Library
Mandaaramarandachampuh
Front matter
DAMAGE BOOK
UNIVERSAL
LIBRARY
OU_184347
LIBRARY
UNIVERSAL
No text on this page.
OUP-390-29-4-72-~-10,000
Call No.
Author
OSMANIA UNIVERSITY LIBRARY
Sal
Accession No. S1386
SITH
श्रीकृष्ण
मन्दारभरन्दचम्प० : 192A..
This book should be returned on or before behale last marked below.
Title
+
No text on this page.
KAVYAMALA. 52.
THE
MANDARAMARANDA-CHAMPÛ
OF
SRIKRISHNA KAVI.
With a commentary.
EDITED BY
PANDIT KEDARNATHA,
Post Graduate Library
Cettege of Arts al Commerce, 0. W.
WASUDEV LAXMAN S'ASTRI PANSIKAR.
Second Edition,
PUBLISHED
BY
PANDURANG JAWAJI,
PROPRIETOR OF THE “NIRNAYA-SÂGAR” PRESS,
Bombay.
1924.
Price 11 mars
[ All rights reserved by the publisher. ]
Printed by Ramchandra Yesu Shedge at the 'Nirnay-sagar' Pross,
23 Kolbhat Lane, Bombay.
l'ublished by Pandurang Jawaji at the ‘Nirnay-gagar' Press,
23 Kolbbat Lane, Bombay.
काव्यमाला ५२. श्रीकृष्णकविरचिता मन्दारमरन्दचम्पूः। माधुर्यरञ्जनीव्याख्यया समेता। जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसादतनय- पण्डितकेदारनाथशर्मणा संपादिता, मुम्बापुरवासि- पणशीकरोपाह्वविद्वद्वरलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा संशोधिता। (द्वितीयावृत्तिः) साच पाण्डुरङ्ग जावजी इत्यनेन मुम्बय्यां स्वीये निर्णयसागराख्ययन्त्रालये मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीता। शाकः १८४६, ख्रिस्ताब्दः १९२४. मूल्यं साथी
No text on this page.
मन्दारमरन्दचम्पूस्थविषयाणां सूचीपत्रम् । ... . विषयाः। पृष्ठे । विषयाः। पृष्ठे । विषयाः। पृष्ठे। प्रथमबिन्दुः। पृथ्वीवृत्तलक्षणम् १६ मत्तालक्षणम् शार्दूलविक्रीडितलक्षणम् ५ पणववृत्तलक्षणम् ... १६ | ललनावृत्तलक्षणम् वसन्ततिलकालक्षणम् ६ आन्दोलिकावृत्तल० १६ ललितावृत्तलक्षणम् १७ वंशस्थलक्षणम् ७ मयूरसारिणीवृत्तल. १६ प्रभावृत्तलक्षणम् .. १७ वातोर्मीलक्षणम् . ७ मनोरमावृत्तल० १६ प्रहर्षिणीवृत्तलक्षणम् १७ इन्द्रवज्रालक्षणम्... ७ कुलटावृत्तलक्षणम् १६ मत्तमयूरवृत्तलक्षणम् १७ उपेन्द्रवज्रालक्षणम् ८ सुमुखीवृत्तलक्षणम् १६ मजुभाषिणीवृत्तल. उपजातिलक्षणम्... ८ दोधकवृत्तलक्षणम् १६ उर्वसीवृत्तलक्षणम्... १७ शालिनीवृत्तलक्षणम् ८ श्रीवृत्तलक्षणम् १६ क्षमावृत्तलक्षणम् . १७ मत्तावृत्तलक्षणम् ... ९ नन्दिनीवृत्तल. १६ अतिरुचिरावृत्तल १७ भामिनीवृत्तलक्षणम् ९ श्रमरविलसितवृत्तल० १६ चश्चरीकावलीवृत्तल. १७ राजहंसीवृत्तलक्षणम् ९ मौक्तिकमालावृत्तल० १६ चन्द्रिकावृत्तलक्षणम् १७ चम्पकमालावृत्तल० १० रथोद्धतावृत्तलक्षणम् १६ | रतिवृत्तलक्षणम् स्निग्धावृत्तलक्षणम् १० भद्रिकावृत्तलक्षणम् १७ | मोहप्रलापवृत्तल. १८ विद्युन्मालावृत्तल. ११ इन्द्रवर्त्मवृत्तलक्षणम् १७ कलहंसीवृत्तलक्षणम् १८ माणवकवृत्तल०... ११ इन्द्रवंशावृत्तलक्षणम् १७ पथ्यावृत्तलक्षणम्... १८ प्रमाणिकावृत्तल. ११ तोटकवृत्तलक्षणम् १७ असंबन्धावृत्तलक्षणम् १८ समानिकालक्षणम् १२ प्रमिताक्षरावृत्तलक्षणम् १७ अपराजितावृत्तल० १८ द्रुतविलम्बितवृत्तल० १२ वैश्वदेवीलक्षणम् . १७ प्रहरणकालिकावृत्तल. १८ हंसीवृत्तलक्षणम् । १३ कुसुमविचित्रालक्षणम् १७ इन्दुवदना १८ कलगीतवृत्तल० १३ स्रग्विणीवृत्तल.. १८ कमलावृत्तल १३ प्रियंवदालक्षणम्... १७ मणिगुणनिकरः १८ मरालिकावृत्तलक्षणम् १४ मालिनीवृत्तलक्षणम् १७ चामरम् श्येनिकावृत्तल. १४ | तामरसवृत्तलक्षणम् १७ प्रभद्रकम्... १८ रञ्जितावृत्तलक्षणम् १४ स्फुटाख्यवृत्तल. १८ माणिक्यमालावृत्तल० १४ जलोद्धतगतिल. १७ रेखावृत्तम् १८ खागतावृत्तलक्षणम् १५ प्रमुदितवदनालक्षणम् १७ चन्द्रसेना १८ भुजङ्गप्रयातलक्षणम् १५ वनमालिनीवृत्तल. १७ मन्दाकिनी १८ मालिनीवृत्तल. १५ | मणिमालावृत्तलक्षणम् १७ । प्रमदा १८ ... १७ | अलोला ... १७ रुचिः ...
२ ... विषया सुललिता... पश्चचामरः गजविलसितम् .. वाणिनी मन्दाक्रान्ता शिखरिणी :: .. ... हरिणी २० लवली ... २० वर्धमानाख्यम् नर्कुटकम्... वंशपत्रपतितम् घनमयूरम् कुसुमितलता शुभम् हरनर्तनम् निशा मल्लिका विलासवृत्तल. मेघविस्फूर्जिता २० पथ्यार्या ... पृष्ठे । विषयाः । पृष्ठे । विषयाः। पृष्ठे । १८ माध्वी १९ परावती २२ १८ सुधालहरी १९ | मितभाषिणी २२ १८ अश्वलहरी १९ फलिताग्रम् २२ १८ घोटकाख्यम् १९ कलिकाललिता २२ १८ सैरिणीक्रीडनम् ... १९ पदचतुरूप्रकर० १८ वेश्याप्रीतिः १९ आपीडः.. २२ १८ कलकण्ठाख्यम् १९ कलिका (मण्डरी) २२ १८ चेटीगतिः २२ १८ गायत्री २० अमृतधारा (मञ्जरी) २२ १८ रजनम् २० उद्गताप्रकरणम्। लालिनी २० १८ उपस्थितप्रकुपितम् २३ वालिका १९ २३ तन्वी १९ शुद्धविराडार्षभनायकम् २३ १९ दण्डकप्रकरणम् । मात्राछन्दः । १९ चण्डवृष्टिप्रयातः २३ १९ अर्णवः २० | विपुलार्या २४ २४ लीलाकरः १९ २१ मुखचपला २४ २१ जघनचपला २४ १९ शङ्खनामा २१ गीतिकाप्रकरणम् । पद्मकः १९ २१ गीतिः २४ प्रवितकः १९ २४ १९ अर्धसमवृत्तप्रकरणम्। उद्गीतिः २४ १९ उपचित्रा २१ आर्यागीतिः २४ १९ द्रुतमध्या... २१ विगीतिः २४ १९ वेगवती २१ सुगीतिका २४ १९ भद्र विराट २१ अतिगीतिः २४ १९ केतुमती ... २१ स्वरगीतिका २४ १९ वियोगिनी २१ कटुगीतिः २४ १९ हरिणप्लुता २२ मधुगीतिका २४ १९ अयुज्यपरवक्रम् २२ बालगीतिः २४ १९ | पुष्पितामा २२ | वक्रगीतिः २४ १९ जीमूतः २१ चपलार्या... .. वरूथिनी... ... १९ / उद्दामः :: २१ उपगीतिः सरलम् मत्तेभविक्रीडितम् मदकलिनी कनकलता उत्पलमालिका सुवदना ... मालवम् वेश्यारत्नम् ... स्रग्धरा ... ... सुरनर्तकी... मत्तेभाख्यम् प्रभद्रकम् मदिरा तुरजना ::
३ ६१ कार्यलक्षणम् ... ६१ ... उपक्षेपलक्षणम् ६१ ६२ :: ... ... . ... २५ कर्तृगोपनम् ६२ विषयाः। पृष्ठे । विषयाः। पृष्ठे । विषयाः। पृष्ठे। चलधृतिः... २५ तृतीयविन्दुः। प्रकरीलक्षणम् विश्लोकः... २५ श्लेषलक्षणम् ६१ नवासिका २५ सभङ्गश्लेषः ३६ आरब्धकार्यस्य पञ्चा- चित्रा २५ अभङ्गश्लेषः ३६ वस्थाः उपचित्रा... २५ चतुर्थबिन्दुः। आरम्भलक्षणम् ६१ पादाकुलकम् २५ यमकलक्षणम् ६१ ३९ यत्नलक्षणम् मात्रासमके त्रिशन्मा- चित्रप्रकरणम् प्राध्याशा... ६१ ४३ त्राप्रकरणं मात्रा- नियताप्तिलक्षण ६१ समप्रकरणं च। पञ्चमबिन्दुः। संधिलक्षणम् रुचिरा २५ नागबन्धः स पञ्चविधः शिखितम् २५ पद्मवन्धोऽनुष्टुभि गुणितम् २५ चतुरङ्गबन्धनिरूपणम् ५४ परिक्रियालक्षणम् ६२ शिखा २५ षष्ठबिन्दुः। परिन्यासः ६२ खजा २५ क्रियागोपनम् ५५ विलोभनम् ६२ अनङ्गक्रीडा ५६ युक्तिः वैतालीयप्रकरणम् । कर्मगोपनम् ५७ प्राप्तिः ६२ वैतालीयम् २६ संबन्धगोपनम् ५७ समाधानम् ६२ औपच्छन्दसिकम् विधानम् ... सप्तमबिन्दुः। आपातली ६२ २६ अभिनयलक्षणम्... ५८ दक्षिणान्तिका परिभावना २६ ५९ नाट्यलक्षणम् उद्भेदः उदीच्यवृत्तिः २६ प्राच्यवृत्तिः रूपकलक्षणम् ६२ प्रासङ्गिकलक्षणम् प्राप्तिमुखम् प्रवृत्तकम् पताकालक्षणम् वक्रप्रकरणम् । ६२ जनान्तिकलक्षणम् ६० परिसर्पः.. ६२ वक्रम् पथ्यावक्रम् २७ रहस्यलक्षणम् ६० विधुतम् आकाशभाषितल० ६० शमः ६२ चपलावक्रम् पताकः ... ६२ युग्मविपुला २७ तविपुला २७ त्रिपताकः ६० नर्मद्युतिः... ६३ रविपुला २७ तद्वस्तु पञ्चधा ६० प्रगमनम् . ६३ नविपुला २७ | बीजलक्षणम् ६० पर्युपासनम् ६३ द्वितीयबिन्दुः। बिन्दुलक्षणम् ६१ वज्रम् नायकवर्णनम् २८ पताकालक्षणम् ६१ पुष्पम् ... ६३ ... ::: ६२ ५९ / करणम् ६० विलासः ... .. ६. नर्म ... .. ... ... . .. ६३ ...
. विषयाः। विषयाः। पृष्ठे । विषयाः। पृष्ठे । ६७ ૬૮ ... ... ६५ / व्यवहारः... ६५ मार्दवम् ६५ नान्दीलक्षणम् ६५ सूत्रधारलक्षणम् । ६५ पारिपार्श्वकलक्षणम् ६५ / विदूषकलक्षणम् ६५ नटीलक्षणम् ६५ पूरङ्गलक्षणम् ६५ नाटकलक्षणम् ६५ नाटककृतिप्रकाराः ६५ प्रकरणम् . भाणः ६८ ६८ ६८ ६८ ... ६८ ६९ ... उपन्यासः वर्णसंहारः अभूताहरणम् मार्गः रूपम् उदाहरणम् क्रमः संग्रहः अनुमानम् तोटकम् अधिबलम् उद्वेगः संभ्रमः आक्षेपः विमर्शः अपवादः संफेटम् विद्रवः द्रवः शक्तिः द्युतिः प्रसङ्गः 9 :: ७१ : : ६५ प्रहसनम्.. डिमः व्यायोगः ६६ ६६ समवकरः वीथी ... पृष्ठे ।। ६३/ निर्णयः ६३ परिभाषणम् ६३ प्रसादः ६३ आनन्दः... ६३ | समयः ६३ | कृतिः ६३ | भाषणम् ६३ / उपगृहनम् ६३ / पूर्वभावः... ६३ उपसंहारः ६३ | प्रशस्तिः ६४ पञ्चसंधीनां षड्विध ६४ प्रयोजनम् ६४ विष्कम्भः ६४ | शुद्ध विष्कम्भकः ६४ | प्रवेशकः.. ६४ | अङ्कावतरणम् ६४ अङ्कः ६४ प्ररोचना ६४ वीथी ६४ | प्रस्तावनामुखम् ६४ | कथोद्धातः ... ६४ उद्धात्यकम् ६४ अवलगितम् ६४ प्रपञ्चम् ६४ त्रिगतम् ६४ छलम् ६४ | वाकेलिः ६४, अधिबलम् ६५ / गण्डम् ६५ नालिका ६५। असत्प्रलापः .. ७२ ... ... ... ७२ ... ... م م م ... :: नायिकाप्रकरणम् ६६ अङ्कः ईहामृगः... ૬૬ नाटिका ६६ प्रकरणिका ६६ ६६ शुद्धबिन्दुः। नायकप्रकरणम् ६७ ७९ ६७ वृत्तिलक्षणम् रम्यबिन्दुः। ६७ भावलक्षणम् ९१ ६७ स्थायिलक्षणम् ९१ ६७ रतिलक्षणम् ९१ ६७ हासलक्षणम् ९१ ६७ शोकलक्षणम् ९१ ६७ । क्रोधलक्षणम् ९१ छलनम् व्यवसायः विरोधनम् प्ररोचनम् चलनम् आदानम् निबहणम् संधिः विरोधः प्रथनम् ८८ :: ... ... ... ...
विषयाः। . ... अद्भुतस्य वर्णादिक० :: णानि... ... :: विषयाः। पृष्ठे । पृष्ठे । विषयाः। पृष्ठे । उत्साहलक्षणम् ९१ | उन्मादलक्षणम् ९६ / वीरस्य वर्णादिकथनम् १०४ भयलक्षणम् ९१/ मतिलक्षणम् ९६ भयानकस्य वर्णादिक.१०५ जुगप्सालक्षणम् ९२ मरणलक्षणम् ९७ / बीभत्सस्य वर्णादिक ०१०५ विस्मयलक्षणम् ९२ व्याधिलक्षणम् वर्णादिक० १०५ व्यभिचारिभावलक्ष० ९२ त्रासलक्षणम् शान्तरसस्य वर्णादिक. निर्वेदः ९२ / विकल्पलक्षणम् थनम् १०६ ग्लानिलक्षणम् ९२ सात्विकभावल. ९७ तारादिरसे व्यमि- शङ्कालक्षणम् ९३ | स्तम्भलक्षणम् चारिणः १०७ ब्रीडालक्षणम् ९३ प्रलयलक्षणम् ९७ शृङ्गार एक एव रस असूयालक्षणम् ९३ | रोमाञ्चलक्षणम् ... इति केषांचिन्मतं मदलक्षणम् ९३ | खरभङ्गलक्षणम् .. तन्मतप्रवचनम् १०८ श्रमलक्षणम् ९३ | अश्रुलक्षणम् ९८ रीतिप्रवृत्तीनां लक्ष- ९३ | वेपथुलक्षणम् ९८ आलस्यलक्षणम् १०८ दैन्यम् खेदलक्षणम् ९४ ९८ व्यङ्गयबिन्दुः। आवेगलक्षणम् वैवर्ण्यलक्षणम् ९४ ९८ अलंकारलक्षणम्... १०९ चिन्तालक्षणम् ९४ | अनुभावलक्षणम्.. ९८ छेकानुप्रासः १०९ मोहलक्षणम् ... ९४ प्रत्येकरसेऽनुभावानां वृत्त्यनुप्रासः ११० स्मृतिलक्षणम् ९४ कथनम् ९८ लाटानुप्रासः ११० धृतिलक्षणम् विभावलक्षणम् ९९ पुनरुकवदाभासः ११० हर्षलक्षणम् ९४ | आलम्बनविभावः ९९ | अर्थालंकाराणां गणना१११ चापललक्षणम् ९५/ उद्दीपनविभावः ९९ | उपमालंकारः , ११६ गर्वलक्षणम् ९५ प्रत्येकरसानामुद्दीपनानि९९ | अनन्वयः जडतालक्षणम् ९५ रसलक्षणम् १०० भ्रान्तिः ११८ औत्सुक्यलक्षणम् ९५ अलौकिकरसलक्षणम् १०० प्रतीपम् ११८ उप्रतालक्षणम् ९५ लौकिकरसलक्षणम् १०० रूपकम् ११८ विषादलक्षणम् ९५ शृङ्गाररसस्य वर्णदेव. स्मृतिः १२० निद्रालक्षणम् ९६ तादिकथनम् १०१ | उपमेयोपमा १२० अपस्मारलक्षणम्... ७६ / विप्रलम्भशृङ्गारः १०१ / उल्लेखः १२० विबोधलक्षणम् ९६ शृङ्गाररसावस्थाः... १०१ परिणामः १२० अमर्षलक्षणम् ९६ हास्यस्य वर्णादिक० १०३ १०३ अपहुतिः.. १२१ सुप्तिलक्षणम् ९६ | करुणस्य वर्णादिक. १०३ उत्प्रेक्षा १२२ अवहित्थलक्षणम् ९६ | रौद्रस्य वर्णादिकथनम् १०४ | अतिशयोक्तिः १२४ ... ... ११६ ... ...
विषयाः। पृष्ठे । १२५ / अन्योन्यम् :: :: १४५ १४५ १४५ १४६ १४६ १४६ १४६ १४७ १४७ ... ... १२६ / पर्यायः १२६ / परिसंख्या ... ... ... १४७ १२८ / समाधिः ... १४७ विषयाः। पृष्ठे । विषयाः। संदेहः तुल्ययोगिता १२५ कारणमाला प्रतिवस्तूपमा १२५ / एकावली... दीपकम् ... १२६ | यथासंख्यम् आवृत्तिदीपकम् ... १२६ / मालादीपकम् दृष्टान्तः व्यतिरेकः सहोक्तिः... १२८ समुच्चयः... निदर्शना... १२८ विकल्पः विनोक्तिः समासोक्तिः १२८ कारकदीपकम् श्लेषः ... १२८ | काव्यार्थापत्तिः परिकरः १२८ उल्लासः अप्रस्तुतप्रशंसा १२८ प्रत्यनीकम् पर्यायोक्तम् परीकरः. १३० मिथ्याध्यवस्थितिः व्याजस्तुतिः व्याजनिन्दा १३० संभावना... आक्षेपः १३० अवज्ञा प्रस्तुताङ्कुरः अर्थान्तरन्यासः १३१ विरोधाभासः प्रौढोक्तिः... १३२ विषमम् विशेषोक्तिः असंभवः. १३३ / उदात्तम् १४७ १४८ ... ... ... १४८ १४८ १२९ / विकखरः... पृष्ठे । १३६ अनुगुणः... १३६ सामान्यः १३६ पिहितम् ... १३७ | उन्मीलितम् १३७ उत्तरम् १३७ सूक्ष्मम् १३८ भाविकम्... १३८ विशेषकः... १३९ | व्याजोक्तिः १३९ / विवृतोक्तिः १३९ गूढोक्तिः १४० युक्तिः लोकोक्तिः १४० १४० छेकोक्तिः... १४० खभावोक्तिः १४१ वक्रोक्तिः.. १४१ चित्रम् १४१ प्रतिषेधः १४१ विधिः १४१ / निरुक्तिः १४२ / हेतुः १४२ | प्रश्न: १४२ अत्युक्तिः... १४२ रसवान् १४३ ऊर्जखित् १४३ / समाहितम् १४३ / भावोदयः १४३ / भावसंधिः १४४ भावशाबल्यम् १४५ प्रत्यक्षम् १४५ | अनुमानम् १४५ । शब्दः १४८ ... १३० | काव्यलिङ्गम् १४८ १ १४९ ... ... .. १४९ १४९ १४९ १३२ ) ललितम् . १३२ / अनुज्ञा १४९ १४९ १५० ... विभावना... :: १५० ... १३३ / लेशः ... १५० ... असंगतिः विचित्रम्... अधिकम्... समम् व्याघातः... अल्पम् विशेषः १३३ प्रहर्षणम् ... १३४ | विषादनम् १३४/मुद्रा १३४ | पूर्वरूपम्... ... १३४ तद्गुणः १३५ मीलितम्... १३५/ अतदुणः... १५० १५० १५१ १५१ ... ... १५१ १५१ ७ विषयाः। विषयाः। ... दोषप्रकरणम् । विषयाः। पृष्ठे । पृष्ठे । पृष्ठे । अर्थापत्तिः १५२ प्रस्तारनामकथनम् १६५ क्रमभ्रष्टलक्षणम् अनुपलब्धिः ... १५२ वैदिकच्छन्दसां कथ०१६५ हतवृत्तलक्षणम् १६९ ऐतिह्यम् १५२ वैदिकच्छन्दसां देवता हतोपमलक्षणम् १६९ संभवः १५२ कथनम् १६५ हतोपमभेदलक्षणम् १६९ ध्वनिनिरूपणम् १५४ कृत्यादीनामतिधृतावन्त भिन्नलिङ्गोपमलक्षणम् १६९ खतःसिद्धार्थशक्तिमूल र्भावकथनम् ... १६६ मिन्नवचनोपमल. १६९ ध्वनिनिरूपणम् १५५ अधिकोपमलक्षणम् १६९ गुणीभूतव्यङ्ग्य निरूप दोषभेदकथनम् ... १६६ न्यूनोपमलक्षणम् १६९ णम् १५७ शब्ददोषभेदकथनम् १६६ यतिभ्रष्टलक्षणम् ... १६९ संख्याप्रकरणम् १५८ पददोषनामकथनम् १६६ अनुक्तवाच्यलक्षणम् १६९ छन्दःप्रकरणम् १६० श्रुतिकटुलक्षणम् ... १६७ समाप्तपुनरात्तलक्षणम् १६९ वर्णभेदकथनम् १६१ भ्रष्टसंस्कारलक्षणम् १६७ भग्नच्छन्दोलक्षणम् १६९ गुरुलघुलक्षणम् १६१ अप्रयुक्तलक्षणम्... १६७ अन्यवाक्यप्रदल० १६९ गणभेदकथनम् १६१ असमर्थलक्षणम् ... १६७ अपूर्णलक्षणम् १७० वर्णगणनास्वरूपक० १६१ निहतार्थलक्षणम् ... १६७ अनन्वयलक्षणम् ... १७० गणानां देवताफलक० १६१ अनुचितार्थलक्षणम् १६७ वाक्यगर्भितलक्षणम् १७० मात्रागणनामस्वरूप निरर्थकलक्षणम् ... १६७ अर्थान्तरस्थैकपदल० १७० कथनम् १६२ अवाचकलक्षणम्... १६७ / विसंधिलक्षणम् . छन्दोमेदकथनम् १६२ अलीललक्षणम् १६७ विसंधिभेदकथनम् १७० यतिनियमकथनम् १६२ संदिग्धलक्षणम् १६७ | विसंहितलक्षणम्... १७० यत्युत्तरं तुचादिनि- अप्रतीतलक्षणम् . १६७ अश्लील विसंधिभेदक. १७० १६७ कटुविसंधिलक्षणम् १७० वर्णगणानां निवेशे गूढार्थलक्षणम् १६८ पुनरुक्तिमल्लक्षणम् १७० फलम् १६२ नेयार्थलक्षणम् १६८ | अशरीरलक्षणम् ... १७० वर्णानां प्रारम्भ फलम् १६३ क्लिष्टलक्षणम् १६८ अनन्वयलक्षणम्... १७० छन्दःसंख्याकथनम् १६३ अप्रयोजकलक्षणम् १६८ अधिकपदलक्षणम् १७० मध्याच्छन्दसि प्रस्तार. अविमृष्टविधेयांशल० १६८ प्रसिद्धिविधुरलक्षणम् १७१ कथनम् १६४ विरुद्धमतिकृल्लक्षणम् १६८ अपदस्थसमासल. १७१ गायत्र्यामुद्दिष्टम् ... १६४ श्रुतिकटुवादीनां वा- अमत विसर्गलक्षणम् १७१ गायत्र्यां नष्टम् १६४ क्येऽतिदेशः १६८ | अमतविसर्गभेदक० १७१ गायत्र्यां संख्यानम् १६४ | वाक्यदोषनामकथनम् १६८ | नष्टविसर्गलक्षणम् १७१ गायत्र्यां लगक्रिया १६५ शब्दहीनलक्षणम्... १६९ । स्फुट विसर्गलक्षणम् १७१ पातनिवेशनिषेधः १६२ प्राम्यलक्षणम् ८ ... १७५ सारोपालक्षणम् ... विषयाः। पृष्ठे । विषयाः। पृष्ठे । विषयाः। पृष्ठे । लुप्तविसर्गलक्षणम् १७१ अनवीकृतलक्षणम् १५३ लक्षणाप्रकरणम्। अपदस्थपदलक्षणम् १७१ अप्रसिद्धोपमलक्षणम् १७४ लक्षणालक्षणम् १७८ भन्नप्रक्रमलक्षणम् १७१ हीनोपमलक्षणम्... १७४ लक्षणाभेदकथनम् १७८ गर्हितलक्षणम् १७१ | सहचरच्युतलक्षणम् १७४ | रूढिलक्षणाभेदक. १७८ वाक्यसंकीर्णलक्षणम् १७१ | विरुद्धलक्षणम् १७४ गौणीलक्षणम् १७८ अभवन्मतयोगल० १७१ दोषाणामप्यदोषलम् १७४ शुद्धालक्षणम् १७८ अवर्णलक्षणम् १७१ गुणप्रकरणम् १७५ फललक्षणाभेदक. १७८ अरीतिलक्षणम् १७१/ गुणलक्षणम् १७५ जहल्लक्षणालक्षणम् १७८ प्रतिकूलाक्षरलक्षणम् १७१ गुणभेदकथनम् १७५ अजहल्लक्षणालक्षणम् १७९ अमतपदार्थकल. १७१ ओजोलक्षणम् १७५ जहदजहल्लक्षणालक्ष० १७९ पतत्प्रकर्षलक्षणम् १७२ माधुर्यादिलक्षणम् १७९ छन्दोयतिभङ्गयोः पद्य मतान्तरे सप्तैव गुणाः१७६ सारोपाभेदकथनम् १७९ एव दोषत्वम्... १७२ अन्येषामन्तर्भावक० १७६ साध्यवसानालक्षणम् १७९ अपुष्टलक्षणम् १७२ तत्तद्गुणानां तत्तद्रसनै. कष्टलक्षणम् यत्यम् १७२ व्यञ्जनाप्रकरणम्। १७७ व्यन्जनालक्षणम् १७२ | शब्दार्थप्रकरणम् । व्याघातलक्षणम् १७९ पुनरुक्कलक्षणम् १७२ | वर्णखरूपकथनम् व्यजनादिसिद्धिः... १७९ १७७ एकार्थलक्षणम् १७२ पदभेदकथनम् १७७ शब्दार्थानेकतायां विशे- अधिकोपमलक्षणम् १७२ वाक्यलक्षणम् १७७ षस्मृतिहेतुकथनम् १८० अपार्थलक्षणम् १७२ शब्दभेदकथनम् ... १७७ | संयोगलक्षणम् १८० दुष्कमलक्षणम् १७२ वाचकलक्षणम् १७७ | विप्रयोगलक्षणम् ... १८० ग्राम्यलक्षणम् १७२ लाक्षणिकलक्षणम् १७७ साहचर्यलक्षणम् १८० संदिग्धलक्षणम् १७३ | व्यजकलक्षणम् १७७ विरोधितालक्षणम् १७७ नियमच्युतलक्षणम् १७३ अर्थभेदकथनम् अर्थलक्षणम् १८० साकाडलक्षणम् १७३ शब्दवृत्तिभेदकथनम् १७७ प्रकरणलक्षणम् १८० परुषलक्षणम् १७३ अभिधाप्रकरणम्। लिङ्गलक्षणम् १८० अश्लीललक्षणम् १७३ अभिधालक्षणम् ... १७८ | संनिधिलक्षणम् १८० व्यर्थलक्षणम् १७३ / अभिधाभेदकथनम् १७८ | सामर्थ्यलक्षणम् १८० भिन्नलक्षणम् ... १७३ | रूढिरूढयोर्लक्षणम् १७८ औचितीलक्षणम् ... १८० अनिरूप्यलक्षणम् १७३ | योगयौगिकयोर्लक्षणम् १७८ देशलक्षणम् १८० अतिमात्रलक्षणम् १७३ / योगरूढियोगरूढयोल- काललक्षणम् निर्हेतुलक्षणम् १७३ क्षणम्... ... १७८ व्यक्तिलक्षणम् १८१ ... १८० ... ... १८० १८८ ... १८८ ... ... विषयाः। पृष्ठे । विषयाः। पृष्ठे । विषयाः। पृष्ठे । खरादिलक्षणम् १८१ पुनःपुनर्दीप्युदाह० १८४ चक्रवालकलक्षणम् वाच्यादीनां व्यञ्जक अकाण्डप्रथनोदाह० १८४ | भोगावलीलक्षणम् १८८ खम् १८१ अकाण्डरसच्छेदोदा० १८४ बिरुदावलीलक्षणम् १८८ वक्तवैशिष्ट्याद्यञ्जना १८१ अङ्गविस्तृत्युदाहरणम् १८४ तारावलीलक्षणम् ... १८८ बोद्धव्यवैशिष्ट्याद्यञ्जना१८१ अङ्ग्यननुसंधानल. १८४ | विश्वावलीलक्षणम् काकुवैशिष्ट्यायञ्जना १८१ प्रकृतिविपर्ययलक्षणम् १८४ रत्नावलीलक्षणम्... १८९ वाक्यवैशिष्ट्याद्यञ्जना १८१ अनङ्गाभिधानलक्षणम् १८४ पश्चाननावलीलक्षणम् १८९ वाच्यवैशिष्ट्यायञ्जना १८१ संचारिणां वाच्यत्वेऽप्य आख्यायिकादिषु रस- अन्यसंनिधिवैशिष्ट्या- दोषत्वम् १८४ नियमः १८९ यञ्जना १८० रसविरोधे नियमः १८४ वर्ष्यावर्ण्यप्रकरणम् । प्रस्ताववैशिष्ट्याद्यञ्जना १८१ भावोदयलक्षणम्... १८५ वय॑नायकलक्षणम् १८९ देशवैशिष्टयाद्यञ्जना १८१ भावसंधिलक्षणम्... १८५ नृपेवर्णनीयगुणक० १८९ कालवैशिष्टयायञ्जना १८१ शबलतालक्षणम् १८५ राजकुमारे वर्णनीय. लक्ष्यस्य व्यञ्जकत्वम् १८२ रससंस्कारलक्षणम् १८५ गुणवर्णनम् १८९ व्यङ्ग्यस्य व्यञ्जकत्वम् १८२ रसानामवस्थाकथनम् १८६ मन्त्रिणि वर्णनीयगुण.१८९ शय्यालक्षणम् १८२ काव्यप्रकरणम्। पाकप्रकरणम्। सेनाधिपे वागुणाः १८९ पुर्या वर्ण्यपदार्थाः १८९ पाकलक्षणम् १८२/ काव्यप्रयोजनम् .. १८६ देशे वर्ण्यपदार्थाः १८९ पाकभेदकथनम् ... १८२ काव्यलक्षणम् १८६ ग्रामे वर्ण्यपदार्थाः १९० द्राक्षापाकलक्षणम्... १८२ काव्यभेदकथनम् १८६ अब्धौ वर्ण्यपदार्थाः १९० नारिकेलपाकल.... १८२ श्राव्यकाव्यभेदक० १८६ उद्याने वर्ण्यपदार्थाः १९० मधुक्षीरादिपाकल. १८२ गद्यलक्षणम् १८६ कासारे वर्ण्यपदार्थाः १९० रूपकभाषानिबन्धन- पद्यलक्षणम् १८६ पर्वते वर्ण्यपदार्थाः १९० प्रकरणम् । दृश्यकाव्यभेदक० १८६ वने वर्ण्यपदार्थाः १९० रसदोषप्रकरणम् १८३ | ध्वनिलक्षणम् १८६ मन्त्रे वर्ण्यपदार्थाः १९० रसदोषभेदकथनम् १८३ गुणीभूतव्यङ्ग्यल० १८६ व्यभिचार्यादीनां वाच्य- दूते वर्ण्यपदार्थाः... १९० चित्रलक्षणम् १८७ रणे वर्ण्यपदार्थाः... १९० त्वोदाहरणम्... १८४ चित्रभेदकथनम्... १८७ अश्वे वर्ण्यपदार्थाः... १९० अनुभावकष्टकल्पनोदा- महाकाव्यलक्षणम् १८७ मृगयायां वर्ण्यपदाथाः१९० हरणम् १८४ उपकाव्यलक्षणम् १८७ विभावकष्टकल्पनोदा०१८४ आख्यायिकालक्षणम् १८७ विरहे वर्ण्यपदार्थाः १९० प्रतिकूलविभावप्रदोदा कथालक्षणम् १८८ सुरते वर्ण्यपदार्थाः १९० हरणम् १८४ उदाहरणलक्षणम् १८८ यात्रायां वर्ण्यपदार्थाः १९० २ मन्दा० १० विषयाः। पृष्ठे । विषयाः। पृष्ठे । विषयाः। पृष्ठे । गजे वर्ण्यपदार्थाः १९० धूसराः पदार्थाः... १९२ पदार्थप्रकरणम् । सुरापाने षण्यपदार्थाः १९१ त्रिकोणाः पदार्थाः १९२ | पदार्थभेदकथनम् १९५ सूर्योदये वर्ण्यपदार्थाः १९१ वकाः पदार्थाः १९२ भावभेदकथनम् ... १९५ चन्द्रोदये वर्ण्यपदार्थाः१९१ तीक्ष्णाः पदार्थाः... १९३ | जातिभेदकथनम्... १९५ वसन्ते वयपदार्थाः १९१ गुरवः पदार्थाः १९३ सामान्योदाहरणम् १९५ ग्रीष्मे वर्ण्यपदार्थाः १९१ सुखदाः पदार्थाः १९३ उपाध्युदाहरणम्... १९५ वर्षासु वर्ण्यपदार्थाः १९१ दुःखदाः पदार्थाः १९३ गुणभेदकथनम् १९५ शरदि वर्ण्यपदार्थाः १९१ स्थिराः पदार्थाः ... १९३ द्रव्यभेदकथनम् ... १९५ हेमन्ते वर्ण्यपदार्थाः १९१ अस्थिराः पदार्थाः १९३ क्रियालक्षणभेदक. १९५ शिशिरे वर्ण्यपदार्थाः १९१ मन्दगाः पदार्थाः १९३ अभावभेदकथनम् १९५ वयंवरे वर्ण्यपदार्थाः १९१ क्रूरवराः पदार्थाः १९४ सामान्यलक्षणम्... १९६ विवाहे वर्ण्यपदार्थाः १९१ बलिष्ठाः पदार्थाः... १९४ | उपाधिलक्षणम् १९६ वनकेली वर्ण्यपदार्थाः१९१ सुरूपाः पदार्थाः ... १९४ जातिवाचकशब्दक. १९६ जलकेली वर्ण्यपदार्थाः१९१ दुःसहाः पदार्थाः... १९४ व्यक्तिवाचकशब्दक० १९६ श्वेताः पदार्थाः ... १९२ मधुराः पदार्थाः... १९४ जातिमद्रव्यवाचकशब्द- श्यामाः पदार्थाः... १९२ असतोऽप्यनिबन्धनम् १९४ कथनम् १९६ नीलाः पदार्थाः ... १९२ असतोऽपि निबन्धनम् १९४ क्रियावाचकशब्दक० १९६ १९२ | नियमेन निबन्धनम् १९४ | अभाववाचकशब्दक० १९६ पीताः पदार्थाः १९२ विकल्पेन निबन्धनम् १९५ ग्रन्थसमाप्तिः रक्ताः पदार्थाः १९६ काव्यमाला। श्रीकृष्णकविविरचिता मन्दारमरन्दचम्पूः। माधुर्यरजनीव्याख्यया सहिता। १. वृत्तबिन्दुः। कमलनयनकेलीसंभ्रमस्रस्तनीवि- स्फुटजघनविराजत्किंकिणीजालकाञ्ची । कलयतु कमलाक्ष्या राधिकायाः प्रमोद मदनविजययात्रावीथिकातोरणश्रीः ॥१॥ परात्मपादपाथोजपरागपरमाणवे । नमः श्रीकान्तसीमन्तसारसिन्दूरबिन्दवे ॥ मन्दारमकरन्दाख्यचन्द्रदेवकृतेः शुभाम् । टीकां शीघ्रण बोधाय कुर्वे माधुर्यरञ्जनीम् ॥ निष्प्रत्यूहसमाप्तये चिकीर्षितस्येष्टदेवतां ध्यायति-कमलनयनेति । कमलनयनस्य कृष्णस्य केलीसंभ्रमे सस्ता नीविर्यस्मात्तत् । अत एव स्फुटं दृश्यं जघनं तस्मिन्विराज- त्किंकिणीनां नूपुराणां जालविशिष्टा काञ्ची की । अत एव मदनस्य विजययात्रायां वीथिकायां स्थितस्य तोरणस्य श्रीरिव श्रीर्यस्याः सेति काच्ची विशेषणम् । कमलाक्ष्या राधिकाया इत्यस्य काच्यामन्वयः। प्रमोदं कलयतु करोतु । लोद । अत्रोपमानोत्प्रे. क्षयोःसंदेहसंकरः। नीविरिदन्तोऽपि । यदाह माघः-'नीविभिः सपदि बन्धनमोक्षः'इति। मालिनी वृत्तम् 'ननमयययुतेयं मालिनी भोगिलोकैः' इति लक्षणात् । आदौ कवर्णप्रयो- गालक्ष्मीश्च । यदाह भामहः-'कः खो गो घश्च लक्ष्मीम्' इति । नगणप्रयोगात्सौख्यं च । यदुक्तं कालिदासेन–'नो नाकः सुखमच्युतं प्रकुरुते' इति । अत्र कृष्णेन सह क्रीडा- सक्तराधिकाकाञ्चीप्रार्थनेन केलीसुखितहृदयराधाकृष्णध्यानं कृतं भवतीति वस्तुना व- १. अस्याश्च चम्प्वाष्टीकायाश्च पुस्तकमेकैकं बङ्गलूरनगरवास्तव्यपण्डितवर्यश्रीयुतकु- ण्डलगिर्याचार्यैः काव्यमालार्थ प्रेषितमिति तेषामुपकारं सधन्यवादं प्रकाशयामः.
२ काव्यमाला। पुरुषकरणवेगप्रश्लथत्केशपाशा- प्रपतदमलमल्लीसंतती राधिकायाः। मुरहरहृदि जीयान्नैजसंग्रामतुष्ट- स्मरनृपकृतपुष्पस्तोमवृष्टिस्फुरच्छ्रीः ॥ २ ॥ कमलजभवकान्ताप्रेमपीयूषधारा- कलितकनककुम्भः कुत्सर्वशैकडिम्भः । कलयति किल गोपीकामकेलीकलाप- प्रणयिचरणचित्तः कोऽपि चम्पूममत्तः ॥ ३ ॥ न वेदान्ते प्रज्ञा न च परिचयः पाणिनिमते न वालंकारादौ न च चतुरता गौतममते । स्तुध्वनिः ॥१॥ पुरुषेति। राधिकायाः पुरुषकरणे पुरुषायिते यो वेगस्तेन हेतुना प्रश्लथतः केशपाशान्मुरहरस्य कृष्णस्य हृदि प्रपतन्ती अमलानां मल्लीनां संततिः । अत एव नैजे संग्रामे तुष्टेन स्मरनृपेण कृता पुष्पस्तोमवृष्टिरिव स्फुरन्ती श्रीर्यस्याः सेत्युत्प्रेक्षा। इदं संततिविशेषणम् । जीयात् । 'जि जये' आशिषि लिङ्। अनेन पद्यद्वयेन सुखितहृदयस्यैव ध्यानं सर्वाभीष्टप्रदमिति सूचितम् । ननु ध्यानरूपमङ्गलस्यात्मवृत्तित्वेन आकाशस्थश- ब्दध्वंसरूपसमाप्तिकारणत्वं कथमिति चेदुच्यते । वर्णात्मकशब्दनाशस्य देहावच्छेदेन जायमानत्वात् ध्यानस्यापीति न वैयधिकरण्यम् । अत्र ध्यानं च स्वप्रीत्युत्पादकमानस- व्यापारविशेषः। न तू-कृष्टत्वप्रकारकं ज्ञानम् । अत एव राजादिप्रत्यक्षावसरे राजानं ध्यायतीति न प्रयोगः । इदं तु बोध्यम् । मङ्गलं तावत्रिविधम्-कायिकवाचिकमानसि- कभेदात् । कायिकं च दण्डाकारेण प्रणिपातादिरूपव्यापारविशेषः । वाचिकं चोत्कृष्टव- प्रकारकज्ञानजनकशब्दः । मानसिकं तु ध्यानमेव । कायिकवाचिकस्थलयोर्मङ्गलसमा- प्योरवच्छेदकत्वसंबन्धेन सामानाधिकरण्यम् । मानसिकस्थले स्वप्रतियोग्यनुकूलव्यापारा- श्रयत्वेन संबन्धेन समाप्तिं प्रत्युपरञ्जनसंबन्धेन मङ्गलस्य कारणत्वोक्त्या सामानाधिकरण्यं संगच्छते। न च-ज्ञानस्य क्षणिकत्वेन कालान्तरीयसमाप्तिकारणत्वं न संजाघटीति- इति वाच्यम् । स्वजन्यविघ्नध्वंसवत्त्वसंवन्धेन तत्कालेऽपि मङ्गलस्य सत्त्वात् । विघ्नत्वं चोद्दिष्टकार्यप्रतिवन्धकदुरदृष्टविशेषत्वम् । इत्थं च समाप्ती मङ्गलस्य करणत्वं विघ्नध्वंसस्य व्यापारत्वं चोक्तमिति दिक् ॥ २ ॥ कमलजेति । कमलजभवस्य पद्मजस्य कान्तायाः शारदायाः प्रेमैव पीयूषस्तस्य धाराभिः कलितः पूर्णश्चासौ कनककुम्भश्चेति रूपकम् । गोपीमिः सह कामकेलीकलापे प्रणयिनः कृष्णस्य चरणयोश्चित्तं यस्य तथोक्तः । तथा- प्यमत्तो विनीत इत्यर्थः । अत एव कुत्सवंशस्य एकडिम्भो मुख्यपुत्रः । एतादृशगुणयुक्त- त्वाद्वंशोत्तंस इति भावः । कोऽपि कश्चन कविश्वम्पूं कलयति । किलेति युक्तार्थे । अत्रापि मालिनी वृत्तम्, ॥ ३ ॥ न वेदान्त इति । वेदानामन्तो निर्णयो यस्मात्तस्मिन् शास्त्रे १. वृत्तबिन्दुः] मन्दारमरन्दचम्पूः। तथाप्याचार्यश्रीगुणगणकथावर्णनपरे मयि प्रेम प्राज्ञाः कुरुत कविकीत्यककमने ॥ ४ ॥ मनोहृद्यगद्यानवद्योरुपद्यं प्रबन्धं रसज्ञा यदि स्युर्भजेयुः । न चेत्ते त्यजेयुः पुरंध्रीकदम्ब युवानो भजेयुस्तदन्ये त्यजेयुः ॥५॥ किरति मधु सुधीसत्कर्णपालीषु वाणी मम किमरसिकानां भूषणे दूषणे वा । सुखयति सुमुखीनां सारशृङ्गारलीला तरुणमिह शिशूनामादरेऽनादरे किम् ॥ ६॥ न प्रज्ञा प्रकर्षण ज्ञानं नास्तीत्यर्थः । पाणिनिमते व्याकरणे न परिचयश्च । अलंकारादौ वा न । परिचयो नास्तीत्यर्थः । गौतममते न्याये न च चतुरता चातुर्यमपि नास्तीत्यर्थः। तथाप्येतादृशप्रन्थकरणहेत्वभावेऽप्याचार्यस्य श्रीमदाचार्यस्य विष्णोर्वा गुणगणकथाया वर्णने परे आसक्के कवीनां कीबैंककमने कीबैंककामुके मयि हे प्राज्ञाः, प्रकर्षेण जान. न्तीति प्राज्ञा विद्वांसः प्रेम कुरुतेति प्रार्थनायां लोट् । यद्वा न वेदान्ते प्रजेत्यादिः काकुः। 'बोद्धारो मत्सरप्रस्ताः' इति लोकप्रसिद्धस्तथापीत्युक्तम् । आचार्यश्रीगुणगणकथावर्णन- परे इति विशेषणं हेतुगर्भम् । तथा चेदृशशास्त्राभ्यासिनि मयि आचार्यगुणगणकथावर्णन- परत्वसत्त्वात्तदृष्ट्वा मात्सर्यमुत्सार्य प्रेम कुरुतेति प्रार्थना। एतेन कुत्रचिदपि शास्त्रेऽन- भिज्ञस्य ग्रन्थकर्तृत्वं कथं घटते इति शङ्का परास्ता । शिखरिणी वृत्तम् । 'रसै रुदैश्छिन्ना यमनसभलागः शिखरिणी' इति लक्षणात् ॥ ४ ॥ अथेमां मदीयप्रार्थनामनादृत्य मयि मत्सरिणश्चेन्न काप्यस्माकं क्षतिरित्याशयं पद्यद्वये स्फुटयति-मनोहृद्येति । रसान् शृङ्गारादीन् जानन्तीति रसज्ञा यदि स्युस्तहि मनोहृधैर्गद्यैरनवद्यैः उरुभिरुत्कृष्टैः पद्यै- युक्तं प्रबन्धं प्रकर्षेण बध्यते कविनेति प्रबन्धो वर्णसमुदायात्मकग्रन्थः तं भजेयुः। भज सेवायाम्' । लिङ् । ते रसज्ञा न चेत्प्रबन्धमित्यनुषङ्गः । त्यजेयुः। 'त्यज हाना' । संभाव- नायां लिङ् । पुरंध्रीणां सुचरित्राणां कदम्ब युवानश्चेद्भजेयुः। तदन्ये युवमिन्ना वृद्धा- स्त्यजेयुः । 'वृद्धानां तरुणी विषम्' इति प्रसिद्धः । अत्र रसज्ञारसज्ञकर्तृकप्रबन्धकर्मक- भजनत्यागरूपोपमेयार्थस्य तरुणातरुणकर्तृककान्ताकर्मकभजनत्यागरूपोपमानार्थस्य च पृथग्वाक्यद्वये निर्देशात्प्रतिवस्तूपमालंकारः ॥ ५॥ किरतीति । मम वाणी सुधियां शोभना धीर्येषां तेषामित्यर्थः । बुद्धौ शोभनत्वं च परश्रेयोविषयीकरणजन्यसुखसामाना- धिकरण्यम् । सत्कर्णपालीषु श्रोत्रप्रदेशेषु मधु किरति क्षिपति । लट् । अरसिकानां क- तरि षष्ठी। दूषणे भूषणे वेति विकल्पे । किं न किमपि । दूषणे कृते सति नानन्दः भूषणे कृते सति न व्यसनमिति भावः । सुमुखीनां सुन्दरीणां सारा श्रेष्ठा शृङ्गारलीला काव्यमाला । चम्पूप्रबन्धे मन्दारमरन्दाख्ये कृतौ मम । वृत्तसारश्लिष्टचित्रबन्धगुप्ताः सनर्तनाः ॥ ७ ॥ शुद्धरम्यव्यङ्ग्यशेषा इत्येकादशबिन्दवः । तत्रादिमे वृत्तबिन्दौ वृत्तलक्षणमुच्यते ॥ ८॥ छन्दसा ग्रथितः शब्दः पाद इत्यभिधीयते । मिलितांश्चतुरः पादान्वृत्तमूचुर्विपश्चितः ॥९॥ तरुणं सुखयति इह शृङ्गारलीलाविषये शिशूनां कर्तरि षष्ठी। आदरे अनादरे कृते सति किम् । अत्र भिन्नवाक्यार्थधर्मयोर्बिम्बप्रतिबिम्बभावेन निर्देशादृष्टान्तालंकारः । पूर्वपयं तु समत्सरविद्वदभिप्रायकम् । इदं तु समत्सरमूढाभिप्रायकमिति विशेषः॥६॥ ग्रन्थरीति- मुद्दिशति-चम्पूप्रबन्ध इति । मन्दारमरन्दाख्ये चम्पूप्रबन्धे मम कृतावेकादशबि. न्दवः क्रियन्त इति शेषः । ते च (१) वृत्तबिन्दुः, (२) सारबिन्दुः, (३) श्लिष्टबिन्दुः, (४) चित्रबिन्दुः, (५) बन्धबिन्दुः, (६) गुप्तबिन्दुः, (७) नर्तनबिन्दुः, (८) शुद्धबिन्दुः, (९) रम्यबिन्दुः, (१०) व्यङ्ग्यबिन्दुः । (११) शेषबिन्दुः । मकरन्दपक्षे वृत्तबिन्दुर्वर्तु- लबिन्दुः । सारः श्रेष्ठः । श्लिष्टः परागादिसंबन्धः। चित्रः चित्रवर्णयुक्तः । बन्धबिन्दुर्ब- न्धनयुक्तबिन्दुः घनीभूतबिन्दुरित्यर्थः । गुप्तो गोपनविशिष्टः । नर्तनः 'नृती गात्रविक्षेपे' इत्यस्मादधिकरणे ल्युट् । चलनाश्रय इत्यर्थः । शुद्धः शुद्धिमान् । रम्यो रमणीयः । व्यङ्ग्यः व्यज्यते स्फुटीक्रियते रस इति व्यङ्ग्यः । शेषोऽवशिष्टः । तत्रैतेषु बिन्दुषु आदिमे आये वृत्तबिन्दौ वृत्तानां लक्षणं समूहाभिप्रायेणैकवचनम् । उच्यते । 'ब्रू व्यक्तायां वाचि' इत्यस्मात्कर्मणि यक् लट् ॥ ७ ॥ ८ ॥ छन्दसेति । छन्दस्त्वं च षड्विंशतिव- ाधिकवर्णनात्मकत्वे सति वर्णात्मकलम् । ध्वन्यात्मकशब्दवारणाय विशेष्यदलम् । गद्यादिवारणाय सत्यन्तम् । छन्दसा प्रथितो बद्धः । छन्दोरूपेण निरूपित इत्यर्थः । शब्दपदं स्वरूपकथनार्थं न तु लक्षणप्रविष्टं प्रयोजनाभावात् । किं तु छन्दोरूपत्वं लक्ष- णम् । इत्थं च 'आङ् ईषदर्थे' इति कोशेनाग्रथित इत्यस्य ईषद्रथितार्थलाभेन सकृदुचरि- ततात्पर्य विषयच्छन्दोरूपत्वमिति निष्कर्षः । वृत्तवारणाय सकृदुचरितत्वं छन्दोविशेषणम्। एक यादिवर्णघटितपादचतुष्टयात्मकवृत्तवारणाय तात्पर्यविषयत्वं च छन्दोविशेषणम् । इदमत्रावगन्तव्यम् । एकद्यादिवर्णघटितपादचतुष्टयात्मकवृत्ते वक्तुः श्रोतुर्वा पादत्वेन तात्पर्ये सति पाद एव । वृत्तत्वेन तात्पर्ये सति वृत्तमेव । एतदेकाक्षरमारभ्य चतुर्विंश- तिवर्णपर्यन्तवर्णघटितवाक्य एव । पञ्चविंशतिषड्विंशतिवर्णात्मकवाक्ये पादत्वमेव । तत ऊर्ध्व तु न पादत्वम् । एकाक्षरमारभ्य षड्विंशत्यक्षरपर्यन्तमेकैकवर्णाधिक्येनोत्तरोत्तरं ष- विंशतिछन्दांसीति पिङ्गलादिभिः परिगणनात् । इदं वर्णच्छन्दस्येव । मात्राछन्दोनिरूपणं सप्रे भविष्यति । मिलितान् चतुरः पादान् विपश्चितो विद्वांसः वृत्तमूचुः । पादचतुष्टया• १. वृत्तबिन्दुः] मन्दारमरन्दचम्पूः। सममर्धसमं चैव विषमं चेति तत्रिधा । यस्मिन्पादाश्च चत्वारः समाः स्युस्तत्समं मतम् ॥ १०॥ समौ समौ च विषमौ समावर्धसमं यदि । भिन्नलक्ष्माङ्गयो यस्मिंश्चत्वारो विषमं हि तत् ॥ ११ ॥ छन्दांसि वेदे ख्यातानि सप्तपूर्वाण्यनुष्टुभः । लोकप्रसिद्धान्यवृत्तलक्षणोदाहृती ब्रुवे ॥ १२ ॥ शार्दूलविक्रीडितं तु यत्र मः सजसाः पुनः । ततगाः सूर्यऋषिभिर्विरतिस्तत्र कीर्तितम् ।। यथा-अथ कदाचित् भूमीलोकदिदृक्षया दयितयाभीक्ष्णं समभ्यर्थितो गन्धर्वः कलगीतिनामकलितः साकं तया कान्तया । निवेशेन वृत्तान्तरेषु मादिगणानां व्यवधानेन वृत्तित्वेऽपि न क्षतिः । अव्यवहितोत्तरखा- त्मकत्वं वृत्तवम् । इदमुभयच्छन्दः साधारणम् ॥ ९ ॥ तं विभजते-सममिति । स्मन्नित्यत्र सप्तम्या घटकसमर्थः । तस्य पादेष्वन्वयः । तथा च परस्परसदृशपाद- चतुष्टयघटितत्वं समवृत्तलक्षणम्। परस्परसदृशविषमपादद्वयसदृशपरस्परसदृशसमपादव- यघटितत्वं वा ॥१०॥ समाविति । विषमौ सदृशौ समौ च सदृशौ चेदर्धसमवृत्तमि- त्यर्थः । तथा च परस्परसदृश विषमपादद्वयासदृशपरस्परसदृशसमपादद्वयघटितत्वं लक्षणं पर्यवसितम् । यस्मिन् भिन्नानि भिन्नानि लक्ष्माणि येषां तेऽत्रयश्चत्वारो वर्तन्ते तद्विष- मवृत्तमित्यर्थः । अत्रापि परस्परासदृशपादचतुष्टयघटितत्वं लक्षणं बोध्यम् । यद्वा परस्प- रासदृशविषमपादद्वयासदृशपरस्परासदृशसमपादद्वयघटितत्वम् । सादृश्यं च खघटकगुरु- लघुतदुभयान्यतमवर्णगतसंख्याक्रमोभयविशिष्टवर्णमात्रघटितत्वेन । खपरं सादृश्यप्रति- योगिपरम् ॥११॥ उक्ता(क्था)दिसप्तछन्दःसु वृत्तानामनुक्त्यापि न न्यूनतेत्याशयेनाह- छन्दांसीति । तथा च तेषां वेदमात्रप्रसिद्धत्वेन लोकप्रसिद्ध्यभावान कृतं लक्षणल- क्ष्यवर्णनमित्यर्थः । लोके आलंकारिकजने प्रसिद्धानामन्येषां वृत्तानां लक्षणोदाहृती ल- क्षणोदाहरणे ब्रुवे । लट् ॥ १२ ॥ तत्रादावुद्देशक्रमानुसारेण समवृत्तलक्षणानि विवक्षुः शार्दूलविक्रीडितं लक्षयति-शार्दूलविक्रीडितमिति । यत्र वाक्ये मः मगणः स. जसाः सगणजगणसगणाः ततगाः तगणतगणगुरवः । पुनः किं च सूर्यादशभिरक्षरः ऋषिभिः सप्ताक्षरैर्विरतिः विश्रामः । एते वर्तन्ते तद्वृत्तं शार्दूलविक्रीडितमित्यन्वयः । तथा च मगणाव्यवहितोत्तरसगणाव्यवहितोत्तरजगणाव्यवहितोत्तरसगणाव्यवहितोत्तरत- गणाव्यवहितोत्तरतगणाव्यवहितोत्तरगुरुघटितत्वं लक्षणं भवति । एतेनाव्यवहितोत्तरल. - काव्यमाला। .. आरुह्योरुविमानमाशु गगने गच्छन्प्रपश्यन्भुवं तत्रैकां नगरीं विलोक्य ललनामित्यब्रवीत्सादरम् ॥ १३ ॥ अस्ति पुरः पश्य प्रशस्तविभवैः समस्तलोकसुखकरी रजतपीठपुरी । वसन्ततिलका प्रोक्ता तभजा जगगा यदि । न वा पादेऽपि विरतिः सप्तसप्ताक्षरैर्मता ॥ सोसूच्यते जिगमिषां नु पुलोमपुत्री- केलीषु लोलमनसो नगरी विजेतुम् । शुभ्रांशुबिम्बपरिचुम्बनढौकमान- राराज्यमानवरराजतसौधशृङ्गा ॥ १४ ॥ च स्वाधिकरणक्षणध्वंसाधिकरणक्षणध्वंसानधिकरणखाधिकरणक्षणध्वंसाधिकरणक्षण- तित्वम् । सूर्यऋषिभिर्यतिकथनं तु आलंकारिकाः सहृदयहृदयाह्लादकारिखाद्यतिमङ्गीकु- वन्तीति सूचनार्थम् । अत एव शेषबिन्दौ 'पादान्ते एव केचिच्च पादमध्येऽपि केचन । यति वदन्ति' इति खयमेव वक्ष्यति । केचिद्वेदान्तिनः । पादान्त एवेत्यनेन न पादमध्ये यतिं नियमेनाङ्गीकुर्वन्तीत्यर्थः । न तु सूर्यऋषिभिर्यतिमत्त्वं लक्षणप्रविष्टम् । अन्यथा तेनैव निर्वाहे मादिगणघटितत्वं व्यर्थ स्यात् । यदि वृत्तान्तरवारणाय मादिगणघटितत्वमित्यु- च्यते । तदा अतिधृतिछन्दः प्रोद्भूतवृत्त एवातिव्याप्तिर्वाच्या । तत्र भगवता सूत्रकारेण काश्यपेन रामकीर्तिना गोमानसेन केदारेणापि न किमपि वृत्तमेतद्भिनं सूर्यऋषिमात्रय- तिमत्त्वेन प्रतिपादितम् । यत्तु प्रस्ताररीत्या प्रक्रान्ते सरसतापादनाय सूर्यऋषिभिरङ्गी- कृतयतिमति कस्मिंश्चिद्वृत्तेऽतिव्याप्तिवारणायेति चेत्तर्हि अनेनैव मादिगणगुरुघटितत्व. मात्रेण सामजस्ये तस्य वैयर्थ्यम् । एवमप्रेऽपि । यतिगणादिनिरूपणं स्वयमेवाने व. क्ष्यति । तदुदाहरति-यथेत्यादिना । कलगीत इति नाम्ना कलितो युक्तो गन्धर्वः दयितया भूमीलोकस्य दिदृक्षया द्रष्टुमिच्छया । हेताविति तृतीया । अभीक्ष्णमसकृत् समभ्यर्थितः सन् तया कान्तया साकं विमानमारुह्य आशु गगने गच्छन् भुवं लोकं पश्यन् तत्र भुवि एकां नगरी विलोक्य ललनां कान्तामिति वक्ष्यमाणं सादरं यथा तथाब्रवीत् । भूमिरीदन्तोऽपि । यदाह भानुकविः-'निःशेषभूमीधर-' इति रसतरङ्गि- ग्याम् ॥ १३ ॥ अस्तीति । प्रशस्तैर्विभवैः समस्तस्य लोकस्य सुखकरी रजतपीठपुरी अस्ति । पुरः पश्येत्यन्वयः ॥वसन्ततिलकेति । तभजा तगणभगणजगणाः जगगाः जगणगुरुगुरवः यदि वाक्ये सन्ति चेत् । अपि सप्तभिः सप्तभिरक्षरैर्विरतिर्विश्रामः । वेति विकल्पेनेति मता । इदं वसन्ततिलकावृत्तं सिंहोद्धतानामकमाह काश्यपः । मधुमाधवीमाह गोमानसः चेतोहितामाह रामकीर्तिः ॥ सोसूच्यत इति ।
१.वृत्तबिन्दुः] मन्दारमरन्दचम्पूः। वंशस्थं साजतजरा गुहास्यऋतुभिर्यतिः। परिस्फुरत्स्फाटिकसालमण्डलप्रगल्भवलगत्प्रतिबिम्बबन्धुरा । तितंसति क्षीरपयोधिबन्धुतां किलोच्चलद्यत्परिखाजलावली ॥ १५ ॥ वातोर्मी ममता गौ च श्रुतिसप्तयतिर्भवेत् ॥ पद्मान्येतत्परिखासंभवानि वीचीजालैर्मृदुलं संचलन्ति । मन्ये नूनं फणिनां कन्यकानां नीरक्रीडानिरतानां मुखानि ।। १६ ॥ इन्द्रवज्रा ततजगा गो हरास्यर्तुभिर्यतिः । शुभ्रांशोश्चन्द्रस्य बिम्बस्य परिचुम्बनाय ढाकमानौनि । 'ढौकृ गतौ' इत्यस्माच्छानच् । राराज्यमानानि भृशं प्रकाशमानानि । 'राज दीप्तौ' इत्यस्माद्यङन्ताच्छानच् । वराणि राजतानि रूप्यमयानि सौधशृङ्गाणि हाग्राणि यस्यां सा या रजतपीठपुरी । पुलोम- पुत्र्याः शच्याः केलीषु लोलमनसः आसक्तचित्तस्य । इन्द्रस्येति यावत् । नगरीममरा- वतीं विजेतुं जिगमिषां गमनेच्छाम् । 'इण् गतौ' इत्यस्मात्सनन्ताद्भावे अप्रत्ययः। सो. सूच्यते पुनः पुनरतिशयेन वा सूचयति । 'सूच पैशून्ये' इत्यस्मात् 'सूचिसूयट्यर्त्यशूर्णो- तिभ्यो यङ् वाच्यः' इति वार्तिकानुसारेण यङि 'सन्यो' इति यकुन्तप्रथमैकाचो द्वित्वे 'गुणो यङ्लुकोः' इत्यभ्यासगुणे सोसूच्यत इति रूपम् । नु इत्युत्प्रेक्षायाम् । अत्रातिश- योक्त्युत्प्रेक्षयोरङ्गाङ्गिभावसंकरः ॥१४॥ वंशस्थमिति । जतजरा जगणतगणजगणर- गणाः । गुहास्यैः षड्भिः ऋतुभिः षड्भिः। अत्रापि नवेत्यनुज्यते ॥ परिस्फुरदिति । परिस्फुरत्प्रकाशमानं स्फाटिकं स्फटिकमयं सालस्य प्राकारस्य भण्डलं तस्य प्रगल्भं वल्गद्यत्प्रतिबिम्बं तेन बन्धुरा निबिडीकृता । व्याप्तेति यावत् । उच्चलन्ती यस्याः पुर्याः परिखायां स्थितानां जलानामावली ।क्षीरपयोधेबन्धुतां साम्यम् । 'बन्धुश्चौरः सुहृद्वादी कल्पः प्रख्यः प्रभः समः। देशीयदेश्यरिप्वाभसोदराद्या इवार्थकाः ॥' इति देवेश्वरः । तितंसति तनितुमिच्छति । 'तनु विस्तारे' इत्यस्मात्सन्नन्तात्कर्तरि लट् । किलेत्युत्प्रेक्षा- याम् ॥१५॥ वातोर्मीति । ममता मगणभगणतगणाः । गौ च गुरुद्वयं च । श्रुति- सप्तभिश्चतुर्भिः सप्तभिश्च वर्णैतिश्चेद्वातोर्मी नाम वृत्तं भवेत् ॥ पद्मानीति । एतस्याः पुरः परिखासंभवानि । वीचीनां तरङ्गाणां जालैश्चयैः । मृदुलं यथा तथा संचलन्ति पद्मानि । फणिनां सर्पाणां नीरक्रीडायां जलक्रीडायां निरतानां कन्यकानां मुखानि मन्ये इत्युत्प्रेक्षा । अत्र पादान्तस्थस्य वैकल्पिकगुरुवान्न छन्दोभङ्गः ॥ १६ ॥ इन्द्रध- जेति । ततजगास्तगणतगणजगणगुरवः। गः गुरुः । हरास्यैः पञ्चभिः ऋतुभिः षड्भि- ८ काव्यमाला। (प्रपां निर्दिश्य ।) सा निर्जनायां विहिता प्रपायां कान्ता कुचान्तं परिदर्शयन्ती । पान्थस्य यूनः कुरुते करेऽम्भोधारां मुखे सामिगन्तरीतिम् ॥ १७ ॥ उपेन्द्रवज्रा जतजा गौ बाणऋतुभिर्यतिः॥ इयं कुरङ्गीनयनाम्रशाखां विभाति वामेन करेण धृत्वा । पदान्तलालम्बितवेणिवल्ली मनोऽस्य चाक्रष्टुमिवानताङ्गीं ॥ १८ ॥ मिश्रा तूपेन्द्रमाला स्यादुपजाति च तां विदुः । यथा यथा पश्यति तन्मुखेन्दं पातुं प्रवृत्तो विरलाङ्गुलिः सन् । तथा तथा प्रेमरसेन साकं सबीडहासा तनुतेऽम्बुधाराम् ॥ १९ ॥ शालिनी मतता गौ च यतिः श्रुतितुरङ्गमैः ।। धन्येयं यत्कामिनी पान्थयूनः पीयूषाभैरम्बुभिः शीतशीतैः । सप्रेमोत्थैः सामिनेत्रान्तपातैः प्रीतिं पुष्णात्युच्चल विलासैः ॥ २० ॥ यतिः। अत्रापि मण्डूकप्लुत्या नवेत्सन्वेति ॥ सेति । पुरतो दृश्यामानेत्यर्थः । निर्जनायां जनरहितायां प्रपायां पानीयशालायां विहिता स्थिता सा कान्ता कुचान्तं स्तनाग्रं परि. दर्शयन्ती सती यूनस्तरुणस्य पान्थस्य करे हस्ते अम्भोधारामुदकधारां मुखे सामिग- न्तरीतिं किंचित्तिर्यक्प्रवृत्तनेत्रान्तरीतिं कुरुते । वर्तमाने लट् ॥ १७॥ उपेन्द्रवज्रेति । यत्र जगणतगणजगणा गुरुद्वयं च तथा पञ्चभिः षड्भिश्च यतिश्चेदुपेन्द्रवज्रावृत्तम् । अत्रापि नवेत्यनुषज्यते॥इयमिति । पदान्ते चरणान्ते लालम्बिता अतिशयेन लम्बिता वेणिवल्लीव यस्याः सा तथोक्का । 'लबि अवसंसने च' इत्यस्माद्यङन्तादधिकरणे क्तः। कुरङ्गीन- यना इयं वामेन करेण आम्रस्य रसालस्य शाखां धृत्वा अस्य पान्थस्य मनः आक्रष्टुमि- वेत्युत्प्रेक्षा। आनताङ्गी सती नम्राङ्गी सती विभाति । 'भा दीप्तौ' लट् ॥१८॥ मिश्रेति । तामुपेन्द्रमालाम् । बुधा इति शेषः ॥ यथेति । पातुं प्रवृत्तः पान्थो विरला अङ्गुलयो यस्य तथोक्तः सन् तस्याः कान्ताया मुखमिन्दुरिव तं यथा यथा पश्यति तथा तथा सबीडहासा त्रपास्मिताभ्यां सहिता कान्ता अम्बुधारामुदकधारां प्रेमरसेन साकम् । सहयुक्तेऽप्रधाने तृतीया । तनुते । 'तनु विस्तारे' इत्यस्मालट् ॥ १९ ॥शालिनीति । मतता मगणतगणतगणाः। गौ च गुरुद्वयमपि । श्रुतितुरङ्गमैश्चतुर्भिः सप्तभिर्यतिः । यत्र तद्वृत्तं शालिनीनामकमित्यर्थः ॥धन्येति । इयं कामिनी यद्यस्मात् । पीयूषाभैरमृताभैः शीतशीतैरत्यन्तशीतैः। अतिशयार्थे वीप्सा अम्बुभिः सप्रेम यथा तथोत्थैः सामिनेत्रा. न्तपातैः तिर्यक्प्रवृत्तनयनान्तवीक्षणैः । 'हेतौ' इति तृतीया । उच्चलन्त्यो वोर्विलासैः पान्थयूनः पथिकतरुणस्य । विशेषणोत्तरपदो विशेषणोभयपदो वा कर्मधारयः ।प्रीतिं पु- or १.वृत्तबिन्दुः] मन्दारमरन्दचम्पूः। मत्ता मभसगैर्युक्ता यतिः श्रुतिगुहाननैः। (ध्वजं निर्दिश्य ।) स्फारस्फीता वसति पताका माध्वे तीर्थे विधुतजनानाम् । तैस्तैर्दैहैः सह सुरलोकं गन्तुं स्थूणा हरिनिहितेव ॥ २१ ॥ भामिनी स्याद्भभभभास्त्रिभिर्यतिचतुष्टयम् ॥ उद्भवदम्बुजसंततिसंततसंचरदुच्चरथाङ्गविहङ्गकम् । सारसुधामधुराम्बुलसत्त्विह मध्वसरो वरमानिनि राजते ॥ २२ ॥ अधिगतसलिलसीकरमृदुसंचरदनिलाङ्कुरपरिचयपरिचितचापलकमलाव- लोकनकुतूहलशैलीपरिशीलितहृदयस्य मम हृदयमवगाहतेऽधुनोहसलिल- निधौ । राजहंसी नरौ रो गौ यतिः स्याहतुसायकैः । । ष्णाति पोषणं करोति। 'पुष पुष्टौ' इत्यस्मात्कर्तरि लट् । तद्धन्या ॥२०॥ मत्तेति । नामैतत् ।मभसगैः मगणभगणसगणगुरुभिः। श्रुतिगुहाननैश्चतुर्भिः षड्भिः॥स्फारेति। स्फारेणातिशयेन स्फीता प्रकाशमाना पताका ध्वजः । माध्वे तीर्थे मध्वसरसि । विधु- तानां जनानां स्नातानां जनानाम् । 'कर्तृकर्मणोः कृति' इति कर्तरि षष्ठी । तैस्तैर्दैहै - ह्मणादिदेहैः । यावदर्थे वीप्सा । सहार्थयोगात्तृतीया । सह सुरलोकं खर्गम् । 'वर्लोको देवलोकः स्यात्' इति त्रिकाण्डशेषः । गन्तुं हरिणा निहिता स्थापिता स्थूणेव स्तम्भ इवेत्युत्प्रेक्षा । 'स्थूणा सूर्ध्या गृहस्तम्भे स्तम्भमात्रेऽपि च स्त्रियाम्' इत्यनेकार्थः। 'स्थूणा सूर्मी च दारु च' इति त्रिकाण्डशेषश्च । वसति । 'वस निवासे' लट् ॥ २१॥ भामि- नीति । भगणचतुष्टयं त्रिमिस्त्रिभिरक्षरैर्य तिश्चेद्भामिनीनामकं वृत्तम् । अत्र नवेत्यध्या- हारः॥ उद्भवदिति । उद्भवन्त्यामम्बुजानां संततौ वृन्दे (संततं यथा तथा) संचरन्त उच्चा रथाङ्गविहङ्गकाः चक्रवाका यसिाँस्तथोक्तम् । सारं श्रेष्ठं सुधेव मधुरमम्बु तेन लसत्प्रकाशमानं मध्वसरो राजते। 'राज दीप्तौ' लट् । हे वरमानिनि, इह पश्येति शेषः ॥ २२ ॥ अधिगतेति । अधिगताः स्वीकृताः सलिलानां सीकरा यैस्ते च मृदु यथा तथा संचरन्तश्च ते अनिलाङ्कुराश्च तेषां परिचयेन संपर्केण परिचितमभ्यस्तं चापलं यस्य तस्य कमलस्यावलोकने कुतूहलस्य शैल्या रीत्या परिशीलितं संस्पृष्टं हृदयं चित्तं यस्य तथोक्तस्य मम हृदयमूह एव सलिलनिधिः समुद्रस्तस्मिन्नधुना अवगाहते निमज्जतीत्यर्थः। 'गाहू विलोडने" इत्यस्मालट् । राजहंसीति । नरौ नगणरगणौ रो रगणः । गौ गुरुद्व- काव्यमाला। सरससारसं वारकामिनीपदपराजयप्राप्तदुर्यशः । पतितमम्भसि क्षन्तुमक्षमं परवशं मुहुः संचलत्यहो ॥ २३ ॥ भम्साश्चम्पकमाला गः शरैर्बाणैर्यतिर्भवेत् ॥ दत्तमुखं सद्भाखति पद्म भूरि तपस्यत्यम्बुनि लब्धुम् । अत्र च सत्याः संचरदेणीशावकनेव्याः पादसमत्वम् ॥ २४ ।। स्निग्धा स्याद्भममा यत्र हराननयुगैर्यतिः। अपि च । अम्बुजमेतद्भुङ्गव्याजान्मूर्ध्नि कलकं धत्ते नूनम् । आनननेत्रात्पाणेः पादादत्र पराभूतं सत्सत्याः ॥ २५॥ यम् । ऋतुसायकैः षड्भिः पञ्चमियतिश्चेद्राजहंसी वृत्तं भवति ॥ सरसेति। वारकामि- न्याः पदाचरणात्पराजयेन प्राप्तं दुर्यशो दुष्कीति क्षन्तुमक्षममसमर्थ सरसं च तत्सारसं च कर्तृ । अम्भस्युदके पतितं सत्परवशं सत् । उत्थातुमशक्तवादिति भावः। मुहुः संचलति । अहो इत्युत्प्रेक्षा ॥ २३ ॥ भम्सेति । भम्साः भगणमगणसगणा गः गुरुः । शरैः पञ्चभिबाणैर्य तिश्चेचम्पकमालावृत्तं भवति । रुक्मवती वृत्तमिति केचित् ॥ द- त्तेति । पद्मं कर्तृ । किं चेति चार्थः । भास्वति सूर्ये । औपश्लेषिकेऽभिव्यापके वा आ- धारे सप्तमी । दत्तमुखं सत् कृतवदनं सत् । अत्र पुर्या संचरन्त्या एणीशावकनेच्या मृगीशिशुनेव्याः। विशेषणोभयपदसमासः। सत्याः साध्व्याः पादसमत्वं लब्धुमम्बुनि भूरि यथा तथा तपस्यति । तापयति शरीरमिति तपः कायक्लेशरूपशुभाचारः । 'तप संतापे' इत्यस्मादौणादिकोऽसुन्प्रत्ययः । तस्मात् 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यडि 'तपसः परस्मैपद च' इति परस्मैपदम् । लट् । तपश्चरतीत्यर्थः । गम्योत्प्रेक्षा ॥ २४ ॥ स्निग्धेति । भममा भगणमगणमगणाः । हराननयुगैः पञ्चभिश्चतुर्भिः यतिश्चेत्स्निग्धा नाम । मणिमध्यमिति केदारः ॥अम्बुजमिति । एतदृश्यमानमम्बुजं कर्तृ । अत्र पुर्या सत्याः साध्या आनननेत्रात् आननं च नेत्रं चानननेत्रमिति प्राण्यङ्गलादेकवद्भावः। पाणेर्हस्तात् । पादात् । 'जनिकर्तुः प्रकृतिः' इत्यनेन पञ्चमी । प्रकृतित्वं च कारणवम् । न तु विकारिखम् । वसुदेवादुत्पन्नो माधवः । दण्डाद्धटो जायत इत्यादौ प्रकृतिविकृतिभा- वाभावेऽपि पश्चमीदर्शनात् । नात्र ‘विभाषागुणेऽस्त्रियाम्' इत्यनेन पञ्चमी । तस्य गुण- हेतुस्थल एव विधानात् । यदि 'विभाषा' इति योगविभागादगुणेऽस्त्रियामपि पञ्चमी निबन्धनम् ,तर्हि अनेनैवोपपत्तौ 'जनिकर्तुः प्रकृतिः' इति सूत्रवैयर्थ्यम् । यत्तु 'जनिकर्तुः प्रकृतिः' इत्यनेन प्राप्तां पञ्चमी बाधित्वा 'हेतौ' इति तृतीयायां प्राप्तायां 'शत्रोः शत्रु- रीषन्मित्रम्' इति न्यायेन तामपि बाधित्वा "विभाषागुणेऽस्त्रियाम्' इत्यनेन वैकल्पिकप- श्रमीप्राप्तिः भाष्यानुसारेण योगविभागात्वचित्तचित्प्रयोगानुसारेणागुणेऽस्त्रियामिति चे- १.वृत्तबिन्दुः] मन्दारमरन्दचम्पूः। विद्युन्माला ममगगा यतिविधिमुखैयुगैः । अट्टा यस्मिन्राराज्यन्ते मृष्टा रनरैन्दैनः । क्रीडाकीरः स्वीयं बिम्ब भित्तावन्यं बुद्धवा कुद्धः ॥२६॥ भतौ लगौ माणवकं यतिजलधिभियुगैः। भर्ममये हर्म्यतटे शर्मसखीनमरताम् । पद्ममुखी पद्मगृहां वेनि सती मूर्तिमतीम् ॥ २७ ॥ प्रमाणिका जरलगा न यतिः पादमध्यगा। मदेभकुम्भसंनिभस्तनद्वयीचलत्पटी । बरीभरीति भामिनी सखीमुखे सुखं मुखम् ॥ २८ ।। दस्तु 'वासुदेवादुत्पन्नः' इत्यादौ, तेनैव पञ्चम्युपपत्तिरित्यलं प्रसकानुप्रसक्त्या । पराभूतं सत्पराजितं सत् । भृङ्गव्याजाड्रमरमिषान्मूर्ध्नि शिरसि कलई धत्ते । 'डुधाञ् धारणपो- षणयोः' इत्यस्मालट् । नूनमित्युप्रेक्षायाम् । 'मन्ये शके ध्रुवं प्रायो नूनमित्येवमादिमिः। उत्प्रेक्षा व्यज्यते' इत्युक्तेः ॥ २५ ॥ विद्युन्मालेति। ममगगाः मगणमगणगुरुगुरवः । विधिमुखैश्चतुर्भिर्युगैश्चतुर्भिः॥ अट्टा इति । येषामित्यध्याहारः । येषामट्टानां मित्तौ की- डाकीरो लीलाशुकः खीयं नैनं बिम्बमन्यं शुकान्तरं बुवा क्रुद्धो भवति । ऐन्द्र रन. हरिन्मणिमिदृष्टा घट्टितास्तेऽटा, क्षौमा यस्मिन्पुरे राराज्यते । ‘राज दीप्तौ' इत्यस्माद्य- कुन्तात्कर्तरि लट् । अत्र भ्रांत्युदात्तयोरङ्गा निभावेन संकरः ॥२६॥ भताविति । भतौ भगणतगणौ लगौ लघुगुरू। जलधिभिश्चतुर्भिः । युगैश्चतुर्भिः। माणवकमिति नाम।माण- वकक्रीडितकमिति सूत्रकारः । माणवकक्रीडमिति पिङ्गलः । माणवमित्यपि केचित् ॥ भर्मेति।भर्ममये सौवर्णे। गाङ्गेयं भर्म कर्बुरम्' इत्यमरः।हर्म्यस्य प्रासादस्य तटे। औपश्लेषिकी सप्तमी। शर्मणा सुखेन। शर्मशातसुखानि च' इत्यमरः। सखीभिः सह नर्मणि । 'क्रीडा लीला च नर्म च' इत्यमरः । रतामासकां पद्ममिव मुखं यस्यास्तथोक्ताम् । सती कान्तां मूर्तिमतीं पद्मगृहां पद्मं गृहं यस्यास्तां लक्ष्मीमित्यर्थः । वेमीत्युत्प्रेक्षा । 'विद ज्ञाने' इत्यस्माल्लद । अत्रानुप्रासोत्प्रेक्षयोः संसृष्टिः ॥ २७॥प्रमाणिकेति ।जरलगा जगणर- गणलघुगुरवः। प्रमाणिकेति नाम।प्रमाणीति केचित् ॥मदेभेति । मदविशिष्टश्चासाविभो गजस्तस्य कुम्भयोः संनिभयोः स्तनयोय्यां युग्मे चलन्ती पटी अंशुकं यस्यास्तथोका। 'जातेरस्त्री-'इत्यादिना ङीष् । भामिनी सख्या मुखे मुखं खाननं सुखं यथा तथा बरीभरीति। पुनः पुनः स्थापयतीत्यर्थः । अत्र णिचोऽन्तर्नियतत्वात् णिच्कार्य न दृश्यते । तथा च धारणानुकूलव्यापारानुकूलव्यापारो बिभर्तेरर्थः । धारणं च संयोगानुयोगिलम् । आयव्या- पारः सखीमुखनिष्ठः द्वितीयव्यापारोभामिनीनिष्ठः। अधिकरणलविवक्षया मुखपदात्सप्तमी १२ काव्यमाला। समानिका रजगला न यतिः स्यात्पदान्तरे । शम्बरीकिशोरलोललोचनाश्चलान्तरेण । सूचयन्त्यलं प्रियं किमप्यसौ श्रुतौ ब्रवीति ॥ २९ ॥ अथ सकलकलाविलाससललितललनाजनलपितमालाजितशुकाकलितम- अलपिञ्जरजटिलविशङ्कटविटङ्कां स्फुटतरस्फाटिककुरण्टिकाकरतलकलितक- नककुम्भैरुन्नमत्कुचभारामिव, पद्मरागमणिगणरञ्जितभित्तिभिस्ताटकमासु- रकपोलतलामिव, विचित्रतरमुक्ताप्रवालपरिचिततोरणस्रजा मेखलाकलाप- लालितामिव, मरकतमणिनिचयरचितशिरोमागेन विबद्धकचभारामिव, क- लिन्दनन्दिनीतुनतरङ्गमगिसकूलदुकूलसंवीतसारसारसदृशां कदम्बेन का- दम्बिनीमिव, सतटिद्गणाम_कषभङ्गिभिः शृङ्गैर्गाहमानामिव निलिम्पपुरीम् , कामिनीजनकमनीजनमवीणानिनादैर्गायन्तीमिव, सुधाधवलिन्ना हसन्तीमिव सौधश्रेणी वर्णयन्तं निजकान्तमप्राक्षीदायताक्षी । नभौ भरौ चेद्रुतविलम्बितं न यतिः पदि ॥ 'न बरीभरीति कबरीभरे स्रजः' इत्यादिकालिदासोक्तिवत् । यद्यत्र कबरीति कबरीभरस्य खाङ्गवात्खत्वोपचार इत्युच्यते, तर्हि अत्रापि अतिप्रियसखीवात्खत्वोपचारः। रूपं तु ' डुधारणपोषणयोः' इत्यस्मात् 'धातोरेकाचः' इति यडि द्वित्वे 'यडोऽचिच'इति लुकि 'यडो वा' इतीटि 'ऋतश्च' इत्यभ्यासरीगागमे बरीभरीति इति । अत्रानुप्रासोपमयोः सं- सृष्टिः ॥ २८ ॥ समानिकेति । रजगला रगणजगणगुरुलघवः । समानिकेति नाम ॥ शम्बरीति । शम्बरी किशोरस्य मृगीशिशोर्लोललोचने इव स्थितयोर्लोललोचनयोश्च. श्चलनेत्रयोरञ्चलान्तरेण प्रदेशान्तेन । 'अञ्चलं च तटं पुटम्' इति प्रकाशः । 'अन्तरम वकाशावधिव्यवधानान्तर्धिभेदतादर्से' इत्यमरमेदिन्यौ। प्रियमलमत्यन्तं सूचयन्ती सती। 'सूच पैशुन्ये' इत्यस्मात्खार्थणिजन्तात्कर्तरि शतृप्रत्ययः । श्रुतौ कर्णे । सख्या इति शेषः। किमपि ब्रवीति । 'ब्रूञ् व्यक्तायां वाचि' इत्यस्माल्लट् । अत्रोपमेयभूतस्य शम्बरीकि- शोरलोचनस्य वाचकस्य चानुपादानाल्लुप्तोपमा ॥ २९ ॥ अथेति । अनन्तरम् । आ- यते अक्षिणी यस्यास्तथोक्ता कलगीतप्रियेत्यर्थः । 'विशङ्कटं पृथु बृहद्विशालं पृथुलं महत्' इति । 'कपोतपालिकायां तु विटकं पुनपुंसकम्' इति चामरः । 'शालभञ्जी दारुगी. कुरण्टी दारुपुत्रिका' इति त्रिकाण्डशेषः । कलिन्दनन्दिनी कालिन्दी । भङ्गिः रीतिः । 'सकूलं सदृशं समम्' इति कमलाकरः । अप्राक्षीत् । 'प्रच्छ ज्ञीप्सायाम्' लुङ् ॥ नभा. विति । नभौ नगणभगणौ भरौ भगणरगणौ चेद्रुतविलम्बितमिति नाम ॥
१. वृत्तबिन्दुः] मन्दारमरन्दचम्पूः। १३ विरचिता किल केन पुरी पुरा रजतपीठपुरीति कथं प्रथा । तदसुवल्लभ वेत्तुममन्दया कुतुकमालिकया कलितं मनः ॥ ३० ॥ अथ तामिदमाह स्म कलगीत: हंसी मभनगाः प्रोक्ता यतिबेदैर्गुहाननैः । एणीनेत्रे तदुदयविधि नाम्नश्चास्याः करणमखिलम् । वच्मि स्पष्टं शृणु हितमनाः पुण्यश्रेणीकरणकुशलम् ॥ ३१ ॥ कलगीतं सतयगाः शरैर्वाणैर्यतिर्भवेत् ॥ कमलाकान्तः खयमुद्भूतो जमदग्नेः सत्सदने रामः । परशूद्भासी धरणीमागे कुमहीपानां विशरं कर्तुम् ॥ ३२ ॥ कमला स्यात्सजजगा विच्छिन्ना सायकैः शरैः। हतबाहुजां बहुधा महीं प्रविधाय तां हृदि जात्वसौ । तदचिन्तयद्भुवनाद्भुतं न पुरा कृतं भुवि कैरपि ॥ ३३ ॥ विरचितेति । हे असुवल्लभ प्राणप्रिय, इयं पुरी पुरा केन विरचिता निर्मिता। किलेति संभावनायाम् । रजतपीठपुरीति प्रथा ख्यातिः कथं केन निमित्तेन प्राप्तेत्यर्थः । तद्वेत्तुं ज्ञातुममन्दया कुतुकमालिकया कुतूहलमालया। ममेति शेषः । [मनः] कलितं यु. कम् ॥ ३० ॥ अथेति । कलगीतो गन्धर्वः। तां प्रियामिदं वक्ष्यमाणमाह स्म । 'बञ् व्यक्तायां वाचि' इत्यस्माल्लटि तिबादेशे तस्य 'ब्रुवः पञ्चानाम्' इति णलि ब्रुवश्वाहादेशः। 'लट् स्म' इत्यनेन लिडर्थे लट् । 'दुह्याच्पच्दण्डधिप्रच्छिचित्रूशासुजिमन्थमुषाम्' इत्यादिना ब्रूजो योगात् 'अकथितं च' इति प्रियायाः कर्मत्वात्प्रियावाक्योत्तरं द्वितीया॥ हंसीति।नामनिर्देशः। मभनगा मगणभगणनगणगुरवः। वेदैश्चतुर्भिः। गुहाननैः षड्भिः॥ एणीति । तस्याः पुर्याः उदयविधिमुत्पत्तिप्रकारम् । अस्याः पुर्या नानश्च करणं नि- मित्तं स्पष्टं यथा तथा वच्मि । 'वच परिभाषणे' इत्यस्मालट् । हे एणीनेत्रे, त्वं हितं समाहितं मनो यस्यास्तथोक्ता सती पुण्यश्रेण्याः सुकृतपतयाः करणे कृतौ कुशलं चतुर- मेतदखिलं शृणु ॥३१॥ कलगीतमिति । नामैतत् । सतयगाः सगणतगणयगण- गुरवः । शरैः पञ्चभिः। बाणैः पञ्चभिः ॥ कमलाकान्त इति । कमलाया लक्ष्म्याः कान्तो विष्णुरित्यर्थः । खयं जमदग्नेर्मुनेः सति शुद्धे सदने उद्भूतः सन् रामो रामना. मको भूत्वा धरणीभागे भूप्रदेशे स्थितानां कुमहीपानां दुष्टराजानां विशरं नाशं कर्तुं पर- शुवा आयुधेन उद्भासी । ताच्छील्ये णिनिः। अभूदिति शेषः ॥३२॥ कमलेति । ना- मैतत् । सजजगाः सगणजगणजगणगुरवः ॥ हतबाहुजामिति । असौ रामः । महीं मन्दा० २ काव्यमाला। मरालिका रयजगाः शिवातनशरैर्यतिः ॥ भार्गवस्ततः पाथसां निधावक्षिपच्छरं सारविक्रमः । तेन तद्गता राक्षसा हताः सोऽपि वारिधिळूरतो ययौ ॥ ३४ ॥ श्यनिकेति समुद्दिष्टा रजा ल्गौ न यतिः पदि । रामभोजनामकं स कंचन क्षोणिभागपालनेऽकरोप्रभुम् । संततं निजातिकञ्जरञ्जकं मञ्चपुण्यपुञ्जनीरनीरधिम् ॥ ३५॥ रञ्जितारजसा लो गो विरामः सायकर्तुमिः॥ रामभोजराट् धरणिमण्डलं शासति स्म भूसुरकदम्बकम् । दानवैभवैर्मधुरभाषितै रञ्जयञ्जनं निजविनीतिभिः ॥ ३६ ॥ न्यभा माणिक्यमालागावृतुभिः सायकैर्यतिः। भूमि हता बाहुजा क्षत्रिया यस्यां तथोक्ताम् । प्रविधाय कृत्वा भुवि पुरा कैरपि न कृतं नानुष्ठितं भुवनेषु लोकेष्वद्भुतमाश्चर्यकरं यत् तत् । कर्तुमिति शेषः । जातु कदाचित् हृदि मनसि अचिन्तयत् । 'चिति स्मृत्याम्' इत्यस्मात्स्वार्थणिजन्ताल्लङ् ॥ ३३ ॥ मरालि. केति । नामकथनम् । रयजगा रगणयगणजगणगुरवः॥भार्गव इति । तत आलोच- नानन्तरम् । सारः श्रेष्ठो विक्रमः पराक्रमो यस्य तथोक्तो भार्गवो रामः। पाथसां निधौ समुद्रे शरं बाणमक्षिपत् । 'क्षिप प्रेरणे' लङ् । तेन शरेण । कर्तरि करणे वा तृतीया । तद्वताः समुद्रस्थिताः । कर्तरि कः। राक्षसा हताः । 'हन हिंसागयोः' इत्यस्मात्कर्मणि कर्तरि वा कः । किं चेत्यप्यर्थः । स प्रविष्टशरो वारिधिः समुद्रो दूरतो दूरात् । 'दूरा- न्तिकार्थेभ्यः' इत्यादिना प्राप्तायाः पञ्चम्यास्तसिः। ययौ 'या प्रापणे' लिट् ॥३४॥श्ये. निकेति । नामैतत् । सेनिकेति केचित् । रजा रगणजगणरगणाः । ल्गौ लघुगुरू ॥ रामेति । संततं निजस्यानिकजस्य पादकमलस्य रजकं पूजादिनालंकारिणं मजु च तत्पुण्यं च तेषां पुज एव नीरं तस्य नीरधि समुद्रं रामभोजनामकं कंचन पुरुषं क्षोणिमा- गपालने खाधिष्ठितभूमिप्रदेशपालने प्रभु राजानं स भार्गवोऽकरोत् । 'डुकृञ् करणे' लङ् परस्मैपदम् ॥३५॥ रञ्जितेति । रजसा रगणजगगसगणाः । लो लघुः । गो गुरुः । सायकर्तुभिः पञ्चभिः षड्भिः ॥रामभोजराडिति।रामभोजनामकराजा इत्यर्थः। दा- नवैभवैर्मधुरभाषितैर्भूसुरकदम्बकं निजविनीतिभिःखीय विनयैः जनं रजयन् धरणिमण्डलं शासति स्म । स्मयोगाद्भूतार्थे लट् ॥३६॥ न्यभा इति । न्यभा नगणयगणभगणाः । १. 'गणकार्यमनित्यम्' इत्येतदाश्रित्येदम्. 'शास्ति सस' इति पाठ एव केनचित्त. यौवर्तितो.भनेत.
१५ १. वृत्तबिन्दुः] मन्दारमरन्दचम्पूः। भृगुकुलदीपे तत्र रमापे विनिहितचित्ते श्रीभिरमत्ते । अवनितलेऽस्मिन्राजनि तस्मिन्भवति समृद्धं स्माशिशुवृद्धम् ॥३७॥ खागतं रो नभगगाः पादमध्ये यतिनैहि ।। एकदा सकलराजनुताशिर्वाजपेयसवनं स विधातुम् । आरभन्भृगुकुलोत्तममेनं सप्ततन्तुविबुधं बत वने ॥ ३८ ॥ तद्भुजंगप्रयातं यौ यौ यतिन पदान्तरे । नृपः कारयामास तस्यासनाथै सुपीठं स रूप्योत्तरं त्वष्टवर्गम् । दिवाकृत्सहस्रप्रभाभासमानं समस्तैश्चिरनैश्च रत्नैर्विचित्रम् ॥ ३९ ॥ मालिनी स्थाभन्मययाः शिवमूर्तिस्वरैयतिः॥ भृगुपरिवृढमेनं पीठमारोप्य मेनं नतिनुतिततिपूर्व याचयामास पूर्वम् । भजकसुजनबन्धो ज्ञानसिन्धो मुदन्धो भवतु पुरविधानं रूप्यपीठाभिधानम् ॥ ४० ॥ गौ गुरुद्वयम् ॥भृगुकुलेति । भृगुकुलस्य दीपे प्रकाशके रमापे लक्ष्मीपतौ तत्र रामे वि- निहितचित्ते स्थापितचेतसि श्रीभिः संपद्भिरमत्तेऽनुद्धते तस्मिन्रामभोजेऽस्मिन्नवनितले एतस्मिन्भूभागे राजनि सति आशिशुवृद्धमाबालवृद्धं समृद्धमृद्धिमद्भवति स्म । स्मयोगे भूते लट् ॥३७॥ स्वागतमिति । नामैतत् । रः रगणः नभगगाः नगणभगणगुरुगुरवः ॥ एकदेति । कदाचिदित्यर्थः । सकलै राजभितौ स्तुतावनी यस्य तथोक्तः स राम- भोजः वाजपेयसवनं वाजपेयाभिधयज्ञं विधातुमारभन् सन् भृगुकुलस्योत्तममेनं रामं सप्ततन्तौ मखे विबुधं देवं ववे । 'वृञ्वरणे' इत्यस्मालिट्। अस्मिन्य ज्ञे त्वमेव देवो भवेति याचयामासेति भावः ॥ ३८ ॥ तदिति । यौ यौ यगणचतुष्टयम् । भुजंगप्रयातर्मिति नाम ॥ नृप इति । स नृपः तस्य रामस्य आसनार्थ त्वष्टुवर्ग वर्धकिसमूहम् । 'हक्रोरन्य- तरस्याम्' इति द्वितीया। दिवाकृतां सूर्याणां सहस्रमिव प्रभाभि समानं चिरंतनैः पुरा. गैः । अकृत्रिमैरिति भावः। समस्तै रत्नैर्विचित्रं रूप्योत्तरं रूप्यपदोत्तरस्थितं सुशोमनं पीठम् । रूप्यपीठमित्यर्थः। कारयामास॥३९॥मालिनीति। नन्मययाः नगणनगणमगण- यगणयगणाः । शिवमूर्तिखरैरष्टमिः सप्तभिः ॥ भृग्विति । माया लक्ष्म्या इन प्रभु पूर्व पुरातनं भृगूणां परिवृढं नेतारमेनं रामम् । रुह धातोर्गत्यर्थकत्वेन 'गतिबुद्धि-' इत्यादिना रामस्य कर्मलम् । पीठमारोप्य आरोपयित्वा नतीनां नुतीनां ततिः पूर्वा यस्मिन्निति क्रियाविशेषणम् । भजकानां सुजनानां बन्धो ज्ञानस्य सिन्धो मुदामानन्दानामन्धः। पुरवि- १६ काव्यमाला। पृथ्वी जसौ जसयला गश्छिन्ना वसुभिर्ग्रहै। इति क्षितिपतेर्वचःसरणिमादरादादद- द्ददौ वरमरिंदमः खलु तथेति भूमीभुजे । तदादि सकला जना जगति रूप्यपीठाभिधां वदन्ति नगरीमिमां कनकगौरि जानीहि तत् ॥ ४१॥ एवमग्रेऽप्युदाहरणान्युन्नेयानि । पणवो नौ यगौ छेदः पश्चभिः पञ्चभिर्भवेत् ।। आन्दोलिका ततरगाः सायकैः सायकैर्यतिः । मयूरसारिणी ख्याता रजरा गो न पच्छिदा ॥ मनोरमा नरजगैर्विच्छिन्ना शास्त्रसागरैः । कुलटा स्यान्नजनगाः पञ्चभिः पञ्चभिर्यतिः ॥ सुमुखी नजजा लो गोपृषत्कऋतुभिर्यतिः । दोधकं भौ भगौ गः स्याजस्तगा ग उपस्थितम् ॥ श्री तौ नगगा यत्र महाभूतै रसैर्यतिः । नन्दिनी सजसैलाभ्यां युक्ता बाणर्तुभेदिनी ॥ भ्रमरविलसितं मभनलगुरवश्छेदश्चतुर्भिरर्वद्भिः । मौक्तिकमाला भतनगगुरवः श्वासः शरैर्भवेन्मुनिभिः ॥ रथोद्धता रनरला गो यतिन पदान्तरे । घानं नगरविधिः। नगरमिति यावत् । रूप्यपीठमित्यभिधानं यस्य तथोकं भवतु । प्रार्थ- नायां लोट् । इति याचयामासेत्यन्वयः । 'टुया याञायाम्' इत्यस्मालिट् ॥ ४० ॥ पृथ्वीति । नामैतत् । जसौ जगणसगणौ जसयलाः जगणसगणयगणलघवः । गः गुरुः । वसुभिरष्टभिः । ग्रहैनैवभिः ॥ इतीति । इति क्षितिपतेः रामभोजस्य वचःसर- णिमादरादाददत्खीकुर्वन् अरिंदमः शत्रुदमनकारी रामः । तथेति भूमी पृथिवीं भुनक्कीति तथोक्तम्। 'भुज पालनाभ्यवहारयोः' इत्यस्मात् क्विप्। वरं ददौ । खलु प्रसिद्धौ । तदादि तत्प्रभृति सकला जना जगति इमां नगरी रूप्यपीठाभिधां वदन्ति । हे कनकगौरि वर्ण- वणे, तज्जानीहि निबोध ॥४१॥प्रन्थगौरवभिया निरूपणमुपसंहरति-एवमिति । इति मन्दारमरन्दव्याख्यायां माधुर्यरजन्याख्यायां गूढकर्तृकायां समवृत्तप्रकरणं समाप्तम् ॥
१. वृत्तबिन्दुः] मन्दारमरन्दचम्पूः।
भद्रिका नो नरलगा वक्राननसगा गुरुः ॥
रलौ भसौ चन्द्रवर्त्म हीन्द्रवंशा ततो जरौ ।
सैश्चतुर्भिस्तोटकं स्यात्सज्ससैः प्रमिताक्षरा ।।
वैश्वदेवी ममयया यतिः सायकघोटकैः ।
नयौ नयौ च कुसुम विचित्रा भिद्रसै रसैः ॥
स्रग्विणी रैश्चतुर्भिः स्यान्नभजारः प्रियंवदा ।
नजौ जरौ मालिनी स्यान्नजौ तामरसं जयौ ।।
ननौ मयौ स्फुटाख्यं स्याद्वसुभिर्वाधिभिर्यतिः ।
जलोद्धतगतिर्जः सो जसौ शास्त्रै रसैर्यतिः ॥
प्रमुदितवदना नगररयुक्ता मुनिभिश्च सायकैश्छिन्ना ।
वनमालिनीति सोक्ता नजभययुक्तार्वसायकैश्छिन्ना ॥
मणिमाला तयतयाश्छिन्ना स्कन्दास्यदर्शनैः ।
जलमाला भभमसाः सागरैर्वसुभिर्यतिः ॥
मता नरौ नरौ भिन्ना वजकोणैर्गुहाननैः ।
ललना स्याद्भतनसैश्छिन्ना खर्दुमहीधरैः ॥
ललिता स्यात्तभजरैरुज्ज्वला तु नभौ भरौ ।
प्रभा ननौ तथा रेफौ विरतिर्मुनिसायकैः ॥
प्रहर्षिणी मनौ जौ गो गङ्गाध्वककुभिर्यतिः ।
मत्या मत्तमयूरं स्गौ वर्णव्याघ्रीस्तनैतिः॥
न विच्छिन्ना पदि सजसजगा मञ्जुभाषिणी ।
उर्वसी नस्ततरगा राज्याङ्गैर्ऋतुभिर्यतिः ॥
क्षमा ननौ ततौ गः स्यात्तुरङ्गमरसैर्यतिः ।
भौ सरौ गोऽतिरुचिरा चतुर्भिर्नवमितिः ॥
चञ्चरीकावली प्रोक्ता यमौ रेफद्वयं गुरुः ।
चन्द्रिका ननतास्तो गश्छेदस्तुरगदर्शनैः॥
चतुर्भिर्नवभिश्छिन्ना रतिः सभनसा गुरुः ।
काव्यमाला।
मोहप्रलापः श्रुतिभिर्ग्रहैमिनो मभत्रिगाः॥
कलहंसी तयसभा गौ यती रससिद्धिमिः।
पथ्या सजसयल्गैः स्यात्ककुभिः श्रुतिभिर्यतिः॥
असंबन्धा मतन्सा गौ पञ्चभिर्नवभिर्यतिः।
ननराः सलगाश्छिन्ना स्वराश्वैरपराजिता ।।
बुधैरुक्ता प्रहरणकलिका नन्भना लगौ ।
प्रोक्तेन्दुवदना प्राज्ञैर्भजस्तैः सगुरुद्वयैः ॥
अलोला स्यान्मसमभगगाश्छिन्ना खरहयैः।
नन्ना नसौ मणिगुणनिकरोहिहयैर्यतिः ॥
चामरं रो रजजरा वा द्वीपवसुभिर्यतिः ।
प्रभद्रकं नजौ भजाः पञ्चभैः खरिणी रुचिः ॥
रेखा सजनना यश्च सायकैदशभिर्यतिः।
नौ मयौ यश्चन्द्रसेना घोटकैर्वसुभिभिंदा ।
मन्दाकिनी त्मयर्ता गो वेदैर्वेदयतिर्भवेत् ।
प्रमदा सत्यसभगा वर्णैर्वर्णयतिर्भवेत् ॥
न्मौ जनगाः सुललिता युगैर्युगयतिर्भवेत् ।
स पश्चचामरो जौ नौ जगौ छेदो न वापदि ।
भरनननगयुक्तं गजविलसितमाहुः स्वरैर्घनैश्छिन्नम् ।
नजभजरगसंयुक्ता सप्तभिरनैश्च वाणिनी छिन्ना ॥
मन्दाक्रान्ता मनतास्तो गावब्धिषडगैर्यतिः ।
यम्नाः सम्लाः शिखरिणी गोरसैः शंकरैयतिः॥
हरिणी सम्रसलगाः षडब्धिभुवनयंतिः ।
तन्नर्कुटकमाख्यातं नज्भैर्जजलगैर्युतम् ।।
तद्वंशपत्रपतितं भरनभनल्गं च दिअनिच्छिन्नम् ।
कथितं च घनमयूरं ननभसरलगं खरै रसैश्छिन्नम् ।।
मो लौ यौ यः कुसुमितलता भूतवगैर्यतिः।
१. वृत्तबिन्दुः] मन्दारमरन्दचम्पूः ।
शुभं सनजना भः सः पापाङ्गाङ्गगुणैर्यतिः ।।
रतौ जजौ भरौ सिद्धिषाणाक्षहरनर्तनम् ।
नद्वया च चतूरेफा निशा स्यादिग्वसुच्छिदा ॥
मल्लिका साद्रसजजा भरौ छिन्नाष्टपतिभिः ।
विलासो मः ससौ राश्च गुणषड्डसुभिर्यतिः ॥
मेघविस्फूर्जिता यनाः सरगाभिद्रसवंगैः ।
शरत्रयैर्युगैश्छिन्ना जन्मनज्गा वरूथिनी ॥
नवभिर्दशभिश्छिन्नं सरलं न्भ्रसजा जगौ ।
मत्तेभविक्रीडितं स्म्रन्म्यल्गा विश्वाश्वभेदनम् ।।
मदकलनी नजनभसा नलगाश्छिन्ना शराङ्गवाणाङ्गैः।
कनकलता सा कथिता पण्नैर्युक्ता तथा लगाभ्यां च ॥
भ्रन्मभ्रल्गा ग्रहै रुद्रैर्विच्छिन्नोत्पलमालिका ।
प्रश्नः सुवदना यम्लैर्गेनार्वाश्वारिभिद्युता ॥
रजत्रयलगैर्युक्तं मालवं केचिचिरे ।
वेश्यारत्नं तनललैर्गाभ्यां षट्पषडञ्जिभित् ॥
मरभनया यौ मुनिमुनिमुनिभिः स्यात्स्रग्धरा विभिन्नाङ्गी ।
सुरनर्तकी रनरना रनरा विरती रसर्तुशास्त्रगुणैः ॥
मत्तेभाख्यं तभयजसरनगयुक्तं खरावफणिभिन्नम् ।
भरनरनरनगयुक्तं चुम्बनसूयः प्रभद्रकं भिन्नम् ।।
मदिरा सप्तभगणैर्गुरुणान्तेऽपि संयुता ।
तुरंगना लगौ माध्वी मासै रुदैश्च वा यतिः ॥
नगणेन तर्कजलगै रुद्रर्तुरसैर्यतिः सुधालहरी ।
नजभजसजनलगयुतं रुद्राभिन्नमश्वललिताख्यम् ।।
घोटकाख्यं वृत्तमिदमष्टभिः सगणैर्युतम् ।
स्वैरिणीक्रीडनं प्रोक्तमष्टभी रगणैर्युतम् ।।
वेश्याप्रीतिर्मभयमनभनसयुक्ताहिफणिगजैश्छिन्ना
कलकण्ठाख्यं सजनजभनरनगाश्चाहिभोगिनिधिभिन्ना ॥
२० काव्यमाला। चेटीगतिश्च गायत्री या लगौ छिदिनैर्मगैः । भजनन्भगगैरर्वार्वेषुमिदि रञ्जनम् ॥ लालिनी स्याद्रसजगा वालिका तु रनौ सगौ । तन्वी शरमुनीनैश्छिद्भलमभनयैर्युता ।। इति समवृत्तप्रकरणम् । नगणद्वितयं त्वादी सप्त रेफास्ततो यदि । चण्डवृष्टिप्रयाताख्यो दण्डकश्चतुरक्रिकः ॥ नद्वयादष्टरैरो नवरैरर्णवो मतः। अथ दण्ड कनिरूपणं कुर्वनादौ चण्डवृष्टिप्रयातलक्षणमाह-नगणेति । आदौ नगण- द्वितयं [नगण] द्वयं ततः सप्त रेफाः सप्त रगणा यदि, तर्हि चण्डवृष्टिप्रयाताख्यो दण्डको भवति। ननु सामान्यलक्षणमनुक्खा विभक्तभेदलक्षणकथनमयुक्तमिति चेदाह-दण्डकश्च- तुरङ्गिक इति । अङ्गित्वं चात्रैकोनसहस्रवर्णाधिकवर्णानात्मकत्वे सति सप्तविंशतिवर्णन्यून- वर्णानात्मकत्वे सति वर्णात्मकत्वम् । वृत्तपादातिप्रसङ्गवारणाय द्वितीयं दलम् । गद्यादि- वारणायाधं दलम् । ध्वनिशब्दवारणाय वर्णात्मकत्वम् । यद्यपि एकन्यूनसहस्रवर्णाद्यात्मके गद्येऽतिप्रसङ्गस्तथापि वर्णात्मकसमित्यस्य नगणद्वयाव्यवहितोत्तररगणसजातीयगणघटित. वर्णात्मकवविवक्षणान दोषः। साजात्यं च गणविभाजकतावच्छेदकमत्त्वादिना। अव्यवहि- तोत्तरत्वनिवेशान्न पादाभासेऽतिप्रसङ्गः। तथा चैतादृशपादचतुष्टयवत्त्वं सामान्यलक्षणम् । प्रथमानिसदृशद्वितीयानिसदृशतृतीयाविसदृशचतुर्थानिमत्त्वमिति निष्कर्षः। तेन विषमिते दण्डकाभासे नातिप्रसङ्गः। सादृश्यं च खविशिष्टगणमात्रघटितत्वेन । गणे खवैशिष्टयं च खघटकगणगतसंख्याक्रमोभयविशिष्टवसंबन्धेन । नन्वर्धसमे विषमे च दण्डकेऽव्याप्तिरि- ति चेन्न । तस्यालक्ष्यलात् । प्राचीन रामकीर्तिगोमानसादिभिः समपादचतुष्टयस्यैव दण्ड- कत्वेनोकलादिति संक्षेपः। इत्थं च नगणद्वयोत्तररगणसप्तकघटितपादचतुष्टयवत्त्वं चण्ड• वृष्टिप्रयातस्य लक्षणं बोध्यम् । मादिगणद्वयोत्तररगणसप्तकघटिते दण्डकाभासेऽतिव्याप्ति- वारणाय नगणद्वयोत्तरत्वं रगणसप्तके विशेषणम् । वृत्तेऽतिव्याप्तिवारणाय घटितान्तं पादविशेषणम् । दण्डकार्धवारणाय चतुष्टयपदम् । एवमेवानेऽपि लक्षणं परिष्करणी- यम् । उदाहरणं तु विस्तरभयान निरूपितं प्रन्थकारेण । वयं वस्य ब्रूमहे- कमलनयन केशवानन्त गोविन्द विष्णो हरे पाहि मां सर्वदा सर्वथा परमपुरुष भोर्भवाम्भोधिमध्ये निमजन्तमत्यन्तमानायवेद्योत्तम । कथमिह भुवि मामनाथं भवत्पादपद्मार्पितखान्तभृङ्गं वदोपेक्षसे त्रिभुवनजनपालने नित्ययुक्तो भवान्सहयानीरधे श्रीनिधे कान्तिधे ॥ एवमन्यत्राप्युदाहरणान्युग्नेयानि ॥नद्वयादिति । सर्वत्रान्वेति ।अष्टरैरष्टमी रगणैः ।
२१ १. वृत्तबिन्दुः] मन्दारमरन्दचम्पूः। दशरैाल आख्यातो जीमूतो रुद्ररैर्मतः॥ लीलाकरः सूर्यरैः स्यादुद्दामो विश्वरैर्मतः । मनुरैः शङ्खनामा स्यातिथिरैः पद्मको मतः ॥ एवमेकैकरगणवर्धनात्सकलाशिषु । एकन्यूनसहस्रार्णपर्यन्तं दण्डका मताः॥ गणसप्तकसंयुक्तो नद्वयाद्रगणं विना । बुधैः प्रवितकः ख्यातः कैश्चिद्यैः सप्तभिर्युतः ॥ नगणद्वितयादेतदेकैकगणवर्धनात् । कुमुदानतरङ्गादिनाम्ना भेदाश्च पूर्ववत् ॥ इति दण्डकप्रकरणम् । उपचित्रा ससौ सल्गा ओजे युजि भभा गुरू । द्रुतमध्या भत्रयं गावोजेऽन्यत्र नजौ जयौ ॥ ओजे वेगवती सागः समे तु भभसा गगौ । ओजे भद्रविराट् तजा गो नोजे मसजा गगौ ।। ओजे केतुमती सज्सा गोऽनोजे भरताः सगौ । ओजे वियोगिनी सौ ज्गावनोजे सभरा लगौ ॥ एवमप्रेऽपि ॥ गणसप्तकेति । नद्वयान्नगणद्वयोत्तर रगणं विना । 'पृथग्विनाना नामिस्तृतीयान्यतरस्याम्' इति द्वितीया । गणसप्तकेन युक्तः प्रवितकनामा दण्डको भवति । कैश्चित्केदारादिमिः । यैर्यगणैः ॥ इति माधुर्यरञ्जन्यां दण्डकप्रकरणम् ॥ अथ दण्डकस्यापि समपादचतुष्टयवत्त्वेन समवृत्तकथनानन्तरमधुनार्धसमवृत्तानि क्रम- प्राप्तानि लक्षयति । सामान्यलक्षणं तु पूर्वमेवोक्तमिति । तद्भेदेषु प्रथमं तावदुपचित्राल. क्षणमाह-उपचित्रेति । ओजे विषमे ससौ सगणद्वयं सल्गाः सगणलघुगुरवः । युजि समे समपादयोरित्यर्थः । भभा भगणत्रयं गुरू गुरुद्वयं यदि तर्हि उपचित्रा नाम वृत्तं भवति । एवमप्रेऽपि बोध्यम् । अत्र केषांचिद्भद्र विराडादीनामौपच्छन्दसिकादिभ्यो वैतालीयमेदेभ्योऽमेदेऽपि गणनियमानियमरूपोपाधिमेदाढ़ेदो बोध्यः । अत एव केदा- रोऽपि औपच्छन्दसिकं विरावृत्तमप्याह स्म । अत एव पिङ्गलोऽप्युवाच-वदन्त्य- परवक्राख्यं वैतालीयं विपश्चितः । पुष्पिताप्रामि, केचिदौपच्छन्दसिकं तथा ॥' इति । इदमेव वृत्तं रमाकरेऽप्युदाहृतम् ॥ इति माधुर्यरजन्यामर्धसमवृत्तप्रकरणम् ॥
२२ काव्यमाला। ओजे सौ सलगा युक्ते नमभ्रा हरिणप्लुता । अयुज्यपरवर्क नौ रल्गा युजि नजौ जरौ ॥ पुष्पिताग्रा ननरया युक्ते तु नजजा रगौ । ओजे परावती रजा जोऽनोजे तु जरौ जगाः॥ ओजे सज्सजगा युक्ते सज्ससा मितभाषिणी। फलितानं गाधिकान्ते वियोगिन्येव साजिषु ॥ सभतैर्यसमैर्गाभ्यां युक्ता विषमपादयोः । समतैर्यससैयुक्ता कलिकाललिता युजोः॥ इत्यर्धसमवृत्तप्रकरणम् । आद्यपादेऽष्टवर्णाः स्युर्युग्मायेषत्तरोत्तरम् । अधिकाश्च चतुर्वर्णा नियमो लगयोन चेत् ॥ विबुधास्तत्पदचतुरूख्यिं वृत्तमूचिरे । आपीडोऽत्रैवान्त्यवर्णी गावन्ये ला यदात्रिषु ॥ आदौ गुरू न चान्ते चेत्प्रत्यापीडो भवेदयम् । आपीडाद्यद्वितीयाङ्गी यदि विनिमयात्कृतौ ।। तदा तु कलिकेत्युक्ता मण्डरीत्यपि कैश्चन । आपीडस्यैवाद्यपादस्तृतीयश्चेत्तृतीयकः ॥ द्वितीयश्चेद्वितीयोऽपि यदादिलेवलीति सा । आपीडस्यादिमस्तुर्यस्तुरीयश्चेत्तृतीयकः ॥ तृतीयोऽपि द्वितीयोऽनिर्द्वितीयः प्रथमो यदि। उक्ता सामृतधारेति मञ्जरीत्यपि कैश्चन ॥ इति विषमे पदचतुरूर्वप्रकरणम् । अप क्रमप्राप्तान्विषमवृत्तभेदानाह-आधेति । युग्मायेषु द्वितीयतृतीयचतुर्थेष्वि- त्यर्थः । यस्यादिमपादोऽष्टवर्णात्मकः, द्वितीयो द्वादशवर्णात्मकः, तृतीयः षोडशवर्णात्मकः, चतुर्थों विंशतिवर्णात्मकः । किं च गुरुलघुनियमाविशिष्टाः सर्वे पादाश्चत्पदचतुरूर्व- नामकं वृत्तं भवति ॥ आपीड इति । अन्येऽन्त्यवर्णद्वयमिन्नाः । ला लघवः । अतः पूर्वमादस्य भेदः । एवमप्रेऽपि । इति माधुर्यरजन्या पदचतुरूर्वप्रकरणम् ॥
२३ १. वृत्तबिन्दुः] मन्दारमरन्दचम्पूः। प्रथमे सजसा लश्चेद्वितीये नसजा गुरुः । वतीये नज्लगास्तुर्ये सज्सगैः सहितोद्गता ॥ उद्गतायास्तृतीयोऽनिरन्मगैः सहितो यदि । तदा सौरभकं ब्रूतेऽन्ये सौरलकमूचिरे ॥ उद्गतायास्तृतीयोर्निन्ससैललितं मतम् । उद्गतायाश्चतुर्थोऽङ्गिनेनन्गैः सरलं मतम् ।। इत्युद्गताप्रकरणम् । आये मसजभैर्गाभ्यां द्वितीये नगैर्युतम् । तृतीये ननसैर्युक्तं तुर्ये त्रिनजयैर्यदि ॥ उपस्थितप्रकुपितं तमाहुः पूर्वसूरयः ॥ अस्यैवाशिस्तृतीयश्चेन्ननसैननसैर्युतः । तदा तु वर्धमानाख्यं वृत्तं पूर्वे वभाषिरे ॥ तार्तीयीकस्तु तस्याशिस्तजरैः संयुता यदि । वृत्तं वदन्ति तच्छुद्धविराडार्षभनायकम् इत्युपस्थितप्रकुपितप्रकरणम् । प्रोक्तान्येतानि विषमवृत्तानि प्रस्फुटं विना । अन्यान्यसमवृत्तानि गाथाः प्राहुर्मनीषिणः ॥ इति विषमवृत्तप्रकरणम् । अथ मात्राच्छन्दः कथ्यते- ओजे गणत्रयं पादे द्वितीये तच्चतुष्टयम् । गुरुश्चतुर्थेऽपि तथा किं तु लोन तृतीयके । विषमे जगणो नात्र पथ्यार्या संप्रकीर्तिता.॥ उपसंहरति-प्रोक्तानीति । प्रस्फुटं यथा तथा प्रोकानि एतानि विषमवृत्तानि विना अन्यानीतराणि असमवृत्तानि विषमवृत्तानि मनीषिणः गाथाः प्राहुरियन्वयः । इति माधुर्यरजन्यां विषमवृत्तप्रकरणम् ॥ इदानी मात्राछन्दोमेदांलक्षयन्प्रति जानी-अथेति । मात्रागणघटितत्वं लक्षणम्, भार्याद्यन्यतमत्वं वा।मात्रागणलक्षणं तु खयमेवाप्रे वक्ष्यति । तत्रादौ पथ्यालक्षणमाह- ओज इति।ओजे विषमे पादे गणत्रयम् । अत्र सर्वत्रापि मात्रागण एवं गणपदेन हेयः।
२४
काव्यमाला।
गणत्रयं समुल्लवय विषमश्चरणो यदि।
द्वयोः शकलयोरेनां विपुला- प्रचक्षते ।।
द्वितीयावोजयोर्यत्र समयोरादिमौ तथा ।
जगणौ संप्रकाशेते चपलार्येति सा मता ॥
चपलालक्षणं त्वाचे पथ्यालक्षणमन्तिमे ।
शकले स्यात्तर्हि मुखचपलेति प्रकीर्तिता ॥
पथ्यार्यालक्षणं त्वाद्ये चपलालक्ष्म चान्तिमे ।
दले यदि स्याजघनचपलेति प्रकीर्तिता ।।
इत्यार्याप्रकरणम् ।
गीतिः पथ्यादिमदललक्षणं दलयोर्यदि ।
उपगीतिस्तु दलयोः पथ्यार्योत्तरलक्ष्म चेत् ॥
उद्गीतिः स्थाच्छकलयोः पथ्याया व्यत्यये सति ।
आर्यागीतिस्तु पथ्याया आग्रंशे गुरुणाधिके ।
यत्रैकद्वित्रिमात्राणामाधिक्ये प्रथमे पदि ।
तदा विगीतिः कथिता द्वितीये चेत्सुगीतिका ॥
तृतीये त्वतिगीतिः स्थाचतुर्थे खरगीतिका ।
कटुगीतिस्त्वोजयोश्चेत्समयोर्मधुगीतिका ॥
यदि द्वितीयादिमयो लगीतिरुदाहृता ।
वक्रगीतिस्तु कथिता चेत्तृतीयचतुर्थयोः ।
इति गीतिकाप्रकरणम् ।
द्वितीये तच्चतुष्टयं मात्रागणचतुष्टयं गुरुश्च । चतुर्थे पादेऽपि तथा गणचतुष्टयं गुरुश्च ।
अत्र द्वितीयाद्विशेषमाह-किं त्विति । अत्र चतुर्थपादस्तृतीयके तृतीयगणस्थाने ।
लो लघुरेक एवेत्यर्थः। अत्रासमपादयोर्विषमे विषमस्थाने जगणो न भवति । तर्हि
पभ्यार्येति संप्रकीर्तिता । अयं भावः विषमयोः ॥
गीतिकालक्षणमाह-गीतिरिति । दलयोः प्रथमद्वितीयायोः। अत्र सर्वत्र
दलपदं वृत्तार्धपरम् । उपगीतिरिति । पध्यार्योत्तरलक्ष्म पभ्यार्योत्तरदललक्षणम् ॥
इति गीविकाप्रकरणम् ॥
३५ १. वृत्तबिन्दुः] मन्दारमरन्दचम्पूः । उक्ताचलधृतिः प्राज्ञैद्यष्टाभिलघुभिर्युता । जो वा नलौ वा विश्लोकः ख्यातो मात्राचतुष्टयात् ॥ जो वा नलौ वा यब्धिभ्यो मात्राभ्यो वानवासिका। लघुश्चेन्नवमश्चित्रा तथैवाष्टमपञ्चमौ ॥ उपचित्रा तु मात्राभ्यो वसुभ्यो भगणो यदि । कथं वा द्यष्टमात्राभिः पादाकुलकमिष्यते ॥ इति मात्रासमके षोडशमात्राप्रकरणम् । रुचिरा लघवो यत्र विंशतिश्चेत्पुनर्नव । अष्टाविंशतिलैर्गेन युतं शिखितमुच्यते ॥ त्रिंशल्लैर्गेन युक्तं तु गणितं परिकीर्तितम् । विषमे शैखितं युक्ते गौणितं यदि सा शिखा । अस्यां तु विपरीतायां खजेति परिकीर्यते । गुरवः षोडशायुक्ते द्वात्रिंशलघवो युजि । यदि स्युर्बुवतेऽनङ्गक्रीडां तां तु मनीषिणः ॥ इति मात्रासमके त्रिंशन्मात्राप्रकरणं मात्रासमप्रकरणं च । ओजयोः पादयोरादौ षण्मात्रा रलगा अथ । युक्तयोः पादयोरादावष्टमात्रा रलौ गुरुः ॥ अथ मात्रासमकभेदानाह-तत्रादौ षोडशमात्रावृत्तभेदानाह-उक्तेति । द्यष्टामिः षोडशभिः लघुभिर्युता प्राज्ञैरचलधृतिरित्युक्ता । जो वेति । मात्राचतुष्टयात् जो वा जगणो वा । नलौ वा नगणलघू वा यदि तर्हि विश्लोको नाम वृत्तं भवति । अस्य षोडशमात्रात्मकत्वं सर्व मिलिखा एकपादस्य नियतमेव । एतादृशपादचतुष्टयात्मकं वृत्तं भवति । एवमग्रेऽपि । यब्धिभ्यो मात्राभ्यः । अष्टमात्राभ्य इत्यर्थः । वसुभ्यः अष्टाभ्यः । कथं वेति । गुरुलघुनियमो नास्तीत्यर्थः । इति षोडशमात्राप्रकरणम् ॥ अथ त्रिंशन्मात्रावृत्तान्याह-रुचिरेत्यादिना । ननु त्रिंशन्मात्रावत्त्वाभावादस्य पादस्य कथं त्रिंशन्मात्रावत्त्वमिति चेत् । अष्टाविंशतिमात्रामारभ्य द्वात्रिंशन्मात्रापर्यन्तं त्रिंशन्मात्रोपचारः पूर्वैरङ्गीकृत इति न विरोधः । इति त्रिंशन्मात्राप्रकरणम् ॥ अथ वैतालीयं लक्षयति-ओजयोरित्यादिश्लोकत्रयेण। ओजयोः पादयोः विषम- पादयोः, युक्तयोः पादयोः समपादयोरित्यर्थः । एतयोः समपादयोः केवलं लघवः नैव। मन्दा० ३ काव्यमाला। केवलं नैव लघवस्त्वेतयोराद्यषट्कलः । समस्तेष्वपि पादेषु द्वितुर्यारिस्थिताः कलाः ॥ त्रिवाणसप्तमस्थानस्थितैश्च त्रुटिभिः सह । गुरुत्वं न भजेयुश्चेद्वैतालीयं प्रकीर्तितम् ॥ औपच्छन्दसिकं प्रोक्तं सर्वत्रान्ते रयौ यदि । आपाताली कीर्तितेयं पर्यन्ते भगगा यदि ॥ द्वितीयगुणयोरेको गुरुश्चेद्दक्षिणान्तिका । उदीच्यवृत्तिः कथिता तादृग्गश्चेदयुग्मयोः । युग्मयोः प्राच्यवृत्तिस्तु गुरुश्चेत्तूर्यबाणयोः। उदीच्यप्राच्यवृत्त्योस्तु पादयोर्विषमौ समौ । समौ चेद्यदि तद्वृत्तं प्रवृत्तकमितीर्यते ॥ इति वैतालीयप्रकरणम् । द्वितूर्यारिस्थिताः द्वितीयचतुर्थषष्टस्थानस्थिताः कलाः मात्राः। त्रिवाणसप्तम- स्थानस्थितैः तृतीयपञ्चमसप्तमस्थानस्थैः । त्रुटिभिः मात्राभिः । 'स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः' इत्यमरः। गुरुत्वमेकगुरुभावम् । अयं भावः-प्रथमतृतीयपा- दयोरादौ षण्मात्राः ततो रगणलघुगुरवः। द्वितीयचतुर्थपादयोरादावष्टमात्रास्ततोरगणलघु- गुरवः । किं च द्वितीयचतुर्थषष्ठस्थानिकास्तृतीयपञ्चमसप्तमस्थानिकाभिर्मात्राभिः सहैकगु- रुत्वं न भजेयुश्चेद्वैतालीयं वृत्तं भवति । अत्र समपादादिमात्रा गुरुणा मिश्रिता भवेयुरित्यनेन विषमपादादिमात्राः केवलं लघुरूपा अपि न दोषः । यथा मदीये पाण्डुरङ्गविलासे-'अधु- नार्यनिदेशवर्तिनी सखि पश्यानुभवामि बल्लवि। गिरिसारकठोरपञ्जरस्थितिखिद्यच्छुकका- मिनीदृशाम्॥'औपच्छन्दसिकमिति। नामैतत्। सर्वत्र पादचतुष्टये। आपातालीति। नामैतत्। पर्यन्ते मात्रान्ते। अत्रापि सर्वत्रेत्यनुषज्यते। द्वितीयगुणयोःद्वितीयतृतीयस्था- निकयोत्रियोः स्थाने एक एव गुरुः। दक्षिणान्तिकेति नाम । उदीच्यवृत्तिरिति। नामैतत् । अयुग्मयोर्विषमयोः । पादयोरित्यर्थः। तादृग्गश्चेद्वितीयतृतीयस्थानिकमात्राद्व- यस्थानिकैकगुरुश्चेदित्यर्थः। तथा च दक्षिणान्तिकपादचतुष्टयेऽप्येतादृशगुरुः उदीच्यवृत्तेस्तु विषमचरणयोरेवायं गुरुरिति विशेषः । उदीच्येति। विषमौ समौ च पादौ उदीच्यप्राच्य- वृत्त्योः पादयोः समौ चेत्प्रवृत्तकमित्यन्वयः। तथा उदीच्यवृत्तिविषमपादयोर्विषमपादौ समौ प्राच्यवृत्तिसमपादयोः समपादौ समौ चेत्प्रवृत्तकमिति भावः । एषु सर्वेष्वप्यन्यत्सर्व वैताली- असदृशमेध बोध्यम्। किं चात्रावधेयम् । एतत्प्रवृत्तसमपादसदृशपादचतुष्टयसत्त्वेऽपि प्रवृत्त- १. वृत्तबिन्दुः] मन्दारमरन्दचम्पूः । सर्वपादेषु न स्याता नसावाद्याक्षरात्परम् । अन्ध्यक्षरेभ्यो यगणो वक्रमाहुरनुष्टुमि ॥ युजोरब्धेर्जकारश्चेत्पथ्यावक्रमुदाहृतम् । ओजयोरब्धितो जश्चेद्विपरीतादि तन्मतम् ॥ चपलावक्रमयुजोः समुद्रानगणो यदि । युग्मयोः सप्तमो लश्चेत्सा युग्मविपुला मता ॥ सर्वेषु सप्तमो लश्चेदपि सैवोदिता बुधैः । अब्धेस्तश्चेत्तविपुला रश्चेद्रविपुला मता। भश्चेद्भविपुला प्रोक्ता नश्चेन्नविपुला मता ॥ इति वक्रप्रकरणम्। जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन । गुहपुरनिलयेन प्रोद्धृतो वृत्तबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥ इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषाचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्ते- वास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारम(क)रन्दे चम्पूप्रबन्धे वृत्तबिन्दुः प्रथमः समाप्तिमगमत् । कमेव । एतद्विषमपादसदृशपादचतुष्टयसत्त्वेऽपि प्रवृत्तकमेवेति । केचित्तु इमो भेदौ परान्तिकाचारुहासिनीनामकावाहुः । इति वैतालीयप्रकरणम् ॥ वक्रभेदानाह-सर्वेति । सर्वपादेषु आद्याक्षरात्परमाद्यवर्णोत्तरं नसौ नगणसगणी न स्याताम् । अब्ध्यक्षरेभ्यश्चतुर्वर्णेभ्यः परं यगणश्चेद्वकं नाम वृत्तं भवति । अत्राद्यवों गुरुर्लधुर्वा ततः नगणसगणौ विना यथेच्छमेको गणस्ततो यगणस्तदुत्तरं गुरुः लघुर्वी स्थाप्य इत्यर्थः । अत एवोक्तमनुष्टुभीति । अनुष्टुप्छन्दस्येवेमे भेदा भवन्ति न बन्यछ- न्दसीत्यर्थः । यद्यपीदं वर्णच्छन्दस्येव वक्तव्यं तथापि यथा मात्राछन्दसि लघुगुरुनियमो नास्ति तथात्रापीति मात्राछन्दोनिरूपणावसर एवोक्तम् । एवं चैतादृशपादचतुष्टयवत्त्वं वक्रस्य लक्षणं बोध्यम् । यथा-'रमाकान्तमुदाराङ्गं राधाविहारसंतुष्टम् । नमाम्येनं सदा विघ्नशान्यै कमलसद्वक्रम् ॥' एवमपि । युजोरिति । अब्धेश्चतुरक्षरादित्यर्थः । ज- कारो जगणः अन्यत्सर्व वक्रवदेव । एवमग्रेऽपि । विपरीतादि तदिति । विपरीत- पथ्यावक्रमित्यर्थः । युग्मयोरिति । समपादयोरित्यर्थः । अस्य पथ्यावक्रेणैव चारि- तार्थेऽपि संज्ञान्तरसूचनाय विपुलाधिकारे पुनरप्युक्तिरिति ज्ञेयम् । पिङ्गलाचार्यमत- माह-सर्वेष्विति । सैव युग्मविपुलैव । इति वक्रप्रकरणम् ॥ इमं वृत्तबिन्दुमुपसंहरति-जलजनीति । जले जनिर्यस्य तस्मिन् जनिरुत्पत्तिर्यस्य ૨૮ काव्यमाला। . सारबिन्दुः। अथात्र सारविन्दौ तु नेतारं वर्णयामहे । कर्तुः काव्यस्य चौज्ज्वल्यप्रतिष्ठामूलकारणम् ॥१॥ अथ सकलभुवनमहितमहितरुणि(णी)निटिलतटतुहिनकणकुलतिलकित- सितमणिगणरचितवरहिमकिरणशतरुचिरवरणम् , अमलसरलनिचुलपिचुल- विदुल कुवलबकुलकुलकतिलककतककरकरुचिकपिचुककरजकुटजवरणसर- णमदनमथनखपुरसुपुरचलदलदधिफलगुडफलमधुरकमरुबककुरबकमुख वि- विधविटपिकुलपरिपिहितसविधभुवम्, अमितनमदमलमहिममहितकमलभ- वभवरविविधुशतमखमुखनिखिलसुरवरमुकुटतटघटितमणिगणघटनगुणित- रुचिनिचयपरिचितचरणनखरपशुपतरुणिजनमदनकदनरसिकसुरनिलयम् , 'असौ त्रिदिवः, इदं नन्दनवनम् , इमा देववरवारकान्ताः, तत्र यथाकाममा- नन्दमनुभवन्तु भवन्तः, इति देवदर्शनागतजनानामहिमकरमण्डलसङ्गिना शृङ्गाग्रेण सूचयन्तमिव राजन्तं देवालयमवलोक्य निजरमणमपृच्छदसौ सार- सारसाक्षी- तस्य ब्रह्मण इत्यर्थः । जायायाः पल्याः शारदायाः इति यावत् । प्रेमपाकेन प्रीतिशि- शुना। 'पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः' इत्यमरः । गोपीजनानां संबन्धिनी या मनसिजकेली कामकेली तस्यां लम्पटे कृष्णे लम्पटेन आसक्तेन । 'लो- लुपो लोलुभो लोलो लम्पटो लालसोऽपि च' इति यादवः । गुहपुरं निलय आश्रयो यस्य तथोक्तः । तेन सुरकुसुममरन्दे मन्दारमरन्दाख्ये चारुचम्पूप्रबन्धे । अत्र घटकत्वं सप्तम्यर्थः । तस्य बिन्दावन्वयः । वृत्तबिन्दुवृत्तनामकबिन्दुः प्रोद्धृतो विरचित इत्यर्थः । एवमग्रेऽपि एतच्छ्रोकार्थो बोध्यः ॥ इति माधुर्यरञ्जन्याख्यायां मन्दारमरन्दव्याख्यायां गूढकर्तृकायां वृत्तबिन्दुः समाप्तः ॥ अथेति । कर्तुः कवेः काव्यस्य चौज्वल्यप्रतिष्ठयोमूलकारणम् । नेतारं नायकम् । तदुक्तं विद्यानाथेन-'प्रबन्धानां प्रबन्धृणामपि कीर्तिप्रतिष्ठयोः । मूलं विषयभूतस्य नेतु- गुणनिरूपणम् ॥' इति ॥१॥ सकलभुवनमहिता महिभूमिरेव युवतिस्तस्या निटिलतटे फा(भा)लदेशे तुहिनकणकुलस्य कपूरसमूहस्य । 'चन्द्रो हिमकणः शीतो घनसारः शिता. भ्रकः' इति कमलाकरः । तिलकितस्तिलकमिवाचरित इति वरणविशेषणम् । सितमणिः स्फटिकः। 'स्फटिकः श्वेतरत्नं स्यात्' इति कमलाकरः। वरणः प्राकारः। सरलादिकुरबका• न्तं वृक्षनामानि । सविधभुवं समीपदेशम् । गुणिता पुनरुका । पशुपतरुणिजनमदनक
२९
-
२. सारबिन्दुः] मन्दारमरन्दचम्पूः।
'किमिदं पुरतः पश्य दिशो धवलयत्यलम् ।
देवागारमिवाभाति देवागारसमद्युति ।। २ ।।
को देवः केन वा पूर्व प्रतिष्ठां प्राप्य पूजितः ।
नरीनृतीति तच्चित्ते श्रोतुं कान्त कुतूहलम्' ॥ ३ ॥
एवमनया नयाभिरामया पृष्टः कलगीतस्तत्रैव प्रस्थाप्य विमानवरममि-
तामोदभरितः समूलंकषमुदन्तं पूर्व वक्तुमुपचक्राम-
'अत्रैव पूर्व सरसीरुहाक्षि शान्तः कृतज्ञः प्रियवाग्द्विजेन्द्रः ।
मुख्यादनन्तेश्वरसंप्रसादाल्लेभे सुतं मध्यगृहाभिधानः ।। ४ ।।
त्रेतायां रामकान्ताविरहदवहतस्वान्तसंतापभारो
येनाशम्याशु लङ्कास्थितजनकसुतासारसंदेशवाक्यैः ।
येन प्रामर्दि दृप्तः सुबलसुदुहितुपरे पुत्रवर्ग-
स्तेनापि प्रार्थितेन त्रिदशपरिषदा मध्यगेहात्मजत्वम् ॥ ५ ॥
प्रारोदि बालसरणीमनुसृत्य तेन प्राहासि तन्मुखमलोकि पितुः समीपे ।
प्राचालि तत्र करजानुनिवेशनेन प्राभाषि विस्खलितवर्णकमर्भकेलौ॥६॥
वासुदेवाभिधानस्य बालस्य मध्यगेहभट्टश्चकार यदोपनयनम् ।
तदैव शारदा विजहार रसनाग्रे तस्य यथा ब्रह्मसभायां सर्वदेवैः संस्तुता ॥७॥
%3D
दनरसिकसुरः कृष्ण इति यावत् ॥ किमिदमिति । देवागस्य मेरोः अरमत्यन्तं सम
झुतिर्यस्येति विग्रहः ॥२॥ नरीनृतीति । पुनः पुनरतिशयेन वा नृत्यतीत्यर्थः । 'नृती
गात्र विक्षेपे' इत्यस्माद्यडो लुक् ॥ ३ ॥ नयो विनयः । अत्रैवेति । रजतपीठपुर्यामि-
त्यर्थः । मध्यगृहाभिधान इति । मध्यगृहभट्ट इत्यर्थः ॥ ४ ॥ त्रेतायामिति ।
रामस्य कान्ताविरहदवहते खान्ते संतापभारः । लङ्कास्थिताया जनकसुतायाः सारैः
श्रेष्ठैः संदेशवाक्यैः करणैः येन की आशु अशमि । 'शमु उपशमे' इत्यस्मात्कर्मणि लुडि
चिण् । 'नोदात्तोपदेशस्य मान्तस्यानाचमेः' इति नोपधावृद्धिः । द्वापरे सुबलसुदुहितुर्गा-
न्धार्याः पुत्रवर्गः येन प्रामर्दि । त्रिदशपरिषदा देवसदसा प्रार्थितेन तेन वायुनेत्यर्थः ।
मध्यगेहात्मजत्वं मध्यगेहभट्टपुत्रत्वं कर्म आपि प्राप्तमित्यर्थः। 'आप्ल व्याप्तौ'
इत्यस्मात्क-
मणि चिण् (लुङ्) ॥५॥ प्रारोदीति । बालसरणी बालरीतिम् । 'कृदिकारादतिनः'
इति ङीष् । तन्मुखं पितृमुखम् । अर्भकेलौ बालकेल्याम् । 'पोतः पाकोऽर्भको डिम्भः'
इत्यमरः । विस्खलितं वर्णकं यस्मिन्कर्मणि यथा तथा। 'वर्ण तु पाक्षरे' इत्यमरः ॥६॥
३० काव्यमाल। अथात्मजे तातरुचि विवित्सुर्दष्टुं गतः सर्पमयः सुरारिः । तदङ्गुलीपिष्टतनुस्तताम सुदुर्लभोऽस्मिन्पितृमार्गगामी ॥ ८ ॥ अथ कदाचिग्रहणनिग्रहणप्लवनजलविहारकन्दुकक्रीडादिषु निजतेजः- पराजितवयस्यजनः पाठावसरे किमन्यमनस्कतया ब्रवीषीति भाषणे ततः स्खलनोज्झितानधीतश्रुतिततिपठनकुतूहलिताय मुखवायुसंस्पर्शनिरस्तशिरः- शूलायोपाध्यायाय समुचितामच्युतभक्तिरूपिणी गुरुदक्षिणां वितीर्य दुष्ट- निग्रहाय विष्णुगुणप्रख्यापनाय च तेनानुज्ञामाप्याचिरादेव दुर्जनतर्जनका- रिणी दुर्गा भवेदतोऽहमाश्रमवरमासाद्य दुर्मतानि निराकृत्य हरिमाहात्म्य प्रकटीकरोमीति विचिन्त्य जगद्गुरुरपि गुरुमन्विष्यन्द्वापरान्ते पाण्डवनि- शान्ते कृष्णाकरसिद्धशुद्धान्धोजग्ध्या शुद्धान्तःकरणमन्तकाले गुरुणा सोऽहं- ब्रह्मेति मतमनादृत्य माधवं भजेत्युपदिष्टमच्युतप्रेक्षमालक्ष्य वराश्रमाप्त्यै परि- चरंस्तच्छ्रवणखिन्नहृदयावात्मानं वन्दमानावाश्वास्य पितराविदमवादीत्- 'नमस्क्रिया न कर्तव्या भवभ्यां सेवकाय मे । कृता नतिर्हि सैवाद्य ममानुज्ञाश्रमाप्तये ॥९॥ इति तेन निरुत्तरीकृतौ बहुखिन्नौ खगृहं समीयतुः । पुनरेव पिता सुताननं हृदि संस्मृत्य ययौ सुतान्तिकम् ।। १० ।। बहुप्रकारैर्वराश्रमवरणाय निवारितोऽपि खसाधकवचोभिः पितरमेव याचमानस्ततस्तव जनन्यनुमतिरेव ममानुमतिरिति पित्रोक्तः कदाचिदा- लयमागत्य समाश्वास्य मातरं तदाज्ञामादाय यतित्वमासाद्य पूर्णबोधाभिधा- मभजत् । ततः स्वगुणानुरूपे मध्वानन्दतीर्थाभिधाने च । .. वासुदेवेति । इदं पदचतुरूव॑वृत्तम् ॥ ७ ॥ अथेति । सर्पमयः सर्परूपः । सुरारि- दैत्यः । आत्मजे वायुपुत्र इत्यर्थः । तातस्य वायोः रुचिं विवित्सुर्वेत्तुकामः सन् । 'विद ज्ञाने (विचारणे)' इत्यस्मात्सन्नन्तात्कर्तरि उप्रत्ययः। द्रष्टुं वासुदेवमिति शेषः । गतः सन् तस्य वासुदेवस्याङ्गुल्या पिष्टा तनुः कायो यस्य तथोकः सन् तताम । अस्मिन्कलौ पि. तृमार्गगामी सुदुर्लभः ॥ ८॥ निशान्ते गृहे । कृष्णाया द्रौपद्याः । करेण सिद्धमत एक शुद्धमन्धोऽनं तस्य जग्ध्या भोजनेन । 'भिस्सा स्त्री भक्तमन्धोऽनम्' इति, 'जग्धिस्तु भोजनम् इति चामरः । अन्तःकरणं मनः ॥९॥१०॥नमते नमस्कारिणे । अच्युतबुद्धये २. सारबिन्दुः] मन्दारमरन्दचम्पूः। कदाचिद्रूप्यपीठेशो नमतेऽच्युतबुद्धये । तपःफलं गृहाणेति कंचनाविश्य तं ददौ ॥ ११ ॥ अथ स तदधिपाज्ञया गतायां सुरसरितौ()सरसी समस्तलोकैः । समममितमतिर्विगाहते स्म स्फुटमिह तस्य विडम्बनं विचित्रम् ॥ १२ ॥ ततः सोऽयमिष्टसिद्ध्याख्यग्रन्थं ससंप्रदायं व्याख्याय प्रकारान्तरेण भाग- वतवाचकान्द्विजान् 'नेयं व्यासकृतिः' इत्यभिधाय, ततः 'त्वमेव ब्रूहि' इति तेनाच्युतप्रेक्षेण साक्षेपमुक्तस्तत्सर्वमाख्यायात्मानं जेतुं प्रवृत्तानाम- च्युतप्रेक्षसपक्षशिष्याणामनुमानानां प्रत्यनुमानैरुत्सादनादनुमानतीर्थाभि- धामासाद्य विद्याब्धिवादिसिंहौ वादिग्रामसिंहौ विजित्य पूर्वभाष्यमपनुद्य प्रार्थयते सतीर्थ्याय सूत्रार्थमभिधायाथ दक्षिणां दिशं गत्वा विष्णुमङ्गल- क्षेत्रे मिक्षान्ते परीक्षायै भक्षणार्थ दत्तं कदलिफलचयं कन्याकुमार्याख्यतीर्थ रामसेतो रङ्गनाथं विष्णुसहस्रनाम्नामपि शताथै पुनश्च रूप्यपीठं भुक्त्वा गत्वा स्नात्वा दृष्ट्वोक्त्वा समागत्य गीताभाष्यं कृत्वा गुरवे दत्त्वा बदरिका- श्रमगमनायानुज्ञामादाय कौबेरी दिशमवतस्थे । तीर्खा जनुसुतां ततोऽणुबदरीमासाद्य नारायणं नत्वा भाष्यमदादुपायनतया श्रीगीतिकाया अयम् । तत्रादौ खलु शक्तितः परमसौ प्रोत्सादयंलेशतः शब्दं तत्र निधाय पाठय जनानित्यब्रवीतं हरिः ॥ १३ ॥ तं काष्ठमौनव्रतमाचरन्तं व्यासो निशि खप्रभया दिगन्तान् । प्रभासयन्प्राप्य ममाश्रमान्तमेहीत्युदीर्यान्तरघान्महात्मा ॥ १४ ॥ अच्युतप्रेक्षाय ॥९१॥ अथेति । अमितमतिः पूर्णप्रज्ञः संस्तदधिपस्य रूप्यपीठेशस्या- ज्ञया सरसी कासारमागतायां सुरसरितौ(?) भागीरथ्यां समस्तैर्लोकः जनैः समं साकं विगाहते स्म अगाहत । समयोगाद्भूते लट् । तस्य विडम्बन मिह लोके विचित्रमिति स्फुटम् ॥१२॥ सपक्षः सखा । अनुमानानां कृद्योगात्कर्मणि षष्ठी। वादिग्रामसिंही श्व- सदृशवादिनावित्यर्थः । सतीर्थ्याय सहाध्यायिने । कदलीफलचयादीनां पदानां भुक्त्वे- त्यादिषु क्रमेणान्वयः । कौबेरी दिशमुत्तरां दिशम् । उपायनतया उपग्राह्यत्वेन । 'उपा- यनमुपग्राह्यमुपहारस्तथोपदा' इत्यमरः ॥ १३॥१४ ॥ महीध्रः पर्वतः । करटः गण्डः । ।
