Uttarpara Jaykrishna Public Library, Hooghly

Sarmanjari Ed. 2

Tarkalankar, Jaykrishna · 2007/03/12

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

सारमञ्जरी। महामहोपाध्याय- श्रीजयकृष्णतर्कालङ्कारेण विरचिता। पण्डितकुलपति- वि, ए, उपाधि-धारि- श्रीमज्जीवानन्द-विद्यासागर-भट्टाचार्य्यात्मजेन पगिडत-श्रीयुक्त-आशुबोध-विद्याभूषगान कृतया परिवर्द्धितव्याख्यया समलता। तदङ्गसम्भवेन एस, ए, वि, एल, इत्यपाधिकेन पण्डित-श्रीपञ्चानन-तक पञ्चाननेन संस्कता प्रकाशिता च । द्वितीय संस्करणम् । कलिकातामहानगाम् वाचस्पत्ययन्त्रे मुद्रिता। १८३५ । सवें स्वत्वं संचितम् । son (m a)।

प्रकाशक- पण्डित-श्रीपञ्चानन-तकंपञ्चानन । { न-1 २न०, रमानाथ मजुमदार ट्रीट, पाम्हाष्ट; प्राप्तिखान- ट्रोट पोष्ट-अफिस । कलिकाता। प्रिण्टर-वि, वि, मुखर्जी। २०, रमानाथ मजुमदार वोट, कलिकाता।

शब्दार्थसारमन्ना क्रमोक्ता विषयाणां निघण्टः । विषयाः। पृष्ठाङ्कः। विषयाः। पृष्ठाम:। १ अथ प्रख्यातस्य विशेषार्थ- ५ अथ कालत्रयनिरूपणम् अघ लकारादेः शक्तिनिरूपणम् ३ अथ आख्यातस्य विशेषार्थ- १५ कथनम् अथ शाब्दबोधः काष्टाते अथ द्विकर्मविचारः अग्थ वारक.विचारः अथ कर्तुलक्षण সুষ দিয়া ... अथ कमलक्षणम् ३५ अथ करणलनसम् अथ सन्नदानलक्षणम् अथ अपादानलज्ञाम् ४२ अथ अधिकरणलक्षणम् ४५ ६ ६ अथ द्वन्दलक्षणम् अथ अव्ययीभावलक्षणम् . ५५ अघ निर्धारणम् अघ एव-कारविचार: ५७ अथ इव-शदविचारः अथ उद्देश्यविधेयभावः अथ उयमविचार: अथ का-प्रत्ययविचार: अथ नजकचनम् ... अथ वैधहिंसाविचार: अथ प्रातिनिरूपणम् ... अथ शतिग्राहवानि पणम् ७१ दाय विचारः ७४ अथ चतुर्विधवाचक- ७५ लक्षणम् अथ वायरलक्षणम् अथ वौषविदार: স্বত্ব মদিনাৰ ७२ अथ एकादिसङ्ख्याशब्दः ... ७० ४० ... ४६ ४८ अथ समामवादः अथ कर्मधारयलक्षणम् अथ तत्परुषलक्षणम् अथ दिगुलक्षणम् अथ बहुव्रीहिलक्षणम् ५० ७८ ५१ ...

中
的特
**
strutechno budgethwesbian

सारमञ्जरी। (१) हेरम्ब चरणइन्द्रं विघ्ननाशकरं परम् । प्रणम्य जयकृष्णेन क्रियते सारमञ्जरी ॥ (२) तव प्रथमतः कालत्रय-निरूपगाम् । (३) वत्तमानध्वं मप्रतियोगित्वम् अतीतत्वम् । नत्वाऽऽदावरविन्दसुन्दररुचिं वागीश्वरौं सिद्धये शब्दानामनुशासनं सग्लया वाचा स्फुटं दर्शयन् । व्याचष्टे जयकषणनूरिरचितां मारादिमा मञ्ज विद्याभूषण शेषनाममहितो विप्राशुबोधः सुधीः ॥ इह खलु व्याकरणं नाम शब्दानुशासनम् “अथ शब्दानुशासनम्" इति भाप्योके । किञ्च “एकः शब्द: सुप्रयुक्तः सम्यजज्ञातः स्वर्ग लोके कामवुक भवति" इत्यादि वेदवाक्येभ्यश्च सुप्रतीतमेव शिष्टशब्दाना- मुपादियचम् । तत्र किल शब्द-प्रयोगाव बोधे वैयाकरणसारांशम्येव प्रति- नियन्तृत्वात् सुकुनारमलोनामशेषतो वैयाकरणसिद्वान्त बुभुत्सूनां सुखाव- गमाय मारमन्नाख्यं ग्रयं चिसोर्ष तर्कालङ्कारो निर्विघ्नेन प्रारिमितपरि- समाप्तिकामोऽविगोतशिष्टाचारविषयं विनविनाशकविनायकप्रणामरूपं मङ्गलमाचान्नाह, प्रण थेति ।-विघ्ननाशकरं “पर” राष्ट्र हेरम्बचरण- इन्दं प्रगम्य, तर्कालकाशेपाधिकेन जयण शर्मणा, इयं वक्ष्यमाणा "सारमञ्जरी” साराणां, व्याकरण शास्त्रस्यति शेषः, मञ्जरी गुच्छः, मा यत्र एवम्भूता पुस्तिक त्यर्थः, क्रियते ॥ १ ॥ तत्रादौ सर्वनियामकतया काल मेव निरूपयति, तत्रेति ।-"तत्र" निरूपणोयेषु । कालण्यापरिच्छिन्नस्यापि तदृत्त्यतीतत्वानागतवादिवस्तु- भेदेन त्रित्वं सङ्गच्छते ॥ २ ॥ वर्तमानत्यादि । -“वर्तमानध्वंसप्रतियोगित्वम्" प्रारब्धपरिसमाप्त- सारमारौ। (४) वर्तमानप्रागभावप्रतियोगिवं भविष्यत्त्वम् । (५) खावच्छिन्न कालवृत्तित्वं वर्तमानत्वम् । त्वमित्यर्थः। अत्र वर्तमानपदानुपादाने पाकानुकूलवर्तमानकतिदशायाम् अपाचौदिति प्रयोगापत्ति: स्यात्, उत्तरकाले तादृशवर्तमानकतेध्वंस- मम्भवेन ध्वंसप्रतियोगित्वस्य तत्र सत्त्वात्। स किलातीतः कालोऽद्यतना- नद्यतनभेदेन विविधः। अतीताया राले: पश्चाईन आगामिन्याः पूर्वाईन महितो यः कालः तत्र वत्तिध्वंसप्रतियोगी अद्यतनातीतः, तदतिरिक्त: अनद्यतन इति ॥ ३ ॥ वर्तमानति ।-वर्तमानकालोत्तरकालोत्पत्तिकत्वम् इत्यर्थः । अत्रापि वर्तमानपदानुपादाने पाकानुकूलवर्तमानकतिदशायां पक्ष्यतीति प्रयोगा- पत्ति: स्यात्, तादृशवर्तमानकते: पूर्वकालावच्छ देनात्मनि प्रागभावसत्त्वेन प्रागभावप्रतियोगित्वस्य तत्र सत्त्वात् ॥ ४ ॥ खावच्छिन्नेत्यादि । ---प्रयोगसमानकालीनत्वम् प्रारब्धापरिसमाप्तत्वं वा तदर्थः । येन वस्तुना यः कालोऽवच्छिद्यते स तस्य वर्तमानः, यथा- इदानी घटो वर्तते इत्यत्र घटो वर्तमान इति शाब्दबोधः । अत्र खावच्छिन्नत्वविशेषणानुपादाने पाकानुकूलातीतादिकतिदशायामपि पचतौति प्रयोगापत्तिः स्यात्, तादृशातीतादिकतौ कालवत्तित्वसत्त्वात् ; खप्रयोगाधिकरणकालवत्तित्वं तनिष्कृष्टार्थः। खं तत्तदाख्यातप्रत्ययत्वे- नाभिमतम् । स वर्तमानः पुनश्चतुर्डा भिद्यते, तथा हि-"प्रवृत्तोपतरश्चैव वृत्ताविरत एव च। नित्यप्रवत्तः सामीप्यः वर्तमानश्चतुर्विधः ॥” इति । क्रमेणैतेषामुदाहरणं यथा-मांस न खादति, आदौ मांसभोजनप्रवृत्तः परतः उपरतः इत्यवगमः। इइ कुमाराः क्रोडन्ति, तदानोन्तनक्रीड़ा- भावेऽपि पूर्वक्रीड़ानां बुद्धौ वर्तमानत्वात् । पर्वतास्तिष्ठन्ति नित्यप्रवृत्त- त्वात् , किच्च पर्वतानां स्थितत्वेन वर्तमानत्वेऽपि भूतभविष्यत्कालाभ्यां सम्बन्धविवक्ष या पर्वतास्तस्थुः स्थास्यन्ति इत्यपि स्यात्। सामोप्यथ पुनििवधः, भूतसामोप्यः भविष्यत्सामीप्यश्च । भूतसामीप्यो यथा- - 44.

सारमञ्जरी।
(६)
अथ लकारादेः शक्तिनिरूपणम्। तत्र
लटो वर्तमानत्वम्। विधिलिडो भविष्यत्त्वं
(७)विधिः सम्भावना च। विधि: कर्तव्यतोपदेशः।
(८) सम्भावना कल्पनम्। लोटोभविष्यत्त्वम् पाशीः
प्रेरणा च । आशी: शुभचिन्तनम्। प्रेरणं प्रवर्तनम्।
पाशीलिडो भविष्यत्त्वम् आशौश्च। लुट्लटो-
भविष्यत्त्वम्। तव्यानौययोर्भविष्यत्त्वं विधिश्च ।
कदा आगतोऽसीति प्रश्ने अध्वखेदादेवर्तमानत्वात् एषोऽहमागच्छामीति
आगतोऽपि वदति। भविष्यत्सामीप्ये यथा-कदा गमिष्यसि इति प्रश्ने
एषोऽहं गच्छामीति गमने क्रियमाणोद्यमो वदतीति ॥ ५ ॥
अथेत्यादि।-"अथ" कालत्रयनिरूपणानन्तरं कालविशेषवाचक-
लड़ादीनां शक्ति निरूपयति । लकाराः खलु दशविधाः, लट् लिन
लुट लट् लेट लोट् चेति टकारताः षट् । लङ् लिङ् लु लङ
इति ङितश्चचारः इति। तर्कालङ्कारेणैतेषां विशेषतः प्रयोगस्थानानि
उदाहियन्ते विशदम् ; अवाह हरिः,-"वर्तमाने परोक्षे श्वो भाविन्यर्थे
भविष्यति । विध्यादो प्रेरणादौ च भूतमात्रे लड़ादयः । सत्यां क्रिया-
ऽतिपत्ती च भूते भाविनि लङ स्मृतः ॥” इति ॥ ६ ॥
विधिरिति ।-विधिर्नाम प्रेषणमिति भाष्यकारः, भृत्यादः कस्याञ्चित्
क्रियायां नियोजनमिति च तदर्थः । यथा-अग्निहोत्रं जुहुयात्
खर्गकाम इति ॥ ७ ॥
सम्भावनेति ।-"सम्भावन" क्रियासु योग्यताऽध्यवसायः; तच
सम्भावनं समर्थ इति चेत् भवति, तदा लिङ स्यादित्यर्थः । अत्र सूत्र-
"सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे" (३।३।१५४ पा०)। अपि
गिरि शिरसा भिन्द्यात् अत्र सम्भावनाद्योतकोऽपि शब्दः। गिरिविदारण
पर्याप्त इति सम्भावनाउन गम्यते ॥ ८॥

[४] सारमञ्जरी। लङलुङोरतीतत्वम्। (८) लिटो वक्तृपरोक्षत्वमतौ- तत्वञ्च । (१०) लङोऽतोतत्वं क्रियातिक्रनश्च। कुत- श्चिदैगुण्यात् क्रियाया अनिष्पत्तिः क्रियाऽतिक्रमः । (११) यङः क्रियासमभिव्याहारोऽतिशयितत्वञ्च । ततः लिट इत्यादि।-लिटाऽनद्यतनभूतत्वं पारोक्ष्य च्वाथः । पाराक्ष्यन्तु चक्षुरादौन्द्रियाणामविषयत्वं, साक्षात्का रभिन्नविषयत्वमिति यावत्, तन हि साक्षात्कृतव्यापारे न लिट्प्रयोगः। ननु अहं पपाचेत्यादौ उत्तमपुरुष कथं लिट्पत्तिः ? इह खलु प्राचौ नरुक्तं चित्तव्यासङ्गादिति । साक्षात्कगेमौत्यादिज्ञानाविषयत्वमिति फलितार्थः ॥ ८ ॥ लङ इति।-लोभूतत्वं भविष्यत्त्वं जन्यजनकत्वञ्चार्यः,“लिङ निमित्ते लङ् क्रियातिपत्तौ” (३।३।१३८ पा० ) इति सूत्रात् । क्रियाऽतिपत्तिः क्रियाया धात्वर्थस्थातिक्रमेण पतनं सम्भावनमित्यर्थः यही यत्काल वा क्रियायाः सन्भवः तदन्यस्मिन् देशे काले वा तत्सम्भावनं, प्रसञ्जनमिति यावत् । उदाहरणं यथा,-यदि वर्षसहस्रमजीविष्यं, तदा पुत्रशत- मजनयिष्यम् इति ॥ १० ॥ यङ इत्यादि।-क्रियायाः “समभिव्याहारः” पौनःपुन्यं, तच्च प्रकृत- धात्वर्थजातीयक्रियोत्तरतादृशक्रियाऽनन्तर्यरूपं, तच्च प्रत्यय विशेषण- त्वेनान्वेति; यथा,-पापयते इत्यादौ प्रकृतधात्वर्घः पाकक्रिया, तज्जातीयक्रिया पाकक्रियेव, तदुत्तरवर्तिनी तादृशक्रिया अर्थात् तज्जातीयक्रिया पाकक्रियेव, तदानन्तव्ये तादृशपाकक्रियाध्वंसाधिकरण- कालवत्तित्वं, तेन पाकोत्तरपाकानन्तर्यवत्याककतिमानिति शाब्दबोधः, एवच्च पाकक्रियाया यथोत्तरं प्रवृत्तिस्थले एव पापच्यते इति व्यवहारः, पुनः पुनः पचतोति विवरणम् । दिः पतरि पुनः पक्तत्वेऽपि न निरुक्तं पुनः पुनः पक्तृत्वं,पाकक्रियाया विभिन्नत्वेन तज्जातीयत्वविरहात् । पाकोत्तरत्वादि- कञ्च पाकसमानकर्तृकत्वगर्भ, तेन पुरुषान्तरोयपाकाद्युत्तरत्वमादाय पापच्यते इति न प्रयोगप्रसङ्गः । "अतिशयितत्वञ्च” भृशाः, तथा च, प्रधानक्रियाणामतिशयितत्वे भृपत्वे यङ् भवति,तथा हि,जान्चल्यते इत्यादी .

