Bharatiya Vidya Bhavan Library, Mumbai

Nitishatakam

Bhartuhari,. · 2012/08

PDF Proofread

Front matter

नीतिशतकम्।
निर्णयसागरमुद्रणालयाधिपतिना स्वकीयमुद्रणालये
श्रीः
भर्तृहरिविरचितं
महावलोपाकृष्णशास्त्रिविरचितया
च्यारूपया समलंकृतम् ।
"द्वितीयं संस्करणम् ।
मुंबय्यां
मुद्रयित्वा प्रसिद्धि नीतम् ।
शकाब्दाः १८१३---संवत् १९४७.

किं. ट..ख. ८ ८ ... क ... . ... ... ... विक्रीस तयार. Son: निर्णयसागर छापखान्यांतील पुस्तके संस्कृत. किं ट. ख. अध्यात्मरामायण ((. पु.).. " ग्रंथों चाग्भटकृत, अ. अनुभूतिप्रकाश-विद्यार रुणदत्तकृत सर्वांगसुं. पयस्यामिकृत्त २॥ दरा टीकेसहित अभिज्ञानशाकुंतल ना. अष्टाध्यायीसूत्रपाठ-पा. एक कालिदासकृता- शिनिकृत राघवभकृत अर्थद्यो- आदित्यहृदय व सूर्यक- तनिका टीकेसहित वच ॥ ॥ " (इंग्रजी टीपांस- आपम्नबीय देवे. Cu हित) २ आशौचनिर्णय त्र्यंबककृत ॥ अभिधानसंग्रह-प्रथम ईसन्नीतिकथा प्रथम भाग. यांत अमरसिं- भाग (कथा १-६०) . हकृत नामलिंगानु- द्वितीय भाग शासन, पुरुषोत्तमदे- (कथा ६-१२०) ॥ वकृत त्रिकांडशेष, उदासीनसाधुम्नोत्र-देव- हारावली, एकाक्षर तीर्थकृत, ब्रह्मानंद कोश, व द्विरूपकोश कृता टीकेसहित :...1 इतके कोश आले आ- ऋग्वेदी नित्यविधि हेत ४. ऋग्वेदी देवे ८॥ अमरकोशमूळ-गब्द ऋणमोचनमंगलस्तोत्र... कोशसहित ऋतुसंहार काव्य-कालि. अमरकोश सटीक-शब्द- दासकन, मणिराम- कोशसहित... ट कृत टीकेसहित अभिनवकादंबरी काव्य " इंग्रजी टीपांसहित धुंडिराजकृत ८॥ आणि शृङ्गारतिलक- अमरकोश-अमरसिंह काव्य कालिदासकृत - कृत, भानुजी दीक्षि- कथासरित्सागर-सोमदे- तकृत व्याख्यासुधा वमहकृत, किंवा रामाश्रमीटीके कादंबरी-बाणभट्टकृता सहित भानुचंद्र व सिद्धचंद्र अपधृतगीता (साधी.) यांच्या टीकासहित न किरातार्जुनीय काव्य- भष्टांगहृदय (वैद्यक भारविकृत, मलिना. " . d- ... ... १ -1 ... ४. HE ... ...

(२) ... " , ... ... टा सहित .... ... 68 ... " " ट.ख. कि. ट.ख. थत घण्टापथटीके यांसहित 12 सहिद • तुलसीमाहात्म्य दा ४॥ कुमारसंभव काव्य-का- -त्रिकालसंध्या हिरण्यके- लिदासकृत, मल्लिना. शीया (आपम्तवी) थकृत (१.८ सर्ग) ऋग्वेदीया 0 सीतारामकृत (८-१७ दंचाग्रेयसहस्रनामावलि ४५ मर्ग) संजीविनी टीके- दत्तात्रेयस्तोत्र 11 २ .. | दमयंतीस्था (नलचं)- कुवलयानंदकारिका-आ- त्रिविक्रमभकृत, च- शाधरकृत, स्वकृत - पडपालकृत विषमप- लंकारदीपिकाटीकेस- दप्रकाश टीकेसहित २ 1. हित [10] दशकुमारचरित-दण्डि- कृष्णसहस्रनाम... ८॥ कृत, पूर्वपीठिका, उ. गणपतिम्नोत्र 1 तरपीठिका, कवीन्द्र गणेशाष्टक हा सरस्वतीकृत पदच. गणेशगीता (साधी) न्द्रिकाटीका, शिवरा- मकृत भूपणाटीका, गणेशसहयनामावलि -॥ C॥ लघुदीपिकाटीका (द- गोपालसहस्रनाम, गो. शकुमारचरितावर) व पालकवच व गोपाल. पदचन्द्रिकाटीका (पू. स्तवराज यांसहित 1 वपीठिकेयर) यांस (रेशमी हित पुष्ठा) •1-10 n | दुर्गास्तोग-नारायणमह चतुःश्लोकी भागवत ॥ पर्वणीकरकन नम्नोत्रसंग्रह (यांत - देवीसहस्रनामावलि मामरम्तोत्र, कल्याण- द्वादशस्तोत्र-भगवरपादा- मंदिरनोय, एकीमा- चार्यकृत ८॥ वस्तोत्र, विपापहार- धातुरूपावलि... ८॥ म्नोत्र व जिनचतुधि- श्रीहर्षविरचित नैपधीय- शतिका इतकी नो चरित-नेपथीयमका- आहेत.) शास्य (नारायणी) ज्योतिलिंगम्नोन व नि- टीकेसहित चमानसपूजा... गा। नर्मदाष्टकम्नोत्र-शंकरा- सककौमुदी-लोगाक्षिमा चार्यकृत स्फरकृत Mi! नारदमनिम् तकसंग्रह-अमकृता नीतिशतक-मनहरिकृतः वकृत दीपिका टीका, कृष्णशास्त्री महारल. व ईग्रजी भाषांतर कृत टीकेसहित ॥ ... १॥ de दा ८॥ 11 .. C4 ... ८॥ ... 5 ... ... ...

... ... ... ... ... ... १ "" ... " ... ... ... ... 1. कि. ट. ख. नीतिगार वैराग्य-श- धिर्माटीकेसहित.... तक-महरिकृत, कृ. महिकाव्य-भकृित ज. प्णशास्त्री महायल- यमहलकृत जयमत- कृत टीकेसहित '... it. लाटीकेसहित पंचरती गीता (यांत भ. भहिकाव्याचा १४ वा व गवद्गीता, विष्णुसह- १५ या सर्ग इंग्रजी सनाम, भीमस्तव टीपांसहित. प्रत्येकस. राज, अनुस्मृति व गांस गजेंद्रमोक्ष इतकी प्र. करणे आहेत.) पंडितराज जगवाय वि. रचित भामिनीविला. (र. पु.) (स्थूला. स काव्य अच्युतराय (मध्यमाक्षर) मोडककृत प्रणयप्र- "" (सूक्ष्माक्षर) कारा टीकेसहित. (साधी) मनुस्मृति-कुलकमकृत पांडवगीता ॥ मन्वर्थमुक्तावलि टीके- पार्वतीपरिणय नाटक- सहित... याणकृत | महालक्ष्म्यष्टक... प्रश्नोत्तरपयोनिधि-बल- महावीरचरितनाटक-भ- रामदासमुनिकृत वभूतिकृत, वीरराघव- प्रसवराघव नाटक-जय- कृत टीकेसहित देवकृत मालतीमाधव नाटक-भ. प्रातःस्मरण ८॥ वभूतिकृत, त्रिपुरारि- पुरुषोत्तम सहस्रनाम... कृत टीका, नान्यदेव- वृहरस्तोगरलाकरः कृत टीका व जगद्धर- (कापडी) - कृत टीका यांसहित ब्रह्मनामावलि-शंकराचा मालविकाग्निमित्र ना. यकृत टक-कालिदासकृत, श्रीमद्भागवत मूळ (रे. काटयवेमकृत टीकसहित शमी गुटका) ॥ मालविकाग्निमित्र ना- भगवद्गीता (रेशमी पुष्ठा टक-इंग्रजी टीपांस- स्थलाक्षर) -11l.dal हित (मध्यमाक्षररे. पु.) . विशाखदत्त चिरचित मु. (सूक्ष्माक्षर) द्राराक्षस नाटक धु. माधी (मध्यमाक्षर). डिराजकृत टीकेसहित १॥ वुकसाईज (म. अ.) ) मेघदूत काव्य-कालिदा. शंकरानंदसरस्वती सकृत, मल्लिनाथकृत कृत गीतातात्पर्यवो. संजीविनी टीकेसहित . ... ... ... ... ... ... ठा .. ... ... ... " . ... Ca " "

श्रीः
भर्तृहरिविरचितं
नीतिशतकम् ।
महावलोपाकृष्णशास्त्रिविरचितया
व्याख्यया समलंकृतम् ।
द्वितीयं संस्करणम् ।
तच
मुंबय्या
निर्णयसागरमुद्रणालयाधिपतिना स्वकीयमुद्रणालये
मुद्रयित्वा प्रसिद्धि नीतम् ।
शकाब्दाः १८१३. संवत् १९४७.

एतरपुस्तकं १८६७ सप्तपट्युत्तराष्टादशशततमादिकराजनियमानुसारतः पुनर्मुद्रणाधिकारे प्रकाशयित्रा स्वायत्तीकृतमस्ति.

+ ॥श्रीः॥ विद्वदभ्यर्थना. . स्वस्तिश्रीमन्समस्तजगदाधारपरमकरुणावतारस्य घनश्यामकाल्पविटपिविश. टिविटपतटप्रकटप्रोत्कटमुमनःसमानमृदुमक्तावतंसमनःसिंहासनकृताधिया- सनस्य भगवतो नारायणस्य लीलातः प्रवर्तमानायामस्यां पञ्चम्यां भृतसृष्टी समस्तकविकलाकोविदस्याप्यवगतसकलशास्त्रस्य निजयशःमुधाधवलितविशुद्ध- विज्ञानविलसितविबुधजनमानसमन्दिरस्य नितान्तशीयॊदार्यथैर्यवीर्यगाम्भीर्यसी- शील्यादिगुणमणिगणाभरणविभूपितकलेवरस्य, पवित्रचरित्रपवित्रीकृतधरित्री- यलयस्य, सकलायनीशयन्दितचरणस्य, दिगन्तरलुटकीर्ते राजपिप्रवरस्य, श्री- मतो भर्तृहरिमहीपालस्य निजानुभवपुरःसरं संसारतत्त्वार्थसारोपदेशदेशिकी- भूतमिदं शतकत्रयात्मकं नीतिगृगारवैराग्यविषयनिवर्द्ध काव्यं समस्तजनक- स्याणाय संप्रसार्यमाणं विनुधजनचेतोमहानन्दं समुत्पादयतीति हि तावद्भयो- भूयो जोघुष्यत एव सरलवृद्रिभिर्विद्भिः ॥ तदेतत्याप्यमनन्दिनीकार्थमन्ताव्यस्तनिर्गलितनिरर्गलविषयमासीत् । ना- दशाव्यवस्थया ग्रन्थदो पालोच्य सहृदयमूचनया प्रेरितोऽहं गोदावरीतीर- विलमहीनासिकक्षेत्रनिशामिभिर्महाबन्टोपनामधेयः कृष्णशान्निमिनीनां का. य्यार्थानुगतां टीका कारयिया प्राचीनलिग्वितपवपट्पुम्नकानि मेटपिया मन्थं शोधयिया मुस्मिन्टफीलकाक्षौरसिया विदुपामप्रतः प्रसिद्धिमनेपम् । तद्धि मुधियो मदीयं मयाममभिनन्दनेन हतार्थयन्यिन्याशासे ॥

। श्रीः। श्रीमद्भर्टहरिकृतं नीतिशतकं प्रारभ्यते। भक्तचित्तानुरोधेन धत्ते नानाकृतीः स्वयम् । अद्वैतानन्दरूपो यस्तस्मै भगवते नमः ॥ १॥ गोदायास्तटवर्तिनासिकमहाक्षेने पयित्रे वस- न्चालंभट्टतनूभवो जननमूलक्ष्मीर्यदीया सती । तेनेयं विवृतिर्महावटपराभिख्येन कृष्णेन हि श्रीमद्भर्तृहरिप्रणीतशतकत्रय्याः कृता यत्नतः ॥ २ ॥ अर्थद्योतनिको भूयाद्विदुषां प्रीतयेऽनिशम् । त एवात्र विचिन्वन्तु गुणदोषो विमन्सराः ॥ ३ ॥ इह रालु राजपिप्रवरः श्रीमर्तृहरिरमयटोफसाधकं नीतिशृङ्गारवैराग्याख्य- शतकत्रयात्मकं अन्य चिकीर्षुः सदाचरणस्य नीतिज्ञानपूर्वकत्वात्तज्ञानाय प्रथमं नीतिशतकमारममाणः प्रारीप्सितस्य ग्रन्थस्याविनतासिद्धये नमस्का- रात्मकं महलमाचरति- दिफालाधनवच्छिन्नानन्तचिन्मात्रमूर्तये । स्यानुभूत्येकमानाय नमः शान्ताय तेजसे ॥१॥ दिगिति ।। दिग्दिशा । कालो भूतादिः । आदिशब्देन देशययआदि । दिल्च कालम तावादी येषां देशययादीनां तेरनवन्छिनाऽव्याताऽतए- यानन्ता चिन्माना चिपा मूर्तिहो यस्य तस्मै, शान्ताय शान्तत्सस्पाय, . रोनरी प्रकाशरपाय, भगवते ग्रामणे नमोऽसु । ननु यं नमसि तदस्तित्र- पिये किमानं तर हेतुगर्भ विशेषणमाह | स्वानुभूगोकमानायेति । सत्यानु- भगिरनुगः यहा सा सफीपाऽनुभूतिः सवेफ मानमन्नि वज्ञापकं यस्य तस्मै । अस्मिन् सनकाये का पुनरोत कचिन्होकानां पूर्णपरमारयसपन्त- या परमिटीमार पपने तद्विचारोऽत्र न एनः म मुधीभिर्विचारणीयः । भनय हाम्॥

- भर्तृहरिकृतं एवंहि पुरा वृत्तम्-जरारोगादिनाशकमायुर्वर्धकं किमपि फलं कुतश्चि- ब्राह्मणाद्भर्तृहरिणा लब्धं तत्स्वपल्यै राज्ञा दत्तं, साप्यन्यसक्तत्वादन्यस्मै दत्त- वती, सोऽपि पुरुयोऽन्यत्यै दत्तवान्, सापि पुना राज्ञे दत्तवती, तदृष्ट्वा - रमं वैराग्यमापनो राजा ससहितान्पन्यादीन्निन्दति- यां चिन्तयामि सततं मयि सा विरक्ता साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः। अस्मत्कृते च परितुप्यति काचिदन्या धिक् तां च तं च मदनं च इमां च मां च ॥२॥ यामिति || अहं यां सततं निरन्तरं हृदि चिन्तयामि सा मयि विरक्ता- ऽस्ति । साप्यन्यं जनं जारपुरुपमिच्छति वाञ्छति, स जनोऽप्यन्यस्मिंस्त्रीजने सक्त आसक्तः, यद्वाऽन्यस्यां सक्तः, सर्वनाम्नो वृत्तिमात्रे पुंचद्भावात् । अ- स्मत्कृते चास्मदर्थे त्वन्या काचित्परितुष्यति संतोपं प्राप्नोति । अतो याऽस्म- दर्थे परितुष्यति तां धिक् । अन्यसक्तं तं जनं धिक् । इमां मदीयां स्त्रियं मां च धिक् । इदं सर्वै मदनकृतमिति त मदनमपि घिगित्यर्थः । वसन्त- तिलकावृत्तम् । तदुक्तं वृत्तरत्नाकरे-"उक्ता वसन्ततिलका तमना जगी गः" इति ॥ अत्र लोके हि त्रिविधा जनाः अज्ञः सुज्ञोऽल्पज्ञश्चेति । तत्राऽद्यः सुखसा- ध्यः द्वितीयस्तु सुखतरसाध्यः तृतीयस्वसाध्य इत्याह- अशः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः। शानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥३॥ अज्ञ इति ॥ न जानातीत्यज्ञः । अर्किचिन्ज्ञ इत्यर्थः । स तु सुखं यथा- स्यात्तथाऽऽराध्यः सेव्यः। विशेषं जानातीति विशेषज्ञः स तु सुखतरमतिसुखेना- ऽऽराध्यते । ज्ञानस्य लवो लेशस्तेन दुर्विदग्धः दुःशब्दो दुष्टार्थकः हिताहित- विवेकशून्यत्वेन दुष्टं यया स्यात्तथा चतुरः ज्ञानलेशमात्रेणाऽऽत्मानं पण्डित- मन्य इति यावत् । एतादृशं नरं ब्रह्माऽपि चतुर्मुखोऽपि न रजयति न सा- धयति । न वशीकरोतीति यावत् । काऽन्येषां वार्तेत्यर्थः । आर्या वृत्तम् । तदुक्तं श्रुतबोधे-“यस्याः प्रथमे पादे द्वादश मात्रास्तथा तृतीयेऽपि । अष्टा- दश द्वितीये चतुर्थके पञ्चदश साऽऽर्या" इति ।।

