Sarnath Library
Vivronapasah
Front matter
BENARES SANSKRIT SERIES; А COLLECTION OF SANSKRIT WORKS: EDITED BY THE PANDITS OF THE BIVIRES SANSKRIT COLLEGE, UNDER THE SUPERINTENDENCE OF R. T. H. GRIFFITH, M. A., C. I. E, 2. AND G. THIBAUT, PĦ: D. No. 56." विवरणोपन्यासः विवरणतात्पर्यव्याख्यानरुपः। STTT ET सटीका वाक्यसुधा। VIVARANOPANYÂSA, A COMMENTARY ON VIVARANATÂTPARYA (A Treatise on Vedanta Philosophy) BY SRI RAMÂNANDA SARASVATI : ALSO VÂKYASUDHA BY ŚRÎ SANKARÂCHÂRYA, WITH A COMMENTARY BY ŚRÎ BRAHMANANDA BEÂ RATÍ. EDITED BY PANDIT DAMODARA SÁSTRÍ SAHASRABUDDHE, OF THE GOVT. SANSKRIT COLLEGE, BENARES. FASCICULUS II. .. BENARES. PUBLISHED BY THE PROPRIETORS Messrs. BRAJB. DAS & Co AND SOLD BY H.D. GUPTA, SECRETARY, CHOWKHAMBA SANSKRIT BOOK DEPÔT. PRINTED BY FREEMAN & CO., LTD., AT THE TARA PRINTING WORKS, BENARES. 1901. we w
परिग्रहण
8688
अभ्यालय,
.3. जे. शि. संस्थान
Mama वतानपेक्षाध्ययनविधिना शिरोवताङ्गकमुण्डकाध्ययनप्रयोगवत्कर्म- विचारे शमाद्यनपेक्षेणापि विधिना तदङ्गकश्रवणप्रयोगसम्भवात् । तस्माद्विचारद्वयस्यैकविधिप्रयुक्तत्वात्क्रमापेक्षायां वैपरीत्यस्य न्याय्यत्वादेकमोक्षफलकत्वेन समुच्चयमङ्गीकृत्य कर्मविचारानन्तर्यक्र- मनियमार्थो ऽथशब्द इत्युक्तिरयुक्तत्याह । समुच्चये ऽपीति- फलजिज्ञास्यभेदाञ्च न क्रमो ऽपेक्षितोऽनयोः। प्रमाणं नैव पश्यामो ज्ञानकर्मसमुञ्चये ॥ समुचये ऽपि नैव स्याद्धर्मब्रह्मविचारयोः । पौर्वापर्यस्य नियमो वैपरीत्यस्य सम्भवात् । यदुक्तम् एकजिज्ञास्यकत्वेन क्रमापेक्षेति, तत्राह । जिज्ञास्यभेद इति- जिज्ञास्यभेदः स्पष्टोत्र विभेदाब्रह्मधर्मयोः । आनन्तर्यावधिस्तस्माद्विवेकादिचतुष्टयम् ॥ अत्र विचारद्वये ब्रह्मधर्मयोः सिद्धत्वसाध्यत्ववैलक्षण्याद्भेदः स्पष्टः । प्रमाणवैलक्षण्याञ्च जिज्ञास्यभेदः ।धर्मो हि प्रवर्तकवाक्यगम्यः ब्रह्मत्वप्रवर्तकवाक्यगम्यम् अतःक्रमस्यानपेक्षितत्वान्न तदर्थोऽथशब्दः। किन्त्वानन्तर्यार्थक एव। कस्तानन्तर्यावधिरिति चेत् श्रोतसाधनस- म्पत्तिरित्याहानन्तर्येति । ननु सो ऽन्वेष्टव्य इत्यत्र तद्यथेह कर्मचितो लोकः क्षीयतइति कर्मफलस्यानित्यत्वं श्रुतं शानप्रकरणे परीक्ष्य । लोकानिति वैराग्यं श्रुतमन्यत्र शान्तो दान्त इति शान्त्यादिकं श्रुतं ब्रह्म वेद भाव भवतीत्यादिफलश्रुतिषु मुमुक्षा लभ्यते एवं विश- कलितविशविगानां कथमेकश्रवणविध्यधिकारनिमित्ततावगतिरिति तत्राह । तत्र तत्रेति- तत्र तत्र विवेकादि श्रुतमेकत्र नीयते। सर्वशाखाप्रत्ययेन विधेरेकत्वनिश्चयात् ॥ सर्वशाखाप्रत्ययन्यायेन यथा ऽग्निहोत्रादिविधीनां सर्वशाखा- स्वैक्यं तथा सो ऽन्वेष्टव्यः तद्विजिज्ञासस्व श्रोतव्य इत्यादौ सर्वत्र श्रवणविधिरेक इति निश्चीयते । वैराग्यवाक्ये विज्ञानार्थमिति फ- लोच्या श्रवणस्थतया सर्वविशेषणानामेकाधिकारनिमित्ततावगति- रिति। यद्यज्यतेनापि विशेषणेन विधेरधिकार्याकाङ्का शाम्यति तथापि शास्त्रेणासंकीर्तितत्वात्सर्वेषां निमित्तत्वमन्यथा संकीर्तनं व्यथै - ९८ विवरणोपन्यासे स्यात् । केचित्तु काम्यकर्मणि कामनाया एव निमित्तत्वान्मुमुक्षवा- धिकारिविशेषणमितरसंकीर्तनं तु मुमुक्षानुमानार्थमित्याहुः । ननु शान्त्यादीनामङ्गानां कथमधिकारिविशेषणत्वमिति चेत् दी- तितो जुहोतीत्यत्र दीक्षायामङ्गत्वविशेषणत्ववदिति भावः। ननुसत्या मुमुक्षायां श्रवणव्यतिरेकाभावान्न विवेकादीनां विशेषणत्वमित्याश- कच मुमुक्षा हेतुत्वेन तेषां विशेषणत्वमित्यभिप्रेत्य कार्यकारणभा- वमाह विवेकादिति- विवेकात्तु विरक्तिः स्यात्ततः शमदमादिकम् । ततो मुमुक्षेत्यतेषां कार्यकारणता भवेत् ॥ सर्व कार्य सोपादानं कार्यत्वात्तचोपादानं लाघवादेकमनादि तथा सर्व कदाचित् कात्स्न्येन विनाशि एकोपादानकत्वात्सुखादिवत् । उपादानं तु नित्यं तन्नाशे पुनः सृष्टयभावप्रसङ्गादिति तर्कोपोद्वलितया तद्यथेहेत्यादिश्रुत्या कार्यमाने नाशदोषदर्शनात् । नित्यवस्त्ववलम्येन वैराग्यं जायते तत इन्द्रियप्रवृत्ती निमित्तरागाभावाच्छमादिकं भवति एवं सर्वतो वैराग्यान्मुमुक्षा प्रवृत्तिपर्यन्ता जायते विषयानुरक्तस्य नि- विषयमोक्षेच्छानुपपत्तेः । ततो मोक्षस्य झानेकलभ्यत्वावगमातू झा- नार्थी सन् विचारे प्रवर्तते इत्यन्वयव्यतिरेकाभ्यां हेतुहेतुमद्भावेनै- तेषां विशेषणानामधिकारनिमित्तत्वमेतद्विशेषणशून्येन कृतं श्रवण तु शूद्रकृतयागवन्निष्फलम् । यत्तु भास्करोक्तं सूत्रकारस्य शमादीनां बुद्धिस्थत्वे मानाभावाचाथशब्देनोपादानमिति । तन्न । श्रवणविधि सूत्रयतस्तत्प्रकरणस्थवाक्यैस्तेयां बुद्धिस्थत्वादिति । न तद्यथश- ब्देनैव साधनानां सिद्धत्वादतःशब्दो व्यर्थ इत्यत आह । योक्तति- अथोक्तसाधनासिद्धि वेदवादरता जगुः । तदा शङ्कानिरासेन हेतुता ऽतो विरोचते ॥ अथशब्देनोक्तानां नित्यानित्यविवेकादीनामसिद्धि कर्मजडाः अक्ष- य्यं हवै चातुर्मास्ययाजिनः सुकृतमित्यर्थवादरताः अथ यदल्पं तन्म- यमित्यादिव्याप्तेः परमाणुभिर्व्यभिचारं वदन्तो जगुः कृतकस्यापि नित्यत्वं पृथ्वीपरमाणुलौहित्यवदिति । अतो नित्यफलप्रेप्सोः कर्मफ- लाद्वैराग्यमसिद्धम् ।न च ब्रह्मणोऽपि नित्यत्वात्तच्छ्रवणेऽपि पाक्षिकी प्रवृत्तिः स्यादिति वाच्यम् । फलाभावात् । न च जीवस्य ब्रह्मैक्यं विरोधात् । नापि . ब्रह्मसंयोगः नित्यसुखार्थिनस्तदनं पेक्षत्वात् । न च जीवस्य स्वभिन्नब्रह्मनिष्ठसुखप्रत्यक्षं युक्तम् । -- .
१ सू. ३ वर्णकम् । ९९ न हि जीवः स्वनिष्ठस्वरूपं वा मुक्तौ नित्यं सुखमनुभवतीत्ति युज्यते योग्याँनुपलब्ध्या नित्यसुखाभावनिश्चयात् । न च दुःखाभा- वार्थमात्मश्रवणे प्रवृत्तिरिति वाच्यम् । सकलसुखविरोध्यवस्थापेक्ष- या स्वल्पदुःखयोगे ऽपि देवादिभोगस्य श्रेयस्त्वात् । तस्मादद्धिकार्य- भावान्मोक्षशास्त्रं नारम्भणीयं नित्यफलार्थिनां कर्मण्येव प्रवृत्तेरिति प्राप्ते तदाशङ्कानिरासेन विवेकादीनां ब्रह्मजिज्ञासाहेतुत्वमतःशब्देन समर्थ्यते इत्यर्थः । परमाणुतल्लौहित्ययोर्नित्यत्वे मानाभावाद्यदल्पं यश्च कृतकं तदनित्यमिति न्यायविरुद्धा चातुर्मास्यश्रुतिर्विध्यनपेक्षितं कर्म फलनित्यत्वं न प्रमापयति उक्तन्यायोपेता तद्यथेहेत्यादि श्रुतिः श्रव- पविध्यपेक्षितं कर्म फलानित्यत्वं प्रमापयतीति ततो वैराग्यं सिध्यति । एतेन स य आत्मानमेव लोकनुपास्ते न हास्यकर्म क्षीयते इति श्रुति- र्व्याख्याता । फलनित्यत्वस्याश्रुतायविरोधे कल्पनानुपपत्तेः । कर्म- पदेनात्रोपासनानुवादेन ज्ञानद्वारा ऽक्षयफलकत्वेन स्तुतिकरणात् । अनेवंविन्महत्पुण्यं कर्म करोति । तद्वास्यान्ततः क्षीयते इत्युक्तेश्च । न कर्मफलस्य नित्यत्वं न व्यतिरेकमुखेनात्रात्मविदा कृतं कर्माक्षय- फलकमुच्यते इति समुच्चय इत्यपि वाच्यम् । नान्यः पन्था इत्यादि- ना मुक्तावुपायान्तरंनिषेधादत एव महत्पुण्यमिति प्रकृतत्वान्न हा- स्य कर्म क्षीयते इत्यग्निहोत्रादिपरामर्श एव नात्मोपासनाया इति नि- रस्तम् । निषेधश्रुतेर्बलवत्त्वात् । यत्तु फलाभावान ब्रह्मविचारे प्रवृ- त्तिरिति । तदसत् । ब्रह्म वेद ब्रह्मैव भवतीत्यादिश्रुत्या स्वप्रकाशानन्द- ब्रह्मभावस्य सत्त्वाद्धर्माणां कल्पितत्वेन विम्बयोरैक्ये विरोधाभावाद- नाद्यविद्यावृतत्वेनार्नुपलब्धिसम्भवात् । न चात्मनः सुखत्वे ऽहं सु- खीति न स्वादिति वाच्यम् । शुभकर्मोपार्जितवृत्तिकृतभेदेन तथानु- भवत्वोपपत्तेः । न च मुक्तौ भेदाभावादहं सुखीति न स्यात्तथा च पुरुषार्थतेति वाच्यम् । सुखापरोक्षानुभवस्यैव पुरुषार्थत्वान्न हि सु- खात्मनोर्भेदः कस्य चिदिष्टः ऋते कुतार्किकवलीवादित्यलम् । त- स्मादतःशब्दबलाद्विवेकादीनां ब्रह्मजिज्ञासाहेतुत्वं सिद्धमित्यधि- कारिणा सा ऽवश्यं कर्तव्योति भावः। ननु भाष्यकारैर्ब्रह्मणो जिज्ञासेति षष्ठीसमासः किमिति दर्शितः धर्माय जिज्ञासेतिवत् सम्भवादित्यत्राह । इच्छाप्राधान्यमिति- इच्छाप्राधान्यमाश्रित्य षष्ठी कर्मणि भाषिता। प्राक् चतुर्थीसमासस्तु विचारापेक्षया कृतः ॥
- १०० विवरणोपन्यासे इच्छाया अपेक्षितकर्मफलयोरक्यातू षष्ठ्या प्रधानत्वेन कर्मोक्तो फलं सिध्यतीति षष्ठीसमासः कृतः। विचारप्राधान्ये तु कर्मफलत्वयो- र्भेदात् क्लेशात्मकविचारस्यादौ फलस्यापेक्षत्वाद्धर्मायेति चतुर्थीस- मासः पूर्वतन्त्रे कृतः ।अर्थाद्वदवाक्यानां कर्मत्वलाभादित्यर्थः । ननु जातिजीवकमलासनवेदपरेषु ब्रह्मशब्दः प्रयुज्यते तत्र सूत्रे ब्रह्मशब्दार्थः क इति चेत् । जगज्जन्मादिकारणं परमिति ब्रुमः । मुसु- क्षुभिः तस्यैव जिज्ञास्यत्वाहक्ष्यमाणलक्षणादिसम्भवाञ्चेत्यभिप्रेत्याह। जात्यादिरिति- जात्यादिब्रह्मशब्दार्थो न भवेब्रह्मगोचरा । षष्ठी न स्यात्प्रधानस्य ग्रहाच्छेपार्थसिद्धिकः ॥ ब्रह्मण इति कर्मणि षष्ठीन्युक्तं वृत्त्यन्तरे तु शेपलक्षणा व्याख्याता तां निरस्यति शेषगोचरा षष्ठी न स्यादिति । मम्बन्धसामान्यं शेषः तस्मिन्पष्ट्या ऽभिहिते विशेषाकाङ्क्षायां जिज्ञासायाः कर्मापेक्षित- मिति कर्मत्वलाभ इति वृत्तिकारमतम् । ननु कणि द्वितीया कर्तृकरणयोस्तृतीया सम्प्रदाने चतुर्थी अपादान पञ्चमी अधिक- रणे सप्तमीति विभक्तिपञ्चकाभिहितेन्यः कर्मत्यादिकारकसंबन्धे- भ्यो ऽन्यः स्वस्वामित्वादिः शेष इति शाब्दिकोक्तिविरुद्धं मतमिति चेत् । उच्यते । यथा देवदत्तस्य स्वमिति सम्बन्धसामान्यवाचि- पदे षष्ट्याः स्वत्वादिविशेषसम्बन्धवाचिनाऽन्विताभिधायित्वं न तथा कर्तृत्वकर्मत्वादिकारकसम्बन्धवाचिपदेनान्विताभिधायित्वं देवद- त्तस्य गच्छति देवदत्तस्य गम्यते इति वा प्रयोगे तिङाद्यभिहि- तकर्तृत्वादिना पष्ठ्यर्थसामान्यस्यान्वयाप्रतीतरिति शाब्दिकाभि- प्रायः । अतो न विरोधः। कारकसंबन्धवाचिपदाभावे षष्टया तदाक्षेपसम्भवादिति तन्मतमत्रायुक्तं कर्मत्वस्य पष्ठ्या साक्षाद- भिधानसम्भवेनापेक्षायोगात् । ननु ब्रह्मसम्बन्धिनां लक्षणप्रमाणा- विरोधसाधनफलानां जिज्ञास्यत्वेन प्रतिज्ञासिद्धये शेपे पष्ठी युक्ता अतः कर्मत्वाक्षेप इति चेत् न । कर्मणि पप्ठ्या प्रधानस्य ब्र- ह्मणो जिज्ञास्यप्रतिज्ञायां सत्यां यर्विना ब्रह्मज्ञानं न सम्भवति तेषा- मर्थसिद्धत्वात् । न हि शेषस्य मुख्योक्तिः प्रधानस्य त्वाक्षेप इति युक्तं सत्यां गतावित्यर्थः । तद्विजिशासखंति सूत्रमूलश्रुतौ ब्रह्मणः कर्मत्वं व्यक्तं निर्दिष्टम् । ननु जिनामापदं योगेन शानच्छावाचकं वि- चारलक्षकामन्युक्तं तच्छायाः फलविषयत्वात् शानस्य फलत्वं चmom roman १ सू. ३ वर्णकम् । क्तव्यं तन्न युक्तम् । इच्छाया ज्ञानसाध्यत्न कर्मफलत्वायोगादित्यत आह । शातुमिति-- ज्ञातुमिच्छति चेच्छायाः फलमूलविवेचनम् । प्रमातृव्यापतिानं तद्यक्तं स्फुरणं फलम् ॥ शातुमिच्छा जिज्ञासेत्यादिभाष्ये ऽवयवार्थकथनेनेच्छायाः फल- मूलज्ञानयोविवेचनं कृतं तत्रावाप्तिपर्यन्तं ज्ञानं सन्वाच्यायाः इच्छायाः कर्मेति फलोक्ती सत्यामर्थादापातज्ञानं मूलमित्युक्तं भवति तत्रावगतिरभिव्यक्तं चैतन्यं तदभिव्यजिका अपरोक्षवृत्तिनिश- ब्दार्थः । शब्दात्परोक्षज्ञानमेवेति मते शाब्दमापातज्ञानं मूलं साक्षात्कारः फलम् । शब्दादपि अपरोक्षमिति मते पुरुषापरो- क्षज्ञानं भूलम् । अप्रतिबद्धापरोक्षज्ञानं फलमिति विवेकः । ननु ज्ञानावगत्योर्न भेदः वादिनां विप्रतिपत्तेरित्यत आह प्रमात्रिति । घटः स्फुरतीति प्रमाणफलं प्रत्यक्षं तत्कर्तृव्यापारजन्यं कारकचक्रं फल- त्वात् । कुठारादिसाध्यवृक्षभेदनवत् । न च हेत्वसिद्धिः । ज्ञानेना- वरणनिवृत्तिरूपाभिव्यक्तिद्वारा चैतन्यस्य साध्यत्वेन कारकचक्रफ- लत्वात् । न च ज्ञानमेव फलमित्यप्रयोजकता कारकसमुदायफलस्य प्रातिखिकव्यापाराभावे जन्मानुपपत्तेः। तत्र यः कर्तृव्यापारस्तज्ज्ञानं समुदायफलं तु स्फुरणं संविदवगतिरिति चोच्यते । असङ्गात्मनि व्यापारः कथमिति चेत् । अध्यासपरिनिष्पन्नान्तःकरणसपिण्डित- स्यात्मनः प्रमातृव्यापारो ज्ञानमिति ब्रमः । यद्यपि ज्ञानं कारकचक्र- साध्यं तथापि न फलं नहि गमनमेव कारकफलं किन्तु गन्तव्यप्रा- प्तिः। एवं ज्ञापनाज्ञानद्वारा ज्ञेयस्फूर्तिरिति संक्षेपः । अत्र वृद्धाः अर्थजवृत्तिप्रतिबिम्बितं चैतन्यं फलमित्याहुः । अन्ये तु साक्ष्यभेदेन वृत्त्यभिव्यक्तं विषयावच्छिन्नचैतन्यं फलमिति । एवं भगवान् भाष्य- कारः सूत्रस्यावयवार्थमुक्त्वा तस्माद्ब्रह्म जिज्ञासितव्यमिति विचार- कर्तव्यतां वाक्याथै बभाषे । तत्रेयमाशङ्का समुल्लसति । किमिदं सूत्रं विचारात्मकशास्त्रात् बहिर्भूत्वा शास्त्रारम्भकम् । सूत्रस्यारम्भः के- नेति वक्तव्यम् । स्वेनैव चेदात्माश्रयः खसिद्धौ स्वस्यारम्भकत्वात् । अन्येन चेदनवस्थेति । तत्राह शास्त्रमध्यगतं सूत्रमिति- शास्त्रमध्यगतं सूत्रं सानुबन्धचतुष्टयम् । विचारं कार्यमाहातः कर्तव्यः सो ऽधिकारिणा ॥ अध्ययनविधिवत् श्रवणविधिरेव स्वापेक्षितानुबन्धं निर्णायक- MAH ६०२ विवरणोपन्यासे न्यायविवारात्मकमाद्यसूत्रमारम्भयति । अत एवास्य श्रुतिसङ्गतिः। अनेन सूत्रेण श्रवणविधेः स्वार्थे बेदान्तविचारकर्तव्यतारूपे सिद्धे सति विचारात्मकशास्त्रं प्रवर्तते इति शास्त्राध्यायादिसगन्तयः इदानीं वर्णितं सूत्रार्थ वदन् फलितमाह । सानुबन्धेति। मुमुक्षुर्हि मोक्षोपायं चिकीर्षति । तत्रज्ञानस्यैव श्रुतावुपायत्वावगमात् तस्य कर्तुमशक्य- त्वात्तदिच्छायाश्च सिद्धत्वात् कर्तव्यत्वायोगात् सूक्ष्मवस्तुविज्ञाने तत्प्रमाणविचारं कर्तव्यं पश्चाद्वेदान्तविचारः कर्तव्यतया ऽवगच्छ- तीति तन्नियमार्थः श्रवणाविधिः । ब्रह्मज्ञानाय वेदान्तवाक्याविचार: कर्तव्य इति तत्राज्ञातत्वेन ब्रह्मविषयः ज्ञातत्वेन प्रयोजनं तत्कामो ऽधिकारी एतेषां यथायोगं शास्त्रण सम्बन्ध इति । तस्मादनुवन्धस- द्भावादधिकारिणेदं शास्त्रं धोतव्यमिति सिद्धम् ॥ इति तृतीयं वर्णकं समाप्तम् ।। -- नन्वेवं शास्त्रारम्भस्थ सिद्धत्वाग्रिमसूत्रं व्याख्यायतां कि चतुर्थवर्णकेनेत्यत आह । ब्रह्मेति-- ब्रह्मप्रसिद्ध्यप्रसिद्धयोर्विषयादेरसम्भवात् । अनारभ्यमिति प्राप्ते वर्णकान्तरमुच्यते ॥ आपाततः प्रसिद्धत्वात्सम्भवेद्विषयादिकम् । आदौ तत्रितयम् वाच्यं प्रवृत्त्यङ्गत्वकारणात् ॥ वेदान्तशास्त्रमारभ्यं न वेति सन्देहे विषमाद्यसम्भवान्नारयमिति प्राप्तम्।तथा हि । ब्रह्म यदि प्रसिद्धं तर्हि नास्य शास्त्रस्य विषयः अज्ञातत्वाभावात् । नापि प्रयोजनम् अज्ञानाभावेन तन्निवृत्तेरसम्भ- वात् । अथाप्रसिद्धं तर्हि तदुद्देशेन विचारासम्भवात् विचारापेक्षर्वे- दान्तस्तत्प्रतिपादनमशक्यमिति शास्त्रेण ब्रह्मणस्तजन्यज्ञानविषय- स्वरूपसम्बन्धाभावः फलाभावश्च । ज्ञानासम्भवेनाज्ञानानिवृत्तिरिति पतन्निरासार्थ चतुर्थवर्णकमित्यर्थः । निरासप्रकारमाह । आपातत इति । यद्यपि प्रथमं वेदान्तैर्ब्रह्मज्ञानं भवति तथापि तदनवधारणा- त्मकमेवाने संशयदर्शनात् । तथा च केवलप्रमाणादनिश्चिते ऽर्थे तर्कस्य प्रमाणसहायत्वाद्वैदान्तैः सन्दिग्धतया प्रसिद्ध ब्रह्मोदिश्य तरूपविचारे विधिसम्भवाद्विषयादिसम्भवाच स कर्तव्यः । ननु सर्वज्ञबादरायणप्रणीतत्वेन शास्त्रस्य विषयादिमत्त्वसिद्धेः समन्व- १ सू. ३ वर्णकम् । १०३ याधनिमविचारे विषयादेविशिष्य ज्ञानसम्भवात् भाध्यकारा- णामादौ विषयाद्यनुबन्धचिन्ता निष्फलेति चेन्न । अधिकारि- प्रवृत्त्यर्थत्वात् । ननु शास्त्रस्यादी प्रवृत्त्यङ्गत्वेन फलमेव वाच्यम् । इष्टसाधनताज्ञानस्य प्रवर्तकत्वान्न विषयसम्बन्धौ वक्तव्यो फल- ज्ञाने तयोरन्तर्भावात् । कारकसाध्यविषयस्थातिशयो हि फलं तज्ज्ञाने फलशालिविषयो ज्ञात एव भवति । स कारकसम्बन्ध एव यथा कुठारस्य वृक्ष इति चेन्न । विषयस्य द्विविधत्वात् । तत्र फल- शालिविषयः फलज्ञाने ऽन्तर्भवति नान्यसाधारणाख्यः।अतःसोऽवश्य वाच्यः प्रवृत्तिनियमाय यदि फलमात्रमुच्येत तदा तच्छालिविषयस्य झाने ऽपि तस्य शास्त्रान्तराप्रतिपाद्यताया अज्ञानात्तत्रापि प्रवृत्तिः स्यात् । यथा चिकित्साज्ञानार्थिनश्चरकसुश्रुतात्रेयादिग्रन्थेष्वनियता प्रवृत्तिः अतः शास्त्रान्तरप्रवृत्तिनिरासाय तदप्रतिपाद्यतारूपविषय- ता वक्तव्या एतच्छास्त्रे प्रवृत्तिसिद्धये एतत्प्रतिपाद्यतारूपसम्बन्धो ऽपि वक्तव्य इति त्रितयमादी वाच्यमित्यर्थः । ननु वेदान्तविषयो ब्रह्म न न्यायविचारात्मकशास्त्रस्य विषयो नापि तेन सम्बन्धः शास्त्रस्थ- न्यायैः प्रमाणादिसम्भावनाविषयकत्वात् । ननु यथा प्रयाजाधङ्गा- गिनोरेकस्वर्गफलकत्वं तथा विचारवेदान्तयोरेको ब्रह्मावगमः फलं शब्दशक्तितात्पर्यविचारस्य प्रमाणस्वरूपोपकार्यङ्गत्वात्प्रमेयविचा- रस्य फलोपकार्यङ्गत्वादेवमवगमहेतोर्विचारस्यावगम्यब्रह्मविषय इ- त्येकदेशिनः न च शास्त्रस्य भावनैव विषयः अव्यवधानात् । सम्भा- वनाबुद्धिव्यवहितं ब्रह्म न विषय इति वाच्यम् । व्यवहितस्याप्युहे- श्यतया विषयत्वदर्शनात् । यथा देवदत्तकर्तृकस्योद्यमननिपतनरूप- व्यापारस्याव्यवधानेन कुठारकर्मस्य कुठारव्यापारव्यवहितोऽपि वृक्ष उद्देश्यद्वैधीभावफलशालितया कर्म भवति तद्वत् । ननु कर्तृकरण- कर्मणां को भेद इति चेदुच्यते । सर्वाणि कारकाणि स्वस्वव्यापारे कर्तृणि अवान्तरभेदेन कादिव्यवहारः । तत्र स्वतन्त्रः कर्ता । फलं प्रति सन्निपत्योपकारक करणम् । परसमवेतक्रियाफलशालि कर्मोति। नैतद्युक्तं विचारस्य वेदान्ताङ्गत्वे मानाभावात् । न हि श्रुत्यादिकम- वास्ति न वा ऽन्वयव्यतिरेको विना विचारं शाब्दबोधदर्शनातू । न च संशयविपर्ययोत्तरशाब्दबोधे विचारो हेतुरिति वाच्यम् । निर्दो- षशब्दस्य संशयाद्यहेतुतया निर्णयस्य शब्दैकसाध्यत्वात् । शब्दशक्ति- तात्पर्यादिविचारस्तु शक्त्याद्यज्ञानभ्रमादिपुरुषापराधनिबन्धनसंश:
१०४ manor- विवरणोपन्यासे यादिनिरासहेतुः। निरस्ते प्रतिबन्धे शब्दादेव ज्ञानं जायते जातं वा नि- श्चलमवतिष्ठते । तस्माद्विचारस्यावगमहेतुत्वाभावान वेदान्तगम्यन- ह्मविषयकत्वमिति शङ्कते । ननु वेदान्तविषय इति- ननु वेदान्तविषयो विचारविषयः कथम् । अङ्गाङ्गिनोः फलैक्याञ्चेद्विचारो नाङ्गमिष्यते ॥ सत्यं शक्तितात्पर्यावधारणेन विचारस्य प्रतिवन्धनिरासे उप- क्षयः परन्तु निरस्ते प्रतिबन्धे शाब्दज्ञानं निर्णयात्मकं भवतीति उपचाराद्विचारस्य ब्रह्मनिर्णयहेतुतया वेदान्तः समानविषयत्वमिति सिद्धान्तयति अत्र ब्रूम इति- अत्र ब्रमो विचारो हि प्रतिबन्धनिरासतः। वेदार्थज्ञानहेतुत्वाद्वेदैकविषयो भवेत् ॥ तात्पर्य शाब्दबोधे हेतुरिति तार्किकमतं दूषयति तात्पर्यमिति- तात्पर्य तन्मतिर्वापि शाब्दबोधे न कारणम् । प्रतिबन्धनिरासार्थ तात्पर्यज्ञानमिष्यते ॥ किमज्ञातं तात्पर्य वा क्यार्थसंसर्गज्ञानहेतुः तात्पर्यज्ञानं वा । नाद्यः। तात्पर्यविचारवैयर्थ्यप्रसङ्गात्।न द्वितीयः । वाक्यार्थज्ञानात्प्राक्तद्वि- षयकस्य तात्पर्यस्य ज्ञातुमशक्यत्वात् । न च पदार्थेषु ज्ञातेषु योग्यतया संसर्गमुत्प्रेक्ष्य तत्र तात्पर्य ज्ञातुं शक्यमिति वाच्यम् । उत्प्रेक्षाया अनुमि- तित्वे वाक्यवैयर्थ्यात्। न च वैशेषिकमतेनेष्टापत्तिरिति वाच्यम् । प्रक- ततात्पर्यज्ञानवैयापातातू।वाक्येनेममर्थ जानामीत्यनुभवविरोधात्। पक्षादिज्ञानबिलम्बाभावात् । अनुमिनोमीत्यनुभवाभावाच्च । न च सा तर्कः । अनारोपत्वात् । न चानारोपोपस्थायिलिङापूर्वोहवत्तर्कत्व- मिति वाच्यम् । तर्कितापूर्वाल्लिङ्पदसङ्गतिरित्यनङ्गीकारात्। ननु तर्का- स्मकविचारोपस्थिते ब्रह्मणि सत्यादिपदलक्षणेति सिद्धान्तःन च तदुप- स्थितेस्तर्कत्वेऽप्यारोपत्वमस्ति अबाधादिति चेतू उच्यते । भागत्या- गलक्षणायां पद्जन्यविशिष्टवाच्योपस्थितिरेव लक्ष्यभागविषयतया हेतुः । अत्र विशेषणानां कल्पितत्वात विशेष्यमात्रस्यैवाबाधितानधि- गतत्वे सति फलवत्त्वादित्याद्यनुमानरूपविचारस्य विशेष्यमात्रे ता- त्पर्यग्रहद्वारा लक्षणायामुपयोग इति विचारोपस्थिते लक्षणेत्युच्यते। किं बहूत्या ऽत्रानारोपे तर्कत्वव्यवहारः स तों ऽनुमानमेवेति नाभ्रमस्यातर्कत्वम् अनिष्टारोपस्तर्क इति लक्षणादित्युपन्यासग्रन्थे ऽप्यधिक प्रसङ्गागतमिति क्षन्तव्यम् । नापि सा स्मृतिः । अशातार्थ- १ सू. ४ वर्णकम् । १०६ स्वात् । अतः परिशेषात्सा शाब्दप्रमैवेति तात्पर्यशानं जातायां तस्यां न हेतुः । अपि च तात्पर्यज्ञानं भ्रमादिमूलवाक्यार्थभ्रमादिप्रतिबन्धनि- रासार्थमित्यर्थः । एवं वेदान्तानां विषयभूतमापाततः प्रसिद्धं ब्रह्म वेदान्तापेक्षितन्यायविचारस्यापि परस्परया विषय इत्युक्तम् । तत्र कथं वेदान्तेवापाततः प्रसिद्धिः न तावत् ब्रह्मशब्दात् । ब्रह्माप्रसि- ध्या सङ्गतिग्रहाभावात् नापि वाक्यात्पदार्थाज्ञानादित्यत आह । इत्यादाविति-- इत्यादौ ब्रह्मशब्दस्य सार्थकत्वे विनिश्चिते। विशिष्टार्थप्रसिद्धयर्थ लक्षितं निगमादिकम् ॥ ब्रह्मशब्दस्य श्रुतिसूत्रयोः प्रयोगान्यथानुपपत्या कश्चिदर्थों ऽस्तीति निश्चीयते प्रमाणवाक्ये व्यर्थशब्दप्रयोगायोगात् तत्रार्थवि- शेषाकाङ्क्षायां जात्यादेनिरस्तत्वान्निगमनिरुक्तव्याकरणानां शेषसि- द्धिहेतुत्वात् प्रकृते च बृहतेर्धातोवृद्धौ स्मरणात् निरवधिकमहत्त्व- संपन्नं वस्तु ब्रह्मशब्दार्थ इति निश्चीयते ।निगमो नाम शब्दस्य लक्षणां विना प्रकृत्यर्थानुगमेनार्थान्तरे वृत्तिः यथा देहशब्दस्य प्रसिद्धार्थाद- र्थान्तरे उपचयवति प्रयोगः। निरुक्तं नाम शब्दस्य सर्वावयवार्थानुग- मेन रूढ्यर्थादर्थान्तरे वृत्तिः यथा सोमशब्दस्य चन्द्रादन्यस्मिन् उमासहितेश्वरे वृत्तिः। अस्मिन्नर्थे ऽयं प्रत्ययो भवतीति विधानं व्या- करणं यथा वदनशीलो वादीति ताच्छील्ये इनिप्रत्ययविधानम् । ननु बृंहणाद् ब्रह्मेति प्रवृद्धवस्तु यत्किञ्चित्प्रतीयते न पदार्थविशेषः तत्र वाक्यार्थनियमः कथमिति चेदुच्यते वाक्यार्थनिर्णयार्थ प्रसिद्धार्थकैः सत्यादिपदान्तरैः सह ब्रह्मशब्दस्य प्रयोगानुपपत्तिरेव निगमादिबले- नार्थमाददाना सन्निहितानन्तादिपदार्थान्वययोग्यनिरवधिकमहत्त्व- संपन्नं वस्तु ज्ञापयति सोचकाभावाच ततो वाक्यार्थनियम इति । अत्रायं निष्कर्षः । श्रीतादिप्रयोगानुपपत्त्या ऽर्थमात्रस्य निश्चयः निग- मादिना वृद्धिरूपार्थस्य पदान्तरासत्त्या निरवधिकवृद्धेरिति । ननु ब्रह्मणो महत्वमात्रेण कथं मुमुक्षुजिज्ञास्यत्वमित्यत आह । नित्यशु- द्धमिति- नित्यशुद्धं बुद्धमुक्तं सर्वशं सर्वशक्तियुक् । ब्रह्मशब्दबलादेव वस्त्वेताह प्रतीयते ॥ निरवधिकमहत्त्वं देशकालवस्तुकृताल्पत्वस्याभावरूपं नित्यशब्दा- र्थः । तथाप्यविद्यादिदोषवत्त्वे अल्पत्वं स्यादिति न निरवधिकं मह- १०६ विवरणोपन्यासे त्वं लोके गुणहीनस्य दोषवतश्चाल्पत्वप्रसिद्धः अतो ऽस्य ब्रह्मशब्द- बलादेव सर्वदोषराहित्यं सर्वगुणवत्त्वं च सिध्यतीति मत्वाह । शुद्ध- मित्यादिना । शुद्धिर्दोषाभावः तस्यापेक्षिकत्वं वारयति । मुक्तमिति। बन्धकाले ऽपीति शेषः । जडत्वेनाल्पत्वं प्रत्याह । बुद्धेति पाठस्तुभा- प्यानुसारी चेतनत्वेपि शेयस्य कार्यस्य वा ऽवशेषे ऽल्पता स्यात्तां निरस्यति । सर्वशं सर्वशक्तियुगिति । निरस्तसमस्तदोषत्वात्परमपुरु- षार्थत्वाञ्च ब्रह्मणो जिज्ञास्यत्वमिति भावः । जात्यादेब्रह्मशब्दार्थत्वेऽपि न नित्यशुद्धादिरूपत्वं धर्मिग्राहकमानविरोधात् । ब्रह्मणस्त्वादी शब्दादेव प्रसिद्धिरिति बाधकाभावान्निरङ्कुशं सर्वरूपत्वेन महत्त्वमि- ति मन्तव्यम् । ननु स्वरूपतटस्थलक्षणश्रुतिवाक्याभ्यां ब्रह्मनिर्णयात् ब्रह्मपदव्युत्पत्त्यैवादी प्रसिद्धिरिति कथमिति चेतू उच्यते । पदार्थशा- नात् प्राक् वाक्येन निर्णयायोगादत्र सूत्रे श्रुतौ वा ब्रह्मपदव्युत्पत्त्या प्रसिद्धिः । यदीत्थं नोच्यते जन्मादिसूत्रात्प्राक् लक्षणवाक्यस्यानि- र्णायकत्वाचात एव पदात्प्रसिद्धरमानत्वात् जिज्ञासोपपत्तिरिति सुस्थम् । इदानीं अज्ञानाविरोधेन ब्रह्मणः प्रसिद्धौ हेत्वन्तरमाहापि चेति- अपि चात्मत्वतो ब्रह्म प्रसिद्धं किन्तु वादिनाम् । विवादात्तत्र जिज्ञासाविवादस्त्वधुनोच्यते ॥ अस्ति तावत्सर्वप्राणिनामहमित्यात्मनि प्रसिद्धिः सा वस्तुतो ब्रह्मगोचरा अयमात्मा ब्रह्मेत्यादिश्रुत्या ब्रह्मणः आत्मत्वावगमात् । न चात्यन्ताभेदे सामानाधिकरण्यायोगात् भेदाभेदः श्रुत्यर्थ इति वा- व्यम् । कल्पितभेदेनात्र सामानाधिकरण्यसम्भवात् । तत्र प्रसिद्ध- जीवानुवादेनाप्रसिद्धब्रह्माभेदबोधनादहमिति वस्तुतो भवति ब्रह्म- प्रसिद्धिः । यथेदं रजतमिति वस्तुतः शुक्तिप्रसिद्धिरित्यर्थः । ननु ब्रह्मणो निःसामान्यविशेषात्प्रसिद्ध्यङ्गीकारे सर्वात्मना ऽपि प्रसिद्धेः शास्त्रविषयत्वं न स्यादिति शङ्कते । किन्त्विति । यदि सर्वात्मना प्रसिद्धिः स्यात्तर्हि वादिविवादो न स्यात् । न हि शरदिन्दुकुन्दध- वलिनि निबिडनीरदनीलिन्नि वा विवदन्ति वादिनः । अतो विशेष- विप्रतिपत्तेः सामान्यरूपेण प्रसिद्धं ब्रह्म किं तत्सामान्यं देहेन्द्रिया- धनुगतं तदधिष्ठानचैतन्यरूपं पराग्घटादिव्यावृत्तं प्रत्यक्त्वमिति ब्रूमः । यद्यपि चैतन्यं सर्वानुगतं तथापि जीवसाक्षिचैतन्यं देहादिषु मानमनपेक्ष्यानुगतत्वातू घटादिषु तदभावात् भवति प्र- १०७ १ सू. ४ वर्णकम् । त्यक्त्वं सामान्यं तत्सम्बन्धादेहादिष्वेवात्मत्वभ्रमो वादिनां तत्र प्रत्यक्त्वेन प्रसिद्ध वस्तुनि देहादिविशेषनिरासेन पूर्णानन्दब्रह्मरूपो विशेषः शास्त्रेणैव प्रतिपाद्यते इति भवति शास्त्रस्य विशेषो विषयः भ्रमाविरोधेन भासमानाधिष्ठानांशः सामान्यं भ्रमविरोध्यज्ञातांशो विशेषः अंशभेदस्तु ब्रह्मणि चैतन्यपूर्णादिपदवाच्यभेदेन कल्पित इति सर्वमनवद्यम् । अधुना सङ्केपेण विप्रतिपत्तयः उपन्यस्यन्ते । यथा गोशब्दाव्यभिचारातू गोव्यक्त्याकृतिजातिषु शब्दार्थत्वविप्र- तिपत्तिः । तथा देहादिष्वहंप्रत्ययाव्यभिचारादात्मत्वविप्रतिपत्तिः सम्भवति । तत्र देहमानं चैतन्यविशिष्टमात्मेति प्राकृता लो- कायतिकाश्च विप्रतिपन्नाः मनुष्यो ऽहमित्यनुभवात् ।भूतचतुष्टयाति- रिक्ते वस्तुनि मानाभावादिति इन्द्रियाणि प्रत्येकमात्मेत्यपरे । काणो ऽहमित्याद्यनुभवात् इन्द्रियाणां रूपादिज्ञानाश्रयत्वस्यैवान्वयव्यति- रेकाभ्यां जघन्यकरणत्वापेक्षया कल्पनौचित्यावहूनामपि वरगोष्ठी- न्यायेन स्वसाधारणविषयभोगक्रमोपपत्तेरेकदेहाश्रयत्वेन द्रष्टा ऽहं श्रोतेत्यादिप्रत्यभिज्ञोपपत्तेश्चेति मन एवात्मेत्यन्ये । यत इन्द्रियान्त- राणामभावे ऽपि स्वप्ने च भोगदर्शनात् । बौद्धास्तु विज्ञानमात्रं क्षणिकमात्मत्याहुः । तथा हि देहेन्द्रियाणां ज्ञेयत्वेनानात्मत्वातू मनसोऽपि समनन्तरप्रत्ययमात्रत्वात् अन्यस्य विज्ञानाश्रयस्याननु- भवाद्विज्ञानमेव स्वरसभङ्गुरं हेतुफलभावेनाविरतोदयत्वात् सो ऽहमिति प्रत्यभिज्ञास्पदं कर्मफलास्पदं चेति वदन्ति । माध्यमिका- स्तु विज्ञानातिरिक्तात्मनो निरस्तत्वात् विज्ञानस्यापि सुषुप्तावद- र्शनात् तदानीं निराकारज्ञानसन्ततौ मानाभावात् यज्ज्ञानं तत्सा- कारमीत नियमादुत्थितस्याहमिति निर्विषयासद्विकल्पमात्रमिति शून्यमेवात्मेति सङ्गिरन्ते । कणभक्षाक्षपादपक्षपातिनस्तु अस्ति देहादिव्यतिरिक्तः स्थायी कर्ता भोक्तेत्याहुः । तथा हि अहमुल्लेखवि. षयो ज्ञानसुखाद्याश्रय आत्मा सर्वैरनुभवबलादेष्टव्यः न च सुषुप्ती तदभावः यो ऽहं पूर्वद्युर्विश्वेशमद्राक्षं सोऽहमद्य बिन्दुमाधवं द्रक्ष्या- मीति अबाधितप्रत्यभिज्ञया सुषुप्तौ सत्तानिश्चयात् । अतो न शून्य- स्यात्मत्वं नापि विज्ञानस्यात्मत्वं मम विज्ञानमित्यात्मभिन्नत्वानुभ- वादहं विज्ञानमित्यप्रतीतेः। सोऽहमिति प्रत्यभिज्ञायाः क्षणिके ऽनुप- पत्तेः । मुख्यैक्ये प्रत्यभिज्ञायमाने निरन्तरोत्पत्तिसादृश्ययोः कल्पना- नौचित्याच्च । किञ्च कदलीफलदर्शनं तद्रसानुभवः ततः सुखं पुनः .
