Asr,melkote
Mimamsa Koustubha Vol.3 And Fasciculus 3
Front matter
No text on this page.
Decoinber 1981 mersemaranamamalpoonmasan THE CHOWKHAMBA SANSKRIT SERIES COLLECTION OF RARE & EXTRAORDINARY SANSKRIT IVONKA NO. 408. मीमांसाकौस्तुभः॥ ( मीमांसासूत्रोपरि काचन विस्तृता टीका ) (द्वितीयाध्यायस्य प्रथमद्वितीयौ पादौ।) पूर्वोत्तरमीमांसापारावारपारीण- श्रीखण्डदेवाविरचितः श्रीकाशी हिन्दूविश्वविद्यालयप्रधानमीमांसाध्यापकेन वेदविशारदबिरुदभाजा पं० अ. चिन्नस्वामिशास्त्रिणा तच्छिष्येण श्रीपट्टाभिरामशर्मणा मीमांसाशास्त्रिणा च संशोधितः श्रीजयकृष्णदासगुप्तेन मुद्रापितो विजयताम् । MIMAMSAKAUSTUBHA [ An exhaustive Commentary of Jaimiuisutras (I and II Pada of II Adhyaya ) KHANDADEVA, Edited by “Veda Visarada” Pandit A. Chinnaswami Sastri, Jhief Professor of Mimansa. Benares Hindu University and his pupil Sri Pattabhirama Sarma M. S. Vol. III. FASCICULUS III-३. BY PM PUBLISHED & SOLD BY THE SECRETARI, CHOWKHAMBA SANSKRIT SERIES OFFICE, Bernatrees City. me- 1982 4 MOOG * श्रीः आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभव्याभशतपत्रपरिस्कृता ॥ १ ॥ चौखम्बा-संस्कृत ग्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ ॥ NAGRO NONSTOPHOR स्तबक:-४०८ Printed by Jai Krishna Das Gupta at the Vidya Vilas Press, Berx's.
, सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः । (पूर्वपक्षः ) तत्र यद्यपि विषयतासम्बन्धेन गुणगुणिनोरुभयोरपि स. म्बन्धकीर्तनाख्यस्तोत्रशस्त्रं प्रति करणत्व त्वमस्ति, तथाऽपि प्रयो- जनापेक्षायां दृष्टविधया कर्मानुपयुक्तगुणप्रकाशनार्थत्वायोगेऽपि कर्मोपयुक्तगुणिस्मरणार्थत्वसंभवेऽदृष्टार्थत्वकल्पनानुपपत्तेगुणिस्म. रणरूपसंस्कारार्थत्वमेव याज्यादिमन्त्रवत्स्तोत्रशस्त्रमन्त्राणाम. ङ्गी कर्तव्यम् । न चाऽत्र स्तौतिशंसतिभ्यां विनियोगेन याज्यादि. वैलक्षण्यात्स्तौतिशंसत्योश्च गुणविशेष्यकगुणिसम्बन्ध कीर्तनवा. चित्वस्य लोके प्रसिद्धत्वादुणिप्रकाशनार्थत्वे च तस्यैव विशेष्य- स्वेन तयोलक्षणापत्तिरिति वाच्यम् । 'प्रयाजशेषेण हवींष्याभि- घारयती' तिवदृष्टार्थत्वानुरोधेन लक्षणाङ्गीकारस्य न्याय्यत्वात्। अतस्सन्निपत्योपकारकत्वमेव स्तोत्र शस्त्रयोरपि । सूत्रं निगद. व्याख्यातम् ॥ १३ ॥ अर्थेन त्वपकृष्येत देवतानामचोदनार्थस्य गुणभूतत्वात् ।। २.१-१४ ।। ( सिद्धान्तः) अस्तु तावन्मूलयुक्तिभूतः श्रुतिविरोधो लिङ्गस्य बाधकः । अभ्युच्चय युक्तिरूपो दुर्बलप्रमाणब णबाघप्रसङ्ग एव तावदादावभि- धीयते । यदि हि स्तौतिशंसत्योः प्रकाशनलक्षणार्थतामङ्गीकृत्य तन्मन्त्राणां गुणिस्मरणार्थत्वमिष्यते, ततो महेन्द्रदेवताकयागा. भ्यासक्रमे पठितयोरेन्द्रमन्त्रयोर्महेन्द्रप्रकाशनाशक्तरिन्द्रस्य च या. गानङ्गत्वेन प्रकाशनान ईत्वात्प्रकरण एव यत्रेन्द्रो देवता तत्रो. स्कृष्येत पूषानुमन्त्रणमन्त्रवत् । ततश्च यजुर्वेद विहितग्रहयागाभ्या. १२ मी० को मीमांसाको स्तुभे [स्तुतशस्त्राधिकरण- सक्रमेण सामवेदान्तर्गतोत्तराग्रन्थ पठितानामृचा यथाक्रमं पाठे. नाऽवगताङ्गभावानां मध्ये ऐन्द्र मन्त्रयोस्तदनजीकाराक्रमबाधा- पत्तिः । 'पादं पुनरारभत इति वचनावगतस्य चाऽऽद्यामृचं स. कृत्पठित्वा तस्यामन्त्यपादन सह द्वितीयाध पठित्वा, तद न्त्यपादेन सह द्वितीयान्त्यार्चपठन नरूपस्य प्रग्रथनस्य माहेन्द्रग्र इसन्निधावाम्नातस्य तदङ्गत्वानङ्गीकारात्सन्निधिबाधश्च । अतश्च दुर्बलयोरपि क्रमसन्निध्योः प्रबलेनाऽपि लिङ्गेन सहाऽबाधेनैवो पपत्तौ बाधायोगान सन्निपत्योपकारकत्वं स्तोत्र शस्त्राणाम् । सूत्रं तु-देवतापदं प्रति गुणत्वेन संयुक्ता यदि स्तुतिभा बना, सतः अर्थेन प्रयोजनानुरोधेन माहेन्द्रग्रहयजितः अपकृ ध्येत ऐन्द्री स्तुतिः, तस्याः प्रयोजन भूतां देवतां प्रति गुण तत्त्वादित्ति व्याख्येयम् ॥ १४ ॥ वशावद्धा गुणार्थ स्याता ।। २.१.१५ ॥ नाऽप्रकृष्यतेन्द्री स्तुतिः, इन्द्रशब्देनैव प्रकृतग्रहयागीयेन्द्र- प्रकाशनापपत्तेः । यद्यपि च तम महत्त्वगुणविशिष्टस्यैवेन्द्रस्य माहेन्द्रमिति तद्धितेन देवतात्वमुक्तस्य तथाऽपि विशेष्यस्यैव मन्त्रो. ण प्रकाशनोपपत्तेः, विशेषणांशस्य च मन्त्राभावेऽपि ध्यानाधु. पायान्तरेण स्मृतिसिद्धर्नाऽपकर्षापत्तिः। न हि (१) सा वा एषा सर्वदेवत्या यदजा क्शा वायव्यामालभेतेति वाक्येन वशा- स्वगुणविधानेऽपि विशेष्यमात्रस्य (२) छागस्य वपायामेदस' इति मन्त्रेणाऽभिधानं नेष्टम् । न ह्यत्र महेन्द्रशब्दस्यैव देवतात्वम्, येनेन्द्रशब्दस्य ततो भिन्नत्वेनाऽपकर्षशक्यत । तथा सति महे. १. ते. सं. ३. ४.३. २. ते. ना.३. ६.८.
सिद्धान्तः ]] द्वितीयास्य प्रथमः पादः । न्द्रशब्दस्याऽर्थवत्त्वाभावेन भातिपदिकसंज्ञाभावात्तद्धितानुत्पत्ति असङ्गात् । अत एव चेतमा तनसाधारण्येनाऽर्थस्यैव देवतात्वं (१)दशमे वक्ष्यते । एवं सस्वपि यदि महेन्द्रशब्दो रूड्या अर्था- न्तरवचनस्स्यात्ततोऽर्थान्तरबचनेनेन्द्रशब्देन नाऽभिधीयते तदर्थ इत्युत्कृष्येन्द्रो मन्त्रः, पोक्षणीशब्दवतु वलसावयत्रयोगेनोपपत्ती नाऽन्तरवाचिस्वकल्पनाया प्रमाणमस्ति । ननु तद्धितसमासरूपापियानुपपत्तिरेव रूडिकल्पनाया प्रमाणं भविष्यति । तथाहिन तावदेकस्यैवेन्द्रशब्दस्य यु. गपत्तद्धितसमासरूपत्तिद्वय सम्भवः, अन्यतरसापेक्षत्वेनैकस्या अपि वृत्तेरनुपपत्तेः समासस्यर्थमिन्द्रशब्दस्य सुबन्तत्वकल्प ना, तद्धितत्यर्थं वाऽसुवन्तसमिति युगपत्तौ युगपस्सुबन्त स्वासुबन्तत्वविरोधापचेश्च । नाऽपि क्रमेण, सकुच्छ्रुतस्येन्द्रशा न्द्रस्याऽऽवृत्यापचेः । तद्धितपूर्वपत्तौ महेन्द्रमित्युत्तरपदवृद्धिर्मह स्वस्य प्रधानभूतद्रव्याविशेषणत्वं चाऽधिकं प्रसज्येत । अतो वृ. तिद्वयानुपपत्या अश्वकर्णादिशब्दवठिकल्पनोपपवेरिन्द्रान्महे- न्द्रस्य भेदायगमादिन्द्रशब्देन च प्रकाशनानुपपचेरुकानिवार- णमिति चेत् , समासकृत्युत्तरकाले तद्धितवृत्यङ्गीकारात् । न चैवमिन्द्रपदावृत्तिः, वृत्तिद्वयविवरणवेलायां पौरुषेयेन्द्र- पदावृत्तावपि वैदिकमाहेन्द्रपदेनाऽनात्तेनैव महत्त्वगुणविशिष्टे न्द्रदेवतात्वविध्युपपत्तेः। अत एव तद्धितवृत्ते पूर्व द्वन्द्वादिस. मासाङ्गीकारात् “आनावैष्ण" मित्यादौ देवताद्वन्द्वादिनि मित्तकानडाद्युत्पत्ति राजस्येनोपादिता भविष्यति । अतश्च क्र मेण वृत्तिद्वयस्याऽप्युपपत्तेः प्रोक्षणीशब्दवत्क्लुप्तावयवयोगेनो. पपत्तौ रूढिकल्पनानवकाशात्सत्यपि गुणविशिष्टस्येन्द्रस्य देव. १. पू. मी.१०. ४. १३.
- . ९० भीमांसाकौस्तुभे [स्तुतशस्त्राधिकरण- तात्वे वशावदिन्द्रशब्देन विशेष्यमात्रप्रकाशनोपपत्तेनोत्कर्षापत्तिः । वस्तुतस्तु महेन्द्रप्रातिपदिकेन महत्त्वावशिष्टे इन्द्रे उक्तेऽपि रा. जपुरुषश्शोभन इतिवद्विशेष्यमात्रस्यैव तद्धितेन देवतात्वावगमा द्विशेषणस्य च महत्पदस्य विशेष्योपलक्षणार्थत्वेन स्तावकत्वेनो- पपत्तेर्देवताभूतस्य शुद्धस्येन्द्रस्यैन्द्रेण(१) प्रकाशनोपपत्तौ नो. स्कर्षापत्तिः । सूत्रं तु-अगुणार्थ स्थादित्यकारमश्लेषेण व्याख्येयम् ॥१५॥ न श्रुतिसमवायित्वात् ॥ २-१-१६ ॥ नेन्द्रशब्देन प्रकृताइसम्बन्धिदेवताभिधानम्, प्रकृतग्रहे माहे. न्द्रमिति तद्धित सहकृतेन विधिना महेन्द्रपदस्यैव देवतास्वविधा. नात् । तथा हि-तद्धितेन देवतात्वविशिष्टद्रव्याभिधानात् देव. तात्वस्य च त्यज्यमानहविरुद्देश्यत्वेन वृद्धव्यवहारे प्रसिद्धस्याः अनुच्चायेंऽर्थेऽसम्भवात् तद्धिताभिहितोद्देश्यत्वान्वयार्थ महेन्द्र- प्रातिपदिकेन लक्षणया महेन्द्रपदमेवाऽभिधाय तस्य त्यज्यमान- हविरुद्देश्यताख्यं देवतात्वं विधीयते। महेन्द्रशब्दे पदलक्षणाया. च शक्यसम्बन्धं विनाऽनुपपत्तेमहेन्द्रपदशक्यश्चेतनाचेतनसाधा. रण्येन दशमे वक्ष्यमाणोऽर्थोऽपि नाऽसङ्गतः । अतश्च मह. वगुणविशिष्टेन्द्रवाचकमहेन्द्रपदस्यैव देवतात्यावसायाद्विशिष्टवा- चकबृहच्चक्रादिपदान्तरप्रयोगे सुतरां शुद्धेन्द्रपदप्रयोगानेन्द्रप देन प्रकृतग्रहसम्बन्धिदेवताप्रकाशनोपपत्तिः । यत्तु-न्यायमुधाग्रन्थस्वारस्यात्मातिपदिकेनाऽर्थवाचिनाs. प्युद्देश्यात्वान्वयार्थ पदविशिष्टार्थलक्षणामङ्गीकृत्य तत्र तद्धितचाच्य. . १. प्रागाथेनाऽभिधानोपपत्ताविति. ख. पु.
सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः । ९१ पक्षोऽपि प्रत्युक्त, देवतात्वान्चयाङ्गीकाराच्छब्दोपहितोऽर्थो देवतेति प्रतीयते, तत् पदविशिष्टेऽर्थे उपचार्यत्वाख्योद्देश्यस्वस्य बाधाविशेषणीभूतप- दान्वयस्य च 'अन्योपसर्जनमन्येन नाऽन्वेतीति न्यायेनाऽव्युत्प. मत्वादुपेक्षणीयम् । एतेनाऽर्थस्यैव देवतात्वेऽपि तस्य ब्रीद्यादिवत्स्वरूपेण या. गोपयोगाभावाच्छब्दोच्चारणद्वारेणैवोपयोगावगतेशाब्दविशेषा पेक्षायां लाघवादुपस्थितस्य विधिगतशब्दस्यैव नियम इति- तद्धितार्थस्य सज्यमानहविरुद्देश्यत्वा-- ख्यस्याऽर्थे बाधेनाऽन्वयानुपपत्तेः । सज्यमानहविरुद्देश्यभूत- शब्दाभिधेयत्वलक्षणा तु प्रधानभूते तद्धिते लक्षणापत्तेरयुक्तव । तद्वरं प्रातिपदिक एव गुणभूते पदलक्षणेति । किञ्चैवं "अ. नये पावकाये" त्यादावेकस्यैव पदस्योच्चारणनियमोपपत्ते. ने पदद्वयोचारणापत्तिः । अतो महेन्द्रपदस्योचार्यत्वेन देवतावा. बेन्द्रमन्त्रेणाऽभिधानोपपत्तिः । अतश्चोत्कर्षापत्तिस्तदवस्थैच । सूत्रं तु --श्रुत्या विधिगतशब्देनैव देवतायाः कर्मणि समवायात सम्बन्धादिन्द्रशब्देन महेन्द्रप्रकाशनानुपपत्तेनाऽतु स्कर्षसम्भव इति व्याख्येयम् ।। १६ ।। व्यपदेशभेदाच्च ॥२-१-१७॥ इतश्च नेन्द्रपदेन महेन्द्राभिधानम् । अन्यथा सानाय्ये(१) "बहु दुग्धीन्द्राय देवेभ्यः, बहु दुग्धि महेन्द्राय देवेभ्य" इति द्व- योमन्त्रयोस्समाम्नातयोरन्योन्यप्रकाशकत्वे विकल्पापत्तेः । अ. स्मन्मते त्वैन्द्रेण मन्त्रेण सानाय्यगतेन्द्रप्रकाशनान्माहेन्द्रेण च १. तै. ब्रा. ३. २.३.
मीमांसाकौस्तुभे [स्तुतशस्त्राधिकरण- तद्तमहेन्द्रप्रकाशनान्मन्त्रद्वयव्यपदेशव्यवस्थेति न विकल्पः। अ- तश्चन्द्रमहेन्द्रयोरधिष्ठानक्येऽपि विशेषणांशभेदादुद्देश्यशब्दभेदाच भेदावगमेनेन्द्रमन्त्रेणाऽभिधानानुपपत्तेरुत्कर्षानिवारणम् ॥१७॥ गुणश्चाऽनर्थकरस्यात् ॥ २-१-१८॥ यदप्युक्तं महेन्द्रप्रातिपदिकेन महत्त्वविशिष्टे इन्द्रेऽभिहितेऽपि राजपुरुषश्शोभन इतिवद्विशेष्यमात्रस्यैव तद्धिनार्थान्नय इति, तन्त्र तथा सति गुणवाचिमहत्पदानर्थक्यप्रसङ्गात् । न हि तस्य राजपदवदर्थद्वारेणोपलक्षकता सम्भवति, देवतायास्स्वरूपेण कर्म- ण्यसम्बन्धात् । किन्तु शब्दोच्चारणद्वारा तदुपकारकत्वात् मह. स्पदस्याऽपि तवारैवोपलक्षकता वाच्या । ततश्च तस्याऽप्युच्चा- यस्वात् देवतात्वान्तर्गत्यवगतेने महत्त्वरहितस्येन्द्रस्य तद्धितार्था. न्वयः(१)सम्भवति । किञ्च सम्भवति विधेयेन्द्रविशेषणत्वेनाऽर्थः बच्चे उपलक्षणत्वस्य स्तावकत्वस्य चाऽन्याय्यत्वान्न शुद्धस्येन्द्र, स्य देवतात्वम् । राजपुरुषश्शोभन इत्यादौ तु प्रमाणान्तरानु. रोधेन तथाऽङ्गीकरणमिति न किञ्चिदेतत् । अत एव च सान्नाव्ये "ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्यायाम, माहेन्द्रं दध्य. मावास्यायां माहेन्द्रं पयोऽमावास्याया"मिति व्यपदेशभेदः । अन्यथा तत्राऽपि महत्पदानर्थक्यम् ॥ १८ ॥ तथा याज्यापुरोरुचोः ॥२-१-१९ ॥ तथा सानाय्य एवेन्द्रमहेन्द्रदेवत्ययाज्यापुरोनुवाक्ययोर्भ- देनाऽम्नानमपीन्द्रमहेन्द्रयोर्भेद एवाऽप्रकल्पते।(२) अन्यथा एकेन १. सम्भवीति. क. ख. पु. २. इतरथेति. ख. पु.
सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः । कासिद्धरितराम्नानमनर्थक विकल्पो वा प्रसज्येत । न च भव. मतेऽप्येकापूर्वसाधनत्वादिन्द्र महेन्द्रयोधर्मसातोपत्तेर्विकल्पानि- वारणम् , सम्मीलनादिवत्प्रतिनियतधर्मनिर्देशेन साङ्कर्यानापतेः। वस्तुतस्तु मन्त्राणां लिङ्गेन मुख्य एवाऽर्थे विनियोगात्(१) 'बहीणां मेध सुमनस्यमान' इतिवदेकापूर्वसाधनीभूतेऽप्यर्थान्तरे अप्राप्तत्वेन साङ्कर्यप्रसङ्ग एव नाऽस्ति । अतो याज्यापुरोनुवाक्य. योर्भेदाम्नानमपि देवताभेदसाधकम् । सूत्रे पुरोरुक्छब्दश्शस्त्र. गतमन्त्रविशेषवाच्यपि लक्षणया पुरोनुवाक्यापरो द्रष्टव्यः ॥१९॥ वशयामर्थसंयोगात् ॥ २-१.२० ॥ यतु वशात्वगुणविशिष्टद्रव्यविधावपि छागशब्देन विशेष्य. मात्रप्रकाशनं दृष्टमित्युक्तम् , तशात्वस्य(२) स्वरूपत एवोपका- रकत्वादुपायान्तरेणाऽपि स्मृत्या कर्मण्यनुष्ठानोपपत्ते ऽवश्यं शब्दोच्चारणापेक्षा। प्रकृते तु महत्त्वस्य महत्पदोच्चारणद्वारेणैवोप- कारकत्वान्नाऽनुच्चरितस्य साधनत्वं संभवतीति विशेषः ॥२०॥ योति वाऽर्थवत्त्वात्स्यात् ॥ २-१-२१ ॥ ननु यत्र माहेन्द्रग्रहसन्निधावयमैन्द्रः प्रगाथः पठितः, तत्रै. वाऽस्य मनोतास्थानि(३)पढवल्लक्षणया महत्त्वविशिष्टेन्द्रप्रकाश. कत्वेन निवेशकल्पनादर्थवत्वोपपत्तिः । वस्तुतस्तु नेहशस्थळे ल. क्षणा । त्यागवेलायां महेन्द्रपदप्रयोगेऽपि मन्त्रे विशेष्य भूतेन्द्रमा. प्रकाशनेन मन्त्रस्याऽपूर्वीयदेवतात्वाश्रयवाच्यभूतेन्द्रप्रकाशना. २. स्वत एवेति क. पु. १. तै. ब्रा. ३. ७.५. ३. शब्दवदिति. ख. पु.
बाला साकौस्तुभे [ स्तुतशस्त्राधिकरण- यत्वेनाऽप्युपपत्तेः । मनोतास्था निशब्दे तु देवतावाचिमनोतापद. सामानाधिकरण्येन लक्षणाङ्गीकरणमित्युक्तं(१) मन्त्राधिकरणे । अतश्च यथापठितस्याऽप्युपपत्तेोत्कर्षापत्तिः । अथ वा पूषानुः मन्त्रणमन्त्रवदुर्बलप्रमाणबाधेनोत्कर्षाङ्गीकारेऽपि न क्षतिः । न च तत्र यागानुमन्त्रण मन्त्रसमाख्यावदिह सम्बन्धसामान्य बोधकप्रमाणाभावनोत्कर्षस्याऽप्यनुपपत्तेरानर्थक्यापत्तिः, ऐन्द्र यागान्तरे तदभावेऽपि ज्योतिष्टोमप्रकरण स्थैन्द्रग्रहाभ्यासे प्रकरण स्यैव सामान्यसम्बन्धबोधकस्य सत्त्वेनोत्कर्षोपपत्तेः । अतश्च य- त्र प्रकरण एवेन्द्रो यागस्तत्राऽक्ष्य प्रगाथस्योत्कर्षेऽप्यर्थवत्त्वोपर त्तिरिति ॥ २१ ॥ न त्वाम्नातेषु ॥ २-१-२२॥ न चैन्द्रस्य प्रगाथस्य प्रकरणे उत्कर्षसम्भवेऽप्यन्येषु तत्त. द्रहाभ्याससन्निधावाम्नातेषु मन्त्रेषु "याम्याश्शंसति, शि- पिविष्टवतीरशंसति, पितृदेवत्याश्शंसति, कुसुंभकसूक्तमन्वाह, क्षसूक्तं मण्डूकसूक्तं मूषिकसूक्तमन्याहे"त्यादिविधिविहितेषु प्र. करणेऽपि यमादीनामभावात्तत्रोत्कर्षानुपपत्तेः, प्रकरणबहिर्भूते यमादिदैवत्यकर्मणि च सामान्य सम्बन्धबोधकप्रमाणाभावनोत्क. र्षानुपपत्तेः, कुसुम्भकादीनां चाऽन्यत्रापि देवतास्वाभावेन मु. तरां तदनुपपत्ते ऽर्थवत्वोपपत्तिरिति वाच्यम् ॥ २२ ॥ दृश्यते ॥ २-१-२३ ॥ सर्वेषामेवाऽर्थवत्वोपपत्तेः । तथा हि--मण्डूकमुक्तस्य ता १. पू. मी. १. २.४.
सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः । वत्र(१) "पण्डूकेनाऽमिं विकर्षती"ति विहितमण्डूकप्रकाशकत्वे- नाऽमावुपयोगः । न च तस्याऽनारभ्याधीतत्वेन सामान्य सम्ब. न्धबोधकप्रमाणाभावः, मण्डूकसूक्तस्य प्रकरणाज्ज्योतिष्टोमस- म्बन्धेऽवगते(२) आनर्थक्य लदङ्गन्यायेन तदङ्गभूते चयने नि. बेशोपपत्तेः । एवं ऋषिकसूतस्याऽपि प्रकरणाभ्योत्तिष्टोमा भूतपैकादशियां निवेशः । तत्र च यद्यप्याखोर्न साक्षाद्विनि- योगः, तथाऽप्युपशो यूपे(३) "सर्वे वा अन्ये यूपाः पशुमन्तो ऽथोषशय एवाऽपशुरि" त्युपक्रम्य द्वेष्याभावे "आखुस्ते पशुरिति यादि" ति मन्त्र विधानेनाऽऽखुस्मृतिद्वारा लक्षणया तत्सम्ब न्ध्युपश यस्तुतिशिनि द्रष्टव्यम् । ये तु याम्यादिमन्त्रास्तेषां प्रकरणे कथमपि निवेशासम्भवे. नोत्कर्षायोगाइन्यत्र च सामान्य सम्बन्धबोधकप्रमाणाभावेनैव तदप्रसक्तरगत्या प्रकृतग्रहदेवतैव लक्षणया तैः प्रकाश्यते । प्र- योगाभावेन निषिद्धलक्षणानङ्गीकारे तु जपादिमन्त्रबद्याम्यादि. मन्त्राणामप्य दृष्टार्थमुच्चारणं प्रकृतग्रहयागाङ्गत्वेन विधीयते । अ. स्मिश्च पक्षे स्तौलिशंसत्योर्गुणिविशेष्यकप्रकाशनलक्षकत्वाभावे- ऽपि लक्षणयोच्चारणपरत्वमेव द्रष्टव्यम् । यदि त्वस्मिन् पक्षेऽदृष्टार्थत्वस्याऽऽवश्यकत्वे लक्षणाङ्गीकारे प्रमाणाभावशाक्येत, ततो याम्यादिविषये गुणविशेष्यकगुणिस. म्बन्धकीर्तिनात्मकस्तोत्रशस्त्रविधानमेवाऽदृष्टार्थमङ्गीक्रियते । न चैतावता सर्वत्रैव तथा प्रसङ्गः, अनुपपचेरभावात् । न च या. म्यादिमन्त्रेषु आधारवन्मन्त्रवर्णकल्प्यदेवताङ्गीकारेण तवत्यया- गान्तरस्यैव कल्पयितुं शक्यत्वात्, किमिति सिद्धान्त्याभिप्रेतस्तो. शस्त्रादृष्टार्थताङ्गीकरणमिति वाच्यम् । याम्यादिमन्त्रैस्स्तुति. तै. सं.५.४.४. २. पृ. मी. ३. १. ९. ३. ते. मं. ६. ६.४.