सारमनदी। [ ३ ] (१२) सनो धात्वर्थावर्षायाच्छा,समानकत्तृकत्वे- ऽभिधानम्। (१३) गिचः कर्तत्व प्रयोजकव्यापारी . भृशं ज्वलतीत्येवार्थः । केचित्तु प्रधानक्रियाणां प्रधानक्रियोपकारका- गामधिश्रयणादौनां वा भृशतास्थले यङ भवति, पाकाभावस्थले जाज्वल्यते इत्यपि प्रयोगः, तत्र प्रधानक्रियाणां भृशता ; एवं पाकस्थ तऽपि जाज्वल्य ते इति प्रयोगः, रात्र प्रधानोभूतपाकक्रियोपकारकज्वलनस्य भृशता, अत एव तत्र तत्र भृशं ज्वलजोत्यवार्थः, न तु पुनः पुनवलतीति प्राहुः ॥ ११ ॥ सन इति ।-“धात्वर्थविषयिणी" सन्-प्रत्यय-प्रकृतिभूतधात्वध- विषयिणो या इछा मेव स नोऽयः, “समानक कन्वे" धात्वर्थ स्य इच्छासमानकर्तृकत्ये मनोऽभिधानमित्यर्थः । यथा-पाकं चिकोषतीत्या दो द्वितीयार्थ स्य विषयत्वस्य मूलवात्वर्थ कृतावन्वयः, पाकान्वितम्लवाचघ- कत: स्वसमानकतक द-खविषयत्वरूपसम्बन्धाभ्यां सन्नर्थे छायामचयः; तथा च, पाकविषयताककृतिसमानक करादृशकतिविषय छोवानिति शाब्दबोधः । एवं पनुमिच्छतौति वाक्यात् पिपक्षतीत्यादौ रम्-प्रकरि भूत- पचधात्वथ स्य विषयत्व-समानकत्र्तकच रूपसम्बन्धाच्यामिछायामन्वयात् पाकसमानकनकपाकविषयकच्छावानिति बोधः । तिष्ठासतौत्यादि प्रयोगस्य नापत्तिः, धात्वस्थितरकमकतया ग्रहकर्मक- त्वस्य तत्र बांधात्, परन्तु गई तिठास त्येव प्रयोगः साधः । सन्नधछायां द्वितीयान्तलन्यस्य पाकविशेष्यताकत्वस्य खरूपसम्बन्धन, धात्व यस्य कृत्यादः स्वसाध्य चमकारवनिष्ठ बसमानकत्तकत्वसम्बन्धनान्वयोपगम तु ग्र विशयिकां स्थितप्रकारकच्छां बोधयन् तादृशप्रयोग: प्रभार स्यात् । अत्र स्खसमान कर्तृकावनिवेशादन्यदीयकतिप कार्दशिधावति अयं चिकौर्षति पिपक्षतीत्यादि प्रयोगस्य नापत्तिः । अवेदं बोध्यं यत्र चिकीर्वादः प्रवत्यादिरूपेष्टसाधनत्वं तत्र चिकीर्षादिनीचरछासत्त्वऽपि इच्छाधकसनन्ता न सन्-प्रत्ययः “सनन्तान्न सनिष्यत" इत्यनुशासनात् चिकीर्षिपतीत्यादिको न प्रयोगः ॥ १३ ॥ णि व इत्यादि। -“कर्तृत्व प्रयोजक.” प्रयोज्यकर्तृनिटं यत् कर्तृत्वं कत्याल व्यापारः तस्य प्रयोजकः सम्पादकः, "व्यापार:” प्रेषणादिकः, গন एव र [६] सारमञ्जरी। हेतुमानर्थः । (१४) तृचो वर्तमानत्वम् । . तत्र च “हेतुमान्” खनिष्ठाधारतानिरूपिताधेयतासम्बन्धन हेतुर्यतास्ति स हेतुमान् हेतुत्तिरित्यर्थः, प्रयोजककर्तुनिष्ठ इति यावत्, तथा च, हेतुनिष्ठः कर्तृत्वप्रयोजकव्यापारः णिच्-प्रत्ययस्थार्थः । तत्र च प्रयोजक- कर्तुरेव हेतुसंज्ञा कर्तृसंज्ञा च बोध्या, “तत्प्रयोजको हेतुश्च” ( १।४।५५) पाणिनिसूत्रं, तदर्थ स्तु–“तस्य” कर्तुः, प्रयोज्यकर्तुरित्यर्थः, “प्रयोजकः' प्रेरकः, तथा च, प्रयोज्यकर्तृव्यापारानुकूलव्यापारवान् हेतुसंज्ञः कर्तृ- मंज्ञश्च स्यादिति । शास्त्रान्तरमपि-"प्रेषणाध्यषणे कुर्वन तत्समर्थानि वाऽऽचरन् । कतैव विहितः शास्त्रे हेतुसंज्ञां प्रपद्यते ॥” इति । तत्र च “तत्समर्थानि" तस्य णिच्ग्रक्रतिभूतधात्वर्धस्य सम्पादनसमर्थानि कार्याणि आचरन् ; एतेन अचेतनादरपि तादृशकाऱ्यांचरणानुकूलत्वेन कत्तत्वं बोध्यते । एवञ्च प्रयोज्यकर्तृनिष्ठकत्र्तृत्व( कृत्यनुकूलव्यापार )प्रयोज- कव्यापारः प्रेषणादिः प्रयोजककर्तुनिष्ठ इति णिच्-प्रत्ययस्य निष्कृष्टार्थः । तथा च, देवदत्तः यज्ञदत्तन पाचयतीत्य व यज्ञदननिष्पाककत्तृत्वप्रयोजक- प्रेषणादिरूपव्यापारवान् देवदत्त इति शाब्द बोधः। अचेतनस्य प्रयोजक- कर्तृत्वस्थ ने भिक्षा वासयति भिक्षुकं, सङ्ग्रामो वासयति वीरमित्यादिस्थले भिक्षु कादिनिठवासादिकत्तुं चप्रयोजकव्यापार: प्रचुरतरभिक्षालाभादि- जन्य टप्तिविशेषः, तत्सम्यादकत्वेन तादृशव्यापारवती भिक्षा इति बाधः । चुरादिन्यस्तु खाथ णिचः स्तेयादिरूपोऽयः, तेन चोग्यतीत्यादौ सम्भेदेनान्यतरवैयर्थ्यनियमेन स्तेयादिरूपस्य णिजन्तधात्वर्षस्यानुकूलकति- मानिति बोधः। कचित्तु धातुप्रक्रतिकस्य णिचोऽनुकूल व्यापारः व्यापार- मात्रं वाऽर्थः, शाब्दबोवे अपदार्थस्य संसर्गविधयैव भानस्वीकारेण व्यापारमात्रार्थ धात्वर्थस्यानुकूलता संसर्गेण भानसम्भवात् ; एवञ्च चैत्रं भावयति आत्मानं गमयतीत्यादौ चैत्रोत्पत्त्यनुकूलव्यापारवान् आत्म- गत्यनुकूलव्यापारवान् इत्यादि शाब्द बोधः । क्वचित् ज्ञानानुकूलव्यापारी- ऽपि णिचोऽर्थः, यथा-कथकः कंसं घातयतीत्यादौ कंसहननज्ञानानु- कूलाभिनयादिरूपव्यापारवान् कथक इति बोध इति प्राहुः ॥ १३ ॥ टची वर्तमानत्वमिति ।-"वर्तमानत्वं" खावच्छिन्नकालात्तित्वं ख- सारमञ्जरी। (१५) शह-शानयोर्वतमानत्वमेककत्र्तकत्वम् एक- कालीनत्वञ्च । त-क्तवतु-प्रत्यययोरतीतत्वम् । (१६) तुम्-वुणोः क्रियार्था एककर्तृक- क्रिया प्रयोगाधिकरणकालवत्तित्वं वाऽर्थः। ज्ञाता इत्यादो तु आश्रयत्वार्थक- तायाः कृतः कृप्त चेन कर्तृकृतश्च कतावेव शत: टजर्धवर्तमानत्वस्य तु तादृशक्तावेवा वयात् पक्का गन्तत्यादौ पाकानुकूलवर्तमानकत्याश्रयः, गमनानुकूलवर्तमानक्रत्याश्रय इत्यादि बोधनिर्वाहः। “शोलाचारसाधुषु वर्तमाने टङइति सङ्गितसारसूत्रे क्रमदीश्वरेण टडो वर्तमान- त्वार्थाभिधानात्, मुग्धबाधे च “टस को घे” इति सूत्रव्याख्यायां “वर्तमानकालऽभिधानात्” इत्यादेः रामतर्कवागीशेना-युक्तत्वाच्च टचो वर्तमानत्वार्थकत्वं नाप्रामाणिकम् । शीलार्थे टचो विधानात् योद्धाने गच्छन्ति, पक्तारो गच्छन्तीत्यादिप्रयोगस्य युद्धपाकाद्यनुकूलवर्तमान कत्यभ केपि याडाहीनां युद्धपाका दिशोलतया अपचत्यपि सूपकारे पचनयोग्यतया पाचक इति प्रयोगवत् नानुपपत्तिः ॥ १४ ॥ शट-शानयोरिति ।-प्रट-प्रत्ययस्य शान-प्रत्ययस्य चेत्यर्थः । “एक- कर्तृकत्वं” शट-शानप्रत्यययोः प्रकृतिभृतधात्वर्थस्य यः कर्त्ता स एव मुख्यक्रियायाः कर्ता तादृशधावर्धयोः समानकर्तुकलमित्यर्थः । “एककालोनत्वं” तादृशधात्वयोरेककालवृत्तित्वमर्थः इत्यच्च पचन् तिष्ठति अजयन् तिष्ठतोत्यादौ शट-प्रत्ययेन पचनाजनयोवर्तमानत्वं पचनावस्थानयोरज नावस्थानयोश्च समानकर्तकर्तृकत्वं समानकालोनत्वञ्च प्रतीयते शट-शाजप्रत्यययोवर्तमानत्वार्थकत्व एककालोनत्वार्थकत्वं नियोजनकमिति न वक्तव्यं, वसन् ददर्शोत्यादौ अतोतवासकर्तकर्तृकं दर्शनमित्यर्थ प्रतीतः, तत्र वासे वर्तमानत्वं न प्रतीयते अपि तु अतोतत्व- मेव, सतरां वासदर्शनयोः समानकालोनत्वं प्रतीयते। तत्र च “धातु- सम्बन्धे प्रत्ययाः” (३।४।१ ) इति पाणिनिसूत्र प्रमाणम् ॥ १५ ॥ तुम्-वुणोरिति ।-तुम्-प्रत्ययस्य वुण-प्रत्ययस्य चेत्यर्थः । एतत्तु कलाप- [7] सारमन्त्री। । . त्वच्च, उद्देश्यतासम्बन्धन क्रियानिमित्तीभूवक्रिया क्रियार्था । (१७) क्तिन्-घञ् ल्य टां कालसामान्यो भावश्च, भावो धात्वर्थः । (१८) वाच् ल्ययोर्भाव मते ; पाणिनिमते तु तुमुन्-गवुलो, मुग्धबोधमते तु चतुम् णको बोध्यौ क्रियार्था क्रियेति ।-"क्रिया” धाचर्थः, स "अर्थ.” प्रयोजनं यस्या एवम्भूतायां क्रियायामुपपदोभूतायां गम्यमानायां भविष्यत्काने उप- पदोभूतक्रियायाः प्रयोजनीभूतक्रियायाश्च समानकर्तकत्व च प्रयोजनी- भूतार्थ कधातो वे तुम् कर्तरि वुण प्रत्ययौ भवत इति पाणिनि- प्रभृत्यः । ग्रन्थकन्मते तु “यत् यदिश्य प्रवर्त्तते, तत् तस्य प्रयोजनम्" इति नियमात् उद्दश्यतया क्रियाया “निमित्तोभूता” प्रयोजनोभूता या क्रिया सेव क्रियार्था क्रियेत्यर्थः, तथा च, यस्य धातोपर्थः समानकर्तक- स्थ.न्य धात्वर्थस्य प्रयोजनं भवति स्मात् धातोभविष्यति काल भाषे तुम् कतरि वुगा भवतीति तात्पर्य । यधा-कृष्ण द्रष्टुं याति, कशां दरको यातोत्यादौ नाकर्तृकं कृष्ण कर्मकं यत् भविष्य नि तत्प्रयोजगमन प्रय इति तदश्यक गमनाग्रय इति वा शाब्दयोधः । अत्र च दर्शनक्रियायां गमनक्रिया या उद्दश्य नया निनित्तत्वन दृशधातोरुत्तरं तु युणो पोध्यो अत्र क्रियाय मित्युपाहानात् धावतले पतिष्यति दण्ड इत्या हो धावाकियां दण्डपतननिमित्तयेऽपि न तु तद्देश्यतया तन्निमित्तत्वं, क्रियायः सिन्युपादानात्। भिविष्य इत्यस्य जटा इत्यादेः भिक्षां लप्सा इति कन्या अस्य जटा वर्तत इत्यर्घः; तथा च, तत्र भिक्षोद प्लेन जटाधारितका भिक्षायामुश्यतया जटानिमित्तत्वऽपि जटा न क्रिया, अपि तु द्रव्यविशेष इति । तत्र तत्र धावनार्थकस्य भिक्षार्थकस्य च धातोरत्तरं न तुम् वुणोः प्रसक्तिः ॥ १६ ॥ क्तिन् इति ।-क्तिन्-घञ्-ल्युटां “कालसामान्यः” भूत-भविष्यद्- वर्तमानानामन्यतमः कालः,"भावश्च"धा चर्थचार्यः । तथा च,भावविहित प्रत्ययानां खरूपार्थकत्वं समभिव्याहतधावर्थवृत्त्यसाधारणधर्मपरत्वं बोध्यं, तेषां निरर्थकत्वे तु पाकं पश्येत्यादौ सुवर्थे धाचर्यान्वयस्यायुत्यम्ब- तया धात्वर्थस्य पचनादः कर्मत्वादावन्वयानुपपत्ति: स्यात् ॥ १७ ॥ , सारमञ्जरी। [] आनन्तयं, क्रियासमानकत्तकत्वमपीति सङ्केपः । (१८) अथ लकारस्थानीयतिङाम् आख्यात- पदवाच्यत्वम् । स च आख्यातस्विविधः, कर्तृ- विहितः, कर्मविहितः, भावविहितश्चेति । अथ । त्वाच्-ल्यपोरिति ।-क्वाच्-प्रत्ययस्य त्वाच स्थाने जात-ल्यप् प्रत्ययस्य चैत्यर्थः । “भाव." धात्वर्थः । “आनन्तर्यम्” उत्तरत्वम् । “क्रियासमान- क तकत्वं” मुख्य क्रियायाः वाच प्रत्ययान्तप्रतिपाद्यक्रियायाश्च एक- कर्तृकत्वमित्यर्थः । तथा हि, विष्णु नत्वा प्रणम्य वा स्तौति विप्र इत्यादौ विष्णु विषयक स्तुतिस मानकर्तृकनत्युत्तर( प्रणत्युत्तर )कालवर्तमानस्तुत्यनु- कूलव्यापाराश्रयो विप्र इति शाब्दबोधः । क्वचित् तादृशक्रिययोः समानकालोनत्वमपि तदर्थः ; यथा-मुखं व्यादाय स्वपितोयादो निद्रा- समानकालोनं तसमानकर्तृकं मुखकर्मताकं व्यादानम्, अत एव ताश यादान समानकालोन स्वापानुकून यापारायय इति शाब्दबोधः । ननु कयं मृतं दृष्ट्वा दःखं भवति, नियं दृष्ट्वा सुखं भवनोत्यादौ दर्शन- क्रियाया उत्पत्तिरूपमवन क्रियायाच भित्र कत्त कतया क्वान्-प्रत्ययस्य सावुता ? इति चेन्न ; स्थितादिपदाध्याहारेग स्थित्यादिक्रियया समान- कत कवनिर्वा हात् ; तथा हि, मृतं प्रियं वा दृष्ट्वा स्थितस्य दुःखं सुखं वा भवतोति तत्र बोधः ; एव च तत्र दर्शनक्रियायाः स्थितिक्रियायाश्च समानकर्तृकत्वं बोध्यम् ॥ १८ ॥ अय लकारस्थानीयेत्यादि । “लकारस्थानीयानां" लट्लोड़ादि- दशविधल कारप्रतिपाद्यानां “तिडां” तिङ दिसाशीतिशतसङ्खयक- प्रत्ययानाम् “आख्यातपदवाच्यत्वम्" आख्यातपदप्रतिपाद्यत्वमित्यर्थः आख्यातचञ्च धात्वर्थावच्छिन्नस्वार्थयत्नविधेयताकान्वयबोधसमर्थ शब्दत्वं, तथा चाख्यातसामान्यस्य यत्नापरनामकतौ शक्तिः, तस्याच्चानुकूलतासम्बन्धन धात्वर्थस्य विशेषणतया धावर्षावच्छिन्नयनो बोध्यते, शाब्दबोध तादृश- यत्नस्य विधेयतया भानात्। तादृशयत्न विधेयताकान्वयबोधसमर्थः शब्दः तिङ्-प्रत्ययादिवौंध्यः । “स चाख्यातः” पूर्वोक्तः आख्यातपदवाच्यस्तिङादिः [१०] सारमचरी। कर्तृविहिताख्यातस्य कृतावेव शक्तिः, कृतित्व- रूपणक्यताऽवच्छेदकलाघवान्न कर्तरि, शक्यता- ऽवच्छेदक-कृतेरननुगमात् । (२०) न चाख्यातेन कर्तुग्नभिधानेन चैत्रः पचतौत्यत्र चैत्रपदानन्तरं तृतीयापत्तिः लकारेण नाभिहितत्वात् इति . "त्रिविधः” तिसः त्रयो वा विधाः प्रकाराः, भेदा इति यावत्, यस्य स विविधः त्रिविधत्वेन व्यवडियमाण इत्यर्थः। ततेति निर्धारण सप्तमी। तेषु कर्तुविहित-कर्मविहित-भावविहिताख्यातेषु मध्ये कर्तृविहिताख्यातस्य "कतावेव” यत्ने एव शक्तिः, एव कारण कतिविशिष्ट शक्तिय॑वच्छिद्यते । शक्तिश्च इदं पदमिममधे बोधयतु इति, अस्मात् शब्दादयमर्थों बोद्धव्य इत्याकारा वेश्वरेच्छा । पदज्ञानानन्तरं तादृशेच्छारूपशक्तिज्ञानादर्थबोधो भवति; तादृशशक्तिज्ञानञ्च व्याकरणकोषादितो भवति; तथा हि, "शक्ति ग्रहं व्याकरणोपमानकोषाप्तवाक्याव्यवहारतश्च । वाक्यस्य शेषात् विवृतेर्वदन्ति सानिध्यत: सिद्धपदस्य वृद्धाः ॥” इति। तदुदाहरणादि भाषापरिच्छेदादिग्रन्थे अनुसन्धेयम् । कृतित्वावच्छिन्ने शक्तिस्वीकारे युक्तिमाह, कृतित्वरूपैति ।-कृतित्वस्य जातिरूपतया अनुगतत्वेन तस्य शक्यताऽवच्छेदकत्वे लाघवम्, अतः “कर्तरि" क्षतिमति शाब्दिकाभिमते इत्यादिः न, शक्तिः कल्पनौयेति शेषः। तत्र हेतुमाह, शक्यतेति ।- शक्यताऽवच्छेदिकाया: “कते:” यत्नरूपाया "अननुगमात्” प्रतिव्यक्ति देन मानात्वात्, नानाव्यक्तिषु शक्यताऽवछेदकत्वकल्पने गौरवादिति भावः ॥ १८॥ शकते, न चाख्यातेनेत्यादि । -“पाख्यातेन" कर्तृविहिताख्यात- प्रत्ययेन “कर्तुः” कृतिमतः, “अनभिधानन" आख्यातप्रत्ययाशक्यत्वेनेति यावत्, “लकारेण" आख्यातप्रत्ययेन । -“कर्तुकरणयो- स्तृतीया" (२।३.१८) इति पाणिनिसूत्रे अनभिहिते कर्तरि करणे च टतीया विधानात् आख्यातप्रत्ययस्य कतौ शत्या कृतिमात्राभिधायकत्वे अयं भावः सारमञ्जरी। वाच्यं, वर्तगतसङ्ख्याभिधानानभिधानाभ्यां वृती- यादेव्यवस्थापितत्वात् । (२१) एवं व्यापारउपि न शक्तिः, कृत्यादिसाधारणयावह्यापारानुगतेक- धर्माभावात् । यथा - चत्र: पचतोत्यादी तिङा कतिमात्राभिधाने कर्नुरनभिधानेन कर्तु- वाचकचत्रपदात्तरं टतौयापत्तिः, निरुक्तानुशासनबलादिति । तछनां निरस्थति, कर्तगतेत्यादिना ।-तथा हि, यत्राख्यातेन “कर्तगतसङ्ख्याया अभिधानं" कर्तविशेष्यकसब्जयाप्रकारकान्वयबोधस्तत्र तादृशान्वयबोध- जनक-लकारादिसमभिव्याहृतकर्तवा चकपदोत्तरं प्रथमा भवति, यथा- चैत्रः पचतीत्यादौ लकारस्थानीयतिपा चैत्रविशेष्यकैकत्वसङ्ख्याबोधनात् तादृशलकारसमभिव्याहृतचैत्रपदोत्तरं प्रथमा । तलानुशासनं मुग्धबोधमते “त्यैः” तिवादि-कदादिप्रत्ययैरुक्तार्थ कारके प्री प्रथमा भवतीति। एवं यत्राख्यातन “कर्तृगतसङ्खयाया अनभिधानं" कर्तृविशेष्यक- सङ्ख्याप्रकारकान्वयबोधस्थाजननं तत्र तादृशान्वयबोधाजनकलकारादि- समभिव्याहृतकर्तृवाचकपदोत्तरं टतीया भवति, यथा-चैत्रेण पच्यते तण्डुल इत्यादी लकारस्थानीय-ते-प्रत्ययेन चेत्रविशेष्यकेकत्वसङ्ख्याया अबोधनात् परन्तु कर्मवाचकतण्डुलगतैकत्वसङ्ख्याबोधनात् तादृश लकार- समभिव्याहतचैत्रपदोत्तरं टतीया, तत्रानुशासनं “कर्तृकरणयोस्तृतीया" इति पाणिनिः। तादृशसूत्रस्यक्तिरूपार्थ एव तात्पर्यम् । मुग्धबोध तु “साधन-हेतु-विशेषण-भेदकं धं कर्ता घस्त्रो" इति । व्यवस्थापितत्वादिति । -तथा हि,कर्तृविहितास्तिङादयः कत्तुगतसङ्ख्शाया एव बोधनात् तादृश- सङ्ख्यासमानसङ्खाकवचनाः भवन्ति, कर्मविहितास्तिकादयः कर्मगत- सङ्घयाया बोधनात् तादृशसङ्ख्यासमानसङ्खाकवचनाः भवन्तीति सजना- बोधनाबोधनाभ्यां प्रथमाटतोययोनियमनादित्यर्थः ॥ २० ॥ ननु निरुक्तदोषादाख्यातस्य कर्तरि शक्तिर्मा भवतु, परन्तु व्यापार शक्तिकल्पने का क्षतिः ? इत्यत आह,एवमित्यादि।--“एवं"शक्यताऽवच्छेदक- तेरननुगमात् यथा आख्यातस्य कर्तरि न शक्तिः तथेत्यष्टः, व्यापारपि न [१२] सारमञ्जरी। अथ कर्त विहिताख्यातस्य कृतौ वत्तमान- त्वादी एकत्वादी च शक्ति: सिद्धा । (२२) तत्र शाबोधे कृताव वर्तमानत्वादिकम्,एकत्वादि कञ्च कत्र्तर्यव प्रतोयते। एक पदोपात्तपदार्घयोन विशेषणविशेष्यभावेनान्वयबोध इति व्युत्पत्तेरवी- कारादननुभवाच्च । (२३) अथ कमविहिताख्यातस्य फले शक्तिन । शक्तिः, कल्पमायेति शेषः । तत्र हेतुमाह, कत्यादौति ।-कृत्यादि- माधारणस्य यावव्यापारगतस्य व्यापारवस्थानुगतेकधर्मलाभावेन तला- ख्यातशकाताऽवच्छेदकत्वकल्पने महागौरवादिति भावः ॥ २१ ॥ ननु शाब्दबोधे आख्यातार्थानां कृतिकालसङ्खयानां कस्य कुलान्वयः ? इत्याकाकायामाह, तत्रेत्यादि ।-"तत्र" तेषु मध्ये इत्यर्थः । अन्वयशास्य प्रथमान्तपदद्दये बोध्यः । कतावेवेत्येव-कारेण क्रियाया व्यवच्छेदः, अन्यथा यदा पुरुष: पाकानुकूलयत्नशून्यः किन्तु तदधौनाग्निसंयोगादिरूपः पया- यर्थो विद्यते, तदा पाकक्रियाया वत्तमानयन अयं पचतीति प्रयोगापत्तिः स्यात् । कतय्यवेत्येव-कारण कत्यादिव्यवक्लेदः, अन्यथा गुण गुणानगी- कारात् गुणस्वरूपकती गुगारूपसङ्खगाया अबाधितान्वयबोधासम्भवः स्यात् । एवञ्च कत्तु विहितास्तिङादयः कर्तृगतसङ्ख्यासमानसङ्खाकवचनाः भवन्तौति नियमोऽपि सङ्गच्छते। नन्वाख्यातार्थकती आख्यातायवर्त- मानत्वस्य विशेषणतयाऽन्वये एकपदोपात्तपदार्घयोन विशेषणविशेष्यभाव- नान्वय इति व्यु पत्तिविरोध: स्यात् ? इत्यत आह, एलेत्यादि।- एकस्मात् पदात्"उपात्तयोः"रहोतयोः, ज्ञानविषयताऽऽपन्नयोः पदार्थयो- रित्यर्थः। उक्तव्युत्पत्तिखोकारे अनुभवात्मकप्रमाणमपि नास्तीत्याह- अननुभवाचेति । ॥ २२ ॥ अथेत्यादि।-“कर्मविहिताख्यातस्य” कर्मणि वाच्ये विहितस्य शब्द- प्रास्त्रानुशिष्टस्य पाख्यातस्य ते-प्रभृत्यात्मनपदिप्रत्ययस्य, “फलै" धात्वर्धता- सारमञ्जरी। [१३] कर्मणि। फलन्तु धात्वर्थताऽवच्छेदकम् । अत एव धातोः फलावच्छिन्नव्यापारबोधकत्वेनैव सकर्म- कत्वं, तदबोधकत्वे चाकर्मकत्वमिति बोध्यम् । कर्माख्यातस्य फले वर्तमानत्वादावेकत्वादौ च शक्तिः । शाब्दबोधे तु वर्तमानत्वं फले, एकत्वा- दिकञ्च फलाश्रये कर्मण्येव प्रतीयते । तेन तण्डुलः पच्यते इत्यत्र तण्डुल पदोत्तरं न द्वितीया, कर्म- गतसङ्ख्याभिधानेन द्वितीयाया बाधितत्वात् । ऽवच्छेदकीभूत फर्न इत्यर्थः, धातूनां फलावच्छिन्नव्यापारबोधकवादिति भावः । “न कर्मणि" धात्वर्थ ताऽवच्छेदकीभूतफलाश्रये शक्तिन कल्पनीया, गोरवादिति शेषः ! फलन्विति। -“धा वर्ष ताऽवच्छेदक" धात्वाशे अनु- कूलतासम्बन्धन प्रकारीभूतं, तथा हि, गम्यते इत्यादी गमिधातोः संयोगा- त्मकफलानुकूलस्पन्द रूपव्यापारवाचितया तादृशधात्वाशव्यापारीऽनकूल- तासम्बन्धन संयोगात्मकफलस्य प्रकारतया शाब्दबोधे भासते इति संयोगस्य धाचर्थताऽवच्छेदकत्वं बोध्यम् । एवमन्यत्राप्यनुसन्धेयम्। अत एवेति ।- कमविहिताख्यातस्य फलशक्तावादेवेत्यर्थः । गमि-बातोः पद-धातोश्चानु- कूलतासम्बन्धन संयोगविशिष्ट यापारबोधकतया विक्तृप्तिविशिष्टव्यापार- बोधकतया च सकर्मकत्वं बोध्यम्। “तदबोधकत्वे च" फलावच्छिन्न- व्यापाराबोधकत्वं च यथा घटोऽस्तोत्यादौ अस्-धातोः सत्तामात्रबोधक- त्यादिवाकर्मकत्वं बोध्यम् । "कर्माख्यातस्य” कर्मणि वाये विहितस्या- ख्यातप्रत्ययस्य, “फने” धात्वर्थ ताऽवच्छेदकीभूत फले, “वर्तमानत्वादी" वर्तमानकालवत्तित्वादौ, तत्तछन्दप्रयोगाधिकरणकालवत्तित्वादाविति यावत्, आदिपदात् वर्तमानध्वंसप्रतियोगिकालत्तित्वरूपातीतत्वस्य वर्तमानप्रागभावप्रतियोगिकालपत्तित्वरूपभविष्यत्त्वस्य च परिग्रहः । "एकचादौ" एकाव-द्वित्वादिसलमायां शक्तिः, बोध्येति शेषः । प्रती- यते इति। तथा च, कर्मणि सङ्घयान्वयादव तादृशसङ्खग्रासमानसङ्ख्यक- [१४] सारमञ्जरी। in (२४) अथ भावविहिताख्यातस्य धात्वर्थ एव शतिः, अत्र सङ्ख्याऽनन्वितैव तत्र प्रथमान्तपदाभावात् । आख्यातेन यत्र सयोक्ता, तत्र प्रथमान्तपदोप- स्थाप्यपदार्थान्वितत्वेन क्लृप्तत्वात्। एकवचनन्तु प्रयोगसाधुत्वार्थमेवेति भावः । वचनानि क्रियापदे भवन्तोति भावः। “कमंगतसयाभिधानन” कर्म- विहितप्रत्ययात् क नगतसङ्खायाः प्रतिपादनेन, “हितीयाया बाधित- त्वात्" इति-तथा हि, “कर्मणि द्वितीया" (२।३।२) पाणिनिसूत्रेऽनभि- हित कर्मणि द्वितीया विधानेन कर्मगतसङ्ख्याऽनभिधाने एव कर्मणि हितोया भवतोति तस्य तात्पर्य्यम् ; इत्यञ्च कर्मगतसङ्खयाभिधानमेव द्वितीयाबाधकमित्यपि ततो व्यज्यते ॥ २३ ॥ अथेत्यादि।-"भावविहिताख्यातस्य" भाववाये विहित- स्याख्यातप्रत्ययस्थ "ते" प्रभृत्यात्मनपदि-प्रत्ययस्य। धात्वर्थ एवेत्येव- कारण क्लतिफलादेव्यवच्छेदः, तथा च, यद्धातूत्तर भावप्रत्ययः नद्धातोरथै एच भावप्रत्ययस्य शक्तिः। नन्वेवं तज्जन्यशाब्दबोधे धावर्धयोहिधा भानेन उद्दश्यतावच्छेदकविधेययोरैक्ये शाब्दबोध- खौकारात् घटो घट इत्यादिवत् तयोरनन्वयापत्तिः ? इति चैन्न ; यथा करोतीति शाब्दबोधस्थले आख्यातायकतेर्धात्वर्धखरूपतया आख्यातार्थकतर्वैयध्यं, तथा भावप्रत्ययस्थलेऽपि भावप्रत्ययार्थरूपधात्वर्थस्य वैयर्थ्य स्वीकागत् ; तब प्रमाणं मीमांसाशास्त्रं यथा-"सम्मैदेनान्यतर- वैयर्यम्" इति । “सम्भेदेन" एकरूप्येण, प्रकतिप्रत्ययार्थयोरभेदेनेति यावत्, "अन्यतरस्य" अन्य तरार्थस्य, वेयर्थ्य मिति तस्यार्थः । न च भाव-भावप्रत्य- यार्थस्य वैययंधीव्ये कथं तत्प्रत्ययप्रयोगः ? इति वायम् ; “शास्त्र नापदं प्रभुनौत" इति नियमेन प्रयोगसाधुत्वार्थमेव तस्य प्रयोगात्। ननु भाव- प्रत्ययप्रयोगस्थ ने सर्वत्रै कवचनप्रयोगनियमेन तत्राख्यातार्धेकत्वसङ्ख्यायाः कुलान्वयः ? इत्याकाङ्कायामाह, अवति ।-"अत्र" भावविहिताख्यात- मत्ययान्तप्रयोगस्थले । सङ्ख्याया अनन्वये हेतुमाह, तले ति ।--"तत्र" सारमञ्जरी। [१५] (२५) अथाख्यातस्य विशेषार्थकथनम् । सविषयकपदार्थाभिधायिधातूत्तरकर्तविहिताख्या- तस्याश्रयत्वे लक्षणा। यथा करोति, दृष्टि, यतते, जानाति, इच्छतीत्यादयः। एवमचेतने तादृशप्रयोगस्थ ने, “प्रथमान्तपदाभावात्" प्रथमान्तपदघटितवाभावात्, घटितत्वसम्बन्धन प्रथमान्तपदस्थाभावादिति यावत् । तथा हि, आख्यात- पदजन्यसङ्खयान्वये प्रथमान्तपदोपस्थान्यत्वस्य तन्त्रत्वादेतदेव प्रतिपादयति, आख्यतिनित्यादि। ननु यदि भावविहिताख्या तार्थ मलयाऽनन्वितैव तदा- इनपेक्षणात् कथं तत्प्रतिपादकवचनप्रयोगः ? इत्यत आह, एकवचन- न्विति । -"तु” किन्तु, एकवचनं प्रयोगसाधुत्वार्थम् तथा हि, “शास्त्रे नापदं प्रयुझोत" इति नियमात् अपदस्य प्रयोगनिषेधेन प्रत्ययरहितायाः प्रकृतेः प्रयोगासम्भवेन च पदत्वसिद्धार्थमेव तदुत्तरं भावविहित- प्रत्ययोपादानं, तत्र च एकवचनप्रयोगस्तु औत्सर्गिकत्वात् प्रथमोपस्थित- त्वाच ; तत्र च प्रमाणं यथा “सार्वधातु के यक" (३।१।६३) इति पारि सूत्रव्याख्यावसरे “किन्त्वेकवचनमेव तस्यौत्सर्गिकत्वेन सङ्खा.ऽनपक्षणात्" इति । मुग्धबोधे च "भावे माद्यम्” इति सूत्रम् ॥ २४ ॥ अथ यत्राख्यातस्य शक्यार्थान्वयबोधे बाधस्तत्र लक्ष्यार्थमादायैव अन्वयबोधनिर्वाह इति लक्ष्यार्थरूपमाख्यातस्य विशेषार्थमाह, अथाख्यात- स्येति ।-"सविषयकपदार्था:” ज्ञानच्छाकतिषरूपाः,"ज्ञानिच्छाकतिद्देषाः सविषयकाः" इति शास्त्रात्, “तदभिधायिनः” तहाचकाः, ये "धातवः" कप्रभृतिधातवः, “तदुत्तरं” तदुत्तरवर्तिनः, “कतुविहिताख्यातस्य” कर्तरि वाचे विहिताख्यातप्रत्ययस्येत्यर्थः। यथेत्यादि ।-करोतीत्यादौ कृत्यादः कतिप्रयोज्यत्वाभावेन आख्यातार्थततौ धात्वर्थकतिहषयत्नज्ञानेच्छादग्नु- कूलतासम्बन्धेनान्वयबाधात् आश्रयत्वरूपलक्ष्यार्थमादायान्वयबोध- निर्वाहयनस्यापि कृतिपर्य्यायकतया सविषयकत्वं ग्राह्यम् । इदन्तु बोध्यम, -आख्यातस्य कतिरूपार्थान्वयस्य बाधेऽपि, सङ्ख्या-कालरूपतदर्थयोः कर्तरि सङ्खयायां धात्वर्थे च वर्तमानत्वादिकालस्यान्वयबोधे न कोऽपि बाधकः । एवञ्च चैत्रः कटं करोतीत्यादौ सविषयकपदार्थाभिधायि . .

