Scl

Sanskrit Bhasha Bhodhini Vol I I

Sri T K Tiruvenkatacharya

PDF Proofread

Front matter

प्रथमावृत्तिः 1950
द्वितीयावृत्तिः 1952
तृतीयावृत्तिः 1955
चतुर्थावृत्तिः 1956
पञ्चमावृत्तिः 1959
2000
2000
2000
3000
3000
Approved for class use by the Andhra Pradesh
Text Book Committee vide Page 3123 of Part I of
Andhra Pradesh Gazette, dated 18th December, 1958.
Paper used:
Double Crown 24 lbs. White Printing.
श्री वेदव्यास मुद्राक्षरशाला,
चित्तर

अनुक्रमणिका पाठः शीर्षकम् पुटसंख्या .... २ ३ .... ५ .... १० मातृवन्दनम् १. गृहम् २. पाठशाला ३. धेनुः महिषी च ४. क्रीडनम् ५. पर्वतः ६. देवस्तुतिः ७. इक्षुः ८. काकः जम्बुकश्च ९. अश्वः १०. कृषीवल: ११. माता का? १२. कालियदमनम् .... १२ १४ .... १६ .... १८ .... २१ २३ .... १३. तिथयः २८ १४. भरतः ३० ....

(ii) पाठः शीर्षकम् पुटसंख्या ३२ .... ३३ ३५ ३९ .... १५. पत्रलेखनम् १६. दिशः १७. भारतकथा १८. बुद्धिमान् बलवान् १९. दिलीपचरितम् २०. पत्रालयः २१. मुनिः मूषिकश्च २२. बन्धुपरिचयः २३. धातुपाठः - 1 .... ४३ .... ४६ .... ४८ .... ४९ २५. धातुपाठः-2 .... . २५. संख्याः ५१ .... ५२ नीतिश्लोकाः कठिन शब्दार्थः .... ।

वन्दे मातरम् !
मातृवन्दनम्
वन्दे भारतदेवी मार्यमातरम्। जयतु जयतु पदयुगलं ते निरन्तरस्
शुभ्रशरचन्द्रयुक्तचारुयामिनीम् ,
विकसितनवकुसुममृदुलदामशोभिनीम् ,
मन्दसितयुक्तवदनमधुरभाषिणीम् ,
सुजलां-सुफलां-सरलां-शिववरदां,
चिरसुखदा मुकुलरदां देशमातरम् (आर्यमातरम् )
दशकत्रयकोटिजनकण्ठनादिनीम् ,
अमितभुजां धृतसदसिं तनयतारिणीम् ,
हिमनगजां स्वाभिमानबुद्धिदायिनीम् ,
कमलां-अमलां-अतुलां रिपुहारिणीम् ,
बलकारिणीं धृतनलिनी लोकमातरम् (आर्यमातरम् )
धर्मस्त्वं मर्म त्वं त्वं यशो बलम् ,
शक्तिस्त्वं कर्म चाखिलम् ,
प्रतिसदन प्रतिमा ते त्वं महाफलम् ,
धरणी-भरणी-जननी-कविप्रतिभां,
नतसुलभा जगदम्बा राष्ट्रमातरम् (आर्यमातरम् )

प्रथमः पाठः
गृहम्
मम
दारु
इदं
अहं
त्वं
तत्
द्वारम्
अस्य।
तव
स्तम्भः
कवाट
गवाक्षं
भित्तिः
तस्य
कुड्यं
इदं मम गृहम् । त्वं मम गृहं पश्य । गृहस्य पुरतः
स्तम्भाः सन्ति । स्तम्भाः भूमौ तिष्ठन्ति । स्तम्भानां उपरि दारु
वर्तते । गृहस्य द्वारे कवाट अस्ति ।
कुड्ये गवाक्षं अस्ति । तव गृहे अपि स्तम्भाः सन्ति
किम् ? कुडये गवाक्षाणि सन्ति किम् ? तस्य मितिः अस्ति
किम् ? तस्य द्वार अस्ति किम् ?
मम गृहे अहं प्रविशामि। अयं गोपालः मम गृह
प्रविशति । त्वं अपि प्रविश । त्वं मम गृहस्य गवाक्ष पश्य ।
त्वं श्रीकृष्णं नम । त्वं मम गृहे तिष्ठ ।
2

-
पाठ्यम् – स्तम्भैर्युता कवाटैश्च द्वारैः भित्त्या च दारुभिः ।
छदनेन विती च शालाऽतीव प्रकाशते ॥
प्रश्नाः किं तव गृहम् ? किं तस्य गृहम् ? किं कृष्णस्य गृहम् ?
तव गृहे कति स्तम्भाः सन्ति ? भित्तिः अस्ति किम् ? कवाट
अस्ति किम् ? तस्य गृहे स्तम्भः नास्ति वा ? दारु कुत्र
अस्ति ? त्वं किं करोषि ? सः किं करोति? अहं किं करोमि ?
द्वितीयः पाठः
पाठशाला
उपाध्यायः
पठति
पुस्तकम्
जानाति
कश्या
बोधयति
सहपाठकाः
कृष्णफलकम्
पाठः
छात्रः
इयं मम पाठशाला । अयं मम उपाध्यायः। अयं मम
3

सहपाठकः । इमौ मम सहपाठको। इमे मम सहपाठकाः ।
इमौ मम उपाध्यायौ। इमे मम उपाध्यायाः। इसे छालाः ।
मम उपाध्यायः छात्रान् पाठं बोधयति । ते छालाः
पाठं जानन्ति । उपाध्यायाः छात्रा बोधयन्ति । ते पाठान्
पठन्ति । अयं बालः पाठं पठति । अहं पाठं जानामि ।
मम कक्ष्यायां चत्वारिंशत् छात्राः पठन्ति । उपाध्यायः
पाठं पठति । उपाध्यायः कृष्णफलके पाठं लिखति। तं अहं
पुस्तके लिखामि । सर्वे छात्राः पाठं पुस्तकेषु लिखन्ति ।
इयं पाठशाला प्रातः सायं च प्रचलति । अहं सायं
सहपाठकैः सह क्रीडामि।
पाठ्यम् - गुरुर्वदति य पाठं तं पठित्वा दृढं ततः ।
क्रीडाङ्गणेऽहं खेलामि मिलितः सहपाठकैः ।।
प्रश्ना:- इयं का? इय कस्य ? इमे के ? इमौ कौ ! उपाध्यायः
किं बोधयति ! स्वं सायङ्काले किं करोषि ? सर्व छात्राः
कक्ष्यायां किं कुर्वन्ति ! उपाध्यायः कृष्णफलके किं करोति ?
तव पाठशाला कदा प्रचलति ! त्वं कैः सह क्रीडसि ?

तृतीयः पाठः
धेनुः महिषी च
पिबति
सास्ना
नवनीतम्
तक
लाङ्कलम्
वत्सः
AILI
एषा धेनुः। सा महिषी। धेनुः महिषी च समाने
भवतः। किं जानासि अनयोः भेदम् ? धेनोः कण्ठे सारना
अस्ति । महिष्याः गळे साना नास्ति । अयं एव मुख्यः भेदः।
धेनोः द्वे शृङ्गे द्वौ कौँ द्वे नेते च स्तः। अस्याः
चत्वारः पादाः सन्ति । एकं लालं च अस्ति । तथैव महिण्याः
अपि चत्वारः पादाः द्वौ कौँ द्वे नेत्रे द्वे शृङ्गे एक लाल च
सन्ति । धेनुः प्रतिदिन वत्साय क्षीरं ददाति ।
घेनोः क्षीरं मधुरं भवति । धेनोः क्षीरेण शिशन
पोषयन्ति । महिण्याः क्षीरं शिश्नां पथ्यं न भवति । महिष्या:
दुग्धं कापिकापानीये अतीव उपयुज्यते ।
(2)
6

अम्लेन सिक्तं दुग्धं दधि भवति । दधि मथित्वा
नवनीतं पृथक् कुर्वन्ति । शिष्ट तक्रं भवति । नवनीतं कथयित्वा
घृतं साधयन्ति । घृतेन श्रोत्रियाः यागान् कुर्वन्ति । महिण्या:
क्षीरे घृतं अधिक भवति । घृतं आहारे उपयुज्यते । घृतपक्काः
अपूपाः खादुतराः भवन्ति ।
पाव्यम् - घेनोः पदानि चत्वारि द्वौ कर्णौ द्वे च चक्षुषी ।
लाङ्कलमेकं द्वे शृङ्गे न स्तो वत्सस्य शृङ्गके ॥
प्रश्ना:-धेनोः क्षीरं कीदृशं भवति ? महिष्याः पादाः कति ? वत्सस्य
नेत्राणि कति ? धेनोः कर्णाः कति ? कति लालानि
वत्सस्य ? दघि कथं भवति ? तकं नाम किम् ? घृतेन किं
प्रयोजनम् ? घेनोः महिष्याश्च को भेडः ?
पर्यायपदानि - धेनुः = गौः, क्षीरं = दुग्ध, पादाः = पदानि,
नेत्र
= चक्षुः, अयं एषः, इयं = एषा, इदं = एतत् ।
योग्यमधरं लिख - अहं दुग्धं पिबा , स्व क्षीरं पिब
स गोपालः क्षीरं पिब उपाध्यायाः जलं पिब
%D
-
6

