Allahabad University, Allahabad

Kasika Vivarana Panjika 2

Jinendra Buddhi · 2005/12/31

PDF Proofread

Front matter

गौड़ग्रन्थमाला।
श्रीमत्कुमारशरतकुमाररायेण प्रवर्तिता।
श्रीमदक्षयकुमारमैत्रेयेण पर्यवेक्षिता च ।
अथ
शाशिकाविवरणपञ्जिका।
बोधिसत्त्वदेशौयाचार्यश्रीजिनेन्द्रबुहिपादविरचिता
शास्विधीत्रीशचन्द्रचक्रवर्तिभट्टाचार्येण संस्मता ।
THE
KASIKA VIVARANA PANJIKA
(THE NYASA)
A COMMENTARY ON VAMANA-JAYADITYA'S KASIKA
BY
JINENDRA BUDDHI.
EDITED
WITH OCCASIONAL NOTES
BY
SRISH CHANDRA CHAKRAVARTI, B A.
SENIOR PROFESSOR OF SANSKRIT, RAJSHAHI COLLEGE,
RAJSHAHI, BENGAL,
Vol II Part I
TUBLISHED BY
BIMALA CHIARAX MAITRA B L. (Asst Secretary)
VARENDRA RESEARCH SOCIETY OF RAJSHAHI.
BENGAL
TOr9
Rs 2/3
Foreign 3s. 4d

VARENDRA RESEARCH SOCIETY
RAJSHAHI
PATRON
HIS EXCELLENCY THE GOVERNOR OF BENGAL
VICE-PATRONS
THE HON'ABLE F J MONAHAN ESQ ICS
FC. FRENCH ESQ ICS
MAIIARAJA SIR GIRIJANATH RAY BAHADUR OF DINAJPUR.
TIE HON'ABLE MAHARAJA JAGADINDRA NATH RAY OF NATTORE.
RAJA PRAMADANATH RAY OF DIGHAPATIYA.
HONORARY VICE-PRESIDENT
JUSTICE SIR J G WOODROFFE
Council of Management
President
KUMAR SARATKUMAR RAY OF DIGHAPATIYA MA, M RAS
Director
BABU AKSHAY KUMAR MAITRA BL
Honorary officers
BABU RADHAGOVINDA BASAK M. A ( Secretary )
BIMALA CIIARAN MAITRA. B. L. (Asst Secretary)
DINESH CHANDRA BHATTACHARJYA. MA ( Librarian )
MAHENDRA KUMAR SHAFA CHAUDIIURY. B L. (Treasurer.)
KALI PRASANNA ACIIARYA BL (Keeper. )
Superintendent of Sanskrit MSS
SASTRI SRISII CIIANDRA CIIAKRAVARTI. B. A.

काशिकाविवरणापञ्जिका। प्रञ्चमाध्यायस्य प्रथमः पादः । 450 १। प्राक क्रौताछः। विधिरधिकारः परिभाषा वेति त्रयमत्र सम्भाव्यते । यथा चैतत् चितयमपि निर्दोषं तथा प्राग्दीव्यतोऽणित्यत्र (४।१।८३) दर्शितम् । यद्येवं काशिकाकारण कस्मान्न सूचितम १ एकदेशानुस्मरणेन सर्वस्य सूचितत्वादित्य- भिप्रायः । अथ प्रागिति कोऽयं निर्देश: यावता प्रपूर्वस्याञ्चतेः विनि नलोपादिके विहित उगिदचामिति (१।७०) नुमि संयोगान्तलोपे च किन्- प्रत्ययस्य कुरिति (८।२।६२) नकारस्य ड का प्राडिति भवितव्यम् । अथेटशी व्युत्पत्तिरात्रीयेत यावताञ्चतेश्वोपसंख्यानमिति (४।१।६, वा) कृते डीपि प्राच्या दिशि वसतीति दिकशब्देभ्यः सप्तमीत्यादिना (५।३।२७) ऽस्तातिः । तस्याञ्चल गिति (५।३।३०) लुक । लुक् तद्धितलुकीति (१।२।४८) डीपोऽपि । तसिलादिस्तद्धित एधाचपर्यन्त इत्यव्ययत्वे ऽव्ययादिति (२।४।८२) सोल- कि न लुमताङ्गस्येति (१।१।६३) प्रत्ययलक्षणप्रतिषेधात् सर्वनामस्थानाभावे नुमोऽप्यभावः । ततः कुल्वे सति प्रागिति सम्पद्यते। यस्तु मन्यत आद्येऽपि पक्षे क्रियाविशेषणत्वानपुंसकत्वम् । क्रियाविशेषणानां यथा नपंसकत्व कमभावश्च तथा करणे च स्तोकाल्पकच्छ्रेत्यत्र (२।३।३३) प्रतिपादितम् । तत्र कर्मणि द्वितीयायाः स्वमोनपुंसकादिति (७।१।२३) लुकि कृते पूर्ववन्नुमभाव दृति तन्मते दितीयैकवचनान्त पदं सञ्जायते। तदेवमितरस्मिन् पक्ष २ न्यासः। ततश्च षष्टयतसर्थप्रत्ययेनेति (२।३।३०) षष्ट्या भवितव्यम् । तत् कथं क्रीतादिति पञ्चमीनिर्देशः । नैतदस्ति । यावतान्यारादितरर्तेदिक्छन्देत्यत्रेद-(२।३।२८) मुक्तं दिक्शब्दत्वादेव सिद्धे ऽज्यूत्तरपदग्रहणं षष्ठयतसर्थे त्यनेन (२।३।३०) प्राप्ता षष्ठीमपि बाधित्वा पञ्चम्येव यथा स्यादिति कुतः षष्ठीप्रसङ्ग. ? अतो व्यवस्थित मिदं प्राक् क्रीतादिति । अथ प्राग्वचन किम् ? न क्रीताछ इत्येवोच्चत। नैतदस्ति । एवं ह्युच्यमाने क्रीतशब्द एव प्रकृतित्वेन ज्ञायेत । क्रीतशब्दादेव प्रत्ययः स्यात् । तस्मात् क्रीतादित्यवधिद्योतनाथं प्रागिति वक्तव्यम् । तर्झयमर्थः प्राधितादित्यतः (४।४।७४) प्रकृतेन प्राग्ग्रहणन हि सम्बध्यते। एवं तत्वैतत् स्यात् । तद्धि भवे च्छन्दमीति (81४।११०)। तेन छन्दोऽधिकारण प्रकृतं प्राग्ग्रहणं सम्बद्धम् । अतस्तदनुवृत्तौ सत्यां तस्या- प्यनुवृत्तिरिति वार्तमेतत् । अस्खरितत्वादेव च्छन्दोऽधिकारस्य निहत्तेः । तहि हि प्राग्दीव्यत इत्यतः (४।१।८३) प्रकृतत्वात् तेनापि च वहतेरित्येव- मादिकं सम्बध्येत यथा स्त्रीपुंसाभ्यां नजनजो भवनादिति (४।१।८०)। नैतदस्ति । एवं हि सोमाट् व्यमित्यादौ (४।२।३०) यत्र पञ्चमी श्रूयते तत्र सर्वत्र प्रागवचनेन सम्बन्धे न ज्ञायते को विधिः का च प्रकृतिरिति स्यात् । येषामवधित्वमिष्यते तेषामेव प्राकशब्दमधीतवानिति । इह तु प्रकृतन प्रागवचनेन सम्बध्यते। ननु च विपर्यायः कस्मान्न भवति ? भवनादिति प्रकृतिः स्त्रीपुंसाभ्यामित्यवधिनिर्देश इति। नैतदस्ति । अवधेरकत्वादेक- वचनेन निर्देशो न्याय्यः। प्रातिनिर्देश तु हे एव प्रकृती परस्परापेक्षे इति दिवचनमुपपद्यते । ननु च विशदमिदमुदितमप्यर्थज्ञानम् । स्वरित- लिङ्गादधिकाराणामासग इत्येतद् भवता विस्मृतम् । तदेवं सोमाट् ठ्यणित्यादौ (४।२।१०) कः प्राग्वच नसम्बन्धप्रसङ्ग इति नार्थः प्राग्ग्रहणन । सत्यमेतत् । किन्तु खरितत्वावरितत्वख्यापनपरम्परया मन्दधियो मोहमासादयन्तीति तत्प्रतिपत्त्यर्थं प्राग्ग्रहणं कर्तव्यम् । अवत्सीय इति। विकल्पनात् त्रयमत्र सम्भवति। अनुत्पन्ने प्रत्यये नास्य सम्बन्ध इति। उत्पन्ने वा। संसर्ग उत्पत्तिकाल एवेति । तत्राद्ये पक्षे वत्सादन्यस्मै हितमितौष्टाभिधानं न प्राप्नोति। हितोये तु गोधुगनभिधानप्रसङ्गः। तीये तु सापक्षमसमर्थ ३ -- (५१)। भवतीति प्रत्ययो न प्राप्नोति । न चापि चतुर्थी। हितार्थस्य प्रतिषिध्य- मानत्वात् । तीये तु पक्षे यथा दोषो न भवति तथा प्रतिविधीयते। तत्र वत्सहितशब्दयोः पदान्तरनिरपेक्षयोः क्रियापदेन भवतिनानुगम्यमानत्वान् न च बाह्यसम्बन्धोऽन्तरङ्ग सम्बन्ध निवर्तयितुं शक्नोति अतएव न देवदत्ताय गां ददातीति सम्प्रदाने चतुर्थी भवति । कर्मणाभिप्राप्तेरन्तरङ्गत्वादिति । तथानेन च क्रमेण यत्रापि प्राप्ति न विद्यते केवलं विच्छामात्रमेव तत्रापि कर्मसंज्ञा प्रवर्तते । तद्यथा ग्रामं गन्तुमिच्छामि न कश्चित् सहायोऽस्तीति । यदप्युच्यते ऽसामयात् तद्धितेन न भवितव्यमिति तदेतदप्यसारम् । यदयं नजो गुणप्रतिषेधे सम्पाद्यहंहितालमर्यास्तद्धिता इति (६।२।१५५) तदन्तान्यु- सरपदानि नो गुणप्रतिषधे वर्तमानानि पराण्यन्तोदात्तानि भवन्तीति तद्धितग्रहणमनर्थकं स्यात् । अथ किमर्थ मियानवधि रुपादीयते ? नहि तत्र तावदस्य व्यापारीऽस्ति । प्रत्ययान्तरैर्बाधितत्वात् । लघुत्वात् प्राक् ठअश्छ इति वक्तव्यमित्यत आह अर्थोऽवधित्वे नेत्यादि। कः पुनरर्थमवधित्वेनाङ्गोकुर्वतो गुण इति चेदयमभिप्रायः । प्राक ठअश्छ इत्युच्यमाने प्राक् ठओ याः प्रकृत- यस्ताभ्यश्छो भवतीत्ययमर्थः स्यात् । ततश्चाधिकारस्य प्रतियोगोपस्थानादप- वादविषये च्छप्रत्ययः प्रसज्येत । अर्थ त्ववधित्वेनोपादीयमाने प्राक् क्रीताद् येऽर्था स्तेषु च्छो भवतीत्ययमर्थः सम्पद्यते । ततोऽतिप्रसङ्गो न भवति। तेन समानेऽर्थे प्रकृतिविशेषादुत्यद्यमानोऽपवादश्छ बाधते । ननु च प्राक ठञ इतुपच्यमानेऽपवादविषयेऽपि च्छो न भविष्यत्येव । ज्ञापकात् । यदयं विभाषा हविरपूपादिभ्य इति (५।११४) विभाषाग्रहणं शास्ति । इतरथा ह्यधिकारा- छोऽपि लब्ध एवेति विभाषाग्रहणमनर्थक स्यात् । सत्यमेतत् । किन्तु ज्ञापनहारमार्थप्रतिपत्ती सत्या प्रतिपत्तिगौरवं स्यात् । तस्मात् सुखप्रति- पत्त्यर्थमर्थोऽवधिलेनोक्तः। अन्ये पुनराहु ग्रहीत इत्याशंसाया भूतवञ्चेत्यनेन (३।३।१३२) भविष्यति निष्ठाप्रत्यय इति। तेनायमर्थः सम्पद्यते वत्सोयादि- रूपसिद्धार्थमर्थमवधिं ग्रहीष्यामीति । अतः शालातुरोयेण (A) प्राक् ठजश्छ इति नोक्तम् । अन्यथा हि प्रत्ययावधित्वे प्रतिपदोक्ता अन्तरगा इत्युपा- (A) By शालातुरीय, evidently पाणिनि 1s meant So tne न्यासकार supports the ततश्च त्ताभ्यः प्रातिभ्य एव प्रत्ययः स्यादित्याशयत। अन्ये पुनरन्यथा वर्णयन्ति । परिखाया ढजित्यत्र (५।१११७) च्छयतोः पूर्णोऽवधि रित्यभिधास्यति । तेन क्रीतमिति वक्ष्यतोत्युच्यते । ततश्चेदं विरुद्धमित्याह अर्थोऽवधित्वेनेत्यादि । गतार्थम् । नैयायिक इत्याह (B) क्वचिदर्थोऽवधित्वेन गृह्यते यथाऽऽहाँद (५।१।१८) भवनादिति (४।१।८७)। क्वचित् प्रत्ययः प्राग् वहते (४।४।१) रा 'च त्वादिति (५।१।१२०)। कचित् प्रकृति रा कडारात् (१।४।१ ) प्राक कड़ारादिति (२।१।३)। क्वचिदेकदेशः प्राग् दीव्यतोऽणिति (४।१।८३)। कचिन्निरवधिः प्रत्ययो ड्याप्प्रातिपदिकादिति ( ४।१।१ )। तेनायमात्मनो वैचित्रामाचार्यो दर्शयतीत्यवसीयत इति । अथ क्रीतशब्दादेव पूर्वेण छप्रत्ययो भवतीत्येवं कस्मान्न विज्ञायते ? यथा विभाषा सुपी बहुच पुरस्तात् विति (५।३।६८) ? अनभिधानात्। नहि क्रीतशब्दात् पुरस्तादुत्पद्यमानेन प्रत्ययेन कस्यचिदर्थस्याभिधानमस्ति । नचापि तेन क्रीतमिति निर्देश उपपद्यते । तत्रैवमपि प्राक् क्रीतशब्दादेव प्रत्ययो भवतीत्येव कस्मान्न विकल्पाने ? अनभिधानादेव। नहि तत उत्पन्नेन प्रत्ययेन विवक्षितोऽर्थों ऽवगम्यते । अर्थान्तरं भवादिकम् । तत्र च वृद्धलक्षणश्छ एव सिद इत्यनर्थ- कमिदं स्यात्। तस्मात् प्रागुदितमेव प्रयोजनं न्याव्यम् । -- । उगवादिभ्यो यत् । उगिति प्रत्याहारग्रहण वा स्यात् १ उवर्ण ग्रहणं वा ? तनाद्ये पक्षऽयं वाक्यार्थों जायत उगन्तेभ्यः प्रातिपदिकम्यो ऽवादिभ्यो ऽवकारादिभ्यो- ऽवसुप्रभृतिभ्य इति । वकारादीन् वजेयित्वेत्यर्थः । ननु चैवं सति पञ्चम्या निर्देशः स्यात् । नैष दोषः । सुपां सुलुगिति (७।१।३८) लुका निर्दिष्टत्वात् । एवं तहि प्रातिपदिकेषु गवादिपाठसामर्थात् प्रत्याहारग्रहणं न भवति । view that शलातुर had been the residence of the sage's ancestors - शालातुरोऽभिजनोऽ स्थेति तूदीशलातुरेत्यादिना च्छण् (४।३।४९) शालातुरोय । तेन । (B) Who was this नैयायिक ?

. (५१) अन्यथा हि गवादीनां पाटोऽनर्थ कः स्यात् । एतत् सर्व मनसि कात्वाह उवर्णा- तादित्येव । सर्वत्रग्रहणे तदन्तविधेरभुपगमादित्यभिप्रायः । शव्यमिति । ओर्गुण: (६।४।१४६)। वान्तो यि प्रत्यय (६।१।७) इत्यवादेशः । सनगुरि- त्यादि। चर्मविकारलक्षणस्याजोऽवकाशो वा वारत्नम्। उवर्णान्तल- क्षणस्य यतोऽवकाशः शङ्खव्यम् पिचयमिति । सनगुर्नाम चर्मविकारः । तत्रोभयप्राप्तौ परत्वाच् चर्मणोऽजित्यञ् (५।१।१५) प्राप्नोति। तथेत्यादि । अन्नविकारभ्यश्चेति । अपूपादिलक्षणस्य पाक्षिकस्य यतोऽवकाशः । अपूप्या स्तण्डुला अपूपीया इति। उवर्णान्तलक्षणस्य सएव । चरुर्नाम हविर्विशेषः । सतश्चान्त्रविकारः। तत उभयप्रसङ्गे परत्वादिभाषा हविरपूपादिभ्य इति (५।१।४) हविलक्षणोऽनविकारलक्षणच विधिः प्राप्नोति । तदेवं सनमु- शब्दादञ् प्राप्तः। चरुसक्तुशब्दाभ्यां विकल्येन यत् । नित्यश्चेष्यते । तदर्थ पूर्वविप्रतिषेधो भाषितव्य इति । ओर्गुणः (६।४।१४६)। वान्तो यि प्रत्यय इत्यवादेशः (६।१।७८)। सनङ्ग व्यमित्यादि। एतच्चेष्टवाचित्वात् परशब्दस्य लभ्यत इत्यवगन्तव्यम् । गवादिषु नाभि नभञ्चेति पठ्यत इत्यत्र कस्यचिदि. यमाशङ्का स्याद् भसंज्ञाप्रतिषेधो विधीयत इति । ततश्च यस्येति (६।४।१४८) लोपन भवितव्यमित्यत आह नाभिशब्दो यत्प्रत्ययमिति । शरीरावयवो यो नाभिशब्दस्तत्र कर्थ भवितव्यमित्याह यस्वित्यादि । ततः शरीरावयवाद् यति कृते परत्वाद् नाभ्य तैलमिति । ननु च शरीरावयवलक्षणे यति सति नभभावः कस्मान्न भवतीत्याह गवादिषु यतेत्यादि । स हि गवादि- यता सह विहितः। तेन सनियोगशिष्टानामन्यतराभाव उभयोरप्यभाव इति नभभावो न भवति । शुन इत्यादि। खनिटेतस्य सम्प्रसारणे कृते ऽनन्त- तास्तीति न स्तद्धित इति (६।४।१४४) टिलोपेन भाव्यमेवेति। एवं तर्हि सम्प्रसारणसामयान्न भवति। नैतदस्ति । य विधि प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते। यस् तु विधेनिमितमेव नासो बाध्यत इति तदवस्थो दोषः । दीर्घविधानसामयादिति चेदेवमपि पक्षे स्याद् । एवं तह्य न्यथा व्याख्या- इह चकारद्वयं पठ्यते सम्प्रसारणञ्च वा दोपत्वञ्चेति । द्वितीय- चकारो भिन्नक्रमः सम्प्रसारणसमीपे ट्रष्टव्यः । स च समुच्चयार्थी इन्यस्य यति ।

६ समुच्चेतव्यस्याभावात तदेव समुच्चिनोति । तत्र सम्प्रसारणमेकेन क्रियते । द्वितीयेन तद्रूपस्यैवावस्थितिरिति। तत्सनियोगनेत्यादि । तदित्यनेन दीर्घत्वं प्रत्यवमृश्यते । तेन दीर्घवेन यत एवान्तोदात्तत्वं भवति । अन्यथा यतो- नाव ( ६।१।२१३ ) इत्याद्युदात्तत्वं स्यात् । अधसो नङ् चेति । अधःशब्दस्य नडादेशो भवति । चकाराद् यच्च । अधन्यः । पूर्ववत् प्रकृतिभावः । नान्यत्र। नद्यत्न ३। कम्बलाच संज्ञायाम् । नवपरिमाणविस्ताचितकम्बल्येभ्य इति (४।१।२२) निपातनादेव कम्बल्य इति सिध्यति । कम्बल्यं हि परिमाणविशेषः । इतरथा हि कम्बल्यशब्दस्य तत्र ग्रहणमनर्थकं स्यात् । परिमाणविशेषस्य कम्बल्यशब्दो नामधेयम् । अयमपि प्रत्ययः संज्ञाया विधीयमान स्तत्रैव भवति । कम्बल्यशब्दः संज्ञा। तस्मानार्थोऽनेन । नैतदस्ति। निपातनेन हि कम्बल्य. शब्दः परिमाणे साधुरित्येतावत् प्रतीयते । नतु यदन्तोऽयमिति । ततश्चान्त- खरितत्व न स्यात् । तस्मात् स्वरितत्व परिज्ञानार्थमिदं कर्तव्यम् । अनन्तर- श्रुतस्य यतोऽनुकर्षणार्थश्चकारः । ननु स्वरितत्वादेव यद भविष्यति । छोऽपि तर्हि स्यात् । ननु च छस्य सन्निधाने प्रकतिमानाच्छ उक्त इति नियमार्थ- मिदं स्यात् । तच्चानिष्टम् । यत् पुनर्नियतविषय इति तत्सम्बन्धे विध्यर्थता । विधिनियमयोश्च विधिरेव ज्यायान् । नैतदस्ति । छस्थापि सम्बन्ध विध्यर्थता सम्भवति । कथ संज्ञायामितुच्यते ? संज्ञा चानुपात्तावयवार्थापि भवति । तत्रानवयवार्थानामप्राक्क्रीतीयत्वादिताद्यर्थाभावे छप्रत्ययार्थमेतत् स्यात् । तस्माच् चकारो यत्प्रत्ययानुकर्षणार्थः कर्तव्यः । न कर्तव्यः । इष्टतो- ऽप्यधिकाराणा प्रहत्तिनिवृत्ती भवत इति यत एवानुवृत्तिर्भविष्यति । नतु छस्य। एवं तहि चकार उगवादिभ्य इत्यनुकर्षणार्थः। किमर्थमिदम् ? सनङ्गादिभ्यः परत्वादजादयः प्राप्नुवन्ति । तदाधनार्थमिति । अथ गवादिष्वेव कम्बलाच्च संज्ञायामिति कस्मान्न पठति। तत्र पाठे न कश्चिद गुरुलाघवकृतो विशेष इति यत्किञ्चिदेतदिति ।

स्वरूपस्यैव ग्रहणम् । - (५१)। ४। विभाषा हविरपूपादिभ्यः । हविःशब्दो गवादिषु पठ्यते । तेन तस्मानित्य यता भवितव्यम्। अत्र हविर्विशेषाणां ग्रह म्। न स्वरूपस्येति । उगवादिसूने (५।१।२) स्वरूपपरि- भाषाया उपस्थानान् नहि तत्र सोपतिष्ठमाना केनचिनिवार्यते। तेन तन खरूपग्रहणे सतीह खरूपपरिभाषा नोपतिष्ठते। अन्यथा हि यद्यत्रापि स्वरूप ग्रहणं स्यात् ततः खतन्त्र एकस्माच् शब्दान् नित्यश्च यतो विधिः स्यादनित्यश्चेतुभयम कत्र नोपपद्यत इति न भवति विपर्ययः । अथवा हविःशब्दस्यह पृथगुपादानादर्थप्रधानत्वमवसीयते । अन्यथा ह्यपूपादिष्वव पठेदिति । अन्नविकारेभ्यश्चेति । अन्नविकारा अन्नप्रकाराः । ते च प्रत्ययमुत्यादयन्ति विभाषा । उदन्या उदनीया इति। यद्येवमपूपा. दीनां किण पर्यन्तानामन्नविकारत्वादेव सिद्धत्वात् पाठोऽनर्थ को जायते । यदा तहिं केनचिदाकारसादृश्येनापूपादयोऽर्थान्तर उपचय॑न्ते तदर्थ एषा किच्चान्नविकारग्रहणेनापूपादिषु प्रत्ययमिच्छत इहापि स्याद यवापूपा ब्रीहितगडला इति । प्रतिपदपाठे तु ग्रहणवत्त्वात् तदन्तविधिः पर्युदस्तो भवति । ननु चासमासे निष्कादिभ्य (५।१।२०) इत्यसमासग्रहणाद भवितव्यमेवान तदन्तविधिना। एतेनासमासग्रहणेन पूर्वत्र तदन्तविधिर- स्तोतेषोऽर्थः प्रतिपाद्यते । सत्यमेतत् । अपूपादिषु प्रतिपदपाठसामर्थान्त्र भविष्यति । पाठः। ५। तम्मै हितम् । एतदेव ज्ञापकं हितयोगे चतुर्थ स्तोति । तेन यदुक्तं हितयोगे चतुर्थी (२।३।१३, वा ) वक्तव्येत्येतदुपपन्नं भवति ६। शरीगवधवाद् यत् । शीयत इति शरीरम् । तेन घटादेरपि ग्रहणम् भविष्यतीत्यत आह शरीरं प्राणिकाय इति । एतेन रुढ़िरियमिति दर्शयति। गवादावते शरीरावयववाचिनः । तत्र तु याः प्रकृतयस्ताभ्योऽनेनापि पूर्वेणापि वा यति विशेषो नास्त्येव । यत्र विशेषो नाभि नभञ्चेति स विशेषस्त त्रैव वेदितव्य एव ।

सासः ७। खलयवमाषतिलषब्रह्मणश्च । खलादीनां वृषपर्यन्ताना यस्येति (३।४।१४८) लोपः । ब्रह्मण्य मिति । न संयोगाद् वमन्तादिति (६।४।१३७) प्रतिषेधादलोपोऽन (६।४।१३४) इत्यकार. लोपो न भवति। न स्तद्धित इति (६।४।१४४) टिलोपोऽपि न भवति । ये चाभावकर्मणोरिति (६।४।१६८) प्रकृतिभावात् । वृषशब्दोऽयमनाकारान्ती गृह्यते । नतु ब्राह्मणशब्दोऽकारान्त इति । ननु चाशझा वषशब्दे युक्ता नलोपे सति किमयमकारान्त आहोखिद् नकारान्त इति । मञशब्दस्तु नकारान्त एवेति तद्विषये भ्रान्तिरेव नोपपद्यते । तत् कथं ब्रह्मशब्दो विकल्पाते? सत्यम् । किन्तु बषशब्दाच यतो निवृत्तिप्रसङ्गाद् ब्रह्मज्- शब्दादपि यच्च प्रत्ययो निवर्तत इति भावः । अतएवाह छप्रत्ययोऽपीत्यादि। यत्प्रत्ययापेक्षयापिरयम् । न केवलं यत्प्रत्ययो न भवत्यपितु च्छ प्रत्ययो. ऽपीति । ब्राह्मणशब्दाच्छप्रत्ययाभावो योज्यः । ननु चाभ्यामिहानुपादानाद् यत्प्रत्ययो न भवति। तस्मै हितमिति (५।१५) च्छप्रत्ययस्तु कमान्न भवतीत्या अनभिधानादिति । नहीह वषीयं ब्राह्मणीयमित्यु ते विवक्षितोऽर्थः प्रतीयते । यतोऽर्थ प्रतिपादनं प्रति नियता एव शब्दशक्तयो भवन्तीति कचित् क्वचित् प्रत्ययान्तेनार्थस्थाभिधानं क्वचिदाक्ये नेति। अतो वाक्यमेवावतिष्ठते । वृक्षो हितम् ब्राह्मणेभ्यो हितमिति । बाक्यसमधिगम्य स्यार्थस्य तद्धितेनानभि- धानादिति यावत् । ८। अजाविभ्यां थ्यन् । अजशब्दोऽयमिह पुंलिङ्ग उपात्तः । अविशब्दस्य घ्यन्तशब्दस्यापूर्व- निपातात् । आबन्तस्य ग्रहणे ह्यविशब्दस्य पूर्वनिपातः स्यात् । अदन्तस्य ग्रहणे इन्हे घीत्येतस्य ( २।२।७२) बाधितत्वादजाद्यदन्तमि-(२॥२ ३३) त्यजशब्दस्य पूर्वनिपातो युज्यते । तस्मात् पुंलिङ्गस्य ग्रहणम् । तथाच प्रातिपदिकग्रहणे लिङ्गविशिष्ट स्यापि ग्रहणं भवतीति स्त्रीलिङ्गादपि प्रत्ययो भवतेयव । अजाभ्यो हितमजथ्यम् । तसिलादिष्वा कृत्वसुच (६।३।३५) इति LIST (५१)। पुंवडावः । परिमं ख्याय तत्र तसिलादयः । तेषाञ्च मथे-परिसंख्याती यंस्थालावप्छि । स्त्रीप्रतायान्तस्य ग्रहणे शब्दान्तरत्वादकारान्तात् पुंलिङ्गान्न स्यात् । कृतः। है। आत्मन्विश्वजनभोगोत्तरपदात् खः । अथात्मनितान नलोपः कम्मान तो यावता इन्हेनायं निर्देशः क्रियते ? तत्र नलोपः प्रातिपदिकान्तस्येति (८।२७) नलोपः प्राप्नोतीतात आह आत्मेतपादि। आत्मन्नित्येव भवत्येषा प्रतिरिति ज्ञापनार्थाय नलोपो न कः पुनरेवं मुनरेवं सति विशेष इतवाह तेनेतत्रादि । गतार्थम् । यावं विश्व जनशब्देन हुत्तरपदस्य सम्बन्ध प्राप्नोति। एवं मन्यते। आत्मनिति नलोपाभावेन प्रत्येक वाक्यपरिममाव्यभिचारस्य दर्शितत्वात् ततः प्रतवासत्ते(गशब्देनैव सम्बध्यते । नतु विश्वजनशब्देनेति नास्ति दोषः । कर्मधारयादेवेष्यत इति । आचार्यपारम्पर्योपदेशात्। विभाषाग्रहणानुवृत्ते- व्यवस्थितविभाषाविज्ञानाईदै वेदितव्यम् । विश्वस्य जनो विश्व जनः। विश्वो जनोऽस्येति विश्वजन इति समासेन भवितव्यम् । यथा खो न भवति तथा च्छोऽपि न भवतीत्याशयाह बहुनौहे स्त्वित्यादि। उपसंख्यानमिति । प्रतिपादनमर्थः । तत्रेदं प्रतिपादनम् । इह हि भोगसमासादिति वक्तव्य- युत्तरपदग्रहणमधिकविधानार्थम् । न चैवं सति बहुपूर्वादीषदसमाप्तो भोगो बहुभोग इत्यस्मात् खः स्यादित्याशसनीयम्। बहुच्प्रत्ययस्य समासा भावात्। ततोऽत्र च्छेनैव भवितव्यम् बहुभोगीय इति । तेन पञ्चजनादपि भविथति। संज्ञाशब्दश्वायम् । दिकसंख्ये संज्ञायामिति (२।११५०) समासः । तथा सर्वजनादपि वेदितव्यः । तत्पुरुषादेवेति विशेषानभिधानेऽपि महा- जनादिति निर्देशादेव समानाधिकरणादेव विज्ञायते । प्रान्महतः समानाधि- करणजातीययोरिति (६।३।४६) समानाधिकरणोत्तरपदे महत आदिधानात् । भोगशब्दोऽयं भावसानो भुक्तिभोग इति । कर्मसाधनो वा भुज्यत इति भोग इति। अयमव्युत्पन्नः शरीरवाची। तस्येह ग्रहणमित्याह भोगशब्द इत्यादि । भोगशब्दः शरीरमेव प्रतिपादयतीत्यर्थः । यत्र वर्तमानोऽयं साक्षात्- १० ग्यासः । सम्बन्धमाह तत्रैव खप्रत्ययमासादयति । वर्तते च क्रियायां द्रव्ये च । नथाहि यद्यपि भुजिक्रियया ट्रव्येण च सम्बन्धोऽस्ति तथापि शरीरेण मुख्यः सम्बन्ध इति ततो भवति प्रत्ययः । यथा राजाचार्याध्या वाक्यमेव अवति तथेहापि भवितव्यमिति य श्चोदयेत् तं प्रत्याह केवलेभ्य इति। मात्रीयम् पित्रीयमिति ! दिमात्रमतत् । अन्येषामपि दुहिनीयमित्यादीनां दर्शनात् । आचार्य्यादणत्वमिति। क्षुम्नादिपाठात् । केवलान्यां वाक्यमेव भवतीति । छप्रत्ययो न भवति । अनभिधानादेव । १०। सर्वपुरुषाभ्यां णटो। सर्बासस्य वावचनमिति । अभिधानेऽभिधेयोपचाराद् वेति विकल्प - माइ। इहापि विभाषाग्रहणानुवृत्तेरेव वेदितव्यम्। न च सर्वपुरुषाभ्या विकल्प आशङ्का। व्यवस्थितविभाषात्वात् । पुरुषाधेति । तत्र वधे तस्येद- मित्यणोऽपवादः (४।३।१२०)। विकारे प्राणिरजतादिस्यो (४।३।१५४) ऽञः । समूहेऽपि तस्य समूह (४।२।३७) इत्यणः । तन ते ग्रन्थ (४।३।११६) एव । ११। माणवचरकाभ्यां खन्न । उभयस्मिन् जित्करगां स्वरार्थम् । चरके वृद्धार्थञ्च । माणवे तु वृद्धि- निमित्तस्य च तद्धितस्यारतविकार (६।३।३८) इति पंवद्भावप्रतिषेधार्थम् । माणवीना भाा यस्य स माणवीनाभाय इति । १२। तदर्थ विकृतेः प्रकृतौ। तस्मायिदं तदर्थम् । चतुर्थी तदर्थेत्यादिना (२।१।३६) समासः । एतटेव वचनं ज्ञापकमथोत्तरपदे समासे समुदायार्थस्य लिङ्ग भवति न च परवल्लिङ्गतेति। एतेन यदुक्तामर्थेन नित्यसमासः सर्वलिङ्गता च वक्तव्येति (२।१।३६,वा) सा सिद्धा भवति। प्रकृतिरुपादानकारणमिति। समानजातीयम- भिन्नसन्तानवृत्तिकारणमुपादानकारणमित्युच्यते । उपादीयत इत्युपादानम् । बहुलवचनात् कर्मणि लुबट्। तस्य कारणमिति षष्ठीसमामः। तस्यैवेत्यादि। इत्या खेन । तत् कुतो (५।१)। तस्यैवोपादानकारणस्योत्तरभाव्यवस्थाविशेषो विकृतिः। विकृतिवाचिन इत्यादि ! ननु च समर्थाना प्रथमाइति (४।१।८२) वचनात् तदर्थमिति प्रथम निर्दिष्टत्वात् प्रकृतेश्च तदर्थत्वात् तदाचिन एव प्रत्ययः प्राप्नोति । नैष दोषः । प्रथमस्य चाप्रथमस्य च कार्यप्राप्ती प्रथमादेव यथा स्यादित्येवमर्थम् प्रथमग्रहणं नियमार्थ कृतम् । इह तु प्रथमात् प्राप्तिरव नास्ति । प्रताविति । सप्तम्या प्रमतेः प्रत्ययार्थत्वेन सम्पादितत्वात् । विक्कतेरिति । पञ्चम्या विकृतेः प्रकृति- तस्मानायमस्य विषय इति विकतिवाचिन एव प्रत्ययो भवति । विकत्यर्थायामिति । अनेन तदर्थमित्यत्र सुव्यत्ययेन सप्तम्या: स्थान प्रथमा लिङ्ग व्यत्ययेन च स्त्रीलिङ्गस्य स्थाने नपुंसकलिङ्ग कृतमिति दर्शयति । ननु च च्छन्दसि व्यत्यय उक्तः । नेदं छन्दः । व्यत्ययः ? छन्दोवत् सूत्राणि भवन्तीत्यदोषः। तदर्थग्रहणेनत्यादि। इह प्रकृतिविकारवाक्ये कचिद योग्यतामात्रं विवक्ष्यते मूत्राय कल्पते यवागू: पादशोफाय नडलोदकमिति । क्वचित् प्रकृत्यन्तरनिवृत्ति र्यवाना धाना धानाना सताव इति । क्वचिद् विकारस्य प्रकतिसम्बन्धी यवाः सक्तूना धाना इति । क्वचित् प्रकतरनन्यार्थता यथा काष्ठाना- मगाराः । प्रकृतेरनन्यार्थताख्यानार्थेन यदिष्टं सम्पद्यते तद्दर्शयति प्रत्ययार्थस्य चेत्यादि। इह विकत्याया प्रकृती प्रत्यय उच्यते । तस्य तस्मात् तादये चतुर्युव शक्यते प्रतिबोधयितुम् । प्रत्ययार्थस्य तदर्थवेन सामर्थ्या- चतुर्थी समर्थविभक्तिलभ्यते । केचित्त्वित्यादि। तेषा वचनलभ्यैव चतुर्थी समर्थविभक्तिः। तदर्थमिति किमिति षष्ठी प्रत्यु दायिते ? षष्ठापि तादर्था ब्रूते यथा गुरोरिदं गुर्थमिति । तथा सति षष्ठयपि समर्थ- विभक्तिर्भवति। अङ्गाराणा काठानीति प्रतुदाहरणं तु प्रकत्यन्तरनिहत्त्या । तया यवादः समर्थाते। अङ्गारभ्यः काठानि प्राकारभ्य इष्टका इति । इदमसति तदर्थ ग्रहणे न ज्ञायत किमर्थ विवक्षितमिति । तस्मादनन्यार्थता प्रततेर्विवक्षितेति। एतत् प्रयोजनं प्रतिपादयितु तदर्थग्रहणं कृतमिति तथाच प्रकृत्यन्तरनिवृत्त्या प्रकृतिरव सम्बध्यमाना व्यतिरिच्यत इति यवादेरेव व्यतिकविभक्तिर्भवति । ये तु चतुर्थीमनुवर्तयन्ति तेषां तदर्थग्रहण धानाना भावः।

चतुर्थीविशेषणं विज्ञायते तादर्थं चतुर्थीति । तत्र मूत्राय कल्पत यवागूरिति प्रतुपदाहरणम् । तेषां चतुर्थ नुवृत्तिरपाथिका। तदर्थग्रहण नैव गतार्थ- त्वात्। तथाच या तादीसमानार्था षष्ठी सा चासत्यां विशेष्यते। काचिदिति। न तूपादानकारणभूतापीत्यर्थः । म्यादेतत् । कूपः प्रकतिरुदकस्य न भवतव। ततस्तनिवृत्त्यर्थ विकृतिग्रहणं न कर्तव्य मित्यत आह भवति नेत्यादि। चशब्दोऽवधारणे । ननु चान्येभ्य एव स्वकारणेभ्य उदकमुत्पाद्यते । तत कथ कूपस्तस्य प्रशतिरित्याह तत्रोत्- पादनादिति । यथैव हि प्रयाजादीनां धमाणामुत्पत्त्याधारभूतौ दर्श पौर्ण- मासौ प्रकृती भवत एवमुदकस्योत्पत्त्याधारभूतत्वात् कूपः प्रकतिर्भवति । यद्येव मुदकमपि तस्य विकृतिरित्याह नन्वित्यादि। अत्रैवोपपत्तिमाह अत्यन्तभेदादिति। विकारो हि प्रकतेरुत्तरमवस्थान्तरमिति ततो नात्यन्त- भिन्नी भवति यथा काष्ठानामगाराः । ते हि पार्थिवेनाभिन्नसन्तान वर्तित्वेन काठेभ्यो नात्यन्तं भिद्यन्ते। उदकन्तु भिन्नस्वभावत्वाद भिन्न- सन्तानवर्तित्वाच्च कूपादत्यन्त भिन्नम् । अतो न तस्योत्तरमवस्थान्तरमिति न भवति विकृतिः। नतु कोशी तस्य प्रकतिरिति। अतत्कारणत्वात् । अनुत्यत्त्याधारभूतत्वाच । ननु च प्रकृतिविकृतिरिति सम्बन्धिशब्दावेती। सम्बन्धिशब्दश्व नियत एव प्रतियोगिनि प्रतीतिमुपजनयति यथा हि मातरि वर्तितव्यमित्युक्ते न चोच्यते वस्या मातरीति । या यस्य माता तस्यामिति प्रतीयते । एवं सति कूपलक्षणाया प्रकृती विकत्यर्थाया प्रत्ययार्थत्वेन विव- क्षितायामसत्यपि विवतिग्रहणे तस्यैव कूपस्य या या विकृतिस्ततएव प्रत्ययो विज्ञायते । तथा च विकारवाचिनोऽसिशब्दात् प्रत्यवे विधिसिते यस्थासौ प्रकतिस्तस्यामेव तदर्थाया प्रकृतावसत्यपि प्रतिग्रहणे प्रत्ययो विज्ञायते । तस्मादन्यतरोपादानेऽपि सर्वमिष्टं सम्पद्यते । न किञ्चिदनिष्टमापद्यत इत्याह तदर्थ हयोरपीत्यादि। अनेनैवं मन्यते। स्यादेतदेव यदासौ प्रकृतिवि- कृतिशब्दौ नियोगतः सम्बन्धिशब्दो। नचेमौ नियोगतः सम्बन्धिशब्दो। तथाहि विपूर्व स्तावदयं करोतिरस्त्येवापकार देवदत्तोऽस्थित्यै विकरो- अस्ति चेष्टानानाले विकुर्वते च्छात्रा इति। अन्यनौचित्ये तीति।

(५१) विकृतिरषा स्त्रीणा यत् स्वातन्वामिति । अस्ति कार्य तन्तुना पटो विकार इति। तथा प्रपूर्वीऽप्ययमस्ति कारणे तन्तव' प्रकतिः पटस्येति । अस्ति चौदासौन्ये सत्त्वादीनां प्रकृतिरिति। तान्युच्यन्ते यान्यनारम्भकाणि । अस्ति दोषापगमे प्रतिस्थोऽयमिति। अस्ति स्वभावे प्रकल्याभिरूप इति । अस्ति धर्माणामुत्पत्त्याधारे यथा दर्श पौर्णमासी धर्माणा प्रातिरिति । तदेवमर्थबहुत्वादनयोः सम्बन्धित्व मनैकान्तिकामिति । अतोऽन्यतरग्रहणे न सिध्यति । न चान्यतरेण शक्यते वक्त विवक्षित. प्रकृतिविकारभावः । अय- मुपादानकारणस्य तदुत्तरावस्थाभूतस्य च यो विकार' स इह वेदितव्यः । यदि तु विपूर्वः करोतिरनेकार्थस्तस्य विकार (४।३।१३४ ) इत्यत्रापि मन्देहापगमाय तर्हि प्रयतितव्यम् । सत्यमेतत् । शैलीयमाचार्यस्य यस्य कचिदभिधानमाश्रयति क्वचिच्यायं कचिवचन मिति तत् मर्वमुच्यते । तन सवं प्रत्याय्यते । १३। छदिरुपधिवलर्ड। यदा छदिश्चमविकारो विवक्ष्यत तदापि ढवेष्यते । छादिषयञ्चमति । ननु च परत्वाचर्मणोऽजित्यञ् (५।१।१५) प्राप्नोति। नैष दोषः । चर्मणोऽजित्यत्र (५।१।१५) छदिषी ढजनुवतियते । यथा च्छदिःशब्दाद वलिशब्दाच्चतुर्थीसम- र्थात् प्रकृतिविकारभाव प्रत्यय उपजायते तथोपधिशदादपि भवितव्यमित्या- शङ्याह उपधिशब्दादित्यादि। अत्र युक्तिमाह उपधीयत इत्यादि। तेन कर्मण्युपसर्गे घो किरिति (३।३८२) दर्शयति । तेन च द्रव्यस्यानासादितोत्त- रावस्थस्याभिधानम् । यद्युपधिशब्दाद् विकृतिवाचिनः स्यादेवमर्थान्तर स्यात् । नचासौ प्रकृतिविशेष भवति। नतूपधिशब्दाद वाच्यस्य प्रत्ययान्तरस्य प्रकृति- विकारभावोऽस्ति । अभेदात् । तथाहि यदेव रथाङ्गमुपधिशब्देनोचते तदेवानासादितोत्तरावस्थमोपधेयशब्देनापि। स्यादेतत् । यदा भावसाधन उपधिशब्द उपधानमुपधिरिति तदा नास्ति भेदः क्रियाभिधानात् । यदाप्यु पधिशब्देन क्रियाद्रव्यस्य विकार उच्यते तदोपधेयशब्देन च तत्प्रकृति ट्रव्यम्। अत प्रातिविशेषे पर प्रत्ययो भविथतीति । एतच्चायुक्ताम् । नदि १४ क्रियाद्रव्यस्य विकारो युज्यते । अत्यन्तभेदात् । तस्मात् स्वार्थ एवोपधिशब्दात् प्रत्ययो विज्ञायते । १४। ऋषभोपानहो जाः। चर्मण्यपीत्यादि। आस्थावकाश ओपानह्यो मुञ्जः । अञोऽवकाश: वार्धम् । वारत्नम्। चर्मणि प्रकृतित्वेन विवक्षिते सत्युभयप्राप्तौ पूर्वविप्रतिषेधेन आएव भवति । भोपानचं चर्मेति । १५। चर्मणोज। चर्मण इति परपञ्चमी वा स्यात् षष्ठी वा ? यदि पञ्चमी चर्मण एव प्रत्ययो भवेत् । न चर्मविकारवाचिभ्यः । एतच कुतो लभ्यते ? अनभि- धानात्। तथाहि प्रकतिविशेष एव प्रत्यय इष्यते । नच चर्मशब्दादुत्पन्ने प्रत्यये विवक्षितार्थस्याभिधानमस्ति । तस्मान्नेयं पञ्चमी। अपि तु षष्ठी। १६ । तदस्य तदस्मिन् स्यादिति । द्वितीयाशङ्कामपनिनौषुराह तदित्यादि। अस्तेरकर्मकवादित्यभिप्रायः । अवयवार्थपूर्वत्वादवयव्यर्थस्येत्याह अस्येत्यादि। करोतीति करणः । कर्तरि बहुलवचनान्नुपट् । इति श्चासौ करणश्चेति कर्मधारयः । सम्भावने ऽलमिति चेत् सिद्धाप्रयोग (३।३।१५४) इति । ननुच प्राकारीया इष्टकाः प्रासादीयं दार्विति च पूर्वेणैव सिद्धम् । तथाहि यासामिष्टकाना यस्य च दारुणो बहुत्वेन प्राकारः प्रासादश्च सम्भाव्यते तासामिष्टकाना तस्य च दारुणो यथासंघान प्राकारप्रासादौ विकारौ भवतः। तादर्थ्याच्चेष्टकानां दारूणाचा- स्तीवेत्यत आह प्रकृतिविकार इत्यादि। गतार्थम् । वि स्तद्ग्रहणमित्यादि। इत्येष न्यायोऽनेन प्रदर्श्यते । तदस्यास्त्यस्मिन्निति मतुबित्यादौ (५।२।८४) नैकः प्रत्यया: । तत्र तत्समुदायेन समर्थविभक्तोः सम्बन्धो विज्ञायते । ततश्च यत्र हाभ्यां प्रत्ययार्थाच्या समर्थविभक्तेः सम्बन्धः सम्भवति शाखावान् वृक्ष इत्यादी तत्रैव तत् स्यात् । यत्र वन्यतरेणैव सम्बन्धो गोमान् देवदत्ती वृक्षवान् पर्वत इत्यादौ तत्र न स्यात् । अस्मिं स्तु न्याये प्रदर्शित सर्वत्र भवति ।

(५१)। १५ -- १७ । परिखाया ढा परिखाशब्देन चात्र खेयमुच्यते (C)। १८। प्रागवतेछन । प्राग्वचनं शीर्षच्छेदाटु यच (५॥११६५)। दण्डादिभ्यो य (५।११६६ ) इत्येवमादिनाधिकारवता उत्रि विच्छिन्ने पारायणतुरायणचान्द्रायणं (५।११७२) वर्तयतीत्येवमादावर्थनिर्देश उजेव यथा स्यादित्येवमर्थम् । ( १६ । आहादगोपुच्छसंखयापरिमाणाट्ठक । तदर्हतीत्येको (५।११६३) विधिः । तदर्हमिति (५।१।११७) द्वितीयः । तत् कस्येहावधित्वेनोपादानमित्याह तदहतीत्यादि। इतरस्य ग्रहण करमान्न भवति ? एवं मन्यते । यदि तस्य ग्रहणमभिप्रेतं स्यात् प्राग्वतेरित्यनेनैव (५।१।१८) सम्बन्ध कुर्यात् । नार्हादित्यनेन । ननुच वत्यर्थेऽपि उगविधियथा स्यादित्येवमर्थसाहदिति वचन स्यात्। अस्ति तस्मिंटबदव ठकः प्राग्- वापार इति विज्ञायते। नैतदस्ति । यद्यपि वत्यर्थे ऽपि ठगधिक्रियते तथापि तत्न तेन न भवितव्यम् । प्रतिपदविहितेन वतिना बाधितत्वात् । अनभिधानाहा। तस्मादहति शब्दैकदेशस्यैवाहशब्दस्यावधित्वं ब्याव्यम् । गोपुच्छादीन वर्जयित्वेति । कथं पुनरतज् ज्ञायते ऽगोपुच्छादिति प्रति- धोऽयमिति ? अन्यस्यार्थस्येहासम्भवात् । ननु चायमर्थः स्यादगोपुच्छश- ब्दात् संख्यायाः परिमाणाचेनि । अशक्योऽयमथ इह सम्भावयितुम् । यदि ह्ययमर्थः स्थान् निष्कादिभ्यः परिमाणादेव सिदत्वात् पुनर्वचन मनर्थक स्यात् । ननुच नियमाय पुनर्वचनं स्यात् । असमास एव यथा स्यादिति । नेतदस्ति । नहि विधी सति नियमार्थता युक्ता। नियमे हि सत्यवताव्यस्य त्यागाच्छन्दबाधनम् । किञ्च सिद्धञ्च पुनर्वचन मुपादीयत इति । उक्तानुवादे दोषश्च । विधो तु न शब्दबाधनम् । नानुवाददोष इति । विधिनियमसम्भव- The word कोक (C) One MS gives की कोच्यते। But what is कोकन् वा कोका ? 15 of course पलिङ्ग । कोको बके चक्रवाके खजूरौद्रुमभकोरिति हेमचन्द्र ।

१३ न्यासः। विचार विधिनैव युक्तं अवितुम् । तस्मादन्यस्य हास्यासम्भवादगोपुच्छादिति प्रतिषेधोऽयमिति विज्ञायते। ज्ञापका प्रकतिरत्र न विवक्ष्यते यदयं लोक- सवनोकाट ठजिति (५।१।४४) ठको निवृत्त्यथं उन करोति । अभिविधावय- माकार इति। मादाया हि वर्तमानस्याकारस्यात्र ग्रहणमनर्थकं स्यात् । प्राग्ग्रहणानुवृत्ताव सिद्धत्वात् । अभिविधिवत्तेराकारस्थ ग्रहण सति यदिष्टं मंपद्यत तईशयितु माह अहत्यर्थेऽपि ठग भवतीति । भेदगणनं संख्यति । भिद्यन्त इति मेदाः। भिन्ना: पदार्थाः । ते गण्यन्ते संख्यायन्ते परिच्छिद्यन्ते येन तद् भेदगणन मेकत्वादि । संख्याभेदे हि सति पदार्थानुसङ्कल्पन- मेकत्वादिभिः क्रियते । एकत्वसंखयापि बहुषु सनिवेशितेषु भेदमेक मसहायमाह। गुरुत्वमानमुन्मान मिति । सुवर्णादेवस्तुनो गुरुत्वमुतक्षिप्यते येन तदुन्मानं तुलादि। आयाममानं प्रमाणमिति। तिर्यगभिमुखस्य वस्तुनो येनायामपरिच्छेद क्रियते तत् प्रमाण वितस्त्यादि। आरोहपरिणाहमानं परिमाणमिति। आरोहतः परिणाहतश्च मीयते ब्रीह्याद्यर्थी येन तत्परि- माणम् । आरोह उच्छ्रायः । परिणाहो विस्तारः। संख्यापरिमाणयोर्भेदे पृष्टे यदुन्मानादीना विशेषप्रदर्श नं तत्प्रसङ्गेन तद्विषयस्याज्ञानस्थापनयनार्थम् । मंग्रहेण किलशब्द एवमादिमतमाचााणामित्यर्थ सूचयति। सर्वत इति । आरोहतः परिणाहतश्चेत्यर्थः । सख्या वाह्या तु सर्वत इति । उन्मानात् परिमाणात् प्रमाणाञ्च संख्या वाह्या। तत्रानन्तर्भावात् । २०। असमासे निष्कादिभ्यः । उञोऽपवाद इति । येन नाप्राप्तिन्यायेन । निष्कादिभ्यो द्रोणपर्यन्तेभ्यः परिमाणशब्दत्वात् षष्टिशब्दस्य संख्याशब्दत्वाट ठकि पर्युदस्ते उजेव प्राप्नोति । अतस्तस्यैवायमयवादः। तदन्ताप्रतिषेधस्येति । तदन्तविधरप्रतिषेधयेत्यर्थः । यदि तर्हि तदन्तात् प्रत्ययो विज्ञायत एवं तर्हि व्यपदेशिवद्भावोऽप्रातिपदि- केनेति केवलेभ्यः प्रत्ययो नोपपद्यते। नैष दोषः। असमासग्रहणेन हि ग्रहणवत्परिभाषाया निहत्तिराख्याता। निवृत्तायाञ्च येन विधिस्तदन्त- स्येति तदन्ताद्भवति । तत्र च स्वस्य च रूपस्येति प्रकृतत्वात् केवलादपि भवति। (५१)। यत्तु मन्यते ऽपूर्वीपादानसामर्थ्यात् केवलादिति लाघवार्थ केवलानां पाठः स्यादिति यत्किञ्चिदेतत् । इत उत्तर त्यादि। कथं पुनरिष्यमाणोऽपि तदन्तविधिलभ्यते ? यावता ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नेति प्रतिषिध्यते । अस्था: परिभाषाया अनित्यत्वात् । अनित्य- त्वन्तु तस्या गर्गादिषु वाजास इति समासे प्रत्ययप्रतिषेधाद् गम्यते । नित्यत्वे हि वाजशब्दादुत्पद्यमानस्य प्रत्ययस्य समासे प्राप्तिरेव नास्तीति प्रतिषधं कुर्यात् । हिशूर्पमिति । हाभ्यां शूर्पाभ्यां क्रोतमिति तद्धितार्थे द्विगुं सत्वा । न तावदेषा लुगन्ता प्रकृतिरिति संख्यापूर्वपदादपि शूर्पादञन्यतरस्या- मित्यजेब (५।१।२६) क्रियते । तस्याध्यईपूर्वहिगोलुंगसंज्ञायामिति (५।१।२८) लुक। विशोपिकमिति । परिमाणान्तस्यासंज्ञाशाणयोरित्युत्तरपदहद्धिः (७।३।१७)। यदुक्तं संख्यापूर्वपदानां तदन्त विधिरितीष्यत इति यच्चोतं लुगन्तायास्तु प्रवतर्नेथत इति तदुभयमाप्तागमेन स्थिरीकर्तुमाह तथाचोक्त- मित्यादि (५।१।२०,वा)। तदस्य মুন নান । कनोऽपवाद इति। उत्तरसूत्रेण प्राप्तस्य । शतिकमिति । परिमाणमिति (५।१।५७) वर्तमान संख्यायाः संज्ञासङ्घसूत्राध्ययनेष्विति (५।१।५८) सङ्के प्रत्ययार्थे विवक्षित उत्तरसूत्रेण कन्नेव भवति । प्रत्ययार्थोऽत्र सङ्घ इति । शतमध्यायानां परिमाणं यस्य निदानाख्यग्रन्यस्य स चह प्रत्ययार्थः । स च शतसंख्याव्यवच्छिन्नाध्यायसमुदायात्मक इति सङ्घ एव प्रत्ययार्थी भवति। शतमेव वस्तुत इति। अध्यायशतस्यानन्यार्थत्वात् ततश्च प्रवत्यर्थान् न भिद्यते । तदेव ह्यध्यायानां शतं प्रकृत्याभिधीयते । प्रत्ययान्ते. नापि तदेवेति नेह प्रकल्यर्थात् प्रत्ययार्थभेदः । तदेतेन यत्र चाव्यतिरिक्तः प्रकृत्यर्थात् प्रत्ययार्थस्तत्र प्रतिषेधो भविष्यति । नच व्यतिरिक्त इत्येतदा- ख्यातम् । ननु च सङ्घ चानौत्तराधर्म्य (३।३।४२) संख्यायाः संज्ञासङ्घसूत्रा- ध्ययनेष्वित्यत्र (५।११५८) च प्राणिसमूहे सङ्घशब्दो रह्यते । तत्र कथं ग्रन्थविषयो रगृह्यते । उपचारेणेत्यदोषः। यदि वा संख्यासूत्रे (५।१।५८) संज्ञाशब्द- ज्यासः । साहचर्याद विशिष्टः संघो गृह्यते संघे चानौत्तराधर्य (३२३४२) इत्यत्रापि च्छन्दोनान्नि चेत्यत: ३।३।३४) नामग्रहणानुवृत्तेः प्राणिसंघो ग्राह्यते । इह तु यत्नाभावाद् ग्रन्यस्यापि ग्रहणमित्यविशेषः । इह वित्यादि। ननु च शतेऽभिधेये प्रतिषेधेन भवितव्यम् । इह च शत्य शाटकशतं शतिकं शाटक. शतमित्युक्ते शतं प्रतीयत एव । तत् किमिति प्रतिषेधो न भवतीतमाह वाक्येनेत्यादि। शत्यशतिकशब्दौ हि सामान्यशब्दो। सामान्यशब्दाचन प्रकरणादिकमन्तरेण विशेष वर्तन्ते । तेन यावच्छाटकशतमित्येतत्पदान्त न प्रयुज्यते तावत् प्रत्ययार्थस्य शतवं नावसीयते । तस्मात् पदान्तरसन्निधौ गम्यमानत्वात् पदान्तराथों भवति । न प्रत्ययार्थः। न श्रुत्येति । गम्यत इति सम्बन्धः । यत्र प्रत्ययान्तेन पदान्तरनिरपेक्षेण प्रतायार्थस्य शतताख्यायते तत्र श्रुत्या प्रत्ययान्तश्रवणमात्रेणैव गम्यते यथा प्रत्युदाहरण शतं परिमाणमस्य शतकमित्युक्ते गम्यत एवैतत् प्रत्ययार्थोऽपि शतमेवेति । इह तु वाक्या- च्छतत्वं प्रतीयते । न च पदसंस्कारकाले वाक्यार्थस्याङ्गभावोऽस्ति । तदा तस्योपसर्जनत्वात् प्रकृत्यर्थादतिरिक्त प्रत्ययार्थे प्रतिषेधो भवति । नतु व्यतिरिक्तवाक्यगम्य इति। तदाप्तवचनेन द्रढ़यितुमाह तथाचो तमित्यादि । शतप्रतिषेधे कर्तव्ये प्रवत्यर्थादन्यस्य प्रत्ययार्थस्य शतत्वेऽप्रतिषेध इतेवतदुक्त भवति। तत्रान्यत् प्रत्यर्थः शतमन्यत् प्रत्ययार्थः शतम् । तत्र विधिरेव भवति । न प्रतिषेध इति । केन पुनः समासे प्राप्नोति ? यतस्तत्प्रतिषेधार्थों ऽसमासानुकर्षणार्थश्चकारः क्रियत इत्याह प्राग्वते रित्यादि। २२। संख्याया अतिशदन्तायाः कन् । पञ्चकः पट इति । लौकिक्या: संखवाया उदाहरणम् । बहुक इत्यादि। परिभाषितायाः। चात्वारिंशत्क इति। इसुसुक्तान्तात् कः (१३।५३) । अर्थवतस्तिशब्दस्य ग्रहणादिति । अर्थवद्ग्रहणपरिभाषया । डतेः पर्युदासो न भवतीति । शब्दापक्षयावयवषष्ठीति । प्रत्ययस्य य एकदेशस्तिशब्दस्तस्य पर्यु- दासो न भवति। न ह्ययमर्थवान् । कतिक इति । किं परिमाणमषामिति किमः संख्यापरिमाणे डति चेति (५।२।४१) डतिः । टेरिति (६।४।१५५) । - । .. (५१)। टिलोपः। कतिभिः क्रीतमिति विग्टह्य कन् । यद्यर्थवतस्ति शब्दस्य ग्रहणं नवतेर्यस्तिशब्दस्तस्यापि पर्युदासो न प्राप्नोति । नवतिशब्द एव हि समुदायः संख्याविशेषणार्थवान् । न तदेकदेशस्तिशब्दः । नैष दोषः। नवतिशब्दे यो नवशब्दः सोऽनेकार्थः। तथाच संख्याविशेषावगतिमतो नवशब्दात् परो यस्तिशब्दस्तत एव विज्ञायते । तद्भावे भावात्। अशौतिशब्दस्य तहि तिशब्दस्य पर्युदासो न प्राप्नोति नासावर्थवान् । नापि ततः पूर्वो योऽशी- शब्दस्तस्य कश्चिदर्थीऽस्ति । समुदाय एव तु संख्याविशेषेणार्थवान् । नैत- दस्ति । यद्यप्यशीतिशब्दस्य न कश्चनार्थ : प्रकाशते तथापि प्रतिज्ञायते । अशीतिशब्दो ह्येवं व्युत्पाद्यते । अष्टानां दशानामशीभावः। तिशब्दश्च य एवाष्टानां दशानामर्थ. सोऽशीशब्दस्य । यस्तु संख्याविशेषः सोऽयं तिशब्दस्यैवेति । ततस्तस्य नानर्थक्यम् । एवमपि विंशतेः प्रतिषेधो न सिध्यति। स ह्येवं व्युत्पाद्यते । इयोर्दशतोविन्भावः । शतिश्च प्रत्ययः । तत्र शतिप्रत्ययात् पूर्वस्य भागस्य इयोर्दशतो ोऽर्थः स एव प्रतिज्ञायते शति- प्रत्ययस्य । संख्याविशेषस्तिशब्दस्य न कश्चित् । इष्टमेव तत्। संग्राहितः कन् विंशतेः । तविंशतिकमिति (५।१।२७) । अथातिशदन्ताया इत्यत्रान्तग्रहणं किमर्थम् ? अतिशच्छब्दस्य न प्राग्वतीयत्वात् प्रत्ययग्रहणपरिभाषयैव तदन्त- विधिर्भविष्यति । एतदेव तहि प्रयोजनम् । अनया परिभाषया तदन्तविधिर्मा भूदिति । किञ्च स्यात् ? इहैकसप्तत्या क्रीत इति प्रतिषेधो न स्यात्। एकसप्त- दशतस्तिप्रत्ययस्याविधानात् । अन्तग्रहण तु क्रियमाणे सति समुदायस्यान्ते तिशब्दः श्रूयत इतपत्रापि प्रतिषेधः सिद्धो भवति । प्रत्ययः। । २३ । वतोरिड् वा । वत्वन्तस्य संख्यात्वादिति । बहुगणसूत्रेण (१।१।२३) संख्यासंज्ञाविधानात् । कथं पुनस्तस्यानेनागमः शक्यी विज्ञातुम ? यावता नेह कन्- ग्रहणम् । यदपि प्रकृतं तदपि प्रथमानिर्दिष्टम् । षष्ठीनिर्दिष्टेन चेहार्थः । नैष दोषः। वतोरिति पञ्चमी कन्निति प्रथमायाः षष्ठों प्रकल्पयिष्यति २० न्यासः। तस्मादित्युत्तरस्येति (१।१।६७)। तावत्क इति । तत्यरिमाणमस्येति यत्- सदेतेभ्यः परिमाण वतुप् (५।२।३८)। आ सर्वनाम इत्यात्त्वम् (६।३।८१) । २४। विंशतिविंशयां बुन्नसंज्ञायाम् । विंशक इति। ति विंशते डिंतीति तिशब्दस्य लोपः (६।४।१४२) । अतो गुण पररूपत्वम् (६।१।८७)। यस्येति (६।४।१४८) लोपो न भवति । असिद्धवदत्राभादिति (६।४।२२) लोपस्या सिद्धत्वात् । नन्विहान्तर्वर्तिनों विभक्तिमाश्रित्य पदसंज्ञा । तत् कथं पररूपत्वम् ? एवं तद्यसिद्धत्वस्यानित्य- वाद यस्येति (३।४।१४८) लोपो भविष्यतीत्यदोषः । कथं पुनरत्न कन्निति ? त्रिंशत्क इत्यधिकृत्य प्रश्नः । विंशतिक इत्यनार्थवत स्तिशब्दस्य ग्रहणात् पर्युदासो न प्रवर्तत इति तमधिकृत्यास्थ प्रश्नस्थोपन्यासो नोपपद्यते। योग- विभागः करिष्यत इति । त्रिंशदर्थमित्यभिप्रायः । २५। कंसाट टिठन् । ठजोऽपवाद इति। न ठकः। कंसशब्दस्य परिमाणवाचित्वात् । २६ । शूर्पादञन्यतरस्याम् । ठजोऽपवाद इति । न ठकः । शूर्पशब्दस्य परिमाणवाचित्वात् । २७। शतमानविंशतिकसहस्रवसनादण् । ठजीऽपवाद इति । शतमानं परिमाणम् । सहस्र संख्या। तेनैताया ठग् न प्राप्नोतीति ठनोऽपवादः । विंशत्या क्रीतं विंशतिकमिति । परिमाणमपि सम्भवति । तत्र परिमाणाट् ठोऽपवादः। अपरिमाणाट् ठकः । वसनशब्दाट ठगपवादः । २८। अध्यईपूर्वदिगो टुंगसंज्ञायाम् । अध्यकसमिति । अध्यईन कसेन क्रीतमिति तद्धितार्थे समासः । प्राग्वतेः संख्यापूर्वपदाना तदन्तविधिरलुकीति (५।१।२०, वा) कंसाट टिठन्निति टिठन् । तस्य लुक् । विकंसमिति । अध्यईशूर्पमिति । शूर्पादजन्यतरस्या- पञ्च (५१)। २१ मित्यञ् (५।१।२६) । ठजन्यतरस्याम् । तस्य लुक् । यद्यत्र दिगो: परस्या- हीयस्य लुग् विधीयते विशेषानुपादानात् तद्धित लुगन्तादपि हिगीः परस्य प्राप्नोति। हास्या शूर्यास्या क्रीतः पटो हिशूर्पः पटः। दिशूर्पण पटेन- क्रीतमिति दिशौर्पिकमिति। नैष दोषः । वक्ष्यमाणं विभाषाग्रहणं पूर्वेणापि सम्बध्यते । व्यवस्थितविभाषा सा। तेन तद्धितलुगन्ताद् दिगोः परस्य न भविष्यति। हिशोपिकमिति। प्राग्वतीये ठजि कृते परिमाणा- न्तस्यासंज्ञाशाणयोरित्युत्तरपदवद्धिः (१३।१७)। पाञ्चलोहितिकम् । पाञ्च- कलापिकमिति। कस्यचित् परिमाणविशेषस्य नामधेये एते । लोहिन्यः परिमाणमस्येति पञ्च कलायाः परिमाणमस्येति विरह्य तद्धितार्थे तदस्य परिमाणमिति (५।११५७) ठञ् । भस्याढे तहत इति ( ६।३।३५, वा) वभावालोहिनीशब्दस्येकारनकारनिवृत्तिः । अध्यर्द्धशब्दः संख्येवेति । अभिधानेऽभिधेयोपचारं कृत्वा अध्यईशब्दः संख्यैवेत्युक्तम् । यथैव होकादिका लौकिकसंखैरवमध्य ईशब्दोऽपि । स किमर्थ भेदेनोपादीयत इति ? संख्याया इति शेषः । इह हि द्विगोरध्यईपूर्वस्य भेदेनोपादानादध्य ई- पूर्वस्य भेदेन संख्याया उपादानं भवतीति। अतस्तस्थाध्यईशब्दस्य भेदेनोपा- दानस्य प्रयोजनं दर्शयति । पृच्छति ज्ञापकार्थमित्यादिना प्रयोजनमाचष्टे । किं पुनरस्य संख्याकाय्य न भवतीत्याह संख्याया इत्यादि । समास:। २६ । विभाषा कार्षापणसहस्राभ्याम् । अध्यर्थसहस्रमिति । शतमानविंशतिकेत्यादिना (५।१।२७) विहितस्याणो लुक् । अध्यर्धसाहस्रमिति । संख्यायाः संवत्सरसंख्यस्य चेत्युत्तरपदहद्धिः (३।१५)। सुवर्णशतमानयोरुपसंख्यानमिति। उपसंख्यानं प्रतिपादनमित्यर्थः । तत्रे प्रतिपादनम् ! विस्ताचेत्यतः (५११।३१) सिंहावलोकितन्यायेन चकारो- ऽत्रोपतिष्ठते। स चानुक्तासमुच्चयार्थः । तेन सुवर्ण शतमानयोरपि भविष्यति । अध्यईसुवर्णमिति । ठजो लुक् । अध्यर्धशतमानमिति । शतमानेत्यादिविहित. स्थाणः ( ५।१।२०)। अध्यर्धशातमानमिति । परिमाणान्तस्थेत्यादिनोत्तर- पदहद्धिः (७।३।१७) । ननु च सुवर्णमुन्मानम् । न परिमाणम् । तत् कुतस्तस्य वृद्धिः ? नैष दोषः। उत्तरपदवृद्धौ ह्युन्मानमपि परिमाणमिति गृह्यते । कुतो ज्ञायते १ असंज्ञाशाणयोरिति (१३।१७) शाणशब्दस्य प्रतिषेधात् । यदि तहि तनोन्मानं न ग्योत तदा शाणस्योन्मानार्थस्य प्राप्तिरेव नास्तीति प्रतिषेधं न कुर्य्यात् । अध्यईपूर्वहिगुभ्या कार्षापणसहस्रयोर्यथासंख्यं कस्मान्न भवति ? लक्षणव्यभिचारण तदभावस्य सूचितत्वात् । इह तावदध्यर्धपूर्वद्दिगोरिति निर्देशे ऽल्पाच्तरत्वाद् ध्यन्तत्वाच्च हिगुशब्दस्य पूर्वनिपातः प्राप्नोति । कार्षापणसहस्राभ्यामित्यत्राप्यल्पाच्तरत्वात् सहस्रशब्दस्य । तावेतौ निर्देशो लक्षणान्तरनिरपेक्षतां बोधयन्तो यथासंख्यपरिभाषाया अम्यभावं वोधयत इति न भवति यथासंख्यपरिभाषा। ३० । दित्रिपूवान्निष्कात् । अध्यर्धपूर्वग्रहणमखरितवान्नोपतिष्ठते । हिनिष्कमिति । हाभ्या निष्काभ्या क्रीतमिति । असमासे ठको विधानादत्र ठञ्। तस्य लुक् । हिनैष्किक मिति। परिमाणान्तस्येत्यादिनोत्तरपदवद्धिः (३।१७) । बहुपूर्वाञ्चेति । बहुपूर्वाद् दिगो निष्कशब्दान्तादाहीयस्य प्रत्ययस्य विभाषा लुग भवती- त्येतदर्थरूपं व्याखेय मित्यर्थः। तत्रेदं व्याख्यानम् । वित्रिभ्यां निष्कादित्येव (५।१।३०) सिद्धे पूर्वग्रहणमधिकं कुर्वतैतत् सूचितमन्यदप्यधिकं किञ्चिद- स्तीति । तेन बहुपूर्वादपि भवति । ३१ । विस्ताच्च। दिन्त्रिपूर्वादिति चकारेणानुवष्यत इति । ननुच स्वरितत्वादेव दित्रि- ग्रहण मनुवतिष्यते । स्वरितले सत्यधिकारपरिमाणं न ज्ञायत इति चेद वार्तमेतत् । व्याख्यानतोऽधिकारपरिमाण विज्ञास्यते । एवं तर्हि स्खरित- बादेव द्वित्रिपूर्वग्रहणस्यानुवृत्तौ सिद्धायां यत् तदनुकर्षणार्थ चकार मधिकं करोति तेनैतत् सूचयति । अन्यदप्यत्र किञ्चिदधिकं भवतीति । तेन बहुपूर्वादपि विभाषा लुक् सिद्धो भवति । बहुविस्तमिति । दिविस्तमिति । हौ विस्तौ परिमाण मस्येति ठत्र । तस्य लुक् । हिवैस्तिकमिति । उत्तर- पदधिः ।

(५१)। २३ ३२ । विंशतिकात् खः । वित्रिपूर्वग्रहणं निवृत्तम् । पूर्वत्र चानुक्लष्टत्वात् । अस्खरितत्वाहा। शतमानादिसूत्रेणाणि (५।१।२७) प्राप्ते तस्य लुकि खो विधीयते । विधान- सामर्थ्यादस्य लुड् न भवतीति । यदि लुक् स्यात् खविधानमनर्थक स्यात् । नह्यण: खस्य च लुकि सति कश्चिविशेषोऽस्ति । । ३३। खा- ईकन्। खारीशब्दस्य परिमाणवाचिवाट् ठजि प्राप्ते तस्येकन् विधीयते । केवलायाश्चेति वक्तव्यमिति । केवलो योऽसमस्तः खारीशब्दस्ततश्चेकन् भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः । तत्रेदं व्याख्यानम् । इकत्रिति वक्तव्ये यदीकनो मात्राधिकस्य विधानं तदन्यदप्यत्र किञ्चिद् भवतीति सूचयति । तेन केवलादपि खारीशब्दादीकन् भवतीति। कथं पुनरिकनि रूपं सिध्यति ? सवर्णदीर्घवेन। ननु च यस्येति (६।४।१४८) लोपः प्राप्नोति। नैतदस्ति । यदि हि यस्येति (६।४।१४८) लोपः स्याट ठनमेव ब्रूयात्। काकिण्याश्चोप- संख्यानमिति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनन्तु तस्यै- वाधिकसूचनार्थस्येकनो विधानमाश्रित्य कर्त्तव्यम् । केवलायाश्चेत्युपसंख्यान- मिति । उपसंख्यानशब्दस्य प्रतिपादनमर्थः । पूर्ववत् प्रकतेन सम्बद्धः । ३४। पणपादमाषशताद् यत् । पणपदमारेभ्योऽसमासे निष्कादिभ्य इति । असमासे ठको विधानाट् ठजि प्राप्ते तस्य लुकि शतशब्दादप्यसमासे शताच ठन् यतावशत इति (५।१।२१) ठन्यतो विधानात् समासे संख्यालक्षणे कनि यद् विधीयते। हिपाद्यमि- त्यादि। ननु पद्धावः कस्मान्न भवति पद्यत्यतदर्थं (६।३।५३) इति ? सत्यम् । पादस्य पदाज्यातीत्यत्र (६।२।५२) प्राण्यङ्गस्यैव पद्भावविधानात् । कुत एतत् ? आज्यातीत्यादिना गतिवचनेन सम्बन्धस्तस्यैवोपपद्यते । न परिमाणशब्दस्य। स एव प्राण्यङ्गवाचुपत्तरसूत्वेऽप्य नुवतिष्यत इति तस्यैव पद्भाव इष्यते । स्यादेतत् । अयमपोह पादशब्दः प्राण्यगवाची। अतो भवितव्यमेवेह पद्धावे.

