University Liberey Allahabad
Shreebhashayavartikam
Front matter
BENARES SANSKRIT SERIES; GA A COLLECTION OF SANSKRIT WORKS EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE, UNDER THE SOPERINTENDENCE OF RT.H.GRIFFITH, M. A, C.IE. AND G. THIBAUT, PR D. No 133. श्रीभाष्यवार्तिकम्। श्रीमद्रामानुजाचार्यविशिष्टाद्वैत सिद्धान्तप्रतिपादनपरम् । यतीन्द्रमतदीपिका च । श्रीगोविन्दाचार्यसूनुश्रीनिवासाचार्यकृता । सकलाचार्यमतसंग्रहश्च। श्रीमदाचार्यश्रीवल्लभाधीश्वरशुद्धाद्वैतसंप्रदायविदुषा रत्नगोपालभट्टेन संशोधितानि । SRI BHÂSHYA VÂRTIKA, A TREATISE ON VISISHTÂDVAITA PHILOSOPHY; Also YATÎNDRA MAT DIPIKÂ, By Nivasa Charya. ston of Govinda Charyay, And Sakaláchåryamat Sangrah EDITED BY RATNA GOPAL BHATTA, Fascuulus II BENARES: Prblished by the Propiretors Messrs. Bra, B. Das.& Co AND SOLD BY H D. GUPTA, Secretary, Chowkhumba Sanskrut 'Book Depot. Printed at the Vidya Vilas Press, BENARES. 1907.
सूचीपत्रम्। ३०आपा १ १ . १ १ ६ . २ २ ६ ૨ or गणपाठः गोलप्रकाशः गंगालहरी गुरसारणी जातकतत्त्वम् तत्वदीप तर्कसंग्रहः दत्तकमीमांसा धर्मशास्त्रसंग्रह धातुपाठः ( शिला ) धातुरूपावली परिभाषापाठः पाणिनीयशिक्षा भाग्यसहिता प्रथम परीक्षा प्रथमपुस्तक हिन्दी মমূল্প ( নিম্ম জা বন্ধুর স্বল্প খ) बीजगणितम् (म०म० पं० सुधाकरकृतटिप्पचीसहित) १ मनोरमा शब्दरत्नसहिता ( टाइप) लघुकौमुदी टिप्पणीसहिता लघुकौमुदीभाषाटीका (पं० मथुराप्रसादमिश्र कृत) (टिप्पणीसहित) लक्षणावली लीलावती (म०म० पं० सुधाकरकृतटिप्पफीसहित) १ वसिष्ठसिद्धान्तः विष्णु सहस्रनाम शब्दरूपावली पृङ्गार सप्तशती समासचक्रम् समासचन्द्रिका सरखतीकण्ठाभरणम् साजन्यचन्द्रिका टिप्पणीसहिता सिद्धान्तकौमुदी ३ सिद्धान्तमुक्तावली दिनकरीटिप्पणीसहिता उपसर्गवृत्ति क्षेत्रकौमुदी क्षत्रसंहिता २ १ १ ." MOM. ३ १ ३ २ ३ अध्याये २ पादः। निरपेक्षत्वप्रतीतेरेकदाज्नेकसस्थितेः ॥ १३ ॥ असम्भवाद विकल्पः स्यादिति प्राप्ते समुच्चयः॥ त्रिषु स्थानत्वसंश्रुत्या विकल्प: पाक्षिको न हि ॥ १४ ॥ कार्यभेदमभावाच्च भवत्येव समुच्चयः॥ प्रासादखट्वापर्यङ्कवच्च कार्य विभिद्यते ॥ १५ ॥ प्रासादखट्वास्थानीयौ तौ च नाडीपुरीततौ ॥ पर्यङ्करूपं ब्रह्मात्र स्वापस्थानं तदेव हि ॥ १६ ॥ सुप्तिस्थानं यतो ब्रह्म तस्मादेव प्रबुद्धयते ॥ जीववर्ग इति श्रुसा सम्यगेव निरूप्यते ॥ १७ ॥ अबोधसमये मुप्तः स एवोत्तिष्ठतीतरः ॥ किं वेति संशये युक्तमुचिष्ठसन्य एव हि ॥ १८ ॥ सर्वोपाधिविनिर्मुक्तः सम्पन्नो ब्रह्मणीश्वरे ॥ देहाधभाववान मुप्तः कथमुत्थातुमस्थलम् ॥ १९ ।। अतोऽन्य एवेति प्राप्ते सुप्त एवोत्थितो भवेत् ॥ कृतस्य पुण्यपापादेर्भोगसम्बन्धसम्भवात् ॥ २० ॥ सुप्तोऽभूदु यः स एवायं प्रबुद्धोऽस्मीसनुस्मृतेः॥ मुप्तस्य मुक्तरूपत्वे मोक्षार्था विधयोऽफलाः ॥२१॥ भवयुरत एवायं सुप्तः स्वोपाधिमिश्रितः ॥ परन्तपात्तकरणो ज्ञानभोगाद्यशक्तिमान् ॥ २२ ॥ विश्रमस्थानमासाद्य पुनर्भोगार्थमुत्थितः ॥ सर्वप्राणादिसम्बन्धोपरतिर्मरणं तु तत् ॥ २३ ॥ मूर्छा च सूक्ष्ममाणादिसम्बन्धावस्थितिर्मता ।। वैराग्याथै दोषरूपा जीवावस्था निरूपिताः ॥ २४ ॥ अतोऽधुना परेशस्य निर्दोषत्वं निरूप्यते ॥ जागरादिस्थिते जीवे ये दोषास्तेऽन्तरात्मनि ॥ २५ ॥ १३ श्रीभाष्यवार्तिक सन्तीति तस्यावस्थानशरीरस्थितिसम्भवात् ॥ इति प्राप्त स्थानतोऽपि न दोषः परमेश्वरे ॥ २६ ॥ सम्भवेद् यत उक्तो हि निर्दोषगुणसागरः ।। श्रुतिस्मृतिभ्यां भगवान् शुद्धः सर्वत्र रूपितः ॥ २७ ॥ देवादिदेहसंयोगरूपावस्थाद्यभेदतः ॥ ईशेऽपुरुषार्थभोगोऽवर्जनीयो न हीति चेत् ॥ २८ ॥ अन्तर्यामिण ईशस्याऽमृतत्वस्योपदेशतः ॥ स्वेच्छानियमनं तत्र कुर्वतः परमेशितुः ॥२९॥ तत्सम्बन्धप्रयुक्तोऽतोऽपुरुषार्थों निषिद्धयते ॥ नीवस्य कर्मवश्यत्वात् कर्मानुगुणवस्तुभिः ॥ ३०॥ सम्बन्ध एव भोगार्थः स्यात् परस्य तथा न हि ॥ स्वाधीनत्वाद्धि सम्बन्धसत्त्वेऽपि न च दृषणम् ॥ ११ ॥ किन्तु जगन्नियमनं लीलारसपराप्तये ॥ स सम्बन्धः परेशस्य सर्वैः स्वकृतवस्तुभिः ॥ १२ ॥ एकस्मिन् देहसंयोगे द्वा सुपर्णेति वाक्यतः ॥ जीवस्य भोगसम्बन्धः परस्यैश्वर्यतो न च ॥ ३३ ॥ देवादिदेहे सत्त्वेऽपि शरीरित्वनिबन्धनम् ॥ जीवतत्कर्मवश्यत्वमस्येशस्य न विद्यते ॥ ३४ ॥ नामादिकार्यास्पर्शेऽपि निर्वोढा नामरूपयोः ॥ श्रुखोच्यते परेशोऽत्र निर्वोत्वस्वभावतः ॥ ३५ ॥ नन्वेवं तच्छरीरत्वात् तदन्तर्यामिणः कथम् ।। रूपसम्बन्धरहिततुल्यत्वमितिचेच्छृणु ॥ ३६ ॥ तज्जन्यमुखदुःखादिभोक्तृत्वेनापरात्मनः ॥ तत्तद्रूपादिसम्बन्धस्तद्धानेः परमात्मनः ॥ ३७॥ पसम्बन्धरहिततुल्यत्वं स्यान संशयः ॥
३ अध्याये २ पादः। विधिनिषेधशास्त्राणि कर्मवश्यानरानिह ॥ ३८ ॥ अधिकुर्वन्ति तस्माद्वै परेशेऽरूपतुल्यता ॥ अन्तर्यामिखरूपेणाऽवस्थितोऽपि परेश्वरः ॥ ३९ ॥ निरस्ताखिलदोषो हि कल्याणगुणसागरः ।। ससादिवाक्यावैयर्थ्याव स्वप्रकाशो यथेश्वरः ॥४०॥ तथैव सससङ्कल्पः सससङ्कल्पवाक्यतः ॥ अस्ताविद्यादिदोषश्च भवेदुभयलिङ्गवान् ॥ ४॥ सन्दर्शयन्ति वेदान्ता ईश्वराणां परेश्वम् ।। न चास्य कश्चिजनिता तथैवाऽस्य न चाधिपः ॥४२॥ न कार्य कारणं तस्य, न समो, नाधिकोऽपि हि ।। बलज्ञानक्रियाशक्तिस्तस्य स्वाभाविकी सदा ॥ ४३ ।। इति श्रुखनुसारेण सगुणं दोषजितम् ॥ सर्वज्ञः सर्वविद्यश्च यस्य ज्ञानमयं तपः ॥ ४४ ॥ बातोऽस्मात् पवते भीषा भीषैवोदेति वै रविः ॥ स एको ब्रह्मणः प्रोक्त आनन्दस्तं विजानतः ॥ ४५ ॥ कुतश्चन भयं तस्य न भवेद् भवसागरे । निवर्तन्ते यतो वाचो मनसा ब्रह्मणः सह ॥ ४६॥ निष्कलं निष्क्रिय शान्तं निरवचं निरञ्जनम् ॥ इसादिक्चसा सर्वावस्थायां संस्थितस्य हि ॥ ४७ ॥ लिङ्गद्वयसमावेशाद स्थानदोषाः स्पृशन्ति न । यतो नानाविधस्थाने स्थितस्यापि परात्मनः ॥ १८ ॥ न दोषभाक्त्वं तस्मादै प्रतिबिम्बोपमो हरिः॥ ननु- सूर्यादिप्रतिविम्बो हि मान्योपाधिषु गृह्यते ॥ ४६॥ तत्पयुक्ता अतो दोषाः प्रतिबिम्बे न तारिखकाः ॥
१०० श्रीभाष्यवार्तिके पृथिव्यामिति वाक्येन स्वाधारे तत्त्वतः स्थितिः ॥५०॥ तत्प्रयुक्तास्तु ये दोषास्ततस्ते स्युः परात्मनः ॥ इति प्राप्ते समाधानं दृष्टान्तद्वयसम्भवाद ॥ ५१ ।। घटादिषु यथाकाशं न घादिस्थधर्मवत् ।। अम्बुनिष्ठोंऽशुमान वापि नाम्बुहासादिधर्मवान् ॥ ५२ ॥ तथेशोऽस्ति पृथिव्यादौ न पृथिव्यादिधर्मवान् ॥ ननु- व वै वा ब्रह्मणो रूपे मूर्त्तामूर्त्तप्रभेदः ।। ५३ ॥ इति प्रकृस स्थूलं च सूक्ष्म चात्राखिलं जगत् ।। पुरुषस्य यथा वासो महारजनमियतः ॥ ५४॥ आकारमभिधायाथ नेति नेतीसनेन हि ॥ प्रकारमितिशब्देन परामृश्य निषिद्धय च ॥ ५५॥ सन्मात्रमेव ब्रह्मात्र दर्शितं गुणवत् कथम् ॥ कथश्च दोषरहितमिसत्रोत्तरमुच्यते ॥ ५६ ।। नैतद् युक्तं ब्रह्मणो ये विशेषाः प्रतिपादिताः ।। नेति नेतीति तानेव प्रतिषिद्धयति नो वचः ॥ ५७॥ तावन्मात्राकारं न, ततोऽप्यस्यधिकं परम् ॥ तावत्त्वप्रतिषेधाद्धि ततोऽधिकनिरूपणात् ॥ ५८ ॥ निर्दोषं गुणवद् ब्रह्म निर्णीतं नेति वाक्यतः ॥ प्रमाणान्तरतो ब्रह्म कस्यापि व्यज्यते न हि ॥५६॥ न चक्षुषा नापि वाचा गृह्यते चेति शास्त्रतः॥ किन्तु संराधनेनैव प्रसादाद् दृश्यते जनैः ॥६० ॥ नायमात्मेति संश्रुया नाहमियादिसंस्मृतः ॥ साक्षात्कृतब्रह्मरूपा वामदेवादयस्तु ये ॥६॥ तेषां प्रकाशते यादृग् ज्ञानानन्दादिरूपवत् ॥
३ अध्याये २ पादः।
मूतमू खिलजगद्वैशिष्टयगुणवत्तथा ॥ ६२ ॥
सम्यगाराधानात् तेषां विश्ववैशिष्टयसद्गुणः ॥
प्रतीयते विशेषेणाऽनन्तकल्याणसद्गुणः ॥ ६३ ॥
तदुक्तहेतुभिर्ब्रह्म निर्दोष गुणसागरम् ॥
उभयव्यपदेशोऽत्र त्वहिकुण्डलबद्धरौ ।। ६४ ॥
अभेदव्यपदेशो हि सूक्ष्मचिदचिद्वस्तुना ।।
तत्स्थूलावस्थयाचापि ब्रह्मणस्तद्विचार्यते ॥ ६५ ॥
अहिकुण्डलवत् किं वा विशेषणविशेष्यतः॥
अंशांशिभावमादाय युक्तं विदं निरूपितम् ॥६६॥
प्रारम्भणाधिकरणे सूक्ष्मात् स्थूलजनिर्मता ॥
अहिकुण्डलवच्चात्र व्यपदेशद्वयं घटेत् ॥ ६७ ॥
इदं सर्व हि ब्रह्मैव तथैवात्मेति वाक्यतः॥
तादात्म्यव्यपदेशोऽत्र तथा हंतेति च श्रुतेः ॥ ६८॥
भेदस्य व्यपदेशोऽपि रज्जुसर्प इवोच्यते ॥
अचिद्वस्तुनि संस्थानविशेषा ब्रह्मणस्ततः ॥ ६९ ॥
ब्रह्मणोऽचित्स्वरूपेणाऽवस्थाने श्रुतयोऽखिलाः॥
आत्मनोऽपरिणामित्ववादिन्योऽभेदबोधिकाः ॥ ७० ॥
बाधिताः सम्भवेयुस्ता ह्यत एवं विनिर्णयः॥
प्रभाप्रभावतोरत्र तेजस्त्वेनाविभिन्नयोः ।। ७१ ॥
तादात्म्यवत् प्रपञ्चस्य ब्रह्मरूपत्वमुच्यते ॥
जीववच्चापृथसिद्धविशेषणतया चितः ॥७२॥
ब्रह्मांशत्वं तद्विशिष्टब्रह्मवस्त्वेकदेशता ।।
तया मुख्योचितः प्रोक्तो व्यवहारो विवेकिनाम् ॥ ७३ ।।
खरूपभेदेनाप्यत्र विशेषणविशेष्ययोः॥
मुख्यः स्याद् व्यवहारो हि रक्षिताप्दोषता हरौ ॥ ७४ ॥
१०२ श्रीभाष्यवार्तिके जातेषुणस्य देहस्य प्रकाशस्य यथैव च ॥ व्यक्तिगुण्यात्ममणिषु हपृथसिद्धिलक्षणम् ॥ ७५ ॥ विशेषणत्वमंशत्वं तथा जीवाचितोरिह ।। महानजर आत्मेति श्रुतिवाक्यात परात्मनि ॥ ७६ ॥ अचिद्धर्मनिषेधाद्वा अंशांशिभाव इसपि ।। विशेषणविशेष्यत्वेनैवेति हि विनिर्णयः ॥ ७७ ॥ सूक्ष्मचिदचिद्विशिष्टं कारणं ब्रह्म कीर्तितम् ।। स्थूलचिदचिद्विशिष्टं कार्यभूतं तदेव च ॥ ७८ ॥ कारणाव कार्यभूतस्यानन्यत्वं कारणात्मनः। ज्ञानतः कार्यभूतस्य विज्ञानमुपपद्यते ॥ ७९ ॥ जगनिमित्तोपादानब्रह्मणः परमस्ति हि ॥ तत्त्वमाशा चाभासैः सांपतं प्रतिषिद्धयते ॥ ८०॥ सेतूपदेशतस्तस्मात् परमस्तीति मा वद ।। चिदचिद्वस्तुमा तत् स्वस्मिन् सर्वं प्रतिष्ठितम् ॥ ८१॥ असंकीर्ण सेतुपदाव स्फुटमेवं निरूप्यते ॥ चतुष्पाद घोडकलं ब्रह्मेति परिपठ्यते ॥ २ ॥ तथैव विश्वाभूतानि पादोऽस्य व्यपदिश्यते ॥ उपासनार्थो विज्ञेयः ससमिसादिवाक्यतः ॥ ८३ ॥ अपरिच्छिन्नरूपस्य चोन्मितत्वं खतो न हि ॥ व्यापकस्य प्रकाशादेर्वातायनसमाश्रयाव ॥ ८४ ।। परिच्छिमत्वमिव हि स्थानोपाधिसमाश्रयाद ॥ वागादिपादसंदेश उपासनफलाय हि ॥ ८५ ॥ प्राप्यमापकसंबन्धव्यपदेशात् प्रापकाव परं ॥ प्राप्यमस्तीति नो युक्तं पापकः पाप्यते यतः ॥ ८६ ॥ परमेश्वरस्य स्वमाप्तौ स्वस्यैवोपायताऽप्यतः॥
३ अध्याये २ पादः।
नायमात्मेति षचनादनन्योपायताश्रुतेः ॥ ८७॥
ततो यदुत्तरतरमक्षराव परत परः ॥
इसादिभेदसंदेशाद परमस्तीति चेन्न हि ॥ ८८ ॥
यस्मात् परमिति श्रुखा ततोऽन्यस्य निषेधतः ।।
अव्याकृताऽक्षराद् यस्मात् समष्टिपुरुषः परः॥ ८९ ॥
तस्मात् परो यः सर्वज्ञः स इहापि परात्परः ॥
तदेव परमं पूर्ण सर्वस्माद् ब्रह्म तत्परम् ॥ ९० ॥
सर्वशक्तिर्महोदारो यागदानादिसेवनैः ॥
ऐहिकामुष्मिकं भोगजातं स्वप्राप्तिरूपिणम् ॥११॥
अपवर्ग ददातीष्टं न तु कर्मक्षणान्वयि ।।
कालान्तरीयफलदं तस्मादीशात् फलं भवेत् ॥ ९२ ॥
ननु स्यात् कर्मफलदं न साक्षात् किन्त्वपूर्वतः ॥
आचार्यो जैमिनिः प्राह न त्वेवं बादरायणः ॥ ६३ ॥
तन्मते परमेशानात् फलं सर्व प्रजायते ।।
अग्निवावाद्यात्मतया परमेश्वर एव हि ॥ १४ ॥
फलप्रदः समाराध्य इति वै बादरायणः ॥
ब्रवीति गीताप्रमाण्यात् फलमात्रं परेवरात् ॥ ९५ ॥
इति श्रीभाष्यवार्तिके तृतीयाध्यायस्य द्वितीयः पादः॥३॥२॥
श्रीभाष्यवार्तिके उपासकाय निर्णीता ब्रह्मणः फलदयिता॥ गुणानामुपसंहारनिर्णयाय विचिन्यते ॥ १ ॥ विद्याभेदस्तत्र तावच्छाखाभेदाद विभिद्यते ॥ वैश्वानरीयविद्या किं विद्यैक्यमुत तद् भवेत् ॥ २॥ पुनः श्रुतेः प्रकरणस्य भेदकत्वाच्च भिद्यते ।। शिरोव्रतं हि विद्याङ्गमन्येषां शाखिनामपि ॥ ३ ॥ व्रतोपदेशनियमो विद्यैक्ये तु न संघटेत् ॥ विद्याभेद इति प्राप्ते सर्ववेदान्तप्रसयम् ॥ ४॥ एकं युपासनमिति नोदनाद्यविशेषतः॥ उपासीत तथा विद्यादिसेवं धातुबोधितः ॥ ५॥ अर्थरूपविशेषोऽयं विधिः स्याच्चोदनापदात् ॥ अविशेषश्रुतेर्भेदः प्रकारान्तरतोऽस्ति चेत् ॥ ६॥ विद्यायां प्रतिपत्तॄणां भेदाच्च घटते द्वयम् ॥ तस्माद्विद्यैक्यमेवास्ति न तु भेदः कथञ्चन ॥ ७ ॥ उपासनस्य श्रुसेव सर्ववेदान्तबोध्यता । प्रदर्शिता बैकवाक्याच्छान्दोग्ये तैत्तरीयके ॥ ८॥ एवं सर्वत्र वेदान्ते समाने सत्युपासने ॥ वेदान्तान्तरबोध्यानां गुणानामुपसंहृतिः ॥ ९ ॥ कर्तव्याऽन्यत्र वेदान्ते तस्माद्विद्यैक्यमुच्यते ॥ यथैकस्मिन् हि वेदान्त विधिशेषश्रुतो गुणः ॥ १० ॥ तद्विद्यायास्तु संबन्धात् तत्फलार्थ प्रवर्तनम् ॥ तथा विद्यान्तरोक्तोऽपि विद्यासंबन्धतोत्र हि ॥ ११ ॥ उपसंहारः कर्त्तव्यस्तस्माद्विद्यैक्यमस्त्वलम् ॥ ब्रह्मरूपगुणानां हि सर्वविद्यासु सांप्रतम् ॥ १२ ॥ चिन्सते परविद्यासु संहृतिर्नास्ति वाऽस्ति किम् ।।
३ अध्याये ३ पादः। उपसंहारो नास्येव प्रकरणप्रभेदतः ॥ १३॥ एवं प्राप्ते प्रधानस्य गुणिनो ब्रह्मणश्च हि ॥ सर्वेषूपासनेष्वत्र भेदाभावान संशयः ॥ १४ ॥ गुणानामुपसंहारः कर्त्तव्यः प्रत्युपासनम् ॥ गुणिनो ह्यपृथग्भावादेवानन्दादयो गुणाः ॥१५॥ यथा ब्रह्ममधानस्य तथैव स्यात् मियं शिरः॥ सर्वत्र ते प्रसज्येरन ये श्रुता ब्रह्मणो गुणाः ॥ १६ ॥ प्रियशिरामभृतयो न त्वेवं रूपणादिह ॥ अन्यथा पक्षपुच्छादिपरावयवभेदतः ॥१७॥ सम्यक स्यातामुपचयापचयौ परमात्मनः ॥ ससं ज्ञानमनन्तश्च ब्रह्मेति हि विरुद्धयते ॥ १८ ॥ गाम्भीर्यैश्चर्यकारुण्यगुणा न गुणिनः पृथक् ॥ उपसंहृतिर्यदा तेषां तदा सर्वत्र सम्भवः ॥ १६ ॥ आनन्यादुपसंहारासामर्थ्यस्यापि सम्भवः ॥ इसाशय त्वर्थसाम्यादानन्दायुपसंहृतिः ॥ २० ॥ सर्वत्रैवोपसंहारो विद्यासु परिपठ्यते ॥ तेषां गुणानां ये वै स्युब्रह्मरूपनिरूपकाः ॥ २१ ॥ निरूपितस्य ये च स्युर्गाम्भीर्यादिगुणास्तथा ॥ यत्रोक्तास्ते तु तत्रैव न तु सर्वत्र सम्मताः ॥ २२ ॥ प्रियशिरप्रभृतिभिः पुरुषाकाररूपणम् ॥ अन्यथोपचयादिः स्यात् परमात्मनि एव ते ॥ २३ ॥ उपासनार्थमेतस्य रूपकेण निरूपणात् ।। प्रियमोदादिरूपैर्हि शिरःप्रभृतिभिः परः ॥ २४॥ मुखन प्रतिपद्येत तस्माद्रूपकरूपणम् ॥ आत्मशब्दोऽपि तत्रैव परमात्मनि युज्यते ॥ २५ ॥ १४
श्रीभाष्यवार्तिके
तस्यैव सुखसम्प्राप्य शिरआदिनिरूपणम् ॥
नचानात्मस्वात्मशब्दप्रयोगानिर्णयः कथम् ॥ ५६ ॥
परमात्मन एव स्यादानन्दमयरूपिणः॥
आनन्दमयोऽन्योऽयमन्तरात्मेति हि श्रुतौ ॥ २७ ॥
आत्मशब्देन ग्रहणं परमात्मन एव यत् ॥
ततो निर्णय एव स्यात् परमानन्दरूपिणः ॥२८॥
यथात्मा वेति वाक्येऽत्र परात्मग्रहणं तथा ॥
सोऽकामयतवाक्याद्वा उत्तरादिति निर्णयात् ॥ २६ ॥
सर्वत्र सससङ्कल्पगुणैक्यान च भिद्यते ॥
विद्यति सर्व वेदान्त इत्थं निर्णय उच्यते ॥ ३० ॥
गुणानामुपसंहारः क्वचिन्नास्ति विशेषतः ।।
उपास्यरूपसम्भेदादिति निर्णय ईरितः ॥ ३१॥
उत्क्रान्तिकाल एवास्य सर्वकर्मक्षयो भवेत् ॥
आविर्भूतस्वरूपस्य सकलक्षीणकर्मणः ॥ ३२ ॥
सूक्ष्मदेहेन युक्तस्य देवयानपथा गतिः ॥
नच सूक्ष्मशरीरस्य कर्मनाशे कथं स्थितिः ॥ ३३ ॥
इति वाच्यं यतो विद्यामाहात्म्यादिति निर्णयात् ।।
स्वयं सूक्ष्मशरीरस्य विद्याऽनारम्भिकास्यपि ॥ ३४ ॥
ब्रह्मप्रातिपदानाय मुक्तानापयितुं परम् ॥
देवयानपथा सूक्ष्मशरीरं स्थापयेत् परम् ॥ ३५ ॥
केवलं स्थूलदेहस्य कर्मनाशात् परिक्षयः॥
अर्द्ध सूक्ष्मशरीरं तु गसर्थमनुवर्तते ॥ १६ ॥
ननु-
वाशिष्ठविश्वामित्रादिकृतसाक्षात्परात्मना ।।
देहषासोत्तरं चापि देहान्तरमुसङ्गमः ॥ ३७ ॥
३ अध्याये ३ पादः। १०७ तनिमित्तं सुखं दुःखं पुत्रजन्म विपचितः ॥ अत्रोत्तरं ज्ञानिनां वै कर्मणां क्षयमात्रतः ॥ ३८॥ अचिरादिगतिप्राप्तिर्वशिष्ठादेस्तु नो तथा । अधिकारसमाप्तौ हि प्रारब्धक्षयभोगतः ॥ ३९ ॥ स्वाधिकारमपर्यन्तं मारब्धं नैव हीयते ॥ अतस्तेषां स्वदेहानां पातोत्तरपरा गतिः ॥ ४० ॥ साधारणीयं सर्वासु विद्यासु परमा गतिः ।। उपकोसलविद्यासु प्राप्तवानूयतेतराम् ॥ ४१ ॥ अस्थूलत्वादिबुद्धीनां सर्वविद्यासु संग्रहः । कर्तव्योऽक्षरब्रह्मात्मसम्बन्धित्वेन संश्रुते ॥ ४२ ॥ स्वेतरस्माद्धि व्यावृत्तं ब्रह्म यद्गुणमन्तरा ॥ तद्गुणानां तु सर्वासु विद्यास्वेव प्रसंग्रहः ॥ ४३ ॥ अस्थूलत्वादयस्तेषां, न तु गन्धरसादयः ॥ एकरूपार्थविषयं यत्र प्रश्नोत्तरद्वयम् ॥ ४४ ॥ विद्याभेदो न तत्र स्यात् कथञ्चिदपि हि श्रुतौ ।। ये त्वत्र जीवपरयोर्योऽसौ सोऽहमिति श्रुतिः ॥ ४५ ॥ व्यतिहारानुसन्धानं वदतीति वदन्ति यत् ॥ न तद् युक्तं यतोऽन्यत्र सिद्धत्वाद विध्यसम्भवात् ॥ ४६ ॥ येषां श्रुखोपदेशोऽत्र मोक्षार्थोपासनाय हि ॥ उपसंहारस्तु सर्वत्र तद्गुणानां भवेत् परम् ॥ ४७ ॥ स एष नेति नेतीति प्रपञ्चं प्रतिपाद्य च ॥ सतो विलक्षणं ब्रह्म श्रुसाऽसङ्गं निरूपितम् ॥ १८ ॥ मुक्तस्य सर्वलोकेषु कामचारफलाय हि ॥ उपहार्या गुणाः सर्वे सयकामत्वमुख्यकाः॥ ४६॥ दहराऽऽकाशे हि गुणिनि विपाप्मत्वादयो गुणाः ॥