३२. काव्यमाला। तदनन्तरमसौ शिष्येभ्यः स्वगमनं लेखनेन निवेद्य मरकतमणिमयम- हीध्रमहितमतङ्गजकरटतटपाटनपटुतरनखरकण्ठीरवमुखरमुखरितकन्दरान्त- निलीनहरिणगणेऽद्भुततरशब्दायमानशार्दूलपोतावलोकनपरित्रासधावल्लुला- यगवयकुले प्रत्यन्तपर्वतवत्परिदृश्यमानावश्यायसनुदायदूरीकृतदिनकरकृत्ये प्रावृट्समयकृतजनपदसंचरणजनितायासशमाय विश्रान्तमिव वारिदवृन्दं वहति हिमवति गच्छन् खविरहासहिष्णुतया पृष्ठत एव प्राप्तं सत्यतीर्थ सहस्तवायुनैव निजस्थानं प्रापय्य पुरतो गत्वा सकलमुनिगणमध्यमध्या- सीनमिव वृन्दारकवृन्दपरिवृतं परमेष्ठिनमसमानं व्यासं नत्वा तेन सकल- पुराणभारतसूत्रार्थ विज्ञाय तत्रैव तपसा स्थितमिव धर्मपुत्रं प्रणम्य तेन सूत्रभाष्यकरणायानुज्ञातः कृष्णानुमत्याणुबदरीमासाद्य विरच्य कुभाष्य- दूषकं हरिगुणप्रकाशपोषकं भाष्यं पुनरपि रजतपीठमागत्य सख्येऽच्युत- प्रेक्षाय च तद्भाष्यमाचख्यौ। ततोऽमितमतिर्यज्ञविघ्नकर्तनिवारयन् । याजयामास मेधावी स्वीयमध्यापकात्मजम् ॥ १५॥ पुनरपि बदरिकाश्रममासाद्य व्यासमानम्य रूप्यपीठमाजगाम । कदा. चिदसौ मध्येमार्ग सागसमीश्वरदेवं परवशखननमकरोत् । कदाचिदसौ स्वकटिभागावलम्बिनः शिष्यानभिधातिसमागतिशङ्कयापगतोडुपामगाधा- पाममरापगामतारयत्स्वयमप्यतरत् । अथ भटवृन्दयवनराजयोर्दण्डराज्य- योग्यधीविषयो बभूव । कापि चोराणां निजकरकृतपटपिण्डे रिक्थधियमु- त्पाद्य परस्परमघातयत् । पुनः काप्ययमुपेन्द्रतीर्थाभिधमस्करिणा तस्कर- शतं तिरस्कारयांचकार । पुनः कापि मोषकपुरतः सशिष्यः सममोपलत् । शार्दूलाकारं दानवशार्दूलं करतलेन जघान । प्रतिमाः सितशिलामयीराप मुखरो ध्वनिः । शब्दायमानःशब्दं कुर्वाणः । 'शब्दवैरकलह-'इत्यादिना क्यङ् । पोतः शिशुः । असमानं समशून्यम् । कृष्णानुमत्या व्यासानुमत्या । सख्ये सतीर्थ्याय ॥१५॥ अमिघातिः(ती) शत्रुः। उडुपं प्लवः । आपमुदकसमूहम् । अमरापगां गङ्गाम् । रिक्थधियं द्रव्यबुद्धिम् । मोषकाः तस्कराः । औपलत् उपल इवाचरत् । उपलशब्दात्सदृशाचारे कि । लुङ् । दानवशार्दू दैत्यश्रेष्ठम् । आकल्पो भूषणम् । गीर्वाणतरङ्गिण्या गाया २. सारबिन्दुः] मन्दारमरन्दचम्पूः। ३३ नारायणात् । महाभारततात्पर्यनिर्णयकृतौ व्यासानुज्ञामाददे । हस्तिनपु- रगतमठस्थः संकल्पार्थमनल्पाकल्पया तरुणीरूपिण्या धरणी भित्त्वागतया गीर्वाणतरङ्गिण्या प्रणुतोऽभूत् । कुरुक्षेत्रे स्वीयानि कुन्तीकुमारावस्थायां धृतान्यायुधानि कुन्तादीन्यन्तेवासिजनेभ्यो दर्शयामास । तत्र गङ्गोत्तमाने- नाङ्गीकृतविप्ररूपेणाङ्गीचकार क्षणेन दत्तां भिक्षाम् । कचिच्चतुःसहस्र- गुरुरम्भाफलानि त्रिंशत्कुम्भपूर्णपयसा सह परीक्षकेण दत्तानि बुभुजे । गानेन शुष्कतरं सफलपुष्पमकरोत् । किं बहुना । सकलऋषिसमेतः शे- षोऽपि त्रिविक्रमपण्डितपुण्डरीकशार्दूलादिसकलवादिजनजेतुः समस्तवेदा- र्थनिर्णयकर्तुरस्यानन्दतीर्थस्यानन्दतीर्थ श्रुत्वा निजलोकमासाद्य तत्फलं पृच्छन्द्यः सनकादिभ्यस्त्रिदोषवर्जितमविकुण्ठितानन्दाभिवृद्धिकरं वैकुण्ठमेबै- तयाख्याश्रवणादिफलमभिदधे । कलं गात्रं नेत्रं कमलरुचिपात्रं दनुजजि- द्गुणश्रेणीवाणी खलमतकृपाणीसहचरी । सतां हृद्या विद्या सरणिरनवद्याब्धिदुहितुः पतिर्यस्योपास्यो हिमकरसमास्यो जयतु सः ॥ १६ ॥ मुहुर्मध्वं विध्वंसितखलदुरध्वं सुमनसां मनोवृन्दे संदेहहरमिह वन्दे गुणनिधिम् । रमानाथे नाथे निरतमपि नाथे मम हरौ दृढा भक्तिर्भुक्तिस्त्विह भवतु मुक्तिस्तत इति ॥ १७ ॥ - गङ्गोत्तमाङ्गाः शिवः । क्षण उत्सवः । बुभुजे । 'भुजोऽनवने' इत्यात्मनेपदम् । आनन्द. तीर्थमानन्दकरशास्त्रम् । अविकुण्ठितोऽक्षतः ॥ कलमिति । यस्य गात्रं शरीरं कलं लक्षणवत् । कलाशब्दादर्शआयच् । मधुरं वा । नेत्रं कमलरुचेः पात्रम् । दनुजजितो विष्णोर्गुणश्रेणी यस्यां तथोका वाणी खलानां मतस्य कृपाणीसहचरी कर्तरीसखी। विद्या अनवद्या अत एव सतां हृद्या अब्धिदुहितुर्लक्ष्म्याः पतिरुपास्यः स हिमकरस्य सममास्यं यस्य तथोक्तः । जयतु । लोट् ॥१६॥ मुहुरिति । विध्वंसितः खलानां दुर- ध्वो दुर्मार्गो येन तथोक्तम् । सुमनसां सतां मनोवृन्दे यः संदेहस्तं हरतीति तथोकम् । गुणानां निधि मध्वं वन्दे । किं चेत्यप्यर्थः । रमाया नाथे खामिनि अनाथे न विद्यते नाथो यस्य तस्मिन् । अस्य ब्रह्मणो रुद्रस्य वा नाथे वा। 'अकारो ब्रह्मविष्ण्वंशकमठे- काव्यमाला। मध्वेनाद्वैतराद्धान्तध्वान्तविध्वंसनाविना । तेन प्रतिष्ठितामेतां मूर्ति जानीहि मानिनि ॥ १८ ॥ पुरा पूर्वारकानासीदाशाहीनन्दकारिका । मध्येवारिधि गोपस्त्रीलालसेनाभिपालिता ॥ १९ ॥ कदाचित्तत्र देवक्या बालकेलीः प्रदर्शय । इत्युक्तो रुक्मिणीकान्तः शुद्धान्ते बालकोऽभवत् ॥ २०॥ तदङ्कमारुह्य हसंस्तदास्यं पश्यन्स्तनं तत्र पपौ मुकुन्दः । तदानभिज्ञा विवशान्तरा सा सुखाम्बुराशौ विजहार देवी ॥२१॥ दध्यमत्रं विभज्याथ नवनीतं प्रभक्षयन् । बिडालेभ्यो ददद्भूयो वैशाख नेत्रमाहरत् ॥ २२ ॥ कालमल्पं विहृत्यैवमत्यजहालकाकृतिम् । हृयाङ्गी देवकी दृष्ट्वा विस्मयं प्रययौ मुहुः ॥ २३ ॥ विलोक्य भैष्मी बत बालरूपिणं सदा तदभ्यर्चनकाश्या सती । कृष्णाज्ञया निर्जरशिल्पिना मुदा निर्माययामास तदा तदाकृतिम् ॥ २४ ॥ रुक्मिण्यर्चितकृष्णा मर्जुनो द्वारकास्थिताम् । कृष्णावतारेऽवसितेऽस्थापयद्रुक्मिणीवने ॥ २५ ॥ ध्वङ्गणे रणः'इति रत्नमाला। हरौ निरतं सक्तं मध्वमित्यर्थः । मम हरा वित्यनुषज्यते । दृढा भक्तिरिह लोके भुक्ति गस्ततो जन्मान्तरे(न)मुक्तिर्भवतु इति नाथे याचे । 'नाथू नाधृ याच्ओपतापैश्वर्याशीःषु' इत्यस्माल्लद ॥ १७ ॥ मध्वेनेति । अद्वैतराद्धान्तोऽद्वैतसि. द्धान्त एव ध्वान्तं तस्य विध्वंसनेऽविना सूर्येण । 'अवयः शैलमेषाः' इत्यमरः । तेन प्रतिष्ठितामेतां मूर्ति विग्रहं कृष्णप्रतिमामित्यर्थः । हे मानिनि जानीहि ॥ १८ ॥ पू: पुरी । अत्र भूलोके । दाशार्हा यादवाः । गोपस्त्रीलालसेन कृष्णेनेत्यर्थः ॥ १९ ॥ शु. द्धान्तेऽन्तःपुरे । 'शुद्धान्तश्चावरोधश्च' इत्यमरः ॥ २०॥ तदकं देवक्युत्सङ्गम् । सा दे. वकी ॥२१॥ दध्यमत्रं दधिपात्रम् । वैशाख मन्थनदण्डम् । 'पात्रामत्रं च भाजने' इति, 'वैशाखमन्थमन्थानमन्थानो मन्थदण्डके' इति चामरः । नेत्रं मन्थनदाम । नेत्रं मथिगुणे वस्त्रे' इति विश्वः ॥२२॥२३॥ निर्जरशिल्पिना । विश्वकर्मणेत्यर्थः । तदाकृति कृष्णाकारम् ॥ २४ ॥ कृष्णाचा कृष्णप्रतिमाम् । 'प्रतिमानं प्रतिबिम्ब प्रतिमा'.
३. श्लिष्टबिन्दुः] मन्दारमरन्दचम्पूः। गोपीचन्दनलिप्तां तां गोपीचन्दनबुद्धयः । सांयात्रिकाः समादाय समीपेऽस्य समाययुः ॥ २६ ॥ निमज्जद्वारिधावत्र मध्याहस्य महात्मनः । मुनेर्दशान्तवातेन तीरं प्रापोडुपं तदा ॥ २७ ॥ प्रगृह्यानन्दतीर्थस्तां प्रतिष्ठाप्य मुदान्वितः । नागासनस्य निकटेऽपूजयत्प्रतियातनाम् ॥ २८ ॥ पूजयन्त्यधुनाप्येनां तस्य शिष्यकुलोद्भवाः । अष्टौ मस्करिणः शुद्धा जानीहि रमणीमणे ॥ २९ ॥ एवमसौ कलगीतस्तया सह सकलधरणीमण्डलमालोक्य तं गोपिकाका- मुकं प्रणम्य तदागतिवृत्तान्तं कान्तायै निवेद्य तेनानुगृहीतः स्वनगरमुप- गम्य लीलागृहमध्यास्ते स्म । जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन । गुहपुरनिलयेन प्रोद्धृतः सारबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ।। इति श्रीमद्धटिकाशतशित]घण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगी. श्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणःकृष्णशर्मणश्चन्द्रदेवशर्मणश्च कृतौ मन्दारमरन्दे चम्पूप्रबन्धे सारबिन्दुर्द्वितीयः समाप्तिमगमत् । श्लिष्टबिन्दुः। अथाधुना श्लिष्टबिन्दौ श्लेषभेदान्प्रदर्शये । अनेकार्थस्फूर्तियोगः श्लेषः स द्विविधो मतः॥ तियातना प्रतिच्छाया। प्रतिकृतिरा पुंसि प्रतिनिधिः' इत्यमरः ॥ २५ ॥ 'सांयात्रिकः पोतवणिक्' इत्यमरः । अस्य रूप्यपीठपुरस्य ॥ २६ ॥ दशान्तवातेन वस्त्रान्तवायुना। 'दशावस्थादीपवोर्वस्त्रान्ते स्युर्दशा अपि' इति मेदिनी । 'उडुपं तु प्लवः कोल:' इत्यमरः ॥ २७ ॥ प्रतियातनां प्रतिमाम् ॥ २८ ॥ मस्करिणो यतयः ॥ २९ ॥ 'अधिशीङ्स्थासां कर्म' इति लीलागृहस्य कर्मलम् ॥ जलजनीति व्याख्यातम् ॥ इतिमन्दारमरन्दव्याख्यायां माधुर्यरजन्याख्यायां गूढकर्तृकायांसारबिन्दुर्द्वितीयःसमाप्तः॥ अथेति । मङ्गलार्थेऽथशब्दः । श्लेषसामान्यलक्षणमाह-अनेकार्थेति । अनेकार्थानां स्फूर्तिर्बोधो येन सोऽनेकार्थस्फूर्तिः शब्दस्तस्य योगो योजनम् । श्लष इत्युच्यते इत्यर्थः। तथा च अनेकार्थबोधजनकशब्दयोगत्वं श्लेषसामान्यलक्षणम्। तं विभजते-स इति।सभ- काव्यमाला। सभङ्गामङ्गभेदेन तौ द्वौ च त्रिविधौ पुनः । नामगो धातुगावेतद्यगाविति भेदतः॥ शब्दमेदादर्शबोधे सभङ्गश्लेष इष्यते शब्दाभेदेऽप्यनेकार्थबोधे चाभङ्ग इष्यते ॥ नामगतसभङ्गश्लेषो यथा- ततः किल कलगीतप्रेयसी कलाज्यायसी गीतश्रेयसीनानी प्रसादसीनि प्रियाख्यानप्रस्तावनायां नर्मसखीरिदमवादीत्- 'वरतालसदृक्षण द्योलोकसुहृदावृतम् । शिरःफलसमूहेन मयालोकि महीतलम् ॥१॥ गाभङ्गभेदेनेति । सभङ्गश्लेषाभङ्गश्लेषभेदेनेत्यर्थः । पुनस्तदुभयमपि विभजते-तौ द्वा- विति । एतद्वयगाविति । नामधातूभयगतावित्यर्थः ॥ सभङ्ग श्लेषं लक्षयति-शब्द- मेदादिति । पदविभागादित्यर्थः । अर्थबोधेऽनेकार्थवोधे। तत्र पञ्चम्याः प्रयोज्यत्वमर्थः। तस्यार्थबोधेऽन्वयः । तथाच खनिष्ठैकार्थबोधप्रयोजकविभागमिन्नस्वनिष्ठविभागप्रयोज्या- र्थबोधजनकत्वसंबन्धेन शब्दविशिष्टशब्दयोगवं सभङ्गश्लेषलक्षणं बोध्यम् । उभयत्र खपदं शब्दपरम् । स्वं वरतालसदृक्षेणेति पदं तनिष्ठो य एकविधोऽर्थबोधप्रयोजकविभागः 'वर. ताल-सदृक्षेण' इति विभागस्तद्भिन्नः स्वनिष्ठो यो विभागः 'वरता लसत् ऋक्षेण' इति विभागस्तत्प्रयोज्यो योऽर्थबोधः । उत्तमत्वेन प्रकाशमाननक्षत्रयुक्त इति बोधस्तजनकत्व- संबन्धेन तादृशशब्दविशिष्टो यः शब्दः 'वरतालसदृक्षेण' इति शब्दस्तत्संवन्धत्वं श्लेष इति । लक्षणसंगतिः । विभागभिन्न विभागाप्रसिद्ध्यासंभववारणायैकत्वमर्थबोधप्रयोजकविभागे विशेषणम् । पदानां कृत्यं तु सुगममेव । ननु विभागभिन्नविभागाप्रसिद्ध्या सुपर्वाण इत्या- दावव्याप्तिरिति चेन्न। तादृशसंबन्धेन शब्दविशिष्टशब्दसंबन्धत्वसमानाधिकरणश्लेषत्वव्या- प्यजातिमत्त्वस्य विवक्षितत्वात्।श्लेषत्वमादायाभङ्ग श्लेषेऽतिव्याप्तिवारणाय श्लेषत्वव्याप्यत्वं जातिविशेषणम् । अभङ्गश्लेषं लक्ष्यति-शब्दाभेदेऽपीति । एकार्थबोधप्रयोजकविभा- गभिन्न विभागाभावेऽपीत्यर्थः । अनेकार्थबोधे न्यार्थबोधे । तथा च स्वनिष्ठैकार्थबोधप्रयोज- कविभागभिन्न विभागाप्रयोज्यान्यार्थबोधजनकख विशिष्टशब्दसंबन्धत्वमभङ्गश्लेषलक्षणम् । एकार्थकघटादिपदघटितवाक्यवारणायान्यत्वमर्थविशेषणम् ॥ यथाक्रममुदाहरति-नाम- गतसभङ्गश्लेषोयथेत्यादिना। कलगीतस्य गन्धर्वस्य प्रेयसी प्रिया । कलाभिD. यसी श्रेष्ठा । नर्मसखीः क्रीडासखीः।वरतालेति । वरतालसदृक्ष उत्तमतालवृक्षसदृशः । अन्यत्रोत्तमत्वेन प्रकाशमाननक्षत्रयुक्तः । तेन । अतएव द्योलोकस्यान्तरिक्षलोकस्य सु- हृदा मित्रेण । आकाशलोकसदृशेनेति यावत् । गगनचुम्बितेनेति वा । शिरःफलसमूहेन ३. लिष्टबिन्दुः] मन्दारमरन्दच-पूः । यत्र च कृतविटपानमना उद्यानतरवो न सुन्दरीजनः । विपदाक्रान्तः कुलायो न धनिकलोकः। वर्तते नवन्धनं विदुषां न चोराणाम् । यत्र च वैनतेय इव नागमाधिक्षेपकारी सुमनःसमूहः । किं चाराम इव विलस- दुचयो विमत्सराः । वाक्प्रचार इवापरुषो विप्राः । धातुगतसभङ्गश्लेषो यथा- कचन कौचिदम्पती 'मदीयेष्टप्राप्तिश्चेन्मुरारे, तव पादारविन्दं सदा पू- जयेव' इत्यवदताम् । साधुवृन्दमपि वदति स्म । कचिदापन्नपुत्रो जनः 'शतेन सेवेय विपन्निवृत्तिश्चेद्धरिम्' इत्युक्त्वा' 'अहं त्वमपि पुत्र, तमेव माधवं शरणम्' इति बोधयति स्म । - , नारिकेलवृन्देन । 'खानोदको नारिकेलः करकाम्भाः शिरःफलः' इति त्रिकाण्डशेषः । आवृतं युक्तं महीतलमालोकि । 'लोक दर्शने' इत्यस्माच्चिण् ॥ कृतविटपानमना इति । एकत्र कृतं विटपानां शाखानामानमनं यैस्तथोक्ताः । अन्यत्र कृतं विटेषु पा- नेषु च मनो यस्य स तथोक्तः। उद्यानतरव आरामस्थवृक्षाः । सुन्दरीजनः स्त्रीजनः। नेति निषेधे । विपदाक्रान्त इति । वीनां पक्षिणां पदैराक्रान्तः । अन्यत्र विपत्त्या आक्रान्तः । कुलायो नीडं पक्षियहमित्यर्थः । नवं धनं नूतनं धनम् । अन्यत्र नति भिन्नम् । वबयोरमेदाइन्धनं निगडादिबन्धः । चोराणां न वर्तते इति न वर्तत एवेत्यर्थः । वैन- तेयो गरुडः । नागानां मायाः श्रिया अधिक्षेपकारी । अन्यत्रागमानां वेदानामधिक्षेप. करी न । सुमनःसमूहः सज्जनचयः । आराम इवोपवनमिव । विलसतां द्रूणां वृक्षाणां चयो यस्य तथोक्तः । अन्यत्र विलसन्ती रुचिः कान्तिर्येषां ते । विं विष्णुं लसन्ती श्लिष्यन्ती रुचिः प्रीतिर्येषामिति वा । हरौ प्रीतिं कुर्वन्त इत्यर्थः। 'लस श्लेषणक्रीडनयोः' इत्यस्माच्छतृप्रत्ययः । विमत्सराः वियन्ति पक्षियुक्तानि सरां सि यस्मिन् स तथोक्तः। अन्यत्र मात्सर्यरहिता इत्यर्थः । वाक्प्रचारः खीयवचनप्रचार इवापरुषो मृदुलः । अ. न्यत्रापगता रुट येभ्यस्ते तथोक्ताः॥धातुगतसभङ्गश्लेषमुदाहरति-वचनेत्यादिना। दम्पतीपक्षे पूजयेव । 'पूज पूजायाम्' इत्यस्मात्स्वार्थे णिजन्तात्परस्मैपदं विधिलिङत्तम. पुरुषद्विवचनम् । साधुवृन्दपक्षे पूजये इति वर्तमाने लडात्मनेपदोत्तमपुरुषैकवचनम् । भवेति रक्षणार्थकादवधातोर्लोट् मध्यमपुरुषैकवचनम् । आपन्न आपद्युक्तः पुत्रो यस्य स जन इत्यर्थ आपन्नपुत्र इत्यस्य । शतेन शतद्रव्येण । हरि सेवेय । सेवनार्थकात् षेधा- तोर्विधिलिडुत्तमपुरुषैकवचनम् । इति एवंप्रकारेणोक्खा। हे पुत्र, वमपि तमेव माधवं शरणमय बज । 'इटकिटकटी गतौ' इत्यत्र गत्यर्थकात्प्रश्लिष्ट इधातोर्लोट् मध्यमपुरुषेक- वचनम् । अहं तमेव माधवमित्यनुषज्यते । सेवे । वृधातोलेडात्मनेपदोत्तमपुरुषैकवच- मन्दा० ४ ३८ काव्यमाला। - नामधातूभयगतसभङ्गश्लेषो यथा- यत्र च सुवर्णयति कामिलोकः कामिनीजनम्, छन्दःशास्त्रमपि। स्तन- नति भटानां श्वेलितम्, वृद्धवाराङ्गनावृन्दं च। विहितदशनति कुन्दकद- म्बम् मुनिकदम्बं च । अपि वासवन्ति धनवन्तो धान्यानि च । नामगताभङ्गश्लेषो यथा- किं च नक्षत्रपदव्य इव रमणीयहस्तश्रवणाः, सत्कविकाव्यरचना इव सालंकाराः कामिन्यः, पर्वत इव मदनाधिष्ठिते, समुद्र इव संजातलावण्ये, यौवने वसन्तं कान्तमुपासते । धातुगताभन श्लेषो यथा- यत्र च दीव्यति कान्ताभिर्युवजनो मणिमयभित्तिभिः प्रासादो वारमृ. गाक्षीजनोऽप्यक्षैर्मुनिजनोऽपि वेदवचोमिर्हरिम् । अपि च ज्ञपयति शत्रु- वर्ग मित्रवर्ग च राजकम् । नामधातूभयगताभङ्गश्लेषो यथा- वाञ्छितार्थान्भक्तजनेभ्यो यस्मिन्यजति सति पुनः पुनस्तमेव माधवं भक्तजनोऽपि । किं बहुना । हासा अपि शारदाकाशतटानीव भवन्ति । एवं सुन्दरतरवचोविलासमस्या गीतश्रेयस्याः सम्यगाकर्ण्य सानन्दं नर्मस- खीजनाः सर्वे तां संमानयांचक्रुः । - नम् । तथा च 'सेवेय' इत्यत्रैकदा न पदच्छेदः । एकदा 'सेवे-अय' इति पदच्छेदः ॥ सुवर्णयति सुष्छु निरूपयति । अन्यत्र शोभना वर्णाः, यतिर्विश्रामश्च यस्मिंस्तत्तथोक्तम् । स्तनति स्तननमिव मेघगर्जनमिवाचरतीत्यर्थः । आचारेऽर्थे क्किए । अन्यत्र स्तनयोन- तिर्नमनं यस्य तत्तथोक्तम् । विहितो योग्यो दशनो दन्त इवाचरति विहितदशनति । अन्यत्र विहिताः कृता दशसंख्याका नतयो नमांसि येन तत्तथोक्तम् । वासवन्ति वासव इन्द्रः स इवाचरन्तीत्यर्थः । अन्यत्र तु निवासयुक्ता इ(नी)त्यर्थः। किंचेत्यप्यर्थः मदनः कामः कपित्थश्च । लावण्यं सौन्दर्य लवणत्वं च ॥दीव्यतीति । "दिवु क्री- डा-' इत्यादिधातुः । 'दिवः कर्म च' इति द्वितीया तृतीया च। शपयतीति । 'ज्ञप मारणतोषणनिशामनेषु' इति धातोर्लट् ॥ यजतीति । 'यज देवपूजासंगतिकरणदानेषु' इति धातोर्दानार्थकात्कर्तरि शतृप्रत्ययः। अन्यत्र पूजार्थकालट् । भवन्तीति । तथा च हासा अपि भवन्ति नक्षत्रवन्ति आकाशतटानीव भवन्ति । वर्तत इत्यर्थः । 'भू सत्ता- १. चित्रबिन्दुः] मन्दारमरन्दचम्पूः। इत्थं मया श्लेषमेदा दिमात्रमिह कीर्तिताः । ग्रन्थगौरवशङ्कात उन्नेया विबुधैरथ ॥ जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन । गुहपुरनिलयेन प्रोद्धृतः श्लिष्टबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ।। इति श्रीमद्धटिकाशत[शत]घण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयो. गीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणश्चन्द्रदेवशर्मणश्च कृतौ मन्दार- मरन्दे चम्पूप्रबन्धे श्लिष्टबिन्दुस्तृतीयः समाप्तिमगमत् । चित्रबिन्दुः। अत्राधुना चित्रविन्दौ क्रमाद्यमकचित्रयोः । वक्ष्यते लक्षणं भूयः सोदाहरणगुम्फनम् ॥ खरव्यञ्जनसंबद्धवर्णाद्यावर्तने सति । यमकं तत्तु पादाद्यादिस्थित्या बहुधा भतम् ॥ आदौ यथा- कमलापतिपदयुगलं कमलाभेदोपपादकं रुचिभिः । कमलाकरकेलौ सा कमलाक्षी राधिका जगृहे ॥१॥ मध्ये यथा- विधुमुखी दवधूदधिविप्लुतावददमन्दवधूजनकाशितम् । स्मरभ यादव धूतगुणेतर स्मरशरादव धूतहृदं जनम् ॥ २ ॥ - याम्' इत्यस्मालट् । एषु सर्वत्र क्रियावाचकपदावर्तनं बोध्यम् । इमं बिन्दुमुपसंहरति- इत्थमिति ॥ जलजनीति पद्यं पूर्ववदेव व्याख्येयम् ॥ इति मन्दारमरन्दव्याख्यायां माधुर्यरजन्याख्यायां गूढकर्तृकायां श्लिष्टबिन्दुस्तृतीयः समाप्तः ॥ उपोद्धातसंगत्या चित्रबिन्दुमुपक्रमन्प्रतिजानीते-अत्रेति । वक्ष्यमाण इ. त्यर्थः ॥ यमकमाह-स्वरव्यञ्जनेत्यादिना। तथा चासकृदेकानुपूर्वीकवर्णसमूहघटित. समिति भावः। इदं स्वरूपलक्षणं पद्ये समन्वेति-पादाद्यादिस्थित्येति । आदिप- देन मध्यान्तादेर्ग्रहणम् । तथा च यमकं पादादिगपादमध्यगपादान्तगत्रिपादगद्विपादगा. न्तादिगान्तमध्यगादिभेदेन बहुविधमित्यर्थः । तदुदाहरति-आदौ यथेत्यादिना। पादादिगं यथेत्यर्थः । एवमप्रेऽपि । कमलापतीति । कमलाक्षी सा राधिका रुचिभिः कान्तिमिः । करणे तृतीया। कमलस्याभेदोपपादकं कमलापतेः कृष्णस्य पदयुगलं कर्म कमलाकरकेलौ सर:क्रीडायां गृजहे ॥१॥ विधुमुखीति । दवधूदधौ विरहसमुद्रे वि- १० काव्यमाला। अन्ते यथा- माधवमसदामधुरंधरमवनितलस्थदैत्यदामधुरम् । भज हृदि मुदा मुधुरञ्जितभणितं हरन्तमम्बुदामधुरम् ॥ ३ ॥ कन्ताद्योर्यथा- न हरि कमलाकलितं कमलाकलितं वनं च पश्यन्त्याः । नयनं कमलाकलितं कमलाकलितं बभूव च सरोऽपि ॥ ४ ॥ एवमादिरीत्या द्विव्येकपादयमकेषु भेदा ऊझाः । पादद्वये यथा- शरवृन्दे प्रपतामि च शरवृन्दे पतति तापमस्य न सहेऽहम् । शम्बररिपुविद्यायाः शंबरसमाश्रयणमिह तव युक्तम् ॥ ५॥ इदमादौ । अन्ते यथा- संरक्षितोऽस्मि विरहानलतो भवत्या सद्रनहारविलसत्कुचकुम्भवत्या । - प्लुता निमज्जन्ती विधुमुखी चन्द्रानना काचिद्गोपी की अमन्देन बहुना वधूजनेन का. सितमपेक्षितम् । कर्मणि क्तः । कर्म । कृष्णमिति यावत् । स्मरस्य भेव भा यस्य तस्य सं- बुद्धिस्तथोक्तम् । धूता उत्सृष्टा गुणेतरे दोषा यस्य तथा। हे यादव कृष्ण, स्मरशराबूतं हृदयं यस्य तथोक्तम् । जनमस्मदीयगोपिजनमित्यर्थः। मामिति वा अव रक्षेत्यर्थः ॥२॥ माधवमिति । पिता पुत्रं बोधयति-हे पुत्र, असतां खलानामामा रीतिस्तस्यां धुरं- धरं समर्थमवनितलस्थदैत्यदामधुरं भूतलस्थितदानवपङ्क्तिभारं हरन्तं संहरन्तं मधुवदमृत. वञ्जितम् । कर्तरि क्तः । भणितं भाषणं यस्य तथोक्तम् । अम्बुद इव आ सम्यक् मधुरं मनोहरं माधवं हृदि मुदा भज । 'भज सेवायाम्' । लोट् ॥ ३ ॥न हरिमिति । विप्र. लब्धगोवर्णनमिदम् । कमलया लक्ष्म्या कलितं युक्तं हरिं कृष्णं न पश्यन्त्याः कमलैः कुरङ्गैः आकलितं वनमारामं पश्यन्या गोप्या नयनं नेत्रं कमलेन जलेन आकलितं सं. बद्धं बभूव । सरोऽपि कमलैः कुसुमैरकलितं रहितं बभूव । चन्द्रः उदयं प्रापेत्यर्थः । अत्र कमलकुसुमराहित्येन चन्द्रोदय व्यञ्जकादर्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ ४ ॥ शरवृन्द इति । मदीये पाण्डुरङ्गविलासे विरहिण्याः सुन्दर्या इव मुक्तिः । अस्य कामस्य शरवृन्दे बाणसमूहे पतति सति अहं तापं न सहे । किं चेति चार्थः । शरवृन्दे उदकसमूहे प्रपतामि । शम्बरेति । तत्रैव तत्सख्या बल्लव्या वचनमिदम् । इह अ. धुना शम्बरस्यासुरस्य रिपुणा कामेन विद्याया मर्दितायास्तव शम्बरस्योदकस्य समा- श्रयणं युक्तम् । 'शत्रोः शत्रुः स्वमित्रं स्यात्' इत्युक्तेरिति भावः ॥ ५ ॥ संरक्षित इति । तत्रैव सुन्दरी घटयित्वा उक्तवती बल्लवी प्रति कृष्णस्योक्तिरियम् । अन्ये सुहृदो
१. चित्रबिन्दुः) मन्दारमरन्दचम्पूः।
त्वामेव मित्रमहमम्बुरुहाक्षि मन्ये
किं तैर्भरन्ति सुहृदः खलु कुक्षिमन्ये ॥ ६॥
पादत्रये यथा-
-
नस्यं नयनविनाशं तनुते भुक्त्यात्मनापि न विना शम् ।
किंत्वज्ञानविनाशं तस्मादेतहुधोऽपि गृह्णाति ॥ ७ ॥
एकपादे यथा-
प्रथमसंगमगेहनिविष्टया सुदृढनीविनिबद्धकराम्बुजम् ।
सुशयितं धुरि भर्तुरवाङ्मुखं मदनकादनकातरया रयात् ॥ ८ ॥
सामस्त्येन यथा-
विदलितकीचकवपुषं कीचकवपुषः सुतं च बल्लववेषम् ।
बल्लववेषाप्रियकरवेषाप्रियकरमद्य कलयामि ॥ ९ ॥
मित्राणि कुक्षि भरन्ति खलु तैः किम्। न किमपि प्रयोजनं भवतीत्यर्थः ॥६॥नस्यमिति ।
नसायां नासिकायां साधु नस्यम् । सप्तम्यन्तात्स्वार्थे यत्प्रत्ययः। 'नसा नस्या च नासिका'
इति त्रिकाण्डशेषः। 'तवकिरी' इत्यर्थः। नयनयोर्विनाशं तनुते आत्मना खेन नस्येनेति
यावत् । विना भुक्त्यापि भोजनेनापि शं सुखं न तनुते । 'पृथग्विनानाभिस्तृतीयान्य.
तरस्याम्' इति तृतीया। तथापीति किंत्वित्यर्थः। अज्ञानविनाशं तनुते करोति । तन्द्रीमुत्सा-
ये जागरूकतामुत्पादयतीत्यर्थः । तस्माद्धेतोरेतन्नस्यं वुधोऽपि गृह्णाति ॥७॥ प्रथमेति ।
कश्चिन्नवोढायाः खीयाया वृत्तान्तं सख्ये ब्रवीति-प्रथमं संगमगेहं सुरतगृहं प्रविष्टया
अतएव मदनस्य कादनं कलहः सुरतमिति यावत् । 'कदनं कादनं कलिः' इति कमल-
करः । तस्मिन्कातरयाधीरया । कान्तयेत्यर्थात् सुदृढं यथा तथा नीवौ कटिवस्त्र-
बन्धे निबद्ध कराम्बुजं यस्मिन्कर्मणीति तथोक्तम् । अवाङ्मुखमिति क्रियाविशेषणम् ।
भर्तुधुरि पुरः सु अत्यन्तं शयितम् । भावे क्तः ॥८॥ विदलितेति ।मदीये कीचकनिधने
इदं पद्यम्-विदलितानि कीचकानां वपूंषि येन तथोक्तम् , कीचकानां सरन्ध्रवेणूनां
वं ध्वनि पुष्णातीति कीचकवपुट तस्य वायोः सुतं बल्लवस्य सूदस्य वेष इव वेषो यस्य स
तथोक्तम् । बल्लववेषस्य गोपालरूपिणः कृष्णस्याप्रियकरो वेषः स्वरूपं येषां तेषामप्रिय-
करम् । अर्थाद्रीममित्यवगन्तव्यम् । अद्य नाट्यारम्भावसरे कलयामि ध्यायामीत्यर्थः ।
'बल्लवी सूदगोपालौ' इत्युभयत्रापि मजरी। 'आकल्पवेषौ नेपथ्यम्' इत्यमरः ॥ ९ ॥
४२ काव्यमाला। त्रिरावर्तनं यथा- कमलयामलया मलयानिलप्रचलयाचलयाचलया तया । कलितकुञ्जगृहेऽमृतवीरुधा समुदपादि मनोजमहोत्सवः ॥ १० ॥ एवमेव चतुःपञ्चावर्तनादय उन्नेया इति दिक् । चित्रं स्याद्यदि वर्णानां पद्माद्याकारहेतुता । तचित्रं बहुधात्रास्य दिङ्मानं दर्शयामहे ॥ विना वर्गेष्वाद्यवर्णद्वितयं शपसा नच । हलादीनां कृदन्तानां पदानां विनियोजने । तत्र चित्रं भवेदस्य वौजसन्तपदान्वयात् ॥ धातोर्लोटो मध्यमस्य परस्मैपदिनः सकृत् । उक्तस्यैव पदोद्भेदात्स्वौजसन्तेषु चान्वयात् ॥ यथा- विशदमहितकीर्तिश्रीप्रभावानिममं कलितगहनपापे दीर्घसंसारकूपे । कमलयेति । मदीये वैकुण्ठवर्णन इदम् । अचलयाचलया अचलं क्रीडापर्वतं यातीत्य- चलयास्तादृशी अचला भूर्यस्यास्तथोक्तम् । असंनिहितभूदेवीकयेत्यर्थः । अमलया निर्दु। ष्टया कमलया श्रीदेव्या का। मलयानिलेन मन्दमारुतेन । मलयानिलपदे मन्दमारु. तविषयिणी कविरूढिः । प्रचलया संचलयामृतवीरुधामृतलतया कलिते व्याप्ते कुजगृहे गृहसदृशकुञ्जे मनोजमहोत्सवः कामकेलिः समुपादि उत्पादितः । कृत इत्यर्थः ॥ १० ॥ उपसंहरति-एवमिति ॥ इति माधुर्यरजन्यां यमकप्रकरणम् ॥ उद्देशक्रमेण चित्रं लक्षय ति-चित्रमिति । चित्तं राति आदत्ते इति चित्रम्।विस्मयकारी- त्यर्थः। तच्च शब्दालंकारः, अर्थालंकारश्च । काव्यस्य तु चित्ररूपशब्दालंकारार्थालंकारत- दुभयविशिष्टत्वेन चित्रत्वम् । चित्रमस्यास्तीति चित्रमित्यर्शआदिवादचू। अत्र तु चित्ररूप- शब्दालंकारनिरूपणं बोध्यम्। पद्मादीति। आदिपदेन नागगजविभक्तिद्वयादयः(१)।तथा च पद्माद्याकारहेतुभूतवर्णत्वंचित्र(त्व)मित्यर्थः अस्य चित्रस्येत्यर्थः। चित्रोपायं निरूपयति- विनेत्यादिना । हलादीनामिति। हलवर्णा आदौ येषां तेषामित्यर्थः। अस्यैतादृश. वाक्यस्य । लोट इति । लोदप्रत्ययान्तस्येत्यर्थः। मध्यमस्य मध्यमपुरुषस्य । पदोद्भेदात्प- दच्छेदात् । एतत्सर्वमुदाहरणे बोध्यम् । विशदम हितकीर्तिश्रीप्रभावानिमन- मिति। अत्र 'श्रीप्रभाव आनिमग्नम्' इति मारुतिपक्षे पदच्छेदः। श्रीप्रभौ आनिममम्' इति चन्द्रसूर्यपक्षे श्रीप्रभावाः निममम्' इतिविधिहरिशितिकण्ठपक्षे । कुरुतमुदितमेनमित्यत्रापि - ४. चित्रबिन्दुः] मन्दारमरन्दचम्पूः। कुरुतमुदितमेनं मारुते चन्द्रसूर्यो विधिहरिशितिकण्ठास्त्वं युवा यूयमध ॥ ११ ॥ पृष्ठतो न्युपसर्गादे राज्याधन्तसुयोजने । चित्रं भवेद्भिनलिङ्गखावाद्यन्तसमन्वयात् ॥ यथा- ध्वस्ताघाली निबद्धोरुगुणालीनिहते भवे । गातां हरेस्तनुः पादौ चरित्राणि सदा हृदि ॥ १२ ॥ यथा वा- यशोराजी नितान्तोरुसंपत्पाली नियोगतः । अपत्यानि हरेः पादौ लक्ष्मीश्च कुरुतां मम ॥ १३ ॥ इनीदन्तपदैोंगे रेफादिपदपृष्ठतः। भवेचित्रं भिन्नलिङ्गस्वौशसन्तसमन्वयात् ॥ यथा- सुदानशालिनी राजत्सुजनप्रेयसी रमा । केशवस्य च पादाजे संपदस्तनुतां मयि ॥ १४ ॥ - 'कुरु तं उदितम्' इत्येकत्रा कुरुतम् उदितम्' इत्यन्यत्रा कुरुत मुदितम्' इत्यपरत्र पदच्छेदः। अर्थस्तु सुगम एव ॥११॥ न्युपसर्गादेरिति । नीत्युपसर्गः आदौ यस्य तस्येत्यर्थः।रा. ज्याद्यन्तेति।राजिरा दिर्येषां ते राज्यादयः। आलि अङ्गुलिः वलिः केलिः नीविः नामिरि- त्यादयः शब्दा अन्ते येषां तेषामित्यर्थः स्वावाद्यन्तेति।सुऔ इत्यादिप्रत्ययान्तेष्वित्यर्थः। ध्वस्ताघालीति। ध्वस्ता अघानां पापानामाली समूहो यस्यास्तथोक्तेति तनुविशेषणम् । 'कृदिकारादक्तिनः' इति पक्षे ङीष् । निबद्धा संबद्धा उरुगुणानामाली यस्याः सेत्यपि तनु. विशेषणम् । प्रथमैकवचनम् । पाद विशेषणे तु द्विवचनम् । चरित्रविशेषणे तु ध्वस्वाधा- लीनि बद्धोरुगुणालीनीति पदच्छेदः । नपुंसकबहुवचनम् । हरेर्विष्णोस्तनुः की । पादौ कर्तारौ । चरित्राणि कर्तृणि । सदा हृदि गाताम्। 'गाङ् गतौ' इत्यस्मात्प्रार्थनायां लोद। नित्यं बहु(सर्व)वचनान्तमिदं सर्वत्रान्वेति । प्रवर्ततामित्यर्थः । एवमेवोत्तरत्रापि ॥ १२ ॥ अपत्यानि कर्माणि पादौ । लक्ष्मीश्च कर्तृपदे। कुरुतामिति । परस्मैपदे लोटि मध्यम- (प्रथम) पुरुषद्विवचनम् । अन्यत्रात्मनेपदे लोटि मध्यम (प्रथम) पुरुषैकवचनम् ॥ १३॥ इनीदन्तेति । स्त्रीप्रत्ययप्रकृतिकणिन्यादिप्रत्ययान्तपदैरित्यर्थः । मिन्नलिङ्गखौशसन्त- समन्वयादिति । लिङ्गमेदविविष्टप्रथमैकद्विबहुवचनान्तपदान्वयादित्यर्थः । सुदानेति।
४४ काव्यमाला। आदन्तोत्तरतोऽज्वादेः संध्या शब्दस्य गुम्फने । भवेचित्रं लिङ्गमेदादेकद्विवचनान्वयात् ।। विभासिताविभौधेन चन्द्रलेखा विभासिता । कुरुपाण्डवयोः सेनासंनिवेशाविवासकृत् ॥ १५॥ कश्यपार्काविव मुदा सेविता वरुणेन या । तां प्रतीची चुचुम्बासौ गोभिः संमान्य चन्द्रमाः ॥ १६ ॥ रामावलिविलासेन हरिणा रमते रमा । करटाविव गोप्यो वा पुनः पद्मच्छदाविव ॥ १७ ॥ सुष्छुदानशालिनीति राजतां सुजनानां प्रेयसीति रमाविशेषणम् । रमा की । सुदानशाली- नीति राजत्सुजनप्रेयसीति च नपुंसकलिङ्गकं पदद्वयम् । पादाब्जयोर्विशेषणम् । पादाब्जेच कर्तृणी। सुदानशालिनीरिति सुजनप्रेयसीरिति च स्त्रीलिङ्गद्वितीयाबहुवचनान्तपदद्वयं । संपद्विशेषणम् । संपदः कर्माणि । तनुतामिति पदं कुरुतामितिवद्योज्यं पूर्ववत् । 'ठूलोपे पूर्वस्य दीर्घोऽणः' इति दीर्घः॥१४॥ आदन्तोत्तरत इति ।आकारान्तपदाव्यवहितोत्तर- मित्यर्थः । अज्वादेः अचः अ इ उ ऋ ए ओ ऐ औ एते (वकारश्च) आदौ यस्य तस्य शब्दस्य संध्या संधिपूर्वकं गुम्फने योजने सति । विभासितेति । सेनासंनिवेशपक्षे 'वि- भासितौ इभौधेन' इति पदच्छेदः। चन्द्रलेखापक्षे 'विभासिता विभौघेन'इतिच्छेदः ।इभानां गजानामोघस्तेन । अन्यत्र वकारः शोभावाची सोऽस्यास्तीति विभानां नक्षत्राणामोघः स- मूहस्तेन । यद्वा वोऽमृतमासामस्तीति विन्यो भाः कान्तयस्तासामोघेन । अमृतमयकान्त्यो- घेनेति यावत् ॥१५॥ कश्यपार्काविति । कश्यपाकौ कश्यपसूर्यों मुदा अरुणेन अनूरुणा सेवितौ । प्रतीचीपक्षे मुदा वरुणेन प्रचेतसा सेविता । पालितेत्यर्थः । असौ चन्द्रमा गोमिः। संमान्य मानयित्वा चुचुम्ब। अत्र प्रतीचीसंबन्धरूपास्तमये वर्ण्यमानेऽप्रस्तुतपरवनिता- सक्तपुरुषान्तरप्रतीतेः समासोक्तिरलंकारः। 'अप्रस्तुतपरिस्फूर्तिर्यत्र प्रस्तुतवर्णने । समा- सोक्तिः' इति लक्षणात् ॥१६॥ रामावलीति । 'रामौ अलिविलासेन, रामाः बलिविला- सेन'इति द्विधा पदच्छेदः । 'रामा बलि विलासेन' इति रमापक्षे छेदः । वलीनां त्रिवलीनां विलासेन रामा रमणीया रमा लक्ष्मीः। रामावलि विलासेनेत्येकं पदम् । रामाणां स्त्रीणा. मावलौ विलासो यस्य तथोकेन हरिणा कृष्णेन रमते । 'रमु क्रीडायाम्' इत्यस्मालट् । करटाविव गजगण्डाविव । एतत्पक्षेऽलिविलासेन भ्रमरविलासेन रामौ रमणीयौ । गोप्यो वा गोपिका इव । 'ववायथातथैवेवं सामान्ये' इत्यमरः । एतत्पक्षे वलीनां त्रिवलीनां वि- लासेन रामा रमणीयाः । पद्मच्छदाविव कमलपत्रे इव । एतत्पक्षेऽलीनां विलासेन रामौ रमणीयावित्यर्थः । अत्र 'लिङ्गसंख्याविभेदेऽपि उपमानोपमेयता। विभक्तिः पुनरेकैव उप- मानोपमेययोः॥' इत्यनुशासनाच्छेषकृतसाधारणधर्मोपादानविशिष्टोपमानालंकारे वचन- १.चित्रबिन्दुः] मन्दारमरन्दचम्पूः। १५ - अजन्तानां हलन्तानां यथायोगं नियोजने । विभक्तिमेदाचित्रं स्यात्स्वावम्टादिपदान्वयात् ॥ यथा प्रथमायाम्- प्रकीर्णकचमरीचयः सुरतश्रान्ताङ्गना इवाभाति । अपि बहुकारुचयो घोटकशाला इवाचलाधिपतिः ॥ १८ ॥ लोहकारनिषद्याश्च राजन्ते पुरि सर्वतः । अनेककृष्णसूच्यश्च नन्दसूनुरिव व्रजे ॥ १९ ॥ प्रथमाद्वितीययोर्यथा- तमोविध्वंसिनी राजकमलानन्ददायिनी । हरिनेत्रे तुलयति भानोः किरणसंततिः ॥ २० ॥ भेदेऽपि न दोषः॥१७॥ स्वावम्टादिपदान्वयादिति। प्रथमैकवचनद्विवचनद्वितीयै- कवचनतृतीयाद्यन्वयादित्यर्थः। प्रकीर्णकेति।अचलाधिपतिः पर्वतश्रेष्ठः । भातीत्यन्वयः। किंभूतः। सुरतेन श्रान्ता अङ्गना इवेत्येकं पदम् । 'इवेन सह नित्यसमासो विभक्त्यलोपश्च' इत्यनुशासनात् । उपरिसुरतश्रान्तकान्ता इवेत्यर्थः । प्रकीर्णकचमरीचयः कान्तापक्ष प्रकीर्णनां कचानां मरीचिः प्रभा यासां तास्तथोक्ताः । पर्वतपक्षे प्रकीर्णको विस्तृतः चमरीणां चयो वृन्दं यस्मिंस्तथोक्तः । प्रथमैकवचनम् । 'प्रकीर्णकं चामरे स्याद्विस्तृते ना तुरंगमे' इत्यनेकार्थमेदिन्यौ । किंचेत्यप्यर्थः । घोटकशाला इव वाजिशाला इव । बहुक- कोणामनेकशुक्लाश्वानां रुचिर्यासु ता इति बहुवचनम् । पर्वतपक्षे बहूनां कर्कारूणां कू- ष्माण्डकानां चयो यस्मिंस्तथोक्त इत्येकवचनम् । 'सितः कर्कः' इति । 'कूष्माण्डकस्तु कार्कारुः' इति चोभयत्रामरः॥१८॥लोहकारेति।लोह काराणां निषद्याः। आपणस्तु निष- यायाम्'इत्यमरः। पुरि नगरे सर्वतः सर्वत्र । सार्वविभक्तिकस्तसिः। ब्रजे गोकुले नन्दसूनु- रिव कृष्ण इव । अनेककृष्णसूच्यः अनेकाः कृष्णाः सूच्यः प्रसेविन्यो यासु ता इत्यापण- पक्षे बहुवचनम् । कृष्णपक्षेऽने कर्जनैः कृष्ण इति सूच्यः सूचनाविषय इत्येकवचनम् । राजन्ते॥१९॥तम इति।भानोः सूर्यस्य किरणानां संततिः की । हरेनेत्रे कर्मणी। तमो- विध्वंसिनी तमो ध्वान्तं विध्वंसयतीति तथोक्ता। ताच्छील्ये णिनिः। स्त्रीवात् ङीप् । इति भानुकिरणपक्षे स्त्रीलिङ्गप्रथमैकवचनम् । हरिनेत्रपक्षे तमोऽज्ञानं विध्वंसयत इति तथोक्ते नपुंसकलिङ्गद्वितीयाद्विवचनम् । एवमग्रेऽपि । कमलेति । पद्मं लक्ष्मीश्चेत्यर्थः । अत एव तुलयति समीकरोति। नात्रोपमालंकारः। किंतु प्रकृताप्रकृतोभय श्लेषः।तेन 'लिङ्गसंख्यावि. भेदेऽपि' इत्यनुशासनाद्विभक्तिभेदस्य चात्र सखात्कथमुपमालंकार इति शङ्का परास्ता।
१६ काव्यमाला। सदयः करवालानां वृन्दमन्वकरोन्नृपः । विशालकीर्ति ग्रीष्मीयसरोऽपि विदुषां कुलम् ॥ २१ ॥ उत्कुल्लमल्लिकाजालमालिकाबद्धकेशवान् । केलीकुपितगोपस्त्रीजनाननुकरोत्ययम् ॥ २२ ॥ पल्लवलालितसुवयो वेश्यावृन्दं भजन्ति चारामाः । उल्लसितश्रीकवयस्तुलयन्त्युद्यानमाः सभादेशाः ॥ २३ ॥ अपमानत्वेनाप्रकृतस्योपमेयत्वेन प्रकृतस्य च विशेषणमात्रश्लेषाच्छेषालंकारः संगच्छते । तथा चोक्तं प्रतापरुद्रीये-'प्रकृताप्रकृतोभयगतमुक्तं यच्छेषमात्रसाधर्म्यम् । श्लेषोऽयं श्लि. प्रत्वं सर्वत्रायद्वयेनान्त्यः ॥' इति । अत एव प्रकृताप्रकृतोभय श्लेषविवक्षया विभक्तिवच- नमेदेनोकं भैष्मीपरिणये-'समदया गजपतया सदृशी नीतिश्च' इति॥२०॥सदय इति । नृपः कर्ता । सदयः दयया सहितः । इति अदन्तप्रथैकवचनम् । अन्यत्र सत् अयो लोहो मस्मिन् तथोक्तमिति सान्तद्वितीयैकवचनम् । अत एव करवालानां कृपाणानां वृन्दम. बकरोत् अनुससार । विदुषां कुलं समूहः कर्तृ विशालकीर्ति विशाला कीर्तियशो यस्य तदिति प्रथैकवचनम्। अन्यत्र विशाला कीर्तिः कको यस्मिन् तदिति द्वितीयैकवचनम् । प्रीष्मीयसरःप्रीष्मकालिकतटाकम् ।अन्वकरोदित्यस्यानुकर्षः। 'यशःकर्दमयोः कीर्तिः' इ. त्यनेकार्थः॥२१॥ उत्फुल्लेति । अयं कर्ता ।उत्फुल्लानां मल्लिकानां जालस्य मालिकया बद्धाः केशा अस्य सन्तीति तथोक्तः इति तकारान्तप्रथमैकवचनम् । 'न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः' इत्यनुशासनस्यानित्यत्वान्मत्वर्थीय(वति)प्रत्ययः। अन्यत्र उत्फुल्लमल्लिकाजालमालिकाबद्धः केशवो यैः, येषां वा तानिति पुंलिङ्गद्वितीयाबहुवचनम् । अत एव केलौ कुपितान् गोपस्त्रीजनान् अनुकरोति अनुसरति । 'उपसर्गेण धात्वर्थो बला- दम्यत्र नीयते। विहाराहारसंहारप्रहारपरिहारवत् ॥' इत्युक्तः॥२२॥पल्लवेति।आरामः कर्तारः। पल्लवलालितसुवयः पल्लवैः किसलयैः करणैः लालिता लालनयुक्ताः । अधिक- रणे तः। शोभना वयः पक्षिणइति इदन्तप्रथमाबहुवचनम् । अन्यत्र पल्लवैर्विटैलालितं मुष्ठु वयो यौवनं यस्य तदिति सान्तद्वितीयैकवचनम् । वेश्यावृन्दं कर्म । भजन्ति । स- भादेशाः कर्तारः उल्लसितश्रीकवयः उल्लसिता विकसिता श्रीर्येषां ते कवयो येषु। तेइति इदन्तप्रथमाबहुवचनम् । अन्यत्र उल्लसिता श्रीर्यस्य तदुल्लसितश्रीकं वयः पक्षी यस्मिन् तदिति नपुंसकद्वितीयैकवचनम् । अत एव उद्यानं कर्म तुलयन्ति समीकुर्वन्ति । पल- बोऽस्त्री किसलये पुंसि शृङ्गारषिङ्गयोः' इत्यनेकार्थः । 'विविष्किरपतत्रयः' इत्यमरः । 'वयः पक्षिणि बाल्यादौ यौवने च नपुंसकम्' इति मेदिनी। 'आः प्रगृह्यं स्मृतौ वाक्ये १.चित्रबिन्दुः] मन्दारमरन्दचम्पूः। प्रथमातृतीययोर्यथा- सततालम्बितहरिणा भक्तजनेनाभवद्वनी सदृशी। विमलतरवारिभृत्या शरदि सरस्या च वाहिनी सहशी ॥ २४ ॥ प्रचलहुन्दुभिर्नागलोकदेशैः समीकृतः । वाहिनीसंनिवेशोऽयं भाति कृष्णमहीभुजः ॥ २५॥ प्रथमाचतुर्योर्यथा- अतिमञ्जलशयनाभिर्गोपवधूभिः समीकृतः कृष्णः । निजसारूप्यं प्रददौ भक्तजनेभ्यः प्रसन्नरामेभ्यः ॥ २६ ॥ । विस्मये च समुच्चये' इत्यनेकार्थादौ इति विस्मयार्थे ॥२३॥ सततेति । वनी कीं। 'श्री स्यात्काचिन्मृणाल्यादिर्विवक्षापचये यदि' इति कोशादल्पवविवक्षायां स्त्रीलम् । 'जाते. रस्त्रीविषय-'इत्यादिना ङीष् । अल्पवनमित्यर्थः । उपवनमिति भावः । सततालम्बितह- रिणा सततमालम्बिताः। कर्तरि कः । हरिणाः कुरजा यस्यां सेति आदन्तस्त्रीलिङ्गप्रथमैक- वचनम् । अन्यत्र सततमालम्बितः । कर्मणि कः । हरिर्येन तेनेति । इदन्ततृतीयैकवच. नम् । अत एव भक्तजनेन सदृशी अभवत्। 'तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्" इति तृतीया । वाहिनी सेना की । विमलतरवारिभृत्या विमलस्तरवारिः खड्गो येषां ते भृत्याः भटा यस्यां सेति प्रथमैकवचनम् । अन्यत्र विमलतरस्यात्यन्तस्वच्छस्य वारिणो भृतिभरणं यस्यास्तयेति तृतीयैकवचनम् । सदृशी अभवदिति पूर्वेणान्वयः। शरदि शर- हतौ स्थितयेत्यर्थः । सरस्या कासारेण । 'उद्याने हरिणाः सर्वफलपुष्पलताद्वमाः' इति वावर्ण्यप्रकरणे कविकल्पलतायां देवेश्वरोक्तेरुद्याने हरिणालम्बितत्वं बोध्यम्। 'कासारः सरसी सरः' इत्यमरः। 'ऋषिः खगस्तरवारिः शस्त्रो भद्रात्मजश्च सः' इति त्रिकाण्डशेषः। 'सेना नदी च वाहिन्यौ'इति च॥२४॥प्रचलदिति। कृष्णमहीभुजः कृष्णराजस्य वाहि- नीसंनिवेशः सेनासंनिवेशः। कर्ता । प्रचलहुन्दुभिः प्रचलन्तो दुन्दुभयो यस्मिन् स इति इद- न्तप्रथमैकवचनम्। अन्यत्र प्रचलन संचलन् दुन्दुः राजसो येषु तैरिति तृतीयाबहुवचनम्। अतएव नागलोकदेशैः पातालप्रदेशैः समीकृतो भाति। भा दीप्तौ'लिट् । अथ नागभृदुन्दुः' इति त्रिकाण्डशेषः। 'दुन्दुडुण्डुरहीरणौ' इति कमलाकरश्च ॥२५॥ अतिमजुलेति। कृष्णः कर्ता। अतिमञ्जुलशयनामिः अत्यन्तं मञ्जुले शयः पाणि मिश्च यस्य तथोक्त इति।इदन्तप्र. थमैकवचनम् ।अन्यत्र अतिमञ्जुलं शयनं सुरतं यासां ताभिरिति तृतीयाबहुवचनम् । अत एव गोपवधूभिः समीकृतः। प्रसन्नरामेभ्यः प्रसन्नानां रामाणामिभ्यः पतिः । यद्वा प्रस. भाभी रामाभिरिभ्य आन्य इति प्रथमैकवचनम् । अन्यत्र प्रसन्नो रामो दाशरथिर्येभ्य- स्तेभ्य इति चतुर्थीबहुवचनम् । अत एव भक्तजनेभ्यः निजसारूप्यं साम्यं प्रददौ ।मक- काव्यमाला । प्रथमापञ्चम्योर्यथा- लसद्विपादः पञ्चास्यादविशेषविधायकः । नमद्विजाय पाहीति नमश्चक्रे स भाखते ॥ २७ ॥ एवमेव द्वितीयादिषूह्याः। अक्षरमात्राबिन्दुच्युतकानुलोमप्रतिलोमादयोऽपि । जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटेलम्पटेन । गुहपुरनिलयेन प्रोद्धृतश्चित्रबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥ इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगी- श्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणश्चन्द्रदेवशर्मणश्च कृतौ मन्दार. मरन्दे चम्पूप्रबन्धे चित्रबिन्दुश्चतुर्थः समाप्तिमगमत् । जनैरिभ्यः आन्य इति कृष्ण विशेषणमपि भवति। 'शयनं सुरते निद्राशम्ययोश्च नपुंसकम्' इतिमेदिनी। 'इभ्या करेणुशल्लक्योः स्त्रियामान्ये प्रियेऽन्यवत्' इत्यनेकार्थः॥२६॥ लसदि- ति । सः कर्ता । लसद्विपादः लसन्तो द्वौ पादौ यस्य स इति प्रथमैकवचनम् । अन्यत्र लसन्तं द्विपं गजमत्तीति लसद्विपात् तस्मादिति पञ्चम्येकवचनम् । अत एव पश्चास्यात्सि- हात् अविशेष विधायकः विशेषाभावविधायकः।समइति यावत् विशेषत्वं च भेदबोधकधर्म- त्वम्। अन्यारादितरर्ते दिक्शब्दाश्त्तरपदाजाहियुक्ते' इति सूत्रेणप्रतियोगिवावचकपश्चास्य. पदात् सप्तमी । अन्य इत्यर्थग्रहणमित्युक्तः। तथा च प्रतियोगित्वं पञ्चम्यर्थः । तस्य वि. शेषपदार्थैकदेशे भेदेऽन्वयः।संपन्नो व्रीहिरित्यादी क्वचिदेकदेशान्वयखीकारात्।तदभावपक्षे विशेषपदस्यैव भेदे लक्षणा । तथा च अविशेष विधायक इत्यस्य भेदाज्ञापक इत्यर्थः । इदं तच्छब्दार्थकर्तृविशेषणम् । नमतां द्विजानामयः शुभावहविधिर्यन तस्य संबुद्धिः । नम- द्विजायेति संबोधनम् । सूर्योदये सति यज्ञदानस्नानादिशुभावहव्यापाराःप्रवर्तन्ते। पाहीति उक्त्वा भाखते सूर्याय नमश्चके । भावन्तमनुकूलयितुं नमश्चक इत्यर्थः । 'क्रियार्थोपप. दस्य च कर्मणि स्थानिनः' इति चतुर्थी । क्रियार्थोपपदस्य तुमुन्नन्तस्याप्रयुक्तस्य धातोर्य- कर्म तत्प्रयोग विना तदर्थकर्मतया यद्विवक्षितं तद्वाचकपदाचतुर्थीति सूत्रार्थः। 'अयः शुभावहो विधिः' इति कोशाददन्तोऽयशब्दः । प्रन्थगौरवमीत्या उपसंहरति-पव- मिति। द्वितीयादिषु द्वितीयादिविभकिविशिष्टेषु । तथा च द्वितीयान्तस्य तृतीयाद्यन्ता- न्वयेन तृतीयान्तस्य चतुर्थ्याद्यन्तान्वयेनेत्यादिरीत्योह्या इत्यर्थः ॥ जलजनीति । पथं पूर्ववदेव बोध्यम् ॥ इति श्रीमन्दारमरन्दव्याख्यायां माधुर्यरजन्याख्यायां गूढकर्तृ. कायां चित्रविन्दुश्चतुर्थः ॥
४९ ५. बन्धबिन्दुः] मन्दारमरन्दचम्पूः। बन्धबिन्दुः । अथाधुना बन्धविन्दौ बन्धलक्ष्माणि कानिचित् । ब्रूमहे बुधमोदाय गर्मितोदाहृतिक्रमम् ।। यद्यप्यनेके बन्धास्तु कविप्रौढिमगुम्फिताः । तथापि ब्रूमहे कांश्चिन्नागपनगजादिकान् । द्वितीयान्त्यौ तथा तुर्यत्रिंशतौ षष्टषष्टिको । अष्टमाष्टत्रिंशतौ च दिक्चतुःषष्टिकावपि । द्वादशेन्द्रौ नाट्यचेष्टाद्विचत्वारिंशतौ तथा । पीठाष्टषष्टिकौ च षट्चत्वारिंशविंशती ॥ द्वाविंशत्पट्सप्ततिको पञ्चाशत्केशवावपि । अशीतिषड़िशती चत्वारिंशत्पष्टपष्टिकौ ॥ साष्टपञ्चाशविंशौ च तौ पत्रिंशविषष्टिको । त्रिंशतौ द्विचतुः पूर्वी तथैव द्विचतुः परौ ॥ पञ्चशतौ चतुश्चत्वारिंशत्सप्ततिको तथा । अष्टाभिरधिको चत्वारिंशत्सप्ततिको तथा ॥ अथ कविर्बन्धबिन्दुमुपक्रमन् प्रतिजानीते-अथेति। प्रयोजनमाह-बुधमोदा येति । तत्र निमित्तमाह-गर्भितोदाहतिक्रममिति । क्रियाविशेषणमिदम् । यद्य- पीति। सन्तीति शेषः। प्रौढिमेति ।प्रौढतेत्यर्थः। प्रौढशब्दाद्भावे इमनिच्प्रत्ययः। कां- श्चिदिति । ननु पूर्वपदे कानिचिदित्यनेनैव निर्वाहे अत्र कांश्चिदित्यस्य वैयर्थ्यमिति चेदु- च्यते । पूर्वत्र कानिचित्पदं लक्षणान्वयि अत्र कांश्चित्पदं बन्धान्वयीति विशेषः । अत एव छत्रचामरबन्धादीनां लक्षणं सुगमत्वानोक्तम् ,नागबन्धादीनां लक्षणमुक्तमाहंसमयूर• क्षीरहारमच्छा(?)दिबन्धा नोक्ता इति ध्येयम् । तत्रादौ नागबन्धलक्षणमाह-द्वितीया- न्त्यावित्यादिना । द्वितीयाक्षरान्त्याक्षरे इत्यर्थः। एवमप्रेऽपि। तुर्यत्रिंशतौ चतुर्थत्रिं. शवो । 'चतुरश्छायतावाद्यक्षरलोपश्च' इति चतुःशब्दाद्यत्प्रत्ययः। अष्टमाष्टमाष्टमश्चाष्टत्रि- शञ्चाष्टमाष्टत्रिंशतौ । अष्टन्शब्दात् 'तस्य पूरणे डट्' इत्यनेन जातस्य डटः 'नान्तादसं. ख्यादेमंट्' इति मडागमः। दिक् दशमो वर्णः। इन्द्रश्चतुर्दश। नाट्यचेष्टा षोडश । पीठम. टादश । षट्चत्वारिंशविंशतीति। विंशत्यादिभ्यस्तमडन्यतरस्याम्' इति तमडागमस्य वैकल्पिकलाञ्चत्वारिंशच्छन्दाइट् । साष्टपञ्चाशविंशो चेति । अष्टपञ्चाशदष्टाविंशा- मन्दा. ५ '५० काव्यमाला। षट्पश्चाशद्वयशीती च सप्तती द्विचतुः परे । इमावुभावुभौ वर्णावेकत्वं भजतो यदि ॥ तदेकनागबन्धस्तु स्रग्धरायां भवेद्भुवम् । विदग्धहृदयानन्दश्चतुष्कोणाकृतिर्वरः॥ यथा- श्रीरामो हर्म्यधामा सततसुमहिमश्रीनतो ज्ञप्रभूतः सुग्रीवप्रीतये तत्सहजमयममुं भालसत्सायकेन । पायान्मां भूभृदीशो वनमिह मिहिरव्रातबाधायभावे तस्यायन्नाज्ञयायाममशमधिसुखोऽदीनितस्यारिधारा ॥१॥ एवमुत्तरत्रापि नागबन्धभेदेषु यथोचितं लक्षणं परिष्करणीयम् । अष्टदलपद्माकारेणैकनागबन्धो यथा- मुरस्यारातेरुच्चरणशरजामन्दमधुपं तनो लक्ष्मीवर्या रचितगुरुपामप्रशमिताम् । वित्यर्थः। अत्रोक्तानां संख्येयवाचकत्वमेवेति बोधनायाह-इमाविति। स्रग्धराया. मिति । तन्नामकवृत्त इत्यर्थः । एवमेव नागबन्धमुदाहरति-श्रीराम इति । स इति तच्छब्दबलाद्य इति लभ्यते । यो रामस्तस्य दशरथस्य आज्ञया इह भूमौ मिहिराणां कर्तृतासंबन्धेन सत्कर्मवताम् । सत्कर्मकर्तृणामिति यावत्। 'मिहिरः पुंसि पूषणि । नित्यस- कर्मणि धने वृद्धेऽपि' इति वररुचिः। व्रातस्य वृन्दस्य बाधादीनामभावे। विषयसप्तमीयम् । बनमयन् गच्छन्। 'इटकिटकटी गतौ' इत्यत्र गत्यर्थकात्प्रश्लिष्टइधातोः कर्तरि शतृप्रत्ययः। सुग्रीवस्य प्रीतये तत्सहजं स एव सहजो यस्य तममुं वालिनं भया दीया लसता सायकेन अयामं संयमरहितम् । गमनोन्मुखप्राणमिति यावत्। अत एव अशं सुखरहितम्। अकरो- दिति शेषः । स तादृशः । हयं धाम यस्य तथोक्तः । तता व्याप्ता सुमहिनो माहात्म्यस्य श्रीर्येषां तैब्रह्मादिभिनतो नमस्कृतो ज्ञ इव बुध इव चन्द्र इव वा । 'ज्ञो ब्रह्मबुधचन्द्रेषु' इत्यनेकार्थः । प्रभूत उद्गतः । सौम्य इति यावत् । भूभृतां राज्ञामीशः अधिसुखो अधिक- सुखः । अदीनितस्य दीनितो न भवतीत्यदीनितः। 'दीङ क्षये' इत्यस्मादधिकरणे कः। तस्य । मत्तस्येति यावत् । अरिधारा चक्रधारेतिरूपकम् । अयं श्रीरामो मां पायात् । अत्रा- दुतरसस्य रत्यरत्वाद्रसवदलंकारः। 'रसो यत्र परस्याङ्गं चेत्तत्र रसवान्मतः' इति लक्ष- णात् । 'प्रधैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' इति लक्षणात्नग्धराव. तम् । शब्दालंकारस्तु चित्र एव । किं चात्राष्टकोणस्थितवर्णैः 'श्रीहयग्रीवेण पाहि' इति प्रतीयते । उत्तरत्रापीति । नागबन्धमेदेष्वित्यर्थः ॥ मुरस्येति । हे तनो देहामिमा- ५१ ५. बन्धबिन्दुः] मन्दारमरन्दचम्पूः। पदश्रीनिधूतद्रुमनवपलाशान्तररमां महीजातां तां भो धुतनिललधाम व्रज भज ॥ २॥ एवं द्वित्रिचतुर्नागबन्धेषु यथासंभवं भेदा ऊहनीयाः । ओजयुक्तेष्वाद्यषष्ठतृतीयान्त्यैकता भवेत् । दलैादशभिर्युक्तः पद्मबन्धस्त्वनुष्टुभि ॥ यथा- दाराणां सुखदातारं दैत्यदामहरं मुदा । दावामिमरिदावस्य भजे दामोदरं सदा ॥३॥ द्वादशदलपद्मभेदो यथा- कमलाचित्तनालीक कलीनाहतकंटक । कटकं देहि भालांक कलां भाग्यललामकम् ॥ ४ ॥ - निन् जीव,मुरस्य दैत्यस्यारातः शत्रोः। विष्णोरित्यर्थः। उत् उत्कृष्टं चरण एव शरजं जलजं तस्मिन्नमन्दं जागरूकं मधुपं भ्रमरमिति रूपकम्। लक्ष्मीः कान्तिः वृणोति यामिति लक्ष्मी- वर्याम् । अधिककान्तिमतीमित्यर्थः । श्रेष्ठलक्ष्मीमिति विशेषणोत्तरपदबहुव्रीहिर्वा । रचि. तस्य गुरुणो महतः पामस्य(मः) पापस्य प्रशमिता शमनम् । भावे क्तः । यया ताम् । 'पामा विचर्चिकायां स्त्री न द्वयोः पापपक्षयोः' इत्यनेकार्थः । पदश्रिया पादकान्त्या निर्धूता तिरस्कृता द्रुमस्याशोकस्य नवस्य नूतनस्य पलाशस्य पत्रस्यान्तररमा मध्यलक्ष्मीर्यस्या- स्ताम् । 'द्रुमो नाशोकवृक्षयोः' इत्यनेकार्थः । महीजातां भूमिजातां तां सीतां भज । 'भज सेवायाम्' लोद।धुतो निरस्तो निललो नितरां लल्यते ईप्स्यते इति निललः संसारो यस्मि- स्तथाविधं धाम स्थानम् । मुक्तिमित्यर्थः । व्रज। अत्र 'लक्ष्मीपते पाहि' इति प्रतीयते अष्टकोणस्थितवणैः ॥ ओजेति । ओजो प्रथमतृतीयौ च युक्तौ च द्वितीयचतुर्थों च तेषु । तथा च प्रथमतृतीयपादयोराद्यषष्ठवौँ । द्वितीयचतुर्थपादयोस्तृतीयान्यवौँ यौ तेषामेकरूपत्वमिति भावः। उदाहरणे दा इत्यक्षरं तथाविधं बोध्यम् ॥दाराणामिति । पत्नीनामित्यर्थः । दैत्यानां दाम मालां हरतीति तथोक्तम् ॥कमलेति । कमलाया ल- क्ष्याश्चित्तमेव नालीकं पद्मम्। 'नालीकं त्वब्जे क्लीबं शरे पुमान्' इति रत्नमाला । तस्मिन् भ्रमरेति संबोधनम् । 'कलीनं तु खलीनेलौ' इत्यनेकार्थः । आसमन्ताद्धतः कण्टको येन तस्य संबुद्धौ तथोक्तम् । 'रोमाञ्चे क्षुद्रशत्रौ च द्वमाझे कण्टकोऽस्त्रियाम्' इति त्रिकाण्ड- शेषः । भालाकः । 'भालाङ्कः करपत्रे स्याच्छाकभेदे च रोहिते । महालक्षणसंपन्नपुरुषे १-२. परसवर्णस्य नित्यत्वे बन्धानुगुण्येनानुखार एव रक्षितः.
