Library

Shrii Svachchhandatantrama~ Chatura~tha Bhaaga Grantha 47

Qs-emaraaja · 2005-11-19

PDF Proofread

Front matter

UNIVERSAL
LIBRARY
OU_184035
LIBRARY
UNIVERSAL

OSMANIA UNIVERSITY LIBRARY
S.
S
Call No.
Acc, No. 7439
K94S
No. 294.3
KSHEMARAJA
SVACC HANDA TANTRA

s
OSMANIA UNIVERSITY LIBRARY
s
Call No.294.3 Accession No. 1439
Kays
KSHEMARAJA
SVACCHANDA TANTRAM.
Author
Title
This book should be returned on or before the date
last marked below.

No text on this page.

THE KASHMIR SERIES
OF
TEXTS AND STUDIES.

No text on this page.

BY
DEPARTMENT JAMMU
Kashmir Series of Texts and Studies.
No. XLVIII.
THE
SVACCHANDA TANTRAM
WITH COMMENTARY
KSHEMARĀJA.
EDITED WITH NOTES BY
PANDIT MADHUSUDAN KAUL SHASTRI, M. A., M. 6. L.
VIDYĀVĀRIDHI,
Superintendent Research Department,
JAMMU AND KASHMIR STATE,
SRINAGAR.
Published under the Authority of the Government of
His Highness Mahārājā
Sir MARISINGH BAHADUR,
K. C. I. E., K. C. V.0.,
MAHĀRĀJA OF JAMMU AND KASHMIR STATE.
Volume IV.
Pagal
BOMBAY:
PRINTED AT TOE NIRNAYA-SAGAR' PRESA.
1927.

श्रीसोमानन्दनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गों
लब्ध्वा यत्रैव सम्यक्पटिमनि घटनामीश्वराद्वैतवादः।
कश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रञ्जयन्सर्वदेश्यान्
देशेऽन्यस्मिन्नदृष्टो घुसृणविसरवत्सर्ववन्द्यत्वमाप ॥१॥
तरत तरसा संसाराब्धि विधत्त परे पदे
पदमविचलं नित्यालोकप्रमोदसुनिर्भरे।
विमृशत शिवादिष्टाद्वैतावबोधसुधारसं
प्रसभविलसत्सद्युक्त्यान्तःसमुत्प्लवदायिनम् ॥२॥

SHESEHSHLavist काश्मीर-संस्कृतग्रन्थावलिः। ग्रन्थाङ्कः ४८ श्रीखच्छन्दतन्त्रम् । श्रीमाहेश्वराचार्यश्रीक्षेमराजकृतोद्योताख्यविवरणोपेतम् । श्रीभारतधर्ममार्तण्ड-कश्मीरमहाराज- श्रीप्रतापसिंहवर-प्रतिष्ठापिते प्रत्नविद्याप्रकाश-(रिसर्च) कार्यालये तदध्यक्ष-पण्डित-मधुसूदन-शास्त्रिणा उदिष्टकार्यालयस्थेतरपण्डितसहायेन संगृह्य, संशोधन-पर्यायाङ्कनादिसंस्करणोत्तरं पाश्चात्यविद्वत्परिषत्संमताधुनिकसुगमशुद्धरीत्युपन्यासादिसंस्कारैः परिष्कृत्य मुम्बय्यां 'निर्णयसागर' मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीतम् । (चतुर्थो भागः). JAMMU DEPARTA FASHMA संवत् १९८३. काश्मीर-श्रीनगर खैस्वाब्दः १९२७. (अस्य प्रन्थस्य सर्वे प्रकाशन-मुद्रापणावधिकाराः प्रोकमहाराजवर्थ: खायत्तीकृताः सन्ति) एकमात्र विवरक

( All rights reserved ).
Printed by Ramchandra Yesu Shedge, at the 'Nirnaya-sagar' Press,
26-28, Kolbhat Lano, Bombay.
Published by Pandit Madhusudan Kaul Shastri, M. Ang M. O. Lo
for the Research Department,
Jammu and Kashmir State, SRINAGAR.

अथ श्रीस्वच्छन्दतन्त्रम् । श्रीमन्महामाहेश्वराचार्यश्रीक्षेमराजकृतोड्योताख्य- विवरणोपेतम् । (अष्टमः पटलः) 00000- यस्य बोधमहाम्भोधेब्रह्माद्या भुवनेश्वराः । अंशा मिता बुद्बुदवत्तं स्तुमः परभैरवम् ।। .......अंशकांश्च निबोध मे ।' (७/३३०) इति यत्पटलान्ते उपक्षिप्तं, तद्विभक्तुं श्रीभैरव उवाच अंशकं षड्डिधं देवि कथयाम्यनुपूर्वशः। परस्य बोधभैरवस्य शक्तिभिः ब्राहयादि- भिरधिष्ठिता ब्रह्माद्यास्तथावभासिता अंशाः ततस्तदनुग्राह्या अपि तदंशा इत्युच्यन्ते। अतो- शानाराध्यत्वेन स्थितान् कायति अयं ब्रह्मां- शोऽयं विष्पवंश इत्यादिक्रमेण यो वक्ष्यमाणो

२
खच्छन्दतब्रम् ।
[८ पट०
भावस्वभावादिः, सोऽशक इत्युच्यते । स च
साधकं प्रति सियनुकूलत्वात् अल्पांशोऽशक
इत्यभिधीयते ॥
तमुद्दिशति
भावांशकः स्वभावांशः
पुष्पपातांश एव च ॥१॥
मन्त्रांशकः स्मृतश्चान्य-
स्त्वंशकापादनं द्विधा ।
भावः सहजस्तत्तद्भक्तियुक्त आशयः । ख-
भावस्तदनुगुणो व्यापारः । यस्तु पूर्वयुक्त्या
बद्धनेत्रस्य पुष्पपातानुसारं निश्चीयते तन्म-
अवाच्यदेवतात्मा अनुष्ठातुं, स मत्रांशः। अंश-
कापादनमंशस्यानिरूपितस्यापि मत्रस्य वीर-
द्रव्यादिहोमेन साधकदीक्षाक्रमेण वा आरा-
धकं प्रति क्रियते इति द्विरूपमिति षोड-
शांशकाः॥
एषामाद्यस्य लक्षणमाह
देवानुस्मरणं भावः
सहजं तं विजानत ॥२॥

३ ५ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । अदत्तानुष्ठानस्यापि प्राग्जन्मवासनापरिपा- कवशात् तत्तन्नियतदेवतानुस्मरणं यत्सहज, स भावांशः॥२॥ द्वितीयमाह स्वभावश्च भवेच्चेष्टा प्रोक्तभावानुगुण एवमेव लिङ्गार्चनाद्यात्मा व्यापारः॥ तं च कथयाम्यनुपूर्वशः। ब्रह्मांशो वेदभक्तस्तु रुद्रांशं च निबोध मे ॥३॥ रुद्रभक्तः सुशीलश्च शिवशास्त्ररतः सदा। विष्ण्वंशो विष्णुभक्तश्च चन्द्रांशः प्रियदर्शनः ॥४॥ सर्वदेवरतः शान्तो यक्षांशो धनसंग्रही।

४ खच्छन्दतषम् । [८ पट० लुब्धो गर्वितमृष्टाशी वातांशश्चपलः स्मृतः॥५॥ सर्पवित्रम्भगामी स्या- नागांशो दीर्घशाय्यथ । दीर्घरोषः पूतिवको गुरुक्षीररुचिः सदा ॥६॥ गान्धर्वो गायनो नित्यं शिवभक्तो वरानने। विद्याधरांशकः प्राणी दैत्यांशो द्वेषणः स्मृतः ॥७॥ कामांशो रूपवांश्चैव सुभगो गणिकाप्रियः। रक्षोशः क्रूरनिस्त्रिंशो देवद्वेषी द्विजेषु च ॥८॥ पिशाचांशश्छलान्वेषी वासरे भीरुकातरः।

११ लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । अम्यंशः परुषस्तीत्र उष्णादः पिङ्गलस्तथा ॥९॥ सवित्रंशश्च तेजस्वी पूर्तधर्मरतः सदा। इष्टानि कुरुते नित्यं दयालुः शिवभावितः ॥ १०॥ पूतिवक्रो दुरामोदलालास्यः । विद्याधरां- शस्य शिवभक्तत्वं शिवशास्त्रोक्तविधानेन गु- टिकाञ्जनादिसिद्धिरसिकत्वम् । क्रूरो दारुण- हृदयः । निस्त्रिंशो निघृणव्यापारः । परुषो वाचा । तीव्रः कर्मणा । पूर्त वापीकूपादिकर- णम् । इष्टं यज्ञः । स्पष्टमन्यत् ॥१०॥ ये च यदंशास्तेषामेते ब्रह्मादयः स्वसिद्धेः फलदाः सर्वे स्वध्यानजपहोमतः। यस्य यावदैश्वर्य, तावदेवासावाराधितः साधकेभ्यः प्रयच्छति । एवं चाभिदधदिद- माह-यत् परिमितांशस्य तत्तत्पदप्रापक ६ खच्छन्दतब्रम् । [८ पट. एव मनोदयः । स च येषां विशेषतः शास्त्रेषु नास्ति, तेषां प्रणव एव तन्नामनमस्कारयुक्तः॥ यदा तु 'यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः । सिद्धिभापत्रसामर्थ्यात् ............॥ इत्युक्तस्थित्या इहत्यमत्रैः कृतदीक्षस्य साध- कस्यैतन्मत्राराधनेनाराधितास्ते ते देवताविशे- षाः, तदा सर्वे भैरवरूपा एवेति सर्वसिद्धि- साधका इत्याह भैरवाङ्गसमालब्धाः सर्वे देवा वरानने ॥ ११ ॥ भैरवास्तु स्मृताः सर्वे सर्वसिद्धिफलप्रदाः। भैरवाङ्गसमालब्धा इत्युक्त्येदमाह-येषां कपालीशादिमत्राणां वक्राणि नोक्तानि, तेषां- माराधकैनैष्कलवक्राङ्गानि प्रयोक्तव्यानि । क- श्चिदत्र सर्वशब्दस्य द्वि:स्थितस्य · वाक्यद्वय विषयां योजनामसहमानः सर्वे देवा इत्यत्र सर्वदेवेति सर्वसिद्धिफलप्रदा इत्यत्र च सर्व- १३ को०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम्। कामसमन्विता इति पठित्वा एतन्मनदी- क्षिताः साधकाः तदाराधना रवा एव पूर्ण- सिद्धिभाजनं भवन्तीति व्याख्यातवान् । पु- राणपुस्तकेषु त्वविगानेनाद्य एव पाठो दृश्यते॥ एवं स्वभावांशः समाख्यातः साधकानां हिताय वै ॥ १२॥ साधकपदेन मुमुक्षूणां नायं नियम इत्या- दिशति ॥ १२॥ पुष्पपासांशं लक्षयति पुष्पपातवशान्नाम कर्तव्यं सुरसुन्दरि। अनिश्चितभावसभावांशस्य बुभुक्षोर्बद्धने- त्रस्य पूजितसर्वावरणे भगवन्मण्डले पूर्वोक्त- स्थित्या एकं पुष्पं क्षिपतो यत्र तत्पतेत्, तन्म- प्रधाच्यदेवतानुसारेण नाम कार्यम् ॥ अतश्च ज्ञातांशकेनाचार्येणोपदिष्टतत्तत्वस्य खच्छन्दतन्त्रम्। [८ पटक स मन्त्रः सिद्यते तस्य तमेवाराधयेद्यदि ॥ १३॥ शास्त्रोक्तविधानेनेत्यर्थात् ॥ १३ ॥ क्रमप्राप्तं मत्रांशकमधिकवक्तव्यत्वात् सं- प्रत्यनुक्त्वा, अंशकापादनं प्रस्तौति अंशकापादनं देवि कथयामि समासतः। कथमित्याह वैहायसं ध्वज चैव होमयेद्यस्तु साधकः ॥१४॥ स मन्त्रः सियते तस्य अर्यन्तोऽपि हि सुव्रते। वक्ष्यमाणस्थित्यार्यन्तोऽपि यो मत्रस्तदा- राधनायैव वैहायसमिति उद्धनरमांसं, ध्वज च शूलारोपितनरमांसमष्टोत्तरशतं सहस्रं वा यथासंभवव्यवसायं यःसाधक इत्याराधक आ. चार्यस्तत्प्रयुक्तोऽन्योऽपि वा साधको होमयेत् १६ श्लो०] श्रीक्षेमराजाचार्यकृतोक्ष्योताख्यटीकोपेतम् । ९ जुहुयात् , तस्यासावेवमाराधितः सिद्ध्यति सा- धनानुगुणो भवति ॥ यस्य तु प्रोक्तक्रमेणाविवेचितांशकोऽपि प्रभावातिशयश्रवणात् कश्चिन्मत्रः आरिराध- यिषितो भवति, नच वीरद्रव्यक्रमे योग्यता- स्ति, तस्यारिराधयिषितं पूजाहोमादिनादौ तर्पयित्वा प्राक्प्रोक्तसाधकदीक्षाभिषेकविधाने- नैव तन्मत्रांशकत्वापादनं कर्तव्यमित्यभिदधत् द्वितीयमंशकापादनं लक्षयति अनंशकोऽपि यो मन्त्रो ज्ञातचिलैर्वरानने ॥१५॥ तदा यागं पुरा कृत्वा अग्नौ होमं तु कारयेत्। प्रोक्तप्रकारैर्न परिच्छिन्न अंशक आराधकः शिष्यो यस्यासावनंशकः। यागहोमौ तं शिष्यं प्रति तस्य मनस्याभिमुखीकरणाय ॥

