Jayakar Library , Pune
Trkayasangraha Nilkanthi Dipikasahith
Front matter
UND rood LIBRARY श्रीमहो विचितः । तकसंग्रहः। (नीलकण्ठी-दीपिकासहितः, पदवाक्यप्रमाणपारावारीणश्रीनीलकण्ठभट्टकृर्तन तर्कसंग्रहदीपिकाप्रकाशव्याख्यानेनसंयुतया उक्तानंभट्टोपाध्यायकृतयैवदीपिकयासमेतः । जयपुरीयपाठशालाध्यापकदाधीचकुलोत्पन्न- पण्डितशिवदत्तेन संशोधितः। खमराज श्रीकृष्णदास इत्यनेन मुम्बय्या स्वकीये "श्रीवेङ्कटेश्वर" मुद्रणयन्त्रालये आङ्कितः। शके १८१९, संवत् १९५४.
श्रीः। तर्कसंग्रहः। प्रकाशेन(नीलकण्ठया)समेतया दीपिकया उद्दयोतितः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ॥ वालानां सुखबोधाय क्रियते तर्कसंग्रहः॥१॥ दीपिका। विश्वेश्वरं साम्बमूर्ति प्रणिपत्य गिरं गुरुम् ॥ टीका शिशुहितां कुर्वे तर्कसंग्रहदीपिकाम् ॥ १॥ चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थ शिष्टा- चारातुमितप्रतिबोधितकर्तव्यताकमिष्टदेवतानमस्का- रलक्षणं मङ्गलं शिष्यशिक्षार्थ निबनश्चिकीर्षितं अन्यादौ प्रतिजानीते । निधायेति । ननु पङ्गलस्य समाप्तिसाध- नत्वं नास्ति । मङ्गले कृतेपि कादम्बर्यादौ निर्विघ्नपरि समात्यदर्शनात् मङ्गलाभावेपिकिरणावल्यादीसमाप्ति- दर्शनात् अन्वयव्यतिरेकव्यभिचारादिति चेत् । न कादम्बर्यादौ विघ्नबाहुल्यात्समात्त्यभावः। किरणाव- ल्यादौ तु ग्रन्थावहिरेव मङ्गलं कृतमतो न व्यभिचार। ननु मङ्गलस्य कर्तव्यत्व किं प्रमाणमिति चेत् ।न शिष्टा चारानुमितश्रुतेरेव प्रमाणत्वात् “समाप्तिकामो मङ्गल- (२) तर्कसंग्रहे- [ मङ्गलवादः माचरेत्" इति श्रुतेः । तथाहि मङ्गलं वेदबोधितकर्त- व्यताकम् अलौकिकाविगीतशिष्टाचारविषयत्वात् दर्शा दिवत् । भोजनादौ व्यभिचारवारणायालौकिकेति । रात्रिश्राद्धादौ व्यभिचारवारणायाविगीतेति । शिष्ट- पदं स्पष्टार्थम् “ न कुर्यानिष्फलं कर्म" इति जलताडना देरपि निषिद्धत्वादिति ॥ नीलकण्ठी। वन्दे गुरुं शिवं साम्बं दक्षिणामूर्तिमव्ययम् ॥ यद्वन्दनेन मन्दोपि विन्देद्गुरुसमानताम् ॥ १ ॥ पारिप्सितग्रन्थस्य निर्विवपरिसमाप्तये समाचरितं मङ्गलमीश्वर- नत्यात्मकं शिष्यशिक्षायै निवभ्रंश्चिकीर्षितं प्रतिजानीते । विश्वेश्व- रामिति । गिरां गुरुं निखिलविद्यानामुपदेष्टारं इदमापि विश्वेश्वरे विशेषणम् ॥ · गिरं गुरुम् । इति पाठेतु ' सरस्वती विद्यागुरुं च प्रणिपत्य ' इत्यर्थो बोध्यः ॥ स्वग्रन्थस्येतरग्रन्यैरगतार्थतां दर्श- यति-शिशुहितामिति । तर्कसंग्रहदीपिका तर्कसंग्रहार्थ- प्रकाशिकाम् ॥ आचरितस्य मङ्गलस्य तनिबन्धस्य च फलं दर्शयति ॥ चिकीर्षितेत्यादिना ॥ ननु समाप्ति प्रति मङ्गलस्य कारणता स्याच्चेत् तदा तदाचरणं युज्यते । सैव न संभवतीत्याशङ्कते । नन्विति ॥ व्यभिचारा- दिति अन्वयव्यतिरेकव्यभिचारज्ञानरूपप्रतिबन्धकसत्त्वानियतान्व- यव्यातरेकसहचारनिश्चयरूपकारणासंभवेन न कारणत्वनिश्चय इत्य- भिसंधिः॥समात्यभावइति । अतो न व्यभिचारइत्यनेनान्वयः ॥ विघ्नान्यूनसंख्याकस्य बलवत्तरस्य वा मङ्गलस्य विघ्ननिरसनद्वारा समाप्तिसाधनत्वेन तादृशमङ्गलाभावान्नान्वयव्यभिचार इति भावः ॥ बहिरेवेति । जन्मातर एवेत्यर्थः । अतःकुत्रचिंद्रन्थकर्तुर्नास्तिक- त्वेऽपि न क्षतिः ॥ अत इति । तादृशमङ्गलस्य विनध्वंसद्धारा मङ्गलवादः] (३) उद्देशग्रन्थः। - समाप्तिकारणत्वसत्त्वान्न व्यतिरेकव्यभिचार इत्यर्थः । एवं च कारण- त्वं सिध्यतीति भावः ॥ परेतु 'अत उक्तहेतुद्वयात् न व्यभिचारः नान्वयव्यतिरेकव्यभिचारः । इति व्याचख्युः॥ मणिकृतस्तु मङ्ग- लस्य विनध्वंस एव फलम् । समाप्तिस्तु स्वसामग्रीवशादेवेत्याहुः॥ एतत्तत्वमस्मदीयचिन्तामणिव्याख्यायामनुसंधेयम् ॥ मङ्गलस्य श्रुतिबोधितकर्तव्यताकत्वं व्यवस्थापयितुं शङ्कते ॥ नन्विति ॥ अनुमितश्रुतेरेवेति ॥ अत्रायमाशयः श्रुतेर्वेदबोधितकर्तव्यताक- त्वरूपवक्ष्यमाणविधेयकोटिमविष्टत्वेऽपि तदन्तर्भावेण विधेयत्वमभ्यु पगम्यते । तच्छुतेरनुमितिपूर्वमसिद्धत्वात् ॥ एतेन । वह्नया- दिसाध्यकानुमितिविषयतामादाय वह्नित्वादिकमनुमितम् । इति व्यवहाराभावेन श्रुतावनुमितत्वव्यवहारः कथमिति शङ्का निरस्ता ॥ श्रुतौ विधेयताभ्युपगमेन तादृशव्यवहारे बाधकाभावात् ॥ एवकारो- ऽप्यर्थकः ॥ तेन मङ्गलं कर्तव्यं समाप्तिफलकत्वाव. इत्यनुमानरूप- प्रमाणान्तरसत्त्वेऽपि न क्षतिरिति ॥ अन्ये तु 'स्वबोधितकर्तव्यता- कत्वसंबन्धेन श्रुतेरेव साध्यता । अग्रिमग्रन्थस्याप्यत्रैव तात्पर्यम् । एवं च श्रुतेरनुमितत्वोपपत्तिः' इत्याहुः । अलौकिकेति । विधि- मन्तरा रागादिप्राप्तभिन्नेत्यर्थः॥ अविगीतेति । धर्मशास्त्रानिषि- द्धेत्यर्थः ॥ शिष्टेति। वेदोक्ततत्वज्ञानेन विहित कर्मकारीत्यर्थः ॥ वेदोक्ताहिंसादिकतार बौद्धतिव्याप्तिवारणाय तृतीयान्तम् । आचा- रविषयत्वादिति। आचारः कृतिः तस्या वृत्यनियामकविषय- तासंबन्धेन हेतुता विवादग्रस्ततितद्विषयत्वस्य हेतुत्वानुधावनमिति भावः।यथाक्रमं हेतुविशेषणप्रयोजनमाह-भोजनादौ इत्यादिना॥ ननु अलौकिकाविगीताचाविषयत्वस्यैव हेतुतास्तु । अशिष्टाचार- विषये तादृशहेतौरसत्वेन व्यभिचारासंभवात् इत्याशङ्कामिष्टापत्त्या परिहरति शिष्टपदमिति ॥ जलताडनादौ अशिष्टाचारविषये (४) तर्कसंग्रहे- [पदार्थविभागः हेतोरसत्वंस्फुटयति न कुर्यादिति ॥ स्वर्गादिफले व्यभिचारवा- रणाय आचारविषयत्वति ॥ विधेयतया आचारविषयत्वार्थकम् इति संक्षेपः। ( इति मङ्गलवादः) दीपिका-तय॑न्ते प्रतिपाद्यन्ते तर्काः द्रव्यादिसप्तप- दार्थास्तेषां संग्रहः संक्षेपेण स्वरूपकथनं क्रियते इत्यर्थः। कस्मै प्रयोजनायेत्यतआह । सुखबोधायेति । सुखेना- नायासेन बोधः पदार्थज्ञानं तस्मा इत्यर्थः । ननु बहुषु तर्कग्रन्थेषु सत्सु किमर्थमपूर्वग्रंथः क्रियत इत्यत आह । बालनामिति । तेषामतिविस्तृतत्वाद्वालानां बोधो न भवतीत्यर्थः ॥ ग्रहणधारणपठनपटुर्बालः नतु स्तनंधयः। किं कृत्वा क्रियत इत्यत आह । निधायेति। विश्वेशं जगनियन्तारं शिवं हृदि निधाय नितरां स्थापयित्वा सर्वदा तद्धयानपरो भूत्वेत्यर्थः ॥ गुरूणां विद्यागुरूणां वन्दनं नमस्कारं विधाय कृत्वेत्यर्थः। नीलकण्ठी-तर्कपदस्याऽऽरोपार्थकत्वभ्रमं वारयितुं द्रव्यादि- साधारणतर्कत्वं निक्ति तय॑न्त इति ॥ उपादानरूपसंग्रहस्या- संभवादाह । संक्षेपेण इति ॥ स्वरूपकथनं स्वरूपज्ञानानुकूळः शन्दः । एतावता 'द्रव्यादिपदार्था विषयाः पदार्थतत्त्वावधारणं प्रयो- जनम्, संबन्धश्च प्रतिपाद्यप्रतिपादकभावः, पदार्थतत्वावधारणकामो धिकारी । इति अनुबन्धचतुष्टयं प्रेक्षावत्प्रवृत्त्यङ्गं सूचित्तम् ॥ षष्ठीतत्पुरुषभ्रमवारणायाह सुखेनेति ॥ सुखबोधरूपमयोजस्याऽ- न्यतःसिद्धत्वेन एतद्वन्थकरणे प्रयोजनाकाङ्क्षा न शाम्यतीत्याशये- नावतरयति नन्विति ॥ तेषां भाष्यादिग्रन्थानाम् ॥ मू-द्रव्यगुणकर्मसामान्य विशेषसमवाया- भावाः सप्तपदार्थाः। - पदार्थविभागः] उद्देशग्रन्थः। दीपिका-पदार्थान् विभजते द्रव्योति ॥ पदस्यार्थः पदार्थः इति व्युत्पत्त्या अभिधेयत्वं पदार्थसामान्यलक्षणं । नतु विभागादेव सप्तत्वे लब्धे सप्तग्रहणं किमर्थमिति चेत् । न । अधिकसंख्याव्यवच्छेदार्थत्वात् ॥ नन्वतिरि-- क्त पदार्थः प्रमितो न वा । नाऽद्यः प्रमितस्य निषेधा- योगात् । नान्त्यः प्रतियोगिप्रमितिविना निषेधानुपपत्ते- रिति चेत् ।न ।'पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्या- प्यम्' इति व्यवच्छेदार्थत्वात् । ननु सप्तान्यतमत्वं सप्त- भिन्नभिन्नत्वम् । एवं च सप्तभिन्नस्याप्रसिद्धत्वात्सप्तान्य- तमत्वं कथम् इति चेत् । न । 'द्रव्यादिसप्तान्यतमत्वं द्रव्यादिभेदसप्तकाभाववत्त्वम्' इति तदर्थत्वात् ॥ एवम- ग्रेऽपि द्रष्टव्यम् ॥ नीलकण्ठी-मूले सप्तपदार्था इति ॥ द्रव्यादिरूपा ये पदार्थ- विभाजकाः सप्तोपाधयः तदन्यतमवन्तः पदार्था इत्यर्थः ॥ अत्र सप्तत्वम् अपेक्षाबुद्धिविशेषविषयत्वम् ॥ एवमेवाग्रिमग्रन्थस्याऽपि पर्यवसानमवसेयम् ॥ ननु सामान्यधर्मज्ञानस्य विशेषजिज्ञासां प्रति हेतुत्वाद सामा- न्यलक्षणकथनानन्तरमेव विभागो युक्तः । तथा च मूले कथमादौ विभाग इति न्यूनतां परिहरति पदस्येति ॥ अर्थः अभिधेयः ॥ उक्तव्युत्पत्त्या पदसंबन्ध्यभिधाविषयत्वस्य लाभेऽपि पदसंबन्धित्वांश- स्याव्यावर्तकत्वादाह अभिधेयत्वमिति ॥ लक्षणं लभ्यत इति शेषः॥ तथा च न न्यूनतेति भावः । विभागादेवेति ॥ पदार्थत्वावान्तरधर्मपुरस्कारेण धर्मिप्रतिपा- दादेव ॥ अधिकसंख्याव्यवच्छेदार्थत्वादिति ॥ तादृश पा०-१ णं लन्यते । २ नन्वत्र । ३ सिद्धे । ४ व्यर्थ । ५ न्यूनाधिक । मिति वक्तव्यम् । ७ इत्युक्तत्वात् । ६ (६) तर्कसंग्रहे- [द्रव्यविभामः संख्यानिषेधसिद्धि फलकत्वादित्यर्थः ॥ उद्देश्यविधेयभावस्थले उद्देश्य- तावच्छेद के विधेयव्याप्यत्वभानमौत्सर्गिकम् इत्याशयनाद-पदार्थ- त्वमिति ॥ इति व्यवच्छेदार्थकत्वादिति ॥ एतद्रूपो यो व्यवच्छेदो निर्णयविशेषस्तदर्थत्वादित्यर्थः॥सप्तभिन्नभिन्नत्वमिति ॥ द्रव्यादयो ये सप्त पदार्थास्त दकृटविशिष्टभिन्नत्वं वक्तव्यम् इत्यर्थः ॥ द्रव्यादिभेदसप्तकाभावत्वमिति ॥ द्रव्यादिभेदानां प्रत्येक- पासिद्धानां सप्तानां कुत्राप्यसत्त्वेन तादृशभेदसप्तकत्वावच्छिन्नाभावस्य सर्वत्र सत्त्वात् न दोष इति भावः ॥ वस्तुतस्तु पदार्थत्वं द्रव्यादि सप्तान्यतमत्वव्याप्यम् इत्यस्य पदार्थत्वं द्रव्यत्वादिसप्तोपाध्यन्यतमत्व- व्याप्यमित्यर्थः ॥ एवं च बहुषु पुस्तकेषु सप्तान्यतमत्वामसिद्धिशङ्का तत्समाधानपरस्य ननु सप्तान्यतमत्वं इत्यादि ग्रंथस्यासत्त्वे न क्षतिरिति ध्येयम् ॥ एवमओपीति ॥ एवंरीत्या द्रव्याणीत्या- दावपीत्यर्थः ॥ मूलम्-तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वा- काशकालदिगात्ममनांसि नवैव ॥ दीपिका-द्रव्यं विभजते तत्रेति ॥ द्रव्यादिमध्ये द्रव्याणि नवैवेत्यन्वयः ॥ कानि तानि इत्यत आह- पृथिवीत्यादि। ननु तभसो दशमद्रव्यस्य विद्यमानत्वात् कथं नव द्रव्याणि ॥ तथा हि 'नीलं तमश्चलति' इति अबाधित प्रतीतिबलानीलरूपाधारतया क्रियाधारतया च द्रव्य- त्वं तावत् सिद्धम् । तत्र तभसो नाकाशादिपञ्चकेऽन्त र्भावः, रूपवत्त्वात् । अतएव न वायौ, स्पर्शाभावात् । पा०-१ तमः खलु चलं नील परापरविभागवत् । सिद्धद्रव्यवैधा- नवभ्यो भेत्तुमर्हति । .
द्रव्यविभागः] उद्देशग्रन्थः। (७) सदागतिमत्त्वाभावात् च । नापि तेजसि, भास्वररूपा- भावात् । उष्णस्पर्शाभावात् च । नापि जले, शीलस्पर्शा- भावात् । नीलरूपाश्रयत्वात् च । नापि पृथिव्यां गन्धा- भावात् स्पर्शरहितत्वात् च । तस्मात्तमो दशमद्रव्यम् इति चेत् न । तमसस्तेजोऽभावरूपत्वात् ॥ तथाहि तमो हि न रूपवद्रव्यम् आलोकासहकृतचक्षुाह्यत्वात आलोकाभाववत् ॥ रूपिद्रव्यचाक्षुषप्रमायामालोकस्य कारणत्वात् ॥ तस्मात् प्रौढप्रकाशकतेजस्सामान्या- भावस्तमः तत्र 'नीलं तमश्चलति' इति प्रत्ययो भ्रमः॥ अतो नव द्रव्याणीति सिद्धम् ॥ नीलकण्ठी-द्रव्यमिति ॥ जात्येकवचनम् ॥ मीमांसकमतं दूषयितुमपन्यसति नन्वित्यादिना ॥ प्रतीतिबलात् प्रात्यक्षि- कमतीतिबलात् ॥ तस्य द्रव्यत्वे अनुमान प्रमाणयति--नीलरूपा- धारतयेति ॥ समवायेन नीलरूपवत्तयेत्यर्थः ॥ तेन कालिकादि- संबन्धेन तस्याऽतिप्रसक्तत्वेपि न क्षतिः । एवमग्रेपि बोध्यम् । तत्र द्रव्यत्वे सिद्धे सति ॥ अतिरिक्तत्वं व्यवस्थापयितुं क्लप्तद्रव्येष्व- न्तर्भावं निराचष्टे--तमस इत्यादिनी ॥ अत एव रूपवत्वादेव ॥ न वायाविति ॥ अन्तर्भाव इत्यनुषज्यते ॥ संबन्धभेदाभिमा- येणाह-स्पर्शाभावादिति ॥ इदं च ध्वंसमागभावाधिकरणेऽ- त्यन्ताभावो नाङ्गीक्रियत इति प्राचीनमताभिप्रायेण । अन्यथा समवायावच्छिन्नस्पर्शसामान्याभावस्य दैशिकविशेषणतया वायावप्यु- त्पत्तिकालावच्छेदेन सत्वाद् व्यभिचरितत्वापत्तेः । वस्तुतस्तु निरव- च्छिन्नदेशिकविशेषणतया तस्य हेतूत्वं इति ध्येयम् ॥ विषमव्याप्त हेतुमभिधाय समव्याप्तं तमाह--सदागतीति ॥ सदागतिर्विजाती- यक्रिया ॥ उपसंहराति--तस्मादिति ॥ क्लप्तेष्वनन्तर्भावादि- १ गन्धवत्त्वाभावात् ।
(८) तर्कसंग्रहे- [ लक्षणनिर्णयः 4 त्यर्थः ॥ तेजोभावरूपत्वादिति ॥ प्रौढप्रकाशकतेजोऽभाव- रूपत्वाङ्गीकारादित्यर्थः ॥ अतस्तमस्वत्यपि देशे तेजःपरमाण्वादि सत्वेन तेजस्सामान्याभावासत्वेपि न क्षतिः ॥ त्र्यणुकादिवारणाय प्रौढेतीति दिक् ॥घटादिषु व्यभिचारवारणायालोकासहकृतेति ॥ चार्लाह्यत्वं चक्षुर्जन्यज्ञानीयलौकिकविषयत्वम् । तेन तमसश्चाक्षुषे घटादीनामुपनयमर्यादया भानपि न क्षतिः ॥ विशेषाभावं दृष्टान्तय- ति--आलोकाभाववदिति ॥ आलोकं विना रूपवत्त्वेन तमो- विषयकचाक्षुषभ्रमोदयादाह--प्रमायामिति ॥कारणत्वादिति ॥ अन्यथा अन्धकारस्थले घटादेश्चाक्षुषापत्तेरिति दिक् ॥ ननु तम सस्तादृशतेजोभावरूपत्वे तमसि रूपवत्ताप्रतीतिः कर्मवत्ताप्रतीतिश्च कथम् अभावे रूपकर्मणोरभावादित्यत आह--तत्रेति ॥ तमसोऽ- तिरिक्तत्वे अनन्तावयवतत्पागभावादिकल्पनागौरवमत आवश्यकता- दृशतेजोभावरूपत्वं सिध्यतीत्यपि बोध्यम् ॥ (इति तमोवादः) दीपिका-द्रव्यत्वजातिमत्वं गुणवत्त्वं वा द्रव्यसा- मान्यलक्षणम् ॥ लक्ष्यैकदेशावृत्तित्वमव्याप्तिः । यथा गोः कपिलत्वम् ॥ अलक्ष्यवृत्तित्वमतिव्याप्तिः । यथा गोः शृङ्गित्वम् ॥ लक्ष्यमात्रावर्त्तनमसंभवः । यथा गोरे- कशफत्वम् ॥ एतदोषत्रयरहितोधर्मो लक्षणम् स एवाऽ- साधारणधर्म इत्युच्यते॥ लक्ष्यतावच्छेदकसमनियतत्व- मसाधारणधर्मत्वम् ॥ व्यावर्त्तकस्यैव लक्षणत्वे व्यावृत्ता- वभिधेयत्वादी चातिव्याप्तिवारणाय तद्भिन्नत्वं धर्मविशे- षणं देयम् ॥ व्यवहारस्यापि लक्षणप्रयोजनत्वे न देयम्। व्यावृत्तेरपि व्यवहारसाधकत्वात् ॥ ननु गुणवत्वं न द्रव्यलक्षणम्, अद्यक्षणे उत्पन्नविनष्टे घंटे चाव्याप्तिरिति पा०- १ एतद्दूषणत्रय । २ द्रव्यसामान्यलक्षणम् । ३ द्रव्ये ।
लक्षणनिर्णयः] उद्देशग्रन्थः । (९) चेत् न । गुणसमानाधिकरणसत्ताभिन्नजातिमत्वस्य विवक्षितत्वात् ॥ ननु एवमपि एकं रूपं रसात्पृथक् इत्ति व्यवहारादू- पादावतिव्याप्तिरितिचेत् न । एकार्थसमवायादेव ताह- शव्यवहारोपपत्तौगुणे गुणानङ्गीकारात् ॥ नीलकण्ठी-मुक्तिसाधनीभूतपदार्थतत्वज्ञानं लक्षणज्ञानं विना नोपपद्यते अत आह-द्रव्यत्वेति ॥ संयोगादिजनकतावच्छेदकतया द्रव्यत्वजातिसिद्धिरिति भावः ॥ ननु लक्षणलक्ष्यतावच्छेदकतयोरभेद इत्यत आह-गुणवत्त्व- मिति ॥ द्रव्यसामान्यलक्षणमिति ॥ एवं च सामान्यधर्मा- कथनेन न्यूनतापि नेति भावः ॥ दूषणत्रयरहितधर्मस्यैव लक्षणत्वस्य वक्ष्यमाणतया तज्ज्ञानं विशेषणीभूतदूषणत्रयरहितत्वज्ञानं विना न संभवति । दूषणत्रयरहितत्वज्ञानं तु विशिष्य दूषणत्रयज्ञानार्धानम् अभावबुद्धि प्रति प्रतियोगितावच्छेदकविशिष्ट प्रतियोगिज्ञानस्य तन्त्र- त्वात् इत्याशयेन दूषणत्रयं प्रदर्शयति लक्ष्यैकदेशावृत्तित्वमिति ॥ लक्षणतावच्छेदकत्वाभिमतसंबन्धेन लिंचिल्लक्ष्यावृत्तित्वमित्यर्थः ।। लक्ष्यमात्रेति ॥ मात्रपदं कृत्स्नार्थकम् । संबन्धविशेषावच्छिन्न- लक्ष्यवृत्तित्वसामान्याभावस्फोरकम् ॥ एकशफत्वमिति ॥ नचात्रालक्ष्यवृत्तिरूपातिव्याप्तेरपि सत्त्वाद संकर इति वाच्यम् ॥ दुष्टसंकरेपि दोषासंकरादिति दिक् ॥ एतद्- पणत्रयरहित इति ॥ उक्तदूषणभावत्रयविशिष्ट इत्यर्थः ॥ नन्व- साधारणधर्मो लक्षणमिति हि सिद्धान्तः । तत्कथं तादृशदूषणत्रयर- हितो धर्म इत्यत आह ॥ सएवेति ॥ इत्युच्यते इति अभि- युक्तैरिति शेषः । १ नंगीकरणात् ।
(१०) तर्कसंग्रहे- [ लक्षणनिर्णयः ननु साधारणत्वस्य लक्ष्यालक्ष्यवृत्तित्वरूपतया तदभावरूपा- साधारणत्वस्याव्याप्त्यादि दोषग्रस्तधर्मेपि सत्त्वात् कथं दोषत्रयरहित एवासाधारणधर्म इत्याशङ्कां परिनिहीर्षः असाधारणत्वमन्यादृशं निर्वक्ति ॥ लक्ष्यतावच्छेदकसमनियतत्वमिति ॥ लक्ष्यता- वच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेदकव्याप्यत्वमित्यर्थः। अव्या- त्यसंभवग्रस्तयोर्वारणाय सत्यन्तम् ॥ अतिव्याप्तस्य वारणाय विशे- ध्यम् ॥ धर्मपदं तु लक्षणताघटकसंबन्धेन व्यापकत्वादितात्पर्यग्राहक- मितिभावः ॥ अत्रेदं बोध्यम् ॥ एते दोषा असाधारणत्वस्य विघ- टकाः । अतिव्याप्ती व्याप्यत्वस्येतरयोश्च व्यापकत्वस्य भङ्गात् । एतेषां दूषकताबीजं तु लक्षणेनेतरभेदसाधने अतिव्याप्ती व्यभिचारः ॥ इतरयोश्च भागासिद्धिस्वरूपासिद्धी इति ॥ ननु लक्ष्यतावच्छेदकसमनियतत्वस्य लक्षणलक्षणत्वे लक्षणस्य व्यावृत्तिरेव प्रयोजनमिति मते व्यावर्त्तकस्यैव तादृशलक्षणलक्ष्यतया यावृत्यादावतिव्याप्तिरित्याशङ्कां तन्मतानुसारेणैव निराकरोति व्या- वर्तकस्यैवेति ॥ इतरभेदानुमितिजनकस्यैवेत्यर्थः ॥ इतरभेद- विधेयकानुमितिजनकतावच्छेदक विषयताविशेषाश्रयस्येति यावत् ॥ एतेन व्यावहारकस्य व्यवच्छेदः । लक्षणत्वे गवादिलक्षणत्वे उक्त- लक्षणलक्षणस्य लक्ष्यत्व इतियावत् । लक्ष्यत्व इति पाठेप्ययमे- वार्थो बोध्यः । व्यावृत्ताविति ॥ गवादीतरभेदे गोत्वादिरूपल- क्ष्यतावच्छेदकसमनियतत्वस्य अभिधेयत्वप्रमेयत्वादी पदार्थत्वसमनै- यत्यस्य च सत्त्वेनातिव्याप्तिवारणाय । व्यावृत्त्यभिधेयत्वादिभिन्नत्वं लक्षणलक्षणे निवेशनीयम् इत्यर्थः । यद्यपि व्यावृत्तेरपि व्यावहारि- कत्वस्य वक्ष्यमाणतया तेनैव रूपेण सर्वेषां संग्रहसंभवात् पृथाभि- धानमनुचितम् । तथापि हेतुसाध्ययोरक्ये हेतुमक्तानिश्चयकाले साध्य- संशयरूपपक्षताया असत्त्वेन नानुमितिरिति प्राचीनमते इतरभेदस्य लक्षणनिर्णयः] उद्देशग्रन्थः। (११) न्यावर्तकत्वाभावेन तत्रातिव्याप्तिः ॥ सिषाधयिषा विरहविशिष्टसि- ध्यभावः पक्षता इति सिद्धान्तिमते तु व्यावृत्तेरपि व्यावर्तकत्वेन लक्ष्यतया तत्र लक्षणा संगमनस्येष्टत्वेन नातिव्याप्तिरित्यावेदायितुं पृथक् कथनमिति ध्येयम् ॥ ननु किमिदं नाम लक्षणलक्षणलक्ष्यतावच्छेदकम् व्यावर्तकत्वं न तावत्सापान्यतो भेदानुमापकत्वम् । व्यावृत्त्यभिधेयत्वादेरपि यत् किश्चित् उभयत्वाद्यवच्छिन्नमतियोगिताकभेदानुमापकत्वेन लक्षणलक्ष- णलक्ष्यतयाः तत्रातिव्याप्तिकथनासंगतेः ॥ सर्वेषामपि व्यतिरेकि ( व्यक्ति) धर्माणां यत् किंचिद्दयावर्तकतया असाधारण्यघटकव्यापक- स्वादिवैयर्थ्यापाता च नापि विशिष्य तत्तधर्मावच्छिन्नेतरभेदानुमाप- कत्वम् ॥ तथा सति गोत्वावच्छिन्नेतरभेदानुमापकस्य सानादिम- त्त्वस्य गोत्वसमनियतत्वं लक्षणमित्येवंरीत्या विशिष्य तत्तल्लक्षणस्य वक्तव्यतया गोत्वादिरूपलक्ष्यतावच्छेदकतत्तद्धर्मसमनयत्यस्य गोत्वा- वच्छिन्नेतरभेदादिरूपव्यावृत्तौसत्त्वे नातिव्याप्तेः संभवेप्यभिधेयत्वादा- वतिव्याप्तिलक्षणकतापत्तेर्दुर्वारत्वाद खोत्वादिसमनैय यस्य तत्रास- त्त्वात् इति चेत् ॥ मैवम् ॥ यतः सानादिमत्त्वं पक्षीकृत्य गोत्वाव- च्छिन्नेतरभेदानुमापकत्वे साध्ये विशेषव्याप्तावन्वयदृष्टान्तालाभेन यद्य- धर्मसमनियतं तत्तद्धर्मावच्छिन्नव्यावर्तकम् इति रीत्या सामान्यमुख- व्याप्तेरभ्युपगन्तव्यतया तत्र सिद्धसाधनामसिद्धिभ्याम् अव्यावर्तक- योावृत्त्यभिधेयत्वयोस्तत्तद्धर्मसमनैयत्यरूप प्रकृतहेतुतुल्यहेतो- सत्त्वेन प्रकृतसाध्यस्य तत्तुल्यस्य वा साध्यस्यासत्वेन व्यभिचारः स्यात् । अतस्तदोषवारणाय तत्तद्धर्मावच्छिन्नेतरभेदरूपव्यावृत्तिभि- नत्वमाभिधेयत्वादिभिन्नत्वं च तादृशलक्षणे निवेशनीयं इत्यभिप्रायः कोयं ग्रन्थ इति न पूर्वोक्तदोषावसरः । अधिकविचारस्त्वन्यत्रानुसं- धेयः ॥ ननु लक्षणस्य व्यवहारोपि प्रयोजनम् । तेन रूपेण व्यवह- नव्यज्ञानं विना तद्रूपावच्छिन्नाबोधकशब्दरूपव्यवहारासंभवात् । एवं (१२) तर्कसंग्रहे- [गुणविभागः च व्यावहारिकलक्षणस्यापि लक्ष्यत्वात् तद्भिन्नत्वविशेषणं न देयं इत्याह व्यवहारस्यापीति॥ ननु व्यावृत्तावतिव्याप्तिवारणाय तद्भिन्नत्वमावश्यकम् । व्यावृत्ते- र्व्यावहारिकत्वाभावादिति भ्रमं वारयति ॥ व्यावृत्तेरपीति ॥ अपिना अभिधेयत्वादि परिग्रहः दृष्टान्तलाभाय ॥ नन्वाद्यलक्षणावच्छिन्ने द्रव्ये गुणवत्त्वस्यासत्त्वेपि कालान्तरविच्छिन्ने तत्र तत्सत्वमक्षतम् । एवं च गुणाश्रयत्वं लक्षणं साधीय इत्यत आह- उत्पन्नविनष्टेति ॥ यादृशद्रव्यारम्भकसंयोगजनकक्रियात्पत्तेः तृती- यक्षणेऽवयवान्तरे तादृशसंयोगनाशिका किया जाता तादृशे द्रव्य इत्यर्थः ॥ नवीनाः पुनरसमवायिकारणस्य कार्यसहभावेन कारणता- मवलम्ब्योत्पन्नविनष्टं नाङ्गीकुर्वति ॥ गुणादावतिव्याप्तिवारणाय गुण- समानाधिकरणेति जातिविशेषणम् । सत्तामादायातिव्याप्तिवा- रणाय सत्ताभिन्नेति । द्रव्यगुणान्यतरत्वमादायातिव्याप्तिवारणाय जातीति । समवायेन तादृशधर्मवत्त्वतात्पर्यग्राहकम् । अतः कालि- कादिसंबन्धेन तद्वत्त्वमादाय नातिव्याप्तिरिति भावः । एवमपि उक्तविवक्षया अव्याप्तिवारणेपि॥ एकार्थसमवायादेवति॥एकस्मि- नर्थे समवायेन सत्त्वादेवेत्यर्थः । गुणानङ्गीकारादिति। तथा च तृप्तेन समवायघटितसामानाधिकरण्येनैव गुणे गुणवत्ता व्यवहारोप- पत्तौ तत्राक्कृप्तगुणवत्वकल्पनं न संभवति गौरवादिति भावः ॥ ( इति द्रव्यविभागः) मू०-रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्- त्वसंयोगविभागपरत्वाऽपरत्वगुरुत्वद्वत्वस्ने- हशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसं- स्काराश्चतुर्विंशतिगुणाः॥
गुणविभागः] द्रव्यग्रन्थः। (१३) दीपिका-गुणान् विभजते रूपेति ॥ द्रव्यकर्मभि- नत्वे सतिसामान्यवान् गुणः॥ गुणत्वजातिमान्वा लघु- त्वमृदुत्वकठिनत्वादीनां विद्यमानत्वात् कथं चतुर्विंशति गुणा इति चेत् ॥ न लघुत्वस्य गुरुत्वाभावरूपत्वात मृदुत्वकठिनत्वयोरवयवसंयोगविशेषरूपत्वात् ॥ नीलकण्ठी-सामान्यवानिति ॥ सामान्यवत्त्वं समवायेन बोध्यम् ॥ तेन न कालिकादिसंबन्धे तदति ध्वंसेऽतिव्याप्तिः ॥ गुण इति लक्ष्यनिर्देशः ॥ लाघवादाह-गुणत्वजातिमान् वेति ॥ यद्यपि लक्षणलक्ष्यतावच्छेदकयोरभेदः तथापि लक्षणेनेतरभेदे साध्ये हेतौ साध्यसामानाधिकरण्यनिश्चयेऽपि हेतुधर्मितावच्छेदकसाध्यनिश्च- यस्यानियतत्वाभिमायणेदम् इति संक्षेपः ॥ एवमग्रेपि बोध्यम् ।। गुण- त्वजातिसिद्धिस्तु गुणपदशक्यतावच्छेदकतयति गुणदीधिती भट्टा- चार्याः । न चैवं विभुपदशक्यतावच्छेदकतया विभुत्वमपि जातिः सिध्ये- दिति वाच्यम् । भूतत्वसंकरस्य बाधकस्य सत्त्वेन तस्य जातित्वासं- भवात् । जातित्वाभिमतसंकरस्यैवं जातित्वबाधकत्वात् तथा चोक्तं द्रव्यकिरणावल्यामुदयनाचार्यैः ॥ व्यक्तेरभेदस्तुल्यत्वं संकरोथानवस्थितिः । रूपहानिरसंबन्धो जातिबाधकसंग्रहः॥ व्यक्तेरभेदः-स्वाश्रयव्यक्तरैक्यमाकाशत्वादे तित्वे बर्बाधकम् ॥ व्यक्तेस्तुल्यत्वं च अन्यूनानतिरिक्तव्यक्तिकत्वम् । घटत्वक्लशत्वयो- मिनजातित्वे ॥ संकर:-परस्परात्यन्ताभावसमानाधिकरणयोधर्मयो- रेकत्रसमावेशः। भूतत्वमूर्त्तत्वादेातित्वे ॥ अनवस्था-जातित्वादेः जातिस्वे ॥ रूपहानिः-स्वतो व्यावर्तकत्वात्मकरूपस्यहानिः विशे- षत्वस्य जातित्वे ॥ असंबन्धः-असमवेतत्वमभावत्वादेर्जातित्व इति १ पा०-गुणम् ।
(१४) तर्कसंग्रहे- [कर्मविभागः संक्षेपः ॥ लघुत्वादीनां प्रामाणिकत्वेपि कृप्तेष्वन्तर्भावो न्याय्य इति समाधत्ते-लघुत्वस्येति॥ इति गुणविभागः। मू०--उत्क्षेपणाऽपक्षेपणाकुञ्चनप्रसारणगम- नानि पञ्च काणि ॥ दीपिका-कर्म विभजते उत्क्षेपणेति । संयोगभिन्नत्वे सतिसंयोगासमवायिकारणम् कर्मत्वजातिमद् वा ।। ननु भ्रमणादेरप्यतिरिक्तस्य कर्मणः सत्त्वात् पञ्चेत्य- नुपपन्नमिति चेत् । न । भ्रमणादीनामपि गमनेन्तर्भावात् न पञ्चत्वविरोधः। नीलकण्ठी--संयोगासमवायिकारणे संयोगेऽतिव्याप्तिवारणाय संयोगभिन्नत्वे सतीति ॥ संयोगसमवायिकारणद्रव्येऽतिव्याप्ति- वारणाय असमवायीति ॥ भ्रमणादेरित्यादिना रेचनस्यन्दनोल- ज्वलनतिर्यग्गमनादीनां संग्रहः ॥ गमनेन्तर्भावादिति ॥ मचो- क्षेपणादीनामपि गमनेऽन्तर्भावोस्त्विति शङ्कनीयम् ॥ स्वतन्त्रेच्छस्य नियोगपर्यनुयोगानहस्य ऋषेः संमतत्वादितिभावः ॥ इति कर्मविभागः । . परमपरं चैति द्विविधं सामान्यम् ॥ दीपिका-सामान्यं विभजते परमिंति। परमधिक- देशवृत्ति । अपरं न्यूनदेशवृत्ति ॥ सामान्यादिचतुष्टये जाति स्ति॥ नीलकण्ठी-परमित्यादि ॥ लक्षणमग्रे मूलकृतैव वक्ष्यत इति न न्यूनतेति बोध्यम् ॥ सत्ताया इयत्वाद्यपेक्षया अधिकदेशव- पा०-१-णं कर्म । पा०- २ इतिचेन्न' २ इत्यन्तों ग्रन्थो नास्ति ।
पृथ्वीनिरूपणम् ] द्रव्यविभागः। तित्वेन परत्वमेव । घटत्वादीनांन्यूनवृत्तित्वेन अपरत्वमेव । द्रव्यादीनां सत्तातोऽपरत्वम् घटत्वादितः परत्वम् इति विवेकः ।। इति सामान्यविभागः । मू०--नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ताएव ॥ दीपिका-विशेषं विभजते नित्यति ॥ पृथिव्यादिच- तुष्टयस्य परमाणकः आकाशादिपञ्चकम् नित्यद्रव्याणि॥ इति विशेषविभागः । मु०-समवायस्त्वेक एव ॥ दीपिका-समवायस्थ भेदो नास्तीत्याह समवाय स्त्विति॥ नीलकंठी-समवायस्य भेदो नास्तीति ॥ न च समवा- यस्याभेदे स्पर्शसमवायवति वायौ रूपवत्तामतीतिः स्यात् इति शङ्क- नीयम् ॥ रूपसमवायसत्वेपि रूपाभावेन तथा प्रतीतेरभावादिति दिक्॥ (इति समवायविभागः) मू-अभावश्चतुर्विधः प्रागभावः प्रध्वंसाभा- वोत्यन्ताभावोन्योन्याभावश्चेति ॥ दीपिका-अभावं विभजते । अभावइति ॥ (इव्यभावविभागः) ( इत्युद्देशग्रन्थः) मू-तत्र गन्धवती पृथिवी।सा द्विविधा नित्या- नित्या च । नित्या परमाणुरूपा अनित्या कार्यरूपा। दीपिका-तत्रोद्देशक्रमानुसारेण प्रथमं पृथिव्याः लक्ष- णमाह ॥ गन्धवतीति ॥ नाना पदार्थसंकीर्तनमुद्दे- शः॥ उद्देशक्रमे च सर्वत्रेच्छैव नियामिका॥ ननु सुरभ्य- १ . . (१६) तर्कसंग्रहे [पृथ्वीनिरूपणम् सुरभ्यऽवयवारब्धे द्रव्ये परस्परविरोधेन गन्धानुत्पादाद- व्याप्तिः । नच तत्र गन्धप्रतीत्यनुपपत्तिरिति वाच्यम् । अवयवगन्धस्यैव तत्र भानसंभवेन चित्रगन्धानङ्गीकारात्। किंचोत्पन्नविनष्टघटादावव्याप्तिरिति चेन्न ॥ गन्धसमा- नाधिकरणद्रव्यत्वापरजातिमत्वस्य विवक्षितत्वात् ॥ ननुजलादावपि गन्धप्रतीतेरतिव्याप्तिरितिचेन्न ॥अन्वय- व्यतिरेकाभ्यां पृथिवीगन्धस्यैव तत्र भानाङ्गीकारात् । ननु तथापि कालस्य सर्वाधारतया सर्वेषां लक्षणानां तत्रातिव्याप्तिरिति चेन्न । सर्वाधारताप्रयोजकसंबन्ध- भिन्नसंबन्धेन लक्षणस्याभिमतत्वात् ॥पृथिवीं विभजते॥ सा द्विविधति ॥ नित्यत्वं ध्वंसाप्रतियोगित्वं ॥ ध्वंसप्र- तियोगित्वमनित्यत्वम् ॥ नीलकण्ठी-पृथिवीलक्षणस्य माथम्ये बीजमाह ॥तत्रेति॥ पृथि- व्यादिषु मध्य इत्यर्थः।गन्धसमवायिकारणतावच्छेदकतया पृथिवीत्वजा- तिसिद्धिरिति दोध्यम् ॥ नानैति॥अत्र तृतीयार्थोऽभेदः संकीर्तनप- दार्थे प्रतिपादकशब्देऽन्वेति तथा च वस्तुप्रतिपादकनाममात्रमुद्देश इति लक्षणं पर्यवस्यति॥अत्र घट इति लौकिकपदेशतिव्याप्तिवारणाय वस्तुपर्द लक्षणीयवस्तुपरम् लक्षणीयस्य पृथिव्यादेःसामान्यतः प्रतिपादके प्रमेय- देऽतिव्याप्तिवारणाय नामपदं लक्ष्यतावच्छेदकावच्छिन्नपरम् । लक्षण- वाक्ये नामसत्त्वादतिव्याप्तिरतो मात्रपदमिति ध्येयम् ॥ आरब्धे जन्ये ॥ परस्परविरोधेनेति । सुरभिगन्धं प्रति असुरभिगन्धस्या- रभिगन्धं प्रति सुरभिगन्धस्य प्रतिबन्धकत्वेनेत्यर्थः ॥ प्रतीत्यतु- पपत्तेरिति ॥ अतश्चित्रगन्ध एवाऽप्रतिबध्यः स्वीकर्तव्य- इति इति भावः ॥ अवयवगन्धस्यैवेति स्वाश्रयसमवेतत्वसंबधेने त्यादिः ॥ तुष्यतु दुर्जन इति न्यायेनाङ्गीकृत्याह । किंचेति॥जल- त्वादिकमादायातिव्याप्तेर्वारणाय 'गन्धसमानाधिकरणर ति ॥ सत्ता- पृथ्वीनिरूपणम् ] द्रव्यग्रन्थः। . वारणाय 'द्रव्यत्वापरे ति द्रव्यत्वन्यूनवृत्तीत्यर्थकम् । तेन द्रव्यत्व- व्युदासः ॥ गन्धप्रतीतेरिति॥ सुरभि जलमित्यादिप्रतीरित्यर्थः।। पृथिवीगन्धस्यैवेति ॥ स्वाश्रयसंयुक्तत्वसंबन्धेनेत्यादिः ॥ तत्र जलादौ ॥ यथाश्रुतग्राही कश्चन शङ्कते ॥ ननु तथापीति ॥ अनुगतरूपेण लक्षणतावटकसंबन्धानिवेश्यकालादावतिव्याप्तिं वार- यति । सर्वाधारतेति ॥ वस्तुतस्तु समवायादीनां समवायत्वा- दिनैव संसर्गतया तेनैव रूपेण तत्संबन्धस्य तत्तल्लक्षणघटकत्वं बोध्यम्। नित्यपृथिवीत्वादिरूपलक्षणगतनित्यत्वादि प्रदर्शयति ॥ नित्यत्व- मिति॥ मू०-पुनस्त्रिविधा-शरीरेन्द्रियविषयभेदात् ॥ शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घाणं नासाग्रवति ॥ विषयो मृत्पाषाणादि । दीपिका-प्रकारान्तरेण विभजते । पुनरिति ॥ आ- त्मनो भोगायतनं शरीरम् ॥ यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनं तदेव शरीरम् । सुखदुःखान्यतर- साक्षात्कारो भोगः॥ शब्देतरोतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वम् इन्द्रियत्वम् । शरीरेन्द्रियभिन्नो विषयः॥एवं च.गन्धवच्छरीरं पाथिर- शरीरम्, गन्धवदिन्द्रियं पार्थिवेन्द्रियम्, गन्धवान् विषयः पार्थिवविषयः इति तत्तल्लक्षणं बोध्यम् । पार्थिचं शरीरं दर्शयति । शरीरमिति ॥ इन्द्रियं दर्शयति-इन्द्रिय- मिति ॥ गन्धग्राहकमिति प्रयोजनकथनम् । घ्राणमिति संज्ञा । नासाग्रेत्याश्रयोक्तिः ॥ एवमुत्तरत्र ज्ञेयम् ॥ पार्थिवविषयं दर्शयति । मृत्पाषाणेति ॥ नीलकण्ठी-प्रकारान्तरेणेति ॥ पृथिवीमित्यनुषज्यते ॥ अत्र (१८) तर्कसंग्रहे [ पृथ्वीनिरूपणम् नित्यपृथिव्याः शरीरेन्द्रियभिन्नत्वरूपविषयलक्षणान्तर्गतत्वेन विषया- न्तर्गतत्वमिति पृथिव्यास्त्रिविधत्वम् । अत एव मूले पुनस्त्रिविधे- त्युक्तिः संगच्छते इति ध्येयम् ॥ केचित्तु अनित्यपृथिव्या एव त्रैविध्यं वर्णयन्ति । उद्देशकमानुसारेण प्रथमं शरीरलक्षणमाह-आत्मन इति ॥ आयतनमवच्छेदकम् । तथा च यादृशं लक्षणं संपन्नं तादृश- माह-यदवच्छिन्न इति ॥ सुखदुःखान्यतरसाक्षात्काराच्छेदक- मिति यावत् ॥ अत्रान्त्यावयवित्वे सतीति विशेषणं देयम् । तेन पादादीनामवच्छेदकत्वेपि तत्र नातिव्याप्तिः । शरीरत्वं तु न जातिः पृथिवीत्वादिना संकरात् । तथा इन्द्रियत्वं न जातिरित्याशयेनाह- शब्देतरोद्भूतेति॥आत्मादावतिव्याप्तिवारणाय सत्यन्तम्। श्रोत्रेऽति- व्याप्तिवारणाय शब्देतरेति ॥ चक्षुरादौ विशेषगुणस्यानुभूत- रूपादेः सत्वेनाव्याप्तिवारणायोद्भूतेति ॥ उद्भूतत्वं न जातिः । शुक्ल- त्वादिना संकरात्।न च शुक्लत्वादिव्याप्यं नानैवोद्भूतत्वमिति वाच्यम्। चाक्षुषादावुद्भूतरूपत्वादिना कारणत्वानुपपत्तेः । किं तु यच्छुक्लत्वा- दिव्याप्यमनुभूतत्वं नाना तत्तरभावकूटवत्वमुद्भूतत्वम् तच्च संयोगा- दावपि ॥ तथा शब्देतरोद्भूतगुणं संयोगमादाय असंभवस्य वारणाय विशेषेति । कालादावतिव्याप्तिवारणाय विशेष्यदलम् ॥ तत्रैवाति- व्याप्तिवारणाय ज्ञानकारणेति ॥ माचीतमते विषयावयवेन्द्रियाव- सवसंयोगस्य प्रत्यक्षजनकतया तदाश्रयस्य इन्द्रियावयवस्य, नवीनमते कालादौ रूपाभावप्रत्यक्षे संनिकर्षघटकतया कारणीभूतचक्षुस्संयोगा- श्रयस्य कालादेश्च वारणाय मनः पदम् । न चात्मान्यत्वे सतीत्य- नेनैवात्मन्यतिव्याप्तिवारणसंभवे किं गुरुतरेण शब्देतरोद्भूतेत्या- दिविशेषणेनेति वाच्यम् ॥ तथा सति चर्ममनःसंयोगस्य ज्ञानमात्रं प्रति हेतुत्वमते तत्रातिव्याप्तेरित्यलमतिविस्तरेण ॥ एवं चेति ॥ तत्तदर्थस्य शरीरादिसामान्यलक्षणत्वे चेत्यर्थः ॥ . “ननु गन्धवत्वप्रवेशेनैव तल्लक्षणस्य सामञ्जस्ये गन्धग्राहकत्वनिवे- जलतेजोनिरूपणम्] द्रव्यग्रन्थः। (१९) - शैमनुचितम् एवं च 'इन्द्रियं गन्धग्राहकम् । इति मूल मनुपपन्नमित्या- शङ्कां परिजिहीर्षुस्तन्मूलं तत्प्रयोजनकथनपरतया व्याचष्टे-गन्धमा- हकमिति ॥ उत्तरत्र ' इन्द्रियं रसग्राहकम् 'इत्यादौ ॥ ( इति पृथिवी) मु०-शीतस्पर्शवत्य आपः॥ ता द्विविधाः- नित्या अनित्याश्च । नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः । पुनस्त्रिविधाः-शरीरे- न्द्रियविषयभेदात् ॥शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवति । विषयःसरि- समुद्रादि। दीपिका-अपां लक्षणमाह-शीतेति ॥ उत्पन्नविनष्टे जलेऽव्याप्तिवारणाय शीतस्पर्शसमानाधिकरणद्रव्यत्वा- परजातिमत्त्वे तात्पर्यम् ॥ 'शीतं शिलातलम्' इत्यादी जलसंबन्धादेव शीतस्पर्शभानमिति नातिव्याप्तिः ॥ अन्यत्सर्व पूर्वरीत्या व्याख्येयम् । नीलकण्ठी-शीतस्पर्शसमानाधिकरणेति ॥ तत्र विशे- षेण प्रयोजनं पूर्वोत्तरीत्या सह्यम् ॥ जलत्वनातिसिद्धिस्तु स्नेहननक- तावच्छेदकतयेति ध्येयम् । अन्यत्सर्व पूर्वरीत्येति ॥ नित्य- त्वादिकम् ।। जलशरीरादिलक्षणं च गन्धवत्वस्थानेशीतस्पर्शवत्वं निवे- श्य 'पृथिवीनिरूपणोक्तरीत्या' इत्यर्थः ॥ एक्मग्रेऽप्यूह्यम् ॥ (इति जलम् ) मू०-उष्णस्पर्शवत्तेजः॥तद्विविधम्-नित्यम- नित्यं च । नित्यं परमाणुरूपम् । अनित्यं । ।