1 नातिशतकम् । मूर्खजनचित्ताराधनं दुर्घटमिति बहुदृष्टान्तैः स्पष्टयति श्लोकद्रयेन- प्रसो मणिमुद्धरेन्मकरवऋदंष्ट्रान्तरा- त्समुद्रमपि संतरेत्प्रचलदूमिमालाकुलम् । भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारये- न तु भतिनिविष्टमूर्खजनचित्तमराधयेत् ॥ ४॥ प्रसह्येति ॥ मकरो जलजन्तुविशेपस्तस्य वक्रं मुखं तसंवन्धिन्यो या दंष्ट्रा- स्तोसामन्तरं मध्यं तस्मात् । “दंप्राङ्कुरात्" इत्यपि पाठः । तन्मुखपतितमपि मणि प्रसह्य हटादुद्धरेनिष्कासयेत् । तथा प्रचलन्त्यो या ऊर्मिमालास्तरङ्गप- यस्ताभिराकुलं व्याप्तं समुद्रमपि संतरेत्पारं गच्छेत् । तथा कोपितं भुजङ्गं सर्प हस्तेनोद्धृत्य शिरसि मस्तके पुष्पवत्कोऽपि धारयेत् , परंतु सत्यसति या वस्तुनि प्रतिनिविष्टमाविष्टं मूर्खजनस्य चित्तं नाराधयेन साधयेत् । न चालयेदित्यर्थः । पृथ्वी वृत्तम् । “जसी जसयला वसुग्रहयतिश्च पृथ्वी गुरुः" इति तल्लक्षणात् ।। किंच- लभेत सिकतासु तैलमपि यत्नतः पीडय- पिवेच्च मृगतृप्णिकासु सलिलं पिपासादितः। कदाचिदपि पर्यटञ्छशविपाणमासादये- न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ५॥ लभतेति ॥ कश्चिसिकताः यत्नतस्तैलनिष्कासनोपायेन, पीडयन्मर्दयन् सिकतासु वालुकास्वपि तैलं लभेत प्राप्नुयात् । तथा पिपासादिततृपापीडितो मृगतृष्णिकामु मृगजलेषु सलिलमुदकं कदाचित्पियेत् । कदाचित्पर्यटन्पर्य- टनशीलः पुरुषः शशो मृगविशेपस्तस्य विषाणं शझं ब्रह्मणाऽसृष्टमप्यासाद- येत्प्राप्नुयात् , परंतु प्रतिनिविष्टमूर्खननचित्तं नाराधयेत् । पूर्वोक्तमेव वृत्तम् ॥ खलजनाः केनाप्युपायेन सन्मार्गे वर्तयितुमतिदुःशका इत्याह- व्यालं यालमृणालतन्तुभिरसौ रोढुं समुजृम्भते छत्तुं धनमणीन्छीरीपकुसुमप्रान्तेन संनद्यते । माधुर्यं मधुविन्दुना रचयितुं क्षाराम्बुधेरीहते नेतुं वाम्छति यः खलान्पथि सतां सूक्तैः मुधास्यन्दिभिः ॥ ६ ॥ व्यालमिति ॥ यः सतां पथि मार्गे मुधाममृतं स्यन्दन्ते प्रस्रवन्ति तच्छीले सूक्तैः मुवचनैः खटान्दुर्जनानेतुं वाञ्चनीच्छति असो व्यालं सर्प दुष्टगों वा । "व्यालो दुष्टगजे स” इति मेदिनी । वाले: कोमलैर्मृणालतन्तुभिः कम- भर्तृहरिकृतं लबिसतन्तुभी रोढुं बटुं समुजृम्भते सम्यक्चेष्टते तथा वज्रमणीन्हीरकमणीन् । "वनो स्त्री हीरके पौ" इत्यमरः । शिरीषकुसुमस्य पुष्पविशेषस्य 'शिरस' इति ख्यातस्य । "शिरीपस्तु कपीतनः" इत्यमरः । प्रान्तेन प्रान्तभागेन छेत्तुं भेत्तुं संनह्यते संनद्धो भवति । तथा क्षाराम्बुधेः क्षारजलसमुद्रस्य माधुर्य मृष्टजलत्वं मधुबिन्दुना माक्षिकबिन्दुना । "मधु क्षौद्रं माक्षिकादि" इत्यमरः । रचयितुं कर्तुमीहते चेष्टते । एवं च व्यालादयो यथा मृणालतन्त्वादिभिर्बन्ध- नादि कर्तुमशक्यास्तथा केनाप्युपायेन खलजनाः सन्मार्गे वर्तयितुं दुःशका इति भावः । शार्दूलविक्रीडितं वृत्तम् । “सूर्याश्वैर्मसजस्तताः सगुरवः" इति तल्लक्षणात् ॥ इदानीमज्ञजनानामज्ञताऽऽवरणोपायमाह- ने स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः। विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥ ७॥ स्वायत्तमिति ॥ विधात्रा ब्रह्मणा अज्ञताया मौऱ्यास्य छादनमावरणम् । "छदिर् आवरणे" धातुः । मौनं तूष्णींभावः विनिर्मितं रचितम् । कीद- शम् । स्वस्याऽऽत्मन आयत्तमधीनम् । “अधीनो निम्न आयत्तः" इत्यमरः । पुनः कीदृशम् । एकान्तगुणं एकान्ता अतिशयिता गुणा यस्मिंस्तत् । “अथा- तिशयो भर" इत्युपक्रम्य । "तीनैकान्तनितान्तानि" इत्यमरः । विशेषतो विशेपेण सर्व विन्दन्ति जानन्ति ते सर्वविदस्तेपां समाजे समूहे। सभायामिति यावत् । सदसद्विवेकवती बुद्धिः पण्डा, संजाता येषां ते पण्डिताः न पण्डिता अप- ण्डितास्तेषां. विभूपणमलंकरणं भवति । अज्ञस्य स्वाज्ञानावरणे मौनादन्य उपायो लोके नास्तीति भावः । इन्द्रवना वृत्तम् । "स्यादिन्द्रवत्रा यदि तो जगी गः" इति ॥ किंचिज्ञानात्सर्वज्ञत्वाभिमानो भवति विशेषज्ञानात्तु तदभाव इति स्वर- प्टान्तेनाऽऽह-~-- यदा किंचिज्ज्ञोऽहं द्विप इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवदलिप्तं मम मनः । यदा किंचित्किचिदुधजनसकाशाद्वगतं तदा मूर्योऽस्मीति ज्वर इव मदो मे व्यपगतः ॥८॥ यदेति ॥ यदाऽहं किंचिजानातीति किंचिज्ञः, द्वाभ्यां मुखशुण्डाभ्यां - . नीतिशतकम् । पिरतीति द्विपो ‘गजः यथा मदेन मदजलेनान्धो विवेकशून्यस्तथाऽहमपि किंचिज्ज्ञत्वमदेनान्यः कार्याकार्यविवेकशून्यः समभवमासं, तदा सर्वमखिलं जानातीति सर्वज्ञोऽस्मीति मम मनोऽवलितं गर्वितमभवत् । यदा युधजनस- काशाद्विद्वज्जनसकाशाकिचित्किचिच्छात्रादिकमवगतं प्राप्तं तदा मूर्योऽस्मीति मम मनोऽभवदिति पूर्वस्येवानुपङ्गः । ततो जर इस मे मदो व्यपगतो नष्टः । यथा सदोपधेन ज्वरो गच्छति तथा विद्वज्जनसकाशात्प्राप्तेन ज्ञानेनाहं सर्व- ज्ञोऽस्मीसभिमानो गत इत्यर्थः । चर इति सरोगोपटक्षणम् । शिखरिणी. वृत्तम् । "रसे रुद्वैश्छिन्ना यमनसभला गः शिखरिणी" इति लक्षणात् ॥ इदानीं तुच्छेषु विपयेषु लुब्धं ननं श्वदृष्टान्तेन निन्दति- कृमिकुलचितं लालाक्लिनं विगन्धि जुगुप्सितं निरुपमरसं मीत्या खादन्नरास्थि निरामिपम् । सुरपतिमपि या पार्श्वस्थं विलोक्य न शकते नहि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥९॥ कृमिकुलचितमिति ।। कृमीणां कीटानां कुलः समूहश्चितं व्याप्तम् । लाला मुखमलं तेन सिन्नमाम् । “आर्दै सार्दै लिन्नम्" इत्यमरः । विगन्धि दुर्गन्धम- तएव जुगुप्सितं निन्द्यम् । निरामिपं निर्गतमामिपं मांसं यस्मात्तत् । शुष्क- मित्यर्थः । नरास्थि मनुष्यदेहास्थि, निर्गता उपमा यस्येतादृशोऽनुपमो रसः स्वादो यस्मिन्कर्मणि यथा तथा । "रसो गन्धरसे जले" इत्यारम्य "पारदस्वा- दयोः पुमान्" इति मेदिनी । प्रीत्या प्रीतिपूर्वकं खादन्भुञ्जन् श्वा शुनकः । "शुनको भपकः श्वा स्यात्" इत्यमरः । पार्श्वस्थं निकटस्थितं मुरपतिमिन्द्रं त्रि- लोक्यापि न शङ्कते न टजते । हि यस्मात्क्षुद्रोऽल्पो जन्तुः प्राणी परिग्रह- स्य फल्गुतां तुच्छतां न गणयति न मनुते किन्वतितुच्छ लोकनिन्दितमपि कर्म करोत्येवेति भावः । हरिणी वृत्तम् "रसयुगहयेन्सौं म्रौ श्लौ गो यदा हरिणी तदा" हति लक्षणात् ॥ उत्तमपदाच्युतः पुरुषोऽधःपतनं प्राप्नुवन्क्षुद्रपदं प्रामोति न पुनरुचपद- मिति गङ्गादृष्टान्तेनाह- शिरः शार्व स्वर्गात्पतति शिरसस्तत्क्षितिधरं महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् । अधोऽधो गङ्गेयं पदमुपाता स्तोकमथवा विवेकभ्रष्टानां भयति विनिपातः शतमुखः॥१०॥ - भर्तृहरिकृतं शिरः शामिति ॥ विष्णुपदादुत्तमानिर्गता गङ्गा, स्वर्गाप्रथमं शर्वः शिवस्तस्येदं शार्व शिरो मस्तकं प्रति पतति, तत्ततः शिरसः क्षितिधरं हि- मालयपर्वते पतति । उत्तुगादत्युच्चान्महीं पृथ्वी धारयतीति महीध्रः पर्वतस्त- स्मात् । “मूलविभुजादित्वात्कः" अवनि भूमि पतति, अवनेश्वापि सहस्रमुखै- र्जलधि समुद्रं पतति, एवमियं गङ्गा क्रमेणाधोधः पतन्ती स्तोकमल्पं पदमु- पुगता अथवा विवेकभ्रष्टानां सदसद्विचारशून्यानां विनिपातो विशेषेण पतनं । नीचस्थितिरिति यावत् । शतमनेकानि मुखानि द्वाराणि यस्य यस्मिन्वा एता- दृशो भवति । यथा गङ्गा उत्तमस्थानाद्विष्णुपदानिर्गता शिवमस्तकं प्रत्या- याता एतदपेक्षयाऽन्यदुत्तमं निवासयोग्यं स्थानं नास्तीति मनसि विचारमक- त्वा क्रगेण पर्वतादौ पतन्ती सहस्रमुखैजलधि उलयोरेक्याजडाश्रयं नीचगेव पदं प्राप्ता न पुनरुत्तमं पदं तथा विवेकशून्याः पुरुषा ह्यनेकद्वारैर्नीचपदमेव प्रामुवन्ति नोत्तमं पदमिति भावः । शिखरिणी वृत्तम् । लक्षणं तूक्तमेव ।। सर्वोपद्रवनिवर्तकोपायः शास्त्रे लोके च दृष्टो मूर्खबोधकोपायो न क्वाऽपि दृष्ट,इत्याह- शक्यो वारयितुं जलेन हुतभुक्छत्रेण सूर्यातपो नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभी। व्याधिर्भपजसनहैश्च विविधैर्मन्त्रप्रयोगविषं सर्वस्यौपधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौपधम् ॥११॥ शक्य इति ॥ हुतं हविरादि भुङ्क्ते इति हुतभुगग्निः "हिरण्यरेता हुतभु- " इत्यमरः । जलेनोदकेन वारयितुं शमयितुं शक्यः । शक्य इति क्रियाया यथासंभवं सर्वत्रान्वयः। सूर्यस्यातप उष्णत्वं छत्रेण, तथा समदो भदयुक्तो नागेन्द्रो गजो निशितेनाडुशेन, यथा गौश्च गर्दभश्च तो दण्डेन लगुडेन । "दण्डोऽस्त्री लगुडेऽपि स्यात्" इत्यमरः । व्याधी रोगो भेषजस्यौपधस्य सङ्ग्रहैः सेवनैः, तथा विषं विविधैरनेकैर्मन्त्रप्रयोगैः । एवं सर्वस्योपद्रवस्य शास्त्रवि. हितमौपधं निवर्तकोपायोऽस्ति परंतु मूर्खस्यौपधं शास्त्रविहितं लौकिकं च नास्ति । मूर्खत्वविघातक उपायो नास्तीत्यर्थः । शार्दूलविक्रीडितं वृत्तम् । लक्षणं तूक्तमेव ॥ .

नीतिशतकम् । यस्तु साहित्यशास्त्राधनभिज्ञः स तु नराकारः पशुरेवेसाह- साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविपाणहीनः । तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम् ॥ १२ ॥ साहित्येति ॥ साहित्यं काव्यालङ्कारादि, संगीतं गानादि, कला शिल्पं, ताभिविहीनो रहितो नरः पुच्छं लागळं विषाणं शझं ताभ्यां हीनः "पुच्छो. ऽस्त्री रामलाले, अतत्रिषु विपाणं स्यात्पशुओं" इति चामरः 1 साक्षात्प- शुरेव । ननु पशवस्तृणं भक्षयन्त्ययं तु कुतो न खादतीति चेत्तत्राह तृणमिति । तृणं न खादन्न भक्षयन्नपि जीवमान इति यत् तत्पशूनां परममुत्कृष्टं भागधेयम- दृष्टम् । अन्यथा तेषां तृणायटाभाज्जीवनमपि न स्यादिति भावः । तस्मान्म- नुष्येण साहित्यादिकमवश्यं संपादनीयमिति तात्पर्यम् । उपजातिवृत्तम् । "उपेन्द्रवन्ना जतजास्ततो गौ स्यादिंद्रवन्ना यदि तो जगी गः। अनन्तरो- दीरितलक्ष्मभाजी पादौ यदीयावुपजातयस्ताः ॥” इति तल्लक्षणात् ।। येपां विद्यादि नास्ति तेषां पशुभूतानां मनुष्यरूपेण भूमी संचरण- मित्याह- येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः।। ते मृत्युलोके भुवि भारभूता मनुप्यरूपेण मृगाश्चरन्ति ॥ १३॥ येपामिति ॥ येषां विद्याव्याकरणमीमांसादिः न नास्ति, तपो व्रतोपवा- सादि न, दानं सत्पात्रे गवादि धनार्पणं न, ज्ञानं शास्त्रीय व्यावहारिकं च न, शीलं सद्वृत्तं न, गुणः सत्त्वगुणः लोकानेकविधकार्यसाधको या न, धर्मः सदाचरणादिः न, ते मृगाः पशुभूताः "मृगः पशौ कुरङ्गे च" इति मे- दिनी । नरा भुवि भारभूताः सन्तो मनुष्यरूपेण चरन्ति संचरन्ति । विद्या- विहीना मनुष्यरूपेणोपलभ्यमाना अपि पृथिव्या भारभूताः साक्षात्पशव एवे. त्यर्थः । तथा च पुरुपेण पशुत्वनिवारकविद्यादिकमवश्यं संपादनीयमित्यनेन मुचितम् । पूर्वोक्तमेव वृत्तम् ॥ पर्वतादी वनचरैः सह भ्रमणं श्रेष्ठ, न मूर्खजनसंसर्गः स्वर्गेऽप्युचित इत्याह- परं पर्वतदुगपु मान्तं चनचरैः सह । न मूर्खजनसंपर्कः सुरेन्द्रभवनेप्यपि ।। १४॥ वरमिति ॥ पर्वतदुर्गेषु गन्तुमशक्येष्वपि स्थानेषु वने चरन्तीति चनेचरा व्याघ्रादयस्तैः सह भ्रान्तं भ्रमणम् । भावे रतः । वरमुचितम् । सुरेन्द्रभव-. । भाग भर्तृहरिएन नेष्वपि मूर्खजनस्य संपर्कः संसों वरो न भवति । तथा च भूखंजनसंसर्गः सर्वथा त्याज्य इति तात्पर्यम् । अनुष्टुव वृत्तम् ।। यस्य राज्ञो देशे कवयो निर्धनाः सन्ति स राज्ञो दोष इति मणिपरीक्षक- दृष्टान्तेनाह- शास्रोपस्तशब्दमुन्दरगिरः शिष्यप्रदेयागमा विख्याता: फययो पसन्ति विषये यस्प प्रभोनिर्धनाः। तजावं यसुधाधिपस्य फययोप्यर्थ विनापीश्वराः फुत्स्याः स्युः पुपरीक्षका हि मणयो यरर्घतः पातिताः॥१५॥ शास्त्रोपस्कृतेति ॥ यस्य प्रभो राज्ञो विपये देशे शास्त्रेण व्याकरणादि- नोपस्कृता अलङ्कृता ये शब्दास्तैः मुन्दरा गीर्वाणी येषां ते तथा शिष्येभ्यः प्रदेयो दातुं योग्यः । अध्यापनयोग्य इति यावत् । आगमः शास्त्रं येषामत एव विख्याताः प्रसिद्धाः कवयो निर्धना धनरहिता वसन्ति तद्वसुधायाः पृथिव्या अधिपस्य राज्ञो जात्यं दोपोऽस्ति न मुधियाम् । हि यतस्तेऽथ द्रव्यादि विनापीश्वराः सन्ति । तत्र दृष्टान्तः । यैः परीक्षकैर्मणयो रत्नादयोऽर्घतो मू- ल्यतः पातिताः बहुमूल्या मणयोऽल्पमूल्याः कृता अतस्ते कुपरीक्षका ज्ञान- शून्याः कुरस्या निन्द्या न तु मणय इत्यर्थः । तथा च रसानां मूल्यं यथा- धमजानन्तः परीक्षका यथा निन्द्यास्तथोक्तविधकवीनां वास्तवं स्वरूपमजा- नन्तो राजानोऽपि निन्या इति भावः । अनेन सत्येश्चर्ये राज्ञा कवयः सं- माननीया इति व्यज्यते । शार्दूलविक्रीडितं वृत्तम् ॥ इदानीं राज्ञा विद्वांसः संमाननीया न तु गर्वेण तिरस्करणीया इति नीति विद्याप्रशंसापूर्वकं तं प्रति बोधयन्नाह द्वाभ्याम्- हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा हथिभ्यः प्रतिपाद्यमानमनिशं प्रामोति वृद्धि पराम् । कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं येषां तान्प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥१६॥ हर्तुरिति । यद्धनं हर्तुश्चोरादेर्गोचरमक्षिविषयं न याति न प्रामोति तथा किमपि शं कल्याणं पुष्णाति पोपयति, सर्वदाऽर्थिभ्यो याचके भ्योऽनि- शं निरन्तरं प्रतिपाद्यमानं दीयमानमपि परामुत्कृष्टां वृद्धि प्राप्नोति । वर्धत इति यावत् ।। तदुक्तम् "अपूर्वः शब्दकोशोऽयं विद्यते तव भारति । व्ययतो वृद्धिमाप्नोति क्षयं प्राप्नोति गोपनात् ॥” इति । किंच कल्पान्तेष्वपि निधनं नाशं anmanNAL *Helminews नीतिशतकम् । न प्रयाति न गच्छति एतादृशविद्याख्यं विद्यानामकमन्तर्धनं गुप्नं धनं येपां तैः सह कः पुरुपः सर्धते स्पर्धा करोति न कोऽपि । अतो हे नृपास्तान्प्रति वयं धनवन्तो राजानः इमे त्वतिदरिद्रास्तुच्छा इति मानं गर्वमुज्झत । त्यजतेति भावः । शार्दूलविक्रीडितं वृत्तम् ।। किंच-- अधिगतपरमार्थान्पण्डितान्मावमंस्था- स्तृणमिव लघु लक्ष्मी व तान्संरुणद्धि । अभिनयमदलेखाश्यामगण्डस्थलानां न भवति विसतन्तुर्धारणं वारणानाम् ॥ १७ ॥ अधिगतेति ॥ अधिगतः प्राप्तः परमार्थो येस्तान्पण्डितान् लघु तुच्छं तृण- मिव माऽवमंस्था अपमानं मा कुरु । यतो लक्ष्मीरपि तान् नैव संरुणद्धि रोर्बु न शक्नोति । तत्र दृष्टान्तः । अभिनवो नूतनो यो मदो मदजलं तस्य लेखा पतिस्तया श्यामे गण्डस्थले येषां तेषां वारणानां गजानां विसतन्तुः कमलनालतन्तुरिणं रोधको न भवति । मालिनी वृत्तम् "ननमयययुतेयं मालिनी भोगिलोकः" इति तहक्षणात् ।। आनुपगिकगुणनिवर्तको लोको दृष्टः स्वभावसिद्धगुणं निवर्तयितुं कोऽपि समर्थो नास्तीति हंसदृष्टान्तेन दर्शयन्नाह-- अम्भोजिनीवननिवासविलासमंव हंसस्य हन्ति नितरां कुपितो विधाता। न त्वस्य दुग्धजलभेदविधी प्रसिद्धा चैदग्भ्यकीर्तिमपहर्तुमसौ समर्थः॥ १८ ॥ अम्भोजिनीति ॥ कुपितो विधाता ब्रह्मा हंसस्याम्मोजिनीनां कमलिनाना वनं निवासस्थानम् "वनं नपुंसकं तीरे निवासे" इति मेदिनी। तत्र निवासेन- यो विलासस्तमेव नितरां हन्ति नाशयति, परंत्वस्य हंसस्य दुग्धं च जलं च तयोर्भेदः पृथकरणं तस्य विधी विधाने प्रसिद्धा लोकविश्रुतां वैदग्ध्यं स्या. भाविकचातुर्यं तस्य कीर्तिमपहर्तुं दूरीकर्तुमसौ ब्रह्माऽपि न समर्थः । काऽन्यस्य वार्तेत्यर्थः । यसन्ततिलका वृत्तम् । लक्षणं तृक्तमेव ]}- अगदाघटकारेभ्यो वागलङ्कारो गरीयानित्यवश्यं स मंपादनाय इत्यभि- प्रायेणाह-- केयूरा न विभूपयन्ति पुरुषं हारा न चन्द्रोज्ज्वला न स्नानं न विलेपनं न कुसुमं नालकृता मुर्धजाः । - १० भर्तृहरिकृतं वाण्येका समलङ्करोति पुरुष या संस्कृता धार्यते क्षीयन्ते खलु भूपणानि सततं वाग्भूपणं भूपणम् ॥ १९ ।। केयूरा इति ॥ केयूरा बाहुभूपणानि पुरुषं न भूपयन्त्यलङ्कुर्वन्ति ! चन्द्रो- ज्वलाश्चन्द्रकान्तिसदृशा हारा मुक्तादिरचिता माला न, तथा स्नानं न, विलेपनं चन्दनादि न, कुसुमं पुष्पं न, अलङ्कृता मूर्धजाः केशा न, किं तु एका वाणी पुरुष समलङ्करोति सम्यग्भूपयति । सा का। या संस्कृता व्याक- रणादिसंस्कारयुक्ता विद्वद्भिर्धार्यते । यागतिरिक्तानि भूपणानि क्षीयन्ते खल न तु वाग्भूपणं क्षीयतेऽतो वाग्भूपणमेव सततं निरन्तरम् । अक्षयमिति यावत् । भूपणमलङ्करणं नान्यदिति भावः । शार्दूलविक्रीडितं वृत्तम् ।। विद्यैव नरस्य रूपादिकमस्ति तदहितो नरः पशुरेवेत्साह- विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशम्सुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं विद्या राजसु पूजिता न तु धनं विद्याविहीनः पशुः॥२०॥ विद्येति ॥ नामेति संभावनायाम् । नरस्य पुरुषस्य विद्यैवाधिकं श्रेष्ठ रूपमस्ति विद्यावन्तः कुरूपा अपि सर्वत्र मान्या भवन्ति न तथा केवलं सुरूपाः । किच प्रच्छन्नं स्वान्तस्थितत्वेनेतरानपहार्य गुप्तं च बाह्यसाधना- नपेक्षमननादिना रक्षितं च । प्रसिद्धधनं तु चोराद्यपहार्य पेटकादिरक्षितं च । विद्या, भुज्यत इति भोगोऽन्नवस्त्रादि तत्करोतीति करी । संपादिकेति यावत् । तथा यशः कीर्ति मुखमानन्दं च करोतीति यशःसुखकरी । ततिरित्यर्थः । " कृञो हेतुताच्छील्यानुलोम्येषु " इति टः । विद्यैव गुरुणा- मुपदेष्टणां गृणाति हितमुपदिशतीति गुरुरुपदेष्ट्री । विद्यैव विदेशगमने बन्धु- जनो बन्धुवद्धितकारी । परमुल्कृष्टं दैवतं विद्यैव ॥ विद्यैव राज्ञा मुष्ठ पूजिता, धनं द्रविणं तु न । अतो विद्यया विहीनो रहितः पशुरेव । तदुक्तम् "विहि- ताविहितविचारशून्यबुद्धेः श्रुतिविपर्यविधिभिर्बहिष्कृतस्य । उदरभरणमात्रके. वलेच्छोः पुरुपपशोश्च पशोश्च को विशेपः ।।" इति । तस्मात्पुरुपेण पशुल्य- व्यावृत्तये विद्यैवावश्यं संपादनीयेति तात्पर्यम् । पूर्वोक्तमेव वृत्तम् ॥ क्षमादिगुणयुक्तस्येतरैर्वचनादिभिः किमित्याह- क्षान्तिश्चेद्वचनेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां शातिश्चेदनलेन किं यदि मुहृदिव्योपधैः किं फलम् ।

नीतिशतकम् । . कि सपैयदि दुर्जनाः किमु धनविद्याऽनवधा यदि पीडा चेत्किमु भूपणैः सुकविता यद्यस्ति राज्येन किम् ॥२२॥ क्षान्तिश्चेदिति ॥ शान्तिः क्षमा चेद्वचनेन जगन्मनोहारिभाषणेन यहा दुर्जनोक्तानन्यभापणेन किम् । क्षमयैव सर्वं जगत्प्रसन्नं भवतीत्यर्थः । देहिनां शरीरिणां क्रोधोऽस्ति चेदरिभिः शत्रभिः किम् । इह लोकपरलोकबंशनादि- सबै शत्रुकर्म स एवं करिष्यतीत्यर्थः । ज्ञातिः स्वजातिः संनिधावस्ति चेद- नलेनाग्निना किम् । अग्निकृतं तापादिकं सैव करिष्यति । यदि मुहसखा हितकर्ता चदिव्योषधैरुत्तमौषधैः फलं साध्यं किम् । यद्दा मुटु सन्तुष्टं हृद- न्तःकरणम् । “स्वान्तं हृन्मानसं मनः" इत्यमरः । औपधैः शरीरहितं भवति तमुहृदा भवति । यदि दुर्जनाः खलाः सन्ति तर्हि सर्पः किम् । दंशनं विनापि दुर्जनः प्राणघातादिकरणे सर्पः किं प्रयोजनमित्यर्थः । यदि अनव- धाऽनिन्या विद्या चेद्धनेर्दव्यैः किमु । धनेन यथा मुखं तथा विद्ययैव भव- तीत्यर्थः । यदि बीडा लज्जा चेद्रूपणैर्वहिरलङ्कारः किमु । तथैवालङ्करणकार्य भवति । यदि मुटु कीर्त्यादिवर्णनचतुरा कविता पद्यादिरचनाऽस्ति चेत्तर्हि राज्येन किम् । तथैव राज्यादिमुखं भवतीत्यर्थः । वृत्तं पूर्वोक्तमेव ॥ उचितक्रियां कुर्वति जने न्यायमार्गस्थितिर्भवतीत्याह---- दाक्षिण्यं स्वजने दया परजने शाट्यं सदा दुर्जने प्रीतिः साधुजने नयो नृपजने विद्वजनेप्वार्जवम् । शौर्य शनुजने क्षमा गुरुजने नारीजने धूर्तता ये चैवं पुरुषाः कलासु कुशलास्तेप्येव लोकास्थितिः ॥ २२ ॥ दाक्षिण्यमिति ॥ स्वजने पुत्रकलबादी दाक्षिण्यमीदाय सारल्यम् । "दक्षिणे सरलोदारो" इत्यमरः । परजने स्त्रीयातिरिक्तनने दया कृपा । दुर्जने स्थलजने सदा शाड्यं पञ्चकन्यम् । साधुनने प्रीतिः । नृपजने नयो नीतिः । विद्वजनेषु पण्डितेप्याजवमृजुता । शत्रुनने शौर्य शूर- त्वम् । गुरुजने महाजने क्षमा तत्कृतोपद्रवसहनम् । नारीजने.. स्त्रीजने धूर्तता..धीर्यम् । एवंप्रकारेण ये पुरुषाः कलामु कुशला निपुणास्तेप्वेव लोकानां स्थितियायमार्गसंस्था । "संस्था तु मर्यादाधारणास्थितिः" इत्यमरः । सर्व लोकास्तदनुरोधेन वर्तन्त इत्यर्थः । पूर्वोक्तं मृत्तम् ॥ मन्मंगतिर्जाट्यहरणादिकं सर्व करोतीत्साह- जास्यं धियो हरति सिञ्चति याचि सत्यं । मानोन्नति दिशति पापमपाकरोति ।