१०८ विवरणोपन्यासे फलान्तरदर्शन व्याप्तिस्मरणं फलत्वेन सुखहेतुत्वानुमितिः ततो रागः प्रयत्न इत्यष्टक्षणेष्वेक आत्मा स्थिरोऽङ्गाकार्यः । अन्यानुभूते अ- न्यस्य सुखाद्ययोगात् । चैत्रमैत्रादिसन्तानभेदेष्वन्यदृष्टे अन्यस्य स्मरणाद्यदर्शनात् । तस्यात्मनो ऽग्रे नाशकांशाभावान्नित्यत्वमिति ।म- नोऽपि नात्मा तत्राप्यहं मन इत्युल्लेखाभावात् । युगपज्झानानुत्पत्त्या तस्य करणत्वेनैव क्लप्तत्वाञ्चेति । एवमिन्द्रियाणि नात्मा ममैतानीति प्रतीतेः । द्रष्टाहं श्रोतेत्यैक्यप्रत्यभिज्ञानात्। एकदेहस्थत्वेन प्रत्यभिज्ञा- ने चैकप्रासादस्थानामैक्यप्रत्यभिज्ञाप्रसङ्गाल्लाघवेनैकस्यैव रूपादिशा- नाश्रयत्वौचित्याकाणोऽहमित्यादर्भमत्वादिति । तथा देहोऽपि नात्मा स्वप्नादौ देहभेदे ऽप्यहमित्यनुवृत्तेः । जातमात्रस्य स्तन्यपानप्रवृत्ति- दर्शनात् । स्तन्यपानं तृप्तिसाधनमिति व्याप्तिस्मृतिमूलानुभवार्थ जन्मान्तरसम्बन्धकल्पना । मम देह इति अबाधितभेदानुभ- वात् मनुष्यो ऽहमिति भ्रमः । तस्मादहमुल्लेखप्रत्यभिज्ञादिना देहेन्द्रियमनोविज्ञानशून्यव्यतिरिक्त आत्मा नित्यः सिद्धः । तस्य निर्विकारत्वे भोक्तृत्वायोगात् कर्तृत्वमेष्टव्यम् । एनेन श्लोके कर्जन्त- भागः स्फुटीकृतः । एकशब्दः केवलवाची भोक्तैव केवलं न कति सांख्यपक्षः स चाने वक्ष्यते।देहादेरनात्मत्वमिदानी प्रकारान्तरेणाह व्यस्तानामिति-- देहेन्द्रियमनोबुद्धिशून्यकत्रकभोकृषु । सर्वज्ञब्रह्मणोरात्मबुद्धिरस्तीह वादिना ॥ व्यस्तानां वा समस्तानां भूतानां भोत्कृता कुतः । इन्द्रियादेरपि तथा शून्या तेनात्मता ततः॥
१ सू. ४ वर्णकम् । निरस्तम्। अधुना भूतचतुष्टयसङ्घात एव देह आत्मेति मतं निरस्यते । तथाहि सङ्घातः किं भूताभिन्नः भूतातिरिक्तो वा आद्ये ऽपि भूतानां व्यस्तानां भोक्तृत्वं समस्तानां वा तत्र न तावद्यस्तानां युगपत् भो- तृत्वं सर्वेषां भूतानां खतन्त्रात्मत्वे सङ्घाताभावप्रसङ्गात् । अथ भि- नात्मनामपि वरगोष्ठीवदङ्गाङ्गितया क्रमेण भोक्तृत्वमिति चेन्न । दृष्टान्तवैषम्यात् । वराणां कन्यात्मकविषयस्यासाधारणत्वादेकस्य स्वविषयभोगकाले अन्यस्य गुणभावो युक्तः भूतानाङ्गन्धादिवि- षये साधारणाङ्गाङ्गिभावायोगाद्भोगकमायोगः । यदि भूम्यादिभूता- त्मनाङ्गन्धादयो ऽप्यसाधारणास्तदा प्राता ऽहं द्रष्टेति प्रत्यभिज्ञानुप- पत्तिः। नापि समस्तानां भोक्तृत्वं सर्वेषामपि भूतानामसंहतानां भो- कृत्वादर्शनात् । सङ्घाते च निमित्ताभावात् । आगामिभोगस्यास- त्वेनानिमित्तत्वाच्छेषस्य शेष्याक्षेपकत्वात् । सर्वेषामपि भोक्तणां भोगे समप्रधानतया सङ्घातायोगात् । न च भूतानां भोक्तृतया भोगं प्रति प्राधान्ये ऽपि कर्तृतया शेषत्वातू संघातो स्त्विति वाच्यम्। संघा- तात्माक् कर्तृत्वासिद्धः संहन्त्रभावाच । कार्ये हि कारणानां संहन्तरि संघातो भवति यथा तिलानां ज्वालायां न तु भोगः । नाप्येकस्यैव भूतस्य भोत्कृत्वं विनिगमकाभावात् । एतेन भूतातिरिक्तः संघातो भोक्तति निरस्तम् । संघातस्यावस्तुत्वाञ्च । वस्तुत्वे चत्वारि भूता- न्येव तत्त्वानीति मतहानिरिति । एवं व्याससमासविकल्पदूषणानी- न्द्रियात्मवादे ऽपिसमानि। एतेन भूतेन्द्रियसंघात आत्मेति प्रत्युक्तम् । इन्द्रियादेरपि तथेति न भोक्तृत्वमित्यर्थः । तस्माद्देहादिशून्यान्तेषु ना- त्मत्वमिति उपसंहारः । प्रसङ्गादिन्द्रियस्वरूपं निरूपयति । न गोल- कानीति- न गोलकानीन्द्रियाणि नापि तच्छक्तयो ऽपि तु । शक्तिमव्यरूपाणि भौतिकान्यविभूनि च ॥ गोलकानीन्द्रियाणीति सुगतमतमसङ्गतं गोलकासत्त्वे ऽपि सर्व- स्य शब्दोपलम्भात् । पश्यन्ति पादपा इत्यादि शास्त्राच्च गोलकशक्तय इति मीमांसकमतमप्ययुक्तम् । लाघवेन शक्तीनामात्मताप्रसङ्गाश्च । गोलकानामत्रैव भस्मीभावे तच्छक्तीनां विनाशात् । तमुक्रामन्तं प्राणोऽनूक्रामति प्राणमनूकामन्तं सर्वे प्राणा अनूक्रामन्तीतीन्द्रियाणां उक्रान्तिश्रुतिविरोधाच्च । तस्माच्छक्तिमद्रव्याणि तेषूक्तश्रुतिर्मानं तदपरिचयाल्लोकानां गोलकेष्विन्द्रियत्वबुद्धिमण्डले आदित्यत्वबुद्धि- वत् । तानि चाहङ्कारप्रकृतिकानीति सांख्याः तदयुक्तं मानाभावात् ।
११० विवरणापन्यासे "त्रिविधो ऽयमहङ्कारो महत्तत्त्वादजायत । इन्द्रियाणां ततः सृष्टिगुण- द्वारा महामुने” इत्यादिपुराणवचनमहङ्काराधीनत्वपरम् । अहमित्यभि- मानपूर्वकत्वादिन्द्रियप्रवृत्तेः नतु तत्प्रकृतिकत्वपरम् अन्नमयं हि सोम्य मन इति । य एष एतस्मिन्मण्डले करणात्मकः पुरुषस्तस्य ह्येष रस इति परोक्षापञ्चीकृतभूतप्रकृतिकत्वश्रुतिविरोधात् । अतः श्रुत्या भौ- तिकानान्द्रियाणि।तानि विभून्यपि सांख्याः तदयुक्तं सर्वत्र रूपाद्युप- लब्धिप्रसङ्गात् । नाडीद्वारोकान्त्यादिश्रुतिविरोधाश्चातः परिच्छिन्नानि सर्वे । न ता इति श्रुतिस्तूपासनेन्द्रियाणां सौरालोकादिवत् व्यापि- त्वाभिप्राया। अत एवोपासनासिद्धा ब्रह्मादयः सर्वमपरोक्षतया ऽनुभवन्ति । तान्यप्राप्यकारीणीति सुगताः । तदपि फल्गु । दूरस्था- सम्बद्धरूपाद्युपलब्धिप्रसङ्गात् । चक्षुषः सौरालोकवत् शीघ्रगा- मित्वाद्भुवादिसम्बन्धः श्रोत्रस्योचितदेशव्यापित्वाच्छब्दसम्बन्धो न वीचीतरङ्गन्यायेन शब्दागमनात्। तस्मात्प्राप्यकारीणीति चकारार्थः। मनो नित्यं निरवयवमणु चति तार्किकास्तदसाधु । अन्नमयं मनः एतस्माज्जायते प्राणो मन इति श्रुत्या कार्यद्रव्यत्वेन सावय- वत्वात् । अतो देहव्याप्यनित्यं सावयवत्वाद्दीपवत्सकोचविकास- वत्त्वेन गजपुत्तिकादिदेहप्रवेशयोग्यञ्च । यत्तु ज्ञानसन्ताने ऽनुत्तर- शानकारणं पूर्वज्ञानसमनन्तरप्रत्ययाख्यं मन इति शाक्यमतं तन्मान- हीनमित्युपेक्ष्यम् । आत्मा जडः कर्ता प्रातिदेहं भिन्न इति तार्किकास्तन्न । अत्रायं पुरुषः स्वयंज्योतिरसङ्गो ह्ययं पुरुष उपाधिना क्रियते भेदरूप इत्याद्यनेकश्रुतिभिः सयुक्तिकाभिर्विरोधात् । युक्तयश्चाचा- दर्शिताः सुषुप्त्यनुसन्धानादय इति । मनात्मनोः स्वरूपमाह । मन इति- - - १ सू. ४ वर्णकम् । १११ कत्ववदद्दष्टस्य क्रियाजनकत्वसम्भवेनाप्रयोजकत्वान्निरवयवात्मनः संयोगायोगाददृष्टवदात्मप्रदेशस्य देहादन्यत्रासत्त्वेनासंयोगात् । केवलात्मसंयोगस्य कार्याहेतुत्वाञ्च । तस्मादतीन्द्रियार्थेषागम एव शरणम् अनुमानं तदनुग्राहकंन स्वतन्त्रामीत द्रष्टव्यम् । इन्द्रियादि- स्वरूपकथनं प्रासङ्गिक समाप्य आत्मनि विप्रतिपत्त्यन्तरमाह । भोक्तारमिति- भोक्तारं केवलं सांख्या आत्मानं प्रतिपेदिरे । ततो ऽन्यमीश्वरं के चित्स आत्मा वेदवादिनाम् ॥ निरवयवस्यात्मनः स्वतः परतो वाऽऽगन्तुककर्तृत्वायोगात् कर्तृ- त्वस्य स्वाभाविकत्वे चैतन्यवत्सदा भानप्रसङ्गादनिर्मोक्षापत्तेश्चाक- तो आत्मा।नापि बुद्धिस्थकर्तृत्वस्यात्मन्यध्यासः अख्यातिवादित्वात्। अतो दृश्यसाक्षित्वमात्रमात्मनो भोत्तृत्वमित्यर्थः । पक्षान्तरमाह । ततोऽन्यमिति केचिद्वैशेषिकादयो योगिनश्च जीवाद्भिन्नमीश्वरमिच्छ- न्ति। तनुभुवनादिकार्य स्वरूपोपादानादि विज्ञानवत्कर्तृकंविचित्रकार्य वत्त्वात् प्रासादादिवदित्यनुमानेन लाघवादेकः सर्वज्ञः सिध्यतीति तार्किकाः । योगिनस्तु ज्ञानेश्वर्यतारतम्यं व चिद्विश्रान्तं सातिश- यत्वात् परिमाणतारतम्यवदिति निरतिशयज्ञानैश्चर्यशालीश्वर- सिद्धिः। तथा च योगसूत्रम् निरतिशयं सर्वज्ञबीजमिति । यत्साति- शयं तन्निरतिशयेनाविनाभूतमिति व्याप्त्या निरतिशयं ज्ञानं सि- ध्यत् सर्वज्ञसिद्धिहेतुरित्यर्थ इति मन्यन्ते । नन्वात्मविप्रतिपत्तिषु अनात्मेश्वरोपन्यासो न युक्त इति चेत् उच्यते । अत्र हि प्रत्यगभिन्ने ब्रह्मण्यखण्डैकरसे प्रात्मत्वसामान्याकारेण प्रसिद्धिः जिज्ञासा तु वि- प्रतिपत्तिद्वारा कथ्यते । तत्रात्मा देहादाभिन्नस्तद्भिन्नो वेति विप्रति- पन्तिकोटित्वेन देहाद्युपन्यासवदात्मा किमीश्वरादभिन्नो भिन्नो वेति विप्रतिपत्तिकोदित्वेन भिन्नेश्वरोपन्यासो युज्यते । एवं विप्रति- पत्त्या विरुद्धकोटिद्वयसाधारणात्मत्वाकारेण प्रत्यगात्मनि प्रसिद्ध तदुद्देशेन विचारविधौ सत्यनभिमतकोटिनिरासेन खाभिमताद्व- यानन्दब्रह्मत्वनिर्णयो मुक्तिफलो वेदान्तैर्जायते । अत्र कश्चिदाह । आ- त्मनि विप्रतिपत्त्युपन्यास एवायुक्तः तस्याजिज्ञास्यत्वात् । किन्तु ज- गत्कारणे किं प्रधानम् परमाणवो वाऽन्यद्धति विप्रतिपत्तिर्वक्तव्या। जन्मादिसूत्रालोचनायां जगत्कारणस्यैव जिज्ञास्यत्वावगमादिति । तन्न । फलाभावेन तटस्थजगत्कारणस्याजिज्ञास्यत्वात् । न चोपा- ११२ विवरणोपन्यासे सनार्थ तजिज्ञासेति वाच्यम् । तस्यासत्त्वे ऽप्यारोपेणोपासनासम्भ- वादुपासनया ऽपि मुमुक्ष्वभीष्टासिद्धेश्च । तस्मान्मुक्त्यर्थ प्रत्यगब्रह्मणो जिज्ञास्यत्वात् । प्रत्यगात्मनि विप्रतिपत्त्युपन्यासो युक्ततम इति स- केपः । सिद्धान्तकोटिमाह । स इति । ईश्वरः प्रत्यगात्मा ऽस्माकमि- त्यर्थः । ब्रह्म सच्चिदानन्दरूपम् अहमस्मि भामि प्रियतम इति प्रतीतेः प्रत्यगात्मा ऽपितथा।तथाच जीवो व्रत्मैव तदविलक्षणत्वात् ब्रह्मवत् । भेदस्त्वौपाधिक एवाहङ्काराद्युपाध्यनुविधायित्वात् । तत्त्वमस्यादि- श्रुतेश्चाभेदः जीवाद्भिन्नस्य घटादिवत् ब्रह्मत्वायोगाञ्च वस्तुतः परि- च्छेदादिति भावः । ननु यदि ब्रह्मणो ब्रह्मत्वादेव जीवाभेदः तर्हि दुःखात्मकजगदभेदोऽपि तस्यास्ति कुतश्चिदपि भिन्नस्य जगतो ब्रह्म- स्वायोगात् । उपादानत्वाञ्च ब्रह्मणो हेयाभेद इत्यपरिमितानर्थरूप- त्वादजिज्ञास्यत्वमापन्नमिति शङ्कते । नन्विति- ननु ब्रह्मत्वतो ब्रह्म जीवाभिन्नं यथा तथा । दुःखभिन्नमजिज्ञास्यं नैवं दुःखादिकल्पनात् ॥ नेह नानास्तीति अधिष्ठाने निषिद्धस्य द्वैतस्य कल्पितत्वेन रज्जु- सर्पवदधिष्ठानानतिरेकातू ब्रह्मत्वं कल्पितानासंस्पर्शादधिष्ठानस्य जिज्ञास्यत्वं च युक्तमिति । परिहरति । मैवमिति । ननु देहात्मादि- पक्षेषु जागरूकेषु ब्रह्मण एव मुमुक्षुभिर्जिज्ञास्यत्वं कथमित्यत आह । प्रत्यगति- प्रत्यगब्रह्मैक्यमेवात्र युक्तिवाक्यसमाश्रया। युक्त्यङ्गा ब्रह्ममीमांसा कर्तव्या ऽतो मुमुक्षुणा ॥ अत्र उक्तपक्षेषु अन्त्यपक्षे संक्षेपतो युक्तिवाक्ये दर्शिते। ननु स वा एष पुरुषो ऽन्नरसमयः इन्द्रियसंवादे चक्षुरुवाच मन उवाच योऽयं विज्ञानमय असदेवेदमग्र आसीत् कर्ता बोद्धा अनश्नन्नन्यः आत्मानमन्तरा यमयतीति वाक्यानि देहाद्यात्मत्वे युक्तयश्च सन्तीति चेत् । न । युक्तीनामाभासताया दर्शितत्वात् । आनन्दमयोऽभ्यासा- दित्यादिना वाक्यानां ब्रह्मान्मनिसमन्वयस्य सूत्रयता वक्ष्यमाणत्वात्। ननु ब्रह्मण एव जिज्ञास्यत्वेऽपि तद्विचारस्य जिज्ञासापदलक्षितस्ये- ध्यमाणाननााक्षिप्तस्य वा किमुपकरणं किं वा फलमित्याशङ्का निराकुर्वन् सूत्रार्थमुपसंहरति । युक्त्यङ्गेति ! युक्तिब्रह्मणि प्रमाणवि- चारो मुक्तये कर्तव्य इत्यर्थः । मुक्तिस्तु ज्ञानेनाज्ञाननिवृत्तौ प्रमा- तृत्वाध्यासनिवृत्तेः सत्यपि मायिकद्वैते अनर्थदर्शनाभाव इत्येकः - - १ स. ४ वर्णकम् । ११३ पक्षः । इतरस्तु सर्वद्वैतनिवृत्तिपक्षः सकलवृद्धसंमतः समन्वयसूत्रे वक्ष्यते । यस्यायमपरोक्षतया ब्रह्मानुभवः तस्य निरस्तसमस्तानर्थ- स्वप्रकाशानतिशयानन्दात्मना ऽवस्थानमित्यत्र न विवादः । तस्माद- नुबन्धचतुष्टयसम्भवात् वेदान्तविचारकर्तव्यता युक्तेति रमणीयम् । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दसरस्वतीपूज्यपाद- शिष्यरामानन्दविरचिते विवरणोपन्यासे अनुक्रमणिकाव्याख्याने चतुर्थवर्णकं प्रथमसूत्रश्च समाप्तम् ॥ जगजन्मस्थितिध्वंसहेतुं सच्चित्सुखात्मकम् । सीताभिरामं श्रीराम सगुणं केवलं भजे ॥ प्रथमसूत्रे यथोक्ताधिकारिणा ब्रह्मज्ञानाय विचारः कर्तव्य इति प्रतिज्ञातम् । तत्र ब्रह्मणि लक्षणप्रमाणाविरोधज्ञानसाधनफलानां विचारोऽर्थात्प्रतिज्ञातः तं विना फलसमर्थब्रह्मज्ञानायोगाद्विचारः क्रियते इत्याह । ब्रह्मेति- ब्रह्म मीमांस्यमित्युक्तौ विचारो लक्षणादिषु । अर्थादेव प्रतिज्ञातो लक्षणं तु विचार्यते ॥ जन्माद्यस्य यतः । ब्रह्माण लक्षणाभावात् निःखरूपब्रह्मविचारो न सम्भवतीत्याक्षेपसङ्गत्या ऽस्याधिकरणस्य प्रवृत्तिः । यतो वा इ. मानि भूतानि जायन्ते इत्यादिश्रुतिसिद्धलक्षणविचारात्मकत्वाच्छुति- सङ्गतिः।अत्र श्रूयमाणं जन्मादिकं ब्रह्मलक्षणं न वेति सन्देहे सम्बन्धा- भावान्न लक्षणमिति प्राप्ते सिद्धान्तः । जन्म आदिर्यस्य जन्मस्थिति- भङ्गस्य तजन्मादीति तद्गुणसंविज्ञानो बहुव्रीहिः जन्मस्थितिभङ्गं समासार्थ इति नपुंसकलिङ्गनिर्देशात् प्रतीयते । ननु बहुत्वविवक्ष- या जन्मादय इत्येव किमिति न कृतमिति चेत् । जन्मस्थितिभङ्ग- निरूपितं कारणत्वत्रयं मिलितमेवाद्वितीयब्रह्मणो लक्षणमिति ज्ञाप- नार्थमिति ब्रूमः । प्रत्येकं लक्षणत्वे जन्मकारणादन्यदेव स्थितिका- रणमिति कारणस्य सद्वयत्वज्ञानात् जगत्कारणानुवादेन तद्ब्रह्मेति ब्रह्मत्वप्रतिपादनमशक्यं स्यादतः कारणस्य ब्रह्मत्वस्यानुकूलल- क्षणसिध्द्यर्थ युक्त एव समाहारलिङ्गनिर्देशः। ननु तथापि जन्मस्थि- तिभङ्गानामनादिसंसारे घटीयन्त्रवदावृत्तेः कथं जन्मन आदित्वमिति चेत् श्रुतौ जन्मनः आदौ निर्देशात् जनित्वा स्थित्वा नश्यतीति व- स्त्वनुसाराचेत्याशयेनाह तृतीयेति-- . JA MORE - ११४ विवरणोपन्यासे तृतीयलिङ्गनिर्देशात्समाहारो ऽत्र गम्यते । तदादि जन्म विज्ञेयं श्रुतिर्वस्त्वनुसारतः ॥ इति । अद्वितीये लक्ष्ये जन्ममात्रकरणत्वस्यासम्भवादादिपदम् । निर- पेक्षं लक्षणत्रयमिति शङ्कानिरासार्थ नपुंसकैकवचननिर्देशः।अस्येति सर्वनाम्ना कार्य सर्वमुपस्थाप्यते सङ्कोचकाभावात् । षष्ठी तु जगतो जन्मादिभिर्भावविकारैरनिर्वचनीयतादात्म्यसंबन्धार्था सतो ऽसतो वा कार्यस्य तैः सत्यसंबन्धायोगादित्याह । इदमर्थ इति- इदमों जगत्सर्व षष्ठी संबन्धबोधिका ॥ तेन लक्षणत्वमविरुद्धमिति मन्तव्यम् । यस्य जगतः कारणं ब्रह्म तस्य स्वाभिमतं विभागमाह । जगदिति- जगद्विभागः श्रीतो ऽत्र नाना रूपेण कर्मणा । सर्वविज्ञप्तिमात्रं च खरूपं लक्षणं भवेत् ॥ त्रयं वा इदं नामरूपं कर्मेति श्रुत्या जगतः सर्वस्य प्रेधा वि- भागो दर्शितः अत्र नामरूपकर्माणि शब्दार्थतत्सम्बन्धाः । तत्र सं- बन्धस्य सबन्ध्यन्तर्भावाच्छब्दार्थी द्वावेव पदार्थौ इति वृद्धाः । श्रुति- भाष्यवार्तिकपरिशीलने तु प्रकाशकमानं नाम प्रकाश्यं रूपं चलं क- मौत व्याख्यानातू सत्त्वतमोरजांसि सर्व जगदिति विभागो भाति । एतेषु सर्वान्तर्भावस्यातो हि सर्वाणि नामान्युतिष्ठन्तीत्यादिश्रुत्या द. र्शितत्वाच्च नामरूपाभ्यामेव व्याक्रियते इति । द्वित्वोक्तस्तु कर्मणः प्रकाश्यत्वेन रूपेऽन्तर्भावाभिप्रायेणेति द्रष्टव्यम् । अश्रौतास्तु पुम्बुद्धि- भवा विभागा अधुनोच्यन्ते । द्रव्यगुणकर्मसामान्यानि चत्वारः प- दार्था इति वार्तिककारीयाः। गुरूणां विशेषशक्तिसमवायनियोगा उक्तैः सहाष्टौ । वैशेषिकाणां षट् । नैयायिकानां षोडश पदार्थाः प्र- सिद्धाः । कार्यकारणयोगविधिदुःखान्ताः पञ्चेति शैवाः । कार्य मह- दादि । कारणमीश्वरः । योगः समाधिः । विधिस्त्रिषवणस्नानादिः। दुःखान्तो मोक्षः । जीवाजीवात्रवसंवरनिर्जरबन्धमोक्षाः सप्तेति क्ष- पणकाः । जीवश्चेतनः । अजीवः परमाण्वादिः। विषयेषु इन्द्रियाणां प्रवृत्तिरास्रवः । तं संवृणोतीति शमदमादिः संवरः । नितरां जरयति कल्मषमिति तप्तशिलारोहणादिनिर्जरः। बन्धः कर्म । सततोर्ध्वगमनं मोक्षः । पृथिव्यप्तेजोवायवश्चत्वारि तत्त्वानीति लौकायताः । चित्तचत्ये इति सुगताः । पञ्चविंशतितत्वानीति २ सू. ५ वर्णकम् । ११५ सांख्याः । षड्विंश ईश्वर इति पातञ्जला इति । अनौतत्वादेते विभागा नादर्तव्या इति । ननु किं ब्रह्मणः स्वरूपलक्षणं न च यतः सर्वज्ञात्सर्वशक्तेः कारणादिदं भवति तब्रह्मेति भाष्यात् सर्वज्ञत्वं सर्वशक्तित्वं वा स्वरूपमिति वाच्यम् । सर्वापेक्षधर्मत्वाादेत्यत आह । सर्वविज्ञप्तिमात्रमिति । आनन्दस्य विज्ञानादभेदान्मात्रपदमविरुद्धं अविद्यादशायां स्वाध्यस्तसर्वावभासनक्षम स्वतो विषयानपेक्ष कि- शानमात्र स्वरूपलक्षणमित्यर्थः । ननु सिद्धान्ते ब्रह्मणः सर्वज्ञत्वं कथं स्वरूपज्ञानस्यातीतानागतवस्तुसम्बन्धाभावात् । इन्द्रियाणा- मपि वर्तमानसन्निकृष्टमात्रग्राहित्वात् । अचक्षुरश्रोत्रमित्यादिश्रुत्या ब्रह्मणि तेषामभावादिति चेत् । उच्यते । विद्यमानसर्ववस्तुगोचरः सत्वप्रधानमायावृत्तिरूपः परिणाम उदेति तत्राभिव्यक्तं चैतन्यं प्र- त्यक्षानुभवः । वृत्तिनाशे सति संस्कारानियमेन स्मरणं पूर्वानुभूत- वस्तुगोचरमायावृत्त्यभिव्यक्तचैतन्यरूपं तथा ऽनागतज्ञानमपि वृत्त्यु- पाधिकं द्रष्टव्यम् । कालत्रयावगाहिनी एकैव वृत्तिरिति केचित् । स्व- रूपचैतन्येनैव विद्यमानसर्वज्ञत्वमित्यपरे । उपादानत्वमात्रमस्मि- न्सूत्रे तटस्थलक्षणमुक्तं न कर्तृत्वमिति कृत्वा चिन्ता ऽरभ्यते । ननु जगदुपादानत्वं न ब्रह्मलक्षणं मायां तु प्रकृतिमिति श्रुत्या सर्गाद्य- कालीन कार्य जडोपादानकं कार्यत्वात् घटवत् । अन्यथा जगति जाड्यानुगमो न स्यादित्यनुमानेन च मायायामतिव्याप्तेः । न च मायाया उपादानत्वे इन्द्रो मायाभिः पुरुरूप ईयते इति करणत्वं विरुद्धमिति वाच्यम् । मायाकार्यबुद्धीनामात्मबहुत्वभ्रमहेतुतायास्तृ- तीयार्थत्वात् । माया प्रज्ञा च संविञ्चेति बुद्धिपर्यायष्वपि मायाश- ब्दस्मरणात् । एतेन. मायां तु ब्रह्मस्वरूपप्रज्ञाप्रकृतिं विद्यादिति श्रु. त्यर्थ इति ब्रह्मैवोपादानमिति निरस्तम् । मायिनं तु महेश्वरमिति श्रुतेश्च न चैतन्यं माया प्रकृतौ शक्तिशब्दः पारतन्ध्यद्योती न विरु- ध्यते । अत एव शक्तिशक्तिमतोरभेदात् सत्यमायाशक्तयभिन्नं ब्र- हैवोपादानमिति नातिव्याप्तिरिति निरस्तम् । लोके मायाविसृष्टाने- कमिथ्यागजाद्यनुस्यूतोपादाने मायाशब्दप्रयोगात् । मायाविद्यै क्य- साधनाञ्च । सत्यत्वस्य मायायामसिद्धः । तस्मादनिर्वचनीयमायो- पादाने ब्रह्मलक्षणस्यातिव्याप्तिरिति । अत्रोच्यते । ब्रह्ममाये सा- म्येन मिलित्वा जगदुपादाने इत्येक मतम् । अत्रोपादानत्वस्य तुल्य- त्वेऽपि चिदानन्दस्वरूपलक्षणान्मायातो ब्रह्मणो भेदज्ञानम् । अन्ये तु - विवरणोपन्यासे ब्रह्मशानात्सर्वज्ञानश्रुतेः सञ्चासचाभवदित्यादिश्रुतेश्च ब्रह्मैवोपा- दानं माया तु ब्रह्मणः प्रकृतित्वनिर्वाहकशक्तित्वेन प्रकृतिरिति व्य- पदिश्यते इत्याहुः । अत्रोपादानत्वमनतिव्याप्तं लक्षणं ब्रह्मण एव प्राधान्येनोपादानत्वात् । कचित्तु मायैव जगद्योनिस्तदधिष्ठानत्व- मात्रेण ब्रह्मणः कारणत्वमिति वदन्ति । अत्र परिणममानाविद्या- धिष्ठानत्वं लक्षणमिति विभागमभिप्रेत्याह । ब्रह्ममाये इति- ब्रह्ममाये जगधोनी माया शक्त्यथवा महत् । यद्वा योनिस्तु मायैव ब्रह्माधिष्ठानमिष्यते ॥ महब्रह्म मायाशक्तिकं योनिरिति मध्यमं मतमित्यर्थः । के चित्तु ब्रह्मपरिणामीत्याहुः । तन्न । तथा हि पूर्वस्वरूपोपमर्दैन रूपान्तरा- पत्तिः परिणामः स चोपादानसमसत्ताकः यथा क्षीरस्य दधिभावः। विवर्तस्तु पूर्वस्वरूपानुपमर्दैन रूपान्तरापत्तिः उपादानभिन्नसत्ताकः यथा शुक्र्व्यावहारिकसत्तावत्याः प्रातिभासिकं रजतं तत्र प्रलया- वस्थमायास्वरूपोपमर्दाजगत्तस्याः परिणामः सच्चिदानन्दनिष्कल- ब्रह्मस्वरूपानुपमर्दाब्रह्मणो विवर्त एव एतावानस्य प्रपञ्चो महिमा अतो ज्यायांश्च पुरुषः नामरूपयोर्निर्वहिता ते यदन्तरा यत्र विलक्षणे कल्पिते तब्रह्मेत्याद्याः श्रुतयो ब्रह्मस्वरूपानुपमर्द मानं निष्कलं निष्क्रियं शान्तमसङ्गमरसमगन्धमित्यादिना निरवयवत्वादिश्रुतेश्च ब्रह्मणः परिणामो न युज्यते । अत्र कश्चिनिरवयवमपि परिणमते इति जल्पति । हेयावयवपरमाणूनां परिणामाभावे हेनः कथं रुच- काकारः परिणामः स्यात् । अवयवविकारं विना अवयविविकारायो गात् । स वक्तव्यः कोऽयं परिणामो नामेति यद्यवयवानां संयो- गविशेषः परिस्पन्दो वा गुणान्तरोदयो वा परिणामः तडॅकस्मिन् अचले निर्गुणे ब्रह्मणि स नास्ति लोके द्रव्यरूपकार्यासिद्धिश्च । अथोपादानानुरक्तं द्रव्यान्तरं परिणामः तर्हि यथादर्शनं हेमाद्य- वयविन एव परिणामो ऽस्तु अवयवानां नाशादिकं विना ऽप्यवय- विनो नाशवत् घटत्वादिजातिविशेषसमवायवञ्च तेषां परिणामं विना ऽपि तस्य परिणामोपपत्तेः न ह्यवयविनि यावदस्ति तत्सर्व. मवयवेषुः कल्पयितुं शक्यम् अनुभवविरोधात् । ननु स्वाभिन्ना- वयवेवत्रिकारिघु कथमवयविनो विकार इति चेत् स्वाभिन्नजाति- गुणादिष्वविकारिषु द्रव्यपरिणामवदिति बमः । ननु अवयविनि संयोगो ऽवयवसंयोगपुरःसरो इष्ट इति चेत् । न । संयोगद्वयादृष्टेः ।
- २ सू. ५ वर्णकम् । ११७ अवयवानामवच्छेदकत्वमात्रमिति नास्ति निरवयवे परिणामः कि- अचावयवानां मायिकानां सावयवतया परिणामे ऽपि न निरवयवन- ह्मणः परिणामः दृष्टान्ताभावात् । अस्तु तर्हि ब्रह्म. सावयवमिति चेन्न । अवयवानां स्वप्रकाशत्वे ब्रह्मसम्बन्धासिद्धेः तुल्यानां मिथो प्रााग्राहकत्वायोगात् । तेषां जडत्वे च न स्वयंप्रकाशब्रह्मांशत्वं व- स्तुविरोधान्मानाभावाश्च निष्कलमित्यादिश्रुतेश्च । तस्मान्मायया ब्रह्म जगदूपण भातीति विवर्त एवेति मत्वाह । ब्रह्मरूपेति- ब्रह्मरूपापरित्यागाद्विवर्ती जगदिष्यते । निष्कले निष्क्रिये ऽसङ्गे परिणामो न युज्यते ॥ अन्ये त्वाकाशवन्महाभूतानि न जायन्ते इत्याहुः तन्न । पृथिव्य- तेजोवायवः प्रत्येकं पक्षीकृताः जायन्ते पृथिवीत्वादप्त्वात्तेजस्त्वात वायुत्वात् घटवञ्चन्द्रकान्तजलमथिताग्निव्यजनपवनवदित्यनुमाना- नुगृहीतादयः पृथिवीत्यादिसृष्टिवाक्यात् जन्मसिद्धराकाशदृष्टा- न्तासिद्धेश्च । अत एव यतो वा इत्यादिवाक्ये जन्मादीनि सिद्धवद- नुवाद इति मन्तव्यम् । अत्र लक्षणसूत्रे ब्रह्मणो जगद्धतुत्वसिद्धये ब्रह्मान्यहेत्वसम्भवयुक्तिरर्थात्सूत्रिता हेत्वन्तरसत्त्वे ब्रह्मासिद्धेस्त- लक्षणायोगादिति मत्वाह । प्रधानेति- प्रधानपरमाणूनां शून्यजीवस्वभावतः। हेतुत्वासम्भवाद् ब्रह्म जगद्धेतुः स्वमायया ॥ षष्ठीबहुवचने तसिप्रत्ययः । अत्र सांख्याः । सर्वे भावाः सुख- दुःखमोहात्मकसामान्यप्रकृतिकाः नियमेन तदन्वितत्वात् यदित्थं तत्तथा यथा मृदन्विता घटादयः तत्प्रकृतिकाः। इति सत्त्वरजस्तमो- रूपं प्रधानमनुमिमते । तार्किकास्तु आद्यं कार्यद्रव्यं स्वन्यूनपरि- माणसंयुक्तानेकद्रव्यारब्धं कार्यद्रव्यत्वात् घटवदिति परमाणून कल्पयन्ति । बाह्यास्तु सर्व कार्यमभावजन्य योग्यत्वे सत्यनुपलभ्य- मानपूर्वावस्थत्वात् व्यतिरेकेण वैदिकात्मवदिति जल्पन्ति । हैरण्य- गर्भास्तु हिरण्यगर्भमागमबलेन कारणं वदन्ति । स्वभाववादिनस्तु सर्व कार्य निर्निमित्तं जायते निमित्तकल्पने इनवस्थापातात् । निमित्तस्यान्यानपेक्षत्वे स्वभाववाद इति वदन्ति । तदयुक्तम् । अनुमानार्थयोरसम्भवात् । तथा हि न तावत्सांख्यानुमानं साधु सुखादीनामान्तरत्वानुभवेन पक्षे हेत्वसिद्धेः । प्रधानस्याचेत- नतया विचित्रजगद्चनारूपार्थासम्भवश्च । तार्किकानुमाने हेतोरति- विवरणोपन्यासे विस्तृतदीर्घदुकूलारब्धरजी व्यभिचारः । शानत्वेन शरीरत्वेन का. र्यकारणाभावात् । नित्यज्ञानकल्पनायोगादीश्वरे शरीराङ्गीकारे सु- खदुःखयोरावश्यकत्वादुःखिनो जीवत्वेनाल्पक्षतया परमाणुप्रेरक- त्वानुपपत्तिः । शून्यानुमाने घटस्य पूर्वावस्था मृदुपलभ्यते इति हेत्वसिद्धिः । अभावप्रकृतिकत्वे कार्येषु सद्वद्ध्यसम्भवः। किञ्च पूर्व- कल्पस्य नाशे सत्याश्रयाभावेन संस्काराणों सजातीयकार्यनियाम- कानामभावाद्विलक्षण एवायं कल्पः स्यात् । तथा च धर्मः सुखाया- ऽधर्मो दुःखाय मृदादेरेव घटादिकार्यमस्य शब्दस्यायं वाच्य इत्या- दिव्यवस्था लुप्येत प्रतिक्षणविलक्षणत्वात् स्वलक्षणानामित्यलम् । हिरण्यगर्भस्य जीवत्वात् न सर्वहेतुत्वम् ईश्वरत्वं त्वथ यन्मर्त्यः स- मृतानसृजतेत्याद्यागमबाधितम् । स्वभाववादे तैलार्थी तिलेषु न प्रवर्तेत । न चानवस्था ऽनादिकारणे पर्यवसानात् इत्थं प्रधानादीनां हेतुत्वासम्भवादचिन्त्यमायाशक्त्या ब्रह्मैव निखिलजनिमन्निदानमि- ति सिद्धम् । येयं युक्तिरभिहिता विना कर्तारमचेतनात्कार्य न भव- तीति तां युक्तिं सतीमनुमानं सर्वशसाधकं मन्यन्ते वैशेषिकादयः । युक्तिर्नाम सम्भावनाहेतुाप्त्याभासज्ञानम् । यथाग्निमत्त्वाद् धूमो ऽत्र स्थास्यतीति । वस्तुनिश्चायकं व्याप्तिज्ञानमनुमान यथाऽत्र धूमाव- न्हिरस्त्येवेति । तत्र यत्कार्य तत्सकर्तृकमिति व्याप्त्या सर्वशः कर्ता निश्चेतुं न शक्यते जगदनेककर्तृकं विचित्रकार्यत्वात्प्रासादादिव- दिति प्रत्यनुमानसम्भवात् । न च लाघवात् कर्बक्ये सति सर्वशसि- द्धिरिति वाच्यम् । यज्ज्ञानं तच्छरीरजमिति निश्चयेनाशरीरस्य कर्तु- बर्बाधे सति लाघवानवतारात् । न च यत्सातिशयं तन्निरतिशयजा- तीयमिति व्याप्त्या सर्वगोचरज्ञानसिद्धिरित्युक्तम् । लक्षकोटिवस्तु- गोचरज्ञानेनार्थान्तरत्वात् । अशरीरस्य शानायोगेन शरीरिणो ऽल्प. शत्वेन सङ्कोचस्य न्याय्यत्वात् । तस्माच्छ्रुत्या सर्व कारणे सिद्ध सत्युक्तव्याप्त्या सम्भावनामात्रं भवतीत्येषा युक्तिरेवेति मत्वाह । अनुमानमिति- अनुमानमिमां युक्तिं मन्यन्ते तार्किका जनाः । श्रुतिरेव स्वतन्त्रा ऽत्र युक्तिः सम्भवबुद्धिकृत् ॥ नन्वनुमानमेव स्वतन्त्रमनेन सूत्रेण विचार्यते न श्रुतिस्तस्या- स्तत्रान्तर्भावादित्यत आह । श्रुतिरेवेति । यदि श्रुतिरनुमानान्तर्भूता स्यात्तदा तस्याः शक्तितात्पर्यवत्त्वं ब्रह्मणि ततू समन्वयादित्यादिना - २ सू. ५ वर्णकम् । सूत्रकारो न घूयात् । तस्मादतीन्द्रिये प्रत्यग्ब्रह्मणि श्रुतेरेवस्वातन्त्र्यं लौकिकदृष्टान्तमात्रेण तस्योहितुमशक्यत्वात् इत्यर्थः । ननु तर्हि श्रु- तिसिद्धार्थे युक्त्या किं क्रियते ननूक्तं सम्भावनति सत्यमुक्तं परन्तु तस्याः फलं पृच्छाम इत्यत आह । एवञ्चेति । एवञ्च श्रुतियुक्तिभ्यां ब्रह्मण्यनुभवो भवेत् । धर्मे त्वनुभवायोग्ये श्रुत्यादेरेव मानता ॥ श्रोतव्यो मन्तव्य इत्यादिश्रुतेरिति भावः। नन्ववधृततात्पर्याच्छ- ग्दात् ज्ञाने धर्मे मननादिनिदिध्यासनानुभवा नापेक्ष्यन्ते तथा ब्र- झणोऽपि वेदार्थत्वात् शब्दमात्रमपेक्ष्यतां नत्वेते इत्याशङ्कयाह । ध- में त्विति । धर्मस्यानुभवितुमशक्यत्वादनपेक्षितानुभवाच्च ते नापे- श्यन्ते । किन्तु अनुमानोपयोगिश्रुत्यादिमात्रमपेक्ष्यते । आदिपदेन लिङ्गादयः श्रुतिगमकाः शब्दप्रभेदा उच्यन्ते । ब्रह्मणः प्रत्यक्त्वेना- ऽनुभवितुं शक्यत्वादपरोक्षभ्रान्तिध्वंसायापक्षितानुभवत्वाञ्च ते ऽपे- श्यन्ते । साक्षादनुभवाय श्रुत्यादयो ऽप्यत्र शाब्दबोधायापेक्ष्यन्ते । यदि वेदार्थत्वमात्रेण ब्रह्मणि धर्मवन्मननाद्यपेक्षोच्येत तर्हि धर्मे इव ब्रह्मण्यपि प्रकृतिसाध्यत्वविधेयत्वनिषेध्यत्वोत्सर्गापवादादयोऽपिप्र- सज्येरन् । तच्चानिष्टम् । सिद्धस्य वस्तुन एकरूपत्वात् वस्त्वनुसार्ये- कमेव ज्ञानं प्रमा भवति साध्यस्य तु ज्ञानाधीनत्वाद्यथाशास्त्रं वि- कल्पादिज्ञानं सर्व प्रमा ऽतो धर्मविलक्षणत्वाब्रह्मणि मननाद्यपेक्षा यु- तेति भावः । ननु ब्रह्मणि श्रुतेर्युक्त्यपेक्षा न युक्ता भिन्नविषयत्वात् । तथाहि । सद्ब्रह्मैकमद्वितीयमित्यादिश्रुतिर्विशेषविषया मृदादिदृष्टा- न्तवाक्यलभ्यं यत्कार्य तत्खोपादानाभिन्नमिति युक्तिः सामान्यवि- षयेत्यत आह । सामान्येति- सामान्यद्वारतो युक्तेर्वेदार्थे स्यात्सहायता। तस्माद्वेदविचारार्थमिदं सूत्रमिति स्थितम् ॥ अद्वितीयब्रह्मण उपादानत्वे श्रुते सत्युपादानत्वादिसामान्यद्वारा युक्तरद्वितीयत्वादि सम्भाव्यते इति युक्त्यपेक्षा युक्तेति भावः । एव- मतीन्द्रियार्थे युक्तेः स्वातन्त्र्याभावोक्तिफलमाह तस्मादिति । को ऽसौ वेद इत्यत आह । भृगुरिति- भृगुवै प्रभृतिर्वेदः सूत्रे ऽस्मिन् विषयो भवेत् । जगद्धत्वनुवादत्वमिति पूर्वकमीरितम् ॥ ब्रह्मताबोधकं तस्य निर्णयो वाक्यशेषतः। - १२० विवरणोपन्यासे ननु भृगु वारुणिरित्यादि किमर्थमुदाहृतं लक्षणसूत्रे । न च पाठशानार्थमिति वाच्यम् । अर्थज्ञाने पाठक्रमस्यानुपयोगात् । प्रसिद्धानुवादेन ह्यप्रसिद्ध बोध्य तथा च यत आकाशादिक सम्भूतमिति प्रसिद्धानुवादेन तत्सत्यं ज्ञानमनन्तं ब्रह्मेति पाठ- भङ्गेनैव बोध्यते इति सत्यं किन्त्वधिकारिणा ऽऽचार्याधीनेन ब्रह्म वि. चार्यमिति प्रथमसूत्रे विचारितार्थकं भृगुर्वा इति वाक्यं किं तद्ब्रह्मे- त्याकाङ्क्षायां तत्प्रतिपादकं यतो वा इमानीत्यादिलक्षणवाक्यं द्वि- तीयसूत्रेण विचार्यते इति क्रमज्ञानार्थमुदाहृतं भाष्यकारैरिति न दोषः । ननु यतो वा इमानीत्यादिवाक्ये जगत्कारणानुवादेन ब्रह्मत्वं विधीयते । तदयुक्तम् । कारणनानात्वस्य पटादाविव प्रतीतेरिति चेन्न । येन जातानीत्यपूर्वस्यैकत्वस्य विधानात् । तत्र यजगत्कारणं तदेकमिति अवान्तरवाक्येनेकत्वप्रमितौ सत्यां यदुक्तकारणमेकं तद्र- ह्मति महावाक्येन बोध्यते । एवञ्च वाक्यान्तरे कारणस्येक्षितृत्वश्र- वणादेकं सर्वशं सर्वशक्ति सर्वतोऽवच्छिन्नं जगत्कारणं ब्रह्मशब्दाभि- धेयमित्यर्थासिध्यति । तस्य स्वरूपाकालायामेकत्वस्य भेदाभाव- त्वात् सर्वज्ञत्वादीनां जडघटितधर्मत्वादस्वरूपत्वादाकासितं धर्मि- स्वरूपमानन्दाध्येव खल्विमानि भूतानि जायन्ते इति वाक्यशेषेणा- नन्द इति निीयते इत्याह । जगद्धेत्विति । न चानन्दस्य स्वरूप- त्वे विज्ञानं गुणः स्यात् । अन्यथा विज्ञानमानन्दं ब्रह्मेति सामानाधि- करण्यायोगादिति वाच्यम् । केवलो निर्गुण इति श्रुतिविरोधात् । यत्तु निर्गुणस्योपादानत्वमयुक्तमिति भास्करोक्तं तन्न । भ्रान्त्यधि- ठानत्वरूपोपादानत्वस्याज्ञातत्वमात्रेणोपपत्तेः । तस्मात् द्रव्यं घट इतिवत् कल्पितसामान्यविशेषभावेन विज्ञानमानन्दमिति सामा- नाधिकरण्यं वृत्त्यहीनचित्त्वं वृत्तिविशेषावच्छिन्नत्वमानन्दत्वमिति मत्वा सूत्रार्थमुपसंहरति । यजगदिति- यजगत्कारणं तद्धि स्वप्रकाशमनन्तकम् । आनन्दरूपं ब्रह्मेति पञ्चमे वर्णक स्थितम् ।। सर्वशाखासु सृष्टिवाक्ये पाठव्यत्ययेन कारणमनूध सत्यज्ञाना- दिरूपं बोध्यते इति भावः । पञ्चमं वर्णकं द्वितीयसूत्रञ्च समाप्तम् ॥ woman - ३ सू. ६ वर्णकम् । १२१ यस्य निःश्वसितं वेदाः सर्वार्थज्ञानशक्तयः। श्रीरामं सर्ववेत्तारं वेदवेद्यमहं भजे ॥ पूर्व ब्रह्मणो जगत्कर्तृत्वोक्त्या ऽर्थात्सर्वज्ञत्वमुक्तम् । तत्र हेत्वन्त- रोक्त्यर्थमिदं सूत्रं पूर्वाधिकरणान्तर्भूतत्वेनावतारयति । सर्ववित्त्वे इति- सर्ववित्त्वे परो हेतुःशास्त्रयोनित्वमुच्यते । यद्वा वेदस्य नित्यत्वाशङ्कायामिदमुच्यते ॥ यद्वा ऽधिकरणान्तरमेतत् । तथा हि । शास्त्रयोनित्वात् । अस्य महतो भूतस्य निःश्वसितमेतत् यहग्वेदो यजुर्वेदः सामवेद इति वाक्यं ब्राह्मणो वेदकर्तृत्वपरं न वेति सन्देहे पौरुषेयत्वेन वेदस्य सापेक्षत्वप्रसङ्गान्नति पूर्वपक्षः । तथा च वेदस्य नित्यत्वाब्रह्मणः सर्वप्रपञ्चहेतुत्वं पूर्वोक्तमसिद्धमित्याक्षेपसङ्गतिः । सर्वशत्वासिद्धिः फलम् । सिद्धान्ते तूपलभ्यरचनानङ्गीकारेण पौरुषेयत्वाभावा- त्सर्वार्थप्रकाशनशक्तिमद्वेदोपादानत्वेन ब्रह्मणः सर्वज्ञत्वसिद्धिः । दीपस्य प्रकाशनशक्तेस्तदुपादानशक्तिपूर्वकत्वस्य तद्भदस्य वा दर्शनातू उपादानोपादेययोः शक्त्यैक्यादिति मत्वाह यद्वेति । वेद- गता सर्वार्थज्ञानशक्तिः तदुपादानगतशक्ति पूर्विका तद्गता वा कार्य- गतत्वे सति ज्ञानानुकूलशक्तित्वात्कार्यगतशक्तित्वाद्वा दीपगतश- क्तिवदिति प्रयोगः । सगुणस्याकाशस्य ब्रह्मोपादानकतया शब्दगुणं प्रति उपादानत्वाभावान्नाकाशस्य सर्वज्ञत्वापत्तिः :। यद्वा ज्ञानानुकून लशक्तिमत्त्वे ऽपि यथा वेदो न सर्वज्ञः अचेतनया ज्ञान प्रति प्रक- र्तृत्वात् तथा ऽऽकाशो ऽपीति मन्तव्यम् । तथा ऽन्यः प्रयोगः वेदः स्वविषयादधिकशप्रणीतः प्रमाणवाक्यत्वात् पाणिन्यादिशास्त्रव- दिति । ननु किं नाम प्रणीतत्वं यद्यध्येतृवाक्ये इवोच्चरितत्वं ती; ध्येतृवन्नाधिकता ब्रह्मणः । अथ काव्ये इवार्थज्ञानवता कृतत्वं तदा पौरुषेयतापातो वेदस्येति शङ्कते यदीति- यदि वेदस्य कर्तृत्वाब्रह्म सर्वज्ञमुच्यते । पौरुषेयस्तदा वेदो मानं न स्यान्न वाक्यवत् ॥ अत्र के चित् । वेदस्य पौरुषेयत्वे को दोषः । ननु तथात्वे मा; नान्तरसापेक्षत्वेनाप्रामाण्यं दोष इति चेत् । उच्यते । वेदे लोके च वक्तृरागो वाक्यार्थः तत्र जीवानां ज्ञानस्यानित्यत्वात्तन्मूलरागा- र्थकं वाक्यं सापेक्षं भवति ईश्वरस्य तु ज्ञानरागयोनित्यत्वात् त- १.२२ विवरणोपन्यासे कर्तृको वेदो नित्यरागार्थको न मानान्तरमपेक्षते इत्याहुः । तत्स- माधानं दूषयति । नित्य इति- नित्यो रागो न वेदार्थो मानाभावादितीरितम् । ज्ञात्वा कृतत्वे वेदस्य सापेक्षत्वं ध्रुवं भवेत् ॥ ज्ञानेच्छयोनित्यत्वेनानुमानमस्तीति पूर्वमुक्तं वेदस्य तु मानत्वमद्या- प्यसिद्धं तादृग्वेदानुपलम्भाच्च । क्वापि रागो न वाक्यार्थ इति समन्व- यसूत्रे वक्ष्यते इति भावः। अन्ये तु लौकिकवाक्यमेव रागे तात्पर्यवत् वेदस्त्वर्थ ज्ञात्वा कृतोऽपि न रागार्थकः अध्ययनविधिना विधौ ता- त्पर्यावगमादित्याहुः । तत्राह। ज्ञात्वेति।ज्ञात्वा कृतत्वे लौकिकवाक्य- वत् विधिपरत्वमपि दुर्लभमिति भावः । अपरे तु ब्रह्मस्वरूपज्ञानस्य निर्विकल्पकत्वातू तजन्यत्वे ऽपि न वेदस्य सापेक्षत्वमित्याहुः तद- तिमन्दम् । तस्य वेदार्थगोचरत्वे निर्विकल्पकासिद्धेः तदगोचरत्वे हेतुत्वासिद्धरिति । तस्मान्नैते परिहाराः । अस्तु तर्हि वेदस्य पौरुषे- यत्वमिति तार्किकाः । तथा हि वेदो बहुज्ञकर्तृकः प्रमाणवाक्य- त्वात् भारतवाक्यवदिति तेषां मते वेदस्य रचनायां भूताभूत. शानाभावात्प्रामाण्यं दुःसाधम् । न चेश्वरस्य नित्यं ज्ञानं वेदमूल- मित्यत्र किञ्चिन्मानमास्ति ज्ञानत्वावच्छिन्नस्य मनःसंयोगकार्यत्वद- र्शनेन नित्यज्ञानानुमानायोगात् । तेषां प्रामाण्यस्य संदिग्धत्वात् । अ- स्त्वीश्वरस्याप्यनित्यज्ञानं तन्मूलमिति चेत् न वेदार्थस्याप्रत्यक्ष- त्वात् । इन्द्रियजन्यज्ञानायोगात् । ननु योगजधर्मप्रत्यासत्त्या मनसा तस्य वेदार्थज्ञानमिति चेन्न तादृशप्रत्यासत्तौ मानाभावात् । भावे वा दूरस्थयोग्यवस्तुमात्रग्रहे तस्योपयोगात्। तदुक्तम् । “यत्राप्यतिशयो दृष्टस्तत्स्वार्थानतिलङ्घनात्। दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोतृवृत्तिते- ति" । तस्मादप्रामाण्यापातात् वेदस्य न पौरुषेयतेत्याह- तार्किका घोषयन्त्यत्र वेदः पुरुषजो ऽस्त्विति । तेषां तत्र प्रमात्मत्वं दुःसाधं मूलशून्यतः॥ सुगतास्तु वेदाप्रामाण्यमिष्टमित्याहुः तैरिदं वक्तव्यं किमामु- मिकफलसाधनं धर्मादिकम् अस्ति न वेति । आद्ये वेद विना तद्- सिद्धेः तत्प्रामाण्यं दुर्वारमित्याह । सुगता इति- सुगताः सङ्गिरन्ते ऽत्र वेदो मानं न चास्त्विति । धर्माद्यतीन्द्रियार्थो हि तेषां पक्षे सुदुर्लभः ॥ नेति पक्ष शङ्कते । लौकायतेति- - - ३ सू. ६ वर्णकम् । १२३ लौकायतवराकाश्च परोक्षं नेति भाषते । लोकोक्तिवद्वेदमात्रे परोक्षार्थः प्रसिध्यति । अप्रत्यक्षप्रमेयाभावात् । न वेदः प्रमाणमिति वदता बक्तव्यं किं लौकिकवाक्यं मानं न वेति न चेत्तव कथानधिकारः । मिथःश- ब्दानामबोधकत्वात् । आद्ये वेदेनानधिगताबाधितफलवदर्थबोध- केन किमपराद्धमित्याह । लोकोक्तिवदिति । एवं तार्किकाणां पौरु- षेयत्वानुमाने वेदस्याप्रामाण्यापातो बाधकतर्क उक्तः इष्टापत्तिः प्रसंगाद्वारिता । किञ्च किमिदं पौरुषेयत्वं शब्दार्थसम्बन्धस्य पुरु- षकृतत्वं वा उत वेदवाक्यस्य तत्कृतत्वमात्रम् । आहोस्वित् अर्थ- ज्ञानवत्पुरुषकृतत्वं नाथः । तत्र मानाभावात् । न हि सर्गादावीश्वरण गोघटादिशब्दाः सर्वे संकेतिता इत्यत्र किञ्चिन्मानमस्ति किञ्च श- ब्दार्थसंकेतं कुर्वन्नीश्वरः पूर्वकल्पीयशब्दार्थसम्बन्धमनुसृत्य करोति उत स्वातन्त्र्येणाभिनवसम्बन्धान्तरं अन्त्ये प्रतिकल्पं वेदार्थभेदा- दिदमिष्टसाधनमिदं दुःखसाधनमिति व्यवस्थालोपः । आद्येनेश्वर- स्य सम्बन्धे स्वातन्त्र्यं सिद्धसम्बन्धस्मारयितृत्वात् । तथा च प्र- योगः एतत्कल्पस्यादौ गोशब्दार्थसम्बन्धव्यवहारः पूर्वसिद्धतत्सं- बन्धज्ञानजन्यः जीवेनाकृतशब्दार्थसम्बन्धव्यवहारत्वात् । अधुना तद्यवहारवत् सांकेतिकनिरासार्थ जीवाकृतेत्युक्तम् ।न द्वितीयःसि- द्धसाधनात् । प्रतिक्षणमानुपूर्वीविशिष्टवर्णात्मकवाक्यस्याध्येतृभिः क्रियमाणत्वात् । अभिनवानुपूर्व्या ईश्वरेणाप्यकरणात् । धाता य- थापूर्वमकल्पयदिति श्रुतेः शब्दार्थसम्बन्धवदानुपूर्व्या अपि प्रवाहा- नादित्वानुमानाञ्च । आद्या वेदानुपूर्वी तत्पूर्वानुपूर्वी स्मृतिजन्या वे- दानुपूर्वीत्वात् । संमतवदिति एतेन निःश्वसितादिश्रुत्या वेदस्यापी- रुषेयत्वमिति निरस्तम् । महाप्रलये प्रलीनवेदस्याकाशादिवञ्चिद्वि- वर्तस्येष्टत्वात् । अत एव न तृतीयः निःश्वसितश्रुत्या ऽर्थज्ञानप्रया- सात् । तस्मान पौरुषेयो वेद इत्याह । शब्दार्थ इति- शब्दार्थयोगः सहजो वेदे पुंसो स्वतन्त्रता। न चार्थज्ञानजो वेदः पौरुषेयः कथं भवेत् ॥ ननु लोके शाब्दबोधप्रमात्वे वक्तृयथार्थज्ञानं गुणत्वे न हेतुः त. जत्वज्ञानत्वं तु ज्ञापकं बेदस्याप्तप्रणीतत्वाभावे तदभावात् । कथं वेदार्थबोधे प्रमात्वमित्यत आह । स्वत इति---.
१२४ विवरणोपन्यासे स्वतो निर्दोषवेदो ऽत्र नाप्तज्ञानमपेक्षितम् । नित्योन्तःस्थायिवर्णात्मा वेदस्तुल्यक्रमान्वितः ॥ खारसिकं प्रमाणानां प्रामाण्यं नान्यापेक्षं परन्तु लोके शब्दस्य भ्रान्त्यादिजन्यत्वं नाम दोषः स्वारसिकप्रमाप्रतिबन्धको भ्रान्तिहेतुः सम्भवतीति तन्निरासार्थमाप्तज्ञानं गुणो ऽपेक्ष्यते वेदे तु अपौरुषेय- तया दोषाभावान्न तदपेक्षेत्यर्थः । अतो वेदे पुरुषस्य सर्प इव र- जोरुपादानत्वे ऽपि स्वातन्त्र्याभावे न पूर्वकल्पक्रमविसदृशक्रमाभा- वात् प्रवाहात्मना नाद्यनन्तत्वं सिद्धमित्याह । नित्य इति । ननु वे- दस्य सर्ववन्मिथ्यात्वे प्रामाण्यं कथमिति चेत् उच्यते । क्रमवि- शेषवन्तो वर्णा वेद इत्यविवादम् । नभोवद्यापिषु नित्येषु न देशका- लनिमित्तः क्रमो वर्णेष्विति किन्तु श्रोतुः ज्ञानगतः क्रमो शेयेषु व. र्णेषु आरोप्यते इति वेदज्ञानं सर्वेषां मते भ्रम एव न च क्षणिक- त्वात् वर्णानां स्वतः कम इति युक्तम् । सोऽयं गकार इत्यवाधितप्रत्य- भिज्ञाविरोधात् । अनन्तव्यक्तिजातिकल्पनायां गौरवात् । तथा च पदवाक्यप्रत्यक्षायोगाश्च । नष्टानां वर्णानां श्रोत्रेणासम्बन्धात् । ज्ञानादेरप्रत्यासत्तित्वात् । तदात्वे पदवाक्यानुभवः प्रत्यक्ष इति अ- नुव्यवसायविरोधात् । न ह्यलौकिकशाने व चिदपि प्रत्यक्षत्वोल्लेखो ऽस्तीत्यलम् । अख्यातिवाद एव नास्ति विशिष्टार्थतज्ज्ञानयोरभावात् । अन्यथाख्यातावपि तथैव विशिष्टार्थाभावात् । अस्माकं तु विशि- ष्टार्थो भ्रान्तावस्तीति विशेषः । यथा लिखितरेखासर्पबुद्धर्भ्रान्तत्वे ऽपि तजन्य वस्तुशानं प्रमावेदज्ञानाजातं तदर्थज्ञानं प्रमेत्याह । मि. थ्यात्वे ऽपीति- MARA ३ सू. ७ वर्णकम् । १२५ तदर्थानामपि ज्ञानं नान्तरीयकतया ऽस्तीति वर्णकार्थमुपसंहरति । वेदयोनित्वत इति॥ इति षष्ठं वर्णकं समाप्तम् । इदानी सूत्रस्यानेकार्थत्वं भूषणमिति मत्वा ब्रह्मणि प्रमाणप्रति- ज्ञामर्थान्तरमाह । यद्वति- यद्वा ब्रह्मप्रमित्यर्थ शास्त्रयोनित्वमुच्यते। वेदैकमानकं ब्रह्म नानुमेयमिति स्थितिः॥ शास्त्रयोनित्वात् । किं ब्रह्म वेदान्तकवेद्यम उत कार्यलिङ्गकानु- मानमिति संदेहे जन्मादिसूत्रे कार्यलिङ्गमेवोपन्यस्तमिति भ्रान्ति निराचष्टे सूत्रकारः । शास्त्रयोनित्वादिति । वेदैकप्रमाणकत्वस्य तन्त्वोपनिषदमिति श्रुतत्वात् कार्यलिङ्गस्याद्वितीयब्रह्मसाधक- स्वायोगात्तत्र वेदान्ता एव मानसित्यर्थः । ननु पूर्व मायया जगद्यो- नित्वं ब्रह्मण उक्तम् । तस्याः पूर्वमुक्ततत्त्वज्ञानेन निवृत्तत्वात इदानी द्वैतोपलम्भः कथमिति चेत् । अत्र के चित् । बिम्बस्थानीयं ब्रह्म मायाशक्तिमत्कारणं जीवास्तु प्रत्येकं मायाभिन्नाभिरविद्या- भिरवच्छिन्ना इत्येकस्याविद्यानिवृत्तावप्यन्यस्य मायिकद्वैतोपल- म्भसम्भवादिति वदन्ति । अन्ये त्वविद्यानां समष्टिरेव माया जला- शयराशिवत् तस्य प्रतिबिम्बितं चैतन्यं ब्रह्म कारणं जीवास्तु व्यष्टया विद्योपाधिका इति वदन्तः पूर्ववत् बद्धमुक्तव्यवस्था- माहुः । अपरे तु जीवानां स्वरूपे ब्रह्मणि जीवस्थाविद्याभिर्विषयी- कृते प्रतिजीवं भिन्ना एव प्रपञ्चाः कल्प्यन्ते शुक्ताविव प्रतिपुरुषं भि- न्नानि रजतानि सादृश्यादेकवदवभासन्ते इति व्यवस्थां कल्पय- न्ति । सिद्धान्तरहस्यज्ञास्तु मायैवाविद्या चिनिष्टा चिन्मात्रविषया चाचिन्त्यशक्तितया ब्रह्म जगद्रूपं भातीति वदन्ति । बद्धमुक्तव्यवस्था तु स्वप्ने तादृशव्यवस्थावदुपपद्यते । ननु श्रुतिस्मृतिपुराणेषु मूलप्र- कृतेर्मायाविद्यादिपदवाच्याया एकत्वं प्रतीयते । सांख्या योगिनश्च प्रकृत्यैक्यं वदन्ति मुक्ता अपि बहवो जाता इति बहुशः श्रूयते बहवो झानतपसा पूता मद्भावमागता इत्यादौ । न चैतेषां वाक्यानां सर्वा- त्मना बाधितार्थकत्वं सर्वत्रानाश्वासप्रसङ्गात् । तस्मादीषदैक्यावि- रोधेन बद्धमुक्त व्यवस्था वाच्येति चेत् । यदि व्यवस्थायामाग्रहः शस्य नाशेन १२६ विवरणोपन्यासे तीत्थं व्यवस्था। तथा हि अविद्यायाः सांशत्वं तावत्सरेष्टव्यम् । अन्यथा अनन्तपरिणामानामेकस्यामयोगात् । तथा च यदन्तःकरणे ब्रह्मसाक्षात्कारोदयः तदीयकार्यकारणसंघातात्मना परिणताविद्यां- सङ्घातस्य नाशे सति तदंशोपाधिको जीवः स्वरूपान- न्दब्रह्मात्मना ऽवतिष्ठते। अवशिष्टाविद्योपाधिको जीवोंशान्तरैः सं- सरतीति व्यवस्था। न च नानाविद्यापक्षादविशेषः मूलप्रकृतिभेदप्रप- चभेदादेरत्रासत्त्वात् । एवं क्रमेणांशनाशेनाविद्यानिवृत्तौ सर्वमुक्ति- रिति ।न च तस्यैवांशान्तरेणानर्थभाक्त्वे का नाम मुक्तिरिति वाच्यम् । श्रवणादिकर्तुः स्वानर्थनिवृत्तिमात्रस्योद्देश्यस्य लाभात् अंशान्तरानर्थे दुःखबुद्ध्यभावेन तन्निवृत्तेरनुद्देश्यत्वात् । कर्तुर्हितशासनात्मकशा- स्त्रस्य तावतैव चरितार्थत्वादित्यलं विस्तरेण । तदेतदाह । अशा जीवा इति श्लोकद्वयेन-- अज्ञा जीवा ब्रह्म मायि प्रतिबिम्बमथापि वा। अज्ञातजीवरूपं वा यद्वा ब्रह्मैव मायया ॥ अविद्यया जगद्रूपमिति पक्षा उदाहृताः । बद्धमुक्तव्यवस्था तु यथा दृष्ट्युपपद्यते ॥ तस्मान्मायया ब्रह्म जगत्कारणं वेदान्तप्रमाणकमिति सिद्धम् ॥ सप्तमवर्णकं तृतीयसूत्रञ्च समाप्तम् ॥ N रामनाम्नि परे धाम्नि कृत्स्नानायसमन्वयः। कार्यतात्पर्यवाधेन साध्यते शुद्धबुद्धये ॥ ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्त्वा वेदान्तप्रमाणकत्वं प्रतिज्ञातं तत्र सन्दिह्यते सिद्धं वस्तु वेदमानकं न वेति नेति पूर्व- पक्षमाह । वेदान्तेति- वेदान्तगम्य ब्रह्मेति प्रतिज्ञातन युज्यते। वेदस्य कार्यनिष्ठत्वात् सिद्धे प्रामाण्यबाधनात् ॥ वेदतात्पर्यज्ञेन जैमिनिना आनायस्य क्रियार्थत्वादित्यादिना का- र्यपरत्वं वेदस्य दर्शितं वेदमानकत्वव्यापकं कार्यत्वं तन्निवृत्त्या सिद्धस्वभावे ब्रह्मणि व्याप्यनिवृत्तिः। किञ्च यत् सिद्धं तद्वेदाति- रिक्तमानयोग्यमिति ब्याप्तेब्रह्म मानान्तरयोग्यम् । तत्परत्वे वेदान्ता- नां मानान्तरसापेक्षता स्यात् । यथा घटो ऽस्तीति वाक्यस्य नापौरुषेयत्वादनपेक्षत्वमिति चेन्न । अपौरुषेयत्वं हि वाक्यस्य मूल- -- ४ सू. ८ वर्णकम् । १२७ मानानपेक्षत्वे हेतुः न तु योग्ये वस्तुनि संवादानपेक्षत्वे । तथा च यदि वेदान्ताः सिद्धं वस्तु मानान्तरयोग्य बोधयेयुः तदा संवा- दापेक्षा दुर्वारा । तन्न । सति संवादे तेषामनुवादकत्वम् असंवादे त्वादित्ययूशभेदवाक्यवदप्रामाण्यम् किञ्चाध्ययनविधिगृहीतवेदा- न्तानां फलावसायित्वं वाच्यं फलन्तु प्रवृत्त्यधीन प्रवृत्तिः कार्य- ज्ञानतन्मात्रत उदासीनं ब्रह्म निष्फलत्वान्न वेदार्थ इति निरर्थका वेदान्ताः सफलजयस्वाध्यायार्थाः कर्मकर्तृस्तावका वा । ननु कस्य कर्मणः कर्तृस्तावका न हि कर्मविशेषस्य प्रकरणे वेदान्ता अधीताः। अथाविशेषात्सर्वकर्मकर्तृस्तावका इति चेन्न ।वेदान्तेषुसर्वकर्मणाम् उ- पस्थापकप्रकरणाद्यभावेन तच्छेषस्तुत्ययोगात् । जुह्वाःत्वव्यभिचा- रित्वाऋतूपस्थितौ सत्यां तच्छेषपर्णताकार्यपरत्वं पर्णमयीवाक्यस्य युक्तं कर्तुः कर्ममात्रसाधारणत्वात् न वैदिककर्मोपस्थितिरिति न तत्कर्तुः स्तावकत्वमिति चेत्तर्हि स्वप्रकरणस्थोपासनाविधिशेषा भवन्तु वेदान्ताः । तथा चासदेव ब्रह्म सर्वशत्वादिमत्तया ऽमृतत्व- काम उपासीतेति कार्यपरा वेदान्ताः इत्याह । सापेक्षत्वेति-- सापेक्षत्वाफलत्वाभ्यां वेदान्ता स्युनिरर्थकाः। कर्मकर्तृस्तावका वा यद्वा ध्यानकगोचराः॥ तदुत्तरत्वेन तत्तु समन्वयादिति सूत्र व्याचष्टे वेदान्तेति-- वेदान्तगम्यं तद्ब्रह्म तुशब्दश्वोद्यवारकः । तात्पर्यकत्वं हेत्वर्थः तल्लिङ्गं प्रक्रमादिकम् ॥ ब्रह्म वेदान्तजप्रमागोचरः वेदान्ततात्पर्यविषयत्वात् । यो यद्वा- क्यतात्पर्यविषयःस तत्प्रमेयः। यथा चोदनागम्यो धर्मः तात्पर्य नाम अपूर्वफलवदर्थप्रमित्यनुकूलशक्तिरूपं शब्दगतं न विवक्षात्मकं वेद- स्यापौरुषेयत्वात् । न च हेत्वसिद्धिः । उपक्रमादिषड्विधलिङ्गैस्तत्सि- द्धः। न च प्रमेयस्य कार्यत्वमेवतात्पर्यलिङ्गं नोपक्रमादिकमिति युक्तम् जर्तिलयवाग्वा जुहुयादिति वाक्यस्यारण्यतिलयवागूहोमे तात्पर्यप्र- सङ्गात् । न चैतदस्ति प्रकृताज्यक्षीरहोमविधिशेषार्थवादत्वात् । अत उपक्रमादिकमेव लिङ्गं तच्च वेदान्तानां ब्रह्मविषयकतात्पर्य विद्यते । तथा हि सदेव सौम्येदमग्रासीत् ऐतदात्म्यमिदं सर्वमित्यद्वितीये ब्रह्मण्युपक्रमोपसंहारयोरैकरूप्यं तत्सत्यं स आत्मेति नवकृत्वोभ्यासः तत्र मानान्तराप्राप्तत्वा १दपूर्वता । अथ संपत्स्ये इति फलं येनाश्रुतं (१) मानास्तरावासत्वारिति पाठान्तरम् । Me ।
- १२८ विवरणोपन्यासे श्रुतं भवतीत्यर्थवादः वाचारम्भणं विकारो मृत्तिकेत्येव सत्यमिति कारणाद्वयत्वे युक्तिरिति षड्विधानि लिङ्गानि छान्दोग्ये दृश्यन्ते । अथ प्रारब्धक्षयानन्तरं विद्वान् ब्रह्म केवलं संपद्यते इति श्रुत्यर्थः । एवं प्रतिवेदान्तं लिङ्गानि द्रष्टव्यानीत्यर्थः । अधुना समन्वयादित्यत्र सो- पसर्गार्थमाह । सम्पदेनेति- सम्पदेन च तात्पर्य वेदान्तानामखण्डगम् । धोतितं सर्वशब्दानां तत्रैवावसितिर्यतः ॥ वेदानामन्वयस्य तात्पर्यस्य सम्यक्त्वमखण्डार्थगोचरत्वम् अख- ण्डार्थकत्वं नाम अपर्यायशब्दानां संसर्गागोचरप्रमाजनकत्वम् एकप्रा- तिपदिकार्थमात्रनिष्ठत्वं वा । उद्भिदा यजेतेत्यत्रोद्भिद्यागशब्दयो- रेकार्थनिष्ठत्वे ऽपि विधिपदाकाङ्कया संसृष्टबोधकत्वान्नाखण्डार्थता सत्यादिपदानान्तु विध्याकाङ्क्षा नास्तीति वक्ष्यमाणत्वात् अखण्डार्थ- त्वमविकलम् । न चाखण्डार्थत्वे पर्यायतापत्तिः । वाच्यभेदात् । तथा हि आकृतिः शब्दार्थ इति मीमांसकाः। तथा च शानत्वानन्द - त्ववाचिनी ज्ञानानन्दशब्दो वृत्युपहिते ब्रह्मणि मुख्यवृत्त्या धर्तेते ज्ञानसामग्रीजन्यवृत्तिव्यक्तिष्वनुगतं चैतन्यं ज्ञानत्वमुभे कर्मजन्य- वृत्त्यनुगतमानन्दत्वमिति भेदः । तत्राकाशस्य श्रोत्रशब्दवाच्यत्वे सति कर्णषष्कुल्याः प्रयोगोपाधित्वमात्रं न वाच्यमिति यथा तद्वत् वृत्तीनामुपाधित्वमिति ज्ञानानन्दशब्दौ ब्रह्मणि मुख्यावित्यक्तम् निरु- पाधिकन्तु न कश्चिदपि शब्दो मुख्यः यतो वाचो निवर्तते इति श्रुतेः । एवमेकसत्यानन्त्यशब्दाः एकत्वादिवाचिनः एकत्वं भेदाभावः सत्यत्वं बाध्यत्वाभावः आनन्त्यं नाशाभावः अभावमात्रप्रतियोगित्वाभावो वा । अभाववाचिनः शब्दा ब्रह्मणि जहल्लक्षणया वर्तन्ते सर्वशसर्वश- त्यादिशब्दाः यौगिकाः सोपाधिकब्रह्मवाचिनः तत्त्वमस्यादिशब्दाः विशिष्टवाचिनः जहदजहल्लक्षणया ब्रह्मणि पर्यवस्यन्तीत्यपर्यायत्वम् अतो ऽखण्डवस्तुलक्षकत्वमविरुद्धमित्यर्थः। वेदान्तवाक्यं द्विविधम् । महावाक्यं पदार्थवाक्यञ्च तयोःक्रमेणाखण्डार्थत्वे उदाहरणमाह । तत्त्वमिति- WA ४ सू. ८ वर्णकम् । १२९ वाक्यस्य मूलं प्रत्यभिज्ञा तस्या ऐक्यं प्रमेयं न च तत्तेदन्ताविशिष्टयो- रैक्यं सम्भवति । विशेषणविशिष्टयोरैक्यापातात् । न च तत्तोपलक्षि- तस्येन्दताविशिष्टेनैक्यं युक्तं विशिष्टस्य पूर्वमपि सत्त्वापातात् । तद- भिन्नदेवदत्तस्य पूर्व सत्त्वात् अतस्तत्तेदन्तोपलक्षितपिण्डस्वरूपमैक्यं तस्याः प्रमेयमिति तन्मूलकवाक्यस्यापि तावन्मात्रं प्रमेयम् । यद्यपि तस्यां तत्तेदन्ते अपि भासते तथापि तयोरभिज्ञाद्वयसिद्धत्वेनाशातत्वा- भावान्न प्रत्यभिज्ञाप्रमेयता । ननु पिण्डस्वरूपमपि अभिशासिद्धमिति चेत्सत्यम् । परन्तु ज्ञाते ऽपि तस्मिन् भेदभ्रमानुकूलमज्ञानमस्तीति तन्निराकृतिफलायाः प्रत्यभिज्ञायाः भवति तत्प्रमेयं स्वनिवर्त्याज्ञान- विषयस्यैव तत्प्रमेयत्वात् । एतेन भागत्यागलक्षणया पदेनैव वा. क्यार्थज्ञानाद्वाक्यं व्यर्थमिति निरस्तम् । पदेन ज्ञाते ऽपि सो ऽयमिति वाक्यं विना भेदभ्रमविरोधिज्ञानालाभात् । तस्मात्प्रत्यभिज्ञाप्रमे- यैक्यमात्रतात्पर्येण प्रयुक्तः सो ऽयमिति वाक्यवत् तत्त्वमसीति- वाक्यं विरुद्धांशत्यागेन लक्षणया पदेनावगतमेवाखण्डं वस्तु भे- दभ्रमनिरासार्थ बोधयतीति सिद्धम् । अत्र केचिदाहुः । इदं वाक्यं भेदाभेदपरम् । अत्यन्ताभेदे पदार्थवाक्यार्थयोर्भेदालाभादिति । तै- रिदं वक्तव्यं किं मुक्ती भेदो नश्यति न वेति न चेत्संसारादवि- शेषः । आयें नाशकं न पश्यामः । वाक्यजन्यभेदाभेदज्ञानस्य स्व- विषयनाशकत्वायोगात् । अन्यथा भेदवदभेदस्यापि नाशप्रसङ्गात् न चाभेदमात्रज्ञानं नाशकम् । तस्य वाक्याजन्यत्वेनाप्रमाणत्वात् । तस्य नाशकत्वे तद्विषयाभेदमात्रस्यैव वाक्यार्थत्वापातात् । भे- दस्य सत्यत्वे ज्ञानानिवृत्त्ययोगात्। कर्मणा भेदनाशाङ्गीकारे ब्रह्म वेद ब्रह्मैव भवतीति ज्ञाननाश्यत्वश्रुतिविरोधात् । किञ्च निरवयवेवस्तुन्य- वच्छेदकभेदस्याभावात् कथं विरुद्धौ भेदाभेदौ स्याताम् । किञ्चमुक्ती परिशिष्यमाणब्रह्मण एवाधुना संसारो वाच्यः तद्भिन्नस्य संसारित्वे बन्धमुक्तिवैयधिकरण्यापत्तेः तथा च क भेदाभेदौ । एतेनातिरेको नाम कश्चिद्धर्मः स वाक्यार्थ इति निरस्तं तस्य भेदादन्यस्य दु- निरूपत्वात् भेदस्य निरस्तत्वात् । तस्मादत्यन्ताभेद एव वाक्यार्थः पदार्थवाक्यार्थयोरभेदे ऽपि भेदभ्रमनिरासेन वाक्यस्यार्थवत्त्वादित्यलं प्रपञ्चेन । तथा च तत्पदार्थलक्षकं सत्यादिवाक्यमखण्डाथै लक्षण- वाक्यत्वात् । लक्ष्यमात्रप्रश्नोत्तरत्वाद्वा प्रकृष्ट प्रकाशश्चन्द्र इति वा- फ्यवत् न च दृष्टान्तासिद्धिः कश्चन्द्र इति प्रश्नस्य चन्द्रस्वरूपा- --- १३० विवरणोपन्यासे ज्ञानमूलत्वे तदुत्तरवाक्ये तत्स्वरूपमात्रस्य लक्षणप्रतिपाद्यत्वात् ता- त्पर्यानुपपत्तेरेव लक्षणाबीजत्वात् । न चाप्रयोजकता । एकधैवानु- द्रष्टव्यम् नेह नाना ऽस्तीत्यादिश्रुतिविरोधात् ब्रह्मभिन्नस्य सर्वस्य मिथ्यात्वेन श्रुतिजन्यतत्त्वज्ञानविषयत्वायोगात् । तस्माद्वंदान्तानाम- खण्डे तात्पर्यमित्यर्थः । यदुक्तं भूतवस्तुनो मानान्तरयोग्यत्वात तत्परत्वे वेदान्तानां सापेक्षत्वं स्यादिति तत्राह रूपादीति- रूपादिविरहाब्रह्म न मानान्तरगोचरः । अतो भूतार्थको वेदो न सापेक्ष इतीरितम् ॥ अयमाशयः । किं ब्रह्मणो योग्यत्वे सति अनुपलब्ध्या बाधाद्वे- दान्तानामप्रामाण्यम उत मानान्तरं ज्ञातार्थकत्वात् । अथ वा माना- न्तरयोग्यार्थकत्वात् । नाद्यः । रूपादिहीनस्य स्वतन्त्रस्य वस्तुनः प्रत्यक्षाद्ययोग्यत्वात् । अती रूपे मानान्तरसंवादाभावे ऽपि चक्षुष इवानधिगतार्थबोधित्वाद्वेदान्तानां प्रामाण्यं युक्तम् । न द्वितीयः। त्व- सिद्धेः । न च वेदान्ता मानान्तरज्ञातार्थकाः भूतार्थकवाक्यत्वात् नदीतीरादिवाक्यवदिति वाच्यम् । अप्रयोजकत्वान्मानान्तरस्यानु- पलब्ध्या बाधाच्च । किञ्च विधिवाक्यं तथा कार्यार्थकत्वादामानये- त्यादिवाक्यवदित्याभाससाम्याश्च । तस्मादपौरुषेयत्वाद्विधिवाक्य- वद्वेदान्तानां न मानान्तरज्ञातार्थकता पौरुषेयत्वस्यैव वाक्ये ज्ञाता- र्थहेतुत्वात् । ब्रह्मस्वरूपज्ञानस्य तु प्रमेयत्वान्न मानान्तरत्वम् । न तृ- तीयः तथात्वे ऽपि त्वगिन्द्रिययोग्ये घटे चक्षुष इव प्रामाण्योपपत्तेः ब्रह्मणो मानान्तरयोग्यत्वासिद्धेश्च । भूतत्वेन घटवत् ब्रह्म योग्यमिति ४ सू. ८ वर्णकम् । स्वस्य प्रवृत्तेः अतो ऽनुमितार्थमात्रज्ञाने शब्दस्य सामर्थ्यावगमाद- र्थमात्रं पदशक्यं न प्रमाणान्तरसंभिन्नो ऽर्थः शक्यः मध्यमनरेण ज्ञा- तार्थे वस्तुतो विद्यमानस्यापि वक्तप्रमाणस्य प्रवृत्तिलिङ्गेनानुपस्थि- तत्वात् । अत्र कश्चिदाह। अर्थासंस्पर्शिनः सर्वे ऽपि शब्दा अमुल्यग्रा- दिशब्दवदिति । स प्रष्टव्यः किं शक्यार्थाभावः साध्य उत पदार्थसं- सर्गरूपवाक्यार्थीभाव इति। आधे दृष्टान्तासङ्गतिः। द्वितीयपक्षप्राभा- कराः समादधते । पुरुषवचसां न पदार्थसंसर्गः प्रमेयः किन्तु वक्त- ज्ञानमेव प्रमेयं तत्र निर्विषयस्य ज्ञानस्य वाक्येन प्रमातुमशक्यत्वा- द्वाक्यप्रमेयस्य वक्तृज्ञानस्य विषयतया पदार्थसंसर्गसिद्धिः । अङ्गु- ल्यग्रे कारणां शतमित्यादिवाक्यानामपि मूलं यत्किञ्चिज्ज्ञानं प्रमेयम- स्तीति सार्थकाः सर्वे शब्दाः। तत्समाधानमयुक्तम् । पूर्वोक्तरीत्या वक्तृ- ज्ञानस्य पदार्थत्वाभावेन वाक्यार्थत्वायोगात् । अपि च अनन्यलभ्यः शब्दार्थः वक्तृज्ञानं तु अनुमानलभ्यत्वान्न वाक्यप्रमेयम् । तथा हि अय- मेतदर्थज्ञानवान् एतद्वाक्यस्य स्वातन्त्र्येण प्रयोक्तृत्वातू यो यद्वाक्य- प्रयोक्ता स तदर्थज्ञानवान् यथाहमिति । किञ्च वैदिकवाक्यवत् लौकिकवाक्यस्य संसर्ग एव प्रमेयः उभयत्र संसर्गोऽनुभवाविशेषा- तू । किञ्च संसर्गज्ञानं विना वाक्येन वक्ता संसर्गज्ञानवानिति प्रमा- तुमशक्यम् अतो लाघवादावश्यकत्वाच्च संसर्ग एव मखण्डवाक्यानां प्रमेयः न वक्तृसंसर्गज्ञानम् । यत्तु सर्ववाक्यानां अमुल्यादिवाक्यवत् प्रमेयास्पर्शित्वमिति तन्न । शुक्तिरूप्यज्ञानवत् सर्वज्ञानानां भ्रान्ति- त्वापातात् । तस्मादसति बाधे वाक्यानां सप्रमेयतेत्यभिसन्धायाह । वक्तृमानमिति । वक्तृमानं न शब्दार्थो व्युत्पत्तावनुपस्थितः । अत एव न वाक्यार्थो ऽप्यन्यलभ्यत्वतोऽपि च ॥ एवं वेदानामपौरुषेयतया मूलप्रमाणानपेक्षणातू मानान्तरायो- ग्यरूपादिहीनब्रह्मपरतया संवादानपेक्षणाल्लोके वक्तज्ञानासम्भिन्ने सिद्ध वस्तुनि गृहीतसङ्गतिकानां सत्यादिपदानां विचारेण वाचकपदै- र्वाच्यैकदेशत्वेनोपस्थितम् अखण्डवस्तु लक्षकत्वेन सङ्गतिग्रहाय लभ्योपस्थितये वा मानान्तरानपेक्षणात् । सिद्धवस्तुपरत्वे ऽप्यनपे- क्षत्वमक्षतमित्युक्तम् । अत्र शङ्कते । अनपेक्षश्रुतिजन्यो ऽप्यद्वयबोधं द्वैतग्राहिप्रत्यक्षविसंवादादप्रमाणं समताग्राहि त्वगिन्द्रियविसंव चाक्षुषचित्रनिनोन्नतज्ञानवदिति तत्राह । करणे इति ।