श्रीभाष्यवार्तिके
तद्विशिष्टवरूपं यद् गुणार्थ चिन्तयेत सकृत् ॥ ५० ॥
गुणिमात्रानुसन्धानं पूर्व विहितमप्युत ॥
गुणयुक्तानुसन्ध्यर्थमावृत्तिस्तदनन्तरम् ॥ ५१ ॥
ब्रह्माक्षरं परं ज्योतिः शब्दनिदिष्टमेव यत् ॥
उपास्यं शब्दैरनूध तैरेव परमात्मनः ॥ ५२ ॥
तस्य नारायणत्वं हि सर्वथैव विधीयते ॥
अस्य मोक्षदशायां हि यादृशं परमात्मनः ॥५२॥
उपासनायां तस्यात्र तादृग् रूपं विचिन्तयेत् ।।
ब्रह्ममाप्तिफलानां हि विद्यानां न विकल्पना ॥ ५३ ।।
समुच्चयः किन्तु भवेद् भूयस्त्वापेक्षया फले ॥
इति प्राप्ते विकल्पो हि भूयान्न तु समुच्चयः ॥५४॥
सर्वासामत्र विद्यानामविशिष्टफलत्वतः ।।
इति श्रीभाष्यवार्तिके तृतीयाध्यायस्य तृतीयः पादः॥३॥३॥
३ अध्याये ४ पादः। २०९ गुणानामुपसंहारानुपसंहारनिर्णयः॥ तद्विधैकत्वनानात्वकृता चिन्ताऽऽदिमेऽधुना ॥ १ ॥ विद्यातः पुरुषार्थोऽयमुत विद्याङ्गकर्मणः ॥ किं युक्तं पुरुषार्थो हि मन्यते बादरायणः ॥२॥ विद्यातोऽत्र कुतः शब्दाद तमेवेसादिकादपि ॥ पूर्वपक्षी शङ्कतेऽत्र तमेवेसादिकं वचः ॥ ३ ॥ कर्तृभूतस्यात्मनो वै याथात्म्यावेदनार्थकम् ॥ कर्तृसंस्कारद्वारेण क्रत्वङ्गत्वात् फलश्रुतिः ॥ ४ ॥ अर्थवादो जैमिनिराचार्य इति मन्यते ॥ सिद्धान्ती स्वाह विद्यातः फलं स्याद् बादरायणः ॥५॥ निर्दोषाधिककल्याणगुणेशस्योपदेशतः ।। उक्तं तु यद् ब्रह्मविदां कर्मानुष्ठानदर्शनाव ॥ ६॥ विद्या कर्माङ्गमिसेवं तन्न युक्तं भवेदिह ॥ कर्माकर्तुरपि च यद् विद्यया दृश्यते फलम् ॥ ७॥ दृश्यते हि ब्रह्मविदां कर्मसागेऽपि तत्फलम् ॥ फलाभिसन्धिरहितं कर्म यज्ञादिकं तु यत् ॥ ८॥ अनुष्ठीयते तद्विदा ततो विद्याङ्गमिष्यते ॥ मोक्षफलब्रह्मविद्याविरोधित्वात् कर्मणोऽङ्गता ॥६॥ न युक्ता फलभेदाद्धि विद्यायाः कर्मणोऽपि च ॥ यदेवेति वचस्त्वत्र न विद्याविषयऽखिले ॥१०॥ उद्गीथविद्याविषये कर्मानुष्ठानदर्शनात् ॥ कुर्वन्नेवेति हि वचो विद्यामाहात्म्यबोधकम् ॥ ११॥ विद्यावता कर्म कृतं न वैतस्यास्ति लेपकम् ॥ न तु विद्यावतोऽवश्यं कर्मानुष्ठानसंमतिः ॥ १२ ॥ तस्माद् विद्या न कर्माङ्गमित्येवं बादरायणः ॥
श्रीभाष्यवार्तिके
यावज्जीवमग्निहोत्रं जुहोतीति वचोऽस्ति लव ॥१३॥
अविरक्तस्य विषयं न विरक्त प्रवर्तते ॥
आश्रमा नैव सन्यत्र जैमिनेरूर्ध्वरेतसः ॥ १४ ॥
आश्रमान्तरमस्त्रीति बादरायणसंमतेः ।।
तस्मादिहोर्ध्वरेतस्सु ब्रह्मविद्या विधानतः ॥ १५ ॥
विद्यातः पुरुषार्थः स्यादितिसिद्धं विनिर्णयात् ।।
अतः क्रतोर्यिवत्त्वफलसिद्धयर्थमेव हि ॥ १६ ॥
उद्गीथादौ रसतमदृष्टविधिरिहोच्यते ॥
उपासीतेत्यादिशब्दाद्विध्यर्थत्वं युनक्ति ह ॥ १७ ॥
आख्यानश्रुतयः सर्वा वेदान्तेषु समास्थिताः ॥
विद्याविध्यर्थकास्तास्तु न तु पारिप्लवार्थकाः ॥ १८ ॥
कर्मवत्सु गृहस्थेषु निसनैमित्तिकं तु यत् ।।
तत्सर्वकर्मापेक्षयं विधेसेवं विनिश्चयः ॥ १९ ॥
स्वस्थ परिकराऽपेक्षो यथाको गतिसाधनम् ।।
मोक्षसाधनविद्या वै तथा नित्याधपेक्षिणी ॥२०॥
यद्यप्यत्र गृहस्थो हि अतः स्वीयकर्मसु ।।
तथापि विद्वान संयुक्तः स शमादिभिरन्यहम् ॥ ११ ॥
कुतो यतोऽत्र विद्याङ्गतया तेषां विधेयता ।।
निष्पत्यथै हि विधायाः प्राणानां रक्षणाय तु ॥ २२ ॥
सर्वाभ्यनुज्ञा भक्षादौ विदुषां नैव दोषभाग् ।
परं वापद्विषयणी सर्वानुमितिरेव हि ॥ २३ ॥
अन्तरा वर्तमानानामनाश्रमवतां पुनः ।।
विद्यायामधिकारोऽस्ति दर्शनाद रैककादिषु ॥ २४ ॥
आपद्विषयमेवेदं यदनाश्रमितादिकम् ॥
आश्रमित्वं तु शक्तस्य सर्वथैवास्ति पोधितम् ॥ २५ ॥
३ अध्याये ४ पादः।
वैखानसनैष्ठिकादिवाश्रमै रहितास्तु ये ॥
नाधिकारोऽस्ति विद्यायां तेषामति निर्णयः ॥ २६ ॥
पायश्चित्तानन्तरं हि तेषां नैवाधिकारिता ।।
यजमानकतकं चात्र ह्युद्गीथोपासनादिकम् ॥ २७ ॥
फलसंश्रवणादेवमात्रयस्य मते भवेत् ॥
औडुलोमिमते त्वेतद ऋत्विकर्तृकमिष्यते ॥ २८ ॥
बालस्वभावामाकव्यसाधनं कर्म यद् भवेत् ॥
तदुपाददानो विद्वान् अन्वयात् तस्य वै विधौ ॥ २६ ॥
विद्याविरोधिताश्रुखा हीतरेषां विकर्मणाम् ॥
यन्मुक्तिफलविद्यायाः साधनं कर्म तद् भवेत् ॥ ३० ॥
प्रबलं सर्वकर्मभ्यो विद्वान् सम्यक् समाचरेत् ।।
इति श्रीभाज्यवार्तिके तृतीयाध्यायस्य चतुर्थः पादः ॥३॥४॥
११२ श्रीभाष्यवार्तिके साधनैः सह विद्यायाश्चिन्तनं तृतीये कृतम् ॥ विद्यास्वरूपमधुना विशोधनसुपूर्वकम् ॥ १ ॥ तत्फलं चिन्यतेऽध्याये तुरीये मुक्तिलक्षणम् ॥ ब्रह्मवित् परमानोति विदित्वा च तमेव ह ॥ २॥ ब्रह्मैव भवति ब्रह्म यो वेद दहरे स्वयम् ॥ यः पश्यः पश्यते रुक्मवर्णमित्यादिवाक्यतः ॥ ३ ॥ साधनत्वेन विहितं ब्रह्मप्राप्तौ प्रवेदनम् ॥ सकृत् कृतं तच्छास्त्रार्थः किं वात्र सकृदावृतम् ॥ ४॥ इसेवं संशये युक्तं सकृत् कृतमिदं कुतः ॥ यतो वेदनमात्रस्य विधानात्सन्तताहतौ ॥ ५॥ प्रमाणविरहाच्चापि दृष्टोपायवहानितः ।। वेदनस्य परेशीयपराराधनरूपिणः ॥ ६ ॥ आराधितपरेशाच्च पुरुषार्थों भवेदिति ॥ ज्योति ष्टोमादिवदिह शास्त्रार्थः स्यात् सकृत् कृतम् ॥ ७ ॥ इति प्राप्ते ह्यसकृद् वेदनादत्तिरिष्यते ॥ ध्यानोपासनरूपस्य वेदनस्योपदेशतः ॥८॥ विद्युपास्तिध्यायतीनामेकत्र विषये यतः ।। उपदेशार्थवाक्येषु प्रयोगादेव गम्यते ॥ ९ ॥ रैकज्ञानं विदिनोक्तमनुमेयादिवाक्यतः ॥ उपासिनोपसंहृस तद्वेदनमुपासना ॥ १०॥ आत्मनोज्यतयोपास्यं ब्रह्म चात्मतया किमु ॥ आत्मतोऽन्यतयोपास्यं ब्रह्मेति घटते यतः ॥ ११ ॥ उपासितुर्यतो भिन्नः प्रसगात्मेति रूपितम् ॥ अधिकं भेदनिर्देशान्नेतरेखादिसूत्रतः ॥ १२ ॥ यथावस्थितमेवात्र समुपास्यं तु नान्यथा ॥
४ अध्याये १ पादः।
तथात्वे ब्रह्मसम्माप्तेरयथावस्थता भवेत् ॥ १३ ॥
इति प्राप्ते समाधानं शरीरस्य यथा स्वयम् ॥
आत्मा तथा परब्रह्मस्वात्मति समुपास्यताम् ॥ १४ ॥
आत्मेसेवेश्वरोपासां ग्राहयन्यखिला गिरः॥
प्रात्मनोज्यत्र यो वेद तं परादादितीरणम् ॥ १५॥
आत्मत्वाननुसन्धान कर्तारं प्रतिषेधति ॥
पृथगात्मानुसन्धानं पृथगात्मेति वाक्यतः ॥ १६ ॥
विधीयते विरोधोऽत्र नैवास्ति श्रौतसन्मते ॥
अब्रह्मणि ब्रह्मदृष्टिः प्रतीकोपासनं हि तत् ॥ १७॥
तत्रोपास्यं प्रतीकं हि नात्मोपासितुरस्य वै ॥
मनःप्रभृतिषु ब्रह्मदृष्टिरेव हि युज्यते ॥ १८ ॥
न ब्रह्मणि मनआदिदृष्टिस्तेभ्योऽधिकं तु तत् ॥
प्रभौ यस्माद् भूखदृष्टेः कर्तुर्दण्डोऽधिको भवेत् ॥ १९ ॥
भृसवेर्गे राजदृष्टिः कृताभ्युदयकारिणी ॥
यावन्मरणमात्त्यास मुपास्यो हरि परः ॥ २०॥
आवर्तयन् ब्रह्मलोकं गच्छतीत्यादिवाक्यतः॥
असम्बन्धविनाशौ हि कृतयोर्भाविपूर्वयोः ॥ २१ ॥
तद्यथेसाबलेपादिज्ञापकश्रुतिवाक्यतः॥
प्रारब्धस्य तु भोगैकनाश्यत्वेन न संशयः ॥ २२ ॥
इति श्रीभाष्यवार्तिके चतुर्थाध्यायस्य प्रथमः पादः ॥४॥१॥
११४ श्रीभाप्यवार्तिके अथोत्क्रान्तिश्चिन्त्यते॥संपद्यते वाङ्मनसि श्रुतिवाक्यप्रमाणतः॥ स्वरूपेण लयो वाचा, न तु वृत्तिस्वरूपतः ॥१॥ प्राणैः सम्पद्यते चैव सर्वेन्द्रिययुतं मनः ॥ विदुषोऽविदुषो वाऽपि समानोत्क्रान्तिरिष्यते ॥ २ ॥ नाडीयोगेन विदुषो यत उत्क्रान्तिरस्ति हि ॥ नाडीविशेषात् पूर्वं तु न विशेषश्रुतिर्यतः ॥ ३ ॥ तत्प्रवेशदशायां वै विशेषश्रवणादिह ॥ मूनों निष्क्रमणं यत् स्याद् विद्वद्विपयमेव तत् ॥ ४ ॥ इतरस्मान्निष्क्रमणमविद्विषयं भवेत् ॥ उपासनाया वेलायां ब्रह्मणोऽनुभवो हि यः ॥५॥ तत्परं श्रुतिवाक्यं स्यादत्र ब्रह्म समश्नुते ॥ अदग्धदेहसम्बन्धपुरुषस्यैव तद्भवेत् ॥ ६ ॥ अचिरादिपथा देशविशेषगमनोत्तरम् ॥ ब्रह्मणः प्राप्तिपर्यन्तं संसारव्यदेशतः ॥ ७॥ विदुषो देहवन्धोऽत्र न विदग्यो यनः कुतः ॥ सत्यं ब्रूयादिति परं चन्द्रसंवादवाक्यतः ॥ ८ ॥ देहसद्भावतः सूक्ष्मशरीरमनुवर्तते ॥ देवयानपथा गन्तुर्विदुपोऽत्र न संशयः ॥६॥ प्राणस्योक्रमणं नैवमर्वाद प्राप्तः परमात्मनः ॥ प्राणानूक्रान्तिवचनात् प्राणो न स्थूलदेहवत् ॥ १० ॥ मुञ्चसविदुषः किन्तु सूक्ष्मभावेन सङ्गतः ॥ मूर्द्धन्यनाड्या विदुषः समुत्क्रान्तिर्हि स्मर्यते ॥ ११ ॥ ऊर्ध्वमेकास्थितस्तेषां यो मित्त्वा सूर्यमण्डलम् ॥ ब्रह्मलोकमतिक्रम्य तेन याति परां गतिमिति ॥ १२ भूतमूक्ष्माणि तानीशे संपद्यन्ते श्रुतेर्बलात् ॥
४ अध्याये २ पादः।
देवतायां परस्यां वै तेजः संपद्यते इति ॥ १३ ॥
किं प्राकृतप्रलयवत् कारणापत्तिरूपिणी ॥
कि वा विभागरूपति परं वाङ्मनसीतिवत् ॥ १४ ॥
सर्वेषां योनिरूपेशे कारणे सेतिचेन हि ॥
अपृथग्भावरूपोऽत्राऽविभागः श्रुतिबोधितः ॥१५॥
पृथग्व्यवहारानहसंसर्गाख्यः स एव तु ॥
समा विद्वदविदुषोरुक्तोत्क्रान्तिस्तु सांप्रतम् ॥ १६ ॥
उच्यते मुखबाधाय विशेषो विदुषो गतेः ।।
शताधिकयैव नाड्या विद्वानुत्क्रामतीश्वरः ॥ १७ ॥
आराधनात् प्रसन्नोऽयं विद्यासाम्यर्थ्यमस्य वै॥
गत्यनुस्मरणं दत्वा हार्देशोऽनुगृहीतवान् ॥ १८ ॥
जीवं ततोऽस्य हृदयं प्रकाशमुपजायते ॥
तत्प्रकाशितसवारौ विद्वान् मूर्धन्यनाडिकाम् ॥ १९ ॥
विजानाति तया तस्य गतिरित्थं प्रजायते ॥
गत आदिससद्रश्मीननुसृसाऽस्य मण्डले ॥ २० ॥
गतिर्दिवा निशास्वेवं रश्मिद्वारैव केवलम् ॥
'ज्ञानी निशि मृतो भूतो नाधो गच्छति दुर्गतिम् ॥ २१ ॥
विदुषः कर्मसम्बन्धो यावद्देहं प्रवर्तते ॥
दुर्गतेहेतुभूतानामनारब्धफलात्मनाम् ॥ २२ ॥
विद्यासम्बन्धमात्रेण विनाशादुत्तरस्य च ॥
अश्लेषाद् भुज्यमानस्य यन्सदेहावधित्वतः ॥ २३ ॥
निश्युत्क्रान्तस्य विदुषो ब्रह्ममाप्तिरपि स्मृता ॥
अविद्वद्विषयं बोध्यं दिवेसादि मृतेर्वचः ॥ २४ ॥
मुमुषून प्रति नैवात्र मृतिकालविशेषगीः॥
देवयानगतिः किन्तु विद्यानिष्ठस्य गीयते ॥ २५ ॥
इति श्रीभाष्यवार्तिके चतर्थाध्यायस्य द्वितीयः पादः ॥४॥२॥
श्रीभाष्यवार्तिके
नाडीविशेषेण गतिर्हार्दानुग्रहतो नृणाम् ॥
उक्ता श्रुतौ मार्गभेदश्रवणानियमोऽधुना ॥१॥
मार्गोऽचिरादिरेको हि सर्वत्र प्रतिपादनाव ॥
न्यूनेऽधिकेऽधिकं न्यून गुणानामिव चान्यतः ॥२॥
उपसंहृतिवन्नूनमुपसंहियतां परम् ॥
अर्थक्रमो बलीयान् वै पाठस्य क्रमतो भवेत् ॥३॥
एतान् गमयति ब्रह्माऽमानवो विद्युतः परः ॥
निवेशनीयो वरुणस्ततश्चेन्द्रादयोऽपि हि ॥ ४॥
अमानवोऽत्र पुरुषो गमयसेव ब्रह्म तु ॥
अचिरादिपदान्यत्र चिराधभिमानिनाम् ॥ ५ ॥
वाचकानि भवन्येव देवानां गमयितॄणाम् ॥
आतिवाहिकसंज्ञेनामानवेनेश्वरं प्रति ॥ ६ ॥
गमनं विदुषः प्रोक्तं कार्याख्यं ब्रह्म नैव तु ॥
ब्रह्मैवोपासते ये तु स्वात्मानं ब्रह्मरूपिणम् ॥७॥
उपासते तानुभयानचिराधातिवाहिकः ।
परं ब्रह्म गमयति न तु नामाद्युपासकान् ॥ ८॥
ब्रह्मदृष्टया परिमितं फलं तेषां निरूप्यते ॥
इति श्रीभाष्यवार्तिके चतुर्थाध्यायस्य तृतीयः पादः ॥ ४॥३॥
४ अध्याये ४ पादः। ११७ परब्रह्मोपासकानां तथा प्रकृतिवर्जितम् ॥ स्वात्मानं य उपासीत तयोरपुनरागतिः ॥ १॥ उक्तेदानी विमुक्तानामैश्वर्यमिह चिन्यते मानुषात् कर्मणा देहात समुत्थायाऽमरादिना ॥ २ ॥ साध्येनेवात्र सम्बन्धः किं वा स्वाभाविकं तु यत् ॥ तस्याविर्भाव इसेवं संशये पूर्वमुच्यते ॥ ३ ॥ देववत् साध्यसम्बन्धः पुरुषार्थानुशासनात् ॥ आविर्भूतात्मरूपस्य सुषुप्तौ पुरुषार्थकः ॥ ४ ॥ न कोऽपि दृश्यते यस्मात मुखानन्यस्य संश्रुतेः ॥ स्वरूपस्यापरिच्छिन्नानंदस्याविद्यया वृतिः ॥५॥ न युज्यते प्रकाशस्यावरणं परमात्मनः ॥ प्रकाशस्यानुकूलत्वरूपानन्दस्वरूपता ॥ ६ ॥ न युक्ता हि प्रकाशेऽस्ति नानुकूलप्रवदिता ॥ अत्रोच्यते समाधानं ज्योतिः संपद्य यत्परम् ॥ ७॥ दशाविशेषाविर्भावः स्वस्वरूपस्य निश्चितम् ॥ नित्यप्राप्तस्वरूपस्याविद्यया कर्मरूपया ॥८॥ तिरोहितस्य निष्पत्तिस्तिरोधानस्य या हृतिः॥ स्वरूपतोऽयमात्मा हि विजरो हतपाप्मकः ॥९॥ विमृत्युः सत्यसंकल्पो विशोकः सत्यकामका मोक्षः स्वरूपनिष्पत्तिः प्रकरणात् प्रत्ययात्मनः यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणे दोषप्रहाणानुज्ञानमात्मनः क्रियते तथा ॥१॥ यथोदपानकरणान्न जलं क्रियते परम् ॥ सदेव नीयते व्यक्तिमसतः सम्भवः कुतः ॥ १२ ॥ तथा हेयगुणध्वंसादवबोधादयो गुणाः। क
११८
श्रीभाष्यवार्तिके
प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते ॥ १३ ॥
संकोचः कर्मणा तेषां कर्मबन्धक्षये पुनः ॥
विकाशरूपाविर्भावो ज्ञानादीनां गुणात्मनाम् ॥ १४ ॥
स्वतः किं परमात्माऽयं भिन्नत्वेनानुभूयते ॥
मुक्तेन किं वा भिन्नोऽयमित्येवं संशये शृणु ॥ १५ ॥
साधर्म्यवचनाद्भिन्नं पश्यत्यात्मानमत्र सः ॥
इति प्राप्ते परेशानादविभागेन पश्यति ॥ १६ ॥
स्वात्मानं मुक्तसंघोऽत्र सर्वं ब्रह्मेति वाक्यतः ॥
सर्वं परात्मक तच्च तच्छरीरतयाऽऽत्मनः ॥ १७ ॥
प्रकारभूतमिसेवमभेदवचनक्रमः ॥
अविभागेन तेनाहं ब्रह्मास्मीत्यनुभूयते ॥ १८ ॥
उपपद्य परं ज्योतिस्तिरोधाननित्तितः ॥
आविर्भवति येनायं तद्रूपं प्रविचार्यते ॥ १६ ॥
तत्र जैमिनिराचार्यों मन्यते यस्तु मुच्यते ॥
ब्राह्मधर्मेण संपन्नस्तदापहतपाप्मकः ॥ २० ॥
उपन्यस्ता ब्रह्मगुणा यतो वै प्रसगात्मनः ॥
चैतन्यमात्रमेवास्य रूपमाविर्भवेदिदम् ॥ २१ ॥
इत्यं मुक्तावौडुलोमिराचार्यों वदति स्फुटम् ॥
हतपाप्मेत्यादिशब्दा अविद्याजन्यविकृतिम् ॥ २२ ॥
सुखदुःखादिरूपां हि वर्जयन्तीशसंगते ॥
विज्ञानमात्ररूपेऽपि सत्यकामादयो गुणाः ॥ २३ ॥
न विरुद्धा मुक्तजीवे बादरायणसंमते ॥
विज्ञानमात्ररूपत्वं जडव्यावृत्तितोऽस्ति तु ॥ २४ ॥
न गुणाभावतो मुक्ताविति वाक्यार्थनिर्णयः ।।
संकल्पादेव मुक्तानां कामाप्तिः सकला भवेत् ॥ २५॥
४ अध्याये ४ पादः। सत्यसंकल्प एवायमनन्याधिपतिस्तथा ॥ विधौ निषेधे योग्यो यः सोऽन्याधिपतिरुच्यते ॥ २६ ॥ अनन्याधिपतित्वं तु तनिषेध इतीरितम् ॥ मुक्तस्य न शरीरं स्याद् बादर्याचार्यसंमतम् ॥ २७ ॥ संकल्पतस्तु स्यादेव जैमिन्याचार्यसंमतम् ॥ बादरायण आचार्यों द्वयमेवावदत् स्वयम् ॥ २८ ॥ स्वसृष्टकरणाभावे परसृष्टेन तेन वै ॥ भोगो मुक्तस्य मुक्तो हि न किञ्चित् सृजते विभुः ॥ २६ ॥ संकल्पादेव मुक्तोऽपि भुङ्क्ते लीलारसं स्फुटम् ॥ एकदेशस्थितो दीपो प्रभाद्वाराखिलं गृहम् ॥ ३० ॥ व्याप्नोति तद्वदात्माऽयं ज्ञानद्वारा कलेवरम् ॥ कर्मणाकुञ्चितज्ञानो नात्माभिन्नेऽभिमानभाक् ॥ ३१ ॥ समस्तदेहे मुक्तोऽतोज्ञानव्याप्याऽभिमानभाक् ॥ श्रुत्युक्तमस्यानन्यं तु तदमुक्तस्य कर्मणा ॥ ३२॥ अमुक्तोऽसर्वज्ञमुक्तः सर्वज्ञ इति पठ्यते ॥ जगद्व्यापारवर्ज तु साम्यं तस्येश्वरेण हि ॥ ३३ ॥ आधिकारिकसंस्थाने संस्थिता अधिकारिणः ॥ जगद्व्यापारमभृतिप्रत्यक्षं तेषु पठ्यते ॥ ३४॥ जन्मनाशविकारादि मुक्तानां नैव वर्तते ॥ आविर्भूना नित्यगुणा मुक्ते स्वाभाविका अपि ॥ ३५ ॥ तथाविधत्वं तेषां वै परेशायत्तमेव हि ॥ ईशानुभवरूपस्य भोगमात्रस्य चैव ह ॥ ३६ ॥ साम्यमुक्तं ब्रह्मणात्र मुक्तानां श्रुतिनिर्णयात् ॥ परेशाधीनमेवास्य सर्वं न पुनरातिः ॥ ३७ ।। करुणासागरस्यास्य नृसिंहस्य कृपावशात् ॥
श्रीभाष्यवार्तिके अनावृत्तिस्तु मुक्तानां कैङ्कर्यपरिशीलनात् ॥ ३८ ॥ तदुपासनसंप्रीतः कर्माविद्यां विनाश्य च ॥ दत्वा स्वानन्दमतुलं नावर्तयति तं पुनः ॥ ३९ ॥ संछिन्नकर्मबन्धस्याऽकुण्ठितज्ञानर्धामणः ॥ ब्रह्मानुभवसंप्राप्तानन्दातिसुखभोगिनः ॥ ४०॥ पुनरावृत्तिशङ्का तु न घटेत कथञ्चन ।। प्रियः प्रियस्य दुःखं हि न कथञ्चन यच्छति ॥ ४१ ॥ इति श्रीभाष्यवार्तिके चतुर्थाध्यायस्य चतुर्थः पादः॥४॥४॥ समाप्तोऽयं चतुर्थोऽध्यायः॥
BENARES SANSKRIT SERIES; COLLECTION OF SANSKRIT WORKS A. EDITED BY THE PANDITS Or TAE BENARES SANSKRIT COLLEGE, UNDER THE SUPERINTENDENCE OF RT. H.GRIFFITH, M. A.,C.I.E. AND G. THIBAUT, PH.D. Nos 1234133. श्रीभाष्यवार्तिकम्। श्रीमद्रामानुजाचार्यावशिष्टाद्वैत सिद्धान्तप्रतिपादनपरम् । यतीन्द्रमतदीपिका च । श्रीगोविन्दाचार्यसूनुश्रीनिवासाचार्यकृता । सकलाचार्यमतसंग्रहश्च । श्रीमदाचार्यश्रीवल्लभाधीश्वरशुद्धाद्वैतसंप्रदायविदुषा रत्नगोपालभद्देन संशोधितानि। ŜRI BHÂSHYA VÂRTIKA, A TREATISE ON VISISHTADVAITA PHILOSOPHY; Also YATÎNDRA MAT DIPIKÂ, By Nivasa. Charya son of Govinda. Charya, And Sakalâchâryamat Sangrah EDITED BY RATNA GOPAL BHATTA. BENARES Published by the Proprietors Messi's. Brag B. Das & Co. AND SOLD BY H D. GUPTA, Secretary, Chowkhamba Sanskrit Book Depot, Printed.at the Vidya Vilas Press, BENARES. 1907 Registered underAct XXV of 1867 (ALL BIGHTS RESERVED.)