भर्तृहरिकृतं चेतःप्रसादयति दिक्षु तनोति कीर्ति सत्संगतिः कथय किं न करोति पुंसाम् ॥ २३ ॥ जाड्यमिति ॥ सतां साधूनां संगतिः समागमः धियो युद्धेडियं मन्दतां हरति नाशयति । वाचि वाण्यां सत्यं सिञ्चति यत्संगत्या लोकाः सत्यमेव वदन्तीत्यर्थः । मानस्य संमानस्योन्नतिमुच्चतां दिशति ददाति । पापमपाक- रोति दूरीकरोति । चेतश्चित्तं प्रसादयति । अहङ्काराद्यपाकरणेन प्रसन्नतां नयतीत्यर्थः । दिक्षु दिशामु कीर्ति तनोति विस्तारयति । एवं सत्संगतिः पुंसां किंकि न करोतीति कथय वद । किं तु सर्वानान्साधयतीत्यर्थः । वसन्ततिलका वृत्तम् । लक्षणं पूर्वमुक्तम् ॥ इदानी कवीश्वरान्सर्वोत्कर्पत्वेन वर्णयति- जयन्ति ते मुकृतिनो रससिद्धाः कवीश्वराः। नास्ति येषां यशःकाये जरामरणजं भयम् ॥२४॥ जयन्तीति ॥ रसेषु शृङ्गारादिषु पक्षे पारदादिषु सिद्धाः सिद्धिमन्तः पूर्णाः। सज्जा इति यावत् । ते कवीश्वराः कवीन्द्राः मुकृतिनो धन्याः सन्तः "सु- कृती पुण्यवान्धन्यः" इत्यमरः । जयन्ति सर्वोत्कर्पण वर्तन्ते । ते के। येषां यशःकाये यशोरूपे देहे जरा च मरणं च ताभ्यां जातं भयं नास्ति । यथा सिद्धौषधरससेवनेन प्रसिद्धदेहो जरामरणभयरहितः सन्न नश्यति तथा कवीनां शृङ्गारादिरसपूर्णनानाविधकाव्यवचनजन्यं यशः कदापि न नश्यतीति भावः । अनुष्टुब् वृत्तम् ॥ "भगवत्कृपयैव पुत्रादयः सचरितादियुक्ता भवन्ति नान्यथेत्याह-- सूनुः सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः स्निग्धं मित्रमवञ्चकः परिजनो निक्रशलेशं मनः । आकारो रुचिरः स्थिरश्च विभवो विद्यावदातं मुखं तुऐ पिष्टपहारिणीष्टद्हरौ संप्राप्यते देहिना ॥ २५॥ सूनुरिति ॥ सूनुः पुत्रः सत् चरितमाचरणं यस्य । सक्रियावानित्यर्थः । अ- तिशयेन प्रिया प्रियतमा पत्नी सती पतिव्रता । "सती साध्वी पतिव्रता" इत्यमरः। म्वामी पालकः प्रसादे प्रसन्नतायामूर्ध मुखं यस्य । सर्वदा प्रसादकर्तेयर्थः । मित्रं सम्खा स्निग्धं वात्सल्यादिगुणयुक्तम् । परिजनः परिवारोऽवञ्चकः । मनो- ऽन्तःकरणं निःशेपेण गतो रागद्वेपादिजन्यलेशस्य लयो लेशो यस्मात् । आका- रो हस्तपादाद्यवयवो मूर्तिर्वा रुचिरः मुन्दरः । विभव ऐश्वर्य स्थिरश्चिरकाल- . नीतिशतकम् । स्थायी । मुखमाननं विद्ययाऽवदातं शुद्धम् । “अवदानः सिते पीते शुद्धे" इत्यमरः । इदं पूर्वोक्तं सर्व पिष्टयं जगद्धरत्युद्धरति तन्छीलम्तस्मिन् तान्छील्ये णिनिः । "जगत्स्यापिष्टमे क्लीवं वायो ना जङ्गमे त्रियु" इति मेदिनी । “विष्टप" इत्यपि पाठः । इष्टं ददातीतीष्टदो हरिस्तस्मिन् तुष्टे संतुष्टे सति देहिना शरीरिणा सम्यक्प्राप्यते । नान्यथेति भावः । शार्दूलविक्रीटिनं वृत्तम् ॥ प्राणिहिंसाधकरणमेव कल्याणमार्ग इत्याह-- प्राणाघातानिवृत्तिः परधनहरणे संयमः सत्यवाक्यं काले शक्त्या प्रदानं युवतिजनकथामूकभाषः परेषाम् । तृष्णास्रोतोविमङ्गो गुरुपु च विनयः सर्वभूतानुकम्पा सामान्यः सर्वशास्त्रेप्यनुपहतविधिः श्रेयसामेष पन्थाः॥२३॥ प्राणाघातादिति || प्राणस्य स्वस्यान्यस्य वाऽऽघातो हननं तस्मानिवृत्तिनि- वर्तनं, परेपां धनस्य द्रव्यस्य हरणे संयमश्चित्तनिग्रहः । परधनहरणे प्रवृत्त्यभाव इत्यर्थः । सत्यवाक्यं यथार्थभापणं, काले पुण्यकाले शक्तया यथाशक्त्या प्रदानं ब्राह्मणादिभ्यो दानं, परेपामन्येषां युवतिजनस्य तरुणीजनस्य कथामु मूकभा- वस्तूष्णीं भावः । वाचा परस्त्रीकथानुद्घाटनमित्यर्थः । तृष्णाया आशायाः स्रोतः प्रवाहस्तस्य विभङ्गो नाशः, गुरुषु महाजनेषु विनयो नम्रता, सर्व- भूतेषु सर्वप्राणिष्वनुकम्पा दया, एपः सर्वशास्त्रेषु अनुपहतोऽकुण्ठितः । अप्रति- पिद्ध इति यावत् । विधिविधानं यस्येतादृशः सामान्यः सर्वलोकसाधारणः श्रेयसां कल्याणानां पन्या मार्गो नान्य इत्यर्थः । स्रग्धरा वृत्तम् । "मनैर्यानां . त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्" इति तलक्षणात् ।। नीचमध्यमोत्तमानां क्रियारम्भे वैचित्र्यमाह- प्रारभ्यते न खलु विप्नभयेन नौचैः प्रारभ्य विनविहता घिरमन्ति मध्याः । विः पुनः पुनरपि प्रतिहन्यमानाः प्रारभ्य तृत्तमजना न परित्यजन्ति ॥२७॥ प्रारभ्यत इति । नाचैरविनस्यान्तरायस्य "विनोऽन्तरायः प्रत्यूहः" इन्यमरः । भयं भीतिस्तेन, कर्म न मारभ्यते ग्बलु निश्चयेन । मध्या मध्यमाः प्रारभ्य प्रारम्भ कन्या विमेन बिहनाश्चालिनाः सन्नो विरमन्ति विरामं प्राप्नुवन्ति । कर्म न कुर्यन्तीत्यर्थः । उत्तमननास्तु प्रारभ्याम्भं कृत्वा विप्नः पुनःपुनवार- . - भर्तृहरिकृतं चारं प्रतिहन्यमानाश्चाल्यमाना अपि न परित्यजन्ति । समये समये विप्ने प्राप्तेऽपि तन्निवृत्युपायं कुर्वन्ति । नारब्धं त्यजन्तीत्यर्थः । वसन्ततिकला वृत्तम् ॥ साधुवदेव वर्तितव्यं नासाधुवदिति बोधयितुं साध्वाचारप्रशंसामाह-- असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषममसिधारावतमिदम् ॥ २८ ॥ असन्त इति ।। असन्तो दुर्जनाः, अभ्यर्थितुं याचितुं योग्या अभ्या न । कृशं क्षीणं धनं यस्य स मुहृदपि न याच्यो न प्रार्थनीयः । प्रिया हिता न्यायादनपेताऽरहिता न्याय्या वृत्ति विका, मलिनं निन्धं कर्म असोः प्राणस्य भगो नाशस्तस्मिन्नप्यमुकरं दुष्करम् । प्राणभङ्गसमयेऽपि निन्द्यकर्मानाचरण- मित्यर्थः । विपदि विपत्काले उच्चैरुन्नतं स्थेयम् । स्वविपदप्रकाटनमित्यर्थः । महतां पदं स्थानमनुविधेयमनुसरणीयम् । इदं पूर्वोक्तं पपं विषममति- कठिनं असिधारेव खड्गधारेव तीक्ष्णतरं व्रतमाचरणं सतां केनोदिष्टमुपदिष्टं न केनापि । अपि तु तेपां स्वभावसिद्धमित्यर्थः । शिखरिणी वृत्तम् ।। अतिदुःखमापन्नोऽपि मानी महाजनः स्वमहत्त्वविरुद्धं नीचं कर्म न करो- तीति सिंहान्योत्स्याह- क्षुत्क्षामोऽपि जरारुशोऽपि शिघिलप्रायोऽतिफष्टां दशा मापनोऽपि विपनदीधितिरपि प्राणेपु नश्यत्स्वपि । मत्तेभेन्द्रविभिन्नकुम्भकयलपासैकपदस्पृहः कि जीर्ण तृणमत्ति मानमहतामग्रेसरः केसरी ॥ २९ ॥ भुक्षामोऽपीति ॥ क्षुधा क्षुधया क्षामो दुर्घलोऽपि जरया यशोऽपि शि. थिला शैथिल्यं प्राप्तः प्राणः शक्तिर्यस्य । "शक्तिः पराक्रमः प्राणः" इत्यमरः । की दशामापनः प्रामोऽपि विपन्ना नष्टा दीधितिदीमिर्यस्य सोऽपि प्राणे नश्याम्यपि नाशोन्मुगेषु मत्सपि मत्ता मदोन्मताभ ते इभेन्द्रा गजेन्द्राने विभिन्ना विदारिता ये कुम्भा गम्मन्दानि तसंबन्धी यः करदो मांसारिण्ट- नन्य प्रामो ममन ! भक्षणनिति यायत । तम्मिन्नेय यौका गुम्या रहा गाना येन । एनाशो माने महान्नम्नरामसा योगरी सिंहो नाग ग्निं गण- मति गाढति किम् । अपितु नेगर्थः । मानी सिंह: मभागीयं मां हिार प्राणान्नममयेऽपि यथा जाणादनगनानं कर्म न करोनि नशा मागि नातिशतकम् । भिर्महद्भिरपि प्राणान्तसमयेऽपि नीचं कर्म न कर्तव्यमिति भावः । शार्दूल- विक्रीडितं वृत्तम् ॥ मानी जनः पूर्वोक्तप्रकारेणाचरनपि स्वसत्त्वानुरूपं फलं प्रामोतीति श्व- सिंहद्दष्टान्तेनाह- स्वल्पं स्नायुवसायशेपमलिनं निर्मासमप्यस्थि गोः श्या लम्या परितोपमेति न तु तत्तस्य क्षुधाशान्तये । सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥३०॥ स्वल्पमिति ।। स्नायुरङ्गप्रत्यङ्गसन्धिवन्धनशिराविशेषः यसा मेदश्च ता- भ्यामवशेषमवशिष्टमत एव मलिनं निर्मासं मांसरहितमपि स्वयं गोपभस्या स्थि लब्ध्वा श्वा कुकुरो यद्यपि परितोपं संतोपमेति प्रामोति परंतु तदस्थि तस्य शुनः क्षुधायाः शान्तये निवृत्त्यर्थं न भवति । सिंहस्तु अङ्कमुत्सङ्गमाग- तमपि जम्बुकं शृगालम् "शृगालजम्बुककोटु" इत्यमरः । तुच्छत्वयुद्धया सक्त्वा द्विपं गजमेव निहन्ति । कृछं दुःखं गतोऽपि सर्वो जनः सत्त्वस्य स्वखभा- वस्थानुरूपमनुकुलं फलं वाञ्छति इच्छत्येव । "सत्त्वं गुणे पिशाचादी बले द्रव्यस्वभावयोः" इति मेदिनी । पूर्वोक्तमेव वृत्तम् ॥ क्षुद्रजनस्य तुच्छवं महाजनस्य धीरत्वं श्वगजदृष्टान्तेन दर्शयन्नाह- लाडूलचालनमधश्वरणावपातं भूमी निपत्य वदनोदरदर्शनं च । भ्या पिण्डदस्य कुरुते गजपुङ्गवस्तु धीरं विलोफयति चाटुशतैश्च भुते ॥ ३१ ॥ लालेति ॥ श्वा कुकुरः पिण्डं प्रासं ददातीति पिण्डदस्तस्य पुरतः पिण्ड- लोभेन लोकुलस्य पुच्छस्य चालनं तथा अधोऽधोभागे चरणयोः पादयोर- चपातः पातनं तथा भूमौ पृथिव्यां निपत्य पनित्वा चढनं मुखमुदरं च त- योर्दर्शनं च कुरुते । गनपुङ्गवो गजश्रेष्ठस्तु धीरं गभीरं यथा स्यात्तथा विलो- कपत्यवलोकयति चाटुशतैः प्रियवाक्यशतः प्रार्थितः सन् भुङ्क्ते । एवं क्षुद्र- जनः श्वयल्लोमेन मुखचालनादि करोति । महाजनस्तु गाम्भीर्येण पश्यन्नत्या- दरेण प्रियवचनलाधितः सन् मुझे इति भावः । वसन्ततिलका वृत्तम् ॥

भर्तृहरिकृतं वंशोन्नतिकारक एव पुरुपो गरीयान्नान्य इत्याह-- परिवर्तिनि संसारे मृतः को वा न जायते । स जातो येन जातेन याति वंशः समुन्नतिम् ॥ ३२ ॥ परिवर्तिनीति ॥ परिवर्तिन्यागमापायवति संसारे को न जायते जातः को वा न मृतः परंतु येन जातेनोत्पन्नेन वंशः कुलं समुन्नतिमुत्कर्ष याति प्रामोति स जातः अन्यो जातोऽप्यजातप्राय इत्यर्थः । अनुष्टुब् वृत्तम् ।। महतां द्विधा वर्तनं पुष्पस्तबकदृष्टान्तेनाह- कुसुमस्तवकस्येव द्वयी वृत्तिमनस्विनः । मूर्ध्नि या सर्वलोकस्य शीर्यते वन एव वा ॥ ३३ ॥ कुमुमेति ॥ कुमुमानां पुष्पाणां स्तबको गुन्छः । समूह इति यावत् । तस्येव प्रशस्तं मनोऽस्यास्तीति तस्य विचारवतः पुरुषस्य द्वायवयवौ यस्याः सा द्वयी द्विप्रकारिका "सङ्ख्याया अवयवे तयए" "द्वित्रिभ्यां तयस्यायज्वा" इत्ययच् "टिड्डा" इतिडी । वृत्तिवर्तनं स्थितिरित्यर्थः । द्विप्रकारत्वं च श्रद्धालौ श्रोतरि सति हितोपदेशकरणमेकम् । तदभावे तूष्णींभावेन स्थितिद्वितीयम् । कथम् । यथा सति ग्रहीतरि कुमुमस्तबकेन सर्वलोकस्य मुनि मस्तकेऽवशीयते अथवा ग्रहीतरि असति बने विशीर्यते नश्यति तथा मनस्विनः श्रोतरि सति हितो- पदेशकरणेन पूज्या भवन्त्यन्यथा...तूष्णीभावेनावतिष्टन्त इति भावः । अयमेव श्लोकः पाठभेदेन चतुरधिकशतश्लोके दृश्यते अर्थतात्पर्य त्वेकमेव परंतु बहुपुस्तकेषु दृष्टत्वात्तथैव स्थापितो न तु निष्कासितः । अनुष्टुन् वृत्तम् ॥ दुर्जनः स्वपराक्रमख्यापनार्थमतितेजस्विनं पुरुषं पीडयति नाल्पतेजसमिति राहुदृष्टान्तेनाऽऽह- सन्त्यन्येऽपि वृहस्पतिप्रभृतयः संभाषिताः पञ्चपा. स्तान्प्रत्येष विशेषविक्रमरुची राहुन वैरायते । द्वायेव असते दिनेश्वरनिशाप्राणेश्वरी भास्करी धान्त पर्वणि पश्य दानवपतिः शीविशेषातिः ॥ ३४ ॥ सन्त्यन्ये इति ॥ बृहस्पतिर्गुरुः प्रभृतिमुल्यो येषां ते, पय वा पड्दा पजपाः । "संग्न्यया व्ययासन्ना" इति बहुव्रीहिः "बहुव्रीही संख्येये" इति समासान्तो दच् अन्येऽपि मंभाविता मान्या ग्रहाः सन्ति, परंतु शीपमेव मम्तकगेगान.