५. १. १३ मी० कौ० मीमांसाकौस्तुभे [ स्तुतशस्त्राधिकरण- भाक्त्वरूपदेवतास्वकल्पनेऽप्याघारबद्रव्य सम्बन्धाभावे हविर्भा- क्त्वरूपदेवतात्वाकल्पनाद तदेककल्प्ययागानुमानानुपपत्तेः । अत एव जपादिमन्त्रेषु न यागान्तरकल्पनम् । किन्त्वदृष्टार्थत्वमेव । न चाऽन्येषु जपादिमन्त्रेष्वदृष्टार्थत्वेऽप्यत्र "यद्यज्ञस्य सा. धनता व्यापयेत अतो देवा अवन्तु न इति जपेत् अपि वाऽन्यां वैष्णवीमि" त्यादौ विष्णुप्रकाशकस्य मन्त्रम्योषांशुयाजाङ्गत्वेन विद्वद्वाक्यविहितकर्मणि मान्त्रवर्णिकदेवताकल्पकत्वेनोपपत्तेः कि- मित्यदृष्टार्थत्वाङ्गीकरणमिति वाच्यम् । विधिवाक्यादेवैतस्थ म. न्त्रस्य यज्ञसाधनलोपनिमित्तवैगुण्य समाधानार्थत्वेनाऽवगतत्वा. दर्थान्तराकाङ्क्षानुपपत्तेः । अतो जपादिमन्त्रवदेव याम्यादिमन्त्रा. णामदृष्टार्थत्वं सिद्धान्त्यभिप्रेतस्तुतिरूपत्वमेव चाऽङ्गीकर्तव्यम् । यत्तु मूले “वाचस्तोमे सर्वा ऋचस्सर्वाणि यजूपि सर्वाणि सामानि पारिप्लवं शंसती"ति विहिते शास्त्रे सर्वेषां मन्त्राणां वि. नियोगाद्याम्यादीनामपि तत्रैवोत्कर्षः । यद्यपि च तत्र दृष्टविध. या नोपयोगः, तथाऽप्यदृष्टद्वारैव तदुपपत्तिरित्युक्तम्, तत् वाचस्तो. मेऽप्यदृष्टार्थतावश्यकत्वे याम्यादीनामपि सन्निध्यबाधार्थ प्रकृत ग्रह एवाऽदृष्टार्थत्वस्य न्याय्यत्वादुपेक्षितम् । यदि तु वचनेन सन्निधानबाधान्न प्रकृतग्रहसम्बन्ध इसाशंक्येत, ततो दर्शपूर्णमा- सादिप्रकरणपठितानां जपादिमन्त्राणामन्येषां च लिङ्गादिवि. नियुक्तानां वचनेन लिङ्गादिवाधापतेनं तदङ्गत्व सम्भवः । अथ तु वाक्यस्याऽपि सामान्यविषयस्य विशेषनिष्ठलिङ्गादिवाधकत्वा. योग उच्येत, ततस्सन्निधानेऽपि तुल्यम् । तस्मारपूर्वोक्तविधयैवा- ऽर्थवत्वदर्शनं व्याख्येयम् ॥ २३ ॥ अपि वा श्रुतिसंयोगात्प्रकरणे स्तौतिशंसती क्रियोत्पत्तिं विदध्याताम् ॥२-१-२४ ॥ ७ सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः । नैन्द्रस्य प्रगाथस्योत्करलम्भनी । स हि न तावत्प्राकर- णिक एवैन्द्रयागे, तस्थावान्तराधिकारविहितमन्त्रान्तरावरोधेन तत्राऽस्य मन्त्रस्याऽनवकाशात् । नाऽपि ऋतुप्रकरणबहिर्भूते इ. न्द्रयागान्तरे । तत्र सामान्य सम्बन्धबोधकममाणाभावेनोत्कर्षानु. पपत्तेः । इन्द्रशब्देन मनोत्तास्थाग्निशब्दवन्महेन्द्रप्रतिपादनं तु लक्ष. णा(१) भिया त्वयैव निरस्तम् । अवशिष्यते तावद्यागवेलायां विशे- षणयुक्तप्रकाशनेऽपि मन्त्रे विशेष्यमात्रप्रकाशनं नाऽनुपपन्नामिति । तत्रे वाच्यम् --स्तौतिशंसत्योर्मुणिप्रकारकगुणविशेष्य- कबोधानुकूलच्यापारवाचिस्वस्य, गुणिनिष्ठगुणतात्पर्यवोधानु- कूलव्यापारवाचित्वस्य वा 'बक्रकेशान्तो देवदत्त' इत्याद विवा- ऽवधारणात् गुणिप्रकाशनार्थत्वे लक्षणापत्तेस्तौतिशंसतिवाच्य- स्यैवाऽर्थस्य (२)विधेयत्वावगमात्तस्य च दृष्टार्थत्वासम्भवे अह. ष्टार्थत्वकल्पनस्य फलमुखत्वेन प्रामाणिकत्वान्नाऽनुपपत्तिरिति । लोके हि वक्रकेशो देवदत्त इयत्र देवदत्ते बक्रकेशत्वप्रतिपादन एव स्तुतिबुद्धिरुत्पद्यते, न पुनर्वक्रकेशत्वस्य देवदत्तविशेष्यता. प्रतिपादने । तेन स्तौतिशंसतिपदशक्तिपर्यालोचनया प्रकाशना. धत्वावगमाददृष्टार्थत्वाङ्गीकारेणाऽपि गुणिप्रकारकगुणविशेष्यका शाब्दबोधानुकूलव्यापाररूपस्तुतिविधायित्वमेव युक्तम् । न च 'प्रयाजशेषेणे तिवदृष्टार्थत्वानुरोधेन लक्षणाङ्गीकरणमप्यदोषः, प्रकाशनस्य लिङ्गकल्प्यश्रुतिबलेनैव प्राप्तिसम्भवे लक्षणयैव तत्प. तिपादनेऽपि विधिवैय्यात् । किञ्च दृष्टार्थत्वं किं त्वया मन्त्रा. णामभ्युपगम्यते ? स्तुतेवों ? नाऽऽधः, ममाऽपि स्तुतिनिष्पाद. कत्वेन तत्सत्वात् । नाऽन्त्यः स्तुतिस्वरूपस्यैव हानापत्तेः । त. स्माद्धातुश्रुतिसंयोगात् प्रकरण एव स्तौतिशंसती स्तुतिरूप- १. दोषात्त्वयैवेति. क. पु. २.विधेयत्वावसायादिति. क. पु. ?
९८ भीमांसाकौस्तुभे [स्तुतशस्त्राधिकरण- क्रियोत्पत्ति विध्यातामिति सूत्रार्थः ॥ २४ ॥ शब्दपृथक्त्वाच्च ।। २-१-२५ ॥ "द्वादशस्तोत्रोऽग्निष्टोमी द्वादशशस्त्रोऽग्निष्टोम" इति श्रुतं द्वादशत्वं न प्रकाशनलक्षणार्थत्वेऽवकल्पते, प्रकाशनानां प्रत्यूचं प्रतिपदं वा भिन्नत्वेन द्वादशत्वानुपपत्तेः । प्रकाशनत्वेनैक्याङ्गी- कारे सुतरां तदनुपपतेश्च । अस्मन्मते तु सत्यपि प्रत्यूचं स्तुति- व्यक्तीनां भेदे विधिभेदेन विधेयत चदले कस्तुतिव्यक्तिवृत्तिविधेय. तावच्छेदकीभूतवैजात्यावश्यंभावात्तत्तज्जातिगतद्वादशात्योपपत्तिः । तव तु प्रकाशनस्य सामर्थ्यप्राप्तत्वेनाऽविधेयत्वान्न वैजात्य(१). कल्पने प्रमाणमस्ति । किञ्चाऽस्मन्मते वैजात्याकल्पनेऽपि तत्चद्विधि भेदेन विधेय- भावनामाव्यस्पाऽनेकस्तुतिजन्यापूर्वस्व भेदावश्यंभावाचदतदा- दशत्वेनाऽपि स्तोत्रादिद्वादशत्वोपपत्तिः । प्रकाशनपक्षे तु तस्य दृष्टार्थत्वेनाऽपूर्वानङ्गीकारात् दृष्टप्रयोजनैक्यस्य च प्रत्यक्षबाधित- त्वेन द्वादशत्वानुपपत्तिः । अतो द्वादशशब्देन स्तोत्राणां शस्त्राणां च पृथक्त्वाक्षेपादपि न प्रकाशनलक्षणा ।। २५ ॥ अनर्थकं च तद्वचनम् ॥ २-१-२६ ॥ प्रकाशनार्थत्वपक्षे अग्निष्टुति “आग्नेया ग्रहा भवन्ती"ति वचनेन प्राकृतग्रहानुवादेनाऽग्निदेवताविधौ कृते प्राकृतदेवताबा. घवत्तत्प्रकाशकमन्त्रबाधेनाऽग्निप्रकाशकमन्त्रातराणां न्यायादेव प्राप्तेः 'आग्नेयीषु स्तुवत' इति वचनवैयापत्तिः। न चाऽस्य १. कल्पनायामिति. ख. पु.
सिद्धान्तः द्वितीयाध्यायस्य प्रथमः पादः । ९९ . प्राकृतमन्नेवाऽग्निपदोहमसक्तौ मन्त्रान्तराविधानेनाऽर्थवत्त्वमिति वाच्यम् । “पूयति वा य एतचोऽक्षरं यदेनदहति तस्माचं नोहेदि ति वचनेन ऋगृहनिषेधादर्थप्रकाशनरूप कार्यबलेना. ऽऽग्नेयमन्त्रान्तरस्यैव माते: । अस्मन्मते तु सत्यपि ग्रहाणामाग्ने- यत्वे कर्माप्समवेस गुणिनिष्ठ स्याऽपि गुणस्य कीर्तनेन स्तोत्रशस्त्र- जन्यादृष्टसम्पन्धुपपत्तेः माकृतानामेव मन्त्राणामुच्चारणमसक्ती तनिवृत्यर्थ 'आग्नेयीषु स्तुवत' इति(१) सार्थकम् ।। २६ ।। अन्यश्चाऽर्थः प्रतीयते ॥ २-१-२७॥ 'सम्बद्धं वै स्तोत्र शस्त्रं चेति श्रुत्या स्त्रोत्र शस्त्रयोस्सम्बन्धमा तीतेस्सम्बन्धस्य च(२) भेद साधनत्वात्स्तोत्र शस्त्र पारस्वरूपतः फलतो वा वैजात्यकल्पनया भेदोऽवधार्यते । न चाऽसौ प्रका- शनार्थत्वपक्षे सम्भवति । न च (३)स्तोत्रादावपि प्रगानाप्रगान कृतस्तम्भवत्येवेति वाच्यम् । स्वरूपतः फलतो वा भेदभानसम्भवे प्रगानाख्यानत(४)मेदस्याऽन्याय्यत्वात् ॥ २७ ॥ अभिधानं च कर्मवत् ॥ २-१-२८॥ यदिदं स्तोत्र शस्त्रादिरूपं सामान्याभिधानं, यच्चाज्यपृष्ठ प्रउगा. दिरूपं विशेषाभिधानम् , तदुभयमप्यारादुपकारकत्वपक्षे उपपद्यने, न तु संस्कारकर्मत्वपक्षे । संस्कारस्य संस्कार्यनिरूपणाधीननिरू- पणीयस्य संस्कार्येणैवाऽवच्छेदसिद्धौ अवच्छेदकीभूत संज्ञानपे. . . १. वचनं नाऽन शिकमिति. क, ख पु. २.भेदनिबन्धनत्वादिति. क. ख.पु. ४. भेदाङ्गीकरणस्येति. व. पु. ३. तत्राऽपीति. क. पु.
मीमांसाकौस्तुभे [स्तुतशस्त्राधिकरणम् क्षत्वात् । एवं सत्यपि यद्यारादुपकारकत्वग्राहकः स्तौतिशंस. तिधातुरूपः श्रुतिसंयोगसंस्कारकर्मत्वबायको स्यात्, ततो लिङ्गेन संस्कार कर्मत्वस्यैवाऽवधारणात् “अंशुं गृह्णात्यदा- भ्यं गृह्णाती" तिवदगत्या सत्यध्यवच्छेदकान्तरे संज्ञावच्छिन्न. मेव ज्ञातं कृतं कर्माऽभ्युदयकारि भवतीति कल्पनया संज्ञाऽप्य. ङ्गीकियेत, न त्वेतदस्तीत्यत आरादुपकारकत्वमेघ युक्तमुत्प. श्यामः ॥ २८ ॥ फलनिवृत्तिश्च ॥ २-१-२९ ॥ (१)"स्तुतस्य स्तुतयस्पूर्जस्वल्पयस्वदा मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनामहे भक्षीमहि प्रजामिषम्, सा मे सत्याशीर्य- ज्ञस्य भूयादि" ति मन्त्रे भावनिष्ठान्तेन स्तुतपदेन स्तोत्रक्रियो. पादानात् , खोत्रस्य मध्ये स्तोत्रमसि, तदेवं भृतं स्तोत्रस्योर्जस्व स्पयस्वद्भूत्वा मां आगम्यात् , इन्द्रवन्तः इन्द्रोपलक्षितदेवतावन्तो वयं, त्वां याचामहे, प्रजामिषं भजेमहीति सेयं यज्ञपदलक्षितस्य स्त्रोत्रस्याऽऽशीस्सत्या भूयादित्यर्थकस्तोत्रादेव फलं प्रार्थितं, न देवतातः । यद्यपि च नेदं स्तोत्रस्य फलं करणविभक्तिसंयोगा- भावेनाऽवगतक्रत्वङ्गभावस्य स्तोत्रस्य मान्त्रवर्णिकफलकल्पनानु. पपत्तेः, तथाऽपि प्रधानफलमेवेदं परम्परासम्बन्धेन स्तोत्रा. मार्थितं, लक्षणया वा स्तोत्रफलमेव ऋतूपकाराख्यम् । अतश्च स्तोत्रक्रियातः फलप्रार्थनात्तस्या एव प्राधान्यम् , न देवतायाः। इतरथा हि देवतात एव फलं प्रार्यत, प्राधानत्वात् , नाऽङ्गभू. तात्पकाशनात् । किञ्च प्रकाशनस्य दृष्टफलस्य प्रत्यक्षगम्यत्वान्न १. तां. बा. १. ६. ३.
