Scl
Sanskrit Text Book For Detailed Study 1960
Front matter
No text on this page.
SRI VENKATESWARA AND ANDHR.I
UNIVERSITIES
S S. L. C. PUBLIC EXAMINATION
AND
MATRICULATION EXAMINATION
1960
SANSKRIT TEXT BOOK
FOR
DETAILED STUDY
Published by
SRI VENKATESWARA UNIVERSITY
with
ANI)
Printed by
A. NAGESWARA RAO
At Saraswathi Power Press, Rajahmundry
CONTENTS
.--.0000.00
PAGES
१.
श्रीमद्रामायणे – किकिवाकाण्डे
२१, २२, २३ सर्गः
२. श्रीमन्महाभारते - अरण्यपर्वणि
१०
....
यक्षप्रश्न प्रकरणम्
....
२०
३. खुवंशे - एकादशस्सर्गः
१.५० श्लोकाः
*४.
सुभाषितानि
२६
५. विक्रमार्कचरित्रे -- विंशमुपाख्यानम्
३२
६
.
पञ्चतन्त्रे - लब्धप्रणाशः
....
३७
१, २ कथे
७. मालविकाग्निमित्रे - प्रथमाङ्कः
उत्तरभागः
sha
* To be got by heart
No text on this page.
. ॥ जातीयगीतम् ॥ जन गण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिन्धु गुजराठ मराटा द्राविड उत्कल वङ्ग॥ विन्ध्य हिमाचल यमुना गङ्गा उञ्चल जलधि तरङ्ग। तव शुभ नामे जागे तव शुभ आशिष मागे गाये तव जय गाथा ॥ जन गण मङ्गल दायक जय हे भारत भाग्य विधाता जय हे, जय हे, जय हे जय जय जय जय हे॥ Rom .00000000000g-
No text on this page.
कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।
आरुह्य कविताशाखा बन्दे वाल्मीकिकोकिलम् ।
॥श्रीमद्रामायणः॥
किष्किन्धाकाण्डः
एकविंशस्सर्गः
१
ततो निपतितां तारां च्युतां तारामिवाम्बरात ।
शनैराश्वासयामास हनुमान् हरियूथपः ।।
गुणदोषकृतं जन्तुः स्वकर्म फलहेतुकम् ।
अव्यग्रस्तदवाप्नोति सर्व प्रेत्य शुभाशुभम् ॥
शोच्या शोच्यसि कं शोच्य दीन दीनानुकम्पसे।
कस्य को वानु शोच्योस्ति देहेऽस्मिन् बुहुदोपमे ॥
अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया।
आयत्यां च विधेयानि समर्थान्यस्य चिन्तय ।
३
जानास्यनियतामेवं भूतानां आगति गतिं ।
तस्माच्छु हि कर्तव्यं पण्डितेनेहलौकिकम् ॥
यस्मिन् हरिसहस्त्राणि प्रयुतान्यर्बुदानिच ।
वर्तयन्ति कृताशानि सोऽयं दिष्टान्तमागतः ।।
--
६
यदयं न्यायदृष्टायः सामदानक्षमापरः ।
गतोधर्मजितां भूमिं नैनं शोचितु मर्हसि ॥
श्रीमद्रामायणः किष्किन्धाकाण्डः
९
१०
११
१२
सवै हि हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः ।
इदं हर्यक्षराज्यं च त्वत्सनाथमनिन्दिते ॥
ताविमौ शोकसंतप्तौ शनैः प्रेरय भामिनि ।
त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम् ॥
संततिश्च यथा दृष्टाकृत्यं यच्चापि सांप्रतम् ।
राज्ञस्तक्रियतां तावदेव कालस्य निश्चयः ।।
संस्कार्यों हरिराजश्च अङ्गदश्वालिषिच्यताम् ।
सिंहासनगतं पुत्रं पश्यन्ती शान्ति मेष्यसि ॥
सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता ।
अब्रवीदुत्तरं तारा हनुमन्तमवस्थितम् ॥
अङ्गदप्रतिरूपाणां पुत्राणामेकतः स्थितम् ।
हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् ।।
न चाह हरिराजस्य प्रभवाम्यङ्गदस्य वा।
पितृव्यस्तस्य सुग्रीवः सर्वकर्येष्वनन्तरः॥
न ह्येषा बुद्धिरास्थेया हनुमन्नणदं प्रति ।
पिताहि बन्धुः पुत्रस्य न माता हरिसत्तम ।
न हि मम हरिराज संश्रयात्क्षमतरमस्ति परत्र चेहवा ।
अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम् ॥
इत्योष श्रीमद्रामायणे वाल्मीकीये
आदिकाव्ये चतुर्विशतिसहस्रिकायां
संहितायां किष्किन्धाकाण्डे हनुमदा-
श्वासनं नाम एकविंशस्सर्गः ॥
१३
१४
१२
द्वाविंशस्सर्गः
३
वीक्षमाणस्तुमन्दासुः सर्वतोमन्दमुछ्सन् ।
आदावेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः ॥
तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरः ।
आभाष्य व्यक्तया वाचा सनेहमिदब्रवीत् ॥
सुग्रीव दोषेण न मां गन्तुमर्हसि किल्बिषात् ।
कृप्यमाणं भविष्येण बुद्धिमोहेन मां बलात् ॥
युगपद्विहितं तात न मन्ये सुखमावयोः ।
सौहदै भ्रातृयुक्तं हि तदिदं जातमन्यथा ॥
प्रतिपद्य त्वमद्यैव राज्यमेषां बनौकसाम् ।
मामप्याव गच्छन्तं विद्धि वैवस्वतक्षयम् ।।
जीवितं च हि राज्यं च श्रियं च विपुलामिमाम् ।
प्रजाहाम्येष वै तूर्णं महच्चागर्हित यशः ।।
६
अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः ।
यद्यप्यसुकरं राजन् कर्तुमेव तदर्हसि ॥
सुखंहि सुखसंबद्धम् बालमेनमबालिशन् ।
बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम् ।।
मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम्
मया हीनमहीनार्थं सर्वतः परिपालय ॥
त्वमेवास्य हि दाता च परित्राता च सर्वतः ।
भयेष्वभयदश्चैव यथाहं प्लवगेश्वर ।।
१०
श्रीमद्रामायणः किन्धिाकाण्डः
एष तारात्मजः श्रीमान् त्वया तुल्यपराक्रमः ।
रक्षसां तु क्वे तेषां अग्रतस्ते भविष्यति ॥
११
अनुरूपाणि कार्याणि विक्रम्य बलवान् रणे
करिष्यत्येष तारेयः तपस्वी तरुणोदः ॥
१२
सुषेणदुहिताचेयमर्थसूक्ष्मविनिश्चये
औत्पातिकेच विविध सर्वनः परिनिष्ठिता ॥
१३
यदेषा साध्वितियात् कार्यं तन्मुक्तसंशयम् ।
न हि तारामतं किंचित् अन्यथा परिवर्तते ।।
१४
राघवस्य च ते कार्य क व्यिमविशङ्कया।
स्थादधों बकरणे त्वां च हिंस्याद्विमानितः॥
१५
इमां च मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम् ।
उदारा श्रीः स्थिताह्यस्यां संप्रजह्यान्मृते मयि ।।
१६
इत्येवमुक्तः सुत्रीयो कालिना भ्रातृसौहदात् ।
हर्षं त्यक्त्वा पुनींनो ग्रह्मस्त इवोडराट् ।
१७
तद्वालिवचनाच्छान्तः कुर्वन् युक्तमतन्द्रितः ।
जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम् ॥
१८
तां मालां काञ्चनीम् दत्वा वाली दृष्ट्वात्मजस्थितम् ।
संसिद्धः प्रेत्यभावस्य स्नेहादङ्गदमब्रवीत् ॥
देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये ।
सुखदुःखसहःकाले सुग्रीववशगो भव ॥
२०
द्वाविंशस्सर्गः อ यथा हि त्वं महाबहो लालितः सततंमया। न तथा वर्तमान त्वां सुग्रीवो बहुमन्यते॥ २१ मास्यमित्रै तिंगच्छेर्मा शत्रुभिररिंदम। भर्तुरर्थपरो दान्तः सुग्रीववशगो भव ॥ २२ न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते। उभयं हि महादोषः तस्मादन्तरदृम्भव ।। २३ इत्युक्त्वाऽथ विवृत्ताक्षः शरसंपीडितोभृशम् । विवृतैर्दशनीमः बभूवोत्क्रान्तजीवितः ॥ २४ ततो विचुकेशुस्तत्र वानरा हरियूधपाः । परिदेवयमानस्ते सर्वे प्लवगपुंगवाः ॥ २५ किष्किन्धा ह्यद्य शून्यासीत् स्वर्गते वानराधिपे। उद्यानानि च शून्यानि पर्वताः काननानि च ॥ २६ हते प्लवगशार्दूले निष्प्रभाः वानराः कृताः। यम्योद्योगेन महता काननानि वनानि च ॥ २७ २८ पुष्पौघेणानुबध्यन्ते करिष्यति तदद्य कः। येनदत्तं महद्युद्धं गन्धर्वस्य महात्मनः ॥ गोलभस्य महाबाहोर्दशवर्षाणि पञ्च च । नैव रात्रौ न दिवसे तद्युद्धमुपशाम्यते ॥ १९ ततस्तु षोडशे वर्षे गोलभो विनिपातितः। तं हत्वा दुर्विनीतं तु वाली दंष्ट्राकरालवान् ।। ३०
6
श्रीमद्रामयणः किष्किन्धाकाण्डः
सर्वा प्रयकारोऽम्माकं कथमेष निपातितः ।
हते तु वीरे प्लवगाधिपे तदा प्लवङ्गमास्तत्र न शर्म लेमिरे ।
वनेचराः सिंहयुते महावने यथाहि गावो निहते गवां पतौ ॥ ३१
ततस्तु तारा व्यसनार्णवप्लुता मृतस्य भतुर्वदनं समीक्ष्य सा।
जगाम भूमि परिरभ्य वालिनं महाद्रुमंछिन्नमिवाश्रिता लता ॥ ३२
इत्याः श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
चतुर्विशति सहस्रिकायां संहितायां किष्किन्धा-
काण्डे बाल्यनुशासनं नाम द्वाविंशस्सर्गः ।
त्रयोविंशस्सर्गः
ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् ।
पतिं लोकश्रुता तारा मृतं वचनमब्रवीत् ॥
शेषे त्वं विषमे दुःखमनुक्त्वा वचनं मम
उपलोपचिते वीर सुदुःखे वसुधातले ॥
२
मत्तः प्रियतरा नूनं वानरेन्द्र मही तव।
शेषे हि तां परिप्वज्य मां च न प्रतिभाषसे ॥
३
सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो।
सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय ॥
ऋक्षवानरमुख्यास्त्वां वालिनः पर्युपासते।
एषां विलपितं कृच्छ् अङ्गदस्य च शोचतः ॥
मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे ।