नीतिशतकम् शेपावशिष्टाऽऽकृतिराकारो यस्य स दानवपतिरेप राहुयतो विशेषोऽधिको यो विक्रमः पराक्रमस्तस्मिन् रुचिः प्रीतिर्यस्य तथाभूतोऽतस्तान् प्रति न वैरायते वैरं न कुरुते "शब्दवैरकलह-" इति क्यङ् । किंतु भ्रान्तो भ्रम- णं कुर्वन् “गत्यर्थ-" इत्यादिना कतरिक्तः । भासं दीप्तिं कुरुतस्तौ दो दि- नस्य दिवसस्येश्वरः सूर्यः निशाया रात्र्याः प्राणेश्वरश्चन्द्रस्तावेव पर्वणि पूर्णि- मायाममावास्यायां च असते भक्षयते । पीडयतीति यावत् । पश्यति जनं प्रति संबोधयति यथाऽन्यान् महाविहाय राहरतितेजस्विनी सूर्याचन्द्रमसी पीडय- ति तथा दुर्जनोऽप्यल्पं जनं विहाय स्वपराक्रमख्यापनार्थ तेजस्विनं.पुरुपं.पी. ड्यतीति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ महतां चरित्रं निर्मर्यादमस्तीत्याह- वहति भुवनश्रेणी शेपः फणाफलकस्थितां कमठपतिना मध्येपृष्ठं सदा स विधार्यते । तमपि कुरुते क्रोडाधीनं पयोधिरनादरा- दहह महतां निःसीमानश्चरित्रविभूतयः॥ ३५॥ वहतीति ।। शेषः सहस्रशीपर्योऽनन्तः फणानां फटानां फलकं पट्टिका तस्यां स्थिता ताम् । भुवनस्य जगतः श्रेणी पति वहति धारयति । स शेपः कमठपतिना कूर्मरूपेण भगवता मध्येपृष्ठं । पृष्ठस्य मध्ये इत्यर्थः । सदा सर्व- कालं विधार्यते तमपि कमठपति पयोधिः समुद्रः अनादरादनायासेन कोड- मुन्सङ्गः "क्रोडमङ्कस्तथोत्सङ्गः" इति हलायुधः । तस्याधीनं स्वाधीनं कुरुते । अभ्यन्तरे धारयतीत्यर्थः । अहहेत्साश्चर्ये । महतां चरित्रस्य विभूतय ऐश्वर्याणि निःसीमानो निरखधयः सन्तीति । अनेन सर्वथा तृष्णात्याग उचित इति व्य- ज्यते । हरिणी वृत्तम् । लक्षणं तूक्तमेव ।। संशयुक्तं पितरं विहायान्यत्र स्वप्राणरक्षाकरणं नोचितमित्याह वरं पक्षच्छेदः समदमययन्मुक्तकुलिश. प्रहारएनच्छदहलदहनोद्गारगुरुभिः। नुपारादेः सूनोरहह पितरि क्लेशविवशे - न चासी संपातः पयसि पयसां पत्युरचितः। परमिति ॥ पितरि हिमाद्री क्लेशस्य दुःखस्य विवशेऽधीने सति पयसां पन्युः समुद्रस्य पयसि जले तुपारादेहिमालयस्य सनोमनाकस्यासी संपातः पतनं नो. चितो न योग्यो भवति किंतु उद्गच्छन्यो बहलोऽतिशयितो दहनोऽग्निस्तस्यो- 2 . १८ भर्तृहरिकृतं गार उद्गिरणं तेन गुरुभिः। "रुचिभिः" इति पाठे रुचिः कान्तियेषां तैरेित्यर्थः । मदेन सहितः समदो यो मघवानिन्द्रस्तेन मुक्तं त्यक्तं कुलिशं वनं तस्य प्र- हारैः पक्षाणां छेदश्छेदनं वरं श्रेष्ठो भवतीति । अनेन स्वस्य आपत्प्राप्तावप्यापद्ग- तस्य पितुस्त्यागो नोचित इति धन्यते । शिखरिणी वृत्तम् । लक्षणं पूर्व- मुक्तमेव ॥ तेजस्वी चेतनः पुरुषः परकृतविकारं न सहत इति सूर्यकान्तमणिदृष्टान्ते- नाह- । यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः । तत्तेजस्वी पुरुषः परकृतविकृति कथं सहते ॥ ३७॥ यदचेतनोऽपीति ॥ यद्यस्मादचेतनोऽपि चेतनारहितोऽपि इनकान्तः सूर्यकान्तमणिः सवितुः सूर्यस्य पादैः किरणैः पक्षे चरणैः स्पृष्टः सन् प्रज्व- लति प्रदीप्तो भवति तत्तस्मात्तेजस्वी पुरुषः परेण कृता या विकृतिर्विकारस्तां पाथं सहते । न सहत इत्यर्थः । आर्या वृत्तम् । लक्षणं तूक्तमेव ।। पराक्रमोद्दीपकस्य तेजसो हेतुर्वयो न किंतु स्वभाव एवेति सिंहशिशुद्ध- .ष्टान्तेनाह- सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिपु गजेषु । प्रकृतिरियं सत्त्वयतां न सलु वयस्तेजसो हेतुः ।। ३८ ॥ सिंह इति । शिशुरपि वालोऽपि सिंहः प्रशस्ताः कपोलाः कपोलभित्तयः "प्रशंसावचनेच" इति समासः । भित्तिशब्दः प्रशस्तवचनः । तदुक्तं गण- रनमहोदधौ । “मतल्लिकोदमिश्राः स्युः प्रकाण्डस्थलभित्तयः" इति । यद्वा प्रदेशवाचकः । "भित्तिः प्रदेशे कुड्ये च" इति विश्वः । मदेन गजमदेन मलिनाः कपोलभित्तयः प्रशस्तकपोला: कपोलप्रदेशा वा येषां तेषु गजेषु निपतति वधाय चलति इयं सत्त्ववतां वलयतां प्रकृतिः स्वभाव एव । वयो- ऽवस्था तेजसो हेतुर्न खलु निश्चयेन । आर्या वृत्तम् ॥ द्रव्यं विना सर्वे गुणास्तृणवत्तुन्छपाया इत्याह- जातियांतु रसातलं गुणगणस्तस्याप्यधो गच्छता. च्छीलं शैलतटात्पतत्यभिजनः संदघतां हिना । शीय परिणि पञमागु निपतत्वोंऽस्तु नः फेयलं येनकेन पिना गुणास्तृणलयमायाः समस्ता इमे ॥ ३९ ॥ जातिरिति || जातिमालणादिस्खजाती रसातलं यानु गराउनु । गुणानां नीतिशतकम् । . गणः समूहस्तस्य रसातलस्याप्यधोऽधोभागे गन्छतात् । शीलं सद्वृत्तम् "शीलं स्वभावे सद्वृत्ते' इत्यमरः । शैलस्य पर्वतस्य तटात्पततु । अभिजनो वंशः। "संततिगोत्रजननकुलान्यभिजनान्वयौ" इत्यमरः । वह्निनाऽग्निना संदातां भस्मीक्रियताम् । “दह भस्मीकरणे" धातुः । शौर्ये शुरत्वरूपे वे रिणि शत्री पत्रं कुलिशमाशु शीघ्रं निपततु । एवं सर्पस्य हानिर्भवतु परंतु नोऽस्माकं केवलमर्थो धनमस्तु । एकेन मुख्येन येन द्रव्येणं विना इमे पूर्वोक्ताः समस्ता गुणास्तृणस्य लयो लेशस्तत्प्रायास्तत्सदृशा अतितुच्छा भवन्ति । शार्दूलविक्रीडितं 'वृत्तम् ॥ अन्वयव्यतिरेकाम्यामर्थस्य सर्वापेक्षया श्रेष्टत्वमाह द्वाभ्याम्- तानीन्द्रियाणि सकलानि तदेव कर्म सा बुद्धिरप्रतिहता यचनं तदेव । अर्थोप्मणा विरहितः पुरुषः स एप त्वन्यःक्षणेन भवतीति विचित्रमेतत् । तानीति ॥ सकलानीन्द्रियाणि वागादीनि तान्येव पूर्वसिद्धान्येव । एव- मग्रेऽपि । कर्म क्रिया तदेव । अप्रतिहताकुण्ठिता बुद्धिः सैव, वचनं वाक्यं तदेव, स एव पुरुषः अर्थस्य द्रव्यस्योष्मा तेन विरहितः सन् क्षणेन क्षणमा- श्रेणान्य इव भवतीति एतत् विचित्रमाश्चर्यम् । एकेनार्थेन विना सर्वाणीन्द्रि- यादीनि व्यर्थानि भवन्ति । तस्मात्पुरुषेणार्थोऽवश्यं संपादनीय इति भावः । अनेन व्यतिरेको दर्शितः । वसन्ततिलका वृत्तम् ।। किंच अन्वयमाह- यस्यास्ति वि स नरः कुलीनः स पण्डितः स श्रुतवान्गुणशः। स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ।। ४१॥ यस्येति ॥ यस्य नरस्य वित्तं द्रव्यमस्ति स एव नरः कुलीनः सत्कुलोत्पन्नः स एव पण्डितः बुद्धिमान् स एव श्रुतवान् शास्त्रज्ञः "श्रुतमाणिते शास्त्रे" इति मेदिनी । स एव गुणं जानातिती गुणज्ञः गुणवेत्ता । स एव वक्ता वाग्मी । स च दर्शनीयो दर्शनयोग्यः । रूपवानिति यावत् । सर्वे पूर्वोक्का गुणाः का- ञ्चनं मुवर्णमेवाश्रयन्ति । इदं सर्वेषां धनानामुपलक्षणम् । धनसत्त्वे एव सर्वे गुणाः प्रकाशन्त इत्यर्थः । उपजातिवृत्तम् । "अनन्तरोदीरितलक्ष्मभाजी पाटी यदीयाबुपजातयस्ताः" इति ॥ राजादयो दौमन्त्र्यादिभिर्नश्यन्तीत्याह- दौर्मन्त्र्यापतिविनश्यति यतिः संगात्मुतो लालना- द्विनोऽनध्ययनाकुलं कुतनयाच्छीलं खलोपासनात् ।

२० भर्तृहरिकृतं » ह्रीमद्यानवेक्षणादपि कृषिः स्नेहःप्रवासाश्रया- न्मैत्री चाप्रणयात्समृद्धिरनयात्यागात्प्रमादाद्धनम् ॥ ४२ ।। दौर्मन्त्र्यादिति ॥ नृपती राजा दुर्मन्त्रिणो भावो दौर्मन्त्र्यं तस्मात् । दु- मन्तसेवनादित्यर्थः । नश्यति स्वराज्याद्रप्टो भवति । यतिः संन्यासी संगा-. ख्यादिसंगात् नश्यति । एवमुत्तरत्रापि नश्यतीति संबध्यते । मुतः पुत्रो ला- लनाच्छिक्षाद्यकरणादित्यर्थः । विप्रो ब्राह्मणोऽनध्ययनास्वाध्यायाफ्ठनात् , कुलं प्रतिष्टितवंशः कुतनयात्कुमार्गगामिनः पुत्रात् , शीलं सद्वृत्तम् "शीलं स्वभावे सट्टत्ते" इत्यमरः । खलस्य दुर्जनस्योपासनं सेवनं तस्मात् , हीर्लजा मद्यान्म- दिरायाः, कृषिः प्रसिद्धा अनवेक्षणाद्वारंवारमनवलोकनात्, स्नेहः प्रेम प्रवा- साश्रयादन्यत्र बहुदिवसवासात् , मैत्री मित्रत्वमप्रणयादविनयात्, समृद्धिरैश्वर्य- मनयादनीतेः, धनं त्यागादपात्रेषु दानाप्रमादादनवधानान्नश्यतीति । अनेन राजादिभिर्दुमन्तादिसेवनं न कार्यमिति धन्यते । शार्दूलविक्रीडितं वृत्तम् । द्रानभोगाभ्यां विहीनस्य धनस्य सर्वथा नाशो भवतीत्याह- दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुते तस्य तृतीया गतिर्भवति ॥४३॥ दानमिति ।। दानं सत्पात्रेषु, भोगः स्वाश्रितैः सह, नाशश्चोरादिभ्य एता. स्तिस्रो वित्तस्य द्रव्यस्य गतयो भवन्ति । तत्र प्रकारत्रैविध्यमाह । यः पुरुषः सत्पात्रेभ्यो न ददाति स्वयं न भुङ्क्ते उपभोगं न कुरते तस्य पुरुषस्य द्रव्यस्य तृतीया गति शो भवति । तस्मात्सति धने पुरुषेण नाशभयादानभोगाववश्यं कर्तव्याविति व्यज्यते । आर्या वृत्तम् ॥ याचकेषु बहुदानं कुर्वन्संपदा क्षीणोऽपि जनो विशेषेण शोभत इति ग. ण्यादिदृष्टान्तोपन्यासपूर्वकमाह- मणिः शाणोल्लोढः समरविजयी हेतिनिहतो मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः। कलाशेपश्चन्द्रः मुरतमृदिता यालललना- स्तनिम्ना शोभन्ते गलितविभवाश्चाधिपु जनाः॥४४॥ मणिरिति ॥ शाणो घर्षणप्रस्तरस्तत्रोलीदो धर्पितः । शीत इति यावत् । मणिहारकादिः, हेतिना खङ्गादिना निहतः कृतक्षतः समरविजयी. सङ्ग्रामे जयशीलो योद्धा, मदेन गजमदन क्षीणो नागो हस्ती, शरदि शरत्काले झ्या- नानि संकुचितानि । शुष्काणीति यावत् । पुलिनानि वालुकामयप्रदेशा यामु

नीतिशतकम् ।
२१
-
ताः सरितो नद्यः, काटया पोटशभागेन शेपोऽवशिष्टश्चन्द्रः, मुरते पुरुषण
मृदिता आलिङ्गनचुम्बनादिनोपर्दिताङ्गी बाटटटना नवयौवना स्त्री, एवयिषु
याचके गलितः संक्रामितो विमय ऐश्वर्य येस्ते एवंविधा जनाः । "नृपाः"
इत्यपि पाठः । तनिम्ना कार्येन । क्षीणवेनेति यायत् । अनेन पुरुषेण दानम-
पश्यं कर्तव्यमिति बोधितमिति भावः । शिखरिणी वृत्तम् ॥
बस्तुनो लघुत्वमहत्वहेतुखस्यैव नान्यदित्याह-
परिक्षीणः कश्चित्स्पृहयति ययानां प्रस्तये
स पचासंपूर्णी गणयति धरित्री तृणसमाम् ।
मतवानकान्स्याद्गुगलघुतयाऽर्थेषु धनिना-
मयम्पा घस्तूनि प्रथयति च संकोचयति च ।। ४५ ॥
परिक्षीण इति ॥ कश्चिदकः पुरुषः परिक्षीणो दरिद्रः सन् ययाना प्रसु.
नये अर्धाभलिपरिमितधान्या स्पृहयति स्पृहां करोति । दरिद्रावस्थायां तामेव
पयप्रति महती मन्यत इत्यर्थः । स एव पश्चादनन्तरं धनादिभिः संपूर्णः
परिपूर्णः सन् धरित्री पृथ्वी तृणसमां तृणतुल्या गणपनि गणनां फगेति । धनि-
फारम्यायां पृथ्वीमपि तुन्छ मन्यत इत्यर्थः । अतो हेतोः अवस्व गुग्ला-
तया गुरन्येन लघुवेन च यस्तुनि प्रथयति विम्नारयति संकोचयनि च । ननु
अफै स्वरमपतो गुरुज्यं पुत्रं चाम्नि किमयम्पये साराङ्कयाह । धनिनामिति ।
धनिनाम पिपये अनेकान्यात् स्यापतो गुरन्चलपुन्ययोः परस्परथ्यभिचा-
रान् । यम स्वरूपता लगः मदरिद्राबधायां गुगर्भवति । यस म्यम्पनो गुरुः ।
सधनिकायम्मायां लगभगतोऽयम्पेय गुन्बलगुन्यकारिणीति भावः । शि-
--
गरिणी पृत्तम् ॥
गीरामनप्रकारं ग्रोधपति-
गजन् सुशुमसि यदि क्षितिधनुमनां
संगाप पम्ममिय लोकममुं पुगण।
যান ব্যাপি হেিবাকােমা
नाना पालति फन्पटनेय भूमिः॥४६॥

. भर्तृहरिकृतं अनेन पृथ्वीदोहनपूर्वकं प्रजापालनमेव राज्ञा कर्तव्यमिति तंप्रति नीतिर्बोधि- तेति । वसन्ततिलका वृत्तम् ॥ राजनीतिर्नेकविधा किंत्वनेकविधाऽस्तीति वेश्यादृष्टान्तेन वर्णयति- सत्याऽनृता च परुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या । नित्यव्यया प्रचुरनित्यधनागमा च वेश्याङ्गनेव नृपनीतिरनेकरूपा ॥४७॥ सत्येति ॥ क्वचिंत्सत्या सत्यमिश्रा । कचिदिति सर्वत्र योजनीयम् । अ- नृता असत्यमिश्रा, परुपा निष्ठुरा, "निष्टुरं परुपं ग्राम्यम्" इत्यमरः । प्रियवादो- ऽस्यामस्तीति प्रियवादिनी । प्रियभाषणयुक्तेत्यर्थः । हिंस्रा घातुका, "शरारुर्घा- तुको हिंस्रः" इत्यमरः । दयालुर्दयाशीला, अर्थपरा धनतत्परा, वदान्या दान- शीण्डा, "स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे" इत्यमरः । नित्यं व्ययो धना- पगमो यस्याम् । प्रचुरोऽधिको नित्यं धनागमो धनप्राप्तिर्यस्याम् । वेश्याङ्गनेव पण्यस्त्रीव नृपनीती राजनीतिरनेकरूपाऽनेकप्रकारा अस्ति । समये समये सत्य- भापणादियुक्ता यथा वेश्याऽनेकप्रकारा तथा राजनीतिरप्यनेकप्रकारेति भावः। पूर्वोक्तमेव वृत्तम् ॥ आज्ञादिपगुणा राजपुरुपेऽपेक्षितास्तद्विना तेषां राजाश्रयो व्यर्थ इत्याह---- आशा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणं च । येपामते पडणा न प्रवृत्ताः कोऽर्थस्तेषां पाथिवोपाथयेण ॥४८॥ आज्ञेति ॥ दुर्जनानां आज्ञा शासनं “निदेशः शासनं च सः । शिष्टिं थाज्ञा" इत्यमरः। कीर्तिर्यशः सर्वदिक्षु, ब्राह्मणानां पालनं रक्षणं,दानं सत्पात्रेभ्यः, भोगः रक्ताम्यूलादेः स्वस्मिन्, आपट्यो मित्राणां संरक्षणं च एते पूर्वोक्ताः पद्गुणा येषां न प्रवृत्ता न प्रामाः तेषां पार्थिवस्य राज्ञ उपाश्रयेणाधयेण कोऽयः किं प्रयोजनं। किमपीत्यर्थः । शालिनी वृत्तम् || "शालिन्युक्ता म्ती नगो गोऽब्धिटोकः" इति तलक्षणात् ॥ म्वप्रारब्धसंचितमय पुरुषा ट्रमन्ते नाधिकामिनि घटष्टान्तेनाह- यशाया निजमालपट्टलिपितं स्नोफ माढा धनं तत्मामोति मगम्पलेऽपि नित मेरी तनो गाधिकम् ।

नीतिशतकम् । . २३ - तीरी भव वित्तवत्सु कृपणां वृत्ति वृथा मा कृथाः। कुपे पत्य पयोनिधावपि घटो गृढाति नुल्यं जलम् ॥४९॥ यद्धारेति ॥ धात्रा ब्रह्मणा निजभालपट्टे स्वकपाले लिखितं स्तोक लघु महबह या यद्धनं तन्मरुस्थलेऽपि निर्जलदेशेऽपि प्रामोति । ततो लिखिता. दधिकं मेरी काञ्चनगिरावपि न प्राप्नोति । तत्तस्मात् धीरो भव धैर्यमालंब्य तिष्ठ । वित्तवरम धनिषु कृपणां दीनां वृत्तिं जीविका वृथा व्यर्थ मा. कृथा मा कुरु । हे जन त्वं पश्य । घटः कूपे स्वल्योदके पयोनिधावपि तुल्यं स्वप्रमा- णानुरूपं जलं गृह्णाति । नाधिकमित्यर्थः । धनेच्छना पुरुषण लाभस्य प्रारब्बा. धीनत्वाद्धनिषु कृपणया वृत्या न वर्तितव्यमिति तात्पर्यम् । शार्दूलविक्रीडितं वृत्तम् ॥ स्वाश्रिते जने तन्योक्तिप्रतीक्षा न कर्तव्येति मेवान्योक्त्या दर्शयति- त्वमेय चातकाधारोऽसीति केपां न गोचरः। फिमम्मोदयराऽस्माकं कार्पण्योक्ति प्रतीक्षसे ॥५०॥ त्वमेवेति ॥ हे अम्भोदवर हे मेघश्रेष्ट, अस्माकं चातकानां कार्पण्योक्ति देन्योक्ति कि प्रतीक्षसे इमे दीना भूत्वा मां प्रार्थयिष्यन्ति तदाऽहं वृष्टिं करो.. मीति किमिच्छसि यतस्त्वमेव चातकानां पक्षिविशेषाणामाधार आथयोऽसीति केषां गोचरः प्रत्यक्षं न किंतु सर्वेपामस्तीति । तस्मात्स्याश्रितजनदेन्योक्ति- प्रतीक्षाकरणमनुचितमिति भावः । अनुष्टु वृत्तम् ।। पुरषण कस्यापि पुरतो दीनवचनं न वक्तव्यमिति चातकान्योक्त्या दर्शयति-- रेरे चातक सावधानमनसा मित्र क्षणं श्रूयता- मम्भोदा यदयो हिसन्ति गगने सये तु नेताहशाः। फेचिष्टिभिरादयन्ति यमुधां गर्जन्ति केचिथा यं यं पश्यसि तस्य तस्य पुरतो मा बृदि दीनं यचः ॥५१॥ रेरे चातफेति ॥ रेरे इति यीप्सा नीचसंबोधने । हे चानक हे मित्र, मायधानमनसा अव्यप्रचित्तेन क्षणं क्षणमात्रं धूपताम् । हि यस्माद्गने अम्मो जलं ददातीसम्मोदा मेघा बहवः सन्ति परंतु सो पनाहशाः करणा- गन्तो न । गुनः केचिटिभिपिणेवसुधा पृषीमापन्नि जन्टयुक्तां कुर्वन्ति । केपिग प्य गर्नन्ति गर्ननां कुर्वन्ति न यान्नि । तम्माचं यं मेयं पश्यमि तस्प तस्य पुरतोऽदानं वनो पारपं गा प्रतिमा यद । भनेन ये दान.

भर्तृहरिकृतं . शीलास्तान्प्रति याचना कर्तव्या नेतरान्प्रतीति सूचितमिति भावः । शार्दू लविक्रीडितं वृत्तम् ॥ * दुर्जनस्य स्वभावसिद्धलक्षणमाह- अकरुणत्वमकारणविग्रहः परधने परयोपिति च स्पृहा । स्वजनवन्धुजनेष्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम्॥५२॥ अकरुणेति ॥ सर्वप्राणिषु अकरुणत्वं निर्दयत्वम् । अकारणविग्रहः का- रणं विना वैरम् । परस्य धने द्रव्ये तथा परस्य योपिति स्त्रियां स्पृहेच्छा । स्वजनाः बन्धुजनाश्च तेषु सहिष्णो वः सहिष्णुता न सहिष्णुता असहि- ष्णुता असहनता । दुरात्मनां दुर्जनानामिदं पूर्वोक्तं दोपचतुष्टयं प्रकृत्या स्वभा- वेन सिद्धं । नान्यतः प्राप्तमित्यर्थः । द्रुतविलम्बितं वृत्तम् । “द्रुतविलम्बितमाह नभी भरौ" इति तल्लक्षणात् ॥ विद्यालङ्कृतस्यापि दुर्जनस्य संगो न कर्तव्य इति सर्पदृष्टान्तेनाह- दुर्जनः परिहर्तव्यो विद्ययाऽलद्वतोऽपि सन् । मणिना भूपितः सर्पः किमसौ न भयंकरः ॥ ५३॥ दुर्जन इति ॥ दुर्जनोऽसजनो विद्ययाऽलङ्कृतोऽपि सन् परिहर्तुं त्यक्तुं योग्य; परिहर्तव्योऽस्ति । न सहवासयोग्य इत्यर्थः । तत्र दृष्टान्तः । असौ प्रसिद्धः सर्पः मणिना भूपितोऽपि भयं करोतीति भयंकरः "मेघर्तिभयेषु कृनः" इति खच् । “अरुपि-" इति मुम् । न कि अपि तु भयंकर एव । मणिना भूपितोऽपि सर्पो यथा भयंकरस्तथा विद्वानपि दुर्जनोऽतस्तस्य संगः सर्वथा न कर्तव्य इति भावः । अनुष्टुब् वृत्तम् ॥ गुणिनां सर्वे गुणा दुर्जनैर्दोषत्वेनैव गण्यन्ते इति वक्तुं तत्तगुणेषु तत्तदो- पारोपप्रकारमाह-- जाज्यं हीमति गण्यते पतरचौ दम्भः शुची कैतवं शूरे निपुणता जी विमतिता दैन्य प्रियालापिनि । तेजस्विन्यवलिप्तता मुखरिता वक्तर्यशक्तिः स्थिर तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनै द्वितः॥५४ ।। जाध्यमिति ॥ हीर्लजास्तीति तस्मिन्पुरुषे जडस्य भावो नाट्यमारोपय- न्तीति शेपः । एवमेवोत्तरत्रापि यथाय) बोध्यम् । व्रते रुचिः प्रीतिर्यस्य त. स्मिन्पुरुषे दम्भः परप्रतारणार्थमनुष्टानम् । शुची शुद्धपुरुये कितयस्य धूर्तस्य नीतिशतकम् । २५ भावः । कैतवं धूर्तता, शूरे शौर्यादिगुणयुक्त निघृणता निर्दयता ऋजो सरले विमतिता बुद्धिहीनता, प्रियमालपति तच्छीले पुरुपे दैन्यं दीनता, तेजस्विनि तेजोविशिष्टे अवलिप्तता गर्विष्टता, "अवलेपस्तु गर्ने स्याल्लेपने भूपणेऽपि च" इति मेदिनी। वक्तरि वचनपटी निन्दितमुखमस्य तस्य भावो मुखरता अबद्ध- मुखरता । अबद्धवक्तृत्वमिति यावत् । “दुर्मुखे मुखराबद्धौ" इत्यमरः । स्थिरे निश्चले अशक्तिः शक्तिराहित्यम् । तत्तस्मात् गुणिनां को नाम स गुणो भवेत् । यो दुर्जनेर्दुष्टजनैङ्कितोऽनारोपितदोप इत्यर्थः । शार्दूलविक्रीडितं वृत्तम् ।। हेयोपादेयतया दोपान्गुणांश्च दर्शयति- लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकः सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं निजैः सुमहिमा यद्यस्ति किं मण्डनैः सद्विद्या यदि किं धनरपयशो यद्यस्ति किं मृत्युना ॥ ५५॥ लोभश्चेदिति ॥ लोभः प्राप्तेऽप्यर्थेऽधिकप्राप्तीच्छा चेत् अगुणेन गुणरादि: त्येन किम् । एकस्मिन्लोमे सति सर्वगुणानां व्यर्थत्यादित्यर्थः । तदुक्तं भाग- यते "यशो यशस्विनां शुद्ध श्लाघ्या ये गुणिनां गुणाः । लोभः खल्योऽपि तान्हन्ति श्वित्रो रूपमिवेप्सितम्" इति । पिशुनस्य दुर्जनस्य भावः पिशुनता दुर्जनता । "पिशुनो दुर्जनः खलः" इत्यमरः । सर्वेषां पापानां पिशुनतायामे- वान्तर्भायादित्यर्थः । सत्यं यथार्यभापणं चेत्तपसा कृच्छ्रचान्द्रायणादिना किम् । सत्येनेय कृच्छादिफलप्राप्तेरित्यर्थः । तदुक्तं श्रुती "सत्यं परं पर५ सत्य स. रयेन न सुवर्गालोकाच्यवन्ते कदाचन सता हि सत्यं तस्मात्ससे रमन्ते । सत्येन वायुरावाति सत्येनादियो रोचते दिवि सत्यं वाचः प्रतिष्टा सत्ये सर्व प्रतिष्टितं तस्मात्सत्यं परमं वदन्ति इति । यदि मनोन्तःकरणं शुचि शुद्धं चेत्ती- थैन तीर्थनानेन किम् । तीर्थरगानजन्यफलस्य तेनैव जननादित्यर्थः । मुजनस्य भावः सौजन्यं यदि चेत् निजैरागीयैः किम् । मुजनतया सर्वेषामात्मीययसं. पादनादित्यर्थः । "गुणेः" इति पाटे इतर[गरित्यर्थः । सौजन्येनैवेतरगुणानां कार्यकरणादित्यर्थः । यदि मुष्टु महिमा माहात्म्यम् । ऐश्वर्यमिति यावत् । चेत् मण्डनेरितरभूषणेः किम् । तस्यैव सर्वभूषणकार्यकारिवादिन्यर्थः । यदि सद्विद्या उत्तमविद्या चेत् धनैः किम् । सबंधनेषु विद्याधनस्य प्राधान्यादि- न्यर्थः । यद्यपयशोऽपकीर्तिश्चेन्मृत्युना किम् । तस्येय मृत्युकार्यकारिवाटि- न्यर्थः । पूर्वोक्तं वृत्तम् ॥

