Svi-ksri-chennai

Prand-avakalpa

Pandit Gangadharendra Sarasvati

PDF Proofread

Front matter

OMGOK PIMOON * श्रीः आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ ॥ स्तबका-४१८ PHO9000000000000DASI Printed by Jai Krishna Das Gupta at the Vidya Vilas Press, Benares.

TAE
CHOWKHAMBA SANSKRIT SERIES
NO. 418
THE
PRANA VAKALPA
FROM
S'RI SKANDAPURĀŅA
With the commentary
PRANAVA KALPA PRAKASA
PRANAVA BHÂSHYA
By
PANDIT GANGADHARENDRA SARASVATI
Edited by
NYATACHARYA KÁVYATIRTHA
PANDIT S'RĪ DHŪNDHIRAJA S'ASTRI
Principal N. Veda Vidyalaya, Bendros.
JAI KRISHNA DAS-HARIDAS CUPTA,
The Chowkhamba Sanskrit Series office,
BENARES.
1933.
( ALL RIGHN RISURVID BY THX PUMLJIH KR )

Printed-Published & sold by
JAI KRISHNADAS-HARIDAS GUPTA,
The Chowkhamba Sanskrit Series Office,
VIDYA VILAS PRESS,
North of Gopal Mandir,
BENARES CITY.
ses
Printed by Jai Krishna Das Gupta
at the Vidya Vilas Press, Benares.

यतिप्रवरगङ्गाधरेन्द्रसरस्वतीविरचितेन प्रणवकल्प-
प्रकाशाख्य-प्रणवभाष्यन समलङ्कृतः
प्रणवकल्पः।
श्रीगणाधिपतये नमः।
गुरुगणपतिशम्भुश्रीशवाणीशदुर्गा-
रविशशिशुचिमुख्यान्सर्वगीर्वाणनाथान् ।
प्रणवमपि च वेदान् व्यासपूर्वाश्च नत्वा
प्रणवहृदयकल्पं व्याचिकीर्षे शिवोक्तम् ॥
प्रणवजपध्यानार्थविचारादौ यज्ञदानतपोविशोधितचित्तानां ती-
बमुमुक्षापर्यवसितसाधनसम्पन्नानां ब्राह्मणानामेवाधिकार इति प्रदर्श-
नार्थमाख्यायिकां प्रस्तौति-
सत्रान्ते नैमिषारण्ये शौनकस्य महीयसः ॥
आसीनं मुनिशार्दूलं मूतं पौराणिकोत्तमम् ॥ १॥
*सत्रान्त इत्यादिना* । महीयसः महत्तरस्य कुलपतेरिति यावत् ।
अब्राह्मणस्य सूतस्य कथं ब्राह्मणेभ्यः प्रणवतत्त्वोपदेशे अधिकार इति
पाशङ्कावारणाय विशिनष्टि मुनिशार्दूलमिति, पौराणिकोत्तममिति च।
गवत्पुराणोपदेशकालव्यासवरप्रसादप्राप्तब्राह्मणोत्तमत्वसार्वयादिसर्व.
कल्याणगुणसम्पन्नमिति भावः ॥ १ ॥
समागत्य परीकृत्य शौनकाया महर्षयः ॥
यथेष्टाः सत्कथाः पुरयाः पर्यपृच्छन् मुमुक्षया ॥२॥
समागत्य विधिवदुपगम्य, परिवृत्य परिवार्य, 'उपसर्गस्य पम्पम-
ये बहुलम्" इत्यत्र बहुलग्रहणादन्यत्रापि दीर्घः । यथेष्टाः यथामिल-
ताः । मुमुक्षयेति साधनचतुष्टये उत्कटमुमुक्षाया एव सर्वसाधनसम्पा
ने श्रवणादिज्ञानफलान्ते व्यापारे प्रसह्य प्रवर्चकत्वप्रदर्शनार्थम् ॥ २॥
मन्त्रान्प्रसञ्जयंस्तत्र शौनकः प्रत्यभाषत ।
शौनक उवाच
सूत सूत महाप्राज्ञ व्यासशिष्य महामते ! ॥ ३ ॥

२
प्रणवकल्पप्रकाशाख्यभाष्ययुतः ।
तत्र तेषु पृच्छत्सु मुनिषु मध्ये, सर्वाभिप्रायशः शौनको मन्त्रान्प्रसज-
यन् अवश्यवर्णनीयतया प्रस्तावयन् , प्रत्यभाषत अपृच्छत् ॥ ३ ॥
तत्रादौ स्वाभिलषितमन्त्रानुवर्णने तव सामथ्यमस्त्येवेत्याशयेनाह-
श्रुताः पुराणसंसिद्धाः मन्त्रगोप्याश्च तत्कथाः ।।
कृष्णद्वैपायनाद्विष्णोस्तत्कटातस्त्वयि प्रभो! ॥ ४ ॥
*श्रुता इति सार्धेन*, साक्षाद्विष्णोः कृष्णद्वैपायनात् श्रुतास्त्वयेति
शेषः ॥ तस्य कृष्णद्वैपायनस्य कृपाकटाक्षश्च ब्राह्मण्यसार्वयादिसम्पाद-
कत्वस्य प्रसृतः । अतः प्रभो समर्थ ॥४॥
अज्ञातं तव नास्त्येव तस्मात्पौराणिकोत्तम ! ॥
सप्तकोटिमहामन्त्राः साङ्गोपाङ्गा जयन्ति वै ॥५॥
जयन्ति जपितुः पापदुःखाद्यभिभवन्ति फलोत्कर्षेण सर्वोत्कर्ष
च प्रापयन्ति ये, इत्यर्थः । वैशब्दः प्रसिद्धौ ॥ ५ ॥
अपवर्गप्रदः को वा तत्र नो वद भूसुराः ।।
यज्जपान्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ६ ॥
तत्र तेषु मन्त्रेषु, भूसुराः अधिकारिणः विष्णोः, परं पदं मोक्षं यान्ति
प्राप्नुवन्ति । पाठान्तरे हे भूसुरेति सूतसम्बोधनं व्यासानुग्रहं लब्ध्वा
ब्राह्मण्यसूचनार्थम् ॥ ६॥
इत्युक्तो मुनिभिः मूतः प्रोवाच मुनिसत्तमान् ।।
-
मूत उवाच-
भो भो हे मुनयः श्रेष्ठाः ! साधु पृष्टं महात्मभिः ॥ ७॥
*मुनिभिरिति* ॥ उक्तप्रकारेण शौनकमुखेन उक्तः पृष्टः सूतः ।
भो भो इति पूजावचनस्य भवच्छब्दस्य "विभाषा भवत्भगवदघव-
तोमोचावस्येति ( वार्तिकेन ) कृतोत्वस्य आभीदण्यद्योतनात् 'नित्य-
वीमयोरिति कृतद्विवचनस्य सम्बुध्यन्तस्य प्रयोगी, न तु संबो-
धनमात्रद्योतिनो निपातस्य, तेन सम्बोधनद्योतिनो हेशब्दस्य न पौनरु-
क्त्यम् , वाचकानामेवोक्तार्थानामप्रयोगो न तु घोतकानां, बहुभिरपि
दीपैरेकस्यार्थस्य द्यातनदर्शनादिति वा न पौनरुक्त्या दोषः । अथवा
भो भो इति प्राधान्याच्छौनकस्य सम्बोधनम् , हे मुनय इत्यन्येषाम् ।
महात्मभिर्भवद्भिः साधु पृष्टम् ॥ ७ ॥

विषयसूचीपत्रम् । विषयः । पृ० ९ १२ १ ९ " २० २० -- २१ १२ १६ १२ २३ २६ २८ १ २२ . . ३१ प्रणवजपे परमहंसानामेवाधिकारप्रदर्शनम् । प्रणवपुरमर्याविधिकथनम्। प्रणवजपमहिमा। शौनकादिकृता सूतप्रशंसा २ अध्याये-- शौनकादीनामष्टोत्तरशतनामश्रवणप्रश्नः । प्रणवस्य सर्वदेवात्मकत्वकथनम् । अष्टोत्तरशतनामऋष्यादिवर्णनम् । ओडाराधष्टोत्तरशतनामकथनम् । तत्र मातृकावणेक्रमेणाकारादिनामारम्भः । जकारटकाररादिनाम्नामसंभवात्तन्मध्यनामकथनम् लकारादिनामदौर्लभ्यात्तदुपान्त्यनामकथनम् । अष्टोतरशतनामपाठफलतदधिकारिकथनम् । अथर्वरहस्यप्रणवशोडषनामवर्णनम् । उक्तशोडषनामकथनप्रयोजनम् । शोडषनामपाठफलफथनम् । ३ अध्याये-- प्रणवपञ्जरवर्णनम्। सर्वशास्त्रवित्त्वरूपपारपाठफलप्रशंसा। प्रणवनाममालामन्त्रवर्णनम् । प्रणवनाममालामन्त्रपाठफलकथनम् । प्रणवगायत्रीवर्णनम् । प्रणवगायत्रीतात्पर्यार्थकथनम् । प्रणवगायत्र्यक्षरार्थव्याख्यानम् । प्रणवयन्त्रप्रतिपादनम् । मन्त्रदेवताप्रकाशिकोक्तं तलक्षणम् । प्रणवयन्त्रलेखनविधिः। वेदान्ताथपरप्रणवस्तवराजवर्णनम् । स्तवराजश्रवणादिफलकथनम् । प्रणवनवांशगुणमाहात्म्यादिप्रकाशकाक्षरमालिकास्तोत्रवर्णनम् । तत्र नवांशविशिष्टोतारध्यानविधिः । नवांशान्तर्गतप्रथमांशाकारस्य विष्णुरूपेण ध्यानम् । २उकारांशस्य ब्रह्मरूपेण ध्यानविधिः । ३मकारांशस्य शिवस्वरूपेण ध्यानविधिः। सुषुप्तिसमष्ट्यात्मकरूपप्रपाकारणेवररूपेण बिंद्वशध्यानवर्णनम् । सदाशिवरूपशब्दब्रह्म स्वरूपेण नादांशभ्यानम् । ३ १ ३२ ३३ ३४ १७ २६ ३० १ " २० ३० २६ ४३ ८ २० " ४४ ३० ४५ ४६ २२ ४८ ३ 40 पृ० ४९ १२ २८ ५० ५ १९ २४ २६ ५५ २६ १४ ३ १४ ६७ ६ विषयसूचीपत्रम् । विषयः । ६ सर्ववीजभूतोशरध्यानविधिः । ७ ओङ्काररूपदेवीध्यानम् । ८ अर्धमात्रात्मकप्रणवध्यानम् । ९ शान्ताख्यनवमांशध्यानविधिः। ओङ्काराक्षरमालिकास्तवपाठफलकथनम् । प्रणवानुस्मृतिवर्णनम् । ६१ अनुस्मृत्यनुसन्धानफलश्रुतिः। १३ अगस्तुत्याउनुस्मृत्याङ्गजपप्रशंसा । ५४ अङ्गश्रवणेन शौनकादीनांहर्षस्तत्कृतसूतोत्कर्षवर्णनम् । पार्वत्यानन्ददायकप्रणवगीतावर्णनारम्भः । गीताशब्दार्थः। ५६ तारकब्रह्मध्यानात्पार्वत्यास्तत्साक्षात्कारः । विदेहमुक्तौ जीवन्मुक्तौ च ध्यातॄणां स्थितिवर्णनम् । साक्षात्कारविश्रान्तिकाले आकाशवाण्या कृतं देवीप्रणवजपादिप्रशंसावर्णनम्।५८ प्रणवजपे संन्यासिनामेव तत्कल्पश्रवणादौ च चतुर्णामप्याश्रमाणामधिकार:५९ प्रणवस्यैव सर्वात्मकत्वं ब्रह्मतद्विद्यात्मकत्वं चेति प्रतिपादनम् । चिदात्मन एव सर्वद्रष्टुत्वम् । उक्तार्थप्रतिपादकतलवकारोपनिदाख्यानसूचनम् । प्रणवार्थज्ञानाय श्रवणादिविधानम् । सत एवात्मनोऽवस्थात्रयजीवन्मुक्त्यादिरिति कथनम् । ६१ ब्रह्माद्वयसिद्धावुपनिषदादिप्रमाणपञ्चकवर्णनम् । उक्तार्थकाऽऽकाशवाण्याः पार्वतीमुखाच्छू वणे शिवयोस्तनिश्चयवर्णनम् । ६२ कुटीचकादीनां परमईसवत्प्रणवजपेऽनधिकार इति वर्णनम् । यतिबटुनारीणां गायत्रीप्रणवमन्त्रजपे दोषकथनम् । गायत्रीगीतागायनफलश्रुतिः द्वैपायनशब्दार्थः। सहस्त्रनामश्रवणार्थ शौनकादिप्रश्नः । सूतोकं प्रणवसहस्रनामप्रश्नप्रशंसावर्णनम् । ६४ सहस्रनामऋष्यादिवर्णनम् । सहस्त्रनामध्यानम् । ओंकारादिसहस्रनामप्रारम्भः । ययासम्भवमकारादिवर्णानुक्रमेण नामानि । ६६ संख्यापूरकरुद्राध्यायीयनामकयनम् । ६८ शिवशब्दार्थः। ७१ भातशयाचतुर्थ्यन्तसम्बुध्यन्तनामकथनम् । सहस्रनामपाठफलवर्णनम् । अन्यसमातिः। १ e २६ ११ ६० १ ८ २५ १७ २६ " ३२ २५ ४ १२ २९ ६ ६ १७ प्रणवकल्पः । ११ तारक मे भ्रुवोर्मध्यमाज्ञाचक्रविराजितम् ॥ प्रणवः श्रोत्रयुग्मं च नेत्रयुग्मं प्रपश्चगः ॥ ३ ॥ संसारमहाभयात्तारयतीति तारकम् , आज्ञाचक्रेण द्विदलपमेन विराजितं, मे भ्रुवोर्मध्यं पातु । ब्रह्म प्रणमयतीति प्रणवः । वैखरीभावे सर्वशब्दप्रपञ्चं व्याप्य तत्प्रतिपाद्य सर्वार्थप्रपञ्चगः ॥ ३ ॥ नासिकां नासिकाध्यक्षस्तालू पातु परात्परः ॥ चिबुकं सर्वदः पातु दन्तान्दानवनाशकः ॥ ४॥ नासिकासञ्चारात्प्राणात्मना नासिकाध्यक्षः । परात् कार्यब्रह्मणो परः सर्वं सर्वात्मकं ब्रह्म ददातीति सर्वदः। दानवानामसुराणामासङ्ग- पाप्मनां नाशकः॥४॥ ओष्ठद्वयं सदा पायात्कण्ठं पातु ममाऽव्ययः ।। भुजद्वयं भुवोऽध्यक्षः करौ पातु कराकृतिः ॥५॥ सदा सर्वकालं ओष्ठद्वयं पायात्। व्ययो उपक्षयस्तदहितत्वादव्ययः । भुवो भूमेरध्यक्षोऽधिष्ठाता । प्रसारिताङ्गुलिकवितस्त्याकारकरस्याकृति- रिव आकृतिर्यस्य, नागराक्षरे तथा कैश्चिदोङ्कारलेखनात् । सर्वशिल्प- रचनाहेतुत्वाद्वा कराकृतिः ॥ ५॥ कुति मे पातु सततं पृष्ठं पातुः पुमुत्तमः ।। कुचद्वयं सदा रक्षेद्वेदान्तवनगोचरः ॥ ६ ॥ सततं शाश्वतं ब्रह्म । पुमुत्तमः पुरुषोत्तमः ॥ ६ ॥ नाभिं पातु नराकारो जघने परमेश्वरः ।। गुह्यस्थानं गुह्यरूप ऊरू पातु स्वयंभवः ॥ ७॥ नराकारः पुरुषाकृतिः । गुह्यरूपः अतिरहस्यत्वाद्गोप्यरूपः । स्वयः मेव परमार्थतो भवति नान्यादिति स्वयंभवः ॥ ७ ॥ अवाच्यो जानुनोर्मध्यं जो जम्भारिसेवितः ।। पादद्वयं तथा विष्णुः पुनर्भवहरो नखान् ॥८॥ महिमेयत्तया तात्त्विकरूपेण च अवाच्या वक्तुमशक्यः । नखान्पाद- नखान्सर्वनखान्वा ॥ ८ ॥ सर्वाण्यङ्गानि सर्वात्मा पातु वाणीमन:प्रियः ।। प्राचीनदेशतः पातु मामवाचीनदेशतः ॥ ॥ .

१२
प्रणवकल्पप्रकाशाख्यभाष्ययुतः।
वाणीप्रियः प्राचीनदेशतः, मनःप्रियः अवाचीनदेशतः, पात्विति परे-
णान्वयः॥8॥
प्रतीचीनप्रदेशाच पायात्सत्यक्सरूपकः ।।
उदीचीनप्रदेशाच्च पातु
मां मनुजेश्वरः ॥१०॥
प्राच्यवाचीप्रतीच्युदीचीशब्देभ्यः पूर्वदक्षिणपश्चिमोत्तरदिग्वाचि-
भ्यो भवार्थ अञ्चत्तरपदात्कः ॥ १० ॥
अधिोदेशतः पातु त्रिमूर्तिस्वस्वरूपकः ।।
पश्चभूतात्मकः पातु पञ्चभूतानि भीतितः ॥ ११ ॥
कारणोपाधौ त्रिमूर्तिः ऊर्ध्वदेशतः, कार्योपाधौ स्वस्वरूपकः अधो.
देशतः, पात्वित्यन्वयः ॥ ११ ॥
ज्ञानेन्द्रियाणि तद्रूपी कर्ता कर्मेन्द्रियाणि च ।।
पणणामरीणां वर्ग च हिनस्तूर्मीश्च षण्मम ॥ १२ ॥
तद्रूपी ज्ञानेन्द्रियरूपी कर्ता, चकारात्कर्मेन्द्रियरूपी च कर्मेन्द्रियाणि
पातु । स एव कामक्रोधलोभमाहमदमत्सराख्यानां षण्णामरीणां वर्गम् ,
अशनायापिपासाशाकमोहजरामृत्युसंशाः षर्मीश्च हिनस्तु नाशयतु॥१२॥
षड्भावविकृतीदं च द्वन्द्वदुःखानि सर्वशः ।।
हिनस्तु, सप्तधातूंच निरोगान् स करोति च ॥ १३ ॥
स एव प्रणवो मम 'जायते अस्ति वर्द्धते परिणमते अपक्षीयते नश्य-
तीति यास्कोक्तषड्भावविकृतीः, शीतोष्णहर्षविषादादिद्वन्द्व दुःखानि
सर्वदेशेषु सर्वकालेषु सर्वनिमित्तेभ्यश्च प्राप्तानि हिनस्तु, त्वगसृङ्मांस-
मेदोस्थिमजाशुक्राख्यान् सप्तम्यधातून्वैषम्यनिवारणेन निरोगान्करोति १३
व्याघ्रचोरादिभीतेश्च पातु मां तत्तदाकृतिः ॥
सूत उवाच-
मार्गभीत्या शत्रुभीत्या चोरभीत्या च कम्पतः ॥ १४ ॥
इदं च कवचं जप्त्वा मुच्यते भीतितस्ततः ॥
व्याघ्रादिप्रबलग्रस्तो जपान्मुक्तिमवाप्नुयात् ॥ १५ ॥
तत्तदाकृतियाघ्रचोराद्याकारस्तनिवर्त्तकाकारो वा, मार्गभीत्या प्रा-
तरकान्तारादिषु संभावितव्याघ्रसर्पदावाग्न्यादिभीत्या, कंपितः उहि-
मः, रदं कवचं जप्त्वा ततो भीतितो मुच्यते इति परेणान्वयः ॥१४॥१५॥

प्रणवकल्पः । १३ आमुष्मिकमपि फलं महत्तममित्याह-- जपित्वा कवचं नूनं तरन्ति भवसागरम् ।। कवचेन युतो राजा शत्रूनिव दुरासदान् ॥ १६ ॥ *जपित्वेति* कवचेन युतः पुरुषो राजेव दुरासदान् शत्रूनपि तर- तीति विपरिणामेन योज्यम् ॥ १६॥ तस्मात्पठन्तु सततं त्रिषु कालेषु योगिनः ।। ॐकारकवचं गौर्या इत्येवं शंभुरब्रवीत् ॥ १७ ॥ इति प्रणवकवचं समाप्तम् ॥ *तस्मादिति ॥ योगिनः यतयः । इत्येवं अनेनाभिप्रायेण, शंभुः गौर्यै ॐकारकवचमब्रवीदित्यन्वयः ॥ १७॥ इति प्रणवकवचव्याख्या समाप्ता ॥ . अथातः संप्रवक्ष्यामि प्रणवब्रह्मणो द्विजाः !!। हृदयं सर्ववेदानां सारभूतं भवापहम् ॥ १ ॥ अथ कवचानन्तरं प्रणवार्थस्यावश्यानुसन्धेयत्वात् , हृदयं परमर. हस्यभूततात्पर्यार्थप्रतिपादकं ग्रन्थम् ॥ १॥ इदमेवाह- ॐकारार्थो विशेषेण यत्र शक्यो न वीक्षितुम् ।। अकारश्च उकारश्च मकारश्च सबिन्दुकः ॥ २ ॥ *ॐकारार्थ इति* ॥ तत्राध्यारोपापवादाभ्यां निष्प्रपञ्चं ब्रह्म प्र. णवेन बोध्यते इति प्रदर्शयिष्यंस्तदर्थ तन्मन्त्रान् विभजते *अकारश्चे- त्यादिना* ॥२॥ नादः कलाशक्तिरर्धमात्राशान्तनवांशकः ।। तेषामर्थ प्रवक्ष्यामि पार्थक्येन शुचित्रताः ! ॥३॥ नवांशा अवयवा यस्य स तथोक्तः । तेषामकारादीनां नवानाम- शानां पार्थक्येन प्रत्येक क्रमेणार्थ प्रवक्ष्यामीत्यर्थः ॥३॥ तत्र वियदादिभूतपश्चोत्पत्तितत्पश्चीकृतक्रमेण ब्रह्माण्डादिचतुर्वि- धशरीरान्तसमष्टिस्थूलप्रपश्चाध्यारोपेण तदुपहितं जागरितावस्थं ब्रह्म भकारांशार्थ इत्याशयेनाह- प्रपश्चो जायते यस्माचराचरविभागतः ।।

१४
प्रणवकल्पप्रकाशाख्यभाष्ययुतः
वर्णाश्रमादिभेदेन पशुपतिमृगादिकम् ॥ ४॥
*प्रपंच इत्यादिना, इत्याह प्रथम इत्यन्तेन यस्मानिमित्ताभिन्नोपा-
दानात् , चरा जरायुजाऽण्डजस्वेदजाः, अचराः उद्भिज्जाः। तत्र धर्म-
ज्ञानाधिकृतेषु वर्णाश्रमविभेदेन, तदनधिकृतेषु पशुपक्षिमृगादिकम् ॥४॥
रज्ज्वादेरिव सादिरविद्याहेतुको मृषा ॥
मरौ मरीचिकानीरं यथैवं जायते जगत् ॥ ५॥
मृषात्वे हेतुः *अविद्याहेतुक इति । सर्पादिश्चेतनाध्यासे दृष्टान्तः,
मरीचिकानीरमित्यचेतनाध्यासे ॥५॥
इत्याह प्रथम, स्तत्र प्रपञ्चो न च वास्तवः ।।
यावद्धाचं प्रमाणेन सर्पादेीवनं यथा ॥ ६ ॥
वस्तुतः सूक्ष्माण्येव पञ्चभूतानि पञ्चीकरणोपाधिना अविवेकात्
स्थूलताभ्रान्या गृहीतानि विवेकदृष्टया पर्यालोचने तन्तुदृष्टया पर्या-
लोचने ततो व्यतिरिक्तः पट इव न स्थूलं नाम किश्चिदस्ति, तथाच
श्रुति:--'यदओ रोहितं रूपं तेजसस्तद्रूपं, यच्छुक्लं तदपां, यकृष्णं
तदन्नस्यापागादग्नेरग्नित्वं, वाचारम्भणम् विकारो नामधेयं, त्रीणि
रूपाणीत्येव सत्यमिति । एवञ्च सूक्ष्मभूतानि तत्कार्य समष्टिव्य-
ष्टिलिङ्गशरीरोपहितं तद्वयवहारस्वभावस्थं ब्रह्म उकारार्थीश इत्या-
शयेनाह #तत्र प्रपञ्च इत्यादि, तद्वितीयोऽपीत्यन्तेन* प्रपञ्चः-स्थू-
लप्रपञ्चः । ननु स्थूलप्रपञ्चस्यावास्तवत्वे प्रत्यक्षादीनां कर्मकाण्ड-
श्रुतीनां च कथं प्रामाण्यं तबाह *यावद्वाधमिति* यावद्वाधं प्रमा-
णभूतेन प्रत्यक्षादिना सिद्धमिति शेषः ॥ ६॥
एवं जीवति विश्वं च दृष्ट्वा मोहान्धचक्षुषाम् ।।
इत्याह तद्वितीयोऽपि, जोवनं न च वास्तवम् ॥ ७ ॥
अप्यर्थे चः, यथा अध्यस्तरज्जुसादेर्मोहान्धचक्षुषां दृष्ट्वा कल्पितं
जीवनं भयकम्पपलायनाद्यर्थक्रियासमर्थम् एवं विश्वमपीत्यर्थः । एवं
च अयस्कान्तसनिधिमात्रेण अयसि स्पन्दनमिवाधिष्ठानब्रह्मचैतन्यस.
निधानेन मायागुणानां सत्त्वादीनां प्रकाशस्पन्दावरणार्थक्रियापरिणति-
व्यापारपरम्परैव परस्यासम्भेदतारतम्यवैचित्र्येण सूक्ष्मस्थूलजगद्वि-
वर्तात्मना प्रथते न गुणमयमायाशबलचिद्वयतिरिक्तं जगन्नाम किश्चि-
दस्तीति मकारांशार्थ इत्याह *जीवनमित्यादि, तृतीयोऽपीत्यन्तेन* जी-
वनं-स्थूलसूक्ष्मपञ्चसत्ता ॥ ७॥

प्रणवकल्पः। ८३ किरीटिने इत्यादि चत्वारि विष्णुनामानि । शुलिने इत्यादीनि शिव- नामानि । वृषो धर्मो वृषभश्च, वृषं वाहयति तच्छीलो वृषवाही तस्मै॥६॥ हंसिने वेदिने तस्मै चतुर्वक्त्राय ब्रह्मणे ।। नमो ऋचाय ब्राह्माय ब्रह्मणे परमेष्ठिने ॥ ११ ॥ ॐ हंसिने इत्यादीनि हिरण्यगर्भनामानि । हंसोऽस्यास्तीति हंसी, वेदा अस्य सन्तीति वेदी, नमस्कारप्रतिपादका ऋचो यस्य स नमो- ऋचस्तस्मै, ऋक्पूरब्धूः पथामिति समासान्तोऽप्रत्ययः, अयत्वो वा, (?) सन्धयश्छान्दसाः, ब्राह्मो ब्रह्मप्रतिपादको वेदभागः ॥ ६ ॥ लक्ष्मीपते ! धीपते ! त्वं पाहि नः पुरुषोत्तम ! ॥ दिव्याय दिव्यपुरुष ! पावनायातिपावन ! ॥ १०० ॥ विष्णुत्वालक्ष्मीपते! शिवत्वाद्धीपते ! पुरुषश्चासौ उत्तमश्च पुरुषोत्तमः, पुरि शयनात्पूर्णत्वाद्वा पुरुषः, स एव क्षराक्षरपुरुषव्यतिरिक्तत्वादुत्तमः, दिवि धुलोके भवः सूर्यो दिव्यस्तस्मै, तदन्तर्गतपुरुषो दिव्यपुरुषः, हे दिव्यपुरुष, पवनो वायुस्तदाधारः पावनः, अतिशयेन पावयसि पवित्री- करोषीत्यतिपावनः ॥ ४ ॥ रामाय रामदेहाय पावनाय पवित्रिणे ।। यस्यकस्यस्वरूपाय जगद्रूपाय ते नमः ॥१॥ रामः रमणीयो देहो यस्य स रामदेहस्तस्मै, पावनः पवित्रीकरणः, पवित्राण्यस्य सन्तीति पवित्री, यस्यकस्यापि येन केनचिद्रूपेण प्रसिद्धस्य ज्ञाताज्ञातसर्ववस्तुनः पारमार्थिकस्वरूपाय, गच्छति षड्भावविकारा- न्प्राप्नोतीति जगत् तस्य स्वरूपभूताय ॥ १॥ महादेवाय देवाय नमउक्ति विधेम ते ॥ सर्वेश्वराय सर्वाय अचिन्त्यविभवाय च ॥ २ ।। महत्यात्मज्ञानयोगैश्वर्ये महीयते इति महादेवः, देवाय स्वप्रका- शाय, ते तुभ्यं, नमउक्तिं वाङ्मयनमस्कारं विधेम कुर्मः । चिन्तयितुम- शक्यो अचिन्त्यो विभवो विविधभवनं यस्य ॥ २॥ अविचिन्त्यमहिम्ने ते जगद्धात्रे नमो नमः ।। सहस्रकृत्वो भूयश्च वन्दनं परमात्मने ॥३॥ महिमा स्वरूपविस्तारः, ऐश्वर्य च सोऽविचिन्त्यो यस्य सोऽवि- चिन्त्यमहिमा, जगतो धाता उत्पादको नियामकश्च, तस्मै सहस्रकृत्वो वन्दनकरिष्यामीति परेणान्वयः । भूयश्चेत्यनन्तनामत्वात्सर्वनामभिर्ष- ८४ प्रणवकल्पप्रकाशाख्याप्युतः । - न्दनाशतया भूयो भूयस्तत्प्रत्याम्नायेन सर्वदिक्षु वन्दनं करिष्यामि ॥३॥ मङ्गलं जगतां नाथ ! नमनं विश्वपालक! ॥ आराधनं करिष्यामि तव नान्यस्य कस्यचित् ॥ ४ ॥ मङ्गलं नाम मानसैर्बा_महोत्सवादि करिष्यामि, नमनं शिरसः प्रह्वीकरणम् , आराधनं मानसं बाह्यं च सर्वोपचारः सम्यक्पूजनं तव करिष्यामि सदैवेत्यर्थः । अन्यस्य तद्व्यतिरिक्तस्य परिच्छिन्नस्य न करि- ज्यामि सर्वदेवान्त्वदात्मनैव पूजयामीत्यभिप्रायः ॥ ४॥ सहस्रनामानि समाप्य सूतस्तत्फलमाह- सूत उगच- प्राप्तये सर्वविद्यानां लब्धये सर्वसम्पदाम् ॥ इतीदं प्रणवस्याऽस्य नाम्नां साहस्रमीरितम् ॥५॥ *प्राप्तय इति । क्रममुक्तिफलानां साक्षान्मुक्तिफलानां च सगुणनि- गुणगोचरसर्वविद्यानां वेदपुराणाद्यष्टादशविद्यानां च यथाकामं प्राप्तये, तथा ऐहिकामुष्मिकभोगतत्साधनलक्षणानां सर्वसम्पदा लब्धये, इति वर्णितप्रकारमिदं भवता पृष्टं नाम्नां सहस्रमेव साहस्रमीरितं कथितं मयेत्यर्थः ॥ ५॥ कृतये सर्वयज्ञानां सन्ततेः पर्यवाप्तये ।। लब्धये सर्वकामानां निग्रहानुग्रहौ कृते ॥ ६ ॥ एवं प्रष्टुकामानां निर्विघ्नतया सर्वयज्ञानां कृतये अनुष्ठानसिद्धयेऽथापि कत्वनुष्ठानतत्फलप्राप्तये वा, सन्ततेर्वेशस्याऽविच्छिन्नस्य परितोऽवाप्तये, लौकिकानां पशुपुत्रादिक्षुद्रसर्वकामानां लब्धये, निग्रहानुग्रहौ शत्रुमित्रो- दासीनेषु कृते कर्तुं यदीच्छति तदर्थं चेत्यर्थः। बाहुलकात्तुमर्थे विप् ॥६॥ इतीदं प्रणवस्याऽस्य नाम्नां साहस्रमीरितम् ।। लब्धये सर्वतपसां वेदानां पर्यवाप्तये ॥ ७ ॥ इती श्रीस्कन्दपुराणे प्रणवकल्पे पञ्चमोऽध्यायः समाप्तः ॥५॥ ॐ नमो ब्रह्मरूपाय शान्ताय समत्वेन सदोदिताय पूर्णा- य चिद्विलामाय ॐकाराय नमः ॥

प्रणवकल्पः ।
८५
एवं सर्वतपसां देहमनःशुद्ध्यर्थानां च फलतो लब्धये वेदानामृगा-
दीनां परितः साङ्गतयाऽक्षरशः प्रयोजनवदर्थावबोधतश्चावाप्तये इति प्रा-
गुक्तफलस्यैव वयुत्याऽनुवादः ॥ तस्मात्सर्वपुरुषार्थदः शिवोक्तपरमरह-
स्यभूतोऽयं सपरिकरः प्रणवकल्पो भोगमोक्षार्थिभिः सदैव शब्दतोऽर्थ-
तश्च परिशीलनीय इति सिद्धम् ॥ ७ ॥
वासुदेवेन्द्रयतिनां प्रीत्यर्थं शिवतुष्टये ॥
मया प्रणवकल्पोऽयं यथामति विकासितः॥१॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीसर्वज्ञसरस्वतीपूज्यपाद-
प्रशिष्येण श्रीरामचन्द्रसरस्वतीपूज्यपादशिष्येण श्रीगङ्गा-
धरेन्द्रसरस्वत्याख्यभिक्षुणा विरचितः प्रणव
कल्पप्रकाशः सम्पूर्णः ॥
श्रीशिवयोः पादाब्जयोरर्पितः ॥
अज्ञानाद्वा प्रमादाद्वा स्खलितं यन्मया कृतम् ।
प्रार्थिताः प्रणता धीराः क्षन्तुमर्हन्ति साधवः ॥ १ ॥

शुद्धिपत्रम पृष्टे पतो। अशुद्धम् २ २७ चौकारा २० शुद्धम् सामर्थ्य घोसन पर्यवसित तेपे शुभक्षणे रिणो ३ १ / वणो शुद्ध पठने भोकारो वणी तत्तद शन्तं र्याणां २७ ४ ५ तत्तुदै २ शन्त ५ २८ ४ , योणो ३६ १४ " मशुद्धम् सामध्य यातन परवसित स्तेषु সুদী रणो त्यो न्मत्वरूपा चात्तरा तदन्तरम् प्रवणस्य क्षण ता लैध्याय स्यहो दथ ६ ३९ २२ ६ ४१ २२ ४२ २२ ... ४३ २४ लोडश्व ज्जुनान्या मितः कपर साध्यात्वा पिशितानाश लोड्य ज्जुर्धान्त्या मितः कर्पूर साध्यं स्वा पिशिताशनाश ४४ ४५ ११ १० २० २६ माह १२ १४ इदछा " शाक उद्दिनः १ मत्स्वरूपा चोत्तरा नदनन्तरम् प्रणवस्य क्षणा तां लैाये मोह शोक उद्विग्नः नर्थ कारणो दानन्द नकि सन्तृष्णेति मूलोच्छे तमोगु पादो त्रितय छुति २८ १६ २० ५१ १७ नथ इत्य नथस्य मदा शपषि साग्ये 5 " १८ १९ १७ ६१ १७ ६८ ४ ममठः २० २१ कुटो हत्या नर्थस्य महा दोपाधि साये कमठः कुटी तम वाट लप्य क्षता हर्तृत्वा कारणा दनंद नवकि सन्तीर्णेति मूलाच्छे तमागु पादा त्रितत्य च्छति कार २४ " " १५ " ७० २३ २५ २६ २७ याट २९ लेप्य १५ क्षता ७ २७ । इतृत्वा ७१ ७२ प्रणवकल्पः । ७ *तारकमिति* । यतः साधकस्तारकोपासनात्तारकस्वरूपं स्वयमा- स्थाय तदाविर्भूतज्ञानाग्निनिर्दग्धकामकर्मवासनादिमलो निःसंशयं ब्रह्म प्राप्नोति नोपायान्तरेणेत्यर्थः । तथाच श्रुतिः- "प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेदिति ॥ आत्मानमरणिं कृत्वा प्रणवं चात्तरारणिम् । ज्ञाननिर्मथनाभ्यासात्पाशं दहति पण्डितः॥ इति च । देव्युक्तं सप्रमाणं सोपपत्तिकं वाक्यं श्रुत्वा शंकरस्तु- तोष ॥ २३ ॥ ईश्वर उवाच- कृतार्थासि कृतार्थासि मुमुक्षा यत्तवास्ति भो !। इत्युक्त्वोपदिदेशैनां तारकं भवतारकम् ॥ २४ ॥ कृतार्थासीति देवीप्रशंसापि अधिकारिबुद्धिप्रशंसैव ॥ २४ ॥ अङ्गान्यपि तथा तस्यै भाषते परमेश्वरः । प्रथमं कवचं दिव्यं पञ्जरं तदन्तरम् ॥ २५ ॥ *अङ्गान्यपीति* ॥ यद्यपि सूतोक्तकमे अङ्गस्तुतिः प्रथम दृश्यते, तथापीश्वरोक्तक्रमः कवचादिरेव ॥ २५ ॥ हृदयं प्रणवार्थाख्यं नाम्नामष्टोत्तरं शतम । अङ्गस्तुति तथा मन्त्रां पुरश्चरणपद्धतिम् ॥ २६ ॥ प्रणवार्थ आख्याति प्रकथयतीति प्रणवार्थाख्यम् ॥ २६ ॥ प्रसङ्गात्सन्मन्त्रसाधारणान्यङ्गान्याह- अङ्गन्यासं करन्यासं पाहात्म्यं तदपेक्षितम् । नाम्नां सहस्रं दिव्यानां प्रवणस्य शुचिस्मिते ! ॥ २७ ॥ *अङ्गन्यासमिति द्वाभ्याम् तेन मन्त्रमात्रेण प्ररोचनार्थमपेक्षितम् , अत एव प्रणवस्येति मन्त्रमात्रोपलक्षणम् ॥ २७ ॥ स्तवराजादिसर्वाणि मालामन्त्रमनुस्मृतिः । मन्त्रमात्रस्य सर्वस्याप्येतान्यङ्गानि पार्वति ! ॥ २८॥ आदिपदेन ऋषिच्छन्दोदेवताध्यानबीजशक्तिकीलकाक्षरन्यासपूजा- विधानादि ॥ २८॥ -