५२ काव्यमाला। षोडशदलपद्मबन्धो यथा- कृतखान्तततध्वान्तधूत भूतहितव्रत । दान्तशान्तजितप्रेत श्रौतगीतसुतस्तुत ॥ ५ ॥ अष्टदलपद्मबन्धो यथा- माता तस्या धरण्याश्चरणमजकवस्तीशयक्षोरधामा माधारक्षो यशस्वी भवतु मम मुदे प्राजितस्फारनामा । मानारस्फातजिभ्राजितरिपुनिवहध्वंसनव्याससामा मासासव्या न स ध्वंसितदितिजवरेण्यारपस्यातवामा ॥ ६ ॥ एतेषु यथासंभवं लक्षणमूह्यम् । एवमग्रेऽपि । कच्छपे हरौ॥'इति मेदिनीकोशान्महालक्षणसंपन्नेत्यर्थः। भया कान्त्या आत्यं युकं ललामं भूषणं यस्य तथोक्तम् । 'ललाम पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु' इत्यमरः । कलां विद्या- रूपं कटकं भूषणमिति व्यस्तरूपकम् । देहि । इयं विष्णुं प्रति भक्तस्योक्तिः ॥ कृतेति । कृतं वान्ते भक्तहृदये ततस्य व्याप्तस्य ध्वान्तस्याज्ञानस्य धूतं निरसनम् । भावे क्तः । येन तस्य संबुद्धौ तथोक्तम् । भूतानां प्राणिनां हिते हितकरणे व्रतं दीक्षा यस्य तथोक्तम् । जितः प्रेतः शत्रुर्येन सः । 'प्रेतः शत्रौ शवेऽपि च' इत्यनेकार्थः । श्रुतीनां समूहः श्रौतं तस्य गीतं यस्य सः । उच्चारणार्थकाद्गाधातो वे क्तः। तथा च दान्तश्चासौ शान्तश्चासौ जितप्रेतश्चासौ श्रौतगीतश्चासौ सुतश्च । ब्रह्मेत्यर्थः। तेन स्तुतेत्यपि संबोधनम्। देहीति पू. वेणान्वयः॥ मातेति । माता तस्याः धरण्याः चरणभजकवस्तीशयक्षोरधामा माधारक्षः यशखी भवतु मम मुदे भ्राजितस्फारनामा मानारस्फातजिभ्राजितरिपुनिवहध्वंसनव्यास- सामा मा आस असव्या न सः ध्वंसितदितिजवरेण्यारधस्य अततामा इति पदच्छेदः। स इति तच्छन्दप्रयोगाद्यस्येत्यध्याहर्तव्यम् । ध्वंसिता दितिजवरेण्या दैत्यश्रेष्ठा नरकाद्या येन तस्या तथोक्तम् । यस्य कृष्णस्यत्यर्थः । अततोऽसंगत आमो रुक् यस्याः सा तथोका। 'ततं व्याप्ते विस्तृते संगते त्रिषु । वीणादिवाये क्लोबे स्याद्वायौ पुंसि' इत्यनेकार्थः । 'आमो रुक्तद्भिदोः पुंसि स्यादपक्वेऽन्यलिङ्गकः' इति मेदिनी । मा लक्ष्मीः। असव्या वामभागा- स्थिता । 'वामं शरीरं सव्यं स्यात्' इत्यमरः। नास नाभवत् । तथा च भार्या अभवदिति भावः । स तादृशः कृष्णो मम मुदे भवत्वित्यन्वयः। अन्यत्सर्वमस्य विशेषणम् । तस्या धरण्या भूमेर्माता मानकर्ता वसवश्च ईशश्चासौ पक्षश्वेशपक्षः। यक्षराज इत्यर्थः। उःशिवः। रोऽग्निः । एतेषां द्वन्द्वः । तथा च चरणभजकानां स्वपादसेवकानां वस्तीशयक्षोराणां वसुकु- बेरविववहीनां धाम तेजो येन स तथोक्तः। माया लक्ष्म्या आधारः क्षः वक्षःस्थलं यस्य स तथोकः । यशखी कीर्तिमान् । भ्राजितानि स्फाराणि बहूनि नामानि यस्य स तथो- ५. बन्धबिन्दुः] मन्दारमरन्दचम्पूः। ५३ गजबन्धो यथा- राजाभास्या भासमानस्वर्णकर्णस्वपिखरा। सारापाला पातु लोला सा पिकखनमासरा ॥ ७ ॥ चक्रबन्धो यथा- श्रीराजीवविराजमाननयनं श्यामाम्बुदामं हरिं श्रीमद्वीन्द्र(१)महेन्द्रवन्दितपदं पापादपेतं भजे । अञ्चन्तं गजराजवजनकजातालस्तनालिङ्गितं सान्द्रप्रेमभरं स्वभक्तनिवहे गेयस्ववीर्य बुधैः ॥ ८ ॥ छत्रबन्धो यथा- सालजालवलद्वाते भूरिभूते हगाहते । सा रराज रमा चारुरुचा मारजरारसा ॥९॥ - कः । मया संपदा नारेण नरसमूहेन च स्फातानाममिवृद्धानां जिनां जयवतामत एव भ्राजितां प्रकाशमानानां रिपूणां निवहस्य वृन्दस्य ध्वंसनव्यासे नाश विस्तारे साम उपायो यस्य स तथोक्तः । 'व्यासो मुनौ च विस्तारे' इति त्रिकाण्डशेषः। क्षादीनां वक्षःस्थला- दिवाचकत्वमेकाक्षरकोशे द्रष्टव्यम् ॥ राजामेति । राजाभास्या भासमान वर्णकर्णख- पिखरा सारापाला पातु लोला सा पिकखनमासरा इति पदच्छेदः । सेति तच्छन्दबला- येति लभ्यते । वा राजाभास्या चन्द्राभमुखी । 'राजा चन्द्रो नृपो राजा' इति मारी। खं पातीति स्वपम् । द्रव्यसाध्यमित्यर्थः । मुक्ताफलमिति यावत् । खपमस्यास्तीति खपि । भूषणमिति यावत् । कर्णयोः स्वपि । कर्णसंबन्धि भूषणमित्यर्थः । खरः गानं भाषणं वा । कर्णवपि च स्वरश्च कर्णस्वपिस्वरौ । वर्णमस्यास्तीति खर्णम् । अन्यत्र सुष्टु अर्णाः वर्णानि यस्मिन् स वर्णः । स्वर्ण च स्वर्णश्च स्वर्णों (१) खौँ च तौ कर्ण- खपिखरौ च वर्णकर्णखपिस्वरौ भासमानौ वर्णकर्णखपिस्वरौ सुवर्णमयकर्णभूषणशो- भनाक्षरयुक्तभाषणे यस्याः सेति तथोक्तम् । 'स्वरो गाने भाषणे नासिकानिले । उदा- तादौ च षड्जादावकारादौ ध्वनौ पुमान् ॥' इत्यनेकार्थः । अराणामिदमारं चक्रं तेन आसमन्तात्पालयतीत्यारापालो विष्णुः । तेन सहिता सारापाला । खनस्य मा संपत् तस्याः सरः । माला । पिकस्य वनमासर इव वनमासरो यस्याः सा तथोक्ता । लोला अस्थिरा लक्ष्मीः पातु रक्षतु । 'पा रक्षणे' इत्यस्मालोट् ॥ १. अस्माभिरियानेव टीकाप्रन्थ उपलब्धः.
५४ काव्यमाला । चामरबन्धो यथा- मारसारतरस्फारस्कातिभारं परं सुरम् । सीतानेत्रचकोरेन्दुबिम्बं वन्दे रमेश्वरम् ॥ १० ॥ मर्दलबन्धो यथा- मारसापरसापारामापारापरसापसा । मवरापवरामायामामायापवरावरा ॥ ११ ॥ रथबन्धो यथा- पादाहितगुणा मान्ति यस्य चित्ते कलावतः । महिलानन्ददं कान्तं तं भजे सततं हरिम् ।। १२ ।। गोमूत्रिकाबन्धो यथा- भजे राधावरं कन्नमुखं भक्तरुचिव्रतम् । बजे बाधाहरं कुञ्जसुखं व्यक्तशुचिस्मितम् ॥ १३ ॥ नाडीरामोऽब्धिभूर्नेत्रदृग्भूवर्णोऽग्निकन्यका । भृरसोऽशिगजो वार्धिवाजी सायककन्यका ॥ कर्मस्वरः सिद्धिगजो नदीशत्रुर्गजाम्बुधिः । तर्करामः पापचन्द्रो नदीनेत्रं शरानलः ॥ कारकेन्दुर्दन्तिनेत्रं मुनिवार्थी रमारसः । मुनिलक्ष्मीः पाण्डवार्वा प्रश्नकाव्यं युगे रसः ॥ मूर्तिगन्धश्चन्द्रमुनिर्नेत्रवाणो युगाम्बुधिः। मृतिर्ने चन्द्रचन्द्रो नेत्रमूर्तिः क्षमाशरः ।। बाहुद्वीपो वार्धिलक्ष्मीः कालतर्कोशिसागरः । भूमिनेत्रं कालचन्द्रो वार्धिकालो बलाम्बुधिः ॥ कन्याकुचो द्वीपचन्द्रो गजशक्तिर्नदीशरः । लक्ष्मीमुनिस्तर्कलक्ष्मीः कन्यातर्को नदीमुनिः ।। कन्यालक्ष्मीबलबलं गजकन्या नदीगुणः । लक्ष्मीचन्द्रस्तर्कनेत्रं कन्यावाधियुगद्यम् ।।
५५ ६. गुप्तबिन्दुः] मन्दारमरन्दचम्पूः। करचन्द्रो भूमिशक्तिः शक्तिवाहिनूरसः । भूमिदन्ती शक्तिमुनिर्मकरालयकन्यका ॥ अत्र वीथीबोधिकाद्या संख्यान्या गृहबोधिका । संख्यापर्यायकथनं शेषबिन्दौ भविष्यति ॥ घोटीगतिक्रमादेवं चतुरङ्गगृहेषु च । निरन्तरं लघुगुरूण्यक्षराणि न्यसेद्यथा-॥ पपापपापपापपापपापपापपापपा पपापपापपापपापपापपापपापपा। पपापपापपापपापपापपापपापपा पपापपापपापपापपापपापपापपा ॥ १४ ॥ पञ्चचामरप्रमाणिकासमानिकोपचामरवृत्तैः : पञ्च श्लोका भवन्ति । दण्ड- पार्श्ववर्तुलकोणघोटीगत्याद्याकारभेदेनाने के भेदा ऊह्याः । एवं मयूरक्षीर- हारबन्धादयोऽपि ॥ जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन । गुहपुरनिलयेन प्रोद्धृतो बन्धविन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे । इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगी- श्वरस्थान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्म 'श्चन्द्र देवशर्मणश्च कृतौ मन्दारमरन्दे चम्पूप्रबन्धे बन्धबिन्दुः पञ्चमः समाप्तिमगमत् । गुप्तबिन्दुः । अधुना गुप्तबिन्दौ तु क्रियादेर्गोप्यगुम्फनम् । निरूप्यते समासेन विबुधानन्दवृद्धये ॥ भङ्गश्लेषायुपायेन क्रियादेर्गोपनं भवेत् । अथवा चरणान्तादिष्वक्षराणां निवेशनात् ॥ तत्र क्रियागुप्तं यथा- गृहद्वारगतस्यास्य पुंसः कामार्तचेतसः । विलासर्गणिकां सख्यो वित्ताकर्षणनिर्भराम् ॥ १॥ अत्र 'वित्त' इति ।
काव्यमाला। आलोलनयनां कृष्णो लिंपन्तीं वीक्षणैर्दिशः । गच्छन्तीं सद्मसंकेतं तिमिरे राधिका मुदा ॥२॥ अत्र 'आलिंगति' इति । हेरम्बचरणाम्भोज महङ्गनिषेवितम् । दावामि विघ्नदावस्य वंदारूणां वयं सदा ॥३॥ अत्र 'वंदामहे' इति । जितकाञ्चनकुम्भश्रि सुघृणायतनं धुतेः। तादृक्षमस्या वक्षोजद्वन्द्वं सोऽतिमुदा हरिः ॥ ४ ॥ अत्र 'जिघृक्षति' इति । रमासमानया कृष्णः सहासो राधया तया । निकुञ्जनिकुरम्बेषु कालिन्दीविलसत्तटे ॥५॥ अत्र 'विजहार' इति । अश्चितोऽपि निकुञ्जोऽसौ कुश्चत्कण्टकिवीरुधा । स्वैरिण्याश्चिररात्राय लुठन्त्याः कामिनः कृते ॥ ६॥ अत्र 'सौधायते' इति । वसन्तं प्राणिनां देहे वसतस्ते सुरोत्तम । पादे स्पृश्ये त्रयीवाचा वयं भक्तिं सदा तया ॥ ७ ॥ अत्र ‘याचामहे' इति । इति क्रियागोपनम् । कर्तृगुप्तं यथा- सपात्रतरान्दैत्याननेकानवधीयुधि । कमलापतिविद्वेषपरिदूषितमानसान् ॥ ८ ॥ अत्र 'सत्' इति । दृप्तानामात्मनारीणां सर्वसाम्राज्यसंभवः । तादृशो दर्पभारोऽयं व्यभञ्जीत्यवदन्मुदा ॥ ९ ॥ अत्र 'आत्मना' इति । अन्ये भेदाः पूर्ववत् । इति कर्तृगोपनम् । १. परसवर्णमकृत्वैव गुप्तताश्रिता.
६. गुप्तबिन्दुः] मन्दारमरन्दचम्पूः। ५७ - कर्मगुप्तं यथा- शंकरः कुरुताच्छ्रीमान्भक्तस्य मम ते सदा । निजाश्रितकदम्बस्य निलिम्पविटपोपमः ॥ १० ॥ अत्र 'शम्' इति । मनोजस्य परीहासैरारामे राधया तया । अहारि गोपकान्तानां रासक्रीडामहोत्सवे ॥ ११ ॥ अत्र 'मनः' इति । अन्ये भेदाः पूर्ववत् । इति कर्मगोपनम् । संबन्धगुप्तं यथा- बालेवयस्य मुद्युक्ता मुखमालोकसे सदा । तमद्य कामसंप्ततं गाढालिङ्गनसंभ्रमैः ॥ १२ ॥ अत्र 'यस्य' इति । पूर्ववदन्ये भेदाः। पदगुप्तं यथा- नालंकृतकुलं क्रूरं विहरन्तं सरस्तटे । दुद्राव दूरतो दृष्ट्वा चक्री भीतियुतो जवात् ॥ १३ ॥ अत्र 'नकुलम्' इति । यामध्यमं च सुकृतं लेभे त्वत्तः पुरा नृपः । अद्य धत्ते स्मरार्ता सा नवं कवचमाकुलम् ॥ १४ ॥ अत्र 'सुतं, कचम्' इति च । 'इदमेवार्थगुप्तम्' इति केचित् । : १. 'ते करः' इति योजना. २. अजस्य कृष्णस्य. ३. 'हे बाले, यस्य मुखमालोकसे तं कामसंतप्तं गाढालिङ्गनविभ्रमैरव' इति योजना. ४. 'नकारेणालंकृतः कुलशब्दो यत्र नकुलम्' इति बोध्यम्. ५. मध्यमेन 'कृ' इत्यनेन रहितमध्यमम्. ६. नास्ति वकारो यत्र अर्थात् वकाररहितम्.
५८ काव्यमाला। पदार्थोभयगुप्तं यथा- सनिषिद्धोऽप्यगराजः कुचोपमायां पुनश्च गतिवाण्योः (१)। योग्योऽभूदुपमायां सवै धात्रोपयुक्तमिह सृष्टम् ॥ १५ ॥ अत्र सनिषिद्धो निषेधवाचकनकारयुक्त इत्यर्थगोपनम् , 'नागराज' इति पदगोपनं च । अत्र क्रियागुप्तवद्भेदा बोध्याः । कर्तृकर्मोभयगुप्तं यथा- नारीनाशोदयद्भूलीपालीपिहितपूषणि । खान्तरे खण्डयामास खड्नेनैकेन खण्डशः ॥ १६ ॥ अत्र 'ना, अरीन्' इति । भावगुप्तं यथा- मारनाराचनिर्भिन्नमानसा मत्तकाशिनी। मन्दरं मृगशावाक्षी मुहुनिन्दति लुण्ठति ॥ १७ ॥ अत्र 'चन्द्रोत्पत्तिहेतुत्वात्' इति भावः । जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन । गुहपुरनिलयेन प्रोद्धृतो गुप्तबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥ इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगी- श्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणश्चन्द्र देवनानश्च कवेः कृतौ मन्दार: मरन्दे चम्पूप्रबन्धे गुप्तबिन्दुः षष्ठः समाप्तिमगमत् । पूर्वार्धः समाप्तः। नर्तनबिन्दुः। अत्र नर्तन बिन्दौ तु वक्ष्ये रूपकलक्षणम् । प्राचीनोक्तीः समालोच्य बालानां बुद्धये द्रुतम् ॥ अभिव्यज्य विभावानुभावादीनाटके च ये (2)। उत्पादयन्सहृदये रसज्ञानं निरन्तरम् । अनुकतस्थितो योऽर्थोऽभिनयः सोभिधीयते ॥ १. कुचोपमायां निषिद्धोऽपि सोऽगराजः पर्वतः पुनश्च गतिवर्णनायां नकारयुक्तो- गजो नागगजो गजो योगोभत
७. नर्तनबिन्दु] मन्दारमरन्दचम्पूः ।
आङ्गिको वाचिकश्चापि सात्त्विकाहार्यकाविति ।
स चतुर्धाकृतस्तज्ज्ञैराङ्गिकोङ्गक्रियोच्यते ॥
रागानुषङ्गि यद्वाक्यं नाट्ये वाचिक उच्यते ।
सत्चक्रिया साविकः स्यादाहार्यो भूषणादिकः ॥
चतुर्विधैरभिनयैः सात्त्विकाङ्गिकपूर्वकैः ।
धीरोदात्ताद्यवस्थानुकृतिनाट्यं रसाश्रयम् ॥
तादृङ्नाट्यं द्विधा प्रोक्तं नृत्यनृत्यविभेदतः ।
भावाश्रयं तु नृत्तं स्यानृत्यं ताललयाश्रयम् ॥
तयं द्विविधं प्रोक्तं लास्यताण्डवमेदतः ।
लास्यं तु मधुरं प्रोक्तमुद्धतं ताण्डवं मतम् ॥
नाट्यस्यैवात्र मुख्यत्वादादौ तल्लक्ष्म कीर्तितम् ।
तादृइनाट्याद्रूपकाणि दशधा संभवन्ति हि ॥
नाटकं च प्रकरणं भाणः प्रहसनं डिमः ।
व्यायोगसमवाकारौ वीथ्यकेहामृगा इति ॥
यथामुखादौ पद्मादेरारोपो रूपकं मतम् ।
तथैव नायकारोपो नटे रूपकमुच्यते ।।
रसेतिवृत्तनेतारस्तत्तद्रूपकभेदकाः ।
रम्यबिन्दौ रसानां च लक्षणं वक्ष्यते स्फुटम् ॥
शुद्धबिन्दौ नायकानां वक्ष्यते लक्ष्म विस्तरात्
इतिवृत्तकथावस्तुशब्दाः पर्यायवाचकाः ॥
इतिवृत्तं प्रधानं तु शरीरं परिकीर्तितम् ।
तत्त्वाधिकारिकं चैव प्रासङ्गिकमिति द्विधा ।।
अधिकारः फलेशत्वमधिकारी तु तद्युतः ।
तन्निवृत्तं भवेदाद्यमन्तव्याप्याधिकारिकम् ॥
प्रसङ्गात्तु प्रवृत्तं तु बुधाः प्रासङ्गिक विदुः ।
प्रासङ्गिकं तु द्विविधं पताका प्रकरीति च ॥
काव्यमाला।
दरानुवर्तिनी या च पताका सा कथा मता।
सा प्रोक्ता प्रकरी प्राज्ञैः कथा याल्पानुवर्तिनी ।।
ख्यातं कल्प्यं च संकीर्णमिति तत्रिविधं त्रिधा ।
प्रख्यातमितिहासादि कल्प्यं स्यात्कविकल्पितम् ।
संकीर्ण संकरायत्तमेवं तनवधा स्मृतम् ॥
इतिवृत्तं पुनर्द्वधा सूच्यासूच्यविभेदतः ।
सूच्यं तु द्विविधं प्रोक्तं श्राव्याश्राव्यविमेदतः ॥
असूच्यमपि चाश्राव्यदृश्यश्राव्यविभेदतः।
त्रिविधं तत्र चाश्राव्यं स्वगतं परिकीर्तितम् ।।
दृश्यं तु मधुरोपात्तरसभावनिरन्तरम् ।
श्राव्यं तु त्रिविधं सर्वनियताकाशभेदतः ॥
सर्वश्राव्यं प्रकाशं स्यानियतश्राव्यमप्युत ।
जनान्तिकं तथैवापचारितं चेति तद्द्विधा ।।
पताकात्रिपताकाभ्यां रञ्जितेन करेण च ।
कथान्तरेऽपवार्यान्यानन्योन्यं यत्तु मत्रणम् ॥
जनान्ते तच्च कविमिर्जनान्तिकमितीरितम् ।
सर्वानन्यांश्चापवार्य रहस्यं यत्तु कथ्यते ॥
तच्चापवारितमिति प्राज्ञाः पूर्वे बभाषिरे ।
प्रविष्टपात्रं किं ब्रूथ किं ब्रवीष्येवमादिकम् ।।
उक्त्वा श्रुत्वेव चानुक्तमप्येवं सादितीव यत् ।
भाषणं तत्तु चाकाशभाषितं ब्रुवते बुधाः ॥
तर्जनीमूलसंलग्नकुश्चिताङ्गुष्ठकः करः ।
गण्डगः संहताकारप्रसारिततलाङ्गुलिः ॥
पताकः स्यादथ यदि वक्रितानामिकाङ्गुलिः।
स एव श्रोत्रगस्तर्हि त्रिपताक इतीर्यते ।।
पुनश्च वस्तु विद्वद्भिः पञ्चधा परिकीर्तितम् ।
बीजं बिन्दः पताका च प्रकरी कार्यमित्यपि ॥
७. नर्तनबिन्दुः] मन्दारमरन्दचम्पूः।
अर्थप्रकृतयः पूर्वैः पञ्चेमे परिकीर्तिताः ।
यत्तु खल्पमुपन्यस्तं बहुधा विस्तृतिं गतम् ॥
कार्यस्य कारणं प्राज्ञैस्तद्वीजमिति कथ्यते ।
बीजप्रधाने बीजस्य प्रसङ्गोक्तिः फलान्तरैः।
विच्छिन्ने यदविच्छेदे कारणं बिन्दुरिष्यते ।
पताका तु प्रधानोपकाराद्या स्वार्थकारिणी ।
प्रकरी स्यात्पदार्थस्य साधकं तु प्रदेशभाक् ।
वस्तुनस्तु समर्थस्य धर्मकामार्थलक्षणम् ॥
फलं कार्यमिदं शुद्धं मिश्रं वा कल्पयेत्सुधीः ।
अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ॥
आरम्भयत्नप्राप्ल्याशानियताप्तिफलागमाः ।
अत्र मुख्यफलोद्योगमात्रमारम्भ इष्यते ॥
यत्नस्तु तत्फलप्राप्तावत्यौत्सुक्येन वर्णनम् ।
प्राप्त्याशा तु महार्थस्या निर्धारभावना तथा ।
नियताप्तिरविघ्नेन फलसंसिद्धिनिश्चयः ।
समग्रेष्टफलप्राप्ति यकस्य फलागमः ॥
एकैकस्यास्त्ववस्थायाः प्रकृत्या चैकयैकया ।
योगः संधिरिति ज्ञेयो नाट्य विद्याविशारदैः ।।
मुख्यप्रयोजनवशात्तथाङ्गानां समन्वये ।
अवान्तरार्थसंबन्धः संधिः संधानरूपतः॥
मुखं प्रतिमुखं गर्भो विमर्शश्चोपसंहतिः ।
इति पञ्चविधः प्रोक्तः संधिः पूर्वैर्मनीषिभिः॥
नानाविधानामर्थानां भावानामपि कारणम् ।
तन्मुखं तत्र चाङ्गानि बीजारम्भानुरोधतः ॥
उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।।
मन्दा०६
६२
काव्यमाला।
उद्भेदभेदी करणमिति द्वादश योजयेत् ।
उपक्षेपस्तु बीजस्य सूचना कथ्यते बुधैः ॥
परिक्रिया तु बीजस्य बहुलीकरणं मतम् ।
बीजनिष्पत्तिकथनं परिन्यास इतीयते ॥
नायकादिगुणानां यद्वर्णनं तद्विलोभनम् ।
सम्यक्प्रयोजनानां हि विचारो युक्तिरिष्यते ॥
या स्यात्सुखेन संप्राप्तिः प्राप्तिरित्यभिधीयते।
बीजस्य पुनराधानं समाधानमितीर्यते ॥
किंचिद्दुःखकरं किंचिद्विधानं सुखकारकम् ।
श्लाघ्यश्चित्तचमत्कारो गुणाद्यैः परिभावना ।।
उद्घाटनं यद्वीजस्य तदुद्भेदः प्रकीर्तितः ।
वीजस्योत्तेजनं भेदो यद्वा संघातभेदनम् ।।
प्रस्तुतार्थसमारम्भं करणं परिचक्षते ।
लक्ष्यालक्ष्य इवो दो बीजस्य यदि वै भवेत् ॥
तत्स्यात्प्रतिमुखं विन्दोः प्रयत्नस्यानुरोधतः ।
इह त्रयोदशाङ्गानि प्रयोज्यानि मनीषिभिः॥
विलासः परिसर्पश्च विधूतं शर्मनर्मणी ।
नर्मद्युतिः प्रगमनं विरोधः पर्युपासनम् ।।
वज्रं पुष्पमुपन्यासो वर्णसंहार इत्यपि ।
विलासः संगमार्थस्तु व्यापारः परिकीर्तितः ॥
पूर्वदृष्टस्य वीजस्य त्वङ्कच्छेदादिना तथा ।
नष्टस्यानुस्मृतिः शश्वत्परिसर्प इतीरितः ।।
नायकादेरीप्सितानामनामनवाप्तितः ।
अरतिर्या भवेत्सा तु विद्वद्भिर्विधुतं मतम् ।।
अरतेः शमनं तज्ज्ञाः शममाहुर्मनीषिणः।
परिहासप्रधानं यद्वचनं नर्म तद्विदुः॥
७. नर्तनबिन्दुः] मन्दारमरन्दचम्पूः।
कोपस्यापहवार्थं यद्धास्यं नर्मद्युतिर्मतम् ।
तथानुरागबीजस्य चोत्तरोत्तरभाषणैः ।।
प्रकाशनं प्रगमनमिति नाट्यविदो विदुः ।
विरोधश्छद्मना यच्च हितागमनिरोधनम् ।।
पर्युपासनमित्युक्तं स्वजनानुनयो बुधैः ।
वजं तदिति विज्ञेयं साक्षानिष्ठुरभाषणम् ॥
रागप्रकाशको वाक्यविशेषः पुष्पमुच्यते ।
युक्तिभिः सहितो योऽर्थो ह्युपन्यासः स उच्यते ॥
सर्ववर्णापगमनं वर्णसंहार इष्यते ।
परिसर्पप्रगमनवज्रोपन्यासपुष्पकम् ॥
पश्चाङ्गान्येव मुख्यानीत्यार्याः प्रतिमुखे विदुः ।
दृष्टादृष्टस्य बीजस्य गर्भस्त्वन्वेषणं मुहुः ॥
अत्राप्त्याशा पताकानुगुण्येनाङ्गानि कल्पयेत् ।
अभूताहरणं मार्गों रूपोदाहरणे क्रमः ॥
संग्रहश्चानुमानं च तोटकाधिवले तथा ।
उद्वेगः संभ्रमाक्षेपावित्यङ्गानि च द्वादश ॥
अभूताहरणं तत्स्याद्वाक्यं यत्कपटाश्रयम् ।
मार्गस्तत्त्वार्थकथनं रूपं संदेहवद्वचः॥
सोत्कर्षवचनं यत्तु तदुदाहरणं मतम् ।
भावज्ञानं क्रमो यद्वा चिन्त्यमानार्थसंग्रहः ।।
संग्रहः सामदानोक्तिः प्रस्तुता परिकीर्तिता ।
अर्थस्याभ्यूहनं लिङ्गादनुमानं प्रचक्षते ॥
ससंभ्रमं तु वचनं संगिरन्ते हि तोटकम् ।
बुधैरधिबलं प्रोक्तं कपटेनाभिवञ्चनम् ।।
यद्वेष्टजनसंधानं बुधा अधिवलं विदुः॥
तोटकस्यान्यथाभावं केचिच्चाधिवलं विदुः ॥
काव्यमाला।
तत्र चोरादिसंभूतं भयमुद्वेग उच्यते ।
शत्रुव्याघ्रादिसंभूतौ शङ्कात्रासौ हि संभ्रमः ॥
गर्भवीजसमुत्क्षेपमाक्षेपं परिचक्षते ।
इष्टार्थोपायानुमृतिमाक्षेपं केचिचिरे ॥
अत्राभूताहृतिर्मार्गस्तोटकाधिबले तथा ।
आक्षेपश्चेति पश्चैव प्रधानानि विदो विदुः॥
यत्र प्रलोभनक्रोधव्यवसायैर्विमृश्यते ।
बीजार्थो गर्भसंमिन्नः स विमर्श इतीरितः॥
प्रकरी नियताप्त्यानुगुण्यादत्राङ्गकल्पनम् ।
अपवादश्च संफेटो विद्रवद्रवशक्तयः॥
द्युतिप्रसौ छलनं व्यवसायो विरोधनम् ।
प्ररोचनं च चलनमादानं च त्रयोदश ।।
तत्रापवादो दोषाणां प्रख्यापनमितीर्यते ।
रोषसंग्रथितं वाक्यं संफेटं परिचक्षते ।।
विरोधवधदाहादिविंद्रवः परिकीर्तितः ।
गुरोस्तिरस्कृतिं प्राह द्रवं तु भरतो मुनिः॥
उत्पन्नस्य विरोधस्य शमनं शक्तिरिष्यते ।
द्युतिर्नाम समुद्दिष्टा तर्जनोद्वेजने बुधैः ।।
प्रस्तुतार्थेन च गुरोः प्रसङ्गः परिकीर्तनम् ।
अवमानादिकरण कार्यार्थ छलनं विदुः ।।
व्यवसायः स्वसामर्थ्यप्रख्यापनमितीयते ।
विरोधनं विरोधोक्तिः संरब्धानां परस्परम् ।
सिद्धवद्भाविनोऽर्थस्य सूचना स्यात्प्ररोचनम् ।
आत्मश्लाघा तु चलनमादानं कार्यसंग्रहः ।।
मुख्यसंध्यादयो यत्र विकीर्णा बीजसंयुताः।
महाप्रयोजनं चापि तनिर्वहणमुच्यते ॥
॥
७. नर्तनबिन्दुः] मन्दारमरन्दचम्पूः।
एतदेव बुधैः प्रोक्तमुपसंहृतिरित्यपि ।
फलागमनकार्यानुगुण्येनाङ्गानि कल्पयेत् ॥
संधिर्विरोधो ग्रथनं निर्णयः परिभाषणम् ।
प्रसादानन्दसमयाः कृति षोपगृहनम् ।।
पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ।
स्यारीजोपगमः संधिर्विरोधः कार्यमार्गणम् ।।
कार्यस्योपक्षेपणं तु ग्रथनं परिकीर्तितम् ।
पश्चाच्च स्वानुभूतार्थकथनं निर्णयो मतः ॥
विवादविधिरन्योन्यं परिभाषणमीरितम् ।
स्याच्छुश्रूषादिसंभूता प्रसादस्तु प्रसन्नता ॥
अभीप्सितार्थसंप्राप्तिरानन्दः परिकीर्तितः ।
समयः स्यात्सुखावाप्तिर्दुःखप्रशमनं च वा ॥
कृतिरित्युच्यते पूर्वैर्लब्धार्थस्य स्थिरीकृतिः ।
प्राप्तकार्यानुमोदः स्या धैर्भाषणमीरितम् ॥
अद्भुतार्थस्य संप्राप्तिरुपगृहनमुच्यते ।
दर्शनं त्विष्टकार्यस्य पूर्वभाव इतीरितः ॥
उपसंहार इत्युक्तः कार्यार्थस्योपसंहृतिः ।
शुभप्रशंसनं धीरैः प्रशस्तिरिति कथ्यते ।।
चतुःषष्ट्यङ्गसंयुक्ताः स्युरेवं पञ्च संधयः ।
उक्तिर्विवक्षितार्थस्य गोप्यार्थस्य च गोपनम् ॥
प्रकाश्यार्थप्रकाशश्च रागाभिनयसंपदः।
चमत्कारवहत्वं च कथाया विस्तरस्तथा ॥
इत्येषां पश्चसंधीनां पड्डिधं स्यात्प्रयोजनम् ।
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ॥
संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ।
शुद्धः संकीर्णकश्चेति विष्कम्भो द्विविधो मतः ॥
काव्यमाला ।
एकद्विमध्यपात्रोक्तः शुद्धः स्यात्संस्कृतात्मकः ।
नीचमध्यमपात्रोक्तो मिश्रः स्यादुभयात्मकः ॥
अन्तर्जवनिकासंस्थैथूलिकार्थस्य सूचना ।
अङ्कान्तपात्रैरङ्कास्यमुत्तराङ्कार्थसूचनम् ।।
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः।
प्रवेशकस्तु नायके नीचपात्रप्रयोजितः ।।
यत्र स्यादुत्तराङ्कार्थः पूर्वाङ्कानुसंगतः।
असूचिताङ्कपत्रं तदङ्कावतरणं मतम् ।।
प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः।
नायकैकाहचरितप्रतिपादनसंयुतः ॥
अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥
बुधैः संस्कृतबाहुल्यो वाग्व्यापारो नटाश्रयः॥
भारतीत्युदिता तस्याश्चत्वार्यङ्गानि कल्पयेत् ।
प्ररोचना च वीथी प्रहसनं चामुखं तथा ।
प्ररोचना प्रशंसात उन्मुखीकरणं मतम् ।
वीथी प्रहसनं चापि वप्रसङ्गेन वक्ष्यते ॥
नटी विदूषको वापि नटो वा पारिपार्श्वकः ।
सूत्रधारेण संलापं कुरुते यत्र चित्रगीः ॥
खकार्यप्रस्तुताक्षेपि तत्स्यात्प्रस्तावनामुखम् ।
एतस्य त्रीणि चाङ्गानि कथोरातः प्रवर्तकः ॥
प्रयोगातिशयश्चेति तेषां लक्ष्माणि च ब्रुवे ।
इतिवृत्तसमं वाक्यमर्थ वा यत्र सूत्रिणः॥
गृहीत्वा प्रविशत्पात्रं कथोद्धातो द्विधेति सः ।
प्रवृत्तकालसदृशगुणवर्णनया तथा ॥
सूचितस्यैव पात्रस्य प्रवेशः स्यात्प्रवर्तकः ।
एषोऽयमित्युपक्षेपात्सूत्रधारप्रयोगतः॥
६७
७. नर्तनबिन्दुः] मन्दारमरन्दचम्पूः।
पात्रप्रवेशो यत्रायं प्रयोगातिशयो मतः ।
वीथ्यङ्गान्यामुखाङ्गत्वादुच्यन्ते तान्यपि क्रमात् ।।
उद्घात्यकावलगिते प्रपञ्चत्रिगते छलम् ।
वाकेल्यधिवले गण्डमवस्यन्दितनालिके ।।
असत्प्रलापव्याहारमार्दवानि त्रयोदश।
गूढार्थपदपर्यायमालारूपेण वा पुनः ।
प्रश्नोक्तिमालारूपेणाप्युद्धात्यकमिति द्विधा ।
अन्यकार्यमिषादन्यकार्यस्य कारणं तथा ॥
द्विधावलगितं खन्यकार्याच्च स्वार्थसाधनम् ।
असद्भूतमिथःस्तोत्रं प्रपश्चो हास्यकारकम् ।।
सूत्रधारादिभिः पूर्व संलापो यत्र चि(च)त्रिभिः ।
शब्दसाम्यादनेकार्थयोजनं त्रिगतं मतम् ॥
प्रियाभैरप्रियैर्वाक्यैर्वश्चनं छलमीरितम् ।
साकाङ्क्षस्थापि वाक्यस्य निवर्तनमथापि वा ।
उक्तिप्रत्युक्तिरूपा वाग्वाकेलिरिति च द्विधा ।
स्पर्धयान्योन्यवाक्यस्याधिक्यं चाधिवलं हि तत् ॥
प्रस्तुतार्थविरोधेन गण्डः स्यात्सहसोदितम् ।
उक्तार्थस्यान्यथाख्यानमवस्यन्दितमीरितम् ।।
सोपहासनिगूढार्थमालिका नालिका मता।
अन्तर्लापा बहिर्लापा चेतीयं द्विविधा मता ।।
प्रवलिकां च तां केचित्केचिदूचुः प्रहेलिकाम् ।
असंबद्धकथालापोऽसत्प्रलापः प्रकीर्तितः ॥
हास्यलोभनकद्वाक्यं व्याहारोऽन्यार्थकं मतम् ।
दोषाणां यद्गुणत्वेन कथनं मार्दवं हि तत् ॥
गुणानामपि दोषखकथनं चापि मार्दवम् ।
इत्येतान्यामुखाङ्गानि कथितानि त्रयोदश ॥
६८
काव्यमाला।
आशीनमस्क्रियावस्तुनिर्देशान्यतमाश्रया।
चन्द्रनामानिता पायो मङ्गलार्थपदोज्वला ॥
अष्टभिर्दशमिः श्रेष्ठा तथा द्वादशभिः पदैः।
अष्टादशपदैर्वापि द्वाविंशत्या पदैर्युता ॥
काव्यार्थसूचनोपेता सा या नान्दी प्रकीर्तिता ।
अ(यः) सूत्रय(ये)नायकस्य वस्तुनोऽपि गुणान्कवेः॥
रङ्गप्रसाधनकरः सूत्रधारः प्रकीर्तितः।
भरतेनामिनीतं यो भावं नानारसाश्रयम् ।।
परिष्करोति पार्श्वस्थः स भवेत्पारिपार्श्व(वि)कः ।
स एवार्यों मारिषश्च मापको माप इत्यपि ।
नर्मभेदप्रयोगज्ञो हास्यकृन्नायकस्य च ।
नर्मवादी स वै नर्मसचिवश्च विदूषकः ॥
चतुःषष्टिकलाभिज्ञा सर्वभापाविशारदा ।
नटानुयोक्री कृत्येषु नटस्य गृहिणी नटी ॥
यन्नाव्यवस्तुनः पूर्व रङ्गविघ्नोपशान्तये ।
कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गस्तदुच्यते ॥
पूर्वरङ्गस्य चाङ्गानि द्वाविंशतिर्मतानि च ।
तत्राप्यवश्या नान्दीति कीर्तिता भरतादिमिः॥
अङ्गाङ्गिभावसंपन्नसमस्तरससंश्रयात् ।
प्रकृत्यवस्था संध्यादिसंपत्त्युपनिबन्धनात् ॥
आहुः प्रकरणादीनां नाटकं प्रकृति बुधाः ।
अतिदेशबलप्राप्तनाटकाङ्गोपजीवनात् ॥
अन्यानि रूपकाणि स्युर्विकारा नाटकस्य हि ।
अतश्च लक्षणं पूर्व नाटकस्य विधीयते ॥
दिव्येन वा मानुषेण धीरोदात्तेन संयुतम् ।
धर्मकामार्थशृङ्गारप्रधानरससंश्रयम् ॥
१. 'प्रकृतिवद्विकृतिः कर्तव्या' इत्यतिदेशः.
७. नर्तनबिन्दुः] मन्दारमरन्दचम्पूः।
वृत्तेन प्रख्यातमिश्रकल्पितान्यतमेन च ।
प्रासनिकेन चाप्याधिकारिकेन(ण) समन्वितम् ॥
साङ्गैर्मुखादिभिः पञ्चसंघिमिश्च समन्वितम् ।
विष्कम्भकादिसंयुक्तं नाटकं स्यात्रिवर्गदम् ॥
एतादृङ्नाटककृतौ प्रकारो वक्ष्यते मया ।
विधाय प्रथमं पूर्वरङ्ग सूत्रिणि निर्गते ।।
प्रविश्यान्यस्तद्वदेव काव्यार्थस्थापको नटः।
सूचयेद्वस्तु बीजं वा मुखं वा पात्रमेव वा ।।
तत्र दिव्यं वस्तु दिव्यो भूत्वा मर्त्य च मानुषः ।
मिश्रं तन्मान्यतरो भूत्वेति कवयो विदुः॥
तत्र पद्यैश्च काव्यार्थसूचकैर्मधुराक्षरैः ।
रङ्गं प्रसाध्य साङ्गां च भारतीमाश्रयेत्ततः॥
ऋतुं कंचिदुपादाय ततः कार्या प्ररोचना ।
वीथ्यङ्गानि ततः पञ्चत्साझा प्रस्तावना ततः॥
प्रस्तावनाङ्गान्यतमेनार्थं वा पात्रमेव वा ।
सूचयित्वा तदन्ते च सूत्री गच्छेच्छलात्ततः ॥
आद्यङ्कादौ च विष्कम्भं कुर्यादित्येव केचन ।
द्वितीयादिषु चाङ्केषु कुर्यादित्यपि केचन ॥
अपेक्षितं परित्यज्य विस्तरं वस्तु नीरसम् ।
यदा संदर्शयेदादौ कुर्याद्विष्कम्भकं तदा ।।
यदा तु सरसं वस्तु मूलादेव प्रवर्तते ।
आदावेव तदाङ्कः सादित्येव कविसंमतम् ॥
प्रविश्य मयों दिव्यो वा धीरोदात्तश्च नायकः ।
इतिवृत्तं महोत्साहोऽमिनयेदाधिकारिकम् ॥
तत्र साङ्गाः प्रयोक्तव्या मुखाद्याः पञ्च संधयः।
मुखादिसंधिष्वङ्गानां क्रमोऽयं न विवक्षितः॥
काव्यमाला।
:
क्रमस्यानादृतत्वेन भरतादिभिरादिमः।
लक्ष्येषु व्युत्क्रमेणापि कथनेन न दोषता ॥
रसभावानुरोधेन प्रयोजनमपेक्ष्य च ।
साकल्यं कार्यमङ्गानामित्याचार्याः प्रचक्षते ॥
केपांचिदेषामङ्गानां वैकल्येऽपि न दुष्टता ।
विष्कम्भचूलिकाङ्कास्य प्रवेशाङ्कावतारणैः ।।
एभिः सूच्यं सूचयिता दृश्यमङ्गे प्रदर्शयेत् ।
एको रसो भवेत्तत्र शृङ्गारो वीर एव वा ।।
तदङ्गत्वेन च रसा अन्ये सर्वे यथोचितम् ।
अद्भुतः स्यानिर्वहणे तथा वस्तुरसान्न च ॥
दूरविच्छिन्नतां यायात्तिरोदध्याद्रसं न च ।
दूराध्वानं वधं युद्धं राज्यदेशादिविप्लवम् ।।
सरोधं भोजनं स्नानं सुरतं .चानुलेपनम् ।
अधिकारिवधं नाङ्के निबन्नीयात्कदाचन ।।
एक प्रयोजनश्लिष्टे तत्रैवासन्ननायके ।
तदा विदूषकाद्यैश्च प्रवेशाद्यैश्च सूचयेत् ॥
प्रविष्टानां च पात्राणामङ्कान्ते निर्गमो भवेत् ।
नाटकेष्वपि सर्वेषु पञ्चन्यूना दशाधिकाः ।।
अङ्का नैवात्र कर्तव्या इतीदं सर्वसंमतम् ।
इति नाटकम् ।
अथ प्रकरणेऽमात्यो विप्रो वा वैश्य एव वा ॥
धीरशान्तो भवेन्नेता धर्मकामार्थतत्परः ।
स्वविपत्तरणोयुक्तो वृत्तं स्यात्कविकल्पितम् ।।
नायिका कुलजा वापि वेश्या वा तवयं कचित् ।
तद्भेदात्रिविधं चेदं तृतीयं धूर्तसंकुलम् ॥
अत्र वेश्या प्राकृतं तु कुलजा संस्कृतं वदेत् ।
७१
७. नर्तनबिन्दुः]
मन्दारमरन्दचम्पूः।
शेष नाटकवत्सर्व मुखसंध्यादिकं मतम् ॥
इति प्रकरणम् ।
भाणे तु धृतॊ निपुण एक एव पटुर्विटः ।
स्वपराभ्यां चानुभूतं चरित्रमुपवर्णयेत् ॥
भूयसा भारती वृत्तिर्वस्तु स्यात्कविकल्पितम् ।
सौभाग्यशौर्ययोश्चोपवर्णनेनैव सूचयेत् ॥
शृङ्गारवीरौ च साङ्गे मुखनिर्वहणे तथा ।
एकोऽङ्कस्त्वेकपात्रं स्यात्कुर्यादाकाशभापणम् ।।
इति भाणः।
अथ प्रहसने हास्यप्रधानं रस उच्यते ।
न त्वेकपात्रनियमः शेषं सर्व च भाणवत् ॥
शुद्धवैकृतसंकीर्णभेदात्तत्रिविधं मतम् ।
पापण्डविप्रप्रभृतिनटचेटविटाकुलम् ॥
वेपभाषादिसहितं शुद्ध हास्यवचोऽन्वितम् ।
कामुकादिवचोवेरैः : षण्ढकञ्चकितापसैः॥
प्रहासाभिनयप्रायं विकृतं वैकृतं मतम् ।
संकीर्ण च समाकीर्ण वीथ्यङ्गैर्धूर्तसंकुलम् ।।
इति प्रहसनम् ।
डिमे बीभत्सकरुणरौद्रवीरभयानकाः ।
साद्भुताः षडूसा दीप्तास्तथा रौद्रप्रधानकाः॥
मायेन्द्रजालसंग्रामसूर्यचन्द्रग्रहादयः ।
नायका देवगन्धर्वयक्षरक्षोमहोरगाः ॥
भूतप्रेतपिशाचाद्याः पोडशात्यन्तमुद्धताः।
चखारोऽङ्का निर्विमाः संधयः कैशिकी विना ।।
वृत्तयो वस्तुप्रख्यानं शेष नाटकवन्मतम् ।
असतो वस्तुनो माया सद्रूपोद्भावना तथा ।
इन्द्रजालः स्थितार्थस्य मत्रचूर्णौषधादिभिः ।
७२.
काव्यमाला ।
अदर्शनमपारोक्ष्यमन्यथाकतिरुच्यते ॥
इति डिमः।
व्यायोगे तुद्धतो नेता वृत्तं प्रख्यातमीरितम् ।
पडूसा डिमवद्दीप्ता अस्वीकारणसंयुगः ॥
बहुभिश्च तथैकाङ्क एकाहचरितं तथा ।
विमर्शगर्भरहिताः संधयोऽन्यच्च पूर्ववत् ॥
इति व्यायोगः।
अथो समवकारे तु निर्विमर्शाश्व संधयः।
नेतारे द्वादश पृथक्फला देवासुरादयः॥
सूक्ष्मा स्यात्कैशिकी वृत्ती रसा वीरप्रधानकाः।
वीथ्यङ्गानां च संप्राप्तिर्यथासंभवमीरिता ॥
अङ्कास्त्रयस्तत्र चाये मुखप्रतिमुखौ तथा ।
वस्तुस्वभावदेवारिकृताः स्युः कपटास्त्रयः।
कथामपि निबन्नीयात्तथा द्वादशनालिकाम् ।
द्वितीयेऽङ्केऽपि चतुर्नालिकावधिका कथाम् ।।
पुररोधरणाम्यादिनिमित्ता विद्रवास्त्रयः।
तृतीयेऽङ्के निबद्धव्या कथा चापि द्विनालिका ॥
धर्मार्थकामानुगुणास्तिस्रः शृङ्गाररीतयः।
द्वयोरन्त्याङ्कयोर्गर्भनिर्वाही च यथोचितम् ।।
सर्व नाटकवच्छिष्टमन्यत्प्रस्तावनादिकम् ।
नालिकाघटिकाद्वन्द्वं साधं वा घटिकाद्वयम् ।।
इति समवकारः।
वीथ्यां तु कैशिकी वृत्तिः शृङ्गारस्तु प्रधानकः ।
उद्धात्यकादीन्यङ्गानि संध्यङ्कादि च भाणवत् ।।
एकपात्रप्रयोगो वा तथा पात्रद्वयं मतम् ।
इति वीथी।
अथाङ्के प्रख्यातमिति वृत्तं बुद्ध्या प्रपञ्चयेत् ॥
७. नर्तनबिन्दुः] मन्दारमरन्दचम्पूः।
स्त्रीणां विलासो वाग्युद्धं प्रधानं करुणो रसः।
नायकाः प्राकृता माः संध्यकाङ्गादि भाणवत् ।।
इत्यङ्कः।
ईहामृगे मिश्रवृत्तं चतुरई त्रिसंधिकम् ।
मर्त्यदिव्यौ च नियमानायकप्रतिनायकौ ॥
दिव्यस्त्रियमनिच्छन्ती हर्तुकामौ समुद्धतौ ।
प्रख्याती कामुकावन्त्यो विपर्यासादयुक्तकृत् ॥
अवधं युद्धमन्योन्यं व्याजाद्युद्धनिवारणम् ।
शृङ्गाराभास एवास्मिन्नन्यनाटकवन्मतम् ।।
इतीहामृगः।
नाटिकां च प्रकरणी रूपकं केचिदचिरे ।
नाटिकायां ख्यातवृत्तं भारती वृत्तिरिष्यते ॥
स्त्रीबाहुल्यं तथाङ्कास्तु चत्वारो नायिका पुनः ।
सा दिव्यमान्यतरा सदान्तःपुरवासिनी ॥
मुग्धा देवी वशगता ताइक्सुन्दररूपिणी ।
नायकस्तु प्रवर्तेत तद्देवीत्रासशङ्कितः ॥
सा तु देवी प्रगल्भा च गम्भीरा मानिनी तथा ।
तदानुकूल्यादन्ते च तयोरेकत्र संगमः ॥
सा नायिका तु वचसा नानुरागं प्रकाशयेत् ।
कैशिक्यङ्गानि चत्वारि शेषं नाटकवन्मतम् ॥
इति नाटिका।
अथ प्रकरणिकायां तु वस्तु स्यात्कविकल्पितम् ।
नायिकाङ्कादि सर्व तु नाटिकायां यथा तथा ॥
इति प्रकरणिका।
एवं निरूपितं साङ्गं दशरूपकलक्षणम् ।
प्राचामाधुनिकानां च मतान्यालोच्य शक्तितः ॥
मन्दा. ७
काव्यमाला। जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन । गुहपुरनिलयेन प्रोद्धृतो नृत्यबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥ इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगी- श्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारमन्दे चम्पू. प्रबन्धे नर्तनबिन्दुः सप्तमः समाप्तिमगमत् । शुद्धबिन्दुः। शुद्धबिन्दावत्र लक्ष्माचक्ष्महे लक्ष्यलक्षितम् । प्रस्फुटं भेदसिद्ध्यर्थ नायकानां परस्परम् ॥ महाप्रबन्धमूलं तु नेता सीतापतिर्यथा । सौन्दर्यौदार्यगाम्भीर्यमाधुर्यस्थैर्यशक्तयः॥ लोकानुरागमहिममहाभाग्यकुलीनताः । तेजोवैदग्ध्यलालित्यवाग्ग्मिताधर्मसंग्रहाः॥ पण्डाविलासकरुणास्पर्धातारुण्यशुद्धयः। इति द्वाविंशतिर्नेतुर्गुणा अन्ये यथोचितम् ॥ सौन्दर्य रूपलावण्यपरिलालितदेहता । त्वामालिखन्ती कञ्जाक्ष ननन्दां वीक्ष्य राधिका । लिलेखाहाय चतुरा कौसुमं कार्मकं करे ॥१॥ औदार्य त्यागताच्छील्यं प्रमोदपरिपोषितम् ॥ (2)मातङ्गमदमत्तालिपुञ्जमञ्जलगुञ्जितम् । माधवस्य बुधागारं प्रागेवापाङ्गरङ्गितात् ॥ २॥ गाम्भीर्य क्षोभसंभूतविकारपरिगोपनम् । मागधेन निरुद्धेयं मधुरा माधवाधुनां । इति दूतवचः श्रुत्वा जहास मृदुलं हरिः ॥ ३॥ विकारहेतौ सखेपि माधुर्यं श्लक्ष्णरूपता ॥ युद्धसंनद्धपोकारिं पश्यन्नपि पुरो हरिः । कुसुमैः कुरुते सत्यासमेतः कर्णभूषणम् ॥ ४ ॥ १.चिन्त्योऽयं प्रयोगः. २. 'बिडीजाः पाकशासनः' इत्यमरः.