(२०) तर्कसंग्रहे- [ तेजोनिरूपणम् कार्यरूपम् । पुनस्त्रिविधम्-शरीरेन्द्रियविषय- भेदात्॥शरीरमादित्यलोके।इन्द्रियं रूपग्राहक चक्षुः कृष्णताराग्रवर्ति ॥ विषयश्चतुर्विधः- भौमदिव्योदर्याकरजभेदाता भौमवह्नयादिकम्। अबिन्धनं दिव्यं विद्युदादि ।भुक्तस्य परिणाम- हेतुरुदर्यम् ॥ आकरजं सुवर्णादि । दीपिका-तेजसो लक्षणमाह-उष्णस्पर्शवदिति ॥ उष्ण जलम् इति प्रतीतेस्तेजःसंबन्धानुविधायित्वात् नाति- व्याप्तिः ॥ विषयं विभजते-भौमेति ॥ ननु 'सुवर्ण पार्थिवम् पीतत्वाद्गुरुत्वात् हरिद्रावत्' इति चेत् । न । अत्यन्तानलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन, जलमध्यस्थघृते द्रवत्वनाशादर्शनेन, असति प्रतिब- न्धके पार्थिवद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावा- वधारणात् । तुवर्णस्य अत्यन्तानलसंयोगे सत्यनुच्छिद्य- मानद्रवत्वाधिकरणत्वेन पार्थिवत्वाऽनुपपत्तेः । तस्मात पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः रूपवत्तया वाय्वादिष्वनन्तर्भावात्-तैजसत्वसिद्धिः॥ त- स्योष्णस्पर्शभास्वररूपयोरुपष्टम्भकपार्दिवरूपस्पर्शाभ्यां प्रतिबन्धात् अनुपलब्धिः ॥ तस्मात् सुवर्ण तैजस- मेति सिद्धम् ॥ नीलकण्ठी-मूळे अबिन्धनमिति ॥ आप एव इन्धनमुद्दी- पनं यस्य तदित्यर्थः ॥ भुक्तस्येति ॥ भुक्तस्यौदनादेः परिणामः परिपाकः, तत्र हेतुरित्यर्थः ॥ आकरजमिति ॥ आकरः खनि- स्तत्र जातमित्यर्थः।
वायुनिरूपणम्] द्रव्यग्रन्थः। (२१) सुवर्णस्य तैजसत्तं व्यवस्थापयितुं शङ्कते दीपिकायां-नन्विति॥ पार्थिवत्वसाधकं पीतत्वहेतुमुक्त्वा तैजसत्वाभावसाधकं हेतुमाह-गुरु- त्वादिति ॥ एतेन सुवर्णरूपतेजसि विजातीयपीतरूपं स्वीक्रियते पीतं सुवर्णम् । इत्यवाधितप्रत्यक्षप्रतीतिबलात् । एवं तैजसत्वस्य निर्बाधतया पृथिवीत्वं न सिध्यतीति कस्यचित् भ्रान्तिनिरस्ता ॥ गुरु- वस्यारत्यक्षत्वेन तथा वक्तुं अशक्यत्वात् इति दिक् । सुवर्णस्य पीति- मगुरुत्वाश्रयतोऽतिरिक्तत्वं व्यवस्थापयिष्यन् वक्ष्यमाणानुमानेऽप्रयो- जकत्वशङ्काबारणाय कार्यकारणभावमनुकूलतर्क व्यवस्थापयति-अत्य- न्तानलेति ।। सुवर्णस्येत्यादिः । अनुमानप्रयोगस्तु इत्थमवसेयः ' सुवर्ण अपार्थिवम् असति प्रतिबन्धके अत्यन्तानलसंयोगे सति अh च्छिद्यमानद्रवत्वाधिकरणत्वात् यन्नैवं तन्नैवम् यथा पृथिवी ॥ जल- मध्यस्थतादौ व्यभिचारवारणाय ' असति प्रतिबन्धके । इति ॥ अग्निसंयोगासमानाधिकरणद्रवत्ववति घृतादौ व्यभिचारवारणाय अत्य- न्तानलसंयोगे सतीति ॥ द्रवद्रव्यान्तरसिद्धाविति ॥ न्तानलसंयोगी पीतिमाश्रयः द्रवत्वनाशकप्रतिबन्धकद्रवद्रव्यान्तरसं- युक्तः अत्यन्तानलसंयोगेप्यनुच्छिद्यमानद्रवत्वाधिकरणे सति गुरुत्वाज- लमध्यस्थघृतादिवत् । इत्यनुमानेन तसिद्धिर्द्रष्टव्या ॥ जलादिक- मादाय अनुमानपर्यवसानं वारयति-नैमित्तिकेति ॥ ननु ' उष्ण- स्पर्शभास्वररूपोपलब्ध्यभावेन सुवर्णस्य तैजसत्वम् अनुपपन्नम् ' इत्यत् आह-तस्येति ॥प्रतिबन्धादिति ॥ दोषविधयेत्यादिः । (इति तेजः) मू-रूपरहितस्पर्शवान वायुः.॥ स द्विविधः- नित्योऽनित्यश्च ॥ नित्यः परमाणुरूपः॥अनि- त्यः कार्यरूपः॥ पुनस्त्रिविधः-शरीरोन्द्रियविष- यभेदात् ॥शरीरं वायुलोके ॥ इन्द्रिय स्पर्श- अत्य- : ". . (२३) तर्कसंग्रहे- [ वायुनिरूपणम् ग्राहकं त्वक् सर्वशरीरवति ॥ विषयो वृक्षादिक- म्पनहेतुःशरीरान्तःसंचारी वायुःप्राणः॥स चै- कोऽप्युपाधिभेदात् प्राणापानादिसंज्ञां लभते॥ दीपिका-वायुं निरूपयति ॥ रूपरहितेति ॥ आका- शादावतिव्याप्तिवारणाय स्पर्शवानिति ॥ पृथिव्या- दावतिव्याप्तिवारणाय रूपरहितेति ॥ नतु प्राणस्य कुत्रान्तर्भावः इत्यत आह-शरीरोति ॥ सचेति । एक एव प्राणः स्थानभेदात् प्राणापानादि- शब्दैर्व्यवद्वियत इत्यर्थः॥ स्पर्शानुमेयो वायुः ॥ तथा हि-'योयं वायौ वाति सति अनुष्णाशीतस्पर्टी भासते, सः स्पर्शः क्वचिदा- श्रितः गुणत्वात् रूपवत् । न चास्य पृथिवी आश्रयः, उद्भूतस्पर्शवतः पार्थिवस्योद्भूतरूपवत्त्वनियमात् ॥न ज- लतेजसी,अनुष्णाशीतत्वात्।न विभुचतुष्टयम्,सर्वत्रोपल- ब्धिप्रसङ्गात् । न मनः, परमाणुस्पर्शस्यातीन्द्रियत्वात् । तस्माद् यः प्रतीयमानस्पर्शाश्रयः स वायुः ॥ ननु 'वायुःप्रत्यक्षः प्रत्यक्षस्पशाश्रयत्वात् घटवत्' इतिचेत् । न । उदातरूपत्वस्योपाधित्वात् ।। यत्र द्रव्यत्वे सति बहिरिन्द्रियप्रत्यक्षत्वं, तत्र उद्भूतरूपवत्त्वंम्' इति घटादौ साध्यव्यापकत्वम् । पक्षे साधनाव्यापकत्वम् ॥ न चैवं तप्तवारिस्थतेजसोपि अप्रत्यक्षत्वापत्तिः । इष्टत्वात् । तस्मात् रूपरहितत्वात् वायुरप्रत्यक्षः । नीलकण्ठी-शरीरेति ॥ तथा च प्राणस्य विषयेन्तर्भावः ॥ स्थानभेदादिति ॥
कार्योत्पत्तिविनाशक्रमनि०] द्रव्यग्रन्थः । (२३) हृदि माणा गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशे स्याद व्यानः सर्वशरीरगः ॥ इति स्थानभेदादित्यर्थः॥ मुखनासिकाभ्यां निष्क्रमणप्रवेशनात्प्राणः। मलादीनाम् अधोनयनाद् अपानः ॥ आहारेषु पाकार्थ वह्नः समुन्न- यनात् समानः॥ ऊलनयनाद् उदानः ॥ नाडीमुखेषु वितन- नाद व्यानः॥ स्वमतं दर्शयति-स्पर्शानुमेय इति ॥ अस्येति ॥ उपलभ्य- मानस्पर्शस्त्र आश्रयः पृथिवी न चेत्यन्वयः ॥ चतुष्टयमिति ।। इदमाकाशादिप्रत्येकभेदसाधनाभिप्रायेण ॥ सर्वत्रोपलब्धिप्रसङ्गा- दिति ॥ स्पर्शस्येत्यादिः ॥ आकाशादीनां विभुत्वादिति भावः ॥ प्रत्यक्षः बहिरिन्द्रियजन्यप्रत्यक्षविषयः ॥ अनुभूतस्पर्शाश्रये त्वगि- न्द्रिये व्यभिचारवारणाय प्रत्यक्षेति ॥ उपाधित्वादिति ॥ तथा च हेतावुपाधिव्यभिचारेण साध्यव्यापकत्वात् कथं तस्योपाधित्वम् इत्यत आह-यत्रेत्यादिना ॥ तथा च पक्षधर्मावच्छिन्नसाध्यव्या- पकोयमुपाधिरिति भावः ॥ एवं प्रत्यक्षस्पर्शाश्रयस्याप्युद्भूतरूपाभा- वेन प्रत्यक्षत्वानङ्गीकारे ॥ अप्रत्यक्षत्वापत्तिः। तत्र उद्भूतरूपा- भावादिति भावः ॥ (इति वायुः) दीपिका-इदानीं कार्यरूपपृथिव्यादिचतुष्टयस्योत्प- त्तिविनाशक्रमः कथ्यते ॥ ईश्वरस्य चिकीर्षावशात् पर- माणुषु क्रिया जायते । ततः परमाणुद्वयसंमोगे सति द्वयणुकमुत्पद्यते ॥ त्रिभिर्यणुकैः व्यणुकम् । एवं चतुर- णुकादिक्रमेण महापृथिवी, महत्य आपः, महत् तेजा, महान्वायुः, उत्पद्यते । एवमुत्पन्नस्य कार्यद्रव्यस्य संजि- हीर्षावशात् क्रियया परमाणुदयविभागे सति यणुक- १ महती।
(३४) तर्कसंग्रहे- [कार्योत्पत्तिविनाशक्रमनि० नाशः ।ततस्यणुकस्य, ततश्चतुरणुकस्य इत्येवं पृथिव्या दिनाशः । परमावास्यस्य समवायिकारणस्य नित्य- त्वात् असमवायिकारणनाशाद्वयणुकनाशः । सम- वायिकारणनाशात् त्यणुकनाश इति संप्रदायः॥ सर्वत्र असमवायिकारणनाशाद् द्रव्यनाश इति नवीनाः॥ किं पुनः परमाणुसद्भावे प्रमाणम् । उच्यते । जालसूर्य- मरीचिस्थं सूक्ष्मतमं यद दृश्यते तत्सावयवं चाक्षुषद्र- व्यत्वात् पटवत् ॥ ज्यणुकावयवोपि सावयवः महदार- म्भकत्वात् तन्तुवत् ॥ ध्यणुकावयवः स एव परमाणुः । स च नित्यः । कार्यत्वेऽनवस्थाप्रसङ्गात् । तथा च मेरु- सर्षपयोरपि तुल्यपरिमाणापत्तेः ॥ सृष्टिप्रलयसद्भावे किं प्रमाणमिति चेत् ॥ न ॥ 'धाता यथा पूर्वमकल्पयत् । इति श्रुतिःप्रमाणम् 'सर्वकार्यद्रव्यध्वंसोऽवान्तरप्रलयः। सर्वभावकार्यध्वंसो महाप्रलयः' इति विवेकः ॥ नीलकण्ठी-ननु परमाणुपुञ्जस्यैव घटादिरूपत्वेन अतिरिक्तावय- विनोऽसत्त्वात्पृथिव्यादिचतुष्टयस्य नित्यत्वानित्यत्वाभ्यां विभागकथन- मुपपन्नम् इत्याशङ्कां वारयति इदानीमिति॥पृथिव्यादिचतुष्टयनि- रूपणानन्तरमित्यर्थः ॥ द्वयणुकस्य नाशः इत्यस्य परमाणुद्वयसं- योगनाशादित्यादिः ॥ सर्वत्रेति ॥ जन्यद्रव्यसामान्य इत्यर्थः ।। सर्वत्र एकरीतिरेवोचितेति भावः ॥ चाक्षुषद्व्यत्वादिति ॥ चाक्षुषत्वे सति द्रव्यत्वात् इत्यर्थः ॥ रूपादौ आत्मनि च व्यभिचारवारणाय विशेष्यविशेषणे ॥ न चेदमप्रयोजकमिति शङ्कयम् ॥ चाक्षुषं प्रति कारणस्य महत्त्वस्य त्रुटावपेक्षिततया सावयवत्वं विना अवयवसंख्याजन्यस्य तस्य स्वीक- तुमशक्यत्वादिति संक्षेपः ॥ यत्किचिद्रव्यध्वंसस्येदानीमपि सत्त्वात् । १ यद्रज उपलम्यते ।२ घट । ३ कपालवत् । ४ समानपरिभाणत्वापत्तेः । - आकाशकालनिरूपणम् ] द्रव्यग्रन्थः । सर्वेति ॥ नित्यद्रव्याणां ध्वंसासंभवात्-कार्येति ॥ परमाणुनिष्ठ- रूपादीनां तदानीमपि सत्त्वात् द्रव्यति ॥ ध्वंसानां ध्वंसासंभवेन महाप्रलये सत्त्वात् भावेतीति दिक् ।। ( इति कार्योत्पत्तिविनाशक्रमः) मू-शब्दगुणकमाकाशम् । तच्चैकं विभु नित्यं च॥ दीपिका-आकाशं लक्षयति॥ शब्दगुणकमिति । ननु किम् आकाशं पृथिव्यादिवत्राना नेत्याह-तच्चैकमिति॥ भेदे प्रमाणाभावादित्यर्थः ॥ एकत्वादेव सर्वत्र शब्दो- पलब्धेविभुत्वमङ्गीकर्तव्यमित्याह-विम्विति ॥ सर्व- मूर्तद्रव्यसंयोगित्वं विभुत्वम् मूर्त्तत्वम् परिच्छिन्नपरिमा- णवत्त्वं क्रियावत्त्वं वा ॥ विभुत्वादेव आत्मवत् नित्य- त्वम् इत्याह-नित्यं चेति ॥ नीलकण्ठी-'शब्दगुणकम्' इत्यत्र शब्दवदिति वक्तव्ये तथा कथनम् 'आकाशे शब्द एव विशेषगुणः' इति सूचनाय ॥ घटाकाशो मठाकाश इत्यादिव्यवहारस्योपाधिकृतत्वेनासाधकत्वादाकाशस्याने- कत्वे प्रमाण नेत्याह-भेद इति ॥ एकत्वादिति ॥ आकाश- स्येत्यादिः ॥ नन्वेकत्वेप्यविभुत्वमस्तु अत आह-सर्वत्रेति ॥ सर्व- दिगवच्छेदेनेत्यर्थः ॥ परिच्छिन्नपरिमाणवत्वमिति, ॥ यदि परिच्छिन्नत्वस्यापकर्षाश्रयत्वात्मकतया परमाणोरणुतरत्वेन व्यणु- कपरिमाणापेक्षया परमाणुपरिमाणस्यापकृष्टत्वाभावात् परमाणुष्वव्या- तमिदं लक्षणम् । इत्युच्यते तदाप्याह-क्रियावत्वमिति ॥ वस्तु- तस्तु लाघवमेवोत्तरकल्पनानुसरणबीजम् । इति ध्येयम् ।। . (इत्याकाशम् ) मू-अतीतादिव्यवहारहेतुःकाल सचैकोविभुनित्यश्च॥
(२६) तर्कसंग्रहे- [दिगात्मनिरूपणम् दीपिका-कालं लक्षयति ॥ अतीतोति ॥ सर्वाधार कालः सर्वकार्ये निमित्तकारणं च ॥ नीलकण्ठी-'अतीतादिव्यवहारहेतुः कालः' इति मूले आदिना अनागतादिपरिग्रहः । अतीतत्वं वर्तमानध्वंसमतियोगि- त्वम् ।। वर्तमानत्वम् इह शब्दप्रयोगाधिकरणकालवृत्तित्वम् ॥ भविष्यत्वम् च वर्तमानमागभावप्रतियोगित्वम् ॥ अत्र सर्वत्र कालस्य घटकतया शब्दप्रयोगरूपातीतादिव्यवहारहेतुत्वं तस्येति ध्येयम् ॥ न च तादृशव्यवहारः सूर्यपरिस्पन्दादिरूपोपाधिमादायापि संभवतीति वाच्यम् ॥ अनुगतव्यवहारस्यानुगतविषयं विनाऽसंभवे नातिरिक्तकालस्वीकारात् इति दिक् ॥ सर्वाधार इति ॥ 'कालि- कसंबन्धेन ' इत्यादिः ॥ अत्र भित्रकालिकयोराधाराधेयभावविरहात् क्रियादेः सर्वाधारत्वशङ्कव नावतरतीति भावः ॥ ( इति कालः) (मू०) प्राच्यादिव्यवहारहेतुर्दिक ॥ सा चैका विभ्वी नित्या च। दीपिका-दिशो लक्षणमाह ॥ प्राचीति ॥ दिगपि कार्यमात्रे निमित्तकारणम् ॥ नीलकण्ठी-प्राच्यादिव्यवहारहेतुरिति मूले आदिना प्रतीच्यादि परिग्रहः ॥ उदयाचलसंनिहितमूर्तावच्छिन्ना दिक् प्राची। तव्यवहितमूर्तावच्छिन्ना च . प्रतीची । मेरुसन्निहितमूर्तावच्छिन्ना दिक उदीची । तद्व्यवहितमूर्तावच्छिन्ना तु दक्षिणा ॥ ( इति दिक् ) मू-ज्ञानाधिकरणमात्मा ॥ स द्विविधः-प- रमात्मा जीवात्मा चेति ॥ तत्रेश्वरः सर्वज्ञः आत्मनिरूपणम् ] द्रव्यग्रन्थः। (२७) परमात्मैक एव ॥ जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च॥ दीपिका-आत्मनो लक्षणमाह ॥ ज्ञानेति आत्मानं विभजते-स द्विविध इति ॥ परमात्मनो लक्षणमाह- तत्रेति ॥ नित्यज्ञानाधिकरणत्वम् ईश्वरत्वम् ॥ नन्वी- श्वरस्य सद्भावे प्रमाणं किम् न तावत् प्रत्यक्षम् । तद्धि बाह्यम् आभ्यन्तरं वा । नाद्यः, अरूपिद्रव्यत्वात् । नान्त्यः, आत्मसुखादिव्यतिरिक्तत्वात् । नाप्यनुमानम्, लिङ्गाभावात् । नाप्यागमः, तथाविधागमाभावात् इति चेत् ॥ न ॥ ‘क्षित्यकुरादिकं कर्तृजन्यं कार्यत्वात घटवत् ' इत्यनुमानस्य प्रमाणत्वात् ।। उपादानगोचरा- परोक्षज्ञानचिकीर्षाकृतिमत्त्वम् कर्तृत्वम् ॥ उपादानं समवायिकारणम् ॥ सकलपरमाण्वादिसूक्ष्मदर्शित्वात् सर्वज्ञत्वम्॥'यःसर्वज्ञः स सर्ववित् इत्यागोपि प्रमाणम्॥ नीलकण्ठी-ज्ञानाधिकरणमिति ॥ समवायेन ज्ञानवदित्य- र्थः ॥ तत्र तयोर्मध्ये ॥ दीपिकायाम् नित्यज्ञानाधिकरणमिति॥ न च नित्यं ज्ञानमानन्दं ब्रह्म' इति श्रुत्या विरोध इति वाच्यम् ॥ आनन्दपदस्यानन्दवदर्थकताया इव विज्ञानपदस्यापि विज्ञानवदर्थकता- स्वीकारेणाविरोधात् ॥ नचानन्दस्यैव तादृशार्थकत्वम् असिद्धम् इति वाच्यम् । अर्शआद्यजन्तत्वाङ्गीकारेण तादृशार्थसिद्धेः ॥ अन्यथा नपुं- सकत्वानुपपत्तेः ॥ अत्रानन्दो भारापगमे 'सुखी संवृत्तोहम्' इतिवद दुःखाभावे उपचर्यते ॥ नवीनास्तुं नित्यत्वमीश्वरस्याङ्गीकुर्वन्तीत्यल- मधिकृजल्पनेन ॥ अरूपिद्रव्यत्वात् इति ॥ बाह्यप्रत्यक्षं प्रति उद्भूतरूपस्य हेतु १ आन्तरं वा। २ अङकुरादिकम् ।
(२८) तर्कसंग्रहे- [अत्मनिरूपणम् त्वादिति भावः ॥ आत्मसुखादिव्यतिरिक्तेति ॥ विजातीया- त्ममनःसंयोगादिरूपस्य मानसप्रत्यक्षहेतोरीश्वरेऽभावात् इति भावः ॥ प्रमाणत्वादिति॥ नचेदमप्रयोजकमिति शङ्कयम् । कार्यत्वावच्छि- नं प्रति कृतित्वावच्छिन्नस्य हेतुत्वेनामयोजकत्वाभावात् इति दिक् ॥ उपादानगोचरेति ॥ यद्यपि कर्तृत्वं कृतिमत्वमेव संभवति ॥ तथाप्यपरोक्षज्ञानादेश्चिकीर्षादिकं प्रति कारणत्वप्रदर्शनाय तथोक्तिरि- त्यवधेयम् ॥ सर्वविदिति ॥ विदधात्वर्थो विशेषरूपेण ज्ञानम् ॥ दीपिका-जीवलक्षणमाह । जीवति ॥ सुखादिकं जीवलक्षणम् ॥ ननु ' मनुष्योहं ब्राह्मणोऽहम् ' इत्यादी सर्वत्राहंप्रत्यये शरीरस्यैव विषयत्वाच्छरीरमेवात्मति चेत् ॥ न ॥ शरीरस्य करपादादिनाशे शरीरनाशादा- त्मनोपि नाशापत्तः ॥ नापि इन्द्रियाणामात्मत्वम् । तथात्वे 'योहं घटमद्राक्षं सोऽहं इदानीं स्पृशामि' इत्य- नुसन्धानाभावप्रसङ्गात् ॥ अन्यानुभूतेऽन्यस्यानुसंधाना- योगात् ॥ तस्मादेहेन्द्रियव्यतिरिक्तो जीवः सुखादिवै- चिच्यात् प्रतिशरीरं भिन्नः । स च न परमाणुपरिमाणः, शरीरव्यापिसुखाद्यनुपलब्धिप्रसङ्गात् । न मध्यमपरि- माणः, तथा सति अनित्यत्वप्रसङ्गेन कृतहानाकृताभ्या- गमप्रसङ्गात् ॥ तस्मानित्यो विभुर्जीवः ।। नीलकण्ठी-लक्षणमाहेति । स्वरूपमाहेत्यर्थः ॥ मूले जीवः प्रतिशरीरं भिन्न इति ॥ न च अवयवोपचयापचयाभ्यां तत्तच्चै- त्रादिशरीराणां विभिन्नत्वेपि जीवभेदाभावाद् इदमसंगतम् । एवं कायव्यूहस्थलेपि इति वाच्यम् ॥ समानकालिकयोगजधर्माजन्यश- रीरभेदेन जीवभेदस्यैव विवक्षितत्वेनादोषाद, एवं चैतच्छरीरावच्छिन्न १ नाशप्रसङ्गात् । २ परिमाणपदं नास्ति । ३ स्यापि ।
मनोनिरूपणम् ] द्रव्यग्रन्थः। (२९) भोगवान् समानकालिकयोगाद्यजन्यशरीरावच्छिन्नभोगवभिन्न इति रीत्या प्रतिशरीरं जीवभेदः साध्य इत्यलम् ॥ शरीरस्यैवेति ॥ अन्यथा मनुष्यत्वादीनां शरीरधर्मत्वेन तथा प्रत्ययस्यैवासंगतिरित्यभिमानः॥ नाशापत्तरिति ॥ समवायिकार- णनाशस्य द्रव्यनाशकत्वात् इति भावः ॥ योहमिति ॥ भूतकालि- कदर्शनवति वर्तमानकालिकस्पार्शनवत्वं प्रत्याय्यते, तद् च भवतां मते न सम्भवति चाक्षुषस्पार्शनवतोर्भेदात् इति ॥ अनुस- न्धानायोगा दिति ॥ अन्यथा चैत्रेणानुभूतस्य वस्तुनो मैत्रेण स्मरणापत्तरिति भावः ॥ ननु शरीरावच्छेदेनात्मनि सुखादिसाक्षात्कारोपपत्तये सर्वव्यापित्व- म् आत्मनोस्तु । तथाऽपि विभुत्वाङ्गीकारे प्रयोजनाभाव इत्याशयेनाश- ङ्कते न मध्यमेति । अनित्यत्वप्रसङ्गेनेति ॥ यत् मध्यम- परिमाणं तदनित्यम्' इति व्याप्तरिति भावः॥ कृतेति। 'कृतस्य यागा- दिना संपादितस्य धर्मादेहानं नाश: अकृतस्याभ्यागमः प्राप्तिस्तत्मस- ङ्गात् इत्यर्थः । कर्तुरात्मन उत्तरजन्मनि असत्त्वात् अकर्तुश्च सत्त्वाद इति भावः ॥ ननु जीवस्याऽणुत्वमेवास्ताम्, तावता नोक्तदोषः ॥ सूक्ष्मस्य दीपस्य सर्वगृहावच्छेदेनेवाणुरूपस्यापि जीवस्य सर्वशरीरा- वच्छेदेन प्रभाप्रसरणाङ्गीकाराव् इति चेत् ॥ न ॥ तथा सति कायव्यू-. हस्थले सुखादिसाक्षात्कारानुत्पत्तेरिति दिक् ॥ ( इत्यात्मा) मूलम्-सुखाद्युपलब्धिसाधनमिन्द्रियं मनः ॥ नच्चप्रत्यात्मनियतत्वादनन्तम् अणुरूपं नित्यं च॥ दीपिका-मनसो लक्षणमाह-मुखेति ॥ स्पर्शरहितत्वे सति क्रियावत्वं मनसो लक्षणम् । मनो विभजते-तच्चे- ति॥ एकैकं मन एकैकस्यात्मन आवश्यकमित्यात्मना- (३०) तर्कसंग्रहे- [मनोनिरूपणम् मनेकत्वान्मनसोप्यनेकत्वमित्यर्थः । अणुरूपमिति ॥ मध्यमपरिमाणवत्त्वे अनित्यत्वप्रसङ्गादित्यर्थः॥ ननु मनो विभु स्पर्शरहितद्रव्यत्वात आकाशादिव- दिति चेत्न॥ मनसो विभुत्वे आत्ममनःसंयोगस्याऽस- मवायिकारणस्याभावाज्ज्ञानानुत्पत्तिप्रसङ्गात् ॥ न च विभुद्वयसंयोगोस्त्विति वाच्यम् ॥ तत्संयोगस्य नित्य- त्वेन सुषुप्त्यभावप्रसङ्गात् पुरीतव्यतिरिक्तप्रदेशात्ममनः संयोगस्य सर्वदा विद्यमानत्वात् । अणुत्वे तु यदा मन:- पुतिति नोडयां प्रविशति, तदा सुषुप्तिः । यदा नि:- सरति, तदा ज्ञानोत्पत्तिरित्यणुत्वसिद्धिः॥ नीलकण्ठी-मनःसंयोगाद्यतिव्याप्तिवारकेन्द्रियत्वघाटितमूलाक्त- लक्षणापेक्षया लघुलक्षणमाह-स्पर्शरहितत्वे सतीति ॥ एकैकं मन इति ॥ सर्वात्मनाम् एकस्य मनसः स्वीकारे एकस्य ज्ञानदशा- यामपरस्य तदनुत्पत्तिः तस्याणुत्वेन सकलेन्द्रियैरेकदा संयोगाभावा- दिति भावः ॥ अभावादिति ॥ विभुदयसंयोगानभ्युपगमादिति भावः ॥ ज्ञानातुत्पत्तीति ॥ भावकार्यस्यासमवायिकारणजन्य- त्वनियमादिति भावः ॥विभुद्वयसंयोगोस्त्विति ॥ तस्य नित्य- त्वेनासमवायिकारणक्रियाद्यसत्वेपि न क्षतिरिति भावः ॥ ( इति द्रव्यनिरूपणम् ) अथ गुणनिरूपणम्। मूलम्-चक्षुर्मात्रग्राह्यो गुणो रूपम् ॥ तच्च शुक्ल- नीलपीतरक्तहारतकपिशचित्रभेदात् सप्तविधम् ॥ पृथिवीजलतेजोवृत्ति ॥ तत्र पृथिव्यां सप्तविधम्॥ अभास्वरं शुक्वं जले । शुक्लं भास्वरं तेजसि ॥ १ रहितत्वात् । २ 'नाडयां' नास्ति ।
रूपनिरूपणम् ] गुणग्रन्थः। (३१) दीपिका-रूपं लक्षयति-चक्षुरिति ॥ संख्यादावति- व्याप्तिवारणाय मात्रपदम् । रूपत्वेतिव्याप्तिवारणाय गुणपदम् । प्रभाभित्तिसंयोगेऽतिव्याप्तिवारणाय चक्षुर्मा- ग्राह्यजातिमत्त्वं वाच्यम् ॥ रूपं विभजति-तञ्चेति ॥ नन्वव्याप्यवृत्तिनीलादिसमुदाय एव चित्ररूपमिति चेत् ॥ न ॥ रूपस्य व्याप्यवृत्तित्वनियमात् ॥ नतु चित्रपटे अवयवरूपस्य प्रतीतिरस्त्विति चेत् ॥ न ॥ रूपरहि- तत्वेन पटस्याप्रत्यक्षत्वप्रसङ्गात् ॥ नच रूपवत्समवेतत्वं प्रत्यक्षत्वप्रयोजकम् । गौरवात् । तस्मात् पटस्य प्रत्य- क्षत्वातुपपत्त्या चित्ररूपसिद्धिः॥ रूपस्याश्रयमाह-पृथि- वीति ॥ आश्रयं विभज्य दर्शयति-तत्रेति ॥ नीलकण्ठी-मात्रपदमिति। यद्यपि चक्षुर्मात्राह्यत्वं चक्षु- रितराग्राह्यत्वेसति चक्षुर्ग्राह्यत्वम् । तच्च रूपे न संभवति । तथापि त्वगि- न्द्रियाग्राह्यत्वे सति चक्षुर्गाह्यत्त्वं तदिति ध्येयम् ॥ गुणपदमिति॥ नवमपि प्रभाभित्तिसंयोगेऽतिव्याप्तिरिति वाच्यम् । त्वेगग्राह्यचक्षुर्याह्य- गुणविभाजकधर्मवत्त्वे पर्यवसानेनादोषात् । अत एव न परमाणुरूपादा- क्व्याप्तिरिति ध्येयम्॥समुदायएवेति । एवकारेणातिरिक्तचित्ररूप- व्यवच्छेदः।।व्याप्यवृत्तित्वेति।।दैशिकव्याप्यवृत्तित्वेत्यर्थः ॥इदमु- पलक्षणम्॥एकैकचित्ररूपस्थलेऽनेकरूपाणामेकैकतत्मागभावादिस्थले च अनेकप्रागभावादीनां कल्पनेन, अनेकरूपेषु 'चित्रः' इत्याकारक- प्रतीतिविषयत्वकल्पनेन, च गौरवमिति ॥ रूपरहितत्वेनेति । समवायेनेत्यादिः । प्रसङ्गादिति ॥ द्रव्यचाक्षुषं प्रति समवायेनैव रूपस्य कारणत्वमितिभावः ॥ रूपवत्समवेतत्वं स्वाश्रयसमवे- तत्व संबन्धेन रूपम् । प्रत्यक्षत्वप्रयोजकमिति । 'प्रत्यक्षविषय- त्वप्रयोजकमस्तु । इत्यर्थः ॥ गौरवादिति । साक्षात्संबन्धेन कार- (३२) तर्कसंग्रहे- [ रसगन्धस्पर्शनिरूपणम् गत्वापेक्षया गौरवादित्यर्थः ॥ चित्रावयवकपालैरारब्धघटस्य चाक्षु- षत्वानुरोधन स्वसमवायिसमवेतत्वसंबन्धेनैव रूपस्य तत्पयोजकत्व- मङ्गीकर्तव्यम् ।। एवं च त्रुटेश्चाक्षुषत्वानुपपत्तिरपि द्रष्टव्या ॥ प्रत्य- क्षत्वानुपपत्येति ॥ एतेन चित्ररूपवत् चित्ररसोपि सिध्येत् इति शंका निरस्ता ॥ द्रव्यलौकिकरासनस्याप्रसिद्ध्या तदनुपपत्त्यभावेन चित्ररसासिद्धेरिति संक्षेपः॥ (इति रूपम् ) मूलम्-सनग्राद्यो गुणो रसः॥ स च मधुरा- म्ललवणकटुकषायतिक्तभेदात् पड्धिः॥ पृथि- वीजलवृत्तिः॥ पृथिव्यां षधिः । जले मधुर एव ।। दीपिका-रसं लक्षयति-रसनेति ॥ रसत्वेऽतिव्याप्ति- वारणाय गुणपदम् ॥ तस्याश्रयमाह-पृथिवीति ॥ आश्रयं विभज्य दर्शयति पृथिव्यामिति ॥ नीलकण्ठी-रसत्व इति ॥ रसनाग्राह्यगुणविभाजकोपाधि- मत्त्वे तात्पर्यम् । एवं गन्धलक्षणेऽपि ॥ ( इति रसः) मूलम्-प्राणग्राह्यो गुणो गन्धः॥ स च द्विविधः- सुरभिरसुरभिश्च ॥ पृथिवीमात्रवृत्तिः ॥ दीपिका-गन्धं लक्षयति--घ्राणेति ॥ गन्धत्वेऽतिव्या- प्तिवारणाय गुणपदम् ॥ (इति गन्धः) मूलम्-त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः ॥ स त्रिविध-शीतोष्णानुष्णाशीतभेदात्॥पृथिज- पाकजत्वादिनिरूपणम् ] गुणग्रन्थः। (३३) लतेजोवायुवृत्तिः॥ तत्र शीतो जले, ऊष्णस्ते- जसि, अनुष्णाशीतः पृथिवीवाय्वोः॥ दीपिका-स्पर्श लक्षयति-त्वगिति ॥ स्पर्शत्वेऽति- व्याप्तिवारणाय गुणपदम् ॥ संयोगादावतिव्याप्तिवार- णाय मात्रपदम्। नीलकण्ठी-मात्रपदमिति ॥ 'चक्षुरग्राह्यत्वगिन्द्रियग्राह्यगु- णविभाजकोपाधिमत्वम् । इति तु फलितोर्थः । ( इति स्पर्शः) मुलम्-रूपादि चतुष्टयं पृथिव्यां पाकजमनित्यं च । अन्यत्रापाकजं नित्यमनित्यं च॥ नित्यगतं नित्यं । अनित्यगतमनित्यम् ॥ दीपिका-पाकजमिति ॥ पाकस्तेज संयोगः, तेन पूर्व- रूपं नश्यति रूपान्तरमुत्पद्यते इत्यर्थः ॥ अत्र परमा- णुष्वेव पाको न द्वयणुकादौ । आमपाकनिक्षिप्ते घटे परमाणुषु रूपान्तरोत्पत्तौ श्यामधठनाशे पुनर्यणुका- दिक्रमेण रक्तघटोत्पत्तिः ॥ तत्र परमाणवः समवायि- कारणम्, तेजःसंयोगोऽसमवायिकारणम्, अदृष्टादिकं निमित्तकारणम्, ध्यणुकादिरूषे कारणरूपमसमदायिका- रणमिति पीलुपाकवादिनो वैशेषिकाः ॥ पूर्वघटनाशं विनैव अवयविनि अवयवेषु परमाणुपर्यन्तेषु च युगप- दूपान्तरोत्पत्तिरिति पिठरपाकवादिनो नैयायिकाः ॥ अत एव पार्थिवपरमाणुरूपादिकमनित्यमित्यर्थः॥ अन्यत्र जलादावित्यर्थः ॥ नित्यगतमिति ॥ परमाणुग- तमित्यर्थः। अनित्यगतमिति ॥ध्यणुकादिनिष्ठमित्यर्थः।। ३ तर्कसंग्रहे- [पाकजत्वादिनिरूपणम् (३४) - यथा- रूपादिचतुष्टयम् उद्भूतं प्रत्यक्षम् । अनुभूतमप्रत्यक्षम् ॥ उद्भूतत्वं प्रत्यक्षत्वप्रयोजको धर्मः। तदभावोऽनुभूतत्वम्॥ नीलकण्ठी-परमाणुष्वेव पाक इति ॥ परमाणुष्वेव पूर्ण- रूपपरावृत्त्यादिजनकतेजःसंयोग इत्यर्थः॥ एवकारव्यवच्छेद्यं स्फुटय- ति-न द्वयणुकादाविति ॥ आमपाकनिक्षिप्ते घटे इति ॥ घटे आमपाकनिक्षिप्ते सति श्यामघटनाशे परमाणुषु रूपान्तरोत्पत्ती इत्यर्थः ॥ तत्र परमाणु रूपे ॥ अवयविनि पाकानङ्गीकारादाह- कारणरूपमिति ॥ परमाणुष्वेव पाकं वदतां वैशेषिकाणामयमा- शयः-वेगातिशयवता तेजसा परमाणूनामभिवातसंयोगे सति अवश्य तेषु क्रिया जायते । ततो विभागः, तत आरम्भकसंयोगनाशे सत्य- वश्यं यावदवयविनाशः, ततः स्वतन्त्रेषु परमाणुषु रूपान्तरोत्पत्तौ पुनरदृष्टादिघटितसामग्रीवशात्परमाणुषुक्रियाविभागादिकमेण स्थितमहावयविपर्यन्तमुत्पत्तिरिति ॥ अवयविन्यपि पाकं वदतां नैयायिकानां तु अयमाशयः-तेजसा परमाणूनामभिघातसंयोगेपि तस्य नियमत आरम्भकसंयोगप्रतिद्वन्द्रिविभागजनकक्रियाजनक- वे मानाभावेन अवयविन्यपि पाकस्वीकार उचितः ॥ अतएव 'सोय घटः। इति प्रत्यभिज्ञा संगच्छते ॥ अनन्तावयविनाशाद्यकल्पने लाघवं चेति ॥ नचावयविरूपं प्रति अवयवरूपस्य, तन्नाशं प्रति आश्रयनाशस्य, हेतुतायां व्यभिचार इति वाच्यम् । कार्यतावच्छेद- ककोटी वैनात्यनिवेशेन व्यभिचारवारणसंभवात् ॥ जलादावित्यर्थ इति ॥ यद्यपि रूपादिचतुष्टयं जलादौ बाधि- तम् ॥ तथापि यथायोग्यमन्वये तात्पर्यम् ॥ उद्भूतमिति ॥ उद्भू- तत्वं जातिः । नच शुक्लत्वादिना सांकर्यम् ॥ 'गुणसांकर्यं न बाधकम्। इति नवीनमताभिप्रायकोयं ग्रन्थ इति न दोषः ॥ केचित्तु शुक्लत्वादि च्याप्यमनुभूतत्वं नाना, तदभावकूटवत्त्ववोद्भूतत्वमित्याहुः ॥ (इति पाकविचारः) संख्यापरिमाणपृथक्त्वसंयोगनि०] गुणग्रन्थः । (३५) मूलम्-एकत्वादिव्यवहारहेतुः संख्या ॥ नवद्र- व्यवृत्तिः ॥ एकत्वादिपरार्धपर्यन्ता ॥ एकत्वं नित्यमनित्यं च॥नित्यगतंनित्यम्॥अनित्यग- तमनित्यम् ॥ द्वित्वादिकं तु सर्वत्रानित्यमेव ॥ दीपिका-संख्यां लक्षयति-एकेति ॥ नीलकण्ठी-मूले-द्वित्वादिकं तु सर्वत्रानित्यमेवेति ॥ हेतुभूतापेक्षाबुद्धिनाशेन द्वित्वनाशादिति भावः ॥ (इति संख्या) मूलम्-मानव्यवहारासाधारणं कारणं परिमा- णम् ॥ नवद्व्यवृत्ति॥ तच्चतुर्विधम्-अणु,महत, दीर्व, वस्वं चेति ॥ दीपिका-परिमाणं लक्षयति-मानेति ॥ परिमाणं विभजते-तञ्चेति ॥ भावप्रधानो निर्देशः अणुत्वं, महत्त्वं, दीर्घत्वं, ह्रस्वत्वं चेत्यर्थः॥ नीलकण्ठी-परिमाणस्य गुणिबोधकशब्दविभजनमसंगतमतो दीपिकायां भावप्रधाननिर्देश इति ॥ ( इति परिमाणम् ) मूलम्-पृथग्व्यवहारासाधारणं कारणं पृथ क्त्वम् । सर्वव्यवृत्ति ॥ दीपिका-पृथक्त्वं लक्षयति-पृथगिति ॥ 'इदमस्मात् पृथक इतिव्यवहारकारणमित्यर्थः॥ (इति पृथक्त्वम्) मूलम्-संयुक्तव्यवहारहेतुः संयोगः॥सर्वव्यवृत्तिः॥
(३६) तर्कसंग्रहे- [विभागनिरूपणम् दीपिका-संयोगं लक्षयति-संयुक्तेति ॥'इमो संयुक्तो' इति व्यवहारहेतुरित्यर्थः ॥ संख्यादिलक्षणेषु सर्वत्र दिक्कालादावतिव्याप्तिवारणाय असाधारणेति देयम् ॥ संयोगो द्विविधः-कर्मजः संयोगजश्च । आद्यो हस्तक्रि- यया पुस्तकसंयोगः ॥ द्वितीयो हस्तपुस्तकसंयोगात कायपुस्तकसंयोगः ॥ अव्याप्यवृत्तिः संयोगः॥ स्वात्य- न्ताभावसमानाधिकरणत्वम्-अव्याप्यवृत्तित्वम् ॥ नीलकण्ठी-असाधारणेतीति। कालादेः साधारणकारणत्वेन तत्र नातिव्याप्तिरिति भावः ॥ स्वात्यन्ताभावेति ॥ स्वप्रतियो- गित्वस्वसामानाधिकरण्योभयसम्बन्धेनाभाववत्वमिति तु निष्कर्षः॥ (इति संयोगः) मूलम्-संयोगनाशको गुणो विभागः॥ सर्वद्रव्यवृत्तिः॥ दीपिका-विभागं लक्षयति-संयोगेति॥कालादावति- व्याप्तिवारणाय-गुण इति ॥रूपादावतिव्याप्तिवारणाय संयोगनाशक इति ॥ विभागोपि द्विविधः ॥ कर्मजो विभागजश्च ॥आद्यो हस्तक्रियया हस्तपुस्तकविभागः॥ द्वितीयो हस्तपुस्तकविभागात्कायपुस्तकविभागः॥ नीलकण्ठी-संयोगनाशक इतीति ॥ नव तथापि संयो- गेतिव्याप्तिः, तस्य प्रतियोगिविधया नाशं पति कारणत्वादिति वाच्यम् ॥ प्रतियोगितासबन्धानवच्छिन्ननाशविशिष्टजन्यतानिरूपित- जनकत्वविवक्षणेनादोषादिति केचित् ॥ परेतु 'संयोगनाशत्वावच्छि- बनिरूपितसमवायावच्छिन्नकारणत्वम्' इति निष्कर्षः एतत्तात्पर्यग्राहक गुणपदमित्याहुः। विभागइति । अयमप्यव्याप्यवृत्तिरिति बोध्यम् ॥ ( इति विभागः) परत्वापरत्वगुरुत्वद्रवत्वनि०] गुणग्रन्थः । (३७) मू०-परापरव्यवहारासाधारणकारणे परत्वापर- त्वे ॥ पृथिव्यादिचतुष्टयमनोवृत्तिनी॥तेद्विविधे- दिक्कृते कालकृते चादूरस्थेदिक्कृतं परत्वम्। समीपस्थे दिक्कृतमपरत्वम् ॥ ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् ॥ दीपिका-परत्वापरत्वयोर्लक्षणमाह-परापरेति ॥ 'पर- व्यवहारकारणं परत्वम् । अपरव्यवहारकारणमपरत्वम्' इत्यर्थः ॥ तेविभजते-द्विविधे इति ॥ दिकृतयोरुदाहर- णमाह-दूरस्थ इति ॥ कालकृते उदाहरति-ज्येष्ठ इति ॥ ( इति परत्वापरत्वे) मूलम्-आद्यपतनासमवायिकारणं गुरुत्वम् ॥ पृथिवीजलवृत्ति॥ दीपिका-गुरुत्वं लक्षयति-आद्येति ॥ द्वितीयादि- पतनस्य वेगासमवायिकारणत्वाद्वेगेतिव्याप्तिवारणाय आद्योति ॥ नीलकण्ठी-आद्येतीति । आद्यत्वमिह स्वसमानाधिकरण- पतनपतियोगिकध्वंसासमानकालिकत्वम् ॥ दितीयपतनादीनां माथ- मिकपतनध्वंससमानकालिकत्वात् निरास इतिभावः ।। (इति गुरुत्वम् ) मूलम् स्यन्दनासमवायिकारणं द्रवत्वम् ॥ पृथिवीजलतेजोवृत्ति ॥ तधिविधम् सांसिद्धिकं नैमित्तिकंचेति ॥ सांसिद्धिकं जले । नैमित्तिकं पृथिवीतेजसोः॥ पृथिव्यां घृतादौ अग्निसंयो- गजं द्रवत्वम् ॥ तेजसि सुवर्णादौ ॥