१० खच्छन्दतन्त्रम् । [८ पट० शिष्यस्य पूर्ववत्कर्म कृत्वा तु विधिपूर्वकम् ॥ १६॥ पूर्णाहुतिप्रयोगेण योजयेच्छाश्वते पदे। कर्मेति भगवदर्चादिपूर्व साधकाभिषेकान्तं, योजयेदिति तमेव शिष्यं मत्रेण सह शाश्वत इति परमशिवपदे, साधकाभिमते च शाश्वत- भोगप्रदे सदाशिवादिधाम्नि शाश्वतपदयोज- नादेव चायमासादितवीर्योऽनंशकतामुत्सृज्य, सदंशकत्वमेति॥ इत्थमासादितांशकोऽसौ परतत्त्वमभिध्याय- न्साधयेन्मनसेप्सितम्॥१७॥ एवमंशकापादनं द्विधोक्त्वा, मत्रांशकमाह मन्त्रांशं गणयित्वा तु गृह्णीयात्सुविचारितम् । मत्ररूपमंशमक्षरभेदक्रमेणांशीकृतं मत्रम् ॥ साधकस्य चानुरूपांशकरूपत्वादपि अंशेन २० श्लो०] श्रीक्षेमराजाचार्यकृतोक्ष्योताख्यटीकोपेतम् । ११ हीनमध्यसमुत्कृष्ट कथयामि समासतः॥१८॥ तत्र हीनं शत्रु विजानीया- न्मध्यमं साध्यरूपिणम् । सिद्धं चैव सुसिद्धं च उत्तमं परिकीर्तितम् ॥ १९॥ कथमित्याह मन्त्राक्षरं तु विश्लेष्य मात्राबिन्दुसमन्वितम्। आत्मनामाक्षरं तह- दधोभागेऽस्य योजयेत् ॥२०॥ 'ॐ शिवाय नमः' इत्यादिके मत्रे ॐका- रादि मत्राक्षरं मात्राभिरकारोकारादिभिर्वि- न्दुना च समन्वितं विश्लेष्येति अकारोकारा- दिमात्रा बिन्दुं च मकारमात्राकल्पनया अस्य पृथकृत्य, एवं शिकारवाकाराभ्यामिकारमाकारं च विश्लेषयेत् । अकारमात्रा तूचारणार्थ, न १२ खच्छन्दतन्त्रम् । [८ पट० कुतश्चिद्विश्लेषयेत्प्रत्युत यतोवर्णान्मत्रान्तरं वि. श्लेषितं, तस्याकारमुच्चारणार्थं कल्पयेदन्यथा उ- चारायोगात् । एवमात्मनःशिष्यसंबन्धि यन्नाम विष्णुमित्रमित्यादिकं, तत एकैकमक्षरं तद्व- प्रोक्तमात्राभेदेन विश्लेष्य,अस्येति विभक्तमन्त्र- स्याधोभागे योजयेत्। तेन अउमशइवआयनम इति दशानामक्षराणामधोविभक्तानि विष्णु- मित्रनामाक्षराणि वइषणउमइतरेति दद्यात् । यत्र मन्त्राक्षराणि बहूनि भवन्ति, तत्र नामा- क्षराणि पुनः पुनर्योजयेदा मत्राक्षरसमाप्ति योजयेत् ॥ २० ॥ एवं स्थिते सति आत्मवर्णात्समारभ्य यावन्मन्त्रार्णमागतम् । यस्मिन्स निपतेदेवि तमायं परिकल्पयेत् ॥२१॥ शिष्यनामाक्षरमेकैकमवधिं कृत्वा मातृ- कावर्णपाठक्रमेण गणनया एकैकनामाक्षरो- २३ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १३ प्रस्थ एकैको मत्रवर्णों यावदागच्छति तावद्व- क्ष्यमाणेन सिद्धसाध्यसुसिद्धारिभेदगणनेन य- त्रैतदन्यतमे स नामवर्णो निपतेत्संयुज्येत, तमायमिति शुभाशुभसूचकं निश्चिनुयात् । यथोक्तं मया संग्रह 'आयान्तीष्टेतरार्थाय भवन्त्यायास्तत......।' इति ॥ २१॥ अत्र गणनोपायप्रदर्शनपूर्वमायखरूपमा- दिशति रेखाङ्गुलिगतं तं तु कथयामि समासतः। रेखोपलक्षिताङ्गुलीगतमङ्गुलिरेखासु कथितं तमायम् ॥ सच पर्वणि प्रथमे सिद्धः साध्यश्चैव द्वितीयके ॥२२॥ तृतीये तु सुसिद्धः स्या- दरि यश्चतुर्थके।

खच्छन्दतनम् । [८ पट० अनेन क्रमेण नामाक्षराणि मन्त्राक्षरप्राप्ति यावद्गणयित्वा आयं परीक्षेत ॥ तत्र अरिसाध्यौ परित्यज्य दातव्यश्चुम्बकेन तु ॥२३॥ सिद्धरूपः सुसिद्धश्च भुक्तिमुक्तिफलप्रदः। अरिसाध्ययोरायन्तस्थितयोर्बहलयोर्वा प. रित्यागः, सिद्धसुसिद्धयोस्तु खीकारः क्रमेण भुक्तिमुक्तिप्रदत्वात् । यथोक्तम् 'सिद्धान्ते सिध्यतेऽवश्यं साध्यान्ते कृच्छ्रसाधनः । सुसिद्धः पूर्वसिद्धस्तु अर्यन्तो न प्रसिध्यति ॥' इति । तथा 'एवं शुद्धौ कृतायां तु सुसिद्धोऽभ्यधिको यदि । सिद्धो न लभ्यते ग्राह्यमूर्तिः साध्येऽपि साधकः ॥' इति । शुद्धौ कृतायामित्यंशकविषये निश्चि- तायां साध्येऽपि अधिक त्रिश्चतुर्वा आयाते सति मन्त्रमूर्तिराराध्यत्वेन ग्रहीतव्या इत्य- त्रार्थः । इयं चांशकपरीक्षा एकाक्षरमालामत्र- योन कर्तव्या। यथोक्तम् २५ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम्। १५ 'एकाक्षरेषु कूटेषु मालामत्रेषु भामिनि । अंशकं न परीक्षेत परीक्षेतान्यमत्रगम् ॥ इति, कूटेष्वद्वैततत्त्वेषु । अत एव 'मायां नेत्रे च देवेशि तथा द्वात्रिंशदक्षरे । न च तत्रारिशङ्का स्यात् .........।' इत्यप्यन्यत्रोक्तम् ॥ तदित्थंविचारात् यस्त्वंशकविशुद्धः स्या- बैरवोऽत्र वरानने ॥२४॥ तं मध्यमस्थं संपूज्य तत्स्थाने मध्यमं न्यसेत्। य इति कपालीशाद्यन्यतमः । मध्यमस्थ- मिति आराधनायां प्रधानीभूतत्वात् तत्स्थान इति तस्यावरणकक्ष्यास्थस्य कपालीशादेः पदे मध्यममिति श्रीखच्छन्दमयं तुर्यादिरूपतया परीक्ष्येति दर्शितम् ॥ अथ कथं श्रीखच्छन्दनाथस्य परिवार प्रति परिवारतया न्यास इत्याशङ्का शमयितुमाह स्वच्छन्दतन्त्रम् । [८ पट० यतः सर्वगतो देवः सर्वेष्वन्तर्गतः स्मृतः॥२५॥ तत्सिद्धिमुक्तिदातासौ न वर्णाः परमार्थतः। यः सर्वगतो व्यापको देवः क्रीडादिशीलः चिदानन्दघनः श्रीखच्छन्दभट्टारकः सर्वेषु क- पालीशादिषु प्रपञ्चव्याप्त्यावस्थितेषु अन्तर्गतः परमार्थरूपो यतः, तत्तस्मात् स एव तत्तत्कपा- लीशाद्यात्मना स्मृतः साधकस्यांशकशुध्धा सिद्धिमभेदव्याच्या च मुक्तिं ददाति पर- मार्थतः, नतु वर्णाः किंचि- कुर्वन्ति । उक्तं हि प्राक् 'अक्षरेषु कुतो मोक्ष .........। (७/२३८) इति तेन वस्यावरणभेदस्यान्यथाकल्पनेऽपि न तत्त्वभूमेः काचिन्म्लानिः॥ तदिदमंशकविचारान्ते प्रसङ्गायातं वस्तु कथितं सरहस्यं ते गुह्याद्गुह्यतरं परम् ॥२६॥ व्याप्तिज्ञानशून्या २९ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । १७ अथ यत् कथितमित्युक्तं, तत्प्रमाणीकर्तुं परमशिवात् प्रभृति गुरुपारम्पर्येणेदं रहस्य तत्रमवतीर्णमिति दर्शयन् परादि दिव्यान्तं संबन्धषदं प्रदर्शयति अतस्तन्त्रावतारार्थ कथयामि समासतः। तत्र अदृष्टविग्रहायातं शिवात्परमकारणात् ॥ २७ ॥ ध्वनिरूपं सुसूक्ष्मं तु सुशुद्धं सुप्रभान्वितम् । तदेवापररूपेण शिवेन परमात्मना ॥ २८॥ मन्त्रसिंहासनस्थेन पञ्चमन्त्रमहात्मना। पुरुषार्थ विचार्याशु साधनानि पृथक् पृथक् ॥२९॥ ३ १४ स्वच्छन्दतनम् । [८ पट. लौकिकादिशिवान्तानि परापरविभूतये। तदनुग्रहयोग्यानां खे खे विषयगोचरे ॥३०॥ अनुष्टुप्छन्दसा बद्ध कोट्यर्बुदसहस्रधा। शिवात् परमाद्वयप्रथात्मकश्रेयोरूपात् परम- कारणात् शिवान्तानां कारणानां सर्वेषां स्खभि- चावाभासकात् , अत एवादृष्टः परद्रष्ट्रेकरूपो विग्रहः खरूपं यस्य तस्मात् , भिन्नमेतत्पदं छां. न्दसेन पञ्चम्यात्वादेशेन, अथच तमिंस्तद्रूप- मेवायातं प्रसरणस्फुरणं यस्य तवनिरूपं ना- दामर्शात्मकं सुसूक्ष्ममप्रमेयं विश्वव्यापकं च, अकारादिकलाकलितत्वाभावात् सुशुद्धं, सुप्र- भान्वितं महाज्ञानरूपं यत्तदेवापररूपेणेत्यना- श्रितभट्टारकाख्येन शिवेन दण्डवक्रमजयव- स्थितसद्योजातपञ्चमहामशरीरे पृथक् पृथ- गनुग्राह्यानुसारं साधनान्यनुष्ठानानि लौकिका. विशिवान्तानि विचार्य तसिद्धिसाधनार्थम- ३१ श्लो०] श्रीक्षेमराजाचार्यकृतीक्ष्योताख्यटीकोपेतम्। १९ पररूपेणैव स्थूलेन वेदादिरहस्यान्ततसत्त्रोतो- भेदोद्भूतनानाशास्त्ररूपमनन्तग्रन्थसंदर्भात्मकं निबद्धम् । मन्त्रसिंहासनस्थेन सार्वत्रिकोटिमत्रा- धिपतिनेत्यनेनैव शास्त्रानन्त्यस्यावकाशो दत्तः। पञ्चमत्रमहात्मनेत्यनेन श्रीकण्ठीयसंहितायुक्त- नानास्रोतोभेदः सूचितः। तत्र 'अदृष्टविग्रहाच्छान्ताच्छिवात्सरमकारणात् । ज्ञानरूपं निनिष्क्रान्तमनवच्छदनं महत् ॥' इत्यादिना नादस्वरूपं निरूप्य 'ततो जातमिदं सर्व चतुर्वर्गफलप्रदम् ॥' इत्युक्त्वा स्रोतोभेदेन नानाशास्त्रप्रपञ्चोदयः प्रदर्शितः। तदेवेत्यादिना आवद्धमित्यन्तेन त- तदनुग्राह्याशयानुसारेण भिन्नभिन्नफलान्यपि शास्त्राणि वस्तुतो वाक्यैकवाक्यतया परि- पूर्णाभिन्नविमर्शस्फाराण्यासूत्रितसमस्तभेदा- भेदप्रपञ्चानीति तथाविधव्याप्तिझं तत्त्वज्ञ प्रत्यभिन्नचिदानन्दघनतत्त्वविश्रान्तिपरमार्था- न्येवेति ध्वनति । तदुक्तम् "यतः शिवोद्भवं सर्व शिवधामफलप्रदम् ।' इति ॥