श्रीहरये नमः। अपि खलु विपश्चिदपश्चिमाः ! सहृदयवराः ! इदं खलु निवेद्यते तत्रभवत्सु भवत्सु- यदिदं श्रीरामानुजभाष्यवार्तिकं वाराणसेय-संस्कृतपुस्तकमालायां संमुद्रितं वरीवति । अत्र किल विस्तृतश्रीभाष्यार्थः संक्षेपेण बोधसौकर्याय श्लोकैः संगृहीतः। अस्य ग्रन्थरत्नस्य अत्यन्तं दुर्लभत्वाद केवलैकपुस्तकलामेऽपि यथामति संशोध्य संमुद्रितम् । ततश्च मदीयमत्यपराधजाताऽशुद्धि- क्षमायै मयाऽभ्यर्थ्यन्त एव विद्वद्वरा एतदवलोकयितारः । अभ्य- र्थ्यन्ते च पुनर्यदि येषां समीपे माचीनलिखितमेतद्ग्रन्थरत्रं भवेद तैरहं बोधनीय इति । पुस्तकमालाया नियतपत्रसंख्यापूर्त्यथै, श्रीयतीन्द्रमतदीपिका सहैव मुद्रिता। एतत्पुस्तकं च पण्डितवरश्रीसुदर्शनाचार्यैः स्वसंप्रदायभत्त्या संशोध्य स्वकीयं पुस्तकं दत्तम् । यद् विना मदीयेनकेन पुस्तकेन संशोधनकार्यमसम्भावितमासीत् । तथा तैरेव संशोधितः श्रीविष्णुस्वामि-श्रीरामाऽनुजाचार्य- श्रीनिम्बार्काचार्य-श्रीमध्वाचार्यसिद्धान्तसंग्रहः सह संयोजितः। तत्र प्रथमतृतीयपुस्तककर्तृनामानुपलम्भादत्र तदनुल्लेखः । एतत्पुस्तकत्रयं नानाविधदर्शनप्रकाशनपरायणाऽन्तःकरण श्रीयुतहरिदासगुप्ताभिधमहाशयमोत्साहेन प्रकाशितमिति तत्सका- शाद, चौखम्बासंस्कृतपुस्तकालये काश्यां लभ्यमिति मुधीभि- राकलनीयमिति वाम् । रखगोपालभट्ट श्रीगणेशाय नमः। श्रीमते रामानुजाय नमः । श्रीयतिपतिमतदीपिका । विद्वद्ववरश्रीनिवासाचार्यकृता । -- श्रीवेङ्कटेशं करिशैलनाथं श्रीदेवराजं घटिकाद्रिसिंहम् ॥ कृष्णेन साकं यतिराजमीडे स्वप्ने च दृष्टान् मम देशिकेन्द्रान् ॥१॥ यतीश्वरं प्रणम्याहं वेदान्तार्य महागुरुम् ॥ करोमि बालबोधार्थ यतीन्द्रमतदीपिकाम् ॥ २ ॥ श्रीमन्नारायण एव चिदचिद्विशिष्टाद्वैतं तत्त्वम् । भक्तिमपत्ति- भ्यां प्रसन्नः स एव उपायः । अप्राकृतदेहविशिष्टः स एवं प्राप्य इति वेदान्तवाक्यैः प्रतिपादयतां व्यासबोधायनगुहदेवभाणरुचि- ब्रह्मानन्दिद्रविडाचार्यश्रीपरांकुशनाथयामुनमुनियतीश्वरप्रभृतीनां मतानुसारेण बालबोधार्थ वेदान्तानुसारिणी यतिपतिमतदीपिका- ऽऽख्या शारीरकपरिभाषा महाचार्यकृपावलम्बिना मया यथामति संग्रहेण प्रकाश्यते । सर्व पदार्थजातं प्रमाणप्रमेयभेदेन द्विधा भिन्नम्। प्रमाणानि त्रीण्येव । प्रमेय द्विविधं द्रव्याद्रव्यभेदात् । द्रव्यञ्च द्विवि- धम् । जडमजडमिति । जडं च द्वेधा प्रकृतिः कालश्चेति । प्रकृति- श्चतुर्विशत्यात्मिका । कालस्तु उपाधिभेदात त्रिविधः । अजडं तु द्विविधम् । पराक् प्रत्यागेति । अजडं परागपि तथा । नित्यविभू- तिर्धर्मभूतज्ञानं चेति। प्रत्यगपि द्विविधः। जीवेश्वरभेदात् । जीव- स्त्रिविधः बद्धमुक्तनित्यभेदाव। बद्धोऽपि द्विविधः। बुभुक्षुमुमुक्षुभेदात् बुभक्षुर्द्विविधः । अर्थकामपरो धर्मपरश्चेति । धर्मपरो द्विविधा ।
यतिपतिमतदीपिकायाम् । देवतान्तरपरो भगवत्परश्चेति । मुमुक्षुर्द्विविधः । कैवल्यपरो मोक्ष- परश्चेति । मोक्षपरो द्विविधः। भक्तः प्रपन्नश्चेति । प्रपन्नो द्विविधः। एकान्ती परमैकान्ती चेति । परमैकान्ती द्विविधः। दृप्ताऽऽर्तभेदा- तू । पञ्चधावस्थित ईश्वरः । परव्यूहविभ्वन्तर्याम्यर्चावतारभे- दात् । पर एकधा, व्यूहश्चतुर्दा । वासुदेवसंकर्षणप्रद्युम्नानिरुद्ध- भेदात् । केशवादि व्यूहान्तरं, मत्स्यादयो विभवः पुनरनन्ताश्च । अन्तर्यामी प्रतिशरीरमवस्थितः। अर्चावतारस्तु । श्रीरङ्गवेङ्कटाद्रि- हस्तिगिरियादवाद्रिघटिकाचलादिषु सकलमनुजनयनविषयतां गतो मृतिविशेषः । अद्रव्यं तु सत्त्वरजस्तमःशब्दस्पर्शरूपरसगन्ध- संयोगशक्तिभेदादशधैव । एवमुद्दिष्टानामुद्देशक्रमेण लक्षणपरीक्षे क्रीयेते । तत्र प्रमाकरणं प्रमाणम् । प्रमाणं लक्ष्यम् । प्रमाकरणत्वं लक्षणम् । यथावस्थित- व्यवहारानुगुणज्ञानं प्रमा लक्ष्यम् । यथावस्थितव्यवहारानुगुण- ज्ञानत्वं लक्षणम् । ज्ञानं प्रमेत्युक्ते शुक्तिकायामिदं रजतामिति- ज्ञाने अतिव्याप्तिः । अत उक्तं, व्यवहारानुगुणमिति । एवमपि तत्रैवातिव्याप्तिः। भ्रान्तिदशायामपि, इदं रजतमिति व्यवहिय- माणत्वात् । अत उक्तं, यथावस्थितमिति । यथावस्थितेति पदेन संशयान्यथाज्ञानविपरीतज्ञानव्यावृत्तिः । धम्मिग्रहणे मिथोविरु- द्धानेकविशेषस्मरणं संशयः । यथा उर्द्धताविशिष्टे, स्थाणुर्वा पुरुषो वेति ज्ञानम् । अन्यथाज्ञानं नाम धर्मविपर्यासः । यथा कर्तृ- वेन भासमाने आत्मनि कुयुक्तिभिः कर्तृत्वस्य भ्रान्तत्वोपपादनम् । विपरीतज्ञानं नाम धम्मिविपर्यासः। यथा वस्तुनो वस्वन्तरज्ञा- नम् । लक्षणस्य त्रीणि दूषणानि सन्ति । अव्याप्त्यतिव्याप्त्यऽसं- भवभेदात्। लक्ष्यैकदेशे लक्षणस्यावर्तमानत्वमव्याप्तिः।लक्ष्यादन्यत्र प्रवर्तमानत्वमतिव्याप्तिः । लक्ष्ये काप्यविद्यमानत्वमसंभवः । यथा प्रथमोऽवतारः। ३ चक्षुर्विषयो जीव इत्युक्ते असंभव एव । अत्रोक्तदूषणत्रयाभावात् । प्रमाणलक्षणं स्वस्थम् । साधकतमं करणम् । अतिशयितं साधकं साधकतमम् । य- स्मिन् सत्यविलम्बेन ज्ञानमुत्पद्यते तदतिशयितमित्युच्यते । तेन प्रमाकरणं प्रमाणमिति सिद्धम् । अनधिगतार्थगन्त प्रमाणमित्यादिकं तु तत्तद्वादिभिरेव निरस्तत्वादनादरणीयम् । तानि प्रमाणानि प्र- त्यक्षानुमानशब्दाख्यानि त्रीण्येव । अत्र साक्षात्कारममाकरणं प्र. त्यक्षम् । अनुमानादिव्यावृत्त्यर्थं साक्षात्कार इति । दुष्टेन्द्रियज- व्यात्त्यर्थं प्रमेति । तच्च प्रत्यक्षं द्विविधं, निर्विकल्पकसविकल्पक- भेदात् । निर्विकल्पकं नाम गुणसंस्थानादिविशिष्टप्रथमपिण्डग्रहण- म् । सविकल्पकं तु सपत्यवमर्श गुणसंस्थानादिविशिष्टद्वितीयादि- पिण्डज्ञानम् । उभयविधमपि एतद् विशिष्टविषयमेव । अविशिष्ट- ग्राहिणो ज्ञानस्यानुपलम्भादनुपपत्तेश्च । ग्रहणप्रकारस्तु-आत्मामन- सा सयुज्यते मन इन्द्रियेण इन्द्रियमर्थेनेति।इन्द्रियाणां वस्तुप्राप्यका- रित्वनियमात् । अतो घटादिरूपार्थस्य चक्षुरादिरूपेन्द्रियस्य च सन्निकर्षे सति अयं घट इति चाक्षुषज्ञानं जायते । एवमेव स्पार्शन- प्रत्यक्षादयोऽपि । द्रव्यग्रहणे संयोगः संबन्धः । द्रव्यगतरूपादिग्र- हणे समवायानङ्गीकारात् संयुक्ताश्रयणसंबन्धः । निर्विकल्पक- सविकल्पकभिन्न प्रत्यक्षं द्विविधम् । अर्वाचीनम् । अनर्वाचीनं चेति । अर्वाचीनं पुनद्विविधम् । इन्द्रियसापेक्षं तदनपेक्षं चेति । तदनपेक्षं च द्विविधम् । स्वयं सिद्धं, दिव्यं चेति । स्वयं सिद्धं योगजन्यं, दिव्यं भगवत्प्रसादजन्यम् । अनर्वाचीनं तु इन्द्रियानपे- क्ष मुक्तनित्येश्वरज्ञानम् । अनर्वाचीनं तु प्रसङ्गादुक्तम् । एवं साक्षात्कारप्रमाकरणं प्रत्यक्षमिति सिद्धम् । ननु यथावस्थितव्यवहारानुगुणज्ञानं प्रमेत्युक्तम् । एवञ्च स्म- यतिपतिमतदीपिकायाम् । तेरपि यथावस्थिनव्यवहारानुगुणत्वेन प्रामाण्यात् स्मृतेरपि प्र. माणत्वेन परिगणनाञ्च वीण्येव प्रमाणानीति कथं प्रतिपाद्यते इति चेत् । उच्यते । स्मृतेः प्रामाण्याङ्गीकारेऽपि संस्कारसापेक्षत्वात् तस्य प्रत्यक्षमूलभूतत्वान्मूलभूते प्रत्यक्षेऽन्तर्भाव इति न पृथक् प्र. माणत्वकल्पनम् । अतस्त्रीण्येवेति संभवन्ति । स्मृति म पूर्वानुभव- जन्यसंस्कारमात्रजन्यं ज्ञानम् । संस्कारोबोधश्च, सदृशादृष्टचि- न्ताद्याः स्मृतिबीजस्य बोधका इत्युक्तप्रकारेण कचित्सदृशदर्शना- द्भवति, कचिददृष्टात्, कचिचिन्तया। आदिशब्देन साहचर्यस्यापि ग्रहणात्तेनापि च भवति । सादृश्यजा यथा देवदत्तयज्ञदत्तयोः सदृश- योर्देवदत्तदर्शनेन यज्ञदत्तस्मृतिः । द्वितीया यथा यादृच्छिकात् । कालान्तरानुभूतश्रीरङ्गादिदिव्यदेशस्मृतिः । तृतीया यथा चि. न्त्यमाने सति श्रीवेङ्कटेशस्य कमनीयदिव्यमङ्गलविग्रहस्मृतिः । च- तुर्थी तु सहचरितयोर्देवदत्तयज्ञदत्तयोर्मध्ये अन्यतरदर्शनेन तदन्य- तरस्मृतिः। सम्यक् पूर्वमनुभूतस्य स्मृतिविषयत्वनियमः । काच- कालदैा व्याध्यादिना वा संस्कारप्रमोषात् स्मृत्यभावः । यथा स्मृतेः प्रत्यक्षेऽन्तर्भावस्तथा सोऽयं देवदत्त इति प्रत्यभिज्ञाया अपि प्रत्यक्षेऽन्तर्भावः अस्मन्मते अमावस्यभावान्तररूपत्वात् तज्ज्ञा- नस्यापिप्रत्यक्षान्तर्भावः। भूतले घटात्यन्ताभावो भूतलमेव । घटमाग. ऽभावो नाम मृदेव । घटध्वंसश्च कपालमेव । प्रायः पुरुषेण अनेन भवितव्यम् । एतदूहः मंशय उक्तः। एतयोरपि प्रत्यक्षेऽन्तर्भावः । पु- ण्यपुरुषनिष्ठा प्रतिभापि प्रत्यक्षेऽन्तर्गता । सर्व विज्ञानं यथार्थमिति वेदान्तविदांमतमित्युक्तत्वाभ्रमादिप्रत्यक्षज्ञानं यथार्थमेव । अख्या- त्यात्मख्यात्यनिर्वचनीयताख्यात्यन्यथाख्यात्यसत्ख्यातिवादिनो नि- रस्य सत्ख्यातिपक्षस्वीकाराव । सवख्याति म ज्ञानविषयस्य स- त्यत्वम् । तर्हि भ्रमत्वं कथमिति चेद्, विषयव्यवहारबाधाद् प्रथमोऽवतारः। भ्रमत्वं तदुपपादयामः । पञ्चीकरणप्रक्रियया पृथिव्यादिषु सर्वत्र सर्वभूतानां विद्यमानत्वात् । अत एव शुक्तिकादौ रजतांशस्य विद्य- मानत्वाज्ज्ञानविषयस्य सत्यत्वस्य स्वल्पत्वात् तत्र न व्यवहार इति तज्ज्ञानं भ्रमः । शुत्यंशभूयस्त्वज्ञानाद् भ्रमनित्तिः। स्वप्नादिज्ञा- नंतु सत्यमेव । तत्तत्पुरुषानुभाव्यतया तत्तत्कालावसानान् रथादीन परमपुरुषः सृजतीति श्रुत्याऽवगम्यते । पीतः शङ्ख इत्यादौ नयन- वर्तिपीतद्रव्यसंभिन्ना नयनरश्मयः शङ्खादिभिः सह संयुज्यन्ते । तत्र पित्तगतपीतिमाभिभूतः शङ्खगतशुक्तिमा न गृह्यते । अतः मु- वर्णानुलिप्तशङ्खवत् पीतः शङ्ख इति प्रतीयते । सूक्ष्मत्वात् पीतिमा स्वनयननिष्क्रान्ततया स्वेनैव गृह्यते, न त्वन्यैः । जपाकुसुमसमीप- वर्तिस्फटिकमणिरपि रक्त इति गृह्यते। तज्ज्ञानं सत्यमेव। मरीचिकायां जलज्ञानमपि पञ्चीकरणप्रक्रियया पूर्वोक्तवदुपपद्यतेोपञ्चीकरणप्रक्रि- यातूत्तरत्र वक्ष्यते। दिग्भ्रमोऽपि तथैव । दिगन्तरस्य विद्यमानत्वात् अवच्छेदकमन्तरेण दिगिति द्रव्यान्तरानङ्गीकाराच्च।अलातचक्रादौ तु शैयदन्तरालाग्रहणात्तत्तद्देशसंयुक्ततत्तद्वस्तुन एव चक्राकारेण ग्रहणम् । तदपि सत्यम् । दर्पणादिषु निजमुखादिमतीतिरपि यथा- ।दर्पणादिप्रतिहतगतयो नयनरश्मयो दर्पणादिग्रहणपूर्वकं निज- मुखादि गृह्णन्ति। तत्राप्यतिशैघ्यादन्तरालाग्रहणाद तथा प्रतीतिः। द्विचन्द्रज्ञानादावपि अङ्गुल्यवष्टम्भतिमिरादिभिनयनतेजोगति- भेदेन सामग्रीभेदात् सामग्रीद्वयमन्योत्पत्तिनिरपेक्षं चन्द्रद्वयग्रहणे हे- तुर्भवति । सामग्रीद्वयं पारमार्थिकम् । तेन द्विचन्द्रज्ञानं भवति । अतः सर्व ज्ञानं सत्यं सविशेषविषयं च । निर्विशेषवस्तुनोऽग्रहणा- त् । एवंभूतं प्रत्यक्षं, भेदविशिष्टमेवप्रथमतो गृह्णाति। भेद इति व्यव- हारे तु प्रतियोग्यपेक्षा, न स्वरूपे । तेनानवस्थान्योन्याश्रयदोषो- ऽपि नास्ति । उपर्युपर्यापेक्षाऽनवस्था, परस्परापेक्षोऽन्योन्याश्रयः॥
यतिपतिमतदीपिकायाम् ।
ननु दशास्त्वमसीत्येतदपि प्रत्यक्षं किन्न स्यादितिचेन्न ।
वमित्येतस्य प्रत्यक्षत्वेऽपि दशमोऽहमित्यस्य वाक्यजन्यवाद ।
यदि दशमोऽहमित्यस्य प्रत्यक्षविषयत्वं तर्हि धर्मवाँस्त्वमसीत्येत-
स्यापि प्रत्यक्षवं स्यात् । अङ्गीकारे अतिप्रसङ्गात् । अत एक
सत्वमसीति वाक्यस्य नापरोक्षज्ञानजनकत्वम् । एतेन प्रत्यक्षप्रमा-
करण प्रमाणम् । ममा च आत्मचैतन्यमेव । चैतन्यं च विविध-
सु, अन्त:करणावच्छिन्नचैतन्यम्, अन्तःकरणकृत्त्यवच्छिन्नचैतन्यं,
विषयावच्छिनचैतन्यं चेति । यदा त्रयाणामैक्यं तदा साक्षा-
स्कारः। मोऽपि निर्विशेषविषय एव अभेदमेव गृहातीत्यादिकु.
दृष्टिकल्पना निरस्ता । निर्विकल्पकं तु नामजात्यादियोजनाहीनं
वस्तुमात्रावगाहि किश्चिदिदमित्यादिनैयायिकोक्तपि निरस्तम् ।
ननु, काणादं पाणिनीयं च सर्वशास्त्रोपकारकमित्युक्तत्वात् कथं
गौतममतनिरास इतिचेदुच्यते । नास्माभिः कात्स्न्येनास्य मतस्य
निरासः क्रियते । यावदिह युक्तियुक्तं तावत् स्वीक्रियते । परक-
रिपततटाकोपजीवनवत् । न खलु तटाकस्थः पङ्कोऽपि स्वीक्रिय-
ते । अतः परमाणुकारणत्ववेदपौरुषेयत्वेश्वरानुमानिकत्वजीववि.
भुत्वसामान्यसमवायविशेषाणां पदार्थत्वेन स्वीकारः। उपमाना.
देः पृथक् प्रमाणत्वकल्पनम् । संख्यापरिमाणपृथक्तपरत्वापरत्व-
गुरुत्वद्वत्वादीनां पृथक्गुणत्वकल्पनम् । दिशोऽपि द्रव्यत्वकल्पन-
मित्यादिस्वकारादिविरुद्धा प्रक्रिया नास्माभिः खीक्रियते इति
न विरोधः॥
इति श्रीवाधुलकुलतिलकश्रीमन्महाचार्य्यस्य प्रियतमदासेन
श्रीनिवासदामेन विरचितायां यतीन्द्रमतदीपिकायां
प्रत्यक्षनिरूपणं नाम प्रथमोऽवतारः ॥१॥
द्वितीयोऽवतार। अथानुमानं निरूप्यते । व्याप्यस्य व्याप्यत्वानुसन्धानाद् व्यापकविशेषममितिरनुमितिः । तत्करणमनुमानम् । व्याप्यस्य धूमस्य अग्निव्याप्यत्वानुसन्धानाद् व्यापकविशेषपमितिक्षिप्रम- तिम् । अनधिकदेशकालनियतं व्याप्यम् । अन्यूनदेशकालवर्ति व्यापकम् । तदिदमविनाभूतं व्याप्यं, तत्पतिसंबन्धि व्यापकमिति । तेन निरुपाधिकतया नियतसंबन्धो व्याप्तिरित्युच्यते । मेयं, यत्र- धूमस्तत्र वह्निरिति व्याप्तिर्भूयोदर्शनाद्ब्रह्यते । व्याप्तिद्विविधा । अ- न्वयव्यतिरेकभेदाद । साधनविधौ साध्यविधिरूपेण प्रवृत्ता व्या- तिरन्वयव्याप्तिः । यथा यो यो धूमवान् स सोऽग्रिमानिति। साध्या- निषेधे साधननिषेधरूपेण प्रवृत्ता व्याप्तिर्व्यतिरेकच्यातिः । यथा योऽनग्निः स निर्धूम इति । सेयमुभयविधा व्याप्तिरुपाधिसंभव दुष्यति । साध्यव्यापकत्वे सति साधनाव्यापकत्वम् उपाधिः । यथा वह्निना धूमे साध्यमाने आर्टेन्धनमुपाधिः । मैत्रीतनयत्वेन श्यामले साध्यमाने शाकपाकजत्वमुपाधिः। स चोपाधिद्विविधः । निश्चित: शङ्कितश्चेति । निश्चितो यथा।विप्रतिपन्ना सेवा दुःखहेतुः। सेवा- स्वात् । राजसेवावदित्यत्र पापारब्धत्वमुपाधिः । अयन्तु ईश्वर- सेवायां नास्तीति निश्चयादयं निश्चितोपाधिः । शङ्कितो यथा। वि- प्रतिपन्नो जीव एतच्छरीरावसाने मुक्तिमान् । निष्पन्नसमाधित्वा- द । शुकादिवदित्यत्र कर्मात्यन्तपरिक्षय उपाधिः । मच निष्पन्नस. माधौ विप्रतिपन्ने जीवे, अस्ति नास्तीति सन्दिग्धत्वाच्छङ्कितोपाधिः। अतो निरुपाधिकसंबन्धपद् व्याप्यमिति सिद्धम् । व्याप्यं साधनं लिङ्गमिति नार्थान्तरम्। तस्य द्वे रूपे अनुमित्यङ्गभूते । व्याप्ति: पक्षधर्मता चेति । पञ्चरूपाण्यपि सन्ति । तानि च, पक्षव्यापकत्वं, सपक्षे सत्त्वं, विपक्षाद्यावृत्तिः, अबाधितविषयत्वम्, असत्मतिप- क्षत्वं चेति । सिसायिषितधर्मविशिष्टो धर्मी पक्षः।यथा आग्निम- ८ पतिपतिमतदीपिकायाम् । स्वादिसाधने पर्वतादिःसिसाधयिषितसजातीयधर्मवान सपक्षः। यथा महानसादिः । साध्यतज्जातीयशून्यो विपक्षः । यथा महा- इदादिः। प्रबलेन प्रमाणेन पक्षे निश्चितसाध्याभाववत्वं बाधितवि- षयत्वम् । यथा महादोऽग्निमानित्यादि । तदभावस्त्वबा- धितविषयत्वम् । समबलतया प्रतीयमानप्रमाणोपरोधाभावोऽस- पतिपक्षत्वम् । एवंभूतं व्याप्यं द्विविधम् । अन्वयव्यतिरे. किकेवलान्वयिभेदात् पूर्वोक्तपश्चरूपोपपन्नं व्याप्यम् । अन्वय- व्यतिरेकि यथा । पर्वतोऽग्निमान् धूमवत्त्वात् । यो यो धू. मवान् स सोऽग्निमान् । यथा महानसः । योऽनग्निः स निधूमः । यथा महाहूद इति । तादृशमेव विपक्षरहितं व्याप्यं केवलान्वयि । यथा, ब्रह्म शब्दवाच्यम् । वस्तुत्वाद् घटवत् । वि- पक्षाभावात् केवलान्वयी चतूरूपोपपन्नः । केवलव्यतिरोकिणि साध्यापसिद्धेस्तव्यतिरेकच्याप्तिर्ग्रहा। अतः केवलष्यतिरेकिनिरा. सः । केवलान्वयिनि अन्वव्यतिरेकिणि चात्यन्तातीन्द्रियार्थगोचर. ता निरस्ता । तदेतदनुमानं स्वार्थ परार्थ चेति द्विधा विभज्य केचि. दाहुः । सर्वेषामनुमानानां स्वप्रतिसंधानादिबलेन प्रवृत्ततया स्वव्य. वहारमात्रहेतुत्वमिति स्वार्थानुमानमेवेत्यपरे । तदनुमानबोधक- वाक्यं प्रतिज्ञाहेतूदाहरणोपनयनिगमनरूपपञ्चावयवसंयुक्तम् । तत्र पक्षवचनं प्रतिज्ञा । यथा पर्वतोऽग्निमानिति । लिङ्गस्य वचनं हे- तुः । यथा धूमवत्त्वादिति । व्याप्तिनिर्देशपूर्वकं दृष्टान्तवचनमुदा- हरणम् । तद् द्विधा । अन्वयव्यतिरेकिभेदात् । यथा, यो धूमवान् सोऽग्निमान् । यथा महानस इत्यन्वयोदाहरणम् । योऽनग्निः, स निधूमः । यथा महारुद इति व्यतिरेकोदाहरणम् । दृष्टान्तनिदर्शनेन व्याप्ततया पक्षे हेतूपसंहारवाक्यमुपनयः । सोऽपि द्विविधः । अ- न्वयव्यतिरेकभेदात् । तथा धूमवानित्यन्वयोपनयः । अयं च,न ॥
द्वितीयोऽवतारः। तथा निर्धूम इति व्यतिरेकोपनयः । हेतुपूर्वकं पक्षे साध्योपसंहा- रखाक्यं निगमनम् । अयमपि द्विविधस्तथैव । यथा, तस्मादग्निमा- नित्यन्वयेन निगमनम् । तस्मादयं निरग्निर्न भवतीतिव्यतिरेकेण । एवं पञ्चावयववादिनो नैयायिकाः। प्रतिज्ञाहेतूदाहरणरूपध्यवयव. वादिनो मीमांसकाः । उदाहरणोपनयरूपावयवद्रयवादिनः सौ. गताः । अस्माकं त्वनियमः । कचित् पञ्चावयवः, कचिल्यवयवः, कचिद् व्यवयवः । उदाहरणोपनयाभ्यामेव व्याप्तिपक्षधर्मतयोः सिद्धत्वात् । तावतैव अनुमित्युपपत्तेश्च। मृदुमध्यमकठोरधियां विस्त- रसंग्रहाभ्यां व्यवहार उपपद्यते इसनियम एव । एवं पञ्चावयव. संयुक्तः सदेतुरेव वयनुमापकः । सद्धेतुरित्युक्तत्वाद् धूमसदृश- धूलीपटलान वह्नयनुमतिः॥ अन्ये हेतुबद्भासमाना हेत्वाभासाः। ते चासिद्धविरुद्धानका. न्तिकप्रकरणसमकालासयापदिष्टभेदेन पञ्चप्रकारः। तवासिद्धस्त्रि- विधः । स्वरूपासिद्ध, आश्रयासिद्धो व्याप्यत्वासिद्धश्चेति । स्वरू- पाऽसिद्धो यथा,अनित्यो जीवश्चाक्षुषत्वात् । घटवदिति । आश्रया- ऽसिद्धस्तु व्योमारविन्दं सुरभि,अविन्दत्वाव, सरोजारविन्दवदिति। व्योमारविन्दमाश्रयः। स चासिद्धः । व्याप्यत्वासिद्धो द्विविधः । एको व्याप्तिग्राहकप्रमाणाभावादपरस्तु उपाधिसद्भावात् । आयो यथा । यत् सत् तत्क्षणिकमिति ।क्षणिकत्वसत्वयोर्व्याप्तिग्राहकम- माणासिद्धेः। द्वितीयो यथा । अनिष्टोमीयहिंसा अधर्मसाधिका । हिंसात्वात् । क्रतुबाह्यहिंसावदित्यत्र निषिद्धत्वमुपाधिः । अतो हिंसात्वहेतुः सोपाधिकः। साध्यविपरीतव्याप्तो हेतुर्विरुष्टः तद्यथा। नित्या प्रकृतिः, कृतकत्वात् । कालवत् । कृतकत्वहेतुः साध्याभा- वव्याप्तः। साध्याभावव्याप्तो हेतुर्विरुद्धः सव्यभिचारो नैकान्ति- कः । स च द्विविधः । साधारणोऽसाधारणश्चेति । पक्षसपक्ष- पतिपतिमतदीपिकायाम् । विपक्षत्तिः साधारणः । यथा शब्दो नित्यः, प्रमेयत्वात् । का. लवत् । असाधारणस्तु विपक्षसपक्षव्यात्तः । यथा । भूमि- नित्या, गन्धवत्वादिति । प्रकरणसमस्तु साध्यविपरीतसाधकहे. त्वन्तरवान् । यथा ईश्वरोऽनित्यः । नित्यधर्मरहितत्वात् । ईश्वरो नित्यः । अनित्यधर्मरहितत्वादिति । अयमेव सत्सतिपक्षः। का. लात्ययापदिष्टो यथा । यस्य हेतोः साध्याभाववान् पक्षः स का. लात्ययापदिष्टः। अग्निरनुष्णः पदार्थत्वाजलवत् । अयं च प्रत्यक्षे. ण उष्णत्वावधारणाद्वाधितः ॥ एवमनुमाने निरूपिते उपमानादेरनुमानादावन्तर्भावः । यथा अतिदेशवाक्यार्थम्मरणसहकृतगोसादृश्यविशिष्टपिण्डज्ञानमुपमानम् । गवयमजाननपि, यथा गौस्तथा गवय इति कुतश्चिदारण्यक- वाक्याच्छुत्वा वनं गतो वाक्याथै स्मरन् यदा गोसादृश्यविशिष्ट- पिण्डं पश्यति तदा तद्वाक्यार्थस्मरणसहकृतसशपिण्डज्ञानं जा. यते । तदुपमानमित्युच्यते । स्मरणरूपत्वात् तस्य प्रत्यक्षेऽन्तर्भा- वः । व्याप्तिग्रहणापेक्षवादनुमाने अन्तर्भावः । वाक्यजन्यत्वा. च्छब्दे वा अन्तर्भाव जयः॥ अर्थापत्तिर्नाम-दिवा अभुानस्य पुरुषस्य पीनत्वदर्शनाद् रात्रौ भोजनं कल्प्यते । एतस्या अनुमाने अन्तर्भावः ।। तर्को नाम-व्याप्याङ्गीकारेण व्यापकप्रसञ्जनम् । तद्यथा प- र्वतो वह्निमान् धूमवत्वादित्यनुमाने । धूमोऽस्तु वहिर्मास्तु इत्यु- के यदि वह्निर्न स्यातहि धूमोऽपि न स्यादिति । एतस्य प्रमाणानु- ग्राहकत्वं, तानुगृहीतप्रमाणपूर्वकत्वावधारण निश्चयः। वीतराग- कथा वादः । पक्षद्वयसाधनवती विजिगीषुकथा जल्पः । स्व. पक्षस्थापनाहीना तु वितण्डा । अविवक्षितशब्दार्थारोपणदूषणं छलम् । स्वव्यापिषणं जातिः । अस्तदुत्तरं जातिरिति वा ।
द्वितीयोऽवतारः।
११
पराजयहेतुनिग्रहस्थानम् इत्येषामनुमानाङ्गत्वादनुमाने अन्तर्भावः।
कचित्कचिनैयायिकमतानुसारिव्यवहारस्तु तन्मतानुसारेणोक्त इति
न विरोधः । इत्यनुमानं निरूपितम् ॥
इति श्रीवाधूलिकुलतिलकश्रीमन्महाचार्य्यस्य प्रथमदासेन
श्रीनिवासदासेन विरचितायां यतिपतिमतदीपिकायां अनुपान-
निरूपणं नाम द्वितीयोऽवतारः ॥२॥
१२ यतिपतिमतदीपिकायाम् । अनुमाननिरूपणानन्तरं शब्दो निरूप्यते । अनातानुक्तवा- क्यजनिततदर्थविज्ञानं शाब्दज्ञानम् । तत्करणं शब्दप्रमाणम् । अना- साऽनुक्तेत्युक्तत्वाद् वेदस्य पौरुषेयत्वमतनिरासः । करणदोष- बाधकमत्ययाभाववद् वाक्यं वा । सर्गादौ भगवाँश्चतुर्मुखाय पूर्व- पूर्वक्रमविशिष्टान् वेदान् स्मृत्वा स्मृत्वा उपदिशतीत्युक्त्या वेदस्य नित्यत्वमपौरुषेयत्वं च सिद्धमिति करणदोषाभावो बाधकप्रत्य- याभावश्च । ननु वेदवाक्यानां मीमांसकैः कार्यपरतयैव प्रामाण्य- स्वीकाराव सिद्धब्रह्मपरवाक्यानां व्युत्पत्त्यसंभवाच कथं मामार्ण्य- मितिचेन्न । सिद्धब्रह्मपरवाक्यानामपि उपासनारूपकार्यान्वयस्वी- कारात् । पिता ते सुखमास्ते इति लौकिकसिद्धपरवाक्यस्यापि बोधकत्वदर्शनाद् बालानां लोके मातापितृप्रभृतिभिः, अम्बातात. मातुलचन्द्रादिषु अगुल्या निर्दिश्य तदभिधायकशब्दान् मयु- आनैः क्रमेण भूयः शिक्षितानां तत्तदर्थबुद्ध्युत्पत्तिदर्शनादू वेदेऽपि परिनिष्पन्नेऽप्यर्थे शब्दस्य बोधकत्वं संभवतीति नामामाण्यशङ्काव. काशः। तर्हि अभिचारादिप्रतिपादकवेदांशस्य कथं प्रामाण्यमिति न शङ्कनीयम । तस्य दृष्टफलदर्शनेन अदृष्टस्वर्गादिफलसाधनादौ प्रवृत्तिप्रयोजकत्वात् । यूपादित्यवाक्यं तु आदित्यवधूपप्रकाशनप- रम् । अतः कृत्स्नस्य वेदस्य मामाण्यम् ।सचवेदःकर्मब्रह्मपतिपा- दकपूर्वोत्तरभागाभ्यां द्विधा भिन्नः। आराधनकर्ममतिपादकं पूर्व- काण्डम्।आराध्यप्रतिपादकमुत्तरकाण्डम् । उभयोर्मीमांसयोरैकशा- स्व्यम् । भागद्वयात्मको वेद ऋग्यजुःसामाथर्वणरूपेण चतुर्थावस्थि- तः पुनरनन्तप्रकारश्च ऋगादिबहुपकारवान् वेदो मन्त्रार्थवादवि. धिरूपेण त्रिविधः । अनुष्ठेयार्थप्रकाशको मन्त्रः। विध्यधीनम- स्युत्तम्भकवाक्यविशेषोऽर्थवादः । हितानुशासनवाक्यमिइ वि. पिः। स च त्रिविधः अपूर्वपरिसंख्यानियमभेदात् । ते पुननित्य- तृतीयोऽवतारः। नैमित्तिककाम्यादिभेदाद बहुविधाः । व्रीहीन प्रोक्षतीति अपूर्व- विधिः । मनोमयत्वाद्युपासनविधिविशिष्टविधिः । इमामगृभ्णनि- त्यश्वरशनाविधिः परिसंख्याविधिः । गुर्वभिगमनादिविधिनियम- विधिः । सन्ध्योपासनादिनित्यविधिः । जातेष्ट्यादिविधि- नैमित्तिकविधिः । ज्योतिष्टोमादिविधिः काम्यविधिः। एवं विध्य- ऽर्थवादमन्त्रात्मकस्य वेदस्य, छन्दः कल्पः शिक्षा निरुक्तं ज्यो- तिषं व्याकरणम् इत्येतान्यङ्गानि । छन्दः अनुष्टुवादिप्रतिपादन रूपः।श्रौतस्मार्तप्रतिपादनपरः कल्पः । शिक्षा वर्णनिर्णयात्मिका । निरुक्तम् अपूर्वार्थप्रतिपादकम् । ज्योतिषम् अध्ययनतदर्थाऽनु- ष्ठानकालनिर्णयात्मकम् । व्याकरणं तु सुशब्दस्वरादिसमर्थन- परम् । एवं साङ्गस्य वेदस्य प्रामाण्यं सिद्धम् । अथ श्रुत्यविरुद्धा- चारव्यवहारपायश्चित्तादिप्रतिपादिका आप्तपणीता स्मृतिः प्र- माणम् । हिरण्यगर्भादीनामाप्तत्वेऽपि तेषां गुणत्रयवश्यत्वसंभ- वात्-तत्कर्तृकयोगकपिलादिस्मृतीनां मन्वादिस्मृत्यविरुद्धांश एव प्रमाणम् । तत्त्वविपर्यासाद् विरुद्धांशोऽप्रमाणम् । वेदोपबृह- णरूपेतिहासपुराणयोराप मामाण्यं खतः सिद्धम् । तत्र भारत- रामायणयोः कचित कचिद्विरोधमानेऽपि तत्त्वांशे वेदान्तवाक्यवद- विरोधो नेयः। सर्गादिपञ्चप्रतिपादकपुराणेष्वपि सात्त्विकराजस- तामसभेदभिन्नेषु तत्त्वांशे विरोधाभावाद् विरुद्धांशोऽप्रमाणम् । अ- न्य सर्व प्रमाणम् । पाशुपत्याद्यागमा अपि तथैव । आगम- दिव्यतन्त्रतन्त्रान्तरसिद्धान्तभेदभिन्नस्य श्रीपञ्चरात्र्यागमस्य क- चिदपि वेदविरोधाभावात् कात्स्न्येन प्रामाण्यम् । एवं वैखानसा- ssगमस्यापि । धर्मशास्त्राणामपि तथैव । शाण्डिल्यपराशरभर- द्वाजवशिष्ठहारीतादयो धर्मशास्त्रप्रणेतारः। शिल्पायुर्वेदगान्धर्व- भरतादिकमप्युपयुक्तांशे तथैव। शिल्पो नाम कर्षणादिगोपुरमाका-
यतिपतिमतदीपिकायाम् ।
सदिप्रतिपादकः । आयुर्वेदो वैद्यकम् । गान्धर्वो गानादिनिरूपकः।
भरतागमो नृत्यादिविधायकम् । पुनश्चतुःषष्टिकलारूपेषु तत्त्वो-
पायपुरुषार्थोपयुक्तानि प्रमाणानि । बकुलाभरणादिसूरिसूक्तयः
कास्न प्रमाणतराः। श्रीमद्रामानुजाचार्यप्रभृतिभिः प्र-
णीता: श्रीभाष्यादिप्रबन्धाः प्रमाणतमाः । पुरुषस्वातन्त्र्याधीनर-
चनाविशेषविशिष्टं पौरुषेयम् । एतेन काव्यनाटकाऽलङ्कारादीना-
मपि लक्षणमुक्तं स्यात् । एवमाप्तेनोच्चारिताकाङ्क्षायोग्यतास्मन्नि-
धिमल्लौकिकवाक्यान्यपि प्रमाणानि । यथा नद्यास्तीरे पश्चफलानि
सन्तीत्यादीनि । एवं वैदिक-लौकिक-साधारणं वाक्यं द्विविध-
म् । मुख्यत्तिगौणत्तिभेदात् । मुख्यत्तिरभिधात्तिः। यथा
सिंहशब्दस्य मृगेन्द्रे अभिधावृत्तिः। योगरून्यादिवृत्तिभेदवशाद
बहुविधा । मुख्यार्थबाधे सति तदाऽऽसन्नेऽर्थे वृत्तिरौपचारिकी।
'सा द्विविधा । लक्षणागौणीभेदात् । प्रथमा यथा गङ्गायां
घोष इत्यत्राधिकरणम्य बाधात् तीरे लक्षणा । द्वितीया यथा,
मिही देवदत्त इत्यत्र देवदत्ते शौर्यादिगुणयोगः । एवं वैदिक
लौकिकरूपं सर्व वाक्यजातं सविशेषविषयकं भेदविषयकं च । श-
रिवाचकशब्दानां यथा शरीरिणि पर्यवसानम्, एवं भगवच्छरीर.