चतुर्थः पाठः
क्रीडनम्
अस्माकं
उत्पतति
आह्वयति
लज्जन्ते
हसति
क्रीडाङ्गणम्
यतमानः
विपक्षाः
इदं असावं क्रीडाङ्गणम् । मम सहपाठकाः सर्वे अपि
खेलन्ति अत्र प्रतिदिनम् । अहं अपि अन आगच्छामि । अत्र
केचित् कन्दुकेन क्रीडन्ति । केचन वक्रदण्डैः खेलन्ति ।
अन्ये च धावन्ति । अपरे उत्पतन्ति च । मम सहपाठक: मां
आयति । अहं अपि तत्र गत्वा तैः सह क्रीडामि।
7

अहं कन्दुकक्रीडां न जानामि । मम धावने उत्पतने च ।
अधिकं नैपुण्यं वर्तते । तस्मात् धावतां सङ्घ प्रविशामि ।
अहो! मां ग्रहीतुं यतमानः कश्चित् मां अनुधावति ।
कथमपि मां तस्माद्रक्षामि । अहं दूरं आगतवान् । सः दूरे एव ।
स्थितवान् । तस्मात् मम भयं नास्ति । इदानीं अहं तं ग्रहीतुं
यत्न करोमि । अयं मया गृहीतः । अहं तं गृहीतवान् ।
मम पक्षे स्थिताः सर्वे हसन्ति । विपक्षाः लजन्ते ।
ते जिताः। वयं विजयवन्तः। सायङ्कालः भवति । अतः
गृहं गच्छामः ।
पाठ्यम् - धावन्ति तिष्ठन्ति तथोत्पतन्ति
तं कन्दुकं चांधिभिरुक्षिपन्ति ।
अन्ये च खेलन्ति पतन्ति भूमी
हसन्ति पश्यन्ति पुनर्यतन्ते ॥
प्रश्नाः - क्रीडामणे तव सहपाठकाः किं कुर्वन्ति ? अन्ये किं कुर्वन्ति !
अपरे किं कुर्वन्ति ? तव कसिन् नैपुण्यं वर्तते ? तव
कन्दुकक्रीडायां नैपुण्यं वर्तते वा ? वं जितः वा ? जयवान्
वा ! तव सहपाठकः जितो वा ? कः लजते ? के हसन्ति :
वं किमर्थ यत्न करोषि
8

अस्मिन् पर्वते गुहाः विद्यन्ते । तासु गुहासु सिंहाः,
व्याघ्राः, भल्लकाः च दिवा वसन्ति । रातो ते क्रूरमृगाः बहिः
आगच्छन्ति, इतस्ततः चरन्ति, भक्षयन्ति च क्षुद्रान् मृगान् ।
अस्मिन् गिरौ हरिणः तिष्ठति। हरिणाः नानाविधाः। व्याधाः
सारमेयसाहाय्येन हरिणान् गृहन्ति । हरिणाः सौम्याः जन्तवः।
पुरा महर्षयः आश्रमेषु हरिणान् रक्षन्ति स ।
पाव्यम् - सिंहो व्याघ्रश्च हरिणो भल्लको वानरस्तथा ।
खडो वृकश्चित्रकायः गजश्चारण्यवासिनः।।
प्रश्ना:- सिंहादयः कुत्र निवसन्ति ! अरण्ये के के मृगाः निवसन्ति !
तेषु क्रूरमृगाः के? तेषु सौम्यः मृगः कः ? ग्राममृगाः के ?
सारमेयः कीदृशः मृगः ? सिंहादयः कथमरण्ये जीवन्ति ?
पर्यायपदानि - यतन्ते यत्न कुर्वन्ति, उपयुज्यन्ते = उपयुक्ताः भवन्ति,
जीवन्ति = जीवनं कुर्वन्ति, व्याधाः = मृगहिंसकाः,
सारमेयः = शुनका,
= सन्ति, गुहा
बिलम्, हरिणः = सारगः, पर्वतः = गिरिः।
शुन्यस्थल योग्यपदेन पूरयत
दिवा सिंहाः निलीनाः तिष्ठन्ति । रात्री ते
सारमेयाः सर्वदा चरन्ति । मृगेषु हरिणः
व्याधाः वनेषु-नन्ति ।
विद्यन्ते -
-
चरन्ति।
11

षष्ठः पाठः देवस्तुतिः करारविन्देन पदारविन्द मुखारविन्दे विनिवेशयन्तम् । वटस्य पत्रस्य पुटे शयानं बालं मुकुन्द मनसा स्मरामि ॥१॥ वीणापुस्तकहस्तां पितामहस्य प्रियां धवलदेहाम्। हसारूढां देवीं सरस्वती नौमि शतकृत्वः ॥२॥ क्षीरसागरसञ्जातां विष्णोः पत्नी दयामयीम् । लक्ष्मी सदा प्रपद्येऽहं सर्वसम्पत्समृद्धये ॥३॥ अगजाननपद्माकं गजाननमहर्निशम् । अनेकदं तं भक्तानामेकदन्तमुपासहे ॥ ४ ॥ 12 नमामि नारायणपादपङ्कज करोमि नारायणपूजनं सदा । वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥ ५ ॥ चन्द्राननार्धदेहाय चन्द्रांशुसितमूर्तये । चन्द्रार्कानलनेनाय चन्द्रार्धशिरसे नमः ॥ ६ ॥ श्रीरामचन्द्रः श्रितपारिजातः समस्तकल्याणगुणाभिरामः। सीतामुखाम्भोरुहचञ्चरीको निरन्तर मङ्गलमातनोतु ॥ ७ ॥ श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् । श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ ८ ॥ प्रश्नाः- प्रथम श्लोके के. वन्दसे ? सरस्वती कीदृशी भवति ? लक्ष्मीः कथं भूता गजाननः कीदृशः ? नारायणं कथ सेबसे ? सन्धिः - मुख + अरविन्दम् = मुखारविन्दम् । गिरि + ईशः गिरीशः । गुरु + उक्तिः = गुरूक्तिः। पितृ + ऋणं = पितृणम् । (अ + अ = आ; इ + इ = ई; उ+उ = ऊ ऋ + ऋ = ऋ । सवर्णदीर्घसन्धिः) पर्यायपदानि - अरविन्द = अम्भोरुहं, पङ्कजम् । करः = नौमि = बन्दे । स्मरामि = चिन्तयामि । (4) 18

सप्तमः पाठः
इक्षुः
कटाहः
अपूपः
कार्मिकः
पर्व
गुडम्
यन्त्रम्
चित्रं पश्य । इदं इक्षुक्षेत्रम् । इक्षुः उन्नततया वर्धते ।
इक्षु निपीड्य रसं सम्पादयन्ति । इक्षुरसः अतीव मधुरः ।
इक्षुरसं कटाहे निक्षिप्य अग्निना शोषयन्ति । तत् गुडं भवति ।
गुडेन कृतः अपूपः पायसं च मधुरे भवतः ।
इक्षु यन्त्रेषु प्रक्षिप्य शर्करां कुर्वन्ति । शर्करायाः वर्णः
श्वेतः। गुडस्य वर्णः रक्तः। शर्करया क्रियमाणानि भक्ष्याणि
अतीव मधुराणि भवन्ति । असद्देशे बहवः शर्करालयाः सन्ति ।
शर्करालयेषु सहस्राधिकाः कार्मिकाः कर्म कुर्वन्ति ।
14

इक्षौ बहूनि पर्वाणि वर्तन्ते । वंशः अपि इक्षुः इव
उन्नततया वर्धते । तस्यापि पर्वाणि सन्ति । वंशः गृहनिर्माणाय
उपयुज्यते । वंशः कठिनः । इक्षुः मृदुः। बालाः इक्षु दन्तैः
दष्ट्वा रसं पिबन्ति । अहं इझुं भक्षयामि ।
?
पाठ्यम् - भारतं चेक्षुदण्डं च शुक्लपक्षं च वर्णय ।
अत्र दोयकविब्रूते सारं पर्वणि पर्वणि ॥
प्रश्नाः इक्षुः कथं वर्धते ? इक्षुरसः कीदृशः ? गुडेन किं कुर्वन्ति ?
गुडस्य वर्णः कः ? शर्करायाः वर्णः कः? शर्करां कथं
कुर्वन्ति ? वंशस्य पर्वाणि सन्ति वा ? वंशः कस्मै
उपयुज्यते ? गुडस्य शर्करायाश्च वर्णः कः ?
शून्यभागं पूरयत - इक्षुरसः
पर्वाणि वर्तन्ते?
गुडस्य रक्तः।
पर्यायपदानि -. अतीव - अत्यन्तम् । बहवः - अनेके ।
पदानि संयोज्य वाक्यं रचयत
(१) वंशः
(७) निपीड्य
(५) उन्नततया (८) रसं
(९) इक्षु
(१०) सम्पादयन्ति
मधुरः। इसी
-
-
-
(४) अपि
(२) इक्षुः
(३) इव
(६) वर्धते
16

अष्टमः पाठः
काकः जम्बुकश्व
बुभुक्षितः
आपूपिकः
अपूपः
कियत्
आहूय
श्रावय
स्तुतवान्
झटिति
ISE
Hun
कश्चित् काकः बुभुक्षितः इतस्ततः भ्रमति स । तदा
कश्चित् आपूपिकः अपूष्माण्डं शिरसि निक्षिप्य 'अपूपः, अपूपः
इति विक्रीणाति । तं वञ्चयित्वा काकः आकाशमागण एकं
अपूपं अपाहरत् , पलायित्वा च वृक्षस्य शाखायामुपाविशत् ।
अचिन्तयच "अहो! मया महत् भाग्यं कृतम्” इति ।
तदैव कश्चित् जम्बुकः तस्य वृक्षस्य छायां प्राप्तवान् ।
सोऽपि अतीव बुभुक्षितः आसीत् । सः दैव निन्दितुं यदा
16