सारमझरौ। रथो गच्छतीत्यत्र व्यापाराश्रयत्वे लक्षणा । नश्य- तीत्यत्र प्रतियोगित्वे लक्षणा। अत एव नश्यति, नाति, नष्ट इत्यादौ वर्तमानत्वादिकं प्रतियोगित्वे एवान्वेति । (२६) अथ शाब्दबोध: कथ्यते । । तथा धातुकस्थ ने कर्मप्रत्ययस्य सविषयक चार्थकतया कटविषयकवर्तमान- कथाश्रयः चेत्रः । एवं ज्ञानेच्छादिस्थ नेऽवृह्यम् । “एवमचेतने” अचेतन- कत्तु कस्थ ने अ.ख्यातस्य कृतिरूपान्वयबाधात् व्यापाराश्रयत्वे लक्षणा । च, रथा गछ पौत्यादी उत्तरदेशसंयोगरूपधाचस्यानुकूलता- सम्ब धेनाख्याताधव्यापारे, तत्र च वर्तमानचरूपतदर्थस्यान्वयेन गमनानु- कूलवत्तमानव्यापाराश्रयः रथ इति बोधः । नश्यतीत्वादावाख्या- तार्थ क्रतेरन्वयबाधादाख्यातस्य प्रतियोगित्वे लक्षणा बोध्या, न तु पूर्ववत् आश्रयत्वे लक्षणा ; तथात्वे तु प्रतियोगिसमवाधिदेश एव ध्वंस-प्रागभाव- योराश्रयत्वखौकारात् घटसमवायिकपाने एव नाशापयत्वस्य सत्त्वेन घटे तहाधात् घटो नश्यतोत्यादी शाब्दबोधानुपपत्तिः स्यादिति भावः। एवच्च घटो नश्यतीत्यादी धात्वर्थ-नाशस्योत्पत्तिमदभावरूप- तया तन्निरूपितप्रतियोगित्वं घटे वर्तते, तथा च, नाशप्रतियोगित्वाश्रयो घट इति शाब्दबोधः । "अत एव" आख्यातस्य प्रतियोगित्व लक्षणा- स्वीकारादेव। “वर्तमानचादिकम्” आख्यातपदप्रतिपाद्यवर्तमानकाल- वृत्तिवादिकम् । आदिपदेन भूत-भविष्यत्कालवत्तित्वयोः परिग्रहः । प्रतियोगित्वे एवेत्येव-कारेण धात्वर्थव्यवच्छेदः, तथात्वे तु चिरविनष्टस्थले नाशस्य वर्तमानतया नश्यतौति प्रयोगापत्तिः स्यात्, प्रतियोगित्वे तदन्वये च वर्तमानकाले घटस्थाभावेन वर्तमानकालावच्छेदेन घटे प्रतियोगित्व- स्यान्वयासम्भवादिति भावः ॥२५॥ अथेति।-अनन्तरमित्यर्थः, कालनिरूपण-लकाराद्यर्थनिरूपणान- न्तरमिति यावत् । शाब्दबोध इति ।-श्रोलग्रहणो योऽर्थः स शब्दः । असौ पुनदिविधः, ध्वन्यात्मकः वर्णात्मकश्च। तत्राद्यः भादौ प्रसिद्धः, अपरः सारमञ्जरी। [१७]] यथा,चैवस्तण्डुलं पचतौत्यव तण्डुलपदेन तण्डुल- पदार्थोपस्थितिः,द्वितीयया कर्मतारूपफलोपस्थितिः, वृत्तित्वं संसर्गः, तेन तगडलवृत्तिकमत्वमित्यवान्तर- बोधः । पच्-धातुना पाकोपस्थितिः, तत्रानुकूल- तासंसर्गे गा तादृशकर्मत्वान्वयः, तेन तण्डुलवृत्ति- कर्मताऽनुकूलणक इति बोधः । ततः आख्यातेन कृत्युपस्थितिः, तत्रानुकूलतासंसर्गेण तादृशपाका- न्वयः, तेन तण्डुल वृत्तिकर्मत्वानुकूलपाकानुकूल- कृतिरिति बोधः । ततश्चैत्रपदेन चैत्रोपस्थितिः, तवाश्रयत्वसंमर्गेण तादृशकृतेरन्वयः, तेन तण्डुल- वृत्ति-कमताऽनुकूलपाकानुकूलकृत्याश्रयश्चैत्र इति संस्कृतादिभाषास्वरूपः । शब्दस्य संस्कृतभाषारूपशब्दस्य अयमिति शाब्दः, तादृशा यो बाधः ज्ञानम्, अवगमः,अन्वयावगमप्रकारः इत्यर्थः, स “शाब्द- बोध:"वाक्य बोध इत्यर्थः ; तथा च, वाक्यार्थबोधं प्रति प्रत्यकशब्दार्थ- जानस्य कारण नया तत्र विजय रूपान्दार्थनिरूपणानन्तरं वाक्यार्थानां परस्परान्वयब धरूपशा दबोधप्रकारं प्रदयितुं शिष्यावधानाय प्रति- आनौतेऽये यादिना इति भावः । “तण्ड नपंदार्थोपस्थितिः” तण्डुलपदार्थ- स्मृतिः । तथा च, पदज्ञानजन्य याः शक्ति लक्षणादिज्ञानाधोनपदार्थस्मृतः शाब्दबोधं प्रति कारण चादिति भावः ! “द्वितीयया" " तण्डुलपदोत्तरवर्ति- रितीयाविभक्या, "कर्मतारू पस्य फलस्य" विक्लप्तादिरूपफलस्य, "उपस्थिति:" स्मृतिः ; तया च, क्रियाजन्यफलशालिवस्य कर्मतास्वरूप- स्वादिति भावः। "प्रधान्तरबोव.” इति-नथा च, मह वाक्या घटक- प्रत्येकविशिष्टपदार्थरूपावान्तरवाक्या बोधय महावाक्यार्थ बोधं प्रति हेतुत्वादिति भावः । "पाकोपस्थितिः” अधिश्रयणादिरूपव्यापारोप- स्थितिः। "तत्र" तादृशपाके । “तादृश कर्मत्वान्वयः” तण्डलवत्तिकर्मन्त्र- सारमारी। स्थान्वयः । महावाक्यार्थबोधः। (२७) वाच्यार्थ एव तात्प- ार्थः। वक्ता अशाब्दीयतात्पर्य्यार्थरूपवाक्यार्थ- मवगत्य पश्चात् शब्दः प्रयुज्यते । सर्वत्र प्रथमान्त- पदोपस्थाप्यपदार्थस्यैव शाब्दबोधे मुख्य विशेष्यत्वम्। प्रथमाविभक्तिस्तु साधुतार्था। एवं चैवेगा पच्यते तण्डुल इत्यादौ चैत्रपदेन चैत्रोपस्थितिः, तृतीयया कृत्युपस्थितिः, वृत्तित्वं संसर्गः, तेन चैवत्तिकृति- रिति बोधः । ततः पच्-धातुना पाकोपस्थितिः, "तेन" तादृशान्वयेन ! “इति बोधः” इत्यवान्तरबोधः । एवमुत्तरत्रापि बोध्यम् । “ततः” तदनन्तरम् । ततश्चैत्रपदेनेति । – “ततः" तादृशावान्तरबोधानन्तरम् ॥ २६ ॥ वाक्यार्थ इति ।-वाक्यं हि नाम कारकान्वितक्रियाप्राधान्येक- विष्य कबाधसाधनपद कदम्बकम ; उक्तञ्च वाक्यपदीये- . "साकाद्धाश्यवं भेद परानाकापन्दकम् । क्रिया प्रधानमेकाधं सगुणं वाक्यमुच्यते ॥" इति ; तथाभूतस्य वाक्यस्यार्घ एव तात्पर्याधः, न च वरिष्टं तात्पर्य- मिति लक्षण म्, अर्थज्ञानानवछिन्न पुरुषेणोच्चारितस्य निःश्वसितस्वरूपस्य वेदादेः, शुकादिपठितगाथादोनाञ्च व कुरर्थावगत्यसम्भवात् । अत एवोक्तं, तत्यतीतिजननयोग्य वं तात्पर्य मिति ; न तदपि सम्यक, तथात्वे भोजन- प्रकरणे सैन्धवमानयेत्युपरिष्टस्य सैन्धवपदात् लवणाश्वोभयार्थप्रतीति- योग्यत्वे युगपदभयानयनप्रसङ्गः; स चानिष्टः। कथन्ताह निष्पत्ति. रिथम् ? तथा हि, तदितरप्रतीतिजननच्छयाऽनुच्चरितत्वे सति तत्यतीति- जननयोग्यत्वं तात्पर्यमिति शब्दः प्रयुज्यते इति । तथा च, शब्दप्रयोग प्रति यथाकथञ्चिदर्थज्ञानस्य कारणत्वादिति भावः । “सर्वत्र" कविहित- कर्मविहितप्रत्ययस्थ ने। “मुख्य विशेष्यत्वं" प्रकारताऽनात्मकविशेष्यत्वम् तथा च, समानाधिकरण-विषयतयोरेक्यमिति मते मुख्यविशेष्यत्वस्य प्रका- . on सारमारी। [१] जन्यता संसर्गः, तेन चैत्रवृत्तिकृतिजन्यः पाक इति बोधः। ततः कर्माख्यातेन फलोपस्थितिः, जन्यत्वं संसर्गः, तेन तादृशपाकजन्य फलमिति बोधः। तण्डलपदेन तण्डुलपदार्थोपस्थितिः, तत्राश्रयत्वसंसर्गेण तादृशफलान्वयः, तेन चैवत्ति- कृतिजन्य-पाकजन्यफलशाली तण्डुल इति महावाक्यार्थबोधः। घटमानयत्यत्र घटपदेन घटोपस्थितिः, द्वितोयया कर्मत्वोपस्थिति:, आङ्- पूर्व-नौञ्-धातुना अभिमतदेशत्तिसंयोगानु- कूल-व्यापारजमक-व्यापार-रूपानयनोपस्थितिः । लिङा च दृष्टसाधनत्वं कार्यत्वं कृतिश्च उपस्थाप्यते, श्राद्योश्च धात्वर्थे एवान्वयः । एवञ्च घटनिष्ठकमत्वानुकूलं यत् दृष्टसाधनतावत् कार्य- तावच्च आनयनं तदनुकूलकृतिमा नित्यन्वयबोधः । करोतीत्यत्र कृ-धातुना कृत्युपस्थितिः, आख्यातेन (२८) लक्षगया चाश्रयत्वोपस्थितिः, तस्याश्रयत्व- रताऽनात्मकत्वं, प्रथमान्तपदोपस्थाप्ये मुख्य विशेष्ये प्रकारताविरहादिति भावः ॥२७॥ लक्षणया चायवोपस्थितिरिति ।-तथा च, कर्त्त विहिताख्यातस्य कृतौ शक्त्या प्रकृते धात्वर्थाख्यातार्थ योरभेदेन शाब्दबोवासम्भवेन तात्पर्य्यानुपपत्तित आख्यातस्य शक्या) परित्यज्य लक्ष्यार्थमादायैव शान्द- बोधनिर्वाहायोक्तं लक्षणया चेति भावः । 'तस्य" आश्रयत्वरूपाख्याता- [२०] सारमञ्जरी। लक्षगा या संसर्गेण कृत्याश्रयत्वाश्रय इति शाब्दबोधः। एवं हेष्टि, यतते, जानाति, इच्छतीत्यादौ बोध्यम् । एवं ग्थो गच्छतीत्यत्र गम्-धातुना उत्तरदेशसंयोगानु- कूलव्यायारोमस्थितिः, आख्यातन आश्रयत्वोपस्थितिः, तदुपरि आश्रयत्वं संसर्गः, तेन उत्तरदेशसंयोगानुकूलव्यापाराश्रयत्वाश्रयो इति बोधः । (२६) त्यजतीत्यत्र त्यञ् धातुना पूर्वदेशविभागानुकूल-क्रियोपस्थितिः, आख्यातन कृत्युपस्थितिः, तवानुकूलतासंसर्गेण तादृशक्रियान्वयः, तत आश्रयत्वं संसर्गः, तेन पूर्वदेश विभागानुकूल क्रियानुकूलकत्याश्रय इति रथ शत्तया थस्य । आश्रय चसंसगण, कर्तरि अन्वय इति शेषः । “एवं"करोतीतिवत् । बोध्यमिति ।-तथा च, सविषयकवावधस्थले कत्त विहिताख्यातपदस्य लक्षणया आश्रयत्वरूपार्थस्याश्रयत्वसम्बन्धन कर्तर्यन्वयेन देषाश्रयत्वा- श्रयः, यत्नाश्रयत्वाश्रयः, ज्ञानाश्रयत्वाश्रयः, इच्छाश्रयत्वाश्रय इत्यादि शाब्द बोधः । अनदं बोध्यं-सविषयकधात्वर्थस्थले विषयत्वं कर्मप्रत्ययाधः, तस्य च निरूपकतासम्बन्धेन धात्वर्थीभूतद्देषादौ तादृशविषयत्वस्य वृत्तिवसम्बन्धन विषये अन्वयात् विषं इष्टोत्यादौ विषनिष्ठविषयता- निरूपकताक (विषविषयताक )द्देषाश्रयत्वाश्रय इत्यादि शाब्दबोध इति ।।२८॥ व्यजतीत्यादि । - अवेदं बोध्यं-वृक्षं त्यजतोत्यादौ पूर्वदेशो वृक्षः, सद्विभागानुकूला क्रिया व्यापारः त्यज्-धात्वर्थः, तबटकीभूतपूर्व- देशविभाग एव फलं, तस्य प्रतियोगित्वसम्बन्धेन वृक्षे सत्त्वात् धात्वर्थताऽव- च्छेदकफल अयत्वेनैव वृक्षादः कर्मत्वमिति ।।२।।

सारमञ्जरी। [२१] बोधः। (३०) एवं पततौल्यत्र पत्-धातुना अधः- संयोगानुकूलक्रियोपस्थितिः, आख्यातेन कृत्युप- स्थिति:, आश्रयत्वं संसर्गः, तेन अधःसंयोगानु- कूल क्रियानुकूलकृल्याश्रय इति । एवं नश्यतीत्यत्र नश्-धातुना नाशोपस्थितिः, आख्यातेन लक्षगया प्रतियोगित्वोपस्थितिः, आश्रयत्वं संसर्गः, संसर्गः, तेन नाशप्रतियोगित्वाश्रयो घट इति बोधः । एवं . विद्यते इत्यत्र विद्-धातुना सत्त्वोपस्थितिः, आख्यातेन आश्रयत्वोपस्थितिः, आश्रयत्वं संसर्गः, तेन सत्त्वाश्रयत्वाश्रय इति बोधः । एवं निद्रातीत्यादौ नि-पूर्व-ट्रा-धातुना लक्षगाया एवं पततीत्यादि।-ननु यथा ग्रामं गच्छतोत्यादौ गम्-धातुना उत्तरदेशसंयोगानुकूलव्यापारोपस्थित्या तहटकोभूतोत्तरदेशसंयोगरूप- फलापयत्वेन ग्रामादः कर्मता, तथा भूमौ पत्रं पततोत्यादौ पत्- धातुना अधःसंयोगानुकूलव्यापारोपस्थित्या तहटकीभूताध.सं योगरूप- फलाप्रयत्वेन भूम्यादेः कर्मताऽऽपत्त्या पत्रं भूमिं पततीत्यादि प्रयोगा- पत्तिः ? इति चेन्न ; ग्रामं गच्छतोत्यादी गम्-धातुना संयोगानुकूल- परिस्पन्दरूपव्यापागेपस्थिति: तहटकसंयोगे ग्राममिति हितीयोपस्थिता- धेयत्वस्यान्वयतात्पर्यण तादृशप्रयोगात्, इत्यञ्च धावताऽवच्छेदकीभूत- संयोगरूप-फलविषयतायामधिकरणानवछिन्नत्वविशेषणदानात् तादृश- संयोगस्योत्तरदेशावच्छिनत्वेन न गम्-धात्वर्थताऽवच्छेदकत्वं, परन्तु शुद्धसंयोगस्यैव तथात्वात् ; एवञ्च भूमौ पततीत्यादौ पत्-धातुना अधःसंयोगामुकूलपरिस्पन्दरूपव्यापारोपस्थित्या तहटकसंयोगस्याधो- देशावच्छिन्नतया तादृशसंयोगविषयतायामधिकरणानवच्छिन्न त्वविरहान [२२] सारमञ्जरी। मेध्या-मन:संयोगोपस्थितिः, आख्यातेन शक्त्या कृत्युपस्थिति:, आश्रयत्वं संसर्गः, तेन मेध्यामन:- संयोगानुकूलकृत्याश्रय इति धीः। (३१) एवं चैत्रो मैवं तण्डुलं पाचयतीत्यादौ मैत्रपदोत्तरद्वितीयया वृत्तित्वं, तण्डुलपदोत्तरहितौयया फलं, णिजन्त- पच्-धातुना पाकानुकूलव्यापारोऽर्थः, आख्यातेन तदनुकूलव्यापारो बोध्यः, तदुपरि आश्रयत्वं संसर्गः, तेन तण्डुलवृत्ति-कर्मत्वानु- कूलपाकानुकूल- मैत्तिव्यापारानुकूल-व्यापार- वांश्चैत्र इति बोधः । एवं यदा चैत्रो मैत्रेग लक्षगाया अथ एक भूमिं पततोति प्रयागापत्तिरित्यादि-समाधानस्य व्युत्पत्तिवाद भट्टाचार्य- पादेविवतत्वात्। मेध्या-मन:संयोगेति । – “मेध्या” नाडीविशेषः, तत्र मनसो यः संयोगः स एव निद्रापदार्थः ।।३०।। णिजन्त(जान्त)धातुकस्थलोयशाब्दबोधप्रकारमाह, मित्यादि -वृत्तित्वमिति, अन्वयश्चास्य णिजन्तधातूपस्थाप्य पाकानुकूल- व्यापारी । “फलम्" इति, रूपपगत्तिखरूपवितृप्तिरित्ययः । अन्वयश्चास्य अनुकूलतासम्बन्धन तेजःसंयोगविशेषरूपपाकपदार्थ । पाकानुकूलव्यापार इति ।-अम पच्-धातोस्तेजःसंयोगविशेषरूपोऽर्थः, गिच-प्रत्यय- स्थानुकूलव्यापारोऽर्थोऽभिप्रेतः । “तेन" तत्तच्छब्दस्य तादृशार्थस्खौकारण, तण्डुलात्ति यत् “कर्मत्वं” विस्तृप्तिरूपं, तदनुकूलो यः “पाकः” तेजः- संयोगविशेषः, तदनुकूलो मैत्रवृत्तियों "व्यापारः” तदीया चेष्टा कतिर्वा, तदनुकूलो यो “व्यापारः” त्वं पच इत्यादि शब्दप्रयोगरूपस्तहान् चैत्र इति शाब्दबोध इत्यर्थः । वस्तुतस्तु रूपपरावत्तिजनकतेजःसयोग एव पच- धातोरर्थः, णिच्-प्रत्ययस्य हेतु कर्तृत्वमर्थः, “हेतुमति च" (३।१।२६ ) इति पाणिनिसूत्रात् । हेतुकर्तृत्वञ्च खतन्त्रकर्तृप्रेरणा अन्यनिष्ठ- सारमारी [२३]] तण्डलं पाचयतीति प्रयोगः, तत्रापि पूर्ववदन्वय- बोधः। मैत्रस्य व्यापारापेक्षया कर्तृत्वं चैत्र- व्यापारापेक्षया कर्मत्वञ्च, अतो द्वितीयाटतीययो- वैकल्पिकत्वमिति बोध्यम् । एवं चैत्रेण मैत्र- स्तण्डुलं पाच्यते इत्यत्र चैत्रवृत्तियों व्यापार: तज्जन्यो यस्तण्डुलवृत्तिकमतानुकूल-पाकानुकूल- व्यापारस्तदाश्रयो मैत्र इति बोधः,वृत्तित्वं संसर्गः, तौयया व्यापारो बोध्यते, पाचि-धातुना 'पाकानुकलव्यापारो बोध्यते, कर्माख्यातेनाश्रयत्वं, द्वितीयया कर्मत्वञ्च बोध्यते। एवं पिपठिषति इत्यत्र पठ-धातुना पाठोपस्थितिः, सन्-प्रत्ययेन इच्छोपस्थितिः, विषयता संसर्गः, विषयता संसर्गः, आख्यातेन अत्र एवच्च कर्तुत्वनिर्वाहकव्यापाररूपा। च मैत्रनिष्ठा या पाकादिकति- स्तविर्वाहकव्यापारः । णिजन्तधातुप्रतिपाद्यताऽवच्छ दकं कर्तुत्वमेव फलं, तादृशफलाश्रयतयऽस्वतन्त्रस्य कर्नुः प्रयोज्यकर्त्तः मैवादः कर्मतया तदत्तरद्वितीयाया वृत्तित्वमर्थः; अन्वयश्चास्य णिजथै अनुकूलक़तिरूपयापार। तण्डुलपदोत्तरहितौयाया वृत्तित्वमर्थः ; अन्वय- श्वाम्य पच्-धात्वर्थ-रूपपरावृत्तिरूपविल्ल प्तिरूपफले ; एवच तण्डुलवत्ति- विकृत्य नुकूल तेजःसंयोगानुकूलो मैत्रवृत्तियों व्यापारस्तदनुकूलव्यापारवांश्चैत्र इति बोधः एतेन तण्डलपदोत्तरद्वितीयायाः फलरूपार्थ स्यादृष्ट- चरत्वेऽपि न क्षतिः । वैकल्पिकत्वमिति ।-अयमभिप्रायः,-यदा तादृशफल विशेष णतया अखतन्त्रकतमैत्रादिवृत्तित्वविवक्षा, तदा चैत्रो मैत्रं तण्डुलं पाचयतीति प्रयोगः, यदा तु गः, यदा तु पाकादिविशेषणतया अखतन्त्र कत्तुमे त्रादिकर्तृत्वविवचा, तदा चैत्रो मैंण तण्डुलं पाचयतीति .. .