८. शुद्धविन्दुः] मन्दारमरन्दचम्पूः। स्थैर्य प्रत्यूहबाहुल्येऽप्यप्रयत्ननिवर्तनम् । अपि रोषकषायाक्षं तर्जितस्ताडितस्तया । दूतीं प्रस्थापयामास माधवो राधिकागृहम् ॥५॥ शक्तिस्त्वसाध्यकार्यस्खाप्यविलम्बेन साधनम् ।। साध्वी कदम्बसंबद्धां तादृशीमपि राधिकाम् । अकरोत्स कुरङ्गाक्षी वशेऽनायासतः क्षणात् ॥ ६ ॥ लोकानुरागोऽनेकैश्च भावैः सर्वमनोहृतिः ॥ वृद्धा मुकुन्दं गुरवः कुमारं कामं च कान्ता इतरे नृपालम् । मत्वा विरच्यात्ममनोरविन्दैर्मालां बबन्धुर्हदि माधवस्य ।। ७ ।। महिमा सर्वसंपूज्यदेवांशत्वं प्रकीर्तितम् ॥ कमलाकामुको देवो देवकीनन्दनोऽजनि । सर्वाधिपत्यसंपत्तिर्महाभाग्यमितीर्यते । चिन्ताकान्तापरित्यागवशालीलाक्शं गतः ॥ ८॥ क्रिडत्याशाकरिव्यूहः कामं कृष्णे धराधरे । महाकुलप्रसूतत्वं कुलीनत्वं विदुर्बुधाः ॥ मुखमेवाह कृष्णस्य सुधाकरकुलोद्भवम् ॥९॥ विपत्तावपि तेजोधिक्षेपाचसहनं मतम् । राधिके न वदेदे (२)वं तत्चाहग्गुणगुम्फिते । स कथं सहते भूयोऽप्यधिक्षेपवचस्तव ॥ १० ॥ वैदग्ध्यमेकीकरणमप्यन्योन्यविरुद्धयोः ॥ भुनक्ति सुखमनाक्षो निःसापत्न्यं महीं श्रियः । शृङ्गारचेष्टा सहजा लालित्यं मृदुला मता । जीयात्वाभाविकी चेष्टा ताशी राधिकापतेः ॥ ११ ॥ आभीरभामिनीभावभावने शम्भलीसखी । वाग्मिता नीरसोक्तावप्यलं पुष्टीकृतिर्मता ॥ स एव माधवः सैव राधिकेति जनोत्तरम् ॥ १२॥ श्रुत्वावयोः समं सङ्गं सखे वक्तीति सोऽब्रवीत् ।
काव्यमाला। प्रसिद्ध एव धर्मः स्वादिष्टापूर्तादिका कृतिः । कृष्णादन्यो न लोकेष्ट इष्टाशिष्टादिपालनैः ॥ १३ ॥ कार्योपयुक्तवस्तूनां संग्रहः संग्रहो मतः ॥ सर्वसाधनसंपन्ने किमलभ्यं तव प्रभौ। सर्वविद्यासमप्रज्ञा पण्डाशब्देन गीयते । वासराणां चतुःषष्ट्या सोऽग्रहीचावतीः कलाः ॥ १४ ॥ गतिः सधैर्या दृष्टिश्च विलासः सस्मितं वचः॥ दृष्टिस्तृणीकृतजगत्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् । स्मेरेरिता च भणितिर्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥ १५ ॥ अखेदापत्तिविषया चिद्वृत्ति : करुणा मता। पूतनाघातनोद्युक्तमाधवस्य महात्मनः । अबलाहननत्रस्ता वैरल्यमसवो ययुः ॥ १६॥ कृतचित्तविकारस्तु स्पर्धा खात्मगुणाधिके । काशीस्थितेनूतनशंकराणां साधारणे धूर्जटिलक्षणेऽपि । पार्थप्रहारबणजातचिहं प्राचीनमीशं प्रकटीकरोति ॥ १७ ॥ तारुण्यं यौवनं प्रोक्तं अजातश्मश्रुभेदेन गतेन क्षणमित्रताम् । माधवेन धृतं राज्यमशिष्टकुलकण्टकम् ॥ १८॥ शुद्धिः स्यात्परिपूतता। कृष्णाङ्गुष्ठसरत्पाथः पुनाति भुवनत्रयम् । (१)चतुर्विंशद्गुणान्केचिचिरे द्वादशापरे । एतादृग्गुणगम्भीरस्त्रिवर्गी च धुरंधरः । यश प्रतापसुभगो नेता स्यात्स चतुर्विधः ॥ धीरपूर्वोदात्तशान्तललितोद्धतभेदतः।
८. शुद्धबिन्दुः] मन्दारमरन्दचम्पूः । महासत्त्वोऽतिगम्भीरः कृपावानविकत्थनः ॥ स्थिरो निगूढाहंकारो धीरोदात्तो दृढव्रतः। तत्सत्त्वं तच्च गाम्भीर्य तद्धैर्य तादृशी कृपा । तत्ताडग्विनयत्यागः कृष्ण एव विराजते ॥ १९ ।। विनयो दक्षता त्यागो माधुर्य प्रियवादिता ॥ प्रज्ञा बुद्धिः कुलीनत्वं धर्मकामार्थकारिता । स्मृतिधृतिर्दयोत्साहः कलाज्ञानं च चातुरी ॥ इतीमेऽष्टादश गुणा धीरोदात्ते मनखिनि । धीरः शान्तः प्रसनात्मा धीरशान्तो द्विजादिकः । प्रतिबोधयति व्यासो मुनीन्ब्रह्म सनातनम् । सदाचारो विवेकश्च समता च दया तथा । महिमा सत्यवाक्यत्वं धीरशान्तगुणा मताः ।। निश्चिन्तो धीरललितः कलासक्तः सुखी मृदुः । उग्रसेने प्रतिष्ठाप्य राज्यं स सुखमश्नुते ॥ २० ॥ गुणाः स्युीरललिते यौवनं स्थूललक्ष्यता ॥ प्रियंवदत्वं दाक्षिण्यं प्रियता च सुवेषता । दर्पमात्सर्यभूयिष्ठो मायाछद्मपरायणः॥ धीरोद्धतश्चण्डवृत्तिः सुलभद्विकत्थनः । कल्पामिसदृशक्रोधकुटिल कुटीपटुः । दृप्तक्षत्रकुलारण्यं दग्धुमायाति भार्गवः ॥ २१ ॥ शौर्य तेजश्च चापल्यं साहसं च प्रतारणम् ॥ मात्सर्योत्साहगर्वाश्च धीरोद्धतगुणा मताः । कलावेदविशेषानुरक्तः शृङ्गारनायकः ॥ चतुर्धा धृष्टानुकूलशठदक्षिणभेदतः । अकापट्यं वितरयोर्वश्चनं शठधृष्टयोः॥ व्यक्तागा अपि निर्भीतिधृष्टो वितथकत्थनः ।
काव्यमाला। तस्या दृगञ्जनानीलमधरं गोपय क्षणम् । एकस्यामेव कान्तायामनुकूलोऽनुरागवान् ॥ दृशापि न स्पृशत्यन्यां रामस्तां जानकी विना ॥ २२ नायिकामात्रविदितपुरु विप्रियकृच्छठः॥ शैवालोकसे मां त्वं संनिधत्से परां हृदि ॥ २३ ॥ अनेकास्वपि कान्तासु समात्मा दक्षिणः स्मृतः। समं स ववृते तासु तारास्विव निशाकरः । पतिश्योपपतिश्चेति स चतुर्धा पुनर्द्विधा । पतिः पाणिग्रहीता स्याद्रुक्मिण्या माधवो यथा ॥ २४ ॥ आचारहानिहेतुस्तु प्रियश्चोपपतिर्मतः । गोपकान्ताजनैः साकं विजहार हरिः सुखम् । पुनश्चतुर्धा नेता स्थानायकः प्रतिनायकः ॥ अनुपूर्वो नायकश्च नायकश्चोपपूर्वकः । तेषु सर्वगुणोपेतः कथाव्यापी स नायकः ॥ रामचन्द्रः कथाव्यापी नेता रामायणे यथा ॥ २५ ॥ अन्यायवाँस्तदुच्छेद्य उद्धतः प्रतिनायकः । यथा तत्रैव पापात्मा रावणः प्रतिनायकः । समो न्यूनोऽपि वा तस्य कनीयाननुनायकः ॥ नेतुः कैश्चिद्गुणैीन अपूज्यश्चोपनायकः । नायकस्य गुणैर्हीनो नेता त्वाभासनायकः ॥ पुननिधा स गुणत उत्तमो मध्यमोऽधमः । प्रकृतेः साविकोऽपि स्याद्राजसस्तामसोऽपि च ॥ इति त्रिधा पुनर्नेता पुनर्द्वधा प्रकीर्तितः । साधारणस्तथासाधारणो ज्ञेयः परिग्रहात् ।। साधारणोऽनेकजानिरन्यो नियतभार्यकः । पुनर्दिव्यस्त्वदिव्यश्च दिव्यादिव्य इति त्रिधा ॥
८.शुद्धबिन्दुः] मन्दारमरन्दचम्यूः। नायकस्तत्र दिव्यस्तु पौलोमीपतिरुच्यते । विक्रमादिरदिव्यः स्यात्कृष्णादिरुभयात्मकः॥ पुनश्चतुर्धा कथितः कामशास्त्रेषु जातितः। दत्तो भद्रः कूचिमारः पाञ्चाल इति सूरिमिः॥ पमिनीवल्लभो दत्तो भद्रः स्याचित्रिणीप्रियः । पाश्चालकूचिमारौ तु हस्तिनीशविनीप्रियौ । उदात्तशान्तललितोद्धताः स्युधैर्यवृत्तितः । धृष्टादयश्च चत्वारः खव्यापारप्रवृत्तितः॥ नायकानां पीठमर्द विटचेटविदूषकाः। कुर्वन्त्येते नायिकानुकूलने तु सहायताम् ।। पताकानायकस्वन्यः पीठमर्दो विचक्षणः । नेतुश्चानुचरो भक्तः किंचिदूनश्च तद्गुणैः ।। रामायणे च सुग्रीवो रामकार्यस्य साधकः । एकविद्यो विटश्चेटः संधानकुशलो मतः ।। स्वराङ्गादिविकारेण हास्यकारी विदूषकः । वल्लभे चिररात्राय विप्रयुक्ते विलासिनि । नीवीविषेसनोयुक्ते सोऽकूजत्कुक्कुटखरम् ॥ २६ ॥ कार्यान्तरे सहायास्तु मत्री स्वं वोभयं च वा ।। नेतुर्धर्मसहायास्तु पुरोधा ऋत्विगादयः । सामाधुपायेषु नेतुः सहायाः स्युर्यथोचितम् ॥ इति नायकप्रकरणम्। युवानुरञ्जनाकारचेष्टा शृङ्गारनायिका । वितनोति मुदं यूनां विलासैः सुन्दरीमणिः ।। खीया च परकीया च सामान्या चेति सा त्रिधा। स्वीया तत्र त्रिधा मुग्धामध्याप्रौढाविमेदतः ॥ मुग्धा तत्र द्विधा ज्ञातयौवनाज्ञातयौवना । द्विधोमे शुद्धविश्रन्धनवोढामेदतः पुनः॥
काव्यमाला।
प्रौढा रतिप्रियानन्दमोहितेति द्विधा मता।
मध्याप्रौढे पुनस्त्रेधा धीराधीरोभयात्मना ॥
ज्येष्ठाकनिष्ठामेदेन त्रिविधे ते पुनर्द्विधा ।
कन्यापरोढामेदेन परकीयापि च द्विधा ।
सामान्या गणिकादिः स्यात्सकैवं कथिता बुधैः ।
सामान्यापरकीये द्वे प्रौढे इत्येव संमते ॥
विना मुग्धामष्टविधा अवस्थाभेदतश्च ताः ।
समुग्धाअप्यष्टविधा इत्येताः केचिदूचिरे ॥
स्वाधीनपतिका विप्रलब्धा वासकसज्जिका ।
विरहोत्कण्ठिता प्रोष्यदल्लभा खण्डिता तथा ।
कलहान्तरिता चाभिसारिकेति विभेदतः ।
गुणतस्तास्त्रिधापि स्युरुत्तमामध्यमाधमाः॥
पुनश्च तास्त्रिधा ज्ञेया दिव्यादिव्योभयात्मना ।
पुननिधोद्धतोदात्ता ललिताशान्तिका इति ॥
अक्षता च क्षता यातायाता यायावरेत्यपि ।
पुनश्चतुर्धा कथिताः पूर्वैर्भोजादिभिर्बुधैः ॥
पद्मिनी चित्तिनी(त्रिणी) चैव शङ्खिनी हस्तिनीति च ।
पुनश्चतुर्धा कथिताः कामशास्त्रेषु जातितः ॥
कफिनी वातला पित्तला प्रकृत्या पुनस्त्रिधा ।
अथोक्तानां च भेदानां लक्षणोदाहृती ब्रुवे ।।
खामिन्येवानुरक्तात्मा सा स्वीया परिकीर्तिता।
जानकी सेवते रामं वनेऽपि भवने तथा ।
तद्गुणाभदृशुश्रूषा शीलसंरक्षणक्षमा ॥
आर्जवं गुरुभक्तिश्च सदाचारो विवेकता ।
उदयद्यौवना मुग्धा लाविजितमन्मथा ॥
दृष्ट्वा नवरते कान्तं लजते वेपते वधूः ॥ २७ ॥
८१
८.शुद्धबिन्दुः] मन्दारमरन्दचम्पूः।
लज्जा भयमधैर्य च चापल्यं चाल्पकोपता।
उत्कण्ठा शिशुचेष्टा च भूषणेष्वपि तद्गुणाः ।।
यौवनस्य परिज्ञाने सति सा ज्ञातयौवना ।
पश्यन्ती खसखीं वीक्ष्य दृढं बध्नाति कञ्चकम् ।
यौवनस्यापरिज्ञाने सा स्वादज्ञातयौवना ॥
किमिदं सखि मे वक्षो गाध(ढ)तामवगाहते ॥ २८॥
सा तु शुद्धनवोढा स्यादनिच्छन्त्यक्षमा रतम् ।
क्रोडीकृता बोधितापि यतते गन्तुमेव सा ।
सा विश्रब्धनवोढा स्यादिच्छन्त्यप्यक्षमा रतम् ॥
सुष्वाप भर्तृसविधे नीवीदत्तकराम्बुजा ॥ २९ ॥
लज्जामन्मथमध्यस्था मध्या चोद्भूतयौवना ।
कान्ता रहः प्रियतममद्रष्टुं द्रष्टुमीहते ।
सापराधे प्रिये कोपो व्यक्ताव्यक्तश्च मत्सरः ॥
सपत्नीष्वभ्यसूया च प्रायो मध्यागुणा मताः ।
सरमन्दीकृतव्रीडा प्रौढा संपूर्णयौवना ।।
आलिलिङ्ग खयं कान्ता दयितं मारसुन्दरम् ॥ ३० ॥
रतिप्रीतिश्च संमोहः प्रियाकर्षणकौशलम् ।
रतिप्रागल्भ्यमित्याद्याः प्रौढायाः कथिता गुणाः ॥
रतिप्रिया तु सुरतप्रमोदपरिलालिता ।
कर्णोत्पलं तयागोपि प्राप्ते कान्ते रतोद्यते ।
आनन्दमोहिता सङ्गसुखविस्मृततक्रिया ।।
सा रते दयिताश्लिष्टा व्यस्मरत्वां तनूमपि ॥ ३१ ॥
मध्या धीरा तु वद(च)ती सोत्प्रासं सागसं प्रियम् ।
सदा रामान्तरासक्त्या श्रान्तोऽस्यास्व प्रिय क्षणम् ।
मध्या त्वधीरा परुषैः खेदयेद्वल्लभं रुषा॥
तदेकासक्तचित्तस्य मयि ते कोऽयमादरः ॥ ३२ ॥
काव्यमाला। धीराधीरा तु वक्रोक्या सवाष्पं वदति प्रियम् । युवा कान्तथ रागी त्वमित्युक्त्वाश्रु मुमोच सा । प्रौढा धीरा तु चातुर्यात्खेदयेवल्लभं रुषा । जहौ प्रत्युद्वमात्तल्पं सागसं प्रियमीक्ष्य सा ॥ ३३ ॥ संतर्य निष्ठुरं रोषादधीरा ताडयेत्प्रियम् । दृष्ट्वा कृतागसं कान्तमबधात्पुष्पमालया । धीराधीरा तु संतये रत्यौदास्यं भजेत्प्रिये ॥ वल्पान्निष्कासयामास दयितं कलितागसम् ॥ ३४ ॥ स्नेहाधिक्यवती ज्येष्ठा भर्तयूना कनिष्ठिका । नेत्रे निमीत्य कस्याश्चि धच्चुम्बत्यन्यां रहः प्रियः। परकीया त्वप्रकटीकृतान्यपुरुषस्पृहा ॥ बसन्तवनसंपत्तिमीदृशीं वीक्ष्य सुन्दरि ।। ३५ ॥ मम चित्तं पराधीनं किं वा कर्तुं समीहते । मुषोक्तिः साहसं चैव गोपनं च प्रतारणम् । संकेतचेष्टाचातुर्य परकीया गुणा मताः॥ तत्र कन्या त्वनूढा सारसोत्कण्ठा पितृपालिता। कन्या सौघात्प्रेक्षते तमलसा लोलवीक्षणैः ।। ३६ ।। परोढा तु परेणोढा गुप्तान्यपुरुषस्पृहा ॥ सखि कुलं निरीक्ष्येदं परस्मिन्रज्यते मनः । सामान्यां धनिकोदारजनेम्वेवानुरागिणी । आन्योऽत्युदारः कान्तोऽयमेनमुत्कण्ठते मनः ॥ ३७॥ मृषानुरागो मात्सर्य रतितप्रगल्भता ।। प्रायो वित्तादिलाषायाः सामान्याया गुणा मताः । प्रियोपलालिता नित्यं स्वाधीनपतिका मता ॥ हृदापि न स्मरत्यन्यां मां विना दयितो मम । अस्थास्तु चेष्टाः कथिताः सरपूजामहोत्सवः । वनकेली जलक्रीडा कुसुमापचयादयः ॥
८५
८. शुद्धबिन्दुः] मन्दारमरन्दचम्पूः।
विप्रलब्धा तु संकेतं गतान्यासक्तवल्लभा ।
स यस्मानागतः कुचं कस्या वा वर्तते गृहे ॥ ३८ ॥
निर्वेदचिन्ताखेदाश्रुमूर्छानिःश्वसितादयः॥
दृतीसंप्रेषणाद्याः स्युर्विप्रलब्धागुणा मताः ।
भूषितात्मगृहा कान्तागमे वासकसज्जिका ॥
गेहं विभूष्य चात्मानं सा द्वारे त्वां प्रतीक्षते ।
अस्थास्तु चेष्टासंभोगमनोरथ विचिन्तनम् ।
प्रियागमनमार्गाभिवीक्षाप्रभृतयो गुणाः ॥
चिरयत्यधिकं कान्ते विरहोत्कण्ठितोन्मनाः ।
समानय द्रुतं कान्तं सखि ते विहितोऽञ्जलिः ॥ ३९ ॥
अस्या गुणास्तु संतापो वेपथुश्चाङ्गसादनम् ॥
अरतिर्बाष्पमोक्षश्च स्वावस्थाकथनादयः।
देशान्तरगते कान्ते खिन्ना प्रोषितवल्लभा ॥
दूरस्थो दयितो मारस्तुदत्यद्य कथं सहे ।
अस्यास्तु जागरः कार्य निमित्तादिविलोकनम् ।
मालिन्यमनवस्थानं प्रायः शय्यानिषेवणम् ॥
ज्ञातेऽन्यासङ्गविकृते खण्डिाकपायिता ।
मागा मत्सविधं धूर्त या प्रिया तद्हं व्रज ॥१०॥
अस्यास्तु चिन्ता निश्वासस्तूष्णींभावोऽश्रुमोचनम् ॥
मुहुः प्रलाप इत्याद्याश्चेष्टा इष्टा मनीषिणाम् ।
कलहान्तरिता पश्चाचप्ता निर्याप्य नायकम् ॥
परुषं ब्रुवती घिमां सरसे तादृशि प्रिये ।
अस्थास्तु भ्रान्तिसंतापमोहनिःश्वसितज्वराः ।
मुहुः प्रलाप इत्याद्याः कथिताः स्युर्गुणा बुधैः॥
कान्ताभिसरणोद्युक्ता सरार्ता सामिसारिका ।
ययौ सा प्रियसंकेतं खयमेव स्मरार्दिता ॥४१॥
काव्यमाला । दिवाश्यामाविभेदेन द्विविधा सामिसारिका । दिवामिसारिका सा स्याद्या दिवैव सरेत्प्रियम् । सलिलाहरणव्याजाद्ययौ कुझं प्रियस्पृशम् । श्यामाभिसारिका सा स्याद्या रात्रौ सरति प्रियम् ॥ विलोक्य खजनान्सुप्ताप्रियसंकेतमाययौ ॥ ४२ ॥ ज्योत्स्त्रीतमखिनीभेदादियं चापि पुनर्द्विधा । शुभ्रवस्त्रा सरेत्कान्तं रात्रौ ज्योत्स्यभिसारिका ॥ क्षौमं वसाना सा याति प्रियं चन्दनचर्चिता । नीलवेषा सरेत्कान्तं तमस्तिन्यभिसारिका । प्रियान्तिकं प्रयात्येषा धृतनीलनिचोलिका ॥ ४३ ॥ ज्योत्स्नायानपरा त्वाद्या तमोयानपरापरा ॥ यातमात्रविमेदेन भेदा एवं प्रकीर्तिताः । अस्याः संतापचिन्ताद्या विक्रियाः स्युर्यथोचितम् ॥ उत्तमा हितक: स्यादहितं कुर्वति प्रिये । कान्तं कृतागसमपि प्रियं सदकरोप्रिया । हिताहितोत्कृतिहिताहितकी च मध्यमा ॥ तताड लीलापझेन रुषा कान्तं कृतागसम् ॥ ४४ ॥ प्रसीदेति ब्रुवाणं तं पुनः प्रेम्णा व्यभूषयत् । अधमा कथिता या सा हितेऽप्यहितकारिणी। अनागसं पादगतमपि कान्तं व्यभयित् ॥ ४५ ॥ दिव्याः शच्यादयः प्रोक्ता अदिव्या मालतीमुखाः ॥ दिव्यादिव्या इति प्रोक्ता जानकीरुक्मिणीमुखाः । गर्वशालिन्युद्धता स्यादुदात्ता गूढमानिनी ॥ ललिता साध्यमानेहा शान्ता निर्मानमानसा । उदात्तैव भवेद्धीराथाधीरा तूद्धता मता ॥ ललिता तु भवेन्मुग्धा शान्ता स्वीयोत्तमा मता। मुक्तान्येन पुरा पश्चादूढान्येनाक्षता मता ॥
८. शुद्धबिन्दुः] मन्दारमरन्दचम्पूः। भुक्ता शक्तिसुतेनोढा राज्ञा सत्यवती यथा । गते भर्तरि यद्यन्यं श्रिता सा तु क्षता मता। यथा तारा रविसुतं निहते वालिनि प्रिये ॥ ४६॥ यातायाता तु युगपढानेकैस्तु भर्तृभिः ।। यथा पाण्डुसुतैरूढा द्रुपदस्य कुमारिका । ऊटैकेन तु संत्यक्ता क्रमाद्यायावरा मता । यथा बहुवरैरूढा माधवी चोपलात्मजा ॥ ४७ ॥ पद्मिनी चन्द्रवदना शिरीषमृदुला तथा ॥ लजा मानवती श्यामा गुरुसेवारता सदा । चित्रिणी लोलनयना शिल्पसंगीतलोलुपा ॥ तन्वङ्गी कुञ्जरगतिभृङ्गी श्यामलकुन्तला । शङ्खिनी साबृहन्मध्या कोपिन्यल्पस्तनी तथा ॥ दीर्घपादा द्रुतगतिः कुटिलाक्षी च पिङ्गला । हस्तिनी बहुभुकूरा निस्त्रपा पिङ्गकुन्तला ॥ इखा स्थूलाधरा गौरशरीरामन्दगामिनी । कफिनी दृढरागा स्याच्छयामा सुस्निग्धलोचना ॥ वातुला तु कठोराङ्गी चञ्चला कृष्णपाणिजा। श्यामधूसरवणों च बहुभोज्या प्रलापिनी ॥ पित्तला शोणनयना गौरागी कुशला रते । सा चतुर्धा पुनरपि नायिका प्रतिनायिका ।। उपपूर्वा तथा चानुपूर्विका नायिकेति च । स्यात्कथाव्यापिनी सर्वगुणयुक्ता च नायिका ॥ यथा द्रुपदंजा प्रोक्ता वेणीसंहारनाटके । हेतुरीारुडादीनां सपक्षा प्रतिनायिका । दुर्योधनस्य दयिता तत्र भानुमती यथा ॥ ४८ ॥ तस्याः कैश्चिद्गुणै_ना पूज्या चैवोपनायिका ॥ १. पराशरेण. मन्दा. ८ ८६ काव्यमाला। समा न्यूनापि वा किंचित्कनीयस्यनुनायिका । संबन्धिनी भिक्षुकान्ता दासी मालिककामिनी ॥ तक्रविक्रेतका बाला रजकी शिल्पिनी नटी। कारुकान्ता सखी धात्री सैरन्ध्री प्रतिगेहिका ॥ लिङ्गिनी दूतिका चामूः सहाया नेतृसंगमे । भावो हावश्च हेला च कान्तिः शोभा प्रगल्भता ॥ लीला विलासो विच्छितिर्विभ्रमः किलकिश्चितम् । मोहायितं कुट्टमितं बिब्बोको ललितं तथा ॥ चकित विहृतं हासो दीप्तिधैर्य कुतूहलम् । माधुर्य च तथौदार्यमिति व्यधिकविंशतिः ॥ कामिनीनामलंकारा यौवने परिकीर्तिताः। भाव इत्युच्यते प्राह रसाभिज्ञानयोग्यता ॥ शृण्वन्ती कृष्णचरितं राधा किंचिद्विलज्जते । ईषदृष्टविकारः स्याद्धावः प्रेमाभिसूचकः । श्रुत्वास प्रेयसो वृत्तं किंचिदुत्पुलका वधूः ॥ ४९ ॥ सुव्यक्तविक्रियो भावो हेला शृङ्गारसूचकः ॥ सस्मितान्सानुरागान्कटाक्षान्किरति प्रिया । मन्मथाप्यायिनी सर्वशोभा कान्तिरिति स्मृता । मुखे हासरुचा धूतं कुचे हाररुचा हतम् । पादे नखरुचा भीतमाललम्बे कचं तमः ।। ५० ॥ रूपोपभोगतारुण्यैः शोभाङ्गानां विभूषणम् ॥ प्राचीनम्- तां प्राङ्मुखीं तत्र निवेश्य बालां क्षणं विलम्बेन पुरो निषण्णाः । तादृक्षशोभाहियमाणनेव्यः प्रसाधने संनिहितेऽपि सख्यः ॥ ५१ ॥ प्रगल्भताङ्गसादः स्यादमनः क्षोभपूर्वकः । तथा ब्रीडा विधेयापि तथा मुग्धापि सुन्दरी। १. 'आस' इति 'अस गतिदीयादानेषु' इत्यस्य 'दिदीपे' इत्यर्थकम्, ८. शुद्धबिन्दुः] मन्दारमरन्दचम्पूः। कलाप्रयोगे चातुयें सखीष्वाचार्यतां गता ॥ ५२ ॥ प्रियानुकरणं लीलावाग्भिर्गत्यादिचेष्टितैः ॥ मनोवाकायचेष्टाभिस्त्वामेवानुकरोति सा । तात्कालिको विकारस्तु विलासः प्रियदर्शनात् । मां विलोक्यातनोदङ्गभङ्गमुन्नमितस्तनम् ॥ ५३ ।। विच्छित्तिरतिरम्यत्वमत्यल्पैरपि भूषणैः ॥ प्राचीनम्- अधरे नववीटिकानुरागो नयने कज्जलमुज्ज्वलं दुकूलम् । इदमाभरणं नितम्बिनीनामितरभूषणमङ्गदूषणाय ॥ ५४ ॥ विभ्रमस्त्वरया काले भूषास्थानविपर्ययः । कटौ हारं कुचे काञ्ची कृत्वा तं द्रष्टुमुत्वरा । रोषाश्रुहर्षभीत्यादेः संकरः किलकिश्चितम् ॥ गृहीते हरिणा चादौ कुओ राधाकुचांशुके ॥ ५५ ।। हसति भ्रुकुटी धत्ते मुहुर्नृत्यति वेपते । मोडायितं मिषादिष्टकथादौ भावसूचनम् । व्याजात्कुतोऽपि कान्तस्य प्रस्तावे सस्मितानना ॥ ५६ ॥ संमर्देऽपि सुखाधिक्यं रतौ कुट्टमितं मतम् ॥ मुदमाप प्रियकृतैर्नखदन्तक्षतादिभिः । मनाप्रियकथालापे बिब्बोकोऽनादरक्रिया । भुमभ्र नमयत्यास्यं निशम्य प्रेयसः कथाम् । सुकुमाराङ्गविन्यासो ललितं परिकीर्तितम् ।। कलकणितमञ्जीरं याति सा मदमन्थरम् ॥ ५७ ॥ गाम्भीर्यभङ्गभयज संभ्रमं चकितं विदुः । आलोकयंती विजने नखक्षतं कृत्वा कुचं त्यक्तपटं कराम्बुजे । सीत्कुर्वती चापि मुहुर्मदागमे चकार यत्सास्तु तदेव मे सदा ॥५८॥ विहृतं प्राप्तकार्यस्य वाक्यस्याकथनं हिया ।।
काव्यमाला। केलये याचिता राधा प्रियं नोवाच किंचन । आकस्मिकं मितं हासो यौवनादिविकारजम् । मय्यागच्छति सा चके विनाहेतुं सितं सितम् ॥ ५९॥ अलंकारसमुद्भूतो दीप्तिः कान्तेश्च विस्तरः ।। लिलेख मकरी कान्ता धुसूणेन कपोलयोः । तावलंचक्रतुस्तस्या मकरी मकरीनतौ (१) ।। ६० ॥ धैर्य स्याद्भरिकृच्छ्रेऽपि मर्यादादेरलङ्घनम् । मारस्तुदतु मां कामं न गच्छेद्धर्तमन्दिरम् । रम्यदृष्टौ चापलं तु कुतूहलमितीर्यते ॥ तदाननं मुहुस्तन्वि द्रष्टुमुत्कण्ठते मनः ॥ ६१ ॥ माधुर्य सुन्दरानयंभूषभावेऽपि रम्यता। कान्ताङ्गे भूषणारोपो जनदुर्दृष्टिभीतितः । औदार्यमनुरागस्तु नायके सहजः सदा ॥ अनागसि यथापूर्व सागस्यद्य तथैव सा ॥ ६२ ।। इति नायिकाप्रकरणम् । व्यापाररूपिणी वृत्ती रसावस्थानसूचिका । द्विधा शब्दार्थभेदेन सा द्वे अपि चतुर्विधे । कैशिक्यारभटी चैव सात्वती भारतीति च । शब्दवृत्तिरिति प्रोक्ता शब्दव्यापाररूपिणी ।। अर्थवृत्तिरिति प्रोक्ता नेतृव्यापाररूपिणी । शब्दवृत्तिं चार्थवृत्तिमप्यहं क्रमशो बुवे ॥ अत्यर्थसुकुमारासंदर्भा कैशिकी मता । ददर्श कान्ता सस्नेहं कान्तं कन्दर्पसुन्दरम् । नृत्तगीतविलासादिमृदुशृङ्गारचेष्टितैः ।। समन्विता भवेद्वृत्तिः कैशिकी श्लक्ष्णभूषणा । अस्यास्त्वङ्गानि चत्वारि नर्म तत्पूर्वका इमे ॥ स्फूर्जः स्फोटश्च गर्भश्च लक्ष्मतेषां क्रमाहुवे ।
८. शुद्धबिन्दुः] मन्दारमरन्दचम्पूः। ८९ शृङ्गाररसभूयिष्ठः प्रियचित्तानुरञ्जनः । अग्राम्यपरिहासश्च नर्म तत्तु त्रिधा मतम् । शृङ्गारहास्यजं शुद्धहास्यजं भयहास्यजम् ॥ शृङ्गारहास्यजं नर्म त्रिविधं परिकीर्तितम् । संभोगेच्छाप्रकटनादनुरागनिवेशनात् ।। तथा कृतापराधस्य प्रियस्य प्रतिभेदनात् । संभोगेच्छाप्रकटनं त्रिधा वाग्देहचेष्टितैः ॥ अनुरागप्रकाशोऽपि त्रिधा वाग्देहचेष्टितैः । प्रियापराधनिर्भेदोऽप्युक्तस्त्रेधैव पूर्ववत् ।। शुद्धहास्यजमप्युक्तं त्रिधा वाग्देहचेष्टितः । हास्याद्भयेन सहिताजनितं भयहास्यजम् ।। तविधा मुख्यमाङ्गं च तद्वयं च पुनस्त्रिधा । वाग्देहचेष्टितैरेवं नाष्टादशधोदितम् ॥ नर्मस्फूर्जा भयात्सौख्यव्यापारो नवसंगमे । नर्मस्फोटस्तु भावानां सूचिताल्परसो लवैः ।। छन्ननेत्रप्रतीचारो नर्मगऽर्थहेतवे । अत्युद्धतार्णसंदर्भा वृत्तिरारभटी मता ॥ क्रुद्धः परश्वधच्छिन्नक्षत्रियोऽभ्येति भार्गवः ॥ ६३ ॥ मायेन्द्रजालप्रचुरां चित्रयुद्धक्रियामयीम् । छेद्यैर्भेदैः प्लुतैर्युक्तां वृत्तिमारभटी विदुः ॥ अङ्गान्यस्यास्तु चत्वारि संक्षिप्तिरवपातनम् । वस्तूत्थापनसंफेटाविति पूर्वे वभाषिरे ॥ संक्षिप्तिरिह सा प्रोक्ता मायया वस्तुगोपनम् । विभ्रान्तिरवपातः स्यात्प्रवेशद्रवविद्वैः ।। तद्वस्तूत्थापन यत्तु वस्तु मायोपकल्पितम् । संफेटः स्यात्समाघातः कृतसंरम्भयोयोः॥ ईषत्प्रौढाणसंदर्भा सात्वती वृत्तिरिष्यते ।
९० काव्यमाला। विसृज्य घोरं संसार विहर त्वं हरौ मनः । हर्षप्रधाना संत्यक्तदोषभावा च साखती ।। अङ्गान्यस्यास्तु चखारि संलापोत्थापकौ तथा। संघात्यकस्तृतीयः स्याचतुर्थः परिवर्तकः ॥ परस्परं समालापः संलापो रसगर्भितः। प्रेरणं यत्परस्यादौ युद्धायोत्थापकस्तु सः॥ अन्यस्य भेदनं यत्तु संघात्योऽर्थादिशक्तिमिः । पूर्वकार्येणान्यकार्यनिर्वाहः परिवर्तकः ॥ ईषन्मृद्वर्णसंदर्भा भारती वृत्तिरिष्यते । को वेद बालः फा(लो भा)लाक्षचापमारोपयेदिति ॥ ६४ ॥ धीरोदात्तचरित्रात्मा धर्मशृङ्गारसंश्रया ॥ शौयौदार्यगुणोपेता भारती वृत्तिरिष्यते । अस्यास्वङ्गानि चखारि निग्रहोऽनुग्रहस्तथा ॥ त्यागः स्वीकार इत्येवं कथितानि मनीषिभिः। कैशिक्याद्यर्थवृत्तीनां साङ्गानां सुगमवतः ॥ ग्रन्थगौरवभीतेश्च न कृतं लक्ष्यवर्णनम् । तच्चतुर्विधशृङ्गारसमत्वेनोदिते इमे ॥ मध्यमारभटी चैव तथा मध्यमकैशिकी । मध्यमारभटी प्रौढेऽप्यर्थे नातिमृदुक्रमा । जघान दानवान्फ्रान्मांसशोणितभोजनान् । मृद्वर्थेऽप्यनतिप्रौढबन्धा मध्यमकैशिकी । तादृक्प्रिये कृतरुषं धिमां धिङ्मम जीवितम् ॥ ६५॥ शृङ्गारे कैशिकी वीरे साखत्यारभटी पुनः॥ रसे रौद्रे च वीभत्से वृत्तिः सर्वत्र भारती। कैशिकी साखतीं चैव केचिदारभटीमपि । शब्दार्थवृत्तिं त्रुवते भारती शब्दमात्रकाम् ॥
९. रम्यबिन्दुः] मन्दारमरन्दचम्पूः। जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन । गुहपुरनिलयेन प्रोद्धृतः शुद्धबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे॥ इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगी- श्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारमरन्दे चम्पू. प्रबन्धे शुद्धबिन्दुरष्टमः समाप्तिमगमत् । रम्यबिन्दुः । रम्यविन्दावत्र रसलक्षणानि बुवे स्फुटम् । तत्रादौ कारणीभूतभावलक्षणमुच्यते ।। रसानुकूलविकृतिर्भावः स द्विविधो मतः। आन्तरश्चैव शारीर इतीदं सर्वसंमतम् ।। आन्तरस्तु द्विधा स्थायिव्यभिचारिविभेदतः। विरुद्धैरवरुदैर्वा भावैर्विच्छिद्यते न यः॥ आत्मभावं नयत्यन्यान्स्थायी यावद्रसस्थितिः। रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा ॥ जुगुप्सा विसयश्चाष्टौ स्थायिभावा यथाक्रमम् । मनोऽनुकूलेष्वर्थेषु सुखसंवेदनं रतिः॥ विलोकयति सा कान्तं सहर्षपुलकोद्गमम् । हासो विकृतवेषादिदर्शनान्मानसी क्रिया । विकटास्थिमयी माला वस्त्रं चर्माणदं फणी । उचितोऽहं वरो गौर्यास्तादृश्या इति सस्मितः ॥ १॥ शोकश्चित्तस्य वैधुर्यमभीष्टविरहादिभिः॥ निये प्रियेण चेदेष किं करोतु स्तनंधयः। न चेदसा वैधव्यमिति मोहमियाय सा ॥२॥ प्रतिकूलेषु चित्तस्य वैरस्यं क्रोध उच्यते कुठारोऽयं कठोरास्थिखण्डनोद्यत्खणा()कृतिः । भिन्द्याल्लिङ्गानि पापानां यैर्वृथा मे हतः पिता ॥ ३ ॥ चित्तस्यास्थिरता सर्वकार्येषूत्साह इष्यते ॥
९२ काव्यमाला। प्राचीनम्- चापमानय सौमित्रे शरानाशीविषोपमान् । समुद्रं शोषयिष्यामि पन्यां यान्तु प्लवंगमाः ॥ ४ ॥ भयं चित्तस्य वैक्लव्यं व्याघ्रादिजनितं मतम् । घनगर्जितमाकर्ण्य विशन्तो गिरिकन्दरान् । तेभ्यः प्रतिध्वनीता निवर्तन्ते मृगार्भकाः ॥ ५ ॥ जुगुप्सा निन्दितज्ञानं दोषसंदर्शनादिभिः॥ इयं प्रोतकपालालीभूषणा रावभीषणा । [सु]पीतो(नो)त्स(त्स्य)न्दिरक्ताईस्तना तिष्ठति ताटका ॥ ६॥ विसयश्चित्तविस्तारः पदार्थातिशयादिभिः । युध्यन्तमर्जुनं वीक्ष्य के वा देवा न विस्मिताः । न मेने बहु गोविन्दो दृष्टकर्णपराक्रमः ॥ ७ ॥ आभिमुख्यात्तिरोभावाविर्भावाभ्यां चरन्ति ये ॥ स्थायिभावेषु सत्खेव रसेषु व्यभिचारिणः । निर्वेदग्लानिशङ्काश्च ब्रीडासूयामदश्रमाः ॥ आलस्यं दैन्यमावेगश्चिन्तामोहः स्मृतिधृतिः । हर्षश्चपलता गर्यो जडतौत्सुक्यमुग्रता ॥ विषादनिद्रापसारविबोधामर्षसुप्तयः । अवहित्थोम्मादमतिमरणव्याधयस्तथा ।। त्रासो वितर्क इत्येव त्रयस्त्रिंशदमी मताः । तत्त्वज्ञानापदादेर्निर्वेदो निष्फलखधीः । तत्रानुभावाश्चिन्ताश्रुवैवर्ण्यश्वासदीनताः । फलं किमेतैः सखि मे भूषणजिनैरपि । इत्युक्त्वाश्रु मुमोचासौ सनिश्वासं मृगेक्षणा ॥८॥ रत्याद्यायासवृक्षुद्भिग्लानिर्निर्बलता मता ॥ अत्रानुभावा वैवर्ण्यकम्पानुत्साहवामताः ।
९. रम्यबिन्दुः] मन्दारमरन्दचम्पूः। धराधरादपि गुरुं वेत्ति सा मणिमुद्रिकाम् । रतिक्लिन्ना चकोराक्षी राधिका कृष्णकल्पिताम् ॥९॥ अनर्थप्रतिभाशङ्का परक्रौर्यात्स्वदुर्नयात् ।। अत्रानुभावाः कपटवीक्षाप्रच्छादनादयः। जानात्यन्येति सा प्राणप्रियं कुन्तलमस्पृशत् । संकेतकालजिज्ञासालोलुपं वीक्ष्य राधिका ॥ १० ॥ चेतःसंकोचनं ब्रीडा दुराचारादिभिर्मता ।। अत्रानुभावास्तु शिरोनत्यङ्गावरणादयः :॥ कृष्णप्रियेति सख्युक्तिं श्रुत्वा जाता नमन्मुखी । असूया गर्वदौर्जन्यजान्योत्कर्षा सहिष्णुता ॥ अत्रानुभावा दोषोत्यवज्ञाभ्रुकुटिमन्यवः । वीक्ष्य प्रियान्वितामन्यां बालासीदरुणेक्षणा ॥ ११ ॥ संमोहानन्दसंभेदो मदिरादिकृतो मदः॥ अत्रानुभावा निद्रा च हसितं रोदनादयः । उत्तमानां मध्यमानामधमानां यथाक्रमम् ॥ उल्लसन्नयनघूर्णनमीषद्भाषितस्खलनमच्चितरोम । आदधौ पदमकारणहास्यं सुन्दरीहृदि मदो मदनो वा ॥ १२ ॥ आयासः श्रम इत्युक्तो रताध्वगमनादिजः। अत्रानुभावा: कथिताः स्वेदनिश्चेष्टितादयः॥ प्राप्य मन्मथभरादतिवेगं दुर्वहस्तनभरा सुरतेषु । राधिका श्रमजलाईनिटालश्लिष्टकेशमपतद्धदि तस्य ॥ १३ ॥ क्रियासु मान्यमालस्यं दुःखगर्भमदादिभिः । अत्रानुभावाः कथिता उपवेशनपूर्वकाः॥ प्राचीनम्- चलति कथंचित्पृष्टा यच्छति वचनं कथंचिदालीभिः । आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥ १४ ॥ १. 'निचोल' इति भवेत.
काव्यमाला। सत्त्वत्यागादनौद्धत्यं दैन्यं कार्पण्यसंभवम् । अत्रानुभावा मलिनाननतादय ईरिताः॥ अबलाहननं न हि तव युक्तं सुमनः सुधर्मयुक्तस्य । अपि मधुसूदनगुणवत आकलये ते नमः शतं भूयः ॥ १५ ॥ इष्टानभिगमादिभ्य आवेगो जातसंभ्रमः । युक्तायुक्तविपर्यासादयश्चात्रानुभावकाः ॥ धनगर्जितमाकर्ण्य कन्दर्पाक्रान्तमानसा । मानिन्यपि खयं सद्यो जगाम शठमन्दिरम् ॥ १६ ॥ आत्मेष्टवस्तुनोप्राप्त्या चिन्ता तद्ध्यानमीरितम् । अत्रानुभावाः संतापवाष्पनिःश्वसितादयः ।। कदा पश्यामि राधायाः कुण्डलद्वयमण्डितम् । अधरीकृतराकेन्दुमण्डलं मुखमण्डलम् ॥ १७ ॥ मोहो विचित्तता भीतिदुःखावेगानुचिन्तनैः । अनुभावा अत्र पातस्तम्भविसरणादयः ।। प्राचीनम्- कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ॥ १८ ॥ स्मृतिः पूर्वानुभूतार्थज्ञानं सदृशदर्शनात् । अत्रानुभावाः कथिता भूसमुन्नयनादयः समार राधिका कृष्णो मालतीनवसंगमे । धृतिरानन्दथुस्तत्त्वज्ञानाभीष्टागमादिभिः । अत्रानुभावा अव्यग्रसंभोगकरणादयः ।। इयं सा राधिका लब्धा किमन्याभिः फलं मम । इत्यव्यग्रमना गाढमालिलिङ्ग तदा हरिः ॥ १९॥ चेतःप्रसन्नता हर्षः स्यात्प्रेयोदर्शनादिभिः । अत्रानुभावाः पुलकस्वेदवाष्पोद्भवादयः।। %3D ९. रम्यबिन्दुः] मन्दारमरन्दचम्पूः। ९५ प्राचीनम्- पुलकितकुचकुम्भपालि राधा व्रजति मुकुन्दमनङ्गकेलिलोला । विरचयति न मध्यभङ्गभीतिं गणयति नापि नितम्बगौरवाणि ॥२०॥ चापलं खनवस्थानं रागद्वेषादिसंभवम् । अत्रानुभावाः स्वच्छन्दाचारनिर्भर्त्सनादयः ॥ सुमितलताङ्गीकृतरतिरपि घनपुष्पेषु लोलचित्तोऽयम् । कृष्णभुजंगः पश्य त्वामभिसमुपैति शीघ्रमित एहि ॥ २१ ॥ आत्मोत्कर्षाज्यधिक्काराद्गाऽभिजनतादिजः। अत्रानुभावा अन्येषामवज्ञाहसितादयः॥ तुल्या मया किं सा धूर्त रूपायैस्तव या प्रिया । इत्युक्त्वा सस्मितं राधा स्वाङ्गानि मुहुरीक्षते ॥ २२ ॥ जडताप्रतिपत्तिः स्यादिष्टानिष्टागमादिभिः। तूष्णीभावोत्र कथितः क्रियया वचसापि च ।। प्रिये समागते तस्थौ क्षणं चित्रार्पितेव सा । कालाक्षमखमौत्सुक्यं रम्येच्छादिभिरीरितः (तम्)। श्वासोच्छासत्वरागत्यादयश्चात्रानुभावकाः ॥ माधवप्रेषितामारातिकां वीक्ष्य राधिका । समुत्तस्थौ सखीलोकलीलालोलापि सत्वरम् ॥ २३ ॥ दोषापराधदौर्जन्यादिभ्यो निर्दयतोग्रता । अत्र स्वेदशिर कम्पतर्जनाताडनादयः ॥ जितोऽसि मन्दकन्दर्प त्वज्जेतास्ति हृदि प्रियः । प्रारब्धकार्यासिद्ध्यादेविषादश्चित्तभञ्जनम् । अत्रोत्तमानां हसनकारणान्वेषणादयः॥ अनुभावा मध्यमानां विमनस्कत्वपूर्वकाः । अधमानां च निःश्वासमुखशोषादयो मताः ॥ गतं तेनैव मे चेतः किमत्र करवाण्यहम् ॥ २४ ॥ १. पुष्पितवल्लीकृतसुरतः.
काव्यमाला। बाह्येन्द्रियाणां वैकल्यं निद्रादुःखश्रमादिभिः । अत्राङ्गभङ्गखप्नाक्षिमीलनोज्जम्भणादयः॥ खप्ने दृष्ट्वा प्रियं बाहू प्रसारयति सा मुधा। ग्रहदुःखमुखावेशोऽपस्मारस्तु भयादिजः। कम्पस्वेदमहीपातलालाफेनोद्मादयः॥ कान्तानङ्गग्रहाविष्टमानसा मत्तकाशिनी । प्रम्लायति प्रलपति शेते शुष्यति लुण्ठति ॥ २५॥ विबोधश्चेतनावाप्तिर्निद्राछेदादिमिर्मता। अत्रानुभावा जृम्भाक्षिमर्दनादय ईरिताः ॥ चिरादुत्स्वप्नतां याता विद्धवोन्मीलति क्षणम् । परगर्वशमाकासामर्षः स्यादवमानभूः । अत्र खेदशिर कम्पनयनारुणतादयः ॥ याहि याहि प्रिया यत्र कदर्थयसि किं वृथा ॥ २६ ॥ निद्रासुखादिभिः सुप्तिरन्तरिन्द्रियमीलनम् । अत्राक्षिमीलनश्वासोच्छ्रासाद्या अनुभावकाः ॥ चिरं निद्राति निश्चिन्तं त्वदाश्लेषसुखादियम् । आकारगोपनं चावहित्थं लज्जादिसंभवम् । अन्यथाकरणप्रेक्षाकथनाच्छादनादयः ॥ शुकचञ्चक्षतं बिम्बं पश्यात्रेति सखीवचः। खाधरं गोपयामास श्रुत्वा चैलेन राधिका ॥ २७ ॥ विना विचारमाचार उन्मादः शोकहर्षजः । अत्रानुभावाश्च वृथाहासरोदनपूर्वकाः॥ आगतेयं प्रियतमेत्यालिङ्गति लतामसौ । विमृश्य युक्तिमिः शश्वदर्थनिर्धारण मतिः। अत्रानुभावा भ्रूक्षेपकरचालनपूर्वकाः ।। न राजीवं निशोनिद्रमकलङ्की न चन्द्राः । किं भवेचर्हि तादृश्याः सर्वथा राधिकाननम् ।। २८ ।।
९. रम्यबिन्दुः] मन्दारमरन्दचम्पूः। मरणं त्वात्मनो देहेऽप्यनास्था दुःखसंभवा । अत्रानुभावाः कथितास्तूष्णीभावादयो बुधैः ।। चन्द्रमुवीक्ष्य(क्ष)ते तूष्णीं बाला जी वितनिःस्पृहा । व्याधिः शरीरसंतापो विरहादिकृतो मतः। अनुभावा अङ्गपातलुण्ठनादय ईरिताः ॥ नश्येत्तस्यास्तर्हि तापो यद्यौर्यो हिमशीतलः ॥ २९ ॥ त्रासश्चित्तस्य संक्षोभ आकस्मिकभयादिभिः । अत्रानुभावा रोमाञ्चगात्रगौरवपूर्वकाः ॥ मानिनी स्तनितं श्रुत्वा गाढमालिङ्गति प्रियम् । विकल्पः कल्पनानन्त्यं संदेहादिभिरीरितः । अनुभावा शिरकम्पभ्वङ्गुलीचलनादयः॥ प्रेषयामि सखीं यद्वा वयं यामि तदन्तिकम् ॥ ३० ॥ शारीरोऽपि द्विधा सात्त्विकानुभावविभेदतः । स्वपरान्यतरप्राप्तसुखदुःखादिभावनाम् (१) ॥ लब्धं यदन्तःकरणं सत्त्वं तद्वत्तया तथा । अयनजो देहधर्मः सात्विको भाव उच्यते ॥ स्तम्भप्रलयरोमाञ्चाः स्वरभङ्गोऽश्रुवेपथुः । स्वेदो वैवर्ण्यमित्यष्टविधः स कथितो बुधैः। हर्षदुःखभयादिभ्यः स्तम्भो गतिनिरोधनम् । वीक्ष्य कान्तं प्रिया गन्तुं यतमानापि नाशकत् । चेष्टानिरोधः प्रलयः सुखदुःखादिसंभवः ॥ राधिका कृष्णमालोक्य ममा मोहमहार्णवे ॥ ३१ ।। रोमाञ्चः पुलकोद्भेदः प्रियसंदर्शनादिभिः। पुलकैरुत्किरत्यन्तःकामो बाणान्प्रियागमे । खरभङ्गक्रोधहर्षादिभ्यो गद्गदभाषणम् ॥ व्यक्तिः स्यात्खरमेदस्य कोपादुक्तिः क्रियेत चेत् ॥ ३२ ॥ मन्दा. ९ काव्यमाला। इत्यादधाति सा मौनं प्रिये प्राप्ते कृतागसि । अश्रु नेत्रोद्भवं वारि दुःखहर्षादिसंभवम् । हृदयं धावति प्राप्तमश्रु कान्तं निवेदितुम् ॥ ३३ ॥ रागभीत्यादिजनितं वेपथुर्गात्रकम्पनम् ॥ लतिकेव चकम्पे सा यामीति प्रेयसोदिता । हर्षशोकभयादिभ्यः स्वेदस्त्वङ्गाजलोद्गमः । स्मरराज्याभिषिक्तेव स्विन्नाङ्गी राधिका बभौ ॥ ३४ ॥ वैवर्ण्यमन्यवर्णत्वं रागदुःखभयादिभिः॥ कुक्कुटे कुर्वति काणमाननं श्लिष्टयोस्तयोः । दिवाकरकराक्रान्तशशिकान्तमिवाभवत् ।। ३५ ।। अथो रसाननुभवगोचरत्वं नयन्ति ये । प्रयत्नजा देहधर्मा अनुभावाश्च ते मताः ॥ अनुभावा द्विधा प्रोक्ताः शुद्धाभिनयभेदतः । तत्रानारोपिताः शुद्धा अन्त्या आरोपिता नटे ॥ द्विविधाः स्युः पुनद्वैधा वाचिकाङ्गिकभेदतः। वाग्व्यापारो वाचिकः स्यादङ्गव्यापार आङ्गिकः ॥ सितं नेत्रप्रसादश्च प्रमोदो मधुरं वचः । कटाक्षश्च भुजाक्षेपो धृतिरास्यप्रसन्नता ॥ इत्याद्यङ्गविकाराः स्युः शृङ्गारे खनुभावकाः । कुश्चनं वेषवाक्याङ्गविकारा ओष्ठचालनम् ॥ कपोलनासास्यन्दाद्या हास्ये स्युरनुभावकाः। निःश्वासवचनं मोहः संतापः परिदेवनम् देहाभिघातरुदितदाहाद्याः करुणे रसे। नानाप्रहारभृकुटीकराग्रपरिपेषणम् ॥ दन्तोष्ठपीडनशिरःकम्पाद्या रौद्र ईरिताः। पराक्रमोत्साहशौर्यवीर्यधैर्यप्रधानकाः॥
९. रम्यबिन्दुः] मन्दारमरन्दचम्पूः।
आक्षेपादियुता वाचो रसे वीरेऽनुभावकाः ।
रोमाञ्चखरभेदाझिकरनेत्रादिकम्पनम् ॥
शुष्कोष्ठतालुकण्ठाद्या अनुभावा भयानके ।
नेत्रास्यघूर्णनं नासामुसाक्ष्याच्छादनानि च ॥
निष्ठीवनाद्या बीभत्से अनुभावा रसे मताः ।
हाहाकारः साधुवादः कम्पो गद्गदभाषणम् ।।
निर्निमेषप्रेषणाद्या अनुभावाः स्युरद्भुते ।
विभावस्तु ज्ञायमानरसोत्पादनकारणम् ॥
स विभावो द्विधा चालम्बनोद्दीपनभेदतः।
आलम्बनविभावस्तु यमालम्ब्याभिजायते ॥
कार्य स साद्वितीयस्तु निमित्तं कारणं मतम् ।
उद्दीपनविभावोऽपि प्रोक्तः प्राज्ञैश्चतुर्विधः ।।
आलम्बनालंकरणं तच्चेष्टा तद्गुणास्तथा ।
तटस्थश्चेति तत्सर्व निर्दिशामि क्रमादिह ।।
आलम्बनविभावास्तु नायकादय ईरिताः ।
आलम्बनालंकरणं हारनूपुरपूर्वकम् ॥
तथालम्बनचेष्टास्तु हावभावादयो मताः ।
आलम्बनगुणाश्चापि रूपयौवनपूर्वकाः॥
तटस्थाः शीतकिरणमलयानिलपूर्वकाः ।
माल्यालंकारर्तुगानकाव्यसेवासुधाकराः ।।
चन्दनोद्यानगत्याद्याः शृङ्गारोद्दीपका मताः ।
विकृतालंकारवेषाचारव्याहारपूर्वकाः ॥
उद्दीपनविभावास्तु रसे हासे प्रकीर्तिताः ।
शापेष्टनाशदारिद्यबन्धनव्यसनादयः॥
उद्दीपनविभावास्तु कथिताः करुणे रसे ।
संग्रामायुधखगामिभवायुदितदुर्गिरः॥
१००
काव्यमाला।
भेदनिर्भर्त्सनाद्याः स्यू रौद्रे तूदीपका रसे।
व्यवसायोत्साहमोहा विषादा विस्मयादयः॥
उद्दीपका रसे वीरे विभावाः कथिता बुधैः ।
श्मशानारण्यसंग्राममहासत्त्वादिदर्शनम् ।।
दुःस्वरश्रवणक्ष्मापापराधाद्या भयानके।
बीभत्से चानभिमतगन्धस्पर्शरसेक्षणम् ॥
अहृयश्रवणस्मृत्यादय उद्दीपका मताः ।
शिल्पमायाकर्मरूपातिशयवचांसि च ।।
इन्द्रजालादयः प्रोक्ता अद्भुतोद्दीपका बुधैः ।
अनुभावविभावानां नोदाहरणमीरितम् ।।
सुगमसात्तथैतेषां ग्रन्थगौरवभीतितः।
व्यभिचारिविभावानुभावैर्भावैश्च सात्त्विकैः ॥
एतैः समुल्लासितोऽयं भावः स्थायी रसो मतः ।
अनुभावविभावाद्यैर्यत्र चित्तस्य विश्रमः ॥
रसं तं ब्रुवतेऽन्येऽन्ये प्रबुद्धस्थायिवासनाम् ।
अलौकिको लौकिकश्चेत्येवं स द्विविधो रसः ॥
आत्मचेतःसंनिकर्षमात्रजातस्वलौकिकः ।
बहिः स्वसंनिकर्षेभ्यः स्यादुद्भूतस्तु लौकिकः ॥
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्सोऽद्भुत इत्यष्टविधः स्यादुभयो रसः॥
रसोऽपि नवमः शान्तः शमस्थायीति केचन ।
अन्ये तु करुणास्थायी वात्सल्यं दशमोऽपि च ॥
रसस्य तत्र नित्यवान शान्तिनॊदयोऽपि च ।
अनित्यखात्तु भावानामस्ति शान्तिस्तथोदयः ।।
रसस्य संधिशावल्ये न केनापि प्रकीर्तिते ।
भावानां संधिशाबल्ये सर्वैः कविमिरीरिते ॥
९. रम्यबिन्दुः]] मन्दारमरन्दचम्पूः । अभिलाषाद्यात्मकत्वाद्रत्यादिस्थायिनां पुनः । अतो न रसतैतेषामानन्दात्मा यतो रसः॥ यूनोः परस्परं पूर्णः प्रमोदः शुचिरुच्यते । दैवतं विष्णुरेवास्य वर्णः श्यामः प्रकीर्तितः ।। संभोगविप्रलम्भाभ्यां शृङ्गारोहिविधो मतः । संभोगः स्याचुम्बनादिभेदाद्यद्यप्यनेकधा ।। तथापि कामिनीकान्तारब्धभेदा द्विधा मतः । यथा यथा किरत्येषा कटाक्षविशिखान्प्रिये । तथा तथा वहत्येष सान्द्ररोमाञ्चकञ्चकम् ॥ ३६ ॥ यूनोरन्योन्यमुदितेन्द्रियसंबन्धवर्जनम् ।। साद्विप्रलम्भः शृङ्गारः कथितः स तु पञ्चधा । शापप्रवासाभिलाषा वियोगजभेदतः। मुन्यादिकोपजोऽश्लेषो विप्रलम्भस्तु शापजः। कुन्तीमलंकृतां पश्यन्मृगयां विव्यथे स्मरन् । प्रवासजो विप्रलम्भः प्रिये देशान्तरोन्मुखे ॥ प्रयाणोद्युक्तकान्तस्य श्रुतिं वृत्तं गतं तदा । प्रमोदेनाश्रुणा तस्याः सार्धं धैर्येण निःसृतम् ॥ ३७ ॥ प्रागसंगतयोयूनोरनुरागेऽपि जाग्रति । अयोगः पारतत्र्यायैविप्रलम्भोऽभिलाषजः ।। कटाक्षान्किरतोरादौ साकृतं हसतोस्ततः । अयने मेलने दैवाद्यदासीत्तत्कथं ब्रुवे ॥ ३८ ॥ ईष्यासंभृतस्तु मानाद्विश्लेषः सागसि प्रिये । धन्याहं त्वप्रिया नाम प्रापितास्मि शठाद्य यत् । यूनोः कुतोऽपि विश्लेषो युक्तयोश्च वियोगजः ॥ नास्ति किं तत्र चन्द्रोऽयं यन्नाद्यापि समागतः ॥ ३९ ॥ अथ शृङ्गाराकुरादिहेत्ववस्था दश ब्रुवे । चक्षुःप्रीतिर्मनःसङ्कः संकल्पश्च प्रजागरः॥
१०२ काव्यमाला। अरतिः संज्वरः कार्य लज्जात्यागो भ्रमस्तथा । ततश्चात्मजिहासा स्युरित्यनङ्गदशा दश ॥ चक्षुःप्रीतिस्तु कथिता तदेकालोकने रतिः । पश्यन्त्यनिमिषं कान्तमासीचित्रार्पितेव सा । मनःसङ्गस्तु मनसस्तदेकासक्तता सदा ॥ कुचसंघर्षणाध्यस्तमथ वा बद्धमेतया । लावण्याम्भसि मग्नं वा गतं नायाति मे मनः ॥ ४० ॥ संततं तद्गतां चिन्तां संकल्पं ब्रुवते बुधाः । दुर्लभो वल्लभो नूनं रागोऽपि मम कोऽप्यसौ । नेक्षे दूती च निपुणां न जाने भवितव्यताम् ॥ ४१ ॥ प्रजागरस्तु चिन्ताभिर्निद्राक्षतिरहर्निशम् ॥ अविनिद्रं सदाम्भोजशोभामेति तदीक्षणम् । अरतिस्तु भवेद्वेषो हृद्येष्वपि च वस्तुषु । चन्द्रं कलयते राधा चक्रवाकीव पावकम् ।। ४२ ॥ संज्वरस्तनुसंतापभरः सरशरोद्भवः ।। तप्तलोहीयति जलं बालाकरतलं गतम् । कार्य तु सरसंतापविहिता तनुता तनोः । ऊर्मिकां कंकणं तच्च त(म)नुते गदमद्य सा ॥ ४३ ॥ लजात्यागस्तु कन्दर्पसंतापेन क्ष(त्र)पाक्षतिः ॥ उल्लङ्घय मानिनीधर्म भणितं राधया तया । भ्रमः स्यादयथाज्ञानं चेतनाचेतनेष्वपि । सखीमुखं समालोक्य त्वमित्याभाषते प्रिया ॥ ४४ ॥ आत्मत्यागोद्यमस्त्वात्मजिहासा परिकीर्तिता ॥ प्रविश्य चन्द्रिकाज्वालां पश्यन्तीन्दुं निजास्पृहा । प्रलापोन्मादमोहानप्याहुः केचन तद्दशाः। प्रलापो दयिताश्लिष्टगुणालापो मुहुर्मुहुः ९. रम्यबिन्दुः) मन्दारमरन्दचम्पूः। १०३ तथा मृदुस्तथा रागी चतुरः सुन्दरस्तथा । मानवत्यपि कान्ता द्राक्खयमेव यथा ब्रजेत् ॥ ४५ ॥ उन्मादमोहावारात्मागत्रैव कथितौ मया । आहुरेता दशाः केचिच्छुकारे त्वभिलाषजे । केचिदाहुर्विप्रलम्भसामान्येऽपि दशा इमाः ॥ ४६ ॥ हासस्य परिपोषस्तु रसो हास्यः प्रकीर्तितः॥ वर्णोऽस्य शुक्लो देवस्तु सिन्धुरानन ईरितः । हास्यस्य देवतां केचिहुवन्ति रजनीकरम् ॥ खनिष्ठः परनिष्ठश्चेत्यादौ स द्विविधो मतः । स द्वेधापि त्रिधा ज्येष्ठमध्यमाधमभेदतः ॥ उत्तमानां सितं प्रोक्तं मध्यानां हसितं मतम् । प्रोक्तं तयातिहसितमधमानां कवीश्वरैः ।। खीयहासपरीपोषो विकृतस्वक्रियादिभिः । यः स खनिष्ठो हास्यः स्याद्रस इत्युदितो बुधैः ॥ प्राचीनम्- लेखिनीमित इतो विलोकयन्कुत्र कुत्र न जगाम पद्मभूः । तां पुनः श्रवणसीमसंगतां प्राप्य नम्रवदनः स्मितं दधौ ॥ ४७ ॥ अन्यहासपरीपोषो विकृतान्यक्रियादिभिः । परनिष्ठो हास्य इति प्रोक्तः स रसकोविदैः ॥ मन्दगं वस्त्रमुद्धृत्य मघवन्मणिकुट्टिमे । ततोऽम्भःपतितं वीक्ष्य जहसुौपदीमुखाः । अन्येषां सुगमत्वाच दिङ्मात्रमिति कीर्तितम् ।। १८ ॥ अनिष्टाप्तीष्टनाशाभ्यां करुणः शोकपोषणम् । केचिदाशाच्छेदजन्येन्द्रियग्लानिं च तं विदुः॥ वर्णः कपोतचित्रं स्याद्देवता वरुणो मतः। खनिष्ठः परनिष्ठश्चेति द्विधा करुणो रसः॥
१०४.