प्रणवकल्पप्रकाशाख्यभाष्ययुतः ।
अङ्गहीनो मनुर्जतो भस्माहुतिसमो भवेत् ।
ॐकारजञ्जपूकानां जप्यान्यङ्गानि दण्डिनाम् ॥ २६ ॥
जजपूकानां पुनःपुनर्जपशीलानां, जपेः 'क्रियासमभिहारे यङ्, जप-
जभेत्यभ्यासस्य नुक् , यजजपदशां यङ् , इत्यूकप्रत्ययः, षष्ठीतत्पुरुषः ।
अङ्गानि कवचादीनि, दण्डिनामेकदण्डिनामपि ॥ २६ ॥
इत्येवं सकलैर पार्वत्या उपदिष्टवान् ।
जजाप च महादेवी मोक्षाय कमलेक्षणा ॥३०॥
सकलैरङ्गैः सह प्रणवमुपदिष्टवानीश्वर इति शेषः ॥ ३० ॥
आचरन्तु भवन्तोऽपि लभन्तां मोतमुत्तमम् ।
तथोपदिश सूत ! त्वं यथेशो रोमहर्पण ! ॥ ३१ ॥
आचरन्तु साङ्गप्रणवोपासनमिति शेषः। यथा ईशः पार्वत्यै उपदि-
टवान् , एवं त्वमस्मभ्यं प्रणवरूपिणं मन्त्र तथा सकलान्यङ्गानि च उप-
दिशेति परेणान्वयः ॥ ३१ ॥
तत्रेतराङ्गसहितप्रणवोपास्तेः प्रथमत्वादङ्गविशुद्धिपूर्वकत्वादीशो-
क्तपाठक्रमादार्थक्रमवलीयस्त्वमाश्रित्य सूतः प्रथममङ्गस्तुति वक्तं
प्रतीजानीते-
अङ्गानि सकलान्येवं मन्त्रमोङ्काररूपिणम् ।
इति प्रणवकल्पपीठिका ॥
अङ्गानां च विशुद्धयर्थमङ्गस्तुतिमहं ब्रुवे ॥ ३२ ॥
*अङ्गानामिति* ॥ मस्तकादीनां सर्वाङ्गानां स्वस्वोचितचेष्टा-
भिः प्रणवैकप्रवणताप्रार्थनेन तत्परत्वलक्षणगुणोत्कर्षकताप्रतिपावनम-
गस्तुतिं वे ॥ ३२॥
मस्तक ! त्वं दैवतानि नम प्रणावरूपिणम् ।
युवां च शृणुतं श्रोत्रे ! प्रणवार्थ च नान्यथा ॥ ३३ ॥
हे मस्तक ! त्वं पृथक् दृष्टौ प्रयस्त्रिंशत्कोटिदेवतानि एकत्वदृष्टौ
प्रणवरूपिणमेकमीश्वरं नम प्रणामैः सदा तत्प्रवणो भव ॥ हे श्रोत्रे !
युवां च प्रणवार्थ वक्ष्यमाणं माण्डूक्यादिश्रुत्युपपादितं चकारात्तदुपपा-
दकन्यायांश्च श्रृणुतं, श्रवणप्रवणतामन्तरेण मा वृथा तिष्ठतमित्यर्थः ॥३३॥

प्रणवकल्पः । तेषां मुमुक्षापयवसितसर्वसाधनसम्पत्या श्रवणाधिकारलक्षणं त्रै- ष्ठ्यमुक्तमुपपादयति- संसारासारबुद्धीनां मोक्षेच्छा भवति ध्रुवम् ॥ शार्दुलपशुजातीनामाश्रममान्तवर्तिनाम् ॥ ८॥ *संसारेत्यादिना* संसारः न विद्यते सारः सत्यनित्यपरमानन्द- लक्षणः पुरुषार्थो यस्मिंस्तथाविधः सारसुखविरुद्धदुःखप्रचुरश्चेति बुद्धि- येषाम् । अनेन नित्यानित्यवस्तुविवेक इहामुत्रफलभोगविरागश्च तेषां दर्शितः । शमदमादिसम्पत्तिं दर्शयति-*शार्दूलेति ॥ यदा वः आश्रम- प्रान्तवासिनां शार्दूलगवादिपशुजातीनां नैसर्गिकमपि परस्परवैरं नास्ति तदा वस्तत्कुतोऽस्ति, अतः वो वाञ्छितं प्रणवरहस्यं वक्ष्यामीति परेणान्वयः ॥ ८॥ अपवर्गप्रदः को वा मन्त्र इति प्रश्नस्योत्तरत्वेन प्रणवमेवावधार्य प्र. स्तौति- नास्ति वैरं कुतो वोऽस्ति ततो वक्ष्यामि वाञ्छितम् ।। अपवर्गप्रदो नूनं प्रणवान्न परो मनुः ॥६॥ *अपवर्गप्रद इत्यादिना* ॥ ६ ॥ ततो यूयं तमेवेत्थं मन्त्रं जपत सत्तमाः ! ॥ नृसिंहमन्त्रराजाद्यास्तारतम्यफलप्रदाः ॥ १० ॥ तारतम्यफलप्रदाः सकामानां काम्यफलप्रदा, निष्कामानां क्रममुक्ति- प्रदाः॥ १०॥ तस्माज्जपत तं यूयं साङ्ग मनुमनुत्तमम् ॥ अत्रैवोदाहरन्तीममितिहासं पुरातनम् ॥११॥ ( ब्रह्म वै सत्यं सत्यं पुनः सत्यम् ) तं प्रणवं,साउं वक्ष्यमाणाङ्गसहितं मनुं मन्त्रम् । “यत् ब्रह्मविद्यया सर्व विष्यन्तो मनुष्या न मन्यन्ते, किमु तत् ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति, म वा इदमन आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति, तस्मात्तत्सर्वम- पदिति" श्रुतौ यथा ब्रह्मेत्यज्ञातस्वतत्त्वं प्राक् ब्रह्मविद्याधिकारि तदेव माणसाक्षीकृतस्वतत्त्वब्रह्मविद्याफलमिति दर्शितं, तथा अत्रापि प्राक पासनादिना अनाविर्भूतस्वतत्त्वा साधकबुद्धिरूपा प्रणवात्मिका उमैव एष विद्याऽधिकारिणी पश्चाश्च प्रणवोपास्त्यादिना माविर्भूतस्वतत्त्वा सैव पास्त्यादिफलमिति प्रदर्शनाय प्रणवाक्षरद्योतिताभिधानां ब्रह्मविधिदे- प्रणवकल्पप्रकाशाख्यभाष्ययुतः । वतां पार्वती प्रष्ट्रीत्वेन प्रणवार्थभूतं शङ्करं च वक्तृत्वेन परिकल्प्य साङ्ग- प्रणवकलावधारणोपासनफलावाप्तिपर्यन्तव्यापारानुवर्णनेनानादिकालप्र- वृत्तामाख्यायिकां प्रस्तुतानुवर्णनसिद्ध्यर्थमवतारयति *अत्रैवेति* ॥११॥ पुरा गौर्या महादेवः पृष्टो व्याचष्ट भूसुराः॥ कदाचिदीश्वरः शम्भुस्तपस्तेषु हिमाचले ॥ १२ ॥ व्याचष्ट विविधाङ्गकलापसहितमाचष्टेति संक्षिप्योक्तिः, तां विस्त- रेण विवृणोति-*कदाचिदित्यादिना* । ईश्वरः सर्वशक्तिसम्पन्नः शम्भुः सर्वसुखकरः, अनेन शिष्यानुग्रहसमर्थः परमदयालुश्च गुरुः स्यादिति सूचितम् । तपश्चरणादिकथनं तु तपस्विन एव गुरवः शुश्रू- पापरानेव शिष्यानुपदिशेयुरित्याचारशिक्षणार्थम् ॥ १२ ॥ पार्वती कन्यका भूत्वा देवं शुश्रूषया सदा ॥ तोषयामास तान्देवस्तुष्टः प्रोवाच सस्मितम् ॥ १३ ॥ कन्यका भूत्वेत्युक्तिर्वाल्यात्प्रभृति मोक्षाय यतितव्यमिति सूचनाय । सदा शुश्रूषया देवं तोषयामास । ब्रह्मविद्याधिदेवतायाः ब्रह्मविच्चेष्टया गु- रुशुश्रूषादिविडम्बनमाचारशिक्षणपूर्वकं सकलात्मविद्याप्रकटनेन लोकानु- ग्रहमात्र प्रयोजनम्-इति देव्याशयपरिज्ञानसूचनाय सस्मितम् ॥ १३ ॥ अत एवेश्वरी देवोमुखेनैवेममर्थ प्रकटीचिकीर्षुः कौतुकार्थं ब्रह्मवि- द्यायां देव्या अनधिकाराभिसन्धिरिव तां प्रथमं धनधान्यादिक्षुद्रफलेन प्रलोभयति- ईश्वर उवाच- वरं वृणीष्व हे गौरि ! प्रीतोस्मि तव सेवया ।। नासाध्य विद्यते मेऽत्र धनधान्यगृहादिपु ॥ १४ ॥ *वरमिति* ॥ १४॥ इत्युक्ता वचनं माह मेघगम्भीरया गिरा ॥ पार्वत्युवाच- भवं त्यजामि येनाहं मोक्षं ब्रह्माप्तिलक्षणम् ॥ १५ ॥ मेघगम्भीरया गिरा इति उक्ता सतीप्रसन्ने शिवे संसाररोगमूलोप- च्छेदोपलक्षितनित्यनिरतिशयानन्दप्रात्युपाय एव प्रार्थनार्हो न क्षुदफल- मित्याशयेन पार्वत्युवाच *भवमिति* ब्रह्माप्तिराभूतब्रह्मस्वभावेन स्थिति- स्तलक्षणम् ॥ १५॥ - - प्रणवकल्पः । प्रामुयां तमिमं देव ! मन्त्रं मद्यमुपादिश ।। आह पृष्टस्तया देवो मैवं वद श्रुभेक्षणे ! ॥ १६ ॥ सकलापमुपादिश अर्थविवरणेन आदिश । कौतुकाभिसन्धिमाविष्कु- वनोश्वरः प्रणवाधिकारणा निरूपयितुं देव्याः मन्त्रं मह्यमुपादिशेत्युक्तिर- युक्तति निराचष्टे-*मैवमिाते* ॥ शुभं शास्त्रानुसारि ईक्षणं यस्यास्तथा- विधे॥१६॥ अयुक्ततामेव दर्शयति-- अज्ञाननाशनद्वारा प्रणवो मोक्षदायकः ।। न तत्र योग्यता तेऽस्ति यतो नारी भवत्यहो ॥ १७ ॥ *अज्ञानेत्यादिनायोग्यता अधिकारः ॥ १८ ॥ यत्र धर्मस्कन्धभूतस्याश्रमत्रयस्यापि नाधिकारस्तदुरे स्त्रीशूद्रादी- नामधिकारप्रत्याप्सेत्याशयेनाह-- गायत्र्यां द्विजसंघानां यतीनां प्रणवे रतिः ।। नारीणां भर्तृश्रुश्रूषा न जपो न तपो व्रतम् ॥ १८ ॥ *गायव्यामित* ॥ केषां तर्वाधिकारस्तत्राह *यतीनामिति* ॥ मो. शाय यतनशीलानां चतुर्थाश्रमाणां, रतिः प्रीतिरधिकार इति यावत् ॥ स्त्रीणां तर्हि क्वाधिकारस्तत्राह भर्तृशुश्रूषेति* । यद्यपि चिरण्टीनां तपो- बतादौ भर्ता सहाधिकारोऽस्त्येव तथापि स्वातन्त्र्येण तनिषेधः । कन्या- विधवयोः पितृपुत्राद्याशयैवाधिकारः ॥ १८ ॥ ततो वरय राज्यादिप्राप्ति यस्ति ते मनः ॥ कर्मणा मनसा वाचा ये त्यजन्ति यतीश्वराः ॥ १६ ॥ ततः प्रणवे अनधिकारात् । किश्च विधिना परिगृहीतानि संध्यावन्द- नाग्निहोत्रादिनित्यनैमित्तिकदिवाकर्माणि तत्फलविविदिषावैराग्यादिस- म्पत्यनन्तरं विधिनैव त्यक्तवतां प्रणवेऽधिकारः, नच स्त्रीणां तत्परिग्रहः परित्यागो वा वैधोस्तीत्याह-*कर्मणेति ॥ १६ ॥ गायत्रीमथ सावित्री तेषां प्रणवयोग्यता ॥ श्राह पृष्टैवमीशानं मैवं भाषस्व शङ्कर ! ।। २० ।। गायत्रीसावित्रीग्रहणं त्रिकालसन्ध्यादिसर्वकर्मोपलक्षणम् । एवं कौ- तुकादीश्वरेण निरस्ताधिकारा अधिकार हेत्वन्तरमस्ति चेवदेति पृष्टा पार्वती स्वाशयमाधिष्कर्तुं कौतुकोक्तिरार्जवेन भक्त्या पृच्छत्सु मादृशे-

40
प्रणवकल्पप्रकाशाख्यभाष्ययुतः ।
व्ययुक्तेत्याशयेनाह *मैवं भाषस्वेति* ॥ अयं भावः। संन्यासिनामेव
प्रणवाधिकारो न स्त्रीणामिति नियमो मनुष्येष्वेव न देवेषु, सर्वसाधनवि-
शुद्धिरूपा साक्षात्प्रणवात्मिका ब्रह्मविद्याधिदेवता चाहं लोकानुग्रहाय
शुश्रूषादिसदाचारव्यवहारेण प्रश्नोत्तरानुव्यापारेण त्वमुखान्मत्वरूपा-
मेव प्रणवविद्यां सानां जगति प्रकटीकतुं प्रवृत्तान स्वार्थम्। भवं त्यजामि
येनाहं मोक्षं ब्रह्माप्तिलक्षगमिते मदुक्तिरपि स्त्रीपंनपुंसकादिसर्वरूपा या
मम साधकानां जनानां भवतरणविषयेति सर्वज्ञस्त्वं जानास्येव । अतो न
कौतुकोक्तिमात्रेण ममानधिकारस्त्वया आपादनीयः। किञ्चदमनधिकारा-
पादनं न त्वत्कर्तृके प्रणवोपदेशे अविमुक्तोपासकस्याविमुक्ते म्रियमाणस्य
च स्त्रीपुंनपुंसकस्थावरादिजन्तुमात्रस्य त्वया प्रणवरहस्योपदेशनात् ॥
तथा च श्रुतिः 'अत्र हि जन्तोः प्राणेषुत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्या-
चष्टे, येनासावमृतीभूत्वा मोक्षीभवतीति, तस्मान्मैवं भाषस्वेति सुष्ट-
क्तमिति ॥ २० ॥
यदि तु 'ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति त-
स्मात्तत्सर्वमभवदिति श्रुतिदर्शितदिशा ब्रह्मैव स्वाज्ञानात्स्त्रीपुनपुंसक-
स्थावरादिदेहेषु संसरदविमुक्तमरणकाले प्रारब्धकर्मक्षयकाले वा त्वद-
नुग्रहदग्धपापमुपदेशाधिकारीति मन्यसे, तमुहमप्यन्ततो विशुद्धा ब्रह्मैवा-
स्मीति सदैव तवा ङ्गभागिनी प्रेयसी कुतो नाधिकारिणीत्याशयेनाह..
क्लीवश्च पुरुषो योषा चरं चाचरमेव च ।।
सर्व ब्रह्म न तद्भिन्नमद्वैतं परमार्थतः ॥ २१ ॥
*क्लीबश्चेति* ॥ २१ ॥
तस्मान्मनुष्यस्त्रीणामुपनयनाध्ययनासंस्कृतत्वान्मनुष्यकर्तृकं प्रणवा-
पदेशेऽस्त्यनधिकारः । देवानां तु 'न ह वै देवान्पापगच्छेदिति श्रुतेः
स्वतःसिद्धविशुद्धत्वात्साधनचतुष्टयसम्पत्यैव प्रणवादिविद्याधिकारः
सिद्ध इत्याशयेनोपसंहरति--
चतुष्टयं साधनाख्यं यत्र तत्रैव योग्यता ॥
ततो वद मया पृष्टं तारकं भवतारकम् ।। २२ ॥
*चतुष्टयमिति । विविक्तवैराग्यमुमुक्षाशमादयश्चेत्येवमाख्यं सा-
धनानां चतुष्टयम् ॥ २२॥
साक्षाद्ब्रह्मतत्त्वोपदेश एव कुतो न प्रार्थ्यते तत्राह-
तारक रूपमास्थाय ब्रह्म प्रामोत्यसंशयम् ॥
तुतोष वचनं श्रुत्वा वाक्यं पोवाच शङ्करः ॥ २३ ॥

प्रणवकल्पः। ॥ युवां च पश्यतं नेत्रे ! प्रणवार्थविलेखनम् ॥ युवां च वहतं हस्तौ ! प्रणवार्थस्य पुस्तकम् ॥ ३४ ॥ विलेखनं लिखिताक्षरजातमिति यावत् , वहतं धारयतम् , दर्शनयो- ग्यर्ता प्रापयतमिति वा ॥ ३४॥ युवां च गच्छतं पादौ ! बोधको यत्र तस्य मनो ! मनुष्व भदन्ते प्रणवार्थ शुभप्रदम् ॥ ३५॥ तस्य प्रणवार्थस्य बोधको गुरुयंत्रास्ति तत्र गच्छतम् । मनुष्य सदैव मननप्रवणं भव ॥ ३५ ॥ बुद्धे ! निश्चय तस्माच नान्यदस्तीति चित्तक ! ॥ चिन्तयोङ्कारतात्पर्य भेदबुद्धिनिरासकम् ॥ ३६ ॥ हे बुद्धे ! तस्मादर्थात् ब्रह्मण अन्यन्नास्तीति निश्चय । छान्दसो विकर- णव्यत्ययः। हे चित्तक ! त्वं 'नातः प्रशमित्यादिश्रुतिदर्शितरीत्या अव- स्थात्रयनिषेधेन भेदबुद्धिनिरासमोङ्कारतात्पर्य चिन्तय ॥ ३६ ॥ अहङ्काराऽहङ्कुरुष्व प्रणवार्थविशोधने । मया तुल्यो न चास्तीति संसारार्णवनाशने ॥ ३७ ॥ प्राणान् धारय महेहे यावदोङ्कारशोधनम् ।। किमत्र बहुनोक्तेन, सर्वाण्यङ्गानि मे सदा ।। ३८ ॥ संसारार्णवशोषणे प्रणवार्थविशोधने चकाराद्विशोधितात्मस्वभा- वेऽपि मया तुल्यं नास्तीति अहङ्कुरुष्व दृढाभिमानं धत्स्व । अनुक्तान्य- प्यङ्गकरणान्यत्रोक्त्वा तत्प्रवणीकुर्वन्नुपसंहरति *किमत्रेति ॥ ३७॥३८॥ रमन्तां प्रणवे दिव्ये न तु मन्त्रान्तरे भ्रमात् ।। इदं व्याप्तं यतस्तेन ब्रह्मरूपेण सर्वशः ॥ ३९ ॥ मन्त्रान्तरे कुतो न रमन्तान्तत्राह-*इदमिति* इदं शब्दार्थात्मकं जगत् , यतः शब्दार्थब्रह्मरूपेण तेन प्रणवेन शङ्कुना पर्णमिव रज्या इव च व्याप्तम् , अतः सर्वमन्त्रतदर्थतत्फलानां प्रणवतदर्थयोरन्त - वादित्यर्थः ॥ ३६॥ इत्यवोचमहं विप्रा ! अगस्तुतिमनुत्तमाम् ॥ इतिशब्दः अङ्गस्तुतिसमाप्तिद्योतनार्थः ॥ इत्यङ्गस्तुतिः ॥ अगस्तुत्या सम्पादिता अङ्गानां प्रणवैकप्रणवता पूर्वकृतैः पार्मा विघाति मेऽङ्गानि सुरक्षितानि तिष्ठन्त्वित्यङ्गस्तुत्यनन्तरं कवचं वक्तुं प्र- २ प्रणव १० प्रणवकल्पप्रकाशाख्यभाष्ययुतः । - - तिजानीते- सूत उवाच- अथातः सम्प्रवक्ष्यामि कवचं वजूसम्मितम् ॥ ४० ॥ यस्य स्मरणमात्रेण मुच्यते पातकैर्द्विजाः ।। कवचानां राजराज शाश्वतम्मोतदं शुभम् ॥ ४१ ॥ *अथेति* वज्रण सम्मितं तुलितम् अभेद्यमित्यर्थः ॥ ४० ॥ ४१ ॥ प्रणवकवचस्य ब्रह्मऋषिः । अनुटुपछन्दः। परमात्मा देवता । अंबीजं । उं शक्तिः । मङ्कीलकं । अकारादिभिस्त्रिभिः कराङ्गन्यासः । ऋषिः कल्पादौ प्रथमं मन्त्रद्रष्टा। अनुष्टुप् अष्टाक्षरचतुःष्पा- दा छादनाच्छन्दः। परमः सर्वोपाधिविनिर्मुक्तः आत्मा प्रत्यग्ज्योति- देवता मन्त्राराध्या। वीजं मन्त्रशरीरोपादानकरणम् विन्दुः। शक्ति. स्तद्धारणक्षेत्रं योनिः । कीलकं तदुभयसंधायकं लिङ्गम् । एवं निष्प- नस्य प्रणवस्य गुणत्रयात्मकमायात्मकवन्धमोक्षार्थे जपे विनियोगः । करपदेनाङ्गुष्ठादयो लक्ष्यन्ते, अङ्गपदेन शिरःशिखाकवचादयः । तेषु अं अङ्गुष्ठाभ्यां नमः॥ ॐ तर्जनीभ्यां नमः। मं मध्यमाभ्यां नमः । अं अनामि- काभ्यां नमः। ॐ कनिष्ठिकाभ्यां नमः । मं करतलकरपृष्ठाभ्यां नमः। एवं हृदयन्यासं कुर्यादित्यर्थः ॥ ॐकारमाद्यं परमात्मरूपं संसारनाशे च समर्थमन्त्रम् ॥ अचश्चलं प्राप्यमजिह्मभक्तध्यायेत्सदा देशिकवाक्यमानात् ॥१॥ *ॐकारमिति* ॥ आद्यं सर्वजगतां कारणम् , परमात्मनः शब्दब्रह्म- मयं रूपं, परमात्मानं निरूपयति प्रकटयतीति वा परमात्मरूपम् , अत एव संसारस्य नाशे चकारानिरतिशयानन्दप्राप्तौ च समर्थ मन्त्रम् , मणिम- औषधीनामचिन्त्यप्रभावः प्रसिद्धः, अजिझैः कौटिल्यादिसर्वदोषरहिते- राजवामानित्वादिसर्वगुणयुक्तैरचंचलं परिहृतान्तर्बहिःकरणचापलं य स्यात्तथा प्राप्यम् , ॐकार देशिकवाक्यमानात्सागरहस्यं प्राप्य स ध्यायेदित्यर्थः ॥१॥ न्यासं कृत्वा ततो थ्यात्वा कवचं प्रजपेत्सुधीः । ॐकारः पातु मूद्धानं सहस्रारेण शोभितम् ॥२॥ यथोक्तं न्यासं कृत्वा ततो यथोक्तप्रकारेण ध्यात्वा, उच्चार्यमाणः सर्व शरीरमूर्ध्वमुन्नयति ॐकारः सहस्त्रारेण पझेनब्रह्मरन्ध्रस्थेन शोभितं मू. निं पातु ॥ २॥ ,

प्रणवकल्पः
१५
अयसः सनिधानेन तन्मणेश्वलनं यथा ॥
तथाऽविद्यापि चलति जगद्धेतुत्वकारणम् ॥८॥
तन्मणेः अयस्कान्तमणे सन्निधानेन अयसः यथा चलनम् , तथा
चित्सन्निधानेन अविद्यापि चलति, तच्चलनमेव ब्रह्मणो जगद्धेतुत्वारोपे
कारणमित्यर्थः ॥८॥
निश्चले निर्विकारे च यथा संसार इष्यते ॥
इत्याह तत्तृतीयोऽपि, अविद्या न च वास्तवी ॥ ६ ॥
एतावांस्तु विशेषः-यदयश्चलनं मणौ नेष्यते, अविद्यायाः स्पन्दप-
रिणामोभयरूपः संसारस्तु निश्चले निर्विकारऽपि ब्रह्मणि आरोपदृष्टया
इष्यते, तथाचाविद्यामात्रमेवालातचक्रतयेव जगद्भावेन भासते न ततोऽ-
न्यत्किञ्चिदिति ज्ञानेनाऽविद्याबाधे संसारवाधसिद्धिरिति मकारांशार्थ
इत्याह *इत्याहेति* ॥ इदानीमविद्याशबलात्पृथक्कृतम् अविद्यातत्कार्य-
बाधेप्युपाध्या शोधिततत्त्वपदार्थरूपमधिष्ठा नचिन्मानं विद्वंशार्थ इति
दर्शयति *अविद्या नचेत्यादि, तच्चतुर्थोऽपीत्यन्तेन* ॥६॥
ननु तत्त्वज्ञानेन शवलान्तर्गताविद्यांशस्येव निरंशस्यापि बाधः किन्न
स्यात्तत्राह--
॥
ब्रह्म विम्बात्मकं सत्यं जगन्नेतरदीदृशम् ।।
अधिष्ठानमवाध्यं स्यादधिष्ठेयस्य वाध्यता ॥१०॥
*ब्रह्मेति ॥ ज्ञानं हि सत्यार्थावलम्बनबलेन मिश्याभूतमेव बाधते
सत्यस्य बाध्यत्वायोगादित्यर्थः। सत्यत्वे हेतुगर्भविशेषणम् *बिम्बात्मक-
मिति* यथा बिम्बप्रतिबिम्बभेदाधाराधिष्ठानं मुखं न भेदवन्मिथ्या,
तथा जीवेश्वरभेदकल्पनाधिष्ठानं ब्रह्मापि न मिथ्येत्यर्थः। ब्रह्मण इत-
रज्जगत्तु न ईदृशं न सत्यम् सत्यान्यत्वादेवेत्यर्थः ॥ फलितमाह *अधि-
छानमिति* ॥ अधिष्ठेयस्य आरोग्यस्य ॥ १० ॥
रज्चादिरिव सादेः सर्वाधारः परेश्वरः।।
इत्याह तच्चतुर्थोऽपि, आधारत्वं न वास्तवम् ॥ ११ ॥
सर्वाधारः सर्वस्य वियदादेरवस्थात्रयस्य च आधारः अधिष्ठानम्,
परेश्वरः परम्ब्रह्म, शोधितत्वंपदलक्ष्यार्थक्यमखण्डैकरसचिदानन्दरूप-
वाक्यार्थो नादांशार्थ इत्याह *आधारत्वमित्यादि, पञ्चमस्तत्रेत्यन्तेन
वियदादेरवस्थात्रयस्य च आधारत्वमधिष्ठानत्वमपि अधिष्ठेयमिथ्या-
वे न वास्तवम्, नहि पुत्राभावे वन्ध्या तन्माता न भवति ॥ ११ ॥

१६ ६ प्रणवकल्पप्रकाशाख्यभाष्ययुतः ब्रह्म सत्यं जगन्मिथ्या भेदो न ब्रह्मजीवयोः॥ ईश्वरः संसरत्येवं जीवरूपेण जन्तुषु ॥ १२ ॥ यदा दर्पणस्थानीयं भेदकोपाधिभूतं जगन्मिथ्या उभयत्राप्यधि- ष्ठानं ब्रह्मैव सत्यं, तदा निरुपाधिमुखस्येव ब्रह्मजीवयोरपि भेदो ना- स्ति । यदाप्ययं संसारीवाऽभूत्तदापि जन्तुषु चतुर्विधभूतजातिषु ईश्वरो मायोपहित एव जीवरूपेण संसरति मायाकार्योपाधीनां कारणानन्यत्वा. दुपहितभेदासिद्धः ॥ १२॥ यदा राजभोगसम्पन्नः सुखशय्याशयानो राजैव परितः परिजनैः पदमहिष्या च चामरव्यजनपादसंवाहनादिभिः सेव्यमानो राजरूपेण भोगी स्वात्माज्ञानपरिकल्पितभिक्षुकश्च स एव भवतीति उपाधिसद्भावद- शायामपि न वास्तवैकत्वविरोधः, ततो दूरे उपाधिबाधदशायां तत्सम्भा- नेत्यखण्डैक्यमव्याहतमित्याशयेनाह-- राजरूपेण भोगी च भितुरूपेण भिक्षुकः॥ इत्याह पञ्चमस्तत्र, जीवरूपं न वास्तवम् ॥ १३ ॥ *राजरूपेणेति* ॥ त्वंपदलक्ष्ये ब्रह्मभावसाक्षात्कारज्ञानेन सप्रप. ञ्चजीवभावबाधे सर्वानर्थनिवृत्तिरूपः परमपुरुषार्थः सिद्ध इति कलां- शार्थ इत्याशयेनाह *तत्र जीवरूपमित्यादि, षष्ठ इत्यन्तेन* ॥१३॥ यदा चन्द्रतत्कलानां व्यावहारिके अवयवावयविभावे सूर्यतत्करणा- नां संस्थानस्थानभेदेऽपि सति अमृततेजःस्वभावो न भिद्यते तदा निर- वयवसंस्थाननिष्प्रदेशचिन्मात्रस्वभावे उपाध्यपगमे क भेदानथसम्भा- वनेत्याशयेनाह- चन्द्रात्कला न भियन्ते मर्यादिव च भानवः ।। तथा जीवा न भियन्ते ब्रह्मणश्च उपाधितः ॥ १४॥ *चन्द्रादिति* ॥ १४॥ नन्ववत्साधेनुरानीयतामित्यत्र वत्सनाश इव कार्यकारणापाधिना- शावेव जीवब्रह्मणोर्भेदकोपाधी स्यातोम् , यथाहुः--'संवर्गवडिप्रयोगोपि विशेषगतितुरिति, तत्राह- उपाधिनाशे नोपाधिस्तत्र यत्नस्ततो महान् । इत्याह षष्ठ,स्तत्रापि जीवभेदो न वास्तवः ॥ १५ ॥ *उपाधिनाश इति । उपाधिनाश उपाधिन भवति घटाकाशमे- दकघटोपाधिनाशस्याकाशभेदकत्वादर्शनात् मुखभेदकदर्पणोपाधिनाया- प्रणवकल्पः । १७ स्य मुखभेदकत्वादर्शनाश्चन्द्रभेदकतिमिररोगनाशस्य चन्द्रभेदकत्वाद. र्शनाच, वत्सतन्नाशौ हि न धनुभेदकोपाधी किन्तु जातिप्रयुक्तभेदस्य प- रिचायको, न चात्रोपाधिव्यतिरिक्तं भेदप्रयोजकं किञ्चित्केनचिवक्तुं शक्यम् असङ्गमायाव्यतिरिक्तस्योपाधिकल्पकस्य वादिभिः दुनिरूपत्वा- दभावस्य प्रतियोगितदवच्छेदकभेदसिद्ध्यधीनभेदतया निरुपाख्यतया च स्वभेदसिद्धावप्यसमर्थस्य स्वाश्रयभेदोपाधितया दूरनिरस्तत्वाञ्चोपा- धिनाशस्य भेदकोपाधित्वसाधने प्रवृत्तस्य तव वृथैव महान् यत्नः परिश्रमो भवेदित्यर्थः । तत्रैतच्छक्यं वक्तुम्-न वाक्यार्थसाक्षात्कारेणा- विद्यानिवृत्तौ आत्यन्तिकसर्वोपाधिनिवृत्तिः शक्या प्रतिज्ञातुं तत्त्वक्षजी- वनाभावप्रसङ्गेन ब्रह्मविद्यासम्प्रदायप्रवर्तकाभावप्रसङ्गात् जीवन्मुक्ति- शास्त्रविरोधप्रसङ्गात् , 'तस्य तावदेव चिरं यावन्न विमोत्येऽथ' इत्यादि. श्रुतिकोपात् प्रारब्धकर्मशेषवैयर्थ्यात् 'भोगेन त्वितरे क्षपयित्वा सम्पद्यतः (७० सू० ४।१।१६) इति सूत्रविरोधाश्चेति तत्परिहारेण जीवन्मुक्तिदशायां (न) ब्रह्मतत्त्वसमर्थनार्थः शक्त्यंश इत्याह *तत्रापीत्यादि, सप्तमीत्यन्ते- न । तत्र तस्यामविद्यातत्कार्यबाधदशायामपि जीवन्मुक्तिव्यवहारभा- सार्थमभ्युपगम्यमानो जीवभेदो न पूर्ववद्वास्तवः सत्यकामकर्मवासना- रूपजन्मबीजोत्पादनसमर्थ इति यावत् ॥ १५ ॥ तत्कुतस्तत्राह- स्थूलसूक्ष्मादिदेहेषु दग्धेषु ज्ञानवह्निना ॥ दग्धवस्त्रमिवाभासशक्तिरेकाऽवशिष्यते ॥ १६॥ *स्थूलेति* । आभासो बाधितजगदाकारप्रतिभासस्तच्छक्तिरेकैव प्रारब्धशेषभोगायाऽवशिष्यते न जगद्पमणुमात्रमपीत्यर्थः । तत्र बुध्या- रोहायानुरूपं दृष्टान्तमाह *दग्धवस्त्रमिवेति ॥ १६ ॥ तथाऽऽभासः प्रतीयेत यथापूर्वं च संस्मृतिः ॥ इत्याह सप्तमी तत्र, आभासो न च वास्तवः ॥ १७॥ ननु यथा दग्धपटे पटाकारं प्रतियन्तोऽपि प्रेक्षावन्तो न प्रावरणपरि- धानाद्यर्थ तत्र प्रवर्तन्ते यथा पूर्व मदीयः पटोऽयं शीतनिवारणादिक्षम इति संस्मृत्यभावात्तथा जीवन्मुक्तावपि पटादि नादधुरित्याशंक्याह *यथापूर्व चेति । शानबाधितस्यापि प्रपञ्चस्य प्रारब्धभोगार्थत्वाद्वयवहारार्थकि- याप्रतिभाससामर्थ्यायाधाद्यावजीवं यथापूर्व संस्मृतिश्चकाराव्यवहारो भोगच सित्यतीत्यर्थः । तस्यां च दशायां जीवन्मुक्तः 'अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकात्मके जगत्यर्थ अस्तिभातिप्रियमित्यंशत्रयं ब्रह्मा- ३ प्रणव -