[२४]
सारमञ्जरी।
धीः ।
लक्षणया आश्रयत्वोपस्थितिः,तदुपरि पुनराश्रयत्वं
संसर्गः, तेन पाठविषयकेच्छाश्रयत्वाश्रय इति
एवं देवदत्तेन शास्त्रं पिपठिष्यते इत्यच
देवदत्त-वृत्तीच्छाविषय-पाठजन्य-फलशालिशास्त्र-
मिति बोधः।
अथ कर्तुविहितकृत्यत्ययस्य कृत्याश्रये शक्तिः,
तेन अन्नस्य पक्तत्यत्र षष्ठ्याः कर्मत्वं द्वितीयाप्रति-
रूपत्वात्, पच्-धातुना पाकः, टचा कृत्याश्रयो
बोध्यते, अभेदः संसर्गः, तेन अन्न कर्मकपाकानु
कूलकृत्याश्रयाभिन्नश्चैत्र इति शाब्दधीः। एवं
अन्नस्य पाचक इत्यत्रापि वुन् प्रत्ययेन कृत्यायो
बोध्यते । अथ भावकर्मविहितकृत्यबस्य भाव-
कर्मणी शक्ये, तेन चैत्रेण पक्वमन्नमित्यत्र चैत्र-
पदोत्तर-तीयया कृत्युपस्थितिः, वृत्तित्वं संसर्गः,
पच्-धातुना पाकोपस्थितिः, जन्यत्वं संसर्गः,
निष्ठया फलशालिखोपस्थितिः, अभेदः संसर्गः,
तेन चैत्रवृत्तिकृतिजन्यपाकजन्यफलशाल्य-
भिन्नमन्नमित्यर्थः । भावस्थले तु चैवेण पक-
मित्यत्र चैत्रवत्तिकृतिजन्यः पाक इति धीः
प्रयोगः, तत्र च तण्डुलवृत्तिमॆवकर्तृको यो विकृप्यनुकूला व्यापारस्तदनु-
कूलव्यापारवान् चैत्र इति बोधः ॥ ३१ ॥

सारमञ्जरी। [२५] (३२) भावकहञादीनां प्रयोग साधुतामावं, द्विवचनादि कन्तु “कृविहितो भावो द्रव्यवत् प्रकाशते” इति न्यायादिति। एधानाहतुं व्रज- तीत्यत्र एध-पदेन एध-पदेन काष्ठोपस्थिति:, दितीयया कमतोपस्थितिः, आङपूर्व-ह-धातुना आहरणोप- स्थितिः, तुम्-प्रत्ययेन उद्देश्यतोपस्थितिः, आख्या- तेन कृत्य पस्थितिः, आश्रयत्वं संसर्गः, तेन एधवृत्तिकमताऽनुकलाहरणोद्देश्यक-व्रजनानुकूल- कृत्याश्रय इति शाब्दधीः । (३३) अय हिकर्मकविचारः । . भावक्रद्घजाढोनामिति ।-तथा हि, “भावः” धात्वर्थः । घादि- प्रत्ययानां धात्वरूपभावखरूपत्वे धात्वर्थ-प्रत्ययार्थयोरभेदैन शाब्दबोधा- नुपपत्तिरिति प्रयोगमावुवार्थमेव घञादीनां प्रयोगः, अन्यथा “शास्त्र नापदं प्रयुञ्जीत" इति नियमात् केवलधातुमात्र प्रयोगो न सम्भाव्यत इति प्राक् वित्रतमेव । नन भावविहितघजाद्यन्तप्रयोगस्य साधुत्वा) प्रथमोपस्थितवान् तदत्तरं मुबादिविभक्तरेकवचनर्मव भवतु, तथात्वे तु पाको पाका इत्यादिप्रयोगः कथमुपपद्यत ? इत्यत आह, हिवच- नादिकन्विति ।-तथा च, भाववाच्य कविहितप्रत्ययस्य द्रव्यतुल्यतया द्रव्यसमानधर्मवत्वेन लिङ्गसङ्खग्रावत्वं ग्राह्य, परन्तु “घजलौ पुंसि विजयो" इति नियमन घञन्तस्य पुंलिङ्गत्वमेव ; इत्यञ्च साधुः पाकः साधू याको साधवः पाका इत्यादिप्रयोगा: पाकव्यादिस्थले भवन्ति ।। ३२ ॥ अथेति ।-सकर्मकाः खलु द्विविधाः, एककर्मकाः, हिकर्मकाच । एककर्मान्वितस्वार्थबोधकाः गज्यादयः एककर्मकाः । हिकर्मकाः खलु हिकर्मान्वितदिव्यापारार्थकाः । तथा हि, फलावच्छिन्नक्रियानुकूल mr सारमञ्चरी अजां ग्राम नयतीत्यत्र पजावृत्तिकर्मताऽनु- कूला या ग्रामविषयिणी प्राप्तिः तदनुकूलकृत्या- श्रय इति बोधः । एवं नोयते ग्राममजा पथिकन इत्यत्र पथिकनिष्ठकृतिजन्या या ग्रामविषयिणी .. व्यापारवाचित्वादव याज्ञार्थ-दह-चिप्रभृतीनां नौ-वहादीनाञ्च किम- काणां धातूनां विकर्मकता ; यथा, दुह-धातोः विभागावच्छिन्नक्षरणानु- कूलव्यापाराथकतया क्षरयारूपक्रियायाः तदनुकूलव्यापारस्य च बोधनात्, नो-धातोः उत्तरर्दश नयागावछिन्नक्रियानुकूलव्यापारार्थकतया स्पन्द- रूपक्रियायाः तदनुकू लयापारस्य च बोधनात् दिकर्मकता, एवमन्य- वापि बोध्यम् । धा च य पारजन्य फल मालितया कर्मणो मुख्यत्वं, तादृश- फलजन्यफलशालि तथा कर्मणो गौणत्वं बोध्यम् । द्विकर्मान्वित- दिव्यापारार्थकाः पुनीिजन्ताः एककर्मकधातवः। तत्र च मूलधातु नेकव्यापारोऽभिधीयते, द्वितीयस्तु णिजन्तधातुना। तद्यापारहये च ईप्सितकर्मणः प्रयुज्यकत्र्तरूपकर्मणश्च यथाक्रममन्वयः, तथात्वच्च गम्यादी- नामिति बोध्यम्। वस्तुतस्तु अजां ग्रामं नयतीत्यल उत्तरदेशसंयोगाव- छिन्नक्रियानुकूलव्यापाररूपा प्राप्तिौ-धातोरधः, द्वितीयादयस्य वृत्तित्वमर्थः, उत्तरदेशसंयोग पधात्वर्यैकदेशे गोणकर्मग्रामपदोत्तर- द्वितीयार्थवत्तित्वस्य, स्पन्दात्मकक्रियारूपफले प्रधानकर्माजादिपदोत्तर- हितीयार्थवत्तित्वस्यान्वयः ; एवञ्च ग्रामवत्तिमयोगानुकूला या अजावृत्ति- क्रिया तदनुकूलव्यापारः ( स एव प्राप्तिपदार्थः) तदनुकूलका तिमान् इत्येव शाब्दबोधः । एवं नीयते ग्राममजा पथिकनेत्यत्र उत्तरदेशसंयोगाव- छिन्नक्रियारूपं फलं कर्माख्यातार्थः, तत्र चोक्तक्रियानुकूलव्यापारस्य प्राप्तिरूपस्य धात्वर्थस्य जन्यतासम्बन्धेन, कर्माख्यातार्थतादृशक्रियारूप- फलस्याश्रयतासम्बन्धेन अजारूपप्रधानकर्मण्यन्वयः। गौणकर्म-ग्रामवृत्ति- स्वस्य च तादृश वान्वर्थताऽवच्छेदकताऽवच्छ दकौभूतोत्तरदेशसंयोगेऽन्वयः एवञ्च पथिकनिष्ठ कतिजन्या या ग्रामवत्युत्तरदेशसंयोगानुकूलक्रियानुकूल- ।

साग्मञ्जरौ। [२७] प्राप्तिस्तजन्यफलशालिन्यजा इति शाब्दधौः। (३४) एवं गां दोग्धि पयो गोपालक इत्यत्र गो-सम्बन्धि पयोतिकर्मताऽनुकूल दोहनानुकूल- कृतिमानित्यन्वयधौः। एवं दुहते गौः क्षौरं गोपालकेन इत्यत्र गोपालकनिष्ठ-कृतिजन्य- क्षीरविषयक-दोहननिमित्तं गौरित्यन्वयः। 3B व्यापाररूपा प्राप्तिः तज्जन्योत्तरदेशमंयोगानुकूलक्रियारूपफलशालिनी अजेति बोधः । इन्थञ्च ग्रन्य कारोक्तशाब्दबोधयन्तु आपाततः पथप्रदर्श- नार्थ मेव, परन्तु निरुक्तशाब्द बोधयतात्पर्य बोध्यम् ॥ ३३ ॥ एवं गामित्यादि।-तथा हि, विभागावछिन्नक्षरणानुकूलो व्यापारः टुह धात्वधः, गवादः सम्बन्धविवक्षायां शेषे षष्ठीप्रसत्या रजकस्य वस्त्र ददातोतिवत्, तदपवादार्थम् अकथितच"(१।४।५१पा०) इत्यनुशासनम ; तथा च, गवादिपदोत्तरद्वितीयायाः सम्बन्धोऽर्थः, स च धात्वर्धकदेशे विभ.गै ; पयःपदोत्तरद्वितीयाया वृत्तित्वमर्थः, तच्च तादृशक्षरणे ; एवञ्च गोसम्बन्धिविभागानुकूल-पयोवृत्तिक्षरणानुकूलव्यापारस्यैव गोसम्बन्धि- पयोवृत्तिकर्मताऽनुकूलदोहनपर्यन्तार्थतया कृतेराख्यातार्थतया तदनु- कूलकतिमानिति प्रथमोक्तान्वयधियस्तात्पर्य्यम् । वस्तुतस्तु विभागाव- छिन्नक्षरणेत्यस्य गोक्षोरयोयों विभागस्तज्जनकं यत् क्षरणमित्यर्थः; एवञ्च गोपदोत्तरद्वितीयाया वृत्तित्वमर्थः, अन्वयशास्य विभागे। अन्यत् सवं पूर्ववत्। अत एव फलविशेषणीभूत-गुणफलविभागादिमतः कमन्व- ज्ञापनार्थम् “अकथितम्” इति सूत्रमिति। द्युह्यतं गौः क्षोरं गोपालकेनेत्यत्र क्षरणजन्यविभागाश्रयत्वरूपं गवादिनिष्ठं यत् अप्र- धानकर्मत्वं तदेव कर्माख्यातस्यार्थः ; "अप्रधान दुहादौनाम्” इत्यनु- शासनात् । क्षौरपदोत्तरहितौयाया वृत्तित्वमः, अन्वयश्चास्य धात्वर्थ- धरणे, उक्तकर्माख्यातार्थघटकक्षरणे च जन्यतासम्बन्धन धात्वर्थ- व्यापारस्यान्वयः; एवच्च गोपालकनिष्ठकतिजन्यो यो विभागानुकूल- [२८] मारमञ्जरी। एवञ्च प्रकृते कर्माख्यातेनाप्रधानकर्मयो गवादेोधजननादिति "अकथितं कर्म" ( १।४।५१॥ पा० ) इत्युक्तम्। कर्मत्वातिदेशस्तु हितीयालाभार्थो न तु साक्षात्कमत्वम् । एवं अद्भुतः समुद्रस्य बन्धो वानरै- रित्यादौ चैत्रनिष्ठकृतिजन्यः पाकः, एवं वानरीयकृतिजन्य-समुद्रविषयकबन्धनमद्भुतमिति चैत्रस्य पाकः, .. क्षीरनिष्ठक्षरणानकूलो व्यापारः तज्जन्यक्षरणजन्य विभागाश्रयो गौरित्येव तादृशान्वयबोधस्य तात्पर्यम्। “प्रकृत” प्रातस्थली, “कर्मा ख्यातन" कर्मविहिताख्यातप्रत्ययेन क्षरणजन्य विभागाणयत्वार्धन, "अप्रधान- कर्मणो गवादिः” इति-तथा च, क्षरणजन्यविभागाश्रयत्वरूपाप्रधान- कर्मत्वेन गवादोंधजननादित्यर्थः, “इति अकथितं कर्म इत्युक्तम्" इति-तथा हि “कत्तुरोप्सिततमं कर्म” (१।४।४८) इति पाणिनिभूवस्य कर्जा आप्तुमिप्यमाणतमं कर्मेत्यर्थ करणात् ईप्सितानां मध्य प्रकृष्टस्येमित- स्यैव कर्मसंज्ञाविधान मुख्य कर्मण एव कर्मसंज्ञा तादृशसूत्रात् बोध्यते, न तु अप्रधानकर्मण: ; एवञ्चाप्रधानकर्मणः कर्मसंज्ञाविधानार्थमेव “अक- थितम्” इति सूत्रम् । तदर्थ स्तु-अपादानादिविशरैरविवक्षितं कारक कर्मसंज्ञं स्यादिति । यस्यापादानादिविशेषविक्षा नास्ति तादृशकारक- स्यैव कर्मसंज्ञाविधानकमेतत् सूत्रम्,अपादानादिविवक्षायान्तु गोयॊग्धि पय इत्येव भवति । एवञ्च अप्रधानकर्मणः कर्तुगैप्सिततमत्वाभावेन धात्वर्थ- व्यापारजन्यफलरूपमुख्यफलाश्रयत्वाभावेन च"वत्तीप्सिततमं कर्म"इति सूत्राविषयतया तस्य कर्मसंज्ञाविधानाधर्मवैतत् सूत्रमिति तात्पर्य्यम् । कर्म त्वातिदेशस्विति ।-तथा च, तादृशमूत्रादप्रधानकर्मण: अपादानाद्य- विवक्षायां कर्मत्वातिदेशस्तु तदुत्तरं द्वितीयाविभक्तिलाभार्थ मेव “न तु साक्षात् कर्मत्वं" धात्वर्थव्यापारजन्यफलाश्रयत्वेन मुख्यकर्मत्वमित्यर्थः ।

सारमञ्जरी। [२] - बोधः । क्वचित् षष्ठ्यास्तृतीयाप्रतिनिधित्वात् कृतिरथः, क्वचित् द्वितीयाप्रतिनिधित्वात् कर्म- स्वमर्थः एवम् अधौती व्याकरणे, पठिती तन्खे इत्यादौ व्याकरण करगामधीतवान्, तन्वं पठितवान् इत्याद्यन्वयधीः । "तस्येन् विषयस्य कर्मागा" इत्यनेन सप्तम्या द्वितीया प्रतिनिधित्वात् । एवं- (३५)“चर्मणि हौपिनं हन्ति, दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरौं हन्ति,सौनि पुष्यल को हत: ॥" इत्यादी "निमित्तात् कर्मयोगे" इति निमित्त- सप्तमी, “निमित्तात्” उद्देश्यात्, तहाचकपदा क्वचित् षष्ठया इत्यादि । -तथा च, चैत्रस्य पाक इत्यादौ कृत्प्रत्यय- योग कर्तरि षष्ठोविधानात् टतोयार्थकते: तादृशषष्ठीविभक्या बोध्यतया तादृशषष्ठयाः टतौयाविभक्ति कार्यकारित्वेन टतीयाप्रतिनिधित्वम् । एवं समुद्रस्य बन्ध इत्यादौ क़त्प्रत्यययोगे कर्मणि षष्ठयाः कर्मत्वार्यकतया द्वितीया प्रतिनिधित्वं तस्येन्-विषयस्येत्यादि । -तथा च, “क्त स्येन्-विषयस्य कर्मण्यपसङ्ख्यानम्” इति पाणिनितवार्तिक- सूत्रस्यायमः,-"इन्-विषयस्य" इन्-प्रत्ययप्रकृतिभूतस्य “क्तस्य” क्तान्तस्य कर्मणि सप्तमी भवतीत्यर्थः । भावे क्त-प्रत्यये तत: “इष्टादिभ्य" (५।२।८८ पा०) इति तद्वितसूत्रात् कर्तरि अर्धे इनि कृते गुणीभूतक्तान्त- क्रियया सम्बध्यमाने कर्मणि व्याकरणे तन्त्रे च सप्तमीविधानेन सप्तम्या द्वितीयार्थकतया द्वितीयाप्रतिनिधित्वं बोध्यम् ॥ ३४ ॥ चर्मणोति ।-"निमित्तात् कर्मयोगे” इति वार्तिकमूत्रम् ; तेन हि "चर्मणि" चर्मनिमित्तमित्यवगमः । निमित्तमिह क्रियाफलं, यदि तु कारणमित्युच्यते तहि जाद्येन बद्धः इत्यादौ अतिप्रसङ्गः स्यात्। योग- श्रेह संयोगसमवायसम्बन्धान्यतररूपः, तत्र दीपिचर्मणोः गन्धमगसौम्नीः बोध्यम् ।

सारमञ्जरी दित्ययः । तथा च, निमित्त कम गोरवयवाववित्व- सम्बन्धश्चेत्तदा निमित्तवाचकपदात् सप्तमी, तेन चर्मोद्देश्यकं यडीपिकर्मकहननं तदनुकूलकृति- मानित्यन्वयः। एवमन्यत्रापि बोध्यम् । “पुष्यलकः" गधमृगः । “सोम्नि” अण्डकोष। (३६) सति सप्तम्या: सामानाधिकरण्यसर्थः । क्वचित् कालिक, क्वचित् देशिकञ्च। यथा-गोषु टुह्यमानाखागतः, दुग्धास्वागत: इत्यादौ समानकालौनत्वं भासते तेन गोविषयकवतमानदोहनसमानकालोनवर्त- मानगममानुकूल कृतिमान्, एवं गोविषयकातीत- दाइनसमानकालोनातीत-गमनाउनुकूल कृतिमान् अवयवावयश्भिावात् समवायः । हरदत्तस्तु – “पुप्यल कः” प्राङ्गः, “सौम्नि" सोमनानाधं, “हतः” निखात इत्याह । अस्मिंस्तु पक्षे - सौमपुष्यलकयोः मंयोगः । “मुक्ताफलाय करिणं हरिणं पलाय” इत्यादी "क्रियार्थोप- पइन्य” (२।३।१४) इत्यादि पाणिनिमूत्रण चतुर्थो, मुक्ताफलमाहर्तुमित्यर्थ- विवक्षया,न त मुक्काफलं प्राप्नुमित्यर्थे विवक्षया ; तथा हि, वाक्यपदोये “ह्यन्तःकर्पण्यपष्टम्भात् प्राप्तमध च सप्तमीम् । चतुर्थो बाधिकामाहुर्णिभागुरिवाग्भटाः ॥" इति भर्तृहरिणोक्त। अपप्रयोग एवायमिति बहवः । विधिरयं हेत्वर्थे बतीयायाः तादर्थं चतुर्थ्याश्च प्रतिषेधक इत्यवगन्तव्यम् ॥३५॥ सतीति ।-"यस्य च भावन भावलक्षणम्” (२।३।३७) इति पाणिनि- सूत्रेण विहिता सप्तमी सति सप्तमी। इह खलु समानदेश-कालाभ्यां परिच्छेदकत्वरूपलक्षणमर्थः, तेन गोषु दुह्यमानास आगत इत्यादौ गो- होहनक्रियाकालेनागमनका नपरिछेदात् गवादेः सप्तमी । गुणे सति सारमजगै। इत्यन्वयः। दैशिकं यथा-द्रव्यं गुणकर्मान्यत्वे सति सत्त्वादित्यादो सत्तानिष्ठं गुणकर्मगोर्मेंद- समानदेशत्वं भासते, तेन गुणा कर्मप्रतियोगिको यो भेदः तस्य समानदेशा सत्तेति बोधः । द्रव्ये भेदसत्त्वयोर्देशिकसामानाधिकरण्यादिति । पिटयघातो पुत्रो जनिता, एवं “गतो वनं वो भवितेति रामः” इत्यादौ पिटव्यं हतवानित्यर्थे पिटव्यघाती, निष्यतीत्यर्थ जनितेति कथं भविष्यटु पत्तिकपुवे पिटव्यकर्मकातीतहनन- कर्तृत्वसम्बन्धः ? असम्भवात् ; एवमन्यवाप्य- सम्भव इति (३७) “धातुसम्बन्धे प्रत्ययाः" (३।४।१ पा० ) सूत्रकरणाम्। तस्यायमर्थ:- धात्वर्थस्यावश्यकसम्बन्धे तहात्वर्थसममिव्याहृत- क्रियान्तरभिन्नकालौनप्रत्ययाः माधवः स्यः। बोधे तु यथोचितकालमादायेव विषयोभवति, तेन भविष्यदुत्पत्तिकपुते यावश्यं पिटव्यकर्मक- द्रव्यत्वम स्तोत्यादौ तु गुणसत्ताया द्रव्यत्वसनाधिकरण देशपरिच्छेदकत्वात् गुणवाचकात् सप्तमीति बोध्यम् । प्रसिद्धच्च निर्मातदेशकालक्रियायाः अनि तदेशकालयोः परिच्छेदकत्वं, तस्याश्च कदाचित् स्वसमानकालन कदाचिच्च सपूर्वोत्तरकालाभ्याश्च तथात्वम् । तैन' दुग्धासु धोक्ष्य माणासु गोष्यित्यादो सिद्धिः । ३६ ॥ तादृशशशां निरस्थति, धातुसम्बन्धे इत्यादिना । धात्वर्थयोः विशेष्य- [३२] सारमारी। हनन भासते, तदेवाचं प्रयोग: साधुः। तेमा- तोतकालविहितप्रत्ययेनावश्यकत्वं भासते ; तेन भविष्यदुत्पत्तिकपुत्रोऽवश्यं पिटव्यं हनिष्यतीति बोधः । एवं परदिनोत्पत्तिप्रतियोगी रामोऽवश्यं वनं गमिष्यतीति बोधः । (३८) अथ कारक-विचारः । तत्र क्रियानिमित्तत्वं कारकत्वमिति वैया- विशेषणभावरूपसम्बन्धे यत्र काले ये प्रत्यया उक्तास्ततोऽन्यत्र कालेऽपि ते स्यः, तिवायक्रियायाः प्राधान्यात् तदनुरोधेन गुणभूतक्रियावाचिन: प्रत्ययाः कालान्तरमामो भवन्तौति तत्सूत्र तात्पर्यम् ॥ ३७ ॥ अधेति। “कारकत्वं"नाम क्रियाजनकाक्तिमत्त्वं, भाष्य “कगेति क्रियां निवर्तयति” इति व्यत्यत्तिदशनात्, “साधकं क्रियानिष्यादक कारकतंज्ञम्” इति वार्तिकोक्तश्च। क्रियायान्म शतरं वान्वयव्यतिरेक- सत्त्वात् कारक चम् इति मतान्तरम् ; तदुक्तं हरिणा- "स्वाश्रये समवेतानां तहदेवाश्रयान्तरे। क्रियाणामभिनिष्यत्तौ सामध्ये साधनं विदुः” ॥ इति । शक्ति-पाक्तिमतोरभेदाच द्रव्यं कारकमिति व्यवहारः इति बोध्यम् । एवञ्च क्रियाजनकलेन सर्वषां कत्तत्वापि स्वस्खावान्तरव्यापारविवक्षयैव करणत्वादिकमवगन्तव्यम्। अलोक्तं हरिणा- “निष्यत्तिमात्रे कर्तुत्वं सर्वत्रैवास्ति कारके । व्यापारभेदापि चायां करणत्वादिसम्भवः ॥” इति । अलावान्तरभेद परिग्रहो यया-क: कारकान्तरप्रवर्तनव्यापारः। करणस्य कियाजनकाव्यवहितव्यापारः। कर्मणः क्रियाफलेनोदृश्यत्व- व्यापारः। अधिकरणस्य कर्तृकर्मव्यवहितक्रियाधारणव्यापारः ।