द्वितीयाध्यायस्य प्रथमः पादः । प्रार्थनाहत्वं, स्तोत्रफलस्य त्वदृष्टत्वात्तदहत्त्वमिति विशेषः । अत आरादुपकारकाण्येव स्तोत्रशस्त्राणीति सिद्धम् । प्रयोजनं प्राकृतग्रहानुवादेन विकृतौ देवतान्तरविधाने 'आग्नेयीषु स्तुवत' इत्येवंविधवचनामाचे प्राकृताना मन्त्राणाम- विकारेण प्रयोगः सिद्धान्ते । पूर्वपक्षे प्राकृतऋग्वाधेन वैकृतदेव- त्यऋगन्तरागम इति (१)दशमे वक्ष्यते ॥ २९ ॥ इति षष्ठं तु तशास्त्राधिकरणम् ॥ ६ ॥ अथ सप्तमं विधिमन्त्राधिकरणम् ॥ ७ ॥ विधिमन्त्रयोरैकार्थ्यमैकशब्द्यात् ॥ २-१-३० ॥ (विषयसंशयसङ्गतयः ) एवं 'एष ह्यर्थो विधीयत' इस नेनोपक्षिप्तानां विधायकाख्या- तानां "तानि द्वैध" भित्यादिना द्वैविध्यमुक्त्वा इदानी प्रसङ्गा- दाख्यातस्थाऽपि कचिद्विधायकत्वं नाऽस्तीति प्रतिपाद्यते । य. था(२) “न ता नशन्ति न दभाति तस्करो नासाममित्रो व्य- थिरादधर्षति । देवांश्च याभिर्यजते ददाति च ज्योगित्ताभि. सचते गोपतिस्सह" इत्यादिमन्ने “यस्योभय हविरातिमा." दि. त्यादौ ब्राह्मणे च ये यच्छब्दादिसमभिव्याहृता आख्यात शब्दा- स्ते किं विधायकाः ? उत नेति संशयः । अत्राऽप्यपूर्व भेदोपयो. गिन एव विचार्यमाणत्वात्पादाध्यायसङ्गती स्पष्टे । प्रासङ्गिकी त्वनन्तरा। १. पू. मी. १०. ४. २४. २. ऋ. सं.४.६.२५. ।
१०२ मामांसाकौस्तुभे [विधिमन्त्राधिकरण-- ( पूर्वपक्षः) तत्र 'आदित्यादौ असन्दिग्धलिङ्गाषणात् यजते ददाति चेत्यादावपि स्तुत्युनीतलेडन्तत्वावधारणात् “यजेत वर्गकाम' इतिवदेव विधायकत्वाविघातः । न च यच्छब्दादिना प्रतिबन्धः, यच्छब्देन गोपदार्थस्य सिद्धत्व द्योतनेऽपि “यदाग्नेयोऽष्टाकपा- ल" इतिवद्यागसाधनत्वेन विध्युपपत्तेः । अत एव कर्वसमाना- धिकरणस्य यच्छब्दस्यैव प्रतिबन्धाकता न कर्मसमानाधिकरण. स्येति सिद्धान्तिनोऽपि प्रवादः । वस्तुतस्तु गुणभृतेन यच्छब्दादिना प्रधानभूतविधिशक्तिप- तिबन्धस्याऽन्याय्यत्वात्कसमानाधिकरण(१)ब्दे सत्यपि न विधित्वव्याघातः । किञ्च यच्छब्दादिकं प्राप्तिं द्योतयत्प्रतिब- न्धकं वाच्यम् । सा यदि प्राप्तिः प्रमाणान्तरेणाऽस्ति तदा तेनैव प्रतिबन्धसिद्धेः कृतं यच्छब्दादिना ! यदि नाऽस्ति ततो यच्छब्दसद्भावेऽपि “य एवं विद्वानग्नि चिनुत" इतिवदप्राप्तार्थक- त्वादेव विध्युपपत्तेर्न यच्छब्दादेः प्रतिबन्धकता संभवति । वस्तुतस्तु एतस्य मन्त्रस्य गोद्रव्य कानुबन्ध्यपशुपुरोडाशानु. निर्वाप्यदैविकहवियोगे चरुद्रव्य के गोदैवत्यथाज्यात्वेन विनियु- क्तत्वात्तत्र च चरुद्रव्यकत्वादोद्रव्य कस्वाभावेन तत्र विनियुक्त- स्याऽप्यस्याऽप्राप्तस्वतन्त्रगोद्रव्य कयागविधायकत्वोपपत्तिः । न च साक्षाच्छेषिणि दैविकहवियांगे गोद्रव्यकत्वापासावपि तच्छेषि- ण्यामनुबन्ध्यायां गोद्रव्यकत्वस्य प्राप्तत्वादविधायकत्वोपपत्ति- रिति वाच्यम् । एवं यथाकथञ्चित्माप्तिसंभवेऽप्यभ्यासाकर्मान्त- १. यच्छब्दसत्वेऽपाति. क. ख. पु.
सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः। रत्वोपपत्तेः । अतश्च यजेत स्वर्गकाम'(१) इतिविध्याख्यातव. मन्त्रगतस्याऽप्याख्यातस्य विधिरूपैकप्रयोजनकत्वमेव । वि. धायकशब्दत्वस्योभयत्र समानत्वादिति सूत्रार्थः । अत्र मन्त्रग्रहणं यच्छब्दादिसमभिव्याहृताख्यातमात्रोपलक्षणम्, न तु स्वतन्त्रम्, “वसन्ताय कपिञ्चलानालभेते" त्यादाव- भियुक्तप्रसिध्या मन्त्रत्वेऽपि विधायकत्वाङ्गीकारात् । यस्योभ- यमित्यादौ च ब्राह्मणे यच्छन्दादिसमभिन्याहारे तदनङ्गीका- राञ्च । अतश्च सर्वस्याऽप्यत्रोदाहरणत्वेऽपि प्रायशो यच्छब्दादि- समभिव्याहारस्य(२) तेष्वेव सत्त्वात्सूत्रे मन्त्रग्रहणम् ॥ ३१ ॥ अपि वा प्रयोगसामर्थ्यान्मन्त्रोऽभिधा- नवाची स्यात् ॥ २-१-३२ ॥ (सिद्धान्तः) नैते विधायकाः, 'यजत' इत्यादीनां लट्लेटसाधारणत्वेन विध्यर्थकत्वानिश्चयात् । न च(३) स्तुत्या तनिश्चयः, विधेरभावे स्तुतेरेवाऽनिश्चयेन तस्यास्तदनिश्चायकत्वात् । न च "वसन्ताय कपिञ्जलानालभेते" यादिवदवावार्थकत्वमेव तनिश्चायकम् , गो- द्रव्यकस्य यागदानादेरनूबन्ध्यारूपस्य तदन्यस्य वा बहुशः प्रा. सत्वेन तदसिद्धेः । अत एव न विधिपुनश्श्रवणरूपादभ्यासा- कर्मान्तरत्वं शङ्यम् , विधित्वस्यैवाऽनिश्चयेनाऽभ्यासस्वरूपा. भावात् । विध्यभावेऽपि पुनश्श्रुतिमात्राझेदस्तु पुनश्श्रुतेस्स्मर- णार्थत्वेनाऽप्युपपत्तेरनन्यपरत्वाभावादयुक्तः । किञ्च यद्यप्यत्र १. इत्यख्यातवदिति क. पु. २. मन्त्रेम्वेवेति. क. ख. पु. ३. स्तुतिरेव तनिश्चायिकेति क.ख. पु. १४ मी० को १०४ मीमांसाकौस्तुभे [विधिमन्त्राधिकरण- विधायको लिडादिरश्रोष्यत, तथाऽपि यच्छब्दादिना विधिश- क्तिप्रतिबन्धानाऽस्य विधायकत्वोपपत्तिः । तथा हि-यच्छब्दस्तावत्स्वसमभिव्याहृतार्थस्य सिद्धता द्योतयन्प्राप्तिमपेक्षते । अस्ति चाऽत्र सा । अतो गोद्रव्यकयाग- दानादेरनूद्यमानस्याऽज्ञातज्ञापनकस्वभावविधिविषयत्वायोगस्प. ष्ट एव । न च यच्छब्दस्य स्वार्थमात्रे सिद्धताद्योतकत्वाद्गोस्वरू- पानुवादेऽपि तस्य साधनत्वेन विध्युपपत्तिरिति वाच्यम् । यः पाकं करोति स भुत इसादौ यत्तच्छब्दयोस्वसमभिव्याहृतमात्रे सिद्धत्वद्योतकताव्युत्पत्तेः । अतश्च याभिर्यजते, याश्च गा ददा. ति, ता न नश्यन्ति , न च तस्करो दभ्नोति, न वासां अमि- कृता व्यथा अभिभवति, गोस्वामी च ताभिस्सह चिरं नन्दतीति यच्छब्देन समभिव्याहृते गोद्रव्यके यागदाना- दावपि सिद्धताप्रतीतेन विधेयतोपपत्तिः । यच्छब्दस्य समाभि- व्याहृतत्तिसिद्धताद्योतकत्वादेव च यत्र कतसमभिव्याहारस्त- त्र कृत्याश्रयत्वरूपस्य कर्तृत्वस्य सिद्धताप्रतीतो कृतेरपि तत्प्रती. तेर्विधेयत्वानुपपया विधिशत्त्यनुपपत्तिः । यत्र तु कर्ममात्रसमभिध्याहृतो यच्छब्दस्तच्छब्दसमभिव्या. हृतश्च विधिः, तत्र सत्यपि कर्मस्वरूपस्याऽनुवादे कर्तव्यत्वेन वि. धानोपपत्तेः न विधिशक्तिप्रतिबन्धकता यच्छब्दस्य । प्रकृते तु विधेर्यच्छन्देनैव समभिव्याहाराचुक्ता प्रतिबन्धकतेति विशेषः । एवं सत्यपि यदि कथञ्चिदप्यालोच्यमाने प्राप्तिन सम्भाव्येत, त. तो 'यदानेयोऽष्टाकपाल' इतिवद्यच्छब्दस्य स्वार्थमात्र(१)सिद्धत्व घोतकताषङ्गीकृत्य विधेर्विधायकत्वोपपत्तेन शक्तिः प्रतिबध्येत । १. प्रसिद्धि द्योतकेति ख. पु.
सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः । त. न स्वेतदस्ति, गोद्रव्यकस्य यागदानादेर्बहुशः प्राप्तत्वात् । यत्तु सत्यपि यच्छब्दस्य विधिविरोधित्वे प्रधानभूतत्वाद्वि- ध्यनुग्रह एवं न्याय्यः, न गुणभूतयच्छन्दानुग्रह इत्युक्तम् , त् 'उच्चैऋचा क्रियत' इत्यादौ प्रधानभूतस्याऽप्युपसंहारस्थस्य वि- धेरुपक्रमस्थेन गुणभूतेनाऽप्यर्थवादेन बाधस्य वक्ष्यमाणत्वादकि- ञ्चित्करम् । वस्तुतस्तु विधिवदेव पच्छब्दस्याऽपि प्रधानभूतार्थभावना- न्यायित्वान्न विधि प्रति तस्य गुणत्वम् । यदि परं पदान्तरत्वा- तदपेक्षया विप्रकर्षशङ्कयेत, तमः "ऐन्द्रं पञ्चशराब" मित्यनेन वाक्य भेदापत्तेः (१) हेतुहेतुमतोरित्यनुशासनवयापत्तेश्च विधि- शक्तिपतिवन्धोऽनुसन्धेषः। एवं यदिशब्दस्याऽपि निमित्तपरत्वेन प्राप्तियोतकत्वाद्वि- धिविरोधित्वं द्रष्टव्यम् । अतश्चोभयत्राऽपि लिङ्गवणं हेतुहेतु. मतोरिति स्मृतेर्हेतुरूपनिमित्तत्वादिपरम् । यजते ददातीत्यत्र तु (२)लिडोऽश्रवणाल्लडन्तत्वस्यैव निश्चयः । एवं "अग्नीदग्नीन्वि- हरे" त्यत्र सम्बोधनविभक्तेर्वक्त्रभिमुखश्रोतमात्रविषयत्वादे च वक्तुरभावाद्विधेश्चाऽभिमुखानभिमुखसर्व पुरुषसाधारणस्वाद्विरू- स्वभावेनाऽऽमन्त्रणेन विधिशक्तिप्रतिवन्धः । अतश्च लोडप्यत्र नाऽलौकिकविध्यर्थकः, किन्तु(३) "भैषातिसर्गप्राप्तकालेषु कृ. त्याचे" ति चकारात् प्रैषार्थक एव, लौकिकमवर्तनार्थको वा। यत्तु न्यायमुधाकृता सम्बोधनविभक्तिसमभिव्याहृतस्य लिडादेः प्रमाणान्तरप्रवृत्तपुरुषपर्वतकत्वावगमादमवृत्तप्रवर्तना- स्मकविधिशक्तिव्याघात इत्युक्तम्, तत् लोके प्रमाणान्तरानधिग- मेऽपि देवदत्त गामानयेखादौ सम्बोधनविभक्तिप्रयोगदर्शनादुपे. १. पा.सू. ३.३.१५३. २. लिङभावादिति क.पु. ३. पा.सु.३.३.१६३.
मीमांसाकौस्तुभे [विधिमन्त्राधिकरणम् ।
क्षितम् । एवं ददामि शृङ्गामीत्यादौ तावल्लडन्तत्वादेव न वि.
विशतिः । विशेषतश्चाऽस्मदर्थविषयोत्तमपुरुषान्तत्वेन परप्रवर्त-
नात्मकविधिविरोधित्वम् । अतश्च यत्राऽपि अहं दद्यामित्यादौ
लिङः श्रवण मुत्तमपुरुषे, तत्रापिलिङ स्वनिष्ठमवर्तनापरत्वमेव
लक्षणया, न तु परप्रवर्तनात्मकविधिवाचित्वमिति विवेकः ।
अतश्च यच्छब्दादिचतुष्टयस्य प्रतिबन्धकत्वात् तत्समभिव्याहृ.
तस्य लिङादे ने विधायकत्वम् , अपि तु प्रमाणान्तरसिद्धानुवा-
दकत्वमेव । न चैवमानर्थक्यम् , ब्राह्मणगतानां निमित्तादिप्रति.
पादकतया विध्यपेक्षितोद्देश्यसमर्पणेनोपयोगस्य वक्ष्यमाण.
त्वात् । मन्त्रगतानां तु यद्यपि विधेयसमर्पणेन वा उद्देश्य समर्प-
णेन वा न विध्युपयोगः । नाऽपि स्तावकत्वेन, दूरस्थानां पदै-
कवाक्यत्वेन तावत्तस्याऽनुपपत्ते, पदार्थविधया स्तुतिमात्रलक्ष.
णायामपि स्वार्थबोधे समाप्त्यभावेन वाक्यैकवाक्यत्वेनाऽप्यनुप-
त्तेश्च, तथाऽपि परिशेषान्मन्त्राधिकरणन्यायेन प्रयोगकाले ऽर्था.
