते-इन्द्रियमात्रलयपरत्वे व्याख्यायमाने "सर्वाणि ह वै"-इत्यसौ सर्वशब्दः संकुचितः स्यात् । आकाशशब्दवत्प्राणशब्दोऽपि श्रौतरूढ्येवका- राभ्यां ब्रह्मवाचकः । अस्ति हि प्राणशब्दस्य ब्रह्मणि श्रौतरूढिः, “प्राणस्य प्राणम्" इत्यत्र ब्रह्मविवक्षया द्वितीयमाणशब्दप्रयोगात् । तस्मात्-ईश्वरः प्राणः ।। . ( दशमे ब्रह्मण एव ज्योतिःशब्दाभिधेयत्वाधिकरणे सूत्राणि ॥) ज्योतिश्चरणाभिधानात् ॥२४॥छन्दोभिधाना- नेति चेन तथा चेतोर्पणनिगदात्तथाहि दर्शनम्॥ ॥२५॥ भूतादिपाव्यपदेशोपपत्तेश्चैवम्॥२६॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नविरोधात्॥२७॥ दशमाधिकरणमारचयति- कार्य ज्योतिरुत ब्रह्म ज्योतिदीप्यत इत्यदः॥ ब्रह्मणोऽसंनिधेः कार्य तेजोलिङ्गबलादपि ।। ३५ ॥ १ कः ग. खर वा । २ ख. ग. 'चोऽसुप । ३ ख. रवा । ४ ग. तत्राऽऽद्यवा । ५ के. 'शब्दोक्तो मु। ६ क. ग. 'ले भू। ७ ख, ग, ब्रूमः । ८ ख. ग. 'त्र विल । ९ ख. 'त्यत्र स । ग. स्त्रासौ । १० ख. 'त्यतः । ब्र। क. कार्यमृते लि।
[अ०१पा०१अधि०११] वैयासिकन्यायमाला। १५ चतुष्पात्प्रकृतं ब्रह्म यच्छब्देनानुवर्त्यते ॥ ज्योतिः स्याद्भासकं ब्रह्म लिङ्गं तूपाधियोगतः ॥ ३६॥ छान्दोग्यस्य तृतीयेऽध्याये गायत्रीविद्यायां हृदयच्छिद्रोपासनमभिध्यायेदमाना- यते--"अथ यदतः परो दिवो ज्योतिर्दीप्यते" इति । तत्र-'धुलोकात्परं दीप्य- मानं वस्तु किं कार्यरूपं नेत्रानुग्राहकं तेजः, उत ब्रह्म' इति 'संशयः । 'कार्यम्' इति तावत्प्राप्तम् । " ब्रह्मणोऽसंनिहितत्वेन वाक्यस्य ब्रह्मपरत्वायोगात् । तेजःप- रत्वं तूपपद्यते, तल्लिङ्गसद्भावात् । इदं वाव तद्यदिदमस्मिन्नन्तः पुरुष ज्योतिः इति श्रूयमाणो जाठराग्न्यभेदस्तेजोलिङ्गम् । अत्रोच्यते-असिद्धोऽसंनिविः, पूर्व- स्मिन्गायत्रीखण्डे- "पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि" । इति चतुष्पदो ब्रह्मणः प्रकृतत्वात् । तस्य चात्र प्रकृतवाचिना यच्छब्देनानुवर्तन नात् । 'अस्य ब्रह्मणः सर्वाणि भूतान्येकांशः, पादत्रयोपलक्षितमनॆन्त स्वरूपं द्योतना- त्मके दिवि स्वस्मिन्नेवावतिष्ठते' इत्यर्थः । न च ज्योतिःशब्दस्य ब्रह्मणि वृत्त्यनुपपत्तिः, भासकत्ववाँचित्वात् । ब्रह्मणो जगद्भासकत्वात् । तेजोलिङ्गं त्वौपाधिके ब्रह्मण्यवक- ल्प्यते । तस्मात् ---ज्योतिब्रह्म ।। ( एकादशे ब्रह्मण एव प्राणशब्दव्युत्पाद्यत्वाधिकरणे सूत्राणि ॥) प्राणस्तथाऽनुगमात् ॥२८॥ न वक्तुरात्मोपदे- शादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् ॥ ॥ २९ ॥ शास्त्रदृष्टया तूपदेशो वामदेववत् ।। ॥३०॥ जीवमुख्यप्राणलिङ्गानेति चेनोपा- सात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ ३१॥ एकादशाधिकरणमारचयति- प्राणोऽस्मीत्यत्र वाविन्द्रजीवब्रह्ममु संशयः ।। चतुर्णा लिङ्गसद्भावात्पूर्वपक्षस्त्वनिर्णयः ।। ३७ ॥ ब्रह्मणोऽनेकलिङ्गानि तानि सिद्धान्यनन्यथा ।। अन्येषामन्यथासिद्धेव्युत्पाद्यं ब्रह्म नेतरत् ॥ ३८ ॥ १ ख. ग. वर्तते । २ ख. 'स्य द्वितीयाध्या। ३ क. ग. संशये । ४ क. 'नन्तं स्व। ५ ख. 'तमाना। ६ क. ख. 'स्मिन्नव । ७ ग. 'वाचकत्वा । ८ क. ख. 'द्धे व्युत्पा ।
. मे १६ श्रीभारतीतीर्थमुनिप्रणीता [भ०१पा०२अधि०१] कौषीतकीनामुपनिषदीन्द्रप्रवर्दनाख्यायिकायां प्रवर्दनं प्रतीन्द्रो वक्ति-"प्राणोऽस्मि प्रज्ञात्मा तं माम्-आयुरमृतम्-इत्युपास्व" इति । तत्र चतुर्विधलिङ्गवशाच्चतुर्षा संशयः । “इदं शरीरं परिगृह्योत्थापयति" इति प्राणवायोलिङ्गम् । 'अस्मि' इति वक्तुरिन्द्रस्याहंकारवाद इन्द्रलिङ्गम् । “वक्तारं विद्यात्" इति वक्तृत्वं जीवलिङ्गम् | "आनन्दोऽजरोऽमृतः" इति ब्रह्मलिङ्गम् । तत्र---प्राबल्यदौर्बल्यविवेकाभावादान- र्णयः-इति पूर्वपक्षः। सिद्धान्तस्तु-सन्त्यत्र ब्रह्मणोऽनेकलिङ्गानि । तद्यथा-"त्वमेव मे वृणीष्व यं त्वं मनुष्याय हितवमं मन्यसे" इति हिततमत्वमेकं लिङ्गम् । “यो मां विजानीयात, नास्य केनचन कर्मणा लोको मीयते, न मातृवधेन, न पितृवधेन" इति ज्ञानमात्रेण महापातकाद्यलेपोऽपरं लिङ्गम् । एवमन्यान्यपि लिङ्गान्युदाहर्तव्यानि । न चैतानि प्राणेन्द्रजीवपक्षेषु कथंचिदप्युपपादयितुं शक्यन्ते । प्राणादिलिङ्गानि तु ब्रह्मण्युप- पद्यन्ते, प्राणादीनां ब्रह्मबोधद्वारत्वात् । तथा सति ब्रह्मलिङ्गानामनेकत्वादनन्यथा- सिद्धत्वाच्च प्राबल्यम् । तस्मात्-'ब्रवीत्र व्युत्पाद्यम्, न प्राणादि' इति सिद्धम् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थमुनिप्रणीतायां वैयासिक- न्यायमालायां प्रथमाध्यायस्य प्रथमः पादः॥१॥ भत्र पादे आदितः अधिकरणानि ११ ३१ , सूत्राणि 'MAN १. ( अथ प्रथमाध्यायस्य द्वितीयः पादः) ( प्रथमे ब्रह्मण एव मनोमयत्वाद्यधिकरणे सूत्राणि ॥) सर्वत्र प्रसिद्धोपदेशात् ॥ १॥ विवक्षितगुणो- पपत्तेश्च ॥ २॥ अनुपपत्तेस्तु न शारीरः॥३॥ कर्मकर्तृव्यपदेशाच्च ॥ ४ ॥ शब्दविशेषात् ॥ ॥५॥ स्मृतेश्च ॥ ६॥ अर्भकौकस्त्वात्तव्यप- १ स्व. ग. "तक्यामु। २ ख. 'तुर्धा । ३ ख. ग. 'न्द्रस्य लि। ४ ख. 'रोऽमरोऽमृ। ५ ख. ग. कदाचि। ६ ख. ग. ह्मैव व्यु। ७ क. ग. इति प्रथमाध्यायस्य प्रथमः पादः । ख. इति श्रीशाररिकाधिकरणमालायां प्रथमाध्यायस्य प्रथमपादः । PAL [अ०१पा०२आधि०२] वैयासिकन्यायमाला। १७ देशाच्च नेति चेत्र निचाय्यत्वादेवं व्योमवच्च ॥ ॥७॥ संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८॥ द्वितीयपादस्य प्रथमाधिकरणमारचयति- मनोमयोऽयं शारीर ईशो का प्राणमानसे ।। हृदयस्थित्यणीयस्त्वे जीवे स्युस्तेन जीवगाः॥१॥ शमवाक्यगतं ब्रह्म तद्धितादिरपेक्षते ।। प्राणादियोगश्चिन्तार्थश्चिन्त्यं ब्रह्म प्रसिद्धितः ॥ २॥ छान्दोग्यस्य तृतीयेऽध्याये शाण्डिल्यविद्यायामिदमानायते--- "मनोमयः प्राण- शरीरो भारूपः" इति । तत्र-'जीवः, ईशो वा' इति संदेहः । 'जीवः' इति ताव. त्याप्तम् । मनःसंबन्धादीनां जीवे सुसंपादत्वात् । 'मनसो विकारो मनोमयः' इति मनःसंबन्धः । 'प्राणः शरीरमस्य' इति प्राणसंबन्धः । नचेदं द्वयमीश्वरे सुसंपादम् । "अपाणो ह्यमनाः शुभ्रः" इति निषेधात् । तथा "एष में आत्माऽन्तर्हृदयेऽणी- यान्" इति श्रूयमाणं हृदयेऽवस्थानम् , अणीयस्त्वं च निराधारस्य सर्वगतस्य न कथं. चिदुपपद्यते । तस्मात्-जीवः । इति प्राप्ते, ब्रूमः-"सर्व स्वल्विदं ब्रह्म तज्जलान्---इति शान्त उपासीत" इत्येतस्मिञ्शम- विधिपरे पूर्ववाक्ये श्रूयमाणं यद्ब्रह्म, तदेव 'मनोमयः, प्राणशरीरः' इत्येताभ्यां तद्धित. बहुव्रीहिभ्यां विशेष्यत्वेनापेक्ष्यते । शमवाक्यस्यायमर्थः---'यस्मात्सर्वमिदं ब्रह्म तज्ज- त्वात् , तल्लत्वात् , तदस्त्वाच्च, वेस्मात्सर्वात्मके ब्रह्मणि रागद्वेषविषयासंभवादुपास्ति- काले शान्तो भवेत्' इति । एतद्वाक्यगते ब्रह्माण विशेष्यत्वेनान्विते मनोमयवाक्य- मपि ब्रह्मपरं भविष्यति । न च-ब्रह्मणो मनःमाणसंबन्धाद्यनुपपत्तिः, निरुपाधिके वदनुपपत्तावपि सोपाधिकस्योपास्य॑स्य चिन्तनार्थवया तदुपपत्तेः । तस्मात्-सर्वे- वपि वेदान्तवाक्येषु यद्ब्रह्मोपास्यत्वेन प्रसिद्धम् , तदेवात्राप्युपास्यम् । न हि क्वचि- दपि वेदान्ते जीवस्योपास्यत्वं प्रसिद्धम् । तवो 'ब्रह्मेव' इति सिद्धान्तः ।। (द्वितीये, ईश्वरस्यैवात्तृत्वाधिकरणे सूत्रे-) अत्ताचराचरग्रहणात्॥९॥प्रकरणाच॥१०॥ द्वितीयाधिकरणमारचयति- १ ख. ग. 'तीयाध्या । २ क. ख. 'ति प्राप्त | ३ ख. त। ४ क. तदनत्वात, तौं । ख. 'तदन्त्वात् । ग. तदनन्यत्वात् । ५ क. तजलान् । तस्मा। ६ ग. 'स्यचिन्तार्थ । ७ ख. ग. 'दान्तेषु । ८ ख. राद्धान्तः । ३ अयमर्थः DA" " श्रीभारतीतीर्थमुनिषणीता [अ०१पा०२अधि०३] जीवोऽग्निरीशो वाऽत्ता स्यादोदने जीव इष्यताम् ।। स्वाद्वत्तीति श्रुतेर्वह्निर्वाऽग्निरन्नाद इत्यतः॥ ३ ॥ ब्रह्मक्षत्रादिजगतो भोज्यत्वात्स्यादिहेश्वरः ।। ईशप्रश्नोत्तरत्वाच्च संहारस्तस्य चात्तृता ॥ ४ ॥ कठवल्लीषु द्वितीयवल्लयवसाने पठ्यते- “यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः' इति । ब्राह्मणक्षत्रियजाती यस्यौदैनस्थानीये, मृत्युश्चोपसेचनस्थानीयः, स पुरुषो यत्र वर्तते तत्स्थानम् इदमित्थम्' इति को वेद । न कोपि जानाति, इत्यर्थः । अत्र-ओदनोपसेचनशब्दाभ्यां कश्चिद्भक्षकः प्रतीयते । स जीवः, भमिः, ईशो वा इति त्रेधा संदिह्यते । 'जीवः' इति तावत्प्राप्तम् । कुतः-"तयो- रन्यः पिप्पलं स्वाद्वत्ति" इति जीवस्यात्तृत्वश्रवणात् । अथवा वहिर्भवेत्, "अमिर- नादः" इत्यत्तृत्वावगमात् । इति प्राप्ते,- उच्यते-ब्रह्मक्षत्रयोरुपलक्षणत्वेन कस्नं जगदिह भोज्यत्वेनावगम्यते । नहि ताशस्य भोज्यस्येश्वरादन्योऽत्ता संभवति । कच- "अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद"। इति धर्माधर्मकार्यकारणकालत्रयातीते परमेश्वरे नचिकेतसा पृष्टे सति “यस्य ब्रह्म च"-इवि वाक्येन यम उत्तरं ददौ । तस्माद्-ईश्वरोऽत्र प्रविपाधः- "अनश्नन्नन्योऽभिचाकशीति" इतीश्वरे भोक्तृत्वं निषिध्यते--इति चेत् । वडंत्रा- त्तृत्वं नाम संहर्तृत्वं भविष्यति । तच्चेश्वरस्य सर्वेषु वेदान्तेषु प्रसिद्धम् ।। ( तृतीये जीवब्रह्मणोरेव गुहाप्रवेशाधिकरणे सूत्रे-) गुहां प्रविष्टावात्मानौ हि तदर्शनात ॥ ११ ॥ विशेषणाच ॥ १२ ॥ तृतीयाधिकरणमारचयति- गुहां प्रविष्टौ धीजीवी जीवेशौ वा हृदि स्थितेः ।। छायातपाभ्यां दृष्टान्ताद्धीजीवौ स्तो विलक्षणौ ॥ ५॥ १ ग. इत्यदः । २ क. ओदनम् । ३ क. 'तीयं य । ४ ग. दनीयस्थाने म। क. दनस्था- नीयं मृ । ५ ग. 'वे क । ६ क. रे नाचिके । ७ ख. ग. 'श्वरस्य भो । ८ ख. ग. यत्तु । ९ ख. ग. स्थितौ । १० ख, ग, पाख्यह' । ॥
[अ०१पा०२अधि०४] वैयासिकन्यायमाला। १९ स . पिबन्ताविति चैतन्यं द्वयोर्जीवेश्वरौ ततः ॥ हृत्स्थानमुपलब्ध्यै स्याद्वैलक्षण्यमुपाधितः ॥ ६ ॥ कठवल्लीष्वेव तृतीयवल्यादौ श्रूयते- "ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चामयो ये च त्रिणाचिकेवाः" इति । अयमर्थः- "सुकृतस्य फलभूतं यद्ब्राह्मणादिशरीरं तत्परस्याधं परब्रह्मण उपल- ब्धिस्थानम् । तच्च परमम्, विद्याधिकारहेतुशमदमाधुपेतत्वात् । तादृशस्य शरी- रस्य मध्ये स्थितं हृदयपुण्डरीकं गुहा तां प्रविष्टौ । यद्वा-तशब्दवाच्यं कर्मफलं पिबन्ती छायातपवत्परस्परविलक्षणौ वेदविदो वदन्ति' इति । 'वो द्वौ बुद्धिजीवी, जीवेशौ वा'-इति संदेहः । 'बुद्धिजीवौ' इति प्राप्तम् , तयोः परिच्छिन्नयोर्गुहामवे- शसंभवात् । जडाजडरूपत्वेन च्छायातपवद्वैलक्षण्याच्च ।। भत्रोच्यते-'पिबन्ती' इति द्विवचनेन द्वयोश्चेवनत्वं प्रतीयते । ततः-चेतना. विह जीवेश्वरौ भवतः । सर्वगतस्यापीश्वरस्य हृदयेऽवस्थानमुपलब्ध्यै वर्ण्यते । द्वयो- श्वेतनत्वसाम्येऽपि सोपाधिकत्वनिरुपाधिकत्वाभ्यां वैलक्षण्यमुपपद्यते ।। . ॥ १५ ॥ श्रुत (चतुर्थे ब्रह्मण एवाक्षिगतत्वाधिकरणे सूत्राणि-) अन्तर उपपत्तेः ॥ १३॥ स्थानादिव्यपदे- शाच ॥ १४॥ सुखविशिष्टाभिधानादेव च ॥ तोपनिषत्कगत्यभिधानाच ॥ ॥१६॥अनवस्थितेरसंभवाच्च नेतरः॥ १७ ॥ चतुर्थाधिकरणमारचयति- छायाजीवौ देवतेशौ वाऽसौ योऽक्षणि दृश्यते ॥ आधारदृश्यतोक्त्येशादन्येषु त्रिषु कश्चन ॥ ७ ॥ कं खं ब्रह्म यदुक्तं प्राक्तदेवाक्षण्युपास्यते ।। वामनीत्वादिनाऽन्येषु नामृतत्वादिसंभवः ॥ ८ ॥ १ ग. 'तन्यद्वयं जीवे । २ क. लब्ध्या स्या । ख. लब्धे स्या | ग. 'लब्धै स्या। ३ ग. 'ध्येऽवस्थि । ख. 'ध्येऽव्यवस्थि'। ४ क. ख. ग. संदेहे । ५ क. 'तः। छत्रिणो यान्ति' इतिवदे- कांशे लक्षणेत्यर्थः । स । ६ क. ख. ग. योऽक्षिणि । * कठवल्लीभाष्ये तु-छत्रिन्यायेन सुकृतस्य स्वयंकृतस्य कर्मणः' इत्युपलभ्यते । .
, २० श्रीभारतीतीर्थमुनिप्रणीता [अ०१पा०२अधि०५] छान्दोग्यस्य चतुर्थाध्याये-उपकोसलविद्यायामुपकोसलं शिष्यं प्रवि सत्यकामो गुरुराह । तत्रत्यं वाक्यमेतत्--"य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच । एतदमृतम् , एतद्ब्रह्म" इति । तत्र चतुर्धा संशये सति-'अक्षणि सः- ईश्यमाना छाया' इति तावत् प्राप्तम् , अक्ष्याधारत्वदृश्यत्वयोस्तस्यामपि स्पष्टत्वात् । यद्वा-जीवोऽयं भवितुमर्हति, रूपदर्शनवेलायां तस्य चक्षुष्यवस्थितत्वेनान्वयव्य- तिरेकाभ्यां दृश्यमानत्वात् । अथवा-देवता स्यात् , "आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्" इति दर्शनात् । सर्वथा न परमात्मा, तस्याऽऽधारत्वदृश्यत्वासंभवात् । तस्मात्-छायाजीवदेवेषु यः कोऽप्यस्तु ।। इति प्राप्ते ब्रूमः-"कं ब्रह्म" "खं ब्रह्म' इति सुखरूपम्, आकाशवत्परिपूर्ण यद्ब्रह्म पूर्ववाक्येनोक्तम्, तदेव “य यषोऽक्षिणि-" इति प्रकृतवाचकेनैतच्छब्देन परामृश्याक्षण्युपास्यत्वेनोपदिश्य वामनीत्वभामनीत्वसंयीमत्वादिगुणानुपासनयोपदि- शति । वामनीत्वं कामपापकत्वम् । भामनीत्वं जगद्भासकत्वम् । संयद्वामत्वं प्राप्तकाम- त्वम् । एतैर्गुणैरुपास्यब्रह्मणः सोपाधिकत्वादश्याधारत्वं शास्त्रदृष्टया दृश्यमानत्वं च न विरुध्यते । छायाजीवदैवतेषु त्वमृतत्वाभयत्वादीनि न संभवन्ति । तस्मात्- रोऽत्रोपास्यः ।। -ईश्व- (पञ्चमे परमेश्वरस्यैवान्तर्यामिताधिकरणे सूत्राणि- अन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशात् ॥१८॥ न च स्मार्तमतद्धर्मामिलापात् ॥ १९॥शारी- रश्चोभयेऽपि हि भेदेनैनमधीयते ॥२०॥ पञ्चमाधिकरणमारचयति- प्रधानं जीव ईशो वा कोऽन्तर्यामी जगत्पति ॥ कारणत्वात्मानं स्याजीवो वा कर्मणो मुखात् ॥ ९ ॥ * संयद्वामत्वादिगुणोपदेशश्च तस्मिन्नवकल्पते “एतं संयद्वाम इत्याचक्षते । एतं हि सर्वाणि वामान्य- भिसंयन्ति । एष उ एव वामनीः । एष हि सर्वाणि वामानि नयति । एष उ एव भामनीः, एष हि सर्वेषु लोकेषु भाति" इति-इति तु शारीरकभाष्यम् । "संयद्वामेति । वामानि कर्मफलान्ये- तमक्षिपुरुषमभिलक्ष्य संयन्त्युत्पद्यन्ते । सर्वफलोदयहेतुरित्यर्थः । लोकानां फलदाताऽप्ययमेवैत्याह- वामनीरिति । नयति फलानि । लोकान्प्रापयतीत्यर्थः । भामानि भानि नयत्ययमित्याह-भामनी- रिति । सर्वार्थप्रकाशक इत्यर्थः” इति रत्नप्रभा ।। १ ख. ग. रुरुवाच । त। २ ख. ग. 'तमभयमेत । ३ ख. ग. 'स्यामेव प्रसिद्धत्वा । ४ ख. द्वामित्वा । ५ क. धानत्वं जीवो। .. '. - [अ०१पा०२अधि०६] वैयासिकन्यायमाला। २१ जीवैकत्वामृतत्वादेरन्तर्यामी परेश्वरः ।। द्रष्तृत्वादेर्न प्रधानं न जीवोऽपि नियम्यतः ॥ १० ॥ बृहदारण्यके पञ्चमाध्याये याज्ञवल्क्य उद्दालकं प्रत्याह-"यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः" इति । तत्र-पृथिव्यादिजगत्पति योऽन्तर्यामी, श्रूयते, वस्मिंस्त्रेधा संशये सति 'प्रधानम्' इति प्राप्तम् । तस्य सकलजगदुपादानत्वेन स्वकार्य प्रति नियामकत्वसंभवात् । अथवा-जीवोऽन्तर्यामी । स हि धर्माधर्मरूपं कर्मानुष्ठितवान् । तच्च कर्म वफलदानाय फलभोगसाधनं जगदुत्पादयवि । अतः कर्मद्वारा जगदुत्पादकत्वाज्जीवोऽन्तर्यामी ।। इति प्राप्ते ब्रूमः-"एष व आत्माऽन्तर्याम्यमृतः" इत्यन्तर्यामिणो जीवतादा- त्म्यममृतत्वं च श्रूयते । तथा—पृथिव्यन्तरिक्षादिषु सर्ववस्तुष्वन्तर्यामित्वोपदेशेन सर्वव्यापित्वं प्रतीयते । तेभ्यो हेतुभ्योऽन्तर्यामी परमेश्वरः । न च प्रधानस्यान्तर्या- मित्वं संभवति, “अदृष्टो द्रष्टा, अश्रुवः श्रोता" इति द्रष्टुत्वश्रोतृत्वाधवगमादचेत- नस्य प्रधानस्य तदसंभवात् । नापि जीवोऽन्तर्यामी, “य आत्मानमन्तरो यमयवि" इति जीवस्य नियम्यत्वश्रवणात् । तस्माद्-अन्तर्यामी परमेश्वरः ।। (षष्ठे परमेश्वरस्यैव भूतयोनित्वाधिकरणे सूत्राणि-) अदृश्यत्वादिगुणको धर्मोक्तेः ॥२१॥ विशे- षणभेदव्यपदेशाभ्यां च नेतरौ ॥२२॥ रूपो- पन्यासाच ॥ २३ ॥ *प्रकरणत्वात् ॥ २४॥ षष्ठाधिकरणमारचयति- भूतयोनिः प्रधानं वा जीवो वा यदि वेश्वरः। आद्यौ पक्षावुपादाननिमित्तत्वाभिधानतः ॥ ११ ॥ ईश्वरो भूतयोनिः स्यात्सर्वज्ञत्वादिकीर्तनात् ॥ दिव्याद्युक्तेन जीवः स्यान्न प्रधानं भिदोक्तितः॥ १२ ॥ मुण्डकोपनिषदि श्रूयते-"वदव्ययं यद्भूवयोनि परिपश्यन्ति धीराः" इति । तत्र त्रेधा संशये सति-प्रधानम्,जीवो वा, इति पक्षद्वयं तावत्प्राप्तम् । योनिश- * अस्य सूत्रत्वं केवलं रङ्गनाथेन वृत्तिकृताऽङ्गीकृतम् । भाष्यतोऽपि प्रतीयते । भामतीकारा- दयो भाष्यव्याख्यातारोऽन्ये वृत्तिकृतश्चास्य भाष्यग्रन्थत्वमेवाङ्गीकुर्वन्तीति ध्येयम् ।। ।' १ क. 'माधिष्ठि । २ ख. ग. में फ। ३ क. 'तू । तस्मा । ४ क. 'मित्तत्वाभि ।
२२ श्रीभारतीतीर्थमुनिप्रणीता- [भ०१पा०२अधि०७] ब्दस्योपादाननिमित्तलक्षणार्थद्वयवाचित्वात् । प्रधानस्य विश्वाकारेण परिणममा. नस्योपादानत्वात् । जीवस्य च धर्माधर्मद्वारेण निमित्तत्वात् ।। अत्रोच्यते- "यः सर्वज्ञः सर्ववित्, यस्य ज्ञानमयं तपः" । इति 'सामान्याकारेण सर्वज्ञत्वम् , विशेषाकारेण सर्ववित्त्वम् , पर्यालोचनात्मकं तपश्च,' इत्येतादृशस्य ब्रह्मलिङ्गस्य कीर्वनाद्भूतयोनिः परमेश्वरः । न च जीवस्य भूव- योनित्वं युक्तम् , - "दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः इति बाह्याभ्यन्तरव्यापित्वजन्मराहित्ययोः श्रुवत्वात्परिच्छिन्नस्य जन्मादिमतो जीवस्य तदसंभवात् । नापि प्रधानस्य भूतयोनित्वं युक्तम् , “अक्षरात्परतः परः" इत्यक्षरशब्दवाच्यात्प्रधानाद्भेदेन भूवयोनेः परत्वाभिधानात् । तस्मात्-ईश्वरो भूत- योनिः ॥ य . . ( सप्तमे परमेश्वरस्यैव वैश्वानरत्वाधिकरणे सूत्राणि-) वैश्वानरः साधारणशब्दविशेषात् ॥ २५ ॥ स्मर्यमाणमनुमानं स्यादिति ॥ २६ ॥ शब्दा- दिभ्योऽन्तःप्रतिष्ठानाच नेति चेन तथाह- ष्टयुपदेशादसंभवात्पुरुषमपि चैनमधीयते॥२७॥ अत एव न देवता भूतं च ॥२८॥ साक्षा- दप्यविरोधं जैमिनिः ॥२९॥ अभिव्यक्तेरिया- श्मरथ्यः ॥ ३० ॥ अनुस्मृतेर्बादरिः ॥३१॥संपत्तेरिति जैमिनिस्तथाहि दर्शयति ॥३२॥ आमनन्ति चैनमस्मिन् ॥३३॥ सप्तमाधिकरणमारचयति- वैश्वानरः कौक्षभूतदेवजीवेश्वरेषु कः ॥ वैश्वानरात्मशब्दाभ्यामीश्वरान्येषु कश्चन ॥ १३ ॥ 3 क. त्तत्वल । २ क. कौक्ष्यभू । ख. कौक्षिभू । ३ क. ख. 'मीशादन्येषु । । mym.
[अ०१पा०३अधि०१] वैयासिकन्यायमाला। २३ युमूर्धत्वादितो ब्रह्मशब्दाच्चेश्वर इष्यते ।। वैश्वानरात्मशब्दौ तावीश्वरस्यापि वाचकौ ॥ १४ ॥ छान्दोग्यस्य पञ्चमाध्याये वैश्वानरविद्यायामाम्नायते-'आत्मानं वैश्वानरमु- पास्ते" इति । किमयं वैश्वानरः कुक्षिस्थितोऽग्निः, किंवा भूतामिः, आहोवित्- आदित्यदेवता, किंवा जीवात्मा, अथवा परमात्मा, इति संशयः । तत्र वैश्वानरश- ब्दवशादाद्यं पक्षत्रयं प्राप्तम् । 'अयममिवैश्वानरो योऽयमन्तः पुरुष(येनेदमन्नं पच्यते)" इति श्रुतौ वैश्वानरशब्दो जाठराग्नौ प्रयुक्तः । “विश्वस्मा अग्नि भुवनाय देवा वैश्वा- नरम्" इति बाह्येऽनौ प्रयुक्तः । “वैश्वानरस्य सुमतौ स्याम" इति देववायां प्रयुक्तः । अतः पक्षत्रयमुपपद्यते । आत्मशब्दस्य जीवे रूढत्वाज्जीवो वा वैश्वानरः स्यात् । न त्वीश्वरः, तद्गमैकाभावात् । इति प्राप्ते,- ब्रूमः-वैश्वानरो ब्रह्म भवितुमर्हति, घुमूर्धत्वादिश्रवणात् । “तस्य ह वा एत- स्याऽऽत्मनो वैश्वानरस्य मू(वै सुतेजाः" इत्यादिना धुलोकाद्यशेषजगतो वैश्वानरावय- वत्वं श्रूयते । न चैवदीश्वरादन्यत्र संभवति । किंच "को न आत्मा, किं ब्रह्म" इति ब्रह्मशब्दश्चेश्वरे मुख्यः । वैश्वानरशब्दस्तु योगवृत्त्या ब्रह्मणि वर्तते । विश्वश्चासौ नरश्च विश्वानरः । सर्वात्मकपुरुष इत्यर्थः । विश्वानर एव वैश्वानरः । आत्मशब्दश्च जीववद्ब्रह्मण्यपि वर्तते । तस्मात्-वैश्वानरः परमेश्वरः ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थमुनिप्र. णीतायां वैयासिकन्यायमालायां प्रथमाध्यायस्य द्वितीयः पादः ॥ २॥ आदितः अधिकरणानि १८ মুসা ३३ ६४ । भत्र पादे ७ N --..-MH-- ( अथ प्रथमाध्यायस्य तृतीयः पादः ) - ( प्रथमे ब्रह्मण एव शुभ्वाद्यायतनत्वाधिकरणे सूत्राणि -) द्युभ्वाद्यायतनं स्वशब्दात् ॥ १॥ मुक्तोपमृ- प्यव्यपदेशात् ॥२॥ नानुमानमतच्छब्दात् ॥ १ क. ख. 'क्षिस्थोऽग्नि । २ ग. अमिर्भुव । ३ क. मकत्वाभा । ४ क. ख. व” ई। ५ क. ख, ग, इति प्रथमाध्यायस्य द्वितीयः पादः । .
२४ श्रीभारतीतीर्थ मुनिप्रणीता [भ०१पा०३अधि०१] ॥३॥ प्राणभृच्च ॥४॥ भेदव्यपदेशात् ।। ॥५॥ प्रकरणात् ॥६॥ स्थित्यदनाभ्यां च॥७॥ प्रथमाधिकरणमारचयति- सूत्रं प्रधानं भोक्तेशो शुभ्वाद्यायतनं भवेत् ॥ श्रुतिस्मृतिप्रसिद्धिभ्यां भोक्तृत्वाचेश्वरेतरः ॥ १॥ नाऽऽद्यौ पक्षावात्मशब्दान्न भोक्ता मुक्तगम्यतः॥ ब्रह्मप्रकरणादीशः सर्वज्ञत्वादितस्तथा ॥२॥ मुण्डकोनपषिदि श्रूयते- "यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह पाणैश्च सर्वैः । तमेवै जानथाऽऽत्मानमन्या वाचो विमुश्चथामृतस्यैष सेतुः" इति । 'धुलोकभूलोकाद्यशेषं जगद्यस्मिन्नाधारे आश्रितम्, तमाधारमेकमेवाऽऽत्मानं जानीथ, न त्वाश्रितं धुपृथिव्यादि । इतोऽतिरिक्ता अनात्मप्रतिपादिकास्तर्कशास्त्रादि- वाचो विमुञ्चथ, अपुरुषार्थत्वात्' इत्यर्थः । अत्र ( संशयः )-किं धुभ्वाद्यायवनं सूत्रात्मा, किंवा प्रधानम् , अथवा भोक्ता, आहोस्वित् ईश्वरः- इति संदेहः । सूत्रात्मा स्यात्, “वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः, सर्वाणि च भूतानि संहब्धानि भवन्ति" इति श्रुतिप्रसिद्धया वायोः सूत्रात्मनो धुभवाद्यायवनत्वावग- मात् । प्रधानं वा स्यात्, तस्य सांख्यस्मृतिप्रसिद्धच्या सर्वाधारत्वावगमात् । भोक्ता वा स्यात्, “तमेवैकं जानथाऽऽत्मानम्" इत्यात्मशब्दात् । इति प्राप्ते,- ब्रूमः-न तावेदाधौ पक्षौ संभवतः, उक्तस्याऽऽत्मशब्दस्य तयारसंभवात् । नापि भोक्ता, ( यदा पश्यः पश्यते रुक्मवणं कर्तारमीशं पुरुषं ब्रह्मयोनिम्। ) वदा विद्वान्पुण्यपापे विधूय निरञ्जनः परं साम्यमुपैति" इति धुभ्वाद्यायतनस्य मुक्तपुरुषप्राप्यत्वश्रवणाद्भोक्तुर्जीवस्य तत्प्राप्यत्वासंभवात् । "कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति" इत्येकविज्ञानेन सर्वविज्ञानमुपका- न्तम् । "ब्रह्म वेद ब्रह्मैव भवति" इत्युपसंहृतम् । ततो ब्रह्मप्रकरणाद्भूतयोन्यधिकर- णोक्तसर्वज्ञत्वादियुक्तेरपि ब्रह्मैव धुभ्वाद्यायतनम् ।। * "श्चय” इत्येतत्पर्यन्त एव पाठः सर्वत्र पुस्तकेषु १ क. रेश्वरः । २ क. 'दिति श्रुतेः ॥ २ ॥ मु। ३ क. तमाधारमेवा । ग. तमेकमेवा। ४ क. तत्र । ५ ग. संदेहे । ६ क. वत्सूत्रात्मप्रधानप। ७ क. ग. 'स्य पु। ८ क. तत्राप्यात्मत्वा । ९ क. ग. रणत्वाद्ध। - .
[अ०१पा०३अधि०३] वैयासिकन्यायमाला। २५ (द्वितीये परमात्मन एव भूमत्वाधिकरणे सूत्रे-) भूमा संप्रसादादध्युपदेशात् ॥ ॥८॥धर्मोपपत्तेश्च ॥९॥ द्वितीयाधिकरणमारचयति- भूमा प्राणः परेशो वा प्रश्नपत्युक्तिवर्जनात् ।। अनुवातिवादित्वं भूमोक्तेश्चासुरेव सः ॥ ३ ॥ विच्छिद्यैष विति पाणं सत्यस्योपक्रमात्तथा ।। महोपक्रम आत्मोक्तेरीशोऽयं द्वैतवारणात् ॥ ४ ॥ छान्दोग्ये सप्तमाध्याये नारदं प्रात स्नत्कुमारो नामादीन्युत्तरोत्तरभूयांसि बहूनि तत्त्वान्युपदिश्यान्ते निरविशयं भू' नमुपदिशति-"यत्र नान्यत्पश्यति, नान्य- च्छृणोति, नान्यद्विजानाति, स भूमा" इति । तत्र-भूमशब्दवाच्ये द्विधा संदिग्धे सति, ‘प्राणः' इति तावत्याप्तम् । प्रश्नपत्युक्तिवर्जनात् । पूर्वेषु नामादितत्त्वेषु "अस्ति भगवो भूयः" इति नारद पदे पदे पृच्छति, सनत्कुमारश्च 'अस्ति' इति पविवक्ति, एवं च प्रश्नपतिवचनपूर्वकतया नामादीनि प्राणान्तानि तत्त्वान्युपदिश्य पाणस्योपरि विनैव प्रश्नपत्युक्तिभ्यां भूमानमवतारयति । अतः प्राणभूम्नोर्मध्ये विच्छे- दकस्याभावात्प्राण एव भूमा । किंच-प्राणतत्त्वमुपदिश्य प्राणोपासकतयाऽतिवादि- त्वनामकमुत्कर्षमभिधाय प्रकरणविच्छेदशङ्कानिवृत्तये तदेवाविवादित्वमनुवर्त्य भूमान- मुपदिशन्माणभूम्नोरभेदं गमयति । तस्मात्-प्राणो भूमा ।। इति प्राप्ते, ब्रूमः-अयं भूमा परमेश्वरः । कुतः-"एष तु वा अतिवदति यः सत्येनाविवदति" इत्यत्राविवादित्वहेतुं प्राणोपासनं तुशब्देन व्यावर्त्य मुख्याविवा- दित्वहेतोर्ब्रह्मणः सत्यशब्देन पृथगुपक्रमात् । तथा-परमोपक्रमे "तरति शोकमा- त्मवित्" इति वेद्यतया परमात्मोच्यते । तथा-"यत्र नान्यत्पश्यति" इति द्वैत. निषेधेन भून्नो लक्षणमभिधीयते । तस्मात्-अद्वैवः परमात्मैव भूमा ॥ , . . . . (तृतीये ब्रह्मण एवाक्षरताधिकरणे सूत्राणि-) अक्षरमम्बरान्तधृतेः॥ १०॥ सा च प्रशास- नात् ॥ ११॥ अन्यभावव्यावृत्तेश्च ॥ १२॥ तृतीयाधिकरणमारचयति- PRAMMARRMATIM १ ग. 'क्तेर्वा युरे' । २ ख.नयुक्ति । ३ ख. 'मुद्दिश्य । 7 २६ श्रीभारतीतीर्थमुनिप्रणीता- [अ०१पा०३धि०४] अक्षरं प्रणवः किंवा ब्रह्म लोकेऽक्षराभिधा ॥ वर्णे प्रसिद्धा तेनात्र प्रणवः स्यादुपास्तये ॥ ५॥ अव्याकृताधारतोक्तेः सर्वधर्मनिषेधतः ॥ शासनाद्रष्टुतादेश्च ब्रह्मेवाक्षरमुच्यते ॥ ६॥ बृहदारण्यके पश्चमाध्याये गार्गी प्रति याज्ञवल्क्य आह-"एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति, अस्थूलमनण्वद्वस्वम्" इति । अत्र-'अक्षरशब्देन प्रणवो ब्रह्म वाऽभिधीयते'-इति संदेहे, 'प्रणवः' इति प्राप्तम् । कुतः-लोके “येना- क्षरसमाम्नायमधिगम्य" इत्यादौ वर्णेऽक्षरशब्दप्रसिद्धः । प्रणवाक्षरस्यात्रोपास्यतया वक्तव्यत्वात् । इति प्राप्ते,- ब्रूमः-ब्रह्मैवाक्षरशब्दवाच्यम् । कुतः- "एतस्मिन्खल्वक्षरे गार्याकाश ओतश्च प्रोतश्च" इत्याकाशशब्दवाच्यमेव्याकृतं प्रत्यक्षरस्याऽऽधारतोक्तेः। प्रणवस्य तदसंभ- वात् । किंच-"अस्थूलमनण्वतस्वम्" इत्यक्षरे सर्वसंसारधर्मा निषिध्यन्ते । तथा- "एतस्य वाऽक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" इति तस्यैवाक्ष- रस्य जगच्छासितृत्वमुच्यते । (तथा) "तद्वा एतदक्षरं गार्यदृष्टं द्रष्ट, अश्रुतं श्रोतृ" इत्यादिना द्रष्टुत्वादिकं प्रमाणाविषयत्व चाऽऽनातम् । तदेतत्सर्वं न प्रणवपक्षेऽवक- ल्पते । तस्मात् ब्रह्मेवाक्षरम् ।। " . 19. -२ (चतुर्थे पर ब्रह्मण ईक्षतिकर्मता (ध्येयता) धिकरणे सूत्रम्-) ईक्षतिकर्मव्यपदेशात्सः॥ १३ ॥ चतुर्थाधिकरणमारचयति- त्रिमात्रप्रणवे ध्येयमपरं ब्रह्म वा परम् ।। ब्रह्मलोकफलोक्त्यादेरपरं ब्रह्म गम्यते ॥७॥ ईक्षितव्यो जीवघनात्परस्तत्मत्यभिज्ञया । भवेद्धयेयं परं ब्रह्म क्रममुक्तिः फलिष्यति ॥ ८ ॥ प्रश्नोपनिर्षाद श्रूयते-“यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभि. ध्यायीत" इति । तत्र 'ध्येयं वस्तु हिरण्यगर्भाख्यमपरं ब्रह्म, उत परं ब्रह्म' - इति संशये सति, 'अपरम्' इति तावत्याप्तम् । कुतः- “स सामभिरुन्नीयवे ब्रह्मलोकम्" . mment --- , क. लोकः क्ष। २ क वर्णप्र। ३ ग. 'निरोधः। ४. क. स्व. तत्र । ५ क.'शब्दः प्रसिद्धः। प्र । ६ क. प्रणवोऽक्षरशब्दस्य चात्रों'। ७ ख. 'दिना प्र। ८ ख. 'यत्वेनाऽऽना । ग. 'यत्वा- चाऽऽना' । ९ क. 'गवध्ये' । १.ख. 'रेवं त्रि।
'-- : २७ [अ०१पा०३अधि०५] वैयासिकन्यायमाला। इति कमलासनलोकप्राप्तिफलश्रवणात् । परब्रह्मध्यानस्य परमपुरुषार्थस्य तावन्मात्र- फलत्वानुपपत्तेः । “परं पुरुषम्" इति परशब्दविशेषणमपरस्मिन्नपि ब्रह्मण्युपपद्यते । तस्यापीतरापेक्षया परत्वात् । इति प्राप्ते, ब्रूमः-परमेव ब्रह्माभिध्येयम् । कुतः--ईक्षितव्यस्य परस्य ध्येयत्वेन प्रत्य- भिंज्ञानात् । “स एतस्माजीवघनात्परात्परं पुरिशयं पुरुषमीक्षते" इति वाक्यशेषे श्रूयते । तस्यायमर्थः-'य उपासनया ब्रह्मलोकं प्राप्तः, स एतस्मात्सर्वजीवसमष्टि- रूपादुत्कृष्टाद्धिरण्यगर्भादप्युत्कृष्टं सर्वप्राणिहृदये शयानं परमात्मानं पश्यति' इति । तत्रेक्षितव्यो यः परमात्मा स एव वाक्योपक्रमे ध्यानविषयत्वेनाभिप्रेतः-इत्यवग- म्यते । परपुरुषशब्दाभ्यां तस्य प्रत्यभिज्ञानात् । न च ब्रह्मलोकॅप्राप्तिमात्रं फलम् क्रममुक्तिसंभवात् । तस्मात्---ब्रह्मैव ध्येयम् ॥ (पञ्चमे ब्रह्मण एव दहराकाशत्वाधिकरणे सूत्राणि-) दहर उत्तरेभ्यः ॥ १४॥ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ १५॥ धृतेश्च महि- नोऽस्यास्मिन्नुपलब्धः॥१६॥ प्रसिद्धेश्च॥१७॥ इतरपरामर्शात्स इति चेन्नासंभवात् ॥ १८॥ पञ्चमाधिकरणमारचयति- दहरः को वियजीवो ब्रह्म वाऽऽकाशशब्दतः ॥ वियत्स्यादथवाऽल्पत्वश्रुतेर्जीवो भविष्यति ॥ ९ ॥ बाह्याकाशोपमानेन धुभूम्यादिसमाहितः ।। आत्माऽपहतपाप्मत्वात्सेतुत्वाँच्च परेश्वरः ॥ १० ॥ छान्दोग्यस्याष्टमाध्याये श्रूयते-“अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म, दहरोऽस्मिन्नन्तराकाशः, तस्मिन्यदन्तः, तदन्वेष्टव्यम् , तद्वाव विजिज्ञासितव्यम्" इति । 'ब्रह्मण उपलब्धिस्थानत्वेन शरीरं ब्रह्मपुरम् , तत्राल्पं हृदयपुण्डरीकं वेश्म यदवविष्ठते, तस्मिन्वेश्मन्यल्प आकाशो वर्तते' इत्यर्थः । तत्राऽऽकाशस्य त्रेधा . १ ख. 'कथ । २ क. तस्य पिण्डापे । स्व. तस्यापि तदपे। ३ क. ख. 'भिधेय । ४ ख. 'भिधाना । ५ ख. भांदुत्क । ६ स्व. दयश । ७ ख. कमा। ८ क. ख. 'नीवब्रह्मस्वाका । ९ ख. समाश्रयात् । आ। १० क. ख. 'त्वात्परमेश्व' । ११ ख. व्यमिति । तं चेद्व्युर्यदिदमास्मि- ब्रह्मपुरे दहरं पुण्डरीकं वेश्म, दहरोऽस्मिन्नन्तराकाशः। किं तत्र विद्यते यदन्वेष्टव्य यद्वाव विजिज्ञा- सितव्यमिति । स ब्रूयाद्यावान्वा अयमाकाशः' । 'ब' । १२ ग. तत्रापि । १३ क. ख. तस्याऽऽका | -- . श्रीभारतीवीर्यमुनिपणीता- [म.१पा०३अवि०६] संशये सति , 'वियत्' इति तावत्प्राप्तम् , आकाशशब्दस्य वियवि रूढत्वात् । यद्वा- दहरशब्देनाल्पत्वोक्तेः परिच्छिन्नो जीवो भविष्यति । न तु ब्रह्म ॥ इति प्राप्ते,ब्रूमः--ब्रह्मैवाऽऽकाशशब्दवाच्यम् । “यावान्वा अयमाकाशस्तावाने- षोऽन्तर्हृदय आकाशः" इति प्रसिद्धेन वियवोपमितत्वात् । न हि वियवो वियदुपमानं संभवति । नाप्यल्पपरिमाणो जीवो वियत्परिमाणेनोपमातुं शक्यः । लौकिकरूढिस्तु श्रौतरूच्या परिहृवा। किंच-"उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते" इत्यादिना द्यावापृथिव्याद्यशेषजगदाधारत्वं दहराकाशस्य श्रूयते । “अथैष भात्माऽपहवपाप्मा" इत्यात्मत्वमपहवपाप्मत्वं च । “य आत्मा स सेतुर्विधृतिः" इति जगन्मर्यादानामसां- कर्याय विधारकत्वलक्षणसेतुत्वं च । तस्मादेतेभ्यो हेतुभ्यः परमात्मा ।। " (षष्ठ ईश्वरस्यैवाक्षिपुरुषत्वाधिकरणे सूत्राणि-) उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥ अन्यार्थश्च परा- मर्शः ॥२०॥ अल्पश्रुतेरिति चेत्तदुक्तम् ॥२१॥ षष्ठाधिकरणमारचयति- यः प्रजापतिविद्यायांस किं जीवोऽथवेश्वरः॥ जाग्रत्स्वप्नसुषुप्तोक्तस्तद्वानीव इहोचितः॥ ११ ॥ आत्माऽपहतपाप्मेति प्रक्रम्यान्ते स उत्तमः ।। पुमानित्युक्त ईशोऽत्र जाग्रदाद्यवबुद्धये ॥ १२ ॥ दहरविद्याया उपरि प्रजापतिविद्यायामिन्द्रविरोचनप्रजापतिसंवादे श्रूयते-'य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच" इति । तत्र-'जीवात्मा' इति प्राप्तम् । कुतः--अवस्थात्रयोपन्यासात् । “अक्षिणि पुरुषः" इति जागरणोपन्यासः। “य एष स्वप्ने महीयमानश्चरति" इति स्वप्नोपन्यासः । "सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानाति" इति सुषुप्तोपन्यासः । एवमवस्थात्रय उपन्यस्वे सत्यवस्थावा- जीवो ग्रहीतुमुचितः, ईश्वरस्यावस्थाराहित्यात् ॥ इति प्राप्ते, ब्रूमः-ईश्वरोऽत्र ग्रहीतव्यः । कुतः-“य आत्माऽपहवपाप्मा विजरो विमृत्युः" इति परमात्मानमुपक्रम्य “स उत्तमः पुरुषः" इत्यनेन परमात्मन * संदेहस्य स्फुटत्वात्संदेहप्रन्यो नोपन्यस्त इति प्रतिभाति । . स्व. भिन्नो। २ क. 'जीव एवेह प्र।
, * [अ०१पा०३अधि०७-८] वैयासिकन्यायमाला। २९ एवोपसंहारात् । नच-एवंसवि जागरणाधुपन्यासवैयर्थ्यम्, शाखाचन्द्रन्यायेन पर- मात्मबोधोपयुक्तत्वात् । तस्मात्-ईश्वरोऽक्षिपुरुषः ।। (सप्तमे चैतन्यस्य सर्वजगनासकत्वाधिकरणे सूत्रे-) अनुकृतेस्तस्य च ॥ २२ ॥ अपि च स्मर्यते ॥ २३ ॥ सप्तमाधिकरणमारचयति- न तत्र सूर्यो भातीति तेजोन्तरमुतात्र चित् ॥ तेजोभिभावकत्वेन तेजोन्तरमिदं महत् ॥ १३ ॥ चित्स्यात्सूर्याधभौस्यत्वात्ताहतेजोप्रसिद्धितः ॥ सर्वस्मात्पुरतो भानात्तद्भासा चान्यभासनात् ॥ १४ ॥ मुण्डकोपनिषदि श्रूयते- "न वत्र सूर्यो भावि न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमानः। वमेव भान्तमनुमावि सर्व वस्य भासा सर्वमिदं विभाति" इति । अयमर्थः--'तत्र पूर्वपकृते ज्योतिषां ज्योतिषि चन्द्रसूर्यादयो न भान्ति, किं तु वमेव ज्योतिषां भासकं पुरवो भासमानं पदार्थमनु सर्व जगद्भाति । भार्सेनदशायां न स्वतन्त्रेण भानेन जगद्भाति । किं तर्हि तस्य भासकपदार्थस्य भासा सर्वमिदं विभाति' इति । 'अस्मिन्वाक्ये श्रूयमाणं जगद्रासकं किं सूर्यादिसदृशं चाक्षुषं तेजोन्तरम्, उत चैतन्यम्' इति संशये—'वेजोन्तरम्' इति प्राप्तम् । कुतः-सूर्यादितेजोभिभावकत्वात् । मह- तस्वेजसः संनिधौ स्वल्पं तेजोऽभिभूयते यथा सूर्यसंनिधौ दीपः । तथाच सूर्यादीनां यदभिभावकं, वत्सूर्यादिभ्योऽप्यधिकं तेजोन्तरमेव ॥ इति प्राप्ते, उच्यते-सूर्यादिमिरभास्यतया श्रूयमाणं वस्तु चैतन्यम् । कुतः- सूर्याद्यभिभावकस्य महतस्तेजोन्तरस्यापसिद्धत्वात् । किंच"तमेव भान्तमनुभाति सर्वम्" इवि सर्वस्मात्पुरोमासमानत्वं चैवन्यधर्मः । तथा-"तस्य भासा सर्वमिदं विभाति" इति प्रकाशामकाशरूपसर्वजगद्भासकत्वं चैवन्यधर्म एव । तस्माच्चैतन्यं वाक्यप्रतिपाद्यम् || (अष्टमे परमेश्वरस्याङ्गष्ठमात्रत्वाधिकरणे सूत्रे-) शब्दादेव प्रमितः ॥ २४॥ हृद्यपे- क्षया तु मनुष्याधिकारात् ॥२५॥ भष्टमाधिकरणमारचयति- १ क. खानच । २ ग. 'तापि चि। ३ क. 'भाने स्यात्ता'। ४ क. ख. 'समान' । ५ ग. 'भासकं । ६ क. 'स्यमानत।
३० श्रीभारतीतीर्थमुनिप्रणीता- [अ०१पा०३अवि०९] अङ्गुष्ठमात्रो जीवः स्यादीशो वाऽल्पप्रमाणतः ।। देहमध्ये स्थितेश्चैव जीवो भवितुमर्हति ॥ १५॥ भूतभव्येशता जीवे नास्त्यतोऽसाविहेश्वरः ।। स्थितिप्रमाणे ईशेऽपि स्तो हृद्यस्योपलब्धितः ॥ १६ ॥ कठवल्लीषु चतुर्थवल्लयामाम्नायते- 'अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि विष्ठति । ईशानो भूतभव्यस्य ( न ततो विजुगुप्सते )" इति । वत्र--अङ्गुष्ठमात्रो जीवः । कुतः 'अङ्गष्ठमात्रः" इत्यल्पप्रमाणत्वात् । “मध्य आत्मनि तिष्ठति" इति देहमध्येदेशावस्थानाच्च ।। इति प्राप्ते, ब्रूमः-परमात्मा अङ्गष्ठमात्रः । कुतः--"ईशानो भूतभव्यस्य" इत्य- वीतानागवजगदीशितृत्व श्रवणात् । न च-ईशितृत्वं जीवेऽस्ति, जीवस्येशितव्य- त्वात् । अल्पप्रमाणत्वं, देहमध्येऽवस्थानं चेश्वरस्यापि संभवतः, हृदयपुण्डरीके ब्रह्मण उपलम्भात्तदपेक्षया तदुभयसंकीर्वनात् । तस्मात्-अङ्गष्ठमात्रः परमेश्वरः ।। - । : - . ( नवमे देवादीनामप्यधिकारित्वाधिकरणे सूत्राणि-) तदुपर्यपि बादरायणः संभवात् ॥ २६ ॥ विरोधः कर्मणीति चेनानेकप्रतिपत्तेर्दर्शनात् ॥ ॥ २७ ॥ शब्द इति चेत्रातः प्रभवात्प्र- त्यक्षानुमानाभ्याम् ॥ २८ ॥ अत एव च नित्यत्वम् ॥ २९ ॥ समाननामरूपत्वाच्चाऽ5- वृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॥ ३० ॥ मध्वादिष्वसंभवादनधिकारं जैमिनिः॥३१॥ ज्योतिषि भावाच ॥ ३२ ॥ भावं तु बादरायणोऽस्ति हि ॥ ३३॥ नवमाधिकरणमारचयति- . . म. 'व्येशिता । २ क. 'ध्यप्रदेशेऽव । ३ ख. 'क्षयोम [अ०१पा०३अधि०९] वैयासिकन्यायमाला। ३१ नाधिक्रियन्ते विद्यायां देवाः किंवाऽधिकारिणः ।। विदेहत्वेन सामर्थ्यहाने षामधिक्रिया ॥ १७ ॥ अविरुद्धज्ञातवादिमन्त्रादेहसत्त्वतः ।। आर्थित्वादेश्च सौलभ्याद्देवाद्या अधिकारिणः ॥ १८ ॥ बृहदारण्यके तृतीयाध्याये श्रूयते-"वद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्, तथर्षीणाम्" इति । 'देवानां मध्ये यो ब्रह्म बुबुधे स एव ब्रह्माभवत्' इत्यर्थः । तत्र 'देवर्षयो विद्यायां नाधिक्रियन्ते इति प्राप्तम् । कुतः--'अर्थी समर्थों विद्वाञ्शास्त्रेणापर्यु- दस्तोऽधिक्रियते' इत्युक्तानामधिकारहेतूनामशरीरेषु देवेष्वसंभवात् । न च-मन्त्रार्थ- वादादिभ्यो देवानां विग्रहवत्त्वम् , विध्येकवाक्यतापन्नानां मत्रादीनां स्वार्थे तात्प- र्याभावात् ॥ इति प्राप्ते ब्रूमः-त्रिविधो ह्यर्थवादः-गुणवादः, अनुवादः, भूर्थिवादश्चेवि । तथा चाऽऽह- "विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धौंनादर्थवादस्त्रिया मतः इति । "आदित्यो यूपः” “यजमानः प्रस्तरः" इत्यादिषु प्रत्यक्षविरोधे सत्या- दित्यादिवद्यागनिर्वाहकत्वगुण आदित्यादिशब्दैरुपलक्ष्यत इति गुणवादः । “अमिर्हि- मस्य भेषजम्" "वायुर्वै क्षेपिष्ठा देवता" इत्यादिषु मानान्तरसिद्धार्थानुवादित्वादनु- वादत्वम् । तयोरुभयोः स्वार्थे तात्पर्य मा भूत् । “इन्द्रो वृत्राय वज्रमुदयच्छत्" इत्यादिष्वविरुद्धेष्वननुवादेषु च भूत र्थवादेषु स्वतः प्रामाण्यवादे स्वार्थे तात्पर्यस्य निवारयितुमशक्यत्वात्पदैकवाक्यतया स्वार्थेऽवान्तरतात्पर्य प्रतिपाद्य पश्चाद्वाक्यैक- वाक्यतया विषिषु महातात्पर्य भूतार्थवादाः प्रतिपद्यन्ते । मन्त्रेष्वप्ययं न्यायो योज्यः । तथाच-मत्रार्थवादादिबलाद्देवादीनां विग्रहवत्त्वे सति श्रवणादिषु सामर्थ्य सुलभम् । अर्थित्वं चैश्वर्यस्य क्षयित्वसातिशय त्वदर्शनान्मोक्षसाधनब्रह्मविद्याविषयमुप- पद्यते । विद्वत्ता चोपनयनाध्य यनरहितानामपि वयंभातवेदत्वात्सुलभैव । तस्मात्- देवानां विद्याधिकारो न निवारयितुं शक्यः । यद्यपि-आदित्यादिदेवतानामादि- त्यादिध्यानमिश्रासु सगुणब्रह्मविद्यासु ध्येयानामन्येषामादित्यादीनामसंभवात्, आदि- * तयोहानं तद्धानं तस्मादिति विग्रहः । प्रमाणान्तरविरोध-प्रमाणान्तरावधारणयोहानादि- त्यर्थः । इत्यर्थसंग्रहकौमुदी। १ क. 'रुद्धाज्ञा । ख. रुद्धज्ञातवा । २ क. ख. 'वदियो । ३ ख. च श्रातम । ४ ख. 'क्यतया वर्णितानां । ५ क ख. 'तार्थानुवा । ६ ख. 'दस्त्वर्थानामर्थ। ७ ज. 'दिविद्याङ्गनि। ८ ख. 'त्वात्तयों । ९ क. भूयार्थी प्रा. क. 'न्ते तेव। ११ ख. तत्र । १२ क. ख. 'त्यादीनां वेवानामा - ।