भाकाशं अपश्यत् तदा काकस्य मुखे अपूपमपश्यत् । तं दृष्ट्वा
१ः अचिन्तयत् "अहो! काकेन कियत् पुण्यं कृतम् । अयं
अपं सम्पादितवान् किल! भवतु। उपायेन एनं अपूपं
अपहरामि" इति।
ततः काकं आहूय "मित्र ! चिरात् त्वां पश्यामि ।
व कुशलं का? त्वं अतीव सुन्दरः। तव शरीरमिव तव स्वरः
अणि अतीव मधुरः। तर गीतं श्रुत्वा महान् कालः आसीत् ।
अतः किञ्चित् तव गान श्रावया” इति स्तुतवान् । एवं बहुधा
तुतः काकः यदा गानं कर्तुं मुखं उद्घाटितवान् तदैव मुखस्थः
अधूपः जम्बुकस्य पुरतः अपतत् । पञ्चकः जम्बुकः झडिति
तदादाय भक्षयित्वा धावितवान् ।
अतः वञ्चकः वञ्चकान्तरेण वञ्च्यते ।
प्रश्ना:
-
पाट्यम् - मातृवत् परदारेषु परद्रव्येषु लोष्टवत् ।
आत्मवत् सर्वभूतेषु यः पश्यति स पश्यति ॥
काकः अपूपं कथं सम्पादितवान् ? जम्बुकः काकं दृष्ट्वा
किं अचिन्तयत् ! जम्बुकः काकात् अपूर्व कथं अपहृतवान् ?
स्त्वाप्रत्ययान्तानि अव्ययानि
वञ्चयित्वा, पलायित्वा, दृष्ट्वा, श्रुत्वा, भक्षयित्वा ।
तुमन्प्रत्ययान्तानि अव्ययानि
निन्दितुम् , कर्तुम् , भक्षयितुम् , द्रष्टुम् , श्रोतुम् ।
(5)

नवमः पाठः अश्वः शफः तैलशकटः मूल्य लेखवाहकाः बहुलाः उष्टः उत्सवयात्रा Monikalayasani 10 AIR PlearningRNET MA- ASM Manpatidadline manand PAIMIndia PRAVAILAM insaaMICHEL yo Raigan अधःप्राम्यः पशुः। अयं सुन्दरः, विश्वासयुक्तः च भवति । अस्य चत्वारः पादाः, द्वौ की, द्वे नेले, एक लालं च सन्ति । अस्य एकैकस्मिन् पादे एकैक एव शफः विद्यते । वेनोः महिषस्य च एकैकस्मिन् पादे द्वौ द्वौ शफौ स्तः । अतः 18

महिषादयः "द्विशफाः" इत्युच्यन्ते । अश्वाः तु एकशफाः।
एवमेव गर्दभः उष्ट्रः च एकशफौ भवतः ।
अश्वः अतीव वेगेन धावति । अतः अयं तुरगः, तुरङ्गः
इति व्यवहियते । पूर्वकाले धूमशकटाः तैलशकटाश्च नासन् ।
तदा तुरगाः एव लेखवाहकाः अभवन् । ते एव शीघ्रप्रयाणे
उपयुक्ताः आसन् ।
इदानीमपि ते युद्धे सर्वत्र उपयुज्यन्ते । केषुचित्
देशेषु तैः भूमि कृषन्ति । असद्देशे सर्वत्र अश्वशकटा एव
बहुलाः भवन्ति । राजानः धनिकाः भूस्वामिनः च अश्वान
रक्षन्ति। ते स्वशकटेषु द्वौ वा चतुरः वा अश्वान् योजयन्ति ।
उत्सवयात्रासमये च सामान्या अपि जनाः शकटे बहनधान
योजयन्ति।
अश्वाः धवलाः, अरुणाः, नीलाः, चित्रवर्णाः च सन्ति ।
तेषां मूल्यं शतमारभ्य सहस्रपर्यन्तं भवति । केचिदश्वाः युद्धे
खपृष्ठमारूढवतः योधस्य प्राणानपि रक्षन्ति। भयङ्करे युद्धे अपि
ते भीति विहाय सञ्चरन्ति। अतः एव राजानः अश्वान्
पूजयन्ति।
19

--
पाठ्यम् - करोति क्रियते चैव तथा पश्यति दृश्यते।
हरति ह्रियते तद्वत् शृणोति श्रूयतेऽपि च ।।
युक्ते च युज्यते वक्ति चोच्यते पीयते कथम् ?
उपसर्गयोगात् धातोः अर्थः भिद्यते । यथा
हरति; अपहरति; संहरति; आहरति; प्रहरति; परिहरति;
विहरति; व्यवहरति ।
गच्छति; आगच्छति; अनुगच्छति; संगच्छते।
चरति; प्रचरति; विचरत; अनुचरति; परिचरति; आचरति;
अभिचरति।
सन्धिः - एक + एकः = एकैकः; जल + ओघः = जलौघः;
गुण + औन्नत्यम् = गुणोन्नत्यम् ; जन+ ऐक्यम् = जनैक्यम्;
(अ + ए = ऐ; अ+ ओ = औ; अ + औ = औ;
अ + ऐ = ऐ; वृद्धिसन्धिः) तुरगाः + एव तुरगा
एव; शकटाः + एव = शकटा एव; सामान्याः + अपि
= सामान्या अपि; (स्वरे परे आकारोत्तरविसर्गस्य लोपः)
20

दशमः पाठः
कृषिकर्म
कृषीवला
लवित्रम् मुसलम्
शूर्पः धान्यगुच्छः
तुषः
घटीयन्त्रम्
व्रीहिः
खलः
उलूवलम्
तण्डुलः
SAMRATA
यः कृषिकर्म करोति सः कृषीवलः । कृषीवल: हलेन
भूमि कृषति। जलेन भूमि सिञ्चति । ततः त्रीहीन आवपति ।
बीहयः भूमौ रोहन्ति । क्रमशः सस्यानि वर्धन्ते । सस्यानामुपरि-
भागे धान्यगुच्छाः संभवन्ति । पक्कान् तान् लवित्रैः आल्य
खलं नीत्वा प्रहरन्ति। पृथक्कृत धान्य उलुखले निक्षिप्य
मसलेन कुट्टयन्ति । तेन तुषाः विमुच्यन्ते । त्रियः शरैः
(6)

उत्पवनादिना तण्डुलं शोधयन्ति । तण्डुलं पक्त्वा अन्नं वयं
भक्षयामः।
वृषभौ कृषीवलस्य अनेकधा उपकुरुतः । तौ हलं कर्षतः।
घटीयन्त्रेण बद्धौ जलं आकर्षतः। शकटे नियुक्तौ धान्यादिक
वहतः। वृषभाः पलालं, बुसं, पिण्याकञ्च भक्षयन्ति ।
अयं कृषिप्रधानः देशः। अत्र बहवः जनाः कृषिकर्मणा
जीवन्ति। कृषेः अनुकूलाः नदाः, नद्यः, तटाकाः, जलाशयाश्च
असा देशे बहवः सन्ति । जलाशयेषु जलं पूरयित्वा कृषये
उपयुञ्जते ।
पाख्यम् – कृषिप्रधाने देशेऽस्मिन् पूजनीयाः कृषीवलाः ।
जीक्यन्ति हि भूतानि चाहारस्तण्डुलादिभिः ।।
प्रश्नाः - को नाम कृषीवल: ? सः सस्योत्पादनाय किं करोति !
लियः कथं तण्डुल शोधयन्ति ? कृषीवलोपकारिणः के के ?
वृषभाः कृषीवलेभ्यः कथमुपकुर्वन्ति ? वृषभस्य आहाराः के !
यथायोग्य पुरयत - जलेन सिञ्चति । क्षेत्रे क्रमशः सस्यानि
मुसलेन - विमुच्यन्ते। वृषभाः
धान्यगुच्छान् आलय नीत्वा । तुषविमुक्त
वयं भक्षयामः।
सन्धिः - पिण्याकं + च = पिण्याकञ्च; उपयु + जते = उपयुञ्जते;
खलं + नीत्वा = खलनीत्वा (० + पञ्चमवर्गाक्षरयोगे
परवर्गपामो भवति । अनुनासिकसन्धिः) ।
-
-
अदन्ति ।
-
29

एकादशः पाठः
माता का?
सपत्नी
अभणत्
दीयताम्
ही
जनी
कारागृहम्
विवदमाना
असाययत्
annunalul
एकस्मिन् गृहे कस्यचित् गृहिणः द्वे भायें अवतताम् ।
तयोरुभयोरपि एकैकस्याः एकैकः पुत्रः अवर्तत । कस्याचित्
रजन्यामेकस्याः कुमारः दैववशात् मृतिमगमत् । तजननी मृतं
स्वशिशु सपन्याः शयने निधाय तत्तनयं खशयने अशाययत् ।
28