. १८ प्रणवकल्पप्रकाशाख्यभाष्ययुतः ।
त्मनैव मीयते तत्त्वतो शायते, नामरूपमित्यर्द्धाशो यथापूर्व भ्रान्तवदेव
प्रतीयते न याथार्थेन मीयत इति तदृष्टयुपहितं ब्रह्म अर्द्धमात्रेत्युच्यत
इत्यर्द्धमात्रांशार्थ इत्याह *तत्राभास इत्यादि, अष्टमी यत इत्यन्तेन ॥१९॥
जीवन्मुक्तिदशां प्राप्य स्वानन्दमुनुभूय च ॥
अर्द्ध च मीयते यस्मात् ब्रह्माभिन्नं च सर्वशः ॥१८॥
यतः अंशपञ्चकमध्ये नामरूपात्मके आभासांशी न वास्तवः प्रमावि.
षयः सञ्चिदनन्दस्तु वास्तवः अन्यांशो भ्रान्तिमात्रसिद्धः, यतश्च जीव-
न्मुक्तिदशां प्राप्य वास्तवं स्वानन्दमनूभूय स्थितेनैतत् ब्रह्माभिन्न-
मर्द्धमेव मीयते तस्मादर्द्धमात्रेति सा प्रोक्तेति परेणान्वयः ॥१८॥
अमावस्तस्य विज्ञानमहिम्नाऽनुमितिर्भवेत् ॥
अर्द्धमात्रेति सा प्रोक्ता प्राइवं चाष्टमी यतः ॥ १६ ॥
विज्ञानमहिना तु सर्वशः सर्वनामरूपांशश्च अभावो वाधश्च परमा-
र्थतो ब्रह्माभिन्नमधिष्ठानमात्रमिति ढढनिश्चयो भवेत् , अतः सा मात्रा
अर्द्धमात्रेति प्रोक्तेति स्वनामनिर्वचनरूपमष्टमीमात्रा एवं प्राहेत्यर्थः ॥१६॥
शान्ताख्यो नवमोंऽशस्तु मुक्तानां संन्यासिना निर्विकल्पसमाधौ वि.
देहकैवल्ये च प्रथमानं शान्तसर्वप्रपञ्चपरमपुरुषार्थभूतं निरतिशयानन्द-
भूमाख्यं स्वरूपमाहेत्याह-
कर्मणां न्यायतो न्यासे स्थूलसूक्ष्मादिदेहके ।।
नष्टे जन्मान्तराभावे गुरुवेदान्तमानतः ॥ २० ॥
व्यतिरिक्तं जगत्स्वस्माचतो नास्ति ततः स्वयम् ॥
शान्तं निर्मलमाकाशं नित्यानन्दं च सर्वगम् ॥ २१ ॥
स्वे महिम्नि च संसिद्धं पर्यवस्यति केवलम् ॥
नात्र भेदो न चाकारो न विकल्पो न कल्पना ॥ २२ ॥
*कर्मणामित्यादि, नवमस्तेनेत्यन्तेन । विहितानां कर्मणां न्यायतो
विहिते न्यायेनैव संन्यासे कृते गुरुवेदान्तमानतो जातेन तत्त्वसाक्षात्का-
रेण स्थूलसूक्ष्मकारणदेहके नष्टे सति बीजाभावादेव जन्मान्तराभावे
सति ऐहिकमामुष्मिकं च जगद्यतः स्वतो व्यतिरिक्तं नास्ति, ततः स्वयं
यतिः शान्तं नित्यानन्दं सर्वाङ्गपूर्ण स्वे महिनि स्वतःसिद्धं निर्मलमा.
काशं सर्वतः स्वप्रकाशं केवलब्रह्मैव पर्य्यवस्यतीति सार्द्धद्वयार्थः ॥
तत्र शान्तशब्दप्रवृतिनिमित्तानि प्रपञ्चयति *नाति* ॥२०॥२१॥२९॥

प्रणवकल्पः । १६ न किश्चिन्नैव किश्चिच्च सिद्धमद्वैतमुत्तमम् ।। इत्याह नवमस्तत्र ततः श्रद्धत्स्व शौनक ! ॥ २३ ॥ न किञ्चिदिति द्वैतनिषेधे तदभावपरिशेषमाशंक्य *नव किञ्चिदिति* तस्याप्यधिष्ठानव्यतिरिक्तस्य प्रतिषेधार्थ तत्र तासां नवांशानां मध्ये नव- मोऽश इत्याह वर्णितप्रणवार्थः ॥ श्रद्दधानैरेव सुबोधो नान्यरित्याशयेन तदातया श्रद्धां विधत्ते *तत इति* ॥ २३ ॥ ज्ञात्वेदं गुरुमूलेन नानावेदान्तसंग्रहम् ।। मुच्यते जन्मपाशेन नरो नात्रास्ति संशयः ॥ २४ ॥ नानावेदान्तानां तात्पर्यसमहरूपमिदं प्रणवहृदयं गुरुमूलेन गुरुप्र- धानेन श्रवणादिना ज्ञात्वा नरो जन्मपाशेनांमुच्यते, अत्र संशयो नास्ति संशयोन कार्य इत्यर्थः ॥ २४ ॥ शिखां सूत्रं च गायत्रीं गृहं दारान्कुमारकान् ।। परित्यज्य जपन्त्वेतं प्रणवं साङ्गमुत्तमम् ॥ २५ ॥ ॐकारहृदयं गौर्या इत्येवं शम्भुरब्रवीत् ।। इति प्रणवहृदयम् ॥ प्रणवहृदयज्ञानप्रधाने प्रणवजपे परमहंसपरिव्राजकानामेवाधिकार इति दर्शयति *शिखामिति ॥ २५ ॥ ॐ कारहृदयमित्युपसंहारः । इति प्रणवहृदयव्याख्या समाप्ता ॥ - सूत उवाच- साङ्गं प्रणवमाजप्य पुरश्चर्यो ततश्चरेत् ॥ दशलक्ष जपः प्रोक्तस्त दर्द होम उच्यते ॥१॥ नित्यं प्रणवजपनिष्ठस्य तत्पुरश्चर्याप्रक्रारं संक्षिप्याह *साङ्गमित्या- दिना प्रजप्य किश्चित्कालं जप्त्वा, स्पष्टम्(१) ॥१॥ तर्पणं स्याचदर्द्ध च सहस्रं द्विजभोजनम् । एवं कृत्वा सनियम प्रणवात्मा प्रसीदति ॥२॥ किमत्र बहुनोक्तेन प्रणवेन तुला न हि ॥ (१) अन्यदिति शेषः।

२० प्रणवकल्पप्रकाशाख्यभाष्ययुतः। गायन्ति श्रुतयः सर्वा जपन्ति मुनयस्तथा ॥ ३॥ सनियमं पयःफलसक्तुपावकभिक्षाशनस्थण्डिलशयनादिसर्घपुरश्च- यङ्गिनियमसहितम् , एवं पुरश्चरणं कृत्वा स्थितस्य पुंस इति शेषः, प्रण- वस्वरूप आत्मा प्रसीदति पापदुर्वासनादिकालुष्यं हित्वा प्रकाशत इत्य- र्थः। सगुणनिर्गुणब्रह्मप्रसादे अन्तरङ्गसाधनेष्वन्येषां साधनानां प्रणवेन तुला न हीत्यर्थः । श्रुतयः सर्वाः-ॐ मिति ब्रह्म । ॐ मिति सर्व । एतद्वै सत्यकाम परञ्चापरं च ब्रह्म यदोङ्कारो, रसानां रसतमः परायः ॐमि- त्येतदक्षरमिदं सर्वमित्याद्याः । मुनयः व्यासवसिष्ठसनकाद्याः॥२॥३॥ तिष्ठन्त्वन्ये गुणाः साक्षात्परब्रह्मतत्त्वस्य सर्वप्रपञ्चबाधेन करतलाम- लकवदपरोक्षतया प्रतिपादकत्वमेवास्य सर्वोत्कर्ष ख्यापयतीत्याह-- वाच्यं ब्रह्म परं वस्तु महिमा केन वय॑ते ।। शुकादयोऽपि यं जप्त्वा मोक्षमापुर्निरत्ययम् ॥ ४ ॥ *वाच्यमिति* । ये ये प्राङ मुक्तास्ते सर्वे प्रणवप्रभावादेवेत्याह *शु- कादय इति* निरत्ययं पुनरावृत्तिरहितम् ॥ ४ ॥ सर्वोपासनासत्कर्मफलावाप्तिरपि अकाराद्यवयवैः सर्ववाग्व्यापि- नः प्रणवस्यैव सामर्थ्यादित्ययमेवैकः सर्वपुरुषार्थसिद्धिहेतुरित्याश- येनाह- लौकिकी वैदिकी वाक्च व्याप्ता येन पलाशवत् ॥ इत्यवोचमहं सर्वं यत्पृष्टं मुनिसत्तमैः ॥५॥ *लौकिकीति* पलाशवत् वृन्तेन पत्रवत् । 'तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तीर्णान्येवमोङ्कारेण सर्वा वाग् सन्तीर्णेति श्रुतेरिति भावः ॥ मुनिसत्तमैः भवद्भिर्यत्पृष्टं तत्सर्वम् इति वर्णित प्रकारेणावोचमित्युप- संहारः ॥ ५॥ एवं सरहस्यं महामहिमप्रणवस्वरूपं श्रुत्वा कृतकृत्याः सन्तुष्टाः मुनयः स्वं सूतं च प्रशंसन्ति- मुनय उचुः- अहो भाग्यमहो भाग्यमहो फलमहो फलम् ।। पिता त्वं मुनिधौरेय सूत ! त्वन्मुखसागरात् ॥ ६ ॥ *अहोभाग्यमित्यादिना* अनन्तजन्मसञ्चितसुकृतं परिपक्कभाग्यम् । तत्फलं तत्त्वज्ञानम् , अहो इत्याश्चर्ये, कल्पितात्मनः शरीरस्य संपादयिता यदि पिता तर्हि पारमार्थिकस्य परमात्मनः उपदेशेन संपादयिता स्वं कथं

प्रवकल्पः ।
न पितेति भावः। सर्वमुनीनामुपदेशधुरं वहसीति मुनिधौरेयः 'धुरो
यढ़काविति' (पा० अ०४ पा० ४ सू० ७७ ) ढक् ॥ ६ ॥
ॐ कारकल्पमोक्तेयमणि बध्वा वयं मुदा ॥
स्वकीयकण्ठदेशेषु धारयाम प्रसादतः ॥ ७॥
ॐ कारकल्पलक्षणो मौक्तयो मुक्तानायको मणिस्तं वयं स्वकीयक-
एठदेशेषु बद्ध्वा त्वत्प्रसादतो धारयामः ॥ ७ ॥
भासा तस्य तमो नष्टं हृदयस्थं तपोधन ! ॥
इत्युक्त्वा मुनयः सर्वे नेमुः मूताख्यदेशिकम् ॥ ८॥
तस्य मणेर्भासा तात्पर्यार्थप्रकाशलक्षणप्रभया हृदयस्थमज्ञानं तमो
नष्टम् , नेमुनमश्चक्रुः ॥ ८॥
पठन्तु शृण्वन्तु च वाचयन्तु लिखन्तु गायन्तु च बोधयन्तु ।
ॐ कारकल्पं मुनिन्दसेव्यं सूतोक्तमीशोक्तनिन्दितं च ॥ ६ ॥
इति श्री स्कन्दपुराणे वैष्णवसंहितायां यन्त्रप्रस्तावे
प्रणवकल्पे प्रथमोऽध्यायः ॥१॥
आदौ ईशोक्तं तथा सूतोक्तम् , न विद्यते निन्दितं जन्ममरणादिदुर
यस्मात्तदनिन्दितम् ॥ ४॥
इति प्रणवकल्पप्रकाशे प्रथमोऽध्यायः ॥१॥
सर्वात्मकत्वादनन्तनामकस्य प्रणवस्य सारभूतान्यष्टोत्तरशतनामा-
न्याचिख्यासुः सुतस्तदनुरूपमङ्गलाचरणरूपां तद्भूमिकां रचयति-
प्रणवः परमं ब्रह्म प्रणवः परमः शिवः ।।
प्रणवः परमो विष्णुः प्रणवः सर्वदेवताः ॥ १ ॥
*प्रणव इति* परमस्य ब्रह्मणः प्रतिपादकत्वात्प्रतीकत्वाञ्च परमं ब्रह्म,
एवं परमस्य शिबस्य ब्रह्मविद्याशरीरस्य शुद्धचिन्मात्रस्य वाचकत्वा-
प्रतीकत्वाश्च परमः शिवः, एवं सर्वजगदुपादानमायाशक्तिशरीरस्य
चिन्मात्रस्य वाचकत्वादिना परमो विष्णुः, ततो हिरण्यगर्भादिसर्वदेव-
तात्मना अभिव्यक्तकार्यब्रह्मणो वाचकत्वादिना सर्वदेवताः॥१॥
मुनय ऊचुः--
सूत सूत महामाज्ञ व्यासशिष्य महामते ! ।।
यस्य देवस्य नामानि लोकेषु मुनिसत्तम ! ॥२॥

२२ प्रणवकल्पप्रकाशाख्यभाष्ययुत: सूतसूतेत्यादराथं द्विर्वचः, लोकेषु प्रख्यातानीति शेषः ॥२॥ प्रथमं नामभिर्यैस्तु सर्वदेवोऽभिपूज्यते ॥ सर्वदैवतवृन्दानां पूजने यानि नो वद ॥ ३ ॥ साधारण्येन सर्वज्ञ ! लोकानुग्रहकाङ्क्षया ।। सूत उवाच- नामानि यानि लोकेषु प्रणवस्य मुनीश्वरैः ॥ ४ ॥ सर्वेषां देवः सर्वदेवः, सर्वदेवतात्मकत्वाद्वा सर्वदेवः ईश्वरः अभिपू- ज्यते, सर्वदैवतवृन्दानां प्रत्येकं पूजनेऽपि यानि नामानि साधारण्येन भव- न्ति तानि नामानि लोकानुग्रहकानया नः अस्मभ्यं वदेति परेण सहा- न्वयः। सूतवाक्ये 'नामानि यानीत्यादिमुनिपृष्टार्थस्यानुवाद उत्तरस्य पृष्टार्थेकनिष्ठताद्योतनार्थः ॥ ३॥४॥ कीर्त्यन्ते नामभिस्तैस्तु सर्वदैवतपूजनम् ।। सर्वदेवात्मको यस्मात्मणवः परिकीर्तितः ॥५॥ यस्मात्प्रणवः सर्वदेवतात्मकः परिकीर्तितस्तस्मात्तैः प्रणवनामभिः सवदैवतपूजनं युक्तमित्यर्थः ॥ ५ ॥ अस्य श्रीप्रणवाष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः, पर- मात्मा देवता, अनुष्टुप् छन्दः, अंबीजं, उं शक्तिः, मङ्कीलकं मोक्षार्थे जपे विनियोगः । ब्रह्मा ऋषिः इति परं ब्रह्मेत्यर्थः । यद्यपि पार्वत्यै शिवेनोपदिष्टत्वात्ल एव ऋषिर्युक्तस्तथापि प्रणवस्य परब्रह्मऋषिप्रसिद्धेस्तन्नानामपि स एव ऋषिः, शिवस्यापि परब्रह्मत्वेन ऋषित्वलाभादिति भावः ॥ ध्यानम्- ॐ कारं प्रणवात्मबोधविलसत्लाप्यं चिदानन्ददम् सत्यं ज्ञानमनन्तमूर्तिममलं सिद्धात्मकं सर्वगम् ।। प्रत्यञ्चं पुरुषोत्तमाब्जभवनं व्योमाभरोमावलिं वाणीलक्ष्मिजगज्जनौ कुशलया गौर्या समेतं भजे ॥ १ ॥ *ॐकारमिति। ॐकारकृतेनैव परमात्मबोधेनाविद्यावरणनिरा- सात्परमात्मभावेन विलसद्भिरधिकारिभिः स्वात्मतया प्राप्यम् । तथाषि- धस्वात्मदानेनैव चिदानन्दप्रदम् , स्वप्रकाशनिरतिशयानन्दप्रदम् । अन. न्तमूर्तिमपरिच्छिन्नस्वरूपम् । सिद्धात्मकं स्वतःसिद्ध स्वसिमावन्यानिर- - १ ५ प्रणवकल्पः २३ पेक्षमिति यावत् । सर्वगं सर्वाधिष्ठानम् , अत एव प्रत्यञ्चम् , क्षराक्षराती- तत्वात् । पुरुषोत्तमं सर्वप्राणिहृदयाब्जभवनम् । अथवा पुरुषोत्तमो वि. ष्णुः अब्जस्य चन्द्रस्य भवनमावासभूतो रुद्रः, अब्जं पद्म भवनं स्थानं यस्य स ब्रह्मा, एतेषां समाहारात्मा यः परमशिवस्तद्रूपम् । व्योमवनी- लत्वाव्याप्तत्वाद्वा व्योमाभरोमावलिम् , अत एव वाणी चई च ल- क्ष्मीश्च तासां समाहारो वाणीलक्ष्मि, तस्य जगतश्च जनौ कुशलया गौ- र्या परमशक्त्या समेतम् , ॐकारं भजे जपध्यानार्थविचारादिभिनिरन्तरं सेवेत्यर्थः ॥ १॥ एवं ध्यात्वा ततो भक्त्या नाम्नामष्टोत्तरं शतम् ।। प्रणवस्य जपेद्विमाः ! शुचिर्भूत्वा समाहितः ॥२॥ समाहितः अव्यग्रचित्तः॥२॥ ॐकारस्तारकं सूक्ष्म प्रणवः सर्वगोचरः ॥ दिव्यमेकाक्षरं शुभ्रं शुद्धं निर्मलमव्ययम् ॥ ३ ॥ उच्चार्यमाणः सर्व शरीरमूर्ध्वमुनामयतीत्योङ्कारः । संसारमहाभया- तारयतीति तारकम् । सूक्ष्मीभूय परशरीराण्यनुप्रविशतीति सूक्ष्मम् । ब्रह्म ब्राह्मणेभ्यः प्रणामयतीति प्रणवः । सर्वगोचरः सर्वव्यापी । द्योतनस्वभावं दिव्यम् । एकमेव न क्षरत्यश्नोतीति वा अक्षरम् । शुभ्र शुभम् । अशुद्ध- देहत्त्रनिरासित्वाच्छुद्धम् । अविद्यादिमलरहितत्वान्निर्मलम् । व्ययः अप. क्षयस्तभावाव्ययम् ॥३॥ सत्यो निरत्ययो देवो विश्वव्यापी प्रपञ्चगः ॥ विष्णु ब्रह्मा शिवो धाता विश्वकर्ता जगद्गुरुः ॥ ४ ॥ अबाध्यत्वात्सत्यः । अत्ययो नाशस्तद्रहितत्वानिरत्ययः । दीव्यति अ- वस्थात्रयेण सर्गादिना च क्रीडतीति देवः । विश्वव्यापनशीलत्वात् वि. श्वव्यापी । स्वाध्यस्तं प्रपञ्चमधिष्ठानसद्रूपेणानुगच्छतीति प्रपञ्चगः । सर्वे देवा विशन्त्यस्मिन्निति विष्णुः । बृंहयति जगदिति ब्रह्मा। निरति. शयानन्दत्वादनन्तकल्याणगुणनिधित्वाच्च शिवः । जगद्धारयति पोष. यति चेति धाता । विश्वस्य कर्ता निर्माता। जगतः परमहितोपदेष्ट्र- त्वात् जगद्गुरुः ॥ ४॥ स्रष्टा पालयिता गोप्ता वेदकर्ताऽऽगमाकृतिः ।। वेदान्तवेद्यो निलयं दैवतं भवनाशकम् ॥५॥ १ १४ १६ १८ २० २१ २२ २४ २७ २८ २९ 3. ३१ 33 ४ २४ प्रणवकल्पप्रकाशाख्यभाष्ययुतः जगतः आदौ स्रष्टा । ततः पालयिता पोषयिता। गोता उपघातकेभ्यो रक्षिता । वेदानां कर्ता कल्पादावाविष्कन् । आगमा रहस्यविद्यास्तदा- कृतिः। वेदान्तरुपनिषत्प्रमाणैवेद्यः । प्रलये निलीयतेऽस्मिन्जगदिति निलयम् । देवतानां समष्टिदैवतम् । भवनं भवः पुनर्जन्म तस्य नाशक मूलाच्छेदकम् ॥ ५ ॥ अतःपरं मातृकावर्णक्रमेण यथासम्भवं अकारादिनामान्याह-- अकारादिक्षकारान्तमातृकावर्णवाचकः ।। आलोचनतपःसिद्धजगदुत्पत्तिकारणम् ॥ ६॥ *अकारादीति* । अकारादिसर्वमातृकावर्णात्मना प्रकृतिप्रत्ययपद- वाक्यमहावाक्याद्यात्मना सर्वार्थवाचक इत्यर्थः । 'तपसा चीयते ब्रह्म, स तपोऽतप्यत, स तपस्तत्वा इद सर्वमसृजतेत्यादिश्रुतिप्रसिद्धं यत् आलोचनात्मकं तपस्तावन्मात्रेण सिद्धस्य जगत उत्पत्तेराविर्भावस्य कारणम् ॥६॥ इनपावकवातेन्द्रमृत्युधावनकारणम् ।। ईश्वरब्रह्मविष्णूनां रजःसत्वतमोभिदा ।। ७ ।। इनस्य सूर्यस्य पावकस्य वन्हेर्वातस्य वायोरिन्द्रस्य देवराजस्य मृ. त्योर्यमस्य च यद्भीत्या नियतकालं धावनं स्वस्वव्यापार प्रवर्तनं तत्र प्रशासितत्वेन कारणम् , भीषास्माद्वातः पवते भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च मृत्यु वति पञ्चमः ॥ इति श्रुतेरित्यर्थः । ईश्वरो रुद्रः ब्रह्मा विष्णुश्चेत्येतेषां यथोचितक्रमेण रजःसत्त्वतमागुणैरुपाधिभिर्भिद्यत इति भिदा विभिन्ना या मूर्तिस्तद्रूपः इत्यर्थः॥ ७॥ उमावाणीविष्णुपत्नीशक्तिरूपेण संस्थितः ॥ ऊरूमस्तककर्णादिनानाङ्गविकलस्तथा ॥८॥ तेषामेव क्रमात् उमा पार्वती वाणी सरस्वती विष्णुपत्नी लक्ष्मीरिति प्रसिद्धा याः संहारसृष्टिपालनशक्तयस्तद्रूपेणापि संस्थितः । अरू मस्तकं कर्णी चेत्यादिनानाविधैरङ्गैर्व्यवहरन्नपि वस्तुतोऽशरीरत्वात्तद्रिकला अशरीरः 'अपाणिपादा जवनो गृहीतेत्यादिश्रुतेः ॥ ८॥ ३५ 38 ३७ प्रणवकल्पः । २५ ३८ ३९ ताप्रभृतिरोगाणामालयानालयाभिधः ।। ऋषिवृन्दसहस्राणां ज्ञानमोक्षपदायकः ॥ ६ ॥ ऋक्षा अर्शो रोगः, तत्प्रभृतीनां गंगाणामालय आश्रयो देहस्तदात्म- ना भ्रान्त्या प्रतीयमानोऽपि वस्तुतस्तदनालय इत्यभिधाश्रुत्यादिप्रसिद्धि. यस्य, ‘स पर्यगाच्छुक्रमकायमवणमस्नाविरं शुद्धमपापविद्धमित्यादिश्रु- तेः। सहस्त्रशब्द आनन्त्यपरः, स्वजपादिनिष्ठानां ऋषिवृन्दसहस्त्राणा- मिह देह ब्रह्मलोके वा ज्ञानस्य क्रमाक्रममोक्षस्य चोपासनापरिपाकतार- तम्येन प्रदायकः॥8॥ रूक्षाविदुरप्रज्ञानसम्पन्नस्यापवर्गदः ।। लुप्तलुम्पकलौपन्यत्रितयप्रतिपादकः ॥१०॥ ऋकारादिनाम्नो लोके अदर्शनात्सादृश्यात् रूकारादि गृह्यते, ये तपोनिर्जितरसनेन्द्रियत्वाद्क्षस्य भैक्षस्य रसं न विदुस्तेषु स्वार्थविज्ञा- नसम्पन्नस्य सद्योऽपवर्गदः । लुकागदिनाम्नोप्यप्रसिद्धेस्तत्सदृशलुका. रादिनामनिर्देशः, लुप्तः नष्टः अतीतः, लुम्पको लोपकर्ता वर्तमानः, लोप- न्यो लोपनाहः भविष्यत्पदार्थः, पतत्रितयप्रतिपादकः सर्वार्थप्रकाशक इति यावत् ॥ अथवा लुप्तो बाध्याऽविद्यादिस्तस्य लुम्पकश्चरमवृत्त्या रूढः परमा- त्मा लोपन्यो लोपनकरणीभूतश्चरमसाक्षात्कारस्तत्त्रितन्यस्य प्रतिपा- दकः प्रापक इत्यर्थः ॥ १०॥ एलादिवासनायुक्तपानीयोत्थानलालसः ॥ ऐश्वर्याष्टकभूयिष्ठसिद्धापुरुषसेवितः ॥ ११ ॥ एला प्रसिद्धा आदिपदादुशीरकर्पूरादि, तद्वासनायुक्तस्य पानीय स्योत्थाने सर्वसुकृतिनामुपभोगायोत्पादने लालसा वाञ्छा यस्यलः। ऐश्व. र्याष्टकमणिमादिकं प्रसिद्धं, तद्भूयिष्ठैस्तत्प्रचुरैर्देवैः सिद्धर्योगमन्त्रादि- सिद्धरापुरुषैः ईशत्पुरुषाकारैः किन्नरादिभिश्च सेवितः॥ ११ ॥ मादिनिखिलाम्नायमूर्धन्याम्नायबोधितः । औनत्यगर्वसंनद्धदैतेयकुलघातकः ॥ १२ ॥ ॐकारादिभिर्निखिलानामाम्नायानां मूर्द्धनि भवैर्मूर्द्धन्यैर्महामन्त्रै- रामायैश्च जपोपासनस्वाध्यायजन्यचित्तशुद्धिद्वारा तात्पर्यवत्प्रमाण- ४३ ४४ ४ प्रणव ४४ ४७ ४८ ५० २६ प्रणवकल्पप्रकाशाख्यभाष्ययुतः । तया च तस्वतो बोधितः । औन्नत्यमैश्वर्यबलादुत्कर्षस्तत्प्रयुक्तेन ग- वेण युद्धाय सन्नद्धस्य दैतेयकुलस्य विष्ण्वादिरूपेण घातकः ॥ १२ ॥ अज्ञानतिमिराप्लुष्टजगदाभासदीपकः ।। अः कंजजहरेंद्रादिसर्वदैवतकारणम् ॥ १३ ॥ अज्ञानलक्षणेन तिमिरेणान्धकारेणाक्षानेन तिमिरेण च प्लुष्टस्य दग्धप्रायस्य जगतः आभासे प्रकाशने बोधने च दीपकः। साक्षादनु- स्वारादेर्नाम्नोऽत्यन्ताप्रसिद्धरीषच्छतिसाम्येनाशानेत्यादिनामोक्तिः । अ इतिविसर्गात्मकमेव नाम । अथ ककारादीनि नामानि । काजातः काजो ब्रह्मा हरिविष्णुरिन्द्रादयश्चेति सर्वेषां दैवतानां कारणम् ॥१३॥ कार्यकारणसंघातदेहावासमनोरथः ।। खादिभूतादिभूतात्मा गम्यागम्यविचक्षणः ॥ १४ ॥ कार्याणां भौतिकानां कारणानां महाभूतानां च संघातरूपा ये व्यष्टि- समष्टिदेहास्तेषु स्वसृष्टेषु जीवभावेन प्रविश्य आवासे मनोरथो वाञ्छा यस्य सः । 'हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपेव्याकरवाणोत्यादिश्रुतेः । खं आदिर्येषां तेषां महाभूतानां आदि भूतः कारणत्वेन स्थितः आत्मा । चक्षुरादिप्रमाणगम्ये लौकिकविषये तद- गम्ये अलौकिके धर्मब्रह्मविषये च करतलामलकवदसंदिग्धापरोक्षादिहेतु- त्वाद्विचक्षणः ॥१४॥ धर्मरश्मिप्रभाकर्ता बहिर्मुखपराङ्मुखः ॥ चराचरस्वरूपी च छेतृछेद्यादिदूरगः ॥ १५ ॥ धर्मरश्मे सूर्यस्य प्रभायाः प्रकाशनशक्तः कर्ता, "येन सूर्यस्तपति तेजसेद्ध" इत्यादिश्रुतेः । बहिर्मुखेष्वध्यात्मतत्त्वविचारविमुखेषु विषया- सक्तजनेषु पराङ्मुखः । चरा जङ्गमाः, अचराः स्थावरास्तदात्मत्वात्त- स्वरूपी । तथात्वे प्रसक्तं दोषं निवारयति *छेत्रिति । आदिपदाहग्धदाय क्लेदयितृक्लेद्यं भेतृभेद्यमित्यादिप्रपंचरूपं, तस्य दूरगः, अध्यस्तधर्माणा- मधिष्ठानास्पर्शित्वादिति भावः ॥ ११ ॥ जप्तसाहस्रजप्यश्च झडितिप्रतिपादितः ॥ सर्वज्ञोऽभिज्ञ विज्ञेयष्टकवास्यभिसाधितः ॥ १६ ॥ जतारः सहस्रमेव साहस्राः असंख्याताः यतयो यस्य, सुलोप- ५२. ५३ ५५ ५० ५७ ५८ ६० ह प्रणवकल्पः । 83 ४ EE परं श्छान्दसः, मुमुक्षुभिर्जपितुं योग्यो जप्यः वाचिकमानसजपाहः। जप्यमा- नेन स्वेनैव झटिति अविलम्बेनाऽऽविर्भूतब्रह्मात्मभावेन प्रतिपादितः अनुभावितः। तथाप्रतिपत्त्या सर्व स्वात्मतया जानातीति सर्वशः । अभि- औरनुभवनिष्ठेरेव विज्ञातुं शक्यो विशेयः। इमानि नामानि उकारादिना. मालाभात्पूर्ववत् । टङ्कः पाषाणदारणः, वाशी काष्ठतक्षणी ताभ्यां तबन्धं विच्छिद्य मुक्तरूपेण साधितो न, किन्तु ज्ञानेनाज्ञानबन्धं विच्छिद्य नित्य- सिद्धस्वरूपेणैव परिशेषितः इत्यर्थः ॥ १६ ॥ निष्ठुराकृत्तिसम्पृक्तो दम्भेतरविशेषितः ।। ढक्कानिदादसम्पृक्तः पाणित्राणपरायणः ॥ १७ ।। उकारादिनाम्नोप्यप्रसिद्धेस्तन्मध्यं नामाह *निष्ठुरेति ॥ दृढतर- संसारबन्धच्छेदे निष्ठुराकृत्या निर्दयाकारया चरमसाक्षात्कारवृत्त्या सम्पृ- तः मिश्रितः । यतो दम्भेतरैर्दम्भो दो भिमानश्चेत्यादिभगवदर्शिता- सुरसम्पद्विलक्षणै'रभयं सत्त्वसंशुद्धिर्शानयोगव्यवस्थितिरित्यादिदैव- सम्पद्भिर्विरोषितः समर्पितः । ढकाऽत्र सकार्याविद्याविजययशःपटहस्त- निनादसदृशैः 'निष्कलं निष्क्रिय शान्तं निरवद्यं निरञ्जनम्, अमृतस्य सेतुर्दग्धेधनमिवानलमित्यादिश्रुतिभिः स्वतात्पर्योद्घाटनाय सम्पृक्तो मिलितः । स्वोपासकादिप्राणिनां त्राणे परायणस्तत्परः ॥ १७ ॥ तरुणारुणसन्दीप्तजटामण्डलमण्डितः ।। स्थाणुः कूटस्थलमा च दानादानविचक्षणः ॥ १८ ॥ शिवरूपत्वात्तरुणारुणेन प्रततकनकवत्सन्दीप्तेन जटामण्डलेन म- ण्डितः । सर्वसंसारशाखास्कन्धच्छेदपरिशिष्टपुरुषाकृतित्वात्स्थाणुः । कूटमिव निर्विकारं स्थितस्वरूपमेव लंघम स्वरूपलक्षणं यस्य । सृष्टिस्थि- तिकालयोः सर्ववस्तुषु तत्तदर्थक्रियाशक्तीनदाने प्रलयकाले उपसंहारेण पुनरादानेच विचक्षणः ॥ १८ ॥ धनाधिपसमाराध्यो नक्षत्रोडपमंडनः ।। पूज्यपूजकपूजा च फलरूपी फलात्मनाम् ।। १६ ॥ धनाधिपेन कुबेरेण समाराध्यः । निशाकाररूपेण नक्षत्रोडुपमण्डनः। पूज्यः पूजनाहः । पूजकः पूजाकर्ता पूजा पूजनक्रिया तत्तद्रुप इत्यर्थः॥ एवं काम्यकर्मानुष्ठानेन स्वर्गादि फलासक्त्या फलात्मनां फलरूपी ॥१९॥ ६८ ६२ २८ प्रणवकल्पप्रकाशाख्यभाष्ययुतः । ८० ८१ बिम्बिनीशतसम्पूज्यो भयाभयसुकोविदः । मर्यादास्थापनाध्यक्षो यायजूकाभिवाञ्छितः ॥ २० ॥ ध्येयाकारप्रतिबिम्बवत्पश्चिमवृत्तवृत्तयो बिम्बिन्यस्तासां शतैान- यः संपूज्यः। बाहये द्वैताभिनिवेशस्तन्मूलमज्ञानं भयहेतुत्वाद्भयं ब्रह्मात्मै- क्यप्रतिष्ठा ह्यभयहेतुत्वादभयं तयोःपादशो विभागेनस्फुटम्प्रतिपादकत्वा- याभयसुकोविदः। 'भीषास्माद्वातः पवते, तत्त्वेव भयं विदुषोऽमन्वान- स्येत्यादिश्रुतेः। अत एव जगन्मर्यादास्थापने अध्यक्षः स्वामी । यज्ञादि- साधनत्वात्तत्फलदत्वाञ्च यायजूकैरभिवाञ्छितः ॥ २० ॥ रम्भावनविहारी च लावण्यकमनीयदः ॥ वन्दारुवन्दनीयश्च शङ्करों लोकवासिनाम् ॥ २१ ॥ यशादिफलभोक्तत्वरूपेण रम्भाद्यप्सरसां सम्बन्धिनि नन्दनादिवने विहारी। स्वगिणां लावण्यकमनीयं चन्द्रकलामयं शरीरं ददातीति लावण्यकमनीयदः। अत एव वन्दारुभिर्नतिस्तुतिपरैभक्तैर्वन्दनीयः नम्यः स्तुत्यश्च । स्वर्गादिलोकवासिनां तद्विषयभोगवृतितारतम्यानुसारेण मानुषानन्दादिहिरण्यगर्भानन्दान्तं शं सुखं करोतीति शङ्करः, 'एतस्यै- वानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुतेः ॥ २१ ॥ पडाननजनौ हेतुः सङ्कल्पितपदार्थदः ।। सर्वात्मा सर्वसंपदः सर्वसाक्षी च सर्वदः ॥ २२ ॥ शङ्करत्वादेव षडाननस्य स्कन्दस्य जनौ जन्मनि हेतुः। भक्तसङ्क- ल्पितधर्मार्थकाममोक्षपदार्थदः । ज्ञानिनां सर्वात्मा । सम्पदर्थिनी सर्व- सम्पदः । सर्व साक्षात्पश्यतीति सर्वसाक्षी । सर्वं ददाति यतीति वा सर्वदः ॥ २२॥ सर्वका सर्वभोक्ता सर्वेश्वरनियामकः ॥ सर्वभूतहृदावासः सर्ववस्तुस्वरूपकः ॥ २३ ॥ सर्वस्य कर्ता । सर्वस्य भोज्यस्य भोक्ता । सुरेश्वरनरेश्वरभुजगे. श्वरादीनां सर्वेषामीश्वराणां नियामको नियन्ता। सर्वेषां भूतानां प्राणि- नामात्मत्वात्सर्वभूतहदावासः । सर्वनामरूपकल्पनास्पदत्वात्सर्वध. स्तुस्वरूपकः ॥ २३॥ ८४ ८६ ८७ ९३ ९४ प्रणवकल्पः । S8 २७-१.४ i०५ १०६ १०७ १०८ - हव्यकव्यादिभोक्ता च कृपालुजनप्शेखरः ॥ क्षितिनीराग्निपवनखसोमरविपुंकृतिः ॥ २४ ॥ दैवे यशे हव्यानां पित्रे कव्यानाम् , आदिपदान्मानुषे हन्तकारानानां च भोक्ता । लकारादिनामदौर्लभ्यात्त दुपान्त्यं नामाह *कृपालुजनशे- खर इति* । कृपालनां जनानां शेखरः शिरोभूषणवच्छिरसा मान्यः पर- मकृपालुरित्यर्थः । क्षित्याधष्टमूर्तिरूपत्वाक्षित्याकृतिरित्याद्यष्टौ नामानि समस्य निर्दिष्टानि । कृतिशब्दः आकृतिपरः प्रत्येकं सम्बध्यते ॥२४॥ शब्दब्रह्म परब्रह्म कार्यब्रह्म च ब्रह्म च ॥ मूत उवाच- इतीदं प्रणवस्यास्य नाम्नामष्टोत्तरं शतम् ।। सर्वदैवतपूजायै निमित्तं वेदसंमतम् ॥ २५ ॥ नामाख्यातोपसर्गनिपातप्रकृतिप्रत्ययादिघटितमूर्तिवेदव्याहृतिसार- त्वाच्छन्दब्रह्म। विराहिरण्यगर्भावात्मकापरब्रह्मापेक्षया कारणत्वेन पर- त्वात्परब्रह्म मकारार्थः । तत्सर्वसूक्ष्मस्थूलसृष्टयुपहितं कार्यब्रह्मेति अकारौकारार्थः । एतावेव तत्त्वंपदार्थो तयोः कार्यकारणोपाधिपरित्या- गेन शोधने अखण्डेकरसं समस्तप्रणवलक्ष्यमर्द्धमात्रालक्ष्यं वा ब्रह्म, स एव प्रणवार्थो महावाक्यार्थश्च तद्रूप इत्यर्थः ॥ अत्र आदौ एकत्त्रिंश- नामानि, अन्ते एकादश नामानि मातृकाक्षरक्रम विनैव निर्दिष्टानि, मध्ये षषष्टिनामानि यथासम्भवं मातृकाक्षरक्रमेण निर्दिष्टानि । इति- शब्दः समाप्तौ । वेदानां सारत्वेन सम्मतम् ॥ २५ ॥ चिद्विलासविलासाय ॐकाराय नमो नमः ।। यः पठेत्सततं जन्तुर्मुच्यते सर्वपातकः ।। यतिभिः पठनीयं च नियमेन त्रिकालतः ॥ २६ ॥ यो जन्तुरधिकारी सततं नित्यं पठेत्सः। तत्र यतीनां नित्यः अन्येषां काम्यो तत्पाठ इति दर्शयति *यतिभिरित्यादिना* ॥ २६ ॥ सर्ववेदफलं प्रैति ब्रह्मचारी पठेद्यदि ॥ वनस्थस्तापसी सिद्धिं गृहस्थः कर्मणां फलम् ॥ २७ ॥ सर्ववेदफलमेकैकशाखाध्ययनफलम् । एवं वनस्थ एकैकतप- सापि सर्वतपःसम्बन्धिनी सिद्धिम्। एवं गृहस्थोऽपि सर्वत्र निर्विघ्नतया तत्फलसिद्धिमिति वा ।। २७ ।।

