Bharatiya Vidya Bhavan Library, Mumbai
Divyasuri Caritani
Front matter
विषयानुक्रमणिका vii ३ ८ २० २७ ३२ ४५ FORE-WORD उपोद्धातः गुरुपरम्पराप्रभावावतारिका सूरित्रयचरितम् भक्तिसारचरितम् शठकोपरिचरितम् मधुरकविचरितम् कुलशेखरसूरिचरितम् विष्णुचित्तचरितम् गोदाचरितम् भक्ताधिरेणुचरितम् पाणसूरिचरितम् परकालसरिचरितम् काञ्चीपूर्णचरितम् श्रीवत्सचिह्नमिश्रचरितम् दिव्यप्रवन्धप्रामाण्यम् अनुबन्धः प्रथमः अनुबन्धः द्वितीयः अनुबन्धः तृतीयः लघुटिप्पणी INDEX ५५ ७७ ९५ १०१ १०६ ११५ १२२
चित्रसूची
१) सरोमुनिः
८) विष्णुचिच्सरिः
२) भूतमुनिः
९) गोदादेवी
३) महदाइयः
१०) भक्ताप्रिरेणुमरिः
४) भक्तिसारमुनिः ११) पाणसूरिः
५) शठकोपसूरिः
१२) परकालसूरिः
६) मधुरफविसूरिः
१३) फाधीपूर्णः
७) कुलशेखरसूरिः १४) श्रीवत्सचिहमिथः
१५) अन्यकर्ता
THE AUTHOR
श्रीयालपन्यि जग्गु येवटापाया
यादवादियुटीरोऽयमानायान्तपिशरद ।
जीगटचर्य श्रीशिरार्थतन्मय ॥
१-२-१८७४
परमपदम्-१४-८-१९६०
भयतार
vi
saints and earn felicity of expression in Sanskrit. Shri
Jaggu Venkatāchārya was a great scholar having a
number of Sanskrit books to his credit, and the present
work is a fine literary specimen of the learned prolific
writer.
VARANASI-2
20th August, 1969
S. N. SHASTRI
श्रीमते रामानुजाय नमः॥ उपोद्धातः विष्णोरव्याजकरुणालन्धभक्तिविरक्तिपु। चेतनोजोवनार्थेषु प्रणामो दिव्यसूरिषु ।। श्रिय:पतिरवाप्तममस्तकामः समस्त-कल्याण-गुणगण-मणि-रोहण-गिरिः जगजन्मादिकारणं परात्परः परमपुरुषः परब्रह्माभिधानः परमं पदमधितिष्ठन् चेतनोजिजीवयिपया सिसृक्षुस्तान् करणकलेबरैः संयोज्य, विधिनिषेधपराणि शास्त्राणि तदुपदेष्टारमाचार्य च प्रदायार्थपञ्चकज्ञानमुपदिदेश । तथापि स्वेच्छाप्रवृतिमतो विरुद्धानुष्ठानपराश्च चेतनान् स्वधर्म प्रवर्तयितुं नरो नारायणश्च भूत्वावतीर्य शिप्याचार्यधर्मान् स्वयमनुष्ठाय प्रादर्शयत् । पुनश्च तदातदा नैकधावततार तानेतान् सत्पथे प्रवर्तयितुम् । तत्राप्यसाधारणैधर्मेरस्य परत्वं विज्ञाय चेतनास्सुदूरं सन्निवृत्ताः । ततश्च मनुष्य- सजातीयोऽजनि रामकृष्णादिना रूपेण । तत्रापि ते तं नैवागणयन् यतोऽसावतिमानुषैः समुद्रतरणादिभियापोरैर्निहीनैरपि कपिलेहादिभिः कदाचित् परत्वमन्यदावरत्वं च स्वस्य प्रकटीचकार । एवं सर्वथैव भगवत्प्रवृत्तिप्रतिकूलवृत्तिषु चेतनेषु, स भगवान् सुसूक्ष्म विचिन्त्य काश्चन चेतनान् विशेषतोऽभिवीक्ष्य, तानिमान् हुतबहज्वालापञ्ज- सन्तरिव संसारिमध्ये प्रवेश्य, वश्यैरेव गजेनूमान् मत्तमतगजानिवैभिरेवैतान् स्वायत्तीकर्तु प्रायतत । दिव्यसूरीणां महत्वम् ते तु निर्हेतुकया भगवतः कृपया सन्तीर्णतन्मायाः साक्षात्कृत- यथावस्थिततत्वहितपुरुषार्थज्ञानाः, भगवत्पारनव्यकाष्ठानिष्ठाः नित्यानन्दानुभव- योग्यानपि संसारेषु नितरां क्लिश्यमानश्चेितनानुद्वीक्ष्य निर्विष्णाः परोपदेशमुखेन vili - तान् सुपथा प्रवर्त्य, 'पोलिह पोलिह' इति शठकोपसूरिसूक्तिक्रमेण वातंत्रातं भगवद्भक्तांस्त्यक्ताभिमानान् व्यधुः । ततो ननन्द भगवान्नितरां निजप्रयल- साफल्यात् । एवं 'स्वासाव्ये कर्मणि सिद्धहस्ता इमे' इति किल भगवानेतेपु विशेषतोऽनुरक्तो भवति । अनेकेषु च भगवतोऽवतरेषु यथा दशानां प्राधान्यं तथैवाचार्यावतररूपेप्वेषु दश सुरयः प्रधानतमाः । यतश्चाचार्यावतरस्य विशेषतः पाश्चरात्रे प्रशंसा कृता । एतेषां च तरतमभावः तन्निष्ठयैव गृहीतुं शक्यते । तथा हि. देहात्माभिमानिनां चेतनवर्गाणां ऋषीणां च पर्वतपरमाण्वोरिव यथा तारतम्यं प्रसिद्धम् ; तथैव ऋषीणा दिव्यसूरीणां च तादृशमेव तारतम्यं सिद्धम् । दिव्यसूरिप्वपि भट्टनाथस्य वैशेष्यं निश्चितम् । यतोऽयमितम्सूरिवत् मोक्षमपि परमपुरुषार्थ न प्रार्थयामास । किन्तु भगवन् ! कलिकलुपेऽस्मिन् लोके मद्विलोकनायागतस्य तव को वानर्थः समापतेदिति शङ्कितः 'शतञ्जीव ' इति भगवतो मङ्गलमागासामास । एवं भट्टनाथस्य गोदायाश्च तारतम्यं वरीवति । यतो हि भगवान् सुप्त चेतनजातमुत्थाप्य स्वमपि प्रदर्शयति । इयन्तु गोदा स्वयं भगवन्तम् उत्थाप्य 'तिरुप्पावै ' नामकप्रबन्धमुखेन स्वावस्था तस्मा एव निवेदयामास । किञ्च, भगवद्भक्तिकार्यभूतेषु नायिकादिभावेषु दिव्यसूरीणा नायिकातादाम्या- धनुसन्धानञ्च म्बसह नपुंस्त्वेन सह विरुद्ध भासत इति न सरसतरम् । अस्यास्तु स्वतः प्रेमप्रधानसहजस्त्रीत्ववत्या सरसतरमिति । अतश्चतादृशाः सुरय एव सदा संसेव्यास्सर्वैरपि । श्रुतिस्त्वाह-'आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति परमात्मनः श्रवणादिविषयत्वमिति । एतत्परमतात्पर्यभूतमर्थ स्मृतिराह- . - ix . आहादशीतनेताम्बुः पुलकीकृतगालवान् । सदा परगुणाविष्टो द्रष्टव्यः सर्वदेहिमिः ॥' इति । अस्यार्थः सदा भगवद्गुणानुभवजनितप्रीतिपरवशः शीतलतरानन्दवाप्प- विसरेणेव ताहशपारवश्येन रोमाञ्चितगात्रः भागवतोतमः सर्वदेहिभिर्द्रष्टव्यः । भगवास्तु कर्मज्ञानभक्तिनिष्ठेरेख द्रष्टव्यो भवति । एते हि भागवतोचमाः सर्वदेहिभिः जानिभिरनानिभिश्च द्रष्टव्याः। इत्येषामेव दर्शनविषयत्वमाह । 'सदा द्रष्टव्य' इति सदादर्शनविषयत्वमप्येतेषामेवेति च । 'मत परन चापि' इति हि परमाचार्या: श्रीयामुनमुनयोऽप्यनुसन्दधते स्वकीये स्तोत्ररले । विभवावताराणामेषां तदानीन्तनरेवानुभाव्यत्वेन स्रोतःप्रवाहस्येव कालान्तरे देशान्तरे च गतकल्पत्वेनेदानीन्तनैरपि द्रष्टव्यत्वाय देवमन्दिरेपु दिव्या रूपेण प्रतिष्ठापनं कृतं ज्ञानिमिः भक्तवर्गः। एतेषामवतरस्तदातदा प्रवर्तत इति प्रमाणैरुपलभ्यमानश्चेदानीमप्यनुभूयते यादवाद्रौ घरवर्णिनी- शरीराधिष्ठितलक्ष्मीदासावतारे । शुकशौनकादय इवैते सरयः तदातदाविर्भाव- तिरोभावैर्जगदनुगृह्णन्त्यद्यापि । सूरीणां चारित्रकपन्थाः तेषां गुणगणानुभवरूपचरित्रविशेषान् ग्रन्थरूपेण च न्यवक्षन् केचन आचार्याः शिष्यपरम्परया ऐतिह्यरूपेण कथ्यमानान् कथावशेषान् । एतादृश- चारित्रकप्रबन्धनिबन्धकेपु प्रप्रथमः श्रीनिवाससूरिः । यः किलाचार्यरामानुजा- चार्येण नियुक्त: श्रीरङ्गनाथवैद्यशालायाः अधिकारे 'वैद्यराजः' 'गरुडवाहन- पण्डितः' इति च प्रथामवाप । स चाष्टादशसर्गात्मकं 'दिव्यसूरिचरितम्' नाम महाकाव्यं व्यरचयत् । द्वितीयश्च श्रीपराशरमारकः । यश्च कूरनाथकुमारः श्रीरामानुजार्यकरुगापूर्णपात्रं स्वयं निवबन्ध दिव्यमूरिप्रभावदीपिका' 'गुरुपरम्पराअभावदीपिका' इति च ग्रन्थद्वर्याम् । तत आरभ्यायावधि नामतो अन्यतो वा समुपलभ्यमानाः दिव्यसुरीणां चारित्रकाः सम्प्रदायप्रवन्धा एते- - 2 १) दिव्यसूरिचरितम् - श्रीनिवासकविः कि. श. ११-१२ शताब्दी (१८ सर्गाः) " २) दिव्यसूरिप्रभावदीपिका श्रीपराशरभट्टारकः क्रि.श. ११-१२ शताब्दी ३) गुरुपरम्पराप्रभावीपिका ४) विज्ञानस्तुतिः गोविन्दयतिः (एम्बार) क्रि.श. ११-१२ शताब्दी ५) रामानुजचरितम् ----श्रीवालधन्विगुरुः (नष्टम् ) ६) चरमोपायसारः माधवमुनिः (नञ्जीयर्) क्रि. श. १२ शताब्दी ७) श्रीवैष्णवप्रकारः • कलिवैरिदासः (नम्बिकै) क्रि. श. १३ शताब्दी ८) जयन्तीमाला ९) प्रपत्सिोपानम् १०) प्रपन्नकल्पक: ११) गुरुपरम्पराप्रभावम् (बृहत् १२ सहस्रग्रन्थात्मकम् , पन्नीरा यिरप्पडि) ३२ अक्षराणाम् एको ग्रन्थः इति व्यवहारः पश्चात्सुन्दरमुनिः (पिन्बळहियपेरुमाळ्जीयर) कि. श. १३ शताब्दी १२) गुरुपरम्पराप्रभावम् (मध्यमम् ६ सहस्रिका) १३) गुरुपरम्पराप्रभावम् (३ सहतिका) १४) वार्तामाले १५) ज्ञानार्णवम् श्रीराराजाध्वरी १३-१४ शताब्दी १६) गुरुपरम्पराप्रमावम् द्राविडवेदान्तदेशिका कोलवराहगुरुः कि. श. १४ शताब्दी चतुर्यामदेवराजः १९) नारायणचरितम् - नारायणमुनिः १५ शताब्दी " " - " -- . " २०) आचार्यचरितामृतम् क्रि. श. १५ शताब्दी २१) गुरुपरम्पराप्रभावदीपिका-वेदान्तिरामानुजमुनिः २२) उत्तरसूरिचरितम् २३) दिव्यसूरिजयन्तीस्तवः अप्पिले १६ शताब्दी २४) रामानुजार्यदिव्यचरिता लोकाचार्यमुनिः २५) गुरुमुक्तावली परवस्तुमुनिः २६) गुरुपरम्पराप्रभावम् ब्रह्मतन्त्रयतिः २७) महाधीमौळिक्रमः वाघूलश्रीनिवासः (पेरियतिरुमुडियदैव) २८) प्रपनामृतम् अनन्तायः १६-१७ शताब्दी २९) श्रीवैष्णवसमयाचारनिष्कर्षः लोकाचार्यमुनिशिष्यः ३०) रामानुजचरितत्रु चिक्कुपाध्यायः १७ शताब्दी ३१) इतिहासमाला रामचन्द्रयतिः ३२) प्राचीनमार्गप्रकाशः वाधूलबीरराधवः २८ शताब्दी (पळनडेविटकम्) ३३) त्रिंशत्प्रश्नोतरम् ३४) अस्मद्गुरुचरितम् वेङ्कटलक्ष्मणमुनिः १९ शताब्दी ३५) प्रयन्धनिर्वाहम् इत्यादयः । प्रकृतग्रन्थावतरणम् तेषु पट्सहतग्रन्थसंख्यापरिमितं नातिसंग्रह विस्तृतं संस्कृतद्राविडोमय- मापासझलनरूपमणिप्रवाळमयं श्रीमत्पश्चासुन्दरमुनि(यज्ञेशसरि)विरचितं गुरु- परम्पराअभावमेव सर्वेप्याद्रियन्ते । अतस्तमेव ग्रन्थं भागशोऽन्ववदन् गैर्वाण्या वाण्या सकल जनोपकारायास्सदाचार्यास्तातपादाश्च श्रीमन्तो वालपन्विकुलकलश- " " xii जलनिधिकलानिधयः साहित्यरत्नाद्यनेकविरुदाङ्किताः श्रीजगुवेङ्कटाचार्य- स्वामिनः । यश्च तैर्यादवाद्रिविराजमानसंस्कृतमहाशास्त्रशालागभूतया गीर्वाण- भाषामिवर्धिनीसभासमाख्यया विद्यार्थिसभया प्रवर्तितेषु तत्तद्दिन्यसूर्यायवतार- दिनोत्सवोपन्यासेपूपन्यस्तो ग्रन्थरूपतामवाप। यश्चायं ग्रन्थोऽञ्जनमुनाधि- छानावतरे तैस्तैरेव दिव्यसूरिभिः सादरं सप्रेम सौत्सुक्यश्च निशम्य सशिरः- कम्पञ्च संश्लाधितोऽभूत् । दिव्यसूरीणां कालविचारः केचनार्वाचीनाः पण्डिताः एते दिव्यसूरयः किस्ताब्दीयसप्तमशतका- दारभ्य नवमशतकपर्यन्ते काल एवासन्निति वदन्ति । यतध विशिष्टाद्वैत- सिद्धान्तस्थापकाचार्याद्रामानुजाचार्यादनतिपूर्वे काले (प्रायः किस्ताब्दनवमशत- कान्त्यभागे) स्थितं रामानुजार्थपरमाचार्यश्रीयामुनमुनिपितामहं श्रीनाथमुनि प्रति साक्षादेव चतुस्सहस्रगाधाना द्राविडभापामयानामुपदेशः श्रीपरानुशमुनिना शठकोपापरनाम्ना कारिसुतेनाकारि । अतश्चायमेवान्तिमो दिव्यसूरिः । चतु:- सहस्रगाधानां समस्तदिव्यसूरिकृतानामप्युपदेशकरणात् सर्वेषु दिव्यसूरिपु प्रधानतम इति च । किश्च, यदा मधुरकविना 'शङ्गप्पलहे' नामके द्राविडकवीनामुत्तमो- तमत्वनिर्णायके स्थले श्रीपराड्कुशमुनिसूक्तिमात्रेण तस्या एवोत्तमोत्तमत्वं निरणायि; तदा किल कम्बर नामकः द्राविडमहाकविः चकितो विस्मितश्च पराड्कुश तुष्टाव पद्यैः पञ्चपञ्चागद्विः । अतोऽपि पराङ्कुशः कम्बसमान- कालिकः । कम्बर नामकश्च पूर्वोदितालवर्तीति च विधितम् । अपि च परकालरिणा सम्बन्धाख्यः (तिस्मानसम्बन्धर) शैवकविः जित इति तचरिते वर्णनात् , तस्य च सप्तमारमशतकेषु स्थितत्वात् परकाल- सूरेः फालोऽपि स एवेति ।
xiii परञ्च परकालसूरिः स्वप्रबन्धे काञ्चीस्थम् अष्टभुजनामकं भगवन्तं स्तौति (पेरियतिरुमोकि २ शतके ८ दशके १० पद्यम् )। तत्र च स भगवान् वज्रमेघ (वयिरमेह) नामकेन राज्ञा वन्दित इति वर्णयति । स च राजा अद्यतन वादामिनामककर्णाटदेशगतनगरप्रान्तस्थितः तदातनः 'दन्ति- दुर्गवनमेघ'नामासीत् । स चैतदन्तर एवासीत् । अतः स एवास्यापि कालः इति । अपरं च 'पल्लवन् विल्लवन्' (पेरियतिरुमोळि २-९-१) इति तत्रैव वर्णनात् पल्लवानां कालोऽपि स एवेत्यस्यापि कालः पूर्वोदित एवेति । वयन्तु मनुमहे नैतत् समीचीनमिति । तथाहि-व्यासो वेदविभाग- कर्ता महाभारतं ब्रह्मसूत्रं च रचयामासेत्यत्र न कस्यचिद्विवादः । महाभारतो- क्त्यैव महाभारतरचनाकालः क्रिस्तात्पूर्व ३१०० तमो वत्सर इति निष्कृष्ट भवति । स एव व्यासः महाभारते ब्रह्मसूत्रे च पाश्चरात्रशास्त्रं प्रशंसति । ब्रह्मसूत्रे च पाञ्चरात्राधिकरणे पाञ्चरात्रशास्त्रं पूर्वपक्षशास्त्रतया विवत्रुः शङ्करभगवत्पादाः । आचार्यरामानुजार्यास्तु सिद्धान्ततया । यथाकथमपि स्यात् । अनेन ब्रह्मसूत्रादपि प्राचीनं पाञ्चरात्रशास्त्रमित्यत्र न कोऽपि विप्रति- तत्र पाञ्चरात्रसंहितासु दिव्यसरीणां नामादिकं श्रूयते । अतो महाभारताद्ब्रह्मसन्त्राच प्राचीना एते दिव्यसरय इत्यभ्युपगन्तव्यमेव सर्वैरपि । किञ्च, अनूका नतयैपां परमप्राचीनत्वेऽद्याववि सर्वसम्प्रतिपन्ने सत्यपि, विंशतिशताब्यामुद्भूतेनोग्लजनानुवर्तिना इतिहासशंमन्येन प्राचीनानूचानोक्तिः कथं ब्याहन्यते ! प्रबन्धोक्ताः पल्लवादयश्चोतकालात् प्राकनाः आधुनिक- पल्लवाद्भिन्नाः कथं वा न स्युः ? अत एवोक्तं श्रीपराशरमुनिवरैः विष्णुपुराणे- बहुत्वान्नामधेयानां परिसंख्या कुले कुले । यौनरुत्याद्धि साम्याच्च न मया परिकीर्तिता ॥ " (४-२४-११७) इति । पद्यते।
xiv - दिव्यसूरीणां प्रवन्धाः एतैश्च दिव्यसरिमिरुपदिष्टाः भगवदनुभवपरीवाहरूपाः प्रबन्धाः 'दिव्य- प्रबन्धाः' 'चतुस्सहस्रगाधाः' 'द्राविडाम्नायाः' इत्युच्यन्ते । वेदोपबृंहणरूपत्वेन चैतेपामुपबृंहणेषु मुख्यतमत्वं च वरीवर्ति । मन्त्रब्राह्मणादीनां विवरणविवरणिभावे सत्यपि यथा वेदत्वं न हीयते, तथैवैषां वेदत्वोपबृंहणत्वयोन विरोधः । एते च चतुर्विंशतिसंख्याकाः प्रबन्धाः गायत्र्यक्षरसमसंख्यतया गायत्रीरामायणवत् गायत्रीस्वरूपास्तदर्थप्रतिपादका इत्यपि प्रसिद्धमेव । याज्ञवल्क्यब्रह्मोपनिषदि विष्णुयामळतन्त्रादौ च स्पष्टतरोऽयं विषयः। एते च संख्यया अन्यूनानतिरिक्ताः 'चतुस्सहस्रगाधाः' इत्युच्यन्ते । आभिस्सह 'रामानुजनूतन्दादिः' इति च पञ्चविंशः प्रबन्धः श्रीरगनाथनियमनानुसारमर्थपूर्तये पठ्यते । न तु चतुः- सदलसंख्यापूर्तये । दिव्यसरिभिश्चैतैरनुगृहीता अनुपदिष्टाश्चानिर्दिष्टाः प्रबन्धा बहवो वर्तन्ते । तदुक्तं 'वृत्तगद्यात्मिका रम्याम्' इत्यादिप्रमाणेषु । तदेवमनुभूयन्ते प्रत्यक्षमेवारसदादिभिरधिष्ठानमुखेन तचदिव्यसरिभिरुपदिश्यमानाः वृत्त- गद्यात्मकाः प्रागुक्तप्रबन्धानुबन्धभूताःप्रबन्धा अद्यतने लक्ष्मीदासाधिष्ठानावतारे यादवाद्रौ इति । दिव्यदेशाः एतैश्च दिव्यसरिभिरनुभूतानि सङ्कीर्तितानि च दिव्यक्षेत्राणि दिव्यदेशा इत्युच्यन्ते । तानि च प्राधान्येनाप्टोत्तरशतसंख्याकानीति विश्रुतानि । यतश्च विशेषतस्वयं सन्निहितो भगवानस्यादरेण तेषु क्षेत्रेषु । तेष्वपि प्रधानतम दिव्यदेशचतुष्टयम् । तच श्रीर, वृषगिरिः, करिगिरिः, यदुगिरिः इति नाममिः प्रसिद्धम् । तदेतत् सम्यक् निरूपित पूर्वोदिते गुरुपरम्पराप्रभावान्थे । निगमान्तगुरुमिरपि तदेव दृढीकृतं सङ्कल्पसूर्योदये स्वकीये नाटके - 'श्रीरमं धूपमाचलं करिगिरि श्रीमद्यदुक्ष्माधरम्' (अंके १० सो ९०) -- दिव्यदेशमङ्गलाशासने च-- विधिविहितसपयां वीतदोपानुपङ्गाम् उपचितधनधान्यामुत्सवैस्स्त्यानहर्षाम् । स्वयमुपचिनु नित्यं रङ्गधामन् ! स्वरक्षा शमितविमतपक्षां शाश्वती रङ्गलक्ष्मीम् ॥१॥ प्रशमितकलिदोपां प्राज्यभोगानुबन्ध समुदितगुणजातां सम्यगाचारयुक्ताम् । श्चितजनबहुमान्यां श्रेयसी चेङ्कटाद्री श्रियमुपचिनु नित्यं श्रीनिवास । त्वमेव ॥२॥ वरद ! विरचय त्वं वारितारोपदोषां पुनरुपचितपुण्या भूपितां पुण्यकोया । सितमुदितमनोमिस्तावकैनित्यसेन्यां हतरिपुजनयोगां हस्तिधाम्नस्समृद्धिम् ॥३॥ नवनवधाभोगां नाथ ! नारायण ! त्वं विरचय दुरितोपखामनामातगन्धाम् । सहजपुलमदास्य-सद्भिरभ्यर्थनीयां यतिपरिवढढ्या यादवारेस्समृद्धिम् ॥४॥ इति । श्रीरम्यज मातृमुनिभिरपि स्वकीये मङ्गलाष्टके- लक्ष्मीचरणलाक्षासाक्षिश्रीवत्सवक्षसे । क्षेमकाय सर्वेषां श्रीरहेशाय मालम् ॥१॥ वियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् । श्रीवेष्टनिवासाय श्रीनिवासाय मङ्गलम् ॥२॥ मस्तु श्रीस्तनकस्तूरीवासनावासितोरसे । थीहस्तिगिरिनायाय देवराजाय मङ्गलम् ॥३॥ .
xvi - कोयिल् तिरुमले कमलाकुचकस्तुरीकर्दमाङ्कितवक्षसे । यादवादिनिवासाय सम्पत्पुत्राय मङ्गलम् ॥४॥ इति । महीशरजनपदगताद्यतनश्रवणबेळगोळनामके पद्मगिरी श्रीरामानुज- सयमिसार्वभौमविजयस्थाने जैनमन्दिरगतशिलालेखे च- पेरुमाळ्कोयिल् तिरुनारायणपुरं मुदलाद ' इति दिव्यदेशचतुष्टयं प्रकीर्तितम् । यतीन्द्रप्रवणप्रभावे च स्पष्टमेतदेव प्रतिपादितम् । तदेव च ' पेरिय- तिरुमुडियडैवु' नामके वाधुलश्रीनिवासार्यकृते द्राविडग्रन्थे उपोद्धातप्रकरणे स्पष्टममाणि । तत्र च प्रमाणतया श्रीरामानुजार्यदिव्यसक्तिरुदाहृता । सा च 'श्रीरङ्गमङ्गलमणि करुणानियासं श्रीवेङ्कटादिशिखरालयकालमेघम् । श्रीहस्तिशैलशिखरोज्ज्वलपारिजातं श्रीशं नमामि शिरसा यदुशैलदीपम् ।। इति । यामुनाफैकलव्यस्य श्रीरामानुजायस्यैवमनुसन्धाने कारणञ्च प्रपन्नजन- कूटस्थस्य श्रीपसकुशमुनेरन्तरगसम्मशननिपुणधिषणावस्वमेव । पराकुशमुनिः हि स्वप्रबन्धस्य प्रथमे 'उयवर' इत्यादिपये प्रथमपादेन श्रीरगनाथं द्वितीयेन श्रीवेकटाचलनिलयं, तृतीयेन हस्तिगिरीशं श्रीदेवराज, चतुर्थेन च लक्ष्मी- विशिष्टचरणवत्वरूपाव्यमिचरितलिङ्गप्रतिपादितं श्रीयादवाचलाधीश श्रीनारायण च स्वग्रन्थपरमतात्पर्य बोधयामास । तस्याप्येवं निरूपणे कारणमेवमुन्नीयते-- यतः पाश्चराने रलत्रयान्तर्गतयोः सात्वतजयाख्ययोः संहितयोरयमेवार्थः स्पष्ट- मभ्यधायि । यथा जयाख्यसंहितायां प्रथमपटले प्रथमाध्याये- भगवद्याक्तिदेशेषु स्वयंव्यक्तेषु भूतले ॥८॥ अष्टोतरशते मुख्यं रत्नभूतं चतुष्टयम् । श्रीरवेष्टाद्रिश्च हस्तिशैलस्ततः परम् ॥९॥ ततो नारायणाद्रिश्च दिव्यस्थानचतुष्टयम् ||....... - xvii सात्वतं यदुगैलेन्द्रे श्रीरङ्गे पौष्करं तथा ॥१२॥ हस्तिशैले जयाख्यञ्च साम्राज्यमधितिष्ठति । पामतन्त्र हस्तिशैले श्रीरङ्गे पारमेश्वरम् ॥१३॥ ईश्वरं यादवादौ च कार्यकारि प्रचार्यते ॥ इति । ईश्वरसंहिताया विशे अध्याये च-- नारायणो मुनिश्रेष्ठाः स्थितो नारायणाचले ॥२१॥ क्षेत्रेप्चेतेषु योगीन्द्राः सारभूतं चतुष्टयम् ॥१११॥ श्रीरङ्ग वेङ्कटाद्विश्च हस्तिशैलस्त्वनन्तरम् । ततो नारायणाद्रिश्च मम धामचतुष्टयम् ॥११२॥ इति च । एवं श्रीपञ्चरात्रसंहिताभिः प्रपन्नजनकटम्थेन पराङ्कुशमुनिना गुरुपरम्पराभिश्च मुहुर्मुहुरदीतस्योद्गीथप्रतिपाद्यम्य श्रीयादवाचलाधीशितुः श्रीनारायणस्य सर्व- सूरिभिरप्यनुभूतत्वम् अनुभूतप्रकारेण गीतत्वञ्चानिच्छद्भिरिच्छद्भिरपि सर्वैः सम्प्रतिपयमेव। निश्च, १८७८ किम्ताव्दे मद्रास् विवेककलानिधिमुद्रालये मुद्रिते गुख्खरम्पराप्रभावे पट्महम्बिकायां (आरायिरपडि) परकालचरिते द्वादश- सइमिकागत (पन्नीराचिरप्पडि) विशेषविषयनिरूपणनम्ताये 'सालपाम, तोण्डनुरु, तिरुनारायणपुरम् मुदलानवै सेवित्तु' इति निरूपितं वर्तते । फलिजितापि यादवादिस्सेविता । 'नारायणान्न नाम' 'नमो नारणमे' इत्यादिषु च गीतो नारायण इति च स्पष्टीभवति । कि बहुना ! निष्पक्षपातिनया माध्यस्थ्यमवलम्बमान. आचार्यसहस्पतिः स्वकीयेऽर्थशाने यादयादि प्रशंसति-'अष्टवैष्णवक्षेत्राः । बदरिका-सालमाम- पुरषोत्तम-द्वारका+अहोनिल-वेदाचल अनन्तसिंह-श्रीरमाः (११९-१२०) इति । उत्तरदेशेषु चत्वारि, दक्षिणेषु च चत्वारि विष्णुस्थानानि प्रधानानीति तात्पर्यग प्रतिपादयति । 'वेदादि.' इति प्राक्तनं यादवानमिति स्फुटमेर । अतश्च 8 xviii श्रीरामानुजायैः श्रीरङ्गक्षेत्रे समारब्धं समुद्दिष्टं कार्यजातमेव यादवाद्रौ परिपूर्णतया स्वेच्छानुगुणं निवर्त्य व्यवस्थापितम् । अतः श्रीरङ्गादीनां चतुर्णा समप्राधान्यमवगम्यते । न तु तत्रापि तरतमभावो विवक्षितः । अत एव 'मम धामचतुष्टयम्' इति समाहृत्यैवोक्तं संहितायाम् । न तु प्रथम द्वितीयमित्यादि। एतेन यादवाद्रिर्दिव्यसूरिमिः न सीर्तितेति केपाश्चिद्वादो निरस्तः । एवञ्च दिव्यसूरयो दिव्यप्रबन्धाः दिव्यदेशाश्चात्रैव दिव्यत्वमात्मनो गुणगणादिनानुष्ठानेन च काइमाणैस्सर्वैरपि सादरं सविश्वासं सानन्दं च संसेव्या इति भक्तेषु विरक्तेपु ज्ञानिपु च मुक्तकल्पेषु नमोवाकं प्रयुञ्जन्नयम् अकिञ्चनः किञ्चिदेवं व्यज्ञापयत् । ग्रन्थस्यैतस्य प्रकाशने सायकृतो भारतकेन्द्रसर्वकारस्य, उपोद्धातादि- लेखने विषयसंग्रहणे साह्यकृतश्चिरायुप्मतो भागिनेयस्य विद्वद्वरस्य श्रीरामशर्मणः उपोद्धातस्यैतस्यांग्लभाषानुवादे साधकृतां प्रो. वि. टि. तिरुनारायणय्यज्ञार्याणा, ग्रन्थमेनं सम्यक्सम्मुद्य सकाले साह्यमारचितवतां संस्कृत-साहित्य-सदनस्य अधिकारिणां च सविधे कृतज्ञतामर्पयन् उक्तिमेतामुपसंहरामि । महीशूरनगरी १५-९-६९ भागवतचरणनळिनपरिचरणचञ्चरीकाणां पदपङ्कजपरागपरिग्रहधन्यजन्मा दासः वालधन्वि जग्गु सुदर्शनाचार्यः विशिष्टाद्वैतविभागप्राध्यापक महाराजसंस्कृतमहापाठशाला, मैसूरु सौम्य भाद्रपद शुक्र पञ्चमी-बुधवासरः INTRODUCTION I bow before the Divine Secrs of great devotion and detachment through the spontaneous compassion of Visgu whose ambition is the upliftment of me The Lord of Sri, the Supremac Person endowed with infinite auspicious qualities, the Self fulfilled Absolute known as Para- Brahman, the sole cause of the world in the Abode of Bliss afforded to men an opportunity for salvation by providing them with body and seoses and by offering the many lores of knowledge and their imparcers, enabliog them to grasp the fivc-fold truth Men remaining soll 10 mobile and uninformed, the Lord chose the path of incarnatag Hiaaself and, appearing as Nara and Narayana, demonstrated the conduct respectively of the pupil and the preceptor The incarnation appeared in a series with the aim of turning the human mind along the right path The abnormality observed in the incarnations kept people away under fear Thereupon the Lord introduced into the troubled world devotees saocufied by His grace, who, being finite winds alike the straying minds, taught and lived a life of staialess serenity THE PRE EMINENCE OF THE DIVINE SEERS The divine seers by the grace of the Almighty, tided over the surging waves of ignorance, possessed knowledge of the Real, the means to it and the value of rcalising it, and statioaed them. selves securely at the final cod of God dependence Pained at sceing men plunged in ignorance despite their intrinsic deserved Dess to enjoy Bliss, the Sears passed on their wisdom and put a great many along she pasb to Perfectwa, wling coduring devotion and subservience cowards God This type of effort proved effective and agreeable The Scers who were successful 10 1513 fo19sion naturally became receptacles of God s unique grace and love or the innumerable gifted scors, ton bave come to be adored as prominent even as the ten Avataras of God in the XX infinite Series of His descent They are Bhūtamuni 2 Saromuni 3 Mahadahvayamuni 4. Bhatta natha 5 Bhaktisara 6 Kulasekhara 7 Yogivāha 8 Bhaktanghrı renu 9 Parakala and 10 Parankus'amuni Sri Goda, daughter of Bhattanathamuni and Madhura Kavı, the direct pupil of Srı Parankus'amudi, though counted as the eleventh and twelfth, are trcated along with their Acaryas Mcntion of this category of acaryas is made in the Pancaratras with great respect and praise The relative merits of the divine sccrs are based on then out-look and conduct As the seers emerge far superior to the common man, so the divine seers occupy a statug far superior to the ecers Among the divine secrs, Bhattanatha occupies a high status for, ignoring his personal gain, Moksa he offered what is known as Mangalas asanam (heaping goodwill) to the Almighty surrounded in the world by persons spiritually polluted by the advent of the age of Kali. The disparity between Bhattanatha and Goda, his daughter, 19 equally glaring Normally the Lord awakens the mortals from their slumber and presents Himsell before theo Goda on the other hand took the initiative and waking up the Slumbering Lord' prevailed upon Him to condescend to accept her service and install her on the Throne of Service The sex of Goda gains significance in the context of devotion takiog the form of love when the finite mind becomes the spouse The importance of the role of the devotee even in preference to the Almighty is stressed in the s'astras and he projected as the only object of constant observation and approach The Upanisads speak of Arman as the onc object of hearing, conside. ration, meditation and intuition Revealing the inner significance of the Upanisadic Āiman, the Smrt contains the remark- Ahlada sita netrāmbuh pulakikrla galravān Sada paragundviştah drastavyah sarva dehibhih The splendour of the 'Observing Reality' is more inviting to man than that of the 'observed Reality' The observer 11 seen God intoxicated, with his body bristling all over and his eyes XX1 sbedding tears of joy This is a thrilling experience of one in true ecstacy and He alone deserves to catch our attention, for all times The divine secrs lived long ago They are installed and prcscrved in iconic frames in the holy places providing an opportunity for their meditation and worship The secrs appear off and on like Suka and Saunaka and even in modern times we do come across secrs such as Laksmıdasa in Yadavadni (Melkote) BIOGRAPHIES OF THE DIVINE SEERS The biographical sketches about the diviae secrs mainly deal with the story of their sbaping under the grace of God Many such books have been written 10 Sanskrit, Sanskritised lamil (Manipropala) and other languages of the land Thirty five such books are now available, albough many of them are all in manuscript form The first of the writers is one Garudavahana. Pandita, a contemporary of Sri Ramapujacaraya The present work is a version 10 Sanskrit of the not unwieldy classic of Pas'cat Sundaramuni It was written by Sri Jaggu Venkatacarya svamin of the Baladhanvin family, wbo hailed from Yadavadsı A coowned scholar, honoured all over for his deep, wide and critical learning and adored for his prous living, Venkatacarya acccded to the wishes of scholars, savants and studepes at Melkote, gave discourses on occasions of avatara (birth day) celebrations of the respective Divine Seers and later preserved them up bus writings THE AGE OF THE DIVINE SEERS Modern scholars bold that the Divinc Seers flouribed between the 7th and 9th century AD Ramanuja was born in 1017 AD Naibamun the grand father of Sri Yamunacarya Ramanuja's parama guru may be said to belong to the 9th century AD He obtained the Dravida Veda direct from Parankus'a morc commonly known as Satbakopa or Namraalvar The coure bulk of she Dravida Veda and the scveral secra responsible for the different sections of the Dravida Vedanta must be assigned to a period in which Sathakopa figures as the last XX1) Madhurakavi, a direct disciple of Sathakopa is said to have produced a verse of his master at a grcal gathering of Tamil scholars and poets A noted poet, Karnbar by name, acknow ledged the towering quality of Sathakopa's work and, in token of that recognition, hc composed a classical piece, viz , Sathagopan andadt in Tamil, This incident Icads to the conclusion that Madhurakavi was a contemporary of Kambar Sambandhar, another Saivite poet of great fame, who belonged to the 7th century AD. 13 said to have met Parakala, another divine seer, and invited him to a controversy in which Para kála came out victorious Parakala makes mention of a king Vaira megha who is identified with Dantıdurga Vajra. megha There is also a reference to Pallva kings These are some of the considerations of modern scholars to fix the age of the Divine Seers somewhere between the 7th and 9th cent AD Another type of evidence is availabc to maintain that the Divine Seers (Alvars) belonged to great antiquity Vya3a, the author of the Brahma Sutras and the cpic Mahabharata, lived prior to 3000 BC as cvidenced by the Mahabharata itself lo the Brahmasutras (Pañcaracra adhikaraņa) Vyasa discusses the validity of the Pañcaratra which on that account must belong a sull earlier period Sankara, Ramanuja and other Vedantins have construcd the four sūtras of the said adhikarana as relating to the validity of the Pañcaratras although that name is not specifically mentioned therein In the Pancaratra Samhitas mention is made explicitly of the divine seers and their contribution It is therefore appropriate to hold that the Divio Scers lived even prior to Vyasa, 1 c 3100 BC As regards the names Pallava etc, occurring in the works, one way of thinking is that a name is not restricted to one person only but it may refer to many in the series bearing that name The Visqu-puraņa makes this point clear in IV 24-117. Bahutvan namadheyanam parisankhya kule kule Paunarukiyaddh samyac ca na maya pankinta In the absence of sufficient data to the contrary, on the basis of internal evidence vital to the growth of philosophic life, to xxii it may not be improper to assign to the divine secra the age given them in the traditiogal biographic works, THE WORKS OF THE DIVINE Szers Expressions passed through the medium of the divine seers immersed deep in divine ecstacy came to be known as the Divine Songs, the Dravıda Veda, etc They share in full mcasure the characteristics of what is commonly regarded as the Vedas Ther teaching is the elucidation of the Vedanta philosophy They are styled as the best gloss They are the Vedas in so far as tbey seſer to the vedic content directly, independently and in comprehension They are also anelucidation as they present the content with uimost clarity and fuiness. These Prabandhas arc 24 in number contain ing a total of exactly 4,000 verses. Like the Gayatri Ramayana, they contain the import of Visņu Gayati Many other works in prose and in verse are said to have been composed by them as gathered from the line “Vruta gadyātmikam ramyam" The prabandha dedicated to Sri Ramanuja known as Ramanuja nuttandadı forms an integral part of Prabandha litereture as it refers to the apostle's "Ātman enlightenment" covering the intention of the Upanisadic "Āiman" The HOLY SHRINES Holy shrines are those where the Creator has chosen to reveal Himself in full halo and glory They are known as Divya des'as They are said to be 108 in number The divine scers refer to these shrines or thema 4 are specially significant The significance is shared by these four uniformly This 15 mentioned in the Guruparampara works in detail Sri Vedania des'ika of the 13th-14th ceotury AD refers in hu Sapkaipa- Suryodaya X 90 10 these four important shrines, viz , Sri Ranga, Vrsabhacala, Kargırı and Srimad Yadu-ksmabhrt Sri Ramya Jamatrouni (14th cent AD) in his mangalaastaka refers to the four shrines including Yadavadrı - Kamaláluca kasturi kardamankıta-vakşase radavādri niasaya Sampatputrāya mangalam XXIV In the famous place of Sravana Belagola, a Jaina resort, a Kannada atone inscription reads chus Koil Tirumalar Perumal koil Tirunarayanapuram modalada In thc Yatiadra pravana prabhava all these four shrines are mentioned The verse attributed to Ramanuja cited in the above work refers to the four shrines Sriranga maigala manim karuna-nwasam Srivenkatadni s skharălaya kalamegham Sri haskisarla s skharojjoala paryalam Snsam namāmı sirasa yadus allodipam Ramanuja, the Ekalavya of Yamunacarya has included Yadus ala on the authority of Parankus'a in the first verse of his Tiruvaimoli which refers to the four shrines in the four feet of the verse The last foot rcfers to the feet of Narayana associated with Sri in a general way and in particular in the first decad of the 4th centum known as Oru nayagam of the Pañcaratra ihe two gamhitas Satvata and Jaya pointedly refer to the four shrines Bhagavad vyaktı des esu svayam yyaktesu bhulale Astottaras ate mukhyam ratnabhutam catuştajam Snrangam Venkatádris ca Hastis aitas fatahparam Tato Narayanadrış ca divya sthāna-calustavam It is to be remembered that the four shrincs have reccived uniform consideration at all stages in the history of Sri Vaisnava rel gion The contention that only three shrines, to the exclusion of Yadavadrı of immense value to the religious minded, is recog. nised by the Alwars is therefore unfounded and unorthodox The Guruparampara in essence serves the purpose of throwing light on thc God soaked Divino Scers, their works and the holy shrines of lasting and untaincd sanctity which have raised them to heights from which they ccaslesly shower their blessings on mankind to securc their emancipation A close study of the lives and works of Ālvars revcals the reasures of knowledge wbich would otherwise lic for ever hidden Mfaharaja's Sanskrit College Alysore 15-9-1969 JACOU SUDARSANACHAR दिव्यसूरिचरितानि [ आळवारचीरतानि] ॥ श्रीः॥ श्रीमवे रामानुजाय नमः श्रीमदो दिन्यसरिभ्यो नमः दिव्यसूरिचरितानि गुरुपरंपराप्रभावावतारिका श्रिय.पतिरवाप्ससमस्तकामः सकलकल्याणगुणगणखनिः नारायणः पर- वासुदेवो निखिलश्रतिस्मृतीतिशासपुराणपाश्चरात्रादिप्रमाणपरंपराभिः प्रतिपादिते, चतुर्दशभुवनगर्भवमाण्डाविशरणाय कल्पिवात् सलिलानलानिलगगनाहार. महत्प्रधानाभिधानदशगुणितोचरसप्तवत्वावरणात्परतस्थितत्वेनास्पृष्टत्रिगुणगन्ये, शुद्धसत्यमये, युगपदुदितदिनकरसहसतेजसि, चतुराननादीनामपि वाचनसाति- दूरे, दिव्यनानाविषशकुनि-रुव-निरन्तर-सततक्युमितविविधतरुनिवद-रुचिरे, विविधमणिमयसोपानः सटिकोपलस्वच्छपवरसलिल: कमलकुमुदभरदारादि- मुमनःसन्दोहमुन्दरैः कामचकचाऊमतिकासारसादिजलचरपनगगतिविस्त- मनोरः दिव्यसलिलाशयः, अनवरतनिपतस्कुसुमकृतमुलायनः उवामवनश सकलननदयमारिगि, स्वानुमवितृजनभावितस्वयंमुप्रभृतिमरवरमवनगरफभावे, निसिळपदार्थजातसततपरिणमयितृत्वाधिकारनियुकस्यापि कलामहर्वादिरूपस्य कारतत्वलादणाधिकारावकारो, मसन्यप्राण्यात्मनो लीलाविम्तरेकपाद- मनाया: सिपादाधिके, परमानन्दजनके, नित्यासहुरितमानजनने, सकलेटर- विलक्षणे, युष्याख्ये, परमे पदे, चिपयोरनिरन्मयगोपुरमाकारमग्दप- :
४ दिव्यसूरिचरितेषु - वीधीसौधादिभिः ध्वजपताकातोरणलगाद्यलंकृतैः निबिडीकृते, वैकुण्ठाख्ये दिव्यनगरे, दिव्यप्रासादे, तत्रापि विविधमणिकुट्टिमोपशोभिते, नानारतस्तम्भ- सहस्रप्रतिविम्बितसर्वजनवस्तुसन्दोहे, सर्वतोविकीर्णसद्योविदलितमल्लिकाकुन्द- जात्यादिकुसुमोत्करे, दिव्यधूपपरिमलामोदिते, तत्र तत्र लम्बमानमुक्तागुच्छक- विताने, दिव्यास्थानमण्डपे, अनन्तभोगिनि, धर्मादिपीठमधिष्ठितः, विमलादिमि- नवमिरपि चामरग्राहिणीमिरमित उपवीजितः, सौन्दर्यलावण्यसौकुमार्य- यौवनाद्यनन्तगुणगणपरिपूर्णाचिन्त्यदिव्याद्भुतदिव्यरूपः, स्वानुरूपनानाविध- विचित्रनिरतिशयसुगन्धसुखस्परीकिरीयादि नू पुरान्त-दिव्यभूपणभूपितसर्वावयव., तादृशभूषणायमानशङ्खचक्रगदासिशा दिदिव्यायुधैस्सेव्यमानः, सर्वमेतत्कानन- कौमुदीमकुर्वतीभिः स्वामिमतानुरूपस्वरूपरूपगुणविभवादिभिः श्रीभूनीला- प्रभृतिभिरसंख्याभिः दिव्यमहिपीमिः सततमविरहितपरिसरः, कदाचिदप्यस्पृष्ट- संसारगन्धैः अनन्तगरुडविष्वक्सेनादिमिः नित्यसूरिभिः शयनासनवाहन- सर्वाधिकारनिर्वहणादिभिः किङ्करभावैः सर्वदा परिचर्यमाणः, मुक्तैरपि छत्रचामर- ताम्बूलदर्पणपतबहतालवृन्तभृङ्गारधौतवसनाभरणलगादिपरिच्छदैः, प्रदक्षिण- नमस्कारानुगमनस्तुतिकीर्तनसामगानादिकैकर्यैश्च परिसेवितः, चण्डप्रचण्डादिभिः द्वारपालैः सपहरणपरिवारवाहनः 'कुमुदादिभिर्गणनायकैश्च परिचर्यमाण., स्वसकल्परूपाज्ञादण्डमात्रेणोभयविभूतिनिर्वहणसमर्थः, एवंविधपरिकरानुभव- जनितेनोन्मस्तकेनानन्देन विस्मृतस्वतनुरपि, अविस्मृतससारसागरपरिवर्तगर्त- बम्मम्यमाणनिमज्जवेतनवर्गः, एकाकीवारममाणः, सवर्तसमयसूक्ष्माचित्सपृक्तान् अचित्कल्पान् करणकलेवरविधुरान् चेतनान् नित्यमूरिवत् स्वानुभवाहनिपि तद्रहितान् लूनपक्षानिवाण्डजानवलोक्य दयमानर्मनाः, महंदादिक्रमेण तत्त्वानि पृथिव्यन्तानि राष्ट्रवा' फरणकलेपरैः संयोज्य, चतुर्भुम्बादिमुम्वतः स्मृतीतिहास- पुराणपाश्चरात्रमीमांसाधुपबृंहितान् वेदान् हेयोपादेयविवेकाय प्राहिणोत् । .. , ..