३२ श्रीभारतीतीर्थमुनिप्रणीता- [भ०१पा०३अधि०१०] स्यत्वादिप्राप्तिलक्षणस्य विद्याफलस्य सिद्धत्वाच्च माऽस्त्वधिकारः, तथाऽपि निर्गुणविद्या- यामधिकारे को दोषः । तस्मादस्त्येवाधिकारः ।। (दशमे शूद्रस्य ब्रह्मविद्यायामनधिकाराधिकरणे सूत्राणि-) शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥३४॥ क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गाव ॥ ३५ ॥ संस्कारपरामर्शात्तदभावाभिलापाच ॥३६॥ तदभावनिर्धारणे च प्रवृत्तेः॥ ३७ ॥ श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॥ ३८ ॥ दशमाधिकरणमारचयति- शूद्रोऽधिक्रियते वेदविद्यायामथवा न हि ॥ अत्रैवर्णिकदेवाद्या इव शूद्रोऽधिकारवान् ॥ १९ ॥ देवाः स्वयंभातवेदाः शूद्रोऽध्ययनवर्जनात् ॥ नाधिकारी श्रुतौ स्मार्ते त्वधिकारो न वार्यते ।। २० ॥ छान्दोग्यस्य चतुर्थाध्याये संवर्गविद्यायामाम्नायते-"भाजहारेमाः शूद्र, अनेनैव मुखेनाऽऽलापयिष्यथाः" इति । जानश्रुति म कश्चिच्छिष्यो गोसहस्रं दुहितरं मुक्ता- हारं रथं कांश्चिद्वामांश्चोपायनत्वेनाऽऽनीय रैक्वनामानं गुरुमुपससाद । तेत्र रैकवचनमे- तत्-'हे शूद्र जानश्रुते, इमा गोसहस्राद्या आहृतवानसि, अनेनैव दुहित्राद्युपायन- मुखेन मच्चित्तं प्रसाद्योपदेशयिष्यसि' इति । तत्र 'शूद्रोऽपि वेदविद्यायामधिकारवान्' इति प्राप्तम् । अत्रैवर्णिकदेवदृष्टान्ताच्छूद्रस्याप्यत्रैवर्णिकस्य तत्संभवात् ।। इति प्राप्ते ब्रूमः-आस्ति देवशूद्रयोवैषम्यम् | उपनयनाध्ययनाभावेऽपि स्वयं- भाववेदा देवाः, तादृशस्य सुकृतस्य पूर्वमुपार्जितत्वात् । शूद्रस्तु वादृशसुकृतराहि- त्यान्न स्वयंभाववेदः । नापि तस्य वेदाध्ययनमस्ति, उपनयनाभावात् । अतो विद्व- तास्यस्याधिकारहेतोरभावान्न श्रोतविद्यायां शूद्रोऽधिकारी । कथं तर्हि-उदाहृते वाक्ये जानश्रुतिविषयः शूद्रशब्दः, 'यौगिकोऽयं, न रूढः' इति ब्रूमः । 'विद्यारा- हित्यजनितया शुचा गुरुं दुद्राव' इति शूद्रः । न च-रूड्या योगापहारः, रूढे- . / १ ग. रथरम्यकं । २ क. ख. तस्य रैकस्य व । ३ क. ख. 'शमिच्छसि । ४ क. ख. 'टान्तेन शूई । ५ क. ग. यंप्रतिभात ।
[अ.१पा.३अधि.११-१२] वैयासिकन्यायमाला । ३३ रत्रासंभवात् । अस्मिन्नुपाख्याने क्षेत्तृप्रेरणाद्यैश्वर्योपन्यासेन जानश्रुतेः क्षत्रियत्वावग- मात् । ननु-शूद्रस्य वेदविद्यायामनधिकारे सवि मुमुक्षायां सत्यामपि मुक्तिर्न सिध्येत्-इति चेत् । न । स्मृतिपुराणादिमुखेनै ब्रह्मविद्योदये सवि मुक्तिसिद्धेः । वस्मात्-न शूद्रो वेदविद्यायामधिक्रियते ।। . . ( एकादश ईश्वरस्यैव कम्पनहेतुताधिकरणे सूत्रम्-) कम्पनात् ॥ ३९॥ एकादशाधिकरणमारचयवि- जगत्कम्पनकृत्माणोऽशनिर्वायुरुतेश्वरः ॥ अशनिर्भयहेतुत्वाद्वायुर्वा देहचालनात् ॥ २१ ॥ वेदनादमृतत्वोक्तेरीशोऽन्तर्यामिरूपतः ॥ भयहेतुश्चालनं तु सर्वशक्तियुतत्वतः ।। २२ ।। कठवल्लीषु षष्ठवल्यामाम्नायवे- "यदिदं किंच जगत्सर्वं प्राण एजति निःसृतम् । महद्भयं वज्रमुद्य य एतद्विदुरमृतास्ते भवन्ति' इति । अयमर्थ:--"निःसृतमुत्पन्नं यदिदं जगत्सर्वं प्राणे निमित्तभूवे सवि कम्पते । वच्च प्राणशब्दवाच्यं वस्तूद्य वज्रमिव महाभयहेतुः । एतत्प्राणशब्दवाच्यं ये विदुः, ते मरणरहिता भवन्ति" इति । वत्र-जगत्कम्पनकारिणि माणे त्रेधा संदिग्धे सति-'अशनिः' इति तावत्माप्तम् । कुतः-"महद्भयम्" इति भयहेतुत्व- श्रवणात् । वायुर्वा भविष्यात "प्राण एजति" इति शब्दप्राणवाच्यस्य देहादिचालनक- तृत्वावगमात् ॥ इति प्राप्ते, ब्रूमः-ईश्वरः प्राणशब्दवाच्यो भवितुमर्हति, “य एतद्विदुरमृतास्ते भवन्ति" इति तद्वेदनादमृतत्वोक्तेः । भयहेतुतोऽप्यन्तर्यामिरूपेणेश्वरस्य भविष्यति "भीषाऽस्माद्वातः पवते" इति श्रुत्यन्तरात् । देहादिकम्पनत्वं च सर्वशक्तित्वादीश्वर- स्योपपद्यते । तस्मात्-ईश्वरः प्राणशब्दवाच्यः ।। ( द्वादशे ब्रह्मण एव ज्योतिष्ट्वाधिकरणे सूत्रम्-) ज्योतिर्दर्शनात् ॥४०॥ द्वादशाधिकरणमारचयति १ ग. क्षत्तुः ।.२ ख. 'न वि। ३ क. ख. प्राणो जगदेज'। ४ क. ग. 'नत्वा । ५ क. 'ता त्वन्त । ६ क. ख. 'दिचालकलं । ५ श्रीभारतीतीर्थमुनिप्रणीता- [अ०१पा०३अधि०१३] परं ज्योतिस्तु सूर्यस्य मण्डलं ब्रह्म वा भवेत् ॥ समुत्थायोपसंपद्येत्युक्त्या स्याद्रविमण्डलम् ॥ २३ ।। समुत्थानं त्वंपदार्थथुद्धिर्वाक्यार्थबोधनम् ॥ संपत्तिरुत्तमत्वोक्तेब्रह्म स्यादेस्य साक्ष्यतः ॥ २४ ॥ छान्दोग्येऽष्टमाध्याये प्रजापतिविद्यायामाम्नायते-"एष संप्रसादोऽस्माच्छरीरा. त्समुत्थाय परं ज्योतिरूपसंपद्य खेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः" इति । अस्यायमर्थः–'सम्यक्प्रसीदत्यस्यामवस्थायाम्' इति संप्रसादः सुषुप्तिः, तस्यामव. स्थायां तद्वाञ्जीव उपलक्ष्यते । एष जीवोऽस्माच्छरीरात्समुत्थाय'इति । शेषं सुगमम् । तत्र ज्योतिःशब्दवाच्ये द्वेवा संदिग्धे सति, 'रविमण्डलम्' इति तावत्याप्तम् । कुतः-"शरीरात्समुत्थाय ज्योतिरूपसंपद्य" इति 'देहानिर्गत्य ज्योतिः प्राप्नोति' इत्युच्यमानत्वात् । ब्रह्मप्राप्तौ निर्गमाभावात्माप्तृप्राप्तव्यभेदानुपपत्तेश्च ।। इति प्राप्ते, ब्रूमः--ज्योतिःशब्दवाच्यं ब्रह्म स्यात् । कुतः-"स उत्तमः पुरुषः" इत्युत्तमपुरुषकीर्तनाद्रविमण्डलस्य तदयोगात् । “यो वेद-इदं जिघ्राणि-इति, स आत्मा । यो वेद-इदं शृण्वानि-इति, स आत्मा" इत्यादिना घातृ-घाण-प्रेय- श्रोतृ-श्रवण-श्रोतव्यादिसाक्षित्वमात्मनः श्रूयते । तदेकवाक्यतया ज्योतिःशब्द- वाच्यं ब्रह्म । यदुक्तम्-'शरीरात्ममुत्थाय, ज्योतीरूपं संपद्य' इत्येतद्वयं ब्रह्मपक्षे न संभवति-इति तदसत् । न ह्यत्र समुत्थानं निर्गमनम् किं तार्ह त्वंपदार्थस्य जीवस्य शरीरत्रयाद्विवेकः । नाप्युपसंपत्तिः प्राप्तिः, किं तर्हि तस्य शोधितत्वंपदार्थस्य ब्रह्मत्वेनावबोधनम् । तस्मात् ज्योतिब्रह्म ॥ . J (त्रयोदशे ब्रह्मण एव नामरूपनिर्वाहकताधिकरणे सूत्रम्-) आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥४१॥ त्रयोदशाधिकरणमारचयति- वियङ्का ब्रह्म वाऽऽकाशो वै नामेति श्रुतं, वियत् ।। अवकाशप्रदानेन सर्वनिर्वाहकत्वतः ॥ २५ ॥ निर्वोढत्वं नियन्तृत्वं चैतन्यस्यैव तत्त्वतः ॥ ब्रह्म स्याद्वाक्यशेषे च ब्रह्मात्मेत्यादिशब्दतः ॥ २६ ॥ दिब्रह्मत्वबोधनम् । इति पाठः समीचीन::--इति प्रतिभाति । १ क. दक्षसाक्षितः । ग, “दक्षिसाक्षितः। २ क- ख. प्राप्तप्रा । ३ ग. 'रद्वया ।
[अ०१पा०३अधि०१४] वैयासिकन्यायमाला। ३५ छान्दोग्यस्याष्टमाध्यायस्यान्ते श्रूयते--"आकाशो ह वै नामरूपयोनिहिता, ते यदन्तरा तद्ब्रह्म, तदमृतम् , स आत्मा" इति । अस्यायमर्थः—'आकाशाख्यः कश्चि- पदार्थः स च जगद्रूपयो मरूपयोनिर्वहिता निर्वाहकः । ते च नामरूपे यस्मादाका- शाद्भिन्ने, अथवा-यस्याऽऽकाशस्यान्तराले वर्तते । तदाकाशं मरणरहिवं ब्रह्म, तदेव प्रत्यगात्मा' इति । तत्र "आकाशो ह वै नाम"-इवि यच्छ्रतं, वद्वियत् स्यात्, "नामरूपयोर्निर्वहिता" इत्युक्तस्य निर्वाहकत्वस्यावकाशपदावरि वियति संभवात् ॥ इति प्राप्ते, ब्रूमः-अत्र निर्वाहकत्वं नाम नावकाशपदानमात्रम् । किंतु नियामकत्वम् । सर्वप्रकारनिर्वाहकत्वस्य नियन्तृत्वान्तर्भावात् । तच्च नियन्तृत्वं चेतनस्य ब्रह्मणो युज्यते । श्रुत्यन्तरे च श्रूयते 'अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याक- रवाणि" इति । न हि वियतोऽचेतनस्य नियम्यविशेषानजानतो नियन्तृत्वं संभवति । तेत आकाशं ब्रह्म स्यात् । किंच वाक्यशेषे "वब्रह्म, तदमृतं, स आत्मा" इति ब्रह्मत्वामृतत्वात्मत्वानि श्रूयन्ते । ततोऽपि ब्रह्मैवाऽऽकाशम् ।। ( चतुर्दशे ब्रह्मण एव विज्ञानमयत्वाधिकरणे सूत्रे-) सुषुप्त्युत्क्रान्त्योर्भेदेन ॥४२॥ पत्यादिशब्देभ्यः ॥ ४३ ॥ चतुर्दशाधिकरणमारचयति- स्याद्विज्ञानमयो जीवो ब्रह्म वा जीव इष्यते ॥ आदिमध्यावसानेषु संसारपतिपादनात् ॥ २७ ॥ विविच्य लोकसंसिद्धं जीवं प्राणाद्युपाधितः ।। ब्रह्मत्वमन्यतोऽप्राप्तं बोध्यते ब्रह्म नेतरत् ॥ २८ ॥ बृहदारण्यके षष्ठाध्याये श्रूयते--योऽयं विज्ञानमयः पाणिषु हृद्यन्तज्योतिः पुरुषः समानः सन्नुभौ लोकावनुसंचरति" इति । अस्यायमर्थः-'विज्ञानमयो लिङ्ग- शरीरमयः । तेन स्थूलदेहव्यतिरेकः सिद्धः । प्राणेषु चक्षुरादीन्द्रियेषु, प्राणादि- वायुषु च, हृद्यन्तःकरणे, सप्तमीविभक्त्यावारत्वनिर्देशादायस्य पुरुषस्येन्द्रियेवा- युमनोतिरिक्तत्वं सिद्धम् । अन्तःशब्देन धीवृत्तिभ्यः कामसंकल्पादिभ्यो व्यतिरेकः सिद्धः । बुद्धिपरिणामरूपाणां वासां वृत्तीनां बहिर्भावात् । एवं च सति-स्थूलदेहे- . -- १० HA १ ख. अय । २ क. ख. 'स्यान्तरे व । ३ क. 'रनियन्तृत्वेऽपि संभवा । ४ क. ग. तत्र । ५ क. ख. 'स्य वि।६ ग. तच्चाऽऽका। ७ क. ख. त्वादीनि । ८ क. सारिप्र। ९ ख. 'यमनो- वायुन्यात । क. 'यवायुमनोन्यत्वं । १० क, ख. 'हिर्भूतत्वात् ।
- ३६ श्रीभारतीतीर्थमुनिप्रणीता- [अ०१पा०४अधि०१] न्द्रियेभ्यः प्राणवायुभ्योऽन्तःकरणात्तदृत्तिभ्यश्च व्यतिरिक्तः, तेषां साक्षित्वेनै चिज्ज्यो- तिःस्वरूपः पुरुषः-इत्युक्तं भवति । स च पुरुषो लिङ्गशरीरतादात्म्याध्यासेन लिङ्गशरीरेण समानः सन्निहलोकपरलोकावनुसंचरवि' इति । वत्र विज्ञानमयो जीवो भवितुमर्हति, ज्योतिर्बाह्मण-शारीरब्राह्मणयोरादिमध्यावसानेषु संसारस्यैव प्रपश्यमानत्वात् । आदौ वावत्-"उभौ लोकावनुसंचरवि” इति संसारोक्तिः स्पष्टा । मध्ये च-संप्रसादस्वप्नान्तबुद्धान्तकण्डिकाभिरवस्थात्रयं प्रपञ्चयते । अन्तेऽपि "स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयः" इत्यादिना सोपाधिकस्व- रूपवर्णनेन संसार एवोच्यते । तस्मात्-जीवः ॥ इवि प्राप्ते, ब्रूमः-न वावज्जीवोऽत्र प्रतिपाद्यः, लौकिकादहंप्रत्ययादेव सिद्ध- त्वात् । किमर्थं वर्हि जीवाद्यभिधानम्-इति चेत् । प्राणाधुपाधिभ्यो विवेक्तुमादाव- भिधानम् । मध्येऽप्यवस्थात्रयसङ्गराहित्यं दर्शयितुमभिधीयते । अन्वे तूक्तजीवस्वरूप- मनूद्य वस्य ब्रह्मत्वं प्रतिपाद्यते । ब्रह्मत्वस्य मानान्तरेणीमाप्तत्वात् । तस्मात् ब्रह्मात्र प्रतिपाद्यम्, न तु जीवः । इति सिद्धम् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थमुनिप्रणीतायां वैयासि- कन्यायमालायां प्रथमाध्यायस्य तृतीयः पादः ॥ ३ ॥ भत्र पादे आदिवः भधिकरणानि १४ ३२ মুকালি ४३ १०७ in ... - - . (अथ प्रथमाध्यायस्य चतुर्थः पादः) ( प्रथमे कारणशरीरस्यैवाव्यक्तशब्दवाच्यताधिकरणे सूत्राणि-) आनुमानिकमप्येकेषामिति चेन्न शरीररूपकवि- न्यस्तगृहीतेर्दर्शयति च ॥ १॥ मूक्ष्मं तु तद हत्वात् ॥२॥ तदधीनत्वादर्थवत् ॥३॥ ज्ञेयत्वावचनाच्च ॥४॥ वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥५॥ त्रयाणामेव चैवमुप- न्यासः प्रश्नश्च ॥६॥ महदच ॥७॥ चतुर्थपादस्य प्रथमाधिकरणमारचयति- १ ख. व्यतिरेकः । २ ख. 'न ज्योतिः । ३ ख. ग. प्रसिद्धत्वात् । ४ ख. णाप्रतिपाद्यत्वा । ५ ख, ग. इति प्रथमाध्यायस्य तृतीयः पादः । - [अ०१पा०४भधि०१] वैयासिकन्यायमाला। ३७ कुतः-प्रत्यभि- महतः परमव्यक्तं प्रधानमथवा वपुः ॥ प्रधानं सांख्यशास्त्रोक्ततत्त्वानां प्रत्यभिज्ञया ॥ १॥ श्रुतार्थप्रत्यभिज्ञानात्परिशेषाच्च तद्वपुः ।। सूक्ष्मत्वात्कारणावस्थमव्यक्ताख्यां तदहति ॥ २ ॥ कठवल्लीषु तृतीयवहयामाम्नायते- "महतः परमव्यक्तमव्यक्तात्पुरुषः परः” इति । -अव्यक्तशब्देन सांख्याभिम प्रधानमभिधीयते । ज्ञानात् । महदव्यक्तपुरुषाः सांख्यशास्त्रे परापरभावेन यथा प्रसिद्धाः, तथैव श्रुती प्रत्यभिज्ञायन्ते । तस्मात्-अव्यक्तशब्दवाच्यं प्रधानम् ॥ इति प्राप्ते, ब्रूमः-अव्यक्तशब्दवाच्यं वपुर्भवितुमर्हति । पूर्ववाक्योक्तशरीरस्यात्र प्रत्यभिज्ञानात् । पूर्वस्मिन्वाक्ये शरीरादीनि रथादित्वेनोक्तानि---- "आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानोंहुर्विषयांस्तेषु गोचरान्" इति । वानि पूर्ववाक्योक्तानि वस्तूंन्यस्मिन्वाक्ये प्रत्यभिज्ञायन्ते । "इन्द्रियेभ्यः परा ह्या अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ।। महतः परमव्यक्तमव्यक्तात्पुरुषः परः" । इति स्मार्चप्रत्यभिज्ञानादपि औतं प्रत्यभिज्ञानं प्रत्यासन्नत्वात्पबलम् । नन्वेवमपि बहूनां प्रत्यभिज्ञायमानत्वाच्छारीरमेवाव्यक्तशब्दवाच्यम्-इति कुतो विनिगमः । 'परिशेषात्' इति ब्रूमः । तथाहि-पूर्वस्मिन्वाक्ये इन्द्रियार्थमनोबुद्धिर्शब्दैनिर्दिष्टाः पदार्थाः, उत्तरस्मिन्वाक्ये तैरेव शब्दैनिर्दिश्यन्ते । पूर्वत्राऽऽत्मशब्देन निर्दिष्टं वस्तूत्तरत्र पुरुषशब्देनोपदिष्टम् । उत्तरवाक्ये महच्छब्देन यदुक्तम् , तत्पूर्ववाक्ये बुद्धिशब्देन संगृहीवम् । बुद्धिर्हि द्विधा-अस्मदादीनां बुद्धिरेका, वत्कारणभूता हिरण्यगर्भबुद्धि- रपरा महच्छब्दवाच्या । तयोः पूर्वकत्वेन निर्दिष्टयोरुत्तरत्र भेदेन निर्देशः । एवं सवि पूर्ववाक्ये शरीरमेकं परिशिष्टम् , उत्तरवाक्ये चाव्यक्तशब्दः परिशिष्यते । न -एवं परिशेषेऽपि शरीरस्य स्पष्टत्वादव्यक्तशब्दवाच्यत्वमनुपपन्नम्-इवि शङ्कनी- १ ख. श्रुत्यर्थ । २ ग. 'दित्वोक्ता।३ ग. च । ४ ग. 'ह एव । ५ ग. 'यान्याहु । ६ ग, पूर्वोक्ता । ७ ग. 'स्तूनि यस्मि'। ८ ख. ग. शब्देन निर्दि' । ९ क. पूर्वत्मिनात्म'। ख. पूर्वमात्म'। १० क. ख. द्विविधा ११ क. "वं च स। ११ च- न ३८ श्रीभारतीतीर्थमुनिप्रणीता- [अ०१पा०४अधि०२] यम् , कारणावस्थापन्नस्य शरीरस्य सूक्ष्मत्वेनास्पष्टतयाऽव्यक्तशब्दार्हत्वात् । तस्मात्- अव्यक्तशब्दवाच्यं वपुः ॥ ( द्वितीये तेजोबन्नात्मकप्रकृतेरेवाजात्वाधिकरणे सूत्राणि-) चमसवदविशेषात् ॥८॥ ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥९॥ कल्पनो- पदेशाच्च मध्वादिवविरोधः ॥ १० ॥ द्वितीयाधिकरणमारचयति- अजेह सांख्यप्रकृतिस्तेजोबन्नात्मिकाऽथवा ॥ रजआदौ लोहितादिलक्ष्येऽसौ सांख्यशास्त्रगा॥३॥ लोहितादिप्रत्यभिज्ञा तेजोबन्नादिलक्षणाम् ।। प्रकृतिं गमयेच्छौतीमजाकृप्तिर्मधुत्ववत् ।। ४ ॥ श्वेताश्वतरोपनिषदि चतुर्थाध्याये श्रूयते-"अजामेकां लोहितशुक्नुकृष्णाम्" इति। अत्र-अजाशब्देन सांख्यशास्त्रोक्ता प्रधानशब्दवाच्या प्रकृतिर्विवक्षिवा । अथवा- छान्दोग्यश्रुतावुक्ता तेजोबन्नात्मिका प्रकृतिः, इति संदेहे, 'प्रधानम्' इति तावत्प्राप्तम् । कुतः- सत्त्वरजस्तमोगुणात्मत्वप्रवीतेः । यद्यपि लोहितशुक्ककैष्णवर्णा एव श्रूयन्ते, न तु गुणाः । तथाऽपि लोहितादिशब्दैर्गुणा लँक्ष्यन्ते । तत्र लोहितशब्देन रञ्जकत्व- साम्याद्रजोगुण उपलक्षितः, शुक्कशब्देन स्वच्छत्वसाम्यात्सत्त्वगुणः, कृष्णशब्देनाऽऽव- रक त्तमोगुणः । एवंसवि शास्त्रान्तरपतीविरनुगृहीता भवति । तस्मात्- . - . प्रधानम् ॥ इति प्राप्ते, ब्रूमः- "यदग्ने रोहितं रूपं तेजसस्तद्रूपम्, यच्छुक्वं तदपाम् , यत्कृष्ण वदन्नस्य" इति च्छान्दोग्ये तेजोबन्नात्मिकायाः प्रकवेलोहितशुक्लकृष्णरूपाणि श्रुती- न्येवात्र प्रत्यभिज्ञायन्ते । तेत्र औवप्रत्यभिज्ञायाः प्राबल्यात्, लोहिवादिशब्दानां मुख्यार्थसंभवाच्च तेजोबन्नात्मिका प्रकृतिरजेति गम्यते । यद्यपि-अजाशब्दश्छा- गवाचित्वान्नोक्तपकृतौ रूढः । नापि 'न जायते' इति योगः संभवति, वेजोबन्नानां ब्रह्मणो जातत्वात् । तथाऽपि च्छागत्वमुक्तपकृतौ सुखावबोधाय परिकल्प्यते । यथा- १. क. 'टस्याव्य । २ क. अजा हि सां। ३ ख. प्रतिज्ञाते ते। ४ क. क्षणम् । प्र। ग. क्षणा ।प्र। ५ क. ख. तत्र । ६ क. कृष्णा व । ७ क. उपलक्ष्यन्ते । ८ क. ख. 'नाप्याव। क. शाखान्त । १० क. 'याः प्राबल्यात्प्रकृ । ११ क. ख. तानि तान्ये । १२ क. ततः । १३ क. 'तिरेबेति।
.. - [अ०१पा०४अधि०३] वैयासिकन्यायमाला। ३९ आदित्यस्यामधुनो मधुत्वम् “असो वा आदित्यो देवमधु" इत्यादिवाक्येन परिकल्पि- वम् , तद्वत् । तस्मात्-तेजोबन्नात्मिका प्रकृतिरजा, न सांख्योपसंग्रहादपि । % 3D (तृतीये प्राणादीनामेव पञ्चजनत्वाधिकरणे सूत्राणि--) न संख्योपसंग्रहादपि नानाभावादतिरेकाच ११ ॥ प्राणादयो प्राणादयो वाक्यशेषात् ॥ १२॥ ज्योतिषैकेषामसत्यने ॥ १३ ॥ तृतीयाधिकरणमारचयति- पञ्च पञ्चजनाः सांख्यतत्त्वान्याहो श्रुतीरिताः ॥ प्राणायाः सांख्यतत्त्वानि पञ्चविंशतिभासनात् ॥ ५॥ न पञ्चविंशते नमात्माकाशातिरेकतः ॥ संज्ञा पञ्चजनेत्येषा प्राणाद्याः संज्ञिनः श्रुताः ॥ ६॥ बृहदारण्यके षष्ठाध्याये श्रूयते- "यस्मिन्पश्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्" ।। अस्यायमर्थः-'पञ्च पञ्चजना आकाशश्च यस्मिन्नाश्रिताः, तमेवाऽऽ श्रेयभूतमा. त्मानममृतं ब्रह्म मन्ये । इत्थं विद्वानहममृतो भवामि' इति । तत्र-'पञ्च पञ्चजनाः' इति पाक्ताः पदार्थाः किं सांख्यशास्त्रोक्ततत्त्वानि, आहोस्वित्-श्रुतिप्रोक्ताः प्राणचक्षुः- श्रोत्रमनोन्नसंज्ञकाः, इति संदेहे, 'सांख्यतत्त्वानि' इति तावत्याप्तम् । कुतः-पञ्च- विंशतिसंख्यायाः सांख्यशास्त्रपसिद्धाया अत्रावभासनात् । तथाहि-'पञ्च पञ्च' इति शब्दद्वयं श्रूयते । तत्रैकेन पञ्चशब्देन तत्त्वगता पञ्च संख्या विवक्षिता, द्वितीयेन पञ्चसंख्याविषयाऽपरा पञ्चसंख्या विवक्षिता । तथाच 'पञ्चसंख्याविशिष्टानि तत्त्वप- ञ्चकानि' इत्युक्तं भवति । ततश्च पञ्चभिः पञ्चकैः पञ्चविंशत्यवभासनात् ।। सांख्यतत्त्वानां प्राप्तौ ब्रूमः-यद्यपि पञ्चसंख्याविषयाऽपरा पञ्चसंख्या श्रूयते, तथाऽपि न पञ्चविंशतिरियं भवितुं शक्नोति, पञ्चविंशतिसंख्यानां तत्त्वानामाश्रयत्वे- नाऽऽत्मनोऽवभासनात् । नेह्ययमात्मा पञ्चविंशत्यन्तःपाती । तथाच सति 'एकस्यै- वाऽऽधेयत्वमाधारत्वं च' इति विरोधप्रसङ्गात् । आकाशोऽप्यपरः श्रूयते । न च वस्यापि १ क. ते अस्मि'। २ ख. 'श्रयमात्मा। ग. "श्रयात्मा। ३ ख. 'न्य इत्यर्थः । ई। ४ क. ख. संशये । ५ क. "तिनियन्तुं शक्यते श। ६ क. न स्वय' ।
४० . श्रीभारतीतीर्थमुनिप्रणीता- [अ०१पा०४आध०४] पञ्चविंशत्यन्तःपावित्वम् , “आकाशश्च" इति पृथनिर्देशसमुच्चययोविधानात् । तेत आत्माकाशाभ्यां सह सप्तविंशतिसंपत्तेर्न सांख्यतत्वानामत्रावकाशः । कस्वर्हि वाक्यार्थः--उच्यते-पञ्चजनशब्दोऽयं समस्तः संज्ञावाची,"दिक्संख्ये संज्ञायाम्" [ पा० सू० २।१। ५० ] इति समासविधानात् । ततः 'पञ्चजनसंज्ञकाः पदार्थाः पञ्चसंख्याकाः' इत्युक्तं भवति । संज्ञिनस्तु वाक्यशेषात्पाणादयोऽवगन्तव्याः। "प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमुतान्नस्यान्नम्, मनसो ये मनो विदुः" इति वाक्यशेषः । प्राणादीनां पञ्चानां साक्षी चिदात्मा द्वितीयः प्राणादिशब्दरभिधी- यते । तस्माद्वाक्यशेषात्प्राणादयः पञ्चजना भवेयुः ।। (चतुर्थे जगद्योनौ ब्रह्मण्येव वेदान्तवाक्यसमन्वयाधिकरणे सूत्रे-) कारणत्वेन चाऽऽकाशादिषु यथाव्यप- दिष्टोक्तः ॥१४॥ समाकर्षात् ॥१५॥ चतुर्थाधिकरणमारचयति- समन्वयो जगद्योनौ न युक्तो युज्यतेऽथवा ।। न युक्तो वेदवाक्येषु परस्परविरोधतः ।। ७ ॥ सर्गक्रमविवादेऽपि नासौ स्रष्टरि विद्यते ॥ अव्याकृतमसत्प्रोक्तं युक्तोऽसौ कारणे ततः॥ ८॥ योऽयं वेदान्तसमन्वयो जगत्कारणविषयः सास्त्रिभिः पादैः प्रतिपादितः, तमा- क्षिप्य समाधातुमयमारम्भः-'न युक्तोऽयं समन्वयः इति तावत्याप्तम् । कुतः- वेदान्तेषु बहुशो विरोधपतीतेः प्रामाण्यस्यैव दुःसंपादत्वात् । तथाहि-"आत्मन आकाशः संभूतः" इति तैत्तिरीयके वियदादन्प्रिति स्रष्टुत्वं श्रूयते, छान्दोग्ये- "वत्तेजोऽसृजत" इति वेज आदीन्प्रति । ऐतरेयके-"स इमाल्लोकानसृजव" इति लोकान्प्रति । मुण्डके--"एतस्माज्जायते प्राणः" इति पाणादीन्प्रति । न केवलं कार्यद्वारेणैव विरोधः, किंतु कारणस्वरूपोपन्यासेऽपि-"सदेव सौम्येदमग्र आसी- त्" इति च्छान्दोग्ये सद्रूपत्वं कारणस्यावगम्यते । तैत्तिरीयके-"असद्वा इदमग्र आसीत्" इत्यसद्रूपत्वम् । ऐतरेयके तु-"आत्मा वा इदमेक एवाग्र आसीत्" इत्यात्मरूपत्वम् । अतो विरोधान्न समन्वयः ॥ इति प्राप्ते, ब्रूमः-भवतु नाम सृष्टेषु वियदादिषु तत्क्रमे च विवादः। वियदादी- १ क. ख. 'विरोधात् । २ क. ख. अत । ३ ग. शेषे प्रा । ४ क. 'ते । एत। ५ क. ख. सृज्येषु ।
[अ०१पा०४अधि०५] वैयासिकन्यायमाला। ४१ नामवात्पर्यविषयत्वादद्वितीयब्रह्मबोधायैवं तदुपन्यासः । तात्पर्यविषये तु जगत्स्रष्टरि ब्रह्मणि न वापि विरोधोऽस्ति । क्वचित्सच्छब्देनोक्तस्य ब्रह्मणोऽन्यत्र सर्वजीवस्वरू- पविवक्षयाऽऽत्मशब्देनाभिधानात् । यत्तु-असच्छब्देनाभिधानम्, वदव्याकृतत्वाभि- धानाभिप्रायम् । न त्वत्यन्ताभावाभिप्रायम् , “कथमसतः सज्जायेत" इति श्रुत्यन्त- रेणाभावस्य कारणत्वनिषेधात् । तस्मात्-एकवाक्यतायाः सुसंपादत्वाधुक्तो जग. कारणे समन्वयः ।। (पञ्चमे परमात्मन एव जगत्कर्तृत्वाधिकरणे सूत्राणि-) जगद्दाचित्वात् ॥ १६ ॥ जीवमुख्यप्राणलिङ्गा- नेति चेत्तयाख्यातम् ॥ १७॥ अन्यार्थ तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥१८॥ पञ्चमाधिकरणमारचयति- पुरुषाणां तु कः कर्ता प्राणजीवपरात्मसु ।। कर्मेति चलने प्राणो जीवोऽपूर्व विवक्षिते ।। ९ ॥ जगद्वाची कर्मशब्दः पुंमात्र विनिवृत्तये ।। तत्कर्ता परमात्मैव न मृषावादिता ततः ॥ १० ॥ कौषीतकिब्राह्मणोपनिषदि बालाकिनाम्ना ब्राह्मणेनाऽऽदित्यादिषु षोडशसु पुरुषेषु ब्रह्मत्वेनोक्तेषु राजा वान्निराकृत्य स्वयमाह-“यो वै बालाके, एतेषां पुरुषाणां कर्ता, यस्य वै तत्कर्म, स वै वेदितव्यः" इति । अत्र त्रेधा संशये सति 'प्राणः' इति ताव- त्याप्तम् । कुतः--कर्मशब्दस्य चलनवाचित्वात् । देहादिचालनस्य प्राणसंबन्धि- त्वात् । अथवा-पुरुषाणां कर्ता जीवो भवेत् । कुतः कर्मशब्दस्यापूर्ववाचित्वात् । जीवस्य चापूर्वस्वामित्वात् । सर्वथा न परमात्मा ।। इति प्राप्ते, ब्रूमः-नात्र कर्मशब्दश्चलने वर्तते,नाप्यपूर्वे । किंत्वयं जगद्वाची, 'क्रियव इति कर्म' इति व्युत्पत्तेः । सवि जगद्वाचित्वे कर्मशब्दः सप्रयोजनो भविष्यति, पुरुषमात्रकर्तृत्वशङ्कानिवृत्त्यर्थत्वात् । तथाच श्रुतिवाक्याक्षराण्येवं योजयितव्यानि 'हे बालाके त्वदुक्तानां पुरुषाणां षोडशानां यः कर्वा स एव वेदितव्यः । न तु ते पुरुषाः । अथवा किमनेन 'षोडशानां कर्ता' इति संकोचेन-एतत्कृत्स्नं जगद्यस्य १ क. व हि त । २ ख विवादोऽस्ति । ३ क. ख. वाभिप्रा । ४ क. रे चाभा । ख. 'रेऽभा । ५. ग. कर्माति' । ६ क. पूर्वो वि । ग. पूर्ववि। ७ ख. ग. 'स्य चैत । ८ क. 'दिचल । ९ क. ख. वस्यापू। ते ६ ४२ श्रीभारतीतीर्थमुनिप्रणीता [अ०१पा०४अधि०६] कार्यम्, 'स एव वेदितव्यः' इति । कृत्स्नजगत्कर्तृत्वं च परमात्मन एव । न जीवपा- णयोः। एवं सति राज्ञो मृषावादित्वदोषो न भवति, "ब्रह्म ते ब्रवाणि" इति प्रति- ज्ञाय षोडश पुरुषान्ब्रुवतो बालाके: "मृषा वै किल"-इत्यनेन मृषावादित्वमापाद्य राजा स्वयं ब्रह्म विवक्षुर्यदि पाणजीवौ ब्रूयात्, तदा बालाकरिव राज्ञो मृषावादित्वं स्यात् । तच्चायुक्तम् । तस्माद्-वाक्योक्तो जगत्कर्ता परमात्मैव ।। 14 ॥ . (षष्ठे परमात्मन एव दर्शनयोग्यात्मत्वाधिकरणे सूत्राणि-) वाक्यान्वयात् ॥ १९ ॥ प्रतिज्ञासि द्वेर्लिङ्गमाश्मरथ्यः ॥ २० ॥ उत्क्राम- ष्यत एवंभावादित्यौडुलोमिः ॥ २१ ॥ अवस्थितरिति काशकृत्स्नः ॥ २२ ॥ षष्टाधिकरणमारचयति- आत्मा द्रष्टव्य इत्युक्तः संसारी वा परेश्वरः ।। संसारी पतिजायादिभोगप्रीत्याऽस्य सूचनात् ॥ ११ ॥ अमृतत्वमुपक्रम्य तदन्तेऽप्युपसंहृतम् ॥ संसारिणमनूद्यातः परेशत्वं विधीयते ॥ १२ ॥ बृहदारण्यके चतुर्थाध्याये मैत्रेयी भार्यां प्रति याज्ञवल्क्यः पतिरुपदिशनि- आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इति । अत्र- आत्मनि द्वेधा संदिग्धे सति 'संसारी' इति तावत्याप्तम् । कुतः-"न वा अरे पत्युः कामाय पतिः प्रियो भवति, आत्मनस्तु कामाय पतिः प्रियो भवति" इत्यादिवाक्यै- भोंगप्रीतियुक्तस्याऽऽत्मनः संसारित्वसूचनात् । अयमत्र वाक्यार्थः- 'पत्यौ प्रीति कुर्वती जाया न पत्युः सुखाय प्रीति करोति । किंतु स्वसुखायैव । एवं पतिपुत्रादयोऽपि स्वस्वभोगायैवेतरत्र प्रीतिं कुर्वन्ति, इति भोगश्च नासङ्गस्येश्वरस्यावकल्प्यते । तस्मात्- संसारी। इति प्राप्ते, ब्रूमः-एतद्वाक्योपक्रमे मैत्रेयी वित्तसाध्येन कर्मणां किं ममामृतत्वं स्यात्' इति पप्रच्छ । याज्ञवल्क्यस्तु “अमृतस्य तु नाऽऽशाऽस्ति वित्तेन" इति 'अमृतत्त्वं प्रत्याशाऽपि कर्मणा नास्ति' इत्युत्तरमाह । ब्राह्मणावसानेऽपि"एतावदरे खल्वमृतत्वम्" इत्युपसंहृतम् । अत उपक्रमोपसंहारवशादमृतत्वसाधनमात्मज्ञानमत्र प्रतिपाद्यम् । १ क. प्रीतस्य । ग. 'प्रीत्यस्य । २ ख. ग. 'सङ्गेश्व । ३ स्व. ग. °णा किम। ४ क. ख. 'नमात्रं प्र।
[अ०१पा०४अधि०७] वैयासिकन्यायमाला। ४३ जीवात्मज्ञानं च नामृतत्वसाधनम् । तस्मात्-भोगप्रीतिमूचितं जीवमनूद्य तस्य ब्रह्मत्वं प्रतिपाद्यते || साक्षाचो- (सप्तमे ब्रह्मण एवोपादाननिमित्तकारणत्वाधिकरणे सूत्राणि-) प्रकृतिश्च प्रतिज्ञादृष्टान्तानुरोधात् ॥२३॥ अभिध्योपदेशाच ॥ २४ ॥ अयानानात् ॥२५॥ आत्मवृत्तेः परि- णामात् ॥ २६ ॥ योनिश्च गीयते ॥२७॥ सप्तमाधिकरणमारचयति निमित्तमेव ब्रह्म स्यादुपादानं च वीक्षणात् ।। कुलालवनिमित्तं तन्नोपादानं मृदादिवत् ॥ १३ ॥ बहु स्यामित्युपादानभावोऽपि श्रुत ईक्षितुः ।। एकबुद्धया सर्वधीश्च तस्माद्ब्रह्मोभयात्मकम् ॥ १४ ॥ जगत्कारणत्वप्रतिपादकानि सर्वाणि वाक्यानि विषयः । तत्र-'किं ब्रह्म निमि- चकारणमेव, उत-उपादानकारणमपि' इति संदेहे 'निमित्तकारणमेव' इति तावत्मा- पम् । कुतः-“दैक्षत"- इति सृज्यकार्यविषयपालोचनश्रवणात् । पर्यालोचनं च निमित्तभूते कुलालादावेव दृष्टम् । नोपादानभूतमृदादौ । तस्मात्-निमित्तकारण- मेव ।। इति प्राप्ते, ब्रूमः-"तदैक्षव बहु स्यां प्रजायेय' इवीक्षितुरेव प्रकर्षणोत्पत्त्या बहुभावः श्रूयते । तत उपादानत्वमस्ति । किंच “येनाश्रुतं श्रुतं भवति" इत्यादिना ब्रह्मण्येकस्मि- छूते सति, अश्रुतमपि जगच्छ्रतमेव भवति' इति प्रतिपाद्यते । तदेकविज्ञानेन सर्ववि- ज्ञानं च । तच्च ब्रह्मणः सर्वोपादानत्वे सति ब्रह्मव्यविरेकेण कार्याणाममावादुपपादयितुं सुशकम् । केवलनिमित्तत्वे तु सर्वेषु कार्येषु ब्रह्मव्यतिरिक्तेषु सत्सु कथं नामैकविज्ञानेन सर्वविज्ञानं प्रतिपाद्यते । तस्मात्-उभयविधकारणं ब्रह्म । १ ग. 'चितजी | २ क. वेक्षणात् । ३ ग. "नि वा । ४ क. ख. 'लाल एव । ५ क. ख. 'भूतायां मृदि । त'। ६ क. णोत्तरं न ब। ग. जोत्पाद्य ब। ७ क. ख. सर्वमिदं विज्ञातम् । तौं । ८ क. तत्र । ९ ग. 'र्वेक्तव्यतिरेकेषु ।
४४ • - श्रीभारतीतीर्थमुनिप्रणीता [अ०१पा०४अधि००० (अष्टमे ब्रह्मण एव जगत्कारणत्वाधिकरणे सूत्रम्-) एतेन सर्व व्याख्याता व्याख्याताः॥ २८ ॥ भष्टमाधिकरणमारचयति- अण्वादेरपि हेतुत्वं श्रुतं ब्रह्मण एव वा ॥ वटधानादिदृष्टान्तादण्वादेरपि तच्छ्रुतम् ॥ १५ ॥ शून्याण्वादिष्वेकबुद्धया सर्वबुद्धिर्न युज्यते ॥ स्युब्रह्मण्यपि धानाद्यास्ततो ब्रह्मैव कारणम् ॥ १६ ॥ वेदान्ता विषयः । तत्र 'किं ब्रह्मण इव परमाणुशून्यादीनामपि श्रीवं कारणत्वम- स्ति, अथवा—सर्वत्र ब्रह्मण एव कारणत्वं प्रतिनियतम् , इति संशयः । अण्वादेरपि कारणत्वं श्रौवम् । वटधानादिदृष्टान्त श्रवणात् । तथा हि-छान्दोग्ये षष्ठाध्याये श्वेतकेतुं प्रत्युपदिशनुद्दालकः सूक्ष्मतत्त्वे स्थूलस्य जगतोऽन्तर्भावं प्रतिपादयितुं महावृ- क्षगर्भिवानि वटबीजानि दृष्टान्तत्वेनोदाजहार । अतस्तादृशाः परमाणवो दान्तिके श्रुता भवन्ति । शून्यस्य तु "असद्वा इदमय आसीत्" इति साक्षादेव कारणत्वं श्रुतम् । “स्वभावमेके कवयो वदन्ति, कालं तथाऽन्ये" इति स्वभावकालपक्षौ श्रुतौ । तस्मात्परमाण्वादीनामपि औतं कारणत्वम् ।। इति प्राप्ते, ब्रूमः----एकविज्ञानेन सर्वविज्ञानं शून्यादिमतेषु नोपपद्यते दिमिरजन्यस्य ब्रह्मणः शून्यादिज्ञानेनाज्ञावत्वात् । धानादृष्टान्तस्तु ब्रह्मण्यपीन्द्रिया- गम्यतया सूक्ष्मत्वादुपपद्यते । असच्छब्दस्य नामरूपराहित्याभिप्रायश्चतुर्थाधिकरणे वर्णितः । स्वभावकोलपक्षौ पूर्वपक्षत्वन । तस्मात्-ब्रह्मैव श्रुत्यभि- हितं जगत्कारणं, न परमाण्वादीनि, इति सिद्धम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां प्रथमाध्यायस्य चतुर्थः पादः समाप्तः॥४॥ ॥ समाप्तश्च प्रथमोऽध्यायः ॥ १ ॥ आदितः अधिकरणानि सूत्राणि २८ १३५ । शून्या- तु श्रुत्योपन्यस्तो अत्र पादे ४० , क. "पि किं तत्त्वं । २ ख. 'दान्तविषयाः। त।३ क. "पि क्वचिजगत्कारणत्वं श्रुतमस्ति । ४ ख. श्रुतम् । ५ ख. 'यितुमाह । ६ क. ख. 'न्तिकत्वेन श्रु'। ७ क. 'मते नों'। ८ ख. मतमत्वा । ९ क. कालौ तु | १० क. स्व. ण्वादि, इ।
[अ०२पा०१अधि०१-२] वैयासिकन्यायमाला। ४५ (अथ द्वितीयाध्यायस्य प्रथमः पादः) (प्रथमे सांख्यस्मृतेर्बाध्यत्वाधिकरणे सूत्रे--) स्मृत्यनवकाशदोषप्रसङ्ग इति चेनान्यस्मृत्यन- वकाशदोषप्रसङ्गात् ॥ १॥ इतरेषां चानुप- लब्धेः॥२॥ प्रथमाधिकरणमारचयति- सांख्यस्मृत्याऽस्ति संकोचो न वा वेदसमन्वये ।। धर्मे वेदः सावकाशः संकोचोऽनवकाशया ॥ १ ॥ प्रत्यक्षश्रुतिमूलाभिर्मन्वादिस्मृतिभिः स्मृतिः ॥ अमूला कापिली बाध्या न संकोचोऽनया ततः॥२॥ अस्मिन्पादे सर्वेष्वधिकरणेषु पूर्वाध्यायोक्तः समन्वयो विषयः । तत्रास्मिन्नविक- रणे वैदिकस्य समन्वयस्य सांख्यस्मृत्या संकोचोऽस्ति न वा' इति संदेहः । 'संको- चोऽस्ति, इति तावत्प्राप्तम् । कुतः-सांख्यस्मृतेरैनवकाशत्वेन प्रबलत्वात् । सांख्य- स्मृतिर्हि वस्तुतत्त्वनिरूपणायैव प्रवृत्ता, न त्वनुष्ठेयं धर्म क्वचिदपि प्रतिपादयति । यदि वस्मिन्नपि वस्तुन्यसौ बाध्येत, तदा निरवकाशा स्यात् । वेदस्तु धर्मब्रह्मणी प्रतिपादयन्ब्रह्मण्येकस्मिन्बाध्यमानोऽपि धर्मे सावकाशः स्यात् । तस्मात्-अनवका- शया स्मृत्या सावकाशस्य वेदस्य संकोचो युक्तः ।। इति प्राप्ते, ब्रूमः-सांख्यस्मृत्या वेदस्य संकोचो न युक्तः। कुतः--मन्वादि- स्मृतिभिर्ब्रह्मकारणत्ववादिनीभिर्बाधितत्वात् । प्रबला हि मन्वादिस्मृतयः प्रत्यक्षवेदमूल- कत्वात् । न वा कपिलस्मृतेः प्रधानकारणवादिन्या मूलभूतं कंचन वेदमुपलभामहे दृश्यमानवेदवाक्यानां ब्रह्मपरत्वस्य पूर्वमेव निर्णीतत्वात् । तस्मात्-न सांख्यस्मृत्या - , . वेदस्य संकोचो युक्तः ॥ . (द्वितीये योगस्मृतेर्बाध्यत्वाधिकरणे सूत्रम्-) एतेन योगः प्रत्युक्तः ॥३॥ द्वितीयाधिकरणमारचयति- १ ख. 'कस । २ क. 'तेर्निरव । ३ ख. 'स्तुनि । ४ ग. नसौ वार्यते तदा । ५ क. स्व. 'लत्वा । ६ क ख. 'था कापि । ७ ख. 'दमूलमु।
. ४६ श्रीभारतीतीर्थमुनिप्रणीता- [भ-२पा०१अवि०३] योगस्मृत्याऽस्ति संकोचो न वा योगो हि वैदिकः ॥ तत्त्वज्ञानोपयुक्तश्च ततः संकुच्यते तया ॥ ३ ॥ प्रमाऽपि योगे तात्पर्यादतात्पर्यान सा प्रमा॥ अवैदिके प्रधानादावसंकोचस्तयाऽप्यतः ॥ ४॥ योगस्मृतिः पातञ्जलं शास्त्रम् । तत्रोक्तोऽष्टाङ्गयोगः प्रत्यक्षवेदेऽप्युपलभ्यते । श्वेताश्वतरादिशाखासु योगस्य प्रपञ्चितत्वात् । किंचायं योगस्तत्त्वज्ञानोपयोगी "दृश्यते त्वय्यया बुद्धयो" इति योगसाध्यस्य चित्तैकाग्यस्य ब्रह्मसाक्षात्कारहेतुत्व- श्रवणात् । ततः प्रमाणभूतं योगशास्त्रम् । वैच्च प्रधानस्य जगत्कारणतां वक्ति । तस्मात्-योगस्मृत्या वेदस्य संकोचः ।। इति प्राप्ते, ब्रूमः-अष्टाङ्गयोगे तात्पर्यवत्त्वात्पमाणभूताऽपि सवी योगस्मृतिरवैदिके प्रधानादौ न प्रमाणम्, वत्र तात्पर्याभावात् । तथा हि-"अथ योगानुशासनम्" इति प्रतिज्ञाय "योगश्चित्तवृत्तिनिरोधः" इति योगस्यैव लक्षणमुक्त्वा वमेव कृत्स्नशास्त्रे प्रपञ्चयामासेवि तत्र योमे तात्पर्यम् । न प्रधानादीनि प्रतिपाद्यवया प्रतिजज्ञे । किंतर्हि द्वितीयपादे यमादिसाधनप्रतिपादके हेयं हेयहेतुं हानं हानहेतुं विवेचयन्प्रस- ङ्गात्सांख्यस्मृतिसिद्धानि प्रधानादीनि व्याजहार । ततो न तत्र तात्पर्यम् । तस्मात्-न योगस्मृत्या वेदस्य संकोचः ।। ( तृतीये वैलक्षण्याभासस्य जगत्कारणत्वाबाधकत्वाधिकरणे सूत्राणि- न विलक्षणत्वादस्य तथात्वं च शब्दात ॥४॥ अभिमानिव्यपदेशस्तु विशेषानुग- तिभ्याम् ॥५॥ दृश्यते तु ॥६॥ अस- दिति चेन्न प्रतिषेधमात्रत्वात् ॥ ७॥ अपीतौ तद्वत्प्रसादसमञ्जसम् ॥ ८॥ न तु दृष्टान्तभावात् ॥ ९ ॥ स्वपक्षदोषाच ॥ १०॥ तर्काप्रतिष्ठानादप्यन्यथाऽनुमेय- मिति चेदेवमप्यविमोक्षप्रसङ्गः ॥ ११ ॥ तृतीयाधिकरणमारचयति- १ ग. योगः पा । २ ग. 'तरोपनिषदि यो। ३ क. 'झ्या सूक्ष्मया सक्ष्मदर्शिभिरिति । ४ च. 'साध्यैकस्य । ५ ग. तत्त्वप्र। । ५ ग. तत्त्वप्र । ६ क. 'योगतावत्प्र । म. 'योगे तात्पर्यात्न'। ७ क. यमनियमा। ख. यमनियमासनम । ८ क. ख. 'तिसि । . ..
[अ०२पा अधि०४] वैयासिकन्याय माला । वैलक्षण्याख्यतर्केण बाध्यतेऽथ न बाध्यते ।। बाध्यते साम्यनियमात्कार्यकारणवस्तुनोः॥५॥ मृद्घटादौ समत्वेऽपि दृष्टं वृश्चिककेशयोः ।। स्वकारणेन वैषम्यं तकाभासो न बाधकः ॥ ६॥ 'अचेतनं जगच्चेतनाब्रह्मणो न जायते विलक्षणत्वात् । यद्यस्माद्विलक्षणं, तत्त- स्मान जायते । यथा गोर्महिषः' इत्यनेन तर्केण समन्वयो बाध्यते ।। इति प्राप्ते, ब्रूमः-'ये ये कार्यकारणे ते ते सलक्षणे' इत्यस्या व्याप्तेर्वृश्चिकादौ व्यभिचारो दृश्यते । अचेतनाद्गोमयावृश्चिकस्य चेतनस्योत्पत्तेः । चेतनात्पुरुषादचेत- नानां केशनखादीनामुत्पद्यमानत्वात् । अतो वेदनिरपेक्षः शुष्कतों न कापि प्रविति- ष्ठति । तदुक्तमाचार्यैः- "यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते " इति । तस्मात्-आभासत्वाद्वैलक्षण्यहेतुर्न बाधकः ।। (चतुर्थे काणादादिमतैबाध्यत्वाभावाधिकरणे सूत्रम्-) एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२॥ चतुर्थाधिकरणमारचयति- बाधोऽस्ति परमाण्वादिमतैनॊ वा यतः पटः॥ न्यूनतन्तुभिरारब्धो दृष्टोऽतो बाध्यते मतैः ॥७॥ शिष्टेष्टाऽपि स्मृतिस्त्यक्ता शिष्टत्यक्तमतं किमु । नातो बाधो विवर्ते तु न्यूनत्वनियमो न हि ॥ ८ ॥ सांख्ययोगस्मृतिभ्यां वदीयतर्केण बाधो मा भून्नाम, कणादबुद्धादिस्मृतिभिस्तदी- यतर्केण च समन्वयोऽपि बाध्यताम् | कणादो हि महर्षिः परमाणूनां जगत्कारणत्वं स्मरति स्म, तर्क च तस्मिन्नर्थे मोवाच-'विमतं द्वणुकादिकं स्वस्मान्यूनपरिमाणेनाऽऽरब्धं, कार्यद्रव्यत्वात्, यथा वन्तुभिः पटः' इति । बुद्धश्च भगवतो विष्णोरवतारोऽभावं जग- द्धेतुं स्मरति स्म । तकं च तदनुकूलमाह-विमतं भावरूपं जगदाभवपुरःसरं भावरूप- त्वात्, यथा-'सुषुप्तिपुरःसरः स्वप्नप्रपञ्चः' इति । तस्मात्-तैः प्रबलैः कणादादि- मतैावितः॥ PM १ क. ख. ययेन विल । २ ख. ततो । ३ क यथा । ४ क. ख. परमर्षिः। ५ क. ख. बर्बाधः। इ।
४८ श्रीभारतीतीर्थमुनिप्रणीता- [अ०२पा०१अवि०५] इति प्राप्ते, ब्रूमः-यदा वैदिकशिरोमणिभिः पुराणकर्तृभिस्तत्र तत्र प्रसङ्गादुदा- हेतो प्रकृतिपुरुषादिप्रतिपादिका सांख्ययोगस्मृतिर्जगत्कारणविषये दौर्बल्येन परि- त्यक्ता । तदा निखिलैः शिष्टैरुपेक्षितानां कणादादिमतानां दौर्बल्यम्-इति किमु वक्तव्यम् , न खलु-ब्राह्मपामादिपुराणेषु क्वचिदपि प्रसङ्गावयणुकादिप्रक्रियोदा- हृता । प्रत्युत- "हैतुकान्बकवृत्ताश्च वाङ्मात्रेणापि नार्चयेत्" । इति बहुशो निन्दोपलभ्यते । यस्तु-न्यूनारभ्यत्वनियम उक्तः, न्यूनारभ्यत्वनियम उक्तः, नासौ विवर्तवा- देऽस्ति । दूरस्थस्य पर्वताग्रस्थितैर्महद्भिर्व क्षैरत्यल्पदूर्वाग्रभ्रमस्य जन्यमानत्वात् । यदपि- अभावपुरःसरत्वानुमानम् , तत्रापि साध्यविकलो दृष्टान्तः । सुषुप्तेरवस्थास्वेवावस्थाना- दात्मनः सद्रूपस्याङ्गीकरणीयत्वे सति खनैस्याप्यभावपुरःसरत्वाभावात् । तस्मात्- एतैर्मतैर्नास्ति बाधः ॥ . (पञ्चमे द्वैतस्य भोक्तृभोग्याकारभासमानत्वाधिकरणे सूत्रम्-) भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ १३॥ पञ्चमाधिकरणमारचयति- अद्वैत बाध्यते नो वा भोक्तृभौग्यविभेदतः ॥ प्रत्यक्षादिप्रमासिद्धो भेदोऽसावन्यबाधकः ॥ ९ ॥ तरङ्गफेनभेदेऽपि समुंद्रेऽभेद इष्यते ॥ भोक्तृभोग्यविभेदेऽपि ब्रह्माद्वैतं तथाऽस्तु तत् ॥ १० ॥ समन्वयेनावगम्यमानमद्वैत प्रत्यक्षादिसिद्धेन भोक्तृमोग्यभेदेन बाध्यते । इति चेत् । न । तरङ्गादिरूपेण भेदस्य, समुंद्ररूपेणाभेदस्य च दृष्टत्वेन भेदाभेद- योर्विरोधाभावात् । भेदाभेदविरोधव्यवहारस्याऽऽकारभेदेनापि रहितेऽत्यन्तमेकस्मिन्नपि वस्तुनि सावकाशत्वात् । तस्मात् ब्रह्माकारेणाद्वैतम् , भोक्तृभोग्याकारेण द्वैवम्' इत्याकारभेदाद्यवस्थासिद्धौ न कोऽपि बाधः ॥ ११ . । । १ क. हृतः । २ ग. ता प्रतिपादिता प्र। ३ क. ख. स्थप। ४ क. ख. स्थात्वेनाव- स्थावत आत्म। ५ क. ख. प्रस्य भावपुरःसरत्वात् । ६ ख. प्रसिद्धोऽतो में । ७ स. वस्य बा। क. ख मुद्राभे । ९ ख. दिप्रसि १० ख. मुद्रादिरू | ११ ख. 'पि गृहीतत्वादेक' A [भ०२पा०१अधि०६] वैयासिकन्यायमाला। (षष्ठे ब्रह्मण्यद्वैतस्यैव तात्त्विकत्वाधिकरणे सूत्राणि-) तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥ भावे चोपलब्धेः॥१५॥सत्त्वाच्चावरस्य॥१६॥ असद्यपदेशानेति चेन्न धर्मान्तरेण वाक्यशे- षात् ॥ १७॥ युक्तेः शब्दान्तराञ्च ॥ १८ ॥ पटवच्च ॥ १९॥ यथा च प्राणादि ॥२०॥ षष्ठाधिकरणमारचयति- भेदाभेदौ तात्त्विको स्तो यदि वा व्यावहारिकौ ।। समुद्रादाविव तयोर्बाधाभावेन तात्त्विकौ॥ ११ ॥ बाधितौ श्रुतियुक्तिभ्यां तावतो व्यावहारिको ।। कार्यस्य कारणाभेदादद्वैतं ब्रह्म तात्त्विकम् ॥ १२ ॥ स्पष्टौ संदेहपूर्वपक्षौ । “नेह नानाऽस्ति किंचन" इति श्रुतिर्भेदं बाधते । युक्तिश्च परस्परोपमर्दात्मकयोर्मेदाभेदयोरेकत्रासंभवः । एकस्मिश्चन्द्रमसि द्वित्वासंभवात् । यदुक्तं पूर्वाधिकरणे--आकारभेदानेदः-इति । तदप्यसत्, अद्वैतवस्तुन्याकारभेदस्यैवाप- विपत्तेः । समुद्रादौ तु दृष्टत्वाभ्युपगम्यते । 'न हि दृष्टेऽनुपपन्नं नाम' इति न्यायात् । अत्रापि ब्रह्माकारजगदाकारौ दृष्टौ-इति चेत् । न । ब्रह्मणः शास्त्रैकसमधि- गम्यत्वात् । तस्मात्-श्रुतियुक्तिबाधितत्वाव्यावहारिको भेदाभेदौ । किं वर्हि तत्त्वम्- इति चेत्-अद्वैतमेव तत्त्वम्---इति ब्रूमः । कार्यस्य कारणानतिरेकेण कारणमात्रस्य वस्तुत्वात् । तथाच श्रुविर्मृत्तिकादिदृष्टान्तैः कारणस्यैव सत्यत्वं प्रतिपादयवि "यथा सोम्यैकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो नाम- धेयं मृत्तिकेत्येव सत्यम् । एवं सोम्य स आदेशः" इति । अस्यायमर्थः-ग्रौढो मृत्पिण्डः कारणम् , तद्विकारो घटशरावादयः । तत्र-'मृद्वस्त्वन्यत् , घटादीनि चान्यानि वस्तूनि' इति तार्किका मन्यन्ते । वत्र घटादीनां पृथग्वस्तुत्वनिरासाय विकारशब्देन श्रुतिस्तान्युदाहरति । मृदस्तुनो विकाराः संस्थानविशेषा घटादयो न पृथग्वस्तुभूताः । यथा देवदत्तस्य बाल्ययौवनस्थाविरादयः, तद्वत् । एवं सवि घटाद्या- कारप्रतिभासदशायामपि मृन्मानं स्वतत्रं वस्तु । ततो मृधवगतायां घटादीनां यत्तात्त्विकं खरूपं तत्सर्वमवगतम्-आकारविशेषो न ज्ञायते-इति चेत् । मा ज्ञायतां नाम | १ ख. तावेतौ । २ ख. 'क्तिस्तु प । ३ क. वासंघ। ख. वाप्राप्तः । स । ४ ख. दवग ५ खः 'कगम्य । ६ ख. 'त्वान्न व्याव । ७ ख. 'णाव्यति। ८ क. ख. 'स्तान्व्यवह। .