२० खच्छन्दतन्त्रम् । [८ पट० एवं परसंबन्धमूलतां शास्त्रप्रसरस्य प्रदर्य, संबन्धान्तरगोचरतामपि प्रदर्शयिष्यामीत्याश- येन परमशिवेनापीत्थमिदमुत्थाप्यत इत्याह गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः ॥ ३१ ॥ पूर्वोत्तरपदैवाक्य- स्तन्त्रमाधारभेदतः। तज्ज्ञानमीश्वरेऽदात्त- दीश्वरेण शिवेच्छया ॥३२॥ विद्यायाः कथितं पूर्व विद्येशेभ्यस्तथादरात् । देवः परवाक्शक्तिमयः शिवभट्टारक एव, सदाशिव इति गृहीततत्तद्भूमिकः, स्वयं गुरुशि- प्यपदे स्थित्वेति प्रतिभाभुवि प्रष्ट्रप्रतिवक्त- भावासूत्रणेन परममहापश्यन्तीवाक्शत्यासू- त्रितपूर्वोत्तरपदात्मकैर्वाक्यरुपलक्षितं तत्रमशे- षशास्त्रसंदर्भमयं तज्ज्ञानं चेश्वरेऽदादिति सं- ऋमितवान्। आधारभेदत इति ईश्वरात्मकमा- ३३ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । २१ धारभेदमाश्रित्य स्वयं तदात्मना स्थित्वा इ- त्यर्थः । तज्ज्ञानमीश्वरे दत्तमिति तु पाठः पूर्वश्लोकान्त आसूत्र्येति योजयित्वा तेन चे- त्यनुषङ्गेण व्याख्येयः । इयता महत्संबन्धो द- र्शितः। शिवेच्छया सदाशिवेच्छया-इत्यनेना- नायातशक्तिपातो नोपदेश्यः इति ध्वनति । विद्याया इति 'अष्टवर्गविभिन्ना तु विद्या सा मातृका परा।' (१११५५) इति वक्ष्यमाणमातृकावाच्याया देव्याः तथा वेदनप्रधानत्वात् विद्याशब्दवाच्यस्याशेषस्य मत्रग्रामस्य, अनन्तभट्टारकादिभ्यश्च विद्य. शेभ्यो मनचक्रवर्तिभ्य ईश्वरेण तत्रं तज्ज्ञानं च कथितं संक्रमणयुक्त्या विमर्शपदं नीतम् । आदरादिति भक्त्युल्लासप्रकर्षात् । यद्यपि भगवतो मातृका तदुत्थाश्च मत्राः परमेशवद- भेदेनावभासिता विद्यातत्त्वधानि तावदशेषवि- श्वाभेदव्याप्तिरत्र निमग्नेव स्थितेति तामुन्म- जयितुमीश्वरेण विश्वानुजिघृक्षया ज्ञानसं- क्रान्तिरत्र कर्तुमुपपन्नैव । इतःप्रभृत्यन्तरालसं- बन्धः आसूत्रितः १२ खच्छन्दतब्रम् । [८ पर. 'मयापि तव देवेशि साधिकारं समर्पितम् । (३६) इखेतावत्पर्यन्तो भविष्यति ॥ एवं पश्यन्तीप्रसरणपर्यन्तां शास्त्रस्थिति- मुक्त्वा, मध्यमाप्रसरणेनाह मायानियतिपर्यन्तै- स्तस्माद्रुदैरवापि तत् ॥ ३३॥ तस्मादिति विद्यातत्त्वचक्रवर्तिनोऽनन्तभ- द्वारकादित्यर्थात्, मायानियतिपर्यन्तैरिति म- ण्डलिप्रभृतिभिः कञ्चकवासिभिश्च रुदैरवापीति संक्रमणयुक्त्यैव ॥ ३३॥ सतोऽनन्तरं तदेव ज्ञानं तथैव श्रीकण्ठेनेश्वरात्प्राप्त ज्ञानं परमदुर्लभम् । अहं हि भगवानीश्वरात्मनः शिवस्य शि- ज्यो, मण्डल्यायास्त्वनन्तशिष्याः। अत्र मध्ये पुंस्तत्वाधिष्ठातारो रुद्रा बन्धहेतुतया स्थापिता इति तेषामेतज्ज्ञानशक्तिसंक्रान्ति कृता । .

पुरा दत्तं ३६ श्लो०] श्रीक्षेमराजाचार्यकृतोलोताख्यटीकोपेतम् । २१ ततोऽपि तथैव तेनापि तदधः प्रोक्तं रुद्राणामीश्वरेच्छया ॥ ३४॥ प्रधानाच्छतरुद्रान्तं दीक्षयित्वा विधानतः। ममापि च पुरा दीक्षा तथा चैवाभिषेचनम् ॥३५॥ श्रीकण्ठेन तन्त्रं सर्वार्थसाधकम् । यद्यपि गुणतत्त्वे श्रीकण्ठनाथः स्थितः, त- थाप्यसौ शिवशिष्यत्वेन प्रभावातिशयवानिति खोर्ध्वस्थप्रकृतिवर्तिनः क्रोधाद्यष्टकस्य स्वाधा- रतत्त्वगतानां च शतरुद्रान्तानां रुद्राणामनु- ग्रहीता । ममापीति कैलासवासिनस्तत्रप्रवक्तु- भगवत उमापतेरुक्तिः। तदित्थमनन्ताद्याः श्री- कण्ठश्चेश्वरभट्टारकात्मनः शिवस्य शिष्याः, म. ण्डलिनस्त्वनन्तशिष्याः, क्रोधादयः शतरुद्रा- न्ताः उमापतिश्च श्रीकण्ठशिष्या इत्यादिष्टं भगवता । तेन यत् खेटकनन्दनेन

खच्छन्दतश्रम् ।
[८पट०
'मण्डलिनः श्रीकण्ठः क्रोधाद्याः शतभवाः सवीरेशाः
एते कलादियोगात्प्रकटीकृतक्रियाः परेशेन ।'
(त० सं०३०)
इत्युक्तं, तद्यथोक्तानुसारं क्वचित्साक्षात् कचि-
पारम्पर्येणेति व्याख्येयं, नत्वविशेषेण । दीक्ष-
यित्वेति अभिषेचनं कृत्वेति च शाक्तसमावे-
शसंक्रमणयुक्त्या पूर्व शांभवसमावेशयुक्त्यैव ।
एवं च नादीक्षितस्य ज्ञानग्रहणे, नाप्यनभिषि-
क्तस्य तदानेऽधिकार इत्यादिष्टं भवति ॥
अर्थतत्तत्रं च तज्ज्ञानं च संक्रमणयुक्त्यैव
मयापि तव देवेशि
साधिकारं समर्पितम् ॥ ३६॥
इतः प्रभृति वैखर्याः प्रसरः ॥ ३६ ॥
एवमियतान्तरालाख्यं संबन्धं प्रकटीकृत्य,
दिव्यान्तमादिशति
त्वमपि स्कन्दरुद्रेभ्यो
ददस्व विधिपूर्वकम् ।
ब्रह्मविष्ण्विन्द्रदेवानां
वसुमातृदिवाकृताम् ॥ ३७॥

३८ श्लो०] श्रीक्षेमराजाचार्यकृतोश्योताख्यटीकोपेतम् । २५
लोके संगृह्य नागानां
यक्षाणां परमेश्वरि ।
विधिर्दीक्षाभिषेकरूपः॥
दिव्यादिव्यसंबन्धमाह
कथयस्व ऋषीणां च
एवं च देव्या विश्वानुग्रहाधिकारार्पणेन
भगवता महाकारुणिकत्वं परिपोषितम् ॥
अदिव्यं संबन्धमाह
ऋषिभ्यो मनुजेष्वपि ॥ ३८॥
कथयस्खेति स्थितम्। देवी एव हि पराशक्ति-
खभावा विश्वाधिष्ठात्री अनुजिघृक्षारससरसह-
दया तत्तदाचार्यदेहमाविश्यानुग्रहं करोति।एवं
चादिव्यसंबन्धपर्यंतः पर एव संबन्धः सर्वत्र
प्रपततीत्यभिहितं भवति । तदुक्तं
.............सर्वः परकलामयः।
महानवान्तरो दिव्यो मिश्रोऽदिव्यश्च तत्परः।
इति त्रिकहृदये ॥३८॥

२६
खच्छन्दतनम् ।
[८ पट.
उपसंहरति
एवं तन्त्रवरं दिव्यं
सिद्धरत्नकरण्डकम् ।
त्वया गुप्ततरं कार्य
न देयं यस्य कस्यचित् ॥३९॥
यद्यपि पूर्वोक्ते सर्वतत्रे तवाधिकारो दत्त-
स्तथापि यदेवं निर्णीतनिर्णेष्यमाणपटलगत-
रहस्यार्थपूर्णत्वात् वरमुत्कृष्टमिदं दक्षिणस्रोतः-
समुद्भूतभैरवतत्रजातमध्ये प्रधानभूतं दिव्यं
सर्वभोगापवर्गप्रदं तत्रं, तत्त्वया गूहनीयं ज्येष्ठा-
शक्तिपातवतामेव प्रकाश्यं, नेतरेषामिति
शिक्म् ॥ ३९॥
आ देवेभ्यः क्रमान्तं निखिलमिदमियच्छासनत्राणरूपं
विश्वं यत्संप्रस्तं परमशिवपदालोकपर्यन्तमेतत् ।
शास्त्रं वाक्यैकवाक्यस्थितमिव विगलद्भेदविश्रान्तिलब्ध-
खच्छखच्छन्दधामप्रथनपरमिदं स्तात्समग्रस्य जन्तोः॥
इति श्रीखच्छन्दोयोते
अंशकाधिकारोऽष्टमः पटलः समाप्तः ॥ ८॥