SRI SAROMUNI
श्रोमरोमुनि. - पोय आगार
सुनगया भयणे जान पान्या पानपारिजाम्।
बारे पारम्यान मरोगोगिनमाये ।।
SRI BHUTAMUNI
.
श्रीभूतमुनिः- पूदत्तारवार
तुलाधनिष्ठासम्भूतं भूतं कल्लोलमालिनः ।
तीरे फुल्लोत्पलान्मल्लापुर्यामीडे गदांशकम् ॥
गुरुपरंपराप्रभावावतारिका चेतनास्तु सृष्टिलब्धकरणकलेबराः भगवत्सेवायै दचानि शरीरेन्द्रियाणि स्वस्वातन्त्र्यप्रमेण स्वभोगोपकरणानि मत्वा शब्दादिविषयप्रवणा भूत्वा, नदी- निस्तरणाय दत्तं प्लवं प्रवाहानुसारेण नीत्वा, समुद्रे पतयालव इव संसारसागरे न्यमजन् । विधिनिषेधशास्त्राप्यपि एषां निरोधने किञ्चित्कराणि नाभूवन् । ततश्च स्वाज्ञाप्रतिघातकेषु दुष्टजनपदेषु स्वयं ब्रजन् राजेव परमकारुणिको भगवान् चेतनोद्दिधीर्पया मनुजसजातीयो रामकृष्णादिरूपेणावततार हेयतमेऽपि मनुष्यलोके । तदेव मनुजसजातीयलमेषां भगवति तिरस्कारहेतुतामवाप-- "भस्माहशः खल्वयं कश्चित् । न तु भगवानस्मदुज्जीवनायावततार" इति । एवमप्यलञ्चमनोरथ एव भगवानेवमचिन्तयत्--"एतद्विसजातीयत्वात् नाहमेतत्कार्य कर्तुं शक्नुयाम् । किन्तु किश्चिन्मृगवन्धनेन तत्सजातीयमृगग्राही व्याघ इव एतत्सजातीयतयावतार्य नित्यसूरीन् उपदेशप्रबन्घरचनादिमुखेन वशीकुर्याम्" इति । ततश्च यथाचिन्तितमेव न्ययूयुजदवताराय मनुष्यरूपेण श्रीवत्स- कौस्तुभवैजयन्तीपञ्चायुधानन्तगरुडादीन् सूरीन् । ते च यथानियोगमवतेरुः नानावणेषु भूरिशो द्रविडदेशेषु ताम्रपर्णी- कायोंदिनदीपरिसरेषु । भगवानपि तेषां निश्शेषनिवृज्ञानान्यथाज्ञानविपरीत. ज्ञानसंशयगन्धं स्वस्वरूपरूपगुणविभूत्यादिसर्वविषयं यथावस्थिनं भक्तिरूपापन्नं च ज्ञानमनुजग्राह स्वकटाक्षेण । ते च भगवनितुककटाक्षलग्यज्ञानभक्तिविरक्तयो यथादृष्टानेन वेदार्यान् सर्वाधिकारद्राविढमापया विशदीकृत्य सकलचेतनानुग्नीवयामाः । इत्यवतारिका प्रथमसूरित्रयचरितम् . तेषां प्रथमसूरिपु त्रिपु प्रथमस्सरोनामा मुनिः (पोय्हैयाल्वार) केन- चतुर्मुखेन अश्चितः पूजितः अत्र भगवानश्वमेधेनेति 'काञ्ची', इति विस्न्यातायां नगर्या तत्रापि 'तिरुवे:हा" इति दिव्यक्षेत्रे कस्मिंश्चित्सरसि कचित्सरसीरहे 'नवशतोचरद्विपष्टिसहस्रोवराष्टलक्षसंख्याकवत्सरेवतीतेषु द्वापरयुगे सिद्धार्थ- संवत्सरे तुलांगते सवितरि श्रवणनक्षत्रे श्रीपाश्चजन्यांशोऽवततार । ततश्च मल्लापुरे' (तिरुकाडल्मले ) कस्मिंश्चिन्माधवीनिकुञ्ज तत्कुसुमे तस्मिन्नेव वत्सरे मासि च धनिष्ठानक्षत्रे कौमोदकीगदांशभूतो भूतनामा मुनिः अवातरत् । ततश्च महदाहयो मुनिर्मयूरपुर्या (मैलापुर) कसिंश्चित्कूपे रक्तोत्पले तस्मिन्नेव यत्सरे मासि च शततारानक्षत्रे नन्दकाख्यभगवत्खहांशोऽवततार । तेषु प्रथमस्सरोजातत्वात्सरोमुनिरिति व्यपदिश्यते । द्वितीयो भगवत्- कटाक्षलब्धतज्ज्ञानत्वात् 'सन्तमेनं ततो विदुः' ' इतिवल्लब्धसत्ताक इति भूत- शब्देन व्यवदियते । तृतीयस्तु भगवद्भक्तिरूपोन्मादवत्त्वात् (पेयास्वार) इति भगवद्भक्तस्यैव महत्त्वात् 'महदाय' इति चोच्यते । एवमेते त्रयोऽप्ययोनिजाः भगवन्निई तुककटाक्षवशाद्रजस्तमोरहित- प्रवृद्धशुद्धसत्त्वगुणाः श्रुतिस्मृतिपाञ्चरात्रादिसारभूतपरमपुरुषदास्यैकरसाः भग- वद्गुणानुभवैकधारकतया सनकादिवन्निराहाराः भगवद्विमुखहेयजनसहवसतिमिया ग्रामकरात्रसञ्चाराः अपरिचितपरस्पराः एकचरा बभूवुः । । यथोक्तकारिसन्निधिक्षेत्रनाम । 2 मरोमुन्यादीनामवतारः द्वापरे ८६२९०० तमे वत्सरे इति साम्प्रदायिकाः । (क्रिस्तपूर्व ४२०२) ३ अद्यतन महाबलिपुरम्। • तैत्तिरीयोपनिषत् ।- आ. प.
प्रथमसूरितयचरितम् ७ कदाचिद्भगवानेतांस्त्रीनपि स्वात्मभूतान् ज्ञानिनः एकत्र संयोज्य स्व- साक्षात्कारजननाय, तदनुभवपरीवाहरूपप्रवन्धोद्भवाय, तेन च सकलचेतनो- ज्जीवनाय च सङ्कल्पयामास | यथासकल्पमेव कस्यांचिद्रानो 'तिरुक्कोवलर" इति प्रामे अतिसङ्कटायां शून्यशालायामकस्मादेवैते त्रयोऽपि मिलिताः वैष्णव- मर्यादया परस्परवन्दनपराः परस्परप्रश्नेप्वनिर्दिशन्तस्वग्रामकुलनामानि भगवद् दास्यैकनिरूपणेन परस्परं बोधयन्त आसन् । तदैव भगवांस्तेषां त्रयाणामेवातिसक्टायां तमोनिविडायो शालायां तन्मध्ये श्रिया सह प्रविवेश । त्रयोऽपि ते 'कोऽयमपरोऽस्मन्मध्ये प्रविष्टः ! पश्येम' इति तं द्रष्टुं प्रथमसूर्यमेव दीपमकल्पयत् । द्वितीयो ज्ञानमेव । तृतीयस्तु-- 'श्रियमपश्यं; स्पृहणीयं भगवतो दिव्यमङ्गलविग्रहमपश्यम्' इत्याद्यारभ्य प्रत्येक शतेन शतेन पधैर्भगवन्तं तुष्टुवुः । ते च त्रयो दाविडप्रबन्धास्संसारिचेतनानुज्जीक्यन्ति स्वस्वरूपपर- स्वरूपपुरुषार्थस्वरूपोपायम्वरूपविरोधिस्वरूपरूपार्थपञ्चकज्ञानजननेन । यदुच्यते प्राप्यस्य ब्रह्मणो रूपं प्राप्तुश्च प्रत्यगात्मनः । प्राप्युपायं फलं प्राप्तेस्तथा प्राप्तिविरोधि च ॥ घदन्ति निखिला वेदास्सेतिहासपुराणकाः । मुनयश्च महामानो वेदवेदार्थवेदिनः ॥” इति । इति प्रथमसरितपचरितम् 6 " . 'मद्रास् ,प्रान्ते (सात् बाद ट्रिप) काल समापवतो तंत्रत्या भगवान् देहलीया उत्सवनेरः । मूलवेरस्त त्रिविक्रमः । सरोमुनिकतः प्रपन्धः मुरल तिरुवन्दादि (अपमान्यादिः) पद्यसंख्या १०० भूतमुनिरुतः हरण्य तिरुवन्दादि (दिवीसान्त्यादिः) परख्या १०० महदाइपकतः मां तिरुवन्दादि तिवीयान्त्यादिः) परास्या १..
- श्रीभक्तिसारमहामुनिचरितम् अथ भगवान् भक्तिसारमुनीन्द्रः (तिरुमळिशैप्पिरान् ) एकस्मिन् जन्मनि द्वे जन्मनी अन्वभवत् , यथा वसुदेवसूनुः देवकीजठरयशस्करो नन्दगोपकुमारो यशोदानन्दनश्चति । तस्येदमतिमानुषं चरितम् । - कदाचिदनिमृगुवसिष्ठागिरःप्रभृतयो महर्षयः चतुर्मुखमेत्य भुवि निवासायोत्तम क्षेत्र जिज्ञासमानाः पाच्छुः किं श्रेष्ठमिति । विधाता तु विश्वकर्माणमाहूय सशैलवनतटिनी भुवमेकस्यां घटाया- मन्यस्याञ्च विदेहभवनक्षेत्रं (तिरुमळिशै) निधाप्य तुलया तोलयामास । यदा तु विदेहभवनक्षेत्रस्यैव घटा नोत्तस्यौ, अन्या तूतस्यौ, तदा महीसारक्षेत्रमिति तस्य नाम निदधौ । ततश्च तेषु मुनिषु तस्मिन्नेव क्षेत्रे निवसत्सु नित्यं भगवति भार्गवे च दीर्घसत्रेण भगवन्तं नारायणं पारमैकान्त्यधर्मेणाराधितवति, तद्धर्म- पली अन्तर्वनी अतीतेषु च द्वादशसु मासेषु प्रासूत भगवतः सुदर्शनांश पिण्डाकृति कञ्चन महापुरुष, यो भक्तिसारमुनिरित्याख्यायतेऽद्यापि । यस्मिन् दिवसेऽवततार स महात्मा स तु दिवसो बभूव द्वापरे युगे अनेकलक्षसंख्याकेषु गतेषु वत्सरेषु सिद्धार्थनानि अब्दे मकरमासस्य सप्त- विंशतितमो मखानक्षत्रानुगतो भानुवासरयुतः कृष्णपक्षप्रतिपन्मितश्च । तदुक्तं दिव्यरिचरिते, जयन्तीमालायाञ्च- "सा गर्भमाधत्त मुनेश्च पक्षी सुदर्शनशेिन तदानुविष्टम् । पपात गर्भो भुवि तैप्यमासे मखाभिधाने महनीयतारे ।।" इति । 1 मद्रास् नगरता पक्षात् दश मैल अभ्यन्तरे मद्रास्-बेगलूरु मार्गे वर्तते ।
SRI BHAKTISĀRAMUNI
श्रीभक्तिसारमुनि
-तिरुमळिशप्पिरान्
मनाया मकरे मासे चबाग मार्गरोद्भवम् ।
महीसारपुराधीश भक्तिसारमह भजे ।।
SRI MAHADĀHVAYASŪRI
rm
महदायमुनि' -पेयापार
सुलाशतभिपग्जात
महान्त
मति सारचरितम् "सिद्धाधिन्युप्णरश्मौ मकरमधिगते द्वापरे ज्ञानधारा- क्षोदे (८६२९००) संवत्सरौघे गतवति च दिने सप्तविंशे मखाख्ये । नक्षत्रे भानुवारे मुनिवरतनयो भक्तिसारो मुनीन्द्रः श्रीमान् प्रापावतारं जगदुपकृतये पर्वणोऽन्येधुरत्र ।। इति च। ततश्चाजातमनुजाकृति जरायुपिहितं पिशितपिण्डं भुवि निपतितं पितरौ निरीक्ष्य निर्वेदात् कुतरन वेत्रलताको निक्षिप्य यथागते ययतुः । ततो निखिलजगजनन्या श्रिया प्रेरितया भूदेव्या सुरक्षिते तस्मिन् पिण्डे सर्वावयवसम्पूर्ण स्फुरिते जीवे सद्योजात इव शिशौ खन्यार्थिनि रुदति, तत्क्षेत्राधीशे च भगवति वासुदेवे समागत्यात्मसञ्जीवनेनावलोकनामृतेन आप्याय्य, परित्याशनायापिपासे, प्रदात्मनो दिव्यमगलविग्रहमन्तहिते, पुनः तदर्शनाशया रोदितुमारभत शिशुरयम् । तहानी तु 'तिरुवाळन्' इति कश्चन वेत्रलतानयनाय तत्र गतः श्रुत्वा रोदनवनि शिशो, सहागतस्सह विचित्य, दृष्ट्वा च चेत्रलतानिकुब्जे शिशु, अतीव हृष्टो गृहीत्वानीय स्वनिकाय्यं, स्वमार्याया. पङ्कजमुन्दर्याख्याया. हस्ते न्यस्तवान् । सा तु वन्ध्यापि प्रसुतपयोधरा प्रीत्या वर्धयितुमौहमाना पाययितुं स्तनं यदायतत, तदाय स्तन्यादिभ्यो निवृत्त महारेभ्यो भगवद्गुणैकधारको वाम्यवहाररोदनमलमूत्रादिरहितो दिव्यलावण्यपूरितगात्रो यथासुखं ववृधे । चरित्रमेतत् विचित्रं श्रुत्वा दृष्ट्वा च त कश्चित् तत्क्षेत्रवासी चतुर्थवर्ण, जातो वृद्धः प्राज्ञोऽपुत्रो निश्चिकाय तस्य शिशो महामहिमताम् । परेशुरुत्याय ब्राझे मुहूर्ते, कृत्वा चावश्यक शुद्ध गोदुग्धं काथयित्वा शर्करादिपरिष्कृतमुष्ण- तिमलिशैक्षेत्रनाथस्य नाम जगन्नाथ । 2 १. विग्यरिचरितेपु . . मानीय मार्यया सह शिशोरुपसमाधाय भक्त्या 'पीयतामिदं पयो दासेयेऽस्मिन् दयया' इत्यसकृदकृत प्रार्थनाम् । गगति च भक्तिसारेऽभ्युपगतवति दयया तदभ्यर्थना, परितुष्टयोस्तयोर्दम्पत्योः प्रत्यहमेवमेन पयस्समर्पितवतो. कस्मिंश्चित् दिवसे स तु महोगनाः वृद्धयोम्तयोरमिमतमवगत्य यथायुरै फ्यः परिपीय किञ्चित् , पीतशिष्टमिदं पीयता, युवाभ्यां प्राप्यता पुत्रः पुण्यवानित्यनुजमाह । तौ च तत्परिपीतशिष्टं पूतं पय. पीतवन्तौ तदैव प्रापतुस्तरगताम् । क्रमेण तत्पन्यामन्तवल्या प्राप्ठे च दशमे मासि प्रासूत सा भगवद्भागवतात्यन्त- परतन्त्र विदुरमिव महाप्रा सुतम् । पिता तु निदधे नाम तस्य ' कणिकण्ण' इति । मकारयच्च ज्ञानिनम् । अथ भगवान् भक्तिसारो भगवद्यारसैकाहारो विहायाहारं लौकिक ऋषिपुत्रतया वयसि सप्तम एव यमनियमासनप्राणायामप्रत्याहारधारणाध्यान- समाधिरूपाटाङ्गयोगप्रवृत्तो ध्यानसमाध्योः ध्येयैकसाध्यतया कारणस्यैव ध्येयताश्रुतेश्च जर्गतः कारणमिदमेवेति निर्गतुं शाक्योक्याक्षपादक्षपणकपिल- पतञ्जलि-शैव-मायावाद-भाट्ट-प्रामाफराद्यखिलवाह्यकुदृष्टिमतसिद्धान्तशोधननिरतः सप्तशतं वत्सरानतिवाहयाचकार । अजानाच तेषामन्योन्यनिरोधं स्वेनैव विरोधं श्रुत्या बाध सैकतसेतूनामिवानवस्थानञ्च । निरगपीच्च तेपामप्रमाणता प्रामाणिकताच निखिलहेयप्रत्यनीक- कल्याणकतानस्वरूपस्य सकलकल्याणगुणगणाकरस्य दिव्यमङ्गलविग्रहतद्गुणा- भरण प्रहरण-महिपी परिजन-परिच्छद पारिपदास्थानादिविशिष्टस्य श्रुत्येकप्रमाण- समधिगम्यस्य भगवत. श्रिय पत्युनारायणस्यैव जगत्कारणां तदितरेषा तत्कार्यकार्यता, तत एव तस्यैव ध्येयताम् , अव्येयताश्चेतरेषा, चेतनोज्जीवनायव सृष्टिं, नया च प्राचुर्येण सिद्धान्ती लीला, अन्त प्रविश्य सकलचेतनाचेतन- धारणनियमनमोक्षप्रदानादिक परव्यूहविभवान्तर्याम्य रूप पञ्चप्रकारावस्थिति !
भक्तिसारचरितम् - - च साङ्केतिहास-पुराण-मीमांसादिसाधनेन भागद्यात्मकेन यथाभूतवादिना वेदेन । यथानिर्णयं च स भगवान् भूतभावनो नारायणस्वं रूपं दर्शयामास तस्मै ज्ञानचक्षुपे। स तु योगिजनाग्रणीः यथादृष्टं भगवन्तं पुण्डरीकाक्षमाराधयन् ध्यान- योगेन 'वृन्दारण्यक्षेत्रे, (तिरुवल्लिकणि) पार्थसारथिस्वामिसन्निधौ श्रीमत्- *कैरविणीतीरे यावत्सप्तशतं वत्सरानवात्सीत् । तदन्तरे च कस्मिश्चिदिवसे भगवति भक्तिसारे निरन्तरभगवदनुभव- पुरस्सरं कन्था सीव्यति सति भवे च भवान्या सह वृषमाधिरूढे नभ पथेन संभ्रष्यमाणे तस्य छाया स्वोपरि, पतन्तीममृष्यमाणेन भक्तिसारेणापसते किञ्चिदन्यत तद्दष्ट्या भवमाइ भवानी--- 'कोऽयम् ! य एवमावामवमन्यते अवगत्य यास्याव' इति । भवोऽब्रवीद्भवानी-'नायमस्मान् गणयति वैष्णवोत्तमो दूरादेवापसरणं शरणमाक्यो ' इति । तथाप्यनपनीतामिनिवेशाया तस्यां त्रिपुरान्तके च तथे यभ्युपगम्य योगिनस्तस्यान्तिकस्थितेऽपि सदारे, वदनमनुन्नमय्यैव सीव्यति कन्धा तस्मिन्मुनी प्रावतैवं प्रश्नपतिवचनपरिपाटी तयो । मय्यागत्य महादेव पावस्थे तव सुव्रत । किमुदासीनता युक्ता तपस्विजननिन्दिता ।। 'भक्तिसार यद्यपि त्वं महादेव तपस्विजनकादितम् । दर्शनं भवत. किन्तु नाहमर्थी कथञ्चन ।। मैवं वादीद्वान्योगिन्नह योगेश्वरो हर। न ममागमनं मोघं वृणीष्व वरमुत्तमम् ।। भव - भव ट्रिप्लिकेन्-मद्रास्। + पार्थसारथिसन्निधिपुरस्थितस्य सरसो नाम ।
दिग्यसूरिचरिते भवः - भव. भक्तिसारः यदि त्वं वरदः प्राप्तो वरा) यदि चाप्यहम् । योगेश्वरम्ततो मे त्वं देहि मोक्षं ममेप्सितम् ॥ मुने ! नारायणः श्रीमांस्तत्र शक्तो न मादृशः । भक्तिसारः ताद्य म्रियमाणं तु खो मारयितुमर्हसि ॥ मुने ! कर्मानुरूप हि जीवितं मरणं तथा । भक्तिसारः तपस्याः पृष्ठतस्सच्याः यथातन्तुर्विनिस्सरेत् । तथा वरं प्रदेवि त्वं वरदानकुतूहली ।। इति भक्तिसारवचश्श्रुत्वाऽतीव क्रुद्धो भवः फालनयनानलेनैनमननस्येव दशा नयेयमिति नियमज्वालस्फुलिङ्गेन तातीयीकेन चक्षुपावैक्षत तम् । भार्गवो भक्तिसारोऽपि स्वदक्षिणचरणायाधः स्थितया तादृश्यैव दृशा ददर्श फाललोचनम् । अनलयोस्तयोरन्योन्यस्पर्धाविवर्धमानयोः' दग्धू' जगदिदमुद्यतयोः दह्य- माना देवा दिक्पालैस्सह ब्रह्मणा चीशरणाश्शरणमुपगम्य नारायणं तदादेशा- दाकाशावकाशमनवकाशं दर्शयद्भिस्तटित्पटलपरिमुष्टजनदृष्टिभिः स्तनितजनित- जनताबधिरताकैः संवर्तसमयवर्षणसमुचित पुष्कलावर्तनाममिर्धनाधनः स्वासार- प्रशमिनप्रलयकालानलज्वालाजालैः प्रशूमितयोस्सतोः तादृशधारासारपराहतेऽपि गिराविव तस्मिन्नचलति मत. पार्वतीपतिः भक्तिसार.' इति इदं प्रथम नामधेयं तस्य निधाय, · अंबरीपेणेव पुरा दुर्वासा इदानीमस्म्यवमानितोऽनेन । अजय्याः खल, वैष्णवाः' इति भवानीमभिभाषमाणो जगाम निजावास कैलासम् । किंच तस्मिन् महामुनावारूढयोगे कदाचित् व्याघ्रारूढः कश्चन शुक्तिहारनामा खेचरस्तारापथेन सञ्चरमाणो हठात् स्ववाहने न्याने योग- प्रभावादस्योपरि गन्तुमक्षमे तिष्ठति तत्रैव संभ्रान्तस्सर्वतो विलोक्य दृष्ट्वाधो भुवि भक्तिसारचरितम् १६ . - - F समाधिनियमितमनसं मौनिनमेनम् , अवतीर्य तूर्णमंवराद्वाहनाञ्च भक्तिभाराव- नमो भगवन् । किमनया कन्थया धृतया ! परित्यजैना; गृहाणेनं दिव्याम्वर- निर्मितं कवचम्' इत्युक्त्वाऽदित्सत्कवचम् । मुनिरपि निषिध्य तं तामेव कन्या स्वयोगमहिमा नवरलचयचितं सहसकिरणमिव कवचमदर्शयत् । विस्मितम्तु नितरां सखेचरः लपावनम्रवदनः स्वकण्ठादवमुच्य हारम् 'अक्षमालात्वेन धारयेमं भगवन्कण्ठे' इति उत्तवार्पयां बभूव । तदैव च महामुनी स्वकण्ठस्थिता तुलसीनलिनाक्षमालिकां प्रदर्शयति सति, नवरत्नमालिकां ता दृष्ट्वा खेचरो निममो विस्मयोदधौ । महानुभावस्य भवतो दर्शनात् कृतकृत्योऽस्मि' इति स्तुत्वा प्रणम्य प्रदक्षिणीकृत्य च यथागतं ययौ। अन्यदा च योगावस्थिते तमिन् 'कोकणसिद्धः' इति कश्चन सिद्धो रसवादे समुपगम्य मुनेस्पकण्ठं कोटिमेदिनी रसधुटिकामस्मै दित्सन् निपिद्धश्च भक्तिमारेण स्वदेहमलघुटिका कोटिकोटिमेदिनी रसधुटिकामुक्त्वा प्रदर्शिता दत्ता र गृहीत्वा परीक्ष्य च तथा भूता दृष्ट्वा भक्तिसारं प्रणम्य भक्त्या 'धन्योऽहं भगवतो दर्शनेन' इत्युक्त्वा प्रपेदे स्वपदवीम् । अथ च भगवति भक्तिसारे गिरिगुहा काश्चन समाश्रित्य प्रत्याहृत- सर्वेन्द्रिये धृतधासे भगवन्निहितचित्तवृत्तिसन्ताने तदनुभवजनितपरमानन्द- तुन्दिलहृदम्बुजे पुलकितसर्वगाने भोग्यतया स्वरूपानुरूपतया च तत्रैव सन्तत- समाहितचित्ते, सरसिजमाधवीकुसुमकैरवोद्भवाः कासारस्तमहदाहयाः त्रयः प्रथमसूरयो भगवद्विभूत्यनुभवाय चेतनानुग्रहाय च तीर्थक्षेत्रमयीं भुवममि- कामन्तो भगवतो भक्तिसारमुनेस्तपोविशेषजनितमतिमानुषं तेज.प्रसरं दूरा- दवलोक्य विस्मितचित्ताः मृगयन्त. तेजोनिदानं क्रमादागत्य गुहां दृष्ट्वा च १ दिव्यसूरिचरितेषु : समाधिनिष्ठं भक्तिसारं तेन च विदिततदागमनेन वन्दिताः पृष्टाश्च कुशलं सफलयांचरन्योन्यं विधिवाक्यद्वयमिदम्- 'वैष्णवो वैष्णवं दृष्ट्वा दण्डवत्प्रणमेत् भुवि ।' 'आहादशीतनेत्राम्बुः पुलकीकृतगात्रवान् । सदा परगुणाविष्टो द्रष्टव्यस्सर्वदेहिमिः ।।' इति । अथ च ते चत्वारोऽपि मिथः पयः पयसेव मधु मधुनेवामृतममृतेनेव चैकरसा मिलिता निखिलेनापि प्रकारेण भगवन्तमनुभवन्तोऽत्यवाहयन् कश्चित् फालकलापम् । ततस्तु ते चत्वारोऽपि गत्वा कुतूहलात् महदायावतारमूर्मि मयूर- पुरीमवलोकयन्तस्तदवतारकारण कैरवकासारं तत्तीर एव योगनिरताः कानि- चिदहान्यत्यक्षिपन् । त्रयस्तु ते प्रथमसूरयोऽनुमत्या मुनेर्यथापुरं प्रतस्थिरे पृथिवीपर्यटनाय यत्र सायंगृहाः । तदनु भक्तिसारेऽपि स्वावतारस्थानं विदेहभवनक्षेत्र महीसारक्षेत्रमेत्य ऊर्ध्वपुण्ड्धारणाय धरणी खात्या श्वेतमृत्लामनुपलभ्य चिन्ताक्रान्ते श्रीशैलेशः श्रीनिवासः स्वमेऽस्य समागत्य श्वेतमृत्स्नालामस्थानं सामिज्ञानं ज्ञापयित्वा जगाम । प्रबुद्ध भक्तिसारः तमेव प्रदेश सप्रत्यभिज्ञ खात्वा लब्ध्वा शुर्दा मृत्स्ना धृत्वा तयोर्ध्वपुण्ड्राणि द्वादश कञ्चित्कालमुवास तत्रैव भगवदनुभवेन कालं यापयन् । कदाचिदादिरिषु प्रथमस भगवतः कासारमुनेरवतारस्थाने सत्यव्रत- क्षेत्रे कान्च्या कश्चित्कालं वस्तुमिच्छुस्तत्र गत्वा शेषपर्यवशायिनं (यथोक्तकारि- नामानं) भीमनीलाविहारिणं भगवन्तं सतेन्य तत्र कासारयोगिनोऽवतारहेतोः कामारस्य तीरे वत्सरान् सप्तातं भगवदनुभवनिरतो चमन । .
भक्तिसारचरितम् १५ तस्मिंश्च काले एतदनुग्रहजन्मनि विदुर इव प्राज्ञे कणिकपणे एतच्चरणप्रवणे सेवमाने च तं तत्रत्या काचन जरती भक्तिमरवती भक्तिसारे तद्वासमूनि म्पयन्ती माजनगोमयानुलेपनरभवरल्यादिमिः प्रत्यहमसेवत । कस्याचित्कालकलाया व्युत्थितो योगादवलोक्य किकरतानिरता जरतीमतीव हृष्टः पृष्ट्वा तदिष्ट, तदनुरोधेन विधाय तां वृद्धा मुग्धा पोडशवर्षदेशीयामनु- जग्राह । तां च तरुणी सुरसुतोपमा नरपतिरवलोक्य पल्लवराजः पल्लवित- मनोमवस्तत्सुमवाणवाषितस्तामनुनीय तदनुमत परिणीय बुमुजेऽतिमनुजान् भोगान् । क्रमेण च जराजर्झरितशरीरस्स राजा वरबलप्रतिपदोपचीयमान- यौवना सामुपभोक्तुमक्षमो ययातिरिव ययाचे पुनयौवनानयनोपायमात्मन- स्तामेव । सा तु भक्तिसारकृपासारादापतितां ता तरुणता स्वस्या निवेद्य राजे, 'लमप्यहमिव भक्तिसारपादसेवया सम्पादय यौवनम् । तत्र चायमुपाय.. योऽयमायात्यनुदिनं भवद्भवनं देहयात्रोपकरणोपादानाय 'कणिकण्ण' इति कश्चिद्भागवतस्तमाश्रित्य तद्द्वारा तदाचार्य भक्तिसारमाश्रय । तदनुग्रहेण सुग्रहमेतद्भविष्यति' इति प्रोवाच । राजा तु कणिकष्णमाहूयात्रवीत् . भवदाचार्य मदालयमानय मानयितुं तत्पादवन्दनेनारमानमुत्तारयितुं च' इति । स चोवाच मदाचार्योऽन्यनिकेतनापवरकमपि प्रपदेनाप्यधितिष्ठति । सुज्ञातभगवत्साश्यादि- गुणगणोऽज्ञजनपूज्याम्राज्ञो न मनुते तृणायापि' इति । अन्यदा च पल्लवराजः कणिकपणमब्रवीत्.--'भो ! काव्यरचनया मां स्तुहि ' इति । कणिरुण्णस्तूवाच भो । घरणीरमण ! नारायणगुणगण- रसशयानयारसज्ञया दुर्जनबहुमान्यमझं जन न स्तोतुमुत्सहे ' इति । यदा मुहु- न स . अद्यतनचारित्रकपलवराजमिनोऽय प्राचीन ।
दिव्यसूरिचरितेषु र्मुहुरतिनिर्वध्यमानोऽपि कणिकण्णो नरपतिविषयं काव्यं निबटुं बद्धश्रद्धो न बभूवः भगवद्भागवतविषयमपहायाहङ्कारिचेतनास्तोतव्यत्वाध्यवसायहेतुभूतानि शिष्टानां वचनानि चोदाजहार ; तदा क्रुद्धेन राज्ञा 'मदीयं राज्यं प्राज्यमुत्सृज्य गच्छ' इत्याज्ञप्तस्तत्क्षणं रक्ष:पतिनाधिक्षिप्तो विमीषण इवेक्ष्वाकुकुलनायक कणिकण्णः प्राप्य भक्तिसारं यथावृत्तं निवेद्य राजादेशं देशान्तरं गन्तुं ययाचे अनुमति वाचार्यम् । स तु भक्तिसारोऽब्रवीत् यदि त्वं देशान्तरं गमिष्यसि, नाहमन स्थास्यामि । यद्यहमितोऽन्यत्र गमिष्यामि, नात्र भगवाननन्तशायी शेष्यते । यदि भगवानिम देश जह्यात् परित्यजेयुस्तत्परिकरभूता ब्रह्मादयोऽपि देवाः । तदुत्थाप्य शेषशायिनं प्रस्थापयाम्यात्मना सह जनपदान्तरम् ' इति । ततश्च भगवतश्शेषशायिनस्सन्निधिमागत्य पुरस्थित्वा जगाद. 'भगवन् । कणिकष्णो राजादेशाद्देशान्तरं गमिष्यति । अहमपि तदनुगामी भविष्यामि । स्वमपि भवतो नागशय्यां कक्षे निक्षिप्य मया सहायाहि । तदर्थमुत्तिष्ठ ' इति । भगवति च यथोक्तकारिणि कणिकण्णानुगामिना भक्तिसारेण सह प्रस्थिते देशान्तरं तत्दालयस्थितासु प्रस्थितासु सर्वास्वपि देवतासु " अपि वृक्षाः परिम्लांनास्सपुष्पाकुरकोरकाः । उपतप्तोदका नद्यः पल्बलानि सरांसि च ॥” इति । रामविरहातुरायामयोध्यायामिव काञ्च्यामवसीदन्त्यामन्धकारप्रायेषु राबन्दिवेषु उद्विमो राजा मन्त्रिणश्च किंकर्तव्यताम्दाः कथचिनिश्चित्यानुधावन्तः, 'ओरिरुके' अथवा 'ओरिक' इति प्रामविशेपे कणिकण्णस्य पादारविन्दे गृहीत्वा दृदं स्वापराधान् कृताननुनयेन महता क्षामयित्वा तत्मार्थितेन भक्तिसारण सहानाय्य काञ्च्यां यथापुरमवास्थापयन् ।
भक्तिमारचरितम् १७ . भगवान् भक्तिसारोऽपि पुनश्शेषशायिनं तन्देवमेवं प्रार्थयामास 'भगवन् ! कणिकण्णः प्रार्थितो राज्ञा संन्यवर्तत; काञ्चीमप्यधिवसति । तदनु- गन्ताहमपि । भवानपि यथापुरं शेषशय्यामास्तृणातु शेतां च' इति । भगवानपि यथोक्तकारी ततः प्रभृति 'यथोक्तकारी' इत्येव नाम्ना (शोन्नवणं- शेयद पेरुमाळ्) व्यवहियमाणः तज्ज्ञापनाय सर्वेषां पूर्वमुपधानीकृतदक्षिणशयो बभूव वामशयोपधान: 1 ततश्च 'अकालफलिनो वृक्षाः' इति पुनरपि रामाग- मनादयोध्यानगरीव सर्वतस्सुखिनी बभूव काञ्ची। एतादृशं भगवतस्सौलभ्य- गुणमनुसन्दधान एव भक्तिसारः स्वप्रयन्धे तिरुञ्चन्दविरुताख्ये 'वेकणैकिडन्द- देनीमैये' इत्यनुजग्राह । कञ्चन कालं तत्रैव समाहितचितोऽवसच्च । तदनु कुम्भघोणाख्ये ( तिरुक्कुडन्दै ) दिव्यक्षेत्रे सन्निहितं भगवन्त- मपर्याप्तामृत (आरावमुदाळवार) ससेवितुमनाः प्रस्थितो मार्गवशात् { फेरपुलि- यूर) बृहद्याघ्रपुरीनामकं ग्रामं प्राप्य तत्र कस्यचित् गृहपतेः गृहबहिर्वितर्दि- कायामासीनो विशश्राम । तत्र केचन वेदमधीयाना ब्राह्मणास्तस्मिन्मुनी शुदधिया 'तस्माच्छूद्रसमीपेनापीयीत' इति विधिमनुरुन्धाना विरेमुरध्ययनात् । अनन्तरमनन्तरवाक्यं सर्वेऽपि ते विसस्मरुः 1 परस्परमवालोकन्त केवलं मुखम् । तदा स मुनिस्तत्र विकीर्णान् कांश्चित् श्रीहीन् कृष्णानुंछित्वा ननिर्भिध संज्ञापयतिस्म । ततस्ते ब्राह्मणाः 'कृष्णानां ब्रीहीणां नखनिर्मिण्णम्' इति वेद- वाक्यानुपूर्वी स्मृत्वातीव विस्मिताः 'न शूद्रा मगवद्भक्ता विश्रा भागवतास्स्मृताः' इति महामारतोक्तिरीत्या महानुभावोऽयं भागवत इति मत्वा महत्या भक्त्या प्रणम्य कृतार्था बभूवुः । अपरमिदमाश्चर्य समजनि तस्मिन् ग्रामे, यस्यां यस्यां दिशि विशि- खायामुपादानायायं विचरति, तस्यास्तस्या भमिमुखो बभूव तत्क्षेत्रमन्दिरवासी भगवान रूपः । तदिदं चित्रं तदकः केभ्यश्चित् ब्राह्मणेभ्यः प्रादर्शयत् । 3 दिव्यसूरिचरितेषु ते तु तस्मिन्नेव प्रामे यजमानाय कस्मैचिन्यवेदयन्निममद्भुतं वृत्तान्तम् । स तु यजमानो भक्त्यागत्य तस्य मुनेस्सकाशं दृष्ट्वा च भक्तिसारस्य दिव्यं रूपम् आनीय निजां यागशाला धर्मात्मजो राजसूये विजयसवमजमिवाम- पूजया मानयामास 1 ऋत्विजस्तु जगहुँरेने यजमान 'यज्ञोऽयमज्ञेन त्वया भयो यनिम्नोन्नत. भावेन यस्य कस्यचित्सम्भावना व्यधायि' इति शिशुपाल इव । तदानीं तु भगवान भक्तिसारोऽमन्यत; 'नेदानीमात्मनो महिमानमप्रकाश्य क्षणमपि स्थेयं मया' इति । प्रादर्शयच्च तत्रत्येभ्यस्सर्वेभ्यस्स्ववक्षस्थले सहस्रफणामणिमण्डिते अनन्ते शयानं श्रीभूनीलादिमिस्सेव्यमानं विनतातनयसेनानायकादिमिस्सरिभि- रुपास्यमानं दिव्याभरणप्रहरणादिमिर्देदीप्यमानमपारमहिमानं श्रुत्येकमानं विष्वक्सेनम् । धृतराष्ट्रसभायां भगवतः पाण्डवदूतस्य । विश्वरूपप्रदर्शनाद्भुतमिव दृष्ट्वाद्भुतमिदमानन्दजलधौ मना भग्नामिमाना भुमशिरसस्तत्पादयुग्मे जग्मुस्ते सर्वे तदनुग्रहग्राह्यताम् । चक्रुश्च महामहं महतोऽस्य मुनेस्तस्मिन्नहनि हर्षेण । भक्तिसारस्तूपदिश्य तेभ्यस्तत्वं निर्गत्य तस्माद्रामादासाद्य कुम्भघोण- क्षेत्रं तत्र साक्षात्कृत्य कावेरीतीरविहारिणं शेषशायिनमपर्याप्तामृतमुवाच चैवं- 'काविरिकरैक्कुडन्दैयु किडन्दवारेन्दिरुन्दु पेशु' । 'कावेरीतीरगतेऽस्मिन् कुम्भघोणक्षेत्रे तव शयनप्रकारमुत्थाय बहि' इत्यर्थकं पद्यम् । स तु भगवानपर्याप्तामृतस्तथैवोत्थानाय प्रयतमानः किश्चिदुत्तस्यौ । सद्य एव भक्तिसारो 'वाळि केशने ! माभूदुत्थानं; यावत्कालं तवैतादृश- सौलभ्यगुणवतो मनलं भूयात्' इति प्रार्थयामास । तदद्यापि तत्र भगवान् शेषशयनादोस्थित एव दृश्यते ।
भक्तिसारचरितम् . ततो भगवान् भक्तिसारस्तादृशसौलभ्यप्रकाशिकाया अर्कोत्थिताया मूर्तेानेनैव त्रिशताधिकद्विसहस्रवत्सरानत्यवाहयत् । एवं सप्तशताधिक- चतुस्सहस्र वत्सरानत्रैव विभूनौ भगवदनुभवनिरतो भक्तिसारः 'नान्मुहन्तिरु- वन्दादि' (= चतुर्थान्त्यादिः; पद्यसंख्या ९६) 'तिरुचन्दविरुत्तम् । (पद्यसंख्या १२० ) इति प्रयन्धद्वयमनुजग्राह जगदुज्जीवनाय । प्रबन्धद्वये च सकलवेदान्तसारभूतरहस्यत्रयार्थास्सर्वेऽपि स्पष्ट प्रति- पादिताः; मगवदतिरिक्तस्य समस्तस्य हेयता तस्यैवोपादेयता सर्वस्मात्पर- समतेत्यादयोऽनेके अर्थाश्च इति शुमम् । इति श्रीभक्तिसारमुनिचरितम् 6 एष मुनिः प्रथमसूरिश्रयस्य समकालीनः।
श्रीशठकोपसूरिचरितम् -- . अस्ति किल दक्षिणस्यां दिशि भरतखण्डमण्डनायमानेषु पाण्डवेषु जनपदेषु 'श्रीनगरी (आज्वार तिरुनहरि ) इति प्रसिद्धा काचिनगरी ताम्र- पर्णीनदीतीरे। तत्र चासप्तपूरुष भगवत्सम्बन्धपरिपूतः कश्चिद्वैष्णवसन्तानो बभूव । यं च सन्तानमलंचकुरेते भागवताः क्रमेण (१) तिरुवदिवळनाडर् (२) अरन्ताङ्गियार् (३) चक्रपाणियार (४) अच्युतर् (५) शेन्दामरै क्वण्णर् (६) शेङ्गण्णर् (७) पोरिया (८) कारिया (९) मारन् इति । तत्र 'मारन्' इत्ययमेव प्रपन्नजनकुलपतिः, वकुलकुसुमभूषणः, शठारातिः, परांकुशः इत्यादि नामालकारो मुनिवरः। तस्येदं चरितमद्भुत- मेवमाख्यायते तज्जैः । पूर्वोक्तसन्ताने योऽयं सप्तमः पोहरियार नामा तस्य कारियार नामा पुत्रोऽजनि । तस्य विवाहं कर्तुकामः पिता तिरुवपरि- शाराख्ये प्रामे निवसन्तं तिरुवामार्पनामानं सर्वतस्स्वसमानं प्राप्य तत्पुत्री उडैयन यार् नानी कन्यां स्नुपार्थे वरयामास । सोऽप्युररीचकार । शुभे दिवसे मुहूर्ते च पाणिग्रहणमहोऽपि यथाविभवं प्रववृते । तदनु वधूवराभ्यां सह श्रीनगरीमाजगाम पिता । एवं गृहस्थधर्मस्थितः कारियार नामा कदाचिद्भार्यया सह श्वशुरगृह- मुपगम्य कतिचन दिवसानुपित्वा प्रतिनिवर्तमानो मध्यमार्ग तिरुक्कुरुंकुडिनवि- नामानं तत्रत्यं भगवन्तम रूपं नमस्कृत्य प्रदक्षिणीकृत्य 'आवयोरेकमपत्यं देहि ' इत्ययाचत । भगवानप्यहमेव भवतोः प्रजायेयेत्यर्चकमुखेनोक्त्वा तुलसी प्रसादरूपेण ददौ । श्रीनगरी तिनवेलीतः तिच-दूरुमागें वर्तते ।