(३८) तर्कसंग्रहे- [ स्नेहशब्दनिरूपणम् दीपिका-द्रवत्वं लक्षयति-स्यन्दनेति ॥ स्यन्दनं प्रत्र- वणम् ॥ तेजःसंयोगजं नैमित्तिकम् ॥ तद्भिन्नं सांसिद्धि- कम् ॥ पृथिव्यां नैमित्तिकमुदाहरति-घृतादाविति ।। तेजसि तदाह-सुवर्णादाविति ॥ नीलकण्ठी-तदाहेति नैमित्तिकमाहेत्यर्थः ।। ( इति द्रवत्वम् ) मूलम्-चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः ॥ जलमात्रवृत्तिः॥ दीपिका-स्नेहं लक्षयति-चूर्णेति ॥ कालादावतिव्या- तिवारणाय गुण इति ॥ रूपादावतिव्याप्तिवारणाय पिण्डीभावेति ॥ नीलकण्ठी-पिण्डीभावेतीति । पिण्डीभावः संयोगविशेषः ।। ( इति स्नेहः) मू०-श्रोत्रग्राह्यो गुणः शब्दः।आकाशमात्रवृत्तिः।। स द्विविधः-ध्वन्यात्मको वर्णात्मकश्चेति ॥ध्वन्या- त्मको भेर्यादौ वर्णात्मकः संस्कृतभाषादिरूपः॥ दीपिका-शब्दं लक्षयति-श्रोत्रेति ॥ शब्दत्वेतिव्या- प्तिवारणाय गुण इति ॥ रूपादावतिव्याप्तिवारणाय श्रोत्रतिशब्दस्त्रिविधः-संयोगजो, विभागज, शब्दज- श्चेति ॥ तत्र आद्यो भेरीदण्डसंयोगजन्यः॥ द्वितीयो वंशे पाटयमाने दलद्वयविभागजन्यश्चटचटाशब्दः ॥ भेर्या- दिदेशमारभ्य श्रोत्रपर्यन्तद्वितीयादिशब्दाशब्दजाः ।। नीलकण्ठी-भेरीदण्डसंयोगजन्य इति ॥ आद्येऽसमंवा- यिकारणं भेर्याकाशसंयोगः, निमित्तकारणं तु भेरीदण्डसंयोगः ॥ १ भेर्याकाश। , ज्ञानस्मृतिनिरूपणम् ] गुणग्रन्थः। (३९) द्वितीये वंशदलाकाशविभागोसमवायिकारणम्, दलद्वयविभागो विमि- त्तकारणम् ॥ तृतीये तु पूर्वपूर्वशब्दोऽसमवायिकारणम्, पवनादि निमित्तकारणमिति विवेकः॥ ( इति शब्दः) मूलम्-सर्वव्यवहारहेतुर्गुणो बुद्धिानम् ॥ सा द्विविधा-स्मृतिरनुभवश्च॥ दीपिका-बुद्धेर्लक्षणमाह-सवेति ॥ कालादावतिव्या- प्तिवारणाय गुण इति ॥ रूपादावतिव्याप्तिवारणाय सर्वव्यवहार इति ॥ जानामीत्यतुव्यवसायगम्यज्ञानत्वं लक्षणमित्यर्थः ॥ बुद्धिं विभजते-सेति ॥ नीलकण्ठी-जानामीत्यादि ॥ ज्ञानत्वमात्रं लक्षणम् जानामीत्यनुव्यवसायगम्यत्वं तु ज्ञानत्वस्य प्रमाणासिद्धत्वसूचनाय ।। तथाहि ' घटं जानामि' इत्याद्यनुगतानुव्यवसायस्यानुगतधर्ममन्त- रानुपपन्नत्वेन तस्य स्वीकर्त्तव्यतया लाघवात् जातित्वसिद्धिः ॥ इत्थं च मूले — सर्वव्यवहारहेतुः' इति बुद्धः स्वरूपकथनमिति भावः ।। मू०-संस्कारमात्रजन्यं ज्ञानं स्मृतिः॥ तद्भिनं ज्ञानमनुभवः ॥ स द्विविधः-यथार्थोऽयथार्थ- श्चेति ॥ तद्वति तत्प्रकारकोऽनुभवो यथार्थः॥ यथा अयं घटः' इति ज्ञानम् ॥ सैव प्रमेत्युच्यते॥ दीपिका-स्मृतेर्लक्षणमाह-संस्कारोति । भावनाख्यः संस्कारः॥ संस्कारध्वंसेतिव्याप्तिवारणाय ज्ञानमिति॥ घटादिप्रत्यक्षेऽतिव्याप्तिवारणाय संस्कारजन्यमिति ॥ प्रत्यभिज्ञायामतिव्याप्तिवारणाय मात्रेति ॥ntihinmethun अनुभवं लक्षयति-तद्भिन्नमिति ॥ स्मृतिभिन्नं ज्ञान- " (४०) तर्कसंग्रहे [यथार्थानुभवनिरूपणम् मनुभवः' इत्यर्थः । अनुभवं विभजते-स द्विविध इति॥ यथार्थानुभवं लक्षयति-तद्वतीति ॥ ननु घटे घटत्वम् । इतिप्रमायामव्याप्तिः, घटत्वे घटाभावादिति चेत् ॥ न ॥' यत्र यत्संबन्धोस्ति तत्र तत् संबन्धानुभवः । इत्यर्थात् घटत्वेपि घटसंबन्धोस्ति इति नाव्याप्तिः॥ सैवेति ॥ यथार्थानुभव एव शास्त्रे 'प्रमा' इत्युच्यते इत्यर्थः॥ नीलकण्ठी-संस्कारस्य त्रिविधत्वादाह-भावनाख्य इति ॥ प्रत्यभिज्ञायामतिव्याप्तिरिति ॥ सोयं देवदत्तः । इत्याद्या- कारकमत्यभिज्ञायां तत्तद्देशकालवृत्तित्वरूपवत्तासंस्कारजन्यत्वस्य सत्त्वेन तत्रातिव्याप्तिरिति भावः ।। मात्रेतीति ॥ यद्यपि संस्कार- मात्रजन्यत्वं संस्कारेतराजन्यत्वे सति संस्कारजन्यत्वम् । तच्च स्मृता- वसंभवि, तत्र संस्कारसंस्कारेतरात्मादिजन्यत्वसत्त्वात् । तथापि चक्षु- राधजन्यत्वे सति संस्कारजन्यत्वे तात्पर्यमवसेयम् ।। मूले-तद्वति तत्प्रकारकानुभव इति ॥ सप्तम्यर्थो विशेष्य- त्वम् आश्रयतासंबन्धेनानुभवान्वयी ।। तथाच तदद्विशेष्यकतत्पकार- कानुभवत्वं यथाथानुभवस्य लक्षणम्।।तत्पदार्थः प्रकारः तद्वत्त्वं प्रकार- तावछेदकसंबन्धेन ग्राह्यम् ॥ तेन कालिकसंबन्धेन शुक्त्यादौ रजत- वसत्त्वेपि'इदं रजतम् । इति भ्रमे नातिव्याप्तिः।।नच तथापि रङ्गत्वेन रजतावगाहिनि, रजतत्वेन च रङ्गावगाहिनि 'इमे रङ्गरजते । इत्या- कारकसमूहालम्बनभ्रमेऽतिव्याप्तिः। तत्र रङ्गविशेष्यकत्वरङ्गत्वप्रका- रकत्वयोः, रजतविशेष्यकखरजतत्वप्रकारकत्वयोश्च सत्वादिति वा- च्यम्॥ तद्वद्विशेष्यकत्वावछिन्नतत्प्रकारकत्वविशिष्टानुभवत्वरूपार्थविव- क्षणेनादोषा॥तथाहि 'ययोविषयतयोनिरूप्यनिरूपकभावः । तनिरू- पितविषयितयोरेवावच्छेद्यावच्छेदकभावाइति सिद्धान्तः॥दर्शितभ्रमे रङ्गत्वमकारतायां रंगविशेष्यतानिरूपितत्वस्य, रजतत्वमकारतायां + - यथार्थानुभवनिरूपणम् ] गुणग्रन्थः । (४१) - च रजतविशेष्यतानिरूपितत्वस्य, असत्त्वेन रंगविशेष्यकत्वावच्छिन्नर- ङ्गत्वप्रकारकत्वरजतविशेष्यकत्वावच्छिन्नरजतत्वप्रकारकत्वयोरभावाद नातिव्याप्तिः ॥ स्मृतिव्यावृत्तयेऽनुभवत्वनिवेशः ॥ एतत्फलमनु- पदं स्फुटभिविष्यति ॥ ननु तद्वतीत्यस्य — तदधिकरणे इत्यर्थ- कतया 'घटे घटत्वम् । इति प्रमायामव्याप्तिः। आधेयताया वृत्यनिया- मकतया तेन सम्बन्धेन घटरूपप्रकाराधिकरणाप्रसिद्धरित्याशयेनाह- ननु घटे घटत्वमिति ॥ तद्वतीत्यस्य तत्सम्बन्धिनीत्यर्थः ॥ एवं च घटत्वस्यापि घटसम्बन्धितया तादृशममायाम् आधेयतया घट- संबन्धिघटत्वविशेष्यत्वावच्छिन्नघटप्रकारकत्वसद्भावात् नाव्याप्तिरिति समाधत्ते-यति ॥ यथार्थानुभव एव । इत्येवकारेण यथार्थ- स्मृतिव्यवच्छेदः ॥ यथार्थज्ञानमात्रस्य प्रमात्वे स्मृतिकरणस्य प्रमाणा- न्तरतापत्तरिति भावः॥ मूलम्-तदभाववति तत्प्रकारकश्चायथार्थः॥ दीपिका-अयथार्थानुभवं निरूपयति-तदभाववतीति। नन्विदं 'संयोगि' इति प्रमायाम् अतिव्याप्तिः इति चेत् ॥ न ॥ यदवच्छेदेन यत्संबन्धाभावः, तदवच्छेदेन तत्संबन्धज्ञानस्य विवक्षितत्वात्॥ संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वात् संयोगावच्छेदेन संयोगसंब- न्धस्य सत्वात् नातिव्याप्तिः॥ नीलकण्ठी-अतिव्याप्तिरिति ॥ संयोगाभाववति संयोग- प्रकारकत्वसत्वादिति भावः ॥ यदवच्छेदेनेति ॥ यदवच्छेदेन यत् संबन्धावछिन्नप्रतियोगिताकयदभावः ॥ तदवच्छेदेनेति ॥ तेन संबन्धेन तत्मकारकानुभवस्य विवक्षितत्वादित्यर्थः ॥ संयोगाभा- वावच्छेदेनेति ॥ संयोगाभावावच्छेदकावच्छेदेनेत्यर्थः । संयोगा- वच्छे देनेति ॥ संयोगावच्छेदकावच्छेदेन।।संयोगसंबन्धस्येति॥
(४२) तर्कसंग्रहे- [करणनिरूपणम् समवायसंबन्धेन संयोगस्येत्यर्थः । अत्रेदमवधेयम् ॥ इदमव्याप्यवृत्ति- संयोगादिप्रकारकभ्रमानुरोधेन ॥ व्याप्यवृत्तिरजतत्वादिप्रकारकभ्रम- लक्षणं तु तत्संबन्धावच्छिन्नप्रतियोगिताकतभाववान्यस्तदद्विशेष्यक- त्वावच्छिन्नतत्संबन्धावछिन्नतत्प्रकारकत्वविशिष्टानुभवत्वम् । प्रतियो- गितायां प्रकारतावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशात् पर्वतो वह्निमान्' इति प्रमायां समवायावच्छिन्नवन्ह्यभाववत्पर्वतविशेष्यकत्वसत्वेपि नाति- व्याप्तिः ॥ विशेष्यत्वप्रकारत्वयोरवच्छेद्यावच्छेदकभावविवक्षणेन 'इमे रङ्गरजते । इत्याकारकममायां रङ्गत्वाद्यभाववद्रजतादिविशेष्यकत्व- रङ्गत्वादिप्रकारकत्वयोः सत्वेपि नातिव्याप्तिः॥ इत्यलमतिविस्तरेण ॥ मूलम्-यथार्थानुभवश्चतुर्विधः-प्रत्यक्षानुमि- त्युपमितिशाब्दभेदात् । तत्करणमपि चतु- विधम्-प्रत्यक्षानुमानोपमानशब्दभेदात् ॥ दीपिका-यथार्थानुभवं विभजते-यथार्थेति ॥ प्रसंगात् प्रमाकरणं विभजते-तत्करणमिति॥प्रमाकरणमित्यर्थः॥ प्रमायाः करणं प्रमाणमिति प्रमाणसामान्यलक्षणम् ॥ नीलकण्ठी-प्रसङ्गादिति । स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः, दित्यर्थः ।। सामान्यतोऽवगतस्यैव विशेषरूपेण प्रतिपादनं संभवतीति ‘सामान्यलक्षणं स्फुटयति-प्रमायाः करणं प्रमाणमिति ।। मूलम्-असाधारणं कारणं करणम् ॥ दीपिका-करणलक्षणमाह-असाधारणेति॥ साधारण- कारणेदिक्कालादादीतव्याप्तिवारणाय असाधारणति ।। नीलकण्ठी-असाधारणेतीति॥दिक्कालादृष्टादेः कार्यत्वाव- च्छिन्नं प्रत्येवं कारणत्वात् ।। अनुभवत्वव्याप्यधर्मावच्छिन्नप्रमावृत्ति- कार्यतानिरूपितकारणत्वरूपासाधारणकारणत्वस्य तत्र सत्त्वात् नाति- व्याप्तिः ॥ प्राचीनास्तु 'व्यापारवत्त्वे सति' इत्यपि वक्तव्यम् । तस्मा- - कारणनिरूपणम् ] गुणग्रन्थः। (४३) अतश्चक्षुःसंयोगादौ नाव्याप्तिः । श्रोत्रमनःसंयोगः, शब्दो वा व्यापारः ‘सम्भवत्येवेति न श्रोत्रेन्द्रिये कारणलक्षणाव्याप्तिः इति वदन्ति ।। यद्विलम्बात्प्रकृतकार्यानुत्पादः तत्कारणत्वस्यासाधारणत्वात्मकतया कालादिषु तादृशकारणत्वाभावान्नातिव्याप्तिः ॥ व्यापारत्वेनाभिमते- न्द्रियसंयोगमेव कारणम् ॥ एतत् च 'लिङ्गपरामर्शोनुमानम् । इति मूल एव स्फुटीभविष्यति । अत एव मणिकारैरप्युक्तं तच्च लिंग- परामर्शः' इति ग्रन्थेनेति तु नव्याः ॥ अधिकमस्मदीयमाणि- प्रभायामनुसंधेयम् ॥ मूलम्-कार्यनियतपूर्ववृत्ति कारणम् ॥ दीपिका-कारणलक्षणमाह-कार्येति ॥ पूर्ववृत्ति कारणम् ' इत्युक्ते रासभादौ अतिव्याप्तिवारणाय निय- तति ॥ तावन्मात्रे कृते कार्येऽतिव्याप्तिरतः पूर्ववृत्तीति। ननु तन्तुरूपमपि पटं प्रति कारणं स्यादिति चेत् ॥ न ॥ 'अनन्यथा सिद्धत्वे सति' इति विशेषणात्॥ अन- न्यथासिद्धत्वम् अन्यथासिद्धिविरहः ॥ अन्यथासिद्धिः त्रिविधा-येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तत्तेनान्यथासिद्धम् ॥ यथा तन्तुना तन्तुरूपं तन्तुत्वं च पटं प्रति ॥ अन्यं प्रति पूर्ववृत्तित्वे ज्ञात एव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति तदन्यथासिद्धम् ।। यथा शब्दं प्रति पूर्ववृत्तित्वे ज्ञाते एव पटं प्रति आका- शस्य ॥ अन्यत्र कृप्तनियतपूर्ववृत्तिन एव कार्यसंभवे तत्सहभूतमन्यथांसिद्धम् थथा पाकजस्थले गन्धं प्रति रूपप्रागभावस्य ।। एवं च अनन्यथासिद्धनियतपूर्ववृत्ति- त्वं कारणत्वम् ॥ नीलकण्ठी-नियतेति ॥ नियतत्वं हि व्यापकत्वम् । तच्च १ अतिव्याप्तिः स्यादतो नियतति ।
तर्कसंग्रहे- [कारणनिरूपणम् (४४) रासभादेर्नसंभवतीति तत्र घटकारणत्वातिप्रसक्तिरिति भावः । पूर्व- वृत्तीति ॥ स्वव्यापकत्वस्य स्वस्मिन् सत्त्वेपि स्वपूर्वकालवृत्ति- त्वस्यासत्त्वेन नातिमसंग इति भावः। कार्यतावच्छेदकसंबन्धेन कार्याधिकरणे कार्याव्यवहितप्राक्क्षणा- वच्छेदेन विद्यमानात्यन्ताभावप्रतियोगितानवच्छेदकतद्धर्मवत्त्वम् । तेन रूपेण कारणत्वमिति समुदितार्थों बोध्यः॥कारणं स्यादिति । तस्य नियतपूर्ववृत्तित्वादितिभावः निबन्धान्तरेष्वन्यथासिद्धेः पञ्च विधत्वेपि माणिकारमताभिप्रायेण आह-त्रिविधेति ॥ येन सहै- वेत्यादि । येन तन्तुना सहैव यस्य तन्तुरूपस्य यं पटंप्रति पूर्व- वृत्तित्वमवगम्यते तं पटपति तत् तन्तुरूपं तेन तन्तुना अन्यथा- सिमित्यर्थः । अत्र सहितत्वम् एकज्ञानविषयत्वं बोध्यम् ॥ तन्तु- रूपस्य पटपूर्ववृत्तित्वज्ञानेऽनतिप्रसक्ततन्तुरूपत्वेनैव विषयता वाच्या तथा च तन्तुरूपम् अन्यथासिद्धम् ॥ एवं तन्तुत्वस्य पूर्ववृत्तित्वज्ञा- नमपि तन्तुविषयकमेवेति तदप्यन्यथासिमितिभावः येनेत्यस्य 'स्वतन्त्रान्वयव्यातिरेकशालिना' इति यस्येत्यस्य च स्वतन्त्रान्व- यव्यतिरेकशून्यस्य । इति विशेषणं बोध्यम् ॥ तेन न तथाभूतेन तन्तुत्वेन तयोरन्यथासिद्धिः। नवा तन्तुसंयोगस्य तन्तुना सहान्यथा- सिद्धिरिति संक्षेपः ॥ इतरान्वयव्यतिरेकप्रयुक्तान्वयव्यतिरेकशालि यत् तदन्यथासिद्धिसिद्धमिति तु परे । शब्दं प्रतीति । आकाशत्वं हि शब्दसमवायिकारणत्वम् । तथा च शब्दकारणमगृहीत्वाकाशस्या- काशत्वेन घटपूर्ववृत्तित्वं गृहीतुमशक्यम् इत्याकाशोन्यथासिद्ध इत्यर्थः। अन्यत्रकृप्तेति ॥ अपाफजस्थले गन्धं प्रति कृप्तनियतपूर्ववृत्तिना गन्धमागभावेनैव पाकजस्थलेपि तत्संभवे रूपमागभावोन्यथासिद्ध इत्यर्थः ॥ अथैवं नियतपदं व्यर्थम् अनियतरासभादेः तृतीयान्यथासि- द्वत्वेन सत्यन्तेनैव वारणसंभवादिति चेत् ।। न ॥ घटसामान्यं प्रत्य- न्यथासिद्धिसंभवात् ।।अन्यत्र पटभिन्ने पटादौ क्लृप्तपूर्ववर्तिनस्तन्त्वादितो गुणग्रन्थः। कारणभेदनिरूपणम् ] घटोत्पत्त्यसंभवादिति ॥ नवीनाः पुनरेवमाहुः-लघुनियतपूर्ववर्तिन एक कार्यसंभवे तद्भिन्नमन्यथा सिद्धमित्येकविधमन्यथासिद्धम् ॥ लघुत्वं च शरीरकृतमुपस्थितिकृतं संबन्धकृतं च ।। तत्र प्रथमम् अनेकद्रव्यसमवेत- त्वापेक्षया महत्त्वे|द्वितीयम् गन्धं प्रति रूपमागभावापेक्षया गन्धमागभाव। गन्धस्य प्रतियोगिन उपस्थितत्वेन शीघ्रं तदुपस्थितेः तृतीयं दण्डत्वद- ण्डरूपाद्यपेक्षया दण्डादौ । स्वाश्रयदण्डसंयोगादिरूपपरंपरया गुरुत्वा- त् ॥ एवं चैतावतैव निर्वाहेन्यथासिद्धिः त्रिधा पञ्चधा चेति प्रपञ्चा व्युत्पत्तिवैचित्र्याय ॥ न च नियतपदं व्यर्थं रासभादेरन्यथासिद्धत्वेनैव वारणादिति वाच्यम् यतोऽन्यथासिद्धत्वस्यानुगतस्य दुर्वचनतया यत्र यत्र प्रामाणिकानाम् अन्यथासिव्यवहारः तत्तद्भेदकूटं निवेशनीयम् ।। लघुनियतेत्यादिकं तु भेदप्रतियोगि तत्तद्वयक्तिपरिचायकम् ॥ इत्थं च तत्रानियतानन्तरासभादीनाम् एकेन नियतत्वविशेषणेनैव वारणा तत्तद्भेदकूटनिवेशे गौरवम् ।। नियतानांदण्डत्वादीनां त्वनायत्या तत्त- झेदवत्त्वं निवेशनीयमित्यभिसंधिरिति ॥ मूलम्-कार्य प्रागभावप्रतियोगि ॥ दीपिका- कार्यलक्षणमाह-कार्यमिति ॥ मूलम्-कारणं त्रिविधम्-समवाय्यसमवायि- निमित्तभेदात् ॥ यत् समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् ॥ यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः॥कार्येण कारणेन वा सहै- कस्मिन्नर्थे समवेतत्वे संति यत् कारणम् तद- समवायिकारणम् ॥ यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य ॥ तदुभयभिन्नं कारणम् निमित्तकारणम् ॥ यथा तुरीवेमादिकं पटस्य ॥
(४६) तर्कसंग्रहे- [कारणनिरूपणम् दीपिका-कारणं विभजते कारणमिति ॥ समवायि- कारणलक्षणमाह-यत्समवेतमिति ॥ यस्मिन् समवेत- मित्यर्थः॥ असमवायिकारणलक्षणमाह-कार्येणेति ॥ कार्येणे- त्येतदुदाहरति-तन्तुसंयोग इति॥कार्येण पटेन सह एक- स्मिन् तन्तौ समवेतत्वात् तन्तुसंयोगः पटस्यासमवा- यिकारणमित्यर्थः॥ कारणेन सहेत्येतदुदाहरति तन्तु- रूपमिति ॥ कारणेन पटेन सह एकस्मिन् तन्तौ समवे- तत्वात् तन्तुरूपं पटरूपस्यासमवायिकारणमित्यर्थः।। निमित्तकारणं लक्षयति तदुभयेति ॥ समवाय्यसमवा- यिभिन्नकारणं निमित्तकारणम् इत्यर्थः॥ नीलकण्ठी-यस्मिन् समवेतमित्यर्थ इति ॥ यद्धर्माव- च्छिन्नं यद्धर्मावच्छिन्ने समवायेनोत्पद्यते, तद्धर्मावच्छिन्नं प्रति तर्मा- वच्छिन्नं समवायिकारणमिति परमार्थः ॥ कारणेन पटेनेति ॥ स्वकार्यकारणेन पटेनेत्यर्थः ॥ स्वं तन्तुरूपं पटादिकंप्रति तुरीतन्तुसं- योगादीनामसमवायिकारणत्ववारणाय तत्तदसमवायिकारणलक्षणे तत्त- दिन्नत्वं देयम् इति दिक् ॥ मूलम्-तदेतत् विविधकारणमध्ये यदसाधारणं कारणं तदेव करर्णम् ॥ तत्र प्रत्यक्षज्ञानकारणं प्रत्यक्षम् ॥ इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्य- क्षम् । तद्दिविधम्-निर्विकल्पकं सविकल्पक चेति ॥ तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम्।। सप्रकारकं ज्ञानं सविकल्पकम्॥यथा डित्थोयं ब्राह्मणोयं श्यामोयमिति ॥ . 1 .
गुणग्रन्थः। कारणनिरूपणम् ] (४७) दीपिका-कारणलक्षणमुपसंहराति तदेतदिति ॥प्रत्य- क्षलणमाह-तत्रेति॥ प्रमाणचतुष्टयमध्ये इत्यर्थः प्रत्यक्ष ज्ञानस्य लक्षणमाह-इन्द्रियेति॥ इन्द्रियं चक्षुरादिकम्।। अर्थों घटादिः, तयोः संनिकर्षः संयोगादिः, तजन्यं ज्ञानमित्यर्थः ॥ तद्विभजते तद्विविधमिति ॥ निर्विक- ल्पकस्य लक्षणमाह-निष्प्रकारकेति ॥ विशेषणविशे- प्यसंबन्धानवगाहि ज्ञानमित्यर्थः॥ ननु निर्विकल्पके किं प्रमाणमिति चेत् ॥ न॥ गौरिति विशिष्टज्ञानं विशेषणज्ञानजन्यं विशिष्टज्ञानत्वात् दण्डीति ज्ञानवत् इत्यतुमानस्य प्रमाणत्वात् ॥ विशेष- णज्ञानस्यापि सविकल्पकत्वे अनवस्थाप्रसङ्गात् निर्वि- कल्पकसिद्धिः॥ सविकल्पकं लक्षयति-सप्रकारकमिति॥ नामजात्यादिविशेषणविशेप्यसंम्बन्धावगाहि ज्ञानमि- त्यर्थः ॥ सविकल्पकमुदाहरति-यथेति ॥ नीलकण्ठी-ननु तुरीयविषयतानिरूपकस्य निर्विकल्पकज्ञानस्य निरूपकतासंबन्धेन प्रकारताशून्यत्वमिव विशेष्यताशून्यत्वं, संसर्गता- शून्यत्वं च लक्षणम् संभवति ॥ विनिगमनाविरहात् । इत्यतो लक्ष- णत्रयं दर्शयति विशेष्येति ॥ विशेष्यतादिविधया विशेष्याद्यनवगाहि ज्ञानमित्यर्थः ॥ तथा ज्ञानत्वघटितं विशेष्यताशून्यत्वं, विशेषणताशू न्यत्वं, संसर्गताशून्यत्वं चेति लक्षणत्रयं पर्यवसितमिति भावः ॥ केचित्तु ननु निष्पकारकं प्रकारताशून्यत्वम् प्रकारता च भासमानवै- शिष्टयप्रतियोगित्वम् । संसर्गावच्छिन्नविष्यतेति यावत् । तथा च संसर्गानवगाहिज्ञानत्वमेव संसर्गताशून्यज्ञानत्वमेव वा लक्षणमास्ताम् । लापधादित्यतस्तथैव मूलार्थमाह-विशेष्येतीत्याहुः तत् चिन्त्यम् ॥ सिद्धान्ते संसर्गताया इव प्रकारताया अपि विलक्षणविषयतात्मकत्वेन निष्पकारकज्ञानत्वरूपलक्षणे गौरवानवकाशादिति दिक् ॥ निर्विक- (४८) तर्कसंग्रहे- [ सन्निकर्षनिरूपणम् ल्पकस्यातीन्द्रियतया तत्र प्रत्यक्षप्रमाणासंभवादनुमानं प्रमाणयति गौरितीति ॥ विशिष्टज्ञानत्वादिति ॥ विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणत्वात् नामयोजकत्वशङ्केतिभावः ॥ अनवस्था- प्रसङ्गादिति॥सविकल्पकस्य विशिष्टबुद्धित्वेन विशेषणज्ञानजन्यत्व- नियमादितिभावः । विशेष्यविशेषणसम्बन्धावगाहि इति ॥ अत्रापि उक्तरीत्या लक्षणत्रयं बोध्यम् ॥ मूलम्-प्रत्यक्षज्ञानहेतुरिन्द्रियार्थः सन्निकर्षः ष- ड्डिधः-संयोगः,संयुक्तसमवायः,संयुक्तसमवेतसम- वायः,समवायः,समवेतसमवायः, विशेषणविशे- ष्यभावश्चेति । चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः॥१॥घटरूपप्रत्यक्षे संयुक्तसमवायः सन्निकर्षः॥२॥ चक्षुः संयुक्ते घटे रूपस्य सम- वायात् ॥रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेत- समवायः सन्निकर्षः ॥३॥ चक्षुः संयुक्ते घटे रूपं समवेतं, तत्र रूपत्वस्य समवायात् ॥ श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः॥ ॥३॥ कर्णविवरवाऽऽकाशस्य श्रोत्रत्वात् शब्दस्याकाशगुणत्वात् गुणगुणियोश्च समवा- यात् शब्दत्वसाक्षात्कारे समवेतसमवायः सन्नि- कर्षः ॥५॥ श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् ॥ अभावप्रत्यक्षे विशेषणविशेष्य- भावः सन्निकर्षः॥६॥ घटाभाववद्भूतलमित्यत्र सन्निकर्षनिरूपणम् ] गुणग्रन्यः। (४९) चक्षुः संयुक्ते भूतले घटाभावस्य विशेषगत्यात् ॥ एवं सन्निकर्षषटुजन्यं ज्ञानं प्रत्यक्षम् ॥ तत्क- रणमिन्द्रियम्॥ तस्मात् इन्द्रियं प्रत्यक्षप्रमाण- मिति सिद्धम् ॥ प्रत्यक्षं व्याख्यातम् ॥ दीपिका-इन्द्रियार्थसंनिकर्ष विभजते-प्रत्यक्षेति ॥ संयोगसंनिकर्षमुदाहरति चक्षुषेति ॥ द्रव्यप्रत्यक्षे सर्वत्र संयोगः संनिकर्षः इत्यर्थः ॥ आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, ततः प्रत्यक्षज्ञानमुत्पद्यते॥ संयुक्तसमवायमुदाहरति घटरूपेति ॥ तब युक्तिमाह- चक्षुःसंयुक्तेति ॥ संयुक्तसमवेतसमवायमुदाहरति रूप- त्वति ॥ समवायमुदाहरति श्रोत्रेति ॥ तदुपपादयति कर्णेति ॥ ननु दूरस्थशब्दस्य कथं श्रोत्रेण सम्बन्धः इति चेत् ॥ न ॥ वीचीतरङ्गन्यायेन कदम्बमुकुलन्यायेन वा शब्दाच्छब्दान्तरोत्पत्तिक्रमेण श्रोत्रदेशे जातस्य श्रोत्र- संबन्धात् प्रत्यक्षत्वसंभवात् ॥ समवेतसमवायमुदाहरति शब्दत्वति ॥ विशेषणविशेष्यभावमुदाहराति अभावेति॥ तदुपपादयति घटाभाववदिति ॥ भूतलं विशेष्यम् ॥ घटाभावो विशेषणम्॥ भूतले घटो नास्ति'इत्यत्र अभा- वस्य विशेष्यत्वं द्रष्टव्यम् ॥ एतेन अनुपलब्धेः प्रमाणा- न्तरत्वं निरस्तम् ॥ ' यद्यत्र घटोऽभविष्यत् तदा भूतल- मिवाद्रक्ष्यत् दर्शनाभावान्नास्ति' इति तर्कितप्रतियो- गिसत्त्वविरोध्यनुपलब्धेः सहकृतेनेन्द्रियेणैव अभावज्ञा- नोपपत्तौ अनुपलब्धेः प्रमाणान्तरत्वासंभवात् ॥ अधि- करणत्वज्ञानार्थमपेक्षणीयन्द्रियस्यैव करणत्वोपपत्तावनु- (५०) तर्कसंग्रहे- [ सन्निकर्षनिरूपणम् पलब्धेः करणत्वायुक्तत्वात् विशेषणविशेष्यभावो विशेषणविशेष्यस्वरूपमेव नातिरिक्तसंबन्धः॥ प्रत्यक्ष- ज्ञानमुपसंहरन् तस्य करणमाह-एवमिति ॥ असाधार- णकारणत्वादिन्द्रियं प्रत्यक्षज्ञानकरणमित्यर्थः ॥ प्रत्यक्ष- मुपसंहरातितस्मादिति ॥ इति तर्कदीपिकायां प्रत्यक्षपरिच्छेदःसमाप्तः ॥ नीलकण्ठी-मन इन्द्रियेणेति संयुज्यते इत्यनेनान्वयः ॥ एवमग्रेपि ॥ आत्मप्रत्यक्षसंग्रहस्तु ‘आत्मा मनसा संयुज्यते ततः प्रत्यक्षज्ञानमुत्पद्यते । इति योजनान्तरेण॥कथं श्रोत्रसंबन्ध इति॥ न च श्रोत्रस्य नभोरूपत्वे न तत्समवायो दूरस्थशब्देप्यक्षत इति शक्यम् ॥ अतिप्रसङ्गभङ्गाय कर्णविवरावच्छिन्ननभोऽनुयोगिकत्व- विशिष्टसमवायस्यैव प्रत्यक्षहेतुत्वाङ्गीकारेण तादृशसंबन्धस्य दूरस्थ- शब्देऽभावात् इति भावः ॥ प्रथमतो भेरीदण्डसंयोगेन नभसि शब्द उत्पद्यते, तेन शब्दाः तैश्च शब्दाः इत्येवं क्रमेण निखिलदिगव- च्छेदेन शब्दोत्पत्तेरङ्गीकरणतया तदंशेपि साम्यनिर्वाहायाह-कद- म्बति ॥ द्रष्टव्यमिति ॥ अत्रेदमवधेयम् विशेषणानां संयुक्तवि- शेषणतात्वादिरूपेण बहुविधत्वेपि विशेषणतात्वेनैव परिगणनान् न षडिधत्वहानिः ॥ न चैवं समवायेनैव संयुक्तसमवायादीनामनुपगमः कुतो न कृत इति वाच्यम् ॥ स्वतन्त्रेच्छस्येत्यादिन्यायानुसरणेना- दोषादिति ॥ एतेन अभावप्रमाया विशेष्यविशेषणभावसन्निकर्षजन्य- त्वप्रदर्शनेन ॥ प्रमाणान्तरत्वम् ॥ प्रत्यक्षाद्यतिरिक्तप्रमाणत्वम् ॥ नन्वनुपलब्धेः प्रमाणान्तरत्वानङ्गीकारे घटोपलब्धिदशायां तदभा- वप्रत्यक्षापत्तिः । मम मते तु अनुपलब्ध्यात्मकप्रमाणान्तराभावात् नापत्तिरिति भट्टशङ्कां परिनिहीपुर्योग्यानुपलब्धरिन्द्रियसहकारित्वमां- त्रेणैव निर्वाहे अतिरिक्तप्रमाणत्वमसम्भवीत्याह-यत्रेत्यादिना ॥ अत्र चक्षुःसंयोगादिमद्भूतले ॥ तर्कस्यापादकाभावसाधकविपर्ययप्रति- सन्निकर्षनिरूपणम् ] गुणग्रन्थः। (५१) योग्यापाद्यकत्वरूपविपर्यये तत्कोटिपर्यवसायित्वं दर्शयति दर्शना- भावान्नास्तीति ॥ तद्दर्शनाभावान्नास्तीत्यर्थः ॥ तकिते- त्यादि ॥ तर्किता आपादिता प्रतियोगिनो वटादेः सत्त्वस्य सत्त्व- सक्तेविरोधिनी या उपलब्धिस्तत्प्रतियोगिको भावोऽनुपलब्धिस्तत्स- हकृतेनेत्यर्थः ॥ विरोधित्वविशेषणम् उपलब्धेरनाहार्यत्वसूचनाय ॥ प्रतियोगिसत्त्वापादनापादितोपलम्भप्रतियोगिकत्वरूपयोग्यताविशिष्टा- नुपलब्धिसहकृतेनेति तु परमार्थः ॥ आलोकसंयोगाद्यसत्त्वदशायां यद्यत्र घटः स्यात् तर्हि उपलभ्यतेत्यापादनासंभवेन योग्यानुपलब्ध्य- भावान्न तत्र घटाभावप्रत्यक्षम् इति संक्षेपः ॥ केचित् तु तर्किते- त्यादि । तर्कितमारोपितं यत् प्रतियोगिसत्त्वम् तद्विरोधिनी यानु- पलब्धिः तत्सहकृतेनेत्यर्थः ॥ एतावता प्रतियोगिसत्वरूपकारणाभा- वप्रयोज्य उपलब्ध्यभावोऽभावप्रत्यक्षे कारणं न तु इतरकारणविरह- प्रयोज्य उपलब्ध्यभाव इति सूचितम् ।। अतएवान्धकारे उपलम्भाभा- वसत्त्वेपि तवटाभावप्रत्यक्षमित्याहुः ॥ नन्वभावप्रमायामिन्द्रियस्य कारणत्वमनुपलब्धेः सहकारित्वं च त्वया कल्पनीयम् ॥ तदपेक्षयानुपलब्धेरेव कारणत्वकल्पनं वरम् ॥ इत्याशङ्कयाभावाधिकरणभूतलप्रत्यक्षे इन्द्रियस्यावश्यमपेक्षणीयतया कृप्तेनैवेन्द्रियकरणत्वेनाभावप्रत्यक्षोपपत्तौ अनुपलब्धेर्विजातीयपपिति- करणकल्पनमप्रयुक्तमित्याह-अधिकरणेति॥ ननु विशेषणविशेष्यभावाख्यः संबन्धोऽतिरिक्तः कल्पनीयः त्वये- त्यत आह विशेष्यविशेषण भाव इति ॥ अत्रेदं बोध्यम् । प्रत्यक्षं द्विविधम्-लौकिकमलौकिकं चेति ॥ लौकिकत्वं च विषय- ताविशेषः ॥ लौकिके पोढा सन्निकर्षः करणम् ॥ अलौकिक तु सामान्यलक्षणा, ज्ञानलक्षणा, योगजधर्मश्चेति त्रिविधा प्रत्यासत्तिः ॥ तत्र सामान्यलक्षणा धूमत्वादिरूपा (५२) तर्कसंग्रहे- [ अनुमाननिरूपणम् तज्ज्ञानरूपा वा सामान्य लक्षणं स्वरूपम् विषयो वा यस्या इति व्युत्प- त्तेः ॥ सा चाश्रयाणां निखिलधूमादीनाम् अलौकिकप्रत्यक्षे उपयुज्यते अतीतानागतधूमादिचक्षुःसंयोगादेरसंभवात् ॥ इन्द्रियाणामसंनिकृष्टानां प्रत्यक्षाजनकत्वात् ॥ ज्ञानलक्षणा तु सुरभिचन्दनमिति चाक्षुषोप- नीतभाने सौरभेण चक्षुषो योग्यसंनिकर्षासंभवात् ॥ एवं योगिनां देशकालविप्रकृष्टपदार्थप्रत्यक्षे योगजधर्मः प्रत्यासत्तिः।। इति तर्क- संग्रहदीपिकाप्रकाशे भगवदर्पिते प्रत्यक्षपरिच्छेदः ॥ १ ॥ अथानुमानम्। मूलम्-अनुमितिकरणमनुमानम् ॥ परामर्श- जन्यं ज्ञानमनुमितिः॥ दीपिका-अनुमानं लक्षयति-अनुमितिकरणमिति ॥ अनुमितेर्लक्षणमाह-परामर्शेति ॥ ननु संशयोत्तरप्रत्य- क्षेऽतिव्याप्तिः ॥ स्थाणुपुरुषसंशयानन्तरं पुरुषत्वव्या- प्यकरादिमान् अयम् ' इति परामर्शसति 'पुरुष एव ' इति प्रत्यक्षजननात् ॥नच तत्रानुमितिरेवेति वाच्यम् ॥ 'पुरुषं साक्षात्करोमि इत्यनुव्यवसायविरोधादिति चेत्॥ न ॥ पक्षतासहकृतपरामर्शजन्यत्वस्य विवक्षितत्वात् ॥ सिषाधयिषाविरहसहकृतसिद्धयभावः पक्षता साध्यसिद्धिरनुमितिप्रतिबन्धिका सिद्धिसत्त्वेपि ' अनु- मिनुयाम् ' इतीच्छायाम् अनुमितिदर्शनात् सिषाधयि- षोत्तेजिका। ततश्चोत्तेजकाभावविशिष्टमन्यभावस्य दाह- कारणत्ववत् सिषाधयिषाविरहसहकृतसिद्धयभावस्या- पिअनुमितिकारणत्वम् ॥ नीलकण्ठी-अनुमानं लक्षयतीति ॥ 'प्रत्यक्षोपजीवकत्व- १ 'अनुमिनोमि' इतीच्छायाम् । 'अनुमितिर्जायताम् ' ॥ ।
अनुमाननिरूपणम् ] गुणग्रन्थः। संगत्या अनुमानं निरूपयति । इत्यर्थः ।। परामर्शेतीति ॥ तथा च प्रत्यक्षममित्यपेक्षयाऽनुमितेर्विलक्षणप्रमितित्वेन अनुमानस्य प्रमाणा- न्तरत्व सिध्यतीति भावः ॥ विपरीतज्ञानोत्तरमत्यक्ष प्रति विशेषद- र्शनस्य हेतुत्वमङ्गीकुर्वताम् मतमवलम्ब्य शङ्कते नन्विति ॥ स्थाणु- पुरुषसंशयति ॥ इदं विरुद्धभावद्वयकोटिसंशयाङ्गीकारेण ॥ परे तु स्थाणुपुरुषेति ॥ स्थाणुत्वतदभावपुरुषत्वतदभावकोटिकेत्यर्थः इत्या- हुः । पुरुष एवेति निर्णयसूचनाय ॥ तत्र संशयोत्तरमत्यक्षस्थले ॥ अनुव्यवसायविरोधादिति ॥ इदमुपलक्षणम् पुरुषमनुमिनोमि इत्यनुव्यवसायाभावेन प्रमाणाभावादित्यपि द्रष्टव्यम् ॥ संशयोत्तर- प्रत्यक्षेजननीये वक्ष्यमाणपक्षतायाः परामर्शसहकारित्वे प्रयोजनाभावेन पक्षतासहकृतपरामर्शजन्यत्वविवक्षणानातिव्याप्तिरित्याह-पक्षतेति ॥ एतेन ' वह्निव्याप्यधूमवत्पर्वतवानयम् । इति विशिष्टवैशिष्टयावगाहि- बुद्धिं प्रति विशेषणतावच्छेदकमकारकनिर्णयविधया ' वह्निव्याप्यधू- मवानयं पर्वतः। इति परामर्शस्य कारणत्वेपि न तत्रातिव्याप्तिः ॥ पक्षतासहकृतपरामर्शजन्यत्वस्यासत्वेनातिव्याप्तेरभावादिति संक्षेपः ॥ यद्यपि साध्यसंशयस्य पक्षतात्वेपि साध्यनिश्चयकाले अनुमितिवा- रणं संभवति तथापि धनगर्जनेन मेघानुमितौ व्यभिचारः । अतोन्या- दृशीं पक्षतामाह-सिषाधयिषेति ॥ सिषाधयिषायाः साध्यानुमिती- च्छायाः समवायन योऽभावः स्वरूपसमवायैतदुभयघटितसामानाधि- करण्यसंबन्धेन तद्विशिष्टायाः सिद्धेः समवायेन, अभाव इत्यर्थः ॥ साध्यसिद्धिः पक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकविशिष्ट- साध्यवैशिष्टयावगाहिनिश्चय इत्यर्थः ।। सिद्धौ सिषाधयिषाविरहवै- शिष्टयनिवेशनस्य प्रयोजनं दर्शयति सिद्धसत्वेपीति ॥ अत्र सिद्धिश्च पर्वतो वह्निमान् वह्निव्याप्यधूमवांश्च । इति समूहालम्बनरूपा ॥ अतः परामर्शसंपत्तिरिति ध्येयम् ॥
- . तर्कसग्रंहे- [परामर्शव्याप्तिनिरूपणम् मूलम्-व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः। यथा 'वहिव्याप्यधूमवानयं पर्वतः' इति ज्ञानं परामर्शः ॥ तज्जन्यं 'पर्वतो वह्निमान्' इति ज्ञानमनुमितिः॥ दीपिका-परामर्श लक्षयति-व्याप्तीति ॥ व्याप्तिवि- षयकं यत् पक्षधर्मताज्ञानं स परामर्श इत्यर्थः ॥ पराम- समभिनीय दर्शयति-यथेति ॥ अनुमितिमभिनीय दर्श- यति-तजन्यमिति ॥ परामर्शजन्यमित्यर्थः।। नीलकण्ठी-व्याप्तिविशिष्टपक्षधर्मताज्ञानम् ' इत्यत्र व्याप्तिवि- शिष्टे पक्षधर्मताव्याप्तिविशिष्टपक्षधर्मता तज्ज्ञानमिति सप्तमीतत्पुरुषा- ङ्गीकारे व्यभिचारिलिङ्गकानुमितौ व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्य- त्वाभावेनाव्याप्तिरतो व्याप्तिविशिष्टपदस्य व्याप्तिविषयकेत्यर्थमवलम्ब्य ज्ञानान्तपदेन कर्मधारयमङ्गीकरोति-व्याप्तिविषयकमिति ॥ व्याप्त्यवच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यताशाली निश्चयः परामर्श इति तु निर्गलितोर्थः ॥ अभिनीय अभिलापक- शब्दमुच्चार्य ॥ मूलम्-यत्र धूमस्तत्राग्निरिति साहचर्यनियमो 'व्याप्तिः॥ दीपिका-व्याप्तेर्लक्षणमाह-यति॥ यत्रधूम तत्राग्नि इतिव्याप्तेरभिनयः॥ साहचर्यनियमः' इति लक्षणम् ॥ साहचर्य सामानाधिकरण्यं,तस्य नियमः, हेतुसमाना- धिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम् व्याप्तिरित्यर्थः ॥ १' अभिनीय' इति नास्ति । २ व्याप्तिं लक्षयति । J पक्षधर्मतानिरूपणम् ] गुणग्रन्थः। (५५) नीलकण्ठी-नियतसामानाधिकरण्यं साध्याभाववदवृत्तित्वादि- रूपं न सम्भवति 'इदं वाच्यम् ज्ञेयत्वात्' इत्यादौ अव्याप्तेः।साध्याभा- वाद्यप्रसिद्धरित्यालोच्याह-हेतुसमानाधिकरणेति ॥ ‘वह्निमान् धूमात् । इत्यादौ धूमसमानाधिकरणो योऽत्यन्ताभावो घटात्यन्ता- भावः तद्प्रतियोगि वह्निः तत्सामानाधिकरण्यं धूमेऽस्तीति लक्षणसम- न्वयः ॥ धूमवान् वर्तरित्यादौ तु धूमसामान्याभावस्यापि हेतुसमा- नाधिकरणतया तत्पतियोग्येव धूम इति नातिव्याप्तिः ॥ न च वह्निमान् धूमादित्यादौ तत्तद्वयभावस्य चालिनीन्यायेन धूमसामानाधिकरण- तया तादृशाभावाप्रतियोगित्वं न कस्यापि वनेरित्यव्याप्तिरिति वाच्यम् ॥ अप्रतियोगिसाध्येत्यस्य प्रतियोगितानवच्छेदकसाध्यताव- च्छेदकावच्छिन्नेत्यर्थतात्पर्यकतयाऽदोषात् । प्रतियोगितायाम् साध्य- तावच्छेदकसंबन्धावच्छिन्नत्वम् निवेशनीयम् तेन वह्निमान् धूमादि- त्यादौ समवायेन वह्नित्वावच्छिन्नप्रतियोगिताकाभावस्य धूमसमाना- धिकरणत्वेऽपि न क्षतिः ॥ हेतुपदं हेतुतावच्छेदकावच्छिन्नपरम् । अतो' द्रव्यं विशिष्टसत्वात् । इत्यादौ विशिष्टस्य शुद्धानतिरेकितया हेत्वधिकरणगुणादिनिष्ठत्वेपि द्रव्यत्वाभावस्य नाव्याप्तिः । हेत्वधिकर- णता हेतुतावच्छेदकसंबन्धावच्छिन्ना ग्राह्या । तेन ' वह्निमान् धूमाव' इत्यादौ वह्निसामान्याभावस्य धूमसमवायिनिष्ठत्वेपि नाव्याप्तिः ॥ न चैवमपि कपिसंयोगि एतद्धृक्षत्वादित्यादौ अव्याप्तिः ॥ साध्यस्य हेतु- समानाधिकरणाभावप्रतियोगितावच्छेदकावच्छिन्नत्वादिति वाच्यम् ॥ हेतुसमानाधिकरणाभावे प्रतियोगि वैयधिकरण्यस्य निवेशनीयत्वात् ॥ केवलान्वयिसाध्यके तादृशस्य घटाभावादेः प्रसिद्धत्वान्नाव्याप्तिरिति॥ अधिकमस्मदीयमणिदीधितिव्याख्यायां बुद्धिकुशलैरनुसंधेयम् ॥ मूलम्-व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता॥ दीपिका-पक्षधर्मतास्वरूपमाह-व्याप्येति ॥ .