प्रणवकल्पप्रकाशाख्यभाष्ययुतः नित्यं निर्दुःखमानन्दं सन्यासी लभते तदा । यस्मिन्देवे यस्य भक्तिस्तेन नामभिरतकैः ॥ २८ ।। एतकैः-एतैः, सर्वनामत्वात्प्रशंसायामकच् ॥ २८ ॥ चतुर्थीनमकारपूर्वैर्देवः स पूज्यताम् ।। नामान्येतानि पार्वत्यै इत्येवं शंभुरब्रवीत् ॥ २६ ॥ *चतुर्थीनमकारपूर्वैरिति* चतुथ्यंतैनम ॐकारपूर्वरित्यर्थः। चतु- थीनमोन्तैरोङ्कारपूर्वैरिति वा शाकपार्थिवादित्वकल्पनया मध्यमपदलोपी समासः । उपसंहरति नामान्यतानीति* ॥ २६ ॥ इति प्रणवाष्टोत्तरशतनाम समाप्तम् ।। मूत उवाच- अथर्वरहस्यप्रणवषोडशानामानि वक्तं प्रति जानीते- अथातः मंप्रवक्ष्याभि रहस्यं देवदुर्लभम् ।। साङ्गोपाङ्गागमानां च पठंने तुल्यदं फलम् ॥ १॥ *अथात इति*। साङ्गोपाङ्गानामागमानां वेदानामङ्गानि शिक्षादीनि षट् , उपाङ्गानि पुराणादीनि चत्वारि, वेदाश्चत्वारोऽङ्गिन इति । चतुर्दशविद्यास्थानानां पठने यत्फलं तत्तुल्यफलदमिति वक्तव्ये तुल्यदं फलमिति छांदसम् ॥१॥ ॐकारः प्रणवोऽनन्तः सर्वव्यापी च तारकम् ।। शुक्लं सूक्ष्म वैद्युतं च परं ब्रह्म तथैव च ॥ २ ॥ ॐकारइत्यादीनि पञ्चदशनामान्यथ कस्मादुच्यन्ते? ॐकारा यस्मादु- चार्यमाण एव सर्व शरीरमूर्ध्वमुन्नामयतीत्यादिना अथर्वशिरसि श्रुत्यैव व्याख्यातानि तत एवावगन्तव्याति ॥२॥ एकश्च एकरुद्रश्च ईशानो भगवांस्तथा । महेश्वरी महादेवः प्रत्यगात्मा तथैव च ॥३॥ प्रत्यगात्मेति नाम तु तापनीयादौ प्रसिद्ध सर्वान्तरसाक्षिचैतन्यं परम् षोडशैतानि नामानि प्रणवब्रह्मणो द्विजाः ।। मुमुक्षोर्मोतदानाय जगादाथर्वणो श्रुतिः ॥ ४ ॥ आथर्वणी अथवेशिरस्तापनीयादिरूपा श्रुतिः॥४॥ , 3 ५ 10 १२ १४ १६

प्रणवकल्पः
३१
यः पठेत्रिषु कालेषु ज्ञात्वा माहात्म्यमेषु सः ।।
अपवर्ग शुभं प्रैति जन्तुस्तेनाऽभिवीक्षितः ॥ ५॥
माहात्म्यमथर्वशिरआयुक्तं ज्ञात्वा यः पठेत्सः जन्तुः जन्तुप्रायः अ-
ल्पज्ञानतपस्कोऽपि तेन प्रणवात्मना महेश्वरेण अभिवीक्षितः सन् अपव.
र्गफलोपहितं शुभं तत्त्वज्ञानम् प्रैति ॥ ५ ॥
इति प्रणवषोडशनाम समाप्तम् ॥
ईदृशं नामादिरहस्यगर्भ कल्पमेव पठनादिना परिशीलनीयं परम-
पुरुषार्थिभिरिति प्ररोचयन्नुपसंहरति-
पठन्तु शृण्वन्तु च वाचयन्तु लिखन्तु गायन्तु च बोधयन्तु ।
ओङ्कारकल्पं यतिबन्दसेव्यं मूतोक्तमीशोक्तमनिन्दितं च॥६॥
इति श्री स्कन्दपुराणे वैष्णवसंहितायां मन्त्रप्रस्तावे प्रणव-
कल्पे द्वितीयोऽध्यायः ॥२॥
*पठन्त्विति* ॥ अन्ते सूत्राक्त आदौ ईशोक्तमिति शुद्धसांप्रदायिकत्वं
दर्शितम् । अनिन्दितमिति प्रमाणन्तगविरुद्धत्वं दर्शितम् ॥ ६॥
इतिश्रीप्रणवकल्पप्रकाशे द्वितीयोऽध्यायः ॥ २ ॥
-
प्रणवः परमं ब्रह्म प्रणवः परमः शिवः ।।
प्रणवः परमो विष्णुः प्रणवः सर्वदेवताः ॥१॥
प्रणवः परमं ब्रह्मति प्राख्याख्यातम् ॥ १॥
इदानी प्रणवोपासकानां जपादिविघ्रकारिभ्यो रक्षापिशाचादिभ्यो
बाधा माभूत् इति सर्वविघ्ननिवारकं.सर्वतोरक्षाकरं प्रणवपञ्जरं वक्तव्यं
सृतः प्रतिजानीते-
सूत उवाच-
अथातः संप्रवक्ष्यामि पञ्जरं वजूपञ्जरम् ।।
प्रणवब्रह्मणो विप्राः ! पापघ्नं शंभुरब्रवीत् ॥ २॥
*अथात- इति ॥ वज्रपजरं वज्रमयं पचरमिवाभेद्यम् । यद्यपि
प्रथमपनरपदस्य क्रतुनामश्येनादिपदवत्सादृश्यगर्भगौण्यैव प्रवृत्तः पुनः
पखरपदं पुनरुक्तमिव, तथापि 'उदपेषं पिनष्टी'त्यत्र पिषेरिवापौनरुक्त्य
बोध्यम् ॥ २॥

३२
प्रणवकल्पप्रकाशाख्यभाष्ययुतः
ॐकारः पातु तिष्ठन्तं शयानं प्रणवोऽवतु ॥
गायन्तं पात्वनन्तो मां भुञ्जानं परमेश्वरः ॥३॥
अत्र द्वितीयान्तानि मामित्यनेन संबध्यन्ते, प्रथमान्तानि प्रणव इत्य.
नेन। तिष्ठन्तम्-उपविष्टम् । शयानं निद्रोचिताङ्गविन्यासम् , भंजानमभ्य.
वहरन्तम् ॥३॥
सर्वव्यापी सर्वदिक्षु सर्वाण्यङ्गानि सर्वगः ।।
सम्यकर्मसु मां देवः सर्वशास्त्रेषु मायिकः ॥ ४ ॥
सम्यकर्मसु शास्त्रविहितकर्मोपासनेषु देवस्तत्तत्कर्मोपासनाराध्यदे-
वतास्वरूपः शास्त्रेषु ज्ञानोपायेषु प्रमाणेषुमायिको मायाधिष्ठाता, माया-
शब्दान्मत्वर्थोयेण् । मायानिवृत्तिलक्षणस्य शास्त्रफलस्य तदधीनत्वा-
दिति भावः ॥४॥
निद्राणं पातु मां भद्रः करोतु शुभमव्ययम् ॥
पादादिमस्तकान्तानि रक्षत्वङ्गानि रक्षकः ॥ ५ ॥
भद्रो मङ्गलरूपः, स एव प्रमादप्रसक्तदिवासन्ध्यादिकं निद्राप्रसक्तं
शुभकर्मणो व्ययं निवार्य तदव्ययं करोत्वित्यर्थः। रक्षकस्तत्तदङ्गाधिष्ठा-
तृदेवतारूपेण तत्तदङ्गरक्षकः ॥ ५ ॥
विनाशयेदहङ्कार बुद्धिमात्मनि चोदयेत् ॥
करोतु निर्मलं चित्तं निर्ममत्वादिचिन्तितः ॥ ६॥
अहङ्काराद्युपहितचिद्रूपेण तत्तुदधिष्ठातृदेवतात्मना वा चिन्तितः।६।
दौजन्यं वर्जयेद्रं मयि सर्वबलं बनः ।।
सुखीकरोतु मामात्मा पैशाच्यादिभयं हरेत् ॥ ७ ॥
दौर्जन्यं दुष्टबीजयोनिकालदेशादिजन्मयुक्तं दुर्बुद्धिदोषं वर्जयेदिति,
चुरादिण्यन्ता तुमणिचि प्रार्थनायां लिङ् । पैशाच्यादिभयं दुष्कर्मवशा-
द्भावि पैशाच्यादिप्रयुक्तं साम्प्रतिकपिशाचादिचेष्टाप्रयुक्तं च भयम् ॥७
सम्पन्नः सम्पदो दद्याद्विपदो विनिवर्तयेत् ॥
मूलाधारादिषट्चक्रं पातु षट्चक्रगोचरः ॥ ८॥
अणिमाद्यैश्वर्यसम्पन्नः सम्पदः ऐहिकीः पुत्रधनादिसम्पदः, आमु-
धिमकीरणिमादिसम्पदश्च विपदोप्यैहिकीरामुष्मिकीश्च । गणपत्यादि
देवतारूपेण मूलाधारादिषट्चक्रगोचरः, योगबलोत्थापितकुण्डलिनीरूपेण
क्रमान्मूलाधारादिषट्चक्रगोचरः सन् इति वा ॥ ८ ॥

प्रणवकल्पः । ३३ भवाब्धिपोतान्मान्तत्र पतन्तमभिरक्षतु ॥ यमभीतिकरस्तस्मादव्यान्मामतिघोरतः ॥ ६ ॥ यमस्यापि भीतिकरो भीषयिता 'भीपास्मादग्निश्चेन्द्रश्च मृत्यु - वति पञ्चम' इति श्रुतेः । अतिघोरतस्तस्माद्यमात् ॥ ६ ॥ पुनर्जन्म निगकुर्यादानन्दं स प्रयच्छतु । पापकर्मसु मां शुभ्रो विमुखं विदधातु च ॥ १० ॥ शुभ्रः शुक्लः, मां विमुखं पराङ्मुखम् ॥ १० ॥ सन्धिभ्यो मां सन्धिकर्ता पायान्मर्मसु मर्मगः ॥ निर्ममत्वं सदा दद्यात्मणवः सर्वगोचरः ॥ ११ ॥ सन्धिभ्यः सन्धिप्रभवेभ्यो रोगेभ्यः, सर्वदेहावयवसन्धीनां निर्माण- कर्ता । सर्वगोचरः सर्वममताविषयावभासचैतन्यरूपः ॥ ११ ॥ राज्ञो भयात् मन्त्रराजोराजभीत्या अराजकः ॥ पादाक्रान्तानरीन्कुर्याच्छत्रुसङ्घभयङ्करः ।। १२ ।। अराजभीत्या इति पदच्छेदः । अराजकप्रयुक्ताद्भयादित्यर्थः । न विद्यते नियन्ता यस्य स अराजकः ॥ १२ ॥ सर्व वश्यं करोत्वार्यः सर्वदा मयि तिष्टतु ।। मूत उवाच- इतीदं पञ्जरं दिव्यं प्रणवब्रह्मणो द्विजाः । ॥ १३ ॥ आर्यः पूज्यः । मयि रक्षकत्वेन सर्वदा सर्वाङ्गेषु पञ्जरीभूतस्तिष्ठतु १३ यः पठेत्सततं जन्तुर्महापातकनाशनम् ।। काव्यानां नाटकानां च दर्शनानां च सर्वशः ॥ १४ ॥ महापातकनाशनमितीदं पजरं जन्तुरधिकारिजन्मवान्यो भवेत्स म. हामतिः सन्कान्यादिवेदपर्यन्तानां सर्वस्य च ग्रन्थजालस्य, अर्थ वेदेति व्यवहितेन सम्बन्धः । दर्शनानां न्यायवैशिषकसांख्ययोगमीमांसाद्वयल- क्षणानां पर दर्शनानाम् ॥ १४ ॥ अलङ्कारमतानां च पुराणानां च सर्वशः ॥ वेदान्तानां च वेदानां गुरुशिक्षा विना स्वतः ॥ १५ ॥ अलङ्काराणां प्रसिद्धानां मतानां बाह्यषण्मतानाम् , चकारादश्वगजर- नादिपरीक्षाशास्त्राणाम् , पुराणानां चकारात्स्मृतीनाम् , घेदान्तानामु. ५ प्रणव ३४ प्रणवकल्पप्रकाशाख्यभाष्ययुतः । पनिषदां, चकाराव्याससूत्रभाष्यादीनाम्, वेदानां कर्मोपासनाका- ण्डानाम् ॥ १५ ॥ ग्रन्थजालस्य सर्वस्य स वेदार्थ महामतिः ॥ ज्ञात्वा ग्रन्थार्थमेतेषां व्याख्याय छात्रकान्मति ॥१६॥ ग्रन्थजालस्य सर्वस्येति शिक्षाद्यङ्गानामायुर्वेदधनुर्वेदगान्धर्वार्थ- शास्त्राणां निधिमन्त्रशिल्पादिविद्यानां च संग्रहार्थम् । एतेषा सर्व- वाङ्मयानां ग्रन्थार्थ ज्ञात्वा छात्रकान् शिष्यान्प्रति व्याख्याय ॥ १६ ॥ अन्ते वेदान्तसिद्धान्तब्रह्म प्रामोत्यनुत्तमम् ।। ॐकारपञ्जरं गौर्यै इत्येवं शम्भुरब्रवीत् ॥ १७ ॥ इति प्रणवपञ्जरं सम्पूर्णम् ॥ अन्ते प्रारब्धभोगावसाने ॥ १७ ॥ इति प्रणवपारव्याख्या सम्पूर्णा ॥ सूत उवाच- अथातः सम्प्रवक्ष्यामि प्रणवब्रह्मणो द्विजाः ।। मालामन्त्रं पुरा शम्भुर्यथा प्रोवाच पार्वतीम् ॥ १॥ मालामन्त्रं नाममालान्वितं मन्त्रम् ॥ १॥ ॐ नमो भगवते ॐकाराय निखिलवेदविदिताय वेदस्वरूपिणे अ- खिलवापिणे वागभिन्नप्रपञ्चरूपाय परब्रह्मणे करुणाकरविग्रहाय श- ब्दब्रह्मणे प्रतीचे पराचे संसारपारावारतारकाय सकलकत्रे सकल- भोक्त्रे सुरासुरस्वरूपाय चराचरकलेवरायाऽत्यन्तपुरुषार्थाय समस्तम- निप्राप्याय प्रणवाय सर्वभूतहृदयाय अरूपिणे अदेहायाऽद्वैतात्मने । भगवते षड्गुणैश्वर्ययुक्ताय, ॐ कारायेति विशेष्यम् । अन्यानि चतु- yन्तपदानि विशेषणानि। निखिलानां वेदानां सारत्वेन कारणत्वेन वेद्य- त्वेन उपास्यत्वेन च विदिताय । अत एव वेदस्वरूपिणे । परात्मकस्य प्रण- वस्येव प्राणसङ्गानाभ्युरःकण्ठादिदेशेषु पश्यतीमध्यमावैखरीभावेना. खिलवापिणे 'सर्व हीदं नामतीत्यादिश्रुतेः । घटोयं पटोयमिति नाम- तादात्म्यानुभवाच्च नामाभिन्नः प्रपञ्चस्तद्रूपाय । 'एतद्वै सत्यकाम पर चापरं च ब्रह्म यदोङ्कारः, यच्चान्यत्त्रिकालातीतं तदप्योङ्कार पवेत्या- दिश्रुतेः परब्रह्मणे । गुरुदेवतादिरूपेणानुग्राहकत्वात्करुणाकरविग्रहाय ।

प्रणवकल्पः । ३५. सर्वशब्दात्मना बृहणाच्छब्दब्रह्मणे । प्रत्यग्दृशां प्रतीचे । पराग्वशां पराचे । संसारलक्षणस्य पारावारस्य तारकाय । सकलस्य जगतः कत्रे निर्मात्रे । तथा सकलस्य भोक्त्रे उपभोक्त्रे । तत्र सद. सत्कर्म कर्तुं च क्रमात्सुरासुरस्वरूपाय । अत एव सदसन्मि- श्रकर्मजनितचराचरकलेवराय । अत्यन्तं पुरुषैरर्थ्यते इत्यत्यन्तपु- रुपार्थः परमपुरुषार्थस्तस्मै शानफलाय । समस्तैर्मननशीला मुन- यस्तैः प्राप्याय । स्वोपास्तिजपयक्षपराणां ब्रह्म प्रणामयति बव्हीकरो- तीति प्रणवस्तस्मै । सर्वभूतानामात्मत्वाद्रहस्यत्वाच हृदयाय । अरूपिणे इति चक्षुराद्यविषयत्वोक्तिः । अदेहायेति स्थूलसूक्ष्मकारणदेहप्रतिषेधः । अत एवाद्वैतात्मने । एतदन्तानां ॐ नमो भगवते ॐ कारायेत्यत्रान्वयः ॥ भो भो नित्यशुद्धमुक्तस्वरूप ! भेदबुद्धिप्रदायिनी ग्रहणाग्रहणरू- पिणी सकार्यो सविलासिनी महामायां विनाशय विनाशय, कामक्रो- धलोभादिशत्रून्मारय मारय, शमदमादीन् सचिवान्संयोजय संयोजय, सुधर्मिणी महाजायां मोक्षलक्ष्मी विवाहय विवाहय, अपवर्गसाम्राज्ये मामभिषेचयाभिषेचय, स्वरूपं प्रकटय प्रकटय, जरामरणादिपिशाचा. नुच्चाटयोचाटय, शब्दादिवृश्चिकभयं निवाग्य निवारय, मातृयोनिय- त्रप्रपीडन निवर्तय निवर्त्तय । इत ऊर्ध्व सम्बुध्यन्तानां पदानां विषये तत्तक्रियास्वन्वयः। भोभो इति आदरेण सम्बोधनाद्विर्वचनम्। नित्यं शुद्धं बुद्धं मुक्तं स्वरूपं यस्येति बहुब्रीहिः । नित्येत्यादि प्रत्येकसम्बोधनानि वा । 'नाहं ब्रह्मेति' स्वात्मनि भेदबुद्धिप्रदायिनीम् । ग्रहणमन्यथा ग्रहणं देहादावात्मबुद्धिः, अग्रहणं ब्रह्मस्वभावास्फूर्तिस्तदुभयरूपिणीम् । सकार्या वियदादिकार्यसहिताम् । जाग्रदादिविलासैः सविलासिनीम् । सर्वाविद्यासमष्टिरूपत्वान्महती मा- याम् । स्वार्थतत्त्वसाक्षात्कारजननेन विनाशय, भृशार्थे द्विवचनम् । तदर्थ प्रथम कामादीन् शत्रन्मारय । शमादीन् सचिवान् सहायान्संयोजय । शमदमोपरतितितिक्षाश्रद्धासमाधानानि शमादयः । अनपायित्वात्सुध- मिणीम् । महान् त्रिविधपरिच्छेदशून्यो जायते अस्यां स्वयमिति महाजा. या तथाविधाम् । मोक्षलक्ष्मी विवाहय । अपवर्गश्चरमप्रमाणफला नि. रतिशयानन्दावाप्तिस्तदूपे साम्राज्ये मामभिषेचय । स्वस्य पारमार्थिक रूप प्रकटय । जरामरणान्ताः षडूर्मयो जरामरणादयः पिशाचा शब्दा- दयः पञ्च श्रोत्रादीनां विषयास्त एव वृश्चिकास्तेभ्यो भयम् । मातृयोनि- ३६ प्रणवकल्पप्रकाशाख्यभाष्ययुतः । यन्त्रपीडनं जरायुजेषु प्रसिद्ध जन्मपीडामात्रोपलक्षणम् । महाभावैकगम्यानिरुपद्रवा निरतिशयैश्वर्य! बहुभयसंरक्षक ! सान्त सलक्षणं साङ्गोपाङ्ग सोपनिषत्कं सरहस्यं वेदं बोधय बोधय, मूर्तित्रय ! मूर्तिरहित !शक्तित्रय! शक्तिरहित ! आशापाशं छिन्धि छिन्धि, त्रिलो- चनस्यापि व्यामोहैकनिदानं भगवन्तं मकरध्वजं भिन्धि भिन्धि, चतुर्दश- भुवनात्मक ! निःसीमदर्शनदर्गदृश्यमान ! चतुःषष्टिकलापराङ्मुख ! नि- खिलमन्त्रयन्त्रप्रवर्तक ! मातृकावर्णस्वरूप ! कलिमलप्रध्वंसिन् ! काल- भयपरावर्त ! विषयविपिने पतन्तं मार्गादर्शिनं मार्गमाणं त्रातारमाक्रोश- स्तक्षुत्तृष्णाव्याघ्रादिभिः पेपीयमानमा मुमुक्षु मामुद्धरोद्धर, आत्मन् ! प्रत्यक्शब्दवाच्य ! निरुपमवैभव ! नित्योत्सव ! अतीतद्वन्द्वदुःख ! मूढ- जनदुःखपद ! भक्तजनकल्पद्रुम ! उपनिषदेकदेद्य ! समस्तवेदबन्दिस्तु- त्य ! ब्रह्मादिसमाराध्य ! स्वात्मानं मां प्रापय प्रापय स्वाहा । महान्भावनं भावश्चित्तैकाग्रय निर्विकल्पसमाधिपर्यन्तं तदेकगम्य नि- रुपद्रव ! हैरण्यगर्भान्तानामैश्वर्याणोसोपवताप्रसिद्धः। निरतिशयैश्चर्य! बहुभ्यो भयेभ्यः संरक्षक! सान्तं वेदान्तसहितम् । सलक्षणमूहादिलक्षणग्रं- थसहितम् । अङ्गैः शिक्षादिषडङ्गैरुपाङ्गैः पुराणन्यायमीमांसाधर्मशास्त्रल- अणैरएभिर्विद्यास्थानः सहितम् । उपनिषदो गुह्यविद्या तत्सहितम् । सर. हस्यमित्यादिना मन्त्ररहस्यसहितम्। वेदं मां बोधय। सर्गादिव्यवहारार्थ हे ब्रह्मविष्णुमहेश्वराख्यमूर्तित्रय ! परमार्थतो मूर्तित्रयरहित ! ज्ञानेच्छा- क्रियाख्यशक्तित्रय! परमार्थतस्तु तद्रहित ! आशापाशं छिन्धिर । त्रिलोच. नस्य कृशानुरेतसः सर्वशस्य रुद्रस्यापि व्यामोहे किमुतान्येषामेक- निदानम् । भगवन्तं जगज्जयैश्वर्योद्धतं मकरध्वजं कामं भिन्धिर । हे च- तुर्दशभुवनात्मक ! अत एव निरतिशयसार्वश्यलक्षणेन निःसीमदर्शनेन अपरिच्छिन्नसर्ववस्तुतत्त्वसाक्षात्कारेण दरीदृश्यमान स्फुटं सर्वतः सवं पश्यन् ! दृशेय॑ङताच्छानचि अभ्यासस्य रीगृदुपधस्य चेति रीगा- गमः । नित्यसिद्धे सार्वइये चक्षुलिङ्गशब्दादिप्रमाणापेक्षाभावाचतुःष- ष्टिकलाश्चतुःषष्ठिविद्यास्तत्पराङ्मुख, अष्टादश विद्यास्थानानि चतु- दशोपविद्याः द्वात्रिंशच्छिल्पविद्याश्चेति चतुःषष्ठिकलास्तदथप्रथायां तनिरपेक्षेति यावत् । निखिलमन्त्राणां यन्त्राणां तत्प्रतिपादकतन्त्राणां च प्रवर्तक! मातृकावर्णानां वैखरीप्रभवत्वात्परापश्यन्तीमध्यमावैखरीति प्रणवकल्पः । ३७ क्रमेण तत्प्रवत्तक ! कारणस्यैव कार्यात्मनावस्थानान्मातृकावर्णस्वरूप ! स्वोपासकानां कलिमलप्रध्वंसिन्! कालाद्भयं कालभयं तत्परावर्त्तयतीति कालभयपरावर्त ! कर्मण्यण् । चोरापनीतबद्धाक्षगांधारपुरुषवद्विषयलक्ष- णे विपिने गिरिप्रपातारण्ये पुनः पुनरधोधः पतितम् , मोक्षमार्गादर्शिनम् , अत एव मार्गप्रदर्शकं त्रातारं मार्गमाणमन्विष्यन्तं, तमेवाक्रोशन्तं, क्षुत्तृषा- लक्षणैाघ्रवृश्चिकदंशकीटादिभिः रक्तशोषणात्पपीयमानम्, आर्तमत्यन्त- भीतं, ग्रहातिग्रहादिसंसारबन्धान्मुमुक्षु मां संसारारण्यगर्तादुद्धरोद्धर । हे आत्मन् ! भूतात्मा चेन्द्रियात्मा चेत्यादाविवामुख्यात्मतां वारयति *प्रत्यक्शब्दवाच्येति । 'कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्व. मिच्छन्निति श्रुत्युक्तप्रत्यक्शब्दवाच्येत्यर्थः । तर्हि किं परिमितविभवो जीवः नेत्याह *निरुपमवैभवेति ॥ तदुपपत्तये *नित्योत्सव अतीतद्वं- द्वदुःखेति । यद्येवंविध आत्मा कुतस्तर्हि जनानां दुःखं तत्राह मूढजन- दुःखप्रदेति* । 'तत्त्वेव भयं विदुपोऽमन्वानस्ये तिश्रुतेः । मन्वानस्य तर्हि किं तत्राह *भक्तजनकल्पद्रुमेति* । आर्तजिशास्वार्थिज्ञानिलक्षणानां चतुर्विधभक्तजनानां कल्पद्रुमवत्तत्तदभिलषितफलपूरकेत्यर्थः। तत्र द्वि- तोयस्य तज्ज्ञानोपायप्रमाणमाह *उपनिषदेकवेद्येति । 'सर्वे वेदा यत्पदमामनन्तीतिश्रुतेः । सर्वश्रुतीनामपि तत्रैव परमतात्पर्यपर्यव- सानमित्याशयेनाह *समस्तवेदबन्दिस्तुत्येति* ॥ सर्वदेवाराध्यत्वेन सर्वोत्कर्षोऽपि तस्यैवेत्याह *ब्रह्मादिसमाराध्येति । अत :स्वात्मतया तल्लाभमेव प्रार्थयन् 'यथोदकं शुद्ध शुद्धमासिक्तं तादृगेव भवत्येवं मुनेवि- जानत आत्मा भवति गौतमे तिश्रुतिदर्शितदिशा स्वात्मानं तत्र जुहोति- 'ब्रह्मादिसमाराध्य स्वात्मानं मा प्रापय स्वाहेति ॥ उक्तमुपसंहरंस्तत्फलमाह- मूत उवाच- कारमालिकामन्त्रमित्येवं शंभुरब्रवीत् ।। स्मरन्नेतन्मन्त्रराजमनिच्छन्नपि मुच्यते ॥ १ ॥ इति प्रणवमालामन्त्रः ॥ कारमालिकामन्त्रमिति* ॥१॥ इति प्रणवमालामन्त्रः॥ अथ प्रणवगायत्रीमाह- काराय विद्महे भवताराय धीमहि तन्नः प्रणयः प्रचोदयात् ।। इति प्रणवगायत्री॥ - 'U प्रणवकल्पपकाशाख्यभाष्ययुतः। । *कारायेति ॥ॐमित्यवस्थात्रयातीतं तुरीयं परं ब्रह्मोच्यते तत्स्वं बोधेन करोतीत्योङ्कारः स एव, कर्मण्यण । ॐ कृतिरोङ्कारः प्रतीच- स्तरभावापत्तिः। करोते वे घन । भवतारपदेप्येवम् । शब्दपदत्वे तु वर्णात्कार इति स्वार्थे कारप्रत्ययानुशासनादोमेवोङ्कारः । शब्दार्थ- योरभेदकल्पनादर्थात्मना शब्दो ध्येयः । अर्थतत्त्वात्मना तु शेयः । तत्रार्था- नुसन्धानप्रकर्षजं साक्षात्कारज्ञानं फलम् । तदुद्दिश्यार्थात्मकशब्दानुस्म- रणधारात्मकं ध्यानमनुष्ठीयमानं प्रकाश्यते । ध्यानाविच्छित्यै च तदा- त्मा परमेश्वरः प्रेरयत्विति प्रार्थ्यते ॥ इति प्रणवगायत्रीतात्पर्यार्थः॥ तत्राक्षराणि योज्यन्ते-ॐ काराय घअन्तपते तुमर्थाश्च भाववचना- दिति चतुर्थी ॐ कर्तुम् । अणन्तादिपक्षे तु क्रियार्थोपपदस्येति । ॐ का- रात्मकं प्रत्यगभिन्नं परं ब्रह्म प्राप्तुं विद्महे साक्षात्स्वाभेदेन जानीमः । तदुपायतया सकार्याविद्यालक्षणं भवं तर्तु भवतारकं तं साधयितुं वा यथाशास्त्रं धीमहि ध्यायेमहि, ध्यायतेलिङि छान्दसो विकरण- लुक्संप्रसारणं च । तत्तादृशेन ध्यानेन अस्मान् प्रणवः प्रणवात्मा परमे- श्वरः प्रचोदयात् प्रचोदयेत् । छान्दसत्वादतोयेय इत्यस्याप्रवृत्तिः । प्रार्थनायां लिङ् मन्त्रार्थपर्यालोचनैनैव जपोपासनफलबोधसिद्धः पृथक तत्फलं न कीर्तितम् ॥ इति प्रणवगायत्रीव्याख्या॥ अथ प्रणवयन्त्रम् । तल्लक्षणं तु शिवोक्तमेव मन्त्रदेवताप्रकाशिका- यामुक्तम्- षट्कुकिं पीठसंस्थं तदुपरिविलसत्सोमसूत्र सबिन्दु तन्मध्ये नादसंशं प्रणवमभिवृतं बिन्दुनादौ पुनश्च ॥ एवं सचिन्त्य योनिप्रणवमनुदितं तारकं व्योमसंस्थं सर्वाधारं महेशं सकृदपि मनसा संस्मरेधः स मुक्तः ॥ इति ॥ अस्यार्थस्तत्रैवोक्तः। षट्कुक्षिरित्यकारोऽन्वर्थसंशः । पीठमित्युकारः । सोमसूत्रमिति तिर्यग्भूतरेखाद्वयम् । नादमिति तत्र दीर्घरेखा । तारकं प्रणयः । तदुपरि च बिन्दुनादौ । व्योम हकारः । शेषं प्रसिद्धमिति । तल्लेखनप्रकारस्तु संप्रदायतोऽवगन्तव्य इत्याहुः । आदावकारमय ॐ प्रणवेन सन्धि बिन्दुद्वयं तदनुवेष्टनलेखनं च ॥ हंकारतश्च यरवान् लमधः पृथिव्यां यन्त्र नवस्य मुनिभिः परिकीर्तितं च॥१॥ भन्ये तु मन्यन्ते । उकारोपर्वकारस्य तदुपरिमकारस्य च विन्यास

प्रणवकल्पः
३६
संहितायां प्रणबानिष्पत्तः, "भादावकारमथ ॐप्रणवेन सन्धि बि-
न्दुद्वयं तदनु वेष्टनलेखनं च । हङ्कारतश्च यरवान् लमधः पृथिव्यां
यन्त्रं नवस्य मुनिभिः परिकीर्तितं चेति कल्पोक्तप्रकारविरोधाच
नायं प्रकारो युक्त इति । षट्कुक्षिमितिश्लोककल्पोक्तप्रकारानुरोधेन
व्याख्यायते-पीठमाधारः, पृथिवीचक्रं चतुरस्रं तत्संस्थं षट्कुतिम-
र्द्धचन्द्राकारं जलचक्रमाद्यः कुक्षिरिति लिङ्गस्याधस्तनं पीठम् । तदु-
परि त्रिकोणाकारं घह्निचक्रं द्वितीयः कुक्षिस्तदुपरि षट्कोणं वायु-
चक्रं तृतीयः कुक्षिरिति लिङ्गख्योर्ध्वपीठम् । तत्पार्श्वयोलिङ्गमूलरेखा-
द्वयेन कोष्ठद्वयनिष्पत्ती कुक्षी, तदुपरि बिन्द्वात्मवर्तुलमाकाशचक्रं
लिङ्गमेकं कुतिरिति षट्कुक्षिम् । तदुपरिविलसत्सोमसूत्रमिति ।
द्वितीयपीठोपरि लिङ्गमूले तिर्यग्रेखाद्वये चोत्तरतः सोमसुत्राकारो
लेख्यः, तस्य लिङ्गस्य मध्ये नादसंशं वामत एकोयरेखा तत्समीपे
व्योमसंस्थं हकारकुक्षिगतं प्रणवं पुच्छेन सर्व सपीठं लिङ्गमभिवृतं लि-
खेत । तच्छिरसि सूक्ष्मबिन्दुं तद्वामतश्च पुनर्नादाख्यां पूर्ववदूर्ध्वरेखां
पुनश्च लिखेदित्यर्थः । शेषः स्पष्टः ॥ ॐ ॐ ॥
अत्र कल्पोक्तप्रकारैकवाक्यसिद्धये वायुचक्रे यकारोदरे मकारम् अ-
ग्निचक्रे रेफोदरे उकारं जलचक्रे चकारोदरे अकारं, तत्रितयगर्भसंहित-
मोङ्कारं च लिखेत् । पृथिवीचक्रे केवलं लकारमेवेति ॥
आदावकारमित्यस्य आद्यकुक्षौ अकारमथ द्वितीयकुक्षौ उकारम्, उ-
मिति मकारनिर्देशस्य विवक्षितत्वात्तृतीयकुक्षौ मकारम्, त्रयाणां प्रणव-
भावेन संहितायां सन्धि ॐकारं बिन्दुद्वयमिति द्वयोः प्रणवयोबिन्दुद्वयम् ,
अवशिष्टकुक्षिद्वये वा चन्द्रसूर्यात्मकबिन्दुद्वययोः प्रणवयोरन्यन्तरस्य वा
पुच्छेन सपीठलिङ्गं वेष्टनम् । आकाशादिकोष्ठेषु यं रं वं इति लिखित्वा
अधः पृथिव्यां पृथिवीचक्रे चतुरने लं लिखेत् । इति नवस्य प्रणवस्य
यन्त्रं परिकीर्तितमित्यर्थः ॥ १॥
अथातः संप्रवक्ष्यामि स्तवराज भयापहम् ।।
प्रणवब्रह्मणो विप्राः ! साक्षान्मोकदायकम् ॥१॥
अथ यन्त्रकथनानन्तरम् , अतः अस्माद्यन्त्रवत् स्तवराजस्याप्युपास.
कानामावश्यकत्वात् , साक्षान्मोक्षस्यैकं मुख्यं दायकं, कर्तरि ज्वु-
ल्यातो युक्॥१॥
उत्पतिस्थितिभङ्गानि जायन्ते जगतो यतः ॥
कार्यकारणकर्तारमोङ्कारं प्रणमाम्यहम् ॥ २॥