PM
SRI SATHAKOPASŪRI
।
madhu
ke
श्रीशठकोपमूरि
नम्माजमार
उपमे तु विशाखाया कुम्मापुरि पारिनम् ।
पापादने कलेरानी गदारि मैयप भने।
SRİ MADHURAKAVI
श्रीमधुरकविसूरिः
मेये चित्तासमुद्भूतं पाण्ड्यदेशे गणांशकम् ।
श्रीपरांकुशसद्भक्तं मधुरं कविमाश्रये ।।
श्रीशठकोपसूरिचरितम् ततो दम्पत्योः श्रीनगरीमुपेत्य निवसतोः उडैयन यार् अन्तर्वनी बभूव । क्रमेण च ववृधे गर्भः ततः कलौ अतीतेषु द्विचत्वारिंगदिवसेषु प्रमाधिनानि अब्दे वैशाखे मासि शुक्लाचतुर्दश्यां भृगुवासरे विशाखानक्षत्रे कर्कोटकलमे अवततार पराकुश. सूरिरस्मदादिमागधेयभूतोऽस्मिनू भूभागे। भगवाननन्तोऽपि वर्षातपादि- वारणायोनिद्रचिश्चातरुरूपेण प्रथममेवावातरत् । पराङ्कुशसूरेः शिष्यो मधुरकविसूरिरपि अष्टसप्तत्यधिकसप्तशतोचर- लिपष्टिसहसाधिकाटलक्षसल्याकेषु (८६३७७८) वत्सरेषु द्वापरयुगेऽतीतेपु ईश्वराब्दे मेपमासि चित्तानक्षत्रेऽवततार' पराङ्कुशसूरेवितारात्पूर्वमेव वकुल- भूषणभास्करोदयात्पूर्वमरुण इव । अयं च मधुरकविसूरिः सामशाखाध्यायिपुररिशखबाझगकुलोद्भवः तत्तत्कालेषु जातकर्माद्युपनयनान्तसंस्कारसंस्कृतः चतुर्दशविद्यास्थाननिष्णातः कुमुद्राख्यभगवद्गणेशाशसम्भूतः मधुरायोध्याकाशीप्रभृत्युत्तरदेशस्थितपुण्यक्षेत्र- तीर्थयात्रापरो निर्जगाम स्वावासभूताक्षिणदेशान्तगतात् तिरुकोळूरुनगरात् । जातस्तु कारिसूनुः पराकुशसूरिरितरशिशुरिव न रोद । न पपी स्तन्यादिकम् । नैव विससर्ज मलमूत्रादिकम् । मौनं केवलमाललम्वे । एवमपि नैव क्षीणो रुग्यो वा बभूव । तेजःपरमस्यानुदिनं ववृधे। सदिदममुत- माकलय्यास्य पितरौ भगवति न्यस्तसमस्तभरौ द्वादशे दिवसे शहतीर्थनिकटे ताम्रपाः दक्षिणे तटे अ रूपेणावस्थितं पुण्डरीकदलामलायतेक्षणं शङ्खचक्र- वरदामयहस्तं श्रीममिभ्यां क्षणमप्यविरहितपार्श्वद्वयं नीलनीरदनिमगात्रं पीत- चाससमाश्रितवात्सल्य जलधि 'पोलिन्दुनिन पिरान् ' नामानं भगवन्तममिगण्य - घाटकोपरेरखतारकालः रितपूर्व ३१०२। मधुरक्वेस्तु शिस्तपूर्व ३२२४ ॥
२२ दिग्यसूरिचरितेषु पुरश्शिशु प्रदय 'मारन् ' इति नामधेयं विधाय तस्योन्निद्रचिञ्चातरोः अध- स्तादान्दोलिका बध्वा शाययित्वा अनितरसाधारणी प्रतिपति बबन्धतुस्तस्मिन् । सोऽपि शिशुरापोडशाब्दात् तिन्त्रिणीमूल एवं दृश्याभावानिमीलित- नयनः संभाप्यामायादवलम्बितमौनः अन्तर्मुखो जडमूकान्धबधिरवदवतस्थे । अविदिततन्महिमानौ पितरौ तु व्यपीदतामतीवर एवं स्थिते औत्तरतीर्थक्षेत्रयात्रायै प्रवसितो मधुरकविसरिः कस्याचित् रात्राचयोध्यावस्थितो जलविसर्जनजनिताशचिभावनिवृत्तये शयनादुत्थितो दक्षिणस्यां दिशि दूरतो ददर्श महान्तं तेजोराशिमप्राकृतं युगपदितबहु- दिनकरसदृशम् । विस्मितश्च बहुविचिन्तयन्नप्यनधिगततत्तत्वः पुनरपि यथापुरं शिश्ये । एवं द्वितीयस्यां तृतीयस्यामपि निशायामुत्थाय तम्यामेव दिशि तथाविधमेव तत्तेजो दृष्ट्वा अतिकुतूहली तत्तत्त्वनिर्णयाय प्रत्यहं दिवाशयो निशाप्रयाणः तामेव दिश तत्तेजोऽभिमुखो ययौ । क्रमेण प्राप्य श्रीरङ्गक्षेत्रं तत्रापि तथैव पश्यन् श्रीनगरीमवाप । तस्यां स्थितो रात्रावुत्थाय तद्दक्षिणतो नापश्यत्तत्तेजः । ततो निश्चिकायात्रत्यमेव ततेजो भवितुमर्हतीति । तदनु विचार्य तत्रत्यं विशेषवृत्तान्तं ज्ञात्वा गत्वाचोन्निद्रतिन्त्रिणीतरुमूलं दृष्ट्वा च तत्र पद्मासनोपविष्ट बिभ्रत ज्ञानमुद्रा मुकुलितनयनं मौनिनं तेजोराशिमेवमचिन्तयत् --'किमयमन्धो बधिरो मूको जड उन्मचो वा यतो बाह्येन्द्रियव्यापारसामान्य- शून्यः' इति । तदनु चैतस्य चैतन्यपरीक्षायै गण्डोपलमेकं तत्पुरश्शिलायो बलात् न्यपातयत् । तच शब्दं श्रुत्वा आकस्मिकमुन्मील्य लोचने ददर्श मधुरकविम् । ततोऽस्यामूकत्वनिर्णयायाच्छदेवं मधुरकविः -' मृतस्योदरे यदि सूक्ष्मो श्रीशटकोपसूरिचरितम् " उत्तरं तु - . जायेत, तर्हि किं भुक्त्वा कुत्रं तिष्ठेत् !' इति । तस्योत्तरमेवमुवाच पराङ्कुश- सूरिः -~-तदेव भुक्त्या तत्रैव तिष्ठति ' इति । अस्यार्थः शेतत्तिन् । मृतप्राये अचेतने शरीरे, शिरियद्-अणु वः, पिरन्दाल अचिदात्मकशरीर- संयुक्तश्चेत् , एतै तिन्न् ए किडक्कुं - किं मुक्त्वा कुत्र तिष्ठेत् । इति । अतै तिम्न्- अचेननमतशरीरजन्यमुखदुःखे भुञ्जानः, बङ्गे किडक्कुं = शरीर एव बद्धो वर्तते,- इति च । सत् श्रुत्वा मधुरकविः 'महानुभावोऽयं ज्ञानिनामग्रणीः' इति मत्वा अस्यैव समाश्रयणमुज्जीवनोपायः' इति च निश्चित्य हृष्टः साष्टाङ्गं प्रणम्य तचरणयोः स्वकरणत्रयमपि तत्प्रवणं कुर्वाणोऽन्ववर्तत तम् । एवं स्थिते भगवान् परमपदनिलयः परवामुदेवः पतगपतिमारुह्य दिव्याभरणायुधाम्परतुलसीमालाधरः स्वमहिपीजनपरिवृतः परिजनपरिच्छद- सेवितः कनकगिरिशिखरविहरदचिररुचिरुचिरो नवजलधर इवास्य कारिसूनोः पुरः प्रादुरभूत् । अवालोकत चैनमाकम्भिककरुणालहरीशिगिरेण विलोचनेन । येनायमपगतसमस्तरजम्तमस्मपर्कः शुद्धेन सत्वगुणेनाविधः तत्त्वहितपुरुषार्थादि- विषयेषु अज्ञानान्यथाशानविपरीतमानसशयाप्रामाण्यज्ञानगन्धरहितः, लब्धमक्ति- रूपापनज्ञानः साक्षात्कृतभगवत्स्वरूपरूपगुणविभूतिः, तदनुभवजनिलप्रमोदपूर- परीवाइमित्र प्रावर्तयत प्रबन्धचतुष्टयं वेदचतुष्टयसामर्थप्रतिपादकम् । तत्र ऋग्वेदः तिरुविरुतम् (पद्यसंख्या १००) अभूत् । यजुर्वेदः तिरुवाशिरियम् (प. स. ७)। अथर्ववेदः परियतिरुवन्दादिः (प. स. ८७) । सामवेदस्तु (सहस्रगाधात्मकः) तिरुवायमोळि (प. सं. ११०२) । तस्मिातुरीये प्रबन्धे फारिसूनुर्भगवतः स्वरूपरूपगुणविभूत्यादिकं साक्षात्कर्तुमाकारते । काहानुगुणं च साक्षात्करोति । साक्षात्कारजनितानन्दन्दिल; एतादृश- साक्षात्कारयोम्येप्वपि सर्वचेतनेषु, निरन्तरतापत्रमामिष्तास्वानवलोक्य जातदयो दिग्यरिचरितेषु हितमुपदिशति । तेषां शब्दादिविषयप्रवणतया निरर्थके सत्युपदेशे स्वानुभव- विच्छेदादनुतप्तचित्तः भगवदनुभवविच्छेदरूपभगवद्विश्लेपमसहमानः, श्रिया सह स्वस्यापि साम्यपटकवत्या भावनावशान्नायिकात्वमापन्नो दूतान् प्रेषयति भगवत्सकाशं तदानयनाय पक्षिप्रभृतीन् । अनागते तस्मिन् स्वदुरवस्था निवेदयति स्वमात्रे सख्यै च । यदा स्वस्यात्यन्तावसादादिन्द्रियादिव्यापार- शून्या भवति तदा तन्मातृतादात्म्यभावनया सखीभावभावनया या तत्तत् तादाम्यमापन्ना नायिकाया दुरवस्थां बोधयति पौरवधूजनेभ्यः । एतादृश- नायिकादुरवस्थादर्शनात् सर्वज्ञस्सर्वशक्तस्सर्वस्वामी परमदयालुराश्रितवत्सलः संलिप्यति नायिकाम् । तदनु भगवदनुभवरूपतत्संश्लेषजनितपरमानन्दपरिपूर्णमानसो 'मत्सदृशो न कश्चिद्विभूतिद्विदयेऽप्यस्ति ' इति कथयति म्बवाचैव । मुहुर्मुहुर्भगवतः कृष्णावतारकृतनवनीतचौर्यतन्मातृकृतबन्धनताडनादिजनितरोदनादिसौलभ्याति - शयानुभवेन विलीनचित्तो मूर्च्छति षण्मासान् त्रिवारम् । पुनरप्यस्मादृशां भगवतो वा भागधेयवशात् मूळया उत्थाय संसारिचेतनोपटेशं कृत्वा तेन च भगवद्विश्लेषं तज्जनित दुस्सहं दुखं, दुःखासहिष्णुना भगवता कृतं संश्लेषं तेन च निरनिशयं सुखश्च स्वम्य मुहुर्मुहुः कथयन् उभयधापि तदेकचित्त परव्यूहविभवान्तर्याम्य रूपं भगवन्तमनुभूय परभक्तिपरज्ञानपरमभक्तिरूप- स्वज्ञानपरिपाक प्रकटयन् प्रवन्धान्ते देशविशेषावस्थितस्य सायुधभूषणमहिषी- परिजनपरिच्छदस्य भगवतः परवासुदेवस्य निरन्तरानुभव तज्जनितप्रीतिकारित. कैर्यरूपपरमपुरुषार्थलाभश्चापुनरावृत्ति प्रतिपादयति । एतादृशमहिमवतः पराकुशसूरेः शिष्यभतो मधुरकविः प्रावर्तयत तत्प्रवन्धान् यथायाप्यस्मादृशा अपि तत्प्रबन्धसंबन्धेन पराङ्कुशसरिसंबन्ध- मवाप्योज्जीविता अभूम । यथा शठकोपन्य कृष्ण एव धारकपोषकभोम्यादिक श्रीशठकोपसूरिचरितम् २५ " सर्वमभूउथैव मधुरकवेः स्वाचार्यः पगड्कुशरिरेव सर्वमभूत् । इयमेव हि चरमोपायनिष्ठा । इयमेव निष्ठा स्वाचार्यस्य पराङ्कुशप्रेरत्यन्तामिमतेति 'पयितुंशुहरोळि' 'नेडुमाल्कडिमै' इति दशकद्वयोपदेशादवधृता । तामेव निष्ठां स्वस्य प्रतिपादयन्नयं मधुरकविः 'कण्यिनुशिरुताम्' इति प्रबन्ध- मेकादशपद्यपरिमितमनुनमाह पञ्चमोपायनिष्ठानामुज्जीवनाय । यस्य प्रवन्यस्य महिमैवं जोधुष्यते--'गाधाचतु:सहस्रात्मके दिव्यसूरीणां दिव्यप्रबन्धे काल- वशात् प्रमुपिते नाथमुनिराचार्यवर्यः एनमेकादशपद्यमितं प्रवन्धमात्रमधीत्य शरिपुरेरच रूपस्य पुरः एकासनोपविष्टः द्वादशसहस्रवार जपित्वा तं साक्षात्- कृत्य तदुपदेशादेव गाधाचतुम्सहस्रात्मक प्रबन्धकदम्बकं कण्ठगतमकार्षीत् ; परम्पराप्राप्तं यदद्याप्यस्मदादिभिरपि पठ्यते' इति । किञ्च-कारिसूनुसूरेर - रूपं तव तिन्त्रिणीतरोरधः प्रतिष्ठाप्य नित्योत्सवादिसंवत्सरोत्सवान्तं व्यरचयत्, येन सकलचेतनानामुज्जीवनं भवत्यद्याऽपि । अपि च,-कारिसूनुसरेल्सवसमयेपु अयं मधुरकविः स्वाचार्यस्य बिरुदावली पठन् कैश्चित् शिवभक्तः द्राविडप्रबन्धनिर्माणचणैरुपरुद्धः, 'यदि भवदाचार्योऽस्मत्सङ्घनेतारं काव्यविवादे जित्वा जयसूचिका फलकामारोहेचर्हि बिरुदावलीमर्हति; नो चेन' इत्यमामि । मधुरकविश्यमेवमवदत्-~-'म रूपः आमदाचार्यम्तत्रागन्तुं फलकामारोदुश्च नार्हत्येव । तमूक्ति काश्चित्पत्रे विलिल्य फलकामारोपयिप्यामः । यदि फलका परिप्यति सूक्तिपत्रं तदा यूयं जिता एवेति मस्यामहे ' इति । ते तथैवेत्यम्युपागच्छन् । अयमपि शठारातिसूक्ति पत्रे विलित्य फलकामारोपयामास सर्व- समक्षम् । सा च फलका कारिमनुमूरिसूक्तिपत्रमेकं विना स्वास्दान् लब्ध- प्रशस्तीन् त्रिशतं कवीनपि पातायेत्वा तत्पत्रमेकमेव बमार । एतदद्भुतं दृन्दा सत्सम कविभिभीत्वा स सहनेता लजितश्चैवं शटाराति तुष्टाव । , २६ दिव्यसूरिचरितेषु " किं मक्षिकापि डयते विनतासुनाने खद्योत एति पुरतः किमु भास्करस्य । श्वा द्वीपिनः पुरत एति भषन् कथं वा कण्ठीरवस्य पुरतः किमु जम्बुकोऽपि ॥ १ ॥ यद्वोर्वशीममिनटत्यपि कापिशाच: किं कारिसूनुकवितापुरतोऽपि सन्ति । काव्यान्तराणि ! जगति प्रथितानि तानि सत्यं समुद्रघुषितानि विचिन्तितानि ॥२॥" इति । एवं मधुरकविस्वाचार्यमहिमान प्रकटीकृत्य आचार्यनिष्ठा जगति प्रकाश्य ततस्स्वाचार्यपदकमलयुगलीमवाप । इति श्रीशठकोपमरिचरितं मधुरकविमरिचरितश्च श्रीकुलशेखरचरितम् अस्ति किल भरतखण्डे केरलेषु कुक्कुटकूटनाम्ना प्रथिता देशमापया 'तिवश्चिकळम् ' इति काचन नगरी । तत्र च शेराख्ये क्षत्रियकुले अवतार मगवतः कौस्तुभांश: श्रीकुलशेखरनामा नरपतिः । यस्मिंश्च दिवसे स महानुभावो मुवमलंचकार, स तु कलौ अतीतेषु हायनेषु सप्तविंशतिसंख्याकेषु पराभवनाग्नि वत्सरे (किस्तपूर्व ३०७५) कुम्भमासि शुलदादशीयुतो गुरुवासरः पुनर्वसूमहितश्च । स च कुलशेम्बरो जायमानकालजातजनार्दनकटाक्षजनितनिखिलतत्त्व- ज्ञानः, जनक इव विजितनिजेन्द्रियजातः समुज्झितनिजाभिमानो जगतीवलयं केयूरमिव चमार निजभुजेन । यसिंच राजनि निजभुजबलविजितनिखिलममुजि रक्षति क्षोणी- मनुझितनिजधर्माः परस्परामिजासप्रीतयो न जम्नुरितरतरं प्रजाः । विविधकार्यकलापपर्याकुलामपि राज्यधुरी भगवति न्यस्खसमस्तमरो घमारातिलवीम् । एवमपि सकलपरिजनपरिच्स्टपरिकृतस्य तस्य सिंद्यसनाधिष्ठानमपि मगपनियस्य हुतवहज्वालापजराधिष्ठानमिव व्यमात् । प्रवेणीपरिष्कृत-मदमुदित-मताजकन्याधिरोहणमपि निशिततरशूल- शिवरारोहणमिव स मेने। परन्तु सन्ततमन्तन्यमानभगवदनुभवसमेधितनदमिमततमनीरगोत्र- पासोन्मुको योपयामास प्रत्यई रहयात्राम् ।
२८ दिव्यसूरिचरितेषु किञ्चायम् ' इतिहासपुराणाभ्यां वेदं समुपहयेत् ' इति वचनानुरोधेन निखिलवेदान्तवेद्यपरतत्त्वनिर्णयाय प्रत्यहमितिहासश्रेष्ठं श्रीरामायणं परतत्त्व- निर्णेतृभ्यः परमसात्त्विकेभ्यः प्रोच्यमानमशृणोत् । एवं स्थिते क्रमप्राप्तं- " चतुर्दशसहस्राणि रक्षसां मीमकर्मणाम् । एकश्च रामो धर्मात्मा कथं युद्ध भविष्यति ॥ • रामायणे ३-२४-२३ इति श्लोकार्थं यदायं शुश्राव, तदा निरतिशयरामभक्तिभरपरवशः पुरातनमपि तदितिवृत्तं तदातनं भावयन् स्वयमप्यायोधने दाशरथिसाहाय्यबद्धश्रद्धः सन्नद्धः कार्मुकवाणगदासिचर्मादिप्रहरणपरिकर्मितः चतुरङ्गिणीमपि सेनां सन्नाह्य प्रस्थाप्य च निर्जगाम सहसा नगर्याः । तदनु विचिन्त्य धिषणमनीपास्सचिववराः तदुद्यम मातरिश्वनि मुष्टि- प्रहारायासमिव विफलमपहासास्पदमप्रतीकारं च, तेषु इतिहासश्रावकेषु अन्यतम तरुणं त्वरित प्रस्थाप्य राजाभिमुख राघवविजयशसिने तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् । बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥ रामायणे ३-३०-३९ इति श्लोकार्थ श्रावयामासुः । तं च श्रुत्वा रामविजयं स्वानीकिन्या सह सहर्ष न्यवर्तत नगराभिमुख राजा कुलशेखरः । एवमादीनि लोकदृष्टिविरुद्धानि राजश्चरितानि निरीक्ष्य नीतिपथ- निष्णाताः विपश्चितः तस्य सचिवाः भगवद्गुणानुभवसहकारिभक्तजनसहवास- जनितमेनमनर्थमाशश्मानाः तत्सहवासविघटनाय राज्ञो नित्याराध्यस्य देवस्य " -
SRI KULASEKHARASŪRI
श्रीकुलशेखरसूरिः
कुम्भे पुनर्वसी जातं केरळे कोळिपट्टणे ।
कौस्तुभांश प्रपद्यऽहं राजानं कुलशेखरम् ।।
SRI VIŞNUCITTASURI
श्रीविष्णुचित्तसूरि
पेरियान्मार
मिथुने स्वातिजं विष्णुरथाश धन्विन पुरे।
प्रपद्ये श्वशुर विष्णो विष्णुचित्त पुररिशखम् ।।
श्रीकुलशेखरचरितम् -- तदा तु राजोवाच रतमयं हारमपहत्य तत्सहानुभूतिषु परमसात्विकेषु भागवतेषु तदपहारित्व- मुदपादयन् । आकस्मिकसर्वेश्वरकटाक्षप्रत्यक्षितसकलवृत्तान्तरस नरपतिः प्रतिक्षिप्य स्थामात्यवचनानि, तश्चकतां भागवतजनपरिशुद्धतां च सकललोकविदिता कर्तुमहितुण्डिकगृहीतं स्फटाटोपमीपणं महापुरुषव्यामाधिकपरिमाणं निश्वसन्त- मतिदीर्घमाशीविषमन्तः प्रवेश्यानीतें कमपि कनककुम्भ संसदि सनिधाप्य तदन्तः स्वपाणि प्रसार्य जग्राह भुजङ्गमम् । तादृशोऽपि स भुजगमः कलशाहिद्धृतोऽपि निर्विषो राजिल इव सोचितफणः सुकुमारकुसुमविरचितस्रगुपमोऽदृश्यत ससदा । “भो भो मन्त्रिवराः! हारापहाररूपोऽयं व्यापारी हरिपरिचरणरतैन विरचितः। अपितु तत्परिपन्थिभियुप्माभिरेव । तदेतदुभयमपि सत्यमेव ; यतोऽयं भुजङ्गमः स्रगिवाचरति मद्भुजयोः । घटसर्पदीव्यमेतत् । एवंविधेषु निस्साक्षिषु व्यवहारेषु सत्यासत्यपरीक्षायै माड्विवाकेन करणीयान्येवमादीनि; यदुच्यते छान्दोग्ये स्तेयपरीक्षाये- 'स यदि परशु तप्तं प्रतिगृहाति स दह्यतेऽथ हन्यते, स न दखतेऽथ मुच्यते इति ' " इति । अथामात्याः स्वदुराचारप्रकटीकरणात् साध्वसध्वस्तत्वान्ताः विकृत- मुखाः प्रणम्य नरपतये 'क्षम्यतामयमेकोऽपराधः' इति संप्रार्थ्य भगवतो हार पुरो निदधिरे । ततोऽयं महानुभावो भगवते हारं समर्प्य भगवदनुभवविच्छेदकर राज्यमा स्वतनूजे संक्रमय्य सुचिराभिलषितां स्वनगरनित्योपुष्टां रङ्गयात्रा तदनुष्ठानेनैव सफलयामास । - - ।
दिव्यसूरिचरितेषु ततश्च प्रकृतिमण्डलमिव केरलमण्डलं विहाय अचिरादिनेव पथा प्रस्थाय नित्यविभूतिमिव चोलावनि निषेव्य विरजामिव कवेरजां समुत्तीर्य अपराजिताभिधानां दिव्यनगरीमिव श्रीरङ्गनगरीमुपेत्य सप्रदक्षिणं सप्रगामंच दिव्यास्थानमण्डपमिव श्रीरङ्गविमानं प्रविश्य परवासुदेवमिव श्रीरगनाथं समनु- भूयापादचूडं तदनुभवजनितप्रीतिकारितसर्वसपर्यासाम्राज्यमन्बपद्यत परम- साम्यापन्नो मुक्त इव । अयमपि महानुभावो निजविविधभगवदनुभवपरीवाहरूपं पञ्चोत्तरशत- पद्यपरिमितं 'पेरुमा तिरुमोळि ' इति प्रसिद्ध द्राविडभाषामयं प्रवन्धं प्रकटय्य जगदिदमुदजीवयत् । तत्र प्रथमदशके सर्वैरपि स्वबाह्याभ्यन्तरकरणैरवयवैः देहेन च भगवतः श्रीरङ्गनेतुरतुभवं कदाकदेति प्रार्थयत । द्वितीयदशके, न केवलपरमपुरुषानुभवजनिकिकरता परमपुरुषार्थता भजते; अपितु तत्काष्ठाभूता तदीयकिकरता; अतो भागवतचरणाम्बुरुहपराग- पांसुलतामात्मनस्सर्वाङ्गीणां संभावयामास । एवं भागवतकैयपर्यवसन्नभगवत्फैकर्यरूपपरमपुरुषार्थमनोरंथसत्वेऽपि रजम्तमःप्रचुराणां देहात्मामिमानिनां विषयप्रवणानां भनात्मज्ञानां सहवासे तादृशमनोरथस्यापि अकिश्चित्करत्वापत्त्या तापामरजनसहवासानभिरुचि भगवदेकमावण्यं च स्वस्य प्रकटीचकार तृतीयेन दशकेन । तुरीयेण तु पूर्वानुभूतः श्रीरङ्गनाथ एव स्वस्य प्रतिबन्धकनिवृत्तये कैङ्गिीकरणाय च श्रीवेङ्कटाचलेऽपि सन्निधत्ते इति तदधीश श्रीनिवास शरणमुपगम्य कैङ्कयरुचिं तत्र त्वरी च प्रकटयन् तत्रैव तिर्यक्स्थावरादिजन्मानि प्रार्थयामास ।
श्रीकुलशेखरचरितम् पञ्चमे दशके भगवदेकोपायस्य स्वस्यानन्यगतित्वमनेकैः निदर्शनेः व्यजिज्ञपत् वितुवकोट्टुनायक (उय्यबन्दपेरुमा) सन्निधौ । अथ च, अतिक्रान्तज्ञानदशः विपाकापन्नप्रेमदशामारूढः गोपिका- तादास्यभावनया स्वयमपि कृष्णलीलासमासक्तवल्लवीजनो मूत्वा तमेव बहुमुख- मनुमवति स्म पप्ठे दशके। तदनु निरतिशयभोग्यभूतमेतादृशं यस्तु यावता कालेन नानुमत तावते कालायानुनप्यमानो यशोदानुभूतां श्रीकृष्णबाललीलामनालोकितवत्याः कृष्ण- जनन्याः देवक्याः प्रलापप्रकारान् प्रकटीचकार तादास्यात् सप्तमे । अष्टमे च कौसल्यातादाम्यापन्नोऽयं चालं रामं डोलामारोप्य लाल्यति स्म आन्दोलनेन । नवमे तु, राज्याभिषेकाय प्रतिसरमावस्य श्वोभूते वनवासाय प्रस्थापितस्य रामस्य विश्लेषव्यसनमसहमानो दशरथो भूत्वा तादात्यात् आक्रोशति स्म। दशमदशकेन तु रामभक्तोऽयं रामायणस्य फाण्डमप्तककया: अन्ववादीत् । किं च, संस्कृतभाषयायं मुकुन्दमालानामी अतिललितपदगुम्भिता सुप्रसन्नार्थी भगवतो नारायणस्यैव सर्वस्मात्परताप्रतिपादिनीं मक्तिरस- निप्यन्दिनीमिदानीमप्यापालगोपालमा च महुविभ्योऽनुसन्धीयमानों स्तुति जगदिदमुग्जिजीवयिपुर्निजगाद । इति थीफुलशेसरचरितम् श्रीविष्णुवित्तचरितम् यश्श्रीधन्विपुरे वटच्छदशयस्यारामकृत् सस्कृते तत्यानामधिगम्य पाण्ड्यनृपतेर्विद्वत्समामध्यतः । शास्त्रतत्वविनिश्चयं विरचयन्विद्याधनं प्राप्य त- स्मतेमे स्तुतिमातनोद्भगवतस्तं भट्टनायें भजे ॥ अथ तत्रभवान् विष्णुचित्तमूरिः श्रीमरतखण्डदक्षिणसीमाभरणायमान- पाण्ड्यजनपदमण्डनभूतायां सीधन्विनूतनपुर्या (श्रीविल्लिपुनर् ) सकल- संपदञ्चितायां कलौ अतिगतेषु षट्चत्वारिंशद्गणनेषु (किस्तपूर्व ३०५६) हायनेषु क्रोधनामिधेऽन्दे मिथुनराशिमाकामति सवितरि वा पक्षे हरिवासरे भास्करवासरपरिष्कृते स्वातीमुपगते कलानिधी अवततारावनौ नारायणवाहनांशेन अस्मद्विधतापत्रयामिहतोज्जीवनाय । ततश्च स भगवान् विष्णुचितः तन्नगरमणिदीपायमानेन भगवता - रूपिणा वटपत्रशायिना (वडपेरु कोयिलुडैयान ) निर्निदानमेव करुणया कटाक्षितः 'प्रहादो जन्मवैष्णवः' इतिवत्सतत विष्णुचित्तः सहजदास्यरस- परिपूरितः ततोऽन्यतृणाय मन्यमानः कैहयें पुरुषार्थेऽपि स्वस्वाम्यभिमतस्यैव तस्य पुरुषार्थतमत्वात् तन्निर्णयायैवं व्यचारयत् स्वान्ते । "भगवान्परमपदनिलयः परवासुदेवः सनकसनन्दनचतुराननादीनामवा- हमनसगोचरः स्वसजातीयेभ्यः अस्पृष्टसंसारगन्धेभ्योऽनन्तगरुडविष्वक्सेनादिभ्यो नित्येभ्यो मुक्तेभ्यश्च आशापयति स्वामिमता परिचर्याम् । व्यूहरूपी च पय पयोधिशयस्तदा तदा तत्चदितिजदनुजपरिपीडित- विधिशिवशतमखप्रमुखबर्हिर्मुखनिकरपरिदेवनरवधिरितश्रुतिविवरो मुहुर्मुहुः + ।
श्रीविष्णुवित्तचरितम् ३३ शयितुमप्यनवाप्तावसरः तत्तदभयदानदीक्षाधुरिणैः धीरध्वनिभिरेव कालं क्षिपति । स्वपरिचर्यानुशासनम्य का वार्ता ! विभवावतारस्तु स्वामी मनुजसजातीयसस्थानमात्रावगतमानुषभावेपु अवजानत्सु मानवेपु स्वात्मानमजहत्सरस्वभाव कस्मै बोधयतु स्वाभिमत- स्वसेवाकरणाय । तथाऽपि भूभारावतारणापदेशेन देवकीवसुदेवमनोरथपूरणाय चतुर्भुजोऽवतीर्य अवमोच्य तन्निगलबन्ध नवनीतचौर्यो रूखलबन्धनस्वाश्रित- पाण्डवदूत्यसारथ्यादिभिः सौलभ्यप्रकाशकै: शैशव एव पूतना-शकट-यमला- जुनतृणावर्तधेनुकारिष्टके शिकुवलयापीडमल्लकमाद्यसुरखरमर्दनादिमिः गोवर्धनो- द्धरणादिभिश्च परत्यप्रकाशकैः स्वत्यैवसिद्धोपायवप्रकाशकैश्चातिमानुषैः अत्यद्- भुतैश्चरितैश्चिचापकर्षके कृष्णावतारे धनुर्दर्शनापदेशेन कंसवधाय तद्भवनं ब्रजतः पथि मालाकारभवनप्रवेशः तत्र च स्वदिव्यमङ्गलविग्रहानुगुणदिव्य- माल्लोपयाचनं, तेन च धन्यंमन्येन निरतिशयमक्तिपुरम्सरं समर्पितानि माल्यानि धृत्वा स्वाङ्गेयु स्वात्मानमालोक्य हृप्यतो वल्गनं च बोधयत्येवामान् स्पष्टसरं दियोद्यानकरणमाल्यग्रथनतत्समर्पणानि विना नान्यदभिमतं कैर्य भगवतः इति" इति । निर्धाय चैवं तदनुगुणमेव कुमुमोद्यानं निर्माय तत्रोपारूढस्तुलसी- मल्लिका-कुन्द-वासन्ती-मालती-पाटली-केसर-पुन्नागचम्पकप्रभृतिभिर्नानागन्धवण : सुमनोभिः विचित्राणि माल्यान्यारचय्य समयं च प्रतिदिवस वटदलशायिने भगवते निरतिशयं प्रमोदमादधान एवासीत् । एवं स्थिते दक्षिणमधुरायामतिधार्मिके वल्लभदेवनाग्नि पाण्ड्यराजे अन्वर्थनामनि शासति बसुन्धरां स राजा कस्मिंश्चिनिशीथे नगररक्षाविकताना रक्ष्याणाञ्च प्रकृतीना परीक्षणाय कृतवेपपरिवर्तो नगरवीथ्यां निगूढं पर्यटन कस्याचित् गृहबहिर्वितार्दिकायां प्रसुप्तं कवन प्रबोध्य द्विजन्मानं पृष्ट्वा, तेन .. 6 दिग्यरिचरितेपु चोक्ते 'गङ्गामवगाध श्रीरामसेतो सिप्णासुः कश्चन विप्रोऽहं पान्थोऽत्र शये। इति, पुनः प्रपच्छ ' यद्यपि भूदेवोऽसि तीर्थयात्रापरः श्रोत्रिय इवाभासि; अतश्च भवदमिमतं सारतम कञ्चन श्लोकं पठ' इति । स ब्राह्मणो जगाद- 'वर्षार्थमष्टौ प्रयतेत मासान् निशार्थमध दिवसं यतेत | वार्धक्यहेतोयसा नवेन परत्रहतोरिह जन्मना च ।' इति । आकर्ण्य चैतत्पद्यं . राजा व्युत्पन्नो भावयामासैवं श्लोकार्थम् --'यैः परिकरैः संपन्नेन यावदेकं संवत्सरं सुमुख जीवितुं शक्यं पुंसा लावतः परिकरानष्टमि. , मसिरुपार्जयेत् । यस्य दिवसम्य रात्रौ सुखेन स्थेयं तत्कृते तस्य दिवसस्य पूर्वार्धभाग एव यतितव्यम् । वार्धके सुखजीवनायावश्यक सर्व परिकर तारुण्ये एवं संगृहीयात् । पारलौकिकसुखाय तु सर्वेणापि जन्मना सर्वात्मना सर्वदा यतेत ' इति । ततश्चैवं श्लोकार्थ भावयतोऽस्य मनसि समुदभूचिन्ता, 'ऐहिकेषु पुरुषार्थेषु समस्तेषु जायासुतधनगृहपशुक्षेत्रमित्रभृत्याधिकारादिपु न किञ्चित् परिहीयते मम । परलोकसाधनं पुनरनेकैरनेकधा समुपपाद्यते नानाविधैश्शास्त्रैः चेतसःसंशयशतावहै: तकि करणीयमिदानीम् ?' इति । अथ च कथञ्चित्समाहितमनाः प्रभात एव स्वपुरोहितं परमसात्विक विदितसकलवेदितव्यं संपत्पूर्णनामानं (शेल्वनंबि) आनाय्य प्रपच्छ---'भगवन् । तत्त्वहितपुरुषार्थानां निष्कृष्ट स्वरूपमवधार्य ततो यतेत श्रेयसे । तत्कथमव- गच्छाम्येषां यथावस्थितं स्वरूपम् ' इति । पुरोधास्त्वब्रवीत् - भगवानापस्तम्बो ब्रवीति स्वधर्मसूत्राणामारंभे, धर्मज्ञसमयः प्रमाणं वेदाश्च' इति । अस्यायमर्थः । धर्म जानन्तीति धर्मज्ञाः। . - श्रीविष्णुचित्तचरितम् धर्मश्चालौकिकश्रेयस्साधनम् । स च सिद्धधर्ममतस्सिद्धोपायो नारायणः पुरुषोत्तमः । तस्य च सिद्धधर्मत्वं 'रामो विग्रहवान् धर्मः। 'कृष्ण धर्म सनातनम् ' इत्यादि प्रमाणसिद्धम् । तं जानन्तीति धर्मज्ञाः । तज्ज्ञानं च स्वयोगमहिमसाक्षात्कृतपरावरतत्वयाथाम्येभ्यो ऋपिभ्योऽत्यन्तविलक्षणानां पराङ्कुशादीनां भगवनिर्हेतुककटाक्षलधं लवशोऽपि सशयाज्ञानान्यथाज्ञान- विपरीतज्ञानाप्रामाण्यज्ञानानाम्कन्दितं तस्यैव भगवतो नारायणस्य समस्तहेय- रहितस्यासंख्येयकल्याणगुणगण जलरुभयविभूतिनायकस्य सर्वस्वतन्त्रस्य श्रियः पतेरपारकारुण्यवात्सल्यसौशील्यसौलम्यादिकल्याणगुणाकरस्योपायत्वमुपेयत्वञ्वे. त्याकारक तत्संश्लेपविश्लेपैकमुखदुःखक परिहृततदितरधारकपोपकमोम्यजातं सतततदनुभवैकरूपम् । तेषां धर्मज्ञानां यः समयः आचारः स एव मुख्यं प्रमाणम् । 'वेदाश्च'= तदाचारानुगुणा वेदाश्च प्रमाणम् । चकारोऽवाचये- यथा 'भिक्षामट, गाश्चानय' इति वाक्ये भिक्षाटनभ्य प्राधान्यं, सति संभवे भिक्षाटनाविरोधेन गयानयनस्य विधानञ्चोच्यते; तथा पूर्वोक्तधर्मज्ञानामाचारः प्रधान प्रमाणम् । तत्समानार्थकाः वेदाश्च प्रमाणमिति । गीताचार्येण-- 'यावानर्थ उदपाने सर्वतस्संप्लुतोदके। तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥" 'सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । महं त्या सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥' इति च । तस्मात् तादृशमगवत्कटाक्षलब्धज्ञानानामुपन्यासैः परावरपुरुषपुरुषार्थो- पायान सम्यगवगम्य ततः श्रेयसे यतस्य । तदर्थ सकलक्षेत्रतीर्थवासिनो विदुषो वेदान्तवेदिनसमाहापय " इति । तथा चोक्तं इति।
दिग्यसूरिचरितेषु राजाऽपि पुरोधोऽनुरोधेन सकलेभ्यो जनपदेभ्यस्समानाय्य विदुपस्सी महती निरवर्तयत । तत्त्वहितपुरुषार्थनिश्चायकाय विदुपे समर्पणीयं बहुनिष्क- भरितं विद्याशुल्कन्थि च समातोरणे बन्धयामास । एतावत्येव चानेहसि श्रीधन्विनूतनपुराधीशो वटदलशायी भगवान् श्रीविष्णुचिचमूरि मुखेन सकलवेदान्तसारार्थान् प्रकटीचिकीर्षुः स्वप्नेऽस्य समागम्य एवमेनमाज्ञापयामास भगवन् ! विष्णुचितसूरे ! प्रवुध्यस्व । अद्यैव याहि पाण्ड्यराजधानी मधुराम् । तत्र च विद्वद्गोष्ठयां श्रुतिस्मृतीति- हासपुराणवाक्यैः तत्त्वहितपुरुषार्थानिर्धारय जगदुज्जीवनाय ' इति । विष्णुचित ऊचे "भगवन् ! काहमनाघ्रातशास्त्रगन्धो मन्दधीः । क वा मीमांसाद्वयविचारणीयानि श्रुतिस्मृतीतिहासपुराणानि ! किं खनित्र- कुद्दालग्रहणजनितपाणितलकिगप्रदर्शनमात्राहरणीय विद्याशुल्कम् ? ' इति । भगवानब्रवीत्—' अहमादिर्हि देवानां महीणां च सर्वशः। चतु- मुखादिदेवानां व्यासादि महीणाञ्च तत्तत्कर्मानुगुणं ज्ञानमत्यादीनां प्रदाता चाहमेव । एवं स्थिते मन्निर्हेतुककटाक्षलक्षितानां किमसाध्यम् ! किं तब भरस्तत्वनिर्णयः । मदीयो हि स भरः! तत्त्वरितं प्रयाहि पाण्ड्य पुरीम् ' इति । आगते च विष्णुचित्ते - तेजोविशेषानुमितभगवत्कटाक्षलब्धदिव्यज्ञाने सपुरोधसि नरपतौ प्रत्युद्गमनाभिवादनादिभिस्त मानयति सति, तत्रत्येषु च सकलेपु पण्डितेषु 'नरपतिरयमविशेषज्ञः। यदस्मादृशेषु सत्स्वपि विद्वद्वरेषु येनायमनाघातगास्त्रगन्धोऽपूज्यः पूज्यते' इति विनिन्दत्सु, पुरोहितस्सप्रणाममेनं विष्णुचित्तमित्थमभ्यर्थयामास 'भगवन् ! विष्णुचित्त ! समुदितायामस्यां पण्डितपरिषदि भवानेव श्रुतिनिकर शिरसि समधिगम्यं परं तत्त्वं निर्धारयतु' इति । ततश्च भगवान् विष्णुचितः वल्मीकजन्मा मुनिरिव विधातृवराद्रघुवर- चरितं हसितभापितगतिचेटितादिभिरनूनाधिकं, बाल इव चौत्तानपादिर्भगवतः .