५० श्रीभारतीतीर्थमुनिप्रणीता- [अ०२पा०१अधि०७] तेषामवस्तुभूतानामजिज्ञासाहत्वात् । चक्षुषा प्रतिभासमाना अपि विकारा निरूपिताः सन्तो मृद्ध्यतिरेकेण न स्वरूपं किंचिल्लभन्ते । 'घटोऽयं, शरावोऽयम्' इति वानिष्पा. धनामधेयमात्रं लभन्ते । अतो निर्वस्तुकत्वे सत्युपलभ्यमानत्वरूपेण मिथ्यात्वलक्षणे- नोपेतत्वादसत्या विकाराः । मृत्तिका तु विकारव्यतिरेकेणापि स्वरूपं लभते, इति सत्या । तथा ब्रह्मोपदेशोऽवगन्तव्यः, ब्रह्माण मृत्तिकान्यायस्य, जगति घटादिन्या- यस्य योजयितुं शक्यत्वात् । तस्मात्-जगतो ब्रह्माभेदादद्वतं ब्रह्म तात्त्विकम् । एवंविधविचारशून्यानां पुरुषाणामापातदृष्टया वेदेनाभ्युपेवाद्वितीयब्रह्मपतिपत्तेः प्रत्य- क्षादिभिर्भेदप्रतिपत्तेश्च सद्भावात्समुद्रतरङ्गन्यायेन भेदाभेदाववभासेते । तस्मात्-व्याव- हारिकाविति स्थितिः ।। , स ( सप्तमे परमेश्वरस्य हिताहितभागित्वाभावाधिकरणे सूत्राणि-) इतरव्यपदेशाद्विताकरणादिदोषप्रसक्तिः ॥२१॥ अधिकं तु भेदनिर्देशात् ॥२२॥ अश्मादिवच्च तदनुपपत्तिः ॥ २३ ॥ सप्तमाधिकरणमारचयति हिताक्रियादि स्यानो वा जीवाभेदं प्रपश्यतः ।। जीवाहितक्रिया स्वार्था स्यादेषा नहि युज्यते ।। १३ ॥ अवस्तु जीवसंसारस्तेन नास्ति मम क्षतिः॥ इति पश्यत ईशस्य न हताहितभागिता ॥ १४ ॥ परमेश्वरो हि केषांचिज्जीवानां संसारसक्तानां वैराग्यादिकं हितं न निर्मिमीते, अहितं च नरकहेतुमधर्म निर्मि मीते । निर्मिमाणश्च स्वस्य जीवैरभेदं सर्वज्ञतया पश्यति । तस्मात्-वस्यैव हिवाकरणम् , अहितकरणं च प्रसज्येयाताम् । एतच्च न युक्तम् । नाई प्रेक्षावान्कश्चित्स्वस्य हितं न करोति, अहिवं वा करोति । तस्मात्-हिताकरणादिदोषः ।। - इति प्राप्ते, ब्रूमः-सर्वज्ञत्वौदीश्वरो जीवसंसारस्य मिथ्यात्वं स्वस्य निलेपत्वं च पश्यति । अतो-न हिताहितभाक्त्वदोषः ।। -- १ क. तेषां व । २ क. पं लभ'। ३ क. नस्वरू। ४ क. नोक्तवा। ५ क. 'पेयाद्वैत- ब्र। ६ ख. 'ब्रह्माप्र । ७ ग. 'दिभेद । ८ क. ख स्थितम् । ९ ग. स्वात्मा । १० ख. 'सारास। ५१ ख. 'णस्य स्व'। १२ क. वादेवेश्व'।
. । [अ०२पा०१अधि०८-९] वैयासिकन्यायमाला । ५१ ( अष्टमेऽद्वितीयब्रह्मण एव नानाविधसृष्टिकर्तृत्वाधिकरणे सूत्रे-) उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ ॥ २४ ॥ देवादिवदपि लोके ॥२५॥ अष्टमाधिकरणमारचयति न संभवेत्संभवेद्वा सृष्टिरेकाद्वितीयतः ॥ नानाजातीयकार्याणां क्रमाज्जन्म न संभवि ॥ १५॥ अद्वैत तत्त्वतो ब्रह्म तच्चाविद्यासहायवत् ।। नानाकार्यकरं कार्यक्रमोऽविद्यास्थशक्तिभिः ॥ १६ ॥ "एकमेवाद्वितीयम्" इति ब्रह्मणः स्वगतसजातीयविजातीयभेदैः शून्यत्वमवग म्यते । स्रष्टव्यानि चाऽऽकाशवाय्वग्न्यादीनि विचित्राणि । नह्यविचित्रे कारणे कार्यवै. चिन्यं युक्तम् । अन्यथैकस्मादेव क्षीराद्दपिलाधनेकविचित्रकार्यप्रसङ्गात् । क्रमश्वाऽऽ- काशादीनां श्रुत्याऽवगम्यते । नच तस्य व्यवस्थापकं किंचिदस्ति । तस्मात्-अने- ककार्याणां क्रमेण जन्माद्वितीयब्रह्मणो न संभवति ॥ इति प्राप्ते, ब्रूमः यद्यपि तत्त्वतो ब्रह्माद्वैतम् , तथाऽपि-अविद्यासहायोपेतम्- इति श्रुतियुक्त्यनुभवैरैवगम्यते, "मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्” । इति श्रुतेः । मायैवाविद्या, उभयोरप्यनिर्वचनीयत्वलक्षणस्यैकत्वात् । न च- मायाङ्गीकारे द्वैतापत्तिः, वास्तवस्य द्वितीयस्याभावात् । अत एकमपि ब्रह्माविद्यासहा- यवशान्नानाकार्यकरं भविष्यति । न च कार्यक्रमस्य व्यवस्थापकाभावः, अविद्यागवानां शक्तिविशेषाणां व्यवस्थापकत्वात् । तस्मात्--अद्वितीयब्रह्मणो नानाकार्याणां क्रमेण सृष्टिः संभवति || anNOnline (नवमे ब्रह्मणः परिणामित्वाधिकरणे सूत्राणि-) कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥२६॥ श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥ आत्मनि चैवं विचित्राश्च हि ॥२८॥ स्वपक्षदोषाच ॥२९॥ नवमाधिकरणमारचयति- १ क. संभवेत् । २ क. 'द्यास्वशक्तितः ॥१६॥ "ए। ३ ख. वायवादी। ग. 'वाय्वनादी। ४ क. ख. श्रुताववग। ५ ग. 'वैर्गम्य। ६ क. श्रुतिः । ७ ग.'चनलक्षणैक । ख. 'चनलक्षणत्वस्यै। ८ ख. ब्रह्म मायास । ९ ग. पकाभावात् । १० क. 'स्मादद्वितीयाद्रह्म।
श्रीभारतीतीर्थमुनिप्रणीता- [अ०२पा०१अधि०१०] न युक्तो युज्यते वोऽस्य परिणामो न युज्यते ॥ कात्या॑ब्रह्मानित्यताप्रंशात्सावयवं भवेत् ॥ १७ ॥ मायाभिर्बहुरूपत्वं न कात्यान्नापि भागतः ॥ युक्तोऽनवयवस्यापि परिणामोऽत्र मायिकः ॥ १८ ॥ आरम्भणाधिकरणे (२।१।६) कार्यकारणयोरभेदः प्रतिपादितः । अवो न वैशे षिकवदारम्भवादो ब्रह्मवादिनोऽभिमतः । तस्मात्-क्षीरदधिन्यायेन परिणामोऽभ्युप- गन्तव्यः । तत्र किं ब्रह्म कात्स्न्येन परिणमते, उत-एकदेशेन । नाऽऽद्यः-अशेषप- रिणामे ब्रह्मणः क्षीरवदनित्यत्वप्रसङ्गात् । द्वितीये-सावयवत्वप्रसङ्गः । तस्मात्-न परिणामः ॥ इति प्राप्ते, ब्रूमः- "इन्द्रो मायाभिः पुरुरूप ईयते" इति श्रुतेर्ब्रह्मणो मायाश- क्तिभिर्जगद्रूपंपरिणामः । न त्वसौ वास्तवः । तेन कृत्स्नैकदेशविकल्पयो त्रावकाशः । वस्मात्-युज्यते परिणामः . ( दशमे ब्रह्मणोऽशरीरस्यैव मायासद्भावाधिकरणे सूत्रे-) सर्वोपेता च तदर्शनात् ॥ ३० ॥ विकरणत्वानेति चेत्तदुक्तम् ॥ ३१ ॥ दशमाधिकरणमारचयति- नाशरीरस्य मायाऽस्ति यदि वाऽस्ति, न विद्यते ॥ ये हि मायाविनो लोके ते सर्वेऽपि शरीरिणः ॥ १९ ॥ बाह्यहेतुमृते यद्वन्मायया कार्यकारिता ।। ऋतेऽपि देहं मायैवं ब्रह्मण्यस्तु प्रमाणतः ॥ २० ॥ लोके मायाविनोमैन्द्रजालिकानां शरीरित्वदर्शनादशरीरस्य ब्रह्मणो माया न संभ- . वति ॥ - इति प्राप्ते, ब्रूमः-गृहादिनिर्मातॄणां स्वन्यविरिक्तमृद्दारुतृणादिबाह्यसाधनसापेक्ष- त्वदर्शनेऽप्यन्द्रजालिकस्य बाह्यसाधनानरपेक्ष्येण यथा गृहादिनिर्मातृत्वम् , तथा लौकि- कमायाविनः शरीरसापेक्षत्वदर्शनेऽपि ब्रह्मणो मायासिद्धयर्थं वदपेक्षा मा भूत् । अथो- १ ख. वाऽस्याः ॥२ ग. 'वं कात्स्यान्नापि विभा। ३ ग. 'क्तो नाव ४ क. अनन्तराधि। ५ क. ख. 'षिकादिव । ६ ख. णामवादोऽभ्यु।७ क. 'षस्य प । ८ ग. 'सवात् । ९ क. 'णामो युक्तः ॥ई। १० क. ख. 'पत्वप'। ११ ग. प्रमाणता । १२ ग. 'नामिन्द्र । १३ क, 'रुपाषाणा।
[अ.२पा.१अधि.११-१२] वैयासिकन्यायमाला । ५३ च्येत-ऐन्द्रजालिकस्य बाह्यहेतुनैरपेक्ष्येण निर्मातृत्वे प्रत्यक्ष प्रमाणमस्ति, तर्हि ब्रह्मणोऽपि शरीरनैरपेक्ष्येण मायासद्भावे "मायिनं तु महेश्वरम्" इति श्रुतिः प्रमा- णमस्तु ।। म (एकादशे तृप्तस्यापि ब्रह्मण एव जगत्स्रष्तृत्वाधिकरणे सूत्रे) न प्रयोजनवत्त्वात् ॥३२॥ लोक- वत्तु लीलाकैवल्यम् ॥ ३३ ॥ एकादशाधिकरणमारचयति- तृप्तोऽस्रष्टाऽथवा स्रष्टा, न स्रष्टा फलवाञ्छने ॥ अतृप्तिः स्यादवाञ्छायामुन्मत्तनरतुल्यता ॥ २१ ॥ लीलाश्वासवृथाचेष्टा अनुद्दिश्य फलं यतः ।। अनुन्मत्तैर्विरच्यन्ते तस्मात्तृप्तस्तथा सृजेत् ॥ २२ ॥ "आनन्दो ब्रह्म" इति श्रुतेर्नित्यतृप्तः परमेश्वरः । वादृशस्य सृष्टिविषयायामि- च्छायामभ्युपगम्यमानायां नित्यतृप्तिाहन्येत । अनभ्युपगम्यमानायां तु—अबु- द्धिपूर्विकां सृष्टिं विरचयत उन्मत्तनरतुल्यता प्रसज्येत ।। इति प्राप्ते, ब्रूमः-बुद्धिमद्भिरेव राजादिभिरन्तरेण प्रयोजनं लीलया मृगयादिप्रवृत्तिः क्रियते । श्वासोच्छासव्यवहारस्तु सार्वजनीनः । व्यर्थचेष्टाश्च बालकैः क्रियमाणा बहुशो दृश्यन्ते । तद्वन्नित्यतृप्तोऽपीश्वरः प्रयोजनमन्तरेणाप्यनुन्मत्तः सन्नशेषं जगत्सृजते । - ( द्वादशे ब्रह्मणो वैषम्यनैपुण्याभावाधिकरणे सूत्राणि-) वैषम्यनैण्ये न सापेक्षत्वात्, तथा हि दर्श- यति॥३४॥न कर्माविभागादिति चेन्नानादि- त्वात् ॥३५॥ उपपद्यते चाप्युपलभ्यते च॥३६॥ द्वादशाधिकरणमारचयनि- वैषम्याद्यापतेन्नो वा सुखदुःखे नृभेदतः ।। सृजन्विषम ईशः स्यान्निघृणश्चोपसंहरन् ॥ २३ ॥ पाण्यनुष्ठितधर्मादिमपेक्ष्येशः प्रवर्तते ।। नातो वैषम्यनैघृण्ये संसारस्तु न चाऽऽदिमान् ॥ २४ ॥ १ क. इति । २ ख. ग. अतृप्तः । ३ ख. ततः । ४ क. ख. 'ति शास्त्रान्नित्य'। ५ क. विरचयत्युन्म । ६ क. ख. 'जतु । द्वा । ७ क. 'रश्च न । : है R रा श्रीभारतातीर्थमुनिप्रणीता- [भ०२पा०१भषि०१३] ईश्वरो देवादीनत्यन्तसुखिनः सृजति, पश्वादीनत्यन्तदुःखिनः, मनुष्यान्मध्य- मान् , एवं तारतम्येन पुरुषविशेषेषु सुखदुःखे सृजन्नीश्वरः कथं विषमो न स्यात्। कथं नीचैरप्यत्यन्तजगुप्सितं देवतिर्थङ्मनुष्याद्यशेष जगदुपसंहरन्निघृणो न भवेत् । तस्मात्-वैषम्यनैपुण्य प्रसज्येयाताम् ।। इति प्राप्ते, ब्रूमः-न तावदीश्वरस्य वैषम्यप्रसङ्गोऽस्ति । प्राणिनामुत्तममध्यमा- धमलक्षणवैषम्ये तेत्तत्कर्मणामेव प्रयोजकत्वात् । न चैवावतेश्वरस्य खावत्र्यहानिः, अन्तर्यामितया कर्माध्यक्षत्वात् । नन्वेवं सति धदृकुटीप्रभातन्याय आपपद्यते, ईश्वरे वैषम्यं परिहतुं कर्मणां वैषम्यहेतुत्वमुक्त्वा पुनरीश्वरस्य स्वातत्र्यसिद्धये तत्कर्मनिया- मकत्वेऽभ्युपगम्यमाने सत्यन्ततो गत्वेश्वरस्यैव वैषम्यप्रसङ्गात् । नौयं दोषः । निया- मकत्वं नाम वैत्तद्वस्तुशक्तीनामव्यवस्थापरिहारमात्रम् । शक्तयस्तु मायाशरीरभूवाः । न वासामुत्पादक ईश्वरः । ततश्च व स्वशाक्तवशात्कर्मणां वैषम्यहेतुत्वेऽपि न व्यव- स्थापकस्येश्वरस्य वैषम्यप्रसङ्ग । संहारस्य सुषुप्तिवद्दुःखाजनकत्वात् । प्रत्युत सर्व- केशनिर्वकत्वात्सघृणत्वमेव । ननु-भवान्तरसृष्टिषु पूर्वपूर्वकर्मापेक्षया सृजव ईश्व- रस्य वैषम्याभावेऽपि प्रथमसृष्टौ पूर्वकर्मासंभवाद्वैषम्यदोषस्तदवस्थः-इति चेत् । न । सृष्टिपरंपराया अनादित्वात् । “नान्तो नचाऽऽदि:"--इत्यादिशास्त्रात् । वस्मात्- न कोऽपि दोषः॥ , " . (त्रयोदशे निर्गुणस्यापि ब्रह्मणः प्रकृतित्वाधिकरणे सूत्रम्-) सर्वधर्मोपपत्तेश्च ॥ ३७॥ त्रयोदशाधिकरणमारचयति- नास्ति प्रकृतिता यद्वा निर्गुणस्यास्ति, नास्ति सा ।। मृदादेः सगुणस्यैव प्रकृतित्वोपलम्भनात् ॥ २५ ॥ भ्रमाधिष्ठानताऽस्माभिः प्रकृतित्वमुपेयते ।। निर्गुणेऽप्यस्ति जात्यादौ सा ब्रह्म प्रकृतिस्ततः॥ २६ ॥ -- * यथा घटे पर्वतीयविषममार्गे राजकरादातुः कस्यचिद्राजपुरुषस्य कुटी वर्तते । तत्र करदान- भयेन रात्री मार्गान्तरेण चलितस्य सार्थस्य मार्गभ्रान्त्या प्रभाते तत्रैवाऽऽगमनम् । तद्वत्-इत्येवंरूपा टिप्पणी 'ग' संज्ञके पुस्तकेऽस्ति ।। । . १ क. 'त्तमाधमल । ग. 'त्तममध्यमाना ल'। २ क. ग. तत्क।३ ग. घटकुट्यां प्र'। ४ क. 'षम्ये हेतुत्वम् । ५ ग. नाप्ययं । ६ ख. तद। ७ ग, श्च स्वश' ।
. [अ०२पा०२अधि०१] वैयासिकन्यायमाला। ५५ प्रकृतित्वं नाम कार्याकारण विक्रियमाणत्वम् । तच्च लोके संगुण एव मृदादावुपल- ब्धम् । ततो न निर्गुणस्य ब्रह्मणः प्रकृतिता ॥ इति प्राप्ते, ब्रूमः-यद्यपि 'प्रक्रियते विक्रियतेऽनया-इति प्रकृतिः' इति व्युत्पत्त्या विक्रियमाणत्वं प्रतीयते । तथाऽपि तद्विक्रियमाणत्वं द्वेधा संभवति-क्षीरा- दिवत्परिणामित्वेन वा, रज्ज्वादिवमाधिष्ठानत्वेन वा । वत्र निर्गुणस्य परिणामित्वासं- भवेऽपि भ्रमाविष्ठानत्वमस्तु । दृश्यते सु निर्गुणे जात्यादौ भ्रमाधिष्ठानता । मलिनबा. ह्मणं दृष्ट्वा 'शूद्रोऽयम्' इति भ्रान्तव्यवहारदर्शनात् | तस्मात्-निर्गुणमपि ब्रह्म प्रकृतिः-इति सिद्धम् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थमुनिप्रणीतायां वैयासिक- न्यायमालायां द्वितीयाध्यायस्य प्रथमः पादः ॥ १॥ अत्र पादे आदितः अधिकरणानि १३ ५३ सूत्राणि ३७ १७२ -- (अथ द्वितीयाध्यायस्य द्वितीयः पादः) (प्रथमे प्रधानस्य जगद्धेतुत्वाभावाधिकरणे सूत्राणि-) रचनानुपपत्तेश्च नानुमानम् ॥ १॥ प्रवृत्तेश्च ॥२॥ पयोम्बुवञ्चेत्तत्रापि ॥३॥ व्यतिरे- कानवस्थितेश्वानपेक्षत्वात् ॥४॥ अन्यत्रा- भावाच न तृणादिवत् ॥५॥ अभ्युपगमेऽ- प्यर्थाभावात् ॥६॥ पुरुषाश्मवदिति चेत्त- थाऽपि ॥ ७ ॥ अङ्गित्वानुपपत्तेश्च ॥ ८॥ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ॥ ॥९॥ विप्रतिषेधाच्चासमञ्जसम् ॥ १० ॥ द्वितीयपादस्य प्रथमाधिकरणमारचयति- १ क. ख. अतो। २ क. हि । ख. च। ३ क. ख. इति द्वितीयाध्यायस्य प्रथमपादः। ग. इत्यधिकरणमालायां द्वितीयाध्यायस्य प्रथमपादः । ... ।
t- श्रीभारतीतीर्थमुनिप्रणीता [अ०२पा०२अधि०२] प्रधानं जगतो हेतुर्न वा सर्वे घटादयः॥ अन्विताः मुखदुःखाद्यैर्यतो हेतुरतो भवेत् ॥ १ ॥ न हेतुर्योग्यरचनाप्रवृत्त्यादेरसंभवात् । मुखाद्या आन्तरा बाह्या घटाद्यास्तु कुतोऽन्वयः॥ २॥ सुखदुःखमोहात्मकं प्रधानं जगतः प्रकृतिः, जगति सुखाद्यन्वयदर्शनात् । घट- पटादय उपलभ्यमानाः सुखाय भवन्ति, उदकाहरणप्रावरणादिकारित्वात् । त एव घटादयोऽन्यैरपहियमाणास्तस्यैव दुःखजनकाः । येदोदकाहरणादिकार्य नापेक्षितम् , वदा सुखदुःखे न जनयन्ति, केवलमुपेक्षणीयत्वेनावतिष्ठन्ते । तदिदमुपेक्षाविषयत्वं मोहः, "मुह वैचित्ये" इति धातोर्मोहशब्दनिष्पत्तेरुपेक्षणीयेषु चिञवृत्त्यनुदयात् । अतः सुखदुःखमोहान्वयदर्शनात् 'प्रधानं प्रकृतिः' इति सांख्या मन्यन्ते ।। इति प्राप्ते, ब्रूमः-न प्रधानं जगद्धेतुः, देहेन्द्रियमहीवरादिरूपस्य विचित्रस्य प्रतिनियतनानासंनिवेशविशेषस्य जगतो रचनायामचेतनस्य प्रधानस्य योग्यत्वासं- भवात् । लोके हि प्रतिनियतकार्यस्य विचित्रनानापासादादेरतिबुद्धिमत्कर्तृकत्वोपल- म्भात् । आस्तां तावदियं रचना, तत्सिद्धयर्था प्रवृत्चिरपि नाचेतनस्योपपद्यते, चेत- नानधिष्ठिते शकटादौ तददर्शनात् । अथ पुरुषस्य चेतनस्य प्रकृत्यधिष्ठातृत्वमभ्यु- पगम्येत तर्हि-असङ्गत्वं पुरुषस्य हीयेत-इत्यपसिद्धान्तापत्तिः । यदुक्तम्- सुखदुःखमोहान्विता घटादयः-इति । तदसत् । सुखादीनामान्तरत्वाद्धटादीनां बाह्यत्वात् । तस्मात्----न प्रधानं जगद्धेतुः ।। . maa (द्वितीये ब्रह्मणो विसदृशजगदुत्पत्तौ काणादीयदृष्टान्तसद्भावाधिकरणे सूत्रम्-) महद्दीर्घवदा हस्वपरिमण्डलाभ्याम् ॥ ११॥ द्वितीयाधिकरणमारचयति- नास्ति काणाददृष्टान्तः किं वाऽस्त्यसदेशोद्भवे ।। नास्ति शुक्लपटः शुक्लात्तन्तोरेव हि जायते ॥ ३ ॥ अणु द्यणुकमुत्पन्नमनणोः परिमण्डलात् ॥ अदीर्घावयणुकादीर्घ व्यणुकं तन्निदर्शनम् ॥ ४ ॥ पूर्वस्मिन्पादू चेतनाद्ब्रह्मणो विलक्षणमचेतनं जगज्जायते-इत्यत्र सांख्यान्प्रति १ ग. 'त् । अत । २ क. ख. यदा तूद । ३ ग. शब्दोत्पत्ते । ४ ख, त्तव्यक्त्यनु। ५ क. 'हेन्द्रम। ६ ग, त्रप्रासा । ख.त्रदेवालयादें । ७ क.पि चे । ८ ख. ग. गम्यते तर्हि । ९ ख. ग. हीयते । 10 क. ख. 'शो भवेत् | ना। ११ क, ख. शुक्लः । १२ क. ख. शुक्लतन्तो।
. . [अ.२पा.२अधि.३] वैयासिकन्यायमाला। ५७ लोकसिद्धं गोमयवृश्चिकादिनिदर्शनमभिहितम्, वावता सांख्यैः क्रियमाणस्याऽऽक्षेपस्य परिहृवत्वात्स्वपक्षसाधनसंपन्नं परपक्षदूषणं चास्मिन्पादे प्रक्रम्य पूर्वाधिकरणे सांख्य. मतं दूषितम् । इतःपरं वैशेषिकानां मतं दूषयितव्यम् । तन्मतस्यै च प्रक्रियाबहुल. त्वात, तद्वासनावासितः पुरुषस्तत्प्रक्रियासिद्धविलक्षणोत्पत्तिदृष्टान्तमन्तरेण ब्रह्मका. रणवादं न बहु मन्यते । अतो 'विसदृशोत्पत्तौ काणादमतसिद्धो दृष्टान्तोऽस्ति, न वा' इति विचार्यते । 'नास्ति' इति तावत्प्राप्तम् । यतः शुक्कः पटः शुक्केभ्य एव वन्तुभ्यो जायते, नतु रक्तेभ्यः । तस्मात्-नास्ति । इति प्राप्ते, ब्रूमः-अस्त्येव विसदृशोत्पत्तो दृष्टान्तः। तथाहि-परमाणवः पारि- माण्डल्यपरिमाणयुक्ताः । न त्वणुपरिमाणयुक्ताः । द्वाभ्यां च परमाणुभ्यामणुपरिमाण- रहिवाभ्यामणुपरिमाणोपेतं द्यणुकमुत्पद्यते । इदमेकं निदर्शनम् । तथा-~-हस्वपरि- माणोपेतं दीर्घपरिमाणरहितं घणुकम् । तादृशेभ्यो विसदृशेभ्यस्त्रिभ्यो घणुकेभ्यो दीर्घपरिमाणोपेतमणुपरिमाणरहित व्यणुकमुत्पद्यते । इदमपरं निदर्शनम् । एवमन्या- न्यपि तत्प्रक्रियासिद्धानि निदर्शनान्युदाहर्तव्यानि ।। . न . (तृतीये परमाणुकारणवादनिराकरणाधिकरणे सूत्राणि-~-) उभयथाऽपि न कर्मातस्तदभावः ॥१२॥ सम- वायाभ्युपगमाच्च साम्यादनवस्थितेः॥ १३ ॥ नित्यमेव च आवात् ॥ १४॥ रूपादिमत्त्वाच विपर्ययो दर्शनात् ॥१५॥ उभयथा च दोषात ॥१६॥ अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ १७॥ तृतीयाधिकरणमारचयति- जनयन्ति जगन्नो वा संयुक्ताः परमाणवः ।। आद्यकर्मजसंयोगाद्यणुकादिक्रमाजानः ॥ ५ ॥ सनिमित्तानिमित्तादिविकल्पेष्वाद्यकर्मणः ॥ असंभवादसंयोगे जनयन्ति न ते जगत् ॥ ६ ॥ पलीने पूर्वसिद्धे जगवि यदा महेश्वरस्य सिसृक्षा भवति तदा प्राणिकर्मवशान्नि - -- १ ख. ग. "स्य प्र । २ ख. 'बलवत्त्वात् । ३ क. 'पेतत्वाद्दीर्घ । ४ क, ख. निश्चले।
५८ श्रीभारतीतीर्थमुनिप्रणीता [अ०२पा०२अधि०४] खिलेषु परमाणुष्वाद्यं कर्मोत्पद्यते । तस्मात्कर्मण एकः परमाणुः परमाण्वन्तरेण संयु- ज्यते । तस्माच्च संयोगान्यणुकमारभ्यते । तेभ्यस्त्रिभ्यो घणुकभ्यख्यणुकम्-इत्या- दिक्रमेण जगदुत्पत्तौ बाधकाभावात्संयुक्ताः परमाणवो जगज्जनयन्ति ।। इति प्राप्ते ब्रूमः-यदेतदाधं कर्म तन्निनिमित्तं सनिमित्तं वा। निनिमित्तत्वे नियाम- काभावात्सर्वदा तदुत्पत्तौ प्रलंयेऽपि तत्पसङ्गः । सनिमित्तत्वेऽपि तन्निमित्तं दृष्टम् , अदृष्टं वा । न तावदृष्टम् , प्रयत्नस्याभिघातस्य वा शरीरोत्पत्तेः प्रागसंभवात् | ईश्वरप्रयत्नस्य नित्यस्य कादाचित्काद्यकोत्पत्तिं प्रत्यनियामकत्वात् । नाप्यदृष्टमाद्यकर्मनिमित्तम् , आत्मसमवेतस्यादृष्टस्य परमाणुभिरसंबन्धात् । अत एवमादिविकल्पप्रसरे सत्याद्यक- सिंभवान्न परमाणुसंयोगो । ततः-'संयुक्तेभ्यः परमाणुभ्यो जगन्जनिः' इति मत दूरापास्तम् " जायते . ( चतुर्थे वैनाशिकखण्डने समुदायासिद्धयधिकरणे सूत्राणि-) समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ १८॥ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्त- त्वात् ॥ १९ ॥ उत्तरोत्पादे च पूर्वनिरोधात् ॥२०॥ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥२१॥ प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर- विच्छेदात् ॥ २२॥ उभयथा च दोषाव ॥ २३ ॥ आकाशे चाविशेषात् ॥२४॥ २५ ॥ नासतोऽदृष्टत्वात् ॥ ॥२६॥ उदासीनानामपि चैवं सिद्धिः ॥२७॥ चतुर्थाधिकरणमारचयांत- समुदायावुभौ युक्तावयुक्तौ चाऽणुहेतुकः ।। एकोऽपरः स्कन्धहेतुरित्येवं युज्यते द्वयम् ॥ ७॥ स्थिरचेतनराहित्यात्स्वयं वाऽचेतनत्वतः ॥ न स्कन्धानामणूनां वा समुदायोऽत्र युज्यते ॥ ८॥ अनुस्मृतेश्च ॥ . . . - " १ क. कर्मानिमि । २ क' अनिमित्तते । ३ क. 'लयाभावप्रस । ४ स्व. 'भिभूत । ५ क. "त्पत्तौ । ६ ख. "तुकौ । ए।
. [अ०२पा०२अधिः५] वैयासिकन्यायमाला। ५९ बाह्यास्तित्ववादिनो बौद्धा मन्यन्ते-द्वौ समुदायौ--बाह्यः, भाभ्यन्तरश्चेदि । तत्र बाह्यो भूनदीसमुद्रादिकः । आन्तरश्चित्तंचैत्यात्मकः । तदेतत्समुदायद्वयमेवाशेषं जगत् । तत्र बाह्यसमुदाये परमाणवः कारणम् । ते च परमाणवश्चतुर्विधाः-केचिं. स्कठिनाकाराः पार्थिवाख्याः, अपरे स्निग्धा ओप्याः, अन्ये चोष्णास्वैजसाख्याः, अन्ये चलनात्मका वायवीयाः । तेभ्यश्चतुर्विधेभ्यः परमाणुभ्यो युगपत्पुञ्जीभूतेभ्यो बाह्यसमुदायो जायते । आन्तरस्य समुदायस्य स्कन्धपञ्चकं कारणम् । रूपस्कन्धः, विज्ञानस्कन्धः, वेदनास्कन्धः, संज्ञास्कन्वः, संस्कारस्कन्धश्चेति पञ्चस्कन्वाः । तत्र चित्तेन निरूप्यमाणाः शब्दस्पर्शादयो रूपस्कन्धः । तदभिव्यक्तिर्विज्ञानस्कन्धः । वजन्यं दुःखं वेदनास्कन्धः । देवदत्तादिनामधेयं संज्ञास्कन्धः । एतेषां वासना संस्कारस्कन्धः । तेभ्यः पश्चभ्यः पुञ्जीभूतेभ्य आन्तरसमुदायो जायते । तस्मात्- युज्यते समुदायद्वयम् ॥ इति प्राप्ते, ब्रूमः-किमणूनां स्कन्धानां च संघातोत्पत्तौ निमित्तभूतश्चेतनोऽन्योs- स्ति, किंवा--स्वयमेव संहन्यते । आद्येऽपि चेतनः स्थायी, क्षणिको वा । स्थायि- त्वे-अपसिद्धान्तः । क्षणिकत्वे-प्रथमं स्वयंलब्धात्मकः पश्चात्संघावोत्पत्तिं करो- वि-इति वक्तुमशक्यम् ॥ द्वितीये तु-अचेतनाः स्कन्धा अणवश्च नियामकं चेतनमन्तरेण प्रतिनियताकारेण कथं संहन्यन्ताम् । तस्मात्-न युक्तं समुदायद्वयम् ।। . ( पञ्चमे विज्ञानवादनिराकरणाधिकरणे सूत्राणि-) नाभाव उपलब्धेः ॥ २८ ॥ वैधाच न स्वप्रादिवत् ॥२९॥ न भावोऽनु- पलब्धः ॥ ३० ॥ क्षणिकत्वाच ॥ ॥३१॥ सर्वथाऽनुपपत्तेश्च ॥३२॥ पञ्चमाधिकरणमारचयति- विज्ञानस्कन्धमात्रत्वं वा न युज्यते ॥ युज्यते स्वप्रदृष्टान्ताहुद्ध्यैव व्यवहारतः ॥ ९ ॥ - युज्यते १ ग. भूतलादि । २ ख. 'त्तचेतात्म' । ३ क.ख. दायस्य प । ४ ख. "चित्स्थिराः । ५ क. आप्याख्याः । स्व. अबाख्याः । ६ ग. चलनाख्या । ७.क. ख. पश्चस्कन्धेभ्यः । ८ क. ख. 'न्तरः स। ९ क. ख. 'घातापत्तौ । १० क. 'पिस चें। स्व. 'पि न चें। ११ क. स्वयमल । १२ क. ख. संघातापत्ति।
६० श्रीभारतीतीर्थमुनिप्रणीता [अ०२पा०२अधि०६] अबाधात्स्वप्नवैषम्यं बाद्यार्थस्तूपलभ्यते ॥ बहिर्वदिति तेऽप्युक्ति तो धीरर्थरूपभाक् ॥ १० ॥ केचिद्रौद्धा बाह्यार्थमपलपन्तो विज्ञानमात्रं तत्त्वमाहुः । न च-तत्र व्यवहारानु- पपत्तिः, स्वप्ने बाह्यार्थाननपेक्ष्य केवलया बुद्धया व्यवहारदर्शनात्तथैव जाग्रयवहार- स्याप्युपपत्तेः । तस्मात्-विज्ञानस्कन्धमात्रत्वं युज्यते ।। इति प्राप्ते, ब्रूमः-विषमो हि स्वप्नदृष्टान्तः, प्रबोधदशायां स्वप्नस्य बाध्यमान- त्वात् । जाग्रयवहारस्य च न क्वचिद्वांचं पश्यामः । न च-बाह्यार्थसद्भावे प्रमाणा- भावः, उपलब्धेरेव प्रमाणत्वात् । उपलभ्यन्ते हि घटादयो बहिष्टदेन । अथोच्येत- बुद्धिर बाह्यघटादिवदवभासते । तथा चाऽऽहुः- "यदन्त यतत्वं वहिर्वदवभासते"। इति- ( इति ) । एवं वर्हि-त्वदुक्तिरेव बाह्यार्थसद्भावे प्रमाणम्-इति ब्रूमः । क्वचिदपि बाह्यार्थीमावे तद्व्युत्पत्तिराहित्यात् 'बहिर्वत्' इत्युपमानोक्तिर्न संगच्छेत । तस्मात्-बाह्यार्थसद्भावाद्विज्ञानमात्रत्वं न युक्तम् ।। .. . ( षष्ठ आर्हतानां सप्तभङ्गीनिराकरणाधिकरणे सूत्राणि-) नैकस्मिन्नसंभवात् ॥३३॥ एवं चाऽऽत्माका- य॑म् ॥ ३४॥ न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५ ॥ अन्यावस्थिते- श्चोभयनित्यत्वादविशेषः ॥ ३६ षष्ठाधिकरणमारचयति- सिद्धिः सप्तपदार्थानां सप्तमङ्गीनयान वा ।। साधकन्यायसद्भावात्तेषां सिद्धौ किमद्भुतम् ॥ ११ ॥ एकस्मिन्सदसत्त्वादिविरुद्धप्रतिपादनात् ।। अपन्यायः सप्तभङ्गी न च जीवस्य सांशता ॥ १२ ॥ %3D । । १ क. षम्यादाद्या । २ ख. ते युक्ति | ३ क. मात्रत्वमालम्बनमा। ४ क. अत्र । ५ ख. 'द्वाधक प । ६ क. 'वे प्रामाण्यामा । ७ क. हि पटा । ८ क. व ग्राह्य।
[अ०२पा०२अधि०६] वैयासिकन्यायमाला । ६१ आर्हता *मन्यन्ते-जीवोऽजीवश्चेति द्वौ पदार्थौ । जीवश्चेतनः शरीरपरिमाणः सावयवः । अजीवः षड्डिधः । तत्र महीधरादिरेकः, आस्रवसंवरनिर्जरबन्धमोक्षाख्याः पञ्च । 'आस्रवत्यनेन जीवो विषयेषु' इत्यास्रव इन्द्रियसंघावः । 'संवृणोति विवेकम्' इत्यविवेकादि संवरः । 'निःशेषेण जीर्यत्यनेन कामक्रोधादिः' इति केशोल्लुश्चनतप्तशि- लारोहणादिकं तपो निर्जरः । कर्माष्टकेनाऽऽपादिता जन्ममरणपरम्परा बन्धः । चत्वारि घाविकर्माणि पापविशेषरूपाणि । चत्वारि चाघातिकर्माणि पुण्यविशेषरूपाणि । शास्त्रो- तोपायेन तेभ्योऽष्टभ्यः कर्मभ्यो विनिर्गतस्य जीवस्य सततोर्ध्वगमनं मोक्षः। त एते सप्त पदार्थाः सप्तभङ्गीरूपेण न्यायेन व्यवस्थाप्यन्ते । स्यादस्ति, स्यानास्ति, स्यादस्ति चें * जीवास्तिकायस्त्रिविधः--कश्चिजीवो नित्यसिद्धोऽर्हन्मुख्यः, केचित्सांप्रतिकमुक्ताः, केचि- द्वद्धाः, इति । पुद्गलास्तिकायः षोढा-पृथिव्यादीनि चत्वारि भूतानि स्थावरं जङ्गमं चेति । प्रवृत्ति- स्थितिलिङ्गौ धर्माधर्मावुक्तौ। आकाशास्तिकायो द्विविधः-लोकावकाशः सांसारिकः, अलोकावकाशे मुक्ताश्रयः, इति । बन्धाख्यं कर्माष्टविधम्-चत्वारि घातिकर्माणि, चत्वार्यघातीनि । तत्र-ज्ञानावर- णीयं दर्शनावरणीयं मोहनीयमान्तर्य चेति धातिकर्माणि । 'तत्त्वज्ञानान्न मुक्तिः' इति ज्ञानमायं कर्म । आईततन्त्रश्रवणान्न मुक्तिः' इति ज्ञानं द्वितीयम् । बहुषु तीर्थकरप्रदर्शितेषु मोक्षमार्गेषु विशेषानवधा- रणं मोहनीयम् । मोक्षमार्गप्रवृत्तिविघ्नकरणमान्तर्यम् । इमानि श्रेयोहन्तृत्वाद्घातिकर्माणि । अथाघा- तीनि चत्वारि कर्माणि-वेदनीयं, नामिकम्, गौत्रिकम् , आयुष्कम्, इति । 'मम वेदितव्यं तत्त्वमस्ति' इत्यभिमानो वेदनीयम् । 'एतनामाहमस्मि' इत्यभिमानो नामिकम् । ‘अहमत्र भवतो दैशिकस्याहतः शिष्यवंशे प्रविष्टोऽस्मि, इत्यभिमानो गौत्रिकम् । शरीरस्थित्यर्थ कर्माऽऽयुष्कम् । अथवा-शुक्रशोणित- मिश्रितम्-आयुष्कम् । तस्य तत्त्वज्ञानानुकूलदेहपरिणामशक्तिौत्रिकम् । शक्तस्य तस्य द्रवीभावानुकू- लकललावस्थाया बुहुदावस्थायाश्चाऽऽरम्भकः क्रियाविशेषो नामिकम् । सक्रियस्य जाठराग्निवायुभ्यामीष- घनीभावो वेदनीयम् । तत्त्ववेदनानुकूलत्वात्तान्येतानि तत्त्वावेदकशुक्लपुद्गलार्थत्वादघातीनि । तदेतत्कर्मा- ष्टकं जन्मार्थत्वाद्बन्धः । इति रत्नप्रभा ॥ + सप्तानामस्तित्वादीनां भङ्गानां समाहारः सप्तभङ्गी । घटादोर्ह सर्वात्मना सदेकरूपत्वे प्राप्या- मनाऽपि 'अयमस्त्येव सः' इति तत्प्राप्तये यत्नो न स्यात् । अतो घटत्वादिरूपेण कथंचिदस्ति, प्राप्य- वादिरूपेण कथंचिनास्ति, इत्येवमनेकरूपत्वं वस्तुमात्रस्य । तत्र वस्तुनोऽस्तित्ववाञ्छायां 'स्यादस्ति' इत्याद्यो भङ्गः । प्रवर्तनास्तित्ववाञ्छायां 'स्यानास्ति' इति द्वितीयो भङ्गः । क्रमेणोभयवाञ्छायां 'स्या- दस्ति नास्ति वा' इति तृतीयो भङ्गः । युगपदुभयवाञ्छायाम् ‘अस्ति, नास्ति' इति शब्दद्वयस्य सकृद्ध- तुमशक्यत्वात्स्यादवक्तव्यत्वं चतुर्थो भङ्गः । आद्यचतुर्थभङ्गयोर्वाञ्छायां 'स्यादस्ति चावक्तव्यश्च' इति पञ्चमो भङ्गः। द्वितीयचतुर्थेच्छायां 'स्यानास्ति चावक्तव्यश्च' इति षष्ठो भङ्गः। तृतीयचतुर्थेच्छायां 'स्या- दस्ति नास्ति चावक्तव्यश्च' इति सप्तमो भङ्गः । इति विभागः । एवम्-एकत्वमनेकत्वं चेति द्वयमा- दाय स्यादेकः, स्यादनेकः, स्यादेकोऽनेकश्च, स्यादवक्तव्यः, स्यादेकोऽवक्तव्यः, स्यादनेकोऽवक्तव्यः, स्यादेकोऽनेकश्चावक्तव्यश्च, इति । तथा–स्यानित्यः, स्यादनित्यः, इत्याद्यूह्यम् । एवमनेकरूपत्वेन वस्तुनि प्राप्तित्यागादिव्यवहारः संभवति । एकरूपत्वे सर्वे सर्वत्र सर्वदाऽस्त्येव' इति व्यवहारविलोपापत्तिः स्यात् । तस्मादनेकान्तं सर्वम्-इत्येकरूपब्रह्मवादबाधः । इति रत्नप्रभा॥ १.ग. हीमहीध। २ ख. निःशेषं । ग. विशेषेण । ३ ख.. न्मप। ४ क. ख. स्य संत । ५ ग. च स्यानास्ति। . M . । -- ६२ श्रीभारतीतीर्थमुनिप्रणीता- [अ०२पा०२अधि०७] नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्व, स्यानास्ति चावक्तव्यश्च, स्याद- स्ति च नास्ति चावक्तव्यश्च, इति सप्तभङ्गीनयः । अयमर्थ:-स्याच्छब्द ईषदर्थ- वाची निपातः । प्रतिवादिनोऽपि चतुर्विधाः-सद्वादिनः, असद्वादिनः, सदसद्वा- दिनः, अनिर्वचनीयवादिनश्चेति । पुनरपि-अनिर्वचनीयमवेन मिश्रितानि सदादि- मतानि, इति त्रिविधा वादिनः। तानेतान्सप्तविधान्वादिनः प्रति सप्तविधा न्यायाः प्रयोक्तव्याः । तद्यथा-सद्वादी समागत्याऽऽर्हतं प्रति किं त्वन्मते मोक्षोऽस्ति' इति पृच्छति । तत्राऽऽर्हत उत्तरं ब्रूते-'ईषदस्ति' इति । एवमन्यानपि वादिनः प्रवि 'स्यान्नास्ति' इत्यादीन्युदाहर्तव्यानि | तावता वादिनः सर्वे निर्विण्णाः सन्तो नोत्तरं प्रतिपद्यन्ते । अतोऽस्य सप्तभङ्गीरूपस्य साधकन्यायस्य सद्भावाज्जीवादीनां सप्तपदा- र्थानां सिद्धौ किमत्राऽऽश्चर्यम् ॥ इति प्राप्ते, ब्रूमः-सप्तमङ्गीरूपोऽयमपन्यायः । एकस्य जीवपदार्थस्य सद्वादिनं प्रति सद्रूपत्वम्, असद्वादिनं प्रत्यसद्रूपत्वं च, इत्येवमादिविरुद्धधर्मप्रतिपादकत्वात् । न च-जीवस्य सावयवत्वं युज्यते, अनित्यत्वप्रसङ्गात् । तदनित्यत्वे च मोक्षः कस्य पुरुषार्थः स्यात् । तस्मात्-न्यायामासेन सप्तभङ्गयाख्येन जीवादिपदार्थानां न सिद्धिः॥ .. HAR ( सप्तमे बटस्थेश्वरवादनिराकरणाधिकरणे सूत्राणि-) पत्युरसामञ्जस्यात् ॥ ३७॥ संबन्धा- नुपपत्तेश्च ॥३८॥ अधिष्ठानानुपपत्तेश्च ॥३९॥ करणवच्चेन्न भोगादिभ्यः ॥४०॥ अन्तवत्त्वमसर्वज्ञता वा ॥४१॥ सप्तमाधिकरणमारचयति- तटस्थेश्वरवादोऽयं स युक्तोऽथ न युज्यते ।। युक्तः कुलालदृष्टान्तानियन्तृत्वस्य संभवात् ॥ १२ ॥ न युक्तो विषमत्वादिदोषाद्वैदिक ईश्वरे ॥ अभ्युपेते तटस्थत्वं त्याज्यं श्रुतिविरोधतः ॥ १३ ॥ .. १ ख. श्रीन्यायः। २ क. नो हि च । ३ क. यत्वेन । ४ ग. त्रिधा । ५ क. पोऽयं न्या क. 'तो वा न । ७ क. संभ्रमात ।
. [अ०२पा०२अधि०८] वैयासिकन्यायमाला। पूर्वाध्यायस्योपान्त्याधिकरणे-'जगतो निमित्तमुपादानं चेश्वरः' ---इत्यागमब- लाद्यदुक्तम् , तदेतदसहमानास्तार्किकाः शैवादयः केवैलं निमित्तत्वमीश्वरस्य मन्यन्ते । युक्तिं चाऽऽहुः-यथा कुलालोऽनुपादानभूतो दण्डचक्रादीनियच्छन्कर्वा भवति, तथा वटस्थ ईश्वरः ॥ इति प्राप्ते, ब्रूमः-न युक्तं केवलनिमित्तत्वम् , वैषम्यनैपुण्यदोषस्य दुष्परिहर- स्वात् । कथं तर्हि त्वया दोषः परिहृतः इति चेत् । 'प्राणिकर्म सापेक्षत्वात्' इति ब्रूमः । तथात्वे चाऽऽगमोऽस्माकं प्रमाणम् | त्वयाऽप्यन्ततो गत्वाऽऽगमश्चेदङ्गीक्रियते, (तर्हि) तटस्थत्वमीश्वरस्य परित्याज्यं स्यात् । “बहु स्यां प्रजायेय' इत्युपादानश्रुत्या विरोधात् । तस्मात्-न युक्तस्वटस्थेश्वरवादः ।। h A- ( अष्टमे जीवोत्पत्तिवादनिराकरणाधिकरणे सूत्राणि-) उत्पत्त्यसंभवाद॥ ४२ ॥ न च कर्तुः कर- णम् ॥ ४३ ॥ विज्ञानादिभावे वा तदप्र- तिषेधः ॥४४॥ विप्रतिषेधाच ॥४५॥ अष्टमाधिकरणमारचयति- जीवोत्पत्त्यादिकं पञ्चरात्रोक्तं युज्यते न वा ॥ युक्तं नारायणव्यूह तत्समाराधनादिवत् ॥ १४ ॥ युज्यतामविरुद्धांशो जीवोत्पत्तिर्न युज्यते ॥ उत्पन्नस्य विनाशित्वे कृतनाशादिदोषतः ॥१५॥ पाश्चराँत्रा भागवता मन्यन्ते-~-'भगवानेको वासुदेवो जगदुपादानं निमित्तं च । तत्समाराधनध्यानज्ञानैर्भवबन्धच्छेदः । तस्माच्च वासुदेवात्संकर्षणाख्यो जीवो जायते । जीवाच्च प्रद्युम्नाख्यं मनः । मनसश्चानिरुद्धाख्योऽहंकारः। त एते वासुदेवादयश्चत्वारो व्यूहाः सर्वात्मका:-इति ॥ तत्र वासुदेवं सत्समाराधनादिकं च श्रुतेरविरोधादभ्युपगच्छामः । यत्तु-जीव उत्पद्यते-इत्युक्तम् । तदसत् । कृतनाशाकृताभ्यागमप्रसङ्गात् । पूर्वसृष्टौ यो जीव. स्तैस्योत्पत्तिमत्वे प्रलयदशायां - तस्मिन्विनष्टे सति तत्कृतधर्माधर्मयोरफलप्रदत्वेन - Peo १ क. ख. 'किंकशै| २ क ख 'वलनि । ३ क, 'णम् । तथाऽप्य'। ४ ख. 'तो जगत्यागम। ५. क. के पाश्च। क. 'विरोधोऽयो । ख. 'विरुद्धोऽशो। ७ क. रात्रिका भा। ८ क. ख. 'गत उपा। ९ क ख. 'न्धविच्छे । १० क. श्रुत्यवि । ख. श्रुन्यवरों । १३ क. ख. स्तस्मिनुत्प- स्तिमत्त्वेन प्रलयदशायां विन ।
म ६४ श्रीभारतीतीर्थमुनिप्रणीता- [अ०२पा०३अधि०१] विनाशः प्रसज्येतं । अस्मिंश्च कल्प उत्पद्यमा नूतनजीवस्य धर्माधर्मयोः पूर्वमननुष्ठि- वयोः सतोरिह सुखदुःखप्राप्तिर्भवतीत्यकृताभ्यागमः प्रसज्येत । तस्माजीवोत्पत्यादिकं न युक्तम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थमुनिप्रणीतायां वैया. सिकन्यायमालायां द्वितीयाध्यायस्य द्वितीयः पादः ॥ २॥ अत्र पादे आदितः अधिकरणानि ६१ মুন্সসি २१७ ८ ४५ ( अथ द्वितीयाध्यायस्य तृतीयः पादः ) . ( प्रथम आकाशस्य ब्रह्मजन्यताधिकरणे सूत्राणि-) न वियदश्रुते ॥१॥ अस्ति तु ॥२॥ गौण्यसं- भवात् ॥३॥शब्दाच ॥४॥ स्याच्चैकस्य ब्रह्मश- ब्दवत् ॥५॥ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॥६॥ यावद्विकारं तु विभागो लोकवत् ॥७॥ तृतीयपादस्य प्रथमाधिकरणमारचयति- व्योम नित्यं जायते वा हेतुत्रयविवर्जनात् ॥ जनिश्रुतेश्च गौणत्वान्नित्यं व्योम न जायते ॥ १ ॥ एकज्ञानात्सर्वबुद्धर्विभक्तत्वाजनिश्रुतेः ।। विवर्ते कारणकत्वाद्ब्रह्मणो व्योम जायते ॥ २॥ तैत्तिरीयके-"तस्माद्वा एतस्मादात्मन आकाशः संभूतः" इति श्रूयते । तत्र-- भाकाशं नित्यं, न तु जन्मवत् । कुतः आकाशोत्पादकस्य समवाय्यसमवायिनिमि- ताख्यकारणत्रितयस्य दुःसंपादत्वात् । 'संभूतः' इति जनिश्रुतिस्तु संपतिपन्न ब्रह्मका- येवढ्योम्नि सत्ताश्रयत्वगुणयोगात्प्रवृत्ता । तस्मात्---अनाद्यन्तं व्योम, न जायते ।। इति प्राप्ते, ब्रूमः-एकविज्ञानेन सर्वविज्ञानं तावदशेषेषु वेदान्तेषु डिण्डिमः । १६ ग. 'त । तस्मि । २ क. ख 'नस्य नू । ३. क. इति श्रीमद्वैयासिक्यधिकरणमालायां द्वितीयः पादः। ख.ग. इति द्वितीयाध्यायस्य द्वितीयः पादः । ४ ग. वर्जितात् । ५ ख श्रुतेः । ६ ग. 'गान् । त। ७ ख. सत्ववि। . .
[अ०२पा०३अधि०२] वैयासिकन्यायमाला। ६५ तच्च व्योम्नो ब्रह्मकार्यत्वे मृद्धटन्यायेन ब्रह्माव्यतिरेकादुपपादयितुं सुशकम् , नान्यथा । किंच-'आकाशं जायते, विभक्तत्वात्, घटवत् । नच-अयमसिद्धो हेतुः, वाय्वा- दिवलक्षण्यस्याऽऽकाशे प्रसिद्धत्वात् । नॅच-ब्रह्मण्यनैकान्तिकत्वम्,सर्वात्मकस्य ब्रह्मणः कस्माच्चिदपि विभक्तत्वस्य दुर्भणत्वात् । जनिश्रुतिश्चोत्पत्तिवादिन्यनुगृहीता भवति । यत्तु-कारणत्रितयासंभवः-इत्युक्तम् । तदसत् । आरम्भवादे त्रिवयापेक्षायामपि विवर्ववादे वदनपेक्षत्वात् । तस्मात् एतेभ्यो हेतुभ्यो ब्रह्मणः कारणाद्व्योम जायते ।। '. . (द्वितीये वायोब्रह्मजन्यत्वाधिकरणे सूत्रम्-) एतेन मातरिश्वा व्याख्यातः ॥ ८॥ द्वितीयाधिकरणमारचयति- वायुर्नित्यो जायते वा छान्दोग्येऽर्जन्मकीर्तनात् ।। सैषाऽनस्तमिता देवतेत्युक्तेश्च न जायते ॥ ३ ॥ श्रुत्पन्तरोपसंहाराद्गौण्यनस्तमयश्रुतिः ॥ वियद्वज्जायते वायुः खैरूपं ब्रह्म कारणम् ॥ ४ ॥ तैत्तिरीयक एव-"आकाशाद्वायुः" इति श्रूयते । सेवमुत्पत्तिश्रुतिौणी, छान्दोग्ये सृष्टिप्रकरणे-तेजोबनानामेवोत्पत्तेरभिधानात् । ननु-'क्वचिदश्रवणमन्यत्र श्रुतं न वारयितुमुत्सहते' इति न्यायेन तैत्तिरीयश्रुतेः कुतो गौणत्वम् इति चेत् । 'श्रुत्यन्तरविरोधात्' इवि ब्रूमः । बृहदारण्यके-"सैषाऽनस्तमिता देवता यद्वायुः" इति वायोविनाशप्रतिषेधात् । उत्पत्तिमत्वे च तदयोगात् । तस्मात्-न जायते वायुः । इति प्राप्ते, ब्रूमः-छान्दोग्ये जन्माश्रवणेऽपि गुणोपसंहारन्यायेन तैत्तिरीयवा- क्यस्येतरत्रोपसंहारे सति श्रुतमेव च्छान्दोग्ये वायुजन्म । अनस्तमयश्रुतिस्तु न मुख्या, उपासनाप्रकरणपठितत्वेन स्तुत्यर्थत्वात् । आकाशोत्पत्तिहेववश्वात्रानुसंधेयाः । न च-वायोराकाशकार्यत्वेन ब्रह्मण्यनन्तर्भावाद्ब्रह्मज्ञानेन वायुज्ञानं न सिध्येत्-इति शङ्कनीयम् , पूर्वपूर्वकार्यविशिष्टस्य ब्रह्मण उत्तरोत्तरकार्यहेतुत्वस्य वक्ष्यमाणतया विय- दूपापन्नस्य ब्रह्मण एव वायुकारणत्वात् । तस्मात्-वायुर्जायते ।। १ ग. त्वेन घट। २ ग. ब्रह्मव्य । ३. "यितुमशक्यम् । ४ क. नापि । ५ क. क्तत्वेन दु। ग. 'क्तस्य दु । ६ ख. ग. दिनाऽनुर' । ७ ख. क्षणात् । ८ ख. जन्यकी । ९ ग. 'क्तेन च जा। १० क. स्तमिति श्रु। ११ क. ख. ग. स्वरूपं । १२ क. 'त्पत्यभिधानाद्वायोरुत्पत्त्यनभि I. ९ सूत्रम्-) ६६ श्रीभारतीतीर्थमुनिप्रणीता- [अ०२पा०३अवि०३-४] (नृतीये सब्रह्मणोऽजन्यत्वाधिकरणे असंभवस्तु सतोऽनुपपत्तेः ॥ ९ ॥ तृतीयाधिकरणमारचयति- सब्रह्म जायते नो वा कारणत्वेन जायते ॥ यत्कारणं जायते तद्वियद्वाय्वादयो यथा ॥५॥ असतोऽकारणत्वेन खादीनां सत उद्भवात् ।। व्याप्तेरजादिवाक्येन बाधात्सन्नैव जायते ॥६॥ छान्दोग्ये—“सदेव साम्येदमग्र आसीत्" इति श्रूयते । तत्सद्रूपं ब्रह्म जन्म- वद्भवितुमर्हति, कारणत्वात्, वियद्वत् ।। इति प्राप्ते, ब्रूमः-सद्रूपं ब्रह्म न जायते । कुतः-तजनकस्य कारणस्य दुनि- रूपत्वात् । तथा हि-न तावदसत्कारणम् "कथमसतः सज्जायेत" इति निषेधात् । नापि-सदेव सतः कारणम् , आत्माश्रयापत्तेः । नापि-वियदादिकं सतः कारणम् , वियदादीनां ततः सतो जायमानत्वात् । या तु व्याप्ति:--'यद्यत्कारणं, तत्तजा- यते' ---इति । सा "स वा एष महानज आत्मा" इति श्रुतिबाध्या । तस्मात्- सझेर नैव जायते ॥ " (चतुर्थे तेजसो ब्रह्मजन्यत्वाधिकरणे सूत्रम्---) तेजोऽतस्तथा ह्याह ॥१०॥ चतुर्थाधिकरणमारचयति- ब्रह्मणो जायते वह्निर्वायोर्वा ब्रह्मसंयुतात् ।। तत्तेजोऽमृजतेत्युक्तेर्ब्रह्मणो जायतेऽनलः ॥ ७॥ वायोमिरिति श्रुत्या पूर्वश्रुत्यैकवाक्यतः ॥ ब्रह्मणो वायुरूपत्वमापन्नादग्निसंभवः ।। ८ ॥ छान्दोग्ये-"तत्तेजोऽसृजत" इति तेजसो ब्रह्मज त्वं श्रूयते । तैत्तिरीयके- "वायोरमिः" इति वायुजत्वम् । तत्र-'वायोः' इति पञ्चम्या आनन्तर्यार्थस्यापि संभवात्केवलब्रह्मजन्यं तेजः ॥ इति प्राप्ते, ब्रूमः-अनुवर्तमानेन संभूतशब्देनान्विताया 'वायोः' इति पञ्चम्या उपादानार्थत्वस्यैव मुख्यत्वात् । उभयोः श्रुत्योरेकवाक्यत्वे सति-वायुरूपापन्नाद्र- ह्मणस्तेजो जायते-इति लभ्यते ।। १ क. ख. नां च समुद्भ। ख. नां च सदुद्भ' । २ क. यदादिवत् । ख. 'यद्वावादि- वत् । ३ ख. रूप्यत्वा' । ४ क. 'तिर्षाध्या । ५.क. 'ब्रह्मैव न जा। ६ ख. 'म्या अपा। .