अथ श्रीस्वच्छन्दतन्त्रम् । श्रीमन्महामाहेश्वराचार्यश्रीक्षेमराजकृतोहयोताख्य- विवरणोपेतम् । (नवमः पटलः) श्रीमनिष्कलसद्भितावुदृश्य सकलस्थितिम् । विश्राम्यत्यकले तत्त्वे यस्तं भैरवमाश्रये ॥ साधकोद्देशेनाराध्यपञ्चप्रणवनिरूपणानन्तरं तदुपयोगिबहुप्रमेयगर्भ कालखरूपमभिधायां- शकसतत्त्वमुक्तं प्रसङ्गात्तत्रावतारो दर्शितः। अथ विघ्नौघविघातेन झटित्यभीष्टसिद्धिसाधनं श्रीकोटराक्षविधानं रक्षाचक्रप्रपञ्चमप्रनितमपि अनुजिघृक्षया प्रतिपिपादयिषुःश्रीभैरव उवाच अतः परं प्रवक्ष्यामि रहस्यमिदमुत्तमम् । अतःशब्दो व्याख्यातक्रमसूचनाय । प्रक- र्षेण अनुजिघृक्षादरेण वक्ष्यामि । उत्तमं रह- २८ खच्छन्दतन्त्रम् । [९ पट० स्यमिति सर्वविघ्नप्रशमनं झटित्यभीष्टसिद्धि- प्रदं च ॥ अत एव यन्न कस्यचिदाख्यातं तत्ते वक्ष्यामि सुव्रते ॥ १॥ शोभनं व्रतं परतत्त्वावहितत्वं यस्या इत्या- मत्रणेन योग्यतमविरलशिष्यविषयत्वमस्या- नुष्ठानस्येति ध्वनति, अतश्च योग्यदेवीव्यतिरे- केण नैतदन्यस्याप्युक्तम् ॥ १॥ एतदुद्घाटयति महाभैरवदेवस्य क्रीडमानस्य भामिनि । सृष्टिसंहारकर्तारं हृदयात्तु विनिर्गतः ॥२॥ महाभैरवदेवः प्रथमपटलदर्शितनिर्वचन- स्थित्या स्वच्छन्दनाथस्तस्य, निःशेषविघ्नप्रशम- नसर्वसिद्धिसंपादनानुजिघृक्षात्मिकां क्रीडां ताच्छील्येन कुर्वतः, खखातयशक्त्यात्मकात्

५ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम्। २९
हृदयात् , सृष्टिसंहारयोः कर्ता वक्ष्यमाणश्री-
कोटराक्षनामा देवः, अरं शीघ्र, विनिर्गतः समु.
च्छलित इत्यर्थः । अत एव भगवानघोरहृदय
इत्युच्यते ॥ २॥
तं भगवन्तं दर्शयितुमाह
कल्पान्तवह्निवपुषं
प्रलयाम्बुदनिःस्वनम् ।
तडित्पुञ्जनिभोदंष्ट्रं
जटाज्वालासमप्रभम् ॥३॥
चन्द्रसूर्याग्निनयनं
कोटराक्षं सुभीषणम् ।
बृहद्वक्षःस्थलाभोगं
नागयज्ञोपवीतिनम् ॥४॥
स्फुरन्माणिक्यमुकुटं
सर्पकुण्डलभूषितम् ।
सर्पहारकृताटोपं
सर्पकङ्कणनूपुरम् ॥५॥

१० खच्छन्दतनम् । [९ पट० सिंहचर्मपरीधानं सर्पमेखलमण्डितम् । गजचर्माटतपटं शशाङ्ककृतशेखरम् ॥६॥ पञ्चवक्रं शवारूढं दशबाहुं त्रिलोचनम् । कपालमालाभरणं खड्गखेटकधारिणम् ॥७॥ पाशाङ्कुशधरं देवं शरशाङ्गवितानितम्। कपालखटाङ्गधरं वरदाभयपाणिकम् ॥ ८॥ भिन्नाञ्जनचयप्रख्यं स्फुरिताधरभास्वरम् । ब्रह्मेन्द्रविष्णुनमितं त्रिदशैरपि दुर्लभम् ॥९॥ सर्वमेतत् प्रायुक्तव्याख्याभिः व्याख्यातस- %3D १० श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । ३५ तत्त्वम् । तडित्पुञ्जनिभे उद्गते दंष्ट्रे यस्य, जटानां ज्वालानां चासमा प्रभा दीप्तिर्यस्य, कोटरं कुहरं तदाकृतीन्यक्षीणि यस्य अनेन अन्तर्ल- क्ष्यतां बहिर्दृष्टित्वं च दर्शयति, सुष्टु भीषणत्वं नाम्नैवोक्तम् । मेखलशब्दे तु ह्रस्वः ऐश्वरः । त्रिलोचनमिति प्रतिवक्रम् । अवतानितं मण्ड- लीकृतदोर्दण्डं, स्फुरिताधरत्वं निःशेषविनभ- क्षणपरत्वेन ॥ ९॥ एतद्रूपमनुमाद्यैरुपास्यमित्याह एवं तं भैरवं देवं स्वच्छन्दं परिकीर्तयेत्। स्वच्छन्दनाथमेव बहुरूपत्वादनेन सुभी- षणेन विघ्नसंत्रासनेन रूपेण चिन्तयेदित्यर्थः । ॥ अतश्च स्मरणान्नाशयेद्देवः पापसंघातमुल्वणम् ॥ १०॥ ध्यायिनां व्याध्यायुद्भावकप्राक्तनमहापाप- प्रशमनायैव तेनैवंविधं रूपं खेच्छया गृहीतम्।

१२
खच्छन्दतन्त्रम् ।
[९पट०
अतः स्मरणादेवोल्वणं दुष्टभोगदानायोन्मुखी-
भूतं पापसंघातं नाशयत्येव । अत एव चतु-
वात् श्रीव्याधिभक्षभट्टारकादयमन्य एव
देवो व्याध्याधिकारणभूतमहापापभक्षण इत्यव-
गतम् ॥१०॥
किंच
अस्य मन्त्रः पुराख्यातो
द्वात्रिंशाक्षरसंमितः।
यस्तं भीषणरूपानुगुणतया
पञ्चप्रणवपूर्वान्तं
तत्र लीनं जपेन्मनुम् ॥११॥
प्राग्दर्शितसतत्त्वाः पञ्च प्रणवाः पूर्वा-
न्तयोः यस्य तं, तत्रैव पञ्चप्रणवस्वरूपे लीनं वि-
श्रान्तं, तद्भित्त्यर्थं तदाच्छुरितं चेमं, महामनं
पूजान्ते जपावसरे जपेत्। अतश्चैवं वाच्यवाच-
कक्रमाभ्यां दीसत्वादघोरीश्वर्ययुक्तत्वात् भा.
विविशिष्टदेवतापरिवृतत्वेतराभ्यामस्य द्वात्रिंश-
दक्षरादन्यत्वमित्यनुष्ठानान्तरमेवैतत् ॥ ११ ॥

१५श्लो०] श्रीक्षेमराजाचार्यकृतोच्योताख्यटीकोपेतम् । ३३ तदीहशस्य तस्य कल्पं प्रवक्ष्यामि समासान्न तु विस्तरात्। कल्प्यत आराध्यतेऽनेनेति कल्पः विधानम्॥ तमाह पूर्वोक्तभूप्रदेशे च विशुद्ध शुभलक्षणे ॥१२॥ पुष्पप्रकरसंकीर्णे गन्धधूपाधिवासिते। तत्र मण्डलमालिख्य पूर्वोक्तैर्वर्णकैः शुभैः ॥१३॥ एकहस्तं द्विहस्तं वा चतुर्हस्ताष्टहस्तकम् । सुसूत्रितं समं कृत्वा चतुरस्रं समन्ततः॥१४॥ पूर्ववत्साधयित्वा तु दिग्भागांस्तु वरानने।

३४ स्वच्छन्दतब्रम्। [९ पट० पूर्वोक्तैरिति 'धाम्ना तु रजसां पात ।' (४।३५) इति वाक्येन सूचितैः, वर्णकैः सिन्दूरादिभिः। गतार्थमन्यत् ॥ एतत्प्राक्तनमण्डलाद्विशिष्टं मण्डलमित्याह चतुर्दारसमोपेत- मष्टपत्रं सकर्णिकम् । मध्ये पद्मं समालिख्य केसरैरुपलक्षितम् ॥ १५॥ द्वात्रिंशदक्षरं बाह्ये चक्रमालिख्य शोभनम् । एवं सुसूत्रितं कृत्वा बाह्ये चैव तु वर्तुलम् ॥ १६॥ चतुरस्रं तदासन्नं बाह्ये वीथीं प्रकल्पयेत्। मध्यपद्मप्रमाणेन द्वारं कल्प्येत पूर्ववत् ॥ १७॥ एवमिति चक्रपरीमाणानुसारेण, सुसूत्रितं ३५ २० श्लो०] श्रीक्षेमराजाचार्यकृतोहयोताख्यटीकोपेतम् । वर्तुलं भ्रमं कृत्वा, तस्यासन्नं च चतुरस्त्रं कृत्वा वीथीं प्रकल्पयेत् । तदाह्येऽन्तःपद्मक्षेत्रमानं कण्ठकपोलशोभोपशोभाढ्यं चतसृषु दिक्षु द्वारचतुष्टयं कल्पयेत् ॥ १७ ॥ अथ निष्पन्ने मण्डले साधकः भस्मोडूलितदेहस्तु मुद्रालंकारभूषितः। केशयज्ञोपवीती च दिग्वासाः संयतेन्द्रियः॥१८॥ शंखार्घपात्रहस्तस्तु सकलीकृतविग्रहः। परितोऽस्त्रं प्रविन्यस्य भैरवं पूजयेत्प्रिये ॥ १९॥ प्रणवासनसंस्थं तु भस्मोद्धूलितत्वादिना साधकस्य मबाराध- नावसरे महाबतित्वमुक्तमत एव परभैरवानु- कारित्वेनापि तदभिमानिनो विना नश्यन्ति । भाव्यस्यात्र जलस्नानादि नोक्तं, दिग्वासाः तद- खच्छन्दतन्त्रम् । [९ पट० न्यस्य यत्संयमनाशयेनैव कौपीनग्रहणात् ? श- कमत्र प्रकरणसामर्थ्यान्महाशङ्खम्। परितोऽस्त्रं सर्वतोऽस्त्रप्राकारम् । प्रणवासनस्थत्वं प्राग्वत् ॥ कथं पूजयेत् कं च भैरवमित्याह मूर्ति हंसाक्षरेण तु। तमेव सकलं देवं स्वच्छन्दं परमेश्वरम् ॥२०॥ मूर्ति हंसाक्षरेणेति पूर्वोक्तेन चिन्मूर्तिम- प्रेण द्वात्रिंशदक्षरेण च सकलमूर्तिरूपेण । तमे वेति पूर्वोक्तम् ॥ २० ॥ किमविशिष्टं, नेत्याह यत्तत्परमनिर्भास- मनामयमरूपकम्। तेन चावाहयेदेवि परमः सर्वोत्कृष्टो निर्भासो यस्य, अनामयं मायासंबन्धहरम्, अरूपकमनाकृति यत्पूर्व निष्कलं तत्वमुक्तं, तेन प्रोक्तनीत्याद्यन्तस्थितेन सहितमावाहनमुद्रयावाहयेत् पूजनार्थमभिमु- खीकुर्यात् ॥

२२ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । ३७ किंच हृच्छिरश्च शिखां तथा ॥२१॥ वर्म नेत्रे तथास्त्रं च तेनैव परिकल्पयेत् । तेनैवेति नैष्कलेन हृदाद्यङ्गमत्रेण, नतु प्राग्वत्सकलेनापि । ब्रह्मपञ्चकमत्राणां तु न सकलादिविभागोऽस्तीति प्राग्वत् तन्न्यासानन्तरं भगवदाकृतौ निष्कलाङ्गन्यासः ॥ इत्थं च निष्कलसकलात्मकैकरूपे भगवत्या- ह्वानसमये एव निष्कलसकलमत्रोच्चारात् नि- कलस्थानविहितपरमीकरणे न्यस्ते वक्रनैष्क- लाङ्गविन्यासे कृते स्थापनं संनिधानं च निरोधार्यादिपूजनम् ॥२२॥ सर्व तेनैव कर्तव्य- मुक्तानुक्तं वरानने । स्थापनादि सर्व पूर्वप्रदर्शितमुद्राबन्धपूर्व कर्तव्यम्। तेनैवेति निष्कलसंपुटितेन सकलेन।