ततः प्रभाते जीवन्तं शिशु स्वस्थपुत्रत्वेन विवदमाने ते स्त्रियौ, राज्ञो निकटमगच्छता । राजा तयोर्विवादमाकर्ण्य साक्ष्य- भावात् तत्र कश्चिदुपायं अचिन्तयत्। सः "एनं शिशु छित्वा एकैकस्यै एकैकं खण्डं दिशत” इति भृत्यानादिशत् । एतत् श्रुत्वा सपत्नी राजानमभणत् – “आवयोरुभयोरपि पुत्रो माऽस्तु, यथाऽऽज्ञप्तं क्रियतामिति । अन्या तु सभय कम्पमाना, पुत्रमृतिमसहमाना राजानमवदत् - "हे देव! पुत्रस्तस्यै एव दीयताम्। यथाकथञ्चिदपि पुत्रो जीवतु, मा हन्यतामिति । एतत् आकर्ण्य राजा शिशुवधमसहमानामेव तजननीं विज्ञाय तस्या हस्ते पुत्रं दातुमाज्ञाप्य अन्यां कारागृहं प्रापयत् । पाख्यम् - पिता माता पितृव्यश्च मातुलश्च पितामहः । मातामहश्च श्वश्रश्च श्वशुरः श्यालदेवरौ । पितृष्वसा तथा मातृष्वसा चैव स्वबान्धवाः ।। प्रश्ना:- सपत्नी रात्रौ किमकरोत् ? राजा के उपायमचिन्तयत् ? तदा सपत्नी किमभणत् ! माता किमभणत् ? राजा किमकरोत् ? सन्धिः - तयोः + विवाद = तयोर्विवादम् ; आवयोः + उभयोः अपि = आवयोरुभयोरपि (अकारभिन्नः स्वरः + : मृदुहल अचा वा योगे र् (रेफः) भवति)। राज्ञः + निकट = राज्ञो निकट; पुत्रः + मास्तु = पुत्रो मास्तु पुत्रः + जीवतु = पुत्रो जीवतु; अ+ : = मृदुहला योगे ओकारो भवति) + 24 द्वादशः पाठः कालियदमनम् कदम्बवृक्षः जगाम फणा दमनम् म्रियन्ते आरेमे मृतप्रायः नदी नदः amam KEELAM.C- पुरा द्वापरयुगे भगवान् श्रीकृष्णरूपेण नन्दगोपगृहे निवसति स्म। तदा यमुनासमीपवर्तिनि हदे कालियो नाम (7) 25 कश्चित् क्रूरः सर्पः आसीत् । सः परिवारसहितः प्रतिदिनं स्वविष जले वमति स्म। तेन सर्वमपि हृदजलं विषजलमिवाभवत् । तज्जलं ये पिवन्ति ते तदैव म्रियन्ते स्म । अतः कोऽपि तस्य हृदस्य समीपमपि न गच्छति स्म। कदाचित् गोपबालकैः क्रीडन् कृष्णः तस्य हृदस्य तीर प्राप। अगाधजलसन्दर्शनेन प्रमुदितमनाः कृष्णः जलसमीप यदा गतवान् तदा मित्रैः 'विषमयमिदं जल ' मिति निवारितः। तत्र कालियो नाम सर्पराजस्तिष्ठतीति मित्रमुखात् श्रुत्वा जात- कोपः कृष्णः कदम्बवृक्षमारुह्य जले निपपात। कालियोऽपि ते शब्दं निशम्य क्रुद्धो यावत् बहिरागत्य ददर्श तावत् कृष्णः तस्य फणासु पादेन ताडयामास । तेन प्रहतः कालियः किञ्चिन्मूर्छि- तोऽपि कृष्णं स्वकायेन बबन्ध। तदा कृष्णो युक्त्या तद्वन्धन विमुच्य क्षणात्तस्य फणोपरि आरुह्य नर्तितुमारेभे। तेन कालियः मृतप्रायोऽभवत् । तद्विदित्वा तत्पत्न्यः श्रीकृष्णसमीप- मागत्य खभर्तुः प्राणमिक्षां प्रार्थयन्त । दयानिधिः कृष्णोऽपि 'इमं हदं विहाय गच्छत' इत्युक्त्वा तं विससर्ज । चिरान् लब्धसंज्ञः कालियः बन्धुपरिवारसहितः तं हृदं त्यक्त्वा समुद्र प्रति प्रययौ। मित्रैः देवैश्च बहुधा स्तुतः श्रीकृष्णः गोपाल- बालक सह गोकुलं जगाम। 26 पाठ्यम् - उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥ प्रश्नाः कालियः कुत्र आसीत् ? तेन कृतः अपकारः कः ? सः केन दण्डितः ? कृष्णः तं कुतः विससर्ज ? सः कुत्र जगाम ! कालियस्य पल्यः श्रीकृष्णं किं प्रार्थयन्त ? - वाक्येषु योजयत - यदा - तदा; यावत् - तावत् ; चिरात् ; बहुधा । अर्थः - निवसति स्म = न्यवसत्; ददर्श = अपश्यत्; आसीत् अभवत् ; प्राप-प्रापत् - = अगच्छत् ; निपपात = न्यपतत् ; ताडयामास = अताडयत्; बबन्ध - अबन्नात्; आरेमे = आरभत; विससर्ज = व्यसृजत्; प्रययो = प्रायात् = अगच्छत् । जगाम = अगच्छत् (अत्र पाठे बहवः क्रियाः पौराणिक- भूतकाले उपयुक्ताः। सन्धिः - तत् + विदित्वा = तद्विदित्वा; यावत् + बहिः यावबहिः, वाग्बलम् (पदान्तानां अनुनासिकेतरवर्गहला स्वर्गतृतीयो भवति अचा मृदुहला वा योगे) %3D वाक् + बलं

No text on this page.

श्री - ता? शुलपक्षः, कृष्णापक्षः इलिनो पक्षौ किल? तत्र
शुक्लपक्षस्य अन्तिमा तिथिः 'पूर्णिमा' इति, कृष्णपक्षस्य
अन्तिमा तिथिः 'अमावास्या' इति च उच्यते ।
गो - अरे! पूर्णिमा इति नाम कुतः ? काणिमा इति कुतो नास्ति?
श्री - अरे वक्र ! पूर्णिमायाँ चन्द्रः पूर्णः भवति । अतः 'पूर्णिमा'
इति तस्याः नाम भवति। अमायर्या चन्द्रः न शोभते ।
अत: 'अमा' इति 'अमावास्या इति च वदन्ति ।
गो- तथा वा! अस्तु । त्वं एकादश्यामेव कुतः देवालयं गच्छसि?
श्री- एकादशी विष्णुतिथिः। तस्यां उपवासं कृत्वा यः भगवन्तं
नमति सः सुखी भवति, पुण्यं च लभते ।
गो- एवं वा! तथा चेत् अहमपि आगच्छामि। उभावपि
देवालयं गच्छावः।
उभौ भजनं कुरुतः।
हरे राम हरे राम राम राम हरे हरे।
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे॥
प्रश्न: - त्वं एकादश्यामेव कुतः देवालयं गच्छसि ?
न्धिः - कृष्णपक्षः + च = कृष्णपक्षश्च; ताः + तिथयः तास्तिथयः;
खगः + टिभिः खगष्टिट्टिभः (विसर्गः च-छाभ्यां योगे
'श्' भवति; त-थाभ्यां योगे सकारो भवति; ट-दाभ्यां योगे
षकारो भवति)।
29

ल्यप् प्रत्ययान्तानि अव्ययानि
आ + नीत्वा = आनीय; आ + गत्वा = आगत्य; आ4
रूद्वा
नि शामित्व
निशम्य (उपसर्गयों
धातोः क्त्वाप्रत्ययस्थाने ल्यप् प्रत्ययो भवति )।
चतुर्दशः पाठः
भरतः
पुरा दुष्यन्त इति कश्चित् राजा बभूव । सः कदाचित
मृगयार्थ वनं जगाम। मृगयापरिश्रान्तः सः कण्वमहर्षेः आश्रय
ययौ। तल शकुन्तला नाम कन्यां चकमे। तां म गान्धर्व
विधिना उपयेमे । कश्चित्कालानन्तरं तां त्यक्त्वा स नगरं प्राप
80

राजमोगलालितः दुष्यन्तः शकुन्तला दिलसार। विशद
भर्ता नागतवानिति शकुन्तला नापिकुमारैः सह दुष्यन्तसभामाप ।
दुष्यन्तः "त्वं न मया परिणीत
गर्भिणी तातिरश्चकार।
सा मारीचमहर्षेः आश्रमे उवास। दशमे मासे चक्रवर्ति-
लक्षणोपेतं कुमारं सुषुके। महर्षिः "सर्वदमनः" इति तस्य नाम
चकार। स बाल्ये सिंहशिशुभिः चिक्रीड। सः धर्मेण राज्य
बभार। अतः 'भरत' इति नाम भेजे। तस्मिन् राज्यं पालयति
मति प्रजाः सुखेन वकृतिरे। तेन सुरक्षितत्वात् अयं देशः
भारतदेशः, भारतवर्षः, भरतखण्डः इति च अद्यापि व्यवहियते।
पाठ्यम् - गच्छति पुरश्शरीरं धावति पश्चादसंस्तुतं चेतः।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥
प्रश्ना:- भरतः कस्य पुतः । तस्य मातुः नाम किम् ? भरतस्य
नामान्तरं किम् ? भरतः राज्यं कथं पालयामास ? भारतदेश
इति नाम कस्य कुतः अभूत् ?
अव्ययानि - तत्र, अत्र, इति, च, चिरात् , सह, एव ।
अर्थाः - बभूव = अभवत् ; जगाम = अगच्छत् ययो
- अयात;
चकमे अकामयत; उपयेमे उपायमत-उदवहत् ; प्राप-पापत् ;
विसस्मार-व्यस्मरत् ; चकार अकरोत् ; उवास = अवसत् ;
सुषुवे = असूत; भेजे अभजत; बभार = अभरत् = अवहत् ;
ववृते अवर्तत आसीत् ; असंस्तुतं अतृप्तम् ; चेतः मनः ।
-
81