इदं तद्वीरशयनं यत्र शेषे हतो युधि ॥
६
शायिता निहता यत्र त्वयैव रिपवः पुरा।
विशुद्धसत्वाभि जनप्रिययुद्ध मम प्रिय ॥
७
मामनाथां विहायेकां गतस्त्वमसि मानद।
शूराय न प्रदातव्या कन्या खलु विपश्चिता॥
शूरभायाँ हतां पश्य सद्यो मां विधवां कृताम् ।
अवमग्नश्च मे मानो भग्ना मे शाश्वती गतिः ॥
अगाधे च निमग्नास्मि विपुले शोकसागरे।
अश्मसारमयं नृनमिदं मे हृदयं दृढम् ॥
१०
श्रीमद्ररामायणः किष्किन्धाकाण्डः ११ १२ भारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम्। सुहृच्चैव ह भर्ता च प्रकृत्या मम च प्रियः ॥ आहने च पराक्रान्तः शूरः पञ्चत्वमागतः । पतिहीना तु या नारी कामं भवतु पुत्रिणी।। धनधान्यः सुपूर्णापि विधवेत्युच्यते जनः । स्वगात्रप्रभवे वीर शेष रूविरकर्दमे ।। कृमिरागपरिस्तोमे स्वमात्मशयने यथा। रेणुशोणितसंवीतं गात्रं तव समन्ततः ।। परिव्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ ! कृतकृत्योऽद्य मुग्रीवो वैरऽस्मिन्नतिदारुणे ॥ १३ १४ यस्य रामविमुक्तेन हृतमेकेषुणा भयम् शरेण हृदिलग्नेन गात्रसंस्पर्शने तव ॥ वारितास्मि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते। उद्धबह शरं नीलस्तस्य गात्रगतं तदा ।। गिरिगह्वर संलीनं दीप्तमाशीविषं यथा । तस्य निष्कृष्यमाणस्य बाणस्य तु बभौ द्युतिः ॥ १७ १८ १२. अस्तमस्तकसंरुदो रश्मिर्दिनकरादिव । पेतुः क्षतजघरास्तु व्रणेभ्यः तस्य सर्वशः।। ताम्रगैरिकसंपृक्ता धारा इव धराधरात् । अवकीर्ण विमार्जन्ती भर्तारं रणरेणुना ॥ अननयनजैः शूरं सिषेचास्त्रसमाहतम् । रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् ॥ २० २१
त्रयोविंशस्सर्गः
२२
उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना।
अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् ॥
संप्रसक्तस्य वैरस्य गतोन्तः पापकर्मणा
बालसूर्योज्वलतर्नु प्रयान्तं यमसादनम् ।।
अभिवादय राजानं पितरं पुत्र मानदम् ।
एवमुक्तः समुत्थाय जग्राह चरणौ पितुः ॥
भुजाभ्यां परिवृत्ताभ्यामङ्गदोऽहमिनि ब्रुवन् ।
अभिवादयमानं त्वामङ्गदं तु यथा पुरा ॥
दीर्घायुभव पुत्रेति किमर्थं नाभिभाषसे।
अहं पुत्रसहाया त्वामुपासे गतचेतनम् ॥
सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम् ।
इष्टा संग्रामयज्ञेन रामप्रहरणाम्भसि ॥
अस्मिन्नवभृथे स्नातः कथं पल्या मयाविना ।
या दत्ता देवराजेन तव तुष्टेन संयुगे।
शातकुम्भमयींमालां तां ते पश्यामि नेह किम् ।
राजश्री जहाति त्वां गतासुमपि मानद ।।
सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा ।।
न मे वचः पथ्थमिदं त्वया कृतं न चास्मिशक्ता विनिवारणे तव
हता सपुत्रास्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामिह । ३९
इत्योर्षे श्रीमद्रामायणे वल्मीकीये आदिकाव्ये
चतुर्विंशतिसहस्त्रिकायां संहितायां
किष्किन्धाकाण्डे अङ्गदाभिवादनं नाम
त्रयोविंशस्सर्गः ॥
व
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवी सरस्वतीं व्यासं ततो जयमुदीरयेत् ।।
श्रीमन्महाभारते अरण्यपर्वणि
यक्षप्रश्नप्रकरणम्
--
यक्ष उवाच
अहं बकः शैवलमत्स्यभक्षो
नीता मया प्रेतवशं तवानुजाः।
त्वं पञ्चमो भविता राजपुत्र
न चे प्रश्ना पृच्छतो व्याकरोषि ॥
वैशम्पायन उवाच
ततस्तामशिवां
श्रुत्वा
वाचं स परूषाक्षराम्।
यक्षस्य ब्रुवतो राजन्नपक्रम्य तदा स्थितः ।।
३
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् ।
ज्वलनार्कप्रतीकाशमवृष्यपर्वतोपमम् ।।
वृक्षमाश्रित्यतिष्ठन्तं ददर्श भरतर्षभः ।
मेघगम्भीरनादेन तर्जयन्तं महास्वनम् ॥
इमे ते भ्रातरो राजन् वार्यमाणा मया सकृत् ।'
वनात्तोयं जिहीर्षन्तस्ततो वै मृदिता मया ।।
11
यक्षप्रश्न प्रकरणम्
नपेयमुदकं राजन् , प्राणानिह परीप्सता ।।
पार्थ मा साहसम् कार्षीमम पूर्वपरिग्रहः ॥
प्रश्नमुक्त्वा तु कौन्तेय, ततः पिब हरस्व च ॥
८
युधिष्ठिर उवाच -
न चाहं कामये यक्ष, तवपूर्वपरिग्रहम् ।
कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा ॥
१०
यदात्मना स्वमात्मानं प्रशंसेत्पुरुषर्षभः।
यथाप्रशं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ।
११
यक्ष उवाच
केनस्विच्छ्रोत्रियो भवति केनस्विद्विन्दते महत् ।
केनस्विद्वितीयवान्भवति राजन् , केनच बुद्धिमान् ।।
१२
-
युधिष्ठर उवाच
श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् ।
धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥
१३
यक्ष उवाच
किंखिदावपतां श्रेष्ठ किंखिन्निवपतां वरम्।
किंखिन्प्रतिष्ठमानानां किंस्वित्प्रसवतां वरम् ॥
युधिष्ठिर उवाच
वर्षमावपतां श्रेष्ठं बीजं निवपतां वरम् ।
गावः प्रतिष्ठमानानां पुत्रः प्रसवतां वरम् ॥
१५
3
श्रीमन्महाभारते अरण्यपर्व यक्ष उवाच इद्रियार्थाननुभवन् बुद्धिमान् लोक पूजितः । संमतः सर्वभूतानामुच्छसन्को न जीवति ॥ १६ युधिष्ठिर उवाच देवतात्तिथिभृत्यानां पितृणामात्मनश्च यः। ननिर्वपति पञ्चाना मुच्छसन्न स जीवति ॥ १५ यक्ष उवाच - किंस्विद्गुरुतरं भूमेः किंस्विदुञ्चतरं च खात् । किंस्वि च्छीघ्रतरं वायोः किंस्विबहुतरं तृणात् ॥ १८ युधिष्ठिर उवाच माता गुरुतरा भूमेः खापितोच्चतरस्तथा । मनश्शीघ्रतरं वाताञ्चिन्ता बहुतरा तृणात ॥ यक्ष उवाच- किंस्वित्सुप्तं न निमिषति किंस्विज्जातं नवोपति। कस्याविध्दृदयं नास्ति किंखिद्वेगेन वर्धते । युधिष्ठिर उवाच - मत्स्यः सुप्तो ननिमिषत्यण्डं जातं नचोपति। अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ॥ २१
यक्षप्रश्न प्रकरणम्
यक्ष उवाच
किंस्वित् प्रवसतः मित्रं किंस्विन्मित्रं गृहे मतः।
आतुरस्य च किं मित्रं किंस्विन्मित्रं मरिष्यतः॥
२२
युधिष्ठिर उवाच
सार्थः प्रवसतो मित्रं भार्यामित्र गृहे सतः
आतुरस्य भिषभित्रं दानं मित्रं मरिष्यतः।।
२३
यक्ष उवाच
कोऽतिथिः सर्वभूतानां किंस्विद्धर्मः सनातनः।
अमृतं किंस्विद्राजेन्द्र, किंतित्सर्वमिदं जगत् ॥
२४
युधिष्ठिर उवाच
अतिथिस्सर्वभूतानामग्निः सोमो गवामृतम् ।
सनातनोऽमृतो धर्मः वायुस्सर्वमिदं जगत् ॥
२५
यक्ष उवाच
किंस्वि देकपदं धयं किंस्वि देकपदं यशः।
किंस्विदेकपदं स्वयं किंखिदेकपदं सुखम् ॥
ur
युधिष्ठिर उवाच
दाक्ष्यमेकपदं धर्म्य दानमेक पदं यशः ।
सत्यमेकपदं स्वम्य शीलमेकपदं सुखम् ॥
श्रीमन्महाभारते अरण्यपर्व किंस्वि दात्मा मनुषस्य किंस्विदैमकृतः सरवा । उपजीवन किंस्विदस्य किंस्विदस्य परायणम् ॥ २८ युधिष्ठिर उवाच -- पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा। उपजीवनं च पर्जन्यो दानमस्य परायणम् ॥ २९ यक्ष उवाच धन्यानामुत्तमं किं स्विद्धनानां स्यान्किमुत्तमं । लाभानामुत्तमं किं स्यात् सुखानां स्यात् किमुत्तमम् ।। युधिष्ठिर उवाच ram- धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् । लाभानां श्रेय आरोग्यम् सुखानां तुष्टिरुत्तमा । ३१ यक्ष उवाच कश्च धर्मः परोलोके कश्च धर्मः सदाफलः । किं नियम्म न शोचन्ति कैश्च सन्धिर्न जीर्यते ॥ ३२ युधिष्ठिर उवाच -- अनृशंस्यं परोधर्मस्त्रयीधर्मः सदाफलः । मनो यस्य न शोचन्ति सन्धिः सद्भिर्नजीयते ॥ ३३
यक्ष प्रश्नप्रकरणम्
-
यक्ष उवाच
किं नु हित्वा प्रियोभवति किं नु हित्वा न शोचति ।
किं नु हित्वर्थवान् भवति किं नु हित्वा सुरवीभवेत्।।
३४
युधिष्ठिर उवाच
मानं हित्वा प्रियोभवति क्रोधं हित्वा न शोचति।
कामं हित्वार्थवान् भवति लोमं हित्वा सुखी भवेत् ।।
३५
यक्ष उवाच
-
केन स्विदावृतो लोकः केनस्विन्न प्रकाशते।
केनत्यजतिमित्राणि केनस्वर्ग न गच्छति ॥
युधिष्ठिर उवाच
-
अज्ञानेनवृतो लोकस्तमसा न प्रकाशते।
लोभस्त्यजति मित्राणि सङ्गात्स्वर्ग न गच्छति।।
३७
यक्ष उवाच
-
मृतःकथं स्यात्पुरुषः कथं राष्ट्र मृतं मवेत् ।
श्राद्धं मृतं कथं वास्यात्कथं यज्ञो मनो भवेत् ॥
३८
युधिष्ठिर उवाच
मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् ।
मृतमश्रोत्रियं श्राध्यं मृतो यज्ञस्त्वदक्षिणः ॥
श्रीमन्महाभारते अरण्यपर्व
यक्ष उवाच
तपः किं लक्षणं प्रोक्तं को दमश्च प्रकीर्तितः ।