- ब्रवीति । - श्रीविष्णु चित्तचरितम् पाञ्चजन्यस्पर्शाद्वक्त्रे सकलवेदान्ततात्पर्यार्थगर्भ भगवतस्स्तुतिजालं, भगवत्- कटाक्षलब्धदिव्यज्ञानः साक्षात्कृत्य सकलं वेदान्तार्थजातमित्यमुपन्यास्थत् । तथा हि,- " 'कारणं तु ध्येयः' इति श्रुतिः जगत्कारणभूतस्यैव वस्तुनो ध्यान- विषयत्वं वक्ति। यथाक्रतुरस्मिन् लोके पुरुपो भवति तथेतः प्रेत्य भवति । इति श्रुतिः ध्यानविषयस्यैवेहशरीरवियोगानन्तरं देशविशेषावच्छेदेन प्राप्यत्वं जगत्कारणं च ब्रह्मत्यवगम्यते 'यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यमिमविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म' इति तैत्तिरीयश्रुतेः ! छान्दोग्ये ' सदेव सोन्येदमन आसीत् ' इति सच्छब्द- चाच्यस्य, 'ब्रह्म वा इदमेक एवाग्र आसीत्' इति ब्रह्मणः. ऐतरेये 'आत्मा वा इदमेक एवाम आसीत्' इत्यात्मशब्दवाच्यस्य, अन्यत्र 'हिरण्यगर्भस्समवर्तता' इनि हिरण्यगर्भस्य, अथर्वशिरसि 'शम्भुराकागमध्ये ध्येयः' इति शम्भोः, कोपीतक्या 'मामुपास्त्र' इत्यादिना इन्द्रस्य च जगत्कारणत्वमवगम्यते । तत्र सद्ब्रह्मात्मशब्दानां सामान्यवाचकत्वात् कचन विशेपे पर्यवसानं विना नार्थोऽत्र- गम्यते । यथा - 'पशुना यजेत' इति पयोः यागकरणत्वे श्रुते 'चतुष्पादः पशव' इनि चतुष्पदा सर्वेषा यागकरणले प्राप्त 'छागो वा मन्त्रवर्णात्' इति छागात्मकपशुविशेषस्यैव यागकरणत्वं निर्णीयते । अनेनैव सामान्यविशेषन्यायेन सद्रामात्मसन्दाना चिदचिदीश्वरत्रितयवाचिनां क्वचन विशेषे पर्यवसाने वाच्ये इन्द्रहिरण्यगर्भशिवशंभ्वादिशब्दाना तत्तत्पुरुषविशेषवाचकत्वेऽपि, महोपनिपदि ‘एको ह वै नारायण आसीन्न ब्रह्मा नेशानो ने द्यावापृथिवी' इति नारायणाख्यदेवताविशेषनिर्धारणपुरस्सरं शाखान्तरोनहिरण्यगर्भशिवशवक्षर- प्रमृतीना कारणत्वनिषेधकष्टोक्या च नारायणस्यैव जगत्कारणत्वं न बन्न- दादीनामिति स्पष्टमेवोच्यते । - - विग्यसूरिचरिते - -- . यद्येयं ब्रह्मरुद्रादीनां कारणबोधकवाक्यानां का गतिः ! इति चेत् - सूत्रकारेणैव भगवता कृष्णद्वैपायनेन द्वेधा गतिर्दर्शिता साक्षादप्यविरोध जैमिनिः' 'अवस्थितेरिति फाशकृत्नः' इति च सूत्रद्वयेन । अनयोरर्थस्तु जीव- विशेषवाचिनाममिवैश्वानरादिशब्दानाम् 'अयं नयतीत्यग्निः' 'विश्वेषां नराणां नेतृत्वाद्वैश्वानरः' इत्याद्यवयवव्युत्पत्त्या यथा भगवत्परत्वं तथा शिवशंभ्वादि- शब्दानामपि मालकरत्वाच्छिवशब्दवाच्यत्वम् । 'शं-सुखं भावयतीति शंभुः' इति निरतिशयसुखजननात् शंभुशब्दवाच्यत्वम् । 'इदि परमैश्वर्य' इति धातोः रप्रत्यये इन्द्रशब्दनिष्पत्त्या सर्वेश्वरत्वादिन्द्रशब्दवाच्यत्वं नारायणस्यैवेत्येका गतिः । 'य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद, यस्यात्मा शरीरम् ' इत्याद्यन्तर्यामिब्राह्मणोक्तरीत्या जीवात्मनि परमात्मनोऽन्तर्यामितया अवस्थितेः अवस्थानात् , जीवात्मवाचिशब्दानां परमात्मनि पर्यवसानात् जीवात्मवाचि- शब्दैः परमात्माभिधानम् । शरीरवाचिशब्दैः तदन्तरवस्थितस्य जीवात्मनो यथावाच्यत्वं, ब्राह्मणोऽहं, मनुष्योऽहं, देवदत्तोऽहमित्यादिषु दृष्टं, तथैव सर्व- शरीरकस्य नारायणस्य स्वशरीरभूतशिवहिरण्यगर्मेन्द्रादिशब्दवाच्यत्वमिति अन्या गतिः इति । नन्वेवं सति सूत्रद्वयोक्तन्यायेन नारायणशब्दस्यैव शिवादौ कुतो न पर्यवसानम् ! इति चेत् --विधिशिवेन्द्रादीनां सृज्यत्वकर्मवश्यत्वप्रतिपादक- प्रमाणवचनशतैः जीवत्वसिया तद्वाचिशब्दानामुक्तन्यायेन नारायणे पर्यवसानम् । नारायणशब्दस्य तु नाराणामयनम्' 'नारा: अयनं यस्य' इति व्युत्पनिद्वयेन सर्वाधारत्वसर्वप्राप्यत्वप्रापकत्वसर्वशरीरकत्वादि प्रतिपादनात् 'विष्णुर्नारायणः कृष्णः' इत्यादिकोशात् रूढिशक्त्या च शिवादीनां नारायणशब्दवाच्यत्व- बाधात् शिवादी न पर्यवसानावकाशः ।
श्रीविष्णुचित्तचरितम् , किं बहुना ! एतादृशानेकसंशयपरिहारायैव उत्तकारणवाक्येषु कारणत्वेनावगतान् परब्रह्म-परतत्त्व-परज्योतिः-परमात्म-ब्रह्मशिवेन्द्राक्षरादीननूय तेषां प्रत्येक नारायणत्वं विधत्ते–'सहसशीर्षम्' इत्याधनुवाकः । नारायण परं ब्रह्म तवं नारायणः पर: नारायण परो ज्योतिरात्मा नारायणः परः । स ब्रह्मा स शिवस्सेन्द्रस्सोऽक्षरः परमःस्वराट् । इत्यादिना। तदेतरसूत्रकारो ब्रूते-'लिगभूयस्त्वाचद्धि बलीयस्तदपि ' इति । किच एतादृशन्यायसञ्चारनिरपेक्षमेव थुतिः सुस्पष्ट प्रवीति । 'तमीश्वराणां परमं महेश्वरम् ' इत्यादौ महेश्वरशब्देन कः प्रोच्यत इति जिज्ञासायां, 'यदादी स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः' इति । अस्यार्थः --- ' सवत्यनोकृतं पूर्व परस्ताच्च विशीर्यते' इति मनुत्तरीत्या वेदस्यादौ वेदस्यान्ते च प्रतिष्ठितो यत्स्वर: वेदाध्ययनारम्भे वेदाध्ययनान्ते च सर्वेः वैदिकरचार्यमाणः यः प्रणवः तस्य प्रकृतिरकारः, तस्मिन् लीनस्य = प्रणवमूलभूतस्य भकारस्य यः परः = यो याच्यः, स एव महेश्वरः । तथा च • 'अकारो विष्णुवाचक:' 'अक्षराणा- मकारोस्मि' 'म इति भगवतो नारायणस्य प्रयमाभिधानम्' इत्यादिना अकार- चाच्यत्वं नारायणस्यैव 1 अकारवाच्यं नारायणमुद्दिश्य महेश्वरलं विधीयते इति । इत्यच नारायणस्यैव फारणत्वोपास्यत्वप्राप्यत्वप्रापकत्यमोक्षप्रदत्व- नियन्त्रन्तररहितनियन्तृत्व -सर्वचेतनाचेतनान्तर्यामित्व- सर्वशरीरकत्व-धियः- पतिस्वादिभिः प्रमाणान्तरागोचरः श्रुत्येकसमधिगधर्मः परत्वसिया नारायण; एव पर तत्त्वम् । उपायत्यमुपेयत्वध तस्यैवासाधारणो धर्मः । सिद्धोगामकृषि- फ्लम्ता गतिः प्रपतिळ व्याजोगयः । - दिव्यसूरिचरितेयु - पुरुषार्थस्तु - हार्दानुगृहीतम्यास्य भक्तम्य प्रपन्नस्य वा मूर्धन्यनाडी- निष्क्रमण-अचिरादिसरणिगमन-अण्डाण्डावरणातिक्रमण-विरजानदीखान-सूक्ष्म- शरीरविधूनन-दिव्यविग्रहपरिग्रह-सुरिजनप्रत्युद्दमन-दिव्याप्मरःक्रियमाणब्रह्मा- लकारालझरण-दिव्यथैकुण्ठनगरगोपुरमाकारमण्डपादिदर्शनप्रणामप्रदक्षिण-तत्रत्य- सूरिजनप्रार्थनाङ्गीकृततत्त्परिचरणभगवत्प्रासादांतरदिव्यास्थानमण्डपदर्शनप्रणाम. तत्प्रवेश तन्मध्यालङ्कारभूतसहस्रपणामणिमण्डितानन्तधर्माद्यासनविमलादिचामर - प्राहिणीपरिमण्डिताप्टदलदिन्यसरोरुहतन्मध्यावस्थितपरिजनपरिच्छदभूपणायुध- दिव्यमहिपीशेषशेषाशनगरुडप्रमुग्वान्तरङ्गजनपरिवृतश्रीमन्नारायणदर्शनप्रणामा अलिबन्ध-स्तम्भीभवनतन्मन्दस्मितपूर्वकावलोकनदानतदाहानपूर्यकतदालापामृता- कर्णन-तत्समीपगमन-तपर्वतारोहण-तदालिङ्गन-तस्कृतम्बमूविघ्राणन स्तुति-नम- स्कृत्यादिरूप-भगवदनुभव जनितानवधिकातिशयप्रीतिकारिताशेषशेपवृत्तिरेव । तदेतदखिलं कौपीतक्यादिसकलोपनिषत्प्रसिद्धम् । एतदेवार्थजातमखिलस्मृतीति- हासपुराणादिकमनुमोदते, सुस्पष्टं व्याख्याति बहुमुखश्चति । पूर्णे तूपन्यासे तूर्णमेव निष्कपूर्णो विद्याशुल्कग्रन्थिस्तोरणावबद्धस्त्वय- मेवास्य पुरस्तान्निपपात । श्रुत्वा चैनमुपन्यासं दृष्ट्वा च विद्याशुल्कनिपतनं विस्मयस्मेरमुग्यो राजा पुरोहितो राजविनिन्दका विद्वासश्चाविशेषेण स्तब्धाः मुग्धाः भन्माभिमानाः प्रणिपत्य विष्णुचित्तपदपकजयोः तावताध्यपर्याप्तप्रीतयः तं नरपतेरौपवाह्ये मत्तमतगजेऽवस्थाप्य सविद्याशुल्कं चतसूपु नगरराजस्थ्यासु छत्रचामरादिपरिच्छदैः सकलवाद्यघोपैश्च पादचराः समानिन्थिरे । पाण्ड्यजन- पदाधिपो बल्लभदेवस्तु विष्णुचित्तं तं तदा तादृशवेदान्तार्थोपन्यासात् भट्टानां - वेदवेदान्तार्थवेदिना प्रवक्तृणाञ्च, नाथ: स्वामी, पूज्यः इति कृत्वा नाम्ना भट्ट- नाथं विदधे । ततः प्रभृति विष्णुचिचो भट्टनाथः प्रथते । - श्रीविष्णुचितचरितम् असिन्नेव च समये अभिषेकमनोरथेन सुमन्त्रमुग्वादाइतमायान्तं मुहुः पश्यन्नपि रामं यथा न ततप दशरथः तथा गजस्कन्धाविरूदं महता वैभवेन राजस्थ्यासु समायान्तं स्वमक्तजनामेसरं भट्टनाथं द्रष्टुकामो भगवान् करघृत- सुदर्शनपाञ्चजन्यप्रभृतिप्रहरणगणः श्रिया सह पतापतिमारूढः कनकगिरिशिखर- विहरदचिरचिरचितरुचिरियासितवारिधरः, स्वदर्शनकुतूहलानुधावद्विधिशिव- पुरन्दरपुरस्सरसुरनिकरस्तुतिरवनिरन्तरसुरवममण्डलः त्वरयान्वसरत् । - अथ । रथोपस्थोपविष्टो नर इस विश्वरूपदर्शनाय गजस्कन्धोपविष्टो भगवदर्शनाय तदनुगृहीतदिव्यचक्षुरक्षत प्रत्यक्षमेव च रासेचनकं ताक्ष- मधोक्षजम् । तत्क्षण एवायं स्वातिशयमिव पराधृष्यताप्रयोजक भगवतः परत्व- मपि विस्मृत्य हृदयकीलिततदीयसौन्दर्यसौकुमार्यलावण्ययौवनादि-दिव्यमङ्गल- विग्रहगुणगणः विपीदन्नतीव, अनाघातप्राकृतगन्धगन्धैः प्रीतिमात्रयात्रैः शेष- शेषागनादिमिरनबरतपरिचर्षमाणचरणनलिनस्य तमसः परस्तात् परमे पदे सूरिमिक्सदा सेव्ये स्थानेऽवस्थितस्य श्रीमनीलादिभोग्यभूतस्य परमपुरुषस्य अस्मिन्नरकमाये अमुरराक्षसमनुजपिशाचादियिप्ठे भूलोके सात सानिध्य- मवलोक्य को वानर्थस्समापतिप्यतीति व्यामुझन् गजपार्श्वद्वयर बिघण्टाद्वयं करद्वयेनादाय तालीकृत्य जगावेवं मङ्गलम् । 'यावत्कालं जयतु भगवन् ! सुन्दरं दिव्यरूपं मल्लध्वंसप्रपलदृढदोर्नीलरतामगाव ! विश्लेषण क्षणमपि विनाहं त्वमप्यास्वहे त्व- द्वक्षोलक्ष्मीः करयुगधृतौ चक्रशङ्खौ जयन्तु ।' इति । तावता पर्याप्तिमलभमानः स्वासन्नान् ऐश्वर्यकैवल्यभगवञ्चरणार्थिनः त्रीनपि समाहूय सह च मङ्गलमाशासामास । तदा गजस्कन्धावस्थितेन पछाण्ड् पलाण्ड् इत्यादि-प्रथमपचस्यानुवादः। - . 1 6 ४२ दिग्यरिचरितेषु " । कृतमिदं मङ्गलाशासनमेव द्वादश- (१२) पद्यपरिमितः 'तिरुपल्लाण्ड् ' इति प्रसिद्धः संस्कृतवेदस्य प्रणव इव द्राविडवेदस्यादावनुसन्धेयः प्रबन्धोऽभूत् । ततो भट्टनायो राजानं विशेषतोऽनुगृह्य तेन प्रस्थापितस्सह रक्षिवर्गेण विद्याशुल्केन श्रीधन्विनुतनपुरीमागत्य तस्यैव वटपत्रशायिनः पुरस्तात्तद्धनं निक्षिप्य प्रणम्य भगवन् ! तत्र गन्तुं शास्त्रार्थानुपन्यसितुं विद्याशुल्कमाहतु च भवत्प्रेरितेन मया दासदेशीयेन समाहृतं सकलमिदं धनं स्वामिनस्तवैव । स्मयते हि यस्यैते तस्य तद्धनम् इति! इति विज्ञाप्य विनियुज्य च तत्कैङ्कायैव यथापुरं पुष्पकैर्य एव निरतो बभूव । ततश्चैतादृशकैयप्रेरितारं श्रीमालाकारगृहगतं मालाश्च स्वयमेव याचमानं कालतः स्वस्य स्वल्पान्तरं श्रीकृष्णं भावयन् भावनानुगुणमेव दर्शितासु भगवता स्वावतारप्रभृतिस्वबाललीलासु सर्वासु निरवशेषं तान्तामनु- भय लीला यशोदागोपगोपिकादितादात्म्यमापन्नः तत्तदुक्तिमिषेण स्वानुभव- परीवाहरूपं (पेरियाब्वार् तिरुमोळि, पद्यसख्या ४६१ ) 'भट्टनाथश्रीसुक्ति'- नामानं प्रबन्धमेकं दिव्यमुद्भाव्य लोकानुज्जीवयामास । तत्र च प्रवन्धे प्रथमतः प्रभृति प्रतिदशकं श्रीकृष्णजन्मोत्सवानुभवं शिशुदर्शनागताभ्यो गोपिकाभ्यः आपादचूर्ड कृष्णस्य प्रत्येकावयवप्रदर्शन, डोलिकायां शाययित्वा कृष्णं गानपूर्वकमान्दोलनं, कृष्णकृतचन्द्राद्वानस्य यशोदानुवाद, शिशुनर्तन, हम्ततालताडनं, रामकृष्णयोः पादसञ्चारारंभकालिक. स्खलद्गमनं, पुरस्तादागत्यालिन, तथा पश्चादज्ञातेनागत्यालिजन, यत्किञ्चित् पतविपत्रादिकं प्रदर्य कीटादिदेशनमनूद्य कृष्णेन मातुर्भयजननं, स्तन्यपानाय यशोदया कृष्णाहान, पनसफलादिप्रदानप्रलोभनेन कृष्णमाहूय तत्कर्णवेधन- कर्णामरणधारणादिकम् , अभ्यञ्जनस्नानायाद्वान, दन्तकतिकया केशवकेश- प्रसाधनं, तत्समये कृष्णस्य निश्चलतासम्पादनाय वत्सपालनदण्डमाहर्तु काकस्य - " भीविष्णु चित्तचरितम् आज्ञापन, चम्पकमल्लिकापाटलीपुन्नागादिकुसुमैः शिरोलकरणं, सायं दीपारोपण- समये शिशुरक्षाकरण, तद्वनेभ्यः आगत्य कृष्णकृतानि पयोदधिनवनीत- भक्ष्यभोग्यकन्याभरणाद्यपहरणरूपदुष्टचेष्टितानि तद्गोपिकानिवेदितान्याकर्ण्य खिन्नचित्तया यशोदया कृष्णाहानं, गोपकन्याविषये कृष्णकृतानां पङ्कप्रक्षेप- वस्त्राभरणाद्यपहरणपूर्वक दुतानुपावनादिरूपाणां दुष्टचेष्टिताना तामिर्यशोदायै निवेदनं, शैशव एव कृष्णकृतान्यतिमानुपाणि चरित्राणि सरन्त्या, यशोदया स्वाइशयिताय कृष्णाय खन्यं दातुं स्वमहामीतिकथन, वत्मपालनाय फाननं प्रति कृष्णं प्रस्थाप्यानुपदमेव 'आहारच्छतोपानद्यादिकं कठिनहृदयया मया न दत्तम् । अत्रैव कृष्णस्य मुखलीला विनिताः । कानने केवलं बहवः क्लेशा मनुस्यन्ते । अत्र चाहमेव निदानमासम्' इति यशोदया स्वानुतापकथनं, ततम्सायं वत्सः वत्सपालेश्च सहायान्तं वन्यकुसुमस्तवकगुआमयूरपिन्छादिमिः अलकृतसवियर्व क्सलिषमरितकुन्तलपक्ष्ममालं दिव्यरूपं कृष्णमालोक्य परवशायाः चुम्पनालिझनम्नानभोजनाधम्यर्धनादिरूपं यशोदायाः कृष्णानुभव- प्रकारं, चारयित्वा गाः काननानिवृत्तं स्ववयस्यैर्गोपकुमारकैस्सह तथा तथा ततकीडन्तं वन्याभरणपितं घेणुगानेनेव रूपेण चेटया च नवनीतम्बण्डानीय गोपतरणाचेतास्यपदरन्तं दृष्ट्वा तास कामपरतन्त्रता, गोवर्धनोद्धरणचरितं, भगवतः कृष्णस्य येणुगानसमये कृष्णगोगोपवन्यमृगगन्धर्वाप्सरोदेवादीना या यास्समजायन्तावस्थाः तासां सर्वासामनुम, कृष्णमवलोक्य व्यामुग्यानो गोपमुग्धाइनाना या यास्समजायन्तावस्याम्तामा ततन्मातृमिः कथनं, एतादीनां स्वत्रिकाणा स्यगृहेऽनवलोकनात कृष्णानुगमन, कृष्णेन पुप्रचिद्रवस्यवस्थापनम् , भन्यमापनयनम् , इत्यापाशरमानानां तन्मातॄणा कृष्णायैव पर्यान्यनाम्मन्- पुत्रिकाप्रदान श्रेषः; नादृशापयादयशम् इलायनुनापत्रकार, कपोधित गौरिकयोः पोसत्यापशोदानन्दमयोधरिचगानपूर्वके गर्तनविरोपम् , एकमात् दशवदनभवनागोकानिधायसिताय सीतादेवी रामरतनाशनानन्दनेन विरिप- विव्यसूरिचरितेषु , . रामाभिज्ञानकथनपूर्वकं रामाङ्गुलीयकप्रदानं, तत्प्रसङ्गान्नृसिंहवराहरामकृष्णाद्य. वताराननुभूय ततश्चार्चावतारप्रावण्येन बनगिरिनाथस्य सुन्दरबाहोरनुभवं दशकद्वयेन, ततो गोष्ठीपुराधीशगुणानुभवपुरस्सरं तद्भक्ततदितरयोरुत्कर्षापकों प्रतिपाद्य, अथ चानृशंस्येन परोपदेशप्रवृत्त्या मरणसमयसभाव्यमानाः यावती- दुरवस्थाः बोधयित्वा तत्पूर्वमेव भजत भगवन्तं जनाः इत्युपदिश्य, अनन्तर- मशनाच्छादनाशया यत्किञ्चिदपि दातुः मानुषमात्रस्य हेयतरस्य नाम्ना भवत्पुत्रान्मा संबोधयत, यस्य कुमारस्य नाम नारायण इति क्रियते तत्पित्रोनास्ति नरकसंगावनापीत्युपदिश्य, ततः 'कण्डकडि' नगराधिपं प्रकीर्त्य, प्रसङ्गान्मधुरा- सालग्रामद्वारकायोध्याबदरिकाश्रमादीन् प्रशस्य, ततः श्रीरझं प्रशस्य दशक- द्वयेन, ततो "मरणसमये यमभटकरिष्यमाणयातनाशतानुभवसमये भवतः स्मरणनामसङ्कीर्तनादीना नाल्पोऽप्यवकाशः, अत इदानीमेव यथाशक्तिस्मरण- कीर्तनादिकं कृतं मया; अन्त्यकाले तु भवानेव मे रक्षको भूयात् ' इति श्रीरङ्गनाथं शरणं प्रपद्य, ततः स्वनैच्याकिञ्चन्यानन्यगतित्वतदेकरक्ष्यत्वनैमर्यादि निवेद्य, अथ अस्मद् हृदये भगवदाक्रान्ते पूर्ववद्युष्माकमद्य नावकाशः । तदितोऽन्यतस्त्वरितमपयात |' इति स्वदुरितानि प्रतिबोध्य, पुनरपि वनगिरि- नार्थ प्रति स्वसासारिकतापत्रयामिहतिनिवेदनपूर्वकं तदेकरक्षकत्वाध्यवसाय विज्ञाप्य, ततश्च श्रीवेवटाचलाधीशितुः श्रीनिवासस्य स्वस्मिन् सानिध्यविशेपात् अपरिहार्यात् स्वकृतार्थताश्च प्राचीकशत् । - इति श्रीविष्णुचित्तचरितम् श्रीगोदाचरितम् । देवस्य दिव्यमहिपीमादी गोदामुपास्महे । यन्मौलिमालिकां प्रीत्या स्वीकरोति स्वयं प्रभुः ।। अम्ति किल भरतखण्डस्यास्य अगस्त्यचरितायाः आशायाः उपान्ते पाण्ड्यो नाम जनपदः । तत्र च श्रीधन्विनुतनपुरी (श्रीविल्लिपुत्तर) इति काचन नगरी । तां चालंचकार भगवान् भट्टनाथापरनामा विष्णुचित्तरिः । यः किल तत्रत्यं वरपत्रशायिनं देवं प्रतिदिवसं स्वहस्तरचितयुष्पवाटिकाविवर्धितापचित- कुसुममालिकासमर्पणेन पर्यचरदिति तच्चरिते स्पष्टम् । स खलु भगवान् भट्टनाथः कदाचितुलसीवनं खनन खनित्रेण, कृपन्निव लाङ्गलेन यजनभूतलं जनको मैथिलः अलभत काचन काञ्चनवां वरवर्णिनी क्षोणीकोणादुत्थिता सीतामिव पेटिकावस्थिताम् । स च दिवसोऽभवत् कलो मतीतेषु सप्ताधिकनवतिसंख्याकेषु (क्रिस्तपूर्व ३००५) हायनेषु नलवत्सर- कर्कटशुक्लचतुर्थीमोमबासरपूर्वफल्गुनीसङ्कलितः । तदुक्तं दिव्यसूरिचरिते, जयन्तीमालाया च- 'स विष्णुचित्तस्तुलसीवनावनि खनित्रवक्त्रेण निखातयन् कलौ । शुभ मुहूर्ते शुचिमासि फल्गुनीप्रतीततारे तुलसीवनान्तरे । भुवोऽभवत्काञ्चन बालकन्यका भूम्यंशका वीक्ष्य विसिष्मिये मुदा।' इति । सिद्धानां शरदा कलावपगमे वर्षे नलास्ये रखी याते कर्कटकं विधावुपचिते षष्ठेऽहनि श्रीमति । नक्षत्रेऽयमदैवते क्षितिमुवो वारे चतुर्थी तिथी गोदा प्रादुरभूदचिन्त्यमहिमा श्रीविष्णुचित्तात्मजा ॥' इति च ।
४६ दिव्यसूरिचरितेषु - तां चादायातीव विस्मितस्स: सीतामिव जनकः पुपोप प्रतिकलमति- प्रीत्येवाशनादिसकलसामग्रयापि । सा च भूदेव्यंशजा प्रतिदिवसमेधमाना क्रमेणावापालङ्कारप्रियं वयः । दिवसे च कस्मिंश्चित् सा भगवतो वटपनशायिनः अर्थ स्वपित्रावस्थापितां कुसुमपेटिकायां प्रसूनमालिकामादाय केशान् प्रसाध्य कतिकया तया चालंकृत्य कबरी भूपयित्वात्मानं सर्वभूपामिः आदशेऽवलोक्य 'किमहमनुरूपा भगवतः ! उत न !' इति, पुनरवतार्थ कपर्याः मालिका यथापुरं कन्दुकीकृत्य कुसुमभाजनेऽवस्थापयामास । एवमेवानुदिवस स्वपितुर- सन्निधाने कुर्वती तां कदाचिदतर्कितोपनतः पिता विलोक्यातिचुकोप तस्यै, 'किमेवं भगवदनन्याहा कुसुमलजमदूषयः कचसंसर्गेण ! । इति । नादाचं मालिकां तो भगवते तस्मिन् दिवसे । व्यपीदत् केवलमतीताय एतादृश- वासरवाराय। वटदलशायी तु भगवाननुदिनानुभूतगोदाकचपरिमलवासितमालिका- सौरभो भनाशो भूत्वा तस्यामेव निशायां स्वप्ने विष्णुचित्तमपृच्छन्निदानं मालिकाया अप्रदाने । भट्टनाथस्त्वकथयन्निदानं गोदाकेशपाशस्पर्शदूपणं मालायाः। भगवानुवाच भट्टनाथं 'हन्त ! भममनोरथः कृतोऽस्मि भवद्भिः । का वा माला सा या गोदाकेशपाशासंस्पृष्टा ! तस्याः को वा गन्धः ! का घा भोग्यता ! तस्माचामेव मे देहि' इति । भट्टनाथस्तु पुनः पुनर्विचिन्त्य स्वानं वृत्तान्तमवगम्य दुहितुर्भगवत्- परिग्रहातिशयं स्मरंश्चावतारक्रम तस्याः निश्चिकाय तो श्रियं देवीं भुवं नीला वा अवतीर्णा स्वगृहे । ततः प्रभृति तस्याः स्वनिर्माल्यदा देवी' इति (शूडिकोडुत्तनाचियार् ) योगरूद्ध नामाभवत् । अस्यास्तुलस्या इव सुगन्धः सहजः प्रादुरास परमक्तिपरज्ञानपरम- भक्त्यादिः स्वरूपानुगुणः आत्मगुणगणः । ततश्च मगवरसंश्लेपविश्लपैकसुख- श्रीगोदाचरितम् ७ , " दुःखायास्तस्याः कामः पुंसां दृष्टिचित्तापहारिण' मुमावं मनसा ययुः इत्यादिरीत्या रसाभासो न बभूव । अपितु रमणीयतमः ! अत एव च सा सर्वान् सूरीनतिशेते स । तस्याः भगवद्विषयको मानसानुभव: वाहसंश्लेषा- पेक्षामुद्राव्य तदलामादुत्कण्ठा रणरणकं शरीरादिधारणासमर्थताञ्च क्रमेण जनयामास ।। ततश्च साचिन्तयत्। केनोपायेनाहं ध्रियेय : मथवा, श्रूयते किल रामविलास-समयोन्मस्तकानन्द-विनश्यदल्लवीजनपालनोपायामिज्ञ-नन्दनन्दन-- वञ्चिताः तद्विरहदवदहनदयमानाः गोपागनाः 'दुष्ट ! कालीय | तिष्ठान कृष्णोऽहमिति चापरा । श्रीविष्णुपुराणे ५-१३-२७ इत्यादिरीत्या तत्तदनुकारेण दधिरे इति । तन्ममापि तदनुकारादृते नान्यत् शरणम् इति । चिन्तयानया सन्ततसन्तन्यमानया भ्रमरघुणनयादवाप सा गोपिकात्वम् । एवमनवरतभावनायलात् अभवत्सा पुरी नन्दगोकुलम् । वटपत्र- शायिनो मन्दिरं नन्दभवनम् । चटपनशायी तु नन्दनन्दनः कृष्णः । तत्रत्याः सवयसः कन्याः गोपकन्याः। तद्भवनानि च गोपीभवनानि । तादात्म्यमावनायां विजृम्ममाणाया तम्याः तत्रत्याः गोपवृद्धाम्स समेत्य गोपकन्यानां कृष्णे अत्यासक्ति कृष्णस्य दुर्ललिता पार्यच विचिन्त्य यथेमाः गोपकन्यकाः कृष्णस्य दृष्टिपये न पतेयुः, कृष्णो- ऽप्यासा यथा नयनगोचरो न मवेत् , वर्धताम्सर्वाः भूम्यन्तहे स्थापयांबवुः । सत्रत्याश्च ताः कृष्णवदनकमलानवलोकनजनितरणरणविदलितहृदयाः एव- माशासामासुः 'अपि नामेदानी देवादवग्रह आपतेत् ! क्षीणगोधनाः गोपजरपराः मुष्टये नियमाचरणे भस्मान् अपि नियुरिन् ! कृष्णोऽप्य- स्मशियमाचाणसामोसादनाय किं नियुज्येत ! ब्याजेन कृमसंहलेपमप्यपि नाम लमेमहि !' इति । इत्य च ४८ दिव्यसूरिचरितेषु . ततश्चासामनुकूलं देवं तमेव मनोरथममिपूरयदवग्रहमचिरेणैवाजनयत् । य एव गोपजरठाः निरबस्ताः भूमिगृहे, त एव तास्तस्मादाहूय वृष्टिसिद्ध्यर्थाय नियमाचरणाय न्ययूयुजन् । कृष्णं च तन्नियमोपकरणसज्जीकरणाय । ततश्च सर्वसमक्षमेव निश्शकं सङ्घीभूताः गोपकन्यकाः कृष्णेनैवमभ्यधायिषत । " 'मासाना मार्गशीर्षोऽहं' इति रीत्या मम विभूतिभूतः मार्गशीर्षमासस्सौरः प्रादुर्भविष्यति श्वः । स च नियमाचरणोचितस्समय. 1 तद्भवतीषु या प्रथम प्रबुध्यते सा सर्वा. बोधयतु । मिलिता मामागत्योद्बोधयन्तु भवत्यः । ततः अरुणोदय एव सात्वा यमुनाया मत्प्रणयसंपादितनियमोचितोपकरणाः साधयन्तु मासमेनं व्रतम् । भगवास्तु पूरयिष्यति मनोरथमिव नः सर्वेषा भूतलं वृष्टया ।" इति। एवं परस्परमामाप्य गृहंगताः शयित्वा कथञ्चिद्रजन्यां सन्निहिते ब्राह्मे मुहूर्ते पूर्वप्रवुद्धका गोपिकामन्या तेत्वन्या ताश्चान्याम् इति क्रमेण प्रबोध्य मिलितास्सर्वा. नन्दगोपभवनमवाप्य द्वारपालकं ततो नन्दगोपं यशोदा कृष्णं बलदेवं नीला च क्रमेण प्रबोध्य भगवन् ! इत एहि । देहि दर्शनम् । अलंकुरु सिंहासनमिदम् । निर्तयास्मदांगमनप्रयोजनम् । वितर चास्मभ्यं भवच्चरणसरसिजयुगलपरिचरणकल्याणम् । विजयस्व यावत्कालतत्त्वम् ।" इत्यभ्यर्थ्य मङ्गलमाशास्य तेन च भक्तवत्सलेन तथैवानुमताः सविहितसर्वोपकरणाः स्नानाराधनादिकं साझं व्रतं निरवर्तयन्त । एवं रूपोऽस्या गोदायाः मानसानुभव एव पद्माकरः त्रिंशत्- (३०) पद्यपरिमितं (तिरुप्पावै) इति प्रबन्धमेव परीवाई प्रावर्तयत । यः खलु प्रबन्धो नित्यं स्वानुसन्धानेन भगवन्तं रामानुजाचार्य 'तिरुप्पावै जीयर्' इति स्वनाम्नैव निरूपणीयमकरोत् । अत एव चास्मदादीनामपि नित्यानुसन्धेयो मवति भविष्यति च ।
श्रीगोदाचरितम् - अनेन च प्रबन्धेन परिनिप्पन्नोऽयमर्थः 'भगवानेवानपायस्सिद्धः उपायः । स एवोपेयश्च । चेतनानामप्यचेतनवत्पारतव्यमेव स्वरूपम् । इच्छा- मात्रमेवाधिकारः' इति । इत्थमुपाये सिद्धेऽपि कृतेऽपि प्राप्यनिष्कर्षे इच्छायो चोत्कण्ठायां परिणतायामपि गोदादेवी मलब्धभगवत्संश्लेषा प्राप्यवरया कामिनीकामुक- संश्लेषजनक मदनं राजसं देवतान्तरमपि संपूज्य प्रणम्य 'संश्लेषयावाम् ' इति प्रथमं प्रार्थयामास । विदित्वा चैतदाश्रितवत्सलः कृष्णः सखीमिस्सह विविधोपकरणैः क्रीडन्तीमेनां निवारयन्तीमपि तदुपकरणव्याकुलीकरणव्याजेन बलादास्पर्श- सुखजननेन विश्लेषान्तेन मोहयामास । पुनरपि व्रतव्याजेन तापोपशान्तये यमुनामवगाहमानानामासां वासांस्य- पहृत्य वृक्षमारुह्य बहुधा निभर्सितः अनुनीतः प्रार्थितश्च दयया दत्वा तद्वासांसि प्रधाव्य द्विगुणीचकारास्या रणरणकम् । तेन च रणरणकेन मम कृष्णसश्लेपो भविता न वेति विज्ञातुकामा शकुनशास्त्रक्रमेण भुवि मण्डलं विलिख्य तत्र काश्चन वराटिकाः अगणिताः निक्षिप्य तारसपूज्य तच्छावक्रमेणैव योजयत मां कृष्णेन' इति प्रार्थयामास । 'अचेतनत्वाचाभ्यः प्रत्युत्तरं न लब्धम्' इति मन्वाना 'चेतनत्वात् कोकिलोऽयं मत्कार्य निर्वर्तयति' इति मत्वा मदीयां विश्लेपदशामशेषा विनिवेद्य केशवे तमान्य मत्सकाशम् ' इति कोकिलं दूतं प्रेषयामास कृष्णाय । अथ कोकिलपणेऽप्यनागते कृष्णे, 'स्वप्ने वा यद्यहं कृष्णं पश्येयं समलं तदा । जीवेयं सोऽपि मां स्वप्नो मत्सरी नोपसर्पति ।। इतः आरभ्य तदुत्तरमन्यभूतस्य 'नाचियार् तिहमोळि' नामकस्य प्रबन्धस्य दशकाः क्रमेण सगृहीताः। .. - 7 दिव्यसूरिचरितेषु -- इति स्वप्नदर्शनायापि वा स्पृहयन्त्यामस्यां 'य एषु सुप्तेषु जागर्ति कामकामं पुरुषो निर्मिमाणः । इति श्रुत्युक्तविधया स्वामपदार्थस्रष्टा दयालभगवानस्याः स्वप्ने वितान-मुक्तागुच्छक-तोरण-मालिका-कदलीकाण्डक्रमुकस्तबकचन्दनवार्यभ्युक्षण- मालदीप-धूप-वाद्यघोपादिमिरलड्कृतं विवाहमण्डपं, तत्र च विवाहोचिताल- करणस्य स्वस्यागमनं, गोदायाश्च मन्त्रपूतकौशेयवस्त्रबरणमालिकाधारणपुण्य- तीर्योदकाभ्युक्षणप्रतिसरवन्धनपाणिग्रहणामिप्रदक्षिणाश्मारोपणसप्तपदीलाजहोम- वधूवरगजयात्रादिकं सर्व विवाहक्रममन्वभावयत् । गोदापि स्वानुभूतं स्वप्न- वृत्तान्तमखिल निवेदयामास सल्यै । एवमनुभूतस्वामसमागमा द्विगुणितविश्लेपव्यसना स्वानुभूतां तदधरामृत- भोग्यतां भावयन्ती सततानुभूयमानतदधरपरिमलमाधुर्य सतततत्पाणिशयं पाञ्चजन्य सबहुमानं सासूयञ्च श्लाघयामास तत्सौभाग्यप्रदर्शनेन । ततः श्रीशैलनाथाय श्रीनिवासाय सन्देशान् प्रेषयामास जलदैः । जलदास्तु नागच्छन् । किन्तु तत्रैव स्थित्वा ववर्षः । तत्रत्यास्तरुगुल्माद्यास्तेन कुसुमिताः स्तवकिताश्च बभूवुः । चुकूजुः कोकिलाः । ननूतुर्मयूराः । मुमुदिरे चान्ये । तानि चोद्दीपनानि विलोक्य निर्विष्णवं प्रार्थयत मा बाधध्वं मां दयित इव यूयमपि । अपि तु तमानयत मत्सकाशम् । निवेदयत मद्वेदनाम् । इति । कथञ्चिदाश्वस्ता कृष्णमभिसर्तुकामा विरहज्वरजीर्णा गन्तुमशक्का स्व- निकटगताः गोपकन्यकाः प्रार्थयामासैवम् -- 'नयत मां मधुरानगरं ; नन्द- गोपामीरं; नन्दभवनद्वारं ; यमुनातीरं; कालीयहदावारं ; ऋषिपन्यगारं; भाण्डीरवटतरं, गोवर्धनगिरि, द्वारकापुरं वा, यत्र सः दृश्येत नवनीतचोरो मचित्तचोरो या ' इति ।
श्रीगोदाचरितम् ततस्तावन्तं विलम्बमप्यसहमना ताः प्रोवाच यद्यहं जीवेयं तदा नयन्ति भवत्यो मा मदुक्तानि स्थानानि । अतो माणधारणोपाय एव भवतीनां प्रथममवश्यसंपादनीय आपतितः । तदेवं कुरुत सपदि । तस्य कामिनीजन- मनोवेदनानमिज्ञस्य परिधान पीतं वसनमानीय वीजयत माम् । तदभिमततमा तेन धृता नवतुलसीमानीय धारयत मदुचमाझे । तदुरस्स्थरस्थितां यदि वनमालामानयन्ति भवत्यस्तर्हि कुचमण्डले मदीये विलोठयन्तु । गण्डूपजलं तदीयमानीयापनयत मदीयं तापं सेकेन । मुरलीविवरविनिस्सतां तदीयां लालामानीय मार्जयत मम वदनं यथा भवति शीतलम् । तत्पदपकजपरागैः आलिम्पत मदनानि माणसमीरणपहिरनपसरणाय । मत्कुचयुगलमिदं तहाहु- युगलेन सुसश्लिष्टं सुदृढञ्च पनीत तद्वेदनापनोदनाय । यदि च तमहं पश्येयम् अफलाविमौ कुचौ समूलमुन्मूल्य तदुरसि प्रक्षिप्य निरक्शेषमपनयेयं मदीयं सन्तापम् । स यदि तदीयेन विशालेनोरसा संयोजयेत् दुःखिताविमौ कुचौ तदा साधुकृतं भवेत् । यदि न तथा मन्यते तर्हि, मन्मुखमवलोकयन् 'अयि गोदे ! किमनेन विपीदसि विफलेन मनोरथशतेन; गच्छ यथेच्छम् ' इत्यपुन- राशमृतं ब्रूयात् , तत्तु सुतरां समीचीनम्' इति । पुनरपि तद्दर्शनोत्कण्ठया सम्मुखागतास्सर्वाः अपृच्छत् - अपि नाम स दृष्टो युष्माभिर्मञ्चित्तचोरो यत्र कुत्रापि:' इति । 'दृष्टोऽम्माभिर्वृन्दावने' इति मुहुर्मुहुस्तामिरभिहिता दधार जीवितं यथाकथञ्चित् । एवंविधानुभवपरीवाह- रूपोऽपरः प्रबन्धोऽस्या: 'नाय्चियार् तिरुमोळि' इति प्रथितः, त्रिचत्वारिंश- दुचरशत-(१४३) पद्यपरिमितोऽद्याप्युजीवयति लोकान् । इत्थं स्थिते . पतिसंयोगसुलभं क्यो दृष्ट्वा च मे पिता। चिन्तार्णवगतः पार नाससादाप्लवो यया ॥"
दिव्यसूरिचरितेषु “ इति सीताविवाहयोग्यवयोदर्शनविहलो जनक इव भट्टनाथोऽपि स्वदुहितुर्विवाह. योग्य वयो दृष्ट्या चिन्तामपरिमेयामाविवेशानुगुणवरान्वेषणे | ततश्चापृच्छत्नामेव 'कं वा वृणीपे वरम् ' इति । सैवं प्रत्युवाच-" 'गोदा मनुजपरिणेया' इति वचो यावन्न निपतति मदीये श्रवसि तावदेव मे जीवितम् " इति । किञ्च- कुचाविमौ 'भगवन्तमन्तरा नान्यं मनुजपशुं पश्येव' इति कञ्चुकछद्मना स्वमुखे आच्छाद्य लज्जेते " इति । 'तर्हि कथं कुर्मः' इति पृष्टा पित्रा गोदा श्रीरङ्गाद्यष्टोत्तरशतदिव्यक्षेत्र- वासिनां भगवता सौन्दर्यसौकुमार्यलावण्यादीन् कल्याणगुणगणान् पृष्ट्वा तेन च वर्ण्यमानानाकातीव बद्धभावा श्रीरङ्गराजे सर्वातिशायिसौन्दयें तमेव वरयामास । ततश्च 'अर्चारूपिणा मगवतास्याः पाणिग्रहणं कथं समस्यते ।। इति चिन्ताकुले विष्णुचिते श्रीरङ्गनाथस्तत्यामेव निशायामस्य स्वप्ने 'भवदुहितर- मरमानयत श्रीरङ्गम् । यथार्हमस्याः पाणि गृहीम वयम् । अलमनया चिन्तया' इत्यादिदेश । स्वपरिजनश्च सर्वमाजापयामासैवम् छत्रचामरतालवृत्तादि- सकलपरिच्छदैः श्रीधन्विनूतनपुरीमवैवासाद्य निखिलभूषणमपिताङ्गी गोदा देवी मणिमयान्दोलिकायामुपवेश्य समस्तवाद्यघोपैरानयत मत्सकाशम् । इति । श्रीरङ्गराजपरिजनन्तु यथानिदेशमासाद्य श्रीधन्विनूतनपुरी, प्रणम्य विष्णुचित, विज्ञाप्य रङ्गराजानां यथावृत्तं विज्ञापितेन वटपनशायिनानुमतेन विष्णुचितेन सहानतिकान्तरानमहिपीमर्यादा गोदामादाय श्रीरराजसकाशम् आजगाम। गोदादेवी तु सफलपरिजनपरिच्छदैस्माकमासाद्य रङ्गराजपुरोगणमुवम् अपास्य मणिमयान्दोलिकायाः यवनिकाम् अवतीर्य सर्वसमक्षं सर्वानमुन्दरी .
SR) ANDĀL
minattne+ + tamitune
sue Tonkrent **womtam
श्रीगोदादेवी
क्वंटे पूर्वफल्गुन्या तुलमीकाननोद्भवाम् ।
पाण्डये विश्यभरा गोदा वन्दे श्रीरङ्ग रहमाम् ॥
SRI BHAKTĀNGHRIREŅU SÜRI
श्रीभक्तांघ्रिरेणुसूरिः - तोण्डरडिप्पोडि आळवार
धनुपि ज्येष्ठनाले मण्डङ्कुडिपुरोद्भवम् ।
चोळोव्या वनमालांश भक्तपद्रेणुमाश्रये ।।
श्रीगोदाचरितम् सर्वभूपणभूपिता सविलासमन्दगमना अवगाह्य श्रीरझान्तमन्दिरं शनैरारुह्य शेषशयनं भगवञ्चरणसरसिजपरिचरणपरायणा परिपूर्णमनोरथा तत्रैवान्तरधत्त । अवलोक्य चैतदतिविस्मयनीय वृत्तं विष्णुचितान्तरकान्तवासिबल्लमदेव- प्रभृतिषु सर्वेषु चित्रीयमाणचित्रेषु श्रीरङ्गनाथ: प्रोवाच विष्णुचित । भो। भट्टनायाः ! भवन्तो ममेतः परं श्वशुरासंवृत्ताः पयःपयोधिराज इव । गृहीतेमा मदीयां संभावनाम् । यात यशापूर्व वटपत्रशायिनो नित्यकिङ्करत्वाय' इति । विष्णुचित्तोऽपि समाप्य तीर्थमाल्यशेपवस्त्रश्रीपादुकोचमाजालङ्करण- पूर्विकां संभावना हर्षविपादन्यतिकरितहृदयो यथानिदेशमासाद्य श्रीधन्विनूतन- पुरी यथापुरमवातिष्ठत वटपत्रशायिनो नित्यसेवानिरतः । अत्रेयमाशङ्का जायेतापि श्रोतृणां 'कथमर्चारूपस्य भगवतस्सायुज्यं विभवावतारायाः गोदायाः !' इति । नेयं प्रमाणेकशरणानां प्रमाणानुगुण- जानानुष्ठानानां तादृशानुभवैकभोगानाञ्चोदेतुमलम् । एवं हि भगवतः शौनकस्य वचनम् । - सुरूपा प्रतिमा विष्णोः प्रसन्नवदनेक्षणाम् कृत्वात्मनः प्रीतिकरी सुवर्णरजतादिमिः । तामर्चयेत्ता प्रणमेचा भजेत्तां विचिन्तयेत् विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ।। इति । श्रूयते च श्रीपाणरिम वीणापाणिर्गायकोसः श्रीरङ्गनाथसायुज्यमेवमेव अवापेति । स्फुटमिदं तच्चरिते । किञ्च-फलिजित्सुरिरपि श्रीरङ्गप्राकार निर्माप्य विचाभावाददत्तभृतीन् कर्मकारान् सद्यजास्रोतसि निपात्य निहत्य तद्वन्धुजनाक्रुष्टः तानीत्वा श्रीरङ्ग- नाथमन्दिरं तदर्भभवनस्थितैः स्वमारितैर्वाचयामासैवं तान् । अस्मद्वान्धवाः ! मा हिंसतेमा-परमोपकारिणोऽस्माकम् । निहीनतरजन्मानोऽपि 'भो। मोः!