पश्चदशः पाठः
पत्रलेखनम्
मद्रास,
ति. २०-८-१९५६.
श्रीमते
रमाकान्ताय ,
हनुमान् घट्टः, काशी।
प्रिय रमाकान्त,
अत्र सर्वे वयं दैवकृपया कुशलिनः । तत्र बन्धुवर्गसहितस्य
तव कुशलं पदेपदे प्रतीक्षे।
अहमिदानी "परिचय"
परिचय, परीक्षार्थ पठामि। परीक्षा
सन्निहिता वर्तते । संस्कृतभाषाप्रचारिण्या समया प्रचाल्यमानाः
परीक्षाः परिचयः, अमिज्ञः, विचक्षणः, समर्थः, कोविदः
इति पञ्च सन्ति । क्रमशः ताः सर्वा अपि परीक्षाः दातुं
प्रयतिष्ये। यद्यपि अहं आंग्लपाठशालायां पठामि तथापि
अवकाशे संस्कृतमपि पठन् अस्मि ।
संस्कृतभाषा अतीव मधुरा। त्वमपि संस्कृतं पठित्वा
परीक्षां देहि। तव प्रत्युत्तरं प्रतीक्षे।
,
त्वन्मित्रम्,
रामकृष्ण
82

पोडशः पाठः
पिता - मधुसुदन, अब पाठशालायां किमपठः ?
मधुसूदनः - पितः, अछ नमोपामाया दिशः उद्दिश्य अबोधयत् ।
पिता - वदधोधयत् तत् सारखि का ?
मधु - बाढम् । मरामि।
पिता - तथा चेत् दिशा झालोपाचे विशदय ।
मधु - अहं सूर्योदयकाले सूर्याभिवं तिष्ठामि । बाहू प्रसारयामि ।
तदा ममाग्रे विद्यमाना कि प्राची। पश्चाद्धागे विधमाना
लिक् प्रतीची। मम दक्षिणबाहुः दक्षिणां दिशं सूचयति ।
कामबाहुश्चोतरां दिशं निरूपयति ।
पिता - साधु, त्वदुक्तं साधु। तमोपाध्यायः दिशं ज्ञानाय समी-
चीनमुपायमबोधयत्।
AMA
(9)
33

मधु - तर्हि भोः पितः, सूर्यः सर्वदा प्राच्यामेव दिशि उदेति। चन्द्रस्तु कदाचित् पूर्वस्यां, कदाचित् पश्चिमायामुदेति। तत्र किं कारणम् ? पिता - वत्स, चन्द्रः अपि सदा प्राच्या दिश्येव उदेति। तथापि सः मध्याह्ने सूर्यस्य कान्त्या तिरस्कृतः आकाशे न दृश्यते। यदा सूर्यः अस्तं गच्छति तदा सः प्रकाशते । सूर्यास्तमय- समये चन्द्रः यत्र विद्यते तत्रैव शोभते। मधु - पितः, पूर्णिमायामेव कुतः चन्द्रः पूर्णः भवति ? पिता - पूर्णिमादिने सूर्यास्तमयसमये चन्द्रः प्राच्यां दिशि उदेति। तदा सूर्यस्य सर्वे किरणाः चन्द्रबिम्बे दर्पण इव पूर्णतया पतन्ति । अतः चन्द्रः पूर्णतया प्रकाशते । मधु - प्रतिदिनं सूर्यकिरणाः सर्वेऽपि चन्द्रे न पतन्ति किम् ? पिंता - नं। भूमिः सूर्य परितः भ्रमति ; चन्द्रश्च भूमि परितः । एवं भ्रमणे भूम्या व्यवधानात् सर्वे सूर्यकिरणाः चन्द्रो- परि एकदैव न पतन्ति । अपि तु क्रमेण अधिकतया स्वल्पतया च पतन्ति । यदा किरणानां पतनं वर्धते तदा शुक्लपक्ष इति, यदा क्षीयते तदा कृष्णपक्ष इति च उच्यते । मधु - अपूर्वोऽयं विषयः मया ज्ञातः ! मम सहपाठकाय राम- चन्द्राय श्वः कथयिष्यामि। %3 84

पाठ्यम् -सप्तविंशति ताराश्च तथा द्वादश राशयः ।
नव ग्रहाः नभोमार्गे भ्रमन्ति सततं स्वयम् ।।
प्रश्न: पूर्णिमायामेव कुतः चन्द्रः पूर्णः भवति ?
अव्यायानि- पदेपदे, इदानीं, अद्य, अतीव, सर्वदा।
वाक्येषु योजयत - बाढम् , साधु, एकदैव, क्रमेण ।
-
सप्तदशः पाठः
भारतकथा
हस्तिनापुरे धृतराष्ट्रः, पाण्डुः इति च द्वौ भ्रातरौ आस्ताम् ।
तयोः ज्येष्ठः धृतराष्ट्रः अन्धः। कनिष्ठः पाण्डुः पाण्डुरोगी।
धृतराष्ट्रस्य शतं पुत्राः। तेषु दुर्योधनः दुःशासनश्च मुख्यौ।
35

पाण्डोः धर्मपुत्रः, भीमः, अर्जुनः, नकुलः, सहदेवश्चेति पञ्च पुत्रोः आसनु। दुर्योधनादयः दुष्टाः । सर्मपुत्रादयः साधवः । पाण्डुः ऋषिशापेन दिवं प्राप। धृतराष्ट्रः पाण्डवेभ्यः अध राज्य इदौ। ते स्वराज्यं धर्मेण पालयामासुः प्रजाः पाण्डवेषु अनुरक्ता: आसन् । तदसहमानः दुर्योधनः पाण्डवेश्यः राज्यं हतुपाय- मचिन्तयत्। धर्मपुत्रः द्यूतक्रीडायां प्रीतिमान् इति ज्ञात्वा तं द्यूताय आजुहाव । दुर्योधनस्य मातुलः शकुनिः द्यूतविद्याया- मतीव समर्थः । शकुनेः धर्मपुत्रस्य च द्यूतक्रीडा प्रवृत्ता। तत्र प्रथमं धर्मपुत्रः राज्यं पणतया न्यक्षिपत् । बञ्चक शकुनिः तत् अजयत्। ततः धर्मपुत्रः क्रमेण स्वपत्नी द्रौपदी पणमकल्पयत् । साऽपि शकुनिना जिता। तदैव दुर्योधनः दुःशासन आहूय सभायां द्रौपद्याः मानभङ्गं कर्तुमादिदेश । दुःशासनः द्रौपद्योः वस्त्राणि सभायामाचकर्ष । द्रौपद्या सकरुण प्रार्थितः कृष्णः तस्या व वर्धयित्वा मान ररक्ष । ततः "द्वादशवत्सरपर्यन्त बनवासं, त्रयोदशे वत्सरे अज्ञातवासं च कृत्वा आगच्छरा, पश्चात् राज्यं दास्यामि" इत्युक्त्वा दुर्योधनः पाण्डवान् द्रौपदी च वनाय प्रेषयामास ।

द्वादशवर्षपर्यन्तं बने पाण्डवाः बहूनि कष्टानि सोदा पश्चादेकवर्ष- पर्यन्तं विराटस्य नगरे अज्ञातवासमकुर्वन् । त्रयोदशे वर्षे पूर्णे सति पाण्डवाः दुर्योधनं "राज्यं देही” ति प्रार्थयन्त। सः “न दास्यानी" त्युवाच। ततः पाण्डवानां धार्तराष्ट्राणां च महत् युद्धमभवत् । श्रीकृष्णः पाण्डवानां पक्षे आसीत्। अतः पाण्डवाः दुर्योधनादीन् हत्वा राज्य प्रापुः। CHOLA- प्रश्नाः - धृतराष्ट्रस्य कति पुत्राः ? तेषु मुख्यौ कौ? पाण्डोः पुत्राः के ? दुर्योधनः पाण्डवेभ्यः राज्य कथमपजहार ? पुनः राज्य- दानाय दुर्योधनः कं नियम कल्पितवान् ? पाण्डवानामेव युद्धे कुतः विजयः लब्धः ? विवरणम् – पाण्डवाः = पाण्डोः पुलाः, धार्तराष्ट्राः = धृतराष्ट्रस्य पुत्राः, द्रौपदी = द्रुपदस्य अपत्य स्त्री। सन्धिः - इति + उक्त्वा = इत्युक्वा, इति + उवाच-इत्युवाच, गुरु+ आज्ञा = गुर्वाज्ञा, घेनु + अधिपतिः धेन्वधिपतिः, पितृ + अर्चन=पित्रर्चनत् , भर्तृ + अनुसरण = भर्तीनुसरणम् । इकारः + असवर्णः अच् = य् भवति, उकारः + असवर्णः अच् = व् भवति, ऋकारः + असवर्णः अच् = र् भवति । (यणादेशसन्धिः) 87 -- प्रयोगविशेषः (१) त्रयोदशे वर्षे पूर्णे सति (त्रयोदशवर्षाणां पूर्त्यनन्तरम्) पाण्डवाः राज्य प्रार्थयन्त । (२) रामे वनं गते सति (रामवनगमनानन्तरम् ) दशरथ अम्रियत । (३) जानक्यां आनीतायां सत्यां (जानक्याः आनयनाः नन्तरम् ) लङ्का नाशमभजत । (४) स्त्रीषु दुष्टासु सतीषु (स्त्रीणां दोषात् ) जायते वर्ण-

No text on this page.