२४ न्यासः। नेत्यत आह पड़ावो न भवतीति। पद्यत्यतदर्थ (६।३।५३) इति पद्भावः प्राप्नोति। स न भवति । स न भवति। किं कारणमित्याह प्राण्यङ्गस्येत्यादि। पादस्य पदाज्यातिगोपहतेष्वित्यत्र (६।३।५२) प्राण्यङ्गस्य पादस्य ग्रहणम् । इदन्तु परिमाणग्रहणमिति । पणादिभिः परिमाण : साहचर्य्यात परिमाणं पादो ग्गृह्यते। न प्राण्यङ्गमिति पद्भावस्याप्रसङ्गः । शाणाहा। शताचेति ठजोऽपवाद इति । न ठकः । शाणस्य परिमाणत्वात् । वक्तव्यमिति। शताञ्चाध्यईपूर्वाद् दिगोश्च यत्प्रत्ययो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः । तत्रेदं व्याख्यानम् । पूर्वसूत्रादिह शतशब्दोऽनुवर्तते । तेन तदन्तादपि यद्भवतीति । यद्येवं पूर्वसूत्रे तस्य पाठोऽनर्थक इति । इहैव शतशाणाभ्याञ्चेति वक्तव्यम् । नैवं शक्यम् । एवं ह्युच्यमाने दित्रिपूर्वादण् चेत्यनेनापि (५।१।३५) शतात् प्रसज्येत। पूर्वसूत्रे तु पाठसामर्थ्यादविधौ नानुवर्तते । शतशब्दः स्वरितत्वाच्चैहानुवर्तमानो वा यत मुत्पादयति । ३६ । वित्रिपूर्वादण च । तेन रूप्यं सम्पद्यत इति । एकं रूपं सूत्रनिर्दिष्टेऽणि । द्वितीयं चकारसमुचिते यति। हतीयं वाशब्दप्रापितस्य ठजी लुकि । दिशाण- मिति ठजो लुक् । ३७। तेन क्रौतम् । साप्ततिकमाशीतिकमिति। प्रावतेष्ठञ् (५।१।१८)। नैष्किकम् । पाणिकमिति। असमासे निष्कादिभ्य इति (५।१।२०) ठक् । शत्य शतिक- मिति । शताच ठन् यतावशत इति (५।१।२१)। दिकं विकमिति । संख्याया अतिशदन्तायाः कन् (५।१।२२)। सामान्यार्थाभिधाने तेनेति टतीयोपादानादिह कस्मान्न भवति ? देवदत्तेन क्रीतम् पाणिना क्रीतमित्यत आह तेनेत्यादि । करणे तीया। परिमूल्यात् ततः प्रत्ययेन भवितव्यम् । अन्यत्रेति । अन्यत्र मूल्यात् करणे हतीया भवति । अनभिधानादिति ।

( ५।१ )। २५ नहि या कर्तरि हतीया याप्यमूल्यात् करणे टतीयोत्पाद्यते तदन्तादुत्पन्नः प्रत्ययो विवक्षितं वस्तु प्रतिपादयितु मलं सम्भवति। तथाहि दैवदत्तिकं पाणिकमिति चोक्ते टेवदत्तेन कर्ता क्रीतम् पाणिना करणेन क्रोत- मित्येषोऽर्थो नावसीयते। देवदत्तेनेति कर्तरि हतीया। पाणिनेति करण। तदेतदुक्तं भवति प्रत्यामन्त्रविनिमयद्रव्यसम्बन्धानभिधानादिति । अनभिधानादेवेति। नहि प्रास्थिकमित्यु ते प्रस्थाभ्यां क्रीतं प्रस्थै र्वा क्रोत- मित्येषोऽर्थोऽवगम्यते । तत्र पुनरभिधाने को हेतुः ? शब्दशक्तिरीदृशी। किमतान्येन हेतुना १ अपि च प्रस्थादयः शब्दा अर्थतस्तु परिमाणानामर्थाना वाचका इति तेषामभिधेयस्य प्रचये प्रवृत्तिसम्भवे को हेतुः १ नन्वेवं वाक्येऽपि प्रचयो नोपपद्येत । नैष दोषः । वाक्ये हि प्रचयस्य वाचिका विभक्तिरस्तीति प्रचयाभिधानं न विरुध्यते । वृत्तौ तु न कश्चित् प्रचयमाचष्ट इति नासौ वृत्ति- विषये युज्यते । यदि तहि द्विवचनबहुवचनान्तात् प्रत्ययेन न भवितव्य. मेवं सति हाभ्यां क्रीतं हिकं त्रिभिः क्रोतं त्रिकमित्येवमादि न सिध्यती- त्यत आह यत्र वित्यादि। अनभिधानं दिवचनान्तात् प्रत्ययानुत्यन्तेहेतुः । तच्चाभिधानं क न भवति । यत्र प्रतत्यर्थस्य संख्याभेदावगमो नास्तीति । प्रमाणाभावात् । इह तु प्रमाणमस्त्येव किञ्चित् । यादय एव शब्दा: प्रकृतित्वेनोपात्ताः। ते हि स्वप्रकृत्तिनिमित्तभृतयैव संख्ययावच्छिन्नं वस्तु प्रतिपादयन्ति । अतः स्वार्थस्य संख्याविशेषावगमे प्रमाणम् । तेनावानभि- धानादित्येष हेतुर्नास्तीति भवति प्रत्ययः । तथेत्यादि । यथा विकमित्यादौ प्रक्वत्यर्थसंख्यानभावोपगमे प्रमाणप्तम्भवाद् बहुवचनान्तादपि प्रत्ययो भवति तथा मौनिक मित्यादावपि मुहादिशब्दप्रकतिरत्र स्वार्थस्य संख्यावगमे प्रमाण- मित्येतद् दर्शयितुमाह न होकनेत्यादि। मुहादिनैकया व्यक्त्या क्रयो न भवतीति विनापि विभक्त्या मुहादिशब्दानुवृत्तो बहुलं गम्यते । तत्र प्रमाणं एकग्रहणञ्च वयानुपयोगिनोईयोरप्युपलक्षणं वेदितव्यम् । तस्य निमित्तं संयोगोत्याती महाभूतानामिति। पृथिव्यप्तेजोवायाकाशानाम् । साहस्रमिति । सहस्राच् शतमानादिसूत्रेणाण (५।१।२७) । भवति । ३८ । 20 न्यासः । ३९ । गोडाचोऽसंख्यापरिमाणाखादेयंत् । उजादीनामपवाद इति। आदिशब्देन ठगादीनां ग्रहणम् । ननु च संख्यापरिमाणयोः पर्युदासात् कन 8 कोऽपवाद इति वक्तुं शक्यते । तत् कस्माट ठजादीनामित्युच्यते ? ठादीनामित्ययमतद्गुणसंविज्ञानो बहु- व्रीहि ट्रष्टव्यः । अनयैवापक्षयोक्तमश्वस्य निमित्तमाखिकमिति । प्रत्युदाहृतः । सर्वप्रत्ययसम्भवः । तदुबाधनार्थमिदमुक्तम् । पञ्चकम् । अष्टक- मिति । संख्यालक्षणः कन् । प्रास्थिक इति । प्राग्वतीयष्ठा । ठक तत् किमर्थ ४० । पुत्वाच्छ च। ४१। सर्वभूमिपृथिवीभ्यामणजौ । ४२ । तस्येश्वरः। तस्य निमित्तमित्यत (५।११५८) स्तस्यग्रहणमनुवर्तते । पुनस्तस्य निर्देश इत्याह षष्ठीप्रकरणे पुनः षष्ठीसमर्थविभक्तिनिर्देश इत्यादि। प्रत्ययार्थस्येति। निमित्तस्य । अन्यथेति। यदि षष्ठीनिर्देशः प्रत्ययार्थे निवृत्यर्थों न क्रियते ततो यथा संयोग उत्पातश्च प्रत्ययार्थविशेषणं तथखरोऽपि तस्यैव विशेषणं सम्भाव्यत । तथाचेश्वरविशिष्टे निमित्त एव प्रत्ययः स्यात् । तत्र विदित इति च। ईखरानुकर्षणार्थश्चकारः। इतिकरणो विवक्षार्थः । ४४। लोकसर्वलोकाट ठञ। सर्वत्र ठग्रहणं ठको निवृत्त्यर्थम् । अन्यथा हि प्रकृतिमात्र निर्देश क्रियमाणयार्हादिति (५।१।१८) ठक् प्रसज्येत । ४५॥ तस्य वापः। उप्यतेऽस्मिन् वाप इति । अधिकरणसाधनो हलञ्चेति घञ् (३।३।१२१)। ४६ । पानात् ष्ठन् । पात्रशब्दः परिमाणवाचौति ठजोऽपवाद इति। अत्रेयं युक्तिः। यदि (५।१)। ह्यपरिमाणवाचो स्यात् तदाीयस्य ठकोऽपवादः । न हजः । पात्रिकीति । षिद्गौरादिभ्यश्चेति (४।१।४१) डोए । ४७। तदस्मिन् वृद्यायलाभशुल्कोपदा दीयते । ननु च वृद्यादीना बहुत्वाख्यानेनैव बहुवचनं तेन भवितव्यमिति कथं दीयत इत्येकवचनान्तेन तस्य निर्देश इत्याह दीयत इत्येकवचनमित्यादि। यदि समुदितैयादिभिः सम्बन्धः क्रियते तर्हि स्यादु बहुवचनम् । न च तैः समुदितैः क्रियते । किं तर्हि १ प्रत्येकम् । अत एकवचनमेव । वृद्धिशब्द इह लौकिको धनविशेषवाची ग्राह्यते । न च संज्ञापदम् । आयादिभिर्धन- विशेषवाचिभिः सह निर्देशात् । अतएवाह तत्रेत्यादि। उत्तमर्णस्य यद्धनं तस्मादतिरिक्तमधिकं धनमधमणेन यद् दातव्यं तद् वृद्धिः । ग्रामादिष्विति । आदिशब्देन क्षेत्रादि। पटादीनामित्यादि। पटादीना व्यवनियमाणाना- मुपादानं सूत्रादि । तस्य यन्मूल्यं तस्मादतिरिक्तं द्रव्यं पटादिविक्रयेण यल्लभ्यते स लाभः। रक्षानिवेश इति । बणिजां रक्षाकारी राज्ञो भागो रक्षानिर्देश इत्युच्यते । ननु चासावप्यायः । तदपार्थक शुक्लस्य पृथगुपादानम् । नैतदस्ति । पञ्चास्मिन् ग्राम आय इतवायं प्रति ग्रामस्थाधिकरणभावः । उत्पाद्यमानस्यायस्याधेयभावात् । शुल्के तु न सम्भवति । पञ्चास्मिज शते शुल्का इति शतं न शुल्कस्याधिकरणम् । किं तर्हि ? इयत्तापरिच्छेदः शतेन शुल्कस्य क्रियते। तस्मादस्य भिन्नत्वाच् शुल्कः पृथगुक्तः। सिद्धं वित्यादि । विवक्षातः कारकाणि भवन्तीति सम्प्रदानाख्ये चाधिकरणत्वेन विवक्षत्याह समेत्यादि । गतार्थम् । ४८। पूरणार्बाट ठन्। पूरणवाचिन इति। पूर्यते येनार्थेन स पूरणः। तहाचिनः प्राति- पदिकात् । एतेन पूरण इत्यर्थस्य ग्रहणं न प्रत्ययस्येति दर्शयति । प्रत्ययस्य ग्रहणं स्यात् ? यदि पूरणग्रहणं स्वर्खेत । तस्मिन् हि स्वयंमाणे तस्य पूरणे डडित्यधिकृत्य (५।२।४८) ये प्रत्यया विहितास्ते गृोरन् । किञ्च स्यात् ? पूरणाद् भागे (५।३।४८) तीयादन्नित्यन्नन्ताट ठन् न स्यात् । अपूरणप्रत्ययान्त- कथञ्च २८ न्यासः। त्वात् । तस्याग्रहण तु सति स्वार्थिकः स्यादन् । तस्मिन्नप्युत्पन्ने पूरण एवार्थे तदन्तमपि वर्तत इति ततोऽपि ठन् सिद्धो भवति । ठक्टिठनोरपवाद इति । पूरणादाौंयस्य ठकोऽपवादः । अर्धादप्यच्चेिति वक्तव्य-(५।१।२५, वा) मित्यौपसंख्यानिकस्य टिठनः । ठकि टिठनि च सति डीप स्यात् । ठनि तु टा भवति । दितीयिक इति । हयोः पूरण इति इस्तीय इति (५।२।५४) तीयप्रत्ययः । तीयिक इति । त्रेः सम्प्रसारणञ्च (५।२।५५)। पञ्चमिकः । सप्तमिक इति । तस्य पूरणे डडिति डट् प्रत्ययः (५।२।४८) । तस्य नान्ताद- संख्यादेमंडिति (५।२।४८) मड़ागमः । ४६। भागाद् यच। ठजोऽपवाद इति । न ठकः । भागशब्दस्य परिमाणत्वात् । ननु चाङ्ग- मात्रवचनोऽपि भागशब्दोऽस्ति । सत्यमस्ति । नतु तस्ये ह ग्रहणम् । तस्य हि ग्रहणे वृयादिभिः सम्बन्धो नोपपद्यते। परिमाणवचनस्तु प्रसिद्धो रूपकाशे वर्शत इति वृद्यादिभिः सम्बन्ध उपपद्यते । ५० । तवरति वहत्यावहति भाराद् वंशादिभ्यः । प्रकृतिविशेषणमित्यादि। प्रकृतेः प्रातिपदिकस्य । भाराट् वंशादिभ्य इत्यर्थ इति । अत्रार्थे वंशादय एव शुद्धाः प्रत्ययमुत्पादयन्ति । ननु च वंशादयः शब्दा भार इत्यपि शब्द एव । नच शब्दः शब्दान्तरस्य समानाधि- करण विशेषणमुपपद्यते । तत् कथं भारभूतेभ्यो वंशादिभ्य इत्येषोऽथों भवती भारशब्दोऽर्थदारणेत्यादि । वंशादीनामर्थस्य भारशब्दस्यार्थी मुख्यं विशेषणम् । अर्थहारण तु वंशादीनां भारशब्दस्य चोपचरितम्। अर्थ- धर्मेण शब्दोऽपि तथा व्यपदिश्यत इत्यर्थः । ५१। वस्नद्रव्याभ्यां ठन्कनौ । पूर्वेण ठकि प्राप्ते तदपवादौ ठन्कनौ विधीयते । ५२ । सम्भवत्यवहरति पचति प्रमाणानतिरेक इति प्रमाणादनाधिक्यमित्यर्थः । ननु चेत्यादि। तथाहि स्थालीप्रस्थं पचति तनावश्यं प्रस्थस्य सम्भवेन भवितव्यम् । नान्यथा ।

(५।१ )। २९ शक्यते पतु मित्यभिप्रायः । नास्त्यत्न नियोग इति । व्यभिचारमाह। प्रस्थं पचति ब्राह्मणोति । अत्र हि पाक एव गम्यते । न सम्भवः । ५३। आढ़काचितपावात् खोऽन्यतरस्याम् । ठजोऽपवाद इति। आढकादीनां परिमाणत्वात् । पूर्वेण प्राप्तस्य । ५४ । दिगोः ठंश्च । पूर्वेण ठन्खयोः प्राप्तयोस्ततश्च लुकीदमुच्यते । विधानसामादनयो- लुंग् न भवतीति । यदि ह्यत्रापि लुक् स्याद् विधानमनर्थक स्यात्। ठञस्तु पक्षेऽनुज्ञातस्येति । अन्यतरस्यांग्रहणेन । बाढकोति । ठजो लुक् पक्षे दिगो- रिति (४।१।२१) डीप् । घाचितेति । अपरिमाणेत्यादिना (४।१।२२) डीप्- प्रतिषेधे टाप् । ५५ । कुलिजाल्लुकखौ च । चातूरूप्यमिति। एकं खे रूपम् । ठनि द्वितीयम् । लुकोऽपि विक- ल्पितत्वाट् ठोऽलुकि तृतीयम् । लुकि चतुर्थम् । ननु च कुलिजशब्दस्य परिमाणवाचित्वात् परिमाणान्तस्येतुत्तरपदवृद्धिः (३।१७) कस्मान्न भव- तीत्यत आह परिमाणान्तस्येति। परिमाणान्तस्यासंज्ञाशाणकुलिजादित्येवै- तत् सूत्रं प्रत्येतव्यमिति दर्शयति । ५६ । सोऽस्यांशवनभृतयः । वस्नद्रव्याभ्यामित्यत्रापि (५।११५१) वस्नशब्देन मूल्यमुच्यते । तदस्य परिमाणम् । प्रास्थिको राशिरित्यादौ सर्वत्र ठञ् । विषाष्टिक इत्यादि । संख्यायाः संवत्सरसंख्यस्य चेत्युत्तरपदवृद्धिः (७।३।१५)। पुनर्विधानसामर्थ्यादित्यादिना पुनर्विधानफलं दर्शयति । विषाष्टिक इत्यादौ दिः प्रत्ययविधानम् । पूर्वमूत्रात् समर्थविभक्तेः प्रत्ययार्थस्यानुवृत्तेः प्रथमं प्रत्ययो विधीयते । तस्याध्यई- तत्र न्यासः। सूत्रेण (५।१।२८) लुग भवति। नन्विह च यः सूत्रे समर्थविभक्तेः प्रत्ययार्थस्य चोपादानात् पुनर्विधीयते तस्यापि पुनविधानमनर्थकं स्यात् । ५८। संख्यायाः संज्ञासंघसूत्राध्ययनेषु । परिमाणोपाधिकादिति। परिमाणमुपाधिर्विशेषणं न सम्भवति । नहि शब्दः परिमाणं शब्दस्य सम्भवतीति तदर्थस्य विशेषणं विज्ञास्यत इत्यदोषः । ननु चार्थस्वापि न सम्भवति । संख्या हि नैव परिमाणम् । नैष दोषः । नाव रूढ़ः परिमाणशब्दो गृह्यते। किं तर्हि क्रियाशब्दः । परिमीयते येन तत् परिमाणमिति। संख्ययापि च परिमीयत इति सापि परिमाणम् । नन्वेवमपि विशेषणमनर्थकम् । न ह्यपरिच्छेदिका संख्यास्ति । सञ्चचाणा हि संख्योच्यते। सत्यम् । परिच्छेदिकैव संख्या। सा तु स्वस्याभिधेयं परिच्छिनत्तीति षष्ठार्थमवश्यं न परिच्छिनत्ति। पञ्चास्य संघस्य पुत्ला इति नान सघस्येयत्ता प्रतीयते । इह तु पञ्चसंख्या परिमाणमस्य संघस्येति भवतीयत्ता- प्रतीतिः संघस्य । तस्मादुपपन्नं संख्यायाः परिमाणं विशेषणम् । तत्रेत्यादि । पञ्चशब्दोऽयं संख्येय एव वर्तते । न कदाचिदपि संख्यानमात्रे । ततश्च यएव संख्येयाः पञ्चवसंख्ययावच्छिन्नाः पञ्चशब्देनीच्यन्ते प्रत्ययान्तेनापि त एव । नहि तेषा भिन्नानामत्र संख्येयान्तरं परिमाणं प्रत्ययवाक्यं सम्भवति । तस्मात् संज्ञायां स्वार्थ एव प्रत्ययो वाचः । तथाचाह वार्तिककार: संज्ञायां स्वार्थ युत्पद्यत इति । पञ्चकोऽधीत इति पाठापेक्षया पुंलिङ्गः । अधीतिरध्ययन- मिति । अनेन भावसाधनमध्ययनशब्द दर्शयति । यद्यधीयत इत्यध्ययन कर्ममाधनोऽध्ययनशब्दः स्यात् सूत्रग्रहणं पृथग् वक्तव्यं न स्यात् । ग्रहणेनैव सिद्धत्वात् । सूत्रमप्यधीयत एव । पञ्चावत्तय इति पाठे पुनः क्रियात्मिकाः पञ्च वारा इत्यादिना पायान्तरेण पञ्चावृत्तय इत्यस्यैवार्थ व्यक्तीकरोति । स्तोमे डविधिरिति। अत्रापि च्छन्दसीति सम्बध्यते । मन्त्रसमुदायः स्तोमः । एकविंश इति । अतो गुणे (६।१।८७) पररूपत्वञ्च । ति विंशते डितीति (६।४।१४२) तिशब्दलोपः । पश्चाच् शशतोरित्यादि। शनित्येवमन्ताच्छन्दसि डिनिर्वतव्यः । अध्ययन- (५।१ )। ३१ ५६। पडक्तिविंशतिविंशञ्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्य- शौतिनवतिशतम् । अपदत्वञ्चेति । पदनिबन्धनस्य जश्त्वादः कार्यस्य प्रतिषेधार्थमिते विंशत्यादयः परिमाणे निपात्यन्ते । तदस्य परिमाणमित्यधिकार (५।१।५७) निपातनात् । एवञ्च गवां विंशतिरिति षष्ठी व्यतिरेकनिबन्धना न प्राप्नोति । विंशतिशब्देन हि तान्येव गोद्रयाणि गृह्यन्ते न तदधिकं किञ्चिदर्थान्त- रम्। बहुवचनं प्रसजति तेषां बहुवादिति यचोदयेत् तं प्रतवाह विंशत्यादय इत्यादि । यथा कथञ्चित् प्रकारेण । विनाप्यवयवार्थेनेति- यावत्। रूपमात्र प्रधानम् । नावयवार्थः । यस्त्वेषामर्थः स लोकत एव व्यवतिष्ठत इत्यभिप्रायः। नानाभिनिवेष्टव्यमिति। संख्यापरिमाणो- पाधिकः प्रकृत्यर्थः। परिमाणमात्र प्रताया इति नायमवाभिनिवेश: कर्तव्य इतार्थः । अनभिनिवेशस्य कारणमाह तथाहीतवादि। स्यादेतत् । अत्राप्यवयवार्थोऽस्तीत्यत आह नचेतपादि। ब्राह्मणाना पङ्क्तिरित्युत्तो संख्यापरिमाणोपाधिकः प्रकृतार्थः । परिमाणी वा कश्चित् । प्रतायार्थी हि न गम्यते । किं तर्हि ? सन्निवेशविशेषः संस्थानात्मको गुण एव प्रतीयते । तथाहि तस्य सन्निवेशविशेषस्या नवगमे तावत्खेव ब्राह्मणेषु पतिरिति न प्रयुज्यते । तदेवं गुणशब्दत्वाद् विंशतवादीनां गवां विंशतिरिति सिध्यति षष्ठी। विंशतिशब्दस्य संख्यानवृत्तित्वात् । यदि तहि गुणशब्दा एते विंशतिर्गाव इति द्रव्यशब्देन सामानाधिकरण्यं न प्राप्नोति । गुणिन्यत्र हत्तिः । गुणमात्रे न। ततोऽयमदोष इति वक्तव्यः । स हेतु यंत एतेषां क्वचिद गुणमाने वृत्तिर्भवति कचिद् गुणिनि । बहुवचनप्रसङ्गाच्च गुणिनि वृत्ति- रित्येतदेव दुःस्थम् । बहुत्वाद् गुणिनाम् । इह च विंशतिः कुण्डानीति नपुंसकलिङ्गं प्राप्नोति । विंशतिर्ब्राह्मणा इति पुलिङ्गम् । गुणवचनाना हि शब्दानामाश्यतो लिङ्गवचनानि भवन्ति यथा शुक्लः कम्बल: शुलं वस्त्र शुक्ला शाटीति । यदासी द्रव्यमाश्रिता भवति गुणस्तस्य लिङ्गवचनं यत् तद् गुणवचनस्यापि भवति यथा गुगाशब्दत्वेऽम्येषामाश्रीयमाणे न भवत्येव दोष- न्यासः। ३२ प्रसङ्गान्मुक्तिरितात आह या चैषामितवादि । न केवलमाभिधानं स्वाभा. विकं किन्वेतदपीतापिशब्देन दर्शयति । यत्र द्रव्येण गुणिनैषामभिधेयो गुणो विशेष्यते तत्र स्वभावादेव गुणमात्रे वृत्तिः । यत्र खेत उपसर्जनीभूत- स्वार्थास्तेन स्वार्थेन द्रव्य विशेषयन्ति तत्रैषां खभावत एव गुणिनि वृत्तिः । खलिङ्गसंख्यानुविधानञ्चेति । गुणिन्यपि वर्तमानाना ययोलिङ्गसंख्ययोर्यदनु- विधानमनुवर्तमानमेतदपि सर्व स्वाभाविकम् । अन्येषामपि गुणशब्दाना- मपि क्वचित् खभावत एव गुणिनि वृत्तिर्भवति तयथा शुलः पट इतात्र शुक्ल शब्दस्य । क्वचिद् गुणमात्रे यथास्यैव शुक्लो गुणः पटस्येतान । अन्येषामपि केषाञ्चिच् शब्दानां स्वाभाविकं खलिङ्गसंखयानुविधानं दृश्यत एव तद्यथा वेदाः प्रमाणं श्रुतय. प्रमाणमिति । तस्मात् स्वाभाविकत्वाद् गुणमात्रे गुणिनि च वृतेः स्खलिङ्गसंख्यानुविधानस्य च न भवति यथोक्तदोषप्रसङ्गः । यदा हि स्वभावत एव संख्यानमात्रे गुण गुणमात्रे वृत्तिस्तदा व्यतिरेक- निबन्धना षष्ठी भवति । यदा तु गुणिनि तदा तयोरपि च द्रव्यशब्दत्वात् सामानाधिकरण्यमपि भवति । द्रव्येऽपि वर्तमानानां स्वाभाविकं स्वलिङ्ग- संख्यानुविधानम् । अथ महस्रादयोऽपि कस्मान व्युत्पाद्यन्त इत्याह सहस्त्रादयो पोत्यादि। एवंजातीयका एवंप्रकारा विंशत्यादिभिः सदृशा इत्यर्थः । तेषामपि गुणवत्त्वात् तहदेव विशत्यादिवदेव द्रष्टव्याः । विंशत्यादय दूध तेऽपि प्रकृत्यादिविभागेन व्युत्पाद्यन्त इत्यर्थः । यद्येवं किमर्थ विंशत्यादय एव सूत्र उपाता इत्याह उदाहरणमात्रमित्यादि। उदाहरणमात्रं विंशत्यादिग्रहणम् । अन्येऽप्येवंजातीयाः सहस्रादयस्तथैव व्युत्पाद्याः । ६० । पञ्चद्दशतौ वर्गे वा। ननुच संघदत्यनुवर्तिष्यते । किं वर्गग्रहणेन ? नैतदस्ति । मंघशब्दो हि प्राणिसमुदाये रूढ़ः । वर्गशब्दस्तु समूहमान इति वर्गग्रहणं कर्तव्यम् । ६१ । सप्तनोऽञ्छन्दसि। संख्यालक्षणे कनि प्राप्ते सप्तशब्दाच्छन्दस्यविधानम् ।

my । । (५१)। ६२। विंशञ्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण । विंशच्छब्दाद् विंशतित्रिंशद्भयामिति (५।१।२४) योगविभागेन कनि प्राप्ते चत्वारिंशच्छब्दादपि प्राग्वतष्ठजिति (५।१।१८ ) ठजि प्राप्ऽयमारभ्यते । अभिधेये सप्तम्येषेत्यादि। विषयसप्तम्यामस्या ब्राह्मणविषयश्चेत् प्रयोगो भवती- त्येषोऽर्थः स्यात् । तथाचान्यत्र प्रत्ययान्तस्य प्रयोगो न स्यात् । तस्मान्न विषय- सप्तम्येषा। एतच संज्ञाग्रहणादेव विज्ञायते । नहि ब्राह्मणग्रहणात् विशञ्च- त्वारिंशतो डमन्तौ कस्यचित् पदार्थस्य संजिनौ स्तः । ब्राह्मणानां तु विद्यते । ६३। तदर्हति । खैतच्छत्रिकम् । वास्त्र युग्मिकमित्यादिषु ठक् । आहोदित्यभिविधी (५।१।१८) चायमाकार इति । ६४ । छेदादिभ्यो नित्यम् । नित्यग्रहणमिति । अथ विभाषाया निवृत्त्यर्थं नित्यग्रहणं कस्मान विज्ञा- यते ? अशक्यं तनिवृत्त्य विज्ञातुम् । विनापि नित्यग्रहणेन महाविभाषा- निवृत्तिः शक्यते विज्ञातुम् । तथाहि च्छेदादिभ्यः पूर्वेणैव ठकि सिद्धे पुन- वचनादेव नित्यविधिर्भविष्यति । किं नित्यग्रहणेन ? ततो निताग्रहणमहन्य. हन्यईत्वात् तदहतीतास्यार्थस्य (५।१।६३) विशेषणं विज्ञास्यते। तथाच जात- मारम्भस्य प्रयोजन मिति वाका न निवर्तते । विरागी विरगञ्चेति । विराग- शब्दष्टक मुत्पादयति विरङ्गादेशचापद्यते। नित्यं विरागमर्हति वैरनिकः । प्रत्ययसन्नियोगेन चायमादेश इति । प्रतायाभावाद् वाक्ये न भवति । ६५। शीर्षच्छेदाद यच्च । प्रतायसनियोगेन शीर्षभावः । तेन वाक्ये प्रतायाभावान भवतीति भावः । ६६ । दण्डादिभ्यो यः । (D) दण्डशब्दोऽयमस्ति क्रियावचनः । दण्डन दण्ड इति । अस्ति द्रव्यवचनः । विशेषाभावाद् इयोरपि ग्रहणम । (D) The classical commentators do not agree with regard to the reading Some say दण्डादिभ्यो यत् is the rule , others, including वामन and the न्यासकार, give it as दरडादिभ्यो य | Another class take it merely as दण्डादिभ्य । of this rule न्यासः। ६७। छन्दसि च। यदनुवर्तते। नानन्तरो यः । यत एव खरितत्वात्। ६८। पावाद घंश्च । ठकठोरपवाद इति । ननुच पात्रं भाजनम् । न परिमाणम् । अतस्तदाचिनष्ठक् प्राप्नोति। तस्यैवापवादो युक्तः। तत् किमुच्यते ठक्- ठजोरपवाद इतवाह पात्र परिमाणमध्यस्तीति। न केवल भाजनमितापि- शब्देन दर्शयति। तत्र यदा परिमाणे पात्रशब्दो वर्तते तदा ठजोऽपवादः । यदा भाजने तदा ठकः । पात्र स्थाल्यादि। कोऽर्थः १ चण्डालादिर्वाद्यश्च पात्र परिमाणमर्हति । येन भुक्ते पुनर्न संस्कारण भाजनं शुध्यति स पात्रियः पात्रा इति चोचते। मन्यते । ६६। कड़ङ्गरदक्षिणाच्छ च । (E) चकाराटु यच्चेति। अथानन्तरस्य घन: समुच्चयः कस्मान्न भवति । एवं खरितत्वं प्रतिज्ञातमिति । স্বলৰা ৰিন আৰৱনৰ। स च प्रतियोगमुपतिष्ठमानो वाक्यशेष एव भवति । तस्माद् यत एव समुच्चयो युक्त इति । यो गौर्निर्गुणत्वात् खलकणाद्यनहः स कडङ्गर्यः कड़गरीय इति चोयते । माषादीनां खलेष्ववस्करनालकाठमतिदुर्जरं तुसाद्यपि कड़ङ्गरमुच्यते । अथान यथासंख्यं कस्मान्न भवति ? अस्ति हि तस्य प्राप्तिः । प्रकतिप्रत्ययानां साम्यात् । तथाहि हे प्रकृती हौ प्रत्ययावित्यत आह अल्यान्तरस्येत्यादि। दक्षिणशब्दस्याल्पाच्तरस्य पूर्वनिपाते प्राप्ते योऽयमिह परनिपातः स लक्षणानपक्षतां निर्देशस्य दर्शयल लक्षणव्यभिचारस्य चिह्न भवति । अतस्तेन चिड्रेन यथासंख्याभावं सूचयति सूत्रकारः । तेन न भवति यथासंख्यम् । (E) In the printed काशिका we get कडङ्कर । मिथ derives it thus -कड मद। कडतीति कडः। कड करोतीत्यत एव निपातनात् खच्। भानुजी in his अमरटौका notices both the forms, setting कडङ्गर in the text Either spelling appears to be admissible.

(५१) । ७०। स्थालौविलात् । छयतावनुवर्तते इति । ननु चानुक्कष्टमुत्तरत्र नानुवर्तत इति चानु- कृष्टस्य यतः पुनरिह चकारणानुवृत्तिोंपपद्यते । नैष दोषः । अनित्या ोषा परिभाषा। कथं ज्ञायते ? एकाजुत्तरपदे(८।४।१२) ण इत्यत्र ण प्रकृते पुनर्णग्रहणात् । तद्धि वा भावकरणयोरित्यनुवर्तमानस्य (८।४।१०) विकल्पस्य निवृत्त्यर्थं क्रियते । यदि चेयं नित्या स्यात् पूर्वसूत्रे चानुकष्टत्वादेव हि तस्यानु- वृत्तिर्न भवति । अथवा चकारोऽप्यत्रानुवर्तते यतोऽनुकर्षणार्थः। तेन पूर्वत्र चानुकष्टस्यापि तस्य पुनरिह चकारणानुवष्यमाणस्यानुत्तिर्भविष्यति । स्थाली विलकड़ङ्गरदक्षिणाच्छ चेत्येकयोग कर्त्तव्ये यदिदं योगविभागकरणं तत्स्थाली- विलाद विशेषे वर्तमानात् प्रत्ययो यथा स्यादित्येवमर्थम् । तेन स्थालीमुख एव वर्तमानः स्थालौविलशब्दः प्रत्ययमुत्पादयति । नतु स्थालीसम्बन्धिनि च्छिद्रमाने वर्तमानः । ७१। यन्नविंगभ्यां घखो। ७२। पारायणतुरायणचान्द्रायणं वर्तयति । द्वितीयाप्रकरण पुनहितीयोच्चारणमिष्टविषये द्वितीयान्ताद् यथा स्यादि- त्येवमर्थम् । तेन यद्यपि पारायणं (F) गुरुणा शिष्येण च गम्यते तथापि शिष्य एव प्रत्ययो भवति । न गुरौ। तथा तुरायणो यागी यद्यपि यजमानेन याजकैश्च वय॑ते तथापि यजमान एव प्रत्ययो भवति । न याजके । ७३ । संशयमापन्नः। अत्रापि द्वितीयाप्रकरणे पुनईितीयोचारण मिष्टविषये द्वितीयान्ताद् यथा स्यादित्येवमर्थम् । तेन यद्यपि हे अपि कर्तृकर्मणी संशयमापने तथापि यविषयः संशय उत्पद्यते तत्रैव कर्मणि स्थावादौ प्रत्ययो भवति । नतु संशयस्य कर्तरि पुरुष। अनभिधानात् । । (F) पारायणमादित आरभ्याऽन्तादविच्छेदन वेदादौनामध्ययनम् । तुरायण संवत्सरसाध्यो इवि यंजविशेषः। चान्द्रायण सपोविशेष। वर्षन निष्पादनमित्यथः ।

न्यासः। ७४ । योजनं गच्छति । क्रोशशतयोजनशतयोरुपसंख्यानमिति। उपसंख्यानशब्दस्य प्रतिपादन- मर्थः। तथा ततोऽभिगमनमहतौति चेत्यादावपि वाक्ये । तत्रेदं प्रति- पादनम् । इह द्वितीयाधिकारी पुनहितीयोच्चारणमधिकन्तु कुर्वतैतत् सूचितमन्यदप्यत्र किञ्चिदधिकं भवति । तेन सर्वमेतद् गदितं कार्य- मुपपन्नं भवति । वैति । ७५॥ पथः कण। ७६ । पन्थी ण नित्यम् । नित्यग्रहणमित्यादि। अथ वाक्यनिवृत्त्यर्थं कस्मान्न भवति ? पन्थशब्दस्य वाक्यासमवायित्वात् । स हि प्रत्ययसनियोगेन विधीयते । न वाक्येन सम- ननु च पथिशब्देन वाक्यं मा भूदित्येवमर्थ नित्यग्रहणं स्यात् । नैतदस्ति । यदि तदेवमथं स्यात् पूर्वमूत्र एव कृतं स्याद् यत्र पथिशब्दः श्रूयते । इह तु करणे प्रत्ययार्थविशेषणं विज्ञायते । ७७। उत्तरपथेनाहृतञ्च । चकार: प्रत्ययार्थ इति। प्रत्ययार्थसमीप श्रूयमाणत्वात्। गच्छतो- त्यत्र पूर्व द्वितीयान्तात् प्रत्यय उत्पन्नः। तदिहापि तत एव प्रत्ययेन भवि- तव्यमिति भ्रान्तिः स्यात्। अतस्तानिराकर्तुमाह अत्रापोत्यादि। चकारो धर्थात् परःश्रूयमाणोऽत्रार्थमात्रस्यैव गच्छतीत्यस्यानुकर्षक: प्रतीयते । नतु विभक्तेरपि। सम्बन्धाभावात् । तम्मात् स इहानुवृत्तः सन्निहितया समर्थ- विभक्त्या सम्बध्यमानस्तृतीयासमर्थादेव प्रत्ययमुत्पादयतीति भावः । वारि- जङ्गलेत्यादि। वायर्यादय. पूर्वपदं यस्य तत् तथोक्तम् । एतयोरेवार्थयोरुप- संख्यानम्। मधुकमरिचयोरित्यादि। मधुकमरिचयोरभिधेययोः स्थलात् परी यः पथिज शब्दस्तदन्तादाहृते वक्तव्यः । ७८। कालात् । कालादिति स्वरूपग्रहणं न भवति। कुतः ? पृथगस्य योगस्यारम्भात् ।

(५१) ७ कालशब्दस्यापि यदि स्वरूपग्रहणमभीष्ट स्यादिमं पृथग् योगमकृत्वोत्तर- सूत्रे कालशब्दादेव हतीयामुचारयेत् कालेन नित्तमिति । एवं हि निर्देशादेव तीयासमर्थात् प्रत्ययो विज्ञायते। उत्तरसूत्र च कालशब्दः वरितत्वादनुवतिष्थत इति सिद्धमिष्टम् । अतो न कर्तव्य एवायं पृथग योगः । स एव क्रियतेऽर्थग्रहण तदिति दर्शयितुम् । C0 ७८ | तेन निवृत्तम्। आह्निक इति । अल्लोपोऽन इत्यकारलोपः (६।४।१३४ )। टिलो- पस्त्वष्टखोरेवेति (३।४।१४५) नियमादिह न भवति । तमधीष्टो भृतो भूतो भावी। कालावनोरत्यन्तसंयोग इति (२।३।५) द्वितीया । तमधीष्ट इतवादी कर्मणि द्वितीया नोपपद्यते । अध्येष्यमाणादि हि पुरुषादिकर्मानयानिष्टयाभिहितम् । न चान्या क्रियास्ति यस्यां मासादि कर्म स्यात्। ननु चेत्यादिना यदुक्त कालाध्वनोरत्यन्तसंयोगे द्वितीयेति (२।३।५) तद्विघटयति । तेन कथं मासो व्याप्यत इति ? न कथञ्चित् । विघटत इत्यर्थः। यदि मुहत्तं क्रियते तेन मुहर्तेन मासैकदेशो व्याप्यते । नतु सकलो मासः। क्रियार्थ इति । अध्ययनादिक्रियार्थे । तदर्थं हि ते क्रियेते । फलभूतया क्रिययेति । अध्यय- नादिकया । ताभ्यामेव व्याप्त इत्युच्यत इति । तदन्यव्यापारस्य तत्रोपचारात् । यथा चौरण ग्रामो दग्ध इत्युक्ते न चौरेण ग्रामो दह्यते ऽपि तु तदाहृतेना- ग्निना। उपचारेण तु तथा व्यपदेशः । ८१। मासाद् वयसि यत्खो। सामाद् भूत एवात्राभिसम्बध्यत इति। वयसि भूतार्थस्यैव सम्भवा- दिति भावः। भाव्यर्थोऽपि तत्र सम्भवतीति चिन्त्यमेतत् । अथ तु नेष्यत । पुनरभिधानं शरणमाश्रयितव्यम्। खजो जित्करणं खरार्थम् । वृद्यार्थञ्च । ननु च वृद्ध एव मासशब्दः । सत्यं वृद्धोऽयम् । तथापि बस्यापि बद्धि- न्यासः। रेषितव्या। मासीनाभायं इति वृद्धिनिमित्तस्य च तद्वितस्यारतविकार इति (६।३।३८) पुंवद्भावप्रतिषेधो यथा स्यात् । ८२ । हिगोर्यप । प्राग्वतः संख्यापूर्वपदानां तदन्तग्रहणमलुकीति (५।११।२० व, ) तदन्तविधेरभ्यनुज्ञानाद् दिगोरपि मासान्तात् पूर्वेण यत्खजोरव प्राप्तयो- रयमारभ्यते। यपः पित्करणमनुदात्तार्थम् । अन्यथा मासशब्दान्तात् प्रत्यये विहिते सति शिष्टत्वादिगन्तकालेति (६।२।२८ ) द्विगावेवेति खरबाधनात् प्रत्ययस्वरः स्यात् । ततश्च वयं मानस्वरेणानुदासादि स्यात् । प्रत्ययेऽनुदात्तार्थे पितीगन्तेति (६।२।२८) पूर्वपदप्रकतिस्वरः सिद्धो भवति । ८३ । षण्मासामाच । षण्मासशब्दो हिगुः। तस्मात् पूर्वेण यपि प्राप्ते वचनम् । स चकारण समुच्चेतव्य इति । यद्येवं कथमनन्तरो यब् भवतीत्याह स्वरितत्वाच्चानुवर्ति- ष्यत इति। तेनानुबत्तिसामयादनन्तरी यब् भवतीति मन्यते । ८४ । अवयसि ठंश्च । ८५। समायाः खः । ८६। दिगो वा पूर्वेणत्यादि। कथ' पुनः समाशब्दाद् विधीयमानः प्रतायस्तदन्ताष्ट्विगीः प्राप्नोतीत्यत आह प्राग्वतेरितपादि। गतार्थम् । ८७। रावाहःसंवत्सराच्च । हाहीन इति। अष्टखोरेवेति (६।४।१४५) टिलोपः। विभाषानु- वर्तते । तेन व्यवस्थितविभाषावान् न टज् भविष्यति। हैयङ्गिकः । वैयनिक इति। न याभ्यामित्यादिनैजागमः (७॥३॥३)। वृद्धिप्रतिषेधश्च । ८८। वर्षाल्लुक च। भाविनि तु त्रैवर्षिक इति । तत्र भविष्यतीति (३।१६) वचनात् । इहादि धिरेव भवति ।

my (५१)। ८६। चित्तवति नित्यम् । यदि चित्तवति प्रतायार्थे नित्यं लुग् भवति वर्षस्याभविष्यतीतात्र (७३।१६) यहक्ष्यति वे वर्षे अधीष्टो भूतो वा कर्म करिष्यतीति दिवार्षिको मनुष्य इति तबिरुध्यते । नहि। नित्ये लुक्वधीष्टभृतयोरुत्पन्नस्य प्रतपयस्य चित्तवताभिधेय एवं रूपमुपपद्यते । नैष दोषः । भूत एवास्योत्पन्नस्य प्रतायस्य चित्तवति नित्यं लुगिष्यते । न सर्वत्र। कुत एतत् ? नितयग्रहणात् । इह निताग्रहणमनर्थकमेव । आरम्भसामर्थ्यादेव नितयो लुग भविष्यतीति किं नितयग्रहणेन १ तत् क्रियते विशिष्टेऽर्थे नितयो लुग् यथा स्यादित्येवमर्थम् । स पुनर्विशिष्टो भूत एव । ६० । षष्टिकाः षष्टिरावेण पच्यन्ते । बहुवचनान्तस्य निर्देशाहहुवचन एव षष्टिकशब्दस्य साधुत्वम् । नान्योति यश्चोदयेत् तं प्रतवाह बहुवचनमतन्त्रमिति। अप्रधानमितार्थः। अप्रधानत्वं तु तस्य नान्तरीयकवाद। अवश्यं हि येन केनचिहचनेन निर्देशः कर्तव्यः । यद्येवमकवचनेन निर्देशः कस्मान कृतः । एवं हि लघुर्भवति। सताम् । वैचित्रमार्थ बहुवचनेन कृतः । यदि षष्टिरात्रेण पच्यान्त इतास्मिन्नर्थ एतन्निपातनं मुद्गादिष्वतिप्रसङ्गः। तेऽपि हि षष्टिरात्रेण पच्यन्त इतात आह संन्षेतवादि। धान्यविशेष एव हि षष्टिकशब्दः संज्ञात्वेन रूढ़ः । तेनानभिधाना मुद्गादिष्वतिप्रसङ्गो न भवति । ६१। वत्सरान्ताच्छश्छन्दसि । ६२। संपरिपूर्वात् ख च । ६३। तेन परिजय्य लभ्यकार्यमुकरम् । परिजय्य इति । परिः सर्वतोभावे । शक्याथै कृताः। सर्वतः शक्यो जेतुं परिजव्यः । लभ्य इति कार्य इति। अत्रापि शक्यार्थ एव कृतौ । मासेन शक्यो लभ्यो मासिकः पटः। मासेन शक्यं कर्तुं सुकरं वा मासिक न्यासः। चान्द्रायणम्। तेन निर्वृत्तं (५।१।७८) तमधीष्ट (५।१।८०) इति विभक्तिइये प्रकृते पुनस्तेनेति बतीयोपादानं द्वितीयानिवृत्त्यर्थम् । ६४। तदस्य ब्रह्मचर्यम्। हाभ्यामपि सम्बध्यत इति । समर्थविभक्त्या प्रतायार्थेन च। कथं सम्बध्यत इतबाह कालस्येतपादि। इह हि द्वितीयातान्तसंयोगे। सा हि यः कालस्य व्यापकस्तमपेक्षते । नान्तरीयकत्वात् । नहि तेन विना ऽतान्त- संयोग उपपद्यते। ब्रह्मचर्यञ्च कालस्य व्यापकमिति । व्यापकमिति । व्यापकमपेक्षमाणायां विभक्तौ ब्रह्मचर्यसम्बन्धी भवति। कथ प्रतण्यार्थेन सम्बध्यत इतपत आह प्रतायार्थस्य च स्वमिति । प्रतायार्थः प्रतियोगि वस्तु स्वमपेक्षते । प्रकृतत्वाच्च ब्रह्मचर्यस्यैव प्रतियोगित्वं विज्ञायते । तद्धि तस्य खं भवति । अतः प्रतियोग्यपेक्षायां प्रतायार्थस्यापि ब्रह्मचर्येण सम्बन्धो भवति। पूर्ववेतपादिना पूर्वोत्तरयोवृत्त्योर्विशेषं दर्शयति। किं पुनरत्र प्रमाणमितबाह हयमपीतयादि। कथ पुनईयमपि प्रमाणमितमाह उभयथे- तपादि। उभयस्मिन्नपि यत्रार्थे सूत्रमेतदाचार्येण प्रणीतम् । इयमपि प्रमाणम् । महानाम्नादिभ्य इति । ब्रह्मचर्य एवार्थ इदमुपसंख्यानम् । तच्चरतीतादि। तदिति द्वितीयासमर्थेभ्यो महानाम्पादिभ्यः शब्देश्य- श्वरतीतेतस्मिन्नर्थ इदं ठन उपसंख्यानम् । तत्सहचरितं व्रतं तच्छब्देनोच्यत इति । भवति हि साहचर्य्यात् ताच्छन्दय यथा यष्टीः प्रवेशयेति । ऋच एवोच्चन्त इतवं कस्मान्न विज्ञायते ? चरणार्थस्यायोगात् । ब्रह्मचर्य हि चर्यते । चतुर्मासासों यज्ञ इतयादि। चतुर्मासशब्दात् तत्रेति सप्तमीसमर्थाद भव इत्येतस्मिन्नर्थे यज्ञे विषये एयी वक्तव्यः । संज्ञायामण वक्तव्य इति । चतुर्मासाद्भव इत्येतदपेक्षते । इदञ्च यज्ञादन्यत्रोपसंख्यानम् । ननु च तत्र भव (४।३।५३) इतानेनाण भवतेव । किमर्थमुपसंख्यायते ? सतामस्ति । तस्य तु हिगोलुंगनपता इति (४।१।८८) लुक् प्राप्नोति । अतो लुगबाधनार्थ तस्योपसंखयानम् । अथ •LLAHAT HCORREDCIL MAR29 1921 D maa १ । (५११) ६५। तस्य च दक्षिणा यज्ञाख्यम्य अथाख्याग्रहणं किमर्थम् न यज्ञेभ्य इत्युच्येतेत्यत आह आख्या- ग्रहणमित्यादि। यजनामधेयमात्रादकालवाचिनोऽपि प्रत्ययो यथा स्यादि- त्येवमर्थमाख्याग्रहणमिति । इतरथा होत्यादि। यद्याख्याग्रहणं न क्रिये- वेत्यर्थः ननु चैकाइहादशाहादयो नैव कालशब्दाः । तत् कुतस्तेषा- मेवात्र ग्रहणप्रसङ्गः ? अथाकालवाचिनामय्येषां ग्रहणं सम्भवति ? एवं सत्यग्निष्टोमादीनामपि भविष्यतीत्यपार्थकमाख्याग्रहणमित्यत आह प्राग्वते- रित्यादि। यद्ययेते कालशब्दा न भवन्ति तथापि प्राग्वते; संख्यापूर्व- पदानां तदन्तविधिरभ्यनुज्ञातः । तेन सत्यपि कालाधिकारऽप्यस्ति तेषु ग्रहण- प्रसङ्गः । तथाच तत्र वचनस्य चरितार्थत्वादग्निष्टोमादिभ्यो न स्यात् । तेभ्यो. ऽपि यथा स्थादित्याख्याग्रहणम् । ननु चैवमपि सूत्रमनर्थकम् । या ह्यग्नि- टोसस्य दक्षिणा साम्यग्निष्टोमे भवति । तत्र बह्वचोऽन्तोदात्ताट ठञ् (४।३।८७) क्रतुयज्ञेभ्यश्चेत्येव (४।३।६८) ठञ् सिद्धः । इदमपि सूत्र ठमेवारभ्यते । सत्यमेतत् । किन्तु भवार्थे तस्येदमिति (४।३।१२०) विवक्षिते तदा परत्वा- दणादयः स्युरिति युक्तां विधानम् । अपि च यज्ञाख्येभ्यस्तेन ठजियते । ग्रहणवता प्रातिपदिकेन तदन्तविध्यभावात् मंख्यापूर्वपदेभ्यष्ठञ् न लभ्येत इयोर्वाजपेय- योर्भवा दक्षिणा देवाजपेयिकौति। अनेन च विधानेन प्राग्वते: संख्या- पूर्वपदानां तदन्तग्रहणमलुकीति ठञ् (५।१।२०, वा ) सिद्धो भवति । अधापि कथञ्चित् तदन्तविधिर्भवार्थे लभ्यते तथापि हिगोलुंगनपत्य इति (४११८८) लुक् प्रसज्येत । तस्माद् युक्तः सूत्रारम्भः । तत्र च दीयते कायं भववत् । यथा मासे भवं मासिकमित्यादि। कालाट उजिति (४।३।११)। प्रावृषण्य मिति । प्राइष एण्यः (४।३।१७)। वासन्तं शारदमिति। सन्धि- वेलादिसूत्रेणाण (४।३।१६)। हैमनमिति । हेमन्ताच्चेति (४।३।२१)। सर्वत्राण च तलोपश्चेति (४।३।२२) । वतिः सर्वसादृश्यार्थः। कालेभ्यो भव वदित्यत्रैतद्याख्यातम् (४।२।३४) । तत एवानुगन्तव्यम् । चकारः काला- ४२ न्यासः । दित्यनुकर्षणार्थः । तेन चानुक्लष्टत्वाटुक्तरत्र नानुवर्तते । अत प्राह कालाधि- कारस्य पूर्णोऽवधिरित्यादि । ननु च यन्मासे दीयते काव्यं च तन्मासे भवति । मासाधारल्वात् तत्सत्तायाः । ततस्तत्र भव इत्यनेणैव (४।३।५३) सिद्धमिति किमतिदेशेन ? एवं तेन सत्यपि भवत्यर्थे कार्यदीयमानयोः कार्यता दीयमानताञ्च कालान्तात् तैः प्रत्ययैरपि ख्यापयितुमतिदेशः। किञ्चानेन च तत्र भवानामपि न । तेन सति तस्मिंस्तदन्त विधेरिष्टत्वाद् द्वयोर्मासयो- दीयते कायं वा वैमासिकमिति । अथापि कथञ्चिद् भवार्थेऽपि तदन्तविधि- रह्यत एवमपि दिगोरिति (४११८८ ) लुक् स्यात् । ननु चात्रापि विधाने सत्यतिदेशादेव लुक प्राप्नोति । वचनसामर्थात् प्रत्ययमावस्यातिदेशो न सर्वकार्याणामित्यदोष. । विज्ञास्यते । ६७। व्युष्टादिभ्योऽण। व्युष्टशब्दोऽयं कालशब्दः। तत्साहचर्यानित्यशब्दोऽपि कालशब्द एव गृह्यते । नाकाशादिवचनः । तेन तत्र सप्तम्य पवादः कालाध्वनोरत्यन्त- संयोग इति (२।३।५) द्वितीया भवति । तेन सप्तम्यधिकारऽपि नित्यशब्दाद द्वितीयासमर्थादेव प्रत्ययः । नित्यं दीयते नैत्य । सर्वकाले दोयत इत्यर्थः । अण्प्रकरण इत्यादि । यदेतत् कात्यायनेनोक्तमणप्रकरण ऽग्निपदादिभ्य उपसंख्यानमित्येतन वक्तव्यम् । कथं तीण् स्यात् ? व्युष्टादिष्वेवाग्नि- पदादयः पठितव्याः। अथाण्ग्रहणं किमर्थ' यावता भववदित्येतदिहानु- वर्तते (५।१।६६) १ तेनैवात्राणपि भविष्यति । नैवं शक्यम् । एवं हि सति व्युष्टनित्यशब्दाभ्या कालाट ठजिति (४।३।११) ठञ् स्यात् । नैष दोषः । तत्र पुनरारम्भसामर्थ्याद य ४ा बाधितः स एव भविष्यति । कः पुनरसौ? अणेव । एवमपि तीर्थशब्दाद हाजृब्राह्मणादि-( ४।३।७२) सूत्रेण ठग् विहित इति तत ठगेव स्यात् । ये चात्र प्रवेशनादयोऽन्तोदात्तास्तेभ्य 8ज स्याटु बचोऽन्तोदात्ता ठजिति (४।२।८७) । तेभ्यो भवार्थे ठजो विहितत्वात्। तस्मादणग्रहणं कर्तव्यम् ४३ (५१)। ८। तेन यथाकथाचहस्ताभ्यां णयतो। यथासंख्यं नेष्यत इति । अल्याचतरस्य हस्तशब्दस्य परनिपातो लक्षण- व्यभिचारस्य वचनहेतुः । हतीयार्थ मात्रञ्चात्र सम्भवतीति । हतीयार्थस्य गम्यमानत्वात्। तथाहि यथाकथाच दत्तमितुरते ऽनादरेण दत्त मिति नतु रतौया समर्थविमक्तिरिति । ययाकथाचशब्दस्य वाक्यत्वात् । प्रतपयस्तु वचनसामर्थ्याद वाक्यादपि भवताव । गम्यते । ६६। सम्पादिनि। गुणोत्कर्षः सम्पत्तिरिति । सम्पादिनीतान प्रकृतिभागस्थार्थमाचष्टे । पूर्वावस्थाया गुणातिरेको गुणोत्कर्षः। आवश्यके णिनिरिति । अवश्यं सम्पद्यत इत्यावश्यकाधमर्ण यो णिनिः (३।३।१७०)। विशेषतः शोभत इति । शोभनाख्यस्य गुणस्य पूर्वावस्थाया उत्कर्षादतिरिच्यमानत्वात् । १००। कर्मवेषाट् यत् । कम्मण्यमिति । ये चाभावकर्मणोरिति (६।४।१६७) प्रकृतिभावः । १०१ । तस्मै प्रभवति सन्तापादिभ्यः । सक्तुमासौदनाद विग्टहीतादपोति। अपिशब्दात् सद्भातादपि । साक्त मांसौदनिकः। सातुकः । मासिकः । औदनिकः । १०२। योगाटु यच्च। १०३। कर्मण उकञ्। समय स्तदस्य प्राप्तम् । १०४ । अथ किमर्थं तदिति समर्थविभक्तिर्निहिश्यते ? यावता समय इति निर्देशादेव सा दृश्यत इतानाह समर्थ विभक्तिनिर्देश उत्तरार्थ इति । ऋतोरणित्येवमादौ (५।१।१०५) प्रथमासमर्थाद् यथा स्वादिति । उत्तरार्थञ्च क्रियमाणोऽत्रापि विस्पष्टार्थों भविष्यतीत्यत्रैव कृतः । नोत्तरत्न ४४ प्रकृष्टे ठञ्। नोचत । १०५। ऋतोरण। वसन्तोऽस्य पुष्याद ऋतुः प्राप्तः । स तस्य जनकत्वात् प्रयोजको भव- तीति प्रयोजनमिति (५।१।१०८) ठजि प्राप्ते सत्ययमणारभ्यते । १०६ । छन्दसि घस् । घसः सकारः सिति चेति (१।४।१६) पदसंज्ञार्थः। तेन पदवेन भत्वे निरस्त ऋत्विय इति। अत्रौर्गुण इति (६।४।१४६) गुणो न भवति । १०७। कालाद् यत् । १०८। प्रकष्टमिति । नपुंसके भाव तः । कालस्य दीर्घत्वमिह प्रकृष्टशब्दे- अथ ठग्रहणं किमर्थम् ? यावता प्रकृत एव ठज् । तत्र प्रक्लष्ट- मिलेतावदेव वक्तव्यमित्याह ठग्रहणं विरूष्टार्थमिति । असति हि ठ- ग्रहणे यतोऽनन्तरत्वात् स एव विधीयत इति कस्यचिद् भ्रान्तिः स्यात् । तस्मान्मन्दबुद्धिं प्रवक्तारं प्रति विस्पष्टाय ग्रहणम् । १०६। प्रयोजनम्। प्रयोजयतीति प्रयोजनम् । कृत्यलुटो बहुलमिति (३।३।११३) कतरि लुपट्। ११०। विशाखाषाढ़ादण मन्थदण्डोः । ठअपवादो योगः। मन्थोऽवक्षारो विलोडनदण्डी वा । (G) १११। अनुप्रवचनादिभ्यश्छः । विशिपूरीत्यादि । विश प्रवेशने। पूरी आप्यायने । पत्लु गती। कह वीजजन्मनि। एताः प्रकृतयो यस्यानस्य युवोरनाकाविति (७।१।१) युस्थाने विहितस्यान स्तस्माद् विद्यमानपूर्वपदाच्छ उपसंख्येय. । केवलस्थानस्य सपूर्वपदत्वं न सम्भवतीति तस्य शब्दस्येदं विशेषणं विज्ञायते । सहप्रवेशनं (G) अवक्षारी नाम विलोडनदण्डस्यबाधारभूत काष्ठविशेषः ।