दिव्यरिचरितेषु मकिश्चना अपि महापातकिनोऽपि अपुनर्भवाः ब्रह्मानुभवेन परमानन्दमनुभवामो यत्प्रसादेन वयम्' इति । इदं च तचरिते स्पष्टम् । किंबहुना ! 'राजवोडेयर्' इति प्रसिद्धः कश्चन महीशूरजनपदाधिपतिः परमवैष्णवः एकादशीव्रतपरायणः श्रीयदुधरणीधरनाथस्य नारायणस्य चरण- युगलमवाप सर्वसमक्षमेवैकादश्यां रात्रौ । प्रातश्च द्वादश्यां राजधानीतो राज्ञो लोकान्तरगमनवृतान्तः प्रासरदिति श्रूयते चरित्रम् । यत्साक्षितयाचाप्यलकरोति अ रूपेण स राजा तन्नियतस्तम्भमूलं भगवतो नारायणस्य मन्दिरे । इति श्रीगोदाचरितम् श्रीभक्तातिरेणुचरितम् चोलक्षितौ धनुपि मासि महेन्द्रतारे यः प्रादुरास मुरजिद्वनमालिकांशः । रङ्गेशकेलिसखमूर्चशिख द्विजेन्द भक्कातिरेणुमनघात्मगुणं प्रपद्ये । अथ भगवान् मक्तांत्रिरेणुसूरिः चोळमण्डले तिरुमण्डङ्कुडिनामके माने अष्टाशीत्युत्तरपञ्चशतसख्याकेषु (५८८) कलावतीतेषु (क्रि. पू. २५१४) वत्सरेषु प्रभवनाम्न्यन्दे मासि च धनुपि तारकायाश्च ज्येष्ठामिधायां अङ्गारक- वासरकृष्णचतुर्दशीसमलंकृतायां भगवतो वैजयन्त्याः अंशभूतः अवततार विप्रनारायणनाना द्विजोत्तमकुले । तदुक्तं दिव्यसूरिचरिते, जयन्तीमालायाञ्च 'तत्रोदभूदागवतात् द्विजेन्द्रात् माहेन्द्रभे मासि च मार्गशीर्षे । श्रीविप्रनारायणनामधेयो मुरारिवक्षोवनमालिकांशः ।। इति । देहश्रीशरदुत्तरे प्रभवनाम्न्यन्दे कलौं भास्करे चापपाहिणि भूमिसूनुदिवसे ज्येष्ठामिधे श्रीमति | ऋक्षे कृष्णचतुर्दशीतिथियुते भक्तांघिरेणुस्सुधीः रङ्गशाघिसरोरुहेकहृदयः प्रापावतारं भुवि ।' इति च । तस्य चेत्थमाल्यानमाख्यास्यते तद्विद्भिः । 'जायमानम्' इत्यादिरीत्या जन्मसमय एव भगवतो नारायणस्य कटाक्षवीक्षणेन समेघमानज्ञानभक्तिवैराग्यः स तु भगवान् विप्रनारायणाख्यया स्वपित्रा संस्कृतो यथाविधि यथाकालं - दिव्यसूरिचरितेषु , चौलोपनयनाभ्यां च संस्कृतोऽधीतसाङ्गसशिरस्कस्वाध्यायो विदितनिखिलशास्त्र- तत्त्वः परवैराग्यादकृतोद्वाहः कदाचित्- 'मरुधाया मध्यस्थं चन्द्रपुष्करिणीतटे । श्रीरङ्गमतुलं क्षेत्रं श्रिया जुष्टं शुभास्पदम् ।। इति जगत्प्रसिद्ध 'श्रीरङ्गं' नाम क्षेत्रोत्तम समधिगम्य, तत्र च 'विमानमभ्येत्य चतुःप्रदक्षिणं चतुर्दिशं तस्य कृतप्रणामः । तदन्तराविश्य विधिर्ददर्श तमिन्द्रनीलाचलसन्निकाशम् ॥ प्रसन्नवक्त्रं नलिनायतेक्षणं कृपामयं कान्तिनिकेतरूपम् ।' इत्यादिरीत्या श्रीरङ्गविमानमध्यस्थं भगवन्तं शेषशायिनं श्रियःपतिं श्रुतीनां योगिनां च वाड्मनसागोचरमपि मांसमयेनैव चक्षुपा साक्षात्कृत्य ' तस्यैप आत्मा विवृणुते तनूं स्वाम्' इति तेनैव दर्शिते पुंसां दृष्टिचित्तापहारिणि पुप्प- हाससुकुमारे निजदिव्यमालविग्रहे तद्गुणगौरवाकान्तः तत्रैव निममचित्तवृति: अभूत् । ततस्तदनुभवजनितप्रीतिकारितकैहायकमनोरथश्च तदत्यन्तामिमतं कैवर्य किमिति विचिन्त्य 'भगवतां कृष्णेन कंसध्वंसाय नन्दगोकुलान्मधुरां बजता स्वयमेव मालाकारभवनमेत्य मालव याचिता । तेन च मालाकारेण 'धन्योऽह- मर्चयिष्यामीत्याह माल्योपजीवनः' इति रीत्या समर्पितासु सुपरिमलकुसुम- मालामु, ताभिरलंकृत्य म्वात्मानमतीव मुदितम् । तस्माच पुष्पमालार्पण- कैकोदते नान्यत्तदत्यन्ताभिमतम् ' इति निश्चित्य तदर्थमुधानकरणप्रवृत्तो श्रीभक्ताधिरेणुचरितम् महती पुष्पवाटिकां निर्माय तत्र तुलसीमल्लिकामाधवीजातीकुन्दवकुलचम्पकादि परिपोषणनिरतो विविधगन्धवर्णकुमुमरचितमनोहरमालिकामिभगवन्तं प्रत्यह पर्यचारीत् । एवं स्थिते कदाचित् तिरुकरम्बनूरिति पुरे अप्सरोंशसंभवा लोकोत्तर- सौन्दर्यलावण्यविश्रमविभवा 'देवदेवी' इति नाम्ना प्रसिद्धा काचिद्वाराङ्गना निचुलापुराधीशं चोलावनीपतिमुपनृत्य स्वानुरूपाभिस्सखीभिरभिवृता प्रतिनिवर्त- माना मार्गवशादागत्य श्रीविप्रनारायणविरचितोद्यानतस्तले प्रच्छायशीतले विश्रभ्य कञ्चित्काल क्रमेण च दृष्ट्वोद्यानशोमां तत्रत्यजननयनसमाकर्षकैः कुमुमितेः पनसानपाटलनारिकेलनारङ्गजम्बीरलिकुचकदलीकुरवकयकुलाशोक- पुन्नागपूगीप्रभृतिनानानोकहानियहः तत्चविटपारूढशुकपिकशारिकामयूरप्रमुख- विविधशकुनिकुलविरुतैः श्रुतिसुखैः बहुविधकुसुमपरिमलैश्च प्राणतर्पणैः मधुकर- कुलपरिपीन शिष्टमधुरमनिप्यन्दवाहिभिश्च मन्दगन्धवहैः शरीरमुग्नकरैः परवश- सर्वेन्द्रिया स्वामनामवलोक्य जगाद- " अयि ! विलासिनि ! अस्मन्मार्गा- यासमोपणेन इदमुद्यानमुपहसति नन्दनवनमपि महेन्द्रस्य, चैत्ररथमपि धनदस्य सा वेनामत्रवीत् । भगवतः थिय पतेः शेषशायिनः उत्तमानमपि स्वासूनमकुटैरलदुर्वाणस्य भगवतो मृगयायासविश्रान्तिसुखदस्य अस्योद्यानस्यास्मसन्तापहरणे का कथा" इत्यादि । तदा तु भगवान् विप्रनारायणः प्रवृद्धकेशश्मश्रुः प्ररूदरोमनखरप्रक- राञ्चिताङ्गो धवलइन्तवस्त्रोर्वपुण्ड्रो विधृततुलसीनलिनाक्षमालो दिव्योद्यानस्थिताना तरुगुल्मलनादीनामालवालतदासेचनादिकमाचरंस्तदेकाग्रचित्तवृत्तिरभूत् । इतस्ततः सश्चरन्तीपु तासु चारनारीपु पश्यन्तीप्यपि सविलासमालपन्तीप्यपि सबकोक्ति, निर्विकारे स्वकार्यप्रवणे च वित्रनारायणे देवदेविकाबनीत् स्वसार---" अयि ! विलासिनि ! भगिनि ! किमयमुन्मत्तः ? किं वा पण्डः ! यदस्मानपाझेदापि कुसुमहासैरिति । 8 दिव्यसूरिचरितेषु नावेक्षते पुरःस्थिताः । जरठाः स्त्रियोऽपि नो विलोक्य पुंभावं वाञ्छन्ति आत्मनाम् " इति ॥ सा स्ववदत्-"नायं क्लीबो नवोन्मत्तः किन्तु परवैराग्यवान् , रतेश- कैङ्ककनिरतः त्वद्रूपसंपदं तृणायापि न मन्यते । रूपलावण्यगर्विता यद्येनं विभ्रमविलासहासेक्षणकिलकिञ्चितादिभिः स्ववशं नेष्यसि, तदाहं तव दासी भविष्यामि पण्मासान् । भवती च भविष्यति वारमुख्या " इति । तदेतत् श्रुत्वा देवदेवी च प्रतिजज्ञे 'योनमहं न स्वाधीनं करिष्यामि तवैवाहं दासी भविष्यामि षण्मासान् ' इति । सपदि जहाँ स्वानि सर्वाणि भूषणानि पत्रोर्णानि च । ददौ च स्वाग्रजाहस्ते । प्राहिणोच्च तास्सर्वाः स्वनगरीम् । अधृत कबरीम् ; दधारोर्ध्वपुण्ड्रम् ; दधे च ग्रीवायां नलिनाक्ष- मालिकाम् । पर्यधत्त शुक्ले वाससी। जगृहे च पाणिभ्यां शिरसा च विप्र- नारायणचरणौ । नामुमुचच्च सुचिरं, पर्यपिञ्चत्केवलमश्रुधारया । विप्रनारायणस्तु द्रवीवभूव दयया | सान्त्ववचनैश्चोत्थाप्य तां पर्यपृच्छत् -'भद्रे ! किमिदम् !' इति । सा तु व्यजिज्ञपत्- भगवन् ! दासजनोऽयं लेभे वाराङ्गनाकुले जन्म । माता मे निवनात्यर्थकृते सर्वभोग्यां माम् ।। प्राग्जन्मसञ्चितैरिह कलुपशतैर्भुज्यते दुःखम् । अत्रापि जन्मनि पुनस्तदेव चिन्वीय किं कलुपम् ॥ भगवदधीनं देहं नेहे हेयाय मनुजाय । विक्रेतु तद्भगवन् ! सेवाय ते नियुड्क्ष्वाशु ॥ मवदागमनं यावत् सान्निध्याद्रजनेतुरथवा ते । भैक्षाहरणं तावद्रक्षेयं पुष्पवाटिकामेनाम् ।। गत्यन्तरपरिमुक्तामकिश्चनां रक्ष मां दयया ।' इति । - - श्रीमत्ताइमिरेणुचरितम् - म तु विप्रनारायणो विचिन्त्याति तस्याः, भवतु को दोप. ! 'नाई पुरुष- कारेण' इति हि भगवतो वाक्यम् । अहो । भगवतो महिमा ! कास्या निहीनतरं जन्म, छेदमस्मादृशामपि सुदुर्लभ ज्ञान वैराग्यश्च ! क कदा कं कथं वा अङ्गीकरोति भगवानिति तु न जानीमो वयम् । तिष्ठत्वियं भगवतः आराम- रक्षणाचालनालकाणाय तदासेचनाय कुसुमापचायाय मालाग्रथनाय कुटीवाटी- शोधनाय वा इति मत्वा ता तत्र न्ययूयुजत् । प्रत्यहं भैशाहतेनान्नेन म्बाराध्य भगवन्तमाराध्य स्वयञ्च कृत्वा शरीरयात्री मुक्तशिष्टेन तामप्यन्वग्रहीत् । अहो सर्वतो विरक्तम्यापि परिग्रहाशा स्वरूपानुगुणे विपये । को वा जानाति चिन्तितं विपरीत भविष्यतीति । एवं यथाक्रम सेवानिरतयोस्तयोरतीतेषु पटमु मासेषु कदाचिद्वर्षानु महद्धर्ष वर्षति वासने, कुटी प्रविष्टे विप्रनारायणे, सा तु देवदेवी वर्षधासमि- दण्डप्रमाणामिरापादचूडमभिहन्यमाना कम्पमानपुरुरित्तनुकुमारतनुयष्टि कृत- फरभुजस्वस्तिकबन्धा शीलवाया दन्तनीणा वादयत्लपि बहिरेव स्थाणुरिव अवतस्थे । तादृशीं तम्या दुरवस्था पश्यत कम्य वा निणस्यापि न दयाई भवति चेत । यदेना दयाविलीनहृदयस्म विप्रनारायणोऽन्तराजुदाव कुट्या. 1 सा तु मयभक्तिभरभुमाही कुटयन्तश्चरणी न्यधनानिच्छन्तीव । विप्रनारायणन्तु तम्यासाशी दुरवस्थामारोक्य दयमानमानस. स्वोचरीय धारणाय तम्यै ददौ । सा नु ल वा उत्तरीयमवकाश च चिरामि- रपितं आमीना च शनाने परण्टे तं प्रार्थयत पादसंवाहनाय प्रसादम् । कथमप्यनुमेने च विमनारायण । सा च पादानुपर्युपरि संवादयन्ती हमन्ती मन्दं वीक्षमाणा चापाग, भगवन् ! दासीनन मिपि रहायुपदिसतामिति दिव्यसूरिचरितेषु . . ययाचे दीनया वाचा । पिचकार मनस्तत्क्षण विप्रनारायणस्य । जगृहे चास्या कर करेण । सा तु कृतकृत्यास्मीत्युक्त्वा सपरिषस्वजे दृढम् । निपेते विप्रनारायणेन वेश्यावागुराया मृगीसुतेनेवयशृङ्गेण । स्थाने चैतत् । उच्यते हि- अङ्गारसदृशी नारी घृतकुम्भमय पुमान् । तस्मात् घृतञ्च वह्निञ्च नैकत्र विनिवेशयेत् ॥ इति । मनुश्वाह----' मात्रा स्वना दुहित्रा वा न विविक्तासनो भवेत् ' इति । अन्येद्युम्स्वाभरणानि सर्वाण्यप्यानाय्य स्वात्मानमलंचकारापादचूडम् । पर्यवत्त च प्रतिक्षण नव नवं वसनम् । तेन नितरामप्रीयत विप्रनारायण । क्रमेण च भगवतो रङ्गनेतुरेकापि कुसुममाला दुर्लभैवाभूत् । उद्यानन्तु तदनयो- विहारोद्यानमासीत् । कुन्दमालतीवासन्तीमल्लीनिकुञ्जा विहारलतागृहता प्रपेदिरे । अनुरागस्त्वनुकल ववृधे । न सेहे निमेषामपि विश्लेपम् । न सस्मार सकृदपि रङ्गभर्तारम् | नीवारमुष्टिपरिपुष्ट आश्रमहरिणपोत इव तामेव अन्वधावत तत्र तत्र । एवं देवदेव्या छायाभूते विप्रनारायणे, स्थितिमेनामव- लोक्य तस्या स्वसा स्वस्या दास्य देवदेविकाया जितका शित्व च मुक्तकण्ठ- मचकथत् । सख्यस्त्वस्या शश्लाघिरे । देवदेवी तु स्वगृहमेव जगाम सपरिवारा कृतकृत्या । विप्रनारायणस्तु परित्यक्तस्ववर्णाश्रमानुगुणाचारवेपभाप, परिगृहीत- कामुकवेपाचारसहवास स्वल्पैनैव कालेन विपरिणतो देवदेवीदासतामुपाययौ । बभूव तद्भवनमेव स्वभवनम् । कुलक्रमागत सनस्वमपि तस्या एवासीत् । निस्स्वीभूते च तस्मिन्निरकासयत्तं स्वभवनात्सा । जातिधर्मो हि स वेश्याया । स तु प्रवेशमन्तरलभमान त्यक्तुमपि तामशक्नुस्तद्वनबहिर्वितर्दिकामतिदीन अधिशिश्ये ।
श्रीभक्ताघिरेणुचरितम् - अथ निशीथे श्रीरङ्गराजः श्रिया सह विलासयात्रान्याजेन पर्यटन तामेव स्थ्यामाजगाम । तदैनं विप्रनारायण या स्मित्वा च मन्दं, पुरुपकार- भूता कमला पप्रच्छ स्वभार - 'कोऽयं वारवनिताभवनद्वारि शेते' इति । रङ्गराज उवाच यः प्रत्यहं मकरन्दस्यन्दि-नानाविधवर्णपरिमल-कुसुम- मालासमर्पणेन नौ पर्यचरत्सोऽयं विप्रनारायणो देवदेविकापहृतसर्वस्यो निष्कासितश्च तया द्वारि दीनश्शेते' इति । लोकजननी तु भगवन्तमाह 'नायमहति भवन्मायापाशं सर्व- साधारणम् | अन्तरङ्गो ह्ययमस्माकम् । विषयान्तरव्यासद्हेतुभूतमस्य दुरितं निवर्तय निश्शेषम् । अवलोकनदानेन पालयैनम् । यथायमेकान्तिकात्यन्तिक- त्वदास्यैकरतिः स्यात्' इति । तत् श्रुत्वा भगवान् तथेत्युक्त्वा स्वमन्दिरमागत्य गर्भगृहान्तः स्वाराधनपात्रेषु पञ्चकं सौवर्ण शुद्धोदकपात्रमानीय वेश्यागृह- द्वारि स्थित्वा 'देवदेवि ! कवाटमुद्घाटय ' इत्युच्चैराजुहाव । सा तु अन्तरेव स्थित्वा कोऽसि' इति प्रपच्छ । अयं तु 'रम्यजामातृनामाहं विप्रनारायणस्य दूतः । प्रेपितम्तेनाहमागमम् ' इत्यत्रवीत् । सा तु धनाशया कवाटमुद्धाट्य किश्चित् किमिति पर्यपृच्छत् । 'विप्रनारायणस्तुभ्यमिदं हेमपात्रं प्रायच्छत् । गृहाणैतत् । ' इत्युक्त्वा भगवता हेमपात्रे दत्ते सातिप्रहृष्टा गृहीत्वा सत्पात्रं विप्रनारायणमन्तराहय' इत्युवाच । पुनर्भगवान् बहिरागत्य वितर्दिकाशयं विप्रनारायणं देवदेविकाहयतीत्युक्त्वा अन्तः प्रापय्य श्रिया सह स्वमन्दिरमागत्य शेषशयने सुख सुप्वाप । विप्रनारायणोऽपि विस्मृतस्वबहिष्कारदुःखः तया सह तांस्तान्कामाननु- भवन् मुमुखमतिबाहयामास तां निशाम् । प्रातश्च देवालये फवाटमुद्घाट्य अन्तदृष्टे तपनीयशुद्धोदकपात्रमपश्यन्तः सर्वेऽर्चकपरिचारकादयः कैर्यपराः राजदण्डाद्विम्यतो राजे व्यजिज्ञपन् । राजा तु निचुलापुरीन्द्रः अदण्डयत् .
दिव्यसूरिचरितेषु . तत्सम्बन्धिनः पुरुषान् । एवं दण्ड्यमानेषु तेषु जलाहरणाय कावेरीमागता काचन देवदेविकागृहघटीचेटी स्वजारं तत्र दण्ड्यमानं दृष्ट्वा किमेतदिति तान् पृष्ट्वा तैरुक्तं वृत्तान्तं श्रुत्वा रात्रिवृत्तं देवदेविकागृहवृत्तान्तं तपनीयशुद्धोदक- पात्रस्य तद्भवने स्थितिञ्चोक्त्वा राजकिङ्कराननन्दयत् । राजकिङ्करास्तु कर्णरसायनमेतदुपश्रुत्य झडित्यागत्य वेश्यामवनं विशोध्य स्तेयं स्वर्णपात्रं देवदेवीं विप्रनारायणं च राजनिकटं निन्युः । राजा तु पर्यपृच्छत्ताम्---'किमुचितं भगवत्पात्रादानं तव' इति । सा तूवाच -' नाहं जाने भगवत्पात्रमिति | किन्त्वस्य विप्रनारायणस्य दूतो रम्यजामातृनामा विप्रनारायणदत्तमिदमित्युक्त्वा मद्धस्ते प्रायच्छत् । एतदेवाहं जाने, नान्यत् ' इति । विप्रनारायणस्तु नरपतिनानुयुक्तः प्राह 'नाहं कनकभाजननामापि जाने । दुर्गततमस्य मम का नाम दूतप्रसक्तिः ! सर्वमेतन्मृपा' इति । नरपतिः अप्रतिपद्यमानो निर्णय दापयित्वा कनकभाजनं देवाराधनाय अनुगुणदण्डा- दानेन मोचयित्वा वारवनितां विप्रनारायणं पुनः परीक्षापुरस्सरं शिक्षणाय निक्षिप्य कारायां स्वभवनमयासीत् । तावदेव पुरुषकारमूता श्रीरुवाच नारायणम् -'इतः परं विप्रनारायणो भवतो लीलोपकरणं माभूत् ; किन्तु दयाविषयो भूयात् ' इति । भगवास्तु स्वप्ने प्राह राजानं--'नायं चोरो विप्रनारायणः । नैव जानाति कनकभाजन- वार्तामपि । योऽस्य दूतो रम्यजामाता सोऽहम् । मदीयस्वर्णपात्रदानेचैतत निमित्तम् । यदस्य तादात्विकं दुःख प्रशाम्यति । प्रबुद्धो मद्गुणव्यामुग्धो भविता । स्वर्णस्तेयापवादेन कारागृहस्थित्या चास्य प्रारब्धं फर्म निर्वर्तिप्यते इति । तदेनं दुराचारेभ्यो निवर्तय । वेश्याधनं तत्पात्रं तस्या एव दापय ' इति च ।
श्रीमत्ताग्रिरेणुचरितम् राजा तु प्रातरुत्थाय स्वमवृत्तान्तमाख्याय परिवारेभ्यः विप्रनारायण- मानाय्य काराया मोचयित्वा विस्मरचेताः प्रणम्य सान्त्ववचनैः प्रसाद्य क्षाम- यामास स्वापराधम् । विप्रनारायणस्तु 'संसारबन्धस्थितिमोक्षहेतुः' 'मयकद्भय- नाशनः' इति बन्धहेतुं मोझहेतुश्च तमेव भगवन्तं भावयन्निरन्तरम् अनुतप्य- मानवदुराचारसरणेन स्वात्मानमर्पयन्मुहुर्मुहुः निईतुकायै भगवत्कृपाय सर्व- प्रायश्चित् भगवद्भक्तपादोदकं निपेव्य निष्कल्मपो बभूव । यत्रेदमुच्यते--- एतत्समस्तपापानां प्रायश्चित्तं मनीपिमिः । निर्णीत भगवद्भक्तपादोदकनिषेवणम् ॥" इति । अथास्य पुरुषकारपूर्वकमगवन्निर्हेतुकदयाविषयीकारलब्धार्थपञ्चकज्ञान- तत्साक्षात्कारस्य सर्व नवमिवाभवत् । तथाहि प्रामकुलादिप्रयुक्तं विप्र- नारायण इति नाम निववृते । 'तोण्डरडिप्पोडि' 'भक्ताधिरेणुः' इति दास्यनाम प्रववृते । यतावदुच्यते प्रमाणशतैः । यस्य मूर्ध्नि स्थितं यावद्वैष्णवानिरजश्शुभम् । गङ्गादिसर्वतीर्थानि तावतिष्ठन्त्यसंशयम् ।। निरपेक्षं मुनि शान्तं निरं समदर्शनम् । अनुव्रजाम्यहं नित्यं पूयेयेत्यघिरेणुमिः ॥" मायन्तमरडिनीरुकोण्डणिय'' 'पादतूलिपडुदलाल' , 'तोण्डरडिप्पोडि आडनां पेरिल् ' इत्यादिमिः। अयं तु 'लिरुमालै' 'तिरुपलियनुचि' इति प्रकबद्धवं सफलतत्त्वार्थ- बोधकं निखिलचेतनोजिजीवयिपयानुजग्राह । रामदूतवद्रामानुजवच्छठकोपवत् च प्रादुरासीदनन्यमोग्यत्वाकारः । यदुच्यते स्वस्ववचनेनैव तैः । " .
दिव्यसूरिचरितेषु , - 'सेहो मे परमो राजन् ! त्वयि नित्यं प्रतिष्ठितः । भक्तिश्च नियता वीर ! भावो नान्यत्र गच्छति ।।" इति हनूमतः । 'न देवलोकाक्रमणं नामरत्नमहं वृणे । ऐश्वर्य वापि लोकानां कामये न त्वया विना ।। इति लक्ष्मणस्य । 'नस्वीडुपेरिनु कोळ्वदेणुमो ' इति शठकोपम्य च । एतत् चास्यैव सुक्त्या ज्ञायते । ‘पञ्चैमामलैपोल्' इत्यादि 'इन्दिरलोकमाळुम् अच्चुवैपरिनु वेण्डेन् ' इति । भगवतस्ववशीकरणक्रममनुसन्दधतोऽस्य विस्मित- चेतसो भगवति कृतज्ञतैव सततं देहयात्राभूत् । तदपि स्वोक्त्यैव ज्ञायते . मादरार्कयल्कणेन्नु वलैयुल् पट्टळुन्दुने, पोदरेयेन्नुशोल्लि पुन्दियिल् पुहुन्दु तन्पालादरं पेरुहवैत्तवळहन् ' इति । यमकिङ्करसंवादसिद्धं वैष्णवत्वञ्चास्य निष्पामिति च स्वयमेव सगर्व- माह--'नमन्तमर्तलैहळ्मीदे नावलिटुळितरुहिन्द्रोम् ' इति । चतुर्विशति- तत्त्वात्मके शरीरे संन्यवर्ततात्मबुद्धिरिति चाह 'पुरंशुवरोट्टैमाडम् ' इति । असिद्धान्तयच्च भागवतदास्यमेवात्मना स्वरूपमिति · अडियरो'' इति । निश्चकर्ष च पुरुषार्थस्वरूपं भागवतककर्यमेवेति स्वप्रबन्धोपसहारे 'उन्नडियार्काळ पडत्ताय ' इति । श्रीरङ्गनाथविषय एव नियतैकपतित्रतात्वं त्वस्यैवासाधारणम् । यतोऽस्य द्वयोरपि प्रबन्धयोः दिव्यदेशान्तरगतदैवतस्य नामापि न कीर्तितम् । देवदेव्यपि सर्वमिमं वृत्तान्तमनुभूय निहीनतरजन्मन्यपि स्वस्यां विप्र- नारायणसंबन्धाधीन भगवता स्वयमेव सुवर्णपात्रप्रदानादिक प्रसादमनुफलं भावयन्ती परमार्थतो निर्विण्णा पिङ्गलेव सर्वस्वं भगवद्भागवताधीनं कृत्वा सिद्धरसघुटिकास्पृष्टलोहन्यायेन स्वयमपि भगवन्मन्दिरसंमार्जनोपलेपनपुप्पाहरण- नामसङ्कीर्तनादिकैर्य निरता बभूव ।
श्रीभक्कामिरेणुचरितम्
F
अत्र यद्यपीयमाशा समुदियात् । एतादृशहेयविषयासक्तस्य वर्णा-
श्रमाचारविनष्टस्य विप्रनारायणस्य कथम रूपेण प्रतिष्ठापनम् । कथञ्च पूजा-
प्रवर्तनम् । इति । तथापि भगवत्संश्रयणराजकुलमाहात्म्यान काप्यनुपपत्तिः ।
तथा हि-
शरीराणामचेतनत्व-विनाशिस्व-व्याध्यादिग्रस्तत्व-मलमूत्र-मांसासगादि-
पूरितस्व-तल्लेपतच्छौचतत्तत्पूर्ववासनानुगुणकार्याणीत्यादिसर्यमाचतुराननपिपीलिक
विवेकिनामविवेकिनां तिरश्चामपि समानम् । तादृशप्रतिष्ठापूजादिप्रयोजको
विशेषः पुनः भावनात्रयान्वयविरहपूर्वकनिरन्तरभगवध्यानप्रणामादिरत्यर्थप्रियः ।
-
"
दुराचारोऽपि सर्वाशी कृतमो नास्तिकः पुरा ।
समाश्रयेदादिदेवं श्रद्धया शरणं यदि ॥
निर्दोषं विद्धि ते जन्तुं प्रभावात्परमात्मनः ॥" इति ।
अस्मिन्त्रमाणवचने 'पुरा' इति पदं दृश्यते । तदपि परिहृत्यानुगृहीतं भगवता
गीताचार्येण ।
" अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥"
इति।
पूजाविषये भगवानेवाह संहितायां-
" भक्तिरष्टविधा ह्येपा यस्मिन् म्लेच्छेऽपि वर्तते ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा यहम् ॥"
इति स्वसमानतया पूज्यत्वं तस्य । किं बहुना ! श्रुतिरप्याह
यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
तस्यैते कथिता धर्थाः प्रकाशन्ते महात्मनः ॥"
इति ।
इति श्रीमत्ताघिरेणुचरितम्
-
9
श्रीपाणसूरिचरितम् . कवेरजासलिलसंपर्कवान् समीरणो यत्र यन्न सञ्चरति तत्रत्याना मुक्ति करगतैव । किमु वक्तव्यं तत्तीरवासिनाम् । तत्रापि श्रीरङ्गक्षेत्रपरिगतायाः तस्याः। एवं भूतायास्तस्याः परिसरे 'निचुलापुरी ' ( उरैयूर् ) इति प्रसिद्धा महोन्नतहर्म्यसौधप्रासादादिपरिष्कृता काचिदस्ति नगरी | तस्याश्च दिनकरकुल- प्रदीपो धर्मवर्माभिधः परमधार्मिकश्चोलभूपतिरवनी पालयन्नासीत् । तम्य तु काचन कन्या समजनि । या किल नीलादेव्यंशजा भगवन्तं श्रीरङ्गनाथमेव पति वरयामास । पाणिश्च जग्राह । अत एव सा 'निचुलापुरी देवी ' (उरैयू रिचयार्) इत्येव प्रसिद्धा बभूव । प्राप्ततारुण्या कदाचित्सखीभिस्सह विहरन्त्युपवने यदृच्छया मृगया- व्याजेनागतं श्रीरङ्गनाथमवलोक्य तदेकासक्तचिचा रणरणकेन परिपीडिता निर्लज्जा स्वपितरमुवाच तात ! नाहमन्यं मनुजपशुं वृणे । भगवते रगनाथायैव मा प्रदेहि । नो चेन्न जीवामि' इति । स तु बहुशो विचिन्त्य निर्णयमनधिगच्छन् रङ्गनेतुम्सन्निधिमुपगम्य वृत्तमिदं विज्ञापयामास । भगवानादिदेश-- 'भवदुहितरं मह्यमेव प्रयच्छ । अहमेव तस्याः पाणिं महीप्यामि । माभूते चिन्ता ' इति । राजा तु प्रहर्प- परवशः स्वौदार्यानुगुणं पात्रानुगुणं विभवानुगुणं च धनकनकमणिवस्त्राभरण- वाहनासनदासीदासादिपुरस्सर स्वदुहितरं भगवते यथाविधि प्रतिपाद्य महता विजृम्भणेन विवाहमहमकरोत् । एवं स्थिते तम्यां निचुलायां कलियुगे द्विचत्वारिंशदुत्तरत्रिशतसख्याक- वत्सरेप्चतीतेषु दुर्मतिसवत्सरे (क्रि. पू. २७६०) वृश्चिकराशिगते सवितरि - श्रीपागसूरिचरितम् - रोहिणीसते तारानाथे भगवतः श्रीवत्सांशः पाणसुरिरवातरत् पञ्चमे वणे । सच जायमानकालिकभगवत्कटाक्षपात्रतया रजस्तमोरहितप्रवृद्धशुद्धसत्त्वगुणः स्वयमेवोपायोपेयभूतनारायणपरायणः, नारद इब कैशिकपुराणप्रतिपादितयाग- दोपलव्धब्रह्मरक्षस्त्वपरिहारकरपश्चिमगीतमहिमा, भागवत इव च भगवद्गुण- गानकनिरतः, सर्वदा सामगानपरायणो नित्यमूरिरिवाभवत् । किन्तु स्ववर्णधर्मानुगुण्येन कवेरजास्रोतोद्वयमध्यान्तरीप कदाप्यस्पृशन् पदा दक्षिणकावेरीदक्षिणतीरे रङ्गनाथामिमुखो निमीलितनयनो वीणापाणिर्गायन् गुणान् भगवतः कीर्तयन्नामानि भक्तिपरवशो विस्मृतत्वतनुः स्थूणावत्तस्थौ । भगवानपि ज्ञानिनस्स्वात्यर्थप्रियतया तद्विश्लेषमसहमानो निरङ्कुश- स्वातन्त्र्येण लोकसारङ्गमहामुनीन्द्रमेवमादिदेश स्वप्ने- 'महामुने ! दक्षिण- कावेरीदक्षिणपारे तिष्ठन्तमिममन्तरीप पदाप्यस्पृशन्तं मद्भक्ताग्रेसरं श्रीपाणसूरिम् अविजुगुप्समानो भवस्कन्धमधिरोप्य मत्सकाशमानय ' इति । लोकसारगमहामुनिरपि यथानियोगं ब्राझे मुहर्ते उत्थाय कृतयथोदित- स्नानाद्याहिकः श्रीपाणसकाशं गत्वा दण्डवत्प्रणिपत्य भगवदाज्ञां विज्ञापयामास । यदा पाणसुरिः स्पनेच्यानुसन्धानेन कावेरीमध्यान्तरीपं पदा स्प्रष्टुं नैच्छत् , तदा लोकसारङ्गमहामुनिः स्वयं स्कन्धनारोप्य पाणरिमातिवाहिकोऽमानव- पुरुष इव मुक्तचेतनं दिव्यास्थानमण्डपरलमिव श्रीरङ्गनाथदिव्यविमानमानिनाय । भगवानगि नित्यदरिदाय निधिगिन श्रीपाणसूरये स्वदिन्यमालविप्रह- मापादचूहमवयवशस्सन्दर्शयामास । पाणसुरिरपि सत्यपि मातुस्सर्वावयवेषु स्तनन्धयस्स्तनमेव यथा वदनेन गृहाति, तथा सर्वशेषिणोऽवयवेषु सत्स्वप्यन्येषु शेषभूतेन प्रथमग्राह्यत्वाद्भगवतः पदकमलमेव जग्राह प्रथम चक्षुपा मनसा वाचा च।
दिव्यसूरिचरितेषु वदनुभवमात्रेणातृप्तः शेपित्वशरण्यत्वप्राप्यत्वादिमिरू_माकृष्टकरण- त्रयोऽनुभूय सर्वावयवान्यथानुभवम् 'अमलनादिपिरान् ' इत्यादिपद्यदशक- परिमितं दिव्यप्रबन्ध दरिद्राणां निधिमिव संसारिणामापद्धनं निधाय तस्मिन्नेव श्रीरङ्गनाथे तेनैव शरीरेण सायुज्यमवाप । उशीरधारी भोगी पुरुषः उशीरसंपृक्तां मृदमनवधूयैव यथा धारयति गन्धलोपभिया तथा भगवानपि ज्ञानिनं सविग्रहमेव परिगृह्णाति। उक्तं हि भगवता शौनकेना रूपस्यैव प्राप्यत्वम्---- " तामर्चयेत्तां प्रणमत्तां भजेत्तां विचिन्तयेत् । विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ।। इति। - इति श्रीपाणमरिचरितम्
SRİ PĀŅASŪRI
WrikAry
mercent
श्रीपाणसूरिः- तिरुप्पाणायार
वृश्चिके रोहिणीजातं श्रीपाणं निचुलापुरे ।
श्रीवत्सांशं गायकेन्द्र मुनिवाहनमाश्रये ।।
SRI PARAKĀLA SŪRI
श्रीपरकालसूरिः -तिरुम आळ्यार
वृश्चिके कृत्तिकाजातं चतुष्कविशिखामणिम् ।
पप्रवन्धनं शाई मूर्ति कलिहनं भजे ॥
श्रीपरकालसूरिचरितम् परकालसूरिस्तु तिरुवालिजनपदे 'तिरुक्कुरैयलूर' इति ग्रामे अतीतेषु कलियुगे सप्तनवत्युत्तरत्रिशतसख्याकेषु अन्देषु (क्रि. पू. २७०५) नलाब्द वृश्चिकराशिगते सविपरि कृत्तिकासहते निशानाथे भगवतः शाहीशो म्लेच्छ- कुले नीलनानावततार । स वाजतात्पदं बाल्यं वयोऽतिक्रम्य प्राप्तयौवनोऽत्यन्तविषयप्रवणः करभृतखगो युद्धे चोलभूपतिसमाश्रयेण पराक्रान्तः जलोपरि चरिष्णुः' 'छायानिलयनः' 'फूत्कारमुद्राभेदन:' 'वाचाटः' इति चतुभिर्मन्त्रिमिः नृत्यतेव तुरगेण, ऐरावतसदृशेन मत्तमतङ्गजेन च परिसेवितः चोलभूपतिना कचन देशाधिपः सेनानायकश्चाकारि । एवंस्थिते तस्मिन्नेव तिरुवालिजनपदे कमिश्चिदतिमनोहरे सरोरुहसरोवरे कासु चिदप्सरस्सु प्रत्यहमागत्य जलविहारमनुभवन्तीप्वेकस्मिन्दिवसे तासु फाचित् कुमुदकुसुमापचायनिमित्तेन विलम्बिता ताभिश्चैकाकिनी परित्यक्ता मानुष रूपमास्थाय तत्रैवावतस्थे । तावत्येव काले तिरुनान्गर' इति दिव्यक्षेत्रनित्य- बासिनं भगवन्तं सेवमानः कश्चिचिकित्सकभागवतः स्नानार्थमागत्य तां दृष्ट्या पप्रच्छ-~~-'कुतोऽत्रैकाकिनी तिष्ठसि' इति । साऽब्रवीत्-~~ 'पूज्य । सुमङ्गला नाम काचनाहमप्सराः रूपातिशय- गर्विता स्वसखीभिस्सम हिमवति गिरौ विशेषान्पश्यन्ती कमिश्चित् सिद्धाश्रमे भगवति फपिलमहर्षों भगवद्वैभवमवबोधयति सतीतरेभ्यः कञ्चन कुरूपं सिद्ध- पुरुष दृष्ट्वापाइसम् । कुपितः कपिलः शशाप---'रूपगर्विते ! वं मानुपी भूत्वा नीचभार्या भविष्यसि ' इति ।
दिव्यरिचरितेषु अत्यनुतप्तहृदया चाहमतिदीना प्रसीद भगवनिति मुहुः प्रार्थये । प्रसन्नमना महपिरन्वग्रहीत् मां 'बाले ! जगदवनाय भगवतः शाशिः परकाल. नामा देशाधिपतिरास्ते । तस्य सहधर्मचारिणी भूत्वा तं परमभागवतं विधत्स्व । तव सर्वा न्यूनता परिहता भविष्यति' इति । विदितवृत्तान्तो मिपम्वरोऽन- पत्यस्तामानीय स्वपल्यै दत्वातिप्रीत्या पुणंस्तां कुमुदापचायन्याजलब्धतया कुमुदवल्ली' नाम्ना चकार । तस्याः अतिमानुपं सौन्दर्यलावण्यादिक केचित् परकालाय न्यवेदयन् । नीलस्त्वविचपलचित्तस्तक्षणमागत्य मिषग्वरगृहं तेन सह संभापमाण आस्त । तदैवाकस्माद्रेहान्तःप्रदेशात् मेघान्तःप्रदेशादिव तडिल्लतां कुमुदवल्ली निर्गतामालोक्य विस्मितो विभ्रान्तचित्तः । भिषग्वर ! अनपत्येन भवता कुतो लब्धेयं देवतासुता ।। इत्यपृच्छत् । चिकित्सकस्तु तदुपलब्धिक्रम सर्वमुक्त्वा 'अज्ञातकुलगोत्रेयं प्राप्तयौवना कम्मै दातव्येति मे महती चिन्ता' इत्युवाच । नीलस्तु बहुधनकनकवस्त्राभग्णादिप्रदानेन प्रलोभ्य तौ दम्पती ' मह्य- मेवैनां दत्तम्' इति निबन्ध । ताबगुमेनाते । तावत्कुमुदवल्ली प्रोवाच पितरौ पञ्चसंस्कारसस्कृतात् श्रीवैष्णवादन्य नाहं वृणे' इति । तत् श्रुत्वा नीलोऽपि तव्यामोहेन तथेत्यभ्युपगम्य सपदि तिरुनरैयूर्णिनामानं श्रीवैष्णव- मुपगम्य संप्रार्थ्य प्रमन्नेन तेन पञ्चभिसंस्कारस्संस्कृतः कुमुदवल्ल्यै दर्शयामास आत्मानम् । सा पुनरब्रवीदेनं- 'यावदेक संवत्सरं प्रतिदिवसमष्टोत्तरसहस्र- श्रीवैष्णवतदीयाराधनं तत्पादोदकसेवनं च विना नाहं भवति भर्तृभावं विमृयाम् । इति । परकालस्तु सर्वप्रयत्नेनापि तामनुबुभूपुः तथेति प्रतिज्ञाय प्रतिज्ञानुगुणं सर्वस्वत्रयेणापि तदीयाराधन निवर्तयन्नासीत् । अथ चोलप्रभवे देयं करद्रव्यमपि तदीयाराधनायैव विनियुक्तमभूत् । चोलभूपस्तु करादानाय भृत्यान् प्रेषयामास । .
श्रीपरकालसूरिचरितम् - अद्य श्वो वा सायं प्रातः दास्यामीति कालं निनाय नीलः । अतिनिद्धस्तु तैस्तान्बलान्निष्कासयामास । राज्ञा प्रेपितस्सेनापतिरपि चतुरङ्गबलपरिवृतः समागत्य तुरगाघिरूढेन खड्गहस्तेन नीलेन पराजितो वृत्तं राज्ञे व्यजिज्ञपत् । चोलभूपः श्रुत्वातिकुपितस्स्वयमेव चतुरङ्गबलमादाय समागम्य युवा नीलेन पराजितस्साम्ना तं स्ववशं कृत्वा तव सर्वेऽपराधाः मया क्षान्ताः । देयं करदन्यमात्रममात्येऽस्मिन् देहि' इत्युक्त्वा नीलममात्यापीनं कृत्वा वनगरमेवायासीत् । सचिवोऽप्येनं कस्मिंश्चिदेवालये कारायां निदधे । परकालोऽप्यतीवातों दिनत्रयमुपवसति स्ल । तदा वरदराजः स्वमे समागम्यैन- मेवमुवाच काञ्चीमायाहि । चोलाय देयं करदन्यं दास्यामि । इति । नील; प्रातरमात्यमाह "काचीनगरे किश्चिद्धनं मदीयमस्ति । तत्रागच्छसि चेद्दास्यामि करम् ' इति । अमात्यस्तु राजे विज्ञाप्यानुमतस्तेन सारक्षकवर्ग निनाय नीलं काञ्चीम् । धनस्थानमजानाने दूने दीने च नीले करुणानिधिरथितार्थपरिदानदीक्षितो वरदस्वप्ने प्रोवाचास्मै धनस्थान सचिहम् । नीलोऽपि वेगवतीतीरे निर्दिष्टे स्थाने खात्वा धनमादाय राज्ञे देयं कर दवा अवशिष्टं तदीयाराधनाय निचिक्षेप । चोलभूपोऽपि धनागमवृत्तान्तममात्यमुखेन यथातथं श्रुत्वा विस्मितः 'महानयं भगवत्प्रपन्नः । यतोऽस्यार्तस्य धनं द्रौपद्याः वस्त्रमिवाभिवर्धते । एतच्चास्माकं कोशागारे न स्यातुमर्हति' इत्युक्त्वा नीलमानाय्य, क्षामयित्वा अपराधं तद्व्यं देवत्रामणसन्तर्पणायैव विनियोजयामास । अथ नीलो धनाभावात्पथिकानां धनान्याहर्तुमारेभे । ततो भगवानेवम् अचिन्तयत्-'अकार्यशतं कृत्वापि भागवताराघनतत्परोऽयं चरमपुरुषार्थनिष्ठः । इदमेव सुकृतं ब्याज विधाय विशेषतोऽनुगृह्य स्वीकुर्यामेनम्' इति । अथ दिव्यसूरिचरितेषु नीलो यन पथिकानां धनमपहर्तु सपरिकरो निलीनो वर्तते, तमेव प्रदेश 'तिरुमण कोल्ले' नागानमाजगाम भगवान् श्रिया सह ब्राह्मणनववधूवरवेषधारी सद्योविवाहानुगुणसर्वाभरणभूपितः समुचितबन्धुजनपरिवृतः बहुधनकनकादि- यौतकद्रव्यसमृद्धः । परकालस्तु तादृशं जनसमुदायं दृष्ट्वा बहुद्रव्यलाभाशया स्वपरिवारेण तान्परितः आक्रम्य धनकनकवस्त्राभरणादिकं सर्वमपहृत्यावशिष्टमेकं वरस्य पादाङ्गुष्ठाभरणं दद्भिर्विदश्याददे । ततस्सर्व वस्त्राभरणादिक ग्रन्थीकृत्य भूतला- द्वारमुद्धर्तुमक्षमः कुपितो ब्राह्मणवररूपिणं भगवन्तमेवमब्रवीत्'भो ! ब्राह्मण ! यः कोऽपि मन्त्रोऽनुसंहितस्त्वया, यहलाद्वार उद्धर्तुं न शक्यते । त्वरितमुप- संहर मन्त्रम् ' इति । भगवांस्तु 'अस्ति स मन्त्रः, यदि कुतूहलमुपदेक्ष्यामि ते' इत्युक्त्वा तत्कण्ठमालिङ्गयोपांशूपदिदेश दक्षिणश्रोत्रे मन्त्रम् । यः खलु ऋगादिवेद- चतुष्टयादिसकलशास्त्रार्थगर्भः मुमुक्षूणामपुनर्भयकाशिणां संसारार्णवतारकः, ऐहिकामुप्मिकैश्चर्यकैवल्यभगवल्लामसाधकः, अष्टवर्णात्मकः, पदनयमितः, दत एव क्रमेण स्वरूपोपायपुरुषार्थयाथात्म्यनिष्कर्षक, व्यापकमन्त्रेष्वपि त्रिवर्थपूर्त्या समुत्कृष्टः वेदवैदिकादिशिष्टजनाप्रथैराहतश्च । गीताश्रवणानन्तरं तदर्थदर्शनकुतूहलिने पार्थाय यथा विसम्भाय विश्वरूपं प्रादर्शयद्गीताचार्यः तथा मन्त्रोपदेशमात्रेणातृप्तः परमपुरुषो मन्त्रार्थ- भूतं स्वस्वरूपगुणविग्रहविभूतिप्रभृतिकं प्रादर्शयत्परकालाय । तथा हि । कनक- गिरिमिव गरुडमधिरूढः तडितेव श्रिया समालिशितः नीलजलधर इव सकल- तापहरः सवर्णश्च सुदर्शनपाञ्चजन्यादिदिव्यायुधधरः किरीटादिन पुरान्तदिव्य- भूपणभूपितसवयवः, कारुण्ययात्सल्यसोशील्यसौलभ्यौदार्यादिकल्याणगुणगण- प्रकाशकेन कोटिसूर्यप्रकाशेन दिव्यमङ्गलविग्रहेण प्रकाश्यात्मानं, स्वविशेष- श्रीपरकालसूरिचरितम् ७३ . सालग्राम- . कटाक्षेण तस्याज्ञानान्यथाजानविपरीतज्ञानसंशयादीनिश्शेषतः सवासन परिहत्य दिव्यज्ञानप्रदीपञ्च प्रकाशयामास । तेन च साक्षात्कृत्य यथावस्थिततत्त्वहितपुरुषार्थास्तदनुभवपरीवाहरूपान् 'पेरियतिरुमोळि' 'तिरुक्कुरुन्दाण्डहम्' 'तिरुनेहुन्दाण्डहम्' 'तिरुवेलुकूतिरुक्कै 'शिरियतिरुमडल' 'पेरियतिरुमडलं' इति द्राविडभाषामयान् पटप्रबन्धान पडङ्गानि शठकोपमुनीन्द्रानुगृहीतप्रवन्धचतुष्टयरूपवेदचतुष्टयस्य अनुजग्राह जगदुज्जीवनाय । तेन च माशु-मधुर-चित्र-विस्तराख्य-चतुर्विधकाव्यरचना- चतुरतया 'चतुष्कविशिखामणिः' इति प्रथामवाप । ततश्च तस्मिन् परकाले पत्नीपरिवारादिमिस्सह पिरिदि-बदरिकाश्रम- म-नैमिशारण्याहोविल-शेषाचलादिदिब्यक्षेत्रेषु तत्त्दैवं तत्तत्प्रतिपादक- द्राविडश्रीसक्तिमिस्स्तुवति, अमेण चोलमण्डले प्रविष्टे, 'चतुष्कविशिग्वामणिः जयति 'परकालो जयति' 'परवादिमत्तगजकण्ठीरवो जयति' इत्यादि विस्दा- बलीभिर प्यमाणे संवन्धाख्यस्य कस्यचित्कवेः शिप्या आगत्य अस्मगुरु- मनिर्जित्य इयं विरुदावली न योग्या भवतः' इति निरवनन् । ततस्तैस्सह तत्र जगाम यत्र संबन्धनामासीत् । तयोः परस्परविवादे निश्चिते परकालस्य वदनाद्वाण्येव न निस्समार । ततश्चाचिन्तयत्कारणम् । 'अयं ग्रामशैवमयः विष्णुदेवालयो वा विष्णुप्रतिमा वान नास्ति' इति । ततः तत्रत्यायाः कम्पाश्चिद्वैष्णव्याः गृहमासाद्य तामर्थयित्वा वैष्णवी प्रतिमा, तद्दत्त- मादाय नवनीतचौरविग्रह संबन्धस्य पुरतो बादाय सिद्धोऽभवत् । ततसंबन्धः विश्चित्कान्यं निर्माय पपाठ। परफालस्तु तन काव्ये बहून् दोषानुदाटयामास । 'तर्हि त्वयैकं काव्यं निर्मीयताम् ' इति मबन्धेनोक्तः प्राह 'ओरकुरळाय इरनिलम्' इत्यादिपद्यदशकम् । दशमपद्यान्ते स्वोत्कर्षप्रतिपादकं भागच . 10 ७४ दिव्यसूरिचरितेषु - 'आलिनाडनरूळमारि अरट्टमुकियडैयाीयं कोङ्गुमलकुळलियर्वेमङ्गैवेन्दन कोरवेल परकालन् कलियन शोन्न शगमुहत्तमिळ्माले' इति । तत् श्रुत्वा संवन्धस्तु मूकीभावमापन्नो विस्मितश्च भूत्वा भिवादृशो नैवास्ति कश्चिदपि कविः । 'चतुष्कविशिखामणिः' इति विरुदावली भवानेव अर्हति" इत्युक्त्वा प्रणम्य प्रययौ । अथ प्रणवाकारविमानमध्यालधारभूतं प्रणवार्थभूतं स्वभक्ते विमीषणे अतिप्रीत्या तदभिमुख शयानं श्रीरङ्गनाथ दर्शनप्रदक्षिणनमस्कारादिभिः परिसेव्य तस्य विमानमण्डपगोपुरप्राकारादीन्निर्मातुकामः तदनुकूलद्रव्यसंपादना- योपाय स्वपरिजनं पप्रच्छ । तेवब्रुवन् 'नागपट्टणाख्ये विहारे काचन सुवर्णमयी बुद्धप्रतिमा वर्तते । तामानीय छित्त्वा मित्त्वा युष्मन्मनोरथ पूरयत' इति । परकालोऽभ्युपगम्य नागपट्टणं गत्वा कस्याश्चिद्वैष्णव्याः गृहमुपगम्य 'अत्र नगरे कि देवरहस्यम् !' इति पप्रच्छ । सा प्रोवाच-- 'अस्मिन्नगरे बौद्धालये विद्यमानायाः सुवर्णप्रतिमायाः तद्विमानस्य च निर्माता शिल्पी एतादृशे द्वीपान्तरे वर्तते इति मे श्वशुरो ब्रवीति स्म ' इति । ततश्च त्वरितमेव गत्वा सपरिजनो द्वीपान्तरं विचार्य तद्गृहं प्रत्यभिज्ञाय तवारवितर्दिकाया- मुपविश्य संमाषमाण आसीत् । यदा स शिल्पी भुक्त्वा ताम्बूलं गृहीत्वा द्वारवित्तर्दिकामाजगाम, तदायं परकाल एवमुवाच 'अहो। बत ! महत् कष्टमापतित नागपट्टणस्य । बौद्धालय विमानच मित्वा सुवर्णप्रतिमाञ्चादाय जग्मुबहवस्तुरुप्काः । एतत् दृष्ट्वापि जीवामो वयम् ' इति । एतदाकर्ण्य स शिल्पी व्याकुलतरचिवासानुतापं रहस्यं विवने । 'केनेदं द्रोहिणा शिल्पिना रहस्यममेदि ! मया तु विमानशिखरकलशस्य श्रीपरकालसूरिचरितम् . एका . अधोभागेऽन्तःशृङ्खला संयोज्य तस्या अपरान्तः प्रतिमा सोमसूत्रस्याधस्तात् भूम्यन्तरे एकस्यां नागदन्तिकायां संयोजितोऽभूत् । एतद्रहस्य बुवा कथं वा केन वा प्रतिमापहता !' इत्यतीव विपसाद । परकालस्तु रहन्यं भित्त्वा विषयं संगृह्य निर्जगाम द्वीपान्तरात् । समुद्रतीरे एक तरणिवणिज पूगफलराशि तरणावारोपयन्तं दृष्ट्वा 'वयं द्वित्रि- दिवसादुपोषिताः । हस्ते न किञ्चिदप्यातरोऽस्ति । पारतरणाय त्वमेव शरणम्' इत्युक्त्वा तेनानुमताः तरणिमारुरुहुः । ततः परकाल स्वहस्तस्थितमेकं पूगफलं छुरिकया द्विधा छित्त्वा फलार्ध सद्राशौ तत्समझ प्रक्षिप्यार्थयामास पत्रिका विलिख्य दीयताम् । अस्मिन् पुगफलराशी अर्ध पूगफलं त्वदीयमस्ति' इति । ऋजुबुद्धिर्वणिक तथैव लिखित्या ददौ । पारङ्गतायां तरणौ 'पूगफलराश्य देहि ' इति कलहायते स्म परकालः । 'एकपूगफलार्धमेव स्वयात्र न्यस्तम् । तदेव दीयते' इति वणिक् कलहायते स्म । ततस्तत्रया वणिजो मिलित्वा वणिजा लिखितां पत्रिकामादाय वाचयित्वा राश्यधै दापयामासुः । राश्यर्धयोग्यं मूल्यं तस्मादादाय परकालादयो निश्चक्रमुः। ततश्च नागपट्टणं प्रविश्य रात्रौ बौद्धाल्यं प्रविश्य कुत्रचित्कोणे निलीय स्थित्वा निी सोममूलस्याधः कीलिता शृङ्खला वित्रस्य विमानमारदा शिखरकलशमितस्ततः परिवयं प्रक्षिप्य तद्वारा सुवर्णमयविग्रहमादाय रात्री एवान्यतानीनयन् । प्रभालत्पूर्वमेव कस्यचिदाहारस्य क्षेत्रे कृप्टे पदबहुले त विग्रह निम्बाय पडून प्रच्छाध तत्पर्यतस्थितस्य चिधातरोधस्तस्थुः । प्रभाते क्षेत्री इलमानीय क्षेत्रं क्रप्टुमारेभे । परकालम्तु 'मदीयमिदं क्षेत्रम् । अपसर दूरतः । मपितामहेन कीतम् । यद्यहं प्रयपत्रं श्ः प्रभाते न दयिष्यामि नहिं त्वदीयमेव क्षेत्र भविष्यति' इत्युक्त्वा तत्रैवातिष्ठन् । स तूद्विमचिनो शालिको दिग्यसूरिचरितेषु निर्जगाम गृहम् । सूर्यास्तानन्तरं रानावन्यन्न नीत्वा उत्तमदेवस्यालये (उत्तमर् सन्निधि) भुवि निचख्नुः । ततश्च नागपट्टणे हैमप्रतिमाहीनं शून्यमालयं दृष्ट्वा प्रतिमान्वेषणं महता प्रयत्नेन प्रयासेन च कृत्वाप्यलब्धमनोरथास्तद्भक्ताः निर्वेदमात्रशरणाः बभूवुः । तदनु परकालकविः कालक्रमेण तां सौवर्णी प्रतिमा रहसि किञ्चित्किञ्चिच्छित्वा भित्त्वा विक्रीय तन्मूल्येन श्रीरङ्गक्षेत्रे मण्डपप्राकारगोपुरादीन्निरमापयत् । तावतापि कर्मकरेभ्यो देवस्य भृतिद्रव्यस्यापर्याप्ततया तेरतिनिबद्धः परकालकविः तान् सर्वान् प्लवमारोप्य कवेरजास्रोतोमध्यमानीय निपात्यामारयत् । तदनु तद्वन्धुभिराक्रुष्टोऽयं भगवदाज्ञया तान् सर्वान् नातान् धृतोर्ध्व- पुण्डान् रङ्गमन्दिरमानीय भगवत्सन्निधावाहापयत् मृतांस्तत्तद्वन्धून् प्रत्येक तत्तन्नामग्रहणपूर्वकं तस्तैः । मृतास्तु तद्वान्धवाः प्रोचुः तेन तेनैव कण्ठस्वरेण 'भो । भो ! बान्धवाः ! मैनं महात्मानं परकालकवि विनीत यया कयापि विधया । यदनुमहात्कर्मज्ञानभक्त्यादिसाधनैरप्यलभ्यं भगवतस्सायुज्यमलप्महि क्यमकिश्चनाः' इति । अथ ते नमस्कृत्य भगवन्तं परकालकविं च यथायथं निश्चक्रमुरतीव- मुदिताः । एवमादिभिर्दिव्यचरितैः स्वविरचितैः पड्मिः प्रबन्धैः स्वभक्त- प्रतिष्ठापितया स्वावतारस्थलस्थया स्वदिव्यमूर्त्या च जगदुज्जीययन् अद्यापि भुवमलरोति भगवान् परकालकविः । इति श्रीपरकालसरिचरितम् श्रीकाञ्चीपूर्णचरितम् . श्रीमत्काञ्चीमुनि वन्दे कमलापतिनन्दनम् । वरदाड्मिसदासगरसायनपरायणम् ।। देवराजदयापात्रं श्रीकाञ्चीपूर्णमुत्तमम् । रामानुजमुनेर्मान्यं वन्देऽहं सज्जनाश्रयम् ॥ एकशतोपरचतुस्सहस्रसंख्याकेषु संवत्सरेवतीतेषु कलौ युगे शोभकृत वत्सरकुम्भमासे मृगशीर्पक्षसयुते शुभे दिवसे काञ्चीपूर्णनामा समजनि तुण्डीर- मण्डले ( इदानीन्तनमद्रास् नगरान्तर्गतपूनमल्लि ) पूबिरुन्दमल्ल्याल्ये पुरवरे चतुर्थवर्णे भागवतनिष्ठागरिष्ठायाः शबर्याः अंशेन । यश्च विदुर इवाज्ञान- विधुरस्तत्त्ववेचा शानी च, लक्ष्मण इव निजशेषभावप्रकटीकृतदास्यरुचिः, प्रहाद इव जन्मवैष्णवः, हेतिराज इव भगवतस्सदागालाशासनपरः, शक्र इव गुर्वनुवर्तनकशीलः, पितामह इव महितदेवराजश्च । भागवतोचमोऽयं सर्वेश्वरावियुगलध्याननिष्ठमुरवरिष्ठपरमेष्ठयध्वरवीति- होत्रावतीर्णस्य श्रीकरिगिरिनाथस्य तापशान्तये शैत्योपचारमाचरन् सुगन्धि- शीतलतोयसंपृक्तेनोशीरमयनालयन्तेन, अशेषशेषवृत्तिनिर्वर्तननिम्तस्वस्वरूप- लामः, अनवरतस्यगुरुवरयामुनमुनिभावनया पावितान्तरङ्गः, कालमतिवाह- यामास | अपि च नितुकया भगवत्कृपया स्वनिष्टाकाप्च्या च द्विरदाद्रि- शेवरं वादं साक्षात्पश्यन् तेन सह समापमाणः तमपि वाचालयन् परि- तुष्टान्तर मासीत् । यदा प यादवप्रकाशः शुभाय विशिष्टाद्वैतपरतया व्याख्यानमभेद- धुनीना रामानुजमुम्पातदेय स्खशिष्यमपि तं निरकासयत् । सोऽपि सन्तुष्ट एवागत्य गृहं निवेदयामास स्वजनन् । सा उवाच 'पुत्र! मलमेवा- -- ७८ दिव्यसूरिचरितेषु -- वताधीतेन | भगवतो वरदस्यान्तरङ्गभूतं श्रीमन्तं गजेन्द्रदासमुपसद्य तदुक्तम् अनुतिष्ठ' इति । सोऽपि तदनुवर्तनपरो भूत्वा समये प्रार्थयामास | 'क्रियताम् इति मां बद ' इतिवत् 'किं कार्य मया दासभूतेनेति भवन्तो नियमयन्तु माम्' इति । सोऽप्यवदत् - ' यज्ञवेदीसंभूतस्य तापशान्त्यै शालकूपशीतलतीर्थ यदाहियते नित्यं भवता तत्स्यैवाराधनसमयोपयुक्तं भवतु' इति । ततः प्रभृति तकैर्यमविच्छिन्नमातनोद्रामानुजार्यः । अन्यदा रामानुजार्यः श्रीयामुनमुनिदर्शनार्थ श्रीरङ्गं गतः । तदैव परमं पदं गतो यतिसंस्कारसंस्क्रियमाणः आसीत् स मुनिः । तथाभूतमेव तं संसेव्य रामानुजार्यः दुःखितो भृशं, श्रीरगनाथमप्यदृष्ट्वा काञ्ची प्रति निववृते । तत्र काञ्चीपूर्णाय चैतद्वृत्तं निवेदितवति रामानुजायें, सोऽप्यतीव दुःखितः स्वाचार्याय श्रीवैष्णवसम्प्रदायानुगुणं श्रीचूर्णपरिपालनादिकं निबांध्ययन- महोत्सवं चाकरोत् । ततो रामानुजार्यः 'यामुनमुनेस्सकाशे अध्ययनं कर्तव्यम्' इति कासा मे न संपन्ना इति परितपति स्म । एतद्विज्ञाय काञ्चीपूर्णः 'वरदो हि दयानिधिरर्थितार्थपरिदानदीक्षितस्सर्वज्ञः सर्वशक्तश्च । स एप निवर्तयति निःशकं भवदभीप्सितम् । इति समादधे । एवं स्थिते रामानुजार्यः काञ्चीपूर्णस्यानुष्ठानादिकं प्रभावं च विज्ञाय तदाश्रयणोद्देशेन प्रणम्य, 'स्वामिन् ! आत्मनोऽस्य यथोज्जीवनं भवेत्थानु- प्रायोऽयञ्जनः' इति बलात्प्रार्थयामास । काञ्चीपूर्णोऽपि भोः ! असन्तमेव मी दयाशेवधिर्वरदस्सन्तमारचय्य स्वदास्ये न्ययूयुजत् । विश्वसन्ति हि भवन्तश्चतद्विलोक्य । सकलगुणगणविभूपिताः भवन्तः परमवैदिकाचारनिष्ठा- प्रकारं विनिश्चित्य मामाश्रयितुमिच्छन्ति । युक्तमेतत् । तथापि नोचितमिदं वैदिकमर्यादायाः वर्णाश्रमानुगुणायाः' इत्युक्त्वा स्वाश्रयणान्निवर्तयामास तं रामानुजार्यम् । .