खच्छन्दतनम् । [९ पट० उक्तमिति स्थापनादि, अनुक्तं तु खागतपाद्या- चमनस्नानादि आत्मनिवेदनपर्यन्तम् ॥ इत्थं च मध्यस्थं भैरवं पूज्य- मङ्गषटूसमन्वितम् ॥ २३ ॥ मध्यस्थमिति मध्यगतं, भैरवमिति भैरव- तेजः इत्यर्थः ॥ २३ ॥ किंचात्र पद्मबाह्ये द्वात्रिंशदरके चक्रे ततः पत्रस्थिता देवी- त्रिंशाणैर्निवेशयेत्। पूर्वारकात्समारभ्य यावदन्ते व्यवस्थिताः॥२४॥ पत्रस्थिता इति अष्टपत्रस्य पद्मस्योक्तत्वात् प्रतिदिक्पत्रानुसारिस्थिताराचतुष्टये चक्रे संनि- वेशयेदिति द्वात्रिंशाणैरिति तकारलोप ऐश्वरः, तेन द्वात्रिंशदेवीः द्वात्रिंशतैव अर्णैः अर्थात् द्वात्रिंशद्वर्णसंबन्धिभिर्विभज्य निवेशयेत् ॥२४॥ तासां नामानि वक्ष्यामि हत्रिंशत्परिसंख्यया।

२९ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । ३९ तानि मन्त्रस्थाक्षरस्फारसारतत्सदृशप्रथम- नामाक्षररूपाणि निरूपयति अरुणा घोषा देवी च रवती भोगदायिका ॥ २५॥ स्थापनी घोरसंज्ञा च रक्षा भारभरेति च। घोररूपा रवा घोणा रतिस्ताराथ रूपिणी ॥ २६ ॥ भयहानिस्तु चण्डा वै सर्वदा च तथा वरा। तक्षकी च तथा शार्वी बर्बरा सर्वगा तथा ॥ २७॥ रौद्री च भ्रामणी चैव नागिनी च मनोहरा। स्तम्भनी रोषणी चैव द्रावा रुद्रा प्रशासिनी ॥२८॥ भयापहारिणी देवी ज्ञेया द्वात्रिंश तत्क्रमात् ।

खच्छन्दतन्त्रम्। [९ पट० तत्क्रमादिति मन्त्रगताक्षरक्रमानुसारेणे- त्यर्थः । एवं चाभिदधन्न केवलं मत्रस्य पूर्व निर्णीतवाक्यरूपा वीर्यव्याप्तिः यावद्वर्णानुसा रेण प्रोक्तदेवताचक्रव्याप्तिमयत्वमपीत्यादिशति देवः॥ आसां देवीनामावाहनादौ मनमाह प्रणवादिस्ततो वर्णो देवीनाम नतिस्तथा ॥२९॥ सर्वासां तु विधियेष कर्तव्यो विधिवेदिना। वर्ण इति द्वात्रिंशदक्षरसंबन्धी क्रमेणैकैक इत्यर्थः। नाम इति चतुर्थ्यन्तमित्यर्थात् । विधि- रिति पूजादिविषयो मत्रोच्चारणप्रकारः। वि. धिवेदिनेत्येष आवाहनादावामन्त्रणविभक्त्यन्तं नाम तथा तत्कर्मानुसारेण जातिप्रयोग इत्य- नुमन्तव्यमिति ध्वनति ॥ अथासां देवीनां प्रतिदिशं चतसृणां पूर्वो- तनीत्या भैरवीयप्रपञ्चव्याप्तितत्त्वलोकपालानु- सारेण भैरवानुसारेण ध्यानं निर्दिशति ३१ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ४१ हेमाभं प्राकतुष्कं त- दिन्द्रचापसमप्रभम् ॥३०॥ चतुर्मुखं चतुर्बाहु वज्रहस्तं सुगर्वितम्। कपालमालाभरणं प्रहसत्तु विचिन्तयेत् ॥३१॥ प्राक्कतुष्कमिति पद्मप्राग्दलसंश्लिष्टानां च- तुष्टयनिविष्टमरुणादिचतुष्कं तदिक्पतितुल्य- त्वात् हेमप्रभं वज्रहस्तं च, इन्द्रचापसम- प्रभमिति अन्तःस्फुरन्नानावर्णभाखरम्, ऊर्ध्व- वक्रस्य निष्प्रपञ्चत्वात् सिध्यनुगुणता नास्तीति पञ्चवक्रशक्तिमदधिष्ठितमपि देवताचक्रं सा- धकसिद्ध्यानुगुण्येन गृहीतचतुर्मुखचतुर्भुजा- दिरूपं दर्शितम् । एकत्र दक्षहस्ते वज्रस्यो- कत्वादनुक्तमपि कपालखट्वाङ्गधारित्वमभयक- रत्वमंशेन भैरवरूपानुकारादुक्तम् , अतश्च क- पालमालाभरणत्वमपि संगतमेवेति तदनुसा- रेण प्रतिवत्रं त्रिनेत्रत्वमपि मन्तव्यम् ।सुगर्वि- तत्वं प्रहसत्त्वं च निर्विघ्नसिद्धिदानानुगुण्येन , खच्छन्दतन्त्रम् । [९ पट० कियदेतद्वस्तु इत्याशयात् । एतच्चतुर्मुखत्वादि प्रहसितत्वान्तं सर्वत्र चतुष्केऽनुमन्तव्यं, तथा कपालखट्वाङ्गहस्तत्वादिकं च ॥ ३१ ॥ आग्नेयं रक्तवर्णाभं शक्तिहस्तं सदा स्मरेत् । दण्डहस्तं स्मरेद्याम्यं कृष्णवर्ण सुभीषणम् ॥३२॥ नीलमिन्दीवराभासं नैर्ऋतं खड्गहस्तकम्। श्यामं वारुणदिग्भागे पाशहस्तं विचिन्तयेत् ॥३३॥ धूचं सामीरदिग्भागे ध्वजहस्तं सुचञ्चलम् । उत्तरं धवलं ज्ञेयं गदाखेटकधारि च ॥३४॥ स्फटिकाभं तथैशान्यां त्रिशूलायुधपाणिकम् ।

३७ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १३ उत्तरस्मिन्देवीचतुष्टये खेटकधारित्वस्य ख- कण्ठेनोक्तत्वादभयपाणित्वं न ध्यातव्यम् । चतुर्मुखत्वादि सर्वमन्यत्प्राग्वत् ॥ अत्र ध्याने फलमाह एवं ध्यानपरो यस्तु चक्रमेतत्सदाभ्यसेत् ॥ ३५॥ वत्सरार्धाहरारोहे तस्य सिद्धिस्त्रिधा भवेत् । उत्तममध्यमाधमरूपा॥ एवं ध्यानसिद्धिमुक्त्वा, तस्यैव जपसिद्धयु- चितं क्षेत्रमादिशति महेन्द्र मलये सह्ये पारियात्रेऽर्बुदे तथा ॥ ३६॥ विन्ध्ये श्रीपर्वते चैव तथा कोलगिरौ प्रिये। एतान्यष्टौ सिद्ध्यनुगुणानि पर्वतस्थानानि॥

खच्छन्दतत्रम् । [९ पट० किंच गङ्गायमुनासंबाधे संबाधः संकटं संमिश्रयोस्तयोः यावती प्रवाहभूमिः॥ कुरुक्षेत्रे वरानने ॥ ३७॥ गङ्गाद्वारे प्रयागे च ब्रह्मावर्ते समास्थितः । सरस्वतीचर्मण्वत्योरन्तरस्थो देशो ब्रह्मावर्तः॥ अन्तर्वेद्यां सुपुण्यायां नर्मदायां तथैव च ॥ ३८॥ गङ्गायमुनाप्रवाहयोर्मध्यमन्तर्वेदी। नर्मदा- यामपि तत्तटे ॥ ३८॥ किंच सुस्निग्धदेशे भूभागे पद्मपण्डैमनोरमे। पद्मषण्डैमनोरमो यः सुस्निग्धो देशस्तत्र भूभागे इति योजना॥

४२ लो०] श्रीक्षेमरांजाचार्यकृतोयोताख्यटीकोपेतम्। ४५
किंच
येषु येषु प्रदेशेषु
स्वयंभूर्भगवाञ्छिवः ॥ ३९॥
तेषु स्थानेषु देवेशि
नियमस्थो जितेन्द्रियः।
वाङ्गिरुद्धः प्रसन्नात्मा
लक्षाक्षरजपे रतः॥४०॥
शाकभक्ष्यः फलाहारी
नीवाराद्यशने रतः।
त्रिकालपूजानिरतोऽ-
थाग्निकार्यपरायणः ॥४१॥
भावितात्मा महासत्त्वो
रक्षायाश्च विधानवित् ।
यः
तस्य मन्त्रः प्रसिद्येत्तु
सच
साधयेत्सचराचरम् ॥ ४२॥

४ खच्छन्दतन्त्रम् । [९ पट० वयंभूनामनुग्रहार्थमेवावतीर्णत्वात् तत्क्षे- त्रस्य सातिशयं सिद्धिप्रदत्वम् । नियमस्थ इति शौचसंतोषतपःखाध्यायेश्वरप्रणिधाननिष्ठः । वाक् च निःशेषेण रुद्धा जपैकनिष्ठीकृता येन, प्रसन्नः त्यक्तसंगसंस्कार आत्मा मनो यस्य, लक्षाक्षरजपे रत इति प्राग्वत् द्वात्रिंशता लक्षैः सदशांशहोमैः, नतु यथान्ये अक्षरं मन्त्रस्तस्य लक्षेणैकेनेति अक्षरशब्दस्य मत्रवाचित्वाभावात् ......... लक्षणाक्षरसंख्यया ।' (६।५१) इति प्राक्तनोक्त्यविशेषप्रतिभासनादेतस्या उक्तेः । नच पाण्मासिकस्य प्रोक्तचक्रध्यानस्य काचिदनुपपत्तिः तस्यैतजपसंख्याविधि विना शुद्धस्यैव प्रोक्तफलहेतुत्वात् । नच ध्यान- मात्रासिद्धिर्न भवतीति वाच्यमागमेषु श- तशस्तत्प्रतिपादनात्, जपे तु तथोचितं ध्यानं नं प्रत्याचक्ष्महे । यदि प्रोक्तचक्रध्यानं मन्त्र- तच्चक्रदेवीनामपि जपनिय- ममभिदध्यादित्यलम् । भावितात्मा आश्वस्त- हृदयः, अत एव महासत्त्वः सावष्टम्भोऽत्यन्तशु- द्धचितः। रक्षाया दिग्बन्धास्त्रप्राकारादिरूपायाः जपेऽङ्गं स्यात्,

४७
४५ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् ।
चकारात् क्षेत्रपालबल्यादेः विधानविदिति-
कर्तव्यताज्ञः ॥ ४२ ॥
यदुक्तं साधयेत्सचराचरमिति, तत्संक्षेपेण
दर्शयन् भाविपटलप्रमेयवस्तु कटाक्षयति
कालाग्निर्नरकाश्चैव
पाताला हाटकेश्वरः।
सप्तलोकं सब्रह्माण्ड
पञ्चाष्टकमतः परम् ॥४३॥
देवयोन्यष्टकं चैव
प्रधानपुरुषान्तकम् ।
नियतिः कालतत्त्वं च
रागो विद्या कला तथा ॥४४॥
माया विद्येश्वरं तत्त्वं
सादाख्यं शक्तिगोचरम्।
सर्वं सिद्यत्यनायासा-
न्मन्त्रराजप्रभावतः॥४५॥
एतत्समनन्तरपटलनिर्णेष्यमाणं शक्तित-
त्त्वान्तं सर्व साधकस्य वशे भवत्यतश्च शिवरूपः
साधको जायते इति यावत् ॥४५॥