काव्यमाला।
खनिष्ठः करुणः स्वस्य स्वेष्टनाशादिसंभवः ।
प्राचीनम्-
कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।
किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ ४९ ॥
परनिष्ठः परानिष्टप्राप्त्यादिजनितो मतः ॥
प्राचीनम्-
अथ तैः परिदेविताक्षरैहृदये दिग्धशरैरिवादितः ।
रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत्पुरः ॥ ५० ॥
सर्वेन्द्रियाणामौद्धत्यं यद्वा मात्सर्यपूर्वकैः ।
क्रोधस्य च परीपोषी रसो रौद्रः प्रकीर्तितः॥
वर्णो रक्तस्तु रौद्रस्य देवता रुद्र ईरितः।
प्राचीनम्-
अद्य मिथ्याप्रतिज्ञोऽसौ किरीटी क्रियते मया ।
शस्त्रं गृहाण वा नो चेन्मौलावारचयाञ्जलिम् ॥ ५१ ॥
सर्वेन्द्रियमहर्षस्तु रसो वीरः स तु त्रिधा ॥
दानवीरदयावीरयुद्धवीरविभेदतः ।
वों गौरो देवता तु त्रिलोकेशः शचीपतिः॥
दानवीरो मतो दानाध्यवसायादिसंभवः ।
इन्द्राय श्येनरूपाय शिबिर्मासानि दत्तवान् ।
तस्मै ब्राह्मणरूपाय न दद्यां चर्मवर्म किम् ॥ ५२ ॥
आर्द्रताध्यवसायादेर्दयावीरस्तु संभवः ।।
प्राचीनम्-
अयि विहंगवराक कपोतकं विसृज धेहि धृति मम मेदसा।
शिबिरहं विदितो भवता न कि सकलसत्त्वसमुद्धरणक्षमः ॥ ५३ ॥
प्रतापाध्यवसायादिजोत्सवो युद्धवीरकः ।
संग्रामसंगते रामे दृष्टिश्चापं करः शरम् ।
सर्वाङ्ग पुलकं चित्तं धृतिर्धावति सत्वरम् ॥ ५४ ॥
१०५
९. रम्यबिन्दुः] मन्दारमरन्दचम्पूः।
सर्वेन्द्रियाणां विक्षोभः परिपोषो भयस्य वा ॥
भयानकः स तु द्वेधा स्वान्यनिष्ठविभेदतः ।
भयानकस्य वर्णस्तु श्यामो देवो यमो मतः॥
खापराधादिसंभूतः स्वनिष्ठः स्याद्भयानकः ।
गोपीगृहेषु कृतमाग उदीक्ष्य माता
मां ताडयत्यतिरुषेति गृहीतशङ्कः ।
वेषं पुपोष कपटज्वरजर्जराङ्गं
निःश्वासकम्पबहुलं किल नन्दसूनुः ॥ ५५ ॥
परकीयविभावैश्च परनिष्ठः परस्य चेत् ।।
वृकोदराननादाजी सिंहनादे विनिर्गते ।
केचिद्भुवं गताः केचित्कम्पिता दुद्रुवुः परे ॥ ५६ ॥
जुगुप्सायाः परीपोषो यद्वा हृद्येक्षणादिभिः ।
सर्वेन्द्रियाणां संकोचो रसो बीभत्स ईरितः ॥
वर्णो नीलो देवता तु महाकाल उदाहृतः।
खनिष्ठः परनिष्ठश्चेत्येव सोऽपि द्विधा मतः ॥
खनिष्ठः स्वकृतस्पर्शादिभ्यः स्वस्य भवेद्यदि ।
मन्दोदरी समाधातुं व्रजन्रामो रणक्षितौ ।
ताङमज्जादिकं दृष्ट्वा निष्ठीवति विकुञ्चति ॥ ५७ ॥
परनिष्ठः पराहृद्यस्पर्शादिश्रवणादिजः ॥
विष्ठाकूपे निममोऽयमिति निष्ठीवति स्मरन् ।
विसयस परीपोषो रसः प्रोक्तोऽद्भुतो बुधैः ।
वर्णः पीतो देवता तु परमेष्ठी प्रकीर्तितः ।।
श्यामवर्ण त्वद्भुतस्य केचिदूचुर्विपश्चितः ।
खान्यनिष्ठविभेदेन सोद्भुतोऽपि द्विधा मतः॥
खनिष्ठः स्वस्य संभृतः स्वकर्मातिशयादिभिः ।
सदान्तःपुरगा राधा तादृश्यपि कुलाङ्गना।
कथं वशं मया नीतेत्याययौ विस्मयं सरन् ॥ ५८ ॥
१०६ काव्यमाला । परनिष्ठोऽद्भुतोऽन्यस्य परकर्मादिसंभवः ॥ आनने वीक्ष्य कृष्णस्य ब्रह्माण्डं विस्मिताभवत् । केचिदाहुः प्रवृत्तिं च निवृत्तिं च फलद्वयम् । माया रसः प्रवृत्तौ तु निवृत्तौ शान्त इष्यते ॥ मायारसस्य भावस्तु स्थायी मिथ्यामतिर्मता । विभावा भुक्तिभोगाद्या अनुभावाः सुतादयः॥ हर्षगर्वमदाद्याः स्युर्मायायां व्यभिचारिणः । मिथ्यामतिपरीपोषो मायारस इतीष्यते ॥ यदि रामा यदि च रमा तनयो विनयोदयोपेतः । यदि तनये तनयश्चेत्परलोकेऽस्मा किमाधिक्यम् ॥ ५९ ॥ शमस्य परिपोषस्तु रसः शान्त उदाहृतः । अनुभावास्तु मोक्षाद्या विभावा ज्ञानपूर्वकाः ॥ ग्लानिश्रमविषादाद्याः शान्ते स्युर्व्यभिचारिणः । हेयं हय धनं देयं पेयं तीर्थजलं पदम् । ध्येयं गेयं हरेवृत्तं मनासारसंसृतौ ।। ६० ।। बीडोन्मादमदावेगविषादौत्सुक्यविसयाः॥ शङ्कास्या भयं ग्लानिर्निद्रा व्याधिः स्मृतितिः । चिन्तावहित्था मरणं चापलं जडतापि च ।। इत्येव विंशतिर्भावाः शृङ्गारे व्यभिचारिणः । केचिदूचुश्च सकलाः शृङ्गारे व्यभिचारिणः॥ शङ्कास्या चपलता निद्रा खनः श्रमस्तथा । अवहित्था ग्लानिरिति हास्से स्युर्व्यभिचारिणः ॥ दैन्यं ग्लानिर्व्याधिचिन्ते निर्वेदो जडता स्मृतिः। रसे भावाः प्रयोक्तव्याः करुणे व्यभिचारिणः॥ हर्षास्योत्साहगर्वमदाश्चपलतोग्रता । रसे रौद्रे प्रयोक्तव्यास्ते भावा व्यभिचारिणः॥
१०७
९. रम्यबिन्दुः] मन्दारमरन्दचम्पूः।
वितर्कामर्षसंमोहक्रोधासूयामदोग्रताः।
गर्वो विबोध आवेगो वीरे हर्षस्तथा धृतिः॥
भयानके ग्लानिदैन्ये त्रासश्च मरणं तथा ।
बीभत्से तु विषादश्चोत्साहो व्याधिर्भयं मदः॥
अपसारश्च मरणमिति स्युर्व्यभिचारिणः ।
अद्भुते जडतावेगमोहहर्षास्तथा धृतिः ॥
शृङ्गाराद्धास्यसंभूती रौद्राच्च करुणो भवेत् ।
वीरात्स्यादद्भुतोत्पत्तिर्बीभत्साच भयानकः ॥
अन्योन्यं हास्यकरुणौ तथा वीरभयानको ।
रौद्राद्भुतौ च शृङ्गारबीभत्सौ शत्रुरूपिणौ ॥
रसाभासस्तु रत्यादेरनौचित्यप्रवर्तने ।
स्मृत्वा दंदह्यते चेतो दृशाप्यस्पृशती सतीम् ।
भावाभासस्तु भावानामनौचित्यप्रवर्तने ॥
कटाक्षयति सा बाला पुरा या मां निराकरोत् ।। ६१ ॥
भावशान्तिस्त्वभिव्यक्ते प्रशमे व्यभिचारिणाम् ।
विमते विनते तस्य दृक्कोणं शोणिमात्यजत् ।
अथ भोजनृपादीनां मतमत्र प्रकाश्यते ।।
रसो वै स इति श्रुत्या रस एकः प्रकीर्तितः।
अतो रसः स्वाच्छृङ्गार एक एवेतरे तु न ॥
धर्मार्थकाममोक्षाख्यभेदेन स चतुर्विधः ।
कथितो धर्मशृङ्गारे धीरोदात्तस्तु नायकः ॥
खकीया नायिका प्रोक्ता भारती वृत्तिरिष्यते ।
पौरस्त्या तु प्रवृत्तिः स्यात्पाञ्चाली रीतिरिष्यते ॥
कथितश्चार्थशृङ्गारे स धीरोद्धतनायकः ।
सर्वाश्च नायिकास्तत्र प्रवृत्तिर्मागधी मता ॥
वृत्तिरारभटी ज्ञेया गौडी रीतिः प्रकीर्तिता ।
नायकः कामशृङ्गारे स धीरललितो मतः॥
१०८
काव्यमाला।
सर्वाश्च नायिकास्तत्र प्रवृत्तिर्दाक्षिणात्यजा।
वृत्तिस्तु कैशिकी ज्ञेया वैदर्भी रीतिरिष्यते ॥
कथितो मोक्षशृङ्गारे धीरशान्तस्तु नायकः ।
खकीया नायिका लाटी रीतित्तिस्तु सात्वती ॥
अवन्त्या तु प्रवृत्तिः स्यादथोदाहरणक्रमः ।
धरामपालयद्धर्मादाजा धार्मिकशेखरः ।
सपत्नान्दुर्जयाञ्जित्वा तद्राज्यमहरबलात् ॥ ६२ ।।
तथा तथानुरक्तोऽभूत्सा पश्यति यथा यथा ।
जजाप राम रामेति भ्रामयन्नक्षमालिकाम् ॥ ६३ ।।
अथ रीतिप्रवृत्तीनां ब्रूमहे लक्षणान्यपि ।
रीतिः प्रोक्ता गुणश्लिष्टपदसंघटना बुधैः॥
वैदर्भी लाटिका गौडी पाञ्चालीति चतुर्विधा ।
बन्धा पारुष्यरहिता शब्दकाठिण्य(न्य)वर्जिता ॥
नातिदीर्घसमासा च वैदर्भी रीतिरिष्यते ।
कुन्दचन्दनमन्दारैः समा चन्द्रांशुसंचयैः ।
कीर्तिस्ते गोपकान्तानां संततं कान्त राजते ॥ ६४ ॥
शान्तार्णबहुला दीर्घसमासा लाटिका मता ॥
लसतां पदपने ते राम राम सदा हृदि ।
ओजःकान्तिगुणोपेता गौडी रीतिरितीर्यते ।
एष दुर्वारदोवार्यशर्वरीचरगर्वहा ॥ ६५ ॥
पाञ्चाली चापि वैदर्भी गौडी रीत्युभयात्मिका ॥
राजा विराजते सोऽयमथिसार्थेप्सितार्थदः ।
प्रवर्तनं प्रवृत्तिः स्यादतिप्रेम्णार्जनादिषु ।
पौरस्त्या च तथावन्त्या मागधी दाक्षिणात्यजा ॥
एवं चतुर्विधा प्रोक्ता प्रवृत्तिः सा तु कोविदः ।
प्रवर्तनं स्यात्पौरस्त्या धर्मकीार्जनादिषु ॥
अस्थिरासारसंसारे धर्मकीर्तिद्वयं स्थिरम् ॥ ६६॥
१०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः। अवन्त्या तु प्रवृत्तिः स्यात्सदा निर्वाणकासया । सदास्तु ते पदध्यानं किं मे वर्गसुखादिभिः । अर्थार्जनप्रवृत्तिस्तु प्रवृत्तिर्मागधी मता ॥ क्षणाद्राज्यं हरिष्यामि निगृह्य रिपुसंचयम् । भोगार्जनप्रवृत्तिस्तु प्रवृत्तिर्दाक्षिणात्यजा । प्रियागमनवेलेयं शय्यां कल्पय दूतिके ॥ ६७ ॥ वर्गेष्वाद्यतृतीयाश्च यवलाश्चातिकोमलाः ॥ धनौ रमौ शसौ हश्च वर्णाः शान्ताः प्रकीर्तिताः । शेषाष्टवर्गः सर्वोऽपि परुषाः परिकीर्तिताः॥ परुषा अन्यसंयुक्ता अतिप्रौढा भवन्ति हि । कोमला अन्यसंयुक्ता यान्तीपत्सुकुमारताम् ॥ असंलक्ष्यक्रमं व्यङ्गय सप्रपञ्चं निरूपितम् । तुष्यन्तु परिगृह्णन्तु निर्मत्सरतया बुधाः॥ जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटेऽलंपटेन । गुहपुरनिलयेन प्रोद्धृतो रम्यबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ।। इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगी- श्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारमरन्दे चम्पूप्रबन्धे रम्यबिन्दुर्नवमः समाप्तिमगमत् । व्यङ्गयबिन्दुः। व्यङ्गयबिन्दावलंकारध्वनिलक्षणलक्ष्ययोः । ब्रूमहे बालबोधाय तोषाय विदुषामपि ॥ अलंकरोति शब्दार्थावित्यलंकार इष्यते । द्विधा शब्दार्थभेदेन शब्दालंकृतयस्तु षट् ॥ छेको वृत्तिस्तथा लाटोऽनुप्रासपदपूर्वगाः। पुनरुक्तवदाभासो यमकं चित्रमित्यपि ॥ क्रमात्सजातीयवर्णद्वयस्थावर्तनं यदि । व्यवधानं विना तत्र च्छेकानुप्रास इष्यते ॥
११० काव्यमाला । सजातीयाव्यवहितवर्णा द्वित्रादयो यदि। आवर्तन्ते तदा केचिच्छेकानुप्रासमूचिरे ॥ कुं जगामाजगामाजाराधिका राधिकापि याम् । राजराजन्मुखः कामरामो रामोत्सवो गतः ॥ १॥ एकद्विप्रभृतीनां तु व्यञ्जनानां यदा भवेत् । आवृत्तिरनियत्यात्र वृत्त्यनुप्रास इष्यते ॥ कुशे गुञ्जमृङ्गपुञ्जे मनुमञ्जीरशिञ्जितम् । कुलेषु केलौ संजातं मञ्जुलाक्ष्या न लक्ष्यते ॥ २ ॥ तात्पर्यभेदवद्यत्र भवेच्छब्दार्थयोर्द्वयोः । पौनरुक्त्यं तत्र लाटानुप्रासं परिचक्षते ॥ चातुरी चातुरी सैव या श्रिता राधिका विटम् । शब्दे भिन्नेऽपि यत्रार्थः पुनरुक्तवदश्चति । पुनरुक्तवदाभासोऽलंकारस्तत्र कथ्यते ॥ अर्थालंकारमेनं तु केचिदूचुर्विपश्चितः । महादेवं शिवं कृष्णं माधवं प्रणमत्यसौ ॥ ३ ॥ लक्षणं चित्रविन्दौ तु प्रोक्तं यमकचित्रयोः ॥ अथात्रार्थालंकृतीनां लक्षणोदाहृती बुवे । उपमानन्वयो भ्रान्तिः प्रतीपं रूपकं स्मृतिः ॥ उपमेयोपमोल्लेखः परिणामस्त्वपहुतिः । उत्प्रेक्षातिशयोक्तिश्च संदेहस्तुल्ययोगिता ॥ प्रतिवस्तूपमा चैव दीपकावृत्तिदीपके। दृष्टान्तो व्यतिरेकश्च सहोक्तिश्च निदर्शना ॥ विनोक्तिश्च समासोक्तिः श्लेषः परिकराकरः । अप्रस्तुतप्रशंसा च पर्यायोक्तं परीकरः॥ व्याजस्तुतिाजनिन्दाथाक्षेपः प्रस्तुताङ्कुरः। विरोधाभासविषमे विशेषोक्तिरसंभवः ।।
१११
१०. व्यन्यबिन्दुः] मन्दारमरन्दचम्पूः।
विभावनासंगतिश्च विचित्रमधिकं समम् ।
व्याघातोऽल्पं विशेषश्चान्योन्यं कारणमालिका ॥
एकावली यथासंख्यं मालादीपकमप्युत ।
पर्यायः परिवृत्तिश्च परिसंख्या समुच्चयः ॥
विकल्पश्च समाधिश्च सारः कारकदीपकम् ।
काव्यार्थापत्तिरुल्लासः प्रत्यनीकं विकखरः॥
मिथ्याध्यवसितिः काव्यलिङ्गं संभावना तथा ।
अवज्ञार्थान्तरन्यासः प्रौढोक्तिर्ललितं तथा ।।
अनुज्ञोदात्तलेशौ च प्रहर्षणविषादने ।
मुद्रा रत्नावली पूर्वरूपं तद्गुणमीलिते ।।
अतद्गुणश्चानुगुणः सामान्यं पिहितं यथा ।
उन्मीलितोत्तरे सूक्ष्म विशेषो भाविकं तथा ॥
व्याजोक्तिर्विवृतोक्तिश्च गूढोक्तियुक्तिरेव च ।
छेकोक्तिश्चैव लोकोक्तिः स्वभावोक्तिस्ततः परम् ।।
वक्रोक्तिश्च तथा चित्रं प्रतिषेधो विधिस्तथा ।
निरुक्तिहेतुरित्येवमलंकारशतं मतम् ॥
रसवान्प्रेय ऊर्जस्वित्समाहितमतः परम् ।
भावोदयो भावसंधिर्भावशावल्यमप्यथ ।।
प्रत्यक्षमनुमान चोपमानं शब्द एव च ।
अर्थापत्तिरनुपलब्धिरैतिचं संभवस्तथा ।।
इत्थं पुनः पञ्चदशालंकाराः कथिता बुधैः ।
संसृष्टिः संकरश्चेति द्विधोक्तानां च मेलने ।
इत्थं मिलित्वालंकाराः शतं सप्तदशोत्तरम् ।।
(उपमा-]
खतःसिद्धेन भिन्नेन संमतेन च धर्मतः ।
वर्ण्यस्यान्येन साम्यं च वाच्यं चेदेकदोपमा ।
११२ काव्यमाला। सा तूपमा द्विधा प्रोक्ता पूर्णा लुप्तेति भेदतः । साधारणस्य धर्मस्य ह्युपमानोपमेययोः॥ वाचकस्य च योगे तु सैव पूर्णेति संमता । पुनश्च द्विविधा पूर्णा सा श्रौत्यार्थीविभेदतः। श्रौती तु साक्षात्सादृश्यवाचकेवादियोगके। सा धर्मि(H)व्यवधानेन सादृश्यप्रतिपादकाः॥ प्रतीकाशादिशब्दाः स्युः पूर्णार्थी तत्र कीर्तिता। समासगे तद्धितगे वाक्यगे इति ते पुनः॥ द्वे च त्रिधेत्थं पूर्णेयं पडिधा परिकीर्तिता । भास्वानिवोदयालम्बी नेत्रानन्दकरो हरिः । इत्यत्र कथिता सम्यक्पूर्णा श्रौती समासगा ॥ ४ ॥ धरवदृढतुङ्गस्य कुचस्यांशुकमस्पृशत् । अत्र तद्धितगा पूर्णोपमा श्रौती प्रकाशिता ॥ ५॥ पद्मं यथा वितनुते मुखं राधामुखं तथा । इत्यत्र वाक्यगा पूर्णा श्रौती सम्यक्प्रकीर्तिता ॥६॥ आलिङ्गत्यसकृत्कान्त्या कान्तां कामसतीनिभाम् । हरिरित्यत्र कथिता पूर्णा चार्थी समासगा ॥ ७ ॥ सौन्दर्ये कामकान्तावत्त्वं कान्ते भासि संततम् । इत्यत्रार्थी तद्धितगा पूर्णा सम्यक्प्रकाशिता ॥ ८ ॥ कान्तानेत्रे विराजेते कान्त्या पद्मस्य संनिभे । इत्यत्र वाक्यगा पूर्णोपमा चार्थी प्रकीर्तिता ॥९॥ यत्रैकद्वित्रलोपे वा तत्र लुप्तोपमा मता। अधर्मा चावधामयाधमेयावाचका तथा ॥ अमेयवावाधमेयाधनवावानकाधना। अनमेति च सा लुप्ता त्वेकादशविधा मता ॥ लाघवेन प्रवृत्यर्थमित्थं संज्ञाः प्रकीर्तिताः । धर्मस्य चानुपादाने सैवाधर्मोपमा मता ॥
११३
१०.व्यायबिन्दुः] मन्दारमरन्दचम्पूः ।
आर्थी श्रौती च सा द्वेधा ते द्वे च त्रिविधे पुनः।
समासगे तद्धितगे वाक्यगे इति षड्विधा ।
चुचुम्ब चन्द्रसदृशं राधिकावदनं हरिः ।
इत्यत्राधर्मोपमा स्यादार्थी प्रोक्ता समासगा ॥ १० ॥
कन्दर्पकल्पमजाक्षं मुहुः पश्यति राधिका ।
इत्यत्राधर्मोपमा स्यादार्थी तद्धितगा मता ॥ ११ ॥
दूति बोधय तां कान्तां तुल्यां प्राणैर्ममोक्तिभिः ।
इत्यत्राधर्मोपमा स्यादार्थी वाक्यगता मता ॥ १२ ॥
राधिकाया मुहुर्भाति विधुबिम्बमिवाननम् ।
इत्यत्राधर्मोपमा स्याच्छौती प्रोक्ता समासगा ॥ १३ ॥
तस्याः पश्य ध्रुवौ भातश्चन्द्रवत्सुन्दरे मुखे ।
इत्यत्राधर्मोपमा स्याच्छ्रौती तद्धितगा मता ॥ १४ ॥
यथा मधुकरः पद्मे तथा कान्तामुखे भवान् ।
इत्यत्राधर्मोपमा स्याच्छौती वाक्यगता मता ॥ १५ ॥
धर्मवाचकलोपे तु तत्र स्यादवधोपमा ।
सा तु कर्मक्यचाधारक्यचालुमा किपा तथा ।
कर्तणमुल्कर्मणमुल्लुप्ताकर्मक्यडेति च ।
समासगेति विबुधैः सप्तधा परिकीर्तिता ॥
विद्रुमीयति तन्नासा मौक्तिकं तेऽधरप्रभा ।
इत्यत्र संमता कर्मक्यचा लुप्तावधोपमा ॥ १६ ॥
समाधवा निकुञ्जऽपि प्रासादीयति राधिका ।
इत्यत्र संमताधारक्यचा लुप्तावधोपमा ॥ १७ ॥
इन्दुबिम्बति ते वक्रं कण्ठः कम्बवति प्रिये ।
इत्यत्र विबुधैः प्रोक्ता किपा लुप्तावधोपमा ॥ १८ ॥
माननाराचचारे तत्कटाक्षाः संचरन्त्यहो ।
मयीत्यत्र मताकर्तृणमुल्लुप्ता वधोपमा ॥ १९ ॥
११४
काव्यमाला।
राधाधरं सुधादर्श माधवः परिचुम्बति ।
इत्यत्र प्रस्फुटाकर्मणमुल्लुप्तावधोपमा ॥२०॥
हन्तकान्ताविप्रलम्भे चन्द्रश्चण्डकरायते ।
इत्यत्र कीर्तिता कर्तृक्यङालुप्तावधोपमा ॥ २१ ॥
याहि सत्वरमजाक्षं दूति तापः सुदुस्तरः।
अस्मिन्समासगा प्रोक्ता विबुधैरवधोपमा ॥ २२ ॥
उपमेयानुपादाने तत्रामेयोपमा मता ।
सापि द्विधार्थी श्रौती च ते द्वे च त्रिविधे पुनः ।
समासगे वाक्यगे च तथा तद्धितगे च षट् ॥
राधिकासदृशी कान्ता नास्ति मत्तोषकारिणी।
इत्यत्रामेयोपमा स्यादार्थी प्रोक्ता समासगा ॥ २३ ॥
माधवस्य समो लोके नास्ति राधामनोहरः ।
इत्यत्रामेयोपमा स्यादार्थी वाक्यगता मता ॥ २४ ॥
राधाकल्पा न काप्यन्या कामकेलीकलावती।
इत्यत्रामेयोपमा स्यादार्थी तद्धितगा मता ॥ २५ ॥
नास्त्येव कापि भूलोके राधिकेवातिसुन्दरी ।
इत्यत्रामेयोपमा स्याच्छौती प्रोक्ता समासगा ॥ २६ ॥
अन्या नास्ति तथा कापि यथा राधा मम प्रिया ।
इत्यत्रामेयोपमा स्याच्छौती वाक्यगता मता ॥ २७ ॥
राधिकावन्न कुत्रापि गोप्यां कृष्णमनोहतिः ।
अत्र तद्धितगामेयोपमा ौती प्रकीर्तिता ॥ २८ ॥
धर्मोपमेयानिर्देशे खधमेयोपमा मता।
सापि खमेयोपमेव श्रौती तद्धितगां विना ॥
राधिकासदृशी नास्ति यन्मुकुन्दमनोहरा ।
अत्राधमेयोपमा स्यादार्थी सूक्ता समासगा ॥ २९ ॥
राधायाः सदृशी नास्ति यन्मुकुन्दमनोरमा ।
अत्राधमेयोपमा स्यादार्थी वाक्यगता मता ॥ ३० ॥
११५
१०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः।
राधाकल्पा न काप्यस्ति यद्गोपीशतसेविता ।
इत्यत्रार्थी तद्धितगा त्वधमेयोपमा मता ॥ ३१ ॥
राधिकेव न लोकेऽस्ति यन्मुकुन्दपदे सदा ।
रतेत्यत्राधमेया स्याच्छ्रौती प्रोक्ता समासगा ॥ ३२ ।।
यथा राधा तथा नैव यत्कृष्णातिदयोदया।
अत्र वाक्यगता श्रौती त्वधमेयोपमा मता ॥ ३३ ।।
अधमेयोपमा चेयं न सर्वमतसंभता ।
वाचकस्यानुपादाने स्यात्तत्रावाचकोपमा ।
किपा लुप्ता क्यङा लुप्ता त्रिविधेति समासगा ॥
खञ्जरीटति चाञ्चल्ये प्रोष्ठीपृष्ठायते द्युतौ ।
पद्मपत्रस्फुरन्नेत्र्या नेत्रमित्यत्र सा त्रिधा ॥ ३४ ॥
वाचकस्योपमेयस्याप्यनिर्देशश्च यत्र सा ।
अमेयवोपमा तत्र प्रोक्तालंकारकोविदः ॥
राधाया अधरश्चारुर्माधुर्येण सुधीयति ।
उपमेयस्य धर्मस्य लोपश्चेद्वाचकस्य च ।
कर्मक्यचावाधमेयोपमा तत्र प्रकीर्तिता ॥
कल्पशाखीय ति सतां गोपिकाजनकामुकः ॥ ३५ ॥
उपमानेन धर्मेण लुप्ता चेद्वाचकेन च ।
तदा समासगा प्रोक्ता प्राज्ञैरधनवोपमा ।
कुरङ्गाक्षी सदापाङ्गान्करोति मयि राधिका ।
याचकस्योपमानस्य लोपे चावाचकोपमा ।
मन्दं राधा समायाति मृगराजाल्पमध्यमा ॥ ३६॥
धर्मोपमानयोर्लोपे प्रोक्ता तत्राधनोपमा ।
आर्थी श्रौतीति सा द्वेधा कीर्तिता द्विविधा यथा ॥
मदेभसंनिभगतिः : कदा यातीह राधिका ।
कथं द्रुतं गच्छसि त्वं करिणीव गतिस्तव ॥ ३७॥
११६ काव्यमाला। उपमानस्य लोपश्चेत्तत्र स्यादनमोपमा । अनायासमभूत्तस्य राधिकायाश्च मेलनम् । काकतालवदुद्याने निर्जने यमुनातटे ॥ ३८ ॥ सकृत्पृथग्धर्मिकाभ्यां सोपमा द्विविधा पुनः॥ तत्र वावर्ण्यगस्य धर्मस्य सकृदेव तु । निर्देशे सति तत्राद्या स्यात्सकद्धर्मिका मता।। जनाः प्रणम्रशिरसः सेवन्ते राधिकापतिम् । साधूनां हृदयानन्दं गुरुं शिष्या यथा तथा ॥ ३९ ॥ उपमानगतस्यास्याप्युपमेयगतस्य च । पृथग्धर्मस्य निर्देशे सा पृथग्धर्मिका मता ॥ सा तु वस्तूपमा बिम्बोपमाभेदाद्विधा मता। वस्तुप्रतिवस्तुभावेन निर्देशे प्रथमा मता ॥ कुचस्थली कुरङ्गाक्ष्या मालया परिलालिता। मेरुस्थलीव गङ्गाया धारया समलंकृता ॥ ४० ॥ बिम्बप्रतिबिम्बभावेन निर्देशे त्वपरा मता। स्फुरत्कृष्णनखश्रीकमिदं राधाकुचस्थलम् । शिवलिङ्गमिवाभाति चन्द्रलेखाविभूषितम् ॥ ११ ॥ मालारूपोपमा मालारूपेणापि कचिद्भवेत् ॥ पद्माति कञ्जकान्ताति कामकान्ताति राधिका । पूर्वपूर्वसमानत्वमुत्तरोत्तरवस्तुनः । मेखलारचनन्यायाद्यदि स्याद्रशनोपमा । सौन्दर्यमिव चातुर्य चातुर्यमिव धीरता । धीरतेव चटूक्तिश्च राधिकायां विराजते ॥ ४२ ॥ [अनन्वयः-] एकस्यैवोपमानोपमेयत्वे वस्तुनो यदि । अनन्वयः स तु द्वेधा सधर्माधर्मभेदतः ॥
११७ १०.व्यायबिन्दुः] मन्दारमरन्दचम्पूः। कामकेलीकलाभिज्ञा राधिकेव च राधिका । कृष्णस्य सदृशं कृष्णं मुहुरालिङ्गय चुम्बति ॥ १३ ॥ [भ्रान्ति:-] तिरोहिते च विषये सादृश्यात्कविसंमतात् । विशेष्यावृत्तिविषयज्ञानं भ्रान्तिरितीर्यते सा त्वेकविषयान्योन्यविषयेति द्विधा मता ॥ राधिकामुखमम्भोजं मत्वा मत्तमधुव्रतः । परिभ्रमन्पर्यचुम्बदत्रैकविषया मता ॥ ४४ ॥ राधिका माधवं मत्वा निशि खपतिमागता । सोऽपि तां मालती मत्वा चुचुम्बेत्यत्र चापरा ॥ ४५ ॥ [प्रतीपम्-] उपमानप्रतीकूलः प्रतीपं धर्म इष्यते । तत्तु पञ्चविधं प्रोक्तं पश्चापि ब्रूमहे क्रमात् ॥ उपमानोपमेयत्वव्यत्यासे प्रथमं मतम् । उदितोऽयं विधू राधे पश्य ते मुखसंनिभः । द्वितीयं तूपमानस्याप्युपमेयत्वलाभतः । उपमेयस्य चेद्गर्वपरिहारवचो मतम् ॥ त्यज गर्व मुखेन त्वं तादृशश्चन्द्रमा न किम् ॥ ४६॥ व्यत्यासं परिकल्प्यादावुपमानोपमेययोः । कल्पितस्योपमेयस्योत्कर्षादन्यस्य चेद्यदि । तृतीयं तु प्रतीपं स्यादनादखचस्तदा ॥ विष कः क्रौर्यगर्वस्ते त्वादृशं दुर्वचो न किम् । वर्योपमाना निष्पत्तिवचोऽन्यसिंश्चतुर्थकम् । जनापवादो दुर्जेयस्त्वन्मुखाभः शशीति यः ॥ ४७ ॥ उपमेयस्य चोत्कर्षात्कैमर्थ्य यत्र कथ्यते ॥ उपमानस्य तत्र स्यात्प्रतीपं पञ्चमं मतम् ।
काव्यमाला।
वृथोदयति निर्लजः शशी सति तवानने ।
प्रतीपं पञ्चमं केचिदाक्षेपं परिचक्षते ॥
[रूपकम्-]
बिम्बाविशिष्टे विषये न तिरोहितरूपिणि ।
आरोपविषयीभूतं रूपकं चोपरञ्जकम् ॥
तद्रूपकं मतं द्वेधामेदताद्रूप्यभेदतः ।
आरोपे सत्यभेदस्याभेदरूपकमिष्यते ।।
प्रमोदं तनुतेऽस्माकं राधिकाया मुखं शशी ॥ ४८ ।।
ताद्रूप्यस्य समारोपे सति तादूप्यरूपकम् ।
मुदं तनोति राधाया मुखमन्यः सुधाकरः ।
अधिकं च समं न्युनं सावयवं चैव निरवयवम् ।
किं च परम्परितं चेत्येवं चाभेदरूपकं पोढा ।।
पूर्वावस्थात आरोप्यमाणस्याधिक्यदर्शने ।
अवस्थायां तु तस्यां चेदधिकाभेदरूपकम् ॥
आश्रित्य राधिका त्यक्तकलङ्कश्चन्दिरोऽभवत् ॥ ४९ ।।
न्यूनताधिक्ययोश्चैवानिर्देशे सममीरितम् ।
राधिकाया मुखं साक्षाच्चन्द्र एव न संशयः ।
प्राग्दशातो न्यूनता चेत्तन्यूनाभेदरूपकम् ॥
असागरोद्भवः साक्षात्सुधांशुस्ते मुखं सखि ॥ ५० ॥
समस्तवस्तुविषयमेकदेश विवर्ति च ।
इति सावयवं चापि द्विविधं परिकीर्तितम् ।।
यत्रावयविनश्चैवावयवानां समासतः ।
समस्तवस्तुविषयं भवेत्तत्र निरूपणम् ।।
राधिकावदनाम्भोज सखदे कृष्णबंभरः ।
अथावयविनो यत्रावयवानां निरूपणात् ।
निरूपणं गम्यते स्यादेकदेशविवर्ति तत् ॥
लावण्यपयसा पुष्टं सदाधरमधूल्लसत् ॥ ५१ ॥
१०.व्यन्जयबिन्दुः]
मन्दारमरन्दचम्पूः।
११९
तिलकभ्रमरश्लिष्टं हरिः पश्यति तन्मुखम् ।
यत्रावयविनिरूपणमात्रेऽवयवनिरूपणमात्रे(?) वा।
तन्निरयवं क्षेयं कविसंरम्भस्य विश्रान्तिः।।
तद्वेधा केवलं माला तयोर्लक्ष्ये त्रुवे क्रमात् ।
सिचयान्तश्चले तस्याः कुचकुम्भेऽकरोत्करम् ॥ ५२ ॥
सौन्दर्याब्धिलता कान्तेर्बाणः कामस्य या प्रिया ।
तत्परम्परितं यत्तु रूपकाश्लिष्टरूपकम् ।।
तदपि द्विविधं प्रोक्तं श्लिष्टाश्लिष्टविभेदतः।
तद्वयं च पुनर्वधा मालाकेवलभेदतः॥
अथोदाहरणान्येतद्भेदानां ब्रूमहे क्रमात् ।
श्यामालंकारशीतांशुः सुमनोवृन्दमाधवः ॥ ५३ ॥
कमलोदयमार्तण्डः स जीयान्नन्दनन्दनः।
श्रुतिशेखरविस्फूर्जन्मञ्जलास्योरुमण्डले ॥ ५४ ॥
नन्दसूनोनरीनर्ति राधिकापाङ्गनर्तकी।
मारदावानलासारः कृष्णप्रेमलतामधु[:] ॥ ५५ ॥
वासुदेवचकोरेन्दुबिम्बं जयतु राधिका ।
राधिकानलिनीवकुसुमभ्रमरो हरिः ॥ ५६ ॥
खेलत्युच्छृङ्खलं गोपललनाराममण्डले ।
समाधिकन्यूनभेदात्रिधा तादूप्यरूपकम् ॥
सुगमत्वान्न लक्ष्मैतल्लक्ष्याणि ब्रूमहे क्रमात् ।
पङ्कजं पश्य कान्तेति राधयोक्तः स माधवः ।। ५७ ।।
उवाचान्येन किं तेन सुन्दरे सति ते मुखे ।
निशामुकुलितात्पद्मान्मुखपद्मं मनोहरम् ॥ ५८ ॥
इति ब्रुवन्नाससाद राधां माधवषट्पदः ।
असागरसमुद्भूतामत्रिविष्टपवासिनीम् ।
अन्यां कल्पलतामेनां हरिः पश्यति राधिकाम् ॥ ५९॥
११० काव्यमाला। केचिदाहुश्चाष्टचत्वारिंशद्भेदांश्च रूपके ॥ [स्मृतिः-] सदृशानुभवादन्यस्सरणं स्मृतिरिष्यते । केवलात्मविशेषात्मभेदात्सा द्विविधा मता ॥ स्मरणे सशस्यैव केवलस्मृतिरीरिता। हरिः सस्मार राधाया मालती कामकेलिषु । विशेषस्मृतिरित्युक्ता संबन्धिस्मरणे सति ॥ माधवो राधिकां पश्यन्क्षीरपाथोधिमस्मरत् ।। ६० ॥ [उपमेयोपमा] उपमानोपमेयत्वे पर्यायेण द्वयोर्यदि। सोपमेयोपमा द्वेधा सधर्माधर्मभेदतः ॥ सुन्दरी मालतीवासौ राधा राधेव मालती। राधिका मालतीवासौ राधिकेव च मालती ॥ ६१ ॥ [उल्लेखः-] अनेकधोल्लेखनं तु विषयैर्वा गृ(ग्रोहीतृभिः । एकस्य वस्तुनोऽनेकैरुल्लेखालंकृतिर्मता ॥ विषयग्राहि(ह)कोलेखभेदेन द्विविधोऽपि सः। विषयाणामनेकत्वे विषयोल्लेख इष्यते । श्लिष्टाश्लिष्टविभेदेन द्वेधा लक्ष्यं ब्रुवे क्रमात् ॥ उग्रः शत्रौ गुरुवाण्यां चन्द्रो नेत्रप्रहर्षणे । खर्दुरर्थिषु लावण्ये कन्दर्पो राधिकाविटः ॥ ६२ ॥ गृ(प्र)हीतॄणामनेकत्वे पाहि(ह)कोल्लेख इप्यते । तमीक्षन्ते स्त्रियः कामं द्विषः कालं जना नृपम् ॥ ६३ ॥ [परिणामः-] प्रकृतस्योपयोगित्वाद्विषयात्मतया भवेत् । आरोप्यमाणो विषयी परिणामस्तदा मतः॥
१०. व्यायबिन्दुः] मन्दारमरन्दचम्पूः। १२१ सामानाधिकरण्येन व्यधिकरणतया तथा । विषयात्मखमापन्नः स द्वेधा द्विविधो यथा ।। प्रसन्नेन दृगजेन राधिका वीक्षते हरिम् । विधाय राधिका शश्वत्कटाक्षैः पुष्पमालि काम् । प्रत्यग्रामर्पयामास प्रसन्नां नन्दनन्दने ॥ ६४ ॥ [अपडुतिः-] अभेदप्रतिपत्त्यङ्गाङ्गिखान्यतरवाँस्तथा । निषेधोऽपह्नुतिः सा तु द्विविधाङ्गाङ्गिभेदतः। अभेदप्रतिपत्त्यङ्गत्वं निषेधस्य चेयदि । अङ्गापह्नुतिरित्युक्ता सा चतुर्धा प्रकीर्तिता ॥ शुद्धापह्नुतिपर्यस्तहेतुकैतवमेदतः । वयेऽन्यारोपफलको वर्ण्यधर्मस्य निवः ॥ कैतवादिपदाव्यङ्गयस्तथानुक्तनिमित्तकः । सा शुद्धापहुतिः प्राज्ञैः प्रोक्तालंकारकोविदैः ।। राधिकाया मुखं नेदं किं तु चन्दिरमण्डलम् । वर्येऽन्यारोपफलकस्वन्यधर्मस्य निह्नवः । कैतवादिपदाव्यङ्ग्यः पर्यस्तापह्नुतिर्मता । हेतुकेवलभेदेन सा द्वेधा परिकीर्त्यते ॥ कालकूटो विषं नैव विषं पद्मा मता मम ॥ ६५ ॥ पीत्वा जागर्ति यच्छंभुर्हरिः पश्यन्विमुह्यति । नायं सुधाकरः किं तु मुखं तस्याः सुधाकरः ॥ ६६ ॥ शुद्धैवोक्तनिमित्ता चेद्धेवपहुतिरिष्यते । श्लिष्टाश्लिष्टविभेदेन द्वेधा सा परिकीर्तिता ॥ न मुखं भ्रमराघातमिदं किं तु सरोरुहम् । नेदं सरोरुहं नैशं किं तु शुभ्रांशुमण्डलम् ।। ६७ ॥ कैतवादिपदव्यङ्गयो निषेधो यत्र दृश्यते । .. मन्दा. ११ काव्यमाला। वर्ण्यधर्मस्य तत्र स्याकैतवापडतिर्मता ॥ शुद्धहेतुविभेदेन द्विविधा सापि कीर्तिता। आयैकधान्त्या द्विविधा श्लिष्टाश्लिष्टविमेदतः ॥ बिम्बमेव वरीवर्ति राधाया अधरच्छलात् । निर्यान्ति कामविशिखाः कान्ताक्ष्यन्तेक्षणच्छलात् ॥ ६८ ॥ नो चेतरुणसंक्षोभस्तत्तादृक्षः कथं भवेत् । परिस्फुरति पाथोजं कामिनीवदनच्छलात् । नो चेत्कथं भवेत्तस्य चुम्बने भ्रमरादरः ॥ ६९ ॥ यथा वा। इदं कुवलयं भाति जानकीनयनच्छलात् । नो चेताहग्रामराजप्रेमपात्रं कथं भवेत् ॥ ७० ॥ अभेदप्रतिपत्त्यङ्गित्वं निषेधस्य चेत्तदा । स्थादङ्ग्यपहुतिद्वेधा छेकभ्रान्तिविभेदतः ॥ वाक्यान्यथायोजनेन निषेधस्तथ्यवस्तुनः । शङ्कातोऽन्यस्य चेत्तर्हि छेकापह्नुतिरुच्यते ॥ पाण्याहतोऽपतत्पादे कान्तः किं नहि कन्दुकः । निषेधोऽन्यस्य चेद्धान्तिविषयस्य च वस्तुनः। खकीयवचसा तत्त्वकथनाद्वान्त्यपहुतिः । सा तु द्विधा केवला च कल्पिता चेति भेदतः ॥ सोच्छासं सहकम्पं तापं बहुलं सखीह न सहेऽहम् । किं ज्वरभारो नहि नहि सशरः संनद्धकार्मुकः कामः ॥ ७१ ॥ नाहं हिमगिरिजापतिरपि रतिहरणे पटुः सुरद्वेषी । बाधय तावबलां मा बाधय किं तेन ते यशो भवति ॥ ७२ ॥ तत्त्वाख्यानोपमा केचिदभषुः कल्पितामिमाम् । (अथोत्प्रेक्षा-) अवर्ण्यधर्मसंबन्धाद्वये संभावना भवेत् । अन्यत्वेन मतोत्प्रेक्षा वाच्या गम्येति सा द्विधा ।
१०. व्यायबिन्दुः] मन्दारमरन्दचम्पूः ।
इवादीनामुपादाने वाच्योत्प्रेक्षेति कथ्यते ।
इव खित् िकिमुदापि किमु किंनु कथं ननु ।
मन्ये शङ्के नु हूं प्रादुः प्रायो नूनं खलु ध्रुवम् ।
किमु स बत नामाहो उत्प्रेक्षाबोधका इमे ।।
जातिक्रियाद्रव्यगुणभेदाद्वाच्या चतुर्विधा ।
चतुर्विधापि च द्वेधा भावाभाव विमेदतः ॥
अष्टधापि पुनस्त्रेधा वस्तुहेतुफलात्मना ।
खरूपं च स्वभावश्च वस्तिमे चैकवाचकाः ।।
वस्तूत्प्रेक्षा द्विधोपात्तानुपातहेतुभेदतः ।
गुणक्रियानिमित्तखाभ्यामुपात्तनिमित्तकाः॥
वस्तुहेतुफलोत्प्रेक्षा द्विविधाः परिकीर्तिताः ।
एतादृशी क्रियावस्तूत्प्रेक्षैव द्विविधा पुनः॥
उक्तानुक्तस्वरूपाभ्यां पुनस्तु सकला अपि ।
द्विधाहेतुफलोत्प्रेक्षाः सिद्धासिद्धविभेदतः ॥
एवं च वाच्योत्प्रेक्षाः स्युश्चतुर्भिरधिकं शतम् ।
प्राचीनानां मते वाच्योत्प्रेक्षाः षण्णवतिः स्मृताः॥
नवीनाः केचिदचुस्तां षट्पश्चाशद्विधामपि ।
इवादिकानुपादाने गम्योत्प्रेक्षां प्रचक्षते ॥
जातिक्रियाद्रव्यगुणभेदात्सापि चतुर्विधा ।
भावाभावविभेदेन चतुर्धापि च सा द्विधा ।।
इमाः सर्वाः पुनस्त्रेधा वस्तुहेतुफलात्मना ।
द्वेधा हेतुफलोत्प्रेक्षे सिद्धासिद्धविभेदतः ॥
गुणक्रियानिमित्तलाभ्यां सर्वा द्विविधा इमाः।
एवं च गम्योत्प्रेक्षायां भेदाश्चाशीतिरीरिताः॥
दिङ्मानं ग्रन्थबाहुल्यभीत्योदाहियते क्रमात् ।।
मन्दीभवन्खान्वयजातराघवप्रदत्तलकाधिपतित्वमीक्षितुम् ।
विभीषणस्यास्ति न वेति चिन्तया दिशं जगामेव यमस्य भास्करः ॥७३॥
१२१ काव्यमाला। करकलितचारुवीटी कुम्भकुचाक्रान्तकुसुम्भमयशाटी । कान्ता कामवधूटी तरुणान्मोहितुमिहैति कर्णाटी ॥ ७४ ॥ (अथातिशयोक्तिः-) यच्चानुपातविषयाहार्यस्य विषयं तथा। निर्णयस्य हि चामेदताद्रूप्यान्यतरच तत् ।। द्विविधातिशयोक्तिः सा भेदतादूप्यभेदतः। अमेदातिशयोक्तिश्चाहार्योऽभेदस्य चेद्यदि ॥ वयस्य पश्य तमसा बद्धं शीतांशुमण्डलम् । ताद्रूप्यातिशयोक्तिः स्यात्तादूप्यारोपणे सति । पश्य स्फुरति मित्रात्र मुक्तलक्ष्मा क्षपाकरः ॥ ७५ ॥ अमेदातिशयोक्तिस्तु शुद्धमेदकमेदतः॥ संबन्धात्यन्तचपलासंबन्धाक्रमभेदतः । सापसवा चेति बुधैरष्टधा परिकीर्तिता ॥ भेदकातिशयोक्तिस्तु वर्ण्यस्यान्यसवर्णनम् । अन्येयं चातुरी तस्या अन्या लावण्यपद्धतिः । संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम् ।। सूर्याश्वा विश्रमन्त्यत्र ग्रीष्मे गोपुरगहरे ॥ ७६ ॥ पौर्वापर्यव्यतिक्रान्तिः कार्यकारणयोर्यदि । अत्यन्तातिशयोक्तिस्तु तदा प्राज्ञैः प्रकीर्तिता ॥ आदौ महानभूत्रोहः पश्चाद्दर्शनमावयोः । चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे । यास्यामीति प्रियोक्तेयमूर्मिकां तनुतेऽङ्गदम् ॥ ७७ ॥ योगेऽप्ययोगोऽसंबन्धातिशयोक्तिः प्रकीर्तिता ।। न सेवे भोजनानन्दं सति त्वयि वरानने । समकालत्वेऽक्रमातिशयोक्तिहेतुकार्ययो। राधा तदैवानुरक्ता यदा वीक्षति माधवः ॥ ७८ ॥ सापहवेति सा प्रोक्ता यद्यपङ्गुतिगर्भता ।। : :
१०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः। लतायां चन्द्रमा भाति भ्रान्ताः पश्यन्ति तं दिवि ॥ (अथ संदेहः-) विषयी विषयश्चोभौ विषयौ संशयस्य चेत् । कविसंमतसादृश्यात्संदेहालंकृतिर्मता। शुद्धा निश्चयगर्भेति सा द्वेधा परिकीर्तिता ॥ राधा हैमलता वेयं मालती वा वरानने । राधिका किमियं भीता दिवा नायाति सा पुनः । मालतीवाधुनैवागाद्गुहं केयं न विद्महे ॥ ७९ ॥ (अथ तुल्ययोगिता-) वानां वाप्यवानां साम्यं केवलधर्मतः । कथ्यते चेत्तत्र तुल्ययोगिता सा त्रिधा मता ॥ शुद्धा हिताहिता चैव समामा चेति भेदतः। शुद्धापि द्विविधा प्रोक्ता वावर्ण्यविभेदतः ॥ पूर्वाचलप्रान्तभाजि स्फुरद्राकानिशाकरे । संकुचन्ति सरोजानि खैरिणीवदनानि च ॥ ८० ॥ राधिके तव सौन्दर्य दृष्ट्वा जानीमहे वयम् । कालिन्द्याः कमलायाश्च काषायालम्बनं वरम् ।। ८१ ।। हिताहितापि तु हिताहितयोस्तुल्यवर्तनम् । श्लिष्टाश्लिष्टविभेदेन साद्वेधा परिकीर्तिता ।। अलंकारातियोगं स शत्रोमित्रस्य चाकरोत् । पूजकस्य च्छेदकस्य मन्दारः कटुरेव सः ॥ ८२ ।। गुणोत्कृष्टैः समीकृत्य समाभा प्रतिपादनम् । अनेकवाहिनीयुक्तो नृपो जाड्येन वर्तनात् । समुद्रोऽपि भवत्याशु सर्वदा मुखभङ्गवान् ।। ८३ ।। (अथ प्रतिवस्तूपमा-) उपमानोपमेयार्थी पृथग्वाक्यद्वये यदि ॥ सामान्येन विनिर्दिष्टौ प्रतिवस्तूपमा मता। साधर्म्यवैधर्म्यभेदात्सा द्वेधा परिकीर्तिता ॥ :
१२६
काव्यमाला।
प्राचीनम्-
कवितारसचातुर्य रसज्ञो वेत्ति नो कविः ।
सुतासुरतचातुर्य जामाता वेति नो पिता ॥ ८ ॥
आराधितोऽपि नीचः परिदर्शयति खकीयकटुभावम् ।
न जहाति पारिभद्रः पयसा सिक्तोऽपि नैजकटुभावम् ॥ ८५॥
(अथ दीपकम्-)
वर्ष्यानामप्यवानां धर्मैक्यं दीपकं मतम् ।
दुर्जनधिषणाभीक्ष्णं मृगयति दोषान्गुणेषु विलसत्सु ।
पत्यौ तरुणे सत्यपि जातिविहीनं विटं कुलटा ॥ ८६ ॥
(अथावृत्तिदीपकम्-)
तत्पदार्थोभयावृत्तौ सत्यामावृत्तिदीपकम् ।।
स्तननति वृद्धावृन्दं स्तननति कण्ठीरवस्य चारावः ।
विलसति कमलश्रेणी स्फुरति च मल्लीमतल्लिकाशैली ॥ ८७ ।।
साकृतं वीक्षते राधा वीक्षते पश्य मालती।
(अथ दृष्टान्तः-)
चेद्विम्बप्रतिबिम्बत्वं मिन्नवाक्यार्थधर्मयोः ।
दृष्टान्तः स तु साधर्म्यवैधाभ्यां द्विधा मतः ॥
मुकुन्द एव गोपीनां कदम्बं तोषयत्यहो ।
वसन्त एव वल्लीनां विकासयति संचयम् ॥ ८८ ॥
मुकुन्ददर्शनादेव समितं राधिकाननम् ।
निद्राति तावन्नलिनं यावन्नोदेति भानुमान् ॥ ८९॥
(अथ व्यतिरेक:-
भेदप्रधानसाधर्म्यमुपमानोपमेययोः ।
व्यतिरेकः स तु त्रेधाधिकन्यूनसमात्मना ।
सरेण सदृशः सोऽभूत्तथापीयं भिदा तयोः ।
वियुक्तमयहाद्यस्तकर्तान्यः खचेष्टितः ॥ ९॥
१०. व्यायविन्दुः] मन्दारमरन्दचम्पूः। १२७ मञ्जुलनासा विहिता विटकरपरिलालिता श्यामा । तरुणीव तव किरीयं किं स ग्रहणात्करोति दृक्क्षोभम् ॥ ९१ ॥ प्राचीनम्- दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥ ९२ ।। (अथ सहोक्तिः-) सहार्थेनान्वयः प्रोक्तः सहोक्तिः कविरञ्जकः। स्थिते कृष्णधराधीशे याचकानीकमध्ययोः । देहीति शब्दो दिक्प्रान्तान्कीर्त्या साकं ययौ स्यात् ॥ ९३ ॥ (अथ निदर्शना-) वाक्यार्थयोपमानस्साभेदारोपो हि दृश्यते । उपमेये च वाक्यार्थे तत्र शुद्धा निदर्शना ॥ बन्धुजीवाधराया यदधरे वीटिकार्पणम् । इदं दीपकदम्बेन प्रकटीकरणं रवेः ॥ ९४ ॥ उपमानोपमेयान्यतरसिन्कथिता बुधैः। तदन्यतरधर्मस्यारोपश्चान्या निदर्शना ।। कान्ते याते मुखे लीला दृश्यते सा सरोरुहे। खञ्जरीटविलासं ते धत्ते नेत्रयुगं सखि ॥ ९५ ॥ सतोऽसतो वाप्यर्थस्य परेषां क्रिययात्मनः । निबध्यते बोधनं चेदपरा स्थानिदर्शना ।। सुमनःसंगमः पुंसां महोन्नतिषु कारणम् । इति ब्रुवंस्तन्तुरल्पोऽप्यभवद्वाजमौलिगः ॥ ९६ ॥ हतः शत्रुरिति ज्ञात्वा तेजखी न परिभ्रमेत् । इत्याजगामान्धकारः पुनरस्तंगते रवौ ॥ ९७ ॥ (अथ विनोक्ति:-) विना संबन्धिना येन केनचिद्वर्ण्यवस्तुनः । अरम्यता रम्यता वा विनोक्तिरिति कथ्यते ।।
१२८ काव्यमाला। तादृक्षमपि चातुर्य सौन्दर्य तव मानिनि । व्यर्थमेवेति जानीहि सरसं दयितं विना ॥ ९८ ॥ विना क्रूरखरं काकमाकन्दं मकरन्दितम् । गाहख गाढं गन्तारः कोकिलं मन्वते जनाः ॥ ९९ ।। (अथ समासोक्तिः-) अप्रस्तुतपरिस्फूर्तिर्यत्र प्रस्तुतवर्णने । समासोक्तिर्द्विधा सापि श्लिष्टाश्लिष्टविभेदतः ॥ आदौ रक्तो गोभिः संमान्यैन्द्रीमुखं चुचुम्बायम् । अद्य समुज्झितरागः स्पृहयति भूयोऽपि वारुणीं गन्तुम् ॥१०॥ (प्राचीनम् - विदितं ननु कन्दुक ते हृदयं प्रमदाधरसंगमलुब्ध इह । करतामरसाभिहतः पतितः पतितः पदतः पुनरुत्पतसि ॥ १०१॥ (अथ श्लेषः-) नानार्थसंश्रयैः शब्दैः साधर्म्यप्रतिपादनम् । वावोभयेषां चेच्छेषालंकृतिरिष्यते ॥ लसद्वराहश्रीर्व्यक्तकमलाश्लिष्टसद्रसः । स सूर्यः सर्वदा भूयात्तेजखी मङ्गलाय ते ॥ १०२ ।। सदानभोगेन राज्ञा सदृशं ते मुखं सखि । राजा तव प्रियो भूयात्सदा कुवलयप्रभुः ॥ १०३ ॥ प्राचीनम्- सर्वालंकारयुक्तापि न श्लिष्टा तरुणीव सा । वाणी मनोजातसुखं प्रौढानां न तनोति हि ॥ १०४ ॥ (अथ परिकरः-) साभिप्राय विशेष्यं चेत्प्रोक्तः परिकराङ्कुरः । त्वदङ्गालोकने तन्वि पौलोमीवल्लभः पटुः । (अथाप्रस्तुतप्रशंसा-) अप्रस्तुतप्रशंसा तु प्रस्तुतं यदि गम्यते । अप्रस्तुतस्य कथनात्सारूप्यादिनिबन्धनात् ॥
१०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः। १२९ सारूप्यस्य तथा कार्यात्कारणस्य विशेषतः। सामान्यस्य विशेषस्य सामान्यात्कारणात्तथा । कार्यस्येति च पश्च स्युः प्रतिपत्तिविभेदतः॥ प्राचीनम्- वेलावनाली यदि नीरदानां निषेवते नीरनिषेचनानि । गम्भीरता वा बहुनीरता वा तरङ्गिता वा जलधेवृथैव ॥ १०५ ॥ कलाहीनोऽभवच्चन्द्रो राधिके ते मुखोदये। आलिङ्गनोत्सुकापीयं नवोढा न स्पृशत्यमुम् ॥ १०६ ॥ कामकेलीसमारम्भे लज्जामाप वरानना । मुञ्च मुश्च विभो क्लेशं तद्भर्ता मधुरामगात् ॥ १०७ ॥ (अथ पर्यायोक्तम्-) प्रकारान्तरमाश्रित्य तद्विवक्षितवस्तुनः । सुचारु कथनं यत्र पर्यायोक्तं तदिष्यते ॥ कन्धरायां सैन्धवास्यं बन्धुरं यस्य सुन्दरम् । बन्धनच्छेदको भूयादन्धुरानन्दपाथसः ॥ १०८ ॥ (अथ पर्यायोक्तम्-) प्रस्तुतस्यैव कार्यस्य वर्णनात्प्रस्तुतं तथा । कारणं गम्यते तत्रान्यत्पर्यायोक्तमीरितम् ।। कृष्ण साद्य सनिःश्वासं कृशाङ्गी भुवि लुण्ठति । वस्थाथ वा परस्येष्टकार्यसंपादन मिषात् । पर्यायोक्तं तदन्यत्स्यादिति केचित्प्रचक्षते ॥ (प्राचीनम्- नवमल्लिकास्रजमभीष्टतमःशुचिसंभवां प्रणयिनीशिरसि । कलयन्वयं न कुशलेति किल प्रतिघट्टयत्युरुकुचावुरसा ॥ १०९॥ अये ननन्हसहिता व्रजामि निजमन्दिरम् । पिधायाररमा प्रातः सुखं खपिहि सुन्दरि ॥ ११०॥ १. अररं कपाटम्.
काव्यमाला। (अथ परीकरः-) परीकरः परिकरः साभिप्राये विशेषणे । दद्यात्ते संपदो राजन् केशवः कमलापतिः ।। (अथ व्याजस्तुतिः- स्तुल्या वा गम्यते निन्दा निन्दया गम्यते स्तुतिः। व्याजस्तुतिरसौ यत्र स्तुत्या वा गम्यते स्तुतिः ॥ त्वामेव प्रेयसी नूनं जानामि मम दूतिके । त्वदीयाभिरनेकाभिः क्रियाभिर्यत्स तोषितः ॥ १११ ॥ साध्वि धिक् त्वां वृथा भर्तृसेवाशुष्कासि संततम् । दृशापि न स्पृशस्येनं तादृशं सरसं विटम् ॥ ११२ ॥ सुकृतं कृतमेतेन किं पद्मन न विद्महे । यतः शातोदरीपादसमतासुखमीहते ॥११३ ॥ (अथ व्याजनिन्दा-) व्याजनिन्दा मता निन्दा निन्दया गम्यते यदि । विधिरेव विनिन्द्योऽयं किमागस्तव सुन्दरि । कन्दर्पकल्पानीहक्षान्पल्लवान्निर्ममे यतः ॥ ११४ ॥ (अथाक्षेपः-) आक्षेपोऽपह्ववाद्भिन्नो निषेधो जनरञ्जनः । स चाभासितसंगुप्तभेदावेधा प्रकीर्तितः ॥ शुद्धाक्षेपस्तृतीयः स्यादिति केचित्प्रचक्षते.। शुद्धाक्षेपो निषेधश्चेत्स्वोक्तस्यैव विचारणात् ॥ मानय प्रेयसी दूति यद्वा सागच्छति खयम् । आभासिताक्षेप उक्तो विशेषप्रतिपत्तये । वक्ष्यमाणस वोक्तस्य निषेधाभासकीर्तनम् ।। वक्ष्यमाणोक्तमेदेन स द्वेधा परिकीर्तितः। वक्ष्यमाणाक्षेप उक्तो वक्ष्यमाणनिषेधतः॥
१०. व्यत्यबिन्दुः] मन्दारमरन्दचम्पूः।
विज्ञापयामस्ते किंचिद्दाशार्हकुलशेखर ।
विज्ञापनं किमथ पा सर्वज्ञे रक्षके त्वयि ॥ ११५॥
केचित्तु-
वक्ष्यमाणो भवेद्वधा सामान्यांश विमेदतः ।
प्रतिज्ञाय च सामान्यं निषेधः कथनस्य चेत् ॥
सामान्यवक्ष्यमाणाख्य आक्षेपः परिकीर्तितः ।
अस्योदाहरणम् 'विज्ञापयामः' इत्यादि ।
अंशाक्षेपोऽपि चांशोक्तावंशान्तरनिषेधतः ॥
सर्वलोकाधिपः कृष्णो यूयं चार्कफलोपमाः ।
तद्युक्तमेवमथ वा किमुक्तैरिति साब्रवीत् ॥ ११६ ॥
इत्याहुः।
उक्ताक्षेपो भवेद्वेधा सवस्तुकथनात्मना ।
वस्तुनस्तु निषेधश्चेद्वस्वाक्षेप इतीर्यते ॥
सारसारसपत्राक्षि सखी नाहं स माधवः ।
भ्रामं भ्रामं निकुञ्जेषु मुहुः शुष्यति ताम्यति ॥ ११७ ॥
कथनस्य निषेधश्चेत्कथनाक्षेप उच्यते ॥
रक्षणीयोऽहमित्युक्ती रक्षादीक्षे कथं त्वयि ।
तिरोहिते निषेधे च व्यक्तेऽनिष्टविधौ सति ।
संगुप्ताक्षेपनामासावलंकारः प्रकीर्तितः॥
गच्छ गच्छसि चेच्छीघ्रं वृथा किमु विलम्बसे ।
मारसुन्दर तत्रैव कन्याया मे वरो भव ॥ ११८ ॥
(अथ प्रस्तुताङ्कुरः-)
प्रस्तुते वर्ण्यमाने तु प्रस्तुतान्तरवस्तुनः।
सारूप्येण द्योतनं चेत्तत्र स्यात्प्रस्तुताङ्कुरः॥
प्राचीनम्-
कमलिनि मलिनीकरोषि चेतः किमिति बकैरवहेलितानभिज्ञैः।
परिणतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलिन्दाः॥११९॥
१३२ काव्यमाला। (अथ विरोधाभासः-) आपाततो विरोधश्चेद्विरोधाभास इष्यते । जात्यादीनां विरोधाः स्युर्जातिद्रव्यक्रियागुणैः ॥ तसादयं दशविधः कथितः श्लेषजीवितः। निरूपणं तु जात्यादेः शेषबिन्दौ भविष्यति । रंजन्तो लोअमिश्र राएति जणेहिं सलहणिजोसि । माहव णिरिव कहं सा रत्ता वि वलक्खिआ जाआ ॥ १२० ॥ सुगमत्वादिहैतेषां दिङ्मात्रमिति दर्शितम् । (अथ विषमम्-) घटनानहयोर्यत्र घटना विषमं मतम् । केयं कनकवर्णाङ्गी सुन्दरी कामिनीमणिः । क पतिस्तादृशो वक्रः कीदृशी घटना विधेः ॥ १२१॥ हेतोर्विरूपकार्यस्योत्पत्तिश्च विषमं मतम् ॥ सितान्कटाक्षान्सृजति नेत्रमिन्दीवरप्रभम् । इष्टार्थोद्यमतोऽनिष्टप्राप्तिश्च विषमं मतम् । माष्टै कलई शीतांशुर्मुखं सोऽजनि सुभ्रवः । तत्रापि तिलकव्याजाकलङ्कक्लेशमन्वभूत् ॥ १२२ ॥ इष्टार्थोद्यमनाद्यत्र नेष्टानाप्तिश्च केवलम् । अनिष्टस्याप्यवाप्तिश्चेदपरं विषमं मतम् ॥ पाश्चालीसङ्गसंमोदकासया रङ्गमन्दिरम् । प्रविष्टः कीचकस्तत्र सद्यो मर्दनमन्वभूत् ॥ १२३ ॥ परानिष्टार्थमुद्योगात्स्वानिष्टाप्तिश्च तन्मतम् ॥ दिधक्षन्हनुमत्पुच्छमन्वभूत्वपुरक्षयम् । (अथ विशेषोक्ति:-) विशेषोक्तिरनुत्पत्तिः कार्यस्य सति कारणे । 'रजपॅल्लोकमिमं राजेति जनैः श्लाघनीयोऽसि । माधवनृप कथं सा रकापि वलक्षिता जाता ॥' इति च्छाया. १.
१०. व्यजयबिन्दुः] मन्दारमरन्दचम्पूः । १३३ उभयोः सदृशं रूपं चातुर्य विजनस्थितिः । अहो तथापि दैवेच्छा नाभूत्सङ्गसुखं तयोः ॥ १२४ ।। (अथासंभव:-) असंभवोऽर्थनिष्पत्तेरसंभाव्यखकीर्तनम् ।। को वेद बालः फालाक्षचापमारोपयेदिति । (अथ विभावना-) विनापि कारणं कार्यस्योत्पत्तिः स्याद्विभावना । अनाहतोऽपि मीनाक्ष्या तामेवासौ निषेवते । विभावना परा धर्मविकलेनापि हेतुना ॥ उत्पत्तौ यदि कार्यस्य संबन्धविकलेन वा । अद्वैः कौसुमैः शस्त्रैरजयजगदात्मभूः ।। १२५॥ कार्योद्भवश्चेत्प्रत्यूहे सत्यप्यन्या निदर्शना । पत्यौ सुप्तेऽपि पार्श्वे सा मामाश्लिष्यति कामिनी । विभावना चतुर्थी चेत्कार्योत्पत्तिरकारणात् ॥ इन्दीवरदलात्पश्य निःसरन्ति सिताः शराः । विरुद्धहेतोः कार्य चेत्पश्चमी स्याद्विभावना । कर्पूरपङ्कः(काः ?) कञ्जाक्षी हन्त संतापयन्ति ताम् । षष्ठी विभावना प्रोक्ता कार्यात्कारणजन्म चेत् ॥ प्राचीनम्- अम्बुजमम्बुनि जातं कचिदपि न च जातमम्बुजादम्बु । बाले नवरतिकाले तवाक्षिसरोजाद्विगलितमम्बु ॥ १२६ ॥ (अथासंगतिः- मिन्नाधिकरणत्वे तु कार्यहेत्वोरसंगतिः । कृष्णे बिभ्रति भूभारं विनम्रा जनमौलयः । अन्यत्र करणीयस्य वस्तुनोऽन्यत्र चेद्यदि । करणं तत्र विबुधाः द्वितीयासंगति विदुः। राजन्प्रत्यर्थिवामाजी करणं नयनेऽकरोत् ॥ १२७ ।। मन्दा० १२ १३४ काव्यमाला। कार्य कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिश्च सा ।। मोहं हतु प्रवृत्तोऽपि बल्लवीर्मोहयत्यसौ । (अथ विचित्रम्-) विचित्रं विपरीतश्चेत्तत्प्रयत्नः फलेच्छया। महत्सुखमवाप्तुं ते भवन्ते शैलवासिताम् ॥ १२८ ॥ (अथाधिकम् -) आधाराधेययोरानुरूप्याभावोऽधिकं द्विधा । पृथुलादपि चाधारादाधेयाक्षेपया स्वतः। आधेयाधिक्यकथनमधिकं प्रथमं मतम् ॥ अनन्तेष्वपि वेदेषु न विश्राम्यति ते स्तुतिः । विशालादपि चाधेयादाधाराक्षेपया खतः । आधाराधिक्यकथनं द्वितीयमधिकं मतम् ॥ प्रादेशमात्रे यत्कुक्षौ ब्रह्माण्डानि लुठन्ति हि ॥ १२९ ॥ (अथ समम्-) समं स्याद्योगकथनं वस्तुनोरनुरूपयोः । मिथोऽनुरूपयोः प्रीती राधामाधवयोरभूत् । कारणेनानुरूप्यं च कार्यस्यान्यत्समं मतम् ॥ अबलाहननं युक्तं जातिभ्रष्टस्य ते मधो ॥ १३० ।। अनिष्टमन्तरा स्वेष्टकार्यसिद्धिर्यदा भवेत् । इष्टार्थोद्यमनात्तत्र तृतीयं सममिष्यते ।। मा रणं कुरु पुत्रेति जनकेन नियोजितः । पितुराज्ञामनुल्लङ्घय मारणं कृतवान्द्विषाम् ॥ १३१ ।। (अथ व्याघातः- यत्कार्यसाधनत्वेन प्रसिद्धं यजगत्तले । तत्तद्विरुद्धकार्यस्य येन केनापि साधनम् ।। क्रियेत यदि तत्राद्यो व्याघातः परिकीर्तितः।
१०. व्यायबिन्दुः] मन्दारमरन्दचम्पूः। १३५ कुसुमैः प्रीयते लोको हन्ति तैरेव तं स्मरः । यत्कार्यसाधनत्वेन चैकेनोपात्तवस्तु च ॥ तत्प्रतिद्वन्द्विनान्येन तद्विरुद्धस्य साधनम् । क्रियेत चेद्वितीयस्तु व्याघातः परिकीर्तितः ॥ दिठिविअग्धं मअणं जा दिद्विआ एव्व जिव्वेन्दि । सुविरुव्वअक्खधिक्किइणिवुणाणं करेम्हि खु युइं तासम् ॥१३२॥ विशेषकार्यनिष्पादकतया येन केनचित् । संभाव्यमानादर्थाच्च सौकर्येण समर्थ्यते ॥ तद्विरोधिक्रियान्येन चेद्याघातोऽपरो मतः। दारिद्यशङ्कामासाद्य मैवं दानपरो भव । तामेव शङ्कामासाद्य तात दानपरोऽस्म्यहम् ॥ १३३ ॥ (अथाल्पम्-) अल्पं तु सूक्ष्मादाधेयादाधारस्यातिसूक्ष्मता ॥ कनिष्ठिकोर्मिकां कान्ता कण्ठाभरणमातनोत् । (अथ विशेषः- विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितेः । कथनं प्रथमान्यत्र विशेषालंकृतिर्मता । विना कासारमम्भोजं पश्य विद्युति राजते ॥ १३४ ॥ व्यत्यासोऽन्यो विशेषः स्यादाधाराधेययोर्यदि ।। कुसुमेषु भ्रमराणां स्थितिरिह दृष्टा न चालिषु सुमानाम् । अधुनालकमधुपालौ दृष्टा कुसुमस्थितिः सरोजाक्ष्याः ॥ १३५॥ अप्रकल्प्यान्यदाधारं प्रसिद्धाधारमन्तरा । स तृतीयो विशेषश्चेदाकल्पं कथ्यते स्थितिः॥ प्राचीनम्- दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः ॥ १३६ ॥ 'दृष्टिविदग्धं मदनं या दृष्टयैव जीवयन्ति । सुविरूपाक्षधिकृतिनिपुणानां कुर्मः खलु स्तुति तासाम् ॥' इति च्छाया. १.