. [अ०२पा०३अधि०५-६] वैयासिकन्यायमाला | ६७ . ( पञ्चम अपां ब्रह्मजन्यत्वाधिकरणे सूत्रम्-) आपः ॥११॥ पञ्चमाधिकरणमारचयति- ब्रह्मणोऽपां जन्म किंवा वले गेर्जलोद्भवः ।। विरुद्धत्वान्नीरजन्म ब्रह्मणः सर्वकारणात् ।। ९ ।। अग्नेराप इति श्रुत्या ब्रह्मणो वह्नयुपाधिकात् ।। अपां निर्विरोधस्तु सूक्ष्मयोर्नाग्मिनीरयोः ॥ १० ॥ यद्यपि “तदपोऽसृजत", "अनेरापः” इत्युभयोश्छान्दोग्यतैत्तिरीययोस्वेजो- जन्यत्वमेवापां श्रूयते । वथाऽपि न तद्युक्तम् । निवर्त्यनिवर्तकयोरमिजलयोविरुद्धयोन हेतुहेतुमद्भावः । इति पूर्वपक्षः । पञ्चीकृत योद्देश्यमानयोविरोधेऽप्यपञ्चीकृवयोः श्रुत्येकसमधिगम्ययोर्विरोधकल्पना- योगात् । संतापाधिक्ये खेदेवृष्टयुद्भवदर्शनाच्च । श्रुविद्वयानुसारेण तेजोरूपापन्नाद्र- झणोऽपा जनिः । इति सिद्धान्तः ।। . . ( षष्ठे पृथिवीमात्रस्यान्नशब्दवाच्यताधिकरणे सूत्रम्-) पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥ १२ ॥ षष्ठाधिकरणमारचयति- ता अन्नमसृजन्तेति श्रुतमन्नं यवादिकम् ॥ पृथिवी वा यवाद्येव लोकेऽन्नत्वप्रसिद्धितः ॥ ११ ॥ भूताधिकारात्कृष्णस्य रूपस्य श्रवणादपि ॥ तथाऽद्भयः पृथिवीत्युक्तेरन्नं पृथव्यन्नहेतुतः ॥ १२ ॥ छान्दोग्ये-"ता अन्नमसृजन्त" इत्यद्भयोऽन्नस्य जन्म श्रूयते। तत्र-अन्न- शब्दस्य लोकमसिद्धया ब्रीहियवादिकमर्थः ।। इति प्राप्ते, ब्रूमः-पृथिव्यत्रानशब्दार्थः । पञ्चमहाभूत सृष्टेरविकृतत्वात् । किंच-"यदने रोहितं रूपं तेजसस्तद्रूपम्, यच्छुक्वं तदपाम्, यत्कृष्णं तदन्नस्य" इवि कृष्णरूपं पृथिव्यां बहुलमुपलभ्यते, मतु व्रीहियवादौ । तथा-"अद्भयः पृथिवी" इति तैत्तिरीयकश्रुत्येकवाक्यताबलादेवान्नं पृथिवी । न च--अन्नशब्दस्य तत्र प्रवृत्य- १ ग. नानौ जलो ।२ क. ख. 'जन्म विरों। ३ क. 'जन्मत्व । ४ क. योर्हेतुहेतुमद्भावो युक्तः । ई। ५ क. 'दद्रवोद्भ'। ख. दवृष्टयाद्युद्भः। ६ ख. सिद्धम् । ७ ख. यथादि। ८ ग. 'नज । ९ क. 'र्थः । कुतः-प। १० ग. 'दन्न । .. ।
श्रीभारतीतीर्थमुनिप्रणीता- [म०२पा०३अवि०७-८] नुपपत्तिः, कार्यकारणयोरनपृथिव्योरभेदविवक्षया वदुपपत्तेः । तस्मात्-अन्नं पृथिवी ।। . N . (सप्तमे सोपाधिकब्रह्मण एव कार्यकारणत्वाधिकरणे सूत्रम्-) तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ १३ ॥ सप्तमाधिकरणमारचयति- व्योमाद्याः कार्यकर्तारो ब्रह्म वा तदुपाधिकम् ।। व्योन्नो वायुर्वायुतोऽनिरित्युक्तेः खादिकर्तृता ॥ १३ ॥ ईश्वरोऽन्तर्यमयतीत्युक्तेयोमाधुपाधिकम् ।। ब्रह्म वाय्वादिहेतुः स्यात्तेजआदीक्षणादपि ॥ १४ ॥ पूर्वाधिकरणेषु-पूर्वपूर्वकार्योपाधिकाद्ब्रह्मण उत्तरोत्तरकार्योत्पत्तिः इति यदेव- सिद्धवत्कृत्य सिद्धान्तितम् , वदयुक्तम् । वायोरमिः" इत्यादी ब्रह्मनिरपेक्षात्केवलायोमादेरुत्तरकार्योत्पत्तिश्रवणात् ॥ इति प्राप्ते, ब्रूम:-“य आकाशमन्तरो यमयति, यो वायुमन्तरो यमयवि" इत्यादिनाऽन्तर्यामिब्राह्मणे व्योमादेः स्वातव्यं निवारितम् । वथा-"वत्तेज ऐक्षव वा आप ऐक्षन्त" इति तेजआदेरीक्षणपूर्वकं स्रष्टुत्वं श्रूयते । तच्चेक्षणं चेतनब्रह्मनि- रपेक्षाणामचेतनानां न संभवति । तस्मात्-व्योमाधुपातिकस्य ब्रह्मण एवं कारणत्वम् ॥ 'आकाद्वायुः, (अष्टमे लयक्रमनिरूपणाधिकरणे सूत्रम्-) विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ १४॥ अष्टमाधिकरणमारचयति- सृष्टिक्रमो लये ज्ञेयो विपरीतक्रमोऽथवा ।। कृप्तं कल्प्यावर तेन लये सृष्टिक्रमो भवेत् ।। १६ ॥ हतावसति कार्यस्य न सत्त्वं युज्यते यतः॥ पृथिव्यस्विति चोकत्वाद्विपरीतक्रमो लये ॥ १७ ॥ आकाशादिक्रमः सृष्टौ कृप्तः । अतः प्रलयेऽपि स एवं क्रमः। इति प्राप्ते, ब्रूमः-प्रथमतः कारणे लीने सति निरुपादानानां कार्याणां कंचित्का- लमवस्थानं प्रसज्येत । किंच- १ क. स्यात्तैजसादी । २ क. निवर्तितम् । ३ क. 'तेजस ऐं। ४ क 'रं येन तेन सृ। ५ क. ग. 'तः ।प्र। ६ ख. 'येप्येवं क्र [अ०२पा०३अधि०९-१०] वैयासिकन्यायमाला। "जगत्पतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ।। (वायुः प्रलीयते व्योम्नि तच्चाव्यक्ते प्रलीयते"।) इति पुराणे विपरीतक्रमस्योक्तत्वोत्कृप्त एवायं क्रमः । तस्मात्-सृष्टिविपरीवेन पृथिव्यादिक्रमेण प्रैलीयते ॥ (नवमे प्राणादिसृष्टौ क्रमनिरूपणाधिकरणे सूत्रम्-) अन्तरा विज्ञानमनसी क्रमेण तल्लि- कादिति चेन्नाविशेषात् ॥ १५ ॥ नवमाधिकरणमारचयति- किमुक्तक्रमभङ्गोऽस्ति प्राणाद्यैर्नास्ति वाऽस्ति हि ।। प्राणाक्षमनसां ब्रह्मवियतोर्मध्य ईरणात् ॥ १८ ॥ प्राणाद्या भौतिका भूतेष्वन्तर्भूताः पृथक्क्रमम् ।। नेच्छन्त्यतो न भङ्गोऽस्ति प्राणादौ न क्रमः श्रुतः ।। १९ ॥ मुण्डकोपनिषदि श्रूयते- "एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुयोतिरापः पृथिवी विश्वस्य धारिणी ॥ इति । तत्र-प्राणादीनां वियदादिभ्यः पूर्व श्रूयमाणत्वादाकाशादिकः पूर्वोक्तसृष्टिक्रमो - भज्यते ॥ इति प्राप्ते, ब्रूमः ७ . . ... "अन्नमयं हि सौम्य मनः", "आपोमयः प्राणः", "वेजो- मयी वाक्" इति प्राणादीनां भौतिकत्वश्रवणाद्भूतेष्वेवान्तर्भावेन पृथक्क्रमो नापेक्षितः। न च-मुण्डकश्रुतिः क्रमवाचिनी, "आकाशाद्वायुः वायोरग्निः" इत्यादाविव क्रमस्या- प्रतीयमानत्वात् , उत्पत्तिमात्र केवलं ब्रूते । तस्मात्-नानया श्रुत्या पूर्वोक्तक्रम- भङ्गोऽस्ति ।। (दशमे जीवस्य जन्ममरणराहित्याधिकरणे सूत्रम्--) चराचरव्यपाश्रयस्तु स्यात्तद्यपदेशो भाक्तस्तद्भावभावित्वात् ॥१६॥ दशमाधिकरणमारचयवि-- १ क तस्य क्र' । २ ख. 'त्वात्प्रसिद्ध ए।३ क. लयः। ४ क. ग. 'क्क्रमः ॥ नैवं ततो। ५. क. भज्येत । ६ क.ख. त्रं तु के। -- श्रीभारतीतीर्थमुनिप्रणीता- [अ०२पा० ३अधि०११] जीवस्य जन्ममरणे वपुषो वाऽऽत्मनो हि ते ।। जातो मे पुत्र इत्युक्तेर्जातकर्मादितस्तथा ॥ २० ॥ मुख्ये ते वपुषो भाक्त जीवस्यैते अपेक्ष्य हि ॥ जातकर्म च लोकोक्ति वापतेतिशास्त्रतः ॥ २१ ॥ लोके-'पुत्रो मे जातः' इति व्यवहाराच्छास्त्रे जातकर्मादिसंस्कारोक्तेश्च जन्मम- रणे जीवस्य ॥ इति प्राप्ते, ब्रूमः-जीवस्य मुख्यमरणाङ्गीकारे कृवनाशाकृताभ्यागमप्रसङ्गस्य दुर्निवारत्वाद्देहगते एव जन्ममरणे जीवस्योपचर्येवे । औपचारिके एव ते अपेक्ष्य लोकव्यवहारकर्मशास्त्रयोः प्रवृत्तिः । उपनिषच्छास्त्रं तु “जीवापेवं वाव किलेदं म्रियते, न जीवो म्रियते" इति जीवविमुक्तस्यैव शरीरस्य मुख्य मरणमभिधाय जीवस्य तान- राचष्टे । तस्मात्-वपुषो जन्ममरणे ॥ ( एकादशे जीवस्य नित्यत्वाधिकरणे सूत्रम्-) नाऽऽत्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ १७ ॥ एकादशाधिकरणमारच यति- कल्पादौ ब्रह्मणो जीवो वियद जायते न वा ।। सृष्टेः प्रागद्वयत्वोक्तेर्जायते विस्फुलिङ्गवत् ॥ २२ ॥ ब्रह्माद्वयं जात बुद्धौ जीवत्वेन विशेत्स्वयम् ॥ औपाधिकं जीवजन्म नित्यत्वं वस्तुतः श्रुतम् ॥ २३ ।। "एकमेवाद्वितीयम्" इवि सृष्टेः प्रागद्वयत्वं श्रूयमाणं ब्रह्मव्यतिरिक्तस्य जीवस्यानु- त्पत्तौ नोपपद्यते । श्रुतिश्च विस्फुलिङ्गदृष्टान्तेन जीवस्योत्पत्ति प्रतिपादयति-"यथाऽमेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति, एवमेतस्मादात्मनः सर्वे प्राणाः, सर्वे लोकाः, सर्वे वेदाः, सर्वाणि भूतानि, सर्व एव आत्मानो व्युच्चरन्ति" इति । तस्मात्-कल्पादौ वियदादिवब्रह्मणो जीवो जायते ॥ इति प्राप्ते, ब्रूमः-यदद्वयं ब्रह्म वदेव जातायां बुद्धौ जीवरूपेण प्रविशति "द- त्सृष्ट्वा तदेवानुपाविशत्" इतिश्रुतेः । अतो जीवानुत्पत्तौ नाद्वयश्रुतिविरोधः । विस्फुलि- श्रुतिस्त्वौपाधिकजन्माभिषोया प्रवृत्ता। अन्यथा कृवनाशादिदोषस्योक्तत्वात् । वस्तु- १ क. ख. 'वियुक्त । २ ग. संपादयति । ३ क. ख. देवाः। ४ क. 'तेः । जी । ५ क. ग. 'तिश्चौपा । ६ ख• 'प्रायात्म।
[अ०२पा०३अधि०१२ १३] वैयासिकन्यायमाला । तत्त्वाभिप्रायेण तु नित्यत्वं श्रुतिब्रूते-"नित्यो नित्यानां चेतनश्चेतनानाम्" इति । वस्मात्कल्पादौ जीवो नोत्पद्यते ।। चैतन्यं सुषु- (द्वादशे जीवस्य चिद्रूपत्वाधिकरणे सूत्रम्-) ज्ञोऽत एव ॥ १८॥ द्वादशाधिकरणमारचयति अचिद्रूपोऽथ चिद्रूपो जीवोऽचिद्रूप इष्यते ॥ चिदभावात्मुषुप्त्यादौ जाग्रचिन्मनसा कृता ॥ २४ ॥ ब्रह्मत्वादेव चिद्रूपश्चित्सुषुप्तौ न लुप्यते ॥ द्वैतादृष्टिद्वैतलोपानहि द्रष्टुरिति श्रुतेः ॥ २५ ॥ तार्किका मन्यन्ते- सुषुप्तिमु समाधिषु चैतन्यमावादचिद्रूपो जीवः । जागरणे चाऽऽत्ममनःसंयोगाच्चैतन्याख्यो गुणो जायते--इति । तदसत् । चिद्रूपस्य ब्रह्मण एव जीवरूपेण प्रवेशश्रवणात् । न च--चैतन्य यादौ लुप्यते, सुषुप्त्यादिसाक्षित्वेनावस्थानात् । अन्यथा सुषुप्तादिपरामर्शायोगात् । कथं तर्हि--सुषुप्त्यादा द्वैताप्रतीतिः--इति चेत् । 'द्वैतलोपात्' इति ब्रूमः । तथाच श्रुतिः--"यद्वै वन्न पश्यति पश्यन्वै तन्न पश्यति, न हि द्रष्टुर्दष्टेविपरिलोपो विद्य. तेऽविनाशित्वात् , न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्" इति । अस्या- यमर्थ:--'तत्र सुषुप्तौ जीवः किमपि न पश्यति, इति यल्लौकिकैरुच्यते, तदसत् । पश्यन्नेव जीवस्तदानीं न पश्यति, इति भ्रान्त्या केवलं व्यपदिश्यते । कथं तद्दर्श- नम्-- इत्यत्र हेतुरुच्यते---द्रष्टुरात्मनः स्वरूपभूताया दृष्टोपो नहि विद्यते विना- शरहितस्वभावत्वात् । अन्यथा लोपवादिनोऽपि निःसाक्षिकस्य लोपस्य वक्तुमशक्य- त्वात् । कथं तर्हि लौकिकानां 'न पश्यति' इति भ्रम:-- इत्यत्र हेतुरुच्यते---ब्रह्म- चैतन्यादन्यत्क्रियाकारकफलरूपेण विभक्तं जगदाख्यं यद्वितीयं वस्तु, तन्नास्ति तस्य स्वकारणे लीनत्वात् । अतो जागरणवद्रष्टदृश्यदर्शनव्यवहाराणामभावात् 'न पश्यति' इति लौकिकानां भ्रमः--इति । तस्मात्--चिद्रूपो जीवः ।। (बयोदशे जीवस्य सर्वगतत्वाधिकरणे सूत्राणि-) उत्क्रान्तिगत्यागतीनाम् ॥ १९॥ स्वात्मना १ क. ख. षुप्त्यादि । २ क. ख. ण इव द्रष्टुं ।
- श्रीभारतीतीर्थमुनिप्रणीता- [अ०२पा०३अधि०१३] चोत्तरयोः ॥ २०॥ नाणुरतच्छ्रुतेरिति चेन्नेत- राधिकारात् ॥ २१ ॥ स्वशब्दोन्मानाभ्यां च ॥२२॥ अविरोधश्चन्दनवत् ॥२३॥ अवस्थि- तिवैशेष्यादिति चेत्राभ्युपगमा दि हि॥२४॥ गुणादा लोकवत् ॥२५॥ व्यतिरेको गन्ध- वत् ॥ २६ ॥ तथा च दर्शयति ॥२७॥ पृथगुपदेशात् ॥ २८॥ तद्गुणसारत्वात्तु तब्ध- पदेशः प्राज्ञवत् ॥ २९॥ यावदात्मभावित्वाच्च न दोषस्तदर्शनात् ॥ ३०॥ पुंस्त्वादिवत्तस्य सतोऽभिव्यक्तियोगात् ॥३१॥नित्योपलब्ध्यनु- पलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॥३२॥ त्रयोदशाधिकरणमारचयति- जीवोऽणुः सर्वगो वो स्यादेषोऽणुरिति वाक्यतः॥ उत्क्रान्तिगत्यागेमनश्रवणाचाणुरेव सः ॥ २६ ॥ साभासबुद्धयाऽणुत्वेन तदुपाधित्वतोऽणुता ॥ जीवस्य सर्वगत्वं तु स्वतो ब्रह्मत्वतः श्रुतम् ॥ २७ ॥ "एषोऽणुरात्मा चेतसा वेदितव्यः" इत्यणुत्वं श्रुतम् । “अस्माच्छरीरादुत्क्रामति" इत्युत्क्रान्तिः । "चन्द्रमसमेव ते सर्वे गच्छन्ति" इति गतिः । "तस्माल्लोकात्पुन रैति" इत्यागमनम् । नद्युत्क्रान्त्यादयः सर्वगतस्योपपद्यन्ते । मध्यमपरिमाणस्य तदु. पपत्तावप्यणुश्रुतिर्विरुध्यते । अनित्यत्वं च दुर्वारम् । तस्मात्-अणुजीवः ।। इति प्राप्ते, ब्रूमः-चैतन्यप्रतिबिम्बसहिता बुद्धिरसर्वगता । तदुपाधिकत्वाजी- वस्याणुत्वोत्क्रान्त्यादय उपपन्नाः । स्वतस्तु जीवस्य ब्रह्मरूपत्वात्सर्वगतत्वम् । “स वा एप महानज आत्मा" "सर्वव्यापी सर्वभूतान्तरात्मा" इत्यादौ सर्वगतत्वं श्रुतम् । तस्मात्सर्वगतो जीवः ॥ :: १ ख. हि । २ क. गतीनां श्र' । ३ क. सतो । ४ क. ख. गुत्वश्रु। ५ क. 'न्यविम्बि- ता। ख. न्यबुद्धिस।
७ न [म०२पा०३अधि०१४-१५] वैयासिकन्यायमाला। (चतुर्दशे जीवस्य कर्तृत्वाधिकरणे सूत्राणि-) कर्ता शास्त्रार्थवत्त्वात् ॥ ३३ ॥ विहारोपदे- शाद ॥ ३४॥ उपादानात् ॥ ३५॥ व्यप- देशाच्च क्रियायां न चेनिर्देशविपर्ययः ॥ ३६॥ उपलब्धिवदनियमः ॥३७॥ शक्तिविपर्य- यात् ॥ ३८॥ समाध्यभावाच ॥ ३९ ॥ चतुर्दशाधिकरणमारचयति- जीवोऽकर्ताऽथवा कर्ता धियः कर्तृत्वसंभवात् ॥ जीवकर्तृतया किं स्यादित्याहुः सांख्यमानिनः ॥ २८ ॥ करणत्वान्न धीः कर्ती यागश्रवणलौकिकाः ॥ व्यापारी न विना का तस्माज्जीवस्य कर्तृता ॥ २९ ॥ 'बुद्धेः परिणामित्वेन क्रियावेशात्मकं कर्तृत्वं संभवति, न त्वसङ्गस्याऽऽत्मनः' इति यत्सांख्यैरुक्तम् । वदसंगतम् । करणत्वेन कृप्तशक्तिकाया बुद्धः कर्तृशक्ति कल्पयितुं शक्या, कुठारादावदर्शनात् । बुद्धेः कर्तृत्वे करणान्तरस्य कल्पनीयत्वाच्च । न च-मा भूत्कर्ता -इति वाच्यम्, पूर्वकाण्डोक्तयागादिव्यापाराणामुत्तरकाण्डोक्त श्रवणादिव्यापाराणां लौकिककृष्यादिव्यापाराणां च कर्तृसापेक्षत्वात् । तस्मात्-जीवः कर्वा ।। है। (पञ्चदशे जीवस्याध्यस्तकर्तृत्वाधिकरणे सूत्रम्-) यथा च तक्षोभयथा ॥४०॥ पश्वदशाधिकरणमारचयति कर्तृत्वं वास्तवं किंवा कल्पितं वास्तवं भवेत् ।। यजेतेत्यादिशास्त्रेण सिद्धस्याबाधितत्वतः ॥ ३० ॥ असङ्गो हीति तद्धाधात्स्फटिके रक्ततेव तत् ॥ अध्यस्तं धीचक्षुरादिकरणोपाधिसंनिधेः ॥ ३१ ।। पूर्वाधिकरणे प्रतिपादितस्य कर्तृत्वस्य बाधामावास्तिवम् ।। , . २ क. ग. कर्ता। ३ ख. रान वि। ४ क. १ क. ख. ग. जीवः कर्ताऽथवाऽकर्ता द्वास्तवत्वम् ।
श्रीभारतीतीर्थमुनिप्रणीता- [अ.२पा.३अधि.१६-१७] इति प्राप्ते, ब्रूमः- "असङ्गो ह्ययं पुरुषः" इति श्रुत्या कर्तृत्वसङ्गो बाध्यते । भतो यथा जपाकुसुमसंनिधिवशात्स्फटिके रक्तत्वमध्यस्तम् , तथा अन्तःकरणसंनि- धिवशात्कर्तृत्वमात्मन्यध्यस्यते ॥ , (षोडश ईश्वरस्य जीवप्रवर्तकत्वाधिकरणे सूत्रे-) परात्तु तच्छ्रुतेः॥४१॥ कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥ ४२ ॥ षोडशाधिकरणमारचयति- प्रवर्तकोऽस्य रागादिरीशो वा, रागतः कृषौ ॥ दृष्टा प्रवृत्तिर्वैषम्यमीशस्य प्रेरणे भवेत् ॥ ३२ ॥ सस्येषु वृष्टिवज्जीवेष्वीशस्याविषमत्वतः ।। रागोऽन्तर्याम्यधीनोऽत ईश्वरोऽस्य प्रवर्तकः ॥ ३३ ॥ लोके कृषीवलादीनां रागद्वेषावेव प्रवर्तकौ दृष्टौ। तदनुसाराद्धर्माधर्मकर्तृजीव स्यापि तावेव प्रवर्तकावभ्युपेयौ । ईश्वरस्य प्रवर्तकत्वे कांश्चिज्जीवान्धर्मे प्रवर्तयति, कांश्चिदधर्मे, इति वैषम्यं दुर्वारम् । तस्मात्-नेश्वरः प्रवर्तकः ॥ इति प्राप्ते, ब्रूमः-न तावदीश्वरस्य वैषम्यदोषप्रसङ्गः । वृष्टिवत्साधारणनिमित्त- त्वात् । यथा वृष्टेः सस्याभिवृद्धिहेतुत्वेऽपि ब्रीहियवादिवैषम्ये बीजानामेव निमित्त- त्वम् , तथेश्वरस्य 'यथायथं जीवाः प्रवर्तन्ताम्' इत्यनुज्ञया साधारणप्रवर्तकत्वात् । असाधारणपवर्तकत्वेऽपि न वैषम्यम् , पूर्वकृतकर्मणां वासनानां च वैषम्यहेतुत्वात् |- कर्मणां फलहेतुत्वमेव, न कर्मान्तरहेतुत्वम्-इति चेत् । सत्यम् । सुखदुःखरूपस्य खफलस्य प्रदानाय जीवं व्यापारयत्सु कर्मस्वात्कर्मान्तरमपि निष्पद्यत इति दुर्वार तद्धेतुत्वम् । वासनानां तु साक्षादेव कर्महेतुत्वम् । तथाचेश्वरस्य कुवो वैषम्यप्रसङ्गः । यत्तु-रागस्य प्रवर्तकत्वनिदर्शनमुदाहृतम् । तत्तथाऽस्तु । न तावतेश्वरस्य प्रवर्तकत्व. हानिः, सर्वान्वामिणेश्वरेण रागस्यापि नियम्यमानत्वात् । तस्मात्-ईश्वरो जीवस्य प्रवर्तकः ॥ . (सप्तदशे जीवेश्वरव्यवस्थाधिकरणे सूत्राणि-) अंशो नानाव्यपदेशादन्यथा चापि दाशकित- १ क. ग. 'स्वसंयोगो बा ! २ क. स्व. था-क। ३ क. 'मिण ईश्वरस्य रा।
. [अ०२पा०३अधि०१७] वैयासिकन्यायमाला । ७५ वादित्वमधीयत एके ॥४३॥ मन्त्रवर्णाच ॥४४॥ अपि च स्मर्यते ॥४५॥ प्रकाशा- दिवनैवं परः॥४६॥ स्मरन्ति च ॥४७॥ अनुज्ञापरिहारौ देहसंबन्धाज्योतिरादिवत् ॥४८॥ असंततेश्चाव्यतिकरः ॥ ४९ ॥ आभास एव च ॥५०॥ अदृष्टानियमात् ॥५१॥ अभिसंध्यादिष्वपि चैवम् ॥ ५२ ॥ प्रदेशादिति चेत्रान्तर्भावात् ॥ ५३ ॥ सप्तदशाधिकरणमारचयति- किं जीवेश्वरसांकर्य व्यवस्था वा श्रुतिद्वयात् ।। अभेदभेदविषयात्सांकर्यं न निवार्यते ॥ ३४ ॥ अंशोऽवच्छिन्न आभास इत्यौपाधिककल्पनैः ।। जीवेशयोर्व्यवस्था स्याज्जीवानां च परस्परम् ।। ३५ ॥ "तत्त्वमसि" इत्यादिश्रुविर्जीवेशयोरभेदं प्रतिपादयति । "आत्मा वा अरे द्रष्ट- व्यः" इत्यादिना द्रष्टद्रष्टव्यरूपेण भेदः प्रतीयते । तथाच सति भेदश्रुतिबलात् 'जीवो नास्ति' इत्यपलेपितुमशक्यम् । अभेदश्रुत्या चेश्वरात्पृथक्त्वेन व्यवस्थापयितुं न शक्यते । तस्माद्विद्यमानस्य जीवस्येश्वरेण सांकयं दुरिम् । परस्परं च जीवानामी-- रादभेदद्वारा सांकर्यमानुषङ्गिकम् । तस्मात्-ब्रह्मवादिनो न जगद्व्यवस्था । इति प्राप्ते, ब्रूमः-यद्यपि-गोमहिषवज्जीवेश्वरयोरत्यन्तभेदो वास्तवो नास्ति । वथाऽपि व्यवहारदशायामुपाधिकल्पिवं भेदमाश्रित्य शास्त्राणि वेधों जीवं निरूपयन्ति- "ममैवांशो जीवलोके जीवभूतः सनातनः" । इत्यंशत्वमवगम्यते । “स समानः सन्नुभौ लोकावनुसंचरति" इति श्रुतौ विज्ञा- नमयस्य जीवस्य विज्ञानशब्दवाच्यया बुद्धया समानपरिमाणनिर्देशाद्धटाकाशवदव- च्छिन्नत्वं प्रतीयते- "एक एव तु भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्" । क. 'श्वरभेद । १ क. इति सोपाधिकल्प । २ क. ख. 'लपयितु। क. 'मानं जी। ५ क. 'धा भेदाबीवं । ६ क. वाच्यस्य बु। ७ क. 'णत्वनि ।
७६ " श्रीभारतीतीर्थमुनिप्रणीता- [भ०२पा०४भषि०१] इत्याभासत्वमवगम्यते तस्मात्सुलभैव ब्रह्मवादिनो जीवेश्वरव्यवस्था । जीवानां च परस्परमनेकजलपात्रस्थबहुसूर्यप्रतिबिम्बवद्यवहारव्यवस्था सुवरामुपपद्यते । तस्मात्- न कोऽपि दोषः-इति सिद्धम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थमुनिप्रणीतायां वैयासि- कन्यायमालायां द्वितीयाध्यायस्य तृतीयः पादः ॥ ३ ॥ आदिवः अधिकरणानि १७ सूत्राणि ५३ ३७० अत्र पादे ७८ (अथ द्वितीयाध्यायस्य चतुर्थः पादः) (प्रथम इन्द्रियाणां परमात्मजन्यत्वाधिकरणे सूत्राणि-) तथा प्राणाः ॥१॥ गौण्यसंभवात् ॥२॥ तत्याक्श्रुतेश्च ॥३॥ तत्पूर्वकत्वादाचः ॥४॥ चतुर्थपादस्य प्रथमाधिकरणमारचयति- किमिन्द्रियाण्यनादीनि सूज्यन्ते वा परात्मना । सृष्टेः प्राषिनाम्नैषां सद्भावोक्तेरनादिता ।। १ ।। एकबुद्धया सर्वबुद्धौतिकत्वाजनिश्रुतेः ।। उत्पद्यन्तेऽथ सद्भावः प्रागवान्तरसृष्टितः ॥ २॥ "ऋषयो वाव तेऽग्रे सदासीत् । ( वदाहुः) सदासीत् । ( वदाहुः ) के ते ऋषयः- ते ऋषयः-इति । प्राणा वा ऋषयः" इति श्रुत्या सृष्टेः पूर्वमिन्द्रियाणां सद्भावावगमादनादित्वं तेषाम् ।। इति प्राप्ते, ब्रूमः–एकविज्ञानेन सर्वविज्ञानं तावदिन्द्रियाणामनुत्पत्तौ न घटते । तथा-"अन्नमयं हि सौम्य मनः । भापोमयः प्राणः । तेजोमयी वाक्" इति भूत- कार्यत्वमिन्द्रियाणां श्रूयते । "एतस्माज्जायते प्राणो मनः सन्द्रियाणि च" इति स्पष्टमेवेन्द्रियाणां जन्मश्रवणम् । यत्तु-सृष्टेः प्राक्सद्भाववाक्यम् । वदवा- न्तरसृष्टिविषयतया व्याख्येयम् । तस्मात्- या व्याख्येयम् । तस्मात्-इन्द्रियाणि परमात्मन उत्पद्यन्ते ।। - १ क. ख. 'निश्रवात् ।। उ । २ ख. 'द्भावात्प्राग। ३ क. 'ष्टिवत् । ४ क, ख. ग. तदने । ५ क. इत्यत्र । ६ क. 'षयं व्या'। ७ क. रस्मादुत्प।
. [अ०२पा०४अधि०२-३] वैयासिकन्यायमाला । (द्वितीय इन्द्रियाणामेकादशत्वाधिकरणे सूत्रे-) सप्त गतेर्विशेषितत्वाच ॥ ५ ॥ हस्तादयस्तु स्थितेऽतो नैवम् ॥६॥ द्वितीयाधिकरणमारचयति- सप्तैकादश वाऽक्षाणि सप्त प्राणा इति श्रुतेः ॥ सप्त स्युर्मूर्धनिष्ठेषु च्छिद्रेषु च विशेषणात् ॥ १३ ॥ अशीर्षण्यस्य हस्तादेरपि वेदे समीरणात् ।। ज्ञेयान्येकादशाक्षाणि तत्तत्कार्यानुसारतः ॥ ४ ॥ सप्पैवेन्द्रियाणि | कुतः-“सप्त प्राणाः प्रभवन्ति" इति सामान्य श्रुतेः । "स वै शीर्षण्याः प्राणाः” इति शिरोगतसप्तच्छिद्रनिष्ठत्वेन विशेषितत्वाच्च ।। इति प्राप्ते, ब्रूमः-शिरोनिष्ठेभ्य इतराणि हस्तादीन्यपि वेडे सीर्यन्ते । "हस्तौ चाऽऽदातव्यं च, उपस्थश्चाऽऽनन्दयितव्यं च" इत्यादिना । तथाच वेदात्रि- श्वये सत्येकादशव्यापाराणां दर्शन श्रवणघ्राणास्वादनस्पर्शनाभिवदनादानगमनानन्दविस- र्गध्यानानामुपलम्भात्तत्साधनत्वेन-इन्द्रियाण्येकादश' इत्यभ्युपगन्तव्यम् ।। . . new (तृतीये, इन्द्रियाणामणुत्वाधिकरणे सूत्रम्-) अणवश्च ॥ ७॥ तृतीयाधिकरणमारचयति- व्यापीन्यणूनि वाऽक्षाणि सांख्या व्यापित्वमूचिरे ॥ वृत्तिलाभस्तत्र तत्र देहे कर्मवशाद्भवेत् ॥ ५॥ देहस्थवृत्तिमद्भागेष्वेवाक्षत्वं समाप्यताम् ॥ उत्क्रान्त्यादिश्रुतेस्तानि झणूनि स्युरदर्शनात् ॥ ६॥ 'सर्वगतानामिन्द्रियाणां तत्तच्छरीरावच्छिन्नपदेशेषु तत्तज्जीवकर्मफलोपभोगायें वृत्तिलाभो भवति' इति यत्सांख्यैरुक्तम् | वदयुक्तम् । कल्पनागौरवमसङ्गात् । देहावच्छिन्नवृत्तिमद्भागैरेवाशेषव्यवहारसिद्धी किमनया वृत्तिरहिवानां सर्वगतानामिन्द्रियाणां कल्पनया । किंच-श्रुतिरुत्क्रान्ति- * आदिना “पायुश्च विसर्जयितव्यं च, पादौ च गन्तव्यं च” इति भाध्यदर्शितं ज्ञेयम् । १ ख. सप्तेति। २ क. वेदमुखानि । ख. वेदमुखादनिर्णये। ३ ग. 'घ्राणस्वा । ४ क. 'य प्रवृ।
७८ श्रीभारतीतीर्थमुनिप्रणीता- [अ०२पा०४भवि०४.५] गत्यागतीर्जीवस्य प्रतिपादयति । वाश्च सर्वगतस्य जीवस्य न मुख्याः संभवन्ति इति मुख्यत्वसिद्धयर्थमिन्द्रियोपाधिः स्वीकृतः । यदि सोऽप्युपाधिः सर्वगतः स्यात्, कुतस्तद्युत्क्रान्त्यादयो मुख्याः संभवेयुः । तस्मात्--असर्वगवान्यक्षाणि । मध्यमैप- रिमाणेष्वेवादृश्यत्वविवक्षया सूत्रकारेणाणुशब्दः प्रयुक्तः ।। १ ( चतुर्थे प्राणस्य जन्यताधिकरणे सूत्रम्-) श्रेष्टश्च ॥८॥ चतुर्थाधिकरणमारचयति- मुख्यः प्राणः स्यादनादिर्जायते वा न जायते ॥ आनीदिति प्राणचेष्टा प्राक्सृष्टेः श्रूयते' यतः ॥ ७ ॥ आनीदिति ब्रह्मसत्त्वं प्रोक्तं वातनिषेधनात् ॥ एतस्माज्जायते प्राण इत्युक्तेरेष जायते ॥ ८ ॥ मुखबिले संचरन्नुच्छ्रासकारी यो वायुः स प्राणः । सोऽनादिः । कुतः-"नास- दासीत्"- इति सूक्ते-"आनीदवावम्” इति 'आनीत्' शब्देन सृष्टेः प्राक्मा- णचेष्टाश्रवणात् || इति प्राप्ते, ब्रूमः-'आनीत्' शब्दो न पाणव्यापार वक्ति, “अवातम्" इवि वनिषेधात् । किं वर्हि-ब्रह्मसत्त्वं ब्रूते, "सदेव सौम्येदमय आसीत्" इत्यादिभिः सृष्टिमागवस्थाप्रतिपादकश्रुत्यन्तरैः समानार्थत्वात् । "एतस्माज्जायते प्राणः" इति श्रुविस्तु स्पेष्टमेव पाणजन्म प्रतिपादयति । तस्मात्-इन्द्रियवत्पाणो जायते ।। . .. (पञ्चमे प्राणस्य तत्त्वान्तरताधिकरणे सूत्राणि--) न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥ चक्षुरादि- वत्तु तत्सहशिष्ट्यादिभ्यः ॥ १०॥ अकरण- * 'श्रेष्ठः' इति च मुख्यं प्राणमभिदधाति “प्राणो वाव ज्येष्ठः श्रेष्ठश्च” इति श्रुतिनिर्देशातू- भाष्यम् ॥ इति १ ख. 'तश्च जी । २ क. 'मप्रमा। ३ ख. 'तेऽर्थतः । ४ क. वा तनिषे। ५ ख. रेव जा। ६.क. 'युर्मुख्यः । स चेन्द्रियवनायते । कु। ७ क.'ति श्रुतेः सूक्तेन-"आ। ख.'ति श्रुतेः- "0"। ८ क. ब्रह्मसूत : ९ क. स्पष्टं प्रा।
i । . [अ०२पा०४अधि०५] वैयासिकन्यायमाला। त्वाच न दोषः, तथा हि दर्शयति ॥१३॥ पञ्चवृत्तिर्मनोवद्यपदिश्यते ॥ १२ ॥ पञ्चमाधिकरणमारचयवि- वायुर्वाऽक्षक्रिया वाऽन्यो वा प्राणः श्रुतितोऽनिलः ।। सामान्येन्द्रियवृत्तिर्वा सांख्यैरेवमुदीरणात् ॥ ९ ॥ भाति प्राणो वायुनेति भेदोक्तरेकताश्रुतिः वायुजत्वेन सामान्यवृत्तिनाक्षेष्वतोऽन्यता ॥ १० ॥ बाह्यवायुरेव वेणुरन्ध्रवन्मुखच्छिद्रे प्रविश्यावस्थितः प्राणनाम्ना व्यपदिश्यते। न तु पाणो नाम किंचित्तत्त्वान्तरमस्ति । कुतः--"यः प्राणः स वायुः" इति श्रुतेः । अथवा–पञ्जरस्था यथा बहवः पक्षिणः स्वयं चलन्तः पञ्जरमपि चालयन्ति, एवमे- कादशाक्षाणि स्वस्वव्यापारद्वारा देहें चेष्टयन्ते । तत्र देहचालनाख्यो योऽयं सर्वेन्द्रि- यसाधारणो व्यापारः, स प्राणो भविष्यति । तथाच सांख्यैरुक्तम्- "सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च" इति । तस्मात्-न तत्त्वान्तरं पाणः ।। इति प्राप्ते, ब्रूमः--"प्राण एव ब्रह्मणश्चतुर्थः पादः, स वायुना ज्योतिषा *भाति (च तपति च)" इति श्रुत्यन्तरे चतुष्पाद्ब्रह्मोपासनप्रसङ्गेनाऽऽध्यात्मिकमाणस्याऽऽ- धिदैविकवायोश्चानुग्राह्यानुग्राहकरूपेण भेदैः स्पष्टमेव निर्दिष्टः । अत:--"यः प्राणः स वायुः" इत्येकत्वश्रुतिः कार्यकरणयोरभेदवृत्त्या नेवव्या । यत्तु---सांख्यैरुक्तम् । तदसत्, इन्द्रियाणां सामान्यवृत्त्यसंभवात् । पक्षिणां तु चालनान्येकविधानि पञ्जर- चालनस्यानुकूलानि, न तु तथेन्द्रियाणां दर्शनश्रवणंगमनादिव्यापारा एकविधाः । नापि देइचालनानुकूलाः । तस्मात्--तत्त्वान्तरं प्राणः--इति परिशिष्यते ॥ * 'भात्यभिव्यज्यते, अभिव्यक्तः संस्तपति कार्यक्षमो भवतीत्यर्थः' - इति रत्नप्रभा ॥ १ क. 'तोऽल्पता । २ क. बाह्यरवरेणुरन्ध्र । ३ ख. 'विश्य स्थि' । ४ ख. स्वस्य व्या। ५ क. ख. ग. 'मान्या क।। ६ ख. 'कविभेदेन स्पष्टमेव निर्देशः । । ७ क. 'विभेदः ८ ख. 'योरेकत्वबुद्धया ने । ९ क तु सामान्यचल'। १० ख. णमनना। ११ क. 'नापि त्विन्द्रियाणि । तस्मात्तत्त्वान्तरं प्राण इति परिशिष्यते । जन्यश्च सः । “एतस्माजायते प्राणः" इति श्रुतिस्तु स्पष्टं प्राण- जन्म प्रतिपादयति । तस्मादिन्द्रियवत्प्राणो जायते । न वायुक्रिया । नापि देहचालनानुकूला ।त।
८ श्रीभारतीतीर्थमुनिप्रणीता-[अ०२पा०४अधि०६-७] (षष्ठे प्राणस्याणुत्वाधिकरणे सूत्रम्-) अणुश्च ॥ १३॥ षष्ठाधिकरणमारचयति- पाणोऽयं विभुरल्पो वा विभुः स्यात्लुष्युपक्रमे ॥ हिरण्यगर्भपर्यन्ते सर्वदेहे समोक्तितः ॥ ११ ॥ समष्टिव्यष्टिरूपेण विभुरेवाऽऽधिदैविकः ॥ आध्यात्मिकोऽल्पः प्राणः स्यादहश्यश्च यथेन्द्रियम् ॥ १२॥ लुषि म मशकादपि न्यूनकायः पुत्तिकाख्यो जीवः । तमारभ्य सर्वात्मकहिरण्यग- पर्यन्तेषु देहेषु तैस्तैर्दैहैः समत्वं प्राणस्य श्रूयते-"समः प्लुषिणा, समो मशकेन, समो *नागेन, सम एभिस्त्रिमिलेोकः समोऽनेन सर्वेण" इति । तस्मात्-व्यापी प्राणः । इति प्राप्ते, ब्रूमः-आधिदैविकस्य हिरण्यगर्भप्राणस्य समष्टिरूपेण व्यष्टिरूपेण चावस्थानाद्विभुत्वमस्तु-"वायुरेव व्यष्टिः, वायुरेव समष्टिः” इति श्रुतेः । तदेव विभुत्वं "समः प्लुषिणा" इत्यादिश्रुवावुपासनार्थं प्रपश्चितम् । आध्यात्मिकस्तु प्राण इन्द्रियवददृश्यः परिच्छिन्नश्च ।। ( सप्तमे, इन्द्रियाणां देवपरतन्त्रताधिकरणे सूत्राणि--) ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ १४॥ प्राणवता शब्दात् ॥ १५ ॥ तस्य च नित्यत्वात् ॥१६॥ सप्तमाधिकरणमारचयति- स्वतन्त्रा देवतत्रा वा वागाद्याः स्युः स्वतन्त्रता ॥ नो चेद्वागादिजो भोगो देवानां स्यान्न चाऽऽत्मनः ॥ १३ ।। श्रुतमग्न्यादितत्रत्वं भोगोऽग्न्यादेस्तु नोचितः॥ देवदेहेषु सिद्धत्वाज्जीवो भुते स्वकर्मणा ॥ १४ ॥ बागादीन्यक्षाणि स्वस्वविषयस्वातत्र्येण प्रवर्तन्ते, न तु देवतापरतत्राणि । अन्यथा वागादिजन्यस्य भोगस्य देवानां भोक्तृत्वान्न जीवात्मनो भोगः स्यात् ।। "अग्निर्वाग्भूत्वा मुखं प्राविशत्" इत्यादौ वागादीनामग्न्याद्य- , इति प्राप्ते, ब्रूमः- . + 'नागो हस्ती' इति रत्नप्रभा। १ ख र्यन्तं स । २ ख. 'देहस । ३ क. ग. विभुतैषाऽऽधिदैविकी । ४ ख. जन्तुः। ५क. 'यन्तदे । ६ क श्रुतैरेव विभुत्वं । ७ क. प्राणेचिन्द्रि। ८ ग. भोग्यस्य । ९ ख. ग. देवतानां । .
[अ०२पा०४अधि०८] वैयासिकन्यायमाला। ८१ नुगृहीतत्वं श्रूयते । ततो देवतापरतत्रैवेन्द्रियवृत्तिः । न च एतावता देवतानामंत्र भोक्तृत्वम्, महापुण्यफलं देवत्वं प्राप्तानामैधमभोगस्यानुचितत्वात् । देवतादेहेषु परम- भोगस्य सिद्धत्वाच्च । मनुष्यादिजीवस्तु देवप्रेरितरप्य:रापादितं भोगं स्वकर्मफलतया भुके-इत्युपपद्यते । तस्मात्-देवतापरतत्राणीन्द्रियाणि ।। . ( अष्टमे, इन्द्रियाणां प्राणात्तत्त्वान्तरत्वाधिकरणे सूत्राणि-) त इन्द्रियाणि तद्यपदेशादन्यत्र श्रेष्ठात् ॥१७॥ भेदश्रुतेः ॥ १८॥ वैलक्षण्यात् ॥ १९ ॥ भष्टमाधिकरणमारचयति- प्राणस्य वृत्तयोऽक्षाणि प्राणात्तत्त्वान्तराणि वा ॥ तद्रूपत्वश्रुतेः प्राणनानोक्तत्वाच्च वृत्तयः ।। १५ ॥ श्रमाश्रमादिभेदोक्तेगोंणे तद्रूपनामनी ।। आलोचकत्वेनान्यानि माणो नेताऽक्षदेहयोः ॥ १६ ॥ वागादीन्यक्षाणि मुख्यप्राणवृत्तयो भवितुमर्हन्ति । कुतः-तेषां प्राणरूपत्व श्रव. णात् । “हन्तास्यैव सर्वे रूपमसामति, त एतस्यैव सर्वे रूपमभवन्” इति श्रुतेः । किंच-प्राणशब्देनैव तानि लोके ब्यवतियन्ते...-'म्रियमाणस्य नाद्यापि प्राणा निर्गच्छन्ति' इत्यादौ । श्रुतिश्च वागादीनां मौणनामकतामाह-"न वै वाचः, चशूषि, न श्रोत्राणि, न मनांसि, इत्याचक्षते । प्राणा इत्येवाऽऽचक्षते" इति तस्मात्- न पाणादन्यानि तत्त्वानि ।। इति प्राप्ते, ब्रूमः-"तानि मृत्युः श्रमो भूत्वोपयेमे । तस्माच्छ्राम्यत्येव वाक्" इत्यादिना वागादीनां स्वस्वविषयेषु श्रान्तिमभिधाय "अथेममेव नाऽऽ मोत्, योऽयं मध्यमः प्राणः, यः संचरंश्चासंचरंश्च न व्यथते" इति प्राणस्य स्वव्यापारे श्रान्त्यभाव. माह । अयमेको भेदः । तथा---प्राणसंवादे वागादिनिर्गमनप्रवेशयोदेहस्य मरणोत्थाना- भावमभिधाय प्राणनिर्गमनप्रवेशयोमरणोत्थाने दर्शयति । अत एवमादिभेदोक्तेर्वागादीनां प्राणरूपत्वं प्राणनामत्वं च गौणम् । मृत्यन्यायेन प्राणानुवर्तित्वात् । व्यवहारभेदश्च भूयानुपलभ्यते । स्वं स्वं विषयं परिच्छिद्याऽऽलोचकानीन्द्रियाणि, प्राणस्त्वक्षाणां देहस्य च नेता । तस्मात्-बहुवैलक्षण्यात्माणात्तत्त्वान्तराणीन्द्रियाणि ॥ १ ग. 'मन्नभो । २ क मधर्मभो । ३ ग. भोगसिद्धित्वा । ४ ख. प्राणतत्त्या । ५ क. प्राणानां प्राणनाम्नैक । ख. प्राणेनैक । ६ क. भ्यान्यक्षाणि । ७ क. देहे प्राणस्योत्या । क. 'णम् । मृत्युन्या । । ११ - श्रीभारतीतीर्थमुनिप्रणीता- [अ०२पा०४अधि०९] ( नवमे, ईश्वरस्यैव नामरूपव्याकर्तृत्वाधिकरणे सूत्राणि-) संज्ञामूर्तिकृप्तिस्तु त्रिकुर्वत उपदेशात ॥२०॥ मांसादिभौमं यथाशब्दमितरयोश्च ॥२१॥ वैशेष्यात्तु तबादस्तहादः॥२२॥ नवमाधिकरणमारचयति- नामरूपव्याकरणे जीवः कर्ताऽथवेश्वरः ।। अनेन जीवेनेत्युक्तेाकर्ता जीव इष्यते ॥ १७ ॥ जीवान्वयः प्रवेशेन संनिधेः सर्वसर्जने ॥ जीवोऽशक्तः शक्त ईश उत्तमोक्तिस्तथेक्षितुः ॥ १८ ॥ ईश्वरेण पञ्चभूतेषु सृष्टेषु भौतिकयोदृश्यमानयोर्महीवरादिनामरूपयोर्जीव एव स्रष्टा स्यात् । कुतः-"अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति जीवरूपस्यैव सृष्टावन्वयश्रवणात् ॥ इति प्राप्ते, ब्रूमः "जीवेनानुप्रविश्य" इति प्रवेशेनैव जीवोऽन्वेति संनिहित- त्वात् । 'जीवेन व्याकरवाणि' इत्युक्तौ व्यवहितान्वयः स्यात् । नाहे जीवस्य गिरि- नदीनिर्माणे शक्तिरस्ति । ईश्वरस्तु सर्वशक्तियुक्तः "पराऽस्य शक्तिर्विविधैव श्रूयते" इति श्रवणात् । किंच-"व्याकरवाणि" इत्युत्तमपुरुषोऽपीश्वरपक्षे समञ्जसः । तस्मात्--ईश्वर एव नामरूपयोः स्रष्टा । कथं वर्हि-घटपटादी कुलालादेर्निर्मातृ- त्वम् । 'ईश्वरप्रेरणात्' इति ब्रूमः । तस्मात्-ईश्वर एव सर्वकर्ता इति सिद्धम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थमुनिप्र. णीतायां वैयासिकन्यायमालायां द्वितीयाध्यायस्य चतुर्थः पादः॥४॥ ॥ इति द्वितीयोऽध्यायः समासः ॥ २ ॥ अत्र पादे आदितः अधिकरणानि सूत्राणि ३९२ - . -- . -- ९ २२ Aprone १ क. "क्तिस्त्ववेक्षि। २ ख. सृष्टयन्वयत्र । ग. सृष्टान्व।
[अ०३पा०१अधि०१] वैयासिकन्यायमाला। ८३ . - s (अथ तृतीयाध्यायस्य प्रथमः पादः) ( प्रथमे जीवस्य भूतसूक्ष्मवेष्टितस्यैव परलोकगमनागमनाधिकरणे सूत्राणि-) तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरू- पणाभ्याम् ॥ १॥ त्र्यात्मकत्वात्तु भूयस्त्वात् ॥१॥ प्राणगतेश्च ॥३॥ अग्न्यादिगतिश्रु- तेरिति चेत्र भाक्तत्वात् ॥४॥ प्रथमेऽश्रव- णादिति चेन ता एवं छपपत्तेः॥५॥ अश्रु- तत्त्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥६॥ आक्तं वाऽनात्मभावित्वाव,तथा हि दर्शयति॥७॥ तृतीयाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति- अवेष्टितो वेष्टितो वा भूतसूक्ष्मैः पुमान्द्रजेत् ॥ भूतानां मुलभत्वेन यात्यवेष्टित एव सः ॥ १॥ बीजानां दुर्लभत्वेन निराधारेन्द्रियागतेः । पञ्चमाहुतितोक्तेश्च जीवस्तैर्याति वेष्टितः ॥ २ ॥ पूर्वपादप्रतिपादितप्राणोपाधिको जीवः शरीरान्तरप्राप्तिवेलायामितो निर्गच्छन्मा- विशरीरबीजैः सूक्ष्मभूवैरवेष्टितो गच्छति, पञ्चभूतानां सर्वत्र सुलभत्वेनेतो नयनस्य निरर्थकत्वात् ॥ इति प्राप्ते, ब्रूमः-भूतमात्रस्य सुलभत्वेऽपि देहबीजानि न सर्वत्र सूलमानि । वस्मात्-इतो नेवव्यानि । किंच जीवोपाधिभूतेन्द्रियाणां भूवाधारमन्तरेण परलोक- गमनं न संभवति, जीवदशायामदर्शनात् । श्रुतिश्चैवमाह-"पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति" इति । अस्या अयमर्थः--धुलोकपर्जन्यपृथिवीपुरुषयोषितः पञ्च पदार्था उपासनायामग्मित्वेन परिकल्पिवाः । तेष्वनिषु स्वर्गाय गच्छन्पुनराग- च्छंश्च जीव आहुतित्वेन परिकल्पितः । इष्टापूर्वकारी जीवः स्वर्गमारुह्योपभो- गेन कर्मणि क्षीणे पर्जन्ये पवित्वा वृष्टिरूपेण भूमिं प्राप्य, अन्नद्वारण पुरुषं प्राप्य, रेतोद्वारेण योषितं प्रविश्य शरीरं गृह्णाति । ततोऽपशब्दोपलक्षितानि देहबीजानि पञ्च भूतानि जीवेन सह धुलोकादिपञ्चस्थानेषु गत्वा पञ्चमस्थाने शरीरभावं प्राप्य पुरुष- १ ख. जीवानां । २ ख. 'हुतियुक्तेश्च । ग. हुत्ययुक्ते । ३ क. ग. 'तैसवें। ४ ख. तोऽ. पि श। ग. 'तो भूतश। ५ क. 'शब्देन ल' । ६ क. 'श्चमे स्था। :
८४ श्रीभारतीतीर्थमुनिप्रणीता [अ०३पा०१अधि०३] शब्दवाच्यानि भवन्ति-इति । तस्मात्-बीजैर्वेष्टित एव परलोकं गच्छति ।। -- (द्वितीये स्वर्गादवरोहतो जीवस्य सानुशयत्वाधिकरणे सूत्राणि-) कृताययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतम- नेवं च ॥८॥ चरणादिति चेन्नोपलक्षणा- थेति कार्णाजिनिः ॥९॥ आनर्थक्य- मिति चेन्न तदपेक्षत्वात् ॥ १०॥ सुकृत- दुष्कृते एवेति तु बादरिः ॥ ११ ॥ द्वितीयाधिकरणमारचयति-- स्वर्गावरोही क्षीणानुशयः सानुशयोऽथवा ।। यावत्संपातवचनाक्षीणानुशय इष्यते ॥ ३ ॥ जातमात्रस्य भोगित्वादैकमव्ये विरोधतः ।। चरणश्रुतितः सानुशयः कर्मान्तरैरयम् ॥ ४ ॥ वर्गमुपभुज्य ततोऽवरोहन्पुरुषो निरनुशय इहाऽऽगच्छति । अनुशयो नाम कर्म- शेषः 'जीवमनुशेते' इति व्युत्पत्तेः । न च-स्वर्गादवरोहतोऽनुशयः संभवति, अनु- शयफलस्य सर्वस्य तत्रैवोपभुक्तत्वात् । अत एवावरोहविषया श्रुतिः-"यावत्संपा- तमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्वते" इत्याह । 'संपतत्यनेन कर्मणा स्वर्गम्' इति संपातः कर्मसमूहः । संपावमनतिक्रम्य यावत्संपावं निःशेषं कर्मफलं भोक्तुं वोषित्वा' -इत्यर्थः । तस्मात्-कर्मशेषरहितोऽवरोहति ॥ इति प्राप्ते, ब्रूमः-स्वर्गार्थमनुष्ठितस्य कर्मणः साकल्येनोपभोगेऽप्यनुपमुक्तानि संचितानि पुण्यपापानि बहून्यस्य विद्यन्ते । अन्यथा-सद्यःसमुत्पन्नस्य बालस्येह जन्मन्यनुष्ठितयोर्धमधिर्मयोरभावात्सुखर्दुःखोपभोगो न स्यात् । यत्त्वत्र कैश्चिदुच्यते- एकस्मिञ्जन्मन्यनुष्ठितः कर्मसमूह उत्तरस्मिन्नेव जन्मन्युपभोगेन क्षीयवे-इति । बद- सत्, इन्द्रादिपदप्रापकाणामश्वमेधादीनाम, विडाहादिदेशापकाणां पापानां च युग- पदुपभोगासंभवेन 'ऐकमविकः कर्मानुशयः' इति मतस्य विरुद्धत्वात् । ततश्चैकस्मिञ्ज- न्मन्यनुष्ठितानां मध्ये कस्मिंश्चिज्योविष्टोमादिकर्मणि मुक्तेऽपि कुतो न कर्मान्वराण्य- १ क. ग. 'भव्यवि । भव्यं वि। २ ख. तत्रोप। ३ क. ग. 'नराव । ४ क. 'दु:खभो। ५ क. ख. न्मन्युत्थितः । ६ ख. 'वेन ‘एकस्मिन्नेव जन्मनि भवति, इत्यैकभविकः कर्मानु । ७ क. तस्यावि। ८ क. 'ध्ये ज्योति । . .
. [अ०३पा०१अधि०३] वैयासिकन्यायमाला। ८५ वशिष्येरन् । यावत्संपावशब्दश्च स्वर्गप्रदकर्मविषयः, नत्विवरकर्मविषयः। श्रुतिश्च स्वर्गादवरुह्य पञ्चम्यामाहुतौ शरीरं गृह्णतां पुरुषाणां वद्धत्वोः पुण्यपापयोः सद्भावं दर्श- यति-"य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मण- योनि वा, क्षत्रिययोोने वा वैश्ययोनि वा, अथ य इह कपूयचरणा अभ्याशो यत्ते कपूयां योनिमापोरञ्श्वयोनि वा, शूकरयोनि वा चाण्डालयोनि वा" इति । रमणी- यचरणाः सुकृतकर्माणः, कपूयचरणाः पापकर्माणः, 'अभ्याशोहयत्' इत्यव्ययसमुदा- यस्य क्षिप्रत्वमर्थः । वदेवं-सानुशया अवरोहन्ति-इति स्थितम् ।। hor , . . (तृतीये पापिनां स्वर्गे गत्यभावाधिकरणे सूत्राणि-) अनिष्टादिकारिणामपि च श्रुतम् ॥ १२॥ संय- मने खनुभूयेतरेषामारोहावरोहौ तद्रतिदर्श- नात् ॥ १३ ॥ स्मरन्ति च ॥१४॥ अपि च सप्त ॥ १५॥ तत्रापि च तद्व्यापारादविरोधः ॥ १६॥ विद्याकर्मणोरिति तु प्रकृतत्वात ॥१७॥ न तृतीये तथोपलब्धः॥ १८॥स्म- यतेऽपि च लोके ॥ १९॥ दर्शनाच्च ॥२०॥ तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥ तृतीयाधिकरणमारचयति- चन्द्रं याति न वा पापी ते सर्व इति वाक्यतः ।। पञ्चमाहुतिलाभार्थं भोगाभावेऽपि यात्यसौ ॥ ५ ॥ भोगार्थमेव गमनमाहुतिय॑भिचारिणी ॥ सर्वश्रुतिः सुकृतिनां, याम्ये पापिगतिः श्रुता ॥ ६ ॥ "ये वै के चास्माल्लोकात्मयन्ति, चन्द्रमसमेव ते सर्वे गच्छन्ति" इति श्रवणाच्च- न्द्रलोकाख्ये खर्गे पापिनोऽपि गविरस्ति । यद्यपि-पापिनस्तत्र भोगो न संभवति । वथाऽपि पुनरागत्य शरीरग्रहणे पञ्चमाहुतिलाभाय स्वर्गगतिरभ्युपेया ।। इति प्राप्ते, ब्रूमः-भोगार्थमेव हि खर्गगमनम् । न पञ्चमाहुतिलाभार्थम् , पञ्चमा- हुतेर्व्यभिचारित्वात् । द्रोणादीनां योषिदाहुवेरभावात्, सीतादीनां पुरुषाहुतेरप्यभा- १ ख. 'हुतावन्यश'। २ क. याति । ३ क, ख, 'नरत्राऽऽग । ४ क. 'चारात् ।
८६ श्रीभारतीतीर्थमुनिप्रणीता- [अ०३पा०२अधि०४-५] वात् । 'ते सर्वे' इति' सर्वश्रुतिस्तु सुकृतिविषया । पापिनां तु यमलोके गतिः श्रुता- "वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्यत" इति । पापजनैर्गन्तव्यं यमं प्रीणयत' इत्यर्थः । तस्मात् न पापिनां स्वर्गे गतिः ॥ (चतुर्थे स्वर्गावरोहे जीवस्याऽऽकाशादितुल्यत्वाधिकरणे सूत्राणि-) साभाव्यापत्तिरुपपत्तेः ॥२२॥ चतुर्थाधिकरणमारचयनि- वियदादिस्वरूपत्वं तत्साम्यं वाऽवरोहिणः ।। वायुभूत्वेत्यादिवाक्यात्तत्तद्भावं प्रपद्यते ॥ ७ ॥ खवत्सूक्ष्मो वायुवशो युक्तो धूमादिभिर्भवेत् ।। अन्यस्यान्यस्वरूपत्वं न मुख्यमुपपद्यते ॥ ८ ॥ स्वर्गादवरोहप्रकार एवं श्रूयते-"अथैवमेवाध्वानं पुनर्निवते यथेवमाकाशम्, आकाशाद्वायुम्, वायुर्भूत्वा धूमो भवति, धूमो भूत्वाऽन्धं भवति, अन्ध्र भवति, मेघो भूत्वा प्रवर्षति" इति । यथेवं यथागत तथेत्यर्थः । अत्र स्वर्गादवरोहतो जीवस्याऽऽकाशादिस्वरूपत्वं भवति, 'वायुर्भूत्वा' इति तत्तद्भावप्रतिपत्तेः श्रुवत्वात् ।। इति प्राप्ते, ब्रूमः-अन्यस्यान्यस्वरूपत्वासंभवादाकाशपतिपत्तिामाऽऽकाशव- सौक्ष्म्यं रूपं विवक्षितम् । वायुभावो वायुवशवा । धूमादिभावो धूमादिभिः संपर्कः- इति निर्णयः॥ भूत्वा मेघो wammam . (पञ्चमे स्वर्गादवरोहतां त्वराविलम्बाधिकरणे सूत्रम्-) नातिचिरेण विशेषात् ॥६॥ पञ्चमाधिकरणमारचयति- वीद्यादेः प्राग्विलम्बेन त्वरया वाऽवरोहति ।। तत्रानियम एव स्यानियामकविवर्जनात् ॥ ९ ॥ दुःखं ब्रीह्यादिनिर्याणमिति तत्र विशेषितः॥ विलम्बस्तेन पूर्वत्र त्वराऽदिवसीयते ॥ १० ॥ प्रवर्षणानन्तरं ब्रीह्यादिभाव आम्नायवे--"त इह ब्रीहियवा औषधिवनस्पतय- १ क. 'ति श्रुतिरिष्यादिकारिवि । २ क. पापिजना गतये य । ग. पापैर्जनैर्भाव्यं । ३ क. यथेतमिति । ४ क. तत्र । ख. ततः । ५ क. ख. इत्यादिना । ६ क, अन्यान्यरू'। ग, अन्यस्यान्य- रूपासं । ७ क. विशेषतः । ग. विशेषितम् । -- ..
. [अ०३पा०१अधि०६] वैयासिकन्यायमाला। स्तिलमाषा इति जायन्ते" इति । प्रागेतस्माद्बीह्यादिभावादाकाशादौ विलम्बत्वरयो- नियामकाभावादनियतिः ॥ इति प्राप्ते, ब्रूमः--ब्रीह्यादिभावमभिधायानन्तरम् "अतो वै खलु दुनिष्पपवरम्" इति 'ब्रीह्यादिभावान्निर्गमनं दुःशकम्' इति ब्रुवती श्रुतिब्रीह्यादौ विलम्बनं विशेषयति । ततोऽर्थात्--'पूर्व त्वरा' इत्यवसीयते ॥ वै . (षष्ठे स्वर्गादवरोहतां व्रीह्यादौ संश्लेषाधिकरणे सूत्राणि-) अन्याधिष्ठिते पूर्ववभिलापात् ॥ २४ ॥अशु- द्धमिति चेन शब्दात् ॥ २५॥ रेतःसिग्यो- गोऽथ ॥ २६ ॥ योनेः शरीरम् ॥२७॥ षष्ठाधिकरणमारचयति- व्रीह्यादौ जन्म तेषां स्यात्संश्लेषो वा जनिर्भवेत् ॥ जायन्त इति मुख्यत्वात्पशुहिंसादिपापतः॥ ११ ॥ वैधान्न पापसंश्लेषः कर्मव्यामृत्यनुक्तितः ॥ श्वविप्रादौ मुख्यजनौ चरणव्योपतिः श्रुता ॥ १२ ॥ आकाशादाविव ब्रीह्यादौ न संश्लेषमात्रम् । किंतु-ब्रीह्यादिरूपेण मुख्यं जन्म विवक्षितम्, "जायन्ते” इति श्रवणात् । न च-स्वर्गे सुकृतफलमनुभूयावरोहतः पापफलरूप॑स्य स्थावरजन्मनोऽसंभवः, तद्धेतोः पशुहिंसादेविद्यमानत्वात् । तस्मात्- मुख्यं जन्म ॥ इति प्राप्ते, ब्रूमः-वैधत्वान्न पशुहिंसादितः पापम् । अव: “जायन्ते" इति श्रुत्या संश्लेषमानं विवक्षितम् । न तु मुख्यं जन्म, कर्मव्यापारानभिधानात् । यत्र तु मुख्यं जन्म व्यवस्थितम् , तत्र कर्मव्यापारमभिधत्ते-“रमणीयचरणाः, कपूयच- रणाः" इति । तस्मात्-स्वर्गादवरोहतां ब्रीह्यादौ संश्लेषमात्रम्-इति स्थितम् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां तृतीयाध्यायस्य प्रथमः पादः ॥ १॥ अत्र पादे आदितः अधिकरणानि ९३ सूत्राणि २७ ३१९ 1 क. ख. पूर्वव । २ ख. व्यावृतिः ।३ क. 'न्मकर्म वि। ४ ख. 'पस्थावरजन्म न संभवति, त। ५ क. ख. 'दिकं पा । ६ ग. स्थितिः । .