खच्छन्दतब्रम् । [९ पट० यत्र चेयद्विश्वमस्य वर्तते, तत्र दण्डापूपीय- न्यायो मितसिद्धीनां स्थित एवेत्याह पूर्वोक्तं कर्म वै क्षिप्र- मधमं मध्यमोत्तमम् । साधयेन्नात्र संदेहो भैरवस्य वचो यथा ॥४६॥ अधमादि प्राग्वत्। मारणोच्चाटनवश्याकर्ष- णशान्तिकाप्यायनादि च यदधमादि कर्म पूर्वमुक्तं, तदपि यथोक्तद्रव्ययुक्तिसहकृतमयं मत्रराजः पूर्वोक्तन्यायेनैव जपलक्षेण सहोमे- नाराधितः साधयतीति सिद्ध एवायम् । भैरवस्य यथैव वचस्तथा अत्राश्वस्तव्यम् । आश्वासो हि अकम्पः सिद्धिलिङ्गम् ॥ ४६॥ अथ योग्यतमसाधकविषयमेतदेव दर्शनं द्वात्रिंशद्देवताचक्रपरिवारं विना एकवीरं निरू- पयितुमाह अथैकवीरमाश्रित्य अङ्गषट्रसमन्वितम् ।

१९ श्लो०] श्रीक्षेमराजाचार्यकृतोक्ष्योताख्यटीकोपेतम् । १९ जातियोगयुतं कृत्वा अष्टपत्रे कुशेशये ॥४७॥ पूजयेत्पूर्वविधिना एकमेव देवीपरिवाराद्यपरिवृतं वत्रा- षट्कमात्रसहितं, वीरं साधकानां मुक्तिपर्यवसि- ततत्तत्सिद्धिसाधनायोद्यतं, परमेश्वरं पूर्वोक्त- विधिनेति 'भस्मोद्धूलितदेहस्तु' (९।१८) इत्या- दिनोक्तेन सर्वेण क्रमेण पूर्वोक्त एव क्षेत्रे आ- राधनार्थ होमान्तेन विधिना पूजयेत् ॥ ततः प्रोक्तसंख्याकं जपं होमं च प्रति- ज्ञाय, तत्संपत्त्यै जपहोमार्चने रतः। ध्यायन्नेव महादेवि स्वच्छन्दं परमेश्वरम् ॥४८॥ प्राप्नोति चिन्तितान्कामा- न्देवि नास्त्यत्र संशयः।

खच्छन्दतन्त्रम् । [९ पर. एवं साधकसिख्यानुगुण्येनाराधनप्रकारानु- क्त्वा रक्षाकल्पं प्रस्तावयितुमाह अथ रक्षाविधानेषु अघोरं योजयेद्यथा ॥४९॥ तथाहं कथयिष्यामि तदेकाग्रमनाः शृणु। तत्र तु द्वात्रिंशदरसंयुक्तं चक्रमालिख्य भामिनि ॥५०॥ नाभिकेसरसंयुक्तं सुसमं तु वरानने। गोरोचनां संगृह्य सिद्धालक्तकसंयुताम् ॥५१॥ दुर्वाकाण्डेन देवेशि हरितेन समालिखेत् । सिद्धैः सिद्धार्थकैरलक्तेन च मिश्री गोरो- चनां कृत्वा दूर्वाकाण्डेन नीलेन तत् चक्रम- ५. लो०] श्रीक्षेमराजाचार्यकृतोसोताख्यटीकोपेतम् । १ र्थात् भूर्जे लिखेत् । सिद्धालक्तकमलक्तकविशेष इत्यन्थे । सिद्धा भगवती चण्डिका, तत्पादा- हीतेन कुङ्कुमेनेति त्वसत् ॥ अथास्य चक्रस्य विद्याराजं कर्णिकास्थं बिन्दुनादसमन्वितम् ॥५२॥ शक्त्यवसानं देवेशि तस्मिन्साध्यं समालिखेत् । कषमध्ये वरारोहे नयनाद्यन्तरोधितम् ॥ ५३ ॥ ईकारवेष्टितं कृत्वा विद्याराजं नवात्ममत्रं, कर्णिकाथमिति द्वात्रिंशदरचक्रनाभिगतकमलकर्णिकागतमिति यावत् , बिन्दुनादशक्तयोऽत्र लिपिक्रमेण ले. खितव्याः। साध्यमिति तन्नाम, एवं चाभि- दधद्वांच्यस्य वाचकाभिन्नत्वमीशेच्छाकृतमिति सूचयति । कषमध्य इति नवात्मसंबन्धिनः क्षकारस्य यौ ककास्षकारौ तयोर्मध्य इति, ५२ खच्छन्दतन्त्रम् । [९ पट कादुत्तरस्य षस्य प्रथमभागे। नयनेन त्र्यक्षरेण पूर्वोक्तेन नेत्रमत्रेण, रोधितमिति संपुटीकृतम्। तत्र च नेत्रमन्त्राक्षराणामादावनुलोमक्रमः पश्चात्प्रतिलोमक्रमः इति संप्रदायः। ईकार- वेष्टितं कृत्वेति मायाबीजमालिख्य तदीकारेण नेत्रमत्रसंपुटितं तत्साध्यनाम त्रिवेष्टितं कष. मध्ये लिखेदित्यर्थः॥ इत्थं कर्णिकायां लिखित्वा अरकस्था निवेशयेत् । पूर्वोक्तदेवता देवि पूर्वोक्ता अरुणाद्या यथोक्तैकैकमवाक्षर- रूपाः साध्यान्ते भगवत्संमुखत्वेन, नतु तत्प- रामुखतयेत्याम्नायोऽत्र॥ अथ तद्गर्भ साध्यमालिखेत् ॥ ५४॥ साध्यमिति तन्नाम ॥ ५४॥ कथं भवगर्भे तु तत्कृत्वा ईकाराख्येन वेष्टयेत् ।

५६ श्लो०] श्रीक्षेमराजाचार्यकृतोक्ष्योताख्यटीकोपेतम् । ५३ त्रीन्वारांस्तु वरारोहे ध्यानयोगसमाश्रितः ॥ ५५॥ भव इह प्रणवः तत्पूर्वस्य देवीमत्रस्योक्त- त्वात्, तस्य गर्भे मध्ये, तदिति साध्यनाम कृत्वा पश्चादुपरिवर्तिमायावीजसत्केनेकारेण प्राग्वद्वेष्टयेत् । तदीगितिकर्तव्यताविशेषितं साध्यनाम एकैकारानिविष्टदेवीमत्राक्षरमध्ये आलिखेदित्यर्थः । एवं घोशब्दस्य रेशब्दस्य अन्यस्य च प्रथमकुटिलभागात्मनि मध्ये एतत् लेखनीयम् । तथाभूतं चैतदेकैकं देवीमत्राक्षरं कर्णिकागतमत्रराजसंमुखं पूर्वादिक्रमेणारासु निवेशयेत् ।ध्यानयोगसमाश्रित इति भगवतो देवतानां च स्वरूपं सिद्धिसमुचितयथोक्ताकारं ध्यात्वा तद्व्याप्तिं च भावयित्वा लिखेत् ॥५५॥ तदेवं लिखितमेतत्सर्वमेव चक्रम् ऊर्ध्वं चैव संरोध्य कोंकारेण वरानने। दिगष्टकेऽस्याष्टौ बहिः क्रोंकारा दातव्या इत्यर्थः॥ तु

खच्छन्दतबम् ।
[९पट
अर्थतत्
इन्दुनाच्छुरितं कृत्वा
पुष्पधूपैः प्रपूजयेत् ॥ ५६ ॥
इन्दुः कर्पूरम् । पूजनं मध्यमत्रात् प्रभूति
सर्वमत्रैः यथास्थानं, यथालेखोत्पुंसनं न सं.
पद्यते ॥ ५६ ॥
,
अथ
वेष्टयेश्चैव तद्भर्ज-
मरन्ध्र निव्रणं समम् ।
पञ्चरङ्गकसूत्रेण
वेष्टयित्वा वरानने ॥ ५७ ॥
सिक्थेन मुटयेत्पश्चात्
क्षौद्रमध्ये निधापयेत् ।
सिक्थं मधूच्छिष्टम्। क्षौद्रं माक्षिकं सर्वोष-
धिरससारभूतमिति तन्मध्ये स्थापनं साध्यस्या-
प्यायनाय ॥
अस्य रक्षाविधेः फलमाह
यदा मृत्युवशाघ्रातं
कालेन कलितं प्रिये ॥ ५८॥

५९०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । अरिष्टचिह्नितं ज्ञात्वा रक्षामेतां समालिखेत् । तस्य मृत्युनं जायेत इत्येवं भैरवोऽब्रवीत् ॥ ५९॥ यदाशब्दो भिन्नक्रमः समालिखेदित्यस्यादौ योज्यः । अस्य च पश्चात् तदेत्यध्याहार्य, तेन कालाधिकारप्रोक्तैरन्यैर्वारिष्टैः चिह्नितं, तत एव च 'एकोचरं मृत्युशतममिन्देहे प्रतिष्ठितम् । तत्रैकः कालमृत्युः स्याच्छेपास्त्वागन्तवः स्मृताः॥ इति स्थित्यागन्तुशतेनाघातं कालमृत्युना च एकेन कलितं साध्यं ज्ञात्वा गुरुरिमां रक्षा यदा समालिखेत् , तदा तस्य मृत्युः कोऽपि न स्पादिति भगवतैवोक्तमेतदिति नात्र संश- वितव्यं लिपिमात्रात् कथमेतद्भवतीति । यता श्रीसर्ववीरश्रीभर्गशिखानिरूपितनीत्या लिपि. रपि पराशक्तिप्रसररूपैव, अतो भगवतैवैवंप्रति- ज्ञातत्वात् सत्यमेवैतन्मन्तव्यम् ॥ ५९ ॥ --

५६.
स्वच्छन्दतन्त्रम् ।
[९ पट०
तु
मृत्युरक्षणे प्रकारान्तरमाह
कपालीशस्य गर्भे
नाम यस्य समालिखेत् ।
भूर्जपत्रे वरारोहे
रोचनाया रसेन तु ॥६०॥
ओंकारपुटमध्यस्थं
रोधितं नयनाक्षरैः।
वौषड्जातिप्रयोगेण
तस्य मृत्युन जायते॥६१॥
कपालीशः पूर्वोक्तः, तस्य गर्ने प्राग्वत्कष-
मध्ये। कीदृशं नाम । ओंकारपुटमध्यस्थमाय-
न्तयोरोंकारसंपुटीकृतं, तथाकृतं च सत्पूर्वोक्तैर्न-
यनाक्षरैः वौषडूजातिप्रयोगेण पश्चात्कृतेनोपल.
क्षितैः, रोधितमिति प्राग्वदनुलोमप्रतिलोमक-
माभ्यामायन्तयोः संपुटीकृतम् । दिग्विशे-
षानुपादानादष्टासु दिक्षु इति । अत्र च प्राग्वत्
दूर्वाकाण्डलेखनपूजनादिक्षौद्रमध्यनिधापनप-
यन्तं सर्वमनुसतव्यम् ॥ ६१ ॥

६२ श्लो०] श्रीक्षेमराजाचार्यकृतीक्ष्योताख्यटीकोपेतम् । एवं परिवारस्थभरैवाष्टकाद्यन्तस्थकपाली- शविद्याराजाश्रयेण रक्षाविधानेन मृत्युजय- मुक्त्वा, प्रसङ्गात् कर्मान्तरसिद्धिमपि यत्रक्रमे- णादिशति देवः शिख्याह्वेन तु देवेशि साध्यनाम विदर्भयेत् । अनलार्णमधश्चोर्चे साध्याणेषु नियोजयेत् ॥६२॥ शिख्याढेन शिखिवाहनमत्रेण पूर्वोक्तेन, विदर्भयेदिति 1 . 'अभिधेयं भवेत्पूर्व ततो मत्रः सकृद्भवेत् ।' इति शास्त्रान्तरोक्तस्थित्यानुविन्यस्तमत्रं कु- र्यात् , अनलाणं रेफः तदेकैकत्र साध्यनामाक्षर ऊर्ध्वाधो नियोजयेत् । इत्थंविदर्भितमेतदा- नेयमण्डलान्तस्थवायुमण्डलसंस्थितं कुर्यात्, आग्नेयमण्डलं त्रिकोणं तहहिर्वायुमण्डलं षट्कोणं वर्तुलम् ॥