,
पेतः भवान् निरूपितः। तत् यावत् लगवेला न विचलति
तावत् सत्वरमागम्यतां देवेन' इत्युत्थाय चलितः।
ततोऽसौ राज्यलोभाकृष्टः कर्परतिलकः शृगालवमना
धावन् महापङ्के निमग्नः, शृगालः भक्षितश्च ।
उपायेन हि यच्छक्यं च तच्छक्यं पराक्रमैः "
(हितोपदेशात्)
?
प्रश्नाः- शृगालाः किमचिन्तयन् ? वृद्धशृगालेन किं प्रतिज्ञातम् !
स कथं हस्तिन वञ्चयति स्म ? अनया कथया का नीतिः
ज्ञाता?
सन्धिः - यत् + शक्यं = यच्छ्ययम् , प्राक् + शिरः = प्राक्छिरः,
अप् + शक्तिः = अप्छक्तिः, द्विट् + शस्त्रम् = विट्छस्त्रम् ,
तद् + श्लोकः = तच्छ्लोकः ।
(अनुनासिकभिन्नः ऊष्मभिन्नश्च हल् + श+अच् वा, अन्तस्थः
वा, अनुनासिकः वा चेत् सवर्णस्य छवर्णः भवति)
प्रयोगविशेषः
विना राज्ञा अवस्थातुं युक्तम् ।
विना राजानं
विना राज्ञः
धन विना, धनेन विना, धनात् विना जीवनं कष्टम् ।
(विना योगे द्वितीया, तृतीया, पञ्चमी वा विभक्तिः प्रयुज्यते)

एकोनविंशः पाठः दिलीपचरितम् अस्ति सूर्यवंशे दिलीपो नाम राजा। तस्य सुदक्षिणा नाम्नी अनुरूपाः भार्या बभूव। चिरादपि तयोः दम्पत्योः सन्ततिः नाभवत् । तेन खिन्नौ लौ . जम्पती स्वकुलगुरोः वसिष्ठस्य आश्रमं प्राप्य तमै निवेदयामासतुः। महर्षिः योगदृष्ट्या पुत्रविघ्नकारणं ज्ञात्वा राजानमेव- माह "राजन् ! पुरा त्वं देवनगरे इन्द्र संसेव्य प्रतिनि- वर्तमानः मार्गस्थायाः कामधेनोः प्रदक्षिणं न कृतवान् । तेन क्रुद्धा (10) 41

कामधेनुः ‘यावत् मम सन्तति न पूजरियाल तावत् ते
सन्ततिः न भविष्यति' इति शशाप। अतः स्वं तस्याः सुतां
नन्दिनीमिमामाराध्य । अझ्याः अनुग्रहेण तव पुनः भविष्यति
इति ।
अथ तौ दम्पती तदाज्ञां शिरसा वहन्तौ तदाश्रमस्थां
नन्दिनीनाम्नी धेनुं तृणदानेन, जलपायनेन, अभिषेकादिभिश्च
सम्यक् पूजयामासतुः । तेन भृशं सन्तुष्टा नन्दिनी अमृततुल्य
श्रीरं ताभ्यां ददौ।
अचिरादेव सुदक्षिणा गर्भिणी जाता। पूर्णे नवमे मासे
सुदक्षिणा सुकुमार कुमार सुषुवे। दिलीपः तस्य 'रघुः' इति
नाम चकार। तस्यैव वंशः रघुवंश इति प्रसिद्धि प्रोप ।
'रघुवंश' नामकं काव्यमपि: कालिदासेन विरचितम् ।
प्रश्नाः - दिलीपस्य कुतः सन्ततिः नाभवत् ! वसिष्ठः कमुपायमवोचत् !
नन्दिनी नाम का? दिलीपः नन्दिनी कथमाराधयत् ?
दिलीपस्य पुत्रः कः ? कामधेनुः दिलीप कथमशपत् ?
रघुवंशे - तदन्वये शुद्धिमतिः प्रसूतः शुद्धिमत्तरः ।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥

प्रयोगः - कर्तरिप्रयोगः कर्मणिप्रयोगः
अहं पाठं पठामि
मया पाठः पठ्यते
त्वं पाठं पठसि त्वया पाठः पठ्यते
सः पाठं पठति
तेन पाठः पठ्यते
(कर्ता प्रथमाविभक्तो (कर्ता तृतीयाविभक्तो)
कर्म द्वितीयाविभक्तो) कर्म प्रथमाविभक्ती
क्रियापदं यकारसहित
आत्मनेपदश्च भवति)
अमरकोश: - दम्पती जग्पती जायापती भार्यापती च तौ।
विंशः पाठः
पत्त्रालयः
सुशीला - सखि कमले, कुत्र वेगेन गच्छसि ?
कमला - पत्रालय प्रति गच्छामि किल।
सु - पत्रालये किं करिष्यसि ?
क - पत्रपेटिकायां पत्रं निक्षेप्स्यामि ।
सु - किं तत् पत्रम् ?

क - तद्वो, मे भ्राता दिल्लीनिवासिने स्वमित्राय लिखतवान् । तत् पत्रपेटिकायां पत्रं प्रशिोत्युक्तवान् । तदादाय गच्छामि । सु - अस्तु। त्वं पत्रपेटिकायां पतं प्रक्षिपसि चेत् तत् कथं दिल्लीस्थं हे धातुः मित्रं प्रामोति ? न हि असाकमिव पत्रस्य पादौ स्तः। क - अहो! एतदपि न जानासि ? सु - न जानामि खलु। क - तर्हि शृणु। पतपेटिकायां पत्रेषु प्रक्षिप्तेषु मत्सु, नियतममये पत्रालयभृत्यः तानि पत्राणि पेटिकातः गृह्णाति। पत्रोपरि विद्यमानायाः मूल्यचीटिकाया उपरि तिथिमहितां स्थान- मुद्रामङ्कयति। सु-ततस्ततः? क - ततः समानस्थाननामवन्ति पत्राणि एकीकृत्य, पृथक् पृथक सश्चिकासु निक्षिप्य बनाति । अनन्तरं पत्रवाहकाः एकैको सञ्चिका आदाय तत्तत्स्थानं प्रति धावन्ति। अथवा धूम- शकट बाष्पशकटं वा प्रापयन्ति । सु - अहो, रसवान् खल्वयं विषयः ! ततस्ततः ?

के - ततः समस्थानिकः पत्रालयमृत्यः स्वग्रामनामाङ्किता
सांधा गृहीत्वा पनालयं गच्छति। तत्र पत्राणामुपरि
तत्प्राप्तिदिनमुद्रा अङ्कयक्ति ।
सु- ततस्ततः?
क - लतः पनदाता तानि पहाणे गृहीत्वा तत्तन्नामवते ददाति ।
सु - प्रियताल, अब स्मात् अपर्व कश्चित् विषयमहं
ज्ञातवती।
क - अहो! या सह भाषमाया भया महान् कालो नीतः।
पश्चादागत्य अन्यानपि विध्यान कथयामि। नमस्ते !
सु - नमस्ते।
-
PuruuNCHYA-448MMAR LIMINARENARAINManate
पाठ्यम् - पत्रालये पनपेट्यां पत्रं पातितमात्मना ।
तिथिमुद्राङ्कितं धूमशकटे व्योमयानके ।।
नीतं पुनर्मुद्रितञ्च पत्रदात्रा प्रदीयते ।
छन्नलेखः पोटलिका द्रव्यादेशोऽपि तत्समाः ॥
प्रश्नः- पत्रपेटिकायां पत्रं निक्षिसि चेत् कथं मित्र प्राप्नोति ?
लिङ्गपरिवर्तनम् - लिखितवान्
लिखितवती, ज्ञातवान्
ज्ञातवती, कृतवान्
कृतवती, उक्तवान्
प्रयोगविशेषः पेटिकायां पत्र निक्षिपसि चेत् (यदि) कथं मित्रं
प्रामोति ? पुरुषः विद्यां सम्पादयेत् यदि (चेत् ) तर्हि (तदा)
पूजनीयो भवेत् । यदि चेत् -- तर्हि तदा = हेतुहेतुमद्भावः ।
-
उक्तवती।
(11)
"45

एकविंशः पाठः
मुनिः मूषिकश्च
अस्ति गौतमस्य मुनेस्तपोवने महातपा नाम मुनिः ।
तेन आश्रमसन्निधाने मूषिकशाबको काकमुखाद्भष्टो दृष्टः। तेन
दयायुक्तेन सः नीवारकणैः संवर्धितः। तं च मूषिकं खादितुं
यत्नादन्विष्यन् विडालो मुनिना दृष्टः। ततो भीतो मूषिका
मुनिना तपःप्रभावात् बिडालः कृतः। स बिडालः कुक्कुरात्
बिभेति स्म । ततोऽसौ कुक्कुरः कृतः। सोपि व्याघ्रात्
अविभ्यत् । ततोऽसौ व्याघः कृतः। अथ व्याघ्रमपि तं मुनिः
46

-
मूषिकनिर्विशेष पश्यति स्म । अतः सर्वे तत्रत्याः जनाः तं मुनि
व्याघ्र च दृष्ट्वा वदन्ति "अनेन मुनिना मूषिकोऽयं व्याघ्रता
नीतः" इति।
एतत् श्रुत्वा व्याघ्रः सव्यथोऽचिन्तयत् – 'यावदयं
मुनिः जीविष्यति तावदिदं मम स्वरूपाख्यानमकीर्तिकर न
पलायिष्यते । इति। समालोच्यैवं स मुनि हन्तुं समुद्यतः।
मुनिना तस्य चिकीर्षितं ज्ञात्वा 'पुनर्मूषिको भव' इत्युक्त्वा
मूषिक एव कृतः।
" नीचः श्लाघ्यपदं प्राप्य स्वामिन हन्तुमिच्छति
(हितोपदेशात्)
प्रश्नाः मूषिकः मुनिना कुत्र दृष्टः ? मुनिः मूषिकं कुतः व्याघ्र
कृतवान् ।
व्याघ्रः किमचिन्तयत् ? सः कथं पुनः मूषिक:
अभवत् ? अनया कथया का नीतिः बोध्यते ?
प्रयोगविशेषः यावत् अयं मुनिः जीविष्यति तावत् इदं न
पलायिष्यते। यावत् रामः पर्णशालामागच्छत् तावत् रावणः
सीतामपाहरत् ।
( यावत् - तावत् = तदन्तरे अथवा तत्पूर्वमेव )
--

No text on this page.