श्रीभारतीतीर्थमुनिप्रणीता [अ०३पा०२अधि०१] ( अथ तृतीयाध्यायस्य द्वितीयः पादः ) (प्रथमे स्वप्नसृष्टेमिथ्यात्वाधिकरणे सूत्राणि-) संध्ये सृष्टिराह हि ॥ १ ॥ निर्मातारं चैके पुत्रादयश्च ॥२॥ मायामात्रं तु कात्स्न्येना- नभिव्यक्तस्वरूपत्वात् ॥३॥ सूचकश्च हि श्रुतेः, आचक्षते च तद्विदः ॥४॥ पराभि- ध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्य- यौ ॥ ५ ॥ देहयोगादा सोऽपि ॥ ६ ॥ द्वितीयपादे प्रथमाधिकरणमारचयति- सत्या मिथ्याऽथवा स्वप्नसृष्टिः, सत्या श्रुतीरणात् ॥ जाग्रद्देशाविशिष्टत्वादीश्वरेणैव निर्मिता ॥१॥ देशकालाधनौचित्याद्बाधितत्वाच्च सा मृषा । अभावोत्तेद्वैतमात्रासाम्याज्जीवानुवादतः ॥ २॥ "अथ रथान् , रथयोगान् , पथः सृजते" इति श्रुत्या स्वप्ने रथादीनां सृष्टिरीरिता। अतो वियदादिसृष्टिवयवहारदशायां सत्या भवितुमर्हति । न च-जाग्रद्देशस्य स्वप्न- देशस्य च कंचिद्विशेषं पश्यामः । तत्काले भोजनादीनां तृप्त्याद्यर्थक्रियाकारित्वात् । अतो-विमता सृष्टिः सत्या, ईश्वरकर्तृत्वात्, वियदादिसृष्टिवत् ।। इति प्राप्ते, ब्रूमः-स्वप्नसृष्टिम॒षा । कुतः-तदुचितदेशकालाद्यसंभवात् । न हि- केशसहस्रांशपरिमितनाडीमध्ये गिरिनदीसमुद्रादीनामुचितो देशोऽस्तैि, महानिशीथे शयानस्य सूर्यग्रहणोचितः कालोऽस्ति । नापि-अनुपनीवस्य बालस्य पुत्रोत्सवादि- हर्षनिमित्तान्युचितानि । किंच-स्वप्नोपलब्धानां पदार्थानां स्वप्न एव बाधो दृश्यते- कदाचित्तरुत्वेनावसीयमानः पदार्थस्तदैव गिरित्वेनावसितो भवति । यदुक्तम्-'स्वप्न- सृष्टिं श्रुतिब्रूते' इति । तत्र साऽपि श्रुतिरभावपूर्विकामेव सृष्टिमाह-"न तत्र रथाः, न रथयोगाः, न पन्थानो भवन्ति । अथ रथान् , रथयोगान् , पथः सृजते" इति । अतो 'वस्तुतोऽसन्तो रथाद्याः शुक्तिकारजतवदवभासन्ते' इति श्रुतेरभिप्रायः यदपि--जाग्रत्साम्यमुक्तम् । तदप्यप्रयोजकम् , अनुचितदेशकालादेर्भूयसो वैषम्य- स्योक्तत्वात् । यदपि—ईश्वरनिर्मितत्वमुक्तम् । तदप्यसत्, “य एष सुप्तेषु जागर्वि १ ख. रेण विनि' । २ ग. तृप्ताद्य । ३ क. ख. 'स्ति नहि नि । ४ क. ख. 'न्तोऽपि । ५ क. वैलक्षण्यस्यो । ६ क. 'रनिमित्तकत्व। , [अ०३पा०२अधि०२] वैयासिकन्यायमाला। ८९ कामं कामं पुरुषो निर्मि माणः" इति जीवस्यैव स्वप्ननिर्मातृत्वेन श्रुत्याऽनूद्यमानत्वात् । वस्मात्-स्वप्नसृष्टिzषा ॥ (द्वितीये मुषुप्तौ जीवस्य हृत्स्थब्रह्मणैक्याधिकरणे सूत्रे-) तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥७॥ अतः प्रबोधोऽस्मात् ॥८॥ द्वितीयाधिकरणमारचयति- नाडीपुरीतद्ब्रह्माणि विकल्प्यन्ते सुषुप्तये ॥ समुच्चितानि वैकार्थ्याद्विकल्प्यन्ते यवादिवत् ॥ ३ ॥ समुचितानि नाडीभिरुपसंप्य पुरीतति ॥ हृत्स्थे ब्रह्मणि यात्यैक्यं विकल्पे त्वष्टदोषता ॥ ४ ॥ "आसु तदा नाडीषु सप्तो भवति" इति श्रुतौ सुषुप्तिकाले नाडीप्रवेशो गम्यते "ताभिः प्रत्यवसृप्य पुरीतति शेते" इति श्रुतौ पुरीतति वदाश्रितत्वं प्रतीयते । “य एषोऽन्तर्हृदय आकाशस्वस्मिञ्शे।" इति श्रुत्यन्तरादाकाशशब्दवाच्यब्रह्माश्रितत्वं प्रतीयते । तान्येतानि नाड्यादिस्थानानि विकल्पितानि भवितुमर्हन्ति, एकप्रयोजन- त्वात् । यथा “ब्रीहिभिर्यजेत, यवैर्यजेत्" इत्यत्र पुरोडाशनिष्पादकत्वस्य प्रयोजन- स्यैकत्वेन विकल्प आश्रितः । तथा-अत्रापि सुषूप्त्याख्यं प्रयोजनमेकम् । तस्मा- त्-'कदाचित्पुरीवति स्वपिति, कदाचिन्नाडीषु स्वपिति, कदाचिद्ब्रह्मणि' इति नाड्यादीनां विकल्पः ॥ इति प्राप्ते, ब्रूमः-एकप्रयोजनत्वमसिद्धम् । पृथगुपयोगस्य सुवचत्वात् । तथा हि-नाड्यस्तावच्चक्षुरादिषु संचरतो जीवस्य हृदयनिष्ठं ब्रह्म गन्तुं मार्गभूता भवि- ष्यन्ति । अत एव श्रुत्यन्तरे "ताभिः प्रत्यवसृप्य" इति तृतीयया साधनत्वं नाडीनां श्रुतम् । हृदयवेष्टनरूपं तु पुरीतत्प्रासादवदावरकं भविष्यति । ब्रह्म तु मञ्चकव- दाधारः । अवो यथा द्वारेण प्रविश्य प्रासादे पर्यङ्के शेते, तथा नाडीभिः प्रत्यवसृप्य पुरीतति ब्रह्मणि जीवः शयिष्यते, इत्युपकारभेदान्नाड्यादीनां समुच्चयः । सुषुप्तौ ब्रह्मणि जीवावस्थाने कुत आधाराधेयभावो न प्रविभाति-इति चेत् । 'एकीभावात्' इति ब्रूमः । यथा-सोदककुम्भस्तडागजले प्रक्षिप्तो मनो न पृथग्भाति, तथा- १ ग. 'सृत्य पु। २ क. ख. हत्स्थव । ३ क. सुप्तो। ख. प्रसुप्तो । ४ क. 'दनस्य । ५ क. ग. 'षुप्ताख्यं । ६ ग. सुवचनत्वात् । ७ क. ख. "निष्टन। ८ क. ख. इति प्रका'। ९ क. ख. 'मनः सन्पृथम भाति । .. १२ पृथगवभासते। श्रीभारतीतीर्थमुनिप्रणीता [अ०३पा०२अधि०३] अन्तःकरणोपाधिको जीव आवरंकाज्ञानसहिते ब्रह्मणि ममत्वान्न अत एव श्रुत्यन्तरे सुषुप्तौ जीवस्य ब्रह्मणा सह तादात्म्यप्रतिपत्तिमाह-" तसा सोम्य तदा संपन्नो भवति" इति । यस्तु विकल्पस्त्वयोक्तः । सोऽष्टदोषग्रस्तत्वादनु- पपन्नः । तथाहि-यदा जीवो नाडीषु सुप्तो भवति, तदा पुरीतद्ब्रह्मवाक्ययोः प्राप्त प्रामाण्यं परित्यक्तव्यं स्यात्, अप्राप्तं चाप्रामाण्यं स्वीक्रियेत । यदा-पुनः पुरीतद्र- ह्मणोः शेते, तदा पुरीतद्ब्रह्मवाक्ययोः पूर्वत्यक्तं प्रामाण्यं स्वीक्रियेत, पूर्व स्वीकृत चाप्रामाण्यं परित्यज्येत, इति प्राप्तपरित्यागः, अप्राप्तस्वीकारः, त्यक्तस्वीकारः, स्वीकृतपरित्यागश्च, इति दोषचतुष्टयं पुरीतद्ब्रह्मवाक्यकोटौ। तथा नाडीवाक्यकोट्या- मपि दोषचतुष्टये योजिते सत्यष्टौ दोषाः संपद्यन्ते । तस्मात्-समुच्चय एव ग्राह्यः, नतु विकल्पः॥ . . (तृतीये मुप्तस्यैव जागरणाधिकरणे सूत्रम्-) स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥९॥ तृतीयाधिकरणमारचयति- यः कोऽप्यनियमेनात्र बुध्यते सुप्त एव वा ।। उदबिन्दुरिवाशक्तनियन्तुं कोऽपि बुध्यते ॥ ५ ॥ कर्माविद्यापरिच्छेदादबिन्दुविलक्षणः ॥ स एव बुध्यते शास्त्राचदुपाधेः पुनर्भवात् ॥ ६ ॥ यथा समुद्रे प्रक्षिप्तो ( यो ) जलबिन्दुः, स एवं नियमेन पुनरुद्धर्तुमशक्यः । तथा सुषुप्तौ ब्रह्म प्राप्तो (यो) जीवः, स एव बुध्यत इति नियन्तुमशक्यत्वात्- यः कोऽपि बुध्यते । इति प्राप्ते, ब्रूमः-विषम उपन्यासः । 'चिद्रूपो जीवः कर्माविद्यावेष्टितो ब्रह्मणि निमज्जति । उदबिन्दुस्त्ववेष्टितः' इति वैषम्यम् । यथा गङ्गोदकपरिपूर्णः पिहिवद्वारः काश्चनकुम्भः समुद्रे निक्षिप्तः पुनरुद्भियते, तत्रत्यं गङ्गाजलं तदेव पुनर्विवेक्तुं शक्य- वे, तथा स एव जीवः प्रतिबुध्यताम् । अत एव श्रुतिराह-"d इह व्याघो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तत्तदा भवन्ति" इति । 'व्याघ्रादयो ये जीवाः सषुप्तेः पूर्वं यच्छरीरं प्राप्य वर्तन्ते, त एव जीवाः सुषुप्तेरुपरि प्रबुध्यमानास्तदेव शरीरं प्राप्नुवन्ति' इत्यर्थः न च- १ ग. 'रकोऽज्ञा । २ ख. 'हितो । ३ क. एतदेव। ४ क. ख. परित्यक्तं। ५ ख. यः कार्यनि । ६ क. ख. 'बिन्दुर्विल । ७ ख. ग. 'व पु । ८ ख. पमोऽयमुप. ९ क. स्व. प्रक्षिप्तः । १० ख. रुन्नीय। ११ ख. यच्च शरी' - - [अ०३पा०२अधि०४-५] वैयासिकन्यायमाला । सुषुप्तौ ब्रह्म प्राप्तस्य जीवस्य मुक्तवत्पुनरुद्भवानुपपत्तिः, अवच्छेदकस्योपाधेः सत्वेन तदुद्भवे जीवोद्भवसंभवात् । तस्मात्यः सुप्तः स एव प्रतिबुध्यते ॥ ( चतुर्थे मूर्छाया अवस्थान्तरताधिकरणे सूत्रम्-) मुग्वेऽर्धसंपत्तिः परिशेषात् ॥ १०॥ चतुर्थाधिकरणमारचयति- किं मूछेका जायदादौ किंवाऽवस्थान्तरं भवेत् ।। अन्याऽवस्था न प्रसिद्धा तेनैका जाग्रदादिषु ॥ ७ ॥ न जाग्रत्स्वप्नयोरेका द्वैताभानान सुप्तता ॥ मुखादिविकृतस्तेनावस्थाऽन्या लोकसंमता ॥८॥ जाग्रत्स्वप्नसुषुप्तिभ्योऽन्यस्या अवस्थाया अप्रसिद्धत्वान्मूर्छाया जायदादावन्त- र्भावः ॥ . इति प्राप्ते, ब्रूमः-परिशेषादवस्थान्तरमभ्युपेयम् । न तावज्जायत्स्वप्नयोरन्वर्भावः, द्वैतप्रवीत्यभावात् । नापि सुषुप्तौ, विलक्षणत्वात् । सुप्तः पुमान्प्रसन्नवदनः समश्वासो निष्कम्पशरीरो भवति, मूर्छि वस्तु विकृत मुखो विषमश्वासः शरीरकम्पादियुक्तः । यद्यपि जाग्रदादिवदैनंदिनत्वाभावान्न मूर्छाया बालकादिषु प्रसिद्धिरस्ति, तथापि कादाचित्की मूर्छावस्थां विज्ञाय वृद्धाश्चिकित्सन्ते । तस्मात्-अन्येयमवस्था । वदेवमधिकरणचतुष्टयेन त्वंपदार्थः शोधितः । तत्र स्वप्नसृष्टेमिथ्यात्वेन सुखदुः- खकर्तृत्वाद्यवभासेऽपि जीवोऽसङ्ग एवेति शोधितम् । सुषुप्तौ बौक्येन तदेवासङ्गत्व- मनुभावितम् । वस्यैव पुनः प्रतिबोधेनानि त्यत्वाशङ्का निराकृता । मूर्छाविचारेण श्वासादिसर्वव्यवहारलोपेऽपि मरणे जीवनाशो नाऽऽशङ्कनीयः इति दर्शिवम् ।। . ( पञ्चमे ब्रह्मणो नीरूपत्वाधिकरणे सूत्राणि-) न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥११॥ न भेदादिति चेन्न प्रत्येकमतचना- त् ॥ १२॥ अपि चैवमेके ॥ १३॥ अरू- पवदेव हि तत्प्रधानत्वात् ॥ १४॥ प्रकाश- . . १ क. ग. भीवे प्रा । २ ख. सुप्तौ । ३ ख. 'मुखविषमश्च सश। ४ क. । वान्मूर्छ । ५ क. इति । ६ क. ब्रह्मवाक्येन । ७ क. बोधनान्नित्य । ८ क. "वविना । ९ क. ख. शो न शी ९२ ॥ ॥ श्रीभारतीतीर्थमुनिप्रणीता [अ०३पा०२अधि०६] वच्चावैयर्थ्यम् ॥ १५ ॥ आह च तन्मात्रम् ॥ १६ ॥ दर्शयति चाथो अपि स्मर्यते ॥ १७ ॥ अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥ अम्बुवदग्रहणात्तु न तथालम् ॥ १९ ॥ वृद्धिहासभाक्त्वमन्तर्भावादुमय- सामञ्जस्यादेवम् ॥ २०॥ दर्शनाच ॥२१॥ पञ्चमाधिकरणमारचयति- ब्रह्म किं रूपि चारूपं भवेन्नीरूपमेव वा ॥ द्विविधश्रुतिसद्भावाद्ब्रह्म स्यादुभयात्मकम् ॥ ९ ॥ नीरूपमेव वेदान्तः प्रतिपाद्यमपूर्वतः ॥ रूपं त्वनूद्यते भ्रान्तमुभयत्वं विरुध्यते ॥ १० ॥ "तदेतच्चतुष्पाद्ब्रह्म' इत्यादिश्रुतयो रूपवद्ब्रह्म प्रतिपादयन्ति । “अस्थूलम- मणु"- इत्यादिश्रुतयो नीरूपम् । वस्मात्-वस्तुत उभयात्मकं ब्रह्म ।। इति प्राप्ते, ब्रूमः-नीरूपमेव शास्त्रप्रतिपाद्यम्, * मानान्तरासिद्धत्वात् । जगत्क- र्तृत्वादिरूपयुक्तं तु ब्रह्म ‘क्षित्यादिकं सकर्तृकं कार्यत्वात्' इत्यनुमानेनाप्यवगन् शक्यते । अत एवोपासनायोनूद्यते, न तु तात्पर्येण प्रतिपाद्यते । न च-अनुमा- नशास्त्रसिद्धयोरुभयोर्वास्तवत्वम्, एकस्मिन्वस्तुनि सरूपत्वनीरूपत्वयोर्विरुद्धत्वात् । तस्मात्-अवात्पर्यविषयस्य सरूपत्वस्य भ्रान्तत्वान्नीरूपमेव वैस्तुतो ब्रह्म । . (षष्ठे ब्रह्मणो निराकरणाविषयत्वाधिकरणे सूत्राणि-) प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः॥ २२॥ तदव्यक्तमाह हि ॥२३॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥२४॥ प्रकाशादिवच्चावैशेष्यं प्रकाशश्च * 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' 'दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरों द्वजः' इत्यादिभिर्मानान्तर रूपवत्त्वस्यासिद्धत्वादिति भावः प्रतिभाति ॥ कर्मण्यभ्या- Hindi १ ख. क्षत्रादिकं । २ ख. यामन । ३ क. ख. 'स्त्रयोस्ति । ४ क. रूपासरू । ५ क. रूपवत्त्वस्य । ६ क तत्वतो।
[अ०३पा०२अधि०६] वैयासिकन्यायमाला। ९३ सात् ॥ २५ ॥ अतोऽनन्तेन तथा हि लिङ्ग- म् ॥ २६॥ उभयव्यपदेशात्त्वहिकुण्डलवत् ॥२७॥ प्रकाशाश्रयवहा तेजस्वात् ॥२८॥ पूर्ववदा ॥ २९ ॥ प्रतिषेधाच ॥३०॥ षष्ठाधिकरणमारचयति- ब्रह्मापि नेति नेतीति निषिद्धमथवा न हि ।। द्विरुक्त्या ब्रह्मजगती निषिध्येते उभे अपि ॥ ११ ॥ वीप्सेयमितिशब्दोक्ता सर्वदृश्यनिषिद्धये ॥ अनिदं सत्यसत्यं च ब्रह्मैकं शिष्यतेऽवधिः॥१२॥ "द्वे वाव ब्रह्मणो रूपे मूर्त चैवामूर्वं च" इत्येतस्मिन्ब्राह्मणे महता प्रबन्धेन पृथि- व्यप्वेजोलक्षणं भूतरूपं, वाय्वाकांशलक्षणममूर्तरूपं प्रपंचय वदन्ते ब्रह्मोपदेष्टुमिदमु- क्तम्-"अथात आदेशो नेति नेति" इति । अस्यायमर्थः-'अथ रूपद्वयकथना- नन्तरमरूपिणो ब्रह्मणो वक्तव्यत्वात् 'नेति, नेति' इत्ययं ब्रह्मोपदेशः' इति । तत्र पूर्व पक्षी मन्यते-प्रथमनेविशब्देन जगव एकस्यैव निषेध्यत्वे द्वितीयो 'नेति' शब्दो निरर्थकः स्यात् । अवो द्वितीयेन ब्रह्मापि निषिध्यते ॥ इति प्राप्ते, ब्रूमः-न वावद्वितीयस्य निषेधस्य वैयर्थ्यम्, वीप्सार्थत्वात् । सत्यां च वीप्सायां यद्यदृश्यते, इवि शब्दनिर्देशाई च, वत्सर्वं ब्रह्म न भववि-इति निषिद्धं भविष्यति । विना तु वीप्साकेन नकारेण मूर्तामूर्तयोः प्रकृतत्वेनेतिशब्दनिर्देशाईयो- निषेधे सति मूर्वाद्यभावस्य मूलाज्ञानस्य चानिषिद्धत्वात्तयोर्ब्रह्मत्वं प्रसज्येत । ननु-सत्या- मपि वीप्सायामस्त्येव दोषः, वीप्साया निरङ्कुशत्वाद्ब्रह्मापि निषिध्यते-इति । वन्न, ब्रह्मणो दृश्यत्वाभावेन निषेध्यसमर्पकेविशब्दानहत्वात् । किंच-"अथात आदेशः" इति महता संरम्भेण ब्रह्मोपदेष्टुं प्रतिज्ञाय तदेव ब्रह्म निषेधन्ती श्रुतिः कथं न व्याह- न्येव । वाक्यशेषश्च न ब्रह्मनिषेधे संगच्छते । वाक्यशेषे च "(अथ नामधेयं) सत्यस्य सत्यम्" इत्यादिना विवक्षितस्य ब्रह्मणो लौकिकसत्यागिरिनदीसमुद्रादेरधिक- मात्यन्तिकं सत्यत्वं सूचयितुं नाम निर्दिष्टम् । सर्वनिषेधपक्षे सर्वमप्येतत्कदर्थितं स्यात् । वस्मात्-न ब्रह्म निषिध्यते ॥ १ ग. 'षिद्धे ते उ । २ क. ग. ते चाम् । ३ ख. ग. 'मूर्त रू। ४ क. ग. 'काशादिल'। ५ क. ख. पञ्चयान्ते। ६ ख. निषेध्यस्य । ७ क. 'दृश्यं तत्तदिति । ८ क. ख. अन्तरेण । ९ क. केनति नामादि। -- ८ ५ M . १० क. 'शेषस्य च । ११ ख.
श्रीभारतीतीर्थमुनिप्रणीता- [अ०३पा०२अधि०७] (सप्तमे ब्रह्मातिरिक्तवस्तुनिराकरणाधिकरणे सूत्राणि-) परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः॥३१॥ सामान्यात्तु ॥ ३२॥ बुद्धयर्थः पादवत् ॥ ॥३३॥ स्थानविशेषात्प्रकाशादिवत् ॥३४॥ उपपत्तेश्च ॥३५॥ तथाऽन्यप्रतिषेधात् ॥३६॥ अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७॥ सप्तमाधिकरणमारचयति- वस्त्वन्यद्ब्रह्मणो नो वा विद्यते ब्रह्मणोऽधिकम् ॥ सेतुत्वोन्मानवत्त्वाच्च संबन्धानेदवत्त्वतः ॥ १३ ।। धारणात्सेतुतोन्मानमुपास्त्यै भेदसंगती ।। उपाध्युद्भवनाशाभ्यां नान्यदन्यनिषेधतः॥ १४ ॥ यदेतद्ब्रह्म “नेति नेति" इति दृश्यपतिषेधेन व्यवस्थापितम्, तस्मादपि ब्रह्मणोऽ- न्यद्वस्त्वस्ति-इत्यभ्युपगन्तव्यम् । कुतः-सेतुत्वादिव्यपदेशेभ्यः । “अथ य आत्मा स सेतुर्विधृतिः" इति सेतुत्वं व्यपदिश्यते । तत्र यथा लोके पारावारवाञ्ज- लस्य विधारकः सेतु', तं च सेतुं तवा द्वितीयं जोङ्गलं प्रतिपद्यते । तथा--ब्रह्म- णोऽपि सेतुत्वेन जगद्विधारकत्वाद्ब्रह्म तीवो गन्तव्येनान्येन केनचिद्भवितव्यम् । तथा—उन्मानव्यपदेशोऽपि ब्रह्मणः श्रूयते-"चतुष्पाद्ब्रह्म, षोडशकलं ब्रह्म" इति ! तच्चोन्मानं सद्वितीये गवादौ दृष्टचरम् , न त्वद्वितीये । तथा संबन्धव्यप- देशोऽपि ब्रह्मणः श्रूयते-"सता सोम्य तदा संपन्नो भवति" इति । स च संबन्धः सद्रूपाद्ब्रह्मणोऽन्यस्य विद्यमान तायामवकल्प्यते । तथा-"आत्मा वा अरे द्रष्टव्यः" इति द्रष्टद्रष्टव्यमेदव्यपदेशोऽपि । तस्मात्-नाद्वितीयं ब्रह्म ॥ इति प्राप्ते, ब्रूमः-न तावद्ब्रह्मणः सेतुत्वं मुख्यं संभवति, मृद्दारुमयत्वप्रसङ्गात् ! केनचित्सेतुसामान्येन सेतुत्वविवक्षायां विधारकत्वमात्रं विवक्षितम् । न तु–सद्विती- यत्वम् , “सेतुर्विधृतिः" इति श्रवणात् । उन्मानं तूपास्त्यै व्यपदिश्यते, तत्पकरण- त्वात् । न तु तत्त्वावबोधार्थम् । भेदव्यपदेशश्चोपाध्युद्भवमपेक्ष्य घटाकाशमहाकाशवदु- * 'जाङ्गलं वातभूयिष्ठम्' इति वैद्योक्तेर्वातप्रचुरो देशो जाङ्गलम् । इह तु देशमात्रं विवक्षितम्- ४ कुत्रचित् m M . . इति रत्नप्रभा ॥ १ क. स्व. अस्त्यन्य । २ क. ख. ग. 'तुत्वान्मान । ३ ग. जगजालं । ४ क. 'तीय एव ग। ५ ख. ग. 'पि श्रु। ६ क. नतयाऽत्र । ७ क. ख. विवक्ष्यताम् । ८ क. ख. 'वोधाय । में।
[अ०३पा०२अवि०८] वैयासिकन्यायमाला। पपद्यते । संबन्धव्यपदेशश्चीपाविनाशमपेक्ष्य घटमङ्गे घटाकाशमहाकाशवदुपचर्यते । वस्मात्-ब्रह्मव्यतिरिक्तवस्तुसाधकहेतूनामन्यथासिद्धत्वात् "एकमेवाद्वितीयं ब्रह्म" इत्यन्यवस्तुनिषेधाचाद्वितीयमेव ब्रह्म ।। ( अष्टमे कर्माराधितेश्वरस्यैव फलदातृत्वाधिकरणे सूत्राणि-) फलमत उपपत्तेः ॥ ३८॥ श्रुतत्वाच ॥३९॥ धर्म जैमिनिरत एव ॥४०॥ पूर्व तु बाद- रायणो हेतुव्यपदेशात् ॥४१॥ अष्टमाधिकरणमारचयति- कर्मैव फलदं यद्वा कर्माराधित ईश्वरः ।। अपूर्वावान्तरद्वारा कर्मणः फलदातृता ॥ १५ ॥ अचेतनात्कलासूतेः शास्त्रीयात्पूजितेश्वरात् ॥ कालान्तरे फलोत्पत्तेर्नापूर्वपरिकल्पना ॥ १६ ॥ अनु क्षणविनाशिनोऽपि कर्मणोऽपूर्वव्यवधानेनापि कालान्तरमाविफलदातृत्वसंमवा- दीश्वरकल्पने गौरवम् ॥ इति प्राप्ते, ब्रूमः-अचेतनस्य कर्मणोऽपूर्वस्य वा तारतम्येन प्रतिनियतं फलं दातुं न सामर्थ्यमस्ति, लोके सेवादिक्रियायामचेतनायां तदर्शनात् । ततः सेवितरा- जवत्पूजितेश्वरात्फलसिद्धिरभ्युपेया । न च---कल्पनागौरवम् , शास्त्रसिद्धत्वेनेश्वरस्या- कल्पनीयत्वात् । "एष ह्येव साधु कर्म कारयति तं, यमेभ्यो लोकेभ्य उन्निनीषति । एष उ एवासाधु कर्म कारयति तम् , यमधो निनीषते" इति श्रुतिरीश्वरस्यैव धर्माधर्मयोः फलदातृत्वम् , तत्कारयितृत्वं चाभिदधाति । सति चेश्वरस्य प्रामाणिकत्वे तवैव प्रत्यु- ताश्रुतस्यापूर्वस्य कल्पने गौरवं भवेत् । तस्मात्-कर्मभिराराधित ईश्वरः फलदाता ।। वदेवमधिकरणचतुष्टयेन तत्पदार्थः शोषितः । तत्र प्रथमेन ब्रह्मणो नीरूपत्वम् , द्वितीयेन निषेधाविषयत्वम् , तृतीयेनाद्वितीयत्वम् , चतुर्थेन व्यवहारदशायां कर्मफल- दावृत्वम् , शाखाग्रचन्द्रन्यायेनोपलक्षणत्वाय प्रतिपादितम् । इत्येवं 'तत्-त्वंप- दार्थों शोधितौ' इति स्थितम् ॥ १ क. अन्वक्षवि । २ ख. सिद्धम् । . .
श्रीभारतीतीर्थमुनिप्रणीता- [अ०३पा०३अधि०१] इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां तृतीयाध्यायस्य द्वितीयः पादः ॥ २ ॥ अत्र पादे आदितः अधिकरणानि १०१ सूत्राणि ४१ ३६० (अथ तृतीयाध्यायस्य तृतीयः पादः) ( प्रथमे सर्ववेदान्तप्रत्ययोपासनाया एकत्वाधिकरणे सूत्राणि-) सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥१॥ भेदानेति चेनैकस्यामपि ॥२॥ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच सववच्च तत्रियमः॥ ३ ॥ दर्शयति च ॥४॥ तृतीयपादस्य प्रथमाधिकरणमारचयति- सर्ववेदेष्वनेकत्वमुपास्तेरथवैकता ॥ अनेकत्वं कौथुमादिनामधर्मविभेदतः ॥ १॥ विधिरूपफलैकत्वादेकत्वं नाम न श्रुतम् ॥ शिरोव्रताख्यधर्मस्तु स्वाध्याये स्यान वेदने ॥२॥ छान्दोग्यबृहदारण्यकयोः-पञ्चायुपासनमाम्नायते । तदेकं न भवति नाम- भेदात् । 'कौथुमम्' इति च्छान्दोग्यगतस्य नाम, 'वाजसनेयकम्' इति बृहदारण्य- कर्गतस्य नाम । तथोपासनान्तरेषु धर्मभेदोऽप्युपासनाभेदगमकः शरा- बतलक्षणो मुण्डकवतशाखायां श्रूयवे-"तेषामेवैतां ब्रह्मविद्यां वदेत् , शिरोव्रतं विधिवद्यैस्तु चर्णिम्" इति । शिरोव्रतं नाम वेदव्रतविशेष आथर्वणिकान्प्रति विहितो, नेवरान्प्रति । तस्मात्-शाखाभेदादुपासनाभेदः।। इति प्राप्ते, ब्रूमः-शाखाभेदेऽपि विद्याद्यभेदादुपासनं न भिद्यते । तथाच च्छान्दोग्य-"यो ह वै ज्येष्ठं च श्रेष्ठं च वेद" इति यादृशः प्राणविद्याविधिः, तादृश एव बृहदारण्यकेऽप्याम्नायवे । तथा—धुपर्जन्यपृथिवीपुरुषयोषिदाख्यमग्नि- पञ्चकं वेद्यतया । पञ्चाग्निविद्यायां यत्स्वरूपम्, तदुभयोरपि शाखयोः समानम् । १ ख. 'गतं ना । २ क. विध्यभे। ग. विध्याद्य । ३ क. वन्द्यतया । ४ क. शास्त्रयोः । योजयितव्यम् ।
[अ०३पा०३अधि०२-३] वैयासिकन्यायमाला । फलं च “ज्येष्ठश्च ह वै श्रेष्ठश्च भवति" इत्येवंरूपं प्राणोपास्तिजन्यं शाखाद्वयेऽप्ये- कविधम् । यस्तु कौथुमादिनामभेद उदाहृतः, नासौ श्रुत्याऽभिहितः । किं तर्हि- अध्येवार एव केवलं तत्तच्छाखापवर्तकमुनिनाम्ना तं तं वेदं व्याँहरन्ति । योऽपि शिरोव्रताख्यधर्मभेद उक्तः, सोऽप्यध्ययनविषय एव । नतूपास्तिविषयः, "नैतदची- र्णब्रतोऽधीते" इत्यध्ययनधर्मत्वावगमात् । तस्मात्-ऐक्यहेतुसद्भावात् , मेदहेत्वमा- वाच्च न शाखाभेदादुपासनं भिद्यते ॥ A - (द्विवीये शाखान्तरोक्तस्याप्युपसंहाराधिकरणे सूत्रम्-) उपसंहारोऽर्थाभेदादिधिशेषवत्समाने च ॥५॥ द्वितीयाधिकरणमारचयति एकोपास्तावनाहार्या आहार्या वा गुणाः श्रुतौ ।। अनुक्तत्वादनाहार्या उपकारः श्रुतैर्गुणैः ॥ ३ ॥ श्रुतत्वादन्यशाखायामाहार्यों अग्निहोत्रवत् ॥ विशिष्टविद्योपकारः स्वशाखोक्तगुणैः समः ॥ ४ ॥ वाजसनेयके-प्राणविद्यायामधिको गुणो रेतआख्यः श्रुत:--"रेतो होचक्राम" इवि । नासौ छान्दोग्य-प्राणविद्यायामुपसंहर्तव्यः, अत्रानुक्तत्वात् । विद्योपका- रस्त्वत्र श्रुतैरेव प्राणवागादिमिर्गुणैर्भविष्यति ।। इति प्राप्ते, ब्रूमः-एतच्छाखायामश्रवणेऽपि शाखान्तरे श्रुतत्वादुपसंहार्य एव । अग्निहोत्राद्यनुष्ठानेषु शाखान्तरोक्तगुणयुक्ततयैवानुष्ठानदर्शनात् । न च-स्वशाखो- क्तगुणैरेव विद्योपकारसिद्धौ गुणोपसंहारो निरर्थकः-इति वाच्यम्, 'कर्मभूयस्त्वा- त्फलभूयस्त्वम्' इविन्यायेन स्वशाखोक्तगुणवत्परशाखोक्तगुणानामप्युपकारकत्वात् । वस्मात्-गुणोपसंहारः कर्तव्यः।। , (तृतीये, उद्गीथ विद्याया भिन्नताधिकरणे सूत्राणि-) अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥६॥ * जैमिनिनाऽपि द्वितीयाध्यायान्ते सर्वशाखाप्रत्ययैककर्मताधिकरणे "नाम-रूप-धर्मविशेष निन्दा-ऽशक्ति-समाप्तिवचन-प्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरेषु कर्मभेदः स्यात्” (पू० मी० सू० २ । ४। ८) इत्यादिभिः सूत्रैः 'सर्वशाखाप्रत्ययं सर्वब्राह्मणप्रत्ययं चैकं कर्म चोद्यते' इत्येव सिद्धान्तितम् ॥ १ क. किंतु तदयं प्रकारोऽध्ये । २ क. ख. नाऽऽनातं ।। ३ ग. भेदं। ४ ख. व्यवहरन्ति। ५ ग. 'त्-एकहें । ६ ग. 'हेतुत्वाभा । ७ क. दिग्नि' । ८ क. ख. रस्तत्र । ९ क, युक्तः । स्तथैवा । १० क. स्व. 'कारित्वात् । .. १३ श्रीभारतीतीर्थमुनिप्रणीता [अ०३पा०३अधि०४] नवा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥७॥ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ८ ॥ तृतीयाधिकरणमारचयवि- एका भिन्नाऽथवोद्गीथविद्या छान्दोग्यकाण्वयोः ॥ एका स्यान्नामसामान्यात्संग्रामादिसमत्वतः ॥५॥ उद्गीथावयवोंकार उद्गातेत्युभयोर्भिदा ॥ वेद्यभेदेऽर्थवादादिसाम्यमत्रामयोजकम् ॥ ६॥ 'उद्गीथविद्या' इति समाख्याया एकत्वाच्छान्दोग्यकाण्वशाखयोर्विद्यै क्यमुचितम् । अथ समाख्या न श्रौती, तथाऽपिश्रीवाः संग्रामादय उभयत्र समानाः । तथाहि- छान्दोग्ये देवासुरभावं क्रमेण सात्विकेन्द्रियवृत्तीनां तामसेन्द्रियवृत्तीनां चाङ्गीकृत्य तत्संग्रामं निरूप्य वागादिदेवानामसुरविद्धत्वमुक्त्वा प्राणस्यैव तदविद्धत्वमुक्तम् । एत- सर्व काण्ववेदेऽपि समानम् । तस्मात्-उभयत्र विद्यै क्यम् ।। इति प्राप्ते, ब्रूमः-भिन्नेयमुद्गीथविद्या वेद्यस्वरूपभिन्नत्वात् । छान्दोग्ये वाव- सामभागविशेषस्योद्गीथस्यावयव ओंकारः । स एव प्राणदृष्टयोपासनीयः । काण्ववेदे तु कृत्स्नोद्गीथभक्तेर्य उद्गाता वागिन्द्रियमेरकः प्राणः, स उद्गातृत्वेनोपास्य इति वेधे- भेदः । यत्तु-संग्रामादिसाम्यमुक्तम् । तदपयोजकम् , अर्थवादत्वात् । यदपि प्राण- स्यासुरविद्धत्वाभावेन श्रेष्ठत्वम् । तद्यद्यप्युपास्यम्, तथाऽप्युक्तस्य वेद्यभेदैस्यानिराकर- णात्-भिन्नैवोद्गीथविद्या ।। (चतुर्थे, उद्गीथस्योंकारविशेषणत्वाधिकरणे सूत्रम्-) व्याप्तेश्च समञ्जसम् ॥९॥ चतुर्थाधिकरणमारचयति- किमध्यासोऽथवा बाध ऐक्यं वाँऽथ विशेष्यता । अक्षरस्यात्र मास्त्यैक्यं नियतं हेत्वभावतः ॥७॥ 'वेदेषु व्याप्त ओंकार उद्गीथेन विशेष्यते ॥ अध्यासादौ फलं कल्प्यं संनिकृष्टांशलक्षणा ॥८॥ १ क. दयोऽत्र समाः । त। २ क. प्राणदेवस्यैव । ख. प्राणदेवस्यैकस्यैव । ३ ख. विद्यै- कत्वम् । ४ क. कृत्स्नस्योद्गीं । ५ क. वेदाभेदः। ६ ख. 'दस्य नि । ७ क. किंवा । ८ क. देवेषु । ९ ग. विशिष्यते । १० ख. क्षणम् ।
१ [अ०३सा०३अधि०५] वैयासिकन्यायमाला। "ओमित्येतदक्षरमुद्गीथमुपासीत" इत्यक्षरोगीथयोः सामानाधिकरण्यं श्रूयते । तत्र चतुर्धा संशयः । तथाहि-"नाम ब्रह्मेत्युपासीत" इत्यत्र नाम्नि ब्रह्मदृष्टयध्यासाय सामानाधिकरण्यं श्रुतम् । तथा-बाधादिष्वप्युदाह्रियते-"यश्चौरः स स्थाणुः" इति चौरत्वस्य बाधः । “यो जीवस्तद्ब्रह्म" इत्येकत्वम् । 'यन्नीलं तदुत्पलम्' इति विशेष्यता । अतोऽक्षरस्य चतुर्धा संदेहे सति 'इदमेव' इत्यत्र नास्त्यध्यवसायः, नियामकस्य हेवोरभावात् ॥ इति प्राप्ते, ब्रूमः-अक्षरस्योद्गीथेन विशेष्यता नियन्तुं शक्यते । ओंकारो हि ऋग्यजुःसामसु त्रिषु पठ्यते । तत्र 'कस्योपास्यत्वम्' इत्यपेक्षायाम् , 'उद्गी- थभागस्थितस्य, न विवरस्य' इति सामवेदगतस्य विशेषणीयत्वात् । अध्यासबाथै- क्यपक्षेषु फलमपि कल्पनीयं प्रसज्येत, स्वतत्रोपासनत्वेन फलस्याऽऽकाङ्क्षिवत्वात् । विशेषणपक्षे तु वक्ष्यमाणरसवमत्वादिगुणोपासनाय प्रतीकत्वेनोंकार उद्गीथेन विशेष्यते न तु ववत्रमुपासनम् । ववो न पृथक्फलं कल्पनीयम् । ननु-उद्गीथशब्दः कृत्स्नभ- क्तिवाचकः । ओंकारस्तु वदवयवः । एवं चोंकारं विशेष्टुमुद्गीथशब्देन वदंशलक्षणा स्वीकरणीया स्यात् । बाढम् । तथाऽप्यध्यासपक्षात्समीचीनो विशेषणपक्षः । अध्यास- पक्षे तु यथा विष्णुशब्दः स्वार्थं सर्व परित्यज्यार्थान्तरभूतां शिलाप्रतिमां लक्षयति, वथोद्गीथशब्दोऽपीति विप्रकर्षः । अंशलक्षणायां तु स्वार्थकदेशस्यैव परित्याग इति संनिकर्षः। ओंकारादिवरँदक्षरजातं येदस्ति सोऽयं परित्यक्तव्यस्तदेकदेशः। तस्मात्- वेदान्चरगवोंकारज्यावृत्त्यर्थमुद्गीथावयवत्वेनैतदक्षरं विशिष्यते ।। . (पञ्चमे वसिष्ठत्वादीनामाहार्यताधिकरणे सूत्रम्- सर्वाभेदादन्यत्रेमे ॥१०॥ पञ्चमाधिकरणमारचयति- वसिष्ठत्वाधनाहार्यमाहार्य वैवमित्यतः ।। उक्तस्यैव परामर्शादनाहार्यमनुक्तितः ॥ ९ ॥ प्राणद्वारेण बुद्धिस्थं वसिष्ठत्वादि तेन तत् ।। एवंशपरामर्शयोग्यमाहार्यमिष्यते ॥ १० ॥ प्राणविद्यायां छन्दोगाः काण्वाश्च वसिष्ठत्वप्रतिष्ठादिकान्गुणानामनन्ति, न त्वै. तरेयककौषीवक्यादयः । वत्र वसिष्ठत्वादिकं नोपसंहर्तव्यम् । कुतः-“य एवं वेद" इत्येवंशब्देन तत्तच्छाखोक्तगुणानामेव परामर्शात् ।। १ क. 'ति । तत्र चौ' । २ क. 'त्यत्रास्त्य । ३ क. प्रसृजेत । ४ क. 'तराक्ष । ख. 'तरोऽ- क्ष। ५ क. यदस्य । ग. यदाऽस्ति । ६ क. 'त्वेनेदमई। ७ ख. 'दि नेतरत् । ८ क. ग. छान्दोगाः। ..
१०० श्रीभारतीतीर्थमुनिप्रणीता-[अ०३पा०३अधि०६-७] इति प्राप्ते, ब्रूमः-उक्तगुणवदनुक्ता अपि गुणा एवंशब्दपरामर्शयोग्याः । कुतः-गुणिनः प्राणस्यैकत्वेन तद्वारा गुणानां बुद्धिस्थत्वात् । यथा-देवदत्तो मथुरा- यामध्यापयन्दृष्टः, पुनर्माहिष्मत्यामनध्यापयन्नप्यध्यापकत्वेनैव प्रत्यभिज्ञायते । तथा छान्दोग्यादौ वसिष्ठत्वादिगुणयुक्तवयोपलब्धः, पुनरैवरेयादौ केवल उपलभ्यमानोऽपि वगुणविशिष्टतयैव बुद्धिस्थो भवेत् ॥ तस्मात्-एवंशब्दपरामर्शयोग्यत्वाद्वसिष्ठत्वा- दिकमुपसंहर्वव्यम् ॥ .. - ।' ( षष्टे, आनन्दादीनामुपसंहाराधिकरणे सूत्राणि-) आनन्दादयः प्रधानस्य ॥ ११ ॥ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे॥१२॥ इतरे त्वर्थसामान्यात्॥१३॥ षष्ठाधिकरणमारचयति- नाऽहार्या उत वाऽऽहार्या आनन्दाद्या अनाहृतिः ।। वामनीसत्यकामादेरिवैतेषां व्यवस्थितेः ॥ ११ ॥ विधीयमानधर्माणां व्यवस्था स्याद्यथाविधि ॥ प्रतिपत्तिफलानां तु सर्वशाखासु संहृतिः ॥ १२॥ "आनन्दो ब्रह्म" "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यानन्दसत्यत्वादयस्तैत्तिरीयके परब्रह्मविद्यायां पठ्यन्ते । "प्रज्ञानं ब्रह्म' इत्याद्यैतरेयकादिप्रोक्तासु परब्रह्मविद्यासु नोपसंहर्तव्याः । वामनीत्वादिवद्यवस्थोपपत्तेः । “एष उ एव वामनीः, एष उ एवं भामनीः" इति कोमनेतृत्वभासकत्वादयो गुणा उपकोसलविद्यायामानाताः । त्यकामः सत्यसंकल्पः" इति सत्यकामादयो गुणा दहरविद्यायां समाम्नाताः । तत्र यथा परस्परं गुणानुपसंहारः, एवमानन्दादीनां व्यवस्थाऽस्तु । इति प्राप्ते, ब्रूमः-विषमो दृष्टान्तः । वामनीत्वादिना ध्येयत्वेन विधीयमानत्वाँ. घथाविधि व्यवस्था युक्ता । आनन्दादयस्तु प्रविपत्तिफला इति न विधीयन्ते । अवो व्यवस्थापकविध्यभावात्मतिपत्तिफलस्य सर्वत्र समानत्वाच्चाऽऽनन्दादय उपसंहर्वव्याः ॥ " स- ( सप्तमे पुरुषस्यैव ज्ञेयताधिकरणे सूत्रे-) आध्यानाय प्रयोजनाभावात् ॥१४॥ १ क वादेरिव व्यव । २ क. कामयित' । ३ क. 'त्वादीनां संयत्त्वेन विधी । ४ क. 'वान्यव।
[अ०३पा०३आधि०७] वैयासिकन्यायमाला। १०१ . :-- आत्मशब्दाच ॥१५॥ सप्तमाधिकरणमारचयति- सर्वा परम्पराऽक्षादेया पुरुष एव वा ॥ ज्ञेया सर्वा श्रुतत्वेन वाक्यानि स्युर्बहूनि हि ॥ १३ ॥ पुमर्थः पुरुषज्ञानं तंत्र यत्नः श्रुतो महान् ।। तद्धोधाय श्रुतोऽक्षादिर्वेद्य एकः पुमांस्ततः॥ १४ ॥ कठवल्लीषु पठ्यते- "इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः" इति अस्यायमर्थः-'मनसा विषयानभिलष्य पश्चादिन्द्रियैर्बाह्यान्विषयानाप्नोति । वत्र बाह्यविषयेभ्य इन्द्रियाणामान्वरत्वात्परत्वं प्रसिद्धम् । इन्द्रियेभ्यश्चाभि- लष्यमाणत्वदशांपना अर्था आन्तराः । वेभ्योऽप्यभिलाषात्मिका मनोवृत्तिरान्तरा । वृत्तेरपि वृत्तिमवी बुद्धिरभ्यन्तरा । बुद्धेरपि बुद्धयुपादानभूतो महच्छब्दवाच्यो हैरण्य- गर्भरूपात्माऽऽभ्यन्तरः । महतोऽपि तदुपादानभूतमव्यक्ताख्यं मूलाज्ञानमाभ्यन्तरम् । अव्यक्तादपि तदधिष्ठानभूवश्चिद्रूपः पुरुषोऽभ्यन्तरः । पुरुषादभ्यन्तरं न किंचि- दस्ति । पुरुष एवाभ्यन्तरवारतम्यस्य विश्रान्ति भूमिः, 'पुरुषार्थकामैः परमो गन्तव्य- श्व' इति । तत्र यथा पुरुषः श्रुत्या तात्पर्येण प्रतिपाद्यः, एवमिन्द्रियादिपरम्पराऽपि प्रतिपाद्यैव । अन्यथा—तदुपन्यासवैयर्थ्यात् । बहूनां प्रतिपादने वाक्यभेदः स्यात्- इति चेत् । बाढम् । सन्त्येव तानि बहूनि वाक्यानि, एकवाक्यत्वासंभवात् ।। इति प्राप्ते, ब्रूमः-पुरुषज्ञानस्याशेषसंसारनिदानभूवाज्ञाननिवर्तकत्वात्पुरुष एव ज्ञेयवया प्रतिपाद्यः । अत एव वाक्यशेषे पुरुषज्ञानायैव महता प्रयत्नेन योग उपदिष्टः- "एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वय्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिमिः" इति । अस्यायमर्थः--'सर्वाभ्यन्तरत्वेन गूढोऽयमात्मा बहिर्मुखानां न प्रकाशते । अन्तर्मुखा ये सूक्ष्मतत्त्वदर्शनशीलास्तैर्योगाभ्यासेनैकाग्यमापनया बुद्धया सूक्ष्मवस्तु- १ ख. यत्र । २ ख. ग. यत्नश्रुतेमहा। ३ क. 'शायामर्था । ४ ख. गर्भात्मा' ।५ क. "रमस्य वि। ६ क. प्रतिपादितः । ७ क. सन्वेता'। ८ क. 'पस्याज्ञान । ९ क. 'लेनैव यो । १० ग.भ्यासमापनैकाप्रया बु। .
१०२ श्रीभारतीतीर्थमुनिप्रणीता- [अ०३पा०३अधि०८] विषयया द्रष्टुं शक्यते' इति । न च--पुरुषस्यैव प्रतिपाद्यत्वे परम्परोपदेशवैयर्थ्यम, बहिर्मुखस्य चित्तस्य पुरुषप्रवेशं प्रति परम्परायाः साधनत्वात् । तस्मात्--पुरुष एव ज्ञातव्यः ।। (अष्टमे, ईश्वरस्यैवाऽऽत्मशब्दवाच्यताधिकरणे सूत्रे--) आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥ अन्व- यादिति चेत्स्यादवधारणात् ॥ १७ ॥ भष्टमाधिकरणमारचयति- आत्मा वा इदमित्यत्र विराट्स्यादथवेश्वरः ।। भूतासृष्टेर्नेश्वरः स्याद्वाद्यानयनाद्विराट् ॥ १५॥ भूतोपसंहृतेरीशः स्याद्वैतावधारणात् ॥ अर्थवादो गवाद्युक्तिब्रह्मात्मत्वं विवक्षितम् ॥ १६ ॥ "आत्मा वा इदमेक एवाग्र आसीत्" इत्यत्र विराडेवाऽऽत्मशब्दवाच्यः, नेश्वरः । कुतः- "स ऐक्षत-लोकान्नु सृजै"-इवि पञ्चभूतसृष्टिमनुक्त्वा लोकमात्रसृष्टेरमिवा- नात् । ईश्वरप्रकरणे' तैत्तिरीयच्छान्दोग्यादिषु भूतसृष्टव्यभिधानदर्शनात् । “ताभ्यो गामानयत्" इति प्रोक्तं गवाद्यानयनं शरीरिणो विराजो घटते, न त्वशरीरस्य परमे- श्वरस्य॥ इति प्राप्ते, ब्रूमः-"एक एवाग्र आसीत्" इत्यद्वैवावधारणादीश्वरोऽत्राऽऽत्मश- ब्दार्थः । तथाच सवि शाखान्तरोक्तभूतसृष्टिरत्रोपसंहर्तुं शक्यते । यत्तु-गवाधान- यनम् । तदर्थवादरूपम् । तद्वेदनस्य स्वातत्र्येण पुरुषार्थत्वाभावात् । अथ-भूवार्थ- वादत्वं मन्येथाः, । तर्हि विराडादिद्वारा परमेश्वर एव गवादिकमानयतु अथ-श्रूय- माणस्य गवानयनप्रपञ्चस्यार्थवादत्वे श्रुवेर्विवक्षिवार्थः कोऽपि न सिध्येत्-इति चेत् । न, जीवब्रह्मैक्यस्य विवक्षितत्वात् । “आत्मा वै"-इत्युपक्रम्य “स एवमेव पुरुषं ब्रह्म वतमपश्यत् । प्रज्ञानं ब्रह्म" इत्युपसंहारात् । तस्मात्-ईश्वर एवाऽऽत्मशब्दवाच्यः। द्विवीयवर्णकमाह- १ क. ख. "स्य क्रमेण पुरुषप्रवेशे पर। २ क. नेशः । ३ क. ग. 'णेषु ते । ४ क. स्व. 'चोक्तं ५ क. र अत्मा [अ०३पा०३अधि०९] वैयासिकन्यायमाला। द्वयोर्वस्त्वन्यदेकं वा काण्वच्छान्दोग्यषष्ठयोः ॥ उभयत्र पृथग्वस्तु सदात्मभ्यामुपक्रमात् ॥ १७ ॥ साधारणोऽयं सच्छब्दः स आत्मा तत्त्वमित्यतः ।। वाक्यशेषादात्मवाची तस्माद्वस्त्वेकमेतयोः ॥ १८ ॥ काण्वषष्ठाध्याये "कतम आत्मा" इत्यारभ्याऽऽत्मा प्रपश्चितः । छान्दोग्यषष्ठे तु "सदेव सोम्येदमग्र आसीत्" इत्युपक्रम्य सद्वस्तु प्रपञ्चितम् । न हि लोके सच्छ- ब्दात्मशब्दौ पर्यायौ । तस्मात् --वस्तुभेदः ।। इति प्राप्ते, ब्रूमः-सच्छब्दोऽयमात्मानात्मसाधारणत्वात्संदिग्धः। स च वाक्य- शेषे "स आत्मा, तत्वमसि" इति श्रवणादात्मवाची भविष्यति । तस्मात्--एकमेवो- भयत्र वस्तु ।। PM . ( नवमे प्राणविद्यायामनग्नताबुद्धेरेव विधेयत्वाधिकरणे सूत्रम्--) कार्याख्यानादपूर्वम् ॥ १८॥ नवमाधिकरणमारचयवि- अनमबुद्धयाचमने विधेये बुद्धिरेव वा ॥ उभे अपि विधीयते द्वयोरत्र श्रुतत्वतः ॥ १९ ॥ स्मृतेराचमनं प्राप्तं प्रायत्यार्थमनूद्य तत् ।। अनग्नतामतिः प्राणविदोऽपूर्वी विधीयते ॥ २० ॥ पाणविद्यायां वाक्यशेषे श्रूयते--"अशिष्यन्नाचामेत् ,अशित्वा चाऽऽचामेत् । एतमेव तनमननं कुरुते” इति । तत्र माणस्यानमवाबुद्धिः, आचमनं च, इत्यु- भयं विधेयम् , द्वयोः श्रुतत्वात् ।। इति प्राप्ते, ब्रूमः-"अमाप्ते शास्त्रमर्थवत्" इतिन्यायेन मानान्तरामाप्तमनमता- चिन्तनमेव विवेयम्। भोजनात्मागूध्वं चाऽऽचमनीयास्वप्सु वासोबुद्धिं कृत्वा वेन वाससा प्राणस्यानग्मत्वं ध्यायेत्' इत्यर्थः । आचमनं तु शुद्धयर्थतया स्मृतिबलादेव पाप्तम्- इति न विधीयते । न च तस्याः स्मृतेरियं श्रुतिर्मूलम्-इवि शङ्कनीयम् , वर्णाश्र- मधर्मप्रकरणत्वाभावेन भिन्नविषयत्वात् । मूलभूतं (तु ) श्रुत्यन्तरमनुमेयम् । तस्मात्- आचमनस्य प्राप्तत्वादनग्नताबुद्धिरेव प्राणोपासकं प्रति विधेया ॥ * एतभेवानं प्राणं तत्तेनाऽऽचमनेनाननमाच्छादितमिति रत्नप्रभा ॥ . १ ख. 'यत्यर्थ । २ क. स्व. द्यावा । ३ क. ख, ग, तदन्नम । ४ क. ख. 'रियमेव श्रु।
१०४ श्रीभारतीतीर्थमुनिप्रणीता- [अ.३पा.३अधि.१०-११] ( दशमे शाण्डिल्यविद्यायाः समानताधिकरणे सूत्रम्--) समान एवं चाभेदात् ॥ १९॥ दशमाधिकरणमारचयति- शाण्डिल्यविद्या काण्वानां द्विविधैकविधाऽथवा ॥ द्विरुक्तरेकशाखायां द्वे विद्ये इति गम्यते ॥ २१ ॥ एका मनोमयत्वादिप्रत्यभिज्ञानतो भवेत् ॥ विद्याया विधिरकत्र स्यादन्यत्र गुणे विधिः ।। २२ ॥ काण्वानामनिरहस्यब्राह्मणेशाण्डिल्यविद्या पठ्यते-"स आत्मानमुपासीत मनो- मयं प्राणशरीरम्" इति । तथा-तेषामेव बृहदारण्यके सैव विद्या पठिता--"मनो. मयोऽयंपुरुषो माःसत्यः" इति । तत्र पौनरुक्त्यभयाद्विद्याभेदः ।। इति प्राप्ते, ब्रूमः--मनोमयत्वादिकस्य वेद्यस्वरूपस्य प्रत्यभिज्ञानादेकैव विद्या । न च--पुनरुक्तिः, एकत्र विद्यां विधायापरत्र तदनुवादेन सत्यत्वसर्वेशानत्वादिगु- णानां विधातुं शक्यत्वात् । “अमिहोत्रं जुहोति, दना जुहोति" इत्यादिवत् । वस्मात्--एकविधैव शाण्डिल्यविद्या ।। . --- (एकादशे नानोर्व्यवस्थाधिकरणे सूत्राणि-) संबन्धादेवमन्यत्रापि ॥ २० ॥ न वा विशेषात् ॥ २१॥ दर्शयति च ॥२२॥ एकादशाधिकरणमारचयति- संहारः स्याद्यवस्था वा नानोरहरहं त्विति ।। विद्यैकत्वेन संहारः स्यादध्यात्माधिदैवयोः ॥ २३ ॥ तस्योपनिषदित्येवं भिन्नस्थानत्वदर्शनात् ।। स्थितासीनगुरूपास्त्योरिव नानोर्व्यवस्थितिः॥ २४ ॥ बृहदारण्यके सत्यविद्यायामाधिदैविकस्य पुरुषस्याऽऽदित्यस्य 'अहः' इत्येतनाम ध्यानायोपदिश्यते । आध्यात्मिकस्य त्वक्षिपुरुषस्य 'अहम्' इत्येवन्नाम । तत्र- विद्यैकत्वेन द्वयो नोः पुरुषद्वय उपसंहारः ॥ इति प्राप्ते, ब्रूमः -"य एष तस्मिन्मण्डले पुरुषः" इत्युपक्रम्य "तस्योपनिष- . . -- १ क. व शा। २.ख. अथ । ३ ग. क्त्यतया विद्या । ४ क. धरू । ५ क. 'स्य चक्षुः ।
[भ०३पा०३अधि०१२] वैयासिकन्यायमाला। १०५ दहः” इति तच्छब्देन मण्डलस्थमेव परामृश्य तस्यैव नामविशेष उपदिष्टः । तथा- "योऽयं दक्षिणेऽक्षन्पुरुषः" इत्युपक्रम्य "तस्योपनिषदहम्" इति तच्छब्देना- क्षिनिष्ठमेव परामृश्य नामविशेष उपदिष्टः । अतो विद्यैकत्वेन वेद्यस्य सत्याख्यस्य ब्रह्मण एकत्वेऽपि स्थानविशेषे कटाक्षेण नामविधानादाध्यात्मिकाधिदैविकयोयंव- स्थिते नामनी । न तु तयोरुपसंहारोऽस्ति । यथा लोके गुरोरुपास्यस्यैकत्वेऽपि तिष्ठतो गुरोर्य उपचारः, नासावासीनस्य युज्यते । आसीनस्य य उपचारः पादाभ्यङ्गादिः, नासौ तिष्ठतो भवति, तद्वत् ॥ तस्मात्-नानोर्व्यवस्था द्रष्टव्या ।। ( द्वादशे संभृत्यादीनामनुपसंहाराधिकरणे सूत्रम्--) संभृति व्याप्त्यपि चातः ॥ २३ ॥ द्वादशाधिकरणमारचयति- आहार्या वा न वाऽन्यत्र संभृत्यादिविभूतयः ।। आहार्या ब्रह्मधर्मत्वाच्छाण्डिल्यादाववारणास् ॥ २५ ॥ असाधारणधर्माणां प्रत्यभिज्ञाऽत्र नास्त्यतः ॥ अनाहार्या धर्ममानसंबन्धोऽतिमसञ्जकः ॥ २६ ॥ राणायनीयानां खिलेषु पठ्यते-" ब्रह्मज्येष्ठा वीर्या संभृतानि ब्रह्माऽये ज्येष्ठं दिवमाततान" इति । अस्यायमर्थ:-~-यानि लोके वीर्याणि हरिहरकमलासनादि- देहेषु प्रसिद्धानि, वानि सर्वाणि ब्रह्मपुरःसराण्येव संभृतानि संभवन्ति । नहि सश- क्तिकं ब्रह्मानपेक्ष्य वीर्याणि संभवन्ति । तच्च ब्रह्म ज्येष्ठं ( ब्रह्म) पूर्व दिवं व्याप्या- वस्थितम्' इति । अत्र--आधिदैविकस्य ब्रह्मणः संभृतिधुव्याप्त्यादयो गुणा उपा. स्यत्वेनावगम्यन्ते । शाण्डिल्यादिदहरादिविद्यास्वाध्यात्मिकं हृदयान्तर्वति ब्रह्मोपास्य- तया श्रुतम् । तत्र-ब्रह्मण एकत्वात्संभृत्यादयो गुणाः शाण्डिल्यदहरादिविधासूप- संहर्वव्याः ॥ इति प्राप्ते, ब्रूमः-न तावत्संमृत्यादिगुणानामन्यतमोऽपि शाण्डिल्यादिविद्यामू. पलभ्यते । अतो विद्यैकत्वमत्यभिज्ञानाभावाहुणा नोपसंहर्तव्याः । ब्रह्मैकत्वमात्रेणोप- संहृवौ न क्वाप्यनुपसंहार इति प्रसङ्गः । तस्मात् ----संभृत्यादेनोपसंहारः ।। . १ क. 'क्षिस्थमेव । २ क. ततो। ३ क.कत्वोपस्था। ४ ख. नारायणीयानां । ५ क. सनदे। ख. 'सनादिषु। ६ क ख. 'ण्डिल्यद । ७ क. "ण्डिल्यवि'। ८ ख. यासु ल। :
१०६ श्रीभारतीतीर्थमुनिप्रणीता-[अ.३पा.३अधि.१३-१४ (त्रयोदशे पुरुषविद्याया विभिन्नताधिकरणे सूत्रम्-) पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥२४॥ त्रयोदशाधिकरणमारचयति- पुंविधैका विभिन्ना वा तैत्तिरीयकताण्डिनोः ॥ मरणावभृथत्वादिसाम्यादेकेति गम्यते ॥ २७ ॥ बहुना रूपभेदेन किंचित्साम्यस्य बाधनात् ॥ न विद्यैक्यं तैत्तिरीये ब्रह्मविद्याप्रशंसनात् ॥ २८ ॥ अस्ति तैत्तिरीये पुरुषविद्या-"तस्यैवं विदुषो यज्ञस्याऽऽत्मा यजमानः" इति । तथी-ताण्डिशाखायामपि श्रूयते-"पुरुषो वाव यज्ञः" इति । सेयमेकैव पुरु- षविद्या, “यन्मरणं तदवभृथः," "मरणमेवावभृथः" इत्युभयत्र समानधर्मश्रवणात् । प्रातःसवनादीनां च समानत्वात् ।। इति प्राप्ते, ब्रूमः-वेद्यस्य रूपस्य भूयानत्र भेदः श्रूयते । तथाहि-'विदुषो यो यज्ञः, तस्य यज्ञस्याऽऽत्मा' इति तैत्तिरीयके व्यधिकरणे षष्ठयौ । अन्यथा 'आत्मा यजमानः' इति व्याघातात् 'विद्वानेवे यज्ञः, स एव यजमानः' इति कथं न व्याहन्येत । ताण्डिनां तु पुरुषयज्ञयोः सामानाधिकरण्यं श्रुतमित्येको रूपभेदः । आत्मयज- मानादिकं च सर्वत्र श्रुतम् , ताण्डिनां नोपलभ्यते । यत्तु ताण्डिनामुपलभ्यते त्रेधा- विभक्तस्याऽऽयुषः सवनत्रयत्वमित्यादि, तन्न किंचिदपि तैत्तिरीयके पश्यामः । अतो मरणावभृथत्वाईंल्पसाम्यबाधाद्विद्ययोर्भेद एवोचितः । अपि च न तैत्तिरीयाणामुपास- नमिदम् । किं तर्हि ब्रह्मविद्याप्रशंसा "तस्यैवं विदुषः" इति ब्रह्मविद उत्कर्षणात्- वस्मात-न विद्यै क्यशङ्काया अप्यवकाशोऽस्ति । . (चतुर्दशे वेधाधिकरणे सूत्रम्-) वेधाद्यर्थभेदात् ॥ २५॥ चतुर्दशाधिकरणमारचयति- वैधमत्रप्रवादि विद्याङ्गमर्थवा न तु ॥ विद्यासंनिधिपाठेन विद्याले मन्त्रकर्मणी ॥ २९ ॥ १ क. केन ग । २ ग. था-शाण्डिलशाखायज्ञविद्याया। ३ क. 'स्य स्वरू। ४ क. ख. उपलभ्यते । ५ ग. 'नेव यज । ६ ख. 'टक्ष्यत । ७ ख. धन्यसामान्यबा । ८ क. 'विदोनुक' । ग. 'विद्योत्क । १ क. 'विद्याम । ख. 'वेदम। १० ख. थवेतरतु वि। ११ क. स्व. ग. कर्मणि । .