२६ । भर्तृहरिकृतं "दुप्परिहराणि मानसिकानि दुःखानि कथयितुं तानि गणयित्वा दर्शयति- शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिज मुखमनक्षरं स्वाकृतेः । प्रभुधनपरायणः सततदुर्गत सजनो नृपाइनगतः खलो मनसि सप्त शल्यानि मे ॥५६॥ शशीति ॥ शशी चन्द्रो दिवसे धूसरः प्रभाहीनः, कामिनी स्त्री गलितं नष्टं यौवनं यस्याः सा, सरः सरोवरं विगतं वारिजं कमलं यस्मात्तत् , शो: भूना आकृतिः करचरणाद्यवयवो यस्य तस्य मुखमाननं न विद्यन्ते अक्षराणि वर्णा यस्मिन्तत् । अक्षररहितमित्यर्थः । प्रभुः स्वामी धने परायणस्तत्परः, स- जनः साधुजनः सततं निरन्तरं दुर्गतो दारिद्यं प्राप्तः खलो दुर्जनः नृपस्य राज्ञोऽगने चत्वरे गप्तः प्रातः, "अङ्गनं चत्वराजिरे" इत्यमरः । एतानि सप्त शल्यानि मे मनसि वर्तन्ते । पृथ्वी वृत्तम् । लक्षणं पूर्वमुक्तमेव ।। अत्यन्तकोपाविष्टानां राज्ञां स्वीयः कोऽपि नास्तीत्यग्निदृष्टान्तेनाह- न कश्चिच्चण्डकोपानामात्मीयो नाम भूभुजाम् । होतारमपि जुह्वानं स्पृष्टो दहति पावकः ॥ ५७॥ न कश्चिदिति ॥ चण्डोऽत्यन्तः कोपः क्रोधो येषां तेषां भुवं भुअन्ति ते भूभुजो राजानस्तेषामात्मीयः स्वकीयः कश्चित्कोऽपि नास्ति । नामेति प्रसि- द्धम् । तत्र दृष्टान्तः, जुहोति हविर्ददातीति जुहानस्तं होतारमपि तेन स्पृष्टः कृतस्पर्शः पावकोऽग्निर्दहत्येव न तु तमुपेक्षत इत्यर्थः । तथा राजानोऽपीति भावः । अनुष्टुब् वृत्तम् ॥ "सेवाधर्मोऽतिकठिन इत्याह- मौनान्मूकः प्रवचनपटुर्वातुलो अल्पको वा धृष्टः पाय यसति च तदा दूरतश्चाप्रगल्भः । क्षान्त्या भीर्यदिन सहते प्रायशो नाभिजातः सेवाधर्मः परमगहनो योगिनामप्यगम्यः॥५८॥ मौनान्मूक इति ॥ सेवाधर्मः परममत्यन्तं गहनो दुरधिगमोऽस्ति । यतो यो- गिनामप्यगम्यो ज्ञातुमशक्यः । तमेवाह । मौनान्मौनधारणान्मूकोऽस्तीत्युच्यत इति शेषः । एवमेवानेऽपि । मौनधारिणं पुरुषं मूकत्वेन गणयन्तीत्यर्थः । प्रवचने पदुः समर्थश्चेत् वातं न सहते वातुलो वातरोगी। "यातूलो यातुलोऽपिस्या- त्" इति द्विरूपकोशास्वमध्योऽपि । वातमुखसेवनयोरदन्तः 1 बाइटकादुल- नीतिशतकम् । , २७ । जिति रामाश्रमीकारः । "यातुलो वातलेऽपि स्यात्" इति हेमचन्द्रः । अथवा जल्पको याचालः । वाग्मिनं पुरुषं वाचालत्वेन वातरोगित्वेन वा गणयन्ती- त्यर्थः । पार्श्वे पार्श्वमागे वसति चेत् धृष्टोऽविनीतः । “घृष्टे धृष्णुर्वियातच" इसमरः । लजारहितो वा । "स्यादधृष्टे तु शालीनः" इत्यमरकोशेऽधृष्टश- ब्देन सलन्नस्य ग्रहणादादृष्टशब्देन निर्लजस्य ग्रहणम् सर्वदा समीपे वसन्तं पुरुषं धृष्टत्वेन निर्लजत्वेन गणयन्तीत्यर्थः । दूरतो वसतीति पूर्वस्यै- वानुपङ्गः । चेत् तदा अप्रगल्भोऽप्रौढः । दूरे वसन्तं पुरुषमप्रौढत्वेन गण- यन्तीत्यर्थः । क्षान्त्या क्षमया युक्त इति शेषः । चेत् भीरुभयशीलः । क्षमाशीलं पुरुपं भीरुत्वेन गणयन्तीत्यर्थः । यदि न सहते तदा प्रायशो चाहुल्येन नाभिजातः अज्ञोऽकुलीनो वा । "अभिजातस्तु कुलजे युधे" इत्यमरः । असहनशीलं पुरुषमज्ञत्वेनाकुलीनत्वेन गणयन्तीत्यर्थः । मन्दाक्रान्ता वृत्तम् । "मन्दाक्रान्ता जलधिपडगैर्भी न तो ताद्गुरू चेत्" इति तल्लक्षणात् ॥ नीचसेवाकारिणः मुखिनो न भवन्तीत्याह- उद्भासिताखिलखलस्य विश्वलस्य प्राग्जातविस्तृतनिजाधमकर्मवृत्तेः। दैवादवातविभवस्य गुणद्विपोऽस्य नीचस्य गोचरगतैः सुखमाप्यते कैः॥ ५९ ॥ उद्भासितेति ॥ उद्भासिताः प्रकाशिता अखिलाः खला येन तस्य विश- बलस्य प्रतिवन्धरहितस्य प्राग्जातं पूर्वजन्मनि जातमिदानी विस्तृतं निजं स्व- कीयमधमं निन्द्यं कर्म तस्मिन्वृत्तिर्वर्तनं यस्य, दैवाददृष्टादयाप्तः प्राप्तो विभव ऐश्वर्य येन तस्य, गुणान् द्वेष्टीति गुणद्विट् तस्यास्य नीचस्य जनस्य गोचर- गतेश्चक्षुविषयगतैः कः पुरुषैः मुखमाप्यते प्राप्यते । न कैश्चिदित्यर्थः । वसन्त- तिलका वृत्तम् ॥ खलसजनयोमित्रता दिनपूर्वार्धपरार्धविभागसंबन्धिच्छायेव संकोचविकास. शालिन्यस्तीति दर्शयति- आरम्भगुर्वी क्षयिणी क्रमेण लम्बी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपयर्धभिन्ना छायेव मैत्री खलसजनानाम् ॥ ६॥ आरम्भगुर्वीति ।। आरम्भे गुर्वी महती, क्रमेण क्षयिणी प्रतिक्षणं क्षय- शीटा, पुरा पूर्व लध्वी, पश्चात् पृद्धिरस्या अस्तीति वृद्धिमती, दिनस्य दिवसस्य पूर्वार्ध च परार्धे च ताभ्यां भिना, छायेव खला दुर्जनाश्च सजनाः साधवश्च - भर्तृहरिकृतं तेपां मैत्री मित्रता भवति । यथा दिनपूर्वार्धे आरम्भे छाया महती क्रमेण दिनवृद्ध्या क्षयिणी तथा खलानां मैत्री आरम्भे महती परिणामे लघ्वी भव- तीत्यर्थः । यथा दिनपरार्धे आरम्भे लघ्वी छाया पश्चादिनहासे वृद्धिमती भवति तथा सजनानां मैत्री आरम्भे लघ्वी परिणामे क्रमेण महती भवतीति. भावः । उपजातिवृत्तम् ॥ पिशुनाः कारणंविना जगति वैरिणो भवन्तीति लुब्धकधीवरदृष्टान्तपूर्वक दर्शयति- मृगंमीनसजनानां तृणजलसंतोपविहितवृत्तीनाम् । लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ ६१ ॥ मृगमीनेति ॥ जगति लोके लुब्धको व्याधः "व्याधो मृगवधाजीवो मृग- युर्लुब्धकश्च सः" इत्यमरः । धीवरः कैवर्तः "कैवर्ते दासधीवरौ" इत्यमरः । पि- शुनो दुर्जनस्ते च निष्कारणं कारणं विना वैरिणः शत्रवो भवन्ति । केपा- मित्याकाथायामाह । मृगमीनेति । तृणं च जलं च संतोषश्च तैर्विहिता वृत्ति - विका येपां तेपाम् "वृत्तिवर्तनजीवने" इत्यमरः । मृगा हरिणाश्च मीना म. स्याश्च सजना साधवश्च तेषाम् । अत्र लुब्धकधीवरौ दृष्टान्तभूती पिशुनश्च दार्टान्तिकभूतः । तथा च यथा लुन्धकधीवरौ मृगमीनयोनिष्कारणवैरिणी तथा पिशुनः सज्जनानां निष्कारणवैरी भवतीति तात्पर्यम् । आर्या वृत्तम् ।। वाञ्छादिगुणविशिष्टा नरा अतिपूज्या भवन्तीति दर्शयन्नाह- चान्छा सजनसंगमे परगुणे प्रीतिगुरौ नम्रता विद्यायां व्यसनं स्वयोपिति रतिलोकापवादाद्भयम् । भक्तिः शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खले येप्येते निवसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥ ६ ॥ वाञ्छति ।। एते पूर्वोक्ता निर्मला निर्दोषा गुणा येषु निवसन्ति तिष्ठन्ति तेभ्यो नरेभ्यो नमो नमस्कारोऽस्तु । ते नरा नमस्कारार्हाः । पूज्या इत्यर्थः । एते के तानाह-वाञ्छति । सजनानां साधूनां संगमे सहवासे याज्छा इच्छा, परेषां गुणस्तस्मिन्ग्रीतिरमिरचिः, गुरौ ममता नमूल्यम् , विद्याप वेदशास्त्रादि- विद्यायां व्यसनमासक्तिः, "व्यसनं त्वशुभे सक्ती" इति मेदिनी । स्वस्याss- स्मनो योपिति स्त्रियां रती रागः "रतिः स्मरस्त्रियां रागे" इति हेमचन्द्रः । टोके अपवादो निन्दा तस्माद्यं भीतिः, "अपवादो तु निन्दाजे" इत्यमरः । लिनि शिवे, "शिवः शूली महेश्वरः" इत्यमरः। भक्तिः परमानुरक्तिः "भक्तिः , नीतिशतकम् । २९ परानुरक्तिरीश्वरे" इति शाण्डिल्यसूत्रात् । आत्मनो मनसो दमने निग्रहे शक्तिः सामर्थ्यम, खले दुर्जने संसर्गः सहवासस्तस्य मुक्तिस्त्याग इति । शार्दूलविक्री- डितं वृत्तम् ॥ महतां स्वभाव सिद्धान् गुणानाह- विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः। यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ६३ विपदीति ॥ इदं पूर्वोक्तं सर्वे महात्मनां महतां प्रकृत्या स्वभावेन सिद्धं निष्पन्नं । न वन्यतः शिक्षितमित्यर्थः । इदं किम् । विपदि विपत्ती धीरस्य भा. यो धैर्य धीरत्वम्, अथाभ्युदये ऐश्वर्ये क्षमा शान्तिः, सदसि सभायां वाक्पटु-. ता वाक्पाटवम्, युधि सङ्ग्रामे विक्रमः पराक्रमः, यशसि सत्कीर्ताबभिरुचिः प्रीतिः, श्रुतौ वेदादिषु व्यसनमासक्तिरिति । द्रुतविलम्बितं वृत्तम् ॥ साधूनां महत्वमेव प्रकारान्तरेणाह- प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः प्रियं शत्या मौनं सदसि कथनं नाप्युपश्तेः। अनुत्सेको लक्ष्म्या निरभिभवसाराः परकथा: सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ ६४ ॥ प्रदानमिति ॥ प्रदानं ब्राह्मणेभ्यो दानं प्रच्छन्नं गुप्तं । न तु प्रसिद्धमित्यर्थः । गृहमुपगते प्राप्तेऽतिथी संभ्रमविधिरादरविधानम् , "संभ्रमः साध्वसेऽपि स्या- संवेगादरयोरपि" इति मेदिनी । प्रियं हितं कृत्वा मौनं तूष्णीमत्रस्थानं । वाचा. ऽनुद्वाटनमित्यर्थः । उपकृतेरुपकारस्यापि । अपिः समुच्चये । सदसि सभायां न कयनं कथनाभावः । स्वयं कृतस्याप्युपकारस्यानुद्घाटनमित्यर्थः । लक्ष्म्याः संपत्तेरनुत्सेकोऽगर्वः । सत्यां संपत्ती गर्वाभाव इत्यर्थः । परेयां कथाः निरभि- भयोऽभिभवरहितः सारः सारांशो यामु ताः । "चिरविभवसाराः" इति पाठे चिरं विभव एव सारो यामु ताः । इदं पूर्वोक्तं सतां विपममसिधारावतं के- नोदिष्टमिति । एतस्य व्याख्यानमष्टाविंशतिश्लोके कृतमस्ति । शिखरिणी वृत्तम् । लक्षणं तूक्तमेव ॥ सत्पात्रे दानाद्येव महतां भूपणं नान्यदिति दर्शयति- करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयिभुजयोपर्यिमतुलम् । हदि स्वच्छा वृत्तिः श्रुतमधिगतैकमतफलं विनायध्वयण प्रकृतिमहतां मण्डनमिदम् ।। ६५ ॥

३० भर्तृहरिकृतं करे इति ॥ इदं पूर्वोक्तं ऐश्वर्येण विनापि ऐश्वर्यमन्तरापि प्रकृत्या स्वभावेन महान्तस्तेषां मण्डनं भूपणं नान्यदित्यर्थः । इदं किम् । करे हस्ते श्लाघ्यः स्तु- त्यस्त्यागः सत्पात्रे दान । तदेव हस्तभूपणं। न तु कैतवादिभ्यो दानमित्यर्थः । एवमुत्तरत्राऽपि बोध्यम् | शिरसि मस्तके गुरोः पादयोः प्रणयिता नम्रता । गुरुपादयोर्मस्तकस्य नम्रीकरणमित्यर्थः । मुखे सत्या यथार्था वाणी, मुजयो- बाहोर्विजयि जयशीलमतुलमनुपमं वीर्यं बलम्, हृदि अन्तःकरणे स्वच्छा नि- मला वृत्तिर्वर्तनम्, अधिगतं प्राप्तमेकं मुख्यं व्रतमीश्वरप्राप्तिचिन्तनरूपो नि- यमः स एव तस्य फलं वा येन तत् एवंविधं श्रुतं शास्त्राद्यध्ययनम् , शा- स्वाध्ययनस्य मुख्यं फलमीश्वरज्ञानमिति तात्पर्यम् । शिखरिणी वृत्तम् ।। संपदापदोर्महतामन्तःकरणस्थितिमाह- संपत्सु महतां चित्तं भवत्युत्पलकोमलम् । आपत्सु च महाशैलशिलासंघातकर्कशम् ॥६६॥ संपत्स्विति ।। महतां चित्तमन्तःकरणं संपत्सु संपत्तिषु उत्पलवत्कमलय- कोमलं मृदु भवति, उत्सेकरहितमित्यर्थः । आपत्सु च महांश्चासौ शैलः पर्वतस्तस्य शिलानां संघातः समूहस्तद्वत्कर्कशं कठिनं विपत्काले धीरत्वं भ- जत इत्यर्थः । अनुष्टुब् वृत्तम् ॥ संसर्गवंशादेव गुणवैचित्र्यं भवतीत्युदकदृष्टान्तेन दर्शयति- संतप्तायसि संस्थितस्य पयसो नामाऽपि न शायते मुक्ताकारतया तदेव नलिनीपस्थितं राजते । स्वात्यां सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ।। ६७॥ संतप्तेति ॥ संतप्ते अयसि लोहे संस्थितस्य पयसो जटस्य नामाऽपि न ज्ञा- यते, "श्रूयते" इति पाटेऽपि स एवार्थः। संतप्तलोहसंपर्काजलं समूलं नश्य- तीत्यर्थः। तदेव जलं नलिन्याः कमलिन्याः पत्रे पणे स्थितं सन्मुक्ताकारतया राजते शोमते । नलिनीपनसंसृष्टं तदेव मौक्तिकवद्भासत इत्यर्थः । तदेव स्वात्या स्वातीनक्षत्रे सागरे समुद्रे या शुक्तिस्तस्या मध्ये पतितं सन्मौक्तिकं जायते । शुक्तिसंसर्गात्तदेव मौक्तिकं भवतीत्यर्थः । एवं प्रायेण प्रायशोऽधमम- ध्यमोत्तमगुणः संसर्गतः सहयासाजायते । यथा तप्तटोहसंसर्गादेकस्यैवोद- कस्य परिणामे वैचित्र्यं भवति तयाऽधमादिसहबासाहणवैचित्र्यं भवति । - नीतिशतकम् तस्मारपुरुषसत्तमसंसर्गः कर्तव्यो नाधममध्यमयोरिति भावः । शार्दूलविक्रीडितं वृत्तम् ।। आचरणवशात्पुत्रादिटक्षणमाह- यः प्राणयेत्सुचरितैः पितरं स पुयो यद्भर्तुरेव हितमिच्छति तत्कलनम् । तन्मिनमापदि सुसेच समझियं य- देतत्रयं जगति पुण्यरतो लमन्ते ॥ ६८॥ यः प्रीणयेदिति ।। यत् एतापूर्वोक्तं प्रयं जगति लोके पुण्यस्तः मुकृतिनो लभन्ते प्रामुवन्ति नान्य इत्यर्थः । एतत्र किम् । यः मुचरितः शोमना- चरणः पितरं जनक प्राणयेत्संतोपयेत्स एव पुत्रो नान्य इत्यर्थः । यद्भर्तुरेव हितं प्रियमिन्छति तदेव कलत्रं भार्या नान्येत्यर्थः । "कलनं श्रोणिभार्ययोः" इत्यमरः । यदापदि विपत्ती मुखे च समा समाना क्रिया यस्य तदेव मित्रं ना. न्यदित्यर्थः । यसन्ततिलका वृत्तम् ॥ प्रत्तिनिवृत्तिमार्गभेदेन मुख्यान्देवादीनेव मुखहेतूनाह--- एको देयः केशयो या शियो या होकं मित्रं भूपतिर्या यतिची। एको पासः पत्तने या घने या एका भार्या सुंदरी या दरी वा॥६९|| एक इति ॥ केशयो विष्णुळऽयया शिवः शंकरो या एको मुल्यो देयो शेय इति शेषः । एवमुत्तरत्रापि यथायोग्यो चोध्यः । हि: पादपूरणे । प्रा. तिमार्ग निवृत्तिमार्ग चोभयोरपि मुखजनकल्यादित्यर्थः । भूपती राजा या यतिः मन्यासी या एक मुन्यं मित्रं नान्यदित्यर्थः । उभयनोमयोमित्रकार्य- कारियादिति भावः । परने नगरे या योऽरण्ये या एको मुख्यो वासो पराति न्योन्यर्थः । प्रत्ती नगरे निवृत्तापरण्ये यासः मुगद इति भावः । मुंदरी रमणी या दरी पर्वतगुहा या एका मुम्या मार्या पनी नान्येन्यर्थः । प्राती सुंदरग्नी निटत्ती गुहा च मुपदेति भावः । शालिनी वृत्तम् । रक्षणं तूलमेर ॥ नानादिगुणेः साधो जगी श्या मरन्तीगाह - नप्रत्येनीममन्तः परगुणकपनःम्पान्गुणारयाएपन्न: म्यानपादयन्तो बितनगुनरारम्भययाः पग। सान्यापक्षासागुगरमुगान् गंगान्दूषयन्तः गन्तः साधयां जगति पटुमवाः कास्य नायनाया 1001 भर्तृह कृतं नम्रत्वेनेति ॥ नम्रस्य भावो नम्रत्वं तेनोन्नमन्त उन्नति गच्छन्तः । ज- गति यद्वस्तु नम्रीभूतं तदुन्नति न गच्छति सन्तस्तु नम्रीभावेनोन्नति .ग. च्छन्ति । इदमेवाश्चर्यमिति भावः । एवमेवोत्तरत्रोहनीयम् । तथा परेषां गुणा- स्तेषां कथनैः स्वान्स्वकीयान् गुणान् ख्यापयन्तः प्रकाशयन्तः सन्तः स्वार्था- संपादयन्तः । तथा परेपामर्थे विततपृथुतरारम्भयत्नाः आरभ्यन्त इत्यारम्भाः कर्तव्यकृत्यानि । महान्तश्च ते आरम्भाश्च महारम्भास्तेषु यत्नः । पृथुतरश्चासौ महारम्भयत्नश्च । विततो विस्तृतः । सर्वत्र प्रख्यात इति यावत् । पृथुतरो- ऽतिशयेन महान् एतादृशो महारम्भयन्नो येषां ते । परार्थे कर्तव्यकृत्ये- प्वतिशयेन यनकारिण इत्यर्थः । तथा आक्षेपेण भर्सनेन रूक्षाग्यक्षराणि वर्णास्तैर्मुखरं वाचालं मुखं येषां तान् "आक्षेपो भर्त्सनाकृष्टिः" इति मेदिनी। दुर्मुखान् दुष्टान् क्षान्त्या क्षमयैव दूपयन्त एतादृशाः आश्चर्येण सहिता चर्या आचरणं येषां ते सन्तः साधयो जगति बहुमता बहुमान्याः सन्तः कस्य नाभ्यर्चनीयाः पूज्या न भवन्ति । अपि तु सर्वेषामपि पूज्या भवन्तीत्यर्थः । सन्धरा वृत्तम् । “म्रनैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्" इति तलक्षणात् ।। परोपकारिणां स्वभावं वृक्षादिदृष्टान्तपूर्वकं वर्णयति- भवन्ति नम्रास्तरयः फलोद्गमे नवाम्बुभिर्भूमिविलम्यिनो घनाः । अनुद्धताः सत्पुरपाः समृद्धिभिः स्वभाव पवैप परोपकारिणाम् ॥७॥ भवन्तीति । सत्पुरुषाः सजनाः समृद्धिमिरेश्वर्यरनुद्धता भवन्ति, परोप- कारिणां परानुपकुर्वन्ति ते परोपकारिणस्तेपामेप स्वभाव एवास्ति । तत्र दृटा- न्तावाह-तरयो वृक्षाः फलानामुद्गमे प्रादुर्भावे नना भवन्ति, घना मेवाः नवानि नूतनानि अम्यूनि.जलानि तेर्भूमि विलम्यन्ते इति भूमिविटम्बिनो भवन्ति । यथा फटोद्गमादी वृक्षादयो नम्रीभवन्ति तथा ऐश्वर्यप्राप्तावपि स- रपुरुषा नम्रीभवन्तीति भावः । वंशस्यं वृत्तम् । "उतो तु वंशस्पमुदीरिनं जरी" इति तहक्षणात् ॥ फिर्णादीनां शास्त्रश्रवणादिगुणवतामेव श्रेष्टयमित्याह- श्रोत्रं श्रुतेनेय न कुण्डलेन दानेन पाणिनं तु फरणेन । विभाति कायः करणापराणां परोपकारनं तु चन्दनेन । ७२ ॥ श्रोतमिति ॥ श्रोत्रं कर्णः श्रुनेनेय मात्रभरणेने विभाति सोमने । अ. स्योत्तरत्रापि संबन्धः । कुण्डलेन कर्णभूएगेन न सोगले । तथा पागिहलो -