सारमञ्जरी। करगा:। तन्न ; (३६) मैत्रस्य तण्डुलं पचतौ- त्यादौ सम्बन्धिनि मैत्रे कारकत्वापत्तिः, सम्प्र- दानादेरनुमतिप्रकाशनहारव तण्डुलसम्पादन- हागऽपि पाकनिमित्तत्वात् । विभक्त्यर्थद्वारा क्रियाऽन्वयित्वं कारकत्वमिति नैयायिकाः । अत एवं नामार्थ-धात्वर्थयोर्भेदेन साक्षादन्वयम्या- व्युत्पन्नत्वात् । तहारीभूत-विमत्यर्थीपस्थित- स्तन्त्रत्वं कल्पाम् । विभक्तिस्तु क्वचित् मुबा- त्मिका क्वचित् तिङात्मिका च इति शेषः । स्तोकं पचतोत्यादौ क्रियाविशेषणे अतिप्रसङ्ग- वारणाय विभक्त्यवहारति। तव हि द्वितीया साधुत्वार्था । सम्बन्धिनः क्रियानिमित्तत्वेऽपि न क्रियाऽन्वयित्वम्, अतो नातिव्याप्तिः । “गुरु-विप्र- तपखि-दुगतानां प्रतिकुर्वीत भिषक् स्वभेषज:" इत्यादौ तु (४०) नामाध्याहार: कर्तव्योऽतो नातिव्याप्तिः । सम्प्रदानस्य प्रेरणानुमत्यादिव्यापारः। अपादानस्य अवधिभावोऽपगम- व्यापार: इति ॥ ३८॥ मैत्रस्येति। "क्रियाऽन्वयित्वं कारकत्वम्” इत्याद्युक्तलक्षणात् तण्डुल- सम्बन्धिमैत्रपदस्य पचतौति क्रियया साक्षादन्वयाभावात् न कारकत्व मिति । स्पष्टम् ॥३॥ नामाध्याहार इति।-रोगमित्यादि-नामाध्याहारः ; तेन रोगादिपदा- [३४] सारमञ्जरी अथ कर्त्तलक्षणम्। क्रियाऽनुकूलकृतिमत्त्वं ( ४१) कर्तृत्वं, कर्तृपदस्य यत्नार्थकटजन्त-क-धातुव्युत्पन्नत्वात् । अतोऽन्यव अचेतनादी कर्तृत्वं भातमिति . अथ क्रियालक्षणम् । धातोग्य: (४२) क्रिया, सा च द्विधा, क्वचित् थेन समं षष्ठान्तस्यान्वयः, न तु प्रतिकुर्वोतेति क्रियया। वस्तुत: “कञः प्रतियने" (२।३।५३) इति पाणिनिमूत्रण कञः कर्मणि षष्ठी भवति ॥४०॥ कत्त चमिति । - “कतृत्व” नाम धातृपात्तव्यापाराश्रयत्वम् ;- "धातुनोक्तक्रिये नित्यं कारकै कर्त्ततेष्यते ।” इति हर्युकेः । स च द्विविधः, स्वतन्तः तत्प्रयोजकश्चेति भेदात् । तत्र "खा तन्त्रा" नाम इतरव्यापारानधोनव्यापारवत्त्वं कारकान्तर- प्रयोजकव्यापारवत्त्वं वा। अत्रोक्तं हरिणा- "प्रागन्य नः शक्तिलाभात् प्राग्भावापादनादपि । तदधौनप्रवृत्तित्वात् प्रवृत्तानां निवर्तनात् ॥ अदृष्ट वात् प्रतिनिधेः प्रविवेके च दर्शनात् । आगद-युपकारित्वात् स्वातन्त्रं कर्तुरिष्यते ॥” इति । अस्थायमर्थः, इतरव्यापारादावपि स्वव्यापारसत्त्वात् कारकान्तराणां खाधीनप्रवृत्तिनिवृत्त्योदर्शनात् दालादेः कुठारादिवत् प्रतिनिध्यसम्भवात् कारकान्तराप्रयोगेऽपि खवाचकपदप्रयोगात्, साक्षादातूपात्तफलजनकव्यापारवत्त्वाच्च कर्नुः स्वातन्त्रमिति। पाचयति इत्यादावपि प्रयोज्यस्य पाकै स्वातन्त्रामस्येव, वेतनादिलाभरूपखार्थ- सिद्धये एव तस्य प्रवृत्तेः ॥ ४१ ॥ क्रिया इति । एषा खलु “क्रिया" धातुवाच्या फलव्यापारोभयरूपा तविशिष्टरूपा वा, “फलव्यापारयोर्धातुः” इत्यभिजनवचनात्। हरिणाऽप्युक्तं- खस्य सारमञ्जरी। [३५] ३ कर्तृस्था, क्वचित् कर्मस्था च। तत्र गमि-पति- प्रभृतीनां कर्तृस्थैव क्रिया, (४३) तस्याः पञ्चविध- कर्मान्यतमरूपत्वात्। पचि-भिदिप्रभृतीनां कर्मस्थैव क्रिया, क्वचित् अधःसन्तापनादिरूप- त्वात्, क्वचित् अवयवविभागरूपत्वादिति सङ्घपः । अथ कर्मलक्षणम् । परसमवेत-क्रियाजन्यफलशालित्वं ( ४४ ) परसमवेतो यो धात्वर्थस्तज्जन्यं यत् फलं तहत्त्वमित्यर्थः। परसमवेतेति विशेषणात् ग्रामं गच्छति इत्यादौ संयोगरूपफलशालित्वे- ऽपि कर्तरि नातिव्याप्तिः; अत एव फलावच्छिन्न- व्यापारबोधकत्वाद्धातो: सकर्मकत्वव्यवहारः। कर्मत्वम् । "व्यापारो भावना मेवोत्पादना सैव च क्रिया” इति । किच्च- “यावत् सिद्धमसिइं वा साध्यत्वेन प्रतीयते । आथितक्रमरूपत्वात् सा क्रियेत्यभिधीयते ॥" “सिई" वर्तमानध्वंसप्रतियोगि, भूतकालमित्यर्थः, तद्भिन्नम् “असिच" वर्तमानं भविष्यञ्च इत्यर्थः । तेनापचत पक्ष्यति पचतीत्यादौ सर्वत्र साध्यत्वेन असत्वरूपत्वनाभिधीयमाना क्रियेति क्रियाशब्दस्य रूढ़िग्नेन प्रदर्शिता इति भावः ॥ ४२ ॥ तस्था इत्यादि । - "तस्याः” क्रियायाः, “पञ्चविधकर्मणाम्” उत्क्षेप- णापत्तेपणादिप्रकारभेदापनखरूपाणाम्, "अन्यतमरूपत्वात्" कर्म- विशेष म्वरूपचात् कर्तस्थत्वं, तद्भिन्नानां कर्मस्थत्वम् इत्युच्यते ॥ ४३ ॥ कर्मवमिति ।-"मत्वं” क्रियाजन्यतहाधिकरगाफलवस्वम्, अथवा सारमञ्जरी। गवतीत्यादौ तूत्तरदेशसंयोगफलिका क्रिया गमनं धात्वर्थः। गां ददाति इत्यत्र स्वखत्व- ध्वंसपूर्वकपरस्वत्वोत्पत्त्यवच्छिन्नत्यागो दानं धात्वर्थः ; तज्जन्यं फलं स्वस्वत्वध्वंसपूर्वकपर- कोयखत्वं, तच्छालित्वात् गोः कर्मत्वम् । तण्डुलं पचतोत्यादावधःसन्तापनजन्यविक्लित्तिः फलं, तच्छालित्वात्तण्डुलादेः कर्मस्वम् ; अत एव यत्र क्रिया कर्तृगता तत्र लक्षणं मुख्यं, यत्र कर्मगता क्रिया तत्र गौणम् । एवम् आदनं पचतीत्यादावोदनपदेन तगडुले लक्ष गा, विक्लित्ति- फलयोगात् । तच्च कर्म (४५) त्रिविधं प्राप्यं, निर्वत्त्यं विकायञ्चेति । यत्र कर्मगो धात्वर्थजन्य- ॥ कर्ता स्वनिष्ठव्यापार प्रयोज्यफलेन सम्बडुमिष्यमाणं कर्मत्वमित्यर्थः ॥ ४४ त्रिविमित्यादि । अत्रोक्तं हरिणा- "निवर्त्यञ्च विकार्यञ्च प्राप्यञ्चेति विधा मतम् । तच्चे मिततमं कर्म चतुर्दाऽन्यत्तु कल्पितम् ॥ औदासोन्यन यत् प्राप्तं यच्च करनौप्सितम् । संज्ञान्तरैरनाख्यातं यत् यच्चाप्यन्यपूर्वकम् ॥” इत्यादिना प्रकारभदमभिधाय निर्वादीनां •लक्षणमुदाहरति- “यदसज्जायते सहा जन्मना यत् प्रकाशत । प्रकृतस्तु विवक्षायां विकाव्यं कैश्विदन्यथा ॥ तन्निवत्यं विकार्यञ्च कम वेधा व्यवस्थितम् । प्रकृत्युच्छेदसम्भत किञ्चित् काष्ठादिभस्मवत् । किञ्चिहुणान्तरात्पत्या सुवर्णादिविकारवत् ॥

सारमञ्जरौ। [३७] लक्षा, फलबत्त्वं तत् (४६) प्राप्यम् । यथा गच्छति पश्यति हन्तोत्यादयः । यत्र तु साध्यत्वेन विषयत्वरूपकर्मत्ववत्त्वं तत् (४७) निवर्त्यम् । यथा-घट करोति इत्यादयः । एवं घटं करोति इत्यादी सर्वत्र घटादिपदे मृत्पिण्डादौ 'साक्षात्कवादिविषयत्वानरोधात् ; एवं सिञ्चति हेष्टि यजति इत्यादौनाम् । तु प्रकृत्यच्छेद जनितरूपान्तरवत्त्वं तत् (४८) विकाय॑म् । यथा-काठं भस्म करोति, दुग्धं दधि करोति, तण्डुलानोदनं पचति, मुवणं कुण्डन्नं करोति । अब भस्मादः क्रियातविपाणां सिद्धियत्र न गम्यते । दर्शनादानुमानाहा तत् प्राप्यमिति कथ्यते ॥” इति ॥ ४५ ॥ प्राप्यमिति ।--क्रियाकत-साधारगा-धर्मप्रकारकप्रतीति-विषयताऽना- श्रयत्वे सति क्रियाजन्यफलवत्त्व नोदश्यत्वं प्राप्यत्वम् । यथा-ग्राम गलतीत्यादौ ग्रामादिः, संयागरूपफलस्य क्रियाऽधिकरणत्तित्वेन साधा- रण्यात् असाधारणोत्पत्यादिफलस्य तत्रामत्त्वात् तथात्वम् इति ॥ ४६ ॥ निवत्यमिति । प्रतिवाचक्रपटासभिव्याहतपदोपस्थाप्यत्वे सति क्रियाजन्योन्यत्तिफलव त्वं निवर्त्यत्रम्। उत्पत्तिश्च आद्यक्षणसम्बन्धरूपा प्रथमप्रकाशरूपा वा, “वदसत्-" इत्याद्युक्तः । “सतो वा विद्यमाना वा प्रक्रतिः परिणामिनी। यस्य नायोयतं तस्य निर्वयत्वं प्रचक्षते ॥" इत्युक्तः प्रकृतिवाचकेत्यादि ; तथा हि, घटं करोतीत्यादौ घटः, पुत्त्रं प्रसूत इत्यादौ च पुत्लादिरिति ॥ ४७ ॥ विकार्य मिति ।-प्रतीयमानप्रतिविततिभावत्वे सति क्रियानिर्वाय- [३८] सारमञ्जरौ। कर्मत्वं न काष्ठादः, भस्मादिष काष्ठादिसम्बन्ध्य- भिन्नत्वबोधनाय भस्मादिपदसमनियतविभक्ति- मत्त्वं काष्ठादेः । तथा च, काष्ठसम्बन्ध्यभिन्नभस्म- विषयक कृत्याश्रय इति शाब्दधीः। (४६) एव- मन्यत्रापि बोध्यम् । किन्तु अजां ग्रामं नयति इत्यादिवन्न हिकर्मकत्वम्, अबाभिन्नाबोधात् । यथा अजात्तिकमताऽनुकूला या ग्रामविषयिणी प्राप्तिस्तदनुल कृतिमान् इत्यन्वयधीः । एवं गां दोधि पयो गोपः इत्यादिबोध गोसम्बन्धित्वं पयोनिष्ठं नेयम्। अजा ग्रामं नीयते पान्थेन इत्यादौ पान्य वृत्तिकृतिजन्या या ग्रामविषयियो प्राप्तिः तज्जन्यफलशालिन्यजत्यन्वश्वबुद्धिः । एवं 3 तत्र विशिष्टासत्त्वोत्पत्तिरूपान्यतरफलवत्त्वं विकार्यत्वम् । यथा-सुवणं कुण्डलं करोति वृत्यादौ सुवर्णकुण्डलादिः अत्र सुवर्णस्य पूर्वरूपासत्त्वरूपफल- वत्त्वात् कुण्डलस्योत्पत्तिरूपफलवत्त्वाच्च तथात्वम्। हर्युक्तलक्षणे सुवर्णस्य किञ्चिगुणान्तराधानन कुण्डलस्योत्पत्तिरित्यवधेयम्। एवं काष्ठं भस्म करोति इत्यादावपि काष्ठभस्मादिः, च काष्ठस्य क्रियाजन्य- विशिष्टासत्त्वप्रयोजकनाशवत्त्वात् तथात्वमिति विवेकः । हर्युक्तलक्षणे हि काष्ठप्रत्युच्छेदेन भस्मोत्पत्तिः इत्यवगम्यते ॥ ४८ ॥ एवमित्यादि । -“एवम्” उक्तत्रितयमौप्सिततमं कर्तुः क्रियाफले- नोद्दिष्टतमत्वात् । एतद्भिन्नं चतुर्दा कल्पितं, पारिभाषिकमित्यर्थः, तानि च उदासीन-डेप्याकथितान्यपूर्वकाणि । तत्र कारनुद्देश्यत्वे सति क्रियाजन्य- लवत्त्वमुदासीनत्वम् ; यथा-ग्रामं गच्छन् टणं स्पृशति इत्यादी सारंमञ्जरौ। [३] दुह्यते गौः पयो गोपालकेन इत्यादी गोपा- लकवृत्तिकृतिजन्य-दोहनजनित-फलशालि-पयो- निमित्ता गौरिति शाब्दधोः। एवं विषिधकम- कारकमध्ये प्राप्यं कर्म मुख्यं, निर्वत्यै विकायंच गौणमिति सङ्केपः। अथ करणलक्षगाम् । (५०) तत्र “साधकतमं करगम्” (१।४।४२ पा०) इति सूत्रम् । “साधकतमञ्च"कारकान्तरा- सहकृतत्वे सति फलहेतुत्वं, कारकान्तरव्यापार- मनुत्पाद्य फलहेतुत्वमित्यर्थः। फलं धात्वर्थता- ऽवच्छेदकम् । परशुना छिनत्ति वृक्षम् ; हतीयायाः करगत्वमर्थः । एवं मनसा पाटलिपुत्रनगरं गच्छति इति । अथ धनेन कुलं, विद्यया यश: टणादरुद्देश्य वाभावेऽपि क्रियाजन्यमंयोगवत्त्वात् तथात्वम् । विष्टसाधनत्वे सति क्रियाजन्यफलवत्त्वं हेप्य चम् ; यथा-अन्नं बुभुक्षमाणो विषं भुङ्क्ते इत्यादौ विषादः। अपरं पुनरकथितं कर्म, तथा हि, कारक- विशेषसंज्ञान्तरेणा विवक्षितत्वे सति कर्मोपकारकत्वम् अकथितत्वम् ; यथा-गां दोग्धि पयः इत्यादो गवादेर्दुग्धोपयोगितया अविवक्षित- कारकान्तरसंज्ञकत्वेन च तथात्वम् इत्यादि विवेकतोऽवगन्तव्यम् ॥ ४८ ॥ ततेति ।-क्रियासिद्धौ यत् प्रकष्टोपकारकमम्तरङ्गं विवक्षितं तत् करणम्। यद्व्यापारानन्तरं फलनिष्पत्तिस्तत् प्रकष्टं, सूत्रे तमप्-प्रत्यये- नाव्यवहितव्यापारवत्त्वरूपप्रकर्षावबोधनात् । यथोक्तं हरिणा- सारमञ्जरी। इत्यादी तृतीयाया हेतुत्वमर्थः, क्रियाऽन्वयिखा- भावात्। एवं धूमात् वह्निः, कृतकत्वादनित्यः इत्यादौ पञ्चम्यर्थी हेतुता, धूमपदे धूमनामे, वहिपदे च वशित्ताने लक्षगा। अथ सम्प्रदानलक्षणम् । "कर्मगा यमभिप्रेति तत् सम्प्रदानम्” (१।४।३२ पा०)इति सूत्रम्। अस्यार्थः,—करणोभूतकर्मजन्य- फलभागित्वेनोद्देश्यत्वं (५१) सम्प्रदानत्वमित्यर्थः । दा-धातोः खम्वत्वध्वंसपूर्वकपरस्वत्वोत्पत्त्यवच्छिन्न- त्यागः, अथवा उद्देश्यगतस्वामित्वसम्पादकल्यागो- ऽर्थः : तेन विप्राय गां ददाति इत्यत्र विप्रोद्देश्यक "क्रियायाः परिनिष्पत्तिर्यद्व्यापाराद नन्तरम् । विवक्ष्यते यदा यत्र कर तत्तदा स्मतम् ॥" इत्यत्र विवक्ष्यते इत्यनेन कारकान्तराणामपि करणत्वमिति नूचितम्। तदपि उक्तं हरिणा- “वस्तृतस्तदनिदेश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पद्यत इत्येषः प्रयोगो दृश्यते यतः ॥" इत्यत्र वस्त करसपदार्थः इति ॥ ५० ॥ सम्प्रदानत्वमिति ।-“सम्प्रदानत्वं” क्रियाजन्यफलभागित्वेनोदृश्य- त्वम् इत्यर्थः । तच्च विविधम्, अनिराकत प्रेरकमनुमन्त चेति। यथोक्तं हरिणा- “अनिराकरणात् कर्त्तः त्यागाङ्गकर्मणेप्सितम् । प्रेरणानुमतिभ्याच्च लभते सम्प्रदानताम् ॥" इत्युक्तदानप्रयोजकव्यापारत्रयभेदात् । तत्राद्यं देवतादि, यथा- सारमञ्जरी। [४१] यत् गोवृत्तिस्वत्वं, गोनिरूपितखामित्वं वा, तज्जनको यः त्यागस्तदनुकूलकृतिमामित्यन्वयधीः । नारदाय रोचते कलहः इत्यत्र चतुर्थ्याः सम्बन्धि- त्वमथः । तत्र सूवं"कच्यर्थानां प्रीयमाण:"(१।४।३३ पा०) ति। तथा च, नाग्दसम्बन्धिनी या मचि- स्तद्विषयकलह इति शाब्दधीः । नृपाय श्लाघते वन्दी इत्यत्र चतुर्थाः विषयत्वमर्थः। तत्र सूत्रं "श्लाघ- हुङ्-स्था-शपांजीमामानः” (१।४।३४पा०)इति । "जीभामानः'आत्मज्ञापनेच्छाविषयीभूतः ; तथा च, नृपाय नाश्ते वन्दौ इत्यत्र नृपविषयकात्म- जापनेच्छावत्-वन्दोकथनाश्रय इति धीः । एवं विप्राय शतं धारयते शूद्रः इत्यत्र चतुर्थ्यर्थः सम्बन्धित्वम्। “धाररुत्तमर्ग:'(१।४।३५पा०)इति सूत्रम्। तथा च, विग्रसम्बन्धिशतसङ्ग्याविशिष्ट- द्रव्यकर्मक-क्ट गाग्रह णाश्रयः शूद्र इति बोधः देवदत्ताय क्रुध्यति इत्यत्र चतुर्थ्याः कर्मत्वमर्थः । तत्र “क्रुधद्रुहेाऽसूयार्थानां यं प्रति कोपः” (१।४।३७ पा०) इति सूत्रम् । तथा च, देवदत्त- कर्मक-क्रोधाश्रय इति बोधः । "क्रोधश्च" नारायणाय तुलसौं ददाति इत्या कर्तुरनिराकरणन प्रवृत्त्य- प्रतिवन्धात्। द्वितीयं याचकादि, यथा-ब्राह्मणाय गां ददाति,

[४२]
मारमअगे।
वेषः ।
परविषयकासूयाजनकव्यापारः । "असूया"
पुष्पाय स्ग्रहयति इत्यत्र चतुर्थ्या
ईसितकर्मत्वमर्थः। अब "महरीभितम्"
(१।४।३६ पा०) इति सूत्रम्। तथा च, पुष्प-
विषयकम्महाश्रय इति बोधः ।
अथ अपादानलक्षगाम् ।
(५२) "ध्रुवमपायेऽपादानम्” (१।४।२४पा०)
इति सूत्रम् “अपाये" विभागविषये यत् "ध्रुवं"
विभागजनकभियाशून्यं तत् अपादानकारक
भवतीत्यर्थकम्।(५३)“परकीयक्रियाजन्यविभागा-
श्रयत्वम् अपादानवम्” इति नैयायिकलक्षणम् ।
तदपादानं विविध, (५४) चलमचलञ्चेति। यथा
दैहि देहोत्यादिना कर्तुः प्रेरणात् । टतोयन्तु गुर्वादि, यथा-गुरव
सर्वस्वं ददाति, प्रार्थनाव्यतिरेकर । तुमतिमात्रेण प्रेरणादिति ॥ ३१ ॥
ध्रुवमित्यादि । -~-प्रक्तधात्वर्धानाश्रयत्व सति तज्जन्यविभागाश्रयः
ध्रुवं, तच्चात् अवधिरिति । “अपायः” विश्लेषः, विभागः, सम्बन्धध्वंस
इति यावत् ॥ ५३॥
परकीयेति ।-विभागजनक तरिक्रयाऽनाश्रयत्वे सति तरिक्रयाजन्य-
विभागाश्रयत्वम् अपादानत्वमिति वा ॥ ५३ ॥
चलमिति ।-तत्रोक्तं हरिणा-
"अपाये यदुदासीनं चलं वा यदि वाऽवलम् ।
ध्रुवमेव तदावेशत् अपादानमितीष्यते ॥"
अत्र "उदासीनम्” अवधिः । आवेशात्” ईपत्प्रवेशात् इति ॥ ५४॥