प्रणवकल्पप्रकाशाख्यभाष्ययुतः
उत्पत्तिश्च स्थितिश्च भङ्गश्चैषां समाहार उत्पत्तिस्थितिभङ्गम् , कल्पा-
नन्त्येन समाहाराणामपि बहुत्वादुत्पत्तिस्थितिभङ्गानि, अनन्तानां जग-
तां यतो जायन्ते । सर्वक्रियाणाम् कार्य फलं कारणमस्वतन्त्रम् अचेतनं
कारकान्तरम् , कर्ता स्वतन्त्रश्चेतनस्तदात्मकम् , कार्यकारणयोः कर्तार•
मिति वा, यच्छब्ददर्शनात्तमिति सर्वत्राध्याहार्यम् ॥ २ ॥
यो गूढः सर्वभूतेषु सर्वभूतानि शास्ति यः ॥
सर्वभूतस्वरूपी च ॐकारं प्रणमाम्यहम् ॥३॥
सर्वभूतोपादानाज्ञानावृतत्वाद्गूढः । अत एव यावदशातस्तावत्प्रभु.
भूत्वा सर्वभूतानि शास्ति । सर्वभूतस्वरूपी च यावन्मोक्षं स्वयमेवास्ते३
विश्वं चराचरं सृष्ट्वा तदन्तः प्रविवेश यः ॥
तिलेषु तैलवत्सूक्ष्मः प्रणवं प्रणमाम्यहम् ॥ ४ ॥
तदन्तरधिष्ठानभावेन जीवभावेन च यः प्रविवेश ॥ ४ ॥
अग्रे सृष्टेः प्रपञ्चस्य य आस्ते वटबीजवत् ॥
स्रष्टारं च पुनस्तस्य प्रणवं प्रणतोस्म्यहम् ॥५॥
सृष्टेः अने प्राक् पुनःसृष्टिकाले तस्य प्रपञ्चस्य स्रष्टारम् ॥ ५ ॥
आब्रह्मस्तम्बपर्यन्तं भूतानि व्याप्य जीववत् ।।
यः संसरति भूतात्मा प्रणवं प्रणतोस्म्यहम् ॥ ६ ॥
भूतानि तत्प्राणिशरीराणि भूतान्मा तत्तद्देहात्मभावापन्नो यः सं स.
रति देहाहेहान्तरं सञ्चरति ॥ ६ ॥
ईश्वरब्रह्मविष्णूनां रजःसत्त्वतमोगुणैः ।।
जनकं यत्परं वस्तु तारकं पातु नः सदा ॥७॥
ईश्वरब्रह्मविष्णूनां पञ्चमुखचतुर्भुजशरीराणां जनकं स्वेच्छया क.
ल्पकम् ॥ ७॥
सर्वभूतहृदाकाशे काशते निर्मलं परम् ।।
आकाशवत्सर्वगं यत्तारकं पातु सर्वदा ॥८॥
काशते-अहमिहमित्यात्मभावेन सर्वान्तः बहिःकरणव्यापारसाक्षित-
या च प्रकाशते, हृदयपरिच्छेदस्य मिथ्यात्वात् । आकाशवत्सर्वगतम् ॥८॥
वेदा यस्य शिरः प्रोक्तं शास्त्राण्यङ्गानि यस्य च ॥
अङ्गानि यस्य रोमाणि प्रणवः स विराजते ॥६॥

प्रणवकल्पः ।
४१
पुराणं वाचकं यस्य ज्ञापकं धर्मशास्त्रकम् ।।
इतिहासा यस्य हासाः प्रणवः स विराजते ॥१०॥
घाचकं सुहृत्संमितत्वान्मनोरञ्जनेन हितवक्तृ । शापकं प्रभुषदाहाप-
कम् । इतिहासा भारतादिसत्काव्यानि यस्य कान्तासम्मितेहितोप.
देशकत्वाद्धासाः स्मितानि । विराजते सर्वोत्कर्षेण शोभते ॥ १०॥
वेदान्ता यस्य सर्वेऽपि शरीरश्रुतिमस्तकम् ।।
वाग्जालं येन संव्याप्तं प्रणवः स विराजते ॥ ११ ॥
यस्य प्रणवस्य सर्वेऽपि वेदान्ताः शरीरवन्मुख्याभिव्यक्तिस्थानं
श्रुतयो मस्तकानि यस्य तथाविधम् , सर्व वाग्जालं येन सम्यग् व्याप्तं
'तद्यथा शंकुना सर्वाणि पर्णानि संतृणणान्येवमोङ्कारेण सर्वा वाक्स.
तृण्णेति श्रुतेः ॥ ११॥
यज्जप्त्वा परमात्मानं विश्वामित्रादयो द्विजाः ॥
ब्राह्मण्यं लेभिरे ब्रह्म तारं दिशतु नः फलम् ।। १२ ॥
यं मत्वा विभुमीशानं दुःखं नोपैति साधकः
सर्वदुःखौघसंहर्त तारं दिशतु नः फलम् ॥ १३ ॥
यत्तारं ब्रह्म जप्त्वा विश्वामित्रादयः, आदिपदाद्विश्वामित्रगोत्रजा
अन्ये च गृह्यन्ते, ब्राह्मण्यं अग्रयां जातिम् 'अमौनं च निविद्याथ ब्राह्मण
इतिश्रुतिप्रसिद्धं ब्रह्मनिष्ठत्वं च लेभिरे । तत्तादृशं तारं नस्ताद्शं ब्रह्म
घेदनफलं दिशत्वित्यर्थः ॥ १२ ॥ १३ ॥
आलोडय सर्वशास्त्राणि निश्चिन्वन्ति मुनीश्वराः ।।
ध्येयं तारकमित्येव तारकं तदुपैम्यहम् ॥ १४ ॥
मुनीश्वराः सर्वशास्त्राण्यालोङय सम्यन्यायेषिचार्य यत्तारकमे-
वैकं ध्येयं निश्चिन्वन्ति । 'शिव एको ध्येयः शिवंकरः सर्वमन्यत्परि-
त्यज्य ॐ मित्येवं ध्यायथ आत्मानमित्यात्मानं युञ्जीतेत्यादिश्रुतिनिष्क-
र्षादिति भावः ॥ १४ ॥
वेदान्ताम्भोजसङ्घानां भास्कराय प्रकाशिने ॥
निर्मलाय स्वरूपाय प्रणवाय नमो नमः ॥ १५॥
वेदान्ताम्भोजसङ्घानां प्रकाशिने विकासिने भास्कराय, स्वमात्मा
तद्पाय ॥ १५॥

४२ प्रणवकल्पप्रकाशाख्यभाष्ययुतः । जीवा जीवन्ति येनैव प्राणापानादिचेष्टया ।। यमाश्रिता उभौ तस्मै प्रणवाय नमो नमः ॥ १६ ॥ जीवाः सर्वे येनैवात्मना जीवन्ति चेतयन्ति, उभौ प्राणापानौ यं पर- मात्मानमाश्रितो, तथा च श्रुतिः- न प्राणेन नापानेन सत्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ इति ॥ ऊर्ध्व प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवा उपासते ॥ इति च ॥ १६ ॥ इतरस्य महामन्त्रजालस्य फलदोऽपि यः ॥ सर्वमन्त्रादिरूपाय प्रणवाय नमो नमः ॥ १७ ॥ इतरस्य स्वातिरिक्तस्य वैदिकस्य तान्त्रिकस्य वा महामन्त्रजालस्य तत्तद्देवतारूपेण प्रसन्नस्तत्तत्साधकाभिलषितफलप्रदोऽपि यः प्रणव एव, अतः सर्वमन्त्रदेवतादिरूपाय प्रणवाय नमो नमः पुनः पुनर्नम इत्यर्थः ॥ १७॥ प्रत्यग्रूपाय दिव्याय रविमण्डलवासिने ॥ पुरुषेष्वधिवासाय तारकाय नमो नमः ॥ १८ ॥ सर्वप्राणिनां हृदि प्रत्यगात्मरूपायेत्यध्यात्मम् । दिव्यायेत्यधिदेव- तम् । रविमण्डलवासिने ‘स यश्चायं पुरुषे यश्वासावादित्ये स एक' इति श्रुतेः । अत एव ब्यष्टिसमष्टिपुरुषेष्वधिवसतीत्यधिवासस्तस्मै॥१८॥ रज्जुर्यथा सर्परूपा भ्रान्त्या भाति तथाऽव्ययम् ।। तारकं विश्वरूपेण भाति तस्मै नमो नमः ॥ १६ ॥ यथा रज्जुभ्रान्त्या सर्परूपा भाति तथा यदव्ययं तारकं विश्वरूपेण भाति तस्मै तारकाय नमो तमः ॥ १२ ॥ विश्वस्य यं हि गायत्रीं त्यजन्ति यतिपुङ्गवाः ॥ अंकाराय नमस्तस्मै ॐकाराय नमो नमः ॥ २० ॥ यतिपुङ्गवाः यं प्रणवं ब्राह्मण्यस्थापकं तारकं च विश्वस्य विश्वासे- नावलम्ब्य निःशंकं शिखासूत्राद्यङ्गसहितां गायत्रीं त्यज्यन्ति, तस्मै ॐ काराय यतिजनानङ्गीकुणाय ओङ्काराय नमो नमः ॥ २० ॥ पूर्वोक्तो गायत्रीत्यागोऽग्नित्यागवद्वाचि गायत्र्योः समारोपमात्रं तदपि तत्सारप्रणवतत्त्वदर्शनार्थं न तु स्त्रीपुत्रादिवत्प्रहाणिरिति दर्शय- - कल्पः । ४३ नुपसंहरति- आरोपयन्ति वाचाऽनौ गायत्रीं यदिक्षया । ॐकाराय नमस्तस्मै ओङ्काराय नमो नमः ॥ २१ ॥ *आरोपयन्तीति* ॥ वाचा वाक्सामान्यात्मा ॐकारस्तल्लक्षणे स- कार्याविद्यादाहकत्वादग्नौ सव्याहृतिका गायत्रीं संन्यासकाले आरोप- यन्ति समारोपयन्तीत्यर्थः ॥ शेषं पूर्ववत् ॥ २१ ॥ सूत उवाच- स्तवराजं स्तवश्रेष्ठं श्रृण्वन्ति च पठन्ति च ॥ ये मानवा विपापास्ते यान्ति मुक्ति सुदुर्लभाम् ॥ २२ ॥ सर्वस्तवानां राजा अधिपतिः, न केवलमाधिपत्यमेव किन्तु गुणप्र. भावादिना श्रेष्ठयमप्यस्तीति स्तवश्रेष्ठम् ॥ २२ ॥ मुनीन् संबोध्याह- तस्मात्पठन्तु सर्वेऽपि मोक्षवाञ्छास्ति वो यदि ॥ स्तवराज महादेव्यै इत्येवं शम्भुरब्रवीत् ॥ २३ ॥ इति प्रणवकल्पे प्रणवस्तवराजः समाप्तः ॥ *तस्मादिति । इत्येवमित्युपसंहारः ॥ २३ ॥ इति प्रणवस्तवराजव्याख्या समाना । इदानीं प्रागुक्तप्रणवनवांशानां प्रत्येकं गुणमाहात्म्यादिप्रकाशकम- क्षरमालिकास्तोत्रमाह- मूत उवाच- अंकाराक्षरमालिकामनुमिमं वक्ष्यामि हे भूसुरा ! मोक्षप्राप्तिकर विशेषसुखदं नित्योत्सवं शाश्वतम् ।। पार्वत्यै सुरसेवितांत्रिकमलः शम्भुर्यथा भाषते यो मन्त्रो यतिपापनाशकरणोपायाय सनिर्मितः ॥ १॥ *ॐ काराक्षरेत्यादिना* हे भूसुरा ब्राह्मणाः! अहमिदानीं ॐका- राक्षरमालिकास्तवलक्षणं मनुवत्प्रयतजप्यं स्तोत्रं वक्ष्यामि । मुमुक्षूणां मोक्षप्राप्तिकर, भोगसुखार्थिनां विशेषसुखदम् , उभयेषां नित्यं प्रतिदिनमु. त्सवो हृदयानन्दोयस्मात्तथाविधम् , शश्वद्गवं शाश्वतंसदेवाविहतसाम- य॑म् । नचात्र विप्रतिपत्तव्यमित्याह *पार्वत्यै इति* जगदीश्वरसर्पक्ष- वचनत्वादव्याहतशक्तिकमित्यर्थः । किञ्च यो मन्त्रो रहस्यभूतस्तवः य. - - ४ प्रणवकल्पप्रकाशाख्यभाष्ययुतः । तीनां प्रमादप्रसक्तब्रह्मचर्यापरिग्रहाहिंसादिधर्मविप्लवप्रयुक्तपापानां ना. शकरणाय शमदमादिशानोपायसिद्धये च जगदीश्वरेणैव सम्यनिर्मितः न मया स्वबुद्ध्योहित इत्यर्थः ॥ १॥ तत्र नवांशविशिष्ट ॐकारो प्रथममेवंप्रभावो ध्येय इत्याशयेनाह- ॐकारं परमीशत्तत्वमखिलं वेदार्थतत्त्वमदं नित्यं निर्मलमव्ययं निरुपम निःशेषबीजाभिधम् ।। कार्य कारणमात्मनिष्ठमखिलं प्रोत्साहपूर्व स्मृतं भेदाभेदविवर्जितं श्रुतिशिरोमानं सदा ध्यायति ॥ २ ॥ *ॐकारमिति ॥ यतोऽयमोङ्कारो यतीनां मोक्षप्राप्तिकरः सर्वपाप- हरश्च अतः आत्मन्येव निष्ठा विश्रान्तिर्यस्य तथाविधमखिलं कृत्स्न- मारुरुक्षुमारूढं च यतिवृद्धम् प्रोत्साहपूर्व प्रकृष्टोत्साहपूर्वकं त्रिसंध्यं नियमेन स्मृतम् ॐकारमेवं सदा ध्यायतीति सम्बन्धः । कीदृशं ॐकार वेदार्थतत्त्वप्रदं कर्मोपासनाशानकाण्डात्मकवेदानमा प्रयोजनानि स्वर्गा- दीनि तेषां यत्तत्वं निरतिशयानन्दरूपं यत्र काण्डत्रयफलमन्तर्भवति तत्प्रदं 'सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चितेति श्रुतेः। कुतोऽस्य तत्प्रदा- नसामर्थ्य तत्राह अखिलं परमीशतत्त्वमिति । यतोऽसौ अखिलं निरङ्कश परमुत्कृष्टम् ईशस्य सर्वशक्तिसम्पन्नस्य जगदीश्वरस्य तत्त्वं पारमार्थिक स्वरूपम्, अत एव नित्यं कालापरिच्छेद्यम्, निर्मलमविद्यारागादिमलर. हितम् , अव्ययं षड्भावविकारशून्यम् , निरुपमं तादृशतत्त्वान्तराप्रसि. द्धरुपमातुमशक्यम् । तत्कुतः? तत्राह *भेदाभेदविवर्जितमिति ॥ कैश्चि- द्धमै दे कैश्चिदभेदे च मुखं चन्द्रेणोपमीयते न चायं तथेत्यर्थः। कुतो भेदाभेदविवर्जितं ? तत्राह *कार्य कारणं निःशेषबीजाभिधमिति* ॥ यतः अकारोकारमात्राद्वयोपात्तं स्थूलसूक्ष्मकार्य मकारार्थभूतं कारणं च । 'नान्तः प्रशं न बहिःप्रशं नोभयतः प्रशम्' इत्यादिना अवस्थात्रयेण सह निषेधानिःशेषाभिधेयसर्वद्वैतबीजसहिता अभिधा यस्मिस्तथाविधम् । अत एव न तत्र मानान्तरप्रसर इत्याह #श्रुतिशिरोमानमिति ।श्रुतिशिर- सां मौनसङ्कल्पवाक्यात्मसहितसर्वद्वैतनिरासकत्वसम्भवादिति भावः॥२॥ समनप्रणवध्यानानन्तरं तत्प्रथमांशोऽकारः प्रथमं विष्णुरूपेणैव ध्येय इत्याशयेनाह-- अङ्कारं करुणेकरूपममलं कारुण्यपूर्णेक्षणं कर्परमचुरोत्यचूर्णविमलं कर्पूरसम्पादकम् ।। - प्रणवकल्पः । ४५ कामाकामविभीतिभीतिकृपिकासिन्धूरसोद्धृलनं सिन्धूद्भूतरसातलेशमनिशं विष्णुं भजे सुन्दरम् ॥ ३॥ *अङ्कारमिति* सानुस्वारनिर्देशः सर्वत्र संहारक्रमेण ध्येयता- धोतनार्थः। यद्यपि 'अकारं ब्रह्माणं नाभौ उकारं विष्णु हृदये' इत्या- दिश्रुतिषु अकारो विराडात्मा ब्रह्मा उकारस्तु हिरण्यगर्भात्मा तत्कारणं विष्णुः प्रसिद्धस्तथाप्यत्र 'यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठित' इत्यादिश्रुतिषु 'अकारो वासुदेवः स्यात् , अक्षराणामकारोऽस्मीत्यादि- स्मृतिषु च वासुदेवस्याकारात्मत्वप्रसिद्धः सत्त्वरजस्तमोगुणक्रमानुरो- धाच्चात्र अकारो विष्ण्वात्मना ध्येय उक्तः। अङ्कारं विष्णु भजे इति सम्बन्धः । विष्णोः शुद्धसत्त्वावच्छिन्नचिद्रूपत्वात्तदनुरूपं विशिनष्टि *करुणेकरूपमित्यादिना* विष्णोर्जगत्पालनस्य दयैकसाध्यात्वात्करुणे- कमूर्तिम् । रागद्वेषमोहादिमलविरोधित्वादमलम् । सर्वप्राणिसुखार्थित्वा- कारुण्यपूर्णेक्षणम् । 'अजामेकां लोहितशुक्लकृष्णामिति श्रुतौ सत्त्वगुणस्य शुक्लत्वोक्तः कपुरप्रचुरोत्थचूर्णविमलम् । अत एव तस्योपासनं हृत्तापो. पशमनविवेकनेत्रानन्दनसद्वासनासौरभ्यजननज्ञानदीपोज्वलनकर्पूरस्य चित्तैकाग्रयस्य सम्पादकम्। क्षुद्रविषयतत्साधनेष्वेव कामः, परमपुरुषा- र्थतत्साधनेष्वकामः, जन्ममरणनरकाद्यनर्थसाधनेभ्यः पापेभ्योऽबिभी- तिरभीरुता, द्रव्यव्ययायाससाध्येभ्यो दानयज्ञतपःप्रभृतिभ्यः संन्यासभै- क्षचर्याश्रवणमननध्यानादिभ्यश्च भीतिर्भीरता, कृपिका लाभकार्पण्यमि- त्यादिदोषसिन्धोः संसारसमुद्रस्य यो रसः जलं कामकर्मवासनाशानस्त- क्षणं तस्य निःशेषशोषणेन उद्भूलनमुर्व धूल्युद्गमहेतुम् । तथा सिन्धू. द्भूतायाः क्षीरसमुद्रकन्यायाः सर्वकर्मफलाधिदेवतायाः रसायाः भूमेः सर्वप्राण्यनरूपायाः तलस्य तदुपभोगस्थानचतुर्दशभुवनतलस्य च ईशं स्वामिनम् । सुन्दरं कन्दर्पकोटिकमनीयविग्रहम् । विष्णु भजे सदा ध्यानेन सेधे । सिन्धूरसेत्यत्र दीर्घश्चान्दसः ॥ ३ ॥ उङ्कार पिशितानाशकरणं पीयूषपानारतं पीयूषपदवित्तनाथभनितं पीयूषकव॒त्सवम् ।। वेद्यं वेदविभागभूसुरकपासंयुक्तविद्वज्जनः कार्याकारविचारदं विधिमहं ब्रह्माणमाद्यं भजे ॥४॥ अहम् उदारं ब्रह्माणं भजे इति सम्बन्धः । तस्य सर्गानुकूलरजःप्रधा. नसत्त्वमूर्तित्वात्तदनुरूपवेदभागैस्तदधिकारिभिः कर्मठेश्वोपास्यत्वमाह प्रणवकल्पप्रकाशाख्यभाष्ययुतः *वेदविभागभूसुरकृपासंयुक्तविद्वजनैवेद्यमिति । वेदानां कर्मोपासना- शानकाण्डात्मकानां कर्मकाण्डात्मको यो विभागः तेन भूसुरेषु ब्राह्मणेषु दानपात्रेषु कृपासंयुक्ताः अन्नगोभूहिरण्यादीनां सदैव यशेषु च दातारो ये कर्मठा विद्वज्जनास्तैवेद्यं सदैव विभागशो शेयं सत्कर्मभिरुपास्यं चेत्यर्थः । कथं शेयं तत्राह *कार्याकार्यवि- चारदं विधिमिति* । कत्तुं योग्यं कार्य सत्कर्म ज्योतिष्टोमादि, अकार्य कर्तुमयोग्यं कलाभक्षणादि, तयोः परिग्रहपरिहारसिद्धये तत्त्व- निर्णयाय प्रवृत्तो यः 'अथातो धर्मजिज्ञासेत्यादिना जैमिन्यादिभिः कृतो विचारस्तं ददातीति विचारदस्तम् , विधि प्रवर्तकनिवर्तकश्रौतस्मात- वाक्यसन्दर्भरूपमित्यर्थः । कथं वोपास्यं तत्राह *पिशिताशनाशकरण- मित्यादिविशेषणचतुष्टयेन* । पिशिताशाः असुरराक्षसपिशाचादयो निषिद्धकर्माचरणपरिणतिप्राप्तशरीरास्तामलयोनयस्तेषां नाशकरणं व- धबन्धाऽधोगत्यादिदुःखफलप्रदम् । सत्कर्मपरिपाकप्राप्तशरीरदेवत्रैवर्णि- कादिभावेन तु पीयूषस्याग्निहोत्राद्याहुतिपरिणतिरूपामृतभावेन सूर्य- चन्द्रमण्डलाश्रितस्य सत्कर्मफलस्य विद्ययाऽमृतरूपस्य च पाने उपभोगे आ समन्तादेवलोकेषु च रतमासक्तम् । अत एव देवानां पीयूषप्रदाभ्यां चन्द्रसूर्याभ्यां त्रैवर्णिकानां वित्तप्रदर्वित्तनाथकुबेरेन्द्रादिभिश्वाशाप्रती:- भजितं सेवितम् । इदछान्दसः। पीयूषकतुंरमृतजनयितुः क्षीरावस्य उत्सवं उदीयमानचन्द्ररूपेण नयनानन्दोत्सेकहेतुमित्यर्थः । अथवा यज्ञा- दिना आहुतिपरिणामरूपपीयुषकर्तृणां कर्मठानां स्वर्गादिफलभावोत्सव- हेतुमित्यर्थः ॥ ४॥ मङ्कारं मितिमानमेयविधुरं मेयं सदावेदिभि- मन्दोत्साहमशेषजन्तुकृपणं मन्दान्धकारापहम् ॥ मन्दामन्दममत्सरं करुणिकाकान्तं शिवं शङ्करं कर्पूरस्फटिकाभकान्तिकलितं कर्णोत्सवेशं भजे ॥ ५ ॥ अत्रापि अहम् मङ्कारं शिवं शङ्करं भजे इति सम्बन्धः। तस्य जग. संहाराधिकारित्वादल्पसंहाराणां नित्यदैनन्दिनप्राकृतप्रलयानां कारणे महातमसि जगदुपसंहाररूपाणां तमोगुणसाध्यत्वेऽपि समूलसर्वजगदु- च्छेदलक्षणस्य वैज्ञानिकस्य महाप्रलयस्य विशुद्धतमसत्त्वचरमपरिणतिरू- पब्रह्मविद्यामात्रसाध्यत्वाद्विद्याधिपतित्वं तच्छरीत्वं चेति तदनुरूपं विशि- नष्टि कर्णोत्सवेशं करुणिकाकान्तमिति* साधनचतुष्टयसम्पन्नानां श्रव- णादिपराणामधिकारिणां श्रोत्रानन्दजनकत्वात्कोत्सवभूता या औपनि-

प्रणवकल्प:
पदी ब्रह्मविद्या उमा तस्याः ईशं स्वामिनम् । करुणा दया सैव करुणि-
का विद्यैव तया दिव्यमङ्गलविग्रहात्मना परिणतया कान्तं मनोहरम् ,
तथा चाहुः--
शक्तिः शरीरमधिदैवतमन्तरात्मा
शानं क्रिया करणमासनजालमिच्छा ॥
ऐश्वर्यमावरणमायतनानि च त्वं
किं त्वं न यद्भवसि देवि ! शशाङ्क-मौलेः॥ इति ।
तन्मूर्तेः शुद्धसत्त्वानुरूपं वर्णमाह *कर्पूरस्फटिकाभकान्तिकलितमि-
ति* ॥ ब्रह्मविद्याश्रयत्वमिव तद्विषयत्वमपि तस्यैवेत्याह मेयं सदावे-
दिभिरिति* ॥ सद्ब्रह्म आ समन्तादपरिच्छिन्नानन्दप्रत्यगैकरस्येन वि.
दन्ति साक्षादनुभवन्ति तच्छीलाः सदावेदिनस्तैर्मयं महावाक्यमानज-
न्यवृत्तिव्याप्यम् । कथं मेयं तदाह *मितिमानमेयविधुरमिनि* ॥ मि.
तिर्वृत्तिर्मानं तदुपादानमन्तःकरणं मेयाः विषयाः पतत्रिपुटीरूपसर्वप्रप-
वरहितं निष्प्रपञ्चमित्यर्थः। किं तन्मितिफलं तदाह #मन्दान्धकारा-
पहमिति* । मन्दानामशानां जन्ममरणाद्यनर्थहेतुर्यो मूलाविद्यारूपोऽन्ध-
कारस्तनिवारकमित्यर्थः । नन्वविदितमेव तदात्मतत्त्वं स्वप्रकाशाप-
रिच्छिन्नचिद्रूपत्वात्स्वयमेव स्वाशानं निवर्त्तयतु किं तत्त्वज्ञानतत्साध-
नोद्योगलक्षणेन तदुत्साहेन तत्राह *मन्दोत्साहमशेषजन्तुकपणमिति* ॥
नाविदितं तत्स्वाज्ञानं निवर्त्तयति यतस्तत् मन्दोत्साहं ज्ञानतत्साधनोत्सा-
हरहितम् । अशेषजन्तुषु सत्तत्वप्रख्यापने अज्ञाननाशे च कृपणम् , कृपण-
वत्परिमितकर्मफलमात्रप्रदं नापरिच्छिन्नानन्दतत्स्वरूपप्रकाशकमित्यर्थः ।
तर्हि कितन्मन्देष्वनूत्येति(?) येन तेषु कृपणम् , नेत्याह *मन्दामन्दममन्स-
रमिति: । मन्दमज्ञम् अमन्दं तत्त्वज्ञ च स्वयमेव, नहि स्वात्मनि मात्सर्य-
प्रसक्तिः। साधनोद्योगाभावे फलादानं. तु न मात्सर्यापादकं किन्तु सा-
धने फलनैयत्यप्रदर्शनेनोत्साहजननेन प्रवर्तकमेवेति भावः॥ ५ ॥
एवं गुणत्रयाधिष्ठातृब्रह्मविष्णुरुद्रात्मना प्रणवमात्रत्रयमुपवर्ण्य त-
समुदायात्मकमायाधिष्ठातृचैतन्यरूपप्रपञ्चमूलं बिन्दुरीश्वर उच्यते, ना-
मप्रपञ्चमूलं तु नादः सदाशिवः इति विभागमभिप्रेत्य बिन्वंशं वर्णयति-
बिन्दु बिन्दुशतैकधारमनिशं बिन्दूद्भवं विन्दुर्ग
बिन्दुब्रह्मविशेषशोभनमतिव्यावृत्तदेहं शुभम् ॥
नित्यानित्यविवेकवस्तुसहितं कर्मातिदूरस्थितं
कार्योद्वर्तनकर्मदेशविवरं सौषुप्तिकं तं भजे ॥ ६ ॥

४८ प्रणवकल्पप्रकाशाख्यभाष्ययुतः *बिन्दुमिति* ॥ अहं बिन्दुं सौषुप्तिकं सुषुप्तिसमष्ट्यात्मकरूपप्रपञ्च- कारणं तं जगदीश्वरं भजे इति सम्बन्धः। तत्र बिन्दुशब्दस्य "विदि अवयवेत्येतद्धातुनिष्पन्नस्य निरवयवेऽपि प्रवृत्तिनिमित्तं दर्शयति *बि- न्दुशतकधारमनिशमिति* अनिशं सदैव, सर्वप्रपञ्चवैचित्र्यहेतुविचित्रवा- सनाः बिन्दुशतशब्देनोच्यन्ते, तासां मायावयवप्रायत्वात्तदुपहितं ब्रह्म बिन्दुशतैकधारम् । तदेव ब्रह्मवासनाबिन्दूनां समष्टिव्यष्टिलिङ्गस्थूलदेहा- कारणोद्भवेतदुपहितहिरण्यगर्भाधाकारणोद्भवात् बिन्दूद्भवम् । सुप्तिप्र- लययोस्तद्वासनामात्रे जीवावस्थिते बिन्दुगम् । अनिशमिति त्रिष्वपि स- म्बध्यते । तदेव ब्रह्म नित्यानित्यविवेकोपलक्षितसाधनचतुष्टयवस्तुसहितं सर्वकर्मसंन्यासेन कर्मातिदुरस्थितं सत , श्रवणादिना कार्योद्वर्तनस्य सर्वकार्यनिवर्त्तकस्य असणाकर्तृकूटस्थात्मविवेकवतो मनसः कर्मदेशस्य सर्वकर्मोत्पत्तिस्थानस्य प्राणस्य च विवरं छिद्रमाकाशवदसङ्गाधारभूतं सत् , स्वतत्त्वबोधेन सवासनमायानिवृत्तौ अतिव्यावृत्तस्थूलसूक्ष्मदेहं, बि- न्दुब्रह्मणोर्यों विशेषः व्यावृत्तिः बिन्दोनिःस्वरूपता ब्रह्मणो निर्वासनता च तेन शोभमानं शुभं निरतिशयतत्प्रकाशानन्दैकरसं भजे इत्यर्थः ॥६॥ उक्तं नादांशं वर्णयति- नादं नादितशास्त्रटन्द .रणं शास्त्रैकवेद्यं शुभं शास्त्रावादिकृपालुपादरसिकः साक्षात्कृतं सर्वदा ॥ शास्त्रं शासनरूपदिव्यममलं प्रोत्साहनोदण्डनं शब्दब्रह्म निरस्तदोषममलं नित्योत्सवेशं भजे ॥ ७॥ *नादमिति* ॥ अत्रापि अहं नादं शब्दब्रह्म भजे इति सम्बन्धः । तस्यानुग्राहकसदाशिवरूपत्वात्तदनुरूपं विशिनष्टि *नित्योत्सवेशमि- ति* । नित्यमुत्सवो निरावरणनिरतिशयानन्दाविर्भावो यस्याः सकाशा- त्सा नित्योत्सवाऽविद्या तस्याः ईशं स्वामिनम् । अत एव निरस्ताविद्याव- रणविक्षेपदोषम् । अमलं कामकर्मवासनादिमलरहितम् । कथं निरस्तदोषं कथं चामलं ? तत्राह *शास्त्रं शासनरूपदिव्यममलमिति तदेव परारूपं नादब्रह्म पश्यन्तीमध्यमावैखरीतिक्रमेण वेदादिविद्यास्थानात्मनाऽभिव्यक्त शास्त्रं सत्, तच्छासनरूपेण कर्मोपासनश्रवणमननादिना साक्षात्कारान्त- व्यापारेणाभिव्यक्तस्वतत्त्वं दिव्यं द्योतमानस्वरूपम् , अविद्यादिदोषमल. निरासादमलमित्यर्थः । न केवलं शासनरूपमेव शास्त्रं किन्तु प्रोत्साहनो- इण्डनम्-विहितेषु ज्योतिष्टोमादिकर्मसु पुरुषप्रवृत्तिसिद्धये विचित्रैः स्व. गादिफलैबहुविधस्तोत्रशस्त्रमन्त्रार्यवादैश्च पुरुषप्रोत्साहनम् , निषिद्धब्रह्म- प्रणवकल्पः । हत्यकलअभक्षणादिषु प्रवृत्तानां यमतद्भयादिरूपेण रौरवादिनरकैश्च शूकरादिजन्मभिश्चोत्कृष्टदण्डनप्रवर्तकमित्यर्थः । कथं तन्नाम ब्रह्मशास्त्रं कथं वा शासनरूपं दिव्यं ? तत्राह *नादितशास्त्रवृन्दधरणं शास्त्रैकवेध. मिति ॥ यतः सर्वशास्त्रवृन्दं नादितं नादव्याप्तमुपलभ्यते अतो नाद एव शास्त्रात्मना स्थित इति तद्धरणं गम्यते, यथा स्वर्णविकारकुण्डलकट- कादिभावेन स्वर्णमेव तद्धरणं तद्वत् । यतश्च तच्छुभं ब्रह्म शास्त्रैकवेद्यं सदभिव्यज्यते अतः शासनरूपं दिव्यमित्यर्थः । कीदृशैरधिकारिभिस्त- च्छात्रवेद्यं तत्राह *शास्त्रावादीति* ॥ शास्त्र आसमन्ताद्वदन्ति व्यक्त व्याचक्षते तच्छीलाः कृपालवश्च ये कृतसाक्षात्कारा गुरवस्तदीयपाद- रसिकैः साधनचतुष्टयसंपन्नैरधिकारिभिः श्रवणादिक्रमेण सर्वदा सा- क्षात्कृतं स्वात्मरूपेणेत्यर्थः ॥ ७॥ शक्ति शक्तिनिरासमीशनिलयं विश्वस्य निर्भेदकं विश्वोत्पत्तिविनाशजीवनकर विश्वाभिधं शाश्वतम् ॥ विश्वत्राणपरायणं विमलसन्मानुष्यचित्तस्थितं सत्यं नित्यमशेषजन्तुविबुधं चोङ्कारमाद्यौं भजे ॥८॥ अत्रापि परारूपस्य नादात्मकस्य शब्दब्रह्मणः कारणीभूतां कुण्डलि- नीरूपां शक्तिं सार्द्धतिमात्राधिष्ठानसार्द्धत्रिवलयाकारचिपमाघम् ॐकारं भजे इति सम्बन्धः ॥ स च शक्त्यात्मक ॐकारः भोगासक्तानां कर्मका- एडात्मना प्रवृतिशक्तिरूपो विश्वगः सन् विश्वोत्पत्तिविनाशजीवनकरो विश्वाभिधः प्रपञ्चनामक एव, मुमुक्षणां तु ईशनिलयः विश्वेश्वरचिदा- त्मनिष्ठः सन् जगदीजमायाशक्तिनिरासात्कार्यस्य विश्वस्य निर्भेदको विनाशक इति वोधनाय तथा तथा विशनष्टि-विश्वगं विश्वोत्पत्तिवि- नाशजीवनकरमीशनिलयं शक्तिनिरासं विश्वस्य निर्भेदकमिति च । अत एव सर्वप्राणिकर्मज्ञानफलदानाय अशेषजन्तून्विबुध्यत इति अशेष- जन्तुविबुधम्। विश्वस्य त्राणे तत्तदनुरूपलक्षणे तत्तदनुरूपलक्षणैः परा. यणाः सन्तो मनुष्या एव मानुष्यास्तेषामुपास्यतया शेयतया च चित्त- स्थितं परमार्थतः सत्यमाद्यं तं भजे इत्यर्थः ॥ ८ ॥ अर्द्धमात्राममात्रां च देवतां विजनोज्वलाम् ।। ॐकाररूपिणीं देवीं नित्यं वन्दे सुनिर्मलाम् ॥ १ ॥ तादृशविद्याशक्तिफलजीवन्मुक्तौ दग्धपटवजगदाभासस्याप्यवा- स्तवत्वानुसन्धाने साभास्यार्द्धमिवावशिष्टा ब्रह्मचिद्देवता मीयत इत्य- ५० प्रणवकल्पप्रकाशाख्यभाष्ययुतः । ईमात्रा सा, अत एव (सा) विजनेन द्वैताजननेन तद्धत्वविद्यानिरसनेन योज्वला तथाविधां तां सुनिर्मलां ॐकाररूपिणीं देवीं नित्यं वन्दे इत्यर्थः स एवार्द्धमात्रात्मा प्रणवो येन रूपेण जीवन्मुक्तैरनुभूयते तेनोल्लि- ख्य दर्शयंस्तथा तदुपासनं कार्यमित्याशयेनाह- कलावन्तं कलारूपं कालाकालमकालकम् ॥ कल्पाकल्पविशेषज्ञ प्रणवं निर्मलम्भजे ॥ १० ॥ *कलावन्तमिति* ॥ ब्रह्मविद्रह्मविद्वरः ब्रह्मविद्वरीयान् ब्रह्मविद्वरिष्ठ इति तत्त्वज्ञानदाढये तारतम्येन चतु प्रसिद्धजीवन्मुक्तात्मनां कल्पाक- ल्पविशेषज्ञ तं निर्मलं प्रणवं भजे इति सम्बन्धः । कल्पनं कल्पः व्युत्था- नदशायां द्वैतावभासः, अकल्पः समाधौ द्वैतानवभासः, तदुभयधिशेषज्ञ- मित्यर्थः। तत्राद्यजीवन्मुक्तानुभवेन अमात्राधष्टविधकलावन्तम् । द्विती. यानुभवेनार्धमात्रात्मकैककलारूपम् । तृतीयानुभवानुरोधेन व्युत्थानस- माधिकालवैचित्र्यमात्राभासात्तत्साक्षिणि तदभावाच कालाकालम्। चतु- र्थस्य व्युत्थानसमाधिभेदस्यापि विलये कलनीयाभावात्कालस्याप्यक- कल्पने अकालकम् । इत्थं निर्मलञ्चिदेकरसघनं प्रणवं भजे इत्यर्थः ॥१०॥ नवमी मात्रा तु शान्ताख्या विदेहमुक्तस्वरूपानन्दैकरसभूमात्मिका न वाङ्मनसगोचरः, किन्तु तादृशस्वरूपानुभवैकसिद्धत्युपास्या शेया चेत्याशयेनाह-- शान्तं निर्मलमाकाशवामङ्मनसगोचरम् ॥ स्वानुभूत्यैव वेद्यं च ब्रह्मैवाहमिति स्मरेत् ॥ ११ ॥ *शान्तमिति ॥ ११ ॥ ॐकारमात्रामालिकास्तवपठनफलमाह-- सूत उवाच- ॐकारातरमालिकामन्त्रं यः पठते मतिः ।। ऐन्द्रं सारस्वतं प्राप्य शाश्वतं पदमश्नुते ॥ १२ ॥ इति प्रणवाक्षरमालामन्त्रः । ॐ काराक्षरेति* अक्षशरब्दो मात्रापरः । मन्त्रशब्दश्च रहस्यस्तो. अपरः । पठते इति पदव्यत्ययच्छान्दसः। इन्द्रः परमेश्वरस्तत्सम्बन्धि पेन्द्र, सरस्वत्याः सम्बन्धि पाण्डित्यं सारस्वतं सार्वज्ञमिति यावत् । शाश्वतं पदं मोक्षं तत्वज्ञानद्वारा अश्नुते प्रामोतीत्यर्थः ॥१२॥ इति प्रणवाक्षरमालिकाव्याख्या समाप्ता ॥ -- -- भणवकल्पः । ५१ ॥ सूत उवाच-- अथातः सम्प्रवक्ष्यामि प्रणवब्रह्मणो द्विजाः ।। अनुस्मृति मोक्षदात्री स्मृत्वा यान्त्यपुनर्जनिम् ॥ १ ॥ अनुस्मृति वर्ण्यमानतत्तद्गुणविशिष्टतया स्मरणहेतुं ग्रन्थम् । अपुनर्जनि पुनर्जन्माभावं मोक्षमिति यावत् ॥ १ ॥ अग्ने सृष्टेः प्रपञ्चस्य य आस्ते वटवीजवत् ॥ सर्वभूतमयो दिव्यः प्रणवं संस्मरेद्यतिः ॥ २ ॥ प्रपञ्चस्य सृष्टेरग्रे प्राक् बटवीजवत्सूक्ष्मावस्थापनसर्वभूतमयो यः आस्ते तं प्रणवं संस्मरेदिति सम्बधः । तस्याचेतनप्रधानात्मकत्वव्यु. दासाय विशिनष्ठि दिव्य इति । स्वप्रकाशचिदेकरसतया द्योतमान इत्यर्थः ॥२॥ तहि स किं वटवीजवत्परिणामी नेत्याह- यथा रज्जुरहेविप्रा ! विश्वस्यापि तथा नवः ।। आधारोऽतो विभिन्नस्तं प्रणवं संस्मरंधतिः ॥ ३ ॥ *यथेति ॥ यथा रज्जुः स्वविवर्त्तस्याः तथा सर्वस्याधारः अधिष्ठा-॥ नम्, अत एव विभिन्नः अत्यन्तं जगतो विलक्षणः सत्यः, नवः अजरः॥३ 'यतो वा इमानि भूतानि जायन्ते' इत्यादिश्रुतय एतदर्थपरा इति दर्शयंस्तदज्ञानकृतानथस्य तद्ध्यानेन निवृत्त्युपपत्तेः प्रमाणसाफल्यमप्येवं सति सिध्यतीत्याशयेनाह- यद्विवर्त्तः प्रपञ्चोऽयं येन जीवति सर्वतः ।। यद्ध्यानान्नाशमायाति प्रणवं संस्मरेद्यतिः॥ ४ ॥ *यद्विवर्त्त इति* । यद्ध्यानात् यत्साक्षात्कागन्नाशं वाधम् ॥ ४ ॥ एवं च तस्य जगदुपादानत्ववादोऽप्यशदृष्ट्यैव तत्त्वदशा तु नि- कले निष्क्रिय शान्तं निरवद्यं निरअनमित्यादिश्रुतिवादा इत्याशयेनाह- उपादानं महादिव्यं यमाहुर्मुग्धमानसाः ॥ निष्कलं विभुमात्मानं प्रणवं संस्मरेद्यतिः॥५॥ *उपादानमिति* महानपरिच्छिन्नो यो दिवि द्योतनात्मके चि. स्वभावे दिव्यस्त, निरुकलं निरवयवम् ॥ 'स य इमांस्त्रीन्लोकान्पूर्णानतिगृह्णीयात् सोऽस्या एतत्प्रथमं पद- माप्नुयादित्यादिश्रुतिबोधितमहाप्रभावां गायत्रीमपि सम्यक् परित्यज्य .