नीतिशतकम् ।
.
दानेन विभाति कङ्कणेन न, तथा करुणापराणां कृपापराणां कायो देहः परे-
पु उपकारविभाति चन्दनेन न विभाति । तस्माच्छास्त्रश्रवणादिकं पुरुषैरवश्यं
कर्तव्यमिति भावः । उपजातिवृत्तम् । लक्षणं तूक्तमेव ।।
सन्मित्रलक्षणमाह-
• पापानिवारयति योजयते हिताय
गुहां च गृहति गुणान्प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥७३॥.
पापादिति ॥ सन्तः साधव इदं पूर्वोक्तं सन्मित्रलक्षणं वदन्ति कथयन्ति ।
इदं किम् । पापात्पापकर्मणो निवारयति निवारणं करोति, हिताय हिताचर-
णाय योजयते, गुह्यं गोप्यं गृहति गोपयति, गुणान् प्रकटीकरोति, आपद्गतं
विपद्गतं काले समये न जहाति न त्यजति, काले द्रव्यादिदानसमये द्रव्या-
दिकमपि ददाति । वसन्ततिलकावृत्तम् ॥
सन्त इतरप्रार्थनानपेक्षया परहितायोद्योगं कुर्वन्तीति सूर्यदिदृष्टान्तेनाह-
पनाकर दिनकरो चिकचीकरोति
चन्द्रो पिकासयति करवचवालम् I
नाभ्यर्थितो जलधरोऽपि जलं ददाति
सन्तः स्वयं परहिताभिहिताभियोगाः ॥७४॥
पद्माकरमिति ॥ सन्तः स्वयं परहितेऽभिहितः कथितोऽभितो योग उ-
पायो युक्तिर्वा येपो ते । यद्वाऽभियोग उत्साहपूर्वको यत्नो येषां ते एवंविधा
भवन्तीति शेपः । "योगः संनहनोपायध्यानसंगतियुक्ति" इत्यमरः । "उत्सा-
हपूर्वके यने योगः" इति कोशान्तरं च । तत्र दृष्टान्तानाह । नाम्यर्थितोऽन्येन के-
नाप्यप्रार्थितः दिनकरः सूर्यः पमानां कमलानामाकरं समूह विकीकरोति प्र.
पुन्हं करोति । "प्रपुलोत्पुहसंफुटव्याकोशविकचस्फुटाः" इत्यमरः । नाभ्यर्थित
इति सर्वत्र संवध्यते । नाम्यर्थितन्द्रः केरवाणां कुमुदानां चक्रवाट मण्डलं
विकासयति । नाम्यर्थितो जलधरो मेयोऽपि जलं ददातीति । पूर्वोक्तमेव वृत्तम् ।।
नियाभेदेन सपुरषादीनां चातुर्विध्यमाह-
एते सरपुरुगः पराधघटकाः स्याथै परित्यज्य ये
सामान्यास्तु पराधमुपमभृतः स्यापिरोधेन ये।
तेऽमी मानुपराक्षसाः परहितं स्यापीय निभन्ति ये
ये निन्ति निरर्थक परहितं ते केन जानीमहे ॥ ७॥

भर्तृहरिकृतं एत इति ॥ ये स्वार्थ परित्यज्य त्यक्त्वा परेपामर्थान् घटयन्ति त एते स- पुरुपा उत्तमपुरुषा भवन्तीति शेपः । एवमुत्तरत्रापि बोध्यम् । तु पुनः ये स्वार्थस्याविरोधेनानुकूल्येन परार्थमुद्यममुद्योग विभ्रति ते सामान्याः । मध्यमा इत्यर्थः । ये स्वार्थाय स्वार्थ कर्तुं परहितं निम्नन्ति नाशयन्ति तेऽमी मानु- पेषु मनुष्येषु राक्षसा राक्षसतुल्या विचारशून्याः । अधमा इत्यर्थः । ये निरर्थक निष्प्रयोजनं परहित निघ्नन्ति ते के इति न जानीमहे । अतिनिन्द्या इत्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ -सतां मैत्री संतापप्राप्तावपि न नश्यतीति पयोदृष्टान्तेनाह- क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः क्षीरे तापमवेक्ष्य तेन पयसा स्वात्मा कृशानी हुतः। गन्तुं तावकमुन्मनस्तदभवदृष्ट्वा तु मित्रापदं युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ।। ७६ ॥ क्षीरेणेति ॥ सतां साधूनां मैत्री ईदृशी क्षीरनीरसदृश्यखण्डिता । अस्तीति शेषः । तदेव विवृणोति । पुरा पूर्व क्षीरेण दुग्धेनात्मानं गतं प्राप्तमुदकं जलं तस्मै ते प्रसिद्धा अखिलाः संपूर्णा गुणा माधुर्यादयो दत्ताः । अग्निसं- योगे सति क्षीरे तापमवेक्ष्य दृष्ट्वा तेन पयसा जलेन स्वस्यामा देहः कृशा- नावग्नी हुतः । तत्तापेन शुष्कमभवदित्यर्थः । तत्क्षीरं मित्रस्य जलस्यापदं जलशोपणरूपामापत्तिं दृष्ट्वा पावकमग्निं गन्तुमुन्मन उत्कण्ठितमभवत् । उत्सि- क्तमभूदित्यर्थः । तदेव क्षीरं तेन जलेन युक्तं सत् तु पुनः शाम्यति । उसिक्तं दुग्धं जलप्रक्षेपण शाम्यतीति लोकप्रसिद्धम् । शार्दूलविक्रीडितं वृत्तम् ॥ महात्मानो बहूनामाश्रयभूता भवन्तीति समुद्रान्योक्तयाह- इतः स्वपिति केशवः कुलसितस्तदीयद्विपा- मितश्च शरणार्थिनां शिखरिणी गणाः शेरते । इतोऽपि घडवानलः सह समस्तसंवर्तक- रहो विततमूर्जितं भरसहं च सिन्धोर्यपुः ।। ७७ ॥ इत इति ॥ इत एकास्मिन्प्रदेशे केशवो विष्णुः स्वपिति निद्राति । इत- स्तदीयद्विषां भगवद्वैरिणां दैत्यानां कुलं समूहस्तिष्टतीति शेषः । इतश्च श- रणार्थिनां शरणागतानां शिखरिणां पर्वतानां गणाः समूहाः शेरते । इतो. ऽपि बडवानटो यहवाग्निः समन्ताः सांवर्तकाः प्रलयकारिणोऽग्नयस्तैः सह तिष्टति । अहो इत्याश्चर्ये । सिन्धोः समुद्रस्य वपुः शरीरं विततं विस्तृतमूजि.

नीतिशतकम् । तमतिवलिष्ठं भरं भारं सहत इति भरसहं चास्तीति । महात्मानः समुद्रवदु- पकारिणामनुपकारिणां च सर्वेपामाश्रयभूता भवन्तीति भावः । पृथ्वी वृत्तम् । लक्षणं तूक्तमेव ॥ तृष्णात्यागादिना साधुत्वं भवतीति जनमुपदिशति- तृष्णां छिन्धि भज क्षमा जहि मदं पापे रति मा कृथाः सत्यं ब्रूनुयाहि साधुपदवीं सेवस्व विद्वज्जनान् । मान्यान्मानय विद्विपोऽप्यनुनय प्रख्यापय स्वान्गुणा- कीर्ति पालय दुःखिते कुरु दयामेतत्सतां लक्षणम् ।। ७८ ॥ तृष्णामिति ॥ एतत्पूर्वोक्तं सतां साधूनां लक्षणम् । भवतीति शेपः । एत- किम् । तृष्णां स्पृहां छिन्धि, क्षमा शान्ति भज सेवस्व, पापे पापकर्मणि रति रागं मा कृथाः मा कुरु, सत्यं ब्रूहि वद, साधोः सजनस्य पदवीं मार्ग- मनुयाहि अनुगच्छ, विद्वज्जनान्सेवस्व, मान्यान्मानार्हान्मानय, विद्विपोऽप्यनुनय सांत्वय, "प्रणतिः स्यादनुनयः प्रणिपातश्च सांत्वनम्" इति हलायुधः । स्वा- न्गुणान्प्रख्यापय, कीर्ति यशः पालय, दुःखिते दयां कुरु । शार्दूलविक्री- डितं वृत्तम् ॥ प्रकारान्तरेणापि साधूनां लक्षणं कथयस्तेषां दौर्लभ्यमाह- मनसि वचसि फाये पुण्यपीयूपपूर्णा- त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणूपर्यतीरस्य नित्यं निजहदि विकसन्तः सन्ति सन्तः कियन्तः ॥ ७९ ॥ मनसीति ॥ मनसि अन्तःकरणे, वचसि वाण्यां, काये देहे, पुण्यं मुक- तमेव पीयूपममृतं तेन पूर्णाः परिपूर्णाः । वाकायमनोभिः पुण्यमेव मंपाद- यन्ति न पापमित्यर्थः । उपकारश्रेणिभिरुपकारपङ्गिभिस्त्रिभुवनं प्रीणयन्तस्तर्प- यन्तः । सर्वदोपकारमेव कुर्वन्ति नापकारमित्यर्थः । परेषां गुणास्तेषां परमा- णून् पर्वतीकृत्य तत्प्रमाणान्कृत्वा नित्यं निजहृदि स्वहृदये विकसन्तः प्रकाश- मानाः । सर्वदा परगुणेष्वेव दत्तदृष्टयो न दोपेष्वित्यर्थः । एवंविधाः सन्तः सजनाः कियन्तो द्वित्रा विरलाः सन्तीति । मालिनी वृत्तम् ।। साधवः स्वनिष्टान्गुणान्परेषु संक्रामयन्तीति मलयान्योत्याह- किं तेन हेमगिरिणा रजताद्रिणा या यत्राधिताश्च तरयस्तरयस्त एय ।

भर्तृहरिकृत है मन्यामहे मलयमेव यदाश्रयेण कोलनिम्बकुटजा अपि चन्दनाः स्युः ॥८॥ किं तेनेति ।। यत्राश्रितास्तरवो वृक्षास्ते तरख एव भवन्ति । तेन हेम- गिरिणा सुवर्णाचलेन वा अथवा रजताद्रिणा किं, न किमपीत्यर्थः । वयं तु मलयमेव मलयाचलमेव महान्तं मन्यामहे । कुतः । यस्याश्रयेण कङ्को- लाश्च निम्बाश्च कुटजाश्च तेऽपि चन्दनाश्चन्दनवृक्षाः स्युर्भवन्तीति । चन्दन- वृक्षवद्भासन्त इत्यर्थः । वसन्ततिलका वृत्तम् ॥ धीराः पुरुषा अवश्यसंपाद्यत्वेन निश्चितमर्थं संपादयितुं यतं कुर्वन्तो मध्ये विघ्नैरभिभूता अपि निश्चितार्थप्राप्ति विना न विरमन्तीत्यमुमर्थ समुद्रमथनप्रह- त्तर्देवदृष्टान्तेनाह- रत्रैमहार्हस्तुतुपुन देवा न भेजिरे भीमविषेण भीतिम् । सुधां विना न प्रययुबिरामं न निश्चितार्थाद्विरमन्ति धीराः ।।८।। रतैरिति ॥ धीरा गम्भीराः पुरुषा निश्चितान्निश्चितमर्थमप्राप्य न वि- रमन्ति न विश्राम्यन्ति । आरब्धं यत्नं न त्यजन्तीत्यर्थः । तत्र दृष्टान्तमाह- रत्नेरिति । देवा महामहामूल्यै रत्नैर्न तुतुषुः संतोपं न प्रापुः । अमृतमथ: नार्थ प्रवृत्ता देवा मध्ये उत्पन्नैरपि रनैर्न तुतुपुरित्यर्थः । तथा भीमं घोरं विषं तेन भीति भयं न भेजिरे न सिपिवुः । महाभयजनकेनोत्पन्नेन विपेणाऽपि भयं न प्रापुरित्यर्थः । किं तु सुधाममृतं विना विरामं विश्रान्ति न प्रययुर्न प्रापुः । प्राप्तव्यत्वेन निश्चितार्थरूपसुधाप्राप्तिं विना यतं न त्यजन्तीत्यर्थः । उपेन्द्रवज्रा वृत्तम् ॥ स्वकार्ये दत्तदृष्टिविवेकी पुरुषो मध्ये प्राप्तं मुखदुःखादिकं न गणयेदिति बोधयन्नाह- कचिभूमौ शय्या क्वचिदपि च पर्यशयनं फचिच्छाकाहारी फचिदपि च शाल्योदनरचिः। फचित्कन्याधारी फचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ ८२ ।। कचिदिति ।। कचित्कदाचिद्भुमी पृथिव्यां शय्या शयनम् । करोतीनि शेषः। एयमुत्तरत्रापि योध्यम् । कचिदपि च पर्यवशयनम् , फचिन्छाकाहारी शा- कमोजी, कचिदपि च शाल्योदने रुचिर्यस्य सः। शाल्योदनभोजीत्यर्थः । कचित्कन्यां प्रावरणविशेष धारयतीति धारी तथाविधः, फचिदपि च दिव्यं नीतिशतकम् । च तदम्बरं वस्त्रं तस्य धरो धारकः, कार्यार्थी कार्येच्छुः, प्रशस्तं मनोऽन्तः- करणं यस्य सः । विवेकीति यावत् । एवंविधः पुरुषः दुःखं न गणयति मुखं च न गणयतीति । शिखारेणी वृत्तम् ॥ मुजनतादिसर्वभूपणापेक्षया शीलमेवोत्तमं भूपणमित्याह- ऐश्वर्यस्य विभूपणं सुजनता शौर्यस्य चाक्संयमो ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्र व्ययः । अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता सर्वेपामपि सर्वकारणमिदं शीलं परं भूपणम् ॥ ८३ ॥ ऐश्वर्यस्येति ॥ सुजनता सौजन्यमैश्वर्यस्य भूषणमलंकरणम् । भवतीति शेषः । एवमुत्तरत्रापि बोध्यम् । सत्यैश्वर्ये सौजन्यं संपादनीयमित्यर्थः । शौर्यस्य वीर्य- स्य वाक्संमयो वाड्डियमः । शौर्ये सति वाचा तदुद्घाटनं न कार्यमित्यर्थः । ज्ञानस्य तत्त्वज्ञानस्योपशमः शान्तिः । तत्त्वज्ञाने सति शान्तिरवश्यं संपादनी- येत्यर्थः । श्रुतस्यानेकशास्त्रश्रवणस्य विनयो नम्रता । शास्त्रश्रवणेन विनयोऽव- श्यं संपादनीय इत्यर्थः । वित्तस्य द्रव्यस्य पात्रे सत्पात्रं व्ययो दानम् । सति वित्ते सत्पात्रे दानमवश्यं कर्तव्यमित्यर्थः । तपसोऽक्रोधः क्रोधराहित्यम् । तपः कुर्षता क्रोधो न कार्य इत्यर्थः । प्रभवितुर्निग्रहानुप्रहसमर्थस्य क्षमा, निग्रहानुप्र. हसमर्थेन क्षमाऽवयं संपादनीया, धर्मस्य स्वधर्माचरणस्य निर्व्याजता निष्क- पटता । दम्भेन स्वधर्माचरणं न कार्यमित्यर्थः । सर्वेषामपि जनानां सर्वेपां गुणानां कारणमिदं शीलं स्वभावः परं श्रेष्ठ भूषणमस्ति । सर्वे एते गुणाः स्वभावानुरोधेन भवन्ति न तु बलात्कारेणेति भावः । शार्दूलविक्रीडितं वृत्तम् ।। धीरपुरुपा निन्दादिभिायमार्गान प्रच्यवन्तीत्याह- निदन्तु नीतिनिपुणा यदि चा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् । अद्येय वा मरणमस्तु युगान्तरे या न्याय्यात्पथः प्रविचलन्ति पदं न धीराः॥८४॥ निन्दन्विति ॥ नीयां नये निपुणाः कुशलाः पुरुपा निन्दन्तु निन्दा कु- वन्तु यदिवा अथवा स्तुवन्तु, लक्ष्मीः संपत् यथेष्टं यथेच्छं समाविशत्वाग- च्छतु या गच्छतु, अद्यैव मरणं मृत्युरस्तु युगान्तरेऽन्ययुगे वाऽस्तु, तथाऽपि धीरा गम्भीराः पुरुषा न्यायादनपेतोऽरहितस्तस्मात्पयो मार्गात् न्यायमार्ग वि- हायाऽन्यत्रैकमपि पदं चरणं न प्रविचयन्ति न गच्छन्ति । अनेन सरस्वपि निन्दादिपु न्यायमार्गो न हातव्य इति सूचितम् । वसन्ततिलका वृत्तम् ।।

भर्तृहरिकृतं मारव्यमेव जनस्य वृद्धिक्षययोः कारणमस्तीति सर्पदृष्टान्तेनाह- भग्नाशस्य करण्डपीडिततनोर्लानेन्द्रियस्य क्षुधा कृत्वाऽऽखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः। तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा लोकाः पश्यत दैवमेव हि नृणां वृद्धौ क्षये कारणम् ॥ ८५॥ भग्नाशस्येति ।। हे लोकाः यूयं नृणां मनुष्याणां वृद्धावैश्वर्ये क्षये च देव- मेव कारणं हि निश्चितं पश्यत । एतदेव दृष्टान्तेनोपपादयति । केनचिन्म- +त्रिणा सपै धृत्वा करण्डे निक्षिप्तस्तस्य स्थितिमाह-करण्डे पीडिता तनुर्देहो यस्यात एव भग्ना नष्टा आशा वहिनिष्क्रमणाशा यस्य तस्य, क्षुधा क्षुधया कृत्वा म्लानानि क्षीणानीन्द्रियाणि यस्यैवंविधस्य भोगिनः सर्पस्य मुखे आखुर्मूपको विवरं करण्डस्य छिद्रं कृत्वा स्वयं निपतितो न केनाऽपि पा- तितः । असी सर्पस्तु तस्य भूपकस्य पिशितेन मांसेन तृप्तः सन् तेनैव मूषक- विहितेन पथा मार्गेण सत्वरं बहिर्यातो निर्गतः । यथा करण्डस्थितं सर्पमजा- नन्मूपकः करण्डस्य विलं कृत्वाऽन्तः प्रविष्टः स्वादृष्टयशादेव तन्मुखे पतित्या मृतः । सर्पस्तु स्वादृष्टवशादेव तन्मांसेन तृप्तः सन् तस्कृतेन विलद्वारेण बहिर्निर्गत्य सुखितोऽभूत्तथा सर्वोऽपि जनः स्वादृष्टवशादेव मुखदुःखादिकं भुङ्ग इति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ आलस्यं विहायोद्यमकर्ता लोके मुखं प्राप्नोतीत्याह-- आलस्यं हि मनुष्याणां शरीरस्थो महानिरपुः । नास्त्युद्यमसमो बन्धुः कुर्वाणो नावसीदति ॥ ८६ ।। आलस्यमिति ॥ अलसस्य भाव आलस्यं व्यापारराहिलं, मनुष्याणां शरीरे तिष्टतीति शरीरस्थो महान रिपुः शत्रुर्हि निश्चितमस्ति । उद्यमेनो- योगेन समः सदृशो बन्धु म्ति । तमुद्यमं कुर्वाणः पुरुषो नावसीदति । दारिद्रयादि दुःखं न प्रामोतीत्यर्थः । अनुष्टुव वृत्तम् ॥ वृक्षादिवदापद आगमापायित्वात्तया सन्तो न सन्तप्यन्त इत्याह- छिन्नोऽपि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः। इति विमृशन्तः सन्तः सन्तप्यन्त न ते विपदा ।। ८७।। छिन्नोऽपीति ॥ तक्षश्छिन्नोऽपि पुना रोहति प्रादुर्भूतो भवति, तथा क्षीणोऽपि क्षीणकलोऽपि चन्द्रः पुनरुपचीयते सृद्धि प्राप्नोनि, इन्यनेन प्रका- रेणापद आगमापायिवं विमृगन्तो विचारयन्तन्ते प्रसिदाः सन्तः साधवो विपदा आपदा न संतप्यन्ते दुःयं न प्रामातीति । आर्या वृत्तम् ।। .