सारमञ्जरी। [४३] (५५)वृक्षात् पत्र पतति इत्यत्र वृक्षरूपमपादानम- चलम् । धावतोऽश्वात् पतितोऽश्ववारः इत्यत्राश्व- रूपापादानं चलम् । अत्र पञ्चम्या अपादानत्वमर्थः, "अपादानत्वम्" अवधित्वम् ; तेन वृक्षावधिकाध:- संयोगानुकूला या क्रिया तहत् पत्रमिति शाब्दधौः। एवम् अम्वावधिकाध:संयोगानुकूला या क्रिया तहानश्ववार इति। ननु अत्र कथमश्वस्यापादा- नत्वम् ? पुरुषाश्वयोविभागं प्रति अश्वक्रियाया हेतुत्वादिति चेत्, न, अश्वक्रिया नोभययो- विभागहेतुः, किन्तु विभागजनकीभूतपुरुष- क्रियां प्रति अश्वक्रियायाः हेतुत्वात्। हिमवतो गङ्गा प्रभवति इति, “बल्मौकाग्रात् प्रभवति धनुःखण्डमाखण्डलस्य" इत्यत्व पञ्चम्या अव- च्छेदकत्वमर्थः । तत्र "भुवः प्रभवः” (१।४।३१ पा०) इति सूत्रम् । “प्रभवः" आद्यप्रकाशः ; तेन हिमवदवच्छिन्नाद्यप्रकाशोत्पत्तिमती गगा। एव- मन्यवापि बोध्यम् । सामग्रीतः फलं जायते इत्यादौ पञ्चम्यों हेतुता। तत्र “जनिकर्तः प्रकृतिः"(१।४।३० पा०) इति सूत्रम् । “प्रकृतिः" वृक्षादिति ।-अत्र काकादिभिरानौतपत्रस्य तहक्षस्थावयवत्वाभावात् पञ्चमी। अवयवावयविभावे तु सम्बन्धविवक्षायां षष्ठेरव ॥ ५५॥ अन्यवक्षात् पतन [४४] सारमञ्जरी। फलोन्मुखीभूत: कारणकलापः,तेन सामग्रीहेतुका या उत्पत्तिस्तत्प्रतियोगि फलमिति शाब्दधीः । अध्ययनात् पराजयते चैत्रः इत्यादौ पञ्चम्यों विषयता, तव “पराजेरसोढ़ः"(१।४।२६ पा०) इति सुवम् । परा-पूर्वक-जिधातु-योगे असोढ़ः अपा- दानम् । “असोढ़त्वम्" असाध्यत्वम् । “पराजयः" निवृत्तिः। तेनाध्ययनविषयक-निवृत्तिमांश्चैव इति शाब्दधीः । शत्रून् पराजयते इत्यत्र पराजयः'परि- भवः । शत्रुस्तु पराभवविषय एवातो न पञ्चमी। कूपादन्धं वारयति इत्यत्र पञ्चम्यर्थः फेवल- मवधित्वन्। तत्र “वारणार्थानामीसितम्" (१।४।२७ पा०)इति सूत्रम् । कूपोऽपि पुरो गम्य- देशत्वेनेभितो भवत्येव, तेन कूपावधिकं यनि- वारणां तदनुकूल कृतिमानित्यन्वयधीः । कूपस्य न ध्रुवत्वम्, अन्ध-कूपयो: संयोगविरहात् । "अन्धत्वं” गोलकाभाववच्चे सति चक्षुःशून्योभय- गोलक-तत्मामान्याभावान्यतरवत्त्वम्। “काणत्वं" चक्षुर्युक्त कगोलकमात्रवत्त्वम्। चौरात् बिभेति, व्याघ्रात् बिभेति, दस्युभ्यो रक्षति इत्यादी पञ्चम्यों हेतुता। तत्र “भौत्रार्थानां भयहेतुः" (१।४।२४ पा०) इति सूत्रम् । भयाक-त्राणार्थक- सव मारमञ्जरी। [४५] छात्रः उपाध्याया- धातुयोग यो हेतुस्तत् अपादानं भवतीत्यर्थः । अत्र हेतोयदपादानत्वं विहितं तत् तृतीया- निवारगार्थमेव । उपाध्यायादन्तधत्ते इत्यत्रापि पञ्चम्या हेतुत्वं तौयावारणार्थमेव । तत्र मूत्रम् “अन्तौ येनादर्शनमिछति' (१।४।२८ पा०)डांत । “अन्तर्द्धिः” आत्मसङ्गोपनम् ; तथा च, उपाध्यायहेतुक यदात्ममगोपनं तांद्वषयिगा या इच्छा तदाश्रयछात्र इति बोधः । दधीते इत्यत्र पञ्चम्यों हेतुता । तत्र सूत्रम् "आख्यातोपयोगे” (१।४।२६पा०) इति। अत्रा- पादानत्वविधानं तौवाबारगार्थम् । “श्राख्याता" वक्ता। नियमात् वावग्रहगो आख्याताऽपादानं भवति, तथा च, उपाध्यायहेलुकं यनियम- पूर्वकग्रहणं तदनुकूल कृतिमानिति धो: अथाधिकरगालक्षगाम् । सत्र पाणिनि सूत्रम् “आधारोऽधिकरगाम्" (१।४ ४५पा०)। “आधारः" अवाश्रयः । “कर्तृका- न्यतरद्वारा क्रियाश्रयत्वे सति तत्कियोपकारक- त्वम् (५६) अधिकर मात्वम्” इति नैयायिका: T: । अधिकरणच मिति ।-आध्रियन्ते क्रियाः यस्मिन्निति “आधार:"कर्त- कर्मव्यवहितक्रियाश्रय इति स्पष्टं, स एवाधिकरमा । अत्रोक्तं हरिणा- [४६] सारमञ्जरी। अत्र गहस्थ तु अत्र “उपकारकत्वं" निष्पादकत्वम् ; तेन पौठे स्थित्वा गृहे स्थाल्यामोदनं पचति इत्यव सप्तम्यर्थोऽधिकरगत्वम् । कर्तप्रभृती- नामतिव्याप्तिवारगाय सत्यन्तम् । पाकक्रियाश्रयत्वं, तदुपकारकत्वञ्च कतहाग, स्थाल्याश्च ओदनरूपकर्महारा क्रियाश्रयत्वं, तटुपकारकत्वञ्चेति बोध्यम् । पौठस्य तु स्थितिक्रियाऽपेक्षया एव निष्कर्षः । अथ समासवादः । ( ५७ ) तत्र समासत्वमग्खण्डोपाधिविशेषः, तच्च “ककर्मव्यवहितामसाक्षात् धाग्यत् क्रियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥” इति । चतुर्विध-“सामीप्यालेषविषयैप्प्याधारश्चतुर्विधः” इति भेदकसम्बन्धचातुर्विध्यात्। तल सामोप्यसम्बन्धन प्रथमोदाहरणं-वने नदी आस्ते इत्यादौ वनादिः सामीप्यसम्बन्धेनाधारः । द्वितीयम् एकदेश- सम्बन्धन यथा-कटे आस्ते इत्यादी कटादिः आश्लेषाधिकरणम् । टतौयं विषयतासम्बन्धेन यथा-मोक्ष इच्छाऽस्ति इत्यादौ मोक्षादिः विषयाधारः। व्याप्तिसम्बन्धेन चतुर्थं यथा-तैलं तिलेषु इत्यादौ तिलादि- ाप्याधार इति ॥ ५६ ॥ तत्रेति ।-'समासत्वं” नाम शक्तिसम्बन्धेन समासपदत्वम् एकार्थो- भावापन्नशक्तिसमुदायत्वं वा, समस्यते संश्लेप्यते एकार्थीक्रियते असौ इति व्युत्पत्तेः । यादिपदानामेकपदतासम्पादकपदसावुतार्थकाखाडोपाधि- विशिष्टत्वं समासत्वम् इति फलितार्थः । स च समासः षडिधः ; तथा हि- ।

सारमञ्जरौ।
[४७]
न तु कर्मधारयादिषड़न्यतमत्वम्, (५८) आत्मा-
श्रयत्वात्।
नैयायिकमते तु
"समासे (५६) न
.
"सुपां मुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा।
सुबन्तेनेति विज्ञयः समासः पड़िधी बुधैः ॥” इति ।
तत्र क्रमेणोदाहरण। मुपां सुपेति हयमपि पदं सुबन्तं, यथा-
गजपुरुपः इति । मुपां तिति पूर्वपदं सुबन्तम्, उत्तरं तिङन्तं, यथा-
पर्यभूषयत् इत्यादि, “गतिमतीदात्तवता तिडाऽपि समासः" इति
धातिकोक्तः । मुपा नाम्नति पूर्वपदं सुबन्तमुत्तरं नाम, यथा-कुम्भकार:
इत्यादि, “उपपदमति” इत्युक्त विधानात् समासः, “गतिकारकोप-
पदानां कृभिः समामवचनं प्राक् सुबुत्पत्तेः” इति परिभाषया सुबुत्पत्तेः
प्रागेव नामा समासः सिद्धः, अन्यथा चमकदित्यादौ नलोपानुपपत्तेः ।
सुपां धातुति उत्तरपदं धातुमात्रं न तिङन्तं, यथा-कटरित्यादिः,
“क्विब्यचिपछयायतस्तुकटप्रजु योणां दीर्घोऽसम्प्रसारण व” इति वार्त्तिकात्
समासः । तिङ तिङा, यथा-पिबत-खादता-पचत-भूज्जता इत्यादिः,
"आख्यातमाख्यातेन क्रियासातत्ये” इति मयूरव्यंसकाद्यन्तर्गणौयसूत्रात् ।
तिङां सुबन्तेन, यथा-जहिस्तम्बः, “हिकर्मणा बहुलमाभीक्षण
कर्त्तारञ्चाभिदधाति" इति मयरव्यसकाद्यन्तगंणीयविधानात् समासः ।
अर्थ पडिधः समासविभाग: इति ॥ ५७ ॥
आत्मति ।-स्वस्य सापेक्षितत्वेऽनिष्टप्रसङ्गः आत्माश्रयः। स खलु
उत्पत्तिस्थितिज्ञप्तिभिस्त्रिधा । तथा हि, यदोदं समासत्वं समासत्वजन्यं
स्थात् तदेतत् समासत्वानधिकरणक्षणोत्तरवर्ति न स्यात्। यदीदं समास-
त्वम् एतत्समासत्ववृत्ति स्यात् तदेतत् समासत्वव्याप्यं न स्यात्, यदीदं
समासत्वं समासत्वज्ञानाभिन्नं स्यात् (ज्ञानसामग्रीभिन्नं स्यात् ) तर्हि
एतत् समासत्वभिन्न स्यात् । एतदवयवः आत्माश्रयः । अतः कर्मधारयादी-
नामन्यतमेऽसम्भावनति बोध्यम् ॥ ३८॥
नेति ।-नैयायिकाः वाक्ये शक्तिलक्षणे न खोकुर्वन्ति, तन्मते पदे
एव शक्तिलक्षणा च ॥ ५ ॥

[४८]] मारमञ्जरी। शक्तिन वा लक्षगा, वाक्यत्वात्” । शक्ति- लक्ष मान्यतरसम्बन्धस्तु पदनिष्ठ एव, तदर्थाव- गति तु क्वचित् पूर्वपदे क्वचिदुत्तरपदे कचिटुभय- पदे वा लक्षणयेति । समासकरमञ्च पदसंस्कारार्थ- मेवेति नेयम्। किन्तु व्यासकालीनतलवाक्यार्थ- जोधानुकूलतत्तत्पदार्थोपस्थिति: क्लप्तशक्तिक- तत्तत्पदसमूहस्यैव शतिलक्ष गाान्यतरसम्बन्धेन ममासकालेऽपि तज्जातीयशक्यार्थबोधानुकूल- पदार्थोपस्थितिहेतुत्वं कल्याने लाघवात् । न तु वाक्यस्य पदत्वं, तत्वदस्यातिरिताऽपि शक्तिः कल्या गोरवात्। ननु नित्यसमासन्धले पकजादि- पटे का गति: ? तत्र व्यासाभावेन क्लृप्तशक्तिक- पदासावादिति चेत्, न ; तवागत्या उभययो: समाधानसाम्यात् ; तथा हि,समुदायशक्त्यनुरोधात् समुदायस्य पदत्वम्, अस्यावयवशक्त्यनुरोधन पदक देशस्यापि पदत्वं भवद्भिः कल्पनीयम् । समानयोः यवोभययोः समो दोषः परिहारोऽपि तत्सम इति प्रवादोऽपि साधुरिति । अथ कर्मधारयलक्षगाम्। (६०) हिंगुभिन्नत्वं सति समानविभक्तिमत्- ; द्विगुभिन्नत्वे इत्यादि । विगुविषयपरिहारेण समानाविकरणपद- सारमञ्जरी। [४] अत पदप्रकृतिकवे सति अभेदबोधकत्वं कर्मधारय- त्वम। तेन नौलोत्पलमित्यत्र नौलपदेन नौल- गुण विशिष्टं वस्तु, उत्पलपदेन उत्पलसामान्य- मुपस्थाप्यते, अभदाख्यसंसर्गहारा नौलाभिन्नमुत्- पलमिति शाब्दधौः । नामार्थयोरभेदान्वयबोधं प्रति विरुद्धविभक्तिराहित्यस्य कारण त्वम् । एवं कर्मधारये न वा शक्तिन वा लक्षगा । एव (६१) निषादस्थ पतिं याजयेत् इत्यत्र न षष्ठीतत्पुरुषः, न वा बहुव्रीहिः, पूर्वपदे परपद वा लक्षणापत्तेः। तथा चाव कर्मधारयसमासा- निषादाभिन्नस्थ पतियाजनमिति बोधः । न च निषादस्य सकरजातिविशेषत्वात् वेदानधिकारात् याजनासम्भव इति वाच्यम्, अपूर्व विद्याप्रयुक्तस्तत्र कल्पात्वात् । विद्याप्रयुक्तिस्तु निषिद्धकर्मकमन्व- पाठ इति। । घटिततत्पुरूपः कर्मधारयः, “तत्पुरुषः समानाधिकरण: कर्मधारयः" ( १।६।४२ पा० ) इति नत्रात् । तत्राप्यपवादविधर्बलवत्त्वात् “विशेषणं विशेष्येगा” (२१ पा०) इति विधिर्वलीयान् । एवं किल कर्मधारयः । सुतां तत्र समान विभक्तिमत्पदकदम्बकात्वम् अभेदबोधकत्वञ्चति। उत्तर पदप्रधानोऽयं समासः ॥६॥ निषादेत्यादि । तत्पुरुषे पूर्वपदे वहुव्रीही तूत्तरपदे लक्षणया अर्थ- प्रतीतिः । इह च लक्षणामन्तरेणेव शक्यान तात्पर्योपपत्ती लक्षणाकल्प- नैनाप्यलमिति ॥ ६१ ॥ ५

[५०]
सारमञ्जरौ।
-
N
अन्यथा
अथ तत्पुरुषलक्षणम् ।
असमानविभक्तिमत्प्रतिपदप्रकृतिकत्वे सति
अभेदबोधकपदत्वं (६२) तत्पुरुषत्वम् । राजपुरुष
इत्यत्र पूर्व दि लक्षगा या राज-सम्बन्धित्वमवगम्यते,
तेन राजसम्बन्ध्य भिन्नः पुरुष इत्यर्थः । नामार्थ-
दयाभेदबोधं प्रति विमवविभक्तरभावस्य तन्त्र-
त्वात् ;
पुरुषपदार्पा गजपदार्थस्य
साक्षादन्वयो न स्यात,
निपातातिरिक्तनामार्थयो-
भैदेन साक्षादन्वयस्याव्युत्पन्नत्वात् ;
तादृशबोधं प्रति हारीभूतविभक्तिरपेक्षगीयेति
बोध्यम्। न च राजपुरुष इत्यत्र पुरुषपदे राज-
सम्बन्धिनि लक्षणा, राजपदन्तु तात्पर्य ग्राहक-
मिति कथं वाच्यम् ? "उत्तरपदार्थ प्रधान-
तत्पुरुषः" इति व्युत्पत्तेविरोधात, पूर्वपदस्य च
निग्धैकत्वात्।
अत एव चन्द्र इव मुखम् इत्यत्र ड्वार्था-
न्वयबोध चन्द्र पदोत्तरषष्ठी नापेक्षते, प्रथमा च
तथा च,
तत्पुरुषत्वमिति ।-"तत्पुरुषत्वं" प्राधान्येनोत्तरपदार्थबोधकत्वञ्चति
इह खलु पूर्वपदस्य लक्षणया उत्तरपदार्थावगमनसौकर्यम् । अर्द्धकायादे-
स्तथात्वाभावेऽपि “अई नपुंसकम्” (२।२।२ पा०) इत्यादिविशेषविधानेन
तत्मकरणविहितत्वादेव तत्पुरुषत्वम् ॥ ६२ ॥

सारमञ्जरौ। साधुत्वार्था । न च दधि पश्यति इतिवत् लुप्त विभक्तरनुसन्धानेन तादृशबोधः मुलभ इति वाच्यं, तदनभित्तस्य तादृशोधानुदयापत्तेः । राजः पुरुष इत्यत्र राजपदोत्तरषष्ठया गज- सम्बन्धस्य पुरुषपदेन च पुरुषस्याश्रयत्वसंसर्ग गोष- स्थिति: राजसम्बध्या अय: पुरुष इति शाब्दधीः । अथ दिगुलक्षणाम् । समानविभक्तिमत्पदप्रतिकत्वे मति अभेद- बोध कसबापूर्वपदत्वं (६३) दिगुत्वम् । पञ्च- पुलीत्यादौ पञ्चानां पुलानां समाहार इति व्युत्पत्ते: पुल पञ्चकस्य समाहार इति बोधः । समाहारोऽपक्षाबुद्दिविषयत्वं, तेन पुलपदेन लत- गया पञ्चपुलसमाहारो बोध्यते पञ्चपञ्च तात्पर्यग्राहकमिति बोधः । अथ बहुव्रीहिलक्ष गाम् । नञ्-तत्पुरुषभिन्नत्वे सति उत्तरपदलान- गिकपदवत्त्वं (६४) बहुव्रीहि त्वम्। चित्रगु- हिगुचमिति ।-“विगुत्वं” मंज्ञाऽनवबोधकसङ्ख्यापूर्वकसमानाधि- करण पदघटिततत्पुरुषत्वं द्विगुत्वमिति । “दिक्सङ्घय संज्ञायाम्” (२।११५० पा० ) इति सूत्रेण विहितपञ्चाम्रादिकर्मधारयादिषु अतिप्रसङ्गवारणाय संज्ञाऽनवबोधकेति। “सङ्खयापूर्वी हिगुः” (२।१।५२ पा० ) इति सूत्रात् सङ्ख्यापूर्वकेति । विमादौ तथात्ववारणाय तत्पुरुषेति ॥ ६३ ॥ बहुव्रीहित्वमिति ।- "बहुव्रीहित्वं" समस्यमानपदातिरिक्तपदार्थ- [५] सारमञ्जरी। तत्र बोधः । रित्यत्र गो-पदं गो-स्वामिनि लाक्षणिकं, चित्र- पदञ्च चित्ररूपविशिष्टगवि लाक्षणिकम् । चित्र-पदार्थस्य अपरपदार्थकदेश गवि अभेदा- न्वयः; तेन चित्राभिन्न-गो-स्वामीति वाक्यार्थ- अथवा गो-पदं गो-स्वामिनि लाक्षणिक, चित्र-पदच्च तात्पर्यग्राहकमिति बोधः । तेन “पदार्थः पदार्थनान्वेति, न तु पदार्थै कदेश" इति व्युत्पत्तेन भङ्गः। ननु चित्रगुरित्यादी विनिगमना- विरहेण (एकतरपक्षसम्पातिनी युक्ति: विनि- गमना तदभावन इत्यर्थः ) उभयपदे च लक्षणा कथं नोच्यते ? इति चेन्न, शक्तपदसमभिव्याहारं विना लाक्षणिकपदस्यानुभविकत्वाभावात् । न च पूर्वपदे एव लक्षणेति वाच्यम्, उत्तरपदार्थस्य लाक्षगि केऽर्थे साक्षादन्वयाभावात् । बोधकत्वञ्चेति। स च हिविधः,-तहुणसंविज्ञान: अतगुणसंविज्ञानश्च । समुदायोपस्थाप्ये गुणीभूतस्यापि पदार्थस्य समुदायान्वितै अन्वयबोधकः तद्गुण बहुव्रीहिः, यथा- लम्बकर्ण मानय इत्यादौ कर्णस्याप्यानयने- ऽन्वयः, तहिना धर्मिणोऽप्यानयनासम्भवात्, सम्भवे वा तहशिष्ट्ये- नैवानयनान्वयात् तस्यानयनेऽन्वयः। तद्भिन्नः अतद्गुणः ; तथा हि- दृष्टसमुद्रमानय इत्यादी समुद्रस्यानयनानन्वयात् तथात्वमिति। किञ्च, समानाधिकरणपदघटितः व्यधिकरणपदघटितश्चेति पुनहि विधः । तत्र समानाधिकरणबहुव्रीहिर्यथा-नीलाम्बरादिः । व्यधिकरणसमासे तु दण्डपाणि: इत्यादिः ॥ ६४ ॥ ।

सारमञ्जरी। [१३] समासोत्तरपदं तात्पर्यग्राहकमिति वाच्यं, पूर्वपदस्य गवोपस्थापकत्वाभावात्। नञ्-तत्- पुरुषस्थले तु अब्राह्मण इत्यत्र ब्राह्मगापदस्य ब्राह्मगासदृशे लक्षणा, नञ्-पदन्तु तात्पर्य- ग्राहकमतो नञ्तत्पुरुषभिन्नत्वे सति इति विशेषगामिति । अथ हन्ट्रलक्ष गाम् । पदजन्यप्रतिपत्तिविषयभेदबोधकत्वे सति 'समानविमतिमत्यदप्रकृतिकत्वं (६५) द्वन्द्व त्वम् । स च दन्द्र श्वार्थ, च-कारार्थी भेदः । पदार्थभेद किं-जा पदार्थताऽवच्छेदकभेदे शक्तिः ? तत्र नादाः; "प्रमागा प्रमेय” इत्यादि गौतम- कृतन्यायायसूत्वे, “अप्येकदन्तहेरम्ब" इत्यादि- पाये, नीलघटयोरमद इत्यत्र च पदार्थाभद- सत्त्वेऽपि इन्द्रस्य दर्शनात् । नात्यः ; घटा इति स्वरूपैकशेष हट्टापवादको व्यभिचारात् । मस्य द्वन्द्वापवादकत्वम् ? तस्य उत्सर्गापवाद- भावयोः समानविषयकत्वेन नियन्त्रितत्वात् । न च घटा इत्यत्र स्वरूपैकशेष किं मानम् ? तत्र किं - कथ- इन्दत्वमिति ।-“इन्दत्वं” प्राधान्येन सर्वपदार्थबोधकत्वञ्च । प्राधान्य- बाल स्वघटकपदाधांशे विशेषणताऽनापनत्वम् ; तेन परस्परं विशेष्यत्वा- [५४]] सारमञ्जरी। न इति वाच्यम् ; “सकृदुचरित: शब्दः सकदर्थं गमयति" इत्यादिव्यत्पत्वा विचतुरादिघटोप- स्थापकत्वाभावात्। न च घटपदात् घटत्वसामान्य- लक्षणाप्रत्यासत्त्या घटमात्रोपस्थिती तात्पयं- वशात् त्रिचतुरादिघटोपस्थितिः किन्तेनेति वाच्यम् ; हरय दूत्यत्र तस्यावश्यककल्पनात् । न हि अत्र हरित्वमनेकमस्ति, घटा इति सर्ववादि- सिद्धैकशेषलोपप्रसङ्गाच्च। अत एवात्र वदन्ति, क्वचित् पदार्थभेदे, क्वचित् पदार्थताऽवच्छेदकभेदे च इन्ट्रस्य दर्शनात् उभयभेटेऽपि शक्तिः । चाननुगमो जातः, पदजन्यप्रतिपत्तिविषयत्वे- नैवोभयानुगमात् । तथा चात्र यड्डेदेनैव इन्द्रः तवैव द्वित्व-बहुत्वान्वयः, अनयोर्भेदसाधेक्षत्वात् । न चैकपद इन्द्रापत्तिरिति वाच्चम् ; "सुपमुपा" इति समासाधिकारसामान्याभावात् । स च विविधः, इतरतरः, समाहारश्च । इतरेतरस्थले साहित्यं विशेष्यत्वेन समा हारे विशेष गायेन इति विशेषः । "साहित्यञ्च"एक- क्रियाऽन्वयित्वम् । तत् यथा धव-खदिर-पलाशां- भायेऽपि नासम्भवः । स च इन्दः विविधः, इतरतरः समाहारश्चति भेदात्। परहोतविशेषदित्वादिसया विशिष्टनामार्थ बोधकत्वम् इतरेतरत्वम् । मासावित्तितासजग्रामोषकत्वं समाहारामिति ॥ ६५ ॥ भासते, तु सारमञ्जरो। छिनत्ति इत्यत्र धव-ग्वदिर-पलाश-प्रतियोगिक यत् साहित्य, तन्निरुपितं यदवयव विभागरूपफलं, तज्जमिका या छिदाक्रिया, तदनुकूलकृतिमान् चैत्र इति शाब्दबोधः । निरूपितत्वमत्र सामा- नाधिकरण्यम्। धव-खदिर-पलाशांश्छिन्धीत्यत्र साहित्याशयोभूतं यद्ववादि, तदृत्ति यत् फलं, तज्जनिका या किदाक्रिया, तदनुकूलकृतिमान् त्वम् इति बोधः । अथवा इतरेतरस्थले हित्व- बहुत्वप्रकारकपदार्थोपस्थितिमात्वं, समाहारे तु प्रत्येकपदार्थानुगतमेकत्वं आसते, न तु उभय- साहित्यमेकक्रियाऽन्वयित्वरूपं भासते। साहित्यं “सहभाविवक्षायां वृत्तिः इन्द्रुक- शेषयोः” इति व्युत्पत्तेः का गतिः ? इति वाच्यम् ; तत्रापेक्षाबुद्दिविशेषविषयत्वरूपसाहि- त्यावगतित्वादिति। अथ अव्ययीभावलक्षणम् । समासग्रस्तत्वे सति नानाविभक्तिषु एक- रूपतावत्यदत्वम् (६६) अव्ययीभावत्वम् । - अत्र अव्ययीभावत्वमिति । – “अव्ययोभावच' प्रधानतः पूर्वपदार्थबोधक त्वाच। तत्र पूर्वपदमञ्चयं, परपदमनब्धयं, तइशेन समुदायोऽव्ययानव्ययः भव्ययीभवति इत्यव्ययीभावः। तिष्ठहुप्रभृतीनान्तु तप्रकरण- माग्मञ्जरी। पूर्वपदार्थस्यैव प्राधान्यं भासते। (६७) उपकुम्भ- मित्यत्र कुम्भावधिकाल्पदेशसंयोगौति सङ्केप इति । - अथ निहारगम् । जात्यादि-विशेषग्य-विशिष्ट-यइर्मावच्छिन्नस्य तादृश विशेषगशून्यतधर्मावच्छिन्नव्यावृत्तत्वविशिष्ट- विधेयवत्तया प्रतिपादनं निद्वारगाम् । तब जातिगुणात्रियाणामन्यतमेन समु- दायादेकदेशस्य पृथक्करणं (६८) निर्धारणम् । विलनणधर्मवत्त्वेन निरूपणं पृथक्कर गाम् । एवञ्च यत्पदनमभिव्या हृता षष्ठी तटुपस्थाप्यतदन्य- पदार्थसमुदाये तद्धर्मवत्त्वाभावः इति षष्ट्या उपस्थाप्यते इति बोध्यम् । (६८) क्रमे गोदाहरणं. विहितत्वात् अव्ययोभावत्वं, सर्वषामंव समासलक्षणानां प्रायिकत्वस्य शास्त्रादौ खौकागत्। यथाक्तमभिरक्तः,- "समासस्नु चतुईति प्रायोवादस्तथाऽपरः । योऽवं पूर्वपदार्थादि-प्राधान्यविषयः स च." इति प्राधान्येन पूर्वपदार्थादिबोधकत्वलक्षण विभागोऽपि प्रायिक इति भावः ॥६६॥ उपकुम्भमिति ।-"उपकुम्भं” कुम्भसमीप इति वाक्यार्थः ॥६७॥ निडारण मिति।-"निर्धारणं" विशेष्यस्य खेतरसामान्यव्यावृत्तधर्म- वत्त्वम् ६८ क्रमेणेति ।-तत्र क्रमेण जातिगुणक्रियाणामुदाहरणानि । तथा