- १३२ विवरणोपन्यासे करणे विषये वा ऽपि दोषो नास्ति यतस्ततः । वेदान्तजो ब्रह्मबोधः प्रमाण विधिबोधवत् ॥ प्रत्यक्षे क चिद् भ्रान्तिदर्शनेन दोषस्य सम्भावितत्वादिन्द्रो मायाभिः पूरुरूप ईयते इति द्वैताने मायादोषजन्यत्वनिश्चयाश्च द्वैतावभासो विभ्रमःअद्वैतशानंप्रमाअपौरुषेयनिर्दोषश्रुतिजन्यत्वात् । न च विषये चित्रत्ववत्सिद्धत्वमपि दोष इति वाच्यम् । लोके सि- द्धवस्तुज्ञानानां सर्वेषां तव भ्रान्तित्वापत्तेः । शाब्दबोधे विषयस्या- हेतुतया तनिष्ठदोषस्याहेतुत्वात्।अतोबाधाभावात्तत्त्वावेदकश्रुतीनां व्यावहारिकमानानां भिन्नविषयत्वाञ्च सिद्धे वेदान्तप्रामाण्यं रमणी- यमित्यर्थः । यदुक्तमाम्नायस्य क्रियार्थत्वादिति सूत्रात्सिद्धेन वेदार्थ- तेति तपाहाज्ञात इति- अज्ञातः फलवानर्थो येन वाक्येन मीयते । तस्यैव तत्र मेयत्वातू कुतः कार्यकमेयता ॥ घेदस्योति शेषः । आम्नायशब्दितविधिवाक्यस्य मानत्वं किं कार्यार्थकत्वेन उत फलवदशातार्थकत्वेन आये ऽपि कार्यार्थकत्वं किं कार्यबोधकत्वं कार्यपरत्वम् । उभयथापि तत्प्रामाण्यस्य व्याप्यं व्यापक वा । नाद्यः पतनतात्पर्येणानाप्तोक्ने कूपे पतेदिति वाक्ये स्वार्थाप्रमाणे जतिलयवागूहोमवाक्ये च व्यभिचारात् । न द्वितीयः रूपादिप्रमाणं चक्षुरादी व्यभिचारात् । शब्दप्रामाण्यं व्याप्यांमति चेन्न । पुत्रज- न्मवाक्ये व्यभिचारात् । वेदप्रामाण्यं व्याप्यमिति चेन्न । तथा व्या- रदृष्टेः । विधिवाक्ये व्याप्तिर्दष्टेति चेन्न । सन्दिग्धत्वात् । विधिमान- त्वं क्रियार्थत्वप्रयुक्तम् अशातार्थप्रयुक्तत्वं वेत्यानिश्चयात्। अक्रियार्था- नामप्रामाण्यात क्रियार्थकत्वस्य प्रयोजकत्वनिश्चय इति चेन्न इतरे- तराश्रयात् । क्रियार्थत्वस्य विधौ प्रामाण्यव्यापकत्वे निश्चिते तद- भावादाक्रियार्थानामप्रामाण्यनिश्चयः तनिश्चये तन्निश्चय इति आ- नायपदस्य कृत्लावेदपरत्वे क्रियार्थत्वादिति हेत्वसिद्धिः । एतेन वेदार्थत्वव्यापककार्यमिति निरस्तम् । अनुकूलतर्काभावेन व्याप्त्य- सिद्धेः। तस्मादध्ययनविध्युपात्तवेदराशेः फलवदशातार्थत्वेन प्रामा- ण्यमर्थे ऽनुपलब्धेतत्प्रमाणमिति वदतो जैमिनेः संमतम् । अतदर्थत्वे. नार्थवादानामप्रामाण्यमाशय विध्येकवाक्यत्वोक्त्या स्वार्थे निष्फ- लानां फलवदज्ञातक्रियापरत्वेन प्रामाण्यं दर्शितमित्यनवद्यम् । यदुक्तं -- ४ सू. ८ वर्णकम् । १३३ सिद्धवस्तुज्ञानात्फलं नास्ति तस्य कार्यबोधाधीनप्रयत्नसाध्यत्वा- दिति तत्राह । ब्रह्मज्ञानादिति-- ब्रह्मशानात्परानन्दः सर्वानर्थहुतिस्ततः । अज्ञातं फलवब्रह्म सिद्धं वेदान्तमानकम् ॥ सर्वो हि लोकः सुखं मे स्याद्दुःखं माभूदिति वाञ्छति । न तु फलस्य प्रयत्नायाससाध्यत्वं यद्यप्राप्तं स्वर्गादि प्रेप्सति परिहर्तव्यं वा रोगादिदुःखं परिजिहीर्षति तदा तत्साधनप्रयत्ना- यासमङ्गीकरोति । यदा तु प्राप्तमेव कण्ठगतमणिवदज्ञानात्प्रेप्सति । रज्जुसर्पवद्धतमेव जिहासति तदा तत्त्वज्ञानमेवान्यानपेक्ष साधनमि- ति तज्जनका वेदान्ताः कर्मवाक्येश्य उत्कृष्टफलाः साधनायासफला नित्यत्वादिदोषाभावात्तस्मादज्ञातश्रेयःसाधनबोधिविधिवाक्यवद्ब्रह्म- णि वेदान्ताः प्रमाणमिति सिद्धम् ॥ इत्यष्टमवर्णकं समाप्तम् ॥ एवं पदानां योग्यतरान्विते शक्तिमिच्छता लौकिकवाक्यानांभूता- थे मानत्वेऽपि वेदान्तैब्रह्मसिद्धिर्नास्तीति वदतां मतं निरस्तमिदानी कार्यान्विते शक्तिवादिनां कार्यमेव लोके वेदे च वाक्यं प्रमेयं तच्छे- षत्वेन सिद्धार्थत्वादिति वदतां मतम् उत्थापयति- अपरे प्रत्यवतिष्ठन्ते (१) वेदान्तैर्ब्रह्म सिध्यताम् । खप्राधान्यं विधेरेव तच्छेषे ब्रह्म गीयते ॥ वेदान्ताः कार्यशेषत्वेन ब्रह्म बोधयन्ति उतानन्यशेषत्वेनेति सन्देहे शेषत्वेनेति प्राप्तम् । तथा हि लोके व्युत्पित्सुमध्यमवृद्धस्य प्रवृत्तिलि- ङ्गेन तद्धेतुज्ञानमनुमायानुमितज्ञानस्य विषये प्रवर्तकज्ञानहेतूनां पदानां सामान्येन सामर्थ्य गृह्णाति तत्र प्रवर्तकं कार्यमेव कार्य- मिति ज्ञानात्स्वस्य मानपानादिप्रवृत्तिदर्शनात् । इष्टसाधनताशानं न प्रवृत्तिहेतुः कार्यताज्ञानहेतुत्वेनान्यथासिद्धत्वात् । एवञ्च प्रवर्त- कज्ञानविषयाः कार्यसंसृष्टा अर्थाः पदशक्या इति संमुग्धव्युप्तत्त्यन- न्तरमावापोद्वापाभ्यां गोपदं कार्यान्वितगवि शक्तमिति विषयगत- शक्तिग्रहो भवति शक्यतावच्छेदकन्तु सर्वपदानां कार्यान्वयाश्रयत्वं तच कार्ये ऽप्यस्तीति तदवच्छेदेनैवानयनलिङ्गादिकार्यवाचिपदानां सङ्गतिसिद्धिःएवं सङ्गतिग्रहानुसारात्कार्यान्वितार्था एव सर्वत्र वाक्य (१) वैदान्त ब्रह्म वाग्छतामिति पाठान्तरम् । - १३४ विवरणोपन्यासे जन्यज्ञानविषयाः तत्र भूतं भव्यायोति न्यायात कार्यस्य प्राधान्येन प्रमेयत्वम् अन्येषां तच्छेषत्वेनेति स्थितिन कार्यसंस्पर्श विना व चि. दपिशब्दार्थोऽस्ति केवलभूतार्थे सङ्गत्यग्रहादिति । अपि च वेदान्तानां सिद्धवस्तुबोधने फलाभावात्कार्यपरत्वं वाच्यम् । कार्यशानाधीन- प्रवृत्त्यादिसाध्यत्वात् फलस्य । यद्यपि लोके कण्ठगतविस्मृतमण्यादि- निमात्राल्लभ्यते तथापि ब्रह्माहमिति ज्ञाने ऽपि यथापूर्व संसारोपल- म्भात्कार्याधीनमेव निःश्रेयसमित्यवगम्यते । मननादिविधानाञ्च । यदि महावाक्यजज्ञानादेव मुक्तिस्तदा मननादिविधिर्नस्यादस्ति च वि- धिस्ततो वाक्यजज्ञानानन्तरं कार्यमस्त्येव । अस्तु साक्षात्कारार्थमिति चेन्न । अतीन्द्रिये साक्षात्कारासम्भवाच्छब्दस्य परोक्षवृत्तित्वात्तस्मा- सो ऽन्वेष्टव्य इत्यादिना मोक्षायात्मप्रतिपत्तिः कर्तव्येत्युक्ते को ऽसा- वात्मेत्याकाङ्क्षायां तच्छेषतया सत्यादिवाक्यरात्मा ब्रह्मरूपः प्रति- पाद्यते इत्याह-- सिद्ध व्युत्पत्तिविरहात्तज्ज्ञानस्याफलत्वतः । मननादिविधानाञ्च वेदान्ताः कार्यतत्परा.॥ इति । एवं ब्रह्मनियोगौ शेषशेषिभावेन वेदान्ताप्रतिपाद्यौ इति प्राप्ते नियोगासिद्धिं तावदाह- अत्रोच्यते निवेगस्य विषयः सप्रयोजनः । न दृश्यते ऽतो वेदान्तैर्नियोगो नैव सिध्यति । न तावच्छाब्दज्ञाने नियोगः । व्युत्पन्नस्य शब्दादेव तत्सिद्धः। ननु शब्दात्परोक्षानुभवे जाते स्मृतिसन्तानो विधेय इति चेन्न । फलाभावात् । न तावददृष्टं फलं मुक्तेरदृष्टसाध्यत्वे स्वर्गवत्तारत- म्यानित्यत्वादिप्रसङ्गात् । न चादृष्टान्मुक्तिहेतुः स्मृतब्रह्मसाक्षात्कार इति युक्तं प्रमाणफलस्य केवलादृष्टफलत्वायोगात् । न चादृष्टं सा- क्षात्कारहेतोः प्रमाणस्य सहकारीति वाच्यम् । अतीन्द्रिये ब्रह्मणि साक्षात्कारहेतोः प्रमाणस्याभावात् कार्यपराच्छब्दाब्रह्मण्यपरोक्षशा- नस्यासम्भवात्त्वया ऽनङ्गीकाराश्च । अङ्गीकारे शब्दादेव तत्सिद्धे- रदृष्टवैयर्थ्यात् । अस्तु तर्हि स्मृतिसन्तानस्य साक्षात्कारो दृष्टं फलमिति चेन्नासम्भवात् । न हि परोक्षशानावृत्तरपरोक्षज्ञानं फलं सम्भवति । अनुमित्या वृत्त्या ऽनुमेयापरोक्षादर्शनादावृत्ते- रप्रमाणत्वाश्च । अत एव ध्याने नियोग इति निरस्तम् । उक्तरीत्या फलासम्भवात् । ननु स्मृतिसन्तानध्यानयोः को भेद de- BAR । ४ सू. ९ वर्णकम् । १३५ इति चेत् उच्यते। स्वार्थे प्रमाणजन्या वस्तुनिष्ठा स्मृतिर्ध्यानं तु मनो- मात्रायत्तं वस्त्वनपक्षम् इति भेदः । ननु ध्यानात् ध्येयस्य नष्टपुत्रादेः साक्षात्कारो दृष्ट इति चेन्न तद्वदेव ब्रह्मसाक्षात्कारस्य ध्यानजस्य भ्रान्तित्वापातात् । अप्रमाणजन्यत्वाञ्च । न च ब्रह्माण शब्दप्रमाण- सम्भवात्तस्य प्रमाणत्वं ज्ञेयं स्वतस्त्वभङ्गापातादतः सफलस्य वि- षयस्याभावान्नास्ति वेदान्तैर्नियोगप्रमितिरित्यर्थः । किञ्च शब्दसं- वादात्साक्षात्कारस्य प्रमात्वे तत्करणस्य ध्यानस्य प्रमाणान्तरत्वा- पत्तिःक्लप्तप्रमाणानन्तर्भावात् । किञ्चात्र संवादोऽप्यसिद्धः शब्दस्य कार्यपरत्वादित्याह- वाक्यस्य विधिनिष्ठत्वे ब्रह्माद्वैतं न सिध्यति । विरोधे ऽन्यपराद्वाक्यादन्यसिद्धरसम्भवात् ॥ इति । ननु देवताविग्रहादिवत्सत्यादिवाक्यैरवान्तरतात्पर्यणाद्वैतं ब्रह्म सिध्यतीत चेन्न । द्वैतग्राहिप्रत्यक्षादिविरोधादसति हि विरोधे दैवताविग्रहन्यायः । न चोपासनाविधेरुपास्यब्रह्मसत्त्वमन्तरेणानु- पपत्तिः । योषाग्निदृष्टिवदुपपत्तेः । न च विधौ सावकाशैर्वेदान्तैः प्रत्यक्षादिवाधो युक्तः सिद्धान्ते तूपक्रमादिना ब्रह्माद्वैतमेव वेदान्तार्थ इत्यनवकाशत्वाद्वेदान्तानां प्रत्यक्षादिभ्यः प्राबल्यं ब्रह्मसाक्षात्कार- प्रतिबन्धनिरासार्थमवान्तरतात्पर्येण श्रवणादिविधानं चेत्यनवद्यम् । यत्तु कैश्चिदुक्तम् । शमाद्यङ्गको ध्यानकरणकः साक्षात्कार एव मुक्तये विधेय इति तन्मन्दम्। ध्यानादसतो ऽपि नष्टपुत्रवत्साक्षात्कारसम्भवे- न ब्रह्मासिद्धिप्रसङ्गात् । न च वेदान्तानां ब्रह्मविशिष्टसाक्षात्कारविधी तात्पर्याद्विशेषणत्वेन ब्रह्मसिद्धिारीत वाच्यम् । लाघवाब्रह्मण्येव तात्पर्यापातात्। न च विधिस्पर्श विना वाक्यस्य प्रामाण्यायोगागौरवं न दोष इति वाच्यम् । अज्ञातज्ञापनेन लौकिकवाक्यादिवत्प्रामाण्य- स्योक्तत्वाद्वक्ष्यमाणत्वाच्च । न च लौकिकप्रमाणानामज्ञातज्ञापनेन प्रा- माण्यम् वेदस्य तु विधिपरत्वेनैवेति वैषम्यं युक्तम् । साम्यसंभवातू। तदुक्तम् । गुणाद्वा ऽप्यभिधानं स्यात्सम्बन्धाच्छास्त्रहेतुत्वादिति । आदित्यो यूप इत्यादिशब्दानां लोके गृहीतसङ्गत्या बोधकत्वासंभवे सति वेदे किं पृथक् पुरुषैःसंबन्धकल्पनाद्वरं लौकिकसंबन्धानुसरण- मित्याह । गुणाद्वाऽपीति । पौरुषसम्बन्धस्य शास्त्रार्थनिर्णयाहेतुत्वातू लौकिकसम्बन्धानुसारेण गौण्यादिवृत्त्या बोधकत्वस्यादित्यर्थः। तथा च लोकवेदयोःसम्बन्धात्प्रामाण्यस्याप्येकरूपत्वं युक्तम् । तस्माद्विधे- १३६ विवरणोपन्यास याभावात् ब्रह्मासिद्धिप्रसङ्गाश्च न विधिपरा वेदान्ता इति स्थितम् । किश्च कोऽसौ विधिशब्दितो लिङाद्यर्थो नियोगः । न तावद्वक्तुराभि- प्रायः । अपौरुषेये वेदे तदसंभवात् । नापि कार्य कूपपतनादौ कार्य- ताज्ञाने ऽप्यप्रवृत्तेः । न चालौकिकं कृतियोग्य वस्तु नियोग इति वाच्यम् । लोके प्रवर्तकज्ञानविषयत्वेनावगतावलौकिकत्वायोगात् । अनवगतौ विध्यर्थत्वायोगात् । यज्ज्ञानाल्लोके प्रवृत्तिस्तस्यैव विध्य- र्थत्वात् । ननु कर्तुमिच्छाविषयतायोग्य कार्यमिति कूपपतनादौ नातिप्रसङ्ग इति चेत्सत्यं तथाऽपि क्रियातत्फलाभ्यां भिन्नं त्वदभिमतं कार्य न सिध्यति तथाहि सुखदुःखाभावरूपात् फलाद्भिन्नस्येच्छा- योग्यत्वं फलसाधनत्वमेव तथा च कर्तुमिच्छायोग्यताज्ञानात्प्रवृत्ति- रिति वदता कृतिसाध्यत्वे सति श्रेयःसाधनताज्ञान प्रवर्तकमित्युक्तं भवति । तथा चास्मदिष्टासिद्धिः । यत्तु श्रेयःसाधनत्वज्ञानं कार्य- ताज्ञानहेतुत्वेनान्यथासिद्धमिति तन्न सुधांशूदये व्यभिचारेण तस्य तदहेतुत्वात् । एतेन कार्यत्वविशिष्टश्रेयःसाधनत्वज्ञानस्य प्रवर्तकत्वे विशिष्टस्य विध्यर्थत्वाद्वौरवमतो लाघवात्कार्यमेव विध्यर्थः । तज्ज्ञानस्य प्रवर्तकतावच्छेदकश्रेयःसाधनताशानजन्यकार्यशानत्व- मिति नातिप्रसङ्ग इति निरस्तम् । अवच्छेदकगौरवाच । कार्याख्यप- दार्थान्तरकल्पनागौरवादग्निहोत्रादिप्रवर्तक नियोगक्षाने उक्तावच्छे- दकालाभाच्च । नियोगाधीनो विनियोग इति हि कार्यवादिनां सिद्धान्तः। नियोगज्ञानात्तद्विषये धात्वर्थे श्रेयःसाधनत्वज्ञानं भवतीत्यर्थः । यत्तु बलवदनिष्टाननुबन्धित्वज्ञानाभावे कार्यज्ञानमेव प्रवर्तकमिति तन्न । प्रयोजनमनुद्दिश्य न मन्दो ऽपि प्रवर्तते इति प्रसिद्धेः काकदन्तपरी- क्षावप्रसङ्गमञ्च । तस्माद्वालानामशाब्दभोजनादिप्रवृत्ती विशिष्टज्ञा- नमेव प्रवर्तकमिति विशिष्ट लिङः शक्तिः । यद्वा कृतिसम्बन्धस्य क्रियायामाख्यातलभ्यत्वाच्छ्रेयःसाधनत्वमात्रे शक्तिः । अस्तु तर्हि श्रे- यःसाधनविधिपरा वेदान्ता इति चेन्न। ज्ञातस्य तत्त्वस्य तत्त्वज्ञानस्य वा तदज्ञाननिवृत्तिसाधनत्वस्य लोकसिद्धत्वादतो वेदान्तानां प्रमे- यान्तराभावाब्रह्मैव प्रमेयमित्याह । धात्वर्थव्यतिरेकेण कार्य नाम न दृश्यते । श्रेयोहेतुलिङर्थो ऽतो वेदान्ता ब्रह्मगोचराः॥ अत्राह भेदवादी। विधिपराद्वाक्यादद्वैतं न सिध्यतु भिन्नं ब्रह्म ग्त्येव । अथ यदतः परो दिवो ज्योतिर्दीप्यते इत्यादिश्रत्या ४ सू. ९ वर्णकम् । १३७ जीवप्रपञ्चाभ्यां भिन्नस्य ब्रह्मणः श्रुतत्वात्तत्र द्वैतभानाविरोधात् । तब्रह्माहमिति सम्पदुपासनया मोक्षः सेत्स्यति न च कृतकत्वेन मोक्षस्यानित्यत्वानुमान युक्तं न स पुनरावर्तते इत्यादिश्रुतिबाधा- दिति । तत्राह- मोक्षस्य कर्मसाध्यत्वे स्वर्गादिवदनित्यता। तारतम्यञ्च तस्मान्न ब्रह्मणः कार्यशेषता ॥ अयं भावः ब्रह्म वेद ब्रह्मैव भवति अथायमशरीरो ऽमृतः विमु- क्तश्च विमुच्यते ब्रह्मैव सन्ब्रह्माप्यतीति श्रुतिरशरीरब्रह्मभावरूपो मोक्षो नित्यसिद्ध उच्यते स कथमुपासनाख्यकर्मसाध्यः स्यान्न हि सिद्धं कर्मणा कर्तुं शक्यं यदि कर्मफलं मोक्षातर्हि स्वर्गादिवत्सादिः शरीरेन्द्रियादिमता भोग्यः सातिशयः क्षयिष्णुश्च स्यात् । ननु कर्म- णां पशुपुत्रादिविचित्रफलकत्वं दृष्टमित्युपासनाया अशरीरब्रह्मभावो ध्रुवं फलं सम्भवतीति चेन्न । अशरीरं शरीरेष्वित्यादिश्रुतावशरीर- त्वस्य स्वाभाविकत्वावगमात् युक्तेश्च । न तावत् शरीरेणात्मनः सं. योगः निरवयवत्वादसङ्ग इति श्रुतेश्च । समवायो नास्ति न सम्भव- ति च नापि तादात्म्यं सत्यं युक्तम् । जडाजडयोस्तदयोगात् । तस्माद्धान्तिसिद्धं तादात्म्यं सम्बन्ध इत्यशरीरत्वं स्वतःसिद्धं न कर्मायत्तं न चानादिसिद्धस्य नित्यस्यापि सांख्यानां सत्त्वादि- गुणवत्परिणामिनित्यतया मुक्तिपरिणामवत्त्वेन कर्मसाध्यता स्यादिति वाच्यम् । परिणामिनो नित्यत्वायोगात् । ब्रह्मणः कूटस्थ- त्वश्रुतेश्च । तस्मादुपासनायाः सर्वेषु उपासकेषु जीवनाद्यनियमेनै- करूपत्वायोगात् । स्वभिन्ने ब्रह्मणि उपासनाजन्यसाक्षात्कारस्य भ्रान्तित्वेन मुक्त्यहेतुत्वात् । उपासनया क्लेशक्षये सत्येकाने चेतसि उदिततत्त्वज्ञानमेवैकरूपं मूलाविद्यानिरासादुपचारेण ब्रह्मभावसा- धनमित्यनन्यशेषब्रह्मपरा वेदान्ता इति । यत्तु श्रुतिबलात्कृतकस्यापि नित्यत्वमिति तन्न । यत्कृतकं तदनित्यमिति न्यायसहितया तद्यथेहे- त्यादिश्रुत्या विरोधात् । ननु न स पुन रावर्तते इति श्रुतिर्मोक्षरूप- कार्यस्य नित्यत्ववादिना विशेषविषयत्वाद्वलवतीति चेन्नेत्याह । वर्तमानापदेशत्वादिहेममिति चोक्तितः। अनावृत्तिश्रुतिः क्षीणा न कार्य नित्यतां वदेत् ॥ इति । उपासकस्य मोक्षो ब्रह्मलोकप्राप्तौ उपास्यब्रह्मसारूप्यादिरूप- स्तस्य नित्यत्वेनेयं श्रुतिर्मानं ब्रह्मलोकमभिसंपद्यते न स पुनरावर्तते १८ १३८ विवरणोपन्यास इति लोकप्राप्तिकाले पुनरावृत्तरप्रसक्तत्वेन निषेधायोगात् ननु न स पुनरावर्तिप्यते इति कल्प्यते इति चेन्न । न्यायसहितोक्तश्रुतिवि. रोधकल्पना ह्यविरोधमपेक्षते अतोऽर्थवादमात्रमेतत् । किञ्च ये उपा- सका ब्रह्मलोकं गतास्तेषामिह न पुनरावृत्तिः इमं मानवमावत ना- वर्तन्ते इति श्रुताविहेममिति पदाध्या यास्मन्कल्पे ब्रह्मलोकगतिस्त- कल्पवाचिभ्यामनावृत्तर्विशेपितत्वादादुत्तरकल्पे तेपामावृत्तिः प्र- तीयते । प्रात्यन्तिकानावृत्ती विशेषणवैयर्थ्यात् । तस्मादनावृत्तिश्रुते- दुर्बलत्वान्न्यायसहितश्रुतिविशेषणाभ्यामुपासनाफलस्य मोक्षस्यानि- त्यत्वं दुर्वारमित्यर्थः । अपि च ब्रह्म वेद ब्रह्मैव भवति तद्वैतत्पश्य- नृषिर्वामदेवः प्रतिपेदे इत्याद्यनेकश्रुतिषु ब्रह्मविद्यासमकालं फलं धूयते तदस्मत्पक्षे युक्तं साक्षात्काराविद्यानिवृत्त्योर्मध्ये व्यवधाना- भावात्त्वत्पक्षे तूपासनाफलयोर्मध्ये कार्यस्यापूर्वस्य कालान्तरभा- विफलहेतोः सत्त्वात्पश्यन् प्रतिपेदे इति मध्ये कार्यनिषेधो न युक्तः। अपि च तरति शोकमात्मविदिति ब्रह्मात्मसाक्षात्कारस्याविद्या- तमोनिवृत्तिः फलं श्रूयते तमसः पारं दर्शयतीत्युपसंहारात् । अवि- द्यायाः परं पारं तारयसीति श्रुत्यन्तराञ्च । न चोपासनायाः अविद्या- निवर्तकत्वं युक्तं अप्रमाणत्वात्तस्माद्ब्रह्म वेदेत्यादिश्रुतीनां तमोनि- वृत्तिरूपफलस्य च पर्यालोचनया तत्त्वज्ञानमेव मुक्तिहेतुरिति ब्रह्मात्मत्वपरा वेदान्ताः । किञ्च गौतमादिभिया॑यकुशलैस्तत्त्वज्ञानं मुक्तिहेतुरित्युक्तत्वानोपासना मुक्ति हेतुरित्याह- तत्त्वज्ञानं मुक्ति हेतुर्मध्ये कार्यनिषेधतः । तमोनिवृत्तेयुक्तित्वान्यायविद्भिश्च भाषणात् ॥ इति । नन्वैक्यज्ञानं न मुक्ति हेतुः इतरभिन्नजीवात्मज्ञानं मुक्ति हेतुरिति न्यायविद्भिरुक्तत्वात् तथा हि । षोडशपदार्थानां तत्त्वज्ञानान्निःश्रेय- सप्राप्तिः कथमित्याकाङ्क्षायां दुःखजन्मप्रवृत्तिदोयमिथ्याज्ञानानामुत्त- रोत्तरापाये तदनन्तराभावा(१) दपवर्ग इत्युक्तम् । अयमर्थः प्रमाण- संशयादिपदार्थविचारः आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोपप्रे- त्यभावफलदुःखापवर्गरूपद्वादशविधप्रमेयतत्त्वज्ञानार्थः । लक्षणप्रमा- णाभ्यां प्रमेयतत्त्वज्ञाने सति तद्भिन्नत्वेन जीवात्मनो ध्यानपरिपा- कात्साक्षात्कारे जाते गौरो ऽहमित्यादिमिथ्याज्ञानं निवर्तते ततो रागद्वेषमोहाःप्रवृत्तिहेतवो दोषानोत्पद्यन्ते ततो धर्माधर्मरूपप्रवृत्त्य- (१) तदनन्तरापायारपवर्ग इत्यपि पाठान्तरम् । RUM ४ सू. ९ वर्णकम् । १३९ भावात्पूर्वसंचितानां पापपुण्यकर्मणां श्रवणध्यानादिक्लेशानन्दभी- गेन कायव्यूहेन वा विनाशाजन्माभावे सति एकविंशतिदुःखध्वं- सो मोक्ष इति । तथा वैशेषिकैरपि साधर्म्यवैधाभ्यां षट्पदार्थ- तत्त्वज्ञानादीश्वरध्यानानुगृहीतात्तद्भिन्नजीवात्मज्ञाने जाते मिथ्या- ज्ञाननिवृत्त्या मुक्तिरित्युक्तम् । योगास्तु स्वर्गादौ प्रविष्टस्य मनुष्य- जन्ममात्रहेतूनां कर्मणामवशेषे सति मानुषं जन्म भवतीति मनुष्या- णां संचितकर्म नास्त्येव तत्र मुमुक्षोः काम्यनिषिद्धवजे नित्यनैमि- त्तिकानुष्ठायिनः एकभविकन्यायेन कर्माभावात्साङ्गयोगानुष्ठानन क्षीणक्लेशस्यासंप्रज्ञातसमाधिजनितेन प्रधानविविक्तपुरुषमात्रविषये- णापरोक्षज्ञानेनानाद्यविवेकलक्षणाविद्यानिवृत्तौ दृष्टदृश्ययोः स्वस्वा- मिभावसंयोगनाशादनागतदुःखाभावः पुरुषस्य कैवल्यामित्याहुः । सांख्यास्तु पचविंशतितत्त्वानामभ्यासेनैव विवेकज्ञाने जाते पुरु- षस्य स्वास्थ्यमित्याचक्षते । सौगतास्तु सवै क्षणिक शुद्धं दुःखं शून्यमिति चतुर्विधभावनाभिः स्थायित्वकार्यत्वप्रवृत्तिविषयभ्रमेषु क्रमेण क्षीणेषु विशुद्धविज्ञानात्मकचरमक्षणेन सोपप्लवसन्तानोच्छेदो मुक्तिरिति संगिरन्ते । एवमन्ये ऽपि भिन्नात्मज्ञानान्मुक्तिरिति वदन्ति । भवानेवैको ब्रूते ब्रह्मास्मीति ज्ञानान्मुक्तिरिति तत्कथं श्रद्धेयमिति । उच्यते । बहुभिरप्यन्धैरुक्तं न श्रद्धेयं एकेनापि श्रुतिचक्षुषोक्तं श्रद्धेयमेव तथा चेन्द्रो मायाभिः पुरुरूप ईयते इत्यादिश्रुत्या भेदज्ञान- स्य भ्रान्तित्वावगमात्तदा ऽऽत्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्स- र्वमभवदित्यभेदज्ञानस्य मुक्तिहेतुत्वश्रुतेस्तदेव मुक्तिहेतुरित्याह- ब्रह्मात्मैकत्वविज्ञानं मिथ्याज्ञाननिवर्तकम् ॥ इति । नन्वभेदज्ञानमपि न प्रमा किन्तु विश्वेदेवा एव मन इतिवदारो- प्यप्रधाना सम्पत् । यद्वा मनो ब्रह्मेतिवदालम्बनरूपप्रतीकप्रधान sध्यासः वेदस्य कार्यनिष्ठत्वेन वस्तुनि तात्पर्याभावादित्यत शाह । ऐक्यज्ञान न सम्पत्स्यानाध्यासो वस्तुसत्त्वतः ॥ इति । तत्त्वम्पदलक्ष्ययोरक्ये मानान्तरविरोधाभावात्सर्वेषु वेदान्तेषु ऐ- क्यम् तत्त्वमसीत्यादिनोपदिश्यानेन जीवनात्मना प्रविश्येत्यादिना प्रवेशार्थवादेन हृढीकृत्याथ ये ऽन्यथा ऽतो विदुरन्यराजानस्ते ऽक्षय्य- लोका भवन्तीत्यादिनाभेदस्य निन्दितत्वेन प्रक्रमादिना वस्तुनितात्प- विगमादैक्यज्ञानं प्रमा। किश्च यदि सम्पदादिरूपं स्यात्तर्हि ततो जीवस्य ब्रह्मभावो ऽविद्यानिवृत्तिर्वा न स्यादन्यस्यान्यात्मत्वायोगाद- । १४० विवरणापन्यासे प्रमात्वाञ्च तस्मान्न सम्पदादिरूपं ब्रह्मास्मीति ज्ञानं किं त्वखण्डात्मप्र- मेत्यर्थः । अत्र कश्चिदखण्डात्मप्रद्वेषी भिन्नाभिन्नो जीव इति जल्पति अत्यन्ताभेदे जीवेश्वरयोर्वद्धत्वानित्यमुक्तत्वव्यवस्था कथमिति मुह्य- मानस्तन्मत दर्शयति- भिन्नाभिन्नो जीव इति विरुद्ध मानवर्जितम् । जीवेश्वर व्यवस्थाक्ता मुख्या भेदाजलार्कवत् ॥ इति । जातिव्यक्तिगुणगुण्युपादानोपादेयविशिष्टस्वरूपांशांशिभावानां जीवब्रह्मणोरभावान्न भेदाभेदी। ननु पादो ऽस्य विश्वाभूतानि ममैवां- शो जीवलोके इति श्रुतिस्मृतिभ्यामंशांशिभावो ऽस्तीति चेन्न । निष्फ- लत्वश्रुत्या तस्य कल्पितत्वावगमात् । ब्रह्मणो वस्तुतः सांशत्वे ज- न्मनाशादिप्रसङ्गात् । घटादिना नभस इव बुद्ध्याधुपाधिना ऽवच्छदा- तू वस्तुता निरंशस्य ब्रह्मणः सांशत्वं कल्पितमति अंशे जीवे भेदः कल्पित पव न हि सत्यो भेदाभेदी एकत्र सम्भवत: विरोधान्माना- भावाच । नान्यो ऽतो ऽस्ति द्रष्टेत्यादिना भेदं निषिध्येप आत्मान्तर्या- मीत्यभेदोपदेशाश्च। किं चाङ्गदुःखनाङ्गिनो देवदत्तस्येवांशिनो ब्रह्मणः सर्वजीवानामंशानां दुःखैर्दुःखित्वं दुर्वारमिति तत्प्राप्तिर्मुमुक्षोरनर्थ एव स्यात् अस्मन्मत तु जीवनानात्वे मुक्त जीवाजीवान्तरसंसारस्य कल्पितत्वेनाधिष्ठानब्रह्मासंस्पर्शाह्मभावः पुरुषार्थः जीवक्ये तु तत्त्वज्ञानान्मूलाविद्यानिवृत्त्या सर्वद्वतं स्वप्नवनिवर्तते न च वामदे- वादिमुक्त्या ऽधुना संसारोपलम्भो न स्यादिति वाच्यम् । अनन्ता- तीतकल्पेष्वनन्तजीवानां मुक्तत्वात्संसारोपलम्भस्तवाप्ययुक्तः अतो निरुपाधिकाद्वितीयचैतन्ये त्वयि ब्रह्मणि प्रत्यक्ष बन्धावभासे सोपा- धिकचैतन्येषु मुक्तत्वावभासो विभ्रम एव ब्रह्मणोऽन्यस्य मुक्तावस- त्वेन बन्धायोगात् । न हि ब्रह्मद्वयमस्ति । येन त्वत्तोऽन्यो बद्धो मुक्तो वा स्यात् । ब्रह्मकमेव ह्यविद्यया संसरति विद्यया मुच्यते तथा च श्रुतिः ब्रह्म वा इद मग्रआसीत्तदा ऽऽत्मानमेवावेदहं ब्रह्मास्मीति तस्मा- तत्सर्वमभवदिति जीवानां वन्धमुक्ति व्यवस्थायामाग्रहिणस्त्वविद्यां- शभेदेन समाधानमुक्तं तस्माज्जीवेश्वरयोः कल्पितभेदेन धर्मव्यवस्था जलखस्थार्कयोरिवेत्यनवद्यम् । एवं सति वाक्याद्खण्डात्मज्ञानमा- प्रादेव मुक्तिलाभान्न विधेरवकाशः । ननु ब्रह्मणो ज्ञानक्रियाकर्मत्व- वद्विधेयोपास्तिक्रियाकर्मत्वमपि शङ्कास्पदमिति चेन्न।अन्यदव तद्वि- दितादित्यादिश्रुत्या कर्मत्वमात्रनिषेधादित्याह- - ४ सू. ९ वर्णकम् । १४१ न कर्मकारकं ब्रह्म किन्तु शास्त्रात्प्रगीयते । चैतन्याविषयो ब्रह्म वृत्तेस्तु विषयो भवेत् ॥ इति । भविषये ब्रह्मणि शास्त्रस्य प्रामाण्यं कथमिति शङ्कते । किन्विति। तत्त्वमसीति शास्त्रादहं ब्रह्मास्मीत्यखण्डब्रह्माकारं ज्ञान जायते तेन निवृत्तावरणं ब्रह्मचैतन्य स्वाध्यस्तामविद्यां निवर्तयति तत आ- विद्यकं प्रमात्रादिद्वैतं निवर्तते इति निवर्तकत्वेन शास्त्रस्य प्रामा- ण्यं यद्यपि वाक्योत्थवृत्तिस्थप्रतिबिम्बाकारनिरूपकस्य ब्रह्मणो वृत्ति- जन्यावरणादिनिवृत्तिफलशालित्वाद्वृत्तिविषयताऽस्ति तथापि नोपा- स्तिविषयता नेदं यदिदमुपासते इति ब्रह्मण उपास्यत्वनिषेधा- भाप्यन्यदेवेत्याचप्रमेयत्वश्रुतिविरोधः स्वयंप्रकाशे ब्रह्मणि प्रमाणेन स्फुरणं न क्रियते इति चैतन्याविषयत्वपरत्वादित्यभिप्रेत्याह । शा- नादिति । असकृदुक्तमपि जीवस्वरूपं वादिविवादाहुग्रहं भवतीति मत्वा पुनर्बोधयति- ब्रह्मैवाविद्यया जीवस्तत्त्वमस्यादिवाक्यतः । लक्ष्यैक्यं बोध्यते तस्माद्भेदाभेदो प्रमाणकः ॥ इति । ब्रह्मैवाविद्याप्रतिबिम्बितं जीवः तस्य ब्रह्मणैक्यं विरुद्धांशत्यागेन लक्षणया वाक्येन बोध्यते। ननु भिन्नाभिन्नता वाक्यार्थः किं न स्यादिति चेन्न । देहादिविशिष्टः संसार्यहं ब्रह्मणा भिन्नाभिन्न इति ज्ञाने बन्धा- निवृत्तेः । न हि भेदांशस्य शास्त्रार्थस्य ध्यानादिनानिवृत्तिः कल्पयितुं शक्यते । शास्त्रविरोधात् । ननु ब्रह्म वेद ब्रह्मैव भवतीति फलका- क्यान्मुक्तावत्यन्ताभेद इति चेत् तर्हि अभेदज्ञानादेव भेदनिवृत्तिरिति अभेद एव वाक्यार्थः स्यात् । किञ्च किं भेदाभेदांशद्वयवान् जीवः उत अंशद्वयं आहोस्विद्भेदांश एव जीवः ।नाद्यः । अभेदांशस्य ब्रह्मत्वे जीवस्यांशो ब्रह्म स्यादब्रह्मत्वे जीवब्रह्मणोरत्यन्तभेदः स्यातू । द्वितीये किमंशद्वयं भिन्नं उताभिन्नम् अथ भिन्नाभिन्नम्। आधे जीवद्वयप्रसङ्गः द्वितीये ब्रह्मैव जीवः स्यात् तृतीये ऽनवस्थानातू । नापि भेदाभेदां- शो जीवः अत्यन्तभेदापातात् । अतो भेदाभेदौ दुर्निरूपी विरुद्धौ धादिसापेक्षौ तत्तद्रव्यत्वादिना लोकसिद्धौ निष्फलौ मुक्तावनव- स्थितौ न शास्त्रार्थः । यत्तु भेदेन कर्माविद्यादिदोषव्यवहारः अभेदे- नाहं ब्रह्मास्मीति ज्ञानमोक्षव्यवहार इति तत्प्रलापमात्रम् । दोषवन्तं भे- दांशं जीवं प्रति त्वं ब्रह्मेति उपदेशायोगात् । अभेदांशं ब्रह्म प्रति उप- देशवयात् । सर्व वस्तु भेदाभेदाभ्यां सार्यवादिनस्तव न का m १४२ विवरणोपन्यासे चिद्यवरथा अन्नादावपि विषाभेदन प्रवृत्त्ययोगादित्यादिदोपभूीय- ठो ऽयं पक्ष इत्युपेक्षणीयः तस्मान्मायया स्वप्नवत्सर्वव्यवस्था यथा- दर्शनमुपपद्यते इति अद्वैतवस्तु शास्त्रार्थ इति शोभनम् । एवमहं ब्रह्मा- स्मीति ज्ञान न सम्पदादिरूपं नापि भेदाभेदगोचरं किन्त्वखण्डात्म- प्रमारूपं तस्य फल नित्यसिद्धब्रह्मानन्दाभिव्यक्ति रविद्यावरणनिवृत्ति- मुक्तिशब्दिता तस्या आत्ममात्रत्वादनात्मत्वे ऽपि ध्वंसत्वान्नानित्य- तादोषः । यस्य तु विधेयक्रियाफलं मोक्षस्तेनेदं वक्तव्यं मोक्षः स्वर्गवत्कर्तृससवेतापूर्वफलं वा कर्मकारके ब्रह्मणि विधेयज्ञानक्रि- याजन्यउत्पत्त्याचतिशयो वेति । आधे तारतम्यनित्यत्वादिदोष उक्तः। न द्वितीय इत्याह- नोत्पाद्यो न विकार्यः स्यान्मोक्षो नित्यत्वदोपतः। न चाप्यो नापि संस्कार्य आत्मशुद्धागुणत्वतः ॥ पिष्टं संयोतीत्युत्पाद्यपिण्डवत्तडुलान्पिनष्टीति विकार्यतण्डुलवश ज्ञानेन ब्रह्मण उत्पत्ती विकारे चानित्यत्वं स्यात् । अत्र के चिदाहुः । जीवब्रह्मणोर्भेदसहिताभेदस्तादात्म्यमतिरकाख्यं स्वाभाविकम् अत्य- न्ताभेदस्तु तद्भावो जीवस्य ज्ञानजन्यो मोक्षः स च जन्यत्वे पिक्रिया- जन्यत्वाभावान्नित्यः लोके क्रियाजन्यस्यैवानित्यत्वदर्शनादित्याहुः । अत्रोच्यते । किं तद्भावज्ञानात्तद्भावो जन्यते तादात्म्यज्ञानाद्वा आधेपि शानं परोक्षमपरोक्षं वा ।नाद्यः परोक्षज्ञानात्सर्वेषां तद्भावादर्शनात् ।न द्वितीयः ज्ञानजन्यस्य ब्रह्मत्वस्य ज्ञानात्प्रागसत्त्वेन प्रत्यक्षत्यायोगात् । नापि तादात्म्यज्ञानात्तद्भावजन्म तादात्म्यनाशं विना तद्भाबायोगात् । नहि भेदे सत्यत्यन्ताभेदो भवति । न च तस्य नाशकमस्ति तादात्म्य- शानं च साधकम् न नाशकम् तस्माल्लोके ज्ञानजन्य संस्कारवन्मो- क्षस्यानित्यत्वं दुर्वारमिति संक्षेपः । ननु गन्तुमप्राप्तिवजीवस्य ब्रह्म- प्राप्तिीनफलमिति चेन्न ब्रह्मण आत्मत्वेन नित्यप्राप्तत्वादनात्मत्वेपि विभुत्वेन नभोवत्प्राप्तत्वात् । ननु सर्वलोकोपरितनं विकारास्पृष्टं ब्रह्म प्राप्यमिति चेन्न । तस्याजासत्त्वे मध्यमपरिमाणत्वेनानित्यत्वापातात् । ननु सर्वगतमपि ब्रह्म विकारास्पृष्टत्वेन प्राप्यमिति चेत् । केयं प्राप्ति- ने तावजीवस्य भिन्नस्य ब्रह्मत्वोत्पत्तिः । भिनयारक्यायोगान्नापि संयोगः अनित्यदोषात् । तस्मान प्रदेशान्तरवर्तिब्रह्मप्राप्तिर्मुक्तिरिति । यत्तु तयोर्ध्वमायनमृतत्वमेति स एनान् ब्रह्म गमयतीति मूर्धन्यना- च्यार्चिरादिमार्गेण गन्तुणां प्रदेशान्तरे निर्गुणप्राप्तिर्मुक्तिः श्रूयते नपुं- ."