-- - नीतिशतकम् । देवे प्रतिकूले सति पौरुपं निरर्थकं भवतीतीन्द्रदृष्टान्तपूर्वक देवस्य श्रेष्टयमाह- नेता यस्य बृहस्पतिःप्रहरणं वनं मुराः सैनिकाः स्वर्गो दुर्गमनुग्रहः किल हरेरैरायतो चारणः! इत्यैश्वर्ययलान्यितोऽपि यलभिद्भग्नः परैः संगरे तद्युक्तं ननु दैवमेव शरणं धिग्धिग्वृथा पौरुषम् ।। ८८ ॥ नेतेति ॥ वृहस्पतिर्यस्येन्द्रस्य नेता । नायकोऽम्तीति शेपः । एवमुत्तर- त्रापि बोध्यम् । प्रहरणमायुधं वनं कुलिशम् , मुरा देवाः सेनायां समवेताः सैनिकाः, दुर्गे स्वर्गः, हरेविष्णोरनुप्रहः कृपा, किलेति प्रसिद्धम् । वारणो हम्ती ऐरायतः, इति पूर्वोक्तप्रकारेण ऐश्वर्यं च यलं च ताभ्यामन्वितोऽपि यलभिदिन्द्रः। "मघवा" इत्यपि पाठः। संगरे सङ्ग्रामे परेः शत्रुभिः भग्नः, तत्त- स्मात् ननु निश्चितं दैवमेव शरणं रक्षित इति युक्तम् । “व्यक्तम्" इति पाठे सष्टमित्यर्थः । तस्मादृया देवहीनं पोरुपं पुम्पप्रयत्नं विग्धिगिति । देवहीनः पुरुपप्रयतो निष्फल इत्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ सर्वम्त्यस्य कर्माधीनत्वेऽपि मुधीभिर्यद्यत्कर्तव्यं तद्विचारपूर्वकमेव कर्तव्य- मिति बोधयन्नाह- फर्माय फलं पुंसां युद्धिः कर्मानुसारिणी । तथाऽपि मुधिया भाव्यं सुविचार्यच पुर्यता ॥८॥ कर्मायत्तगिति ॥ यद्यपि पुंसां फलं मुखदुःशादिकं कर्मायत्तं कर्माधीन- मनि । यात्रा कर्म तादृशं मुगदुःणादिकं भवतीति भावः । सती असनी या युद्धिः कर्मानुसरन्यनुगग्छनीति कर्मानुसारिप्यस्ति, तथाऽपि मधिया मुटु विचार्य फर्म कुर्वता भाष्यम् । युद्धिमना पुरपेग ययकर्म कर्तव्यं तत्त- हिनापूर्णकमेर फर्नत्यमित्यर्थः । अनुष्टुव वृत्तम् ॥ भाग्यहीनः पुरुषो याकुत्राऽपि गतो दुःमर लभः इति गबाटदारा- मोनाह- गयाटी दिपसेपरम्ग किरणः मलापितो मन पाम्देशामनातपं विधियशातालग भूट गतः। समाया मक्षाफलेन पतता भर मदाद शिरः মাঘ বি ঘর মাৰি যাব । गावाट क्षमापो मापन पत्र प्रोगे भारपालो भागमा गु. - . भर्तृहारेकृतं रुयो गच्छति तत्र तं प्रत्यापदो विपत्तयो यान्ति आगच्छन्ति । "तत्रापदां भाजनम्" इति पाठे आपदां विपत्तीनां भाजनं पात्रं भवतीत्यर्थः । तदेव ढ- ष्टान्तेनोपपादयति । खल्वाटो निष्केशशिराः पुरुपो बहिरटन् दिवसेश्वरस्य सूर्यस्य किरणैर्मस्तके शिरसि सन्तापितः सन् अनातपमुष्णरहितं देशं वाञ्छ- निच्छन्विधिवशादैववशात्तालस्य तालवृक्षस्य मूलं गतः । तत्राऽपि तस्मिंस्थ- लेऽपि प्रारब्धवशादकस्मात्पतता महाफलेनास्य खल्वाटस्य शिरः सशब्दं य- था स्यात्तथा भग्नमभूदिति शेषः । "तत्राप्याशु" इति पाठे शीवमित्यर्थः । यथा सूर्यकिरणसंतप्तः खल्वाटः छायाप्रदेशे गतोऽपि तालफलेन भग्नशिरा अभवत्तथा भाग्यहीनः पुरुषः यत्रकुत्रापि गतो दुःखमेव लभत इति भावः । आर्दूलविक्रीडितं वृत्तम् ॥ "सर्वत्र दैवमेव वलीय इति सदृष्टान्तमाह- गजभुजङ्गमयोरपि बन्धनं शशिदिवाकरयोर्ग्रहपीडनम् । मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः ९१ गजभुगमेति ॥ गजो हस्ती, भुजङ्गमः सर्पः, तयोरपि बन्धनं भवति । शशी चन्द्रः, दिवाकरः सूर्यस्तयोग्रहेण राहुणा पीडनम् । मतिमतां बुद्धिमतां दरिद्रता दारिद्यं विलोक्य दृष्ट्वा विधिदैवं वलयान्यलिष्ठोऽस्तीति मे मतिनि- श्थयोऽस्ति । अहो इति वितर्के । द्रुतविलम्बितं वृत्तम् । “द्रुतविलम्बितमाह नभी भरो" इति तल्लक्षणात् ॥ उत्तमपुरुषाणामपि लोकेऽल्पायुष्दं दृष्ट्वा तान्सृजतो ब्रह्मणोऽपि विचार- शन्यत्वं दर्शयन्नाह- एजति तायदशेपगुणाकरं पुरुषरत्नमलकरणं भुवः। तदपि तत्क्षणभनि करोति चेदहह कप्टमपण्डितता विधः ॥१२॥ सूजतीति ॥ वदादौ ब्रह्मा अशेषा ये गुणास्तेषामाकरं खनिः । अशेष- गुणपरिपूर्णमित्यर्थः । भुवोलकरणं शोभाकरं पुरुपरनं सृजति सृष्ट्वा च त. दपि पुरुषरनमपि तत्क्षणभनि तत्क्षणनाशशीलं अल्पायुः करोति चेत् । अ. इह इति खेदे। कष्टं यथा स्यात्तथा इयं विधेम्रह्मणोऽपण्डितस्य भायोऽपण्डि- तताऽज्ञानिताऽस्ति । पूर्वोक्तमेव तृत्तम् ॥ जन्मकाले विधिना ललाटलिसितस्यान्यथा करणे कोऽपि न समर्थ इनि फरीरादिदृष्टान्तेनाह- पनं नव यदा करीरविटपे दोपो वसन्तस्य किं नोलूकोऽप्ययलोकते यदि दिया सूर्यस्य कि दूषणम्।

नीतिशतकम् ४१ धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं यत्पूर्व विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ।। ९३॥ पत्रमिति ।। करीरसंज्ञको भापायां (नेवती ) इति प्रसिद्धो यो विटपो वृक्ष- स्तस्मिन् यदा यदि पत्रं पण नैव भवति तयं वसन्तस्याखिलवृक्षपत्रकुमु- मादिप्रदस्य वसन्ततॊ>पोऽपराधः किम् । नास्तीत्यर्थः । यदि उल्को (घुवट) इति प्रसिद्धः पक्षिविशेपो दिवाऽपि दिवसेऽपि नावलोकते इदं सूर्यस्य दृपणं किम् । तथा धारा जलधाराश्चातकस्य पक्षिविशेषस्य मुखे नेत्र पतन्ति तर्हि मेवस्य सर्वतो वृष्टिकरस्य जलदस्य दूपणं किम् । किं तु पूर्व यद्विधिना ब्रह्मणा जन्मकाले ललाटे लिखितं तन्मानितुं दूरीकर्तुं कः क्षमः समर्थः । न कोऽपीत्यर्थः । वसन्तादीनां पत्रसमृद्धयादिसाधकल्वेऽपि करीरादिषु पत्रायभावे देवातिरिक्तं कारणं नास्ति। तस्मादेवमेव सर्वत्र प्रबलमिति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ प्राचीनं कर्म प्रशंसति द्वाभ्याम्- नमस्यामो देवाननु हतविधेस्तेऽपि यशगा विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मकफलदः । फलं कर्मायत्तं किममरगणैः किंच विधिना नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ ९४॥ नमस्याम इति ॥ वयं देवान्नमस्यामः । उपपदविभक्तः कारकविभक्तली- यस्त्वाद्वितीया । ननु निश्चितं तेऽपि देवा अपि हतो नष्टो यो विधिब्रह्मा तस्य बदागा अधीनाः सन्ति । विधि;झा यन्द्योऽस्ति सोऽपि प्रतिनियतं शास्त्र- नियमितं यत्कर्म तस्यैकं मुख्यं फलं ददातीति । तथाविधकर्मानुगेधि फलदा- तेत्यर्थः । फलमपि कर्मण आयत्तमाधीनमस्ति तहिं अमरगणैर्देवैः किं, विधिना च किम् । न किमपीत्यर्थः । विधिरपि येभ्यः कर्मभ्यो न प्रभवति न पर्याप्तो भवति । कर्माणि परावर्तयितुं विधिरपि समर्थो न भवतीत्यर्थः । “नमः स्वस्ति-" इन्यत्रालमिति पयायग्रहणाचतुर्थी । तस्मात्सर्वापेक्षया कर्मव प्रवटमिति ताप- र्यम् । शिखरिणी वृत्तम् ॥ किंच- ग्रह्मा येन कुलालयनियमितो ब्रह्माण्डमाण्डोदरे यिष्णुर्यन दशायतारगहने क्षिप्तो महासंकटे। रदी येन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेय गगने तस्मै नमः कर्मणे ॥१७॥ । .

४२ . भर्तृहरिकृतं । । ande ब्रह्मेति ॥ येन कर्मणा ब्रह्माण्डमेव भाण्डं भाजनं तस्योदरे मध्ये ब्रह्मा कुलालयकुम्भकारवनियमितो नियन्त्रितः।जगन्निर्माणकार्यनिर्णय इत्यर्थः । यथा कुम्भकारो नानाविधघटरचना करोति तथा ब्रह्मापि नानाविधसृष्टिरचना क. रोतीत्यर्थः । एवमुत्तरत्राऽपि बोध्यम् । येन विष्णुर्दशदशधावतारा मत्स्या- दिजन्मानि तद्रूपं गहनं दुःखं यस्मिंस्तथाविधे महासंकटे क्षिप्तः पातितः । प्रेरित इति यावत् । “गहनं कलिले त्रिपु । नपुंसकं गहरे स्याहुःखकान- नयोरपि" इति मेदिनी । तथा येन कर्मणा रुद्रः शिवः कपालं नरकपालं तेन युक्तो यः पाणिपुटको हस्तसंपुटकस्तस्मिन्या भिक्षा तदर्थे भ्रमणं का- रितः । भिक्षाया आधारस्यावश्यकत्वात्तत्सापेक्षितत्वेन देवदत्तस्य गुरुकुलमि- त्यादिवत्समासः । तथा सूर्यो नित्यमेष गगन आकाशे भ्राम्यति भ्रमणं क- रोति तस्मै कर्मणे नमोऽस्तु । शार्दूलविक्रीडितं वृत्तम् ।। भाग्यमेव सर्वत्र समये समये फलति नाकृत्यादय इति वृक्षदृष्टान्तपूर्व- कमाह नैवारुतिः फलति नैव कुलं न शीलं विद्यापि नैव न च यत्वकतापि संचा। भाग्यानि पूर्वतपसा खलु संचितानि काले फलन्ति पुरुपस्य यथैव वृक्षाः ॥ ९६ ॥ नैवेति ॥ आकृतिः स्वरूपं नैव फलति । उत्तमाप्याकृतिरिष्टफलं न जन- यतीत्यर्थः । एवमेव सर्वत्रोहनीयम् । कुलं सत्कुलं नैव, शीलं सद्वृत्तं नैव, वि- द्यापि शास्त्राभ्यासोऽपि नैव, यत्नेन प्रयत्नेन कृतापि सेवा शुश्रपा न, किं तु पूर्वमाचरितं यत्तपस्तेन संचितानि पुरुपस्य भाग्यानि काले समये फलन्ति । खलु निश्चयेन । अत्र दृष्टान्तः । यथा वृक्षाः काले समय एवं फलन्ति ना- न्यत्र तद्वत् । तस्माद्भाग्यमेव सर्वत्र फलदायकं नान्यदिति भावः । वसन्त- तिलका वृत्तम् ॥ पूर्वसंचितपुण्यानि सर्वत्र पुरुपं रक्षन्तीत्याह- बने रणे शत्रुजलग्निमध्ये महार्णवे पर्वतमस्तके या ! सुप्तं प्रमत्तं विपमस्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि ॥९७॥ चन इति ॥ पुरा पूर्व कृतानि पुण्यानि मुकृतानि वनेऽरण्ये, रणे सं- प्रामे, शत्रवश्व जलं चामिश्च तेषां मध्ये, महार्णवे महासमुद्रे, पर्वनस्य मस्तके शिखरे वा, "पर्वतसंकटे" इति पाठे पर्वते संकटे चेत्यर्थः । सुप्तं निद्रितं, नीतिशतकम् । ४२ प्रमत्तं मद्यादिना, विषमे निम्नोन्नतभूमी स्थितं पुरुष रक्षन्ति । तस्मा पुण्यमेव सदा नरैः कार्यमिति भावः । उपेन्द्रवज्रा वृत्तम् ।। सक्रियैव पुरुषेण कर्तव्येति तत्फलप्रदर्शनपूर्वकमाह- या साधूंश्च खलान्करोति विदुपो मूर्खान्हितान्द्रपिणः प्रत्यक्षं कुरुते परोक्षममृतं हालाहलं तत्क्षणात् । तामाराधय सत्नियां भगवती भोक्तुं फलं वाञ्छितं हे साधो व्यसनैर्गुणेपु विपुलेप्यास्थां वृथा मा कृथाः॥९८॥ या साश्चेति ॥ या सत्क्रिया खलान् दुर्जनान् साधून्सजनान्करोति, मुन्विदुषः पण्टितान्करोति, द्वेपिणः शत्रून् हितान् हितकरान् करोति, परोक्षं प्रत्यक्षं कुरुते, हालाहलं विषविशेष अमृतं तक्षणाक्षणमात्रेण करोति, तस्माद्ध साधो वाञ्छितमिच्छितं फलं भोक्तुं भगवतीमैश्वर्यवती तां सक्रिया. माराधय, विपुलेषु गुणेषु व्यसनेरासक्तिभिरास्यां यत्नं मा कृथा मा कुरु । "आस्था- नीयत्रयोरास्या" इत्यमरः । एतादशी सत्कियां विहाय गुणास्थया तद्विरुद्धो यनः पुषण न कार्य इति.भावः । शार्दूलविक्रीडितं वृत्तम् ।। धीमता पुरुपेण यद्यत्कार्य कर्तव्यं तस्य परिणामपर्यन्तं विचारं कृत्या त- काव्यमित्याह- गुणवद्गुणयदा कुर्यता कार्यमादी परिणतिरयधार्या यवतः पण्डितेन । अतिरमसरतानां कर्मणामायिपत्त. यति हृदयदादी नाल्यतुल्यो यिपाकः ॥ १९ ॥ गुगवदिति ॥ आदौ प्रथमं गुणा विचन्ते यस्मिसाहणरत् या अथरा अ. गुणात्तदहितं काय फुर्वता पण्डितेन यातः परिणतिः परिणामोऽयधार्या पि. पापा । प्रथममेधारभ्यमाणस्य कर्मणः परिणामे मुपद दुःगद येनि कि- चारणीयनियर्थः । रिपक्षे याधकमाह-अतिरममेनालियरपा ताना कर्ना किः परिगाम आविपत्तेर्गरणपर्यन्तं दृश्यं देहतीति हरपदारी शल्यन दा. ना तुस्यः । "या मित्रां शना" इत्यमरः । यागानन्यनगनुत्यः- गादिशी यापत् । भातील मारिनी वृत्तम् । लक्षणं मुकनेर । लन्यो फर्मभूमी जन्म प्राय पुरंग ना एर फन नान्यविभिना- सहारा - कृत्वा कर्पूरखण्डान्वृतिमिह कुरुते कोद्रयाणां समन्ता- त्माप्येमां कर्मभूमि न चरति मनुजो यस्तपो भन्दभाग्यः ॥१०॥ स्थाल्यामिति !! यो मनुजो मनुष्य इमां कर्मभूमि सदाचरणं कर्तुं योग्यां भूमि प्राप्य तपः कृच्छ्रचान्द्रायणादि न चरति न करोति स मन्दभाग्यो भा. ग्यहीनः पुरुषो वैदूर्यप्रचुरा वैदूर्यमयी तस्यां स्थाल्यां पाकभाजने इन्धनेष्वा- द्यानि मुख्यानि तैश्चन्दनैस्तिलकणान्पचति विक्लेदयति, तिलकणपाचनार्थं स्थालीचन्दनादिसंपादनं यथा व्यथै तद्वदन्यत्कर्म करोतीत्यर्थः । तथार्क- मूलस्यार्कवृक्षमूलस्य हेतोः सुवर्णस्येमानि सौवर्णानि तैर्लागलानहलानैमुधां पृथ्वी विलिखति कर्षति । अर्कमूलसंपादनार्थ स्वर्णलागलेन भूमिखननं यथा व्यर्थं तद्वदित्यर्थः । तथा करखण्डान्कर्पूरवृक्षशकलानि कृत्वा कोद्रवाणां कोरदूपकाणां (हरीक) इति ख्यातानां आसमन्तात् वृतिमावरणमिह कुरुते । कोद्रवरक्षणार्थ कर्पूरवृक्षच्छेदनं यथा व्यर्थं तद्वदित्यर्थः ।. शार्दूलविक्रीडितं वृत्तम् ।। सर्वस्य कर्माधीनत्वात्कृतेऽपि महति यत्ने यदवश्यं भावि तद्भवत्येवेत्याह- मजत्वम्भसि यातु मेरुशिखरं शमयत्वाहये वाणिज्यं कृपिसेवनादि सकला विद्याः कलाः शिक्षताम् । आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं महा- नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाराः कुतः॥१०॥ मज्जत्विति ॥ महान्पुरुषोऽम्भसि जले मन्जतु, मेरोः शृङ्गं यातु, आहवे सङ्ग्रामे शत्रून् जयतु, वणिजः कर्म वाणिज्यम्, कृषिसेवनमादिर्यास ताश्च सकाला विद्याः कलाश्च शिक्षताम् , प्रयत्नं कृत्वा खगवत्पक्षियद्विपुलं विस्तीर्ण- माकाशं प्रयातु, तथापि भवितुं योग्यं भाव्यं न भाव्यमभाव्यं भवनानह इह लोके कर्मवशतः कर्माधीनत्यात् न भवति । भाव्यस्य भवितुं योग्यस्य नाशः कुतः स्यात् । न कुतश्चिदित्यर्थः । तदुक्तम् । “यदभाचि न तद्भावि भावि चेन तदन्यथा" इति । शार्दूलविक्रीडितं वृत्तम् ॥ प्राचीनकर्मवशात्सर्वमवटमानमपि सिद्ध्यतीत्याह- भीमं वनं भवति तस्य पुरं प्रधान सर्वे जनाः सुजनतामुपयान्ति तस्य । फरना च भूमयति सन्निधिरनपूर्णा यस्यालि पूर्वमुरतं विपुलं नरस्य ।। १०२ ।। - नीतिशतकम् । भीममिति ॥ यस्य नरस्य पुरुषस्य विपुलं बहु पूर्वमुकृतं पूर्वपुण्यमस्ति तस्य भीमं भयंकरमपि वनमरण्यं प्रधानं श्रेष्ठं पुरं नगरं भवति । तथा सर्वे जना लो- कास्तस्य मुजनस्य भावः मुजनता सां सौजन्यमुपयान्ति प्राप्नुवन्ति । तद्विपये सौजन्यवन्तो भवन्तीत्यर्थः । तथा कृत्स्ना संपूर्णा भूः पृथ्वी सन्त उत्तमा निधयः रत्नानि च तैः पूर्णा परिपूर्णा भवति । पूर्वकर्मानुकूल्ये वमुधान्वर्या सती यत्रकुत्रापि निध्यादिकं ददातीत्यर्थः । तस्मात्पुरुषेण पुण्यकर्मय कर्तव्यमिति तात्पर्यम् । वसन्ततिलका वृत्तम् ॥ पुरुषस्य कर्तव्याकर्तव्ये प्रश्नोत्तराभ्यामाह- को लाभो गुणिसंगमः किमसुखं प्राक्षेतरैः संगतिः का हानिः समयच्युतिनिपुणता का धर्मतत्त्वे रतिः। कः शूरो विजितेन्द्रियः प्रियतमा कानुनता किं धनं विद्या किं मुखमप्रवासगमनं राज्यं किमाशाफलम् ॥ १०३ ॥ को लाभ इति ॥ लाभोऽभीष्टप्राप्तिः कः ? गुणिनां गुणिपुरुषाणां संगमः संगतिः । पुरुषेण गुणवद्भिरेव संगः कर्तव्य इत्यर्थः । अमुखं दुःखं किम् ! प्राज्ञेभ्य इतरमूखः संगतिः । पुरुपेण मूर्खः सह संगतिः कदापि न कार्ये- त्यर्थः । हानिः का ? समयस्य यस्मिन्काले यदवश्यं कर्तव्यं तस्य कालस्य न्युतिरतिवाहनम् । पुरुषेण समये समये दत्तावधानेन भाव्यमित्यर्थः । निपुणता का? धर्मस्य तत्त्रे रहस्य रतिः प्रीतिः । सर्वदा पुरुपेण धर्माचरणमेव कर्तव्यं नाधर्माचरणमित्यर्थः । शूरः कः ? विजितानीन्द्रियाणि येन स तथाविधः । पुरुषेण जितेन्द्रियेण भाव्यमित्यर्थः। प्रियतमा अतिप्रिया स्त्री का ? अनु पत्यनु- रोध एव बतं नियमो यस्याः सा । स्वानुकूलायाः स्त्रियः संग्रहः कर्तव्यो नान- नुकूलाया इत्यर्थः । धनं किम् ? विद्या शास्त्राद्यभ्यासः। पुरुपेण सदा शास्त्रा. भ्यास एय कर्तव्य इत्यर्थः । मुखं किम् ? अप्रवासगमनं प्रवासगमनाभावः । प्रयासगमनं यथा न स्यात्तथा पुरुपेण स्पेयमित्यर्थः । राज्यं किम् ? आक्षेत्र फलं लाभो यस्य तदेव । येन राज्येनाज्ञा सफला भवेत्तादृशं राज्य कर्त- व्यमित्यर्थः । शार्दूलविक्रीडितं वृत्तम् ।। विवकिपुरुषस्य द्वे गती भवत इति माटतीकुमुमदृष्टान्तपूर्वकमाह---- मालतीकुमुमस्येय द्वे गती ह मनस्विनः । धि सर्वस्य लोकस्य शीर्यते यन एव या ॥ १०४॥ माटतीति । मालत्या जातिलतायाः कुमुमं पुष्पं तस्यैव मनसिनो विवे. ।