भूनब्रह्मरुद्राऽग्नीन्द्रादिचिद्वाचकशब्दानां तथा शरीरभूतप्रकृति-
कालाकांशाणाबचिद्वाचकशब्दानां शरीरिणि परमात्मात्मनि
भारायणे पर्यवसानमुपपादयन्त्याचार्याः । वेदान्तज्ञानाद्युत्पत्ति
पूर्यत इत्युक्तम् । नारायणस्य सर्वशब्दवाच्यत्वं सर्वशरीरकत्वमित्या-
दिकं तु उपरि ईश्वरनिरूपणे प्रतिपादयिष्यामः। इति शब्दोनिरूपितः
इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्य्यस्य प्रथमदासेन
श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां शब्दनिरूपणं
नाम तृतीयोऽवतारः ॥३॥
चतुर्थोऽवतारः। प्रमाणनिरूपणानन्तरं प्रमेयं निरूप्यते । प्रकर्षण मेयं प्रमे बम् । तच्च विविधम् । द्रव्याद्रव्यभेदात् । द्रश्यम् उपादानम् । अवस्थाश्रयमुपादानम् । ननु द्रव्यगुणकर्ममामान्यविशेषसमवाया. भावाः सप्त पदार्था इति मतान्तरस्थैः पोढा परिगगनात् कथं द्रव्याद्रव्यभेदेन द्विधा समर्थन मिति चेदुच्यते । उत्क्षेपणापक्षेपणा- कुञ्चनप्रसारणगमनभेदात् कर्म पञ्चधाऽवस्थितमिति कल्पने गौ- स्वात् चलनात्मकं कर्मेत्येकधैवोपपत्तेस्तस्यापि संयोगमादायैवो- पपत्ते, संस्थानमेव जातिरिति संस्थानातिरेकि सामान्यानङ्गीकाराव समवाये समवायान्तराङ्गीकारे अनवस्थानात, तस्यापिसंयुक्तविशे- पणतयकोपपत्नीवेश्वरयोरणुत्वविभुत्वादिविभाजकधर्ममन्तरेण, वि- शेष-इति किश्चित्पदार्थान्तराङ्गीकारे गौरवाद् अनः कर्मसामान्य- विशेषसमवायानां पृथग द्रव्यत्वेन अनङ्गीकाराच द्रव्यमव्यमिति द्विधा विभाग उपपद्यते । एतेन अभावः सप्तमपदार्थ इत्यपि निरस्तम् । अभावस्य भा- वान्तररूपत्वात् प्रागभावो नाम पूर्वावस्थापरम्परा, प्रध्वंसाभावो नाम उत्तसवस्थापरम्परा, अत्यन्ताभावान्योन्याभावौ तु धर्मान्तर- स्वरूपानेच । एतस्य प्रत्यक्षेऽन्तर्भावः पूर्वमुक्तः । उपादानं गन्य- मित्युक्तम् । गुणाश्रयोका द्रव्यमिति सामान्यलक्षणं संभवति तानि च द्रव्याणि षट् प्रकृतिकालशुद्धतत्वधर्मभूतज्ञानजीवेश्वरभेदात् । वन जडाजरूपयोविभक्तयोर्मध्ये जडलक्षण मुच्यते । अमिश्र- सत्वरहितं जडमिति । तद् द्विविधं प्रकृतिकालभेदात् । तत्र सत्त्वरजस्तमोरूपगुणत्रयाश्रया प्रकृति सा नित्या अक्षरा अविद्या मायेति शब्दवाच्या च।त- सयां भगवत्संकल्पाधीनगुणवैषम्यात् कार्योन्मुखावस्था अव्यक्त- शब्देनोच्यते । तस्मान्महानुत्पद्यते । स महान मालिकराजल- १६ यतिपतिमतदीपिकायाम् । , तामसभेदाद विधावस्थितः । महतोऽहंकार उत्पद्यते । सो- ऽपि साचिकाहङ्कारो राजसाहङ्कारस्तामसाहङ्कारश्चेति त्रिविधो मतः । एतेषां त्रयाणां वैकारिकस्तैजसो भूतादिरिति नामान्तरा. ध्यपि संभवन्ति । तेषु वैकारिक इति प्रसिद्धाद्राजसाहङ्कारसह-- कृतात् सात्त्विकाहङ्कारादेकादशेन्द्रियाणि जायन्ते । सात्वि. काहङ्कारोपादानकं द्रव्यमिन्द्रियम् । इन्द्रियं द्विविध-ज्ञानेन्द्रियं, कर्मेन्द्रियं चेति । ज्ञानप्रसरणशक्तमिन्द्रियं ज्ञानेन्द्रियम् । तव पोटा मनःश्रोत्रचक्षुर्घाणरसनात्वगभेदात् । स्मृत्यादिकरणम् इन्द्रियं मनः। तच्च हृदयप्रदेशत्ति। बुद्ध्य हङ्कारचित्तादिशब्दवाच्यं बन्ध- मोक्षहेतुभूतं च । शब्दादिपञ्चके शब्दमात्रग्रहणशक्तमिन्द्रियं श्रो- वम् । तन्मनुष्यादीनां कर्णशष्कुल्यवच्छिन्नप्रदेशत्ति । द्विजिह्वानां नयनत्ति । एवं रूपमात्रग्रहणशक्तमिन्द्रियं चक्षुः । तत् सर्वेषां नयनवृत्ति । गन्धमात्रग्रहणशक्तमिन्द्रियं घ्राणं नासाग्रवृत्ति । रसमात्रग्रहणशक्तमिन्द्रियं रसनेन्द्रियं जिहाग्रवृत्ति । स्पर्शमात्रग्रह- णशक्तमिन्द्रियं त्वगिन्द्रियं सर्वशरीरत्ति । नखदन्तकेशादिषु माणमान्धतारतम्या स्पर्शानुपलम्भः। श्रोत्रादीन्द्रियाणां भौति- कत्वप्रतिपादनं भूनाऽऽप्यायितृत्वेनौपचारिकम् । एतेषां विषयस- बन्धः कचित् संयोगः कचित्संयुक्ताश्रयणमिति वृद्धसंप्रदायः। उ- चारणादिष्वन्यतमक्रियाशक्तत्वं कर्मेन्द्रियसामान्यलक्षणम् । तच वाक्पाणिपादपायूपस्थभेदात् पञ्चधाऽवस्थितम् । वर्णोच्चारण- मिन्द्रियं वाक् । तच्च हृत्कण्ठजिह्वामूलतालुदन्तोष्ठनासामुर्द्धरूप. स्थानाष्टकत्ति । मृगादिष्वदृष्टविरहात्तदभावः । शिल्पादिकरण- मिन्द्रियं पाणिः। स च मनुष्यादीनां च अगुल्यादिवृत्तिः । वार- णादीनां नासावृत्तिः । संचरणकरणमिन्द्रियं पादः । सच मनुष्यादीनां चरणहत्तिः । भुजङ्गपतङ्गादीनामुर पक्षादितिः ।
चतुर्थोऽवतारः। मलादित्यागकरणमिन्द्रियं पायुः । स च तत्तदवयवत्तिः । आ- नन्दविशेषकरणमिन्द्रियम् उपस्थः । स च मेहनादित्तिः । ए. तानीन्द्रियाण्यणूनि । परकायप्रवेशे लोकान्तरगमनादिषु च जीवेन' सह गमनमिन्द्रियाणाम् । मुक्तिदशायाम् अप्राकृतदेशगमनासं- भवादिहैव यावत्पलयं स्थितिः । करणविधुरैरन्यैः परिग्रहो वा । कर्मेन्द्रियाणां शरीरनाशानाश इति पक्षस्तु भाष्याविरोधेन नेयः । एतेन पुरुषेन्द्रियं, स्त्रीन्द्रियम्, एकेन्द्रियवादः, स्वगिन्द्रियैकत्लखी- कार इत्यादिविमतपक्षा निरस्ताः। राजसाहङ्कारमहकृताद भूतादिसंज्ञकतामसाहङ्काराच्छब्दादि- पञ्च तन्मात्राणि आकाशादिपञ्च महाभूतानि चोत्पद्यन्ते । भूता- नामव्यवहितसूक्ष्मावस्थाविशिष्टं द्रव्यं तन्मात्रम् । तदेव भूतोपादा- नम् । विशिष्टशब्दादिविषयाधिकरणं भूतम् । तन्मात्राणि शब्दत- न्मानं स्पर्शतन्मात्रं, रूपतन्मात्र, रसतन्मात्रं, गन्धनन्मावमिति प- श्वभूतानि च । यथा आकाशवायुतेजआपःपृथिवीभेदाव।तत्र ता. मसाहङ्काराकाशयोर्मध्यमाऽवस्थाविशिष्टं द्रव्यं शब्दतन्मात्रम् । क्षीर- दनोरन्तराले कलिलपरिणामवत् । तस्मादाकाशो जायते । अस्पर्श- वत्त्वे सति विशिष्टशब्दाधारत्वं श्रोत्राप्यायितृत्वं च आकाशलक्ष- णमिति । स च शब्दमात्रगुणकः । अबकाशहेतुः । नीलं नभ इति प्रतीते रूपवॉश्च । एतेनाकाशस्य अजन्यत्वनिरासः । सूर्यप- रिस्पन्दादिभिराकाशस्यैव प्राच्यादिव्यवहारोपपत्तौ दिगिति न पृथग् द्रव्यकल्पनम् । दिष्टिस्तु अन्तरिक्षादिष्टिवदुपपद्यते । आकाशात स्पर्शतन्मात्रम् । आकाशवाबोमध्यमावस्थाविशिष्ट- द्रव्यं स्पर्शतन्मात्रम् । तस्माद्वायुः । विशिष्टस्पर्शवत्त्वे सति रूपशू- न्यत्वम् । अस्मदादिस्पर्श केन्द्रियग्राह्यद्रव्यत्वम् । अनुष्णाशीत- विशिष्टस्पर्शवत्त्वे सति गन्धशून्यत्वमित्यादिकं वायोर्लक्षणम् । त- १८ पैतिपतिमतदीपिकायाम् । स्मिन्नानासलिलातपकुमाद्यत्रयवयोगाच्छीतोष्णतारमादिमतीतिः। अन एव तदवयवानां सूक्ष्माणां योगाच्छीतो वायुरुष्णो वायुः, मुरभिरिति व्यपदेशः । स च त्वगिन्द्रियाप्यायकत्वेन उपकरोति। तस्य शब्दस्पर्शी गुणौ। तत्र शरीरधारणादिहेतुर्वायुविशेषः प्राणा: दिसंज्ञकः पश्चमकारः। प्राणापानव्यानोदानसमानभेदात् । हृदि प्राणो, गुदेऽपानः, सर्वशरीरगो व्यानः, कण्ठे उदानो, नाभिदेशे समान इति । जङ्गमेष्विव स्थावरेषु च माणसंबन्धस्तुल्य एच । स च स्पार्शनप्रत्यक्षः । एतेन अनुमेयवादनिरासः । वायुतेज. सोमध्यमावस्थाविशिष्टं द्रव्यं रूपतन्मात्रम् । तस्मात् तेजः । उष्ण- स्पर्शवत्त्वभास्वररूपवत्त्वादिकं तु तेजप्तो लक्षणम् । तस्य बहिः पचनादिहेतुत्वम् अधिसूर्यात्मना । अन्तर्वैश्वानरसंज्ञकजाठराग्नि- रूपेण । दिवाभीतादिव्यतिरिक्तानां चाक्षुषज्ञाने आलोकादिरूपेण सहकारी भवति । तच्चतुर्दा भौमदिव्यौदाकरजभेदात् । तत्र पार्थिवमात्रेन्धनं तेजो भौमम् । तद् दीपादि । जलमा न्धन दिव्यं सूर्यादि । पार्थिवजलेन्धनम् औदर्यम् । तज्जाठरम् । निरिन्धनं तेज आकरजं स्वर्णादि । स्वर्णस्य द्रव्यान्तरसंसर्गादुष्ण- स्पर्शाभावः। पुनः सामान्येन, प्रभा प्रभावॉश्चेति विभक्त, आवरण- सदसद्भावाधीनसंकोचविकाशः । प्रसारितेजोविशेषः प्रभा । साच प्रभावद्भिः सहोत्पद्यते सह नश्यति । द्रव्यरूपा गुणभूता सावयवा च । अनेन प्रभायाः केवलगुणवमतनिरासः । प्रभाविशिष्टं तंज: प्रभावत्तञ्चतुर्विधमिति प्रतिपादितम् । तत्तेजः शब्दस्पर्शरूपगुणव- च । तेजः सलिलयोमध्यमावस्थाविशिष्टं द्रव्यं रसतन्मात्रम् । स्मादापः । शीतस्पर्शवत्वं, निर्गन्धवे सति विशिष्टरसवचम् ।। स्यादि अपां लक्षणम् । तासां शुक्लमधुरशीतकस्वभावानाम् - यादिसंसर्गभेदाद रूपरसस्पर्शवैचित्र्याशेषः । ताः समुद्रसारित १९ चतुर्थोऽचतारः। दिरूपेण बहुमकाराः, शब्दस्पर्शरूपरसवसश्च, सेचनपिण्डीकरणा- दिहेतवः । अप्पृथिव्योर्मध्यमावस्थाविशिष्टं द्रव्यं गन्धतन्मात्रं, त. स्मात् पृथिवी विशिष्टगन्धवत्वं, रसवत्त्वे सति विशिष्टस्पर्शवत्वामि- त्यादि पृथिवीलक्षणम् । सा सुरभिर्मधुरा कृष्णादिरूपा च । अ. मुष्णाशीतस्पर्शवती, पाकजभेदात्तु विचित्रवर्णा विचित्ररसा च । अस्याश्च मनोघ्राणाप्यायकत्वेन उपकारकत्वम् । मृत्पाषाणानौष- धादिबहुमकारवती शब्दस्पर्शरूपरमगन्धगुणिका धारणहेतुश्च। त- मसः पृथिव्यामन्तर्भावस्तद्गुणत्वात् तदवस्थान्तरत्वाद्वा । अत एव आलोकाभावमात्रं द्रव्यान्तरं वा इत्यादिपक्षा निरस्ताः । भूतेष्टु सर्वत्र पञ्चीकरणपक्रियया शब्दादीनां गुणानामुपलम्भः । पश्चीकरणप्रक्रिया तु-भगवान् भूतानि सृष्ट्वा एकैकमेव भूतं द्विधाकृत्य द्वयोर्भागयोः स्वभागमेकं निधाय भागान्तरं च ज्वतुर्दाकृत्य तॉश्चतुर्भागान् भूनान्तरेषु चतुर्पु योजयति । एवं स- र्वेषु भूतेषु क्रियमाणेषु एकैकस्य भूतस्य अर्दै स्वभागोऽन्तिरे चतुर्णा भूतानां भागसमुच्चय इति भवति। यथा च स्वभागस्य भू- यस्त्वात् परभागस्याल्पीयस्त्वाच्च पृथिव्यादिव्यपदेशः । वेदे त्रि- मृत्करणोपदेशस्तु पञ्चीकरणस्याप्युपलक्षणम् । भूतैः साकं मह- दहङ्कारो मिलित्वा सप्तीकरणमित्यप्याहुः । एतेषु चतुर्विशनिसंख्याकेषु, पञ्चभूनानि, प्रकृतिमहदहंकारा- शरीरोपादानानि । एकादशेन्द्रियाणि प्रत्येकमसंख्यावानि अतिपुरुषं भिन्नानि आभरणार्पितरत्लानीव शरीरमाक्रम्य तिष्ठन्ति । शारीरं नाम चेतनं प्रति आधेयत्वविधेयत्वशेषत्वनियमैरपृथक्सि- दो द्रव्यविशेष इत्येकं लक्षणम् । नियमेन यदाधेयं, नियमेन य- द्विधेयं, निपमेन यच्छेषामति लक्षणत्रयं वा योज्यम्। ईश्वरतज्ज्ञान- व्यतिरिक्तं द्रव्यं शरीरामति वा नष्टस्थलक्षणम् । एतेन चेष्टाश्रयः . ।
यतिपतिमतदीपिकायाम् । शरीरम्, इन्द्रियाश्रयः शरीरं, भोगायतनं शरीरं, शिरपाणिपादा- दिमयं शरीमित्यादीनि परोक्तानि शरीरलक्षणानि निरस्तानि । शरीरं द्विविधं नित्यमनित्यमिति । तत्र नित्यं, त्रिगुणद्रव्य- कालजीवशुभाश्रयादिकम् । ईश्वरशरीरं नित्यं, मूरिणां च स्वा- भाविकगरुडभुजगादिरूपम् । अनित्यं द्विविधम् । अकर्मकृतं कर्मक- तं चेति । प्रथममीश्वरस्य महदादिरूपम् । तथा अनन्तगरुडादी- नां मुक्तानां च इच्छागृहीतं तत्तद् रूपम् । कर्मकृतमपि द्विविधम्। खमङ्कल्पसहकृतकर्मकृतं, केवलकर्मकृतं चेति। पूर्व महतां सौभरि- प्रभृतीनाम् । उत्तरं चान्येषाम् । पुनः सामान्यतो द्विविधं, स्था- वरजङ्गमभेदात् । स्थावराः शिलाक्षगुल्मलतादयः । जङ्गमश्चतु- र्दा, देवमनुष्यतिर्यनारकिभेदात् । उद्भिजखेदजजरायुजाण्ड- जादिभेदा अपि विभागजधाः । अयोनिजशरीराण्यपि सन्ति । एवं पञ्चीकृतानामेवाण्डोत्पादकत्वम् । अण्डोत्पादनात् पू- सृष्टिः ममष्टिसृष्टिरनन्तरसृष्टिय॑ष्टिसृष्टिः । महदादीनामुत्पत्ति- र्नाम तालीपलाशताटङ्कन्यायेन अवस्थान्तरापत्तिरेव । सेनावन- राश्यादिव्यवहारवत् पूर्वापरावस्थाविशेषसम्बन्धमात्रेण कार्य- कारणभेदव्यवहारः। तत्र पूर्वावस्थापहाणेन विजातीयावस्थामाप्तौ तत्त्वान्तरव्यपदेशः । पृथिवीपर्य्यन्त एव । इत्थं प्रकृतिमहदहङ्कार- कादशेन्द्रियतन्मात्रपञ्चकभूतपञ्चकत्रिभागेन चतुर्विशति तत्त्वानि वर्णितानि । एतेन न्यूनाधिकसंख्यातत्ववादिनो, बाह्याः पाशु- पताश्च निरस्ताः । परमाणुकारणत्ववादिनोऽपि निरस्ताः । प्रकृत्यादय ईश्वरस्य जीवस्य च भोग्यभोगोपकरणं भोगस्थाना- नि च भवन्ति । भोग्यं विषयाः, भोगोपकरणं चक्षुरादिककर- णानि भोगस्थानानि चतुर्दशभुवनान्तर्वर्त्यण्डजातानि । आर्ड नाम कपित्थक-फलाकारं पञ्चीकृतपञ्चभूतारब्धं प्राकृतद्रव्यम् ।
चतुर्थोऽवतारः। तद्यथा पद्माकारा भूः।कर्णिकाकारो मेरुः । मेरोदक्षिणतो भारत- किम्पुरुषहरिवर्षाणि त्रीणि । उत्तरतस्तु रम्यकहिरण्यककुरु- वर्षाणि त्रीणि । पुरतो भद्राश्ववर्ष, पश्चात् केतुमालाख्यं वर्ष- म् । मध्ये इलायतम् । एवं नववर्षयुक्तं जम्बूद्वीपं लक्षयोजनवि- स्तीर्ण समपरिमाणेन लवणसागरेणातम् । स सिन्धुर्द्विगुणेन स. तवर्षात्मकेन प्लक्षद्वीपेन वेष्टितः । सोऽपि इक्षुसमुद्रेण । सोऽब्धि: शाल्मलिदीपेन । स पुनः सुरासमुद्रेण । स कुशद्वीपेन । स सर्पिः- समुद्रेण । सोऽपि क्रौञ्चद्वीपेन । स दध्यर्णवेन । सोऽपि शाक- द्वीपेन वेष्टितः । स ह क्षीरार्णवेन । स वर्षद्रयविभाजकवलयाकार- मानसोत्तरपर्वतसहितेन पुष्करद्वीपेन, स शुद्धजलार्णवेन । एवं द्वी- पानामुत्तरोत्तरबैगुण्यं द्रष्टव्यम् । सप्तद्वीपात्मकोऽयं द्विगुणीकृतया काञ्चनभूम्या वृतः। काञ्चनभूमिस्तु लोकालोकपर्वतेन । पर्वत- स्त्वन्धतमसा । तदन्धतमो गर्भोदकेन । ततोऽण्डकटाहः । एवं भूमे- रध:-अतलवितलरसातलतलातलमहातलसुतलपातालभेदात् सप्त- लोकाः। अधो नरकाः । ते च पापकर्मणां पापानुभवभूमयो रौ- रवाद्या मुख्यतया एकविंशतिप्रभेदाः । ततो गर्भोदकम् । अन- न्तरमण्डकटाहः। एवं भूमेरुपरि लक्षयोजनात सूर्यमण्डलम् । तदेव भुवर्लोकः । तदुपरि चन्द्रमण्डलम् । तस्मादुपरि नक्षत्रबुधशुक्रा- ऽङ्गारकबृहस्पतिशनिसप्तर्षिमण्डलानि । तदुपरि ध्रुवः । सूर्यमण्डल- मारभ्य ध्रुवलोकपर्यन्तं स्वर्लोकः । चतुर्लक्षादुपरि कोटियोजनो- च्छायो महर्लोकः । तस्माद् द्विगुणो जनलोकः । ततश्चतुर्गुण- स्तपोलोकः । तस्माद् द्वादशकोटयुच्छायः सत्यलोकः । ततस्तमो गर्भोदकम् । अण्डकटाहश्च । एवं तिर्यगूलप्रमाणेन पञ्चाशत्कोटि- योजनत्वं भूमेरुक्तं भवति । शतकोटियोजनविस्तीर्णवादो मानभे- देन । अण्डकटाहस्तु कोटियोजनोच्छायः । तदण्डं दशोत्तरावर-
२२
यतिपतिमतदीपिकायाम् ।
णतम् । एतादृशानि अण्डानि अनन्तानि जलबुबुदानीव युगप-
दीश्वरसृष्टानि । ईश्वरस्य चतुर्मुखपर्यन्ता सृष्टिरद्वारिका, तदनन्तरं
सद्वारिकेति विवेकः । विस्तरस्तु पुराणरत्नादिषु द्रष्टव्यः । इति
प्रकृतिनिरूपिता ॥
इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यप्रथमकृपापात्रेण
श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां प्रकृतिनिरूप.