४ सू. ९ वर्णकम् । १४३ सकब्रह्मशब्दस्य परब्रह्मणि मुख्यत्वादिति। तन्न यः सर्वज्ञः सर्ववित्त- स्मादेतद्ब्रह्म जायते इत्यादिश्रुतौ कार्यब्रह्मण्यपि प्रयोगमुख्यत्वात्तस्य शब्दस्य किञ्चामानवः पुरुष एतानुपासकान्ब्रह्मलोकान् गमयतीति बहुवचनान्तलोकशब्दाल्लोकेषु ते वसन्तीत्याधारत्वलिङ्गात् । ऐरंमदी- यं सरः इराऽन्नरसस्तत्कृतमैरंमदकर सर इति सरोलिङ्गात्तु अश्वत्थः सोमसवनः सुधावर्षी अपराजिता पूस्तत्र हिरण्मयं वेश्मास्ति प्रजा- पतेःसभेत्यादिबहुलिङ्गेभ्यः कार्यलिङ्ग)प्राप्तिरेवोपासकानामिति नि- श्चीयते । किञ्च यद्यर्चिरादिमार्गेण गन्तॄणां निर्गुणप्राप्तिस्तदा पश्चा- ग्निगायत्रीशाण्डिल्यषोडशकलोपकोसलवैश्वानरभूमदहरपयङ्कादिवि- द्यानां गुणतारतम्यादुपचयापचयौ व्यों स्यातां कार्यब्रह्मप्राप्ती तु फलस्य तारतम्यसम्भवात् सफलौ स्याताम् । किं च निर्गुणब्रह्मरू- पस्य मुक्तस्य संकल्पादेव पित्रादयः समुत्तिष्ठन्तीति विरुद्धम् । किं च य उपरि गत्वा ब्रह्म भवति स जीवो ऽणुर्विभुमध्यमपरिमाणों वा आये कथमणोर्ब्रह्मत्वं द्वितीये गत्ययोगः तृतीयपि नाशिता। ननु ब्रह्मै- वोपाधिपरिच्छिन्नं जीव इत्युपाधिगत्या गतिरिति चेन्न । उपाधिना ऽन- वच्छिन्नस्य निरवयवस्योवृत्य नयनायोगादुद्धरणे चायं देशो ब्रह्मशू- न्यः स्यातू उपाघेरपि उपादानस्य ब्रह्मणो निश्चलत्वेन गमनायोगा- तू न हि निश्चलायां मृदि घटस्य गमनं दृष्टं तस्मात्स्वप्नवद्गमनागमना- दिसंसारो विभ्रम इत्यज्ञानध्वंसे सत्यत्रैव मुक्तो ब्रह्मात्मना ऽवतिष्ठते न तस्य प्राणा उकामान्ति अत्र ब्रह्म समश्नुते इति श्रुतेन देशान्तर- ब्रह्मप्राप्तिर्मुक्तिरिति । अस्तु तर्हि ज्ञानेन संस्कार्य ब्रह्मेति चेन्न । स्वतः- शुद्ध ब्रह्मणि दोषाभावेन तन्निवृत्तिरूपसंस्कारायोगानिर्गुणत्वे गुणा- धानायोगाच्च । शुद्धत्वे निर्गुणत्वे च शुद्धमपापविद्धं केवलो निर्गु- ण इति श्रुतिर्मानम् । ननु तार्यध्यानाद्विषनिवृत्तिवब्रह्मध्यानाजीव. गतानाद्यविद्यामलनिवृत्तिः किं न स्यादिति चेन्न । लोके ज्ञानकनिर- स्यत्वादविद्यायाः । ननु शास्त्रीयैः कर्मभिरात्मनो गुणरूपः संस्कारः श्रूयते इति चेन्न । साभासबुद्धिरूपाहङ्कारस्यैव कर्मकर्तृत्वेन संस्का- रफलभाक्त्वात्तस्मान्न ब्रह्मसंस्कारो मोक्ष इति । एवं मोक्षस्य क्रिया- फलत्वायोगाज्ज्ञानैकसाध्यत्वमिति सिद्धम् । ननु क्रियाज्ञानयोः को भेदः ज्ञानस्यापि मानसत्वेन ध्यानादिवक्रियात्वादित्यत माह- क्रियाविलक्षणं ज्ञानं संयोगादिविलक्षणा। (१) कार्यब्रह्मप्राप्तिरित्यपि पाठान्तरम् ।
विवरणोपन्यासे क्रिया प्रत्यक्षतो ज्ञेया नानुमेयेति साधितम् ॥ शानस्य फलं स्फुरणं नित्यं कर्मफलं जडमनित्यमिति फलतो वैलक्षण्यं विध्यधीनपुरुषेच्छाजन्यप्रयत्नसाध्या क्रिया विषयानपेक्षा च यथा योषाग्निध्यानम् । ज्ञानं तु न पुरुषकृतिजन्यं किन्तु प्रमाण- वस्तुपरतन्त्रम् । यथा ऽग्नावग्निज्ञानमिति महान्भेदस्तयोरित्यर्थः । अत्र कश्चिदाह । संयोगविभागाभ्यामन्या क्रियैव नास्तीति । न चैवं श्येनसंयोगविभागवति स्थाणौ चलतीति बुद्धिः स्यादिति वाच्यम्। तयोराधेये द्रव्ये चलनवुद्धिविषयत्वात् । स्थाणोः श्येनं प्रत्याधार- त्वात् । श्येनस्तु आधेयत्वाञ्चलतीति बुद्धिविषयः पक्षिणामप्याका- शाधारनिरूपितो संयोगविभागौ चलनबुद्धिविषय इति तन्न आका- शस्याचाक्षुषत्वेन तन्निरूपितयोस्तयोश्चलति पक्षीति चाक्षुषबुद्धि- विषयत्वायोगातून गाढान्धकारे नभोज्ञानाभावेन खद्योतश्चलतीति बुद्ध्ययोगात् । गङ्गाप्रवाहादी सुस्थिरे मकरे जलसंयोगादिमत्याधेये चलतीति बुद्धिप्रसङ्गाच्च । तस्मात्मंयोगादिविभागाभ्यामन्या क्रिया ऽस्तीत्याह । संयोगादीति । प्राभाकारास्तु ताभ्यामनुमेया क्रिया न प्रत्यक्षेत्याहुः । तथा हि संयोगाजन्यः संयोगः स्वाश्रयगतकादाचि- त्कातिशयजन्यः स्वसमकालमनुत्पन्नद्रव्यनिष्ठत्वे सति कादाचि- कत्वात् पाकजरूपादिवदिति संयोगनार्थान्तरतानिरासाथै संयोगा- जन्य इति पक्षविशेषणम् । क्षणनिरासार्थ स्वाश्रयगतेति सत्ता- दिनिरासार्थ कादाचित्केति । वेदान्तिमते द्रव्यसहोत्पन्न गुणेषु व्य- भिचारनिरासार्थ सत्यन्तम् । नभोगतपरिमाणादिनिरासार्थ कादा- चित्कत्वादिति । तदयुक्तं किं यावदाश्रयगतातिशयः साध्य उता- श्रयगतः नाद्यः अन्यतरकर्मजसंयोगे व्यभिचारात् । न द्वितीयः कर्मा- समवायिकारणादेव संयोगजन्मसंभवेनाप्रयोजकत्वाद्यथाप्रयत्नवदा- त्मसंयोगात्पादसमवेताद्भूपादसंयोगः किं बहूक्त्या । कर्मणो यत्कार्य तत्कर्मकरणादेव सुसम्पादमिति नानुमानाकर्मसिद्धिः । किन्तु प्रत्यक्षादित्याह । प्रत्यक्षत इति । शब्दविद्युदादिवदाशुतरविनाशि- त्वेऽपि क्रियायाः प्रत्यक्षत्वसम्भव इति भावः। एवञ्च वेदान्तवि- ज्ञानसुनिश्चितार्था इति सम्यग्ज्ञानस्य मुक्तिहेतुत्वावगमाक्रियावि लक्षणमवे शानं मोचकमिति न तत्र विधेरवकाशः । नन्वात्मन्येवा- स्मानं पश्येदात्मा द्रष्टव्य इति ज्ञाने विधयः श्रूयन्ते इति चेत्सत्यम् अशक्ये ज्ञाने नियोगासम्भवात्फलरूप आत्मा तैः स्तूयते बहिर्मुखदु- - ४. सू. ९ वर्णकम् । १४५ लेभो बहुपुण्यपुञ्जलभ्यो ज्ञानलभ्यो ऽयमात्मेति एवं स्तुतौ तदर्थी विषयविमुखः सन् श्रवणादौ प्रवर्तते यद्वा द्रष्टव्य इत्यहाथै कृत्य- प्रत्ययः पश्येदिति वाक्यं शान्त्यादिविधिपरम आत्मानमेव लोकमुपा- सीतेति वाक्यं तूपासीतेतिपदेनाहमहमित्यात्मज्ञानधारानुवादेनैव- कारेणानात्मांशं निषिद्ध्य केबलात्मविषयपरं भवति तस्माद्वेदान्तेषु विधेयक्रियातत्फलयोरभावान विधिशेषतया ब्रह्मप्रमितिः किन्तु स्वप्राधान्येनेत्युपसंहरति- ज्ञाने श्रुतो लिङादिः स्यात्स्तावको ऽहोर्थ एव वा। एवं ब्रह्मणि मानत्वं वेदान्तानां प्रसाधितम् ॥ इति । एवं तावत्समन्वयसूत्रस्य प्रथमवर्णके वेदान्तानां मानान्तरान- पेक्षत्वं द्वितीयवर्णके विध्यनपेक्षत्वं सफलत्वं चोक्तम् अधुना वर्णक- द्वयार्थ आक्षिप्य समाधत्ते- ये तु सिद्धार्थको वेदो नास्तीत्युच्चैर्वदन्ति ते। तन्त्वोपनिषदंश्रुत्या बाध्याः स्मृत्या च संविदा ॥ इति । किमहं कर्ता वेदान्तैः प्रतिपाद्यः किं वा तदन्यः आये तस्य कर्मकर्तृत्वाद्विधिशेषता न द्वितीयस्तदन्यस्यानात्मत्वादात्मत्वे कर्म- शेषतायाः दुरपन्हवत्वात्तथापस्तम्बोऽपि वेदानां कार्यार्थतां दर्शयति विद्यवृद्धानां वेदाः प्रमाणामिति निष्ठा तत्र यानि श्रूयन्ते ब्रीहिय- वादीनि तैरुच्चैर्नीचैःफलाय कर्म कार्यमिति शङ्कार्थः । विद्यं वेदाः । सिद्धान्तस्तु अहङ्कारादन्यस्तत्साक्षी ब्रह्मत्वेन प्रतिपाद्यते । न च तस्याङ्गत्वं भवति नाप्यङ्गत्वे मानमस्ति वेदान्तवाक्यस्यापूर्वब्रह्मा- त्मपरत्वात् । तेनैवात्मनः कर्माङ्गत्वबोधने वाक्यभेदापत्तेः माप- स्तम्बवाक्यं तु कर्मकाण्डपरं तन्त्वौपनिषदं पुरुषं पृच्छामि सर्वे वेदा यत्पदमामनन्तीति श्रुत्या वेदैश्च सर्वैरहमेव येद्य इत्यादिस्मृत्या च सिद्धस्य ब्रह्मण एवं सर्ववेदार्थत्वावममात्कर्मकाण्डस्यापि शुद्धिद्वारा ब्रह्मप्रतीतेश्च । न च सा भ्रान्ति धाभावात् न ह्यात्मनो ऽत्यन्ताभावः प्रमातुं शक्यते प्रमातुरभावात् अतः सर्वसाक्ष्यबाधितो वेदान्तार्थ इत्यर्थः। यत्तु प्रवृत्तिलिङ्गानुमितज्ञानविषये कार्यार्थे सङ्गतिग्रहादाना- यस्यक्रियार्थत्वादिति सूत्राच्च वेदान्ताः कार्यपराःसिद्धार्थे शक्त्यभावा- दिति तन्न सूत्रहृदयज्ञैर्भट्टपादैरभिहितान्वयस्य दर्शितत्वात् । तथा हि गामानयति वाक्यप्रयोगसमनन्तरभाविमध्यमनरप्रवृत्तिलिङ्गानुमित- प्रवर्तकज्ञानविषयतया ज्ञाते ऽपि कार्यसंसृष्टार्थे पदानां शक्तिः गां बधा- १९ १४६ - विवरणोपन्यासे नेति प्रयोगे आनयनकार्यास्पृष्टपिण्डमात्रान्वयादतो गोपदस्याव्याभ- चाराद्गोमात्रं शक्यम् एवं सर्वपदानां सिद्ध कार्ये वा शुद्धार्थे शक्तिः परिभिहितैः शुद्धाथैः संसर्गो बोध्यते इत्यभिहितान्वयवादः । पदानां पदार्थस्मृत्यन्यथासिद्धत्वादानां करणत्वमित्यभिमानः । अस्मिन् मते त्वक्रियार्थानां शब्दानामानर्थक्यं नाम फलाभाव एव । न त्वर्थाभावः शुद्धार्थस्य सत्त्वात् । तथा च यस्मिन्वाक्य स्वार्थफलाभावस्तस्या- प्रामाण्यपरिहाराय सफलविधिशेषत्वं वाच्यमिति जैमिनेर्हृदयम् । एवञ्च सो ऽरोदीदित्यादिवाक्यानां विधिशेषत्वं न्याय्यं न वेदान्तानां स्वार्थे ब्रह्मणि मुक्तिफलसत्त्वादिति मत्वा ब्रूते- भट्टपादा जगुः स्पष्टं शुद्धार्थ पदसङ्गतिम् । अर्थः संसर्गधीरेषा ऽभिहिता ऽन्वयवादिता ॥ इति । प्राभाकरास्तु व्युत्पित्सुना प्रवृत्तिलिङ्गानुमिते कार्यसंसृष्टार्थ- शाने ऽन्वयव्यतिरेकाभ्यां वाक्यस्य सामर्थ्यावगमात्कार्यसंसृष्टार्थे पदानां संमुग्धशक्तिरवगता पश्चादावापोद्धाराभ्यां कार्यान्वितगवि गोपदशक्तिरवगम्यते न शुद्धार्थ कार्यविशेषस्य व्यभिचारे ऽपि कार्य- मात्रस्याव्यभिचारादन्यथा पश्चाच्छुद्धार्थे शक्तिग्रहे संमुग्धव्युत्पत्ति- बाधात्पदार्थानां संसर्गधीकरणत्वकल्पनागौरवाच तत्कार्यान्विते श- क्तिरित्याहुः । अत्रोच्यते क्रियातिरिक्त कार्य तच्च लोके वक्तुरिच्छारूपं वेदे त्वपूर्वमिति तव मतम् । तत्र यदि कार्यान्विते सर्वेषां पदानां शक्तिस्तदा शुक्लां गामानयेत्युक्ते गवि गुणकर्मकारकक्रियाभिः सं- सर्गाः क्रमेण शब्दैन प्रतीयेरन् शब्दानां तत्राशक्तत्वात् । अतस्तत्प्र- तीतिनिर्वाहार्थमितरान्वितेऽर्थेशक्तिरिति युक्तम् । न चैवं सति संसर्ग- भेदाद्वाक्यभेदः स्यादिति वाच्यम् । अवान्तरसंसर्गनानात्वेऽपि प्रधा- नसंसर्गस्यैकत्वात् न चाव्यभिचारात्कार्यान्विते शक्तिरिति वाच्यम्। वक्तृशानस्यापि अव्यभिचारात् । न च वक्तृज्ञानस्य प्रयोगे हेतुत्वेनैवा- न्वयो ऽन्यथासिद्ध इति न शक्यत्वमिति वाच्यम् । कार्यान्वयस्यापि प्रवृत्तावन्यथासिद्धत्वेन शक्यत्वात् राजपुत्रः पीतवासाः सुरूपः स्नात्वा भुक्त्वा क्रीडतीत्यादिभूतार्थवाक्येषु कार्यस्य व्यभिचाराञ्च । न च कार्य विना राजपुत्रादेर्भूतार्थस्य द्रव्यगुणादिभिः संसर्गों न भा- तीति युक्तमनुभवविरोधाद्वक्तृश्रोत्रोरनपेक्षितस्य कार्यस्याध्याहारे कल्पनागौरवादतः कार्य विना भूतसंसर्गानुभवाल्लाघवाच्च योग्येत. तरान्वितत्वं शक्यतावच्छेदकम् । न च ततोऽपि लाघवाच्छुद्धार्थे शक्ति- । ४ सू. ९ वर्णकम् । १४७ रिति वाच्यम्। पदासामान्यान्वयप्रतीतायन्वयप्रतियोगिविशेषाकाङ्क्षा- नुपपत्तेः। न च पदार्थत्वेनान्वयानुमानादाकाङ्केति वाच्यम् । झटित्या- काङ्गानुभवविरोधात् । शब्दश्रवणानन्तरं नियमेनानुमानकल्पनायां शब्दाप्रामाण्यापाताञ्च । वृत्ति विना शब्दानामबोधकत्वात्संसर्गबोधस्य शाब्दत्वप्रसङ्गाश्चत्यलम् । किञ्च कार्ये कार्यान्वयाभावादितरान्धितत्वं शक्यतावच्छेदकम् । न च तत्रापिधात्वर्थयागादिरूपकार्यान्वयोऽस्ती- तिवाच्यम् । यजेतेति लिङा नियोगाख्यकार्यवोधक्षणे यागे कार्यत्वाप्र- तीतेः । धात्वर्थमात्रान्वितकार्यप्रतीत्युत्तरकालत्वाद्धात्वर्थे कार्यता- प्रत्ययस्य । तथा चान्योन्याश्रयः । लिङर्थज्ञाने सति धात्वर्थे कार्य- ताज्ञानमस्मिन्सति लिङर्थज्ञानमिति । न च कार्यान्वयाश्रयत्वं का- ये ऽप्यस्तीति तदेवावच्छेदकमिति वाच्यम् । पदात्तत्प्रकारकबोधादर्श- नात्पदजन्यज्ञानाविषयस्यानवच्छेदकत्वात्तस्येतरान्वयापेक्षया गुरु- स्वाञ्च । किञ्च लोके निघण्वादिना सिद्धे ऽथै संगतिग्रहान्न कार्य सर्व- शब्दार्थः। तस्मादितरान्वितःशब्दार्थ इतिसिद्धम् । एतेन गामानयेत्यत्र गोपदस्येतरान्वितशक्तावनेकेतरसंसर्गाणां पदार्थत्वादयं संसर्गोवा- क्यार्थ इति नियमो न स्यात् । न चानयनान्वित एव गोपदार्थ इति वाच्यम् । आनयेतिपदवैयापत्तेः । विशेषाणामानन्त्येन तदन्वितार्थे शक्तेदुर्ग्रहत्वात्सर्वपदानां पर्यायतापत्तेश्च । न चाभिहितेतरान्विता गौः पदार्थस्ततश्चेतराभिधानार्थमानयपदमर्थवदिति वाच्यम् । आनयप- दस्याप्यभिहितेतराभिधायित्वेनान्योन्याश्रयात् ।गोत्वेऽभिहिते तत्सं- सृष्टानयनाभिधानम् आनयने ऽभिहिते तत्संसृष्टं गोत्वाभिधानमिति । तस्मान्नेतरान्विते शक्ति पि विशेषान्विते नाप्यभिहितान्वितेऽतः परि- शेषात्कार्यान्विते शक्तिरिति निरस्तम् । गोपदादितरान्वितगोरभिधाने सतीतरविशेषाकाङ्क्षायामानयनपदेनानयनमितरान्वितमभिधीयते । तयोरभिहितयोर्विशेषयोरितरेतरसंसर्गो वाक्यार्थ इति सिद्धम् । त- स्य निर्दोषत्वात् । यत्तु पदातिरिक्तवाक्याभावात्पदानां क्षणिकत्वात् न संसर्गबोधे करणत्वं किन्तु स्थायित्वात्पदार्थानां करणत्वमिति तदति- मन्दम् ।अनभिहितार्थानां करणत्वेसदाबोधप्रसङ्गात् । न चाभिहितानां करणत्वम् ।अन्त्यपदार्थाभिधानक्षणे पूर्वाभिधानां स्मृतिरूपाणां नष्ट- त्वातू नचान्त्ये समूहालम्बनस्मृत्युपारूढा अर्थाःकरणमिति वाच्यम् । पदानामपि तथा करणत्वापेपत्तेः पदार्थस्मृतेर्व्यापारत्वेनाव्यवधाय- कत्वादन्यथा वाक्यार्थस्याशाब्दत्वापत्तरित्यलं विस्तरेण । पतत्सर्व.
विवरणोपन्यासे मभिप्रेत्याह- प्राभाकरास्तु कार्येण संसृष्टे शक्तिवादिनः । अस्माकमन्विते शक्तिलाघवाद्युपपत्तिभिः ॥ इति । यत्तु तद्भूतानां क्रियार्थेन समाम्नाय इति सूत्रात्कार्य सर्वशब्दार्थ इति तन्न । तद्भाष्यकारेण शुक्लः पटः खण्डो गौरित्येवं सिद्धार्थे व- र्तमानानां पदानां समानायः सामानाधिकरण्याद्यर्थत्वेनोच्चारणमि- ति दर्शितत्वात् । क्रियार्थेनेत्युक्तिस्तु धर्मविचारस्य प्रस्तुतत्वादु- पपद्यते । कर्मकाण्डे निष्फलस्य भूतसर्गस्य क्रियार्थत्वाद्यदि पुनर्ज- मिनेः कार्यमेव वेदार्थ इति मतं स्यात्तदार्थे ऽनुपलब्धे तत्प्रमाणमि- त्युक्तिर्न स्यात् तद्गुरुणा भगवता व्यासेन वेदान्तानामखण्डार्थे तत्तु समन्वयादित्यादिना तात्पर्य निरूपयितुं पृथक् शास्त्रं नारभ्येतेत्याह- व्यासेन पृथगारम्भात्सिद्धार्थे वेद इप्यताम् । व्यासोक्ताथै जैमिनेस्तु विमतिर्न कदाचन ॥ इति । इतरान्वितशब्दार्थ इत्युभयोः संमतं तन्त्रभेदस्तु सिद्धसाध्यरूप- प्रतिपाद्यभेदादिति भावः । ननु सामान्यान्वयः पदार्थो विशेषान्वयो वाक्यार्थ इति स्थिते कथमखण्डार्थत्वमिति चेदुच्यते । सैन्धवधन एवेत्येकरसत्वावधारणादतो ऽन्यदातमित्यन्यस्य नाशित्वेन कल्पि- तस्य तत्त्वावेदकवाक्योत्थज्ञानविषयत्वानुपपत्तेर्लक्षणया ऽखण्डा- र्थत्वम् । न च प्रथमाविभक्त्यर्थसंसर्गः तस्याः पाणिन्याचार्येण प्राति- पदिकार्थमात्रे स्मरणात् । यत्तु क्रियान्तराभावे ऽपि अस्त्यर्थन क्रियासंसर्गः सर्वत्रास्ति अस्तिभवतिपरः प्रयोक्तव्यः इति कात्या- यनस्मरणात् । भवतिपरः लडन्त इत्यर्थः इति तन्न । वने सिंह इत्यादी प्रथमायोगे यत्र क्रियाकाङ्का तत्रास्तिः प्रयोक्तव्यः यत्र तु अमी द्रुमाः फलिता इति विशेषणे तात्पर्य तत्र नैवास्तिक्रियासम्ब- न्धः निराकाङ्क्षत्वात् । एवं सत्यादिवाक्यैरखण्डार्थबोधे निराकाशि- तत्वान्न क्रियासम्बन्ध इति सिद्धान्तः । एवं तावदितरान्वितशक्ति- कथनेन वेदान्तानां सिद्धार्थे प्रामाण्यमुक्तमिदानी ब्राह्मणो न हन्तव्य इत्यादिनिषेधवाक्यवद्वेदान्तानां सिद्धार्थनिष्टत्वमित्याह--- कार्य निषेधशास्त्रे स्पाडुर्लभं कूर्मदुग्धवत् । तद्वद्वेदान्तशास्त्रस्य सिद्धार्थ मानता स्थिता ॥ इति । नत्रस्तावदभावो मुख्योर्थः । नेक्षेतोद्यन्तमादित्यमित्यत्र तु तस्य ब्रह्मचारिणो व्रतमित्यनुष्ठेयवाचितशब्दादीक्षणविरोधिनी नेक्षेऽहm - ४ सू. ९ वर्णकम् । १४९ मिति सङ्कल्पक्रिया ना लभ्यते। ननु “नामधात्वर्थयोगी तुनैव न प्रतिषेधकः । वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिना"विति वार्तिके तदन्यतद्विरुद्धयोरपि नञर्थत्वमुक्तमिति चेत्सत्यम् । नअर्थाभावस- म्बन्धादन्यविरुद्धौ लक्ष्यावित्येतत्परत्वात् । लक्षणया तल्लाभे शक्य- त्वकल्पना ऽयोगात् । निषेधवाक्ये तु लक्षणायां कारणाभावादभाव एवार्थ इति न सर्ववाक्यानां कार्यपरत्वम् । अत्राह प्राभाकरः ।न ब्रा- ह्मणस्याभावो नअर्थः प्रत्यक्षविरोधानापि हन्त्यर्थस्याभावः हननस्य प्राप्तत्वात् । नापि तव्यप्रत्ययस्याभावोर्थः । हनने कार्यत्वस्यष्टसा- धनत्वस्य वा सत्त्वात् । तस्मादभावरूपार्थासम्भवाद्धननविरोधिस- कल्पो नअर्थो विधेयो ऽहननं कुर्यादिति । तस्मात्कार्यनिष्ठमिदं वा- क्यमिति । उच्यते । हननप्रागभावो नर्थः। न हन्तव्यम् हनना- भाव इष्टसाधनमित्यर्थः । इष्टश्चागामिदुःखाभावस्तस्य प्रयोजको ह- ननाभावः। कारणाभावस्य कार्याभावपरिपालकत्वात्।न चहननाभावे नियोगः प्रत्ययार्थ इति वाच्यम् । अभावस्यानादित्वेनाननुष्ठेयत्वात् । अथ वा प्रत्ययार्थस्येष्टसाधनत्वस्याभावो नअर्थः । ननु हननादिष्टं दृश्यते इति चेत्सत्यं न तदिष्टं बलवदनिष्टानुविद्धत्वात् । बलवदनि- टाननुविद्धमिष्टमित्याचक्षते वृद्धास्तथा च हन्तव्यो न हननं बलव- दनिष्टाननुबन्धीष्टसाधनं नेति प्रत्ययानुदितस्य विशिष्टस्य निबन्धे सति अर्थावलचदनिष्टानुबन्धि हननमिति बुद्धिर्भवति । तया हनने विशिष्टेष्टसाधनत्वभ्रमो निवर्तते । ततस्तद्भममूलयो रागप्रयत्नयोरा- त्यन्तिकनिवृत्तिरूपमौदासीन्यं भवतीति निषेधवाक्यम् नअर्थे ऽभावे सिद्धरूपे पर्यवसितं तद्वद्वेदान्तानां सिद्धार्थनिष्ठत्वमित्यर्थः । किञ्च विधिवाक्ये ऽपि नापूर्वनियोगाख्यं कार्य प्रत्ययार्थः । येन तत्र वेदस्य तात्पर्य स्यात् कुत इति चेदप्रसिद्धत्वेन लोके तत्र लिङादेः सङ्गत्य- ग्रहात् । ननु लोके धात्वर्थकार्यतायां सङ्गतिग्रहात्स्वर्गकामिकृति- साध्यता यागादौ लिङा प्रतिपन्नासती तत्ष्टा स्वर्गसाधनत्वं कल्प. यति ततः क्षणप्रध्वंसिनः स्वर्गसाधनत्वानुपपत्त्या कल्पिते नियोंगे सङ्गतिग्रह इति चेन्न । बकबन्धप्रयासान्नियोगः स्वविषये यागे का- र्यता बुद्धिहेतुरिति ते मतम् आदावेव च्चेल्लिङा सा लब्धा किं कल्पि- तनियोगेन सङ्गतिप्रयासेन । न हिबके लब्धे तच्छिरसि नवनीतप्रत्ते- पायासः फलवान् । अथ यागादौ प्रतिपन्नकार्यतानिर्वाहार्थमेवापूर्व कल्प्यतामिति चेत्कामं कल्प्यतामन्यलभ्यत्वान्न तस्य शब्दार्थत्व:
- १५० विवरणोपन्यास मिति वदामः । इष्टासाधनता विध्यर्थ इत्युक्तम् न विस्मर्तव्यमिति सङ्केपः । यत्तु श्रुतब्रह्मणो ऽपि यथापूर्व संसारदर्शनान्न शानमात्रा- न्मुक्तिरिति तत्राह- ब्रह्मात्मावगतौ सत्यां संसारः पूर्ववन्न हि । अज्ञानमूलः संसारो ज्ञाने सति कथं भवेत् ॥ इति । अवगतिः साक्षात्कारः । ननु कर्मनिमित्तः शरीरबन्धः आत्मनः कर्मणैव निवर्तनीयो न ज्ञानेनेत्यत आह । अज्ञानेति । असङ्गकूटस्था- त्मनि कर्मासम्भवादनाद्यनिर्वचनीयाज्ञानमूलैः कामकर्मभिः संसारो बाच्यः । अतो ज्ञानेन मूलध्वंसान ज्ञानिनः संसारः तत्र को मोहः का शोक एकत्वमनुपश्यत इत्याद्याः श्रुतयो ऽपि ज्ञानमात्रान्मुक्ति दर्शयन्तीति भावः । ननु तर्हि शानिनो द्वैतदर्शनं कथमित्यत माह- ज्ञानात्सर्वस्य नाशे ऽपि प्रारब्धं न निवर्तते । देहे सत्यपरोक्षा धीासादीनां यथा तथा ॥ इति । करतलीकृतब्रह्मतत्त्वस्यापि प्रारब्धकर्मास्ति तस्य तावदेव चिर- मिति श्रुत्यैतत्सङ्घातध्वंसरूपे विदेहकैवल्ये विलम्बश्रवणादेतच्छ्रति- बलात्क्षीयन्ते चास्य कर्माणीति सामान्यश्रुतिः प्रारब्धकर्मातिरिक्त- कर्मविषया । न चाज्ञाननाशे तदुपादानकं प्रारब्धं कथं तिष्ठेदिति वाच्यम् । अंशभेदादज्ञानस्य द्वावावरणविक्षेपावंशी तत्रावरणा- शानांश एव ज्ञानात्सद्यो निवर्तते ज्ञानेन समानं विषयतया विरो- धाद्विक्षेपकाज्ञानांशस्तु यावत्प्रारब्धमवतिष्ठते छिन्नमूलवृक्ष इव यावत्त्वक्सारम् । ज्ञानाभिव्यक्तचैतन्यात्मके निवर्तके सत्यपि प्रार- ध्धप्रतिबन्धाद्वा तन्निर्वाहकाज्ञानांशानिवृत्तिः अतः प्रारब्धदोपबलाद् व्युत्थानदशायां द्वैतदर्शनमिति भावः । अत्राह जीवन्मुक्तिद्वेषी नास्त्येव सशरीरस्यापरोक्षात्मज्ञानमिति तत्राह । देहे सतीति । अस्तीति शेपः । न ह्यन्धनव चक्षुष्मता रूपदर्शनं नास्तीति वक्तुं शक्यमप्रतिवद्धसामग्रीसत्त्वादतो निबिडपापमण्डलीजडीकृतवान्त- स्य ध्वान्तध्वंसिज्ञानभानुजनुरभावे ऽपि बहुजन्मनिचयसञ्चितभग- घदपचितिवञ्चितपञ्चक्लेशमलमानसानां महानुभावलब्धमहावा- क्यानां सत्येव शरीरे ज्ञानमुत्पद्यते । उपपद्यते चोक्तयुक्त्या जीवन्मु- क्तिशास्त्रं तद्यथाsहिनिल्वयनी अभयं वै जनकप्राप्तोऽसिक्षीयन्ते चास्य कर्माणीत्यादि स्मयते च व्यासवसिष्ठादयो जीवन्मुक्ता इति । ननु शानिनो देहदर्शनसत्त्वे कर्माधिकारः स्यादित्यत आहme ४ सू. ९ वर्णकम् । १५१ ज्ञानिनो न नियोगः स्या)न्न स्वेष्टाचरणं तथा । मननादिनियोगस्य ज्ञानात्पूर्व गतत्वतः ॥ इति । अविद्यावद्विषयं शास्त्रमित्युक्तम् । शानिनः कर्मकरणाध्यासा- भावात्तत्फलानपक्षत्वाञ्चति । न च विधिनिषेधातीतत्वे यथेष्टचेष्टा- प्रसङ्गस्तत्रापि रागस्य हेतुत्वात् न हि निरस्तसमस्तानर्थानन्दाब्धि- मनचित्तस्यान्यत्र रागः सम्भवति । ननु ज्ञानिनः कर्म नास्तीति कथं श्रवणानन्तरं मननादिविधिरिति चेतिक तावता न हि श्रवण- मात्रादपरोक्षज्ञानमस्ति अतस्तदर्थमेव मननादिविधानम् । अतो वा- क्यार्थानुभवे सति न किञ्चित्कार्यमस्ति येन विधिपरा वेदान्ताः स्युः। सर्वज्ञबादरायणेन पृथक् शास्त्रं नारभ्येत । यदि बाह्यान्तरसाधनविधि- भेदाच्छास्त्रभेदस्तहि अथातः परिशिष्टमानसधर्मजिज्ञासेत्यारभ्येत अतो ब्रह्मजिज्ञासेत्यारब्धत्वाब्रह्मपरा वेदान्ता इति सिद्धम् । अत्राह सर्वसंकरवादी सत्यो भेदो नाभेदज्ञाननिवर्यो ऽविरोधात्किन्त्वभेदा- ध्यासरूपात्कर्मणो भेदनाश इति तन्न । मानाभावात् । ब्रह्म वेद ब्रह्मैव भवतीति ज्ञानकनिवर्त्यत्वावगमादविरोधे तदभ्यासादपि निवृत्त्ययोगात् । विरोधे तु नोभयोः सत्यत्वं खण्डो गौरित्यादिप्रत्य- यानां कल्पितभेदविषयत्वात् बहुधा निरस्तो ऽयं भेदाभेदवाद इत्यु- पेक्ष्यते । तार्किकाभिमतात्यन्तभेदवादस्तु मानयुक्तिहीनः । तथा हि सर्वदेहेष्वहमित्येकाकारप्रत्यय आत्मैक्ये प्रमाणम् । विवादग्रस्ता देहास्त्वद्भोक्तृकाः जीवदेहत्वावदेहवत् इत्याद्यनुमानमेको देवः एक एव हि भूतात्मा भूने भूते व्यवस्थित इत्यादिरागमः सुख- दुःखादिवैचित्र्यं त्वन्तःकरणभेदादुपपद्यते द्वा सुपर्णेत्यादिश्रुतिस्तु कल्पितभेदमनूद्यानश्नन्नन्य इति वाक्यशेषेणासंसारित्वं बोधयति । नान्यो ऽतो ऽस्ति द्रष्टेत्यादिना भेदस्य निषेधाच कल्पितत्वं धर्मि- प्रतियोगिसापेक्षत्वाच्च । तथा हि प्रतियोग्यवृत्तित्वेनानुयोगिवृत्ते- धर्मस्य ज्ञानं भेदज्ञाने कारणं घटत्वं पटे नास्तीति जानत एव घटः पटो न भवतीति प्रतीतेरजानतोऽप्रतीतेरनुयोगितावच्छेदकस्य धर्म- स्य प्रतियोग्यवृत्तित्वज्ञानं तु भेदज्ञानाधीनमिति अन्योन्याश्रयात् । प्रातिभासिक एव भेदो ऽभेदस्तु न भेदाभावः किन्तु भेदभ्रमहेत्व- ज्ञानाधिष्ठानवस्तुस्वरूपः । तस्मादद्वैतवस्तुसाक्षात्कारमात्रात्सर्व- वस्तुद्वैतनिवृत्तियुज्यते इत्याह- (१) स्याद्यथेष्टाचरणं तथेति पाठान्तरम् । - १५२ विवरणोपन्यासे भेदाभेदी न सत्यौ स्तोऽभेदः सत्यो मृषा भिदा । अभेदाज्ञानजं सर्व तज्ज्ञानाद्विनिवर्तते ॥ अनाद्यविद्याविलसितान्तःकरणाधुपाधिनिबन्धनः प्रमातृत्वाभि- मान आत्मनो यावन्न निवर्तते तावदेव शास्त्रीयो लौकिकश्च सर्वो व्यवहारः अद्वितीयनिरतिशयानन्दचैतन्यकताननिरवयवस्वच्छास- ङ्गप्रत्यग्भूतब्रह्मसाक्षात्कारात्तनिवृत्तौ सर्वो व्यवहारो निवर्त्तते इति वेदान्तजन्यज्ञानात्कृतकृत्यतामाह-- प्राप्तव्यमखिलं प्राप्तं हातव्यमखिलं हतम् । कृत्यं शेयं समाप्तं च ब्रह्मास्मीत्यवबोधने ॥ इति । अश्वमेधादिभिरप्यात्मानन्दस्यैव लेशाः प्राप्तव्या एतस्यैवान- न्दस्यान्यानि भूतानि मात्रामुपजीवन्तीत्यादिश्रुतेरत आत्मज्ञानिना ते लब्धा भवन्ति तदाहापस्तम्बः । आत्मलाभान्न परं विद्यते इति निर्गलितसकलशोकस्यात्मनो ये शोका भ्रान्तिमूला हातव्या प्रा- संस्ते सर्वे ऽपि हता भवन्त्यतः कामयितव्यान्तराभावात्कामानुपपत्तेः कृतकृत्यता भवति । इत्थं निरतिशयफलावसानाद्वेदान्तानां ब्रह्मा- त्मनि तात्पर्यमिति सिद्धम् ॥ गोविन्दानन्दभगवत्पूज्यपादपदीकसा । रामानन्दसरस्वत्या रचितो ऽनुक्रमो मुदे ॥ बोधगन्धा विवरणवाक्पुष्पा नवरूपिणी । उपन्यासाभिधा माला प्राप्ता श्रीरामपादुकाम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पूज्य- पादशिष्यरामानन्दसरस्वतीकृती विवरणोपन्यासे नवमं वर्णकं समाप्तम् ॥ समाप्तोऽयं विवरणोपन्यासः॥ mum श्रीगणेशाय नमः। श्रीसच्चिदानन्दजगद्गुरवे नमो नमः । श्रीमच्छङ्कराचार्यप्रणीता वाक्यसुधा श्रीमह्मानन्दभारतीप्रकृप्तया टीकया सहिता । यस्मात्सर्व समुत्पन्नं चराचरमिदं जगत् । इदं नमो नटेशाय तस्मै कारुण्यरूपिणे ॥१॥ कारणं खादिजगतां तारणार्थमनागसाम् । वारणाननमात्मानमद्वयं समुपास्महे ॥२॥ परापश्यन्त्यादिदेहां प्रणताभीष्टदायिनीम् । सत्यज्ञानानन्दरूपां ध्याये ह्याद्यां सरस्वतीम् ॥३॥ नत्वा श्रीभारतीतीर्थविद्यारण्यमुनीश्वरौ । मया वाक्यसुधाटीका यथामति विरच्यते ॥४॥ न ख्यातिर्लाभपूजे च टीकाकरणकारणम् । न विद्वत्ताबलं वा त्र मुक्तिरेवात्र कारणम् ॥ ५॥ प्रारीप्सितस्य ग्रन्थस्याविघ्नेन परिलमाप्तिप्रचयगमनाय शिष्टा- चारपरिपालनाय च केवलकूटस्थप्रत्यग्बोधरूपपरमात्मस्वरूपानु- स्मरणलक्षणं मङ्गलमाचरन् सच्चिदानन्दाखण्डकरसस्वरूपावस्था- नलक्षणस्य मोक्षस्य तत्त्वमस्यादिमहावाक्यार्थापरोक्षज्ञानफलत्वा- द्वाक्यार्थज्ञानस्य चान्वयव्यतिरेकाभ्यां पदार्थपरिशोधनपूर्वकत्वात्प- दार्थपरिशोधनस्य प्रसिद्धानुवादेनाप्रसिद्धं निरूपणीयमिति न्यायेन प्रतिशरीरमहमहमिति प्रसिद्धजीववाचकत्वंपदार्थपरिशोधनपूर्वक- त्वात् श्रीमच्छारीरकमहाशास्त्रे श्रीमद्भाष्यकारैः प्रतिपादितमर्थ हदि निधाय प्राण्यनुजिघृक्षया दृग्दृश्यविवेकद्वारा प्राधान्येन त्वंपदार्थ- परिशोधनपरमिदं प्रकरणमारभमाणः परमकृपानिधिः श्रीभारतीती- र्थगुरुः प्रकरणप्रतिपाद्यमानमर्थ संक्षिप्य प्रथमश्लोकेन तावदर्श- यति ।