भोकाचीपूर्णचरितम् खिन्नोऽपि रामानुजायः अन्यस्मिनहनि 'पोनहंशैय्द शेडे तरुवरेल्' इतिवत् परमभागवतोच्छिष्टप्रसादस्वीकारस्य परमपुरुषार्थतां भावयन् स्वयं तस्वीकर्तुं श्रीकाम्चीपूर्ण स्वगृहे भोजनाय प्रार्थयामास । सोऽप्यनुमनुते स । हृष्टो रामानुजायः स्वगृहं प्रविश्य न्यवेदयत् पत्न्यै- 'सपरिकर सव्यञ्जनं च अन्न अपय भागवतभोयं यथा भवेत्' इति । ततश्च स्नात्वा नित्यनैमितिकानि निवर्त्य, शालकूपतीर्थ च शीघ्रमेव समर्प्य भगवते देवाजाय, स्यगृहाचीय देवराजाय अपितमन्नं विनिवेद्य, कान्चीपूर्णमाफारयितुं दक्षिणवीध्या प्रस्थिते रामानुजायें, काम्चीपूर्गोऽपि वीव्यन्तरेण प्रस्थाय वरदं संसेव्य, रामानुजगृई प्राप्य 'मावतो व्यजनकैर्याय त्वरितं गन्तव्यम्' इत्युक्त्या झडिति भुक्त्वा जगाम । ततो रामानुजार्यपनी नुक्तोज्झितम् उच्छिष्टपत्रं दण्डेन बहि:प्रक्षिप्य तत्स्थल गोमयेनानुलिप्य जलेन प्रक्षात्य स्वयं च स्नात्वा पर्ति प्रतिपालयन्ती अतिप्छन् । रामानुजार्योऽपि मठे काञ्चीपूर्णमपश्यन् प्रतिनिवृत्य गृहं, दृष्ट्वा च पत्ती स्वाला 'किमिदम् !' इत्यपृच्छत् । सापि भगवतः तालवृन्तर्याय गन्तव्यम् ' इत्युक्वान्नमा जगाम । सोऽपि अमामण इति तदुछिटपत्रं दण्डेन बहिनिकास्य गोमयेन तस्थलयनुलिप्य शुद्धिमकरवम् । तदा शरीरे उच्छिष्टमलगत् । तदर्थ अन्नाम्" इति प्रत्यवदत् । रामानुजार्योऽपि कुपितो मायायै स्वामीटालामादपि परमभागवते साक्षादप- चारभ्य करणेन नितरां बिन्नो पम्व । अन्यदा चैपः मठं गत्या काञ्चीपूर्ण प्रार्थयामास - ' स्वामिन् । काधिदर्यान् मनसि विनिन्तयाम्यहम् । अपि नाम ते सनीचीनाः भगवदमि- मनाया ! इति शाकामोऽस्मि । वरदं विज्ञाप्य तदुक्तेनोरेण प्रयोपनीयः भबिग' इति । " स वैष्णवः मागत्य भुक्त्वा . -
८०
दिव्यसूरिचरितेषु
.
तस्मिन्नेव दिवसे रात्रौ भगवते समर्थ सकलोपचारान् तिष्ठति रहसि
काञ्चीपूर्णे वरदः पप्रच्छ तम्-'किमपि वक्तुकामोऽसीव ! ' इति । काञ्ची-
पूर्णोऽपि " भगवन् ! रामानुजः पप्रच्छ माम् - . 'कांश्चनार्थान् मनसि
भावयामि ? के तेऽर्थाः .ते समीचीना वा ! भगवन्तं पृष्ट्वा बोधयन्तु माम् '
इति । ब्रूहि के तेऽर्थाः ?" इत्यवदत् । वरदोऽपि दयानिधिः " सहजदास्य-
रसरसिकः मच्छन्दानुवर्ती स रामानुजः, यथाहं स्वतस्सर्वज्ञोऽपि सान्दीपनि-
सकाशेऽधीतवान् लोकसंग्रहाय तथैव बहुश्रुतवृद्धपरिसेवी विविच्य सकलशास्त्र-
तत्वज्ञः, मां ननु भवन्मुखेन परिपृच्छति ! अस्तु । (१) वरद एव परं तत्त्वम्
(२) भेद एव दर्शनम् (३) प्रपत्तिरेवोपायः (४) अन्तिमस्मृति पेक्षिता
प्रपन्नस्य (५) प्रपन्नस्यैतच्छरीरावसान एव मोक्षः (६) महापूर्ण एवाश्रयणीयः
इतीमे पडर्थाः तन्मनसि भाविताः । त एव मह्यमपि रोचन्ते " इत्यनुजग्राह ।
काञ्चीपूर्णोऽभ्यतीव हृष्टः उपस्येवागत्याहूय रामानुज 'भोः, श्रूयताम् ।
भगवदीप्सिता भवन्मनसि स्थिताः अर्थाः इमे' इति तान् प्रतिबोध्य, 'अपि
नाम सत्यम् ?' इति प्रपच्छ । रामानुजार्योऽपि 'आम' इत्युक्त्वा तच्चरण-
सरसिजयोः प्रणनामानितरसाधारण्या भक्त्या ।
काञ्चीपूर्णोऽपि भगवदमीप्सिताः एतन्मनसि स्थिताश्चार्थाः एकरूपा
एव । महदिदमाश्चर्यमिति विसिमिये । महानयमनितरसाधारणः इति च मेने।
*
.
श्रीयामुनार्य शिष्यं ज्ञानवितृष्णत्वभक्तिमिः पूर्णम् ।
वन्दे काञ्चीपूर्ण रामानुजसंयमीन्द्रसंसेव्यम् ॥ १ ॥
विधिविधिहुतबहेरुद्धतं देवराज
वरवरवरदन्तं वीजयंस्तालवृन्तैः ।
नवनवविभुवीक्षामाजनं योऽभवत
भज भज मम चेतः काञ्चिपूर्ण मुनीन्द्रम् ॥ २ ॥
SRİ KĀÑCİ PŪRŅA
r+
श्रीपाश्चीपूर्णा:-तिस्पमिनम्बि
कुम्भे मृगशिरोजातं श्रीकाधीपूर्णमाश्रये ।
पटमा यतिराजाय यन्मुग्पाद्वरदोऽनधीत् ।।
SRI VATSACINHAMISRA
श्रावसचिह्नमिना -करत्तावान्
मकरे हस्तनक्षले सर्वनेत्राशसम्भवम् ।
श्रीमतरकुलाधीश श्रीवत्साङ्कमुपास्महे ।।
श्रीकाञ्चीपूर्णचरितम् ८१ यस्याज्ञया प्रतिदिनं स तु लक्ष्मणार्य: शालाख्यकूपपयसा स्वयमाहृतेन । श्रीदेवराजविभवे रचयांवभूष पानीयमस्म्यहममुं शरणं प्रपन्नः ॥ ३ ॥ वरदविभुसकाशाद्योऽध्यगच्छत् पडान् यतिपतिहृदयस्थांस्तांश्च योऽबोधयत्तम् । जगदिदमुपजीवत्यद्य यान् गद्यसूक्तान् तमहमिह शरण्यं नौमि काञ्चीसुपूर्णम् ॥ ४ ॥ यद्भुक्तिपात्रमभवचिरकासितं च रामानुजस्य दुरवापमभूच पत्न्या । स्वालामतोऽपि चरमाश्रमदायि चाभूत् तं काश्चिपूर्णमुनिमन्वहमाश्रयेहम् ॥ ५॥ हृयैः पधैरप्टभिरतिभक्त्या देवराजमामव्य । स्तुत्वा विलीनचित्तं यश्चके तं मुनि वन्दे ॥६॥ कुम्भे मृगशीर्षभवं शीण भजे गजेन्द्रदासन्तम् । यत्कृतया स्तुत्यामी मुच्येमहि बन्धनात्सद्यः ॥ ७ ॥ इति श्रीकाञ्चीपूर्णचरितम् 11 श्री श्रीवत्सचिह्नमिश्रचरितम् श्रीवत्सचिहमिश्रेभ्यो नम उक्तिमधीमहे । यदुक्तयत्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ।। " आसीत् किल हरितकुलतिलकः, सकलकलाकलापकुशलः, शीलवता- मवतंसः, देहवानिव दयारसनिष्यन्दः, प्रशान्तान्त:करणः, बाह्यकरणानामपि निविषयीकरणचणः, निखिलसद्गुणमणिगणरोहणगिरिः, जनक इव कर्मयोग- परिकर्मितज्ञानयोगः, प्रहाद इव ज्ञानिनां निदर्शनभूतः, सनन्दन इव सन्तत- ध्यानाशनः, वकुलभूपण इत्र भगवदनुभवभावितभारतीपावितवसुमतीतलः, मधुरकविरिवाचार्यसपर्यापर्याप्तः, अग्रगण्यो वैराग्यभूपणानां, निर्णता तत्त्वानाम् , आचार्य आचार्याणां, श्रीवत्सचिह्नमिश्रो नाम । , - यः किल स्वावतारतः कीर्तिमतुलामातनोत् तुण्डीरमण्डले श्रीकाञ्ची- सकाशकाशमानस्याग्रहारस्य श्रीकुराख्यस्य । यश्च समासाद्यानितरसाधारणी प्रथामवाप कलायतीतेपु नवोत्तरकशताधिकचतुस्सहस्रसंख्याकेषु हायनेषु सौम्यवत्सरमकरपञ्चमीगुरुवासरयुता हस्तनाम्नी तारा । येन च जातेनातीय तुतुपतुः पितरौ पेरुन्देवीदामोदरायौँ। यस्मै च प्रददौ वेदशास्त्रप्रबन्धान पितैव दामोदरायर्यो राममिश्रापरनामा । यस्माच्च शिप्याद्गतिमन्विच्छन् रामानुजाचार्योऽपि धन्यममन्यतात्मानम् । यस्य च पाणिं जग्राह गोदाख्या (आण्डा) हृदयं विद्यव धनधान्यसम्पदा समं सहधर्मचारिणी । यस्य च निकेनने चिकेन नृकेसरी नित्यमर्चनीयतया रूपी भगवान् । यस्मिंश्चाचार्ये अचिरेण चरितार्थाश्चेरुः 'पिपिब्याख्यान् । तिरुवरङ्गत्तमुदनार ' 'नालगन्' प्रभृतयः छात्राः । - श्रीवत्सचिह्नमिश्रचरितम् ८३ . तस्य चैवविधस्यागणेयगुणगणस्यापि गुणकणिका काश्चन शीतला समुपनयन्ति मन्दमारूता इव चरित्रग्वण्डा । तथा हि सोऽयमाकर्ण्य कान्च्या प्रतिदिवससमुपहृतसमप्रमाणदेवराजसपर्यातीर्थ- कलश, यामुनाचार्यान्तेवासिपराङ्कुशदासदयासमासादितपञ्चसस्कार, मीमासा- युगलप्रवचनपटीयास, भागवतापनारदर्शनमनितजिहासानिष्कासितस्वदार, सपदि परिगृहीततुरीयाश्रम, श्रीरामानुजमुनि सघस्समासाद्य काञ्ची, चरण- शरणपरणसमधिगतपञ्चसस्कार , मीमासायुगलपरिकलनविमलमना , रामानुज- मुनिचरणसपर्यापर्याप्त , छायेव तमनुवर्तमान , तत्रैवावातिष्ठत कश्चित्कालम् । एतेन चास्य सत्सहवासवान्छा सदाचार्यपरिचर्याचिन्ता तत्वबुभुत्सा इत्येव- मादयो गुणा गृह्यन्ते । अथ च रामानुजाचार्य नित्यवासाय श्रीरङ्गक्षेत्रमुपगनवति स्वयमपि तत्र जिगमिपु स्वभवनकवाटमुद्धाट्य रथ्याचारिण सर्वान् सर्वस्वं ग्राहयित्वा तत्तदिष्ट, प्रस्थाय सह सहधर्मिण्या, कुत्रचित्काननभुवि 'किमस्मिन् मार्गे भयमस्ति' इति तया पृष्ट 'यदि नीच्या विञ्चिदस्ति, तर्हि वर्मनि भयमस्ति' इति दत्वोत्तर सोध्य तन्नीवीं तत्र निहितं किञ्चन कनकभाजनं बलादादाय प्रक्षिप्य वनभुवि 'नेत परमस्ति तव भयमस्मिन् पथि' इत्युक्त्वा निश्चिन्तो जगाम तादृश्यैव धर्मपल्या साफ श्रीरङ्गम् । एतेनास्य पर वैराग्यमुक्त भवति । यदुच्यते योगानुशासने दृष्टानुअविकविपरवितृष्णस्य वीकारसंज्ञा वैराग्यम्' इति । यदा तु भगवान् रामानुजाचार्योऽष्टादशकृत्व रहस्यमन्त्रार्थग्रहणाय गोष्ठीपूर्णमुपसद्य सम्यक्परीक्षित दण्डपवित्रमात्रसहायेनात्रागन्तव्य भवता' इति सन्दिश्य तत्प्रेषितेन केनचित् श्रीवैष्णवेन बोधित दाशरथिकूरनाथाभ्या साफमागत्य 'एकेनवागन्तव्य भवतेति मयोक्ते निमित्येताभ्या सहागम ।' , .
दिव्यसूरिचरितेषु इति गोष्ठीपूायः पृष्टः 'दाइपवित्रमात्रसहायेनागन्तव्यम् इति किलाचार्याणाम् आज्ञा । एतौ हि मदीये दण्डपवित्रे' इत्यत्रवीत् । कः पुनर्दण्डः ! कः पवित्रम् ! इति पुनराचार्यः पृष्टो रामानुजाचार्य आह 'दागरथिदण्डः, कूरेशः पवित्रम् । इति । एतेन करेशस्य तमाशाचार्यामिमानभाजनत्वं ज्ञायते । , अन्यदा च गोष्ठीपूर्णार्याः रामानुजाचार्याय चरमश्लोकार्थ परमरहस्य रहस्यमुपदिश्य 'न कस्मैचिदप्युपदेष्टव्योऽयं भवता' इत्यत्रुवन् । श्रीवत्सचिह्न- मिश्रेभ्योऽप्यनुपदेष्टव्यः को वार्थः !' इति रामानुजाचार्यरुक्ते 'तर्हि हायनमेकं शुश्रूपया विना न ब्रूयाः' इति प्रोचुः । ततश्चागत्य श्रीरङ्गं कूरनाथमुवाच रामानुजार्यस्तद्धृत्तम् । फूरेशस्तु व्यजिज्ञपदेवं 'संवत्सरपर्यन्तं जीवामीत्यत्र कः प्रतिभूः ! आचार्यसन्निधौ मासोपवासं संवत्सरशुश्रूपासमानमामनन्ति महान्तः । ततो भवत्सन्निधौ मासोपवासिने मह्यं तमर्थमुपदिशन्तु भवन्तः इति । तदनु मासोपवासिने तस्मै चरमश्लोकार्थमुपादिक्षत् रामानुजाचार्यः । अनेनाम्य शरीरनश्वरतायां दृढाध्यवमायः, अनादरो देहे, अमिनिवेशश्चार्थ- विशेषग्रहणे त्वरा चेति गुणा गृह्यन्ते । यदा तु भगवान् रामानुजाचार्यो ब्रह्मसूत्राणां विशिष्टाद्वैतपरं श्रीभाष्य व्यरचयत् , तदा व्यास इव विनायकं भारतं, न्ययुक्त कूरनाथं श्रीमानं लिखितुं । मा लिखाविदितार्थ किमपि वाक्यं इति च । एवं स्थिते कुत्रचित् शेषत्वाविशेषितं ज्ञातृत्वमानं जीवात्मनस्स्वरूपम् । इति भाषितवति भगवति भाष्यकारे जोपमेवासीदेपः । यदा पुनः पुनः प्रेर्यमाणोऽपि न लिलेख, कुपितेनाचार्यवर्षेण मपदि निरकास्यत च बहिः । सतीर्थ्याः पुनरेनम् ऊचुः-'एवमवमानिता भवन्तः किमिदानीं भावयन्ति' इति । कूरेशस्तूवाच स्वस्य स्वामी प्रभवतीत्यत्र किं भावनीयमस्ति!' इति । भगवान् तदा .
श्रीवरमचिहमिश्रचरितम् ८५ भाष्यकारस्तु शिष्यस्य शान्ति, शेषत्वरहितज्ञातृत्वम्य देहात्माभिमानस्य चाविशेषञ्च भावयित्वा पुनरायैनमभाषिष्ट शेषत्वसहित ज्ञातृत्वमेव जीवात्मनः स्वरूपमिति । ततश्चालिखदेषः । अनेन चास्यास्खलिनं तत्वज्ञान, लोकाति- शायिनी शान्तिः , आचार्य विषये अचित्तुल्यं पारतन्त्व्यञ्चेत्येतेऽवगम्यन्ते गुणाः। किञ्चायं प्रातस्सङ्गवमध्याहापरालसायाहाभिधेषु कालेषु पञ्चसु प्रत्यह. मभिगमनोपादानेयास्वाध्याययोगनिरतः, कदाचिद्वर्षासु कस्मिंश्चिदुर्दिने, वर्पति चामन्याहमावरतधारासारैर्वासत्रे, स्वगृहादुपादानाय बहिर्निर्गमनायाव- काशमलभमानः कालातिपातमिया भगवन्तमिज्ययाराध्य मध्याहे निवेद्य च यत्किञ्चित् फलादिकं तथैव स्वाध्यायादिना चावशिष्टं कालं नीत्वा रात्रावुप- वसन्नेव सहधर्मिण्या सह शिश्ये । तावदेव भगवतः श्रीरङ्गनाथस्य शयनासनसमयसमुचितगुडोदननिवेदन- निवेदको घण्टाकाहलादिकोलाहलोऽश्रूयत । तदास्य धर्मपत्नी गोदा मनसैबमाह रङ्गमार---'भो ! भगवन् ! कोऽयमाडम्बरो गुडान्नभोजने भवतः ? भवद्भक्ते मद्भर्तरि अनशनेन क्लिश्यमाने शयाने' इति । सपदि विदिततदाशयो रङ्गेशः खगेहापबरकवितर्दिकाशयमुत्तमनम्बिनामानं स्वकिङ्करं न्ययुक्त स्वप्ने-- त्वरितम् उत्तिष्ठ; मदुपभुक्तमेतत् गुडान छत्रचामरवायघोषादिमिनीत्वा कूरेशायोपत्रसते समर्पय झडिति' इति । स चोत्थाय विस्मितः तरक्षणं यथादिष्टमन्वतिष्ठत् । निद्राणम्तु कूरनाथः स्वभवननिकटे एवं श्रुत्वा वाद्यघोपं भगवतो वीधीयात्राशङ्की स्वरितमुत्थाय स्वनिकेतनकबाटमुद्धाट्य उत्तमनंधिना समुपहृतं, यथावृत्तं निवेद्य समर्पितं गुहान्न कवलद्वयमानं प्रसादतया स्वीकृत्य एतन्मूल्यं भगवत एव कोशागारं गन्तुमर्हति । तन्नाहमुत्सहे सर्व स्वीकर्तुम् ' इत्युक्त्वा प्राहिणोत् । सतश्चाचिन्तयत् -- 'किं नाम कारण गुडानप्रेपणे भगवतः ! नहि सर्वज्ञः .
८६ - दिव्यसूरिचरितेपु सर्वशक्तः परमकारुणिकोऽपि भगवान् समीहितमप्रार्थितस्संविधते समाश्रितानाम् । न मयैतन्मनमापि चिन्तितम् । किन्तु अनया किमपि चिन्तितं भवेत् । तदेनां पृच्छामि' इति । अपृच्छच्च । सा तु निवेदयामास यथावस्थितं स्वचिन्तितम् । स तामुबाच- 'नेदमुचितं, यद्भुजानस्य गुडान्नकबलं भगवतो गलग्राहिण्यभूः' इति । ग्रासद्वयश्चोभावुपयुज्य शिश्याते । तद्रासद्वयमेव व्यासपराशरभट्टारको पर्यणमत भगवतः सकल्पात् । एतेन चास्य प्राणात्ययेऽप्यनतिक्रमणीयपश्चकालपरायणता 'हम्तादानो मुम्वादानः' इतिवदश्वम्तनिकवृत्तित्वं, तनिदानभूतं भगवति रक्षकत्व- नैर्भय, स्वाधीनरक्षेश्वरत्वम् , इत्यादयो गुणाः प्रतीयन्ते । यदा तु तत्कुमारी विवाहोचितवयसौ संवृत्ती, तदा गोदादेवी पतिमभापत कुमारौ तरुणौ संपन्नौ । कन्ये के चन कुत्राप्यन्वेषणीये ननु' इति कूरेशस्तु धर्मपत्नीमाह- 'के वयं भगवत्कुटुम्बस्य योगक्षेमचिन्तायै ' इति । पुनरन्यम्मिन्दिने 'उपेक्षितलोकतन्त्राणां किं नाम गार्हस्थ्यम् !' इति गोदया उक्तः खियन्मनसि यथापुरं दर्शनाय रहनेतुर्जगाम मन्दिरम् । दर्शनसमये 'किमपि वक्तुकामोऽसीव' इति भगवता पृष्टोऽयं निवेदयामास जायागोदा- वाधाम् । भगवानुवाच----'किन्तेऽनया चिन्तया ! मत्कुटुम्बे कोवा ते भरः!" इति । ततश्चित्रीयमाणचित्तो यथापूर्व मङ्गलमाशास्य जगाम गृहम् । अन्येयुः एव तत्पुत्राय श्रीपराशरभट्टार्याय स्वयं कन्यामानीय ददतुः कन्यापितरौ । विवाहोत्सवश्व यथाविभवं ववृधे । अनेन चास्यात्मयालामिव देहयात्रामपि भगवानेव बमारेति स्फुटमवगम्यते । येषामिदानीन्तनानामपि तादृशं तात्त्विकं भगवति नैर्मय तेषामपि सर्व भारं बिभर्ति भगवानिति च । अन्यच्च, कदाचित्कुत्रचित् केनचित् सणार्धग्रस्त आरटन्तं कञ्चित् मण्डूकं दृष्ट्वाऽयं कूरेशः अचिन्तयदेवं • 'कमिदानीमयमाक्रन्दति सर्वलोक- - श्रीवत्सचिहमिश्रचरितम् ८७ । - शरण्यं नारायणमृते पाहप्रस्तो गजेन्द्र इव' इति । मुमोह च । अनेन 'महत्यापदि संप्राप्ते स्मर्तयो भगवान् हरिः' इति महामुनिवचनमनुतिष्ठन्तम् आत्मानमिव तमप्यमनुतेति । तेन च 'आत्मवत्सर्वभूतानि ' इतिववादास्य- भावनं चास्य सर्वभूतेषु ज्ञायते । अन्यदा श्रीरामानुजार्याणां मठे मध्याहसमये समुपस्थिनायां च भोजनवेलायां कदलीदलानयनाय केनचित्प्रेपितोऽयं कुरेशः गत्वा कञ्चनाराम दलमेकं कदल्याः ठित्वा लवित्रण तत्र सवन्तीमवलोक्य जलधारा स्वयमपि विमुञ्चन्नश्रुधारां करयुगलगलितकदलीदललवित्रः तत्रैव निषण्णो विषष्णोऽभूत् मुचिरम् । तावन्मठे कदलीदलं कूरनाथं भोजनमप्यलममानाश्चुक्रुशुः सर्वे । रामानुजाचार्यास्तु तदा विचार्य तत्प्रेषितारं बोधयामासुः 'नियोजन पुंसा नियोग्यस्यमावामिज्ञेन भाव्यं तत्तत्कार्येषु । को वा नियोजयेदेनमेताशे कार्ये' इति । एतेनास्य स्थावरेप्वप्यतिमानुपमानृशंस्यमवगम्यते । किञ्च, यदा चौलभूपः शिवात्परतरं नास्ति' इत्यक्षरपङ्क्तिमारोप्य पत्रिका तत्र सम्मतिसूचकानि हस्ताक्षराणि न्यसितुं प्रमाणैकशरणान् रामानुजा- चार्यान् स्वसभामानेतुं दूतान् प्रेषयामास, तदायमनिवेद्यैवाचार्याय तदीयं कापायं दण्डं चादाय प्राचार्येण पराङ्कुशदासेन सममभिगम्य चोलसभा तत्र श्रुतिस्मृतीतिहासपुराणमीमांसापुरस्सरैः प्रमाणैः तदनुसारिणीमिश्च युक्तिमिः निर0पीत् स्वरूपरूपगुणोमयविभूतिभिः जगदुदयविमवविल्यान्तःप्रवेश- नियमनभवबन्धनविमोचनादिभिश्च शिवादपि परात्परं श्रियापति नारायणमेव । स तु चोलभूपः ' भवन्तस्तु प्रभवन्ति कर्तुमकर्तुमन्यथाकर्तुं च वस्तु स्वाधीन- निखिलप्रमाणयुक्तयः । अलमनेन शुष्कोपन्यासमोहनेन । न्यस्यन्ता हस्ताक्षराणि अस्यां पत्रिकायाम्' इति नितरां निवन्ध । फूरेशातु पत्रिकामादाय 'शिवात् ८८ दिग्यसूरिचरितेषु - परतरं नास्ति' इति पक्तेरनन्तरं 'द्रोणमन्ति ततः परम्' इत्यर्थान्तरपरमति- विडम्बनकर विलिख्य वाक्यं विन्यस्य हस्ताक्षराणि प्रायच्छत् । राजा तु तदनुवाच्यातिलधिमकरं स्वस्य स्वदैवतस्यापि अनिवारणीयेन क्रोधामिना दन्दयमानः नेत्रोत्पाटनमादिदेश करेशस्य । रेशस्तु 'युक्तमिदं प्रायश्चित्त मन्नयनयुगलस्य । यन्महापातकिनस्तव मुग्वमवालोकत' इत्युक्त्वा स्वनखैः स्वयमेवोत्पाटयामास स्वलोचने । तुतोष च स्वदर्शनस्थापनाय स्वदर्शनपरिहारेणापि । अनेनास्य स्वदेहव्ययेनापि आचार्यदेहरक्षणस्य कर्तव्यत्वं, सत्यपि प्राणव्ययभये स्वसिद्धान्तार्थस्यैव व्यवस्थापन सभायाम्' इत्यादयो गुणा आवेद्यन्ते । अपि च यदा यदुशैलनिवासिना रामानुजाचार्येण प्रेपितः ‘मारति- चिरियाण्डान्' नामकः यदुशैलादागत्य श्रीरङ्गं कुरेशाय व्यजिज्ञपत् । भगवान् रामानुजार्यो भवन्नयनविलोपेन बहु विषीदन् भवदवलोकनाय मां प्राहिणोत्' इति । तदोवाच कूरेशस्तम्-~- का वा हानिनयनविगमे कीटकल्पस्य मे स्यात् मुख्यः प्राणो जगत इति यः ख्यायते सोऽसमदायः । चोलापायादपगतभयो यादवादी विभाती- त्येतद्वाक्यं श्रवणपुरतः पीयते चेदिदानीम् || " इति । अनेनास्यागणितस्वनयनापनयनस्य स्वाचार्यदेहधारणश्रवणमात्रेणानितर- साधारणः परमानन्दोऽवगम्यते । तेन चाचार्यविपये अनन्याहशेषत्वानन्य- शरणत्वानन्यभोग्यत्वानि सुन्यक्तानि भवन्ति । पुनरपि यदा यदुगिरेरागत्य रामानुजाचार्यः श्रीरङ्ग कूरेशभवनश्च- दोभ्या निपीड्य सुदृढं सुचिरं स्वशिष्य दु.खप्रमोदजनिताश्रुझरीविमुञ्चन् ।
श्रीवरम चिहमिश्नचरितम् स्तम्भं वहन्यचनकाययुगेन पश्चात् किचिजगाद कयमप्यथ कूरनाथम् ॥ दर्शनं समवानस्मद्दर्शनस्येति विश्रुतः । तवापि दर्शन दैवादूनमेनोऽन्यदेव नः ॥” इति । तदोवाच कूरेशः यस्य कस्यचित् श्रीवैष्णवस्योर्ध्वपुण्डूं वक्रमिति वा कदाचिन चिन्तितं किं मया ! तत्फलमिदम् ' इति । रामानुजाचार्यः प्राह-- 'असंभावितमेव भवत्येतदपि । किन्तु ' ममैव दुष्कृतं किञ्चिन्महदस्ति न संशयः' इति । अनेन तु यदि यया कया चन विधया किञ्चिद् दुःखमनुभूयते, तत् कृतस्य दुष्कृतस्य परिहारायैव फलमनुभूयते, इति वा, 'मुक्तिमात्यन्तिकीं दिसोः प्रारब्धं मोचयिष्यतः । कृपाफलं भगवतः' इति वा, दुःखेषु मोग्यतानुसन्धानरूपं प्रपनलक्षणमस्योक्नं भवति । तथा सर्वविदो रामानुजा- चार्यस्य मनसोऽप्यगोचरत्वादस्य दुष्कृतलेशस्यापि परिशुद्धात्मत्वमवगम्यते मुक्तस्येवात्रैव । अन्येयुरेवाहूय कूरनाथं रामानुजाचार्यः प्रोवाच . 'करिगिरिनायकः किलार्थितार्थपरिदानदीक्षितः, इति प्रत्यक्षमेवैतत् । ततस्त्वं स्तुहि देवराज केनचित् स्तोत्रेण स्वनिर्मितेन । याचस्व च दृष्टिम्' इति । अनिच्छन्नपि दृष्टिं मांसमयीमति निर्बद्धः स्वाचार्येण बहुशः, अय- मारभ्य वरदराजन्तवं 'स्वस्ति हस्तिगिरिमन्तशेखरः' इत्यादिना, " नीलमेघनिभमञ्जनपुनश्यामकुन्तलमनन्तशयं त्वाम् । अन्नपाणिपदमम्वुजनेत्रं नेत्रसात्कुरु करीश सदा मे ॥" इति पयेन सदादर्शनयोग्यां दिव्या दृष्टिमेवाभ्यर्थयामास । तथैव निशीथिन्या करिगिरिनाथ; म्वने ददौ तमेव प्रार्थितमर्थम् । स तु प्रहृष्टः प्रातस्त्याय कृतकर्तव्यः स्तोत्रं समाप्य प्राप्य रामानुजार्य प्रणम्य पादयोः निवेदयामास 12 दिग्यसूरिचरितेषु - - स्तोत्रं यथावृत्तं वृत्तञ्च । रामानुजाचार्यस्तु ' नैवं, नैवम् ' इति ब्रुवन् काञ्ची नीत्या कूरेशं वरदस्य पुरः स्तोत्रं वाचयामास । यदा स्तवः पूर्णः तदा रामानुजार्योऽन्यत्राभूत्कार्यान्तरासक्तः । वरदस्तु सम्पूर्णमाकर्ण्य स्तवं अन्ते सन्तुष्यन् ‘किन्ते प्रियमुपहरेयम् !' इत्यपृच्छत् । कूरेशस्तु ' मया लप्स्यमानं पुरुषार्थ मन्नेत्रोत्पाटनहेतुभूतो मच्छिप्यो नालगनपि लभताम्' इति प्रार्थयामास | भगवति च 'तथा' इत्यभ्युपगतवति सति, सपदि समुपसृत्य रामानुजायें वरदं वरप्रतिग्रहीतारं रेशश्च 'किमिदं प्रणत- परतन्त्रस्य तव स्वातन्त्र्यम् ? यदुभावपि मन्मनोरथमतिचक्रमाथे' इत्युपालभ- माने सति वरदो दर्शयामास स्वात्मानं रामानुजार्यश्च तस्मै कूरेशाय मांस- चक्षुपे गीताचार्य इव पार्थाय दिव्यचक्षुषे । पुनरुपसञ्जहार च तत्प्रार्थितः चक्षुस्तस्य तस्येव । अनेन तु शरीरेन्द्रियादिषु दृढसरा पारमार्थिकी जिहासा, तन्मूलभूतः एतच्छरीरावसान एव मोक्षनिश्चयः, भगवन्नित्यकिकरकिरसतया तत्प्राप्सित्वरा चेत्येवमादयोऽस्य मनसि सन्ततसन्तन्यमानाः अभूवन्निति अवगम्यते । अन्यदा फरनाथोऽयमकथयित्वैव स्वाचार्याय रङ्गदायित द्रष्टुं श्रीरत- दिव्यभवनमयासीत् । तत्र चैकाग्रेण मनसा स्तब्धेन वपुषा साञ्जलिबन्धं सेवमाने कूरनाथे रङ्गनाथं, प्रपच्छ भगवान् ' किं वक्तुकामोऽसि !' इति । ततश्चास्मिन् कस्य चन पद्यस्यार्थ सविस्तरमुपन्यस्यति सति, भगवति च अतिप्रीयमाणे वरं वृणीव ' इत्यतिनिबन्नति सति, अयमयाचिष्ट 'भवदनुभवविरोधिनमेनं देहबन्धं विमोच्य देशविशेपे विभाव्यं स्वाभाविक भवन्निरन्तरानुभवजनितप्रीतिकारितकैङ्कय मे देहि ' इति । एनमपहायान्यं वरं वाय' इत्यसकृदतिनिबन्यमानोऽपि भगवतायमाह -" यदपेक्ष्यमपेक्षितुरस्य हि तत्परिपूरणमीशितुरीश्वरता । अन्यथा का वा तवेश्वरता ! रामो द्विर्नामिभापते' इत्यादिस्सलिललिखिता लिपिर्वा !" इत्यादि । - श्रीवरस चिह्नमिश्रचरितम् - भगवानुवाच-'एवं तर्हि भवते भवदीयेभ्योऽयि मया दत्तं परमपदम्' इति । अलमकरोच्च तं ब्रह्मालङ्कारेणेव स्वशेषवस्त्रमालातीर्थप्रसादस्वपादुका- विन्यासाधलङ्कारेण । तञ्चालङ्कारमचिरादिसरणौ प्रथमालारमिव लम्वायम- प्रविश्यैव स्वभवनं स्वपितृभवन एवोपविवेश । रामानुजार्यः पुनरेनं वृत्तान्तमुपश्रुत्य तृप्तचित्तः स्त्रकाषायमुपर्युपरि प्रक्षिपन्ननर्त । 'किमेतत् !' इति तत्रत्यैः पृष्टः प्राह 'कूरेशाय तत्स- म्बन्धिभ्यश्च भगवता मोझो दत्तः' इति श्रुतम् । तस्मात्कूरेशसम्बन्धादस्मामिः अप्यनायासेनानिच्छद्भिरपि मोक्षो लप्स्यते इति महाप्रमोदः" इति। अनेनास्य यथा मनीपितं निरवर्तयद्भगवानिति, कूरेशस्येव दृढाध्यवसायवतो यस्य कस्यापि मनीपितमेवमेव सम्पादयति भगवानिति चावगम्यते । किञ्च सदाचार्यसंवन्धस्येव सच्छिप्यसम्बन्धस्याप्युत्तारकत्वं श्रीभाष्यकाराभिमतमिति च । ततश्च भगवान् भाष्यकारः प्राप्य करनाथं पप्रच्छ कीहशीय स्वरा ! यन्मामपि पृष्ठतः कृत्वा परमपदनाथं परवासुदेवं सेवितुं सनद्धोऽसि ।। इति । कूरेशस्तूवाच- 'भगवन् ! नित्यविभूतौ कश्चनाक्रमो वर्तते । ततः इयं त्वरा' इति । 'तत्राप्यक्रमः को वा !' इति पृष्टः पुनराह- 'यत् तत्रत्याः इतो गच्छन्तं प्रत्युद्गच्छन्ति ' इति । 'कथमत्राक्रमः !' इति पृष्टः पुनराह यदि पुनः प्रथम भवन्तो गच्छेयुः, तदा पश्चादागमिप्यन्तं मां प्रत्युद्गच्छेयुः । तच्चावयोः शेपशेषिभावस्य विरुद्धमित्ययमक्रमः' इति । आचार्यस्त्वाह "अत्यन्तमक्तियुक्तानां न शास्त्रं नैव च क्रमः' इति अक्रमायामपि नित्यविमूत्या क्रमोऽविष्यते भवता । अहो । भवतः शेषत्व- निष्ठा" इति । अनेन च 'मत्र परत्र चापि' इति परमाचार्यवचनार्थनिष्ठा प्रतिपाद्यतेऽस्य । " . -- दिग्परिचरिवेषु -- यदा एतनिर्मितेषु पञ्चसु स्तवेपु श्रीवैकुण्ठस्तवः प्रथमः द्यधिकशतश्लोक- परिमितः, स्वाचार्यरामानुजार्यप्रपन्नजनकूटस्थश्रीशठकोपमुनिप्रणतिपुरस्सरमुप- क्रान्तः । अनेन च मन्त्ररत्नविवरणं क्रियते । परवासुदेवो चैकुण्ठनाथ एव मुख्यो विषयः । सकलश्रुतिशिखरगहनाभिधेयनिकरविवरणपराणि सर्वाणि पद्यान्यत्र । द्वितीयोऽतिमानुपस्तवः एकपष्टिपद्यपरिमितः अत्र व्यूहावताराः विभवावताराश्च वर्णिताः । तत्रापि रामकृष्णावतारी सविस्तर बहुमिः पयैः वर्णितौ । वटदलशयन-निखिलभुवनपरिमाण-हिरण्यकशिपुनखविदारण-त्रिपुर- दहन-पाकशासनानुजवादयश्चैकैकशः संग्रहेण कथिताः तृतीयः सुन्दरबाहुस्तवः द्वात्रिंशदधिकशतपद्यपरिमितः । रामानुजार्यो यादवगिरिमलञ्चकार, तदा पुनः स्वाचार्यसंश्लेपोद्देशेनैवायं स्तवः प्रववृते । तदेतदस्योपक्रमोपसंहाराभ्यामेव गम्यते। तथा हि। उपक्रमे 'श्रीमन्तौ हरिचरणौ समाश्रितोऽहं श्रीरामावरजमुनीन्द्रलब्धबोधः । निर्भीकस्तत इह सुन्दरोरुबाहुं स्तोप्ये तच्चरणविलोकनाभिलापी ॥' इति । उपसंहारे च- 'विज्ञापनां वनगिरीश्वर ! सत्यरूपाम् अङ्गीकुरुष्व करुणार्णव ! मामकीनाम् । श्रीरङ्गधामनि यथापुरमेष सोऽहं रामानुजार्यवशगः परिवर्तिपीय ॥' इति । मन कानिचित्पद्यानि शठरिपुसूक्तिसमानार्थकानि सकलोपनिषत्सारार्थ- प्रकाशकानि; आचूडपादं सुन्दरबाहो: दिव्यमङ्गलविग्रहवर्णनपराणि; दिव्य- महिपीपरिजनपरिच्छदवर्णनपराणि ; दशावतारादिवर्णनपराणि ; स्वनच्यानु- सन्धानपराणि च ।
श्रीयसचिसमिधचरितम् - -- . +1 , इति । , तुरीयः पुनः वरदराजस्तवः । यः किल पुनर्नेत्रप्राप्तये रामानुजायैः एव प्रेरितैरेभिः कृत इति पूर्वापदानरेव स्फुटीकृतम् । अत्र द्यधिक पद्याना सतम् । आमौलिपादं वरदराजदिव्यमालविग्रहवर्णनं, विशेषतः स्वनच्यानु- सन्धान, देशविशेषे नित्यकैईयप्रार्थनञ्चात्र कृतम् । उपक्रमोपसंहाराभ्यां स्ववचतुष्टयस्यैकप्रबन्धस्वमवगम्यते । उपक्रमे- 'यो नित्यमच्युतपदाम्बुजयुग्मस्कम- व्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोमंगवतोऽस्यं दयेकसिन्धोः रामानुजस्य चरणों शरणं प्रपद्ये ।। उपसंहारे- रामानुजाशिशरणोऽस्मि कुलप्रदीप-. स्वासीस यामुनमुनेस्स च नाथवंश्यः । वंश्यः पराङ्कुशमुनेस्स च सोऽपि देव्याः दासस्तवेति वरदासि तवेक्षणीयः ।।' इति च स्वाचार्यरामानुजाचार्यनामनियन्धनात् । प्रतिपाद्याथै क्याञ्च । स चार्थः परब्यूहविभवान्तर्याभ्यारूपेण पञ्चप्रकारो भगवान्नारायण एवेति । अनन्तरस्तु श्रीस्तवः । प्राप्यभूतस्य नारायणस्यापि परमभोग्यतया परमप्राप्यत्वालन्याः, तस्याः स्ववस्यापि मानन्तर्य युज्यते । सूच्यते चैतत् श्रीपराशरभट्टाः श्रीगुणरतकोशे 'श्रियः श्रीः श्रीरङ्गेशय तव च हयां भगवती, श्रिय स्वत्तोऽप्युचैत्रयमिहभणामः शृणुतराम् ' इत्यनेन श्रीरहराजस्तवानन्तर्य श्रीगुणरतकोशस्य कथयद्भिः । मनोजवसाः खलु भट्टाः । षष्ठन्तु यमकरलाकराख्यः सव्याख्यः । अत्र च काव्ये प्रत्यक्षाश्लेप- मयनानाविषयमक एकाक्षर-यक्षरश्लोकवाद्याशतिबन्धादि-शब्दालङ्कारभरितः पः परिपूर्ण षोडशसर्गात्मके कंसवधान्ता श्रीकृष्णकथा निबद्धा ।