क्षमा च का परा प्रोक्ता का च हीः परिकीर्तितः ।।
युधिष्ठिर उवाच
तपः स्वधर्मवर्तित्वं मनसोदमनं दमः।
क्षमा द्वन्द्वसहिष्णुत्वं हीरकार्यनिवर्तनम्।
४१
यक्ष उवाच
किं ज्ञान प्रोच्यते राजन् कः शमध्ध प्रकीर्तितः।
दया च कापरा प्रोक्ता किं चार्जवमुदाहृतम् ॥
४२
युधिष्ठिर उवाच
ज्ञन तत्त्वार्थसंबोधः शमश्चित्तप्रशान्तता ।
दयासर्वसुखैषित्वमार्जवं समचित्तता॥
यक्ष उवाच
कः शत्रुः दुर्जयः पुंसां कश्च व्याधिग्नन्तकः ।
कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः ॥
युधिष्ठिर उवाच
क्रोधः मुदुर्जयः शत्रुः लोभो व्याधिरनन्तकः ।
सर्वभूतहितः साधुरसाधुर्निर्दयः स्मृतः ॥
यक्षप्रश्न प्रकरणम् यक्ष उवाच - को मोहः प्रोच्यते राजन् , कश्च मानः प्रकीर्तितः । किमालस्यं च विज्ञेयं कश्च शोकः प्रकीर्तितः ॥ ४६ युधिष्ठिर उवाच मोहो हि धर्ममूढत्वं मानस्त्वात्माभिमानता । धर्मनिष्क्रियतालस्यं शोकस्त्वज्ञानमुच्यते ॥ ४७ यक्ष उवाच किं स्थैर्थमृषिभिः प्रोक्तं किं च धैर्यमुदाहृतम् । स्वानं च किं परं प्रोक्तम् दानं च किमिहोच्यते॥ ४८ युधिष्ठिर उवाच स्वधर्मस्थिरता स्थैर्य धैर्यमिन्द्रियनिग्रहः। स्नानं मनोमलत्यगो दान वै भूतरक्षणम् ॥ यक्ष उवाच कापण्डितः पुमान् ज्ञेयो नास्तिकः कश्च उच्यते । को मूर्खः कश्च कामस्स्यात् को मत्सर इति स्मृतः ।। ५० युधिष्ठिर उवाच. ma- धर्मज्ञः पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते। कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः।। ५१ 18 श्रीमन्महाभारते अरण्यपर्व यक्ष उवाच कोऽहंकार इति प्रोक्तः कश्च दम्भः प्रकीर्तितः । किं तदैव परं प्रोक्तं तत्पैशुन्यमुच्यते ॥ ५२ युधिष्ठिर उवाच मोहज्ञानमहंकारो दम्नो धर्मध्वजोच्छ्रयः। देवं दानफलं प्रोक्तं पैशुन्यं परदूषणम् ॥ ५३ यक्ष उवाच --- प्रियवचनवादी किं लभते विमृशितकार्यकरः किं लभते। बहुमित्रकरः किं लभते धमै रतः किं लभते कथय ॥ युधिष्ठिर उवाच प्रियवचनवादी प्रियो भवति विमृशितकार्यकरोऽविकं जयति। बहुमित्रकरः सुखं वसते यश्च धर्मरतः स गतिं लभते॥ ५५ A यक्ष उवाच PHume- व्यख्याता मे त्वया प्रश्नाः याथातथ्यं परंतप । तस्मात्त्वमेकं भ्रातूणां यमिच्छसि स जीवतु ॥ ५६
यक्षप्रश्न प्रकरणम्
--
युधिष्ठिर उवाच
धर्मशीलः सदा राजा इति मां मानवा विदुः ।
स्वधर्मान्न चलिष्यामि नकुलो यक्ष, जीवतु ॥
५७
कुन्ती चैव तु माद्री च द्वे भार्ये तु पितुर्मम ।
उभे सपुत्रे स्यातां वै इति मे धीयते मतिः ॥
५८
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः।
मातृभ्यां सममिच्छामि नकुलो यक्ष, जीवतु ॥
यक्ष उवाच
यस्य तेऽर्थाच्च कामाच अनृशंस्यं परंतप ।
तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ।
वागर्थाविव सम्पृक्तौ वागर्थ प्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥
रघुवंशः
शिवधनुर्भङ्गः
एकादशस्सर्गः
कौशिकेन स किल क्षितीश्वगे राममध्वरविघातशान्तये।
काकपक्षधरमेत्य याचितस्तेजसां न वयः समीक्ष्यते।
कृच्छ्रलब्धमपि लब्धवर्णभाक्तं दिदेशमुनये सलक्ष्मणं ।
अप्यसुप्राणयिनां रघोः कुले न व्यहन्यत कदाचिदार्थिता ॥ २
३
यावदादिशति पार्थिवस्तयोनिगमाय पुरमार्गसंक्रियाम् ।
तावदाशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्धनैः ॥
तौनिदेशकरणोद्यतौपितुर्धन्विनौ चरणयोनिपेततुः ।
भूपतेरपि तयोः प्रवत्स्यतोनेत्रयोरुपरि बाप्पबिन्दवः॥
तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावुभौ ।
धन्विनौ तमृषिमन्वागच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥
लक्ष्मणानुचरमेव राघवं नेतुमैच्छदृषिरित्यसौ नृपः ।
आशिषं प्रयुयुजे न वाहिनीं साहि रक्षणविधौ तयोः क्षमा ॥ ६
मातृवर्गचरणस्पृशौ मुनेस्तौप्रपद्य पदवीं महौजसः ।
रेजतुर्गतिकशात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव ॥
एकादशस्सर्गः
21
वीचिलोलभुजयोस्तयोर्गतं शैशवाञ्चपलमप्यशोमत।
तोयदागम इवोद्धमिधयोर्नामदेहसदृशं विचेष्टितम् ॥
८
तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः।
मम्लतुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तनाविव ॥
पूर्ववृत्तिकथितैः पुराविदः सानुजः पितृसखस्य राघवः ।
उह्यमान इव वाहनोचितः पादचारमपि न व्यथावयत् ॥
१०
तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः।
वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिविरे॥
११
नाम्भसां कमलशोभिनां तथा शाखिनां च न परिश्रमच्छिदा।
दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ।
१२
स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः।
विग्रहेण मदनस्य चारूणा सोभवत्प्रतिनिधि नकर्मणा ॥
१३
तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया, पथि।
निन्यतुः स्थलनिवेशिताटनी लीलयेव, धनुषी अधिज्यताम्॥ १४
ज्यानिनादमथ गृह्णतो स्तयोः प्रादुरास बहुलक्षपाछविः।
ताटका चलकपालकुण्डला कालिकेव निविडा बलाकिनी ॥ १५
तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया।
अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया॥
६
उद्यतैकभुजयष्टिमायती श्रोणिलम्बिपुरुषान्त्रमेखलाम्।
तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः ॥ १७
खुवंशः
획
यच्चकार विवरं शिलाघने ताटकोरस स रामसायकः ।
अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत् ।
१८
बाणभिन्नहृदया निपेतुपी सा स्त्रकाननभुवं न केवलाम् ।
विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ।।
१०
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा॥
२०
नैर्ऋतनमथ मन्त्रवन्मुनेः प्रापदस्त्रमवदानतोपितात् ।
ज्योतिरिन्धननिपाति भास्करात्सूर्यकान्त इव ताटकान्तकः ।। २१
वामनाश्रमपदं ततःपरं पावनं श्रुतमुपेरूपेयिवान् ।
उन्मानाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः ॥
२२
૨૨
आससाद मुनिरात्मनस्तदा शिष्यवर्गपरिकल्पिताहणम्।
बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनम् ।
तत्र दीपितमृषि ररक्षतुर्विघ्नतो दशरथात्मजौ शरैः।
लोकमन्धतमसाक्रमोदितौ रश्मिभिः शशिदिवाकराविव ॥
वीक्ष्य वेदिमथ रक्तबिन्दुविबन्धुजीवपृथुभिः प्रदूषिताम् ।
सम्झमोऽभवदपोढकर्मणामृत्विजां च्युतविकतनुचाम् ।।
उन्मुखः सपदि लक्ष्मणाग्रजो बाणमाश्रयमुखात्समुद्धरन् ।
रक्षसां बलमपश्यदम्बरे गृध्रपक्षपवनेरितध्वजम् ।।
२६
तत्र यावधिपती मखद्विषां तौ शरख्यमकरोत्स नेतरान् ।
किं महोरगविसर्पिविक्रमो राजिलेषु गरूडः प्रवर्तते ॥
२७
एकादशसर्गः
23
सोऽस्त्रमुग्रजवमस्त्रकोविदः सन्दधे धनुषि वायुदैवतम् ।
तेन शैलगुरुमप्यपातयत्पण्डुपत्रमिव ताटकासुतम् ॥
२८
यः सुबाहुरिनिराक्षसोऽपरस्तत्र तत्र विससर्प मायया।
यः क्षुरप्रशकलीकृत कृती पत्त्रिणां व्य मजदाश्रमावहिः॥ २०
इत्यपास्तमखविन्नयोस्तयोः सांयुगीनममिनन्द्यविक्रमम् ।
ऋत्विजःकुलपतेः यथाक्रम वाग्यतस्यनिर्तयन्क्रियाः ॥
३०
तौ प्रणामचलकाकपक्षको भ्रातराववभृथाप्लुनो मुनिः ।
अशिषामनुपदं समस्पृशदर्भपाटिततलेन पाणिना ॥
३१
तं न्यमन्त्रयत सम्भृतक्रतुःमैथिलः स मिधिलां व्रजन्वशी।
राघवावपिनिनाय बिभ्रतौ तद्धनुःश्रवण कुतूहलम् ।।
३२
नैः शिवेषु वसतिर्गताध्वभिः सायमाश्रमतरुष्वगृह्यत ।
येषु दीर्घतपसः परिग्रहो वामवक्षणकलत्रतां ययौ
३३
प्रत्यपद्यत चिराय यत्पुनधारु गौतमवधूः शिलामयी ।
स्वं वपुः स किल किल्बिषच्छिदां रामपादग्जसामनुग्रहः ॥ ३४
राघवान्वितमुपस्थितं मुनिं तं निशम्य जनको जनेश्वरः।
अर्थकामसहितं सपर्यया देहबद्धमिव धर्ममभ्यगात् ॥
३५
तौविदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू ।
मन्यते स्म पिबतां विलोचनैः पक्ष्मपातमपि वञ्चनां मनः॥ ३६
यूपवत्यवसितेक्रियाविधौ कालविकुशिकवंशवर्धनः ।
राममिष्वसनदर्शनोत्सुकं मैथिलायकथयांवभूव सः॥
३७
24
रघुवंशः
तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः ।
स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहितृशुल्कसंस्थया ॥ ३८
अब्रवीच भगवन्मतङ्गजैर्गगृहद्भिरपि कर्म दुष्करम् !