२ सव्याख्यायां वाक्यसुधायाम् । श्रीरामचन्द्राय नमः। रूपं दृश्यं लोचनं दृक् तदृश्य दृक्त मानसम् । दृश्या धीवृत्तयः साक्षी दृगेव न तु दृश्यते ॥ १॥ रूपमिति ॥ लोके चक्षुरिन्द्रियग्राह्य यदुपस्ति तत्सर्व दृश्यं भवति तग्राहकं चक्षुरिन्द्रियं स्वग्राह्यापेक्षया दृग्भवति तथा तत्पुनश्चक्षुरि न्द्रियं स्वस्मादप्यान्तरस्य मनसो दृश्यं भवति स्वभास्यचक्षुरिन्द्रिया- पेक्षया मानसमपि दृग्भवति द्रष्ट भवति मनसः सर्वेन्द्रियावभासक- त्वसामर्थ्य द्योतयति। तुशब्दःधीवृत्तयःअन्तःकरणस्य वक्षमाणवृत्तय- स्तदविद्याकार्यत्वेन जडरूपत्वात् दृश्या भवन्ति साक्षी शरीरत्रयवि- लक्षणः प्रत्यगात्मा गेव भवति द्रष्टैव भवति एवकारेणार्थादृश्यत्वे निषिद्धे ऽपि कण्ठतो ऽपि दृश्यत्वं निषेधयन्प्रत्यगात्मनो द्रष्टत्वमेव द्रढयति न तु दृश्यते इति । साक्षिणि वर्तमानस्य दक्त्वस्य सर्वान्तरत्वे सापक्षितत्वाभावात्ततस्तस्य लोचनमानसयोवर्तमानहत्त्ववलक्षण्यं द्योतयति द्वितीयस्तुशब्दः साक्षिणः दृश्यत्वमप्रमाणिकमिति यस्मा- त्तस्मात्कालत्रये ऽपि दृत्वमेवास्य स्वरूपमिति भावः ॥१॥ एवं प्रकरणे प्रतिपाद्यमानमर्थ संक्षिप्य प्रथमश्लोकेन दर्शयित्वा इदानों प्रथमश्लोकस्य प्रथमपादेन दर्शितमर्थ द्वितीयश्लोकेन स्पष्ट- यात। नीलपीतस्थूलमूक्ष्महस्वदीर्घादिभेदतः । नानाविधानि रूपाणि पश्येल्लोचनमेकधा ॥२॥ नीलांत ॥ दृश्यत्वदन्वयानानात्वकन्वहतुकत्वान्नीलपीताद्यनेक- भेदभिन्नत्वेन दृश्यत्वं प्राप्तानि रूपाणि चक्षुरिन्द्रियं स्वयं स्वग्राह्यरू- पभेदानुकूलखरूपभेदमगृहीत्वैव एकरूपेणव पश्येत् गृह्णीयात् अत एवास्य इत्वं स्यादिति भावः ॥२॥ एवं प्रथमश्लोकस्य द्वितीयपादोक्तमर्थ स्पष्टीकुर्वन् चक्षुरिन्द्रिय प्रदर्शितन्यायं श्रोत्रादीन्द्रियष्वप्यतिदिति । आन्ध्यमान्द्यपटुत्वेषु नेत्रधर्मेषु चकथा । सङ्कल्पयेन्मनः श्रोत्रत्वगादौ योज्यतामिदम् ॥ ३ ॥ आन्ध्यमिति ॥ आन्ध्यं नाम सामान्याकारेणापि स्वविषयग्रहणा- सामर्थ्य विषयसामान्याकारग्राहकत्वं मान्धं स्वविषयसूक्ष्मविशे- सव्याख्यायां वाक्यसुधायाम् । षाकारग्रहणसामर्थ्य पटुत्वम् । एवमत्र नेत्रधर्मेषु आन्ध्यमान्द्यादिभे- दर्भिन्नेष्वपि नानात्वेनैव हेतुना भास्य*मानान् तान्नेत्रधर्मान् भास्यभे दानुरूपखरूपभेदमगृहीत्वैकरूपेणैव मनः सङ्कल्पयेत् मम चक्षुरन्धं मम चक्षुर्मन्द मम चक्षुः पद्विति अत एवास्य मनसो हफ्त्वं भवती- त्यर्थः। श्रोत्रत्वगादीत्यत्र चशब्दः सम्बध्यते श्रोत्रत्वगजिव्हाप्राणेष्व- पीदं स्खविषयापेक्षया हक्कं खभासकमानसापेक्षया दृश्यत्वं यथोचितं बाधिर्यादिकञ्च योज्यतामुह्यतामित्यर्थः। एकस्मिन्निन्द्रिये दृग्दृश्यधि- वेकं दर्शयित्वा श्रोत्रादीन्द्रियान्तरेष्वप्येवं योज्यतामित्यतिदिशति । आचार्यस्य खशिष्यैः स्वबुद्ध्या क्रियमाणो गद्दश्यविवेक एव पुरुषा- पायो भवतीत्यभिप्रायः ॥३॥ प्रथमश्लोकस्योत्तरार्द्ध साक्षी हगेवेत्यन्तेन ग्रन्थेन प्रदर्शितमर्थ विशदयति । कामः सङ्कल्पसन्देही श्रद्धाश्रद्धे धृतीतरे । ही( रिसेवमादीन्भासयसेकधा चितिः ॥ ४ ॥ काम इति ॥ रज्ज्वज्ञानाद्रज्ज्वारोपितान् सर्पदीन रज्जुरिव खा- ज्ञानात्स्वस्मिन्नारोपितान् कामः सङ्कल्पो विचिकित्सा श्रद्धा ऽश्र- द्धा धृतिरधृतिही/ रित्येतत्सर्व मन एवेति बृहदारण्यकश्रु. त्युक्तानादिशब्देन संगृहीतानतरेयोपनिषद्युक्तान्संज्ञादींश्च स्वरूपज्ञाना- पनोद्यानेतान् सर्वानप्यन्तःकरणवृत्तिविशेषान्स्वगतादिभेदरहितस- च्चिदानन्दलक्षणब्रह्माभिन्नकूटस्थप्रत्यग्रूपा सर्वसाक्षिणी चितिरेकधा भासयति विकारकारणाभावात्स्वभास्याऽवस्तुभूतविकारानुरूपं स्व- गतविकारमन्तरेणाप्येकरूपेणैव प्रकाशयतीति यावत् ॥ ४॥ इन्द्रियमनसोरक्तन्यायेन उक्तलक्षणायाश्चितेरपि दृश्यत्वं स्या- दित्याशङ्कायां दृश्यत्वस्य द्रष्टपूर्वकत्वाञ्चितेष्टुत्वेन चित्यन्तराङ्गी- कारणानवस्थाख्या दोषः स्यात् चितेश्चितिरेव द्रष्ट्रीत्यस्मिन् पक्षे ऽपि कर्मकर्तृविरोधः स्यात्तस्मात्प्रकाशान्तरनिरपेक्षतया स्वयंप्रकाशमा- नायाश्चितेईश्यत्वं न स्यादित्यर्थतो दर्शयन्मुखतः स्वव्यतिरिक्तान्तः- करणादियुष्मदर्थेभ्यश्चिते_लक्षण्यं न तु दृश्यते इत्यंशविवरणेनानेन श्लोकेन दर्शयति । * भासमानानिति वा पाठः।
सव्याख्या वाक्यसुधायाम् । नोदेति नास्तमेसेषा न वृद्धि याति न क्षयम् । स्वयं विभायथान्यानि भासयेत्साधनं विना ॥५॥ नोदेतीति॥ यत्साक्षादपरोक्षाब्रह्मेति श्रुत्युक्तप्रकारेण विद्वदपरो- क्षतां चितेरर्थात्सूचयन् उक्तलक्षणां चितिं परामृश्यत्येषेति । सर्व- साक्षिण्येषा चितिरहमादियुष्मदर्थवत्प्रागभावाभावान्नादेति नात्प- द्यते प्रध्वंसाभावाभावान्नास्तमेत्यन्तं विनाशं न प्राप्नोति वृद्धिक्षयौ ताभ्याम् उपलक्षितौ अस्तित्वपरिणामौ च न प्राप्नोति सर्वथा ऽप्येकरूपत्वादुत्पत्त्यनन्तरं भाविव्यावहारिकास्तित्वमेव विकारान्तः- पातित्वेन निषिध्यते न तु स्वरूपास्तित्वं तस्याविकारत्वेन निषे- झुमशक्यत्वाच्चितेः षड्भावविकाररहितत्वे हेतुं दर्शयति स्वयं विभा- तीति । एषा चितिः स्वस्य प्रकाशान्तरनिरपेक्षतया स्वयंप्रकाशमाना सती सच्चिदानन्दात्मकस्वरूपप्रकाशानन्तरमेव स्वव्यतिरिक्तान्यखि- लान्यारोपितवस्तूनि भासयेत् प्रकाशयेत् तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभातीति श्रुतेः सविकल्पस्य ज्ञानस्य निर्विकल्पकज्ञानपूर्वकत्वाञ्चात्रानुमानद्वयं सूचितम् अस्मत्प्रत्ययवि- षया एपा चितिः षड्भावविकाररहिता प्रकाशान्तरनरपंक्ष्येण स्वयं- प्रकाशमानत्वाद्यत्षड्भावविकाररहितं न भवति तत्प्रकाशान्तरनर- पेक्ष्येण स्वयंप्रकाशमानमपि न भवति यथा युष्मत्प्रत्ययविषयो ऽहमादिः उक्तलक्षणा एषा चितिः पड्भावविकाररहिता प्रकाशा- न्तरनरपेक्ष्येण स्वव्यतिरिक्तवस्त्ववभासकत्वाद्यन्नैवं तन्वं यथा हिमादिस्त्येिवमुक्तप्रकारंण स्वयंप्रकाशमानत्वात्पड्भावविकाररहि- तत्वाञ्च युष्मदर्थ वैलक्षण्ये समर्थिते सति चितेः कालत्रये ऽपि हक्त्वमेव स्वरूपं न तु दृश्यत्वमित्यर्थात्समर्थितं भवति अदृष्ट द्रष्ट्र- श्रुतं श्रोत्रमतं मतमविज्ञातं विज्ञातृ न दृष्टेटारं पश्येन श्रुतेः श्रोतारं श्रुणुयान्न मतमन्तारं मन्वीथाःन विज्ञातेर्विज्ञातारं विजानीया इत्या- दिश्रुतिसहस्रणाप्ययमेवार्थस्तात्पर्येण प्रतिपाद्यते इति अतो युष्मत्प्र- त्ययविषयान्तःकरणादिरूपं दृश्यमेवास्मत्प्रत्ययावलम्बनभूतायाः प्र- त्यक्चितेः स्वरूपं दृक्त्वमेवातःप्रत्यक्चितिरव परं ब्रह्मेत्ययमवाभि- प्रेतार्थः॥५॥ ननु युष्मदर्थावभासकत्वं प्रथमश्लोके साक्षिण इत्युक्तम् । अत्र तु चितेरित्युक्तम् अतः पूर्वापरविरोध इति चेन्नैष दोषः प्रथम- सव्याख्यायां वाक्यसुधायाम् । श्लोकोक्तसाक्षिण एवात्र चितिशब्देन परामृष्टत्वात्तस्यैव पुनः प्रथम- लोकार्थविवरणेन प्रकरणपरिसमाप्तिपर्यन्तेनोचरग्रन्थ सन्दर्भेणापि तत्र तत्र साक्षिशब्देन परास्कृष्टत्वात्साक्षी चितिश्चिञ्चैतन्यं ज्ञानं बोधः प्रत्यगात्मा कूटस्थ इत्यादिशब्दानामेकार्थपर्यवसायित्वाञ्च । ननु तर्हि युष्मदर्थस्यान्तःकरणस्य सापक्षकं हवमपि न सम्भवति भौतिक- त्वेन जडात्मकत्वाद्धटादिवत् द्रष्टरि नास्ति दृश्यत्वं दृश्यस्य द्रष्मृता न हि दृश्यरूपस्य कुड्यादेष्वृता न हि दृश्यते इति पुराणवचनाञ्च तथा सति तस्य संसारा नोपपद्यते। अथ वा पूर्वोक्तप्रकारेणाहमादि- विलक्षणस्य कूटस्थस्य स्वयंप्रकाशप्रत्यग्बोधरूपस्य साक्षिणश्च जा- प्रदादिविमोक्षान्तः संसारो नोपपद्यते तस्यासङ्गोदासीनत्वात् यो ऽसंसारी न भवति सो ऽसङ्ग उदासीनो ऽपि न भवति यथाहमादिः असङ्गो ह्ययं पुरुष इत्यादिश्रुतिसद्भावाद्धेतुरसिद्धो न भवत्येवमुक्त- प्रकारेणान्तःकरणतत्साक्षिणोरुभयोरप्यसंसारित्वे समर्थिते सति निवर्त्य संसाराभावात्तनिवर्तकज्ञानस्यापि नैरर्थक्यं स्यात्ततस्त- ज्ज्ञानप्रतिपादकवेदान्तवाक्यानामप्यप्रामाणिकत्वप्रसङ्गः स्यात् पुन- रुक्तलक्षणस्याशेषविशेषशून्यस्य साक्षिणः शब्दप्रवृत्तिनिमित्तषष्ठया- दिरहितत्वेन बेदान्तवाक्यर्विधिमुखेन प्रतिपाद्यमानत्वासम्भवादत- स्तन्निरसनमात्रेण तद्रूपाप्रसिद्धश्च शास्त्रस्याप्रामाण्यं प्रसज्येत एवं परम्परया ऽनेकदोषसम्भवात्साक्षिणः कूटस्थत्वस्वयंप्रकाशमान- स्वादिकमप्यप्रामाणिकं स्यादित्यनेकदोपमाशयान्तःकरणप्रतिफ- लितानिर्वचनीयाचिच्छायाङ्गीकार सति सर्वो ऽपि दोषः परिहृतः स्यादित्यभिप्रेत्य चिच्छायां तावदङ्गीकरोति । चिच्छायावेशतो बुद्धौ भानं धीस्तु द्विधा स्थिता । एकाहङ्कतिरन्या स्याइन्तःकरणरूपिणी ॥ ६ ॥ चिच्छायेति॥चिच्छायावेशतो बुद्धौ भानं रजतसुवर्णादिवबहुवि- धपरिणामाईमन्तःकरणाख्यं द्रव्यमत्र वुद्धिशब्देन धीशब्देन चोच्यते तस्यान्तःकरणस्य कर्तृस्वरूपवृत्तिमदंशो ऽहंकृतिशब्देनोच्यते करण- स्वरूपमनःशब्दवाच्याहमिदमात्मिकवृत्त्यंशो ऽन्तःकरणशब्देनोच्यते तत्र श्रोत्रादिकरणापेक्षया अन्तःकरणत्वादन्तःकरणं बुध्यते अनया चिच्छायावेशतः।चिच्छाया चित्प्रतिबिम्बं तस्या आवेशो ऽनुप्रवेश- * परामृश्यत्वादिति वा पाठः ।
ur सव्याख्यायां वाक्यसुधायाम् । स्ततो स्वरूपमिति बुद्धिस्तस्यां भान स्यात्स्वभावतो जडरूपा ऽप्यनु- प्रविष्टचैतन्यवलाद्रुद्धः स्वयंप्रकाशमानेव भवतीति यावत् । धीस्तु द्विधा । तुशब्दो ऽवधारणे ।भ्रामकसन्निधौ लोहवत्साक्षिसन्निधौ बहु- विधचेष्टांस्थिता कुर्वती साधीईिधैव स्थिता तयोर्मध्ये एका धीरहङ्कः- तिशब्दवाच्यकर्तृरूपा स्यादन्या धीर्मनः शब्दवाच्याऽन्तःकरणरूपिणी स्यात् कामादीनां संज्ञादीनां च सर्वेषामप्यन्तःकरणपरिणामविशे- षाणां मनोबुद्ध्यहङ्कारचित्ताख्येष्वन्तःकरणचतुष्टयेष्वन्तभूतत्वात् बु- द्धिचित्तयोरपि यथाक्रममहङ्कारमनसोरेवान्तर्भूतत्वादृत्तिमद्वृत्तिल. क्षणाकारद्वयव्यतिरिक्तान्तःकरणाकारान्तरस्य निरूपयितुमशक्य- त्वात् चित्कर्मभूताबुद्धिः स्वविकारानुकारिणा ऽनुप्रविष्टचैतन्यनस- हिता ऽहङ्कारमनःशब्दवाच्यकर्तृकरणात्मकवृत्तिमदत्तिलक्षणाकार- द्वयेनकावस्थितेति भावः ॥ ६ ॥ उक्तलक्षणयोरहङ्कारमनसोर्मध्ये ऽहङ्कारस्य चिच्छायया सह तप्ताय पिण्डवत्तादात्म्यात्तन सच्चिदाभासाहङ्कारेण तादात्म्याजड- रूपो ऽपि देहश्चेतनत्वं प्राप्नुयादित्याह । छायाहङ्कारयोरैक्यं तप्तायःपिण्डवन्मतम् । तदहङ्कारतादात्म्यादेहश्चेतनतामगात् ॥ ७॥ छायेति ॥ छायाहङ्कारयोश्चिदाभासकरैक्यं तप्तायःपिण्डवद्ध- न्हिसम्वन्धेन तद्रूपं तप्तायःपिण्डवन्मतमभिप्रेतं तथा दृष्टान्ते अयम- निरिदमय इति पृथक्करणमशक्यं तथा दान्तिके ऽप्ययमहङ्कार इयं चिच्छायेत्यहङ्कारस्वरूपस्य तत्रानुप्रविष्टचिच्छायास्वरूपस्य च पृथ- करणमशक्यमितिभावः। तदहङ्कारतादात्स्यात्तेन चिच्छायासहितेनाह- कारेण तादात्म्यात् सो ऽहङ्कार आत्मा नाम स्वरूपं यस्य देहस्य स तदात्मा तस्य भावस्तादात्म्यं सम्बन्ध इत्यर्थः । तस्माद्देहः स्थूलश- रीरं स्वयं जडरूपमपि चेतनतांचेतनं ज्ञानं तस्य भावश्चेतनता तां ज्ञान- स्वरूपतामगात्प्राप्नुयादित्यर्थः। यथा पयसि परीक्षणार्थ प्रक्षिप्तो भरक- तमणिः पयोशेषमात्मच्छायं कुर्यात्तथा स्वभावत एव सर्वान्तरः कूट- स्थो ऽसङ्गबोधरूपः साक्ष्यप्यहङ्कारादिस्थूलदेहपर्यन्तमशेष युष्मदर्थ- मात्मच्छायं कुरुते इति भावः ॥७॥ नन्वेवमहङ्कारस्य चिच्छायादेहाभ्यां तादात्म्ये सत्यहं पश्याम्यहं y सव्याख्यायां वाक्यसुधायाम् । ऋणोमात्यादरनुभवसिद्धत्वादिन्द्रियरपि तादात्म्यमस्तीत्याशय इन्द्रियाणां स्वस्वगोलकस्थानमन्तरेण स्वस्वविषयग्रहणसामर्थ्याभा- वादोलकानां च स्थूलशरीरावयवत्वादवयवावयाविनोर्भेदाभावान्म- नुष्योऽहं ब्राह्मणोऽहं गृहस्थोऽहं कृष्णकशोऽहमित्यादिवदहं चक्षुरहं श्रोत्रमित्याद्यनुभवाभावात्कस्त्वमिति पृष्टे अहमिति वदतो देहस्यैव स्पृश्यमानत्वाञ्चन्द्रियतादात्म्यस्यापि देहतादात्म्ये ऽन्तभूतत्वात्पृथक् न निरूपणीयमित्यहङ्कारस्य सम्बन्ध्युद्देशद्वारेण तादात्म्यस्येयत्तां दर्शयति । अहङ्कारस्य तादात्म्यं चिच्छायादेहसाक्षिभिः । सहजं कर्मजं भ्रातिजन्यश्च त्रिविधं कमात् ॥ ८ ॥ अहङ्कारस्येति ॥अहङ्कारस्येत्युक्तलक्षणस्य कर्तुश्चिच्छायादेहसा- क्षिभिः चिच्छायया देहेन साक्षिणा च सह क्रमात्सम्बन्ध्युद्देशक्रमण त्रिविधं त्रिप्रकारं तादात्म्यं सम्बन्धस्तेषां तादात्म्यानां संद*र्थानि नामानि कल्पंयति सहज चिच्छायाहङ्कारयोर्यत्तादात्म्यं तत्सम्बन्धि- नोरुभयोरप्युत्पत्तिकाले सहैव जायते इति सहजमित्युच्यते कर्मजम् उक्तलक्षणाहकारस्य देहस्य च यत्तादात्म्य तदन्वयव्यतिरेकाभ्यां जायद्भोगप्रदकर्मणैव जायते इति कर्मजमित्युच्यते भ्रान्तिजन्यमधि- ष्ठानयाथात्म्याज्ञानं भ्रान्तिशब्देनोच्यते अहङ्कारसाक्षिणोयत्तादात्म्यं तदनाद्यनिर्वचनीयभ्रान्त्यैव जायते इति भ्रान्तिजन्यमित्युच्यते । तादात्म्यत्रयसमुच्चयार्थश्वशब्दः । अत्रायं प्रयोगः । अहङ्कारसाक्षिणो- स्तादात्म्यमधिष्ठानयाथात्म्याज्ञानजन्यमधिष्ठानयाथात्म्यज्ञानापनोद्य- त्वात् यद्यदधिष्ठानयाथात्म्यज्ञानापनोद्यन्तत्तदधिष्ठानयाथात्म्याज्ञान- जन्यं यथा रज्जुसर्यादीनां तादात्म्य तथा चेदमधिष्ठानयाथात्म्यज्ञा- नापनोद्यं तस्मादधिष्ठानयाथात्म्याज्ञानजन्यमेवेति । एवमहङ्कारस्य चिच्छायादेहसाक्षिभिः सम्बन्ध्युद्दशक्रमेणैवोक्तलक्षणं त्रिविध तादात्म्यमस्तीति शेषः ॥८॥ ननु तर्हि "ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्" एवमनादि- रनन्ता नैसर्गिको ऽयमिति च श्रीभगवद्भाष्यकाराभ्यामुक्तत्वादहङ्का- रसाक्षिणोस्तादात्म्यस्य निवृत्ति स्त्यत एंव निःशेषदुःखोच्छित्तिनि- रतिशयानन्दावाप्तिलक्षणमोक्षो ऽप्याशामात्रमित्याशय ब्रह्मात्मज्ञान- * समर्थानीति वा पाटः ।
र सव्याख्यायां वाक्यसुधायाम् । पर्यन्तमेव भ्रान्तिजन्यतादात्म्यस्याऽविनाशित्वेन ताभ्यां विवक्षित- त्वादन्यथा स्ववाक्याविरोधात्सर्वेषामपि मोक्षशास्त्राणामप्रामाण्यप्र- सङ्गाञ्च मुमुक्षुणामपि सर्वेषां मोक्षविपयश्रवणादिप्रवृत्त्यभावाच्च कर्मजन्यतादात्म्यनिवृत्तेश्च प्रतिदिनं सुषुप्तावनुभूतत्वाच्च सहजता- दात्म्यातिरिक्तयोरपि तादात्म्ययोः खस्वकारणनाशद्वारा निवृत्तिर- स्त्येव सहजतादात्म्यस्य तु सहजत्वादव निवृत्तिर्नास्तीत्याह । सम्बन्धिनोस्सतार्नास्ति नित्तिः सहजस्य तु । कर्मक्षयात्प्रबोधाच निवर्तेते क्रमादुभे ॥ ९ ॥ सन्बन्धीति ॥ सम्बन्धिनोः सतोः परस्परसम्बन्धित्वनैवोत्पद्यमा- नयोरुतूपत्तिकाले एव सम्बन्धिनोरित्यर्थः। तुशब्दो ऽवधारणे । सह- जतादात्म्यस्येतरतादात्म्यवलक्षण्यद्योतनार्थो वा । उक्तलक्षणयोश्चि- च्छायाहङ्कारयोः सहजाख्यस्य तादात्म्यस्य निवृत्तिर्नास्त्येव परस्पर पृथग्भावो न सम्भवत्येव सुषुप्तिी मरणादो जामद्भागप्रदकर्म- क्षयात् जाग्रत्काल श्रुत्याचार्यानुग्रहबलेनाहं ब्रह्मास्मीति ब्रह्मात्मैक्य- साक्षात्काराच्च कर्मजन्यभान्तिजन्याख्ये उभे अपि तादात्म्यं निमित्ता- भावान्नैमित्तिकस्याप्यभाव इति न्यायन ऋमानिवतेने कर्मक्षयात् कर्मजं तादात्म्यं निवर्तते अहङ्कारदं हाख्याभावपि सम्बन्धिनी पर- स्परसम्बन्धं त्यजते इत्यर्थः । प्रवोधादश्वोधक्षये साल श्रान्तिजन्यमपि तादात्म्यं निवर्तत वोधानन्तरं साक्षिरसम्बन्धराहित्येनाप्यहारप्रती- तिरन्यदृष्ट्यैव स्वदृष्टया निवर्तते यथा शुक्तिकाज्ञानात्तस्वरूपाज्ञाने नष्ट सति तत्रैव रजतं लीयते तथा रिशानात्मवरूपाऽपरिज्ञाने नष्टे सति स्वस्मिन्नेवाहङ्कारी लीयते एव ॥६॥ संक्षेपेणावस्थात्रयस्वरूपमन्वयव्यतिरंकाभ्यां देहस्याचंतनत्वञ्च दर्शयति । अहङ्कारलये सुप्तौ भवेद्देहो ऽप्यचेतनः । अहङ्कारविकासाईः स्वप्नः सर्वस्तु जागरः ॥ १० ॥ अहङ्काति॥स्थूल सूक्ष्मभोगयत्रदकर्मक्षयात्स्वकारणा*शाने अह- कारे लीने सति तदहङ्कारलयावस्था सुपुप्तिरित्युच्यते तस्याम- वस्थायां पूर्वमहङ्कारसम्बन्धाच्चेतनत्वेन भातो देहो ऽप्यचेतनो भवेत् T क्षयात्सकारणाज्ञान इति वा पाटः।
सव्याख्यायां वाक्यसुधायाम् । : "अन्धः सानन्धो भवति विछः सन्नविसो भवति उपतापी सन्न- नुपतापी भवती"त्यादिश्रुतेः अहङ्कृतिविकासाईः स्वमः सूक्ष्मभो- गर्मण्युदुद्धे सति तद्वशात्स्वकारणा*ज्ञानादुत्पन्नस्याहङ्कारस्य स्व- व्यतिरिक्तवस्त्वन्तराभावे ऽपि जाग्रजनितसंस्कारमात्ररूपभोगायें स्थूलशरीराभिमानमन्तरेणापि शरीरस्यान्तःसूक्ष्मनाडीप्रचारो यः स एव तस्याहङ्कारस्या विकासः स एष स्वप्न इत्युच्यते तत्राहङ्कार- व्यतिरिक्तवस्त्वन्तराभावे श्रुतिः"नतत्र रथानरथयोगान पन्थानोभव- न्ती"त्यादिः सर्वस्तु जागरः स्थूलभोगप्रदकर्मण्युबुद्धे सति तदशा- दापादमस्तकं स्थूलदेहे ऽभिव्याप्तस्याहङ्कारस्य सर्वेन्द्रियैः सर्वविष- यश्चानं यत्स एव तस्याहङ्कारस्य पूर्णविकासस्तदेव जागरणमित्यु- ध्यते अस्यामवस्थायां पुनरहङ्कारसम्बन्धाहेहः पूर्ववचेतनत्वेन भा- सते उभयत्राहङ्कारे समाने स्वप्नाजागरितस्येन्द्रियविषयसद्भावात्म- कवैलक्षण्यद्योतनार्थस्तुशब्दः अत्रदर्शिते ऽवस्थात्रयलक्षणे माण्डूक्य- तापिनीयाद्युपनिषदः प्रमाणानि “दक्षिणाभिमुखे विश्वो मनस्यन्तस्तु तेजसः आकाशे च हदि प्राशस्त्रिधा देहे प्रतिष्ठितः” इन्द्रियैरोंपल- ब्धिर्जागरितं करणेखूपसंहृतेषु जागरितसंस्कारप्रत्ययसविषयः स्वमः सर्वप्रकारकज्ञानोपसंहारो बुद्धः कारणात्मना ऽवस्थानं सुषुप्तिरित्यादी- नि श्रीमद्गौडपादाचार्यभगवत्पादाचार्यादिपूर्वाचार्यवचनानि च ॥१०॥ एवं कर्तृव्यापार निरूप्य करणस्यापि क्रियाव्याप्यत्वं तकियां दर्शयति ॥ अन्तःकरणत्तिश्च चितिच्छायैक्यमागता । वासनाः कल्पयेत् स्वप्ने बोधेविषयान्बहिः ॥ ११ ॥ अन्तःकरणेति ॥ अन्तःकरणं चासौ वृत्तिश्चेत्यन्तःकरणवृत्तिः स- ञ्चिदाभासकर्तृरूपवृत्तिमदपेक्षया करणभूतं मनःशब्दवाच्याहमिद- मात्मिका वृत्तिरिति यावत् वृत्तिश्चति चकारेण छायाहङ्कारैक्यवि- षये प्रदर्शितो दृष्टान्तादिरवस्थात्रये ऽप्यहङ्कारवत्सङ्कोचविकासादि- श्चात्रापि समान इति द्योत्यते उक्तलक्षणा सा वृत्तिश्च सुषुप्तौ लीयते सा पुनः सूक्ष्मभोगप्रदकर्मवशादुत्पत्तिसमये चिच्छायया तप्तायः- पिण्डवदैक्यं प्राप्ता सती स्वप्नावस्थायां नाडीमध्ये कर्तृकरणकर्मक्रि- तशासकारणाज्ञानादिति वा पाठः। . ૨ १० सव्याख्यायां वाक्यसुधाणम् । यात्मफव्यवहारवासनाः कल्पयेत्सैव पुनः स्थूलभोगप्रदकर्मवशा- स्थूलशरीरेणैक्यं प्राप्ता सती जाग्रदवस्थायां श्रोत्रादीन्द्रियैः शब्दा- दिविषयान्बहिः कल्पयेत् । ननु बाह्यविषयाणामीश्वरस्रष्दृत्वेनान्तःकर- णकल्पितत्वमयुक्तमिति चेन्नैष दोषः स्वरूपमात्रस्येश्वरस्नष्टत्वे ऽपि भोग्यत्वाकारस्यान्तःकरणकल्पितत्वात् "करणं कर्म कर्ता च क्रिया स्वप्ने फलं च धीः जाग्रत्येवं यतो दृष्टे"त्याचार्यवचनाच ॥ ११ ॥ एकमेवान्तःकरणं व्यवहारसौकर्यार्थमहङ्कारमनोभेदेनावयवशो विभज्य प्रदर्शयित्वा इदानीमहङ्कारस्यापि मनोपेक्षया कर्तृरूपत्वे ऽपि चिच्छायावेशतो बुद्धौ भानमित्यत्र बुद्धिशब्देन निर्दिष्टान्तःकरणा- ख्यद्रव्यापेक्षया करणत्वात्तस्यैव सर्वसंसारनिर्वर्तकत्वेन मुख्यकर्तृ- त्वान्मुख्याहङ्कारत्वाचाहङ्कारमनोविभागपूर्वावस्थालक्षणस्य तस्या- न्तःकरणाख्यद्रव्यस्य स्वरूपं दर्शयति ॥ मनोहङ्कत्युपादानं लिङ्गमेकं जडात्मकम् । अवस्थात्रयमन्वोत जायते म्रियते तथा ॥ १२ ॥ मन इति ॥ मनोहङ्कत्योरुपादानं कारणं यत्तन्मनोहङ्कृत्युपादानं किं तल्लिङ्गं लियते गम्यते ऽनेनेति लिङ्गमन्तःकरणाख्यं द्रव्य- मित्यर्थः तस्यैवाहं ब्रह्मास्मीत्यखण्डाकारवृत्तिद्वारेण सच्चिदानन्दा- द्वितीयब्रह्मात्मगमकत्वात् । ननु तत्त्वविवेकाख्ये ग्रन्थे “ बुद्धिकमें- न्द्रियप्राणपञ्चकैर्मनसा धिया शरीरं सप्तदशभिः सूक्ष्म तल्लिङ्गमु- च्यते” इति सप्तदशावयवात्मकस्य सूक्ष्मशरीरस्यैव लिङ्गत्वमुक्तं नान्तःकरणस्य लिङ्गत्वमुपपद्यते इत्याशय बुद्धिकर्मेन्द्रियप्राणप- ञ्चकानां वेदान्तेषु भौतिकत्वेन श्रुतत्वे ऽपि “अन्यत्रमना अभूवं नाद- शमन्यत्रमना अभूवं नाश्रीष"मित्यादिश्रुतिवन्तःकरणाधीनत्वश्रव- णादत एवाहङ्कारमनःसहितानां तेषां शानक्रियाशक्तिद्वयात्मकान्तः- करणवृत्तित्वाद्वृत्तिवृत्तिमतोर्व्यावहारिकभेदविवक्षया तत्रोक्त त्वात्त- योः पारमार्थिकभेदविवक्षयवात्रोक्तत्वात्तद्विवक्षाभेदेन पक्षद्वयस्या- प्युपपन्नत्वादुक्तलक्षणस्यान्तःकरणस्य सूक्ष्मशरीरत्वं लिङ्गत्वं चोप- पद्यते एवेत्यभिप्रायेणाह एकमिति। एवमुक्तलक्षणमन्तःकरणं स्वभा- घतो जडमप्यनुप्रविष्टचिच्छायावलेनैव स्थूलशरीरमप्यात्मत्वेनैव गृहीत्वा पूर्वोक्तसङ्कोचविकासप्रकारेणानुदिनमवस्थात्रयं प्राप्नोति ।
सव्याख्यायां वाक्यसुधायाम् । ११ यथा कर्मवशादवम्थात्रयं प्राप्नोति तथा जननमरणादिकश्च कर्मव- शात्प्राप्नोतीत्यर्थः ।जायते म्रियते इत्युक्त्वाऽनन्तरं तथाशब्दप्रयोक्तुर्धर्मा- धर्मवशा घटीयन्त्रवत्पीनःपुन्यन जन्ममरणे प्राप्नोतीत्यभिप्रायः"शोक- हर्षभयक्रोधलोभमोहस्पृहादयः अहङ्कारस्य दृश्यन्ते जन्ममृत्युश्च नात्मनः एवं दुःखाद्यनुभवन्संसारे ऽस्मिन्पुमान् मुने घटीयन्त्रवदु- द्विग्नो जायते म्रियते च सः” इत्यादिपुराणवचनात् ॥ १२ ॥ एवं निखिलसंसारनिर्वाहकलिङ्गशरीरस्वरूपं निरूप्येदानीमस्य लिङ्गस्य विराडन्तसमस्तप्रपञ्चस्य मूलकारणभूतायाः सञ्चिदानन्द- ब्रह्माश्रयाया अविद्याऽज्ञानतमोमोहादिशब्दवाच्यायाः सर्वानर्थवीज- भूतायाः अनिर्वचनीयायाः मायायाः स्वरूपं तच्छक्तिद्वारेण विभज्य दर्शयितुं तच्छक्तरियत्तां तावदर्शयति ॥ शाक्तिद्वयं हि मायाया विक्षेपात्तिरूपकम् । विक्षेपशक्तिलिङ्गादिब्रह्माण्डान्तं जगत्सृजेत् ॥ १३ ॥ शक्तिद्वयमिति ॥ उक्तलक्षणमायाया मावरणशक्तिर्विक्षेपशक्ति- रितिद्वयमस्तीति शेषः । “जीवेशावाभासन करोति माया चाविद्या च स्वयमेव भवती" त्यादिवेदान्तवाक्येषु मायायाः शक्तिद्वयात्मक प्रसिद्धमिति शास्त्रप्रसिद्धि द्योतयति हिशब्दः । अधिष्ठानमनाच्छाद्य विक्षेपयितुमशक्यत्वेन विक्षेपशक्तेः आवरणशक्तिपूर्वकत्वादत एवावरणशक्तेरग्यत्वेऽपि छन्दोभङ्गभयाद्विक्षेपशब्दपूर्वनिपातः कृतः। एवं शक्तरियत्तामुक्त्वा इदानीं सच्चिदानन्दलक्षणब्रह्मात्मस्वरूप- मात्राच्छादिकायाः विक्षेपशक्त्यभिव्यक्तेः पूर्वावस्थालक्षणायाः आव- रणशक्तः सर्वानर्थवीजत्वनाग्यत्वे ऽपि विक्षेपशक्ते रपेक्ष्येण प्र- मानन्दानुभवं तिरस्कृत्य सांसारिकसुखदुःखादिभोगप्रदत्वसा- माभावात्प्रतिदिनं सुषुप्तावनुभूतत्वेनास्मिन्नर्थे कस्यापि विप्र- तिपत्त्यसम्भवात् विक्षेपशक्त्यभिव्यक्त्यनन्तरं तया सृष्टस्याहङ्का- रादिदेहान्तस्य युष्मदर्थस्य शरीरत्रयविलक्षणस्य कूटस्थासङ्ग- बोधरूपस्य साक्षिणश्च स्वभावसिद्धं भेदं सैवावरणशक्तियनांशेना- वृणोति तस्यैवांशस्य सुखित्वदुःखित्वाद्यनेकविधसंसारकारणत्वा- ताहशावरणशक्त्यंशस्योक्तरीत्या विचेपशक्त्यनन्तरभावित्वात्तदपेक्ष- या विक्षेपशक्तेरग्यत्वादनेनैवाभिप्रायेणावरणशक्तिस्वरूपं पश्चाभि- १२ सव्याख्यायां वाक्यसुधायाम् । रूपयिष्यन्विक्षेपशक्तिस्वरूपं तावनिरूपयति विविधं करणं विक्षेपः विविधं भानं भवनं वा सा चासौ शक्तिश्चेति विपशक्तिः अध्यात्म विश्वतैजसप्राज्ञादिभेदेनाधिदैवतं विराट् हिरण्यगर्भान्तर्याम्यादिभे- छेन च स्वगतादिभेदरहितं चिन्मात्रं विक्षेपयतीति विक्षेपशक्तिः उ- कलक्षणं चिन्मात्रमनया विक्षिप्यते इति वा गिरिनदिसमुद्राद्यनेक- नामरूपाकारेण स्वयमेव विक्षिपति नामरूपाद्याकारेण परिणमते विवर्तते इत्यर्थः। एवमिति विक्षेपशक्तिर्जायते पुनर्लयं गच्छतीति जग- दुक्तलक्षणा सा शक्तिरुक्तलक्षणं समष्टिव्यष्टयात्मकं लिङ्गशरीरादि- ब्रह्माण्डान्तं जगत्सृजेदुत्पादयेदित्यर्थः ॥ १३ ॥ एवं विक्षेपशक्तिस्वरूपं निरूप्य तद्विक्रियात्मक सृष्टिस्वरूपनिरू- पणद्वारेणापि तदेव विशदयति ॥ सृष्टिर्नाम ब्रह्मरूपे सच्चिदानन्दवस्तुनि । अब्धौ फेनादिवत्सर्वनामरूपप्रसारणा ॥ १४ ॥ सृष्टिरिति ॥ ब्रह्मस्वरूपे सचिदानन्दवस्तुन्यारोपितनामरूपयो- रवस्तुत्वादधिष्ठानस्य तद्वैलक्षण्यं द्योतयति वस्तुशब्दः। सच्चिदानन्द- व तद्वस्तु चोति सच्चिदानन्दवस्तु तस्मिन्परमार्थसच्चिदानन्दलक्षणे ब्रह्मणीत्यर्थः। नाम च रूपञ्च नामरूपे सर्वे च ते नामरूपे च तयोः प्रसारणाविस्तारः विततिःसृष्टिरित्युच्यते । एतदुक्तं भवति। ब्रह्मण्य- वस्थिताया विक्षेपात्मिकायाः मायायास्तस्मिन्नेव ब्रह्मणि समस्त- नामरूपाकारेण विवर्तनं यत्सैव सृष्टिरित्युच्यते इत्यत्र दृष्टान्तमाह अब्धौ फेनादिवदब्धाववस्थितायाः विक्षेपात्मिकायाः मायायास्तत्रैव फेनतरङ्गबुबुदाद्याकारेण विवर्तनं यथा सुटिशब्देनोच्यते तथा . ऽत्रापीति भावः ॥ १४ ॥ एवं विक्षेपशक्तिद्वारा मायास्वरूपं दर्शयित्वा आवरणयक्तिवारे- णापि तदेव दर्शयति ॥ अन्तर्दृग्दृश्ययोर्मेदं बहिश्च ब्रह्मसर्गयोः । आणोसपरा शक्तिः सा संसारस्य कारणम् ॥ १५ ॥ अन्तरिति॥ अन्तः स्थूलशरीरस्यान्तर्देशे इन्श्ययो दम् “अहमन्नादो ऽहमन्त्राद" इत्यादिश्चत्यनुसारेण शरीरश्रयतादात्म्यवशाद्भोक्तृत्वमापन- ।
सव्याख्यायां वाक्यसुधायाम् । १३ मायाश- स्य परमार्थतस्तद्रहितस्य केवलहयात्रस्वरूपस्यास्मदर्थस्य सा- क्षिणः अविद्याकार्यत्वेन जडरूपस्याहङ्कारादिदेहान्तस्य युष्मदर्थस्य च भेदमन्योन्यवैलक्षण्यमन्योन्यपृथग्भावं बहिः शरीरस्य बाहादेश ब्रह्मसर्गयोर्भेदं “सञ्चासम्वाभवत् अहमनमहमन्न"मित्यादिश्रुत्यनुसारे- ण नामरूपतादात्म्यवशाभोग्यत्वमापनस्य परमार्थतस्तद्रहितस्य परब्रह्मणस्तस्मिन् शुक्तिकायां रजतवदध्यस्तनामरूपात्मकस्य सर्गस्य च भेदम् एवमन्तरुक्तलक्षणयोर्हग्दश्ययोर्भेदं बहिर्बह्मसर्गयोर्भेदं चापरा शक्तिः पूर्वोक्तरीत्या विक्षेपशक्त्यनन्तरभावित्वे ऽपि स्वरूपतो विक्षेपशक्तिप्रवर्तकत्वेन तत्कारणभूता. आवरणवाच्या क्तिरावृणोत्याच्छादयति सा संसारस्य कारणं अतकस्वरूपस्य साक्षिणः कर्तृत्वभोक्तृत्वादिलक्षणस्य संसारस्य सैव कारणं तस्या एवान्योन्याध्यासहेतुत्वेन सर्वानर्थकारित्वादिति भावः । बहिःसञ्चि- दानन्दलक्षणस्य ब्रह्मणः भोग्यत्वादिविकारस्यापि सैव कारणमित्य- ल्लभ्यते भोक्तृत्वस्य भोग्यापेक्षत्वात् ॥ १५ ॥ एवं शक्तिद्वयात्मकं मायास्वरूपं प्रदृश्येदानी प्रकृतानुसारेण म- नोहंकृत्युपादानमित्यस्मिन्लोके सामान्यतो दर्शितं लिङ्गस्वरूपं विणे- षतः प्रदर्शयति ॥ साक्षिणः पुरतो भातं लिङ्गं देहेन संयुतम् । चितिच्छायासमावेशाज्जीवः स्याब्यावहारिकः ॥ १६ ॥ साक्षिण इति ॥ चितिच्छायासमावेशादनुप्रविष्टचैतन्यस्य बला- त्साक्षिणः प्रत्यगात्मनः पुरतो. ऽग्रतः कर्मत्वेनेति यावत् भातं भासमानं देहेन संयुतं स्थूलशरीरेणैक्यं प्राप्तं लिङ्गं पूर्वोक्तलक्षणं लिङ्गशरीरं जीवः स्यात् व्यावहारिकः लोकद्वये ऽपि प्रमात्रादिसमस्त- व्यवहारनिर्वाहकत्वाध्यावहारिकाख्यो जीवः स्यादस्यानिर्वचनीय- मायाकार्यत्वेन प्रकृतिलक्षणविकारित्वात्सकलसंसारनिर्वाहकत्वात्स- चिदानन्दब्रह्मात्मैक्यस्वरूपावस्थानलक्षणमोक्षदशायामभावाच्च व्या- घहारिकजीव इत्युक्तम् ॥ १६॥ ननु व्यावहारिकजीवस्य सकलसंसारनिर्वाहकत्वे ऽपि मिथ्या- भूतत्वान्नित्यमुक्तस्य साक्षिणः संसाराभावाचोभयोरपि मोक्षानधि- कारादन्यस्य कस्य चिदधिकारिणो ऽभावाच मोलशास्त्रवैयर्थे स्थादित्यत आह ॥
१४ सव्याख्याया वाक्यसुधायाम् । अस्य जीवत्वमारोपात्साक्षिण्यप्यवभासते। आवृत्तौ तु विनष्टायां भेदे भाते ऽपयाति तत् ॥ १७ ॥ अस्येति ॥ अस्य व्यावहारिकजीवस्य जीवत्वं जीवभाव: आरोपादावरणशक्तिकृतादन्योन्याध्यासात्साक्षिण्यपि हग्रूपे प्रत्य- गात्मन्यपि जीवत्वं साक्षिणि प्रत्यगात्मनि परमार्थतो जीवत्वा- सम्भवं द्योतयत्यपिशब्दः अवभासते प्रकाशते स्वरूपचैतन्यावगति- त्वेन भासते इति भावः। तुशब्दोऽवधारणे आवृत्तावसत्त्वावृत्तिरूपेणा- भानावृत्तिरूपेण च द्विप्रकारमायावरणशक्ती अहं ब्रह्मास्मीत्यखण्डै- फरसब्रह्मात्मसाक्षात्कारेण विनष्टायां विशेषेण नष्टायां सत्यां पुनर्धा- न्त्यनुदयो नाशस्य विशेषः आत्यन्तिकनाशं प्राप्तायामित्यर्थः । मेवे भाते व्यावहारिकजीवस्वरूपस्य लिङ्गशरीरस्य घटादिवत् दृश्यत्वं प्रत्य- ग्बोधस्वरूपस्य साक्ष्याख्यस्य स्वस्य दृष्टत्वञ्च भेदस्तस्मिन् सम्यक् प्रकाशिते सति साक्षिण्यारोपितं तज्जीवत्वमपयात्यपगच्छत्येवेत्यत्र तुशब्दः सम्बध्यते यस्मादेवं तस्माच्छास्त्रवैयर्थ्य न स्यादित्यभि- प्रायः ॥ १७॥ यथा व्यावहारिकजीवगतं जीवत्वमारोपात्साक्षिण्यप्यवभासते तथा नामरूपात्मकः सर्गगतो विकारः आरोपाब्रह्मण्यप्यवभासते इत्याह ॥ तथा सर्गब्रह्मणोश्च भेदमात्त्य तिष्ठति । या शक्तिस्तद्वशाब्रह्म विकृतत्वेन भासते ॥ १८ ॥ तथेति ॥ यथा अन्तः दृग्दृश्ययोर्भेदमाच्छादयति तथा सर्गब्रह्मणो- भेंदं चावृत्त्य या 'आवरणशक्तिस्तिष्ठति तद्वशात्तदावरणशक्तिक तादन्योन्याध्यासवशाब्रह्म सच्चिदानन्दलक्षणः परमात्मा विकृतत्वेन भासते स्वयं कूटस्थमपि पड्भावविकारशून्यमपि तद्वत्वेन भासते इत्यर्थः ॥१८॥ बाह्ये ऽप्यावृत्तिनाशेन सर्गब्रह्मभेदस्फुरणात् ब्रह्मण्यारोपितो विकारो निवर्तते इत्याह ॥ अत्राप्यात्तिनाशेन विभाति ब्रह्मसर्गयोः । भेदस्तयोविकारं स्यात्सर्गे न ब्रह्मणि क चित् ॥ १९ ॥ अतित्रापि यथान्तस्तथा वाद्येऽप्यावृत्तिनाशे नान्वयव्यतिरे-
सव्याख्यायां वाक्यसुधायाम् ।
१५
काभ्यामन्तबहिश्च पदार्थद्वयपरिशोधनपूर्वकेणाहं ब्रह्मास्मीत्यभिव्य-
तेन सच्चिदानन्दलक्षणब्रह्मात्मबोधेन उक्तलक्षणायामावरणशक्ती
वासनया सह विनष्टायां सत्यां तेनावृत्तिनाशेन ब्रह्मसर्गयोर्भेदो विभा-
ति घटपटयोरिव भेदः सम्यक् प्रकाशते एवं भेदे भाते सति तयोब्रह्मस-
गयोर्मध्ये नामरूपात्मके सर्गे एव जन्मादिविकारः स्यान ब्रह्मणि क
चिदानन्दलक्षणे ब्रह्मण्यैकदेशे ऽपि विकारो न स्यादित्यर्थः ॥ १९ ॥
एवमन्तर्बहिश्चावृत्तिकार्यतादात्म्यवशात्साक्षिब्रह्मणो भोक्तृत्वभो.