५२ प्रणवकल्पप्रकाशाख्यभाष्ययुतः । यतीश्वराः यं प्रणवं जपन्ति, यतः प्रणवः साक्षान्मोक्षस्वरूपः, गाय- त्री तु साक्षात्कर्मोपासनफलात्मकसगुणब्रह्मप्राप्तिहेतुरित्याशयेनाह- गायत्रीं सम्परित्यज्य यं जपन्ति यतीश्वराः ॥ साक्षान्मोक्षस्वरूपं तं प्रणवं संस्मरेद्यतिः ॥ ६ ॥ *गायत्रीमिति* ॥६॥ गायत्र्यादिक्षुद्रमन्त्राः कलां नाईन्ति षोडशीम् ।। यत्प्रभावमहाम्भोधेः प्रणवं संस्मरेद्यतिः ॥ ७॥ अत एव प्रणवप्रभावमहार्णवस्यापारत्वात् गायत्र्यादयः मायिक- क्षुद्रसगुणब्रह्मभावफलत्वाद्यपेक्षया क्षुद्रमन्त्राः षोडशीमपि कलां ना- हन्तीत्युक्तिरपि अल्पोक्तिः ॥ ७ ॥ यस्माहते न चेदं स्याहते रज्जु यथा फणी ॥ यत्सत्तातो जगत्सत्ता प्रणवं संस्मरधतिः ॥ ८॥ अज्ञाताद्यस्मादृते अज्ञातं यं विनेत्यर्थः । व्यतिरेकोक्तमन्वयेनाह *यत्सत्तात इति ॥ शाते विशेषणाभावप्रयुक्तविशिष्टाभावरूपव्यतिरेकसिद्धिरित्याश- येनाह-- साक्षात्कृत्य यमात्मानं न पश्यन्ति यतीश्वराः ।। जीवभेदं विश्वभेदं प्रणवं संस्मरेवतिः ॥ ॥ साक्षात्कृत्येति ॥६॥ अनादिप्राप्तकर्माणि शिखामूत्रादिकान्यपि ॥ यस्मै त्यजन्ति सावित्री प्रणवं संस्मरेधतिः॥ १० ॥ यस्मै मोक्षरूपं यमुद्दिश्य त्यजन्ति ॥ १० ॥ 'सर्वे वेदा यत्पदमामनन्ति, तत्तु समन्वयादित्यादिश्रुतिसूत्रदर्शितः सर्ववेदवेदान्तानां परमपुरुषार्थावसानलक्षणस्तात्पर्येण समन्धयोऽपि यत्रैव नान्यत्रेति स्मरेदित्याशयेनाह- यत्र प्रतिष्ठितो विप्राः! सर्ववेदसमन्वयः॥ तात्पर्येण न चान्यत्र प्रणवं संस्मरेद्यतिः ॥ ११ ॥ यत्रेति ।। अन्यत्र नानोतार्किकवादिप्रविकल्पितप्रधानपरमाणु- विज्ञानशून्यकालस्वभावमितियदृच्छाभूतपुरुषादौ । ११ ।। -- प्रणवकल्पः । नानावादिभिः प्रधानपरमारवादिभावेन विकल्पमानं जगत्कारणं तत्त्वतो विमृश्यमानं प्रणवब्रह्मैव पर्यवस्यतीत्याशयेनाह.. स्वस्वाभिमतमार्गण यं वदन्ति विवादिनः ।। जगदादिमनादि तं प्रणवं संस्मरेद्यतिः॥ १२ ॥ *स्वस्वाभिमतमार्गेणेति* । मार्गेण तत्तत्प्रक्रियया यं प्रणवमेव जगदादि जगत्कारणं वदन्ति। वस्तुतस्तु “तदेतद्ब्रह्मापूर्वमनपरमनन्तर- मबाह्यमित्यादिश्रुतेरनादिम् ॥ १२ ॥ तस्य तटस्थतां विहाय सवमदावाक्यार्थभूतः परमपुरुषार्थोपयो- गिप्रत्यगभेदः स्मर्तव्य इत्याह-- वेदा वदन्ति येनैक्यं यस्य जीवस्य नो भिदा । जीवो यो यत्परं ब्रह्म प्रणवं संस्मरेद्यतिः ।। १३ ।। *वेदा इति* ॥ वेदाश्चतुर्वेदगतसर्वमहावाक्यानि येन प्रणवब्रह्मणा सह जीवस्यैक्यं वदन्ति, यतो यस्य जीवस्य च विरुद्धापाधिद्वयशोधने चिदेकरस्यपरिशेषानो भिदा । अज्ञानवाधपर्यन्तमेव भ्रान्त्या जीवः, शान- दृशाऽवेक्षणे तु यत्सदैव परं ब्रह्मेति प्रणवं यतिः संस्मरेदित्यर्थः ॥१३॥ श्रुतिस्मृतिभ्यां विहितो यदैक्यज्ञानसिद्धये ।। गायत्र्यादिपरित्यागः प्रणवं संस्मरे तिः ॥ १४ ॥ मुमुक्षूणां मोक्षसाधनस्य यदैक्यज्ञानस्य सिद्धय पारमहंस्यविधा- यकश्रुतिस्मृतिभ्यां गायत्र्यादिसर्ववेदकर्मवित्तपुत्रादिपरित्यागी विहि- तस्तं प्रणवम् ॥ १४ ॥ ब्रह्मविष्णवादिभेदेन यो भाति जगतां पतिः ।। ब्रह्मादयो यं जपन्ति प्रणवं संस्मरेद्यतिः ॥ १५ ॥ किंबहुना ब्रह्मविष्णुरुद्रादिसर्वदेवभेदेन यः प्रणवो भाति, य एव सर्वजगतां पतिः स्वामी,ब्रह्मादयः सर्वे देवा ऋपयो यतयश्च यं जपन्ति, एवं महाप्रभावोऽयं प्रणव इति संस्मरेदित्यर्थः ॥ १५ ॥ सूत उवाच- य इमामनुसन्धत्ते यतिनित्यमनुस्मृतिम् ।। ऐन्द्रं सारस्वतं प्राप्य शाश्वतं फलमश्नुते ॥ १६ ॥ थतियथोक्तं तदनुरूपं फलमश्नुते प्राप्नोति, इन्द्रः परमेश्वरस्तत्सम्ब-

५४ प्रणवकल्पप्रकाशाख्यभाष्ययुतः
[न्धि ऐन्द्र, सरस्वत्याः विषयं सारस्वतं सर्वशास्त्रतदर्थज्ञान प्राप्य
शाश्वतं नित्यं निरतिशयानन्दं मोक्षफलमश्नुते प्राप्नोति ॥ १६ ॥
अनुस्मतिं महादेव्यै इत्येवं शम्भुरब्रवीत् ॥ १७ ॥
इति प्रणवानुस्मृतिः ॥
इत्येवंरूपामनुस्मृति शम्भुमहादेव्यै अब्रवीदिति साम्प्रदायिक-
मप्यनुस्मर्त्तव्यमित्याशयः ॥ १७ ॥
इति अनुस्मृतिव्याख्या समाप्ता ॥
ॐकारजञ्जपूकानां जप्यान्यङ्गानि सर्वशः॥
मूतेन सम्यगुक्तानि ईश्वरेणैव पार्वतीम् ॥१॥
पूर्वोक्तान्यङ्गस्तुत्याद्यनुस्मृत्यन्तानि प्रणवोपास्त्यङ्गानि यस्मात्सा-
शादीश्वरेणैव पार्वती प्रति सम्यगुक्तानि, सूतेन च शौनकादिमुनिभ्यः
सम्यगुक्तानि, अतः ॐकारजञ्जपूकानां तान्यवश्यं जप्यानीत्यन्वयः ॥१॥
पार्वत्यङ्गानि सर्वाणि जप्त्वा दिव्यानि सर्वशः ।।
आनन्दं परमं प्रापुर्यथैते मुनिसत्तमाः ॥ २॥
हे पार्वति! पूर्वोक्तानि दिव्यानि इमानि सर्वाण्यङ्गानि शौनकादयो मु.
नयो जप्त्वा प्रणवोपाम्त्या सर्वशः सर्वप्रकारेण तञ्चिन्तनतत्स्मरणतत्प्र-
बोधनसमाधिलाक्षात्कारान्तैः सर्वप्रकारैरिति यावत् , परमं निरतिशया-
नन्दं यथा प्रापुस्तथा ते वर्णयिष्यामीत्यर्थः । ननु उपक्रमे मुनिभिः
पृष्टेन सूतेन
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
गौर्या महादेवः पृष्टो व्याचष्ट भूसुराः !॥
इति सूक्तोत्यपेक्षया गौर्य ईश्वरकृतः उपदेशः पूर्वकालः प्रतिपादि-
तः, इह तु तद्वैपरीत्यमिति पूर्वापरविरोधः। सत्यम् । प्रतिद्वापरं व्यासा.
वतारस्तमुन्युपदेशादिव्यवहारस्य समाननामरूपस्याऽनादेः सम्भवाद-
दोषः ॥ २॥
श्रुत्वेदं मुनिशार्दलाः सन्तोषमतुलं ययुः ॥
केचित्सूतं प्रशंसन्ति चक्रुरालिङ्गन परे ॥ ३ ॥
सन्तोष निरतिशयानन्दम् ॥ ३॥
मेमिरे केचिदेतेन तुल्यो नास्तीति सर्वशः ॥
केचिद्व्यासस्य माहात्म्यमिदमित्याहुरादरात् ॥ ४ ॥

प्रणवकल्पः
५५
इदं सूतस्य प्रणवतत्त्वज्ञानम् ॥ ४ ॥
अन्येऽप्योङ्काररूपेण निश्चिन्वन्ति स्म मूतकम् ॥२॥
अज्ञातः सूतः सूतकस्तम् ॐकाररूप एवायमिति प्रागज्ञातं सूतमि-
त्यर्थः । अज्ञाते स्वार्थे कन् ॥ ५॥
पठन्तु शृण्वन्तु च वाचयन्तु लिखन्तु गायन्तु च बोधयन्तु ।
ॐकारकल्पं यतिबन्दसेव्यं मूतोक्तमीशोक्तमनिन्दितं च ॥६॥
पठन्तु शृण्वन्त्विति प्राग्व्याख्यातम् ॥६ ॥
इति श्रीस्कन्दपुराणे वैष्णवसंहितायां मन्त्रप्रस्तावे प्रणवकल्पे
तृतीयोऽध्यायः ॥ ३॥
इतिश्री प्रणवक० प्रकाशे तृतीयोऽध्यायः ॥ ३॥
प्रणवः परमं ब्रह्म प्रणावः परमः शिवः ॥
प्रणवो परमो विष्णुः प्रणवः सर्वदेवताः ॥ १ ॥
प्रणवः परमं ब्रह्मेति प्रारख्यातम् ॥ १॥
मुनय ऊचुः-
पुरश्चर्या चरित्वा तु पार्वती जप्तनायिका ॥
अलभिष्ट महानन्दमित्यवोचद्भवान्किल ॥ २ ॥
कथं प्राप महानन्दं पार्वती तां विधां वद ॥
आनन्दं कीदृशं प्राप कथं प्राप्नोति वा वद ॥ ३॥
इत्युक्तो मुनिभिः सूतस्तं प्रकारमभाषत ।
मूत उवाच-
अथातः सम्प्रवक्ष्यामि यतीनां मुक्तिदायिनी ॥४॥
जप्तॄणामुपासकानां जपफलब्रह्मविद्याधिदेवतात्वान्नायिका ब्रह्मवि-
चाफलप्राप्तिका स्वामिनी अलभिष्ट लब्धवती, लभेरनिटकवादिट् दीर्धी
छान्दसौ । तां विधां तं प्रकारं वद । यादृशमानन्दं पार्वती प्राप तादृशं
अस्मदादिरप्युपासकः कथं प्राप्नोति तद्वदेत्यर्थः। तं प्रकारं वक्ष्यमाण-
प्रणवगीतामुखेन अभाषत व्यक्तमुक्तवान्। प्रणवगीतामेव तां वक्तुं प्रतिजा-
नीते अथात इत्यादिना ॥२॥३॥४॥
ॐकारगीता या गीता गीता मुक्ति प्रयच्छति ।।
जेगीयतां गीयमाना गायतस्त्रायते सदा ॥५॥

५६ प्रणवकल्पप्रकाशाख्यभाष्ययुतः या ॐकारगीता पठिता सती मुक्तिं प्रयच्छति सा जेगीयतां पुनः पुन- रतिशयेन गीयताम् । गीतेः क्रियासमभिहारे यङ्, कर्मणि लोटि ईत्वे द्वि- त्वे अभ्यासस्य गुणः । यतो गीयमाना गायतः पुरुषांस्त्रायते सदा ॥५॥ प्रतिश ताथं वक्तुमाख्यायिकामुखेनोपक्रमते-- कदाचिदीश्वरी गौरी विजने शुचिबुद्धिदे ॥ गुहायां हैमवत्यां च ध्यायन्ती ब्रह्म तारकम् ॥ ६ ॥ *कदाचिदित्यादिना* ॥ शुचिबुद्धिदे बुद्धिप्रसन्नताहेतुत्वाद्ध्याना- नुकूले इति यावत् , चकरात्स्व हृद्गुहायां च, तारकं ब्रह्म प्रणवम् ॥६॥ निर्गुणं स्वात्मरूपेण तिष्ठति स्म सदा शुचिः ॥ ध्यायं ध्यायं संस्थिताया प्रणवं ध्यानचेतसः ॥ ७॥ प्रणवं ध्यायं ध्यायं पुनः पुनरतिशयेन ध्यात्वा, आभीदण्ये णमुल् । नित्यवीप्सयोरिति द्विवचनम् । ध्यान एव आसक्तं चेतो यस्यास्तथा- विधायाः महन्महः आविरासेति परेणान्वयः ॥ ७ ॥ विश्वं ब्रह्ममयं सर्वमभिन्नं निर्विभेदकम् ॥ पश्यन्त्यास्तत्र पार्वत्या आविरास महन्महः ॥८॥ तत्र तस्मिन्ध्याने सर्व विश्वं जगत्स्वात्माभिन्न ब्रह्ममयं ब्रह्मस्वभावेन परिणतम् , अत एव निविभेदकं परस्परख्यावर्त्तकसर्वधर्मशुन्यं पश्यन्त्याः महत् अपरिच्छिन्नं महः प्रणवब्रह्म ज्योतिः साक्षादाविरास ॥ ८ ॥ तदेव वर्णयति- सर्वत्रगं सर्वरूपं निर्मलं निरुपद्रवम् ।। सत्यं ज्ञानमनन्तं च मनोवाचामगोचरम् ॥ ६ ॥ *सर्वत्रगमिति । देशकालकृतपरिच्छेदाभावात्सर्वरूपम् ,आवरणक्ष- यान्निर्मलम् , विक्षेपाभावानिरुपद्रवम् , अबाध्यत्वात्सत्यम् , जाड्याभा- वात् शानम् , अतः सजातीयविजातीयस्वगतभेदरहितत्वादनन्तम् , अत एव मनोवाचामगोचरम् ॥४॥ अद्वैतं मोक्षरूपश्च प्रत्यग्रूपममेयकम् ।। चिपमंशहीनं च जीवेशादिभिधापहम् ।। १० ॥ यतः द्वैतात्मकसर्वबन्धशून्यत्वादद्वैतं, तत एव मोक्षरूपम् । तत्र स. द्वैतैः सह प्रतीचोऽपि निवृत्तौ अपुरुषार्थत्वशङ्कां वारयति *प्रत्यग्रूपमि- ति* । मेयांशस्य जडस्यैव निवृत्तिने चिदंशस्येति दयितुमाह अमेय- कमिति। तहि किंमातू रूपं? नेत्याहचिद्रूपमिति* तर्हि तत्किं शोधित ,

प्रणवकल्पः।
जीवतत्त्वमात्रं सांख्या भिमतं ? नेत्याह *जीवेशादीति* । परिच्छेदपारो-
क्ष्यादिविरुद्धधर्मपरित्यागेनापरिच्छिन्नस्वप्रकाशनिरतिशयानन्दात्मका•
खण्डमहावाक्यार्थस्वरूपमित्यर्थः ॥ १० ॥
प्रपञ्च दृश्यमाना ये पदार्था मानुषादयः ।।
सुरासुरप्रभृतयो भेददर्शनगोचराः ॥ ११ ॥
अतत्त्वज्ञातृदशायां भेददर्शनगोचरा ये मानुषादयः सुराऽसुरप्रभृ.
तयश्च ते तस्यां तत्त्वदर्शनदशायां रुद्राण्या दृष्टिपथं नागता इति परेणा-
न्वयः ॥ ११ ॥
तस्यां दशायां रुद्राण्या न दृष्टिपथमागताः ॥
यथा पश्यन्ति नानार्थानविद्याग्रस्तचेतसः ॥ १२ ॥
उक्तमेवार्थ स्पष्टं पुनराह *यथेति*। अविद्यायां ग्रस्तं चेतो मानसवि-
वेको येषां ते जना यथा नानार्थान्पश्यन्ति तथा नेत्यनुषङ्गः ॥ १२ ॥
कथं ते पश्यन्ति ? तदाह-
जीवोज्य ईश्वरोऽप्यन्य इत्येवं ध्वस्तदृष्टयः ।।
विदेहमुक्तिवेलायां जीवन्मुक्तौ च तापसाः !॥ १३ ॥
*जीवोऽन्य इति* ॥ जीवः प्राणानां धारक इति संसारी अन्यस्तन्नि-
यन्ता ईश्वरोऽपि अन्य इत्येवं पश्यन्ति, ततस्ते अविवेकध्वस्तदृष्टय
इत्यर्थः । विवेकिनां तत्त्वविदो तर्हि कीदृशी स्थितिस्तामाह विदेहमुक्ति-
वेलायामिति ।* हे तापसाः ! विदुषां तु विदेहमुक्तिवेलायां जीवन्मुक्तौ
ध्यानकाले समाधिदशायां याक्स्थितिस्तादृगेव सदा स्थितिरिति परे-
गान्वयः ॥ १३॥
ध्यानकाले स्थितिकदृक् ताहगेव स्थितिः सदा ॥
भर्तृभार्यादिसम्भेदो गुरुशिष्यादिभिन्नता ॥ १४ ॥
विदेहमुक्त्यादौ हि कीदृशी स्थितिस्तामाह *भत्रिति* ॥ १४ ॥
वेदशास्त्रादिभेदो वा तदा नो भाति किञ्चन ॥
एतनिदानमज्ञानं यतो नष्टं विवेकतः ॥ १५ ॥
तदा-तस्यां दशायाम् । कुतो नो भाति ? तत्राह *पतदिति । वि.
वेकता-तत्त्वंपदार्थविवेकसाध्यतत्त्वसाक्षात्कारतः ॥ १५ ॥
उपादाननाशेन तत्कार्यविनाशे दृष्टान्तद्वयमाह-
मृद्विनाशे घटो यद्वद्रज्जुनाशे यथा फणी ।।
एतस्मिन्नेव काले तु प्रादुरास शुचिश्रवाः ॥ १६ ॥

५८
प्रणवकल्पप्रकाशाख्यभाष्ययुतः ।
लोकोपकारकाराय दिव्या वागशरीरिणी ।।
*मृदिति* ॥ एतस्मिन्नेव देव्यास्तत्त्वसाक्षात्कारविश्रान्तिकाले,
शुचिश्रवाः विशदश्रवणयोग्या, अशरीरिणी दिव्या वाक् , लोकानां श्रव-
णादितत्परजनानामुपकारं तत्त्वप्रतिष्ठानलक्षणं करोतीति लोकोपकार-
कारो दृढ़विश्वासस्तस्मै प्रयोजनाय प्रादुरास ॥ १६ ॥
वागुवाच-
भो भो देवि ! कृतार्थाऽसि गुरुकारुण्यलेशतः ॥ १७ ॥
अधिकारिबुद्धिकृतार्थतादिरेवात्र देव्याः कृतार्थत्वेनोत्प्रेक्ष्योच्यते १७
नष्टाज्ञाना नष्ठकार्या नष्टजीवादिभेदिमा ॥
नष्टकामादिदौर्गुण्या असि त्वं परमेश्वरि !॥ १८ ॥
मज्जपप्रभवादेवं प्रादुरास महन्महः।।
एवंप्रभावो मज्जप्ता तस्मान्मामेव सञ्जपेत् ॥ १६ ॥
मज्जपप्रभवात्तत्वसाक्षात्कारादिति शेषः । मजपो यस्मादेवंप्रभाव-
स्तस्मान्मामेव मुमुक्षुः सअपेत् ॥१८॥१६॥
यतीश्वराश्व गायत्रीं त्यक्त्वा भेदावलम्बनम् ।।
मामेव सर्वदा शुद्धा जपन्त्यालोचयन्ति च ॥ २० ॥
यो देवो भर्गवः नः धियः प्रचोदयात्प्रेरयति तस्य देवस्य सवितुर्वरे-
ण्यं वरणीयं तत्परब्रह्मात्मकं ज्योतिर्धीमहीति ध्यातृध्यानध्येयत्रिपुटी-
रूपभेदावलम्बनां गायत्रीं त्यक्त्वा जपनिष्ठा यतीश्वराःमामेव जपन्ति,
तत्त्वविचारनिष्ठास्तु आलोचयन्ति, विच रयन्ति पश्यन्ति च ॥ २० ॥
मदर्थ चापि मामेव सर्वभेदविनाकृतम् ।।
गायत्रीमपि सावित्री शिखां मूत्रं च कर्म च ॥ २१ ॥
यद्यपि ते मदर्थ पर्यालोचयन्ति, तथापि सर्वभेदविवर्जितं मदर्थ
भूतं मामेवान्वेषयन्ति नान्यमित्यर्थः । यस्मात्पूर्वयतीश्वराः मां जप्तवन्तः
पर्यालोचितवन्तश्च, तस्मादिदानीन्तनैरपि अधिकारिभिर्मोतवाञ्च्छा भवे.
यदि, तर्हि गाययादिनि त्यक्त्वा संन्यस्य अहं जप्य इति परेणान्वयः २१
त्यक्त्वा संन्यस्य जप्योऽहं मोक्षवाञ्छा भवेद्यदि ॥
इदं कल्पं तु सर्वेषां गृहिणां ब्रह्मचारिणाम् ॥ २२ ॥
वनस्थानां यतीनां च पारायणफलं समम् ॥
सकमण्डलुदण्डानां यतीनामेव मज्जपः ॥२३॥

प्रणवकल्पः । ५६ तत्र प्रणवजपे संन्यासिनामेवाधिकारः तत्कल्पश्रवणाध्ययनादौ तु चतुर्णामप्याश्रमाणामित्याह *इदमिति* । पारायणमात्रादङ्गस्तुत्यादौ प्रागुक्तं फलं यस्य तथाविधमिदं कल्पं सर्वेषां समं साधारणम् ॥ २२ २३ कल्पं साधारणं प्रोक्तं पुराणत्वेन हेतुना ।। सर्व च मन्मयं देवि ! विश्वस्माच विलक्षणः ॥ २४ ॥ पुराणत्वेन हेतुना पौराणिकरहस्यशाने त्रैवर्णिकानामधिकारादि- त्यथः । शुद्रस्य तु न रहस्यश्रवणेऽधिकारः, 'न शूद्राय मतिं दद्यादि'- त्यादिनिषिद्धत्वात् । इदानीं प्रणवः स्वस्य सर्वात्मतां ब्रह्मतद्विद्यात्मतां चाह *सर्वश्चेत्यादिना* ॥ २४ ॥ निर्गुणो निर्विकारोऽहं तद्रूपः सर्वरूपवान् ।। मत्तोत्पन्नं च यत्किश्चित्सर्व च मयि कल्पितम् ।। २५ ।। तपो ब्रह्मविद्यारूपः ॥ २५ ॥ अहमेव विलासेन बद्धो मुक्तश्च सर्वगः ।। मायावीव स्वयं सर्व सृष्ट्वा तत्र प्रविश्य च ॥ २६ ।। संसरामि भूमामीव गच्छामीव नमामि च ।। मूढानां च तथा भामि न गुर्वायत्तचेतसाम् ।। २७ ।। विलासेन मायाविलासक्रीडाक्रौतुकेन यावदशानं बद्ध इव स्वतत्त्वं ज्ञात्वा मुक्त इव च, मायावी ऐन्द्रजालिक इव, तत्र स्वसृष्टचतुर्विधशरी- रे प्रविश्य च, संवादिविषयेषु संसरामीव, विसंवादिषु भ्रमामीव, मार्ग- भेदेषु गच्छामीव, अल्पतरेषु सुचिच्छिद्रादिमार्गेपु नमामि समाविशामि। किं सर्वत्र एवमेव ? नेत्याह *मूढानामिति । गुरुष्वेवायत्तमधीनं चेतो येषां, गुर्वनुग्रहफलसाक्षात्कारफलशालिचित्तानामिति यावत् ॥२६॥२७॥ यन्मुढानां जगद्भ्रान्तिदर्शनं यश्च तत्त्वविदां तत्त्वदर्शनं तत्सर्वं दर्शन चिदात्मैक्यनिर्वाह्यमिति दृष्टतत्त्वनिष्कर्षे चिदात्मैव सर्व पश्यतीति पर्य- बस्यतीत्याशयेनाह- इदं भ्रान्तं जगवस्तु पश्यत्येष स पश्यति ॥ लोकभेदं समुद्दिश्य वक्तृता प्रतिवक्त्ता ॥ २८॥ *इदमिति । यस्तु जीव इदं भ्रान्तं जगत्पश्यतीति प्रसिद्धं तदेष प्रागुक्तोऽहमेव स जीवो भूत्वा पश्यति नान्यः-'नान्योऽतोऽस्ति द्रष्टेत्या. दिश्रुतेः । एवं गुरुशिष्यादिलौकिकभेदकल्पनया धक्तृता प्रतिवक्तृतापि ?