तत्र नाहमनुमन्तुसुत्सहे मोघवृत्ति कलभस्य चेष्टितम् ।।
हेपिता हि बहवो नरेश्वरास्तेन तात धनुषा धनुतः।
ज्यानिधानकठिनत्व वो भुजानस्वान्विधूय विगिति प्रतस्थिरे॥ ४०
प्रत्युवाच तमृषिनिशम्यतां सारतोयमथवा गिराकृतम् ।
चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव ॥
४१
एवमाप्तवचनात्सपौरुषं काकपक्षकवरेऽपि राघवे ।
श्रधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि ।।
४२
व्यादिदेश गणशोऽथपार्श्वगान्कार्मुकाभिहरणाय मौथिलः ।
तैजसस्य धनुषः प्रवृत्तये तोयदानिव सहस्रलोचना ॥
४३
तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दशरथिराददे धनुः।
विन्द्रुतक्रतुमृगानुसारिणं येन बाणमसृजद्वृषध्वजः।।
४४
आनतज्यमकरोत्स संसदा विस्मयस्तिमितनेत्रमीक्षितः ।
शैलसारमपि नातियत्नतः पुष्पचापमिव पेशलं स्मरः॥
४५
भज्यमानमतिमात्रकर्षणात्तेन वज्रपरूषस्वनं धनुः।
भार्गवाय दृढमन्यवे पुनः क्षत्रमुद्यतमि वन्यवेदयत् ॥
४६
दृष्टसारमथ रुद्रकार्मुके वीर्यशुल्कमभिनन्द्य मैथिलः ।
राघवाय तनयामयोनिजां रूपिणीं श्रियमिव न्यदेदयत् ॥
23 एकादशस्सर्गः मैथिलः सपदि सत्यसङ्गरो राघवाय तनयामयोनिजाम् । संनिधौ द्युतिमतस्तपोनिधेरनिसाक्षिक इवातिसृष्टवान् ॥ प्राहिणोच्च महितं महाद्युतिः कोसलाधिपतये पुरोधसम् । भृत्यभावि दुहितुः परिग्रहादिश्यतां कुलमिदं निमेरिति । अन्वियेष सदृशीं सच स्नुषां प्राप चैनमनुकूलवाग्द्विजः । सद्यएव सुकृतां हि पच्यते कल्पवृक्षफलधर्मकांक्षितम् ।।
सुभाषितानि
कठापनिषत्
अणोरणीयान् महतो महीयान्
आत्मा गुहायां निहितोऽस्य जन्तोः ।
तमक्रतुः पश्यनि वीतशोकः
धातुप्रसादात् महिमानमात्मनः ।।
(3 - 12)
भगवद्गीता
यथैवांसि समिद्धोमिः भस्मसात्कुरूतेऽर्जुन।
ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा।।
२
श्रद्धावान् लभते ज्ञान तत्परस्सयतन्द्रियः।
ज्ञानं लब्ध्वा परां शक्ति अचिरेणाधिगच्छति ॥
३
(4
37 and 39)
मनुस्मृतिः
न जातु कामः कामनां उपगेन शाम्यति ।
हविषा कृष्णावमॆव भूयएवनिवर्धते।।
अधमेण च यःप्राह यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रति विद्वेषं वाधिगच्छति ।।
(2 84 & ।।।)
सुभाषितानि
20
अश्वघोषः
अपां द्रवत्वं कठिनत्वमुयीं।
वायोश्चलत्वं ध्रुवमुष्णरश्ः।
यथा स्वभावो हि तथा स्वभावः
दुःखं शरीरस्य च चेतसश्च ॥
(सौन्दरनन्दम् 16 - 125
६
भासः
अनुचरति शशाङ्कं राहुदोषेऽपि ता॥
पतति च वनवृक्षे याति भूमि लता च ।
त्यजति न च करेणुः पङ्कलग्नं गजेन्द्र
वजतु चरतु धर्म भर्तृनाथा हि नार्यः॥
(प्रतिमानाटकम् । - 25)
शूद्रका
द्वयमिदमतीव लोके प्रियं नराणां सुहृच्च वनिता च।
संप्रतितु शतादपि सुन्दरीणां सुहृद्विशिष्टतमः ॥
(मृच्छकटिकम् 4 . 23)
८
कलिदासः
पात्रविशेष न्यस्तं दूरतरं व्रजति शिल्पमाधातुः।
जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य॥
(मालविकाग्निमित्रम् 1 - 6)
28
मुभाषितानि
उदेति पूर्व कुसुमं ततः फलं
घनोदयः प्राक् तदनन्तरं पयः।
निमित्तनैमित्तकयोरयं क्रमः
तव प्रसादस्य पुरस्तु सम्मदः॥
(अभिज्ञानशाकुन्तलम् 7 - 30 )
दण्डी
इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् ।
यदि शब्दाह्वयं ज्योतिः आसंसारान्न दीप्यते ॥
११
( काव्यादर्शः । - 4)
भर्तृहरि
यः प्राणयेत्सुचरितैः पितरं स पुत्रः
यतुरेव हितमिच्छति तत्कलत्रम् ।
तन्मित्रमापदि सुखे च समक्रियं यत्
एतत्त्रयं जगति पुण्यकृनो लमन्ति ॥
(दुर्जनपद्धतिः)
१२
ब्रह्मायेन कुलालवन्नियमितः ब्रह्माण्डमाण्डोदरे
विष्णुयेन दशावतारगहने क्षिप्तोमहासङ्कटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनं सेवते
सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥
१३
कर्मपद्धति)
सुभाषितानि
29
हर्षदेवः
मेदोस्थिमज्जामांसासूक् संघातेऽस्मिन् त्वागावृते ।
शरीरनाम्नि का शोभा सदा बीभत्सदर्शने ॥
१४
( नागानन्दम् 5 - 24)
भारविः
किमुपेक्ष्य फलं पयोधरात् ध्वनतः प्रार्थयते मृगाधिपः ।
प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यथा ॥
( किरातार्जुनीयम् 2 - 21)
माघः
माजीवन्यः परावज्ञादुःखदग्धोऽपि जीवति।
तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥
(शिशुपालवधः 2 . 45)
भवभूतिः
कामान् दुग्धेविप्रकर्षत्यलक्ष्मी
कीर्ति सूते दुहृदो निष्प्रहन्ति।
शुद्धां शान्तां मातरं मङ्गलानां
धेनुं धीरास्सूनृतां वाचमाहुः॥
(उत्तररामचरितम् 5 - 30)
80
सुभाषितानि
१८
शङ्कराचार्यः
गभीरे कासारे विशति विजने घोरविपिने
विशाले शैलेवा भ्रमति कुसुमार्थ जडमतिः ।
समप्र्यै चेतस्मरसिजमुमानाथ भवतः
सुखेनावस्थातुं जन इह न जानाति किमहो।
( शिवानन्दलहरी 9)
अन्धस्य हृतविवेकमहाधनस्य
चोरैः प्रभो बलिभिरिन्द्रियनामधेयैः।
मोहान्धकारकुहरे विनिपातितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बं ॥
(लक्ष्मीनृसिंहस्तोत्रम् )
यामुनाचार्य:
२०
तदहं त्वहते न नाथवान्
महते त्वं दयनीयवान् न च।
विधिनिर्मितमेतदन्वयं
भगवान् पालय मास्म जीहवः॥
(स्तोत्ररत्नम् 51 )
आनन्दतीर्थः
गृहे गृहे यन्नवनीतधुग्ध
दुग्धानि सर्वाण्यपहृत्य मुंक्ते।
तथापि तृप्तिः न कुतस्तवेति
किमस्य भूतानि सन्ति कुक्षौ ॥
(रुक्मिणीशविजयम् (6 - 48 )
२१
सुभाषितानि
31
२२
2 - 51)
२३
भोजः
मेध्याश्वमार्गपरिमार्गणसम्भवस्य
दिव्यौषधि कपिलदोषमहाज्वरस्य।
तातानुतर्पणपचेलिमभागधेयं
भागीरथीं भगवतीं शरणं भजामः॥
(चम्पूरामायणम् 2 -
वेदान्तदेशिक:
एकयाऽपि कलाया विशुद्धया
योऽपि कोऽपि भजते गिरीशताम् ।
भूयसी रविकला कलङ्किताः
प्राप्य कश्चिंदपचीयते शनैः॥
(सुभाषितनीवी - परीक्षतपद्धतिः 13 )
निश्शेषमम्बरतलं यदि पत्रिका स्यात्
सप्तर्णवी यदि समेत्य मषी भवित्री।
वक्ता सहस्रवदन स्वयामागतश्चेत्
लिख्येत रङ्गपातेपादुकमोः प्रभावः॥
(पादुकासहस्रम् )
लीलाशुकः
अवरबिम्बविडम्बितविद्रुम
मधुरवेणुनिनादविनोदिनम्।
कमलकोमलकम्रमुखांबुज
कमपि गोपकुमार मुपास्महे ॥
कृष्णकर्णामृतम् -
२४
२५