ग्यत्वादिरूपविकारं तदावृत्तिनाशेन तत्कृतविकारनिवृत्तिञ्च दर्शयि-
त्वा इदानीं ब्रह्मणः सर्वात्मकत्वप्रदर्शनद्वारेण त्वंपदार्थमप्यर्थाद्विवेच.
यन्मुखतस्तत्पदार्थ विविनक्ति ॥
अस्ति भाति मियं रूपं नाम चेसंशपञ्चकम् ।
आद्यत्रयं ब्रह्मरूपं जगद्रपं ततो द्वयम् ॥ २० ॥
अस्तीति ॥ अस्ति विद्यते भाति प्रकाशते प्रियं प्रेमास्पदं रूपं
जगद्रूपं पृथुबुध्नोदरोतप्रोतादिकं नाम घटः पट इत्यादिकमेतत्सर्व
मिलित्वांशपञ्चकमिदमेकं वस्तु अस्तीदं भातादं प्रियमिदमस्य स्व-
रूपमिदमस्य नामेत्येतदंशपञ्चकव्यतिरेकेण व्यवहारासम्भवाल्लोक-
व्यवहारगोचरभूतं भौतिकात्मकं समस्तं वस्त्वपि सच्चिदान्दरूपं नाम
लक्षणांशपञ्चात्मकमेव भवतीति यावदंशपञ्चकसमुच्चयार्थश्चशब्दः।
एतेवंशेषु मध्ये आद्यत्रयं सच्चिदानन्दात्मकमंशत्रयं ब्रह्मरूपं ब्रह्मस्व-
रूपं ततो द्वयं तस्मात्सञ्चिदानन्दात्मकांशत्रयादुपरितनं नाम रूपा-
त्मकमंशद्वयं जगद्रूपमित्यर्थः ॥ २० ॥
उक्तमेवार्थमन्वयव्यतिरेकाभ्यां स्पष्टयति ॥
खवाय्वग्निजलोर्वीषु देवतिर्यगारादिषु ।
अभिन्नाः सच्चिदानन्दा भिद्यते रूपनामनी ॥ २१ ॥
खमिति ॥ आकाशवायुतेजोम्ब्वन्नाख्यषु पञ्चभूतेषु देवतिर्यरा-
दिभेदभिन्नेषु शरीरलक्षणेषु भौतिकेषु वर्तमानाः सच्चिदानन्दास्त्रयो
ऽप्यंशा अभिन्ना निर्विशेषाः स्युः घटो ऽस्ति पटोऽस्ति घटो भाति पटो
भाति घटः प्रियः पटः प्रिय इति सर्वत्रानुवृत्तस्वभावत्वाद्रूपनाम-
नी भूतेषु भौतिकेषु च वर्तमानौ रूपनामात्मकौ उभावप्यंशो भिद्यते
ईहग्रूपस्ताहग्रूपो घटः पट इत्यादिभेदभिन्नत्वेन वर्तेते अनिर्वचनीय-
माथाकार्यत्वेन व्यावृत्तस्वभावत्वात् ॥२१॥
१६ सव्याख्यायां वाक्यसुधायाम् । एवं प्राक्तनप्रन्थसन्दर्भेणान्वयव्यतिरेकाभ्यां पदार्थद्वयं परिशोध्ये- दानी नामरूपोपेक्षापुरःसरं सच्चिदानन्दतत्परो भूत्वा वाक्यश्रवणा- ङ्गत्वेन वाक्यार्थज्ञानसाधनभूतं वक्ष्यमाणभेदभिन्नं समाधिं हृदये वा बाह्ये वा निरन्तरं कुर्यादित्याह ॥ उपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः । समाधि सर्वदा कुर्याद्धृदये वा ऽथ वा वहिः ॥ २२ ॥ उपेक्ष्येति ॥ जगद्रूपे नामरूपे द्वे उपेक्ष्यावशाय उदासीनीकृत्य सच्चिदानन्दतत्परः सच्चिदानन्दरूपब्रह्मात्मन्येव तात्पर्यवान् तदेक- चित्त इत्यर्थः ताहशो भूत्वा समाधि वक्ष्यमाणं चित्तसमाधानं सर्व- न्द्रियाण्यपि हृदयकमले निरुध्य तत्रतत्र वागादीन्द्रियाणां स्वस्वगो- लकावस्थाने ऽपि तेषां वृत्तिमात्रं निरुध्य शरीरादन्तर्वाह्यदेशे वा वक्ष्य- माणप्रकारेण निरन्तरं कुर्यादित्यर्थः विधिमुखतः समाधि विधायानेन श्लोकेन प्रतिपादितं पदं प्रति परमहंसस्यैव ब्रह्मशानाधिकारो नान्य- स्येत्यर्थादुच्यते एततूश्लोकार्थानुष्ठानस्यान्यस्मिन्नसम्भवात्परमहं- सस्यैव सम्भवाञ्च ॥ २२॥ एवं ब्रह्मजिज्ञासुं मुमुक्षु प्रति निदिध्यासितव्य इत्येतद्वाक्यानु- सारेणावश्यकर्तव्यत्वेन समाधि विधायेदानीं तस्य समाधेरवा- न्तरभेदं दर्शयन्नेतान्समाधीन हृदये कुर्यादित्याह ॥ सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि । दृश्यशब्दानु विद्धन सविकल्पः पुद्धिा ॥२३॥ सविकल्प इति ॥ सविकल्पसमाधिनिर्विकल्पसमाधिरिति समा- धिद्विविधो द्विप्रकारो भवेत् दृश्यानुविद्धः सविकल्पकः शब्दानु- विद्धः सविकल्पक इति सविकल्पसमाधिरपि द्विप्रकारो भवेतू एवमुक्तप्रकारेण दृश्यानुविद्धः सविकल्पकसमाधिः शब्दानुविद्धः सविकल्पकसमाधिनिर्विकल्पकश्चेति त्रिप्रकारं समाधि क्रमेण हृदये कुर्यादिति शेषः। दृश्यमिश्री हश्यानुविद्धः शब्दमिश्रः शब्दानु- विद्धः ॥२३॥ सविकल्पो निर्विकल्पश्चेति सविकल्पस्य प्रथमोद्दिष्टत्वात्तत्रापि दृश्यशब्दानुविद्धनेति दृश्यानुविद्धस्यैव प्रथमोहिएत्वादन्तईग्यश्य- विवेकं हगेकनिष्ठं दृश्यानुविद्धं सविकल्पसमाधि तावहर्शयति ॥ दृश्यशब्दानुबंधनति वा पाठः ।
सव्याख्या वाक्यसुधा । कामाधाश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् । ध्यायेद् दृश्यानुषिको ऽयं समाधिः सविकल्पकः ॥२४॥ कामाद्या इति ॥ कामाद्याः कामलङ्कल्पादयः पूर्वोक्ताश्चित्तगाः अन्तःकरणवृत्तित्वेनान्तःकरणनिष्ठाः दृश्याः कर्मभूताः युष्मत्प्रत्यय- विषयाः भवन्तीति शेषः तत्काक्षित्वेन तथा कामादिचित्तगतहश्यानां प्रकाशकत्वेन चेतनमात्मानं प्रत्यचैतन्यं ध्यायेत् । एतदुक्तं भवति । तेषां कामालीना मध्ये एकमेकं प्रतियोगिनं कृत्वा अस्य कामस्य यत्साक्षिभूतं चैतन्यं तदेव मम यथार्थ स्वरूपमित्येवं निरन्तरं प्रत्यभूपं चिन्मानं भावयेदिति । एवमुक्तप्रकारेण चिन्मात्रे भाविते सत्ययं दृश्यानुविद्धः सविकल्पकसमाधिरित्युच्यते इति शेष: "नते स्याद्वि- क्रियां दुःखी साक्षिता का विकारिणः धीविक्रियासहस्त्राणां साक्ष्य- तो हमविक्रिय” इति नैष्कर्यसिद्धिकारैरुक्तत्वात् ॥ २४॥ एवं दृश्यप्रतियोगिकं सविकल्पकसमाधि दर्शयित्वा इदानीं क्रमप्रासं कामाद्यशेषदृश्यविलापकं साक्षिनिष्ठं शब्दानुविद्धसविक- ल्पकसमाधि दर्शयति ॥ असङ्गः सच्चिदानन्दः समभो द्वैतवर्जितः । अस्मीतिशब्दबद्धो ऽयं समाधिः सविकल्पकः ॥२५॥ असङ्ग इति ॥ अलङ्गः सङ्कारहितः "असङ्गो गये पुरुष” इति श्रुतेः सच्चिदानन्दः सत्य झालानन्दस्वरूपः "लत्यं ज्ञानमनन्तं ब्रह्म विज्ञान- मानन्दं मानिनेः स्वप्रमः स्वयंप्रकाशः अष्ट अष्टश्रुतं श्रोतृ "न दृष्टेधारं पश्ये"दित्यादिश्रुतेः द्वैतवर्जितः प्रकाश्यस्य प्रकाशामिन्न- स्वेन कामाय शेषरहितः स्वगतादिभेदरहित इत्यर्थः “एकमेवाद्विती- "मिति श्रुतेः एवमुक्त लक्षणः प्रत्यभ्रूषो सः साक्षी अयमहमस्मीति निरन्तरं भावयेत् एवमुक्तप्रसारण कामाद्यशेषवृत्तिविलापको ऽसङ्गा- শিক্ষাঙ্গ দ্বিপক্ষৰ লৰস্বত্ব স্বত্বান্ত पाः प्रत्यक्षचिनूलाविषयकश्चिदाभासनिष्ठो यो ऽनुभवः अयंशब्दानु- विद्धः सविकारपकसमाधिरित्शुच्यते इति शेषः "निरीहोऽस्मि निरंशो ऽस्मि स्वस्थो ऽरल्यसिन च निश्पृहः शान्तो ऽहमर्थ रूपोऽस्मि चिरा- याहमलं स्थित" इति वसिवचनात् ॥ २५ ॥ ३ - १८ - वै सव्याख्या वाक्यसुधा । एवं द्विप्रकारं सविकल्पकसमाधि दर्शयित्वा इदानी कामादि- दृश्यानामसङ्गादिशब्दानां विलापकं निवातस्थितदीपवञ्चित्तनैश्च- ल्यात्मकं निर्विकल्पसमाधि दर्शयति ॥ स्वानुभूतिरमावेशाद् दृश्यशब्दानुपेक्षितुः । निर्विकल्पः समाधिः स्यान्निवातस्थितदीपवत् ॥२६॥ स्वानुभूतिरिति ॥ अनुभूतिनिं प्रत्यक्चैतन्यं “या ऽनुभूतिरजा ऽमेया त्वनन्तानन्दविग्रहा महदादिजगन्मायाचित्रभित्तिं नमामि ता" मिति इष्टसिद्धिकारैरुक्तत्वात् रस आनन्दस्वरूपः परमात्मा "रसो सः रसं ह्येवायं लब्ध्वा ऽऽनन्दी भवती"ति श्रुतेः प्रत्यगात्मापि रसाभिन्नत्वेन परमप्रेमास्पदत्वाद्रमस्वरूपभूता अनुभूतिः स्वानुभूतिरेव रसस्तस्यावेशः स्वानुभूतिरमावेशः पूर्वोक्त समा- धिद्वयाभ्यासपाटवादन्तःकरणे स्वरूपभूतज्ञानानन्दाविर्भावः स्वा- नुभूतिरसावेश इत्युच्यते यद्वा आवशा ऽभिनिवेशः मन्नत्वं स्वानु- भूतिरसाबेशः यद्वा आसमन्तात्प्रवेशः आवेशः स्वरूपज्ञानानन्दपूर्ण- त्वं यद्वा देवताद्यावेशवत् स्वानुभूतिरसस्यावेशस्तस्मात्स्वानुभूति- रसावेशात् स्वानुभूतिरसास्वादादिति पाठे चिदानन्दस्वरूपोऽहमिति स्वानुभूतिरसस्यात्मत्वेन स्वीकरणं स्वानुभूतिरसास्वादस्तस्मात् हश्वशब्दानुपेक्षितुः पूर्वोक्तान्कामादिदृश्यानसङ्गादिशब्दांश्चोपेक्षितु- रुदासीनकर्तुरुभयत्र तात्पर्यराहित्येन तृष्णी स्थितस्य देवताद्यावि- एवत्स्वानुभूतिरसाख्यमहाग्रहग्रस्तत्वेन स्वातन्त्र्याभावात्परतन्त्रत- या स्थितस्येति तात्पर्यार्थः निर्विकल्पकसमाधिः स्यात् "प्रशान्तवृत्तिक चित्तं परमानन्ददीपकम् असंप्रज्ञातनामायं समाधिोगिनां प्रिय" इति उक्तलक्षणो निर्विकल्पकसमाधिरुक्तलक्षणस्याधिकारिणः स्वयमेव स्यात् लयविक्षेपकषायादिप्रतिबन्धाभावादसंप्रज्ञाताख्यो निर्विकल्प- कसमाधिःस्वयमेव भवतीत्यर्थः। तस्मिन्समाधीचित्तनैश्चल्ये दृष्टान्त- माह निवातस्थितदीपवदिति । निवातस्थले स्थापितो दीपो यथा निश्चलो भवति तथा समप्राप्तचित्तमपि निश्चलं भवतीत्यर्थः । “तत्पर पुरुषख्यातेर्गुणवैतृष्ण्यं तीवसंवेगानामापत्रः समाधिलाभः व्युत्था- ननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधलक्षणचित्तान्वयो निरो- धपरिणाम” इति पतञ्जलिना सूत्रितत्वात् “यथा दीपो निवातस्थो सव्याख्या वाक्यसुधा । १९ नेङ्गते सोपमा स्मृता योगिनो यतचित्तस्य युञ्जतो योगमात्मन" इत्या- दिभगवद्वचनात् “अन्तःशून्यो बहिः शून्यः शून्यकुम्भ इवाम्बरे अन्तः पूर्णो बहिः पूर्णः पूर्णकुम्भ इवार्णवे मा भव प्राभावात्मा ग्राहकात्मा च मा भव भावनामखिलां त्यक्त्वा यदिष्टं तन्मयो भव द्रष्टुदर्शनदृश्यानि त्यक्त्वा वासनया सह दर्शनप्रथमाझ्यासमात्मानं केवलं भज प्रशान्त- सर्वसंकल्पा या शिलावदवस्थितिः जाग्रन्निद्राविनिर्मुक्ता सा खरू- पस्थितिः परे"ति वसिष्ठवचनाच्च । अस्य समाधेर्वाक्यश्रवणाङ्गकत्वं च तत्त्वविवेकाख्ये ग्रन्थे श्रीमद्विद्यारण्यगुरुभिर्निरूपितं "अमुना वासनाजाले निःशेषं प्रविलापिते समूलोन्मूलिते पुण्यपापाख्ये कर्म- सञ्चये वाक्यमप्रतिबद्धं सत्प्राकपरोक्षावभासिते करामलकवबोधम- परोक्षं प्रसूयते” इति ॥ २६ ॥ एवं हृदयसम्बन्धित्वेन दर्शितं त्रिप्रकारमिसं समाधि बाह्यसम्ब- धित्वेनापि दिदर्शयिषुर्बहिब्रह्मसर्गविवेकं सच्चिदानन्दलक्षणब्रह्मनिष्ठं दृश्यानुविद्धसमाधिं तावदर्शयति । हृदीव बाह्यदेशे ऽपि यस्मिन् कस्मिश्च वस्तुनि । समाधिराद्यः सन्मात्रानामरूपपृथक्कृतिः ॥ २७ ॥ हृदीति ॥ यथा हृदये साक्षिणः सकाशात्कामादीनां पृथक्करण- माद्यः समाधिः । एतदुक्तं भवति यथा हृदि कामादीनांमध्ये एकमेकं प्रतियोगिनं कृत्वा स्वात्मनः सकाशात् नामरूपयोः पृथक्करणमस्य साक्षिभूतं यच्चैतन्यं तंदेवाहमस्मि अस्य संकल्पस्य सातिभूतं यच्चैतन्यं तदेवाहमस्मीत्यनुचिन्तनं दृश्यानुविद्धसमाधिरित्युच्यते तथा बाह्ये ऽपि स्वाभीष्टमेकं वस्त्ववलम्ब्यांशपञ्चके तस्मिन्वस्तुनि वर्तमानात्सच्चिदानन्दलक्षणब्रह्मणः सकाशानामरूपे पृथक्कृत्याऽनयोः पृथक्कृतयोर्नामरूपयोरधिष्ठानभूतं सच्चिदानन्दलक्षणं यद्वस्तु तदेव तत्पदलक्ष्यं ब्रह्मेत्यनुचिन्तनं दृश्यानुविद्धसमाधिरित्युच्यते इति “यत्र स्थितेयं विश्वश्रीः प्रतिभामात्ररूपिणी रज्ज्वां भुजङ्गवद्भाति सो ऽहमात्मा सदोदित” इत्यादिवसिष्ठवचनाच्च ॥ २७ ॥ एवं दृश्यानुषिद्धसमाधि निरूप्येदानीं समष्टिव्यष्ट्यात्मकसम- स्तहश्यप्रपञ्चविलापकं शब्दानुविद्धसमाधि निरूपयति ॥
२० सव्याख्या वाक्यमुधा । अखण्डैकरनं वस्तु सचिदानन्द लक्षण । इसविच्छिन्नचिन्तेयं समाभियो भवेत् ॥ २८ ॥ अखण्डकार समिति । अब कालापरिन्निसागलादी- दहितमिति यावत् कमवाहितामिति शुनः नापिन्बाद रातो ऽन्ता नित्यत्वान्नाधिकालतः न वस्तुनो ऽपि मायामानानं विता विधे"त्येतत्तरेव पत्रकाशक्षिकाब्य अन्य उपन्तिभिरमा न्याय समर्थितत्वाञ्च। एकरने कालत्रयेऽग्य करूरीमत्यर्थः "अध्यक्ती ऽयमचिन्त्यो ऽयमविकायो ऽयमुच्यते” इति भगवचनात् अन्य च तदेकरसं चेत्यखण्डकरलं मञ्चिदानन्दलक्षण पाटो ऽर्थः बिजुक्त- लक्षणं यद्वन्तु तदेव ब्रात्यविधिमाथिला विजानीयानारि- तसजातीयत्रत्ययप्रवाहमा का निभावना मनाथन या- नुविधविकरणकम्माधिदिल्लीः " म बिदाका मिला- मण्डितम् नीरन्प्रभारवाशर्माल भावय वावर बाई न शायदा ऽस्तीति ब्रह्मास्मि निरन्तरम् अानन्दपूर्णः सर्वत्राप्ययुद्धमानुपास्य- ता"मिति विप्रवचनात् ॥ २८ ॥ एवं ब्रह्मविषयं द्विप्रकाश विकल्पकामनाविनिरूपदानी पूर्वोक्त- समस्त दृश्यशब्दविला निर्विकलामाथिभवानपूर्वकमुक्तलक्षणर- तः पद्भिः समाधिभिनिरन्तरं कालं नदियाह । स्तब्धीमाबो इलाकामावृतीयः पूर्वजन्मतः । एतैः समाधिभिः पभिनयका निरन्तरम् ॥ २१ ॥ स्तब्धीभाव इति ॥ र सशब्दो व्याख्यातः आन्तरकप जिप्रक्षारस्य समाधेविषयभूतस्य साक्षियः साक्षित्वसिद्धार्थ ब्रह्माभिनत्वं बलाद- ङ्गीकर्तव्यमन्यथा समाध्यवलम्वाभावाद्वाहम्य विकारस्य समाध- विषयभूतस्य ब्रह्माणोऽपि कात्मिकन्वसिद्धार्थमात्माभिन्नत्वं बलादङ्गी- कर्तव्यमेवं ब्रह्मणः सर्वात्मकत्व सिद्ध सति स्वस्यापिरस्परस्मिन्पर সুন:নিক সংস্থা ও স্বামী বা স্তুল বানু শাহ্মণ-কালা মিক্ষা- ৰৰিবন্ধৰ সৰি """"ভহিত্য- সুন্ধমত্ৰথমবহিঃৰ স্বাধঃস্বংস্বানিমু- मानन्दपरतन्त्रत्वेनास्थितस्य चित्तस्य निवातस्थले स्थापितदीपस्य- सव्याख्या वाक्यसुधा । २१ অ য: শ্রীকা লিঙ্গ 4 5 ৰাষী কনা কিলো-ি তিন মিলিশি হা:লিলিহাম - হাজাৰাক লাইম লাঘশ্বকাব: ভাল: লখিনু বিহিন জ্বাই হাজিল মা- না মিত্ৰচ্ছে মন বা লংগা জবস লি- হালনাযন কাহিনহা স্বাসগুপ্ত ‘ঘাত- নাহানি দ্বঃসুল”ৰ ইনকিল মিঃ ॥২৭ ৷৷ যুদ্ধাস্ত্র কিস্তি স্বাভালাগা গঙ্গা- জল্লাহ মুত্তাহ হত্যৰম্বল বিমা দাবী খুশীকাই- যঝি। স্বার্থস্থি খণবিহীঘলন বুদ্ধামিল তিন বাংলালি সু জিল বস্তুকতা: : স্বনাশ্রম ভৰা অস্ব স্ব ? তার কম নঙ্গ অসৰ সম্বন ন্যস্থ। মিথ্যা অস্তিন विज्ञाते परमात्मनि । সুন্ন ম ল যৰি ৰস বঙ্গ লম্বৰ: ॥ ২ ০ । কালিলি ফ্য হয়নি। স্বত্ব ডাহুবাল্ডি- न्तेन श्लोकपर्यन्तन अन्धन प्रदर्शितन्यायमनुस्मृत्य सम्यक् कृतेना- হলাম ৰাংখালাক্সিকালাহান্বিন্তু युष्मदर्थदह कर्ता ऽहं मनुष्य इत्याद्यात्मत्वाभिमाने गलिते शिथि- জুন ‘নি নালি হি ক লাক্স ” দুমহিঙ্গা স্বল্প নন অছিয়াংজিল লাল মললিই লিখা নমিলন লিঙ্গ হু ধ্বলিনি যা বৃহঙ্গালি- ম ৰিজাল বলমুল সাইজ কিবলাল জানা- মলন সুৰন্থিী অল্পস্বল্প লাগৰি নমনাস্তা ভক্তি সমৃ: ঘন কুশন হাঃ! নাম- স্থা গ্রহশালার ঘনমি গg- হিহ্যাহত লিংক লিঃল ফিল নং- শিক্ষল তিন বিলাল জ্বিন না । হক: মাখা: 'হ: মুম্বলজ্বালাখাল এর মুত্যন্ত নাস্বার্থ: “ভূৰিহান মিত্ৰাহক * অ অমনি স্বার্থ বা অন্তু কাল ইমামলা- २२ सव्याख्या वाक्यसुधा । भ्यसेच्छ्रवणादिक"मित्याचार्यरुक्तत्वात् ॥ ३० ॥ वैराग्यसन्यासादिश्रवणसाधन दीर्घकालनैरन्तर्यसत्कारसहकृत- श्रवणादिज्ञानसाधने च प्रयासं दृष्ट्वा ब्रह्मात्मैक्यलक्षणस्य ज्ञान- फलस्याग्निहोत्रकार्यवत्सद्यः प्राप्त्यभावं च स्वबुद्धया कल्पयित्वा साधनानुष्ठानादुपरतं शिष्यं प्रति फलप्रदर्शनद्वारण साधनानुष्ठान तं प्रवर्तयितुं तस्य विश्वासार्थ परावरदर्शनफलप्रदार्शनी श्रुतिमेव पठति ॥ भिद्यते हृदयग्रन्थिच्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥३१॥ भिद्यते इति ॥ देहाद्वहिः सकलनामरूपात्मकेषु वस्तुषु सर्पा- धाररज्जुरिव व्याप्तः सच्चिदानन्दलक्षणों यः परमात्मा स एव परशब्देनाच्यते अन्तग्डमादिद्दश्यविलक्षणा ऽस्मत्प्रत्ययालम्बनभूतः प्रत्यचिन्मात्ररूपः साक्ष्याख्या यो जीवात्मा स एवावरशब्दनी- च्यते परश्चामाववरचत परावरः प्रत्यगभिन्नः परमात्मा तस्मिन्प- रावरस्यैव स्वयंप्रकाशत्वनाबामनगाचवमुच्यते तच्छब्दनावा- मनसगोचरे ब्रह्मात्मनीत्यर्थः । यद्वा परावरविभागाधिष्ठानभूतं शुद्ध- चैतन्यं तच्छब्देनोच्यते तस्मिन्पक्ष पररूपेण वा ऽवररूपेण वा ऽव- स्थिते परमार्थतः परावविभागाहते स्वगतादिभेदरहिते कूटस्थे शुद्धचैतन्ये इत्यर्थः । तस्मिन्पराबरे तस्मिन्निति पक्षद्वये ऽप्यक एव फलितोऽर्थः । परावरस्यैव शुद्धचैनन्यत्वाच्छुद्धचैतन्यस्यैवावाङ्मनस- 'गोचरत्वाच्च। तस्मादुक्तलक्षणे तस्मिन्परावर दृष्टे सति "त्वं वा अह- मस्मि भगवो देवते अहं वा त्वमनीति "तुभ्यं मह्यमनन्ताय मह्य तुझ्यं शिवात्मने नमो देवाधिदेवाय पराय परमात्मने” इत्यादिश्रुतिस्मृत्य- नुसारेणाहं ब्रह्मास्मि ब्रह्मवाहमस्मीति व्यनिहारेणाखण्डेकरसत्वेन करतलामलकवत्साक्षात् कृते सति अस्यैव साक्षात्कृतवतो ऽधि- कारिणः हृदयग्रन्थिभिद्यते हृदित्यहङ्कारः अयमित्यपरोक्षरूपः साक्षी अन्योन्यतादात्म्येन तयोरुभयोरपि स्वरूपं मिलित्वा हृदयग्रन्थिरि- त्युच्यते "अहङ्कारस्य कर्तृत्वं चित्यध्यस्य तथा चितः स्फूर्ति चाहती ग्रन्थिं कुर्यान्माया तयोर्बुव"मिति वचनात् हृदयशब्दवाच्यं तादात्म्य- मेव ग्रन्थिरिव ग्रन्थिः । यद्वा हृदित्यहङ्कारः अयमिति साक्षी तयास्ता- सव्याख्या वाक्यसुधा । २३ दात्म्यं हृदयग्रन्थिरुच्यते एवमुक्तलक्षण आवृत्तिरूपमायाकार्यो ऽयं हृदयग्रन्थिभिद्यते मुच्यते चशब्देदंशब्दौ सर्वत्रानुवर्तेते एवं हृदयग्रन्थी भिन्ने सत्यस्य सर्वसंशयाश्छिद्यन्ते च परमार्थतो ममैव ब्रह्म त्वमस्ति वा न वा ब्रह्मत्वे ऽपि ताग्रूपत्वं मम साक्षात्कृतं वा न वा साक्षात्कृते ऽपीतः परं ममापि कर्तव्यमस्ति वा न वा कर्तव्याभावे ऽपादानी मम जीवन्मुक्तत्वमस्ति वा न वा जीवन्मुक्तत्वे ऽपि वर्तमानदेहपाता- नन्तरभाविनी विदेहमुक्तिर्भविष्यति वा न वा विदेहमुक्तिप्राप्तावपि कालान्तरे पुनर्जन्म भविष्यति वा न वेत्यादिसंशयाश्छिद्यन्ते च संश- यरूपाः पाशाश्च परावरदर्शनशस्त्रेण खण्ड्यन्ते इत्यर्थः। एवं सर्वसंशयेषु भिन्नेषु सत्सु अस्य कर्माणि च तीयन्ते परावरदर्शनस्य देहारम्भनि- रोधकत्वे ऽपि वर्तमानदेहारम्भसमये तस्याविद्यमानत्वेन तन्निरोध- कत्वासम्भवात् “तस्य तावदेव चिरं यावन्न विमोक्ष्ये" "भूयश्चान्ते विश्वमायानिवृत्ति"रित्यादिश्रुतेश्च प्रारब्धकर्मणां भोगादेव क्षया- दागामिकर्मणां च परावरसाक्षात्कारसमये अविद्यमानत्वात्पश्चात् सर्वेषामपि तेषामसंश्लेषाञ्च जन्मकोटिसहस्रोपादानभूतानि सञ्चिता- न्यनारब्धशब्दवाच्यानि पुण्यापुण्यमिश्ररूपाणि कर्माण्येवात्र कर्म- शब्देन विवक्ष्यन्ते तानि सर्वाणि च क्षीयन्ते परावरदर्शनाग्निना दग्धानि भवन्तीत्यर्थः । अन्यदृष्टिमाश्रित्यैव कर्मशब्दो व्याख्यातः । "अशरीरंवाव सन्तं न प्रियाप्रिये स्पृशत” इत्यादिश्रुतिसहस्रेष्वस्या- शरीरत्वश्रवणादशरीरस्य परावरदर्शनानन्तरमप्यागामिकर्मण असम्भवात्प्रारब्धकर्मणा फलभोगो ऽप्यस्याशरीरस्याभिमानाभावा- दारब्धानारब्धरूपाणि सर्वकर्माणि क्षीयन्ते इति स्वदृष्ट्यनुसारो ऽयमर्थः भिद्यते इत्यादिवर्तमानप्रयोगेण ज्ञानसमकालमुक्तत्वं द्यो- त्यते अत्र प्रमाणं "तद्वैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे ऽहं मनुरभवं सूर्यश्चति ब्रह्मविद्रह्मैव भवति ब्रह्मविदाप्नोति परं तरति शोकमात्म- वित् अभयं वै जनक प्राप्तो ऽसि एतावदरे खल्वमृतत्वमिति तमेव विदित्वा ऽतिमृत्युमेति तमेवं विद्वानमृत इह भवति यत्र नान्यत्प- श्यति यत्र नान्यच्छृणोति यत्र त्वस्य सर्वमात्मैवाभूदि"त्यादिश्रुतयः "तीर्थे श्वपचगृह वा नष्टस्मृतिरपि परित्यजन्देहम् ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः” इति शेषवचनम् "दर्शनादर्शने हित्वा स्वयं केवलरूपतः यस्तिष्ठति स तु ब्रह्म ब्रह्म न ब्रह्मवित्स्वय"मिति वसिष्ठ- सव्याख्या वाक्यसुधा । वचनम् “यस्मिन्काल स्वमात्मानं योगी जानाति केवलम् तस्मात्का- তাৰ নাহ$থ লাম্ব সম্বনি" "স্বল্প । ২। ঘকে স্ব স্ব ল দ ব ল ক ন স্ব- বিবাহ -: শুনি- - : এ মন্ত্র - ভাল-ম ক ? - ঘঃ এশে ২ - হে হে স্বত্ব হাহ হাহ হাসান হিথ মন ন্যান্সি হল তামিল = নানা প্রলে শুন না- মম্বি র হয়নি সংহিমান্নিত্বস্বল স্বৰ ভূখ। ওদিক মহবিল্লাখাল বালু दर्शयति ॥ অলিম্বা লমূৰীয: কলিঃ। বিশাল জনসঃ বাঃ। ২ ভাস্বতন নি। তি: যৰিন্ধি: যা ত্বখন্বি- শ্রাদুর স্বামী বা স্ব তান্ত্রি: প্রথম। লা: ফালু স্পিণ: মিনুল হেলালহা- ফল: অন : হাম্মাম ক্লিানিলি যা যৰ যত্ন শিক্ষাৰ স্বভাব : স্যান্নাঙ্গাস নহত্বহস্যোসহ হ য ক ন হি স্ব: বিমান এ নিন ! ভীৰ হাৰ লাঞ্ছিত হন। ৭ জন এই ভার্মা লিমা: খনা। দুলা: না নূন : ২২। নত্ব না থাকার * শাহ বস্ত্র হন নাই Tiজৰ নাৰ সৰ প্ৰ বাবা ! অতঃ: লিঃ গুগ বসু। কিন্তু সংসদ ও স্বৰঃ ২। ভবি। গুজব মানসল্প-সমার হয়- অতনুঘাবঞ্জানাথি হল "মান্য বা অমসূন P एवमस्य सव्याख्या वाक्यसुधा । साक्षिण्यविद्याहङ्कारकृतो यो ऽवच्छेदः परिच्छेदः स आकाशे तल- मलिनताद्यध्यासवदहङ्कारेणाध्यस्त एव स्यात्सुषुप्तावहङ्कारलये सत्यविद्यावच्छिन्नोऽहमहङ्कारावच्छिन्नो ऽहमित्युभयविधस्यावच्छि- नत्वस्याप्यभिमानाभावादविद्याहङ्काराभ्यां परिच्छेद्यं यत्साक्षिचैतन्य तत्कालत्रये ऽप्येकरूपत्वाद्वास्तवमेव सत्यमेव स्यादेवं यस्मात्त- स्मादुक्तलक्षणे तस्मिन्साक्षिणि चिदाभासद्धारेणाहङ्कारसाक्षिणोर- न्योन्याध्यासादेव जीवत्वं स्यात् "कर्तृत्वादीन्बुद्धिधर्मान्स्फूाख्या- मात्मरूपताम् दधद्विभाति पुरत आभासो ऽतो भ्रमो भवे"दिति वच- नातू प्रकृते साक्षिणि ब्रह्मत्वं स्वभावत एव स्वतःसिद्धमेव स्यान्न तु चतुर्विधक्रियासाध्यमित्यर्थः ॥ ३३ ॥ साक्षिणश्चिदाभासाहङ्काराख्योपाधिवशाजीवत्वं स्वभावतो ब्रह्मत्वं चोपपत्तितो दर्शयित्वा इदानीमस्य साक्षिण एव ब्रह्मणा सह ऐक्यं वाक्यानि बोधयन्ति नेतरयोश्चिदाभासस्वप्नक- ल्पितयोरित्याह॥ अवच्छिन्नस्य जीवस्य पूर्णेन ब्रह्मणैकताम् । तत्त्वमस्यादिवाक्यानि जगुर्नेतरजीवयोः ॥ ३४ ॥ अवच्छिन्नस्येति ॥ अविद्याहङ्काराभ्यामवच्छिन्नस्यात एव स द्वितीयवत्प्रतीयमानस्य पारमार्थिकजीवस्यैवाविद्याश्रयभूतत्वेन देश- कालवस्तुभिरनभिप्लुतेन परमात्मना "तत्वमसि अहं ब्रह्मास्मि अय- मात्मा ब्रह्म प्रशानं ब्रह्म"त्येवमादिवाक्यान्यैक्यं जगुः आरोपित- षष्ठयादिकमवलम्ब्य लक्षणावृत्त्या तात्पर्येणैक्यं बोधयन्तीत्यर्थः।चि. दाभासस्वप्नकल्पितयोर्ब्रह्मणा सहैक्यं वाक्यानि न बोधयन्ति तयोर्मा- याकार्यत्वेनावस्तुभूतत्वादित्यभिप्रायः । ननु प्रमाणफलस्य प्रमातृगा- मित्वादहं ब्रह्मास्मोति चिदाभासेनैव प्रतिपनत्वेन तस्यैव प्रमातृ- त्वात्कूटस्थस्य साक्षिणः प्रमातृत्वासम्भवेन प्रमाणफलाश्रयत्वानुप- पत्तः काकस्य कायॆ धवलप्रासाद इतिवदन्यस्य फलमन्यस्य स्यादित्याचार्यरसम्बद्धमेवोच्यते इति चेन्नैष दोपः चिदाभासस्ट साक्षिप्रतिविम्बत्वेन तदर्थत्वादनिर्वचनीयमायाकल्पितत्वनावस्तुत्व चास्य प्रमाणफलाश्रयत्वानुपपत्तेः साक्षिणश्चिदाभासाधिष्ठानत्वेन * चतुर्विधं फलं नाम । उत्पत्तिराप्तिः संस्कारो गुणान्तरमिति ।। ४
२६
सव्याख्या वाक्यसुधा ।
तदात्मत्वात्परमार्थरूपत्वाच प्रमाणफलाश्रयोपपत्तेः 'प्रत्ययी प्रत्यय-
श्चैत्र यदाभासौ तदर्थता तयोरचितिमत्त्वाच्च चैतन्ये कल्प्यते फलम्
कूटस्थ पि फलं योग्यं राजनीव जयादिकम् तदनात्मत्वहेतुभ्यां
क्रियायाः प्रत्ययस्य चे"त्याचार्य: कूटस्थस्य साक्षिणो ऽपि प्रमाण-
फलाश्रयत्वमस्तीति समर्थितत्वाञ्च "ज्ञानिताशानिते त्वात्माभासस्यैव
न चात्मनः तथा च कथमाभास: कूटस्थो ऽस्मीति बुध्यताम् नायं
दोषश्चिदाभासः कूटस्थैकस्वभाववान् आभासस्य च मिथ्यात्वात
कूटस्थत्वावशेषणादिति" तृप्तिदीपाख्ये प्रन्थे तैरेवाचार्यैराशय परि-
हतत्वाच ॥ ३४॥
एवं पारमार्थिकजीवस्य साक्षिण एव परिपूर्णानन्दपरमात्मनैक्ये
सिद्ध सत्यन्तर्बहियष्टिसमष्टिभावेन जीवपररूपस्याविद्यावच्छिन्नस्य
तत्त्वतो ऽनवच्छिन्नब्रह्मरूपस्यास्य साक्षिण एव भोक्तभोज्यात्मकस-
मस्तप्रपश्चाधिष्ठानत्वमन्तबहिश्चोपाधिभूतयोश्चिदाभासजगतोर्माया.