णं नाम चतुर्थोऽवतारः ॥४॥
पञ्चमोऽवतार। । अथाऽचिद्विशेषः कालो निरूप्यते । कालो नाम गुणत्रयर हितो जडद्रव्यविशेषः । स च नित्यो विभुश्च ।भूतभविष्यद्वर्तमान - देन त्रिविधो युगपदक्षिणचिरादिव्यपदेशहेतुः । निमेषकाष्ठाकला- मुहूर्तदिवसपक्षमासक्रत्वयनवत्सरादिव्यपदेशहेतुश्च । मनुष्यमानेन मासःपितॄणां दिनम् । तेषाममावास्या तु मध्याह्नम् । मनुष्यमानेन वत्सरो देवानां दिनम् । तेषामुत्तरायणमहः। दक्षिणायनं रात्रिः। एवं देवमानेन द्वादशवर्षसहस्रसंख्याकं चतुर्युगमित्युच्यते । तत्र चतुःसहस्रवर्षसंख्याकं कृतयुगम् । तत्र पूर्णो धर्मः। त्रिसहस्रवर्ष- संख्याकं त्रिपाद्धर्मवत् त्रेतायुगम् । द्विसहस्रवर्षपरिमितं. सार्द्धधर्मवद् द्वापरम् । सहस्रवर्षसंख्याकम् एकपादधर्मसंयुक्तं कलियुमम् । एतेषां संधिसिहस्रसंख्याकः । एवं, चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते इत्युक्तरीया चतुर्युगसहस्राणि ब्रह्मणोदिवसमात्रप्रमाण- कमेव । एवं रात्रिरपि । ब्रह्मणोऽह्नि चतुर्दश मनवो जायन्ते। इन्द्रा अपि तथैव । तथा सप्त ऋषयश्च। एकैकमनोरकसप्ततिचतुर्युगपरि- माणकालः । एवं ब्रह्ममानेन ब्रह्मणः शतवर्षजीवित्वम् । एतत् सर्व कालाधीनम् । एवं नित्यनैमित्तिकप्राकृताः प्रलया अपि काला- धीनाः । कालस्य स्वकार्य प्रति स्वस्य उपादानत्वम् । अखण्ड:- कालो नित्यः, कार्यः पुनरनित्यः । एवं भूतः काल. ईश्वरस्या क्रीडापरिकरो भवति । लीलाविभूतौ ईश्वरः कालाधीन, एव. का- र्य करोति । नित्यविभूतौ तु कालस्य विद्यमानत्वेऽपि. लस्य न खातन्त्र्यम् । केचित्तु तत्र कालो नास्तीति वदन्ति । केचित्तु ष- डिन्द्रियवेद्यः काल इत्यप्याहुः । तेन, अनुमेयवादनिरासः । इति कालो निरूपितः॥ इति श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचिताया यतीन्द्रमतदीपिकायां कालनिरूपणं नाम पञ्चमोऽवतारंः ॥५॥ - यतिपतिमतदीपिकायाम् । अथ नित्यविभूतिनिरूप्यते । शुद्धसत्त्वधर्मभूतज्ञानजीवेश्वर- साधारणं लक्षणमजडत्वम् । अजडत्वं नाम स्वयंप्रकाशत्वम् । त- व शुद्धसत्त्वधर्मभूतज्ञानसाधारणं लक्षणम् । पराक्के सत्य जडत्व- म् । तत्तु स्वयंप्रकाशत्वे सति परस्मा एव भासमानत्वम् । शुद्ध- सत्त्वं नाम त्रिगुणद्रव्यव्यतिरिक्तत्वे सति सत्त्ववत्त्वं, निःशेषावि- द्यानिवृत्तिदेशविजातीयान्यत्वम् । सा विभूतिरूप्रदेशे अनन्ता, अधः प्रदेशे परिच्छिन्ना अचेतना स्वयंप्रकाशा च । आनन्दावह- वादानन्दनामिका पञ्चोपनिषन्मन्त्रप्रतिपाद्यतया पञ्चोपनिषदात्मि- का । अप्राकृतपञ्चशक्तिमत्तया पञ्चशक्तिमयीति निगद्यते । सो वि. भूतिरीश्वरस्य निसानां मुक्तानां च ईश्वरसंकल्पाद् भोग्यभोगो- पकरणभोगस्थानरूपा च भवति । भोग्यमीश्वरशरीरादि । भोगो- पकरणं चन्दनकुसुमवस्त्रभूषणायुधादीनि । भोगस्थानं तु गो- पुरपुरमाकारमण्डपविमानोद्यानपग्रिन्यादिकम् । तत्रेश्वरस्य नि- त्यानां च शरीराणि भगवन्नित्येच्छासिद्धानि मुक्तानां शरीराणि । तेषां पित्रादिसृष्टिर्युगपदनेकशरीरपरिग्रहा इत्यादीनि भगवत्संक- ल्पादेव भवन्ति । भगवतो व्यूहविभवार्चावतारशरीराण्यप्यऽप्राकृतम- यानि । अर्चावतारेषु प्रतिष्ठानन्तरं प्रसादोन्मुखेश्वरसंकल्पाधीन- म् अप्राकृतं शरीरमत्राविर्भवति । प्राकृतामाकृतसंसर्गः कथाम- ति न शङ्कनीयम् । रामकृष्णावतारशरीरवदिति प्रमाणानुसारे- ण परिहारो द्रष्टव्यः । मुक्तानां शरीरपरिग्रहस्तु वसन्तोत्सववेषप. रिग्रहादिवत् स्वामिनः कैकर्यमेव । ईश्वरशरीरस्य षाड्गुण्यमिाते व्यवहारः षाड्गुण्यप्रकाशकत्वात् । नित्यनिरवद्यनिरतिशयोज्ज्वि- ल्यसौन्दर्यसौगन्ध्यसौकुमायलावण्ययौवनमार्दवार्जवादयो दिव्य- मङ्गलविग्रहगुणाः । तस्य व्यापकत्वं गीतादिषु प्रसिद्धम् । मुक्तस्य शरीरं नास्तीति वचनं तु कर्मकृतशरीराभावपरम् । त- षष्ठोऽवतारः। २५ प्रत्येन्द्रियाणां नित्यत्वात् । अत एव कार्यकारणभावाभावात् प्रा- कृतवन्न तत्त्वान्तरव्यपदेशः। एतेन तव शरीरेन्द्रियादिकं नास्तीति मतनिरासः। तमसः परस्तादित्युक्त्या प्रकृत्येकदेशवादिमतनिरासः। अप्राकृतशब्दस्पर्शरूपरसगन्धाश्रयत्वादाकाशादिव्यात्तिः । ज्ञा- नात्मकत्वप्रतिपादनाज्जडत्वमतनिरासः। भगवतोऽप्राकृतदिव्यम- ङ्गलविग्रहस्तु अस्त्रभूषणाध्यायोक्तसर्वोपाश्रयः । तद्यथा पुरुषस्य कौस्तुभाकारत्वं, प्रकृतेः श्रीवत्सरूपत्वं, महतो गदारूपत्वं, मा- त्त्विकाहङ्कारस्य शङ्खरूपत्वं, तामसाहङ्कारस्य शार्ङ्गत्वं, ज्ञानस्य ख- इगरूपत्वम्, अज्ञानस्य तदावरकत्वं, मनसश्चक्रत्वं, कर्मज्ञानेन्द्रियाणां शररूपत्वं, सूक्ष्मस्थूलभूतानां वनमालात्वम् ॥ "चेतश्चक्रति चे- तना शरमतिस्तत्संवृतिालिका भूतानि स्वगुणैरहङ्कतियुगं शङ्खन शामयते ॥ बाणाः खानि दशापि कौस्तुभमणिर्जीवः प्रधानं पुनः श्रीवत्सं कमलापतेस्तवः गदामाहुमहान्तं बुधाः" ॥ १ ॥ - इति संग्रह्योक्तं पद्यमनुसन्धेयम् । सा विभूतिरामोदप्रमोदसंमोद. वैकुण्ठाख्यरूपेण चतुर्विधा, पुनरनन्ता च । त्रिपाद्विभूतिपरमपद- परमव्योमपरमाकाशाऽमृतनाकाऽप्राकृतलोकाऽऽनन्दलोकवैकुण्ठा- ऽयोध्यादिशब्दवाच्या । एतस्यां विभूनौ द्वादशावरणोपेतम् अने. कगोपुरमाकारैरावृतं वैकुण्ठं नाम नगरम् । तत्रानन्दनामकं दिव्या- ऽऽलयम् । तदन्तः, रत्नमयानेकस्तम्भसहविरचिता महामाणिमण्ड- पाख्या सभा । तस्यां सहस्रफणामणितेजोविराजितोऽनन्तः । त- स्मिन् धर्मादिमयदिव्यसिंहासनम् । तदुपार चामरहस्तैर्विमलादिभिः सवितमष्टदलात्मकं पद्मम् । तदुपरि प्रकृष्टविज्ञानधामा शेषः । तदुपरि वाचः परमद्भुतम् । एवं नित्यविभूतिः संग्रहेण प्रदर्शिता ॥ इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यप्रथमदासेन श्री. निवासदासेन विरचितायां यतीन्द्रमतदीपिकायां निन्यविभूतिनि- रूपणं नाम षष्ठोऽवतारः॥६॥ ॥
२६ यतिपतिमतदीपिकायाम् । अथ क्रमप्राप्तं धर्मभृतज्ञानं निरूप्यते। स्वयंप्रकाशाचेतनद्रव्यत्वे सति विषयित्वं, विभुत्वे मति प्रभावद्रव्यगुणात्मकत्वम्, अर्थप्र. काशो बुद्धिरिति तल्लक्षणम् । तद्धर्मभूतज्ञानमीश्वरस्य नित्यानां च सर्वदा नित्यमेव विभुच । बद्धानां तिरोहितमेव । मुक्तानांपूर्व तिरो- हितम्, अनन्तरमाविर्भूतम् । ज्ञानस्य नित्यत्वे, ज्ञानमुत्पन्नम्, ज्ञानं नष्ट- मिति व्यवहारः कथमितिचेन्न। ज्ञानस्य संकोचविकाशावस्थामादाय तत्संभवात् । दृतेः पात्राद्यथा उदकं क्षरति तथा ज्ञानमाप इन्द्रिय- द्वारा निःसृत्य अर्थेन संनिकृष्यते। अहिकुण्डलवत् संकोचविकाशौ सर्वज्ञानं स्वत एव प्रमाणं स्वप्रकाशं च । विप्रतिपन्ना संवित् स्व- गतव्यवहारं प्रति स्वाधीनकिञ्चित्करा स्वस्वजातीयसंबन्धानपेक्ष- व्यवहारहेतुत्वात् । अर्थेन्द्रियदीपादिवत् । न च चक्षुरालोकयोःस जातीयत्वम् आहङ्कारिकनैजसभेदाझेदः । अनेन ज्ञानस्य क्षणि- कवं विक्षणावस्थायित्वं प्रातिभासिकवद् व्यवहारस्य मिथ्यात्वं, परतः प्रामाण्यं ज्ञानस्यैव आत्मत्वमित्यादिपक्षा निरस्ताः । स्तम्भः स्तम्भ इत्यादिधारावाहिकज्ञानं तु एकमेव । ननु आगमबलाज्ज्ञा- नस्य निसत्वाङ्गीकारे कथं जागरसुषुप्त्यादिभेदसिद्धिरिति चेन्न । यथा दाहकस्य वढेर्दाह्यसन्निधौ मण्यादिप्रतिबन्धके दाहाभावस्त- द्वज्ज्ञानस्य तिरोधायकतमोविशेषसन्निधानासन्निधानाभ्यां स्वापा- दिसिद्धिः। पुंस्वादिवच्च । पुंस्त्वादिकं बाल्ये तिरोहितं यौवने आ. विर्भवति। यो यदाश्रितस्वभावःस तस्य गुण इति लक्षणलक्षितत्वा- ज्ज्ञानं गुणः विशेषणादिवत् । यतः संकोचविकाशावस्थावत् । अतो द्रव्यमपि भवति । आत्मगुणभूतस्य ज्ञानस्य द्रव्यत्वं कथमिति न शङ्कनीयम् । प्रभावद् एकस्यैव द्रव्यत्वगुणत्वयोविरोधाभावात् । अवस्थाश्रयो द्रव्यमिति द्रव्यलक्षणं स्वाश्रयादन्यत्र वर्तमानत्वमपि प्रभावदेवोपपद्यते । प्रयोगश्च-गुणभूता बुद्धिव्यं, प्रसरणादिम- सप्तमोऽवतारः। २७ स्वात् । प्रभावत् । ज्ञानं द्रव्यं, संयोगादृष्टान्यत्वे सति भावना- कारणत्वादात्मवदिति । मुक्तज्ञानस्य युगपदनन्तदेहसंयोगो नयन- सूर्यादितेजोवन संभवति । ज्ञानं मतिः प्रज्ञा संविद् धिषणा धी- मनीपा शेमुषी मेधा बुद्धिरित्येवमादयः शब्दा ज्ञानपर्यायाः । बुद्धिरेवोपाधिभेदात् मुखदुःखेच्छाद्वेषप्रयत्नरूपा । मुखादिजनक- ज्ञानातिरेके प्रमाणाभावात् । इच्छामि द्वेष्मीति व्यवहारस्य स्मरा- मीत्यादिवज्ञानविशेषेणैवोपपत्तेः । ननु कामः संकल्पो विचिकि- त्सा श्रद्धाऽश्रद्धा धृतिरधृतिी (रित्येतत् सर्वं मन एव इति उक्तं ज्ञानरूपत्वं कथमिति चेन्न । ज्ञानस्य मनस्सहकारित्वनियमा- न्मन एवेत्युपचारादुक्तमिति न विरोधः । एवं प्रत्यक्षानुमानागम- स्मृतिसंशयविपर्ययभ्रमविवेकव्यवसायमोहरागद्वेषमदमात्सर्यधैर्य- चापलदम्भलोभक्रोधदपस्तम्भद्रोहाभिनिवेशानिर्वेदानन्दाऽऽदयः । मुमतिदुर्मतिः, सुप्रीतिः, तुष्टिः, उन्नतिः, शान्तिः, कान्तिः, विरक्तिः, रतिः, मैत्री, दया, मुमुक्षा, लज्जा, तितिक्षा, विचारणा, जिगी- षा, मुदिता, क्षमा, चिकीर्षा, जुगुप्सा, भावना, कुहना, असूया, जि- घांसा, तृष्णा, दुराशा, वासना, दुर्वासना, चर्चा, श्रद्धा, भक्तिः, अपत्तिरित्येवमादयश्च जीवगुणा अनन्ता धर्मभूतज्ञानाऽवस्था- विशेषा एव । एवं ज्ञानशक्तिबलैर्खय्यतेजःसौशील्यवात्सल्यमार्दवा- जवसौहाईधैर्यसाम्यकारुण्यमाधुर्यगांभीय्यौदार्यस्थैर्यपराक्रमादयो भगवतोऽनन्तकल्याणगुणाः । ज्ञानशक्योर्विततिभूताः । तत्र ज्ञानं नाम सर्वसाक्षात्काररूपं, शक्तिरघटितघटनासामर्थ्य, बलं धारणसामर्थ्यम, ऐश्वर्य नियमनसामर्थ्य, वीर्यमविकारित्वं, तेजः पराभिभवनसामर्थ्यम् । बलं धारणसामर्थ्यम् । महतो मन्दैः सह नीरन्ध्रेण संश्लेषस्वभावत्वं सौशील्य, वात्सल्यं दोषेऽपि गुणत्व- बुद्धिर्दोषाऽदर्शित्वं वा । माश्रितविरहासहत्वं मार्दवं, मनोवाका- २८ यतिपतिमतदीपिकायाम् । यैकरूप्यमार्जवं, स्वसत्तानपेक्षतद्रक्षापरत्वं सौहार्दम् । जन्मज्ञानवृत्त- गुणाधनपेक्षया सर्वैराश्रयणीयत्वं साम्यम्। आश्रितदोषगोपनं चा- तुर्यम् । अकम्पनीयत्वं स्थैर्यम् । अभग्नप्रतिज्ञत्वं धैर्यम्, परबल- प्रवेशनसामर्थ्य शौर्यम् । तन्निराकरणं पराक्रमः। स्वप्रयोजनमन- पेक्ष्य परदुःखनिराचिकीर्षा दया । परदुःखदुःखित्वं वा । क्षीरवद् उपाध्यभावेऽपि स्वादुत्वं माधुर्यम् । भक्तानुग्रहवदान्यत्वादेरामू- लतो दुरवगाहत्वं गाम्भीर्यम् । प्रभुत्वं दत्वाऽप्यतृप्तत्वमौदार्यम् । एवं वदान्य इत्यादावप्यूह्यम् । ज्ञानविशेषभूतयोक्तिप्रपत्त्योः स्वरूपं किञ्चिदुच्यते । भक्तिप्रपत्तिभ्यां प्रसन्न ईश्वर एव मोक्षं ददाति । अतस्तयोरेव मोक्षोपायत्वम् । मोक्षोपायत्वेन उक्तानां कर्मयोगज्ञानयोगप्रभृतीनां भक्तिद्वारैव साधनत्वम् । कर्मयोगो नाम उपदेशाज्जीवपरयाथात्म्यज्ञानवता शत्त्यनुसारेण फलसङ्गर- हिताऽनिषिद्धकाम्यनित्यनैमित्तिकरूपपरिगृहीतकर्मविशेषः । स तु देवार्चनातपस्तीर्थदानयज्ञादिभेदभिन्नः । अयं तु जीवगतकल्मषा- पनयनद्वारा ज्ञानयोगमुत्पाद्य तदद्वारा साक्षाद्वा भक्त्युत्पादको भ- वति । ज्ञानयोगो नाम कर्मयोगानिर्मलान्तःकरणस्य ईश्वरशेष- त्वेन प्रकृतिवियुक्तस्वात्मचिन्ताविशेषः । एतस्य साक्षाद्भक्त्युपयोगित्वमेवं साधनान्तराणामपि भक्त्युपयो. गित्वमूह्यम् । भक्तियोगो नाम, यमनियमासनप्राणायामप्रत्याहार- ध्यानधारणासमाधिरूपाष्टाङ्गवॉस्तैलधारावदविच्छिन्नस्मृतिसन्तान- रूपः । स च विवेकविमोकाभ्यासक्रियाकल्याणानवसादानुद्धर्षरू- पसाधनसप्तकजन्यः। तत्र विवेको नाम जात्याश्रयनिमित्ताददुष्टाद- नात्कायशुद्धिः। विमोकः कामानभिष्वङ्गः । अभ्यासः पुनः पुन- रालम्बनसंशीलनं, शक्तितः पञ्चमहायज्ञायनुष्ठानं क्रिया। कल्या- णानि सत्यार्जवदयादानाऽहिंसादीनि । अनवसादो दैन्याभावः ।
, सप्तमोऽवतारः। २९ अनुद्धर्षस्तुष्टयभावः । अतिसन्तोषश्च विरोधीत्यर्थः । एवं साधन- सप्तकाऽनुगृहीता भक्तिर्दर्शनसमानाकारा अन्तिमप्रत्ययाऽवधिका च भवति । स चान्तिमप्रत्यय एतच्छरीरावसाने वा, शरीरान्तराव- साने वाभवति। वेदनध्यानोपासनादिशब्दवाच्या भक्तिः परभक्तिपरमज्ञान- परमभक्तिरूपा क्रिया क्रमवती प्रत्याङ्गिका चोसा द्विविधा । साधन- भाक्तिफलभक्तिभेदात् । उक्तसाधनजन्यासाधनभक्तिः। फलभक्तिस्तु ईश्वरकृपाजन्या पराङ्कुशनाथादिनिष्ठा। मद्भक्तजनवात्सल्य- मित्यादिषु स्तुतिनमस्कारादिषु च भक्तिशब्दप्रयोग औपचारिकः। ननु वेदान्तेषु श्रवणमननयोरपि विधानात् कथं ध्यानमेव विधी- यत इतिचेदुच्यते । अधीतसाङ्गवेदः पुरुषः प्रयोजनवदर्थावबोधि- त्वदर्शनात् तन्निर्णयाय खयमेव श्रवणे प्रवर्तते इति श्रवणस्य प्राप्तत्वादनुवादः । श्रवणप्रतिष्ठार्थत्वान्मननस्याप्यनुवादः । तस्माद् ध्यानमेव विधीयते इति न विरोधः । ध्यानवाच्या भक्तिर्विद्या- भेदादु बहुविधाः। काश्चिद विद्या उच्यन्ते-अन्तरिक्षविद्या, अ- न्तरादित्यविद्या, दहरविद्या, भूमविद्या, सद्विद्या, मधुविद्या, उप- कोशलविद्या, शाण्डिल्यविद्या, उद्गीथविद्या, पुरुषविद्या, प्रतर्दन- विद्या, वैश्वानरविद्या, इत्यादिका ब्रह्मविद्या । न्यासविद्या प्र- पत्तिः। प्रपत्तिर्नाम, आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् * रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा * आत्मनिक्षेपकार्प- ण्यमित्यङ्गपञ्चकयुक्ताएतदेहावसाने मोक्षप्रदाऽसकृत्कर्तव्यान्यासः शरणागतिरित्यादिशब्दवेद्या ज्ञानविशेषरूपा एषा प्रपत्तिगुरु- मुखादहस्यशास्त्रेषु संप्रदायतया वेदितव्येति इह बालबोधार्थं प्रवृत्ते ग्रन्थे न प्रकाश्येति विरम्यते । भक्तिप्रपत्त्योरेव मोक्षसाधनत्वेन खीकाराव परोक्तोपायनिरासः। यथा वेदबाह्यानां मध्ये केषा- " .
३०
यतिपतिमतदीपिकायाम् ।
चिन्मते देहातिरिक्तात्मनोऽनङ्गीकारान्मोक्षप्रवृत्तिरेव न संभवति ।
अन्येषां मते ज्ञानस्य क्षणिकत्वात् । तस्यैवात्मत्वात् कस्य प्र-
त्तिः । सान्तानिस्यति चेन्न । अन्यं प्रति अन्येन यत्रो न कर्तव्य
इति न प्रवृत्तिः।अपरेषां मते धर्माधर्मादिमप्तभङ्गीरीत्या अनैकान्त-
वादान प्रवृत्तिः। वैशोषिकादिपक्षे पाषणकल्पे मोक्षे प्रवृत्तिः क-
स्यापि न संभवति । सांख्यादिपक्षेषु ईश्वरानङ्गीकाराव पुरुषस्य
प्रकृतेर्वा मोक्ष इति संशयान्न प्रवृत्तिः । मायिकमते व्यावहारिक-
स्य वाक्यस्य पारमार्थिकाभेदज्ञानाजनकत्वान्न प्रवृत्तिः। भास्कर-
यादवोक्तकर्मज्ञानसमुच्चयवादोऽपि उक्तादेव निरस्तः । शैवमते तु
पशुपतेः पाप्यत्वस्वीकारावेदविरुद्धभस्मधारणादेः साधनत्वेन स्वी-
काराच्च तन्निरासः। एवं मतिनिरूपिता ॥
इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यप्रथमदासेन श्री-
निवासदासेन विरचितायां यतीन्द्रमतदीपिकायां बुद्धिनिरूपणं नाम
सप्तमोऽवतारः ॥७॥
अष्टमोऽवतार। अथ जीवो निरूप्यते । प्रत्यक्त्वचेतनत्वात्मत्वकर्तृत्वादीनि ई- श्वरजीवसाधारणानि लक्षणानि । प्रत्यक्त्वं नाम स्वयमेव स्वस्मै भा. समानत्वम् । चेतनत्वं ज्ञानाश्रयत्वम् । आत्मत्वं शरीरपतिसंबन्धि- त्वम् । कर्तृत्वं संकल्पज्ञानाश्रयत्वम् । एवं सामान्यलक्षणलक्षितस्य विशेषलक्षणान्युच्यन्ते।अणुत्वे सति चेतनत्वं, स्वतः शेषत्वे. सति चेतनत्वम् । एवम् आधेयत्वविधेयत्वपराधीनकर्तृत्वपरतन्त्रत्वादिक- मृह्यम् । स देहेन्द्रियमनामाणादिभ्यो विलक्षणः । यथा मम शरी- रमिति प्रतीत्या देहाद् व्यावृत्तः । चक्षुषा पश्यामि, श्रोत्रेण शृ- णोमि, वाचा वदामि इत्यादिमत्ययाद् बाह्येन्द्रियेभ्यो व्याहत्तः । मनसा जानामीति मनसो ज्ञानकरणत्वप्रतीतेः । मम प्राण इति व्यतिरेकोक्तेः। जानाम्यहमिति ज्ञानाच्च मनम्माणज्ञानेभ्यो व्या- वृत्तः। स च अणुपरिमाणः । उत्क्रान्त्यादेः श्रवणात् । प्रमाणा- नुसाराच । अणुत्वे युगपदनेकविषयानुभवः कथमिति न शङ्क- नीयम् । धर्मभूतज्ञानव्याप्त्या उपपत्तेः ॥ एतेनैव सौभरिप्रभृतीनां युगपदनेकशरीरपरिग्रहोऽपि संभवति । स च नित्यः । पूर्वानुभू- तार्थप्रतिसन्धानात् । नित्यश्चेज्जीव उत्पन्नो, जीवो नष्ट इति प्रतीतिः कथमिति चेन्नाजीवस्य देहसंबन्ध उत्पत्तिस्तद्वियोगो नाश इति प्रति- पादनात् । जीवस्वरूपं नित्यमेव । स च प्रतिशरीरं भिन्नः। ए. कपरिमाणेषु अनेकेषु सुवर्णघटेषु एकोघट इति प्रतीतिवद्, व्रीहिराशौ एको व्रीहिरितिवच्च ज्ञानैकाकारतया एकत्वव्यवहारः। न तु स्वरूपै- क्यम् । प्रमाणविरोधात् । स्वतः सुखी, उपाधिवशात् संसारः। अयं च कर्ता भोक्ता शरीरी शरीरं च भवति । प्रकृत्यपेक्षण शरीरी, ईश्वरापेक्षया शरीरम । तस्य प्रत्यक्षश्रुतिभ्यां स्वयम्प्रकाशत्वं च सिद्धम् । प्रयोगश्च-आत्मा स्वयं प्रकाशो, ज्ञानत्वात् । धर्मभूत- ज्ञानवदिति। ज्ञानवाणुत्वाऽमलत्वादय एतस्य स्वरूपनिरूपकधर्माः .
३२ यतिपतिमतदीपिकायाम् । एतेन, ज्ञानस्य क्षणिकत्वात् क्षणिकज्ञानसन्तानरूप आत्मेति बौद्ध- पक्षः, भूतचतुष्टयात्मकत्वाद् देहस्य देहावधिक आत्मेति चार्वाक- पक्षः, गजदेहे गजपरिमाणः पिपीलिकादेहे तत्परिमाणोऽतो दे- हपरिमाण आत्मेति जैनपक्षः, कर्तृत्वभोक्तृत्वादिकं प्रकृतेरेव, न तु पुरुषस्यति सांख्यपक्षः, ब्रह्मांशो जीव इति यादवपक्षः, सोपा- विब्रह्मखण्डो जीव इति भास्करपक्षः, अविद्याकल्पित एकजीववा- दपक्षः, अन्तःकरणावच्छिन्नानकजीववादपक्ष इत्येवमादयो विरु- डपक्षा निरस्ताः। विभुत्ववादपक्षोऽपि । ननु जीवस्य विभुत्वा- ऽनङ्गीकारे अदृष्टजनितदेशान्तरफलोपलब्धिः कथमिति चेन्न । जीवस्य संबन्धाभावेऽपि अदृष्टवशादेवोपपद्यते । अदृष्ट नाम भग- वत्पीत्यप्रीतिजनकजीवकर्तृककर्मविशेषजन्यो ज्ञानविशेषः । स विशेषो भगवत्संकल्प एव विभुखरूपं भगवन्तमाश्रितः । अत: फलोपलब्धिरेवेति न विरोधः। स जीवस्त्रिविधः-बद्धमुक्तनित्यभेदात् । तव बद्धा नाम अनिवृत्तसंसाराः। ते चतुर्दशभुवनात्मकाण्डकटाहवर्तिनो ब्रह्मादि- कीटपर्यन्ताश्चेतनविशेषाः । श्रीमन्नारायणनाभिकमलाद् उत्पन्नो ब्रह्मा, ब्रह्मणो रुद्रः, पुनर्ब्रह्मणः सनकादियोगिनो, नारदादि- देवऋषयो, वशिष्ठभृग्वादिब्रह्मऋषयः, पुलस्त्यमरीचिदक्षकश्यपा- दिनवप्रजापतयो बभूवुः। तेभ्यो देवा दिक्पालाश्चतुर्दशेन्द्राश्चतुर्दश- मनवः, अमुराः पितरः सिद्धगन्धर्वकिन्नरकिम्पुरुषविद्याधरादयो, वसवो, रुद्राः, आदित्या, अश्विनौ च दानवयक्षराक्षसपिशाचगुह्य- कादय एवं देवयोनयों, मनुष्या अपि ब्राह्मणक्षत्रियवैश्यशूद्रादि- जातिभेदाद् बहुविधाः । तिर्यञ्चोऽपि पशुमृगपतिसरीसृपपतङ्ग- कीटादिभेदाद् बहुविधाः । स्थावरा अपि वृक्षगुल्मलतावीरुधतृणा- दिभेदादू बहुविधाः । वृक्षादीनां जलाहरणोपयुक्तकिश्चिज्ञान- .
अष्टमोऽवतारः। संबन्धोऽस्त्येव । अप्राणिमत्सु स्वल्पा सा* इत्युक्तत्वात् । अतो दे- वमनुष्यतिर्यस्थावरभेदभिन्ना बद्धाः । जरायुजाण्डजोद्भिज्जस्खेद- जाश्च भवन्ति । देवमनुष्या जरायुजाः। तेषु ब्रह्मरुद्रादयः सनका- दयश्च द्रौपदीधृष्टद्युम्नादयो भूतप्रेतवेतालादयश्च अयोनिजाः । तिर्यगादयश्च जरायुजा अण्डजाः खेदजाश्च भवन्ति । स्थावरादय उद्भिजाः॥ एवंभूता बद्धा बीजाङ्कुरन्यायेन विषमप्रवाहतया अनादिकालप्रवृत्ता- ऽविद्याकर्मवासनारुचिप्रकृतिसंबन्धैश्चक्रवत्परिवर्तमानैर्गजन्मबाल्य- यौवनजागरस्वप्नसुषुप्तिमूर्छाजरामरणस्वर्गनरकगमनादिविविधवि- चित्रावस्थावन्तोऽनायनन्तप्रकारातिदुःसहतापत्रयाऽभितप्ता स्वतः प्राप्तभगवदऽनुभवविच्छेदवन्तश्चते द्विविधाः,शास्त्रवश्याः, तदवश्या- श्चेति। तयोर्मध्ये करणायत्तज्ञानानां बद्धानां शास्त्रवश्यता, तिर्यस्था- वरादीनां तन्नास्ति। शास्त्रवश्या द्विविधाः। बुभुक्षवो, मुमुक्षवश्चेति । तत्र बुभुक्षवस्त्रैवर्गिकपुरुषार्थनिष्ठाः पुरुषाःाते च द्विविधाः। अर्थका- मपरा, धर्मपराश्चेति । केवलार्थकामपरा देहात्माभिमानवन्तः।धर्म- पराश्च-अलौकिकश्रेयःसाधनं धर्मः, चोदनालक्षणाऽर्थो धर्म इति धर्मलक्षणलक्षितयज्ञदानतपस्तीर्थयात्रादिनिष्ठाःतेच देहातिरिक्ता- त्मनः परलोकोऽस्तीति ज्ञानवन्तः। धर्मपरा द्विविधा देवताऽन्तरपरा भगवत्पराश्चेतिादेवतान्तरपरा ब्रह्मरुदेन्द्राग्न्याचाराधनपराः। भग- वत्पराश्च, आतॊजिज्ञासुरर्थार्थीत्युक्ताधिकारिणः । आर्को भ्रष्टैश्वर्य- कामामुमुक्षुवो द्विविधाः। कैवल्यपरा मोक्षपराश्चेति । कैवल्यं नाम ज्ञानयोगात्मकृतिवियुक्तस्वात्मानुभवरूपोऽनुभवः। आँचरादिमार्गेण परमं पदं गत एव कचित् कोणे पतित्यक्तपत्नीन्यायेन भगवद- ऽनुभवव्यतिरिक्तस्वात्मानुभव इत्याहुः । केचिदचिरादिमार्गेण गतस्य पुनरावृत्त्यश्रषणात् प्रकृतिमण्डल एव कचिद्देशे स्वा.