१३६ काव्यमाला। चतुर्थोऽपि विशेषश्चेदनेकत्रैकवर्णनम् । यत्र यत्र गता दृष्टिस्तत्र तत्रापि सैव मे । एकस्यारम्भतोऽशक्यकार्यान्तरकृतिश्च सः॥ विद्वंस्त्वां पश्यता लब्धं कमलाकान्तवीक्षणम् ॥ १३७ ।। (अथान्योन्यम्-) परस्परोपकारस्य कथनेऽन्योन्यमिष्यते । लक्ष्म्या विराजते राजा राज्ञा लक्ष्मीविराजते । (अथ कारणमाला-) पूर्वपूर्व क्रमेणोत्तरोत्तरं प्रति हेतुताम् । भजते यदि संप्रोक्ता तदा कारणमालिका ॥ सद्विद्यया नयोत्कर्षों नयोत्कर्षेण संपदः । संपद्भिर्भवति त्यागस्त्यागेन विपुलं यशः ॥ १३८ ।। तथोत्तरोत्तरं पूर्वपूर्वकारणतां यदि । लभते चेद्वितीया तु तदा कारणमालिका । भवति त्रिदिवः पुण्यात्पुण्यमैश्वर्यतो भवेत् । ऐश्वर्य दानतो दानं वैराग्यात्तत्सुसङ्गतः ॥ १३९ ।। (अर्थकावली-) विशेषणखकथनं पूर्वपूर्वान्प्रति क्रमात् । यत्रोत्तरोत्तरेषां चेदियमेकावली मता ॥ राधामुखं चन्द्रसारं चन्द्रो माधववक्त्रभाः । माधवः कामसदृशः कुशलाय सदा मम ॥ १४० ॥ पूर्वपूर्वेषां तथोत्तरोत्तरं प्रति च क्रमात् । विशेषणखकथनं द्वितीयकावली मता ॥ कान्तामुखाभं यत्तस्य यो वैरी स यदुद्भवः । तं योऽकरोत्तस्य मूलं यस्तन्नेत्रः स पातु वः ॥ १४१ ॥ प्रथमैवापोहिता चेतृतीयैकावली मता ।
१०. व्यायबिन्दुः] मन्दारमरन्दचम्पूः। १३७ न तद्राज्यं प्रजा यत्र न संतुष्टा न ताः प्रजाः । यासां न सुप्रभु यं सुप्रभुन हरिहृदि ॥ १४२ ॥ (अथ यथासंख्यम्-) पूर्वोद्दिष्टपदार्थानां पश्चादपि यथाक्रमम् । अनूद्देशो भवेत्तत्र यथासंख्यं प्रकीर्तितम् ॥ प्राचीनम्- वीटीकराया विरहातुराङ्गी चेटीमवादीदिह चित्तजेषुः । प्राणप्रियो जीवितमर्धरात्रोऽप्यायाति नायाति न याति याति ॥१४३॥ क्रमालंकारमेतच केचिदूचुर्विपश्चितः । (अथ मालादीपकम्-) दीपकैकावलीयोगश्चेन्मालादीपकं मतम् ॥ संपत्तिर्वसुधां प्राप्ता वसुधा कृष्णभूभृतम् । कृष्णभूभृद्यशोराशिं यशोराशिर्जगत्रयम् ॥ १४४ ॥ (अथ पर्यायः-) एकस्य वस्तुनोऽनेकेष्वाधारेषु प्रवर्तनम् । क्रमेणैकैकसंत्यागात्पर्यायः प्रथमो मतः ।। आदौ पृथ्वीकिटेदंष्ट्रां ततः फणिपतेः शिरः । त्रेतायां रामदोर्दण्डं पश्चाद्यौधिष्ठिरी भुजाम् ॥ १४५ ॥ आधारेष्वनेकेषु तथैकस्य प्रवर्तनम् । पर्यायोऽपि द्वितीयः स्यादेकैकत्यागतः क्रमात् ॥ ओष्ठ एव पुरा राग इदानीं हृदि दृश्यते । इमं विकासपर्यायाभिधं केचित्प्रचक्षते । एकमिन्नेव चाधारेऽनेकाधेयप्रवर्तनम् । पर्यायेण तृतीयश्चेत्पर्यायः परिकीर्तितः ॥ बाल्यमादौ वयः पश्चादधुना स्थाविरं तयोः ॥ १४६ ॥ (अथ परिवृत्ति:-) समाधिकानां न्यूनानां समन्यूनाधिकैः समम् । यदा विनिमयस्तत्र परिवृत्तिरलंकृतिः॥ ..
१३८ काव्यमाला। प्रीतिं दत्त्वा सरोजाक्षी जगृहे कामिनो मनः । तुलसीमञ्जरीमेकां दत्त्वा भेजुर्हरेः कृपाम् । दत्त्वा सुधामुचो वाचः कविर्भजे कपर्दिकाम् ॥ १४७ ॥ (अथ परिसंख्या-) एकस्य वस्तुनः प्राप्तिरनेकत्रैकदा यदि । निषिध्यकत्र चान्यत्र परिसंख्या नियत्रणम् ॥ सा तु द्विधा मता प्रश्नपूर्विकाप्रश्नपूर्विका । निषेधस्यापि शाब्दत्वार्थत्वाभ्यां ते द्विधा पुनः॥ अश्लिष्टश्लिष्टभेदेन सर्वा अपि पुनर्द्विधाः । एवं चाष्टविधा प्रोक्ता परिसंख्या मनीषिभिः ॥ कः कटुभावं भेजे दुर्जननिकरो न पारिभद्रतरुः । किं क्रूरं जगति भृशं पतिसुतहीनाङ्गनाहृदयम् ॥ १४८ ॥ हृदयं भगवति सुधियो न तु परतरुणीभकुम्भकुचभारे । सुमनोजननिचयानां स्तुतिरपि कमलापतेश्चरण एव ॥ १४९ ।। कस्योपपत्यभावः स्त्रैणस्य न तु सुधीकदम्बस्य । कुत्र च विषमहितत्वं कमलाकर एव रामराज्यभरे ॥ १५० ॥ अविहतवीराभिमता घुमणिपुरी नापि रामराजपुरी । सन्मालागुणभङ्गस्वधरप्रीतिः सुरत एव ॥ १५१ ॥ (अथ समुच्चयः-) गुणक्रियोभयेषां वा यौगपद्यं समुच्चयः । माधव तव दयितेयं विरहपरीवाहविप्लुता सुतनुः । अलसा मलिना दीना विवशा शुष्का निरीक्षते मार्गम् ॥ १५२ ॥ किं चास्याः शृणु वृत्तं माधव यमुनातटीनिकुञ्जषु । विलुठति ताम्यति शेते भ्राम्यति नितरां मुहुर्मुहुः श्वसिति ॥१५३ ॥ १. उपपतेारस्य, उपपत्तेर्युक्तेः. २. विषैर्मृणालैर्महितत्वं, विषमाणां दुर्जनानां हि. तत्वं च. ३. 'न विमुखं (अर्थात्संमुखं) हीरैः,' अविभिर्मेषैर्हतैमारितैवीरैः, मारि- तमेषकैर्वा. ४. सतो मालागुणस्य, सुधीश्रेणिगुणस्य, ५. अधरे नीचे ओष्ठे च.
१०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः। १३९ धावति मुहुरुत्कम्पं व्याकुलतारं समीक्षते भूयः । प्रलपति विस्खलदक्षरमुदयदैन्यं तनोति सा चेष्टाः ॥ १५४ ॥ केचित्तु भिन्नविषयेऽप्येनमाहुः समुच्चयम् ॥ माधवः प्रेक्षते राधां कन्दर्पो विशति खयम् । अहंप्रथमिकामाजां बहूनां कार्यसाधने । कारणानां समुद्योगः स द्वितीयः समुच्चयः ॥ विनयो दक्षता त्यागो माधुरी चातुरी धनम् । विद्या वयः कुलं रूपमुत्तमं कथयन्ति तम् ॥ १५५ ॥ (अथ विकल्प:-) विकल्पस्तुल्यबलयोर्विरोधः कथ्यते यदि । कौरवाः क्रियतां मूनी धनुषां वा विनम्रता । (अथ समाधिः- एककार्यस्य सौकर्य कारणान्तरसंनिधेः । काकतालीयनियमात्समाधिस्तत्र कीर्त्यते ॥ मानं तस्याः परीहर्तु पादयो, पतिष्यतः । उपकाराय देवेन हिमांशुरुदयं गतः ॥ १५६ ॥ (अथ सारः-) उत्तरोत्तरमुत्कर्षः सारालंकार उच्यते । सुन्दरी शारदा तस्याः पद्मा तस्याश्च राधिका । उत्तरोत्तरमश्लाघ्यगुणोत्कर्षोऽप्यसौ मतः। प्राचीनम्- तृणाल्लघुतरस्तूलस्तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥ १५७ ॥ (अथ कारकदीपकम्-) एककारकगानां तु क्रियाणां कालमेदतः। गुम्फनं क्रियते यत्र तत्र कारकदीपकम् ।।
१४० काव्यमाला। निवारितोऽपि शतशो याचको धनिनां भटैः गच्छत्यागच्छति पुनारे तिष्ठति पृच्छति ॥ १५८ ॥ (अथ काव्यापत्ति:-) कैमुत्येनार्थनिष्पत्तिः काव्यार्थापत्तिरीरिता । स मागधो जितस्तेन का वार्तान्यमहीभृताम् । (अथोल्लास:-) एकस्य वस्तुनो यत्र गुणेनान्यस्य वस्तुनः । गुणस्य वर्णने तस्मिन्नुल्लासः प्रथमो मतः॥ यदयं तादृशीं राधां सेवते नन्दनन्दनः । एको धन्यतमो नूनमितरे तु भुवो भरः ॥ १५९ ।। एकस्य वस्तुनो यत्र दोषेणान्यस्य वस्तुनः। दोषस्तु वर्ण्यते तत्र द्वितीयोल्लास इष्यते ॥ चन्दन नन्दन मा कुरु वासं व्याप्ते वनेऽत्र दुवैशैः । तेऽन्योन्यघर्षणामिस्पृष्टाः सर्व दहेयुरिह दावम् ॥ १६० ॥ गुणेन दोषकथने तृतीयोल्लास इष्यते । तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम् । उल्लासस्तु चतुर्थः स्याद्दोषेण गुणवर्णने ॥ त्यक्तोऽस्मि मर्कटेनेति मा व्यथां कुरु सन्मणे । लाभोऽयमेव ते यस्साचूर्णितोऽसि न चाश्मना ॥ १६१ ॥ (अथ प्रत्यनीकम्-) प्रतिपक्षस्य बलिनः प्रतीकारेऽतिदुष्करे । तत्पक्षस्य तिरस्कारः प्रत्यनीकमितीष्यते ॥ माधवेन जितः कामो बाधते राधिका मुहुः । (अथ विकखरः-) समर्थनार्थ विन्यस्य विशेषार्थस्य कस्यचित् । सामान्यं तत्प्रसिद्ध्यर्थमुपमानतया तथा ॥
१०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्यूः। १४१ अथ वार्थान्तरन्यासविधया कथ्यते यदि । पुनर्विशेषान्तरं चेत्तत्र प्रोक्तो विकखरः॥ अनेकविद्यानिपुणस्य तस्य संगीतराहित्यमभून्न हान्यै । एको हि दोषः सुगुणेषु ममो भवेत्सुधांशोः किरणेष्विवाकः ॥१६२॥ रे व्यासटि त्वं भज वाजिशालां मौनेन घोटी मनुते जनस्त्वाम् । स्थानप्रभावेन हि वस्तु धन्यं को नाह चित्रं नृपफालपङ्कम् ॥ १६३ ॥ (अथ मिथ्याध्यवसितिः-) वस्तुनः कस्यचिद्यत्रात्यन्तमिथ्याखसिद्धये । मिथ्याध्यवसितिमिथ्याभूतान्तरकल्पनम् ।। दुष्कीर्तिबधिरश्राव्या मूकगेयास्य भूभुजः । (अथ काव्यलिङ्गम्-) काव्यलिङ्गं हेतुना स्यात्समर्थव्यसमर्थनम् । वाक्यार्थत्वे पदार्थखे हेतोद्वैविध्यमिष्यते ॥ जितोऽनया स्मरो नूनं यामालिङ्गति वल्लभः । कन्दर्पमजयद्विप्रस्त्रिनेत्राकान्तमानसः ॥ १६ ॥ (अथ संभावना-) एकार्थस्य सिद्ध्यर्थ (?) तर्कः संभावना मता। पश्येयं तेऽङ्गसौन्दर्य यद्यहं स्यां पुरंदरः । (अथावज्ञा-) अवज्ञैकगुणेनान्यगुणालाभे प्रकीर्तिता । कस्तूरिकामपि प्राप्य न सुगन्धिः सुकन्दकः । अन्यावहकदोषेणान्यदोषालाभ ईरिता । नीचानामपुरस्कारे लघुता सज्जनस्य का ॥ १६५॥ (अथार्थान्तरन्यासः- अप्रस्तुतविशेषार्थान्तरन्यसनपूर्वकम् । सामान्यप्रस्तुतस्यार्थान्तरन्यासः समर्थनम् ॥
१४२ काव्यमाला । प्राचीनम्- तादृशां तादृशैरेव संबन्धो भुवि शोभते । विषाननपरिष्वको विषकण्ठस्य भूषणम् ॥ १६६ ॥ विशेषस्य प्रस्तुतस्य सामान्येन समर्थनम् । द्वितीयोऽर्थान्तरन्यासः क्रियते प्रस्तुतेन चेत् ॥ अस्तमिते खरकिरणे तमसा क्रान्तं जगत्तु बहुशोऽभूत् । निजशत्रोहि परोक्षे लोकः सर्वोऽपि वृद्धिमभियाति ॥ १६७ ।। कार्यकारणभावेन प्रस्तुतार्थसमर्थनम् । तृतीयार्थान्तरन्यासं केचिदूचुर्विपश्चितः॥ प्राचीनम्- भूपाः प्रतापरुद्रस्य नता भवत नोन्नताः। उन्नतान्नमयत्येष नतानुन्नमयत्यपि ॥ १६८ ॥ (अथ प्रौढोक्तिः- उत्कर्षाकारणे यत्रोत्कर्षहेतुत्वकल्पनम् । क्रियते तत्र विद्वद्भिः प्रौढोक्तिरिति कीर्तिता ॥ भ्रामं भ्रामं मुधा कान्ते व्यापारयसि किं मयि । नेत्रं कलिन्दकन्याम्भः पुष्टनीलोत्पलच्छवि ॥ १६९ ॥ (अथ ललितम्-) प्रस्तुते वर्ण्यमानार्थप्रतिबिम्बस्य चेद्यदि । वृत्तान्तस्याप्रस्तुतस्य वर्णनं ललितं मतम् ॥ क तादृशी कुलवधूः क चायं दुर्भगः पुमान् । पगुः शृङ्गं समुत्तुङ्ग मेरोरारोदुमिच्छति ॥ १७० ॥ (अथानुज्ञा-) दोषस्यैवार्थनानुज्ञा तत्रैव गुणदर्शनात् । मम दारिद्यमेवास्तु याचको यन्न बाधते। (अथोदात्तम्-) चरितं श्लाघ्यमन्याङ्गं चेदुदात्तमलंकृतिः।
१४३ १०. व्यायविन्दुः] मन्दारमरन्दचम्पूः। वयस्य पश्य यमुना सा वरीवर्तते पुरः । यत्तटीकापुजेषु रेमे राधिकया हरिः॥ १७१ ।। ऋद्धं चेद्वर्ण्यते वस्तु द्वितीयोदात्तमिष्यते ॥ द्वारकायां सुधीगेहप्राङ्गणोत्सृष्टमौक्तिकाः । कपोती असते यत्तत्त्यागलीलायितं विधोः ॥ १७२ ॥ (अथ लेश:-) गुणे दोषत्वस्य दोषे गुणत्वस्य च कल्पनम् । यदि स्यात्तत्र विद्वद्भिर्लेशालंकृतिरुच्यते ॥ गुणवन्तः क्लिश्यन्ते गुणलवविधुरास्तु सर्वदा सुखिनः । बध्यन्ते मधुरगिरः कीराः काकास्तु कामसंचाराः ॥ १७३ ।। (अथ प्रहर्षणम्-) अपेक्षितार्थसिद्धिश्चेद्विना यत्नं प्रहर्षणम् । राधिकासंगमोपायचिन्तां कुर्वति माधवे । खयमेवागता सा तमालिलिङ्ग मुदा तदा ॥ १७४ ॥ अपेक्षिताधिकार्थस्य सिद्धिश्चान्यत्प्रहर्षणम् ॥ याचते घटिकामेकां राधां सङ्गसुखं हरिः । अहोरात्रं सहानेन सापि रेमे मनखिनी ॥ १७५ ॥ फलस्योपायसिद्ध्यर्थं प्रयत्ने च कृते सति । तदैव फललाभश्चेतृतीयं स्यात्प्रहर्षणम् ।। राधिकानयनार्थाय दूतीमन्वेष्टुमुद्यतः । मध्येमागे नन्दसूनू राधिकामेव दृष्टवान् ॥ १७६ ॥ (अथ विषादनम्-) अपेक्षितविरुद्धार्थप्राप्तिश्चेत्स्याद्विषादनम् । कमलोदरमकरन्दं दूरादागत्य संभ्रमाद्भमरे । आघ्रातुमुद्यतेऽस्मिन्हन्त तदानीं तदुजहार करी ॥ १७७ ॥ (अथ मुद्रा-) सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरात्पदात् ।
१४४ काव्यमाला। मालतीकुसुमामोदबन्धुरैषा वनस्थली । न्यसनं प्रकृतार्थानां प्रसिद्धक्रमतो यदि । उदिता तत्र विद्वद्भी रत्नावलिरलंकृतिः॥ गद्यम्- मुरारिरयं कृतधनपुष्पमालाविलासः कृतभूभैरणो भूदारो हिरण्यकशि- पुक्षेत्रदाता अपहृतबैलिपरसंपत्तिः परशुभोल्लसितः परितोषितजैनकतनयो यशोदयाहतवपुः श्रीधंनजनस्तुतः कविकालसद्भूषणकरो माधवोऽरुणेना- धरबिम्बेन, कलानिधिना मुखेन, सुमनलेन मधुरवचसा, प्रहर्षणेन विभ्र- मेण, गुरुणा स्तनभारेण, कविस्तुत्येन शीलेन, मन्देन गमनेन, विकचेन नयनोत्पलयुगलेन, तमोरुचिरेण कचनिचयेनोद्भासमानां रुक्मद्युतिरमणीयां रुक्मिणीमवलोकयामास । न्यसनं सह पाठानामक्रमेणापि सा मता। गुरुणा स्तनभारेण हासेन श्वेतरोचिषा । गमनेन सुमन्देन रेजे ग्रहमयीव सा ॥ १७८ ॥ (अथ पूर्वरूपम्-) पुनः स्वीयगुणत्यागानन्तरं स्वगुणग्रहः । कथ्यते यत्र तत्रोक्ता पूर्वरूपमलंकृतिः ।। राधिकानासिकामुक्ता लोहिताप्यधरत्विषा । पुनः खां रुचमानिन्ये सितेन स्मितरोचिषा ॥ १७९ ॥ १. भरण पोषणं धारणं च; एतेन वराहावतारनिष्पत्तिः. २. सुवर्णभोजनाच्छादन. भूमीनां दाता, हिरण्यकशिपुनामकदैत्यस्य विदारकः; एतेन नृसिंहावतारनिष्पत्तिः. ३. बलिनां परेषाम्, बलिनामकस्य परा; एतेन वामनावतारनिष्पत्तिः. ४. परेण शु. मेन उल्लसितः, परशुशस्त्रस्य भया कान्योल्लसितः; एतेन परशुरामावतारवर्णनम्. ५. जनकस्तनयश्च, जनकनाम्नस्तनया; एतेन रामावतारनिष्पत्तिः. ६. यशसा दयया च, यशोदयया वा; एतेन कृष्णावतारवर्णनम्. ७. श्रिया घनैः पूर्णैजनैः, श्रीघन इति जनैः स्तुतः; एनेन बुद्धावतारवर्णनम्. ८. कवीनां काले समये दानार्थ सद्भूषणः करो यस्य, कविकैव लसद्भूषणं यस्मिंस्तादृक्करो यस्य; एतेन कल्क्यवतारवर्णनम्. ९. अरुणादिपदानां सूर्यादिपरत्वेन सर्वेषामझानां प्रहमयत्वं व्याख्येयम्, १४५ . १०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः। पूर्वावस्थानुवृत्तिश्च विगते सति वस्तुनि । कथ्यते चेद्वितीयं तु पूर्वरूपमुदाहृतम् ॥ प्राचीनम्- व्याख्याता स निशि कदाचन प्रदीपे संशान्ते पुनरपि वाचयांबभूव । शिष्याखान्पुरुकरुणाम्बुधिर्निजाने- रङ्गुष्ठस्फुटनखरान्तरोचिषैव ॥ १८० ॥ (अथ तद्गुणः-) तद्गुणः स्वगुणत्यागानन्तरान्यगुणग्रहः । अधरप्रभया कान्तानासामुक्तारुणाभवत् । (अथ मीलितम्-) मीलितं यत्र सादृश्याझेद एव न लक्ष्यते ॥ नालक्षि कजलं नेत्रे नीलोत्पलदलप्रभे ॥ १८१ ॥ (अथातद्गुणः-) अतद्गुणः संगतान्यगुणास्वीकार उच्यते । घनमण्डलसक्तापि ते कीर्तिः शशिसच्छविः । (अथानुगुण:-) पूर्वस्थितस्वीयगुणोत्कर्षश्चदन्यवस्तुनः । संनिधानवशात्तत्रानुगुणालंकृतिर्मता ॥ लभते रक्तिमोत्कर्ष लीलाम्भोज करांशुभिः ॥ १८२ ।। (अथ सामान्य:-) व्यावर्तको विशेषश्चान्योन्यं यत्र न लक्षते । सादृश्यात्तत्र सामान्यमलंकारं विदुर्बुधाः ॥ कीर्तावुज्जृम्भितायां ते जनै लक्षि जाहवी । (अथ पिहितम्-) पिहितं चेत्परोदन्तं ज्ञाखा साकूतचेष्टया । प्रकाशस्तत्पुरस्तस्या गूढस्य क्रियते यदि ॥ तल्पं सा कल्पयामास प्रेयसि प्रातरागते ॥ १८३ ॥ भन्दा० १३ १४६ काव्यमाला। (अथोन्मीलितम्-) भेदानध्यवसाये च सादृश्यात्सति कारणात् । कुतोऽपि हेतोर्मेदस्य स्फूर्तावुन्मीलितं मतम् ॥ बालापादतले सक्तं यावकं सहजारुणे। आर्द्रत्वेनैव जानन्ति स्पर्श स्पर्श सखीजनः ॥ १८४ ॥ (अथोत्तरम्-) गूढाभिप्रायसहितोत्तरमुत्तरमिष्यते । तविधोनेयसंबन्धप्रश्नोत्तरविभेदतः॥ भवने बान्धवाः सन्ति पान्थ किंचिन्न विद्यते । गोष्ठीने तमसाक्रान्ते सुखं वससि चेद्वस ॥ १८५ ।। प्राचीनम् - कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ॥ १८६ ॥ (अथ सूक्ष्मम्-) विदग्धमात्रज्ञेयं चेत्सूक्ष्मं साकूतचेष्टितम् । पश्यन्त्यां मयि साकूतं सखी गोष्ठीनियन्त्रिता । तरलं गोपयामास सस्मितं तरुणीमणिः ॥ १८७ ॥ (अथ भाविकम्-) प्रत्यक्षत्वेन कथनमतीतार्थस्य भाविकम् ॥ अद्यापि तन्मम दृशोधुरि वर्तते य- द्रात्रौ मयि क्षुतवति क्षितिपालपुण्या। जीवेति मङ्गलवचः परिहत्य वेगा- कर्णेऽपि तं कनकपत्रमनालपन्त्या ।। १८८ ॥ द्वितीयं भाविकं भूतं मानसत्वेन वर्ण्यते । हृयद्यापि वरीवर्ति राधा यदकरोद्रते । १. 'उन्मीलितोत्तरे सूक्ष्मं विशेषो भाविकं तथा।' इत्यलंकारोद्देशप्रन्थे तु भावि. कात्माविशेषक उक्तः १०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः। १४७ (अथ विशेषकः-) सदृशानां च वस्तूनां येनकेनापि हेतुना। व्यावर्तकविशेषस्य स्फुरणे स्याद्विशेषकः ॥ काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः । प्राप्ते वसन्तसमये काकः काकः पिकः पिकः ॥ १८९ ।। (अथ व्याजोक्तिः-) यया कयापि हेतूक्या प्राप्ताकारस्य गोपनम् । स्वस्याथ वा परस्यापि व्याजोक्तिः क्रियते यदि ॥ ओट्ठम्मि वि स्थणतडम्मि परिक्खदा वि लालेसि किंत्ति हलिणाछि सुअं सुवंकम् । दण तुज्झ पइणो हिअअम्मि रोसो संवड्डइ प्पअडदो तुइ जालिणित्ति ॥ १९० ॥ (अथ विवृतोक्तिः-) श्लिष्टं च गुप्तमर्थ तु यद्याविष्कुरुते कविः । यथाकथंचित्तत्र स्थाद्विवृतोक्तिरलंकृतिः॥ भ्राम्यति स्फारमुद्याने भ्रमरो रमणादरः । सखीसमाजगामेवं वक्ति सा साक्षिसूचनम् ॥ १९१ ।। (अथ गूढोक्ति:-) यत्रान्योद्देशकं वाक्यं यदन्यं प्रतिकथ्यते । किंचिच्छेषेण चेत्तत्र स्याद्ढोक्तिरलंकृतिः ॥ सदा रामान्तरपृथुलकुचग्रहणोद्यमम् । वत्स मा कुरु चौर्येण बली जागर्ति तत्पतिः ॥ १९२ ।। (अथ युक्ति:-) यया कयापि क्रियया परेषां वचनं यदि । परस्य स्वस्य वा मर्मगुप्त्यै युक्तिरलंकतिः॥ १. 'ओष्ठेऽपि स्तनतटेऽपि परिक्षतापि लालयसि किमिति हरिणाक्षि शुकं सुवक्रम् । दृष्ट्वा तव पत्युर्हृदये रोषः संवर्धते प्रकटतस्त्वयि जारिणीति ॥ इति च्छाया.
१४८ काव्यमाला। त्वामालिखन्ती काक्ष ननन्दां वीक्ष्य राधिका । अलिखच्चतुराबाय कौसुम कार्मुकं करे ॥ १९३ ॥ (अथ लोकोक्तिः-) लोकवादानुकरणं लोकोक्तिर्यदि कथ्यते । अनुसरति तव ननन्दा नन्दकुमारं परापि सानन्दा । तव किं नीरजनयने पश्य मुदोन्मील्य माधवं नयने ॥ १९४ ॥ (अथ च्छेकोक्तिः-) अभिप्रायविशेषस्य व्यञ्जकत्वं यदा भवेत् । लोकोक्तरेव तत्र स्याच्छेकोक्तिः परिकीर्तिता ॥ पादचार्येव जानीते शिलाशकलमार्दवम् । (अथ स्वभावोक्तिः-) स्वभावोक्तिर्यथा चारु यथावद्वस्तुवर्णनम् । अंशुके कुचतटाद्गलितेऽभूत्वस्तिकाकलितकान्तकुचान्ता । उन्नमय्य चिबुकाञ्चितहस्तं ह्रीनमद्वदनमक्षि चुचुम्ब ॥ १९५ ॥ (अथ वक्रोक्तिः-) एकार्थेनोक्तवाक्यस्य काका श्लेषेण वान्यथा । योजनं क्रियते यत्र वक्रोक्तिस्तत्र कीर्तिता ॥ प्राचीनम्- असमालोच्य कोपस्ते नोचितोऽयमितीरिता । नवोचितोऽयमिति तं ताडयामास मालया ॥ १९६ ॥ तरणिं पश्य सुश्रोणि कान्त कुत्रास्ति नौरिह । सवितारं प्रिये वच्मि स्वगृहे वर्तते पिता ॥ १९७ ॥ (अथ चित्रम्-) चित्रं निबध्यते यत्र प्रश्नमिन्नोत्तरं तदा । शालेः कासारवत्युवीं पैथिकस्य हृतं धनम् । १. 'शालेः सारवत्युर्वी का' इति प्रश्ने 'कासारवती' इत्युत्तरम्. २ 'कस्य धनं पथि हृतम्' इति प्रश्ने 'पथिकस्य' इत्युत्तरम्. - १०.व्यजयबिन्दुः] मन्दारमरन्दचम्पूः। १४९ (अथ प्रतिषेधः-) प्रतिषेधः प्रसिद्धस्य निषेधः कविरञ्जकः । नैवेयं खुरली धूर्त विदुषां वर्तते सभा ॥ १९८ ।। (अथ विधिः- सिद्धस्यैय पदार्थस्य विधानं चेत्तदा विधिः । सभायां शास्त्रगोष्ठीषु विद्वान्विद्वान्भवेत्सखे । (अथ निरुक्ति:-) हेतुना येन केनापि योगेनान्वर्थता यदि । नाम्नां चेत्कल्प्यते यत्र निरुक्तिस्तत्र कीर्तिता ॥ यदर्भात्कन्यकारनं लेभे जनकभूपतिः । तस्मादस्या भुवो नाम रत्नगर्भेति सार्थकम् ।। १९९ ॥ (अथ हेतु:-) कार्येण साकं हेतोश्चेदूर्णनं हेतुरुच्यते । प्राचीनम्- एष ते विद्रुमच्छायो मरुमार्ग इवाधरः । कस्य नो तनुते तन्वि पिपासाकुलितं मनः ॥ २०० ॥ केचित्प्रचक्षते हेतुं हेतुकार्यैक्यवर्णनम् । दुर्जनानामर्चनैव गाम्भीर्य विदुषां महत् प्रश्नं चापि तथात्युक्ति केचिदूचुरलंकृतिम् ।। (अथ प्रश्न:-) प्रश्नः सगूढाकूतश्चेद्वध्यते प्रश्न इष्यते । भो पान्थ पुस्तकधर क्षणमत्र तिष्ठ वैद्योऽसि किं गणकशास्त्रविशारदोऽसि । केनौषधेन मम पश्यति भर्तुरम्बा भर्तागमिष्यति कदा बहुदूरवासी ॥ २०१ ॥ (अथात्युक्ति:-) अद्भुतासत्यकथनं मतात्युक्तिरलंकृतिः ।।
१५० काव्यमाला। त्वत्प्रतापामिना सप्त सागरा अपि शोषिताः । पुनस्त्वद्वैरिकान्ताक्षिवारिभिः परिपूरिताः ॥ २०२ ।। (अथ रसवान्-) रसो यत्र परस्याङ्गं स्यात्तत्र रसवान्मतः । जीयात्स भूदाररूपी महात्मा जगतां पतिः । आतपत्रश्रियं धत्ते दंष्ट्राग्रे यस्य मेदिनी ।। २०३ ॥ भावः परस्य चाङ्गं चेत्प्रेयोऽलंकार इष्यते । कदा मुदा सामिविलोचनान्तं व्यापारयन्ती कुटिलालकान्ताम् । आलिमथ कान्तां कुचभारतान्तां चुम्बामि बिम्बाधरमम्बुजाक्षीम् ॥ २०४ ॥ (अथोर्जखित्-) रसाभासः परस्याङ्ग चेखिदलंकृतिः । स जीयादप्रतिद्वन्द्वो राजा यविषदङ्गना । आलिङ्गत्यसकृत्प्रेम्णा पुलिन्दं विन्ध्यभूमिषु ॥ २०५॥ भावाभासः परस्याङ्गं चेदप्यूर्जस्विदिष्यते ॥ खस्ति तेऽस्तु महीपाल वने त्वद्रिपुकामिनी । पुलिन्दतरुणान्वीक्ष्य सवीडस्मितमातनोत् ।। २०६ ।। (अथ समाहितम्- भावशान्तिः पराङ्गं चेत्समाहितमलंकृतिः। स भूयान्मम रक्षायै यस्य प्रत्यर्थिनां मुखे । रणामणे तृणं वीक्ष्य दृक्कोणं शोणिमात्यजत् ॥ २०७ ।। (अथ भावोदय:-) भावोदयः पराङ्ग चेद्भावोदय इतीरितः॥ कटाक्षाकिरति प्रेम्णा सा बाला मयि या पुरा । किमिदं कुचयोरालीत्युक्ता जाता नतानना ॥ २०८ ॥ (अथ भावसंधिः- भावसंधिः पराङ्गं चेद्भावसंघिरलंकृतिः ।
१०. व्यायबिन्दुः] मन्दारमरन्दचम्पूः। १५१ संग्रामपटहारावैः कान्तालिङ्गनसंभ्रमैः । पुलकाङ्कितसर्वाङ्गः सोऽग्रहीत्तत्क्षणं धनुः ॥ २०९ ।। (अथ भावशाबल्यम्-) भावशाबल्यमन्याङ्गं भावशावल्यमिष्यते ॥ मनोजात त्वं मां व्यथयसि नताङ्गी किमु वृथा पुरारातिं शीघ्रं व्रज गतदयं मर्दय शरैः । यदि स्यात्तातोऽसावहमपि तदा तेऽस्मि जननी सपनीमातुस्तेऽहमिति यदि कृष्णाय कथये ॥ २१० ॥ (अथ प्रत्यक्षम्-) संनिकर्षभवं चारु ज्ञानं प्रत्यक्षमुच्यते । इयं मदनमानिनी किमुत कामिनी वज्रिणो गिरीशवरसुन्दरी किमु मृगाङ्ककान्ताथ वा । इति ब्रजजनश्चिरं मनसि हन्त संशय्य तां समीपभुवि राधिका सपदि निश्चिकाय स्फुटम् ॥ २११ ।। (अथानुमानम्-) हेतुसाध्यविनिर्देशे त्वनुमानमलंकृतिः ॥ भ्रूचापवल्ली किल भाति यस्मिन्निन्दीवराशालहगाशु गोपि । भुजध्वजारो मकरोऽपि यस्मान्मन्ये तदङ्गं स्मरराट् शताङ्गम् ॥२१२।। (अथोपमानम्-) उपमानं चातिदेशवाक्यार्थज्ञानमिष्यते । प्राचीनम्- तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले । यस्तन्वि तारकान्यासः शकटाकारमास्थितः ।। २१३ ॥ (अथ शब्द:-) प्रमाणत्वेन वेदादिवर्णने शब्द इष्यते ॥ सखि मा कुरु शीतांशी दोषारोपं मनखिनि । मुरारेर्मानसं सूनुं यमाहुः श्रुतिराशयः ॥ २१४ ।।
१५२ काव्यमाला। (अथाापत्तिः-) अन्यथानुपपच्या च यत्र वस्तुव्यवस्थितेः । निर्धारणं पुनस्तस्य तदार्थापत्तिरिष्यते ॥ विधाता निर्ममे देहं हरिणाझ्या हरिद्रया । नो चेद्रागः सुधाधानादधरे न हि संभवेत् ॥ २१५ ।। (अथानुपलब्धिः-) अप्रत्यक्षप्रमाणत्वेऽनुपलब्धिरलंकृतिः। असदेवावलमं तेऽनुपलब्ध्योऽहते बुधः । कामेन्द्रजालं यहते कुचकुम्भस्थितौ पुनः॥ २१६ ।। (अथैतिह्यम्- पारम्पर्यप्रवादश्च यत्रानिर्दिष्टवक्तृकः । निबध्यते तदा तस्मिन्नतिह्यालंकृतिर्मता ।। प्राचीनम्- कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे । एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ २१७ ।। (अथ संभवः-) संभवस्तु निमित्तेन वस्तुसंभावना यदि । राधिकासदृशी कान्ता नासीदस्ति भविष्यति । मैवं वद विधेः सृष्टिविचित्रा विपुला मही ॥ २१८ ।। केचिदाचारात्मतुष्टी प्रमाणालंकृती विदुः॥ महाजनांचारपरम्परेशी खनाम नामाददते न साधवः । अतोऽभिधातुं न तदुत्सहे पुनर्जनः किलाचारमुचं विगायति ॥२१९॥ प्राचीनम्- असंशयं क्षत्रपरिग्रहक्षमा यदायमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणस्य वृत्तयः ॥ २२० ॥ अर्थशब्दोभयेषां वालंकाराणां च मेलने । तिलतण्डुलसंश्लेषन्यायासंमृष्टिरिष्यते ॥
१०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः।
१५३
सुकवेर्भणितिः सद्यः श्रवणपुटेष्वहह माधुरी सृजति ।
तरुणखान्तसरोजे प्रेममरन्दं विलासिनी दृष्टा ॥ २२१ ।।
स जयति बल्लवबालो बल्लवललनारतान्तविश्रान्तिम् ।
कुरुते मिलदलिपुले मञ्जुलमल्लीमतल्लिकाकुञ्जे ॥ २२२ ॥
किंचिदुत्स्फटितपङ्कजगन्धैरञ्चितः शिशिरशावसमीरः ।
तं चकार कमला त्वयि कोपं मुञ्चतामिति च वक्तुमिवागात् ॥ २२३ ।।
यत्र नीरक्षीरनयादस्फुटान्योन्यमेलने ।
अलंकृतीनां तत्र स्यात्संकरः परिकीर्तितः ॥
अङ्गाङ्गिभावसंदेहसमप्राधान्यसंकराः।
तथैकवाचकानुप्रवेशश्चेति चतुर्विधः॥
अलंकृतीनामन्योन्योत्थाप्योत्थापकता यदि ।
अङ्गाङ्गिभावनामासौ संकरालंकृतिर्मता ।
विजातीयसजातीयभेदेन द्विविधो मतः ॥
कुचकैतवमस्य बिभ्रतः पटजालेन खगस्य बन्धनम् ।
अकरोदिव पाणिपञ्जरस्थितये नन्दसुतस्य कामिनी ।। २२४ ॥
तिलकभ्रमरस्फारविलासेन मनोरमम् ।
आननं मृगशावाक्ष्याः सरोरुहमिवाबभौ ॥ २२५ ।।
एकालंकारकोव्यां च प्रतिक्षेपो भवेद्यदि ॥
तदन्यालंकारकोटेस्तत्र संदेहसंकरः।
प्राचीनम्-
मुखेन गरलं मुञ्चन्मूले वसति चेत्फणी।
फलसंदोहगुरुणा तरुणा किं प्रयोजनम् ॥ २२६ ॥
अलंकारेण केनापि चेकदोत्थापनं यदि ।
अनेकेषामेकवाक्ये समप्राधान्यसंकरः।
अङ्गुलीभिरिव केशसंचयं संनिकृष्य तिमिरं मरीचिभिः ।
कुड्नलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ २२७ ॥
१५४ काव्यमाला। अनेकालंकृतीनां चेदेकवाचकबद्धता । तदैकवाचकानुप्रवेशसंकर इष्यते ॥ भुजंगलीलासंतृप्तो नरेन्द्रो दीनहिंसकः । याच्यावृत्तिपरो भाति विषवैद्य इव प्रभुः ।। २२८॥ इत्यलंकारप्रकरणम् । ध्वनिस्तु लक्षणामूलाभिधामूलभिदा द्विधा । तत्राये लक्षणामूले वाच्यं स्यादविवक्षितम् ॥ विवक्षितं चान्यपरममिधामूलकध्वनौ । आद्यस्तु लक्षणामूलो गूढव्यङ्गयप्रधानकः ॥ अर्थान्तरे संक्रमिते वाच्येऽत्यन्ततिरस्कृते । इति द्विधापि स द्वेधा पदवाक्यगतवतः॥ एवं चतुर्विधः प्रोक्तो लक्षणामूलकध्वनिः । वाच्यस्यार्थान्तरत्वेन परिणामो यदा भवेत् ॥ अर्थान्तरे संक्रमितवाच्यमाहुस्तदा ध्वनिम् । यस्मिञ्जीवति जीवन्ति बहवः स तु जीवतु । अर्थान्तरे संक्रमितवाच्यं चेह पदे भवेत् ॥ शृणु मे वचनं वत्स कुरु भक्तिं वृषध्वजे ॥ २२९ ॥ अर्थान्तरे संक्रमितवाच्यं वाक्ये भवेदिह । वाच्यार्थे त्वन्वयायोग्ये स्वाद त्यन्ततिरस्कृतम् ॥ नीलिमालिप्तदिक्प्रान्ताः कान्ताहक्मान्तवीचयः । इत्यादिषु पदे वाच्यं स्यादत्यन्ततिरस्कृतम् ॥ २३० ॥ धवलिम्ना विलिम्पन्ति यशांसि तव दिक्तटीः । इत्यत्र वाक्ये वाच्यं च स्यादत्यन्ततिरस्कृतम् ॥ २३१ ॥ यस्तु वाच्यविवक्षायां गूढव्यङ्गयप्रधानकः । स विज्ञेयोऽभिधामूलो द्विविधश्वैष कीर्तितः ।। स संलक्ष्यक्रमव्यङ्गयालक्ष्यव्यङ्गयक्रमात्मना । उक्तो बुधैः स संलक्ष्यक्रमोऽनुरणनोपमः ।।
१०. व्ययबिन्दुः] मन्दारमरन्दचम्पूः। १५५ शब्दार्थोभयशक्त्युत्थस्त्रिधानुरणनवनिः । स्यात्पर्यायासहिष्णुत्वे शब्दशक्युद्भवो ध्वनिः॥ अलंकृतेर्वस्तुनो मा प्राधान्याच्छब्दशक्तितः । यत्र व्यक्तिर्भवेत्सोऽयं शब्दशक्युद्भवो द्विधा । पदवाक्यगतत्वेन द्विविधोऽपि पुनर्द्विधा ।। चित्ते स्फुरति तद्रूपं हरेर्दैत्यद्विपद्विषः । इत्यत्र शब्दशक्त्युत्थः स्यात्पदेऽलंकृतिध्वनिः ॥ २३२ ।। प्रतापवानिनो भाति भजन्नुदयमुच्चकैः । इत्यादौ शब्दशक्त्युत्थः स्याद्वाक्येऽलंकृतिध्वनिः ॥ २३३ ।। समरे त्वद्भुजाशौर्य पश्यन्त्यनिमिषद्विषः । इत्यादौ शब्दशक्त्युत्थः स्यात्पदे वस्तुनो ध्वनिः ॥ २३४ ।। अवनी च वनी च त्वविषां न दिशति स्थितिम् । इत्यादौ शब्दशक्त्युत्थो वाक्ये वस्तुध्वनिर्भवेत् ॥ २३५ ॥ अर्थस्य तु स्वतःसिद्ध्या कविप्रौढोक्तिकल्पनात् । वक्तुः कविनिवद्धस्य प्रौढोक्या कल्पनात्तथा ।। विध्यादर्थशक्त्युत्थध्वनिश्चापि त्रिधा मतः । वस्त्वलंकारभेदेन त्रिविधोऽपि पुनर्द्विधा । ते व्यायव्यञ्जकत्वेन पड्डिधाश्च पुनर्द्विधा । पुनर्वाक्यगतत्वेन तथा पदगतत्त्वतः ॥ तथा प्रबन्धगत्वेन सर्वेऽपि त्रिविधा मताः । इत्यर्थशक्तिमूलोऽयं स्यात्षट्त्रिंशद्विधो ध्वनिः ॥ अथ खतःसिद्धार्थशक्तिमूलध्वनि निरूपयामः- अविदूरे निशा याति किमित्यालि विलम्बसे । इत्यादी वस्तुना वस्तुवनिर्वाक्ये प्रकीर्तितः ।। २३६ ॥ अपुरश्चरणायासं राममन्त्रः फलत्यसौ । इत्यादावपि वाक्ये स्याद्वस्तुनालंकृतिध्वनिः ॥ २३७ ।।
१५६ काव्यमाला। - मन्वेते वज्रनिर्घोषं वेडितं ते द्विषद्गणाः। इत्यलंकारतो वस्तुध्वनिर्वाक्ये प्रकीर्तितः ॥ २३८ ॥ प्राणान्मुञ्चन्ति निशितैस्त्वद्वाणैः सह वैरिणः । इत्यलंकारतो वाक्ये विज्ञयोऽलंकृतिध्वनिः ॥ २३९ ॥ द्विषत्कान्तार्चति ब्रघ्नं क्षणदाभावकाङ्क्षया । इत्यादिषु पदे ज्ञेयो वस्तुना वस्तुनो ध्वनिः ॥ २४० ।। अथ कविप्रौढोक्तिसिद्धार्थशक्तिमूलध्वनिर्निरूप्यते- शत्रुस्त्रैणस्मितज्योत्स्ना निधुनीते भवन्महः । इत्यादौ वस्तुना वस्तुध्वनिर्वाक्ये प्रकीर्तितः ॥ २११ ॥ जयश्रीस्त्वां भजत्याजौ सेनाधूल्यन्धकारिते । इत्यादौ कीर्तितो वाक्ये वस्तुनालंकृतिध्वनिः॥२४२ ॥ नानावणे जगत्पूर्वं त्वत्कृतेरभवद्विभो । इत्यादिषु पदे वाच्यो वस्तुना वस्तुनो ध्वनिः ॥ २४३ ॥ अथ कविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलध्वनि ब्रूमः- प्रेमातिमानतो नश्येत्प्रसीद प्रणते प्रिये । इत्यादौ कथितो वाक्ये वस्तुना वस्तुनो ध्वनिः ॥ २४४ ॥ मीलिते सरतापेन शठ तस्या दृगम्बुजे । अत्र वाक्ये च कथितो वस्तुनालंकृतिध्वनिः ।। २४५ ॥ नाहं दूती तनोस्तापस्तस्याः कालानलोपमः। इति वक्तृवचःसिद्धा(द्धो)ऽलंकृत्यावस्तुनो ध्वनिः ॥ २४६ ॥ प्रवातकदलीवास्ते तमालं वीक्ष्य सा हरौ । इति वक्तृवचःसिद्धा(दो)ऽलंकृत्यालंकृतिध्वनिः ॥ २४७ ॥ शठाधुना सा तनुते साहसं शशिवीक्षणे । अत्र वक्तृवचःसिद्धो वस्तुवस्तुध्वनिः पदे ॥ २४८ ॥ इत्यसावर्थशक्त्युत्थो दिशामात्रमुदाहृतः। पदप्रबन्धगत्वेनाप्युदाहार्यो यथोचितम् ॥
१०. व्ययबिन्दुः] मन्दारमरन्दचम्पूः। १५७ भवेदेकविधः सोऽयं शब्दार्थोभयशक्तिजः । मानहृद्विजराजोऽयं भाति सर्वज्ञशेखरः ॥ २४९ ॥ वाक्य एव भवेदेष शब्दार्थोभयशक्तिजः। असंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिरिष्यते ॥ वाक्ये पदैकदेशे च प्रबन्धे च तथा पदे। वर्णेषु रचनायां च गतत्वेन स पड्धिः ॥ वक्ष्ये साकृ(क)शिमाश्लिष्टा शठोच्छ्रसिति सांप्रतम् । अत्र वाक्ये विप्रलब्धशृङ्गारध्वनिरीरितः ॥ २५० ॥ संनिधत्ते सदा चित्ते तद्वकं तरुणीमणेः । असंलक्ष्यक्रमव्यजयध्वनिरत्र पदे भवेत् ।। २५१ ॥ एवमग्रेऽप्युदाहार्य वर्णादिषु यथोचितम् । एतत्सर्वं रम्यबिन्दौ समपश्चं प्रकाशितम् ।। एवं च चैकपञ्चाशद्विधः शुद्धो ध्वनिमतः । मिश्रणेऽन्योन्यमेतेषां भेदा द्विड्डग्गुणध्रुवाः (१३२६)॥ चतुर्विधैः संकरैश्च संसृष्ट्या चैकरूपया । पञ्चधा योजने तेषां भेदाः खाग्निरसारयः (६६३०)। क्रमाद्गतिर्लिपीनां स्यादकानां वामतो गतिः ।। इति ध्वनिप्रकरणम् । गुणीभूतव्यङ्ग्यमपि चाष्टधा परिकीर्तितम् । अगूढं वाच्यसिद्धङ्गं तुल्यप्राधान्यमस्फुटम् । संदिग्धमपराङ्गं च काकाक्षिप्तमसुन्दरम् । अगूढतासहृदयैरिवान्यैरपि वेद्यता ॥ सोऽयं विजयते राजा सुमनःसंघरञ्जकः । वाच्यसिद्ध्यङ्गमेतद्यद्विना वाच्यं न सिध्यति । भूभृदाभाति काश्मीरपङ्कगैरिकपाटलः ॥ २५२ ॥ वाच्यव्यङ्ग्यार्थयोस्तुल्ये तुल्यप्राधान्यमिष्यते ॥ जातस्त्वद्वैरिसुदृशां मरणायाञ्जनं दृशः । मन्दा. १४ १५८ काव्यमाला। स्याद्यत्सुहृदयस्यापि दुःखवेद्यं तदस्फुटम् । भूपो गुणाहितप्रीति नत्यम्बुधिमेखलाम् ॥ २५३ ।। संदिग्धं तत्तु कथितं वाच्यात्प्राधान्यसंशये ॥ त्वामालोक्य रणे वैरी वीक्षते विजनं हयम् । अपराङ्गं यदाङ्गे चेद्रसादेस्तु रसादिकम् । क्षणध्वस्तखरानीकं जानकी सखजे प्रियम् ॥ २५४ ॥ काकाक्षिप्तं तु तत्र स्याद्यत्र काका विभाव्यते । मन्ये सा सुभगा मत्तो यां त्वमेवानुधावसि । वाच्यानिकृष्टं व्यङ्गथं चेदसुन्दरमितीयते ॥ अतपःक्लेशसुकृतं ब्रह्मर्षे तव दर्शनम् ॥ २५५ ।। चतुर्विधैः संकरैश्च संसृष्ट्या चैकरूपया । पञ्चधा योजने तेषां चत्वारिंशद्विधं च तत् ॥ एवं निरूपिते साङ्गे ध्वन्यलंकारलक्षणे । सन्तो महान्तः क्षाम्यन्तु यत्किंचित्स्खलितं यदि ॥ जलजनिजनिजायाप्रेमपाकेन गोपी- जनमनसिजकेलीलम्पटेऽलंपटेन । गुहपुरनिलयेन प्रोद्धृतो व्यङ्ग्यबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥ इति श्रीमद्धटिकाशतशतघण्टा विहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयो- गीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारमरन्दे चम्पूप्रबन्धे व्यङ्ग्य बिन्दुर्दशमः समाप्तिमगमत् । शेषबिन्दुः। अत्रान्त्य(न्ति)मे शेषविन्दावनुक्तान्पूर्वबिन्दुषु । लक्ष्यलक्षणसंयुक्तांस्तत्क्रमेणाभिदध्महे ।। एकश्चन्द्रार्कविनेशरदशुक्राक्षिभूध्रुवाः । दूयं द्वन्द्वं युगं युग्मं यमलं यामलं यमम् ।। युगलं द्वितयं पक्षो नदीकूलं करः कुचः।
१५९
११. शेषबिन्दुः] मन्दारमरन्दचम्पूः।
जानुपादौ बाहुगुल्फो जङ्घोष्ठौ राघवात्मजौ ॥
असिधाराकर्णहोराकपोलनयनभ्रवः ।
नितम्बायनपक्ष्माणि हनूरुवडवास्तनाः ॥
त्रयं कालाग्निरुद्राक्षिसंध्याभुवनपुष्करम् ।
ग्रीवा रेखा शूलशिखा नाडी रामो गुणः पुरः॥
गायत्रीवह्रिचरणौ विष्णुपत्नी बलिस्तनुः ।
शक्तिमूर्तिभृङ्गिपादस्त्रिविक्रमपदार्पणम् ॥
चत्वारि गोस्तनब्रह्ममुखवार्णवाश्रमाः ।
खर्दन्तिदन्तसेनाङ्गविष्णुबाहुयुगाः श्रुतिः ॥
पुरुषार्थोपाययामपशुमश्चपदानि च ।
पञ्च पापमहाकाव्यशिवास्पेन्द्रियपाण्डवाः ॥
विषयानिलवर्गाङ्गभूतवर्द्धमहामखाः ।
पुराणलक्षणप्राणसायकलेशपल्लवम् ।।
पडुकोणवेदाङ्गरसतर्कारिकारकम् ।
प्रयोगप्रश्नगायत्रीजठरं चक्रवर्त्यपि ॥
शास्त्रशस्त्राङ्गकर्मर्तुभृङ्गपादगुहाननम् ।
सप्त मातृद्वीपशैलवारराज्याङ्गताण्डवाः ।।
मुनिस्वरनदीच्याधवहिजिहाश्वधातवः ।
अष्ट दिक्पालेशमूर्तिसिद्धिसिद्धान्तकुञ्जराः ॥
वसुलक्ष्मीगन्धमजब्रह्मश्रोत्राहिमङ्गलम् ।
गयायोगाङ्गनत्यङ्गमहिपीकुलपर्वताः ।
नव रत्नं निधिर्गोप्यखण्डधान्यग्रहास्तथा ।
धेनुरन्ध्रशिलाभक्तिवीरव्याघ्रीस्तनाम्बुदाः ।
विन्द्वर्थकाः शून्यपूर्णकान्तामध्याभ्रखानि च ॥
दश स्नानस्थाणुबाहुरावणाननचुम्बनम् ।
कृष्णावतारदिग्धस्ताङ्गुल्यवस्थेन्दुवाजिनः॥
धर्मपत्नीधूपपङ्क्तिनिघण्टुसुतरूपकम् ।
१६०
काव्यमाला।
एकादश स्यात्करणं कुरुसेना वृषध्वजः ॥
द्वादशाको मासराशिसंक्रान्तिगुहबाहवः।
शारिकोष्ठकसेनानीनेत्रभूपतिमण्डलाः ॥
त्रयोदश स्युर्वीथ्यङ्गविश्वकश्यपकामिनी ।
सामगाचार्यताम्बूलगुणप्रतिमुखाङ्गकम् ।।
चतुर्दश मनुर्विद्यायमेन्द्राभिनया मृगः ।
पञ्चदश तिथिः सामिधेनी कान्ताकलापि च ॥
षोडशेन्दुकला गौरी नाट्यचेष्टोपकारकम् ।
संस्कारः सप्तदश तु प्राजापत्यपशुर्मतः ।।
अष्टादश धृतिः पीठं पर्वोपद्वीपभारतम् ।
एकोनविंशतिर्देववाद्यमप्यथ विंशतिः ॥
अङ्गुलीरावणभुजकपोलाक्षिकरभ्रवः ।
एकविंशतिसंख्यायां मूर्छनानुस्मृतिः समित् ।।
द्वाविंशतिश्योपसर्गश्चतुर्विंशतिवाचकाः।
वाक्यदोषन्यायगुणगायत्रीजिनकेशवाः ॥
शतं वायुःकञ्जदलशक्रयज्ञाब्धियोजनाः ।
सहस्रं जाह्नवीवकं शेषशीर्षाम्बुजच्छदाः॥
रविवाणार्जुनकरा वेदशाखेन्द्रदृष्टयः ।
एतेषामपि पर्यायास्तत्तत्संख्याविवोधकाः॥
इति संख्याप्रकरणम् ।
विरामो विरतिश्छेदो विच्छेदश्छेदनं छिदा।
यतिर्विभेदश्वसनं श्वासो भिद्भेदनं भिदा।।
छिदाश्वासस्तथा छित्तिरिति विच्छित्तिबोधकाः ।
अयुक्तमोजो विषममयुक्चासममीरितम् ॥
युगनोजः समं युक्तमितीमे समवाचकाः।
गो गुरुस्त्वनृजुर्वक्र इतीमे गुरुवाचकाः ॥
अवको लो ऋजुर्मात्रालवश्व लघुवाचकाः ।
१६१ ११. शेषबिन्दुः] मन्दारमरन्दचम्पूः। वर्णस्तु द्विविधः प्रोक्तो गुरुलवोर्विभेदतः । गुरुः प्लुतो द्विमात्रोऽपि लघुः स्यादेकमात्रकः ॥ युक्तपूर्वो विसर्गान्तो दीर्घो बिन्दुयुतो गुरुः । तदन्यो लघुरुक्तोऽथ विकल्पगुरुरुच्यते ॥ चरणादिमवर्णस्य संयोगः क्रमसंज्ञकः । तस्य प्राक्स्थितवर्णश्च पादान्तस्थश्च वा गुरुः ॥ यथा- सज्जननिचयः परगतगुणदोषौ वीक्ष्य दोषमुत्सृजति । हंसो भाजनसंगतक्षीरजले वीक्ष्य नीरमुत्सृजति ॥ १ ॥ रहयुक्ताक्षरात्पूर्व रयुक्तात्कुपुवर्णतः । पूर्व वर्ण विकल्पेन गुरुं केचित्प्रचक्षते ॥ गणस्तु द्विविधः प्रोक्तो वर्णमात्राविभेदतः । तत्र वर्णगणस्तु स्यादक्षरत्रितयात्मकः ॥ मयौ रसौ तजभना इत्यष्टार्णगणाः स्मृताः । त्रिगो मो मुखलो यः स्यान्मध्यलो रोऽन्तगश्च सः । अन्त्यलस्तो मध्यगो जो मुखगो भस्त्रिलस्तु नः ॥ श्रीकान्तः। कपाली। राधिका । कमला। कृष्णाय । करोति । पाथसि । भवति । इति ॥ मध्याछन्दसि चोद्भूता इमे वर्णगणा मताः ॥ मस्य भूमिदेवता स्यात्संपत्तिः फलमिष्यते ॥ यस्य पाथो देवता स्यात्फलं वृद्धिः प्रकीर्तिता । रस्य वहिर्देवता स्यात्फलं मरणमीरितम् ।। सस्य वायुर्देवता स्याद्देशान्तरगतिः फलम् । तस्याकाशो देवता स्यात्फलं शून्यं प्रकीर्तितम् ।। जस्य सूर्यो देवता स्याद्रोगप्राप्तिः फलं मता। भस्य चन्द्रो देवता स्यात्फलं कीर्तिरुदाहृता ।। नस्य नाको देवता स्यात्फलं च सुखमच्युतम् ।
१६२ काव्यमाला। कलाचतुष्टयात्मा तु मात्रागण उदाहृतः। भजलाद्विगुरुश्चैव नलश्चेति स पञ्चधा ॥ रोधसि । तटेषु । नलिनं । मित्रः । कथयति । इति ॥ छन्दोपि द्विविधं प्रोक्तं वार्णमात्रविभेदतः। वाण तूक्तादिकं प्रोक्तं मात्रं त्वार्यादिकं मतम् ॥ पादान्त एव केचिच्च पादमध्येऽपि केचन । यतिं वदन्ति तत्रापि विशेषः स्फुटमुच्यते ॥ धातुनामवभिन्नेषु यतिर्भवति नान्यथा । कृष्ण एव परं वेत्ति राधिकाया मनोगतम् । पश्यन्तीं वीक्ष्य कालिन्दीकूलकुञ्जमगात्ततः ॥२॥ उपसर्गान्ततश्छेदः प्रत्ययादौ तयोः कचित् ॥ राधा केली बहु परितोषयत्यम्बुजेक्षणम् । तस्मान्न चेहते त्वां संपूर्णचन्द्रमुखीं हरिः ॥ ३ ॥ रासोत्सवे मुहुश्चुम्बत्ययं राधामुखाम्बुजम् । इति रोषकषायाक्षीणां मुखानि प्रतीक्षते ॥ ४ ॥ खरसंधौ तु संप्राप्तसौन्दर्याद्यतिरिष्यते । तादृग्गोपीकेलिलोलोऽस्तु मुदे मम माधवः । तु चादयो न प्रयोज्या विच्छेदात्परतस्तथा ॥ नमः शिवाय शान्ताय तूदयद्बहुलोजसे ॥ ५ ॥ प्रत्ययादौ यतिर्नाम्नां षठ्यामेवेति केचन । अथ वर्णगणानां तु निवेशे फलमुच्यते ॥ मनौ मित्रौ जतौ स्यातामुदासीनौ भयौ पुनः । भृत्यौ रसावरीनीचौ द्वौ द्वावेतौ स्वरूपतः ॥ मित्रान्मित्रे समृद्धिः स्यान्मित्राद्धृत्ये जयो मतः । मित्रादुदासीनगणे सुहृत्पीडा फलं मतम् ॥ मित्राच्छत्री बन्धुपीडा भृत्यान्मित्रे तु सिद्धयः । भृत्यादुदासीनगणे सद्यः स्यात्साध्वसं फलम् ॥
११. शेषबिन्दुः] मन्दारमरन्दचम्पूः ।
भृत्याङ्गत्ये जगद्वश्यं भृत्याच्छौ महाव्यथा ।
उदासीनान्मित्रगणे कार्यसिद्धिर्न जायते ॥
उदासीनानृत्यगणे स्वजनैः कलहो भवेत् ।
शत्रोरुदासीनगणे स्वकुलस्य क्षयः फलम् ।।
शत्रोमित्रे फलं शून्यं शत्रोभृत्ये स्त्रियामृतिः।
शत्रोः शत्रौ काव्यकर्तु शो भवति निश्चितम् ॥
परिशुद्धार्णसंबन्धे राज्यप्राप्तिर्भवेद्धवम् ।
अतश्चाचां हलां चापि वर्णानां फलमुच्यते ॥
ऋलवौँ विहायाचः प्रोक्ताः संपत्करा बुधैः ।
कखौ गधौ च संपत्तौ उश्चापयशसि स्मृतः ॥
चः सुखे छः प्रेम्णि जस्तु मित्रलाभे च जो भये ।
झो मृतौ च टठौ दुःखे डः शोभायां च णो भ्रमे ॥
तः सुखे थश्व युद्धे ढो विशोभायां च दः सुखे ।
नौ संतोषे च पः सौख्ये फो भये बो भवेन्मृतौ ॥
भः क्लेशे मश्च दुःखे यो लक्ष्म्यां त्वौ व्यसनेऽपि च ।
रो दाहे शः सुखे पो हः खेदे सः सौख्य एव च ।
लः स्याच विलये क्षस्तु समृद्धौ संप्रकीर्तितः ॥
ये वैष्णवा दैवताश्च शब्दा भद्रादिवाचकाः ।
ते न निन्द्या गणादिभ्य इत्युक्तं पिङ्गलादिभिः ॥
उक्तात्युक्ता च मध्या च प्रतिष्ठान्यासु पूर्विका ।
गायत्र्युष्णिगनुष्टुप् च बृहती पतिरेव च ॥
त्रिष्टुब्जगती शकर्यत्यष्ट्योऽन्या अतिपूर्विकाः ।
धृतिश्चातिधृतिश्चापि कृतिः प्रकृतिराकृतिः॥
विकृतिः संकृतिश्चातिकृतिरुत्कृतिरित्यपि ।
एकाक्षरं समारभ्य पुनरेकैकवर्धितः ॥
पदैः पृथक्च छन्दांसि पड्विंशतिरिति स्फुटम् ।
१६४ काव्यमाला। ऋजुरेखाकृतिहखो वक्ररेखाकृतिर्गुरुः ॥ आद्याद्गुरोलघुरधो यथोपरि तथापरम् । ऊने गुरुर्गुभावे प्रस्तारः पूर्ण उच्यते ।। मध्यायां तृतीये छन्दसि प्रसारो यथा- SSS ISS SIS IIS SSI ISI S॥ ॥ आद्यतो द्विगुणैरकैचर्धितरेकमिश्रितैः । गण्यते छन्दसां वृत्तमुद्दिष्टं तु लघुस्थितैः ।। गायत्र्यामुद्दिष्टम् । ।।5।। १ | २ | ४ | ८ | १६ | ३२ S S २३ S विषमे परिगृह्मैकमर्धस्यार्धार्धभागतः । समे गुरुं परवान्यं क्षिप्त्वा नष्टं समुद्धरेत् ॥ गायत्र्यामेव नष्टं वृत्तम् ४३ । ४३ | २२ ११ ६ | ३ ३ । २ । s | । ls ऽ । एकैकाङ्काल्लिखेत्पूर्व छन्दसो वर्णसंख्यया । तदधो द्विगुणीकृत्य पुनश्वाङ्कान्समालिखेत् ॥ आद्यादिक्रमतश्चादैर्गुणितैरेकमिश्रितैः । ज्ञेया संख्या तु वृत्तानामिदं संख्यानमिष्यते ॥ गायत्र्यामेव संख्यानं यथा- १ । १ । ११ १ २ | ४ | ८ १ १ १६ ३२ ६४ छन्दोवर्णसमान्सैकानकान्पूर्व लिखेत्ततः । एकैकत्यागतस्तेषामेकड्यादिक्रमेण च ।। सपूर्वैकैकगणनमुपर्युपरि निक्षिपेत् ।
११. शेषबिन्दुः] मन्दारमरन्दचम्पूः। १६५ प्रथमाङ्कक्रमात्पश्चाद्विजानीयाल्लगक्रियाम् ॥ यथा गायत्र्यां लगक्रिया- मु. १ २ ३ . ६ . 0 . . . . १५ . २० १० ४ ० १५ १० ६ my . ६ ४ २ ३ गु | १ | १ | १ | १ | १ | १ | १ १ । १ । ल । एकोना द्विगुणा संख्या प्रोक्ताध्वेति मनीषिभिः । प्रस्तारश्च तथोद्दिष्टं नष्टं संख्यानमेव च । लगक्रिया तथाध्वेति प्रयोगाः षडिमे मताः ॥ प्रस्तारा मेरुशकटपताकामर्कटाभिधाः। षट्प्रयोगेष्वेव चैतेष्वन्तर्भूता भवन्ति हि ॥ अथ वेदान्तिनां मात्रिकाणां मतमुदीर्यते । मुख्यानि सप्त च्छन्दांसि गायत्र्युष्णिगनुष्टुभः ।। बृहती च तथा पतिस्त्रिष्टुप् च जगतीत्यपि । अतिच्छन्दांसि सप्त स्युस्तथातिजगती पुनः ॥ शकरी सातिपूर्वा न्याष्ट्यत्यष्टी धृतिरेव च । तथातिधृतिरित्येवं कथितानि चतुर्दश ॥ चतुर्विंशत्यक्षरात्मा गायत्री त्रिपदा मता। त्रयोदशान्यच्छन्दांसि चतुर्वर्णाधिकानि च ॥ चतुश्चरणयुक्तानि गायत्र्याश्चोत्तरोत्तरम् । तथा विराट्ककुन्मूलच्छन्दसी परिकीर्तिते ॥ एकाक्षरा यक्षरा च विराट्छन्दः प्रकीर्तितम् । पञ्चवर्णा चतुर्वर्णा व्यक्षरा च ककुन्मता ॥ गायच्या देवता वह्निर्विश्वेदेवौ त(वास्त)थोष्णिहः । बृहत्या देवता सूर्यो बृहस्पतिरनुष्टुभः ॥
१६६ काव्यमाला। अश्विनौ देवता पतेस्त्रिष्टुभश्व सुधाकरः। जगतीछन्दसः प्रोक्तो देवता नाकनायकः ॥ पृथ्वी विराट्छन्दसः स्यात्ककुदस्तु त्रिविक्रमः। ककुद्विराट्छन्दसोस्तु केचिद्देवं हरिं विदुः॥ कृतिः प्रकृत्याकृती च विकृतिः संकृतिस्तथा । अतिकृत्युत्कृती चातिधृतावन्तर्भवन्ति हि ।। यथा प्राचीनम्- पान्त्वस्मान्पुरुहूतवैरिबलवन्मातङ्गमाद्यद्धदा- कुम्भोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः । श्रीमत्कण्ठीरवास्यप्रततसुनखरादारितारातिदूर- प्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता नाकिवृन्दैः॥ ६ ॥ अत्र प्रकृतेरतिधृत्यामन्तर्भावः । एवमन्यत्रोदाहार्यम् । न वैकेनाक्ष- रेण छन्दांसि विलीयन्ते । न द्वाभ्याम् ।। इति श्रुत्या गुरुलघुमात्रैकद्वितयेन वा । न्यूनेन वाधिकेनापि तेषां छन्दो न भज्यते । अलंकारिमते तेन छन्दोभङ्गो भवेद्धवम् । इति छन्दःप्रकरणम् । रसापकर्षहेतुत्वं दोपत्वं परिकीर्तितम् । स दोषः शब्दगत्वेनार्थगत्वेन च द्विधा ।। शब्ददोषो द्विधा प्रोक्तः पदवाक्य विभेदतः। तत्र श्रुतिकटुभ्रष्टसंस्कारं चाप्रयुक्तकम् ।। असमर्थ च निहतानुचितार्थे निरर्थकम् । अवाचकं तथाश्लीलं संदिग्धं चाप्रतीतकम् ॥. ग्राम्यगूढार्थनेयार्थान्यथ क्लिष्टाप्रयोजके । अविमृष्टविधेयांशं विरुद्धमतिकृत्तथा । एवं च पददोषाः स्युर्बुधैरष्टादशोदिताः।