कार्यत्वेन मिथ्यात्वं साक्ष्यनन्यत्वं तन्मात्रेणावशेषत्वं चोत्तरग्रन्थ-
सन्दर्भेण दर्शयितुं साक्षिणो जीवजगदधिष्ठानत्वं जीवजगतोर्माया-
कार्यत्वं च दर्शयति ॥
ब्रह्मण्यवस्थिता माया विक्षेपाऽऽतिरूपिणी ।
आत्या अखण्डतां तस्मिन् जगज्जीवौ प्रकल्पयेत् ॥ ३५ ॥
ब्रह्मणीति ॥ अत्रापि छन्दोभङ्गभयादेव पूर्वापरनिपातव्यत्यासः
कृतः शब्दतश्चार्थतश्च न पौनरुक्त्याख्यो दोषो ऽत्र शङ्कनीयः ब्रह्मा-
त्मस्वरूपस्यालौकिकस्यातिसूक्ष्मत्वेन झटिति ज्ञातुमशक्यत्वाभ्या-
सेनैव प्रतिपत्तव्यत्वाच्छ्रयैव नवकृत्व उपदिष्टत्वाञ्च सत्यादिलक्षणे
ब्राण्यवस्थिताऽऽवृतिविक्षपलक्षणशक्तिद्वयात्मिका निर्वचनीया मा-
या स्वाश्रयभूतस्य ब्रह्मणो ऽस्त्रण्डतामाच्छाद्य तस्मिन्नवच्छेद्यसाक्षि-
स्वरूपे ब्रह्मणि जगजीवी प्रकल्पयेत्पूर्वोक्तप्रकारेण सृजेदित्यर्थः ॥३५॥
भोक्तभोग्ययोर्मध्ये भातृरूपस्य जीवस्यैव प्राधान्ये ऽपि पद्या-
नुसारेण जगजीवावित्युक्तमर्थक्रमानुसारेण । इदानीं तयोर्जीवजगतोः
स्वरूपं विविच्य दर्शयति ।
जीवो धीस्थश्चिदाभासो भवेद्भोक्ता हि कर्मकृत् ।
भोग्यरूपमिदं सर्वं जगत्स्याद्भूतभौतिकम् ॥ ३६ ॥
सव्याख्या वाक्यसुधा । जीव इति ॥ कृष्यादिक यज्ञादिकं श्रवणादिकं च कर्म करोतीति कर्मकृत् स्वार्जितमैहिकामुष्मिकै फललक्षणं भोग भुनक्तीति भोक्ता एव मुक्तलक्षणो यो धीस्थश्चिदाभासः स एव ब्रह्माश्रितमायाक. ल्पितो जीव इत्युच्यते हिशब्दो यस्मादर्थे धीस्थश्चिदाभासः कर्म- कृद्भोका च यस्मात्तस्माज्जीवो भवेदित्यक्षरयोजना। भूतं पृथिव्यादि- भौतिकं देवतिर्यगादिशरीरजातं भूतं च भौतिकं च भूतभौतिकं भोक्तृणां भोगाधिष्ठानभूतं तत्तच्छरीरानुरूपेण भोज्परूपमिदं परि- इश्यमानं सर्व भूतभौतिकं जगत्स्याजगदित्युच्यते ॥ ३६ ॥ एवं जीवजगतोः स्वरूपं दर्शयित्वा इदानीमनयोरनिर्वचनीय- मायाकार्यत्वेन मोक्षदशायामभावाद्यवहारमात्रे स्थितत्वाचैतदुभयं व्यावहारिकमित्याह॥ अनादिकालमारभ्य मोक्षात्पूर्वमिदं द्वयम् । व्यवहारे स्थितं तस्मादुमय व्यावहारिकम् ॥ ३७॥ अनादिकालमिति ॥ अस्मिन्काले आरब्धे एते जीवजगती इति विचार्य केनापि निणेतुमशक्यत्वात् "प्रकृतिं पुरुषं चैव बिध्यनादी उभावपी"ति भगवद्वचनाच अनयोर्जीवजगतोरादिर्नास्त्येव “गताः कलाः पञ्चदश प्रतिष्ठां यथा नद्यः स्यन्दमानास्समुद्रे ऽस्तं गच्छन्ति तस्य तावदेव चिरं भूयश्चान्ते विश्वमायानिवृत्ति"रित्यादिश्रुतेः "ततस्तिमितगम्भीरंन तेजोन तमस्ततम् । अनाख्यमनभिव्यक्तं यत्कि- श्चिदवशिष्यते” इति वसिष्ठवचनाच अनयोर्जीवजगतोपर्तमानदेहरा- हित्य लक्षणविदेहकैवल्यदशायामभावादन्तोऽस्त्येष यस्मादेवं तस्मा- दनादिकालमारभ्य वर्तमानदेहराहित्यलक्षणविदेहकैवल्यप्राप्तेः पूर्व प्रमातृप्रमाणप्रमेयाद्यनेकावान्तरभेदभिन्नत्रिपुट्यात्मके व्यवहारे जीव- जगदाख्यमिदं वस्तुद्वयं स्थितम् उक्तलक्षणं व्यवहारमाश्रित्य वर्तते तस्मादेतदुभयं व्यावहारिकं न तु पारमार्थिकं प्रातिभासिकं च एवं जीवजगतोर्मायिकत्वं साक्षिणो जीवजगदधिष्ठानत्वं मुखत एव ब्रह्म- ण्यवस्थिता मायेत्यस्मिन् श्लोके दर्शितम् अस्मिन् श्लोके तयोर्मुखतो व्यावहारिकत्वकथनद्वारा मिथ्यात्वं दर्शितमधिष्ठानानन्यत्वमधि- ष्ठानावशेषत्वं चार्थात्सूचितम् ॥ ३७ ॥ एवं ब्रह्मण्यवस्थितेत्यादिभिस्त्रिभिः श्लोकैः प्रदर्शितमर्थ स्वाम २८ सव्याख्या वाक्यसुधा। जीवजगदवलम्बनेन हृढीकरिष्यामीत्यभिप्रायेण स्वप्नजीवजगतोनि- द्राकार्यत्वं दर्शयति ॥ चिदाभासस्थिता निद्रा विक्षेपाऽऽतिरूपिणी । आटत्य जीवजगती पूर्वे नूने तु कल्पयेत् ॥ ३८ ॥ चिदाभासस्थितेति ॥ व्यावहारिकजीवाख्यचिदाभामाश्रयाऽऽवृ- तिविक्षेपात्मिका तमोरूपा प्रसिद्धा निद्रा ऽवरणशक्त्याकारण पूर्वे व्यावहारिकजीवजगती आवृत्य ततो निद्राश्रयत्वेन निद्रावच्छिन्नचि- दाभासखरूपं जाग्रत्समस्तप्रपञ्चसंस्कारसहिते देहस्थान्तर्नाडीमध्ये स्थिते ऽस्मिन् निद्रावच्छिन्नचिदाभासाकारे विक्षेपशक्त्याकारेण नूत्ने नूतने जीवजगती कल्पयेत् पूर्वनूतनजीवजगतोव्यावहारिकप्राति- भासिकत्ववैलक्षण्यद्योतनार्थस्तुशब्दः यथा निद्रा चिदाभासाश्रया तथा मायाऽपि ब्रह्माश्रया यथा निद्राऽऽवृतिविक्षेपाख्यशक्तिद्वयात्मिका तथा माया ऽपि शक्तिद्वयात्मिका यथा स्वप्नजीवजगतोर्निद्रा- कार्यत्वं तथा व्यावहारिकजीवजगतोरपि मायाकार्यत्वं यथा निद्रा- वच्छिन्नचिदाभासाकारस्य स्वप्नजीवजगदधिष्ठानत्वं तथा मायाव- च्छिन्नसाक्ष्याख्यब्रह्माकारस्यापि व्यावहारिकजीवजगदधिष्ठानत्वं स्यात्तस्माद्ब्रह्मण्यवस्थिता मायेत्यनेन श्लोकेन प्रदर्शिते ऽर्थे विप्र- तिपत्तिहेतुः कोऽपि नास्तीत्यभिप्रायः ॥ ३८ ॥ तुशब्देन द्योतितं वैलक्षण्यं स्पष्टयति ॥ प्रतीतिकालएवैते स्थितत्वात्मातिभासिके । न हि स्वप्नमबुद्धस्य पुनः स्वप्ने स्थितिस्तयोः ॥ ३१ ॥ प्रतीतिकालइति ॥ प्रतीत्यनन्तरकालस्थिति निषेधयत्येवकारः प्रतीतिकाले एव वर्तमानत्वादेते स्वप्नजीवजगती प्रातिभासिके इत्यु- च्येते इममेवाथै व्यतिरेकमुखेनापि द्रढयति न हीति। एकस्मिन् दिने स्वनं दृष्ट्वा तस्मात्प्रबुद्धस्य दिनान्तरे दृश्यमाने स्वप्ने पूर्वदिनस्वप्न- सम्बन्धिनोर्जीवजगतोरवस्थितिर्नास्ति यस्मात्तस्मात्ते प्रातिभासिके एव न तु व्यावहारिके पारमार्थिकत्वशङ्कव नास्त्यनयोरनेन प्राति- भासिकत्वकथनेन स्वप्नजीवजगतोः प्रतीतिकाले एव स्थितत्वात्पुनः स्वप्ने स्थित्यभावाञ्च मिथ्यात्वं तथा व्यावहारिकजीवजगतोरप्यनादि- कालमारभ्य मोक्षात्पूर्व स्थितत्वात्ततः परमभावाञ्च मिथ्यात्वं यस्मात्तस्मादनादिकालमारभ्येति अनेन श्लोकेन प्रदर्शिते ऽथै विप्र-
सव्याख्या वाक्यसुधा ।
२९
तिपत्त्यवकाशो नास्तीत्यभिप्रायः ॥ ३६॥
एवं स्वामजीवजगदृष्टान्तेन संक्षपेण प्रदर्शितं व्यावहारिकजीव
जगतोर्मिथ्यात्व पुनः स्वप्नदृष्टान्तमबलम्ब्य श्लोकत्रयण द्रढयितुं
दृष्टान्तभूतयोः स्वप्नजीवजगतार्मिथ्यात्वं तावदर्शयति ॥
पातिभासिकजीवो यस्तजगत्मातिभासिकम् ।
वास्तवं मन्यते ऽन्यस्तु मिथ्येति व्यावहारिकः ॥ ४०॥
प्रातिभासिकेति ॥ स्वप्नकल्पितप्रातिभासिकाख्यो यो जीवः
सः स्वप्नकल्पितं प्रातिभामिकाख्यं तज्जगद्वास्तवं मन्यते सत्यमित्य-
वगच्छति न तु मिथ्येति स्वस्य यावश्वस्थानं तावत्तस्याप्यवस्थि-
तत्वादन्योन्यपक्षव्यावृत्त्यर्थस्तुशब्दः प्रातिभासिकादन्यो व्यावहारि-
काख्यो जीवस्तत्प्रातिभासिकं जगश्च तद्रष्टारं प्रतिभासिकं जीवं
च मिथ्येति मन्यते न तु वास्तवमिति स्वप्नात्पूर्व स्वप्नानन्तरं प्रबोधे
च तयोरुभयोरप्यवस्थानाभावादिति भावः ॥ ४० ॥
दृष्टान्तेन प्रदर्शितं न्यायं दान्तिके योजयति ॥
व्यावहारिकजीवो यस्तज्जगद्यावहारिकम् ।
ससं भयेति मिथ्येति मन्यते पारमार्थिकः ॥ ४१ ॥
व्यावहारिकेति ॥ उक्तलक्षणो यो व्यावहारिकजीवः स माया-
कल्पितं तद्यावहारिक जगत्सत्यं प्रत्येति वास्तवमित्यवगच्छति न
तु मिथ्येति स्वस्य यावदवस्थानं तावत्तस्याप्यवस्थितत्वात्तस्मा-
दन्यः पारमार्थिकजीवस्तद्यावहारिकं जगश्च तदृष्टारं चिदाभासश्च
मिथ्येति मन्यते एतदुभयमसत्यमित्यवगच्छति न तु सत्यमिति
नित्यप्रलयाख्यसुषुप्ती तयोरनवस्थानस्यानुभवसिद्धत्वात् "नासदा-
सीनो सदासी"दित्यादिश्रुत्यनुसारेणानादित्वे ऽपि “गताः कला"
इत्यादिश्रुत्यनुसारेण वर्तमानदेहराहित्यलक्षणविदेहकैवल्यदशायां
तयोः प्रतीतिरप्यात्यन्तिकनाशस्य निश्चितत्वात् श्रुत्याचार्यानुभवव-
शात्स्वभावसिद्ध ब्रह्मात्मत्वे साक्षात्कृते सति भाविदेहराहित्यलक्षण-
जीवन्मुक्तिदशायां तयोर्व्यावहारिकजीवजगतोः कादाचित्कप्रतीति-
सद्भावेऽपितयाः सत्ता ऽऽत्यन्तिकनाशस्य श्रुतियुक्त्यनुभवसिद्धत्वाञ्च
तस्मात्प्रतिभासिकजीवजगती यथा मिथ्याभूते तथा व्यावहारिकजी-
वजगती च मिथ्यास्वरूपति भावः ॥४१॥
३०
सव्याख्या वाक्यसुधा ।
..
मिथ्येति मन्यते पारमार्थिक इत्यतायता ग्रन्थेन प्रतिपादितमर्थ
पुनढयति ॥
पारमार्थिकजीवस्तु ब्रह्मैक्यं पारमार्थिकम् ।
प्रयेति वीक्ष्यते नान्यद्रीक्षते त्वनृतात्मना ॥ ४२ ॥
पारमार्थिकेति ॥ अवधारणवाचको तुशब्दी पारमार्थिको
जीवः साक्षात्परमात्मस्वरूपः वर्तमानदेहराहित्यलक्षणविदेहकैवल्य-
प्राप्तिपर्यन्तं ब्रह्म चिच्छब्द लक्ष्यं साक्षिस्वगतादिभेदरहितं बन्धमोक्षा-
दिव्यवहारातीतं सच्चिदानन्दलक्षणं स्वस्वरूपं ब्रह्मैक्यमेव पारमा-
र्थिकमित्यवगच्छति नान्यद्वीक्षते “यत्र नान्यत्पश्यति यत्र त्वस्य
सर्वमात्मैवाभू"दित्यादिश्रुतेः वीक्षते त्वनृतात्मना प्रबलप्रारब्धवशा-
स्वरूपावस्थानाच्चिदाभासाकारेण व्युत्थितः सन्कदाचिजीवजगदा-
दिकं यद्यपि वीक्षते तथा ऽपि मिथ्यात्वेनैव पश्यति न तु सत्यत्वे-
नेत्ययमेव तात्पर्यार्थः ॥ ४२ ॥
एवं प्रातिभामिकजीवजगदृष्टान्तेन व्यावहारिकजीवजगतार्मा-
याकार्यत्वमत एव मिथ्यात्वं च दृढीकृत्यदानी दृष्टान्तभूतयोर्जीवज-
गतोरधिष्ठानचिदाभासानन्यत्वं तन्मात्रेणावशेषत्वं च प्रसिद्धमपि
पुनरपि बाह्यदृष्टान्तेन दृढीकृत्य तेन वाह्याभ्यन्तरदृष्टान्तद्वयंनापि व्या-
वहारिकजीवजगतोरधिष्ठानभूतसाक्ष्यनन्यत्वं तन्मात्रणावशेषत्वं च
द्रढीयतुमारोपिताकारस्याधिष्ठानानन्यत्वे बाह्यदृष्टान्तं तावदर्शयति॥
माधुर्यद्रवशैसानि नीरधर्मास्तरङ्गके ।
अनुगम्याथ तन्निष्ठे फेने ऽप्यनुगता यथा ॥ ४३ ॥
माधुर्यमिति ॥ यथा दृष्टान्ते माधुर्य च द्रवत्वं च शैत्य च
माधुर्यद्रवशैत्यानि नीरधर्मा जलगुणाः जलस्योपरि वातवशात्तरङ्गे
उत्पन्ने सति जलविवर्तत्वेन जलनिष्ठे तस्मिन् तरङ्गे अनुगम्याथ
तरङ्गोत्पत्त्यनन्तरं तत्तरङ्गविवर्तत्वेन तरङ्गनिष्ठे फेने ऽप्यनुगताः
जलतरङ्गः फेन इति भेदव्यवहारे विद्यमाने ऽपि जलादीनां माधुर्य-
द्रवशैत्यव्यतिरेकेण स्वरूपाभावतया तेषां माधुर्यद्रवशैत्यात्मकत्वा-
त्पूर्वपूर्वाधिष्ठानस्यैवोत्तरोत्तरव्यावृत्ताकारेण विवर्तमानत्वादुत्तरोत्त-
रकार्यस्य पूर्वपूर्वाधिष्ठानानन्यत्वं प्रदर्शितमनेन श्लोकेन ॥ ४३ ॥
सव्याख्या वाक्यसुधा । एवमारोपिताकारस्याधिष्ठानामन्यत्वं बाह्यदृष्टान्तेन दयित्वा तमेव न्याय दाान्तिके योजयति ॥ साक्षिस्थाः सच्चिदानन्दाः सम्बन्धाद्यावहारिके। तवारेणानुगच्छन्ति तथैव प्रातिभासिके ॥ ४४ ॥ साक्षिस्था इति ॥ यथा दृष्टान्ते तथा दान्तिके ऽपि ब्रह्मस्वरूप साक्षिणि स्थिताः स्वरूपलक्षणशब्दवाच्याः सत्यज्ञानानन्दाः साक्षि- गुणास्तरङ्गे जलगुणानां सम्बन्धवद्यावहारिकजीवजगतोः सम्बन्धा- ध्यावहारिकजीवजगद्यवधानेन प्रातिभासिकजीवजगतोरप्यनुवृत्ता भवन्ति । व्यावहारिकः प्रातिभासिक इत्येतो व्यावहारिकप्रातिभा- सिकजगतोरप्युपलक्षणे जीवयोस्तत्तजगदन्तःपातित्वेन जगद्यति- रेकेणाभावात्साक्षिस्था इत्याधाराधेयभावो गुणगुणिभावश्च राहोः शिर इति वदौपचारिकः प्रातिभासिकजीवजगतोश्चिदाभासविवर्त- कत्वे स्वभावतः प्रसिद्ध ऽपि तरङ्गस्थानीयचिदाभासस्थाः सच्चिदा- नन्दा एव फेनस्थानीयप्रातिभासिकजीवजगतोरप्यनुगता इति पुनर- प्येवं निश्चिते सति यथा तयोः प्रातिभासिकयोर्जीवजगतोश्चिदाभा- सानन्यत्वं यथा वा जलस्थमाधुर्यादीनामेव तरङ्ग ऽप्यनुगतत्वेन तरङ्गस्थजलानन्यत्वं यथा जलस्थानीये साक्षिणि स्थितानां माधुर्या- दिस्थानीयानां सच्चिदानन्दानामव तरङ्गस्थानीययोश्चिदाभासजग- तोरप्यनुगतत्वेन तयाः ब्रह्मभूतसाक्ष्यनन्यत्वं सिद्धमिति भावः “एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते” इत्यादिश्रुतेः ॥ ४४ ॥ एवं व्यावहारिकजीवजगतोरधिष्ठानभूतसाक्ष्यनन्यत्वं दृष्टान्त- मुखेन दर्शयित्वा तदेव पुनरधिष्ठानावशेषत्वेन द्रढयितुं पूर्वोक्तमेव दृष्टान्तं दर्शयति ॥ लये फेनस्य तद्धर्मा द्रवाद्याः स्युस्तरङ्गके। तस्यापि विलये नीरे तिष्ठन्येते यथापुरा ॥ ४५ ॥ लये इति ॥ तरङ्गविवर्तस्य फेनस्य नाशे सति तत्फेनधर्माः द्रव- माधुर्यशैत्याख्याः फेनाधिष्ठाने तरङ्गे भवन्ति जलविवर्तस्य तरङ्ग- स्यापि नाशे सत्येते द्रवाद्यास्तरङ्गफेनाद्युत्पत्तेः पूर्व यथा सर्वाधिष्ठाने नीरे तिष्ठन्ति तथा तिष्ठन्त्येव कालत्रये ऽपि नीरस्य विद्यमानत्वातू सव्याख्या वाक्यसुधा । तरङ्ग फेनयोरविद्यमानत्वान्नीरजत्वान्नीरस्थत्वान्नीरलयत्वाच्च नीरव्य- तिरेकेण तरङ्गकेनौ न स्त इत्यर्थः ॥ ४५ ॥ दृष्टान्तसिद्धमर्थ दान्तिके योजयांत ॥ प्रातिभामिकजीवस्य लये स्युर्व्यावहारिके । तल्लये सच्चिदानन्दाः पर्यवस्यन्ति साक्षिणि ॥ ४६ ॥ प्रातिभासिकेति ॥ अत्रापि प्रातिभासिकजीवजगतोलये सति तत्र स्थिताः सच्चिदानन्दाः जाग्रत्प्रपञ्चसंस्कारसहिते चिदाभासे भवन्त्यत्रापि तल्लये तजगतोऽप्युपलक्षणं नित्यनैमित्तिकप्राकृतात्यन्ति- काख्येषु प्रलयेषु व्यावहारिकजीवजगतालये सति तत्र स्थिताः सच्चिदानन्दाः सर्वाधिष्ठानभूते साक्षिण्यंव पर्यवस्यान्त निष्ठां प्राप्नु- वन्ति तस्याप्यधिष्ठानभूतस्य कस्य चिद्वस्तुनो ऽभावादेवं साक्षिणः कालत्रये ऽपि सद्रूपत्वात् व्यावहारिकजीवजगदादः सृष्टः पूर्व प्रलयानन्तरं चाविद्यमानत्वात्तजत्वात्तत्रस्थत्वात्तल्लयत्वाच्च तल्लक्ष्य- ब्रह्माभिन्नसाक्षियतिरकेण व्यावहारिकजीवजगदादिर्नास्त्येवेत्यर्थः । चोरव्याघ्रादीनामाभिमुख्यागमनेन प्रातिभासिकजीवकर्तृकण तद्दर्श- नेन निद्रावच्छिन्नचिदाभासस्यैव निद्राश्रयभूतेन चिदाभासेनक्यवि- पये जागरणाख्यं प्रबोधे जाते सति दिनान्तर विद्यमानप्रातिभासिक- जीवदृष्ट्या स्वरूपभूनचिदाभासाझानपूर्वकसमस्तसंसारे विद्यमाने ऽपि वर्नमानदिन चारव्याघ्रादिदर्शनेन प्रबुद्धः प्रातिभासिकजीवः स्वदृष्ट्या शक्तिद्वयात्मनिद्रात्यन्तिकनाशान्निद्राश्रयावच्छिन्नादिवि- भागरहिते एकरूपे चिदाभासे भृगुपतनादिकतेच स्वनाशेन चिदा.. भासपद प्राप्तुमिच्छया प्रातिभालिकभाग्यरूपसमस्तप्रपञ्चन सहा- त्यन्तिकनाशं यथा प्राप्नोति तथा व्यावहारिकजीवो ऽपि व्यावहा- रिकान्तरदृष्ट्या स्वरूपभूतप्रत्यभिश्नसच्चिदानन्दलक्षणब्रह्मताशान- मूलसमस्तसंसार विद्यमाने ऽपि चोरव्यानाद्याभिमुख्यागमनस्थानी- यन श्रुत्याचार्यानुग्रहण प्रातिभानिकजीवकर्तृकतदर्शनस्थानीयन स्वकर्तृकश्रवणाधनुष्ठानेन निद्रावच्छिन्नचिदाभासस्थानीयस्य माया- वच्छिन्नस्य स्वभावतो ऽनर्वाच्छन्नस्य ब्रह्मरूपस्य साक्षिण एव निद्रा- श्रयभूतचिदाभासस्थानीयेन पूर्णेन ब्रह्मणस्यविपये ब्रह्मविद्याख्ये प्रवाधं जातं सति स्वदृष्ट्या शक्तिद्वयात्मकमायात्यन्तिकनाशान्मा- याश्रयावच्छिन्नादिभागरहिते अत एव स्वगतादिभेदवर्जित सच्चिदा- सव्याख्या वाक्यसुधा । ३३ नन्दलक्षणे ब्रह्मात्मनि देवत्वकामनया ऽग्निप्रतिष्ठेव साक्षित्वमात्रा- वशेषवाञ्छ्या ब्रह्मसाक्षात्कारकालमारभ्य वर्तमानदेहराहित्यलक्षण- विदेहकैवल्यप्राप्तिपर्यन्तं व्यावहारिकभोग्यरूपसमस्तप्रपञ्चेन सह शनैः शनैर्नाशं यात्यात्यन्तिकलयं प्राप्नोति "देवत्वकामा अग्न्यादौ प्रविशन्ति यथा तथा साक्षित्वेनावशेषाय स्वविनाशं स वाञ्छति यावत्स्वदेहदाहः स्यान्नरत्वं नैव मुञ्चति यावदारब्धदेहः स्यान्नाभा- सत्वविमोचन"मित्येतत्तैरेव तृप्तिदीपाख्ये ग्रन्थे उपपत्त्या सह प्रदर्शित- त्वात्तस्मादस्य चिदाभासस्य भ्रान्तिविवेकौ नित्यमुक्त साक्षिण्यध्य- स्तौ न वास्तवावित्येतत्तैरेव भारतीतीर्थगुरुभिरुपनिषत्संक्षेपवार्तिके सम्यक् निरूपितम् । “बोधात्पुरा तुचिद्भान्त्या मना भोक्तरि शोचति सा भ्रान्ति कृनिष्ठैव तद्विवेको पि भोक्तृगः भोगावान्तरभेदो हि भ्रान्तितद्वोधकावुभौ इतरारोपितत्वाच्च चित्यध्यस्तौ न वास्तवाविति। अस्य साक्षिणः साक्षित्वं साक्ष्यापेक्षं न तु वास्तवमित्येतदप्यद्वैतम- करन्दकारैर्निरूपितम्। “चैत्योपरागरूपा मे साक्षिता ऽपिन तात्त्विकी उपलक्षणमेवेयं निस्तरङ्गचिदम्बुधेरिति चैत्यं जडपदार्थः यस्मादेवं तस्माद्यावहारिकदृष्ट्यनुसारेण मायाश्रयत्वं मायाहङ्काराभ्यामव- च्छिन्नत्वं नामरूपतादात्म्येन भोग्यत्वं अन्तःकरणे प्रतिविम्बितचिदा- भासाकारेण कर्तृत्वभोक्तृत्वादिरूपसंसारित्वं “ब्रह्म वा इदमन- आसीत् तदात्मानमेवावेदहं ब्रह्मास्मी"ति श्रुत्यनुसारेण ब्रह्मसाक्षा- कर्तृत्वं जीवन्मुक्तत्वं च विदेहमुक्तत्वं च "न निरोधो न चोत्पत्ति- ने बद्धो न च साधकः न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थते"त्यादि- श्रुतिप्रामाण्यात्परमार्थदृष्ट्यनुसारेण मायाश्रयत्वादिविदेहमुक्तित्वप- र्यन्तसमस्तव्यवहारातीतत्वं च प्रत्यगभिन्नस्य सच्चिदानन्दलक्षण- स्याद्वितीयस्यावाङजनसगोचरस्य ब्रह्मण एवोपपद्यते अत एव मोक्ष- शास्त्रस्यापि साफल्यं स्यादित्ययमेवास्य प्रकरणस्य समस्तवे- दान्तशास्त्रस्य महातात्पर्यत्वेन पिण्डीकृतोऽर्थः । तस्मात्सर्वमनवद्य- मिति ॥ ४६ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदानन्दभारतीतीर्थमुनिवर्यशिष्य- ब्रह्मानन्दभारतीप्रक्लप्ता वाक्यसुधाटीका सम्पूर्णा ॥ शुभं भवतु ।
No text on this page.
BENARES SANSKRIT SERIES; A COLLECTION OF SANSKRIT WORKS: EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE, UNDER THE SUPERINTENDENCE OF R. T. H. GRIFFITH, M. A., C. I. E. AND G. THIBAUT, Ph. D. Nos. 55. & 56. विवरणोपन्यासः विवरणतात्पर्यव्याख्यानरुपः । अपि च सटीका वाक्यसुधा। VIVARANOPANYÂSA, A COMMENTARY ON VIVARANATÄTPARYA (A Treatise on Vedanta Philosophy) BY SRI RÅMÅNANDA SARASVATI: ALSO VÁKYASUDHA BY ŚRI SANKARACHARYA, WITH A COMMENTARY BY SRÍ BR: AMÂNANDA BHÂRATI. EDITED BY PANDIT DÁMODARA ŚÁSTRI SAHASRABUDDHE, OF THE GOVT. SANSKRIT COLLEGE, BENARES. BENARES. PUBLISHED BY THE PROPRIETORS Messrs. BRAJ B. DAS & Co AND SOLD BY H. D. GUPTA, SECRETARY, CHOWKHANBA SANSKRIT BOOK DEPÔT. PRINTED BY FREEMAN & Co., LTD., AT THE TARA PRINTING WORKS, BENARES. # 1901. (ALL RIGHTS RESERVED) REGISTERED UNDER ACT XXV. OF 1867.
No text on this page.
॥श्रीः॥ विवरणोपन्यासभूमिका । ---*-8+ अयं किल वेदान्तप्रमेयागाधविषयविवरणस्वरूपस्य विवरणा- भिधानस्य ग्रन्थरत्नस्याप्रौढवेदान्तव्युत्पत्तीनां दुर्बोधत्वं विचार्य क- रुणासान्द्रान्तःकरणैस्तत्रभवद्भिः श्रीमद्रामानन्दसरस्वतीयतीन्द्रपा- देस्तत्तात्पर्यव्याख्यानरूपो विवरणोपन्यासाभिधो ग्रन्थो निरमायि । अयं च यतीन्द्रः कदा कतमं देशमलञ्चकारेत्यच न किञ्चिद्वि- श्वसनीयं प्रमाणमुपलभ्यत इति व्यर्थ एव तद्विषये निर्मूलानु- मानप्रयासः। सोऽयं अन्थो वेदान्तशास्त्ररसिकानां विद्वद्वराणां मनोविनोदाय भवत्विति तत्प्रकाशने सोत्कण्ठो ऽहं प्राचीनानां द्वित्राणां पुस्तकानां साहाय्येन यथामति तच्छोधनमकरवम् । न्यवेशयं च तत्र तत्राव- शिष्टानामशुद्धीनां शुद्धिपत्रम् । तदेवं सपरिश्रमं कृतशोधने ऽप्यत्र यदि मबुद्धेरपाटवेन, सीसकाक्षयोजकादीनां वा प्रमादेन काश्चनाशुद्धय उपलभ्येन्, तद्गुणैकपक्षपातिनो विपश्चिदपश्चिमा मर्षयिष्यन्त्येवेति निश्चितमाशासे अन्ते चास्मिन् यथावकाशं तत्र तत्र स्थलेषु शोधनकार्य कृतसाहाय्यैरस्मत्सुहृद्वरैः काशिकराजकीयप्रधानपाठालयाध्यापकै- स्तैलगरामशास्त्रिभिर्बहूपकृतोऽस्मीति तेभ्यः पराशतं धन्यवादान वितरन विरमाम्यस्माद्विस्तरादिति शिवम् । पौ० शु० ११ सोमे सहस्रबुद्धयुपाहो दामोदरशास्त्री काश्यामू।
शुद्धिपत्रम् । पृ० पं०अशुद्धम् शुद्धम् पृ० पं०अशुद्धम् शुद्धम् १ ७ तं भिन्दन् भिन्नन् ८ आनन्तयविधि आनन्तर्यावधि १ ८ पद सर्वव० तं वन्द सर्व० ९९ २१ तथा च तथाचा- २ ८ प्रारिप्सितदु० प्रारिप्सित प्रनि- २०१ १८ स्फुरण स्फुरण बन्धकदुरि० १०२ ८ श्रवणाविधिः, श्रवणविधिः ११८ सत्यपानिक सत्यत्वानिक २०४ ३० बलत्स्या वा बहत्स्या यभामा ५ ९ प्रायच्छतिनिप्रायच्छमिक ५.०६ २० बातिनः यादिनः ८ २ ज्ञानानिवृत्त ज्ञानानि बग्न् २०८ ६ भमेना ममता ८४ प्यवृत्तियोग प्यव्याप्यवृ० २०८ २२ शन्यातना शून्यान्सना २२ २७ प्रत्यक्षवादिक प्रत्यक्षत्वात्तत्पन्य- २१२ १३ दुःखभि दुःखाभि क्षत्व यादितोऽपि १८ ३० अथ सिद्धान्त अपसिद्धान्त २२२ २६ सूत्रयता सूत्रकृता २२ ८ प्रमृष्ट. २२३ २८ ब्रह्मत्वस्यानु ब्रह्मत्वज्ञामानु प्रमुष्ट ४३ २३ तत्र २२६ १७ नुपम नुपर्ने १४ १५ घटस्यैव घटस्येव २२६ २० हयाव हमाययक्ष ५८ २८ शक्तम्यव शतम्यव १२८ ३२ तत्त स तत्तु स ५१२३ प्रत्यक्षनष्पम्स्या प्रत्यक्षल्या. ८ ज्ञान ध ज्ञाते ध ५२२५ म्यर्व सर्य १२२ २२ अचेतनया अचेतनतया ५३ ११ नत्वियं नत्यय १२७ १६ यदात्ताः घवान्ताः ५५ १३ यात्तान १२८ २८ कर्णषष्कुल्या कर्णशकुल्या वाज्ञान ५६ ५ नथहतो नयनोः २२८ २० पाघिकन्तु पाधिक तु ५६ १५ ब्रम्हभिन्ना ब्रह्माभिन्ना १२८ २२ नन्त्यशब्दाः नन्तशहा: ५७ २० शनि शेषण नि १३१ १६ संसर्गोऽनु संसर्गानु ५८ १२ एवं प्रमा १३६ १२ दिवासिद्धिः विष्टसिद्धिः पवममाम ६० २४ मूलविद्या मूलाविद्या ८ श्रुतरशरीर श्रृंतरश. ६५ ४ एन्द्राति ऐन्द्रीति १४४ ३० मवे मेव ६५२२ सास्के साद्यम्के १४५ १७ दर्शयति दर्शयति ६९ ३२ योगदर्शन योगावर्शन १४५२१ येद्य ४ ७० १९ लौकिकात्मनाः लौकिकात्मनाः १४८ ८ भूतसर्गस्य भूतसंसर्ग० ७२ २२ यानादिक यातादेव १४८ २१ अस्ति भयसि अस्तिर्भव ७३ १२ माज्ञातत्वं मज्ञातत्वं १४९ २८ निबन्ध নিৰ ७६-१४ तात्पर्य तत्र तात्पर्य वक्तनच १४९ १८ प्रत्ययानुक्तिप्रत्ययानू० ७८ ४ श्रेयः साधना श्रेयः साधन १४९ २६ तंत्रष्टास्वर्ग तत्रष्टस्वर्ग ७९ ४ भावस्य १४९ ३० नियोगन नियोगे भाव्यस्य ८.१० वेदस्यध्यय १५० १ इटासाधन इष्टसाधन ८२ ९ संशयान १५० २५ नवन्धेनैव नयन्धमेव ८५ ३ विधनास्थ ८६ ५ साह्मनोहि इति + माझं नोहि घाइ वदस्याध्याय संशयनि विधिनास्य ॥ श्रीः॥ am- Aamher अथैषा प्रस्तूयते वाक्यमुधानानी वेदान्तसुधालहरीव प्र- करणिका सम्मुद्रय प्रकाशितुम् । एतत्कर्तारो भगत्पूज्यपादा- चार्याः श्रीमच्छङ्कराचार्यपादा इति तद्विषये परिचयदानं नाम दीपेन भगवत उष्णरश्मेः प्रकाशनमिसत्र न सन्देहः । करुणामस्मृणान्तरङ्गैर्भगवदाचार्यैरेतत्सुधासेचनेन शान्तान्तःकर- णतां सम्पादयितुं कृते ऽपि रचनापायासे तस्याः सुदुर्लभतया न माभूवन वेदान्तशास्त्ररसिकास्तमास्वादयितुमिति विचार्या- त्रसचौखमभासंस्कृतसीरिजाख्यग्रन्थमालाध्यक्षेण श्रेष्ठिवरेण श्री- मद्धरीदासाभिधेन तन्मुद्रणकार्ये दत्तोत्साहः प्रावर्तेऽहमेन्मुद्रणे । इयं किल सुधा सल्पापि सुधेन विबुधानां मोदहेतुर्भव- त्विति भगवन्तं काशीविश्वेश्वरं प्रार्थयन, मदृष्टिदोषेण चात्रावशिष्टाः मुलभा अशुद्धीः क्षान्तुं विनयेन गुणकपक्षान् धीमद्वारान् निवेदयन्, विरमाम्यस्माल्लेखादिति शुभम् । माघकृष्णाष्टम्यां रवी सहस्रबुद्धयुपाहो दामोदरशास्त्री १९५७ काश्याम् । -
No text on this page.
बनारस. संस्कृत सीरीज अर्थात् वाराणसीसंस्कृतपुस्तकावली। तत्र मुद्रिता ग्रन्थाः। रु. आ. ६ सिद्धान्ततत्त्वविवेकः खण्डानि ५ अर्थसङ्ग्रहः अंग्रेजीभाषानुवादसहितः १ तन्त्रवार्तिकम् खण्डानि १० १० कात्यायनमहर्षिप्रणीतं शुक्लयजुःप्रातिशाख्यं सभाष्यं खण्डानि ६ सांख्यकारिका चन्द्रिकाटीकागौडपादभाष्यसहिता वाक्यपदीयं खण्डानि ३ रसगङ्गाधरः खण्डानि परिभाषावृत्तिः खण्डे २ वैशेषिकदर्शनं किरणावलीटीकासंवलितप्रशस्तपाद- प्रणीतभाष्यसहितम् खण्डे २ शिश्पङ्ग्रहः खण्डानि ५ भैष्कम्यसिद्धिः खण्डानि ३ महर्षिकात्यायनप्रणीतं शुक्लयजुस्सानुक्रमसूत्रम् सभाष्यं खण्डानि३ ऋग्वेदीयशौनकप्रातिशाख्यं सभाध्यम (बृहत्) वैयाकरणभूषणम् पदार्थदीपिकया सहितम खण्डानि ४ विवरणोपन्यासः वाक्यसुधासहितः खण्डे २ तत्त्वदीपनम् ( पञ्चपादिकाविवरणस्य व्याख्यानम् ) न्यायलीलावती (यन्त्रस्था) इन से अधिक अनेक प्रकार की संस्कृत हिन्दी और अंग्रेजी आदि. पुस्तके हमारे यहां मिलती हैं जिन को अपेक्षित हो नीचे लिखे पते पर पत्र भेजें। ब्रजभूषण दास और कम्पनी चांदनीचौक के उत्तर नई सड़कः बनारस । १