नयोविंशः पाठः धातुपाठः -1 'कृ' करणे वर्तमानकाल: द्वि. ब. कुर्वन्ति ए. करोति करोषि करोमि कुरुतः कुरुथः कुर्वः कुर्मः अकरोत अकरोः अकरवं भूतकाल: अकुस्तां अकुरुतम् अकुर्व अकुर्वन् अकुस्त अकुर्म करिष्यति करिष्यसि करिष्यामि भविष्यत्काल: करिष्यतः करिष्यथः करिष्यावः करिष्यन्ति करिष्यथ करिष्यामः करोतु, कुरुतात् विधिः कुस्तां कुरुतं करवाव कुर्वन्तु कुरुत करवाम कुरु, कुस्तोत् करवाणि (18) 48 चतुर्विशः पाठः धातुपाठः -2 'भू' सत्तायाम् (परस्मैपदी) वर्तमानकाल: (लट्) भवति भवतः भवथः भवसि भवामि भवन्ति भवथ भवामः भवावः भविष्यति भविष्यसि भविष्यामि भविष्यन्ति भविष्यथ भविष्यामः अभवत् अभवः अभवम् अभवन् अभवत अभवाम भविष्यत्काल: (लट्) भविष्यतः भविष्यथः भविष्यावः भूतकाल: (लङ्) अभवतां अभवत अभवाव पुराणभुतकालः (लिट्) बभूवतुः बभूवथुः बभूवित्र विधिः (लोट) भवतां भवत भवाव बभूव बभूविथ बभूव बभूवुः बभूव बभूविम भवतु, भवतात् भव, भवतात् भवानि यदि भवन्तु भवत भवाम एकम् दश विंशतिः एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टविंशतिः ऊनत्रिंशत् त्रिंशत् एकत्रिंशत् द्वात्रिंशत् त्रयस्त्रिंशत् चतुत्रिंशत् पञ्चत्रिंशत् षट्त्रिंशत् सप्तत्रिंशत् अष्टत्रिंशत ऊनचत्वारिंशत् चत्वारिंशत् पञ्चविंशः पाठः संख्याः एकचत्वारिंशत् पञ्चाशीतिः द्विचत्वारिंशत् षडशीतिः त्रिचत्वारिंशत् सप्ताशीतिः चतुश्चत्वारिंशत् अष्टाशीतिः पञ्चचत्वारिंशत् ऊननवतिः षट्चत्वारिंशत् नवतिः सप्तचत्वारिंशत् एकनवतिः अष्टचत्वारिंशत् द्विनवतिः ऊनपञ्चाशत् त्रिणवतिः पञ्चाशत् चतुर्णवतिः चतुष्पञ्चाशत पञ्चनवतिः ऊनषष्टिः षण्णवतिः षष्टिः सप्तनवतिः अष्टनवतिः ऊनसप्ततिः ऊनशतम् सप्ततिः शतम् चतुस्सप्ततिः सहस्रम् ऊनाशीतिः दशसहस्रम अशीतिः लक्षम् एकाशीतिः दशलक्षम् यशीतिः कोटिः व्यशीतिः दशकोटिः चतुरशीतिः अर्बुदम् चतुःषष्टिः 51

नीतिश्लोकाः
(वर्णानुक्रमेण)
२
४
अनुगन्तुं सतां वर्म कृत्स्नं यदि न शक्यते ।
स्वल्पमप्यनुगन्तव्यं मार्गस्थो नावसीदति ॥
आत्मबुद्धिः सुखायैव गुरुबुद्धिः विशेषतः ।
परबुद्धिः विनाशाय स्त्रीबुद्धिः प्रलयावहा ॥
इच्छेत् चेत् विपुलां मैत्री नीणि तत्र न कारयेत् ।
वाग्वादमर्थसम्बन्धं तत्पत्नीपरिभाषणम् ॥
ईयी घृणी वसन्तुष्टः क्रोधनो नित्यशङ्कितः ।
परभाग्योपजीवी च षडेते दुःखभागिनः ।।
उत्तमा आत्मना ख्याताः पितुः ख्याताश्च मध्यमाः ।
अधमा मातुलात् ख्याताः श्वशुराचाधमाधमाः ॥
ऊपरे वर्षितं नीरमुपदेशश्च मूर्खके ।
अपात्रे च कृतं दानं सद्य एव विनश्यति ॥
ऋणशेषश्चामिशेषः शत्रुशेषस्तथैव च ।
पुनः पुनः प्रवर्धन्ते तस्मात् शेष न रक्षयेत् ॥
एकस्तपो द्विरध्यायी त्रिभिगीत चतुः पथम् ।
सप्त पञ्च कृषीणां च संग्रामो बहुभिर्नेनैः ॥
५
w
6
BLAUNAULD..
नीतिश्लोकाः परिचयपाठ्यभागे अन्तर्गताः न भवन्ति ।
52

९ १० ११ १२ ऐन्द्र वापि पदं प्राप्य नहुषो नागतां ययौ । महतामपकारेण को न नष्टो निवेदय ? ॥ ओजसा सहितं धीरं प्रजारजनतत्परम् । स्वयं वृणीते राज्यश्रीः सुन्दरी सुन्दरं यथा । औरसं कृतसम्बन्ध तथा वंशक्रमागतम् । रक्षित व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ।। अम्भसा भिद्यते सेतुः तथा मन्त्रोऽप्यरक्षितः । पैशुन्याद्भिद्यते स्नेहो वाचा भिद्येत कातरः ॥ कर्तव्यमेव कर्तव्य प्राणैः कण्ठगतैरपि । अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि ॥ खरं श्वान गों मत्तं रण्डां च बहुभाषिणीम् । राजपुत्रं कुमित्रं च दूरतः परिवर्जयेत् ॥ गतश्रीः गणकान् द्वेष्टि गतायुश्च चिकित्सकान् । गतश्रीश्च गतायुश्च ब्राह्मणान् द्वेष्टि भारत ॥ घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्वा रासभस्वरम् । येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ।। चक्षुःपूतं न्यसेत् पाद वस्त्रपूतं जलं पिबेत् । सत्यपूतां बदेद्वाणी मनःपूत समाचरेत् ॥ छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे। फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥ १३ ३ १५ १६ १७ १८ 58

१९
२०
२१
२२
२३
जननी जन्मभूमिश्च जाह्नवी च जनार्दनः ।
जनकः पञ्चमश्चैवा जकाराः पञ्च दुर्लभाः ॥
तस्करस्य कुतो धर्मः दुर्जनस्य कुतः क्षमा ।
वेश्यानां च कुतः स्नेहः कुतः सत्यं च कामिनाम् ।।
स्थान एवं नियोज्यन्ते भृत्याश्चाभरणानि च ।
न हि चूडामणिः पादे नूपुरं नि धार्यते ।
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।
भुंक्ते भोजयते चैव षडिधं प्रीतिलक्षणम् ।।
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः !
पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ॥
नदीनां नखिनां चैव शृङ्गिण शस्त्रपाणिनाम् ।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥
पठतो नास्ति मुखत्वं जपतो नास्ति पातकम् ।
मौनिनः कलहो नास्ति न भयं चास्ति जाग्रतः ।।
फलहीन नृपं भृत्याः कुलीनमपि चोन्नतम् ।
सन्त्यज्यान्यत्र गच्छन्ति शुष्क वृक्षमिवाण्डजः ।।
बह्वाशी स्वल्पसन्तुष्टः सुनिद्रः शीघचेतनः ।
प्रभुभक्तश्च शूरश्च ज्ञातव्याः षट् शुनो गुणाः ।।
भयो वा यदि वा हर्षे सम्प्राप्ते यो विमर्शयेत् ।
कृत्यं न कुरुते वेगात् न स सन्तापमाप्नुयात् ।।
२५
२६
२७
૨૮
C4