यतिपतिमतदीपिकायाम् । स्मानुभव इत्यप्याहुः । मोक्षपराश्च द्विविधाः । भक्ता प्रपन्नाश्चेति । भक्ताः पुनरधीतसाङ्गसशिरस्कवेदाः पूर्वोत्तरमीमांसापरिचयाच्चि- दचिद्विलक्षणम् अनवधिकातिशयानन्दस्वरूपं निखिलहेयप्रत्यनीक समस्तकल्याणगुणात्मकं ब्रह्मावधार्य तत्माप्त्युपायभूतां साङ्गा भक्ति स्वीकृत्य तया मोक्ष प्राप्तुकामाः। भक्तावधिकारस्त्रैवर्णि- कानामेव । देवादीनामप्यस्ति । अर्थित्वसामर्थ्ययोः सम्भवात् । न शूद्राधिकारः । अपशूद्राधिकरणविरोधात् । भक्तिस्वरूपं तु बुद्धिपरिच्छेदे प्रतिपादितम् । भक्ता द्विविधाः । साधनभक्तिनिष्ठा: साध्यभक्तिनिष्ठाश्च । व्यासादयः साधनभक्तिनिष्ठाः । साध्यभक्ति- निष्ठा नाथादयः। आकिञ्चन्यानन्यगतिकत्वधर्मविशिष्टो भगव- न्तमाश्रितः प्रपन्नः । सोऽपि द्विविधः । त्रैवर्गिकपरो मोक्षपरश्चे- ति । त्रैवर्गिकपरो नाम भगवत एव धर्मार्थकामाभिलाषी । मोक्ष- परस्तु सत्सङ्गान्नित्यानित्यविवेके सति संसारे निर्वेदाद्वैराग्ये उ- पन्ने मोक्षेच्छायां जातायां तत्सिद्ध्यर्थम्, आचार्यों वेदसम्पन्न * इत्याद्याचार्यलक्षणलक्षितं गुरुं संश्रित्य तद्वारा पुरुषाकारभूतां श्रियं प्रपद्य भत्त्याधुपायान्तरेण अशक्तः, अत एवाकिञ्चनान- न्यगतिः श्रीमन्नारायणचरणावेव उपायत्वेन यः स्वीकरोति स प्र- पन्नः। प्रपत्तिः सर्वाधिकारा । स च प्रपन्नो द्विविधः । एकान्ती परमैकान्ती चेति । यो मोक्षफलेन साकं फलान्तराण्यपि भगवत एवेच्छति स एकान्ती, देवतान्तरशून्य इत्यर्थः । भक्तिज्ञानाभ्या- मन्यत्फलं भगवतोऽपि यो नेच्छति स परमैकान्ती । स द्विविधः- दृप्त आर्तश्चेति । अवश्यमनुभोक्तव्यमिति प्रारब्धकर्मानुभवन् एतदेहा- वसानसमयमीक्षमाणो दृप्तः । जाज्वल्यमानाग्निमध्यस्थितस्येव सं- सारावस्थितेरतिदुःसहत्वात् प्रत्युत्तरक्षणमोक्षकाम आतः। मुक्तो नाम उपायपरिग्रहणानन्तरं नित्यनैमित्तिकभगवदाज्ञाकैर्य्यरू- अष्टमोऽवतारः। ३५ पाणि स्वयम्प्रयोजनतया कुर्वन् भगवद्भागवतापराधांश्च वर्जयन देहावसानकाले मुकृतदुष्कृते मित्रामित्रयोनिक्षिपन, वाङ् मनसी- स्यादिप्रकारेण हाई परमात्मनि विश्रम्य मुक्तिद्वारभूतसुषुम्ना- ख्यनाड्यां प्रविश्य ब्रह्मरन्ध्रानिष्क्रम्य हार्दैन सार्क सूर्यकिरणद्वा- रा अग्निलोकं गत्वा दिनपूर्वपक्षोत्तरायणसंवत्सराभिमानिदेवता- भिर्वायुना च पथि सत्कृतः सूर्यमण्डलं भित्वा नभोरन्ध्रद्वारा मू- र्यलोकं गत्वा अनन्तरं चन्द्रविद्युबरुणेन्द्रप्रजापतिभिर्मार्गदर्शिभि- रातिवाहिकगणैः सोपचारैः सइ तत्तल्लोकानतीत्य प्रकृतिवैकुण्ठ- सीमपरिच्छेदिकां विरजां तीर्खा सूक्ष्मशरीरं विहाय अमानवकर- स्पर्शाद अमाकृतदिव्यविग्रहयुक्तः चतुर्भुजो ब्रह्मालङ्कारेणाल- कृत इन्द्रप्रजापतिसंज्ञकनगरद्वारपालानभ्यनुज्ञाप्य श्रीवैकुण्ठाख्यं दिव्यनगरं प्रविश्य गरुडानन्तयुक्तपताकालङ्कृतदीर्घमाकारसहित गोपुरमतीत्य ऐरम्मदाख्याऽमृतसरः सोमसवनाख्याऽश्वत्थं च दृष्ट्वा, शतं मालाहस्तेत्युक्तपञ्चशतदिव्याप्सरोगणैरुपचरितो ब्रह्म- गन्धादिभिरलङ्कतः तत्रत्याऽनन्तगरुडविष्वक्सेनादीन प्रणम्य तै- बहुमतो महामणिमण्डपमासाद्य पर्यङ्कसमीपे स्वाचार्यान् प्रणम्य पर्यङ्कसमीपं गत्वा तत्र धर्मादिपीठोपरिकमले अनन् विमलादि- मिश्चामरहस्तैः सेव्यमानं श्रीभूलीलासमतं शङ्खचक्रादिदिव्यायुधो- पेतं जाज्ज्वल्यमानकिरीटं मकरकुण्डलप्रैवेयहारकेयूरकटकश्रीवत्स- कौस्तुभमुक्तादामोदरवन्धनपीताम्बरकाचीगुणनूपुरायपरिमितदि- व्यभूषणभूषितम् । अपरिमितोदारकल्याणगुणसागरं भगवन्तं दृष्ट्वा तत्पादारविन्दयुगले शिरसा प्रणम्य पादेन पर्यङ्कमारुह्य तेन खाङ्के स्थापितः, कोऽसीति पृष्टो, ब्रह्मप्रकारोऽस्मीत्युक्ते तेन क- टाक्षितस्तदनुभवजनितहर्षप्रकर्षात् सर्वदेशसर्वकालसर्वावस्थोचित- सर्वविधकैकय॑रतिः, आविर्भूतगुणाष्टक उत्तरावधिरहितब्रह्मानुभ-
यतिपतिमतदीपिकायाम् ।
ववान् यः स मुक्त इत्युच्यते । मुक्तस्य ब्रह्मसाम्यापत्तिश्रुतिस्तु
भोगसाम्यमाह । जगद्यापारवर्जनस्य प्रतिपादनात् । तस्य नानात्वं
सर्वलोकसंचरणं च संभवति ।
ननु मुक्तस्य अनावृत्तित्वप्रतिपादनाद् आस्मॅिल्लोके संचारः
कथामिति न शङ्कनीयम् । कर्मकर्तृकस्यैव निषेधात् । खेच्छया
संचरणोपपत्तेः । अतो मुक्तो भगवत्संकल्पायत्तस्वेच्छया सर्वत्र
संचरति । नित्या नाम कदाचिदपि भगवदभिमतविरुद्धाचरणाभा-
वेन ज्ञानसंकोचप्रसङ्गरहिताःनित्याश्चअनन्तगरुडविष्वक्सेनादयः।
तेषामधिकारविशेषा ईश्वरस्य नित्येच्छयैव अनादित्वेन व्यव-
स्थिताः । एतेषामवतारास्तु भगवदवतारवत् खेच्छया । एवं बद्ध-
मुक्तनित्यभेदभिन्नो जीवो निरूपितः॥
इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्री-
निवासदासेन विरचितायां यतीन्द्रमतदीपिकायां जीवनिरूपणं
नामाऽष्टमोऽवतारः॥८॥
नवमोऽवतारः। अथेश्वरो निरूप्यते। सर्वेश्वरत्वं, सर्वशोषित्वं, सर्वकर्मारा- ध्यत्वं, सर्वफलप्रदत्वं, सर्वाधारत्वं, सर्वकार्योत्पादकत्वं, स्वज्ञान- खेतरसमस्तद्रव्यशरीरित्वम् इत्यादीनि ईश्वरलक्षणानि । भयमीश्वरः सूक्ष्मचिदचिद्विशिष्टवेषेण जगदुपादानकारणं भवति । संकल्पविशिष्टवेषेण निमित्तकारणम् । कालाधन्तर्यामिवेषेण म. हकारिकारणं च ।कार्य्यरूपेण विकारयोग्यं वस्तूपादानम् । कार्य- तया परिणामयितृनिमित्तं कार्योत्पत्त्युपकरणं वस्तु सहकारि । य- दा, उत्तरोचरावस्थाविशिष्ट स्वरूपापेक्षया तदनुगुणनियतपूर्वभा- व्यऽवस्थाविशिष्टं यत् तदुपादानम् । यथा घटत्वाऽवस्थावि- शिष्टमृद्रव्यापेक्षया पिण्डत्वाऽवस्थाविशिष्टं तदेव द्रव्यं परिणामौ- न्मुख्यातिरेकेण आकारेण अपेक्षितं कारणं निमित्तम् । अस्मिन् पक्षे सहकारिकारणस्य निमित्तेऽन्तर्भावः । एवं त्रिविधकारणपक्षे कारणद्वयपक्षे च कारणलक्षणलक्षितत्वादखिलजगत्कारणत्वं भ. गवतो नारायणस्यैव संभवति ॥ ननु कथं नारायणे कारणत्वपर्यवसानमिति चेद उच्यते । न्यायसहितवेदान्तवाक्यविचारे एवं पर्यावस्यति । तद्यथा-आदौ तावत् प्रकृतेर्जगत्कारणत्वं नोपपद्यते । ईक्षत्याद्यभावात् ।' छा- न्दोग्ये तावत् सदाकाशप्राणशब्दवाच्यानां जगत्कारणत्वं प्रती- यते । वाजसनेयके ब्रह्मशब्दवाच्यस्य कारणत्वं प्रतीयते । सर्व- शाखाप्रसयन्यायेन कारणवाक्यानामेकविषयत्वे प्रतिपादयितव्ये छागपशुन्यायेन सामान्यवाचकानां सदादिशब्दानां विशेषे ब्रह्मणि पर्यवसांनं वक्तव्यम् । एवमुक्तन्यायेन ब्रह्मशब्दस्य तैत्तिरीयोक्त आत्मशब्दवाच्ये पर्यवसानम् । आत्मशब्दवाच्यः क इत्याकाङ्क्षायां श्रुतिप्रसिद्ध इन्द्रो वा, तथा प्रसिद्धोऽनिर्वा, उपास्यत्वेन प्रसिद्धः सूर्यो वा कारणत्वेन उक्तः। सोमो वा अभीष्टफलपदत्वेन उक्तः।
यतिपतिमतदीपिकायाम् । कुबेरो वा, यमो वा, वरुणो वेति विशये, एतेषां कर्मवश्यत्वपरि- छिन्नैश्वर्यवत्वसंहार्यत्वश्रवणान्न एते जगत कारणभूताः, किन्तु श्वेताश्वतरे शिवस्य कारणत्वं भासत इति भाति । एवमथर्वशिखा- यो शम्भुशब्दवाच्यस्य ध्येयत्वं कारणत्वं भासते । तथैव अ- थर्वशिरसि रुद्रशब्दवाच्यस्य सर्वात्मकत्वं व्यज्यते । तैत्तिरीये हिरण्यगर्भस्य जगत्कारणत्वं प्रतीयते। अत्रापि सामान्यविशेषन्या- याच्छिवशम्भुरुद्रशब्दानां हिरण्यगर्भवाच्याविशेष पर्यवसानं यु- ज्यते । शिवशब्दस्य, शिवमस्तु सर्वजगतां, शिवं कर्मास्तु, पन्थानः सन्तु ते शिवाः-इत्यादिभिर्मङ्गलवाचकत्वम् । रुद्रशब्दस्य अग्नि वाचकत्वम् । एवं महेश्वरशम्भ्वादिसामान्यशब्दा अपि अवयव- वात्या चतुर्मुखे पर्यवस्यन्ति । कारणवाचिशिवादिशब्दानां मुख्यवृत्त्या रुद्रपरत्वं वा किन्न स्यादिति न शङ्कनीयम् । रुद्रस्य चतुर्मुखादुत्पत्तिश्रवणात् । अनपहतपाप्मत्वश्रवणाच्च न रुद्रस्य कारणत्वम् । अतो हिरण्यगर्भप्रजापतिस्वयम्भ्वादिशब्दवाच्ये चतुर्मुखे स्वयम्भ्वादिशब्दाः पर्यवस्यन्ति । एवमपि महोपनिष- नारायणोपनिषत्सुबालोपनिषन्मैत्रायणीयपुरुषसूक्तनारायणांऽनु- वाकाऽन्तामिब्राह्मणादिषु नारायणस्यैव परमकारणत्वसर्वश- ब्दवाच्यत्वमोक्षपदत्वजगच्छरीरित्वादेः प्रतिपादनात स्वयम्भूहि- रण्यगर्भप्रजापतिशब्दानां नारायणे पर्यवसानं युक्तम् । नारायण एवाऽखिलजगत्कारणं, सर्वविद्यावेद्यश्च । नन्वन्तरादिसविद्या रुद्रप- रेति शङ्का न कार्या। तस्या विष्णुपरत्वस्यैव बहुप्रमाणेषु सिद्धत्वात्। भर्गःशब्दस्य सकारान्तत्वप्रतिपादनाच । तर्हि दहरविद्यायामाका. शशब्दवाच्यनारायणांन्तर्यामितया रुद्रस्य प्रतिपादनादहरविद्या रुद्रपरेति न शकनीयम् । नारायणाऽन्तर्वतिगुणजातस्यैव उपा- स्यत्वेन तत्राभिधानात् । एवं सर्वविद्यास्वप्यूह्यम् । अतः समस्त- नवमोऽवतारः। कल्याणगुणात्मकं प्रकृतिपुरुषाभ्यां भिन्नं, ताभ्यां विशिष्टं, परं ब्रह्म जगत्कारणम् । नन्वद्वैतश्रुत्या ब्रह्मात्मैक्यमेव सत्यं निर्गुणं च। तदन्यज्ज्ञातज्ञेया- दिकं तस्मिन्नेव परिकल्पितं सर्व मिथ्या । ब्रह्म अविद्यया संसरति । तत्त्वमसीत्यमेदज्ञानं तनिवर्तकम् । तस्मानिर्विशेषचिन्मात्रे ब्रह्मणि वेदान्तानां तात्पर्यमिति मतान्तरस्थैः प्रतिपादनात् । कथं ना- रायणे तात्पर्य्यम् । तस्य समस्तकल्याणगुणाकरत्वादिकथनश्चेति चेदुच्यते । कारणत्वप्रतिपादकश्रुतिभिर्नारायणस्य कारणत्वे सि- द्धे भेदाभेदश्रुत्योर्घटकश्रुत्या विषयभेदेन अविरोधे प्रतिपादिते निर्गुणप्रतिपादकश्रुतीनां हेयगुणनिषेधकत्वाज्ज्ञातृझेयादिकल्पका- ऽविद्याया एव अमामाण्यात् । ब्रह्मकार्यस्य सत्यत्वाद् । अविद्यया संसारे जीवगतदोषाणांब्रह्मण्यपि सम्भवात्तनिवर्तकान्तरस्य वक्तुम- शक्यत्वादतोऽद्वैतवादस्यासम्भवान्न निर्विशेषचिन्मात्रब्रह्मसिद्धिः । अतोनारायणस्यैव जगत्कारणत्वमोक्षप्रदत्वादिगुणयोगःसम्भवतीति सविशेषमेव ब्रह्म।मूक्ष्मचिदचिद्विशिष्टं ब्रह्म कारणं, स्थूलचिदचि- द्विशिष्टं ब्रह्म कार्यामिति कारणादनन्यत् कार्यामिति विशिष्टाद्वैतवे- दान्तिनां सम्प्रदायः एवमीश्वराङ्गीकारान्निरीश्वरसांख्यमीमांसका- दिमतनिरासः। तस्यैव उपादानत्वस्वीकाराद योगपाशुपतनैय्या- यिकानां मतनिरासः । सैनिमित्तमात्रेश्वराऽङ्गीकाराद् ईश्वरस्य कार्य प्रति उपादानत्वनिमित्तत्ववव कर्तृत्वप्रेरकत्वनियन्तृत्वप्र- काशितृत्वानुमन्तृत्वसहकारित्वोदासीनत्वादिकमप्युपपद्यते । बा- त्ययौवनावस्थादयो दोषा यथा शरीरगता, न तु शरीरिणि जीवे; एवं चिदचिच्छरीरिणः परमात्मनोऽपीति न निर्विकार- श्रुतिविरोधः । नियमेनाधेयत्वविधेयत्वशेषत्वादेः शरीरलक्षणस्य 'जगति विद्यमानत्वाजगच्छरीरी ईश्वरः, तद्वतदोषैरसंस्पृष्टश्च ॥
यतिपतिमतदीपिकायाम् । स चेश्वरो विभुस्वरूपः । विभुत्वं नाम व्यापकत्वम् । तच ईश्वरस्य विधा । स्वरूपतो धर्मभूतज्ञानतो विग्रहतश्च । स चा- ऽनन्त इत्युच्यते । अनन्तो नाम-त्रिविधपरिच्छेदरहितः। त्रिवि- धः परिच्छेदस्तु देशतः, कालतो, वस्तुतः परिच्छेदः। सत्यत्वज्ञानत्वानन्दत्वाऽमलत्वादय ईश्वरस्य स्वरूपनिरूपकया। ज्ञानशत्त्यादयो निरूपितस्वरूपविशेषका धाः। सर्वज्ञत्वसर्व- शक्तित्वादयः सृष्टयुपयुक्ता धाः। वात्सल्यसोशील्यसौलभ्या दय आश्रयणोपयुक्ता धाः। कारुण्यादयो रक्षणोपयुक्तधर्माः। एतेषां स्वरूपं बुद्धिपरिच्छेदे निरूपितमिति इह न प्रपञ्च्यते । अयमीश्वरोऽण्डसृष्ट्यनन्तरं चतुर्मुखदक्षकालादिष्वन्तर्या- मितया स्थित्वा सृष्टि करोति । विष्ण्ववताररूपेण मनुकालाद्यन्त- Oमिरूपेण च स्थित्वा रक्षको भवति । रुद्रकालान्तकादीनाम् अन्तर्यामितया संहारमपि करोति । अतः सृष्टिस्थितिसंहारकर्ता च भवति । एवंप्रकार ईश्वरः परन्यूहविभवान्तर्याम्यर्चावताररूपे- ण पञ्चप्रकारः । तत्र परो नाम त्रिपाद्विभूतौ, कुमुदकुमुदाक्ष- पुण्डरीकवामनशङ्ककर्णसर्वनेत्रसुमुखमुप्रतिष्ठितादिभिर्दिन्यायुध- भूषणपरिजनपरिच्छदान्वितैर्दिव्यनगरपालकैः परिरक्षिते श्रीमद्- वैकुण्ठाख्ये पुरेचण्डपचण्डभद्रमुभद्रजयविजयधातृविधाप्रमृतिभि- रपालकैरुपेते, श्रीमदिव्यालये श्रीमहामाणिमण्डपेधर्माद्यष्टपादवि- रचितसिंहासने शेषपर्य३ दिव्यमङ्गलविग्रहविशिष्टश्चतुर्भुजः, श्री- भूलीलासहितः, शङ्खचक्रादिदिव्यायुधोपेतः, श्रीमकिरीयदि- दिव्यभूषणभूषितः, अनन्तगरुडविष्वक्सेनादिभिर्निसैःसामगानपरै- रन्यैर्मुक्तैश्चानुभूयमानो,ज्ञानशत्याद्यनन्तकल्याणगुणविशिष्टः पर- ब्रह्मपरवासुदेवादिशब्दवाच्यो नारायणः। व्यूहो नाम पर एव उ. पासनाथ जगत्सृष्ट्याद्यर्थं च वासुदेवसंकर्षणप्रद्युम्नानिरुद्धभेदेन नवमोऽवतारः। चतुर्दाऽवस्थितः । तत्र षड्गुणपरिपूर्णो वासुदेवो, ज्ञानवलाभ्यां संकर्षणः, ऐश्वर्यवीर्य्याभ्यां प्रद्युम्नः, शक्तितेजोभ्यामनिरुद्ध इ. ति गुणविभागः ॥ एतेषु चतुर्पा प्रत्येकं त्रयस्त्रयोऽवतीर्णाः केशवादयो न्यूहा- न्तराणि द्वादशमासानां द्वादशादित्यानां च आधिदैवतानि । ऊर्द्धपुण्ड्रेषु तेषामेव स्थानं विधीयते । तत्र कनकप्रभः केशवश्चतु- श्चक्रधरः । श्यामो नारायणश्चतुःशङ्खधरः । मणिप्रभाभो माधवश्व- तुर्गदाधरः।चन्द्राभोगोविन्दश्चतुःशार्ङ्गधरः। पद्मकिअल्कसन्निभो विष्णुश्चतुईलधरः। अन्जाभो मदुसुदनश्चतुर्मुसलधरः। अग्निवर्णस्त्रि- विक्रमश्चतुःखड्गधरः। बालसूर्याभो वामनश्चतुर्वज्रधरः। पुण्डरीकाभ: श्रीधरश्चतुष्पट्टीशधरः। तडित्पभो हृषीकेशश्चतुर्मुद्गरधरः। सूर्याभः पद्मनाभः पञ्चायुधधरः । इन्द्रगोपनिभो दामोदरश्चतुःपाशधरः ॥ विभवो नाम तत्तत्सजातीयरूपेण आविर्भावः । स दशधा। ते च मत्स्यादयोऽवतारविशेषाः । ब्रह्मणे प्रमाणप्रदत्वार्थों मत्स्या- ऽवतारः। अमृतोत्पादने मन्दरधराधारत्वेन अवतीर्णः कूर्मावतारः। आश्रितसंरक्षणार्थ महाऽसुरगृहस्तम्भेऽवतीर्णो नृसिंहः। त्रिविक्रमो भूत्वा स्वपादारविन्दोद्भवेन जलेन जगत्पापहरणेन तद्रक्षणार्थ- मवतीर्णो वामनः । दुष्टक्षत्रियनिरसनार्थ परशुरामः । शरणा- गतरक्षणधर्मस्थापनार्थ श्रीरामः । पलम्बादिनिरसनार्थ बलभद्रः । मोक्षोपायदर्शनार्थं श्रीकृष्णः । कलिनिर्मोचनार्थं कल्क्यव- तारः। एवमेकैकावतारेषु अनन्तप्रकाराः सन्ति । षट्त्रिंशद्भेदभिन्नाः पद्मनाभादयोऽपि । पुनर्दधिभक्तहयग्रीवनरनारायणादयोऽपि । एवं मुख्यगौणपूर्णाशावेशाद्यवतारा बहुप्रकाराः । तेषु उपास्यानु- पास्यविभागो द्रष्टव्यः। अवताराणामिच्छैच हेतुः । न कर्मप्रयोजने हेतुः । दुष्कृतिविनाशपूर्वकं साधुपरित्राणमेव ॥
यतिपतिमतदीपिकायाम् ।
अन्तर्यामित्वं नाम स्वर्गनरकाधनुभवदशायामपि जीवात्मनः
मुहृत्त्वेन योगिभिर्द्रष्टव्यतया हृदयप्रदेशावस्थितं रूपम् । जीवेन
साकं विद्यमानोऽपि तद्गतदोषैरसंस्पृष्टो वर्तते । अर्चावतारो नाम
देशकालविप्रकर्षरहित आश्रिताभिमतद्रव्यादिकं शरीरतया खी-
कृत्य तस्मिन्नमाकृतशरीरविशिष्टः सन्नर्चकपराधीनस्नानभोजना-
SSसनशयनस्थितिः सर्वसहिष्णुः परिपूर्णो गृहग्रामनगरप्रशस्तदेश-
शैलादिषु वर्तमानो मूर्तिविशेषः । स च स्वयंव्यक्तदैवसैद्धमानुष-
भेदाच्चतुर्विधः । एवमुक्तासु पञ्चावस्थास्वपि श्रीविशिष्ट एव भ-
गवान वर्ततं इति श्रुत्या प्रमाणसिद्धोऽर्थः। एतेन एकायनोक्तनि:-
श्रीकवादो निरस्तः । एवमीश्वरो निरूपितः ।।
इति श्रीवाधलकुलतिलकश्रीमन्महाचार्यप्रथमदासेन श्री-
निवासदासेन विरचितायां यतीन्द्रमतदीपिकायाम् ईश्वनिरूप-
णं नाम नवमोऽवतारः ॥९॥
दशमोऽवतार। ४३ एवं द्रव्यानरूपणानन्तरं क्रमप्राप्तमद्रव्यं निरूप्यते । संयोग- रहितमद्रव्यम् । तदद्रव्यं च सत्त्वरजस्तमांसि शब्दस्पर्शरूपरसग- न्धाः संयोगः शक्तिरिति दशप्रकारमेव । तत्र प्रकाशमुखलाघवा- दिनिदानमतीन्द्रियं शत्याद्यतिरिक्तमद्रव्यं सत्त्वम् । तद् द्विविधम् । शुद्धसत्त्वं, मिश्रसत्वं चेति । रजस्तमाशून्यद्रव्यवर्ति सत्त्वं शुद्ध- सत्त्वम् । तन्नित्यविभूतौ उपचारात्तत्पवर्तकेश्वरे च । रजस्तमःसह- वर्तिसत्त्वं मिश्रसत्वम् । तत् त्रिगुणे तत्सम्बन्धिनि जीवे चो- पचारादिति शेयम् । लोभप्रवृत्त्यादिनिदानमतीन्द्रियं शत्याधति- रिक्तमद्रव्यं रजः । प्रमादमोहादिनिमित्तपतीन्द्रियं शल्याद्यतिरि- क्तमद्रव्यं तमः । त्रीण्यप्येतानि यावत्प्रकृतिव्याप्तानि, प्रकृतिव- श्यपुरुषप्तम्बद्धानि, अनित्यानि, नित्यसन्तानानि, मलयदशार्या समानि, सृष्ट्यादौ विषमाणि, सृष्टिस्थितिमंहारोपयुक्तानि, ईश्वर- सङ्कल्पादिसहकारिभेदाद. परस्पराऽभिभवोद्भवकराणि इत्येतानि साधारणानि। सत्त्वगुणस्तु सम्यक्तत्त्वज्ञानरूपमुखादिहेतुः मोक्षपद- श्च । रजोगुणस्तु रागाद्यात्मकः कर्मसङ्गदुःखादिहेतुरुत्पत्तिहेतु: स्वर्गाद्यामुष्मिकमदः । तमोगुणस्त्वज्ञानरूप आलस्यादिहेतुर्नरक- मदश्च । अतः सत्त्वादयो गुणा न द्रव्यरूपाः। अस्मदादिश्रोत्र- ग्राह्यः पञ्चभूतवर्ती शब्दः । स द्विविधः । वर्णात्मकोऽवर्णात्मक- श्चेति । अकचटतपादिविशिष्टपञ्चाशदक्षरात्मको देवमनुष्यादीनां साल्वादिव्यङ्गयः, भेर्यादिजन्योऽवर्णात्मकः । एवंभूतः शब्दः श्रोत्रेन्द्रियेण गृह्यते । श्रोत्रेन्द्रियगमनाद्वा, व्यअकवाय्वागमनाद् वा शब्दग्रहः । ननु श्रुत्या शब्दस्य द्रव्यत्वं प्रतीयते । अद्रव्यत्वं कथमितिचेन्न । अकारादेः प्रणवोपपादकत्वं वाच्यद्वारा मम्भवती- ति परिहाराद् अद्रव्यत्वमुपपद्यते । अस्मदादिस्पर्शनेन्द्रियग्राह्य- विजातीयव्यावर्तमद्रव्यं स्पर्शः। स चत्रिविधः । शीतोष्णाऽनुभ- .