विक्रमार्कचरित्रम् विशमुपाख्यानम् - भूयोऽपि जातु भद्रासनमध्यासितुं समायान्तं धाराधराविराज भोजराज विंशसोपानस्थिता प्रतिमा प्रतिषिध्य प्राह भूपाल! भद्रासनमिदमध्यासित विक्रमार्कसदृशः एव क्षमो नान्यः " इति। तच्छत्वा भोजः पप्रच्छ-" कीदृश विक्रमस्य गुणाः इति। अथ सा कथयितुमारेभे- - " " राजन् ! आकर्ण्यताम्। विक्रमे राज्य शासनि तस्यराज्ये पुरन्दरपुरी नाम कापि नगरी बभूव। तत्र महाधनिकः कश्चिद्वणिगासीत्। तस्य चत्वारः पुत्राः समभवन् । गते कियत्यपि काले जरादूषितोऽसौ वैश्यवृद्धः प्रत्यासन्नमरणश्चतुरः पुत्रानाडूयामाषत-"वत्साः! परेते मयि भक्तां परस्परं मैत्री भवेद्वा न वा। तदहं जीवन्नेव भवतां चतुर्णा ज्येष्ठानुक्रमेण दायविभागं करवाणि " इति । एवमाभाष्य स बुद्धिमान् वृद्धवणिक् चिरमालोच्य भागव्यवस्थां कृत्वा पुनः पुत्रान्. पाह- अस्य मञ्चस्य चतुर्णा पदानामधस्ताच्चत्वारो भागा क्षिप्ताः। यदा भवता मैत्रीहानिर्भवति तदा तान् भागान स्वीकृत्य यथाकामं पृथग्भूताः सुखेन कलहं विनैव कालं नयध्वम्" इति। पुत्रा अपि “ बाढम् ” इति प्रत्यूचुः। ततस्तस्मिन् परलोकं गते चत्वारो भ्रातरः कतिचन मासानवैषम्येण . कालं निन्युः। अथ शनैः शनैः कल्हायितुमारमन्त। अनन्तरं तेषामेयः प्रोवाच---" किमेवं कलहः क्रियते ! अमत्स्वभावं विज्ञायैव तातपादैः प्रागेव विभागः कृतः। अतो मञ्चाधःस्थितं तत्तद्भाग म्वीकृत्य विभक्ता विनैव कलहं सुखेन जीवितुमर्हाम:'" इति। तदाकाये सर्व तथा ” इत्युत्तवा मञ्चस्याधस्ताचख्नुः। चतुर्णा पादानां तले चत्वारि ताभ्रसंपुटानि दृष्टानि । तेषामेकत्र मृत , एकात्राङ्गाराः अन्यत्रास्थीनि, अपरत्र पलालं चेत्येव विक्रमार्कचरित्रम् 3 । ज्येष्ठानुक्रमेण निक्षिप्तानि वस्तूनि विलोक्य विस्मिता विभागार्थमजानन्तः सवै मिलिता राजसभां प्रविश्य पित्रा कृतां भागव्यवस्थां निवेदयामायुः। सभास्थिता महापण्डिता अपि चिरं विमृशन्तो भागानामर्थं निर्णतुं न शेकुः। अथ ते सोदराः प्रतिनगरं गत्वा तत्र तत्र प्राज्ञेभ्यो व्यजिज्ञपन्। न कोऽपि निर्णयं कर्तुं शक्तोऽभवत् । अनन्तरमुज्जयिनी समासाद्य विक्रमसभां प्रविश्य विभागार्थं पप्रच्छुः ॥ सर्वज्ञेन विक्रमेणापि विभागाथों न ज्ञायते स्म । ततः क्रमेण प्रतिष्ठाननगरं गतास्तत्रत्येभ्यः प्राज्ञेभ्यो न्यवेदयन्। तैरपि निर्णयो न कृतः। तस्मिन् समये कुम्भकारगृहे स्थितः शालिवाहनोऽमुं वृत्तान्तं कर्णाकर्णिकया समाकर्ण्य तत्रससागत्य सर्वानेवमवदत् " भोः प्रज्ञाः! किमत्र दुर्बो वमति ! कुतोऽयं भागार्थो न ज्ञायते भवद्भिः ? एते चत्वार एकस्यैव पुत्राः । जीवन्नेवैषां पिता स्वपुत्राणां ज्येष्ठानुक्रमेण विभागं कृतवानिति ज्ञायते। तत्र ज्येठन्य मृत्तिका दत्ता तेन सर्वा भूमिस्तस्मै दत्तेति विज्ञेयम्। द्वितीयस्याङ्गारो दत्तः। अतः पर्व सुवर्णं तस्मै दत्तमिति ज्ञायते। तृतीयस्यास्थीनि दत्तानि । तेन सर्वाणि गोधनानि तस्मै दत्तानि विज्ञेयानि। चतुर्थस्य तु पलालं दत्तम्। अतः सर्व धान्य तस्येति बोद्धव्मम् " इति। एवं शालिवाहनकृतं विभागनिर्णयं श्रुत्वा सन्तुष्टास्ते प्रतरः स्वनगरं गत्वा विभक्ता एव सुखमूषुः॥ उज्जयिनीपतिर्विक्रमोऽपीमां भाग नर्णयवार्ता कर्णाकर्णिकया समाकर्ण्य विस्मयं गतः प्रतिष्ठाननगरमहाजनान् प्रति पत्रिकां प्रेषयामास स्वस्ति! श्रीयजनयाजनाध्ययनाध्यापनदानप्रतिग्रहषटकर्मनिरतान् यमनियमादि- गुणगणगरिष्ठान् प्रतिष्ठाननगरवासिनो महाजनान् कुशलप्रश्नपूर्वकं विक्रभो विज्ञापयति भवन्नगरे चतुर्णां वणिक्पुत्राणां विभागानिर्णयो येन कृतः सोऽस्मदन्तिकं प्रेषयितव्यः' इति । महाजनाश्वावगतपत्रिकाभिप्रायाः सद्यः शालिवाहनमाहूयावादिषु:--"सुमुख ! राजाधिराजो महाप्रतापशाली महावीराग्रगण्यः प्रत्यर्थिपृथ्वीपतिनमस्कृतचरणसहस्रपत्र: श्रीविक्रमादित्यमहाराजउज्जयिनीनगरावतंसः सकलार्थिलोककल्पवृक्षो भवन्तं 34 विक्रमार्कचरित्रम् - द्रष्टुमभिलपति। अतस्तत्र भवता गन्तव्यम् " इति। शालिवाहनः महाजनाः! विक्रमो नाम कियान् ? तेनाहं समाहूतो न गच्छामि। यदि तस्य प्रयोजनमति तर्हि स्वयमेवागच्छतु। मम तस्यान्तिके किमपि प्रयोजनं नास्ति ” इति। इत्थं तस्य प्रतिवचनं श्रुत्वा महाजनाः किंचिदिवासन्तुष्टचित्ताः पत्रिकामुखेन तदभिप्राय विक्रमाय निवेदयामासुः॥ शालिवाहनं दृष्टाप्राह- अथ विक्रमो विदितवृत्तान्तः कोधानलेन देदीप्यमानविग्रहोऽष्टादशाक्षौहिणीपरि वृतः प्रतिष्ठाननगरं प्राप्य शालिवाहनाय दूतमेकं प्रेषयत् । दूतश्च कुम्भकारगृहमेत्य भोः शालिवाहन ! सकलराजाधिराजो विक्रममहाराजस्त्वां समायति" इति । शालिवाहनः प्रत्यवदत् -अरे ! नाहमे काकी विक्रम द्रक्ष्यामि । किं तु चतुरङ्गबलसमेतः समराङ्गगे तं पश्येयम् १" इति। अथ दूतो राजसमीपमेत्य शालिवाहनस्य प्रतिवचनं यथावन्निवेदयामास। तच्छ्रुत्वा विक्रमो युद्धाय ऋतसन्नाहः सकररङ्गं समाजगाम। शालिवाहनोऽपि कुम्भकारगृहे स्थित मृन्मय हम्त्यश्वरथपदातं मन्त्रेण समुज्जीव्य तेन परिवृतो नगरान्निर्गय समरांगणमवजगाहे। तदानीम् - marwa दिक्कं चलितं महाञ्जलनिधिर्जातो भृशं व्याकुल: पाताले चकितो भुजङ्गमपतिः पृथ्वीधराः कल्पिताः। भ्रान्तेयं पृथिवी महाविषधराः क्ष्वेळं वमन्त्युत्कटं सर्व चैवमभूजगत् कलुषितं चम्बोद्वयोः सङ्गमे ॥ अथोभयोः सैन्ययोः संकुलं युद्धं समभूत्। विक्रमेण शालिवाहनसैन्यं निश्शेषं विनाशितम् । शालिवाहनोऽप्यविह्वलः “आपत्काले मां स्मर' इति पितृदत्त वरं स्मरन् पितरं नागेद्र शेत्रं सस्मार। शोषोऽपि सर्वाम सर्पान् प्रेषयामाप। तैश्च कठोरविषैर्दष्टमात्रमेव विक्रमसैन्यं सर्व गतप्राणं समराङ्गण एव घनिद्रामन्वभूत। अनन्तरं विक्रमः स्वयमेकाकी रणाङ्गणानिवृत्य सैन्यसमुज्जीवनाथ तीर्थोदकं वर्षमेक वासुकिं ध्यायञ्जपपरो बभूव । अन्ते वासुकिः प्रसन्नो भूत्वा विक्रममाव नाषे---" राजन् !
विक्रमार्कचरित्रम्
35
प्रसन्नोऽस्मि । वरं वृणीष्त्र " इति। विक्रमः प्रार्थयत
" - भोः सर्पराज ! यदि मम
प्रसन्नोऽसि तहिं भुजङ्गमविषवेगेन मूर्छितं सैन्यं सञ्चीवय '' इति। वासुकिरपि
तथा" इत्युक्त्वा सैन्यसमुज्जीवनार्थममृतधटपेकं प्रादात् । स्वीकृतामृतकुम्भो विक्रमः
कृतार्थमात्मानं मन्वानः सत्वरो यावदाजगाम प्रतिष्ठाननगरं तावमध्येमार्ग कोऽपि
ब्राह्मणः समागत्य
" ब्राह्मण! कुतः
'हरेलीलावराहस्य दंष्ट्रादण्डः स पातु वः ।
हेमाद्रिकलशा यत्र धात्री छत्रश्रियं दधौ ।'
इत्याशिषमभिवाच्य सापेक्ष इव तस्थौ। तं विक्रमोऽपृच्छत्
समागम्यते भवता ? " इति । स ' प्रतिष्ठाननगरात् " इत्याह । विक्रमः "विप्र ! सापेक्ष
इव दृश्यसे। यद्भवतापेक्ष्यते तदहं पप्रच्छामि ।" इत्यवदत् । ब्राह्मणः राजान् !