[अ०३पा०३अधि०१५] वैयासिकन्यायमाला । १०७ लिनेनान्यत्र मन्त्राणां वाक्येनापि च कर्मणाम् ।। विनियोगात्संनिधिस्तु बोध्योऽतो नाङ्गतां तयोः ॥ ३० ॥ आथर्वणिकानामुपनिषदारम्भे-"सर्वं प्रविध्य हृदयं प्रविध्य" इत्यादय आभिः चारिकमत्राः पठिताः । काण्वानामुपनिषदादौ प्रवर्यब्राह्मणं पठितम् । एवमन्यत्राप्यु- दाहर्तव्यम् । तत्र विद्यासंनिधिवशान्मत्रकर्मणोविद्याङ्गत्वम् ।। इति प्राप्ते, ब्रूमः-हृदयवेवादिमत्राणां लिङ्गादभिचारकर्मणि विनियोगः । प्रव- य॑स्य "पुरस्वादुपसदां प्रवृणक्ति" इत्यनिष्टोमे विनियोगो दृश्यते । 'लिङ्गवाक्ये च संनिधेर्बलीयसी' इति पूर्वकाण्डे श्रुतिलिङ्गाधिकरणे व्यवस्थापितम् । तस्मात्-न विद्याङ्गत्वं मत्रकर्मणोः ॥ (पञ्चदशे ज्ञानिनः कर्मणां हान्युपायनाधिकरणे सूत्रम्-) हानौ तूपायनशब्दशेषत्वात्कुशाच्छ- न्दःस्तुत्युपगानवत्तदुक्तम् ॥ २६ ॥ पञ्चदशाधिकरणमारचयति- प्रथमवर्णकमाह- उपायनमनाहार्य हानायाऽऽहियतेऽथ वा ।। अश्रुतत्वादनाक्षेपाद्विद्याभेदाच्च नाऽऽहृतिः ।। ३१ ।। विद्याभेदेऽप्यर्थवाद आहार्यः स्तुतिसाम्यतः ।। हानस्य प्रत्यभिज्ञानादेकविंशादिवादवत् ॥ ३२ ॥ शाट्यायनिनः पठन्तिः-"तस्य पुत्रा दायमुपयन्ति, सुहृदः साधुकृत्याम् , द्विषन्तः पापकृत्याम्” इति । अस्यायमर्थः-'ज्ञानिनः पुत्रस्थानीयाः सर्वे प्राणिनस्तदीयं वित्तस्थानीयं कर्म यथायोग्यं गृह्णन्ति'- । तीण्डनस्तु पठन्ति- "अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरम्" इति। तथाऽऽथर्वणिकाः पठन्ति-"तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परं साम्य- मुपैवि" इति । निरञ्जनो भाविजन्मकारणरहितः, साम्यं ब्रह्मस्वरूपम् , इत्यर्थः । वत्र तत्त्वज्ञानिनः पापपुण्यपरित्यागप्रतिपादिकासु श्रुतिषु परित्यक्तयोः पुण्यपापयोरितरपुरु- षस्वीकारो नोपसंहर्तव्यः, त्यागश्रुतिषु क्वाप्यन्यस्वीकारस्याश्रुतत्वात् । अश्रुतमप्याक्षि- . १ क. बाध्यते ना। ख. बाध्याऽतो । २ क. 'ताऽनयोः । ३ ख. 'वेदादि । ग. वधम'। ४ ख. 'दां प्रवर्य प्रवृणीत" इ'। ५ ख. 'यः श्रुति । ६ क. र्वेऽपि प्रा । ७ क. 'मरू ।
१०८ श्रीभारतीतीर्थमुनिप्रणीता- [भ०३पा०३अधि०१६] प्यते--इति चेत् । न । अनुपपरभावात् । इवरस्वीकारमन्तरेणापि ज्ञानिनां परित्याग उपपद्यत एव । किंच--इवरस्वीकारवाक्यं सगुणविद्यायां पठितम् । त्यागवाक्यं तु निर्गुणविद्यायाम् । तस्मात्- केवलायां हानौ. श्रूयमाणायामुपायनं नोपसंहर्तव्यम् ।। इति प्राप्ते, ब्रूमः--सत्यं विद्या भेदोस्ति । अव एव न वयमुपायनमनुष्ठेयधर्म- वयोपसंहरामः । किं त्वर्थवादत्वेन । यथा श्रूयमाणेन पुण्यपापपरित्यागेन ब्रह्मविद्या स्तूयते, तथेवरस्वीकारेणापि स्तोतुं शक्यत एव । नच-अर्थवादत्वमात्रेण हानोपायन- श्रुत्योः स्वार्थे वात्पर्याभावः, मानान्तरप्रसिद्धिविरोधयोरभावेन भूतार्थवादत्वात् । यत्तु- हानश्रुतिषु न वाप्युपायनं श्रुतम्-इत्युक्तम् । तदसत्, कौषितकी श्रुतौ हानोपायन- योरुभयोरवगमात् । "वत्सुकृतदुष्कृवे विधूनुते । तस्य पिया ज्ञावयः सुरुवमुप- यन्ति, अपिया दुष्कृतम्" इवि । त्तत्र ब्रह्मलोकप्राप्तिवेलायामित्यर्थः । एवं च सवि कौषीतकी श्रुतस्य हानस्याऽऽथर्वणिकताण्डिशाखयोः प्रत्यभिज्ञानात्कौषीतकीपो- क्तस्योपायनस्योपसंहारो युक्तः । ननु-अर्थवादान्दरापेक्षोऽर्थवादो ने क्वचिदृष्टचरः- इति चेत् । न, सामोपास्तिस्तावकत्वेन श्रुतस्य “एकविंशो वा इवोऽसावादित्यः" इत्यर्थवादस्यैकविंशत्वनिर्णयाय तैत्तिरीयकगतसत्रप्रकरणस्थार्थवादापेक्षत्वात् । "द्वा- दश मासाः, पञ्चर्तवः, त्रय इमे लोकाः, असावादित्य एकविंशः" इति हि वत्र संख्यानिर्वाह उक्तः । तस्मात्-अर्थवादत्वेऽप्युपायर्नमुपसंहलव्यम् ॥ द्वितीयवर्णकमाह विधूननं चालनं स्याद्धानं वा चालंनं भवेत् ।। दोधूयन्ते ध्वजापाणीत्यादौ चालनदर्शनात् ।। ३३ ।। हानमेव भवेद्वाक्यशेषेऽन्योपायनश्रवात् ।। का न बपरित्यक्तमन्यः स्वीकर्तुमर्हति ॥ ३४ ॥ "सुस्तदुष्कृते विधूनुते" इत्यत्र विधूननशब्दस्य 'दोधूयन्वे' इत्यादाविव चाल- नमर्थः । नतु परित्यागः ॥ इति प्राप्ने, ब्रूमः-वाक्यशेषे श्रूयमाणस्येवरखीकारस्य विना परित्यागमनुपपत्ते- चालनवाचिना विधूननशब्देन परित्याग उपलक्ष्यते ।। . , . (षोडशे, उपासकानांकर्मत्यागव्यवस्थाधिकरणे सूत्रे---) सांपराये तर्तव्याभावात्तथाद्यन्ये ॥ २७ ॥ १ क. 'गुणायां वि। २ क. श्रुतौ न । ३ क. विधुनुवाते । ४ क. तत्र । ५ क. ख. न वापि दृष्ट। ६ ग. 'त्यस्यै'। ७ ग. 'तस्तोत्रप्र। ८ क. 'नमकीकत ।
25. [भ०३पा०३अधि०१७] वैयासिकन्यायमाला। छन्दत उभयाविरोधात् ॥ २८ ॥ षोडशाधिकरणमारचयतिः कर्मत्यागो मार्गमध्ये यदि वा मरणात्पुरा ।। उत्तीर्य विरजां त्यागस्तथा कौषीतकीश्रुतेः ।। ३५ ।। कर्मप्राप्यफलाभावान्मध्ये साधनवर्जनात् ।। ताण्डिश्रुतेः पुरा त्यागो बाध्यः कौषीतकीक्रमः ॥ ३६ ।। पूर्वाधिकरणोक्तः सुकृतदुष्कृतपरित्यागो ब्रह्मलोकमार्गस्य मध्ये भवितुमर्हति, तल्लोकसमीपवर्तिनद्युत्तरणानन्तरं तच्छ्रवणात् । “स आगच्छति विरजां नदी वां मनसैवात्यति वत्सुकृतदुष्कृते विधूनुते" इति । तस्मात्--मार्गमध्ये परित्यागः ।। इति प्राप्ते, ब्रूमः----ब्रह्मलोकमार्गमध्ये ब्रह्मप्राप्तिव्यातिरिक्तस्य सुरुवदुष्कृताभ्यां प्रौप्तव्यफलस्याभावात्तयोर्नदीपर्यन्त नयनं निरर्थकम् । किंच-मरणात्माक्परित्यक्तयोः सुकवदुष्कृतयोमार्गमध्ये परित्यागस्य साधनं न संभवति, देहराहित्ये साधनस्यानु. ष्ठातुमशक्यत्वात् । न च--मरणात्पुरा तत्त्यागे प्रमाणाभावः, रोमाणि" इवि ताण्डिश्रुतौ वदवगमात् ॥ तथा च श्रुत्या 'नदीमुत्तीर्य परित्यागः' इत्ययं कौषीतकीपोक्तः क्रमो बाधनीयः । तस्मात्-मरणात्मागेवोपास्ये साक्षात्कृते तयोः परित्यागः ॥ "अश्व इव ( सप्तदशे, उपासनया ब्रह्मलोकगन्तूणामेव मार्गव्यवस्थाधिकरणे सूत्र-) गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः॥२९॥ उपपनस्तल्लक्षणार्थोपलब्धलोकवत् ॥३०॥ सप्तदशाधिकरणमारचयति- उपास्तिबोधयोर्मार्गः समो यद्वा व्यवस्थितः ।। सम एवोत्तरो मार्ग एतयोः कर्महानवत् ॥ ३७ ।। देशान्तरफलप्राप्त्यै युक्तो मार्ग उपास्तिषु ॥ आरोग्यवद्धोधफलं तेन मार्गो व्यवस्थितः ॥ ३८ ॥ चतुर्थाध्यायस्य तृतीयपादे वक्ष्यमाणोऽचिरादिमार्गः सगुणब्रह्मोपासकस्य निर्गु- णब्रह्मतत्त्वविदश्च समान एव, सुकृतदुष्कृवकर्महानवत्समानत्वसंभवात् ।। इति प्राप्ते, ब्रूमः-उपास्तिप्राप्यस्य ब्रह्मलोकफलस्य देशान्तरवर्तित्वाधुक्तस्तत्र १ स्व. ग. रणे सु। २ क. प्राप्यस्य फ। ३ क. देहरहितेन । ४ क. 'स्कृत एव प. . .
. ११० श्रीभारतीतीर्थमुनिपणीवा-[अ०३पा०३अधि०१८-१९] मार्गः । ब्रह्मज्ञानफलं तु रोगनिवृत्तिवदविद्यानिवृत्तिमांत्रमिति किं तत्र मार्गेण करणीयं स्यात् । तस्मात्-उपासकस्यैव, न तु ज्ञानिनः-इति व्यवस्थितो मार्गः।। - T -- ( अष्टादशे सर्वास्वेवोपासनासु मार्गकल्पनाधिकरणे सूत्रम्- अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम्॥६१॥ अष्टादशाधिकरणमारचयति मार्गः श्रुतस्थलेष्वेव सर्वोपास्तिषु वा भवेत् ।। श्रुतेष्वेव प्रकरणाद्विःपाठोऽस्य वृथाऽन्यथा ॥ ३९ ॥ मोक्तो विद्यान्तरे मार्गों ये चेम इति वाक्यतः॥ तेन बाध्यं प्रकरणं द्विःपाठश्चिन्तनाय हि ।। ४० ।। छान्दोग्ये पञ्चामिविद्यायामुपकोशलविद्यायां चोत्तरमार्गः पठितः। शाण्डिल्य- वैश्वानरादिविद्यासु न पठितः। तथाच प्रकरणवशाद्यासु विद्यासु श्रुतः, वास्वेव मार्गों व्यवतिष्ठते, न त्वन्यत्रोपसंहर्तव्यः । उपसंहारे च सकृत्पठितस्यैव सर्वत्रोपसंह। शक्यतया विद्याद्वये पाठो निरर्थकः स्यात् । तस्मात्-श्रुतस्थलेष्वेव मार्गः ।। इति प्राप्ते, ब्रूमः-पश्चामिविद्यावाक्यशेषे पश्चाग्युपासकानामुत्तरमार्ग ब्रुवती श्रुतिर्विद्यान्तरशालिनां च मुंखत एवाचिरादिमार्गमुदाजहार-“तद्य इत्थं विदुः, *ये चेमेऽरण्ये श्रद्धातप इत्युपासते, तेऽषिमभिसंभवन्ति" इति । अस्यायमर्थः- 'य उपासका इत्थं पञ्चामानुपासते, ये चारण्ये श्रद्धा तप इत्येवमादिधर्मयुक्ताः सन्तोऽ- प्युपासनान्वरेषु प्रवर्तन्ते, ते सर्वेऽप्यर्चिरादिमार्ग प्राप्नुवन्ति' इति । ततश्च मार्ग- प्रतिपादकवाक्येन प्रकरणं बाधितव्यम् । न च-द्विःपाठवैयर्थ्यम् , उपास्यगुणांच- न्तनार्थत्वोपपत्तेः । तस्मात्-सर्वोपास्तिषूत्तरो मार्गोऽवगन्तव्यः ॥ . . * ( एकोनविंशे तत्त्वज्ञानिनां मुक्तिनैयत्याधिकरणे सूत्रम्-) यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२॥ एकोनविंशाधिकरणमारचयति- अतः पश्चामिविदो गृहस्थाः, ये मेऽरण्ये वानप्रस्थाः परिव्राजकाश्च सह नैष्ठिकब्रह्मवा- रिभिः श्रद्धा तप इत्येवमाद्युपासते । श्रद्दधानाः तपस्विनश्चेत्यर्थः' इति च्छान्दोग्यभाष्यम्- 'परिव्राजकाश्च' इत्यमुख्यसंन्यासिनस्त्रिदण्डिनो गृह्यन्ते । मुख्यसंन्यासिनां 'ब्रह्मसंस्थोऽमृतत्वमेति' इति पृथकृतत्वात्-इत्यानन्दगिरिः।। १ ग. मात्रम् । किं । २ क. ले प्येव । ३ ग. गर्गोऽवति । ४ ख. 'तस्योप। ५ क. ग. 'ये द्विःपा । ६ ग. मुख्यत । ७ क. णतच्चिन्त ।ग, णवचिन्त। N [अ०३पा०३अधि०२०] वैयासिकन्यायमाला। १११ द्वापरान्ते ब्रह्मतत्त्वविदो मुक्तिः पाक्षिकी नियताऽथवा ।। पाक्षिक्यपान्तरतमःप्रभृतेर्जन्मेकीर्तनात् ॥ ४१ ॥ नानादेहोपभोक्तव्यमीशोपास्तिफलं बुधाः ॥ भुक्त्वाऽधिकारिपुरुषा मुच्यन्ते नियता ततः॥ ४२ ॥ पुराणेषु-अपान्तरतमा नाम वेदप्रवर्तक आचार्यों विष्णोराज्ञया कृष्णद्वैपायनरूपेण शरीरान्तरं जग्राह--इति स्मर्यते । तथा-सनत्कुमारः स्कन्द- रूपेण पार्वतीपरमेश्वराभ्यामजायत । एवमन्येऽपि वसिष्ठादयस्तत्त्वज्ञानिन एव सन्त- स्तत्र तत्र शापद्वारा स्वेच्छया वा शरीरान्तराणि जगृहु:-इति स्मरणात्-मुक्ति- स्तत्वविदां पाक्षिकी ।। इति प्राप्ते, ब्रूमः-य एवे त्वयोदाहृताः पुरुषाः, ते सर्वे जगनिर्वाहकारिणः, च पूर्वस्मिन्कल्पे महवा तपसा परमेश्वरमुपास्यास्मिन्कल्पे नानादेहोपभोग्यमधिकारिपद भेजिरे । क्षीणे प्रारब्धे कर्मणि मोक्षन्ते । ता-अनारब्धकर्मणां तत्त्वज्ञानेन दाहस्य निवारयितुमशक्यत्त्वात्तत्त्वविदा मुक्तिर्नियतैव ।। 1. (विशे निषेधोपसंहाराधिकरणे सूत्रम्-) अक्षरधियां खविरोधः सामान्यतदा- वाभ्यामौपसदवत्तदुक्तम् ॥ ३३ ॥ विंशाधिकरणमारचयति-- निषेधानामसंहारः संहारो वा न संहतिः ।। आनन्दादिवदात्मत्वं नेषां संभाव्यते यतः॥ ४३ ।। श्रुतानामाहृतानां च निषेधानां समा यतः ॥ आत्मलक्षणता तस्मादाक्यास्तूपसंहृतिः ॥ ४४ ॥ अस्थूलमनण्वह्रस्वम्" इत्यादिना ब्रह्मावबोधनाय गार्गीब्राह्मणे केचिनिषेधाः श्रुताः । तथा च कठवल्लीषु-"अशब्दमस्पर्शमरूपमव्ययम्" इति । एवमन्यत्राप्यु- दाहर्तव्यम् । तत्र निषेधानां परस्परमुपसंहारो नास्ति, आनन्दसत्यत्वादिधर्मवदात्म- स्वरूपत्वाभावेनोपसंहारे प्रयोजनाभावात् || इति प्राप्ते, ब्रूमः- यथा स्वशाखायां श्रूयमाणानां निषेधानामात्मस्वरूपत्वाभावेऽ- १ क. स्व. 'न्मवर्णना। २ क. लेभिरे । ३ ख. 'थाचाऽऽरब्ध । ४ क 'न्दादेव नाऽऽत्म। ५ ग. 'नामश्रुता । ६ क. समासतः । ७ क. 'त्मरू ।
११२ श्रीभारतीतीर्थमुनिप्रणीता-[अ.३पा.३अधि.२१-२२] प्यात्मोपलक्षकत्वम् , तथा-शाखान्तरेभ्य उपसंहृतानां निषेधानामपि तत्समानम् । न च-स्वशाखोक्तनिषेधैरैवोपलक्षणसिद्धावितरोपसंहारवैयर्यम् , इतरोपसंहारस्य दाार्थत्वात् । अन्यथा स्वशाखायामपि द्विवप्रतिषेषमात्रेण तत्सिद्धीवितरवैयर्थ्य प्रसज्येत । तस्मातू-निषेधा उपसंहर्तव्याः ॥ ( एकविंशे मन्त्रद्वयस्य विद्यैक्यताधिकरणे सूत्रम्--) इयदामननात् ॥ ३४॥ एकविंशाधिकरणमारचयति- पिबन्तौ द्वा मुपर्णेति द्वे विद्ये अथवैकेता ।। भोक्तारौ भोक्त्रभोक्ताराविति विद्ये उभे इमे ॥ ४५ ॥ पिबन्तौ भोक्त्रभोक्तारावित्युक्तं हि समन्वये ॥ इयत्ताप्रत्यभिज्ञानाद्विद्यैका मन्त्रयोद्वयोः ॥ ४६ ।। "ऋतं पिबन्तौ सुकृतस्य लोके"---इत्यस्मिन्मने द्विवचनेन द्वयोभोक्वृत्व पती- यते । "द्वा सुपर्णा" इत्यस्मिन्मत्रे "तयोरन्यः पिप्पलं स्वाद्वत्ति" इत्येकस्यैव कर्मफलमोक्तृत्वम्, "इतरस्य तु "अनश्नन्नन्योऽभिचाकशीति" इत्यभोक्तृत्वम् । ततो वेद्यस्वरूपभेदाद्विद्याभेदः ।। इति प्राप्ते, ब्रूमः-प्रथमाध्यायस्य द्वितीयपादे तृतीयाधिकरणे-'पिबन्तौ' इति शब्दस्य जीवब्रह्मपरत्वेन भोक्त्रभोक्तारावर्थः----इत्युक्तम् । अतो न वेद्यभेदः । द्वित्वसंख्या चोभयत्र प्रत्यभिज्ञायते । तस्मात-एका विद्या ।। . ( द्वाविंशे, उषस्त-कहोलयोर्विर्धक्याधिकरणे सूत्रे-) अन्तरा भूतग्रामवत्स्वात्मनः ॥३५॥ अन्यथा भेदानुपपत्तिरिति चेनोपदेशान्तरवत् ॥३६॥ द्वाविंशाधिकरणमारचयति--- विद्याभेदोऽथ विद्यैक्यं स्यादुषस्तकहोलयोः ।। समानस्य द्विराम्नानाद्विद्याभेदः प्रतीयते ॥ ४७ ॥ सर्वान्तरत्वमुभयोरस्ति विद्यैकता ततः ॥ शङ्काविशेषनुत्यै द्विःपाठस्तत्त्वमसीतिवत् ॥ ४८ ॥ १ क. 'द्धान्तान्तरवै । २ क. ख. कधीः ।। भो। ३ क. ग, योनास्ति । , .
[अ०३पा०३अधि०२३] वैयासिकन्यायमाला । ११३ "यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः" इत्येकस्यां शाखायामेवोषस्तबा. ह्मणे कहोलबाह्मणे च पठितम् । 'अपरोक्षात्' इत्यत्र विभक्तिव्यत्ययेन 'अपरोक्षम्' इत्यर्थः । तयोरुभयोर्ब्राह्मणयोरन्यूनानतिरिक्ततया पठितस्य वाक्यस्य पौनरुक्त्यप- रिहाराय विद्याभेदः ॥ इति प्राप्ते, ब्रूमः--द्वयोरपि ब्राह्मणयोः सर्वान्तरत्वं प्रतिपाद्यते । तच्चैकस्मिन्नेव वस्तुनि संभवति । द्वयोस्तु वस्तुनोरेकतरस्य बहिर्भावोऽवश्यंभावी । तस्मात्--सर्वा- न्तरस्य वेद्यस्यैकत्वान्न विद्याभेदः । न च--पुनरुक्तिः, यथा शाखान्तरे तद्विशेष- शङ्कापनुत्त्यर्थम् "तत्त्वमसि" इति नवकृत्व उपन्यस्तम् , तथाऽत्राप्युपपत्तेः । उषस्त ब्रा- झणेन देहाद्यात्मत्वशङ्काऽपोद्यते, कहोलब्राह्मणेन देहादिव्यतिरिक्तस्य ब्रह्मत्वमापा- द्यते । वाक्यशेषयोस्तथादर्शनात् । तस्मात्---एका विद्या । १ - ( त्रयोविंशे देहादित्यमण्डलवर्युपासनाया विद्याभेदाधिकरणे सूत्रम्---) व्यतिहारो विशिषन्ति हीतवत् ॥ ३७॥ त्रयोविंशाधिकरणमारचयति- व्यतिहारे स्वात्मरव्योरेकधा धीरुत द्विधा ।। वस्त्वैक्यादेकधैक्यस्य दाव्य व्यतिहारगीः ॥ ४९ ।। ऐक्येऽपि व्यतिहारोक्क्या धीधेशस्य जीवता ।। युक्तोपास्त्यै वाचनिकी मूर्तिवद्दायमार्थिकम् ॥ ५० ॥ ऐतरेयके पठ्यते-"वद्योऽहं सोऽसौ, योऽसौ सोऽहम्" इति । अस्यायमर्थः- 'य यष देहेन्द्रियसाक्षी जीवात्मा, स एवाऽऽदित्यमण्डलवर्ती परमात्मा, यो मण्ड- लवर्ती, स एवास्मदेहादिवर्ती' इति । तत्र-खदेहरविमण्डलयोरन्योन्यव्यतिहारे श्रूयमाणेऽपि जीवब्रह्मैक्यलक्षणस्य वस्तुन एकत्वादेकधैव बुद्धिः कर्वव्या । न च व्यतिहारपाठवैयर्थ्यम् , एकस्यापि वस्तुनो दार्शीय वदुपपत्तेः ।। इति माप्ते, ब्रूमः--न खल्विदं तत्त्वावबोधप्रकरणम् । येनैकत्वप्रविपत्तिर्दाळमपे. क्षते । किं तर्हि सगुणोपास्तिप्रकरणम् | उपास्तिश्च यथावचनमनुष्ठेया । ततो व्यति- हारेण द्वेधाबुद्धिः कर्वव्या। नन्वेवं सति जीवस्य ब्रह्मैक्यमुत्कर्षाय कल्पते, ब्रह्मणस्तु जीवैक्यमपकर्षाय स्यात्-इति चेत् । नायं दोषः, यथा देहादिरहितस्याप्युपासक- चित्तस्थैर्यार्थ चतुर्भुजाष्टभुजादिमूर्युपदेशेऽपि नापकर्षः, तथा वचनबलादीशस्य जीव- १ क. देहात्म। ख. देहद्वयात्म। २ क. पोह्यते। ३ क. एकैव । ४ क. ख. ग. 'धैकस्य । ५ क. ऐक्योऽपि । ६ क. ख. 'वेहव । ७ क. ततः । ८ क. 'कायैत । ९ क. 'दीश्वरस्य । , . , १५ ११४ श्रीभारतीतीर्थमुनिप्रणीता- [अ.३पा.३अधि.२४-२५] त्वोपासनेन तव का हानिः । यदि-उपासनाय व्यतिहारेऽनुष्ठीयमानेऽर्थाज्जीवन- ह्मणोरेकत्वप्रतिपत्तिईढा भवेत्, तर्हि चरितार्थाः संपद्यामहे । तस्मात्-व्यविहारेण द्विधाबुद्धिः कर्तव्या ॥ . १ (चतुर्विंशे सत्यविद्याधिकरणे सूत्रम्-) सैव हि सत्यादयः ॥ ३८॥ चतुर्विशाधिकरणमारचयति- द्वे सत्यविद्ये एका वा यक्षरव्यादिवाक्ययोः ॥ फलभेदादुभे लोकजयोत्पापहतेः पृथक् ॥ ५१ ॥ प्रकृताकर्षणादेका पापघातोऽङ्गधीफलम् ।। अर्थवादोऽथवा मुख्यो युक्तोऽधिकृतकल्पकः ॥ ५२॥ बृहदारण्यके श्रूयते--"स यो हैतन्महद्यक्षं प्रथमजं वेद--सत्यं ब्रह्म--इति, जयतीमाल्लोकान्" इति । यक्षं पूज्यम्, प्रथमजं हिरण्यगर्भरूपेण प्रथममुत्पन्नम्-- इत्यर्थः । अनेन वाक्येन सत्यविद्या प्रतिपाद्य पश्चादिदं प्रतिपाद्यते--"वद्यत्तत्सत्यम्, असौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः" इति । तत्तत्रेत्यर्थः । एवं वाक्यद्वयोक्ते सत्यविद्ये द्वे भवतः । कुतः--फलभेदात् । यक्षवा. क्ये---लोकजयः फलमुक्तम् । रविवाक्ये च "हन्ति पाप्मानं जहाति च" इति पापघातलक्षणं पृथक्फलं श्रूयते । तस्मात्-विद्याभेदः । इति प्राप्ते, ब्रूमः-एकैवेयं सत्यविद्या । "तद्यत्तत्सत्यम्" इति प्रकृतं सत्यं ब्रह्मा- नूद्य "असौ स आदित्यः" इति रविरूपत्ववर्णनात् । न च-अत्र फलभेदोऽस्ति, पापघातस्योपास्तिफलत्वेनार्थवादत्वात् । 'अङ्गेषु फलश्रुविरर्थवादः' इविन्यायेनावि- वक्षितत्वात् । अथवा-अत्रोपासनायामधिकार्यश्रवणाच्छ्रयमाणफलस्यैव कामोपबन्ध- मध्याहृत्याधिकारिणि कल्पयितव्ये सति 'पापघातलोकजयकाम उपासीत, इति वक्तुं शक्यत्वाद्विशिष्टफलस्य विवक्षितत्वम् । तस्मात्-एकैवेयं सत्यविद्या ।। . ( पञ्चविंशे दहरहार्दाकाशयोरुपसंहाराधिकरणे सूत्रम्-) कामादातरत्र तत्र चाऽऽयतनादिभ्यः ॥ ३९॥ पञ्चविंशाधिकरणमारचयति- १ ख. 'क्षसत्यादि । २ क. 'यादघहतः । ३ क. 'दो यथा मु । ४ क. रव्यादिवा' । .
[अ०३पा०३अधि०२६] वैयासिकन्यायमाला। ११५ असंहृतिः संहृतिर्वा व्योनोर्दहरहार्दयोः ॥ उपास्यज्ञेयभेदेन तद्गुणानामसंहृतिः ॥ ५३ ।। उपास्त्यै क्वचिदन्यत्र स्तुतये चास्तु संहृतिः ।। दहराकाश आत्मैव हृदाकाशोऽपि नेतरः ॥ ५४ ।। छान्दोग्ये-"दहरोऽस्मिन्नन्तराकाशः" इति हृदयान्तर्गतत्वेन श्रुतस्य दहरा- काशस्य सत्यकामत्वादयो गुणा उक्ताः। बृहदारण्यके तु “य एषोऽन्तर्हृदय आकाशः" इत्युक्तस्य हार्दाकाशस्य वशित्वादयो गुणा उक्ताः । तत्र न परस्परगुणोपसंहारः, दहराकाशस्योपास्यत्वेन, हार्दाकाशस्य ज्ञेयत्वेन विद्याभेदात् ।। इति प्राप्ते, ब्रूमः-तत्र वशित्वादीनां दहराकाश उपसंहार उपास्त्यै भविष्यति । सत्यकामत्वादीनां तु हार्दाकाशं उपसंहारः स्तुत्यर्थः । न च-प्रयोजनवत्त्वेऽपि विद्या- भेदो दुष्परिहरः-इति वाच्यम् , विद्याभेदेऽप्युभयत्राऽऽकाशशब्दवाच्यस्याऽऽत्मन एकत्वात् । दहराकाशस्य तावदात्मत्वं दहराधिकरणे (ब० सू० १।३।५) वर्णितम् । हार्दाकाशस्यापि “महानज आत्मा" इत्युपक्रमादात्मत्वमवगन्तव्यम् । तस्मात- उभयत्रोपसंहारः॥ (षड्डिशे, उपवासे प्राणाहुति लोपाधिकरणे सूत्रे-) आदरादलोपः॥ ४०॥ उप- स्थितेऽतस्तद्वचनात् ॥ ४१ ॥. पड़िशाविकरणमारचयति- न लुप्यते लुप्यते वा प्राणाहुतिरभोजने ॥ न लुप्यतेऽतिथेः पूर्व भुञ्जीतेत्यादरोक्तितः ॥ ५५॥ भुज्यर्थान्नोपजीवित्वात्तल्लोपे लोप इष्यते ॥ भुक्तिपक्षे पूर्वभुक्तावादरोऽप्युपपद्यते ॥ ५६ ॥ छान्दोग्ये वैश्वानरविद्यावाक्यशेषे-“यां प्रथमामाहुतिं जुहुयात् , वां जुहुयात्- प्राणाय स्वाहेति" इति प्राणाहुतयः पश्यन्ते । तत्र केनचिन्निमित्तेन भोजनलोपेऽप्यु- पासकस्य प्राणाहुविन लुप्यते, “पूर्वोऽविथिभ्योऽश्नीयात्" इत्यविथिभोजनात्पूर्वमुपास- कस्य यजमानस्य भोजनं प्रतिपादयन्त्याः श्रुतेः प्राणाहुतावादरदर्शनात् । तमादरं -- १ क. 'याद्यन्त । २ क. नोक्ताः । ३ क ख. 'स्परमुप' । ४ क. स्व. शस्तुत्यर्थमुप । ५ ग. पूर्वमति ।
. ११६ श्रीभारतीतीर्थमुनिप्रणीता- [अ०३पा०३अधि०२७] प्रख्यापयितुमेवातिथिभोजनस्य प्राथम्यं निन्दति "यथा ह वै स्वयमहुत्वाऽग्निहोत्रं परस्य जुहुयात्, वाक्तत्स्यात्" इति । तस्मात्-प्राणाहुवेरलोपः ।। इति प्राप्ते, ब्रूमः-"तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्" इति भोजनार्थान्नस्य होमद्रव्यत्वश्रवणाद्भोजनलोपे द्रव्याभावादाढविलृप्यते । आदरस्तु भोजनपक्षे प्राथम्य- विधानाय भविष्यति । तस्मात्-भोजनलोपे प्राणाहुविलृप्यते ॥ ( सप्तविंशे, अनावबद्धोपास्त्यनैयत्याधिकरणे सूत्रम्-) तन्निर्धारणानियमस्तदृष्टेः पृथ- ध्यप्रतिबन्धः फलम् ॥ ४२ ॥ सप्तविंशाधिकरणमारचयति नित्या अङ्गावबद्धाः स्युः कर्मस्वनियता उतं ॥ पर्णवत्क्रतुसंबन्धो वाक्यान्नित्यास्ततो मताः ॥ ५७ ॥ पृथक्फलश्रुतेनॆता नित्या गोदोहनादिवत् ॥ उभौ कुरुत इत्युक्तं कर्मोपास्यनुपासिनोः॥५८ ॥ उद्गीथादिषु कर्माङ्गेषु प्रतिमादिवत्पतीकभूतेषु विधीयमाना देवतोपास्तयोऽङ्गाव- बद्धाः । ताश्च कर्मस्वनुष्ठीयमानेषु कर्माङ्गवनियमेनानुष्ठातव्याः । कर्मप्रकरणमारभ्या- ध्ययनाभावेऽपि वाक्यात्क्रतुसंबन्धोपपत्तेः । यथा-"यस्य पर्णमयी जुहूर्भवति" इत्यनारभ्याधीवस्याप्यव्यभिचारिजुहूद्वारा वाक्यात्क्रतुसंबन्धः, तथा “य एवं वि- द्वानुद्गायति, य एवं विद्वान्साम गायति" इत्यादिष्वव्यभिचारितक्रतुसंबन्धिसामोद्गी- थादिद्वारा तदुपासनानां ऋतुसंबन्धः प्रतीयते । तस्मात्-कर्मसु नियता उपास्वयः॥ इति प्राप्ते, ब्रूमः-गोदोहनादिवदनियता उपास्तयः । यथा--"चमसेनापः प्रणयेत्, गोदोहनेन पशुकामस्य" इत्यत्राप्पणयनमाश्रित्य विधीयमानमपि गोदोहन- मक्रत्वर्थत्वादैच्छिकम्, न तु प्रणयनादिवनियतम् । तथाकङ्गिान्याश्रित्य विधी- यमाना उपास्तयो न क्रत्वर्थाः, किंतु पुरुषार्थाः, कर्मफलात्पृथक्फलश्रवणात् । "वर्षति हास्मै" इति पञ्चविवे सामनि वृष्टिदेवतामुपासीनस्य कामवृष्टिः ऋतुफ- लोत्पृथक्फलत्वेन श्रूयते । किंच “ तेनोभौ कुरुतो यस्त्वेतदेवं वेद, यश्च न वेद" इत्यस्मिन्नगावबद्धोपास्तिवाक्यशेष उपासकानुपासकयोरुपास्याधारभूतेन तेनाङ्गेन कर्मानुष्ठानं विस्पष्टमानायते । तस्मात्कर्मस्वनियता उपास्तयः ।। १ ख. त । वर्ण । २ ख. तेर्नित्यं नास्ति गो । ३ क. इत्युक्तेः । ४ म. वनिय मतम् । ५ क. 'लात्कर्मफलात्पू । ६ ख. पास्त्याधारानाधारभू । .
[अ.३पा.३अधि.२८-२९] वैयासिकन्यायमाला । ११७ अष्टाविंशे वायुप्राणोपासनयोः प्रयोगभेदाधिकरणे सूत्रम्-) प्रदानवदेव तदुक्तम् ॥ ४३ ॥ भष्टाविंशाधिकरणमारचयति- एकीकृत्य पृथग्वा स्याद्वायुप्राणानुचिन्तनम् ।। तत्त्वाभेदात्तयोरेकीकरणेनानुचिन्तनम् ॥ ५९ ॥ अवस्थाभेदतोऽध्यात्ममधिदैवं पृथक्श्रुतेः । प्रयोगभेदो राजादिगुणकेन्द्रमदानवत् ॥ ६०॥ संवर्गविद्यायाम्-अधिदैवं वायुरुपास्यत्वेन श्रुतः, अध्यात्मं च प्राणः । तत्र- पाणस्य वायुकार्यत्वेन तत्त्वभेदाभावादुभयोरेकीकरणेन चिन्तनम् ॥ इति प्राप्ते, ब्रूमः-तत्त्वभेदाभावेऽपि कार्यत्वेन कारणत्वेन चावस्थाभेदस्य सद्भावात् "इत्यधिदैवम् । अथाध्यात्मम्" इति विविच्य पृथगनुचिन्तनाय श्रुतिर्विविनक्ति । तस्मात्-ईन्द्रप्रदानवत्पयोगभेदो द्रष्टव्यः । यथा-"इन्द्राय राज्ञे पुरोडाशमेकादशकपालम्, इन्द्रायाधिराजाय, इन्द्राय स्वैराज्ञे" इतीन्द्रस्यैक- त्वेऽपि राजादिगुणभेदात्पृथक्पुरोडाशमैदानं कृतम्, तथा-एकस्यापि वायुतत्त्वस्य स्थानभेदात्पृथक्चिन्तनं भविष्यति ।। त ( एकोनत्रिंशे मनश्चिदादीनां स्वतन्त्रताधिकरणे सूत्राणि-) लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥४४॥ पूर्वविकल्पः प्रकरणात्स्याक्रियामानसवत् ॥ ॥४५॥ अतिदेशाच्च ॥ ४६॥ विद्यैव तु निर्धारणात् ॥४७॥ दर्शनाच ॥४८॥ श्रुयादिबलीयस्त्वाच न बाधः ॥४९॥ अनु- बन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववदृष्टश्च तदु- कम् ॥५०॥ न सामान्यादप्युपलब्धेर्मृत्यु- वन्नहि लोकापत्तिः ॥ ५१॥ परेण च शब्दस्य तादिध्यं भूयस्त्वात्त्वनुबन्धः॥५२॥ एकोनत्रिंशाधिकरणमारचयति- १ क. 'भेदादाजा । २ ख. 'वेनाभिधाय ततोऽध्या'। ३ ग. इन्द्राय प्र । ४ ग. सुराजाय । .. ५ग. 'प्रधान।
११८ श्रीभारतीतीर्थमुनिषणीता- [भ०३पा०३ अधि०२९] कर्मशेषाः स्वतन्त्रा वा मनश्चित्पमुखांग्नयः ॥ कर्मशेषाः प्रकरणाल्लिङ्गं त्वन्यार्थदर्शनम् ।। ६१ ।। उन्नेयविधिगाल्लिङ्गादेव श्रुत्या च वाक्यतः ।। बाध्यं प्रकरणं तस्मात्स्वतनं वह्निचिन्तनम् ॥ ६२ ।। अग्निरहस्ये कस्मिंश्चिद्राह्मणे श्रूयते-"षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽमीन- कन्मिनोमयान्मनश्चितः" इति । अस्यायमर्थः--'पुरुषस्य शत संवत्सरपरिमित आयुषि षत्रिंशत्सहस्राणि दिनानि भवन्ति । तत्रैकैकस्मिन्दिवसे या मनोवृत्तिः, तस्या एकैका- मित्वेन ध्याने सति ध्यातव्या अग्रयः षट्त्रिंशत्सहस्राणि संपद्यन्ते । ते च प्रत्यगा- त्मस्वरूपत्वेन ध्येयाः । एत एवार्चनीयाः। मनसा चीयन्ते संपद्यन्त इति मनश्चितः । एवं-वाचितः, प्राणचितः, चक्षुश्चिवः'-इवि ते चानयोऽग्निचयनप्रकरणपठि- वत्वात्कर्मशेषाः, न तु खतत्रविद्यात्मकाः । ननु–लिङ्गबलात्स्वतत्रविद्यात्मका भविष्यन्ति । तथाहि-"वोन्हैवानेवंविदे सर्वदा सर्वाणि भूवानि चिन्वन्त्यपि स्वपवे" इति वाक्यशेषः पठ्यते । तस्यायमर्थः-'उपासकस्य स्वपतोऽप्यनयो" न च्छिन्नाः। खकीयमनोवागादिवृत्त्युपरमेऽपि प्रबुद्धपुरुषमनोवागादिवृत्तीनां सर्वदा प्रवर्तमानत्वात्, अविशेषेण पुरुषमनादिवृत्तीनामग्मित्वेन वर्णनात् । तस्मात्-एवंविदे वपतेऽपि वानेताननीन्सर्वदा सर्वाणि भूतानि चिन्वन्ति,-इति । अत्र यावज्जीवमग्नीनामविच्छे. देन नैरन्तयं प्रतीयते । वच्च विद्यास्वातन्त्र्ये लिङ्गम् । कर्मशेषत्वे हि-कर्मणो याव- जीवं नैरन्वर्याभावात्तच्छेषाणां मनश्चिदादीनां कथं नैरन्तयं स्यात् । तच्च लिङ्गं मकरणाबलीयः । तस्मात्-स्वतत्राः-इति चेत् । नायं दोषः, अन्यार्थदर्शन- रूपत्वेन लिङ्गस्यैवस्य दुर्बलत्वात् । तथाहि-द्विविधं लिङ्गम्-सामर्थ्यम् , अन्यार्थद- र्शनं च, इति । तत्र-विध्युद्देशगवं लिङ्गं सामर्थ्यम् । वच्च स्वातत्र्येण प्रमाणम् । अर्थवादगवं त्वन्यशेषवाक्ये दृश्यमानत्वादन्यार्थदर्शनम् । तच्च वात्पर्यरहितत्वान्न स्वातत्र्येण प्रमाणम् । किंतु प्रमेयस्तावकपमाणान्तरे केवलमुपोद्दलकं भवति । एवं च सत्यत्रोदाहृवलिङ्गस्य दुर्बलत्वात्प्रकरणात्कर्मशेषा मनश्चिदादयः ।। इति प्राप्ते, ब्रूमः-न वावत्र शाब्दो विविरुपलभ्यते, लिङ्ङादेर श्रवणात् । किं वर्हि-अर्थवादसामर्थ्यादुन्नेयो विधिः । तथा च-फलप्रतिपादकस्तावकवाक्यानां रात्रिसत्रन्यायेनाधिकारिसमर्पणपर्यवसानादशेषमप्येतद्ब्राह्मणं विधिरूपं भविष्यति । १ ख. खानलाः॥क । ग. खादयः । २ ख. 'नेयं वि। ग. 'नेयं विधिना लिङ्गा । ३ क. 'श्यत्तदा । ४ ख. रमितायु'। ५ क. ये। ६ क. 'ति न इतरे चा७ ख. 'रणे प ८ क. 'गवत्स्व'। ९ क. ख. तानेता । १० ख. योऽच्छि । ग. योऽनवच्छि' ११ क. ख. अशेषपु । १२ क. ख. तत्र । १.३ ख. स्वतन्त्रविद्यात्मका:-इ। १४ ग. यसाधकम । १५ क. ग. तस्य दु। १६ क. न. कारस' . , [अ०३पा०३अधि०३०] वैयासिकन्यायमाला । ११९ ववो विध्युद्देशगतत्वेन लिङ्गस्य प्राबल्यम् | किंच "ते हैते विद्याचित एव" इत्येव श्रुत्या कर्माङ्गत्वं व्यावर्तते तथा "विद्यया हैवैत एवंविदश्चिता भवन्ति" इंति वाक्य- मपि स्वावश्यगमकम् । तस्मात्-श्रुतिलिङ्गवाक्यैः प्रकरणं बाधित्वा स्वतत्रविद्यात्म- कत्वं मनश्चिदादीनामभ्युपगन्तव्यम् । (त्रिंशे, आत्मनो देहातिरिक्तत्वाधिकरणे सूत्रे-) एक आत्मनः शरीरे आवात् ॥ ५३॥ व्यति- रेकस्तद्भावाभावित्वानतूपलब्धिवत् ॥ ५४ ॥ त्रिंशाधिकरणमारचयति- आत्मा देहस्तदन्यो वा चैतन्यं मदशक्तिवत् ।। भूतमेलनजं देहे नान्यंत्राऽऽत्मा वपुस्ततः ॥ ६३ ॥ भूतोपलब्धिर्भूतेभ्यो विभिन्ना विषयित्वतः ।। सैवाऽऽत्मा भौतिकादेहादन्योऽसौ परलोकभाक् ॥ ६४ ॥ 'मनश्चिदादीनां क्रत्वर्थवा नास्ति, किंतु पुरुषार्थत्वम्' इत्युक्ते सति कोऽसौ पुरुषः' इति प्रसङ्गाद्विचार्यते । तदेतदविकरणं पूर्वोत्तरयोरुभयोर्मीमांसयोः शेषभूतम् , स्वर्ग: मोक्षमागिन आत्मनः प्रतिपाद्यत्वात् । तत्र--बौद्धा लौकायतिकाः--देह एवाऽऽत्मा- इति मन्यन्ते । अन्वयव्यतिरेकाभ्यां चैतन्यस्य देह एवोपलम्भात् । सति हि देहे चैतन्यमुपलभ्यते, न त्वसति । न च--चैतन्यस्य जात्यन्तरतया देहव्यतिरिक्त आत्मत्वं शङ्कनीयम् , क्रमुकनागवल्लीचूर्णानां संयोगान्मदशक्तिरिव देहाकारपरिण- वेभ्यो भूतेभ्यो जायमानं चैतन्यं कथं नाम जात्यन्तरं स्यात् । तस्मात्--चेतनो देह आत्मा ॥ इति प्राप्ते, ब्रूमः-पृथिव्यादीनां भूतानामुपलब्धिर्भूतेभ्यो व्यतिरिक्ता भवितुम- हति, विषयित्वात, 'यद्यद्विषयि, वत्तद्विषयायतिरिक्तं, यथा रूपाच्चक्षुः । तथासति वाशचैतन्यमात्मतत्वं वदन्तं प्रवि कथं भौतिकदेहरूपत्वमापद्येत । सत्येव देहे चैत- न्यमुपलभ्यते, नासति' इति यावन्वयव्यविरेकावुक्तौ, तत्र व्यतिरेकोऽसिद्धः, अस- त्यपि देहे परलोकगामिनश्चिदात्मनः शास्त्रेणोपलम्भात् । शास्त्रस्य च प्रामाण्यं सम- र्थनीयम् । सत्यपि मृते देहे चैतन्यानुपलब्धेश्चान्वयासिद्धिः ॥ १ क. हैवैते । २ क. 'ङ्गत्वमाव । ३ क. रणस्य बाधितत्वात्स्वत। ४ ख. 'न्य आत्मा। ५ क. 'तम्, देहव्यतिरिक्तस्य स्व। ६ ख. "गित्वेनाऽऽत्म । ७ ख. 'तानां ज्ञानमु । ८ क. 'न्य- - . स्याऽऽत्म।
१२० श्रीभारतीतीर्थमुनिमणीता- [भ.पा.३मधि.३१-३२] (एकत्रिंशे, उक्थादिधियोः शाखान्तरेऽनुवृत्त्यधिकरणे सूत्र-) अनावबद्धास्तु न शाखामु हि प्रतिवेदम् ॥ ॥५५॥ मन्त्रादिवद्वाऽविरोधः ॥ ५६ ॥ एकत्रिंशाधिकरणमारचयति- उक्थादिधीः स्वशाखाङ्गेष्वेवान्यत्रापि वा भवेत् ॥ सांनिध्यात्स्वस्वशाखालेष्वेवासौ व्यवतिष्टते ॥ ६५ ॥ उक्थोद्गीथादिसामान्यं तत्तच्छब्दैः प्रतीयते ॥ श्रुत्या च संनिधेर्बाधस्ततोऽन्यत्रापि यात्यसौ ।। ६६ ॥ अङ्गावबद्धोपासनेषु-उक्थशास्त्राख्ये कर्माङ्गपृथिव्यादिदृष्टिरैतरेयोपनिषदि श्रूयते । उक्थं तु कौषीतक्यादिशाखान्तरेष्वपि विहितम् । तत्र- 'पृथिव्यादिदृष्टिर- तरेयगतोक्थ एव व्यवतिष्ठते, उत-कौषीतक्यादिष्वनुवर्तते' इति संदेहे सति संनि. हितत्वात्स्वशाखायामेव व्यवतिष्ठते ।। इति प्राप्ते, ब्रूमः-उक्थशब्दस्तावन्मुख्यया वृत्या सर्वशाखागत मुक्थसामान्य- माचष्टे । तत उक्थश्रुतिवशात्सर्वशाखागतोक्थशास्त्रेष्वनुवृत्तिः प्राप्ता । श्रुतिश्च संनिधेर्बलीयसी । तस्मात्-क्वचिद्विहिता धीः शाखान्तरेष्वनुगच्छति ॥ - ( द्वात्रिंशे वैश्वानरविद्यायां समस्तोपासनाधिकरणे सूत्रम्-) भूम्नः क्रतुवज्ज्यायस्त्वम्, तथा हि दर्शयति ॥ ५७॥ द्वात्रिंशाधिकरणमारचयति- ध्येयो वैश्वानरांशोऽपि ध्यातव्यः कृत्स्न एव वा ।। अंशेषूपास्तिफलयोरुक्तेरस्त्यंशधीरपि ॥ ६७ ।। उपक्रमावसानाभ्यां समस्तस्यैव चिन्तनम् ॥ अंशोपास्तिफले स्तुत्यै प्रत्येकोपास्तिनिन्दनात् ॥ ६८॥ वैश्वानरविद्यायां विराडपवैश्वानरस्य धुलोकसूर्यवाय्वाकाशोदकपर्थिव्यो मूर्धचक्षु- प्राणमध्यशरीरमूत्रस्थानपादरूपेण ध्यातव्यांशा निरूपिताः । तेषामंशानामपि प्रत्येक स्वातत्रयेणोपासनं विद्यते, उपास्तिशब्दस्य फलकथनस्य च प्रत्येकमुपलभ्यमानत्वात् । १ ख. उक्त्यादि । २ ग. अङ्गेधू ख. रस्त्वंश। ४ ग. अङ्गोपा' ५ क. 'थिव्यादयो म । ६ ग. 'मूलस्था । ख. 'मूरुस्था । ३ क. 'रत्यंश [अ०३पा०३अधि०३३] वैयांसिकन्यायमाला । १२१ तथाहि-"औपमन्यव कं त्वमात्मानमुपास्से" इति, "दिवमेव भगवो राजनिति होवाच" इति प्रश्नोत्तराभ्यां धुलोकमात्रोपास्तिरवगम्यते । तस्मात्-"तव सुतं प्रमुतमासुतं कुले दृश्यते” इति सुतादिशब्दवाच्यानां सोमयागविशेषाणां संपत्तिः फलत्वेनावगम्यते । एवमंशान्तरेषूदाहर्तव्यम् । सर्वावयवसमष्टयुपासनं तु "तस्य ह वा एतस्याऽऽत्मनो वैश्वानरस्य" इति वाक्यशेषे विस्पष्टं प्रतीयते । तस्मात् व्यस्तोपासनं समस्तोपासनं चोभयं विवक्षितम् ॥ इति प्राप्ते, ब्रूमः~-समस्तोपासनमेव विवक्षितम्,न तु व्यस्तोपासनम् । कुतः उपक्रमोपसंहाराभ्यामेकवाक्यत्वावगमात् । उपक्रमे तावत् “को न आत्मा किं ब्रह्म" इति कृत्स्नमेव ब्रह्मोपास्यत्वेन विचारयितुं प्रक्रान्तम् । उपसंहारेऽपि " तस्य ह वै"-इत्यादिना समस्तोपासनं विस्पष्टमभिधीयते । तथा च सति--अंशोपास्तिषु पृथगभ्युपगम्यमानासु वाक्यभेदः प्रेसज्यते । पृथगुपास्ति फलकथनं तु कैमुतिकन्यायेन स्तुत्यै भविष्यति । अथ-बहूपास्तिलाभाय वाक्यमेदोऽप्यभ्युपगम्यते, तदा प्रत्ये- कोपास्तिनिन्दावचनानि कथं समर्थयेथाः । निन्द्यन्ते हि प्रत्येकोपास्तयः । “मूर्धा ते व्यपतिष्यत्' इति शिरोमात्रोपासनं निन्द्यते । तस्मात्-समस्तोपासनमेव विवक्षितम् ।। -- (त्रयस्त्रिंशे शाण्डिल्यादिविद्यानां भिन्नताधिकरणे सूत्रम् -) नाना शब्दादिभेदात् ॥ ५८॥ त्रयस्त्रिंशाधिकरणमारचयति- न भिन्ना उत भिद्यन्ते शाण्डिल्यदहरादयः ।। समस्तोपासनश्रेष्ठ्याब्रह्मैक्यादप्यभिन्नता ॥ ६९ ।। कृत्स्नोपास्तेरशक्यत्वाद्गुणैर्ब्रह्म पृथकृतम् ।। दहरादीनि भिद्यन्ते पृथक्पृथगुपक्रमात् ॥ ७० ॥ छान्दोग्ये शाण्डिल्यविद्यायां मधुविद्येत्यादयः पठिताः । तथा-शाखान्तरेष्वपि । तत्र पूर्वाधिकरणन्यायेन समस्तोपासनस्य श्रेष्ठत्वात, वेद्यस्य ब्रह्मण एकत्वाच्च सर्वा- सामेकविद्यात्वम् ।। इति प्राप्ते, ब्रूमः-अनन्तासु विद्यास्वेकीकरणेनानुष्ठानं तावदशक्यमिति विद्या- भेदोऽभ्युपगन्तव्यः । न च-वेद्यस्य ब्रह्मण एकत्वं शङ्कनीयम्, गुणभेदेन भेदो- पपत्तेः । नच-एकैकस्या विद्याया इयत्ता निश्चेतुमशक्या । प्रत्येकमुपक्रमोपसंहा- रयोस्तन्निश्चायकत्वात् । तस्मात् --विद्यानां नानात्वमिति || १ क. ख. प्रसज्येत । २ ख. 'लचिन्तनं ३ ग. समर्थानि । ४ ग. सन । ५ क. ख. यग्यतः ॥ द। ६ क. ग्ये दहरविद्याशाण्डिल्यविद्यामधु । ७ ग. यातुं ता'। १६ A ..- -- . -- . -- - - १२२ श्रीभारतीतीर्थमुनिप्रणीता- [अ.३पा.३अधि.३४ ३५] ( चतुस्त्रिंशे, अहंग्रह विद्यायां विकल्पनियमाधिकरणे सूत्रम्-) विकल्पोऽविशिष्टफलत्वात् ॥ ५९॥ चतुस्त्रिंशाधिकरणमारचयति- अहंग्रहेष्वनियमो विकल्पनियमोऽथवा ॥ नियामकस्याभावेन याथाकाम्यं प्रतीयताम् ॥ ७१ ॥ ईशसाक्षात्कृतेस्त्वेकविद्ययैव प्रसिद्धितः । अन्यानर्थक्यविक्षेपौ विकल्पस्य नियामकौ ॥ ७२ ।। द्विविधान्युपासनानि-अहंग्रहाणि, प्रतीकानि चेति । आत्मनः सर्गुणत्वोपासने प्वहंग्रहस्य चतुर्थाध्याये वक्ष्यमाणत्वात्तान्यहंग्रहाणि । अनात्मवस्तुनि देवतादृष्टया संस्कृत्योपास्यमानानि प्रतीकानि । तत्र--अहंग्रहेषु शाण्डैिल्यविद्याद्युपासनेषु, एक वे बहूनि चोपासनानि याथाकाम्येनानुष्ठेयानि, विकल्पस्य नियामकाभावात् । न हि 'शाण्डिल्योपासनं दहरोपासनमन्यद्वा, एकमेवानुष्ठेयं नेतरत्' इति विकल्पनियमे किंचित्कारणमस्ति । तस्मातू-याथाकाम्यम् ।। इति प्राप्ते, ब्रूमः-अन्यानर्थक्यं वावदेकं नियामकम् । तथा हि--ईश्वरसाक्षा- त्कार उपासनस्य प्रयोजनम् । वच्चैकेनैवोपासनेन सिध्यति, तंत्रान्योपासनवैयर्थ्यम् । किंच-उपासनेषु न प्रमाणजन्यः साक्षात्कारः । किं तर्हि निरन्तरंभावनया ध्येय- तादात्म्याभिमानः । स चाभिमान एकमुपासनमनुष्ठाय तत्परित्यज्यान्यत्र प्रवर्तमानस्य पुरुषस्य चित्तविक्षेपात्कथं नाम दृढीभवेत् । तस्मात् --आनर्थक्यविक्षोपयोर्नियामक- त्वाद्विकल्पो नियम्यते ॥ -- . -- . . -- -- -- - ------ --- ---- --- -- --- (पञ्चत्रिंशे लौकिकातीकेषु याथाकाम्याधिकरणे सूत्रम्--) काम्यास्तु यथाकामं समुच्चीये- रन वा पूर्वहेत्वभावात् ॥६०॥ पञ्चत्रिंशाधिकरणमारचयति- प्रतीकेषु विकल्पः स्याद्याथाकाम्पेन वा मतिः॥ अहंग्रहेष्विवैतेषु साक्षात्कृत्यै विकल्पनम् ।। ७३ ।। १ क. ख. 'गुणापा । २ क. ग्रहे च । ख. ग्रहेषु च। ३ क संस्तुत्यो । ४ क. ख. डि. त्याधुपा । ५ क. द्वे च त्रीणि चो। ६ ख ततोऽन्यो । ७ ख. 'रया भा । ८ क. 'क्षेपे कर्थ । " [अ०३पा०३अधि०३६] वैयासिकन्यायमाला । १२३ देवो भूत्वेतिवन्नात्र काचित्साक्षात्कृतौ मितिः ।। याथाकाम्यमतोऽमीषां समुच्चयविकल्पयोः ॥ ७४ ॥ प्रवीकोपासनेषु पूर्वाधिकरणन्यायः ।। इति प्राप्ते, ब्रूमः-अस्त्यत्र महद्वैषम्यम् । “देवो भूत्वा देवानप्येति" इति 'जीवन्नेव भावनामकर्षवशाद्देवसाक्षात्कारं प्राप्य मृतो देवत्वमुपैति' इति यथाऽहंग्रहे. प्ववगम्यते, न तथा प्रतीकेषु साक्षात्कारफलत्वे किंचिन्मानमस्ति । साक्षात्कारफलत्व- भावे च तत्र तत्र प्रोक्ता भोग्यवस्तुपाप्तयः फलत्वेनाभ्युपगन्तव्याः । तथा च सवि भिन्नफलत्वान्नान्यानर्थक्यम् । विक्षेपशङ्का तु दूरापेता, एकं प्रतीकं केषुचित्क्षणेषू. पास्य क्षणान्वरे प्रतीकान्तरोपासने पूर्वोपास्तिजन्यस्यापूर्वस्याविनाशात् । तस्मात्-- विकल्पेनैकमेव वा, बहूनि समुच्चित्य वा, याथाकाम्येन प्रवीकमुपासितव्यम् । ( षट्त्रिंशे कर्माङ्गप्रतीकेषु याथाकाम्याधिकरणे सूत्राणि--) अङ्गेषु यथाश्रयभावः ॥ ६१ ॥ शिष्टेश्च ॥६२॥ समाहारात् ॥ ६३ ॥ गुणसाधारण्यश्रुतेश्च ॥ ६४॥ न वा तत्सहभावाश्रुतेः ॥६५॥ दर्शनाच ॥६६ ॥ षट्त्रिंशाधिकरणमारचयति- समुच्चयोऽङ्गबद्धेषु याथाकाम्येन वा मतिः ।। समुचितत्वादङ्गानां तेद्रद्धेषु समुच्चयः ॥ ७५ ।। ग्रहं गृहीत्वा स्तोत्रस्याऽऽरम्भ इत्यादिवन्नहि ।। श्रूयते सहभावोऽत्र याथाकाम्यं ततो भवेत् ॥ ७६ ।। द्विविधानि प्रतीकानि-लौकिकानि, कर्माङ्गानि च । तत्र लौकिकेषु प्रतीकेषु निर्णयः पूर्वत्रोक्तः । अत्र कर्माङ्गेषु समुच्चययाथाकाम्ये विचार्यते । तत्र कमाणि कर्मा- ङ्गानि समुच्चित्यैवानुष्ठेयतया प्रयोगविधिप्रापितानि । वर्षा चाङ्गतत्रत्वादङ्गावबद्धोपास- नानामपि समुच्चयनियमः ॥ इति प्राप्ते, ब्रूमः--"ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकुर्यात्स्तुतमनु- शंसति" इत्यादौ यथा ग्रहस्तोत्रशंसनादीनां नियतः पौर्वापर्येण सहभावः श्रुतः । न वथोपासनेषु श्रूयते । तस्मात्-विकल्पसमुच्चययोर्याथाकाम्यम् || १ ग. 'ङ्गानि त । २ ख. तद्वत्तेषु । ३ ग. लौकिकानां | ४ ख. 'म्येषु विचार्यते । ५ ग. क. मणि । ६ के. था चाङ्गतन्त्रवद । स्व. था चाङ्ग तत्र त्वना । ७ ख. 'यतं पौ.ग. यतपौ। -- । .
१२४ श्रीभारतीतीर्थमुनिप्रणीता [अ०३पा०४अधि०१] इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थमुनिप्रणीतायां वैया- सिकन्यायमालायां तृतीयाध्यायस्य तृतीयः पादः ॥ ३ ॥ भत्र पादे आदितः अधिकरणानि ३६ १३७ सूत्राणि ६६ ४२६ ( अथ तृतीयाध्यायस्य चतुर्थः पादः ) - (प्रथमे पुरुषार्थाधिकरणे-आत्मज्ञानस्य स्वतन्त्रताधिकरणे सूत्राणि-) पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ १॥ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॥२॥ आचारदर्शनातं ॥३॥ तच्छ्रुतेः ॥४॥ समन्वारम्भणात् ॥५॥ तहतो विधानाव ॥६॥ नियमाच ॥७॥ अधिकोपदेशात्तु बादरायणस्यैवं तदर्शनात् ॥ ८॥ तुल्यं तु दर्शनम् ॥ ९॥ असार्वत्रिकी ॥ १०॥ वि- भागः शतवत् ॥११॥ अध्ययनमात्रवतः ॥ १२॥ नाविशेषात् ॥ १३ ॥ स्तुतयेऽनुम- तिर्वा ॥१४॥ कामकारेण चैके ॥१५॥ उपमर्द च ॥ १६ ॥ ऊर्ध्वरेतःसु च शब्दे हि ॥१७॥ तृतीयाध्यायस्य चतुर्थपादे प्रथमाधिकरणमारचयति- क्रत्वर्थमात्मविज्ञानं स्वतन्त्रं वाऽऽत्मनो यतः ।। देहातिरेकमज्ञात्वा न कुर्यात्क्रतुगं ततः ॥ १॥ नाद्वैतधीः कर्महेतुर्हन्ति प्रत्युत कर्म सा ॥ आचारो लोकसंग्राही स्वतन्त्रा ब्रह्मधीस्ततः॥ २॥ आत्मनो देहादिव्यतिरेकज्ञानमन्तरेण परलोकगामित्वानिश्चयाज्ज्योतिःष्टोमादिप्रवृ. त्तिरेव न स्यादिति ऋतुषु प्रवर्तकत्वेनौपनिषदमात्मतत्त्वज्ञानं कर्माङ्गम् ।। १ क. क्रत्वर्थपुरुषसंस्कारत्वेनौप । . 4 १२५ [अ०३पा०४अधि०२] वैयासिकन्यायमाला। इति प्राप्ते, ब्रूमः-द्विविधं देहव्यतिरिक्तात्मज्ञानम्-परलोकगामिक त्मविज्ञा- नमेकम् , द्वितीयं ब्रह्मात्मतत्त्वज्ञानं चेति । तत्र-कात्मज्ञानस्य प्रवर्तकत्वेऽपि नाद्वैतब्रह्मतत्त्वज्ञानं प्रवर्तकम् । प्रत्युत-क्रियाकारकफलनिषेधेन निवर्तकमेव । ननु तत्वविदामपि जनकादीनां कर्मप्रवृत्तिलक्षण आचारो दृश्यते । बाढम् । लोकसंग्रहों- मयमाचारः स्यात् । यदि तत्त्वविदामपि मुक्तये कर्माण्यनुष्ठेयानि स्युः, कथं वर्हि प्रजादिवैयर्थ्यश्रुतिरुपद्यते "कि प्रजया करिष्यामो *येषां नोऽयमात्माऽयं लोकः" इति-आत्मतत्त्वस्वरूपस्य लोकस्यापरोक्षत्वे सत्यनात्मलोकसाधनभूवायाः प्रजाया वैययं श्रूयते । एवं "किमर्था वयमध्येष्यामहे, किमर्था वयं यक्ष्यामहे' इत्याधुदाहरणीयम् । तस्मात्--आत्मतत्त्वज्ञानं स्वतत्रं पुरुषार्थसाधनम्, न तु कर्माङ्गम् ॥ (द्वितीये परामर्शाधिकरणे-संन्यासिन एव ब्रह्मनिष्ठताधिकरणे सूत्राणि-) परामर्श जैमिनिरचोदना चापवदति हि ॥ १८॥ अनुष्ठेयं बादरायणः साम्यश्रु- तेः॥१९॥ विधिर्वा धारणवत् ॥२०॥ द्वितीयाधिकरणस्य प्रथमवर्णकमारचयति- नास्त्यूर्ध्वरेताः किंवाऽस्ति नास्त्यसावविधानतः ।। वीरंघातो विधेः कृप्तावन्धपङ्ग्वादिगा स्मृतिः ॥ ३ ॥ अस्त्यपूर्व विधेः कृतेर्वीरहाऽनग्निको गृही ।। अन्धादेः पृथगुक्तत्वात्स्वस्थानां श्रूयते विधिः ॥ ४ ॥ पूर्वाधिकरणे---स्वतन्त्रमात्मविज्ञानम्-इत्युक्तम् । तस्य चाऽऽत्मविज्ञानस्योवरे- तःस्वाश्रमेषु सुलभत्वादाश्रमसद्भावश्चिन्त्यते । तत्र--नास्त्यूर्ध्वरेताः--इति प्राप्तम् । कुतः--विध्यभावात् । छान्दोग्ये-"त्रयो धर्मस्कन्धाः । यज्ञोऽध्ययनं दानमिति प्रथमः, तप एव द्वितीयः, ब्रह्मचार्याचार्यकुलवासी तृतीयः" इत्यत्र यज्ञाद्युपलक्षित- * 'येषां नोऽस्माकमयमपरोक्षः सन्नात्माऽयं लोकः प्रत्यक्षं फलम, ते वयं किं प्रजया करिष्या- मः' इति निश्चित्यामिहोत्रादि न हृतवन्तइत्यर्थः-इति रत्नप्रभा॥ १ ख. 'मिजीवात्मज्ञा । २ ख, 'त्र-जीवात्म'। ३ क. फलनिव । ४ क. हार्थोऽय। ५ क. 'पद्येत "किं । ६ क. त्वरू। ७ ग. यक्ष्यामः। ८ ख. ग. रहातो । ९ ख. 'दिका स्मृ। १० क. ख. ग. क्लप्ते वीर। .