(५११)। ४५ प्रयोजनं यस्य तत्र गृहप्रवेशनशब्दो विशिप्रात्यनन्तः। ग्रहशब्देन च स- पूर्वपदः । यदि तर्हि विश्यादिप्रकत्यनन्ताच्छब्दाच्छ उपसंख्यायते ऽनुप्रव- चनादिषु संवेशनारोहणादीना पाठोऽनर्थकः । तस्यैव प्रपञ्चार्थत्वात् । - ११२। समापनात् सपूर्वपदात् । अथ पदग्रहणं किमर्थम् ? सपूर्वादित्येवोयेतेत्यत आह पदग्रहणमित्यादि। असति हि पदग्रहण ईषदसमाप्त समापनं बहुसमापनं तत् प्रयोजनमस्येति तत्रापि प्राप्नोति । भवति ह्ययं समापनशब्दः सपूर्वः । पदग्रहणे तु सति न भवति । बहुचप्रत्ययस्यापदत्वात् । ११३ । ऐकागारिकट चौरे। चौर नियमार्थमिति । एवं ब्रुवता ठअन्तमेत- निपात्यत इत्युक्तं भवति । ननु च टकारानुबन्ध एवमर्थमासङ्गाते डीब् यथा स्यादिति । स चात्र ठअन्तत्वादेव सिद्धः । तत् किमर्थ टकार इत्यत आह टकार इत्यादि। असति हि टकारे यथा डौब् भवति तथा जित्वरोऽपि । आद्युदात्तत्व स्वात् । कार्यावधारणार्थ ष्टकारः क्रियते । तेन डीबेव न जित्वरः । अपर इकट्प्रत्ययं वृद्धिञ्च निपातयन्तोति । तेषा डीबर्थएव टकारः। एकशब्दोऽसहायार्थः । स चासहायवाची ट्रष्टव्यः । असहायग्रहणं चौरस्य खार्थे । नतूपलक्षणं प्रयोजनम् । प्रकृतत्वाचन एव । भवति । ११४। आकालिकड़ाद्यन्तवचने। आदिर्जन्म । अन्तो विनाश । तयोर्वचनमाद्यन्तवचनम् । तस्मिन् सत्येतनिपातनम् । ममानकालावाद्यन्तावस्येति । ननु चोत्पादनविनाशयोर- योगपद्यात् समानकालत्व न सम्भवति । नह्यनेन जन्मनाशयोरेककालता प्रतिपद्यते । किं तर्हि १ विद्युदादेरनवस्थायित्वप्रदर्शनपरत्वादस्येत्यत आह उत्पादानन्तरं विनाशीत्यर्थ इति। आकालाट ठंश्चेति । यदा ठं स्तदा ऽकालिका। यदा ठञ् तदा कालिको। आकालशब्दश्चायमाड् मयादा- ४ ३ न्यासः। भिविष्योरित्यव्ययीभावः (२।१।१८)। आ कालादाकालम् । कुगतिप्रादय (२।२।१८) इति तत्पुरुषो वा। आवृत्त काल आकाल इति । ११५ । वा। तत्र तेन तुल्यं क्रिया चेद् वतिः । तुल्यमिति । कर्मपदमेतत् । क्रियाविशेषणत्वात् । प्रतिपादितं हि प्राक् क्रियाविशेषेणानां कम्मत्व स्तोकान्तिकदूरार्थकच्छ्राणि तेनेति सूत्रे (२।१।३८)। ब्राह्मण न तुल्यं वर्तते ब्राह्मणवदिति । का पुनरत्र क्रिया ? ब्राह्मणेन तुल्यं वर्तते क्षत्रियादिगता ऽध्ययनादिका। ननु च तस्या ब्राह्मणनिष्ठ याऽध्ययनादि- क्रिययैव तुल्यता। न च तां ब्राह्मणशब्द आह । किं तहि १ जातिं द्रव्य नच ताभ्यां क्रियया तुल्य त्वम्। स्वभावभेदात् । यत्र हि किञ्चित् सामान्यं कश्चिद् विशेष' स विषयस्तुल्यतायाः। इह त्वत्यन्तभेद एव । नैष दोषः। यद्यपि ब्राह्मणादिशन्दैः क्रिया नोचते तथाप्यभिधेयसम्बन्धेन प्रतीयते यथा गुड़ इत्युक्ते गुरुनानभिधीयमाना अपि माधुर्य्यादयः । ब्राह्मणादिशब्देन योऽर्थ उच्यते तेन तुल्यत्व क्रियाया न सम्भवति । उच्यते चेदं वचनसामात् । यासावभिधेयेन ब्राह्मणेन क्रिया गम्य ते तया तुल्यता विज्ञास्यते । ननु च हतीयासमर्थ विभक्तिवाच्यया क्रिययैव प्रत्ययार्थक्रियाया स्तुल्यता। तस्याश्च धजन्तीऽवकाशः। तैलपकिन तुल्यो घृतपाक इत्यादि । नैषोऽस्त्यवकाशः। धालों हि किया। सा च पूर्वापरोभूता। ऽसत्त्वभूता। नच तस्यां बजादयो भवन्ति । कतहि ? तस्यैव धात्वर्थस्य धर्मे सिद्धतायामेव। धात्वर्थस्यापि घादिस्थाया भिद्यते। तत् कथं घनादीनामर्थः क्रियेति शक्यते वक्तुम् ? नच तया घजादिवाच्यसिद्धतया ट्रव्यगताया स्तुल्यता। नहि द्रव्यभूतेनासत्त्वभूतस्य वस्तुतुल्यतोपपद्यत इत्यतो नास्ति वचनस्यावकाशः। यदि तर्हि क्रिया घादिभिर्नाभिधीयते करें गमनं भोक्तं पाकः कारकस्य व्रजतीति तुमुण गवुलौ क्रियायां क्रियार्थायामिति (३।३।१०) तुमुग्गवुलौं न प्राप्तः। नैष दोषः । यदत्र प्रतिरूपं तस्य क्रियेवार्थ इति तदाश्रयो तुमुण्गवुलौ भविष्यत । यथाख्यातपद उपपदे तस्य अथवा - ४७ (५।१)। हि क्रिया कादयश्चार्थाः । तत्र या क्रियार्था तामाश्रित्य तुमुणगवुलो भविष्यत इत्यलमतिप्रसङ्गेन । ११६ । तत्र तस्येव । अथ किमर्थमिवेत्युच्यते। न वत्यर्थे सादृश्ये भविष्यति। नैतदस्ति । नहि तुल्यग्रहनं शक्य मिहानुवर्तयितुम् । तद्धि क्रियाविशेषणत्वात् कर्म । तत्र यदीह तस्यानुहतिः स्यात् तथाभूतस्यैव स्यात् । ततश्च कर्मण्येव तुल्ये प्रत्यय: स्यात् । तथाच मथुरायामिव मथुरावत् सुगन्ने प्रासाद इत्यादि न सिध्येत् । तस्मादिवेति वक्तव्यम् । अक्रियार्थश्चायमारम्भः । ११७। तदहम् । अहतीत्यहः । क्रियाग्रहणमिहानुवर्तते । ततो ऽस्यामवाणक्रियाया कर्तृभूतायां प्रत्ययो विधीयत इति यत्रासौ प्रत्ययार्थत्वेन विवक्ष्यते तत्र वाक्यमेव भवति ब्राह्मण महतीति । ११८। उपसर्गाच्छन्दसि धात्वर्थ उपसर्गाः प्रादयः । ते चैवमात्मका: । यत्र क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाया विशेषका भवन्ति । आगच्छति प्रगच्छतीति । प्रयुज्यते तत्र ससाधनक्रियावाचकाः सङ्कट उत्कट इति । क्रियावाची शब्दः प्रादीनां वत्यन्तानां प्रयोगे न प्रयुज्यते । तेन साधनो धात्वर्थः स्वार्थः । तेन साधने धात्वर्थे वर्तमानादुपसर्गात् प्रत्ययो विज्ञायत इत्याह ससाधने धात्वर्थ इति । यदि ह्येवमात्मका उपसर्गा धात्वर्थग्रहणं न कर्त्तव्यम् । सत्यमेतत् । तत् क्रियते विस्पष्टार्थम् । उहतो निवत इति । उच्छब्दान् निशब्दात् ससाधने धात्वर्थे वतिः । ननु च वर्तरव्ययसंज्ञकत्वाद् विभतेल क प्राप्नोति । कस्मान भवति । अव्ययसंज्ञाया अनित्यत्वात् । अनित्य त्वन्तु तस्याः सर्वमिद काण्डं खरादावपि पठ्यत इत्यादिना ऽव्ययसंज्ञाप्रकरण एव प्रतिपादितम् । ११६ । तस्य भावस्त्वतलौ। भवतेरनेकार्थत्वादु भावशब्दोऽयमभिप्रायादिष्वनेकेषु वर्तत ज्ञायते कोऽनार्थों भावशब्देन विवक्षित इत्यतस्तत्परिज्ञानार्थमाह भवतोऽ. । तत्र न ४८ न्यासः। स्मादिति। यस्माद् गोवादेविशेषणत्वाद् विशेथे गवादी गौरित्येवमादिकः शब्दो भवति गोलाकारवती च बुद्धि स्तेन योऽर्थों गवादेः शब्दस्य प्रवृत्तिनिमित्तं स भावशब्देनोचते। तथाचोक्तम् । यस्य गुणस्य भावाद ट्रव्ये शब्दनिवेश- स्तदभिधाने त्वतलाविति । गुण इति विशेषणमिहोचते। द्रव्यं विशेष्यम् । यस्य विशेषणस्य भावाविद्यमानत्वाद् विशेष्ये शब्दस्य निवेशः प्रवृत्तिर्भवति तदभिधाने त्वतलादयः प्रत्यया भवन्ति । तत् पुनः शब्दानां प्रवृत्तिनिमित्त- मनेकप्रकारम् । जातिशब्दानाञ्जातिरश्वत्वमिति । गुणशब्दाना गुणः शुक्लत्व- मिति । क्रियाशब्दाना क्रिया पाचकत्वमिति । केचित्तु क्रियाकारकसम्बन्ध क्रियाशब्दानां प्रतिनिमित्तमिच्छन्ति । यदृच्छाशब्दानां संज्ञासंजिसम्बन्धित्व- मिति संक्षेपेनेतदुक्तम् । विस्तरेण तु भाष्यादावुक्तमिति तत एवानुगन्तव्यम् । अथ नानात्वमित्यादौ कथं प्रत्ययो भवति ? कथद्वारं न भवितव्यम् ? षष्ठीसमर्थात् प्रत्ययविधानात । नानेत्येवमादीनाञ्चाव्ययानां षष्ठयर्थेनायोगात् । अयोगस्तु तेषामसत्त्ववाचित्वात्। नैष दोषः । ससत्त्वभूतोऽप्यर्थ : शब्दान्तरण प्रत्यवमृष्टः षष्ठ्यर्थेन प्रयुज्यते । नानत्यस्य भाव इति । तञ्च प्रत्यवमृष्टार्थ वृत्तिरव गमयतीति नानुपपन्ना षष्ठीसमर्थता । १२० । आ च त्वात् । प्रथिमेति । तुरिष्ठमेयसखिति (६।४।१५५) टेरिति (६।४।१५५ ) टिलोपः । र ऋतोहलादेलं घोरिति (६।३।१६१ ) ऋकारस्य रेफः । मर्वनाम- स्थाने चासम्बुद्धाविति ( ६।४।८) दीर्घः । पार्थवमिति । इगन्ताच्च लघुपूर्वादि त्यण (५।१।१३१)। अपवादैरित्यादि। इमनिचप्रमृतीनपवादां स्त्वतलोव- क्ष्यति। तैः मह तयोः समावेशः । एकविषयता यया स्यादित्येवमर्थमिदम् । ननु च स्वरितत्वादनुवर्तमानावनुवृत्तिसामयादेवापवादविषयेऽपि भविष्यतः । नैतदस्ति। अस्ति ह्यनुवृत्तेः प्रयोजनम्। किम् ? गुणवचनब्राह्मणादिभ्यः कर्मणि चेति ( ५।१।१२४) कर्मण्यपि यथा स्याताम । इतरथा हि भावे विधीयमानौ कर्मणि न स्याताम् । कर्मणि चेत्यादि । ननु चानुवृत्ति- सामर्थ्यादेव कर्मण्यपि भविष्यतः। नैतदस्ति । अस्ति मन्यदनुबत्तेः ४४ (५१)। प्रयोजनम् । किम् ? अपवादविषयेऽपि यथा स्याताम् । तस्मिंस्त्वसति न स्याताम् । अस्मिंस्तु सत्येतदुभयमपि लभ्यते । चकार इत्यादि। यदि चकारो न क्रियेत ततोऽत्रैव प्रकरणे येऽपवादास्तैरेव ममावेशः स्यात् । न नभ्याम् । तयोरन्यत्र विहितत्वात् । चकारे त्वपवादसमुच्चयार्थे सति सर्वापवादविषये त्वतलौ लम्येते । तेन स्त्रीपुंसाभ्यामपि सिद्धौ भवतः । यद्येवमन्येश्वर्थेषु सावकाशौ नअनजी भावे न सिध्यतः । त्वतल्भ्यां बाध्य- मानत्वात् । नैष दोषः । भवनादित्यवध्युपादानसामयाद् भावेऽपि भविष्यतः। इतरथा हि भावमेव विधित्वेनोपाददीत । १२१ । न नअपूर्वात् तत्पुरुषादचतुरसङ्गतलवणवटबुध- कतरसलसेभ्यः । अधिकारोऽयम् । तेनोत्तरेषां भावप्रत्ययानां प्रतिषेधो विज्ञायते । न त्व- तलोरिति मत्वाह इत उत्तर ये भावप्रत्यया इत्यादि । नतु पृथ्वादिभ्य इम- निज् वेत्येवमादिभिर्योगै. (५।१।१२२) परिगणिताभ्य एव प्रकृतिभ्यः प्रत्ययो विधीयते । नच तत्र काचित् प्रकृति नपूर्वा गृह्यते । नच तदन्तविधिरस्ति । ग्रहणवता प्रतिपदितेन तदन्त विधिप्रतिषेधात् । तस्मात् तत्र नजपूर्वात् प्राप्तिर्नास्तीति नास्त्यस्योपयोगः । सत्यम् । यत्र त्वन्तग्रहणं पत्यन्तपुरो- हितादिभ्यो यगित्येवमादिषु (५।१।२८) योगेष्वस्ति यत्र च खरूपग्रहणं नास्ति योपधाटु गुरूपोत्तमाद वुजित्येवमादिषु (५।१।१३२) तत्र नपूर्वादपि प्राप्तिरस्तीति प्रतिषेधः क्रियते । अपतित्वमिति । नसमासे कृत उत्तरकालं पत्यन्ताद् भावविवक्षायां पत्यन्तेत्यादिना (५।१।१३८) यड् न भवति । टुत्वमिति । इगन्तेत्यण (५।१।१३१) न भवति । अरमणीयत्वमिति । योपधादित्यादिना (५।१।१३२) वु न भवति। नास्य पटवः सन्तीत्यपटुरिति बहुव्रीहिरयम् । तेनास्मादिगन्तलक्षणो ऽण् भवति । आपटवमिति । आच- तुर्यमिति । ब्राह्मणादित्वात् व्यञ् । ननु च नसमासा ब्राह्मणादिषु न पठ्यन्ते। तत् कुतस्तेन यज? नैष दोषः। आतिगणो हि ब्राह्मणादि- रिष्यते । अचतुरादिप्रतिषेध एवाकृतिग्रहणस्य ज्ञापकम् । अप- न्यासः। १२२। पृथ्वादिभ्य मनिज्वा । ये गुण- -- पृथ्वादिषु य इगन्ता लघुपूर्वाः पृथुमृदुप्रभृतयस्तेषामणि प्राप्ते । शब्दा' खण्डचण्ड इत्येवमादय स्तेषां व्यजि। ये वयोवचना बालवत्स इत्येव- मादयस्तेषा प्राणभृज्जातीत्यादिनाजि (५।१।१२९) सर्वेषामपवाद इमनिज् विधीयते । वावचनमित्यादि। आदिशब्देन ष्यत्रादीनामुपसंग्रहः । वाक्यार्थ तु वावचनं न भवति । महाविभाषयैव वाक्य स्य सिद्धत्वात् । १२३। वर्णदृढ़ादिभ्यः ष्यञ् च । बहुवचनं प्रत्येकमभिसम्बध्यते वर्णेभ्यो दृढादिभ्यश्चेति । तेन बहुवचन- निर्देशाद् वर्णशब्देन वर्णवाचिनां ग्रहणमिति विज्ञायते । न स्वरूपस्य। खरूपग्रहणे तु वर्णशब्दमपि दृढादिषु एवाधीयोत। वर्णशब्दश्च गुणविशेषस्य वाचको न ब्राह्मणादीनाम् । कुतः १ दृढादिभि गुणवचनैः माहचर्य्यात् । अतएवाह दृढादिभिः साहचर्याद रूपविशेषा एव शुकादयः प्रत्ययमुत्पाद- यन्ति । नतु स्वरूपशब्दाः। नापि तत्पयायाः । नापि तत्पयायाः। कथम् ? दृढादयो हि गुणा उपसर्जनं द्रव्ये वर्तन्ते । तत्साहचर्याद वर्णशब्दा अपि तत्सदृशा एव रगृह्यन्ते। न वर्णशब्दस्य तत्प-याणां वा तादृशी वृत्तिरस्ति । गुणमात्र- वचनत्वात् । वर्णदृढ़ादीना गुणवचनत्वादेव सिद्धे पुनर्वचनमिमनिजथं म् । यद्येवं व्यग्रहणमनर्थकम् । इमनिजेव विधेयः । स च विभाषयैव प्रकृतः । तदुच्यते। अवश्य थग्रहणमुत्तराष्ट्र कत्र्तव्यम् । तत्र वा क्रियत इह वैति नास्ति विशेषः । शुक्लिमेति । पूर्ववडिलोपः । ढिमेति । पूर्ववद् ऋकारस्य रभावः। औचिती याथाकामीति। षिद्गौरादिभ्यश्चेति (४।१।४१) डोष् । हलस्तद्वितस्येति (६।४।१५०) यलोपः । वेर्यातलाभमतिमनःशारदानामिति पठ्यते । तस्यायमर्थः । विशब्दादुत्तरेषां यातादीनां प्रत्यया भवन्तीति । वियातत्वम् । वियातता । वियातिमा । वैयात्यम् । विलाभता । विलाभत्वम् । वैलाभ्यम् । विलाभिमा। विमतित्वम् । विमतिता। वैमत्यम् । विमतिमा । इगन्तादित्यण् (५।१।१३१)। वैमतम् । विमनस्त्वम् । विमनस्ता । विमनिमा। वैमनस्यम। विशारदत्वम् । विशारदता। वैशारद्यम् । विशारदिमा।

(५॥१)। समो मतिमनसोरिति । सम उत्तरयोर्मतिमनसोः प्रत्ययो भवति । संमतिता। संमतित्वम् । संमतिमा। सांमत्यम् । संमनस्त्वम् । संमनस्ता। समनिमा। सांमनस्यम् । १२४ । गुणवचनब्राह्मणादिभ्यः कर्मणि च । तस्येदमिति (४।३।१२०) शैषिकेषु प्राप्तेषु कर्मणि थविधानम् । चकाराद् भावे च । कर्मशब्दः क्रियावचन इति साधनकर्मवचनशङ्कामपाकरोति । ये हि जडादिशब्दा गुणशब्दा गुणवचना ब्राह्मणादयश्च तेषा सा नकर्मणा सम्बन्धी न सम्भवति । क्रियावाचकवाभावात् । तस्मात् क्रियाशब्द एव कर्मशब्दः । ब्राह्मणादिराकतिगण इति। अवत्कृतत्वात् । आदिशब्दः प्रकार इति । एवं प्रकारभ्यः प्यञ् मवतोत्येवमर्थमादिशब्दः प्रकारवचनवं बोधयति । यद्येवं गुणवचनग्रहणं प्रातिपदिकेषु च ब्राह्मणादीनामनुक्रमणमनर्थकं स्यात् । नानर्थकम् । प्रपञ्चायं हि तत् । खार्थे विधानार्थञ्च । तत्न ब्राह्मणशब्दात् प्राणभृज्जातीति (५।१।१२८) जातिवचनत्वादअि प्राप्ते तबाधनाथं व्यञ् विधीयते । माणववाडवाभ्यां गोत्रलक्षण वुजि। अर्हतो नुम् चेति । अस्य नमर्थः पाठः । आहत्यम् । चोरधूर्ताभ्या मनोज्ञादिलाइजि प्राप्ते । आराधय विराधय अपराधय इत्येतेभ्योऽपत्यविवक्षाया जनपदशब्दात् क्षत्रियादञ् (४।१।६८)। तस्य कम्बोजान्नुगिति (४।१।१७५) लुक् । ततो गोत्रवुजि प्राप्ते पाठः। एकभावादीनामन्यभावपर्यन्ताना स्वार्थे विधानार्थम् । अक्षेत्रत- शब्दस्य न नअपूर्वादिति (५।१।१२१) प्रतिषेध प्राप्ते। प्राग् बालिशशब्दात् कुशलादीना युवादिलादणि प्राप्त। बालिशशब्दो वयोवचनः । तस्मादु वयोलक्षणे ऽजि प्राप्त। अनीश्वरशब्दस्य न नञ्पूर्वादिति (५।१।१२१) प्रतिषेधे प्राप्त । अलस इति बहुव्रीहिः था मुत्पादयति । तत्पुरुषात् तु न नपूर्वादिति ( ५।१।१२१ ) प्रतिषेधेन भवितव्यम् । तस्य प्रपञ्चार्थः पाठः। राजशब्दस्य पुरोहितादित्वाद् यकि प्राप्ते। संवादिन् संवेशिन् बहुभाषिञ् शीर्षघातिन् समस्थ परमस्थ दुष्पुरुष इत्येवमादीना नपूर्वार्थः पाठः । गणपति अधिपति इत्येतयोः पत्यन्त लक्षणे यकि प्राप्त । गडुलदायाद- ५२ विशस्ति इत्येतेषा वतलो निवृत्त्यर्थः। शेषाणा प्रपञ्चार्थः । गुणवचना एको राशि । ब्राह्मणादयी द्वितीयः। ताभ्यां भावे कर्मणि यथासंख्यं प्राप्नोति । तत् कस्मान्न भवति ? ब्राह्मणादिशब्दस्याल्पाचतरस्य परनिपा- तात् । स हि लक्षण निरपेक्षता निर्देशस्य ज्ञापयन् यथासंख्यलक्षणान- पक्षतामपि बोधयति । तेन यथासंख्य न भवति । १२५ । स्तेनाद् यन्नलोपश्च । १३६। सख्युर्यः। दूतवणिग्भ्याञ्चेत्यादि। दूतवणिग्म्यां यो भवतीत्येतदर्थरूपं व्याख्येय- मित्यर्थः । तत्रेदं व्याख्यानम् । पूर्वसूत्रादिह चकारोऽनुवर्तते । स चानुक्त- समुच्चयार्थः । दूतवणिग्भ्याञ्जेत्यादि । दूतवणिग्भ्यामपि भवति । १२७। कपिज्ञात्योर्टक् । कपिशब्दादिगन्ताच लघुपूर्वादित्यणि (५।१।१३१) प्राप्त इदं विधीयते । यथासंख्यमित्यादि। तत्र गुणवचनब्राह्मणादिभ्य इत्यत्र (५।१११२४) यथा- संख्याभावः प्रतिपादितः। इहापि प्रतिपाद्यते । तत्रेदं प्रतिपादनम् । अत्र चकारोऽनुवर्तते। स चैकस्याः प्रकृते भावे कर्मणि च ढविधिं समु- चिनोति। तेन यथासंख्यं न भवति । अन्यथा हि समुच्चयो नोपपद्यते । अस्खरितत्वाहा यथासंख्यं न भविष्यति। प्रतिपादितं हि पूर्व स्खरितत्वेन यथासंख्य भवतीति। नचेह यथासंख्याथं स्वरितवं प्रतिज्ञायते । १२८ । पत्यन्तपुरोहितादिभ्यो यक् । पत्यन्तात् पूर्ववदणि प्राप्ते । पुरोहितादिषु राजशब्दाद ब्राह्मणादि- पाठात् व्यजि । शेषेभ्यस्त्वतलोर्यग् विधीयते । राजास इति । राजशब्दादसे ऽसमासे यग् भवति राज्यमिति । ममासे तु ब्राह्मणादित्वात् ष्यजेव भवति । आधिराज्यमिति । ननु च केवलो राजशब्दो ब्राह्मणादिषु पठ्यते । तत् कथमधिराजशब्दात् ? तदन्तविधिना । एतदेव ज्ञापकमस इति वचनेऽस्तीह प्रकरण राजशब्देन तदन्तविधिरिति । इह पत्यन्त पुरोहितादी इति । (५१)। ५३ हौ राशी। अर्थावपि भावकर्मणो हावेवेति साम्याद् यथासंख्य प्राप्नोति । तद खरितत्वात् पूर्ववन्न भवति । १२६ । प्राणभृज्जातिवयोवचनोद्गावादिभ्योऽञ् । प्राणभृतः प्राणिन उच्यन्ते । तेषां जाति प्राणभृज्जातिरित्यर्थः। तदाचिनो यथासंभवं त्वतलादिष्वज, विधीयते । प्राणभृद्ग्रहणात् टणादिशब्देभ्यो न भवति णत्वं टणतेति । जातिग्रहणाद् देवदत्तादिशब्देभ्यो न भवति देवदत्तत्वं देवदत्तता। यदिगन्तं लघुपूर्वञ्च तस्मात् परत्वादण भवति तैत्तिरमिति। वयोवचनादपि यथायोगं त्वतलादिष्वेव प्राप्तेष्वविधानम् । वचनग्रहणं स्वरूपविधिनिरासार्थम् । अन्यथा वयःशब्दादेव स्यात् । तत्रोद्- गात्रादिषूद्गाट उन्नेट अध्वर्यु इत्येतेषामृत्विग्वचनत्वाद् होत्राभ्यश्छ इति ( ५।१।१३५ ) च्छे प्राप्ते सत्यार्थः पाठः । मुटु दुछु वधू इत्येतेषा लघु पूर्वलक्षणेऽणि प्राप्ते । सुभग मन्त्र इति । सुभगशब्दो मन्त्र विषये ऽजमुत्- पादयति महते सौभगाय। सर्वे विधयश्छन्दसि विकल्पान्त इति हृदु- भगसिन्धन्त ( ७।३।१८) इत्युत्तरपदवृदिनं भवति । मन्त्र इति किम् ? सौभाग्यम् । ब्राह्मणादित्वात् ष्यञ् । शेषाणामिह पाठ स्त्वतलोः प्राप्तयोः । १३०। हायनान्तयुवादिभ्योऽण । हायनान्तात् त्वतलोः प्राप्तयोरणविधानम् । ननु च तस्येदमित्यनेन (४।३।१२०) हायनान्तादण सिद्धः । न सिध्यति । परत्वात् त्वतल्भ्या बाध्यते आषाढ़हायनस्य भावः कर्म वा ऽषाढ़हायण इति । वृद्धाच्छ: (४।२।११४) प्रसज्येत । तस्माद् युक्तं हायनान्तादविधानम् । यौवनमिति । अत्रिति (६।४।१६७) प्रकृतिभावः । युवादिषु युवशब्दस्य वयोलक्षणं बाधित्वा मनोज्ञादित्वाहुजि प्राप्ते पाठः । स्थविरशब्दस्य बयोलक्षणेऽभि । होटशब्दस्या- प्युद्गात्रादित्वादजेव । पुरुषास इति । पुरुषशब्दादसमासेऽण् भवति पौरुषम् । अस इति किम् ? राजपुरुषत्वम् । अस्य प्राणभृज्जेत्यप्राप्ते (५।१।१२८) पाठः । कमण्डलुशब्दस्यगन्तत्वादेवाणि सिद्दे त्वतलो धनार्थः पाठः । हृदयास इति । हृदयशब्दादसमासेऽण् भवति हाईम् । ह्वदयस्य हल्लेखयदण्लासेष्विति न्यासः। (६।३।५०) हृद्भावः । अस इति किम् ? परमहृदयत्वम् । कुशलादीनां क्षेत्रज्ञपय॑न्ताणां ब्राह्मणादित्वात् थनि प्राप्ते पाठः। शेषाणान्तु त्वतलोः । ननु च ग्रहणवता प्रातिपदिकेन तदन्तविधेरभावात् समासादणप्राप्तिरेव नास्ति। तदपार्थकः पुरुषासे हृदयास इति च प्रतिषेधः । नापार्थकः । एषा हिषियसप्तमो। समासे चिकोर्षिते विषयभूत एव पुरुषशब्दहृदय- शब्दाविति। यदि प्रतिषेधो नोच्येत ततो नसमासस्य भावप्रत्ययस्य चाणो युगपत् प्रसङ्गे परत्वादणेव स्यात् । प्रतिषेधातु समास एव तावद्भवति । ततो यस्य भावप्रत्ययस्य निमित्तमस्ति स उत्पद्यते। कचासो? त्वतलौ । अपुरुषत्वम् । अपुरुषता । अपुरुषता। अहृदयत्वम् । अहृदयता। इह हायणान्त एकराशिः। युवादिदितीयः । अर्थावपि दावेव भावकर्मणी। तेन सामर्थ्याद् यथासंख्य प्राप्नोति । तदल्यातरस्य युवादिशब्दस्य परनिपात- लक्षणव्यभिचारचिहान भवति । अस्खरितत्वाहा। १३१। दूगन्ताच्च लघुपूर्वात् । इगन्तादिति । इक् अन्तो यस्येति बहुव्रीहिः। प्रातिपदिकमन्यपदार्थः । लघुपूर्वग्रहणेत्यादि। अथेगेव कस्मान्न विशेष्यते ? तस्य बहुव्रीह्यर्थे गुण- भूतत्वादु विशेषणेन सम्बन्धस्य कर्तुमशक्यत्वात् । पूवशब्दोऽयं व्यवस्थाशब्द- वादपरमपेक्षते । इह चापरस्यानिर्दिष्टत्वान् न ज्ञायते कुतो लघुः पूर्वः । तत्परिज्ञानाय पृच्छति कुतः पुनरसौ लघुः पूर्व इति। प्रत्यासत्तिन्याय- माश्रित्याह सन्निधानादित्यादि। सन्निधानं विह सूत्रयिकः । श्रुतत्वात् । तेनेति । अन्तमूतेन लघुपूर्वेणेकान्तग्रहणमतिरिच्यत इति। निष्फलत्वात् । यती हि लघुपूर्वादित्युक्ते च प्रातिपदिकस्य तदन्त विधौ सति सामादेव तस्यान्तत्वं लभ्यत इत्यपार्थकमन्तग्रहणमस्मिन् व्याख्याने। पूर्वके तु विधाने ऽन्तग्रहणेऽसति लघुपूर्वेग्वत इत्येव विधिनिर्देशो विज्ञायते । स्थापीको विधिवं स्यात् । सदा लशुनलकुटप्रभृतिभ्योऽपि प्रत्ययप्रसङ्ग इत्येवमर्थमन्तग्रहणम् । कथं काव्यमिति । अन्यथा भवितव्यं कविशब्दस्य लघुपूर्वेगन्तत्वादित्यभिप्रायः । ततश्चानन्त- अथवा (५।१ )। १३२ । योपधाद् गुरूपोत्तमाद् वुञ्। त्वतलादिषु प्राप्तेषु वुञ् विधीयते । उत्तमशब्दोऽयमिहाव्युत्पन्नम् प्राति- पदिक ग्राह्यते। तत् स्वभावात् त्रिप्रभृतीनामन्त्यमाहेति मलाह त्रिप्रभृती- नामन्त्यमित्यादि। तमप्रत्ययान्त स्य तु ग्रहण सत्यणिजोरनार्षयोरित्यादौ सूते ( ४।१।७४) यो दोष उक्तः स इहापि तदनुसारेण वेदितव्यः । उत्तमस्य समीपमुपोत्तमम् । अव्ययं विभक्तिसमीपत्यव्ययीभावः (२।१।६) ॥ १३३। इन्द्वमनोज्ञादिभ्यश्च । बन्दात् त्वतलादिषु प्राप्तेषु वुञ् विधीयते। मनोज्ञादिषु यो गुणवचन स्तस्मात् यजि। चौरधूर्तशब्दाभ्यामपि ब्राह्मणादित्वात् थव । युवा शब्दाद युवादित्वादणि। शेषेभ्यस्त्वतलोः । अमुष्यपुत्र इति। निपातनाद विभक्तरलुक् । इह इन्दमनोज्ञादी हौ राशी। प्रत्ययार्थावपि भावकर्मणी हावेवेति यथासंख्यं प्राप्नोति । तत् पूर्ववदवरितत्वान्न भवति । चकारोऽत्र ममुच्चयार्थः क्रियते । तस्य चान्यत् समुच्चेतयं नास्तोति वुञ्- विधिमेव प्रत्येक भावकर्मणोः समुचिनोति । तेनैक माद्राश भवि कर्मणि च वुज भवति । नतु यथासंख्यम् । अन्यथा हि समुच्चयो नोपपद्यते । १३४। गोबचरणाच् श्लाघात्याकारतदवेतेषु । अपत्यनिमित्ता समाख्या गोत्राख्या। सा च प्रवराध्याये पठ्यते । या च वेदाध्ययनप्रयुक्तान् पुरुषानाचष्टे सा चरणशब्दस्याख्या। गोत्रञ्च चरणैः सहेति पारिभाषिक गोत्रचरणयोर्जातित्वमिति प्राणभृज्जातीत्यादिनाऽजि (५।१।१२८) प्राप्त वुजो विधानम् । इह गोत्रचरणवाचिनी हे प्रातिपदिके । अर्थावपि हावेव । तत्र यथासंख्य प्राप्नोति। तत् पूर्ववदस्वरितत्वान्न भवति । अतएवाह प्रत्येक भावकर्मणोरर्थयोरिति । श्लाघादिषु विषयभूतेष्विति । प्रत्ययार्थतां प्रत्ययार्थविशेषणताञ्च नाघादीनां निरस्यति । न तावत् प्रत्ययार्थता श्लाघार्युज्यते । भावकर्मणोः प्रत्ययाथेयोरधिकतत्वात् । नापि प्रत्ययार्थविशेषणम् । ये भावकर्मणोः श्लाघादयस्ते भवत इति । तथाहि न भावः श्लाघादीनामन्यतमोऽपि भवितुमर्हति । शब्दप्रवृत्तिनिमित्तं भावः । न च

गोत्रचरणशब्दानां श्लाघादयः प्रवृत्तिनिमित्तं भवति। कर्मापि नैव श्लाघादि-
स्वभावं भवति । नहि गोत्रचरणानां श्लाघादय, कर्मतया रूढ़ा यथाग्गे
स्तापादयः। क्रियारूपत्वात् तेषाम् । साध्य तया व्यवस्थितानां सत्त्वधर्मों
भावकर्मणी प्रतिविषणभावे उपपद्येते । तस्माच् श्लाघादिषु साध्यतया भाव.
कर्मणोः प्रत्ययार्थतया विषयमूतेषु वुज भवति । तदवेतस्तत्प्राप्त इति ।
इणोऽत्र गत्यर्थत्वात् । तज्ञातो वेति । अवपूर्वस्येणो ज्ञानेऽपि वृत्तिसम्भवात् ।
तच्छब्देन चेह गोत्रचरणयोः सम्बन्धिनो भावकर्मणो प्रतिनिहिश्यते। गार्गि-
कयेति । आपत्यस्य च तद्धिते ऽनातीति (६।४।१५१) यलोपः ।
१३५। होवाभ्यश्छः।
त्वतलोः प्राप्तयोश्छो विधीयते ।
१३६ । ब्रह्मणस्त्वः ।
तस्य
नेति वक्तव्य इति । छप्रत्ययेऽप्यपवादे प्रतिषिद्धे त्वप्रत्ययः ।
भावस्त्वतलावित्येव (५।१।११८) सिध्यति । त मान्नेत्येव वक्त ये यदेतद्वचनं
तखेन तलो बाधनं यथा स्थादित्येवमर्थम्। यदि नेतुच्यते तदा च्छे प्रतिषिद्धे
यथा वो भवति तथा तलपि स्यात् । त्ववचने तु तलो बाधा सिद्धा भवति ।
इति बोधिसत्त्वदेशीयाचार्यथोजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां पञ्चमाध्यायस्य
प्रथमः पादः समाप्तः ॥ ५॥१॥

अथ काशिकाविवरणपञ्जिका। पञ्चमाध्यायस्य द्वितीयः पादः । जायन्त उत्पद्यन्त तस्य हि । १। धान्यानां भवने क्षेत्रे खञ । भवन्ति जायन्तेऽस्मिन्निति भवनमित्यधिकरण ल्युट । इत्यर्थः। एतेनोत्पत्तिवचनो भवतिरत्र ग्राह्यते । न सत्तावचनः । ग्रहण सत्यन्यत्र चोत्पत्रानां यत्र स्थापनं पश्चाद् यत्र स्थाप्यन्ते तत्रापि प्रसज्येत । यदि तडपत्पत्तिवचनो भवति म्ह्यते क्षेत्रग्रहणमनर्थकं स्यात् । तत्र मुद्गाना भवनं कुसूल इत्यत्र मा मूदित्येवमथं क्रियते । नचोत्पत्ति- वचनस्य भवते ग्रहण सति कुसूले प्रसङ्गः। नह्यसौ मुद्गादोनामुत्पत्तेरधि- करणम्। किं तर्हि १ सत्तायाः । नैतदस्ति । सति हि क्षेत्रग्रहणे भवति- रत्रीत्यत्तिवचनो भवति । कथम् ? क्षेत्रशब्दो ह्ययं धान्यानामुत्यत्त्याधारमाचष्टे । तेन तस्य ग्रहणे मति सत्तां प्रति न भूमिः क्षेत्रव्यपदेशमासादयतीति युक्त तदुत्पत्तौ भवतिर्वर्त्तत इति । क्षेत्रग्रहण वसति भवतिः सत्तावचनोऽपि तथा कुसूलेऽपि प्रसज्येत । अपिच भवनशब्दो रूढया राहवचनोऽ- प्यस्ति । सोऽपि क्षेत्रशब्देन निवर्त्यत इति । अथ कथं षष्ठी समर्थविभक्ति- रूपादीयते? तस्य भावस्त्वतलावित्यत' (२।१।११८) षष्ठीसमर्थ- विभक्तिरनुवर्तत इति तथैव सिद्धम् । एवं तर्खेतज् ज्ञापयति पूर्वे प्रत्यया नावश्यं षष्ठीसमर्थाद् भवन्तीति । तेन होत्राभ्यश्च इति (५।१।१३५) होत्रायाः प्रथमासमर्थायाः स्वार्थे च्छ: सिद्धो भवति होत्रैव होत्रीयमिति । चतुर्वर्णादिभ्यः प्रथमासमर्थेभ्यः स्वार्थे व्यञ् सिद्धो भवति । दह्यते । यावता एवञ्च न्यासः। २। ब्रीहिशाल्यो । ३। यवयवकषष्टिकाद् यत् । ४। विभाषा तिलमाषोमाभङ्गाणुभ्यः । खजि प्राप्ते वचनं पक्षे सोऽपि भवतीति। युक्तं यत् पक्षे तिलमाषाणुभ्यः खञ् भवतीति । तेषा धान्यत्वात् । उमाभङ्गयोस्त्वधान्यत्वात् खन् पाक्षिको न युक्तः । यदेव हि तिलाश्च मे यवाश्च म इत्यादिषु वेदवाक्येषु (A) पठाते तदेव धान्यम् । यवादय एव मन्ले पठ्यन्ते । नीमाभङ्ग । यदि तयोरपि धान्यत्व' स्यात् ते अपि पठ्ये याताम् । ततोऽवगम्यते न तयोर्धान्यत्वम् । एवञ्च न खजस्ताभ्यां प्राप्तिरस्ति । यतः सोऽपि पक्षे स्यादित्येवाह उमाभङ्गयो- रित्यादि । शणसप्तदशमुद्गानि धान्यानोति स्मृतिः (B)। तत्र शणादिषु मध्य उमाभने अपि धान्यत्वेन संख्यायेते इति तयोर्धान्यत्वमाश्रितमेव । यस्तु पुनर्वेदे तयोरपाठः स वैदिककर्मण्यनुपयोगात्। अतो न तत्रापाठादधान्य- वमित्यभिप्रायः । ५। सर्वचर्मणः कृतः खखजौ। इह कृतः प्रत्ययार्थः। तत्र चर्मण: करणत्व स्यात्। कर्तृत्व वा । तत्र यदि करणव तदा नियतं करणलक्षणया तीयया भवितव्यम् । कर्तृत्वमेव न लोकेत्यादिना (२।३।६८ ' षष्ठया प्रतिषिद्धाया कर्तलक्षणा रतीयैव । तस्मात् प्रत्ययार्थसामर्थ्य लभ्या हतीया समर्थ विभक्तिरिति मत्वाह टतीयासमर्था- दिति । स च सर्वचर्मण इति निर्देशः सर्वशब्दस्य चर्मशब्देन समासं कृत्वा कृतः। ततश्चमणैवास्य सम्बन्धो न ह्यन्यथा समास उपपद्यत इति यो मन्यते तं प्रत्याह सर्वशब्दश्चात्रेत्यादि । यद्येवमसामर्थ्यात् समासो न प्राप्नोतीत्यत आह तत्रायमित्यादि । अस्मादेव निपातनादित्यभिप्रायः । अथ चर्मणैवाभिसम्बन्धः कस्मान्न विज्ञायत इत्याह सर्वश्चर्मणा कृत इति अन हि वाक्यार्थे तद्धित- वृत्तिरिष्यते। तथा ह्ययमेव वाक्याथ स्तद्धितानुगतः प्रतीयते। अस्मिंश्चार्थे अथ अश्मादीनामधान्यानामपि (A) चमकानुवाकरूपेषु। नच चमकानुवाको धान्यपरिगणनार्थ । तव पाठात्। कोट्रवादौमा धान्यानामप्यपाठात् । (B) स्मृतिराचार्यपारम्पर्योपदेशः शास्त्रकतामाचार्याणां व्यवस्थेत्यर्थः ।

धारयो वा। यथा- (५२)। वाक्यार्थ एवं तद्धितवृत्तिलभ्यते यदि सर्वशब्दः कृतेन सम्बध्यते न चम्मणा । यदि सर्वशब्दश्चर्मणा संबध्यते सर्वचर्मणा इति षष्ठीसमासो वा स्यात् कर्म- तत्र षष्ठीसमासे तधितान्तात् सर्वसम्बन्धिमा चर्मणा कृत इत्येषोऽर्थः प्रतीयते । कर्मधारये तु सर्वचर्मणा कृत इत्येषोऽर्थः । न चायं विष्णकारो यस्तडितान्तादवसीयते । अपि तु सर्वचर्मणा कत इत्ययमेव । तस्मादशक्यः सर्वशब्दस्य चर्मणा मम्बन्धो विज्ञातुमिति कृतेनैव सम्बन्धो युक्तः । ६। यथामुखसम्मुखस्य दर्शनः खः । दृश्यतेऽम्मिनिति दर्शन इति । अधिकरणे ल्युट । यथामुखमिति । सादृश्य (२।१ ७) इत्यव्ययीभावः । मुखस्य सदृशं यथामुखम् । किं पुनस्तत् । आदर्शाश्रय प्रतिविम्बम् । ननु चासादृश्य (२।१।७) इति प्रतिषेधानात्र समासेन भवितव्यमित्यत आह निपातनादित्यादि । समासश्चायं पूर्वपदार्थ प्रधानः । पूर्वपदञ्चासत्त्ववचनमिति प्रथमासमर्थादेव प्रत्यय उपपद्यते । अथवा नाव्ययी- भावादतोऽम् त्वपञ्चम्या (२।४।८३) इति ज्ञापकादव्ययीभावाद् द्वितीयादयो भवन्तीत्यतो द्वितीयासमर्थात् प्रत्यय उपपद्यते। यथामुखं दर्शनो यथामु- खीन इति । मुखसदृशं प्रतिविम्बं यत्रादर्शादौ दृश्यते सएव मुच्यते। सम्म - खीन इति । समं मुखं सम्मुखम् । समानाधिकरणसमास: । पूर्वपदान्तलोपश्च निपातनात् । सर्वस्य मुखस्य दर्शन इति। कर्मणि षष्ठी। यत्रादर्शादी सर्व मुखं दृश्यते म एवमुच्यते । ७। तत्सर्वादः पथ्यङ्गकर्मपत्रपात्र व्याप्नोति । अथ सूत्रे द्वितीयान्तप्रकृत्युच्चारणं किमर्थम् १ तदिति द्वितीयासमर्थात् प्रत्ययो यथा स्यात् । अथवा पथ्यङ्गकर्मपत्रपात्रमिति नैवेयं द्वितीया । नहि व्याप्नोतिक्रियया पथ्यादयः संबध्यन्ते । किं तहिं ? सर्वादि। तस्मात् तस्यैव कर्मत्वम् । न पथ्यादीना तदवयवानाम् । तत् कुतः ? न सा द्वितीया । सुब्व्यत्ययेन पञ्चम्याः स्थाने प्रथमा वेषा । तस्मात् समाहारइन्दस्य नपुंसकलिङ्गत्वात् । अतोऽमित्यम्भावः (२।४।८३) कृतः। परिशिष्टमिति । सर्वादेः पथ्यगकर्मपत्र पात्रमित्येतच्च। सर्वादः प्रातिपदिकस्य पथ्यादयश्चादौ न भवन्ति । तत: मामात् तदन्तविधिविज्ञायत इत्याह पथ्यङ्गकर्मपत्र- न्यासः। पात्रान्तादिति। सर्वपथौन इति। सर्वश्चासौ पन्याश्चेति पूर्वकालेत्यादिना (२।१।४८) समासः । ऋक्पूरब्धूःमयामानक्ष इत्यकार: (५।४।७४) समासान्त- स्तत.। ननु च समासान्ते कृत पथ्यन्तमेव न भवति । यदन पथ्यन्तं तदाश्रयो विधिर्भवतीत्यदोषः । ननु व्यवधानान प्राप्नोति । अन्तग्रहणात् समासान्ताः समासग्रहणेन गृह्यन्त इति नास्ति व्यवधानम् । ८। प्राप्रपदं प्राप्नोति । तयोरव्ययीभाव इति । आड् मर्यादाभिविध्योरित्यनेन (२।१।१३) । शारीरिणासम्बद्धस्यापि पटस्य प्रमाणमाख्यातमिति । प्राप्तियोग्यतामुपादाय हि योग्योऽसावा प्रपदाच्छरोरं प्राप्तुम् । अथ व्याप्तिप्राप्तयोः को विशेषो येन व्याप्नो- तीति अते प्राप्नोतीत्युक्तम् ? सम्बन्धमात्र प्राप्ति । सम्बन्धएव साकल्येन व्याप्तिरित्येव विशेषः । है। अनुपदसर्वान्नायानयं बताभक्षयतिनेयेषु । अनुरायाम इत्यादि। यदायाम तदा यस्य चायाम इति(२।१।१६)समासः । यदा सादृश्ये तदा यथार्थे यदव्ययं तेनाव्ययं विभक्तीत्यादिना (२।१।६)। यथा पद मायतं तथा च बद्धोपानदनुपदीना। सादृश्ये यथानुपदं तथा बद्धा ऽनुपदीना। पदप्रमाणेत्यर्थ इति । यदाप्यनु सादृश्ये तदाप्ययमों वेदि- तव्यः । तुल्यप्रमाणतयैव सादृश्यम् । अयः प्रदक्षिणमिति । अयनमयो गमनमित्यर्थः । प्रदक्षिणं गमनमय इत्युच्यते । प्रसव्यमिति। अयविपरीतं प्रमव्यमनय इत्युच्यते । एवमवयवार्थ दर्शयित्वा समुदाया) दर्शयितुमाह प्रदक्षिणप्रसव्यगामिनामित्यादि । बहुवचनमयाननिमित्त- प्रदर्शनार्थम् । यदि शारा: प्रदक्षिणं प्रसव्यञ्च गच्छन्तेवमयानयो भवतः । नान्यथा। तत्रात्मीयाः शाराः प्रदक्षिणं गच्छन्ति । परकीयाः प्रसव्यम् । तेषामवंगामिनां यानि स्थानानि तेषा यस्मिन् प्रदक्षिणप्रसव्यगमनात्मक गतिविशेष सति परेर्विपक्षभूतैः शारैरसमावेशोऽनध्यासनमनाक्रमण सोऽयानय इत्युच्यते । नतु प्रदक्षिणप्रसव्यगमनमाने स एवायम् । एवं रूपो- ऽयानयो यदा ससहायैः शारैः पदान्यधिष्ठीयन्ते तदा वेदितव्यः । मसहाया- । अनयः (५२)। नामेव हि शाराणां पदानि परैन शक्यन्तेऽध्यासितुम् (C)। असहायानान्तु शक्यत एव । फलकशिरसि स्थित इति । यत्र फलकेऽझे ऽर्दीव्यन्ति तस्य शिरोभूतं यत्र स्थानं कितवाना प्रसिद्ध तत्र स्थितः शारो ऽयानयौन इत्युच्यते । तत्रैवायानयौनशब्दस्य रूढलात् । अपरे तु नेयो नेतव्यो न नीतस्ततः। तत्र शिरसि स्थित इत्यर्थानुपपत्तेः फलकशिरसि स्थाप्यत इत्यर्थ इति ग्रन्ये न भवितव्यमित्याहुः । नीतो वा नेयस्तदुपलक्षण- त्वात्। भाविन्यावस्थयोक्तः। अयानयसंबधित्वेऽपि सर्वेषां विशेष्यादेव प्रत्ययोत्पत्तिरुक्तीव। सत्यपि द्वितीयाधिकार पुनहितीयोचारणं दृष्टाद द्वितीयान्ताद् यथा स्यादित्येवमर्थम् । तेन विशिष्टार्थनेयवचनादयानय- शब्दाद् द्वितीयान्ताद् प्रत्ययो भवति । न नेयवचनमात्रात् । स एव विशिष्टो यो नय' प्रदक्षिणप्रसव्यगामीत्यादिना ग्रन्थन दर्शितः । अथायानय इति कोऽयं शब्दः। यदि ह्ययं समाहार इन्द स्तस्य नपुंसकत्वादयानयमिति भवितव्यम्। अथेतरतरयोग अर्थत्वादयानयाविति भवितव्यम् । नायं इन्दः। किं तर्हि १ मयूरव्यंसकादित्वात् तत्पुरुषः । अयसहितोऽनयो ऽयानय इति । अथ बद्धाभक्षयतिनेयेष्विति कथं तिङन्तस्य इन्दः ? पुनराहायं इन्द इति ? यदि न इन्दः कथं नेयेष्विति बहुवचनम् ? सौत्रवानिर्देशस्य । सुव्यत्ययेन वा च्छन्दस्येकवचनस्य स्थाने बहुवचन- मुपपन्नम्। ननु च्छन्दसि सुव्यत्यय उक्तः । छन्दोवत् सूत्राणि भवन्तीत्यदोषः । अथवा इन्द एवायम् । नतु तिडन्तस्य । नहि भक्षयतिशब्दोऽयं तिङन्तः । किं तर्हि ? तिङन्तप्रतिरूपको निपातस्तिङन्तेन समानार्थों यथास्तिक्षीरा ब्राह्मणीत्यत्रास्तिशब्दः । १० । पगेवरपरम्परपुत्रपौवमनुभवति । कथं पुनरप्रत्यय सन्नियोगेन निपातनस्य विना प्रत्ययेन दर्श नमुपपद्यत इत्याह तच्छब्दान्तरमेव द्रष्टव्यमिति । । अवारपागत्यन्तानुकामं गामी। गामीति । आवश्यकाधमण्येयोणिनिरित्यावश्य कार्थे (३।३।१०७) णिनिः । (C) "ससहायल्य पारण्य परैबाकस्यति एदम् । असहाधस्तु शारिण परकौरीण माध्यते" ॥१॥ रति कः नेदं छन्दः ।

न्यासः । वा च षष्ठया: भविष्यति चायं काले गामिशब्दो वर्तते यदाह गमिष्यतीति गामी। भविष्थति वृत्तिभविष्यति गम्यादय इति (३।३।३) वचनाल्लभ्यत इत्याह भविष्यतीत्यादि। अकेनो भविष्यदाधमयेयोरिति (२।३१७०) षष्ठीप्रतिषेध इति । तेन हितीयासमर्थतोपपद्यत इत्यभिप्रायः । वयोगा हि षष्ठी हितीयाया अपवादः। तेन षष्ठीप्रतिषेधे हि सति द्वितीययैव भवितव्यम् । अवारपारमिति । अवारस्य पारमिति षष्ठीसमासोऽयम् । पूर्वनिपातो वक्तव्यः । तेन पक्षे पारावारमित्यपि भवति । विग्टहीतादपि विपरीताञ्चेति । कथं पुनरधिकारादेव हितीयासमर्थविभक्तो लब्धायामिहाधिकं द्वितीयोपादानं कृतम् ? एतेन तदधिकस्य विधिर्भवतीति सूचितम् । तेन विग्रहीताद विपरीताच्च प्रत्यय उपपद्यते । अत्यन्तमिति । अन्तस्याभावोऽत्ययो वेति । अव्ययं विभक्तीत्यादिना (२।१।६) ऽव्ययीभावः । अथवान्तमतिक्रान्तमिति कुगतीत्यादिना (२।२।१८) तत्पुरुषः। क्रिया- विशेषणञ्चैतत् । भृशं गन्तेत्यर्थ इति । भृशार्थत्वेन लोकेऽत्यन्तशब्दस्य प्रसिद्धत्वात्। अनुकाममिति । कामसदृशमनकामं कामानुरूपमित्यर्थः । यथार्थे ऽव्ययीभावः । इदमपि क्रियाविशेषणमेव । भवति। -- । १२। समां समां विजायते । समा समामिति । नित्यवीप्सयोरिति (८।१।४) वीप्सायां द्विवचनम् । अत माह समां समामिति वीप्मेति । सुबन्तसमुदायः प्रततिरिति । प्रातिपदिका- धिकार वचनसामात् । गर्भ धारयतीत्यर्थ इति । अनेकार्थत्वाद्धातूनाम् । पूर्वपदे सुपोऽलुग् वक्तव्य इति । तडित उत्पन्ने कत्तहितसमासाश्चेति (१।२।४६) प्रातिपदिकसंज्ञाया सत्या सुपो धातुप्रातिपदिकयोरिति (२।४।७१) सुब्लुक् प्राप्नोति। तस्य प्रतिषेधो वक्तव्यः । गर्भविमोचनेऽपि विनिवर्तत इत्याहुरिति । तदेवं मन्यते । यदा गर्भधारणे वर्तते तदात्यन्तसंयोग द्वितीयैवान । सप्तमी। गर्भविमोचने विजनावुपपद्यते सप्तमी। यलोपमात्रमिति । नहि गर्भविमोचनेन सकला समा व्याप्यत इति मात्रशब्देन सर्वस्या विभक्तोंपो न भवतीति दर्शयति। परिशिष्टस्येति । आम्शब्दस्य । अनुत्पत्ताविति । न (५२)। तद्वितस्योत्तरपदस्य चेति । चकारात् पूर्वपदस्य लोपो वक्तव्य इति यकारस्य प्रत्ययसनियोगेन विधीयमानी लोपस्तदभाव न प्राप्नोतीति पक्ष उपसंख्यायते । १३। अद्यश्वीनावष्टब्धे । अवष्टन्धे विजन आसन्ने प्रसव इति । अत्र पूर्वयोः पदयोरुत्तराभ्या यथा- क्रममाख्यानम् । १४। आगवीनः। १५। अनुग्वलंगामी। १६। अध्वनो यत्खौ। १७। अभ्यमित्राच्छ च । अभ्यमित्रादिति । अमित्रस्याभिमुखमभ्यमित्रम्। लक्षणेनाभिप्रती आभिमुख्य इत्यव्ययीभावः (२।१।१४)। क्रियाविशेषणञ्चैतत् । तेन द्वितीयैव समर्थविभक्तिर्भवति । १८। गोष्ठात् खञ् भूतपूर्व । भूतपूर्वे चरडिति (५ ३।५३) प्रासे खञ् विधीयते । गावस्तिष्ठन्यस्मिन्निति गोष्ठमिति। सुपि स्थ इति (३।२।४) क । अम्बाम्बगोभूमीत्यादिना (८।३।८७) मूर्धन्यः । भूतपूर्व इति । पूर्व भूत इति भूतपूर्वः। सुप्सुपति समासः । भूतपूर्वग्रहणं तस्यैव विशेषणमिति । अर्थद्वारकं वेदितव्यं यथा धातो: कर्मणः समान इत्यादिसूत्रे (३।१।१३) कर्मत्वं समानकर्तृकत्वञ्च । १६। अश्वस्यैकाहगमः । एकाहेन गम्यत इति एकाहगम इति । अकर्तरि चेत्यादिना (३।३।१८) घञ् । निपातनान्न वृद्धिः । कर्तृकरण कता बहुलमिति (२।१।३२) समासः । आखीनानि शतं पतिखेति । एकाहेन यानि गम्यन्ते योजनानि तेषां शतं गवेत्यर्थः । शतं संख्येये वर्तमानं स्वसंख्योपादान एव स्वभावाद् वर्तते । तेनाखीनानि शतमित्याखीनशब्दन बह्वर्थप्रतिसामानधिकरण्येऽप्येक- वचनान्तमेव प्रयुज्यते। । ।

पश्यतीति । न्यामः। २०। शालौनकौपौने अधृष्टाकार्ययोः । यथा कथञ्चिदिति । येन केनचित् प्रकारण । नावयवार्थे प्रत्यभिनिवेश: कर्तव्य इति दर्शयति। उत्तरपदलोपश्चेति । उत्तरपदं प्रवेशनशब्दोऽव. तरणशब्दश्च । तस्य लोपः। शालीनो जड़ इति । स हि जाद्यात् प्रति- वचनमपि दातुं शक्तोऽप्याथै राट्रियमाणो न शक्नोति तत्र स्थातु जनता अतः शालाप्रवेशनमर्हति । शालाशब्दोऽयमिह कुटीरवचनः । कौपीनं पापमिति । तद्धि लोके निन्द्यत्वादकार्यत्वाचाकाव्यम् । तन्त्रोके कूपेऽवतरणं प्रवेशनमहतीत्युच्यते । तत्सामर्थ्याच् शरीरावयवः कश्चित् कौपीन- शब्दे नोच्यते । यदपि तस्य शरीरावयवस्या बाच्छादनाथं वासस्तदपि तत्सम्बन्धात् प्रवजितादीनां कौपीनमित्युच्यते । २१। वातेन जौवति। नानाजातीय इति। अनेकजातीयाः । अनियतवृत्तय इति । अनियत- क्रियाः। तेषां कर्म वातमिति । वातसाहचर्य्यात् तदपि बातमित्युच्यते । अथवा वातानामिदमित्यर्थविवक्षायां के प्राप्ते ऽस्मादेव निपातनादण भवति । तत्युनः कर्म भारवहनादि । तत्र नेष्यत इति । कथं पुनरिष्यमाणोऽपि न भवति ? प्रकृताया महाविभाषाया व्यवस्थितविभाषात्वात् । २२। साप्तपदौनं सख्यम् । साप्तपदीनमिति निपात्यत इति । किं पुनरत्र निपात्यते ? प्रत्ययार्थश्च प्रकृतः। खप्रत्ययार्थश्चावाप्तिः । सप्तभिः पदैरवाप्यत इति तद्धितार्थे समासः। ततः सप्तपदशब्दात् खञ् । कथमित्यादि। सख्युर्भावः कम् वा सख्यम् । तत्र यदि साप्तपदीनमिति निपात्यते सखिशब्देन सामानाधिकरण्यं न प्राप्नोति । नहि सख्यमेव सखा भवतीति प्रष्टुरभिप्रायः । गुणप्रधान इत्यादि। गुणो भावः कर्म वा प्रधानं यस्य स तथोक्तः । स यदा च गुणमात्रे मुख्यया वृत्त्या वर्तते तदा गुणप्रधानो वेदितव्यः । तदा सख्यशब्देन सामानाधिकरण्यं भवतीति। योरप्येकार्थहत्तित्वात् । यदा वित्यादि । लक्षणा उपचारः। धम्मेधम्मिणोरभेदेनोपचारण गौण्या वृत्त्या यदा तहति प्रत्ययः यथा यदा शुल- (५२)। संख्यावति पुरुषे वर्तते तदानेनैव समानाधिकरणो भवति । शब्दो गुणमात्रे वर्त्तते तदा ट्रव्यशब्देन समानाधिकरणो न भवति पटस्य शुक्ल इति यदात्वसौ त्वमित्यभिसम्बन्धात् पटे वर्त्तते तदा सामानाधिकरण्यं भवति शुक्लः पट इति तथेहापि वेदितव्यम् । २३। हैयङ्गवौनं संज्ञायाम् । ह्योगोदोहस्य हियङ्गादेश इति । योगोदोहशब्दस्य हियमुशब्द आदेश इत्यर्थः । यो गोदोहनं ह्योगोदोहः। सुपसुपति समासः । विकार खञ्- प्रत्यय इति । तस्य विकार इति (४।३।१३४) प्राप्तस्याणोऽपवाद इति । २४॥ तस्य पाकमूले पोल्वादिकर्णादिभ्यः कुणजाहचौ । अणोऽपवादो। तस्येदमित्यणि प्राप्ते (४।३।१२०) कुणबादयो विधीयन्ते । जकारस्य प्रयोजनाभावाचुटू (१।३।७) इतीत्संज्ञा न भवति (D) । २५। पक्षात् तिः । एकयोगनिर्दिष्टानामिति । स्वरितत्वेनादिशब्दानामनुत्तिर्भवति । स्वरि- तत्वप्रतिज्ञाप्रतिबद्धत्वात् । एकयोगनिर्दिष्टानामपि यत्र प्रतिज्ञायते खरितत्वं तत्रैव भवति । नान्यत्र । तेनैकयोगनिर्दिष्टानामप्येकदेशस्यानुवृत्तिरुपपद्यते । २६ । तेन वित्तश्चुचुपचणपौ। विद्याचुचुः । विद्याचण इति । अथ चुटू इति (१।३।७) चकारस्येत्संज्ञा कस्मात्र भवति? उक्तोऽस्य हेतु स्तत्रैव (१९३७) पृथग्योगकरणमस्य विवरनित्यत्वज्ञापनार्थमिति । २७। विनभ्यां नानाजी नसह । खार्थे नानाजी प्रत्ययौ भवत इति । अनिर्दिष्टार्थाः प्रत्ययाः खार्थे भवन्तीति कृत्वा । अकारस्त्वाचुदात्तार्थः । (D) एतनि प्रयोजनाभावान्नेत्सजेति व्यवस्थया । नहि प्रयोजनाभावे कस्यापीत्सज्ञा भवति । इदर्थाभावात सिद्धमिति ( ११३३, वा, ११३७, वा वार्तिककारवचनात )| This is according to a alfati ( viz EUTH1917 f84, I 3 3 at, and again repeated in 1 3 7 ) that there will be no elişion of any letter if there be no need for such an elision न्यासः। यत्र न २८। वैः शालच्छवाटचौ । ससाधनक्रियावचनादित्यादि । उक्तमेतत् । उपसर्गा ह्येवमात्मका भवन्ति यत्र कश्चित् क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषणमाहुः । प्रयुज्यते तत्र ससाधनक्रियामिति । इह न कश्चित् क्रियावाची शब्दः प्रयुज्यते । तस्मात् ससाधनक्रियावाचिन उपसर्गात् प्रत्ययो भवति । भवन्ननिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तीत्यनिर्दिष्टार्थत्वात् स्वार्थे भवति । विगते शृङ्गे इति । एतेन विगमनक्रियायां शृङ्गसाधनायां विशब्दो वर्तत इति दर्शयति । यदि समाधनायां क्रियायां प्रत्ययो विशालो गौविशङ्गटो गौरिति न सिध्यति । नहि गौरिह विगमनस्य साधनम्। किं तहिं ? शृङ्गे इत्यत आह तयोगादित्यादि । यथा सास्नाद्यवयवयोगादवयवधर्मेण गौः सास्नेत्युच्यते तथा विशालविशङ्कटशृङ्गयोगाद गौस्तथत्युच्यते। परमार्थत- स्त्वित्यादि । समुदायो व्युत्पत्त्यर्थः । अतोऽत्र न केवलं ससाधनक्रिया नास्त्यपिच साधनमपि नास्ति। तस्माद् गुणशब्दा विशालादयः परमार्थतो लोके प्रसिद्धा यथा शुक्लादयः शब्दाः। तेन नाव विशालादिषु प्रकतिप्रत्ययार्थयोरभि- निवेशः कर्त्तव्यः । तदेवं परमार्थतोऽतर्थकाः । वेः शालच्छङ्कटचावण्यनर्थ कावव विधीयेते इत्युक्तं भवति । एत इति । व्युत्पादयिष्यमाणान् संकटादोन् बुद्धौ कृत्वा बहुवचनं कृतम् । तेऽपि हि गुणशब्दा एव । २६। संप्रोदश्च कटच् । ससाधनक्रियावचनादुपसर्गात् स्वार्थे प्रत्यय इति सव्वं पूर्ववदेव वेदि- तव्यम् । अलाबूतिलोमत्यादि । अलावप्रभृतिभ्यो रजस्यभिधेये कटच्- प्रत्ययस्योपसंख्यान कर्तव्यम् । विकारप्रत्ययानाम पवादः। अलावूप्रभृतीनां यद्रजस्तस्य तहिकारत्वात् । गोष्ठादय इत्यादि। आदिशब्दः प्रकार । पशुनामानि गोशब्दादीनि। तभ्यः स्थानादिष्वभिधेयेषु गोष्ठजादय. प्रत्यया तस्येदमित्यर्थविवक्षायां (४।३।१२०) स्थानादिषु गोष्ठजादयो विधीयन्ते। ननु तद्धिता इति (४।१।७६) बहुवचनेनैव संग्टहीतं संघाते कटजित्यादि सर्वम् । सत्यम् । अनन्तरोतस्यैव वाक्यस्य प्रपञ्चोऽयम् । अविकट वक्तव्याः।

(५।२)। ur इति। अत्र तस्य समूह इति ( ४।२।३७) सामूहिक प्रत्यये प्राप्ते कटच् । अविपटमिति। प्रकीर्णानामवीना विस्तार उच्यते । हावुष्ट्रावुष्ट्रगोयुगम् । षड् हस्तिनो हस्तिषड्गवम् । इगुदस्य स्नेह इमुदतैलम् । तिलस्य रसस्तिल- तैलम् । भवने क्षेत्र इत्यादि । इक्षुणां भवनं क्षेत्रमिक्षुशाकटम् । इक्षुशाकिनम् । मूलस्य भवनं क्षेत्र मूलशाकटम् । मूलशाकिनम् । ३० । अवात् कुटारच । ३१। नते नासिकायाः संज्ञायां टोटञ्नाटजभटचः । नमनं नतमिति । भावे निष्ठां दर्शयति । नासिकायाः सम्बन्धिनीति । अनेनापि नासिकाया इत्यपि सम्बन्धलक्षणा षष्ठी। यदि नासिकायाः सम्बन्धिनि नते वाच्य एते प्रत्ययाः कथं तदेतेन नासिका पुरुषश्चाभिधीयत इत्याह तद्योगादिति। २२ । नेविड़बिरौसचौ। कथं निबिडा इति । तद्योगोऽत्र नास्ति । अतस्तद्योगाभावात् तथा- भिधान नोपपद्यत इत्यभिप्रायः । उपमानाद् भविष्यतीति । निबिड़तया नासिकया तुल्याः केशा वस्त्राणि च निबिड़तया। तेनोपमानात् तदुभयं निबिडशब्दवाचं भविष्यति । ३३ । इनपिटचिक चि च । ककारः प्रत्ययो वक्तव्य इत्याटि। वक्तव्यो व्याख्येय इत्यर्थः । नन्तु चकारस्यानुक्तसमुच्चयार्थत्वमाश्रित्य कर्तव्यम् । तथाचोक्तमिति। वार्तिककारण। अस्येत्यनेन नार्थ इति । वाक्यैकदेशं प्रत्याचष्टे । यदि चक्षुषोरेवाभिधाने प्रत्ययः पुरुषस्य तथाभिधानं न प्राप्नोतीत्यत आह तदयोगा- दित्यादि। ३४। उपाधिभ्यां त्यकन्नासन्नारूढ़योः । संज्ञाधिकाराचेति । नते नासिकाया इत्यादिसूत्रात् (५।२।३१) संज्ञाथि- कारानुवृत्तेः। नियतविषयमिति । पन्त विषयमवासनारूढ़ रयते । तेन वचस्यासन्न प्लक्षस्यारूढ़मित्यत्र न भवतीति भाव.। अथोपत्यकाधित्यकेत्यत्र व्याख्या- न्यासः । प्रत्ययस्थात् कात् पूर्वस्येत्यनेनेत्त्वं (७।३।४8) कस्मान्न भवतीत्यत आह प्रत्यय- स्थात् कादिति। यद्यवेत्त्वस्यात् संज्ञारूपं न सिध्येत् । नोपत्यिकाधित्यि- लेत्येवंरूपा संज्ञा । तस्मात् संज्ञाधिकारादित्व न भवति । ३५। कर्मणि घटोऽठच । कर्मणीत्यनेन कर्मणीति स्वरूपग्रहणं दर्शयति । अथ पारिभाषिकस्य कर्मणो ग्रहणं कस्मान्न भवति १ असम्भवात्। असम्भवस्तु घटतेरकर्मकत्वात् । अटच्प्रत्ययेऽकारोच्चारणं ठस्य कादेशनिवृत्त्यर्थम् । ३६ । तदस्य सञ्जातं तारकादिभ्य इतच् । तारकादिषु बुभुक्षापिपासाशब्दौ पठ्यते। तयोः किमर्थः पाठः ? यावता सन्नन्ताम्यां निष्ठायामिटि च कृते बुमुक्षितः पिपासितो देवदत्त इति भवति ? सत्यम् । भूते विधानाद वर्तमाने न सिध्यति । अनेन तु वर्तमानेऽपि सिध्यति । तस्माद युक्तस्तयोः पाठः । गर्भादप्राणितीति । गर्भ- शब्दादप्राणिन्यभिधेय इतच्प्रतायो भवति । गर्भिताः शालयः । अप्राणिनीति किम् ? गर्भः सञ्जातोऽस्या गर्भिणी गौः । ३७। प्रमाणे इयसजदघ्नज्मात्रचः । प्रमाणशब्दस्य सम्बन्धिशब्दत्वात् प्रतायाथो विज्ञायते । प्रथमश्च दितीय- श्वेत्यादि । यसज्दघ्नचौ अर्द्धमान इष्यते । उपरि निक्षिप्य यत्र मीयते । न तिर्यक् । समन्ततो वा। तटूईमानम्। अविशेषेणेति । प्रमाणे परि- माण उन्माने वा ऽविशेषेण सर्वत्र मात्रज् भवतोदि। प्रस्थमात्रमितापि भवतीति । अपिशब्दाद वितस्तिमात्रमितापि भवतीति । प्रमाणे लोरिति । लुकश्चायं पूर्वाचार्यविहिता संज्ञा । उत्पन्नस्य लुगुच्यते । न इयसदिनयोः । तयोरूर्द्धमाने विधानात् । अस्मिन्नर्थ उत्पत्तिरपि नास्ति । दिगोर्नितामिति। दिगोरप्रमाणत्वात् । सतापि च प्रमाणान्तत्वे तदन्तविधेरभावात् । पूर्वेण प्राप्तएव लुगुच्यते। निताग्रहणं किमिति । महि विकल्पः प्रकृतो यनिवृत्त्यर्थं नितग्रहणं क्रियते । नच पूर्वस्य विध- विकल्पेन प्रवृत्तिं ज्ञापयितुमिह नितयग्रहणं कर्तुं युक्तम्। नह्यसौ विभाषये- अयं मात्रच (५२)। श्रावी। थत इत्यभिप्रायः। संशय इत्यादिना नित्यग्रहणम्य प्रयोजनमाह। श्रवणं श्रावः। कृत्यल्युटो बहुल मिति भावे (३।३।११३) घञ्। श्रावोऽस्यास्तीति स पुनर्वक्ष्यमाणो मात्रचप्रत्ययः । प्रमाण सम्बन्धेनोच्यते । स्तोम डडित्यादि। पञ्चदशाहानि परिमाणमस्य यज्ञस्य पञ्चदशः । पञ्चदशीति । टित्त्वान् डीप् । शत्रशतोर्डिनिरिति । स्तोमे चान्यत्राविशेषणायं विधिः । विशिन इति। डिनिः । ति विंशते डितीति (६।४।१४२) तिलोपः। यस्येति (६।४।१४८) लोपश्च । शममात्रं दिष्टिमात्रमिति । प्रमाणस्यो- दाहरणद्दयम् । प्रस्थमात्रं कुड़वमात्रमिति। परिमाणस्य । पञ्चमात्रम्। दशमात्रा इति संख्यायाः । यत्रैतन्न निणीयते शमं स्याहा नवेति तत्र शममात्रमिति प्रयुज्यते। एवमन्यत्रापि यथायोगं वेदितव्यम् । ३८। पुरुषहस्तिभ्यामण च । हास्तिनमिति । इनण्यनपत्य इति (६।४।१६४) प्रकृतिभावः । हिपुरुषीति । पुरुषात् प्रमाणेऽन्यतरस्यामिति (४।१।२४) डौ। दिहस्ति- अत्र ऋन्नेभ्यो डीबिति (४।१।५) डीम् । ३६। यत्तदेतेभ्यः परिमाणे वतुप। यावानिति । आ सर्वनाम्न इत्या कारः (६।३।२१)। उगिदचामिति ( ७।१७० ) नुम् । अवसन्तस्य चाधातोरिति (६।४।१४) दीर्घः । हल्ड्यादिसंयोगान्तलोपौ। प्रमाणपरिमाण शब्दौ पायाविति मन्यमानो यश्चोदयेदय कस्मात् परिमाणग्रहणं क्रियते ? यावता प्रमाणग्रहणमनुवर्तत एवेति तं प्रत्याह प्रमाण इति वर्तमान इतवादि। स पुनरनयोः प्रमाण परिमाणयोर्भेदः परिमाणन्तु सर्वत आयामस्तु प्रमाणं स्यादिति प्रागव व्याख्यातः। डावतावर्थवैशेष्यादिति । डावताविति पूर्वाचार्य संज्ञाप्रति- पादितापक्षोऽयं निर्देशः । ते हि यत्तदेतेभ्यो डावतुमेव प्रतायं कृतवन्तः । विशिष्यत इति विशेषः । विशेषस्य भावो वैशष्यम् । अर्थस्य वैशेष्यमर्थस्य विशिष्टत्वमितार्थः। प्रमाण शब्दस्यान्योऽर्थः परिमाणशब्दस्य चान्योऽर्थ इति भिन्नार्थत्वमनयोः । तस्मादर्थवैशेष्याड्डावतो विधातव्ये परिमाणशब्दस्य नौति ।

न्यासः। ० निर्देशः पृथगुचत । उच्यत इति । क्रियत इतार्थः । किमर्थ: पृथग्निर्देश: क्रियत इत्याह मात्राद्यप्रतिघातायेति । पृथनिर्देशनार्थभेदे सिडे सति मात्रजादीनां बाधा मा भूदित्येवमर्थः पृथग्निर्देशः क्रियत इत्याह । अथैकत्वे तु प्रकृतिसामान्ये मात्रजादयो विधीयमाना उत्सर्गा भवन्ति । प्रकृतिविशेषात् तु वतु विधीयमानोऽपवादो भवति । अपवादनोत्सर्गो बाध्यत इति यत्. तदेतेभ्यो मात्रजादयो न स्य:। ततश्च तत्प्रमाण मस्य तन्मात्रमित्यादि न सिध्येत्। अर्थभेदयुत्सर्गापवादभावो नास्तीति न भवत्येष दोषप्रसङ्गः । किञ्च भावःसिद्धश्च डावतोरिति । डावतोरिति पञ्चमी। अर्थभेदे सति वतुम्- प्रत्ययान्तान् मात्रजादीनामुत्पत्तिश्च सिद्धा भवति। परिमाण वनुब् भवति । यत् परिमाणमस्य यावानिति । तदन्तात् परिमाणे मात्रजादयो भवन्ति । यावत् परिमाणमस्य यावन्मात्रम् । अथैकल्वे तूतानामप्रयोग इति मतुपाभि हितत्वादस्यार्थस्य तदन्तान् मात्रजादयो न स्युः । त्वावतः। मावत इति । मपर्यं- न्तयोयुष्मदस्मदोः प्रत्ययोत्तरपदयोश्चेति (७।२।८८) त्वमादेशौ। पूर्ववदात्त्वम् । ४० किमिदंभ्यां वो घः। कियान् । इयानिति । इदंकिमोरीशको इति (६।३।६०) किमः की। इदम ईश इति । यस्येति (६।४।१४८) लोपः। केन पुनः किमिदंभ्यां विहितस्य वतुपो वकापस्य घत्वं विधीयत इतबाह अथवेतपादि । योगविभागेन वेति । किमिदंभ्यामिलेतावता योगेन वतुपं विधाय ततो वो घ इतानेन वतुपो वकारस्य घत्व विधीयते । अथ वग्रहणं किमर्थम् ? यावताऽदेः परस्येति (१।१।५४) वकारस्यैव धो विज्ञायते । ननु चानेकालत्वात् सर्वादेशः प्राप्नोति । नैष दोषः। अकारो ह्यत्रोच्चारणार्थो वर्णमात्रमेव । न त्वादेशः। कुतः पुनरेतद् विज्ञेयम् ? व्याख्यानात् । तहि वकार एव लघीयानिति युक्तं तस्य स्थानित्वे नोपादानम् । वकारे त्वस्थानिन्युपाते यद्यपि समुदायादेशस्तथापि न दोषः। वयोरकारयोः पररूपं भविष्यति । ४१ । किमः संख्यापरिमाणे डति च । संख्यायाः परिमाणमिति । अयोगलक्षणा कर्मणि षष्ठी। परिमितिः (५२)। परिमाणम् । संख्यापरिच्छेद इत्यर्थः । परिच्छेद इति भावे धज । संख्या- परिच्छेदे वर्तमानादिति । परिच्छेदोपाधिकाया संख्यायां वर्तमानादित्ये- षोऽर्थों विवक्षितः । यथा ह्ययमेवार्थोऽस्य वचनस्योत्तरत्र तथा व्यक्तीकरिष्यते । तस्य वकारस्य घत्वमिति । वो घ इत्यनुवृत्ते' । वो घ इत्यनुवृत्ते । पृच्च्यमानत्वादिति । यदा संख्यायाः परिच्छेदे किंशब्दो वर्तते । कदा च वर्त्तते ? यदा संख्या परिपृच्च्य माना भवति। नापरिपृच्च्यमानायाः परिच्छेद उपपद्यते । यदा च परिपृच्च्य- माना भवति तदा च किंशब्दः परिच्छेदविशिष्टाया वर्तत इति पृच्च्यमानत्वात् परिच्छेदोपाधिकाया संख्यायां वर्तमानात् किमः प्रत्ययो भवतीति विज्ञायते । परिच्छेद उपाधिर्विशेषणभूतो यस्याः सा परिच्छेदोपाधिका। परिच्छेद- विशेषणति यावत् । तदनेन संख्या परिच्छेदे वर्तमानात् किम इत्यस्य योऽर्थोंs- ऽभिमतः स व्यक्ती कतः । कतीति । जसः षड्भ्यो लुगिति (७।१।२२) लुक् । अथवेत्यादि । अत्न च व्याख्याने संख्यापरिमाण इति कर्मधारयः । निपातना- दुपसजेनस्यायं परनिपातः । परिमाणशब्दश्च परिमीयतेऽनेनेति करणसाधनः । एवमात्मिकैवेति । अस्यार्थ परिच्छेदस्वभावत्यनेन विस्पष्टीकरोति । परि- च्छिद्यतेऽनेनेति परिच्छेद' । स खभावो यस्याः सा तथोक्ता। यत्रेत्यादिना यदथं परिमाण ग्रहणेन संख्या विशेष्यते तद्दर्शयति। स्थादेतत् । नास्त्येव स विशेषो यत्र संख्यायाः परिच्छेदस्वभावी नास्ति । तदपार्थकं विशेषण- मित्यत आह क्षेपे होत्यादि। केयमेषां मंख्या दशानामिति । नात्र संख्या परिच्छेदकत्वेन विवक्षिता। नद्यत्र परिच्छेदोऽस्ति । क्षेपपरत्वाद वाक्यस्य । किंशब्दोऽत्र क्षेप वर्त्तते । न प्रश्ने । । ४२। संख्याया अवयवे तयप । चतुष्टय इति। चतुरो रेफस्य विसर्जनीयस्य स इति (८।३।३४) सः । तस्यापि हस्वान्तात् तादौ च तद्धित इति (८।३।१३१) मूर्धन्यः । टिड्ढाण- जित्यादिना (४।१।१५) डीप् । ४३। दिविभ्यां तयस्थायज् वा । तयप्रत्ययग्रहण किमर्थम् ? यावता प्रकृत एवासावनुवर्तिष्वत इत्याह ७२ न्यासः। यद्यनु- तयग्रहणमित्यादि। यदि तयग्रहणं न क्रियेत तदा तयप्रत्ययादन्य एवाय- मयच् प्रत्ययो विज्ञायेत । न तयबादेशः। किं पुन, स्याद् यदि प्रत्ययान्तरं स्यात् ? तयप्कार्य्यमयचो न स्यात् । किं तत् ? किं तत् ? प्रथमचरमेत्यादिना ( १।१।३२) जसि विभाषा सर्वनामसंज्ञा। इये हयाः। टिड्ढाणजिति ( ४।१।१५) डीम् । इयो। ननु च पूर्वसूत्रेणैव विहितस्य तयप इह चादेशानुवतिर्विज्ञायते । प्रयोजनान्तराभावात् । वित्रिभ्यामिति पञ्चमी- निर्देशस्तस्मादित्युत्तरस्येति ( १।१।६७ ) षष्ठयन्तं संपादयिष्यते। अतोऽने- नान्तरेणापि तयग्रहणं तयपस्थानित्वं लभ्यत एव। नैतदस्ति । वृत्तिस्तयपोऽन्यार्था न स्यात् ततोऽनुवृत्तिसामर्थ्यात् तयपः स्थानिवं विज्ञायेत तस्य त्वनुत्तिरुत्तरार्थापि भवति । उभादुदात्तो नित्यमित्यत्र (५।२।४३) योगविभागन तय विधातव्यः । नचानुवर्चमानः शक्यते विधातुम् । अत उत्तरार्थायामनुबत्ती सत्यां तयणस्थानित्वमयुक्तमिति तयग्रहणं क्रियते । ४४ । उभानुदात्तो नित्यम् । वचनसामर्थ्यादित्यादि। यद्यन्तोदात्तः स्यादुदात्तवचनमनर्थकं स्यात् । अयचि च कृते चित्खरेणैव सतिशिष्टवरो (६।१।१५८, वा) बलीयानित्यन्तो- दात्तत्वस्य सिद्धत्वात् । आधुदात्तत्वं मन्यथा न सिध्यतीति तदर्थ क्रियमाण- मर्थवद् वचनं भवतीति । यदि लौकिको संख्येति । विवादिवत् । पूर्वेण योगन तयपो विधानम्। तस्यापरेण योगेन नित्यमयजादेशो विधीयते । उभये देवमनुष्या इति । उभाववयवौ येषामित्युभये । कथं बहुवे देव- मनुष्याणा हाववयवौ भवतः . यद्यम्यत्र बहुत्वमस्ति दित्वमपि तु प्राति- पदिकयोरस्त्येव । अत्र हि हौ राशी समुदायस्यावयवौ । एको देवानां राशि- रपरो मनुष्याणामित्यदोषः । ४५। तदस्मिन्नधिकमिति दशान्ताड्डः । प्रत्ययार्थेन चेत्यादि। यथाजातीयः प्रत्ययार्थ स्तथा जातीय एव यदि प्रकृत्यर्थी भवतेववं प्रत्यय इष्यते । नान्यथा। प्रत्ययार्थेन प्रकृत्यर्थस्य तुल्यजातीयत्व दर्शयितुमुदाहरणमुपन्यस्यति । एकादश कार्षापणा इति ।