यतिपतिमतदीपिकायाम् । क 1 यात्मकभेदात् । अप्मु शीतस्पर्शः। तेजस्युष्णस्पर्शः । क्षितिपवन- योरनुष्णाशीतस्पर्शः । स च पुनविविधः, पाकजोऽपाकजश्चे- ति । पृथिव्यां पूर्वः, इतरेषु त्रिवितरः। तत्राऽमृतगरलतूलोपल- गोब्राह्मणचाण्डालादिस्पर्शविशेषाः पाकजभेदा इति स्पर्शः॥ अस्मदादिचक्षुरिन्द्रियैकग्राह्यं विजातीयव्यावर्तमद्रव्यं रूपम् । तञ्चतुर्धा श्वेतरक्तपीतकृष्णभेदात् । तत्र सलिलकलधौतशङ्खशुक्ति- शशाङ्कादीनां रूपविशेषाः श्वेतभेदाः । हुतवहजपादाडिमबन्धुजीव- विद्रुमपारागादीनां तु रूपविशेषा रक्तभेदाः । काञ्चनहरिताल- हरिद्रादीनां पीवभेदाः । मरकतमधुकरजलधरतिमिरतमालदूर्वा- दीनां कृष्णभेदाः । पीतमपि रक्ताऽवान्तरभेदं केचिदिच्छन्ति । श्रुत्यनुसारात् । प्रकारान्तरेण द्विविधा भास्वरामास्वरभेदात् । तेजोगतं भास्वरं, क्षितिसलिलगतं चाभास्वरम् । एवं चत्वाग्र्येव रूपाणि । तेन चित्रं नाम पञ्चमं रूपमिति मतनिरासः । अत एव चित्ररसगन्धादिस्पर्शानामपि निरासः । एवं चत्वार्येव रूपाणि ॥ अस्मदादिजिकैकग्राह्यविजातीयेतरो रसः पोढा । स यथा- मधुराम्ललवणकटुतिक्तककषायभेदात् । तत्र इक्षुक्षीरगुडादिरसा मधुरभेदाः। चूतचिश्चाऽमलकादिरसा आम्लाः। सैन्धवोपरविका- रादिभेदा लवणभेदाः । किम्पाकनिम्बादिरसाः कटुकभेदाः। शुण्ठीमरीचीसर्षपादिरसास्तिक्तभेदाः । हरीतकीबिभीतकचूताङ्कु- रादिरसाः कषायभेदा इति रस: अस्मदादिघ्राणग्राह्यो विजातीयेतरोऽद्रव्यविशेषो गन्धः। स द्विविधः सुरभिरमुरभिश्चेति । पाटीरमृगमदघुसृणचम्पकादिगन्धाः मुरभिभेदाः । अयञ्च गन्धः पृथिव्येकवर्ती पाकभेदा भिन्नः । पवनसलिलादिषु गन्धोपलब्धिः पार्थिवसंसर्गाद् अयो दहतीति- बदौपचारिकी । पञ्चीकरणप्रक्रियया सर्वभूतेषु सर्वगुणानां विद्य- दशमोऽवतारः। मानत्वेऽपि प्राधान्याभिप्रायेणोक्तमिति च विरोधः । पाकाद् गुणान्तरोत्पत्तिः। स्वाश्रयनाशाऽभावादेवोपपत्तेः पीलुपाकवादि- मतनिरासः॥ संयुक्तप्रत्ययनिमित्तं संयोगः । स च सामान्यगुणः षड्- द्रव्यत्तिः। अस्य च स्वाभावसादेश्यमुपलभ्यमानमङ्गभेदप्रयुक्त- सया न विरोधावहम् । स कार्याकार्य्यभेदाद् द्विविधः । पूर्व परिमितानाम् उभयप्रेरणात् । यथा मेषयोर्मल्लयोर्वा । कचिदन्य- तरप्रेरणात् । यथा स्थाणुश्येनयोः संयोगः । केचित् संयोगजं संयोगमपि वर्णयन्ति । हस्तपुस्तकसंयोगात कायपुस्तकसंयोग इति । तत्र हस्तसंयोगादेव कायसंयोगः । हस्तस्य कायवाद । एतेन विभागजविभागो निराकृतः । विभागोऽपि संयोगाभाव एव, न पृथग्गुणः । अकार्यसंयोगः, स विभुद्रव्ययोः। अजद्रव्य- संयोगः श्रुत्या अङ्गीक्रियते । अनुमानादप्यजसंयोगसिद्धिः । यथा-विमुद्रव्यं विभुद्रव्यसंयोगवत् । द्रव्यत्वात् । घटवत् । तथा विभुद्रव्यमीश्वरसंयुक्तं द्रव्यत्वात् । पकघटवत् । ईश्वरः कालादि- संयुक्तः। द्रव्यत्वात् । घटवदियादिभिर्विभुसंयोगसिद्धिः॥ अथ शक्तिः। सर्वकारणानां कारणत्वनिर्वाहकः कश्चिदद्र- व्यविशेषः शक्तिः । तांगमाभ्यां तत्सिद्धेः । प्रतिबन्धकमणिम- न्त्रादिसन्निधौ स्वरूपसहकारिवैकल्याभावेऽपि यदुपरोधादहनो न दहति साह्यतीन्द्रिया शक्तिः । अयस्कान्तादिषु तत्प्रसिद्धिः। सा शक्तिः षड्द्रव्यदृत्तिः। भगवनिष्ठत्वं पुराणरत्नादिषु प्रसिद्धम् । एवं सर्वत्रापीति शक्तिर्नाम धर्मविशेषः सिद्धः । ननु चतुर्विशति- प्रकारा गुणा इत्युक्तत्वात् कथं दशैवेति निर्दिश्यत इतिचेदु- च्यने । जीवात्मविशेषगुणानां बुद्धिमुखदुःखेच्छाद्वेषप्रयत्नानां प. ण्णां ज्ञानविततिरूपत्वेन ज्ञानान्तर्भावस्य उक्तत्वात् । धर्माधर्म-
No text on this page.
दशमोऽवतारः।
४७
भज्य द्वेषा निरूपयन्त्यृषयः । श्रुत्यनुसाराद् भोक्तृभोग्यनियन्त-
रूपं तत्त्वत्रयमिति प्रतिपादयन्त्याचार्याः । हेयं, तस्य निवर्तकम्,
उपादेयं, तस्योपायं चतुर्दा विभज्यानुसन्दधते । केचिदाचार्याः
माप्यं, प्राप्ता, प्राप्त्युपायः, फलं विरोधीति पञ्चधा निरूपयन्ति ।
अर्थं पञ्चधा निरूपयन्ति । अर्थपञ्चकमेव सम्बन्धेन साकं पोढा
परिगणय्य वर्णयन्ति । एतेषां तत्तद्विभाजकधर्ममादायानुसन्धान-
मुपपद्यते ॥
वस्तुतस्तु वेदान्तानां चिदचिद्विशिष्टाऽद्वैतमेकमेव ब्रह्मनि
तात्पर्यम् । अत एव चिदचिद्विशिष्टं ब्रह्मैकमेवेति मत्वा भगवान्
बादरायणः, अथाऽतो ब्रह्मजिज्ञासेति उपक्रम्य, तमेव प्रकारं नि-
रूपितवान् । अतश्चिदचिद्विशिष्टो ब्रह्मशब्दवाच्यो विष्ण्याख्यः
परवासुदेवो नारायण एवैकं तत्त्वामिति विशिष्टाद्वैतवादिनां दर्शन-
मिति सिद्धम् ॥
इति विविधविचित्रं मानमेयप्रकाश
घनगुरुवरदासेनोक्तमादाय शास्त्रात् ।।
यतिपतिमतदीपं वेदवेदान्तसारं
स भवति मतिमान् यः सत्कटाक्षकलक्ष्यः॥ १ ॥
इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यप्रथमदासेन श्रीमद्-
वेङ्कटगिरिनाथपदकमलसेवापरायणस्वामिपुष्करिणिगोविन्दाचार्य-
सूनुना श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायामद्रव्य-
परिच्छेदो नाम दशमोऽवतारः ॥ १० ॥
श्रीगणेशाय नमः। अथ सकलाऽऽचार्यमतसंग्रहः । अथ श्रीविष्णुस्वामिशुद्धाद्वैतमतम् । तथाहि । विशेषैः प्राकृतैः शून्यमप्राकृतविशेषवत् ॥ अशेषोपनिषद्वेद्यं परं ब्रह्माऽस्तु ते मुदे ॥ १॥ ननु कथमयमपूर्वस्य प्रस्तावः । ननु कथमस्यापूर्वत्वम् ? निखिलप्रमाणसिद्धत्वादितिचेन्न । सर्वागमविरुदत्वात् । तथाहि । सर्व स्वल्विदं ब्रह्म, तजलानिति, अहं सर्वस्य जगतः प्रभवः प्र- लयस्तथा, जन्माद्यस्य यतः शास्त्रयोनिवादित्यादिश्रुतिस्मृति- सूत्रैः सर्वस्यापि जगतो ब्रह्मात्मकत्वेऽवधारिते तदन्तःपातिनाम- पि तेषां ब्रह्मत्वमेवेति, कथं च तनिषेध(१) इति चेत् । सत्यम् । एकाकी न रमते, स द्वितीयमैच्छत्, एकोऽहं बहु स्यामिति श्रुत्ये- कवाक्यतायां रमणार्थमेव नामरूपवैचित्र्येण स्वाविर्भावेच्छां कृत- वानित्यर्थों लभ्यते । वैचित्र्यं चोच्चावचकृतम् । तच न्यूनाधिका- शमन्तरा न संभवतीति अचिन्त्यशक्तित्वात् सच्चिदानन्दांशानेव यथानुरूपेणाऽतिरोभाव्य जडजीवान्तर्यामिरूपेण स्वयं प्रादुर्भूतः। यथा सुदीप्तात् पावकाद् विस्फुलिङ्गाः सहस्रशः प्रभवन्ति एवं सोम्य भावा इत्यादि श्रुतेः । आविर्भावस्तु विद्यमानस्य वस्तुनो- ऽनुभवविषयता योग्यत्वम् । तदयोग्यत्वं च तिरोभावः । अत्र अनुभवस्तु जैवो ग्राह्यो, जीवान्तर्यामिसाधारणो वा । तत्र तिरो- हितचिदानन्दांशत्वेन जडत्वं, तिरोहितानन्दत्वेन जीवत्वम्, आ. विर्भूतानन्दत्वेन ब्रह्मत्वम्, अतिरोहितसच्चिदाद्यंशवयत्वमन्तर्यामि- (१) विशेषैः प्राकृतैः शून्यमित्यनेनेत्यर्थः ।
सकलाऽऽचार्यमतसंग्रहे। त्वमिति । एवमेव भगशब्दवाच्यानामैश्वर्यादिषण्णामपि धर्मा- णां तिरोभावम् अविद्यासंबन्धेन जीवे कृतवान् । तथैव बन्धो जन्म- मरणदेहादिरागरूपो विरीतज्ञानं च अविद्ययैव । बन्धोऽस्यावि- घयैवेति वाक्यात् । जीवस्यान्यप्रयोजनाभावात् । जडे तु चित- श्च। जडजीवरूपब्रह्मण्यऽब्रह्मत्वेन ज्ञानं भवति तिरोभावादेवैश्वर्या- दीनाम् । तथा तत्तिरोभावश्चेतनधर्मत्वात्तेषाम् । तथाचैतादृशस्य जीवस्याविद्यकं ब्रह्मखरूपेषु तद्धर्मेषु च विपरीतज्ञानं भवति । सत्यत्वायनेकालौकिकधर्मेषु च असत्यत्वविकारित्वाद्यनेकलौकि- कत्वेन ज्ञानं च भवति । एवञ्च सति अविद्यासंबन्धेन विषयीकृ. ता लौकिका ये जडजीवधर्मास्त एवं प्राकृतविशेषास्तेषामनाश्रय- त्वात् तैः शून्यमित्यर्थः । प्रकृतिसंबन्धसहकृतेन्द्रियजन्यज्ञानविषय- वं प्राकृतत्वमिति । प्रमाणं चात्र निषेधिकाः श्रुतयः । एतेन निषेधश्रुतयोऽपि विषयप्रदर्शनमुखेन व्याख्याता ज्ञेयाः। यद्यप्येतादृशनिषेधेनैव ' वक्ष्यमाणार्थसिद्धिस्तथापि विशेष- खावच्छिन्नस्य प्राकृतत्वात् तदितरधर्माणां चामसिद्धविधायक- श्रुतेश्चान्यपरत्वानिर्विशषमेव ब्रह्म सिद्धयतीति मतान्तरब्युदस्तये विशेषणान्तरमाहुः ॥ अप्राकृतेति ॥ न प्राकृता अप्राकृताः, प्रक- तिसंबन्धसहकृतेन्द्रियाऽविषयाः । ईदृशविशेषवदित्यर्थः । प्रमाण चात्र पूर्वोदाहृतश्रुत्याद्याकलनीयम् । ननु पूर्बोदाहृतश्रुत्यायुदाहृत- कर्तृत्वाऽऽदिधर्माणां मायिकत्वात् कथं तथात्वमिति चेन्मैवम् । तेषां मायिकत्वे प्रमाणाभावाद । ननु निषेधश्रुत्यनुरोधात् तथा कल्प्यते । नैतद्युक्तम् । निषेधश्रुतेः प्राकृततद्विषयत्वात् । अन्यथा पाणिपादादिमत्त्वं निषिद्धय, जवनेसादिना, पराऽस्य शक्तिरि- त्यादिना च क्रियाज्ञानविधानवैयापचिः । नन्वन्तःकरणशुद्धि- हेतूपासनार्थत्वात् तेषां न वैयर्थ्यम् । निर्विशेषस्य ,ध्यात्मश- श्रीविष्णुस्वामिमतम् । : क्यत्वात् । उपासनार्थमलौकिकानामेव तेषां विधानमितिचेन्न । लोकप्रसिद्धत्तन लौकिकत्वादितिचन्मैवम् । पादादिसाधनरहित. जवनादिक्रियाया अलौकिकत्रे च सर्वरूपज्ञानार्थं निर्धर्मकत्ववि. धानम् । उपास्त्यर्थे तु धर्मविधानमिति वाक्यभेदापत्तेः । भ्रान्ति- प्रतिपञ्चविषयवैशिष्टयेन उपासनाया अन्तःशुद्धरजननाच्च । अन्यथा सन्तपूइत्यादिनिन्दाश्रुनेश्च । नचाऽसतोऽपि वैशिष्टय- ज्ञानं शाखाचन्द्रन्यायेन स्वरूपावगतिसाधनमिति नैतदोषावसर इति वाच्यम् । दृष्टान्तवैषम्यात् । न हि शाखावद् ब्रह्म मसक्ष, य- स्मिश्चन्द्र इत्र धर्म आरोप्यते । नापि पाणिपादादिराहित्येऽपि जवनग्रहीतृत्वादयो धर्माः कचित् प्रत्यक्षाः । तथाचाधिष्ठाना- धिष्ठेययोरप्यप्रत्यक्षवान दृष्टान्तबलेन तत्सिद्धिः। किञ्च, आरोपो हि अन्यधर्मस्यान्यत्र स्थापनम् । इत्यञ्च सति स्वनिरूप्यधर्माणां लोकासिद्धतया अन्यदीयत्वाभावादारोपलक्षणासङ्गते रोपोऽपि वक्तुं शक्यः । अत एव निषेधविषयत्वमपि तेषाम् । प्रतीतस्यैव निषेधात् । नच लोके अस्मदृष्ट्यविषयत्वेऽपि श्रुतिदृष्टिगोचर- खेन आरोपनिषेधौ नानुपपन्नाविति वाच्यम् । लोके मूर्तामूर्तवि- लक्षणरूपसच्चे, द्वे वा वेति श्रोतविरोधात् । नचेदमस्मदज्ञानानु- वाद इतित्राच्यम् । तथापि तयोरनुपपत्तेः। ननु कथमितिचेदि- त्यम् । श्रुतिर्हि दोषदृष्ट्या किं तान् विषयीकरोति शुक्तिरजत- वत्, कि वा गुणदृष्टया रजतत्ववति रजते रजतत्ववत् । नायः। रजनवदन्यत्रादर्शनेन तद्धर्मानुत्पत्तेः।नचास्मदादिवत् तासामविद्या- वशाद विपरीतज्ञानम् । जीववत् तासामविद्यासम्बन्धानुक्तेः। द्वि- तीये तु निषेधानुपपत्तेः । ब्रह्मणः सदैकरमत्वान्नावस्थाभेदः। किञ्च, उपासनार्थमसदुपदेशे प्रतारकत्वापत्तेश्च । तथाच धर्माणां मायिकताभावात् सिद्धमप्राकृतधर्मवत्वं ब्रह्मणः । अत्रैव हेतु- सकलाऽऽचार्यमतसंग्रहे। गर्भविशेषणमाहुः ॥ अशेषोपनिषद्वेद्यमिति ॥ सर्वोपनिषत्प्रतिपा- यमित्यर्थः । अस्य तत्त्वं वित्थं बोध्यम् । तथाहि । यदि धर्माः प्राकृताः स्युस्तहि तद्विशेषं ब्रह्म भवेत् । तथा सति तत्प्रतिपादक- वेदान्तानाम् अब्रह्मपरत्वे, सर्वे वेदा यत्पदमित्यादिवाक्यानि कु- प्येरन् । औपनिषदत्वमपि साधारणं स्यादत ईदृशवाक्याऽन्यथा- ऽनुपपत्तिरेव विशेषाणामप्राकृतत्वं साधयतीति मुधीभिरवसेयमिति। किञ्च, ब्रह्ममाययोः कः संबन्धः ? । न तावत् संयोगः । अत्र संयोगनिषेधात् । उभयोरन्यतरास्थितेरनाश्रितत्वादुभयोर्न समवायः। नापि स्वरूपलक्षणः। विशेषणविशेष्यादिभावाभावेन तस्य वक्तुमशक्यत्वात् । नन्वस्तु विशेषणविशेष्यभावो दोषा- ऽभावात् । नैवं वक्तुं शक्यम् । तथाभावे ब्रह्मणः सधर्मकत्वाप- त्तरेव दोषत्वात् । अथ कर्तृत्वादिधर्मवद्विशेष्यत्वमपि मायिकमि- ति न तदापत्तिर्वास्तवत्वाभावात् । तत्र मायिकत्वं, मायाजन्यत्वं ? मायासम्बन्धेन प्रतीयमानत्वं वा ?। आये ब्रह्मणः सधर्मकत्वा- पत्तिः। द्वितीये असङ्गश्रुतिविरोधः । ननु न ब्रह्मणि मायासं- बन्धं बमोऽपि तु जीवे इति । तथाच जीवनिष्ठया दोषरूपया तया विचित्रा धर्माः प्रसाय्यन्ते, आरक्ताद्युपनेत्रवदिति चेन्न । ब्रह्माभिन्नत्वेन तथा वक्तुमशक्यत्वात् । तादृशोपनेत्रवन्मायायास्त- द्धमत्वापत्तेश्च । तथाच सम्बन्धस्य वक्तुमशक्यत्वेन औपाधिक- भेदासम्भवादप्राकृतानेकधर्मवत्तया सर्वोपनिषद्वेद्यत्वं सिद्धं ब्रह्मण इति दिक् ॥ उक्तविशेषणविशिष्टं वक्तुं विशेष्यत्वेन निर्दिशति । परमि- ति । सामान्येन परत्वस्येन्द्रियादिष्वपि, इन्द्रियाणि पराण्याहु- रिति वाक्येन उक्तत्वात् ॥ ब्रह्मेति ॥ सर्वेभ्यो यत्परं ब्रह्म तदि- त्यर्थः । नच ब्रह्मपदलेनैव परत्वे प्राप्ते परपदानर्थक्यमिति वाच्य- श्रीरामानुजाचार्यमतम् । म् । इन्द्रियादिपरत्वस्य ज्ञेये ब्रह्मण्यपि सत्वाव, ततोऽपि परत्व- बोधनेन सार्थक्यात् । ननु, “महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गति" रिति श्रुत्या, इन्द्रियाणि पराण्याहुरिति स्मृत्या च ब्रह्मणोऽन्यस्य प- रत्वाभावात् कथं तत्परत्वमिति चेदत्रोच्यते । उक्तश्रुतिवाक्ये पुरुषपदं न परब्रह्मवाचकं, किन्त्वक्षरब्रह्मपरम् । स्मृतेश्च तदनुया- यित्वात् । तत्रापि बुद्ध्यपेक्षत्वेन अक्षरं ब्रह्मैव ज्ञेयम् । नचात्र प्रमाणाभावः । द्वाविमौ पुरुषौ लोके क्षरश्वाक्षर एव चेति सद्भा- वात् । तथा द्वाविमावितिवाक्यानुरोधात, क्षरस्य परत्वासम्भवाच्च अक्षरवाचकमेव तत्र पुरुषपदम् । उत्तमः पुरुषस्वन्य इति परमात्म- पदेन तत्पृथक् परब्रह्मनिर्देशाच्च । तथाचैतादृशं ब्रह्म वाञ्छितम- दानेन ते मुदे प्रीतये अस्वित्याशीर्वचनम् ॥ अथ रामानुजाचार्यविशिष्टाद्वैतमतम् । तथाहि । अचिद्वस्तुनः खरूपतः स्वभावतश्च अत्यन्तविलक्षणस्तदात्मभूतश्चेतनः प्रत्यगा- ऽऽत्मा । तस्माद् बद्धान्मुक्तान्नित्याच निखिलहेयप्रसनीकतया क- ल्याणकतानतया च सर्वावस्थचिदचियापकतया च नियन्तृतया शेषितया च अत्यन्तविलक्षणः परमात्मा । तदुक्तं भगवता । द्वा- विमौ पुरुषौ लोके क्षरश्चाक्षर एव च *क्षरः सर्वाणि भूतानि कू- टस्थोऽक्षर उच्यते * उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः * यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वर इति । श्रुतिश्च, प्रधानक्षेत्र- ज्ञपतिर्गुणेशः, पति विश्वस्यात्मेश्वरम्, अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित इत्यादिका। सूत्रकारश्चैवं वदति, नेतरोऽनुपपत्तेः, भेदव्यपदेशात्, अनुपपत्तेस्तु न शारीर इत्यादिभिः।नचाऽविद्या- कृतं भेदमाश्रित्यैते निर्देशाः । इदं ज्ञानमुपाश्रित्य मम साधर्म्य. मागताः * सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च * तदा * 8 सकलाऽऽचार्यमतसंग्रहे। विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति । मुक्तोप- सृष्यव्यपदेशाच्च । भोगमात्रसाम्यलिंगाच्चेति । सर्वाविद्योपाधि- विनिर्मुक्तस्यैत्र भेदोपपादनात् । श्रुतिस्मृतिमात्रेषु सर्वत्र भेदनि- देशे चिदचिदीश्वररूपभेदः स्वाभाविको विवक्षित इति निश्ची- यते । सर्वं खल्विदं ब्रह्म, तजलानिति, शान्त उपासीत, वाचा. रम्भणं विकारो नामधेयं मृत्तिकेत्येत्र सत्यम्, सदेव सोम्येदमग्र आसीत्, एकमेवाद्वितीयम्, तदैक्षत बहु स्यां प्रजायेयेति, तत्तेजो- ऽस्जत, सन्मूलाः सोम्येमाः प्रजाः सदायतनाः सत्प्रतिष्ठाः, ऐत. दात्म्यमिदं सर्वम्, तत्सत्यम्, स आत्मा, तत्त्वमसि श्वेतकेतो, क्षे. त्रज्ञं चापि मां विद्धि, तदनन्यत्वमारम्भणशब्दादिभ्य इति परस्य ब्रह्मणः कारणत्वं, कृत्स्नस्य चिदचिदात्मकप्रपञ्चस्य कार्यत्वम् । कारणात् कार्यस्यानन्यत्वं चोच्यमानमेवोपपद्यते । सर्वावस्थचिद- ऽचिवस्तुनः परमात्मशरीरत्वं, परमात्मनश्चात्मत्वम् । यः पृथिव्यां तिष्ठन् यं पृथिवी न वेद यस्य पृथिवी शरीरं, यश्चात्मनि तिष्ठन् यस्यात्मा शरीरमिति, यस्याव्यक्तं शरीरम्, एष सर्वभूतान्तरात्मा अपहतपाप्मा, दिव्यो देव एको नारायणः, अन्तःपविष्टः शास्ता जनानां सर्वात्मा इत्यादिश्रुत्यैवोपदिष्टमिति । सूक्ष्मचिदचिद्वस्तुश- रीता परमात्मा कारणम् । स एव परमात्मा स्थूलचिदचिद्वस्तुश- रीरः कार्यमिति कारणावस्थायां कार्यावस्थायां च चिदचिद्वस्तु- शरीरनया तत्पकारः परमात्मैव सर्वशब्दवाच्य इति परमात्मशब्देन सर्वशब्दसमानाधिकरणलं मुख्यमेवोपपन्नतरम् । अनेन जीवेनात्म- नाऽनुमविश्य नामरूपे व्याकरवाणि, तत्सृष्ट्वा तदेवानुपाविशदिति श्रुतिरेवेममर्थमुपपादयति । सर्वात्मतयाऽनुप्रविश्य तच्छरीरत्वेन सर्वप्रकारतया स एव सर्वशब्दवाच्या भवतीत्यर्थः । बहु स्यामिति घभवनसंकल्पोऽपि नामरूपविभागानई सूक्ष्मचिदचिद्वस्तुशरीरतया श्रीरामानुजाचार्यमतम् । एकधाऽवस्थितस्य विभक्तनामरूपचिदचिद्वस्तुशरीरतया बहुप्रकार- ताविपय इति हि वेदवित्प्रक्रिया ॥ ये पुनर्निविशेष कूटस्थं स्वप्र. काशं नित्यचैन्यमात्रं ब्रह्म ज्ञातव्यतयैवोक्तमिति वदन्ति तेषां, जन्माद्यस्य यतः,शास्त्रयोनित्वात्, तत्तु समन्वयात्. ईक्षतर्नाऽशब्द- म्, जगदव्यापारवर्जम्, भोगमात्रसाम्यालङ्गाचेत्यादिसूत्रगणस्य ब्रह्मणो जगत्कारणत्वस्य बहुभवनसंकल्परूपेणेक्षणाधनन्तविशेषप्र- तिपादनपरत्वात् तानि सूत्राणि; यतो वा इमानि भूतानि जा- यन्त, तदैक्षत बहु स्यां प्रजायेयेत्याद्याः सर्वाः श्रुतयश्च न संगच्छ- न्ते । अथोच्यते, येनाश्रुनमिति एकविज्ञानेनः सर्वविज्ञानं प्रतिज्ञाय यथा सोम्यैकेन मृत्पिण्डे नेत्येक मृत्पिण्डाख्यघटशरावादीनां मृत्पि- ण्डादनन्यतया तज्ज्ञानेनैव तेषां ज्ञानं, तथैव ब्रह्मज्ञानेन तदारब्ध. स्य कृत्स्नस्य चिदचिदात्मकस्य जगतस्तदनतिरिक्तवस्तुतया ज्ञान- ता संभवतीति उपपाद्य, सदेव सोम्येदमग्र आसीदे कमेवाद्वितीयमि- ति इदं शब्दस्य चिदचिदात्मकस्य प्रपञ्चस्य स्टेः प्राग् निखिल. भेदप्रहाणेन सच्छब्दवाच्यतयैकधापत्तिं घटशरावाद्युत्पत्तेः माग् उत्पादकमृत्पिण्डैकापत्तिवदभिधाय, नदेक्षत, बहु स्यां प्रजा- येयेति, तत्तेजोऽसृजतेत्यादिना तदेव सच्छब्दवाच्यं परं ब्रह्मः चिदचिदात्मकप्रपञ्चस्वरूपेण आत्मनो बहुभवनम्, एकमृत्पिण्डस्य घटशरावादिरूपेण बहुभवनवत् सङ्कल्प्याऽऽत्मानमेव तेजःप्रभृति- जगदाकारणासृजनेति चाभिधाय, ऐतदात्म्यमिदं सर्व, सत्सत्वं, म आत्मा तत्त्वमसीत्यभिधानात् । ब्रह्मैकमेव अविद्याकृतेन अफर- माथिकेन उपाधिना सम्बद्धं देवादिरूपेण बहुभूतमिति वैदिकैर- भ्युपगन्तव्यमिति यत्तदयुक्तम् । ज्ञाऽज्ञौ द्वावजावीशानीशी, नित्यो नित्यानां चेतनश्चेतनानाम् एको बहूनां यो विदधाति कामान् इत्यादिश्रुतिभिर्जीवानामजत्वनित्यत्वबहुत्ववचनात् ।