भवनथिंजनचिन्तामणिः। यतश्चिन्तितं वस्तु दातुं प्रभवति। मम चामृतपानेऽभिलाषा
वर्तते। तदीयतामयममृतकुम्भः " इति प्रार्थयत ? विक्रमोऽपृच्छन् “ विप्र! त्वं केन
प्रषितोऽसि " ? इति। ब्राह्मणः " शालिवाहनेन ” इत्याह। ततो राजा विचारयति
स्म --- " पूर्वमस्मै वान्छितं वस्तु दास्यामीति प्रतिज्ञातम् । इदानीं न दीयते
चेदपकीर्तिरधर्मश्च स्याताम् । तत्सर्वथा दातव्यमेव " इति । ब्राह्मणः "राजन्!
किं विचायते ? सज्जनो भावान्। सज्जनश्च द्विर्न भाषते। तथा चोक्तम् –
'उदयति यदि भानुः पश्चिमे दिग्विभागे
प्रचलति यदि मेरुः शीततां याति वह्निः ।
विकसति यदि पद्म पर्वताग्रे शिलायां
भवति तदनृत वै भाषितं सज्जनानाम्।।'
तथा च
m
अद्यापि नोज्झति हरः किल कालकूट
कूमों बिभर्ति धरणीं खलु पृष्ठभागे।
अम्भोनिधिर्वहति दुःसहबाडवाग्नि-
मङ्गीकृत सुकृतिनः परिपालयन्ति।
36 विक्रमार्कचरित्रम् ततः सुकृती सज्जनश्च भवान् प्रतिज्ञातमर्थं प्रदातुं यदि विचारयति, हन्त ! जितोऽधर्मेण भवति धर्मः" इत्याह । तर " इत्याह। तच्छृत्वा विक्रमः -- " ब्राह्मण ! सत्यमाह भवान् " इत्युक्त्वा तस्मा अमृतघटं प्रदाय नष्टसैन्यः केवलः स्वनगरमाजगाम। ब्राह्मणोऽपि तं बहुधा स्तुत्वा निजस्थनं गतः॥ - वार्षिकेण तपसा संपादितोऽयमनन्यसुलभोमृतघटः प्रतिज्ञाभङ्गनीरुणा सर्वसैन्य- समुज्जीवनमप्यलक्षयतामुना महानुभावेन निश्शकमर्थिने विपक्षप्रेषिताय तत्क्षणमेव दत्तः। सोढश्च विपक्षकृतः पराभवः । 'प्रतिज्ञापालनं परमो धर्मः । इति बोधितो लोकः किं बहुना ! अवाङ्मनसगोचरास्तस्य गुणाः शेषेणाप्यशेषेण वर्णयितु मशक्याः। का नाम वयम् ? यदि भवांस्तदृशगुणाविलासमात्मनि पश्यति तदा समारोहत्विदं भद्रासनम् । न वयमाक्षिपामः" इति ॥ एवं विंशसोपानं भूषयन्त्या पाञ्चालिकया प्रपञ्चितां श्रवणरमणीयां कथामाकये विस्मितो भोजस्तादृशगुणविलासमात्मन्यपश्यन् मौनेन निवृत्तः ॥ इति विंशमुपाख्यानम् ॥
पञ्चतन्त्रम् Hitem लब्धप्रणाशं नाम चतुर्थं तन्त्रम् अस्ति कस्मिंश्चित्समुद्रोपकण्ठे महाजंबूपादपः सदाफलः। तत्र च रक्तमुखो नाम वानरः प्रतिक्सति स्म। तत्र च तरोरधः कदाचित्करालमुखो नाम मकरः समुद्रसलिलान्निष्कम्य सुकोमलवालुकासनाथे तीरोपान्ते न्यविशत् । ततश्च रक्तमुखेन स प्रोक्तः नोः, भवान्समभ्यागतोऽतिथिः। तद्रक्ष्यतु मया दत्तान्यमृततुल्यानि जम्बूफलानि। एवमुक्त्वा तस्मै जम्बूफलानि ददौ। सोऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठीसुखमनुभूय भूयोऽपि स्वभवनमगात्। एवं नित्यमेव तौ वानरमकरौ जम्बूच्छायास्थितौ विविधशास्त्रगोष्ठ्या कालं नयन्तौ सुखेन तिष्ठतः। सोऽपि मकरो भक्षितशेषाणि जम्बूफलानि गृहं गत्वा स्वपल्याः प्रयच्छति । अथान्यतमे दिवसे तया स पृष्टः नाथ, कैवंविधान्यमृतफलानि प्राप्नोषि।' 10 स आह -- ‘भद्रे, ममास्ति परमसुहृद्रक्तमुखो नाम वानरः। सप्रीतिपूर्वमिमानि फलानि प्रायच्छति। अथ तयाभिहितम् यः सदैवामृतप्रायाणीदृशानि फलानि भक्षयति, तस्य हृदयममृतमयं भविष्यति। तद्यदि मया भार्यया ते प्रयोजनम् । ततस्तस्य हृदयं मह्य प्रयच्छ। येन तदायित्वा जरामरणहिता त्वया सह भोगानन्भुनज्मि ।' स आह- भद्रे मा मैवं वद । कृतः स प्रतिपन्नोऽस्माकं 15 भ्राता। अपरं फलदाता। ततो व्यापादयितुं न शक्यते। तत्त्यजैनं मिथ्याग्रहम्।। अथ मकर्याह ' त्वया कदाचिदपि मम वचनं नान्यथाकृतम्। तन्नूनं सा वानरी भविष्यति। यतस्तस्या अनुरागतः सकलमपि दिनं तत्र गमयसि। तत्त्वं ज्ञातो मया सम्यक् । Rom wwwwww
38
पञ्चतन्त्रम्
सोऽपि पन्याः पादोपसंग्रहं कृत्वा तस्याः कोपकोटिमापन्नाया
सुदीनमुवाच
'मयि ते पादपतिते किंकरत्वमुपागते।
त्वं प्राणक्लभे कस्मात्कोपने कोपमेप्यसि ।।
5
.
सापि तद्वचनमाकाश्रुप्लुतमुखी तमुवाच यदि सा तव वल्लमा
भवति, तल्किं मया भणितेऽपि तां न व्यापादयसि। अथ यदि स वानरः
तत्कस्तेन सह तव स्नेहः। तत्किं बहुना। यदि तस्य हृदय न
भक्षयामि, तन्मया प्रायोपवेशनं कृतं विद्धि।'
एवं तस्यास्तन्निश्चयं ज्ञात्वा
चिन्ताव्याकुलितहृदयः ---- किं करोमि। कथं स मे वध्यो भवति। इति
10 विचिन्त्य स वानरपार्श्वमगच्छत्।
वानरेऽपि चिरादायान्तं सोद्वेगमवलोक्य प्रोवाच - 'भो मित्र,
किमद्य चिरबेलायां समायातोऽसि। कस्मात्साह्लादं नालपसि ।
सुभाषितानि पठसि ।' स आह मित्र, आहे तव भ्रातृजायया
निष्टुरतर्वाक्यैरमिहितः - भोः कृतघ्न, मा मे त्वं स्वमुखं दर्शय। यतः त्वं
16 प्रतिदिनं मित्रमुपजीवसि। न च तस्य पुनः प्रत्युपकारं गृहदर्शनमात्रेणापि
करोषि तत्ते प्रायश्चित्तमपि नास्ति। उक्तंच
न
ब्रह्मन्ने च सुरापे च चोरे भन्नवते शटे!