भिधायकत्वेनैव । अर्थोऽपि च यत्र प्रयोगसमवेतस्तत्र तदभिधानं
दृष्टार्थम् , नो चेददृष्टार्थमिति विवेकोऽपि तत्रैव द्रष्टव्यः ।
सूने च अपिवाशब्देन मन्त्रब्राह्मणसाधारण्येन विधायकत्वे
निरस्ते ब्राह्मणगताख्याते निमित्तपरत्वं वक्ष्यमाणत्वादुपेक्ष्य म-
गते तस्मिन्नर्थाभिधानव्यापारकत्वं मन्त्राधिकरणसिद्धमेव
स्मारितमिति द्रष्टव्यम् । प्रयोजनं स्पष्टम् ॥ ३२ ॥
इति सप्तमं मन्त्राविधायकत्वाधिकरणम् ॥ ७ ॥
अथाऽष्टमं मन्त्रलक्षणाधिकरणम् ॥ ८ ॥ तच्चोदकेषु मन्त्राख्या ॥ २-१-३३ ॥ (विषयसंशयसङ्गतयः ) पूर्वाधिकरणे उपलक्षणतया मन्त्रशब्दप्रयोगादुपस्थितस्य मन्त्रस्येह लक्षणं प्रसङ्गादुच्यते । तत्र च(१) "अहे बुधिय मन्त्रं मे गोपाय । यमृषयत्रयीविदा विदुः । ऋचस्सामानि यजूंषि । सा हि श्रीरमृता सता" मिति मन्त्रे प्रयुक्तस्य मन्त्रपदस्याऽर्थ- कथनाद्वेदवाक्यार्थविचारवत् पदार्थविचारस्याऽपि शास्त्रे कर्त. व्यत्वेन प्रतिज्ञानाच्छास्त्रसङ्गत्युपपत्तिः । मन्त्रनियमाष्टरूपापूर्व. भेदोपयोगिमन्त्रभेदसिध्यर्थत्वाच्च पादाध्यायसङ्गतिः । यद्यपि तचददृष्टत्वावच्छिन्नं प्रति तत्तदानुपूर्वीकत्वेनैव कारणता, तथा- ऽपि 'यद्विशेषयोः कार्यकारणभावस्तसामान्ययोरपि स' इ. त्यभिप्रेत्येदम् । प्रासङ्गिकी त्वनन्तरा । तत्र यथाश्रुतसूत्रस्वारस्यात्तावत् प्रयोगकाले अर्थप्रकाशकत्वं मन्त्रत्वमिति लक्षणं प्रतीयते। अत्र प्रयोगकाल इति विशेषणान्न विधावतिप्रसङ्गः । जपेष्वपि चाऽदृष्टार्थमर्थप्रकाशनानाऽव्यापकत्व. म् । वस्तुतस्तु मन्त्रकाण्डसमानाते(२) 'वसन्ताय कपिञ्जलानालभे- ते'त्यादौ मन्त्रे विधायकत्वाङ्गीकारेणाव्यापकत्वापत्तेः । ब्राह्मण. स्याऽपि च मन्त्राभावे स्मारकत्वस्य(३) पञ्चमे वक्ष्यमाणत्वेन त. त्राऽतिव्याप्त्यापत्तेः । अनुक्सामादिमन्त्रेषु च कथमप्यर्थप्रकाशक- वायोगेनाऽव्यापकत्वाच्चैतल्लक्षणायोगेनाऽभियुक्तानां मन्त्रप. दवाच्यत्वप्रकारको यो निश्चयस्ताद्विषयत्वं मन्त्रत्वमिति लक्षणमेव १. ते. ब्रा. १.२.१. २. मा.सं२४.२०. ३. पू. मी. ५. १.४.
" मीमांसाकौस्तुभे [ मन्त्रलक्षणाधिकरणम् । सर्वव्यापक सूत्रकृदभिप्रेतमिति प्रतीयते । ननु तत्राऽपि मन्त्रपदवाच्यतावच्छेदकानिश्चये वाच्यत्वप्र. कारकनिश्चयायोगेन कथं लक्षणप्रसिद्धिः ? न हि मन्त्रत्वं नाम जातिः, यत् मन्त्रपदशक्यतावच्छेदकत्वेन निश्चीयेत, तथात्वे वेद. स्वऋत्वादिवदेव गत्वादिना साङ्कर्यापत्तेः, अनेकवर्णाभिव्यक्तीनां योगपद्याभावेन मन्त्रत्वस्याऽभिव्यक्त्यनापत्तेश्च । नाऽप्युपाधिः, स हि यदि मन्त्रपदवाच्यत्वप्रकारकप्रसिद्धिविषयत्वाख्यः, ततो. ऽन्योन्याश्रयता । यदि त्वन्या, ततस्तस्यैव लक्षणत्वोपपत्ते तस्य सूत्रकृदभिप्रेततेति चेत्-न, अखण्डोपाधिरूपस्यैव वेदत्ववन्मन्त्र त्वस्य मन्त्रपदवाच्यतावच्छेदकत्वाङ्गीकारात् । अतश्च तदवच्छेदेन वाच्यत्वेऽवधारिते तत्प्रकारकनिश्चयाविषयत्वस्य लक्षणत्वोपपत्तिः । ततश्च सूत्रम्---तदर्थाभिधानं चोदकं प्रयोजकं येषां तेषु मन्त्रा. ख्य सेवं यथाश्रुतमाभासमानमपि, तच्चोदकेषु मन्त्राध्येत्पु.या मन्त्राख्या मन्त्रपदवाच्यत्वकारिका प्रसिद्धिः सैव विषयतासम्ब. न्धेन मन्त्रलक्षणमिति व्याख्येयम् । यानि तु वृत्तिकारेणाऽस्य- न्तत्वत्वान्तत्वादीनि मन्त्रलक्षणान्युक्तानि तानि अस्यन्तत्वस्य स्वान्ते, वान्तत्वस्य चास्यन्तेऽभावेनाऽव्यापकत्वापत्तेर्भाध्यकारे- गैव दृषितानीति ग्रन्थगौरवभयान्नेह प्रपञ्च्यन्ते ॥ ३३ ॥ इत्यष्टयं मन्त्रलक्षणााधिकरणम् ॥ ८॥ and- अथ नवमं ब्राह्मणलक्षणाधिकरणम् ॥ ९॥ शेषे ब्राह्मणशब्दः ॥२-१-३४ ॥ मन्त्रलक्षणप्रसङ्गात(१) "एतद्राह्मणान्येव पञ्च हवींषी'त्यत्र वेदे प्रयुक्तस्य ब्राह्मणशब्दस्याऽर्थपरिज्ञानार्थ ब्राह्मणलक्षणमुच्य. ते--मन्त्रातिरिक्तवेदत्वं ब्राह्मणत्वमिति । अतश्च विधिवाक्यानि अर्थवादा उपनिषदश्च सर्वमपि ब्राह्मणम् ! अत्र च ब्राह्मणत्व- मपि मन्त्रत्ववदेवाऽखण्डोपाधिरूपं ब्राह्मणपदशक्यतावच्छेदकम् । अन्यथा मन्त्रातिरिक्तवेदत्वरूपब्राह्मणत्वस्येव ब्राह्मणातिरिक्त वेदत्वरूपस्य मन्त्रत्वस्याऽपि वक्तुं शक्यत्वेन विनिगमनाविर. हात् । अतश्च यत्राऽभियुक्तानां ब्राह्मणमिति प्रसिद्धिः, तत् ब्राह्म- णमिति लक्षणस्याऽपि मन्त्रबद्वक्तुं शक्यत्वेऽपि, रुचिवैचिच्यान्म- त्रातिरिक्तवेदत्वमेव ब्राह्मणं सूत्रकृता लक्षितम् । अथवा नैवेदं सूत्रं लक्षणाभिधानार्थम् , अपि तु शेषे मन्त्रातिरिक्तवेदभागे ब्राह्मणशब्दस्य येन केनचिल्लक्षणेन सुज्ञानवान मया लक्षणं वाच्यामिति लक्षणावक्तव्यत्वाभिधानार्थमेव व्याख्येयम् । अत एवाऽने मन्त्रप्रस्तावोऽपि सङ्गच्छते । अत्राऽपि यानि वृत्तिकारणे. तिकरणबहुलवादीनि ब्राह्मणलक्षणान्युक्तानि तान्यव्यापकत्वा. पत्तेर्भाष्यकारेणैव दूषितानीति नेह प्रपञ्च्यते ॥ ३४ ॥ इति नवमं ब्राह्मणलक्षणाधिकरणम् ॥ ९ ॥ १. ते. बा. १. ७. १.
अथ दशमं ऊहाद्यमन्त्रताधिकरणम् ॥ १० ॥ अनाम्नातेष्वमन्त्रत्वमाम्नातेषु हि विभागस्स्यात् ॥ २-१-३५ ॥ (विषयसंशयौ) 'तच्चोदकेषु मन्त्राख्ये'त्यनेन लक्षणद्वयसूचनात्कस्य मुख्य- त्वं कस्य वाऽभ्युच्च यतेति विवेकायेदमधिकरणम् । प्रकृतितोऽ. तिदेशेन प्राप्त "अग्नये जुष्टं निर्वपामी"ति मन्त्रे कार्यवशेन वि. कृतौ प्रक्षिप्यमाणमग्निपदस्थाने सूर्यादिपदमूहः । “आर्षेयं वृणी. त" इति विधिवशादुच्चार्यमाणः काश्यपादिः प्रवरः। 'यजमानस्य नाम गृह्णाती'त्यादिविधित उच्चार्यमाणं देवदत्तपदं नाम । तदेता. न्यूहप्रवरनामधेयानि किं मन्त्राः उत नेति विचारः । केचित्तु मन्त्रब्राह्मणात्मके वेदस्य द्वैराश्ये निरूपिते प्रसङ्गात्मयक्षपठित एव वदे द्वैराश्यं, न त्वनुमित इति वक्तुमूहादीनां वैराश्यबहिर्भाः वोऽनेन प्रतिपाद्यत इत्याहुः । तेषां 'अनाम्नातेष्वमन्त्रत्व त्वमि' तिवदब्राह्मणत्वमित्यपि मूत्रापत्तेः उपेक्षव युक्ता । ( पूर्वपक्षः) तत्र प्रयोगकाले अर्थाभिधायकस्यैव मन्त्रपदवाच्यत्वादूहा. दीनां चाऽर्थाभिधायकत्वस्य स्पष्टत्वात् मन्त्रपदैकवाक्यत्वाच्चैषां मन्त्रत्वम् । अन्यथा ह्यमन्त्रैकवाक्यतापनाना मन्त्राक्षराणामपि श्लोकैकवाक्यतापनमन्त्राक्षरबदमन्त्रत्वापत्तिः । ऊहे तु मन्त्रा- न्तर्गताग्निपदत्यागादप्यवशिष्टाक्षरेषु सा। अस्मन्मते तु मन्त्र.
द्वितीयाध्यायस्य प्रथमः पादः । १११ भूताग्निपदयुक्तानामिव मन्त्रभूतमूर्यादिपदयुक्तानामपि मन्त्र- त्वोपपत्ते ऽयं दोषः । तस्मादहादीनामपि मन्त्रस्वमिति प्राप्त (सिद्धान्तः) अभिधीयते--पूर्वमूत्रव्युत्पादिताव्याप्त्यतिव्याप्स्यादिषणवशे- नैतल्लक्षणायोगस्य स्पष्टत्वादभियुक्तप्रसिद्धिविषयत्वस्यैव तल्लक्षण. त्वं वाच्यम् । अनश्चोहादीनां तदभावेन मन्त्रस्वायोगस्पष्ट एव । न चै. तावता तदेकवाक्यतापनमन्त्राक्षराणाममन्त्रत्वापत्तिः, मन्त्रस्वर- त्यभिज्ञानस्य दृढ़त्वात् । अत एव कर्मकाले याज्यान्ताप्लुतिकरणेऽ. पिन मन्त्रवहानिः । यत्र तु श्लोकायेकवाक्यतापनद्वित्रिमन्त्राक्षरेषु न मन्त्रत्वप्रसिद्धिरभियुक्तानाम्, तत्र मन्त्रत्वे प्रमाणाभावस्स्पष्ट एव । अतश्चोहादिष्वभियुक्तप्रसिध्यभावनाऽमत्रत्वेऽपि तदेकवाक्य. तापमानामक्षरान्तराणां तत्सत्वान्मन्त्रत्वोपपत्तिः । एवञ्च 'ऐरं कृत्वोद्रेयमि'त्यादाविरापदस्य मन्त्रत्वप्रसिध्यभावेनाऽमन्त्रत्वेऽपि तदेकवाक्यतापन्नाक्षरान्तराणां मन्त्रत्वोपपत्तिः। गिरापदे मन्त्रत्व. प्रमिद्धिस्तु अध्ययनकाले, पारायणादौ चोपयुज्यत इति द्रष्टव्यम् । यत्तु वार्तिके इरापदस्य 'ऐरमिति विधिवाक्ये तद्धितान्तर्ग- तत्वेनाऽऽनातत्वादस्येव मन्त्रवामिन्युक्तम् , तत् ब्राह्मणे समाना- तस्याऽपि मन्त्रप्रसिध्यविषयत्वेन मन्त्रवायोगात् 'वसन्ताय कपि. अलानालभेते यादिवन्मन्त्रकाण्ड पाठाभ्युपगमेऽपि वा ऐरपदस्यैव पठितत्वेन मन्त्रत्वापत्तेस्तद्विधेयस्येरापदस्य वस्तुतः पाठाभावेन मन्त्रत्वानुपपत्तरतिशयार्थमिति द्रष्टव्यम् । एवं यत्राऽपि सूक्तवाका. दौ "आशास्तेऽयं यजमानोऽसा" विति सर्वनामसंयुक्तमन्त्राम्ना. तत्राऽप्यसावियस्य स्वाध्यायकाले, मन्त्रस्याऽपि कर्मकाले तत्पदस्थाने पठनीयस्य देवदत्तादिपदस्य स्वरूपेणाऽपाठादभिः नम्, १५ मी० को ११२ मीमांसाकौस्तुभे [ ऋग्लक्षणाधिकरणम् । युक्तमसिद्धिविषयत्वानुपपत्तेरमन्त्रत्वम् । न च सर्वनाम्नि मन्त्र तापसिद्धस्तत्रानर्थक्ये तदनुमेयदेवदत्वादिपदविषयत्वकल्पनान्म- न्त्रत्वोपपत्तिरिति वाच्यम् । सर्वनाम्न्यपि मन्त्रत्वप्रसिद्ध स्स्वाध्यायोपयुक्तत्वात् ! अतोऽत्राऽपि देवदत्तादिपदे मन्त्रत्वो- क्तिरतिशयाथै व वार्त्तिके द्रष्टव्या । तस्मादभियुक्तप्रसिध्यविषय. त्याधुक्तमूहादीनाममन्त्रत्वम् । प्रयोजनं--पूर्वपक्षे जहादिभ्रेषे मन्त्रभ्रेषनिमित्तं प्रायश्चित्तम् । सिद्धान्ते त्वङ्गभ्रषनिमित्तकमेव । मन्त्रत्वनिमित्तकशन्दविकारा- दिसदसद्भावश्च । सूत्रं स्पष्टम् ॥ ३५ ॥ इति दशमं जहाधमन्त्रताधिकरणम् ॥ १० ॥ -waAmmonimes अथैकादशं ऋग्लक्षणाधिकरणम् ॥ ११ ॥ तेषामृग्यत्राऽर्थवशेन पादव्यवस्था ॥२-१-३६॥ एवं लक्षणस्थिरीकरणेन (१)मन्त्रपदे व्युत्पादितेऽधुना प्र. सङ्गाचदवान्तर भेदरूपस्य ऋगादेः “अहे बुटिनय मन्त्रं मे गो- पाये"ति वेदस्थऋगादिपदार्थज्ञानार्थ लक्षणमुच्यते। तेषां मन्त्रा. णां मध्ये यत्र पादव्यवस्था त्रिपदा गायत्री' 'चतुष्पदा बृहती' त्यादिका सा ऋक् ! अथवाऽस्मिन्नक्षरे पादसमाप्तिः, नाऽस्मिन्निति पाव्यवस्था यत्र सा ऋक्, वृद्धव्यवहारे तादृशमन्त्र एव ऋक्श. ब्दप्रयोगात् । सा च पादसमाप्तिः कचिदर्थवशेन । यथा(२) 'अग्नि- मीले पुरोहितमित्यत्र । न चाऽत्र ऋगापर्यवसानात्कथमर्थव शेन १ मन्त्रपदार्थ इति. क, ख. पु. २. ऋ. सं. १.१.१.