५८
खच्छन्दतन्त्रम् ।
[९ पट०
एतच्च यस्य लिख्यते
तस्य वै जायते दाहः
वाय्वाध्मातामिदीपितत्वादमिवर्णमध्यगता.
क्षरत्वात् शिखिवाहनविदर्भितत्वाच ।
किं शिखिवाहनविदर्भितमात्रमेव नामाने-
यमण्डलान्तः क्रियते । न तन्मात्रमेव, किंतु
फवाराद्यन्तरोधितम्।
फट्कारान्तशिखिवाहनबीजविदर्भितमिति
व्याख्यानमसत् तथा वाक्यार्थस्याभावात् ॥
एतल्लेखनानन्तरं च मननाथं पूजयित्वा,
एतच्चक्रमध्यगतमेव
ज्वलन्तं चिन्तयेत्साध्यं
दिनानां सप्तकं यदि ॥६३॥
ततस्तस्य
तत्क्षणाज्जायते दाहो
भैरवस्य वचो यथा।
क्रोधराजप्रयोगेण मारणमाह
क्रोधराजनिरुद्धं तु
श्मशानपटमध्यगम् ॥६॥

६६ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ५९
श्मशानादलिना लेख्यं
विषरक्तान्वितेन तु।
यस्य नाम वरारोहे
हुंफट्कारविदर्भितम् ॥ ६५॥
मारयेतिसमायोगा-
स्कूरजातिसमन्वितम् ।
घियते सप्तरात्रेण
यो रक्षाभिः सुरक्षितः॥६६॥
सोऽपीति शेषः । श्मशानादलिः श्मशाना-
झारः, तेन प्रेतरक्तविषमिश्रेण मषीं कृत्वा, प्रेत-
पटखण्डे यस्य नाम हुंफट्कारविदर्भितमित्यन्ते
विन्यस्य हुंफटारं कृत्वा, पश्चात्प्रागुक्तेन क्रोध-
राजेन निरुद्धमित्याद्यन्तरोधितं, ततोऽपि मार-
येत्यनेन युक्तं, ततोऽपि क्रूरजात्या हुंफट्
इत्यनेन समन्वितं लिख्यते, स रक्षाभी रक्षि-
तोऽपि सप्तरात्रान्म्रियते । अत्र श्रीक्रोधराज-
रूपं शत्रुसंहारोचितमुग्रं चिन्त्यम् ॥ ६६ ॥

६०
खच्छन्दतत्रम् ।
[ पट०९
अथ शत्रोस्त्रासनाय विकरालप्रयोगमाह
विकरालो महादेवि
ऊर्ध्वाधःपाशसंस्थितः।
साध्यनाम्नस्तु देवेशि
हुंफट्कारविदर्भिणः ॥ ६७॥
न क्षामयत्ययत्नेन
यस्य साध्यनाम्नः प्रोक्तयुक्त्या हुंफट्कारवि-
दर्भितस्य विकरालाख्यो मनविशेषः चतुर्दि-
रगतःप्रोक्तया मण्या लिख्यते, तस्यासावयत्नेन
हेलयैव न क्षमते । क्षामयतीत्यैशः पाठः ॥
.. किमस्य न क्षमणमित्याह
तस्य शत्रोभयं भवेत् ।
अत्र च श्रीविकरालस्वरूपं मध्यस्थितस्य
साध्यस्य चतसृषु दिक्षु त्रासकत्वेनोत्थितं
चिन्तनीयम् ॥
अथ मन्मथप्रयोगं वशीकारायाह
मन्मथेन युतं कृत्वा
साध्यनाम वरानने ॥ ६८॥

७० लो०] श्रीक्षेमराजाचार्यकृतोद्दयोताख्यटीकोपेतम् । ११ ध्रुवाद्यं स्वाहयान्तेन रक्तध्यानसमन्वितम् । अमुकोज वरारोहे तदिशोऽभिमुखः स्थितः ॥६९॥ अमुकस्य वशं यातु जपहोमो समाचरेत् । सप्ताहाद्वशमायाति इति शास्त्रस्य निश्चयः॥७॥ पूर्वोक्तेन ऊऔकारसमुदायात्मना सबि- न्दुकेन पिण्डाक्षरेण मन्मथेन युक्तं यत्साध्य- नाम, तदेव विभजति । अमुक इति अमुकस्य वशं यातु इत्येतदन्तं स्वाहया वाहाशब्देनान्ते- नान्तस्थेन युतं कृत्वा च, ईदृशा प्रणवपूर्वेण -मत्रेण रक्तध्यानसमन्वितमिति तं साध्यं रक्तं ध्यायन् तदवस्थितिदिगभिमुखः साधको यदि सप्ताहं जपं होमं च वशीकरणोचितैव्यैः क- रोति, तदास्य साध्यो वशमायात्येवेत्यत्रार्थः ।

६२ खच्छन्दतत्रम् । [पट०९ अत्र च यत्रप्रकरणादेतनिश्चितं-यदेवंविधमत्रं लिखित्वा संपूज्य जपहोमो कार्यों ॥ ७० ॥ मेघनादप्रयोगमुच्चाटनायाह मेघनादावसाने तु नाम यस्य समालिखेत् । यकाराद्यन्तसंरुद्ध मन्त्रं फद्वितयान्वितम् ॥७॥ प्रेतस्थाने निधाप्यैत- ड्रैवं तत्र पूजयेत् । अक्षपुष्पैर्वरारोहे तदिशोऽभिमुखः स्थितः॥७२॥ तमुच्चाटयते क्षिप्रं देवि नास्त्यत्र संशयः। मेघनादो हऊबिन्दुसमुदायात्मा। यका- रेति सविसर्गयकारसंपुटितमित्याम्नायः । एत- दित्येवं लिखितं भूर्जे । निधाप्येति श्मशान- भूम्यन्तर्गतं कृत्वा । तत्र ईदृशे भूर्जे । अक्षा - ७५ को०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ६३ विभीतकाः। तदिति साध्यदिगभिमुखः। स- साहादिति स्थितमेव । स्पष्टमन्यत् ॥ सोमराजप्रयोगं विभवार्थ वशीकृत्यर्थ चाह सोमराजेन देवेशि आदिमध्यान्तसंयुतम् ॥ ७३ ॥ नाम यस्य समालिख्य वषड्जातिसमन्वितम्। संनिधाप्य त्रिमधुरे स्थापयेत्सुरसुन्दरि ॥७४॥ सप्तरात्रप्रयोगेण त्रिकालाष्टशतेन च । असाध्यं साधयत्याशु धनं च विपुलं लभेत् ॥ ७५॥ सोमराजो हुंकारः तेन, साध्यनाम आदि- मध्यान्तसंबद्धं कृत्वेति नाम्न आदौ मध्येऽ- न्हें च त्रिः सोमराजं लेखित्वा, ततो वषडन्तं कृत्वा, तयत्रं संनिधाप्य पूजयित्वा सिक्थसंमु- ११ खच्छन्दतत्रम् । [ पट०९ टितं क्षीरक्षौद्रशर्करापात्रसंपुटगं कृत्वा, सप्त- दिनं यस्त्रिसंध्यं तथैव जपेदसावसाध्यं साध- यितुमशक्यमपि साधयति वशीकरोति, श्रियं चाप्नोति ॥ ७५॥ पुनः प्रोक्तस्य क्रोधराजस्य जपहोमाभ्यां प्रयोगमुन्मादार्थमाह पञ्चाङ्गेन पिशाचस्य क्रोधराजावसानिकाम्। संज्ञां समुच्चरेदेवि क्रूरजातिसमन्विताम् ॥ ७६ ॥ उन्मत्तो जायते साध्यो होमेन च जपेन च । पिशाचस्य विभीतकस्य मूलकाण्डपत्रकु- सुमफलानि पञ्चाङ्गानि, तैर्मिलितं सप्ताह प्रणवादिक्रोधराजहुंफडन्तं साध्यनामोच्चार्य, त्रिसंध्यमष्टोत्तरशतं यो जुहुयात् , तस्यासी साध्यः शत्रुरुन्मत्तो भवति ॥

६५ ८० श्लो०] श्रीक्षेमराजाचार्यकृतोक्ष्योताख्यटीकोपेतम् । पुनरप्यनुग्रहहेवाकितया मृत्युजिद्विधिमाह मृत्युञ्जयं प्रवक्ष्यामि तमेकाग्रमनाः शृणु ॥ ७७॥ भूर्जपत्रं समादाय नीरन्ध्र निर्बणं समम् । तस्मिन्समालिखेत्पद्म- मष्टपत्रं सकर्णिकम् ॥ ७८॥. तस्मिन्वै कर्णिकामध्ये साध्यनाम समालिखेत् । संवेष्टयाष्टो दिशो देवि स्वच्छन्देन कृशोदरि ॥ ७९ ॥ प्रणवेन तु संवेष्टय खच्छन्देनेति सिद्धिप्रदानेन सकलेन सा- ध्यनामाष्टौ दिशश्चक्रवदावरणक्रमेण संवेष्ट्य ततः प्रणवेन संवेष्टय कर्णिकामध्ये लिखेदिति योजना ॥ ९

६६
खच्छन्दतनम् ।
[९ पट०
कर्णिकावत्प्रतिपत्रं लिखेदित्याह
पत्रेष्वेवं समालिखेत् ।
अष्टस्खपि ॥
किंच
पत्राष्टकेऽप्यघोरस्य
नामाधस्तात्समालिखेत् ॥८॥
पत्रबाह्य आवरणक्रमेण व्योमरेखामित्यर्थः॥
एवं लिखित्वा प्राग्वत् कर्तरादिना पूरयि-
त्वा संपूज्य विज्ञप्त्यर्थं
वक्तव्यं देव संरक्ष
शरणं त्वामुपागतम्।
साध्यमित्यर्थात्। तत एषा रक्षा सिक्थका-
दिना संवेष्टय पयसि क्षेप्या। पयसि क्षीरे
निक्षिप्तमात्रैव सती साध्यस्य सद्योमृत्युविना-
शिनीति कर्णिकायां लिखित्वा तल्लग्नेषु अष्टसु
पत्रेषु एवमेव लिखेत् ॥
अथ शान्तिकमाह
आदौ त्र्यक्षरविन्यासं.
स्वच्छन्दं तदनन्तरम् ॥ ८१ ॥

८४ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ६७ जन्मनाम तु साध्यस्य अक्षरान्तरितं लिखेत् । पुनरूयक्षरविन्यास वषडन्तं नियोजयेत् ॥ ८२॥ नेत्रमन्त्राक्षराणि त्रीणि चतुष्कलं च लि- खित्वा जन्मसमयकृतं साध्यनामाक्षरैरिति अ- दघोरसत्कैरन्तरितमेकैकतदक्षरव्यवहितम् , 'अ देवदत्तः घो देवदत्तः' इत्यादिक्रमेण लि- खित्वा पुनर्वषडन्तानि प्राग्वल्लिखेत् ॥ ८२ ॥ इमां च रक्षां संपूज्य मुटित्वा सिक्थकेनैव क्षीरमध्ये तु प्रक्षिपेत् । इत्थं च साध्यस्य जायते परमा शान्तिः किंच पुनरन्यन्निबोध मे ॥ ८३॥ कथं जुंसःसंपुटमध्यस्थं प्रणवोभयसंयुतम् ।

खच्छन्दतघ्रम् ।
[९ पट०
नाम कृत्वा वरारोहे
प्रक्षिपेन्मधुरत्रये ॥ ८४॥
जुस इत्यनेन प्राग्वत् प्रागनुलोमं पश्चात्तु
प्रतिलोमं विन्यस्तेन संपुटीकृतं नाम पश्चात्
प्रणवेन संपुटितं कुर्यादित्यर्थः । मधुरत्रयं
प्राग्वत् ॥ ८४॥
इत्थं च
परां शान्तिमवाप्नोति
मृत्युरोगैर्न बाध्यते।
साध्य इत्यर्थात् ॥
पुनर्मत्युजयप्रकारान्तरमाह
भूर्जपत्रं समादाय
रोचनाया वरानने ॥८५॥
मातृकान्तरितं नाम
दूर्वाकाण्डेन चालिखेत् ।
तदभ्यन्तरगर्भे तु
स्वरैरन्तरितं
कुरु ॥८६॥