तर्कसंग्रहे [ स्वार्थानुमाननिरूपणम् मूलम्-अनुमानं द्विविधम्-स्वार्थ परार्थ च ॥ तत्र स्वार्थ स्वानुमितिहेतुः ॥ तथा हि-स्वय- मेव भूयोदर्शनेन यत्र धूमस्तत्राग्निरिति महान- सादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः तद्गते चालो संदिहानः पर्वते धूमं पश्यन् व्याप्ति स्मरति यत्र धूमस्तत्राग्निरिति, तदनन्तरं वह्नि- व्याप्पधूमवानयं पर्वत इति ज्ञानम् उत्पद्यते अयमेव लिङ्गपरामर्श उच्यते॥तस्मात् पर्वतो वह्निमान् इति ज्ञानम् अनुमितिः उत्पद्यते ॥ तदेतत्स्वार्थानुमानम् ॥ दीपिका-अनुमानं विभजते-अनुमानमिति तवे- विध्यं दर्शयति-स्वार्थमित्यादिना ॥ तत्रेति उभयोर्मध्ये इत्यर्थः ॥ स्वार्थानुमानं दर्शयति-स्वयमेवेति-भूयोद- र्शनेनेति ॥ ननु पार्थिवत्वलोहलेख्यत्वादौ शतशः सह- चारदर्शनेपि मण्यादौ व्यभिचारोपलब्धे योदर्शनेन कथं व्याप्तिग्रह इति चेत् ॥न । व्यभिचारज्ञानविरहसह- कृतसहचारज्ञानस्य व्याप्तिग्राहकत्वात् ॥ नीलकण्ठी-स्वानुमानमिति ॥ स्वस्यार्थः प्रयोजनं साध्य- संशयनिवृत्तिरूपं यस्या इति व्युत्पत्त्या स्वीयसंशयनिवृत्तिप्रयोजनि- कानुमितिरित्यर्थः ॥ पश्यन् इति ॥ एकसंबन्धि ज्ञानमपरसंब- न्धि स्मारकम् । इति रीत्या दर्शनस्य स्मृतिहेतुत्वादिति भावः ॥ १ स्वार्थानुमानं विविच्य दर्शयति-' तथाहि । इति ॥ स्वार्थानुमिति दर्शयति ॥ - स्वार्थानुमाननिरूपणम् ] गुणग्रन्थः । (५७) कथं व्याप्तिग्रह इंतीति ॥ व्यभिचारज्ञानदशायां न कश्चिदपि व्याप्तिनिश्चयमभ्युपैतीति भूयोदर्शनस्य व्याप्तिनिश्चयहेतुत्वं न संभव- तीति भावः इदमुपलक्षणं भूयोदर्शनमित्यस्य भूयसां दर्शनानां समाहार इति, भूयसां साध्यहेतूनां दर्शन मिति, भूयःस्वधिकरणेषु दर्शनमिति वार्थः ।। नायः॥ एकत्रैव सहचारदर्शनधारया व्याप्तिनिश्चयप्रसङ्गात् ॥ न द्वितीयतृतीयौ ।। 'एतद्रूपवान् एतद्रसात्' इत्यादिसाध्यहेत्वोरधिक- रणे च भूयस्त्वाभावेन व्याप्तिनिश्चयस्यानुत्पादप्रसङ्गादित्यपि बोध्यम् ।। मणिकारसिद्धान्तमवलम्ब्याह-व्यभिचारज्ञानविरहेति ॥ व्या- प्तिग्राहकत्वादिति । व्याप्तिश्च हेतुसमानाधिकरणात्यन्ताभावप्रति- योगितानवच्छेदकसाध्यतावच्छेदकादच्छिन्नसाध्यसमानाधिकरणवृत्ति- हेतुतावच्छेदकरूपैव सामानाधिकरण्यं तस्य रासभादिसाधारण्यात् ।। धूमत्वादेः स्वरूपतो व्याप्यतावच्छेदकत्वं तादृशधूमत्वत्वादिरूपण व्याप्तित्वमित्यवच्छेद्यावच्छेदकयोरैक्येपि न क्षतिः ॥ इत्थं च साध्यतावच्छेदके तथाविधप्रतियोगितानवच्छेदकत्वांशग्रहे साध्यताव- च्छेदके तथाविधप्रतियोगितावच्छेदकत्वरूपव्यभिचारग्रहाभावोविपरी- तग्रहाभावविधया हेतुः ॥ साध्यसमानाधिकरणवृत्तिहेतुतावच्छेदकां- शग्रहेतु विशेषणज्ञानविधया सामानाधिकरण्यज्ञानं हेतुरिति रीत्या व्यभिचारज्ञानाभावसामानाधिकरण्यज्ञानयोर्व्याप्तिग्रहहेतुबोति ध्येयम् ।। वस्तुतस्तुहेतुव्यापकसाध्यसामानाधिकरण्यमेव व्याप्तिः ॥ न च व्याप्ते रासभसाधारण्येन प्रमात्मकरासभलिङ्गकपरापद्धिमात्मक- वह्नयनुमित्यापत्तिः ॥ प्रमात्मकपरामर्शस्य भ्रमानुमित्यजनकत्वनिय- मसत्त्वेन इष्टापत्तेरयोगादितिवाच्यम् ॥ यद्धर्मावच्छिन्नव्यापकत्वं व्या- प्तिघटकम् तमधर्मितावच्छेदकव्याप्तिप्रकारकनिश्चयस्यैवानुमितिहेतु- त्वोपगमेन अदोषात् ॥ अत एव व्याप्तिशरीरे धूमत्वत्वाप्रवेशेन लाघ- वमिति दिक् ॥
(५८) तर्कसंग्रहे- [ स्वार्थानुमाननिरूपणम् दीपिका-व्यभिचारज्ञानं द्विविधम्-निश्चयः, शङ्का च ॥ तद्विरहः क्वचित्तर्कात् । क्वचित् स्वतासिद्ध एव ॥ धूमान्योर्व्याप्तिग्रहे कार्यकारणभावभङ्गप्रसङ्गलक्षण- स्तों व्यभिचारशङ्कानिवर्तकः॥ नतु सकलवधूिमयो- रसंनिकर्षात्कथं व्याप्तिग्रह इतिचेत् ॥ न ॥ वह्नित्वधू- मत्वरूपसामान्यप्रत्यासत्त्या सकलवधूिमज्ञानसंभ- वात् ॥ तस्मादिति ॥ लिङ्गपरामर्शादित्यर्थः ॥ नीलकण्ठी-शङ्का चेति ॥ व्यभिचारसंशयस्यापि व्याप्तिग्र- हमतिबन्धकत्वानुभवात् तत्साधारणव्यभिचारज्ञानत्वावच्छिन्नाभावो हेतुरिति हृदयम् ॥ तद्विरहो व्यभिचारशङ्काविरहः॥क्वचिदिति॥ तर्काभावेतरनिखिलकारणसमवधानस्थले इत्यर्थः ॥ क्वचित स्वतः सिद्ध एवेति ॥ इतरकारणविरहस्थले तादृशकारणविरहम- युक्त एवेत्यर्थः ॥ तथाच तत्र तर्कापेक्षा नेतिभावः ॥ धूमाग्न्यो- रिति ॥ धूमाग्न्योर्व्याप्तिग्रहे उत्पत्स्यमाने व्यभिचारशङ्कानिवर्तकः कार्यकारणभावभङ्गमसङ्गलक्षणस्तर्क इत्यन्वयः ॥ स च तर्को 'धूमो यदि वहिव्यभिचारी स्यात्, तर्हि वह्निजन्यो न स्यात् ' इत्याकारको बोध्यः ॥ ननु महानसीयवह्निधूमयोः संनिकृष्टत्वेन सहचारग्रहेप्यन्येषां वह्नि- धूमानाम् असन्निकर्षण सहचारप्रत्यक्षासंभवेन निखिलधूमेषु व्याप्तिम- त्यक्षं न संभवति ॥ तथा च पर्वतीयधूमदर्शनेन व्याप्तिस्मरणासंभवात् परामर्शानुपपत्तिरित्याशयेन शङ्कते-नतु सकलेति ॥ सकलवह्नि- धूमेषु लौकिकसंनिकर्षाभावपि सामान्यप्रत्यासत्त्यात्मकालौकिकसंनि- कर्षसद्भावात् वह्नित्वावच्छिन्नसामानाधिकरण्यत्वेन निखिलवह्निधूमस- हचारप्रत्यक्षसंभवानिखिलधूमेषु व्याप्तिग्रहः संभवति ॥ एवं च पर्वती- यधूमेपि व्याप्तेर्गृहीतत्वेन धूमदर्शनेन स्मरणसंभवान्न परामर्शानुप- पत्तिरिति समाधत्ते वह्नित्वधूमत्वेति ॥
गुणग्रन्थः। परोर्थानुमाननिरूपणम्] (५९) मूलम्-यत्तु स्वयं धूमादग्निमनुमाय परप्रतिप- त्यर्थ पञ्चावयववाक्यं प्रयुज्यते,तत्परार्थानुमा- नम् । यथा पर्वतो वह्निमान् ॥ १॥ धूमवत्त्वा- त् २। योयो धूमवान् स-सोग्निमान् यथा महान- सम् ३। तथा चायम् ४ । तस्मात्तथा ५। इति अनेन प्रतिपादितात् लिङ्गात् परोप्यग्निं प्रति- पद्यते ॥ प्रतिज्ञाहेतृदाहरणोपनयनिगमनानि - पञ्चावयवाः॥पर्वतोनिमानिति प्रतिज्ञा ॥ धूम- वत्त्वादिति हेतुः ॥ योयो धूमवान्स-सोनिमान् यथा महानसम् इत्युदाहरणम् । तथा चायमि- त्युपनयः ॥ तस्मात्तथेति निगमनम् ॥ दीपिका-परार्थानुमानमाह-यत्त्विति ॥ यच्छब्दस्य 'तत्परार्थानुमानम् ' इतितच्छब्देनान्वयः ॥ पञ्चावय- ववाक्यमुदाहरति यथेति ॥ अवयवस्वरूपमाह-प्रति- ज्ञति ॥ उदाहतवाक्येषु प्रतिज्ञादिविभागमाह-पर्वतो वह्निमानिति ॥ साध्यवत्तया पक्षवचनम् प्रतिज्ञा ॥ पञ्चम्यन्तं लिङ्गप्रतिपादकं वचनं हेतुः॥ व्याप्तिप्रतिपादकं वचनम् उदाहरणम् ॥ व्याप्तिविशिष्टलिङ्गप्रतिपादकं वचनम् उपनयः ॥ हेतुसांध्यवत्तया पक्षप्रतिपादकं वच- नम् निगमनम् । पक्षज्ञानं प्रतिज्ञाप्रयोजनम् ॥ लिङ्ग- ज्ञानं हेतुप्रयोजनम् ॥ व्याप्तिज्ञानमुदाहरणप्रयोजनम् । पक्षधर्मताज्ञानमुपनयप्रयोजनम् । अबाधित्वादिकं निगमनप्रयोजनम् ॥
(६०) तर्कसंग्रहे [परार्थानुमाननिरूपणम् pprn umm.ican नीलकण्ठी-यद्यपि परार्थानुमानशब्दस्य परस्य मध्यस्थस्य अर्थः प्रयोजनं साध्यानुमितिरूपं यस्मादिति व्युत्पत्त्या परसमवेतानुमितिकर- णलिङ्गपरामर्शः अत एव 'स्वार्थानुमितिपरार्थानुमित्योर्टिङ्गपरामर्श एव कारणम् । इत्याद्यग्रिममूलं संगच्छते ॥ तथापि परार्थानुमानप्रयो- जके पञ्चावयववाक्ये परार्थानुमानशब्दस्यौपचारिकः प्रयोग इति मन- सिकृत्य मूलमवतारयति-परार्थानुमानमाहेति॥पञ्चावयववाक्य- मित्यनेन पञ्च अवयवा यस्य वाक्यस्येति व्युत्पत्त्या प्रतिज्ञादिवाक्य- पञ्चकसमुदायत्वं न्यायलक्षणम् बोध्यम् ॥ अनेन प्रतिपा- दिताल्लिङ्गादिति ॥ प्रतिज्ञादिपञ्चकसमुदायप्रयोज्यलिङ्गपरामर्शा- दित्यर्थः ॥ साध्यवत्तया पक्षवचनमिति॥साध्यतावच्छेदकाव- च्छिन्नसाध्यपकारताकपक्षतावच्छेदकावच्छिन्नपक्षविशेष्यकबोधजनक- वाक्यमित्यर्थः ॥ उदाहरणात् साध्यतावच्छेदकावशिष्टवैशिष्टयावगाहि- ज्ञानम्, न पक्षतावच्छेदकविशिष्टे उपनयाच्च पक्षतावच्छेदकविशिष्टे न साध्यतावच्छेदकविशिष्टवैशिष्टयज्ञानमिति तयोनिरासः ॥ वाक्यपदस्य न्यायावयववाक्यपरत्वात् न्यायबहिर्भूतवाक्यव्युदासः ॥ एवमग्रेपि ॥ अयं न दण्डी तद्दण्डसंयोगाजन्यद्रव्यत्वात् । इत्यादौ प्रतिज्ञायां पञ्च- म्यन्तत्वसत्त्वादतिव्याप्तेरिणाय लिङ्गप्रतिपादकमिति।। हेतुप्रतिपा- दकवाक्यमित्यर्थः।व्याप्तिप्रतिपादकमिति॥ प्रकृतहेतुमतिप्रकृत- हेतुव्यापकत्वविशिष्टसाध्यबोधकवाक्यमित्यर्थः ॥ कथम् उदाहरणस्य व्यापकत्वबोधकतेति चेत् । इत्थम् साध्यपदस्य हेतुव्यापकत्वविशिष्ट- साध्यनिरूढलक्षणया ॥ न च द्विरुक्तयत्पदस्य वैयर्थ्यमिति शङ्कयम् ।। तादृशतात्पर्यग्राहकतया सार्थक्यात् ॥ अथवा प्रथमयत्पदार्थे महानसे द्वितीययत्पदार्थे च महानसान्यस्मिन् प्रकृतहेतुमत्त्वस्य तत्पदार्थे तस्मिन् साध्यस्य च शाब्दबोधे जाते उत्तरकालं व्यापकताबोधो मानसः ॥ तथा च व्याप्तिमतिपत्तिपरत्वम् उदाहरणस्याक्षतत्वमिति न कश्चिद्दोषगन्ध इति दिक् ॥ व्याप्तिविशिष्टलिङ्गप्रतिपादक- अनुमानोपसंहारः] गुणग्रन्थः। (६९) . मिति ॥ पक्षतावच्छेदकविशिष्टविशेष्यकप्रकृतसाध्यव्याप्यहेतुप्रका-- रकबोधजनकवाक्यमित्यर्थः ॥ पक्षधर्मताज्ञानज्ञानार्थमुप- नयः' इति पाठे तु 'प्रयुज्यत ' इति शेषपूरणेन प्रदर्शितार्थ एव यथा कथंचित् संगमनीयः ॥ हेतुसाध्यवत्तया पक्षवचनमिति॥ हेतुज्ञानज्ञाप्यत्वविशिष्टसाध्यवाद्विषयकबोधजनकवाक्यमित्यर्थः ॥ उत्त- रकालमबाधितासत्प्रतिपक्षितत्वविषयकबोधो मानसो द्रष्टव्यः ॥ मूलम्-स्वार्थानुमितिपरार्थानुमित्योलिङ्गपरा- मर्श एव करणम् ॥ तस्माल्लिंगपरामर्शोऽ- नुमानम् ॥ दीपिका-अनुमितिकरणमाह-स्वार्थेति॥ननु व्याप्ति- स्मृतिपक्षधर्मताज्ञानाभ्यामेव अनुमितिसंभवे विशिष्ट्र-.. परामर्शः किमर्थमङ्गीकर्तव्य इति चेत् ॥ न॥' वह्नि- व्याप्यधूमवानयम् ' इति शाब्दपरामर्शस्थले परामर्शा- वश्यकतया लाघवेन सर्वत्र परामर्शस्यैव कारणत्वात् ॥ लिङ्गं न करणम् ॥ अतीतानागतादौ व्यभिचारात् ॥ व्यापारवत्करणं कारणम् । इतिमते परामर्शद्वारा व्याप्तिज्ञानं करणम् । तजन्यत्वे सति तजन्यजनको व्यापारः ॥ अनुमानमुपसंहरति तस्मादिति ॥ नीलकण्ठी-ननु विशिष्टवैशिष्टयावगाहि परामर्शस्यानुमितिप्रति हेतुत्वे तत्रान्यथासिद्धत्वनियतपूर्ववृत्तित्वयोईयोः कल्पनीयतया गौर- वम् 'वह्निव्याप्यो धूमो, धूमवान् पर्वतैः इति ज्ञानद्वयस्य तव मते विशिष्टपरामर्श प्रति कारणत्वेन क्लृप्तस्य कारणत्वे तु अनन्यथासिद्धत्व- मात्रस्य कल्पनीयतया लाघवमिति प्रभाकरः शङ्कते-नान्वति ॥ १ व्याप्तिज्ञानं, पक्षज्ञानं, साध्यज्ञानं, लिङ्गज्ञानं यत्किचिजन्यज्ञानमात्रं वा परामर्शव्यापारकम् ॥ .
(६२) तर्कसंग्रहे- [हेतुभेदाः RIA वह्निव्याप्यधूमवानयमिति ॥ अत्र त्वदभिमतकारणासत्त्वेन व्यभिचारान्न ज्ञानदयस्य कारणत्वं संभवतीतिभावः ॥ कथंचिदपि व्याप्यतावच्छेदकधूमत्वादेर्भानं परामर्शेन संभवतीति स्फोरणाय- शाब्देति ॥ लाघवेनेति ॥ कल्पनालाघवेनेत्यर्थः ॥ तथाहि- ज्ञानद्वये अनन्यथासिद्धत्वनियतपूर्ववृत्तित्वयोः कृल्पनापेक्षया विशिष्ट- परामर्श तत्कल्पनस्यैव लवीयस्त्वमिति ॥ वस्तुतस्तु तद्धर्मावच्छि- नविशेष्यकव्याप्तिप्रकारकनिश्चयविशिष्टतद्धर्मावच्छिन्नप्रकारकपक्षताव- च्छेदकावच्छिन्नविशेष्यकनिश्चयत्वस्यैव कारणतावच्छेदकत्वं ज्ञानद्वय- साधारण्यानुरोधेन तेन मन्तव्यम् ॥ नैयायिकमते तु व्याप्तिविशिष्ट- वैशिष्टयावगाहिनिश्चयत्वं कारणतावच्छेदकामिति कारणतावच्छेदक- लाघवमवधेयम् ॥विनिगमनाविरहेण ज्ञायमानलिङ्गत्वेनापि कारणं वद- तामाचार्याणां मतं निरस्यति-लिङ्गन करणमिति॥व्यभिचारा दिति॥तत्राप्यनुमितेरनुभवसिद्धत्वेन तव्यवहितपूर्व भूतभविष्यमा देरसत्त्वादितिभावः॥ मत इति ॥ फलायोग्यव्यवच्छिन्नं कारणम् मते तु परामर्श एव करणमिति ध्येयम् । कारणत्वेऽतिव्याप्तिवार- णाय तज्जन्यत्वे सतीति ॥ मू०-लिङ्ग त्रिविधम्-अन्वयव्यतिरेकिकेवला- न्वयि केवलव्यतिरेकि चेति ॥अन्वयेन व्यतिरे- केण र व्याप्तिमदन्वयव्यतिरेकि ॥ यथा वह्नौ- साध्ये धूमवत्त्वम्।सत्र धूमस्तत्रागिरिति अन्व- यव्याप्तिः। यत्र वह्निास्ति तत्र धूमोपि नास्ति यथा महाद इति व्यतिरेकव्याप्तिः। अन्वय- मात्रव्याप्तिकं केवलान्वाय ॥यथा घटोऽभिधेयः १ हेतुभेदाः] गुणग्रन्थः। (६३) प्रमेयत्वात् पटवत् । अत्र प्रमेयत्वाभिधेयत्व- योर्व्यतिरेकव्याप्तिास्ति सर्वस्यैव प्रमेयत्वाद- भिधेयत्वा च ॥ व्यतिरेकमात्रव्याप्तिकं केवल- व्यतिरेकि । यथा। पृथिवीतरेभ्यो भिद्यते गन्ध- वत्त्वात् । यदितरेभ्यो न भिद्यते न तद्गन्धवत्। यथा जलम्।। नचेयम् तथा|तस्मात् न तथेति। अत्र यद्गन्धवत् तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् ॥ दीपिका-लिङ्गं विभजते-लिङ्गमिति ॥ अन्वयव्यतिरे- किणं लक्षयति-अन्वयेनेति ॥ हेतुसाध्ययोाप्तिरन्वय, व्याप्तिः, तदभावयोाप्तिर्व्यतिरेकव्याप्तिः ॥ वलान्व- यिनो लक्षणमाह-अन्वयेनेति ॥ केवलान्वयिसाध्य लिङ्गं केवलान्वाय ॥ अत्यन्ताभावाप्रनिमित्वं केवला न्वयित्वम् ॥ केवलान्वयिनमुदाहरति-घटोभिधेयः प्रमे- यत्वादिति ॥ ईश्वरप्रमाविषयत्वं सर्वपदाभिधेयत्वं च सर्वत्रास्तीति व्यतिरेकाभावः॥ केवलव्यतिरेकिणो ल- क्षणमाह-व्यतिरेकेति ॥ केवलव्यतिरेकिणमुदाहरति पृथिवीति ।। नन्वितरभेदः प्रसिद्धो न वा । आये यत्र प्रसिद्धस्तत्र हेतुसत्त्वे अन्वयित्वम् । असत्त्वे असाधारण्यम् ॥ द्वितीये साध्ये ज्ञानाभावात् कथं तद्विशिष्टानुमितिः । विशे- पणज्ञानाभावे विशिष्टज्ञानानुदयात् ॥ प्रतियोगिज्ञाना- भावाव्यतिरेकव्याप्तिज्ञानमपि न स्यादिति चेत् ।। न॥ जलादित्रयोदशान्योन्याभावानां त्रयोदशसु प्रत्येकं (६४) तर्कसंग्रहे- [ हेतुभेदाः प्रसिद्धानां मेलनम् पृथिव्यां साध्यते ॥ त्रयोदशत्वाव- च्छिन्नसाध्यस्यैकाधिकरणवृत्तित्वाभावान्नान्वयित्वासा- धारण्ये । प्रत्येकाधिकरणप्रसिद्धया साध्यविशिष्टानुमि- तिः ॥ साध्याभावव्यापकीभूताभावप्रतियोगित्वमिति व्यतिरेकव्याप्तिनिरूपणं च यदितरेति ॥ नीलकण्ठी-यद्यप्यनुमाननिरूपणस्यैव प्रतिज्ञातत्वेन तद्विभाग एवोचितः । तथापि लिङ्गस्य त्रैविध्ये प्रदर्शिते तज्ज्ञानस्य त्रैविध्यं फल- तीति मनसिकृत्याह-लिङ्गं विभजत इति ॥ ' अन्वयेन व्यति- रेकेण च व्याप्तिमत् । इति मूलस्य ' अन्वयसहचारयग्राह्यव्याप्तिम- त्त्वे सति व्यतिरेकसहचारग्रहग्राह्यव्याप्तिमत् । इत्यर्थ मनसिकृत्य तादृशव्याप्तिद्वयं प्रकाशयति-हेतुसाध्ययोरिति ॥ अन्वयमात्र- व्याप्तिकत्वरूपकेवलान्वयिलक्षणे मात्रपदेन व्यतिरेकव्याप्तेर्व्यवच्छेद्य- तय। तिसिद्धिभ्यां व्यावात इत्यालोच्य प्रकारान्तरेण परिष्क रोति-केवलान्वयिसाध्यकमिति ॥ केवलान्वयिसाध्यकव्य- तिरेकहेतोः संग्रहाय साध्ये केवलान्वयित्वं निवेशितं तदेव निर्वक्ति- अत्यन्ताभावेति ॥ निरवच्छिन्नवृत्तिमदत्यन्ताभावेत्यर्थः । तेन गगनाभावसंयोगाभावादिसाध्य कहेतोःसंग्रहः ॥ घटपटाद्यभिधेयत्वस्य पटादावसत्त्वेन सर्वत्र सत्त्वासंभवादाह-सर्वपदाभिधेयमिति ॥ मूले, व्यतिरेकमात्रव्याप्तिकम् इति ॥ निश्चितव्यतिरेकव्या- प्तिमात्रकमित्यर्थः ॥ तेन पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वादित्यादौ अन्वयव्याप्तेः सत्वेपि न लक्षणासंगतिः ॥ इतरभेदः पृथिवीतरत्वा- वच्छिन्नप्रतियोगिताकभेदः । अन्वयित्वमिति ॥ अन्वयसहचा- रग्रहग्राह्यव्याप्तिमत्त्वं स्यादित्यर्थः ॥ तथा च प्रसिद्धानुमानमिव एतदप्यन्वयव्यतिरेकि एव स्यादिति भावः॥असाधारण्यामिति॥ सपक्षव्यावृत्तत्वरूपासाधारणलक्षणाकान्तत्वादिति भावः अप्रसिद्धसा- ध्यकेपि साध्यविशेषणकानुमितिरेवेत्यभिमायेणाह-साध्येत्यादि । - पक्षलक्षणनिरूपणम् ] गुणग्रन्थः। (६५) व्यतिरेकव्याप्तिः इति ॥ साध्याभावव्यापकाभावप्रतियोगित्वरूपे- त्यर्थः ॥ पृथिवीतरसामान्यभेदो न साध्यते, अपितु जलादिभेदकूटः साध्यते ॥ तथा च नोक्तदोषावसर इत्याह-जलादीति ॥ जलादी- नां ये त्रयोदशान्योन्याभावाः तेषां कूटः साध्यत इत्यर्थः ॥ समुदायस्य प्रसिद्ध्यसंभवादाह-प्रत्येकमिति ॥ त्रयोदशत्वावच्छिन्नति ॥ अनुमितेः पूर्व निश्चितसाध्यतावच्छेदकावच्छिन्नवतो धर्मिण एवाप्र- सिद्ध्या न तत्र हेतोः सत्त्वासत्त्वनिबन्धने अन्वयित्वासाधारण्ये इति समुदितोर्थः ॥ प्रत्येकमसिद्धौ अपेक्षाबुद्धिविशेषविषयत्वरूपसमुदाय- त्वविशिष्टज्ञान संभवति तथा च विशेषणतावच्छेदकप्रकारकनिर्णयस्य सद्भावात् साध्यतावच्छेदकविशिष्टवैशिष्टयावगाह्यनुमितिर्व्यतिरेकव्या- प्तिज्ञानं च संभवतीत्याह-प्रत्येकाधिकरणेत्यादिना ॥ यद्यपि जलादिचतुर्दशान्योन्याभावानां चतुर्दशसु प्रत्येकम् इति रीत्या वक्तुमु- चितम् तथापि अर्थापत्तेः प्रमाणान्तरत्वमङ्गीकुर्वन्तं प्रभाकरम् आशेणं. व्यतिरेकव्याप्तेरनुमित्यङ्गस्य प्रदर्शनीयतया तन्मतसाधारण्येन व्यतिरे- कव्याप्ति प्रदर्शयितुं जलादित्रयोदशेत्यादिकथनम् ॥ न च तन्मते जलादिचतुर्दशान्योन्याभावाः मसिद्धाः अभावस्याधिकरणानात्मकस्य तेनाङ्गीकारादिति ध्येयम् ॥ केचित्तु जळमेवादि येषां त्रयोदशानां इति विग्रहेण जलादिप्रतियोगिकानां चतुर्दशानामन्योन्याभावानामित्यर्थः ॥ त्रयोदशस्विति ॥ जलादीत्यादिः ॥ उक्तविग्रहेण चतुर्दशस्वित्य- र्थः ॥ अग्रेप्येवं बोध्यमित्याहुः ॥ मूलम्-सन्दिग्धसाध्यवान् पक्षः यथा धूमवत्त्वे हेतौ पर्वतः ॥ निश्चितसाध्यवान् सपक्षः यथा तत्रैव महानसम् ॥ निश्चितसाध्याभाववान् विपक्षः ॥ यथा तत्रैव महाह्रदः॥
(६६) तर्कसंग्रहे- [असद्धेतुनिरुपणम् THAN दीपिका-पक्षलक्षणमाह-संदिग्धेति ॥ ननु श्रवणान- न्तरभाविमननस्थले अव्याप्तिः, तत्र वेदवाक्यैरात्मनो निश्चितत्वेन संदेहाभावात् । किं च प्रत्यक्षेपि वहौ यत्रे- च्छयानुमितिः तत्राव्याप्तिरिति चेत् ॥ न ॥ उक्तपक्षता- श्रयत्वस्य पक्षलक्षणत्वात् ॥ सपक्षलक्षणमाह-निश्चिते- ति ॥ विपक्षलक्षणमाह-निश्चितेति ॥ नीलकण्ठी-मूले सन्दिग्धसाध्यवानिति ॥ विशेष्यतासंब- न्धेन साध्यमकारकसंशयविशिष्ट इत्यर्थः ॥ सपक्षलक्षणादिकमप्येवमेव परिष्कर्त्तव्यम्॥पक्षलक्षणस्याऽव्याप्तिमाशङ्कते-दीपिकायां नन्विति ॥ संशयविघटकशाब्दसिद्धिस्थलेऽव्याप्तिमुक्त्वा प्रत्यक्षस्थलेपि तामाह- किंचेति ।। उक्तति ॥ सिषाधयिषाविशिष्टसिद्धभावरूपपक्षताश्रय- वस्य पक्षलक्षणादित्यर्थः॥ मूलम्-सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धवा- धिताः पञ्च हेत्वाभासाः-सव्यभिचारोनैका- न्तिकः॥ स त्रिविधः-साधारणासाधारणानु- पसंहारिभेदात् ॥ दीपिका-एवं सद्धेतून् निरूप्य असद्धेतून् निरूप- यितुं विभजते-सव्यभिचारोति ॥ अनुमितिप्रतिबन्धकय- थार्थज्ञानविषयत्वम् हेत्वाभासत्वम् ॥ सव्यभिचारं विभजते-स विविध इति ॥ नीलकण्ठी-सद्धेतून् निरूप्येति ॥ व्याप्त्यादिविशिष्टहेतून् निरूप्येत्यर्थः। सद्धेतुनिरूपणे असद्धेतोः स्मरणात् प्रसङ्गसङ्गत्या तनि- रूपणमिति भावः ॥ मूले हेत्वाभासा इति ॥ हेतुवदाभासन्त इति हेत्वाभासाः ॥ दुष्टहेतवो निरूप्यन्त इत्यर्थः ॥
असद्धतुनिरूपणम् ] गुणग्रन्थः। (६७) ननु सामान्यधर्मप्रकाशकज्ञानमन्तरा विशेषजिज्ञासानुदयेन सव्य- भिचारेत्यादिना विभागोनुचित इत्याशङ्कामपनिनीषुर्दोषलक्षणेऽभिहिते दोषवत्त्वरूपदुष्टलक्षणस्याऽतिस्फुटत्वाल्लाघवो भवतीति इत्याशयेन दोषसामान्यलक्षणमाह-अनुमितीति ॥ हेत्वाभासत्वमिति ॥ हेतोराभासाः हेत्वाभासाः हेतुनिष्ठा दोषाः तेषां भावस्तत्त्वमित्यर्थः ।। हृदो वह्निमान् । इत्याद्यनुमिति मति वह्नयभाववानुहृदः इत्या- दिवाधनिश्चयस्य प्रतिबन्धकतया प्रमात्मकतादृशनिश्चयविषयत्वम् वढ्यभाववद् हृदादौ अक्षतमिति लक्षणसमन्वयः ॥ तत्रानुमितिपदं अजहल्लक्षणया अनुमितितत्करणान्यतरपरम् ॥ तेन व्यभिचारादिज्ञा- नस्य परामर्शप्रतिबन्धकतयैव निर्वाहादनुमित्यप्रतिबन्धकत्वेपि व्यभि- चारादिषु नाव्याप्तिः । 'पर्वतो निर्वह्निः । इति बाधभ्रमस्य 'पर्वतो वह्निमान् । इत्यनुमितिप्रतिबन्धकत्वात् तद्विषयवह्नयभाव दौ अतिव्या- प्तिरतो यथार्थेति ॥ भ्रमभिन्नेत्यर्थः। अथैवमपि वढ्यभार हदा- त्मकबाधैकदेशे वह्नयभावादौ अतिव्याप्तिः।' वह्नयभाववान् हृदः' इत्याकारकयथार्थज्ञानविषयत्वस्य तत्र सत्त्वादिति चेत् ॥ न ॥ यद्रूपाव- च्छिन्नविषयकज्ञानसामान्यमनुमितिपतिबन्धकम् तद्रूपावच्छिन्नत्वं दोष- त्वमित्यर्थपर्यवसानेन अदोषात् ॥ वह्नयभाववत्त्वावच्छिन्नविषय- कस्य 'वह्नयभाववान् हृदः । इति ज्ञानस्यानुमितिप्रतिबन्धकत्वेपि तादृशसामान्यान्तर्गतस्य ' वह्नयभावः इत्याकारकज्ञानस्थामतिब- न्धकत्वेन वह्नयभावत्वादेर्यद्रूपपदेन उपादानासंभवात् ॥ न च तर्हि यथार्थपदम् व्यर्थम् ॥ पर्वतो निर्बगिरिति भ्रमविषये वह्नयभावादी अतिव्याप्तेः उक्तरीत्यैवावधारणसंभवात् इति वाच्यम् ॥ ज्ञानपदस्य ज्ञानविशेषतात्पर्यग्राहकतया यथार्थपदसार्थक्यात् ॥ एवं च यद्रूपाव- च्छिन्नविषयकानाहार्यामामाण्यज्ञानानास्कन्दितनिश्चयसामान्यं प्रकृता- नुमितिपतिबन्धकं तद्रूपावच्छिन्नत्वं दोषत्वमित्यर्थः पर्यवसितः ॥ - ॥ (६८) तर्कसंग्रहे [साधारणनिरूपणम् तेन वयभाववहृदविषयकस्याहार्यस्याप्रामाण्यज्ञानविशिष्टज्ञानस्य संशयस्य वा अनुमित्यप्रतिबन्धकत्वेपि नासंभव इत्यलं पल्लवितेन ॥ परे तु इदं दुष्टानामेव लक्षणम् परंतु ज्ञायमानव्यभिचारादेः पति- बन्धकत्वमभ्युपेत्य ॥ दर्यस्त्वनुमितिमतिबन्धका ये व्यभिचारा- दय एकज्ञानविषयप्रकृततुतावच्छेदकुवत्वसंबन्धेन तत्पकारक यथार्थ- ज्ञानविशेष्यत्वम् धूमवान् वढेरित्यादौ धूमाभाववद्धृत्तित्वविशि- टवद्भिर्व्यभिचारः उक्तसंबन्धेन तद्वान् वह्निः । इत्याकास्कयथार्थ- ज्ञानविशेष्यत्वमस्तीति लक्षणसमन्वयः ॥ अनुमितिपदस्य प्रकृतानु- मितिपरतया सद्धेतौ अनुमितिमतिबन्धकीभूत व्यभिचारादीनाम् अप्र- सिद्धत्वात् नातिव्याप्तिः ॥ यथार्थपदादाने दर्शितसंबन्धेन व्यभिचा- रमकारकभ्रमविशेष्यत्वस्य सद्धेतौ अपि सत्त्वेनातिव्माप्तिःस्यादिति तन्निवेशः इत्याहुः ॥ स विविध इति ॥ सामान्यलक्षणं तु सानाम्यन्यतनत्वम् स्फुटम् ॥ मूलम्-तत्र साध्याभाववदृत्तिःसाधारणोऽनैका- न्तिकः । यथा पर्वतोऽग्निमान् प्रमेयत्वादितिप्र- मेयत्वस्य वह्नयभाववति हदे विद्यमानत्वाद। सर्वसपक्ष ( विपक्ष ) व्यावृत्तः पक्षमात्रवृत्तिःअ- साधारणः। यथा शब्दोऽनित्यः शब्दत्वादिति। शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यो व्या- वृत्तं शब्दमात्रवृत्ति ॥ अन्वयव्यतिरेकदृष्टान्त- रहितोऽनुपसंहारी । यथा सर्वमनित्यं प्रमेयत्वा- दिति ॥ अत्र सर्वस्यापि प्रमेयत्वात् दृष्टान्तो नास्ति।
साधारणनिरूपणम् ] गुणग्रन्थः। (६९) दीपिका-साधारणं लक्षयति-तत्रेति ॥ उदाहरति- यथेति ॥ असाधारणं लक्षयति-सर्वेति ॥ अनुपसंहा- 'रिणो लक्षणमाह-अन्वयेति ॥ नीलकण्ठी-मूले तत्रेति । साधारणादिषु मध्ये इत्यर्थः ॥ साध्याभाववदृत्तिरिति॥साध्यतावच्छेदकधर्मसंबन्धावच्छिन्नमति योगिताकाभाववनिरूपितहेतुतानवच्छेदकसंबन्धावच्छिन्नाधेयतावदि- त्यर्थः ॥ तेन वह्निमान् धूमादित्यादौ हेतुमति पर्वतादौ तत्तत्सा- 'ध्याभावस्य संबन्धान्तरावच्छिन्नसामान्याभावस्य च सत्त्वेपि साध्या- भाववति धूमावयवादी समवायादिना धूमादेवृत्तित्वेपि च नाति- व्याप्तिः ॥ अत्र च साध्याभावानां संबन्धविशेषावच्छिन्नत्वानिवेशे वह्निमान् धूमादित्यादौ वक़्याद्यभावस्य कालिकादिसंबन्धेन पर्वतादौ वृत्तेरतिव्याप्तिः ॥ दैशिकविशेषणताविशेषावच्छिनत्वनिवेशे घटत्वा- भावादिसाध्यकव्यभिचारिणि साध्याभावस्य घटत्वादेर्विशेषणताविशे- षेणाधिकरणापसिद्धयाऽव्याप्तिरतः साध्यतावच्छेदकसंबन्धन साध्यव- त्ताग्रहं प्रति येन संबन्धेन साध्याभाववत्तानिश्चयः प्रतिबन्धकः तेन संबन्धेन साध्यभाववत्त्वं विवक्षणीयम् ॥ वयादौ साध्ये तादृशसं- बन्धो दैशिकविशेषेण घटत्वाभावादौ च साध्ये समवायः तथेति न दोषः ॥ 'कपिसंयोगी, एतदृक्षत्वात् ' इत्यादौ तादृशसंबन्धो निर- वच्छिन्नदैशिकविशेषणतेति दिक् ॥ न च विरुद्धेऽतियाप्तिरिति भ्रमितव्यम् ॥ उपाधेयसङ्करेप्युपाधेरसंकरात् इति न्यायन तस्य विरुद्धसाधारण्येपि क्षतिविरहाद । .सर्वसपक्षव्यावृच इति ॥ सपक्षवृश्चित्वत्वावच्छिन्नाभाववा- नित्यर्थः ॥ सर्वपदम् सपक्षवृत्तित्वसामान्याभावनिवेशस्फोरकम् ॥ सपक्षपदं निश्चितसाध्यवदर्थकम् ॥ शब्देशनित्यत्वसाधकशब्दत्वादिस- द्धतावपि पक्षे साध्यसंदेहदशायाम् असाधारण्यस्येष्टत्वादिति संप्रदाय- विदः ॥ नवीनास्तु सद्धेतावपि पक्षे साध्यसंदेहदशायामसाधारण्यस्य (७०) तर्कसंग्रहे- [असिद्धहेत्वाभासनिरूपणम् प्रकृतपरामर्शकालिकविरुद्ध परामर्शदशायां सत्पतिपक्षस्य च स्वीकारे बाधभ्रमदशायां बाधस्याप्यङ्गीकारापत्तेः॥ नहि वैषम्ये युक्तिं पश्यामः॥ एवं चात्र सपक्षपदं केवलसाध्यवत्परम् ॥ 'शब्दोऽनित्यश्चाक्षुषत्वावा इत्यादिसाध्यवदवृत्तिहेतोरेव लक्ष्यतेति न कौपि दोष इति माहुः । अन्वयव्यतिरेकदृष्टान्तरहित इति ॥ तत्त्वं च किंचिद्धि- शेष्यकनिश्चयाविषयसाध्यकत्वे सति किंचिद्विशेष्यकनिश्चयाविषयसा- ध्याभावकत्वम् ॥ नवीनमते तु अत्यन्ताभावाप्रतियोगित्वविशिष्टसा- ध्यादिकमेवानुपसंहारित्वम् ॥ तज्ज्ञानस्य व्यतिरेकव्याप्तिग्रहमति- बन्धकता ॥ मूलम्-साध्याभावव्याप्तो हेतुर्विरुद्धः॥ यथा शब्दो नित्यः कृतकत्वादिति ॥ कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम् ॥ यस्य साध्याभावसाधकं हेत्वन्तरं स सत्प्रतिप- क्षः॥ यथा शब्दो नित्यः श्रावणत्वाच्छन्दत्व- वत् । शब्दोऽनित्यः कार्यत्वात घटवदिति ॥ असिद्धस्त्रिविधः-आश्रयासिद्धः, स्वरूपासिद्धो, व्याप्यत्वासिद्धश्चति ॥ आश्रयासिद्धो यथा गगनारविन्दं सुरभि अरविन्दत्वात् सरोजार- विन्दवत् इति । अत्र गमनारविन्दमाश्रयःस च नास्त्येव ॥ स्वरूपासिद्धो यथा शब्दो नित्य- श्वाक्षुषत्वात् रूपवदिति । अत्र चाक्षुषत्वं पक्षे नास्ति शब्दस्य श्रावणत्वात् ॥ :