दलीयाध्यायस्य प्रथमः पादः। ११३ पादस्य समाप्तिः ? ऋगापर्यवसानेऽपि ईल' इत्याख्यातपदाद बान्तरार्थपर्यवसानोपपत्तेः । एवमपरयोरपि पादयोरेतदाख्याता- नुषङ्गेणैवाऽर्थपर्यवसानं द्रष्टव्यम् । अतो युक्ताऽर्थवशेन पादव्य व स्था । कचिच्च(१) "अग्निः पूर्वेभिऋषिभि" रित्यादौ लघुगुर्वक्षर साम्याख्यवृत्तवशेन “अग्निमील" इत्यादौ चाऽक्षरसङ्ग्यानिय- पलक्षणछन्दोवशेन, (२)"तमुनामिन्द्रं न रेजमान"मित्यादौ चाऽ. ल्पवैषम्येणैव पादव्यवस्था । अत एव सूत्रे अर्थवशग्रहणं वृत्तव- शादेरुपलक्षणार्थम् । तदपि च न लक्षणान्तर्गतम् , पादव्यवस्थाव- वन्मन्त्रस्वरूपस्यैव लक्षण स्याऽनतिप्रसक्तत्वात् ।। ३६ ॥ इत्येकादशं ऋग्लक्षणाधिकरणम् ॥ ११ ॥ अथ द्वादशं सामलक्षणाधिकरणम् ॥ १२ ॥ गीतिषु सामाख्या ॥ २-१-३७ ॥ अत्र 'तेषामित्यनुवृत्त्या मन्त्रगतगीतित्वस्य सामशब्दार्थता लभ्यते । अतश्च न लौकिकगीतावतिप्रसङ्गः । अभियुक्तव्यव- हाराचाऽस्याऽपि शब्दार्थत्वावधारणम् । न चैवं वैदि. कगीति(३)विशिष्टमन्त्रेऽभियुक्तप्रयोगान्मन्त्रस्याऽपि वाच्यता- पत्तिः, मन्त्राणां व्यक्तिन्यायेन लक्षणयाऽपि भानोपपत्ती अतिरिक्तशक्तिकल्पने प्रमाणाभावात् । विस्तरेण चैत- (४)सप्तमे उपपादायध्यामः । न चैत्र पौनरुक्त्यम् , १ ऋ. सं. १.१. १. २. ऋ.सं. ७.६.१. ३ विशिष्ट मन्त्रस्याऽपि वाच्यतापत्तिरिति, ख. पु. पू. मी. ७.२.१. साम- ११४ मीमांसाकौस्तुभ | यजुर्लक्षणाधिकरणम् । १ ब्दस्य गीतिमात्रवाचित्वे तद्विशिष्टमन्त्रवाचित्वे वा, उभयथा ऋग्यजुभ्या(२)विवेकोपपचेीतिमात्रवाचित्वस्येहाऽनुपयोगेना- ऽवाच्यत्वात्, सप्तम एव ऋगन्तरे अतिदेशसिध्यर्थमव- श्यवाच्यत्वात् । इह सप्तमसिद्धस्यैव गीतिमात्रवाचित्वस्य अना- गतावेक्षणेन शिष्य हितार्थ कथनेन पौनरुत्वनापत्तेः । यथा च तस्य नाऽऽकृत्यधिकरणेन पौनरुक्त्यं, तथा सप्तम एव उपपा. दयिष्यामः । यत्तु(२) नवमे पुनर्गीतिमात्रवाचित्वकथनं, तदुत्त. रविवक्षार्थ(३) स्मरणार्थमिति तत्रैव वक्ष्यते ॥ ३७॥ इति द्वादशं सामलक्षणाधिकरणम् ॥ १२ ॥ , अथ त्रयोदशं यजुर्लक्षणाधिकरणम् ॥ १३ ॥ शेषे यजुशब्दः ॥२-१-३८॥ ऋक्सामभिन्नं यत्पश्लिष्टाक्षरमन्त्रजातं तद्यजुः । स्तोभा- क्षराणामपि यजुष्ट्वान्नातिव्याप्तिः ॥ ३८ ॥ इति त्रयोदशी यजुर्लक्षणाधिकरणम् ॥ १३ ॥ १ विवेकसिद्धेरिति. क. स. पु. ३ स्मरणमात्रामति.क.सा.पु. २पू. मी. ९. २. १.
अथ चतुर्दशं निगदाधिकरणम् ॥ १४ ॥ निगदो वा चतुर्थं स्याद्धर्मविशेषात् ।। २-१-३९ ॥ (विषयसंशयौ) 'शेषे यजुरमान्द' इत्येतदाक्षेपेणेदमारभ्यते । सन्ति निगा नाम प्रायशः परसम्बोधनार्था मन्त्राः 'अग्नीदग्नीन् विहरे'त्याद. यः । ते किं यजूंध्यव, उत भिन्ना इति विचारः । (पूर्वपक्ष) तत्र निगदानां यजुष्ट्ये "उपांशु यजुषेति वचनेनोपांशु. स्वप्राप्तेः "उच्चैर्निगदेने" ति वाक्यविहितोचैस्त्वानुपपत्तिः । न च विशेषविहितेन सामान्यविहितस्य बाधः, विशेषविधेस्स्ववि. षयवृत्तिभेदबोधनेनाऽप्युपपत्ती सामान्यस्याऽपि वाक्यस्य स. कोचे प्रमाणाभावात् । न च परप्रत्यायनरूपकार्यानुरोधेनोपां. शुत्वविघेसङ्कोचादु निगदेने त्यस्याऽनुवादकत्वोपपत्तेने भेद- बोधकतेति वाच्यम् । मन्त्रगतालिङ्गप्रमाणकपरमत्यायनरूपकार्या. तुरोधेन वाक्यस्याऽपि ब्राह्मगगतस्य सङ्कोचायोगात् 'नमः प्रवक्त्रे' (१) देवेद्धो मन्विद्ध' इत्यादीनां परसम्बोधनार्थत्वस्या- ऽप्यभावाच । सत्यपि परसम्बोधनार्थत्वे उपांशुत्वव्यतिरिक्त. मन्द्रादिवराणामपि पक्षे प्राप्तवादुच्चै त्वानुवादानुपपत्तेश्च । अ. तथोचनिगदेनेत्यस्य विधित्वावश्यंभावाझेदवोधनादपि च तदु. पपत्तेर्न सामान्यस्याऽपि वाक्यस्य सङ्कोचकल्पनावसरः । तस्मा. दर्थान्तरं निगदाः । मूत्रं स्पष्टम् ॥ ३९ ॥ १ ते. बा. ३.५.३.
मीमांसाकौस्तुभे [निगदाधिकरण - . व्यपदेशाच्च ॥ २-१-४० ॥ इमे निगदाः, इमानि यजूंषीति संज्ञाभेदादपि ज्योतिरादि. बद्भेदकतोपपत्तेरथान्तरम् । एवञ्च "मन्त्र एव खल्वयं निगद- भूतो भवति तस्माद्यजु" रिति सुब्रह्मण्यावाक्यशेषे निगदस्य यजुष्टसङ्कीर्तनं योगेन यागसाधनत्वमात्रपरम्, सुब्रह्मण्यामात्र स्यैव वा यजुष्वज्ञापकमिति द्रष्टव्यम् ॥ ४० ॥ यजूंषि वा तद्रूपत्वात् ॥ २-१-४१ ॥ (सिद्धान्तः) नैतदेवम्, 'अहे बुनिये' ति मन्त्र मन्त्रावान्तरभेदाना. मृगादिमन्त्राणां त्रयाणामेवाऽनुकीर्तनेन निगदस्य भेदेनाऽननु कीर्तनात् , 'मन्त्र एव खल्वयं निगदभूतो भवतीत्यत्र ऋक्सामाभि- नमन्त्रत्वस्य सुब्रह्मण्यानिगदे यजुष्टसाधकत्वेनोक्तस्य निगदा. न्तरेष्वपि सत्वाच्च । न चाऽत्र यौगिको यजुश्शन्दः, जपादि. साधनमन्त्रेऽपि प्रश्लिष्टपठिते यजुश्शब्दप्रयोगेण तस्य रूढत्वा. वगमाद्यौगिकार्यबोधकत्वानुपपत्तेः । तस्माघजूरूपप्रयभिज्ञाना- यजुष्ट्वमेव ॥४१॥ यचु विरुद्धधर्मकत्वानेद इति तत्रोत्तरम्- वचनाद्धर्मविशेषः ॥ २-१-४२॥ (१)"वेदो वा मायदर्शनादि" सत्र तृतीये वेदोपक्रमानुरो- धेनोचैरत्वादेः ऋग्वेदादिविहितकाङ्गमन्त्रमात्राङ्गत्वस्य स्थाप. यिष्यमाणत्वेन भवन्मतेऽपि उर्निगदेने त्यस्य 'उपांशु यजुषेति १.स. ३. ३.२, sunita सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः । वाक्यसोचकत्वावश्यंभावानेदानुमापकत्वानुपपत्ते, सत्यपि चोच्चस्त्वादेः ऋगादिधर्मत्वे परप्रत्यायनरूपकार्यानुरोधेनैवोपां. शुत्वानुपपत्तेः 'उपांशु यजुषे'त्यस्य निगदविषयत्वानुपपत्तेः, सत्यपि निगदानां यजुष्ट्ये 'उच्चैर्निगदेने त्यस्य निगदेषु पक्ष. पातमन्द्रादिब्यावर्तनफलकोच्चैस्त्वनियामकत्वोपपत्चेदानुमाप- कत्वायोगाच्च। न च लैङ्गिकपरप्रत्यायनार्थत्वस्य ब्राह्मणवाक्यगतेन वा. क्यप्रमाणकेनाऽपि बाघशंक्यः, लैङ्गिकस्याऽपि प्रधानभूतस्य परप्रत्यायनस्याऽङ्गभूतेनोपांशुत्वेन बाधायोगात् । उक्तं होतत्(१) प्रमाणबलाबलापेक्षया प्रमेयबलाबलं ज्याय इति । अतश्च लिङ्गे- नैव'उपांशु यजुषे'त्यस्य सङ्कोचितत्वान्न 'उच्चैर्निगदेने यस्य स. ङ्कोचकता । किंच नाऽवश्यं लिङ्गस्यैव विधिसङ्कोचे व्यापारः, अपि तु विधिवाक्यस्याऽपि स्वनिष्ठगौरवपरिहारार्थ सः। तथा हि-'उपांशु यजुषे यस्य निगदेवत्यन्ताप्राप्तोपांशुतावि. धायित्वेनाऽपूर्वविधित्वापत्तेः, तस्य चाऽदृष्टोद्देश्यकत्वेन गौरवा- पत्तिः। पुनश्च निगदभिन्नमन्त्रान्तरे पक्षप्राप्तोपांशुतानियामकत्वेन नियमविधित्वाद्वैरूप्यम् । अतो निगदातिरिक्तेष्वेव दृष्टपदार्थोद्देश्य कतालाघवार्थ स्वरविशेषनियामकत्वाङ्गीकरणात्स्वयमपि विधिः स्वसंकोचे व्याप्रियते । अतश्चोपांशुत्वाविषयीभूतेषु निगदेषू. 'चैर्निगदेने त्यनेन स्वरनियमो नाऽनुपपन्नः । यत्तु मूले 'उच्चैर्निगदेने सस्य परप्रत्यायनरूपकार्यबळमा. सोच्चैस्वानुवादकत्वमुपांशुत्वविधिप्रशंसाफळ कमङ्गीकृतम् , तद तिशयार्थम् , मन्द्रादिस्वरान्तराणामपि पक्षे प्राप्तत्वेन नित्यवदनु- वादायोगात् । परप्रत्यायनरूपकार्यरहितानामपि निगदानां स- १.शिष्टाकोपाधिकरणे (१-३-३) . - ११८ मीमांसाकौस्तुभे [विगदाधिकरण- स्वेन तेषूपांशुत्वस्याऽपि पक्षे प्राप्तथा सुतरां तदयोगाच्च । न चैवं 'उपांशु यजुषे त्यत्र वस्तुतो (१)वेदोपक्रमाधिकरणन्यायेन वेदलक्षणाचनिगदपदेऽपि यजुर्वेद लक्षणापत्र्यजुर्वेदविहितकर्मा- ङ्गभूतमन्त्रेपूच्चस्त्वोपांशुस्वविकल्पापत्तेः, वेदोपक्रमस्यैकत्रैव लक्ष. णातात्पर्यग्राहकत्वेनोपपत्तावुभयत्र तदङ्गीकारे प्रमाणाभावात् । न च नियामकाभावः, 'वायोर्यजुर्वेद' इति यजुःपदसमभिव्या- हृतवेदपदोपक्रमस्य यजुःपदलक्षणायामेव तात्पर्य ग्राहकत्वेन तदसिद्धेः। अतोपांशुत्वस्य वेदधर्मत्वेऽप्यु 'चैनिंगदेने'त्यस्य निरर्थवादकस्यैव निगदमात्रोद्देशेन विशेषविधया पक्षप्राशोच्चैः स्वादिनियामकत्वोपपत्ते ऽनुवादकत्वसम्भवः । अतश्च निग. दानां यजूरूपत्वेऽपि परमत्यायनरूपकार्यानुरोधेनोपांशुत्वापा- तया ते स्वविधानोपपत्तेन धर्मविरोधाद्भेदसिद्धिः ॥ ४२ ॥ अर्थाच्च ॥ २-१-४३ ॥ ननु 'अग्नीदग्नीन विहरे'त्यादेलोटः प्राप्तकालताया. मप्युपपत्तेः औषत्वनियामकाभावेन परप्रत्यायनार्थत्वाभावान वा- चनिकोपांशुत्ववाधो युक्त इति चेत्, एवमपि सामान्यविहितोपां. शुत्वस्थ विशेषविहितेनोच्चै स्त्वेन बाधेऽपि बाधकाभावात् । वस्तुतस्तु प्राप्तकालत्वे लोटोऽदृष्टार्थत्वापत्तेदृष्टार्थत्वानुरो. धेन श्रेषत्वावसायायुक्त एवोपांशुत्वबोधः ॥ ४३ ॥ यतु संबादाद्भद इत्युक्तं, तत्रोत्तरम्- गुणार्थों व्यपदेशः ॥२-१-४४ ॥ e- १. पू. मी. ३.३. १.