इष्यते । अन हि (५२)। ७३ प्रकात्यर्थोऽप्येकादश कार्षापणा एवेति प्रकृत्यर्थः प्रत्ययार्थेन समानजातीयः । इह तु नेत्यादि। अत्र हि कार्षापणशतं प्रत्ययार्थः । प्रकृत्यर्थ स्त्वेकादश माषाः। ते च कार्षापणेभ्यो विजातीया इति न भवति प्रत्ययः । शत- सहस्रयोश्चैवष्यत इति । यत् तदस्मिन्नितुच्यते तस्मिंश्च शते सहने वा प्रत्यय नान्यत्र त्रिंशत्यादौ। कथं पुनरनुपातमेव सूत्रे लभ्यत इत्याह इतिकरणो विवक्षार्थ इत्यादि। कथमित्यादि । यदि शते सहस्त्रे वाधिकिनि प्रतायेन भवितव्यमिह प्रतायो न प्राप्नोत्येकादशं शतसहस्त्रमिति । शतसहस्र संख्यान्तरञ्चाधिकम् । न शतं नापि सहस्रमिताभिप्रायः । शतानामितयादि। अनेन शतसहस्रस्य संख्यान्तरं निरस्यति । यदा शतशब्दः षष्ठयन्तः सहस्रशब्देन समस्यते तदा शतानां सहस्त्रं शतसहस्रशब्देनोच्यते । यदा तु सहस्त्रशब्दः षष्ठान्तशब्देन समस्यते तदा सहस्त्राणा शतं शतसहस्त्र- शब्देनोच्यते । ननु च सहस्त्रशब्दस्य षष्ठान्तस्य समासे सहस्रशतमिति भवितव्यम् । राजदन्तादिषु दर्शनात् तस्य परनिपातो भविष्थतीता- तत्र शतसहस्रबोरित्येव सिद्धमिति । शतसहस्रवाचस्यार्थस्य शतसहस्रयारवान्तर्भावात् । अधिक इतवादि। लोक प्रतायार्थेन समानजातावधिक शतसहस्रयोरेव प्रतायाख्यं कार्यमिष्टम् । यदात्व- समानजात्यधिकं भवति न च शतं सहस्त्र वा प्रतायार्थेन विवक्षित तदा नेष्यते । अथैकादशं शतसहस्रमितपत्र कस्याधिक्ये सति डः कर्त्तव्य इतबाह यस्येतपादि। सख्या संख्यानं गणनमितार्थः । यस्य संख्या तस्याधिक्ये डः कर्तव्यः । कस्य च संख्या भवति ? अधिक संख्यायते यस्य । यदा शतानि संख्यायते तदा शतानां सहस्रमिति शतसहस्रम् । शताधिक्ये डः कर्तव्यः । एकादशाधिकान्यस्मिन् सहस्र एकादशं शतसहस्त्र- यदा तु सहस्राणि मंख्यायते सहस्त्राणां शतं सहस्त्रशतमिति तदा सहस्राधिक्ये डः कर्तव्यः । एकादशसहस्राण्यधिकान्यस्मिन्नेकादशं शतसहसमिति। अथ किमर्थं तदिति प्रथमा समर्थविभक्तिरुपादीयते ? यावता तदस्य (५।२।३६) सञ्जातमित्यनुवर्तत एव । तत्र प्रत्ययार्थ एवास्मिन्निति निर्देष्टव्यः। नैवं शक्यम् । तदनुवृत्तौ हि तत्सम्बन्धस्यास्येति प्रत्ययार्थस्या- दोषः। तदा मिति । १० ७४ न्यासः । प्यनुहत्तिः प्रसज्येत । न च षष्ठीसप्तम्यर्थ योर्विरोधः । ततोऽस्मिन्निति निर्देशात् पूर्वः प्रत्ययार्थी न निवर्तते । तस्यान्त्वनुवृत्तौ षष्ठयर्थेऽपि प्रत्ययः स्यात्। तस्मादस्येति निवृत्त्यर्थं पुनस्तदिति प्रथमा समर्थविभक्तिरुपादीयते । यद्येवमस्येति प्रत्ययार्थस्य निवृत्तत्वात् संख्याया गुणस्य निमाने मयडित्यत्र (५।२।४७) षष्ठयर्थे प्रत्ययो न प्राप्नोति । इह निहत्तस्यापि मण्डूकम्नुतिन्याये- नानुत्तिर्भविष्यतीत्यदोषः । अन्ये तु ज्ञापकं तदित्यस्य वर्णयन्ति । तदिति प्रकृते यत् तदित्याह तज् ज्ञापयति तदस्य सञ्जातमित्यादौ सूत्रे (५।२।३६) यनिर्दिष्टं तदिहानुवर्तमानमप्यगभावं न यातीति षष्ठार्थे प्रत्ययो न भवति । ४६। शदन्तविंशतेश्च । ननु च पड़तीत्यादौ (५।११५८) सूत्रे त्रिंशदादयः शब्दाः शत्प्रत्ययान्ता निपातिताः । ततश्च प्रत्ययग्रहणपरिभाषयैव तदन्तात् प्रत्ययो लभ्यते । तत् किमन्तग्रहणे नेत्याह शग्रहणऽन्तग्रहणमित्यादि। यद्यन्तग्रहणं न क्रियेत सदा प्रत्ययग्रहण परिभाषया यस्मात् स विहितस्तदादेरेव स्यात। नाधिकात् । अतोऽधिकादपि यथा स्यादित्येवमर्थमन्तग्रहणम् । यदि तहि यस्मात् प्रत्ययो विहितस्तदादेरधिकार्थमन्तग्रहणं केवलान्न प्राप्नोति । नैष दोष.। चकारोऽत्र स चानुक्तसमुच्चयार्थः । तेन केवलादपि भविष्यति। संख्या- ग्रहणञ्च कर्त्तव्यमिति संख्या ग्राह्यते। येन संख्याग्रहणं तत् कर्तव्यम् । किं पुनः कर्तव्यम् ? व्याख्यानम् । तत्रेदं व्याख्यानम् । संख्याया अवयवे तयबित्यतः (५।२।४२) संख्याया इत्यनुवर्तते । तेन संख्याधिकादेव भविष्यति । नान्या- धिकात्। विशतिश्चेत्यादि। विशतिशब्दाच्च तदन्ताच्च प्रातिपदिका डप्रत्ययो भवतीत्येतदर्थ रूपं व्याख्येयमित्यर्थः । तत्रेद व्याख्यानम्। विंशति- शब्दात् तावत् साक्षात् सूत्रोपात्तात् प्रत्ययो भवति। तदन्तादपि । चकार- स्यानुत्तासमुच्चयार्थत्वादिति । संख्याग्रहणञ्चेत्यादौ पूर्व एवार्थः । व्याख्यानमपि पूर्वकमेव । ४७। संख्याया गुणस्य निमाने मयट। गुणो येन निमीयत इति । परिवर्त्यते विक्रीयत इत्यर्थः। सोऽपी- क्रियते ।

(५।२)। त्यादि। नहि तस्य भागत्वमन्तरेण निमयस्य गुण इत्येव निर्दिष्टस्य भागत्व- मध्यवसातु शक्यम् । यदाहि मूलस्य भागत्वं नास्ति भागव्यपदेशी न प्रवर्तत एव । तेन यद्यपि निमानस्य भागता नोक्ता तथापि सामात् सा प्रतीयते । यवानां हौ भागो निमानमस्येति । ननु चोभयत्रापि परिवर्तन तथापि मुल्य एव निमानशब्दो रूढ इति यन्मूल्यत्वेन विवक्षितं तदेव निमानं भवति । नेतरत् । यवानामिति । भागापेक्षया षष्ठी। यद्येवं परापेक्ष उदविच्छब्दे तधितस्य वृत्तिविरुध्यत । ननूदविभाग प्रत्ययः । नोदविति। तत् कथं हिमयमुदश्विदिति प्रत्ययान्तस्योदविच्छन्देन सामानाधिकरण्यमित्यत आह भागऽपि स्वित्या अत्र पुनरभिधानशक्तिस्वभाव्यं हेतुः । यथैवाणादयो- ऽपतवापतावत्सम्बन्धेऽपि विधीयमाना ऽभिधानशक्तिस्वाभाव्यात् प्राधान्येन सम्बन्धिनमाचक्षत औपगवी दाक्षिरिति तथायमपि भागे विधीयमानो भागवन्तमुदखिदादिकमाचष्टे । गुणस्येति चैकत्वं विवक्षितमिति । गुणस्येति यैकसंख्या सा विवक्षिता। ननु च तद्धिता इति (४।१।७६) निर्देशेऽपि बहु- वचनमप्रमाणन् । तस्याविवक्षितत्वादिल्युताम् । तत् कथमि हैकत्वविवक्षा दुज्यते । नैष दोषः। इह हि षष्ठीसमासं कृत्वा गुणनिमान एव कर्तव्यम् । एवं हि लघु सूत्रं भवति । सोऽयमेवं वक्तव्ये सति यद् गुणस्येत्येकवचनमुच्चार- यति तेनैतत् सूचयति विवक्षितमत्त्रैकत्वमिति । तेनेत्यादिनैकत्वविवक्षायाः फलं दर्शयति । एकत्वविवक्षाया ह्ये तत् प्रयोजनम् । एकस्य गुणस्य निमाने वर्तमानाद् यथा स्यात् । दो भागौ यवानां त्रय उदखित इति । अत्र त्रयाणां भागाणां निमाने दिशब्दो वत्त त इति न भवति प्रत्ययः । ननु च सत्यामध्येकत्वविवक्षाया नैवात्र प्रत्ययो न भवितव्यम् । यतो भूयमश्च वाचि- कायाः संख्यायाः प्रताय इष्यत इति वचनम् । न ह्या दिशब्दो भूयसो वाचकः। एवं तर्हि यवानां यौ हौ भागौ ताविह निमेयत्वेन विवक्ष्येते । ये त्रय उदविती भागास्ते निमानत्वेन । तत्र यद्येकत्व विवक्षा न स्यात् तदा त्रिदखिद्गुणेषु वर्तमानात् त्रिशब्दात् प्रत्ययः स्यात् । प्रत्ययार्थात् प्रकृत्यर्थस्य भूयसी वाचिकायाः प्रत्यय इष्यते । नान्यतः । इह न भवतीति। अनभिधानात् । तदस्मिन्न धिकमित्यादेः (५।२।४५) सूत्रादिति- भूयसश्चेत्यपि न्यासः । करणानुवृते । यदि भूयसो वाचिकायाः संख्याया इष्यते यवानां दो भागो निमानमस्येत्यत्र न प्राप्नोतीत्यत आह भूयस इति चेत्यादि। एवमपि हि प्राप्नोति द्वौ यवानामध्यई उदश्वित इति । अस्ति पुत्र प्रत्ययार्थात् प्रकृत्यर्थस्याधिक्यमित्यत आह गुणशब्द इत्यादि । गुणशब्दो ह्ययं भाग वचनोऽपि समतामपि तस्य भागस्य ब्रूते । न चाध्यईशब्देन समभाग उच्यते । निमये चापि दृश्यत इति । केन पुनर्विहितो दृश्यते ? अनेनैव । कथम् ? हे अत्र वाक्ये । तत्रैकस्मिन वाक्ये निमानशब्दः करणसाधनो निमीयतेऽनेनेति निमानम् । द्वितीये तु कर्मसाधनो निमीयत इति निमानम् । कृत्यल्युटो बहुलमिति (३।३।११३) कर्मणि लुट् । यदा करणसाधनस्तदा गुणस्येति कर्मणि षष्ठी। यदा तु कम्मसाधनस्तदा कर्तरि। गुणो हि निमानक्रिया- करणमिति कर्तृत्वेन विवक्ष्यते । भवति हि करणस्य कर्तृत्वेन विवक्षा यथा साध्वसिग्छिनत्तीति । तत्रैकन वाक्येन निमाने वर्तमानायाः संख्याया निमेयेऽभिधेये प्रत्ययो विधीयते । अपरण निमेये वर्तमानाया निमानेऽभि- धेयेऽपि प्रत्ययोऽभिधीयते । वाक्यभेदस्य च संख्याग्रहणं निबन्धनम। संख्याया अवयवे तय बित्यतः (५।२।४२) । एवञ्च संख्याग्रहणमनुवर्तते। इदमिह द्वितीयम् । तत्र यद्यत्रैक वाक्यं स्याद् द्वितीयं संख्याग्रहणमनर्थक स्यात् । सौत्रानुमिताभ्यां तु हे वाक्ये क्रियमाणे तदर्थवद्भवति । तस्माद हे अत्र वाक्ये । हो ब्रीहियवावित्यादि। अत्र नोदखिदभागस्य हौ ब्रीहियवौ निमानवेन विवक्षिती। किं तहि ? उदखितः। एवं दो गुणावित्यादि। प्रथमासमर्थों गुणस्य निमानेन वर्त्तते । नहि क्षीरस्य भागहयेन तैलस्य भागो निमीयते । मयट ष्टित्करणं डीबर्थम् । हौ गुडस्यै की द्राक्षाया हिमयी द्राक्षेति । ४८॥ तस्य पूरण डट। इह हे संख्याग्रहणे अनुवर्तते । तत्र चैकेन संख्यावाचिनः प्रातिपदिका- दिति ब्रूवता प्रकृतिविशेषिता । हितीयेन तु प्रत्ययाथं विशेषयितुमाह येनेत्यादि। संख्यानशब्द समुच्चारयन् संख्यावचन: संख्यानशब्देन पूरण इति । ( ५:२)। प्रत्ययार्थी विशेष्यत इति दर्शयति । द्विविधो हि संख्याशब्दः । संख्यान- वचनः संख्येयवचनश्च । तत्र यदि संग्व्येयवचनेन प्रत्ययार्थी विशेष्यते तदाय- मर्थः स्यात् । संख्येयं मुट्यादिकं येन पूर्यते द्रव्यान्तरेणातिरिक्त क्रियते स च ततश्च पञ्चाना मुष्टिकाणा घट इत्यत्रापि स्यात् । तस्मात् संख्यानवचनेनैव प्रत्ययार्थी विशेषयितुं युक्त' सम्पद्यत इति । पूर्वत इत्यस्यार्थ- माचष्टे । एतेनैतद्दर्शयति संख्यानवचनेन प्रत्ययार्थी विशेष्यते। मुष्टिकानामिव द्रव्याणां द्रव्यान्तरेणातिरिक्तकरणं संख्यायाः पूरणम् । कि तहि ? सम्पत्तिरवेति । इह न भवतीत्यादि। नहि घट उपजाते पञ्चव- संख्या मुष्टिकाना सम्पद्यते । किं तहि ? तन पञ्चसंख्यकानामिव द्रव्यान्तरणातिरिक्तता। ४६ । नान्तादसंख्यादेमंट । डटो मडागमो भवतीति । अथ प्रत्ययएव नान्तात् मट् कस्मान्न भवति ? नाहति प्रत्ययो भवितुम् । प्रत्यये हि तस्मिन् सति डटोऽनुत्तिरपार्थिका स्यात् । स हि पूर्वमेव विहितः । न च विहितस्यानुवृत्तिर्विधानार्थीपपद्यत इति । आगमार्थे च सा विज्ञायते । ननु च पञ्चम इत्यादौ न कश्चिद विशेषो मट आगमले प्रत्ययले वा। तदेव हि रूपं स एव हि स्वरः । किचानुवृत्तेन ? मट एव प्रत्ययल्लमस्तु । सत्यम् । इह नास्ति विशेषः । विशतितम इत्यादौ तु विद्यते। तथाहि विंशत्यादिभ्य स्तमडन्यतरस्यामिति (५।२।५६) मट्प्रतायः स्यात् । विंशतितमप्रभृतयः शब्दाः शब्दाः प्रतायवरेण मध्योदात्ताः स्युः । डटि तु प्रत्यये सति तस्याद्युदात्तवे कृते ततश्चागमानुदात्तले चान्तोदात्ता भवन्ति । तम्मादुत्तरार्थोऽनुवर्तमानस्ये हापि डट एव प्रतायत्व विज्ञायते। कथं पुनर्डटो मड़ागमः शक्यो विधातुम् ? यावता प्रथमानिर्दिष्ट प्रकृतं डड्ग्रहणम् । षष्ठीनिर्दिष्टेन चेहार्थ इतबाह नान्तादितयादि। यद्यपि प्रथमान्तं डग्रहणं प्रकृतं तथापि डट आगमसम्बन्धेन तस्मादित्युत्तरस्येति (१।११६७) नान्तादित्येषा पञ्चमो डडिति प्रथमायाः षष्ठौं प्रकल्पयतीतादोषः । पञ्चम इति टिलोपोऽत्र न भवति । मटि कृते सतामसंज्ञकत्वात् । ननु च ।

न्यास,। इति । परत्वार टिलोपेनैव तावद भवितव्यम्। नेतदस्ति । अन्तरङ्गो ह्यागमः । स हि प्रतायसन्नियोगेनोचते। टिलोपस्तूत्पन्ने प्रताये भसंज्ञाया सतयां प्रजाति- प्रतायावाश्रिता भवतीति बहिरङ्गो भवति । एकादशाना पूरण एकादश कथं पुनरस्मात् प्राप्ति: ? यावता सख्याग्रहणमनुवर्तते। संख्या- समुदायश्चायं न संख्या। नैष दोषः । संख्यासमुदायोऽपि हि संख्याग्रहणे न रहत। संख्यायतेऽनयेति तत्वा। अवश्यीतदेवं विजेयम् । अन्यथाऽदश तया न स्यात् । ५०। थट च च्छन्दसि । ५१। षट्कतिकतिपयचतुरां थुक । तदिह सप्तम्येतवादि। पूरणाधिकार ह्ययं विधीयमानो डट्सन्नियोगेन विधीयते। तत्र यद्यपि सप्तमी नास्ति तथापि डटि परतो विज्ञायते । तेनार्थाद् विभक्तिविपरिणामो भवतीति डडिति यद् वर्तते तदिह सप्तम्या विपरिणम्यते । कतिपयशब्दो न संख्येति । लौकिकत्वाभावात् संख्या न भवति। लोकेऽस्य संख्यालेनाप्रसिद्धत्वात् । शास्त्रीयोऽपि न भवति । शास्त्र संखयासंज्ञाऽविधानात् । यदि न संखया कथमस्य डट् ? यत्र परत स्थुग् विधीयत इतबाह तस्येतादि। यदेतड् डटि परतः कतिपयशब्दस्य थुविधानं तत एव ज्ञापका डटप्रतायोऽस्य भवतीतावसीयते । षष्ठ इति । ष्टुत्वम् । टिलोपोऽत्र न भवति । थुविधानसामर्थात् । आगमस्य पूर्वान्त- करणं भसंज्ञार्थम् । यदि परादिः क्रियते ततो भसंज्ञा न स्यात् । तथाचा- सतयां खादिष्वसर्वनामस्थान इति (१।४।१७) पदसंज्ञा स्यात् । इतपत्र जश्त्वं प्रसज्येत । चतुर्थ इति । अत्र रेफस्य विसर्जनीयस्य स इति (८।३।३४) सत्वम् । पूर्वान्ते तु संज्ञायां सत्यां न भवति । ५२। बहुपूगगणसंघस्य तिथुक् । पूगसङ्घयोरसंख्यात्वादिति । अत्र कथ' प्रत्यय इति। पूगसघशब्दो हि न लौकिकी संख्या । नापि शास्त्रीया । तत् कथं ताभ्यां डट्प्रत्ययः ? यत्र परत स्तयोस्तिथुग विधीयते १ डटि च विधानम् । अथात्रोत्तरमाह इद ततश्च षष्ठ ५२) - । मेवेत्यादि। यदेतड् डटि परतस्तयोस्तिथुको विधानमेतदेव ज्ञापयति भवति ताभ्यां डट्प्रत्यय इति । नवसतस्तिथुगागमं प्रति निमित्तभाव उपपद्यते । ५३। वतोरिथुक। यावतिथ इति । यत्तदेतेभ्यः परिमाणे वतुप् (५।२।३८)। आ सर्वनाम्नः (६।३।२१)। ५४। देस्तोयः। दिशब्दात् तीयप्रत्ययो भवतीति । अथ दिशब्दादुत्तरस्य डटस्तीयादेश: कस्मादेव न भवति ? ज्ञापकत्वात् । यदयं कम्मणि द्वितीयेति (२।३।२) टापा निर्देशं करोति तज् ज्ञापयति नायमादेश इति । यद्येवमनेनैव सिञ्चत्वात् प्रत्ययविधानमनर्थकम् । न । स्वरार्थत्वात् । निपातनाद्धि प्रातिपदिकस्वरेणा- न्तोदात्तः स्यात् । तीयप्रत्यये तु प्रत्ययस्वरेण मध्योदात्तो भवति । किञ्च यदि प्रत्ययो न विधीयते बाधकान्यपि निपातनानि भवन्तीति डडपि स्यात् । यदि पुनरयं डडादेशः स्यात् ? तर्हि किं स्यात् ? डट्वरेण तीयशब्दो- ऽन्तोदात्त. स्यात् । स्त्रियां च टित्वान् डीप् । ततश्च हितीयेति निर्देशो नोपपद्यते । ५५। वेः संप्रसारणञ्च । अण इति तत्र वर्तत इति । लोपे पूर्वोऽस्य दीपोंऽण इत्यतः (६।३।१११) ननु च परेण णकारेणाण्ग्रहण ऋकारोऽप्यण भविष्यतीत्यत आह पूण चेत्यादि । अत्र त्रे स्तृ चेत्येवं कस्मान्नोक्तम् ? अशक्यमेवं वक्तुम् । सन्देहः स्यात् किमयमादेश उत प्रत्यय इति । ५६। विंशत्यादिभ्यस्तमड़न्यतरस्याम् । विशत्यादिभ्यः परस्येत्यादि। ननु च तीयप्रत्ययेन डड् व्यवहितः : तत् कथं तमडागमः शक्यो विज्ञातुम् ? अत आह पूरणाधिकारात् । पूरणार्थे यो विहितस्तस्य विंशत्यादिभ्यः परस्य तमड् विधीयते । परस्य तमड् विधीयते। स नान्यो डटः सम्भवतीति डडेव विज्ञायते। विंशत्यादयो लौकिकाः संख्याशब्दा ग्रान्त न्यासः । इति । व्याप्तेायात् । ते पुनर्विशत्येकविंशतिप्रभृतयः संग्रहीता भवन्ति । किं पुन' स्याद् यदि पड्त्यादिसूत्रे (५॥११५८) सन्निविष्टा स्टोरनित्याह तत्र ग्रहणे होकविंशतिप्रतिभ्यो न स्यादिति । पत्यादिसूत्रेण (५।११५८) तेषामसनिविष्टत्वात् । स्यादेतत् । तदन्तविधिना तेभ्योऽपि भविष्यतीत्यत आह गहणवतेतयादि। ननु चासंख्यादेरिति प्रतिषेधात् तदन्तविधिरिति विज्ञायते । नैवं शक्यम् । व्यपटेशिवद्भावात् प्रातिपदिकेनेति (प, ३३) केवलेभ्यो न स्यात् । एवञ्चेतपादि । लोकिकानां ग्रहण सति विंशतपादिभ्यः प्राप्तौ सतया पाठयादेचा रंख्यादेरिति (५।२।४८) पर्युदासो युज्यत इति । अन्यथा कथञ्चिन्न प्रयुज्यते । सूत्रसन्निविष्टानां तु ग्रहणे तदन्तविधिज्ञापनार्थः पर्युदासी न प्रयुज्यत एव । केवलानामप्राप्तिप्रसङ्गात् । ५७। नित्यं शतादिमासाईमाससंवत्सराञ्च । शतादिग्रहणमितवादि। संखयादिभ्यः शतादिभ्यो यथा स्यादित्येवमथ शतादिग्रहणम् । अथ नितग्रहणं किमर्थम् ? यावतारम्भसामर्थ्यादेव नितयो विधिर्भविष्यति । भवेच्छतादिभ्य प्रारम्भमामादित्येवम् । मासा- दिभ्यस्त्वन्यतरसपाग्रहणानुवृत्तेर्विभाषा सघात् । ननु चास्वरितत्वादेव निव- र्तियते ऽन्यतरसत्रांग्रहणम् । विस्पष्टार्थ तहि निताग्रहम् । ५८। षष्टयादेश्चासंखवादेः । प्राक् शतात् षध्यादयो विज्ञेयाः । शतादीनां स्वशब्देत तमटो विधाना ५८ । मतौ छ; सूक्तसाम्नोः। मताविति मत्वर्थ उच्चते ! साहचान् मत्वर्थेनेत्यादि। समर्थविभक्ति: प्रथमा। प्रकृतिविशेषणमस्तित्वम। प्रतण्यार्थीऽस्यास्मिन्निति च सर्वमेतद् मर्थग्रहणनाक्षिप्यत इति । सन्निधाप्यत उपस्थाप्यत इतार्थः। युक्त यन्मतुग्रहणे प्रतण्यार्थ आक्षिप्यते । नस्य तहिषयत्वात् । समर्थविभत्यादि कथमाक्षिप्यते ? अर्थसाहात । अथवा प्रधानानुक्तिवाद गुणानाम् । प्राधान्येन प्रतायार्थ उपस्थापित प्रत्ययसामर्थात् तदपि गुणभूतमुपस्थाप्यत च्छदाय। (५।२)। एव। इहास्यवामादिशब्दोऽने कपटान्तवाद वाक्यम् । वाक्यस्य चार्थवत् समु- दायानां समासग्रहणं नियमार्थमिति प्रातिपदिकसंज्ञा नास्ति । अतसेभ्यो न प्राप्नोति । अप्रातिपदिकत्वादिति यश्वोदयेत् तं प्रतवाह अनुकरण- शब्दाश्तयादि। अनुकरणग्रहणेन च वाक्य त्वमस्यवामप्रभृतीनां निरस्यति । न धनुकरणशब्दानामवयवभूतानि पदानि सन्ति । तत् कुतस्तेषां वाक्यत्वम् ? यतः प्रातिपदिकसंज्ञा न स्यात् स्वरूपमात्रप्रधान इतपनेनार्थवत्त्व तेषां दर्शयति। अनर्थकावे ह्यार्थवतः प्रातिपदिकसंज्ञा विधानात प्रातिपदिकत्व न स्यात् । तथाच स एव प्रत्ययाभावः प्रसज्येत । मात्रशब्दोऽर्थान्तरव्यव- स्वरूपमात्र प्रधानमभिधेयं येषा ते तथोक्ता । चशब्दो यस्मा- यस्मादनुकरणशब्दाः स्वरूपमात्र प्रधानाः प्रत्ययमुत्पादयन्ति तेनानक- पदादपि प्रतायाख्यं कायं सिद्धम् । तस्य प्रातिपदिकत्वात् । अप्रातिपदि. कत्वञ्च वाक्यत्वादनथकवाहा भवेत् । न चास्यवामप्रभृतीनां वाक्य त्वमनु- करणशब्दत्वात । नाप्यनर्थकल्वम् । स्वरूपमात्रेणार्थवत्त्वात । यदि यस्य- वामतवादावनुकरणशब्देनानेकानि पदान्यस्यावयवभूतानि सन्ति तत् कथं तनाने क पदादपि सिद्धमित्युक्तम् ? परप्रसिद्धया परस्य । अस्यवामादयोऽप्येवम् । एषामनेकावयवाः प्रसिद्धा. । तस्मात् तत्प्रसिद्धैववमुक्तम् । न तु विद्यमाना- कथ मनुकरणशब्दा: खरूपमात्रप्रधाना भवन्ति ? यावतानुकार्य मेव तेषामभिधेयम् । अतस्तदेव प्रधानखरूपम् । नैतदस्ति । इह हि प्रथमासमर्थादस्तिना समानाधिकरणात् प्रतायो विधीयते । अनुकरण- शब्दाश्चानुक्रियमाणेनार्थेनार्थवन्तोऽपि प्रत्य वमृष्टा इतिकरणन शब्दशब्देन वा प्रथमासमर्थास्ति समानाधिकरणा भवन्ति । अयं हि गुणीभूतानां प्रथमासमय व मत्युपाधिक त्वच नोपपद्यते। तयाह्य स्य वामोऽस्मिन्नस्ती- त्यु तेऽनुकरणप्रतयायितस्यानुकाव्यं व शब्दस्य प्रथमासमर्थलमत्युपाधिकत्वञ्च नत्वनुकरणश-दस्य । तस्मादितिकरणेन शब्दशब्देन वाऽवश्यम्भावी प्रत्यवमर्श: अस्यबाम इत्यस्मिन्नस्त्य त्यवामशब्दो वास्मिन्न स्तोति भेदानु क्रियमाण पदार्थता निवर्त्तते । स्वरूपपदार्थतैवानुजायते । नन्वेवं सति मन्वों नोपपद्यते । अनुका- ह्याम्नाय शब्दाः सूक्तसाम्नोः सन्ति । न तु नेकपदत्वात् । गम्यते ।

६२ न्यासः तदनुकरणशब्दा लौकिकादयः । नैष दोषः । वाक्ये खातन्वाहतोरिति- करणादेः सन्निधौ तेन प्रत्यवमृश्यमाना अनुकरणशब्दाः स्वरूपणार्थवन्तो भवन्ति । वृत्तौ त्वनुकार्येणैव । तत्न स्वातन्वाहतोरितिकरणादेरभावात् । वृत्तावेव सूक्त सामनी मत्वर्थवत्तया वक्त मिष्टे। न वाक्य इति किमत्र नोपपद्यते ? अस्यवामशब्दोऽस्मिन्नस्त्यस्यवामीयम् । कयाषुभाशब्दोऽस्मिन्नस्ति कयाषुभौयम् । योगश्चायं मत्वर्थीयानामपवादः । ६०। अध्यायानुबाकयोलुक। अनन्तरसूत्रे सूक्तसाम्नरिव च्छस्य विहितत्वात् प्रकरणान्तर च क्वचिद- ध्यायानुवाकयोश्छ स्याविधानात् पृच्छति केन पुनरित्यादि । नासतस्तस्य लुगुपपद्यते । आह एवायं लुकमत एतटेव लुग्ववनं ज्ञापयत्यध्यायानुवाकयो- श्छस्य विधानमस्तीति। विकल्पेन चेत्यादि। चशब्दोऽवधारण विकल्येने- वेत्यर्थः । कथं पुनर्विकल्येन लभ्यते ? विंशत्यादिभ्यस्तमड-(५।२१५६) न्यतर- स्यामित्यन्यतरस्यांग्रहणानुवृत्तेः । यद्येवं पूर्वत्रापि विकल्पेन विधिः प्राप्नोति । मगलू कमुतिन्वायनानुत्तिर्भविष्यतीत्वदोषः । ६१ । विमुक्तादिभ्योऽण । पूर्वेण च्छे तस्य च पक्षे लुकि प्रा विमुक्तादिभ्योऽण विधीयते । ६२। गोषदादिभ्यो वुन्। अध्यायानुवाकयोलुंगिति (५।२।६०) च्छस्य च लुकि प्राप्ते गोषदादिभ्यो वुन्नारभ्यते। ६३। तब कुशलः पथः । कृतलब्धकोतकुशला (४।३३८) इत्यणि प्राप्ते वुन् विधीयते । ६४। आकर्षादिभ्यः कन । (E) आकर्षादिषु यदृद्धं ततश्छे प्राप्ते शेषभ्यस्त्वणि कन् विधीयते । प्रत्ययान्तर- (E) आकषादिभ्यः कन्निति मतान्तरे सवस्य पाठ । तत्राकषत्यस्मिन् सुवर्णादिकमिति पुसि सज्ञाया घ। सरफपाठे त्वाकृष्यतेऽस्मिन्निति पनि रुपम् ।

(५॥२)। करणं यत्रोकारान्त तस्यात्र गु गो मा भूत्। यच्चेकारान्त तस्य यस्येति- (६।४।१४८) लोपो मा भूदित्येवमार्यम् । वुनि तु मति तदुभयं प्रसज् त । तत् पुनरिहाशिष्टं प्रसज्येत । तस्य पुनर्वनि कनि वा सति न कश्चिद विशेष इति न तत्प्रत्ययान्तरं प्रयोजयति । ६५। धनहिरण्यात् कामे । धने काम इति । धनविषय इच्छेत्यर्थः । ६६ । खानेभ्यः प्रसिते। प्रसित इति । यद्यपि सिनोतिरयं षिञ् बन्धन इति बन्धने पठ्यते तथाप्यनेकार्थत्वादिहासतो वर्तते । केशेषु प्रमित इति प्रसितोत्सुकाभ्यां टतीयेति (२।३।४४) सप्तमी। आमक्तिश्च क्रियाविषयो धन्म इति के शादि- स्थानबला क्रिया लेशादिशब्देनोचते । अतएवाह केशादिरचनाया प्रसक्तएव मुच्यत इति । बहुवचनं स्वाङ्ग समुदायादपि यथा स्यादिति । असति हि तस्मिन् यथा जनपदसमुदायो जनपदग्रहणेन न गृह्यते तथा स्वागसमुदायो- ऽपि स्वाङ्गग्रहणेन नेति स्वागसमुदायान्न स्यात् । तस्मिंस्तु सति भवति । अन्यथा तस्य प्रयोजनाभावात् । स्वरूपविधिनिरासस्तस्य प्रयोजनमिति चेन्न । अव्यसित्यादिना ( ४।१।५४, भा) स्वाङ्गस्य परिभाषितत्वेन स्वरूपविधेर- सम्भवात् । ६७। उदराट ठगायूने । पूर्वेण कनि प्राप्ते ठग विवीयते । आयूनोऽविजिगीषुरिति दिवोऽविजि- गौषायामित्यविजिगीषायामेव (८१३१४८) दिवो निष्ठातकारस्य नत्वविधानात् । उदरक इति (F)। पूर्वण कन्नेव भवति । ६८। सस्येन परिजातः । सस्येनेति सहयोगलक्षण हतीया। इत्थभूतलक्षणे वा। सस्य शब्दोऽयं गुणवाचीति । सस्यशब्दो ह्ययं धान्यवचनोऽप्यस्ति यथा शालिः सस्यं यवा: (F) उदरपरिमार्जनादौ प्रसित इत्यथः ।

८४ न्यासः। सस्यमिति । तस्य ग्रहणं मा विज्ञायीत्येवमर्थमिदमुक्तमिदमभिधानमिति । सस्यक इत्येतत् कन्प्रत्ययान्तम । ६६। अशं हारी। कर्मणि द्वितीयैव भवति । कर्मणि द्वितीयायां प्राप्तायां लद्योगलक्षणा तदपवादा षष्ठयारभ्यते । तस्याश्चावश्यक णिनि प्रत्ययेऽकेनो विथदाधमये यो- रिति (२।३१७०) प्रतिषेधः । तेन निरपवादाद दितीयैव भवति । ७० । तन्वादचिरापहृते । अचिरापहृतमिति। अचिरशब्दोऽल्पकालवचनः । तस्यापहृतशब्देना- पहृतो गतः कालोऽस्येति कालाः परिमाणिनेति (२।२१५) समासः । पञ्चमीसमर्थादिति । निर्देशादेव । नहीह काचित् प्रकता विभक्तिरनुवर्तते पञ्चमौनिर्देशः श्रूयते । तस्माद् निर्देशादेव पञ्चमीसमर्थात् प्रत्ययो विज्ञायते । सा पुनः पञ्चम्यपहरतेरपायवचनत्वात् तद्योगेन तन्त्रमयादानमेव भवतीत्य- पादानलक्षणा वेदितव्या । ७१। ब्राह्मणकोणिके संज्ञायाम् । किमर्थं पुनरिदं यावता संज्ञायां व्युत्पाद्येते ? संज्ञायामेव तु ब्राह्मण- कोष्णिके । न। विषयान्तरेऽपि । तमेव विषयं दर्शयितुमाह यत्तेत्यादि । गतार्थम् । ७२। शीतोष्णाभ्यां कारिणि । शीतोष्णाच्या क्रियाविशेषणादिति। क्रियाविशेषणस्य हि कर्मत्वं प्रति- पादितम् । कारिणीति ताच्छील्वे णिनिः । तस्य च प्रयोग षष्ठी प्रति- षिवा। तस्मात् कर्मणि द्वितीययेव भवितव्यम् । क्रियाविशेषणाच्छीतादि- शब्दाद् द्वितीयासमर्थात् प्रत्ययो विज्ञायते । तेन नेह शीतोष्णशब्दो स्पर्श- विशेष वर्तमानौ प्रत्ययमुत्पादयतः । क तहि ? मान्य शैफ्रेव च । यस्मादा- वश्यके णिनिः। न स पदार्थोऽस्ति यः शीतोष्णसी नियोगतः करोति । तुषारातपावपि हि नावश्यं कुरुतः । प्रतिबन्धसम्भवात् । कर्तृशक्तिस्तु पदार्थाना नियतेति सा शक्तिःकर्तृत्वे कश्चिन्नियोगतो मन्दं करोति कश्चित् शीघ्रमिति युज्यत एवाश्यकत्वम् ।

(५।२)। ततश्च तस्यार्थे यदा कर्मणि ७३। अधिकम् । अध्यारूढशब्दस्योत्तरपदलोप इति । उत्तरपदमारूढशब्दस्तस्य लोपो निपात्यने । कथं पुनरधिको द्रोणः खार्यामित्यस्य प्रथमान्तस्य द्रोणशब्दस्य प्रयोग ? अधिका खारी द्रोणे नेति हतीयान्तस्यचेत्यत आह कर्तरि कर्मणि चेत्यादि। गत्यर्थाकमकनिषेत्यादिना (३।४।७२) सूत्रेण रहे: कर्तरि कर्मणि च तो विहितः । तेन कर्तरि कर्मणि चाध्यारूढशब्दो वर्तते । व्युत्पाद्यमानोऽधिकशब्दोऽपि तत्यायो भवंस्तयोरेवार्थयोर्भवति । तत्र यदा कर्तरि वर्तते तदा द्रोणशब्दात् प्रथमा भवति । न हतीया। वर्तते तदा कर्तुरनभिहित वादधिकशब्देन द्रोणशब्दात् तृतीया भवति । कर्मणस्त्वभिहितत्वात् खारीशब्दात् प्रथमैव भवति । नहितीया। अधिका खारी ट्रोणनेति । नतु चाधिको द्रोण: खाया॑मस्यामित्यत्र कर्मणो- ऽनभिहितत्वात् खारीशब्दाद् द्वितीया प्राप्नोति । नैष दोषः। यदयं यस्माद- धिकं (२।३।८) तदस्मिन्नधिकमिति (५।२।४५) च निर्देशं करोति तज् ज्ञापय- त्यधिकशब्देन योग पञ्चमीसप्तम्यावेव विभक्ती भवत इति । ७४। अनुकाभिकाभौकःकमिता। अनुक इति । अनुशब्दात् कन् । अभिकोऽभीक इति । अत्राप्यभिशब्दात् । ७५। पार्वेनान्विच्छति । निर्देशादेव हतीया समर्थ विभक्तिलभ्यत इत्याह पार्श्वशब्दात् टतीया- समर्थादिति । ७६ । अयःशूलदण्डाजिनाभ्यां ठकठौ। अयःशूलदण्डाजिनाभ्यामिति । तृतीयान्तनिर्देशादेवार्थात् तृतीया समर्थविभक्तिलभ्यत इत्याह तीयासमर्थाभ्यामिति । ७७। तावतिथं ग्रहणमिति लुग् वा । पूरणप्रत्ययान्ताना सामान्यनिर्देशोऽयम् । अथ स्वरूपग्रहणं कस्मात्र भवति १ अर्थप्रधानत्वानिर्देशस्य । शब्दप्रधाने हि निर्देशे स्वरूपग्रहणं न्धासः । पञ्चक भवतोयुक्तम् । कथं प्रत्ययः स्वार्थे भवतीति ? अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तौति कृत्वा। दिकं त्रिकमिति। तीयस्य लुक् । चतुष्क- मिति । पूरणप्रत्ययस्य डटः सथु कश्च लुक् । चतूरेफस्य विसर्जनीयः सः । तस्ये दुदुपधस्य चाप्रत्ययस्येति (८।३।४१) षत्वम् । तावतिथेनेत्यादि । पूरण- प्रत्ययान्तात् प्रातिपदिकात् टतीयासमर्थाद् गृह्णातीत्येतस्मिन्नर्थे कन्प्रत्ययो भवतीति वक्तव्यम् । पूरणप्रत्ययस्य च नित्यं लुक् । पटक इति । षकारस्य जशवं डकारः । तस्यापि चत्वं टकारः । अत्र च डटः सथुको लुक् । इति । अत्रापि डटः। अथेह कस्मान्न भवतीति द्वितीयेन हस्तेन दण्डं गृह्णातीत्याह इतिकरणो विवक्षार्थ इत्यादि। सुबोधम् । ७८॥ स एषां ग्रामणीः। ७६॥ शृङ्खलमस्य बन्धनं करमे। ननु च न शृङ्ख जमात्रेण करभो बध्यते। किं तहि ? रज्ज्वादिकेन च । तत् कथं शृङ्खलं बन्धनमुचत इत्याह यद्यपीत्यादि । यद्यपि तत्र रज्वादिकमप्यपरमस्ति तथापि शृङ्खलमस्य तन्त्रीकरणं प्रति साधनं भवत्येव । नहि तेन तद् भवति । ततः शृङ्खलं बन्धनमुच्यते। रज्वादिकमपि यदि बन्धनं भवति भवतु। नपत्रावधार्यते शृङ्खलमेवेति । सह तेन उत्क उन्मनाः। ससाधनक्रियावचनादिति । साधनं मनः । क्रिया गमनम् । गमनक्रिया। तद्दचनात् ससाधने गमने वर्तमानादित्यर्थः। तहतीति । तच्छब्देन क्रिया प्रत्यवमृश्यते। ससाधनक्रियावतीत्यर्थः । उत्सुक इति । उत्कण्ठित इत्यर्थः । ८१। कालप्रयोजनाद रोगे। अर्थलभ्येत्यादि। अर्थोऽधिकरणादिः । तेनात्र सप्तमीप्रमृतिरनुतामि समर्थ विभक्तिलभ्यते। प्रयोजनं कारण मिति । यदि तहि प्रयोजनं कारण- शब्देनोचते कालग्रहणं पृथग् न कर्त्तव्यम्। कालोऽपि रोगस्य कारणं नैतदस्ति। नववश्य कालो रोगस्य कारणं भवति । भवति । নন্ত नतु हेतु- (५२)। यदा ह्यसौ रोगस्य कारणं न भवति तथापि ततो यथा स्यादित्येवमर्थ काल- ग्रहणम्। द्वितीयेऽगि भवो द्वितीयक इति । तत्र कारणान्तराट् वातादेः कुतश्चिद् भवतो ज्वरस्य कालः केवलमधिकरणभावन विवक्षितः । भावेन । कथ पुन: कालादयत प्रत्ययो हितोयादिभ्यः शब्देभ्यो भवति । नह्येते कालशब्दाः प्रसिद्धाः । सामान्यशब्दा ह्येते । शब्दान्तरसन्निधानात् तु काले वृत्तिरेषां गम्यते। नैष दोषः । वाक्ये घेषा शब्दान्तरसनिधी काले वृत्तिः । इतिगतश्च प्रत्यर्थः प्रत्ययानां विशेषणम् । सन्निहितत्वात् । न वाक्यगतो विप्रकर्षात् । विषपुष्यैर्जनित इति । हतीया। उष्ण कार्य मस्येति । अत्र कार्यकारणसम्बद्धो विवक्षितः । स चेदंशब्दादेवोत्पत्रया षष्ठयाभिहित इत्युषणशब्दात् प्रथमैव भवति । इह कालप्रयोजनविशेष- वाचिभ्यः प्रत्ययोऽभिहितः । न कालप्रयोजनशब्दाभ्याम् । कालविशेष- वाचिभ्यो भवन् क्रियायाः कर्तरि ज्वर प्रयोजनविशेषवाविभ्यः प्रयोजनमिति । कार्यकारणविवक्षायाञ्च कार्यसम्बन्धिान न चायं प्रकारनियमः सूत्र उक्तः । तत् कथं लभ्यत इत्यत आह उत्तरसूत्रादिह संज्ञाग्रहसमपक्ष्यते । तेन तस्मिन् सत्ययमर्थों भवति । प्रत्ययान्तश्चेत् संज्ञा भवति । तस्मिंश्चार्थे सति प्रत्ययान्तं यदि संज्ञा भवत्येव प्रत्यय उत्पद्यते। नान्यथति। संज्ञा- ग्रहणसन्निधानादिह सर्वप्रकारीऽयं नियमो लभ्यते । नहि विना तैन प्रकारण प्रत्ययान्तं संज्ञा भवति । ननु चोत्तरसूत्रे संज्ञाग्रहणं तस्यैव शेष- भूतम् । तत् कथ ततोऽपक्रष्ट शक्यते ? नैष दोषः । उभयोरपि योगयो- स्तच्छेषभूतम्। कथम् ? योगविभागः करिष्यते । तदस्मिन्ननं प्राये। ततः संज्ञायामिति (५।२।०२)। तेन संज्ञाग्रहणमुभयेषां शेषो विज्ञास्यते । ८२। तदस्मिन्नन्न प्राये संज्ञायाम् । अन्नञ्चेत् प्रायविषयमिति । प्रायो विषयो यस्य तत् तथोक्तम् । विषय- ग्रहणेन प्राय इति सप्तम्या विषयसप्तमीवं दर्शयति । प्रत्ययो भवति । अन्यथा गुड़ापूपाः प्रायेणान्न मिति विवक्षायाः कारकाणि भवन्तीति प्रायस्य विषयभूतस्य करणत्वेन विवक्षितत्वात हतीया। गुड़ापूपिकति । प्रत्ययस्थात् न्यासः। कात् पूर्वादितीत्वम् (७।३।४४)। वटक्केभ्य इनिर्वतव्य इति । व्याख्येय इत्यर्थः । तत्नेदं व्याख्यानम् । इह संज्ञाग्रहणस्य प्रत्ययान्तोपाधिकलाद् यत् प्रत्ययान्त संज्ञा भवति तत्र प्रत्ययेन भवितव्यम् । नच वटकशब्द: कन्प्रत्ययान्तः कास्य- चित् संज्ञा। तेन ततः कन् न भविष्यति । तस्मिश्चासति मत्वर्थीय इनि भविष्यतीति । वटकिनीति। ऋग्वेभ्यो डीप (४।१।५) । ८३॥ कुल्माषादञ्। संज्ञाग्रहणेन पूर्वेण कनःप्राप्तावसत्यां वाक्येनाभिधाने प्राप्त मत्वर्थोये मतुबादाविदमुच्यते । कौल्माषीति । टिड्ढाणजिति (४।१।१५) डीप । (G) ८४। श्रोवियंश्छन्दोऽधीते । नकार: खरार्थ इति । ननु च नकार इटु यस्य तस्मिन्निति परतः स्वर उच्यते । न च समुदायानुबन्धे नकार नित्परलमस्ति। नैष दोषः । न एवेत् नित्। तत्पुरुषोऽयम् । तेन नकार इत्संज्ञे परतः पूर्वस्य खरो भविष्यति । किं पुनरत्र निपात्यत इत्याह छन्दोऽधीत इत्यस्य वाक्यस्यार्थे श्रोत्रियन्निति निपात्यते । छन्दसो वेत्यादि। पूर्वत्र वाक्यार्थे पदमविद्य मानप्रकृतिप्रत्ययविभागं निपातितम् । इदानीं तु प्रकतिप्रत्ययौ निपात्येते । तदधीत इत्यस्मिन्नर्थे । अत्र यद्यपि निदिति बहुब्रीहिस्तथापि स्वरः सिध्यत्येव । धन्प्रत्ययस्य नितः परस्य विद्यमानत्वात्। कथमित्यादि। यदि छन्दःशब्दस्य श्रोत्रशब्द आदेशो घश्च प्रत्ययस्तदधीत इत्यस्मिन्नर्थे निपात्यते निपातनेन बाधितत्वादत्रार्थे च्छान्दस इति न सिध्यतीत्यभिप्रायः । ८५। श्राइमनेन भुक्तमिनिठनौ । श्राद्धशब्द इत्यादि। शास्त्रोक्तेन विधिना निष्पाद्यस्य कस्यचिदेव क्रिया- विशेषस्य श्राइशब्दः मंजा। कर्मशब्दोऽयं क्रियावाची। श्रद्धा यत्र कर्म- ण्यस्ति तच्छाधम् । प्रज्ञाश्रद्धा वृत्तिभ्यो गा इति (५।२।१०१) णप्रत्ययः । तत्साधन इत्यादि। भुक्तले कर्मणो विशेषणं न सम्भवतीति तत्साधने भक्तादौ वर्तिवा श्राई प्रत्ययमुत्पादयतीति विज्ञायते । तत्साधने तु तस्य वृत्ति- (G) कुलमाषा मुदगा इति हरदत्तः।

व्याख्यान (५२)। स्तादाद् यथा प्रदीपार्थायां मल्लिकायां प्रदीपशब्दस्य । समानकाल- ग्रहणमिति । समानः कालो रह्यते येन तत्समानकालग्रहणम् । कर्तव्यमित्यर्थ.। किमर्थमित्याह अद्य भुक्त इत्यादि। यस्मिन्नहनि श्राद्ध- मनेन भुक्त तस्मिन्नेव श्राधिक इति स्यात् । अद्य भुक्ते खो मा भूदित्येव- मर्थम् । तत्रेदं व्याख्यानम् । इहापि वेत्यनुवर्तते । सा च व्यवस्थित- विभाषा। तेन यस्मिन्नेवाहनि श्राद्धं भुक्त तस्मिन्नेवेष्यते । नान्यति । . ८६। पूर्वादिनिः । पूर्व गतं पीतं भुक्तमिति। पूर्वशब्दोऽत्र क्रियाविशेषणत्वात् कर्म भवतीति द्वितीयासमर्थात् प्रत्ययो विज्ञायते । पूर्वीति । सौ चेति (६।४।१३) दीर्घ । ८७। सपूर्वाच्च। सहशब्दो विद्यमानवचनः । अतएवाह विद्यमानं पूर्वमिति | वोप- सर्जनस्येति (६।३।८२) सहस्य सभावः । कृतपूर्वी कटमिति । ननु च निष्ठया कम्मणोऽभिहितत्वाद् द्वितीयान न प्राप्नोति । नैष दोषः । नेयं कर्मणि निष्ठा । कि तर्हि ? भावे । यदापि कर्मणि तदापि न दोष । निष्ठया हि सामान्य कमर्माभिहितम् । न विशेषकर्म ! तम्माद विशेषकर्मणोऽनभिहितत्वाद द्वितीया भविष्यति । ननु च पूर्व कृतमित्यनेक पदावयवत्वाच् च वाक्य- मिदम् । वाक्यस्य चार्थवत्समुदायानां ममामग्रहणं नियमार्थमिति प्राति- पदिकसंज्ञा नास्ति । तत् कथमतः प्रत्यय इत्याह सुप्सुपेत्यादि । योगदयेन चेत्यादि । यदि व्यपदेशिवद्भावोऽप्रतिपदिकेनेत्येषा परिभाषा (प,३३) न स्यात् तदा सपूर्वात् पूर्वादिनिरित्येकयोगं कुर्य्यात् । किं योगविभागेन ? एकयोगे हि सति केवलादपि व्यपदेशिवद्भावन प्रत्ययो भविष्यति। तदेवमकयोगन सिद्धे यत् पूर्वादिनिरिति (५।२।८६) पृथग्योगं करोति तज्ज्ञापयत्यस्तीयं परिभाषा व्यपदेशिवज्ञावोऽप्रातिपदिकेनेति । यदि वा ग्रहणवतेत्यादिका परिभाषा (प, ३२) न स्यात् सपूर्वाञ्चेतीमं योगं न कुर्यात् । पूर्वा- दिनिरित्यनेनैव (५।२।८६) हि कतपूर्वी त्यादावपि भविष्यति तदन्तविधिना । तदेवं पूर्वयोगणैव पूर्वशब्दान्तादपि सिद्धे प्रत्यये यत् सपूर्वाञ्चेतीमं योगं १२ न्यासः। करोति तज ज्ञापयत्यस्तीयं परिभाषा ग्रहणवता प्रातिपदिकेन तदन्तविधिनं भवतीति । - ८८। इष्टादिभ्यश्च । इष्टी यन्न इति कथ पुनरत्र सप्तमी यावता यजस्य कर्मताया द्वितीयया भवितव्यमित्याह तस्येन्विषयस्येत्यादि (२।३।६६, वा)। ८। छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि। किं पुनरवेदं निपात्यते ? पर्यवस्थारशब्द व्यवस्थाप्य तदवयवस्याव- स्थाशब्दस्य पन्थ आदेश एकत्र क्रियते । अपरत्न तस्यैव परिशब्दः । पश्चादिनिप्रत्ययः। ६०। अनुपद्यन्वेष्टा। अनुपदौति । पश्चात् पदस्थानुपदम् । पश्चादर्थे ऽव्ययीभावः । तस्मादिनि- प्रत्ययो निपात्यते। ६१। साक्षाद् द्रष्टरि संज्ञायाम् । संज्ञाग्रहणमित्यादि। विशिष्ट एवाभिधेये प्रत्ययान्तस्य वृत्तिरभिधेय नियमः । स यथा स्थादित्येवमथं संज्ञाग्रहणम् । साक्षीति । अव्ययाना भमाने टिलोपः सायंप्रातिकाद्यर्थमिति (६1819 ४४, वा) टिलोपः। संज्ञाग्रहणादि- त्यादि। अमति हि संज्ञाग्रहणे ययोपद्रष्टा साक्षिशब्देनोच्यते तथा दाता ग्रहीता चोच्येयाताम् । एतावपि हि द्रष्टारौ भवत एव । मंज्ञाग्रहणा- दुपद्रष्टवोच्यते । दाग्रहीभ्या योऽन्यो ट्रया समीपे स उपद्रष्टा। ननु च स्वामीखराधिपतिदायादसाक्षीति (२।३।३८) निपातनादेव साक्षि शब्दः साधुभविष्यति। अभिधेयनियमोऽपि लौकिकत्वादस्य पदस्य लोकोत एव विज्ञास्यते । तदपार्थ कमिदम् । । नैतदस्ति। नहि तस्मिन् निपातने साक्षिशब्दस्य नकारान्तता शक्यते व्यवसातुम् । प्रमाणाभावात्। खाभिधेये प्रतीयमाने प्रतिपत्तिगौरवं स्यात् । तस्मान्नकारान्तताप्रतिपत्ति गौरवपरिहारार्थ चेदमुच्यते । लोके न ५१२) । २। क्षेत्रियच् परक्षेत्रे चिकित्स्यः । चिकित्स्य इति । शाक्याथै कात्य । वाक्यार्थ इत्यादि। परक्षेत्रे चिकित्स्य इत्यस्य वाक्य स्थाथै क्षेत्रिय इत्येतत् पदवचनम विद्यमानप्रकृति- प्रत्ययविभागं निपात्यने । चकारोऽन्तोदातार्थ.। परक्षेत्राद्देत्यादि । वाशब्दः प्रकारान्तरं द्योतयति । अथवा परक्षेत्रशब्दात् तत्रति सप्तमीसमर्थात् चिकित्स्य इत्यनार्थे प्रत्ययो नियात्यते । परशब्दस्य च लोपः। परक्षेत्र जन्मान्तरशरीरमिति। इहत्याच्छरोरादन्यत्वादमाध्य इत्यनेन परशब्दस्यार्थ दर्शयति । सस्याथे हि यत् क्षेत्रं संस्कृतं नदनुत्पाद्यन्वात् वृणानां परक्षेत्र भवति। सर्व चैतत् प्रमाणमिति। सर्वस्याचायंण प्रतिपादितत्वात् । ६३। इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्र पृष्टमिन्द्रजुष्टमिन्द्र- दत्तमिति वा। रूढिरषत्यनेनाक्यवाथ त्याजयति । कथं पुनायत रूढ़िरेषेत्याह तथाचेत्यादि। यद्येषा दिन स्याद् व्युत्पत्तेरनियमो न स्यात् । अरूढि- शब्देषु नियतत्वादेव तदर्थस्य । रूढ़िशन्दे त्वस्मिन् युज्यत वुत्पत्तेरनियमः । रूढिशब्दानां हि यथाकथञ्चिद् वुत्पत्तिः क्रियते परिकल्पितनावयवार्थेन । कथं पुनरात्मा चक्षुरादिना करणे न शक्योऽनुमातुमित्याह नाकर्तृकमित्यादि । अनेनाविनाभावं दर्शयति । इतिकरणो हेतौ। यम्मात् करणादौनां प्रवृत्ति निवृत्तिर्वा कनवीना तस्माद् यत्र तानि तनावश्यं का भवितव्यम् । चक्षुरादिना करणे नाविनाभावेनालिङ्गेनात्मानुमीयते। कथं पुनस्तदात्मना सेवितमित्याह तद्दारणेत्यादि। हारेण हि विषयेष्वात्मनो ज्ञानमुत्पद्यते । तस्माद् विषयाञ् ज्ञातुमात्मा चक्षुरादीन्द्रियं सेवत । यथायथमिति । खं यो यस्येन्द्रियस्य विषयस्तत् तस्मै दत्तम् । इतिकरण' प्रकारार्थ. । इत्येवं प्रकारान्तरेणापि व्युत्पत्ति कर्तव्येत्येतदितिकरणः प्रकाराचं द्योतयति । अतएवाह मति सन्मव इत्यादि। इन्द्रेण विषयानीयन्ते सम्बध्यन्त इती न्द्रियमित्येवमादिका सति सम्भवे तथा व्युत्पत्तिः कर्तव्या । इत्यादि। असति हि वाशब्द इन्द्रलिङ्गमित्येवमादीना विकल्पप्रकाराणा यथा- वाशब्द ८२ न्यास। पारतन्वंत्र विज्ञायेत । परस्परापक्षया समुच्चिताया एव व्युत्पतेः कारणमिति वाशब्दस्त्विन्द्र लिङ्गमितीन्द्र दृष्टमिति चेत्येवं प्रत्येक सम्बध्यमानस्तेषा स्वातन्त्र दर्शयति । तेनैकैकाप्रकार: प्रकारान्तरनिरपेक्षो व्युत्पत्तावङ्गभावमुपयाति । तत्रान्यतर- ते तस्याः। तस्या ६४। तदस्यास्त्यस्मिन्निति मतुप । प्रत्ययार्थाविति । ननु च यद् यस्य भवति तत् तस्मिन्नस्ति । यद्यस्मि- बस्ति तत् तस्य भवति यथा वृक्षे शाखा वृक्षस्य शाखेति । निर्देशेनैव सिद्धम् । तत् किमर्थं दो निर्दिश्यते । नैतदस्ति । नहि षष्ठी- सप्तम्यर्थयोरवश्यम्भावी समावेशः । तथाहि गावो गङ्गायां भवन्ति । तथा देशान्तरगतोऽपि पुत्त्री देवदत्तस्य च भवति। नचासौ तत्र । तस्मादुभावपि निर्देष्टव्यौ। अस्तीति प्रकृतिविशेषणमिति । च सम्भवे व्यभिचारे च विशेष्यविशेषणभावो भवति नीलोत्पलवत् । नचास्ति- त्वस्य व्यभिचारोऽस्ति यथोक्तं-न सत्ता पदार्थो व्यभिचरतीति । व्यवच्छेद्याभावादपार्थकमिदं विशेषणम् । नैतदस्ति । विशेषणोपादान- सामर्थ्यादेव विशिष्टेव मत्ता विशेषणत्वेनीपास्ता न सत्तामात्रमिति प्रतीयते । सा पुनर्विशिष्टसत्ता सम्प्रतिसत्तैव । अस्ति च तस्या व्यभिचार इति प्रसज्यत एव विशेष्यविशेषणमावः । किं पुनः सम्प्रति सत्ता विशेषणत्वेनोपात्ता १ तस्यामेव प्रत्ययो यथा स्यात् । भूतभविष्यत्सत्तायां मा मूदित्येवमर्थम् । तेन गावोऽस्यासन् गावोऽस्य भवितार इत्यत्र न भवति । ननु च गोमानासौटु गोमान भवितति भूतभविष्यत्सत्ताया मतुप विधाय कथं प्रयुज्यते ? नैष दोषः । धातुसम्बन्धे ऽयथाकालोतानामपि प्रत्ययाना साधुत्व-(३।४।१) विधानादेवं प्रयुज्यते । न भूतभविष्यत्सत्तायाम् प्रत्ययविधानात् । अत्यर्थों- पाधिकश्चेद् भवतीत्यर्थ इति । वर्तमानसत्ताविशिष्ट यदि तत्र भवतीत्यर्थः । गोमानिति । उगिदचामिति (७।१।७०) नुम् । हल्ड्यादिसंयोगान्तलोपौ । अत्वसन्तस्य चाधातोरिति (६।४।१४) दीर्घः । वृक्षवानिति । मादुपधायाश्चेत्या- दिना (८।२।८) वत्वम्। विषयनियम इति । विषये प्रत्ययस्य भावो विषय- नियमः। स पुनर्विशिष्ट विषयो भूमादिरिति दर्शयत्राह भूमनिन्देत्यादि ।

( ५॥२)। बहो वो भूमा। पृथ्वादिभ्य इमनिजितीमनिन् । ५।१।२२२ । बहोर्लोपो भू च बहोरिति (६।४।१५८) भूभाव इकारलोपश्च । गावो बहवोऽस्य सन्तीति गोमान् । एकस्य इयोर्वा विद्यमानत्वेऽपि गोमानिति न व्यपदिश्यत । निचायाम्। ककुदावर्तीति । निष्कलत्वानिन्दितः । प्रशंसायाम् । प्रशस्तं रूपं यस्यास्ति रूपवानित्युच्यते । नित्ययोग । क्षीरमेषामस्तीति क्षौरिणो वृक्षाः। नित्यः क्षीरसम्बन्धो येषा त उच्चन्त । अतिशायने। उदरिणी कन्येति । यस्या अतिशयेनोदरमस्ति सैवमुचत। संसर्गः । दण्डीति। दण्ड, मंसर्ग उच्यत । तनह गृहस्थित विद्यमानऽपि दण्डे दण्डीति नाभिधीयते । ६५ | रसादिभ्यश्च । अन्यनिवृत्त्यर्थमिति । अन्यस्येनिप्रभृतमत्वर्थीयस्य निवृत्तिरथ . प्रयोजन यस्य तत् तथोक्तम् । कथमित्यादि। रसादिभ्यः पुनर्वचनमन्यनिवृत्त्यर्थम् । ततो रूपिणो कन्येत्यादि न सिध्यतीति भावः। प्रायिकमित्यादि। अन्यनिवृत्तेबाहुल्ये नार्थ सोऽस्यास्तीति । प्रायिकमेव युक्तं भवतीति । बाहुल्येनास्यान्यनित्तिलेन रूपिणीत्यादी कचिदन्योऽपि भवतीति कथं पुनरस्य प्रायिकत्वं लभ्यत इत्याह इतिकरण इत्यादि। इतिकरणश्चह विवक्षार्थोऽनुवर्तते । तेन यत्र तु मतुबन्तादेव लोकस्य विवक्षा भवति तत्र तनान्यनिवृत्तिः क्रियते । न सर्वत्र। अथवत्यादि। परिहारान्तरम् । आदिशब्देन चक्षुरादीन्द्रियपरिग्रह.। गुणादिति गण पठ्यते । नच गुणग्रहणं सर्वेषामेव रसादीनां विशेषणम्। तन ये रसनादीन्द्रियग्राह्या स्तेषामवायं पाठ इति गुणवचनान्तेभ्यो रसनादीन्द्रियग्राह्येभ्योऽन्यनिवृत्तिरनेन क्रियते । नान्येभ्यः । स्यादेतत् । रूपिणीत्यादावपोन्द्रियग्राह्या ये गुणास्तेभ्यो मत्वर्थीय उत्पन्न इत्याह रूपिणी रूपिक इत्यादि। रूपिणी रूपिक इत्यत्र शोभागु गो गम्यते । न चक्षुाोण रूपेण । रसिको नट इत्यत्रापि भावगुणो नतु रमनेन्द्रियग्राह्येण गुणेन । भावाः शृङ्गारवीरबीभत्सादयो रचनाधर्मा । एकाच इति । एकाक्षरादिति । एकोऽज् यस्य तस्मान् मतुवेव भवतीति । धीमान्। स्ववानिति । गम्यते । ।

न्यासः। । ६६। प्राणिस्थादातो लजन्यतरस्याम् । कर्णिकाल इति। कर्णिकादिशब्दोऽयं प्राण्यङ्गस्य वाचकः । नालङ्कार- विशेषस्य । प्राण्यगादेव हीष्यते । अत आह प्राण्यङ्गादिति वक्तव्यमिति । प्राण्यङ्गत्वादेवाकारान्तालज् भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः । तत्रेदं व्याख्यानम् । इतिकरणो विवक्षार्थोऽनुवर्तते । तेन प्राण्यगादेव भविष्यतीति । नान्यस्मात् । अनभिधानाहाऽप्राण्यगान भविष्यतीति । ननु चैकाचो लचः प्रत्ययम्वरेणान्तोदात्तत्वं सिद्धम् । तत् किमथं चार इत्याह प्रत्ययस्वरेणे- वेत्यादि। चूडालशब्दात् प्रथमैकवचनान्तात् परतोऽसिशब्दे व्यवस्थिते तस्य तिड्डतिड इति (८।१।२८) निघातः । सोः ससजुषो रुरिति (८।३।६६) रुत्वम् । अतो रोरप्लुतादप्लुत (६।१।११३) इत्युत्वम् । भादगुणः (६।११८७) तस्य चैकादेश उदात्तेनोदात्त (८।२।५) इत्युदात्तत्वम् । एड: पदान्तादतोति (६।१।१०८) पररूपमेकादेशः। असति तु चकारे स्वरितो वानुदातेऽप- दादाविति (८।२।६) स्वरितः स्यात् । अतस्तबाधनाथं चकारः क्रियते । वस्त। ६७। सिधादिभ्यश्च । यद्यन्यतरस्यांग्रहणेन लज् विकल्पात तन पक्षे यथाप्राप्तमेव स्यादित्य कारान्तात् सिधादेरिनिठनौ स्याताम् । अत इमं दोषं परिहर्तुमाह अन्य तरस्यांग्रहणनेत्यादि । अनेकार्थत्वानिपातानामन्यतरस्यामिह समुच्चये तथाच वार्तिककारेणोक्तम् अन्यतरस्यामिति समुच्चय इति । मबिह स्वरितत्वात्सन्निहित इति स एव समुच्चीयते । नतु यथाप्राप्तं प्रत्ययान्तरमित्येके। अन्ये वाहुः । अन्यतरस्यांग्रहणं विकल्पार्थमेव । चेनिठनावुभौ क्रियेते । तयोर्महाविभषयैव सिद्धत्वात्। तर्हि प्रत्ययान्तरं पचे विधीयते। तदपि न । यथाप्राप्तमापादयितुं सन्निहितप्रत्यासते: मतुबेव । तदेवमन्यतरस्यांग्रहणे सति मतुबेव विकल्पात इत्यभिप्रायेणान्य- तरस्यांग्रहणेन समुच्चीयत इत्युक्तमिति । नतु प्रत्ययो विकल्पात इति । ननु च लची भावाभावी क्रियेते इत्यर्थः। तस्मादित्यादि । यत एवमन्य- सरस्यांग्रहणेन मतुप समुच्चीयते नतु प्रत्ययो विकल्पाते तस्माद् येऽवा.