असिद्धहेत्वाभासनिरूपणम् ] गुणग्रन्थः । (७१) दीपिका-विरुद्धं लक्षयति-साध्यति ॥ सत्प्रतिपक्षं लक्षयति-यस्यति ॥ असिद्धं विभजते-असिद्ध इति-आश्रयासिद्धमुदाह- रति-गगनेति ॥ स्वरूपासिद्धमुदाहरति-शब्द इति ॥ नीलकण्ठी-साध्याभावव्याप्त इति ॥ साध्याभावव्याप्तिः साध्यववृत्तित्वं ॥ असाधारण्यस्य तु निश्चितसाध्यवदवृत्तित्वरूपतया नाभेदः । नवीनमते तु साध्याभावस्य व्यतिरेकव्याप्तिः साध्यव्याप- काभावप्रतियोगित्वरूपेति नासाधारण्याभेदः । एतादृशव्याप्तिविशिष्ट- हेतुमत्ताज्ञानं साक्षादनुमितिप्रतिबन्धकमिति ध्येयम् ।। यस्य साध्याभावेत्यादि ॥ यत्संबन्धि यत्साध्यंतदभावव्या- प्यहेत्वन्तरस्य ज्ञानं पक्षे मस्ति स सत्मतिपक्ष इत्यर्थः॥ प्रकृतसाध्य- व्याप्यत्वेन ज्ञायमानो यः प्रकृतहेतुः ततोऽन्यस्मिन् हेतौ साध्याभाव- व्याप्यत्वज्ञानदशायामेव तस्य सत्पतिपक्षतेति सूचनाय हेत्वन्तरेती- ति प्राश्चः ॥ नवीनाः पुनरेवं वर्णयन्ति ॥ यत्संबन्धिसाध्याभावव्या- प्यहेत्वन्तरस्य सत्त्वं पक्षे स तथाविध इत्यर्थः ॥ आश्रयासिद्धो यथेति ॥ आश्रयासिद्भिश्च पक्षे पक्षताव- च्छेदकविरहः॥ पक्षतावच्छेदकविरहवान् पक्षो वा ॥ स च नास्त्ये- वति ॥ अरविन्दस्य प्रसिद्धत्वात् ' सविशेषणे हि' इति न्यायेनार- विन्दे गगनीयत्वं नास्तीति पर्यवसितोर्थः ॥ स्वरूपासिद्धिश्च पक्षे हेत्वभावो, हेत्वभाववान् पक्षो वा ॥ मूलम्-सोपाधिको व्याप्यत्वासिद्धः ॥ साध्य- व्यापकत्वे सति साधनाव्यापकत्वमुपाधिः॥ साध्यसामानाधिकरण्यात्यन्ताभावाप्रतियोगि- त्वं साध्यव्यापकत्वम् ॥ साधनवनिष्टात्यन्ता- (७२) तर्कसंग्रहे- - [उपाधिनिरूपणम् भावप्रतियोगित्वम् साधनाव्यापकत्वम्॥ यथा- पर्वतो धूमवान्वह्निमत्त्वात् इत्यत्रादॆन्धनसंयो- ग उपाधिः॥ तथाहि यत्र धूमस्तवाट्टैन्धनसंयो- ग इतिसाध्यव्यापकत्वम् ॥ यत्र वह्निस्तत्रा- न्धनसंयोगो नास्ति अयोगोलके आदे॒न्धना- भावात् इति साधनाव्यापकत्वम् ॥ एवं साध्य- व्यापकत्वे सति साधनाव्यापकत्वात् आर्दैन्ध- नसंयोग उपाधिः सोपाधिकत्वादह्निमत्त्वं व्या. प्यत्वासिद्धम् ॥ दीपिका-व्याप्यत्वासिद्धस्य लक्षणमाह-सोपाधिक इति ॥ उपाधेर्लक्षणमाह-साध्यति ॥ उपाधिश्चतुर्विधः- केवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापका, उदासीनधर्मावच्छिन्नसा- ध्यव्यापकश्चेति ॥ आद्यः आर्टेन्धनसंयोगः॥ द्वितीयो यथा-'वायुः प्रत्यक्षःप्रमेयत्वात् ' इत्यत्र बहिर्द्रव्यत्वा- वच्छिन्नप्रत्यक्षव्यापकमुद्भूतरूपवत्त्वम् ॥ तृतीयो यथा- 'ध्वंसाभावो विनाशी जन्यत्वात् ' इत्यत्र जन्यत्वाव- च्छिन्नानित्यत्वव्यापकं भावत्वम् ॥ चतुर्थस्तु-'प्रागभावो विनाशी प्रमेयत्वात् ' इत्यत्र जन्यत्वावच्छिन्नानित्यत्व- व्यापकम् भावत्वम्॥ नीलकण्ठी-ननु सोपाधिकस्य अतिरिक्तस्य सद्भावात् • कथं पञ्च हेत्वाभासाः इत्यत आह-सोपाधिक इति ॥ व्याप्यत्वा- सिद्धिः व्याप्त्यभावः ॥ तस्याः सोपाधिकहेतौ निर्यमेन सत्त्वाद - - उपाधिनिरूपणम् ] गुणग्रन्थः। (७३) सोपाधिको व्याप्यत्वासिद्धएव न तु अतिरिक्तः हेत्वाभास इति भावः।। उपाधेषित्वमसंभवीति दीपिकायां व्यक्तीभविष्यत्यग्रे ॥ अत्रेदमवधे- यम् ॥ साध्ये साध्यतावच्छेदकाभावः साध्यामसिद्धिः ॥ हेतौ हेतु- तावच्छेदकाभावः सांधनाप्रसिद्धिः ॥ यथा काञ्चनमयवह्निमान् काञ्च- नधूमात् इत्यादौ तद्ग्रहदशायां हेतुतावच्छेदकविशिष्टे साध्यतावच्छे- दकविशिष्टव्याप्तिग्रहमतिबन्धः फलम् ॥ तयोर्व्याप्यत्वासिद्धावन्त - वान हेत्वाभासाधिक्यमिति ॥ साध्यव्यापकत्वसाधनाव्यापकत्वे एक- रूपेण एकसंबन्धेन च ग्राह्ये तेन 'वह्निमान् धूमात् । इत्यादौ तत्त- द्वनौ वह्नित्वेन साध्यव्यापकस्य तत्तदह्नित्वेन च साधनाव्यापकत्वस्य सत्त्वेपि आलोके संयोगेन साध्यव्यापकत्वस्य समवायेन च साधना- व्यापकस्य सत्त्वेपि च नातिव्याप्तिः ॥ मूलोक्तउपाधिलक्षणस्याव्याप्ति वारयितुं लक्ष्यलक्षणभेदं प्रदर्शयति-उपाधिश्चतुर्विध इति ॥ यद्ध- मविशिष्टसाध्यव्यापकत्वम् तद्धविशिष्टसाधनाव्यापकत्वम् लक्षणे निवे- शनीयम् ॥ अन्यथा पर्वतत्वात्मक पक्षधविशिष्टवहिव्यापकत्वस्य क- स्यचित् धूमत्वावच्छिन्नाव्यापकत्वादतिव्याप्तिः स्यादिति ध्येयम् ॥ उदासीनेति ॥ पक्षधर्मसाधनधर्माभ्यां भिन्नेत्यर्थः ॥ बहिर्द्रव्य- त्वम् ॥ आत्मान्यद्रव्यत्वम् इदं केवलप्रत्यक्षत्वस्यैव साध्यत्वानुसा- रेण ॥ प्रागभावोविनाशी जन्मत्वादिति !! अत्र जन्यत्वं पक्षधर्मो न भवतीति साधनावच्छिन्नसाध्यव्यापकत्वघटिनलक्षणम् ॥ अनित्यत्वव्यापकमिति ॥ विनाशित्वव्यापकत्वमित्यर्थः ॥ जन्यत्त्वस्योदासीनत्वं संपादयितुं-प्रमेयत्वादिति ॥ मूलम्-यस्य साध्याभावः प्रमाणान्तरेण नि:- श्चितःस बाधितः यथा वह्निरनुष्णो द्रव्यत्वा- दिति ॥अत्रानुष्णत्वं साध्यं, तदभाव उष्णत्वं (७४) तर्कसंग्रहे- [ बाधितनिरूपणम् स्पर्शेन प्रत्यक्षेण गृह्यत इति बाधितत्वम् ।। व्याख्यातमनुमानम् ॥ दीपिका-बाधितलक्षणमाह-यस्येति ॥ अत्र बाधस्य ग्राह्याभावनिश्चयत्वेन, सत्प्रतिपक्षस्य विरोधिज्ञानसा- मग्रीत्वेन साक्षादनुमितिप्रतिबन्धकत्वम् ॥ इतरेषां परामर्शप्रतिबन्धकत्वम् । तत्रापिसाधारणस्याव्यभिचा- राभाववत्तया, विरुद्धस्य सामानाधिकरण्याभाववत्तया, व्याप्यत्वासिद्धस्य विशिष्टव्याप्त्यभाववत्तया, असाधा- रणानुपसंहारिणोर्व्याप्तिसंशयाधायकत्वेनव्याप्तिज्ञानप्र- तिबन्धकत्वम् ॥ आश्रयासिद्धस्वरूपासिद्धयोर पक्ष- धर्मताज्ञानप्रतिबन्धकत्वम् उपाधिस्तु व्यभिचारज्ञानद्वा- राव्याप्तिज्ञानप्रतिबन्धकः ॥ सिद्धसाधनं तु पक्षताविघ- टकतया आश्रयासिद्धे अन्तर्भवतीति प्राञ्चः ॥ निग्रह- स्थानान्तरमिति नवीनाः॥ इति तर्कदीपिकायाम् अनुमानं समाप्तम् ॥ नीलकण्ठी-बाधस्य साध्याभाववत्तानिश्चयस्य ॥ ग्राह्याभा- वनिश्चयत्वेनेति ॥ अनुमितिप्रतिबन्धकत्वमित्यनेनान्वयि ॥ विरोधिज्ञानसामग्रीत्वेनेति ॥ इदं प्राचीनमते ॥ वस्तुतस्तु विरोधिपसमर्शस्य साध्याभावव्याप्यवत्तानिश्चयलेनैव प्रतिबन्धकत्वं लाघवान् ॥ इतरेषां ॥ व्यभिचारादिग्रहाणाम् ॥ तत्रापि ॥ व्यभिचारादिग्रहेष्वपि ॥ साधारणस्यति ॥ भावप्रधाननिर्देशतया साधारण्यस्येत्यर्थः ॥ अव्यभिचाराभाववत्तया ॥ तद्ब्रहस्येति शेषः ॥ व्याप्तिज्ञानप्रतिबन्धकत्वमित्यनेनान्वयः ॥ एवमग्रेपि हेतो साध्याभाववद्धृत्तित्वस्येव साध्यतावच्छेदके हेतुसामानाधिकरणात्यन्ता- भावप्रतियोगितावच्छेदकत्वस्यापि व्यभिचारतया तद्ब्रहस्य हेतुसमाना- बाधितनिरूपणम् ] गुणग्रन्थः। (७५) - धिकरणात्यन्ताभावप्रतियोगितावच्छेदकत्वाभावरूपो योऽव्यभिचारः तद्हप्रतिबन्धकत्वमिति भावः॥हेतौ साध्याभाववद्धृत्तित्वप्रकारकग्रहस्य व्याप्तिग्रहमतिबन्धकत्वं तु मणिमन्त्रादिन्यायेन॥विशिष्टव्यात्यभा- ववत्तया हेतुव्यापकतावच्छेदकसाध्यतावच्छेदकावच्छिन्नसामानाधि- करण्याभावरूपतया ॥ व्याप्तिसंशयाधायकत्वेनतिाहेतौ असा- धारण्यादिज्ञानदशायां हेतुसाध्ययोः सामानाधिकरण्यनिश्चयासंभवेन पक्षानन्तर्भावेन च साध्यसंशयत्वेन व्याप्तिसंशयसंभवान्न व्याप्तिनिश्चय इति प्राचीनमतमभिप्रेत्येदम् ॥ पक्षधर्मताज्ञानप्रतिबन्धकत्व- मिति ॥ पक्षे पक्षतावच्छेदकविरहस्य च निश्चयदशायां हेतौ पक्षता- वच्छेदकविशिष्टपक्षवृत्तित्वग्रहासंभवादिति भावः ॥ ननु पक्षत्वोक्तिरसंगता हेतौ उपाधिग्रहदशायामपि व्याप्तिनिश्चया- संभवेन उपाधिज्ञानस्य व्याप्तिनिश्चयमतिबन्धकताया अवश्यं वक्तव्य- तया उपाधेरपि हेत्वाभासलक्षणाकान्तत्वादत आह-उपाधिस्तु इति ॥ व्यभिचारज्ञानद्वारेति ॥ तथा च हेत्वाभासलक्षणे साक्षाद्नुमितितत्करणान्यतरपतिबन्धकत्वस्यैव निवेशनीयतया पर- मुखनिरीक्षकस्योपाधेन हेत्वाभासत्वमिति भावः ॥ ननु तथापि सिद्धिसत्त्वेऽनुमित्यनुदयात् तद्विषयस्य साध्यवत्पक्ष- स्यापि हेत्वाभासत्वमावश्यकमित्याशङ्कां जरनैयायिकमतमवलम्ब्येष्टा- पत्त्या परिहरति-सिद्धसाधनं त्विति॥पक्षताविघटकृतयेति॥ तन्मते पक्षतायाः साध्यसंशयरूपतया तद्विवटकत्वं साध्यमिश्चय- स्याक्षतमिति भावः ॥ अन्तर्भवतीति ॥ तथा च न विभाग- व्याघात इति भावः ॥ दर्शितमतमतिशिथिलमित्यालोच्याह-निन- हेति॥न च सिद्धान्तेऽनुमिति प्रति सिद्धेः प्रतिबन्धकतया तद्विषयस्य कथं हेत्वाभासता नेति वाच्यम् ॥ सिषाधयिषायाः सिद्धिनिष्ठप्रति- बन्धकतायान् उत्तेजकतया केवलं सिपाधयिषासहितसिद्धौ प्रति- (७६) तर्कसंग्रहे- [ उपमाननिरूपणम् - बन्धकत्वाभावेनतद्विषयहेत्वाभासलक्षणासंस्पर्शादिति॥अधिकमस्मदी- याभिनवदीधितिव्याख्यायां तर्ककर्कशविचारचातुरीधुरीणैरनुसंधेयम् ॥ इति तर्कसंग्रहदीपिकाप्रकाशे भगवदर्पिते अनुमान- परिच्छेदः समाप्तः ॥ " अथ उपमानम्। मूलम्-उपमितिकरणमुपमानम् ॥ संज्ञासंज्ञि- संबन्धज्ञानमुपमितिः॥तत्करणं सादृश्यज्ञानं । तथाहि कश्चिद्वयशब्दवाच्यमजानन्कुतश्चिदा- रण्यकपुरुषाद् ' गोसदृशो गवयः इति श्रुत्वा वनं गतो वाक्यार्थ स्मरन् गोसदृशं पश्यति। तदनन्तरम् 'अयं गवयशब्दवाच्यः' इत्युपमितिरुत्पद्यते ॥ इत्युपमानम् ॥ दीपिका-उपमानं लक्षयति ॥ उपमितीति ॥ नीलकण्ठी-उपमानं लक्षयति ॥ अवसरसंगत्योपमानं नि- रूपयतीत्यर्थः ॥ उपमितिरूपं व्युत्पादयति मूले-संज्ञेति ॥ संज्ञा गवयपदम् । संज्ञी गवयः। तयोः संबन्धः शक्तिः तज्ज्ञानमित्यर्थः॥ लक्षणं तु उपमिनोमीत्यनुव्यवसायगम्योपमितित्वम् एवेति ध्येयम् ॥ वाक्यार्थ स्मरन् गोसदृशं पश्यतीति ॥ एतेन स्मरणं सादृश्यदर्शनजन्य उद्योधकान्तरजन्यं वा । उभयमपि सादृश्यदर्शनस्य सहकारी, न तु सादृश्यदर्शनजन्यमेव स्मरणं सहकारीति सूचितम्॥ १ वाक्यार्थज्ञाने पदार्थज्ञानस्य हेतुत्वेन उपमितिं लक्षयति-संज्ञासंजीति॥ करणमाह-तदिति ॥ उपमान रूपकत्वेन विविच्य दर्शयति-तथाहीति, इत्यधिकः पाठ उपलभ्यते ॥
वाक्यनिरूपणम् ] गुणग्रन्थः। (७७) पाश्चस्तु ' वाक्याथ स्मरन् । इत्यत्र वर्तमानसामीप्ये प्रत्ययः ॥ वाक्याथ स्मरिष्यन् इत्यर्थः ॥ एवं च वाक्यार्थस्मरणस्य सादृश्य- दर्शनजन्यतालाभेन व्यापारतालाभ इत्याहुः ॥ उपमितीति।तदन- न्तरम् इत्यादिसादृश्यदर्शनानन्तरम् ॥ गवयो गवयपदवाच्य इत्या- कारिका गवयत्वावच्छिन्नलघुधर्मधर्मितावच्छेदकोपमितिरुत्पद्यते इत्य- र्थः ॥ इदमुपलक्षणम् ॥ वैधHदर्शनेनाप्युपमितिरिति ध्येयम् ॥ वैशे- षिकास्तु पदवाच्यत्वव्याप्यसादृश्यपरामर्शात् पदवाच्यत्वस्य अनुमि- तिरेव ॥ अतो नोपमानं प्रमाणान्तरमित्याहुः ॥ तत् चिन्त्यम् ॥ व्याप्तिज्ञानमन्तरेणापि पवाच्यत्वप्रमितेरनुभवसिद्धत्वादित्यन्यत्र विस्तरः॥ इति तर्कसंग्रहद्दीपिकाप्रकाशे भगवदर्पिते उपमानपरिच्छेदः समाप्तः ॥३॥ अथ शब्दः। मूलम्-आप्तवाक्यम् शब्दः॥ आप्तस्तु यथा- र्थवक्ता वाक्यम् पदसमूहः ॥ यथा गामानय शुक्लां दण्डेनेति ॥ दीपिका-शब्दं लक्षयति-आप्तेति ॥ वाक्यं लक्षयति- वाक्यमिति ॥ नीलकण्ठी-शब्दं लक्षयतीति ॥ उपजीव्योपजीनकभावसं- गत्या शब्दं निरूपयतीत्यर्थः ॥ अत्र ज्ञायमानशब्दस्य शब्दममाण- तया शब्दे उपमानोपजीवकत्वाभावात् उपमितिशाब्दबोधरूपफलयोः संगतिर्योध्या ॥ तथा हि शक्तिपरिछित्तिरेवोपमितिः । तस्याश्च शब्द- बोधोपजीव्यत्वेन फळयोरुपजीव्योपजीवकत्वसंभवः ॥ तादृशसंगतेश्च फलनिष्ठत्वेपि स्वाश्रयकरणत्वात्मकपरम्परासंबन्धेन करणनिष्ठत्वात् करणयोरनन्तराभिधानप्रयोजकत्वम् ॥ शब्दज्ञानस्य प्रमाणत्वाङ्गी- (७८) तर्कसंग्रहे- [शक्तिनिरूपणम् कर्तृनवीनमते तूपमितेः शक्तपदविषयकत्वेन शब्दप्रमाणतया तत्र च उपमानजन्यत्वस्याक्षततया स्वरूपयोरपि संगतिरिति मन्तव्यम् । मूले आप्तवाक्यं शब्द इति ॥ शब्द इति लक्ष्यनिर्देशः ॥ प्रमाणशब्द इत्यर्थः ॥ आप्तवाक्यमिति लक्षणम् ॥ भवति हि पयसा सिञ्चतीत्यादि शब्दः आप्तोक्तवाक्यम् ॥न तु वह्निना सिञ्चतीत्यादि शब्दः। तदुच्चार- णकर्तुः यथार्थवक्तृत्वरूपाप्तत्वाभावात् ॥ प्रकृतवाक्यार्थगोचरमयथार्थ- ज्ञानजन्यवाक्यम् प्रमाणशब्द इति तु निष्कर्षः वाक्यप्रयोगे वाक्यार्थ- ज्ञानस्य हेतुत्वाल्लक्षणसंगतिः स्फुटमेतत् शब्दमणौ ।। मूलम्-शक्तं पदम् ॥ अस्मात्पदादयमर्थों बोद्धव्य इतीश्वरसंकेतः शक्तिः ॥ दीपिका-पदलक्षणमाह-शक्तमिति ॥ अर्थस्मृत्यनुकू- लपदार्थसंबन्धःशक्तिः।साच पदार्थान्तरमिति मीमांस- काः तन्निरासार्थमाह-अस्मादिति ॥ डित्थादीनामिव घटादीनामपि संकेत एव शक्तिः न तु पदार्थान्तरमित्यर्थः नीलकण्ठी-मीमांसकमतनिरासकत्वेनाग्रिममूलमवतारयितुं तन्म तसाधारण्येन शक्तिपदार्थमाह-अर्थस्मृत्यनुकूलेति ॥ शाब्दबोध- जनकार्यस्मृत्यनुकूलो घटादिपघटादिरूपायोः संबन्धःशक्तिरित्यर्थः॥ अनुकूलत्वम् इह प्रयोजकत्वम् तच्च कारणतावच्छेदके पदपदा- र्थसंबन्धेप्यक्षतम् ॥ घटादिपदतदर्थयोरन्यसम्बन्धवारणाय अनुकूला- न्तं विवक्षितार्थकम् ॥ अन्यसंबन्धज्ञानस्यार्थस्मृतिजनकत्वेपि शाब्द- बोधजनकस्मृतिजनकत्वाभावाद ॥ अर्थस्मृत्यनुकूलत्वस्यादृष्टादिसा- धारण्यात् विशेष्यमिति बोध्यम् ॥ पदार्थान्तरमिति ॥ तत्तपदा- यतावच्छेदकाभावकूटवदित्यर्थः । तेन. अतिरिक्तपदार्थत्वस्यान्यमता- प्रसिद्धत्वेपि न व्याघातः।। अस्मात्पदादयमित्यादिमूलस्य एत- शक्तिनिरूपणम् ] गुणग्रन्थः। (७९) पदजन्यबोधविषयोयमर्थः' इत्याकारकेश्वरेच्छाशक्तिरित्यर्थः । न तु पदार्थान्तरमिति ॥ न च ईश्वरीयज्ञानस्येच्छायाः कृतेर्वा शक्ति- रूपत्वमिति विनिगमनाविरहादतिरिक्तैव शक्तिरिति वाच्यम् ॥ आधुनीकसंकेतस्येच्छारूपतया शक्तेरपि इच्छारूपत्वे संकेतज्ञान- स्यानुगतकार्यकारणभावः संभवति नान्यथा इत्येवं विनिगमकसंभवेन इच्छाया एव शक्तित्वस्वीकाराव। न च भगवदिच्छायाः सकलविषयि- ण्याः शक्तित्वस्वीकारे घटबोद्धव्यत्वप्रकारकतदिच्छायाः पटेपि सत्त्वात् घटपदवाच्यत्वस्यातिप्रसङ्गः एवं गङ्गापदजन्यबोधविषयत्वप्र- कारकेच्छायाः तीरेऽपि सत्त्वेन शक्यैव तदोधसंभव लक्षणोच्छेदाप- त्तिरिति वाच्यम् ॥ यतः तत्तत्पदवापच्यत्वं तत्तत्पदजन्यबोधविषयत्व- प्रकारतानिरूपितेश्वरेच्छीयाविशेष्यतावत्त्वम् । तादृशमकारतानिरूपि- तविशेष्यतासम्बन्धेन तदिच्छावत्त्वं वा ॥ तथा च तादृशस्य घटप- दवाच्यत्वस्य पटेऽसत्त्वान्नाति प्रसङ्गः ॥ गङ्गादिपदजन्यत्वस्य बोधांशे, बोधविषयत्वस्य च तीरांशे, स्वातन्त्र्येण भानं ईश्वरेच्छायामुपेयते ।। इत्यं च विशकलितभावस्थले निरूप्यनिरूपकभावापनविषयताया अभावेन गङ्गादिपदजन्यत्वप्रकारतानिरूपितबोधविषयितानिरूपितवि- षयत्वप्रकारतानिरूपितविशेष्यतासंबन्धेन इच्छावत्त्वस्य तीरेऽसत्त्वेन न क्षतिरिति संक्षेपः॥ दीपिका-गवादिशब्दानां जातादेव शक्तिाविशेषण- तया जाते. प्रथममुपस्थितत्वात् ॥ व्यक्तिलाभस्तु आक्षेपात् इति केचित् ॥ तद न ॥ गामानयेत्पादौ वृद्ध- व्यवहारेण सर्वत्रानयनादेर्व्यक्तावेव संभवेन जातिवि- शिष्टव्यक्तावेव शक्तिकल्पनात् ॥ नीलकण्ठी-विशिष्टे शक्तिं, व्यवस्थापयितुं मीमांसकमतमुप- न्यस्य दूषयति-गवादीति । विशेषणभूतजातिग्रहमन्तरा विशिष्टा- ग्रहासंभवेन विशिष्टे शक्तिकल्पनं न संभवति अतो जातिग्रहस्य प्रथम- (८०) तर्कसंग्रहे- [शक्तिनिरूपणम् मुपेक्षितत्वे जाती एव शक्तिकल्पनमुचितं लाघवाद इत्याह-विशेष- णतयेति॥ प्रथममुपस्थितत्वादिति॥ विशिष्टग्रहात् पूर्वमवगत- त्वादित्यर्थः ॥ कथं तर्हि व्यक्तिलाभ इत्यत आह-व्यक्तीति ॥ आक्षेपादिति ॥ अर्थापत्तिप्रमाणादित्यर्थः । व्यक्ती एव संभ- वेनेति ॥ अनुपपत्तिपतिसंधानशून्यतादशायाम् अपि व्यक्तिभानस्य अनुभवसिद्धत्वेन चेत्यपि बोध्यम् ॥ विशिष्टव्यक्ती एव इति ॥ एवकारेण केवलजातिकल्पनव्यवच्छेदः ॥ अत्रेदं बोध्यम्-जातितदै- शिष्टयतदाश्रयेषु शक्तिः कल्पनीया पदार्थदयसंबन्धस्य पदवयसमभि- व्याहारलभ्यत्वेनान्यस्याशक्यस्य शाब्दबोधे भानासंभवादिति ॥ नव्यास्तु लक्ष्यतावच्छेदकत्वग्रहमात्रेण लक्ष्यतावच्छेदकस्य शाब्दबोधे भानम्, तथा शक्यतावच्छेदकत्वग्रहमात्रेण शक्यतावच्छेदकस्य शाब्द- बोधे भानं संभवतीति शक्यतावच्छेदके च शक्तिर्न कल्पनीयेति वदन्ति दीपिका-शक्तिग्रहश्च वृद्धव्यवहारेण।तथाहि-व्युत्पि- त्लुर्बालो.' गामानय' इत्युत्तमवृद्धवाक्यश्रवणानन्तरं मध्यमवृद्धस्यप्रवृत्तिमुपलभ्य गवानयनं दृष्ट्वा मध्यमवृद्ध- प्रवृत्तिजनकज्ञानस्यान्वयव्यतिरेकाभ्यां जन्यत्वं निश्चि- त्य 'अश्वमानय गां बधान' इति वाक्यान्तरेः आवा- पोद्वापाभ्यां गोपदस्य गोत्वविशिष्टे शक्तिः, अश्वपदस्य अश्वत्वविशिष्टे शक्तिः, इति व्युत्पद्यते ॥ नीलकण्ठी-शक्तिग्रहश्च वृद्धव्यवहारणेति ॥ शक्तिग्रहश्च वृद्धव्यवहारादिना भवतीत्यर्थः ॥ आदिना व्याकरणादिपरिग्रहः । अतएव 'शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद्यवहारतश्च वाक्यस्य शेषाद् विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः ॥' इत्यभियुक्तोक्तिः सङ्गच्छते ॥ व्याकरणाव प्रकृतिमत्ययादीनां शक्ति- ग्रहः।। उपमानात् शक्तिग्रहस्तु अधस्तादर्शितः ॥' अध्येकदन्तहेरम्ब- लम्बोदरगजाननाः' इति कोशादेकदन्तादिशब्दाः गणेशत्वविशिष्ट शक्त शक्तिनिरूपणम् ] गुणग्रन्थः। (८१) । इत्यर्थकाद् गणेशत्वविशिष्ट शक्तिग्रहः ॥ तत्रैकदन्तादिशब्दानामेव पदार्थतया तेषां विभिन्नत्वेद्वन्द्वोपपत्तिः ' कोकिलः पिकपदवाच्यः' इत्याप्तवाक्यात् पिकपदस्य कोकिले शक्तिग्रहः ॥ व्यवहारतः शक्ति- ग्रहमुपपादयति-व्युत्पत्सुरिति ॥ शक्तिग्रहेच्छावान् इत्यर्थः ।। उत्तमवृद्धति ॥ प्रयोनकवृद्धत्यर्थः ॥ मध्यमवृद्धस्येति ॥ प्रयोज्यवृद्धस्येत्यर्थः ॥ गवानयनं दृष्ट्वा प्रवृत्तिमुपलभ्य चेत्यन्वयः ॥ उपलभ्येत्यस्यानुमायेत्यर्थः ॥ इयं क्रियाप्रयत्नपूर्विका विलक्षण- क्रियात्वात् स्वीयक्रियावत् । इत्यनुमानप्रयोगोबोध्यः ॥ प्रवृत्ति- जनकज्ञानस्य घटानयनगोचरप्रयत्नजनकघटानयनज्ञानस्य वाक्य- स्य विशिष्टेर्थे शक्तिर्न कल्पनीया तादृशार्थस्य समभिव्याहारलभ्य- त्वात् । 'अनन्यलभ्योहि शब्दार्थः । इति न्यायाव इत्यभिसन्धि- मानाह-अश्वमानयेत्यादि॥ आवापोद्वापाभ्यामिति आ- वापः संग्रहः । उद्वापः त्यागः ॥ उत्पद्यत इति ।। व्युत्पत्त्या- श्रयो भवतीत्यर्थः ॥ वाक्यशेषाद्यथा यवमयश्चर्भवतीत्यत्र यवशब्दः आर्यव्यवहाराद्दीर्घशूकविशिष्टस्य वाचकः । म्लेच्छव्यवहाराद कङ्गो- चिको वेति संदेहे वसन्ते सर्वसस्यानां जायते पत्रशातनम् । मोद- मानाश्च तिष्ठन्ति यवाः कणिशशालिनः॥ ' इति वाक्यशेषादीर्घशूक- विशिष्टे शक्तिनिर्णयः ॥ कङ्गी तु शक्तिभ्रमात् प्रयोगः ॥ विवरणाद्यथा 'पचति' पाकं करोति इति यत्नार्थककरोतिना सर्वाख्यातव्याख्यानाद आख्यातस्य यत्नत्वविशिष्टे शक्तिग्रहः॥ सिद्धपदसानिध्याच्छक्तिग्रहस्तु 'विकसितपने' इत्याद्यनिमग्रन्थ एव स्फुटीभविष्यतीत्यल पल्लवितेन।। दीपिका-ननु सर्वत्र कार्यपरत्वाद्यवहारस्य कार्य- वाक्ये एव व्युत्पत्तिः, न सिद्धा। इति चेत् ॥ न॥ काभ्यां त्रिभुवनतिलको भूपतिः इत्यादी सिद्धेपि व्यवहारात् ॥ 'विकसितपने मधुन् पिबति मधुकरः।
(८२) तर्कसंग्रहे- [शक्तिनिरूपणम् इत्यादौ प्रसिद्धपदसमाभिव्याहारात् सिद्धपि मधुकरा- दिव्युत्पत्तिदर्शनाच ॥ नीलकण्ठी-व्यवहारस्य कार्यपरत्वादिति योजना । कार्य- परत्वं च कृतिसाध्यानयनादिरूपक्रियातात्पर्यकत्वम् ॥ व्युत्पत्तिः ॥ शक्तिग्रहः ॥ व्यवच्छेद्यं स्फुटयति-नसिद्धति ॥ सिद्धपि व्यवहारादिति ॥ तथा च सिद्धेपि शक्तिग्रहस्त्वावश्यकः। अन्यथा तत्राऽनुभवसिद्धस्य शाब्दबोधस्यापलापापत्तरिति भावः ॥ दीपिका-लक्षणाऽपि शब्दवृत्तिः॥ शक्यसंबन्धो ल- क्षणा ॥ 'गङ्गायां घोषः' इत्यत्र गङ्गापदवाच्या प्रवाह- संबन्धादेव तीरोपस्थितौ तीरेपि शक्तिर्न कल्प्येत । सैन्धवादौ लवणाश्वयोः परस्परसंबन्धाभावात् नानाश- क्तिकल्पनम् ॥ लक्षणा विविधा-जहल्लक्षणा, अजहल्ल. क्षणा, जहदजहल्लक्षणा चेति ॥ यत्र वाच्यार्थस्यान्वया भावः तत्र जहल्लक्षणा यथा मञ्चाः क्रोशन्ति ॥ यत्र वाच्यार्थस्याप्यन्वयः तत्र अजहदिति ॥ यथा छत्रिणो गच्छन्ति ॥ यत्र वाच्यैकदेशत्यागेन एकदेशान्वयः तत्र जहदजहदिति ॥ यथा तत्त्वमसीति । गोण्यपि लक्षणेव लक्षमाणगुणसंबन्धस्वरूपा ॥ अग्निर्माणवक इति ॥ नीलकण्ठी-तीरेपि शक्तिर्न कल्प्येत इति॥गङ्गापदस्येति शेषः ॥ नन्वेवम् सैन्धवादिपदानां नानार्थकत्वानुपपत्तिः ॥ एकत्र शक्तिरन्यत्र लक्षणेत्येव निर्वाहादत आह-सैन्धवादाविति ॥ आदिन हर्यादिपरिग्रहः ॥ संबन्धाभावादिति ॥ संयोगादिरूप- संबन्धाभावादित्यर्थः ॥ इदमुपलक्षणम्-प्रसिद्धयोरर्थयोः कुत्र शक्तिः कुत्र लक्षणेत्यत्र विनिगमकाभावेन उभयत्र शक्तिकल्पनस्यावश्यकतेति॥ मश्चा इति ॥ मञ्चपदं मञ्चस्थपुरुषे लाक्षणिकम् ॥ वाच्यार्थस्य शक्तिनिरूपणम्] गुणनन्यः। (८३) क्रोशनकर्तृत्वान्वयासंभवादिति भावः ॥ वाच्यस्यापीति ॥ अपिना लक्ष्यसमुच्चयः ॥ छत्रिण इति ॥ एकसार्थवाहित्वेन छत्र्यच्छत्रिषु ममनकर्तृत्वान्वयतात्पर्यानुपपत्तिरेव लक्षणाबीनम् ॥ न च छत्रिनि- त्यस्य मतुबर्थकेन्मत्ययान्ततया पदसमूहरूपत्वेन तच्छक्त्याः शक्यसं- बन्धरूपलक्षणाया अभावेन कथमिदमुदाहरणमिति वाच्यम् ॥ पति- पाद्यसंबन्ध एव लक्षणा इत्येतदभिप्रायेण उदाहरणात् ॥ अन्यथा * काकेभ्यो दधि रक्ष्यताम् ' इत्याद्युदाहर्त्तव्यम् ॥ काकपदस्य काक- तदितरसाधारणद्ध्युपघातकत्वावच्छिन्नपरत्वात् ॥ केचित्तु छत्रपदस्यै- कसाथै लक्षणा । तद्धितार्थः संबन्धी । तथा चैकसार्थसंबन्धिनो गच्छन्तीत्यन्वयवोध इत्याहुः ॥ तत्त्वमसीति ॥ अत्र तत्पदवाच्ये सर्वज्ञत्वादिविशिष्टे त्वंपदवाच्यस्यान्तःकरणादिविशिष्टस्याभेदानुपपत्त्या उभयत्र विशेषणांशपरित्यागः । तथा च तत्पदलक्ष्यस्य शुद्धस्य त्वंपदलक्ष्येण सहाभेदान्वयोपपत्तिरित्यभिप्रायः ॥ इदमुदाहरणं तु जीवब्रह्मणोरैक्यं ब्रुवतां ब्रह्मवादिनां सिद्धान्ताभिप्रायेण ॥ नैयायि- कमते तस्यासंमतत्वात् ॥ नैयायिकरीत्या तु 'सोय देवदत्तः । इत्यादौ तत्तांशस्येदानीमसंभवात् हानम् । इदंतांशस्य संभवादहान- मिति जहदनहल्लक्षणामाचक्षते ॥ परे तु 'घटो नित्यः । हत्यादौ घटत्वस्येव 'सोयं देवदत्तः इत्यादौ तत्तांशस्योपलक्षणतया भाने न किं चिद्बाधकमिति किं जहदनहल्लक्षणयेति वदन्ति। गौण्या वृत्त्यन्त- रत्वं निराचष्टे-गोण्यपीति ॥ ननु 'गङ्गायां घोषः' इत्यत्र तोरे शक्यस्य प्रवाहस्येव अग्नि- र्माणवकः' इत्यादी माणवके शक्यस्याग्नेः साक्षात्संबन्धो न संभवति इति कथं लक्षणया निर्वाह इत्यत आह-लक्ष्यमाणेति 'लक्ष्य- माणो यो गुणः शुचित्वादिः तत्संबन्धरूपा' इत्यर्थः ।अयमभिमायः- शक्यसंबन्धो हि लक्षणा । स च कचित् साक्षात्संबन्धः । क्वचित्पर- .. - तर्कसंग्रहे [ वृत्तिनिरूपणम् म्परासंबन्धः । एवं चं शक्यस्याग्नेः स्वनिष्ठशुचित्ववत्त्वसंबन्धमेव लक्षणेति ॥ दीपिका-व्यञ्जनापि शक्तिलक्षणान्तर्भूता शब्दशक्ति- मूला अर्थशक्तिमूला च अनुमानादिना अन्यथा सिद्धा- तात्पर्यानुपपत्तिलक्षणाबीजम् ॥ तत्प्रतीतीच्छया उच्च- रितत्वं तात्पर्यज्ञानश्च वाक्यार्थज्ञाने हेतुः ॥ नानार्था- नुरोधात् ॥ प्रकरणादिकं तात्पर्यग्राहकम् ॥ नीलकण्ठी-आलंकारिकाः पुनरेवमाहुः ‘तीरे घोषः। इति प्रयोगे स्वायत्ते 'गङ्गायां घोषः' इत्यनान्विताभिधानम् शैत्यपावनत्वादि- प्रतीत्यर्थम् । न च सा प्रतीतिर्लक्षणयाऽप्युपपद्यते ॥ केवलतीरलक्ष- णया एवानुपपत्तिपरिहारे शैत्यपावनत्वादिविशिष्टलक्षायां मानाभा- वात् ॥ तस्मादयननावृत्तिरवश्यमङ्गीकर्तव्येति ॥ तन्मतं निरस्यति- व्यञ्जनापीति ॥ शक्तिलक्षणान्तर्भूतेति ॥ अयं भावः- व्यनके नानार्थकस्थले 'दूरस्था भूधरा रम्याः' इत्यादौ भूधरशब्देन पर्वतानामिव राज्ञामपि शक्त्यैव प्रतीतिः संभवति । 'गङ्गायां घोषः। इत्यादौ तु शैत्यपावनत्वादिविशिष्टतीरप्रतीतिरपि लक्षणासाम्राज्या- देव । तत्र लक्षणाकल्पिकायाः तात्पर्यानुपपत्तेरेव सद्भावात् किमति- रिक्तव्यञ्जनयेति ॥ ननु शब्दशक्तिमूलाया व्यञ्जनाया अन्यथा सिद्धत्वेपि अर्थशक्ति- मूलायाः तस्याः नान्यथासिद्धिः। तथाहि 'गच्छ गच्छसि चेत् कान्त पन्थानः सन्तु ते शिवाः॥ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ इत्यादौ 'हे प्रिय तव गमनोत्तरं मम माणवियोगो भवि- ष्यति । अतो न गन्तव्यम्' इत्याद्यर्थों व्यज्यते ॥ न ह्यत्र शक्ति- कक्षणाभ्यां निर्वाहः ॥ इत्थं च व्यंचनाया आवश्यकतेत्यत आह- अर्थशक्तिमूलाचेति ॥ चस्त्वर्थे ॥ अनुमानांदिनेति ॥ - - वृत्तिनिरूपणम् ] गुणग्रन्थः। , अनुमानप्रकारस्तु—'इयं मदीयगमनोत्तरकालिकमाणवियोगवती । विलक्षणशब्दप्रयोक्तृत्वाद ' इत्यादिरूपः । आदिना संभावनादिपरि- ग्रहः ॥ उत्कटैकतरकोटिकसंशयः संभावना । औत्कट्यं च विष- यताविशेषः ॥ यदिपुनरानुभविकलोकानां स्वरसवाही शब्दादमुमर्थन प्रत्येमि' इत्यनुभवः, तदा वैयञ्जनकी प्रतीतिः गीर्वाणगुरूणामप्यश- क्यवारणेति व्यञ्चनासिद्धिरमत्यूहैवेति मन्तव्यम् ॥ अन्वयानुपपत्तेर्लक्षणाबीजत्वे 'यष्टीः प्रवेशय' इत्यादी लक्षणानु- पपत्तिः । तात्पर्यानुपपत्तेः तथा तस्यास्तत्रापि सत्त्वेन यष्टिपदस्य यष्टिधरे लक्षणा संभवतीत्याशयेनाह-तात्पर्यानुपपत्तिरिति ॥ तत्प्रतीतीति ॥ तीरादिरूपत्वेन प्रतीतिरित्यर्थः ॥ नानार्थ इति ॥ 'सैन्धवमानय' इत्यादिनानार्थस्थले सैन्धवपदस्य अश्वे लवणे च शक्तेः तुल्यतया शाब्दबोधे तात्पर्यग्रहस्यकारणत्वमन्तरा न नियतकाले तत्तद्धोधोपपत्तिरिति तत्र तत्कारणत्वस्यावश्यकत्वे तद- नुरोधेन सर्वत्र तदावश्यकतेति भावः ॥ न च मौनिश्लोकादौ शाब्द- बोधानुपपत्तिः । तत्र निरुक्ततात्पर्यस्य असत्त्वादिति वाच्यम् ॥ तात्प- र्यस्य तत्पतीतीच्छारूपत्वपर्यवसानेन तत्र तादृशतात्पर्यसत्त्वेनादो- षात् ॥ न च तथापि तत्पतीतीच्छारहितशुकाद्याचरितवाक्यादापि शाब्दबोधस्यानुभविकतया तत्रानुपपत्तेः परिहारासंभव इति शङ्कयम्॥ तत्रेश्वरीयेच्छामादायैवानुपपत्तेः परिहारसंभवात् इत्यलमनलजल्पनेन।। प्रकरणादिकमिति ॥ आदिना ‘सशंखचको हारः पूज्यः' इत्यादौ हरिशब्दस्य भगवति तात्पर्यनिर्णायकस्य 'सशंखचक्रः' इति विशेषणादेः परिग्रहः ॥ कथं प्रकरणादेः तात्पर्यग्राहकत्वमिति चेत् ॥ इत्थम् ' इदं सैन्धवपदं लवणबोधेच्छयोच्चरितम् भोजनमकरणे उक्त- त्वात् । इत्यादिरीत्या गृहाण ॥ दीपिका-द्वारमित्यादौ पिधेहीतिशब्दाध्याहारः ॥
(८६) तर्कसंग्रहे [वृत्तिनिरूपणम् ननु अर्थज्ञानार्थात् शब्दस्यार्थमविज्ञाय शब्दाध्या- हारासंभवादर्थाध्याहार एव युक्त इति चेत् ॥ न ॥ पद विशेषजन्यपदार्थोपस्थितेःशाब्दज्ञाने हेतुत्वात्।।अन्यथा 'घटःकर्मत्वमानयनं कृतिः इत्यत्रापिशाब्दज्ञानप्रसङ्गात् नीलकण्ठी-प्रभाकरमतं निराकरिष्यमाणः स्वसिद्धान्तं दर्श- यति-द्वारमिति ॥ अर्थज्ञानार्थत्वाच्छब्दस्यति ॥ शब्दज्ञा- नस्य अर्थज्ञानफलकत्वादित्यर्थः ॥ एतावता प्रथमत एवार्थानुसंधाने लाघवमिति हृदयम् ॥ किं च ‘अर्थबुध्वा वाक्यरचना । इति न्याये- नार्थज्ञानमन्तरा आकाशितशब्दानुसंधानरूपशब्दाध्याहारस्यैवासंभ- वेन प्रथमतः अर्थाध्याहारस्यैवावश्यकतेत्याह-अर्थमपीति ॥ यथा कथं चिदुपस्थितपदार्थानां शाब्दबोधानुदयेन पदजन्यबस्योपस्थिति- विशेषणताया आवश्यकतया तादृशोपस्थितिसंपत्तये शब्दाध्याहार एव अनायत्त्या अनुसतव्यः इत्याह-पदविशेषेति ॥ विशेषपदस्यापि प्रयोजन दर्शयितुम् 'घटः कर्मत्वम् ? इत्याद्यनुधावनम् ॥ तत्र कर्म- त्वादिपदजन्यकर्मत्वाद्युपस्थितेः सत्त्वेपि घटपदोत्तरामादिपदजन्यकर्म- त्वाद्युपस्थितेरसत्त्वेन न सिद्धान्तिमते शाब्दबोधप्रसङ्गः इतिभावः ।। पदविशेषजन्येत्यत्र वृत्त्या पदविशेषजन्येत्यपि बोध्यम् ॥ तेन 'घटमानय , इत्यादौ घटादिपदादाकाशादेरुपस्थितावपि न शाब्द- बोध इति दिक् ॥ दीपिका-पङ्कजादिपदेषु योगरूढिः । अवयवशक्ति- योगः समुदायशक्ती रूढिः। नियतपद्मत्वज्ञानार्थ समु- दायशक्तिः । अन्यथा कुमुदेपि प्रयोगप्रसङ्गः॥ नीलकण्ठी-यद्यपि पदं तावच्चतुर्विधम्-यौगिकं, रूढं, योग- रूढं, यौगिकरूढं, चेति ॥ योगोऽवयवशक्तिः तन्मात्रेणार्थप्रतिपाद- कम् आद्यम् ॥ यथा पाचकादिपदम् वृत्तिनिरूपणम् ] गुणग्रन्थः। (८७) रूढिः-समुदायशक्तिः । तन्मात्रेणार्थप्रतिपादकं द्वितीयम् ॥ यथा मवादिपदम् ॥ योगरूढिभ्यां परस्परसहकारेणार्थप्रतिपादकं तृतीयम् ॥ यथा पङ्कजादिपदम् ॥ यौगिकं च तद्रूढं चेति व्युत्पत्त्या योगरूढया च परस्परासहकारे- णार्थप्रतिपादकं चतुर्थम् ॥ यथा उत्पिदम् योगेन तरुगुल्मादेः रूढ्या तु योगविशेषस्य वाचकम् । तथापि योगरूढं प्रदर्य तत्र योगरूढयोः स्वरूपप्रदर्शनेन तद्रीत्या अन्यत्रापि बोद्धं शक्यमित्यभि- प्रायेण पङ्कजादिपदे योगरूटिं प्रदर्शयति पंकजादीति ॥ योग- रूढिरिति ॥ योगसहिता रूढिरित्यर्थः ॥ ननु पङ्कजादिशब्देष्वपि योग एवास्तु । तावतैव निर्वाहाद इत्या- शङ्कय पङ्कजशब्दस्य पद्मत्वावच्छिन्ने वृत्तिमन्तरा नियमेन पद्मत्वाव- च्छिन्नभानम् अनुभवसिद्धं न निर्वहतीति पद्मत्वावच्छिन्नरूढिरावश्यके त्याह-नियतेति ॥ नियतपद्मत्वावच्छिन्नभानानुभवे विमतिपन्नं प्रत्याह अन्यथेति॥ नियतपद्मत्वावच्छिन्नभानोपयोगिसमुदायशक्त्य- नङ्गीकार इत्यर्थः ॥ प्रयोगति ॥ पङ्कजपदप्रयोगे इत्यर्थः॥ दीपिका- 'इतरान्विते शक्तिः' इति प्राभाकराः॥ नीलकण्ठी-यद्यपि कार्यान्विते शक्तिः इति प्रभाकरमतम् । तथापि सिद्धार्थपरवाक्ये व्युत्पत्तेर्व्यवस्थापितत्वेन तत्साधारण्याय तन्मतं परिष्कृत्य दर्शयति-इतरान्वित इति ॥ अन्विते शक्तिः इति तु निष्कर्षः ॥ अयमभिप्रायः कथं चिद उपस्थितपदार्थानां शाब्दबोधवारणाय तत्तद्विषयकशाब्दबोधं प्रति वृत्तिज्ञानजन्यतदुपस्थि तत्वेन हेतुतायाः कल्पनीयतया अन्वयांशेपि शक्तिरपेक्षिता । अन्यथा तादृशसामान्यकार्यकारणभावभङ्गापत्तेः ।। न च संसर्गविषयताभिन्नतत्तद्विषयकशाब्दबोधं प्रति वृत्ति ज्ञानाधी (८८) तर्कसंग्रहे [ वाक्यनिरूपणम् नतत्तदुपस्थितत्वेन हेतुत्वमास्ताम् । तथा च अन्वयांशेपि शक्त्यन" ङ्गीकारेपि न क्षतिरिति वाच्यम् ॥ तथा सति कार्यतावच्छेदकगौर- वापत्तेः । एवं 'चान्वितो घटपदवाच्यः' इत्याकारकशक्तिज्ञानमेव शाब्दबोधप्रयोजकमिति ॥ केचित् तु इतरान्विते शक्तिरित्यस्य कार्या- विते शक्तिरित्यर्थमाहुः ॥ दीपिका- 'अन्वयस्य वाक्यार्थतया भानसंभवाद- न्वयांशेऽपि शक्तिर्न कल्पनीया' इति गौतमीयाः॥ नीलकण्ठी-सयुक्तिकं नैयायिकमतं दर्शयति-अन्वयस्येति॥ पदार्थसंसर्गस्य पदसमभिहारबलादेव शाब्दबोधे भानसंभवात् तादृश- संसर्गाशेपि शक्तिर्न कल्पनीया इति समुदितानिष्कर्षः ॥ अयमा- शयः-तद्विषयकशाब्दबुद्धिं प्रति वृत्तिज्ञानाधीनतदुपस्थितित्वेनानुगत- कार्यकारणभावो न संभवति ॥ शक्तिलक्षणोभयसाधारणस्य वृत्तित्वस्य दुर्वचत्वात् । अपि तु तच्छक्तपदज्ञानजन्यतदुपस्थितित्वेनैका कार- णता ॥ तल्लाक्षणिकपदज्ञानजन्यतदुपस्थितित्वेन च अपरा कारणता स्वीकर्त्तव्या ॥ परस्परतत्तदुपस्थितिजन्यशाब्दबोधे व्यभिचारवार- णाय च तत्तत्कारणाव्यवहितोत्तरत्वं तत्तत्कारणजन्यतावच्छेदककोटौ निवेशनीयम् ॥ एवं च वृत्त्यनुपस्थापितस्यापि पदार्थद्वयसंसर्गस्य शाब्दबोधोपगमे व्यभिचाराप्रसक्त्या दर्शितद्विविधकार्यकारणभावस्य निष्पत्यूहतेति किमन्वयांशेशक्तिकल्पनेन । मूलम्-आकाङ्क्षा योग्यता संनिधिश्च वाक्या- र्थज्ञाने हेतुः ॥ पदस्य पदान्तरव्यतिरेकप्रयु- तानन्वयाननुभावकत्वमाकाङ्क्षा ॥ अर्थावाधो योग्यता ॥ पदानामविलम्बेनोचारणं संनिधिः।। तथा च आकाङ्क्षादिरहितं वाक्यमप्रमाणम् ॥