२९ ३१ ३२ ३३ मक्षिका मशको वेश्या मूषको याचकस्तथा । ग्रामणीगणकश्चैव सप्तैते परभक्षकाः ।। ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोमैत्री विवाहश्च न तु पुष्टविपुष्टयोः ॥ रक्षन्ति कृपणाः पाणी व्यं व्यमिवात्मनः । तदेव सन्तः सततमुत्सृजन्ति यथा मलम् ।। लालने बहवो दोषाः ताडने बहवो गुणाः । तस्मात् पुत्रं च शिष्यं च ताडयेच तु लालयेत् ।। वनानि दहतो वहः सखा भवति मारुतः । स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥ शनैः पन्थाः शनैः कथाः शनैः पर्वतमस्तके । शनैर्विद्या शनैर्वित्तं पञ्चैतानि शनैः शनैः ।। षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भयं क्रोध आलस्य दीर्घसूत्रता ।। सम्पत् सरस्वती सत्यं सन्तानं सदनुग्रहः । सत्ता सुकृतसम्भारः सकाराः सप्त दुर्लभाः ॥ हतं ज्ञानं क्रियाहीनं हताश्चोज्ञानिनो नराः । हतं चानायकं सैन्यमभर्तारो हताः स्त्रियः ।। क्षमातुल्यं तपो नास्ति न सन्तोषात् परं सुखम् । न तृष्णायाः परो व्याधिः न च धर्मो दयापरः ॥ ज्ञानविद्याविहीनस्य विद्याजालं निरर्थकम् । कण्ठसूत्रं विना नारी ह्यनेकाभरणैर्युता ॥ ३५ ३६ ३ ३८ ३९ कठिनशब्दार्थः प्रथमः पाठ D = Wall कवाटम् = Door कुड्यम् GTE = Timber मितिः = Wall छदनं Roof वितर्दिः = Verandah गवाक्षम् - Window द्वारन् = Entrance % 3D द्वितीयः पाठः छात्रः = Student कृष्णफलकम् Blackboard सहपाठकः = Classmate चत्वारिंशत् = Forty जानाति = He knows बाल: Boy पठति = Reads प्रातः Morning कदया = Class सायम् = Evening बोधयति Teaches पाठशाला --- School - - ma- लाभूलम् = Tail तृतीयः पाठः महिषी - Buffalo घृतम् Ghee अपूपः Cake कथयित्वा = Making boiled कापिकापानीयम् = Coffee श्रोत्रियाः = Well behaved पृथक् Seperate साता - Dewlap Faigat: = More tasty शृङ्गम् = Harn पिबति = He drinks AM 66 - D .. नवनीतम् = Butter वत्सः - Calf दुग्धं = Milk गळ: = Neck = Cow तक्रम, दधि Butter milk अनुः कन्दुकः = Ball 5- चतुर्थः पाठः यतमानः = Trying विपक्षः = Opposite party अधिः Foot बतते Tries नैपुण्यम् Skilness इदानीम् = Now क्रीडाङ्गणम् Play-ground वक्रदण्डः Bat आह्वयत Call उत्क्षिपति Throws Here केचित् Some केचन Some - - पश्चमः पाठः - व्याधः Hunter विक्तं Bitter सारमेयः Dog घायं Astringent हरिणः = Deer रोहन्ति = Grow पाषाणः Stone घ्नन्ति They kill केषाञ्चन Certain (adj.) faali Day time केचित् = Some persons क्षुद्रः Small मृगया Hunting गृह्णाति Catches इतस्तत. Here and there सौग्यः = Gentle Kill A rhinoceros % 3D - % % - - (14)

वृकः = Wolf
%
3D
उपयुज्यन्ते = Being used
कतिपयानि = Some
व्याघ्रः Tiger
भल्लकः = Bear
चित्रकायः A chita
fift: = Mountain
निलीनः Hide
%D
षष्ठः पाठः
१. करेण पादं मुखे विनिवेश्य बटय पत्रस्य पुटे शेते यः मुकुन्दः
तमहं मनसा स्मरामि ।
२. धवलदेहा ब्रह्मणः भार्या सरस्वती वीणां पुस्तकं च हस्तयोः धृत्वा
हंसं आरुह्य वर्तते । तां शतकृत्वः नमामि ।
३. क्षीरसमुद्रात् जातां कृपायुक्तां विष्णुपत्नीं सदा सेवे। तेन सर्वाः
सम्पदः समृद्धाः भविष्यन्ति ।
४. पार्वतीनन्दन भक्तानां अनेकवरप्रदं गजमुखं एकदन्तं विघ्नेश्वर
अहनि च दिवा च सेवामहे।
५. अहं
अहं विष्णोः पादं वन्दे, विष्णु सर्वदा पूजयामि, विष्णोः
पवित्र नाम वदामि, शाश्वतं विष्णुतत्वं चिन्तयामि ।
६. ईश्वरः अर्ध नारी, चन्द्रकिरणवत् धवलः । चन्द्रः सूर्यः अमिश्च
तस्य नेत्राणि । तस्य शिरसि चन्द्रखण्डः वर्तते। तादृशाय
ईश्वराय नमः ।

७. भक्तवरप्रदः, सकलगुणैः रग्यः, सीतामनोहरः श्रीरामः सदा अस्माकं शुभं वितरतु । ८. लक्ष्मीनाथाय, शुभाधाराय, भक्तरक्षकाय, वेङ्कटादिस्थिताय श्रीनिवासाय मङ्गलं भवतु । % - सप्तमः पाठः कटाहः A shallow boiler इक्षुः Sugarcane शोषयति Makes dry गुडम् Jaggery कार्मिकः Worker इक्षुक्षेत्रम् Sugarcane crop शर्करा Sugar ब्रूते Tells पर्व -- Joint 67: = Bamboo - % 3D % 3D अष्टमः पाठः बुभुक्षितः = Hunger भ्रमति Circulates आपूपिकः Seller of cakes fastofa = He sells जम्बुकः = Fox श्रावय Make heard fasua = How much उद्घाटितवान् = Opened वञ्चकान्तरम् = Another झटिति = At once fradulent वञ्च्यते = Cheated भाण्डम् = Basket MET = Branch % 3D नवमः पाठः शफ:=The hoof मूल्यम् बहुलः = In large number गर्दभः Price Donkey %3- 59 उत्सवयात्रा = Festival तैलशकटः = Motor car लेखवाहकः = Messenger तुरगः = Horse तुरङ्गः Horse उष्ट्रः = Camel procession Ploughs भूखामी Land lord 09: = Warrior % 3D = Rice दशमः पाठः कृषीवल: = Farmer मुसलः = A pestle file: = Paddy शूपः = A winnowing धान्यगुच्छ:=Bunch of grains basket लवित्रम् = A sickle तण्डुलः खलः = Place of grains तुषः = The husk of rice = Round stone a319774 = A machine Plough for rising water बुलम् Bran पलालम् = Dry grass पिण्याकम् Cake सस्यम् Crop तटाकः = Tank % 3D ततः = After एकादशः पाठः गृही = Family man श्वशुरः = Father-in-law Huait = Another wife श्वश्रः = Mother-in-law विवदमाना Quarelling 3413; = Brother-in-law पितृव्यः Peternal uncle (of a man) 60 मातुल: Uncle देवरः = Brother-in-law पितामहः=Grand-father(P) (of a woman) ANIA:=Grand-father(M) FR1068 = Jail अभणत् Told मातृप्वना = Mother's sister आवयोः Of both पितृप्दसा Father's sister दीयताम् May be given शयनम् Bed %- - द्वादशः पाठः हृदः = Lake वमति = Vomits फण। = Head of snake ददर्श = Saw नियन्ते = Die (Pl.) जगाम = Went आरेभे = Begun दमनम् = Killing मृतप्रायः = Dead like ताडयामास = Kicked कदम्बवृक्ष=A tree of flowers प्रबन्ध = Tied तिथिः Date मासः = Month आम् = Yes = Year त्रयोदशः पाठः वर्षः पक्षः Fortnight लमते = Gets चक्रमे = Loved उपयेमे = Married चतुर्दशः पाठः aga = Gave brith भेजे = He has sent (16) 61 तिरश्चकार = Refused उवास = Was ययो = Went रवृतिरे = Were बहियते Being called 58577 = Did चिक्रीड Played प्राप = Got पञ्चदशः पाठः प्रतीक्षे Expecting यद्यपि = Eeven though प्रयतिष्ये=I am going to try कुशलम् = Safe तथापि = But अस्मि देहि = Give प्रत्युत्तरम् Reply I am षोडशः पाठः बाढम् = Yes क्षीयते = Reduced दर्पणः = Mirror अपूर्वः Quite new परितः = All around प्राची - East प्रतीची = West वाम = Left दक्षिणः Right तराः = Stars %3D सप्तदशः पाठः पणम् = Bet ज्येष्ठः Eldest कनिष्ठः Youngest आजुहाव = Called ददौ Gave घृतम् = Chess आदिदेश ="Ordered FICT = Bear sorrow आचकर्ष = Draw पश्चात् -After 82 अष्टादशः पाठः वर्त्म = Way हस्ती = Elephant शृगालः = Fox निरूपितः = Proved सत्वरम् 3D Quickly शक्यम् = Possible वञ्चकः Fox 3720i = Jungle % 3D एकोनविंशः पाठः दम्पती Couple निवेदयामास = State जलपायनम् = To make it शुद्धिमान् = Pure drink water शुद्धिमत्तरः = More pure सुषुवे = Gave birth शशाप - Cursed जम्पती Couple 3713 - Told विंशः पाठः अश्यति पत्रालयः = Post office = He stamps पत्रपेटिका = Post box a: = From पत्रालयमृत्यः% Post office सञ्चिका Bag peon पत्रवाहकः = Runner मूल्यचीटिका = Stamp पत्रदाता: One who delivers छन्नलेखः = Cover tapals (Post man) द्रव्यादेशः = Money order पोटलिका = Book post पत्रादेशः Postal order वनाति = Ties स्थानमुद्रा = Office stamp प्राप्नोति = Gets 68

एकविंशः पाठः
शाबकः = Child
कुकु = Dog
नीवारकणाः = Bits of grains बिहाल:
= Cat
6914: = Tiger
पिकनिर्विशेषः = Nothing
चिकीर्षितम् = Wanted to do
इच्छति
= Wants
बिभेति = Fears
but mouse
द्वाविंशः पाठः
प्रजावती = Sister-in-law
ननाम्दा = Niece
जामाता = Son-in-law पितामही= Grand-mother(P)
स्नुषा= Daughter-in-law मातामही = Grand-mother(M)
याता = Daughter-in-law मातुलानी = Uncle's wife
64

No text on this page.

Sanskrit Bhasha Bhodhini Vol I I

Author
Sri T K Tiruvenkatacharya
Other authors
Ccl
Title
Sanskrit Bhasha Bhodhini Vol I I
File name
Sanskrit Bhasha Bhodhini Vol I I
Text
OCR done
Citation
1959
Publisher
Sanskrith Bhasha Pracharini
Language
Sanskrit
Pages
66
Library
Scl
DLI number
326406
Barcode
2020010007432.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
FL1uK48Vh7Z
Download PDF

Sanskrit Bhasha Bhodhini Vol I I