सारमञ्जरी।
नराणां क्षत्रियः शूरः इति क्षत्रियान्यनर-
निष्ठान्योऽन्याभावप्रतियोगिशूरतमाभिन्नः क्षवियः
नरः इति अन्वयबोधः । एवं सर्वत्र क्रिया-
गुणस्थले
बोध्यम् । नराणां क्षत्रियः
शूरतमः इति नरसामान्यमध्ये क्षत्रियत्व-
जात्यवच्छिन्ननरे शौर्य, तदन्यनरे तदभाव
इति भावाभावान्वयबोधः । एवं गवां मध्ये
कृष्णा गौः सम्पन्नचौरतमा इति गोसामान्य-
मध्ये कृषारूपवत्यां गवि सम्पन्नक्षीरतमत्वं,
तदन्यगवि तदभाव इति ।
एवम् अध्वगानां
रथिनः शीघ्रगतयः इति अध्वगसामान्य-
मध्ये रथारूढ़ा अध्वगाः शीघ्रगामिणः, तदन्ये
अध्वगा: नेति भावाभावान्वयधोः ।
अथ एव-कारविचारः।
तस्य व्यवच्छेदकत्वमेव शकाताऽवच्छेदकं,
व्यवच्छेदः शक्यः, व्यवच्छेदो विरहः। विशेष-
स्त्वेतावान्, क्रियासमभिव्याहृतस्यैव-कारस्यात्यन्ता-
योगव्यवच्छेदे, विशेषणसङ्गतैव-कारस्यायोगव्यव-
हि, नराणां क्षत्रियः शूरः इत्यत्र क्षत्रियत्वं जातिः। गवां मध्ये
कृष्णा गौः सम्पन्नधौरतमा इत्यत्र कृष्णत्वं गुणः । अध्वगानां रथिनः
शीघ्रगतयः इत्यत्र शीघ्रगमनं क्रिया ॥६॥

[८]
सारमञ्जरौ।
तत्र
त्वान्वयः;
पाराडर
एव
विशेष्यसङ्गतैव-कारस्यान्ययोगव्यवच्छेदे
शक्तिर्बोध्या
क्रमे गोदाहरणं-(७०)
नोलं सरोजं भवत्येव इत्यत्र प्रकृतेरन्वयिता-
ऽवच्छेदकसरोजत्वसामानाधिकरण्येन नील-
तथा च, सरोजं क्वचिन्नोलं, क्वचि-
दनोलमपि भवतीत्यन्वयबोधः। (७१) शङ्खः
इत्यत्र शङ्ख पागडरत्वं तद-
योगव्यवच्छेदश्च ; तथा च, अन्वयिताब्यवच्छेदक-
शकत्वावच्छेद पाण्डग्त्वायोगव्यवच्छेद इत्य-
न्वयबोधः। (७२) पार्थ एव धनुर्धरः
इत्यत्र धनुर्धरपदं प्रकृष्टधनुर्धरलक्षकम् ; तेन
पार्थे प्रकृष्टधनुर्धरत्वं, तदन्यस्मिन् तदभाव-
तथा च,
पार्थः
प्रकृष्टधनुर्धरः, तदन्यो
अथवा धनुर्धर पार्थतादात्मायोगः,
तदन्यस्मिन् तादात्मायोगव्यवच्छेदश्चेति ।
बोधः;
नेत्यर्थः ।
नोलमित्यादि । अत्यन्तायोगव्यवच्छेद यथा-नीलमित्यादि, अत्र
सरोजे नौलखात्यन्तायोगः व्यवच्छिद्यते ७०॥
शङ्खा इत्यादि ।-पासः पाण्डर एव इत्यलायोगव्यवच्छेदः, शङ्ख
पाण्डरत्यायोगो व्यवच्छिद्यते ॥७१॥
पार्थ इत्यादि । अन्ययोगव्यवच्छेदे यथा-पार्थः एव धनुर्द्धरः इत्यत्र
पार्थान्यपदार्थे प्रशस्तधनुर्द्धरत्वं व्यवच्छिद्यते ॥७२॥

सारमञ्जरी। [५] अथ (७३) सर्वनामपदशक्तिविचारः । तस्य शक्यं घटादिकं, शक्यताऽवच्छेदकच्च घटत्वादिकम् । तमानयेत्यत्र शक्तिग्रहपदार्थोप- स्थिति-शाब्दबोधानां घटत्वादिप्रकारकत्वात् तेषां समानप्रकारकलेनैव कार्यकारण- भावात् बुद्धिविषयत्वेनैव तेषामनुगमः । बुद्धि- विषयवत्तित्वेन शक्यताऽवच्छेदकानाञ्चानुगम इति विशेषः । तथा च, हरि-पदादिवन्नानार्थमेव, तात्पर्यग्रहस्तु प्रकरणादिवत्पूर्वसङ्केतीपस्थिति- रिति नवीनतार्किकाः। केचित् तु सर्वनाम- पदस्य क्वचित् प्रक्रान्ते, क्वचित् प्रक्रम्यमाणे च शक्तिः। उभयोग्नुगमकं बुद्दिविषयत्वं, तदेव शक्यताऽवच्छेदकमित्याहुः । (७४) अथ दूव-शब्दविचारः । चन्द्र मुग्वम् इत्यत्र चन्द्र-पदं चन्द्र परम, दूव-पदं सादृश्यपरं, मुख-पदं मुख- सर्वनामेति ।-वक्तृ-बुद्धि-विषयताऽवच्छेदकत्वोपक्षित-धर्मावच्छिन्नं, खोच्चारणानुकूल बुद्धिप्रकारविशिष्टं वा सर्वनामार्थः । सोऽयं वो विदधातु वाञ्छितफलम् इत्यादौ तच्छब्दार्थः ॥७३॥ अथेत्यादि ।-अर्थत्यादौ दुवैत्यस्य उपमायाम, उत्प्रेक्षायां, वाक्याल- कारे, ईषदर्थे च शक्तिर वगन्तया। तत्रोपमायाम् “वेन नित्यसमासः विभक्त्यलोपश्च” इति वात्तिको क्त नित्यसमासः विभक्तालोपश्च एतदप्यल सारमञ्जरी। ग्राहक, परम्। प्रतियोगित्वं संसर्गः। तत्र चन्द्र- पदस्य प्रतियोगितया सादृश्ये, सादृश्यस्खाश्रयतया मुख अन्वयः ; तथा च, चन्द्रप्रतियोगिक- सादृश्याश्रयं मुखमित्यन्वयधीः, तन्न; चन्द्रमिव मुख प्रश्यामौत्यत्र द्वितीयाऽनुपपत्तेः, (७५) चन्द्र- मुखयोगभेदाभावात् । एव चन्द्र-पदं चन्द्रसदृशे लाक्षणिकम्, इव-पदं तात्यय- चन्द्रादोतरवितीयावा विशेषण- विमतिविनाभेदबोधकत्वात् चन्द्रसदृशामिन- मुखमहं पश्यानोति सावः। निपातातिस्ति- नामार्थयोर्भदिनान्वयवोधं प्रति प्रकारीभूत- विभत्यर्थीपस्थितेतवत्वात् ; तेज दुवार्थान्वय- बोधन पठापेक्षया प्रथमा साधुत्वार्या इति নিজাঙ্গ: अथ (७६) उद्देश्यविधेयभावः । तल उद्देश्यताऽवच्छेदकविधयताऽवच्छेदकायोः ज्ञातव्यमित्युचते। तथा हि, वायर्याविव सम्पृक्ती” इत्यादि। उत्प्रेक्षावा यथा-"मुख नेणोदशी भाति पूर्णचन्द्र इवापरः” इत्यादि। वाक्याल- सारे यथा-'सर्वदा क इव वा महिप्यते ?" इत्यादि। ईषदर्थे यथा-"आवजिता किञ्चिदिव स्तनाभ्याम्” इत्यादि ॥ ७४ ॥ चन्द्रेत्यादि ।-अभेदान्वयबोधस्थ ने एव ममानविभक्तिकत्वस्य तन्त्रत्वा- दिति भावः ॥ ७५ ॥ उद्देश्येत्यादि ।-इह किल "विशेष्यविशेषणयोरेका विभक्तिः समान- सारमारौ। बोध्यः । सामानाधिकरण्यं भासते । तेन घटो नौल- रूपवान् इत्यत्र घटत्व-नौलरूपयोः सामानाधि- करण्यमवगाहते। एवम् उद्देश्यवाचकपदप्रयोगः प्रागेव कर्तव्यः, अन्यथा नौलरूपवान् घट इत्यत्र घटोद्देश्यकनीलरूपविषयकबोध: स्यात् । (७७) किन्तु नौलरूपवदुहेश्यकघटत्वविषयकवोध एव भवतीति प्रकृतिविकृतिभावेऽप्ययं नियमो यथा एको रक्षः पञ्च नौका भवति इत्यत्र वृक्ष-पदं वृक्षारम्भकट्रव्यपरं, नौका-पदं नौकारम्भकद्रव्यपरम् ; तेन वृक्षारम्भकद्रव्यं पञ्चनौकारम्भकं भवतीति बोधः । सुवर्ण दश कुण्डलानि भवति ला वापि बोध्यम्। अथ यूपाय दारु दूत्यत्र दारु-पदं दारिम्भक- लिङ्गता च” इत्युक्तरतिप्रमङ्गः, तथा हि, एको वक्षः पञ्च नौका भवति इत्यादौ लिङ्गसङ्खनादीनाम् अनन्तचम् । वस्तुतः,- "विकारभाव प्रक़तरे कर्म यतस्ततः । हिकर्मव्यवस्थातो न प्रचययधेटता ॥ प्रकृतर्वितर्वाऽपि वलीतत्वं योरपि । वाचक: प्रक्रत: ससयां ग्रहाति विकतेन तु ॥" इत्युक्ते: “प्रकृतिविकात्योः प्रकातिवव” इति परिभाषितत्वाच्च विशेषण- विशेष्यपदसमानलिङ्गविभकिमत्त्व नियमस्य तु प्रकृतिविकृति- भावस्थलातिरिक्त एव विजयम् ॥ ७६ ॥ किन्तु इति । तथा हि, “अनुवाद्यमनुक्केव न विधेयमुदीरयेत्” इति स्मरणादिति भावः ॥ ७७ ॥ एवम् एकं पदस्य ६४] मारमञ्जरी। मानन्तर्यम् ? पतनानन्तरमेव झनत्काराद्युप- लब्धेरिति वाच्यम् ; (८०) मनत्काराद्यनन्तरमपि पतनादिसत्त्वान्न दोषः इति निष्कर्षः । अथ नाथ कथनम् । तत्र नञः (८१) संसर्गाभावोऽन्योऽन्याभावो वा अर्थः । तत्रायं नियमः, यत्र विशेष्यविशेष- गयोर्भावान्वये अभेदान्वयबोधः, तत्रैवान्योऽन्या- भावो नञा बोध्यते। यथा अयं घटो नौलः इत्यत्र भावान्वये नौल-घटयोरभेदो भासते। नायं नौलो घटः इत्यत्राभावान्वये घटे नौल- भेदो भासते। अत एव “यजतिषु येयजामहं करोति नानुयाजेषु” इत्यत्र अनुयाजभिन्नेषु यजतिष्वेव येयजामहस्य कर्तव्यता भासते। यत्र तु प्रतियोग्यनुयोगिनो वान्वये भेदो भासते, तत्र संसर्गाभावो नत्रा बोध्यते । यथा भूतले घटः, न भूतले घटः, पचति चैत्रः, न झनत्कारेत्यादि।-सत्यं पतनानन्तरमेव मनत्कारादीनामुपलब्धि- रिति, किञ्च पतनादिक्रियापरिनिष्पत्तेः पूर्वमपि झनकारादिरुपलभ्यते, तदपेक्षया समोचीनमानन्तयं यथोक्तेषु ॥ ८० ॥ संसर्गत्यादि । -असौ किल संसर्गाभावस्विधा, तथा हि- "प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभावः एव च । एवं वैविध्यमापन्न संसर्गाभाव इष्यते ॥” इति । ८१ ॥

सारमञ्जरी। [६५] ; पचति चैत्रः, चैत्रस्योदनं, न चैवस्योदन- मित्यादौ भूतलादावनुयोगिनि घटकृतिखत्वानां भावान्वये भेदो भासते। अभावान्वये तेषां संसर्गाभावो बोध्यते ; तेन भूतलवृत्तित्वाभाबवान् घटः, पाकानुकूलकृत्यभाववांश्चैवः, चैत्रसम्बन्धि- त्वाभाववदोदनमित्यन्वयबोधः । अत्रापि विशेषः, -यत्रानुयोगिनि नामार्थप्रतियोगिकसंसर्गाभाव- बोधः, तनावश्यमनुयोगिपदे सप्तम्यपेक्षा कार्व्या । अत्र चाभावान्वये अन्वयिताऽवच्छेदकावच्छिन्न- प्रतियोगिताकत्वं व्युत्पत्त्या भासते । नौलघटवति भूतले न घटः। एवं नीलो घटो न घट इत्य- प्रतीतेः। एवं पौतघटवति न नीलघटः, पौतघटो न नीलघट इत्यादिप्रतीतेश्च । यत्र तु सामान्ये विधिनिषेधो वा विशेष निषेधो विधिश्च, तत्र सामान्यस्य विशेषेतरपरत्वं कल्पाते। “पदार्थान्तरसाकाझं विशेषमपहाय तदितरमेव सामान्यमन्वेति" इति व्युत्पत्तेः । यथा ब्राह्मणेभ्यो दधि दातव्यं, कौण्डिन्याय न दातव्यम् इत्यत्र ब्राह्मणसामान्यस्य कौण्डिन्ये- तरपरत्वं भासते। प्रकृते तु ब्राह्मणसामान्य दधिदाने साकाचं, कौण्डिन्यस्तु तदभावसाकाङ्घ

सारमञ्जरी।
इति सामान्ये तदितरपरत्वं कल्पाते। एवं
ब्राह्मणेभ्यो दधि दातव्यं, तर्क कौण्डिन्याय
इत्यत्व दध्यपेक्षया पदार्थान्तरं तक्रमित्यतो ब्राह्मण-
सामान्यस्य तदितरपरत्वं भासते। तेन कौण्डि-
न्चस्य ब्राह्मगात्वपुरस्कारग दधिदानं न प्रसज्येत ।
अत एवात्र इयं व्युत्पत्ति: विशेषविधिनिषेधयोः
सामान्यनिषेधविध्यनुज्ञाफलकत्वमिति । एवं
"मा हिंस्यात् सर्वा भूतानि” “आग्नेय्या खेतं
छागलमालभेत" इत्यत्रापि हिंसासामान्यं निषेध-
माकासम्।
हिंसाविशेषस्तु विधौ साकाङ्क्षः ।
अतो हिंसासामान्यस्य वैधतरपरत्वेन वैधेतरहिंसे-
वानथहेतुरिति निष्कर्षः । एवं नञः क्वचित्
(८२) प्रसज्यप्रतिषेधे शक्तिः, क्वचित् लक्षणया
(८३)पर्युदासबोधकत्वञ्च। यथा-“एकादश्यां न
प्रसज्येति । - "प्रसज्य" प्रसक्ति सम्पाद्य,आरोप्थेति यावत्, “प्रतिषेधः"
अत्यन्ताभावे "प्रसक्तं हि प्रतिषिध्यते” इति न्यायेन आरोपितप्रसङ्गस्यैव
निषधः, तेन वायौ रूपं नास्ति इत्यादावपि वायो रूपारोपं कृत्वैव
निषेधी नजा वोध्यत इति विवेकः । तथा च-
“अप्राधाचं विधेर्यन प्रतिषेधे प्रधानता ।
प्रसज्य प्रतिषेधोऽसौ क्रियया सह यत्र नम् ॥” इति।२।
पर्युदासेति :-
"प्रधानत्वं विधेर्यल प्रतिषेधेऽप्रधानता।
पर्युदासः स विज्ञेयो यत्रोत्तरपदे न ना " ॥८॥

सारमञ्जरौ। [६७] ? भुञ्जीत" इत्यत्र भोजनस्य गगत एव एकादश्या- मपि प्रसक्ती तत्यतिषेधो बोध्यते । “एकादशी- भिन्नतियो भुनौत" इति पर्युदासविधि: ; भोज- नस्य केवलरागप्राप्तत्वात् कथं पर्युदासः ? द्वितीयं यथा-"अथ श्राइममावस्यायां पिटभ्यो दद्यात्" इत्यादि सामान्यशाम्वं, तदनु “गत्रौ श्राई न कुर्वीत सध्ययोरुभयोरपि" इति विशेषनिषेधस्तु पर्युदासविधिः कल्पाते। तेन रात्रिसन्ध्येतरा- याममावस्यायां पिटभ्यो दद्यादिति पर्युदासात् लभ्यते। न तु निषेधविधिना गविसध्याधि- करगाकश्राद्धे निषेधोऽवगम्यते, सामान्यथावस्य गविसन्ध्यांश कर्तब्यताऽऽपत्तेः । एवं "न सगोवां न समानार्षयौं भाऱ्यां विन्देत' इत्यादौ यदा च परिवेदनस्य शास्त्रत: प्राप्तिस्तदा पर्युदास: । यदा तु रागत: प्राप्तिस्तदा प्रसज्यप्रतिषेध एवाव- गम्यते। औचित्तु “अतिगवे षोड़शिनं गृह्नौया- नातिगचे षोड़शिनम्” इतिवत् अवापि इच्छा- विकल्प इति वदन्ति, तत्र नञः तुल्यबल- त्वात् ; अत्र तु सामान्यविशेषभावनातुल्य- बलत्वादिति निष्कर्षः। तन्न;

मारमञ्जरी
अथ वैधहिंसा-विचारः।
"मा हिंस्यात् सर्वा भूतानि” इति सामान्य-
शास्त्रम् ; “वायव्यं प्रवतं छागलम्(८४)आलभेत"
इति विशेषशास्लम् । अव हिंसायां विधि-
निषेधयोरवस्थानेन विरोधात् (८५)सामान्यशास्त्रं
विशेषशास्त्रेण बाध्यते। विरोधे हि बलौयसा
दुर्बलं बाध्यते। (८६) विशेषशास्त्रन्तु बलीयो
निरवकाशत्वात्, सामान्यशास्त्रं टुबलं सावकाश-
त्वात् ; तेन सामान्यशास्त्रस्य वैधेतरपरत्वम् ।
न खलु सर्वभूतहिंसाभावविषयक कार्यम् इति
निषेधः, विध्यर्थस्य बाधकं विना अग्नीषोमीय-
पश्वालम्भनविषयकं कायं विध्यर्थ उपपद्यते
इति मीमांसकाः। नन्वेवं "श्येनेन अभिचरन्
यजेत" इत्यत्र ग्येनस्य शत्रुबधरूपेष्टसाधनत्वम्
"अभिचारमूलं कर्म च" इति मनुनोपपातकमध्ये
पाठादनिष्टसाधनत्वञ्चावगम्यते, तदेतत् कथम्
आलभतेति।-"आलभत” हन्यादित्यर्थः ॥ ८४ ॥
सामान्येन्यादि।-अत्र हि बलाबलविधानं यथा-सामान्यविधि-
मत्सर्गः, विशेषविधिरपवादः, “उत्सर्गापवादयोरपवादविधिबलवान्"
इति ॥ ८५॥
विशेषेत्यादि । -विशेषविधेरे कदेशमावनिर्बन्धतया अनन्यथासिक
रवकाशराहित्यमिति ॥८६॥

सारमारी।
[६]
?
तथा
एव
उपपद्यते ? इति चेत्, न ; "आततायिनमायान्तं
हन्यादेवाविचारयन्” इत्येकवाक्यतया आत-
तायिस्थले दृष्टसाधनत्वम्, अमाततायिस्थले तु
उपपातकत्वेन बलवदनिष्टसाधनत्वमित्यविरोध:
कल्पाते, “पदार्थान्तरसाकाझं विशेषम्" इति
न्यायात ।
च,
वैधेतरहिंसाया
नरकजनकत्वमिति कल्पाते। टीकाकृहाचस्पति-
मिश्रमते तु सामान्यविशेषशास्त्रयोन विरोध:,
भिन्न विषयत्वात्। तथा हि, “मा हिंस्यात्"
इति हिमाया अनर्थ हेतुता ज्ञाप्यते। “वायव्यं
श्वेतं छागलमालभेत" इति विशेषशास्त्रेगा
हिंसायाः क्रतूपकारकत्वं बोध्यते । (८७)अत एव
तु
अत एवेत्यादि ।-अत्र यथाऽऽह कौमुगां-"दृष्टवदानुअविकः, स
ह्य विशुद्धिक्षयातिशययुक्तः” इत्यादि ।“अविशुद्धिः"सोमयागादौ पशुवीजादि-
वधसाधनता। यथाऽऽह सम भगवान् पञ्चशिखाचार्य:,-"स्वल्पसङ्करः
सपरिहारः सप्रत्यवमर्षः” इति। “स्वल्पसङ्करः” ज्योतिष्टोमादिजन्मनः
प्रधानापूर्वस्य खल्पेन पशु हिंसादिजन्मना अनर्घहेतुना अपूर्वण सङ्करः ।
"सपरिहारः” स्वल्पेनापि प्रायश्चित्तेन परिहत्तुं शक्यः । अथ प्रमादतो
यदि प्रायश्चित्तादिकं नानुष्ठितं, तहि कर्मविपाकसमये च सुतराम् अनर्थम्
उत्पादयति। “सप्रत्यवमर्षः” प्रत्यवमर्षण सहिष्णुतवा सह वर्तते इति
तथोक्तम् । यथोक्तमभियुक्तः,-"मृष्यन्त हि पुण्यसम्भारोपनौतस्वर्गसुभा-
महाद्दावगाहिनः कुशलाः पापमात्रोपपादितां दुःखवतिकणिकाम्"
इति ॥ ८७॥