(२)। वातादीनां ललाटूलः । कारान्ताः पठ्यन्ते तेभ्य इनिठनो न भवतः । पाधिमन्या दौर्घश्चेति । पाणि धमनि इति शब्दाभ्यां लच् प्रत्ययो भवति । तयोश्च दीर्घः। पार्णीलः । धमनीलः । वातदन्तबलललाटानामूड्चेति । लज् भवति । तस्य च लच अडागमः । वातूलः । दन्तूलः । बलूल । जटाघटाकला' क्षेप इति । जटादयः प्रत्ययमुत्पादयन्ति क्षेप गम्यमाने । जटालः। घटालः । घटालः । कलालः । क्षेप इति किम् ? जटावान् । क्षुद्जन्तूपतापाचेति । क्षुद्रजन्तु कुलादिः । उपताणे रोगः । ६८। वत्सांसाभ्यां कामबले । कामवति बलवति चार्थ इति । मत्वन्तयोनिर्देशन कामबलशब्दावर्श आद्यकारान्तावुपात्ताविति दर्शयति । ननु च वत्सांसशब्दो नैव कामबलयो वर्तते। किं तहि ? क्योविशेष प्राण्यङ्गविशेषे च। तत् कथं ताभ्यां कामवान् बलवांश्चोच्यत इत्याह वृत्तिविषय इत्यादि। कथमेतज् ज्ञायत इत्याह न घनेत्यादि। वत्सशब्दस्य वाक्ये यो वयोविशेषलक्षणोऽर्थः प्रमिद्धो- सशब्दस्य च यः प्राण्यङ्गलक्षणविषयः स यस्मादव वृत्तौ न विद्यते न ज्ञायत इत्यर्थ । अथवा न विद्यत इति नास्तीत्यर्थः । अनेन वाक्ये यो तयोरौँ प्रसिद्धौ वय'प्राण्याविशेषात्मको तयोवृत्तावभावो दर्शितः । इदानी यो तयोरभिमतावौं तयोर्भावं दर्शयितुमाह वत्सल इत्यादि। स्नेहवानिति । कामवानित्यर्थः । तदेवं यस्माद् वत्सासशब्दयोर्वाक्ये वयःप्राण्यङ्गलक्षणोऽर्थी न विद्यते ततश्च वत्सलांमलशब्दाभ्या यथोक्त: स्नेहवान् बलवाश्चोयते ततो ज्ञायते वत्सासशब्दो वृत्तिविषये कामबलयोवर्तमानौ तहति प्रत्ययमुत्यादयत इति । अन्यतरस्याग्रहणं सर्वत्र चात्र प्रकरणे मतुप्समुच्चयार्थे वर्त्तते । ततो मतुपा भवितव्यमिति यो मन्यते तं प्रत्याह न चायमित्यादि । अनेनैव च हेतुना वाच्यमपि न भवतीति वेदितव्यम् । वाक्ये हि नैवायमर्थः सम्भवति । ६। फेनादिलच्च। १००। लोमादिपामादिपिच्छादिभ्यः शनेलचः । पामादिष्वङ्गादिति पठ्यते । तत्र कल्याणग्रहणमङ्गविशेषणम् । कल्या- न्यासः । दगुणः । गानि शोभनान्यङ्गान्यस्या' सन्तीत्यङ्गना। कल्याण इति किम् ? अङ्गवती। शाकीपलालीददा इखत्वञ्च । शाक्यादीनाञ्च प्रत्ययो भवति इखत्वञ्च । शाकिनः । पलालिनः। महच्छाकं शाकी। महापलालं पलालोति केचित । नानाजातीयाना शाकानां समाहारः शाकी। पलालानां समाहारः पलालोति । विष्वगित्यादि। विष्वक्शब्दान्न प्रत्ययो भवति । उत्तरपदलोपश्च । स चाक्तसन्धे । अकृतयणादेशस्य । विष्वञ्चतीति विषुशब्द उपपदे ऽञ्चतेग्ऋत्विगित्यादिना (२।३।५८) क्विन् । अनुनासिकलोपः। ततो विधु अच् इति स्थिने विश्वञ्चो यस्य सन्तीति नप्रत्ययः । अक्तयणादेशस्यो- त्तरपदलोपः। विषुण इति भवति । विषुणशब्दोऽयं निपात्यते। नानार्थे वक्तते । लक्ष्मया अञ्चेति । लक्ष्मी शब्दानप्रत्ययो भवति । अकारश्चान्तादेशः । लक्ष्मीरस्यास्तोति लक्ष्मणः । जटाघटेत्यादि। जटादिभ्य' क्षेप गम्यमान इलच्प्रत्ययः । जटिलः । घटिलः । कलिलः। क्षेप इति किम् ? जटावान् । घटावान्। कलावान् । १०१। प्रज्ञाश्रद्धा वृत्तिभ्यो णः । प्रज्ञाशब्दान्मतुपि पिच्छादिपाठादिलचि च प्राप्त इतरेभ्यस्तु मतुपि गो विधीयते । १०२। तपःसहस्राभ्यां विनौनी अत्र सूत्रे हे प्रकृती उपात्ते । प्रत्ययार्थावपि हावेव प्रकृतावनुवर्तते । तथाच वत्सांसाभ्या कामबले (५।२।१८) सिकताशर्कराभ्याञ्चेत्येवमादिष्वपि (५।२।१०४) केषुचिद योगेषु यथासंख्य न भवितव्यमिति यो मन्यते तं प्रत्याह प्रत्ययार्थयोस्त्विति । कस्मात् पुनरिष्यमाणमपि न भवति ? वत्सांसाभ्यां कासबन (५।२।८८) इत्यत्रासशब्दस्य परनिपातालक्षणव्यभिचारचिङ्गात् । अंसशब्दस्य ह्यजाद्यदन्तमिति ( २।२।३३) पूर्वनिपाते बलशब्दस्यापि लवृक्षरं पूर्व निपततीत्यस्मिन् (२।२।३४, वा) प्राप्ते योऽयं परनिपातः स लक्षणान्तरनिरपेक्षता दर्शयनिह मतुप्रकरणे यथासंख्य लक्षणस्य व्यभि- चारयति। तेन प्रत्ययार्थयोः मर्वत्र मतुप्रकरणे यथासंख्य न भवति ।

(५२)। प्रकरण इत्येतत् कुतः ? प्रकरणापेक्षत्वाल् लक्षणव्यभिचारचिह्नस्य । एतदपि कुतः ? व्याख्यानात्। योर्लक्षणव्यभिचारचिह्नयोरुपादानाद् वा योगापेक्षतायां त्वन्यतरस्यैवोपादानं कुर्यात् । असन्तत्वादिति तप:शब्दाद- सन्तत्वादस्मायामधास्रजो विनिरित्येवमादिना (५।२।१२१) विनिप्रत्यये सिद्धे सहस्रशब्दाचाकारान्तवादत इनिठना (५।२।११५) वितौनिप्रत्यये सिद्धे पुनरिदं विधानं वक्ष्यमाणेनाणा बाधा मा भूदित्येवमर्थम् । सहस्रात् वित्यादि। अत इनिठनाविति (५।२।११५) ठन्नपि प्राप्नोति । सोऽपि बाध्यते । एतेन सहस्रशब्दाट ठनो बाधनमिति पुनर्वचनमिति दर्शयति । १०३। अण् च। अणप्रकरण इत्यादि। ज्योत्स्नादिराकृतिगणः । येभ्यो मतुबर्थेऽण दृश्यते ते ज्योत्स्नादयो द्रष्टयाः। उपसंख्यानशब्दश्चायं प्रतिपादने वर्त्तते । तवेदं प्रतिपादनम् । उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः। तेन ज्योत्स्नादि- भ्योऽपि भविष्यतीति। कोण्डल इति। कुण्डले योऽहंति स एवमुच्यते । अन्यस्तु कुण्डलीत्येव भवति । १०४। सिकताशर्कराभ्याञ्च । अदेश इहोदाहरणमिति। देश उत्तरसूत्रेण लुबिलचो विधास्यमानत्वात् । १०५। देश लुबिलचौ च । १०६ । दन्त उन्नत उरच । अकारान्तत्वादिनिठनोः प्राप्तयोः। तुन्दादिषु (५।२।११७) स्वाङ्गादिति पाठादिलचि दन्तशब्दादुरज् विधीयते । १०७। ऊषसुषिमुष्कमधो रः। यथासम्भवं मतुपौनिठनोश्च प्राप्तयोरूषादिभ्यो रो विधीयते । मधुर इति । मधुशब्दोऽत्र रसविशेषे वर्तते। रप्रकरण इत्यादि। उपसंख्यान- शब्दः प्रतिपादने वर्तते । तत्रेदं प्रतिपादनम् । देशे लुबिलचौ चेत्यत (५।२।१०५) शकारोऽत्र वर्त्तते । स चानुक्तसमुच्चयार्थः । तेन मुखप्रभृतिभ्योऽपि १३ न्यासः । रो भवति । नगपाण्डुपांश्वित्यादि। नगपांशुप्रभृतिभ्यश्च रो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः । व्याख्यानन्तु तामेव चकारस्थानुत्तिमाश्रित्य कर्तव्यम् । १०८। युद्रुभ्यां मः। योश्च द्रुश्च युद्रू। ताभ्या मतुपि प्राप्ते मो विधीयते । द्यौरस्यास्तीति द्युमः । दिव उदित्युत्त्वम् (६।१।१३१) । केचिद् द्युशब्दः प्रकृत्यन्तरमही नामधेयम् । तत इदं प्रत्ययविधानमित्याहुः । रूढ़िषु मतुए पुनर्विकल्पात इति। रूढ़िशब्दार्थस्य मतुपाऽनभिधानात् । १०६। केशाहोऽन्यतरस्याम् । इनिठनोः प्राप्तयोर्मतुपि चेदमारभ्यते । ननु च प्रकृतमन्यतरस्यांग्रहण- मस्त्येव । तत् किमर्थं पुनरिदं क्रियत इत्याह ननु च प्रतमित्यादि। इतिकरणो हेतौ। केशशब्दाद् यथा वप्रत्यय एवमनेऽभ्योऽपि तथा वप्रत्ययो दृश्यते । तस्माद् वक्तव्य व्याख्येयम् । तथा व्याख्यानं कर्तव्य यथा- सावन्येभ्यो भवतीत्यर्थः । तत्रेदं व्याख्यानम् । इहापि स एव चकारोऽनुक्ता- समुच्चयार्थोऽनुवर्तते । तेनान्येभ्योऽपि भवतीत्यर्थः । अर्णसो लोपश्चेति । अलोऽन्त्यस्येत्यन्त्यस्य (११११५२) वेदितव्यः । वक्तव्याविति । व्याख्येया- वित्यर्थः। व्याख्यानन्तु तद्धिता इत्यत्रैव (४।१।७६) कृतम् । रथौरभूद मुद्गलानौति । रथशब्दादीप्रत्ययः। सुमङ्गलीरियं बधूरिति । ईकारस्योदा- हरणम्। मघवानिति च वनिपः । सर्वनामस्थाने चेति दीर्घः (६।४।८)। उद्दा चेति। उच्छब्दाहप्रत्ययः। अदन्तत्वाट टाय्। उहती चेति । उच्छब्दादेव मतुप् । उगितश्चेति (४।१।६) डीप । भय इति (८।२।१०)वत्वम् । - ११० । गाण्डाजगात् संज्ञायाम् । इस्वादपि भवतीति । कथं पुनर्दीर्घस्य ग्रहणे ह्रस्वादपि भवतीति । तत्र तुल्या होत्यादि। यादृशो दीर्घस्येह संहिता खग्रहणेऽपि तादृश्येव दृश्यते । तस्माद् इखस्यापि ग्रहणमिह न विरुध्यत इति भावः । तत्र चैतत् स्यात् । यद्यपि तुल्या संहिता तथापि कृतयणादेशोऽयमेक एव शब्द- 12 ? (५२)। स्तस्य स्वरूप इत्यन्यतरस्य परिग्रहणेन भवितव्यम् । तत्र यदि दीर्घस्य ग्रहणं इवान प्राप्नोति । अथ इस्वस्य ग्रहणं दीर्घान्न प्राप्नोतीत्यत आह उभयथेति । उभयप्रकारं ह्याचार्येण प्रणीतं सूत्रम् । तस्मादुभयोरपि ग्रहणमित्यदोषः (H)। अथ संज्ञाग्रहणं किम् ? यावतेतिकरणस्य चानुवृत्तेरसंज्ञाया न भविष्यति । यथा युद्रुभ्यां मप्रत्ययः (५।२।१०८)। एवं तर्हि तस्यैवेतिकरणस्य प्रपञ्चः संज्ञाग्रहणमिति द्रष्टव्यम् । १११। काण्डाण्डादौरनौरचौ । इनिठनोरपवादोऽयम् । ११२। रजःकृष्यासुतिपरिषदो बलच् । रजःशब्दादस्मायामधास्रजी विनिरिति (५।२।१२१) विनौ प्राप्त । इतरेभ्यस्तु मतुपि वलज् विधीयते । वलचप्रकरणे इत्यादि। वप्रत्ययस्य व्याख्याने नेदमपि व्याख्यातप्रायम् । अत्र वन इति (६।३।११७) दीर्घत्वं कस्मान्न भवति ? वनगिर्यो' संज्ञायामित्यतः (६।३।११७) संज्ञाग्रहणानुवृत्तेः । ११३। दन्तशिखात् संज्ञायाम् । दन्तशब्दादिनिठनोः प्राप्तयोर्वलज् विधीयते । शिखाशब्दादिनिप्रत्ययो वक्ष्यते व्रीह्यादिभ्यश्च त्यत्र (५।२।११६) शिखादिभ्य इनि यि इति । अदेशार्थ शिखाग्रहणं शिखावला स्थूणेत्यत्र यथा स्यात् । देशे तु शिखाया वलजित्यनेनैव चातुरर्थिक एव सिद्धः । यद्येवमिदमेव वक्तव्यम् । कि तेन १ नैतदस्ति । तदपि हि वक्तव्यमेव निर्वृत्तादिष्वर्थेषु यथा स्यात् । अत्रापि संज्ञाग्रहणं तस्य वार्थस्यानुवादार्थम् । इतिकरणानुवृत्त्य वाभिधेयनियमसिडेः । ११४। ज्योत्स्नातमिस्राशृङ्गिणोजखिन्नुर्जखलगोमिन्- मलिनमलोमसाः। स्त्रीत्वमतन्त्रमिति । अप्रधानम् । अविवक्षितत्वात् । स्त्रीलिङ्गनिर्देशस्तु वैचित्रपार्थः। (H) एवञ्च गाण्डीवी कनकशिलामिभ भुजाभ्यामिति । अधिरोहति गाण्डिव महेषाविति च भारविप्रयोग ।

१०० न्यासः । ११५ । अत इनिठनौ । अत इत्यकारस्तपरो गृह्यते । । अतएवाह अकारान्तादित्यादि । अथाच्छब्दस्य स्वरूपग्रहणं कस्मान्न विज्ञायते ऽच्छब्दात् प्रातिपदिकादिति ? अदित्ययुक्तं स्वरूपग्रहणं भवितुम्। स्वरूप ग्रहणे हि रसादिभ्यो मतुपो विधानमनर्थकं स्यात् । स हौनिठनोर्बाधनार्थ विधीयते। नचेह वरूप- ग्रहण तेभ्यस्तो प्रत्ययो प्राप्नुत इति किं तदुविधानार्थेन मतुपो विधानेन ? तपरकरणं किम् ? श्रद्धावान् । ननु च ब्रीह्यादिषु मालादय आकारान्ताः पठ्यन्ते। ते च नियमार्था भविष्यन्ति। एतेभ्य एवाकारान्तेभ्य इति । नैतदस्ति । तुल्यजातीयस्यैव टाबन्तस्यैवं नियमः स्यात्। डाप्चाबन्ताभ्यां स्यातामेवेतीनिठनौ । तस्मादकारस्तपरः कर्त्तव्यः । कार्योति | कृत इनिः । तण्डुली तण्डुलिक इति जातेरिनिठनौ । ११६ । ब्रौह्यादिभ्यश्च । शिखादिभ्य इत्यादि । उभयत्रादिशब्दः प्रकारे । शिष्टप्रयोग येभ्य इनिरेव दृश्यते ते शिखादयो द्रष्टव्याः। ते हि तेभ्यष्ठनं विहितवन्तः । एष तु विषयविभाग इतिकरणानुवत्तेरेव इत्यस्य तु व्याख्येय इत्यर्थः। यवखदादिष्विति विषयसप्तमी। एवं तीत्यादि। तुन्दादिषु व्रीहिशब्दस्य स्वरूपग्रहणे सतीह तस्य ग्रहणमनर्थकं ज्ञायत इति सामर्थ्यात तत्र ब्रीहिग्रहणेनार्थग्रहणं विज्ञायते। अर्थग्रहणे सति यदिष्ट सिध्यति तद् दर्शयितुमाह शालयोऽस्य सन्ति शालिक इत्यादि। शीर्षान्नज इति । उत्तरस्य शीर्षनित्येतस्य प्रत्ययो भवति। निपातनाच्छिरसः शीर्षभावः । अशीर्षों। अशोर्षिकः । अन्ये तु शीर्षनिति शब्दान्तरं पठन्ति । तु पाठो भाषायामपि यथा स्यादित्येवमर्थः । अन्यथा शीर्षश्छन्दसीति (६।१।६०) विधानात् भाषायामशोर्षिक: अशीर्षवानिति न स्यात् । ११७। तुन्दादिभ्य इलच्च । यथासम्भवं मतुबादिषु प्राष्विदमारभ्यत । चकारादिनिठनो मतुप् चेति । एतेन प्रत्ययचतुष्टयं तुन्दादिभ्यो भवतीति दर्शयति । गृह्यते । वाय तस्य अतएव (५२)। १०१ पिच्छादिषु तुन्दादयो न पठिताः। पिच्छादिभ्य इलज्मतुपावेव भवतः । तुन्दादिभ्यस्त्विनिठनावपि। स्वाङ्गादिवताविति । स्वाङ्गादिबद्धी वर्तमानात् प्रत्ययो भवति । वृद्धौ महान्तो कर्णावस्य स्तः । कर्णिलः । कर्णिकः । करें। कवान् । ११८ । एकगोपूर्वाट ठञ् नित्यम् । भतुवादिषु प्राप्तेषु ठञ् विधीयते । स च समानाधिकरणतत्पुरुषादेक- पूर्वाद् भवति । नतु सर्वत एकपूर्वात् । एतच्चेतिकरणानुबत्तेलभ्यते । एकञ्च तच्छतञ्चेकशतम् । तदस्यास्तीत्यैकशतिकः । षष्टीतत्पुरुष एकशतवान् । कथमित्यादि । यद्यत (५।२।११५) इत्येतदनुवर्तते गोशकटौशब्दान्न सिध्यति । तस्यानकारान्तत्वादिति भावः। ततो भविष्यतीति । तदन्ताद् भविष्थतीत्य- भिप्रायः । एषोऽर्थः। एकगोपूर्वाददन्तात् प्रातिपदिकाट् ठन् विधीयत इति सामालभ्यते । अथवा ततो हेतोभविष्यतीत्यदोषः । अवश्यञ्चेत्यादि। असत्या ह्यत इत्यनुवृत्ती इन्दोपतापगादिषु (५।२।१२८) योगेषु (५।२।११५) चित्रकललाटिकादिशब्देभ्योऽपि स्यात् । नित्य ग्रहणमित्यादि। असति हि नित्यग्रहणे ऽन्यतरस्याग्रहणं मतुप्समुच्चयाथं सर्वत्रानुवर्तत इति मतुबपि स्यात् । तस्माद बाधनाथं नित्यग्रहणम् । कथमेकद्रव्यवत्त्वादिति ? यदि नित्यग्रहण मतुब्बाधनार्थमेवं नो कद्रव्यवत्त्वादित्यत्रैकपूर्वाद् द्रव्यशब्दान् मतुप् सिध्यतीति मन्यते । एकनेत्यादि। एकशब्दस्य द्रव्यवत्त्वादित्यनेन सुपसुपति समासं कृत्वा साधुत्वमस्य प्रतिपादनीयमित्यर्थः । प्रत्ययः ११६ । शतसहसान्ताच्च निष्कात् । १२० । रूपादाहतप्रशंसयोर्यप् । तदाहतमुच्यत इति । आहतमाहननं ताड़नमित्यर्थः । अतो निष्यन्नं पुरुषादिरूपम्। तदपि कार्ये कारणोपचारादाहतमित्युच्यते । ययप्रकरण इति । यपप्रकरणे ऽन्येभ्योऽपि दृश्यत इति वक्तव्यमिति । अनेनास्य तु तुल्यत्वात् तहटेव व्याख्यानं कर्त्तव्यम् । चकारस्त्विह शतसहस्त्रान्ताच्च निष्कादित्यतो (५।२।११८) नुवर्तते।

१०२ न्यासः । १२१ । असमायामेधासजो विनिः । यशस्वी । तपस्वी । पयखी। तसो मत्वर्थ इति (१।४।१८) भत्वम् । अतो भत्वाज् जशत्वं न भवति । जश्त्वेन सकारस्य दकारः प्राप्नोति । स न भवति । १२२ । बहुलं छन्दसि। हयोभयहृदयानीत्यादि। अवधारणमिह द्रष्टव्यम् । हयादीन्येव दीर्घत्वं प्रयोजयन्ति । नेतराणि । स्वत एव दीर्घत्वात् । तदेतत् मवं बहुलग्रहणेन सम्पद्यत इति । वक्तव्यशब्दस्तु व्याख्याने वर्तत इत्यभिप्रायः । १२३ । जोया युस्। अर्णायुरिति। पदत्वेन भसंज्ञाभावाद् यस्येति (६।४।१४८) लोपो न भवति । १२४। वाचो ग्मिनिः । अथ मिनिरेव कस्मानोच्यते ? जश्त्वे कृते वाग्ग्मोति :I) सिध्यति । ननु च यरोऽनुनासिकेऽनुनासिको (८।४।४५) वेत्यनुनासिकः प्राप्नोति । नैष दोषः । व्यवस्थितविभाषा विज्ञास्यते । एवं तर्हि गकारमधिकं कुर्वनेतत् सूचयति ग्मिनिरयमिति । यः सम्यग् बहु भाषते तत्रापि वक्ष्यमाणावाल- जाटचौ बाधित्वा ग्मिनिरेव भवति। एवं ह्यधिकं भवति यद्यपवादविषयेऽपि क्वचिद्भवति । नान्यथा। एवञ्चालजाटचौ कुत्सितं यो बहु भाषते तत्रैव पारिशेष्याद् भवत इति वेदितव्यम् । १२५ । आलजाटचौ बहुभाषिणि । कुत्सित इति । वक्तव्यशब्दस्त व्याख्याने वर्तत इत्यभिप्रायः। वक्तव्यमिति । कुत्सितं यो बहु भाषते तत्रालजाटचौ भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः । व्याख्यानं पूर्वमूत्र एव कृतम । १२६ । खामिन्नश्वय्यै। एकाच इति रसादिषु पाठान्मतुपि प्राप्त इदमारम्यते। ऐश्वर्यवाचिन (I) चकारस्य कुत्वजशत्वाभ्या वाग्ग्मीत्यत्र गकारइयम् ।

(५२)। इति । धनवचनोऽयं स्वशब्द ऐवयंवाचो। तथाच धनयोगादेवव्यं तदु- चते। स्ववानिति । आत्मादावर्थान्तरे खशब्दी वर्तते । १२७। अर्शआदिभ्योऽन् । यथासम्भवं मतुबादिष्वज् विधीयते । आकतिगणचायमिति । अहत्- कतत्वात् । आदिशब्दश्चार्य प्रकारे । म्वाङ्गाडीनादिति। हीनस्वागत: प्रातिपदिकादज् भवति । खञ्जः पादोऽस्तीति खञ्जः। काणश्चक्षुरस्तीति काणः। वर्णादिति। वर्णवाचिभ्यः शुलादिम्योऽज् भवति। शक्लोऽस्या- स्तौति शुक्लम्। ननु च शुक्ल शब्दो गुणवचनः। तत्राभेदोपचारणाप्येतत् सिध्यति। एवं तर्हि द्रव्यवृत्तेरपि वर्णवाचिनः प्रातिपदिकाद् यथा स्यादि- त्येवमथं वर्णग्रहणं कृतम् । शुक्लगुणयुक्ताः प्रासादाः शुक्लाः। तेऽस्मिन् सन्ति शुलं नगरम् । प्रत्ययवरेणैवान्तोदात्तत्वे सिद्धे चकारोऽर्थोऽस्यास्तीति स्वरितो वानुदात्ते ऽपदादाविति (८।२।६) स्वरितबाधनार्थः । १२८। इन्द्रोपतापगात् प्राणिस्थादिनिः । तद्विषयेभ्य इति। तच्छब्देनोपतापगविव परामृश्यते। तापगहें विषयो येषामिति बहुव्रीहिः। प्राणिस्थवाचिनां सर्वेषामेव इन्दा- दीनामिदं विशेषणम् । प्राण्यङ्गानेष्यत इति। कथं पुनरिष्यमाणोऽपि न भवति । चकारानुकृतेः सिद्धे प्रत्यय इति । अत इनिठनावित्यनेनैव (५।२।१२) । ठनादिवाधनार्थ इति । इनिरेव यथा स्यात् । ठनादिर्मा भूदित्येवमथं पुन- वचनम्। आदिशब्देन मतुब् गृह्यते । इत उत्तरे योगा नियमार्था वेदितव्याः। १२६ । वातातिसराभ्यां कुक् च । वातातिसाराभ्यामिति । यद्यपि पञ्चमी तथाप्यर्थाद् विभक्तिविपरिणामो भवति। आगमसम्बन्धे षष्ठीभावेन विपरिणम्यते । अतएवाह तत्सनि- योगेन च तयोः कुगागम इति । अथ प्रत्ययस्यैवागमः कस्मान्न भवति? कुगागमवता प्रत्ययेनार्थस्यानभिधानात्। वरूपं न सिध्यतीति च । पिशाचाचेति वक्तव्यमिति । पिशाचशब्दादिनिप्रत्ययो भवतीत्येतदर्थरूपं ते उप- - १०४ न्यासः। व्याख्येयमित्यर्थः । तत्रेदं व्याख्यानम् । बहुलं छन्दसीत्यतो (५।२।१२२) बहुलग्रहणमनुवर्तते। तेन पिशाचशब्दादपि भविष्यति । १३० । वयसि पूरणात् । वयसि द्योत्य इति । कथं पुनर्वयो द्योत्यते १ यदि पञ्चमादयः शब्दाः काले वर्तमानाः प्रत्ययमुत्यादयन्ति । अतएव तेषां काले वृक्ति दर्शयितुमाह पञ्चमो मासोऽस्यास्तीति । सिद्धे सतीत्यादि । पूरणप्रत्ययानामकारान्तत्वा- दिनिः सिद्ध एव। तस्मिन् सिद्धे पुनरिदं वचनं नियमार्थ ज्ञायत इति । इनिरव भवतीति नियमस्य स्वरूपं दर्शयति । १३१ । सुखादिभ्यश्च । इनिप्रत्ययो नियम्यत इति । पूर्ववनियमो वेदितव्यः । तदिहेत्यादि । यस्मिन् ब्रीद्धादिषु मालाशब्दः पठ्यते तस्माद् यदिह क्षेपे मालाशब्दस्य पुन- वचनं तन् मतुपो बाधनार्थम् । नतु ठनः । सुखादिभ्य इति नोच्यत इति । अनेनैव निवर्तितत्वात् । मालाशब्दो हि शिखादिषु । तत्रान्तर्भाविनः क्षेपाद. न्यनेनिर्भवत्येव । शिखादित्वान्मतुप् च। मतुपस्तस्यान्यतरस्यांग्रहणेन समुच्चितत्वात् । माली। मालावानिति । १३२। धर्मशीलवर्णान्ताच्च । १३३ । हस्ताज जातो हस्तेन इस्तमात्र प्रतीयते। नतु जातिः । पुरुषशब्दप्रयोगात् पुरुष- जातिगम्यते । १३४। वर्णाद् ब्रह्मचारिणि | समुदायेन चेद् ब्रह्मचारी भण्यत इति । एतेन समुदायोपाधित्व ब्रह्म- चारिणो दर्शयति । विद्याग्रहणाथं यदोपनीयते ततः सेवितव्यो यो नियम- विशेष स्तद ब्रह्म। तचरति ब्रह्मचारी। आवश्यक णिनिः । तत्र नियमविशेष- चरण ब्राह्मणादीनामेव त्रयाणां वर्णानामधिकारः । न शूद्रस्येत्याह ब्रह्मचारीति वैवर्णिकोऽभिप्रेत इति। त्रिषु वर्णेषु भवस्तत्रान्तर्भूतत्वात् त्रैवर्णिकः । किं पुनः कारणं स एवाभिप्रेत इत्याह सहीत्यादि ।

(५२)। १३५। पुष्करादिभ्यो देश । इह कस्मान्न भवति पुष्कराणि पद्मान्यस्मिन् देशे सन्तीति १ इति- करणानुवृत्तेः। अर्थाचासन्निहित इति। असन्निहितग्रहणे तस्य चास्तित्वेन विरोधः। यदि यसन्निहितीऽर्थो न नाम विद्यते। यदि विद्यते कथमसनि- हित.? तस्माद विशेषणोपादानादस्तीत्येतद् विशेषणमुत्सृज्यासन्निधानो- पाधिकादर्थात् प्रत्ययो विधीयते । अभिधानशक्तिखाभाव्याच्च। अर्थोति । अभिलाषवानेवोयते । न सर्वोऽसनिहितोऽर्थः प्रत्ययान्तेन तहिमर्शादसन्नि- हितवान् । अतः प्रत्ययो वक्तव्य' । न वक्तव्यः । कथं पुनरनुच्यमानो लभ्यते । बहुलं छन्दसीत्यतो ( ५।२।१२२) बहुलग्रहणन यथा ऽष्ट्रामेखलायोभय- हृदयादीना (५।२।१२२, वा) दीर्घश्चेत्येवमादिकं कार्य सम्पाद्यते तथेटमपि । तदन्ताच्चेत्यादि। असन्निहितमित्यनुवर्तते। असन्निहितीपाधिकादर्थादिनि- प्रत्ययो भवतीत्येतदर्थ रूपं व्याख्येयमित्यर्थः । व्याख्यानन्तु कृतप्रायम् । १३६ । बलादिभ्यो मतुबन्यतरस्याम् । यद्यन्यतरस्याग्रहणेन प्रत्ययो विकल्पाते बलादिभ्यो मतुविकल्पो भवतीति ततो मतुपा मुक्ते यथाप्राप्तमिनिठनावपि स्याताम् । इनिरव चेष्यते । स कथमिनिरव लभ्यते ? यद्यन्यतरस्यांग्रहणेनेनि: यद्यन्यतरस्यांग्रहणेनेनिः समुच्चीयते । न मतबिति विकल्पेनेत्येवं चेतसि कृत्वाह अन्यतरस्यांग्रहणेनेत्यादि। ननु यदीनिठनौ हावपि स्यातां सूत्रारम्भोऽनर्थकः स्यात् । विनाप्यनेन प्रत्ययस्य सिद्धत्वात्। तस्मान्मतुपोऽपि विकल्प स्यानेन दोषः। नैतदस्ति । आरम्भ- सामर्थ्यादिनिठनोरन्यतरो भवतीत्वषोऽर्थी लभ्यते । नविनिरव । तस्मादिनि- समुच्चयार्थमेवान्यतरस्यांग्रहणं कर्तव्यम् । १३७। संज्ञायां मन्माभ्याम् । प्रथिमिनी। दामिनीति। प्रथिमिन् दामिन् इतत्रताभ्यामिनिः । न स्तद्धित इति (६।४।१४४) टिलोपः । ऋन्नेभ्यो डोबिति (४।१।५) डीप् । अत्रापि संचाग्रहणमितिकरणस्यैव प्रपञ्चः । १४

न्यासः।
१३८। कंशंभ्यां बभयुस्तितुतयसः ।
उदकसुखयोर्वाचकाविति । यथासंख्यं कमितुदकस्य वाचकः शमिति
सुखस्य । शंयुरिति । मोऽनुवारः (८।३।२३)। तस्य वा पदान्तस्येति
(८।४।४६) परसवर्णः । मस्यानुनासिको यकारः । तेनानुखारपरसवर्णी सिद्धौ
भवत इति । तयोः पदाधिकारी विधानात् । यदि पुनः पदसंज्ञा न स्यात्
ततस्तस्यामसत्यां पदनिबन्धनयोरनुखारपरसवर्ण योरभावात् कम्युः शम्युरि-
त्यनिष्ट रूपं सम्पद्यते ।
१३। तुन्दिवलिवटे भैः।
तुन्दिशब्दात् तुन्दादिषु खाङ्गादिवतादिति पाठादिलचीनिठनोर्मतुपि
प्राप्ते वले: पामादिपाठान्ने मतुपि वटेमतुप्येव भो विधीयते ।
१४०। अहंशुभमोयुस्।
अहमिति । शब्दान्तरमिति । अस्मदस्त्वाही साविति (१२१८४)
त्यदाद्यत्वे च (७।२।१०२) कृते यच्छब्दरूपं सम्पद्यते तस्मादन्य एवाहमव्युत्पन्न:
शब्दः । नतु तदित्येवं शब्दान्यत्वं दर्शयित्वार्थान्तरं दर्शयितुमाह अहङ्कार
वर्तत इति । अहंयुः शुभंयुरिति । पूर्ववदनुवारपरसवर्णों ।
इति बोधिसत्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिविरचिताया
काशिकाविवरणपन्जिकायां पञ्चमस्याध्यायस्य
द्वितीयः पादः समाप्तः ॥५॥२॥

अथ काशिकाविवरणपञ्जिका। पञ्चमोऽध्यायः। तृतीयः पादः । १। प्रागदिशो विभक्तिः विभक्तिसंज्ञास्ते वेदितव्या इति। विभक्तिरित्येष शब्दः संज्ञा येषा ते तथीताः। ननुच विभक्तिशब्दः सुपतिका संज्ञा । संज्ञा च प्रदेशवाक्येषू- चारिता संजिनं प्रत्याययतीति सुप्तिडामेव संज्ञावं प्राप्नोति । न विभक्ति- शब्दस्य स्वाभिधेये गुणीभूतस्य । नैष दोषः। एवं मति सुतिड़ां विभक्ति- संज्ञाविधानमनर्थ कं स्यात् । यथा वृद्धिशब्दः स्वाभिधेये लौकिकेऽर्थे गुणीभूतोऽ- प्यादैच् प्रति संज्ञात्वमनुभवति तथा विभक्तिशब्दोऽपि तसिलादीन् प्रति संज्ञा- वेन वेदितव्यः । अथ तत्रैव कस्मानोचते सुपो विभक्तिश्च प्रागदिशश्चेति । एवं सति पुनर्विभक्तिग्रहणं कर्तव्य न भवति। नैवं शक्यम् । एवं हि न्यासे सति कुत आरभ्य प्रोगदिशीया इति न ज्ञायते । किञ्च दिगादिभ्यो यत् (४।३।५४) तेनैकदिगिति (४।३।११२) चानकं शास्त्रे दिगग्रहणमित्यवधिरपि संदिह्येत। किंसर्वनामबहुभ्य (५।३१२) इत्येवमादेश्च कार्यस्यावधिदर्श ार्थ पुनरिह प्रादिश इति वाच्यमेब स्यात् । तस्माद् यथान्यासमेव साधु । ततो यत इति । अष्टन आ विभक्तावित्यनुवर्तमाने (७।२।८४) त्यदादीनाम (२।१०२) इत्यत्वम् । न विभतौ तुस्मा (१।३।४) इति सकारस्येत्संज्ञाप्रतिषेधः । तद्धितश्चासर्वविभक्तिरित्यव्ययत्वाद् (१।१।३८) विभक्ते लुक् । कुत इति । तिहोरिति (७।२।१०४) किमः कुभावः । त्यदादिविधय इति। त्यदादयोऽन (५३)। १०८ अयञ्चावधेः परो वक्ष्यत इत्यन्याभ्योऽपि प्रकृतिभ्यो भवति। सर्वनामत्वादेव सिद्ध इति । सर्वनामत्व किमः सर्वादिषु पाठात् । किमो ग्रहणमित्यादि । किंशब्दोऽयं यादिषु पठ्यत इति तस्य धादिभ्य इति पर्युदासः क्रियते । तस्मात् सर्वनान्नोऽपि स्वशब्देनोपादानम् । यद्येवं दिशब्दात् पूर्व किंशब्दः पठितव्यः । एव हि तस्य पृथग्ग्रहणं न कर्तव्यमेव भवति । सत्यमेतत् । न सूत्रकारस्येह गणपाठ इति नासावुपालम्भमहति । अपि च त्यदादीना यद् यत् पर तत् तच्छिष्यत इति किमः सर्वैरेव त्यदादिभिः सह विवक्षायां शेष इष्यते । त्वञ्च कश्च को। भवाश्च कश्च को। स चैवं पाठे न सिध्यतीति यथान्यासमेवास्तु । बहुग्रहणे संख्याग्रहणमिति । कथमिह सर्वनामसंज्ञया सर्वादयः संज्ञिनो निर्दिश्यन्ते । तस्मात् तैः सह निर्देशाद् बहुशब्दस्यापि बहुगणादि-(१।१।२३) सूनेण यस्य संख्यासंज्ञा विहिता तस्यैव संजिनो ग्रहणं विज्ञायते । बहोः सूपादिति । अत्र वैपुल्यवाची बहुशब्दः । ३। इदम दूश् । शकारः सर्वादेशार्थ इति । असति हि तस्मिन्न लोऽन्तस्य (१ ११५२ स्यात् । ततश्चेद्रूपस्य हलि लोपे (७।२।११३) कृत आद्गुण (६।१।८७)चैत एहत्यनिष्टं रूपं स्यात् । ननु (३।१।८७) चेदमस्त्वदाद्यत्वे (७।२।१०२) कृते ऽतो गुणे (६।१।६७) पररूपल्ले चेद्रूपलोपे चान्त्यस्याप्यादेश इत इहेति सिध्यत्येव । सिध्येद् यदि प्राक् त्यदायत्व लभ्येत । नतु तलभ्यम् । इत्त्वमेव हि तावदन्तरङ्ग स्यात् । इत्त्वं हि तसिलादिप्रत्ययमात्रमपेक्षत इत्यन्तरङ्गम् । त्यदाद्यत्वमङ्गसंज्ञां परस्य प्रत्ययस्य विभक्तित्वञ्चापक्षत इति बहिरङ्गम् । तस्माच्छकारः कर्चव्यः । ४। एतेतौ रथोः । रथोरिति। वर्णयोरिदं ग्रहणम् । तत्र यस्मिन् विधि स्तदादावल- ग्रहण इति (१।१।७२, वा) रेफादो थकारादौ च कायं विज्ञायत इत्याह रफादावित्यादि। रेफस्याकार उच्चारणार्थ इति कथं ज्ञायते ? इदमः परस्य प्राग्दिशीयस्याकारवतो रेफस्याभावात् ।

न्यास' । कृतवाच । तत्र कर्तव्य.। ५। एतदोऽश् । (A) शकारः सर्वादेशार्थ इति । ननु चान्यस्य स भवन् यदि तावदकते त्वदाद्यत्वे भवति ततो दकारस्य भवन्ननर्थकः प्रसज्येत । त्यदाद्यत्वेनापि हि तस्याकारो लभ्यत एव । अथ त्यदाद्यत्वे कृते ऽकारस्य स्थाने भवनदर्थक एव प्रसज्यते । नाकारस्याकारवचने प्रयोजनमस्ति । वचनादसत्यपि शकार सर्वादेशो भविष्यति। नैतदस्ति । अस्ति ह्यकारस्या- कारवचने प्रयोजनम्। किम् ? अतोऽत्रेत्यत्र यो ऽन्यः प्राप्नोति स मा भूदिति । क' पुनरसौ ? लिति प्रत्ययात् पूर्वस्योदात्त.। तस्माच्छकार: थमः पुनरुपसंख्येय इति । तस्याविद्यमानत्वात्। उपसंख्येय इति प्रतिपाद्य इत्यर्थः। तत्रेदं प्रतिपादनम् । एत एव थकारादावादेश- वचनं ज्ञापयति भवत्येतदस्थमुरिति । कुतो नु खल्वेतद् ? ज्ञापकात्। थमुभविष्यति । न पुनर्यएवासौ प्रकारवचने थालित्यविशेषविहित (५।३।२३) स्थकारादि स्तस्मिन्नेवादेशः स्यात् । नैष दोषः । इदम स्थकारादिविशेष एत इत्यत्रापि हीदम इत्यनुवर्तते । तच्च नादेशविधानार्थम् । आदेशस्य पूर्वमेव विहितत्वात् । तम्मात् प्रत्ययविशेषणं विज्ञायते । एतेन थकारादिं विशेषयिष्याम इदम इत्येवं यो विहित इदम्शब्देनैव यो विहित स्थकारादिरिति । थमुरेव चैवं विहितः । मादेशवचनं ज्ञापयति भवत्येवैतदस्थ मुरिति । ६। सर्वस्य सोऽन्यतरस्यां दि। दौति । दकारादियं सप्तमी। तत्र दकारमात्रस्य प्रागदिशीयस्या- भावाद् यस्मिन् विधिस्तदादावल्ग्रहण इत्यतो (१।१।७२, वा) दकारादौ विधि यत इत्याह प्रागदिशीये दकारावित्यादि। सर्वदा ब्राह्मणीति । आतोऽनुपसर्गे कः (३।२।३) । ततष्टाप । ७। पञ्चभ्यास्तसिल । ससिल् प्रत्ययो भवतीति । आदेशा एवामौ तसिलादवः । पञ्चम्या इष्यते । নন। न थालिति युक्तामुक्त- (A) भाग्धे त्वेसदोऽनित्येव सूवख पाठ । अमिति च नकारान्त आदेश ।

(५॥३)। १११ दीनां स्थाने कस्मात्र क्रियन्ते ? एवं हि विभक्ति संज्ञा न कर्तव्या भवति । अशक्या एत आदेशाः कर्तुम् । आदेश त्वे ह्येषामव्ययात् त्यपि (४।२.१०४) ततस्त्यो यतस्त्य इत्यत्र सुपो धातुप्रातिपदिकयोरिति (२।४,७१) लुक् । लभन्ते हि स्थानिवद्भावेन सुबादेशाः सुबाश्रयं कार्यम् । तत इति । अनुदात्तौ सुपितावित्यनुदात्तः (३।१४)। कुत इति। चेडिंतीति गुणः (७।३।१०२)। ऐतहाँति सुपि चेति (७।३।१०३) दीर्घः। तत्रेति । बहुवचने (७।१।१५) झत्येदित्येवम् । कुनेति । अञ्च घेरित्यौत्त्व म (१३।११८)। ततस्तवेति । डसिड्योः स्मास्मिनाविति (७।१।१५) स्मास्मिनौ। तस्मान् नादेशा अमी क्रियन्ते । यद्येवं तसु डपक्षय इत्यस्मात् तस्यनित्यत्र धातुरूपस्य पञ्चम्याः परस्य तसेश्चेति (५।३.८) तसिलादेशः प्राप्नोति । नैष दोषः । स्वार्थिक विज्ञानान्न भविष्यति। खार्थिका ह्येते तसिलादयः । तन्मध्ये तसिलादेशो विधौयमानस्तथा विज्ञायते यथा स्वार्थे क्रियमाण: स्वार्थिकत्वं नातिक्रामति। अपादाने चाहीयरहोरित्यनेन (५।४।४५) विहितस्तस्य स्वार्थिकस्य स्थाने भवस्त सिलपि स्वार्थिक एव भवति। धातुस्तु प्रातिपदि- कादर्थान्तरे वर्तत इति तदादेशो भवंस्तसिल स्वार्थिको न भवति । ८। तसश्च। कुत आगत इति। अपादाने चाहोयरहोरिति (५।४।४५) परत्वात् तसौं कृते तस्यानेन तसिल। ननु च कृतेऽपि तसिलि तदेव रूपम् । ন किमर्थमादिश्यत इत्याइ तसे स्तसिल्वचनमित्यादि । पर्यभिभ्याञ्च । सर्वोभयार्थे वर्तमानाम्यामिष्यत इति । तेनेह न भवति । परिषिञ्चति । अभियातीति । अन चानभिधानं हेतुः । अथवा सर्वस्येत्यादेः (५।१।६) सूत्रादन्यतरस्यांग्रहणमनुवर्तते । सा च व्यवस्थित विभाषा। तेन सर्वोभयार्थ एव वर्तमानाभ्यां भवति । है। नान्यत्र । १०। सप्तम्यास्वल । ११। इदमो हः।

११२ न्यासः। १२ । किमोऽत् । कति । क्वातीति (७२।१०) किमः वादेशः । न विभक्तो तुस्मा इति (१।३।४) प्रतिषेधस्येदमस्थमुरित्युकारणातित्यत्वस्थ (५।३।२४) ज्ञापित- वादित्संज्ञा तकारस्य । दानीमस्तु प्रतिषेधान्नास्तीत्संज्ञा । प्रयोजनाभावाचा १३। वा ह च च्छन्दसि । १४। इतराभ्योऽपि दृश्यन्ते पञ्चमीसप्तम्य पेक्षमितरत्वमिति । तदनन्तरमितरशब्दस्य ज्ञातत्वात् । अथ दृशिग्रहणं किमर्थम् ? यावतेतराभ्योऽपौत्येतावतैव सिद्धमित्याह दृशिग्रहणमित्यादि। प्रायिको विधिर्यथा स्यादित्येवमयं दृशिग्रहणम् । तस्मिंस्तु सति शिष्टप्रयोगेऽनुगम्यमाने यत्र दृश्यते तत्र भवति नान्यत्रेत्येषोऽर्थों लभ्यते । तेन प्रायिकत्वं विधेः सिध्यति । तेनेत्यादि। दृशिग्रहण तु सति यत्रेतराभ्यः शिष्टप्रयोगो दृश्यते ताभ्य एव तसिलादिभिर्भवितव्यम् । भवदादि- योग एवेतराभ्यो दृश्यन्ते । तेनेतरत्रैव तद्विधानम्। यदि ह्यन्येभ्योऽपि तसिलादयो भवन्ति पूर्व पञ्चमीसप्तमीभ्या विधानमनर्थकम् । नैतदस्ति । नियोगतो हि ताभ्यामिष्यते। इतराभ्यो भवदादियोगे । एतच्च पूर्वस्मिन् विधावस्मिंश्च सत्युभयं लभ्यत इति कुत आनर्थक्यम् ? १५। सवैकान्यकियत्तदः काले दा । सप्तम्या इत्यनुवर्तत इति । तस्याः स्वरितत्वात् । नवितराभ्य इति । तविपर्ययात्। त्रलादेरपवाद इति । यथासम्भवम् । तत्र किम्शब्दात् किमोऽदिति (५।३।१२) प्राप्तस्यात्प्रत्ययस्थापवादः। केषाञ्चिन्मतेन त्रलोऽपि । तच्छब्दादपि तयोर्दाहिंलौ च च्छन्दसौति । शेषेभ्यस्तु बल: । कदेति । किमः कादेशः । १६ । इदमो हिल। हस्यापवाद इति । इदमो ह इति (५।३।११) प्राप्तस्य । लकारः खरार्थ इति । लिति प्रत्ययात् पूर्वस्योदात्तत्व यथा स्यात् । ननु च यथेत इत्यत्रो- (५॥३)। ११३ डिदमित्यादिना (६।१।१७१) विभक्तिखरो भवति तथहापि तेनैव भवितव्यम् । नैतदस्ति । तथाहि युक्तमित इत्यत्र यद् विभक्तिस्वरो भवतीति। तसिलो लिवस्य परितोऽभिल इत्यत्र चरितार्थत्वात् । अस्य तु हिलो लिकरणम- कमर्थम् । तद् यदि विभक्तिस्वरेण बाध्येत तस्यानर्थक्यं स्यात् । तस्मालितस्वर एव भवति। १७। अधुना । १८। दानौच्च । दानौञ्चेति । योगविभाग उत्तरार्थः । तदो दा नेत्यत्र (५।३।१८) दानीमेव यथा स्यात् । पूर्वसूत्रविहितः प्रत्ययो मा भूदिति । १६। तदो दा च । अनर्थकमिति । वैचित्रवार्थम् । अन्य स्थाभावाद नर्थकं वैचित्रेण सार्थक- मेव । विहितत्वादिति । सर्वैकान्येत्यादिना (५।३।१५) । २० । तयोर्दा हिलौ च च्छन्दसि । इदा । इदम दृश् (५।३।३) । तथा वर्णव्यत्ययेन दकारस्य धकारः । इटानों तदानीमिति। दानीप्रत्ययस्योटाहरणम् । २१। अनद्यतन हिलन्यतरस्याम् । तसिलादिषु प्राप्तेषु हिल्प्रत्ययो विधीयते । कौति । किमः कः (१२।१०३)। कदा यदा तदेति । सर्वैकान्यकिंयत्तदः काले दा (५।३।१५) । २२॥ सद्यःपरुत्पराय्यॆषमःपरेदाव्यापूर्वंद्युरन्येारन्य- तरेदारितरेदारपरेटुारधरेदारुभयेदारुत्तरेयः । समानऽहनि सद्य इति । निमित्त निमित्तिनो: समाने साधारणेऽहनि निपातनमेतत् । तयथा सद्यः प्राणहरणं मर्मणि ताडनमिति। यस्मिन्ने- वाहनि मर्मणि ताड़नं तस्मिन्नेवाहनि प्राणहरणमित्यर्थः । उदारी चेति । उच्च आरिश्चेति उदारी। परस्मादेद्यवीति । परशब्दादेद्यविप्रत्ययो भवत्य- हन्यभिधेये।

११४ न्यासः । २३ । प्रकारवचने थाल । सामान्यस्य भेदको विशेषः प्रकार इति । यथा ब्राह्मण इति सामान्यम् । तस्य विशेषा माठरादयः प्रकारा इति । ईदृशमेव लक्षणमिति । तत् पुनः प्रकारवचने जातीयरित्येतत् (५।३।६८)। स तु स्वभावादित्यादि तुल्यलक्षणविहितयोर्विशेषं दर्शयति । अतएव विषयभेदाद् विशेषविहितनापि थाला सामान्यविहितो जातीयर् न बाध्यते । तेन किञ्जातीय इत्यादि सिद्ध भवति । स किम २४ । इदमस्थमुः। २५ । किमश्च । योगविभाग उत्तरार्थः । था तो चेति (५।३।२६) वक्ष्यति । एव यथा स्यात् । इदमो मा भूदिति । २६ । था हेतौ च छन्दसि । २७। दिकशब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिगदेश- कालेष्वस्तातिः । दिग्देशकालेषु वर्तमानेभ्य इति । कथं पुनर्ये दिशां शब्दा स्ते देशे काले वर्तन्ते ? खभावात्। यथैव हि ते दिशि स्वभावादेव वर्तन्ते न हेवन्तरात् तथा देशकालयोरपि। यद्येवं त्रिषु वर्तमानाः कथं दिशा व्यपदिश्यन्ते दिक्शब्देभ्य इति ? कथन्तहि व्यपदेष्टव्यम् १ दिग्देशकाल- शब्देश्य इति ? नेतदस्ति । एव हि व्यपदेशस्यैतत फलमैन्द्रया दिशि निवसतीत्यत्र मा भूदिति । एतच्चान्यतमेनापि लभ्यत इत्यनेनैव व्यपदेशो युक्तो येन व्यपदेशालघु सूत्रं भवति। दिशा च व्यपदेशे लघु भवति दिक् शब्दस्याल्पाच्तरत्वादिति दिशां तेन व्यपदेशः। एवमपि दिव- शब्दस्य दिशि वृत्तेः विशेषण मयुक्तम् । अवश्यं हि दिकशब्दो दिशि वर्तते । तत्रैवं कर्तव्य देशकालयोरिति । नेतदस्ति । एवं झुच्यमाने सलु प- लक्षणमेव हि दिकशब्दः स्यात् । प्रत्ययस्तु देशकालबत्ति भ्य एव स्यात् ।

वर्तते। (५॥३)। ११५ न दिगवत्तिभ्यः । दिग्ग्रहणे तु तेभ्योऽपि भवति । इह तिस्रो विभक्तयः । त्रयश्वार्था दिगादयः । तत्र माम्याटु यथासंख्येन भवितव्यमिति कस्यचिद् भ्रान्तिः स्यात् । अतस्तामपाका माह यथासंख्यमत्र नेयत इति । तत् कथमित्कवचननिर्देशे कर्तव्ये बहुवचननिर्देश ? प्रत्येक दिगादिवत्तेबहुल- विभक्त्यन्तात् प्रत्ययः कर्तव्य इति सूचनार्थ. । एवञ्चायं बहुलविभक्त्यन्तात् प्रत्ययः कृतो भवति यदि दिग् हत्तेरपि मप्तमीपञ्चमीप्रथमान्तादेव भवति । देशवसेरपि कालवृत्तेरपि । अथवा या हेतौ (५।३।२६) चेत्यतश्चकारोऽनु- स च श्रुतिमेव समुचिनोति। तेन दिगादिवृत्ते. प्रत्येकं सप्तमी- पञ्चमीप्रथमान्तात् प्रत्ययो भवति। न यथासंख्यम् । यथासंख्ये हि समुच्चयो अथवा खरिनल्वे सति यथासंख्य भवतीत्युक्तम् । न चेह यथा संख्याथं स्वरितत्व प्रतिज्ञायते । तेन यथामख्य' न भविष्यति । पुरस्ताद- धस्तादिति । पूर्वाधरशब्दाभ्यामस्तानि । अस्ताति चेति (५।३।४०) वक्ष्यमाणन यथामख्य पुर् अध इत्येतो पूर्वाधरशब्दयोरादेशी । ऐन्द्रया दिशि वसतीति । ऐन्द्रीशब्द: मामान्येनेन्द्र सम्बन्धिवस्तुमात्रमाचष्टे । दिकशब्दसन्निधौ तु दिशि वर्तते । तेन दिक्शब्द इति लोके न प्रसिद्ध इति न भवत्यतः प्रत्ययः । पूर्व ग्रामं गत इति पूर्वशब्दोऽत्र ग्रामस्य देशात्मकत्वाद् देशे वर्तते । नत्वत्र सप्तम्या- दिविभक्त्यन्तः । किं तु द्वितीयान्तः । पूर्वस्मिन् गुरौ वमतीति । पूर्वशब्दोऽत्र दिगाद्युपलक्षित गुरो वर्तते । न दिगादिषु । विरुध्येत । । । २८। दक्षिणोत्तराभ्यामतसुच् । अकारो विशेषणार्थ इति । यात्राकारो न क्रियते तदा षष्ठी तसर्थ प्रत्ययेनेति (२ ३। ०) सूत्रं कर्तव्यम् । एवञ्च सति तसिलोऽपि ग्रहणं स्यात् । ततश्च ततो हेतुनेत्यत्रापि तीया बाधिन्वा षष्ठी स्यात् । तस्मादकारो विशेषणार्थः कर्तव्यः । अथ यदा दक्षिणोत्तरशब्दो दिशि वर्तते तदा टाप- श्रवण मा भूदित्येवमयोऽकार' कस्मान्न भवति ? सर्वनाम्नो वृत्तिमात्रे पंवद्भाव इति (२।२।२६, वा) ववचनेनैव टापो निवर्तितलात् । ननु चामत्यकार प्रत्ययखरेण सिद्धत्वाच् चकारोऽपि नेव कर्तव्य' । तत्रैकानुबन्धग्रहणे तु न न्यासः । - धनुबन्धकस्येति तसिलो ग्रहणं न भविष्यति । एवमपि प्रतियोगे पञ्चम्या स्तसिः (५।४।४४) । तेनैकदिक् (४।२।१४४) । तसिश्चेत्यन्यतरग्रहणं (४।३।११३) स्यात् । तस्माद विशेषणार्थश्चकार' कर्तव्य । २६। विभाषा परावराभ्याम् । ३०। अञ्चेलृक् । दिक्शब्दादित्यधिकारात् केवलस्य चाचतेरदिक्शब्दत्वादञ्चेरित्यञ्चूत्तर पदस्य निर्देशोऽयम् विज्ञायते । अतएवाह अञ्चत्यन्तेभ्य इति । दिक्शब्देश्य इति । प्राग वसतीति। प्रपूर्वादञ्चतेर् ऋत्विगित्यादिना (३।२।५८) सूत्रेण किन् । अञ्चतेश्चोपसंख्यानमिति (४।४।१०८) डीप् । अच इत्यल्लोपः (६।४।१०८)। चाविति दीर्घः (६।३।१३८)। प्राची इति स्थिते ऽस्तातिः । तस्य लुक्। क्विन्प्रत्ययस्य कुरिति कुत्वम् (८१२।६२ }। प्रत्यगिति। प्रतीची- शब्दात् प्रत्ययः । स तु पूर्ववदुपपाद्यः । ३१ । उपयु परिष्टात् । रिलरिष्टातिलौ च प्रत्ययो निपालेते इति । अस्तातेरपवादौ । ३२। पश्चात् । आतिश्च प्रत्यय इति । अयमप्यस्तातरपवादः । दक्षिणपश्चादुत्तर- पश्चादिति । दक्षिणापरस्यां दिशि वसतीति दक्षिणपश्चात् । एव मुत्तरपश्चात् । अर्होत्तरपदस्य चेति । अपरस्येति सम्बध्यते। विनापि पूर्वपदेन पश्चाभावी वक्तव्य इति । अपरस्याडौंत्तरपदस्येति प्रकृतेन सम्बन्धनीयम् । अत्र सर्वत्र वक्तव्यशब्दो व्याख्याने वर्तते । तत्रेदं व्याख्यानम् । उत्तरसूत्रात् सिंहाव- लोकितेन चकारोऽत्रावतिष्ठते । स चानुक्तसमुच्चयार्थः । तेन दिक्पूर्वपदस्या परशब्दस्य पश्चाद्भाव इत्येवमादिकं कायं सिद्धं भवति । ३३। पश्च पश्चा चच्छन्दसि । ३४। उत्तराधरदक्षिणादातिः । उत्तरदक्षिणाभ्या दक्षिणोत्तराभ्यामतसुच् (५।३.२८) । एनबन्यतरस्यामदूर- ऽपञ्चम्या: (५।३।३५) । दक्षिणादाच् । आहि च दूरे। उत्तराचे-(५।३।३६-८) ।

(५।३)। त्येभिर्योगैरतसुजादिषु प्राप्तेष्वधरादप्यस्तातावातिर्विधीयते । तस्यास्तातिर्बाध्यत एव । अतसुजादयस्तु वचनात् पक्षे भवन्ताव । अत्र च यद्यप्युत्तरादीना सप्तम्या- दीनाञ्च विभक्तीनां दिगादीमाञ्चोपाधीना त्रित्वं तथापि यथासंख्य न भवति । कुतः ? तदर्थस्य खरितत्वस्याप्रतिज्ञानात् । लघुक्षरस्याधरशब्दस्यापूर्व अपातालक्षण व्यभिचारचिह्नाहास्य लक्षणान्तरनिरपेक्षता दर्शयन् यथासंख्य- लक्षणमिह नापेक्ष्यत इति सूचयति । तेन विभक्तिभि स्तावद् यथासंख्यन भवति। उपाधिभिस्तु दक्षिणशब्दस्य कालवृत्त्यसम्मवाच । ३५। एनबन्यतरस्यामदूरोपञ्चम्याः । अदूरे चेदवधिमानवधवतोति । कथं पुनरेवं विशेषो लभ्यते ? यावता सूत्रेऽवधिशब्दो न श्रूयते । नाप्यवधिमान् । दिक्शब्दानामवध्यपेक्षा प्रवृत्ति- भवति । अवधिमा नप्यवधि मपक्ष्य भवतीति सामादनुक्तोऽप्येष विशेषो लभ्यत इति । अधस्ताद् वसतौति । अस्ताति चेति (५१३१४०) वक्ष्यमाण- नास्तातो परतोऽधरशब्दस्यादेशः । प्रागसेरिति । असिपुरधवश्चैषामिति (५।३।३८) वक्ष्यमाणः । केचिद् दिकशब्दमात्रात् प्रत्ययं मन्यन्त इति तेषा मतेन पूर्वेण वसतीत्याद्यपि भवति । यदि दिकशब्दमात्रात् प्रत्ययो भवती- त्यञ्चत्यन्तादपि स्यात् । भवतु। अचेलुंगिति (५॥३॥३०) लुग भविष्यति । नैतदस्ति । मध्येऽपवादाः पूर्वान् विधीन् बाधन्त (प,६ ) इत्यस्तातेरेवानानेन लुक् ! नान्यस्य । एवं तान्यतरस्यामिति व्यवस्थितविभाषेयम् । तेनाञ्चत्यन्तान भविथति। पकार एनपा हितीयेति (२।३।३१) विशेषणार्थ: स्वराईच । ३६ । दक्षिणादाच् । चकारो विशेषणार्थ इति । असति हि तस्मिन् पश्चाशब्द आकारान्तो निपातित इति तेनापि योग पञ्चमी स्यात् । स्वरार्थस्तु चकारो नोपपद्यते । प्रत्ययस्वरेणैव सिद्धत्वात् । ३७। आहि च टूरे। ३८। उत्तराच्च। आजाही प्रत्ययो भवत इति । ननु चानन्तयादाहिरेव प्राप्नोति । न।

११८ न्यास,। चकारोऽत्र क्रियते । म हि व्यवहितमप्याचं समुचिनोति । ননালজি भविष्यतीति । ३६। पूर्वाधरावराणामसि पुरधधश्चैषाम् । पूर्वादस्ताती प्राप्ते ऽस्ताताववरादपि विभाषातसुचीदमारभ्यत । अथेषा- मिति किमर्थमिदमुचते ? यावता येयं पूर्वादिषु षष्ठी सैव प्रत्ययं विधाय स्थाने षष्ठी विज्ञायते । सम्बन्धभेदाच षष्ठयर्थभेद' । सत्यमेतत् । तथापि सुख- प्रतिपत्त्यर्थमषामित्युक्तम् । ४०। प्रस्ताति च। ननु चासिना बाधितत्वात् पूर्वादिभ्योऽस्तातिना न भवितव्यमित्याह इदमेवेत्यादि। गतार्थम् । ४१ । विभाषाऽवरस्य। ४२। संख्याया विधार्थे धा । प्रकारवचने च जातीयरिति । तस्यायमपवादः । विधा प्रकार इत्युक्तः प्रकारवचने थालित्यत्र (५॥३.२३)। स च द्रव्यगुणविषयोऽप्यस्ति । तत्र यदि सोऽपि राहोत द्रव्यगुणयोलिङ्गसंख्याभ्यां योगाहा प्रत्ययान्तमलिङ्गमसंख्यञ्च न स्यात् । एवञ्च तस्याव्ययत्व न स्यात् । तच्चेष्टम् । तथाहि धाप्रत्ययोऽव्ययेषु पठ्यत तसिलादिस्तहित एधाच्पर्य्यन्त इति । क्रियाविषये तु तस्मिन् गृह्यमाणे न दोषः । क्रियायाः सर्बदा लिङ्गसंख्याभ्यामयोगादित्येत चेतसि कृत्वाह स चेत्यादि । नियाधातुवाच्यो विल्लेदनादिरर्थः । स च विषयोऽस्य स तथोक्तः। कथं पुनः सामान्चोही विशेषस्य ग्रहलं लभ्यते ? ह्येतदेव प्रयोजनम् प्रकारविशेषणं यथा स्यादिति । अन्यथा हि विधाया- मित्येवं हि ब्रूयात् । यदि तहि प्रकार: क्रियाविषयो गृह्यते नवधा द्रवं नवधा गुण इत्यत्र न प्राप्नोति। नैष दोषः । अत्रापि क्रियाध्याहव्या। नवधा द्रव्य नवधा गुण उपपाद्य विग्ह्यत चेति । ४३ । अधिकरणविचाले च। अर्थग्रहणस्य (५॥३)। १२८ ४४ । एकाधो ध्यमुञन्यतरस्याम् । एकध्यं कुर्विति। अधिकरणविचाल उदाहरणम् । एकध्यं भुत इति । विधार्थे । अत्र धाग्रहणमनुवर्तते । न च तत्र विध्वर्या वत्तियुक्ता। पूर्वमेव विहितत्वात् । तस्मादनुवृत्तिसामर्थात् स्थानित्वं धाप्रत्ययस्य विज्ञायत इत्याह प्रकरणादेव लब्ध इति । धाप्रत्ययस्य स्थानिवत्व इति शेष । वि पुन. कारण- मसति धाग्रहण विधार्थे विहितस्य न भवतीत्याह अनन्तरस्यैव होत्यादि। अमति हि पुनर्धाग्रहणे ऽनन्तरस्य विधिर्वा भवति प्रतिषेधो (प,३ वेत्यधिकरण- विचालार्थे यो विहितस्तस्यैव स्यात् । नतु विधार्थे यो विहितस्तस्य । पुनर्धा- ग्रहणे तु सति धामावस्यादेश सिद्धी भवति । ४५ दिल्योश्च धमुञ्। वैधानीति । ननु च स्वार्थिकाः प्रकृतिधर्माननुवर्तन्त इति लिङ्ग- संख्याभ्यामत्र न भवितव्यम् । नैष दोषः । अतिवर्तन्ते हि कदाचित् स्वार्थिका' प्रकृतिधर्मान् यथा चत्वार एव वर्णाश्चातुर्वण्र्यमिति । एधाचा यापा पाश । याप्यशब्दोऽय गमयितव्ये वर्त्तते ग्रामान्तरात याप्य इति । अस्त्यशक्य- प्रतीकार याप्यो रोग इति । अस्ति कुत्सिते याप्योऽयमिति । कुत्सित इति गम्यते । पाशप्रत्ययान्तात् कुत्सित एव प्रतीयत इति तदभिधायिन एव याप्य शब्दस्येदं ग्रहणं युक्ताम् । अतएवाह याप्यः कुत्सित इत्युच्यत इति । याप्यन्ते ऽपनीयन्ते तस्माद गुणा इति याप्यः । कत्यल्युटो बहुलमित्यपादाने (३।३।११३) कल्यः । तत्र कस्मान्न भवतीति ? यद्यप्यसौ व्याकरणे प्रवीण स्तथापि दुःशील- त्वाद् भवितव्यमेव तत्रेत्यभिप्रायः । अस्येत्यादि । गुणो विशेषणम् । द्रव्यं विशेष्यम् । तत्र द्रव्ये यद्यपि बहवो गुणा: सन्ति तथापि यस्य गुणस्य भाव ट्रव्ये शब्दो निविशी वर्तते प्रत्यासत्तेस्तस्यैव कुत्साया शब्देन भवितव्यम् । नतु वैयाकरणस्य दुःशीलत्वं प्रवृत्तिनिमित्तम् । किं तर्हि ? व्याकरणस्य परिज्ञान- मध्ययनं वा । नचेह दुःशीललेन भवितव्यं प्रत्ययेन ।

१२० न्यासः। तस्य 8८। पूरणाद् भागे तौयादन् । पूरणप्रत्ययी यस्तीय इति । तस्य पूरण डडिति (१।२।४८) पूरणाधिकारी विहितत्वात् । पूरणाभिधेयत्वाहा ! उपचारेण प्रत्ययोऽपि तीयः पूरण इत्युच्यते । भाग इत्यंश इत्यर्थः। किमर्थं पुनरिदम् ? यावता कृतऽप्यनि रूपं तदेवे- त्याह खराथं वचन मिति । विभागे नित्वरेणाद्युदात्त यथा स्यात् । पूरण- ग्रहणमुत्तरार्थमिति। उत्तरत्र पूरणप्रत्ययान्तात् प्रत्ययो यथा स्यात् । च व्यवच्छेदाय क्रियमाण पूरणमिहाग्यर्थवत् स्यात् । स च नास्तीति नेहार्थता तस्योपपद्यते । ननु च मुखपाखंतसोरीयः (४।३।६०,वा) पार्वतीय इत्यपूरणोऽपि सोऽस्तीत्यत आह मुखतीयादिरनर्थक इति । अर्थवद्ग्रहण- परिभाषया (प, १५) । अर्थवानिह तीयो गृह्यते । न च मुखतीयादिरर्थवान् । अतो सत्यपि पूरणग्रहणे तस्य ग्रहणं न भविष्यतीति भावः । 88। प्रागेकादशभ्योऽच्छन्दसि | ५०। षष्ठाष्टमाभ्यां च । यथासंख्ये हि षष्ठादन्यथा प्राप्तञ्चेत्यन् । न च पूर्वेणैव सिद्ध इति षष्ठ- ग्रहणमनर्थकं स्यात् । तस्मादुभाम्यामुभयं भवति । ५१ । मानपश्वङ्गयोः कल्लुको च । चकाराद् यथाप्राप्तञ्चेति । ५२। एकादाकिनिच्चासहाये। आकिनिच: कनो वा लुग विज्ञायत इति । प्रत्यासत्तेः । नतु प्रकरणान्तर- विहितस्य । विप्रकर्षात् । स चेत्यादि। यदि नित्यः स्यात् तद्दिधानमनर्थक स्यात् । तस्माद् विधानसामात् पक्षे भवति । किं पुनः कारणमसहाय- ग्रहणम् १ संख्याशब्दनिरासार्थ क्रियत इत्याह तदुपादाने होत्यादि। असत्य- सहायग्रहण सख्यावाचिनोऽप्येकशब्दस्य ग्रहणं स्यात् । तस्मिंस्तु सति हिबह्वोर्न स्यात् । नहि योबहुषु वा वैकत्वसंख्या विद्यते । असहायता तु शतस्यापि भवति । तुल्यजातीयान्यस्याभावात् । शतमसहायमिति । तेनासहायार्थस्य ग्रहणे दिबह्वोरपि प्रत्ययः सिध्यति । अथ कस्मादाकिनिज विधीयते ?