दिव्यसूरिचरितेषु
,
एवमयं कूरेशो निखिलमद्गुणगणभरितः, ज्ञानानुष्ठानोपदेशप्रबन्धादिभिः
जगदिदमुज्जीवयन्नष्टोत्तरशतं वत्सरानलञ्चकारेमा विमूतिम् । अयन्तु रामानुजा-
चार्यापेक्षयाष्टभिर्वत्सरः ज्यायानिति ज्ञायते । यतो रामानुजार्यावतारवत्सरात्
पिङ्गलाख्यात्प्राचीनोऽष्टमिस्संख्यामिरस्यावतारवत्सरस्सौम्याख्यः । इति शम् ।
श्रीवत्सचिहचरितं परमं पवित्र
ज्ञान विरक्तिमपि शान्तिमिहैव दत्त ।
श्रोतुः प्रवक्तुरथ तत्परमं पदं यत्
दृश्यं सदा भगवतः किल सूरिसङ्घः ॥
इति श्रीवत्सचिह्नमिश्रचरितम्
अथ दिव्यप्रवन्धप्रामाण्यम् एको ह वै नारायण मासीन्न ब्रह्मा नेशानो नेमे द्यावापृथिवी' इति महोपनिषदि नारायणाख्यदेवताविशेषस्यैव जगत्कारणलं द्यावापृथिव्याद्य- चेतनवचेतनयोश्चतुर्मुखशिवयोरपि तत्कार्यतया सृज्यत्वञ्च प्रत्यपादि । श्वेताश्वतरोपनिपदि 'यो ब्रह्माणं विदधाति पूर्वम् ' इति नारायणा- चतुर्मुखोत्पचिरभिहिता। शतपथब्राह्मणे "संवत्सरे कुमारोऽजायत सोऽरोदीतं प्रजापतिरब्रवीत् कुमार किं रोदिपि यच्छ्रमातपसोऽधिजातोऽसति । सोऽब्रवीदनपहतपाप्मा वा अहमनाहितनामा नाम मे धेहि पाप्मनोऽपहत्या इति । तं प्रजापतिरब्रवीत् रुद्रोऽसीति । तदस्य तन्नामाकरोदग्निस्तद्रूपमभवदमिव स्द्रो यदरोदीतसादुद्रः सोऽब्रवीत् ज्यायान्वा अहमस्मि घेढेव मे नामेति । तं प्रजापतिरब्रवीत् भवोऽसीति शर्योऽसीति ईशानोऽसीति पशुपतिरसीति उग्रोऽसीति भीमोऽसीति महादेवोऽसीति" इति रुद्रस्य संवत्सरशब्दवाच्यचतुर्मुखपुत्रत्वं पापसम्बन्धः नामकरणेन तन्निवृत्तिश्च न्यरूपि । सानि च 'विरूपाक्षाय दत्ताञ्जलये ब्रह्मणः पुत्राय ज्येष्ठाय श्रेष्ठाय अमोवाय कर्माधिपतये' इति रुद्रस्य चतुर्मुखज्येष्ठपुत्रत्वं स्पष्टमभाणि । मोक्षधर्मे- 'पश्यैकादश मे स्दान्दक्षिण पार्श्वमाश्रितान् । द्वादशैव तथादित्यान्वामपार्श्व समाश्रितान् ।।' इति । गीतायां-.' पश्यामि देवास्तव देव देहे मास्तथा भूतविशेषसवान् । ब्रह्माणमीश कमलासनस्थमृपींश्च सर्वानुरगाध दिन्यान् ॥' इति । विष्णुपुराणे --'... विष्णुवक्षस्थलस्थिताम् । कात्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः । अध्यास्ते देवदेवस्य योगिचिन्त्य गदाभृतः ।। इति दिव्यसूरिचरितेषु " च ब्रह्मरुद्रादिसर्वदेवानां स्वरूपस्थितिप्रवृत्तीनां नारायणाधीनत्वं, नित्यानपायिन्याः स्वस्यापि भोग्यभूतायाः श्रिय इव कीटप्रायाा सर्वदेवानामप्याश्रयतया स्वदेहप्रदानादनितरसाधारणं सोशील्यञ्च प्रायोचि । हरिवंशे क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् । आवां तवाङ्गे सम्भूतौ तस्मात्केशवनामवान् ॥' इति । विष्णुपुराणे शङ्कर उवाच कृष्ण कृष्ण जगन्नाथ ! जाने पुरुषोत्तमम् । परेशं परमात्मानमनादिनिधनं हरिम् ।। अस्मत्संश्रयहप्तोऽयं नापराधी तवाव्यय । मया दत्तवरो दैत्यस्ततस्त्वां क्षामयाम्यहम् ।। एप ब्रह्मा सहारमा मिः सहरुद्रैस्त्रिलोचनः । प्रणाम-प्रवणा नाथ दैत्यसैन्यपराजिताः । शरणं त्वामनुप्राप्तास्समस्ता देवतागणाः ॥ इति च देवानां तत्चदापत्सु पयःपयोधिगमनं, भगवतः स्तुतिकरणं, तच्छरण- वरण, तेन रक्षणम् , इत्यादि श्रीरामायण-महाभारत-विष्णुपुराण-श्रीभागवतादि सर्वेतिहासपुराणेषु स्फुटं निरणायि । एतेन नारायणस्यैव परतमत्वे ब्रह्मरुद्रादीनामवरत्वे च ब्रह्मरुद्रादय एव साक्षिण इति स्फुटम् । एतादृशामरुद्रादिनियमनं नारायणस्य किं राजभृत्यन्यायेनाज्ञा- मात्रादिति शङ्कायामन्तःप्रविश्यात्मतया स्थित्वा नियन्तृत्वेनेति ' अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा' इति तैत्तिरीयश्रुतिर्वक्ति । । ........ - दिव्यप्रवन्धप्रामाण्यम् " किं बहुना . अत एवास्य सर्वात्मतया सर्वस्य सूक्ष्मस्य स्थूलस्य च चेतनस्य अचेतनस्य च तच्छरीरत्वं प्रतिपादयत्यन्तर्यामिब्राह्मणं , 'यस्य पृथिवी शरीरं, यस्यात्मा शरीरं, यस्याक्षरं शरीरं, यस्य तमश्शरीरं ' इत्यादिना । शरीरवाचकशब्देनैव शरीरिणोऽपि निर्देशः 'स्थूलोऽहं कृशोऽहं देवोऽहं मनुष्योऽहम् । इत्यादिलोकानुभवादेव सिद्धः । 'य एव लौकिकास्त एव वैदिकाः' इति न्यायेन श्रुतिरपि ' सर्व खल्विदं ब्रह्म' 'तत्त्वमसि' 'अयमात्मा ब्रह्म' इति चेतनाचेतनात्मकं जगह्मणा सह सामानाधिकरण्येन व्यपदिशति; न तु तेपामेक्यात् ; ब्रह्मव्यतिरिक्तस्य मिथ्यात्वाद्वा । वृत्तिकारबोधायनादयोऽपि ब्रह्मसूत्रं शारीरकशब्देन व्यपदिशन्ति; 'सहितमेतच्छारीरकं जैमिनीयेन पोडशलक्षणेन ' इत्यादौ । निरुपाधिकशरीरप्रतिसम्बन्धी शारीरः । चेतनानां शरीरप्रतिसम्बन्धित्वं तत्त- कर्मोपाधिकम् । भगवतस्तु निरुपाधिक (स्वाभाविकम् ) शरीरसम्बन्धित्वं 'तस्यैष एव शारीर आत्मा, यः पूर्वस्य,' इत्यादिश्रुतिसिद्धम् । तादृशं शारीरं कायतीति शारीरकं शास्त्रम् । 'कै गै शब्दे ' इति हि धातुतदर्थो । स्वभावतः सर्वशरीरकं परमात्मानं स्वरूपरूपगुणविभूत्यादिमिस्सह प्रतिपादयतीति शारीरकं शास्त्रमित्युच्यते इति तदर्थः । एवमितिहासपुराणाद्युपहितभागद्वयात्मकश्रुतिप्रतिपादिता एवार्थाः पराड्कुशादिदिव्यसूरिमिः स्वप्रबन्धेषु इतोऽपि विशदतरं प्रतिपादिता इति 'अर्थकत्वादेकं वाक्यम् ' इति न्यायेन सपरिकरभगवत्प्रतिपादकत्वात् द्राविड- प्रबन्धा अपि वेदत्वान्नापयान्तीति सिद्धम् । ननु सततमेकानुपूर्वी विशिष्टसंस्कृतशब्दराशिरूपवेदसमानप्राममण्यं कथं भाषारूपदिव्यप्रबन्धानामिति चेन्न । संस्कृतवेदापेक्षयातिशयितत्वादिव्य- प्रबन्धानाम् । तथाहि-वेदयतीति घेद इति व्युत्पत्त्या सर्वेभ्योऽपि तत्त्वहित- 13 दिग्यसूरिचरितेषु पुरुषार्थान् वेदयितुमेव प्रवृत्तः संस्कृतवेदः त्रैवर्णिकमात्राधिकृतत्वात्कथं सर्व- चेतनानुज्जीवयेत् ! द्राविडवेदस्तु भापारूपत्वेन सर्वाधिकारत्वात् स्त्रीशूद्रादीनपि उज्जीवयति इति । ननु चतुर्थादिवर्णजातैः प्रणीतानां प्रबन्धानां कथं प्रामाण्यमिति चेन्न । संस्कृनवेदो मुमुक्षूणां भक्तिमपत्याद्युपायमिव कामनावतामल्पास्थिरदुःखमिश्र- फलरूपस्वर्गादिपुरुषार्थ तत्साधनं ज्योतिष्टोमादिकं च विदधाति । तद्वदेव प्रत्यवायजनकशत्रुमारणरूपं फलं तत्साधनतया श्येनयागच्च विदधाति । उत्तमाधिकारिणां तु सर्व नोपादेयम् । तदुक्तं गीताचार्येण- 'त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । यावानर्थ उदपाने सर्वतस्संप्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥' इति । दिव्यसूरयस्तु भगवन्निर्हेतुकविषयीकारलब्धरजस्तमोरहितशुद्धसत्त्व- गुणतया नित्यभगवदनुभवकैडाकपुरुषार्थतया तदतिरिक्तं चतुर्मुखैश्वर्यमन्ततः कैवल्यमपि नित्यं तिरस्कुर्वन्ति अल्पत्वास्थिरत्वादिदोषदर्शनेन । किं पुनस्ततः अवर स्वर्गादिकं प्रत्यवायायहं श्येनादिकश्च । तथैवोपदिशन्ति चान्येभ्यः । नैतादृशी परोनिजजीवयिषा वेदपुरुषस्य । न घेतादृशज्ञानवन्तस्सूरयो जन्मान्तर- स्वकर्मसमार्जितज्ञानेभ्यो विदुरधर्मव्याधादिभ्यः परधर्मोपदेशनिरतेभ्यो हीयन्ते । ननु–'बामणेन संस्कृतव्यतिरिक्तभाषागानं न कर्तव्यम्' इति माषा- गानस्य निपिद्धत्वादेते प्रबन्धा न प्रमाणपदवीमारोदुमहन्तीति चेन्न । हरिकीति विनवान्यद्राह्मणेन नरोचम । मापागानं न गातव्यं तस्मात्पापं त्वया कृतम् ।' इति मात्स्यपुराणोक्तयमवचनानुमारेण मापया हरिगुणचेष्टितादिव्यतिरिक्त- विषयकं गानं न गातव्यमित्येव निर्णीतत्वाददोपात् । 1 दिवप्रबन्धप्रामाण्यम् ९९ किंबहुना . द्राविडभापाया अगस्त्यमहर्पिकृतन्याकरणोदाहरण- भूतत्वेनापलादुपादेयत्वं शंभुरहस्याख्ये मन्ये सष्टं प्रतिपाद्यते । अवश्यं प्राकृतं प्राय यथैव किल संस्कृतम् । एवमेव विजानीहि द्रामिडच्चापि भापितम् ॥ व्याकर्ता स हि सर्वज्ञो यस्यागस्त्यो महामुनिः । .... .... . यथैव संस्कृती मापा प्रयुक्ता स्वर्गदायिनी। प्राकृती द्रामिडी चापि तथैव स्वर्गदायिके । अतोन्याः खलु या भाषा आन्धकर्णाटदेशजाः । अनार्पवादपत्रंशा इति शास्त्रविदां मतम् ॥' इति । तस्मादार्पभापया द्रामिड्या हरिकीर्तनमत्यन्तश्लाघ्यमेव । अति- कमनीयश्च । ननु -पौरुषेयाणां प्रबन्धानां कथमपौरुषेयवेदतुल्यत्वमिति चेन । हंसरूपमुपादाय ब्रह्मणे, मत्स्यरूपमुपादाय मनवे च वेदोपदेशबद्धर्मोपदेशवत् , ध्यासमाविश्य चेदविभागमहाभारतब्रह्मसूत्रादिरचनावच, दिव्यसूरिपु स्वयमेव सन्निधायोक्तत्वात् प्रवन्धानाम् । कथमनित्यानां प्रबन्धानां नित्यवेदतुल्यत्वमिति मा योचः । सुप्त- प्रवुद्धाध्यापकन्यायेन, लयसप्टयोर्वेदस्येव दिव्यप्रबन्धानामपि नित्यत्वोपपत्तेः । अत एव 'विश्वामित्रस्य सुक्तं भवति' इत्यादौ विश्वामित्रादीनां मन्त्रद्रष्मृत्वेन वेदनित्यत्वस्य यथा न बाधस्तथा पराकुशादेरपि सहस्रशाखोपनिषदृत्वान्न काचिदप्यनुपपत्तिः । एतदेवानुगृहीतं श्रीपराशरभट्टायः 'ऋर्षि जुपामहे कृष्णतृष्णातत्त्वमिवोदितम् । सहस्रशाखा योऽद्राक्षीग्रामिडी ब्रह्मसंहिताम् ॥' इति । .
दिव्यसूरिचरितेषु -- न चैतेपा प्रादेशिकत्वदोपः । द्राविडभापाप्रचाररहितदेशजाताः संस्कृतमयशास्त्रनिष्णाताः शिष्टा अपि लोकसारङ्गमुनिप्रभृतयो द्राविडदेशाय भाषायै प्रबन्धेभ्यश्च स्पृहयालवस्तदलाभादनुतप्तचित्ता बभूवुरिति श्रूयत इति- वृत्तम् । ततश्च प्रादेशिकत्वमेषामतिशयायैव । न हि उत्कृष्ट वस्तु सर्वत्र सुलभम् । न चैतेपामवैदिकैरप्यादृतत्त्वं दोपाय । वैदिकाग्रेसरैरप्याहतानामेपाम् अवैदिकादरकारणन्तु तदनुसन्धानेन स्वेष्टसकलफलावाप्तिसिद्ध्या विश्वासातिशयः एव । स चैतेपां गुणातिशयायैव । न त्ववरतायै । न चैतेषु प्रबन्धेषु दूतप्रेपण-विश्लेपव्यसन-प्रणयकोपादिकामुकचरित- कथनकृतहेयताशङ्का कार्या । अत्र प्रतिपाद्यस्य कामस्य भगवद्भक्तिरूपत्वात् . भगवद्भक्तेश्च भगवज्ञानदर्शनप्राप्त्युपायत्वेन स्वयं फलत्वेन चोपादेयतमत्वात् । किंच एते भगवद्भक्त्युत्पादकत्वादुत्पन्नाया भक्तेर्वर्धकत्वात् , श्रवणमननादौ सद्य एवं निरतिशयरुचिजनकत्वात् , वेदादिप्रमाणविरुद्धार्थस्य कस्यचिदपि कचिदप्यप्रतिपादनाचत्वहितपुरुषार्थादिसर्वार्थप्वपि चेदान्तसारार्थ- विशदीकरणाच्च संस्कृतवेदसमानप्रामाण्याः द्राविडवेदा इत्युच्यन्ते प्रामाणिकैः विद्यवृद्धः । इत्येवंविधैः प्रयन्यैर्दिव्यसूरयश्चेतनानिहस्थानुदजीययनिति शुभम् । इति दिव्यप्रमन्धप्रामाण्यम् LIBRARY (BOMBAY-71 11611382 अनुवन्धः प्रथमः (अ) प्रथमसरित्रयचरिते प्रमाणत्वेनोदाहृतकारिकाविवृतिः प्राप्यम्य ब्रह्मणो रूपं प्राप्तुश्च प्रत्यगात्मनः। प्राप्त्युपायं फलं प्राप्तेस्तथा प्राप्तिविरोधि च ।। वदन्ति निखिला वेदास्सेतिहासपुराणकाः । मुनयश्च महात्मानो वेदवेदार्थवेदिनः॥ प्राप्यस्येत्यादि । (१) प्राप्यस्य - चेतनानां प्राप्यभूतस्य ब्रह्मणः= परस्य ब्रह्मणः परमात्मनः रूपं स्वरूप, ज्ञानानन्दस्वरूपत्वं, सर्वव्यापित्वं, सर्व- शेपित्वं, सर्वान्तर्यामित्वं, दिव्यमङ्गलविग्रहवत्वं, सकलकल्याणगुणाकरत्वं, हेय- प्रत्यनीकत्वं, दिव्यमहिपीपरिजनपरिच्छदादिमत्त्वं, दिव्ये परमे पदेऽवस्थितत्त्वं, सर्वप्राप्यत्वम् इत्यादयो ये गुणाः तैर्विशिष्टत्वरूपं प्राप्यवस्तुनो ब्रह्मणः परस्य स्वरूपम् । (२) प्राप्तुश्च प्रत्यगात्मनः =एतादृशे परं ब्रह्म यः प्रामोति तस्य प्राप्तृभूतस्य जीवात्मनास्वरूप, ज्ञानान्दस्वरूपत्वम् , अणुत्वं, भगवच्छेषभूतत्वं, तत्परतन्त्रत्वं, तदेकभोग्यत्वं, गुण(धर्म)भूतेन सर्वव्यापिना ज्ञानेन विशिष्टत्वं, (बद्धदशायां प्रकृतिपारतन्त्र्येण सुखदुःखादिद्वन्दानुभूतिमत्त्वं, ज्ञानसङ्कोच- विकासवत्त्वम् ) अपहतपाप्मत्वादिगुणाष्टकविशिष्टस्वम् , इत्यादयो ये गुणाः तैः विशिष्टत्वरूपं परब्रह्मप्राप्तुर्जीवात्मनः स्वरूपम् । प्रत्यगात्मनः = प्रति अश्वतीति प्रत्यड् (प्रत्यक् ) प्रत्यक्त्वं च= स्वस्मै स्वयं भासमानत्वम् । अयं च जीवात्मा स्वसाक्षात्कारवेलायां घटादिप्रत्यक्ष इव नान्यां पाश्चिदपि सामग्री- मपेक्षते । अपि तु स्वस्मै स्वयमेव भासते इति भावः । (३) प्राप्त्युपायम्= एतादृशजीवात्मनो भगवत्प्राप्तौ साधनभूतस्य कर्मज्ञानभक्त्यादरुपायस्य स्वरूपम् । (४) फलं प्राः = भगवत्प्राप्तेः फलं, प्राप्त्यनन्तरमाविनो देशविशेषावच्छिन्न- दिव्यसूरिचरितेषु .. , भगवन्नित्यकैयरूपस्य पुरुषार्थस्य स्वरूपम् । (५) प्राप्तिविरोधि च एतादृश- भगवत्प्राप्तेः विरोधिभूतायाः प्रकृतेः स्वरूप, गुणत्रयात्मिकायाः सुखदुःखादि- द्वन्द्वहेनोः भगवत्राप्तिप्रतिबन्धकभूतायाः प्रकृतेः (अचेतनस्य) स्वरूपं च । इत्येतदर्थपञ्चकम् । एतदेव निखिला वेदाः वदन्ति । इतिहासपुराणानि चैतदेव वदन्ति । वेदवेदार्थवेदिनः 'वेदाच्छास्त्रं पर नास्ति' 'वेदैश्च सर्वैरहमेव वेद्यः' इतिरीत्या प्रमाणप्रमेयोभयसाक्षात्कारसुनिवृताः। महात्मानः = 'स महात्मा सुदुर्लभः' इत्युक्तज्ञानिनामप्रेसराः । मुनयश्च-भगवद्गुणविग्रहविभूतीनां मनन- शीलाः मानसानुभवनिष्णाताः पराड्कुशादयो दिव्यसूरयश्च, एतदेवार्थपञ्चकं प्रवदन्तीत्यर्थः । इतिहासपुराणादिकर्तणामपि मुनित्वात् 'सेतिहासपुराणकाः' इत्युक्त्यैव तेषां प्रसक्तेर्गतार्थतया, 'मुनयश्च' इति चशब्देन समुच्चितत्वाञ्च एते मुनयः अन्य एव पराङ्कुशादयः। निहतुकभगवत्कटाक्षसाक्षात्कृतपरावरनिखिल- तत्त्वयाथात्म्याः ज्ञानिनामग्रेसराः भगवन्मानसानुभवसुनिवृताः इति भावः । वेदोक्तमेतमर्थमेवोपवृहयति पुराणेतिहासादिकम् । तदपि कदाचित् स्वकीय वेदोपहणरूपं कार्य न निर्वहति । अत एव पराकुशादीनां दिव्यमरीणां (भाज्यार) श्रीसूक्तय एवं प्रधान समीचीनतममुप,हणं भवति जैमिनीये 'इतिहासपुराणादयः स्मृतयः कुत्रचित् वेदविरुद्धमप्यर्थ वदन्ति । अतः वेदविरुद्धार्थप्रतिपादिका स्मृतिः न प्रमाणम् । इति स्मृतिप्रामाण्याधि- करणनिरूपणेनैव स्मृतीनां न समीचीनोपबृंहणरूपत्वमिति सूत्रकृदिरेवानीकृतम् । - 'मुनयश्च' इति चशब्द एवकारार्थे । मुनय एव वदन्ति इत्यर्थः । पराकुशादीनां श्रीसूक्तय एव प्रधान प्रमाणम् । वेदाः इतिहास- पुराणानि चैता एबोपहयन्तीत्यर्थः । अयमर्थः धर्मनिणेतृमुनिवचनादेव निश्चीयते । यदाद सर्वधर्मसमयज्ञो चापम्बम्बः स्वसूत्रारम्भ 'धर्मज्ञसमयः प्रमाण वेदाध' इति । धर्म जानन्तीति धर्मशाः । 'रामो विग्रहवान् धर्मः' अथवा अनुबन्धः १ 'कृष्णं धर्म सनातनम्' इत्युक्तसिद्धधर्मभूतं परमात्मानं नारायणं तत्कृपयैव कर- बदरसहक्षं साक्षात्कृतवन्तः इत्यर्थः । तेषां पराङ्कुशादीनां मुनीनां धर्मज्ञाना समय एव प्रमाणम् । 'वेदाश्च' इति चशब्द अन्वाचये । यथा 'मिक्षामट, गाश्चानय' इति, भिक्षाटनस्य प्राधान्यं, गवानयनस्य यादृच्छिकत्वं च प्रतीयते । एवं तदनुसारिणो वेदाश्च प्रमाणमिति तदर्थात् । (आ) साम्यपट्कयत्तया (पृ. २४) इत्यस्य विवरणम् - प्रकृतिसम्बन्धरहितस्य अत एव परिशुद्धस्य जीवात्मनः, भगवतः प्रधानदिव्यमहिन्याः श्रियश्च साम्यं वर्तते । कथम् ! अनन्याहशेषत्वम् , अनन्यशरणत्वम् , अनन्यभोगत्वम् , संश्लेपे प्राणधारणं, विश्लेपे प्राणघारणा- भावः, तदेकनिर्वाह्यत्वम् , इत्येते पट् धर्माः उभयोस्समानाः । एतादृशगुण- पट्केन लक्ष्म्या सह शुद्धजीवस्य साम्यसत्त्वात् जीवस्य दिव्यमहिपीतादात्म्यं युज्यत इति भावः । एवं शठकोपसूरेः अन्येपाञ्च सूरीणामेतादृशगुणपटक- साम्येन नायिकातादात्म्यं तदनुगुणा वाचश्च युज्यन्त एवेति तात्पर्यम् । नहि सर्वत्र साम्यं सर्वधर्मपुरस्कारेण संभवति । अपि तु विवक्षितेन यत्किञ्चित्- समानधर्मेण । यथा मुख चन्द्र इत्यत्र केवलमाहादकत्वेन धर्मेण साम्यं, न वन्येन केनचिदपि चतुलत्यादिना । एवं एतेनैव गुणपट्केन साम्य लक्ष्मी- जीवात्मनो: संभवति । यतश्च भगवदमिमतत्व-तदनुकूलत्व-तत्स्वरूपनिरूपकत्व- पुरुपकारत्वादयो धर्माः श्रिय एवासाधारणाः । तत्र- (१) अनन्याहशेपत्वं नाम- शेषः = दासः; अन्यशेषत्वानोऽयं जीवः । भगवदेकशेषः इत्यर्थः । भगवन्यतिरिक्तस्यान्यस्य वा स्वस्य या शेपः अयं न भवतीति भावः । 'आत्मदास्यं हरेः स्वाम्य स्वभावं च सदा स्मर .
दिव्यसूरिचरितेषु , शरणा 'दामभूता स्वतस्सवें यात्मान परमात्मन । नान्यथा लक्षणं तेषा बन्धे मोक्षे तथैव च ' 'अनन्या राघवेणाहम्' इत्यादिवचनात् । (२) अनन्यशरणत्वं नाम--- शरणम् उपाय । 'सम्प्रत्युपायार्थंक- वाचक ' इति मन्त्ररले शरणशब्दस्योपायवाचकत्वात् । आत्मान सिद्धोपाय- भूतभावदेकोपायका | तदन्यभक्तिज्ञानादीना अनुपायत्वात् । अतोऽनन्य- अनन्यशरणत्वञ्च शरैस्तु सङ्गुला कृत्या लङ्का परमलार्दन । मां नयेद्यदि काकुत्स्थ तत्तत्य सदृश भवेत् । इति उपायाध्यवसायरूपम् । (३) अनन्यभोगत्वञ्च-भगवदेकभोग्यवत्वमित्यर्थ । 'नेपा पश्यति राक्षस्यो नेमान् पुप्पफलदुमान् । एकस्थहृदया नूनं राममेवानुपश्यति ॥' त पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् । धन्या पश्यन्ति मे नाथ कृतजं प्रियवादिनम् ।।' इत्यादि प्रमाणे तदेकभोगत्वं सिद्धम् । (४) सरलेपे प्राणधारण-भगवत अनुभवरूपसंश्लेषसत्वे जीवधारण यथा --'यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना ।। इति तत्सश्लेपैक- धारणस्वमारत्वम् । (4) विश्लेपे प्राणधारणाभाव:- -भगवत अनुभवाभावरूपविश्लेपे सति प्राणधारणाभाव । यथा न च सीता त्वया हीना न चाहमपि राघव । मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ ।।' इति तद्विश्लेपे धारणाभावश्च । (६) तदेकनिर्वाह्यलं--- भगवदेकनिर्वाह्यत्वम् । भगवदधीनस्वरूप. स्थितिप्रवृत्तिनिवृत्यादिमत्त्वम् । अचेतत्वत्पारतन्त्र्यमिति भाव । न म्वल्वथैव सौमित्र जीवित जाइनीजले । त्यजेय राघव वंशे भर्तुर्मा परिहास्यति ॥' इति भगवदेकपारतव्यम् । --- - अनुपन्धः १ (६) वेदत्वात् (पृ. ९७) इत्यस विवरणम् यथा चरमश्लोकटिप्पणीव्याख्यायों कठिनपददीपिकायां (पृ. २४४ ) संस्कृतद्राविडवेदोभयसाधारण वेदलक्षणमुक्तम् । यथा "द्राविडवेदसाधारणं वेदलक्षणमुक्तं चरमश्लोकचन्द्रिकायां तृतीयकलायाम् । वेदत्वं शब्दतदुपजीवि- प्रमाणेतरप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति, शब्दजन्यवाक्यार्थज्ञानाजन्य- प्रमाणशब्दत्वम्" इति । द्राविडवेदानामुपबृंहणरूपत्वेऽपि वेदत्वं न हीयत इति तत्रैवोक्तम् । "द्राविडवेदानां वेदोपहणत्वं वेदत्वाविरोधीयुक्तं तत्कलायामेव- न च वेदत्वतदुपहणत्वयोर्विरोषः । वेदत्वाविशेपेऽपि मन्त्रबाह्मणानां विवरण- विवरणिभावस्य बहुशो दरीदृश्यमानत्वेन अपौरुषेयत्वेन वेदत्वस्य उक्तार्थ- विशदीकारयुक्तार्थान्तरबोधनेन वेदविवरणत्वस्य च मूलमन्त्रमन्त्ररत्नन्यायेन सम्भवात् । अतः श्रुतिस्मृतीतिहासपुराणश्रीपाचरालवैखानससदाचार्यश्रीसूक्तिमिः श्रीपराकुशमुन्यादिदिव्यप्रबन्धानां द्राविडवेदत्वं संप्रतिपन्नमिति ज्ञेयम् । इति च । इति अनुबन्धः प्रथमः 14 अनुवन्धः द्वितीयः - दिव्यसूरीणामवतारकालस्थलादि विवरणम् १. सरोमुनिः पोय्हैयाळ्यार् १) अवतारकाला द्वापरे ८६२९०१ तमः वत्सरः । (B.C. 4201) सिद्धार्थ- तुला, श्रवणनक्षत्रम् । २) अवतारस्थलम् - काञ्चीपुरम् (चेगलपट् जिला) ३) ग्रन्थनाम पद्यसंख्या च- मुदतिरुवन्दादि- ४) सङ्कीर्तितदिव्यदेशनामानि (६)- श्रीरङ्गम् , तिरुवे हा, तिरुवेङ्गडम् , तिरुलकोवलर्, तिरुप्पार्कडल, परमपदम् । २. भूतमुनिः पूदत्ताब्वार १) अवतारकालः द्वापरे ८६२९०१ तमः वत्सरः (BC. 4201) सिद्धार्थ तुला, धनिष्ठा । २) अवतारस्थलम् महाबलिपुरम् (तिरुपाडल्मल्ल)। ३) ग्रन्थनाम पद्यसख्या च इरण्डा तिरुवन्दादि---१०० ४) सङ्कीर्तितदिव्यदेशनामानि (१३)- श्रीरङ्गम् , तञ्जमामणि कोयिल् , तिरुक्कुहन्दै, तिरुमालिरुंशोले, - - अनुबन्धः २ - तिरकोट्टियूर, तिरुत्तण्गाल्, तिरुयोवलर, काञ्ची, पाडहम् , तिरुनीमले, तिरुकडल्माते, तिरुवेनडम् , तिरुप्पार्कडल् । ३. महदाहयः-पेयाब्वार १) अवतारकाला द्वापरे ८६२९०१ तमो वत्सरः । (B.C. 4202) सिद्धार्थ- तुला, शततारा । २) अवतारस्थलम् - मेलापूर (मयूरपुरी, मद्रास् सिटि) ३) अन्यनाम पद्यसंख्या च- मूनां तिरुवन्दादि- ४) सङ्कोतितदिव्यदेशनामानि (१४)-- श्रीरङ्गम् , तिरुक्कुडन्दै, तिरुविण्णहर, तिरकोट्टियूर्, काञ्ची, तिरुवेढुक्कै, पाडहम् , उरहम् , तिस्त्रे हा, तिरुवलिक्केणि, घटिकाचलम् , तिरुवेझडम् , तिरुप्पाडल् , (तिरुनाडु) परमपदम् । ४. भक्तिसारमुनिः-तिरमळिशैप्पिरान् १) अवतारकालः द्वापरे ८६२९०१ तमः वत्सरः (B.C. 4201) सिद्धार्थ - मकर, मखा। २) अवतारस्थलम् तिरुमळिशै (महीसारक्षेत्रम् , (चेंगल्सट् जिला) ३) अन्य नाम पद्यसंख्या च - १) नान्मुहन् तिरुवन्दादि २) तिरुचन्दविरुतम् -- १२० दिग्यरिचरितेषु . , " . ४) सङ्कीर्तितदिव्यदेशनामानि (१६)- श्रीरङ्गम् , अन्बिल , तिरुप्पेर्नहर्, तिरुक्कुटन्दै, तिरुक्कोट्टियूर्, तिरुक्कुरुंकुडि, पाडहम् , ऊरहम् , तिरुवे..हा, तिरुवेव्वळूर, तिरुवल्लिकेणि, तिरुवेंगडम् , द्वारका, तिरुप्पार्कइल् , तिरुनाडु (परमपदम् ), तिरुनारायणपुरम् । ५. मधुरकविसरिः मधुरकवियाव्यार १) अवतारकाल:- द्वापरे ८७३७७९ तमोवत्सरः (B.C. 3223) ईश्वर, मेप, चित्रा २) अवतारस्थलम्- तिरुकोकूर (तिनवेल्लि जिल्ला) ३) ग्रन्थनाम पद्यसंख्या च- कष्णिनुण् शिरुताम्बु-११ ६. शठकोपसरिः नम्माळवार १) अवतारकाल:- कलियुगे ४३ तमो दिवसः । (B.C 3102) बहुधान्य वृपभ, विशाखा। २) अवतारस्थलम् - आळ्बार तिरुनहरि (तिन्नवेल्लि जिल्ला) ३) प्रन्थ नाम पद्यसंख्या च- १) निरविरुत्तम् १०० २) तिरुवा शिरियम् ३) पेरियतिरुवन्दादि ४) तिरुवाम्मोळि ११०२ ७ अनुवन्धः २ - ४) सङ्कीर्तितदिव्यदेशनामानि (३९)- श्रीरङ्गम् , तिरुप्पनहर, विक्कुडन्दै, तिरुविष्णहर, तिरवण्ण- पुरम् , तिरुमालिहंशोले, तिरुमोहर, तिरुणकुरुहूर, तौलविल्लि- मङ्गलम् , बानमामले, तेतिरुप्पेर्, श्रीवैकुण्ठम् , तिरुप्पुळिकुडि, वरगुणमझै, परुगुळम , तिरक्कुरुगुडि, तिख्योळूरु, तिरुवनन्त- पुरम् , तिरुवपरिशारम्, तिरुयाळकर, तिरुमूळिकळम्, तिरुप्पुलि. युर्, तिरुच्चेङ्गन्नूर, तिरुनावाय् , तिरुवल्लवाल, तिरुवण्वण्डूर्, तिरुवाटार, तिरुकडित्तानम् , तिस्वारन विले, पाडहम् , ऊरहम् , तिरुवे . हा, तिस्वेनडम् , तिरुपयोध्या, द्वारका, वडमधुरै, तिरुप्पार्कडल् , तिरुनाड् ( परमपदम् ), तिरुनारायण- , पुरम् । ७. कुलशेखरसूरिः- कुलशेखराळ्वार १) अवतारकाल: कलियुगे २८ तमो वत्सरः (B.C. 3078) पराभव कुम्भ, पुनर्वसू । २) अवतारस्थलम्- तिस्वजिकळम् (मलबार) ३) ग्रन्थनाम पद्यसंख्या च- १) पेरुमाक्तिस्मोळि-१०५ २) मुकुन्दमाला (संस्कृतम्) -४० पद्यानि ४) सङ्कीर्तितदिव्यदेशनामानि (१०)- श्रीरङ्गम् , तिरुकण्णपुरम्, तिरुवालितिरुनहरि, चिदम्बरम् , तिरुवित्वकोटु, तिरुवेङ्गडम् , तिरुवयोध्या, वडमधुरै, तिरुपा- कंडल , परमपदम् ।
दिव्यसूरिचरितेषु ८. विष्णुचित्तसूरिः- पेरियाव्यार १) अवतारकाल: कलियुगे ४७ तमो वत्सरः (BC 3067) क्रोधन --- मिथुन, स्वाती। २) अवतारस्थलम्- श्रीविल्लिपुत्तूर् (तिन्नवेल्लि जिल्ला) ३) ग्रन्थनाम पद्यसंख्या च- १) तिरुप्पल्लाण्ड्--१२ २) पेरियाळवार तिरुमोळि-४६१ ४) सङ्कोतितदिव्यदेशनामानि (१९)- श्रीरङ्गम् , तिरुनेब्ळरै, तिरुप्पेनहर, तिरुक्कुडन्दै, तिरुकण्णपुरम् , तिरुमालिरंशोले, तिरुक्कोट्टियूर, श्रीविल्लिपुत्तर, तिरुक्कुरुगुडि, तिरुवेगडम् , तिरुवयोध्या, सालग्रामम् , बदरिकाश्रमम् , कण्डमेन्तुं फडिनहर्, द्वारका, वडमधुरै, तिरुप्पाडल् , परमपदम् , तिरुनारायणपुरम् । ९. गोदादेवी आण्डाळ १) अवतारकाल: कलियुगे ९८ तमो वत्सरः (B.C. 3006) नळ कर्नाटक पूर्वफल्गुनी। २) अवतारस्थलम् - श्रीविल्लिपुत्तर (तिन्नवेल्लि जिल्ला) ३) ग्रन्थनाम पद्यसख्या च- १) तिरुप्पावै-३० २) नाय्चियार् तिरुमोळि-१४३ --- अनुचन्धः २ १११ ४) सङ्कीर्तितदिव्यदेशनामानि (१२)- श्रीरङ्गम् , तिरुक्कुडन्दै, तिरुफण्णपुरम् , तिरुमालिरुंशोले, श्रीविल्लिपुत्तर् , तिरुवेगडम् , द्वारका, वडमधुरै, तिरुवारपाडि, तिरुप्पार्कडल, परमपदम् , तिरुनारायणपुरम् । १०. भक्तांघिरेणुसूरिः--तोण्डरडिप्पोडियाळ्वार् १) अवतारकाल:-- कलियुगे २८९ तमो वत्सरः (B.C 2816) प्रभव धनुः ज्येष्ठा । २) अवतारस्थलम् - मण्डगुडि (तिरुचि जिल्ला) ३) अन्यनाम पद्यसंख्या च- १) तिरुप्पळियेळुच्चि २) तिरुमालै ४५ ४) सङ्कीर्तितदिव्यदेशनामानि (५)- श्रीरङ्गम् , तित्वयोध्य, वडमधुरै, तिरुप्पार्कडल् , परमपदम् । - . तिरुप्पाणाळ्बार -- ११. पाणबरिः १) अवतारकाल: कलियुगे ३४३ तमो वत्सरः (B.C. 2761) दुर्मति वृश्चिक, रोहिणी । २) अवतारस्थलम् - रैयूर् (तिरुच्चि जिल्ला) ३) अन्धनाम पद्यसंख्या च- अमलनादिपिरान्-१० ११२ दिव्यसूरिचरितेयु ४) सङ्कीर्तितदिव्यदेशनामानि (३) श्रीरङ्गम् , तिरुवेंगडम् , परमपदम् । १ १२. परकालमूरिः-तिरुम याव्यार १) अवतारकालः कलियुगे ३९८ नमो वत्सरः (BC. 2706) नल - वृश्चिक, कृत्तिका। २) अवतारस्थलम् - तिरुक्कुरैयलूर (तञ्जावूर जिल्ला) ३) अन्यनाम पद्यसंख्या च- १) पेरियतिरुमोळि~१०८४ २) तिरुक्कुरुन्दाण्डहम्-२० ३) तिरुनेडुन्दाण्डहम्--३० ४) तिरुवेलुकूत्तिरुक्कै ५) शिरियतिरुमडल-७८ ६) परियतिरुमडल-~१४८ ४) सीर्तितदिव्यदेशनामानि (८७)- श्रीरङ्गम् , उरैयूर, तजमामणिकोयिल् , तिरुकरम्बनूर, तिरु- वेळरै, तिरुप्पुळपूर्वगुडि, तिरुप्पेनहर, तिरुमादनर, तिरु- वळुन्दूर, शिरुपुलियर्, तिरुचेरै, तलैचङ्गाडु, तिरुक्कुडन्दै, तिरुक्कण्डियूर, तिरुविष्णहर, तिरुणरणपुरम् , तिरुवालितिरु- नारि, तिरुनाहै, तिरुनरैयर्, नन्दिपुरविष्णहरम् , चिदम्बरम् , शीर्दाळि, गूडलूर, तिरस्कण्णझुडि, कण्णमहै, तिरुवेळियङ्गुडि, मणिमाडकोयिल , वैकुण्ठविष्णहरम् , अरि- मेयविण्णहरम् , तिरुवनार्हो है, वण्पुरुषोचमम् , शेम्मोन्रोफोयिल्, . .