[७०] सारमारी। वंधा हंसाया आंप नरकजनकत्व क्रतूपकारकत्वञ्च कल्प्य, न तु खगजनकत्वं, किन्तु क्रतोरेव स्वर्गजनकत्वं, तत्तद्विषविध्यभिधानात् । अथ शक्तिनिरूपणम्। "तत्तत्पदबोदव्यत्व-प्रकारक-भगवदिच्छाविष- यत्वं वाच्यत्वम्” इति न्यायलजणम् । “अर्थ- प्रतीत्यनुकूल पदपदार्थसम्बन्धव्यापार: शक्तिः" इति काव्यप्रकाश। "अर्थप्रतिरादनानुकूल- सम्बन्धविशेषः शक्तिः" इति नैयायिकाः। शब्दानां मुख्यव्यापारः शक्तिः, व्याप्रियते अभिधीयते शब्दैगर्थोऽनेनेति। सा च "अम्माच्छब्दादयमों बोद्धव्यः" इति ईश्वरच्छाविषयत्वम् । आधनिक- सङ्केतिते तु आधुनिकसङ्केत एव शक्तिः, अथवा तत्रापीश्वरेच्छा वर्तते। सर्ववैव ईश्वरच्छा- विशेष एव शक्तिः इति निष्कर्षः । जातिविशिष्टे एव, जाती, व्यक्ती, वैशिष्ट्ये च शक्तिः कल्पाते, विशिष्ट स्यैवान्वयबोधात्। तत्र जातेः प्रकारतया, व्यक्त विशेष्यतया, वैशिष्ट्यस्य संसर्गतया, पदेनोपस्थाप्यता इति नैयायिकाः । नैयायिकमतेऽपि घटत्वविशिष्ट शक्तावपि घटत्व- मपि तदर्थः ; तेन खार्थादन्यरूपेण जाते सा च सारमञ्जरौ। [७१] बक्षणा भवति। केषाञ्चिन्मते तु व्यतावेव शक्तिः, जातिरवच्छेदिका व्यक्तोरननुगतत्वात्, जात्यवच्छेदेन व्यती शक्तिग्रहपदार्थोपस्थितितः शाब्दबोधादिति। मीमांसकास्तु जातावेव शक्तिः, लाघवात् ; व्यहोरन्वयबोधस्तु माती अत्यनु- भवादेव इति वदन्ति । अथ अकारादिपञ्चा- शहगामा प्रत्येकं कुत्र शक्तिः ? न तावत् लेष्वेव, अभेदेने वाच्यवाचकभावाभावात्, (८८) किन्तु एकाचरकोषोतवासुदेवादिष्वेव शक्तिरिति निष्कर्ष: यदा तु पदतिः पदार्थे गृह्यते, तदेव पशतः पदार्थानामनुभवः, तदनन्तर- भाब्दबोधकाले पदश्रवणं, तत: भक्तिसारण, ततः पदार्थस्मरणं, ततः शाब्दबोध इति । अथ शक्तियाहयानित्यताम् । "शक्तिग्रहं व्याकरणोपमान-कोषाप्तवाक्याव- वाक्यस्य शेषादिकतेवदन्ति सान्नि- ध्यत: सिद्धपदस्य हराः ॥” तत्रोदाहरणं- हारतश्व। किन्वित्यादि।-एकादरकाणे प्रत्येकैकशी वर्णानां वाचकत्वं, तथा च दिमात्रमुदायिते,- "अकारो वासुदेवः स्यादाकारश्च पितामहः । इकार उयत कामी मोरीकार उचते।" इत्यादिवत् ।।

सारमञ्जरी। व्याकरणेन धातुप्रत्ययप्रकृतीनां शक्तियहो जायते, यथा-पाचक इत्यादिः। उपमा यथा-(८८) गौरिव गवयः इत्यादी उपमानेन गवय-पदस्य गोसादृश्यविशिष्ट शक्तिग्रहः। कोषण पाय- पद-नानार्थ पदानां तत्तदर्थेषु शक्तिग्रहो भवति । आप्तवाक्येन -पिकः कोकिलपदवाच्य इत्यादिना कोकिल-पदस्य पिके शक्तिग्रहः । "प्राप्तश्च” प्रलताकार्यगोचरयथार्थज्ञानवान् । (६०) व्यवहार यथा--प्रयोजकद्देन घट- मानवेत्वक्तं, तत् शुल्वा प्रयोज्यबद्धन घट पानीतः, यथा- . गोरिवत्यादि ।-गल कम्बलादिचव पि गोसदृशबहुलधर्मवत्त्वं गव- यत्वम्। “साहु ग्वंहितगतभूयोधर्मवयम् यद्यपि गवये गल कम्बलादि- र्नास्ति तथाऽपि गोमटमा वहुलधर्मवत्त्वमस्येव । तथा च, केनचिदारण्यकेन ग्रामीणं प्रत्युत-गोसदृशो गवयपदवाय: इति। अथ तेनेव ग्रामोणेन कदाचिद्वयमवलोक्य यदवपारितं गवघोऽयमिति तदेवोपमितिज्ञाज- साध्यमिति स्पष्टम् ॥ ८८ ॥ व्यवहारे यादि । -“लोकानामुपचार : व्यवहारः, तस्मादनुक्तस्यापि ग्रहणस्य सिशिर्वेदितव्या” इति दुर्गः । तथात्वं हि निपाताव्ययोप- सनकारककालसङ्ख्यालोपादीनाभवगन्तव्यम् । तलोदाहरणं यथा- हरीतक्यः फलानि। अत्र हि फलध्वपि स्त्रियां वृत्तिः । खलतिकं वनानि इत्यत्र वनानामेकवचनान्तभेव जाम। शब्दानामेकार्थेऽपि लिङ्गवचनभेदो दृश्वत, यथा-आपो ‘जलम् ; दाराः कलत्रं भाऱ्या इति । अत्राह दुर्गः, "वैदिकालौकिकन ये यथोक्तालथैव ते। निर्णीतार्थास्तु विज्ञेा लोकात्तेकामसङ्ग हो ।” ॥ 2 ॥ इति । - सारमञ्जरौ। [७३] तदवधायं पाश्वस्थबालो घटानयनरूपकायं घटमानयेति शब्दप्रयोज्यमित्यवधारयति । तदन- न्तरं पटमानयेति वाक्यात् पटानयनरूपं कार्य, पटमानयेति शब्दप्रयोज्यमित्यवधारयति। तदन- न्तरं घटपदं घटे शक्तं, पटपदं पटे शक्तं, घटे द्वितीयाविभक्तिः कर्मतायाम्, आपूर्व-नी-पद- मानयने,हि-पदं कृतौ शतम् इति विच्छिन्नक्ति- ग्रहो व्यवहारण जायते। वाक्यशेषात् यथा- "यवमयश्चमभवति" इति श्रुतौ यव-पदस्य दीर्घ- शूकविशेष शिष्टानां, कङ्गौ च म्लेच्छानां प्रयोग- दर्शनात् यवपदार्थसन्देह-"वसन्ते सर्वशस्यानां जायते पत्रशातनम् । मोदमानाथ तिष्ठन्ति यवाः कणिशशालिनः ॥” इत्यादिवाक्यशेषादीर्घशूके एव शक्तिग्रहो जायते। विवरणादपि यथा- "विवरण' शब्दान्तरेण तदर्थकथनं, घटो नास्ती- त्यस्य कलसो नास्तीत्यमेन घटपदस्य कलसे शतिग्रहः । एवं सान्निध्यादपि यथा-दूह सहकारतरी मधुरं रौति पिकः इत्यत्र प्रसिद्ध- सहकार-पदसान्निध्यात् पिक-पदस्य कोकिले शक्तिग्रहो जायते । ७

सारमञ्जरी।
अथ शब्दविचारः।
(६१) स च हिविधः, वर्षात्मको ध्वन्या-
त्मकश्चेति। तत्र वर्णात्मक एव साधुशब्दः ।
सोऽपि विविधः, पाचको लाक्षणिकश्चेति ।
वावकोऽपि चतुर्विधः, यौगिकः, कढ़ः,योगरूढ़ः,
योगिकरूढ़श्चेति भेदात् । यत्र समुदायशक्ति-
नैरपिच्छणावयवशक्त्यैव पदार्थोपस्थितिः, स एव
यौगिकः । यथा-पाचकादिः, पाककर्तत्वादि-
पुरस्कारेण उपस्थितिः । यवावयवशक्तिनैर-
पेक्ष्येण समुदायशयैव पदार्थोपस्थितिः, स एव
रूड़ः । यथा गो-मण्डपादिः, मण्डपानकर्तरि तु
मण्डप-पदं लाक्षणिकं, देवगृहे तु रूढ़म् । यत्र तु
अवयवशक्तिसापेक्ष्येण समुदायशक्त्या पदार्थोप-
स्थितिः, स एव योगरूढ़ः। यथा-पङ्कजादिः,
पसजनिकर्तृपद्मत्वमेव शक्यताऽवच्छेदकम् । यत्र
तु केवलावयवशक्त्या कुमुदोपस्थितिः पद्मोपस्थि-
तिर्वा, तत्र पङ्कज-पदं लाक्षणिकमेव ।
यौगिकार्थ-रूढ्यर्थयोः युगपत-स्वातन्वाणोपस्थितिः
यत्र तु
स चैति ।-वैयाकरणमत तु स शब्दः षडुिधः। तथा हि-
"मुख्यो लाक्षणिको गौण: शब्द: स्यादौपचारिकः ।
यौगिको योगरूढश्च शब्द: षोढ़ा निगद्यते।" इति ॥ १ ॥

सारमञ्जरी। [७५] स वाचकः स यौगिकरूढ़ः। यथा-उभिदादिः, तेन युगपदेव उभयशक्त्या उभयोपस्थापकत्वम्। भेदन- कर्तवरूपणावयवशक्त्या तमगुल्मादिः, समुदाय- शक्त्या योगविशेषश्च बुध्यते । पुनश्चतुर्विधो भवति, द्रव्य-गुण-क्रिया-जातिभेदात्। —“डित्यः काष्ठमयो हस्ती, डवित्यस्तन्मयो मृगः” इत्यादौ डिल्य-डवित्यादि-पदं केवलं द्रव्यवाचि, नौल-पीतादि-पदं गुणवाचि, अध्वग- पाचकादि-पदं क्रियावाचि, घट-पटादि-पदं जातिवाचि । अथ चतुर्विधवाचकलक्षणम्। समुदायशक्तिनरपेक्ष्येमा अवयवशक्तिमत्पदत्वं यौगिकत्वम् । यथा--पाचकादिः । अवयवशक्ति- नैरपेक्ष्येण समुदायशक्तिमत्पदत्वं रूढत्वम् । यथा-गो-मण्डपादिः। अवयवशक्तिसापेक्ष- समुदायशक्तिमत्पदत्वं योगरूढ़त्वम् । यथा- पकजादिः। स्वतन्त्रोभयशक्तिमत्पदत्वं यौगिक- रूढ़त्वम्। यथा-उद्भिदादिः, जई भेदनकर्तृत्वं योगविशेषवत्त्वञ्च बोध्यते । - अथ वाचकलक्षणम् । साक्षात् सङ्केतितं योऽर्थमभिधत्ते स सारमञ्जरी। एव सङ्केतः, वाचकः। अस्यार्थः,–सङ्केतितमर्थं य: “साक्षा- दभिधत्ते” अव्यवधानेनोपस्थापयति, स वाचकः । अस्माच्छब्दादयमर्थो बोड्डव्य इत्युद्देशनं तेन ईश्वरसङ्कताधुमिकसङ्केतयो: सङ्ग्रहः। ईश्वरसङ्केतितो घटादिः, आधुनिक- सङ्केतितो मैत्रादिः । लक्षगया तु योऽर्थः समुप- स्थाप्यते स लाक्षणिकः ; तेन साक्षात् तस्योप- स्थितिः, मुख्यार्थबाधादिसहकृतत्वात्। वृत्तिः द्विविधा, शक्तिः लक्षणा चेति। शक्तिनिरूपिता, इदानी लक्षणा उच्चते। तथा च, लक्षणात्मक- वृत्तिमत्पदत्वं लाक्षणिकत्वम् । ७. सा च लक्षणा यथा- "मुख्याघबाध तयोगे, रूढ़ितीऽथ प्रयोजनात् । अन्यार्थो लक्ष्यते यत् सा लक्षणारोपिता क्रिया ॥" अस्यार्थः,-मुख्यार्थबाध-तयोगयोः सतो: (सत्त्वात् रूढ़िनिमित्तं प्रयोजननिमित्तं वा “यत" यया वृत्त्याऽन्योऽर्थो “लक्ष्यते' उपस्थाप्यते, सैव वृत्तिलक्षणा। सैव च लक्षणा मुख्याथसम्बन्ध स च सम्बन्धो यदा पदस्यान्यपदार्थ गृहौतस्तदैव पदसम्बन्धपदार्थानामनुभवः, तदन- तरं शाब्दबोधकाले पदश्रवणं, वृत्तिस्मरणं, तया एव।

सारमञ्जरी। [७७] पदार्थम्मरणं, ततः शाब्दबोधः। सा च क्वचित् रूढ़िहेतुका, क्वचित प्रयोजनहेतुका च। "आरोपिता क्रिया" आरोपितशब्दव्यापारः। तत्र रूढ़िहेतुका यथा-कर्मणि कुशल: इत्यत्र मुख्यार्थस्य दर्भग्रहणादेव योगे विवेचकत्वादौ च तत्सम्बन्धसत्त्वे कार्यानिपुणे लक्षणा "रूढ़ित:" प्रसिद्धेः यत्र तु पदान्तरसमभिव्याहारं विना केवलकुशल-पदं प्रयुज्यते, तत्रावयवशक्त्या कुश- ग्रहणकर्तरि शक्तिरिति बोध्यम् । एवं देव-पद- समभिव्याहारं विना यत्र मण्डप-पदं प्रयुज्यते, तत्र अवयवशक्त्या सण्डपानकर्तरि शक्तिरिति दोध्यम् । प्रयोजनहेतुका बथा-गङ्गायां घोषः प्रतिवसति इत्यत्र मुख्यार्थस्य निवासम्यायोगे सामीप्यात्मक-तत्सम्बन्धे सति तौर लक्षणा शैत्य-पावनत्वादिप्रयोजनात कल्पाते। गङ्गातटे घोषः प्रतिवसति इत्यादौ तु तादृशप्रयोजना- नवगतेन लक्षणादर: क्रियते । यत्र तु रूढ़ि प्रयोजनञ्च विना लक्षणा क्रियते, तत्र गौणी लक्षणा; यथा-अग्निर्माणवकः, गौर्वाहिक इत्यादौ सादृश्ये लक्षगा। लक्षणावीजन्तु क्वचि- दन्वयानुपपत्तिः, क्वचित्तात्प-नुपपत्तिश्चेति ।

[७८] मारमञ्जरी। लनगा। सर्वत्र तात्य- यथा-मञ्चाः क्रान्ति इत्यादा अचतनस्य मञ्चस्य क्रोशनान्वयानुपपत्त्या मञ्च-पदेन मञ्चस्थपुरुष एवं कुन्ताः प्रविशन्ति इत्यवान्वय- सत्त्वेऽपि तात्पर्य्यानुपपत्त्या कुन्त-पदेन कुन्तधरे लक्षणा इति प्राचीनाः । नव्यास्तु व्नुपपत्तिरेव लक्षणाया वीजमिति। सा च पुनर्लक्षणा द्विविधा, अजहत्वार्था जहत्स्वार्था च। काकेभ्यो दधि रक्ष्यताम् इत्यादावजहत- खार्या ; तेन काक-पदं काक-पदं दध्यपघातकपरं, लक्ष्यताऽवच्छेदकदध्यपघातकत्वेन काक-कुक्कुरादि सर्वमुपस्थाप्यते काकपदेन। एवं गङ्गायां घोषः इत्यादौ जहत्वार्था एव, तेन गङ्गापदेन तौरमेवोपस्थाप्यते। अथ वौमाविचारः। तब वोमा व्यापकता, तदभिधाने दिवचनं साधु । तत्र यत्पदस्य दिरुतिः, तदर्थावच्छेदकता- निरूपितसमभिव्याहतपदोपस्थाप्यपदार्थव्यापकता यथा-गृई गृहे अश्वाः इत्यादी गृह- पदं गृहेकदेशपरं, तेन गृहत्वसमानाधिकरणा- त्यन्ताभावाप्रतियोगित्वमवेषु बोध्यते। एवम् "अश्वयुक-कृष्ण पक्षे तु श्राद्धं कुर्य्याद्दिने दिने" बोध्यते ।

सारमलायो। [७] प्रत्ययः तथा इत्यव दिन-पदं तिथिपरम् ; तेनाश्वयुकृषण- पक्षीय-तिथित्व-समानाधिकरणात्यन्ताभावाप्रति- योगित्वं श्राद्धे भासते। एवम् “अहरह: सन्ध्या- मुपासीत" इत्यत्र अहः-पदं सन्ध्यावन्दनयोग्य- काखबयपरं, तथा च, तत्तत्कालोपाधिमनिष्ठा- भावाप्रतियोगित्वं सध्यावन्दने भासते। अथ शब्दबोधान्तरम् । आत्मनः पुत्रमिच्छति इत्याद्यर्थे "सुप आत्मनः क्यच्” (३।११८ पा०) इत्यादिना क्यच- तेन पुत्रीयतोत्यादि सिद्धम् । च, पुत्व-पदोत्तरक्यच्-प्रत्ययस्य आत्मसम्बन्धिपुत्र- विषयिणी उच्छार्थः । श्राख्यातस्याश्रयत्वं, तटुमरि आश्रयत्वं संसर्गः, तेनात्मसम्बन्धिपुत्तविषयकेच्छा- श्रयत्वाश्रय इति शाब्दधीः। एवं भाीयति, पयस्थति, गजीयति इत्यादीनाम् अपि । अत्रैवार्थे काम्यज्-प्रत्ययोऽपि साधुः, तेन पुत्व- काम्यतीत्यादिप्रयोगः आत्मसम्बन्धियुचविषयक- च्छाश्रयत्वाश्रय इति धीः । पुत्वमिवाचरति भृत्यम् इत्यये "उपमानादाचार" (३।१।१०पा०) इत्यादिना क्यच-प्रत्ययः :; तेन पुनीयति भृत्यमिति सिद्धम् । “आचार:” आचरणं, व्यवहार इति [८०] सारमञ्जरी। यावत् ; तेन भृत्यविषयक-पुततुल्यव्यवहारानु- कूल कृत्याश्रय इति शाब्दधीः । एवं खरआत्मानम् अश्वमिव आचरति इत्यर्थे “सर्वप्रातिपदिकार्थेभ्यः विप वा वक्तव्यम्" इत्यनेन क्यङ्-प्रत्ययलोपः ; तेन अश्वति खर इति प्रयोगः अश्वतुल्य- व्यवहारानुकूल कृत्याश्रयः खर इति शाब्दधीः । एवं प्रभवति भृत्यः, रिपवन्ति मिवाणि इत्यादि सिद्धम्। अधिकरणवृत्त्या आचारेऽपि काच- प्रत्ययः । (६२) प्रासादोयति कुव्यां, पयसीयति मञ्चक, तेन कुटोरविषयकप्रासादाधिकरणक- व्यवहारानुकूलकृत्याश्रय इति शाब्दधीः । वृद्धः शिशुमिवाचरति इत्यर्थ “कर्तुः क्यङ् सलोपश्च" (३।१।११पा०) इति क्यङ्-प्रत्ययः ; तेन शिशू- यते वृद्धः, शिशतुल्यव्यवहारानुकूलकृत्याश्रय इति एवम् एरण्डोऽपि द्रुमायते, काकोऽपि गाड़ायते इत्यादि सिद्धम् । अथ एकादिसङ्ख्याशब्दः । "एक दश शतञ्चैव सहस्रमयुतं तथा । लक्षञ्च नियुतञ्चैव कोटिगर्बुदमेव च ॥ प्रासादौयति इत्यादि ।-अत्र "प्रासादौयति यः कुट्यां पर्य्यसोयति मञ्चके । तस्य सन्तोषशीलस्य कुजिकाऽप्यसरायते ॥” इति पद्मनाभः । १२ । बोधः ।

सारमञ्जरी [८१]] वृन्दं खो निखर्वश्च शङ्कपद्मौ च सागरः । अन्त्यं मध्यं पराईच दशया यथोत्तरम् ॥" तवाष्टादशशब्दान्तसङ्ख्याशब्दाः सङ्घयाविशिष्टे एव शक्ताः, केवलसङ्ख्योपस्थितिः लक्षणयैव इति वोध्या। (६३) ऊनविंशत्यादस्तुभयवेव। तत्र विशेषः,-यत्र सामानाधिकरण्येनान्वयः तत्र सङ्ग्याविशिष्टे,यत्र तु वैयधिकरण्येन तव सङ्ख्याया- मेव। ऊनविंशतिर्ब्राह्मणाः ब्राह्मणानाम्नविंशति- रिति बोध्यम्। तत्रापि विशेषः, एषां विंशत्यादि- शब्दानामेकवचनान्ततैव । (६४) यत्र तु हित्व- बहुत्वं तात्पर्यविषयं, (६५)तत्र दिवचनादिकमपि प्रयोज्यम् । एवम् एकादिचतुरन्ता वाच्यलिङ्गतया विष्नु वर्तन्ते, पञ्चादयस्तु सर्वदा अजहल्लिङ्गाः । एवम् एको ब्राह्मणः इत्यत्र जातिपुरस्कारेण जनविंशत्यादरित्यादि।-"विंशत्यादिः सदकत्वं सर्वाः सङ्काय- सङ्कायोः” इति कोषवचनात् ऊनविंशत्यादिसङ्ख्याशब्दस्य सङ्खाये सङ्ख्याने च शक्तिरवगन्तव्या, एकवचनान्तता थ। ८३ ॥ यवेत्यादि । तात्पर्यविषयमित्यनन्तरं विंसात्यादिशब्दानामिति शेषः ॥ ८॥ तत्रेत्यादि।-विप्राणां हे विंशती भोजयेत्यादौ विंशत्यादिशब्दोत्तरं द्विवचनादिप्रयोगः साधुरित्यर्थः ॥ ५ ॥ इति श्रीआशुबोधविद्याभूषणविरचिता सारमञ्जरीव्याख्या समाप्ता ।

[८] मारमञ्जरौ। ब्राह्मणमावोपस्थितावक-पदं सार्थकम् । हौ ब्राह्मणी इत्यत्र वि-पदं द्रुतबोधाय सार्थकम् । "वयो ब्राह्मणाः, चत्वारो ब्राह्मणाः, पञ्च षड़ वा” इत्यादौ तु बहुवचनेन बहुत्वावच्छिन्नब्राह्मणोप- स्थिती, विचतुरादीनान्तु तव्यावर्तकतया सार्थकत्वमेवेति निष्कर्षः । आलोक्य विविधग्रन्थं विचार्य च पुनः पुनः । कृतेयं जयकृष्णेन शब्दार्थसारमञ्जरी॥ समाप्तोऽयं ग्रन्यः।

No text on this page.

No text on this page.

No text on this page.

Sarmanjari Ed. 2

Author
Tarkalankar, Jaykrishna
Other authors
Bhattacharjya, Jibananda
Title
Sarmanjari Ed. 2
File name
Sarmanjari Ed. 2
Text
OCR done
Citation
1935
Published
2007/03/12
Publisher
Panchanan Tarkaratna, Kolkata
Language
Sanskrit
Pages
90
Library
Uttarpara Jaykrishna Public Library, Hooghly
Classification
Sanskrit Linguistics
DLI number
292828
Barcode
4990010200603.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
FO4G7TNKgzr
Download PDF

Sarmanjari Ed. 2