६० प्रणवकल्पप्रकाशाख्यभाष्ययुतः । तस्यैवेत्याह लोकभेदमिति* । अथवा यदि द्रष्ट्रादितत्त्वमात्मैव तर्हि तस्यैव वक्तृता प्रतिवक्तृता च कथम् ? न हि स एव तमेव प्रतिपृच्छति समाधत्ते चेत्यादिव्यवहार उपपद्यते, तबाह *लोकभेदमिति । व्याव. हारिकप्रसिद्धशरीराद्यौपाधिकभेदं सम्यग् उद्दिश्य सिद्धवत्कृत्य गुरु- शिष्यादिसंवादरूपा वक्तृता प्रतिवक्तृता च प्रवर्त्तत इत्यर्थः ॥ २८ ॥ सर्वात्मभूतस्य मम इन्द्रादिदेवशरीरेषु पृथक्पृथगभिमानकल्पनेन स्वतत्वाशानगर्वादिकं यक्षरूपेणाविर्भूय तृणदहनचालनच्छेदनेष्वप्य- ग्न्यादीनामसामर्थ्यप्रकटनेन गर्वभङ्गोत्तरं तिरोधाने शान्तदर्पेभ्य इन्द्रा- दिभ्यो जिज्ञासुभ्य उमामुखेन स्वतत्त्वोपदेशनं च तलवकारशाखिनामु- पनिषदि प्रसिद्धमित्याह- देवि ! केनोपनिषदि एवं संवादिकोमया ॥ इन्द्रादिना पुरा जातो गर्वनिर्वापणाय वै ॥ २६ ।। *देवीति* ॥ हे देवि ! अहं पुरा पूर्वकालं मच्छक्त्याऽसुरविजयानन्त- रमिन्द्रादीनामस्माकमेवायं विजयोऽस्माकमेवायं महिमेत्यद्भुतगर्वनि पणाय एवं यक्षरूपेणाविर्भूय तेषामसामयं प्रकटीकृत्य पुनस्तिरोभूय च पुनस्तत्राविर्भूतया इन्द्रेण सह संवादिकया उमया हैमवत्या तेषां ग. वहेत्वज्ञाननाशन निर्मूलं गर्वनिर्वापणायाहं जात इति केनोपनिषदि वै प्रसिद्धमित्यर्थः ॥ २६ ॥ पारमार्थिकदृष्टौ तु नैवं पर्युपपद्यते ।। एतादृशं स्वरूपं त्वं लक्ष्यसे देहपाततः ॥ ३० ॥ पारमार्थिकदृष्टिदशायां तु नैवं वक्तृता प्रतिवक्तृता च पर्युपपद्यते, 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदित्यादिश्रुतेरित्यर्थः ॥ देह- पाततः-देहस्य मिथ्यात्वबुद्ध्यबाधतः ॥ ३० ॥ एवमेव हि यो वेद लभते सोऽपि मां शिवम् ।। तस्मात्सर्वप्रयत्नेन मदर्थ प्रविचारयेत् ॥ ३१ ॥ मां प्रणवतत्त्वात्मकं, शिवं निरतिशयानन्दम् ॥ ३१ ॥ श्रुगवीत चापि मन्वीत निदिध्यासनमाचरेत् ।। मदयों यत्र विस्तारो वर्णितो बुधसत्तमैः ॥ ३२ ॥ मदर्थ प्रथमं गुरुमुखाच्छृण्वीत, ततः श्रुतार्थदााय मन्वीतापि, ततो निदिध्यासनं विपरीतभावनाच्छेदार्थमाचरेत् इत्यर्थः । यत्र येषु श्रुति- स्मृतिपुराणसूत्रभाष्यादिषु, विस्तीर्यत इति विस्तारः, कर्मणि घश्,

मणवकल्पः ।
उपपत्तिभिर्विस्तारितो मदों वर्णितस्तान् ग्रन्थान् शृण्वीत मन्वीत
चेत्यनुषज्यते॥ ३२ ॥
तत्रावस्छात्रयान्वयव्यतिरेकावधारितसदेकस्वभावत्वात्पुरुषस्यैव
पारमार्थिकसत्त्वं नावस्थात्रयस्य पुरुषसंसर्गाध्यासेनैव तात्कालिकस-
ताप्रत्ययोपपत्तेरत एव विद्वद्भिानकाले जीवन्मुक्तिरनुभूयते . देह-
पाते विशेषतः प्रतिभासस्याविच्छेदाद्भूमानन्दैकरसा मुक्तिः परिशिष्यते
इत्याह-
सद्भावो यस्य पुंसोऽस्ति तस्यावस्थात्रयं भवेत् ॥
जीवन्मुक्तिनिकाले देहपाते विशेषतः ।। ३३ ।।
*सद्भाव इति* ॥ यस्य पुंसः स्वसत्तयैव सद्भावोऽस्ति तस्यैव स-
त्तया यावज्जीवं पर्यायेणावस्थात्रयं भवेत् । ध्यानकाले आविर्भूतेना.
परोक्षसाक्षात्कारेण जीवन्मुक्तिश्च भवेत् , देहपाते विशेषतो विदेहमु-
क्तिश्च भवेन्नात्यन्तासतः परतः सतो वेत्यर्थः ॥ ३३ ॥
न तस्य जन्म दुःखं वा भेदो वा सम्भवत्युमे ! ॥
मुह्यन्ति मूढाः सर्वत्र गुरुशास्त्रपराङ्मुखाः ॥ ३४ ॥
अत एव सदसतोः सम्बन्धायोगादसङ्गस्य तस्य पंसो जन्म दुःखं
ब्रह्मभेदो वा न सम्भवत्येव । एवं स्वाध्यवसाग्ये परात्मतत्त्वे गुरुशास्त्र
पराङ्मुखाः मूढा मुह्यन्ति ॥ ३४ ॥
कथं मुह्यन्ति ? तदाह-
अन्यो जीवस्तथा ब्रह्म प्रपञ्चोज्य इतीश्वरि ! ।।
नैव पश्यन्ति सचित्ता यतो ब्रह्माद्वयं स्मृतम् ॥ ३५॥
*अन्य इति* गुरुशास्त्रानुगतसवितास्तु नैवं मुह्यन्ति, यतो गुरु-
शास्त्रोपदेशाद्विस्मृतकण्ठचामीकरमिव स्मृतं स्वतत्त्वमेव ब्रह्माद्वय-
मित्यर्थः॥ ३५॥
सर्वोपनिषदो देवि ! गुरुवाक्यं सतां वचः ।।
स्वानुभूतिर्विचारश्च प्रमाणं यदि पार्वति ! ॥ ३६॥
अत एव गतिसामान्यपरिक्षानाय विचारिताः सर्वा उपनिषदः,
तत्तात्पर्यप्रदश्यकं गुरुवाक्यं, तदुपबृंहकस्मृतिपुराणसूत्रभाष्यादिरूपं
सतां पूर्वाचार्याणां वचः, तदनुगुणा स्वानुभूतिः, तद्दाढर्याय पुनः पुनर्वि-
चारश्चेत्येतत्पञ्चकं यदा स्थूणानिखननन्यायेन तत्र दृढतरप्रतिष्ठाकारण-
मस्ति तदा स्वास्मैव ब्रह्माद्वयं सिद्धमित्युपसंहारः ॥ ३६ ॥

६२ प्रणवकल्पप्रकाशाख्यभाष्ययुत: उक्तमर्थ प्रशिशंसिषुः सूत आख्यायिकाशेषमुपवर्णयति- इत्युत्का विररामासौ दिव्यागमशरीरिणी ॥ सूत उवाच-- गौरीदं वाक्यमाकर्य आश्चर्य परमं ययौ ।। वृत्तान्तमिममीशानी ज्ञापयामास शङ्करम् ॥ ३७ ॥ *गौरीत्यादिना* ईशानस्य स्त्री इशानी, पुंयोगादाख्यायां डीप॥३७॥ श्रुत्वा वाक्यं तथा शम्भुः सन्तोष परमं ययौ । निश्चयामासतुर्विप्राः ! तथेति गिरिजाशिवौ ॥ ३८ ॥ निश्चयामासतुनिश्चिक्यतुः । निश्चयशब्दात्तत्करोतीति णिचि लिटि 'कास्प्रत्ययादित्यामि 'अयामन्ताल्वाय्येन्त्विष्णुग्विात्ययादेशविषये णिलुक्छान्दसः। अशरीरिण्या वाचा यद्युक्तं तत्तथैवेति निश्चिक्यतुरि- त्यर्थः ॥ ३८॥ कुर्वात प्रत्यहं ध्यानं प्रणवब्रह्मणः शिवौ ॥ तस्माज्जपन्तु चोङ्कारं साङ्गं तु मुनिसत्तमाः ! ॥ ३६ ॥ ध्यानग्रहणं जपस्याप्युलक्षणम् , जपग्रहणमप्येवम् , यस्माद्विरिजा- शिवौ प्रत्यहं प्रणवब्रह्मणो जपं ध्यानं च कुर्वाते तस्माद्भवन्तोऽपि साङ्गमोङ्कारं जपन्तु ध्यायन्तु चेत्यर्थः ॥ ३६ ॥ तर्हि किं कुटीचकादिभिरिव परमहंसेनापि गायत्री जप्त्वा प्रणयो जप्यः ? नेत्याह- त्रिकरगया च गायत्रीं पित्रा मूढेन देशिताम् ।। त्यक्त्वा सर्वज्ञगुरुणा दिष्ट तारञ्जपन्तु च ॥ ४० ॥ *त्रिकरण्येति । त्रीणि करणानि वाङ्मनःकायास्तेषां समाहारः त्रिकरणी, द्विगोरिति ङीप् , तया, मूढेन अनात्मक्षेन पुत्रवित्तादिस्नेह- मूढेन च पित्रा देहजनकेन देशितां साक्षादाचार्यद्वारा वा उपदेशितां गायत्रीं व्याहृत्यादिप्रदर्शनक्रमेण विधिना त्यक्त्वा सर्वक्षेन सर्वात्मक ब्रह्मविदा गुरुणा परमहंसपरिव्राजकाचार्येण दिष्टं तारं जपन्तु चकारा- ध्यायन्तु च ॥४०॥ उक्तमुक्तं दृढयितुं यतेर्गायत्रीजपे इतरेषां तारजपे प्रणवजपे स्त्रीणां च दोषमाह-- यतिर्गायत्रीजपिता बटवाधास्तारजापकाः ।। . --

प्रणवकल्पः
६३
मन्त्रजाप्यश्च नार्यश्च सर्वे निरयगामिनः ॥४१॥
*यतिरिति । बटुः ब्रह्मचारी तदाद्यास्त्रयः आश्रमिणः तारजा-
पकाः केवलप्रणवजपपराः । प्रणवघटितमन्त्रान्तरजपे तु तेषां न
दोषः। मन्त्रं जपन्तीति मन्त्रजाप्यः, कर्मण्यण् । 'टिढ्ढाणमित्यादिना
ङीप् । सर्वे इति पुमान् स्त्रियेति पुंशेषः । आद्यश्चकारो निरयगामिषु
स्त्रीणां समुच्चयार्थः । द्वितीयस्तु मन्त्र जपे अनुक्तशुद्रपतिताद्यनधिकार्य:
न्तरसमुच्चयार्थः ॥ ४ ॥
इत्यवोचमहं गीतां दिव्यां प्रणवनामिनीम् ॥
यो गायति सदा शुद्धः सोऽन्ते मुक्ति च विन्दति ॥ ४२ ॥
प्रणवेतिनामिनी नामवती प्रणवगीताख्यामिति यावत् । इतीति
व्यवहितोपसंहारस्तत्पठनफलकीर्तनार्थः ॥ शुद्धः-स्नानाचमनादिप्रयतः ।
अन्ते मुक्तिं, चकारादिह वाच्छितार्थाश्च विन्दति ॥ ४२ ॥
पठन्तु शृण्वन्तु च वाचयन्तु लिखन्तु गायन्तु च बोधयन्तु ॥
ॐकारकल्पं यतिन्दसेव्यं मूतोक्तमीशोक्तमनिन्दितं च ॥४३॥
इति श्रीप्रणवकल्पे चतुर्थोऽध्यायः ॥४॥
*पठन्त्विति* । प्राग्व्याख्यातम् ॥ ४३ ॥
इति श्रीप्रणवकल्पप्रकाशे चतुर्थोऽध्यायः ॥ ४ ॥
प्रणवः परमं ब्रह्म प्रणवः परमः शिवः ।।
प्रणवः परमो विष्णुः प्रणवः सर्वदेवताः ॥१॥
प्रणवः परमं ब्रह्मेति प्राग्व्याख्यातम् ॥ १ ॥
मुनय ऊचु:-
सूत सूत महाप्राज्ञ द्वैपायनकृपालय ! ॥
सत्यवत्याः सुतात्सर्व ज्ञातं वैदिकलौकिकम् ॥ २ ॥
यमुनाद्वीपरूपं यदयनं स्थानं तत्र जातो द्वैपायनः, द्वैपायनस्य
व्यासस्य कृपायाः आलय आवासभूतेति सर्वरहस्योपदेशशालित्वद्यो-
तनार्थम् । तदेव स्पष्टमाह--*सत्यवत्या इति । वैदिकं वेदरहस्य
लौकिकं लोकरहस्यं वेदातिरिक्तविद्यास्थानरहस्यं चेत्यर्थः ॥ २ ॥
अस्माकं कृपया पूर्वमोङ्कारकवचं शुभम् ॥
ॐकारहृदयं पुण्यमोङ्काराङ्गस्तुतिस्तथा ॥ ३ ॥

CC ६४ प्रणवकल्पप्रकाशाख्यभाष्ययुतः कवचादीनां पञ्जराधन्तानां समुचितानां त्वया उक्तानीत्युत्तर- त्रान्वयः ॥३॥ ॐकारनाम्नां दिव्यानां शतमष्टोत्तरं मुने! ॥ ॐकारपञ्जरादीनि सर्वाणयुक्तानि भो ! त्वया ॥ ४ ॥ आदिपदाद्गीतान्तसङ्ग्रहः ॥ ४ ॥ श्रुत्वैतानि मुनिश्रेष्ठैलब्धं का र्थ्यमुत्तमम् ॥ वाच्यं श्राव्यं पुनः किञ्चिदस्ति नो वद तत्पभो ! ॥ ५ ॥ कृतः अर्थः पुरुषार्थो जन्मसाफल्यं च यैस्ते कृतार्थास्तेषां भावः का- hि 'गुणवचनब्राह्मणादिभ्य' इति ष्यत्र । त्वया वक्तुं योग्यं वाच्यम् , अस्माभिः अवश्य श्रोतुं योग्यं श्राव्यम् , 'ओरावश्यके' इति ण्यत् , कि- चिसहस्त्रनाम अस्ति तत् नः अस्मभ्यं वद ॥ ५ ॥ यच्छुत्वा मुनिधौर्येय । श्राव्यं लोके न विद्यते ॥ ॐकारनाम्नां साहस्रं भुक्तिमुक्तिफलप्रदम् ॥ ६ ॥ यत् ॐ कारनाम्नां साहस्रं श्रुत्वा प्रणवोपास्तिविषये अन्यत् श्रोतव्यं न विद्यते नावशिष्यते ॥६॥ नानारोगहरं नृणां नानाकामार्थदायकम् ।। नानाश्रमफलाकारं नानास्तोत्रफलप्रदम् ॥ ७ ॥ नानाकर्मणामष्टाचत्वारिंशत्संस्काररूपाणां सर्वकर्मणामर्थः पर- मप्रयोजनमात्मतत्त्वज्ञानं तदायकम् , नानाश्रमसाध्यान्यन्यान्यपि यानि काम्यफलानि तान्यप्याकिरति वर्षतीत्याकारम् ॥ ७ ॥ अस्मभ्यं वद लोकानां हितं कर्तुं महामते ! ॥ सकृच्छ्रुत्वा पठित्वा वा पुनर्जन्म न विद्यते ॥८॥ अस्मन्मुखेन प्रख्यानात्सर्वेषामधिकारिलोकानां हितं कर्तुं, यत्सक- च्छुत्वा पठित्वा वा ॥ ८॥ सूत उवाच- भो भो हे मुनयः श्रेष्ठाः ! साधु पृष्टं महात्मभिः ॥ यथा शम्भुः पुरा गौर्या मेधगम्भीरया गिरा। ॥ पुरा गौर्या शम्भुर्यथा पृष्टस्तथा भवद्भिरपि मेधगम्भीरया गिरा सम्यक्पृष्टमित्यन्वयः ॥8॥ प्रश्नेनानेन तुलया न पृष्ठं केनचित्पुरा ॥ -

प्रणवकल्पः।
६५
६
अतो वक्ष्यामि युष्मभ्यं यतो मुक्तिर्भवेध्रुवम् ॥ १०॥
यतो यस्मानामसहस्रान्मुक्तिध्रुवं भवेत् तद्वदयामि ॥ १० ॥
इत्युक्त्वा वक्तुमारेभे मूतः पौराणिकः प्रभुः ।
अस्य श्रीप्रणवदिव्यसहस्रनामस्तोत्रमन्त्रस्य परब्रह्मऋषिः,
अनुष्टुप छन्दः, परमात्मा देवता, अकारो बीजम् , उकारः शक्तिः,
मकारः कीलकं, मोक्षार्थे जपे विनियोगः ।
अकारोकारमकान्यासं कुर्यात्करादिषु । अष्टोचरनामवद्र-
ष्टव्यम् ॥
ऋषिः कल्पादौ द्रष्टा स एव चास्य सहस्रनाम्रोऽपि, एवं प्रणवदेव-
तैव देवता तद्विनियोगे विनियोगश्च, छन्दस्त्वष्टाक्षरपादैः श्लोकैर्नाम्नां
क्रमनिबन्धादनुष्टुप् ॥
अथ ध्यानम्-
ॐकारं निगमैकवेद्यमनिशं वेदान्ततत्त्वास्पदम् ।
चोत्पत्तिस्थितिनाशहेतुममलं विश्वस्य विश्वात्मकम् ॥
विश्वत्राणपरायणं श्रुतिशतैः सम्पोच्यमानप्रभम्
सत्यं ज्ञानमनन्तमूर्तिममलं शुद्धात्मकं तं भजे ॥११॥
निगमानां सर्ववेदानामेकं वेद्यं 'सर्वे वेदा यत्पदमामनन्तीति श्रुतेः ।
निशा अज्ञानान्धकारस्तद्विरोधित्वादनिशम् , वेदान्ततत्त्वस्य परब्रह्मणः
वाचकत्वात्प्रतीकत्वाच आस्पदम् । विश्वस्योत्पत्त्यादेः अकाराद्यर्थमुखेन
हेतुः अभिन्ननिमित्तोपादानकारणम् ,अत एव विश्वात्मकम् ,विश्वस्य सर्वस्य
अधिकारिजनस्य ज्ञानादिसम्पादनेनं त्राणेर क्षणे परायणम् , श्रुतिशतैः
सम्यक्प्रोच्यमाना ख्यायमाना प्रभा तात्पर्यविषयः ब्रह्मज्योतिर्यस्य,
अनन्ता अपरिच्छिन्ना मूर्तिस्तात्त्विकस्वरूपा यस्य । अमलमिति प्रथम
कामकर्मवासनामलवारणाय, द्वितीयं त्वविद्यामलनिरासाय विशेषणम् ,
कारणमलनिरासाच्छुद्धात्मकं तं प्रणवं भजे इत्यर्थः ॥ ११ ॥
एवं न्यस्य ततो ध्यात्वा नामानि प्रजपेत्सुधीः॥
ॐकारस्तारक मूक्ष्मः प्रणवः सर्वगोचरः ॥ १२ ॥
क्षरमेकाक्षरं क्षारं तितिरुत्पतिहेतुकः ॥
नित्यो निरत्ययो शुद्धो निर्मलात्मा निराकृतिः ॥ १३ ॥

om
प्रणवकल्पप्रकाशाख्यभाष्ययुतः ।
ॐकार इत्यादीनि यानि अष्टोत्तरशतनामसु व्याख्यातानि तानि
तत एव ज्ञातव्यानि, स्पष्टानि नामानि तु प्रसिद्धार्थान्येव । शिष्टानि व्या-
ख्यायन्ते-कार्यप्रपश्चात्मना क्षरम् , क्षारयति नाशयति मलमिति क्षारम्
क्षिति शो जगतः प्रतिष्ठा वा 'क्षि निवासगत्योरिति प्रसिद्धः। उत्पत्ते.
हेतुरेवोत्पत्तिहेतुकः। अत्ययो नाशस्तद्रहितत्वान्निरत्ययः ॥ १२-१३ ॥
निराधारः सदानन्दः शाश्वतः परतः परः ॥
अकारात्मा मकारात्मा बिन्दुरूपी कलाधरः ॥ १४ ॥
कलाः प्रागुक्तनवांशाः चन्द्रादिकला वा तासां धरतीति धरः॥ १४ ॥
उकारात्मा महावेद्यो महापातकनाशनः ।।
ईडयः परतरो वेद्यो वेदवेद्यो जगद्धरः ॥१५॥
ईडयः स्तुत्यः । चक्षुराद्यगम्यत्वादवेद्यः ॥ १५ ॥
वेदकद्वेदवेत्ता च वेदान्तार्थस्वरूपगः ॥
वेदान्तवेद्यो नतुलः कञ्जजन्मा कमाकृतिः ॥ १६ ॥
न विद्यते तुला साम्यं यस्य स नतुलः। अमानोना प्रतिषेधे इति
नशब्दस्य समासोऽयं नतु नञः। कमाकृतिः सुखाकारः ॥ १६ ॥
खरूपी खगवाही च खगः खगतरः खगः ॥
खाद्यः खभूतः खगतः खगमः खगनायकः॥ १७ ॥
खगौ हंसगरुडौ ताभ्यां वाही वाहनवान् । खगः पक्षिरूपः। खगतरः
खगश्रेष्ठः सूर्यादिः। खगच्छन्तीति खगो वायुः, रूढियोगाभ्यां नामभेदः।।
खस्याकाशस्य आद्यः कारणम् । ततः सर्गादौ स्वयमेव खभूतः। ततो
वायुरूपेण खगतः । खे गच्छतीति खगमः । खे गच्छतां सूर्यचन्द्रनक्षत्रा-
दीनां नायकः प्रवर्तकः ॥ १७ ॥
खरमः खजलः खालः खगवाहः खगेश्वरः ॥
गन्ता गमयिता गम्यो गच्छन्गतिकरो गतिः ॥ १८ ॥
देवादिरूपेण खे रमत इति खरमः । खे मन्दाकिनीमेघादिरूपेण
जलं यस्य स खजलः । सप्तमीविशेषणे बहुव्रीहाविति पूर्वनिपातविधि-
सामर्थ्याद्यधिकरणपदो बहुव्रीहिः । खं चन्द्रनक्षत्रादिरूपेण अल-
ति भूषयतीति खालः । कर्मण्यण् । खगान्मेघान्वहतीति खगवाहः ।
खगेश्वरो गरुडरूपः । गंञ्यादिरूपेण गन्ता। सारथ्यादिरूपेण गमयिता।
ग्रामनगरादिरूपेण गम्यः । पदात्यादिरूपेण गच्छन् । भश्वादिरूपेण गतेः
करोगतिकरः। गतिर्गमनक्रियारूपः ॥१८॥

७ मनसो मविहन्ता च गम्यानामुत्तमोत्तमः ॥ घण्टानिनादो घण्टेयो घण्टेयपरनन्दनः ॥ १६ ॥ विभूतिमत्त्वान्मनसोऽपि गति हन्ति तिरस्करोतीति मनसो गतिहन्ता, 'अनेजदेको मनसो जवीय' इति श्रुतेः । गम्यानां प्राप्याणां कर्मोपास्ति- शानफलानामुत्तमोत्तमो निरतिशयोत्कर्षकाष्ठां प्राप्त इत्यर्थः, 'आत्मला- भान्न परं विद्यत' इत्यापस्तम्बवचनात् , अपि भूपरमाणुभूरिसङ्ख्यष्वपयातेषु चतुर्मुखेष्वलब्धात् । अपदुःखनिरन्तसौख्यसिन्धोर्न च लाभोऽस्ति परो निजात्मलाभात् ॥ इत्यभियुक्तोक्तेश्च । घण्टादिनादः प्रसिद्धः। घण्टेयो घण्टानादस- दृशोऽनाहत इत्यर्थः । नादलाक्षणिकाद्धण्टाशब्दादुपमेये ढश्छान्दसः । घण्टेयपरान् अनाहतनादसमाधिनिष्ठान्नन्दयत्यानन्दयतीति घण्टे- यपरनन्दनः॥१६॥ घण्टानादकरो घण्टानादवान्नादवान् घुणः ।। घस्रो घनितचिद्रूपो घनानां जलदायकः ॥ २० ॥ पूजकादिरूपेण घण्टानादकरः, घण्टारूपेण प्रणवो घण्टानादवान् , घण्टादिरूपेण सर्वनादवान् , कालरूपेण सर्व घुण इव जरयतीति घुणः । दिनरूपत्वात्सदा प्रकाशत्वाद्वा घस्नः । घनिता सैन्धवशिलोदग्घना चिदेव रूपं यस्य तद्यथा सैन्धवधन' इत्यादिश्रुतेः ॥ २० ॥ चम्पापूज्यश्चिदानन्दश्चिराच्चिरतरश्चितिः ।। चितिदश्चितिगन्ता च चर्मवान् चलनाकृतिः ॥ २१ ॥ चम्पाशब्दः पुष्पपरः, नित्यत्वादनादित्वाचिराच्चिरतरः, चीयतेऽ. स्मिञ्जगदितिः चितिः, चितिरूपचमसंददातीति चितिदः । चितिरूपत- याऽस्य गन्ता प्राप्ता । शिवरूपत्वाद्याघ्रभचर्मवान् ॥ २१ ॥ चञ्चलचालकचाल्य'छाध्यावान् छादनात्मकः ।। छाया छाया प्रतिछाया जञ्जपूको महामतिः ॥ २२ ॥ छाया कान्तिः, छाया प्रसिद्धा, प्रतिछाया प्रतिबिम्बः। भर्थभेदाना. मभेदः। ॥ २२ ॥ जलगायो जलाकारो जाली जालविनायकः ॥ झटितिमतिधौरेयो ममामारुतसेवितः ॥ २३ ॥ जालस्य त्रिगुणमायाजालस्य विनायको नियन्ता, झरिति शीघ्रण

६८
प्रणवकल्पमकाशाख्यभाष्ययुतः ।
प्रतिहताः सर्वे धौरेयाः भारवाहाः येन, देवाद्यगम्यगतिप्रापकत्वादिति
भावः। झञ्झामारुतेन प्रलयमारुतेन सेवितः ॥ २३ ॥
टङ्कश्च टङ्ककर्ता च टङ्ककार्यवशानुगः ।।
ठिट्ठलो निष्ठुरः कृष्टममठः पृष्ठगोचरः ।। २४ ।।
टंकः पाषाणदारणः, टङ्ककार्याणि शिलादिप्रतिमास्तत्र सन्निधाना.
त्तद्वशानुगः, ठिठ्ठलः शिलादिकठिणस्थूलरूपः, सर्वभूम्याधारत्वा-
त्कमठः, अत एव स्वपृष्ठस्थभूम्यात्मना पृष्ठगोचरः ॥ २४ ॥
काठिन्यात्मा कठोरात्मा कौट: कौटीरगोचरः।
डमरुध्वानसानन्दो डाम्भिकानां पराङ्मुखः ॥ २५ ॥
शिलादिकाठिन्यात्मा, वजादिरूपेण कठोरात्मा, कुट्यां भवः कौटः ।
अल्पा कुटो कुटीरस्तत्र भवाः कौटीराः यतयस्तेषामुपास्यत्वेन गोचरः ।
डमरुध्वानेन नृत्यपरत्वात्सानन्दः । डाम्भिकानां धर्मध्वजिनां फला-
भावात्पराङ्मुखः ॥ २५ ॥
डम्भेतरसमाराध्यो डाम्भिकानां विडम्बनः ॥
ढक्काकलकलवानोऽणिमाणुत्तमसुन्दरः ॥ २६ ॥
डम्भेतरैरदांभिकै सम्यगाराध्यः; डांभिकानां तु लोकवञ्चनफलमात्रेण
विडम्बनः वञ्चक इति यावत् । ढक्का यशःपटहः तेन सर्वदिक्षु प्रसिद्धः
कलकलध्वानः कोलाहलध्वनिर्यस्य । अणिमासिद्धिरूपः अणिमा पर-
मसौम्येण अणु, तेभ्यः सूक्ष्मतमेभ्योऽप्याकाशपरमारावादिभ्यः सुन्दरः
परमसूक्ष्म इति यावत् ॥ २६ ॥
तारतम्यफलं तल्पं तल्पशायी वितारकम् ।।
तर्तव्यं तरणं तारं तारकानाथभूषणः ॥ २७ ।।
फलस्य कर्मोपासनतारतम्यानुसारित्वात्तारतम्यफलम् । प्रलयादि-
कालरूपेण सर्वप्राणिसुखनिद्राविश्रान्तिहेतुत्वात्तल्पम् ,शेषतल्पशयनशी-
लत्वात्तल्पशायी संसारार्णवतारणहेतुत्वाद्विशिष्ट तारकं वितारकम् ।
सर्वकोपास्तिफलवितरणाद्वा वितारकम् , तत्तव्यं संसारोत्तरणात्प्रा-
प्यम् । तारणं तत्साधनम् । तारयतीति तारम् । तारकानाथश्चन्द्र-
स्तद्भूषणः शिवः ॥ २७ ॥
हिरण्यवाहुः सेनानोर्देशानां च दिशां पतिः ।।
पीतवों महावनो हरिकेशोपवीतवान् ॥ २८ ॥

प्रणवकल्पः ।
देह
अत्र हिरण्यबाहुरित्यादिग्रहणं श्रीरुद्राध्यायस्थार्षनामोपलक्षणम् ,
तेन सहस्रनामसंख्यासम्पूतिरनुक्तैरपि तैः कर्त्तव्या, तदर्थश्च तद्भाज्या-
देवावगन्तव्यः । तेषु केषाश्चिदनुवाद उदाहरणार्थः । 'दिशां च पतये
नमः' इति श्रुतौ चकारो देशानां पतये. इति नामान्तरसमुच्चयार्थ इति
दर्शयति *देशानामिति । स्वर्गादिरूपेण पीतवर्णः ॥ २८ ॥
स्तायूनामग्रणीः श्रीमानिचेरुः परिचारकः ।
बिल्मी च कवची वर्मी मत्तेभगवरूथवान् ॥ २६ ॥
स्तायूनां चोराणां, घिल्मं विलवल्लोहमुद्रिकारचितशिरस्त्राणं तद्वान् ।
मत्तैरिभैर्गच्छन्तीति मत्तेभगा गजारोहास्तत्प्रधानो वरूथो रथगुप्तिः
सेनेति यावत् तद्वान् ॥ २६ ॥
वञ्चकः परिवञ्ची च कारः कुम्भकारकः ॥
पतिपुञ्जोपजीवी च मृगयुः शुनको नयः ॥ ३० ॥
नयति नियच्छतीति जगदिति नयः। भक्तानां पापैरनुपघाताय महा-
वजूकवच इति वा ॥ ३०॥
भक्तपापमहाद्राविर्दरिद्रो नीललोहितः ।।
मीद्वान्मीढुष्टमः शत्रुव्याधी च बभ्लुशः ॥ ३१ ॥
भक्तानां पापानां महाद्राविनिःशेषेण विद्रावणः, मीढ्वान् में-
घादिरूपेण जगत्सेचकः, स एव प्रकृष्टो मीढुष्टमः । शत्रु विध्यति
तच्छीलः शत्रुव्याधी, बभ्लुर्वृषस्तस्मिन्छेते बभ्लुशः ॥ ३१ ॥
तोकादिरक्षकः कर्ता खल्य ऊर्वर्य एव च ॥
अलाद्यनाथ: सूद्यश्च हेतिसाहस्रसंयुतः ॥ ३२ ॥
तोकान्यपत्यानि तदानीनां रक्षकः, खले पलालधान्यविशोधनस्थाने
भवः खल्यः, उवरा सर्वसस्याढया भूमिस्तस्यां भव ऊर्वर्यः, अल्ल पर्याप्त
कर्मफलमत्तीत्यलादो जीवस्तत्रान्तर्यामितया भवतीत्यलाद्यः, स चा सौ
नाथश्च, सूधः शोभनोदकदेशभवः, हेतय आयुधानि तत्साहस्रसंयुतः३२
मुकाहस्तो महापद्मः शरव्यायुतमण्डनः ॥
शर्वोऽयह कामश्च जरित्रस्थः प्रतारकः ॥ ३३ ॥
सकाहस्तः शस्त्रहस्तः, शरव्याणां इषुधीनामयुतं शतसहस्र मण्डन.
मलङ्कारो यस्य, भक्तानां पापदुःखाद्यपहर्तुकामः, 'तुकाममनसोरपीति
मलोपः, जरित्रं जरणशीलं शरीरं तत्रस्थः, जीवरूप इत्यर्थः, प्रकर्षण
संस्मरतां तारकः प्रतारकः ॥ ३३ ॥

-
७०
प्रणवकल्पपकाशाख्यभाष्ययुतः
अन्नबाणो वातवाणो वर्षवाणकरोम्बुजः।।
दशप्राच्यादिवन्द्यश्च सस्पिञ्जरकलेवरः ॥ ३४ ॥
अन्नवातवर्षेः प्राणिसंहारकत्वात्तद्वाणः,दशाङ्गुलिकरसम्पुटेन प्राच्या-
दिदिक्षु वन्द्यः, सस्पिवलतृणं तद्वत्पिञ्जरकलेवरः कोमलहरितशरीरः,
पृषोदरादित्वकल्पनात्पूर्वपदे पिशब्दलोपः, अथवा सस्पयो दुर्वृत्ता-
स्तान् जरयति क्षिणोतीति सस्पिक्षरं तथाविधं कलेवरं यस्य ॥ ३४ ॥
जपैकशीलः सञ्जयः समजग्धिः सपीतकः ॥
एमादिकुशलो गौरो दिवाराकदृष्टिदः ॥ ३५ ॥
समं युगपदेव सकलाऽविद्याग्रासित्वात्सर्वजगत्संहर्तृत्वाद्वा सम.
जग्धिः, घसेर्यङ्लुकि क्तिनि 'घसिभसोर्हलि चेत्युपधालोपे 'झषस्तथो.
रिति धत्वे धिचेति सलोपे जग्धिरिति रूपम् , अतिथिप्रभृतिभिः समं स-
ह जग्धिर्भोजनं यस्य गृहस्थस्य तद्रूप इति वा, एवं समानं पीतं
क्षारसोमादिपानं यस्य ससपीतकः, 'समानस्य छन्दस्य मूर्धप्रभृत्युदके-
विति सादेशः, एतुर्भावः कर्म वा एमा सर्वत्र गमनशक्तिस्तदादिसर्व-
क्रियाकुशलः, एतृशब्दादिमनिचि 'तुरिष्टेमेयस्वि'तिस्मरेःशः, तृलोपः,
नीहारादिरूपेण गौरो, महामेघरूपेण कालविशेषे दिवारात्रैकवृष्टिदः ॥३५॥
पञ्चाविश्च त्र्यविश्चापि दित्यवाट तुर्यवाट तथा ॥
पृष्टवाट हेहतूनाथो द्युम्नवाजादिदायकः ॥ ३६ ॥
पञ्चाविः पञ्चवत्सरो गौः, व्यविस्त्रिवत्सरो गौः, दित्यवाट् द्विवत्सरो
वृषभः, सार्धत्रिवत्सरो वृषभस्तुयाट् , चतुःसंवत्सरः पुङ्गवः पृष्ठवाद ,
हेहतू गर्भपातिनी गौस्तस्या नाथः, घुम्नं सुवर्ण वाजमन्नं तदादीनां
दायकः ॥ ३६॥
आमीवत्को विचिन्वत्को देवानां हृदयाब्जगः ॥
आनिहतश्च विक्षीणो लोप्यश्चोलेप्य एव च ॥३७ ।।
आसमन्तान्मीवति स्थूलो भवति जृम्भते व्याप्नोति वा आमीवत्को,
मीव स्थौल्ये। अनुग्रहीतुं भक्तानिग्रहीतुमभक्तांश्च विचिनोतीति विचि-
न्वत्कः, आसमन्ताद्दुष्टान्निहन्तीत्यानिर्हतः,विशेषेण क्षिणोति पापानीति
विक्षीणः, लिप्यते तृणादिकं यस्मिंस्तनोपं कठिनोंषरादिखलं तत्र भवो
लोप्यः, उलपा बल्वजा नवतृणानि वा तेषु भव उलप्यः ॥ ३७॥
गुरुमाणः पर्णशयो सूर्य ऊर्यो मयस्तमः ॥
शित: शिवतमः शास्ता घोराघोरतनदयः ॥ ३८॥

प्रणवकल्पः ७१ गुरुमाणः अभक्तेषु क्रोधादुद्यतायुधः, पर्णशदाः शुश्कपर्णचयास्तेषु भवः पर्णशयः, सूर्मयः प्रतिमा शोभना ऊर्मयो यासु ता नद्यो वा तत्र भवः सूर्यः, उर्ध्या भव ऊया, मयस्तमः सुखतमो निरतिशयानन्द. रूप इति यावत् , समेधयति यं नित्यं सर्वार्थान्सर्वजन्तुषु । शिवमिच्छन्मनुष्याणां तस्मादेवः शिवः स्मृतः॥ अथवानन्तकल्याणगुणेकनिधिरीश्वरः । शिव इत्युच्यते सद्भिः शिवः शब्दार्थपारगैः॥ नित्यकल्याणनिरतिशयानन्दरूपत्वाच्छिवतमः , शास्ता सर्वप्रश.- सिता 'एतस्यैवाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, भीषास्मा द्वातः पवत' इत्यादिश्रुतेः, प्राणिनां पापफलप्रदा घोरा तनुः पुण्पफलप्रदा त्वघोरा शिवा तनुस्तदुभयवान् ॥ ३८ ॥ गिरिपर्वतनाथश्च शिपिविष्टः पतिः पशोः ॥ ३९ ॥ शिपयो रश्मयस्तैर्विष्टो वेष्टितः सूर्यात्मा शिपिविष्टः, पश्यतीति प- शुर्व्यष्टिसमष्टि वस्तस्य पतिः ॥ ३४ ॥ अप्रगल्भः प्रगल्भश्च मल्लानां नायकोत्तमः ॥ प्रहितप्रमृशो दूतः क्षता स्यन्दनमध्यगः ॥ ४० ॥ प्रकर्षेण सर्वप्राणिनां हितः कार्यार्थ प्रेषितः पुरुषो वा, प्रमृशः भक्त परामर्शकुशलः, दूतो वार्ताहरो देवानामग्निः 'अग्निं दूतं वृणीमह' इति मन्त्रवर्णात् , क्षत्ता सारथिः ॥ ४० ॥ स्थपतिः ककुभश्चैव वन्यः कक्ष्यः पतञ्जलिः ॥ सूतो हंसो निहन्ता च कपी च पिनाकवान् ॥ ४१ ॥ स्थपतिः खेटग्रामाद्यधिपतिः, ककुंभः श्रेष्ठः दिशो वा, वनेषु भवो. वन्यः, कक्षेषु तृणस्तम्बेषु भवः कदयः,पतन्ति अञ्जलयो यस्मिन्सर्वजना- नां नमस्कार्यत्वादिति पतञ्जलिः, सूतः सारथिः, पारदो वा,हंसः परमा- न्मा 'हिरण्मयः पुरुष एकहँस' इति इति श्रुतेः ॥ ४१ ॥ आयुधः स्वायुधश्चैव कृत्तिवासा जितेन्द्रियः॥ यातुधानी निहन्ता च कैलासे दक्षिणे स्थितः ॥ ४२ ॥ यातुधाना राक्षसा अस्य जगत्संहाराय सन्तीति यातुधानी, दक्षि. णे कैलासे कालहस्त्यादिस्थाने ॥ ४२ ॥ सुवर्णमुखीतीरस्थो वृद्धाचलनितम्बगः ॥