अनुबन्धः २ ११३ , तिरुचेत्तियम्बलम् , तिरुमणिकडम् , कावळंबाडि, तिरुवेळ्ळक्कुळम् , पार्तम्पळ्ळि, तिरुमालिरुंशोले, तिरुक्कोट्टियूर, तिरुमैय्यम् , तिरुप्पुल्लाणि, तिरुतगाल, तिरुमोहर, तिरुक्कूडल्, तिरु- कुरुंकुडि, तिरुमूळिकाळम् , तिरुप्पुलियूर, तिरुनावाय् , तिरु- वल्लवाल्, तिवहीन्द्रपुरम् , तिकोवळूरु, काञ्चीअष्टभुजम् , तिरुत्तएका, तिल्लुक्कै, पाइहम् , नीरहम् , निलाचिगन्तुण्डम् , ऊरहम् , तिरुवे हा, कारहम् , कार्वानम् , कळ्वनुर् , पवळ- वण्णम् , परमेश्वरविण्णहरम , तिरुप्पुकृळि, तिरुनिन्नवूर, तिरु- बच्ळूर, तिरुनीर्मले, तिरुविडवेन्दै, तिरकडल्म, तिख्खलिहणि, घटिकाचलम् , तिरुवेगडम्, अहोविलम् , तिरुवयोध्या, नैमिशारण्यम् , सालग्रामम् , बदरिकाश्रमम् , पिरिदि, द्वारका, वडमधुरै, गोकुलम् , तिरुप्पार्कडल्, तिस्नाड् ( परमपदम् ), तिरुनारायणपुरम् । , . १३. काञ्चीपूर्ण:- तिरुकचिनम्बि २) अवतारकाल: कलियुगे ४०६८ (क्रिस्ताब्द १००३)। शोभकृत् कुम्भ, मृगशिरा । २) अवतारस्थलम्- पूविरन्दमलि (मद्रास् सिटि) ३) प्रन्थनाम पद्यसंख्या च- १) देवराजाष्टकम् २) द्राविडरहस्यानि 15 दिव्यमरिचरितेषु १४. कूरनाथः कूरत्ताधार १) अवतारकाला- कलियुगे ४०६२ (क्रि. श. १००९) सौम्य-मकर, हस्ता । २) अवतारस्थलम्- करम् (चेंगलपट् जिल्ला) ३) ग्रन्थनाम पद्यसंख्या च- १) पञ्चस्तवाः २) यमकरलाकरः सव्याख्यः (यमकमहाकाव्यम्) ३) गद्यत्रयव्याख्या ४) मुक्तकश्लोकाः इति अनुबन्धः द्वितीयः
अनुवन्धः तृतीयः
PURĀŅIC AND OTHER REFERENCES TO
ĀLWARS AND THEIR WORKS
दिव्यसूरीणां (आब्बार) अवतारविषये द्राविडप्रबन्धानाम्
आम्नायत्वे च प्रमाणभूतानि पुराणस्मृतिपाञ्चरात्रसंहिताश्रुतिवचनानि
पुराणवचनानि--
१. अधीतद्राविडाम्नायां स्त्रियं ब्रह्मविदं नरम् ।
आरोप्य देवैनिीतं तुलायामधिका वधूः ।।
इत्यनेकैश्च मुनिभिघुप्यते सकलस्मृतौ ।
तस्मादध्ययनं कार्य द्राविडाम्नायसन्ततेः ।।
इत्यादि।
---ब्रह्माण्डपुराणे सनत्कुमारदिलीपसंवादे
२. अनन्तगरुडादीनां सूरीणां नित्ययोगिनाम् ।
मंशोद्भूता महाभागा जायन्तीह ममाज्ञया ।
कासारो भूतयोगी च महदाख्यः कृते युगे ।
विष्णुचित्तो भक्तिसारस्त्रेतायां कुलशेखरः ॥
भक्ताभिरेणुपारे मुनिवाहः परान्तकः ।
पराङ्कुशः कलौ मिश्रे कलौ रामानुजो मुनिः ॥
कावेरीमध्यसुस्वस्थं रङ्गिणं शेषतल्पगम् ।
तोतादीशश्च मद्भक्तास्सेवन्ते द्राविडेपु वै ।।
वैस्समुद्गीयमानां तां द्राविडब्रह्मसहिताम् ।
दिव्यसूरिचरितेषु
वृत्तगद्यात्मिकां रम्या चतुर्वेदमयीं शुभाम् ।।
मत्सन्निधौ प्रतिदिनं पठन्ति प्रतिवत्सरम् ।। इति ।
ब्रह्मकैवतें एकोनत्रिंशेऽध्याये, अगस्त्यं प्रति श्रीनिवासः
३. स्वशास्वाध्ययनं कृत्वा वैष्णवो द्राविडश्रुतिम् ।
अनधीत्य श्रमं शास्त्रे यः करोति स दुर्मतिः ॥ इति ।
आदित्यपुराणे
दत्तात्रेयः कृतयुगे त्रेतायां रघुनन्दनः ।
द्वापरे वासुदेवः स्यात् कलौ देवः पराड्कुशः ॥
ब्रह्माण्डपुराणे
कारिपुत्रो महायोगी जातः सेनेश्वरो मम ।
लोकसंरक्षणार्थाय नैपो मानुपविग्रहः ।।
भार्गवपुराणे
६. पितुर्मूताहापूर्वद्युः रात्रावध्ययनं द्विजैः ।
कार्य द्रमिडवेदस्य पितुस्तृप्तिन चान्यथा ।
--आदित्यपुराणे
७. वृद्धावादौ क्षये चान्ते द्राविडब्रह्मसंहिता ।
अध्येतव्या द्विजवरैरायं गीतिसहस्रकम् ॥
शुभादौ द्विजवर्यैश्च सर्वसंपच्छुभावहम् ।
सहस्रशाखाध्ययनं कारयेद्वै द्विजोत्तमः ||
अशुभान्ते विशेषेण द्राविडब्रह्मसहिता ।
अध्येतव्या द्विजवरैराशौचाघविनाशिनी ।।
ब्रह्माण्डपुराणे, वृद्धवास्छेि च
कृपया तत्प्रणीतान्तु ब्रह्मविद्यां महतराम् ।
मध्येप्यन्ति द्विजा भूपा वैश्याश्शूदाश्च सर्वशः ।।
अनुबन्धः ३
एपा च वेदगाधावनित्या द्राविडसंहिता ।
संस्कृतश्रतयो यद्वत् द्राविडश्रुतयस्तथा ॥
--मार्कण्डेयपुराणे मध्यमभागभूतभगवद्धर्मे पष्ठाघ्याये
सनत्कुमारं प्रति सेनेशः ।
कलिस्साधुरिति प्रोक्तो वेदव्यासेन धीमता ।
कृतादिषु प्रजा राजन् कलाविच्छन्ति संभवम् ।।
कलौ खलु भविष्यन्ति नारायणपरायणाः ।
ताम्रपर्णी प्रतीची च कृतमाला पयस्विनी ।
कावेरी च महानद्यस्तासां तीरेषु योगिनः ।
भविष्यन्ति कले: काले द्रामिड्या भाषया स्वयम् ।।
वेदार्थविशदीकारं करिष्यन्तीति शुश्रुमः ।
महाभागवता लोके द्रमिडेषु च भूरिशः ।।
परमेकान्तिनो विष्णोः पार्पदाः कृतदेहिनः ।
भविष्यन्ति कलौ प्राप्ते इति व्यासमुतोऽब्रवीत् ।।
भारत हरिवंशे दक्षिणद्वारकामाहाम्ये एकोनषष्टितमे
अध्याये गोमिलं प्रति नारदः ।
१०. कलौ खलु भविष्यन्ति नारायणपरायणाः ।
कचित्कचिन्महाराज द्रविडेपु च भूरिशः ॥
ताम्रपर्णी नदी यन्त्र कृतमाला पयस्विनी ।
कावेरी च महापुण्या प्रतीची च महानदी ।।
ये पिबन्ति जलं तासां मनुजा मनुजेश्वर ।
प्रायो भक्ता भविष्यन्ति वासुदेवपरायणाः ।।
दिग्यसूरिचरितेषु
.
न प्रीतिरस्ति मम वक्षसि लालितायां
लक्ष्म्यां तथा सकलभूतनिदानसीनि ।
मज्जन्मकर्मगुणबन्धयुतान्प्रबन्धान्
सङ्कीर्तयत्यनधभक्तजने यथैव ।।
-श्रीभागवते
स्मृतिसंहितादिवचनानि-
प्राप्यस्य ब्रह्मणो रूपं प्राप्तुश्च प्रत्यगात्मनः ।
प्राप्युपायं फलं प्राप्तस्तथा प्रतिविरोधि च ॥
वदन्ति सकला वेदास्सेतिहासपुराणकाः ।
मुनयश्च महात्मानो वेदवेदार्थवेदिनः ।।
----वृद्धहारीतस्मृतौ, पाश्चराने हारीतसंहितायाञ्च
यथा वेदस्तु नित्यस्स्यात्तथा नित्या श्रुतिस्त्वियम् ।
इति वेदान्तसारजनिीता द्राविडश्रुतिः ।।
गीर्वाणमयवेदस्य तेप्यश्रावणपर्वणोः ।
यथा प्रोक्तौ महाप्राज्ञ समुत्सर्जनसंग्रहौ ।।
द्राविडाम्नायवृन्दस्य कौमुदीमार्गशीर्पयोः ।
पर्वमदिनयोरेव समुत्सर्जनसंग्रही ।।
अध्येतव्या द्विजायेस्तु वैष्णवै मिश्चतिः ।
स्त्रीशूद्रसङ्कराद्यैश्च नित्यं भक्तिसमन्वितैः ।
द्विजेभ्यस्संगृहीतव्या द्राविडाम्नायसन्ततिः ॥
श्रीपाश्चराने वासुदेवसंहितायां, प्रमाणसंग्रहे च
३. स्वशाखाद्राविडाम्नायौ विच्छियेते त्रिपूरुषम् ।
स्रवति स यतस्तस्मात् ब्राह्मणत्वमिति श्रुतिः ।
२.
C
अनुवन्धः३
द्राविडाम्नायसहिताध्येतव्या वैष्णवैः श्रुतिः ।
निष्फला तेन रहिता सात्वप्रणवमन्त्रवत् ।।
-श्रीपाश्चरात्रे अनिरुद्धसंहिताया
४. ब्राह्मणः क्षत्रियो वैश्यश्शूद्रो वान्योऽथ सङ्करः ।
अघीतद्राविडाम्नायः पूज्यो नित्यं मुमुक्षुभिः ।।
-पारमेश्वरसंहितायाम्
तथा मधुरकव्यादेः पञ्चसंस्कारदो गुरुः ।
तस्मै द्रविडवेदान्तचतुर्णामुपदेशकृत् ।। इत्यादि ।
श्रीपाश्चरात्रे वासुदेवसंहितायाम्
६. भूम्यां कृतावतारोऽहं सर्वानेतान् जनान दृढम् ।
प्रापयिष्यामि वैकुण्ठं नात्र कार्या विचारणा ॥
एवं कृतप्रतिज्ञोऽथ कुरुकानगरे मुवि ।
शठकोप इति ख्यातो जज्ञे कारिसुतो महान् ॥ इति ।
-विष्वक्सेनसंहितायाम्
ऋगादीन् देवयात्रायां दक्षिणादिपु वै कमात् ।
पठेदेवस्य परतः स्तुतीरन्याश्च मानुपीः ।।
पुरतो देवयात्रार्या द्राविडश्रुतिलक्षणाः ।
आपद्धपाणयो हात्पठेयुः परमारस्तुतीः ।।
श्रीराचरात्रे वासुदेवसंहितायाम्
ततस्ते सन्निधी विष्णोगायेरन् वैष्णवोनमः ।
वैष्णवी विविधा गाया उपदिष्टाः स्वदेशिकः ॥
नान्यगापास्तदा गेयाः स्वाचार्योदीरितं विना ।
मान्यववानि युति दीक्षायाध समन्वितः ॥
८.
१२० विग्यसूरिचरितेपु गेयः प्रातश्च सतन्य गायेरन् द्रामिडश्रुतीः । गेये समापिते तेषां पादतीर्थ समाहरेत् ॥ समाप्य गेयं ते सर्वे मगलानि प्रचक्षते । ततस्तु ऋग्यजुस्सामाथर्वणैर्वेदपारगाः ॥ वेदपारायणं कुर्युः स्तुतिगीतां च तान् क्रमात् । अनेनोक्तविधानेन कुर्याद्वै वैष्णवोत्सवम् । तद्रामवासिनो मुक्ति प्राप्नुवन्ति न संशयः ।। श्रीपाश्चरात्रे शुकप्रश्ने नारायणसंहितायां तिरु- वध्ययनोत्सवविधिनामके ४२ अध्याये .... ममाराधनवेलायामुत्सवे च विशेषतः । जन्मः श्राद्धकाले च द्रमिडी नियतं पठेत् ॥ विना द्रमिडसूक्तेन कृतं तद्राक्षस भवेत् । श्रीपाश्चरात्रे १०. मध्ये पदे तु ब्रह्माणं सरस्वत्या समन्वितम् । चतुर्दिक्षु चतुर्वेदानुगादीन् पूर्ववत्क्रमात् ।। द्राविडं वेदमावाह्य तथैव कलशेष्वपि । मरीचि काश्यपं चात्रि भृगुमग्न्यादिकोणके ।। श्रीवैखानससंग्रहे द्वादशमासोत्सवविधौ मार्ग- शीर्षमासोत्सवे वेदपारायणोत्सवविधि (अध्य- यनोत्सव) नामक पञ्चदशाध्याये ११. तेषामप्यनुकम्पार्थ देवदेवो हरिस्स्वयम् । स्वभक्ताननुविश्यैव वेदार्थान् वक्तुमिच्छति ।।
अनुवन्धः ३ यत्र मुक्ता नदी चैव क्षीरिका जलवेरका । तत्र तत्र हरेभक्ता भविष्यन्ति दशाधिकाः ।। भाषान्तरमयैः पद्यैर्गाधामिर्गद्यमिश्रितः । वेदार्थसारैर्गायन्तश्चरन्तश्च भुवं सदा ॥ गायनां हरिभक्तानां सर्वदा नाणकारिणी । गायत्री परमा शक्तिस्सर्वयोग्या भविष्यति ।। -विष्णुयामळतन्त्रे गायत्रीकल्पे चतुर्दशाध्याये ओडारायाहतिर्भवति । व्याहत्या गायत्री भवति । गायत्र्या सावित्री भवति । साविया सरस्वती भवति । सरस्वत्या द्राविडीब्रह्मसंहिताश्चत्वारो वेदा भवन्ति 1 ते वै चत्वारो वेदाः नारायणांशभूतशठारिणा प्रकाश्यन्ते । पडझानि कलिवैरिणा प्राजमानानि । सेनेशभूतभट्टायः भ्राजमानाः चतुर्दशविद्याः । एते गायधात्मकाश्चतुर्विशतिसंख्याकाश्चतुस्सहलगाया द्राविडश्रुतयो वासुदेव- विषयभूताः प्रवर्तन्ते । यत्रेदमधीयीत न तत्रान्यदधीयीत । द्राविडीवस्ता वैद्राविडीभाषाः । शटजित्परकालाद्या द्वादश कर्तारः । पुनः शठारिणा भ्राजमानाः सर्वा द्राविडश्रुतयः । इहचेदवेदीदथ सत्यमस्ति न चेदिहावदीन्महती विनाष्टिः। गीर्वाणश्रुतयोऽदृढयक्षरूपाः त्रिगुणात्मकाः त्रैवर्णाधिकारा मृद्धटवत् ; द्रामिडीश्रुतयः शुद्धमत्वमया भगवद्विषयीमूताः सर्वाधिकाराः मुवर्णवन् । तस्मात् द्रामिडी श्रुत्वा ब्रह्मज्ञानं भवति । दामिड्या न परं किश्चित्सा काटा सा परा गतिः ।........ तदेतचाभ्युक्तम् । कियावन्तः श्रोरिया अनिष्ठाः तेषामेवा द्राविडी ब्रह्मविद्यां वदेत । यो वा पता द्राविडी वेद अपि हेनं सर्वाणि भूतानि संवा यो वा एतामेवं वेद । इत्यादि । -~-याज्ञवल्लयद्रविडनझोपनिषदि इति अनुसन्धः तृतीयः ........ ...... 16 लघुटिप्पणी .. . - अधिष्ठानावतार:-देवताभिः स्वशक्तिमात्रेण जीवात्मरहितं शरीरमनुप्रविश्य मनुष्यलोके अवतरणम् । अध्ययनोत्सवः १२० पुटे द्रष्टव्यम् | अरन्ताजियार-धर्मधर इति पुराणेषु प्रसिद्धः । अचिरादि:-संसारान्मुक्तस्य ब्रह्मज्ञानिनः कैवल्यपरमपदगमनमार्गः। तदभि- मानिदेवताश्च आतिवाहिकाः त्रयोदश -अर्चिः, अहः, शुक्लपक्षः, उत्तरायणम् , अब्दः, मरुत्, अर्कः, इन्दुः, विद्युत् , वरुणः, इन्द्रः, धाता, अमानवः । अर्थपञ्चकम् १०१ पुटे द्रष्टव्यम् । अष्टविधा भक्तिः मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् । स्वयम् अभ्यर्चनं चैव मदथै दम्भवजनम् ॥ मत्कथाश्रवणे भक्तिः स्वर- नेत्राङ्गविक्रिया । ममानुस्मरणं नित्यं यच्च मां नोपजीवति ॥ भक्ति- रष्टविधाह्येषा अष्टाङ्गयोगः १) यमः = इन्द्रियजयः । २) नियमः = व्रतोपवासादिः । ३) आसनं = स्वस्तिकपमादिना बन्धेन उपवेशः । ४) प्राणायामः - उच्छासनिश्वासयोः नियमनम् । ५) प्रत्याहारः = इन्द्रियाणां रूप- रसादिविषयेभ्यः प्रतिनिवर्तनम् । ६) ध्यानं = तैलधारावदविच्छिन्न- स्मृतिसन्ततिः । ७) धारणम् = मनसः भगवद्विग्रहेषु ध्यानेन स्थिरी- ८) समाधिः = मनसः ध्येये आत्मनि एकीभूतवत् स्थिरीकरणम् । आळवार देशभाषाशब्दोऽयम् । स्वामी इत्यर्थः । सूरिशब्दपर्यायश्च । ॥ करणम् ।
लघुटिप्पणी १२३ यथा - - :: -विसर्गचिहमिदं तमिळ्भापायां केवलहकाररूपेण उच्चारणीयम् । तिरुवे: हा = तिरुवेहा । कुसुमावचायाय अवतराषचायशब्दयोः दीर्घटस्वत्वव्यत्यासः' इति वामनकाव्यालङ्कारसूत्रवचनेन प्रयोगः साधुः । कृपन् - कृप = विलेखने धातुः तनादिः, भ्वादिस्तु कर्पन् । कृष्णवष्णातत्वम् कृष्ण एव अशन-वसन-शयन-भोग्यादिकं सर्वम् इति भक्तानामात्यन्तिको भावबन्धः, कृष्णविषयिणी महती लालसा, तदेव तत्त्वम् । कोटिभेदिनी स्वस्मात् कोटिसंख्याधिकपरिमाणं लोहादिकमपि स्वांश- मात्रयोगात् सुवर्णादिरूपेण परिणमयित्री। घटसर्पदीव्यम् --- घटगतसर्पण व्यवहारः, व्यवहारार्थकः दिवु धातुः । साक्षिरहितन्यायस्य निर्णयाय प्रवृत्तः अयं व्यवहारः धर्मशास्त्रेषु श्रूयते । पहुकालात् भूभ्यन्तः पिहितघटस्थापितः घटेन सहोद्धृतः करसपः न्यायार्थिना स्वात्मानं प्रमाणीकृत्य हस्तेन गृह्यते इति । चतुर्दशविद्याः ऋक्, यजुः, साम, अथर्वा इति वेदाः । शिक्षा, कल्प, व्याकरण, निरस्त, छन्द, ज्यौतिषम् इति वेदाङ्गानि; मीमांसा, न्यायः, धर्मः इति शाखाणि, पुराणं च इति । चतुर्विशति तचानि प्रकृतिः, महान् , महकारः, मनः, श्रोत्रं, त्व, चक्षु , निहा, प्राणः, वास् , पाणी, पादौ, पायुः, उपस्थः, शब्दः, स्पर्शः, रूप, रसः, गन्धः, आकागः, वायुः, तेजः, आपः, यिनी । निगुणम् --- सत्वं, रजः, तमः इति प्रकृतेः गुणाः । दुराचारोऽपि इत्यादि पय (६५ पुटे) सावनमहिताया १६ परि. २३ सो. - .
१२४ दिग्यसूरिचरितेषु दृत्यम् । दूतस्य भावः कर्म वा, यत्प्रत्ययान्तः शब्दः। दौत्यं तु प्यञ् प्रत्ययान्तः। दिव्यदेशाः - प्रकृतग्रन्थे उपाचाः, सम्प्रदायैकदृष्टाः, १०८ संख्याताः, ब्रह्माण्डपुराणे लक्ष्मीनारायणसंवादे उक्ताः, श्रीतत्त्वनिधि ' ग्रन्थे अनूदिताश्च । द्वीपान्तरम् (७४ पुटे) अद्यतन इण्डोनेप्याद्वीपः । धर्मादिपीठम् – धर्माधर्म-ज्ञानाज्ञान-वैराग्यावैराग्य+ऐश्वर्यानश्वर्यरूप+अष्ट- पादं सिंहासनम् । नादाच (४६ पुटे) न अदात् च इति पदच्छेदः । पञ्चकालनित्यकर्माणि १) अभिगमनम् भगवद्विपये मनसः अमिमुखी. करणम् । २) उपादानम् = भगवत्पूजोपकरणवस्तुसम्पादनम् । ३) इज्या भगवत्पूजा । ४) स्वाध्यायः वेदवेदान्तरहस्याध्ययनम् । ५) योगः = शरणागतिपूर्वकं भगवचिन्तनम् । पञ्चसंस्काराः - तप्तचकाङ्कन, ऊर्ध्वपुण्ड्धारण, दासशब्देन नामकरणं, रहस्यमन्त्रोपदेशः, भगवत्पूजा च । पञ्चायुधानि-दर्शनः= चक्रम् , पाञ्चजन्यः = शङ्खः, कौमोदकी= गदा, नन्दकः = खड्गः, शाई = धनुः इति । पञ्चोपनिषत् --- मनुष्यलोकादिषु पृथिवी-जल-तेजो-वायु+ आकाशवत् वैकुण्ठलोके विद्यमानानि पञ्चमहाभूतानि । परमेष्ठी, पुमान् , विश्वः, निवृत्तिः, सर्वः इति । परभक्ति-परज्ञान-परमभक्तयः भक्तानां उत्तरोत्तरभक्त्यवस्थाविशेषाः । दर्शन परभक्तिः स्यात् परज्ञानं तु सङ्गमः । पुनर्विश्लेपभीरत्वं परमाभक्तिरुच्यते ॥ इति यामुनमुनेः कारिका । - लघुटिप्पणी १२५ , परमसाम्यम् जगत्कारणत्वं, लक्ष्मीपतिलं, सर्वशेषित्वम् इत्यादिक विना, पाप-जरा-मृत्यु-शोक-वुभुक्षा-पिपासारहितत्वं, सत्यकामस्व- सत्यसकल्पत्वादिदिव्यगुणवत्त्वं, दिव्यशरीरवावं, नित्यत्वम् इत्यादि विपये परमात्मनः मुक्तचेतनानां च समानत्वम् । पश्चिमगीतम्-कैशिकनिपादस्वरविशिष्टः रागविशेषः । पिङ्गला - पिझळाख्या वेश्या विटं अर्धरात्रपर्यन्तं प्रतीक्ष्यप्रतीक्ष्य कमप्य- लम्या निराशाभूत् । ततः सुखं सुप्ता इति इतिहासः । 'निराशस्नुखी पिङ्गळावत्' इति पातञ्जलयोगसूत्रम् । पुरुषार्थः जनः अपेक्षणीयं चतुर्विध प्रयोजनम् --- धर्मः, अर्थः, कामः, ". मोक्षः इति । भगवान् , परमपुरुषः, सर्वेश्वरः इति विष्णोरेव नामानि । भावनात्रयम्-कर्मभावना, ब्रह्मभावना, उभयमावना च । मुकुन्दमाला - एतद्वन्यगत 'नास्थाधर्मे' इत्यादि पद्यम् अद्यतन वियेट्नाम्' देशे प्राक्तनकाम्भोजराष्ट्रे देवमन्दिरशिलाशासनेऽपि दृश्यते इति इतिहासज्ञाः । एतद्देशप्राचीनेतिहासः मैसूरुराज्यगतमिथिलासाल- आमनानि ग्रामे कौण्डिन्यगोलेपु लभ्यते । यदुशैलः-- मैसूरुलाज्ये मण्ड्यजिल्लायां वर्तते । यमकिङ्करसंवादः-वैष्णवलक्षणवोधकः विष्णुपुराणमागः । रसवादः --- पारदास्यरसलोहम् अयस्तामादिमिः संयोज्य रजतनुवर्णादि- कृतकलोहोत्पादनं, तेन विमानयन्त्राद्युत्पादन, चिरायुर्योगः, झटिति रोगादिनिवारणम् इत्यादि सिद्धिप्रतिपादकं शास्त्रम् । रहस्यत्रयम् अष्टाक्षरः, द्वयमन्त्रः, चरमश्लोकः इति । -- दिव्यरिचरितेषु राज ओडयर -- (५४ पुटे) अस्य विषयः इतिहासादुद्धृत्य अनुवादकैः अत्र निरूपितः । विशिष्टाद्वैतम् - विशिष्टाद्वैतशब्दार्थः पूर्विकैरक्तः तत्त्वं जिज्ञासमानानां हेतुमिः सर्वतोमुखैः । तत्त्वमेको महायोगी हरिनारायणः प्रभुः ॥ इत्यादि वचनैः नारायण एव समस्तचिदचिच्छरीरको विशिष्टाद्वैतं तत्वम् । किमिदं विशिष्टाद्वैतं नाम ! उच्यते द्वयोः भावः द्विता । पृथक्त्वनिवेशिल्यात् संख्यायाः तद्वाचिना शब्देन तस्य लक्षणा । तथा च द्विताशब्देन भेद उच्यते । द्विताया इदं द्वैतम् । मिन्नमित्यर्थः । विशिष्टपदसममिव्याहारात् विशिष्टप्रतियोगिकत्वं भेदस्य लभ्यते । तत्सजातीयत्वं च तादृशभेदवतः तत एव लभ्यते । न विद्यते द्वैतं यस्य तत् अद्वैतम् । स्वभिन्नस्वजातीयशून्यमित्यर्थः । विशिष्टं च तत् अद्वैतं च विशिष्टाद्वैतम् । साजात्यं च स्वसममि- व्याहृतपदार्थतावच्छेदकरूपेण । तच्च वैशिष्ट्यमेव । तच्च चिदचित् प्रतियोगिकं, प्रकरणात् । तथा च चिदचिद्विशिष्टं स्वभिन्नस्वसजातीय- वस्तुशून्यं तत्त्वमित्यर्थः । चरमश्लोकटिप्पणी पृ. ३७१ व्यापकमन्त्रा: विष्णुपडक्षराष्टाक्षरद्वादशाक्षरमन्त्राः । शेषशेषिभावः १०३ पुटे द्रष्टव्यम् । सप्तपदी - विवाहसस्कारे वरमनुसृत्य वध्वा परस्परस्नेहदााय सप्तवारं पादविन्यासः । सरिः ज्ञानी इति सामान्यार्थः । पुरुषसूक्ते सदा पश्यन्ति सूरयः इत्युक्तः निरन्तरपरब्रह्मसाक्षात्कारशाली इति विशेषार्थः । -- -- Xvit X1 X1 SANSKRIT INDEX (A) NAMES OF WORKS Arthasāstra Tiruccandaviruttam 17,19,107 (Barhaspaiya) Turuncdundandaham 73, 112 Armanusastava h 92 Tiruppallaga 42, 110 Aniruddba samhita 119 Tiruppallıczbucca 63, 111 Adalanadi piran 68,111 Tiruppavat vii, 48, 110 Albarvasiras 37 Tirumalai 63, 111 Antaryami brahmana 38, 97 Tiruvaimoli 23, 108, 116 Asmadgurucaritat X1 Tiruvas'ıriyam 23, 108 Àcaryacarilamitam Tiruvituttam 23, 108 Ādayapuranam 116 Tiruvelukkuttirukkai 73, 112 Iuhasamala X1 Taittiriya 6, 37, 96 Irandam tiruvandadı 7, 106 Trims'at pras'nottaram X1 Isvarasambita XVII Daksiqa dvaraka- Utrara sūricarita mahatmyam 117 Aitareya 37 Divyades'a Kathinapadadipikā, 105 Daogaglasasanam XV Kaqniaun s'iruitaubu 25, 108 Divyasuriprabhāva-dipika Kars'ıka purapat 67 Devarajastakam 113 Kausitaki 37, 40 Naccıyartirumolt 49, 51, 110 Gadyatrayavyakhya Nanmuhantiruvandådı 19,107 Guruparampara prabhava 11, Narāyaṇa caritam *, X1, XIV, 421 Paficăstavah Guruparamparāprabhava Paranes'varasamnhita sv11, 119 dipika X, 31 Penyatirugadal 73 112 Gurunuktavali Penyaurumoli 11, 73, 112 Caramaslokacandrika 105 Penyatiruvand di 23, 108 Caramas'lokauppan, 105, 126 Peryalvār tirumoļi 42, 110 Coramopayasāra Perumal rumoli 30, 119 87 Chandogya 29, Prapatnisopānam Jayantimala *, 8, 45, 55 Prapannakalpaka Jayantislava 1 Prapapniwſtan Jayakhyasambila Xvi Pramiqasangraha 118 Ji&nārpavam Pricinamiga prakas'n Tirukkurundandaham 73,112 Brahtpakaivarta 116 K X X1 128 INDEX xiv, 121 37. 73, 112 Brahmānda purāņa 115, 116 Bhargava puräga ! 116 Mangalāştakam Mahās'ri maulikrarda xi, xvi Mahopanişad 95 Mārkandcyapurāna 117 Mukundamala 31, 109 Mudal tiruvandādi 7, 106 Mūnnām tiruvandādi 7, 107 Mokşadbarmah 95 Yatindrapravanaprabhāva хуі Yamakaratnākara 93, 114 Yamakinkara Samvādah 64 Yajñavalkya Brahmopanişad xiv, 121 Rāmānujacaritam Rāmānujacaritavu Rāmánujanūttandādi xiv Rāmānujārya divya caritā xi Varadarajastavah 89, 93 Vārtāpala Vāsudevasamhita 118, 119 Vijñānastuti X Vişnu.purānam xiii, 47, 95,96 Vişnu yāmala Vişvaksena Samhita 119 Viddha vāsiştha 116 Výddha bārita soſti 118 Vaikuntha stava 92 Vaikhānasa sa ugraha 120 S'atapatha bråhmaņa 95 Siriya tirumadal Sambhurabasya 99 Srigunaratnakosa 93 Sri bhāgavata Sri bhāsyam 84 S'ri rangarāja stava 93 Srivaisņva prakāram Strivaişgava samayācara. nişkarşah xi Sristava 93 Svelasvatara 95 Sankalpasūryodayah xiv Sātvatasamhita xvix, vii, 65 Suodarabāhu stavah 92 Harivamsa 96, 117 Hārisa samhita 118 96, 118 X (B) NAMES OF DEITIES (in italics), ALVĀRS AND INDIVIDUALS Agastya. Acyutar Aparyaplamſta Arantāngiyar Andal Āpastâmba Arāvamudaluar Udaiyanangaiyar Uitamadeva 99, 116 20 17, 18 20 82, 110 34, 102 17 20, 21 76 Uttamanambi 85 Uyyavanda perumal 31 Uraiyūr nācciyar 66 Kaņikanga 10, 15, 16, 17 Kambar xji Кайсірӣrga 77, 78, 79, 80, 81, 113 Kāriyar 20 Kumudavalli 70 INDEX 129 Kulasekhara 27, 28, 31, 109, 115 Kuranatha 83.91, 114 Konkapasiddha 13 Gajendradása 78, 81 Goda 45, 46, 49, 51, 52, 53, 85, 110, 11 Gobhila 117" Gostbipūrqah 83, 84 Cakrapaniyar 20 Jaimin 38 Tirukkaccinambi 113 Tirukkuruskudınambt 20 Turuparaiyūrpūrgah 70 Tiruppapalvar 111 Tirumalıs'aippirão 8, 107 Tirumangaialvar 112 Tirvarargaltamudanar 82 Tiruvaludıvalanādar 20 Tiruvalan 0 Tiruvalmarpan 20 Topdaraðippodt 63,111 Totadrisa 115 Damodara 82 Dasarathi 83, 84 Devadevi 67-61.64 Dehalis ah 7 Dharmavarma 66 Nathanuni 211, 25, 93 Nammalvår 103 NAJūrin 82, 90 Nigamäntaguruh XIV Nilah 09, 70, 71, 72 Pankajarundari 9 10 Parakalah 711 4111 Xv1 63 69, 76, 112, 116 Paravasudevah 3, 23, 24, 30, 32, 92 Parinkusah x1, xvi, 20, 25, 35, 93, 97, 102, 105, 115, 116 Parão kus'adāsa h 83,87 Parāsarabhasțārya 1X, X, 99, 86, 93 Pallava Illi, 15 Pas'cāt sundaramudi X, Xi Pāpasūri 67, 68, 111, 116 Parthasarath, scamin 11 Pingala 64 Pilļa piļlai ālvan 82 Pūdaithļvar 106 Periyaļvār 110 Perundevi 82 Peyalvár 6, 107 Poihai alvar 6, 106 Parkariyar 20 Polindzinna puran 21 Bhaktadghnrenu 56,63, 65, 111, 116 Bhatujara 8-19.107, 116 Bhattanatha 32,40 46, 52, 53, vu Bhülamuni 6, 7, 13, 106, 115 Madhurakavi 21-26, H2. 108, 110 au Manu 39, 60, 99 Mahadāhvaya 6, 7, 13. 14, 107, 115 Vahāpūrgah 80 MrUricciriyandan 89 Patholtakar 6.14, 17 Yadavaprakit'a Patañjali 130 INDEX Yamunārya 1%, XV1, 77, Srinivāsakavı 78, 80, 83 S'ribhasyakāra 84, 85, 91 Ramyajamatr xv, 61, 62 Sriranganatha 1x, XV, XVI, Rajavodeyar 54 30, 44, 52, 53, 55, 58, 60, Ramamisra 82 61. 64-68, 74, 78, 85, 86, Laksanidasa IX, XIV 90, 93, 116 Lokasarangamuni 67,100 Sri Ramānujacārya ix, xll, Vajramegha X111 X111, XV1, 48, 63, 77-83, Vatapatras ayi 32, 33, 36 87 94, 115 47, 52, 92 Srivatsacinhamıs'ra 82, 84 Vadaperurikouludaiyan 32 94 Varadaraja 71,77 81, 90,93 Srinivasa 14,50, 116 Vallabhadeva 33, 40,53 Sukthara 12 Vanagırınatha 44.92 Sengangar 20 Viltuvakkottunayaka 31 Senda maraikkangar 20 Vipranarayana 55, 57-64 Selvanambi 34 Visquitta 32, 36, 40, 44, Sesasana 40, 41 45, 46, 52, 110, 115 Sonnavannams eyda perumal 17 Visvaksena 4, 18, 32 Saunaka Vaijayanti Sambandhah Vyasabhattaraka 86 Saromuoi 6, 7, 13, 14, Sankarabhagavatpada X111 106, 115 Sathakopa X13, 20 26, 63, Sundarabahu 44,92 64, 73,92, 103,108,119 Sumangala 69 (C) NAMES OF RIVERS AND PONDS (in italics), TOWNS, ETC Anantasimha XVII Kaņdamennum kadigahar 110 Anbil 108 Kannamapgai 112 Aparajita 30 Kalvapūr 113 Arimcya Vinpaharam 112 Kağcı 6, 14-17, 71, 78 81, 83, Astabbujam 113 90, 106, 107, 113 Ahobilam 73, 113, xvu Karaham 113 Alvar lirunaharı 20, 108 Karvapan 113 Indalur 112 Kavalampadi 119 Urtamar sapnidbı 76 Kaveri 5, 18, 30, 53, 62, 66, Uraiyur 66, 111, 112 67, 76, 115, 117 Uraham 107-113 Kas'ı 21 ix, 53,68 X11, 73 74 5,55 INDEX 131 Kukkuta kuta 27 Kumbhaghona 17, 18 Kurukanagara 20, 21, 22, 119 Kūra 82, 114 Kylamala 117 Karating 11 Ganga 34, 63, 104 Gudalur 112 Ghaukācalam 107, 113 Chandrapuskarini 56 Cidambaram 109, 112 Tanjamamaqıkkoil 106, 112 Talaiccankaa 112 Tamraparni 5, 20, 21, 117 Tirukkadal mallar 6, 106, 107, 113 Tirukkadıtlanam 109 Tirukkapdiyūr 112 Tirukkapnangudi 112 Tirukkapnapuram 109-112 Tirukkaratbanūr 57, 112 Tirukkalkarai 109 Tirukkudandar 17, 107-112 Tirukkurungudi 108-113 Tirukkuruhur 109 Trukkurajalūr 69-112 Tirukkudal 113 Tirukkottiyūr 107 113 Tirukkovalur 7, 106-113 Tirukkolür 21, 108, 109 Tiruccengannur 109 Tiruccerai 119 Turutanga 107, 113 Tirutiettiambalam 113 Tirullcvanar tohai 112 Tirunaraiyür 112 Tirunangur 69 Tirunārāyaṇapuram 108-113 xvii Tirunavai 109,113 Tirupabai 112 Tiruninnavür 113 Turunirmalai 107, 113 Tiruppārkadal 106-113 Tiruppuliyür 109, 113 Tirupullāņi 113 Tiruppulingudi 109 Tiruppulkuli 113 Tiruppullambūdangudi 112 Tiruppernahar 108-112 Trumanamkollai 72 Tirucanikküdam 113 Tirumandaiguļi 55,111 Tirumalıs'ai 8, 9, 107 Tirumālirums'olai 106-113 Tirumalıkkalam 109,113 Tirumcyyam 113 Tirumohür 109,113 Tiruvabzıkkalan 27, 109 Tiruvaqparis'āram 20,109 Tiruvan vandür 109 Tiruvanantapuram 109 Tiruvayodhyā 25, 109-113 Tiruvallaval 109,113 Tiruvallikkagi 11, 107-113 Tiruvalundur 112 Tiruvallur 108, 113 Tiruvahindrapuram 113 Tiruvattar 109 Tiruvādanür 112 Tiruvaippadi 111 Tiruvaraovilai 119 Tiruvāli 69 Tiruvāls tirunahari 109,112 132 INDEX Bädāmi X112 Maşımadakkoii 112 Madhurā 33, 36, 44, 50, 56 Mayūrapuri Mahabalipuram 6 106 Mahisarakşctram 8, 14 Yadugırı ix, x11, XIV-XVII, XVII 6, 14, 107 54, 88, 92 109 Tiruvidavendai 113 Tiruvinpahar 107-112 Tiruvittuvakkodu 109 Tiruvelukkai 107, 113 Tiruvellakkulam 113 Tiruvellarai 110, 112 Tiruvelļianguļi 112 Tiruvebhā 6, 106-109, 113 Tiruvengadam 106-113 Tentirupper 109 Toqdanūr XV11 Tolaıvıllımangalam 109 Dvārakā 44, 50,108-113, avui Nandipura vinnabaram 112 Nagapattņam 74-76 Narāyanacala Xvi, xvit Niculapuri 61, 66 Nilattingal tuggam 113 Niraham 113 Naimisara yam 73, 113 Payasuini 117 Paramapadam 23, 32, 91, 106-113 Parames'vara vignaharam 113 Pavalavangam Padaham 107 113 Partanpalli 113 Piridi 73, 113 Purusottamam Xv11 Paviruoda malli 77, 113 Perunkulam 109 Perum puliyūr 17 Pratici 117 Badarikasramam 44, 73, 110, 113, avui Yamuna 50 Vadamadhurai 109-113 Vappurusottamam 112 Varagupamangai Vanamamala: 109 Vidchabhavanaksetram 8 Virajanadi 30, 40 Vindāvanam 51 Vedäcala xvii Vegavati 71 Venkatācala XIV-XVII, 30,44,73 Vedadri Xvi Vaikunthaviqqaharam 112 Sankhatirtham 21 Ciruduliyur 112 Surhali 112 Sempons'ai koil 112 Sravanabelagola XVI Sridhanvinūtanapura 32,42-52 Slr, rarigam XIV-Xvu, 22, 27, 30, 44, 52, 53, 56, 66, 76, 78, 83, 84, 88, 92, 106-112 Stri rāmasetu 34 $'rı villiputtūr 32,45,110-11 Sri vaikutham 109 Salagrāma 44,73,110,113 xyız Hasligiri x1v-Xvit, 14, 77, 89 113
.
अर्थकोशः
अधिकार:-योग्यता।
अनन्यगतित्वम्-नारायणादन्यत्साधनं साध्यं च नास्ति ममेति मतिः ।
मपुनरावृत्तिः-पुनस्संसाराभावः ।
अरम् -- शीघ्रम् ।
अवयवव्युत्पत्तिः---यौगिकशक्त्या शब्दस्य अवयवार्थनिरूपणम् ।
आकिञ्चन्यम्-कर्मज्ञानादिसाधनान्तरराहित्यम् ।
आत्यन्तिकी मुक्ति:--प्रकृतिसम्बन्धात् मुक्तिः (परमपदप्राप्तिः) ।
ऊर्ध्वपुण्ड्र!--वैष्णवैः ललाटे धारणीयः श्वेतमृत्तिकादिकल्पिततिलकविशेषः ।
औत्तानपादि:-~-ध्रुवः (उत्तानपादसुतः)। औपचाह्यः--वाहनभूतः।
कन्था-द्विगुणितं चतुर्गुणित वा स्यूतं जीर्णवस्त्रम् ।
कापिशाच:--कुत्सितः पिशाचः ।
कुटीवाटी--कुटीरपंक्तिः।
कूटस्थ:---कुलपतिः।
कृपिः---कृपीवलकार्यम् (प्रय
कैकयम्-किकरत्वम् (गुरुदेवादीनां पूजोपचारपादसंवाहनादिसकलविधसेवा)
कैवल्यम् संसारान्मुक्तानां ब्रह्माण्डावहिः स्वात्मानुभवस्थानम् ।
क्षयः बन्धुमरणाद्यनन्तरमावि अप्रत्यक्षं मालिन्यम् ।
गीतिसहस्रकम् --- सहस्रगाधा (तिस्वाय्मोळिग्रन्थः) ।
घटीचेटी- गृहदासी ।
धुटिकाः --- लघुगोळकाः (माता)।
पञ्चमोपायः, आचार्यनिष्ठा गुरुरेव गतिरिति गुर्वनु-
महादेव निप्पन्नः दृढाध्यवसायः ।
जितकाशी- जयशीलः ।
तदीया:-- भगवदीयाः, मक्ताः ।
चरमोपाय:,
-
१३४ दिव्यसूरिचरितेषु , ' तदीयाराधनम्-भक्तानां सपूजोपचार भोजनादिकरणम् । तपनीयम् -सुवर्णम् । त्रैवर्णिका:-ब्राह्मणक्षत्रियवैश्याः । विद्या-वेदत्रयविज्ञानिनः । दण्डः त्रिदण्डः । दन्तैः । दर्शनम्-१) नेत्रम् | २) अवलोकनम् । ३) तत्त्वशास्त्रम् । दाशरथि: १) रामः २) मुदलियाण्डानाख्य आचार्यवर्यः । दासेयः भृत्यः । दिव्यप्रबन्धाः चतुसहलगाधाः, द्राविडवेदाः, द्रमिडसंहिता । दिव्यमरयः नित्यसुरीणां अंशावताराः पराङ्कुशादयः । नरः अर्जुनः । नवनीतचोरः कृपणः । नित्यविभूतिः परमात्मनः परमपदगतं सर्व शाश्वतं ऐश्वर्यम् | नित्यसूरयः नित्याः। कदापि संसारबन्धरहिता एव नित्यं परमपद- स्थिताः अनन्तगरुडविष्वक्सेनादयः । नियमनम्-- आज्ञा । नच्यम् नीचत्वम् । भगवतो भागवतानां च अत्यन्तं परतन्त्रोऽसीति तात्विकं ज्ञानम् । पत्रोर्णम् --धौत कौशेयवस्त्रम् । पयः पयोधिराजा क्षीरसमुद्रः। परतत्त्वम्- श्रेष्ठ तत्त्वम् । परमपदम्- संसारान्मुक्तानां परब्रह्मसेवास्थानं चैकुण्ठनामकम् । परमाचार्यः स्वाचार्यस्याचार्यः। परवासुदेवः- परमपदस्थितः दिव्यरूपः परमात्मा । परवैराग्यम् -- श्रेष्ठं वैराग्य, भगवदितरविषयवैराग्यम् । वीरः । -- - पराकान्तः लघुटिप्पणी पवित्रम् -- त्रिदण्डाग्रस्थं वस्त्रखण्डम् | पारमैकान्त्यम्-१०३ पुटोक्तं साम्यपटकादिलक्षणम् । प्रपत्तिः • शरणागतिः, मोक्षसाधनं परमात्मैव नान्यत्किञ्चिदपीति दृढाध्यव- साययुक्ता । सा च सिद्धोपायावरणरूपा । प्रपन्न: शरणागतः । प्रसादः - गुरुदेवादिमिः भुक्तशेपं पत्रपुष्पफलान्नादिकम् । प्रारब्धम् - प्राचीनपुण्यपापेषु इहजन्मन्यनुमूयमानं कर्म । प्रीतिमात्रयानाः -- भक्तिभावकजीवनाः। ब्राह्ममुहूर्तः • अर्धरात्रात्परं तृतीयघण्टातः सार्धेकघण्टाकालः । भक्तिः - उपासनम्, तैलधारावदविच्छिनस्मृतिसन्ततिरूपं ध्यानम् । भगवान् .१) विष्णुः । २) पूज्यः । भागवताः भगवद्भक्ताः। मनोजवसः - इजितज्ञः । मन्त्ररत्नम्-द्वयमन्त्रः। मरुद्वृधा कावेरीनदी। - संसारान्मुक्ताः परमपदगताः । मूलमन्त्रः अष्टाक्षरः । योगरूढम् - यौगिकशक्त्या रूढिशक्त्या च उपपन्नं पदम् । राजिल:- जलसर्पः । रूढिशक्तिः शब्दस्य यत्किञ्चिदर्थ लोकप्रयोगनियमिता शक्तिः । लीलाविभूतिः - ब्रह्माण्डान्तर्गत सर्व परमात्मनः लीलार्थमेश्वर्यम् । • मेघराजः, इन्द्रः । विजयससः अर्जुनमित्रं, कृष्णः । विजृम्भणम्-- विस्तारः, अतिशयः, समृद्धिः । -- वासवः , १३६ दिम्यसूरिचरितेषु - विशिखा राजमार्गः। विप्वक्सेनः-१. विष्णुसेनापतिः, २. (१८ पुटे) विष्णुः । विहारः ~ बौद्धमन्दिरम् । वृद्धिः -- पुत्रादिजननानन्तरभावि तहन्धूनामप्रत्यक्ष मालिन्यम् । वेदपुरुपः- वेद एव । वैकुण्ठः १) ब्रह्माण्डादूर्वस्थितो लोकः परमपदम् । २) तत्रस्थित नगरम् । ३) विष्णुः। ४) ब्रह्माण्डान्तर्वर्ती विष्णुलोकः । ५) द्राविडदेशस्थमेकं दिव्यक्षेत्रम् । वैष्णवमर्यादा- वैष्णवानी शास्त्रीयोनियमः १४ पुटे द्रष्टव्यः । व्याजोपाय: -कर्मयोग-ज्ञानयोग-भक्तियोगादिः । व्रयः व्ययः । शरणम्-- रक्षकः उपायश्च । शिष्टाः निश्चिततत्वानुसारमाचरणशीलाः प्रामाणिकाः । शुद्धसत्वम् - प्राकृतत्रिगुणादतिरिक्तः शुद्धः सत्त्वगुणः । शेपवत्रम्- गुरुदेवादिमिः धृतदत्तं वस्त्रम् । शेपाशनः विष्णुसेनापतिः। श्रीचूर्णपरिपालनम् - मृतसंस्कारेषु केवलं रक्तहरिद्राचूर्णस्य ललाटे रक्षार्थ धारणम् । श्रीवैष्णवैः अनुष्ठीयमानः धर्मः । सम्प्रदाय: निश्चितशास्त्रानुसारमाचरणक्रमः । सार्वज्ञम् - सायम् , सर्वज्ञत्वम् । सिद्धोपाय:-सिद्धधर्मः, परमात्मा एक एव | हार्दः सकलजनहृदयस्थितः परमात्मा । हेतिराजः विष्णुचक्र सुदर्शनः । :