गुणग्रन्थः। प्रमाणवादः]: (८९) यथा ' गौरश्वः पुरुषोहस्ती' इति न प्रमाणम् ॥ आकाङ्क्षाविरहात् ॥ 'अग्निना सिञ्चेत् ' इति न प्रमाणम्, योग्यताविरहात् ॥ प्रहरे प्रहरे असहोच्चारितानि 'गां, आनय' इत्यादिपदानि न प्रमाणम् । सांनिध्याभावात् ॥ दीपिका-आकाक्षेति॥आकाक्षादिज्ञानमित्यर्थः।। अन्यथा आकाङ्क्षादिभ्रमाच्छाब्दो भ्रमो न स्यात् ॥ आकाङ्क्षा लक्षयति-पदस्येतियोग्यतामाह-अर्थेति।। संनिधिलक्षणमाह-पदानामिति ॥ अविलम्बेन पदार्थो- पस्थितिः संनिधिः ॥ उच्चारणंतु तदुपयोगितया उक्तम् ॥ गौः अश्व इति ॥ घटः कर्मत्वमित्यप्यनाकाक्षोदाहरणं द्रष्टव्यम् ॥ नीलकण्ठी-आकाङ्क्षादिरहितपदसमुदायात् शाब्दबोधवारणा- यआकाङ्क्षादेः शाब्दबोधहेतुत्वमभिहितं मूलकृता ॥ तच्च नवीन- मते ननिर्वहतीति तज्ज्ञानस्य हेतुतामाह-आकाङ्क्षादिज्ञान- मिति ॥ आदिना योग्यतापरिग्रहः ॥ अन्यथा आकाङ्क्षादेः शाब्दधीहे तुत्वे ॥ मूले-पदस्येति ॥ यत्पदस्य यत्पदाभावप्रयुक्तम- न्वयबोधाजनकत्वं तत्पदसमभिव्याहृततत्पदत्वमाकाक्षेत्यर्थः ॥ प्रयुक्तत्वं च कारणाभावात्कार्याभावः' इति प्रतीतिसाक्षिकः स्वरूप- संबन्धविशेषः ॥ अजनकत्वान्तं परिचायकम् एक पदार्थेऽपरपदार्थ- त्वं योग्यतेति मते संशयनिश्चयसाधारणतज्ज्ञानत्वावच्छिन्नं शाब्दधी- हेतुः ।। बाधनिश्चयाभावो योग्यतेति नवीनमते तु स्वरूपसत्येव यो- ग्यतां तद्धेतुरिति दिक् ॥ मूलम् वाक्यं द्विविधम्-वैदिकं, लोकिकं च ॥
(९०) तकसंग्रहे- [ वाक्यनिरूपणम् वैदिकमीश्वरोक्तत्वात् सर्वमेव प्रमाणम् ॥ लौ- किकं त्वाप्तोक्तं प्रमाणम् ॥ अन्यदप्रमाणम् ॥ वाक्यार्थज्ञानं शब्दज्ञानम्॥ तत्करणम् शब्दः॥ इति शब्दप्रमाणम् ॥ दीपिका-वाक्यं विभजते-वाक्यमिति। वैदिके विशे- षमाह-वैदिकमीश्वरोक्तत्वादिति ॥ ननु वेदस्यानादित्वात् कथमीश्वरोक्तत्वमितिचेत् । 'वेदः पौरुषेयः वाक्यसमूहत्वात् भारतादिवत् ' इत्य- नुमानेन पौरुषेयत्वसिद्धेः ॥ नच स्मर्यमाणकर्तृत्वमुपा- धिः। गौतमादिभिः शिष्यपरम्परया वेदेपि सैकर्तृत्वस्म- रणेन साधनव्यापकत्वात् ॥ तस्मात् तपस्तेपनात् त्रयो वेदाअजायन्त ' इति श्रुतेश्च ॥ ननु वर्णाः नित्याः। स एवायं गकारः । इति प्रत्य- भिज्ञाबलात् । तथा च कथं वेदस्यानित्यत्वमिति चेत् ॥ न॥'उत्पन्नोगकारो नष्टो गकारः' इत्यादिप्रतीत्या वर्णा- नामनित्यत्वात् 'सोऽयंगकारः' इति प्रत्यभिज्ञायाः 'सेयं दीपज्वाला' इतिवत् जात्यावलम्बनत्वात् ॥ वर्णानां, नित्यत्वेऽप्यानुपूर्वीविशिष्टवाक्यस्याप्यनित्य- त्वात् ॥ तस्मात् ईश्वरोक्तो वेदः ॥ मन्वादिस्मृतीनाम् आचाराणां च वेदमूलकतया प्रामाण्यम् ॥स्मृतिमूलवा- क्यानामिदानीमनध्ययनात् तन्मूलभूता काचित् शा- खोच्छिन्नेति कल्प्यते ॥ ननु पाम्यमानवेदवाक्योत्सादस्य कल्पयितुम् अंश- १ कर्तुः स्मर्यमाणत्वेन । २ प्रत्यभिज्ञानत्वे ।
गुणग्रन्थः। " प्रमाणवादः] (९१) क्यतया विप्रकीर्णवादस्यायुक्तत्वात् नित्यानुमेयो वेदो मूलमिति चेत् ॥ न ॥ तथापि वर्णानुपूर्वीज्ञानाभावेन बोधकत्वासंभवात् ॥ नीलकण्ठी-मीमांसकः शङ्कते-नन्विति ॥ वेदस्य पुरुषोक्त- त्वं अनुमानेन व्यवस्थापयति-वेदइति ॥ ननु 'अष्टादशपुराणानां कर्ता सत्यवतीसुतः। इति प्रमाणबलेन भारतादौ कर्ता तूपलभ्यते, न तथा वेदे, । तथा च स्मर्यमाणकर्तृत्वस्य भारतादी साध्यव्यापक- त्वात् पक्षे साधनाव्यापकत्वात् उपाधित्वेन कथमनुमानम् साध्य- साधकं भवेत् इत्याशङ्कते न चेति ॥ गौतमादिभिः शिष्यपरंपरया वेदकर्तुरुपदेशे विवदन्तं प्रत्याह-तस्मादिति ॥ स एवायं गकार इतिं ॥ अत्र एतत्कालिकगकारे पूर्वकालिकगकारभेदो भासते । स च वर्णानामनित्यत्वे न संभवतीति भावः ॥ अनित्य- त्वादिति ॥ तर्हि प्रत्यभिज्ञाविरोध इत्यत आह-सौयमिति ॥ उत्पत्तिविनाशप्रत्यययोः अन्यार्थकल्पनमपेक्ष्यैतत्मत्ययस्य तथात्वक- ल्पनेलाघवमिति हृदयम् ॥ 'अग्निमीळे' इत्यादौ आनुपूर्वी अकारो- त्तरग्नात्वादिरूपा। तत्रोत्तरत्वमव्यवहितोत्तरक्षणवृत्तित्वरूपं वाच्यम् ।। इत्थं च वर्णानां नित्यत्वाङ्गीकारेपि अनित्यक्षणघटिताया आनुपूर्व्या अनित्यत्वात् तदिशिष्टवाक्यसमुदायात्मकवेदस्य त्वदभिमतनित्यत्वं न सिध्यतीति वर्णानामनित्यत्वमेवोचितमित्याह-वर्णानामिति ॥ यद्यपि स्मृत्यादीनां आप्तोक्तत्वादेव प्रमाणत्वं सिध्यति, तत्कर्तृमन्वा- दीनामाप्तत्वात् ॥ तथापि तेषामसत्त्वे विपतिपन्नं प्रत्याह-मन्वा- दीति-आचाराणामिति ॥ आचारामतिपादकविशिष्टवाक्या- नामित्यर्थः ॥ एतेन प्रमाणविभागव्याघातशङ्का निरस्ता ॥ वेदार्थ ज्ञात्वैव मन्वादिभिः तदर्थकस्मृत्यादीनि विचारितानि ।। अतस्तेषां प्रामाण्यमिति मनसिकृत्याह-वेदमूलकतयति ॥
(९२) तर्कसंग्रहे- [परार्थानुमाननिरूपणम् ननु तर्हि सः वेदः कुतो नोपलभ्यते इत्यत आह-स्मृतिमूले- ति|तन्मूलभूतेत्यादि। स्मृत्यादिमूलभूता काचित् शाखापाठतः परिभ्रष्टे ति अनुमीयत इत्यर्थः।। वाक्योत्सादस्य वाक्योच्छेदस्य ।। ननु समानानुपूर्वी कवेदपाठस्य संप्रदायसिद्धत्वात् तादृशवेदे कति- पयवाक्योच्छेदस्य कल्पयितुमशक्यत्वेपि पठ्यमानवेदे विशकलिततया विद्यमानवाक्यानां स्मृतिमूलत्वमस्तीत्यत आह-विप्रकीर्णेति ॥ अयुक्तत्वादिति।। स्मृत्यादिसमानार्थकवाक्या नां पठ्यमानवेदेऽनुप- लम्भादिति भावः।। नित्यानुमेय इति ॥नित्योनुमेयरूप इत्यर्थः।। वर्णानुपूर्वीज्ञानाभावेनेति ॥ तादृशज्ञानस्यापि शाब्दवोधहेतु- त्वात् ।। अन्यथा नदीदीनादिशब्दैरर्थविशेषबोधानापत्तरिति भावः ॥ दीपिका-ननु 'एतानि पदानि स्मारितार्थसंसर्गवन्ति आकाङ्क्षादिमत्पदकदम्बकत्वात् 'गामनाय दण्डेनेति' मद्वाक्यवत्' इत्यनुमानादेव संसर्गज्ञानसंभवात् शब्दो न प्रमाणान्तरमिति चेत् ॥ न ॥अनुमित्यपेक्षया 'शब्द- ज्ञानस्य विलक्षणस्य 'शब्दात्प्रत्येमि' इत्यनुव्यवसा- यसाक्षिकस्य सर्वसंमतत्वात् ॥ नीलकण्ठी-शब्दस्य प्रमाणत्वमनङ्गीकुर्वतां वैशेषिकाणां मतं दूषयितुमुपन्यस्यति-नन्वेतानीत्यादिना ॥ एतानि पदानि घटमानयेत्यादीनि । स्मारितार्थसंसर्गवन्ति इति । स्मारितार्थ- संसर्गज्ञानपूर्वकाणीत्यर्थः ॥ संसर्गे तात्पर्यविषयत्वं निवेशनीयम् । तेन संसर्गान्तरमादाय नार्थान्तरता । आकाङ्क्षादीत्यादिना योग्य- तासत्त्योः परिग्रहः ॥ आकाङ्क्षादिरहिते पदकदम्बे व्यभिचारवार- गाय आकाङ्क्षादीति ॥ सर्वसंमतत्वादिति॥तथा च कार्य- वैलक्षण्यानुरोधेन शब्दः प्रमाणान्तरमिति भावः ॥ दीपिका--नन्वर्थापत्तिरपि प्रमाणान्तरमस्ति पीनो - प्रमाणवादः] गुणग्रन्थः। (९३) -- देवदत्तो दिवा न भुङ्क्ते इति दृष्टे श्रुते वा पीनत्वान्यथा- तुपपत्त्या रात्रिभोजनमर्थापत्त्या कल्प्यत इति चेत् ॥न ॥ देवदत्तो रात्रौ भुङ्क्ते दिवाऽभुञ्जानत्वे सति पीनत्वात् इत्यतुमानेनैव रात्रिभोजनस्य सिद्धत्वात् ॥ नीलकण्ठी-मीमांसकः शङ्कते-नन्विति॥दिवा न भुङ्क्ते इत्यर्थे दृष्टे प्रत्यक्षतो ज्ञाते श्रुते शब्दादवगते । एतेन दृष्टार्थापत्तिः श्रु- तार्थापत्तिश्चेत्यर्थापत्तेदैविध्यं सूचितम्।।पीनत्वान्यथानुपपत्त्यति॥ पीनत्वस्य रात्रिभोजनं विनाऽनुपपत्त्येत्यर्थः ॥ अत्रेदम् अवधेयम्- यद्विना यदनुपपन्नं तत्तदुपपादकमिति रात्रिभोजनं उपपादकम्, पीन- त्वमुपपाद्यम्, उपपादकज्ञानं फलम् उपपाद्यज्ञानं करणम् ॥ फलकर- णयोरर्थापत्तिशब्दो वर्त्तते ॥ फले ' अर्थस्य आपत्तिः कल्पना : इति व्युत्पत्त्या ॥ करणे तु ' अर्थस्यापत्तिः कल्पना यस्मात् । इति व्युत्प- त्त्येति ॥ व्यतिरेक्यनुमानेनैव गतार्थत्वात् अर्थापत्तेः प्रमाणान्तरत्वम- नुचितमिति समाधत्ते-देवदत्त इति ॥ दिवामात्रभोजने पीने व्यभिचारवारणाय सत्यन्तम् अहोरात्रभोजिन्यपीने व्यभिचारवारणाय विशेष्यं योगाद्यजन्यपीनत्वपरम् ॥ तेन भोजनशून्ये योगिनि पीने न व्यभिचारः॥ दीपिका-शते पञ्चाशदिति संभवोप्यनुमानमेव । इह वटे यक्षस्तिष्ठति' इत्यैतिह्यमपि अज्ञातमूलव- कृकः सब्द एव॥ नीलकण्ठी-संभवैतिह्ययोरविरिक्तप्रमाणत्वं वदतां पौराणिकानां मतं दूषयति-शते पञ्चाशदित्यादिना । अनुमानमेव नतु प्रमाणान्तरमित्यर्थः ।। शतवानित्युक्ते पञ्चाशद्वानिति ज्ञानं संभवति तस्यानुमानेनैव निर्वाहात् । शतस्य पश्चशव्याप्यत्वादिति भावः ॥ अज्ञानमूलेतिविशिष्यानिश्चितपथमवक्तकः शब्दः, न तु प्रमा- [प्रमाणवादः तर्कसंग्रहे- (९४) - णान्तरमित्यर्थः । तादृशशब्दस्य यथार्थत्वे शब्दप्रमाणमध्येन्तर्भावः।। अन्यथा तु अप्रमाणमेवेति हृदयम् ॥ दीपिका-चेष्टापि शब्दानुमानद्वारा व्यवहारहेतुरि- तिनमानान्तरम् ॥ तस्मात् प्रत्यक्षानुमानोपमानशब्दा- चत्वार्येव प्रमाणानि ॥ नीलकण्ठी- नन्वनया चेष्टया अयमों बोधव्य इति संकेति- तचेष्टया विजातीयममाजननाद चेष्टापि प्रमाणान्तरम् । इति वदन्त निरस्यति-चेष्टापीति ॥ शब्दानुमानद्वारेति ॥ शब्दद्वारा अनुमानद्वारा वा न तु स्वातन्त्र्येणेत्यर्थः ॥ चेष्टयाकलितस्य शब्दस्य प्रमापकत्वपि गौरवादनुमानानुसरणम् ।। व्यवहारेति ॥ प्रमात्मक- ज्ञानेत्यर्थः । उपसंहरति-तस्मादिति ।। इति तर्कदीपिकाप्रकाशे भगवदर्पिते शब्दपरिच्छेदः ॥ ४ ॥ दीपिका-ज्ञानानां तद्वति तत्प्रकारकत्वं स्वतोग्राह्य परतो वेति विचार्यते ॥ तत्रविप्रतिपत्तिः ॥ ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यम्, न वा । अत्र विधिकोटिः स्वतस्त्वम् निषेधकोटिः परत- स्त्वम् ॥ नीलकण्ठी-प्रमाणमसङ्गात् प्रमाणस्य परतो ग्राह्यतां व्यवस्था- पयिष्यन् आह-ज्ञानानामिति ॥ षष्ठयर्थ आधेयत्वम्, तस्य चान्वये तद्वति तत्मकारकत्वे ॥ तच्च तद्वद्विशेष्यकत्वावच्छिन्नतत्म- कारकत्वम् ॥ तच्छब्दार्थों घटत्वादिरूपः ॥ स्वतोग्राह्यमिति ॥ ज्ञानग्राहकसामग्रीजन्यग्रहविषय इत्यर्थः ॥ परत इति ॥ 'ग्राह्यम्। इत्यनुषज्यते ॥ अनुमानादिजन्यग्रहविषय इति तदर्थः ॥ तत्र विचारे । प्रयोजकत्वं सप्तम्यर्थः । विमतिपत्तावन्वति ।। कथं तस्य विचारप्रयोजकत्वमिति चेत् ।। अत्र वदन्ति ॥ विरुद्धार्थपतिपादक- प्रमाणवादः] गुणग्रन्यः। (९५) वाक्यद्वर्य हि विप्रतिपत्तिः ॥ तया अंग्रामाण्यशङ्काकलिततत्त- द्वाक्यार्थबोधद्वारा मध्यस्थस्य संशयो जन्यते इत्येकतरको- टिनिश्चयाय न्यायमयोगादिरूपो विचारः । एवं च विचारोपयोगिसं- शयजनन्या विमतिपत्तेर्विचारोपयोगित्वमक्षतमिति॥ज्ञानप्रामाण्य- मिति ॥ पक्षनिर्देशः ॥ अत्र 'तदति तत्प्रकारकज्ञानत्वरूपमेव "प्रामाण्यं पक्षः- ननु 'प्रमितिकरण त्वरूपम् । इति तात्पर्यग्राहकं ज्ञानपदम् ॥ वस्तुतस्तु तदति तत्प्रकारकज्ञानस्य घटत्वपटत्वादिरूपार्थभेदेन भिन्न- तया कस्यापि प्रामाण्यस्य यावद्भानग्राहकसामग्रीग्राह्यत्वं न संभवति। अतः यद्धर्मावच्छिन्नघटितं प्रामाण्यं यदा पक्षो ग्राह्यः । तदा तद्- मप्रकारकज्ञानग्राहकयावद्बाह्यत्वमेव साधनीयम् । न तु सामा- न्यतो ज्ञानग्राहकयावद्भाह्यत्वमिति तात्पर्यग्राहकं ज्ञानपदम् । तदाप्र- माण्योति ॥ तदप्रामाण्याग्राहिका यावती ज्ञानग्राहिका सामग्री तजन्यग्रहविषयो न वा इत्यर्थः॥ एतादृशो ग्रहः गुरुमते व्यवसायः। मुरारिमिश्रमते अनुव्यवसायः। भट्टमते च ज्ञाततालिङ्गकानुमितिः। अत्र गुरुमते । सर्वस्मिन्नेव ज्ञाने मितिमातृमेयैतत्रयं भासते ॥ तन्मते 'घटत्वेन घटमहं जानामि । इत्याकारकस्यैव व्यवसा- यस्योत्पत्तेः । एवं च व्यवसायस्य स्वप्रकाशात्मकतया स्वेनैव स्वगतमामाण्यस्य ग्रहणाद्भवति प्रामाण्यस्य स्वतो ग्राह्यात्वम् । विशिष्ट- बुद्धौ विशेषणज्ञानस्य कारणतायाः तैरनङ्गीकारादनुपस्थितस्यापिमा- माण्यस्य भानसंभवात् ॥ मिश्रमते 'अयं घटः' इत्याकारकज्ञानानन्तरं 'घटत्वेन घटमहं जानामि' इति ज्ञानविषयकलौकिकमानं समुत्पद्यते, तेन प्रामाण्यस्य ग्रहणम् ॥ भट्टमते ज्ञानस्य अतीन्द्रियतया ज्ञातता लिङ्गकानुमितेरेव प्राथमिकज्ञानग्रहरूपतया प्रामाण्यं गृह्यते ॥ अनुमा- नप्रयोगस्तु'घंटो घटत्ववद्विशेष्यकघटत्वप्रकारकज्ञानविषयः, घटत्वwoman- तर्कसंग्रहे- [प्रमाणवादः प्रकारकज्ञाततावत्त्वात्, यन्नैव तन्नैवम्' इति ॥ ज्ञातता च सविष- यको ज्ञानजन्यः अतिरिक्तः पदार्थः इति मतविवेकः ॥ दीपिका-अनुमानग्राह्यत्वेन सिद्धसाधनवारणाय- यावदिति ॥ 'इदं ज्ञानमप्रमा' इति ज्ञानेन प्रामाण्याग्रहा- द्वाधवारणाय-अप्रामाण्याग्राहकेति ॥ 'इदं ज्ञानम- प्रमा' इतिअनुव्यवसायनिष्ठप्रामाण्यग्राहकस्य अप्रामा- ण्याग्राहकत्वाभावात् स्वतस्त्वं न स्यादतः तदिति ॥ तस्मिन् प्रामाण्याश्रये अप्रामाण्याग्राहक इत्यर्थः॥ उदा- हृतस्थले व्यवसाये अप्रामाण्याग्राहकस्याप्यनुव्यवसाये तदग्राहकत्वात् स्वतस्त्वसिद्धिः॥ नीलकण्ठी-यावत्त्वविशेषणे सत्येव अग्राहकान्त सार्थकमित्य- भिप्रेत्य प्रथमतः॥तस्यैव प्रयोजनं दर्शयति-अनुमानेति ॥ प्रामा- ण्यस्येत्यादिः ॥ सिद्धसाधनति ॥ नैयायिकमतेपि । इदं ज्ञानं प्रमा, समर्थप्रवृत्तिजनकत्वात् । इत्यनुमानेन ' इदं ज्ञानं प्रमा' इत्या- प्तवाक्येन च ग्राह्यत्वादिति भावः ॥ नैयायिकैर्निषेधे साध्ये बाधवा- रणाय इत्यपि बोध्यम् ॥ यावदितीति ॥ ननु सामय्या यावत्त्व- विशेषणमयुक्तम्, यावत्सामग्रीजन्यग्रहापसिद्धेः न हि सर्वाभिमा॑नसा- मग्रीभिः एकं ज्ञानं जन्यते । न च यावतीः सामग्री: विशेष्योपादाय तत्तजन्यगहविषयत्वं साध्यते इति वाच्यम् । अनुव्यवसायादिसाम- ग्रीणां ताद्रूप्येण प्रवेशे मतत्रयसाधारण्यानिर्वाहादिति चेत् ॥न॥ यतो यावदिति फलतो ग्रहविशेषणम् ॥. तथा च ज्ञानग्राहकसामग्रीजन्य- यावद्हविषयत्वमिति फलितम् ॥ तत्तद्धर्मप्रकारक ज्ञानग्राहकसामग्री- जन्यग्रहत्वव्यापकविषयितामतियोगित्वमिति निष्कर्ष इति संक्षेपः ॥ प्रामाण्याग्रहादिति ॥ व्यवसायनिष्ठेत्यादिः ॥ मामाण्याविषयी करणादित्यर्थः ॥ अप्रामाण्याग्राहकेतीति ॥ तथा च तादृश- प्रामाण्यवादः] गुणग्रन्थः। (९७) ज्ञानसामथ्याः साध्यकोट्यनिविष्टत्वात् तया प्रामाण्यस्याग्रहणेपि न बाध इति भावः ॥ अनुव्यवसायनिष्ठेत्यादि । तादृशानुव्यवसायनिष्ठं अमा- माण्यवद्विशेष्यकत्वविशिष्टापामाण्यप्रकारकत्वरूपताहकस्येत्यर्थः । सामान्ये नपुंसकनिर्देशः । स्वतस्त्वं न स्यादिति ॥ यदा निरु- क्तप्रामाण्यस्य पक्षता, तदा अमामाण्याग्राहिकाऽमामाण्यमकारकज्ञान- जनकसामग्र्या एव साध्यकोटौ निवेशनीयतया तादृशसामय्या अम- सिद्धत्वात् तस्य स्वतोग्राह्यत्वं न सिध्यदित्यर्थः ॥ सप्तमीतत्पुरुषम-- भिप्रेत्याह-तस्मिन्निति ॥ एतस्यैव विवरणं ग्राह्यम्-प्रामाण्या- श्रय इति ॥ ' यादृशं मामाण्यं प्रकृतानुमितो उद्देश्य, तादृशमामा- ण्याश्रयविशेष्यकापामाण्यामकारकज्ञानाजनकः इति अग्राहकान्तार्थः।। 'इदं ज्ञानमममा' इत्यनुव्यवसायनिष्ठप्रामाण्यग्राहकसामग्र्याःव्यवसाय- विशेष्यकाप्रामाण्यग्रहजनकत्वे अनुव्यवसायविशेष्यकामामाण्यग्रहाजन- कत्वात् ज्ञानग्राहकत्वात् च अपामाण्यवदिशेष्यकत्वादिवटितमामा- ण्यस्य स्वतोग्राह्यत्वसिद्धिरित्याह-उदाहृतस्थले इति ॥ 'इदं ज्ञानमप्रमा' इत्यत्रेत्यर्थः ॥ अधिकमस्मदीयाभिनवमणिदीधि- तिव्याख्यायामनुसंधेयम् ॥ दीपिका-ननु स्वत एव प्रामाण्यं गृह्यते, 'घटमहं जानामि' इत्यनुव्यवसायेन घटघटत्वयोरिव तत्संबन्ध- स्यापि विषयीकरणात व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वा- त् ॥ पुरोर्तिनि प्रकारसंबन्धस्यैव प्रमात्वपदार्थत्वात इति चेत्॥ न ॥स्वतः प्रामाण्यग्रहे 'जलज्ञानं प्रमा न वा इत्यनभ्यासदशायांप्रमात्वसंशयो न स्यात् । अनुव्यव- सायेन प्रामाण्यस्य निश्चितत्वात् । तस्मात् स्वतोग्राह्य- त्वाभावात् परतो ग्राह्यत्वम् ॥ तथाहि-प्रथमं जलज्ञा- नानन्तरं प्रवृत्तौ सत्यां जललामे सति पूर्वोत्पन्नं ज्ञानं प्रमा । समर्थप्रवृत्तिजनकत्वात् ' यन्नैवं तन्नैवम् यथा ।
(९८) तर्कसंग्रहे- [प्रामाण्यवादः अप्रमा' इति व्यतिरेकिणा प्रमात्वं निश्चीयते ॥ द्विती- यादिज्ञानेषु पूर्वज्ञानदृष्टान्तेन तत्सजातीयलिङ्गेनान्वय- व्यतिरेकिणापि गृह्यते ॥ नीलकण्ठी-इत्थं विप्रतिपत्तिं प्रदर्य मीमांसकमतमपन्यस्यति-- नन्विति । स्वत एवेत्यादि ॥ घटत्वादिघटितपामाण्यनिरुक्तसा- मग्रीत एव गृह्यत इत्यर्थः ॥ अप्यर्थकैनैवकारेण अनुमानादिपरिग्रहः । अनुव्यवसायेनेति ॥ इदं च मिश्रमताभिप्रायेण ॥ मतत्रयसा- धारण्येन तु माथमिकज्ञानग्रहणेति ध्येयम् ॥ तत्संबन्धस्यापीति॥ घटघटत्वयोर्यः संवन्धः तस्यापीत्यर्थः ॥ ननु अनुव्यवसाये कथं संबन्धस्य भानमित्याशङ्कय यया घटघटत्वयोर्व्यवसायरूपमत्यासत्त्या भानं, तथा तत्सम्बन्धस्यापि व्यवसायरूपमत्त्यासत्तेरविशेषादित्याह- व्यवसायेति ॥ ननु तावता कथं प्रामाण्यस्य भानमत आह- पुरोवर्तिनि प्रकारसंबन्धस्यैवेति ॥ पुरोवर्तिनि यः प्रकारसं- बन्धः तटितस्यैवेत्यर्थः ॥ अयमाशयः नैयायिका अपि अनुव्यवसाये विशेष्यत्वप्रकारत्वयोर्भानमङ्गीकुर्वन्ति पुरोवर्तिनि घटत्वेन ' जानामि' इत्याकारकस्यैव अनुव्यवसायस्य तैरङ्गीकारात् । परं तु पुरोवर्तिनि घटादौ घटत्वादिरूपप्रकारसंबन्धभानं नाङ्गीकुर्वन्ति अतः तत्र प्रका- रसंबन्धभानस्य व्यवस्थापने किमपि नाविशिष्टमिति प्रामाण्यस्य भानं सिध्यति अनुपस्थितयोरपि विशेष्यत्वप्रकारत्वयोर्भानस्य सर्वसंमत- त्वादिति ।। जलज्ञानमित्यादि । 'जलज्ञानं प्रमा, न वा' इत्या- कारकअनभ्यासदशायां प्राथमिकजलज्ञानग्रहोत्तरदश यां अनुभव- सिद्धः प्रमात्वसंशयो न स्यात् इत्यर्थः ॥ निश्चितत्वादिति ॥ तदत्तानिश्चयस्य तद्भाववत्ताज्ञानं प्रति प्रतिबन्धकत्वादिति भावः ॥ अत्र ज्ञातो घटः इति प्रतीतेनिविषयताविषयकत्वकल्पनेनैव निर्वाहे अतिरिक्तज्ञानता न कल्पनीया गौरवात् मानाभावात् चेति तन्निरसन- प्रकारो बोध्यः ॥
प्रामाण्यवादः] गुणग्रन्थः। क तस्मादिति ॥ अनभ्यासदशायां संशयानुभवादित्यर्थः ॥ एक- स्य स्वतो ग्राह्यत्वाभावेऽन्वयः॥ परतोग्राह्यत्वमिति ॥ मामाण्य- स्यानुमानादिना एव ग्राह्यत्वमित्यर्थः ॥ प्रवृत्तौ सत्यामिति ॥ एतेन मीमांसकैरभ्युपंगतायां प्रामाण्यनिश्चयस्य प्रवृत्तिहेतुतायां व्यभि- चारो दर्शितः ॥ न च निष्कम्पप्रवृत्ती एव प्रामाण्यनिश्चयस्य हेतुता, सकम्पप्रवृत्तौ तु प्रामाण्यसंशयस्य । निष्कम्पत्वं सकम्पत्वं च सविष- यिताविशेषः एवं च तत्र सकम्पप्रवृत्त्यङ्गीकारेपि प्रामाण्यनिश्चयस्य हेतुतायां कथं व्यभिचार इति वाच्यम् ॥ तथापि यत्र प्रामाण्यस्या- प्रामाण्यस्य वा ज्ञानं नासीत् , आसीत् च केवलं जलादिज्ञानं, तत्र प्रवृत्तिमदर्शनेन मामाण्यसंशयहेतुतायां व्यभिचारस्य दुर्वारत्वात् ॥ न चैवै जलादिज्ञाने अप्रामाण्यनिश्चयकाले प्रवृत्तिः स्यादिति शङ्कनी- यम् ॥ अगृहीताप्रामाण्यकजलादिज्ञानत्वेन तद्धेतुतास्वीकारेणादोषा- दिति संक्षेपः ॥ जललाभे सतीति ॥ एतावता वक्ष्यमाणस्य प्रामाण्यव्यवस्थापकहेतोः स्वरूपासिद्धिशंका निराकृता ॥ तदानीं पक्षस्यासत्त्वादाह-पूर्वोत्पन्नमिति ॥ समर्थेति ॥ तद्विशेष्यकत- मकारकेत्यर्थः ॥ अन्वय्युदाहरणासंभवात् व्यतिरेक्युदाहरणं सदृष्टा- न्तमाह-यन्नवं तन्नैवंमितियत् अप्रमा, तत् असमर्थप्रवृत्तिजनक- मित्यर्थः ॥ व्यतिरेकिणा व्यतिरेकव्याप्तिमता ॥ निश्चीयते अनुमीयते ॥ द्वितीयादिज्ञानेषु द्वितीयादिजळज्ञानेषु ॥ तत्सजातीयत्वलिङ्गेन पूर्वज्ञानसजातीयत्वरूपलिङ्गेन । समर्थमवृ- त्तिजनकत्वेनेतियावत्।।गृह्यत इति ॥ मामाण्यमनुमीयते इत्यर्थः ॥ दीपिका-प्रमाया गुणजन्यत्वमुत्पत्तो परतस्त्वं । प्रमा- साधारणं करणं गुणः, प्रमासाधारणं कारणं दोषः ॥ तत्र प्रत्यक्षे विशेषणवद्विशेष्यसंनिकर्षों गुणः । अनु- मितौ व्यापकवति व्याप्यज्ञानम् । उपमितो यथार्थ (१००) तर्कसंग्रहे- [प्रामाण्यवादः -- - सादृश्यज्ञानम् । शाब्दज्ञाने यथार्थयोग्यताज्ञानम् । इत्यायूहनीयम् । पुरोवर्तिनि प्रकाराभावस्यानुव्यवसा- येनानुपस्थितत्वात् अप्रमात्वं परत एव गृह्यते ॥ पित्ता- दिदोषजन्यत्वादुत्पत्तौ परतस्त्वम् ॥ नीलकण्ठी-एवं ज्ञप्तौ परतस्त्वं व्यवस्थाप्य उत्पत्तौ तनिरूप- यति-प्रमाया इति ॥ प्रमासाधारणमिति ॥ प्रमात्वाधिक- देशवृत्तिधर्मानवच्छिन्नप्रमानिष्ठकार्यतानिरूपितकारणताशालीत्यर्थः ।। तेन ज्ञानमात्रहेतुभूतात्ममनःसंयोगादेः भ्रमजनकपित्तादिदोषाणां च व्युदासः ॥ अपमासाधारणकारणत्वमप्येवमेव परिष्कर्त्तव्यम् ॥ चतुर्विधप्रमायां हेतुभूतं गुणं क्रमेण उपपादयति-तत्रेति ॥ चतुर्वि- धपमाया मध्ये इत्यर्थः ॥ इत्याहनीयमिति ॥ 'पीतः शंखः' इत्यादि भ्रमपि पित्तादिदोषः। इदं रजतमित्यादि भ्रमे च चाकचक्या- दिरिति ऊहनीयमित्यर्थः ।। अममात्वस्य परतस्त्वं सयुक्तिकं दर्शयति- पुरोवर्तिनीति ॥ अनुपस्थितत्वादिति ॥ अविषयीकरणा- दित्यर्थः। तथा च प्रत्यासत्तेरभावाद् अप्रमात्वस्यानुव्यवसायेन ग्रहणं न संभवतीति भावः ॥ अप्रमात्वम् तद्भाववद्विशेष्यकत्वविशिष्टतत्मका- रकत्वम् ॥ परत एव गृह्यत इति ॥ अनुमानादित एव गृह्यत इत्यर्थः ॥ अनुमानप्रयोगस्तु 'इदं ज्ञानमप्रमा, विसंवादिप्रवृत्तिजनक- त्वात् यन्नैवं तत्रैवं यथा प्रमा' इति ॥ दीपिका-ननु सर्वेषां ज्ञानानां यथार्थत्वात् अयथा- र्थज्ञानमेव नास्तीति । न च 'शुक्ताविदं रजतम्' इति ज्ञानात् प्रवृत्तिदर्शनादन्यथाख्यातिसिद्धिरिति वाच्यम्। रजतस्मृतिपुरोवत्ति ज्ञानाभ्यामेव प्रवृत्तिसंभवात् ॥ उपस्थितेष्टभेदाग्रहस्यैव सर्वत्रप्रवर्तकत्वेन 'नेदं रजतम्' इत्यादी अतिप्रसङ्गाभावादिति चेत् ॥ न ॥ सत्यरजत- स्थले पुरोवत्तिविशेष्यकरजतत्वप्रकारकज्ञानस्य लाघवे- प्रामाण्यवादः] गुणग्रन्थः। (१०१) न प्रवृत्तिजनकतया शुक्तौ अपि रंजतार्थिप्रवृत्तिजनक- त्वेन विशिष्टज्ञानस्यैव कल्पनात् ॥ नीलकण्ठी-गुरुमतं निरस्यान्यथा ख्याति व्यवस्थापयति-न- न्वित्यादिना ॥ यथार्थत्वात् प्रमात्वात् ।। अयथार्थज्ञानमेव नास्तीति ॥ तदभाववाद्विशेष्यकतत्प्रकारकत्वरूपा यथार्थत्वज्ञान- वृत्तिर्नेत्यर्थः ॥ तेन न सिद्ध्यसिद्धिभ्यां व्याघातः । अयथार्थत्वस्थ तु प्रसिद्धिरिच्छादौ बोध्या ॥ अन्यथाख्यातीति । तदनङ्गीकारे पुरोवर्तिविशेष्यकरजतत्वादिरूपेष्टतावच्छेदकमकारकज्ञानस्य संवादि- विसंवादिसाधारणप्रवृत्तिजनकतया तत्र प्रवृत्तिरेव न स्यादिति भावः।। रजतस्मृतीति ॥ कृप्तनियतपूर्ववर्तिभ्यामित्यादिः ॥ संभवा- दिति ॥ तथा च प्रवृत्ति प्रति विशिष्टज्ञानत्वेन कारणतैव नास्तीति तदनुरोधेन अन्यथा ख्यातिकल्पनं न संभवतीति भावः ॥ नन्वेवं यत्र नेदं रजतम् । इति बाधग्रहः, तत्रापि प्रवृत्तिः स्यात् अत आह- उपस्थितेति ॥ एतावता स्मृतिरूपकारणापेक्षा स्फुटीकृता । इष्ट- भेदाग्रहस्यैव ॥ रजतादिरूपेष्टभेदग्रहाभावस्यैव ॥ एवकारेण विशि- टज्ञानस्य प्रवर्तकत्वव्यवच्छेदः ॥ सर्वत्रेति ॥ रजते शुक्तौ चेत्यर्थः॥ रजतस्थले विशिष्टज्ञानस्यैव प्रवृत्ति प्राते कारणत्वमेष्टव्यम् ॥ अन्यथा धर्मर्मिज्ञानयोः इष्टभेदाग्रहत्वरूपगुरुधर्मावच्छिन्नस्य च कारणतापत्तेः एवं च तत्मवृत्ति प्रत्यन्वयव्यतिरेकाभ्यां विशिष्टज्ञानस्य 'कारणतायां कल्पनीयायां लाघवात् सामान्यतः प्रवृत्तित्त्वावच्छिन्नं मति विशिष्टज्ञा- नत्वेन अनुगतकार्यकारणभावस्पैव कल्पनीयतया विसंवादिप्रवृत्तेरपि तत्कार्यतावच्छेदकावलीढतया तत्पूर्व विशिष्टज्ञानस्य कल्पनीयत्वात् अन्यथाख्यातिनिराबाधैवेति समाधत्ते-सत्यरजतेति ॥ रजतत्व- प्रकारकज्ञानस्येति ॥ तादृशज्ञानत्वावच्छिन्नस्येत्यर्थः ॥ प्रवृत्ति- जनकतया प्रवृत्तित्वावच्छिन्नजनकतया ॥ विशिष्टज्ञानस्यैव ।
( १०२) तर्कसंग्रहे- [अयथार्थानुभवनि० पुरोवर्तिविशेष्यकेष्टतावच्छेदकमकारकज्ञानस्यैव ॥ एतेन इष्टभेदाग्रहस्य व्यवच्छेदः ॥ कल्पनात् अनुमानात् ॥ तत्प्रयोगस्तु ' इयम् पुरोव- ति विशेष्यकेष्टतावच्छेदकप्रकारकज्ञानजन्या, प्रवृत्तित्वात्, रजतस्थली- यप्रवृत्तिवत्' इति स्यादेतत् प्रत्यक्षे संनिकर्षस्य कारणतया रजतत्वांशे तदभावेन कथं शुक्तौ । इदं रजतं' इति प्रत्यक्षमिति चेत् ॥ मैवम् ॥ अलौकिकसंनिकर्षस्यापि प्रत्यक्षजनकतया व्यवस्थापितत्वेन लक्षणाम- त्यासत्तरेव प्रकृते संभवात् ॥ मूलम्-अयथार्थस्त्रिविधः-संशयविपर्ययतर्कभे- दात्।।एकस्मिन् धर्मिणि विरुद्धनानाधर्मवैशि- ष्टयज्ञानं संशयः॥यथा स्थाणुर्वा पुरुषो वेति ।। मिथ्याज्ञानं विपर्ययः ॥ यथा शुक्तौ इदं रजत- मिति । व्याप्यारोपेण व्यापकारोपस्तर्कः ॥ यथा यदि वह्निर्नस्यात् तर्हि धूमोपि न स्यादिति॥ दीपिका-अयथार्थानुभवं विभजते-अयथार्थ इति ॥ स्वप्नस्य मानसविपर्ययरूपत्वात् न त्रैविध्यविरोधः॥ संशयलक्षणमाह-एकेति॥'घटपटौ' इति समूहालम्बने - तिव्याप्तिवारणाय-एकेति॥'घटो द्रव्यम्' इत्यादौ अति- व्याप्तिवारणाय-विरुद्धति ॥ 'पटत्वविरुद्धघटत्ववान् इत्यत्र अतिव्याप्तिवारणाय-नानोति ॥ विपर्ययलक्षणमाह-मिथ्येति ॥ तदभाववति तत्प्रका- रकनिश्चय इत्यर्थः ॥ तर्कलक्षणमाह-व्याप्योति॥ यद्यपि तर्को विपर्ययेऽन्तर्भवति ॥ तथापि प्रमाणानुग्राहकत्वाद् भेदेन कीर्तनम् ॥ नीलकण्ठी-ननु अयथार्थानुभवस्य त्रैविध्यकथनं मूलेऽसङ्गतम् अयथार्थानुभवनि०] गुणग्रन्थः। (१०३) स्वमज्ञानस्य अनुभूतपदार्थस्मरणकफपित्तादिधातुशुभाशुभादृष्ठेर्जायमा- नस्य बाधितार्थविषयकस्य अनुभवसिद्धत्वात् अत आह-स्वप्नस्ये- ति।यद्यपि प्रदेशविशेषावास्थितमनः संयोगः स्वप्नातथापि तदसमवा- यिकारणज्ञाने स्वप्नशब्दो भाक्त इत्यवधेयम् ॥ चाक्षुषादिरूपत्वासंभवा- दाह--मानसेति । यत्तु स्मृतिरूपं स्वप्मज्ञानमिति तद्भाष्यादिविरु- द्धमित्युपेक्षितम् ॥ कोटयोरव्याप्यवृत्तित्वज्ञानोत्तरं जायमाने एक- स्मिन् धर्मिणि घटतदभावोभयप्रकारकसमुच्चये अतिव्याप्तिवारणार्य विरोधविषयकत्वस्य निवेशेपि नानेत्यस्याऽऽवश्यकतेति दर्शयितुमाह- पटत्वविरुद्धति ॥ नानेतीति ॥ एकर्मिनिष्ठविशेष्यतानिरू- पितविरुद्धनानाधर्मनिष्ठप्रकारताकत्वाभावात् नातिव्याप्तिरिति भावः॥ न च विभिन्नरूपेणैकर्मिविशेष्यविरुद्धानेकधर्मप्रकारकज्ञानेऽतिव्या- प्तिरिति शङ्कयम् ॥ एकधर्मावच्छिन्नविशेष्यताघटितपरिष्कारकरणेन अदोषात् इति दिक् ॥ तन्त्रान्तरे ब्रह्मभिन्ने सर्वस्मिन् एव मिथ्याशब्दस्य प्रयोगदर्शना- दाह-तदभाववतीति ।। प्रमावारणायेदम् ॥ तदभाववद्विशेष्यक- तावच्छिन्नतत्मकारकताकेत्याद्यर्थविवक्षणान्न समूहालम्बनेऽतिप्रसङ्गः । संशयस्य इच्छायाश्च वारणाय संशयान्यज्ञानार्थकनिश्चयपदमिति संक्षेपः ॥ मूले-व्याप्यारोपेणेति ॥आहार्यव्याप्यबत्ताभ्रमजन्यभाहार्यव्या- पकवत्ता भ्रमस्तर्कः इत्यर्थः ॥ आहार्यज्ञानमात्रेऽतिप्रसङ्गवारणाय तज्जन्यः इति ॥ निश्चयसत्त्वे शाखादौ करादिभ्रमात् 'अयं पुरुषः इत्याद्याहार्यारोपः। तत्रातिव्याप्तिवारणाय प्रथमाहार्यपदम् ।। रजत. त्वव्याप्याभाववत्ताग्राहकाले आहार्य यद्जतत्वव्याप्यवत्ताज्ञानम् तजन्ये 'इदं रजतम् । इत्यनाहार्यज्ञानेऽतिव्याप्तिवारणाय द्वितीयमा- हार्यपदम् ॥ तर्के आपायव्यतिरेकनिश्चयः आपाधापादकयोर्व्याप्तिनिश्च- (१०४) तर्कसंग्रहे- [स्मृत्यादिनिरूपणम् पश्च कारणमिति ध्येयम् ॥ तर्कस्तु मानसविपर्ययरूप एवेति कथम- यथार्थस्य त्रैविध्यकथनमित्याह-यद्यपीति ॥ प्रमाणानुग्राहक- त्वम् ॥ प्रमाणेन प्रमायां जननीयायां प्रतिबन्धकविघटनद्वारोपयो- गित्वम् ॥ भेदेनेति ॥ तर्फत्वरूपवैलक्ष्यण्येनेत्यर्थः ।। तर्कस्य प्रमा- णानुग्राहकत्वात् ॥ (इत्यनुभवनिरूपणम् ) मूलम्-स्मृतिरपि द्विधा-यथार्थाऽयथार्थाचेति॥ प्रमाजन्या यथार्था ॥ अप्रमाजन्या अयथार्था॥ दीपिका-स्मृति विभजते-स्मृतिरिति। मूलम्-सर्वेषामनुकूलवेदनीयं सुखम् ॥ प्रति- कूलवेदनीयम् दुःखम् ॥ इच्छा कामः क्रोधो द्वेषः॥ कृतिःप्रयत्नः॥विहितकर्मजन्यो धर्मः॥ निषिद्धकर्मजन्योऽधर्मः॥ बुद्धयादयोष्टौ आ- त्ममात्रविशेषगुणाः ॥ बुद्धीच्छाप्रयत्ना नित्या अनित्याश्चाईश्वरस्य नित्याः जीवस्य अनित्याः॥ दीपिका-सुखं लक्षयति-सर्वेषामिति ॥ 'सुख्यहम्' इत्याद्यनुव्यवसायगम्यम् । सुखत्वादिकमेव लक्षणम् यथा श्रुतं तु स्वरूपकथनमित्यर्थः॥ नीलकण्ठी-ननु — सर्वेषामनुकूलतया वेदनीयम् । इत्यादि मूलं सुखादिलक्षणपरं न संभवति परद्रव्योमभोगादिजन्यसुखे साधूनां द्वेष- दर्शनाव्याप्तेरित्याशङ्कायां 'सुख्यहम् ' इत्यादि प्रत्यक्षसिद्धम् सुख- त्वादिकमेव लक्षणमित्याह-सुख्यहमित्याद्यन्विति ॥ सुखत्वादी- त्यादिना दुःखत्वपरिग्रहः ॥ यथाश्रुतं त्विति ॥ सर्वेषामनुकूलतया इत्यादिकमित्यर्थः॥