७२ प्रणवकल्पप्रकाशाख्यभाष्ययुतः मणिमुक्तामयोद्भासी काट्योऽकाटयो महाद्रिधृक् ॥४३॥ सुवर्णमुखी सुवर्णमुखरीसंशा नदी तस्यास्तीरे कालहस्तीश्वर- रूपेण स्थितः, मणिमुक्तामयै हारादिभिश्वोद्भासी, मणिमुक्ताख्यनदी. तीरवासित्वाद्वा तन्मयः सन् उद्भासी, काटेषु शिवलिङ्गेषु भवः काठ्यः, अलिङ्गत्वादकाट्यः, मेरुकोदण्डधारित्वान्महाद्रिधृक् ॥ ४३ ॥ हृदय्यश्च निवेष्यश्च हरित्यः शुष्क्य एव च । सिकत्यश्च प्रवाह्यश्च भवरुद्रादिनामवान् ।। ४४ ॥ हृदेषु भवो हृदय्यः, निवेष्यं हि मोदकं तत्र भवो निवेष्यः, हरि तेषु नवतृणशैवालादिषु भवो हरित्यः, शुष्केषु समित्करीषादिषु भवः शुष्क्यः, सिकतासु भवः सिकत्यः, प्रवाहेषु प्रवहज्जलेषु भवःप्रवाह्यः, रुद्राध्यायस्थभवरुद्रादिसर्वनामवान् , अतएवोक्तमस्माभिः सहस्रनामसु न्यूना संख्या रुद्राध्यायस्छितनामभिः पूरणीयेति ॥ ४४ ॥ भीमोऽभीमोऽपरिक्रान्तो विक्रान्तः सपराक्रमः । शूरशूरः निहन्ता च मन्युमान्मन्युनाशनः ॥४५॥ अभक्तानां भयानकत्वाद्भीमः, भक्तानां तु सौम्यतमत्वादभीमः, विभुत्वात्परिच्छेदाप्रसिद्धेः केनापि न परितः कान्तोऽपरिक्रान्तः अप्राप्तपार इति यावत् ,स्वयं तु सर्वत्र विक्रान्तः सर्ववस्तुपारग इत्यर्थः, सर्वेभ्यो बलवत्तमत्वात्सर्वसंहतृत्वाञ्च सपराक्रमः ॥ ४५ ॥ भामितो भामवान्भाम उक्षा चोक्षितरक्षकः। हविष्मान्मघवांश्चैव मखानां फलदायकः ॥ ४६ ॥ अशास्त्रमार्गप्रवृत्तेषु सदा भामितः क्रुद्धः, यतो भामवान् प्रशासना र्थ क्रोधवान् ,भामः क्रोधस्वरूपः,उता धर्मवृषस्वरूपः, उक्षितानां मातृ- कुक्षिनिषक्तगर्भाणां मेघसिक्तसस्यादीनां च रक्षकः, यजमानमूर्त्या देवेभ्यो हविःप्रदातृत्वात् हविष्मान् , हविरिज्येन्द्रादिरूपत्वान्मघवान् पूजावान् , मखानां यशानां फलदायकः ॥ ४६ ॥ अघघ्नो दोषजालघ्नो व्याध्यामयविनाशनः । सुम्नरूपोऽसुम्नरूपो जगन्नाथोऽधिवाचक:(२)॥४७॥ भक्तानामघानि पापानि हन्तीत्यघघ्नः,दुर्व्यसनकुलक्षणादिदोषजालं हन्तीति दोषजालना, विध्यन्तीति व्याधयः सद्यः प्राप्तरोगाः, आमया दीर्घरोगास्तेषां निवारकः, सुम्नं धनं तद्पोऽभक्तानी तु असुम्न दारि- प्रणवकपः । ७३ दरयं तद्रूपः, अभक्तानां स्वभक्तानां च विवादे स्वभक्तानधिकान्यक्ति भक्तपक्षपातित्वादित्यधिवाचकः॥४७॥ वातश्च वातनाथश्च व्रात्यो व्रात्यादिदूरगः ।। ब्रह्मदत्तश्चेकितानो देवदत्तोऽतिसम्मतः॥४८॥ नानाजातीयजनानां समूहो वातस्तद्पः, तस्य नाथः स्वामी च, असङ्गनिर्विकारचिद्रूपत्वेन अनाधेयसंस्कारत्वाद्वात्यः, गर्भाधानादि- संस्कारहीना व्रात्याः, आदिपदेन श्रौतस्मातविपरीततत्प्रमुद्रादिसंस्कृ- ताश्च जना गृह्यन्ते तेषां दूरगः, ब्रह्मणा हिरण्यगर्भेण मुनिभ्यो दत्तो ब्रह्मदत्तः, उपासन या प्राणात्मभूतत्वेन श्रुतिप्रसिद्धो मुनिर्वा चेकितानः, सर्वाधिष्ठानत्वाज्जगनिवासभूतः, भवरोगचिकित्सको वा, 'चेकिज निवासे रोगापनये चेति धातोर्यलुगन्तादधिकरणे कर्तरि वा 'अन्ये- भ्योपि दृश्यत' इति चानश् , सर्वशिष्ठानामतिशयेनोपास्यतया . सम्मतः॥४८॥ श्रमणोऽश्रमणः पुण्य प्राश्रमाणां फलपदः ।। कालः कालयिता कालः कालकालो कलाधरः ॥ ४६॥ श्रमणस्तपोध्यानजपादिश्रमपरपरिव्राजकः, अश्रमणस्त व्यतिरि- क्तगृहस्थाद्याश्रमत्रयस्वरूपः,कालः कृष्णवर्णः,कालयिता षड्भावविकारैः सर्वजगतः परिणामयिता, कालः संवत्सरादिरूपः, कालकालो मृत्यु- संहर्ता, कलाधरश्चन्द्रः ॥ ४ ॥ धनुष्मानिषुमांश्चैव धन्वा विश्वाततावनः ।। सत्यादिनिरयाधारः काकुरः काकुवाग्वलः ॥५०॥ धन्वा मरुदेशः धनुर्वा, विश्वस्य अततैर्विस्तीर्णैरायुधैः अवनो रक्ष- कः, सत्यादीनां निरयान्तानां लोकानां सत्यादिधर्माश्रयपुरुषाणां च आ- धार आश्रयः, काकुः शोकभीत्यादिप्रयुक्तध्वनिविकारः सोऽस्यास्तीति काकुरः, काकुवाचां कलभाषिणां बालमुग्धादीनामपि पालकत्वादल- भूतः ॥५०॥ राका कालविधाता च विश्वरक्षकदक्षिणः ॥ अग्रेवधो दूरवध्यः शन्तमश्च मयस्करः ॥ १ ॥ राका पूर्णिमा, सूर्यचन्द्रादिरूपेण तिथ्यादिरूपस्य कालस्य विधाता, भने स्थित्वा स्वभक्तजिघांसून हन्तीत्यग्रेवधः, दुरेऽपि स्थिता भक्तजि- घांसवो वध्या यस्य स दूरवध्यः, शन्तमः सुखतमो निरतिशयानन्दरूपः, मत पख भक्तानां मयस्करः विचित्रसुखकरः ॥ ५१ ॥ १० प्रण ७४ प्रणवकल्पप्रकाशाख्यभाष्ययुतः कालभारः कालकर्ता ऋचां भावकवेदनः ।। यजुषां सर्वमध्यस्थः साम्नां सारैकगोचरः ।। ५२ ।। कालं बिभर्ति धारयति पोषयतीति वा कालभारः,ऋचां ऋगुपलक्षि- तसर्ववेदानां भावं तात्पर्यार्थमेक एव वेदयतीति भावैकवेदनः, एवं यजु. र्वेदादिरूपाणां सर्वेषां वेदानां मध्यस्थो मध्ये विराजमानः, 'यश्छन्दसा- मृषभो विश्वरूप' इत्यादिश्रुतेः, साम्नां सार उद्गीथस्तदेकगोचरस्तत्र प्रधान इत्यर्थः, 'साम्नां उद्गीथो रस' इति श्रुतेः ॥ ५२ ॥ अङ्गिराश्च तथा पूर्वावेद्यो ब्राह्मणमध्यगः ॥ मुक्तानां च गतिः पुण्यः पुण्यापुण्यहरो हरः ॥ ५३ ।। अङ्गिराः अङ्गानां रसभूतः प्राणः, पूर्वैराचारावेद्यः शिष्येभ्य उप- देश्यः, ब्राह्मणानां वर्णोत्तमानां वेदभागानां च मध्यगः हृत्संस्था, पुण्यो धर्मरूपः ॥ ५३॥ उक्थमुक्थकरचोक्थी ब्रह्मक्षत्रविडन्तिमः ।। धमोऽधर्महरो धो धर्मी धर्मपरायणः ॥५४॥ उक्थं शस्त्रविशेषः, प्राणरूपेण उक्थं करोत्युश्चारयतीत्युक्थकरः, उ- क्थरूपशस्त्रवानुक्थी, ब्रह्म ब्राह्मणजातिः, एवं क्षत्रविट् , अन्तिमः शुद्रः, अधर्मस्य हरो निवारणः, धर्मी नियतधर्मः ॥ ५४॥ नित्योऽनित्योऽक्षरः क्षान्तो वेगवानमिताशनः ॥ पुण्यवान् पुण्यकृत्पूतः पुरुहूतः पुरुष्टुतः ॥ ५५ ॥ अक्षरः अपक्षयरहितः, क्षान्तः क्षान्तवान, वाय्वादिरूपेण वेगवान् . सर्वसंहर्तृत्वादमिताशनः, पुरुभिर्बहुभिजनैः स्तोत्रशस्त्रमन्त्रैश्च स्तुतः पुरु- षटुतः, 'स्तुतस्तोमयोश्छन्दसीति षत्वम् ॥ ५५ ॥ अर्चिष्मानचितः कुम्भः कीर्तिमान्कीर्तिदोऽकलः ॥ स्वाहाकारो वषट्कारो हन्तकारः स्वधाभिदः ॥ ५६ ॥ न विद्यन्ते कलाः अवयवा यस्य स अकलः, स्वाहा वषट्कारो देवयज्ञेषु, हन्तकारो मनुष्ययशे, स्वधाभिधः पितृयज्ञेषु ॥ ५६ ॥ भूतकृद्भूतभृद्भर्ता द्विषर्दा द्वन्द्वनाशनः ।। मुनिः पिता विराड् वीरो ब्रह्मा देवो दिनेश्वरः॥ ५७॥ वे ऐहिकामुष्मिकसुखे बृहयति वर्द्धयतीति द्विवो, शीतोष्णादि- द्वन्द्रस्य नाशनः, मननशीलो मुनिः, पातीति पिता, सर्वस्थूलप्रपञ्चसम- ष्टिरूपेण च विराजत इति विराट् ॥ ५७

प्रणवकल्पः ।
७५
तीरं
तारका तारकं तूर्ण तिग्मरश्मिस्त्रिनेत्रवान् ।
तुल्यं तुल्यहरोऽतुल्यं त्रिलोकीनायकस्त्रुटिः ॥५८ ॥
तारका नक्षत्ररूपः, तारणात्तारकं प्रणवः, तूर्णमविलम्बितम् , तिग्मा-
स्तीक्ष्णा रश्मयो यस्य स तिग्मरश्मिः, तुलया सम्मितं तुल्यम् ,
लौव.
योधर्मति यत् , असदृशत्वात्स्वतुल्यं हरति निराकरोतीति तुल्यहरः,
न विद्यते तुल्यं यस्य, त्रुटिः सूक्ष्मकालः ॥ ५८ ॥
तर्ता तार्य त्रिभुवनी तीणं तीरं च तीरणीः ॥
सतीरस्तीरगस्तीनं तीक्ष्णरूपी च तीत्रिमा ॥ ५ ॥
तर्त्ता तरणोद्युक्तजनः, इडभावच्छान्दसः, त्रयाणां भुवनानां समाहा.
रः त्रिभुवनी, प्रात्रादेर्नेति गणकार्यस्यानित्यत्वाद्विगोरिति ङीप् ,
नयतीति तीरणीः, तीव्र त्वरितम् , तीबिमा त्वरावत्ता ॥ ५ ॥
अर्थोऽनर्थः समर्थश्च तीर्थरूपी च तीर्थकः ।।
दायादो देयदाता च दायदः परिपूजितः ॥ ६० ॥
अर्थः पुरुषप्रवृत्तिप्रयोजनम् , दायः पित्रादिधनमत्तीति दायादः
पुत्रादिः, दायं ददातीति दायदः ॥ ६० ॥
दायभुक् दायहन्ता च दामोदरगुणाम्बुधिः ॥
धनं धनदविश्रान्तो धनदो धननायकः ॥ ६१ ॥
सतां दायं भुनक्ति पालयतीतिदायभुक् , असतां तु दायहन्ता, दाम-
रज्जुस्तया मात्रा उलूखले बद्धमुदरं यस्य स दामोदरः, विभक्तिलोपश्छा-
न्दसः, गुणानामम्बुधिः समुद्रः, धनं प्रसिद्धम् , यतीनां निष्किञ्चनानां
पुरुषार्थहेतुत्वाद्गौप्यत्वाद्धानं वा, धनदे कुबेरे पद्मशङ्खादिनिधिरूपेण
विश्रान्तः॥ ६१ ॥
निष्ठुरो नारशायी च नेता नायक उत्तमः ॥
नैको नकचरो नाव्यो नारायणसमः प्रभुः ॥ ६२ ॥
नराणां समूहो नारं तेषु तत्राविद्यावृतात्मरूपेण शेत इति नारशा.
यो, नेता स्वामी मार्गदर्शको वा, नायकः स्वामी, नैको नामरूपभेदेन
बहुविधः, बहुभिर्भूत्यैः सह चरतीति नैकचरः, ना एकचर इति नामद्वयं
वा, नावा तार्यों नाव्यः, नारायण इव जगदुद्धारकत्वात्प्रणवो नारा-
यणसमः॥ ६२ ॥
नूपुरं नूपुरी नेयं नरनारायणोत्तमौ ॥
पातालं पायिता पेयं पिबन्सागरपूर्णिमा ॥३॥

७६ प्रणवकल्पप्रकाशाख्यभाष्ययुतः
नूपुरं मजीराभरणरूपः, तद्भूषितो नुपुरी, नेयं प्रापणीयं परमपर्द,
नारायणनरौ बदर्याश्रमे प्रसिद्धौ तावेवोत्तमौ तद्रपाविति यावत् , सुरादी-
नमृतपायिता, तृच इडभावश्छान्दसः, पेयममृतादि, देवादिरूपेणामृतादि
पिबन् , सागराणां पूर्णेन्दुरूपेण वर्द्धनत्वात्पूर्णिमा पूर्णता पा ॥ ६३ ॥
पूर्य पूर्ण पूर्णिमा च पुण्यमानसलालितः ।।
पेपीयमानः पापद्यः पञ्चयज्ञमयः पुरुः ॥ ६४ ॥
जगदादित्वात्पूर्यम् , अपरिच्छेदत्वात्पूर्ण, पूर्णिमा राका, पुण्यैति-
मानसे लालितः पूजितः, कृष्णपक्षे देवैः पेपीयमानश्चन्द्ररूपः, पु-
रुर्बहुः ॥ ६४॥
परमात्मा परेशानः पावनात्मा परात्परः ।।
पञ्चबुद्धिमयः पञ्चप्रयाजादिमयः परः ॥ ६५ ॥
पञ्चशानेन्द्रियजन्या बुद्धयस्तन्मयः, इडादिस्वाहाकारान्ताः पञ्च प्र-
याजा, आदिपदात्तत्प्रधाना यशास्तन्मयः ॥ ६५ ॥
प्राणभृत्याणहा प्राणः प्राणहत्याणचेष्टितः ।।
पञ्चभूतमयः पञ्चकरणाश्वोपहितः ।। ६६ ॥
प्राणान्विभीति प्राणभृत् , प्राणान्हन्तीति प्राणहा, प्राणान्हरतीति
प्राणहृत् , प्राणो मुख्यप्राणः समष्टिसूत्रात्मा तचेष्टितमिव चेष्टितं यस्य,
उष्ट्रमुखादिवत्समासः, पञ्चभिश्चक्षुरादिकरणाश्वैरुपबृंहितः बहिर्विषये
प्रवर्तितः ॥ ६६ ॥
प्रेयान्प्रेमतमः प्रेयः प्रेयसी प्रेयसीरतः ॥
पुरुषार्थः पुण्यशीलः पुरुषः पुरुषोत्तमः ।। ६७ ॥
प्रेयान्प्रेयतरः, 'तदेतत्प्रेयः पुत्रादित्यादिश्रुतेः, प्रेमतमो निरतिशय-
प्रेमा, प्रेयः प्रेयतरं भोग्यजातम् , प्रेयसी भार्यादिः, प्रेयसीषु रत आसक्तः,
धर्मादिचतुर्विधपुरुषार्थः ॥ ६७॥
फलं फलस्य दाता च फलानामुत्तमोत्तमः ।।
बिम्बं बिम्बात्मकं बिम्बी बिम्बिनी मानसोल्लसः ॥ ८॥
सर्वकर्मणां फलं तद्रपः, फलानां मानुषानन्दादीनामुत्तमं हैरण्यगर्भ-
सुखं तस्मादप्युत्तमो निरतिशयानन्दरूपः, बिम्बं सूर्यचन्द्रादेः, तद्विम्बा-
त्मकं ज्योतिः, बिम्बी तद्विम्बाधिष्ठाता पुरुषः, तद्विम्बिनी तद्भासिका
चित् , तदैव सर्वमानसेषु साक्षिप्रतिबिम्बादिभावेनोल्लसतीति मान-
सोल्लासः ॥ ८॥

प्रणवकल्पः । ७७ - बधिरोवधिरो बालो बाल्यावस्थो बलप्रियः।। एकोष्ट्रयी दशबलः पञ्चकी चाष्टकी पुमान् ॥ ६६ ।। श्रोत्रादीन्द्रियाभावादधिरस्तथापि सर्वशब्दग्राहित्वादबधिरः, 'प- श्यत्यचक्षुः स शृणोत्यकर्ण' इति श्रुतेः, 'सर्वेन्द्रियगुणाभासं सर्वेन्द्रियवि- वर्जितमिति स्मृतेश्च, एवं देहधर्मबाल्यारोपाबालः, देहधर्मवाल्याद्य- वस्थारोपाधिष्ठानत्वात् बाल्यावस्थायुक्तः, बलो हलायुधः प्रियो यस्य स बलप्रियः, सर्वशरीरेष्वेक आत्मा, अत एव द्वितीयस्य मिथ्यात्वादद- यी, समष्टिव्यष्टिभेदेन द्विपञ्चसंख्यः प्राणो बलं यस्य स दशवला, पश्च. भूतैः पञ्चकी, अष्टमूर्तिभिः पुर्यटकेन चाष्टकी ॥ ६६ ॥ भगश्च भगवान्भल्गुर्भाग्यं भल्लश्च मण्डितः ।। भवांश्च भावदायादो भवो भूरादिदैवतम् ॥ ७० ॥ भग ऐश्वर्यादिः- ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानविज्ञानयोश्चैव षराणां भग इतीरणात् ॥ सोऽस्यास्तीति भगवान् , भल्गुः संवरीता संवरिता च, 'भल भल्ल- संवरणे चेति धात्वर्थयोगात, भाग्यं संपत सुकृतं वा, भल्लः शरवि- शेषः, मण्डितः सुखितः, भातीति भवान् , भातेर्डवतुः, भावो रसस्तस्य दायादो भ्राता, ब्रह्मणो वक्त्रात्प्रणवोत्पत्तः, भावो तस्य सगोत्रो ब्रह्म पुच्छक इति शौनकोक्तेश्व, भवः शिवो जगञ्च, भूलोकान्तायाः भूमेः पृथिव्या दैवतं उपास्यः ॥ ७० ॥ भवानी भवविद्वेषो भूतनित्यप्रचारितः ।। भाषा भाषयिता भाष्यं भावकृद्भाष्यवित्तमः ॥ ७१ ॥ भवस्य पत्नी भवानी, पुंयोगादाख्यायां ङीषीन्द्रवरुणेत्यादिना आ. नुक , भवं संसारं विशेषण द्वेष्टीति भवविद्वेषः, भूतैर्महाभूतैः प्राणिभिः प्रमथैर्वा नित्यप्रचारितो व्यवहारितः, भाषा भारती संस्कृतवाक् , अन्त- क्प्रिरणेन सर्ववाग्मिनां भाषयिता 'केनेषितां वाचमिमां वदन्तीति श्रुतेः, भाष्यं श्रुतिसूत्रविवृतिः, भावो मानसविकारस्तं करोतीति भावकृत , 'केनेषितं पतति प्रेषितं मन' इति श्रुतेः, भाज्यमुक्तलक्षणं विदन्तीति भाष्यविदः, सर्वशत्वात्तच्छेष्ठः ॥ ७१ ॥ मन्दो मलिनविच्छ ठो माली माला मरुद्गुरुत् ।। मूर्तिमानपुनर्वेद्यो मुनिन्दो मुनीश्वरः ।। ७२ ।। . ,

प्रणवकल्पप्रकाशाख्यभाष्ययुतः
मन्दः शनैश्चरः, मलिनं दुष्टं चित्तेन्द्रियादि तद्विदां श्रेष्ठः सर्वसाक्षि-
त्वात् , सर्वखेचराणां गरुत्पक्ष इवाकाशगमनहेतुः, सद्विदितो वि.
दित एव प्रथयेदनेनैव मूलाशाननाशात्पुनवेदनकृत्याभावादपुनर्वेद्यः ॥७२॥
परुर्मरुजल मेरुर्मरुद्गणनिषेवितः ।।
मर्यादास्थापनाध्यक्षो मर्यादापविभञ्जनः ॥ ७३ ॥
जगन्मृगतृष्णिकारोपस्थानत्वान्महः, जगद्र पेण तु मरुजलं, मरा-
वगाधकूपजलमिवातिप्रयत्नलभ्यत्वाद्वा सर्वैनत्यात्सर्वदेवाश्रयत्वाद्वा
मेरुः, जगन्मर्यादास्थापने अध्यक्षः नियन्ता, 'एष सेतुर्विधरण' इ.
त्यादिश्रुतेः, कलिकालादौ वेदमर्यादाप्रविभञ्जनः असन्मर्यादाविना-
शको वा ॥ ७३॥
मान्यो मानयितामान्यो मानदो मानगोचरः।।
यास्को युवा यौवनाढ्यो युवतीभिः पुरस्कृतः ॥ ७४ ॥
न विद्यते मान्यो यस्मादित्यमान्यः, अपरिच्छिन्नत्वात्र लोक्येऽपि न
मातीत्यमान्यः इति वा, श्रुत्यादिमानगोचरः, यस्कस्य गोत्रापयं
यास्को निरुक्तकृत् , यौवनेन आढ्यः संपन्नः, अत एव युवती-
भिः पुरुस्कृतः ॥ ७४॥
वामनी मनीश्चैव भारूपो भास्करद्युतिः ।।
संयद्वामो महावामः सिद्धिः संसिद्धिकल्पनः ॥ ७५ ॥
वामानि प्राणिभ्यः सर्वकर्मफलानि नयति प्रापयतीति वामनीः,
भानि सूर्यचन्द्रादितेजांसि नयत्युदयास्तमयमिति भामनीः, 'एष उ वा
भामनीरिति' श्रुतेः, सम्यग्यन्ति वा मान्युक्तलक्षणानि यं स संयद्वा-
मः, महान्ति अश्वमेधादिफलानि यस्मात्स महावामः, सिद्धिरणिमाघ-
एसिद्धिः, सर्ववस्तूनां संसिद्धिः स्वभावः यथाऽग्नेरौष्ण्यं जलस्य द्रवशी-
ततेत्यादिः तां कल्पयतीति संसिद्धिकल्पनः ॥ ७५ ॥
सिद्धसङ्कल्प एणाढ्यस्त्वनूचानो महामनाः ।।
वामदेवो वसिष्ठश्च ज्येष्ठश्रेष्ठो महेश्वरः ॥ ७६ ।।
एणाढयो मृगाङ्कश्चन्द्रः मृगपाणिः शिवश्च, अनूचानः गुरुकुलवा-
सनियमादिना साङ्गवेदाध्यायी, महामनाः मानोजितचित्तः ॥ ७६ ॥
मन्त्री च वाणिजो दिव्यो भुवन्तिर्वारिवस्कृतः ।
कार्यकारणसङ्घातो निदानं मूलकारणम् ॥ ७७ ॥

प्रणवकल्पः ।
७६
गुप्तसम्माषणीयत्वान्मन्त्रः पञ्चाक्षरादिःसोऽस्यास्तीति मन्त्री, वाणि
जो वणिग्धनवर्द्धनस्तद्रपः, भुवं महीन्तनोति विस्तारयतीति भुवन्तिः,
वरिवोधनं तत् करोतीति वरिवस्कृतः स एव वारिवस्कृतः, वरिवो
सेवा तत्कृत्सुवल्सलो वा, कार्यकारणसंघातो देहादिः ॥ ७७ ॥
अधिष्टानं विश्रमाढयोविवर्तो ब्रह्म केवलम् ।।
अणिमा महिमा वेत्ता प्रथिमा पृथुलं पृथुः ॥ ७८ ॥
जगन्कल्पनाधिष्ठानं, जन्मादिपरम्पराभ्रान्तिविश्रमेण नितिशयानन्देन
आढयः, अविवतः सर्वविवर्त्तबाधावधिः, अणिमाद्याः सिद्धयः,
इमनिचि टिलोपः सर्वत्र, पृथोर्भावःप्रथिमा, 'ऋतोहलादेर्लघोरि'ति
रादेशः ॥ ७८॥
जीवो जैवः प्राणधर्ता करुणो मैत्रिको बुधः ।।
ऋचां जलमृचां कर्ता अल्मुखो रविमण्डलः ॥ ७९ ॥
ऋचां जलं समूहः वेदरूप इति यावत् ॥ ७ ॥
रूढोऽरूढी रूढिनिष्ठो रुरुक्षू रूपवर्जितः ।।
स्वरो हलश्च हल्यश्च स्पर्शश्चोष्मा तथाऽन्तरः॥ ८० ॥
सढः प्रसिद्धः, रूढिः प्रसिद्धिः प्रादुर्भूतिश्च, रोढुं प्रादुर्भवितुमर्ह-
त्पदमारोढुं वा इच्छु रुरुक्षुः, स्वरः अकारादिरुदात्तादिर्वा, हलः प्र-
सिद्धः, हलं वहतीति हल्यः, अथवा हलो व्यअनानि तेषु भवो हल्यः,
स्पर्शः कादिपञ्चवर्गरूपः, शषसह ऊष्माणः, तेजसि प्रसिद्धौ स्पर्शोष्मा-
णौ वा, अन्तरोऽन्तस्था यलवाः, सर्वभूतान्तरो वा ॥ ८० ॥
विशोकश्च विमोहश्च यः स एव जगन्मयः ।।
एकोऽनेकः परः पीड्यः शताद्धं च शतं बृहत् ॥८१॥
विशोको विगतशोकः, 'शोकं मोहं जरां मृत्युमत्येतीति श्रुतेः । यतो
विमोहो विगतमोहः, य उद्देश्यः स प्रतिनिर्देश्यः, एकः परमार्थतः,
अनेको व्यवहारतः, परः श्रेष्ठः, पीड्यः कर्माधीनदुःखा) जीवः, शता-
द्धं पञ्चाशत् ॥१॥
सहस्रार्द्ध सहस्रं च इन्द्रगोपश्च पङ्कजम् ।।
पद्मनाभः सुराध्यतः पद्मगर्भः प्रतापवान् ॥ २ ॥
रागादिरक्षितत्वादिन्द्रगोपसदृशः, 'यथेन्द्रगोपो यथा पाण्ड्ववि-
कमिति श्रुतेः, पङ्कजं भूपन्नम् ॥ २॥

८० प्रणवकल्पप्रकाशाख्यभाष्ययुतः . वासुदेवो जगन्मूर्तिः सन्धाता धातुरुत्तमः ॥ हरस्यं परमं गोप्यं गुह्यमद्भुतविस्मितम् ॥३॥ सन्धाता कालेनासुरादिभिश्चोच्छिन्नाया जगन्मर्यादायाः पुनः सन्धा- नकर्ता, धातुः सारः, धातुर्हिरण्यगर्भादप्युत्तम इत्यैकपद्यं वा, अद्भुता- दपि विस्मितं विस्मतविषयः अत्यद्भुतमिति यावत् ॥ ३ ॥ आश्चर्यमतिगम्भीरं जगबुबुदसागरः ॥ संसारविषपीयूषं भवश्चिकमान्त्रिकः ॥८४ ॥ जगन्ति ब्रह्माण्डानि तल्लक्षणानां बुबुदानां सागरः, संसारलक्षणस्य विषस्य निवर्तकं पीयूषममृतम् ॥ ८४ ॥ भवगर्तसमुद्धर्ता भवव्याघ्रवशङ्करः ॥ भवग्रहमहामन्त्री भवभूतविनाशनः ॥८५ ॥ भवो जन्मादिस्तल्लक्षणाद् च्छ वभ्रात्समुद्धर्ता भक्तानाम् , एवं भवव्याघ्र वशं करोतीति वशङ्करः, बाहुलकात्कृतः खश , भवलक्षणो ग्रहः पिशाचभेदस्तदुश्चाटने महामन्त्रः ॥ ८५ ॥ पद्ममित्रं पद्मबन्धुर्जगन्मित्रं जगद्गुरुः ॥ कविर्मनीषी परिभूर्याथातथ्यविधायकः ॥८६॥ कविः क्रान्तदर्शी, मनसा ईषिरिच्छातो नियन्ता विद्वांश्च, परिभव- तीति परिभूः सर्वगतः, यथातथाभावो याथातथ्यं सर्वपदार्थानां स्व- भावो नियतिस्तस्य विधायकः ॥ ६ ॥ दूरस्थोऽप्यन्तिकस्थश्च शुभ्रो ऽकार्य तथाऽत्रणम् ॥ कौषीतकीतल्वकारो नानाशाखाप्रवर्तकः ॥ ८७ ॥ शुभ्रः शुद्धः, अकायं स्थूलादिदेहरहितं दृक्तत्त्वम् , अत एवाऽत्रणम् कुषीतकस्यापत्यं कौषीतकिस्तेन दृष्टा वेदशाखा कौषीतकी, एवं स्तल्व- कारस्तेन दृष्टा शाखा ॥ ७ ॥ उद्गीथं परमौद्गात्रं शस्त्रं स्तोमं मखेश्वरः ।। अश्वमेघः क्रतुच्छ्रायः क्रतुः क्रतुमयोऽक्रतुः ॥ ८ ॥ उद्गीथं सामभक्तिविशेषः प्रणवघटितः, ॐमित्येतदक्षरमुद्गीथ- मुपासीतेति श्रुतेः, औद्गात्रमुद्गातुः कर्म, अप्रगीतमन्त्रैर्देवताश्रुतिः शस्त्रं प्रस्तोतुः कर्म, स्तुतिपरमन्त्रसंघास्तोमः, मखाः यक्षास्तेषामी श्वरः , प्रणवकल्पः। ८१ ऋतूच्छयः क्रतुश्रेष्ठः, क्रत्वनुष्ठानकृतो यजमानस्योत्कर्षों वा, अक्रतुर- सङ्कल्पः 'तमक्रतुं पश्यति वीतशोक' इति श्रुतेः ॥ ८ ॥ पृषदाज्यं वसन्ताज्यं ग्रीष्म इध्मः शरविः ॥ ब्रह्मतातो विराड्तातो मनुतातो जगत्ततः ॥८६ ।। पृषदाज्यं दधिबिन्दुमिश्रितमाज्यम् , पुरुषस्य यज्ञत्वकल्पने श्रुतौ 'ब- सन्तोऽस्यासीदाज्यमिति वसन्ततॊराज्यत्वकल्पनात् , एवं ग्रीष्म इध्मः शरद्धविः, ब्रह्माऽऽदिहिरण्यगर्भस्तस्य तातः पिता, एवं विराजो ब्रह्मा- एडशरीरस्यापि तातः, मनोस्तातो मनुतातः, जगदात्मना ततो विस्तीर्णो अगत्ततः ॥ ८॥ सर्वतातः सर्वधर्ता जगबुध्नो जगनिधिः ॥ जगद्दीचितरङ्गाणामाधारं परमं पदम् ॥१०॥ जगत्कल्लोलपायोधिर्जगदङ्करकन्दरः ॥ जगदल्लीमहाबीजं जगत्कन्दरमुद्धरः ॥ ११ ॥ जगतो बुध्नो मूलम् , जगन्ति व्यष्टिसमष्टिस्थूलसूक्ष्मप्रपञ्चास्तल्लक्ष- णानां वीचीनामल्पतरङ्गाणां वृहतरङ्गाणां च आधारः, जगतो निलयन. स्थानभूतं कन्दरो गिरिगुहा, उद्धृता धरा येन स उद्धरः ॥६० ॥ ११ ॥ सर्वोपनिषदां कन्दं मूलकन्दं मुकुन्दकः॥ एकाम्रनायको धीमाञ्जम्बुकेशो महातटः ॥ १२ ॥ सर्वासामुपनिषदां रहस्यविद्यानां कन्दं मूलम् , जगन्मूलस्य अव्यय- स्याप्यधिष्ठानत्वान्मूलकन्दम् , मुकुन्द एव मुकुन्दकः, एकानं का- श्वीपुर्यामुल्कलेषु वा प्रसिद्धस्थानं तस्य नायकः स्वामी एकाभ्रेशः भुव- नेशय इति वा प्रसिद्धः, महातटः समुद्रः स्थानविशेषो वा ॥ २ ॥ न्यग्रोधोदुम्बरोश्वत्यः कूटस्थः स्थाणुरद्भुतः ।। अतिगम्भीरमहिमा चित्रशक्तिर्विचित्रवान् ॥१३॥ कूटस्थो निर्विकारः, स्थाणुनिष्क्रियः, अतिगम्भीरो दुरवगाहो महि- मा यस्य, चित्राः शक्तयो यस्य स चित्रशक्तिः, अत एव विचित्रतत्कार्य- वान् ॥ १३॥ विस्मितं चित्रवैचित्र्यो मायावी माययाऽनृतः । कपिञ्जलः पिञ्जरश्च चित्रकूटो महारथः ॥ १४ ॥ स्वेनैव स्वयं विस्मितमद्भुतरसं प्राप्तम् , चित्राणि वैचित्र्याणि य- स्मात्स चित्रवैचित्र्यः, यतो मायावी मायानियन्ता. मायया आवतोधि

८२
प्रणवकल्पप्रकाशाख्यभाष्युतः
कपिजलः पक्षिभेदः, पिञ्जरः शबलवर्णः, चित्रकूटो गिरिविशेषः, चित्राणि
कृटानि मायाकापटयानि यस्येति वा, महारथः प्रसिद्धः-
महारथोऽसौ यस्त्वेकः सहस्रः प्रतियुध्यति इति ॥ १४ ॥
इत ऊर्व भक्त्यतिशयाश्चतुर्थ्यन्तानि चित्सम्बुध्यन्तानि च नामानि
नमस्कारसहितान्याह-
जगन्मयाय दिव्याय देवाय परमात्मने ॥
जगन्मायाय जगते प्रतीचे ते नमो नमः ॥ १५ ॥
*जगन्मयायेति । जगत्प्रचुरायेत्यर्थः । दिवि द्योतनात्मके स्वरूप
स्वर्ग च भवो दिव्यः, दीव्यति सर्गादिभिः क्रीडतीति देवः, परमाय
उत्कृष्टाय आत्मने, देहप्राणमनइन्द्रियबुद्ध्याधुपहिताः आत्मानः प्रसि.
द्धास्तेभ्यो निष्कृष्टः परम आत्मा, जगदेव माया यस्य स जगन्मायः तस्मै,
जगते जगद्रूपाय, प्रतिवस्त्वधिष्ठानभावेनाञ्चतीति प्रत्यक् तस्मै प्रतीचे,
प्रति उपपदे अश्चः विनि नलोपे ङयि भसंज्ञायामच इत्यल्लोपे चावि.
तिप्रतेर्दीर्घः, ते तुभ्यम् ॥ ५ ॥
जीवाय जीवरूपाय जीवकमैंकसाक्षिणे ॥
जीवाजीवभिन्नाय प्रतीचे ते नमो नमः ॥१६॥
जीवाय, प्राणधारणात् जीवान् रूपयति स्वप्रतिबिम्बनेन
प्रकटयतीति जीवरूपः, जीवाः सप्राणाप्राणास्तत्प्रभेदेन भिन्नाय, देहे-
न्द्रियप्राणमनोबुद्ध्यादिभ्यः प्रातिलोम्येनाञ्चति प्रथत इति प्रत्यक् तस्मै
प्रतीचे । अर्थभेदादपौनरुक्त्यम् ॥ ६ ॥
कालाय कालकण्ठाय कालकण्ठाय तेजसे ॥
प्रोजसे भ्राजसे तस्मै यस्मै कस्मै नमो नमः ।। १७ ॥
कलयति जगत्परिणामयतीति कालः, कालं कण्ठयति दिनरात्रिपक्ष-
मासर्वयनसम्वत्सरात्मना अतिवांहयतीति कालकण्ठः, कालवर्णः
कण्ठो यस्य स कालकण्ठः 'नीलग्रीवो विलोहित' इति श्रुतेः। नाम-
भेदः प्राग्वत् । तेजः स्वाभाविको कान्तिः, देहपुष्टयध्ययनतपःप्रभृति-
साध्या देहकान्तिरोजः, स्रक्चन्दनवस्त्रालङ्कारादिप्रयुक्ता शोभा भ्राजा,
तस्मै परोक्षाय, यस्मै प्रसिद्धाय, कस्मै जिशासिताय । नमस्काराभ्यासो
भक्त्यतिशयात् ॥ ७ ॥
किरीटिने सुगदिने शङ्खिने चक्रिणे नमः ।।
शुलिने चन्द्रमूः च वृषाय वृषवाहिने ॥१८॥

OMGOK PIMOON * श्रीः आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ ॥ स्तबका-४१८ PHO9000000000000DASI Printed by Jai Krishna Das Gupta at the Vidya Vilas Press, Benares.

Prand-avakalpa

Author
Pandit Gangadharendra Sarasvati
Title
Prand-avakalpa
File name
Prand-avakalpa
Text
OCR done
Citation
1933
Publisher
Jai Krishna Das Haridas Gupta, The Chowkhamba Sanskrit Series Office, Benares
Language
Sanskrit
Pages
92
Library
Svi-ksri-chennai
Classification
Philosophy Of Mind
DLI number
368952
Barcode
5010010078206.00
Scanning centre
RMSC, IIIT-H
Rights
IN_COPYRIGHT
VMLT id
EopDG7ABYFw
Download PDF

Prand-avakalpa