नैवं शक्यम् । - (५३)। १२१ अकनिजिवोच्थेत । अनापि सवर्णदीर्घत्वेनेष्टं सिध्यत्येव । न सिध्यति । अतो गुण (६।१।८७) पररूपत्व' यस्येति (६।४।१४८) लोपश्च प्राप्नोति । अकारोच्चारणसामान भविष्यति। नैतदस्ति । अस्ति ह्यकारोचारणस्य प्रयोजनम् । किम् ? भसंज्ञायामन्यः पदसंज्ञानिबन्धनोऽवग्रहो मा भूदिति । तस्मादाकिनिजेव विधेयः । ५३। भूतपूर्वं चरट । किमर्थं पुनरतौ समानार्थों शब्दावुपदिश्येते ? नान्यतर एवोपदिश्येत । इह अतिक्रान्तकालविशिष्टेऽर्थे वर्तमानात् प्रत्ययग्रहणमिष्यते । स चातिक्रान्तः कालोऽन्यतरोक्तो नैव राह्यते । तथाहि भूतशब्दो वर्त- मानऽप्यर्थे वर्तते यथा भूतवानिति । पूर्वशब्दस्तु दिग्देशयोरपि । तस्मादन्यतरोक्तावतिक्रान्तकालो न प्रतोयते । अतएवाह भूतपूर्वशब्दोऽति- क्रान्तकालवचन इति । अथ चकारस्य चुटू इतोत्संज्ञा (१।३।७) कस्मान्न भवति ? अनित्यत्वात् तस्य विधेः । अनित्यत्वन्तु तत्रैव प्रतिपादितम् । ५४ । षष्ठया रूपा च । इह षष्ठयन्त यत् तद् विशेषणं परार्थत्वादप्रधानम् । इतरत् पुनस्तेनै. वोपक्रियमाणत्वाद् विशेष्यं प्रधानम् । प्रधानेन च कार्यसंप्रत्यय इति यथा षष्ठयन्तात् प्रत्ययविधाने संप्रति षष्ठयन्तप्रतियोगिनि प्रधान प्रत्ययो विज्ञायते न प्रकृत्यर्थे तथा भूतपूर्वग्रहणं तस्यैव ज्ञायते न प्रत्यर्थस्येत्येतदालोच्याह षष्ठान्तादित्यादि । प्रत्ययार्थस्तु षष्ठान्तस्य यः प्रतियोगी स वेदितव्यः । ५५। अतिशायने तमबिष्ठ नौ । अतिशायनमिति लुाट्। यद्यपि शेतिः केवलः स्वप्ने वर्तते तथाप्यति- पूर्वस्य प्रकर्षे वृत्तिः। अतएवाह प्रकर्ष इति । ननु चातिशयनमिति भवितव्यमित्याह निपातनादीर्घत्वमिति । निपातनं त्वतिशायनशब्दस्य कथम् ? साधुत्वं विज्ञायत इत्येवमर्थम् । प्रकृतिविशेषणचेतदिति । प्रत्ययाशशां निराकरोति । प्रकृत्यर्थ विशेषणं स्वार्थिकानां द्योत्यं भवतीति न वाच्यम् । तस्य प्रकृतिवाच्यत्वात्। पटिष्ठः। लघिष्ठ इति । तुरिष्ठेमेयःसु इति (६।४।१५४) १६ १२२ न्यासः । टिलोपः। गरिष्ठ इति। प्रियस्थिरस्फिरोरुबहुलगुर्वित्यादिना (६।४।१४७) गुरुशब्दस्य गरादेशः । प्रकर्षप्रत्ययान्तादपरण प्रत्ययेन न भवितव्यम् । एकेनैव प्रत्ययस्य योतितत्वादिति यो मन्यते तं प्रत्याह यदा चेति । यत्र प्रथमे प्रकर्षयातिशायनिको विहितस्तत्र तेनैव घोतितत्वाद् द्वितीयो मा भूत् प्रकर्षप्रत्ययः । प्रकर्षान्तरत्व आतिशायनप्रत्ययान्ताद् युक्तमेवापरेणातिशायि- केन प्रत्ययेन भवितुम् । तदद्योतितत्वादिति भावः । इष्ठनि परतः प्रशस्यस्य श्रः (६।१८७)। पूर्वेण सहादु गुण: (६।१।८७)। इष्ठन्प्रत्ययान्तात् तमप्- प्रकर्षप्रत्ययः । अत्र प्रतियोग्यपक्षो यः प्रकर्षः पूर्वस्मात् प्रकर्षात् स प्रकर्ष इष्ठन्- प्रत्ययेन द्योतितः । ननु च नास्यातिशायिकस्य विधायकं वाक्य मस्ति येन तस्मिन् विहिते तदन्तादपरः प्रकर्ष आतिशायनिको विधीयते। इदमेव ह्येकं वाक्यम् । तत्राननैव विधीयमाने प्रकर्षप्रत्यये तदन्तायाः प्रकृतेरसम्भव इत्ययुक्त आतिशायिकादपरस्यातिशायिकस्य भावः । नैष दोषः । विधीयमानप्रत्ययभेदाद हे एते वाक्ये । तत्रैकेनष्ठन् विधीयत ? अपरेण तु तदन्तात् तमा ५६ । तिश्च ! पचतितमामिति । किमेतिङव्ययधादाम्बद्रव्यप्रकर्ष इत्याम् (५।४।११)। गुणवचन इत्यादि। इष्ठनोऽनुदाहरणे हेतुः। अजादी गुणवचनादेवेति (५।३।५८) नियम इति । तत एव तेन भवितव्यम् । न च तिडन्तो गुणवचनः। अतो नासावुदायिते । ५७। द्विवचनविभज्योपपदे तरबोयसुनौ। इयोरर्थयोर्वचनं द्विवचनमिति । एतेनान्वर्थस्य द्विवचनस्य ग्रहणं न पारिभाषिकस्येति दर्शयति । यदि हि पारिभाषिकं दिवचनं गृह्ये- तास्माकञ्च देवदत्तस्य देवदत्तोऽभिरूपतर इत्यत्र प्रत्ययो न स्यात् । पारि- भाषिकस्य द्विवचनस्याभावात् । अन्वर्थस्य तु ग्रहणे सति भवति झर्थतोप- पदस्य । तथाहि अस्माकमित्यनेनैकोऽर्थ उच्यते । एकस्मिन्नेवार्थेऽस्मदो इयोश्चेति (१।२।५८) बहुवचनस्य विधानात् । देवदत्तस्येत्यनेनापि द्वितीयोऽर्थ (५॥३)। उच्यत इति। भवत्येव तदन्वर्थ द्विवचनमुपपदम् । तदेवमन्वर्थस्य ग्रहणे सर्वत्र सिध्यतीति तस्येदं ग्रहणं युक्तमिति मन्यते । विभक्तव्य इति। पृथक् कर्तव्य इत्यर्थः। यः पुनरतिशय्यमानस्तस्योपपदत्वम् । नातिशयितुः । ततः प्रत्ययविधानात् । ननु च ऋहलोयदिति ण्यति (३।१।१२४) कृते विभाग्य इति भवितव्यम् । कथं विभज्य इति निर्देश उपपद्यत इत्याह निपातनाद् यद् भवतीति । इह हे उपपदे। एवं प्रकृती च । प्रत्ययावपि हा एव । ततश्च यथासंख्येन भवितव्यमिति कस्यचिद् भ्रान्तिः स्यात् । अतस्तन्निरासार्थमाह यथासंख्यमित्यादि । कस्मात् पुनरिष्यमाणमपि न भवति ? विभज्यशब्दस्याल्पाच्तरस्यापूर्वनिपातालक्षणस्य व्यभिचारचिह्नात् । स हि लक्षणान्तरनिरपेक्षता दर्शयन् यथासंख्यलक्षणमपीह नापेक्षतेति सूचयति । पटीयानिति । पूर्ववडिलोपः। अत्वतन्तस्य चाधातोरिति ( ६।४।१४) दीर्घः। हल्ङ्यादिसंयोगान्तलीपो (६।१।६८,८।२।२३ )। माथुराः पाटलिपुत्केभ्य आढयतरा इति । पञ्चमी विभक्त इत्यनेन (२।३।४२) पाटलिपुत्चकेभ्य इत्येतदत्र विभज्योपपदम् । पाटलिपुत्त्रका हि माथुरेभ्यो विभज्यन्ते पृथक क्रियन्ते । ननु चैतदपि द्विवचनोपपद इत्येव सिद्धम् । अस्ति यत्र दिवचनमुपपदम् । तथाहि माथुराणामको राशिः । अपरः पाटलिपुत्त्रकाणाम् । तौ च द्विवचनेनोच्यते । तस्माद् विभज्यग्रहण- मनर्थकम् । नैतदस्ति । यद्यप्यन राश्यपेक्षा गर्थतास्ति तथापि नासौ शब्देनोपादीयते । किं तर्हि ? अवयवभेदः । अतएव माथुराः पाटलिपुत्केभ्य इति बहुवचनम। इह राश्यपेक्षापि द्यर्थता नास्तीति सावाश्यकेभ्यः पाटलिपुत्रकेभ्यश्च माथुराः सुकुमारतरा इति । तस्माद् विभज्यग्रहणमपि कर्तव्यम् । पञ्चमी। ५८। अजादी गुणवचनादेव । पाचकतर इति। कर्तृशक्तिमतो द्रव्यस्याभिधानाद ट्रव्यवचनोऽय पाचक- शब्दः । अथैवकारः किमर्थः ? यावता सिद्दे विधिरारभ्यमाणो विनापि तेन नियमार्थों भवतीत्याह एवकार इत्यादि। असति ह्येवकार विपरीत- १२४ न्धासः । मवधारणं विज्ञायतेऽजादीएव गुणवचनादिति । ततश्च यत एवकार स्ततोऽ- न्यत्रावधारणमिति प्रतिनियमः स्यात् । एवञ्च गुणवचनस्याजाद्योनियत त्वात् ततस्तरबादि न स्यात् । एवकारे तु प्रकृत्यनन्तरमुच्चार्यमाणे सति प्रत्ययार्थनियमोऽयं भवति न प्रततिनियम इति पटुतरः पटुतम इति सिद्धम् भवति । एतयोरपि सिद्धार्थ गुणवचनादीष्ठन्नीयसुनाविति सूत्रं न कतम् । तदा विध्यर्थत्वादेतौ तरप्तमपोरपवादत्वादु बाधकाविति तयोरभावे पटुतरः पटुतम इति न सिध्येत् । ५८। तुश्छन्दसि । करिष्ठ इति । कर्तुशब्दात् टन्नन्तादिष्ठन् । तुरिष्ठेमेयःखिति (६।४।१५४) टशब्दलोपः । दोहीयसीति। दोग्धीशब्दात् हनन्तादीयमुन् । लोपे कृत निमित्ताभावाद् धत्वादिनिवर्तते । उगितश्चेति (४।१।६) डी । शब्दस्य प्रशस्यस्य श्रः। ननु चाजादी इति प्रथमान्तम् । तत् कथमजाद्योः परत आदेशी लभ्यत इत्याह अजादी इति। तहिषय इति । स प्रशस्यशब्दी विषयो यस्य स तद्दिषयः । अजादी गुणवचनादेवत्यनेन (५॥३५८) यो नियमः स तद्विषये न प्रवर्तत इति दर्शयति । एवमुत्तरेष्वपीति वृद्धस्य चेत्येवमादिषु ( ५।३।६२)। अयमनयोः श्रेयानिति दिवचनोपपद ईयसुन् । अयमस्मात् श्रेयानिति विभज्योपपदे। पूर्वत्र निर्धारणे षष्ठी ( २।३।४१)। उत्तरत्र पञ्चमी विभक्त इति ( २।३।४२) पञ्चमी । ६१ ॥ जा च। योगविभागों यथासंख्यनिवृत्त्यर्थः। उत्तगर्थश्च । उत्तरत्र वृद्धशब्दस्य ज्यादेशएव यथा स्यात् । श्रादेशो मा भूदिति । ६२। वस्य च वृद्धशब्दस्येति । वृद्ध इत्येतस्य शब्दस्येत्यर्थः । एतेन वृवस्येति स्वरूपग्रहण दर्शयति । ननु च वृद्धशब्दश्च संज्ञा कता वृद्धिर्यस्याचामादि स्तद् (१।११७३) हृवमिति । अतस्तत्प्रत्यायितस्यैव संजिनो ग्रहण न स्वरूपस्य । खं रूपं (५३)। १२५ शब्दस्याशब्दसंज्ञेति (१११।६८) वचनात् । नैष दोषः । प्रशस्यस्येत्येत- दिहानुवर्तते । तेन वृद्धशब्दो विशेष्यते प्रशस्यस्य वृदस्येति । स्वरूयग्रहणे वयोऽधिक गुणाधिके च शब्दार्थे प्रशस्यता युज्यते । न पारिभाषिकग्रहणे । अथवा स्थानेऽन्तरमपरिभाषया ( १११।५०) ज्यशब्दस्य योऽन्तरतमः स एव स्थानी विज्ञायते। अन्तरतमश्च तस्य वृद्धशब्द एव। तेन तस्यैव ग्रहण युक्तम् । तयोश्चेत्यादि। यथा प्रशस्यस्य अ इत्यत्र (५।३।६०) नियमाभावेनाजाद्योः प्रत्यययोः सत्त्व ज्ञापितं तथहापि ज्ञाप्यते। नियमाभावस्त्वजाद्योः परत' पूर्ववदादेशविधानादेव वेदितव्यः । ६३। अन्तिकबाढ़योर्नेदसाधी निमित्तयोरित्यादि। निमित्तौ प्रत्ययो । तयोः परत आदेशविधानात् । कस्मात् पुनरिष्यमाणो न भवति । अल्पाच्तरस्य बाढ़शब्दस्य परनिपातात् । स हि लक्षणान्तरानपेक्षतामाचष्टे । तेन यथासंख्यलक्षणमपीह नापेक्ष्यते । यद्येवं स्थान्यादेशयोरपि यथासंख्य न प्राप्नोति । मा भूद् यथासंख्यम् । आन्तरतम्याद् व्यवस्था भविष्यति । ननु च व्यवस्थाकारि चेल्लक्षणान्तरं नापक्ष्यते । स्थानेऽन्तरतमपरिभाषापि (१।१।५०) न प्राप्नोति। नैतदस्ति । निर्देशान्यथावं हि निर्देशकता व्यवस्था नास्तीत्येतदेव बोधयति । या वर्थकता व्यवस्था तां न निवर्तयति । अपि चादेशप्रतिपत्तये षष्ठी स्थाने योगत्येषा (१।१।४८) परिभाषा नियोगतोऽपेक्षणीया। तच्छेषभूता स्थाने- ऽन्तरतम इति परिभाषा (१।१।५०) कथं शक्या नापेक्षितुम् । ६४ । युवाल्पयोः कन्नन्यतरस्याम् । अवापि निमित्तयोर्यथासंख्यं नेष्यते । तस्य ह्यभावोऽजाद्यदन्तमित्यल्प- शब्दस्य (२।२।३३) पूर्वनिपाते परनिपातालक्षणानपेक्षाच्चिङ्गालभ्यते । युवेति वरूपग्रहणमिष्यते । न जीवत्वं वंशस्य । कस्मात् १ इहापि प्रशस्यस्येत्येतदनु- तेन युवशब्दो विशेषयितव्यः प्रशस्यस्य यून इति । स्वरूपग्रहणे सर्व- लोकाभिमतयोवनाख्यवयःसम्बन्धे शब्दार्थे प्रशंसोपपद्यत । न पारिभाषिक- ग्रहणे । अथवा स्थानऽन्तरमपरिभाषया (१।१।५०) कन्नित्यस्यादेशस्य योऽन्तर- वर्तते ।

१२६ न्यासः। तमः स एव स्थानीति विज्ञायते । अन्तरतमश्च युवशब्द एव । तस्मात् खरूपस्यैव ग्रहण युक्तम् । अन्यतरस्यांग्रहणमिहाल्पशब्दएव प्रयोजयति । न युवशब्दः। तस्य विनापि तेन विकल्पः सिद्ध एव। स्थूलदूरयुवहुवक्षिप्र- क्षुद्राणा यणादिपरं पूर्वस्य च गुण इति (६।४।१५६ ) वचनात्। नहि नित्य आदेशे यणादेः परस्य लोपः संभवति। नापि पूर्वभागो गुणभाक । यविष्ठः यवीयानिति । स्थूलदूरादिसूत्रेण (६।४।१५६) यणादेः परं लुप्यते । पूर्वस्य च गुणो भवति । ६५। विन्मतोलुक। मतुपा साहचर्यात् मत्वर्थीय एव विनिप्रत्ययो गृह्यते । तपः सहस्राभ्यां विनीनी (५।२।१०२) अस्मायामेधास्रजो विनि (५।२।१२१) रिति । आभ्याञ्चैतदेव लुगवचनमजाद्योर्भाव ज्ञापयति । स्रग्विण इति। अस्मायादि- सूत्रेण (५।२।१२१) विनिः । स्रजिष्ठ इति । प्रकृत्यैकाजिति (६।४।१६३) प्रकृतिभावाहिलोपाभावः । । तस्य । ६६ । प्रशंसायां रूप । स्वार्थिकाचेत्यादि। प्रत्यर्थविशेषण प्रशंसादि । द्योतकाः खार्थिका भवन्ति । नत्वर्थान्तरस्य वाचकाः । यदि प्रशसाया वर्तमानाठूपब् विधीयते निन्दायां वर्तमानान प्राप्नोति वृषलरूपोऽयं चौररूपोऽयमिति । वृषलादयो हि शब्दाः सदा निन्दावचना न कदाचित् प्रशंसायां वर्तन्ते यथा काकादयः शब्दा इत्यत आह प्रकृत्यर्थस्येत्यादि। प्रकृत्यर्थस्य वैशिष्टय परिपूर्णत्वम् । तस्मिन् सति प्रशंसा भवति । एवञ्च यदा वृषलादिशब्दानामपि पदार्थस्य परिपूर्णता भवति तदा ते प्रशंसाया वर्तन्त इति तेभ्योऽपि प्रत्ययो भवति। पलाण्डुभक्षणेन सुरापाणेन च प्रकृत्यर्थस्य परिपूर्णतां दर्शयति । वृषलशब्दस्य हि शूद्रो वाच्यः । स यदा पलाण्ड्डादिकमपि साधुजनगर्हित- मभ्यवहरति तदा परिपूर्णत्वं तस्य शूद्रत्वम् । शूट्रः सर्वाशी सर्वविक्रयौति । चौरशब्दार्थस्यापि मुगुप्तवस्त्वपहारण परिपूर्णता भवति । ननु च स्वार्थिकाः प्रकृतिती लिङ्गवचनान्यनुवर्तन्त इति प्रकल्यर्थस्य ये लिङ्गवचने ते ( ५।३)। खार्थिक प्रत्ययान्तस्यापि भवत इति भावः । ततश्च पचतोरूपम् पचन्ति- रूपमित्यत्र दिवचनबहुवचनाभ्यां भवितव्यमित्यत आह क्रियाप्रधानमित्यादि । आख्यातस्य यद्यपि क्रिया साधनञ्चोभयं वाच्य तथापि तस्य क्रियैव प्रधानमर्थः। यश्च प्रधानं प्रवत्यर्थस्तस्यैव लिङ्गवचनं स्वार्थिकैरनुवर्तयितुं युक्तम्। क्रियाप्रधानमेकैव च क्रिया । तेन रूपण्प्रत्ययान्तादाख्याताद् द्विवचनबहुवचने न भवतः नपुंसकलिङ्गमपि तर्हि न स्यात् । क्रियाया वलिङ्गवादित्यत नपुंसकलिङ्गं वित्यादि। तत्रैव हेतुमाह लोकाश्रयत्वाल्लिङ्गस्येति । यदि तर्हि ोका क्रिया पचतः पचन्तीति हिवचनबहुवचने न सिध्यतः। नैष दोष.। यद्यपि ह्येका क्रिया साधनं ह्यनकम् । अतस्तदाश्रये दिवचनबहुवचने भविष्यत.। रूपप्प्रत्ययान्तात् तहि स्याताम्। तिडन्तेनोक्तत्वान् न भविष्यतः । एकवचमन्तु भविष्यति । तस्यौत्सर्गिकत्वात् । एकवचनमुत्सर्गः करिष्यत इति वचनात् । - आह ६७। ईषदसमाप्तौ कल्पब्देश्यदेशीयरः । ६८। विभाषा सुपो बहुच् पुरस्तात् तु । विभाषाग्रहणेनेह बहुच् सम्बध्यते । न पुरस्तादित्येतत् । तेन बहुचः पूर्वत्वं न विकल्पात इति नित्यमेव तद् भवत्यत एवाह स तु पुरस्तादेवेति । एवकारेण तुशब्दस्यावधारणार्थता दर्शयति । यदि पुनस्तुशब्दोऽवधारणार्थी न क्रियेत ततो न ज्ञायते किं विभाषाग्रहणेन बहुच् सम्बध्यतेऽथ पुरस्तादि- त्येतदिति । तुशब्देन ववधारणार्थेन पुरस्तादित्येतस्मिन् नियमित पारि- शेष्याद् विभाषावचनेन बहुजेवाभिसम्बध्यत इति विज्ञायते। चित्करण- मन्तोदात्तार्थमिति। कस्य पुनरन्तोदात्तत्वं चित्करणाद् भवति १ न प्रकृतेः । ममुदायस्य चितः सप्रकृतेर्बहुजकजर्थमिति (६।१।१६३, वा ) वचनात् । यद्येवं पटव इति सुबन्तादुत्पत्तौ जस उदात्तत्वं प्राप्नोति। नैष दोषः । बहुच्युत्पन्ने सत्यर्थवत् प्रातिपदिकमिति (१।२।४५) प्रातिपदिकसंज्ञायां कृतायां सुपो धातु- प्रातिपादिकयोरिति (२।४।७१) सुब्लुक तावत् क्रियते । तस्मिन् कृते पश्चादु- दात्तत्वं क्रियमाणं पटुशब्दे य उकारस्तस्य भवति । यस्तु पुनः प्रातिपदिक- ।

१३८ संज्ञायां कृतायां सुब्लुकि च कते ऽन्यो जस् उत्पद्यते तस्योदात्तत्व' नाशश- नौयम् । न बसौ प्रकत्येकदेशः । ननु चार्थवत्समुदायानां समासग्रहणं नियमार्थमिति बहुचपूर्वस्य प्रातिपदिकसंझया न भवितव्यम् । नैष दोषः । तुल्यजातीयस्य नियमः। कश्च तुल्यजातीयः १ यथाजातीयकानां समासः । कथञ्जातीयकानां समास: १ भेदसंसर्गवताम् । भेदसंसौं च पृथगर्थाना- मेव भवतः । द्योतकानाञ्च पृथगर्थवत्ता न सम्भवति । अथ कस्मात् सुब्लुक् तावत् क्रियते ? पश्चादन्तोदात्तत्वम् ? यावता परत्वादन्तोदात्त- त्वेनैव पूर्व युक्तं भवितम्। नैतदस्ति । नित्यो हि लुक् । कताकत- प्रसङ्गित्वात्। स हि कृतेऽप्यन्तोदात्तले प्राप्नोति । अकतेऽपि । अन्तीदात्त- त्वन्त्वन्यस्य लुकि कृते प्राप्नोति । अन्यस्याकते शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति । तस्माल्लुगेव तावत् क्रियते । बहुगुड़ा द्राक्षेति । कथं पुनरवेषद- समाप्तिः ? यावता गुड़शब्देन गुड़जाति रुच्यते । तदाधारो वा व्यम् । तत्र जातिस्तावदेका निरवयवा चेति सर्वस्मिन्नाश्रये समाप्ता। द्रव्यमपि यत् तया सम्बद्ध तत् सर्वतः पूर्णत्वात् समाप्तमेव । तस्मादीषदसमाप्तिरयुक्त मिह विशेषणम् । असम्भवात् । सामानाधिकरण्यञ्च बहुगुड़ा द्राक्षेति द्राक्षाशब्देन न प्राप्नोति। तस्यार्थान्तरत्वात् । स्त्रोलिङ्गमपि स्वार्थिकाः प्रतितो लिङ्गवचनान्यनुवर्तन्त इति नोपपद्यते। नैष दोषः । इह शब्दा- दुच्चारिताद इयं प्रतीयते । शब्दोऽर्थी जातिव्यञ्च। अमिधेयसम्बन्धेना- शब्दार्थभूता अपि गुणाः। यत्तदुभयमस्ति तत्र समाप्तिः। यत्र बन्यतर- नास्ति तत्रेह गुडशब्दो गुड़जातिहीने माधुर्खादिगुणहीने वा द्रव्ये वर्तत इत्युपपद्यत ईषदसमाप्तिः । सामानाधिकरण्यमप्युपपद्यत एव । कथम् ? यदा तावज्जातिहीने केनचित् साधम्र्येण द्राक्षाशब्दाभिधेये वर्तित्वा गुड़शब्दः प्रत्ययमुत्पादयति तदा द्राक्षाशब्देन सामानाधिकरण्यं भवति । उभयोरेकार्थ- बत्तित्वात् । यदा तु गुणहीने गुड़जातीय एव तदापि सामानाधिकरण्य गौर्वाहीक इति यथा। तथा भविष्यति गुणहीनोऽपि गुड़शब्दः । गुणो बहु- गुडशब्देनोच्यते। तेन च तुल्या द्राक्षेति सापि बहुगुड़शब्देनाभिधायिष्यते । स्त्रीलिङ्गमपि चोपपद्यते । तस्य लोकाश्रयत्वात् । अपिच स्वार्थिकाः १२ वर्तते । (५३)। प्रकृतेलिङ्गवचनान्यनुवर्तन्त इति प्रायिकमेतत् । तेन कदाचिदतिवन्तेऽपि यथा कुटीरः शमौर इति । कुटीशमीशुण्डाभ्यो र इति (५३८८) स्वार्थिकश्च । विभाषावचन इत्यादिना विभाषाग्रहणस्य प्रयोजनमाचष्टे। असति हि विभाठाग्रहण तिडन्तेषु कतावकाशः कल्पबादयो बहुचा सुबन्ताद विशेषविहि- तेन बाध्येरन् । तस्मिंस्तु सति पक्षे तेऽपि भवन्ति। ननु च भिन्नदेशेन बहुचा नास्ति तेषां विरोधः । तत् कुतो बाधा ? असत्यां वा बाधायां कृतेऽपि बहुचि ते भवितव्यमेव । परदेशस्थानवष्टब्धत्वात्। नैतदस्ति । नयवश्य देशकृत एव सामान्य विशेषयोविंगेधो भवति । किं तहि ? अर्थकतोऽपि । बहुचश्च कल्पबादिभिः समानोऽर्थ इति बहुचा द्योतितत्वात् तस्यार्थस्य कल . बादयो न भविष्यन्ति । नहि द्योतिते पुनद्योतनमस्ति यथाभिहिते नाभिधातव्यम्। अथ सुग्रहणं किमर्थम् ? यावता प्रातिपदिकग्रहणमनु न च प्रातिपदिकात् सुबन्ताहा बहुच उत्पत्ती कश्चिद् विशेषोऽस्ति । अत आह सुब्ग्रहणमित्यादि। असति हि सुब्ग्रहणे तिङश्चेति (५।३१५६) प्रकृतत्वात् ततो हि प्रत्ययः स्यात्। अतस्त निहत्त्यर्थं सुग्रहणम् । ६६ । प्रकारवचने जातीयर । तस्य वचन इति । उत्तौ द्योतन इत्यर्थः । प्रकारवति चायमित्यादिना थाल्जातीयरोविषयभेदं दर्शयति। विषयभेदे सति विशेषविहितेनापि घाला जातीयरो बाधनं न भवति । थालप्रत्ययान्तात् जातीयर् सिद्धो भवति कथञ्जातीय इति । ७०। प्रागिवात् कः। तिङन्तादयं प्रत्ययो नेष्यते । अकजिष्यत इति । कथं पुनरेतयोर्भावा- भावो लभ्येते इत्याह तिड (५।३।५६)श्चेत्यनुवृत्तावित्यादि। उत्तरत्रैवेत्यवधारणेन विहानुत्तमपि कप्रत्ययेन सम्बन्धनीयमिति दर्शयति । तच पूर्वसूत्राहचन- ग्रहणेऽप्यनुवर्तमाने यत उत्पद्यमानेन प्रत्ययेनाज्ञातादेरर्थस्य वचनं भवति तत्रैव तेन भवितव्यम् । न च तिडन्तादुत्पद्यमानेनापि कप्रत्ययेन सोऽर्थः शक्यते द्योतयितुम् । अकचा तु शक्यते । तस्मात् तिङ (५।३।५६ ) यामः। श्वेत्येतदनुत्तमुत्तरसूत्रेणाकचा सम्बन्धनीयम् । नेह कप्रत्ययेन । प्रागग्रहणमपि द्योतनार्थम् । इवग्रहणमवध्यर्थम् । अन्यथाधिकारपरिमाणं न ज्ञायते । अकचा ७१। अव्ययसर्वनाम्नामकच् प्राक् टः। कस्यापवाद इति । ननु च भिन्नदेशत्वात् काकचोविरोधो नास्ति । न चासति विरोधे बाध्यबाधक भावः । तत् कथं कस्यापवादः १ नैष दोषः । नैवावश्यं देशक्कत एव विरोधो भवति । अपित्वर्थक्कतोऽपीत्युक्तम् । अकच्प्रत्ययेन समानोऽर्थ इति । योतितत्वात् तस्यार्थस्य कप्रत्ययो न भविष्यति । यद्यत्र प्रातिपदिकादित्यनुवृत्तेः प्रातिपदिकस्य प्राक् टेरक विधीयते त्वयका मयकत्यादि न सिध्यति । अथ सुप इति प्राक् टेविधीयत एवमपि युभकाभिरिति न सिध्यतीत्यत आह प्राति- पदिकात् सुप इति । इयमपीत्यादि। ननु च हयानुवृत्तावपि कचित् सुबन्तस्यैव प्राक् टेर्भवति। कचित् प्रातिपदिकस्येत्येषा व्यवस्था न लभ्यत इत्याह तत्रेत्यादि। वचनग्रहणं व्यवस्थार्थ मिहानुवर्तते । तेन यत्र प्रातिपदिकस्य प्राक् टेरुत्पद्यमानेनार्थद्योतनं शक्यते कत्तुं तत्र प्रातिपदिकस्य प्राक् टेर्भवति । यत्र सुबन्तादुत्पन्नेनार्थद्योतनं शक्य सम्पादयितुं तत्र सुबन्तस्यैव । अकचश्चित्- करणमन्तोदात्तार्थम्। तद्धि सप्रकृतेः समुदायस्य । तथाच वक्ष्यति चिनः मप्रकृतेर्बहुजकजर्थमिति (६।१।१६३, वा)। तृष्णीमः काम् प्रत्ययो वक्तव्य इति। यथासम्भवं कुत्सादिष्वर्थेषु । मकारो देशविध्यर्थः । शोले को मलोपश्चेति । शोलमिति न स्वभाव एवोचते । किं तर्हि नियमोऽपि । तथाहि शीलवान् भिक्षुरित्यभिधीयते । यः सम्यड् नियममनुपालयतीति । तेन योऽपि नियम परतया वाचं नियमयति सोऽपि तूणीक उच्यते । ७२। कस्य च दः। अकच्सन्नियोगेनेत्यादि। कथं पुनरकच्सन्नियोगेनेत्येष विशेषो लभ्यते । यावता न सूत्रे तदुक्तमित्याह चकार इत्यादि। चकारस्यैतदेव प्रयोजनम् । अकच्सन्नियोगेन ककारस्य दकारो यथा स्यादिति भावः ।

(५३)। १३१ ७३ । अजोते । अज्ञातविशेषोऽज्ञात इति । यदि यस्यात्यन्तमज्ञानं सोऽज्ञातः स्यादेवं सति सर्वथा वस्तुविज्ञानाभावे प्रकृतिरेव न स्यात् । नहि सर्वथा- ऽविज्ञप्तोऽर्थः प्रयोगमहति । तस्मात् सेन रूपेण ज्ञातस्य यस्य धर्मान्तरलम- ज्ञातं स इहाज्ञातोऽभिमत इति ज्ञायते । अविज्ञातविशेषोऽज्ञात इति । अस्यैवाथं विस्पष्टीकर्तुमाह स्वेनेत्यादि । स्वरूपमश्खत्वादि । विशेषरूपं स्वखामि- सम्बन्धादि। ७४। कुत्सिते। ७५। संज्ञायां कन् । ७६ । अनुकम्पायाम् । कारुण्येनेत्यादि । अभ्युपपत्तिरनुग्रह एव । स्वपितकि खसितकीति । रुदादिभ्यः सार्वधातुकाइट् (७२।७६) । अदादित्वाच्छपो लुक् (२।४।७२)। ७७। नौतौ च तयुक्तात् । सामदानादिरुपायो नीतिरिति । आदिशब्देन भेददण्डयोग्रहणम् । तो त्वनुकम्पायां न सम्भवत इति सामदानादिकैव नीतिर्यह्यते। एहकीति । इण आड्पूर्वाल्लोणमध्यमपुरुषैकवचनस्य से ह्यं पिञ्चेति (३।४।८७) हिरादेशः । नतु पूर्वेणैवात्रापि प्रत्ययः सिद्धः । अत्राप्यनुकम्पा गम्यत एव । मित्याह पूर्वेणैवेत्यादि । प्रत्यासन्नोऽनुकम्पासम्बन्धो यस्यानुकम्पामानस्य स तथोक्तः। प्रत्यासन्नत्वं तु सम्बन्धस्यानुकम्पामानं प्रति। तदाश्रयत्वादनु- अनुकम्माया विधीयमानः प्रत्यासत्तर्यस्यानुकम्पया प्रत्यासन्नः सम्बन्धस्तत एव युक्तो विधातुमिति पूर्वेणानुकम्पामानादेव प्रत्ययो विहितः । नतु व्यवहितात् पुनर्धानादेः । अतः सम्प्रति ततोऽपि यथा स्यादित्येवमर्थ- मिदम् । व्यवहितादिति । विप्रकृष्टादित्यर्थः । विपकष्टत्वमतदाश्रयत्वा. दनुकम्पायाः। नहि तस्या धानादिराश्रयः । किं तर्हि ? अनुकम्पामानो देवदत्तादिः। तत् किमर्थ कम्पायाः।

१३२ न्यासः। ७८। बचो मनुष्यनाम्नष्ठज वा । देविक इति । यज्ञिक इति । ठाजादावूई हितीयादच इति (५।३।८३) दत्तशब्दस्य लोपे कृते यस्येति चेत्यकारलोपः (६।४।१४८)। प्रत्युदाहरणे सर्वत्र क एव वेदितव्यः। मद्रबाहुक इति। मद्रो बाइ यस्य स मद्रबाहुः । नेदं मनुष्यनाम । किं तहि ? विशेषणम् । मनुष्यग्रहणं किमर्थम् ? देव- हस्तको हस्तीत्यत्र मा भूत्। नामग्रहणं किमर्थम् ? मृगको मस्यक इत्यत्र मा मूत्। 9। घनिलचौ च । देविय इति धन् । पूर्ववल्लोपः । देविल इति इलच् । देविक इति ठन् । देवदत्तक इति कः । ८०। प्राचामुपादेरडजवुचौ च। उपड़ इत्यादा उपेन्द्रदत्तशब्दात् प्रत्ययः । विकल्पा) प्राग्ग्रहणं कस्मान भवतीत्याह वेत्यत्र होत्यादि। अन हि वेत्यनुवर्तते । तस्मात् तेनैव विकल्प स्य सम्मादितत्वात् तदर्थं प्राग्ग्रहणं नोपपद्यते । ८१। जातिनाम्नः कन् । नामग्रहणमित्यादि। असति हि नामग्रहणे जातिस्वरूपग्रहणं स्यात् । अतः स्वरूपग्रहणं मा भूदित्येवमर्थ जातिग्रहणम् । २। अजिनान्तस्योत्तरपदलोपश्च व्याघ्राजिनो नाम कश्चिदिति । व्यावस्याजिनं व्याघ्राजिनम् । जिनमिवाजिनं यस्येति व्याघ्राजिनः । सप्तम्युपमानपूर्बादहुव्रीहिरुत्तरपद- लोपश्चेति (२।२।२४, वा) बहुव्रीहावुत्तरपदलोप क्वत व्याघ्राजिन इत्येष शब्दः सम्पद्यते । अथाजिनलोपश्चेत्येवं कस्मानीतम् ? किमुत्तरपदग्रहणेन ? नै शक्यम् । व्याघ्रमहाजिनो नाम कश्चित् । सोऽनुकम्पितः । व्याघ्रक इत्यना- जिनशब्दस्य लोप उच्यमाने महच्छब्दस्य नितिन स्यात् । उत्तरपदस्य तु लोप विधीयमाने भवति । तस्माद् यथान्यासमेवास्तु । महदजिनं महाजिनम् । व्याघ्रा (५३)। व्याघ्रस्य महाजिनमिव महाजिनमस्येति पूर्ववदुत्तरपदलोपी बहुव्रीहिः । ततः कन् । ८३। ठाजादावूई दितीयादवः । अस्मिन् प्रकरण इत्यादि। अनेनास्मिन् प्रकरणे यो विहितो ठाजादी तत्र लोपो भवति। यो तु प्रकरणान्तरे तत्र न भवतीति दर्शयति । एतच्च- तत्प्रकरणविहितयोष्ठाजाद्योरिहानुवृत्तेर्लभ्यते । अथोर्द्धग्रहणं किमर्थम् ? यावता द्वितीयादच इति पञ्चमो। तस्मादन्तरणाप्यूई ग्रहणं तस्मादित्युत्तर- स्येत्यू ई (१।१।६७) यच्छब्दरूपं तस्यैव लोपो भविष्यतीत्यत आइ जई ग्रहण- मित्यादि। असत्यू ई ग्रहण आदेः परस्येति (१।१।५४) द्वितीयादचो यः परस्त- स्यादेलोपः स्यात्। तस्मिंस्तु सति सर्व निवर्तते। अतः सर्वस्य लोपो यथा स्यादित्येवमर्थमूईग्रहणम् । अथ ठग्रहणं किमर्थम् ? यावता ठस्येकादेशे कृत ऽजादावित्येव सिद्धमित्यत आह ठग्रहणमित्यादि। उको द्वितीयत्वे सत्यवत एवेकादेशे ठावस्थायामेव द्वितीयादूर्ध्वस्य लोपे कृत इसुसुक्तान्तात् कइति (३५१) कविधिर्यथा स्यादितेयवमर्थ ठग्रहणम् । तदैतत् स्यात् चोद्यम् । इकादेशे कृते ऽजादिलक्षणे च द्वितीयादूर्ध्वस्य लोप स्थानिवद्भावाट ठग्रहणेन ग्रहणात् कादेशो भविष्यतीत्याह अजादिलक्षणे होत्यादि। इहादेशविधौ तत्र ठग्रहणं वर्णग्रहण स्यात् । संघातग्रहण वा । तत्र वर्ण ग्रहणे ऽल्विधित्वात् स्थानिवद्भावो नोपपद्यते । संघातग्रहणे यद्यप्युपपद्यते तथापि सन्निपातलक्षणी विधिरनिमित्तं तहिघातस्ये ( प, ८६ ) त्यजादित्वसन्निपातकृतमुकः ठप्रत्यये- नानन्तर्यमिति तदजादित्वविधातं न कुर्यात् । ततश्च यथा मथितं पण्यमस्य माथितिक इत्यत्र यस्येति (६।४।१४८) लोपे सत्यपि तकारण ठस्यानन्तयेका- देशो न भवति तथा वायुदत्तो वायुक इति न स्यात् । तस्मादुको द्वितीयत्वे कविधानार्थ ठग्रहणम् । उवाल्ल इति । तस्य च लोप इत्यर्थः । चादेरेव भवति । न सर्वस्य । अथवा ल इत्यादेश एवायं सर्वेलस्य विधीयते । स चानकाल्वात् सर्वस्यैव भवति । द्वितीयादच इति । द्वितीयलोपे कर्तव्ये सन्ध्यक्षरस्य हितीयत्वं भवति यदा तदादः शब्दरूपस्य लोपो भवतीति न्यासः। १३४ वक्तव्यम्। सन्ध्यक्षरादूर्ध्वस्य लोपेऽपि प्राप्त सन्ध्यक्षरस्यैकाक्षरपूर्वपदाना- मित्यादि। द्वितीयादच अर्द्धस्य लोप उक्तः । तदपवादः । एकाक्षरीति । अक्षरशब्दश्चायमच्यपि वर्तते। एकाक्षरमकाच् पूर्वपदं येषां ते। तेषामुत्तर- पदलोपो वक्तव्यः । वागाशीरिति । वाठयाशीरस्येति कृत्वा वैयधि- करण्ये बहुव्रीहिः। अनुकम्पितो वागाशीरिति विगृह्य ठचि कृते द्वितीया- दच अर्द्धस्य लोप स्यात् । तस्मिन् सति वाच् आ इक इति स्थिते यस्येति (६।४।१४८) लोपे कृते तस्याचः परस्मिन् पूर्वविधाविति (१।११५६) स्थानि- वद्भावात् पदसंज्ञा न स्यात् । तस्मात् तस्यान्तर्वर्तिनौं विभक्तिमाश्रित्य पदसंज्ञा। चोः कुरिति (८२।३०) कुत्वम् । वागिक इति स्यात् । आशी- शब्दस्य तस्य परलोप कृते तस्यानजादेशत्वात् स्थानिवद्भावो नास्तीति भसंज्ञा भवटेव । ततस्तया पदसंज्ञाया निषिद्धायां पदनिबन्धनकुत्वादि न भवतीति वाचिक इति सिध्यति । कथमित्याटि। यद्येकाक्षरपूर्वपदानामुत्तरपदस्य लोप उच्यते षडिक इति न सिध्यति । अत्राप्युत्तरलोपे कृर्त भसंज्ञायामुप- जातायां पदसंज्ञायां बाधितायां झलाञ्जशोऽन्त इति (८।२।३८) षषः षकारस्य जश्वे कृते षडिक इति न सिध्यति । ८४। शैवलमुपरिविशालवरुणाय॑मादौनां बतौयात् । स चालतसन्धीनामिति । यदास्वरसन्धौ लोपो भवत्येवं सिध्यति । नान्यथा । तस्मादकतखरसन्धीनामेव शेवलादीना लोपो भवतीति वक्तव्यम् । ८५। अल्पे। इखे । दीर्घप्रतियोगी इख इति । स पुनर्यमपेक्षा दीर्थों भवति स वेदितव्यः । ननु च दीर्घत्वापचये सति इखो भवति । यत्र दीर्घवापचयस्तताल्पतास्तीति पूर्वेणैव सिद्धम् । न सिध्यति । नह्ययं नियोगो यत्र दीर्घस्यापचयस्तत्राल्पत्वेन भवितव्यमिति । तथाहि सत्यप्यपचये महत्त्वगुणयुक्तं यवस्तु तदमहदेव भवति । नचास्यम्।

(५३)। १३५ । ८७। संज्ञायां कन् । ८८। कुटौशमौशुण्डाभ्यो रः। कुटीरः। शमोर इति । स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्त इति प्रकृतिगतेनैव स्त्रीलिङ्गेन भवितव्यम् । न पुंलिङ्गेनेत्यत आह खार्थिक- खेऽपीत्यादि। ८८ । कुत्ला डुपच । ८० । कासूगोणीभ्यां ष्टरच । ६१ । वत्सोक्षाश्वर्षमेभ्यश्च तनुत्वे । यदि तनुले वत्सादि शब्देभ्यः प्रत्ययो विधीयते ये शरीरे कशा वत्सादय- स्तनाप्यविशेषेण प्रत्ययः प्रसज्यते विशेषानुपादानादित्यत आह यस्य गुण- स्थेत्यादि। गुणो विशेषणम् । विशेष्यं द्रव्यं वत्सादिशब्दानां प्रवृत्तिनिमित्तं वयोविशेषादि। यस्मिन् मति वत्सादयः शब्दा द्रव्ये विशेष्ये निविशन्ते प्रवर्तन्ते तस्यैव वत्सादिशब्दस्य प्रवृत्तिनिमित्तस्य तनुले प्रत्ययो भवति न तनुवमाने । तत् पुनः प्रत्यामत्तेः । वत्सादिभ्यः प्रकृतिभ्य. प्रत्यये विधीयमाने अन्यत् प्रवृत्तिनिमित्तं न प्रत्यासन्नम् । ततस्तस्यैव तनुले युक्तं प्रत्ययेन भवितव्यम् । तस्य तनुत्व द्वितीयवयसः प्राप्तिरिति । हतीयवय:प्राप्ति- काले द्वितीयस्य वयमः। उक्षशब्दस्य प्रवृत्तिनिमित्तस्य निश्चितं तनुत्व- मवशिष्यते । तस्य तनुवमन्यपिटकतेति । गहभपिटकतेत्यर्थः। तहि गईभादखायामुत्पन्नोऽखतर इत्युच्यते । तस्य तनुत्वं भारोहहने मन्दशक्तितेति । भारोवहनं प्रति यः समर्थों न स्यात् स ऋषभतर इत्युच्यते । यदा तु तस्य भारोहहने सामथर मन्द भवति हीयते तदा तनुव भवति । ४२। किंयत्तदो निर्धारणे हयोरेकस्य डतरच् । निर्धाय॑माणेभ्यः प्रत्यय इति । निर्धाय॑माणवाचिम्य इत्येतत् कुतो लभ्यते ? तत एवोत्पन्ने प्रत्यये निर्धारणस्य गम्यमानत्वात् । महाविभाषे- त्यादि । समर्थानां प्रथमादित्यनुवत्ता (४।१।८२) । निर्धारण इति विषये प्रत्ययो न्यासः। यत एक- यथा स्यात् । इयोरिति । समुदायान् निर्धारणविभक्तिरिति षष्ठी। सप्तमी वा। मा पुनस्तस्य यतश्च निर्धारणमित्यनेन (३।१।४१) । एक स्येति । निर्धार्य- माणनिर्देश इत्येकस्मिनिर्धाय॑माण यथा स्यात् । ननुच समुदायादेकदेश स्य पृथक् करणं निर्धारणम् । हयोरित्यवयवसमुदायो निर्दिष्टो देशो निर्धारयितव्यः । स चैकादेशे निर्धारयितव्ये एक एव सम्भवति । अतोऽन्तरेणाप्येकग्रहण मेकस्यैव निर्धारणं भविष्यतोति निष्फलमेकग्रहणम् । नैतदेवम् । असति हि तस्मिन् यो रिति कर्मणि षष्ठी विज्ञायते । चौ चेविर्धाय॑ते कुतश्चिदिति । ततश्चेहापि प्रत्ययः स्यादस्मिन् ग्रामे को देवदत्तयज्ञदत्ताविति । तस्मादेकग्रहणं कर्तव्यम् । ३) वा बहनां जातिपरिप्रश्ने डतमच् । जातिपरिप्रश्नविषयेभ्य इति । जातिपरिप्रश्नो यथासम्भवं विषयो येषां ते तथोक्ताः। कतमो भवतां कठ इति । गोत्रञ्च चरणैः सहेति तस्य जातित्वम् । सा च कठजातिः विशब्देन परिपृच्च्यते । किंशब्दोऽत्र जाति- परिप्रश्नविषयो भवति । यतमो भवतां कठस्ततम पागच्छत्विति । यत्तच्छ- ब्दाविह जातिविषयावेव । न परिप्रश्नविषयौ। असम्भवात् । नहि ताभ्यां परिप्रश्नः क्रियते । किं तर्हि ? किंशब्देन । अतएव वक्ष्यति परिप्रश्नग्रहणं किम एव विशेषणम् । न यत्तदोः । असम्भवादिति । वावचनमकजर्थमिति पक्षे ऽकजपि यथा स्यात् । यद्येवं वाक्यं न सिध्यति । यदा हि डतम न भवत्यकचैव भतितव्यमित्यत आह महाविभाषयेत्यादि । महाविभाषा प्रत्ययविकल्पार्थानुवर्तते । तया प्रत्यये विकल्पिते पचे वाक्यमपि भविष्यति । जातिग्रहणन्तु सर्वैः सम्बध्यत इति । जातिः सर्वव भवति । तेन सर्वैरेव सम्बध्यते । जातिविषयेभ्यः । यद्येवं परिप्रश्नग्रहण- मनर्थकम् । किंशब्दो हि परिप्रश्नहारेणैव जातिविषयो भवति। तत्र जात्या- दिना किंशब्द विशेष्यमाणे सामर्थ्यादेव तस्य परिप्रश्नविषयत्व लभ्यते । नैत. दस्ति । स हि क्षेपेऽपि वर्तते । तत्रासति परिप्रश्नग्रहणे यदा जातौ क्षेपे वर्तते तदा प्रत्यय: स्यात्।

(५।३)। ६४॥ एकाच प्राचाम् । स्वस्मिन् विषय इति । आत्मीये विषये । तत्र इयोरेकस्य निर्धारणं डतरचो विषयः । बहनामक स्य निर्धारण डत मचः। चकारोऽनुकर्षनार्थः । असति हि तस्मिन्ननन्तरम्य विधिर्भवति प्रतिषेधो वेति (प, ६२) डतमजेव स्यात् । इयोनिर्धारणे योरेकस्य डतरजित्यनुवृत्तः। बहना निर्धारणे डतमजि. त्यनुवृत्तेः । विकल्पाथे प्राग्ग्रहणं कस्मान्न भवतीत्याह विकल्पोऽनुवर्तत एवेति । विकल्प इत्युक्तम्। अनन्तरमूत्राइत्यनुवर्तत एवेति विकल्प इत्युक्तम्। तेनैव प्रत्ययविकल्प : सिद्धः । तस्मात् पूजार्थमेव प्राग्ग्रहणम् । न विकल्पार्थम् । ६५। अवक्षेपणे कन् । व्याकरणकनेत्यादि। कथं पुनर्व्याकरणमवक्षेपणम् १ तस्याध्ययनं शास्त्र- विहितम् । वेदाङ्गत्वात् । सत्यमेतत् । तथापि यत्नाश्रये तदवक्षेपणमुप- संहरति तं प्रति तस्यावक्षेपणत्वमुपपद्यते। दोषहेतुत्वात् । परस्येत्यादिना कुत्सित (५।३।७8) इत्यवक्षेपण कन्नित्यस्य विभागं दर्शयति । ४६। दूवे प्रतिकृती। तविशेषणं प्रतिक्षतिग्रहणमिति । प्रतिकृतिविषयं यत्र सादृश्यं तत्र प्रयोगो यथा स्यात्। गौरिव गवय इत्यत्रास्ति सादृश्यम् । नतु प्रतिकृति- विषयम् । नहि गौगंवयप्रति कतिः । काष्ठादिमयं हि यत् प्रतिच्छन्दकं तत् प्रतिकतिरुच्यते । ७। संज्ञायाञ्च। ८ | लुम् मनुष्ये । चशेति । तृणपुरुष उच्यते । सादृश्याच मनुष्यश्चञ्चा। लुपि युक्तवद्- व्यक्तिवचने इति (११२।५१) प्रकृतिगतमेव लिङ्गं भवति । ननु च मनुष्यलुपि प्रतिषेध इति (११२।५२, वा) वचनाद् युक्तवद्भावो न प्राप्नोति । नैतदस्ति । विशेषणानां हि दर्शनीयादीनां प्रतिषेधः । न लुबन्तस्य ।

१३८ न्यासः । ६। जीविकार्थ चापण्य । १००। देवपथादिभ्यश्च । देवपथ इति। देवानां पन्या इति षष्ठीसमासः। ऋक्पूरित्यादिनाकार: (५।४।७४) समासान्तः । कन् । तस्य लुम् । १०१। वस्ते। इतः प्रभृतीत्यादि। तत्र प्रतिकताविवे प्रतिकताविति (५।३।८६) कनि प्राप्त इतः प्रभृतिप्रत्यया भवन्ति । अप्रतिकृती त्वसंज्ञायाम् । वाक्येनैवाभिधाने प्राप्ते। संज्ञाया तु प्रतिकृतावप्रतिकृतौ च । ढओव। वस्तिर्दृतिविकारः । वास्तेयोति । टिड्ढाणजिति (४।१।१५) डीप् । १०२। शिलाया ढः। १०३। शाखादिभ्यो यत् । १०४। द्रव्यञ्च भव्ये। १०५। कुशाग्राच्छः । १०६ । समासाच तद्विषयात् । इवार्थविषयात् समासादिति । इवशब्दस्यार्थ इवार्थः सादृश्यं विषयो यस्य स तथोक्तः । यदि इवार्थविषयात् समासाच्छो विधीयते शस्त्रीश्यामा पुरुषव्याघ्र इत्यत्रापि प्राप्नोति। नैष दोषः । नात्र समास इवार्थे वर्तते । किं तर्हि १ पूर्वपदमुत्तरपदं वा। शस्त्रीव श्यामा । पुरुषोऽयं व्याघ्र इवेति। अथाप्येकदेशस्येवार्थे वर्तमानत्वात् समासोऽपीवार्थ उच्यते तथापि समासेनैवोक्तवान भविष्यति । यस्तु समासः स क इवार्थे वर्तते १ समासा- र्थादपर इवार्थों यत्नास्ति तत्रायं प्रत्यय उक्तः। परस्मिन्निवार्थ एवेति । इत्यधिकारात (५।३।६६)। अतर्कितोपनतमिति । अबुद्धिपूर्वमुपस्थितमित्यर्थः । चित्रीकरणमिति। विस्मयकरणमित्यर्थः । तत् कथमिति ? केन प्रकारणा- तर्कितोपनतं चित्रीकरणमिति १ इममर्थ पृच्छति तत् कथमित्यादि। समासश्चायमित्यादि। यदेतदिवार्थविषयात् समासात् प्रत्ययविधानमतएव इव न अथवा (५३)। १३८ ज्ञापकादवसीयते समासो भवति । कथं पुनरेतज् ज्ञापकमिति ? ह्यस्येत्यादि । इवार्थविषयस्य समाससामान्यस्य लक्षण नास्तीति । तस्माद यदेतत् ततः प्रत्ययविधानम् । एतदेव तद्भावस्य ज्ञापकमुपपद्यते । किं पुनः कारण ज्ञापकेन तद्भावः प्रतिपाद्यत इत्याह न यस्येत्यादि । स चैवं विषय एवेति । इवार्थविषय एवेत्यर्थः । १०७। शर्करादिभ्योऽण। १०८। अङ्गुल्यादिभ्यष्ठक। १०६ । एकशालायाष्ठजन्यतरस्याम् । अन्यतरस्याग्रहण नेत्यादि। पूर्वसूत्रेण विहितत्वाट् ठगेवानन्तरः। अन्य तरस्यांग्रहणं समुच्चयार्थम् । अतस्तेनानन्तरस्य विधिर्वा भवति प्रतिषेधो वेति (प, ६२) स एव प्राप्यते । ११०। कर्कलोहितादोकक । १११। प्रत्नपूर्वविश्वेमात् थाल छन्दसि । इमथेति । इमेतीदमा समानार्थम् प्रकृत्यन्तरमस्ति । तत इदं प्रत्यय- विधानम् । ११२। पूगाञ् ञोऽग्रामणीपूर्वात् । पूर्वादिति। पूर्वशब्दोऽवयववाची। ग्रामणीः पूर्वो यस्य तत् ग्रामणी- पूर्वम् । प्रतिषेधेन च खरूपग्रहण' भवतीति विज्ञायते। पूगशब्देन स्वरूप गृह्यमाणे ग्रामणीपूर्वतः प्राप्तिरेव नास्ति । ग्रहणवता प्रातिपदिकेन तदन्तविधेः प्रतिषेधात् (प, ३२)। लोहध्वजा इति । धादयस्तट्राजा इति (५।३।११८) ताजसंज्ञा । तेन तद्राजस्य बहुष्वित्यादिना (२।४।६२) लुक् । देवदत्तका इति । स एषां ग्रामणोरिति (५।२।७८) कन् । अत्र देवदत्तशब्दः पूर्वग्रामणोरवयव इति न प्रत्ययः । ११३। बातचफजोरस्त्रियाम् । व्रातवाचिभ्य इति । अथ वरूपस्यैव ग्रहण कस्मान भवति ? चफ.

१४० न्यासः । जोरल्याच्तरस्य परनिपातात् । स हि लक्षणान्तरानपेक्षतामाचष्टे । तेन खं रूपं (१।१।६८) शब्दस्येत्येतदपोह नापेक्ष्यत इति न भवति स्वरूपग्रहणम् । कौञ्जायन्य इति । गोत्रे कुञ्जादिभ्यश्चफञ् (१।१९८)। कौञ्जायनीति । जातेरस्त्रीविषयादिति (४।१।६३) डीष् । जातिवन्तु गोत्रञ्च चरणै : सहेति ११४। आयुधजीविसंघाञ् अड् वाहीकष्वब्राह्मणराज- न्यात्। वाहीकेविति। निर्धारण सप्तमी। वाहीकेषु मध्ये य आयुधजीविसंघ इति । निर्धारणञ्च समानजातीयस्यैव भवतीत्यायुधजीविसंघोऽपि वाहीक- एव विज्ञायते । अथवा देशवाचिनो वाहीकशब्दादधिकरण एवैषा सप्तमी। वाहीकदेशविशेष आयुधजीविसंघो वसतीति ब्राह्मण तविशेषग्रहणमिति । अथ स्वरूपग्रहणं कस्मान भवति ? अतएव प्रतिषेधात् । यदि स्वरूपग्रहणं स्याद् ब्राणप्रतिषेधोऽनर्थकः स्यात् । प्राप्तिपूर्वको हि प्रतिषेधो भवति । ब्राह्मणशब्द आयुधजीविसंघो वाहीकेषु न विद्यत इति किं ब्राह्मणप्रतिषेधेन ? ब्राह्मणविशेषवाचिनस्तु ये गोपालप्रभृतयः शब्दास्तहाच्या आयुधजीविसंघा वाहीकेषु भवन्ति । तत्र यदि प्रतिषेधो न क्रियेत तदा तेभ्योऽपि स्यात् । अतस्तनिवृत्त्यर्थोऽर्थवान् विशेषग्रहण प्रतिषेधो भवति । तस्माद् ब्राह्मणे तविशेष ग्रहणम्। राजन्ये स्वरूपग्रहणमेवेति । तहाच्यस्यायुधजीविसंघस्य वाहीकेषु सत्त्वात् । खं रूपं शब्दस्याशब्दसंज्ञेति (१।१।६८) वचनाच्च । तेनेत्यादि । यस्माद डीबर्थोऽत्र टकारः कृतस्तेनास्त्रियामिति (५।३।११३) नानुवर्तते । तदनुवृत्ती जाट्प्रत्ययान्तं स्त्रिया न भवतीति डीबथं टित्करणमनर्थकं स्यात् । तस्माद- स्त्रियामिति निहत्तम् । अतः स्त्रियामपि भवति । कौण्डीबसी । क्षौद्कोति। हलस्तद्वितस्येति (६।४।१५०) यकारलीपः । ११५। काट टेण्यण। यदि वाहीकेषु वृकशब्दस्य वाच्य आयुधजीविसंघो भवति ततो जाटि प्राप्तेऽन्यताप्राप्त एव कस्मिंश्चित् प्रत्ययविधानं वेदितव्यम् । वृकाविवेति । वृकशब्दोऽत्र जातिवचनः ।

१४१ (३) ११६ । दामन्यादिविगतषष्ठाच्छः । तेषु चेयं स्मृतिरिति । त्रिगर्तषष्ठाः स्मय्यन्ते । स्मय॑न्ते ज्ञायन्तेऽनयेति स्मृतिः ! सा पुनराहुस्त्रिगर्तषष्ठानिति । अयमेवाप्तप्रणीतश्लोकः । एषु च त्रिगर्त्तषष्ठेषु प्रथम पञ्चमी शिवाद्यमन्तौ (४।१।११२)। शेषास्त्विजन्ताः ! केचिदतद्धितान्तमेव पञ्चमं पठन्ति । तेषा ब्रह्मगुप्तशब्दादेव च्छो भवति । ११७। पर्वादियौधेयादिभ्यामणौ। किमर्थं पुनरिह यौधेयादयः पठ्यन्ते ? यावता लुकप्रतिषेधार्थ चतुर्थे (B) यौधेयादयः समानाता एव । त एव चेह गृह्यन्ते। सत्यमेतत् । विचित्रा हि गणानां कृतिगंणकारस्येति पुन. पठिताः । पर्खादिषु सत्वच्छब्दो पठ्यते । स च सत्वच्छब्दप्रकृतिर्मतुप्प्रत्ययान्तो वेदितव्यः । ११८ । अभिजिविदभृच्छालावच्छिखावच्छमौवटूर्णावच्छु- मदणो यञ्। अभिजितोऽपत्यमित्यणिति । प्राग्दीव्यतोऽणित्यौत्सर्गिकः ( ४।१८३)। एवमुत्तरत्रापि गोत्रप्रत्ययस्याणो ग्रहणमिष्यत इति । तत् कथं जातिनाम्न इत्यनुवर्तते । तेनाणन्तं यज्नातिनाम तदेव ग्रहीयते । यश्च गोत्रेऽम् विहित- स्तदन्तमेव जातिनाम भवति । गोत्रञ्च चरणै सहेति जातित्वात् । आभि- जितो मुहर्तः। आभिजितः स्थालोपाक इति । आभिजितः स्थालोपाक इति । एकत्र नक्षत्रेण युक्तः काल (४।२।३) इत्यण् । अपरत्न सास्य देवतेति (४।२।२४)। ११६ । ञादयस्तद्राजाः । इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचिताया काशिकाविवरणपञ्जिकायां पञ्चमस्याध्यायस्य टतीयः पादः समाप्तः ॥ ५॥३ ॥ (B) न प्राध्यभगादियोध्यादिभ्य (४।१।१७८) इत्यव ।

अथ काशिकाविवरणपञ्जिका। पञ्चमोऽध्यायः चतुर्थः पादः। १। पादशतस्य संख्यादेवीमायां वुल्ला पश्च । प्रातिपदिकादिति वर्तते । तस्य विशेषणं पादशतस्य ग्रहणम् । विशे- षणेन तदन्तविधिर्भवतीत्याह पादशतान्तस्येति । आदिशब्दोऽवयववचनः । न च संख्याशब्दः पादशतशब्दयोरवयव उपपद्यते। पृथग्भावादनारम्भक- वात् । नहि पृथगभूत मनारम्भकं शब्दान्तरस्थावयवो युज्यते । यथा घटशब्दः पटशब्दस्य। विपरीते तु युज्यते । यथा पटस्य समुदायात्मनः तन्वादिकारणं समदेशमवयवमाहुः । तस्मात् संख्यादेरियेतदपि प्रातिपदिकस्य विज्ञायते । न पादशतशब्दयोरित्याह संख्यादेरित्यादि। आनन्तर्यलक्षणा चेयं षष्ठी यथा गापो मिति (३ २८)। गापो टक्प्रत्ययो भवतीत्यनन्तरमिति शेष. । तत्सन्नि- योगेन चेति । चकारस्य सन्नियोगार्थत्वात् । अन्तस्येति । अलोऽन्तपरिभाषया (१।१।५२) । पुनरित्यादि । निमित्ते भवो नैमित्तिकः। अध्यात्मादित्वाट् ठञ् (४।३।६०,वा)। न नैमित्तिकोऽनैमित्तिकः । लोप.स्यादित्येवमयं पुनर्लोप- वचनम् । वुनापि सह लोपो विधीयमानः परनिमित्त नापक्षत इत्यनैमित्तिको भवति । यस्येति लोपः (६।४।१४८)। परनिमित्तक इति । ईति तद्धिते च परस्मिन्निमित्त विधानात् तस्य स्थानिवद्भावात् । अचः परम्मिन् पूर्व विधाविति (१।१।५७) लोपस्य स्थानिवद्भावेन पाच्छब्दरूपस्य विहितत्वात्। अनचको हि पाच्छन्दः स्थान्युपातः । तस्य चानच्कलं स्थानिवद्भावे सति हीयते । अस्य त्वनैमित्तिकत्वान् न स्थानिवद्भाव इति पहावो भवतीति भाव, । हो हो पादाविति वीमायां द्विवचनं भवति । ।

(५।४)। १४३ २। दण्डव्यवसगयोश्च । दमनं दण्ड (A) इति । ननु दण्डशब्दोऽयं यष्टयादावपि वर्तते । सत्यम् । तथापीह दमने वर्तमानस्य ग्रहणं युक्तम् । दमनस्यैव प्रत्ययान्तेन गम्यमान- बाद। दानं व्यवसर्ग इति । यद्येवं तत् पूर्वयोग उदाहृतं दत्त' तदा चोपपद्यते यद्ययं योगोऽधिकविधानार्थों भवति। नत्वपवादः । तस्मानार्थों- ऽनेन योगेनेत्यत आह अवीप्सार्थ इत्यादि। तेन दानमात्रेऽनेन वुन् । दानवी- सायां पूर्वयोगेन पुनर्भवत्येव । ३। स्थूलादिभ्यः प्रकारवचने कन् । जातीयगेऽपवाद इति । एतेन यथा प्रकारवचने विधीयमानो जातीयर प्रकारवति न प्रकारमाने तथायमपीति दर्शयति । अन्यथा हि जातीय- रोऽयं विषयभेदादपवादो नोपपद्यते । अथ किमर्थं प्रकारवचने जातीयम् इत्यस्यैवानन्तरं स्थूलादिभ्यः कन् न विधीयते ? किं कृतं भवति ? कन् प्रकारवचनं न वक्तव्य भवति । नैवं शक्यम्। स्थूलादीनां हि प्रकारस्या- ज्ञातादीनाञ्च युगपद्दिवत्तायां परत्वात् के कृते कन्न ग्यात् । शब्दान्तरत्वात् । अथापि स्यात् १ एवमपि स्थूलकक इत्याद्युदात्तत्वं स्यात् । इह तु कनो विधाने परत्वात् कनि कते ततः क इत्यन्तोदात्तत्वं सिदं भवति । चञ्चहतोरित्यादि। स्थूलादिषु चञ्चद्दहतोरपाठात् तन्न प्राप्नोति । तस्मादुपसंख्यानं प्रतिपादनं कर्तव्यम् । तवेदं प्रतिपादनम् । पूर्वसूत्रादिह चकारोऽनुवर्त्तते । स चानुक्ता- समुच्चयार्थः। तेन चञ्चहतोरपि भविष्यतीति । स्थूलाणुमाषेश्चिति । केचिदेताश्चतस्रः प्रकृतय इति वर्णयन्ति । स्थूलकाः । अणुकः । माषकः । इषुकः । अपरे तु स्थूलाणुशब्दो प्रकृती माषेश्वित्ययं तूपाधिनिर्देश इत्याहुः । अन्ये त्वानन्तयादणुशब्दस्येव माषग्रहणं विशेषण माचक्षते । आद्यमेव दर्शन न्याव्यम् । तथाहि स्थूलकादयः पटादिष्वपि दृश्यन्ते । स्थूलकोऽणुकः पट (A) जमन्ताड्ड इति ( उण, १११११) दाम्यते रौर्णादिको ड । दण्डयतेवाजित्यन्ये १४४ न्यासः। इति । कृष्णात् तिलेष्विति । कृष्ण इति प्रकृतिः । तिलेष्विति तविशेषणम् । कृष्णकास्तिलाः। यव व्रीहिविति । यव इति प्रकृतिः । ब्रोहिब्विति तविशेषणम् । यवको ब्रीहिः। पाद्यकालावदाता: सुगयामिति । केचिद वर्षयन्ति पाद्यादीनां त्रयाणामपि सुगयां ग्रहणं विशेषणमिति । पाधिका । कालिका | अवदातिका सुरति । अपर पुनरानन्तयादवदातशब्दस्य सुराग्रहणं विशेषणं पाद्यकालयोन विशेषणत्व भवतीत्याहुः। गोमूत्रादाच्छादन इति । गोमूत्रशब्दः प्रकृतिः । आच्छादन इति तविशेषणम् । गोमूत्रप्रकारमाच्छादनं गोमूत्रकम् । सुराहाविति। सुरेति प्रकृतिः । अहाविति विशेषणम् । सुरा- वर्णोऽहिरिति सुरकः । जीर्णशालिष्विति । जीर्ण इति प्रकतिः । शालिविति विशेषणम् । जीर्णप्रकाराः शालयो जीर्णका इति। पत्रमूले समस्तव्यस्ते इति । पत्रमूले इत्येते शब्दरूपे समस्तव्यस्ते प्रत्ययमुत्पादयतः । पत्रमूलकम् । पत्रकम् । मूलकम् । ४। अनत्यन्तगतौ तात् । अशेषमम्बन्ध इति । अशेषस्य स्खेन सम्बन्धिना भेदनादीनां व्याप्ति- रित्यर्थः । भिन्नकमिति । नतु यस्याशेषस्य भेदेन सम्बन्धोऽपित्वेकदेशस्य तभिन्नकमित्युच्यते । भिन्नमित्यनाशेषसम्बन्ध एव गम्यते । यद्यशेषं भिदि- क्रियाव्याप्त घटादि तद भिन्नमित्यभिधीयते । ५ । न सामिवचने। सामिवचन इति । साम्युच्यते येन तत् सामिवचनम् । सामिकतमिति । बहुब्रीहिविशेषणसमासी वा । प्रकृत्याभिहितत्वादिति प्रतिषेधानर्थक्ये हेतुः । अनत्यन्तगतिं गमयितुं कन् विधीयते। सा च सामिशब्देनैव गमितेति कनःप्राप्तिरव नास्ति । अतोऽनर्थकः प्रतिषेधः । स्वार्थमात्रेणैव कनो विधायक लक्षणमस्तीति भन्यमान आह केन पुनरित्यादि। यदेतत् प्रतिषेधवचनमेत. देव ज्ञापयति भवति स्वार्थिक इति । अन्यथा प्रतिषेधवचनमनर्थकं स्यात् । अईकृतम् । नेमिकतम् ।