११. शेषबिन्दुः] मन्दारमरन्दचम्पूः।
१६७
तत्र श्रुतिकटु ज्ञेयं माधुर्याव्यञ्जकं पदम् ॥
न ते त्वद्दयिते किं वा नैष्ठुर्यमवलम्बसे ।
यद्याकरणदुष्टं तद्बष्टसंस्कारमुच्यते ।
रथ्यया संचरन्तं त्वां दृष्ट्वा विरमते वधूः ॥ ७ ॥
अप्रयुक्तं यदाम्नातमपि पूर्वैरनादृतम् ॥
विहायाः परितो भाति तारैः स्मरयशोऽकितैः ।
असमर्थमशक्तं यदुपसंधानमन्तरा ।
विधाय त्वद्यशः सृष्टः शिष्टो धात्रा शशिच्छलात् ॥ ८॥
योगमात्रमयुक्तं चाप्यसमर्थमितीष्यते ॥
चतुरम्बुधराक्रान्तां भुनक्ति धरणीं नृपः ।
निहतार्थ द्वितीयार्थे वप्रसिद्ध प्रयुज्यते ।
सतां आयकरो राजा राजते विधुवत्सदा ॥९॥
प्रस्तुतार्थविरुद्धार्थं भवेदनुचितार्थकम् ॥
अनुनीय मुहुर्दूतीं प्रेषयामास मानिनी ।
विदग्धहृदया कामशरवर्षणतेजसा ॥ १० ॥
पादपूरणमात्रार्थमव्ययादि निरर्थकम् ।
देवं कुण्ठितकालं वै नमामि च सुरेश्वरम् ।
अवाचकं तु तात्पर्याविषयार्थप्रतीतिकृत् ।।
लुब्धका विहरन्ति त्वद्रिपुस्त्रीसंचयं वने ॥ ११ ॥
जीडा जुगुप्सामाङ्गल्यव्यक्तीरश्लीलता मता।
उपस्थास्यत्युत्सवं ते देवोऽभिप्रेतमादरात् ।
संदिग्धं तत्तु कथितं यदनिर्धारितार्थकम् ।।
तमः परिहरेत्सोमः सर्वापेक्षितविग्रहः ॥ १२ ॥
शास्त्रान्तरैकसिद्धार्थमप्रतीतमुदाहृतम् ।
सन्तः कुर्वन्ति कर्माणि नियोगफलनिःस्पृहाः।
पामरव्यवहारकप्रसिद्धं ग्राम्यमिष्यते ॥
स(क) धां कुर्वन्मिषात्तस्या गल्लयुग्मं चुचुम्ब सः ॥ १३ ॥
काव्यमाला। गूढार्थमप्रसिद्धार्थे प्रयुक्तं पदमिष्यते । ललाटे कुरुते कान्ता रुधिरं वीक्ष्य दर्पणम् । नेयार्थ स्याल्लाक्षणिकमशक्तं फलबोधने ॥ दृशापि नैव स्पृशति वाचा शोच्या रसं तव ॥ १४ ॥ खसंकेते प्रयुक्तं चाप्यर्थे नेयार्थमिष्यते । धत्ते तव रिपुस्त्रैणं नवं कवचमाकुलम् । क्लिष्टं भवेत्तद्यत्रार्थप्रतिपत्तिर्विवक्षिता ॥ दशास्यजजितोद्भूतरिपुस्त्रीजननीपतिः ॥ १५ ॥ तदप्रयोजकं यत्स्यादविशेषविधायकम् । वसामि पर्वते भूमौ स्थिते तृणशिलायुते । अविमृष्टविधेयांशं चेद्विधेयाप्रधानता ॥ शूरगर्हितकीर्तिः स पलायनपरोऽभवत् । सर्व कषसि गर्व त्वं न केषां युधि रक्षसाम् ॥ १६ ॥ भवेद्विरुद्धमतिकृद्विपरीतार्थबोधकम् । नित्यं धर्माहितमतिः सोऽयं परमशोभनः । अपास्य च्युतसंस्कारमसमर्थ निरर्थकम् । दोषाः श्रुतिकटुखाद्याः सर्वे वाक्येऽप्यमी मताः ॥ अर्हन्ति बर्हिणां बहंगहीं तन्मूर्धजा मुहुः ॥ १७ ॥ शब्दहीनं क्रमभ्रष्टं हतवृत्तं हतोपमम् । यतिभङ्गोऽनुक्तवाच्यं समाप्तपुनरात्तकम् ॥ भग्नछन्दश्च संकीर्णमपूर्ण वाक्यगर्भितम् । अर्थान्तरस्थैकपदं विसंधिपुनरुक्तिमत् ।। अशरीराधिकपदप्रसिद्धिविधुराणि च । अपदस्थसमासं च तथा मतविसर्गकम् ॥ अपदस्थपदं भग्नप्रक्रम गर्हितं तथा । अभवन्मतयोगं चावर्णामतपदार्थके ॥ पतत्प्रकर्षमित्येवं वाक्यदोषा रसभ्रवः ।
१६९ ११. शेषबिन्दुः] मन्दारमरन्दचम्पूः। शब्दशास्त्रहतं वाक्यं शब्दहीनमितीर्यते ॥ संपश्यते मुखं तस्याः साकूतं पल्लवाग्रणीः । क्रमभ्रष्टं भवेद्वाक्यं यत्र शब्दस्य विक्रमः । यशःप्रतापयोर्ममौ सूर्याचन्द्रमसौ तव ॥ १८ ॥ हतवृत्तं भवेद्यत्र वृत्तं रसविरोधि तत् ॥ वल्गत्खड़े न तेन द्राक्खण्डिताः खण्डशो द्विषः । असंमतोपमा यत्र कवीनां तद्धतोपमम् । तद्भिन्नलिङ्गवचनाधिकन्युनोपमात्मना । चतुर्धा कथितस्तेषां लक्षणोदाहृती बुवे । भिन्नलिङ्गं भवेद्यत्रोपमा स्थाद्भिनलिङ्गका ।। गिरिणेव कुचस्थल्या राजते मानिनीमणिः ॥ १९ ॥ तद्भिन्नवचनं भिन्नवचना यत्र चोपमा । मल्लिका इव कान्ताया मन्दहासो विराजते । यत्रोपमानमधिकं तद्भवेदधिकोपमम् ॥ कामिन्या वदनं भाति पद्मबिम्बमिव श्रिया ॥ २० ॥ न्यूनं यत्रोपमानं स्यात्तन्यूनोपममिष्यते । यथा रेजे श्रिया विष्णुस्तथा राट् खस्त्रिया भुवा । यत्र स्थाने न विच्छेदो यतिभ्रष्टं तदिष्यते ॥ अनन्यललनासामान्येयं साध्वी विराजते ॥ २१ ॥ अनुक्तवाच्यं वक्तव्यानभिधायिपदोक्तितः । शौरेः पद्मानुरक्तस्य तथाप्येषा मनोहरा । मुख्यक्रियान्वये जाते पुनः किंचिद्विशेषणम् ।। यत्रोपादीयते तत्तु समाप्तपुनराप्तकम् । स्मरजैत्रपताकेयं जयत्यखिलरञ्जनी ॥ २२ ॥ छन्दोभग्नं वचो यत्र भग्नच्छन्दस्तदिष्यते । मुहुरालिङ्गति प्राणप्रियं कन्दर्पसदृशम् । संकीर्णमन्यवाक्ये चेदन्यवाक्यपदं समम् । मन्दा.१५ १७० काव्यमाला। चित्तमुञ्चाक्षयं भोगं शिवं क्षणिकमाश्रय । अपेक्षितपदानुक्तिर्यत्रापूर्ण तदिष्यते ॥ किं तपश्चरितं शेते तत्कुचाभ्यन्तरं मुहुः ॥ २३ ॥ इदमेव न्यूनपदामिधं संवन्धवर्जितम् । तद्वाक्यगर्भितं यस्य मध्ये वाक्यान्तरं यदि ॥ बुध्वापि साध्वीं तां कान्तां खलानां बुद्धिरीदृशी । निर्मिता विधिना सोऽयं साहसं संगमेऽकरोत् ॥ २४ ॥ एकार्थकपदं चान्यार्थकवाक्यान्तरे यदि । अर्थान्तरस्थैकपदं नाम तत्स्यात्प्रवेशनम् ।। कौस्तुभालंकृतं वक्षः कैटभारेः कपर्दिनः । चूडालो बालचन्द्रेण जटाजूटश्च पातु नः ॥ २५ ॥ असंमतः कवीनां च यत्र संधिर्विसंधि तत् । विसंहिताश्लीलकटुभेदेन त्रिविधं हि तत् ॥ शब्दशास्त्रहतः संधिः संहितायां विसंहितम् । भाति इन्दुरिवैतस्या मुखमेणीदृशोऽधुना। बीडाजुगुप्साकार्यर्थामङ्गलार्थप्रतीतिकृत् ॥ विसंध्यश्लीलाह्वयं च त्रिविधं परिकीर्तितम् । यो निर्दुःखं सुखं भेजे राज्ये तस्याधुनाभवत् । वपुरीषद्लद्वारि भयाद्वप्रे तव द्विषः ॥ २६ ॥ संधौ श्रुतिकटुत्वं चेद्भवेत्कटुविसंधि तत् ।। असिपुत्र्यलिरुग्धन्त द्रोग्धुरस्य पतद्धटात् । शब्दार्थपौनरुक्त्ये तु पुनरुक्तिमादिष्यते । विन्ध्ये काननसंकीर्णे वयं काननवृत्तयः ॥ २७ ॥ क्रियापदेन रहितमशरीरमितीर्यते ॥ तादृशीं कामिनी मां च तादृशं नृपति विधे । इदमेवानन्वयाख्यं दूषणं परिकीर्तितम् । अवक्तव्यार्थबोधः स्वायत्राधिकपदं हि तत् ॥
११. शेषबिन्दुः] मन्दारमरन्दचम्पूः। १७१ नीलोत्पलदलाकारसदृशं तव लोचनम् । कविप्रसिद्ध्यतिक्रान्तं प्रसिद्धिविधुरं मतम् । भुवनान्युपकाराणां श्रेणिभिः प्रीणयन्ति ते ॥ २८ ॥ अपदस्थसमासं स्यादस्थाने चेत्समस्यते ॥ धनूंषि नमयन्त्येते न शिरांसीत्यरीन्प्रति । सद्यःसमुद्यत्क्रोधोचैर्बद्धभ्रूकुटिरास सः ॥ २९ ।। यत्रामतविसर्ग तद्विसर्गाः कव्यसंमताः । तद्विसर्गोत्तरं नष्टं स्फुटं लुप्तमिति विधा। ओत्वप्राप्तौ विसर्गाणां ज्ञेयं नष्टविसर्गकम् । भवतो विमतो भीतो यातो दारयुतो वनम् । यत्र स्फुटा विसर्गाः स्युस्तत्स्यात्स्फुटविसर्गकम् ॥ अहितः सहितः सैन्यैः परितः क्षपितस्त्वया ॥ ३० ॥ विसर्गा यत्र लुप्ताः स्युस्तत्स्याल्लुप्तविसर्गकम् । विनता रक्षिता राज्ञा निहता विमता रणे । अपदस्थपदं तत्स्यायत्रास्थाने पदं भवेत् ॥ वसुंधरायामेव त्वं धरानाथ धनुर्धरः ॥ ३१ ॥ प्रक्रान्तशैलीत्यागे तु भग्नप्रक्रममिष्यते । गुहा गृहा मही शय्या वैष्णवा बान्धवा मम । गर्हितं यदि वाक्यार्थे वाक्यान्तरनिवेशनम् ॥ चित्त श्रेयस्करं मुश्च भज तृष्णां सदाशिवम् ॥ ३२ ॥ इदमेव भवेद्वाक्यसंकीर्णाभिधदूषणम् । अभवन्मतयोगं स्वादिष्टान्वयमतिर्न चेत् ॥ यैर्ध्यातस्त्वं ये स्तुवन्ति जनास्त्वामीश पासि तान् । अवर्ण नाम कथितं रसाननुगुणं वचः। ज्ञानध्वस्तसमस्तोऽहं ब्रह्म साक्षाकिये कदा ॥ ३३ ॥ इदमेवारीति नाम प्रतिकूलाक्षरं तथा । विरुद्धरसयोर्व्यक्तिर्यदामतपदार्थकम् ।
१७२ काव्यमाला। आरुह्योरुस्थली व्याघ्रीं चुम्बत्यस्य मुखाम्बुजम् । पतत्प्रकर्ष बन्धस्य पादे पादे प्रहीणता ।। विव(५)श्यक्षितिभृत्पक्षच्छेदी विजयते नृपः ॥ ३४ ॥ पद्य एव च दोषत्वं स्याच्छन्दोयतिभङ्गयोः । चतुर्विंशतिरन्ये च स्युर्दोषा वाक्यपद्ययोः॥ पद्यदोषौ विदुः केचिद्धतवृत्तविसंहिते । अपुष्टकष्टव्याघातपुनरुक्ताधिकोपमाः ॥ अपार्थदुष्क्रमग्राम्यसंदिग्धनियमच्युताः । साकाङ्क्षपुरुषाश्लीलव्यर्थभिन्नासमोपमाः॥ अनिरूप्यश्चातिमात्रो निर्हेतुरनवीकृतः । अप्रसिद्धपमो हीनोपमः सहचरच्युतः॥ विरुद्धश्चेति दुष्टार्थाश्चतुर्विंशतिरीरिताः । उत्कर्ष यो न पुष्णाति सोऽर्थोऽपुष्ट इतीष्यते ॥ उदयं भजते चन्द्रः पौर्णम्यां रजनीमुखे । कृच्छ्रेण गम्यते योऽर्थः स कष्ट इति कथ्यते । तर्को यस्त्वाह मद्वञ्च्यं तत्फलोक्ताववाक् स किम् ॥ ३५ ॥ व्याघातः पूर्वकथितविरुद्धार्थोपवर्णने ॥ त्वन्मुखेन्दुतुला कस्मादिन्दोरस्य कलकिनः । पुनरुक्तः प्रतीतार्थकथनं स्याद्विना फलम् । यथा स्कन्देन गिरिजा जयन्तेन यथा शची। तथा सुतेन सा रेजे तत्समेनेह तत्समा । ३६ ॥ इदमेव बुधा एकार्थाभिधं दूषणं विदुः॥ यत्रोपमानमधिकं कथितः सोऽधिकोपमः। बकः पर्वतशृङ्गाग्रे गरुत्मानिव राजते । न यत्र समुदायार्थः सोऽपार्थ इति कीर्तितः॥ रटन्ति करटाः क्रूरं सुन्दरी नृपकामिनी ॥ ३७ ॥ दुष्क्रमस्तु यथायोग्यक्रमहीनार्थ इष्यते ।
११ शेषबिन्दुः] मन्दारमरन्दचम्पूः। समुद्धरेदसाबद्रीन्पादपान्वा बलोद्धतः । अविदग्धैरुच्यमानस्त्वर्थों ग्राम्य इतीरितः॥ मयि संभोगसाकाङ्केऽप्यबले किमुपेक्षसे ॥ ३८ ॥ तात्पर्यग्राहकाभावात्संदिग्धोऽनवधारितः । अर्थः सेव्योऽथ वा कामो भवन्तः कथयन्तु मे । अवश्यवाच्यनियमरहितो नियमच्युतः। अद्य राजन्वती जाता त्वया नृप वसुंधरा ॥ ३९॥ पदार्थान्तरसापेक्षस्वर्थः साकास उच्यते । भीमो नामृष्यत तदा क्लिश्यमानां परैः प्रियाम् । अत्यन्तकर्कशार्थस्तु परुषो नाम कीर्तितः ॥ दावानलेन्धनं सद्यः क्रियन्तामर्भका इमे ॥ ४० ॥ अश्लीलः स्यात्स वाक्यार्थो ब्रीडाकार्यर्थसूचकः । प्रविशत्युत्थितो धृष्टो रन्ध्रमिच्छन्पुनः पुनः । प्रयोजनेन रहितो योऽर्थः स व्यर्थ इष्यते ॥ घटी कुचतटी कान्ता विटं किमिति नेहते ॥ ४१ ॥ संबन्धवर्जितो योऽर्थः स भिन्न इति कथ्यते । श्लाघ्यो रत्नाकरो यस्मात्क्षराणां पयसां निधिः । यत्रासदृक्षोपमानं सोऽर्थः स्यादसमोपमः॥ ललाटतटसंस्पृष्टमुक्ताजालकमण्डितः । वाजी फालस्फुरन्नेत्रो महादेव इवाबभौ ॥ ४२ ॥ अनिरूप्यो नामतः स्यादयुक्तस्यानुवादतः। हरते पथिक प्राणाञ्जगत्प्राणोऽतिपातकी । यः सर्वलोकातीतार्थः सोऽतिमात्र इतीरितः॥ सभापि ब्रह्मणो ममा चकोरीनयनाम्बुषु ॥ ४३ ॥ हेतुं विनोच्यते योऽर्थः स निर्हेतुरितीर्यते । वेश्येयं बहुदातारमपि तं न समीहते । विशेषापर्यवसितः : स्यादर्थस्वनवीकृतः॥
१७४
काव्यमाला।
किं विद्यया किं धनेन किमु स्त्रीभिः किमायुषा ॥ १४ ॥
यत्राप्रसिद्धोपमानमप्रसिद्धोपमश्च सः ।
वियुक्तकामिनीव दिवा नीलाब्जवहभौ ।
हीनं यत्रोपमानं स्यात्सोऽर्थों हीनोपमो मतः ।।
अलर्केणेव सारंगा भवता निहता द्विषः ॥ ४५ ॥
अतुल्येन सहोक्तार्थो भवेत्सहचरच्युतः।
ज्योत्स्नेवेन्दं मृषोद्येव धूर्त सा न जहौ पतिम् ।
विरुद्धो देशकालादिविरुद्धार्थः प्रकीर्तितः ।।
मरुस्थलेऽपि गङ्गा नः पिपासां शमयिष्यति ॥ ४६॥
केषांचिदथ दोषाणामप्यदोषलमुच्यते ।
समाप्तपुनराप्तत्वं सर्वेषां न हि संमतम् ॥
अप्रयुक्तत्वमधिकपदत्व[म]समर्थता ।
श्लेषचित्रोपयोगित्वाद्दोषवं न भजेत्कचित् ॥
निरर्थकत्वं शब्दालंकारे श्लेषे च न कचित् ।
संकीर्णार्थान्तरस्थैकपदत्वे चित्रयोर्न हि ॥
श्लेषे कचिच्च गूढार्थनेयार्थत्वेन दोषताम् ।
शास्त्रार्थे न यते गश्चारुत्वे नातिमात्रता ।।
चित्रे कचिन्न साकाङ्गक्रमभ्रष्टत्वकष्टताः ।
अपदस्थपदत्वं चाप्यपदस्थसमासता ॥
ध्वनी संदिग्धनियमच्युतत्वेन कचित्कचित् ।
अपुष्टार्थो न दोषाय प्रयोजनवशात्कचित् ।।
विभान्ति पुष्पस्तबकैलेताः कान्ता इव स्तनैः ।
हेतोरतिप्रसिद्धत्वे निर्हेतोः स्याददुष्टता ।
वदनं वीक्ष्य तन्वयाः सरःपद्मान्यलिजहौ।
नीरसादौ कचिद्दोषो न दोषो नाप्यसौ गुणः ॥
पर्जन्यस्तर्जयामास गर्जितैरूर्जितैर्जनान् ॥ ४७ ॥
११. शेषबिन्दुः] मन्दारमरन्दचम्पूः। वस्तुतस्तु कवीनां चेद्धृदयानन्दकारणम् । न दुष्ट स्यादन्यथा चेहुष्टतां भजति ध्रुवम् ।। इति काव्यदोषप्रकरणम् । ये रसस्याङ्गिनो धर्माः शौर्यादय इव स्थिताः । उत्कर्षहेतवस्ते स्यू रचनास्थितयो गुणाः ॥ ओजोमाधुर्यगाम्भीर्यप्रसादश्लेषविस्तराः । समता सौकुमार्य च सौशब्द्यं भाविकं गतिः॥ अर्थव्यक्तिरुदारत्वं सौक्ष्म्यं कान्तिरुदात्तता। प्रेयः प्रौढी रीतिरुक्तिः संमितत्वं तथैव च ।। समाध्यौर्जित्यसंक्षेपास्ते चतुर्विंशतिः स्मृताः। दीर्घदीर्घसमासत्वमोजाशब्देन गीयते ।। तुहिननगतनूजानाथनालीकखेल- द्रजनिकमनकन्यासारलीलाहसच्छ्रीः । प्रणयकुपितकान्ताकान्तनेत्रान्तपाते सति रतिपतिसूनोः पातु वः सस्मिता वै ॥ ४८ ॥ पृथक्पदत्वं माधुर्य गाम्भीर्य ध्वनिरुक्तता। शीघ्रार्थबोधकत्वं तु प्रसाद इति कथ्यते ॥ मिथः संश्लिष्टपदता श्लेष इत्युच्यते बुधैः । विस्तरस्त्वतिविस्तारादुक्तार्थस्य समर्थनम् ।। अवैषम्यं च समता सौकुमार्यमरूक्षता । सुप्तिव्युत्पत्तिसंवन्धः सौशब्द्यमिति कथ्यते ॥ यत्र भाववशाद्वाक्यवृत्तिस्तत्र तु भाविकम् । खरारोहावरोहाभ्यां रम्यत्वं गतिरिष्यते ।। अर्थव्यक्तिस्तु संपूर्णखरूपस्फुटता मता। विकटाक्षरवन्धत्वमुदारत्वमितीष्यते ॥ कान्तिरुज्वलता सौक्ष्म्यमन्तः सोवलरूपता।
१७६
काव्यमाला।
उदात्तता भवेद्यत्र योगः श्लाघ्यैर्विशेषणैः ॥
प्रेयः प्रियतराख्यानं चाटुक्तौ यद्विधीयते ।
अत्यन्तपक्रिमोक्तिस्तु पौटिरित्यभिधीयते ॥
यथोपक्रमनिर्वाहः सान्तं रीतिरितीर्यते ।
विदग्धभणनं यत्तु तदुक्तिरिति कथ्यते ॥
यावदर्थपदत्वं तु संमितत्वमुदाहृतम् ।
समाधिरन्यधर्माणां यदन्यत्राधिरोहणम् ॥
पदन्यासस्य गाढत्वमौर्जित्यमिति कीर्त्यते ।
संक्षेपतोऽर्थकथनं संक्षेप इति कथ्यते ॥
गाम्भीर्य विस्तरः सौक्ष्म्यमर्थव्यक्तिस्तथैव च ।।
प्रौढिरुक्तिः समाधिश्च प्रेयः संक्षेप इत्यपि ।
एवं नव गुणा आर्था अन्ये शब्दगुणा मताः ॥
दोषाभावस्यापि गुणत्वं येऽङ्गीकुर्वन्ति तेषां मत एवैतेषां गुणत्वम् ।
दोषाभावस्य गुणत्वानङ्गीकर्तृणां मतमितः परं ब्रूमः । तथा हि ।
ओजः प्रौढिरुदारत्वं माधुर्यं भावुकं गतिः।
संक्षेपश्चेति सप्तैते गुणाः स्यू रचनास्थिताः ॥
ग्राम्यत्वदोषाभावात्सा कान्ति व विभिद्यते ।
संमितत्वं त्वपूर्णत्वदोषाभावान्न भिद्यते ।।
उदात्तत्वं चानुचितार्थत्वाभावान भिद्यते ।
अर्थव्यक्तिस्तु साकाङ्क्षत्वाभावान्नातिरिच्यते ॥
सौशब्द्यं च्युतसंस्कारत्वाभावान पृथग्भवेत् ।
और्जित्यं तु विसंवन्धित्वाभावतो नातिरिच्यते ॥
पतत्प्रकर्षताभावात्समता न विभिद्यते ।
अश्लीलतार्थदोषस्याभावादुक्तिर्न मिद्यते ।
परुषस्यार्थदोषस्याभावात्प्रेयो न भिद्यते ।
भग्नप्रक्रमताभावाद्रीतिस्तु न पृथग्भवेत् ॥
समाधिरर्थरूपत्वात्काव्यरूपं गुणो न सः।
१७७
११. शेषबिन्दुः] मन्दारमरन्दचम्पूः।
प्रसादः पदसौकर्याद क्लिष्टवान्न भिद्यते ।
श्लेषः कटुविसंधिवाभावतो नातिरिच्यते ॥
चित्रार्थखात्सौक्ष्म्यगुणस्वर्थचित्रान्न भिद्यते ।
विस्तराख्यः काव्यलिङ्गालंकारान्नातिरिच्यते ॥
सौकुमार्य श्रुतिकटुखाभावान्नातिरिच्यते ।
गाम्भीर्य बर्थशक्त्युत्थध्वनितो नातिरिच्यते ॥
शृङ्गारे करुणे चापि माधुर्य स्याद्विशेषतः ।
उदारत्वौजसी प्रोक्ते वीरे बीभत्सरौद्रयोः ॥
ओजोगुणस्तु कथितः शृङ्गारेऽप्यद्भुते क्वचित् ।
अन्ये चतुर्गुणाः सर्वरसेष्वपि यथोचितम् ॥
वस्तुतस्तु मतेऽप्येषां गुणानां घटना स्थितेः।
समाधिसौक्ष्म्यगाम्भीर्यविस्तराः स्युर्गुणा ध्रुवम् ॥
इति गुणप्रकरणम् ।
अकारादिक्षकारान्ता वर्णा स्युः पदतां गताः ।
पदानि द्विविधानि स्युस्तिसुबन्तविभेदतः ॥
संचयं तिङ्सुबन्तानां वाक्यमाहुर्विपश्चितः।
शब्दस्तु त्रिविधः शक्तलक्षकव्यञ्जकात्मना ।
साक्षात्संकेतितं योऽर्थमभिधत्ते स वाचकः ।
भवेल्लाक्षणिकः शब्दो लक्षणायाः समाश्रयः ।
व्यञ्जकः स भवेच्छब्दो व्यञ्जनायाः समाश्रयः॥
तदर्थोऽपि त्रिधा शक्यलक्ष्यव्यङ्ग्यविभेदतः ॥
तुर्यस्तात्पर्यविषयो वाक्यार्थ इति तार्किकाः ।
अन्ये शक्यं तमप्याहुरपरे लक्ष्यमूचिरे ॥
वाच्यादयस्त्रयोऽप्यर्था मन्मते व्यञ्जका मताः ।
शब्दवृत्तिरिति प्रोक्ता शब्दव्यापाररूपिणी ॥
अभिधा लक्षणा चैव व्यञ्जना चेति सा त्रिधा ॥
१७८ काव्यमाला। यथाभिधा- व्यापारः शक्यधीहेतुर्मुख्यः शब्दगतोऽभिधा । रूढिर्योगो योगरूढिरिति सा त्रिविधा मता ॥ रूढिस्त्रखण्डशक्त्यैव स्यादेकार्थाभिधायिता । पदं रूढं बुधाः प्रोचुस्तागृढिसमाश्रितम् ॥ पीनौ वध्वाः कुचावेतो मुक्ताहारेण राजतः। योगोऽवयवशक्त्यैव स्यादेकार्थाभिधायिता । यौगिकं कथ्यते प्राज्ञैर्योगेन सहितं पदम् ।। रागिन् कान्तापदाघातः कामिनस्तेऽद्य सांप्रतम् ।। ४९ ॥ योगरूढिस्तु शक्तिभ्यामेकार्थप्रतिपादकः । अवते योगरूढं तद्योगरूढियुतं पदम् ॥ मृगाक्षी पद्मनाभस्य मन्दिरे वसतान्मम । वैशेषिकास्तु बुवते पदं यौगिकरूढिकम् । रूढ्या चैकार्थकं योगेनान्यार्थ चोद्भिदादि तत् ।। अथ लक्षणा- - तात्पर्यविषयीभूतार्थान्वयानुपपत्तितः । शक्यभिन्नार्थधीहेतुापारो लक्षणेष्यते ॥ द्विविधा सा रूढिपूर्वा फलपूर्वेति भेदतः। तत्राद्या व्यङ्ग्यरहिता सव्यङ्ग्या फललक्षणा ॥ स्याद्रूढिलक्षणा द्वेधा गौणी शुद्धेति भेदतः । शक्यसादृश्यसंबन्धरूपा गौणीत्युदीरिता ॥ लावण्यनिधिरेवैषां प्रवीणा युवरञ्जने ॥ ५० ॥ सा शुद्धा सादृश्यभिन्नशक्यसंवन्धरूपिणी। पुष्पं धनुया द्विरेफा सरस्तदपि दिग्जयी । जहती चाप्यजहती जहत्पूर्वा जहत्यपि ॥ सारोपा साध्यवसितिरित्यन्या पञ्चधा मता। सा जहल्लक्षणा यत्र स्वार्थ हिलान्यवृत्तितः ॥
१०९ ११. शेषबिन्दुः] मन्दारमरन्दचम्पूः। साक्षी मुकुन्दकेलीनां यमुनायामयं व्रजः ॥ ५१ ॥ खसिद्धये पराक्षेपे त्वजहल्लक्षणा मता। वीक्ष्यानुद्रवतः कुन्तान्द्रवन्तिच्छत्रिणो रणात् ।। खाथैकदेशवृत्ती तु जहत्यजहती मता। पुष्पितं वनमालोक्य सोऽयं पान्थः स्मराहतः ॥ ५२ ॥ सारोपोपात्तविषयिविषयामेदबोधिनी। सारोपा द्विविधा सा तु गौणी शुद्धति भेदतः ॥ सादृश्यात्मकसंबन्धरूपा गौणीति कीर्तिता। अन्या तदन्यसंबन्धरूपा शुद्धति कीर्त्यते ॥ मुखेन्दुनयनानन्दस्तन्व्या विजयतेतराम् । निगीर्य विषयं यत्र विषय्येव निबध्यते । तत्र साध्यवसाना स्यात्कविप्रौढोक्तिसंमता ॥ सरोजकाहलीरम्भासैकताकाशभूधरैः ॥ ५३ ॥ शङ्खन्दुतिमिरैः : सृष्टा वल्ली कामिजनोत्सवः । संगिरन्ते द्विरेफादौ केचिल्लक्षितलक्षणाम् ॥ ५४ ।। अत्र व्यङ्गय कचिद्गुढमगूढं च कचिद्भवेत् । फले लाक्षणिकस्यास्य व्यापारो व्यञ्जनेष्यते ॥ अथ व्यञ्जना- - यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते । फले शब्दैकगम्येव व्यञ्जनानापरा क्रिया ॥ नाभिधा समयाभावाद्धेखभावान्न लक्षणा । प्रयोजना(न)विशिष्टस्य लक्षणा तु न युज्यते ॥ लक्ष्याभिधेयाद (भ्याम) न्यद्यतो वाच्यं प्रयोजनम् । तसाल्लक्ष्ये प्रतीते तु पावनवादिबोधने । अभिधालक्षणाभिन्ना व्यञ्जनैवात्र कारणम् । वाच्यलक्ष्यविभिन्नार्थधीकळ्यापूतिरञ्जनम् ।। सामोदसुमनोजातजुष्टो जयति माधवः ।
१८० काव्यमाला। अत्रार्थप्रत्ययद्वारेणोपमायाश्च या मतिः । अभिधालक्षणाभिन्ना व्यञ्जनैवात्र कारणम् ।। अनेकार्थस्य शब्दस्य वाचकत्वे नियत्रिते । संयोगायैर्विवक्ष्यार्थधीकृयातिरञ्जनम् ।। संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य संनिधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः खरादयः । शब्दार्थानेकतायां चेद्विशेषस्मृतिहेतवः ॥ संयोगस्तु स्ववाच्यैकनिष्ठार्थान्तरसंनिधिः। पुवयत्यधिकां लक्ष्मी शङ्खचक्रधरो हरिः ॥ ५५ ॥ विप्रयोगस्तु संयोगाभाव एव निगद्यते ।। अशङ्खचक्रः स हरिरपिनाको भवो भवान् । साहचर्य स्ववाच्यैकवस्तुनः सहचारिता । वन्दारुजनमन्दारौ रामकृष्णौ नमाम्यहम् ॥ ५६ ॥ सहानवस्थितिर्वध्यहन्तत्वं च विरोधिता ॥ दिनं निशां च संयुध्य रामोऽजैषीदशाननम् । अर्थः प्रयोजनं स्थाणुं संसारच्छित्तये भजे ॥ विदुः प्रकरणं वक्तृश्रोतबुद्धिस्थितं बुधाः । जानाति सकलं देवः प्रश्नोऽयं वितथोऽधुना ॥ लिङ्गं स्ववाच्यान्तरेभ्यो व्यावृत्तो धर्म इष्यते । जय्यो जगति केनैष कुपितो मकरध्वजः ।। सामानाधिकरण्यं यनियतार्थपदे हि तत् । शब्दान्तरस्य सांनिध्यं देवोऽव्यात्रिपुराहितः ।। सामर्थ्य स्यात्कारणत्वं मत्तोऽयं मधुना पिकः । औचित्यन्वययोग्यत्वं गच्छत्यारुह्य सैन्धवम् ॥ देशः पुरादी राजात्र नगरे राजते मुहुः । कालो निशादिस्तामस्यां चित्रभानुर्विराजते ।।
१८१
११. शेषबिन्दुः] मन्दारमरन्दचम्पूः।
पुंलिङ्गादिर्भवेद्यक्तिमित्रो भात्युदयं गतः ।
उदात्तादिः स्वरादिः स्यादिन्द्रशत्रो इति श्रुतौ ।।
यतोऽर्थधियमुत्पाद्य शब्दोर्थान्तरबुद्धिकृत् ।
ततोऽर्थो व्यञ्जकः शब्दसहकारितया मतः ।।
वाच्यलक्ष्यव्यङ्गभेदादा ये त्रिविधा मताः ।
तेषामपि व्यञ्जकत्वमधुना प्रतिपाद्यते ॥
वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसंनिधेः।
प्रस्तावदेशकालादेवैशिष्टयात्प्रतिभाजुषाम् ।।
योऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यञ्जनैव सा ।
अस्तंगतोऽद्य सविता पथिक क प्रयास्यसि ॥
इत्यादौ वक्तृवैशिष्यज्ञानाद्रत्यभिलाषधीः ।
प्रातश्चेन्नाथ को दोषः श्रान्तोऽसि खपिहि क्षणम् ॥
अत्र बोद्धव्यवैशिष्ट्याद्वक्तकोपः प्रतीयते।
सखि श्रुत्वापि मामेवं नानुतापमुपैति सः ॥
इत्यादौ काकुवैशिष्टयज्ञानाधावार्थनिश्चयः ।
खप्नेऽपि नास्मरः प्राङ् मां भाग्येनाद्यागतोऽसि मे ॥
इत्यादौ वाक्यवैशिष्ट्यज्ञानाद्यङ्गयार्थनिश्चयः ।
शून्या प्रपेयमेकाकिन्यस्मि पान्थास्यतां क्षणम् ।
इत्यादौ वाच्यवैशिष्ट्यज्ञानाव्यङ्गयार्थनिश्चयः ।
एकाकिन्येव यास्यामि जलार्थ कथमापगाम् ॥
इत्यादिषु व्यङ्ग्यबुद्धिवैशिष्ट्यादन्यसंनिधेः ।
वयस्ये प्रतिवेशिन्याः पतिरद्य समागतः ॥
अत्र प्रस्ताववैशिष्ट्यज्ञानाध्याथार्थनिश्चयः ।
सख्यो दूरं गता गन्तुमक्षमाहमिह स्थिता ।।
इत्यादौ देशवैशिष्ट्यज्ञानाध्यङ्गयार्थधीर्मता ।
गृहकृत्यव्यापृताया विश्रामोऽधैव मे सखि ।।
इत्यादौ कालवैशिष्ट्यज्ञानाप्यनयार्थनिश्चयः ।
मन्दा० १६
१८२
काव्यमाला।
फलानि दिश भव्यानि निवेश्य मणिबन्धने ॥
बिम्बस्य चुम्बनेनैव सखि लालय मा शुकम् ।
इत्यादिषु च लक्ष्यस्य व्यञ्जकत्वं प्रकीर्तितम् ।।
गच्छ गच्छसि चेत्कान्त वरस्तत्रैव मे भव ।
इत्यादौ व्यञ्जकत्वं च व्यायार्थस्य भवेद्भुवम् ।।
शब्दप्रमाणवेद्योऽर्थो व्यनक्त्यर्थान्तरं यतः।
अर्थस्य व्यञ्जकत्वे तच्छब्दस्य सहकारिता ॥
इति शब्दार्थप्रकरणम् ।
सा शय्या कीर्तिता मैत्री या पदानां परस्परम् ।
दाता जेता रणे त्राता मीतानां भाति भूपतिः॥
इति शय्या।
अर्थगम्भीरिमा पाकः स द्वेधा कविसंमतः ।
द्राक्षापाको नारिकेलपाकश्च प्रस्फुटान्तरौ ।
द्राक्षापाकः स कथितो बहिरन्तःस्फुरद्रसः ।
अपाङ्गान्प्रेमवाराशितरङ्गान्किरति प्रिया ।
स नारिकेलपाकः स्यादन्तगूंढरसोदयः॥
प्राचीनम्-
गाम्भीर्यातिशयेन यस्य जगतां नेत्राणि मानं गता
पत्रं यस्य नवीनतां भजति यत्पमेयमासीज्जगत् ।
राजत्केसरितं समुद्रममलं यद्वत्समव्यजगुः
शेते यो हि विभावरीशरुचिरः कुर्याच्छमभ्रं शिवः ॥
मधुक्षीरादिपाकान्यप्येवमूह्यानि सूरिभिः॥
इति पाकप्रकरणम् ।
पात्रे नृणामनीचानां संस्कृतं परिकीर्तितम् ।
लिङ्गिनीमत्रिजावेश्यादेवीनां च कचित्कचित् ।।
स्त्रीणां प्रायः शूरसेनी प्राकृतं मागधी तथा ।
तथैव नीचपात्राणां तचद्देशीयभाषणम् ।।
१८३
११. शेषबिन्दुः] मन्दारमरन्दचम्पूः।
यथोचितं राक्षसानां पैशाची परिकीर्तिता।
अवरैर्लिङ्गिदेवर्षि विप्रामात्याग्रजाः सुधीः॥
भगवच्छब्दवाच्याः स्युः मूत्रिणार्येति सा नटी।
तेनानुगो मारिषश्च पारिपार्श्वक इत्यपि ॥
नव्या सूत्री बार्यपुत्रस्तथार्यश्चेति कीर्यते ।
अनुगेन स भावः स्यात्पूज्यैः शिष्यात्मजानुजाः ॥
वत्साः सूतेन चायुष्मारथी शिष्यात्मजानुजैः ।
पूज्यस्तु सुगृहीतश्च तातश्चेत्यपि कीर्त्यते ॥
नृपेण गणिका नाम्नानुचरै रज्जुकेति सा।
सर्वैस्तु युवराजोऽपि कुमारो भर्तदारकः ॥
भृत्यैर्भट्टारको देवो नृपो विप्रैस्तु नामतः ।
विदूषकेण राजेति वयस्य इति वा नृपः॥
ऋषिभिः स च राजा स्यादधमैर्भट्ट इत्यपि ।
नृपेण महिषी देवी तदन्या चैव भोगिनी ।।
अपरैर्भट्टिनी सैव नीचैर्गोस्वामिनीति सा ।
अब्रह्मण्यमवध्योक्तौ माता त्वम्बेति कीर्त्यते ॥
भगिनीपतिरावुत्तो राजशालस्तु राष्ट्रियः ।
ज्येष्ठा तु भगिनी चात्ताप्यन्तिका चात्तिकेति वा।
नीचासंबोधने हण्डे चेटी हने सखीं हला ॥
इति रूपकभाषानिबन्धनप्रकरणम् ।
व्यभिचारिरसस्थायिभावानां शब्दवाच्यता ।
कष्टकल्पनया व्यक्तिरनुभाव विभावयोः॥
प्रतिकूलविभावस्य ग्रहो दीप्तिः पुनः पुनः ।
अकाण्डप्रथनं चैव रसच्छेदोऽङ्गविस्तृतिः।
तथाजयननुसंधानं प्रकृतीनां विपर्ययः ।
तथानगाभिधानं च रसदोषास्त्रयोदश ॥
दृष्टे प्रियेऽस्या लज्जाभूद्रसतां च ययौ रतिः ।
१८१
काव्यमाला।
व्यभिचारी रसः स्थायी त्रयो वाच्याः क्रमादिह ।।
लीलावनेऽस्य तन्वङ्गी याता नयनगोचरम् ।
इत्यादावनुभावस्य व्यक्तिः स्यात्कृष्टकल्पिता ॥
उत्कम्पतेतरामेषा मीलयत्यपि लोचने ।
भयानकसमत्वात्स्याद्विभावस्येह कष्टता ॥
व्याघ्रो व्याचमुखो वर्त्मन्यास्ते मुग्धे क यास्यसि ।
इत्यादौ प्रतिकूलस्य विभावस्य भवेद्हः ।
ज्ञेयः पुनः पुनदीप्ती रतिप्रलपितादिषु ।
शृङ्गारवर्णने भानुमत्या दुर्योधनस्य च ॥
अकाण्डप्रथनं ज्ञेयं वेणीसंहारनाटके ।
भार्गवेण समं काष्ठां परां वीररसे गते ।
कङ्कणोन्मोचनायाहं गच्छामीत्युदिते गुरोः ।
रसच्छेदो महावीरचरितेऽकाण्ड इष्यते ।।
अप्रधानस्य बहुधा हयग्रीवस्य वर्णने ।
हयग्रीववधे काव्ये विज्ञेयाङ्गस्य विस्तृतिः ।।
रसान्तरेणान्तरितो नैरन्तर्येण यो रसः।
तत्रायननुसंधानं विद्वद्भिः परिकीत्यते ॥
यथा जीमूतवाहस्य शान्तस्याद्भुतमन्तरे ।
निवेश्य शृङ्गाररसो नागानन्दे प्रकाशितः ।।
अदिव्यादिषु दिव्यादिगुणानां परिकीर्तने ।
विद्वद्भिस्तत्र विज्ञातः प्रकृतीनां विपर्ययः॥
प्रशंसनं कृतं राज्ञा बन्दिना वर्णितस्य यत् ।
तदनगाभिधानं स्यात्सहके प्रथमाङ्कके ॥
न दोषः स्वपदेनोक्तावपि संचारिणां कचित् ।
श्रुतप्रियागतिर्बाला तथाजनि समुत्सुका ॥
आश्रयैक्ये विरुद्धो यः स कार्यो भिन्नसंश्रयः ।
धनुर्धरं त्वामालोक्य पलायन्ते रणात्परे ॥
११. शेषविन्दुः] मन्दारमरन्दचम्पूः।
सर्यमाणो विरुद्धोऽपि रसो नैव विदुष्यति ।
सीतां स्मृत्वा सखीमग्रे वीक्ष्य रक्षोवरूथिनीम् ।
शरीररुधिरासिक्तं रामो जग्राह कार्मुकम् ॥
विवक्षितो यः साम्येन विरुद्धः सोऽप्यदोषभाक् ॥
नखैः प्रियाणामसिभिर्वीराणां च विदारणम् ।
शोभामङ्गेषु पुष्णाति सखि सातिशयां मुहुः ॥
रसावन्याङ्गतां प्राप्तौ विरुद्धौ च न दुष्यतः ।
आलिप्तवपुषो वीरा लोहितैहरिचन्दनैः ।
अलंकृता इवाभान्ति विवोढुं विजयश्रियम् ।।
भावोदयः स्यादुत्पत्तौ व्यङ्गयेन व्यभिचारिणः ॥
किमिदं कुचयोरालीत्युक्त्वा मुग्धा नतानना ॥
भावसंधिस्तु भावानां तुल्यानां व्यङ्ग्यता यदि ।
सीताकपोलमुकुरे पश्यन्नुत्पुलकं मुखम् ।
रक्षःकलकलं शृण्वनटां बध्नाति राघवः ।।
पूर्वपूर्वोपमर्दे तु तेषां शबलता मता ॥
फलं किं बन्धुसंक्षोभात्कातयं किं वदे जनः ।
का हानिः किंवदन्या मे द्रष्टव्या द्रौपदी कथम् ॥
मुख्ये रसेऽपि तेऽङ्गित्वं प्राप्नुवन्ति कदाचन ।
यथा च राजानुगता भृत्याः परिणयोन्मुखाः॥
अनेकेषां रसानां चेद्देशकालादिभेदतः ।
मेलनेऽङ्गतया तत्र रससंकर इप्यते ॥
(प्राचीनम्-)
भमं कामरिपोर्धनुः परिहृतं राज्यं स्थितं काननं
निर्मिन्नस्त्रिशिराः खरस्य पिशितं स्पृष्टं कपिलालितः ।
लकेशो दयितश्चिराय रुदितं लकावधूनां श्रुतं
नीता सद्म विदेहभूस्तदखिलं रामस्य लोकोत्तरम् ॥
१८६ काव्यमाला। कथानुग्रहयोगाच विवक्षावशतः कवेः। अन्योन्यजन्यजनका रसा भावा भवन्त्यमी ।। (प्राचीनम्-) युधि कुपितकृतान्तस्फूर्तिमानाविलाक्षो दशदिशि दशकण्ठस्त्यक्तवान्वारिदास्त्रम् । तडिति जनकपुत्र्याः साम्यमालोकमान- स्त्यजति न पवनास्त्रं राघवः खिन्नपाणिः ॥ अलंकारे च रुचिरे चित्तविश्रामकारिणि । अलंकारस्य मुख्यत्वं गौणत्वं रसभावयोः ।। अत्यन्तसुकुमारौ तु शृङ्गारकरुणौ मतौ । हास्याद्भुतावुभौ किंचित्सुकुमारौ प्रकीर्तितौ ॥ अत्युद्धतरसौ रौद्रवीभत्सौ परिकीर्तितौ । ईषत्प्रौढौ समाख्यातौ रसौ वीरभयानको ॥ इति रसदोषादोषप्रकरणम् । काव्यं हि यशसेऽर्थाय शिवेतरनिवृत्तये । कान्तावदुपदेशाय परनिर्वृतये क्षणात् ।। सालंकारगुणौ काव्यं शब्दार्थों दोषवर्जितौ । तथा कवीनां सभयानुरोधेन निवन्धितम् ।। ईदृशं द्विविधं काव्यं श्राव्यदृश्यविभेदतः। श्राव्यं तु त्रिविधं ज्ञेयं गद्यपद्योभयात्मना । अपादः पदसंघातो गद्यं पद्यं चतुष्पदम् । गद्यपद्यात्मकं काव्यं चम्पूरित्यभिधीयते ।। दृश्यं तु दशधा प्रोक्तं नाटकादिविभेदतः । सर्वध्वनिर्गुणीभूतव्यङ्ग्यं चित्रमिति त्रिधा । वाच्यातिशायि व्यङ्ग्यं यत्काव्यं ध्वनिरितीर्यते । काव्यं तु कथितं व्यजये वाच्यादनतिशायिनि ।
११. शेषबिन्दुः]
मन्दारमरन्दचम्पूः।
गुणीभूतव्यङ्ग्यमिति स्याद्ययस्याप्रधानतः ।
अव्यङ्ग्यमपि यच्चारु तत्काव्यं चित्रमिष्यते ॥
शब्दचित्रं चार्थचित्रमुभयं चेति तत्रिधा।
सोदाहृदय एतेषां भेदाः पूर्व प्रकाशिताः ॥
शरीरं तस्य शब्दार्थों जीवितं व्यङ्ग्यवैभवम् ।
हारादिवदलंकारास्तेऽनुप्रासोपमादयः ॥
शौर्यादय इव प्रोक्ताः श्लेषकान्त्यादयो गुणाः ।
आत्मोत्कर्षावहास्तत्र स्वभावा इव रीतयः ॥
शोभामाहार्यकी प्राप्ता वृत्तयो वृत्तयो यथा ।
पदानुगुण्यविश्रान्तिः शय्या शय्येव संमता ।।
रसावादप्रभेदाः स्युः पाकाः पाका इव स्थिताः।
प्रख्याता लोकवदियं सामग्री काव्यसंपदः॥
लक्ष्यलक्षणसंयुक्ता इमे पूर्व प्रकीर्तिताः।
महाकाव्यं चोपकाव्यमिति तद्विविधं पुनः ॥
नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनैः ।
उद्यानसलिलक्रीडामधुपानरतोत्सवैः ॥
विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः।
मत्रद्यूतप्रयाणादिनायकाभ्युदयैरपि ।
एतैरुपनिबद्धं यत्तन्महाकाव्यमिष्यते ।
एषामष्टादशानां यैः कैश्चिन्यूनमपीप्यते ।
सर्गबन्धो महाकाव्यमिति केचित्प्रचक्षते ।
असर्गबन्धमपि च महाकाव्यमितीष्यते ॥
गीततालानुबद्धं यदुपकाव्यमितीर्यते ।
उपकाव्यं तु बहुधा वक्ष्ये तानि च कानिचित् ॥
आख्यायिका-)
कविचारित्रसहितं नरपालकथान्वितम् ।
विचित्रवर्णरचनासमासैस्तु मनोहरम् ॥
१८८
काव्यमाला।
उच्छासान्ते वक्रयुतं रचितापरवक्रकम् ।
उच्छासादौ सपर्याङ्गमिदमाख्यायिकाभिधम् ॥
(कथा-
श्लोकैः खवंशं संक्षेपात्कवियत्र प्रशंसति ।
मुख्यार्थस्यावताराय भवेत्तत्र कथान्तरम् ।।
परिच्छेदो न यत्र स्याद्भवेत्त्वालम्भकः क्वचित् ।
सा कथा नाम तद्गर्भे निबन्नीयाच्चतुष्पदीम् ।।
(उदाहरणम्-)
येन केनापि तालेन गद्यपद्यसमन्वितम् ।
जयेत्युपक्रमं मालिन्यादिप्रासविचित्रितम् ।
तदुदाहरणं नाम्ना विभक्त्यष्टाङ्गसंयुतम् ॥
(चक्रवालकम्-)
संबोधनविभक्त्या यत्प्रचुरं पद्यपूर्वकम् ।
विमुक्तपुनराकृष्टशब्दं स्याचक्रवालकम् ।।
(भोगावली-)
आद्यन्तपद्यसंयुक्ता संस्कृतप्राकृतात्मिका ।
अष्टभिर्वा चतुर्भिर्वा वाक्यैः स्कन्धसमन्विता ।।
प्रतिस्कन्धं भिन्नवाक्यरीतिर्देवनृपोचिता ।
सर्वतो देवशब्दादिरेष भोगावली मता ॥
(बिरुदावली)
वर्ण्यमानाङ्कबिरुदवर्णनप्रचुरोज्वला ।
वाक्याडम्बरसंयुक्ता कथिता बिरुदावली ।।
(तारावली-)
ताराणां संख्यया पधैर्युक्ता तारावली मता ।
(विश्वावली-)
विश्वेषां संख्यया पधैर्युक्ता विश्वावली मता ।
:
११. शेषबिन्दुः]
मन्दारमरन्दचम्पूः।
१८९
(रत्नावली-)
रत्नानां संख्यया पधैर्युक्ता रत्नावली मता।
(पश्चाननावली-
पद्यैश्च पञ्चभियुक्ता प्रोक्ता पञ्चाननावली ।
आख्यायिकायां शृङ्गारेऽप्युद्धृता रचना मता ॥
कथायां नाटकादौ च न रौद्रेऽप्यधिकोद्धता ।।
अन्येषु च प्रभेदेषु रचना स्याद्यथोचितम् ।।
इति काव्यप्रकरणम् ।
अथात्र वर्ध्यावानि प्रबन्धेषु ब्रुवे स्फुटम् ।
वयों मुख्यतया नेता लोकोत्तरगुणोत्तरः ॥
तेन कर्तुः प्रबन्धस्य प्रतिष्ठा महती भवेत् ।
कुलाचारयशःशौर्यत्यागशीलादिवर्णनम् ॥
क्रियते नायकस्यैव यत्तदेवातिसंमतम् ।
अथ वा तद्विरुद्धस्य वर्णयित्वा बहून्गुणान् ।।
तज्जयान्नायकोत्कर्षवर्णनं च मतं कचित् ।
घटते नेतरि द्वेधा खतःसिद्धेनं कल्पिते ॥
नृपे कीर्तिप्रजारागप्रतापाज्ञानयक्षमाः ।
विवेकारिपुरीदाधर्मसंग्रामपूर्वकाः ।।
कुमारे खुरलीशस्त्रबलशास्त्रकलादयः ।
महिष्यां रूपलावण्यत्रपाशृङ्गारमन्मथाः॥
चातुर्यप्रेमदाक्षिण्यशीलमानमुखादयः ।
मन्त्री भक्तः खदेशीयोऽनुद्धतो बुद्धिमान्क्षमी ॥
सेनाधिपः स्वामिभक्तो धैर्यवान्विजयी रणे ।
पुर्या प्रसादपरिखातोरणाध्वप्रपाध्वजाः ॥
वाट्टारामकुलटावेश्यावापीसतीमुखाः ।
देशे द्रव्यजनाधिक्यनदीमातृकतादयः ।
१९०
काव्यमाला।
ग्रामे धान्यसरःक्षेत्रारघट्टाः पादपादयः ।
अब्धौ यादोगजद्वीपरत्नोHद्रीन्दुवृद्धयः॥
विप्लुट्पोतौर्वगाम्भीर्यध्वनिनद्यागमादयः ।
उद्याने फलपुष्पद्रुलताक्रीडासरोऽद्रयः ।।
पिकालिकेकिहरिणहंसचक्रध्वजादयः ।
कासारे लहरीकजचक्रहंसमधुव्रताः ॥
तीरारामवधूकेलीभ्रमिपान्थझपादयः ।
पर्वतेऽनौषधीशृङ्गवनकिंनरनिराः।।
धातुवंशगुहारत्नाधित्यकोऽपत्यकादयः ।
वने सर्पवराहेभोलूकभिल्लदवादयः ।।
मन्त्रे स्थैर्योपायसिद्धिषाङ्गुण्योदयचिन्तनम् ।
पञ्चाङ्गशक्तिखोन्नत्यनिर्जनस्थानपूर्वकाः ॥
दूते दाक्षिण्यभीरुत्वं शत्रुक्षोभकरी क्रिया ।
खस्वामिविक्रमौन्नत्यवाक्यधादियो मताः ।
रणे खगरजस्तूर्यशरवृष्टिपलाद्रयः ।।
छिन्नच्छत्रध्वजा रक्तनदीकोलाहलादयः ।
अश्वे वेगित्वसज्जातिखुरोत्खातरजोमुखाः
मृगयायां नीलवेषो वागुरामृगसाध्वसम् ।
भषकत्वर्यसंचारो भट्टहिक्कात्वरादयः ।।
विरहे जागरश्वासनिशादैर्यकृशाङ्गताः ।
संतापचिन्तामालिन्य मौनरक्ताक्षतादयः ॥
सुरते खेदकणिका सीत्कारो भूषणच्युतिः ।
मञ्जीरकणारावनखदन्तक्षतादयः ॥
यात्रायां दुन्दुभिध्वानकरभध्वजवेसराः ।
शकटोक्षच्छत्रधूलिपृथ्वीकम्पबलादयः ॥
गजे तु कर्णचापल्यमुच्चत्वं व्यूहभेदिता ।
सिन्दूरचित्रयोधित्वकुम्भमुक्ताफलादयः ॥
१९१
११. शेषबिन्दुः] मन्दारमरन्दचम्पूः।
सुरापाने गतिवचःस्खलनं नयनभ्रमः ।
लज्जामानच्युतिश्चित्तभ्रमरक्ताक्षतादयः॥
सूर्योदयेऽम्भोजचक्रनेत्रपान्थविकासनम् ।
रागो भेन्दुतमोघूककुवचोरविषादनम् ।।
चन्द्रोदये तु विरहिचक्राजकुलटार्तयः ।
अब्धिदम्पतिचन्द्राश्मचकोरपीतिपूर्वकाः ।।
वसन्ते पिकगानाम्रमञ्जरीमन्दमारुताः।
पुष्पाणि द्रुदलोद्भेदपलाशभ्रमरादयः ।।
ग्रीष्मे पाटलमल्लीतापसरःपथिक शेषाम्रफलपाकाः ।
मृगतृष्णाल्पसमीरः कान्ता पानीयशालिका मुख्याः ॥
वर्षासु मेघहलिकेतकनिम्नगानां
झझानिलस्य शिखिजातिकदम्बकानाम् ।
प्रीतिश्च हंसगमनं नलिनीलतानां
पत्रोद्भवोऽर्कलतिकादलपातनाद्याः ॥
शरदि सूर्यसुधाकरपाटवं विमलताम्भसि हंसवृषस्मयाः।
कमलशारदसैकतविस्तृतिः सुशिखिपक्षमदापगमादयः ।।
हेमन्ते रजनीदैर्ध्य नलिनीकुसुमक्षतिः ।
दिनाल्पत्वं हिमप्रौढिबकानन्दयवोद्भवाः ॥
शिशिरे वेणुकुन्दाजदाहः शिखिरतोत्सवाः ।
खयंवरे सतीपूजावाद्यघोषनृपागमाः ॥
राजपुच्या नृपाकारान्वयचेष्टाप्रकाशनम् ।
विवाहे मङ्गलस्नानं भूषणं कामिनीरवः ।
वेदी संगीततारेक्षालाजाहोमद्विजादयः ॥
वनकेलौ च कुसुमावचयः कुसुमार्पणम् ।
दयिते गोत्रविभ्रान्तिसपर्योक्तिपूर्वकाः ।।
जलकेलौ जलक्षोभश्चक्रहंसापसर्पणम् ।
पद्मग्लानिपयोबिन्दुदृग्रागाभूषणच्युतिः ॥
१९२
काव्यमाला।
श्वेतास्त्वैरावतः शंभुः कीर्तिश्चन्द्रः शरद्धनः ।
प्रासादसौधनगरमन्दारदुहिमाद्रयः ॥
सूर्येन्दुकान्तकर्पूरसुधांशुकरका हिमम् ।
पिण्डीरोच्चैःश्रवो ज्योत्स्नाश्रुरम्भाभस्मचन्दनम् ॥
निर्मोकहारोर्णनाभतत्त्वसत्त्वास्थिशर्कराः।
शेषाभ्रकसुधागङ्गागजदन्ताम्बुचामरम् ।।
रम्भागर्भः पुण्डरीकमृणालसिकताबकाः ।
हंससिंहध्वजच्छत्रकेतकीगर्भनिर्झराः ।।
लोध्रमुक्तापुष्पतारचूर्णशुक्तिकदापिकाः ।
कैलासकाशकासहासहास्योशनःकृतम् ॥
नारदः पारदः पुण्यवसनस्फटिकादयः ।
श्यामास्त्वद्रिद्रुकालीयवनभैरवराक्षसाः ॥
शिवकण्ठः शनि शीरी कलिचन्द्रकराहवः ।
बादरायणवस्त्राभ्रद्रौपदीकज्जलार्जुनाः ॥
कालीकोलयमाः केशकस्तूरीयमुनागजाः ।
विषाकाशकुहूपापरसबिष्णुतमोनिशाः ॥
मषीपङ्कमदाम्भोधितालतापिच्छकोकिलाः ।
गोलाङ्गलास्यगुञ्जास्यधूमशृङ्गारवल्लयः॥
केकितेजनबर्हालिखलचित्तकनीनिकाः ।
तिलेन्दीवरदुष्कीर्तिमुस्तानीलीभयानकाः॥
भिल्लश्छाया मृगीनेत्रं शस्त्रं कान्ताहगादयः ।
नीलाः स्युः शादशैवालदूर्वावंशाङ्कुराः शुकः ।
बीभत्ससूर्यतुरगाः पणे मरकतादयः ।।
रक्ताः स्युः सूर्यगोकर्णगुन्द्रखद्योतयावकाः
ताम्रकु कुमसिन्दूरदृग्बिम्बाधरधातवः ।।
विद्युत्पद्मकजिह्वासृनपापललकिंशुकाः ।
अम्भोजकुक्कुटशिखाहिगुलाशोकपाटलाः ।।
:
१९३
:
११. शेषबिन्दुः] मन्दारमन्दचम्पूः।
कुसुम्भो हंसचवत्रीनिम्बकिपाकपल्लवौ ।
त्रेता नखक्षतं रौद्रः शुकमर्कटयोर्मुखम् ॥
प्रपातश्च चकोराहिमुक्कपोतहगादयः ।
पीताः स्युर्दापरब्रह्मजीवशक्रमनःशिलाः॥
गौरीगोमूत्रगरुडमण्डूकेश्वरदृग्जटाः ।
मधु वीराद्भूतौ कोको मर्कटः शारिकामुखम् ।।
कर्णिकारः शालिदीपरोचनाजांशुकादयः (1)।
धूसराः करुणो धूलिलूताकाकखरादयः ॥
संपूर्णवृत्तास्तिलकचक्रपद्मेन्दुदर्पणाः ।
मृदङ्गपुटशाणास्यारघट्टधुटिकादयः ।।
अल्पवृत्तास्तारलता गृहपूपककच्छपाः ।
आलवासमहीकंसनखचर्मादयो मताः ॥
त्रिकोणा वज्रशृङ्गाटशकटा वहिमण्डलम् ।
वक्राः किंशुकभालभ्रूविद्युत्कुद्दालचन्द्रकाः ।।
नखाङ्कांशुकबालेन्दुशुकास्येन्द्रधनुःफणाः ।
कटाक्षदाभदन्तपुरोहितकरादयः॥
तीक्ष्णानि दुर्वचोवहिकटाक्षनखरादयः ।
गुरवः सन्मनःश्रोणिकपाटस्तनबुद्धयः ।।
सुखदाः सुस्पृहा लब्धिर्वियुक्तप्रियसंगमः ।
दातृस्वातन्त्र्यपुत्राप्तिविद्यामित्रेन्दुबुद्धयः ।।
दुःखदाः पारतन्न्याधिव्याधिमानच्युतिद्विषः ।
कुभार्या श्लेषकुग्रामवासकुखामिसेवनम् ॥
कन्याबहुत्वं वार्धि(ध)क्यं निवासः परवेश्मनि ।
स्थिराः स्युरिधीराजौ धर्माधर्मों सतां मनः ।।
अस्थिराः कामिनीराजप्रसादखमदुर्जनम् ।
मन्दगाश्च शनिज्ञानिकान्तामातङ्गमाहिषाः ।।
मन्दा० १७
काव्यमाला ।
-
क्रूरखराः काकवृकवराहोष्ट्राश्च गर्दभाः ।
बलिष्ठा विष्णुगरुडसत्प्रतिज्ञा यमादयः॥
सुरूपाः कृष्णनकुलनलकूबरमन्मथाः ।
दुःसहाः कामतापादिप्रतापा दुर्वचस्तपः ।।
मधुराः स्युर्विदग्धोक्तिकान्ताधरशशित्विषः ।
इत्थमेते वर्णनीयाः प्रबन्धेषु यथोचितम् ।।
अथ वक्ष्यामि सर्वेषां कवीनां समयं स्फुटम् ।
सतोऽपि पानिबन्धः स्यादसतोऽपि निबन्धनम् ।।
नियमेन निबन्धश्च विकल्पेन निबन्धनम् ।
एवं कवीनां समयश्चतुर्धा परिकीर्तितः ।।
वस्तुनः सतोऽप्यनिबन्धनं यथा-
अयने चन्द्रिकासंपत्पक्षयोः शुक्लकृष्णयोः ।
वसन्ते मालतीपुष्पं कामिदन्तेषु रक्तता ॥
फलपुष्पे चन्दने च फलं चाशोकपादपे ।
दिवा विकासः कुमुदे वर्षाकाले च मल्लिका ।
न वर्णयेत्सतोऽप्येतान्प्रबन्धेषु कदाचन ॥
अथासतो वस्तुनो निबन्धनं निरूप्यते-
हंसे कीर्ती च शुभ्रत्वं दाढ्य दुष्कीर्तिपापयोः ।
अञ्जलिग्राबता कुम्भपूर्यत्वं शशिदीधितेः ।।
रत्नानि यत्र तत्रादौ कमलानि नदीष्वपि ।
मन्दाकिन्यां जलेभादिहंसाः सर्वजलाशये ॥
ज्योत्स्नापत्नं चकोराणा प्रतापे रक्कतोष्णते ।
ध्वान्तस्य पुष्टिाह्यत्वं लेपनं सूचिभेद्यता ॥
विश्लेषः कोकयो राज्यां रक्तत्वं क्रोधरागयोः ।
कान्तामध्येऽप्यदृश्यत्वं समुद्राणां चतुर्थता ।।
नियमेन निबन्धनं यथा-
बहुकालस्थितस्यापि शिवचन्द्रस्य बालता ।
मनुष्या मौलितो वा देवाश्चरणतस्तथा ॥
-
११. शेषबिन्दुः] मन्दारमरन्दचम्पूः।
भूर्जत्वम्हिमवत्येव मलयेष्वेव चन्दनम् ।
रक्तत्वं रत्नबन्धूकबिम्बाम्भोजविवखताम् ॥
कृष्णत्वं केशकामालिपिककाकपयोमुचाम् ।
सामान्यशौक्लयं छत्राम्भः पताकापुष्पवाससाम् ॥
वसन्त एव वयं स्यात्परपुष्टस्य कूजितम् ।
वर्षास्वेव मयूराणां रुतं नृत्यं च वर्णयेत् ॥
लज्जाकोपायशोनाशरोषाक्रन्दास्यकृष्णताः ।
रागपाण्डुरतादैन्यविषपानतपोजपाः ॥
दुःखद्वेषाभिचारासहनोद्दीविकादयः ।
वर्णनीया जितस्यैते पराभवसमुद्भवाः ॥
विकल्पेन निबन्धनं यथा-
कृष्णत्वं हरितत्वं वा कमलासंपदोर्मतम् ।
पीतत्वं रक्तता वामौ परागे वर्णविद्युतोः ॥
दानवासुरंदैत्यानामैक्यमेवातिसंमतम् ।
कटाक्षे शौक्लयकृष्णत्वे लोधे लोहितपाटलौ ॥
चन्द्रे शशमृगौ कामध्वजे मकररोहितौ ।
एवं कवीनां समयो दिङ्मानं परिकीर्तितः ।।
इति वावर्ण्यप्रकरणम् ।
पदार्थस्तु द्विधा प्रोक्तो भावाभावविभेदतः।
भावश्चतुर्विधो जातिगुणद्रव्यक्रियात्मना ।।
जातिस्तु द्विविधा प्रोक्ता सामान्योपाधिभेदतः ।
सामान्यं तु घटत्वादिरुपाधिश्चन्द्रतादिकः ।।
गुणास्त्वनेके कथिता गन्धरूपरसादयः ।
द्रव्यं तु दशधा पृथ्वीजलतेजःप्रभञ्जनः ॥
तमो व्योमात्मदिकालमनांसीति विभेदतः ।
कर्तृत्वं च क्रिया सैकाभावस्तु त्रिविधो मतः ॥
१९६
काव्यमाला।
प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव इत्यपि ।
अभावस्य गुणत्वं तु केचिदूचुर्विपश्चितः ।।
संबन्धो धर्मिरूपत्वात्पदार्थो न पृथग्भवेत् ।
तस्मादेव न भेदोऽपि स्युर्द्रव्याणीन्द्रियाण्यपि ॥
नित्यजातिस्तु सामान्यमनित्योपाधिरुच्यते।
केचिद्धटादिशब्दानां जातिवाचकतां विदुः ।
विष्णुव्योमादिशब्दानां व्यक्तिवाचकतामपि ।
केचिद्विदुर्घटादींश्च जातिमव्यवाचकान् ॥
क्रियावाचकशब्दाः स्युरेधते कुरुते मुखाः।
अभाववाचकाः शब्दा नानोमानाशपूर्वकाः ।।
इति पदार्थनिरूपणम् ।
प्राचीनानां नवीनानां मतान्यालोच्य शक्तितः ।
रचितं बालबोधाय तोषाय विदुषामपि ॥
चम्पूप्रबन्धं मन्दारमरन्दं विबुधालयः ।
खादं खादं विमात्सर्य भवन्त्वानन्दतुन्दिलाः ॥
जलजनिजनिजायाप्रेमपाकेन गोपी-
जनमनसिजकेलीलम्पटेऽलम्पटेन ।
गुहपुरनिलयेन प्रोद्धृतः शेषबिन्दुः
सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ।।
श्रीमद्धटिकाशतशतविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्ते.
वास्थन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारमरन्दे चम्पूप्रबन्धे
शेषबिन्दुरेकादशः समाप्तिमगमत् ।।
s
No text on this page.
No text on this page.
No text on this page.
No text on this page.