गुणग्रन्थः। संस्कारनिरूपणंम् ] (१०५) मूलम्-संस्कारः त्रिविधः-वेगो, भावना स्थिति- स्थापकश्चेति ॥ वेगः पृथिव्यादिचतुष्टयमनो- मात्रवृत्तिः॥ दीपिका-संस्कारं विभजते--संस्कार इति संस्कार- त्वजातिमान् संस्कारः ॥ वेगस्याश्रयमाह-वेग इति ॥ वेगत्वजातिमान् वेगः॥ मूलम्-अनुभवजन्या स्मृतिहेतुर्भावना। आ- त्ममात्रवृत्तिः॥ दीपिका-भावनां लक्षयति-अनुभवेति । अनुभवध्वं- सेतिव्याप्तिवारणाय स्मृतीति ॥ आत्मादौ अति- व्याप्तिवारणाय अनुभवेति ॥ स्मृतेरपि संस्कारजनकत्वं नवीनरुक्तम् ॥ नीलकण्ठी-अनुभवेतीति ॥ स्मृति संस्कारं च प्रत्यनुभव- त्वेन कारणतां वदतां प्राचामभिप्रायः-तत्तद्विषयकस्मृति तादृशसं- स्कारं च प्रति तत्तद्विषयकानुभवत्वेनैव हेतुता न तु तत्तद्विषयकज्ञा- नत्वेनानुभवत्वस्यापि जातित्वेन ज्ञानत्वापेक्षया गौरवाभावात् ॥ न च विनिगमनाविरह इति शङ्कयम् । व्याप्यधर्मपरिष्कारेण कारणत्व- संभवे व्यापकधर्मस्यान्यथासिद्धिनिरूपकत्वादिति ॥ नवीनाः पुनः तद्विषयकस्मृति तादृशसंस्कारं च प्रति तत्तद्विषयकज्ञानत्वेनैव हेतुता । न त्वनुभवत्वेन, संस्कारस्य फलनाश्यतया प्रथमस्मरणेनै- वानुभवजन्यसंस्कारस्य नाशेन सकृदनुभूतस्य स्मरणोत्तरमस्मरणम- सङ्गात् ।। न च स्वजन्यस्मरणस्य संस्कारनाशकत्वे स्मृतिसाधारणेन ज्ञानत्वेन हेतुत्वेपि घटपटादिरूपनानाविषयावगाहिना अनुभवेन जनि- तस्य तावदिषयकसंस्कारस्य घटायेकैकगोचरस्मरणेनापि विनाशा (१०६) तर्कसंग्रहे [संस्कारनिरूपणम् तदुत्तरं पटादिस्मरणानुपंपत्तिः, तत्तद्विषयकसंस्काराभावात् । स्मृति- जन्यपटादिगोचरसंस्कारस्य च भिन्नविषयतया पटादिस्मारकत्वायोगात् अतः स्वजन्यचरमस्मृतेरेवानायत्या तत्तद्दयक्तित्वेन तत्र संस्कार- नाशकतया अङ्गीकर्तव्यतया अनुभवत्वेन जनकतायामपि न दोष इति वाच्यम्॥ अन्यूननिषयस्यैव फलस्य नाशत्वाङ्गीकारेण अदोषात् ।। जायते च पुनःपुनःस्मरणादृढतरः संस्कारः॥ दाढयम् च उत्कर्षरूपो जातिविशेषो झटिति स्मृत्युत्पादप्रयोजकः ॥ न च देववशसंपन्नाव झटित्युद्धोधकसमवधानादेव झटिति स्मृतिनियमोपपत्तौ न तत्प्रयोजक- तथा संस्कारगतो जातिविशेषः सिध्यतीति वाच्यम् ॥ झटिति स्मृते- देवाधानझटित्युद्धोधकसमवधानाधीनत्वमुपगम्य संस्कारातिशयख- ण्डने शास्त्रादौ अभ्यासस्यैवानुपपत्तेः ।। किं च परित्यज्य च निश्चि- ताव्यभिचारकं रूपं गृह्यमाणव्यभिचारकेण कारणत्वकल्पनं न संभ- वतीति नानुभवत्वेन स्मृतिसंस्कारहेतुतासंभव इति माहुः ॥ तन्मतं दर्शयति-स्मृतेरपीति ॥ अपिना अनुभवपरिग्रहः एतन्मतेन लक्षणे अनुभवजन्या' इति स्थाने 'ज्ञानजन्यः' इति निवेशनीयम् ।। मूलम्-अन्यथा कृतस्य पुनः तदवस्थापादकः स्थितिस्थापकः कटादिपृथिवीवृत्तिः॥ दीपिका-स्थितिस्थापकं लक्षयति-अन्यथति ॥ सं- ख्यादयोष्टौ नैमित्तिकद्रवत्ववेगस्थितिस्थापकाः सामा- न्यगुणाः अन्ये रूपादयो विशेषगुणा द्रव्यविभाजकोपा- धिद्वयसमानाधिकरणावृत्तिगुणवत्तिजातिमत्त्वम् विशे: षगुणत्वम्॥ नीलकण्ठी-द्रव्यविभाजकोपाधीति ॥ पृथिवीत्वजलवा- दिरूपं यद्रव्यविभाजकोपाधिद्वयं प्रत्येकं सत्समानाधिकरणाः द्वित्व- पृथक्त्वसंयोगादयः तदवृत्तिनातिमद्गुणत्वमित्यर्थः ॥ रूपादिषु चतुर्ष -
कर्मनिरूपणम् ]
पदार्थान्तर्भावग्रन्थः ।
(१०७)
m
--
तादृशं रूपत्वादिकं, सांसिद्धिकद्रवत्वे च द्रवंत्वावान्तरजाति स्नेहा-
दिषु दशसु स्नेहत्वादिकं भावनायां संस्कारावान्तरजातिं चादाय
लक्षणसमन्वयः ॥ नन्विदं लक्षणमेकत्वादिष्वतिव्याप्तम् । एकत्वत्वादि
जातेरपि तादृशत्वात् । न च तादृशोपाधिद्वयसमानाधिकरणवृत्तिगुण-
त्वन्यूनवृत्तिजातिशून्यगुणत्वमितितदर्थः। एवं चैकत्वादिषु संख्यात्वादेः
सत्वात् तादृशनातिशून्यत्वस्यासत्त्वेन नातिव्याप्तिरिति वाच्यम्।एव--
मपि परिमाणादिष्वतिव्याप्तिः। परिमाणत्वादेस्तादृशजातित्वासंभवा--
दिति चेत् ॥ अत्र प्रवदन्त्यभिज्ञाः । यद्रूपावच्छिन्नसमानाधिरकरणं
यत्किंचिद्रव्यविभाजकोपाधिद्वयं तद्भिन्नास्थितिस्थापकवृत्तिभिन्ना च
या जातिः तद्वत्त्वे सति गुणत्वमिति तदर्थः । यद्रूपावच्छिन्नसामाना-
धिकरण्यस्य समवायसंबन्धघटितस्यैव निवेशनीयतया यदूपपदेन
घटत्वादेर्धर्जुमशक्यत्वात् घटादौ अतिव्याप्तिरतो विशेष्यम् । स्थिति--
स्थापकेऽतिव्याप्तिवारणाय स्थितिस्थापकभिन्नेति, स्थितिस्थापकस्य
पृथिव्यादिचतुष्टयवृत्तित्वमते तु न देयम् ॥ रूपत्वादेर्य द्रूपपदेन धर्तु
शक्यत्वेपि अवान्तरजातिमादाय रूपादिषु लक्षणसमन्वयः ।। पार्थिवा-
मुष्णाशीतस्पर्शस्य वायवीयापेक्षया विजातीयस्यैव अनुभवसिद्धत्वात्।।
संख्यादयस्तु सामान्यगुणा इति न तत्र वैजात्यं जलपृथिव्यादिभेदेन
सिद्धान्तसिद्धमतः तत्र नातिव्याप्तिः तादृशजातिमभिवगुणत्वमेव--
सामान्यगुणानां लक्षणमवसेयमिति ॥
• ( इतिगणनिरूपणम् )
मूलम्-चलनात्मकं कर्म ॥ उर्ध्वदेशसंयोगहे-
तुरुत्क्षेपणम् ॥१॥अधादेशसंयोगहेतुरपक्षेपण-
म्॥२॥शरीरसनिकृष्टसंयोगहेतुराकुञ्चनम् ॥३॥
शरीरविप्रकृष्टसंयोगहेतुः प्रसारणम् ॥ ४॥
अन्यत्सर्व
गमनम् ॥१॥
-(१०८) तर्कसंग्रहे- [सामान्यविशेषनिरूपणम् दीपिका-कर्मणो लक्षणमाह--चलनेति ॥ उत्क्षेपणा- दीनां कार्यभेदमाह--ऊर्वेति ॥ शरीरेति ॥ ' वक्रता- संपादकं कर्म आकुञ्चनम्' । ऋजुतासंपादकं प्रसारण- मित्यर्थः ॥ नीलकण्ठी-मूलोक्तं सर्वसंग्राहकं न भवतीत्याह-वक्रतति ॥ ( इति कर्मनिरूपणम् ) मूलम्-नित्यमेकमनेकानुगतं सामान्यम्।द्रव्य- गुणकर्मवृत्ति । परं सत्ता । अपरं द्रव्यत्वादि । दीपिका-सामान्य लक्षयति-नित्यमिति । संयोगे - तिव्याप्तिवारणाय-नित्यमितिाजलपरमाणुगतरूपेऽति- व्याप्तिवारणाय-एकेति।परमाणुपरिमाणादावतिव्याप्ति वारणाय-अनेकेति । अनुगतत्वं समवेतत्वम् । घटाद्य- त्यन्ताभाषो घटाद्यनुगतोऽप्यसमवेत इति नाभावादा- वतिव्याप्तिः ॥ नीलकण्ठी-नित्यमितीति । अत्र नित्यत्वं मागभावामति- योगित्वम्, ध्वंसापतियोगित्वं वा ॥ एकत्वनिवेशेनापि संयोगादेर्वार- 'णात् एतत्पदं स्वरूपकथनम् इति द्रष्टव्यम् ॥ ( इति सामान्यनिरूपणम् ) मूलम्-नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः । दीपिका-विशेष लक्षयति-नित्योति ॥... नीलकण्ठी-मूले व्यावर्तकत इति ॥ नित्यद्रव्याणां परस्पर- भेदसाधका इत्यर्थः ॥ अथ विशेषपदार्थ किं प्रमाणम् । नचात्यन्तसं- कीर्णानां परमाणूनां भेदकधर्म विना भेदासिद्धिरतो विशेषोऽङ्गीकर्तव्यः इति वाच्यम् । एकत्वादिव्यक्तेरेव भेदकत्वसंभवात् इति चेत् ॥ न । एतत्परमाणौ तत्परमाणुभेदसाधने एकत्वाइर्व्यभिचारितया एतदेक- समवायनिरूपणम् ] पदाथान्तर्भावग्रन्थः। (१०९) त्वादेरेव हेतुता वाच्या । न च तयोः परमाण्वोर्भेदासिद्धावेकत्वादावे- तत्त्वं सुग्रहम् । एतत्त्वम् एतत्परमाणुसमवेतत्वम् । तस्मात्मतिनि- त्यद्रव्यमेष्टव्यो विशेषपदार्थः। स एव च स्वजातीयानां परस्परभेद- साधक इति तत्रापि विशेषान्तरापेक्षा नास्त्येव । अतो नानवस्था इति संप्रदायः॥ ( इति विशेषनिरूपणम् ) मूलम्-नित्यसंवन्धः समवायः॥ अयुतसिद्धवृ- त्तिः ॥ ययोईयोर्मध्ये एकमविनश्यदपराश्रि- तमेवावतिष्ठते ॥ तावयुतसिद्धौ । अवयवावय- विनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जाति- व्यक्ती, विशेषनित्यद्रव्ये चेति ॥ दीपिका-समवायं लक्षयति-नित्येति ॥ संयोगेऽति- व्याप्तिवारणाय-नित्य इति ॥ आकाशादावतिव्याप्ति- वारणाय-संबन्ध इति ॥ अयुतसिद्धलक्षणमाह-ययो- रिति ॥ 'नीलो घटः' इति विशिष्टप्रतीतिः विशेषण- विशेष्यसंबन्धविषया विशिष्टप्रत्ययत्वात् दण्डीतिप्रत्य- यवत् इति समवायसिद्धिः ॥ अवयवावयविनाविति ॥ द्रव्यसमवायिकारणमवयवः। तजन्यं द्रव्यमवयवि ॥ नीलकण्ठी-वैशेषिकमतसाधारण्येन समवायेऽनुमानं प्रमाणयति- नील इति ॥समवायिकारणस्य अन्त्यावयविनि सत्त्वात् द्रव्येति॥ परमाणुवारणाय जन्येति ॥ अविनश्यदवश्यमेवापराश्रितमवतिष्ठते विनश्यवस्थं त्वनाश्रितं क्षणमवतिष्ठते यथा तन्त्वादिनाशे पटादि- रिति मनसिकृत्य मूलेऽविनश्यदित्युक्तम् ॥ ( इति समवायनिरूपणम् ) (११०) तर्कसंग्रहे- [अभावनिरूपणम् मूलम्-अनादिः सान्तः प्रागभावः उत्पत्तेः पूर्व कार्यस्य ॥ सादिरन्तः प्रध्वंसः उत्पत्त्यनन्तरं कार्यस्य ॥ त्रैकालिकसंसर्गावच्छिन्नप्रतियोगि- ताकोत्यन्ताभावः यथा भूतले घटो नास्ति इति॥तादात्म्यसंवन्धावच्छिन्नप्रतियोगिताकोऽ- न्योन्याभावः यथा घटः पटोनास्ति इति ॥ दीपिका-भागभावं लक्षयति-अनादिरिति ॥ आका- शादौअतिव्याप्तिवारणाय सान्त इति ॥ घटादौ अति- व्याप्तिवारणाय अनादिरिति ॥ प्रतियोगिसमवायिकार णवृत्तिः प्रतियोगिजनकः भविष्यतीति व्यवहारहेतुः प्रागभावः॥ ध्वंसं लक्षयति-सादिरिति॥ घटादौ अति- व्याप्तिवारणाय अनंत इति ॥आकाशादौ अतिव्याप्ति- वारणाय सादिरिति॥प्रतियोगिजन्यः प्रतियोगिसमवा- यिकारणवृत्तिः ध्वस्तव्यवहारहेतुः ध्वंसः। अत्यन्ताभावं लक्षयति-त्रैकालिक इति अन्योन्याभावेतिव्याप्तिवारणा यसंसर्गावच्छिन्न इति ॥ध्वंसप्रागभावयोरतिव्याप्तिवार- गायत्रैकालिक इति॥अन्योन्याभावं लक्षयति-तादात्म्य इति । प्रतियोगितावच्छेदकारोप्यसंसर्गभेदात् एकप्रति- योगिकयोरत्यन्ताभावान्योन्याभावयोर्बहुत्वम् । 'केव- लदेवदत्ताभावादण्डयभावः' इतिप्रतीत्या विशिष्टाभावः' सकसत्त्वे द्वौनस्तः' इति प्रतीत्याद्वित्वावच्छिनाभावः, संयोगसंबन्धेन च घटवति समवायसंबन्धेन घटाभावः संबन्धावच्छिन्नाभावः ॥ तत्तद्घटाभावाद् घटत्वाव- . - अभावनिरूपणम् ] पदार्थान्तर्भावग्रन्थः। (११) च्छिन्नमतियोगिताकसामान्याभावश्चातिरिक्तः ॥ एवम- न्योन्याभावोपि॥ नीलकण्ठी--संसर्गेति। तादात्म्यातिरिक्तसंसर्गेत्यर्थः ।। ध्वंस- प्रागभावयोः प्रतियोगितावच्छेदकसम्बन्धो वर्त्तते इति मताभिप्रायेण त्रैकालिकति विशेषणम्।।अन्यथा अन्योन्याभाववारकेणैव तयोर्वार- णाद् तद्व्यर्थतापत्तेः ॥ यदि संसर्गावच्छिन्नेत्यादेरन्योन्याभावभिन्ना- भाव इत्यर्थः । तदा त्रैकालिकेतिसिद्धान्तेपि सार्थकं त्रैकालित्वम् इह नित्यत्वरूपम् ।। मूले 'भूतले घटो नास्ति' इत्यत्र घटाभावांश भूतलस्य विशेष्यत्वं संवन्धः, “घटाभावक्तलम् ' इत्यत्र भूतलांशे- भावस्य विशेषणत्वम् संसर्ग इति वदतां माचामयमभिमायः ॥ विशेष्यावविशेषणत्वे सरूपसंबधविशेषौ न ज्ञानीयविषयताविशेषी ।। न च विशेषणताख्यः स्वरूपसंबन्ध एक एवास्तु 'भूतले घटो नास्ति' इति प्रतीतौ ‘भूतलं घटाभाववत् । इति प्रतीती वैलक्षण्यस्य विशे- पणत्वावच्छिन्नाधेयताविषयकत्वकल्पनेनैव निर्वाहादिति वाच्यम् ॥ तादृशपतीत्यो_लक्षण्याय 'प्रथमायाम् विशेषणतावच्छिन्नाधेयता, द्वि- तीयायां विशेषणता संसर्गः' इत्युपेयते ।। किं वा 'प्रथमायां विशेषण- तावच्छिन्नाधारता, द्वितीयायां विशेष्यतावच्छिन्नाधारता' इत्यत्र विनिगमकस्य दुर्लभत्वात् ।। न च तादृशप्रतीत्योः संसगौशेऽविलक्ष- णत्वपि विशेष्यविशेषणभावभेदात् वैलक्षण्योपपत्तिरित्युभयत्र विशे- षणताया एव संवन्धतास्त्विति वाच्यम् ॥ तावतापि 'भूतले घटो नास्ति' 'भूतलवान् घटाभावः' इत्यनयोः 'भूतलं घटाभाववत्' 'घटा- भावे भूतलम् । इत्यनयोश्च प्रतीत्योर्वेलक्षण्यानिर्वाहात् । तस्मात् विशे- ष्यत्वविशेषणत्वनामकयोरुभयोः स्वरूपसंबन्धविशेषयोः संसर्गता ।। तथा च 'भूतलवान् घटाभावः' इत्यत्र घटाभावांशे भूतलस्य विशेष्य- वसंसगों 'घटाभावे भूतलम्' इत्यत्र च भूतांशेऽभावस्य विशेषणता- संसर्गो बाधित इति भ्रमत्वनिर्वाह इति संक्षेपः ।। ध्वंसमागभावयोरि- , (११२) तर्कसंग्रहे- [अभावनिरूपणम् - वैकप्रतियोगिकयोरत्यन्तान्योन्याभावयोः किमेकविधत्त्वम् ।त्याह- प्रतियोगितेति ॥ आरोप्येति ॥ प्राचीनमताभिप्रायेण ॥ अत्र ' यथायोग्यप्रतियोगितावच्छेदकधर्मसंसर्गभेदोऽत्यन्ताभावबहुत्त्वप्रयो- जकः । प्रतियोगितावच्छेदकधर्मभेदोऽन्योन्याभावबहुत्वप्रयोजकः इति द्रष्टव्यम् । तदेव दर्शयति-केवलेति ॥ केवलदेवदत्ताभावादिशिष्टा- भावः अतिरिक्त इत्यन्वयः । अन्यथा केवलदेवदत्तवत्ति दण्डो नास्ति', इति प्रत्ययानापत्तेः ॥ उभयभावस्यातिरिक्तत्वे प्रतीति प्रमाणयति- एकसत्त्वेपीति ॥ 'घटपटौ न स्तः' इत्यादौ घटत्वं पटत्वमुभयत्वं चैतत्रितयं प्रतियोगितावच्छेदकम् केवलपटवति केवलपटवति यत्- किंचिदुभयवति तथा प्रत्ययात् ॥ संबन्धभेदेनाभावस्यातिरिक्तत्वं दर्शयति-संयोगेनेति ॥ सामान्यविशेषाभावयो दं दर्शयति--त- त्तदिति ॥ अतिरिक्त इति ॥ अन्यथा यत्किचिंटवति 'घटो नास्ति । इति प्रत्ययापत्तेः ॥ एवमन्योन्याभावोपीति ॥ अव च्छेदकभेदात् तत्तटभेदः ततः उभयभेदः घटभेदश्च अतिरिक्त इत्यर्थः।। दीपिका-घटत्वेन पटो नास्तीति व्यधिकरणधर्माव- च्छिन्नाभावो नाङ्गीक्रियते ॥ पटे घटत्वं नास्तीति तस्यार्थः। अतिरिक्तत्वे स केवलान्वयी ॥ नीलकण्ठी-प्रसङ्गादाह-घटत्वेनेतिानाङ्गीक्रियत इति॥ अभावधियो विशिष्टवैशिष्ट्यावगाहिमर्यादोपबृंहिततया 'घटत्वेन पटो नास्ति'-इत्यादिप्रत्ययस्य विशिष्टवैशिष्टयानवगाहिनो घटत्वादेः प्रति- योगितावच्छेदकत्वव्यवस्थापकत्वाभावेन व्यधिकरणधर्मावच्छिन्नाभावे मानाभावादितिभावः।ननु तर्हि तादृशमत्स्यस्य का गतिरित्यत आह- पट इति । ननु 'घटत्वेन पटो नास्ति' इति प्रतीतेः पटांधिक- रणकघटत्वाभावावगाहित्वं न संभवति ॥ असति बाधके तच्छृन्दो- ल्लेखिप्रतीतेः तच्छब्दप्रतिपाद्यार्थविषयकत्वपरित्यागायोगात् । पटा- धिकरणकघटत्वाभावस्य ' घटत्वेन पटो नास्ति' इति शब्दात् कथ- . अत्यन्ताभावनिरूपणम् ] पदार्थान्तर्भावग्रन्थः। (११३) मप्यप्रतीतेः । किं त्ववच्छिन्नमतियोगिताकत्त्वसंबन्धेनअभावांशे स्वा- तन्त्र्येण घटत्वावगाहित्वमेव अभावबुद्धिर्विशिष्टवैशिष्ट्यावगाहि- मर्यादा नातिशेते ' इति नियमस्तु न ॥ एवं च व्यधिकरणधर्मावच्छि- नाभावः सप्रमाण इति चेत् ॥ अस्तु तर्हि अतिरिक्तत्वं तस्येत्याह- अतिरिक्तत्व इति॥ सः व्यधिकरणधर्मावच्छिन्नमतियोगिताकः॥ केवलान्वयीति ॥ प्रतियोगितावच्छेदकावच्छिन्नमतियोगिरूपवि- रोधिविरहादिति भावः ॥ दीपिका-सामयिकाभावोप्यत्यन्ताभाव एव समय- विशेषे प्रतीयमानः घटाभववति घटानयने अत्यन्ता- भावस्य अन्यत्र गमनाभावेऽपि अप्रतीतेर्घटापसरणे सति प्रतीतेर्भूतलघटसंयोगप्रागभावध्वंसयोर्घटात्यन्ताभावप्र- तीतिनियामकत्वं कल्प्यते ॥ घटवति तत्संयोगप्रागभा- वध्वंसयोरसत्वादत्यन्ताभावस्याप्रतीतिः। घटापसरणे च संयोगध्वंससत्त्वात्प्रतीतिरिति ॥ नीलकण्ठी-ननु भूतलादौ घटसत्त्वदशायां न तदभावबुद्धिर- न्यदा तु जायते अतः सामयिकाभावोऽतिरिक्त एवाङ्गीकर्तव्य इति वदन्तं निराकर्तुमाह-सामयिकेति ॥ प्रतियोगिविरहसमये प्रती- यमानोऽत्यन्ताभाव एव सामयिकाभावः । न तूत्पत्तिविनाशशा- ल्यतिरिक्त इति समुदितोर्थः ॥ नन्वेवं भूतले घटस्यानयनदुशायामपि तभावस्य नित्यत्वेन सत्त्वात् प्रत्ययापत्तिरत आह-घटाभावव- तीति॥नियामकत्वमेव समुपपादयति-घटवतीति॥ तत्तत्कालाव- च्छिन्नभूतलादेरेव घटाद्यभावसंसर्गतया घटकाले च तच्छून्यकालवि- शिष्टभूतलादिरूपसंसर्गाभावेन तदा न तदत्यन्ताभावबुद्धिरित्यपि द्रष्टव्यम्॥ दीपिका-केवलाधिकरणादेव नास्तीति व्यवहारो- (११४) तर्कसंग्रहे- [ अभावप्रनिरू० पपत्तौ अभावो न पदार्थान्तरमिति गुरवः ॥ तत् न । अभावानङ्गीकारे कैवल्यस्य निर्वक्तुमशक्यत्वात् ।। नीलकण्ठी-नन्वभावो मास्त्वतिरिक्तः पदार्थः यस्मिन्नधिकरणे घटो नास्तीत्यादिप्रत्ययः तस्मिन्नधिकरणे घटाद्यभावत्वकल्पनेनैव तथाप्रतीतिनिर्वाहाव क्लृप्तर्मिणि धर्मकल्पनाया अक्कृप्तधर्मिकल्पनातो लघीयस्त्वादिति गुरुमतमाशङ्कय निराचष्टे-केवलेति ॥ यद्ययन- न्तेष्वधिकरणेषु धर्मकल्पनातोतिरिक्तैकधर्मिकल्पनस्यैव लघीयस्त्वा- दोक्तन्यायस्यानवतारः । किं च अभावस्याधिकरणस्वरूपत्वे जलादौ विद्यमानस्य गन्धाद्यभावस्य जलादिरूपत्वादितरेन्द्रियग्राह्यतापत्तिरि- त्यादि दूषणानि प्रस्फुरन्ति ॥ तथापि केवलाधिकरणादेवेति तद्वचन- निरासादेव तन्निवृत्तिसंभवे किमेतान्यपेक्षितानीत्यालोच्य तदेव निरा- करोति-अभावानङ्गीकार इति ।। अतिरिक्ताभावानङ्गीकार इत्य- र्थः ॥ अथ किमिदं कैवल्यम् । भूतलस्वरूपमिति चेत् घटवद्भूतलस्यापि तभावस्वरूपतापत्त्या तदानीमपि घटाभाववत्ताबुद्धिप्रसङ्गः। घटा- भाववत्त्वमिति चेत् सिद्धमतिरिक्ताभावेनातः कैवल्यनिर्वचनमशक्य- मित्याह-कैवल्यस्यति ॥ दीपिका-अभावाभावो भाव एव । नातिरिक्तः। अन- वस्थाप्रसङ्गात् ॥ ध्वंसप्रागभावः प्रागभावध्वंसश्च प्रति- योग्येवेति प्राश्चः ॥ अभावाभावः अतिरिक्त एव । तृती- याभावस्य प्रथमाभावरूपत्वात् नानवस्थेति नवीनाः॥ नीलकण्ठी-नन्वभावस्यातिरिक्तत्वे तदभावोप्यतिरिक्तः, तस्या- प्यभावः तथेत्यनवस्था स्यादत आह-अभावाभाव इति॥ ध्वसे- त्यादि ॥ ध्वंसमागभावः प्रतियोगिस्वरूपः तत्प्रागभावरूपश्च । मागभावध्वंसस्तु प्रतियोगिरूपः तद्धंसरूपश्चेत्यर्थोवसेयः ॥ तेन प्रति- योगिमागभावदशायामपि 'ध्वंसो भविष्यति' इति प्रत्ययस्य, प्रतियो- षोडशपदार्थाः] पदार्थान्तर्भावग्रन्थः । (११५) गिध्वंसदशायामपि 'प्रागभावो नष्टः' इत्यस्य चोपपत्तिः । तत्काले 'द्रव्यत्वं नास्ति' इति प्रत्ययो जायते, 'द्रव्यत्वाभावः' इति न जायते इति वैषम्यनिहाय नास्तीति प्रत्यये दैशिकसंबन्धावच्छिन्नाधेयत्व- भानं परिकल्पनीयम् ॥ इत्थं च घटाभावाभावादेवटादिरूपत्वे विह घटाभावो नास्तीति प्रत्ययस्य भ्रमत्वमेव स्यात् ।। भावस्य विशेषणता- विशेषेण वृत्त्यनङ्गीकारात् । अतः अभावाभावोऽतिरिक्तो न तु भावरूप इति नवीनमतं दर्शयति-अमावेति ॥ तर्हि अनवस्थेत्यत आह- तृतीयेति ॥ मूलम्-सर्वेषामपि पदार्थानां यथायथमुक्तेष्व- न्तर्भावात् सप्तव पदार्था इति सिद्धम् ॥ दीपिका-नतु " प्रमाण-प्रमेय-संशय-प्रयोजन- दृष्टान्त-सिद्धान्ता-ऽवयव-तर्क-निर्णय-वाद्-जल्प-वि- तण्डा हेत्वाभास-छल-जाति-निग्रहस्थानानां तत्त्वज्ञा- नान्निश्रेयसाधिगमः" इति न्यायशास्त्र षोडशपदार्था- नामुक्तत्वात् कथं सप्तैवेत्यत आह-सर्वेषामिति ॥ सर्वेषां सप्तस्वेवातर्भाव इत्यर्थः॥ आत्मशरीरोन्द्रियार्थ- बुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमे- यम् ' इति द्वादशविधं प्रमेयम् ॥ प्रवृत्तिधर्माधर्मों ॥ रागद्वेषमोहाः दोषाः ॥राग इच्छा । द्वेषो मन्युः। मोहः शरीरादौ आत्मभ्रमः॥ प्रेत्यभावो मरणम् ॥फलं भोगः।। अपूवर्गो मोक्षः । स च स्वसमानाधिकरणदुःखप्रागभा- वासमानकालीनदुःखध्वंसः ॥ प्रयोजनम् सुखप्राप्तिः दुश्वानिश्च ॥ दृष्टान्तो महानसादिः ॥ प्रामाणिकत्वेन अभ्युपगतार्थः सिद्धांतः निर्णयो निश्चयः॥ स च प्रमाण- फलम् ।। तत्त्वबुभुत्सोः कथा वादः ॥ उभयसाधनवती (११६) तर्कसंग्रहे- [शोडशपदार्थाः विजिगीषुकथा जल्पः॥ स्वपक्षस्थापनहीना वितण्डा ॥ कथा नाम नानावक्तृकः पूर्वोत्तरपदप्रतिपादकवाक्यसं- दर्भः॥ अभिप्रायान्तरेण प्रयुक्तस्यार्थान्तरं पकल्प्य दूषणं नीलकण्ठी-परमकारुणिकन मुनिना दुःखपंकमग्नं जगदुद्दिधी- पुणा प्रणीतं "प्रमाणप्रमेय-" इत्यादिसूत्रं तद्विरोधं परिहर्तुमाक्षिपति- नन्विति ॥ प्रत्यक्षप्रमाणस्य द्रव्ये, अनुमानादीनां च गुणेन्तर्भावस्य स्फुटत्वात् प्रमेयादीनां द्रव्यादिष्वन्तर्भावमाह-आत्मेत्यादिना ॥ आत्मशरीरेन्द्रियाणां द्रव्ये, अर्थस्य पृथिव्यादिरूपस्य द्रव्यादिषु, बुद्धेर्गुणे, अन्तरिन्द्रियस्य मनसः द्रव्येन्तर्भावः । एवमग्रेपि यथायथ- मन्तर्भावो द्रष्टव्यः ॥ धर्माधर्माविति ॥ तन्ननिकेत्यर्थः ॥ एतत् च स्फुटम् आकरे ॥ रागः इच्छाविशेषः॥ मरणमिति ॥ मरणा- नन्तरभावि जननमित्यर्थः । तथा च पदव्युत्पत्तिः प्रेत्य मृत्वा भावो जननमिति ॥ चरमप्राणशरीरसंयोगध्वंसो मरणम् ॥ आद्यशरीर- प्राणसंयोगो जननम् ॥ मुक्तात्मसंयोगध्वंसवतः शवस्य मुक्तत्वापत्ति- वारणाय दुःखध्वंस इति । दुःखध्वंसवताम् अस्मदादीनामपि मुक्त- त्वापत्तिवारणाय कालीनान्तम् ॥ अन्यदीयदुःखमागभावसमानकालिक- दुःखध्वंसवतां शुकाद्यात्मनाममुक्तत्वमसंगात्-समानाधिकरणेति। दुःखमागभावविशेषणम् || न च समानाधिकरणदुःखासमानकालीने- त्यनेनैव सुषुप्तिकालिकदुःखध्वंसस्याप्यग्रिमदुःखक्षणवृत्तेरिणात् प्राग- भावेति व्यर्थमिति वाच्यम् ॥ यथासन्निवेशवैयर्थ्याभावादिति दिक्॥ संशयस्य निरूपितत्वात् प्रयोजनस्वरूमं दर्शयति-प्रयोजनमिति॥ उभयसाधनवतीति ॥ परपक्षनिराकरणस्वपक्षसाधनवति । इदं च वितण्डायामतिव्याप्तिवारणयेतिध्येयम् ॥ स्वपक्षेति ॥ अत्र विजि- गीषुकथेत्यनुवर्त्तते ॥ नानेति ॥ एकेन पूर्वपक्षः क्रियते, अन्येन च समाधानम् एवं क्रमेण नानाकर्तृकत्वं वाक्यसमूहस्यावसेयम् ॥ छल- जातिनिरूपणम् ] पदार्थान्तर्भावग्रन्थः। (११७) मिति ॥ यथा 'नवकम्बलोयं देवदत्तः' इति ॥ नवतात्पर्येण प्रयुक्त- स्य नवत्वसंख्याविशिष्टमर्थान्तरं परिकल्प्य कश्चिदूषयति-नास्य नव- कम्बलाः सन्ति अतिदरिद्रत्वात्' इत्यादि ॥ दीपिका-असदुत्तरं जातिः ॥ साधर्म्य-वैधर्म्य-उत्क- पिकर्षवर्ध्यावर्ण्यविकल्पसाध्यप्रात्यप्राप्तिप्रसङ्गप्रतिह- ष्टान्ताअनुत्पत्तिसंशयप्रकरणहेत्वर्थापत्यविशेषोपपत्युप- लब्ध्यनुपलब्धिनित्यानित्यकार्याकार्यसमाजातयः॥ नीलकण्ठी-असदुत्तरमिति ॥ उत्तरस्यासत्त्वं तु स्वसाधक- तासाधारण्येन परसाधकतासाधकतया स्वव्याघातकत्वम् तथा च स्वव्याघातकमुत्तरं जातिरिति लक्षणं पर्यवस्यति ॥ तदवान्तरभेदान् दर्शयति-साधयेत्यादिना ॥ ददान्ते श्रूयमाणस्य समाशब्दस्य प्रत्येकं योगः साधर्म्यसमा वैधर्म्यसमेत्यादयः चतुर्विंशतिजातयः ॥ साधम्र्येण स्थापनाहेतुदूषकमुत्तरम्-साधर्म्यसमा ॥ आत्मा सक्रियः क्रियाहेतुगुणवत्त्वाल्लोष्टवत् क्रियाहेतुगुणश्चात्र कियाजन- कवायुसंयोगादिरेवेति स्थापनायामुत्तरं यदि सक्रियसाधर्म्यात् सक्रियः तदा विभुत्वरूपनिष्क्रियसाधानिष्क्रिय एव किं न स्यात् । न चात्र किंचित् विनिगमकमस्ति इति ॥ १ ॥ वैधर्म्यण दूषकम् उत्तरम् वैधर्म्यसमा ॥ यथा तत्रैव ‘किया- वतो लोष्टस्य साधाद्यदि क्रियावानात्मा तदा विभुत्वरूपतद्वैधा- निष्किय एव किं न स्यात् । नहि 'तत्साधात् क्रियावता भवि- तव्यम् । तदैधानिष्क्रियेण न भवितव्यम्, इत्यत्र किंचित् नियाम- कमास्ति । इति ॥ २॥ परोक्तसाधनादेव तदव्यापकस्य धर्मस्य पक्षे आपादनम् उत्क- र्षसमा ॥ यथा शब्दो नित्यः कृतकत्वाद् घटवदित्यादौ कश्चिदेव- माह " यदि कृतकत्वेन हेतुना शब्दो घटवदनित्यः स्यात्, तर्हि तेनैव हेतुना शब्दोघटबत् सावयवः स्यात् " इति ॥ ३ ॥ यथा (११८) तकसंग्रहे- [जातिनिरूपणम् परोक्तदृष्टान्तसाधम्र्येणं पक्षे पराभिमतधर्मान्तरस्याभावसाधनम् अपकर्षसमा ॥ यथा तस्मिन्नेवानुमाने ' यदि कृतकत्वेन शब्दो घटवदनित्यः स्यात्,तर्हि तेनैव शब्दो घटवदश्रावणः स्यात्' इति ॥४॥ वर्ण्यस्य स्थापनीयस्य दृष्ठान्तधर्मस्य पक्षे साधनं वर्ण्यसमा ॥ यथा पूर्वोक्तानुमाने ' कियाजनकनोदनाख्यसंयोगवत्त्वात् लोष्टादेर्भ- वतु कियावत्त्वं आत्मनस्तु क्रियावत्त्वे तज्जनकनोदनाख्यसंयोगवत्त्व- मपि स्यात् । इति ॥ ५॥ साध्यहेत्वोधर्मयोरपि पक्षे तुल्यतासाधनम् अवर्ण्यसमा ॥ यथा तत्रैवानुमाने ' लोष्टादिगतनोदनादिरूपक्रियाहेतुगुणवत्वमात्मन्यसि- इम् । तथा च तुल्यतया यथा असिद्धेन क्रियाहेतुगुणेन आत्मनि कियावत्त्वं साध्यते तथा तादृशेन क्रियावत्त्वेन तन्जनकगुणवत्त्वमपि किमिति न साध्यते नियामकाभावात् । इति ॥ ६ ॥ दृष्टान्तविकल्प प्रदर्य दार्टान्तिकविकल्पकथनम् विकल्पसमा॥ यथा तत्रैवानुमाने ' कियाहेतुगुणयुक्तं किंचिद्गुरु, यथा लोष्टादिकं किंचित् । लघु, यथा वायुः एवं क्रियाहेतुगुणयुक्तं किंचित्कियावत् स्यात् यथा लोष्टादि किंचिदक्रियम् यथात्मा पूर्वविकल्पो भवत्ययं तु न भवतीत्यत्र किं नियामकं स्यात् । इति ॥ ७॥ दृष्टान्तस्य पक्षतुल्यताकथनं साध्यसमा ॥ साध्यशब्दोत्र पक्ष- वाची यथा तत्रैव यदि । यथा लोष्टः तथा आत्मा' इति त्वयोच्यते, तदा 'यथा आत्मा तथा लोष्टः । इत्यप्यायातम् । तथा च यद्यात्मनि क्रियावत्त्वं साध्यते तर्हि लोष्टेपि तत्साधनीयं नेति चेत् । तर्हि यथा लोष्टस्तथात्मेति न वाच्यम् ॥ लोष्ट सदृश आत्मा, नात्मसदृशो लोष्ट इत्यत्र नियामकाभावात् । इति ॥ ८ ॥ प्राप्त्या प्रत्यवस्थान प्राप्तिसमा । माप्तिश्च साध्यहेत्वोः सामाना- धिकरण्यम् ॥ यथा तत्रैव — क्रियाहेतुगुणवत्त्वेनैव किमिति क्रियावत्त्वं . क - जातिनिरूपणम्] पदार्थान्तभावग्रन्थः। (११९) साध्यते किमिति कियावत्त्वेन तादृशगुणवत्वम् न उभयोरविशे षात् । इति ॥ ९ ॥ अमाप्त्या प्रत्यवस्थानम् अप्राप्तिसमा ॥ यथा तत्रैव पूर्वोक्त- दोषादप्राप्तस्य हेतोः साध्यसाधकत्वं वाच्यम् । तथा चाप्राप्तत्वाविशे- षात् स सर्वः सर्व साधयेदिति ॥ अयमेव हेतुः साध्याभाव किमिति न साधयेदित्यत्र विनिगमकाभावात्' इति ॥ १० ॥ साधनपरम्पराप्रश्नः प्रसङ्गसमा ॥ यथा ‘कियावत्त्वे कियाहेतु- गुणवत्त्वम् साधनम् । तत्र किं साधनम् ।। न हि साधनं विना कस्य- चित्सिद्धिरस्ति एवं तत्रापि किं साधनम्' इत्यादि ॥ ११ ॥ दृष्टान्तान्तरेण साध्याभावसाधनं प्रतिदृष्टान्तसमा॥ यथा तत्रैव लोष्टदृष्टान्तेन कियावत्त्वे साधिते निष्क्रियाकाशदृष्टान्तेन आत्मनो नि कियत्वमेव किं न स्यात् ॥ 'लोष्टदृष्टान्तेन क्रियावत्त्वम् आकाशह- टान्तेन निष्क्रियत्वं न इत्यत्र नियामकाभावात्' इति ॥ १२ ॥ अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमा ॥ यथा ' वटो न नित्यः जन्यैकत्वात् । इत्यादौ कश्चिदाह-यदि जन्यैकत्वमनित्यत्वे प्रमाणम् तदा घटे एकत्वोत्पत्तेः पूर्वं तदभावानित्यत्वम् । नित्यश्चेत्, तदाऽ- नुत्पन्न एवेति ॥ १३॥ साधारणधर्म प्रदर्य संशयोद्भावनं संशयसमा ॥ यथा शब्दो- ऽनित्यः कार्यत्वाद, इत्यादौ शब्दस्यानित्यत्वेन घटेन सहकार्यत्वरूपं साधर्म्य यथास्ति, तथा नित्येन शब्दत्वेन सह श्रावणप्रत्यक्षविषयत्वं साधर्म्यमस्तीति उभयस्मधर्म्यदर्शनात् संशयः स्यात् एकपरिशेषे नियामकाभावात् ' इति ॥ १४ ॥ वायुक्तहेतोः साध्यविपरीतसाधकं हेत्वन्तरोद्भावनं प्रकरणस- मा॥ सत्मतिपक्षोदाहरणमेवात्रोदाहरणं बोध्यम् ॥ १५ ॥ कालत्रयेपि हेतुत्वासंभवेन. अहेतुत्वकथनमहेतुसमा ॥ यथा (१२०) तर्कसंग्रहे [जातिनिरूपणम् 'कार्यत्वादिरूपसाधनम् साध्यादनित्यत्वात् पूर्वकालवृत्ति चेत्, तदाऽ- नित्यत्वरूपसाध्यस्य तदानीमभावात् कस्य साधकम् अथ पश्चात्का- लवृत्ति चेत् तदा पूर्वकाले साधनाभावात् कस्य साध्यमनित्यत्वम् यदि चोभयमेककालवृत्ति किं कस्य साधनं किं कस्य साध्यं विनि- गमकाभावादिति ॥ हेतुसमेति ॥ पाठे तु कालत्रयपि हेतुत्व- स्यासंभवकथनं हेतुसमेत्यर्थः ॥ १६ ॥ अर्थापत्तिपुरस्कारेण साध्याभावोद्भावनं अर्थापत्तिसमा ॥ यथा पूर्वोक्तानुमाने शब्दस्यानित्यसाधादनित्यत्वं यदि, तदार्था- पत्यासिद्धं नित्यसाधान्नित्यत्वमाप एकतरावधारणे नियामका- भावात् । इति ॥ १७॥ सर्वाविशेषप्रसंगोद्भावनमविशेषसमा ॥ यथा तत्रैव 'कृतकत्वा- दिनाऽनित्यघटादिसाधर्म्यण शब्दस्यानित्यत्वं, तदा प्रमेयत्वादिरूपेण तत्साधर्येण सर्वस्यैवानित्यत्वं स्यात् मदुक्तसाधर्म्यण तत् सिद्ध्यति नतु त्वदुक्तेनेत्यत्र नियामकाभावात् ' इति ॥ १८ ॥ उभयपक्षसाधर्येण साधनोपपत्तिकथनमुपपत्तिसमा ॥ 'यदि चानित्यत्वसाधनं कार्यत्वमुपपद्यत इति शब्दस्यानित्यत्वम्, तदा नित्यत्वसाधनमाप किंचिदुपपद्यत इति नित्यत्वं किं न स्यात् इति १९ वायुपदर्शितसाधनाभावेपि साध्यस्योपलब्धिकथनम् उपलब्धि- समा यथा 'शब्दोऽनित्यः प्रयत्नानुविधायित्वात् घटवत् । इत्यत्र प्रयत्नं विनापि वायुनोदनवशात् वृक्षशाखाभङ्गजन्योपलब्धेर्न प्रयत्नानु- विधायित्वं शब्देऽस्ति इति ॥ २० ॥ वादिनानुपलब्धिवशात् कस्यचित् पदार्थस्यानङ्गीकारेऽनुपलब्धिव- शादेव वाद्यभिमतस्यापि यत्किचित्पदार्थस्याभावसाधनमनुपलब्धि- समा ॥ यथा 'जलादेविद्यमानस्याप्यावरणवशादनुपलब्धिः- तदद उच्चारणात्पूर्व शब्दस्य विद्यमानस्याप्यावरणवशादनुपलब्धिरित्यत- न्मतं वादिना दूष्यते यद्यावरणवशाच्छदो नोपलभ्यते । तदा जला- - निग्रहस्थाननिरूपणम् ] पदार्थान्तभावग्रन्थः। द्यावरणमिव शब्दाद्यावरणमप्युपलभ्येतेति ॥ अत्रोत्तरं यदि भव- गिरनुपलब्धित आवरणवशाच्छब्दो नोपलभ्यते तदानुपलब्धरनुपल- ब्ध्यऽभावे सिद्ध तदभावादावरणसिद्धिः' इति ॥ २१ ॥ धर्मस्य नित्यत्वानित्यत्वविकल्पामिणो नित्यत्वसाधनं नित्य- समा ॥ यथा शब्दस्य यदनित्यत्वं भवद्भिरुच्यते तन्नित्यमनित्यं वा यदि नित्यं, तदा शब्दवृत्तेरेव तस्य सदातनत्वाच्छब्दस्यापि तथात्व- मागतम् । अथानित्यं तदा शब्दे कदाचित् अनित्यत्वाभावोस्तीति नित्य एव शब्द इत्युभयथापि शब्दस्य नित्यत्वाम् इति ॥ २२ ॥ अनित्यदृष्टान्तसाधर्म्यात् सर्वानित्यत्वप्रसङ्गोदावनमनित्यसमा यथा .' यद्यनित्येन घटेन सादृश्याच्छन्दोऽनित्यः इत्युच्यते, तदा येन केनचिद्धर्मेण सर्वस्यैव तत्सदृशत्वात् सर्वस्यानित्यत्वप्रसङ्ग: इति ॥ २३ ॥ वाद्युक्तहेतोरन्यकार्येणापि संभवाभिधानं कार्यसमा ॥ यथा तत्रैव प्रयत्नानुविधायित्वमुभयथापि संभवति घटादिवत् शब्दस्वरूपो- त्पत्तौ जलादिवदावरकनिवृत्तौ च उभयत्रापि प्रयत्नानुविधायित्वदर्श- नात् । तथा च तस्यावरकनिवृत्तिरूपकार्यान्तरस्य संभवान्नानित्यत्व- नियतत्वम्' इति ॥ २४ ॥ क्वचित् । कारणसमेति पाठः ॥ तस्यापि 'कारणस्य प्रयत्नानु- विधायित्वस्योभयत्र शब्दस्योत्पत्तौ तदावर कनिवृत्तौ च समत्वाभिधा- नम् । इति रीत्या उक्तम् एवार्थे पर्यवसानमवसेयम् ॥ अत्र ग्रन्थ- गौरवभयात् सूक्ष्मप्रकारात दर्शिताः ॥अभियुक्तैरन्यत्र तेऽनुसंधेयाः॥ दीपिका-वादिनोपजयहेतुर्निग्रहस्थानम् ॥ प्रतिज्ञा- हानि, प्रतिज्ञान्तरं, प्रतिज्ञाविरोधः, प्रतिज्ञासंन्यास, हेत्वन्तरम्, अर्थान्तरम्, निरर्थकम्, अविज्ञातार्थम्, अपा- र्थकम्, अप्राप्तकालं, न्यूनम्, अधिकम्, पुनरुक्तम्, अन- - M , (१२२) तर्कसंग्रहे [निग्रहस्थाननिरूपणम् नुभाषणम्, अज्ञानम्, अप्रतिभा, विक्षेपः, मतानुज्ञा, पर्यनुयोज्योपेक्षणं, निरनुयोज्यानुयोगः, अपसिद्धांतः, हेत्वाभासाश्च निग्रहस्थानानि ॥ शेष मुगमम् ॥ नीलकठी-निग्रहस्थानं लक्षयति-वादिन इति ॥ इदं च यद्यपि छलादावप्यस्ति तथाप्यर्थान्तरादिरूपनिग्रहस्थानमध्येन्त - बात् अदोषः ॥ छलत्वादिनापि ज्ञानस्योपयोगित्वात् पृथगुपादानं हेत्वाभासवत् ॥ तस्यावान्तरभेदान् दर्शयति-प्रतिज्ञेत्यादिना ॥ तत्र प्रतिज्ञातार्थविरुद्धाभ्युपगमः प्रतिज्ञातार्थपरित्यागो वा प्रतिज्ञा- हानिः । यथा शब्दो नित्यः प्रत्यक्षगुणत्वात् इत्यत्र सोय गकारः' इत्यादि प्रत्यभिज्ञाबलात् परेण बाधे उद्भाविते ' अस्तु तर्हि नित्यः शब्दः । इति नित्यत्वमङ्गीकुर्वन् वादिशब्दस्यानित्यत्वप्रतिज्ञा जहाति ॥ १ ॥ परोक्तदोप्लेद्दिधीर्षया पूर्वानुक्तविशेषणविशिष्टतया प्रतिज्ञातार्थंक- थनं प्रतिज्ञान्तरम् ॥ यथा 'क्षित्यादिकं गुणजन्यं कार्यत्वात् । इत्यत्र अदृष्टजन्यत्वेन सिद्धसाधनोभावने ' सविषयकः' इति गुणवि- शेषणदानम् ॥ २॥ स्वोक्तसाध्यविरुद्धहतुकथनम् प्रतिज्ञाविरोधः ।। यथा ' द्रव्यं गुणभिन्नं, रूपादितः पृथक्त्वेनानुपलभ्यत्वात् । इति ॥ ३ ॥ स्वोक्तेर्थे परेण दूषित तदपलापः प्रतिज्ञासंन्यासः॥ यथा 'शब्दो नित्यः ऐन्द्रियकत्वात् इत्युक्ते परेण सामान्ये व्यभिचारमुद्भा- व्य दूषिते स्वोक्तमपलपति केनोच्यते अब्दो नित्यः' इति ॥ परोक्तदूषणोद्दिधीर्षया पूर्वोक्तहेतुकोटौ विशेषणान्तरोपादानं हेत्व- न्तरम् ॥ यथा 'शब्दोऽनित्यः प्रत्यक्षत्वात् । इत्यत्र सामान्य व्यभि- चारोद्भावने 'जातिमत्त्वे सति । इति विशेषणदानम् ॥ ५ ॥ प्रकृतानुपयुक्तार्थकथनमर्थान्तरम.॥ यथा 'नित्यः शब्दः अस्प निग्रहस्थाननि०] पदार्थान्तर्भावग्रन्थः । (१२३) - वित्त्वाद' इति हेतुः । हेतुपदं च हिनोतेस्तुनि प्रत्यये निष्पन्नम्, पदं च सुप्तिङन्तम्' इत्यादि ॥ ६ ॥ अवाचकशब्दप्रयोगो निरर्थकम् ॥ यथा ' शब्दोऽनित्यः जब- गडदशत्वात् ' इत्यादि ॥ ७ ॥ परिषत्पतिवाद्यबोधप्रयोजकपदप्रयोगः अविज्ञातार्थम् ॥ तत् च क्लिष्टान्वयमप्रसिद्धार्थकं त्वरितोच्चारितम् ' इत्यादि रूपम् ॥ ८ ॥ परस्परानन्वितार्थकंपदसमूहोऽपार्थकम् ॥ यथा 'शब्दो घटः पटो नित्यमनित्यं च प्रमेयत्वात् । इत्यादि ॥ ९ ॥ अवयवानां व्युत्क्रमेण कथनमप्राप्तकालम् ॥ यथा 'शब्दत्वा- च्छन्दोऽनित्यः' इत्यादि ॥ १० ॥ यत्किंचिदवयवशून्यावयवाभिधानं न्यूनम् ॥ स्पष्टम् ॥ ११ ॥ अधिकहेत्वादिकथनमधिकम् ॥ यथा 'शब्दोऽनित्यः शब्दत्वात् श्रावणत्वाच्च । इत्यादि ॥ १२ ॥ अनुवादं विना कथितस्य पुनः कथनं पुनरुक्तम् ॥ यथा 'शब्दो- नित्यःशब्दोऽनित्यः । इत्यादि ॥ १३ ॥ परिषदा त्रिरभिहितस्याप्यननुवादः अननुभाषणम् ॥ १४ ॥ परिषदा विज्ञानस्य वादिना त्रिरभिहितस्यापि वाक्यार्थस्याबोधः- अज्ञानम् ॥ १५॥ उत्तरार्धं परोक्तं बुद्धवापि उत्तरस्यास्फूर्तिवशात्तूष्णींभावः अप्रतिभा१६ असंभवत्कालान्तरककार्यव्यासङ्गमुद्भाव्य कथाविच्छेदो विक्षेपः॥१७ स्वपक्षे दोषमनुद्धृत्य परपक्षे दोषाभिधानं मतानुज्ञा ॥ १८ ॥ उद्भावनार्हपरकीयनिग्रहस्थानानुभावन पर्यनुयोज्योपेक्षणम् १९॥ निग्रहस्थानरहिते निग्रहस्थानोभावनं निरनुयोज्यानुयोगः॥२०॥ एकसिद्धान्तमतमाश्रित्य प्रवृत्तौ तद्विरुद्धसिद्धान्तमतमालम्ब्योत्तर- दानम् अपसिद्धान्तः ॥२१॥ प्रतिज्ञाहान्यनुभाषणाज्ञानामतिभाविक्षेपपर्यनुयोज्योपेक्षणानामभावे तर्कसंग्रहे- [शक्तिवादः अन्येषां हेत्वाभासव्यतिरिक्तनिग्रहस्थानानां गुणे,हेत्वाभासानां च द्रव्या- दिष्वन्तर्भावो यथायथं बोध्यः ॥ अतिरिक्तः सूत्रार्थसुगम इत्यभि- प्रायेणाह-शेषमिति ॥ दीषिका-ननु करतलानलसंयोगे सत्यपि प्रतिबन्धके सति दाहानुपपत्तेः शक्तिः पदार्थान्तरमिति चेत् ॥ न ॥. प्रतिबन्धकाभावस्य कार्यमात्रे कारणत्वेन शक्तेरनुपयो- गात् । कारणत्वस्यैव शक्तिपदार्थत्वात् ॥ ननु भस्मा- दिना कांस्यादौ शुद्धिदर्शनादाधेयशक्तिरङ्गीकाति चेत् ॥ न ॥ भस्मादिसंयोगसमानकालीनाऽस्पृश्यस्पर्श- प्रतियोगिकयावदभावसहितभस्मादिसंयोगध्वंसस्य शु- द्धिपदार्थत्वात् ॥ नीलकण्ठी-नन्वनलसंयोगे सत्यपि मण्यादिसमवधाने दाहो न जायत इति मण्यादेः प्रतिबन्धकता वाच्या । सा च वह्नौ दाहानु- कूलशक्तिस्वीकार एव निर्वहति । प्रतिबन्धकतायाः कार्यानुकूलशक्ति- 'विघटकत्वरूपत्वात् । अतस्तदन्यथानुपपतिसिद्धायाः शक्तेरतिरिक्त- त्वाद' सप्तव पदार्थाः 'इत्यसंगतमिति प्राभाकरः शङ्कते-नन्विति॥ नन्वेवं शक्तिसिद्धावपि तस्यातिरिक्तत्वासिद्धिरिति चेत् ॥ न ॥ यतो न तावद्रव्यात्मिका शक्तिः गुणादिवृत्तित्वात् । अत एव न गुणकर्मा- न्यतररूपा, न च सामान्याद्यन्यतमरूपा उत्पत्तिविनाशशालित्वात् । एवं चातिरिक्तपदार्थत्वसिद्धिरिति । ननु प्रतिबन्धकत्वं न कार्यानुकूलशक्तिविघटकत्वम् । अपि तु कारणीभूताभावप्रतियोगित्वम् तत् च मण्यभावस्य हेतुत्वादेवोपपद्यते। मणिसमवधानदशायां च तदभावरूपकारणान्तराभावादेव दाहानुत्प- तिसंभवः ॥ इत्थं चातिरिक्तशक्तिस्वीकारोऽनुचित इत्याशयेन समा- 'धत्ते-प्रतिबन्धकाभावस्यति॥
शक्तिवादः] पदार्थान्तर्भावग्रन्थः। (१२५) ननु दाहोत्पादे च वह्निः शक्तः' इतिव्यवहारान्यथानुपपत्त्यासेत्स्य- ति अतिरिक्तशक्तिरित्याशङ्कय तस्याः कारणतारूपत्वेपि व्यवहारोप- पत्ते तिरिक्ता शक्तिरित्याह--कारणत्वस्येति ॥ ननु मण्याद्यभावस्य हेतुत्वे मणिसमवधानदशायां सत्यप्युत्तेजके दाहो न स्यात् । मन्मते तु मण्याद्यपसारणदशायामिवोत्तेजकसमवधा- नदशायामपि वह्नौ दाहानुकूलशक्त्यन्तरोत्पत्तेरङ्गीकारेण न दोष इति चेत् ॥ न ॥ उत्तेजकाभावविशिष्टमण्याद्यभावस्य कारणत्वाङ्गीकारेण- अदोषात् ॥ नचोत्तेजकानामननुगतत्वात् तत्तदुत्तेजकाभावकूटविशिष्ट- मण्याद्यभावस्यैव कारणतायाः कल्पनीयतया गौरवमिति वाच्यम् ।। दाहानुकूलशक्तिं प्रति एतादृशकारणतायाः तवाप्यावश्यकत्वात् अन- न्तशक्तिः तत्मागभावध्वंसकल्पने महागौरवादिति संक्षेपः ।। नन्वेवमपि कांस्यादरस्पृशवस्तुस्पर्शे सति न भोजनादिरूपकार्या- हताशक्तिमत्कांस्यादेरेव तदहत्वात् अस्पृश्यस्पर्शे सति शक्ते शात् भस्मसंयोगे पुनः शक्तेरुत्पादात् तदर्हता । एवं च कांस्यांदी आधेय- शक्तिः स्वीकार्या न च कांस्यादौ भोजनादिकम् प्रति अस्पृश्यस्पर्शस्य प्रतिबन्धकत्वकल्पनादेवोपपत्तौ तदनङ्गीकार इति वाच्यम् ॥ प्रवृत्ते च असंस्पृश्यस्पर्शस्यासंस्पृश्यसंयोगरूपतया सति तन्नाशे प्रतिबन्ध- काभावसद्भावात् कांस्यादौ अन्तरा भस्मादिसंयोजनं भोजनाद्यर्हता- पत्तोरति पुनः प्रत्यवतिष्ठते ॥ ननु भस्मादिनेति ॥ प्रथमेनादिपदेनाम्लादेः द्वितीयेन च ताम्रादेः परिग्रहः । कृप्तध्वंसविशेषणेनैव कांस्यादेः शुद्धत्वोपपत्तौ अतिरिक्तशक्त्यङ्गीकारोऽनुत्ति इति समाधत्ते-भस्मादिसंयोगेति॥ यत्र कांस्यादौ भस्मादिसंयोगध्वंसानन्तरं पुनरस्पृश्यस्पर्शः तत्रापि भस्मादिसंयोगध्वंसस्य सत्त्वाच्छुड्यापत्तिरतः सहितान्तं ध्वंसवि- शेषणम् | साहित्यं चात्र संबन्धविशेषनियन्त्रितं सामानाधिकरण्यम् अस्पृश्यवस्तूनामनुगमकरूपस्य दुर्वचनतया सामान्यधर्मावच्छिन्नाभा- (१२६) तर्कसंग्रहे- [विधिनिरूपणम् वनिवेशासंभवात् यत्किंचिदस्पृश्यस्पर्शाभावस्य च तत्र सत्त्वात्तदा- पत्तिस्तदवस्थैव इत्यतो यावदिति ॥ तथा च तत्र यावतां तत्त- दस्पृश्यरपर्शाभावानां निरवच्छिन्नविशेषणतासंबन्धेन असत्वात् नोक्त- दोष इति भावः ॥ यत्र च भस्मादिसंयोगास्पृश्यवस्तुसंस्पर्शी युगपदे- वोत्त्पन्नौ विनष्टौ च तत्र च तत्तदस्पृश्यस्पर्शाभावकूटसामानाधिकरण्य- विशिष्टभस्मादिसंयोगध्वंसमादाय शुद्धतापत्तिरतो भस्मादिसंयोगका- लावच्छेदेन तत्र विद्यमानार्थकं कालीनान्तं अभावविशेषणम् । तथा च तत्र भस्मादिसंयोगक्षणावच्छेदेन यावत्तत्तदभावानामसत्वान्न दोष इति भावः॥ दीपिका-स्वत्वमपि न पदार्थान्तरम् ॥ यथेष्टविनि- योगयोग्यत्वस्य स्वरूपत्वात् । तदवछेदकं च प्रतिग्रहा- दिलब्धत्वमेवेति ॥ नीलकण्ठी-चैत्रस्य इदं धनमित्यादौ यत् स्वत्वं प्रतीयते, तत् पदार्थान्तरमिति मतं निरस्यति-स्वमपीति ॥ अपिनानुक्त- समुच्चायकेन प्रतियोगित्वपरिग्रहः ॥ ननु तर्हि स्वत्वं किं स्वरूपमत आह-यथेष्टेति तदवच्छेदकं चेति ॥ तादृशयोग्यत्वप्रयोजक- मित्यर्थः ॥ प्रतियोगित्वं प्रतियोगिरूपं प्रतियोगितावच्छेदकरूपं वेत्यादिकं बहुतरमूहनीयम् ॥ (इति पदार्थान्तर्भावग्रन्थः) दीपिका-अथ विधिनिरूप्यते-प्रयत्नजनकचिकीर्षाज- नकज्ञानविषयो विधिः । तत्प्रतिपदको लिङादिर्वा ॥ कृत्यसाध्ये प्रवृत्त्यदर्शनात, कृतिसाध्ये प्रवृत्तिदर्शनात कृतिसाध्यज्ञानं प्रवर्तकम् । न च विषभक्षणादौ प्रवृत्नि- प्रसङ्गः, इष्टसाधनतालिङ्गककृतिसाध्यताज्ञानस्य काम्य- स्थले, विहितकालजीवित्वनिमित्तज्ञानजन्यस्य नित्य- विधिनिरूपणम् ] न्यूनपूरणग्रन्थः। (१२७) नैमित्तिकस्थले प्रवर्तकत्वात् ॥ न चाननुगमः। स्ववि- शेषणवत्ताप्रतिसंधानजन्यत्वस्यातुगतत्वात् इतिगुरवः॥ तन्न । लाघवेन कृतिसाध्येष्टसाधनताज्ञानस्यैव चिकी- द्विारा प्रयत्नजनकत्वात् ॥ न च नित्ये इष्टसाधनत्वा- भावात् अप्रवृत्तिप्रसङ्गः । तत्रापि प्रत्यवायपरिहारस्य पापक्षयस्य च फलत्वकल्पनात् ॥ तस्मात्कृतिसाध्यष्ट- साधनत्वमेव लिङाद्यर्थः॥ नीलकण्ठी-सर्वेषां पदार्थानामुक्तपदार्थेषु यथायथमन्तर्भावं निरूप्य मूलन्यूनती परिहर्तुं विधिं निरूपयिष्यमाणः शिष्यावधानाय तन्निरूपणं प्रतिजानीते-अथेति ॥ स्वपरमतसाधारणं विधित्वं तावनिर्वक्ति-प्रयत्नेति॥ प्रयत्नजनिका या चिकीर्षा तज्जनकं यज्ज्ञानं तद्विषय इत्यर्थः गुरुमते कृतिसाध्यताज्ञानस्य, स्वमते च कृतिसाध्य- त्वविशिष्टेष्टसाधनताज्ञानस्य चिकीर्षाद्वारा प्रयत्नजनकत्वात् । तन्मते कृतिसाध्यत्वे, स्वमते च कृतिसाध्यत्वविशिष्टेष्टसाधनत्वे लक्षणसं- गतिः॥अभिधायकस्य विधिमताभिप्रायेणाह-तत्प्रतीति। तादृशज्ञा- नविषयकार्यत्वादिप्रतिपादकलिङादिरित्यर्थः । लिङादीत्यादिना लोट तव्यादिसंग्रहः ॥ वाकारोऽनास्थायां ॥ गुरुमतमाशङ्कते-कृत्य- साध्य इति ॥ कृत्यसाध्यत्वेनावगत इत्यर्थः ॥ प्रवर्तकमिति॥ चिकीर्षाद्वारा प्रवृत्तिजनकमित्यर्थः ॥ न च कृत्यसाध्यत्वज्ञानाभाव एवं प्रवर्तकोस्त्विति शङ्कयम् । कृत्यसाध्यत्वज्ञानाभावत्वेन तत्त्वे गौरवाद कृतिसाध्यत्वाभावकृतिसाध्यभेदतत्तद्वयाप्यादिदर्शनानां प्रवृत्ती प्रति- बन्धकत्वकल्पनेन महागौरपच्चेति दिक् ॥ ननु विषभक्षणादौ प्रवृत्त्यापत्तिः कृतिसाध्यताज्ञानस्य तत्रापि सत्त्वादित्याशङ्कां निराचष्टे-न चेत्त्यादिना ॥ इष्टसाधनतालि- ङ्गकेति ॥ · अयं मत्कृतिसाध्यः मत्कृतिं विना अनुपपद्यमानत्वे सति इष्ठसाधनत्वात् । इत्यनुमानिकेत्यर्थः ॥ काम्यस्थल इति ।
(१२८) तर्कसंग्रहे- [विधिनिरूपणम् प्रवर्तकत्वादित्यनेनान्वयः । ज्योतिष्टोमयागादौ इत्यर्थः ॥ लिहित- कालेत्यादि ॥ विहितकालशुचिजीवित्वज्ञानाधीनस्य कृतिसाध्य- ताज्ञानस्य नित्ये संध्यावन्दनादौ, आशौचादिरूपनिमित्तज्ञानाधीनस्य तस्य नैमित्तिके स्नानादौ, प्रवर्तकत्वादित्यर्थः ॥ 'अहमेतत्कालिककृ- तिसाध्यसन्ध्यावन्दनकः एतत्कालिकशुचिजीवित्वात् । इत्येवं रीत्या कृतिसाध्यत्वज्ञानस्य विहितकालशुचिजीवित्वादिज्ञानजन्यत्वमवसेयम्। अनुगम इति॥ प्रवृत्तिसामान्यपयोनकस्यैकस्याभावात् इति भावः।। स्वविशेषणवतेत्यादि ॥ स्वंप्रवर्तमानः पुरुषः तस्य विशे- षणम् तन्निष्टो धर्मः कामनादिः, तद्वत्तायाः स्वविषयसाधनत्वादिरू- पस्य तत्संधानं ज्ञानं तजन्यत्वस्येत्यर्थः ॥ लाघवेनेति ॥ कार- णतावच्छेदकलाघवेनेत्यर्थः ॥ तन्मतेकारणतावच्छेदकस्य जन्यत्वा- दिघटितत्वात् गौरवमिति भावः ॥ कृतिसाध्यष्टसाधनेति ।। अत्र बलवदनिष्टाननुबन्धित्वमप्यन्तर्भावनीयम् । तेन कृतिसाध्यत्वेन तृप्तिरूपेष्टसाधनत्वेन चावगते विषसंपृक्ते भोजनादौ न प्रवृत्त्यापत्तिः । विशिष्टज्ञानत्वावच्छिन्नस्य कारणत्वकथनं तु पाचां मतेन ॥ नव्यमते कृतिसाध्यत्वादिज्ञानानां पृथगेव दण्डचकादिन्यायेन कारणत्वात् ॥ प्रयत्नेति ॥ प्रवृत्तीत्यर्थः ॥ प्रत्यवायेति ॥ प्रत्यवायस्य परि- हारः प्रागभावः तस्य च दुःखजनकाभावतया ॥ तन्नाशस्यैवेष्टत्वेन फलत्वमिति भावः॥ न च कथं तत्मागभावस्य फलत्वं तस्याजन्यत्वादिति वाच्यम् ॥ यत्सत्त्वेयत्सत्त्वमिति व्यवहारलभ्यस्य स्वरूपसंबन्धरूपस्य संध्याव- न्दनप्रयोज्यत्वस्य तत्र सत्त्वेन फलत्वाक्षतेरित्यवध्येयम् ॥ दीपिका-ननु 'जोतिष्टोमेन स्वर्गकामो यजेत' इत्यत्र लिङा स्वर्गसाधनकार्यप्रतीयते यागस्याशुतरविनाशि- नः कालान्तरभाविस्वर्गसाधनत्वायोगात् तद्योग्यं स्था यिकार्यमपूर्वमेव लिङाद्यर्थः॥ कार्य, कृतिसोध्यम्।कृते " विधिनिरूपणम् ] न्यूनपूरणग्रन्थः। (१२९) सविषयत्वाद्विषयाकाङ्क्षायां यागों विषयत्वेनान्वेति, कस्य कार्यम्' इति नियोज्याकाङ्क्षायां स्वर्गकामपदं नियोज्यपरतयान्वेति । कार्यबोद्धा नियोज्यः । तेन 'ज्योतिष्टोमनामकयागविषयं स्वर्गकामस्य कार्यम् । इति वाक्यार्थः संपद्यते । वैदिकलित्वात् । ' यावजी- वमग्निहोत्रं जुहुयात् ' इति नित्यवाक्येऽप्यपूर्वमेव वाच्यं कल्प्यते । 'आरोग्यकामो भेषजपानं कुर्यात् । इत्यादि लौकिकलिङ्गः क्रियाकायें लक्षणा इति चेत् ।। नीलकण्ठी-ननु लिङ्गादेः कार्ये एव शक्तिरिति गुरुमतमाश- ङ्कते-नन्विति ॥ इच्छाविशेषरूपस्य यागस्याशुतरविनाशिनः स्वर्ग- साधनत्वेन भानं न संभवति अयोग्यत्वादित्यपूर्वरूप एव कार्ये शक्ति- रङ्गीकार्येत्याह-यागस्येति ॥ आशुतरविनाशिनः तृतीयक्षण- त्तिध्वंसप्रतियोगिनः॥ स्थायि फलपर्यन्तस्थायि ॥ अन्वयमकारं दर्शयति-कार्य कृतिसाध्यमिति ॥ यागे कृतिसाध्यत्वं साक्षात्, अपूर्वे तु यागद्वारा इति बोद्धव्यम् ॥ कार्यबोद्धति ॥ इदं मत्कृति- साध्यमिति ज्ञानवानित्यर्थः ॥ विध्यर्थमुख्यविशेष्यकं शाब्दबोधं दर्श- यति-तेनेति ॥ स्वर्गकामस्य लिङथै कार्ये, तदेकदेशे च यागस्या- न्वयेनेत्यर्थः ॥ न्यायमते तु तत्र कृतिसाध्यबलवदनिष्टाजनके- ष्टसाधनयागानुकूलकृतिमान् स्वर्गकामः । इति वाक्यार्थबोधः ॥ ननु अपूर्वस्य पूर्वमनुपस्थितत्वात् कथं तत्र शक्तिग्रह इति चेत् ॥ अत्र प्रवदन्त्यभिज्ञाः । तन्मते तधर्मावच्छिन्नविषयकशाब्दबोधं प्रति तद्धर्मावच्छिन्नविषयकशक्तिग्रहस्य तादृशोपस्थितेश्च हेतुता; न तु समानविषयकत्वेन हेतुहेतुमद्भावः। एवं च कार्यत्वावच्छिन्ने यत्र कुत्र चित् शक्तिग्रहः । योग्यताबलाचापूर्वरूपकार्यस्य शान्दवोधे भानं न हि यागविषयकमन्यत्कार्य संभवनीति ॥ ९ तर्कसंग्रहे- [विधिवादः (१३०) ननु नित्ये फलाभावात् कथं तत्रापूर्वबोधकतत्यत आह-यावज्जी- वमितिः ॥ अपूर्वमेवेति ॥ कार्यत्वेनेत्यादि । यद्वा पूर्वमित्यर्थः॥ लौकिकस्थले पूर्वभानासंभावादाह-आरोग्येति ॥ क्रियाकार्य इति ॥ धात्वर्थनिष्ठकार्यत्व इत्यर्थः ।। दीपिका- न ॥ यागस्याययोग्यतानिश्चयाभावेन साधनतया प्रतीत्यनन्तरं निर्वाहार्थम् अवान्तरव्यापार- तयाऽपूर्वकल्पनात् ॥ कीर्तनादिना नाशश्रुतेन यागध्वंसो व्यापारः। लोकव्युत्पत्तिबलात् क्रियायामेव कृतिसा- ध्येष्टसाधनत्वं लिङा बोध्यत इति लिङ्त्वेन विध्यर्थ- कत्वम्,आख्यातत्वेन यत्नार्थकत्वम् । पचति पाकं करो- तीति विवरणदर्शनात्, किं करोतीति प्रश्न पचती- त्युत्तरात चाख्यातस्य प्रयत्नार्थकत्वनिश्चयात् ॥ नीलकण्ठी-लौकिकालौकिकसाधारण्येन कार्यत्वादावेव लिङ्गादेः शक्तिरङ्गीकार्या इत्याशयेन समाधत्ते-यागस्यति ॥ अयोग्यत्वात् यागस्य स्वर्गसाधनत्वेन भानं न संभक्तीत्युक्तदोषं निराचष्टे-अयो- ग्येति ॥ अयोग्यतासंशयसत्त्वेपि तस्याविघटकत्वात् शाब्दबोधो भवत्येवेति भावः ॥ वाक्यादिष्टसाधनत्वे यागेऽवगते तस्याशुतरविना- शिनो व्यापार विना फळजनकत्वासंभवात् तनिहाय अपूर्व कल्प्यते इत्याह-तनिर्वाहार्थमिति॥ ननु यागध्वंसस्यैव व्यापारत्वमस्तु किमपूर्वकल्पनेन इत्यत आह- कीर्तनादिनेति ॥ आदिना ' कर्मनाशाजलस्पर्शात् करतोयावि- लङ्घनात् । गण्डकीबाहुतरणाव धर्मः क्षरति कीर्तनात् ' इत्यत्रोक्तक- मनाशाजलस्पर्शादिपरिग्रहः ॥ ध्वंसस्य, व्यापारत्वे स्वर्गधारापत्तिरि- त्यपि दूषणं विभावनीयम् ॥ लोकल्युत्पत्तीति ॥ लोकव्यवहार आख्यातवादः] न्यूनपूरणग्रन्थः। (१३१) इत्यर्थः ॥ स च या यत्र प्रवर्त्तते स कृतिसाध्यत्वेनेष्टसाधनत्वेन च तनानातीत्येवंरूपः ॥ केचित्तु यदृच्छया यत्र प्रवृत्तिः तत्तत्साधन- मिति लोकव्यवहार इत्याहुः ॥ नव्याः पुनः लोके पचेतेत्यादिलिडा- दिसमभिव्याहारस्थले क्रियायामेव कृतिसाध्यत्वविशिष्टेष्टसाधनत्ववोध इति नियमबलादित्यर्थः ॥ सर्व वेति शेष इति व्याचख्युः।। आख्या- तत्वेनेति ॥ तच्च संकेतसंबन्धेनाख्यातपदवत्त्वं तित्वादिकमेट शक्यतावच्छेदकमिति तु नव्याः॥ यत्नार्थकत्वं कृतित्वावच्छिन्न- वाचकत्वम् ।। किंकरोतीति ।। कृतित्वावच्छिन्ने जिज्ञासितसंबन्धक हि तत्तत्पश्नवाक्यम् ।। उत्तरवाक्यस्य कृतित्वावच्छिन्ने पाकसंबन्धे बोधकत्वे एव तनिवर्तकत्वम् नान्यथेति भावः ।। दीपिका-रथो गच्छतीत्यादौ अनुकूलव्यापारे लक्षणा। देवदत्तः पचति, देवदत्तेन पच्यते तण्डुलः, इत्यादौ कर्तृ- कर्मणोनाख्यातार्थत्वम् । किं तु तद्गतैकत्वादीनामेव । तयोराक्षेपादेव लाभः॥ नीलकण्ठी-ननु 'रथो गच्छति' इत्यादौ आख्यातस्य कृति- बोधकत्वासंभवात् तदनुरोधेन व्यापार एव शक्तिर्वक्तव्येत्यत आह- रथोगच्छतीत्यादाविति ॥ व्यापारे अनुकूलोत्कीर्तनं तु तेन सम्बन्धेन व्यापारे गमनस्यान्वयलाभाय ॥ नव्याः पुनः गच्छती- त्याख्यातस्य जानातीत्यादाविव आश्रयत्वे निरूढलक्षणा । न चाश्र- यता सम्बन्धेनैव प्रथमान्नार्थे गमनादेरन्वयेन निर्वाहे आश्रयत्वे निरूढलक्षणाकल्पनं निरर्थकमिति वाच्यम् । नामार्थयोरिव धात्वर्थ- नामार्थयोरभेदातिरिक्तसम्बन्धेन अन्वयस्याऽयुत्पन्नत्वात् तत्र तथा अन्वयासंभवातू ।। स्तोक पन्तीत्यादौ स्तोकादेर्धात्वर्थे पाकेऽन्वया- दभेदातिरिक्तेति ध्येयम् । वैयाकरणमतं निराचष्टे-देवदत्त इति॥
. (१३३) तर्कसंग्रहे- [ पदार्थज्ञानप्रयोजनम् - नाख्यातार्थत्वमिति ॥ आख्यातस्य कादी शक्तिस्वीकारेऽनन्त- कृत्यादेः शक्यतावच्छेदकत्वमङ्गीकर्तव्यम् । कृत्यादौ शक्तिस्वीकारे तु कृतित्वादिजातेः शक्यतावच्छेदकत्वाल्लाघवमिति भावः। तद्गतैक- त्वादीनामेवेति ॥ आख्यातार्थत्वमिति पूर्वेणान्वयः ॥ आदिना कृत्यादिपरिग्रहः ॥ ननु तर्हि कर्तृकर्मणोः कथं लाभ इत्यत आह-तयोरिति । आक्षेपादेवेति ॥ परमतेन । स्वमते तु प्रथमान्तपदेनैव तल्ला- भात् ॥ 'देवदत्तः तन्दुलं पचति' इत्यत्र 'तन्दुलकर्मकपाकानुकूल- कृतिमान् देवदत्तः । इत्यन्वयबोधः ॥ 'देवदत्तेन पच्यते तन्दुलः इत्यत्र तु देवदत्तसमवेतकृतिजन्यपाककर्मीभूतस्तन्दुलः इति शाब्द- बोधः ॥ न च 'देवदत्तः पचति' इत्यत्र तृतीया, 'तन्दुलः पच्यते । इत्यत्र च द्वितीया स्यात् तत्र कर्तृकर्मणोराख्यातेनाभिधानादिति वाच्यम् ॥ अनभिहिते कर्तृत्वे तृतीयायाः, तादृशे च कर्मत्वे द्विती- यायाः विधानेन अदोषादिति ध्येयम् ।। दीपिका-प्रजयतीत्यादौ धातोरेव प्रकर्षे शक्तिः ॥ उपसर्गाणां द्योतकत्वमेव न तु तत्र शक्तिरस्ति ॥ नीलकण्ठी-उपसर्गाणां वाचकत्वमतं निरस्यति-प्रजयती- त्यादाविति ॥ ननु धातुनैव प्रकर्षादेबोंधे प्रशब्दादेवैयर्थ्यमत आह-उपसर्गाणामिति ॥ द्योतकत्वं तात्पर्यग्राहकत्वम् । एतेन इतरनिपातानां वाचकत्वम् ' इति चिनम् ।। तथाहि-एवकारस्यायोगव्यवच्छेदोर्थः 'शंखः पाडुर एव' इत्यादी अन्ययोगव्यवच्छेदश्च पार्थ एव धनुर्धरः' इत्यादौ इत्यादिकं बहुतरमूहनीयम् ॥ दीपिका-पदार्थज्ञानस्य परमप्रयोजनं मोक्षः तथा पदार्थज्ञानप्रयोजनम् ] न्यूनपूरणग्रन्थः। (१३३) हि "आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि- ध्यासितव्यः' इति श्रुत्या श्रवणादीनां तत्त्वसाक्षात्कारे हेतुत्वबोधनात् ॥ श्रुत्या देहादिविलक्षणात्मज्ञान सत्य- प्यसंभावनानिवृत्तेः युक्त्यनुसंधानरूपमननसाध्यत्वात् । मननोपयोगिपदार्थनिरूपगद्वारा शास्त्रस्यापि मोक्षोप- योगित्वम् । तदनन्तरं श्रुत्योपदिष्टयोगविधिनानिदिध्या- सने कृते तदनन्तरं देहादिविलक्षणात्मसाक्षात्कारे सति देहादी अहमभिमानरूपमिथ्याज्ञाननाशे सति दोषा- भावात् ॥ प्रवृत्त्यभावे धर्माधर्मयोरभावात् । जन्माभावे पूर्वधर्माधर्मयोरनुभवेन नाशे चरमदुःखध्वंसरूपो मोक्षो जायते॥ज्ञानमेव मोक्षसाधनम्।मिथ्याज्ञाननिवृत्तेः ज्ञा- नमात्रसाध्यत्वात् ।'तमेव विदित्वाऽतिमृत्युमति नान्यः पन्था विद्यतेऽयनाय' इति साधनान्तरनिषेधात् च ।। नीलकण्ठी-प्रेक्षावत्मवृत्तये सकलकामनाविषयमुक्तिप्रयोजनका दर्शयति-पदार्थज्ञानस्यति ॥ पदार्थतत्त्वज्ञानस्येत्यर्थः ॥ अन्ये- षामवान्तरमयोजनानामपि सद्भावादाह-परमेति ॥ श्रुतेरयमर्थ:- ' अरे मुमुक्षुणात्मा द्रष्टव्यः । मुमुक्षोः आत्मदर्शनम् इष्टसाधनम् इति यावत् । आत्मदर्शनोपाय दर्शयति-श्रोतव्य इत्यादि ॥तेना- र्थक्रमेण शब्दक्रमस्त्यक्तो भवति ‘अग्निहोत्रं जुहोति । 'यवागू पचति । इत्यादिवत् ।। असंभावनानिवृत्तेरिति ॥ अमामाण्य- ज्ञाननिवृत्तरित्यर्थः ॥ युक्त्यनुसंधानति ॥ अयं भावः युक्तिभि- रनु चिन्तनं मननम् । तच्च आत्मन इतरभिन्नत्वेन अनुमानम् । तच्च भेदमतियोगीतरज्ञानसाध्यम् । तदर्थं सकलपदार्थनिरूपणमिति मोक्षोपयोगित्वं विशदयति-तदनन्तरमिति ॥ मननानन्तरमि- -- (१३४) तर्कसंग्रहे [पदार्थज्ञानप्रयोजनम् त्यर्थः । श्रुतस्यार्थस्य नैरन्तर्येण अनुसंधानरूपनिदिध्यासनस्य उपा- यमाह-योगविधिनेति ॥ इन्द्रियाणि विषयेभ्यः प्रत्याहृत्य इन्द्रि- येभ्यः मनः प्रत्याहृत्य साक्षात्कर्तव्ये वस्तुनि मनःमणिधानं योगः॥ तदनन्तरं निदिध्यासनानन्तरम् । मिथ्याज्ञाननाशे ॥ वास- नासहितमिथ्याज्ञाननाशे ॥ दोषः गादिः । एवकारेण कर्मव्यव- च्छेदः ॥ मिथ्याज्ञानेति ॥ शुक्त्यादौ रजतभ्रमो विशेषदर्शनेनैव यथा निवर्तते तथा प्रकृतेपीति भावः ॥ दीपिका-नतु ' तत्प्राप्तिहेतुविज्ञानं कर्म चोक्तं महा- मुने ' इति कर्मणोपि मोक्षसाधनत्वश्रवणात् ज्ञानकर्म- णोः समुञ्चय इति चेत् ॥ न ॥ नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन् अभ्यासेन च पाचयेत् ॥ अभ्यासाच्च क्वचिज्ज्ञानं कैवल्यं लभते नरः॥ इत्यादिना कर्मणो ज्ञानसाधनत्वप्रतिपादनात्, ज्ञानद्वारैव कर्ममोक्षसाधनम्,न साक्षात्॥तस्मात् पदार्थ- ज्ञानस्य मोक्षः परमप्रयोजनम् इत्येव रमणीयमिति ॥ नीलकण्ठी- 'कैवल्यं लभते नरः' इत्यादिना 'क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' इत्यादि श्रुतेः 'ज्ञानामिः सर्वकर्माणि भस्म सात्कुरुते तथा ' इत्यादिस्मृतेश्च संग्रहः॥ज्ञानद्वारैवेति ॥अत्रायं क्रमः निष्कामनया भगवत्प्रीत्यर्थ कृतैः कर्मभिर्दुरितक्षयरूपात्मशुद्धि- भवति । ततो विषयेषु वैराग्यम् । ततः श्रवणादी प्रवृत्तिः । ततः श्रवणादिकमेण तत्त्वज्ञानोत्पत्तौ पूर्वोक्तिमिथ्याज्ञाननाशादिकमेण मोक्ष- निष्पत्तिः ॥ अधिकमस्मदीयाभिनवचिन्तामणिव्याख्यायामनुसंधेयं तर्ककर्कशविचारचातुरीधुरीणैरिति ॥ - - उपसंहारः] न्यूनपूरणग्रन्थः। (१३५) मूलम्-कणादन्यायमतयोर्वालव्युत्पत्तिसिद्धये । अनंभट्टेन विदुषा रचितस्तर्कसंग्रहः ॥३॥ इति तर्कसंग्रहः समाप्तः ॥ १ ॥ दीपिका-इति श्रीमदभट्टोपाध्यायविरचिता तर्क- दीपिका समाप्ता॥ नीलकण्ठी-कौण्डिन्यगोत्रसंभूतो नीलकण्ठाख्यपण्डितः। कृतिमार्पि पदे तस्मै चन्द्रचूडाय मङ्गलम् इति श्रीमत्पाणेशपयःपारावारराकाचन्द्रायमाणपदवाक्यममा- णपारावारीणश्रीरामभट्टतनूजश्रीनीलकण्ठभट्टविदुषा विर- चितः तर्कसंग्रहदीपिकाप्रकाशः समाप्तः ॥ १ ॥ सम्पूर्णोऽयं ग्रन्थः। पुस्तक मिलनेका ठिकाना- खेमराज श्रीकृष्णदास: "श्रीवेंकटेश्वर" छापाखाना, खेतवाड़ी-बम्बई.