। ( ५.४ )। १४५ ६। उहत्या आच्छादने । कन्ननुवर्तत इति । स्वरित वात् । न प्रतिषेध इति विपर्यायात् । वृहति- केति (B)। केऽण इति स्वः (आ४।१३) । ७। अषडक्षाशितडुलकर्मालम्पुरुषाध्युत्तरपदात् खः । अविद्यमानानि षडक्षीण्यस्मिन्निति बहुव्रीहिरिति । ततो बहुव्रीही सक्याक्षणोरिति (५१४।११३ ) षच् । राजशब्दात् सप्तमी राजन्यधीति विग्रह्य सप्तमी शौण्डैरिति (२।११४०) समासः । तमबादय इति । अतिशायने तमबिष्ठनावित्येवमादयः (५।३।५५ )। प्राक् कन इति। युवाल्पयोः कन्नन्यतरस्यामित्ययम् (५॥३॥६४) । यादय इति । पूगा योऽग्रामणीपूर्वा- दित्यादयः (५।३।१११)। प्राग्वुन इति। पादशतस्ये त्यादिसूत्रेण (५।४।१) विहितत्वात् । आमादय इति । किमेतिडव्ययधादिष्वित्येवमादयः (५।४।११)। प्राड् मयट इति । तत्प्रकतवचने मयडित्यतः (५।४।२१)। वहती जात्यन्त (५।४.८) ति । वृहत्या आच्छादन इत्येतत् सूत्रं (५।४।६) कनमुपलक्षयति । जात्यन्तशब्देनापि जात्यन्ताच्छ बन्धुनीत्येतत् ( ५।४।१८)। बहुवचननिर्देशो ऽषड़क्षादिसूत्रविहितस्य परिग्रहार्थः । ८। विभाषाञ्चेरदिक स्त्रियाम् । है। जात्यन्ताच्छ बन्धुनि। १०। स्थानान्ताद् विभाषा सस्थानेनेति चेत् + स्थानेनेति । करण रतीया। सस्थानेन स्थानवाच्येनार्थेन तुल्यपर्यायेण स्थानान्तं यद्यर्थवद्भवत्येवं प्रत्ययो भवति । नान्यथा। कथं पुनः स्थानशब्देन तुल्यत्वमुच्यत इत्याह समानमित्यादि। यस्य समानं स्थानं स सस्थानइत्युच्यते । यश्चैवंविधं स यदपक्षं तस्य समानं स्थानं स तेन तुल्यो भवतीति पिटस्थानीय पिटस्थान सिव स्थानं यस्येति सप्तम्युपमानेत्यादिनोत्तरपदलोपी (२।२।२४, वा) बहुव्रीहिः । गोस्थानमिति । षष्ठीतत्पुरुषोऽयम्। भवति दूति । (B) वृहतिका प्रावार इत्यर्थ । १८ १४६ न्यासः। ह्येतत् स्थानान्तम् प्रातिपदिकम् । नतु स्थानेन तुल्यार्थेनार्थवतः । यथा स्थानान्तात् प्रत्ययो भवति तथा तत्पुरुषेणापि स्वस्थानशब्देनार्थ उपस्थापित तेनार्थेनार्थवतः स्थानात् प्रत्ययेन भवितव्यम् । विशेषानुपादानात् । ततश्च तुल्यञ्च तत् स्थानान्तं प्रातिपदिकं स्थानवाच्येनार्थेनार्थवदिति यश्चोदयेत् हे प्रत्याह इतिकरणो विवक्षार्थ इति। इतिकरणो यत्र विवक्षार्थः क्रियते । तेनायमों लभ्यते ततश्चेद् विवक्षा भवतीति। बहुव्रीह्यर्थनार्थवतः स्थानान्तात् प्रत्ययोत्पत्तौ लोकस्य विवक्षा भवति । न तत्पुरुषार्थेनार्थवतः । तस्मात् स्थानान्तस्यार्थ मुत्पादयितुम् । बहुव्रीहिरीव स्थानशब्दार्थ मुत्पा- दयति । नतु तत्पुरुषः । तेन न भवत्यतिप्रसङ्गः। चेच्छब्दः सम्बन्धार्थ इति । स्थानान्तस्य सस्थानसम्बन्धी यथा स्यादित्येवमथं चेच्छब्दः। अन्यथा प्रत्ययं प्रति पञ्चम्या स्थानान्तस्य निर्देशात् स्थानान्तस्य सस्थानेन सम्बन्धो न स्यात् । नहि पञ्चम्यन्तेन तस्य सम्बन्धः शक्यते कर्तुम् । चेच्छब्दे तु स चेत् स्थाने. नार्थवद् भवतीत्युपपद्यते । न तु सम्बन्धः। योविभाषयोर्मध्ये नित्यविधय इति । यदि नित्या न स्युः पूर्वैव विभाषोत्तरत्रानुवर्तिष्यत इत्युत्तरं विभाषा- ग्रहण मनर्थकं स्यात् । ११। किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्षे । अद्रव्यप्रकर्ष इति । ननुच द्रव्यस्य न प्रकर्षोऽस्ति । तथाच भाग्थे उक्तम् । द्रव्यस्य प्रकर्षो ऽस्तीति । अतः प्रतिषेधोऽनर्थक इत्यत आह यद्यपी- त्यादि। दृश्यते चाधयधर्मस्याधार उपचारो यथा मञ्चाः क्रोशन्तीति । तस्मादाधाराधेययोः क्रियागुणयोधर्मः प्रकर्षः । स यदाधारद्रव्य उपचयंते तदासौ द्रव्यधर्मवादुपचारेण द्रव्यधर्मों भवति । अतोऽयं प्रतिषेधः क्रियते । क्रियागुणयोरेवेत्यादि । क्रियाया गुणस्य प्रकर्षों यदा द्रव्ये नोपर्यते क्रिया- गुणयोरेव प्रकर्षः। तत्रैव प्रत्ययः । यदि तु द्रव्ये उपचर्यते ततो द्रव्यप्रकर्ष इति वचनात् । किन्तरामिति । वस्तुनो बहवो विशेषाः। तत्र प्रश्नः किंशब्दार्थ: । पूर्वाहेतरामिति । घकालतनेषु कालनान (६।३।१०) इति सप्तम्या अलुक । ननुच पूर्वाह्नः कालः । कालश्च द्रव्यम् । द्रव्यप्रकर्षे प्रत्ययेन न भवि- न वै १ ( ५१४ )। १४७ तव्यम् । अद्रव्यप्रकर्ष इति प्रतिषेधात् । नैष दोषः । नात्र प्रातिपदिकार्थः प्रकर्षे वर्तते। किं तर्हि विभक्त्यर्थः । स च गुणएव । द्रव्यशक्तिस्वरूपत्वात् कारकाणाम् । अथवा वचनसामर्थ्यात् कालप्रकर्षे भवति । नहि कालादन्य- स्मादेकारात् परो धो भवति। कालनानामिति परतः सप्तम्या अलुग् विधानात् । उच्चस्तरामिति । १२। अमु च च्छन्दसि । १३। अनुगादिनष्ठक। अनुगदतीत्यनुगादीति । ग्रहादित्वासिनिः । आवश्यक वा । ताच्छील्ये वा। अस्मादेव निपातनाच्च । णचः स्त्रियामञ्। व्यावक्रोशीति । क्रुश आह्वान इत्यस्माण्णच् । लघूपधगुणः । णजन्तादञ् । स च कद्ग्रहणपरिभाषायां (प, २८) सगतिकाद् भवति । तेन सगतिकमेवेह प्रातिपादिकसंज्ञां प्रतिपद्यते । न कर्मव्यतिहार इति (७।३।६) प्रतिषेधादेव वृद्धिप्रतिषेधयो रादिवद्धिरेव भवति । टिड्ढाण निति डीप (४।१।१५) । व्यावहासीति । अतउपधाया इति (७।२।१) वृद्धिः । तत इति । णजन्तादिति यावत् । स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्त इति कृत्वा । एवं तीत्यादिना स्त्रीग्रहणं ज्ञापकं दर्शयति । तेनेत्यादिना ज्ञापकस्य प्रयोजनम् । अतिवर्तन्तेऽपौति । व्यभिचरन्त्यपीत्यर्थः । अपिशब्दादनुवर्तन्तेऽपीति । यदि खार्थिकानां प्रकृतितो लिङ्गवचनानुवृत्तिव्यभिचारो ज्ञाप्यने ततो गुड़ादिभ्यः पुंलिङ्गाद्यनुगतेभ्यश्च स्वार्थे कल्पबादयो भवन्ति । तेषां पुंलिङ्गवचनञ्च तदैव भवेत्। ततश्च गुड़कल्या द्राक्षेत्येवमादि नोपपद्यते । तस्मिंस्तु ज्ञापित लिङ्गान्तरञ्च भवतीति । तेन सर्वमतदुपपन्नं भवति । आदिशब्द नापि तैलकल्या चातुर्वण्यं त्रैलोक्यमित्येवमादीना ग्रहणम् । १५। अमिनुणः। साराविणमिति । रुशब्द इत्येतस्मादिनुण । अचो तिौति (१२।११५) १४८ न्यासः । वृद्धिः। इनुमन्तादण । स च पूर्ववत् सगतेरेव भवति । इन्नयनपत्य इति (६।४.१६) प्रकृतिभावः । सांकूटिन मिति । कूट दाह इति । मृजूष् शुद्धौ । मृजेर्वृद्धिः । शमित्यष्टाभ्यो (३।२।१४१) घिनु । घकारे लुप्ते यद्यपीनुण् भवति तथापि तस्मादण न भवति। स्थानान्तादिभाषत्यतो (५।४।१०) विवक्षार्थस्येतिकरणस्यानुवृत्तेः । १६ । विसारिणो मत्स्ये । विसारीति । पूर्ववसिनिः । वैसारिण इति पूर्ववत् प्रकृतिभावः । १७। संख्यायाः क्रियाभ्याबृत्तिगणने कृत्वमुच । पौनःपुन्य मभ्यावृत्तिरिति । पौनःपुन्नात्र साहचर्यादेकककाणां तुल्यजातीयाना सोपलक्ष्यते। अत एवाह एककर्तृकाणामित्यादि । एक- कर्तृकाणामित्यत्र हि संख्येयानुकृष्ट उपसंख्यातगुणस्तन्मात्रे वर्तते । संख्याशब्दऽतएव व्यतिरेकनिबन्धना षष्ठी भवति । क्रियागणनमभ्यावृत्ति- भवत्येव । पञ्चकत्वी भुक्त इति । क्रियायाः पञ्चोत्पत्तीः करोतीत्यर्थः । भूरीन् वारान् भुत इति । यदि संख्याग्रहणं न क्रियेत ततो यथा पञ्चादिभ्यः संख्याशब्देभ्यः प्रत्ययो भवति तथा भूर्यादिभ्योऽपि स्यात् । संख्याग्रहणान्न भवति । अभ्यावृत्तिः क्रियाया एव भवतीत्यादि। ननु च द्रव्यगुणयोरपि सम्भवति पुनः पुनहण्डी पुनः पुनः स्थूल इत्यादि। तदस्ति । अत्र सामर्थ्यात् क्रियाभ्याक्तिः। पुनः पुनर्दण्डी भवति । पुनः पुनः स्थूलो भवतीति । तस्मादम्यात्तिः क्रियाया एव सम्भवति । न द्रव्यगुणयोरपि सम्भवति पुनः पुनर्दण्डौति । अत्र सामान्लभ्या क्रियेति क्रियाग्रहणं न कर्तव्यम् । एकस्य सकच्चेत्यरेत्यादि । एकशब्देन होकैव क्रियाव्यतिराख्यायते। न चैकस्या क्रियाव्यतावभ्यात्तिः सम्भवति। कि तहि अनकासु क्रियाव्यक्तिषु । तथाच प्रागुताम् । एककस्काणा- मित्यादि। तस्मादेकस्य सक्कच क्रियैव गण्यते । नाभ्यावृत्तिः । तस्मादसति क्रियाग्रहण एकशब्दात् क्रियागणने प्रत्ययो न लभ्यते । तस्मादुत्तरार्थ क्रिया- ग्रहणं कर्तव्यम् । पञ्च पाका इति । क्रियागणन इत्येतावत्युच्यमानेऽत्रापि - ( ५४ )। १४८ . स्थात् । अस्ति यत्र क्रियागणनम् । अभ्याक्तिहि भिन्नकालाना क्रियाणा भवति । इह त्वभिन्नकाला एव पाका गण्यन्त एव। अतस्तद्याहत्तिः । ननु च क्रियाप्यत्र नास्त्येव । धात्वर्थस्य सिद्धताख्यो यो धर्मस्तस्मिन् धत्री विधानात् । नैष दोषः। सापि सिद्धता क्रियाप्रदेशेषु क्रियाग्रहणेन गृह्यत एव । धर्मधर्मिणो दस्थाविवक्षितत्वात् । अन्यथा कारकस्य गति: कारकस्य व्रज्येत्यत्र तुमुण गवुलौ क्रियायां क्रियार्थायामिति (३।३।१०) गवुल् न स्यात् । अक्रियमाण इत्यादि । द्विविधाः संख्याशब्दाः । केचित् संख्याने वर्तन्ते । केचित् तत्र यदि गणनग्रहणं न क्रियेत तदा क्रियाश्यावृत्तौ संख्येये वर्त- मानेभ्यः संख्येयवचनभ्य एव प्रत्यय. स्यात् । शतं वारान् भुत शतकत्वो अन सोऽयमित्यभिसम्बन्धेन क्रियाभ्यावृत्ती सख्येये शतशब्दो अतएव सामानाधिकरण्यम् । शतं वारानिति संख्याने वर्तमानम्यो न स्यादिति दर्शयितुमाह इह न स्यादिति । कुत एतदित्याह संख्यानमात्र- हस्तित्वादिति । मानशब्दः संख्येयं विहाय शतं वाराणामिति स्यात् । संख्येये । भुक्त इति। वर्तते । १८ । विविचतुभ्यः मुच् । चतुर्भुतामिति । रात सस्येति(८।२।२४)सकारलोपः । चकारः स्वरार्थ इति । प्रकृतेरन्तोदात्तत्वं यथा स्यादिति । प्रत्ययस्य तु चकारः स्वराथं नोपपद्यते। तस्थानचकत्वात् । चतुःशब्दमेव प्रकृति प्रति चकारस्य स्वरार्थत्वम् । नोत्तरयोः। तयोरुदासत्वात्। चतुः शब्दस्तु चतेरुरन्नित्युरन्प्रत्ययान्तवान् (उण, ५/७३६) नित्वरेणाद्युदात्तः । १६। एकस्य सकृच्च। सलद भुक्तमिति । संयोगान्तस्येति(८।२।२३)प्रत्ययसकारलोपः । चकारो- ऽन्तोदात्तार्थः । असति तु तस्मिनिणभीकाशल्यतिमर्चिभ्यः कनिति ( उण ३ ३२३) कन्प्रत्ययान्तवान् नित्वरेणै कशब्द आद्युदात्त इति स्थानिवद्भावादा- देशोऽप्याद्युदात्त एव स्यात् । चित्त्वादन्तीदातो भवति । अथैकः पाक इत्यत्र कस्मान्न भवति । अस्ति यत्न क्रियागणनमित्याह एक: पाक इत्यादि। ।

१५. न्यासः । - यावसा २०। विभाषा बहोर्धाऽविप्रकृष्टकाले । बहुशब्दोऽपि सामान्य एव । प्रकारऽपि वृत्तेः। तत्रानेकक्रियाभ्याहत्तर- विप्रकर्ष एव तावन न्याय्यः । प्रकरणाद्यपक्षश्च । कत्व सुजपि न शक्नोत्यस्मिन् विषये वर्तितम् । तस्माद् विभाषाग्रहणं न कर्तव्यम् । २१ । तत्प्रकृतवचने मयट । प्राचुर्येण प्रस्तुतं प्रकृतमिति । कुतः पुनरयं विशेषो लभ्यते । प्रस्तुतमात्रवचन: प्रकृतशब्दः । वचनग्रहणादिह प्रकत इति वक्तव्ये वचनग्रहणं यादृशस्य लोक प्रकृतस्य मयटो वचनं प्रत्ययान्तेन दृष्टं तत्रैव मयड् यथा स्थादित्येवमर्थम् । लोके च मयट्प्रत्ययान्तैरन्नमयादिशब्दैः प्रकृतस्य प्राचुर्य- मुच्यत इति वचनग्रहणादेष विशेषो लभ्यते । अपर वित्यादि । अत्र प्रकृत्यर्था- दर्थान्तर एव प्रत्ययः। प्रकृतशब्देन प्रस्तुतमात्रमुच्यते। नतु प्राचुर्यविशिष्ट प्रतमित्येष विशेषः । उभयथेत्यादि। उभयथाप्यस्मिन्नर्थे सूत्रस्य प्रणयना- दित्यर्थः। २२। समूहवच बहुषु । मौदकिकमिति । यथा समूहे ऽचित्तहस्तिधेनोष्ठगिति (४।२।३७) ठर मोदकादिभ्यो भवति तथेहापि च मोदकशब्दात् । स्वार्थवाचिनः पंलिङ्गाच्च । स्त्रीलिङ्गादिभ्यः स्वार्थे ठग विहितः । ततश्च स्वार्थिका प्रकृतितो लिङ्ग- वचनान्यनुवर्तन्त इति प्रकृतिगतेनैव लिङ्गादिना भवितव्यम् । तत् कथमिदं प्रत्ययान्तरस्य नपुंसकलिङ्गं वचनान्तरञ्चेत्यत आह अतिवर्तन्तेऽपीत्यादि । एतच्च णचःस्त्रियामित्यत्र (५।४।१४) ज्ञापितम् । २३ । अनन्तावसथेतिभेषजाज्ञाः । उपदेश पारम्पयें वर्तत इति। इतिह उपाध्यायः कथयति। इतिह स्म पिता कथयतीत्यत्रैव प्रयोगदर्शनात् । २४। देवतान्तात् तादर्थं यत्। चतुर्थों समर्थादिति । तादर्थं चतुर्थी । उपसंख्यानात् । चतुएँ तदर्थार्थ इति (२।१।३६) चतुर्थी भवतीति ज्ञापकाहा । तादय चतुर्थी भवितव्यमिति ( ५।४ )। चतुर्थीसमर्थात् प्रत्ययो विज्ञायते। तदर्थ एव तादर्थमिति खार्थे थलं दर्श- यति। कथं पुनः खार्थे व्यजित्याह चातुर्वर्णादीत्यादिना | चातुर्वर्णादिसिद्धार्थ खार्थे ष्यत्र उपसंख्यानं कृतम् (५।१।१२४, वा)। अयन्तु चातुर्वर्णादित्वात् खार्थे ष्यञ् । अग्निदेवताया इति । अग्निश्चासौ देवता चेति विशेषणसमासः । २५। पादार्धाभ्याञ्च । छन्दस्य इति। सप्तदशाक्षरसमाहाराभिधायिनश्छन्दःशब्दात् स्वार्थे य- प्रत्ययो भवति । द्वितीयाबहुवचनस्यालुगिति। अपशब्दावितीया बहु- वचनान्ताद् यति कृते सुपो धातुप्रातिपदिकयोरिति (२।४।७१) सुपो लुकि प्राप्ते ऽलुग भवति । सर्वे विधयश्छन्दसि विकल्पान्त इति कृत्वा । आमुष्थायणामुष्थ- पुत्रिकेत्यु पसंख्यानमिति । विभक्तेरलुगर्थमेतदुपसंख्यानान्तरम् । न प्रत्ययार्थम् । आमुष्थायणमित्यमुष्यशब्दो नड़ादिषु पठ्यते । ततः फकि कृते विभक्तेलुकि प्राप्तेऽलुग् वक्तव्यः । नड़ादिषु सविभक्तिकस्य पाठसामर्थ्याघलुग् भविष्यति । अमुष्थपुत्रिकेत्यत्र त्वमुष्यपुचशब्दो मनोनादिषु पठ्यत इति विभक्तेलुकि प्रासेऽलुग् वक्तव्यः । मनोज्ञादिषु पाठाहा सिद्धमिति न वक्तव्यम् । उभयत्रा- दसोऽसेर्दादुदो (८।२।८०) म इति मलोत्वे । २६ । अतिथेजाः। २७। देवात् तत् । २८। अवः कः। २६। यावादिभ्यः कन् । ऋतावित्यादि। उष्णशीते शब्दरूपे कनमुत्यादयत ऋतावभिधेये। उष्णक ऋतुः । शीतक ऋतुः। अन्यत्र उष्ण: शीत इत्येव भवति । पशौ लूनवियाते। लूनवियाते शब्दरूपे कनमुत्पादयत: पगावभिधेये। लूनकः वियातकः पशुः । पशोरन्यत्र लुनम् । वियातम् । अणु निपुण इति । अणुशब्दो निपुणार्थ : कनमुत्यादयति । अणुको निपुण इत्यर्थः । अन्यत्राणरित्येव भवति । पुचः कृत्रिम इति । पुत्रशब्दः कृत्रिमऽर्थे कन- पशु,। •.

१५२ न्यासः। । मुत्पादयति । पुत्त्रकः । अन्यत्र पुत्तः । स्नात वेदसमाप्ताविति । सातशब्दः कनमुत्पादयति वेदसमाप्तौ विवक्षितायाम्। यस्य वेदः समाप्तः स स्नातक इत्युच्यते । वेदसमाप्ताविति किम् ? नद्यां स्नातः । शून्य रिक्त इति। शून्य- शब्द. कनमुत्यादयति रिक्ते तुचोऽभिधेये। शून्य कस्तुच्छ इत्यर्थः । अन्यत्र शून्यम् । दान कुत्सित इति । दानशब्दः कुत्सिते कनमुत्यादयति । कुत्सितं दानं दानकम् । अन्यत्र तु दानम् । तनु सूत्रे इति । तनुशब्दः प्रत्ययमुत्पादयति सूत्रे । तनुकम् । अन्यत्र तनुः । ईयसश्चेति । ईयस्प्रत्ययान्तात् कन् भवति । श्रेयस्कः । कुमारीकीडनकानि चेति। कुमारीणा यानि क्रीड़नकानि तानि कनमुत्यादयन्ति । (C) ३०। लोहितान्मणौ। ३१ । वर्णे चानित्ये । लोहितकः कोपिनेति। लोहितशब्दवाच्यो वर्ण: कोप सति भवति । स्थित एव च देवदत्ते कोपविगमे गच्छतीत्यनित्यो भवति । अथ वर्णग्रहणं किमर्थम् ? यावता लोहितशब्दो वर्ण एव वर्तते। नैतदस्ति । मणि- निमित्तोऽप्ययं द्रव्येऽपि वक्त त एव । तत्रासति वर्ण ग्रहण द्रव्यस्थाप्यनित्यग्रहणं विशेषणं विज्ञायेत। ततश्च लोहितकाः पार्थिवाः परमाणव इति प्रत्ययो न स्यात् । तेषां नित्यत्वात् । वर्णग्रहणे तु सति वर्णस्यैवानित्यग्रहणं विशेषण भवतीति नित्ये प्रत्ययः सिद्धो भवति । अपि च लोहितशब्दो वर्णनिमित्त एव रुधिराख्ये वर्तते । तच्च सर्व त्रैवानित्य इति विशेषणोपादानमामादनित्ये कार्यविशेष उच्यते । स पुनः सत्येवाश्रये कदाचिद् भवति। कदाचिनेति । तेन यदेतत् स्त्रीणामार्सवं लोहितं तत्रैव स्यात् । तस्मादर्ण ग्रहण कर्त्तव्यम् । लोहितो गौः। लोहितं रुधिरमित्यत्र यावदाश्रयस्तावदवस्थानादनित्यो वर्णो न भवति । ननु चायमग्याश्रयविनाशेन विनाशादनित्य एव। सत्यमेतत् । सर्व एव हि वर्ण ईदृशः । उच्यते चेदमनित्य इति विशेषणोपादानसामर्थात् । तेन प्रकर्षेण योऽनित्य इति विज्ञायते । स पुनः सत्येवाश्रये ऽभूत्वा भवतीति यो (c) यथा कन्दुकम्। “सा कन्दुकः कृत्रिमपुचकैश्चेति" कुमारकाव्य ।

। (५४)। १५३ भूत्वा प्रतिगच्छति स एव भवितुमर्हति । लोहितालिङ्गबाधनमित्यादि। लिङ्गाधिकारे यो विहितः प्रत्ययः स उपचारालिङ्गशब्देनोक्तः। तस्य लोहित- शब्दादु बाधनं भवतीति वक्तव्यम् । अन्यथा स्त्रीत्वस्य वर्णानित्यस्य युगपद्विवक्षाया लाहितशब्दादु वर्णादनुदात्तातोपधात्तो न इति (४।१।३८) यो डोप प्राप्नोति स कना नित्यं बाध्येत । तस्य हि हरितवर्णादिरवकाशः प्राप्नोति । तत्र कनि कृते तदन्ताट टापि लोहितकेत्येव स्यात् । लोहिनिकेत्येवं तु न प्राप्नोति । तस्माधि लिङ्गबाधनं कर्तव्यम् । एवं लोहितशब्दाद वर्णादनुदातादिना (४।१।३८) डीपि तकारस्य नकार ततोऽनेन कन् । केऽण इति (७।४।१३) हुखले कृते लीहिनिकेति सिद्धं भवति । ३२ । रत। लाक्षादिना रक्त इति । ननुच लाक्षादिना य आधीयते लोहितो वर्ण स्तस्यानित्यत्वात् पूर्वसूत्रेणैव सिद्धम् । यदा हि तेन योगविशेषेण तथाविधं स्थैर्यमुत्पद्यते यतः खाश्रय न जहाति तदा नित्यत्वान प्राप्नोति । तदर्थमिद मुच्यते । ३३ । कालाचा ३४ । विनयादिभ्यष्ठक । उपायाद् इखत्वञ्चेति । उपायशब्दष्टकमुत्पादयति । स्वत्वञ्च प्रतिपद्यते । औपयिकः । (D) ३५ । वाचो व्याहृतार्थायाम् । व्याहृत इति । उक्त इत्यर्थः । अन्येनेति । संदेष्टा । नहि पूर्व सा वाक् संदिष्टा । तेन हि पूर्व सन्दिशता सन्देशवाक् भवति । यया सन्दिष्टोऽर्थों- ऽभिधोयते सा च सन्द शवागुच्यते । ३६ । तयुक्तात् कर्मणोऽण् । कर्मशब्दादित्य तेन कर्मण इति स्वरूपस्य ग्रहणम् । नेप्सिततमस्येति दर्शयति । ननुच कर्मशब्दस्य संज्ञाशब्दत्वादीप्सिततमस्यैव ग्रहणं युक्तम् । (D) शिवमौपयिक गरौयमौ मिति भारवौ प्रयोग ।

१५४ न्यासः स्वरूपस्येति । नैतदस्ति । इह हि स्थानान्तादित्यादः (५।४।१०) सूत्रादिति- करणोऽनुवर्तते । तेनायमर्थी लभ्यते ततश्चेद्विवक्षा भवतीति। कर्मशब्दाच्च प्रत्ययोत्पत्तौ लोके विवक्षा भवति । नेप्सिततमात् । नहि तत उत्पन्नेनाणा व्याहृतार्थवाचा युक्तं कर्म शक्यते द्योतयितुम् । कर्मशब्दात् तूत्पन्नेन शक्यते । तस्मात् स्वरूपस्यैव ग्रहणं युक्तम् । कार्मणमिति । अन्निति (६।४।१६७) प्रतिभावः । तथैवेति । यथैव व्याहृतार्थया वाचा प्रतिपादितमेवं कर्तव्य- मिति तेनैव प्रकारणत्यर्थः । अणप्रकरण इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः । तत्रेदं प्रतिपादनम्। प्रज्ञादेराकृतिगणत्वात् कुलालादय- स्तत्रैव ट्रष्टव्याः। तेन प्रज्ञादिभ्यश्चेत्यण (५।४।३८) भविष्यतीति। यद्येवं भाषायामपि स्यात् । नैष दोषः । विभाषा बहोरित्यादि (६।४।२०) सूत्राद् विभाषेत्यनुवर्तते। सा च व्यवस्थितविभाषा। छन्दस्येव भविष्थति न भाषायामिति । सानायेत्यादि । सान्नायानुजावरानुषूकानुष्टुभचातुष्पाभ्यरा- क्षोनवैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनाश्छन्दमि भाषायाचे ष्यन्ते । तस्मात् सानायादयः । एषां प्रकृतयः प्रजादिष्वव ट्रष्टव्याः । अत्र चाग्रायणा- इत्यनेकारान्ताभ्यामाग्रायण्यग्रहायणीशब्दाभ्यामन्यत्राकारान्तेभ्यो- नुजावरादिभ्यः प्रत्ययः । सानाय्यशब्दस्य चेहान्तोदात्तार्थ ग्रहणम् । रूपन्तु पाव्यसान्नाव्येति (३।१।१२८) निपातनादेव सिद्धम् । ३७ । ओषधेरजातौ। औषधं पिबतीति । फलादौ वर्तमानादोषधिशब्दात् प्रत्ययः । जातिनं भवति । आकतिग्रहणा जातिरित्यादेर्लक्षणस्याभावात् । ओषधयः क्षेत्रे रूढ़ा भवन्ति । अत्र फलपाकान्ता जातिः । तत्रौषधिशब्दो वर्तते । ३८। प्रज्ञादिभ्यश्च । प्रजानातीति प्रज्ञ इति । इगुपधज्ञाप्रीकिर. कः (३।१।१३५)। ननु च यः प्रजानाति तस्य प्रज्ञास्तीति प्रज्ञाश्रद्धा वत्तिभ्यो ण इति (५।२।१०१) मत्व नैव णेन सिद्धम् । तत् किमर्थ प्रज्ञाशब्दादण विधीयत इति ? चोद्यस्य निराकरणाय स्त्रिया विशेषं दर्शयन्नाह स्त्रो प्राज्ञीत्यादि। विदेः नहायण सच अस्य (५।४)। १५५ शवन्तस्य ग्रहणमिति । नतु विदेः शतुर्वसुरित्याटि (७.११३६)। श्रोत्र शारोर इति । शरीरे यः श्रोत्नशब्दो वर्तते तस्मादम् भवति। श्रोत्रम् । अन्यत्र श्रोत्रम् । जुह्वदिति । जुह्वचशब्दात् कृष्ण मृगे वर्तमानादण भवति । जौह्वतः। जुढित्येवान्यन । अन्धे कृष्ण मृग इति पृथक् पठन्ति । शब्दादण भवति मृगेऽभिधेये। काणों मृगः । कृष्ण एवान्यत्र । जुह्वच्छब्दा- दविशेषेणास्मिन् पाठे प्रत्ययः । सत्वन्विति । सच्छब्दो यो मतुयप्रत्ययान्तः स सत्वानेव सात्वतः । प्रज्ञादिरयमावतिगणः । तामेवास्याकतिगणतां बोध- यितुमनुक्तसमुच्चयार्थश्चकारः कृतः । तेन कुलालकुक्कुटादिभ्योऽण सिहो कृष्ण- । भवति । यत्र तह ३६। मृदस्तिकन् । किमर्थं पुनस्तिकन् विधीयते । न तकन्नेव विधीयेत । नित्यश्च स्त्री. प्रत्ययोऽयम् । तत्र टापि कृते प्रत्ययस्थात् कादित्त्वेनैव (७/३।४४) सिद्धम् । लुगभावः क्रियते तत्र न सिध्येत् । प भित्तिकाभिः क्रीतः पञ्चमृत्तिक इति । तत्र ह्यध्यईपूर्वदिगोरित्यादिना यस्य (५।१।२८) ठको लुकि कते लुक् तद्धितलुकीति (१।२।४८) स्त्रीप्रत्ययस्यापि लुक् । तत्र यदि तकन् विधीयते तदा टापो भावादिकारो न श्रूयेन। प्रक्रियागौरवच्च स्यात्। इकारस्य शास्त्रान्तरेण विधीयमानत्वात् । ४०। सनौ प्रशंसायाम् । ४१। कज्येष्ठाभ्यां तिलतातिलौ च च्छन्दसि । ४२। बह्वल्पार्थाच्छस् कारकादन्यतरस्याम् । इत्येवमादीनीति । आदिशब्देनापादानाधिकरणविषयोदाहरणपरिभाषा- ग्रहणम् । बहुभ्यो ह्यनागच्छति बहुश आगच्छतोति। अल्पश आगच्छतीति । बहुशो निदधाति । बहना स्वामीत्यत्न शेषस्य विवक्षितकारकाभिधायी बहुशब्दो न भवति । अर्थ ग्रहणादित्यादि। असति गर्थग्रहणे बह्वल्पशब्दाभ्या- मेव प्रत्ययः स्यात् । तस्मिंस्तु सति पायेभ्योऽपि भवति । बह्वल्यार्थादित्यादि । बह्वल्पार्थात् प्रत्यये विधातव्ये मङ्गलवचनं कर्तव्यम् । मङ्गलवचनेन चेह ।

१५६ न्यासः। व्याख्यान मुच्यते व्याख्यायत तेनेति कृत्वा । कथं पुनः कारणस्य मङ्गलवचनं कर्तव्यमित्याह यत्रेत्यादि । तत्रेदं व्याख्यानम् । इह प्रशंसाग्रहणमनुवर्तते । प्रशंसायां प्रत्ययेन भवितव्यम् । तच्चाभुदयिकेषु । बहुशो ददाति । नाल्पशः । एवं प्रशंसा भवति । इदमेव वचनमा प्रदयिकेषु बहुशो लोके दानविषयेषु । अन्यथा तेनास्यग्रहणानुवृत्तमङ्गले गम्यमाने प्रत्ययो न भवतीति । अथवेहीपीति करणानुवृत्तेमङ्गलएव भवति । नान्योति । शसः सकारस्येत् संज्ञा न भवति । प्रयोजनाभावात् । ४३। संख्यैकवचनाच्च वीमायाम् । नित्यवीसयोरिति (८।१।४) विवंचनेन तदपवादः शम् विधीयते । एकोऽर्थ उच्यते । येन तदेकवचनमित्येतेन सहाथैकवचनान्तादित्यभिप्रायः । ननु चान्वर्थग्रहणेन च प्राप्नोत्येव । भवति ह्ये कवचनम् । एकार्थवत्तित्वात्। नैष दोषः । नहि वाक्यस्येकार्थता प्रत्ययविधावाश्रीयते । किं तहि ? वृत्तिस्था । न वृत्तौ च निवृत्ताया विभतो घटादय एकशब्दा एकवचनान्ता भवन्ति । जातिशब्दत्वात् । जातिशब्दा हि नैकस्यामेकजात्याधारभूतायां व्यक्तौ वर्तन्ते । कि तहि? अनेकस्यामपि। तदेषामेकार्थस्तित्वं वाक्य एव विभक्तिसंख्याश्रयण प्रतीयते । न हत्तौ। विभक्तनिवत्तत्वात् । कार्षापणादयश्चेत्यादि । कार्षा- पणादयः शब्दाः परिमाणा इतुक्तम् । परिमाणस्य विशेषस्य वाचका इत्यधस्याधिक्ये तेषां वृत्तिन सम्भवति । वाक्ये तु तेषा प्रयोगेऽनेकार्य- प्रीतिः कार्षापणी कार्षापणा इति : सा विभक्ति ने तेभ्यः । वृत्तौ तु सा विभक्तिर्नास्तीति तैनैकार्था भवन्ति । वृत्तिस्थैकार्थता प्रत्ययविधावाधीयते । न वाक्यस्थ युक्तमेतत् । घटं घट ददातीति। घटादयः शब्दा वृत्तावेकार्था न भवन्ति । एतच्च प्रतिपादितम् । यदावाः प्रकरणादिसहिता घटादयोपि जातिशब्दा एकार्था भवन्ति तदा भवितव्यमेव शसा। अन्यथा जसशसोः शिरित्यत्र (१२०) यद् वक्ष्यति जसा सहचरितस्य शसो ग्रहणमित्यत्र न भवति कुडवशो ददाति शतश. प्रविशतीति साहन्यते । कुड़वादि- शब्दस्यापि जातिशब्दत्वात् । (E) In the printed काशिका is the reading शसो ग्रहणादिह न भवति। कुण्डशी ददाति घनश प्रविशतीति। ?

(५४)। १५७ । 88। प्रतियोगे पञ्चम्यास्तसिः । प्रद्युम्नो वासुदेवतः प्रतीति । प्रतिनिधिप्रतिदाने च यस्मादिति (२।३।११) पञ्चमी। ततस्तमिः । तमेरिकारो मुखमुखार्थः। ननु च सकारस्येत्संज्ञा मा भूदित्येवमर्थ : स्यात् । नेतदस्ति । प्रयोजनाभावादेव हि तस्यत्संज्ञा न भविष्यति। आद्यादिभ्य उपसंख्यानमिति । आद्यादिभ्यस्त सेक्यसंख्यान. मिति प्रतिपादनं कर्तव्यमित्यर्थः । तत्रेदं प्रतिपादनम् । उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः । तेन आद्यादिभ्यस्तसिभविष्यतीति । अनुत्ती- समुच्चयार्थत्वे चकारस्य तस्यादित उदात्तमर्धखमिति निर्देशः (१।२।३२) । । ? ४५। अपादाने चाहीयकहोः । ग्रामादागच्छतीति । ध्रुवमपायेऽपादानमित्यपादानसंज्ञा (१ ४ २४) । चौरभ्यो विभतीति। भीत्रार्थाना भयहेतुरिति (१।४।२५)। अध्ययनात् पराजयत इति पराजेरसोढ ( १।४।२६) इति । सार्थाद्धीयत इति । ओहाक् त्यागे । लः कम्मण्यात्मनेपदम् । यक् । धुमस्थादिसूत्रेणेत्त्वम् (६।४।६६) । ननु चाकर्तृकं कर्म नास्ति । कर्तुरीसिततमं कर्मेति (१।४।७८) वचनात् । सार्थश्चान न कर्म । किं तर्हि ? अपादानम् । नैष दोषः । कर्मसंज्ञायां हि कत्तुंग्रहणं खातन्वयोपलक्षणार्थम् । कुत एतत् ? क्रियाविशेषणत्वात् । कर्तरि च इयमस्ति। स्वातन्त्रा कसंज्ञा च । तत्र संज्ञायाः क्रियाविशेषणत्व नोपपद्यते । यदि तस्याः कारणं तेनैव सा युक्ता विशेषयितुम् । तस्याः कर्तुसंज्ञा कारणम्। कि तहि ? खातन्ताम्। कर्तृवरूपत्वात् । भवति क्रिया प्रति यदा कारणभावः कम्मणा च नैव क्रिया विशष्यते तदायमर्थों भवति स्वातन्वास्य क्रियाया यदीप्सिततमं तत्- कर्मसंन्न भवतीति । सार्थस्यापि देवदत्तेन तस्याभिधानम् । तस्य तस्मिंस्त्व- सत्यपादानमपि न स्यादेव । तस्माद्देवदत्तः कर्म। जहातेरेव सार्थ- स्थापादानेन भवितव्यम्। तत्रापादानस्यापि सतः सार्थस्य हानक्रियायां यत् खातन्त्र तक्रियाविवक्षयैव देवदत्तस्य कर्मसंज्ञा भवति । अथ किमर्थं यका निश: क्रियते । न हारुहोरित्येवोशेतत्यत आह विकारनिर्देश इत्यादि । तस्य विक्रियते तस्मिन् रूपमिति विकार' । स पुनरिह यगेव । होयेति । तत्र हि घुमास्थादिसूत्रेणेकारस्य (६।४।६६) विधानाद विक्रियते जहाते रूपम् । अथवा विकृतिविकारः। तेन विकारण निर्देशः । कथ नाम ? जहातेः प्रति- पत्तियथा स्यात् । जिहौतर्मा भूदित्येवमर्थम् (F) । अन्यथा हि जिहीतेरपि ग्रहण स्यात्। विकारनिर्देशे तु यस्येदृशं रूपं तस्यैव ग्रहण भवतीनि न भवतीत्येष प्रसङ्गः। भूमित उज्जिहीत इति। जिहौतरिहाग्रहणात् तत् सम्बन्धिनीऽपादानाद् भवत्येव । हाङो डिवादात्मनेपदम् । भृजामिदेल्य भ्यासस्येत्त्वम् (७।४।७६)। ई हल्यघोरिति धातोरीत्वम् (६।४।११३)। कथं मन्त्री हीनः खरतो वर्णतो वेति ? यदाह जहाते: प्रतिषेध. क्रियते । ततस्तस्मिन्न प्राप्नोतीत्यभिप्रायः। नैषा पञ्चमीति । पञ्चम्या अविहितत्वात् । उपचारेण तसिः। नैषा पञ्चमीत्युक्तम् । किं तहि ? तौया। अत्रापि तृतीयाया विहितत्वात् । टतीयेत्युक्तस्तसिः । तेनैतत् सूचयति। नायमि- हस्तसिरनेन सूत्रेण पञ्चम्या विहितः । किं तहिं ? अतिग्रहाव्यथनक्षेपवकर्तरि तृतीयाया इत्यनुवर्तमाने (५।४।४६) हीयमानपापयोगाच्चेति (५।४।४७) टतीयाया इति । सा च हतीया हेतौ करणे वा द्रष्टव्या। (G) अतिग्रहाव्यथनक्षेपष्वकर्तरि तौयायाः । अतिक्रम्येति । अनेनातिशब्दोऽनातिक्रमे वर्तत इति दर्शयति । अचलन- मव्यथनमिति । व्यथ भयचलनयोरिति पठाते । तस्येह चलने वृत्तिमाचष्टे । वृत्तेनेति हेती करण वा टतीया । ४७। होयमानपापयोगाच वृत्तेन हीयते। वृत्ततः पाप इत्यत्र वृत्तस्य होयमानन पापेन च योग तीया हेतौ करण वा । क्षेपविवक्षायामिदमुदाहरणं कस्मान्न भवतीत्याह- क्षेपस्य चेत्यादि। -an-namanna (F) जिहतिरिति तिङन्तानुकरण बोध्यम् । तिपो डिवाभावाज्जिहातरिति हि स्वात्। काशि कायाच मिहोते रित्येव प्रयोग । (G) तेन स्वरेण वर्णन वा विवक्षितादर्थाधीन इत्यर्थः सम्पद्यते।

सत्ता भावः (५।४)। १५४ षष्या व्याश्रये। ४६रोगाचापनयने । प्रवाहिकात इति । प्रवाहिकाशब्दात् प्रतीकारापेक्षया षष्ठी। ततस्तसिः। ५०। अभूततद्धावे कृम्वस्तियोगे सम्पद्यकर्तरि चिः । कारणस्य विकाररूपणाभूतस्येति । कारण प्रकतिस्तस्यैवोत्तरमवस्थान्त विकारः। तेन विकाररूपेणाभूतस्याजातस्येत्यर्थः । कुतः पुनरय मभूततद्- भावविशेषो लभ्यते ? अभूतग्रहणादिह हि भावो जन्म सत्ता वा। यदि हि स्याद् स्वस्तिभ्यामेव सम्बन्धः स्यात् । न करोतिना। नहि यत् क्रियते सा सत्ता। धातुत्रयोपादाने च सति यस्मिन्नर्थे ग्राह्यमाण त्रिभिरपि धातुभियोगोऽस्ति स एवात्रयितु युक्तः । स च जनव सत्ता। सग्रहणादेष विशेषो लभ्यते । तदात्मना भाव इति तच्छन्देन विकारः परामृश्यते। स एव विकारः । आत्मा स्वभावः । तेन विकारात्मा ऽभूततद्भाव'। अपितु लब्धसत्ताकस्यैव कारणस्य प्रागप्रतिपत्रविकारस्यो- तरकालविकारभूमावाप्तिरभूततद्भाव इत्युक्तं भवति । तेन यत्र प्रकृति नं विवक्ष्यते तत्र प्रत्ययो न भवति यथा शलं करोतीति प्रत्युदाहरणे । नहि प्रकृतावत्र विवक्षितायामेवंविधोऽभूततद्भावो गम्यते । तच्छब्देन प्रकृति- विकारयोरभेदविवक्षा प्रतिपाद्यते । तेन यत्र प्रकृतिविकाररूपमापद्यमाना तम्मादभिन्ना विवक्ष्यते तत्रैव प्रत्ययो भवति। नतु यत्र कारणतः कार्यस्य भेदो विवक्ष्यते । यत्र तु भेदो यथा पटं करोतीति न तत्र । सम्पद्यते: कर्ता सम्पद्य- कति। कथं पुनस्ति ङान्तेन समासः ? कथञ्च तिडो लोपः सौत्रत्वा- निर्देशस्य । सत्त्वात् सर्वमिदमुपपद्यते । अथवा संपूर्वात् पदेरत एव निपात- नाद यत्प्रत्ययः। तदन्तस्यायं विशेषणसमासः । तत् तिडन्तस्य वृत्तिकरणे त्वर्थप्रदर्शनमात्र कृतम् । न पुनरेतद् विग्रहवाक्यम् । सम तिरिति वक्तव्ये सम्पद्यकत्र्तरीत्युती वैचित्रवार्थम् । शुक्लीकरोतीति। अस्य चावितीत्त्वे (४।३२) चाविति (७।४।२६) दीर्घत्वम् । च्यन्तस्याव्ययत्वात् सोर्लोपः । नात्र प्रकृतिविवक्षितेति। विकारमात्रस्य विवक्षितत्वात् । यत्र च प्रकतिर्न न्यासः । । पत्र १६० विवक्ष्यते नात्राभूततज्ञावो गम्यत इति न भवति प्रत्ययः। अमूततजावे सामाल् लब्धमेवेत्यादि । यो हि ह्यविकाररूपेण भूतो विकारात्मना भवति स नियोगतस्तेन रूपेण सम्पद्यमानः सम्पद्यकर्ता भवतीत्येतत् सामर्थ्यात्- स्वरूपान्तरण सम्पद्यते। तत् कर्तृसंज्ञकमेव भवतोति नायं नियोगत इत्यभि- प्रायेणाह कारकान्तरसम्पत्तौ मा भूदिति। अदेवगृह इत्यादि। देवरहस्य देवताराधनत्वेनाभूतस्य प्रागुत्तरकालं देवताधेयसम्बन्धेन तदात्मकत्वमापद्यमानस्य भवत्ययमभूततद्भावः । स त्वधिकरणस्य । कर्तुः । तथाहि तद्रूपान्तरमापद्यमानमपि न कर्तृसंज्ञम् । किं तर्हि ? अधिकरणसंज्ञमेव। अन्यथा सप्तमो न स्यात् । चाविकार उच्चारणार्थः । चकारः प्रकृतरन्तोदात्तार्थः । वकारस्य वेरपृक्तस्येति (६।१।६७) लोपः । ५१ । अरुमनश्चक्षुश्चेतोरहोरजसां लोपश्च । अत्र विशेषणसम्बन्धादित्यादि। अभूततावादीनि सर्वाणि विशेषणा- नौह पूर्वसूत्रादनुवर्तन्ते । तस्मात् सर्वविशेषणसम्बन्धात् पूर्वेणैवारुःप्रभू- तिभ्यः प्रत्ययः सिद्ध इति नासौ विधीयते । लोपमान तु न प्राप्नोति । अतस्तदर्थं वचनम् । यदि पुनरनेनैव प्रत्ययविधिः स्याद् दुर्मनीकरोती- त्यादौ प्रत्ययो न स्यात् । ग्रहणवता प्रातिपदिकेन तदन्तविधेः प्रतिषेधात् । पूर्वेण तु तदन्तादपि भवति । तत्र ग्रहणवत्प्रातिपदिकस्याभावात् । उन्मनीकरोत्येवमादौ बहुव्रीहेः प्रत्ययः । ५२। विभाषा साति कात् नेत्र । विभाषाग्रहणं चः प्रापक मिति। समुच्चयार्थत्वात्। समुच्चयार्थव बनेकार्थत्वान्निपातस्य । यद्येवं चकारएव कस्मात्रोक्तः । वैचित्रयात् सूत्र- छातः। अथ प्रत्ययविकल्पार्थमेवेति विभाषाग्रहणं कस्मान भवतोत्याह प्रत्ययविकलास्त्वित्यादि। ५३। अभिविधौ सम्पदा च। स तु कन्वस्तिभिरेव योग भवतीति । सम्वस्तिभिरित्येव योग इत्यनेन सम्बन्धस्यैव तस्येहानुत्तेः। अभिविधेः कास्नास्य चावश्य विशेषेण भवि- (५१४)। तव्यम्। अन्यथा सूत्रहयारम्भो निष्फलः स्यात्। एकेनैव सिद्धत्वात् । स च विशेषो न ज्ञायत इत्यतस्तत् पृच्छति अधाभिविधेरित्यादि। यथास्यां सेनायामित्यादि। अथ शेषाणा शस्त्राणामेकदेशेन ह्यात्मना सम्बन्धमात्रं विवक्षितम् । न सर्वात्मना विकाररूपापतिः । वर्षासु सर्व लवण मुदकसात् सम्पद्यत इति । अत्रापि सर्वासां लवणव्यक्तीना मेकदेशनोदकात्मताविकारण सम्बन्धमात्रं विवक्षितम् । न त्वेकस्य सर्वात्मना विकाररूपापत्तिः । कात् संग वित्यादि। यत्न धेकस्यापि द्रव्यस्य सर्वात्मना विकाररूपापत्तिनं वेकदेशेन तत्र कारनं भवति । तत्र यदि पूर्वी योगो नारम्येत यत्रैकद्रव्यविशेष- विषयं कात्स्नं तत्र प्रत्यययोगो न स्यात् । अभिविधेरभावात् । अथायं नारम्येत यत्र सर्वाः प्रकृतय एकदेशेन विकार मापद्यन्ते तत्र न स्यात् । तस्मादुभयमारब्धव्यम् । ५४। तदधीनवचने। तदधीनं तदायत्तमिति । तस्यायत्तं तदायत्तम्। तच्छब्देन स्वामि- सामान्यमुच्यते । अधीनशब्दे नापोशितव्यसामान्यम् । अनन्तरोतमेवार्थ विस्पष्टीकर्तुमाह तत्स्वामिकमित्यर्थः । स स्वामी यस्य तत् तत्स्वामिकम् । अत्राप्यन्यपदार्थप्रधानत्वादु बहुब्रीहिः। ईशितव्यस्य चान्यपदार्थत्वात् तस्य प्रधानभावः। खामिन स्तु तदुपलक्षणवादु गुणभावः । स्वामिसामान्य मित्यादि। स्वामिसामान्यमीवरसामान्यमीशितव्यसामान्यमित्येतदुभयं तदधी. नशब्देनोच्यते । कथं कृत्वा ? इहाधिरीखर (१।४।२७) इत्यधिशब्दस्य कर्म- प्रवचनीयसंज्ञा । तेन योगे यस्मादधिकं यस्य चे खरेति (२।३।९) च सप्तमी। स चेखर ईशितव्यापिचित इति सामयादीशितव्याभिधानमधिशब्देन योगे भवति । अधिशब्दश्चायं शौण्डादिषु पठ्यते । तत्र सप्तमी शौण्डै रिति (२।११४०) समासे कृते पूर्वपदस्य स्वामिसामान्यमों भवति । उत्तरपदस्य चेशितव्य- सामान्यम् । अषड़क्षादिसूत्रेण (५।४।७) खप्रत्यये कते स एवायमर्थो भवति । तस्य तत्स्वामिकत्वादित्येवञ्च अत्ला। स्वामिसामान्य मौशितव्यसामान्य तदधीनशब्देनोच्यते । तत्र स्वामिसामान्य प्रकृत्यर्थः । इशितव्यसामान्य तु प्रत्ययार्थ इत्यत आह स्वामिविशेषवाचिन इत्यादि। २१ न्यास | - ५५। देये वा च। राजसाद् भवति राष्ट्रमिति | पूर्वेण सातिरव भवति । ५६ । देवमनुष्यपुरुषपुरुम]भ्यो दितीयासप्तम्योबहुलम् । अथ बहुलग्रहणं किमर्थम् १ यावता विभाषा साति कात्न (५।४।५२) इत्यत्र विभाषाग्रहण मनुवतिष्यत एव । विकलोन प्रत्ययो भविष्यतीत्याह बहुलग्रहणादन्यत्रापि लभ्यत इति । तस्मादिभाषायां प्रकृतायां यबहुलवचनं कृतं तदन्यत्रापि यथा स्यादित्यभिप्रायः । ५७। अव्यक्तानुकरणाद् ाजवराwदनितौ डाच्। अव्यक्तस्यानुकरण मव्यक्तानुकरण मिति । यद्यप्यनुकरण वर्णविशेषो रूपण न प्रकाशते तथापि ध्वनेः समानतया तन्मात्रसादृश्येन स त्वनुक्रियत इति तस्याप्यनुकरणमित्युच्यते। घच् अवरमई यस्येत्यईशब्दो नपुंसक- लिङ्ग एव । यस्येत्यादि। यस्थापकर्षे क्रियमाणे सुठूनं हाजई भवति नस्मात् प्रत्ययो भवति। यस्य न ततोऽपि न्यूनतरमकाज् भवति । यद्यवते हिवचने यस्य हाजवराईता ततो डान् भवतीति ज्ञायते ततः पटदिल्यादेन स्यात् । नयन हाजवरमईम् भवतीत्ये तक्षेतसि क्त्वाह यस्य चेत्यादि। जन्नेवं सति डाचि परमूते तदाश्रये द्विवचने कृते बजवराईता भवति तस्याञ्च सत्यां डाजितीतरतराश्चयः प्रसजति । इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्पान्त इत्याह डाचि बहुलमित्यादि। यद्येषा परसप्तमी स्यात् स्यादेष दोषः । न चैषा परसप्तमी। किं तर्हि ? विषयमप्तमी। पटपटाकरोतीति । पटच्छब्दाड् डाचि विवक्षिते विषयभूत बुद्धिम्थेऽनुत्पन्न एव पूर्व तावविवचनम् पटच्छब्दस्य क्रियते । तस्मिन् कृते जवराईतायामुपजातायां डाचि टिलोपः। नित्यमाम्बेड़िते डाचीति (५।४।५७) पूर्वस्य तकारस्य पररूपत्वम् । दमदमा- करोतीति । दमच्छब्दस्य पूर्ववद्दिवचनम् । ततो डाच् । दृषत्करोतीति । अनापि विचने कृते प्रजवराईता भवतीति। नान्यक्तस्येदमनुकरणम् । श्रत्करोतीति । भवत्येतदव्यक्तानुकरणम् । न हाजराईम् । कृतेऽपि ह्यत्र द्विवचन एकाजवरमई सम्पद्यते । खरटखरटा करोतीति। खरटदित्ये- १ ( ५४ )। तस्यानुकरणस्यात्र पटदित्येतस्यानुकरणस्येव पूर्ववद् द्विवचनम् । ततो डान् । यदि यजद्धादित्ये तावदुच्चेतेह प्रत्ययो न स्यात् । न यत्र जईतास्ति । अवर- ग्रहणे तु सतीहापि भवति । तत्र हि हचोऽडाद यस्य नूनतरमई तत एव प्रत्ययेन भवितव्यम् । अन्यतस्तु सर्वतो भवितव्यमेव । अन्यथाऽवरग्रहणमनर्थक एवेति हाजादित्येवं ब्रूयात्। पटिति करोतीति। अव्यतानुकरणस्यात इतावित्य- च्छब्दस्य (६।१।८८) पररूपत्वम् । यद्यत्र डाच् स्यात् तस्य डाजन्तस्य परमिति शब्दमुच्चायं करोतिरनन्तरः स्यादिति। न च तत्परम् । तच्चानिष्टम् । अथ चकारः किमर्थः? यावतान्तोदातलं कृत्त्वादस्य प्रत्ययवरेणेव सिद्धमित्यत आह चकार इत्यादि। पटपटा असि इति स्थिते तिड्ङतिड (८।१।२८) इत्यसि- शब्दस्य निघात रुते खरितो वानुदात्ते पदादाविति (८।२।६) स्वरित एका- देशः प्राप्नोति । न च स्वरित दृष्यते । तदथं चकारः। स्वार्थिको विज्ञेय इति। व्यतिरिक्तस्यार्थस्याभावात्। लेन पुन: स्वार्थिको यकारः १ अनेनैव निपातनेन । ५८। कृञो द्वितीयटतीयशम्बवौजात् कृषौ । ननु कम्वस्तियोग इत्यतः करोतिरनुवर्तते । तत् किमर्थ ऋग्रहण- मित्याह कञ्ग्रहणमित्यादि। धातुवयं प्रकृतम् । तत्रासति लग्रहणे यथा जो योगो भवति तथा स्वस्योरपि स्यात् । तस्मात् को ग्रहण स्वस्ति- निवृत्त्यर्थम् । ५। संख्यायाश्च गुणान्तायाः । संख्याया इति सामीप्यसम्बन्धे षष्ठी। गुणान्ताया इति प्रत्ययविधी संख्यावाचिन: शब्दस्येत्यनेन संख्याशब्दस्य षष्ठान्तता दर्शयति। अन्तशब्दो ऽवयववचनोऽप्यस्ति । तस्येह ग्रहणे संख्याशब्देन सम्बन्धो न स्यात् । नहि संख्याशब्दस्य गुणाशब्दोऽवयव उपपद्यत इति मत्वा सामीप्यवचनोऽयमन्त शब्द इति दर्शयन्नाह गुणशब्दोऽन्ते समीप इति । यति । अनेन प्रातिनिश्यिते । सेत्यादि । सा प्रकृतिः संख्या गुणान्तेनाभिधीयत इत्यर्थः । गुणशब्दोऽन्ते यस्य स तथोक्तः । तादृशादित्यादिना तथाभूतात् संख्याशब्दात् सामीप्यवर्ति- न्यासः। गुणशब्दादित्यर्थः । ननु च सामीप्यवचनान्तशब्दे संख्यायाः पूर्वः परो वा गुण इति विशेषो नावधार्यते । तथाच यत्राप्यसौ पूर्वस्तत्रापि स्यात् । नैष दोषः । सामीप्येऽयं वर्तमानो नियत देशमेव पराश्रयं वा यत् सामीप्य तदाचष्टे । न सामीप्यमात्रम् । यथावयवे वर्तमानो नावयवमात्रमभिधत्ते। किं तर्हि १ विशिष्टदेशमेवावयवम् । हिगुण विलेखन करीतीति । ६०। समयाच यापनायाम् । ६१ । सपत्रनिष्पनादतिव्यथने । सह पत्रेण सपनः । निर्गतं पत्नं यस्मान्निष्यत्रः। अतिपौड़नमति- बाधनम्। ६२। निष्कुलान्निष्कोषणे । निष्कुलं करोतीति। निर्दिष्टं कुलं यस्येति स निष्कुलः । कुलशब्दोऽत्र बन्धुषु वर्तते। ६३। मुखप्रियादानुलोम्ये। आराध्यचित्तानुवर्तनमिति । प्राराध्याः खास्यादयः । तषामभिमत करणेनानभिमतवर्जनेन वा यच्चित्तस्यानुवर्तनमाराधनमानुलोम्यं तत्र प्राणिधर्म एव वेदितव्यम् । ६४ । दुःखात् प्रातिलोम्ये खाम्यादेश्चित्तपोड़नमिति । खाम्याटेरनभिमतानुष्ठाननाभिमताननु- ठानेम वा चित्तस्य पौड़नं दुःखं प्रातिलोम्यम् । तदपि प्राणिधर्म एव । पाक। । ६५ । शूलात् शूलाकरोति मांसमिति । पचतीत्यर्थः । ६६। सत्यादशपथे। ६७। मद्रात् परिवापणे । मद्राकरोतीति । मङ्गलशम्पूर्व मुण्डनं करोतीत्यर्थः। भट्राचेति वक्तव्य- (५४)। मिति । भट्रशब्दाच डाज भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः । तत्रेदं व्याख्या- नम् । समयाच्च यापनायामित्यत (५।४।६०) श्वकारोऽनुवर्तते । स चानुक्त समु- चयार्थः। तन भद्रादपि भविष्यतीति । ६८। समासान्ताः । समासान्ता इत्ययमधिकार इति वक्ष्यमाणेन बहुव्रीहौ संख्येये डजबहुगणा- दित्यादिना (५।४,७३) बहुव्रीह्यादिलेन समासविशेषाद विधास्यन्ते । यत्रापि बहुव्रीह्मादिग्रहणं नास्ति तत्र संघातः प्रकृतित्वेन निर्दिश्यते । यथाच् प्रत्यन्वव- पूर्वात् सामलोन इति(३।४।७५) । ततश्च सामादेव समासान्ताः प्रत्यया विज्ञा- स्यन्ते । तत् किं समासग्रहणेन ? यत्रैतदुभयं नास्ति यथा ऋपूरन् धूःपथा- मानक्ष इति (५।४।७४) तदर्थ समासान्तग्रहणं क्रियते । अन्तशब्दोऽयं सामीप्य- वचनीऽप्यस्ति । यदि तस्ये हग्रहणं स्यात् प्रत्ययपरत्वेनैव डजादीना सामीप्यस्य सिद्धवादन्तशब्दोऽनर्थकः स्यादिति मत्वाह अवयववचनोऽयमन्तशब्दो गृह्यत इति दर्शयन्नाह अवयव इति । अस्य पायेण वृत्तिं कर्तुमाह एकदेशा इति । एकदेशशब्दमिहाश्रयता प्राक्समासविधेः समासादुत्तरपदात् वक्ष्यमाणाः प्रत्यया भवन्ति । पश्चात् समास इलु तम् भवति । एवं हि ते समासस्यैकदेशा भवन्ति यदि प्राक् समासत्तेः स्यात् । समासान्तान् कला पश्चात् तदन्तेन समासः क्रियते । एवञ्च तैः सह समाससंज्ञा भवतीत्युपपद्यते डजादीनां समासावयवत्वम् । अतश्चैतदेवं विज्ञेयम् । योऽभिमन्यते समासे कृते डजादिभि भवितव्यमिति तस्य न कपीत्यत्र (७।४।१४) यद वक्ष्यति वृत्तिकारः समासार्थे युत्तरपदे कपि कृते पश्चात् समासेन भवितव्यमिति तबिरुध्यते । ननु च समासादुत्तरपदाड् डजादिषु कृर्तषु पश्चात् तदन्तेन समासः क्रियत इत्यस्मिन्नपि पक्षे समानो दोषः । यतः पथो विभाषेत्येवमादिषु (५।४।७२) नञः परो यः पथिशब्दस् तदन्तात् तत्पुरुषादिभाषा समासान्तो भवतीत्येव- मादयो निर्देशा विरुध्यत एव । नैतदस्ति । तदविरोधस्य ड्याप्रातिपदिकादि- त्यत्र (४।१।१) प्रतिपादितत्वात् । तद्ग्रहणेन ग्टह्यन्त इति । तच्छब्देन समास: प्रत्यवमृश्यते। समासावयवले सति तेषामपि तदनुप्रवेशो भवति। अतस्ते न्यासः। समासग्रहणेन ग्रान्त इति । अथ समासावयवत्वे प्रत्ययस्य किं प्रयोजनमित्याह प्रयोजनमित्यादि। अधिराजमुपराजमिति। यथाक्रमं विभक्त्यर्थे सामीप्ये- ऽव्ययीभावः । अव्ययीभावे शरत्प्रभृतिभ्यः (५।४।१०७) । अनश्चेति (५।४।१०८) टजन्तस्याव्ययीभावग्रहणेन ग्रहणानाव्ययीभावादतोऽम् त्वपञ्चम्या इति (२।४।८४) विभनेरलुगमन्तभावश्च भवति । हे पुरी समाहृते इति तद्धितार्थो- त्तरपदसमाहारे चेति (२।१,५१) समासः । स च संख्यापूर्वी द्विगुरिति (२।१।५२) द्विगुसंज्ञः । ऋक् पूरब धूः पथामि (१।४।७४) त्यकारप्रत्ययान्तस्य हिगुग्रहणेन ग्रहणादकारान्ताद् दिगोरिति (४।१।२१) डीप सिद्धो भवति । कोशनिषदिनीति। कोशश्च निषञ्चेति समाहारबन्दः। इन्हाचुदषहान्तांत समाहार इति (५।४।१०६) टच । तस्य इन्दग्रहणेन ग्रहणात् कोशनिषदमस्या अस्तीति इन्दीपतापगात् (५।२।१२८) प्राणिस्थादिनिर्भवति । ऋन्नेभ्यो डीबिति (४।१॥५) डीम्। स्रक्वचिनोति । पूर्वेण तुल्यम् । विधुरः प्रधुर इति । विगतो धुरः प्रगती धुर इति कुगतिप्रादय इति (२।२।१८) प्रादितत्- पुरुषसमासः। पूर्ववदकारस्येह तत्पुरुषग्रहणेन ग्रहणात् तत्पुरुष तुल्यार्थ- हतीयेत्यादिना (६।२।२) पूर्वपदप्रकृतिस्वरः सिद्धो भवति । पूर्वपटं पुनरत्र निपात आधुदात्तः । असति तु समासान्तले प्रत्ययखरेणान्तोदात्तता स्यात् । उच्चैधुरो नौच्चैधुर इति। उच्चैधूरस्येति । नौचैधूरस्येति बहुव्रीहिः। पूर्ववद- तस्य बहुव्रीहिग्रहणेन ग्रहणाद् (६।२।१) बहुव्रीही प्रकृत्या पूर्वपदमिति पूर्वपदप्रकृतिस्वरो भवति । पूर्वपदप्रकृतिस्वरस्त्विहान्तोदात्तः । सनुतरुच्चैस् नीचैम् शनैस् ऋधक् ऋते युगपत् आरात् पृथगित्येत सनुतर- प्रभृतयोऽन्तोदासाः । खरादिषु पाठात् । न पूजनात्। सुराजातिराजति। शोभनो राजा। अतिशयितः राजति विग्राह्य कुगतिप्रादय इति (२।२।१८) समासः। सुगौरिति पूर्ववत् समासः । गोरतधितलुकीति (५।४।५२) टच् प्राप्नोति । अस्मादचनान भवति। परम- परमगव इति । सन्महदित्यादिना (२।१९६१) समासः । सुसकथ इति । बहुव्रीही सक्थ्थक्षणोः स्वाङ्गात् पजिति (५।४।८३) षच् । कारप्रत्ययः । ६६॥ राजः।

( ५४ )। किमः नेपे। किंगजेति। निन्दितो राजेति विगृह्य किं क्षेप इति (२।११६४) समासः। किराज इत्यत्र प्रश्ने किंशब्दः । न क्षेपे। षष्ठीसमासः । ननु लक्षणप्रति- पदीक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति (प, ११४) प्रतिपदोक्तो यः किमः समासः किं क्षेप इत्यनेन (२।११६४) विहितः स एव ग्रहीष्यत इति क्षेपग्रहण- मनर्थकम् । एवं तहि क्षेपग्रहणेनैतदेव ज्ञापयति । इयं परिभाषा नावतिष्ठत इति । तेन बहुव्रीहावपि प्रतिषेधः सिद्धो भवति । निन्दिता धूरस्य किन्धुरं शकटम् । निधुरं शकटमिति । ७१। नञ स्तत्पुरुषात् । अराजेति। तत्पुरुषोऽयम् । अनुचो माणवकः। अधुरं शकटमिति । हावपि बहुव्रीही। पूर्ववदकारः । ७२। पथो विभाषा । अपथमित्यत्र पूर्ववदकारः। अपथं नपुंसकमिति ( २।४।३०) नपुंसक- लिङ्गता। ७३ । बहुव्रीहौ संख्येये इजबहुगणात् । बहुव्रीहाविति सुबव्यत्ययेन पञ्चम्यर्थे सप्तमी। संख्ययाव्ययासनेत्यादिना (२।२।२५) यो बहुव्रीहिस् तस्येदं ग्रहणमिति । तस्यैव संख्येये वत्तिः । यत्तहि वार्थ वर्तते हिताः पञ्चषा इति यश्च सुजथै विदशा स्त्रिदशा इति तत्र न प्राप्नोति । नैष दोषः । तावपि संख्येये वर्त्तत एव । संख्येयतयैव वार्थस्य सुज- र्थस्य चाभिधानात् । दशानाञ्च समीप उपदशाः । विंशत: समोपे उपविंशाः । ति विशर्डितीति तिलोपः (६।४।१४२) । योरप्यकारयोरतो गुणे (६।१।१७) पररूपत्वम् । दशानामासन्ना आसन्नदशाः। दशानामदूरा अदूरदशाः । दशानामधिका अधिकदशाः। द्वौ वा त्रयो वा हिताः । पञ्च वा षड वा पञ्चषाः । सर्वत्र संख्ययाव्ययासन्नेत्यादिना (२।२।२४) बहुव्रीहिः। चित्र- गुरिति । गोस्त्रियोरुपमजनस्येति (१।२।४८) इखः । ननु च नजिवयुक्त- न्यासः। न्यायेन बहुगणप्रतिषेधात् तत्सदृशविज्ञानेन संख्योत्तरपद एव बहुव्रीहि विज्ञास्यते । एवञ्च चित्रगुप्रभृतिषु प्राप्तिरेव नास्तीति किं संख्येयग्रहणेन ? स्यादेतदेवं यदि बहुशब्दः संख्येयपदमेव स्यात् । स च वैपुल्यवचनोऽप्यस्ति । तेनासति संख्येयग्रहणे संख्योत्तरपदग्रहण न स्यात् । उपबहवः । उपगणा इति। पूर्ववद् बहुव्रीहिः। अनेत्यादि। उपगणा इत्यत्र सत्यसति वा डचि रूपं प्रति विशेषो नास्तीति। स्वर तु विद्यते। डचि हि सत्यन्तोदात्तत्व स्यात् । तस्मिन्नसति पूर्वपदप्रकृतिभावेनाद्युदात्तं भवति । संख्याया इत्यादि उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्पुरुषस्य संख्यावाचि यदुत्तरपदं ततो डचः प्रतिपादनं कर्तव्यमित्यर्थः । तत्नेदं प्रतिपादनम् । संख्यायाश्च गुणान्ताया (५।४।५८) इत्यतश्चकारोऽनुवर्तते । स चानुक्तसमुच्चयार्थः। तेन संख्याया स्तत्पुरुषस्य डज् भविष्यतीति । निस्त्रिंशाद्यर्थमिति । श्रादिशब्दः प्रकारे । निस्त्रिंशा इति । कुगतिप्रादय इति (२१२।१८) तत्पुरुषः । डचश्चित्करण- मन्तोदात्तार्थम् । अन्यथा हि प्रत्ययस्य समासैकदेशत्वात् प्रत्ययम्वरो बहुव्रीहि- स्वरेण बाध्यते । ! ७४। ऋक्पूरबधःपथामानक्षे । सामर्थ्यादिति। यस्य येन सम्बन्धोऽस्ति तत् तस्य विशेषण भवति । धुर एव चाक्षेण सम्बन्धोऽस्ति । नेतरेषाम् । अतः सामर्थात् तस्यैवानक्ष इत्येतदु विशेषणं विज्ञायते । न ऋगादीनाम् । अनक्ष इति च षष्ठाथ सप्तमो सुव्यत्ययेन । अतएवाह अनक्षसम्बन्धिनीत्यादि। अक्षण सम्बन्धो ऽवयवावयविलक्षण: सोऽस्या अस्तीत्यक्षसम्बन्धिनी। सा धूर्यस्यां तस्यां न भवति । अथैवं कस्मान्न विज्ञायते ? अक्षे ऽभिधेये न भवतीति । अशक्यमेवं विज्ञातुम् । एवं हि विज्ञायमान इहेव प्रतिषेधः स्याद् दृढ़ा घरस्थाक्षस्य दृढ़धरक्ष इति । इह तु न स्यात् । अक्षस्य धूरक्षधरिति । एवं तहि विज्ञायते । अक्षे पूर्वपदे न भवतीति । एवमप्यशक्य विज्ञातुम् । तथाह्येवं विज्ञायमान इहैव प्रतिषेधः स्यादक्षरिति । इह तु न स्यात् । दृढ़धूरक्ष यथा वृत्तिकारण व्याख्यातं तथोऽभयत्रापि भवति । अक्ष- इति।