सिद्धान्तः] द्वितीयाध्यायस्य प्रथमः पादः । ११९ योऽयं यजुवे सत्यपि निगदव्यपदेशः, स ब्राह्मणत्वे सत्यपि परिव्राजकत्वव्यपदेशवत्परप्रत्यायनरूपकार्यवशेनोपांशुत्वनिवृत्तौ नितरां गदनरूपगुणयोगेनोपपन्न एव । अत एवोपांशुत्वाभावमा. कृतप्रकर्षबलेनैव 'उच्चैर्निगदेनेत्येतद्वाक्ये निगदानुवादेनोच्चै- स्त्वविधानात्तद्विधेः पूर्वमेव प्रयुज्यमानस्य निगदशब्दस्य शक्य. तावच्छेदकावगतिसिद्धिः । अतश्च मूळे उच्चस्त्वरूपप्रकर्षस्य श. क्यतावच्छेदकत्वोक्तिरतिशयाथै व ॥४४॥ सर्वेषामिति चेत् ॥ २-१-४५ ॥ उपांशुत्वभिन्नस्वरोच्चारणविषयत्वस्यैव निगदपदशक्यताव- च्छेदकत्वे ऋच्यपि(१)तत्संभवान्निगदपदप्रयोगापत्तिः। अतो रू. ढस्वावसायान्निगदयजुस्संज्ञयोर्भेदकत्वं ज्योतिरादिवदुपपन्नमेवेति चेत् - न ऋग्व्यपदेशात् ॥ २-१-४६ ॥ गदतेरपादबदाक्षरसमूहवाचकत्वात् निशब्दस्य च प्रकर्ष- वाचित्वादवयवयोगेनोपांशुत्वभिन्न स्वरयुक्तापादबद्धमन्त्राक्षरत्व स्यैव शक्यतावच्छेदकत्वप्रतीतेः ऋच्यतिप्रसङ्गाभावेन रूदत्त्वक- ल्पने प्रमाणाभावात् । अनेनैवाऽभिप्रायेण "अयाज्या वै निग. दाः ऋचैव यजती"ति निगदानां ऋग्मेदव्यपदेशोऽपि सङ्गच्छ- ते। तस्मान्न रूढत्वेन ज्योतिरादिपदवद्भेदकत्वं संज्ञायाः। वस्तुतस्तु 'नमः प्रवक्त्र'इत्यादिनिगदेषु वचनेनैवोपांशुत्वम. तिप्रसवादवयवयोगबाधेनाऽश्वकर्णादिवढूढेरावश्यकत्वेऽपि नि. गदत्वस्याऽखण्डोपाधिरूपस्य यजुष्ट्वावान्तरव्याप्यस्यैव निगद. १. तत्सद्भावादिति क. पु. १६ मी० को १२० मीमांसाकौस्तुभे [एकवाक्यताधिकरणम् । पदशक्यतावच्छेदकत्वेन(१) कल्प्यत्वान्मनुष्यब्राह्मणसंज्ञयोरिव व्याप्यव्यापकभावेन निगदयजुस्संज्ञयोरेकस्मिन्नप्युपपत्तेनं भेद. कत्वापत्तिः । तस्माद्यजूंष्येव निगदा इति सिद्धम् । प्रयोजनं वाचस्तोमे "सर्वा ऋचस्सर्वाणि यजूंषि सर्वाणि सामानि पारिप्लवं शंसती"ति विहिते शंसने निगदानां यजुष्ट्ये शंसनम् , भेदे तु नेति द्रष्टव्यम् ॥ ४६ ॥ इति चतुर्दशं निगदाधिकरणम् ॥ १४ ॥ अथ पञ्चदशमेकवाक्यताधिकरणम् ॥ १५॥ अर्थैकत्वादेकं वाक्यं साकाक्षं चेद्विभागे स्यात् ॥ २-१.४७॥ तदेवं यजुष्ट्वाश्रये निरूपिते अधुना प्रसङ्गात्तयजुष्ट्वं कियत्सु पदसमूहेषु व्यासज्य वर्तते, कियत्सु वा पर्याप्नोतीति विवेका- थमिदमारभ्यते । यावति पदसमूहे लोके वाक्यत्वप्रसिद्धिः, तावत्येव यजुष्टं, न तु वाक्यसमूहे, तस्यैकार्थ(२)प्रतिपादकत्वा- भावेन विनियोगानहत्वात् । लोके च यत्रैकार्थकत्वं विभज्यमाने साकाङ्कत्वं च तावत्येन वाक्यत्वप्रसिद्धस्तावत्येव यजुष्ट्वमित्यच. गम्यते। ननु किमिदमर्थैकत्वम् ? न तावत्पदार्थकत्वम् , तेषां गामा- नयेत्यादिवाक्येऽनेकत्वात् । नाऽपि वाक्यार्थैकत्वम् , तस्याऽपि संसर्गरूपत्वेन प्रतिपदार्थ भेदात् । नाऽपि प्रयोजनकत्वम् , तद्य. दिशेषिरूपप्रयोजनकत्वं विवक्षितं, ततः 'सौर्य चमि'त्यादौ द्रव्य. कल्पनीयत्वादिति क. पु. २. प्रकाशकत्वाभावेनेति क. ख. पु. ? १.
, द्वितीयाध्यायस्य प्रथमः पादः। देवते प्रति यागः, (१)यागंच प्रति फलमित्यनेकार्थत्वादर्थंकवा. नापत्तिः, "सर्वेभ्यो दर्शपूर्णमासा" वित्यादौ च सा । अथ मुख्य विशेष्यरूपप्रयोजनकत्वम् , तदापि "दर्शपूर्णमासाभ्यां स्वर्गका मो यजेते" त्यादावानेयादिभावनानां मुख्य विशेष्याणां भिन्न- त्वाचदेकत्वानापत्तिः । अथ मुख्यविशेष्यप्रतिपादकशब्दकत्वम् , ततो व्रीहियव वाक्ययोः, 'भगो वां विभजत्वि'त्यादौ च तत्मतिपादक. शब्दभेदेनाऽर्थैकत्वानापत्तेर्विभज्यमानसाकाङ्क्षस्वरूपविशेषणोपा. दानवैयर्थ्यमिति चेत्-न; भिन्नमतीतिविषयानेकमुख्यविशे. ध्यराहित्यमर्थैकत्वम् । अस्ति च गामानयेत्यादौ तत् , आन. यनभावनाया मुख्यविशेष्यभूताया एकत्वात् । अस्ति चेदं दर्श पूर्णमासवाक्येऽपि, अनेकासामप्याग्नेयादिभावनानामेकेन प्रत्य. येनोपादानात् भिन्नप्रतीतिविषयत्वासिद्धेः । ब्रीहियवादिवा- क्ययोः, 'भगो वां विभजत्वि'त्यादौ च सत्यपि भिन्नप्रतीति. विषयत्वे मुख्यविशेष्यस्य यागविभागभावनादेरेकत्वादथैकत्वोप- पत्तिः । न ह्यत्र "आयुर्यज्ञेन कल्पताम् , प्राणो यज्ञेन कल्पता" मित्यत्र "क्लृप्तीवाचयती"ति बहुवचनवद्विभागभेदे प्रमाणमस्ति, यतोऽर्थभेदश्वाङ्कयेत । अतस्सत्यपि बीहियव वाक्ययोः, "भगो वां विभजतु, अर्यमा वां विभजतु, पूषा वां विभजत्वि" सादौ चोक्तविधार्थैकत्वे विभज्यमानसाकाङ्क्षत्वाभावाद्वाक्यभेदसिद्धिः । विभज्यमानताकाङ्क्षत्वं चाऽन्वीयमानयोः पदार्थयोरनन्वये अनिवृत्ताकाङ्क्षत्वम् । यथा-गामानयेयत्र गोशब्दस्य । न च 'भगो वामि'त्यत्र 'अर्यमा वामि'त्यस्याऽनन्वये साकाङ्कत्वम- स्ति, स्ववाक्योपात्तविभजत्यन्वयनैव निराकाङ्कत्वात् । अतो. ऽस्त्येव विभज्यमानसाकाङ्क्षत्वविशेषणसार्थक्यम् । १.तं प्रति चेति क. पु.
. १२२ मीमांसाकौस्तुभे [एकवाक्यताधिकरणम् । अर्थैकत्व विशेषणसार्थक्यं तु "स्योनं ते सदनं कृणोमी" त्यस्याऽपि तस्मिन् सीदे'त्यनेनाऽनन्वये तच्छन्दस्य साकाङ्कत्वेन विभज्यमान साकाङ्कत्वादेकवाक्यतापत्तेष्टव्यम् । तत्र विभज्य. मानसाकाङ्कत्वेऽप्यर्थैकत्वाभावात् । न हि सदनकरणप्रतिष्ठाप. नभावनयोरेकपदोपादानमस्ति, येनैकप्रतीतिविषयत्वमाशङ्कयेत । सदनकरणभावनायाः प्रतिष्ठापनभावनायां प्रकारत्वाङ्गीकारेण (१)मुख्यविशेष्यभेदराहियशङ्का तु, आख्यातस्वाभाव्येन तस्या अपि मुख्यविशेष्यताप्रतीतेः, तच्छब्दस्य च वाक्यान्तरोपात्तसद. नकरणप्रकाशकत्वेनाऽप्युपपत्तेर्वाक्येन लिङ्गबाधायोगादयुक्ता । अतोऽर्थैकत्वाभावादेव तत्रैकवाक्यत्वाभावः । 'देवस्य त्वे'त्या. दिवाक्ये तूभयसत्वाद्युक्तं निर्वामीत्यन्तस्यैकवाक्यत्वम् । अतश्च तावत्येव यजुष्टमपि, तावत एवाऽर्थप्रकाशकत्वेन यागसाधनत्वात् । न च न यागसाधनत्वमात्रेण यजुष्ट्वम् , ऋच्यपि तदापत्तेः, जपादिसाधनेषु तदनापत्तेश्च, किन्तु मन्त्रत्वावान्तरधर्मरूपमख- ण्डं तदियङ्गीकर्तव्यम् । तस्य च वेदत्ववत् सर्वमन्त्रेषु व्यासक्ति- कल्पनेऽपि यजुरवयवस्यैव विनियोगेन प्रकाशकत्वोपपत्तेर्न य. जुष्टस्य पर्याप्तिकल्पने प्रमाणमस्तीति वाच्यम् । 'मन्त्र एव ख- त्वयं निगदभूतो भवति तस्माद्यजु" रित्यादौ वाक्येऽपि यजु. शब्दप्रयोगात्पर्याप्तितितोपपत्तेः : । अन्यथा हि सर्वेषु मन्त्रवा. क्येषु व्यासक्ते यजुष्ट्ये एकस्मिन्निगदे यजुरवयवत्वान्न यजुश्शब्द. प्रयोगोपपत्तिः । अतो वाक्य एव पर्याप्तं यजुष्टम् । एवं मन्त्रत्व. मपि वाक्ये मन्त्रशब्दप्रयोगात्पर्याप्तमेव । वेदरवं तु एकस्मिन्या- क्ये अधीते वेदोऽधीत इति व्यवहाराभावाद्यासज्यवृत्त्येवेति व. क्ष्यते । न चैवं मन्त्रत्वयजुष्वयोर्वाक्यमात्रवृत्तित्वे किंचिन्न्यूनेऽपि १. मुख्यविशेष्यत्वाभावशङ्कोति क. पु. .