सकलाऽऽचार्यमतसंग्रहे। ८ यदि घटशरावादेरुत्पत्तेः प्रागेकीभूतस्य मृद्रव्यस्य उत्पत्त्युत्तर- कालभाविबहुत्ववत्सृष्टेः प्रागेकीभूतस्यैव ब्रह्मणः सृष्टयुत्तरकालना- नाविधजीवरूपेण बहुत्वमुच्येत तदा जीवानामजत्वनित्यत्वबहुत्वादि विरुद्ध्येत, पूर्वोक्तस्त्रविरोधश्च । इतरव्यपदेशाद्धिताकरणादिदोष- प्रसक्तिरिति ब्रह्मैव देवमनुष्यादिजीवरूपेण बहुभूतं चेत्तदात्मनो हिताकरणादिदोषप्रसक्तिरित्युक्त्वा, अधिकं तुभेदनिर्देशांदिति जी- वादब्रह्मणोऽर्थान्तरत्वमुक्तम्।तथाच, वैषम्यनैघृण्येन सापेक्षत्वादिति देवादिविषमसृष्टिप्रयुक्तपक्षपानवैषम्यनैघण्ये न, सापेक्षत्वादिति जीवानां पूर्वपूर्वकर्मापेक्षितत्वाद् विषमसृष्टेरिति परिहते; तथा, न कर्माविभागादितिचेन्नानादित्वाद, उपपद्यते चाप्युपलभ्यते चेति, सदेव सोम्येदमग्र आसदकमेवाद्वितीयमिति सृष्टेः प्रागविभागव- चनाव सृष्टेः प्राग् जीवानामभावात् तत्कर्म न संभवतीति परिचो. द्य जीवानां तत्तत्कर्मप्रवाहाणां चानादित्वादिति परिहृतम् । नात्मा श्रुतेनिसत्वाच्च ताभ्य इत्यात्मन उत्पत्त्यभावश्चोक्तः । नित्य- वं चामोक्षाज्जीवभेदस्यानादित्वं सर्वैरिष्टं हि वेदान्तवादिभिरभ्यु- पगम्यते । अतः सूत्रविरोधात् स्वाभ्युपगमविरोधाच्च सृष्टेः मा- गेकत्वावधारणं नामरूपविभागानर्हाभिप्रायम् । नामरूपविभागान- ईसूक्ष्मचिदचिद्वस्तुभेदसहं चेति सर्वेरेवाभ्युपगम्यते । इयॉस्तु वि. शेषः । अविद्याकल्पनेऽपि उपाधिकल्पनेऽपि ब्रह्मव्यतिरिक्तस्य अविद्यासम्बन्धिनश्च उपाधिसम्बन्धिनश्च चेतनस्याऽभावाद् अवि- योपाधिसंबन्धे तत्कृताश्च दोषा ब्रह्मण्येव भवेयुरिति । सन्मात्रब- मवादेऽपि प्राक् सृष्टेः सन्मात्रं ब्रह्मैकमेव सृष्टयुत्तरकाले भोक्त- भोग्यनियन्तृरूपेण त्रिधाभूतं चेद् घटशरावमाणिकवज्जीवेश्वरयो. रपि उत्पत्तिमत्त्वमानित्यत्वं च स्यात् । अथैकधापत्तिवेलायामपि भोक्तभोग्यनियन्तृशक्तित्रयमवस्थितामिति चेत् । किमिदं शक्ति- sal श्रीनिम्बादित्याचार्यमतम् । अयशब्दवाच्यमिति विवेचनीयम् । यदि सन्मात्रस्यैकस्यैव भोक्तृ- भोग्यनियन्तृरूपेण परिणामसामर्थ्य शक्तित्रयशब्दवाच्यम्, तहिं मृत्पिण्डस्य घटकारावादिपरिणामसमर्थस्य तदुत्पादकत्वमिव ब्रह्मण ईश्वरादीनामुत्पादकत्वमिति तेषामभ्युपगमे च तदुत्पाद्यत- येश्वरादीनामनित्यत्वप्रसङ्गाच्च । त्रयाणां नामरूपविभागानहसू- मदशापत्तिरेव पाक सृष्टेरेकत्वावधारणावस्थेयमिति वक्तव्यम् । तथा तेषामब्रह्मात्मकत्वादेकत्वावधारणं विरुद्ध्येत । अतः सर्वाव- स्थचिदचिद्वस्तुनो ब्रह्मशरीरत्वश्रुतेः सर्वदा सर्वशब्दैब्रह्मैव तत्त- च्छरीरतया तत्तद्विशिष्टमेवाभिधेयमिति स्थूलचिदचिद्वस्तुविशिष्टं ब्र- झैव कार्यभूतं जगत् । नामरूपविभागानहसूक्ष्मचिदचिद्वस्तुवि- शिष्टं ब्रह्मैव कारणमिति तदेव मृत्पिण्डस्थानीयं, सदेव सोम्येदमन आसीद् एकमेवाऽद्वितीयमित्युच्यते । तदेव विभक्तनामरूपचिद- ऽचिद्वस्तुविशिष्टं कामिति सर्व समअसमिति । श्रुतिन्यायविरो- धश्च तेषां भाष्ये प्रपञ्चित इति नेह प्रतन्यते ॥ इति श्रीरामाऽनुज- मतविवेकः॥ अथ श्रीनिम्बादित्याचार्यस्य भेदाभेदमतम् । तथाहि- ज्ञानस्वरूपं च हरेरधीनं शरीरसंयोगवियोगयोग्यम् ॥ अणुं हि जीवं पतिदेहभिन्न ज्ञातृत्ववन्तं यदनन्तमाहुः ॥ अस्यार्थः । ज्ञानं चेतनं स्वयज्योतिःस्वरूपं करणव्यापा- रायत्तप्रकाशशून्यम् । तेषामपि प्रकाशकत्वात् । अनेन तार्किका- दिपक्षो व्यावय॑ते । चकारो देहादिवर्गवैलक्षण्यसमुच्चयार्थको बाह्य- पक्षनिरसनपरः । बदानां विशेषमाह ॥ शरीरसंयोगवियोगयो- - १० सकलाऽऽधार्यमतसंग्रहे। ग्यमिति ॥ अव शरीरशब्दस्तु तत्कारणभूताऽनादिकर्मात्मकावि- घोपलक्षणार्थः । कार्यकारणयोरभेदात् । अनादिकर्मरूपाविद्याव- च्छेदलक्षणबन्धाहवे सति तन्नित्तिपूर्वकभगवद्भावाप्तिलक्षण- मोक्षाहमिति यावत् । किंपरिमाणकोऽसौ प्रत्यगात्मा इत्याशङ्का- यां, वैभवमाध्यमपरिमाणवादिताकिकादिबाह्यादिपक्षौ निराक- रोति ॥ अणुमिति ॥ अणुपरिमाणकमिति यावत् । एषोऽणु- रात्मा चेतसा वेदितव्य इत्यादिश्रुतेः । यत्तूक्तं- विमुरात्मेति । तत्तुच्छम् । तथाहि । विभुत्वे बहुत्वम् । एकत्वं वा प्रत्यगात्मन इति विवेचनीयम् । नाधः । सर्वेषामपि विभूनां प्रत्यगात्मनां सर्वमूर्नसंयोगत्वाविशेषात् सर्वैर्मनोभिः सह नित्यसंयुक्तम् । तथा च सर्वेषां सर्वान्तरदृत्तिज्ञातृत्वापत्तेः। अहं त्वमयमिति प्रत्यया. नां विनिगमनाविरहेण विभागाभावापत्तेश्च । आत्मत्वेन मन:- संयोगवत्वेन च विशेषाभावात् । नचात्मत्वसाम्येऽपि तत्तत्कर्म- जन्य संस्कारविशिष्टमनोवलक्षण्यादीनां परस्परं भिन्नत्वेन निया- मकानां सत्त्वानोक्तदोषावकाश इति वाच्यम् । तत्तत्कर्माऽदृष्टा- दीनामपि नियामकवेनाऽभ्युगतानां परस्परं भिन्नानामपि सर्वे- परमात्मसम्बन्धाविशेषात् । तत्राप्यन्यकल्पनेऽनवस्थापत्तश्च । न द्वितीयः । तत्राप्येकस्य विभोरात्मनः म.रन्तःकरणरूपोपाधि- भिरवच्छि नत्वात् सर्वेषामुपहितानां सर्वज्ञातृत्वं समानम् । अन्यथा स्वस्य चैकैकस्मिन् देशे वर्तमानानाम् अन्तःकरणानां सम्बन्धेन तत्तद्दुःखाधननुभवत्वाभ्युपगमे देवदत्तस्य स्वशिरपादाद्यवयव- वृत्तिवेदनाऽनुसन्धानाभावप्रसङ्गात् ।। प्रतिदहभिन्न मितिदेहं देहं प्रति भिन्नं प्रतिदेहभिन्नं, ब्रह्मादिस्था- वरान्तेषुचतुर्विधेष्वपि देहेषुस्वरूपेणैव भिन्नामिति यावत् । एतेन प्र- त्यगात्मनां मिथोभेदसिद्ध्या एकजीववादोऽपि निरस्तः । अन्यथा श्रीनिम्यादित्याचार्यमतम् । ११ एकस्मिन्नपि मुप्तेमूच्छिते वा निखिलस्याऽप्रतीत्यापत्तिः । एतेनैव मुखादिगुणसाङ्कर्यशङ्काऽपि दूतो निरस्ता भवति ॥ ज्ञातृत्व- वन्तमिनि ॥ ज्ञानाश्रयम् । द्रष्टा भोक्ता श्रोता रसयिता घ्राता मन्ता बोद्धा विज्ञानात्मा पुरुष इति श्रुतेः ॥ यदनन्तमाहु- रिति ॥ जीवसंख्यानिरूपितावसानशून्यम् । असंख्याकमिति यावत् ॥ एवं तावत् प्रत्यगात्मनां स्वरूपगुणपरिमाणसंख्याविशेषेषु प्रमाणपूर्वकं निरूपितेषु सत्सु तथाभूतप्रमाणसिद्धस्वरूपकपरमा- ऽर्थतद्वस्तु चेत् कथं नानुभूयते इति शङ्कां परिहरन विशिनष्टि । अनादिमायापरियुक्तरूपं खेनं विदुवै भगवत्मसादात् ॥ मुक्तं च बद्धं किल बद्धमुक्तम् प्रभेदबाहुल्यमथापि बोध्यम् ॥ अघट्घटनापटीयस्या मायया गुंणमय्या परियुक्तम् । परिवे- टितसंकुचितरूपम् । श्रीभगवतः पुरुषोत्तमात् पराङ्मुखतया अनादिकर्मकाविद्यावच्छि नत्वा देहेन्द्रियादिलक्षणमायागुणाब्धि- तरङ्गार्दितस्वरूपत्वेन अत्यन्तसंकुचितज्ञानवान्नानुभूयते इत्यर्थः । नन् तर्हि, गौरनाद्यन्तवतीत्यादिश्रोमीयागुगावाहस्यानाद्य- तत्वात् कदाचिदपि तज्ज्ञानं न स्यात् । तथात्वे च तजिज्ञासा- यास्तत्प्रतिपादकशास्त्रस्य च वैयर्थं स्यादत आह ॥ एनमिात ॥ एनं प्रमाणसिद्धमपि प्रत्यगात्मानं श्रीभगवतः पुरुषोत्तमस्यानु- ग्रहाद्विदुः । भगवदीयानादिमायाविमुक्तसत्संप्रदायानुयायिन इति शेषः । एतदुक्तं भवति । मायाया अनाद्यनन्तत्वेऽपि क्षेत्रज्ञविशेष- विषयकनिमित्तकबन्धमोक्षयोरीश्वरस्यैव प्रदातृत्वेन नियामकत्वं न मायायाः । संसारबन्धस्थितिमोक्षहेतुरित्यादिश्रुतेः । तस्माच- सकलाऽऽचार्यमतसंग्रहे । द्विषयकज्ञानसंकोचलक्षणाऽज्ञाननिवृत्तौ तज्ज्ञानविकाशो भवत्येव । घटस्थदीपस्य तदात्मकमतिबन्धसंकुचितप्रभस्य घटात्मकप्रतिब- न्धनिवृत्तौ तत्पभाप्रकाशवत् । तस्माज्जिज्ञासायाः सार्थकत्वान्न शास्त्रवैयर्थ्यम् । एतावता जीवात्मस्वरूपादिकं निरूप्य तज्ज्ञाना- Sजानकारणं च निर्णीतम् । इदानीं जीवविशेषं विविनक्ति ॥ मुक्तं चेति ॥ चकारो बद्धममुच्चायकः । बद्धं चेत्यर्थः ॥ बद्धमुक्त- मिति ॥ जीवात्मानस्तावद् द्विविधाः- बद्धमुक्तभेदात् । तत्र बद्धो नाम अनादिकर्मवासनाकार्यतत्तद्देवतिर्यगायनेकविधशरीरेषु आत्मात्मीयत्वाभिमानदाळवानिति यावत् ॥ अथाचेतनं निरूप्यते ॥ अप्राकृतं प्राकृतरूपकं च कालस्वरूपं तदचेतनं मतम् ॥ मायाप्रधानादिपदमवाच्यं शुक्लादिभेदाश्च समेऽपि तत्र ॥ अप्राकृतमित्यादिना ॥ अचेतनं त्रिविधं मतं, श्रुतिभिरित्य- न्वयः । त्रैविध्यमेव विविच्यते ॥ अप्राकृतं प्राकृतरूपकं च काल. स्वरूपमिति ॥ तत्र तावत् प्राकृतं विशिष्टि ॥ मायाप्रधाना- दिपदप्रवाच्यामिति ॥ मायापदैरभिधीयमानं प्राकृतम् । तदेव ल. क्षणमुखेन द्योतयति ॥ शुक्लादिभेदाश्च समेऽपि तत्रेति ॥ तत्र तस्मिन् माकृतपदार्थे समेऽपि सर्वे शुक्लादिभेदाः सन्ति । अथ द्वितीयमाह ॥ कालस्वरूपमिति ॥ माकृतामाकृतोभयभिन्नत्वे स- ति अचेतनद्रव्यविशेषः कालशब्दवाच्यः । स च नित्यो विभुश्चे- ति । अथापाकृतं निरूप्यते ॥ अप्राकृतमिति ॥ तत्त्वं नाम त्रि- गुणाश्रयप्रधानकाळविलक्षणं प्रकाशात्मकम् अनावरकत्वस्वभाव- मचेतनद्रव्यत्वम् । आदित्यवर्णं तमसः परस्तादित्यादिश्रुतेः।
श्रीनिम्बादित्याचार्यमतम् । १३ तमाशब्दाभिधेयाभ्यां प्रधानकालाभ्यां विलक्षणम् । भादित्यवद प्रकाशखरूपमित्यर्थः॥ स्वभावतोऽपास्तसमस्तदोष- मशेषकल्याणगुणैकराशिम् ॥ व्यूहाङ्गिनं ब्रह्म परं वरेण्यं ध्यायेम कृष्णं कमलेक्षणं हरिम् ॥ भस्यार्थः। परमात्मतत्त्वं निरूपयति ॥ स्वभावत इत्यादिना वयं ब्रह्म ध्यायेमेति योजना । ब्रह्मशब्दस्य चतुर्मुखे वेदा- दावपि वृत्तित्वात् तत्राऽतिप्रसङ्गं वारयन्नाह ॥ परमिति ॥ ब्रह्मपदार्थमाह ॥ कृष्णमिति ॥ परत्वं च क्षराक्षराभ्यामुत्कृष्टत्व- म् । तस्याश्रयो भगवान् श्रीकृष्ण एवेति पुनरपि भगवत्पदा- ऽर्थाभिन्नब्रह्मपदार्थमाह निर्वचनमुखेन ॥ स्वभावत इति ॥ खभा- वेनैव अनादिप्रकृत्यैव अपास्ता निरस्ताः समस्ता दोषा यस्मात् तम् । दोषाश्च 'अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशा' इति पातअलसूत्राबोध्याः। नन्वेवं तर्हि गुणदोषवत्त्वाभावानिर्विशेषाणां कल्याणात्मकानां गुणानामेको मुख्यो यो राशिः पुअभूतस्तम् । अशेषकल्याणगुणानां राशयो यस्मिस्तमिति ॥ व्यूहाङ्गिनमिति ॥ न्यूहावताराश्चाङ्गानि तान्येव विद्यन्ते यस्य तम् । अनन्तमूर्ति- कमित्यर्थः । एवं पूर्णवमुक्त्वा सर्वोपास्यत्वमाह ॥ वरेण्यमिति ॥ सौन्दर्यसौकुमार्यमाधुर्यलावण्यादिभिः साधारणत्वेन ब्रह्मादिभि- वरणीयमियर्थः । सौन्दर्य व्यनक्ति ॥ कमलेक्षणमिति ॥ कमलोप- मे ईक्षणे यस्य तं सत्पुण्डरीकनयनम् । यद्वा, कमलया लक्ष्म्या ईक्ष्यते इति कमलेक्षणस्तं सौन्दर्यसीमानमित्यर्थः । अत एव, | हरिम् ॥ ध्यातॄणां मनोहरम् ॥ उक्तसिद्धान्ते विधिमाह ॥
१४ सकलाऽऽचार्यमतसंग्रहे। उपासनीयं नितरां जनैः सदा ॥ प्रहाणयेऽज्ञानतमोऽनुवृत्तेः। सनन्दनायैर्मुनिभिस्तथोक्तम् ॥ श्रीनारदायाऽखिलतत्त्वसाक्षिणे । उपासनीयमिति ॥ नितरां मुमुक्षुभिर्जनैरुक्तलक्षणं परं ब्रह्म सदोपासनीयम् । उपासनायाः प्रयोजनमाह ॥ प्रहाणयेऽज्ञानतमो- ऽनुवृत्तेरिति ॥ अज्ञानतमोऽनुवृत्तेः प्रहाणये इति योजना । ननु, यद् वाचाऽनभ्युदितं येन वागभ्युद्यते * तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते इत्यादिश्रुतेरुपासनाविषयस्य ब्रह्मत्वनिषेधात् कथमेवोपासनाविधानं, कथं वा ब्रह्मण उपास्यत्वमित्याशङ्कानिरा- सार्थ खसंप्रदायसंगति प्रणयन् संप्रदायस्यानादित्वं वैदिकत्वं चाइ भगवानाचार्यः ॥ सनन्दनायैर्मुनिभिस्तथोक्तमिति ॥ श्री- नारदायाऽस्मद्गुरवे इत्यर्थः । तेनैव मह्यं यदुपदिष्टं तदेवोक्तं मयापीति शेषः । श्रीगुरुं विशिनष्टि ॥ अखिलतत्त्वसाक्षिणे इति ॥ सर्ववेद- तत्वविषयकप्रत्यक्षानुभवाश्रयभूताय सर्वज्ञायेति । यदिदमुपा- सते इत्यनेन ब्रह्मण उपास्यतानिषेधस्तु परिच्छिन्नोपासनविषयक एव, न तु विश्वात्मकपरमात्मोपासनविषयक इत्यर्थः ॥ श्रोतव्य इत्यादिश्रुतिवाक्यजन्यज्ञानं निरूपयन तत्त्वमस्या. दिवाक्यस्यार्थमाह ॥ सर्वं हि विज्ञानमतो यथार्थक श्रुतिस्मृतिभ्यो निखिलस्य वस्तुनः ॥ ब्रह्मात्मकत्वादिति वेदविन्मतं त्रिरूपताऽपि श्रुतिसूत्रसाधिता ॥ सर्वमिति ॥ हि यस्माद्, निखिलस्य वस्तुनः श्रुतिस्मृतिभ्यो ब्रह्मात्मकत्वादतः सर्वं ज्ञानं यथार्थमित्यन्वयः ।
श्रीनिम्बादित्याचार्यमतम् । १५ यतस्त्रिरूपता श्रुतिमूवसाधिता तस्मात् साऽपि यथार्थे त्यपिशब्दार्थ इति वेदविन्मतं, वेदविदामोपनिषदानां श्रीव्यासमन्वादीनां मतं. निर्णीतोऽर्थः सिद्धान्त इत्यर्थः । एष सर्वभूतान्तरात्मा, एष ते अ- न्तर्याम्यऽमृतः, इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः * वासुदेवात्मकान्याहुः क्षेत्र क्षेत्रज्ञमेव चेति । अहमात्मा गुडाकेश सर्वभूताशयस्थित * इत्यादिश्रुतिस्मृतिभ्यः सर्वस्यापि चेतनाचे- तनभूतस्य जगतो ब्रह्मात्मकत्वमतः सर्व विज्ञानं यथार्थमिति । अ. तः सर्वस्य ब्रह्मात्मकत्वादेव सर्वमिति विज्ञानं यथार्थवस्तुविषय कत्वाद् यथार्थम् । किञ्च भोक्तृभोग्यनियन्तृरूपताऽपि यथार्थैवेति शेषः। अत्र हेतु:- श्रुतिसूत्रसाधितेति ॥ तथाच श्रुतिः भोक्ता भोग्यं प्रेरितारं च मत्वेति । आनन्दं ब्रह्मणो विद्वान् न बिभेति. कुनश्चनेति च । अथाऽतो ब्रह्मजिज्ञासेखादिसूत्राण्यप्यनुसन्धेया- नि । तत्र जिज्ञासाजिज्ञामुजिज्ञास्यरूपत्रिरूपता प्रसिद्धत्वाद् वेद-- विन्मतमिसेवं ब्रह्मात्मकत्वं तदायत्तस्थितिप्रत्तिकत्वव्याप्यत्वा- भ्यां ब्रह्माभिन्नत्वाद, विरूपत्वश्रवणस्मरणाभ्यां स्वरूपेण भि- मत्वाच ब्रह्मभिन्नाभिन्नं चेतनाचेतनात्मकं विश्वमिति वेदविदां श्रीसनकनारदव्यासादीनां मतं निर्णीतः सिद्धान्त इयर्थः । त- दनन्यत्वमारम्भणशब्दादिभ्यः । अधिकं तु भेदनिर्देशादित्याधुभ- यप्रतिपादनपरेभ्यः सूत्रेभ्यः । एकमेवाद्वितीयम्, आत्मा वा इ- दमेक एवाग्र आसीत, तत्त्वमसि, अयमात्मा ब्रह्म, सोऽहम्, अहं ब्रह्माऽस्मि, आत्मैवेदं सर्व, त्वं वा अहमस्मि भगवो देवते, अहं वै त्वमसि भगवो देवते, यदेवेह तदमुत्र यदमुत्र तदन्विह, यो- ऽसावादित्ये पुरुषः सोऽसावह, सर्वं खल्विदं ब्रह्मेति, सर्वभूत- स्थित यो मां भजत्येकत्वमास्थितः, क्षेत्रज्ञं चाऽपि मां विद्धि, ए- कः समस्तं यदिहास्ति किञ्चन तदच्युतो नास्ति परं ततोऽन्यत्, १६ सकलाऽऽचार्यमतसंग्रहे। अहं भवो भवन्तश्च सर्वे नारायणात्मका * इत्यभेदप्रतिपादनपरे- भ्यः श्रुतिस्मृतिभ्यः, नित्यो नित्यानां चेतनश्चेतनानां, ज्ञाऽज्ञौ द्वावजावीशानीशौ, जुष्टं यदा पश्यत्यन्यमीशं, पृथगात्मानं प्रे- रितारं च मवेति, प्रधानक्षेत्रज्ञपतिर्गुणेश इति, द्वाविभौ पुरुषौ लोके इत्यादिभेदप्रतिपादकश्रुतिस्मृतिभ्यश्चेति ॥ इति श्रीनिम्बा- ऽऽदित्याचार्यमतविवेकः॥ अथ द्वैतमतम् । तथाहि । आत्मैवेदं समिति, स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन् आत्मरतिरात्मक्रीड आत्म- मिथुन आत्मानन्दः स खराड् भवतीति, खं वायुमम्नि सलिलं महीं च ज्योतीषि सत्वानि दिशो द्रुमादीन् * सरित्समुद्रॉश्च हरेः शरीरं यत्किञ्च भूतं प्रणमेदनन्य * इति, यश्चात्मनि तिष्ठन् यमात्मा न वेद यस्यात्मा शरीरमिति, यः पृथिव्यां तिष्ठन् यं पृथिवी न वेद यस्य पृथिवी शरीरमिति श्रुतिस्मृतिभ्यो जीव- जडयोर्भगवद्देहत्वेन देहिदेहयोरीश्वरजडजीवरूपयोरभेदान्वयः स्थू. लदृष्टया, नित्यो नित्यानामित्यादिश्रुत्या च सूक्ष्मदृष्टयेश्वर- स्य जडजीवयोश्च भेद इति । श्रुतिस्मृत्यर्थस्तु इदं सर्व विश्वम् आत्मैव, तदचिच्छरीरत्वात् । एवं मन्वान एष शुद्धो जीव एवं विशेषणं जानन् पश्यन् आत्मरतिर्भवति । आत्मनि परमात्मनि भगवति रतिर्भक्तिर्यस्य स आत्मरतिः, स एवात्मक्रीडो भवति आत्मनि भगवति क्रीडा यस्य स आत्मक्रीडः ॥ स आत्ममिथुनो भवति । आत्मना भगवता ब्रह्मणा सह मिथुन स्वामिसेवकलक्षणं द्वितीयत्वं यस्य स आत्ममिथुन एवंभूतः स भगवदीयः स्वराड् भवति इति । हरेः श्रीकृष्णस्य भगवतश्चैतन्य. विग्रहस्य इदं विश्वम् अचिच्छरीरमिति मत्वा प्रणमेदिति। तथाचैक एव चिदचिदविग्रहो भगवान सेव्यः, एक एवाऽहं सेवक इति फलि- श्रीमध्वाचार्यमतम् । तम् । तत्र प्रमाणं, सर्वं खल्विदं ब्रह्म, तजलानिति, शान्त उपासीतेति श्रुतिः।मनोब्रह्मोपासीत, अहं ब्रह्मास्मीतिश्रुतिस्तु स्वस्मिन् मनसि वा ब्रह्मभावनया ब्रह्मोपासीतेत्यर्थपरा । एवमेवाभेदमतिपादकानि अन्यान्यपि वाक्यानि भावनापराणीति ॥ तत्त्वमसि, अहं ब्रह्मास्मी- त्यादिषु जीवस्य परेणाभेदः प्रतीयते । नित्यो नित्यानां चेतनश्चे- तनानां, द्वा सुपर्णेसादिषु भेद उच्यते । पृथगुपदेशात् । भिन्नो. ऽचिन्त्यः परमो जीवसंघात, पूर्णः परो जीवसंघात् त्वपूर्णः, यतस्वसौ नित्यमुक्तो ह्ययं च बन्धान्मोक्षं तत एवाभिवाञ्छेदिति सोपपत्तिककौशिकश्रुतेभिन्न एव जीव इत्यर्थः । स च भेदः पञ्च- विधः । तथाहि- जीवेश्वरभिदा चैवं जडेश्वरभिदा तथा * जीवभेदो मिथश्चैवं जडजीवभिदा तथा * मिथश्च जडभेदोऽयं प्रपञ्चो भेदपञ्चक * इति। तद्गुणसारत्वात् तद्यपदेशः प्राज्ञवदिति सूत्रम् । अस्यार्थः । ज्ञानानन्दादिब्रह्मगुणा एवास्य यतः सारख- रूपमतोऽभेदव्यपदेशो, यथा सर्वगुणात्मकत्वात सर्वात्मकतं ब्रह्मण उच्यते, सर्वं खल्विदं ब्रह्मेति । भविष्यपर्वणि च, भिन्ना जीवाः परो भिन्नस्तथापि ज्ञानरूपतः * पोच्यन्ते ब्रह्मरूपेण वेदवादेषु सर्वश इति । नामानि विश्वानि न सन्ति लोके यदाविरासीदनृत- स्य सर्वम् * नामानि सर्वाणि यमाविशन्ति तं चैव विष्णुं पर- मुदाहरन्तीति भाल्लवेयश्रुत्या, अथातो ब्रह्मजिज्ञासेत्यादौ ब्रह्म- पदेन विष्णोरेव ग्रहणम्, न तु रुद्रादीनाम् । तत्मापकशब्दानां विष्णोरेव मुख्यार्थत्वादिति । श्रुतेरर्थस्तु सर्वाणि नामानि रुद्रा- दीनिजगति मुख्यतो न सन्ति, यतो विष्ण्वितरस्य जगतः सर्वनाम- प्रवृत्तिनिमित्तं विष्णुं वदन्ति विद्वांसः ॥ इति श्रीमध्वाचार्यमत- विवेकः॥ इति श्रीसकलपैष्णवाचार्यमतसङ्ग्रहः सम्पूर्णः ॥
विज्ञापनम् । बनारमसंस्कृतसीरीज़नानी वाराणसेयसंस्कृतपुस्तकावली । . . . १ १ इयं पुस्तकावली खण्डशो मुद्रिता भवति । अस्यां संस्कृतभाषा- निबद्धा बहवः प्राचीना दुर्लभा उत्तमोत्तमाः कचिदङ्गलभाषानुवा- दसहिताश्च ग्रन्था मुद्रिता भवन्ति । तांश्च ग्रन्थान् काशिकराजकी- यसंस्कृतपाठशालीयपण्डिता अन्ये ऽपि विद्वांस. शोधयन्ति । यैा- हकमहाशयैरियं पुस्तकावली नियमनाविच्छेदेन संग्राह्या तैस्तदे- कैकस्य खण्डस्य कृते । मूल्यं प्रापणव्ययश्च =) देय.। अन्यैर्म- हाशययः कानिचित् खण्डानिसंग्राह्याणि तैश्च प्रत्येक खण्डान कृते १० मूल्यं प्रापणव्ययश्च =) देय इति । तत्र मुद्रिता ग्रन्थाः । रु.॥ सिद्धान्ततत्वविवेकः खण्डानि ५ ५ अर्थसङ्ग्रहः अंग्रेजीभाषानुवादसहितः १ तन्त्रवार्तिकम् खण्डानि १३ १३ कात्यायनमहर्षिप्रणीत शुक्लयजुःप्रातिशाख्यम् सभाष्य ख० ६ सांख्यकारिका चन्द्रिकाटीकागौडपादभाष्यसहिता वाक्यपदीयम खण्डानि ६ (प्रथमभागः प्रथमद्वितीयकाण्डे पुण्यराजटीकासहित खण्डानि ३। द्वितीयभागः तृतीयाका- ण्डम् हेलारांजटीकासहित स्त्रण्डानि ३) रसगङ्गाधरः खण्डानि ९ परिभाषावृत्तिः खण्डे २ वैशेषिकदर्शनं किरणावलीटीकासंवलितप्रशस्तपादान- भाष्यसहितम् खण्डे २ शिक्षासङ्ग्रहः खण्डानि ५ नैष्कर्यसिद्धिः खण्डानि ४ महर्षिकात्यायनप्रणीत शुक्लयजुस्सर्वानुक्रमसूत्रम् सभाध्यम ३ ऋग्वेदीयशौनकप्रातिशाख्यं सभाष्यम् खण्डानि ४ (बृहत) वैयाकरणभूषणम् पदार्थदीपिकासहितम् खण्डानि४ ४ विवरणोपन्यासः सटीकवाक्यसुधासहितः सण्डे २ ६ ० २ ૨ . ५ . . * . ४ २ . तत्त्वदीपनम् (पञ्चपादिकाविवरणस्य व्याख्यानम् ) ख० ८ वेदान्तदीपः (श्रीभगवद्रामानुजाचार्यविरचितः) खण्डानि ३ ३ टुपसका खण्डानि ४ पातञ्जलदर्शनमाश्रीरामानन्दयतिकृतमणिप्रभाऽख्यवृत्ति स. १ व्याकरण मिताक्षरा । श्रीमदनभट्टप्रणीता खण्डानि .१० १० रसमञ्जरी । व्यङ्गयार्थकौमुद्या प्रकाशेन च सहिता स्व० ३ ३ . भेदधिकार. व्याख्यासहितः श्रीमदप्पयदीक्षितकृत उपक्रम पराक्रमसहितः खण्डे २ बोधसारो नरहरिकृतः तच्छिम्यदिवाकरकृतटीकया स० ख०१० ब्रह्मसूत्रदीपिका श्रीमच्छङ्करानन्दभगवद्विरचिता खण्डे २ ૨ देवज्ञकामधेनुः अर्थात् प्राचीनज्योतिषग्रन्थः खण्डानि ३ ३ श्रीमदणुभाष्यम् । श्रीश्रीवल्लभाचार्यविरचितम् । गोस्वामिश्रीपुरुषोत्तमजी महाराजविरचितभाष्यप्रकाशाख्य- व्याख्या समेतम् खण्डानि १५ तत्व शेखरः। श्रीभगवल्लोकाचार्यप्रणीतः। तथा-तत्त्वप्रयचुलुक- संग्रहः । कुमारवेदान्ताचार्यश्रीमद्वरदगुरुविरचितः। श्रीभाष्यवार्तिकम् । श्रीमद्रामानुजाचार्यविशिष्टाद्वैतसिद्धान्तप्र- तिपादनपरम् । यतीन्द्रमतदीपिका च । श्रीगोविन्दाचार्यसूनु- श्रीनिवामाचार्यकृता । सकलाचार्यमतसग्रहश्च । खण्डे २ २ . गूढार्थदीपिका । श्रामद्भागवतदशमस्कन्धस्थरासपञ्चाध्यायी- or व्याख्या। आश्वलायनसूत्रप्रयोगदोपिका । श्रीविद्वद्वरमंचनाचार्यभट्ट- विरचिता। ब्रजभूषण दास और कम्पनी चांदनीचौक के उत्तर नई सड़क बनसिटी *