९० श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । पुनर्गर्भे समालिख्य साध्यनाम वरानने। ध्रुवेण वेष्टयेत्पश्चा- द्वकारेण ततः प्रिये ॥ ८७॥ सकारं च क्षकारं च लिखेच्च तदनन्तरम् । पुनर्वेष्टय ठकारेण मायाबीजेन सुव्रते॥८८॥ अङ्कुशेन निरुद्ध्येत रक्षां मृत्युविनाशिनीम्। स्वच्छन्दसहितां देवि प्रणवेनादियोजिताम् ॥ ८९॥ वषड्जातिसमोपेतां कर्पूरक्षोदचर्चिताम् । गन्धपुष्पादिना पूज्य प्रक्षिपेन्मधुरत्रये ॥९॥ गर्भ साध्यनाम । प्रणवेनादियोजितामपि

७०
खच्छन्दतनम् ।
[९ पट०
तच्च सर्व
प्रणवान्तर्गर्भीकृतां विधाय खच्छन्दसहितां
वषड्जातिसमोपेतां रक्षांकृत्वेति गर्भीकृतनाम्नः
प्रणवस्य बहिरघोरं वषडन्तं परिवेष्टनया लिखेत्
तच 'तदभ्यन्तरगर्भे तु स्वरैरन्तरितं कुरु'इति
बहिर्विन्यस्तकादिक्षान्तमातृकाया अभ्यन्तरे
षोडशभिः स्वरैरन्तःकृतैः परिमण्डलेन लिखितै-
व्याप्तं करणीयं यदाह मातृकान्तरितमिति। ए-
पुन(वेण वेष्टितं
सत्
क्रमेण वकार-
सकारक्षकारठकारैर्वेष्टयेत् । तदनु मायाबीजस-
स्केकारेण त्रिवेष्टयेत् । पश्चादष्टसु दिक्षु क्रोंका-
रेण रोधयेदिति व्यवहितवाक्यार्थसंगत्यनुसा-
रेण चक्रमेतत्प्रदर्शितम् ॥ ९ ॥
अर्चयित्वा चैतत्सिक्थकेन मुटितं मधुरत्रये
यस्य क्षिप्यते, तस्य
जायते परमा शान्ति-
त्रि कार्या विचारणा।
निश्चितमतिनैतत्प्रयुक्तमभीष्टं साधयत्येव ॥
अथवा गुटिकां कृत्वा
कण्ठे बाहौ च धारयेत् ॥११॥

९३ श्लो०] श्रीक्षेमराजाचार्यकृतोहयोताख्यटीकोपेतम् ।
७१
यः
तस्य व्याधिन जायेत
इत्येवं भैरवोऽब्रवीत् ।
गुटिकां कृत्वा इति जतुबद्धां कनकादि-
भूषितां विधाय कण्ठे भुजे वा धारयेत् । चो
वार्थे ॥
गुटिकां विना विशिष्टमत्राभिमत्रितभो-
जनपानक्रमेण सततं क्रियमाणेन मृत्युजि-
द्विधिमाह
त्र्यक्षरं मूलमन्त्रं च
वषड्जातिसमन्वितम् ॥९२॥
भोजनोदकपाने तु
मन्त्रयित्वाश्नतः सदा।
न तस्य जायते मृत्यु-
भैरवस्य वचो यथा ॥९३॥
नेत्रमत्रचतुष्कलनाथाभ्यां वषडन्ताभ्यां
भोजनपाने द्वे सततमभ्यवहरतो न मृत्यु-
भवति ॥ ९३॥

७२ खच्छन्दतम् । [९ पट० अथ विषादिहेतुर्यस्यापि मृत्युन, तं समा- दिशति अथाहिना महादेवि दूषितः साधको यदा। तदा मूलमन्त्रसमोपेत- मघोरं तत्र योजयेत् ॥९४॥ मूलमत्रः श्रीचतुष्कलः, तेन समोपेतं सं- पुटीकृतं, तत्रेति अहिदूषणप्रशान्तिनिमित्तम् । अस्यान्ते 'भगवन्विषं शमय २ हुंफट्' इति क्रूरजात्यन्त ऊहः प्रयोक्तव्य इत्यर्थात् ॥ ९ ॥ प्रयोगावसरे च आत्मनो भैरवं रूपं कृत्वा चैव सुदारुणम् । दंष्ट्राकरालविकटं ज्वालामालोपशोभितम् ॥९५॥ सर्ललल्लुम्बमानः खङ्गहस्तं सुभीषणम् ।

९८ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । पूर्वरूपसमोपेतं सूर्यकोटिसमप्रभम् ॥ ९६ ॥ तेनाकान्तं महादेवि दष्टकं तु विचिन्तयेत् । तज्ज्वालाभिः सुदीप्ताभि- र्दग्धं संचिन्तयेद्विषम् ॥९७॥ तत्क्षणाद्देवदेवेशि निर्विषः स तु जायते। कृत्वेति ध्यात्वा, सपैरिति हारकटकादिस्थै- रुपलक्षितं, पूर्वरूपं श्रीकोटराक्षसंबन्धि । अ. हिदूषितत्वं विषदूषितत्वोपलक्षणपरम् ॥ किंच ग्रहेष्वेवंविधं ध्यानं यः कुर्यात् सः मोचयेत्क्षणात् ॥९८॥ तेभ्योऽपस्मारादिग्रहेभ्यः साध्यमित्यर्थात् । १.

[९पर
अत्र च 'भगवन्नस्य साध्यस्य प्रहं शमय शमय
हुंफट्' इत्यन्तपूर्वोक्तमत्राभिमनितेनाम्भाकुसु-
मादिना साध्यं ताडयेदित्यर्थात् ॥ ९८॥
ध्यानासमर्थ प्रति विपशमनं कारुणिकत्वा-
दोषधिप्रयोगैरप्यादिशति शंभुः
अथ ध्याने ह्यकुशलो
यदा कश्चिन्नरो भवेत् ।
तदागदैर्महादेवि
निर्विषं कुरुते क्षणात् ॥ ९९ ॥
दष्टं भक्षितविषं ॥ ९९॥
अगदमाह
कुमारिद्वितयं गृह्य
नागिन्या तु सहकतः।
गोकर्णिकासित मूलं
सोमाह्वामूलसंयुतम् ॥१०॥

१.१लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ७५
आमगोक्षीरसंपिष्टं
भक्षयेनिर्विषो भवेत् ।
कुमार्याख्यौषधिः सफला वन्ध्या चेति द्वि-
रूपापि, नागिन्या महागोनासाह्वया सह गो-
क्षीरपिष्टमित्येकः प्रयोगः। गोकर्णिका गिरिक-
णिका, सोमावा सोमराजी, तयोः सितं
मूलं गोक्षीरपिष्टमिति द्वितीयः, क्षीरेण पिष्ट-
मप्येतद्धृतेन सह पाने नस्ये वा प्रयोक्तव्यम् ।
यद्वक्ष्यति
'श्रमदान्तसंयुक्तान् पिबेत् ......।' (१०८)
इत्यादि ॥
किंच
गोनिम्बस्य च मूलेन
निर्विषत्वं प्रजायते ॥१०१॥
गोनिम्बो भूम्यामलकी । कचित्तु ऐरण्डस्य
मूलेनेति पाठः। अत्रापि आमगोक्षीरपिष्टत्वं
रिखसमेव ॥११॥

६ खच्छन्दतब्रम् । [९ पट० अश्वमारस्य मूलं तु उदकेन तु पेषयेत् । पाने नस्ये प्रदातव्यं तदा भवति निर्विषः ॥१०२॥ अश्वमारः करवीरकम् ॥ १०२॥ आरग्वधस्य मूलं तु उदकेन च पेषयेत् । पाने नस्ये प्रदातव्यं तदा भवति निर्विषः ॥१०३॥ आरग्वधमारोचकमिति प्रसिद्धम् ॥ १०३ ॥ मधुकस्य तु सारं य- नस्ये पाने प्रयोजयेत् । निर्विषस्तु प्रजायेत भैरवस्य वचो यथा ॥ १०४॥ मधुकस्य मधूकस्य सार आन्तरो भागस्तं द्वयोः प्रक्रान्तत्वात् उदकेन क्षीरेण वा पिष्ट्वा,

१०७ श्लो० ] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । .७७ .
नस्ये पाने प्रदातव्यम् । मधुकं मधुयष्टि-
रित्यन्ये॥ १०४॥
जम्बुलासिकमूलं तु
पाने नस्ये प्रयोजयेत् ।
निर्विषस्तु भवेदेवि
नात्र कार्या विचारणा ॥१०॥
जम्बुलासिकमूलं जम्बुवृक्षमूलम् । अत्रापि
गोक्षीरपिष्टमिति स्थितमेव ॥ १०५ ॥
अथ विषानाक्रमणहेतुमगदगुटिकाप्रयोगमाह
षबिन्दुपटखजूर-
सूक्ष्मचूर्णं तु कारयेत् ।
मयूरपित्तसंयुक्तं
गुटिकां कारयेत्प्रिये ॥ १०६॥
त्रिलोहवेष्टितां कृत्वा
करे कण्ठे निधापयेत् ।
न विषं क्रमते तस्य
यश्च दृष्टो महोरगैः ॥ १०७॥

[१ पबिन्दुः प्राणिविशेषः । पटखरं शत- पदी । गुटिकां कारयेदित्यनन्तरं तां चेति, निधापयेदित्यनन्तरं यत इति चाभ्याहार्यम् । त्रिलोहं हेमरजतताम्रम् ॥ १०७ ॥ अगदप्रयोगे शेषविधिमाह अगदान्तसंयुक्ता- पिबेहे विषदूषितः। न विषं क्रमते तस्य इति शास्त्रस्य निश्चयः॥१०॥ एतेष्वगदेषु धान्येषु वा पृथक्पृथक् कुण्डली- यगारुड्येकवीराबलामोटादिमूलविषयेषु नि- कम्पप्रतिपत्तिना प्रयुज्यमानेषु अविसंवा- दिता भवतीति दर्शयन् पटलमुपसंहरति एवमन्येऽपि ये योगाः स्वच्छन्देन विनिर्मिताः। कालाग्निर्नरकाश्चैव पाताला हाटकेश्वरः ॥१०९॥ प्रदद्याद्भावितात्मा च सिद्यन्ते नात्र संशयः।

१०९ श्लो०] श्रीक्षेमराजाचार्यकृतोक्ष्योताख्यटीकोपेतम्। ७९
खच्छन्देनेति सर्व हि परमेश्वरेण प्रवर्तितम्।
यदुक्तं श्रीश्रीकण्ठ्यां
'प्रवर्तेतेश्वरात्सर्व निवर्तेत तथेश्वरात् ।
ईश्वराधिष्ठितं सर्व जगत्स्थावरजङ्गमम् ॥
महादेवात्परं नास्ति सत्यमेतन चान्यथा ।'
इति । च एवार्थे, भावितात्मैव प्रयुञ्जीतेत्यर्थः ।
पाटलिकी संगतिरदूर एव
'कालाग्निर्नरकाश्चैव पाताला हाटकेश्वरः।'
इत्यादिना पटलान्तं कटाक्षयता ग्रन्थेन कृ.
तेति शिवम् ॥
व्याधीनामगदं दिव्यमाधीनां मूलकर्तनम् ।
उपद्रवाणां दलनं महादेवमुपासहे ॥
इति श्रीखच्छन्दोड्योते
नवमः पटलः समाप्तः ॥ ९ ॥

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Shrii Svachchhandatantrama~ Chatura~tha Bhaaga Grantha 47

Author
Qs-emaraaja
Title
Shrii Svachchhandatantrama~ Chatura~tha Bhaaga Grantha 47
File name
Shrii Svachchhandatantrama~ Chatura~tha Bhaaga Grantha 47
Text
OCR done
Citation
1927
Published
2005-11-19
Publisher
Nira~nd-aya Saagara
Language
Sanskrit
Pages
94
Classification
Religion. Theology
DLI number
369220
Barcode
2030020016038.00
Scanning centre
RMSC, IIIT-H
Digital publisher
Digital Library Of India
Rights
IN_COPYRIGHT
VMLT id
EhldG9CtWeK
Download PDF

Shrii Svachchhandatantrama~ Chatura~tha Bhaaga Grantha 47