Alb ( ५४ )। १६८ सम्बन्धिनी या धू स्तदन्तत्वात् समासस्य । अईर्च इति। ऋचोऽईमित्यर्फे नपुंसकमिति (२।२।२) समासः । अईर्चाः पुंसि चेति (२।४३१) नपुंसक लिङ्गता च । बढच इति । बह ऋचोऽस्य सन्तीति बहुव्रीहिः। ललाटपुर- मिति । षष्ठीतत्पुरुषोऽयम् । अथवा ललाटं पूरिवेत्युपमितं व्याघ्रादिभि- रित्यादिना (२।११५६) समासः । नान्दीपुरमिति । षष्ठीसमासः । यद्यप्य- कारान्तेन पुरशब्दन समासे कृत एतत् सिध्यति तथापि व्यञ्जनान्तेन पूःशब्देन यदि समासः क्रियते तदा व्यञ्जनान्तस्य श्रवणं मा भूदित्येवमर्थ पुरोग्रहणम् । होपमिति । अन्तरीपमिति। समीपमिति। हिर्गता आयो- ऽस्मिन्नन्तर्गता आपोऽस्मिन् सङ्गता आपोऽस्मिन्नेति बहुव्रीहिः। अन्तरुप- सर्गेभ्योऽप ईदितीत्त्वम् (६।३।०७। राजधुरेति । षष्ठीसमासः । महाधुर इति बहुव्रीहिः। आन्महत इत्यात्त्वम् (६।३।४६)। स्त्रियाः पुंवदित्यादिना (६।३।३४) पंवद्भावः। स्थलपथः । जलपथ इति । षष्ठोसमासः । सप्तमीति (२।१।४०) योगविभागात् सप्तमीसमासो वा । ऋगन्तस्य यो बहुव्रोहिन्ज- पूर्वपदस्तस्य माणव एवाभिधेये प्रत्यय इष्यते। यो बहुपूर्वपदो बहुव्रीहि * गन्तम् तस्य चरणाख्यायामेवेष्यत इति दर्शयति । अनुचो माणवको ज्ञेय इत्यादि । एतच्च पथो विभाषेत्यती (५।४।७२) विमाषाग्रहणानुवृत्तव्यवस्थित- विभाषात्वञ्चोपलभ्यमिति वेदितव्यम् । अतः । बढक्क इति । शेषादिभाषेति कम् । चोः कुरिति कुल्व (८।२।३०) चकारस्य ककारः । ७५। अच् प्रत्यन्ववपूर्वात् सामलोम्नः। प्रतिसाममिति । प्रतिगतं साम प्रतिसामम् । प्रादिसमासः। प्रतिगतं वा सामास्येति बहुव्रीहिः । गतशब्दो गतार्थवाद वृत्तौ न प्रयुज्यते । अथवा साम प्रतीति यथार्थे ऽव्ययं विभतीत्यादिना (२।११६) ऽव्ययीभावः । अनुगतं सामत्यनुसामम् । प्रादिसमासः। अनुगतं सामानेनेति बहुव्रीहि वा । अवसाममिति । पूर्वेण तुल्यम् । अनुलोममित्यादौ पूर्वेण तुल्यम् । अनुलोम- मित्यादि। पूर्ववत् प्रादिसमासादयो वेदितव्याः। कृष्णोदक्पाण्डुपूर्वीया इत्यादि। कृष्णोदक्पाण्डुशब्दाः पूर्वे यस्या भूमे स्तस्या अच्प्रत्ययः स्मृतः । २२ १७० न्यासः। कृष्णा भूमिरस्मिन् देशे कृष्णभुमो देशः । उदीची भूमिरस्मिन् देश उदग. भूमः। पाण्डुभूमिरस्मिन् पाण्डुभूमः । गोदावर्थ्याश्च नद्याश्चाच्प्रत्ययः स्मृतः। ते चेन्नदीगोदावथ्यौँ संख्याया उत्तरे भवतः । पञ्चाना गोदावरीणां समाहारः । नदीभिश्चेति (२।१।२०) समाहारऽव्ययीभावः । पञ्चगोदावरम् । पञ्चनदम् । भूमेरपीत्यादि । न केवलं नदीगोदावरीभ्यामपि तु भूमेरपि संख्यापूर्वाया इष्यते। विभूम इत्यादौ सर्वत्र बहुव्रीहिः । तदित्यादि। एतत् कृष्णभूमाद्यपि योगविभागं कृत्वा ऽचार्य्याः साधयन्ति । ७६ । अक्षणोऽदर्शनात् । प्रदर्शनादिति प्रतिषेधः क्रियते । कवराक्षंगवाक्षमिति रूढ़िशब्दावेतौ । नावावयवार्थे ऽभिनिवेशः कार्यः । कवगतं गवाक्षमिति न सिध्यतीत्यभि- प्रायः। स्यादेतत् । दर्शनप्रतिषेधात् सिइमेतत् । दृश्यतेऽनेनेति । दर्शनम् । नच कवराक्षेण दृश्यते । नापि गवाक्षेणेत्यत आह तेनापीत्यादि। दर्शनशब्दोऽयं चक्षुषि प्राण्यड्ने प्रसिद्धः । तथाहि दर्शनं प्रयुक्ते । चक्षुर्ग्राह्य- मपि। तस्मात् प्रसिद्धिवशेन चक्षुष्यायो दर्शनशब्दः । स इहानीयते। ७७। अचतुरविचतुरसुचतुरस्त्रीपंसधेन्वनडुहर्क साम- वाङ मनसाक्षिभुवदारगवोर्वष्ठीवपदष्ठौवनक्तन्दिवरात्रिन्दिवाह- दिवसरजसनिःश्रेयसपरुषायुषद्यायुषत्रायुषर्ग यजुषजातोचम- होमवृद्धोक्षोपशुनगोष्ठश्वाः । समासे व्यवस्थापीत्यादि। समासव्यवस्था समामनियमः। कचिद बहुब्रीहिरव क्वचिद् इन्द इत्येवमादिका निपातनादेव वेदितव्या। भेदस्यान्यस्याभावात् । अपिशब्दादन्यदपि टिलोपादि कार्य निपातनादेव वेदितव्यम् । सप्तम्यर्थतयोरित्यादिना हि सप्तम्यर्थत्तयोरव्यययोराधेय. प्रधानयोः समासो विद्यते । तस्मानिपातनादेव च भवतीति वेदितव्यम् । अपिशब्दात् समासोपि निपातनादेव । अहर्दिवमिति । रोऽसुपौति (८।३।१६) नकारस्य रेफः । ननु चेत्यादि। अर्थगत्यर्थों हि शब्दप्रयोगः। व्यवस्था- ( ५/४ )। । पझ्याणाञ्चैकेनैवार्थस्योक्तत्वात् द्वितीयस्य प्रयोगो न सम्भवति । अहर्दिवा- शब्दो पायौ । तत् कथमनयोईन्दः १ न कथञ्चिदिति भावः । वीसा- द्योतनार्थमुक्तास्यापि प्रयोगो न विरुध्यत इति मन्यमान आह वीप्साया- मित्यादि। चार्थ उत्पद्यमानो इन्दो वौसायां न प्राप्नोतीत्यतो निपात्यते । एकोऽव्ययीभावः । साकल्यमिति। अव्ययं विभक्तीत्यादिना (२।११६)। सरजसमिति। अव्ययीभावे चाकाल इति (६।३।८१) सहस्य सभावः । निःश्रेयसमिति। प्रादिसमासः । निश्रेयस्कमिति। निश्चितं श्रेयोऽनेनेति बहुव्रीहिः। शेषादिभाषेति (५।४।१५४) कम्। ऋग्यजुरुन्मुग्ध इति । य उम्म ग्धत्वाचो यजूंषि मन्यते स ऋग्यजुरिति बहुव्रीहिणोचते। ततो- व्ययीभाव इति । अव्ययं विभक्तीत्यादिना (२।१।६) ! सामीप्ये टिलोपाभाव इत्यादि । उपशुन इत्यत्र न स्तद्धित इति (६।४।१४४) टिलोपाभावो निपात- नादेव । श्वयुवमघोनामतधित इति (६।४।१३३) तडितादन्यत्र संप्रसारण- मुच्यमानं तद्धित न प्राप्नोतीति तदेव निपातनादेव भवतीति। चतुरोऽच्- प्रकरण इत्यादि। त्रिशब्दादुपशब्दात् परो यश्चतुरशब्दस्तस्मादच उपसंख्यानं प्रतिपादनं कर्तव्यमित्यर्थः । तत् पूर्वमेव योगविभागमाश्रित्य कर्तव्यम् । वयो वा चत्वारो वा त्रिचतुरा इति । चतुणी समीप उपचतुराः । संख्ययाव्ययासन्नेत्यादिना (२।२।२५) बहुव्रीहिः । तत्र बहुव्रीहौ संख्येये डजबहुगणादिति (५।४।७३) डचि प्रासेऽच् विधीयते । ७८। ब्रह्महस्तिभ्यां वर्चसः । ब्रह्मवर्चसम् । हस्तिवर्चसमिति । षष्ठीसमासौ। वर्चःशब्दोऽयं दीप्ति वचनः। पल्यराजशब्दाभ्याञ्चेति वक्तव्यम् । पल्यशब्दाद्राजशब्दाच परो यो वर्चस्शब्दस्तस्माचाज्भवतीत्येवमर्थरूपं व्याख्येयमित्यर्थः । व्याख्यानञ्चास्य पूर्वमेव योगविभागमाश्रित्य कर्त्तव्यम् । ७६ | अवसमन्धेभ्यस्तमसः । अवतमसमिति। अवहीनं तमसा। अवहीनं वा तम इति प्रादि- समासी वायम् । एवं मङ्गत तमसा। सङ्गतं तमः। सन्तमसम् । अन्ध १७२ न्यासः॥ करोतीति णिच् । तदन्तात् पचायच् । अन्धयतीत्यन्धम् । अन्धञ्च तत् तमश्चेति अन्धतमसम् । यदन्धं तमः करोतीति तदेवमुच्यते । ८०। श्वसो वसीयःश्रेयसः । खोवसीयम् । श्वःश्रेयसमिति । श्वःश्रेयसमिति। खो वसीयः स्वः श्रेय इति बिग्राह्य मयूरव्यं सकादित्वात् समासः । स्वभावाञ्चेत्यादि। यद्यपि खःशब्दोऽन्यत्र कालविशेष वर्तते तथापीह समास उत्तरपदार्थस्य प्रशंसां स्तुतिमाशीविषयां प्रतिपादयति । कुतः ? स्वभावात् । शब्दानां ह्याभिधानं खाभाविकम् । तत्र स्वभाव एवात्र हेतुः। खोवसीयसमित्यस्यैवाय पर्याय इति । अस्येत्यनेन च श्वःश्रेयसमित्येष शब्दो निर्दिश्यते । ८१ । अन्ववतप्ताद्रहसः । अनुरहसमिति । रहाशब्दोऽयमप्रकाशे वर्तते। अनुगतं रहसा ऽनु- गतं रह इति वा प्रादिसमासः । अनुगतं रहोऽस्मिन्निति बहुव्रीहि । अव- रहसमिति। अवहीनं रहसा ऽवहीनं रह इति वा प्रादिसमासः । अवहीनं वा रहोऽस्मिन्निति बहुव्रीहिः । तप्तञ्च तद्रहश्चेति तप्तरहसम् । विशेषण- समासः। यदुत्पन्नं रहो लोके न केनचिदवगम्यते तत् तप्तरहसमित्युच्यते । तप्तमिव तप्तम् । यथैव ह्यग्निना तप्तं न केनचिदवगम्यते तथेदमिति । ८२, प्रतेकरसः सप्तमीस्थात् । सप्तमीस्थादिति । सप्तम्यां तिष्ठतीति सप्तमीस्थः। सुपि स्थ इति (३।२।४) कप्रत्ययः । यश्च सप्तम्यर्थे वर्तते । एवं स सप्तमीस्थी भवतीत्याह सप्तम्यर्थे वर्चत इति । प्रतिगतमुरः प्रत्युर इति । अत्यादयः क्रान्ताद्यर्थे द्वितीययेति (२।२।१८, वा) समासः । ३। अनुगवमायामे । आयाम ऽभिधेये। आयामो दैय॑म् । मत्वर्थीयाकारान्तश्चायम् । आयाम चेत्यभिधेय इत्यर्थः। अन्यथानुगवं यानमिति सामानाधिकरण्यन स्यात् । यानमायामः । अनुगवं यानमिति । गावो यथा तथा यानमायात- (५४)। मित्यर्थः। गवां पश्चादिति । अव्ययं विभक्तीत्यादिनाव्ययीभावः (२१११६)। पश्चादर्थे च। पूर्ववद् गोशब्दस्य हवः । अनुशब्दात् प्रत्यये विधातव्ये यदनु- गवमिति निपातनं तत्प्रसिधुप्रयसंग्रहार्थम् । तेन यद् गवा वाह्य गोभिश्च तुल्यायाम तत्रैव भवति । नान्यत्र । ८४। विस्तावा विस्तावा वेदिः । टिलोपस्तावतीशब्दस्य । यस्येति लोपे कृते (६।४।१४८) तावच्छब्दस्य टिलोपो निपात्यते । समासश्चेति वित्रिशब्दयोर निपात्यते। सापदं तु यावती- शब्दापेक्षत्वात् । यावत् प्रकृतावित्यादिना निपातनस्य फलं दर्शयति । प्रकृतिविरुतिशब्दो कार्यविशेषवचनौ। कर्मविशेषे हि कश्चिद यागाख्यः प्रतिशब्देनोचत । कश्चिदिकतिशब्देन । ८५। उपसर्गादध्वनः । प्राध्वमिति । प्रादिसमासः। तत्र प्राध्वमित्यत्यादयः क्रान्ताद्यर्थे द्वितीय- येति (२।२।१८,वा) समास. 1 निष्क्रान्त मध्वन इति । निरादयः क्रान्ताद्यर्थे पञ्चम्येति (२।२।१८, वा)। अत्यध्वमिति। प्राध्यमित्यनेन तुल्यमेतत् । उप- सगंश्चात्र न गत्युपलक्षणम् । कुतएतत् ? क्रियायोगाभावात् । ८६ । तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः। मात्रची लोप इति। प्रमाणे इयसजित्यादिना विहितस्य । निरगुल- मिति । निरध्वमित्यनेन तुल्यमेतत् । अत्यङ्गुलमिति। एतदम्यत्यध्वमित्यनेन तुल्यम् । पञ्चाङ्गुलिरिति बहुव्रीहिः । ८७। अहःसर्वैकदेशसंख्यातपण्याच राव। अहहणं इन्दार्थमिति। इष्टिरियम् । न तत्पुरुषार्थम् । मुख्यार्थे तत्- पुरुषस्यासम्भवात् । इन्दार्थे पदार्थ प्रत्याश्रयः । तथाहि यद्यहर्गुणा रात्रिरहः शब्देनोचते रात्रिगुणं वाहो रात्रिशब्देन गोण्या कल्पनया तदाहश्च रात्रि- श्चेति समानाधिकरणस्तत्पुरुषः सम्भवत्येव । तस्मादिष्टिरियम् । एतावदुक्तं स्याद् हन्द इथत इति । अत्र च ज्ञापक हेमन्त शिशिरावहोराने चच्छन्द- न्यासः। इति । अत्यध्व- अथ प्रकृत सीति (२।४।२८)। इन्हे समासान्तस्य रात्रिशब्दस्य निपातनम् । अहोरात्र रावाहाहाः पुंसौति (२।४।२८) पुंलिङ्गता। अहनिति (८।२।६८) रूपरात्रिरथन्तरेषूपसंख्यानमिति (८।२।६८, वा) नकारस्य रुत्वादु गुणः । सर्वरात्र इति । पूर्वकालैकसर्वेत्यादिना (२।१।४८) समानाधिकरणस्तत् पुरुषः। हिरान इति । तद्धितार्थोत्तरपदेत्यादिना (२।१ ५१) समाहार द्विगुः । हिगुश्चेति (२।१।२३) तत्पुरुषसंज्ञा। अतिरात्र इति । मित्यनेन तुल्यमेतत् । नौरात्र इति | रो रिति (८।३।१४) रेफलोपः । लोपे पूर्वदीर्घः (६।३।१११)। ८८। अहोऽङ्ग एतेभ्यः । राजाह सखिभ्यष्टजिति (१।४।८१) टच्प्रत्ययं वक्ष्यतीति । एवाचि कस्मादादेशी न विज्ञायते ? अशक्यस्तत्रायं विज्ञातुम् । शब्दान्तात् तत्पुरुषात् केनचिदविहितः । तत् कथमादेशस्य निमिक्तं स्यात् । अथाजिति (५।४।७५) योगविभागेनाविधीयत ? एवमप्येतद वचनमनर्थ के स्यात्। अचि कृत ऽल्लोप (६।४।१३४) इत्यनेनाङ्गादेशस्य सिद्धत्वात् । टिलोपः प्रामोतीति मन्तव्यम् । अगष्टखोरवेति (३।४।१४५) नियमात् । तस्मादश्येव टिलोपापवादोऽयम् । आदेशोऽयमयुक्तः । किं पुनस्तत् सामर्थम् ? यतोऽहःशब्दः पूर्ववेन नाश्रीयत इत्याह नाहःशब्दादित्यादि । हाङ्ग इति । इयोरङ्गोभव इति तद्धितार्थ इत्यादिना (२।२।५१) समासः । तत्रभव इत्यण (४।३।५३)। तस्य द्विगीलगनपत्य इति (४।१।८८) लुक् । अत्यत इति । अत्यध्ववत् समासः। निरज इति । अत्रापि निरध्ववत् समासः। सर्वाह्न इति विशेषणसमासः । प्रतिषेधं वक्ष्यतीति । उत्तमैकाभ्याचेति (५।४।२०)। न संख्यादेः समाहारे । यह इति । अष्टखोरवेति (६।४।१४५) टिलोपः । ६०। उत्तमैकाभ्याञ्च। पुण्याहमिति । विशेषणमित्यादिना (२।११५७) समामः । एकाह इति । ८॥

(५४)। अत्रापि पूर्वकालैकेत्यादिना (२।१।४८)। कथं पुनरुत्तमैकाम्यामित्युच्यमाने पुण्यशब्दात् प्रतिषेधो लभ्यत इत्यत आह उत्तमशब्दोऽन्त्यवचन इत्यादि । अहः- सर्वेकदेशेत्यादौ (५।४।८७) सूत्रे पुण्यशब्दस्यान्ते निर्दिष्टत्वात् । अन्त्य इति । उत्तमशब्दोऽपि प्रतिषेधेयं इहान्त्यवचन उपात्तः। तस्मात् पुण्यशब्दमाचष्टे । अथ पुण्यग्रहणमेव कस्मान्न कृतम् । लघु ह्येवं सूत्रं भवतीत्याह पुण्यग्रहणमेव. त्यादि । वैचित्रं हि सूत्रकरिष्यते । तच्चोत्तमग्रहणे सति सम्पद्यते । यस्माद वैचित्वार्थमुत्तमग्रहण कृतम् । न पुण्यग्रहणम् । केचिदित्यादि। पुण्यग्रहणे कर्तव्ये यदुत्तमग्रहण कृतं तत् प्रयोजनमुत्तमशब्दस्यापि संख्यातस्य प्रतिषेध- प्रतिपत्तियथा स्यादित्येवं केचिद्दर्णयन्ति । भवति तत्सामीप्यात् ताच्छब्दधम् । गवायां घोष इत्यादि। तम्भाच्छ क्त उत्तमशब्द: सामीप्यादुपोत्तमशब्दमभि- धातुमिति तेषामभिप्रायः। तेनेत्यादिना प्रतिषेधस्योपोत्तमशब्दप्रतिपत्तेः फलं ! । दर्शयति । १। राजाहःसखिभ्यष्टच । परमाहः । उत्तमाहः। सन्महदित्यादिना (२।१।६१) कर्मधारयः । मद्र- राज इति षष्ठीतत्पुरुषः। कथं पुनाराजशब्दग्रहणे राजीशब्दस्य प्राप्नोतीत्यत आह लिङ्गविशिष्ट परिभाषयेत्यादि। प्रातिपदिकग्रहणे लिङ्गविशिष्ट स्थापि ग्रहणं भवतीत्येषा (प,७२) लिङ्गविशिष्टपरिभाषा । लघुक्षरस्येति सवर्णदी| ऽर्थः प्रयोजनं यस्य प्रथमप्रयोगस्य स तथोकः । अत्र लघुक्षरं पूर्व निपततीति सख्युरो वा पूर्वनिपाते प्राप्ते योऽहःशब्दस्य परनिपातः स राजशब्दस्य सवर्ण- दीर्घार्थः । प्रयोगस्तु क्वचिन्नतज्ज्ञापयति । अकारवत एव राजशब्दाज भवति। ईकारान्तान। ईकारस्याकारण सवर्णदीर्घान्तस्यासम्भवात् । ४२। गोरतवितलुकि । पञ्चगवमिति । तद्धितार्थेति (२।११५१) समाहारे हिगुः । पञ्चगुरित्यत्रापि तद्धितार्थे । राजगवमिति । षष्ठीसमानः। सुपो धातुप्रातिपदिकयोरिति (२।४।७१) सुपो लुक् । राजगवीयतीति । सुप आत्मन: क्यच् । (३।१।८) सुब्- लुक् । काचि चेतीत्वम् (७।४।३३) । अस्त्यत्र लुक । स तु सुपः । न तद्वितस्य । ।

१७६ न्यासः। परव्यत्ययेनान पञ्चम्यर्थे सप्तमी । कुत एतत् ? पञ्चम्यन्तेन गोशब्देन सामाना- धिकरण्यात् । ६३। अग्राखायामुरसः। स चेदुरःशब्दोऽग्रस्थाख्या भवतीत्यनेन दर्शितम्। अखोरसमिति षष्ठी- समासः । अश्वानां प्रधानमित्यर्थः । हत्युरसम् । रथोरसमिति । ६४ । अनोश्मायःसरसाञ्जातिसंजयोः। उपानसमिति । उपगतमन इति प्रादिसमासः । महानसमिति । महदन इति सन्महदित्यादिना (२।१।६१) कर्मधारयसमासः। अमृताश्मः पिण्डाश्म इति विशेषणसमासौ। एवं कलायसं लोहितायसमिति ! मण्डू कसरसं जल- सरसमिति । षष्ठीसमासौ। सदन इति महानमवत् समासः । ६५। ग्रामकोटाभ्याञ्च तक्षाः । बहनां साधारण इत्यर्थ इति । ग्रामशब्दस्य जनपदसमुदाये वृतेः । कौटतक्षेति । पूर्ववत् समासः । अतः शुनः। अतिश्व इति । प्रादिसमासः। ६७। उपमानादप्राणिषु । आकर्षख इति । अत्र खा उपमानम् । अश्वा (H) लोष्ट इति । अनावशब्दोऽप्राणिनि लोष्टे वर्तते । नतूपमानम् । वानरखेति । उपमितं व्याघ्रादिभिरिति (२१११५६) समासः । अत्र प्राणिनि वानरखेति शब्दो वर्तते। ८। उत्तरमृगपूर्वाच्च सक्थः । उत्तरसक्थमिति । उत्तरं सकथन इति । पूर्वापरादिसूत्रेण (२।१।५८) समासः। अथवोत्तरं सक्थीति विशेषणसमास, । मृगसक्थमिति षष्ठी- समासः। पूर्वसमिति । उत्तरसक्थमित्यनेन तुल्यमेतत् । फलकसकथ मिति विशेषणमित्यादिना (२।११५७) समासः । ६८ (H) अश्वेति तु मजस्तत्पुरुषादित्यनेन (१।४।७१) समासान्तामहमिद पदम् । तमानि.श्वा लोष्ट इति प्रत्युदाहत्तव्यम्।

(५४)। १७७ । नावो हिगुः। हिनावम्। त्रिनावमिति। तद्धितार्थोत्तरपदेत्यादिना (२।१५) हिगुः । दिनावधन इति । हे नावौ धनं यस्येति बहुव्रीही कृते पूर्वयोः पदयो स्तेनैव सूत्रेणोत्तरपदे हिगुः । पञ्चनावप्रियमिति । पूर्वेण तुल्यमेतत् । हिनाव- रूप्यम् । हिनावमयमिति । तेनैव सूत्रेन तहितार्थे द्विगुः । पूर्ववद्रूप्यमयटौ। राजनौरिति । षष्ठीसमासः । पञ्चनौरिति । आहा॑यस्य ठकोऽध्यपूर्वेत्यादिना (५।१।२८) लुक् । १००। अर्वाच्च । अर्धनावमिति । ननु च परवल्लिङ्ग इन्ह तत्पुरुषयोरिति (२।४।३६) स्त्रीलिङ्गेनान भवितव्यमिति । अत प्राह परवल्लिङ्ग न भवतीत्यादि । १०१। खायाः प्राचाम् । दिखारीति। त्रिखारीति । पूर्ववदुपसर्जनइखः । कचिदर्घखारीति पाठः । अत्रैचोरुपसर्जनङ्गखले कृते सर्वतोऽक्तिन्नादित्येक इति (४।१।४५,वा) बह्वादिपाठान् डौष । १०२ । दिविभ्यामञ्जलेः। हाभ्यामचलिभ्यां क्रीतो हाञ्जलिरिति । पूर्ववदा यस्य लुक् । हाञ्जलि- प्रिय इति । पूर्ववदुत्तरपदे दिगुः । १०३। अन्नसन्तानपुंसकाच्छन्दसि । हस्तिचर्म इत्यादयः षष्ठीसमासाः । सूत्रामाणमिति । शोभनस्त्रामा इति प्रादिसमासः। अन्येषामपि दृश्यत इति (६।३।१३७) पूर्वपदस्य दीर्घः । हितीयैकवचनम् । सर्वनामस्थाने (६।४।८) चेत्यादिनोपधादीर्घत्वम् । अट्- कुपाङित्यादिना (८।४।२) णत्वम्। अनेहसमिति । अनेहाशब्दात् पुंलिङ्गात् षष्ठीबहुवचनम् । वावचनमित्यनुवर्तत इति शेषः । वावचनशब्देनेह प्राग्ग्रहणं विवक्षितम् । तेन विकला उच्यन्ते । प्रत्याव्यते प्रत्ययोऽनेनेति कत्वा । तदेतदुक्तं भवति। खायाः प्राचामित्यतः (५।४।१०१) प्रागग्रहणमनुवर्तत इति । ।

१७८ ग्यामः। प्रागग्रहणानुवृत्तौ तु यदिष्ट सिध्यति तद्दर्शयति । ब्रह्मसाम इति । देवच्छन्द इति । उभयत्न षष्ठीसमासः । १०४। ब्रह्मणो जानमदाखवायाम् । जानपदाखवायामिति । भावप्रधानोऽत्न जानपदशब्दः । अतएव वृत्तावाह समासन चेद् ब्रह्मणो जानपदत्वमाख्यायत इति । भवति हि भावप्रत्ययमन्तरे- पापि भावप्रधानो निर्देशः । यथा कयोस्विचनैकवचने इति (१।४।२२) । कथं पुनर्बह्मणो जानपदत्वं शक्य विशेषयितुम् ? यावतैकमिह ब्रह्म ग्रहणम् ? तेन च समासो विशेषितः । नैतदस्ति। नन्त्रेण द्वौ ब्रह्मशब्दावुचारितौ । तवैकेन समाशो विशेष्यते । अपरण जानपदत्वम् । यस्य तत्पुरुषस्य जनपद- शब्दः पूर्वपदम् । पूर्ववत् समासः । १०५। कुमहद्भ्यामन्यतरस्याम् । १०६ । इन्द्राचुदषहान्तात् समाहारे । वाक् च त्वक् च वाक्त्वचम् । शुक् च त्वक् च चुक्त्वचम् । श्रीश्च सक् च श्रीस्रजम् । वाक् च जच वागूर्जम् । समिच दृषन समिट्टषदम् । सम्पच्च विपञ्च सम्पदविपदम् । वाक् च विट च वाविषम्। वाक् च विपुट् च वाविप्रुषम् । छत्रञ्च उपानवच्छतोपानहम् । धेनुश्च गोधुक्च धेनुगोदुहम् । पञ्चवागिति। समाहारे दिगुः। वाक्समिदिति। धका- रान्तोऽयम् । धकारस्य झलां जशोऽन्त इति (८।२।३८) जशत्वं दकारः । वावसान इति (८१४।५६) चत्वं तकारः । १०७। अव्ययोभाव शरत्प्रभृतिभ्यः । उपशरदमिति सामीप्येऽव्ययोभावः । शरद आभिमुख्य प्रतिशरदम् । लक्षणेनाभिप्रती आभिमुख्य इत्यव्ययीभावः (२।१।१४)। उपविपाशम् । प्रतिविपाशमिति । पूर्ववत् । अत्र ये भयन्ताः पठ्यन्ते तेषां किमर्थ ग्रहणम् ? यावता भय इति (५।४।१११) वक्ष्यमाणेन तदन्तात् प्रत्ययः सिध्यतीत्यत आह ये बनेत्यादि। यद्यत्र ते न ग्योरंस्ततो भय इति (५।४।१११) विकल्पेन ( ५।४)। १७८ । टच प्रसज्येत । तस्मानित्य यथा स्यादिति । एवमथं झयन्तानां पृथग्- ग्रहणम् । जराया जरसश्चेति । जराशब्दाट टज् भवत्यव्ययोभावे जरसादेशश्च । जरायाः समीपसुपजरसमिति । प्रतिपरसमनुभ्योऽक्षण इति । अक्षिशब्दात प्रति पर सम् अनु इलेतेभ्यः परस्माट् टज् भवति । प्रत्यक्षम् । परोक्षम् । परोक्षे लिडिति (३।२।११५) निपातनादुत्त्वम् । समक्षम् । अन्वक्षम् । १०८। अनश्च । उपराजम । प्रतिराजमिति। उपशरदं प्रतिशरदमितिबदव्ययीभावः । अध्यात्ममिति । आत्मन्यधीति विभक्त्यर्थे । प्रत्यात्ममिति पूर्ववदाभिमुख्ये। १०६। नपुंसकादन्यतरस्याम् । ११०। नदीपौर्णमास्यग्रहायणीभ्यः । नदीग्रहणेन स्वरूपं ग्राह्यते । न संज्ञा। यदि संज्ञा ग्योत पौर्णमास्य- ग्रहायणीग्रहणं न कुर्थ्यात्। ननु च नियमार्थमेतत् स्यात् । ईकारान्त- स्यापि नद्योः पौर्णमास्यग्रहायण्योरेव भवतीति। तदस्ति । यद्येतत् प्रयोजनं स्यात् पौर्णमास्वग्रहायणीत्येवं ब्रूयात् । तस्मात् स्वरूपग्रहणमिति । उपनदीति । गोस्त्रियोरुपसर्जनस्येति (१।२।४८) हवः । १११ । भयः ११२। गिरेश्च सेनकस्य । अन्तगिरमिति। गिररन्तरिति विभक्त्यर्थे ऽव्ययीभावः। अन्तःशब्दो हि सप्तम्य थहत्तित्वाद् विभक्त्यर्थे वर्तते । विकल्पार्थमेव सेनकग्रहण कस्मान भवतीत्याह विकल्पोऽनुवर्तत एवेति । विकल्पार्थत्वात् । विकल्पाते वानेन सः । अन्यतरस्याग्रहणं विकल्प इत्युक्तम् । तदिह नपुंसकादन्यतरस्यामित्यतोऽनु- वर्त्तते (५।४।१०८)। तस्मात् तेनैव विकल्पस्य सिद्धत्वात् पूजार्थमेव सेनक- ग्रहणमुक्ताम् । न विकल्पार्यम् । ननु च विभाषयोईयोमध्ये नित्या विधयो भवन्तीति पूर्वस्य विधेनित्यता सम्पादयितुं विकल्पार्थमेव सेनकग्रहणं स्यात् । नैतदस्ति । यदि हि पूर्वी विधिनित्यः स्याज भयन्तानां शरत्प्रभृतिषु पाठो- १८० न्यासः। यथा ऽनर्थ कः स्यात् । भय इत्यनेनैव (५।४।१११) सिद्धत्वात्। तस्मान्न विकल्पार्थ सेनकग्रहणम् । पूजार्थमेव । ११३। बहुव्रीही सक्थ्यक्षणोः खाङ्गात् षच । अद्रवं मूर्तिमदित्यादिना पारिभाषिकं यत् स्वाङ्गं तदिह रहते । दुःश्लिष्टविभक्तीति । दुःखेन कष्टेन लिष्टाः सम्बद्धा विभक्तयो येषु तानि दुःश्लिष्टविभक्तीनि। तथाच प्रत्ययसम्बन्धेन षष्ठया भवितव्यम् । तत्पुरुषस्याङ्गुलेरिति (५।४.८६)। सक्थ्यक्षिग्रहणेन चेह तदन्तया बहुब्रीहे- विशेषयितुमिष्टत्वात् । बहुव्रीहौ यद् विभक्तिवचनं ततोऽपि तेनैव भवितुं युक्तम् । इह तु बहुव्रीहौ सप्तम्येकवचनम् । सक्थ्यक्षिशब्दाभ्यां तु षष्ठीदिवचनं सप्तमीदिवचनं वा। खाङ्गग्रहणं सक्थ्यक्ष्णोरिह समानाधिकरणं विशेषणम् । ततश्च सक्थ्यक्षिशब्दाम्यां या विभक्तिस्तविभक्तिकं समानाधिकरणविशेषण- भुपपद्यते। एवंविधविभक्तिभिः पदैः कश्चिद् दुःखेन कच्छ्रण युक्तो यामाश्रित्य विभक्तिमेवार्थ प्रतिपद्यते । तस्मात् तानि दुःलिष्टविभत्तीनि । किमर्थं पुनस्तानि पदानि कतानि ? वैचित्रवार्थम् । दीर्घसक्थि शकटम् । स्थूलाक्षिरिक्षुरिति (I)। अत्र सक्थ्यक्षिशब्दौ खान न भवतः । कश्चिदवयवस्तथैक्षोश्च तथाभिधीयते । नतु तत्राद्वं मूर्तिमदित्यादिकं स्वाग- लक्षणमस्ति । ननु च टचापि प्रकृतेन सर्वमेतत् सिध्यति । तत् किमर्थं पजिति प्रत्ययान्तरमुपातमित्याह टचि प्रकत इत्यादि । दीर्घसक्थी स्त्री। टचि डीबनुदासः स्यात् । षचि तु सति षिद्गौरादिभ्यश्चेति (४।१।४१) डोषुदात्तः सिद्धो भवति । ननु च डोप्यनुदात्त उदात्तनिवृत्तिवरेणोदात्त एव भवति । अतः खरार्थमपि नैव प्रत्ययान्तरमुपादेयमित्याह सक्थञ्चाक्रान्तादिति । विभाषोत्पुच्छ इत्यतो (६ २।१८६) विभाषेत्यनुवर्तमाने सक्थञ्चाक्रान्तादिति (६।२।१९८) विकल्पेनोत्तरपदस्यान्तोदात्तत्व विधीयते । यस्मिन् पक्ष उदास भवति तत्र डीपि परतो यस्येति (६।४।१४८) चेत्यकारस्योदात्तस्य लोपे शकटस्य (I) स्थुलाक्षिरिक्षुरित्यत्र लक्षणोऽदशनादिति (५।४.७६) भवितव्यमचा। समासान्तविधेरनित्यस्वान्नेति समाधेयम् । एवञ्च पजपि नेति चेत् स्थुलाक्षा देण्यष्टि सूक्ष्माक्षा वेण्यष्टिरिति टापि अजेय प्रत्युदाहार्य इत्ये के।

(४)। १८१ कृते ऽनुदात्तस्य च यत्रोदात्तलोप इति (६।१२१६१) डीप्युदात्तत्वेन भवि- तव्यम् । अतो नास्ति डीपि विरोधः । यस्मिन् पक्ष उदात्तं न सम्भवति तस्मिन् डीपि सत्युदात्तनिवृत्तिखरो नास्ति । उदात्तवाश्रीयते। डीषि तु सति सर्वत्रोदात्तः सिद्धो भवति । डीष्प्रत्ययस्वरणान्तोदात्तत्वात् । ११४ । अगुलेरुणि। ग्रङ्ग लमिति । हे अङ्ग ली यस्य तद। दारुणि समासार्थे मुख्याभि- रगुलिभिः सम्बन्ध स्तन नोपपद्यते । तस्मात् सामाद् धगुलीसदृशेषु दार्ववयवेष्वगुलिशब्दो वर्तमानः समास आश्रीयत इति मत्वाह अङ्गुलि- सदृशावयवमित्यादि। ननु च हे अगुली प्रमाणमस्य दारुण इत्यादौ मुख्याभिरङ्ग लिभिः सम्बन्धः । तत्र मुख्याङ्गलिभिः सम्बन्ध इति मुख्ये सम्भवति। अतो गौणस्य ग्रहणमयुक्तमित्याह यस्य वित्यादि। बहुव्रीहि- ग्रहणानुवृत्तेरिह बहुव्रीहे. प्रत्ययो विधीयते। हे अगली प्रमाणमस्येत्येकार्थ- विवक्षाया तद्धितार्थे तत्पुरुषः कर्तव्यः । तस्मिंस्तु कृते तत्पुरुषस्याङ्ग ले: संख्याव्ययादेरित्यचा (५।४।८६) भवितव्यमेव । यश्च गौणोऽङ्ग लिशब्दः स एव सामदेिव योगस्य विषय इत्युक्तं भवति । ११५। द्विविभ्यां ष मनः । अथ किमर्थ षः प्रत्ययान्तरं विधीयत ? न प्रकतः षजैव विधोयते। विकल्पेनान्तोदात्तत्वं यथा स्यात् । विभाषोत्पुच्छ (६।२।१८६) इत्यतो विभाषे- त्यनुवर्तमाने वित्रिभ्यां पादनमूधसु बहुव्रोहा (३।२।१८७) इति नकारान्तस्य मूर्धन्शब्दस्य निर्देशाद् दित्रिभ्यामुत्तरो यत्र नकारान्तो मूर्धन्शब्दस्तत्र बहुव्रीहेरन्तोदात्तत्वं पाक्षिकं विधीयते । अन्यथा इकारान्तमूर्धन्शब्द उत्तर- पदोदात्तत्वं विधीयते । कृतसमासान्तमेव निर्दिशेत् । तत्र यदि षच्प्रत्ययो विधीयते ततः पाक्षिकमन्तोदात्तत्वं बाधित्वा चित्करणसामयानित्यमन्तो- दात्तत्व स्यात् । विभाषान्तोदात्तवचनस्य तु यत्न समासान्तो नास्ति सोऽव- काशः। अस्मिंस्तु प्रत्ययान्तरसमासान्ते कृते विकल्पेनान्तोदात्तत्वं सिध्यति । ननु च नकारान्तनिर्देशान् नकारान्त एव हि मूर्धन्शब्दः । उत्तरपदे विभाषा- न्यासः। न्तोदात्तेन भवितव्यम् । तत् कथं समासान्ताद् भवेत् । नैष दोषः । वक्ष्यति यत्रापि समासान्तः क्रियते तत्रापि बहुव्रीहिकार्यत्वात् तदेकदेशत्वाच्च समासान्तोदात्तत्वं भवत्येवेति । अथ किमर्थं बहुव्रीहौ दित्रिभ्यामुत्तरो मूर्धन्- शब्दो नकारान्तः सम्भवति ? यावता नित्यं समासान्तेन भवितव्यम् । नहि सूत्रे विभाषाग्रहणमस्ति । नैष दोषः । स एव हि नकारान्तनिर्देशो ज्ञापयति विकल्पेन समासान्तो न भवतीति । ११६ । अप् पूरणीप्रमाण्योः ।। पूरणप्रत्ययान्त इति । तस्य पूरणे (५।२।४८) डडित्येवमादिना प्रकरणन ये पूरणार्थे विहितास्ते तत्साहचर्यात् पूरणशब्देनोच्यन्ते । पूरणप्रत्ययोऽन्ते येषां ते पूरणप्रत्ययान्ताः । अपि प्रधानपूरणीग्रहणमिति । अपि प्रत्यये विधातव्ये प्रधाना या पूरणी तस्या ग्रहणं कर्त्तव्यम् तत एव प्रयोगो यथा स्यात् । अन्यतो मा भूत्। कपुनरस्था, प्राधान्यमित्यत आह यनेत्यादि। यत्राभि- धेयत्वेनान्यपदार्थेन पूरण्यनुप्रविशति न केवलं वर्तिपदार्थस्यैव (J) समासा- वयवभूतस्य पदार्थस् तत्र पूरण्याः प्राधान्यम् । यया कल्याणीपञ्चमा रात्रय अत्र हि न केवलमवयवेन विग्रहः क्रियते रात्रयएव प्रत्ययेना- ख्यायन्ते । सहपञ्चमीकाः । सह पञ्चम्या समुदितो ऽन्यपदार्थः । नतु ताभिरारब्धमर्थान्तरम् । यथा कल्याणपञ्चमीकः पक्ष इति । अभिन्नावयवः समासार्थः। कि तहि ? तदर्थारब्धः समुदायः पक्षाख्यः। पूरणी तु समासावयवभूता नाभिधीयत इति । अन्यपदार्थेनानुप्रवेशादप्राधान्य- मिह तस्याः। पंवद्भावप्रतिषेधोऽयीत्यादि । न केवलमिहाप्यपि तु स्त्रियाः पुंवभाषित पुंस्कादनूडित्यादिना (६।३।३४) सूत्रेण पुंवद्भावप्रतिषेधोऽपी- न केवलमिहाप्यपि तु स्त्रियामिति प्रधानपूरण्येव ग्राह्यते । वित्यादि। अपप्रत्ययः पुंवद्भावप्रतिषेधः कल्याणपञ्चमीकः पक्ष इत्यत्र न भवति । शेषादिभाषेति (५।४।१५४) कम् । नेतुरित्यादि। उपसंख्यान- शब्दस्य प्रतिपादनमर्थः। नक्षत्रे यो नेटशब्दो वर्तते तदन्ताद् बहुव्रीहेरपः इति । त्यादि। Parmammymaraweindin (1) समासावयवभूतं मद वक्षिपदम् । तस्थार्थों वर्तिपदार्थ इति ।

(५४)। १८३ प्रतिपादनं कर्तव्यमित्यर्थः । प्रतिपादनन्तत्तरसूत्रे चकारस्यानुक्त समुच्चयार्थ- तामाश्चित्य कर्तव्यम् । देवदत्तने कः। नतश्चेति (५'४।१५३) कम् । छन्दसीत्यादि। मासादित्यादि। भृत्यर्थे यो विहितः प्रत्ययः स भृति- साहचर्य्यादु भृतिरित्युच्यते । भृतिः प्रत्ययो यस्य तद् । भृतिप्रत्ययम् पूर्वपदं यस्य बहुव्रोहः स भृतिपूर्वपदः । तस्मान् मासशब्दाट ठचो विधिः । चित्करणं बहुव्रीहिस्वरबाधनार्थम् । पञ्चास्य मासस्य भृतयः सोऽस्यांशवस्त्र भृतय इति (५।११३६) संख्याया अतिशदन्तायाः कन् (५।१।२२)। पञ्चकः । पञ्चको मासोऽस्य पञ्चकमासिकः । अपः पित्करणं यत्र बहुव्रीहा- वुत्तर पदान्तोदासत्वमारभ्यते तत्र तबाधनार्थम् । शोभना पञ्चमी प्रासां शत्रीणां सुपञ्चमाः। अविद्यमाना पञ्चमी आसा रात्रीणामपञ्चमा इत्यत्र ह्यसति पित्करण नभ्यामित्युत्तरपदान्तोदात्तत्वं (६।२।१०२) स्यात् । ११७। अन्तर्बहियाञ्च लोनः । ११८ । अञ् नासिकायाः संज्ञायां नमञ्चास्थूलात् । संज्ञायामिति । समुदायोपाधिरित्येतेन यदि प्रकतिप्रत्ययसमुदाय: कस्यचित् संज्ञा भवत्येवं प्रत्ययो भवति नान्यथेति दर्शयति । द्रुणस इति । पूर्वपदात् संज्ञायामग इति (८।४।३) णत्वम्। वर्षो भवा च स्त्री वाधी। सा नासिका यस्य म वाघीणम इति । वृद्धिनिमित्तस्य च तद्धितस्यारत- विकार इति (६।३ ३८) पुंवद्भावप्रतिषेधः। गौरिव नासिकास्य गोनसः । अचश्चित्करणं बहुव्रीहिस्वरबाधनार्थम् । खरणाः खुरणा इति । सन्तस्य चाधातोरिति (६।४।१४) दीर्घः। शितिर्नासिकास्य शितिनाः । अहिरिव नासिकास्थाहिनाः । अर्चेव (K) नासिकास्या अर्चनाः। ड्यापोः संज्ञाच्छन्दसोबहुलमिति (६।३।६३) ह्रस्व' । ११६। उपसर्गाच्च। उपसर्गग्रहणं प्राद्युपलक्षणार्थम् । नासिका प्रति क्रियाय गाभावात् । अत्व- (K) अर्चा प्रतिमेत्यर्थ, ।

१६४ न्यासः । । वेर्योवक्तव्य इति। विशब्दात् परस्य नामिकाया अशब्द आदेशो भवतीति वक्तव्यम् । विग्रः । प्रत्ययोऽजव । (L) १२०। सुप्रातमुश्वमुदिवशारिकुक्षचतुरश्रेणीपदाजपद- प्रोष्ठपदाः। टिलीपादिकमित्यादिशब्देन सुशब्दश्च कर्मविशेषणं गृह्यते । शोभनं प्रातरस्येति । शोभनमित्येतदिह कर्मणो विशेषणम् । शोभनं प्रातःकाले कर्मास्येत्यर्थः । एवमुत्तरत्रापि शोभनमित्येतत् कर्मणो विशेषणं वेदितव्यम् । १२१ । नजदुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् । अकारान्तोऽपि हलशब्दोऽस्ति । तत्र यदा तेन समासस् तदा हल इति भविष्थति। यदा विकारान्तेन तदा हलि रिति । तदनर्थकं हलग्रहणम् । नानर्थकम् । भिन्नार्थत्वात् । तेन यो महलहलिस् तम्मिन् विषये विवक्षिते ऽहल इति न सिध्यति । अहल इति यदाकारान्तेन समासः क्रियते । पूर्ववत् प्रकृतिभावेनाद्युदात्तत्व' चेष्यते। शेषादिभाषेति (५।४।१५४) कप प्रसज्येत । तस्माद् युक्तं हलिग्रहणम् । १२२ । नित्यमसिच प्रजामेधयोः । एवं तह नित्यग्रहणेनान्यत्रापि सूच्यत इति। ग्रन्याधिक्यादर्थाधिक्यम् भवतीति कृत्वा। असिचश्चित्करणं दुष्पजा दुर्मेधा इत्यन्तोदात्तत्वं यथा स्यात् । अप्रजाः सुप्रजा इत्यादौ तु नार्थश्चित्करणन। नसुभ्यामित्यने- (६।२।१७२) नैवोत्तरपदान्तोदात्तत्वस्य सिद्धत्वात् । १२३ । बहुप्रजाश्छन्दसि । १२४। धर्मादनिच कैवलात् । असमस्त इति। असमासः क्रियत इत्यर्थः । परमस्वधर्म इति । (L) यद्यह नाथ नायास्य विनसा हतबान्धर्वति भडिप्रयोगे तु विगतया नासिकयोपलचितेति व्याखाय मिति भट्टोनिः । मैत्रेयस्त्वाह "कै चिन्नासिकापयाये नसाशब्दमिच्छन्ति । तथाच वराहनक्षत्र पुरुषप्रकाश नसाशब्दः प्रयुक्तः। भट्टिकाव्येऽपि विनसा हतबान्धवेति दृश्यते। नचासावुपसगीचोति (३।४।११५) नसादेश सिव्यति। वे ? वक्तव्य इति ग्रादेशेन बाधितत्वा"दिति (धातुप्रदीप)।

(५१४ )। १८५ खश्चासौ धर्मश्चेति स्वधर्मः। परमश्चासौ वधर्मश्चेति परमस्वधर्मः। यद्येव- मित्यादि। यदि केवल ग्रहणेन धर्मों विशेष्यते परमखधर्मश्चेति न। परमखधर्मेति स्यात् । केवलात् पूर्वपदादिति। धर्मस्य असहायात् पूर्वपदादित्यर्थः । न पदसमु- दायादिति। परमो धर्म इति प्रकतेन सम्बन्धः । अत्र व्याख्याने त्रिपदे बहुव्रीही न भवति प्रसङ्ग । पदसमुदायाधि परमो धर्मशब्दो न केवलात् पूर्वपदात् । अनिचश्चित्करण पूर्वपदप्रकतिस्वरं बाधित्वा ऽन्तोदात्तत्वमेव यथा स्यात् । १२५ । जम्मा सुहरितणसोमेभ्यः । जम्भवचनेन णमिव जम्भोऽस्य सोम इव जम्भोऽस्येति विग्रहीतव्यमिति । ननु णं जम्भोऽस्य सोमो जम्भोऽस्येत्येवं विग्रहीतव्यम् । नहि ढण जम्भो न च सोमः। अभ्यवहार्यवचने तु वणं जम्भोऽस्य सोमी जम्भोऽस्येत्येवमेव विग्रहः कार्यः । णसोमयोरभ्यवहार्यवात् । १२६ । दक्षिणेर्मा लुब्धयोगे। १२७ । दूच कर्मव्यतौहारे । तत्र तेनेदमिति सरूप इत्ययं (२।२।२७) बहुव्रीहिर्गह्यत इति । अस्यैव कमेव्यविहारे वृत्तः । शाकशि। अन्येषामपि दृश्यत इति (६।३।१३७) दीर्घः। तिष्ठद्गुप्रभृतिष्विच्प्रत्ययस्य पाठादव्ययीभावसंज्ञा। अव्ययीभावश्च समासोऽव्ययसंज्ञो भवतीति । सुब्लुग भवतीति भावः । इचश्चित्करण विशेषणार्थम् । यदि ह्यत्र चकारी न क्रियते तदा तिष्ठदगुप्रभृतिष्वपीकारमानं पठ्यते । तदेकारमात्रस्यापि ग्रहण स्यात् । १२८। विदण्डयादिभ्यश्च । हिदण्डयादिभ्य इति तादय॑ एषा चतुर्थोत्यादि। हिदण्डयादयो हि प्रातिपदिकेष्विच्प्रत्ययान्ता एव पठ्यन्त इति। तेभ्यः पुनरिज् विधातुन शक्यते । विधीयमानोऽपि निष्ण योजनं स्यात् । तस्मान्नेयं पञ्चमो। किं तहि १ तादर्थे चतुर्थी । हिदण्डयाद्यर्थमिच प्रत्ययो भवतीत्यनेन तादी दर्शयति । अस्यैवार्थ विस्पष्टीकर्तुमाह तत् तथा भवतीत्यादि। एवं ब्रुवाणेन विदण्ड्यादिभ्यः प्रत्ययो भवति न विदण्डादिभ्य इत्युक्तम् । एवं ते सिध्यन्ति । नान्यथा। अथ किमर्थ' समुदायानां निपातनशुद्धा एव प्रकृती: । ཤུག २४ ज्यासः । . प्रातिपदिकेषु पठित्वा ततः प्रत्ययो विधीयत इत्यत आह समुदायनिपातनं चेत्यादि । प्रातिपदिकेषु प्रकृतीः पठित्वा ताभ्यः प्रत्ययमान विधीयते । ततो नियमः स्यात् । समुदायनिपातनादु यत्रार्थे विशेषे ते प्रसिद्धास्त नैव विशेश्यन्ते । तत्रैव भवन्तीत्यर्थः । हिदण्डि प्रहरतीति। दो दण्डौ यस्मिन् . प्रहरण । इह न भवतीति । विदण्डीत्येतच्छब्दरूपमत्रार्थे साधुन भवतीर्त्यर्थः । बहुब्रीह्यधिकारपोत्यादि। अत्रापि समुदायनिपातनमित्ययमेव हेतुः । असति हि समुदायनिपातने बहुब्रीह्यधिकारात् तत्पुरुषान्न कचित् प्रत्यय- विधानं स्यात्। समुदायनिपातनात् तु क्वचित् तत्पुरुषादपि भवति । यदा प्रत्ययस्य लोपो भवत्य व्ययीभावसंज्ञा तदा न प्राप्नोतीत्यत आह प्रत्ययस्य लक्षणेनेत्यादि। १२६ | प्रसंभ्यां जानुनो ः। जानुशब्दस्यादेशो भवतीति। कथं पुनर्जायत आदेशोऽयं न प्रत्यय इति ? यदि प्रत्ययः स्याज् जानुन इत्येकवचनेनैव निर्देशं कुर्यात् । षष्ठी- द्विवचनेनैव निर्देशः छतः। तस्मादादेशोऽयं न प्रत्यय इति विज्ञायते । षष्ठी हिवचनेन निर्देशोऽसन्देहार्थः कृतः स्थानषष्ठीत्वमसन्दिग्धं यथा विज्ञायतेति । जानुन इत्युच्यमाने संदेहः स्यात् किमियं षठुत पञ्चमीति १३० । अर्खादिभाषा । १३१ । ऊधसोऽनङ् । अनडादेशोऽयं भवतीति । कथं पुनर्विज्ञायत आदेशोऽयं न प्रत्यय इति ? यद्येष प्रत्ययः स्यान् डित्करणमनर्थकं स्यात् । आदेशे ह्यस्मिन्नन्त्यादेशार्थ डित्वमर्थवद् भवति । तस्माद् डिवादवायमादेशो भवतीति विज्ञायते । कुण्डोनौति । अनडि कृते ऽतो गुणे (६।११८७) पररूपत्वम् । बहुव्रीहेरूधसो डीषिति (४।१।२५) डीए। अल्लोपोऽनः (६।४।१३४)। स्त्रीग्रहणं कर्तव्य- मिति। स्त्री रहते येनाभिधेयनित्यत्वेन ततः स्त्रीग्रहणं कर्तव्यम् । एतदुक्तं भवति । तथा व्याख्यानं कर्तव्यं यथा स्त्रियामभिधेयायामनड् भवतीति । तवेदं व्याख्यानम् । अर्डाद विभाषेत्यतो (५।४।१३०) विभाषाग्रहणमनुवर्तते । सा च व्यवस्थितविभाषा | तेन स्त्रियामेव भवति । नान्यनेति। अनडो- ऽकारादित्वमुत्तरार्थम् । दूह विनापि तेन सिध्यत्येव ।

( ५।४ )। १८७ । १३२। धनुषश्च । शागधन्वेति । अनडि कृते यणादेशः । सर्वनामस्थाने चेति(६।४।८)दीर्घः । १३३ । वा संज्ञायाम् । १३४ । जायाया निङ् । 'निङादेशो भवतीति। आदेशत्वमस्य पूर्ववद ङित्त्वादेव विज्ञायते । युवजानिरिति । लोपो व्योवलौति (६।१।६६) यलोपः। स्त्रियाः पुंवदिति (६।३।३४) पुंवद्भावः । १३५। गन्धस्येदुत्पूतिसुसुरभिभ्यः । इकार आदेशो भवतीति । कथं पुनर्लायत आदेशोऽयं न प्रत्यय इति ? गन्धस्येति षष्ठया निर्देशात् । यदि हि प्रत्ययः स्यादसन्दिग्धार्थ गन्धादिति पञ्चम्या निर्देशं कुर्यात् । षष्ठया तु निर्देशः। तस्मादादेशोऽय- मिति विज्ञायते। गन्धस्येत्त्व इत्यादि। गन्धो विविधः । गुणो गन्धः । सोऽन्य पदार्थ स्यैकान्तो न भवति । यस्तु शोभनो गन्धोऽस्येति सुगन्ध आपणिक इति तत्र द्रव्यगन्धो गन्धशब्देनोच्यते । तचापणिकस्यैकदेशो भवति । तत्र गुणगन्धे यथा स्याद् द्रव्य गन्धे मा भूदित्येवमर्थ गन्धस्येत्त्वे विधेये तदेकान्त- ग्रहणं कर्तव्यम् । तदित्यनेन बहुव्रीह्यर्थः सामानिर्दिश्यते । तस्यैकान्त एकदेशो वा धर्मीऽवयवः । तदेकान्तः संग्राह्यते । येन तदेकान्तग्रहणं कर्तव्यम् । एतदुक्तं भवति । तादृशं व्याख्यानं कर्त्तव्यं येनेत्त्वविधाविह गन्धोऽन्यपदार्थस्यैकदेशात् तत आश्रयितव्य इति । तत्रेदं व्याख्यानम् । संज्ञायामित्यतो (५।४।१३३) वाग्रहणमनुवर्तते । सा च व्यवस्थितविभाषा । तेन यत्र गन्धोऽन्यपदार्थस्यैकदेशभूतस्तत्रैवेत्त्वं भवति नान्यतेति । अथवास्त्वयं गन्धशब्दो द्रव्यवचनो गन्धान् विक्रीणीत इति । अस्ति गुणवचनो यथा गन्धवती पृथिवी। तत्र गुणवचनस्येदं ग्रहणम् । न द्रव्यवचनस्य । तस्माद् ट्रव्यवचनो बहुवचनान्त एव ट्रव्ये वर्तते गन्धान् विक्रीणीते गन्धाः पण्यमस्येति । इह गन्धस्येत्येकवचनेनैव निर्देशः। तस्मादवसीयते गुणवचनस्येदं ग्रहणमिति। गुणवचनस्य तु ग्रहण तत्र गुणो गन्धोऽन्यपदास्यैकदेशो भवति । तेन तदेकान्त- भृतस्यैव गन्धस्येत्त्वं भवति । .4 वा १८८ न्यासः। १३६ । अल्पाखवायाम् । १३७। उपमानाच। १३८। पादस्य लोमोऽहस्त्यादिभ्यः । लोपो भवति समासान्त इति । किं पुनः स्यात् । समासान्तो न स्यात् । आदेः परस्ये त्यादेरेव (१।११५४) स्यात् । समासान्तत्वे सत्यन्तशब्दोऽयं नियत- देशमवावयवमाचष्ट इत्यन्तस्यैव भवति । एवञ्च समासान्तो भवति यद्यन्तस्य भवति नान्यथा । ननु च लोपस्याभावरूपत्वात् समासान्तो नोपपद्यत इत्याह स्थानिहारणेत्यादि। स्थानिनोऽकारस्य समासान्तत्वादुपचारेण लोपोऽपि समासान्त उच्यत इति दर्शयति । १३६ । कुम्भपदीषु च । कुम्भपदीप्रभृतयः सतपादलोपा. समुदाया एव पठ्यन्त इति । यद्येवं कथमिदं नेतव्यमित्याह तत्रैवमित्यादि। तत्र तेषु कुम्भपदीप्रभृतिषु तपाद- लोपेषु पठितेष्वेवं व्याख्येयमित्यर्थः। कुम्भपद्यादिविषय इति विषयग्रहणन कुम्भपदीष्विति विषयसप्तम्मेवेति दर्शयति । यथा कुम्भपद्यादयः सिध्यन्तीति । यत्तदोनित्यसम्बन्धात् तथेत्यनुच्यमानमपि प्रतीयते। तदायमर्थः । पादस्य तथा लोपो भवति कुम्भपद्यादिविषये यथा कुम्भपद्यादयः सम्भवन्तीति। किमर्थ पुनः समुदाया एव पठ्यन्ते । न कुम्भपदादीज् शब्दान् प्रातिपदिकेषु पठित्वा तेभ्यः परस्य पादशब्दस्य लोपी विधीयतेत्याह समुदायपाठस्य चेत्यादि। यदि कुम्भादिभ्यः परस्य पादस्य स लोप उच्येत कृतपादलोपाः समुदाया एव न पठेपरनिति नियमो न लभ्येत । तत स्विष्वपि लिङ्गषु स्युः। स्तियामेव चेष्यन्ते । ममुदायपाठे सति स्त्रियां डीप्प्रत्यय एव विषयभूते भवति । नान्यदति । कुम्भपदौति । पादोऽन्यतरस्यामिति (४।१।८) डीपि विषयभूते पादस्य लोपः। ततो डी। तस्मिन् पादः पदिति (६।४।१३०) पद्भावः । यच्चेहोपमानपूर्वमिति। कुम्भपदी जालपदीत्येवमादि। संख्यापूर्वपदचेति । एकपदी शतपदीत्येवमादि । तस्य सिद्ध इति । उपमानपूर्वस्य पूर्वेणैव सिद्धे संख्यापूर्वस्य तूत्तरेण । अष्टापदीत्यस्मिन् पठ्यते । तत्र निपातनं दीर्घवार्थम् । अष्टनः संज्ञायामिति (६।३।१२५) वा।

( ५४ )। १८८ १४०। संखासुपूर्वस्य । अनुपमानार्थमिदम् । १४१। वयसि दन्तस्य दट। विदन्निति । ऋकारस्योगित्काार्थवादुगिदचामिति (७।१।२०) नुम् । हल्ड्यादि (६।१।६८) संयोगान्तलोपौ (८।२।२३)। सुदन्ती दाक्षिणात्य इति । शोभनत्वमिह गम्यते । न वयः । १४२। छन्दसि च । अवयोऽर्थममंख्यापूर्वपदार्थञ्च वचनम् । उभयतोदत इति शमन्तमेतत् । १४३। स्त्रियां संज्ञायाम् । अच्छन्दोऽर्थमेतत् । अय इव दन्ता अस्या अयोदती । उगितश्चेति (४।१।६) डीप् । समदन्तीति । नासिकोदरेत्यादिना (8।१।५५) डीष् । १४४। विभाषा घ्यावारोकाभ्याम् । स्त्रियामिति निवृत्तम् । रोकी रोचनं दीप्तिः । रुच दीप्तौ । भावे घञ् । चजोः कुघिमातोरिति (३१५२) कुत्वम्। अविद्यमानो रोकोऽस्येत्यरोक- शब्दस्य व्युत्पत्ति हृदि कत्वा तस्यार्थ दर्शयितु माह अरोको निर्दीप्तिरिति । १४५। अग्रान्तशुद्धशुभषवराहेभ्यश्च । १४६ । ककुदस्यावस्थायां लोपः। कालादिवर्तति । आदिशब्देनाहारादयो गृह्यन्ते । १४७। त्रिककुत् पर्वते। पर्वतेऽन्यपदार्थे मुख्य ककुदं न संभवति । उच्यते चेदं त्रिककुत् पळत इति । तत्र सामात् ककुदाकार पर्वतशिखरे सादृश्यात् ककुदशब्दो वर्तते। तस्येदं ग्रहणं विज्ञायते । अत एवाह ककुदाकारमित्यादि। यद्येवमिदमिति । यस्य कस्यचित् पर्वतस्य त्रीणि ककुदाकाराणि शृङ्गाणि तस्य सर्वस्य त्रिककुदभिधानं प्राप्नोति । नचेत्यादि। उच्चन इति प्रकतेन सम्बन्ध । संज्ञेषेत्यादि। एतेन यस्यैषा अनवस्थार्थमिदं अत आह न्यासः। । संज्ञा त्रिककुच्छब्देनोच्यत इति तद् दर्शयति । एतच्च निपातनात् स्त्रियां संज्ञायामित्यतः (५।४।१४३) संज्ञाग्रहणानुबत्तेर्लभ्यते । ननु चाभिधेयनियमो- ऽपि नत एव लभ्यत इति पर्वतग्रहणं न कर्तव्यम् । नैतदस्ति । शैलीय माचार्य्यस्य यत् प्रसिद्देष्वपि नित्यतरवभिधेयनिमित्तमाचष्टे यथा पुष्थसिद्धयो नक्षत्र इति (३।१।११६) । किं पुनयंत्र प्रसिद्धिर्नास्ति । सा तु लौकिकी। १४८। उद्विभ्यां काकुदस्य । उत्काकुत् । विकाकुदिति । अन्त्यस्य लोप कृते वावसान इति (८१४५६) चलम् । ननु चादः परस्येत्यादि (१।१।५४) लोपन भवितव्यम् । तत् कथ- मन्त्यस्य भवति ? अन्त्यवचनो ह्यवयववचनोऽपि । स नियतदेशावयवमाचष्ट इत्युक्तम् । तत्र यद्यादेः स्यात् समासान्तता नोपपद्यते । १४६। पूर्णाद्विभाषा। १५०। मुह टुर्खदौ मिवामित्रयोः । १५१ । उरःप्रभृतिभ्यः कप। शेषादिभाषेति (५।४।५४) कपि सिद्धे नित्यार्थ वचनम् । प्रियसर्पिष्क इणः ष इति (८।३।३८) विसर्जनीयस्य षकारः। अवमुक्त उपानही येन सोऽवमुक्तीपानत्क इति। नहो ध इति (८।२।३४) विहितस्य धकारस्य झलां जशोऽन्त इति (८।२।३८) जश्त्वं दकारः । तस्य खरि चेति (८।४।५५) चत्वं तकारः । किं पुनरेतद् विभत्यन्तानां पाठे प्रयोजनमित्याह तत्रेत्यादि । तनत्यनेन विभक्त्यन्ताना पाठः प्रत्यवमृश्यते । अर्थान्नज इति। नपरो योऽर्थ शब्दस्तदन्ताबहुव्रीहेः कब् भवति। नास्त्यर्थोऽस्येत्यनर्थकः । १५२। दूनः स्त्रियाम् । इदमपि पूर्ववत् कपि सिद्धे नित्यार्थमेव । बहुदण्डिकेति। नलोपः प्रातिपदिकान्तस्येति (८।२।७) नलोपः । १५३ । नयतश्च । १५४ । शेषाद् विभाषा। शेषः कबपक्षो वा स्याद् यस्माद् बहुव्रीहे: कम् न विहितः स शेष इति ? समासान्तापक्षो वा यस्माद् बहुव्रीहः समासान्तो न विहितः स शेष इति ।

इति ? त्रापि स्यात् । ( ५।४।। तत्र यदि कपेक्ष, शेष: स्यादन्चो व्याघ्रपात् सुगन्धिरित्य- नह्यतः केनचित् कब् विहित इति कबपक्षे शेष दोषं दृष्ट्वा समासान्तापक्षया शेष इति दर्शयन्नाह यस्माद् बहुव्रीहः समासान्तो न भवति स शेष इति । कथं ज्ञायते समासान्तापक्ष: शंष इति ? शेष- ग्रहणात् । तत्र यदि कबपेक्षः शेषः स्याच् शेषग्रहणमनर्थकं स्यात् । आरम्भ- सामर्थ्यादेव हि शेषविषय एव विकल्पो भविष्यति । अन्यथा यदि यतोऽपि पूर्वविधिवाकौः कब् विहित स्ततोऽप्यनेन विभाषा विधीयते विधिवाक्या- नामानर्थक्यमापद्येत । तस्माच्छेषग्रहणात् समासान्तापक्षः शेषो विज्ञायते । बहुखट्सक इति । आपोऽन्यतरस्यामिति (१४।१५) इस्वः । बहुखट् इत्यत्रापि गोस्त्रियोरुपसर्जनस्येति (१।२।४८)। कथमित्यादि। यदि समासान्तापक्षः शेषोऽवृक्कं साम बढुक्क सूक्तमित्यत्र कम् न सिध्यतीत्यभिप्रायः । विशेष स इथत इति । स ह्यकारः समासान्तो विशेष माणवे चरणाख्यायाञ्चेष्थत इति । तत्राकारो विहितः । न चापि तत्रैव विशेषे कब् विहितः। किं तहि ? विषयान्तर। सामनि सूक्ते च । तत्र बहुव्रीहे: समासान्तापक्षः शेषः । तेन च प्रियपथः प्रियधुर इति ऋक्पूरब्धूरित्यादिना (५।४।७४) कारः समासान्तः । अथ किमर्थ शेषग्रहणम् । यावता याभ्यः प्रकृतिभ्यः समासान्ता विहितास् ताभ्यस्त एव बाधका भविष्यन्ति । नैतदस्ति । निरवकाशा हि विधयो बाधका भविष्यन्ति । सावकाशाश्च समासान्ताः। कोऽवकाशः १ प्रतिपदोपात्तप्रकृतयी याभ्यः समासान्ता अर्थविशेष समास- विशेष प्रति प्रतिपदमुपादाय विहिताः सोऽवकाशः । विशेषप्रकृतिभ्यः प्रसङ्गे सत्युभयप्राप्ती परत्वात् कप्रत्ययः स्यात् । तस्माच्छेषग्रहणं कर्तव्यम् । । १५५ । न संज्ञायाम्। १५६ । ईयसश्च। सबा प्राप्तिः प्रतिषिध्यत इति । नन्वनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति (प,६२) शेषलक्षणस्यैव कपः प्रतिषेधः प्राप्नोति । नैष दोषः । कबत्रानु- वर्तते । न शेषादिति। तेनायं कमात्रस्य प्रतिषेधो भविष्यति । बहवः श्रेयांस इति। द्विवचनविभज्योपपदेत्यादिनेयसन् (५।३।५७)। प्रशस्यस्य श्र इति न्धासः । (५।३।६०) शः। खत्वमपि न भवतीति। गोस्त्रियोरुपमर्जनस (१।२।४८) प्राप्नोति । तदपि न भवति । कस्मान्न भवतीत्याह ईयको बहुव्रीहे. रित्यादिना। नात्र बहुचनेन स्त्रीप्रत्ययस्य निवृत्तिरभिप्रेता। किं तर्हि ? अवाकरणात् तदभावः। एतदुक्तं भवति । यथा एकद्भावे सतोकारस्य हुखो न भवत्येवमीयसः परस्य स्त्री प्रत्ययस्यापि न भवति । १५७। वन्दिते भातुः। नवृतश्चेति (५'४।१५३) प्राप्तस्य कपोऽयं प्रतिषेधः। वदि अभिवादन- 'स्तुत्योरिति । यद्यपि वदिरभिवादने वर्त्तते तथापीह स्तुतावव वर्तमान आधीयते। अतएवाह वन्दिते स्तुत इति । १५८। ऋतश्छन्दसि। अयमपि पूर्ववत् प्राप्तस्य कपः प्रतिषेधः । १५। नाड़ौतन्वीः खाङ्गे। अयमपि नवृतश्चेति (५।४।१५३) प्राप्तस्य कपः प्रतिषेधः । स्वाङ्गमिह पारिभाषिकं गृह्यते। बहुनाडिरिति। पूर्ववदुपसर्जनइखत्वम् । बहुतन्त्री- रिति । अत्र खलं न भवति । ततः स्त्रिया: प्रतिषेधो वक्तव्य इति (१।२।४८,वा) वचनात् । तथाचोक्तम् (M) स्त्रीग्रहणं खरयिष्यति । १६० । निष्यवाणिश्च । (N) इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां पञ्चमस्याध्यायस्य चतुर्थः पाद: " 'मः ॥ ५१४ ॥ समाप्तोऽ रायः ॥ ५ ॥ MAawanemamane wamanamanwwmumtaura AI) गोस्वियोरित्यत्र (११ १४८) भाई (N) In preparing the press editor had chiefly the MS (ख) at See notes on p 331 and p 1061, vol + the fifth Adhyaya of the Nyasa, the posal For some accounts of this MS.,

No text on this page.

१८.२ न्यासः। . (५।३।६०) ः। खत्वमपि न भवतीति। गोस्त्रियोरुपमर्जनस (१।२।४८) प्राप्नोति । तदपि न भवति । कस्मान्न भवतीत्याह ईयसो बहुव्रीहे. रिल्यादिना। नात्र एंवचनेन स्त्रीप्रत्ययस्य निवृत्तिरभिनेता। किं तर्हि ? बावरणात् तदभावः। एतदुक्तं भवति । यथा एकद्भावे सतीकारस्य इस्त्रो न भवत्येवमीयसः परस्य स्त्री प्रत्ययस्यापि न भवति । १५७। वन्दिते भातुः। नवृतश्चेति (५'४।१५३) प्राप्तस्य कपोऽयं प्रतिषेधः । वदि अभिवादन- सुत्योरिति । यद्यपि वदिरभिवादने वर्त्तते तथापीह स्तुतावेव वर्तमान आधीयते। अतएवाह वन्दिते स्तुप्त इति । १५८। ऋतश्छन्दसि। अयमपि पूर्ववत् प्राप्तस्य कपः प्रतिषेधः । १५६। नाड़ीतन्त्रयोः खाड़े। अयमपि नबृतश्चेति (५।४।१५३) प्राप्तस्य कपः प्रतिषेधः । स्वाङ्गमिह पारिभाषिकं गृह्यते। बहुनाडिरिति। पूर्ववदुपसर्जनइखत्वम् । बहुतन्त्री- रिति । अन इखत्वं न भवति । कृत' स्त्रियाः प्रतिषेधो वक्तव्य इति (१।२।४८,वा) वचनात् । तथाचोक्तम् (M) स्त्रीग्रहणं खरयिष्यति । १६० । निष्पवाणिश्च । (N) इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां पञ्चमस्याध्यायस्य चतुर्थः पाद: प्रः ॥ ५।४ ॥ समाप्तोऽ यः ॥ ५ ॥ + Karound Namdhe.maanatan (N) In गोस्नियोरित्यत्र (१।१४८) भाई preparing the press editor had chiefly the MS (ख) 4 See notes on p 331 and p 1061, yol 1 the fifth Adhyaya of the Nyasa, the posal For some accounts of this MS, to buy, borrow or have transcripts, at reasonable price or cost, of the following works :- any I. Tantra-Pradipa, Dhatu-pradipa or other works by Maitreya Rakshita, II. Anunyasa III. Nyasoddyota. The owners of the aforesaid works are invited to communicate, stating terms, with Sastri Srish Chandra Chakravarti B. A. Senior Professor of Sanskrit, Rajshahi College, Rajshahi, Bengal.

Kasika Vivarana Panjika 2

Author
Jinendra Buddhi
Title
Kasika Vivarana Panjika 2
File name
Kasika Vivarana Panjika 2
Text
OCR done
Published
2005/12/31
Language
Sanskrit
Pages
196
Library
Allahabad University, Allahabad
Classification
Language.linguistics.literature
DLI number
485686
Barcode
5990010098831.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library of India
VMLT id
FOWnk6SYHBG
Download PDF

Kasika Vivarana Panjika 2