, वा, १२६ श्रीभारतीतीर्थमुनिप्रणीता- [भ०३पा०४अवि०२] गार्हस्थ्यस्य, तपःशब्दलक्षितवानप्रस्थत्वस्य, नैष्ठिकब्रह्मचर्यस्य परामर्शमात्रं गम्यते, न तु विधिरुपलभ्यते । न च-अपूर्वार्थत्वेन विधिः कल्पयितुं शक्यः, “वीरहा वा एष देवानां योऽमिमुद्वासयते' इत्यग्न्युद्वासनलक्षितस्य गार्हस्थ्यपरित्यागस्य निन्दितत्वात् । "चत्वार आश्रमाः"-- इति स्मृतिस्तु गार्हस्थ्यधर्मानधिकतान्धप- ग्वादिविषया भविष्यति । न ह्यन्धस्याऽऽज्यावेक्षणोपेवे कर्मण्यधिकारोऽस्ति । नापि पङ्गोविष्णुक्रमाद्युपेते कर्मण्यधिकारः । तस्मात्----चक्षुरादिपाटवयुक्तस्याऽऽत्मज्ञानोप- युक्त ऊर्ध्वरेता आश्रमो नास्ति || इति प्राप्ते, ब्रूमः-अस्त्यूर्ध्वरेवा आश्रमः । विध्य श्रवणेऽप्यपूर्वार्थत्वेन विधेः कल्पयितुं शक्यत्वात् । न च-वीरघावदोषः, उत्सन्नामिगृहस्थविषयत्वाद्वीरहत्यायाः। यत्तु-अन्धादिविषयत्वं स्मृवेरुक्तम् । तदसत् , “अथ पुनरवती व्रती वा, स्नावकोऽ- नावको *उत्सन्नागिरनग्निको वा, यदहरेव विरजेत्, तदहरेव प्रव्रजेत्” इति गार्हस्थ्यानविकतानां पृथक्संन्यासविधानात् । न च-चक्षुरादिपाटववतामाश्रमान्व- रविधिः कल्पनीयः, जाबालश्रुवौ प्रत्यक्षविध्युपलम्भात् । "ब्रह्मचर्य समाप्य गृही भवेत् , गृहाद्वनी भूत्वा प्रव्रजेत्" इति । तस्मात्---अस्त्याश्रमान्तरम् ।। द्वितीयवर्णकमारचयति लोककाम्याश्रमी ब्रह्मनिष्ठामहँति वा न वा ॥ यथावकाशं ब्रह्मेष ज्ञातुमर्हत्यवारणात् ॥५॥ अनन्यचित्तता ब्रह्मनिष्ठाऽसौ. कर्मठे कथम् ।। कर्मत्यागी ततो ब्रह्मनिष्ठामर्हति नेतरः ॥ ६ ॥ "त्रयो धर्मस्कन्धाः" इत्यत्राऽऽश्रमानधिकृत्य “सर्व एते पुण्यलोका भवन्ति" इत्याश्रमानुष्ठायिनां पुण्यलोकमाभिधाय "ब्रह्मसंस्थोऽमृतत्वमेति" इति मोक्षसाधन- त्वेन ब्रह्मनिष्ठा प्रतिपाद्यते । सेयं ब्रह्मनिष्टा पुण्यलोककामिन आश्रमिणोऽपि संभाव्यते । आश्रमकर्माण्यनुष्ठाय यथावकाशं ब्रह्मनिष्ठायाँः सुकरत्वात् । नहि 'लोककामी ब्रह्म न जानीयात्' इति निषेधोऽस्ति | तस्मात्-अस्ति सर्वस्याऽऽश्रमिणो ब्रह्मनिष्ठा ।। इति प्राप्ते, ब्रूमः-ब्रह्मनिष्ठा नाम सर्वव्यापारपरित्यागेनानन्यचित्तवया ब्रह्मणि समाप्तिः । न चासौ कर्मशूरे संभवति, कर्मानुष्ठानत्यागयोः परस्परं. विरोधात् । वस्मात्-कर्मत्यागिन एव ब्रह्मनिष्ठा । . m -- * उत्सन्नाग्निर्यामरणेन नष्टाग्निः । अनग्निः पूर्वमेवाग्निपरिग्रहरहितः । १ ग. इत्युद्वा' । २ क. 'क्तस्यो । ३ ग. उच्छिन्ना। ४ क. ख. ब्रह्मैव । ५ क. कर्मतः । ६ ग. भिधीयते "ब्र । ७ क. या कर्तु सु। ८ क.. नतत्याग ।
. [अ०३पा०४अधि०३-४] वैयासिकन्यायमाला । ( तृतीये रसतमत्वादीनां ध्येयत्वाधिकरणे सूत्रे-) स्तुतिमात्रमुपादानादिति चेन्नापूर्व- त्वात् ॥२१॥ भावशब्दाच ॥२२॥ तृतीयाधिकरणमारचयति- स्तोत्रं रसतमत्वादि ध्येयं वा गुणवर्णनात् ।। जुहूरादित्य इत्यादाविव कर्माङ्गसंस्तुतिः ॥ ७ ॥ भिन्नप्रकरणस्थत्वान्नाङ्गविध्येकवाक्यता। उपासीतेतिविध्युक्तेर्येयं रसतमादिकम् ॥ ८ ॥ उद्गीथावयवस्योंकारस्य रसतमत्वादयो गुणाः श्रूयन्ते--"स एष रसानां रसतमः परमः” इत्यादिना । तद्रसवमत्वादिकमोंकारस्य स्तुतिः, न तु ध्यातव्यम् । यथा "इयमेव जुहूरादित्यः, कूर्मः स्वर्लोकः, इत्यादौ कर्माङ्गभूतानां जुह्वादीनामादित्या- *दिरूपेण स्तुतिः, तथा रसतमत्वादिगुणैरोंकारस्य स्तुतिः ।। इति प्राप्ते, ब्रूमः--विषमो दृष्टान्तः । 'जुहूरादित्यः' इत्यादिकं जुहू विधिप- करणे पठितत्वात्स्तोत्रमस्तु, रसतमत्वादिकं तूपनिषदि पठिवत्वेन कर्मप्रकरणपठितो. गीथविधिवाक्येनैकवाक्यत्वाभावान्न स्वावकम् । किंतु "ओमित्येतदक्षरमुद्गीथमुपासी- व" इति संनिहितेन विधिनैकवाक्यत्वाद्रसतमत्वादिकं ध्यातव्यम् ।। . (चतुर्थे, आख्यानस्य विद्यास्तुत्यर्थताधिकरणे सूत्रे--) पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥२३॥ तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥ चतुर्थाधिकरणमारचयति-- पारिप्लवार्थमाख्यानं किंवा विद्यास्तुतिस्तुते॥ ज्यायोऽनुष्ठानशेषत्वं तेन पारिप्लवार्थता ॥ ९ ॥ मनुर्वैवस्वतो राजेत्येवं तत्र विशेषणात् ॥ अंत्र विद्यैकवाक्यत्वभावाद्विद्यास्तुतिर्भवेत् ॥ १० ॥ * भाष्यकृता तु “इयमेव पृथिवी जुहूः, आदित्यः कर्मः, स्वर्लोक आहवनीयः” इति पठि- तम् ॥ रत्नप्रभायां ‘जहरियमेव पृथिवीति, स्तूयते । कर्मश्च नयनगतः सन्नादित्य इति, आहवनी- योऽग्निः' स्वर्गलोक इति वत्स्तुतिरेवेत्यर्थः।' इति व्याख्यातम् ॥ 1 क. 'तमाद। ४ क. ग. स्वर्गो लोकः । ३ क. ग. 'ताया जुह्ना आदि । "तिश्रुतेः । ५ क. तत्र। Im . ४.क. '.
१२८ श्रीभारतीतीर्थमुनिप्रणीता [अ०३पा०४अधि०५] "अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः"-- "जनको ह वैदेह भासांचके" इत्यादिकमुपनिषदि श्रूयमाणमाख्यानं पारिष्ठवार्थ भवितुमर्हति । अश्वमेधैयागे रात्रिषु राजानं सकुटुम्बमुपवेश्य तस्याग्रे वैदिकान्युपाख्यानान्यध्वर्युणा वक्तव्यानि । वदिद पारिप्लवाख्यं कर्म' “पारिप्लवंमाचक्षीत" इति वाक्येन विहितम् । तदर्थत्वे सत्यौपनि षदाख्यानान्यनुष्ठानायोपयुज्येरन् । ज्यायोऽनुष्ठानं विद्यास्तुतेः । तस्मात्पारिप्लवार्थम् ।। इति प्राप्ते, ब्रूमः--प्रथमेऽहनि-मनुवैवस्वतो राजा, द्वितीयेऽहनि-'यमो वैव- वतो राजा', इत्याद्याख्यानानां पारिप्लवार्थानां विशेषितत्वादौपनिषदानामाख्या- नानां तच्छेषत्वं न संभवति । संनिहितविद्यास्तावकत्वे तु विद्यावाक्यैरेकवाक्यता लक्ष्यते । तस्मात्--विद्यास्तावकमाख्यानम् ।। S (पश्चमे, आत्मज्ञानस्य कर्मानपेक्षत्वाधिकरणे सूत्रम्--) अत एव चाग्नीन्धनाद्यनपेक्षा ॥२५॥ पश्चमाधिकरणमारचयति-- आत्मबोधः फले कर्मापेक्षो नो वा, ह्यपेक्षते ।। अङ्गिनोऽलेष्वपेक्षायाः प्रयाजादिषु दर्शनात् ।। ११ ॥ अविद्यातमसोर्ध्वस्तौ दृष्टं हि ज्ञानदीपयोः । नैरपेक्ष्यं ततोऽत्रापि विद्या कर्मानपेक्षिणी ॥ १२ ॥ विमतो ब्रह्मतत्त्वावबोधः स्वफलप्रदाने स्वाङ्गभूतकर्मापेक्षः, अङ्गित्वात्, प्रयाजापेक्ष- दर्शपूर्णमासवत् । यद्यपि प्रथमाधिकरणे विद्यायाः स्वतत्रपुरुषार्थत्वप्रतिपादनेन कर्मा- त्वं निवारितम् । तथाऽप्यङ्गित्वं न निवारितम् । अतो नासिद्धो हेतुः । अतः कर्मा- ङ्गापेक्षो बोधः ॥ इति प्राप्ते, ब्रूमः-विमतं ब्रह्मज्ञानं स्वविरोविनिवनिवर्तनेऽन्यापेक्षं न भवति, प्रकाशत्वात्, दीपवत् , घटज्ञानवच्च । यत्तु-अङ्गित्वमुक्तम् । तत्र कर्मणः कीदृशमै- ङ्गत्वमभिपेतम्-किं प्रयाजादिवत्फलोपकार्यङ्गत्वम् , उत-अवघातादिवत्स्वरूपोपका- र्यङ्गत्वम् । नाऽऽद्यः, मुक्तेः कर्मजन्यत्वेनानित्यत्वप्रैसक्तेः। द्वितीये--साध्यविकलो दृष्टान्तः, अवघातादौ प्रयाजादीनां स्वरूपोपकार्यङ्गत्वाभावात् । तस्मात्-उत्पन्ना विद्या स्वफलंदाने कर्माणि नापेक्षते || , १ क. पच्छ्य'। २ क. 'मेधे या। ३ ग. 'म "परि । ४ ख. 'चक्षते" ई। ५ क.ख्यायि- कानी । ६ ख. लभ्यते । ७ क. 'तोऽयं ब्र। ८ ख. 'ने सर्वाङ्ग । ९ क. तो न सिं। १० क.ख. 'मा। 21 क. 'वर्तनापे । १२ क. ग. 'मगिस। १३ क. प्रसङ्गात् । द्वि| १४ ग. 'दानक . तु [अ०३पा०४अधि०६-७] वैयासिकन्यायमाला। १२९ ( षष्ठे ज्ञानोत्पत्तौ यज्ञशमदमाद्यपेक्षाधिकरणे सूत्रे-) सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥ शमदमायुपेतः स्यात्, तथाऽपि तु तद्विधे- स्तदङ्गतया तेषामवश्यानुष्ठेयखात् ॥२७॥ पष्ठाधिकरणमारचयति-- उत्पत्तावनपेक्षेयमुत कर्माण्यपेक्षते ॥ फले यथाऽनपेक्षैवमुत्पत्तावनपेक्षता ॥ १३ ॥ यज्ञशान्त्यादिसापेक्षं विद्याजन्म श्रुतिद्वयात् ।। हलेऽनपेक्षितोऽप्यश्चो रथे यद्दपेक्ष्यते ॥ १४ ॥ ब्रह्मविद्या वफले यथा कर्माणि नापेक्षते, तथा स्वोत्पत्तावपि । अन्यथा-कचि. दपेक्षते, कचिन्नापेक्षते-इत्यर्धजरतीयन्यायः प्रसज्येत || इति प्राप्ते, ब्रूमः--नार्धजरतीयत्वदोषोऽत्रास्ति, योग्यतावशेनैकस्यैव कार्याविशेषे. प्वपेक्षानपेक्षयोरुपपत्तेः । यथा लाङ्गलवहनेऽनपेक्षितोऽप्यश्वो रथवहनेऽपेक्ष्यते, तद्वत् | न च विद्यायाः स्वोत्पत्तौ कर्मापेक्षायां प्रमाणाभावः, "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति प्रवृत्तिरूपाणां वेदानुवचनादीनां विविदिषोत्पादनद्वारा बहिरङ्गसाधनत्वावगमात् । "शान्तो दान्त उपरतस्विविक्षुः समा- हितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्यति" इवि निवृत्तिरूपाणां शमदमादीनां विद्यो- त्पत्तिकालेऽप्यनुवर्तमानवयाऽन्तरङ्गसाधनत्वावगमात् । तस्मात्--यज्ञादीनि शमा- दीनि च विद्या स्वोत्पत्तावपेक्षते ॥ --- ( सप्तमे, आपदि सर्वान्नभोजनानुज्ञाधिकरणे सूत्राणि-) सर्वानानुमतिश्च प्राणात्यये तदर्शनाव॥२८॥ अबाधाच्च ॥२९॥ अपि च स्मर्यते ॥३०॥ शब्दश्चातोऽकामकारे ॥ ३१ ॥ सप्तमाधिकरणमारचयति- सर्वाशन विधिः प्राणविदोऽनुज्ञाऽथवाऽऽपदि । अपूर्वत्वेन सर्वान्नभुक्तिया॑तुर्विधीयते ॥ १५ ॥ १ क. था चोत्प' । ग. 'था नोत्प । २ क. 'चिन्नेत्य । ३ क. पश्येत् । .
१३० श्रीभारतीतीर्थमुनिप्रणीता- [अ०३पा०४अधि०८] श्वाद्यन्नभोजनाशक्तेः शास्त्राचाभोज्यवारणात् ।। आपदि प्राणरक्षार्थमेवानुज्ञायतेऽखिलम् ॥ १६ ॥ प्राणविद्यायां श्रूयते-"न ह वा एवंविदि किंचनानन्नं भवति" इति । 'प्राणोपा- सकेन भोक्तुमयोग्यं न किंचिदस्ति' इत्यर्थः। तत्र सर्वान्नभोजनस्य मानान्तरेणाप्राप्तत्वा- त्प्राणोपासकस्य तद्विधीयते ॥ इति प्राप्ते, ब्रूमः-"यदिदं किंचाऽऽश्वभ्य आकृमिभ्य आकीटपतङ्गेभ्यः, वत्तेऽ- नम्" इति श्वादि भोज्यमन्नमुपासकस्य भोज्यतया विधेयम्, न च तद्विधातुं शक्यम्, यतो भक्ष्याभक्ष्यविभागशास्त्रं सर्वान्नाशनविधौ बाध्येत । तस्मात्-आपदि यावता प्राणरक्षा भवति तावन्मानं निषिद्धान्नमप्यनुज्ञायते । अत एव चाक्रायणो मुनिः प्राणात्यये प्राप्ते पर्युषितान्गजतत्पालकोच्छिष्टान्कुल्माषान्मक्षयित्वा शूद्रभाण्डस्थमुदकं न पपौ, तत्रोभयत्र कारणं चावोचत्-'न वा अजीविष्यमिमानखादन्" इति, "कामो म उपानम्" इति च । तस्मात्-आपदि सर्वान्नभक्षणमभ्यनुज्ञातम् ।। - । ( अष्टमे यज्ञादीनामाश्रमविद्योभयहेतुत्वाधिकरणे सूत्राणि-) विहितत्वाचाऽऽश्रमकर्मापि॥३२॥सहकारिलेन च ॥ ३३ ॥ सर्वथाऽपि त एवोभयलिङ्गात् ॥ ॥३४॥ अनभिभवं च दर्शयति ॥ ३५ ॥ भष्टमाधिकरणमारचयति- विद्यार्थमाश्रमार्थं च द्विः प्रयोगोऽथवा सकृत् ॥ प्रयोजनविभेदेन प्रयोगोऽपि विभिद्यते ॥ १७॥ श्राद्धार्थभुक्त्या तृप्तिः स्याद्विद्यार्थेनाऽऽश्रमस्तथा ॥ अनित्यनित्यसंयोग उक्तिभ्यां खादिरे मतः ।। १८ ।। यानि यज्ञादीनि विद्याहेतुत्वेन विविदिषावाक्ये विहिवानि, तान्येवाऽऽश्रमधर्मत्वेन पूर्वकाण्डे विहितानि । तेषां प्रयोजनद्वविध्यातिरनुष्ठानम् ।। इति प्राप्ते, ब्रूमः-यथा श्राद्धार्थभोजनेन तृप्तिर्नान्तरीयकतया सिध्यति, तथा विद्यार्थमनुष्ठितैः कर्मभिराश्रमधर्मः सिध्यतु । न च-विद्याहेतूनां काम्यत्वात्, आश्र- १ क. स्त्राद्भोज्यत्ववा। ग. स्वाच्चाभोज्यवारणम् ॥ आ। २ ख. 'ते जल। ३ क. किंचिन्नानानं ॥ ४ क. ख. निवि । ५ क. ग. मन्यनु । ६ ख. 'मानखा । ७ क. दकपा । ८ ग, नमः । ९ क. श्राद्धभो।
i [अ०३पा०४अधि०९-१०] वैयासिकन्यायमाला । १३१ मधर्माणां च नित्यत्वात्सकृत्प्रयोगे नित्यानित्यसंयोगविरोधः-इति वाच्यम् । वचनद्वय- बलेनैकस्य कर्मण आकारद्वयोपपत्तेः । यथा-"खादिरो यूपो भवति, खादिरं वीर्य- कामस्य यूपं कुर्वीत" इत्यत्र वचनद्वयबलेनैकस्य नित्यत्वं काम्यत्वं च तद्वत् । वस्मात-उभयविधानां यज्ञादीनां सहदेव प्रयोगः ।। ( नवमे, अनाश्रमिणोऽपि ब्रह्मज्ञानाधिकरणे सूत्राणि-) अन्तरा चापि तु तदृष्टेः ॥ ३६॥ अपि च स्मर्यते ॥ ३७॥ विशेषानुग्रहश्च ॥ ३८॥ अतस्त्वितरज्ज्यायो लिङ्गाच ॥ ३९ ॥ नवमाधिकरणमारचयति- नास्त्यनाश्रमिणो ज्ञानमस्ति वा नैव विद्यते ॥ धीशुद्धयर्थाश्रमित्वस्य ज्ञानहेतोरभावतः ॥ १९ ॥ अस्त्येव सर्वसंबन्धिजपादेश्चित्तशुद्धितः ।। श्रुता हि विद्या रैक्वादेराश्रमे त्वतिशुद्धता ॥ २० ॥ पूर्वमाश्रमं परिसमाप्य केनापि कारणेनोत्तरमाश्रममप्रतिपन्नोऽनाश्रमी । स्नातकवि- धुरादिः । वस्य तत्त्वज्ञानं न संभाव्यते, बुद्धिशुद्धिहेतोरामित्वस्याभावात् ।। इति प्राप्ते, ब्रूमः-संभवत्यनामिणोऽपि ज्ञानम् । आश्रमनिरपेक्षस्य जपादेर्बु- द्विशुद्धिहेतुत्वात् । "जप्येनैव तु संसिध्येब्राह्मणो नात्र संशयः" इति स्मृतेः । श्रुतश्च संवर्गविद्यायामधिकारोऽनाश्रमिणो विवाहार्थिनो रैक्वस्य । एवमाश्र- मरहिता गार्योदय उदाहार्याः । न च-एवं सत्याश्रमवैयर्थ्यम् , शुद्ध यति यहे- तुत्वात् । तस्मात्-अनामिणोऽपि संभवत्येव ज्ञानम् ।। (दशमे, आश्रमाणामवरोहनिराकरणाधिकरणे सूत्रम्-) तद्भूतस्य नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॥४०॥ दशमाधिकरणमारचयनि-- १ ख. न च । २ ख. 'हेतुर' । ३ ख. अस्त्यनाश्रमसं । ४ क. 'दे श्रमे त्वेति शुद्धताम् ॥ । ५ क. ख. श्रमस्या । ६ क. ख. श्रुतिश्च | ग. श्रुतेश्च । ७ क. 'शयार्थत्वा ।
१३२ श्रीभारतीतीर्थमुनिप्रणीता- [अ०३पा०४अधि०११] अवरोहोऽस्त्याश्रमाणां न वा, रागात्स विद्यते ॥ पूर्वधर्मश्रद्धया वा यथाऽऽरोहस्तथैच्छिकः ॥ २१ ॥ रागस्यातिनिषिद्धत्वाद्विहितस्यैव धर्मतः ।। आरोहनियमोत्यादे वरोहोऽस्त्यशास्त्रतः ।। २२ ॥ "ब्रह्मचर्य समाप्य गृही भवेत, गृहाद्वनी भूत्वा प्रव्रजेत्" इत्याश्रमाणामारोहो यथेच्छाधीनो भवति, तथा 'पारिवाज्यावनस्थः' इत्याद्यवरोहोऽपि वचिद्रागवशात्, क्वचित्पूर्वाश्रमंधर्मश्रद्धावशाच्च युक्तः ।। इति प्राप्ते, ब्रूमः-रागस्तावन्मिथ्याज्ञानमूलत्वादतिनिषिद्धः । न च पूर्वाश्रमधर्मे श्रद्धा युज्यते, उत्तराश्रमिणं प्रत्यविहितत्वेन धर्मत्वाभावात् । न हि-यो येनानुष्ठातुं शक्यते श्रद्धीयते च, स तस्य धर्मो भवति । किं वर्हि-यो यं प्रवि विहितः, स वस्य धर्मः । किंच "ततो न पुनरेयात्" इत्यवरोहनिषेधेनाऽऽरोहो नियम्यते । न चाऽऽरोहवदवरोहेऽपि शिष्टाचारो विद्यते । तस्मात्-नास्त्यवरोहः ।। , (एकादशे, ऊर्ध्वरेतसः पातित्ये प्रायश्चित्ताधिकरणे सूत्रे-) नचाऽऽधिकारिकमपि पतनानुमाना- त्तदयोगात् ॥४१॥ उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥४२॥ एकादशाधिकरणमारचयति- भ्रष्टोर्ध्वरेतसो नास्ति प्रायश्चित्तमथास्ति वा ।। अदर्शनोक्ते स्त्येव तिनो गर्दभः पशुः ॥ २३ ॥ उपपातकमेवैतद्वतिनो मधुमांसवत् ॥ प्रायश्चित्ताच्च संस्काराच्छुद्धिर्यत्नपरं वचः ॥ २४ ॥ नैष्ठिकब्रह्मचर्यादुर्ध्वरेतस्त्वं प्राप्तस्य पुनः स्त्रीसङ्गेन भ्रष्टस्य प्रायश्चितं नास्ति । "भारूढो नैष्ठिकं धर्म यस्तु प्रच्यववे पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा" इति प्रायश्चित्तादर्शनवचनात् । “अथ यो ब्रह्मचारी स्त्रीमुपेयात, स गर्दभं पशु- मालभेत" इत्यस्ति प्रायश्चितम्-इत्युच्यते । वन्न, तस्य व्रतिविषयत्वात् । उप- - - । . १ क. ब. होऽस्ति शा। २ क. 'मकर्म । ३ ख. 'स्त्येतदवति । ४ ख. प्राप्य । ५क. स्य तं प्रत्यवि' [अ.३पा.४अधि.१२-१३] वैयासिकन्यायमाला । १३३ कुर्वाणकाख्यो यो वेदाध्ययनाङ्गत्वेन ब्रह्मचर्यव्रतमनुतिष्ठति, तद्विषयमिदं प्रायश्चि- सवचनम् । तस्मात्-ऊर्ध्वरेस्त्वाद्भष्टस्य नास्ति प्रायश्चितम् ।। इति प्राप्ते, ब्रूमः-यथोपकुर्वाणकस्य मधुमांसभक्षणमुपपातकमिति . प्रायश्चित्रं पुनःसंस्कारो विद्यते, तद्वदूर्ध्वरेतसोऽपि गुरुदारादिभ्योऽन्यत्र प्रवृत्तिरुपपावकमेव न तु महापावकम् । ततः प्रायश्चित्तात्पुनःसंस्काराच्च शुद्धिर्भवति । यदि महापातकेष्व- परिगणितत्वेनोपपातकत्वमाश्रित्य प्रायश्चित्तमुच्येत, वीदर्श वाक्यस्य का गतिः- इति चेत् । 'यत्नपरं तद्वाक्यम्' इति ब्रूमः । अत एव 'प्रायश्चित्तं न पश्यामि इत्याह, न तु 'नास्ति' इति । प्रायश्चित्तं तु गर्दभपशुरेव, ब्रह्मचारित्वस्य समान- स्वात् । तथा-वनस्थपरिव्राजकयोरपि भ्रंशे प्रायश्चित्तं स्मर्यवे-'वानप्रस्थो दीक्षा- भेदे कृच्छू द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत् । 'भिक्षुर्वनस्थवत्सोमवृद्धिवर्जम्'- इति । कक्षवृद्धिर्वनवासः । सोमवृद्धिरपि स एव ।। तु (द्वादशे भ्रष्टस्य कृतप्रायश्चित्तस्याप्यव्यवहार्यताधिकरणे सूत्रम्-) बहिस्तूभयथाऽपि स्मृतेराचाराच्च ॥ ४३ ॥ द्वादशाधिकरणमारचयति- शुद्धः शिष्टरुपादेयस्त्याज्यो वा दोषहानितः ॥ उपादेयोऽन्यथा शुद्धिः प्रायश्चित्तकृता वृथा ॥ २५ ॥ आमुष्मिक्येव शुद्धिः स्यात्ततः शिष्टास्त्यजन्ति तम् ।। प्रायश्चित्तादृष्टिवाक्यादशुद्धिस्त्वैहिकीष्यते ॥ २६ ।। पूर्वोक्तप्रायश्चित्तापादिवशुद्धचन्यथानुपपत्त्या कृतप्रायश्चित्तस्य शिष्टैः सह व्यव- हारोऽस्ति ॥ इति प्राप्ते, ब्रूमः-आमुष्मिकशुद्धिसद्भावेऽपि प्रायश्चित्तादर्शनवचनादैहिकशु- दयभावाच्छिष्टैरेष न व्यवहार्यः । --- ( त्रयोदशे, ऋत्विकृताङ्गध्यानस्य स्वामिगामित्वाधिकरणे सूत्राणि -) स्वामिनः फलश्रुतेरित्यात्रेयः॥४४॥ आर्खिज्यमित्यौडुलोमिः, तस्मै हि परिक्रीयते ॥४५॥ श्रुतेश्च ॥ ४६॥ त्रयोदशाधिकरणमारचयति- . HAR , क. 'तसो भ्रष्ट । २ क. ख. 'नवचनस्य । ३ क. समत्वा । ४ क. वनावापः । सो।
१३४ श्रीभारतीतीर्थमुनिप्रणीता- [अ.३पा.४अवि.१४] अङ्गध्यानं याजमानमात्वेिज वा यतः फलम् ।। ध्यातुरेव श्रुतं तस्माद्याजमानमुपासनम् ॥ २७ ॥ ब्रूयादेवं विदुद्गातेत्यात्विजत्वं स्फुटं श्रुतम् ॥ क्रीतत्वात्विजस्तेन कृतं स्वामिकृतं भवेत् ॥ २८ ॥ अङ्गावबद्धेषूपासनेषु यजमान एवानुष्ठाता, नविजः, ध्यातुः फलश्रवणात् । फलं यजमानस्यैवोचितं, स्वामित्वात् । तस्मात् --फलिनी यजमानस्यैव ध्यातृत्वम् ॥ इति प्राप्ते, ब्रूमः- "एवं विद्यावा ब्रूयात्" इति वाक्यशेष उतुरुपास- कत्वं स्पष्टं श्रूयते । युक्तं चैतत्-ऋत्विजामशेषकर्मानुष्ठानाय यजमानेन क्रीतत्वात् । वस्मात्-ऋत्विग्भिः कृतं यजमानेनैव कृतमिति फलित्वोपपत्तेरुपासनमृत्विजां कर्म । . 109 ॥ ( चतुर्दशे मौनस्य विधेयत्वाधिकरणे सूत्राणि-) सहकार्यन्तरविधिः पक्षण तृतीयं त- त्त्वतो विध्यादिवत् ॥४७॥ कृत्स्नभा- वात्तु गृहिणोपसंहारः॥४८॥ मौन- वदितरेषामप्युपदेशात् ॥ ४९ ॥ चतुर्दशाधिकरणमारचयति- अविधेयं विधेयं वा मौनं तन्न विधीयते ॥ प्राप्तं पाण्डित्यतो मौनं ज्ञानवाच्युभयं यतः ॥ २९ ।। निरन्तरज्ञाननिष्ठा मौनं पाण्डित्यतः पृथक् ।। विधेयं तद्नेददृष्टिप्राबल्ये तनिवृत्तये ॥ ३० ॥ कहोलबाह्मणे श्रूयते-" तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् , बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः" इति । अस्यायमर्थः -यस्माद्ब्रह्मभावः परमपुरुषार्थः, तस्माद्ब्रह्म बुभूषुरुपनिषचात्पर्यनिर्णयरूपं पाण्डित्यं निःशेषेण संपाद्य बालवन्नीरागद्वेषत्वेन युक्तोऽसंभावनानिराकरणाय युक्तीरनुचिन्तयन्नवस्थातुमिच्छेत् , ततः पाण्डित्यबाल्ये निःशेषेण संपाद्य, अथ मुनिः-इति । तत्र--'भवेत्' इति विध्य श्रवणान्मुनित्वं न विधेयम् । नच-विधिः कल्पयितुं शक्यः, पाण्डित्यशब्देन . . .. . 1 क. ख. 'त्विज्यं वा । २ क. ख. 'विज्यत्वं । ३ क. 'नस्योचि । ४ क. 'द्रात्रुपा । ५ क. ख. 'कर्तव्यानु। ६ क. कृतमपि । ७ ख. कृतं भवतीति । ८ क. ग. ततः । ९ क. ख.न्तरं ज्ञा।.ग. 'मौनपा । ११ ख. 'निवारणा । १२ क. ख, ग. युक्तिर। १३ ख. नतु ।
. १३६ ३ [अ.३पा.४अधि.१५-१६] वैयासिकन्यायमाला । प्राप्तस्य मौनस्यापूर्वार्थत्वाभावात् । पण्डितस्य विदुषो भावः पाण्डित्यम्-इति ज्ञान- वाचकोऽयं शब्दः । तथा मुनिशब्दोऽपि, 'मन ज्ञाने' इत्यस्माद्धातोस्तन्निष्पत्तेः । तस्मात्प्राप्तस्य मौनस्य नैव विधिकल्पनम् ॥ इति प्राप्ते, ब्रूमः-पूर्वोक्तस्य पाण्डित्यस्य पुनर्मुनिशब्देनाभिधाने प्रयोजनाभावा- निरन्तरज्ञाननिष्टाऽपूर्वार्थो मुनिशब्देन विवक्षितः । ततः 'तिष्टासेत्' इति पदानुवृत्त्या विधिर्लभ्यते । अस्ति च ज्ञाननैरन्तर्येण प्रयोजनम् , प्रबलभेदवासनावासितस्य वन्निवृ. त्यर्थत्वात् । तस्मात्-निदिध्यासनात्मकं मौनं विधेयम् || . ( पञ्चदशे भावशुद्धरेव बाल्यशब्दाभिधेयताधिकरणे सूत्रम् --) अनाविष्कुर्वन्नन्वयात् ॥ ५० ॥ पञ्चदशाधिकरणमारचयति बाल्यं वयः कामचारो धीशुद्धिर्वा प्रसिद्धितः ।। वयस्तस्याविधेयत्वे कामचारोऽस्तु नेतरा ॥ ३१ ॥ मननस्योपयुक्तत्वाद्भावशुद्धिर्विवक्षिता ।। अत्यन्तानुपयोगित्वाद्विरुद्धत्वाच्च न द्वयम् ॥ ३२ ॥ "बाल्येन विष्ठासेत्" इत्यत्र-बालस्य भावो बाल्यम्-इति प्रसिद्धया वयो भवेत् । अथ-~-तस्य विध्यनहत्वम् ,--तर्हि--बालस्य कर्म-इति व्युत्पत्त्या काम- चारादिकमस्तु । सर्वथा धीशुद्धिर्न बाल्यम् || इति प्राप्ते, ब्रूमः--पाण्डित्यमौनाख्ययोः श्रवणनिदिध्यासनयोर्मध्ये मननं विधेय. त्वेन श्रुत्या विवक्षितम् । तस्य च भावशुद्धिरुपयुक्ता, रागद्वेषमानापमानादिदोषग्रस्त- त्वेन बहिःप्रवृत्तिमपरित्यज्य मन्तुमशक्यत्वात् । --बालस्य कर्म--इति व्युत्पत्तिस्तु यथेच्छाचारे, भावशुद्धौ च समाना । वयःकामचारौ तु मननस्यात्यन्तमनुपयुक्तौ । प्रत्युत विरोधिनौ, मूढस्य बहिःप्रवृत्तस्य वा मनसो मननविनाशकत्वात् । तस्मात्-- भावशुद्धिरेव बाल्यम् , नेतरदुभयम् ।। . . । (षोडशे, आत्मज्ञानस्यैहिकामुष्मिकत्वव्यवस्थाधिकरणे सूत्रम्-) ऐहिकमप्यप्रस्तुतप्रतिबन्धे तदर्शनात् ॥ ५१ ॥ षोडशाधिकरणमारचयति- १ क. पूर्वत्वाभा । २ ख. प्राप्यस्य । ३ क. न । ४ क. क्तपा। ५ क. नेतरः। ग. नेतरतु । ६ ख. पकारिला । ७ क, ख. "वृत्ति प ८ क. 'थेष्टाचा।
श्रवणा- R श्रीभारतीतीर्थमुनिप्रणीता- [भ७३पा०४अधि०१७] १३६ इहैव नियतं ज्ञानं पाक्षिकं वा, नियम्यते ॥ तथाऽभिसंधेर्यज्ञादिः क्षीणो विविदिषाजनौ ॥ ३३ ॥ असति प्रतिबन्धेऽत्र ज्ञानं जन्मान्तरेऽन्यथा ॥ श्रवणायेत्यादिशास्त्राद्वामदेवोद्भवादपि ॥ ३४ ॥ श्रवणमनननिदिध्यासनेष्वनुष्ठीयमानेषु-अस्मिन्नेव जन्मनि ज्ञानं जायते-इति नियम्यते । न तु-इह वा, जन्मान्तरे वा---इति कालविकल्पः । कुतः दिषु प्रवर्तमानस्य पुरुषस्य ज्ञानेच्छाया ऐहिकज्ञानोत्पत्तिविषयत्वात् । इहैव मे विद्या जायताम्' इत्यभिसंधाय पुरुषः प्रवर्तते। न च--अदृष्टफलानां यज्ञादीनां तत्साध- कत्वेन स्वर्गवज्जन्मान्तरे ज्ञानोत्पत्तिः शङ्कनीया, श्रवणादिप्रवत्तेः प्रागेव विविदिषामुत्पाद्य यज्ञादीनां चरितार्थत्वात् । तस्मात्--ऐहिकत्वेन ज्ञानोत्पत्तिनियम्यते । इति प्राप्ते, ब्रूमः-असति प्रतिबन्धे ज्ञानमिदैव संभवति, सति तु प्रविबन्धेड- त्रानुष्ठितैः श्रवणादिभिर्जन्मान्तरे ज्ञानमुत्पद्यते । प्रतिबन्धश्च बहुविधः श्रूयते-- "श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः । आश्चयों वक्ता कुशलोऽस्य लब्धा आश्चयों ज्ञाता कुशलानुशिष्टः" इति । न च--पूर्वजन्मानुष्ठितैः श्रवणादिमिर्जन्मान्तरे ज्ञानोत्पत्तिर्न दृष्टचरी, वामदेवस्य गर्म एवावस्थितस्य ज्ञानोत्पत्तिश्रवणात् । “गर्भ एवैतच्छयानो वामदेव एवमुवाच" इति श्रुतेः । तस्मात्--ईंह वा, जन्मान्तरे वा ज्ञानोत्पत्तिः ।। . ( सप्तदशे मुक्तेरेकविधत्वाधिकरणे सूत्रम्---) एवं मुक्तिफलानियमस्तदवस्था- धृतेस्तदवस्थाधृतेः ॥ ५२ ॥ सप्तदशाधिकरणमारचयति- मुक्तिः सातिशया नो वा फलत्वाब्रह्मलोकवत् ॥ स्वर्गवच्च नृभेदेन मुक्तिः सातिशयैव हि ॥ ३५ ॥ ब्रह्मैव मुक्तिर्न ब्रह्म कचित्सातिशयं श्रुतम् ॥ अत एकविधा मुक्तिर्वेधसो मनुजस्य च ॥ २६ ॥ यथा ब्रह्मलोकाख्यं फलं सालोक्यसारूप्यसामीप्यसार्टिभेदेन चतुर्विधम् । तत्र १ क. थाऽपि सं। २ ग. °नपुरुषेच्छाया। ३ क. ख. 'धनत्वे । ४ ग. वृत्तानोत्पत्तेः प्रा । ५ क. ग. न्तरेऽपि ज्ञा। 'न्तरे वाहा।६ क. इहैव । क. ७ क. स्व. स्वर्गावधान। स. स्वर्गवत्फलमें। .
[अ०३पा०४अधि०१७] वैयासिकन्यायमाला । १३७ साटिर्नाम चतुर्मुखेन समानैश्वर्यत्वम् । यथा वा-"कर्मभूयस्त्वात्फलभूयस्त्वम्" इवि न्यायेन खगों बहुविधः । तथा मुक्तिरपि फलत्वाविशेषात्साविशया ।। इति प्राप्ते, ब्रूमः-~-मुक्तिर्नाम निजसिद्धब्रह्मस्वरूपमेव, न तु स्वर्गवदागन्तुकं किंचि. द्रूपम्-इति वक्ष्यते । ब्रह्म चैकविधत्वेन श्रुतं निर्णोतं च । तस्मात्-चतुर्मुखस्य मनुजस्य वा मुक्तिरेकविधैव । सालोक्यादिविशेषस्तु जन्यरूपत्वादुपासनावारतम्येन साविशयो भविष्यति । मुक्तिस्तु न तादृशी, इति सिद्धम् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां तृतीयाध्यायस्य चतुर्थः पादः ॥ ४ ॥ । तृतीयोऽध्यायश्च समाप्तः ॥ ३ ॥ आदितः अधिकरणानि १५४ सूत्राणि ५२ अत्र पादे ४७० १३८ श्रीभारतीतीर्थमुनिप्रणीता- [अ०४पा०१अधि०१-२] ( अथ चतुर्थाध्यायस्य प्रथमः पादः) प्रथमे श्रवणमननादीनामावृत्त्यधिकरणे सूत्रे-) आवृत्तिरसकृदुपदेशात् ॥ १॥लिङ्गाच ॥२॥ चतुर्थाध्यायस्य प्रथमपादस्य प्रथमाधिकरणमारचयति- श्रवणाद्याः सत्कार्या आवा वा सद्यतः ॥ शास्त्रार्थस्तावता सिध्यत्मयाजादौ सकृत्कृतेः ॥ १ ॥ आवा दर्शनान्तास्ते तण्डुलान्तावधातवत् ॥ दृष्टेऽत्र संभवत्यर्थे नादृष्टं कल्प्यते बुधैः ॥ २॥ "सकृत्कृते कृतः शास्त्रार्थः" इति न्यायेन श्रवणादीनां प्रयाजादिवत्सकदेवानु- ष्ठानम् ॥ इति प्राप्ते, ब्रूमः- उक्तन्यायस्यादृष्टफलविषयत्वात् । अत्र ब्रह्मसाक्षात्कारलक्ष- णस्य दृष्टफलस्य संभवात् 'दृष्टे संभवत्यदृष्टं न कल्पनीयम्' इति न्यायेनावघातवत्फ- लसिद्धिपर्यन्तं श्रवणाद्यावर्तनीयम् ॥ ( द्वितीये, आत्मत्वेन ब्रह्मणो ग्रहणाधिकरणे सूत्रम्-) आत्मेति तूपगच्छन्ति, ग्राहयन्ति च ॥ ३ ॥ द्वितीयाधिकरणमारचयति-- ज्ञात्रा स्वान्यतया ब्रह्म. ग्राह्यमात्मतयाऽथ वा ॥ अन्यत्वेन विजानीयाद्दुःख्यदुःखिविरोधतः ॥ ३ ॥ औपाधिको विरोधोऽत आत्मत्वेनैव गृह्यताम् ॥ ग्रहन्त्येवं महावाक्यैः स्वशिष्यान्ग्राहयन्ति च ॥ ४ ॥ यच्छास्त्रपतिपाद्यं ब्रह्म, तज्जीवेन ज्ञात्रा स्वव्यतिरिक्तवया ग्रहीतव्यम्, दुःख्यदुः- खिनोर्जीवब्रह्मणोरेकत्वविरोधात् ॥ इति प्राप्ते, ब्रूमः-'वस्तुतो ब्रह्मस्वरूपस्यैव सतो जीवस्यान्तःकरणोपाधिकृतो दुःखित्वादिसंसारधर्मः' इति वियत्पादे (ब्र० सू० अ०२पा०३) जीवविचारे प्रपश्चि- तम् । अतो वास्तवविरोवाभावादात्मत्वेनैव ब्रह्म गृह्यताम् । अत एव "अहं ब्रह्मा- स्मि" "भयमात्मा ब्रह्म' इत्यादिमहावाक्यैस्तत्त्वविद आत्मत्वेनैव ब्रह्म गृह्णन्ति । . १ क. आवृत्त्या । २ क. ख. न्त्येव म। ३ क. 'यं तद्र। ४ क. ख. 'झरू' .
[अ०४पा०१अधि०३-४] वैयासिकन्यायमाला। तथा "तत्वमसि" इत्यादिमहावाक्यैः स्वशिष्यान्ग्राहयन्त्यपि । तस्मात्-आत्मत्वे- नैव ब्रह्म ग्रहीतव्यम् || HARA -- H ( तृतीये प्रतीकेऽहंदृष्टिनिराकरणाधिकरणे सूत्रम्-) न प्रतीके न हि सः॥४॥ तृतीयाधिकरणमारचयति-- प्रतीकेऽहंदृष्टिरस्ति न वा, ब्रह्माविभेदतः ॥ जीवप्रतीकयोब्रह्मद्वाराऽहंदृष्टिरिष्यते ॥ ५ ॥ प्रतीकत्वोपासकत्वहानिर्बह्मैक्यवीक्षणे ।। अवीक्षणे तु भिन्नत्वान्नास्त्यहंदृष्टियोग्यता ॥ "मनो ब्रह्मेत्युपासीव" "आदित्यो ब्रह्म" इत्यादिषु ब्रह्मदृष्टया संस्कृत मना- दित्यादिप्रतीकमुपास्यम् । वच्च प्रतीकमुपासकेन स्वात्मतया ग्रहीतव्यम् , प्रतीकस्य ब्रह्मकार्यत्वेन ब्रह्मणा सह भेदाभावात् , जीवस्य च ब्रह्माभिन्नत्वात् , ब्रह्मद्वारोपास्यप्र- वीकस्योपासकजीवस्य च भेदाभावेनैकत्वसंभवात् ।। इति प्राप्ते, ब्रूमः---यदि ब्रह्मकार्यस्य प्रतीकस्य ब्रह्मैक्यमवलोक्यते, वदा प्रतीक- स्वरूपमेव विलीयेत, घटस्य मृद्रूपेणैक्ये विलयदर्शनात् । यदि च जीवस्य ब्रह्मैक्य- मवलोक्येत, वदा जीवत्वापाये सत्युपासकत्वं हीयेत । अथ-उपास्योपासकस्वरूप- लोभेन कार्यकारणैक्यं जीवब्रह्मैक्यं च न पर्यालोच्येत, तदा गोमहिषवदत्यन्तभिन्नयोः प्रतीकोपासकयोनास्त्येकत्वयोग्यता । तस्मात्--प्रतीके नास्त्यहंदृष्टिः ।। ( चतुर्थे, उपास्ये ब्रह्मदृष्टयधिकरणे सूत्रम्-) ब्रह्मदृष्टिरुत्कर्षात् ॥५॥ चतुर्थाधिकरणमारचयवि- किमन्यधीब्रह्मणि स्यादन्यस्मिन्ब्रह्मधीरुत ।। अन्यदृष्टयोपासनीयं ब्रह्मात्र फलदत्वतः ॥ ७ ॥ उत्कर्षेतिपरत्वाभ्यां ब्रह्मदृष्टयांऽन्यचिन्तनम् ।। अन्योपास्त्या फलं दत्ते ब्रह्मातिथ्याधुपास्तिवत् ॥ ८॥ १ क.ख. ब्रह्मवि' । २ ग. तु ब्रह्मत्वा ।३ ग. 'स्कृतमन्त्रआदित्यप्र । ४ ग. लीयते । ५ ख. लोपेन । ग, लाभेन। ६ ग. 'ह्मणः स्या"। ७ कः उत्कृष्टतिपलत्वा । ८ कन्या च चि!
श्रीभारतीतीर्थमुनिप्रणीता- [अ०४पा०१अधि०५] "मनो ब्रह्म' इत्यत्र ब्रह्मस्वरूपमनोदृष्टिं ब्रह्मणि कृत्वा ब्रह्मोपासनीयम् , ब्रह्मणः फलमदत्वेनोपास्यवाईत्वात् ॥ इति प्राप्ते, ब्रूमः--ब्रह्मण उत्कृष्टत्वादृष्टिनिकृष्टे मनसि कर्तव्या । लोके हि निकृष्टे मृत्ये राजदृष्टिं कृत्वा राजवत्तं पूजयन्ति । किंच "मनो ब्रह्मेत्युपासीव" इत्यत्र ब्रह्मशब्द इतिशब्दपरत्वेन दृष्टिलक्षको भविष्यति । मनःशब्दश्चानिविपरत्वा मुख्यार्थवाची । यथा 'स्थाणुं चौर इति प्रत्येति' इत्यत्र स्थाणुशब्दो मुख्यार्थवाची, चौरशब्दो दृष्टिलक्षकः, तद्वत् । नच-अब्रह्मस्वरूपस्य मनस उपास्यत्वे ब्रह्मणः फलप्रदवानुपपचिः, अब्रह्मस्वरूपस्याप्यतिथेरुपासने कर्माध्यक्षत्वेन यथा फलं प्रय- च्छति, वदनापि संभवात् । तस्मादब्रह्मणि प्रतीके ब्रह्मधीः कर्तव्या ।। ( पञ्चमे, अङ्गेष्वादित्यत्वादिधीकरणाधिकरणे सूत्रम्-) आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥६॥ पञ्चमाधिकरणमारचयनि- आदित्यादावङ्गदृष्टिरले रव्यादिधीरुत ॥ नोत्कर्षों ब्रह्मजत्वेन द्वयोस्तेनैच्छिकी मतिः ॥९॥ आदित्यादिधियाऽङ्गानां संस्कारे कर्मणः फले ॥ युज्यतेऽतिशयस्तस्मादलेवर्कादिदृष्टयः ॥ १० ॥ “य एवासौ वपति, वमुद्गीथमुपासीत" इत्यत्राऽऽदित्यदेवतां प्रतीकं कृत्वा कर्माङ्ग- भूतोद्रीयदृष्टिः कर्तव्या, विपर्ययेण वा कर्माङ्ग आदित्यदृष्टिः । आदित्योद्गीथयोरुभ- योब्रह्मकार्यत्वेन पूर्वाधिकरणोत्कर्षन्यायानवतारेण नियामकाभावात् ।। इति प्राप्ते, ब्रूमः-आदित्यदृष्टया कर्माकं संस्कर्तव्यम् । तथासवि दृष्टिभिः संस्कृतस्य कर्मणः फलाविशयसंभवात् । विपर्यये तु कर्माहेरादित्यदेवतायां संस्क- वायां किं वैव फैलिष्यति । न ह्यक्रियात्मिका देवता फलस्य साधनं सँवति । अन्य- था देवतायाः साधारणत्वेन यजमानायजमानयोः फलसाम्यप्रसङ्गात् । वस्मात्- भड्रेष्वादित्यादिदृष्टयः कर्वव्याः ।। .क. 'म.-महा। २ क. लौकिक ॥ ३ क. ख. स्थाणुश्चौर । ४ क. 'मदृष्टिधीः । ५ क. 'ये ता कर्मवे सा ६ ख, तत्र । ७ क. फलं भवति । ८ का भविष्यति । ख. संभवति । क. “योमाधारणफललन । 2 - [अ०४पा०१अधि०६-७] वैयासिकन्यायमाला। १४१ זיו אי (षष्ठे, उपासन आसनावश्यकताधिकरणे सूत्राणि-) आसीनः संभवात् ॥ ७॥ ध्यानाच ॥ ८॥ अचलत्वं चापेक्ष्य ॥९॥ स्मरन्ति च ॥१०॥ षष्ठाधिकरणमारचयति- नास्त्यासनस्य नियम उपास्तावुत विद्यते ।। न देहस्थितिसापेक्ष मनोऽतो नियमो न हि ॥ ११ ॥ शयनोत्थानगमनैर्विक्षेपस्यानिवारणात् ।। धीसमाधानहेतुत्वात्परिशिष्यत आसनम् ॥ १२॥ 'आसीनेनैवोपासितव्यम्' इति नास्ति नियमः, मानसब्यापार प्रति देहस्थितिवि- शेषस्यानुपयुक्तत्वात् ॥ इति प्राप्ते, ब्रूमः--परिशेषादासनं नियम्यते । तथाहि-न वावच्छयानेनोपा- सितुं शक्यम् , अकस्मान्निद्रयाऽभिभूतेः संभवात् । नाप्युत्थितेन गच्छवा वा, देहधा- रणमार्गनिश्चयादिव्यापारण चित्तस्य विक्षिप्तत्वात् । अत आसीनेनैवोपासितव्यम् ॥ . (सप्तमे, उपासने दिगादिनियमनिराकरणाधिकरणे सूत्रम्-) यत्रैकाग्रता तत्राविशेषात् ॥ ११॥ सप्तमाधिकरणमारचयति- दिग्देशकालनियमो विद्यते वा न विद्यते ॥ विद्यते वैदिकत्वेन कर्मस्वेतस्य दर्शनात् ॥ १३ ॥ 'ऐकाग्यस्याविशेषेण दिगादिर्न नियम्यते ।। मनोनुकूल इत्युक्तेदृष्टार्थ देशभाषणम् ॥ १४ ॥ "ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि" इति दिग्नियमः। "प्राचीनप्रवणे वैश्व- देवेन यजेव" इति देशनियमः । “अथ यदपराह्ने पिण्डपितृयज्ञेन चरन्ति" इवि कालनियमः । वदेवनियमत्रयं यथा कर्मणि दृश्यते, तथोपासनेऽपि द्रष्टव्यम् । वैदि- कत्वस्याविशेषात् । इति प्राप्ते, ब्रूमः -ऐकाम्यं हि ध्यानस्य प्रवानं साधनम् । न च-तस्य दिगादिनियंत्या कश्चिदतिशयो विद्यते । अतो नास्ति नियमः । अत एव श्रुतियोंगा- भ्यासाय प्रदेशं निर्दिशन्ती “मनोनुकूले" इत्येवाऽऽह । 'यस्मिन्देशे सौमनस्यं, तत्रैव १ ख. 'स्तावथ वि । २ क. 'भिभ । ख. "भिभूतिसंभ' । ३ ख. 'गश्वासादि । ४ क. ख. 'तेऽथ न। ५ ग. एकाग्रस्या।६ क. ख. अथाप'। ७ ग. धानसा'। ८ क. 'यमे के', . .
१४२ श्रीभारतीतीर्थमुनिप्रणीता- [अ०४पा०१अधि०८-९] मनो युझ्यात्, नतु शास्त्रेण नियमितः काश्चद्देशोऽस्ति' इत्यर्थः । “समे शुचौ श- करावह्निवालुकाविवर्जिते" इति योगाभ्यासाय देशविशेषः श्रूयते- इति चेत् । स- त्यम् । दृष्टसौकर्यार्थं तु तत्-इति वाक्यशेषे मनोनुकूलत्वंविशेषणानिश्चीयते । त- स्मात्-नास्ति दिगादिनियमः ।। . ( अष्टमे, उपासनानामामरणावर्तनाधिकरणे सूत्रम्-) आप्रायणात्तत्रापि हि दृष्टम् ॥ १२॥ भष्टमाधिकरणमारचयति- उपास्तीनां यावदिच्छमावृत्तिः स्यादुताऽऽमृति ॥ उपास्त्यर्थाभिनिष्पत्तेर्यावदिच्छं न तूपरि ॥ १५ ॥ अन्त्यप्रत्ययतो जन्म भाव्यतस्तत्मसिद्धये ॥ आमृत्यावर्तनं न्याय्यं सदातद्भाववाक्यतः ॥ १६ ॥ विजातीयप्रत्ययेनानन्तरितसजातीयप्रत्ययप्रवाह उपास्तिशब्दार्थः । स च कियवाऽपि कालेन संपद्यते । अतो यावदिच्छमावृत्तिः, न त्वामरणम् ॥ इति प्राप्ते, ब्रूमः-भाविजन्मनः प्रयोजकोऽन्त्यप्रत्यय आमरणमावृत्तिम- न्वरेण न सुलभः । अत एव स्मृतिः-"सदा तद्भावभावितः” इत्याह । कथं तर्हि ज्योतिष्टोमादिकर्मणा स्वर्गं गच्छतोऽन्त्यप्रत्ययः- 'कर्मजन्यापूर्ववशात्' इति ब्रूमः --उपासनेऽप्यपूर्वमस्ति-इति चेत् । बाढम् । नैतावता निरन्तरावृ- तिलक्षणो दृष्टोपायः परित्याज्यो भवति । अन्यथा सर्वस्य सुखदुःखादेरपूर्वजन्य- त्वेन भोजनाद्यर्थों दृष्टः प्रयत्नः परित्यज्येत । ततो दृष्टार्थोपायत्वादामरणमावर्वन कर्तव्यम् ॥ यद्यपि-एवान्यष्टावधिकरणानि साधनविचारत्वात्पूर्वाध्याये योग्यानि, तथाऽपि फलपत्यासन्नसाधनत्वात्फलाध्याये विचारितानि ।। - - ( नवमे ज्ञानिनः पापलेपनिराकरणाधिकरणे सूत्रम्-) तदधिगम उत्तरपूर्वाधयोरश्लेष- विनाशौ तद्यपदेशात् ॥ १३॥ नवमाधिकरणमारचयति- १ क. लश्रवणा । २ क. दिग्देशनि । ३ ग. पत्तिर्या । ४ क. ख. "त्ययान'। ५ ख. "दिना क । ६ क. सर्वदुः । ७ क. 'यत्नस्त्यज्ये । ८ क. 'ध्याययो ।
[भ०४पा-१अधि०१०] वैयासिकम्पायमाला। १४३ ज्ञानिनः पापलेपोऽस्ति नास्ति वाऽनुपभोगतः ॥ अनाश इति शास्त्रेषु घोषाल्लेपोऽस्य विद्यते ॥ १७ ॥ अकात्मधिया वस्तुमहिम्नैव न लिप्यते ।। अश्लेषनाशावप्युक्तावने घोषस्तु सार्थकः ॥ १८ ॥ "नामुक्तं क्षीयते कर्म कल्पकोटिशतैरपि" । इति पापाविनाशस्य सर्वशास्त्रप्रसिद्धत्वाब्रह्मज्ञानिनोऽप्यस्ति पापलेपः ॥ इति प्राप्ते, ब्रूमः-तत्र तावनिर्गुणब्रह्मात्मतत्त्वविदः पापलेपशङ्काऽपि नोदेवि 'नाकार्षम् , न करोमि' न करिष्यामि, इति कालत्रयेऽप्यकर्तृ ब्रह्मस्वरूपत्वेन निश्चि- तत्वात् । न ह्यकर्तुर्लेपं मन्दा अपि शङ्कन्ते । नापि सगुणब्रह्मविदो लेपोऽस्ति, अश्ले- पविनाशयोः श्रुतत्वात् । ब्रह्मसाक्षात्कारादूचं देहेन्द्रियव्यवहारवशात्संभावितस्य पापस्याश्लेषः श्रूयते । तद्यथा-"यथा पुष्करपलाश आपो न लिप्यन्ते, एवमेवं- विदि पापं कर्म न लिष्यते" इति । साक्षात्कारात्पूर्व विह जन्मनि जन्मान्तरेषु च संचितस्य पापसंघातस्य विनाशः श्रूयते-“वद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत, एवं हास्य सर्वे पाप्मानः प्रदूयन्ते" इति। "नामुक्तम्" इत्यादि शास्त्रं तु सगुणनिर्गुण ब्रह्मज्ञानरहित्तविषयम् । तस्मात्-नास्ति ज्ञानिनः पापलेपः । भ . ( दशमे ज्ञानिनः पुण्यलेपनिराकरणाधिकरणे सूत्रम्-- ) इतरस्याप्येवमसंश्लेषः पाते तु ॥१४॥ दशमाधिकरणमारचयनि- पुण्येन लिप्यते नो वा, लिप्यतेऽस्य श्रुतत्वतः॥ न हि श्रौतेन पुण्येन श्रौतं ज्ञानं विरुध्यते ॥ १९ ॥ अलेपो वस्तुसामर्थ्यात्समानः पुण्यपापयोः ।। श्रुतं पुण्यं पापतया तरणं च समं श्रुतम् ॥ २० ॥ मा भूत्पापलेपः । पुण्यलेपस्तु विद्यते, पुण्यस्य श्रौतत्वेन श्रौतब्रह्मज्ञानेन संमें विरोधाभावात् ॥ इति प्राप्ते, ब्रूमः--अकात्मवस्तुसामर्थ्यात्पापवत्पुण्येनापि न लिप्यते । सगुण- ज्ञानिनस्तूपासनव्यतिरिक्त काम्यं पुण्यं पापवर्दधमजन्महेतुत्वात्पापसममेवेति मत्वा पापत्वेनैव दहरविद्यावाक्यशेषे श्रुतिः परामृशति-"सर्वे पाप्मानोऽतो निव- , ख. 'लेशोऽस्ति । २ क. स्व. संघस्य । ३ क. 'षयं द्रष्टव्यम् । त । ४ क. स. सह । ५ क. 'रिक्तकाम्यपु । ६ क. ग. धर्मज'। .. ..