भर्तृहरिकृतं किनः पुरुषस्य द्वे गती दशे "गतिः स्त्री मार्गदशयोः" इति मेदिनी । भवतः । ह स्फुटम् । कथम् । यथा तेन कुसुमेन सर्वलोकस्य मूर्ध्नि मस्तके स्थीयते, वा अथवा वनेऽरण्य एव शीर्यते शीर्ण भूयते तद्वन्मनस्विनो गृहे लोकमान्या बने अरण्यवासिनो वा भवन्तीत्यर्थः । अनुष्टुब् वृत्तम् ॥ पृथिव्यां सुजनस्थितेर्दोलभ्यमाह- अप्रियवचनदरिद्रः प्रियवचनाढ्यैः स्वदारपरितुष्टैः। परपरिवानिवृत्तः क्वचित्कचिन्मण्डिता वसुधा ॥ १०५ ॥ अप्रियेति ॥ न प्रियाणि मनःसंतोपकराणि च तानि वचनानि तैरिद्रा हीनास्तैः, प्रियवचनेहितकारकवचनैराठ्याः पूर्णास्तैः, स्वदाराभिः स्वकीयस्त्रि- यैव परितुष्टाः संतुष्टास्तैः, परिपां परिवादो निन्दा तस्याः सकाशान्निवृत्ताः, पराङ्मुखास्तैः, एतादृशैः पुरुषैर्वसुधा पृथ्वी कचित्कचिन्मण्डितालङ्कृतास्ति । एवंविधाः पुरुषास्त्वतिदुर्लभा इति भावः । आर्या वृत्तम् ॥ धैर्यावलम्बिनः पुरुषस्य धैर्य नाशयितुं कोऽपि न शक्नोतीत्यग्निदृष्टान्तपू. यफमाह- कथितस्यापि हि धैर्यवृत्तेन शक्यते धैर्यगुणः प्रमाम् । अधोमुखस्यापि तस्य वर्नाधः शिसा याति कदाचिदेव॥१०६॥ कथितस्येति ॥ कथितस्याप्यतिदुःखितस्यापि धैर्येण धीरतया वृत्तिर्व- तनं यस्य तस्य धैर्यावलम्बिनः पुरुषस्य धैर्यरूपो यो गुणस्तं प्रमाष्टुं नाशयितुं कैरपि न शक्यते । तत्र दृष्टान्तमाह-अधोमुखस्येति । अधोमुखं यस्य तस्य कृतस्य । अधोमुखीकृतस्येति यावत् । वरेरग्नेः शिखा वाला कदाचिदेव कदा. प्यधो न याति किंतूयमेव गच्छति । तस्माद्रीरो जनो दुःखितोऽपि धैर्य न त्यजतीति भावः । उपजातिवृत्तम् ।। धीरः पुरुषः सर्व जगदशीकरोतीत्याह- कान्ताफटाक्षविशिसा न लुनन्ति यस्य चित्तं न निर्दहति कोपरशानुतापः। फपन्ति भूरिविपयाच न लोमपार्श- लोकप्रयं जयति ललमिदं स धीरः॥१०७ ॥ कान्ताकटाक्षेति ॥ यस्य पुरुषस्य चित्तमन्तःकरणं कान्तायाः- त्रियाः क. टाक्षा अपाङ्गदर्शनानि तान्येव विशिसा वाणास्ते न छुनन्ति छिन्दन्ति । तथा यस्य चित्तं कोपः कोर एव कृशानुरग्निस्तस्य तापः संतापो न गिई- - नीतिशतकम् । १७ हति भस्मीकरोति । तथा भूरि वह्यो विषया लोभ एव पाशा वन्धनानि तैर्यस्य चित्तं न कर्पन्त्याकर्षन्ति स धीरो जनः कृत्स्नं सर्वमिदं लोकत्रयं जयति वशीकरोति । अनेन कामादयः पुरुपेण त्याज्या इति सूचितम् । व- सन्ततिलका वृत्तम् ॥ एक एव शूरः पुरुषः सबै जगजयतीति सूर्यदृष्टान्तपूर्वकं दर्शयति- एकेनापि हि शूरेण पादाक्रान्तं महीतलम् । फ्रियते भास्करेणेव स्फारस्फुरिततेजसा ॥ १०८ ॥ एकेनेति ॥ स्फारं विस्तीर्ण स्फुरितं देदीप्यमानं तेजो यस्य तेन भास्क- रेण सूर्येणेवैकेनाद्वितीयेन शुरेण वीरपुरुपेण महीतलं पृथ्वीतलं पादेन चरणेन पक्षे पादेः किरणैश्वाकान्तं व्याप्तं क्रियते । यथा सूर्यः स्वपादैः सर्वं जगद्व्याप्त करोति तथा शूरः पुरुषः स्वपादेनाकान्तं करोतीति भावः । अनुष्टुप् वृत्तम् ।। लोकवल्लभशीलवतः पुरुषस्य सर्वेऽप्यनुकूला भवन्तीत्याह- चह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणा- न्मेरः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते । व्यालो माल्यगुणायते विपरसः पीयूपवर्षायते यस्याझेऽखिललोकवल्लभतमं शीलं समुन्मीलति ।। १०१ ।। वहिरिति ॥ यस्य पुरुपस्याने शरीरे अखिललोकानां वल्लभतममतिशयेन प्रियं शीलं सद्वर्तनं समुन्मीटत्युजृम्भते, तस्य वहिरग्निरुप्णस्वभावोऽपि जलायते जलमियाचरति । जटवच्छीतलो भवतीत्यर्थः। "कर्तुःक्यड्सलोपश्च" इत्याचारार्थे क्यह् । एवमुत्तरत्रापि बोध्यम् । तथा जलनिधिः समुद्रो दुप्पारोऽपि कुल्यायते कुल्याल्पा सरित्तद्वदाचरति । दुस्तरोऽपि मुतरो भवतीत्यर्थः । तक्षणाक्षण- मात्रान्भेस्र्मेरुपर्वतः स्वल्पशिलायते मुष्टु अल्या या शिला तद्वदाचरति । महानपि पर्वतः स्वल्पपापाणतुल्यो भवतीत्यर्थः । मृगपतिः सिंहोऽतिरोऽपि मद्यः कुरङ्गायते कुरङ्गो हरिणस्तद्वदाचरति । क्रौर्य सजतीत्यर्थः । सर्पो. ऽतिरोऽपि माल्यगुणायते मालागुण इयाचरति । स्वकीय सजतीन्यर्थः । विपरसः पीयूपवर्षायते पीयूपरसोऽमृतरसस्तस्य वर्को वर्षणं तद्वदाचरति । स्वीय मारकं गुणं त्यजतीत्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ तेजस्विनः पुरुषाः स्त्रीयां प्रतिज्ञां न त्यजन्तीति म्यजननीदृष्टान्तपूर्व- कमाह- लजागुणीयजननी जननीमिय म्या. मत्यन्तगुरदयामनुवर्तमानाम् ।

भर्तृहरिकृतं - तेजस्विनः मुखमसूनपि संत्यजन्ति सत्यव्रतव्यसनिनो न पुनः प्रतिशाम् ॥ ११० ॥ इति श्रीमद्राजर्षिप्रवरभर्तृहरिकृतं नीतिशतकं संपूर्णम् ।। लजेति ॥ सत्यमेव व्रतं तस्मिन्व्यसनमासक्तिये॒पां ते एवंविधास्तेजस्विनः प्रभाववन्तः पुरुपाः मुखं यथा स्यात्तथा असून् प्राणानपि त्यजन्ति । पुनः स्वां म्वकीयां जननी मातरमिव प्रतिज्ञां न सजन्ति । कीदृशी प्रतिज्ञां मातरं च । असत्कर्मणि प्रवृत्तिलक्षणलजाररूपो यो गुणोघो गुणप्रवाहस्तस्य जननीमुत्पा- दिकाम् । पुनः कीदृशीम् । अत्यन्तं शुद्ध हृदयमन्तःकरणं यस्यां यस्या या ताम् । पुनः कीदृशीम् । अनुवर्तमानां अनुलक्षेण वर्तमानाम् । अनेन सत्य- भाषिणा पुंसा प्राणा अपि त्याज्याः परंतु स्वीयप्रतिज्ञा न त्याज्येति सूचि- तम् । वसन्ततिलका वृत्तम् ।। नीत्याख्यशतकव्याख्यामर्थद्योतनिकाभिधाम् । कृष्णोऽहं रुतवांस्तेन प्रीयतां विश्वसृड्विधिः ॥१॥ इति कृष्णसूरिविरचितायामर्थद्योतनिकाभिधायां टीकायां नीति- शतकं संपूर्णम् ॥

। " ... ... . ... ... 6 ... ... " कि..स. किं.स.स. सकृत, मलिनाथकृत रंजनी टीका या दोन संजीविनी टीकेसहित - टीकांसहित कर्नल जे. इंग्रजी टीपांस- ई. जेय यांनी पाठां- हित -111.04 तरें व इंग्लिश नोट्स यमुनाष्टक-शंकराचार्य- देऊन तपासलं आहे. cell कृत स विक्रमोर्वशी नाटक-का- रघुवंश काव्य-कालिदा- लिदासकृत, रंगना. सकृत, मलिनायकृत धकृत प्रकाशिका टीके संजीविनी टीफेसहित १॥ call सहित... -111- (सूक्ष्माक्षर) -10. विदुरनीति, सटीक दा रतसमुचय ॥ श्रीविष्णोर्नामसहस्रम् रवावली नाटिका-श्रीहर्ष. विष्णुमहमनाम (सा.) - देयकृत..., " (रेशमी पुष्टा)....can | इंग्रजी टीपास- " मोटया अक्षराचें(मा.) हित विष्णुमहरनामावलि... ॥ रमिकाष्टक काव्य-नारा- (रेशमी पु०) 11 यणभ पर्वणीकरकृत ॥ वृत्तरत्नाकर-केदारभट्टः रामगीना परामगीता. कृत, नारायणपण्डि- माहात्म्य C॥ तकृत टीकेयहित, शु. रामचंद्रिका (गुंजीकर- तबोध-कालिदास- कृत संस्कृत शब्दरूपा- कृत, व छन्दोमारी- वलि)... ८॥ गङ्गादासरत... रामरक्षास्तोत्र ॥ वैदिककोश-भभास्कर- रामस्तवराजस्तोन ८॥ कृत, निघंटु व चार रामायण-वाल्मीकिकृत, परिशिष्टं यांमुद्धा रामकृत तिलाटीकेस- वैराग्यशतक-भर्तृहरि. हित कृत, कृष्णशास्त्री म. 1 ॥ हायलकृत टीकेसहित ..॥ लघुकीमुदी-परदराज शब्दरूपावलि (गुंजीक- कृत रकृत)... लघुयोगवासिष्ट, मारमा शिवसहस्रनामावलि मुपकृत वामिष्टचंद्रिका (याधी) टीकेसहित (रेशमी पुट) लक्ष्मीम्तोन-अगस्त्यकृत शिवकवच Cul ॥ वेदांतसार-ह नृसिंहसर- शुक्लयजुर्वेदीयरुद्राष्टा स्वति स्वामित सुयो। ध्यायी (स्थूलाक्षर) धिनी टीका परामती- शिवगीता (माधी) विरचित विद्वानो शिवगीना (रेश० पु.) । ... ... ... ... 1. ... ... ... ... ... ... ... ... ... .11. ८॥ ८॥ ... ८॥

१ te ... २ " ... .... ... r ... ... ... ... २ de .. कि. ट.प. किं. ट.स. " लक्ष्मीनरहरिसुनु यीसूत्रपाठ, गणपाठ कृत बालानंदिनी धातुपाठ, लिंगानुशा- दीका वशंकराचार्य सन व शिक्षा आणि कृत कालभैरवाष्टक सूत्रानुक्रमणी यांस- यांसहित हित शिवतांडवस्तोत्र-दशर्क- सुभाषितरत्नभांडागार उकृत: माधवानंदकृत सूर्यसहस्रनामावलि टीकेसहित ४॥ (रे. पुट्ठा). वा शिवमहिम्नस्तोत्र पुष्पदं सौर तकरा... in ॥ स्वानुभवाटक-गोपीनाथ शिवापराधक्षमापन- दाधीचकृत, स्वकृत स्तोत्र-दशंकराचार्यकृत ४ सारबोधिनी टीकेस- शिशुपालवध काव्य-मा. हित घकृत, मल्लिनाथकृत स्वारमनिरूपण सर्वकपा टीकेसहित ३ -हर्षचरित-बाणभकृत, शितलाष्टक शंकरकृत संकेतटीके. शृङ्गारशतक भर्तृहरि- सहित... कृत, कृष्णाशास्त्री म. हितोपदेश-नारायणपं- हाबलकृत टीकेसहित ॥ ढितकृत सत्यनारायण पूजा व (इंग्रजी टीपांसहित) १ कथा... हिरण्यकेशीय (आपसं. सारस्वतव्याकरणपूर्वार्ध बीय) नित्यविधि (कापडी घाइंडिंग) नामलिंगानुशासन सप्तशती (चंडीपाठ), देवीसूक्त व तीन (अमरकोश.) रहस्खें यांसहित (स्थू. हे पुस्तक आजपर्यंत बहुतेकांनी स. लाक्षर रेशमी पुर) ..] टीक व मूळ असें छापून प्रसिद्ध केलेच सप्तशती (रे. पु.म.अ.) .11 - करीतही आहेत, त्यावरून, केवळ याचे (साधी कागदी) नांव ऐकून लोकांस महत्त्व वाटणार " (मध्यमाक्षर मुटी प्रत नाही, परंतु हे तसे नसून केवळ मूळ " (सूक्ष्माक्षर रे.पु.) ॥ मानच आहे खरे, तथापि याच्या प्रति- " (स्थलाक्षर सुटी लोकांत येणारी ज्या ज्या वस्तूंची नावे प्रत) असतील ती दरपृष्टांत स्या स्या भोळी. समयोचितपद्यमालिका ध्या बाजूस मराठीत दिली आहेत. य समासचक कोणत्या वस्तूची किती हे समजण्या. सर्पपूजा u करितां बाजूस अंकही दिला आहे. ल. सिद्धांतकौमुदी-भद्दोजी घकर ध्यानात येण्याकरिता विशेषना दीक्षितकन, अष्टाध्या- पडी गाड देवून याकी मजदूर मारीक ... 11- ... ... ... ... ... ... .. ...

टेपांत टेविला आहे व टिकठिकाणी | जयपरच्यामहाराजांचे आश्रयास होते. अधिक माहिती देणे ती पृष्टाच्या शेवटी त्यांनी काश्मीर, पंजाय, वंगाला, रा. दिली आहे. ग्रंथाच्या शेवटी संस्कृत जपुताना, मध्यदेश तैलंगण, बंगरे मूळपदांचा व थाहेर दाराविलेल्या म- सर्व प्रदेश फिरून नानाप्रकारचे का. राठी शब्दांचा अकारादिवर्गक्रमकोश घ्यग्रंथ संपादित केले होते. त्यांतील जोढला आहे. त्या योगानं हें पुस्तक किन्येक ग्रंथ नर ८०० किंयहुना १००० भावालवृद्धाला व विशेषतः अभ्यासी यांच्याही पूर्वीचे होते. ते सर्व ग्रंथ मुलाला उपयुक्त होईल अशी आशा रा० रा० काशिनाथ पांडुरंग आहे. हे वे.शा.सं. रा. रा.विनायक परब यांनी माझांस तपासून दिलेले नारायण शाग्नी नोशी यांनी तयार केले या मालेत येत जातात; ज्या ग्रंथांच्या भाहे. किं. 5.91रु. ट.स.८३ भाण. टीका उपलब्ध आहेत, ते ग्रंथ मटीक- काव्यमाला. छापले जातात. परंतु टीकारहित में- या नांवाचे संस्कृत मासिक पुम्नक, 'थांतील दुर्योध शब्दांवर टिप्पणी दे. सन १८८६ चे जान्युआरी महिन्यापा. पयांत येते. शिवाय कची वृत्त, काल सून प्रसिद्ध होत आहे. यांत उत्तम उ- वग्रंथ इत्यादिकांविषयी माहिती जागो. तम प्राचीन संस्कृत काव्य, नाटके, जाग दिली जाते. या मालेचे अंक प्र. चंपू, भाण, प्रहसनें, छंद, भलंकार तिमामास एकदां प्रसिद्ध होतात. प्र. इत्यादिकांचा यथावकाश संग्रह होत | त्येक अंकांत डेमी अष्टपग्री सांच्याची असतो. फार प्राचीन आणि अत्यंत मु. १०० पृष्ठे असतात. याची वषांची आ- रस असेच ग्रंथ निवडून ते या मालेत गाऊ किंमत ६ रुपये, ट.म.-11. फु- गुंफले जातात. महामहोपाध्याय | टकळ अंकाची किं. 1- ट. स. पंडित दुर्गाप्रसाद या नांवाचे वि. हे मासिक पुमक आज नऊ वर्षे द्वान्, बहुश्रुत आणि शोधक गृहस्थ | एकसार नियत आहे. ही पुस्तकें मुंवदन काकादेवीच्या रस्त्यावर "निर्णयसागर" छापसान्यांत रोम पैसे पाठविले असतां अथवा व्याल्युपेएवलद्वारा विकत मिळतील.

८ ... ... ... ... ... ... ... ... १ ... आमच्याकडे विक्रीस असलेली संस्कृत पुस्तकें. किंमत. टपाल. रु.आ.भा. १. आदिकविश्रीवाल्मीकिविरचित रामायण, रामकृत टीकेसहित. - १४ २. सोमदेवभकृत कथासरित्सागर.. ३. कालिदासकृत रघुवंश काव्य, मल्लिनाथकृत टीका व पाठान्तरें यासहिन. ४. कालिदासकृत कुमारसभव काव्य, महिनाथकृत टीका (सर्ग १-८) व सीतारामकृत टीका (सर्ग ८-१५) व पाठान्तो यांसहित. २-०३. ५. कालिदासकृत मेघदूत काव्य, मल्लिनाथकृत टीका, पाठान्तरे व अर्थप्रदर्शक इसनी टिप्पणी यासहित, ६. कालिदासकृत ऋतुसहार काव्य, मणिरामकृत टीका, पाठान्तरे य अर्थप्रदर्शक इमजी टिप्पणी, व शृङ्गारतिलक, यासहित, ७. कालिदासकृत अभिज्ञानशाकुन्तल नाटक, राघवभाकृत टीका, पाठान्तरे व अर्थप्रदर्शक इग्रजी टिप्पणी यासहित. २-०२॥ ८. कालिदासकृत विक्रमोर्वशीय नाटक, रङ्गनाथकृत टीकेसहित. ९. कालिदासकृत मालविकाग्निमित्र नाटक, फाटयवेमकृत टीका, व अर्थप्रदर्शक इग्रजी टिप्पणी यामहित. १०. श्रीहर्पत रत्नावली नाटिका, अर्थप्रदर्शक इजी टिप्पणीसहित..-८ ॥ ११. श्रीहर्षकृत प्रियदशिया नाटिका, अर्थप्रदर्शक इग्रजी रिप्पासहित..-८ १॥ १२. पणभक्त कादम्बरी कथा, भानुचन्द्र व सिद्धचन्द्र याच्या टीकासहित. yo १३. दण्टीकृत दशकमारचरित कथा, पूर्वपीठिका व उत्तरपीठिका, पद्मनाभत उत्तरपीटिका, कवीन्द्रसरस्वती व शिवराम याच्या देशकुमारचरितावरील टीका, व पूर्वपीठिकवरील परदीपिका टीका व पाठान्तरें यांसहित. १४. भारविकृत किरातार्जुनीय काव्य, मलिनायकत टीका व पाठा. न्तरें यासहित. १५ माघकन शिशुपालवध काय, मलिनायकृत टीका व पाठान्तरे यासहित. १६. भटिकविकृत महाय, जयमालकृत टीकेसहित १. नारायणपण्डितात हितोपदेश, अर्थप्रदर्शक इंग्रजी टिप्पणीसहित.-. १८. अमभारत सर्वसमह व दीपिका, इग्रजी भाषांतरासाहित. १९. रोगाक्षिभास्थाहातकौमुदी २०. सुभाषितरनभाण्डागार. ... ... ... ... ... ... ... ४ .... ... A .. ... ... ... ... ... १ ... ... ... ... ... +..

Nitishatakam

Author
Bhartuhari,.
Title
Nitishatakam
File name
Nitishatakam
Text
OCR done
Citation
1960
Published
2012/08
Publisher
Mumbai,.nirnaya Sagarmudranalaya
Language
Sanskrit
Pages
59
Library
Bharatiya Vidya Bhavan Library, Mumbai
Classification
Devotional
DLI number
406327
Barcode
99999990293309.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
FACrfG3JYtI
Download PDF

Nitishatakam