निष्कृतिधिहिता सद्धिः कृतन्ने नास्ति निष्कृतिः ॥
तत्त्वं मम देवरं गृहीत्वाद्य प्रत्युपकारार्थं गृहमानय। नो चेत्त्वया सह से
20 परलोके दर्शनम् । इति। तदहं तयैवं प्रोक्तस्तव सकाशमागतः । तदद्य
तया सह त्वदथै कलहायतो ममेयती वेला विलमा। तदागच्छ मे
गृहम्। तव नृपत्नी रचितचतुष्का प्रगुणितवस्त्रमाणिक्याधुचिताभरणा
द्वारदेशबद्धवन्दनमाला सोत्कण्ठा तिष्ठति।
पञ्चतन्त्रम् 38 5 10 -- मकेट आह भो मित्र, युक्तमभिहितं मद्भातृपत्न्या। परं वयं वनचराः, युष्मदीय च जलान्ते गृहम् । तत्कथं शक्यते तत्र गन्तुं। तस्मात्तामपि मे भ्रातृपनीमत्रानय तस्या आशीर्वादं गृह्णामि । " स आह-" भो मित्र, अस्ति समुद्रान्तरे सुरम्ये पुलिनप्रदेशेऽस्मद्गृहम् । तन्मम पृष्ठमारूढः सुखेनाकुतोभयो गच्छ।” सोऽप तच्छृत्वा सानन्दमाह ---- भद्र यावं तकि विलम्ब्यते। त्वयताम् । एपोऽहं तव पृष्ठमारूढः। तथानुष्ठितेऽगाधे जलधौ गच्छन्तं मकरमालोक्य भयत्रस्तमना वानरः प्रोवाच--- “ भ्रातः, शनैः शतैर्गम्यताम् । जलकलोलैः प्लाव्यते मे शरीरम् ।" तदाकर्ण्य मकरश्चिन्तयामास । “ असावगाध जल प्राप्तो मे वशः संजातः। मत्पृष्टगतम्तिलमात्रमपि चलितुं न शक्नोति । तस्मात्कथयाम्यस्य निजाभिप्रायम् । येनाभीष्टदेवतास्मरणं करोति।" आह च-- " मित्र, त्वं मया वधाय समानीतो भाविाक्येन विश्वास्य । तास्मयतामभीष्टदेवता।" स आह-" भ्रातः किं मया तस्यास्तवापि चापकृतं येन मे वयोपायश्चिन्तितः।" मकर आह--भोः, तस्यास्तावत्तव हृदयस्यामृतमयफलरसास्वादनमृष्टस्य भक्षणे दोहदः संजातः। तेनैतदनुष्ठितम् । प्रत्युत्पन्नमतिर्वानर आह- यद्येवं तत्किं त्वया मम तत्रैव न व्याहृतम्। येन स्वयं जम्बूकोटरु सदैव 15 मया सुगुप्तं कृतम्। तद्भातृपत्न्या अर्पयामि। त्वयाहं शून्यहृदयोऽत्र कस्मादनीतः।। तदकर्ण्य मकरः सानन्हमाह - " भद्र, यद्येवं तदर्पय मे हृदयम्। येन सा दुष्टपत्नी तद्भक्षयित्वा नशनादुत्तिष्ठति। अहं त्वां तमेव जम्बूपादपं प्रापय मि '' एवमुक्त्वा तिवर्त्य जम्बूतलगात् । वानरोऽपि कथमपि जल्पितविविधदेवतोपचारपूजः तीरमासादितवान् । ततश्च दीर्धतरयङ्क्रमणेन 20 तमेव जम्बूपादपमारूढश्चिन्तयामास----" अहो लब्धास्तावत्प्राणाः । साध्विदमुच्यते-- , अथवा न विश्वसेदविश्वस्तेऽपि न विश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥
40 पञ्चतन्त्रम् -- तन्ममैतहद्य पुनर्जन्मदिनमिव संजातम्।" " इति चिन्तयमानं मकर आह- " भो मित्र, अर्पय तद्भुदयं तथा ते भ्रातृपत्नी भक्षयित्वानशनादुत्तिष्टति अथ विहस्य निर्भर्त्सयन्वानरस्तमाह -"त्रिग्धिमुर्ख विश्वासघातक, किं कस्यचिद्धदयद्वयं भवति। तदाशु गम्यताम्। जम्बूवृक्षस्याधस्तान्नाभूयोऽपि 5 त्वयात्रागन्तव्यन् । अही सच्छ्रत्वा माकरः सविलक्षं चिन्तितवान् तच्छ्रुत्वा मयातिमूढेन किमस्य स्वचित्ताभिप्रयो निवेदितः, इद्यद्यसो पुनरपि कथंचिद्विश्वास गच्छति, तद्रूयोऽपि विश्वासयामि" आह च-हाये मया तेऽनिप्रयो तस्या न किंचित्तवहृदयेन प्रोजनम् । तदागच्छास्मद्गृहम्। तव भ्रातृपत्नी सोत्कण्ठा वर्तते ” वानर आह " भो दुष्ट, गम्यताम्। 10 कपटं कृत त्वया। परं युधिष्ठिरेणेव सत्यवचनेन विनाशितम् ।” मकर आह-"कथमेतत् ।। स आह ---- लब्धः। . - कथा १ 15 कसिंचिदधिष्ठाने कुम्भकारः प्रतिवसति स्म स। कदचित्प्रमादादर्धभन्न घटखपरतीक्षणाग्रस्योपरि महता वेगेन धावन्पतितः। ततः खर्परकोट्या पाटितललाटः रुधिरप्लाविततनुः कृच्छ्रिादुत्थाय स्वाश्रयं गतः। ततश्चापथ्यसेवनात्स प्रहारस्तस्य करालतां गतः कृच्छ्रण नीरोगतां नीतः। अथ कदाचिदुर्भिक्षपीडिते देशे स कुम्भकारः क्षुरक्षामकण्ठः कैश्चिद्राजसेवकैः सह देशान्तरं गत्वा कस्यापि राज्ञः सेवको बभूव सोऽपि राजा तस्य ललाटे विकरालं प्रहारक्षतं दृष्ट्या चिन्तयामास" यद्वीरः पु षः कश्चिदयं । नूनं तेन ललाटपट्टे संमुखप्रहारः ।'
पञ्चत नम् राजपुत्र, किं अतस्तं समानादिभिः सवैषां राजपुत्राणां मध्ये विशेषप्रसादेन पश्यति स्म। तेऽपि राजपुत्राः तस्य नं प्रसादातरक पश्यन्नः परमेाधर्म वहन्ती राजभयान किंचिदूचुः। अथान्यामिनहनि नस्य भूपतेवीरसंभावनायां झियमणायां विग्रहे समुपस्थिते प्रकल्प्यमानेषु राजयु सन्नाप्रमानेषु वाजिषु यांधेषु प्रगुणाक्रियमाणेषु तेन भूभुजा स कुकारः प्रस्तावानुगत पृष्टी निभने- "मो ते नाम। का च जानिः। कमिन्समामे प्रहारोऽयं ते ललाटे लमः । " स आह---" देव, नायं शस्त्रपहारः। युधिष्ठिरानिधः कुलालोऽहं प्रकृत्या । मदहेऽनेकखर्वराज्यासन् । अब कदाभिन्मद्यपानं कृत्वा निर्गतः प्रधानन्वर्परोपरि पतितः। तस्य प्रहारविकारोऽयं मे ललाट एवं विकरालना गतः। तदाकर्ण्य राज्य सबीडमाह --- " अही, पश्चिनोऽह राजपुत्रानुकारिणानेन कुलालेन। 10 तदीयतां दागेतस्य चन्द्रार्थः।। तथानुष्ठित कुम्भकार आह -... "मा मैवं करु। पश्य मे रणे हस्तलाधवम् ।" राजा पाह.---" भोः, सर्वगुणसंपन्नी मवान् । तथापि गम्यतामा यावदेते राजपुत्रस्त्वां कुलालं न जानन्ति, तावद्भुततरमपसर। नोचेदेतेषां साकाशाद्विडम्बनां प्राप्य मारिष्यसि ॥" कुलालोऽपि तदाकार्य सत्वरं प्रणाष्टः। - 15 इत्युक्त्वा वानरः पुनरप्याह-..." धिङ्मुर्ख, यत्त्वया स्त्रियोऽर्थ एतत्कार्यमनुष्ठातुमारब्धम्। न हि त्रीणां कथचिद्विधासमुपगच्छेत्। साधु चेदमुपाख्यानकं श्रयते-- न कि दधाम कि कुर्यात्स्त्रीभिरभ्यर्थितो बरः। अनचा यत्र हेषन्ते शिरः पर्वणि भुण्डितम् ॥" 20 मकर आर "कथमेतत् । " वानरः कथयति- 12 कथा २ -- अस्ति प्रख्यातबलपौरुषः शरच्छशाक्ककिरणनिर्मलयशाः समुद्रपर्यन्तायाः पृथिव्या भर्ता नन्दो नाम राजा। तस्य सर्वशास्त्राधिगतसमस्ततत्त्वःसचिो वररुचिर्नाम। तस्य च प्रणयकलहेन जाया कुपिता। सा चातीव क्लभानेकप्रकार परितोप्यमाणापि न प्रसीदति । ब्रवीति च भर्ता--- " भद्रे, येन प्रकारेण तुष्यसि 5 तं वद। निश्चितं करोमि।" ततः कथंचित्तयोक्तम्- थदि शिरो मुण्डयित्वा मम पादयोनिपतसि, तदा प्रसादानिमुखी। " तथानुष्ठिते प्रसन्नासीत् । अथ नन्दस्य भार्यापि तथैव रुष्टा प्रसाद्यमानापि न तुष्यति। तेनोक्तम्। . "भदेः त्वया विना मुहूर्तमपि न जीवाममि। पादयोः पतित्वा त्वां प्रसादायामि। " साब्रवीत्- " यदि खलीन मुखे प्रक्षिप्याहं तव पृष्ठे समारुह्य त्वां धावयामि । 10 धावितस्तु यद्यधवद्धेषसे, तदा प्रसन्ना भवामि ।" राज्ञापि तथैवानुष्ठितम् । अध प्रभातसमये समायामुपविष्टस्य राज्ञः समीपे वररुचिरायातः। तं च दृष्ट्रा च दृष्ट्या राजा पप्रच्छ - -" भो वररुचे, किं पर्वणि मुण्डित शिरस्त्वया । सोऽब्रवीत्--- , न किं दद्यान्न किं कुर्यात्स्त्रीमिरभ्यर्थितो नरः। अनश्वा यत्र द्वेषन्ते रि: पर्वणि मुण्डितम् ॥" 15 तद्धो दुष्टमकर, त्वमपि नन्दवररुचिवस्त्रीवश्यः। ततो भद्र, आगते क्या मां प्रति वधोपायप्रयासः प्रारब्धः परं स्ववाग्दोषेणैव प्रकटीभूतः। अथ तेन सहक्दतो मकरस्य जलचरेणैवकेनागत्याभिहितसं-- " भो मकर, त्वदीया भार्यानशनोपविष्टा त्वयि चिरयति प्रणयाभिभवाद्विपन्ना ।” एवं तद्वज्रपातसदृशमाकातीव व्याकुलितहृदयः प्रलपितमेवं चकार 20 किमिदं संनातं मे मन्दभाग्यस्य। उक्तं च- "अहो, w- पञ्चतन्त्रम् 43 माता यस्य गृहे नास्तिं भार्या च प्रियवादिनी । अरण्य तेन गन्तव्यं यथाराण्यं तथा गृहम् ॥ तन्मित्र क्षम्यताम् । मया तेऽपराधः कुतः। संप्रत्यहं तु स्त्रीवियोगाद्वैश्वानरप्रवेशं करिष्यामि।" तच्छुत्वा त्वा वानरः प्रहसन्प्रोवाच --- " भोः, ज्ञातो मया प्रथममेव यत्त्वं स्त्रींवश्यः स्त्रीजितश्च । सांप्रतं च प्रत्ययः संजातः। तन्मूढ, आनन्देऽपि । जाते त्वं विषाद गतः। तादृम्भार्यायां मृता प्रामुत्सवः कर्तुं युज्यते ।” मकर आह-" भो मित्र, अस्त्वेतत् । परं किं करोमि ममानर्थद्वयमेतत्संजातम् । एकस्तावद्हनङ्गः, अपरस्त्वद्विघेन मित्रेण सह चित्तविश्लेषः। अथवा भवत्येवं दैवयोगात्। एवं तस्य कथयतः पुनरन्येन जलचरेणागत्य निवेदितम् - " यदहो, 10 त्वदीयं गृहमप्यपरेण महामकरण गृहीतम्। " तत्वासावतिदुःखितमानास्तं गृहानिःसारयितुमुपायं चिन्तयन्नुवाच " अहो, पश्यतां में दैवोपहतत्वम्। मित्र द्यमित्रतां यातमपरं मे प्रिया मृता । गृहमन्येन च व्याप्तं किमद्यापि भविष्यति ॥ - तत्किं करोमि। किमनेन सह युद्धं करोमि। किं वा सानैव संबोध्य 15 गृहानिःसारयामि। किंवा सेद दान वा करोमि। अथवामुमेव वानरमित्र पृच्छामि।" एवं संप्रधार्य भूयोऽपि तमेव जम्बूवृक्षमारूढं कपिमपृच्छत मित्र, पश्यमे मन्दभाग्यताम्। यासंप्रति गृहमपि में बलवत्तरेण रूद्धम् । तदहं त्वां प्रष्टुमभ्यागतः। कथय किं करोमि। सामदीनामुपायानां मध्ये कस्यत्र विषयः।" स आह.-"भोः कृतन्न, पामचरिन् , मया निरुद्धोऽपि किं 20 भूयो मामनुसरसि। नहं तव मूर्खस्योपदेशमपि दास्यामि। तच्छ्रुत्वा मकर-माह-"भो मित्र, सापरावस्य मे पूर्वस्नेहमनुस्मृत्य हितोपदेशं देहि ।" 7 44 पञ्चतन्त्रम् वानर आह-" नाहं ते कथयिष्यामि। यद्भार्यावाक्येन भवताहं समुद्रे प्रक्षेप्नं नीतः। तदेवं न युक्तं। यद्यपि भार्या सर्वलोकापपि वलभा भवति तथापि न मित्राणि बान्धवाश्च भार्यावाक्येन समुद्रे प्रक्षिप्यन्ते । तन्मूर्ख, मूढत्वेन नाशस्तव मया प्रागेव निवेदित। " आसीत् " मकरः प्राह-.-."भद्र, सर्वथ 5 कृतघ्नस्यापि मे कुरु प्रासादमुपदेशप्रदानेन। उक्तं च- उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते॥ - तदाकाय वानरः प्राह - भद्र, यद्येवं तार्हि तत्र गत्वा तेन युद्धं कर स्वजातीयं रिपुं युद्धेन परिभूय दिशोमागं कुरु । नो चेत्पश्चाद्धमूलादीनात्त्वमपि 10 विनाशमाप्स्यसि। उक्तं च- दुर्मिक्षाणि विचित्राणि शिथिलाः पौरयोषितः । एष दोषो हिदेशत्य स्वजातिर्यद्विरुध्यते ॥
मालविकाग्निमित्रम् प्रथमोङ्कः ( उत्तर भागः) राजा --- भगवति, अत्रभवतोः हरदत्तगणदासयोः पस्परं विज्ञानसंघर्षिणोः भगवत्या प्रानिकपदमध्यासितव्यम् । परिवाजिका - ( सस्मितम् ) अलमुपालम्थेन । पत्तने सति प्रामेरनपरीक्षा ॥ राजा amerpasandwa नैतदेवम् । पण्डितकौशिकी खलु भगवती पक्षपातिनावहं देवी च । सम्यगाह देवः। मध्यस्था भगवती नौ गुणदोषतः परिछेतु आचार्यों e- महति। daunee राजा तेन हि प्रस्तूयतां विवादः। परिवाजिका - देव, प्रयोगप्रधानं हि नाट्यशास्त्रम् । किमत्र वाग्व्यवहारेण कथं वा देवी मन्यते। देवी -- यदि मां पृछसि, तदेतयोविवाद एव न मे रोचते। देवी, न समानविद्यया परिभवनीयमवगन्तुमर्हसि। विदूषक - भवति, पश्यामः उदरभरिसंवादम्। किं मुधाः वेतनदानेनै गणदासः Pawan तेषाम्। -- mumemaina देवी ननु कलहप्रियोऽसि। विदूषकः -- मैं देवि, अन्योन्यकलहप्रिययोः मत्तहस्तिनो एकतरस्मिन् अनिर्जिते कुत उपशमः।
16 मालविकाग्निमित्रम् राजा ननु स्वाङ्गसौष्ठवातिशयमुभयोः दृष्टवती भगवती । परिवाजिका अथ किम्। राजा- तदिदानीमतःपरं किमाभ्यां प्रत्याययितव्यम् । परित्राजिका - अथ किम् । परिवाजिका तदेव वक्तुकामास्मि । - श्लिष्टा क्रिया कस्यचिदात्मसंस्था संक्रान्तिरन्यस्य विशेषयुक्ता। यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव॥ विदुषकः -- श्रुतमाचार्याभ्यां भगवत्या वचनम् । उपदेशदर्शनान्निर्णय इति। हरदत्तः परमभिमतं नः। - गणदासः - देवि, एवं स्थितम् । देवी यदा पुनर्मन्दमेधा शिष्यः उपदेशं मलिनयति तदा आचार्यस्य न दोषः। - परिव्राजिका - देवि, एवमापद्यते। विनेतुरद्रव्यपरिग्रहोऽपि बुद्धिलाघवं प्रकाशयति। देवि – ( जनान्तिकम् ) कथमिदानीं। गणदासं विलोक्य, प्रकाशम् ) अलं अर्यपुत्रस्य उत्साहकारणं मनोरथंपूरयित्वा। विरम निरर्थ कादारम्भात्।
प्रथमोङ्कः 47 विदृपकः सु तु भवती भाति। भो गणदास, संगीतपदं लब्ध्वा सरस्वत्युपायनमोदकान् खादतः किं ते मुखनिग्रहेण विवादेन । गणदासः सत्यमयमेवार्थों देवीवाक्यस्य । श्रूयतामवसरप्राप्तमिदानीम् । लधास्पदोऽस्मीति विवादभीरोः तितिक्षमाणस्य परेण निन्दाम्। यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिज वदन्ति ।। देवी अचिरोपनीतायां शिष्यायां पुनः प्रतिष्ठितस्योपदेशस्य पुनरल्याय्य प्रकाशनम्। गणदासः MHearntan अत एव मे निर्बन्धः। देवी तेन हि द्वावपि भगवत्यै उपदेशं दर्शयतम् । Maa- परिवाजिका----देवि, नैवन्याय्यम् । सर्वज्ञस्स्यापि एकाकिनो निर्णयाभ्युपगमो दोषाय। देवी ..mms (जनान्तिकम् ) मूढे, परिवाजिके मां जाप्रतीमपि सुप्तामिव करोषि ( इति सासूयं परावर्तते (राजा देवीं परिवाजकायै दर्शयति) परिवानिका m- अनिमित्तमिन्दुक्दने किमत्रभवतः पराञ्जमस्ती भवसि । प्रभवन्योऽपिहि मर्तृषु कारणकोपाः कुटुम्बिन्यः ॥
48 मालविकाग्निमित्रम् - विदृषकः ननु सकारणमेव। आत्मनः पक्षो रक्षितव्यः। (गणदास विलोक्य) दिU कोपन्याजेन देव्या पारेत्रातो भवान्। सुशिक्षितोऽपि सर्व उपदेशने न निष्णातो भवति । गणदासः muta देवी, श्रूयताम् । एवं जनो गृह्णाति। तदिदानीम् विवादे दर्शयिष्यामि क्रियासंक्रान्तिमात्मनः। यदि मां नानुजानासि परित्यक्तोऽम्यहं त्वया ॥ (इति आसनादुत्थातुमिच्छति देवी ( स्वागतम् ) का गतिः। (प्रकाशम्) प्रभवत्यचायः शिष्यजनस्य । गणदासः चिरमपदेशशङ्कितोऽस्मि। (राजानमवलोक्य) अनुज्ञातंदेव्या। तदाज्ञापयतुदेवः कस्मिन्नभिनयवस्तुनि प्रयोग दर्शयिष्यामि। Bumutne यदादिशाति भगवती। परिवाजिका किमपि देव्या मनसि ते ततः शङ्कितास्मि । - देवी भण विस्रब्धम्। प्रभवति प्रभुरात्मनः परिजनस्य । राजा मम चेति ब्रूहि । देवी - भगवति भणेदानीम् । परिवाजिका – देव, शर्मिष्ठायाः कृति चतुष्पदोत्थं छलिक दुष्प्रयोज्यमुदाहरन्ति। तत्र एकार्थसंश्रयमुभयोः प्रयोग पश्यामः । ताक्ता ज्ञातएव अत्रभवतोरुपदेशान्तरम् ।
प्रथमोङ्कः
-19
-
-
आचार्यों
यदाज्ञापयति भगवती।
विदूषकः तेन हि द्वावपि वर्गों प्रेक्षगृहे संगीतरचनां कृत्वा तत्रभवतो
दृतं प्रेषयतम् । अथवा मृदङ्गशब्द एव नोत्थापयिष्यति ।
हरदत्तः तथा। (इत्युष्ठति)
(गणदासो धारिणीमवलोकयति)
देवी (गणदासं विलोक्य) विजयी भवत्वार्यः। ननु विजयाभ्यर्थिनी
अहमार्यस्य ।
(आचायौं प्रस्थितौ)
परिवाजिका
इतस्तावत्।
आचार्यों (परिवृत्य) इमौ स्वः।
परिवाजिका निर्णयाधिकारे ब्रवीमि। सर्वाङ्गसौष्ठवाभिव्यक्तये विरल
नेपथ्ययोः पात्रयोः प्रवेशोऽस्तु।
आचार्यों नेदमावयोरुपदेश्यम्।
(इति निष्कान्तौ)
देवी (राजानमवलोक्य) यदि राजकार्येषु इदृशी उपायनिपुणता
आर्यपुत्रस्य, ततः शोभनं भवेत्।
-
Summam
-
राजा
-
अलमन्यथा गृहीत्वा। न खलु मनस्विनि मया प्रयुक्तमिदम् ।
प्रायः समानविद्याः परस्परयशः पुरोभागः ॥
(नेपथ्ये मृदङ्गध्वनिः सवैकर्ण ददाति )
50
मालविकाग्निमित्रम्
परिवाजिका
-
हन्त। प्रवृत्तं संगीतम् ।
तथा ह्येषा।
जीमृतस्तनितविशतिभिर्मयूरैरुद्रीवैरनुरसितस्य पुष्करस्य ।
निर्दादिन्युपहितमध्यमस्वरोत्था मायूरी मदयति मार्जना मनांसि ।
राजा
-
देवि, तस्याः सामाजिका भवामः।
देवो
-
(खागतम् ) अहो अविनय आर्यापुत्रस्य ।
(सबै उत्तिष्ठन्ति)
विदूषकः -- (अपवार्य) भो धीर गच्छ। तत्रभवती धारिणी
विसंवादयिष्यति।
राजा धैर्यावलम्बिनमपि त्वस्यति मां मुरजवाद्य रागोऽयम् ।
अवतरतः सिद्धपथं शब्दः स्वमनोरथस्येव ।।
-
इति निष्काताः सर्वे
इति प्रथमोङ्कः।
No text on this page.
No text on this page.