श्रीभारतीतीर्थमुनिप्रणीता- [भ०४पा०१अधि०११] तेन्ते' इति । अस्यायमर्थः-'सुकृतं दुष्कृतं तत्फलं च पूर्ववाक्ये यद्यदनुक्रान्तम्, ते सर्वे पाप्मानोऽस्मादुपासकान्निवर्तन्ते' इति । किंच--"उभे उ हैवैष एते वरवि" इति श्रुतिः पुण्यपापयोरुभयोर्ज्ञानिनां तरणं सममेव ब्रूते । तस्मात्---पापवत्पुण्ये- नापि न लिप्यते ॥ ( एकादशे ज्ञानादनारब्धपुण्यपापयोरेव निवृत्त्यधिकरणे सूत्रम्--- अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ १५ ॥ एकादशाधिकरणमारचयति- आरब्धे नश्यतो नो वा संचिते इव नश्यतः॥ उभयत्राप्यकर्तृत्वतद्धोधौ सदृशौ खलु ।। २१ ।। आदेहपातसंसारश्रुतेरनुभवादपि । इषुचक्रादि दृष्टान्तान्नवाऽऽरब्धे विनश्यतः ॥ २२ ॥ ज्ञानात्पूर्व संचिवे पुण्यपापे द्विविधे-आरब्धे, अनारब्धे च । तयो िविधयोर- प्यकर्तृत्वमात्मनः समानम् , वबोधश्च समः । ततः-अनारब्धवदारब्धयोरपि ज्ञानोदयसमय एव विनाशः ।। इति प्राप्ते, ब्रूमः-श्रुत्य नुभवयुक्तिभ्य आरब्धयोरविनाशो गम्यते । "वस्य ताव- देव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये" इति श्रुतिः । अस्या अयमर्थः-'तस्य तस्व- विदो मुक्तिविलम्बमानाऽपि नात्यन्तं विलम्बते। किंतु गर्भाधानकाले क्लुप्तस्याऽऽयुषः क्षयाभावेन यावद्देहः प्राणैर्न विमोक्ष्यते, वावदेव विलम्बते । अथ देहप्राणवियोगे सति ब्रह्म संपद्यते' इति । यथाऽनया श्रुत्या तत्त्वविदोऽप्यादेहपावं संसारोऽङ्गीकृतः, तथा विद्वदनुभवोऽप्यस्मिन्नर्थे स्फुटः । युक्तिश्चोच्यते-यथा लोके तूंणनिष्टेषु बाणेषु धानुष्कस्य स्वीकारपरित्यागयोः स्वावश्येऽपि मुक्ते बाणे स्वातंत्र्यं न दृश्यते, स तु बाणो वेगे क्षीणे स्वयं पतति । एवं कुलालचक्रभ्रमणमुदाहर्तव्यम् । तथा दान्ति- केब्रह्मज्ञानस्याप्यनारब्धकर्मनाशकत्वे स्वातत्र्यमस्तु, न त्वारब्धे कर्मणि, आरब्धस्य प्रवृत्तफलत्वात् । यद्येतेः श्रुत्यादिभिरारब्धस्थिविनाभ्युपगम्यते, तदोपदेष्टुरभावाद्वि- धासंप्रदाय उच्छिद्येत । न तावत्-भविद्वानुपदेष्टा-इति वक्तुं शक्यम् । विद्वांस्तु वेदनसमय एव मुच्यत इति को नामोपदेष्टा संभवति । तस्मात्--नाऽऽरब्धयोर्नाशः ।। १ ख. पातं संसारः श्रु। २ ग. संस्कार । ३ क. लम्ब्यमा, ४ क. 'लम्ब्यते । ५ ख. 'लेऽभिव्यक्तस्य । ६ ग. 'विगते स । ७ ख. ग. 'देहान्तं सं । ८ क. तूणानिष्कृष्टेषु । ९ क. "कस्यब।१०. रब्धक । , [अ.४पा.१अधि.१२-१३] वैयासिकन्यायमाला । १४५ (द्वादशे, अग्निहोत्रादिनित्यकर्मणो नाशनिराकरणाधिकरणे सूत्रे-) अग्निहोत्रादि तु तत्कार्यायैव तदर्शनात् ॥१६॥ अतोऽन्याऽपि ह्येकेषामुभयोः ॥ १७ ॥ द्वादशाधिकरणमारचयति- नश्येनो वाऽग्निहोत्रादि नित्यं कर्म, विनश्यति ॥ यतोऽयं वस्तुमहिमा न क्वचित्पतिहन्यते ॥ २३ ॥ अनुषक्तफलांशस्य नाशेऽप्यन्यो न नश्यति ॥ विद्यायामुपयुक्तत्वाद्भाव्यश्लेषस्तु काम्यवत् ॥ २४ ॥ ज्ञानात्पूर्वमिह जन्मनि जन्मान्तरे वाऽनुष्ठितं यदमिहोत्रादि नित्यं कर्म, तस्यापि काम्यकर्मवदकात्मवस्तुबोधमहिम्ना नाशोऽभ्युपेयः ।। इति प्राप्ते, ब्रूमः-द्वावंशौ नित्यकर्मणः-एकोऽशः प्राधान्येन चित्तशुद्धिप्रदः, अपरोंऽशोऽनुषङ्गेण वर्गादिफलप्रदः । वैस्य नाशोऽस्तु नाम । चित्तशुद्धिपदस्य तु विद्यायामुपयुक्तत्वान्न नाशो वर्णयितुं शक्यः । न हि लोके भोगेनोपक्षीणं ब्रीह्यादिक नष्टं मन्यन्ते । यत्तु ज्ञानादूचं नित्यं कर्म तस्य काम्यवदश्लेषः ।। . ग (त्रयोदशे नित्यकर्मणोविद्यासाधनताधिकरणे सूत्रम्-) यदेव विद्ययेति हि ॥ १८॥ त्रयोदशाधिकरणमारचयति- किमलोपास्तिसंयुक्तमेव विद्योपयोग्युत ।। केवलं वा, प्रशस्तत्वात्सोपास्त्येवोपयुज्यते ॥ २५ ॥ केवलं वीर्यवद्विद्यासंयुक्तं वीर्यवत्तरम् ।। इति श्रुतेस्तारतम्यादुभयं ज्ञानसाधम् ॥ २६ ॥ विद्यासाधनं नित्यकर्म द्विविधं संभाव्यते--अङ्गावबद्धोपास्तिसहितम् , तद्राहितं च । तत्र-सोपासनस्य कर्मणः प्रशस्तत्वात्तदेव विद्यासाधनम्, न तूपास्तिरहितम् । इति प्राप्ते, ब्रूमः-"यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति" इति श्रुतिः "सोपासनस्य कर्मणोऽतिशयेन वीर्यमस्ति' इति वदन्ती निरुपासनस्यापि वीर्यमात्रम- " , ख. श्येन वा । २ क. "चिद्विनिह । ३ क. 'शेऽप्यंशो न । ४ ग. 'रोऽयंशो। ५ क, लस्याना । ६ क. लोकोपभो । ७ क. म्यताव । १९ .. ९४६ श्रीभारतीतीर्थमुनिप्रणीता- [भ०४पा०१अधि०१४] भ्यनुजानाति । अन्यथा तरप्रत्ययानुपपत्तेः । तस्मात्-सोपासननिरुपासनयोस्तारत- म्येन विद्यासाधनत्वम् ॥ तु .. (चतुर्दशे, अधिकारिणामपि मुक्तिसंभवाधिकरणे सूत्रम्-) भोगेन वितरे क्षपयित्वा संपद्यते ॥ १९॥ चतुर्दशाधिकरणमारचयति- बहुजन्मपदारब्धयुक्तानां नास्त्युतास्ति मुक् ॥ विद्यालोपे कृतं कर्म फैलदं तेन नास्ति मुक् ॥ २७ ॥ आरब्धं भोजयेदेव न तु विद्यां विलोपयेत् ।। मुप्तबुद्धवदश्लेषतादवस्थ्यात्कुतो न मुक् ॥ २८ ॥ अधिकारिपुरुषाणां मुक्ति स्ति, प्रारब्धभोगाय बहुषु जन्मसु स्वीकृतेषु तत्र पूर्वा- जितविद्यायां यत्कर्म क्रियते तस्य फलप्रदत्वे सत्युत्तरोत्तरजन्मपरम्पराया अवश्यंभा- वित्वात् ॥ इति प्राप्ते, ब्रूमः आरब्धं कर्म स्वफले सुखदुःखे भोजयेत्, प्रवृत्त. त्वात् । न हि विद्यालोपार्थ किंचित्कर्म पूर्वमनुष्ठितम् , येन कर्मवशाद्विद्यालोप आश- कन्येव । न च-मरण व्यवधानमात्रेण विद्यालोपः, सुषुप्तिव्यवधानेन तल्लोपादर्श- नात् । अवो विद्यायामवस्थितायां बहुभिरपि क्रियमाणैः कर्मभिर श्लेषात्-अस्त्यधि- कारिणां मुक्तिः ॥ यद्यप्येतद्गुणोपसंहारपादे निर्णीतम्, तथाऽपि तस्यैवाऽऽक्षेपसमाधाने-इत्य नव- तदर्थमेव . घम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थमुनिप्रणीतायां वैयासिक- न्यायमालायां चतुर्थाध्यायस्य प्रथमः पादः ॥ १ ॥ अत्र पादे मादितः भधिकरणानि १४ १६० মুন্নালি १९ ४९७ स्व. 'स्त्युपास्तिपु । २ ग. फलयुक्तैन । ३ क. "धकर्मणो भो । ४ ख. अस्त्वधि ।
[अ०४पा०२अधि०१-२] वैयासिकन्यायमाला । १४७ ( अथ चतुर्थाध्यायस्य द्वितीयः पादः) ( पथमे वागादीनां मनसि वृत्तिलयाधिकरणे सूत्रे-) वाङ्मनसि दर्शनाच्छब्दाच्च ॥१॥ अत एव च सर्वाण्यनु ॥२॥ चतुर्धाध्यायस्य द्वितीयपादे प्रथमाधिकरणमारचयति वागादीनां स्वरूपेण वृत्त्या वा मानसे लयः॥ श्रुतिर्वाङ्मनसीत्याह स्वरूपविलयस्ततः ॥ १॥ न लीयतेऽनुपादाने कार्य वृत्तिस्तु लीयते ।। वह्निवृत्तेर्जले शान्तेर्वाक्शब्दो वृत्तिलक्षकः ॥ २ ॥ उत्क्रान्तिक्रमश्छान्दोग्ये श्रूयते-"अस्य, सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते, मनः प्राणे, प्राणस्तेजसि, तेजः परस्यां देवतायाम्" इति तत्र- नियमाणस्य पुरुषस्य वागादीनि दशेन्द्रियाणि मनसि लीयन्ते । स च लयः किं स्वरू- पेण, वृत्त्या वा-इति संशये सवि "वाङ्मनसि" इति श्रुतौ वृत्तिशब्दाश्रवणास्व- रूपलयः॥ इति प्राप्ते, ब्रूमः-मनसो वागादिकं. प्रत्यनुपादानत्वात् 'उपादान एव कार्यस्य स्वरूपलयः' इति मृद्घटादौ व्याप्तिदर्शनान्न वागादीनां स्वरूपेण लेयः ! वृत्तिस्त्वनु- पादानेऽपि लयमर्हति । अङ्गारेषु जलमध्ये प्रक्षिप्तेषु वह्निवृत्ते प्रकाशात्मिकाया अनु. पादाने जले लयदर्शनात् । श्रुतौ तु वाक्शब्देन वृत्तिलक्ष्यते । वृत्तिवृत्तिमतोरभेदोप- चारात्--वागादीनां मनसि वृत्तिलयः ॥ . - (द्वितीये मनसः प्राणे लयाधिकरणे सूत्रम्-) तन्मनः प्राण उत्तरात् ॥३॥ द्वितीयाधिकरणमारचयति-- मनः प्राणे स्वयं वृत्त्या वा लीयेत, स्वयं यतः ।। कारणानोदकद्वारा प्राणो हेतुर्मनः प्रति ॥ ३ ॥ साक्षात्स्वहेतौ लीयेत कार्य प्राणालिके न तु ।। गौणः प्राणालिको हेतुस्ततो वृत्तिलयो धियः ॥ ४॥ १ क. ख. विलयः । २ ख. ग. "त्तिप्रविल । ३.क. ख. लीयते । ४ क. प्राणाटिके। ख. य प्राणादिके। ५ क, ख, ग, प्राणः।
श्रीभारतीतीर्थमुनिप्रणीता- [अ०४पा०२अधि०३] वागादिषु मनसि वृत्त्या प्रलीनेषु तन्मनः प्राणे स्वरूपेण लयमर्हति, मनः प्रति प्राण- स्योपादानत्वसंभवात् । तथा हि-"अन्नमयं हि सोम्य मनः" इति श्रुतेर्मनसोऽन्नं कारणम् , "आपोमयः प्राणः” इति श्रुतेश्च प्राणस्याऽऽपः कारणम् । तथासति मनःपाणशब्दाभ्यां तत्कारणे अन्नोदके उपलक्ष्य 'मनः प्राणे लीयते' इतिवाक्यस्य 'अन्नमप्सु लीयते' इत्यर्थों व्याख्यातव्यः । तथाच कार्यस्य स्वोपादाने लयो भविष्यति वस्मात्-मनसः स्वरूपेण लयः ॥ इति प्राप्ते, ब्रूमः--द्विविधमुपादानम्-मुख्यं, प्रोणालिकं च । वत्र प्राणमन- सोम॒घटयोरिव न मुख्य उपादानोपादेयभावोऽस्ति । किं वहि-त्वदुक्तप्रकारेण संबन्धपरम्परया प्रणाल्या । नहि प्राणालिक उपादाने कार्यस्य लयं क्वचित्पश्यामः। वस्मात् -मनसः प्राणे साक्षादनुपादाने वृत्त्या प्रविलयो द्रष्टव्यः ।। . . ( तृतीये प्राणानां जीवे लयाधिकरणे सूत्राणि-) सोऽध्यक्षे तदुपगमादिभ्यः॥४॥ भूतेष्वतः श्रुतेः॥५॥ नैकस्मिन्दर्शयतो हि ॥६॥ तृतीयाधिकरणमारचयति- असोभूतेषु जीवे वा लयो, भूतेषु तच्छ्रुतेः ॥ स प्राणस्तेजसीत्याह न तु जीव इति क्वचित् ॥५॥ एवमेवेममात्मानं प्राणा यन्तीति च श्रुतेः ।। जीवे लीत्वा सहैतेन पुनर्भुतेषु लीयते ॥ ६॥ अन्तलीनैकादशेन्द्रिययुक्तस्य प्राणस्य तेजोबन्नेषु भूतेषु वृत्त्या प्रविलयः । न तु जीवे, “प्राणस्तेजसि"इति श्रुतेः ।। इति प्राप्ते, ब्रूमः-"एवमेवेममात्मानमन्तकाले सर्वे माणा अमिसमायन्ति" इति श्रुतिजावे पाणलयमाह । 'यथा राजानं प्रयियासन्तं सर्वे भृत्याः समायन्ति, वद्वत्' इति श्रुतेरर्थः । न च "प्राणस्तेजसि" इति श्रुत्या विरोधः, 'जीवेन सहितः प्राणः पश्चाचेजआदिभुतेषु लीयते' इति व्याख्यातुं शक्यत्वात् । तस्मात्-प्राणो जीवे प्रथमतो लयं प्राप्य पश्चात्तद्वारा भूतेषु लीयते ।। १ क. इति स एवान । २ क. प्राणाडिक ख. ग. प्राणादिकं । ३ क. प्राणाडिक | ब.ग. प्राणादिक।
. [अ०४पा०२अधि०४-५] वैयासिकन्यायमाला । १४९ (चतुर्थे ज्ञान्यज्ञानिनोरुत्क्रान्तिसामान्याधिकरणे सूत्रम्-) समाना चाऽऽमृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ७ ॥ चतुर्थाधिकरणमारचयति- ज्ञान्यज्ञोत्क्रान्तिरसमा समा वा, न हि सा समा । मोक्षसंसाररूपस्य फलस्य विषमत्वतः ॥ ७ ॥ आसँत्युपक्रमं जन्म वर्तमानमतः समा । पश्चात्तु फलवैषम्यादसमोत्क्रान्तिरेतयोः ॥ ८॥ 'निर्गुण ब्रह्मज्ञानिनस्तावदुत्क्रान्तिरेव नास्ति'-इति वक्ष्यति । या तु सगुणब्रह्म- ज्ञानिन उत्क्रान्तिः, नासावज्ञान्युत्क्रान्त्या समाना, ब्रह्मलोकैरूपस्य मोक्षस्य, तद्विप . रीवसंसारस्वरूपस्य च फलस्य विषमत्वेन तत्प्राप्तिद्वारभूताया उत्क्रान्तेर्वैषम्यस्यो- चितत्वात् ॥ इति प्राप्ते, ब्रूमः-सगुणज्ञानिनो मूर्धन्यनाडीप्रवेशः, उत्तरमार्गोपक्रमः; ज्ञानर- हितस्य नाड्यन्तरप्रवेशो मार्गान्तरोपक्रमः; मार्गपर्यन्तमिदमेव वर्तमानं जन्म, अत ऐहिकसुखदुःखवदुत्क्रान्तिरपि समाना। उपक्रान्ते तु मार्गे त्वदुक्तफलभेदाद्वैषम्यमस्तु ।। न तदाऽपीतेः ॥८॥ सूक्ष . HAN- (पञ्चमे, उपासकस्य ब्रह्मणि स्वरूपेण लयनिराकरणाधिकरणे सूत्राणि---) संसारव्यपदेशात् प्रमाणतश्च तथोपलब्धः ॥ ९॥ नोपमर्दैनातः ॥१०॥ अस्यैव चोपपत्तेरेष ऊष्मा ॥११॥ पश्चमाधिकरणमारचयति- स्वरूपेणाथ वृत्त्या वा भूतानां विलयः परे ।। स्वरूपेण लयो युक्तः स्वोपादाने परात्मनि ॥ ९ ॥ आत्मज्ञस्य तथात्वेऽपि वृत्त्यैवान्यस्य तल्लयः ।। न चेत्कस्यापि जीवस्य न स्याजन्मान्तरं क्वचित् ॥ १० ॥ "वेजः परस्यां देवतायाम्" इत्यत्र तेजःप्रभृतीनां भूतानां परमात्मनि खरूपेण लयो युज्यते, परमात्मनो भूतोपादानत्वात् ।। * सृतिर्मार्गस्तस्योपक्रमोऽधिःप्राप्तिः-इति रत्नप्रभा ॥ ख. 'तः ॥ ७ ॥ अहँ । ग. 'तः ॥ ७ ॥ आमृत्यु । २. 'कस्वरू' । ३ क. 'पणाल' । WwMEANMAMIRHASHAmale ५ १५० श्रीभारतीतीर्थ मुनिप्रणीता- [अ०४पा०२अधि०६-७] इति प्राप्ते, ब्रूमः--आत्मतत्त्वज्ञानिनस्त्वदुक्तप्रकारेण भूतानां स्वरूपेण लयोऽस्तु । तस्य निर्णेष्यमाणत्वात् । उपासकस्य कर्मिणश्च जन्मान्तरसिद्धये वृचिलय एवाभ्यु- पगन्तव्यः॥ (षष्ठे ज्ञानिनः प्राणानां देहादनुत्क्रान्त्यधिकरणे सूत्राणि--) प्रतिषेधादिति चेन्न शारीरात् ॥ १२॥ स्पष्टो ोकेषाम् ॥ १३ ॥ स्मर्यते च ॥ १४ ॥ षष्ठाधिकरणमारचयति-- किं जीवादथवा देहात्माणोत्क्रान्तिर्निवार्यते ॥ जीवानिवारणं युक्तं जीवेद्देहोऽन्यथा सदा ॥ ११ ॥ तप्ताश्मजलवदेहे प्राणानां विलयः स्मृतः ॥ उच्छ्यत्येव देहोऽन्ते देहात्सा विनिवार्यते ॥ १२ ॥ "न तस्य प्राणा उत्क्रान्ति" इति तत्त्वविदः प्राणानामुत्क्रान्तिर्निषिध्यते । तस्य निषेधस्यापादानं जीवः, न तु देहः । अन्यथा देहादनुत्क्रान्तौ मरणार्भावः प्रसज्येत ।। इति प्राप्ते, ब्रूमः-तप्ताश्मनि प्रक्षिप्वं जलं न यथाऽन्यत्र गच्छति, नापि वैत्र दृश्यते; किंतु स्वरूपेण लीयते । तद्वत्तत्त्वविदः प्राणा देहाद त्क्रान्ता अपि न देहेऽवतिष्ठन्ते किंतु विलीयन्ते । अतो जीवनासंभवात् 'मृवो देहः' इवि व्यवहारः। भनुत्क्रान्तानां माणानां देहावस्थानाभावे देहस्योच्छूनत्वमेव लिङ्गम् । ननु--इयतः प्रयासाद्वरं देहादुत्क्रान्तिरस्तु; प्रतिषेधस्तु जीवापादानको भविष्यति । मैवम् ; देहार्दू- त्क्रान्तस्य जीवेन सहावस्थितेषु प्राणेषु देहान्तरग्रहणस्याऽऽवश्यकत्वान्मुक्तिरेव न स्यात् । तस्मात् --उत्क्रान्ति प्रतिषेधस्य देह एवापादनं, न जीवः ।। न ( सप्तमे तत्त्ववित्माणानां परमात्मन्येव लयाधिकरणे सूत्रम्-) तानि परे तथा ह्याह ॥१५॥ सप्तमाधिकरणमारचयति- जस्य वागादयः स्वस्वहेतौ लीनाः परेऽथ वा ॥ गताः कला इति श्रुत्या स्वस्वहेतुषु तल्लयः ॥ १३ ॥ १ ख. 'वात् । तस्मादुपा'। २ ग. उच्छ्यत्यत्र दें। ३ क. देहान्तो दें। ४ क. भावानित्यता प्र॥ ५ क. ख. श्मनि क्षि। ६ क. तत्रापि । ७ ख. 'नुत्तामन्ते, न। ८ क.देहस्था' । १ क. ख. 'दुत्क्रम्य जी । १० ख. तस्य ।
[अ०४पा०२अधि०८] वैयासिकन्यायमाला। १५१ . - यथा नद्यः नद्यब्धिलयसाम्योक्तेर्विद्वदृष्टया लयः परे ॥ अन्यदृष्टिपरं शास्त्रं गता इत्याधुदाहृतम् ॥ १४ ॥ तत्त्वज्ञानिनो वागादयः प्राणा विलीयमानाः प्राविस्विकेष्वग्न्यायाधिकरणेषु विलीयन्ते न तु परमात्मनि, “गताः कलाः पञ्चदश प्रतिष्ठाः" इति कलाशब्दवा- च्यानां पाणादीनां प्रतिष्ठाशब्दवाच्यस्वस्वकारणमाप्तिप्रतिपादकत्वात् । “यत्रास्य पुरु- पस्यानिं वागप्येति, वातं प्राणः, चक्षुरादित्यम्" इत्यादिश्रुतेः ।। इति प्राप्ते, ब्रूमः :-तत्त्वविदो दृष्टया परमात्मन्येव लय इति श्रुत्यन्तरा निश्चीयते । स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय, तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्" इति श्रुतौ नद्य- ब्धिलयदृष्टान्त उपन्यस्यते । अथ-दान्तिके परमात्मनि लय इत्ययमों न विशदः-तर्हि श्रुत्यन्तरे विशदो गम्यते--- "यथेमा नद्यः स्यन्दमानाः समुद्रा- यणाः समुद्रं प्राप्यास्तं गच्छन्ति, भिद्येते वासां नामरूपे, 'समुद्रः' इत्येवं प्रोच्यते, एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति, भिद्यते तासां नामरूपे, 'पुरुषः' इत्येवं प्रोच्यते" इति । भिधेते विलीयेते । सेयं श्रुतिस्त- त्वविदृष्टिविषयाँ । “गताः कलाः" इति शास्त्रं तु तटस्थपुरुषप्रतीतिविषयम् । म्रिय- माणे तत्त्वविदि समीपवर्तिनः पुरुषाः व स्वदृष्टान्वन वदीयवागादीनामप्यम्यादिषु लयं मन्यन्ते । अतः श्रुत्योर्न विरोधः । तस्मात्-परमात्मनि तत्त्वविदः प्राणानां लयः ।। (अष्टमे तत्त्वविद्वागादिलयस्य निःशेषत्वाधिकरणे सूत्रम्--) अविभागो लोकवत् ॥ १६॥ भष्टमाधिकरणमारचयति- तल्लयः शक्तिशेषेण निःशेषेणाथवाऽऽत्मनि ॥ शक्तिशेषेण युक्तोऽसावज्ञानिष्वेतदीक्षणात् ।। १५॥ नामरूपविभेदोक्तेनिःशेषेणैव तेल्लयः ॥ अज्ञे जन्मान्तरार्थं तु शक्तिशेषत्वमिष्यते ॥ १६ ॥ पूर्वाधिकरण उक्तो लयो न निःशेषः, किंतु सावशेषो भवितुमर्हति, वागादिलय- स्वात्, भज्ञानिवागादिलयवत् ।। . तु १ ग. शास्त्रममिवागित्युदा । २ ख. 'नाः स्वस्वकारणे । ३ क. 'न्तरैर्गम्य । ४ क. 'या। "अभि वागध्येतीति शा। ५ ग. संक्षयः। ६ क. ख. अमे। ५ क ख थे तच्छक्ति । ८ क. ख. 'रणाथों लारणोक्तोल।
१५२ श्रीभारतीतीर्थमुनिप्रणीता- [भ०४पा०२अधि०९] इति पाप्ते, ब्रूमः-"भिद्यते तासां नामरूपे" इत्यत्र जीवस्य याः षोडशकलाः संसारहेतवः, वासां कलानां नामरूपविभेदः श्रूयते । कलाश्च वाक्योपक्रमेऽनुक्रान्ताः "स प्राणमसृजत, पाणाच्छ्रद्धां खं वायुज्योतिरापः पृथिवीन्द्रियं मनोऽन्नम्, अन्ना- द्वीयं तपो मन्त्राः कर्म लोकाः, लोकेषु च नाम च" इति । यदि माणादीनां नामान्तानां नामरूपे शक्त्यवशेषेण लीयेते,तदा नामरूपविभेदश्रुतिरुपरुध्येत, शक्त्यात्मना नाम रू- पयोः सूक्ष्मयोरवस्थानात् । अज्ञानिनस्तु जन्मान्तरसिद्धये शक्त्यवशेषत्वमिष्यते । तस्मात् तत्त्वविदो वागादीनां निःशेषेण परमात्मनि लयः ॥ (नवमे, उपासकोत्क्रान्तर्विशेषाधिकरणे सूत्रम्-) तदोकोग्रज्वलनं तत्प्रकाशितहारो विद्या- सामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दा- नुगृहीतः शताधिकया ॥ १७ ॥ नवमाधिकरणमारचयति- अविशेषो विशेषो वा स्यादुत्क्रान्तेरुपासितुः ॥ हृत्पद्योतनसाम्योक्तेरविशेषोऽन्यनिर्गमात् ॥ १७ ॥ मूर्धन्ययैव नाड्याऽसौ व्रजेन्नाडीविचिन्तनात् ॥ विद्यासामर्थ्यतश्चापि विशेषोऽस्त्यन्यनिर्गमात् ॥ १८ ॥ उपासकस्य येयमुत्क्रान्तिः, सेयमितरोत्क्रान्त्या मागोंपक्रमपर्यन्तं समा-इत्युक्तम् । अथ मार्गोपक्रमेऽपि समैव भवितुमर्हति, हृत्पद्योतनादेः समत्वश्रवणात् । तथा हि- "तस्य हैतस्य हृदयस्याग्रं प्रद्योतते, तेन प्रद्योतेनैष आत्मा निष्कामति चक्षुष्टो वा मूनों वाऽन्येभ्यो वा शरीरदेशेभ्यः" इति श्रूयते । अस्यायमर्थ:-'वाङ्मनसि संपद्यते' इति क्रमेण सजीव लिङ्गशरीरं शक्त्यवशेषं परमात्मनि यदा लीयते, तदा पूर्वजन्म समाप्तं भवति । अथ जन्मान्तराय वल्लिङ्गं पुनर्हदये प्रादुर्भवति, तस्मिन्नवसरे हृद- याग्रेऽवस्थितस्य लिङ्गस्य गन्तव्यमाविजन्मालोचेकात्मकोऽन्त्यप्रत्ययत्वेन प्रसिद्धः कश्चित्पद्योतो भवति, तेन युक्तः सन्नाडीभ्यो निर्गच्छति" इति । एतच्च सर्वेषां समानम् । तस्मात्-नोपासकस्येवरेभ्यो विशेषः ।। इति प्राप्ते, ब्रूमः-मूर्धन्ययैव नाज्योपासको निर्गच्छति, इतराभ्य एव नाडीभ्य १ क. 'नुत्क्रान्ताः । २ क. क्त्यवयवशे। ३ ग. श्रुतेः । ४ क. चनाख्यान्त्य । CINEMA लोके [भ.४पा.अधि.१०-११] वैयासिकन्यायमाला । १५३ -- इवरे । कुवः--उपासकेन मूर्धन्यनाड्याश्चिन्तितत्वात् । सगुणब्रह्मविद्यासामर्थ्याच्च । श्रुत्यन्तरे चायमर्थः स्पष्टमेव गम्यते--- "शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका ॥ तयोर्ध्वमायन्नमृतत्वमति विष्वङ्ङन्या उत्क्रमणे भवन्ति" इति । 'अन्या नाज्य उत्क्रमणायोपयुज्यन्ते, न त्वमृतत्वप्राप्तये' इत्यर्थः । तस्मात्--- भस्त्युपासकस्य विशेषः ॥ ...... ( दशमे रात्रिमृतस्यापि रश्म्यनुसारित्वाधिकरणे सूत्रे--) रश्म्यनुसारी ॥ १८॥ निशि नेति चेन्न संब- न्धस्य यावदेहभावित्वात्, दर्शयति च ॥१९॥ दशमाधिकरणमारचयति- अहन्येव मृतो रश्मीन्याति निश्यपि वा निशि ।। सूर्यरश्मेरभावेन मृतोऽहन्येव याति तम् ॥ १९ ॥ यावद्देहं रश्मिनाड्योर्योगो ग्रीष्मक्षपास्वपि ॥ देहदाहाच्छुतत्वाच्च रश्मीनिश्यपि यात्यसौ ॥ २० ॥ "भैथैतैरेव रश्मिभिरूद्धमाक्रम” इति मूर्धन्यनाड्या निर्गतस्य रश्मिसंबन्ध। श्रूयते । स चाहन्येव मृतस्य संभवति । न तु रात्रौ, रश्म्यभावात् ।। इति प्राप्ते, ब्रूमः--रश्मिनाड्योः संबन्धो यावद्देहभावी । अत एव ग्रीष्मनिशासु देहदाह उपलभ्यते । ऋत्वन्तरेषु तु प्रविषिद्धत्वादनुपलम्भः । श्रुतिश्च रश्मिनाड्यो- रवियोगं दर्शयति---"अमुष्मादादित्यात्तायन्ते वा आसु नाडीषु सृप्ताः, आभ्यो नाडीभ्यः पँवायन्ते वेऽमुष्मिन्नादित्ये स॒प्ताः" इति तस्मात्-निश्यपि मृतो रश्मीन्यावि ।। तु (एकादशे, अयनाधिकरणे-तत्त्वविदो दक्षिणायनेऽपि विद्याफलाधिकरणे सूत्रे-) अतश्चायनेऽपि दक्षिणे ॥२०॥ योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥ २१ ॥ एकादशाधिकरणमारचयति * प्रतायन्ते विस्तृता भवन्ति-इति रत्नप्रभा । क. त्रौ मृतस्य र । २ क. 'मक्षपासु । ३ क. ग. त्यात्प्रतीयन्ते । ख. त्यात्प्रतार्यन्ते । ४ क, प्रजायन्ते । ग. प्रतीयन्ते । womemamal *" :- वा॥ 1 श्रीभारतीतीर्थमुनिप्रणीता- [अ०४पा०३अधि०१] अयने दक्षिणे मृत्वा धीफलं नैत्यथैति नैत्युत्तरायणायुक्तेर्भीष्मस्यापि प्रतीक्षणात् ॥ २१ ॥ आतिवाहिकदेवोक्तेर्वरख्यात्यै प्रतीक्षणात् ।। फलैकान्त्याच्च विद्यायाः फलं प्राप्नोत्युपासकः ॥ २२ ॥ दक्षिणायने मृतस्योपासकस्य न विद्याफलं ब्रह्मलोकप्राप्तिः संभवति, उत्तरायणस्य ब्रह्मलोकमार्गस्य श्रुतिस्मृत्योः पाठात् । दक्षिणायने मृतस्यापि विद्याफलाङ्गीकारे भीष्मस्योत्तरायणप्रवीक्षणं निरर्थकं स्यात् ।। इति प्राप्ते, ब्रूमः--'नोत्तरायणशब्देन कालो विवक्षितः किं त्वातिवाहिकदेवता' इति (ब्र० सू०४।३।४) वक्ष्यति । भीष्मस्य प्रतीक्षणं तु पितृप्रसादलब्धस्वच्छन्दमर- गवरख्यापनाय । यदि कालविशेषमरणापराधेन फलं न प्राप्नुयात् , तर्हि पाक्षिक- फला विद्या प्रसज्येत । तस्मात्-दक्षिणायने मृतोऽपि विद्याफलं प्राप्नोति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां चतुर्थाध्यायस्य द्वितीयः पादः॥२॥ अत्र पादे आदितः भधिकरणानि ११ सूत्राणि २१ ५१८ Inmyam १७९ .. mummeedomte ( अथ चतुर्थाध्यायस्य तृतीयः पादः ) (प्रथमे, अर्चिरादिकस्यैव ब्रह्मलोकमार्गताधिकरणे सूत्रम्-) अर्चिरादिना तत्प्रथितः ॥१॥ तृतीयपादे प्रथमाधिकरणमारचयति- नानाविधो ब्रह्मलोकमार्गो यद्वाऽचिरादिकः ॥ नानाविधः स्याद्विद्यासु वर्णनादन्यथाऽन्यथा ॥ १ ॥ एक एवाचिरादिः स्यानानाश्रुत्युक्तपर्वकः ।। यतः पश्चाग्निविद्यायां विद्यान्तरवतां श्रुतः ॥ २॥ ब्रह्मलोकमार्गश्छान्दोग्यबृहदारण्यकयोः पञ्चाग्निविद्यायामाचरादिकः पठितः- क. 'देहोक्ते । २ क 'यणेन ।।३ क. "हिका दे। ४ क. णत्ववरदानप्रख्या। ५ क. ख, पख्यते ।
[अ०४पा०३अधि०२] वैयासिकन्यायमाला। १५५ "वेऽचिंषमभिसंभवन्ति," "अर्चिषोऽहः "- इति । विद्यान्तरे तु वाय्वादिकः- "स वायुमागच्छति" इति । कौषीतकिनः पर्यऋविद्यायामग्मिलोकादिकमामनन्ति- "स एवं देवयानं पन्थानमापद्याग्निलोकमागच्छति" इति । एवमन्यत्रापि द्रष्टव्यम् । तस्मात्-बहुविधो मार्गः ।। इति प्राप्ते, ब्रूमः-अचिरादिक एक एव मार्गः । कुतः-पञ्चामिविद्यावाक्य- शेषे पञ्चाग्निविद्याविदो विद्यान्तरोपासकांश्चोद्दिश्याचिरादिमार्गस्यैव पठितत्वात् । “य इत्थं विदुः, ये चेमेऽरण्ये श्रद्धां तप इत्युपासते, तेऽषिमभिसंभवन्ति" इति श्रुत्यन्वरोक्तानां वाय्वादीनां गुणोपसंहारन्यायेनाचिरादिमार्गप्रवेशे सवि वत्पर्वत्वसं- भवात् । वस्मात्-अचिरादिमार्ग एक एव ।। -- . (द्वितीये वायोः संनिवेशाधिकरणे सूत्रम्-) वायुमब्दादविशेषविशेषाभ्याम् ॥२॥ द्वितीयाविकरणमारचयति- संनिवेशयितुं वायुरत्राशक्योऽथ शक्यते । न शक्यो वायुलोकस्य श्रुतक्रमविवर्जनात् ॥ ३ ॥ वायुच्छिद्राद्विनिष्क्रम्य स आदित्यं व्रजेदिति ।। श्रुतेरर्वाप्रवेर्वायुर्देवलोकस्ततोऽप्यधः ।। ४ ।। "तेऽर्चिषमभिसंभँवन्ति, अर्चिषोऽहः, अन्ह आपूर्यमाणपक्षम् , आपूर्यमाणपक्षा- द्यान्षडुदडेवि मासांस्वान्, मासेभ्यः संवत्सरम् , संवत्सरादादित्यम् , आदित्याचन्द्रम- सम् , चन्द्रमसो विद्युवम् , तत्पुरुषोऽमानवः, स एतान्ब्रह्म गमयति" इति श्रूयमाणेऽ- चिरादिमार्गे शाखान्तरे श्रुतो वायुः केनापि संनिवेशेनान्तर्भावयितुमशक्यः 'अस्योपरि वायुः' इति क्रमस्याश्रुवत्वात्, कल्पकाभावाच्च ।। इति प्राप्ते, ब्रूमः-श्रुत्यन्तरं तत्कल्पकम् । तथाहि-"स वायुमागच्छति तस्मै स विजिहीते यथा रथचक्रस्य खम् , तेन स ऊर्च आक्रमते स. आदित्यमागच्छति" इति । इतो निर्गत्योपासको यदा वायुमागच्छति, तदा तद्वायुमण्डलं छिद्रितं भवति, तेन रथचक्रच्छिद्रप्रमाणेन वायुच्छिद्रेण वायुमण्डलमुल्लद्ध्याऽऽदित्यमण्डलं प्राप्नोति' इत्य- थैः । एवं च वायोरादित्यात्पूर्वत्वप्रतीतेः क्रमविशेषोऽवगन्तुं शक्यते । -“मासेभ्यः संव- त्सरम्, संवत्सराद्वायुम्, वायोरादित्यम्' इत्येवं सोनवेशः कर्तव्यः । बृहदारण्यके तुः मासानन्तरं संवत्सरं परित्यज्य तस्य स्थाने, देवलोकः पठितः। स च संवत्सरानन्तरं १ ग. 'संविधान्ति ! २ ग. 'संविशान्त । ३ 'युश्चन्द्रादिः । ४ ग. संविशन्ति । ५ क. समेभ्यः ।
१५६ श्रीभारतीतीर्थमुनिप्रणीता [अ०४पा०३अधि०३-४] वायोरर्वानिवेशयितव्यः, माससंवत्सरयोः संबन्धित्वेन प्रसिद्धयोरानन्तर्यस्यानिवा- रणीयत्वात् । तदेवं संवत्सरादित्ययोर्मध्ये देवलोकवायुलोको संनिवेशयितव्यौ । . M (तृतीये, वरुणादिलोकानां व्यवस्थाधिकरणे सूत्रम्-) तडितोऽधि वरुणः संबन्धात् ॥ ३॥ तृतीयाधिकरणमारचयति- वरुणादेः संनिवेशो नास्ति तंत्रोत विद्यते ॥ नास्ति वायोरिवैतस्य व्यवस्थाभुल्यभावतः ॥ ५ ॥ विद्युत्संबन्धिवृष्टिस्थनीरस्याधिपतित्वतः ॥ वरुणो विद्युतोऽस्त्यूवं तत इन्द्रप्रजापती ॥ ६ ॥ कौषीतकिनः पठन्ति---"स वरुणलोकम् , स इन्द्रलोकम् , स प्रजापविलोकम्" इति । ते वरुणादयस्त्रयो लोका अचिरादिमार्गे निवेशयितुमशक्याः, वायोरिव व्यव- स्थापकाभावात् ॥ इति प्राप्ते, ब्रूमः---विद्युल्लोकस्योपरि वरुणलोकः संबन्धवशाह्यवस्थाप्यते, “विद्यु. त्पूर्वकवृष्टिगतनीरस्य वरुणोऽधिपतिः' - इति विद्युद्वरुणयोः संबन्धः । इन्द्रप्रजाप- त्योस्तु स्थानान्तरासंभवेऽपि 'आगन्तुकानामन्ते संनिवेशः' इति न्यायेन वरुणलोक- स्योपरि संनिवेशः । तदेवं वरुणादीनां संनिवेशादर्चिरादिमागों व्यवस्थितः ।। Ay . .' (चतुर्थे, अचिरादीनामातिवाहिकत्वाधिकरणे सूत्राणि-) आतिवाहिकास्तल्लिङ्गात् ॥४॥ उभयव्यामो- हात्तसिद्धेः॥५॥वैद्युतेनैव ततस्तच्छ्रुतेः ॥६॥ चतुर्थाधिकरणमारचयनि- मार्गचिह्न भोगभूर्वा नेतारो वाऽचिरादयः ।। आद्यौ स्यातां मार्गचिह्नसारूप्याल्लोकशब्दतः ॥ ७ ॥ अन्ते गमयतीत्युक्तेर्नेतारस्तेषु चेदृशः ।। निर्देशोऽस्त्यत्र लोकाख्या तन्निवासिजनान्प्रति ॥ ८॥ य एतेऽचिरादयः श्रुताः, ते मार्गचिह्नानि भवितुमर्हन्ति, लौकिकमार्गचिन्हसारू- १ क. 'यितुं शक्यौ । २ ग. तत्राथ । ३ क. तिस्त्वतः । ४ क. ख. 'द्युतस्तूज़ । ५ ग. व्यवस्थापितः । ६ क. 'चिहानि चैतानि नो वा लोकाविभेदतः ॥ आ। देशस्त्वत्र । . ते [अ०४पा०३अधि०५] वैयासिकन्यायमाला। १५७ प्येण निर्दिश्यमानत्वात् । लोका हि मार्गज्ञानायैवं निर्दिशन्ति-ग्रामानिर्गत्य नदी ब्रज, बतः पर्वतम्, ततो घोषम्, इति । तद्वदेत्रापि-"अर्चिषोऽहः, अन आपू. र्यमाणपक्षम" इति निर्दिश्यते । तस्मात्-मार्गचिह्नानि । यद्वा-ब्रह्मलोकं जिग- मिषोर्विश्रामस्थान-भोगभूमयोऽचिरादयः । कुतः-वायुलोकम् , वरुणलोकम् , इति प्रयुक्तस्य लोकशब्दस्य भोगभूमौ प्रसिद्धत्वात् || इति प्राप्ते, ब्रूमः-"तत्पुरुषोऽमानवः, स एतान्ब्रह्म गमयति" इत्यन्ते श्रूय- माणस्यामानवस्य विद्युत्पुरुषस्य नेतृत्वावगमात्, । तत्साहचर्येणार्चिरादयोऽप्यावि- वाहिकदेवता इत्यवगम्यते । यत्तु-निर्देशसाम्यमुक्तम् , वदातिवाहिकदेवतास्वपि समानम् , 'गच्छ त्वमिवो बलवर्माणम् , ततो जयगुप्तम् , ततो 'देवदत्तम्, इत्यादि. निर्देशदर्शनात् । लोकशब्दस्तूपासकानां तत्र भोगाभावेऽप्यातिवाहिकदेवानां भोगम- पेक्ष्योपपद्यते । तस्मात्-आविवाहिका आचरादयः ।। (पञ्चमे कार्यब्रह्मण एवोत्तरमार्गगम्यत्वाधिकरणे सूत्राणि-) कार्य बादरिरस्य गत्युपपत्तेः॥ ७॥ विशेषि- तत्वाच ॥ ८ ॥ सामीप्यात्तु तद्यपदेशः ॥९॥ कार्यायये तद ध्यक्षेण सहातः परम भिधानात् ॥ १०॥ स्मृतेश्च ॥ ११॥ पर जैमिनिर्मुख्यत्वात् ॥ १२॥ दर्शनाच्च ॥१३॥ न च कार्ये प्रतिपत्त्यभिसंधिः ॥ १४ ॥ पञ्चमाधिकरणमारचयति- परं ब्रह्माथ वा कार्यमुदङ्मार्गेण गम्यते ॥ मुख्यत्वादमृतत्वोक्तेर्गम्यते परमेव तत् ॥ ९ ॥ कोयं स्याद्गतियोग्यत्वात्परस्मिस्तदर्सभवात् ।। सामीप्याब्रह्मशब्दोक्तिरमृतत्वं क्रमाद्भवेत् ॥ १० ॥ "स एतान्ब्रह्म गमयति" इति श्रूयमाणं यदुत्तरमार्गप्राप्यं वस्तु, तत्परं ब्रह्म भवि- तुमर्हति । कुतः--ब्रह्मशब्दस्य तत्र मुख्यत्वात् । “योर्ध्वमायन्नमृतत्वमति" इत्य- मृतत्वकथनाच ॥ १ ख. 'त् । लौकिकमा । २ क. 'दव्यना। ३ ख. मन्त्रिगुप्तम् । ४ ख. 'देवताभों। ५ ग. कार्यस्याऽऽहुति' । ६ क. 'दुत्तरमार्ग प्राप्यव' । ख. 'दुक्तमार्ग प्राप्यव। । - १५८ श्रीभारतीतीर्थमुनिप्रणीता [अ०४पा०३अधि०६] इति प्राप्ते, बूमः-सत्यलोकाख्यं कार्य ब्रह्म, उपासकव्यतिरिक्तत्वात्परिच्छिन्न- त्वाच्च गतिपूर्वकमोतियोग्यम्; न तु तथा परं ब्रह्म, तस्य सर्वगत्वात् । उपासकस्वरू- पत्वाच्च । ब्रह्मशब्दस्तु मुख्यार्थासंभवेन सामीप्यसंबन्धात्सत्यलोकमाचष्टे । समीपो हि सत्यलोकः परब्रह्मणः, तल्लोकवासिनां तत्त्वज्ञानेऽवश्यंभाविनि सति पुनर्जन्मव्यवधान- मन्तरेण मोक्ष्यमाणत्वात् । अत एव स्मृतिराह- "ब्रह्मणा सह ते. सर्व प्राप्ते च प्रतिसंचरे ।। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्" इति । एवं च सत्यमृतत्वश्रुतिः क्रममुक्त्यभिप्राया । तस्मात्-उत्तरमार्गेण प्राप्यं कार्य ब्रह्म ॥ -RINria utu (षष्ठे प्रतीकोपासकानां ब्रह्मलोकगतिनिराकरणाधिकरणे. सूत्रे-) अप्रतीकालम्बनानयतीति बादरायण उभयथाऽदो- षाद; तक्रतुश्च ॥ १५ ॥ विशेषं च दर्शयति॥ १६ ॥ षष्ठाधिकरणमारचयवि- प्रतीकोपासकान्ब्रह्मलोकं नयति वा नवा ॥ अविशेषश्रुतेरेतान्ब्रह्मोपासकवन्नयेत् ॥ ११ ॥ ब्रह्मक्रतोरभावेन प्रतीकाह फैलश्रवात् ।। न तान्नयति पञ्चाग्निविदो नयति तच्छ्रुतेः ।। १२ ।। "स एतान् ब्रह्म गमयति" इवि श्रूयमाणोऽमानवः षुरुषो ब्रह्मोपासकवत्प्रवीको- पासकानपि सत्यलोकं प्रापयति, अविशेषश्रवणात् || इति प्राप्ते, ब्रूमः-"वं यथा यथोपासते. तदेव भवति" इति श्रुतौ ब्रह्मभावना. रूपः क्रतुर्ब्रह्मप्राप्तिहेतुरित्यवगम्यते । न हि प्रतीकोपासकानां ब्रह्मक्रतुरास्ति, येन ते सत्यलोकं गच्छेयुः । किंच यथाप्रतीकमर्वाचीनानि फलानि तेषु श्रूयन्ते-"याव- नाम्रो गतं तत्रास्य यथाकामचारो भवति" इति । 'नाम ब्रह्मोपासितुः शब्दशास्त्रादि- लक्षणे नामविशेषे खावन्न्यं भवति' इत्यर्थः । कथं ताई पञ्चामिविदां प्रवीकोपास- प्रतिसंचरो महाप्रलयः, तस्मिन्प्राप्ते परस्य हिरण्यगर्भत्यान्ते समष्टिीलङ्गशरीररूपविकारावसाने ब्रह्मलोकनिवासिनः कृतात्मानः शुद्धधियस्तत्रोत्पनसम्यग्धियः सर्वे ब्रह्मणा मुच्यमानेन सह परं पर्द प्रविशन्ति इति योजना-इति रलप्रभा ।। १ स्व. प्राप्तयोग्य' । २ न. पस्मृते ।३ ग. 'फलाश्रयात। ४ ख. येनैते ।
[भ०४पा०४अवि०१] वैयासिकन्यायमाला । १५९ कानां सत्यलोकमाप्तिः,-'वचनबलात्' इति ब्रूमः | तस्मात्-प्रायवो न प्रतीको- पासकान्सत्यलोक प्रापयति ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थमुनिप्रणीतायां वैया- सिकन्यायमालायां चतुर्थाध्यायस्य तृतीयः पादः ॥३॥ अत्र पादे आदितः अधिकरणानि १८५ सूत्राणि १६ ५३४ ६ Ram ( अथ चतुर्थाध्यायस्य चतुर्थः पादः ) (प्रथमे मुक्तेर्नवीनत्वनिराकरणाधिकरणे सूत्राणि-) संपद्याऽऽविर्भावः स्वेनशब्दात् ॥१॥ मुक्तः प्रतिज्ञानात् ॥२॥आत्मा प्रकरणात् ॥३॥ चतुर्थाध्यायस्य चतुर्थपादे प्रथमाधिकरणमारचयति- नाकवनूतनं मुक्तिरूपं यद्वा पुरातनम् ॥ अभिनिष्पत्तिवचनात्फलत्वादपि नूतनम् ॥ १॥ स्वेन रूपेणेति वाक्ये स्वशब्दात्तत्पुरातनम् ।। आविर्भावोऽभिनिष्पत्तिः फेलं चाज्ञानहानितः ॥ २॥ "एष संपसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्प- चते" इति श्रूयते । अस्यायमर्थः- "सम्यक्प्रसीदैत्युपाध्युपशान्तौ," इति संप- सादो जीवः । स च शरीरत्रयाभिमानं परित्यज्य परं ब्रह्म प्राप्य मुक्तिरूपेणावति- ष्ठते,-इति । तत्र-एतन्मुक्तिरूपं न जीवस्य पूर्वसिद्धम्, किंतु स्वर्गवदागन्तुकम् । कुतः-"अभिनिष्पद्यते" इत्युत्पाद्यत्वश्रवणात् । पूर्वासद्धत्वे संसारदशायामपि सद्भावेन फलत्वं न स्यात् । तस्मात् ---स्वर्गवदिदं नूवनं. मुक्तिरूपम् ।। इति प्राप्ते, ब्रूमः--"खेन रूपेणाभिनिष्पद्यते" इति स्वशब्देन विशेषितत्वात्पूर्व- मपि विद्यत एवेदं मुक्तिरूपम् । नच-अत्र खशब्दः स्वकीयमभिधत्ते, विशेषणवैय- र्यपसङ्गात-यघद्रूपं मुक्तावुपादत्ते, तत्तत्स्वकीयमेव-इति कस्य व्यावृत्तये विशे- , ग. न्यायतो । २ क. फले । ३ ख. अस्यार्थः । ४ क 'दत्यस्यामुपा । ५. ग. मुक्तरू क.क्तावादत्ते। .
१६० श्रीभारतीतीर्थमुनिप्रणीता-[अ०४पा०४अधि०२-३] प्येत । आत्मवाचित्वे तु स्वशब्दस्य स्वकीयत्वव्यावृत्तिः प्रयोजनम् । नच-अमि- निष्पत्तिरुत्पत्तिः, पूर्वसिद्धस्योत्पत्तेरसंभवात् । किं तार्हतत्त्वज्ञानेन ब्रह्मत्वाविर्भावोऽभि- निष्पत्तिः । नच-एवंसति 'उपसंपद्य, अभि निष्पद्यते' इत्यनयोः पुनरुक्तिः- इति शङ्कनीयम् ; उपसंपत्तिशब्देन तत्पदार्थशोधनस्य विवाक्षतत्वात् । अभिनिष्प- त्तिस्तु वाक्यार्थावबोधः। नच-पूर्वसिद्धत्वे मुक्तिरूपस्य फलत्वविरोधः, निवृत्ताज्ञानत्वा- कारेण पूर्वसिद्ध स्वाभावात् । तस्मात्-पुरातनं वस्त्वेव मुक्तिरूपम् ।। (द्वितीये मुक्तेब्रह्मभिन्नतानिराकरणाधिकरणे सूत्रम्-) अविभागेन दृष्टत्वात् ॥४॥॥ द्वितीयाधिकरणमारचयति- मुक्तरूपाद्ब्रह्म भिन्नमभिन्नं वा, विभिद्यते ।। संपद्य ज्योतिरित्येवं कर्मकर्तृभिदोक्तितः ॥ ३ ॥ अभिनिष्पन्नरूपस्य स उत्तमपुमानिति || ब्रह्मत्वोक्तेरभिन्नं तद्भेदोक्तिरुपचारतः ॥ ४ ॥ पूर्वाधिकरणे निर्णीतं यदेतन्मुक्तस्वरूपम् , तत्परस्माद्ब्रह्मणो भिन्नं भवितुमर्हति । कुतः-कर्मकतभेदव्यपदेशात् । “एष संप्रसादः परं ज्योतिरूपसंपद्य" इत्यत्र संप- सादशब्दोदितो जीव उपसंपत्तौ कर्तृत्वेन व्यपदिश्यते । ज्योतिःशब्दवाच्यं च ब्रह्म कर्मत्वेन । तस्मात्-मुक्तस्य जीवस्य स्वरूपं ब्रह्मणो भिन्नम् ।। इति प्राप्ते, ब्रूमः--"ज्योतिरूपसंपद्य' इति वाक्यं तत्पदार्थशुद्धिविषयमुक्तम् । भतस्तदानीं भेदोऽस्तु नाम । तत उपरि “स्वेन रूपेणाभिनिष्पद्यते" इति वाक्यं वाक्यार्थदशापन्नं मुक्तिस्वरूपं प्रतिपादयति । न च-तस्य ब्रह्मणा भेदोऽस्ति, "स उत्तमः पुरुषः" इति वाक्ये तच्छब्देनाभिनिष्पन्नरूपमुक्तस्वरूपं परामृश्य वस्योत्तम- पुरुषशब्दवाच्य ब्रह्मस्वरूपत्वाभिधानात् । तस्मात्-मुक्तस्वरूपं ब्रह्माभिन्नम् ।। -- (तृतीये सविशेषत्वादिव्यवस्थानिराकरणाधिकरणे सूत्राणि---) ब्राह्मण जैमिनिरुपम्यासादिभ्यः ॥५॥ चितितन्मात्रेण तदात्मकत्वादित्यौडुलो- मिः ॥ ६॥ एवमप्युपन्यासात्पूर्वभा- १ स. ह्मतत्वावि । २ क. अभिसंपय । ३ ख. 'स्तु 'अहं ब्रह्मास्मीति वा ।
[भ०४पा०४अधि०४] वैयासिकन्यायमाला । १६१ वादविरोधं बादरायणः ॥७॥ तृवीयाधिकरणमारचयति- क्रमेण युगपद्वाऽस्य सविशेषाविशेषते ॥ विरुद्धत्वात्कालभेदाद्यवस्था श्रुतयोस्तयोः ॥ ५ ॥ मुक्तामुक्तद्देशोर्मेदाम्यवस्थासंभवे सति || अविरुद्धं योगपद्यमश्रुतं क्रमकल्पनम् ॥ ६ ॥ मुक्तस्य स्वरूपभूतं ब्रह्म श्रुतिषु द्विधा प्रतिपाद्यते-वचित्सविशेषम् । कचिन्नि. विशेषम् । तथाहि-“य भास्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपि- पासः सत्यकामः सत्यसंकल्पः" इति सविशेषत्वश्रुतिः । “स यथा सैन्धवघनोऽन- न्तरोऽबाह्यः कृत्स्नो रसघन एव, एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञा- नघन एव" इति निर्विशेषत्वश्रुतिः । ते एते एते सविशेषत्वनिर्विशेषत्वे मुक्तिदशायां ब्रह्मणो न युगपत्संभवतः, परस्परविरुद्धत्वात् । अतः कालभेदेनोभे व्यवस्थापनीये ।। इति प्राप्ते, ब्रूमः-प्रतिपत्तृभेदाधुगपदेव सविशेषत्वनिर्विशेषत्वे उपपद्यते । मुक्त. प्रतिपत्त्या निर्विशेषत्वमेव, बद्धप्रतिपत्त्या तु सविशेष मुक्तस्वरूपं ब्रह्म सर्वज्ञत्वादिगु. णविशिष्टं सज्जगत्कारणत्वेनावभासते । न हि मुक्ताः पुरुषाः कदाचिदपि 'सर्वज्ञत्वस- त्यसंकल्पत्वादिगुणयुक्ता वयम् ' इति प्रतिपद्यन्ते, तत्प्रतिपत्तिहेतुभूताया अविद्याया विनाशितत्वात् । बद्धस्वरूपास्त्वविद्यायुक्ताः सन्तो निर्विशेषमेव ब्रह्म 'सर्वज्ञत्वादिवि- शिष्टम्' इति कल्पयन्ति । अतः प्रतिपत्तृभेदाद्यवस्थासिद्धौ किमनेन कालभेदकल्पनेन । तस्मात्-युगपदेव सविशेषत्वनिर्विशेषत्वे ॥ १. (चतुर्थे परलोकगोपासकस्य भोग्यवस्तुसृष्टौ संकल्पहेतुताधिकरणे सूत्रे-) संकल्पादेव तु तछुतेः ॥ ८॥ अत एव चानन्याधिपतिः ॥ ९ ॥ चतुर्धाधिकरणमारचयति- भोग्यसृष्टावस्ति बाह्यो हेतुः संकल्प एव वा ॥ आशामोदकवैषम्याद्धेतुर्बाह्योऽस्ति लोकवत् ॥ ७ ॥ १ क. ख. 'पकौ ॥ वि। २ न. 'दृशा भेदा । ३ ख. 'मश्रीतं । ४ क. व्युत्पाद्यते । ५ क. ग. पश्रु। ६ क. ग. 'देन व्य । ७ क. मुक्तिप्रतीत्या । ८ क. प्रतीत्या तु । ख. सिद्धप्रति. पश्या। ख. "तिपक्षहे। - १६२ श्रीभारतीतीर्थमुनिप्रणीता [अ०४पा०४अधि०५] संकल्पादेव पितर इति श्रुत्याऽवधारणात् ॥ संकल्प एव हेतुः स्याद्वैषम्यं चीनुचिन्तनात् ॥ ८ ॥ पूर्वाधिकरणत्रयेण विदेहमुक्तौ विचारितायां ब्रह्मलोकलक्षणाया मुक्तेरवशिष्टत्वाच- द्विचार आपादसमाप्तेः प्रवर्वते । तत्र-अचिरादिमार्गेण ब्रह्मलोकं प्राप्तस्योपासकस्य भोग्यवस्तूनां सृष्टौ बाह्यहेतुरपेक्षितः, न तु मानससंकल्पमात्रं तद्धेतुः, तथात्वे सत्या. शामोदकसमत्वेन पुष्कलभोगाभावप्रसङ्गात् || इति प्राप्ते, ब्रूमः- "स यदि पितृलोककामो भवति, संकल्पादेवास्य पितरः समुत्तिष्ठन्ति" इत्यादिना पितृमातृभ्रातृगन्धमाल्यादिभोग्यसृष्टौ संकल्पस्य साधनत्वम- भिवायैवकारेण बाह्यहेतुं निराचष्टे । न च-संकल्पकार्याणामाशामोदकसमानत्वं शङ्क- नीयम् , उपार्जितमोदकसमानत्वस्यापि संकल्पयितुं शक्यत्वात् । संकल्पशक्तरूपा- सनाप्रसादेन निरङ्कशत्वात् । तस्मात्-संकल्प एव भोग्यसृष्टौ हेतुः . - -- क (पञ्चमे देहभावाभावयौरैच्छिकताधिकरणे सूत्राणि-) अभावं बादरिराह ह्येवम् ॥ १० ॥ भावं जैमिनिर्विकल्पामननात् ॥११॥ द्वादशाहव- दुभयविधं बादरायणोऽतः ॥ १२॥ तन्वभावे- संध्यवदुपपद्यते ॥१३॥ भावे जाग्रहत् ॥१४॥ पञ्चमाधिकरणमारचयति-- व्यवस्थितावैच्छिको वा भावाभावौ तनोर्यतः ॥ विरुद्धौ तेन घुभेदादुभौ स्यातां व्यवस्थितौ ॥ ९ ॥ एकस्मिन्नपि पुंस्येतावैच्छिको कालभेदतः ॥ अविरोधात्स्वप्नजागोगवाज्यते द्विधा ॥ १० ॥ "मनसैतान्कामान्पश्यन्रमते, य एते ब्रह्मलोके” इति मानसं भोगमुपपादयन्ती श्रुतिर्बाह्यदेहस्य सेन्द्रियस्याभावमाह । “स एकधा भवति त्रिधा भवति" इति श्रुति- देहसद्भावं ब्रूते । वावेतौ देहभावाभावावेकस्मिन्पुरुषे विरुद्धौ । तयोः पुरुषभेदेन व्यव- स्थितिः ॥ इति प्राप्ते, ब्रूमः--एकस्यापि पुरुषस्य कालभेदेन तौ व्यवस्थितौ । यदा देह- १ ख. श्रुत्यव । २ ग, चाऽऽत्मचि। ३ क. बाह्यो हैं। ४ क. कफलत्वे'। ५ ख. 'भोगसू ६ क. 'ल्पसा । ख. कारणत्वसा । ७ क. मद्भाग। ८ क. 'ह्यभोगस्य देहेन्द्रियामा । ९ क.
[अ०४पा०४अधि०६-७] वैयासिकन्यायमाला । १६३ मिच्छाते, तदा संकल्पेन देहं सृष्ट्वा तत्रावस्थितो जाग्रदशायामिव भोगान्भुङ्क्ते, यदा देहं नेच्छति, तदा संकल्पने तमेव देहमुपसंहृत्य स्वप्नदशायामिव मनसैव भोगान्भुङ्क्ते । तस्मात्-एकस्यापि पुरुषस्यैच्छिको देहभावाभावी ।। ( षष्ठे ज्ञानिनोऽनेकदेहेषु सात्मकत्वाधिकरणे सूत्रे-) प्रदीपवदावेशस्तथा हि दर्शयति ॥ १५॥ स्वा- प्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥१६॥ षष्ठाधिकरणमारचयति- निरात्मानोऽनेकदेहाः सात्मका वा, निरात्मकाः ॥ अभेदादात्ममनसोरेकस्मिन्नेव चर्तनात् ॥ ११ ॥ *एकस्मान्मनसोऽन्यानि मनांसि स्युः प्रदीपवत् ।। आत्मभिस्तदवच्छिन्नैः सात्मकाः स्युविधेत्यतः ।। १२ ॥ "स एकधा भवति, त्रिधा भवति, पञ्चों, सप्तधा, नवधा" इति युगपदनेक- शरीरस्वीकार ऐच्छिक आम्नायते ॥ तत्रएको देहः सात्मकः, इतरे निरात्मकाः, भात्ममनसोबहुभावस्याश्रुतत्वात् । कल्पकाभावाच्च ।। इति प्राप्ते, ब्रूमः-अस्ति कल्पकं युगपदनेकदेहभोगानुपपत्तिरूपम् । भोगाय हि बहवो देहा निर्मिताः। न च-एकेनैवाऽऽत्मना मनसा च युगपद्बहुदेहानां भोगो दृष्ट- चरः । तस्मात्-आत्ममनसोर्बहुत्वं कल्पयितव्यम् । यद्यपि नोऽऽत्मान उत्पाद्याः, तथाऽप्येकेन मनसा संकल्प्य बहुषु मनःसूत्पादितेषु तैर्मनोभिरवच्छिन्ना आत्मानो बहवः स्युः । एतदेवाभिप्रेत्य "स एकथा भवति, त्रिधा भवति" इत्यादि श्रुतम् । तस्मात्-सात्मकाः सर्वे देहाः ॥ ( सप्तमे ज्ञानिनो जगत्त्रष्टुत्वनिराकरणाधिकरणे सूत्राणि-) जगद्यापारवर्ज प्रकरणादसंनिहितत्वाच्च ॥ १७॥ प्रत्यक्षोपदेशादिति चेन्नाऽऽ- * रङ्गनाश्वृत्तौ तु---‘एकस्य मनसोऽवस्था विपुलीभावसंज्ञका ॥ जायते तेन संबन्धात्सात्मक- खं न हन्यते' इत्येवं पाठो दृश्यते, व्याख्यातोऽप्ययभेव पाठः ।। क. 'न तं दे । २ क. 'षस्य चैच्छि' । ३ ग. दर्शनात् । ४ ग. 'धा भवति, स। ५ ग. नानाऽऽत्मा। ६ क. कल्पाहु। AN १६४ श्रीभारतीतीर्थमुनिप्रणीता- [अ०४पा०४अधि०७] धिकारिकमण्डलस्थोक्तः ॥ १८ ॥ विका- रावर्ति च तथाहि स्थितिमाह ॥ १९ ॥ दर्शयतश्चैवं प्रत्यक्षानुम माने ॥२०॥ भोग- मात्रसाम्यलिङ्गाच ॥ २१ ॥ अना- वृत्तिः शब्दादनावृत्तिः शब्दात् ॥ २२ ॥ सप्तमाधिकरणमारचयति- जगत्स्रष्टृत्वमस्त्येषां योगिनामथ नास्ति वा ।। अस्ति स्वाराज्यमाप्नोतीत्युक्तैश्वर्यानवग्रहात् ॥ १३ ॥ सृष्टावप्रकृतत्वेन स्रष्टुता नास्ति योगिनाम् ॥ स्वाराज्यमीशो भोगाय ददौ मुक्तिं च विद्यया ॥ १४ ॥ ब्रह्मलोकं प्राप्तानामुपासकानां यथा भोगयोग्यदेहेन्द्रियस्रष्टुत्वमस्ति, तथा वियदा- दिजगत्स्रष्टुत्वमस्ति "आप्नोति स्वाराज्यम्" इति श्रुत्या निरवग्रहैश्वर्यावगमात् ।। इति प्राप्ते, ब्रूमः-वियदादिजगत्सृष्टिप्रतिपादकेषु प्रकरणेषु सर्वत्र परमात्मैव स्रष्टुत्वेनावगम्यते, न क्वापि योगिनस्तथाऽवगम्यन्ते । अतो न तेषां जगत्स्रष्टृत्वम् । भन्यथाऽनेकेश्वरत्वे सति कश्चित्सिसृक्षति, कश्चित्संजिहीर्षति, इति जगद्यवस्था न सिध्येत् । कथं तर्हि-स्वाराज्य श्रुतिः 'ईश्वराधीनस्वाराज्याभिप्रायेण' इति ब्रूमः । ईश्वरो ह्युपासनया वोषितस्तेषां भोगमात्रसिद्धये स्वाराज्यं ददौ, मुक्तिं च तत्त्वविद्यो- त्पादनेन दत्तवान् । तस्मात्-जगत्सृष्टौ स्वातत्र्याभावेऽपि भोगमोक्षयोस्तेषां स्वात. अयमस्ति ॥ . इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थमुनिप्रणीतायां वैयासि. कन्यायमालायां चतुर्थाध्यायस्य चतुर्थः पादः ॥ ४ ॥ || समाप्तश्चायमध्यायो ग्रन्थश्च ॥ भत्र पादे आदितः भधिकरणानि १९२ सूत्राणि २२ ५५६ १ ख, वाक्येषु । २ क. 'ज्यम्-इति श्रु। ३ क. ददौ । ४ क. 'मस्तीत्यशेषमिति मालम् । ख. 'मस्तीत्यशेषमतिमङ्गलम् । .