द्वितीयाध्यायस्य प्रथमः पादः । १२३ तस्मिन्मन्त्रत्वाधनापत्तिः, गोगडुनि जाते, विषाणे वा भन्ने गोत्व- प्रत्यभिज्ञावलेन गोत्ववदिहापि तथाङ्गीकारे बाधकाभावात् । अत एव यत्र न प्रत्यभिज्ञा, यथा श्लोकायेकवाक्यतापनद्वित्रि. मन्त्राक्षरेषु, तत्र नैव मन्त्रत्वमित्युक्तं प्राक् । तस्मात्सिद्धं वाक्य. मात्रवृत्ति यजुष्ट्वमिति। सूत्रं तु-यद्विभज्यमानसाकाङ्क्ष पदजातं तदर्थैकत्वे सत्यकं वाक्यमित्येव लोके प्रसिद्धिः, अतस्तादृशवाक्यत्येव यजुवमित्येवमध्याहारेण व्याख्ययम् । न तु यथाश्रुतमेव वाक्य. लक्षणपरमेकवाक्यत्वलक्षणपरं वा, पूर्वोक्तमन्त्रप्रस्तावेनाऽसङ्गत. स्वापत्तेः । अतो मन्त्रावान्तरविभागे पूर्व निरूपिते, अधुना तद- वान्तरभेदरूपस्य यजुषः परिमाणं निरूप्यत इति द्रष्टव्यम् । अत एव ऋक्सामरूपयोस्तदवान्तर भेदयोरध्येतृसिद्धपरिमाणत्वात्तद. निरूपणेऽपि न क्षतिः ॥ ४७ ।। इति पञ्चदशमेकवाक्यताधिकरणम् ॥ १५ ॥ अथ षोडशं वाक्यभेदाधिकरणम् ॥ १६ ॥ समेषु वाक्यभेदस्स्यात् ॥ २-१-४८ ।। (विषयसंशयो) तदेवं विभज्यमानसाकाङ्कत्वविशिष्टार्थेकत्वकृतवाक्यैकत्वेन यजुःपरिमाणे चिन्तिते, अधुना विभज्यमानसाकाङ्कत्वादिकमेव कियत्सु पदेषु व्यासक्तमिति विचार्यते । दर्शपूर्णमासयोः “इषे स्वोर्जे त्वा वायव स्थे" त्यादि समाम्नायते । तत्र 'वायव स्थे. त्यादेस्तावद्वत्सापाकरणे विनियुक्तस्य 'स्थे'तिक्रियापदसत्वादायु- १२४ भीमांसाकौस्तुभे [वाक्यभेदाधिकरण - तत्रा. वच्छीघ्रगामिनोभवथ, मात्समीपं पुनरागामिनो भवथेत्युक्ते चा अर्थादपाकरणप्रतीतेः 'देवस्य त्वे तिमन्त्रवदेव सुज्ञानं परिमाणम् । 'इषे त्वे' त्यादेस्वेकवचनान्तस्य शाखाच्छेदनादौ विनियुक्तस्य 'वायव स्थेसनेनैकवाक्यत्वासम्भवात्ततोभिन्नत्वेनाऽवगतस्याऽपि स्ववाक्ये आख्यातपदाश्रवणान सुज्ञानं परिमाणमिति चिन्यते - कियदेकं यजुरिति । तथा वाजपेये पठितं "आयुर्यज्ञेन कल्पता, प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पता"मित्यादि । ऽपि कियदेकं यजुरिति चिन्त्यते । तदर्थं चाऽर्थैकत्व विभज्यमान साकासत्वे कियत्नु पर्याप्त इत्यपि चिन्तनीयम् । ( पूर्वपक्षः) तत्र 'इषे त्वे त्यादावाख्यातपदाश्रवणेऽपि साकाङ्क्षत्वात्तचा- वदवश्य कल्पनीयम् । न च साकाङ्क्षार्थज्ञानस्याऽपि मन्त्रजन्य- स्याऽदृष्टार्थत्वेन जपादिवदुपपत्तेनोऽध्याहारावश्यकत्वमिति वा- च्यम्। "इषे त्वेति शाखां छिनत्ति, ऊर्जे त्वेत्युन्माष्टी"तीतिकरणेन छेदनाद्यङ्गत्वेन मन्त्रविनियोगान्मन्त्रे इतिकरणावगतकरणत्वस्य चाभिधानं विनाऽनुपपत्तेः छेदनादिप्रकाशकत्वावगमेन छिनमी. त्यादिपदाध्याहारावश्यकत्वातीतः । अतश्चाऽश्रूयमाणस्यैक- स्यैवाऽख्यातस्य कल्पनयवोपपत्तावनेककल्पने प्रमाणाभावात् 'इषे त्वोर्जे त्वे ति पदचतुष्टयान्ते एकमेव तदध्याहियते । यद्यपि च विनियोगभेदात्पूर्वपक्षेऽपि छिनधि, उन्मामीत्याद्याख्यातद्वय कल्पनमावश्यकम् , तथापि 'इषे त्वे त्यस्य सामर्यात्माकरणिक सर्वयोग्यक्रियार्थत्वस्थाऽवगतस्याऽन्यक्रियाविषये बाधेऽप्युन्मा- जनविषयेऽपि बाधे प्रमाणाभावेन समस्तस्यैवैकै कत्र विनियो. गावगरेकवाक्यत्वोपपत्तिः। न च 'ऊर्जे त्वेत्युन्मा त्यस्यैव पदद्वय मात्रविनियोजकस्य पूर्वपक्षः] द्वितीयाध्यायस्थ प्रथमः पादः । १२५ ब्राह्मणवाक्यस्य सामर्थ्यप्राप्लेषेवेति पदद्वयबाधकत्वम् , तस्य प्रतीकग्रहणेनाऽपि समस्त विनियोजकत्वोपपत्तौ सामर्थ्यबाधे प्र. माणाभावात् । न च 'इषे त्वेति शाखां छिनत्ती त्यस्यादिप्रतीकेन समस्तबिनियोजकत्वोपपत्तावप्यूर्जेत्वेत्यस्य कथं मध्यमप्रती- केन समस्तविनियोजकत्वमिति वाच्यम् , (१)"आनः प्राण एतु पराक्त आन्तरिक्षादिवस्परि आयुः प्रथिव्या अध्यमृतमसि प्रा. णाय त्वे"ति मन्त्रस्य(२) "प्राणाय त्वेति हिरण्यमभिव्यनिती" स्यनेनाऽन्तिमप्रतीकेनाऽपि विनियोगस्य सङ्कर्षे वक्ष्यमाणत्वात् , तन्न्यायेनाऽत्र मध्यान्त्यप्रतीकेनापि समस्त विनियोगोपपत्तेः। अतश्च समस्तस्यैकाख्यातकल्पकत्वेनैकार्थत्वात्तस्मिश्च सर्वेषाम- नन्वये अनिवृत्ताकाजुत्वेन विभज्यमानसाकाङ्कत्वादेकवाक्पता- लाभेन यजुष्ट्वोपपत्तिः। क्लुप्त्यादिमन्त्रे तु यद्यपि कल्पतामि. त्याख्यातं श्रुतम् , तथाऽपि विभागवत्क्लुप्तिभेदे प्रमाणाभावेनै- कार्थत्वोपपत्तिः। न चायुरादिकारक भेदादेव क्लूप्तिभेदः, भगादिवत्तेषां स्व. तोऽसमवेतत्वेन स्तुतिमात्रोपयोगितया एकस्यामपि क्रियायां निवेशसंभवेनाऽभेदकत्वात् । न च 'क्लृप्तीचियतीति सङ्ख्यया क्लूप्तिभेदः, वाचयतेकच्चारणानुकूकप्रयोजकव्यापारवाचित्वेन तदन्तर्गत(३)वचनकर्मतया अर्थरूपायाः क्लुप्तेरन्वयायोगेन क्ल: प्तिपदस्य कल्पतामिति पदलक्षकत्वावगतेस्सङ्ख्यायास्तनिष्ठत्वेन क्लप्तिरूपार्थनिष्ठत्वाभावात्तद्भेदकत्वानुपपत्तेः । न चैवमेकार्थत्वोपपत्तावपि विभागवदेव विभज्यमानसा. काङ्गत्वाभावान्नैकवाक्यत्वोपपत्तिः, एतेषां प्रोत्साहनार्थत्वेन दृष्टा. नामपि 'क्लुप्तीचियती'त्यनेन समुच्चयावगमादेकस्मिन्प्रोत्सा. १. तै. सं. ३.३, ३. २. तै.सं.३.३.४.३. वचिकर्मतयेति क. ख. पु.
१२८ मीमांसाकौस्तुभे [वाक्यभेदाधिकरणम् । प्तिपदं कल्पतामितिपदपरं, तद्घटितमन्त्रपरं वा, लक्षणाप्रस. ङ्गात् , अपि तु क्लुप्तिरूपार्थपरमेव । न च क्लुप्तिरूपार्थपरत्वे तस्योचारणानुकूलव्यापारवाचिवाचयत्यन्तर्गतवचिकर्मत्वानुप. पत्तिः, 'वचपरिभाषण' इत्यनुशासनबलेन चचेराभिधानार्थक. स्वावसायातं प्रत्यर्थस्य कर्मत्वोपपत्तेः । अत एव काचित्को व- चेरुवारणे प्रयोगो लाक्षणिक इत्यनुसन्धेयम् । एवञ्च क्लुप्तिपदस्याऽर्थपरत्वावसायातस्याश्च बहुत्वस- यया भेदावगतरर्थभेदोऽप्यत्र मुलभ एव । युक्तश्च(१)उत्त. राधिकरणन्यायेन यावत्प्रथमान्तं क्लुप्तिभेद इति, न कपिलला. धिकरणन्यायेन त्रित्वमात्रपर्यवसानाशङ्का । विभागमन्त्रे तु ब. हुवचनाभावात्कारकभेदस्य च स्वरूपेणाऽसमवायितया एक- स्यामपि क्रियायां स्तुतिमात्रार्थत्वेनोपपत्तेन भेदकतेति विशेषः । अतश्च 'क्लप्तीर्वाचयती' त्यस्य क्लप्तिभेदकतयाऽप्युपपत्तेस्तन्मन्त्र. समुच्चयस्य च मन्त्राणां भिन्नार्थत्वादेव सिद्धेरर्थभेदावगमा. द्विभज्यमानसाकाङ्क्षत्वस्य च दूरभ्रष्टवाद्वाक्यभेदावगमेन यजुर्भेदोपपत्तिः । प्रयोजनम्-प्रथमोदाहरणे स्पष्टमेव । द्वितीये तु यावन्मन्त्रं ऋष्याद्यनुसन्धानम् , एकमन्त्रभ्रेषे वा तन्मात्रोच्चारणं सिद्धान्ते । पूर्वपक्षे तु सकृदेव तदनुसन्धानं समस्तोचारणं चेति द्रष्टव्यम् । सूत्रं तु-समेष्वन्योन्यनिराकाङ्केषु वाक्यभेदस्स्या. दिति स्पष्टम् ॥ ४८ ॥ इति षोडशं वाक्यभेदाधिकरणम् ॥ १६ ॥ १. उत्तरान्यायेनेति, क. स्व. पु. उत्तरागोदोहन (११. १. ५.) न्यायेनेत्यर्थः॥
सिद्धान्तः । द्वितीयाध्यायस्थ प्रथमः पादः । १२७ । दाहते मन्त्रे । तत्र हि "प्राणाय स्वेति हिरण्यमभिव्यनिती"त्यु. ते कथं हिरण्याभिव्यननस्य प्राणप्राप्त्यर्थतेत्यपेक्षिते, परावतो दूरदेशादन्तरिक्षाविश्व परि सर्वतः प्राणः नः अस्मानाग- च्छतु, यच्च पृथिव्या अधि उपरि आयुः तदप्यागच्छतु, यतस्त. वाऽमृतत्वेन प्राणदान सामर्यादित्यन्योन्याकाङ्गत्वं मन्त्रस्वरूपा. म्नानवेलायामेव प्रतीयते । अतस्तत्र युक्तो मध्यान्त्यप्रतीकेन वि. नियोगः । प्रकृते तु मन्त्रस्वरूपालोचनवेलायो 'इषे त्वे त्यस्योर्जेत्वे. त्यनेन निराकाङ्कत्व प्रतीतेः पश्चादवगम्यमानो विनियोग एको. ऽपि न प्रतीकग्रहणायाऽलम्, पूर्वावगतनैरपेक्ष्य भङ्गापत्तेः । किमुत यदा यथापेक्षितो विनियोगभेद एव स्पष्टतरोऽवधार्यते, तदा कः प्रसङ्गो मध्यान्त्यप्रतीकेन समस्त विनियोगस्य । किञ्चाऽऽख्यातक- ल्पकतावच्छेदकं तव गुरुभूतम् । पुनश्च कार्यकारणभावयेऽपि कारणतावच्छेदकैक्यायभिचारप्रसङ्गः । यत्तु सामर्थ्यबलेन 'इथे त्वे'त्यस्योन्मार्जनाङ्गत्वावगमात्तद- बाधार्थं समस्तविनियोग इत्युक्तम् , तत् सामर्थ्यकल्प्यश्रुतेः पूर्व- मेव प्रत्यक्षश्रुत्या छेदनाङ्गत्वेन विनियोगेऽवगते सामर्थ्यस्य श्रु- त्यकल्पकत्वादुन्मार्जनाङ्गताबोधकप्रमाणाभावेनोपेक्षणीयम् । त. स्मादर्थंकत्वविशिष्टविभज्यमानसाकाङ्क्षवाभावात् भिन्नवाक्यता. प्रतीतेयुक्तो यजुर्भेदः । द्वितीयोदाहरणे तु सत्यप्यर्थैकत्वे विभज्यमानसाकाङ्गत्वा- भावान विभागमन्त्रवदेकवाक्यत्वम् । न च 'क्लृप्तीवाचयती' य. नेन सर्वेषां कल्पतामिति पदानां समुच्चयविधानादेकस्मिन् क्ल. प्तिप्रकाशने साहित्यावगतेर्विभज्यमानसाकाहत्वोपपत्तिः, स. कृदुच्चरितस्यैव पदस्य क्लुप्तिबोधजनकत्वेन क्लुप्तिबोधेऽनेकप. दसाहित्यस्य बाधितत्वात् । 'क्लृप्तीर्वाचयती'त्यत्र च न क्लु- १७ मी० कौ० १२८ मीमांसाकौस्तुभे [ वाक्यमेदाधिकरणम् । नात्, प्तिपदं कल्पतामितिपदपरं, तद्घटितमन्त्रपरं वा, लक्षणाप्रस. अपि तु क्लुप्तिरूपार्थपरमेव । न च क्लृप्तिरूपार्थपरत्वे तस्योचारणानुकूलव्यापारवाचिवाचयत्यन्तर्गतवचिकर्मत्वानुप- पत्तिः, 'वचपरिभाषण' इत्यनुशासनबलेन चचेराभिधानार्थक- स्वावसाया प्रत्यर्थस्य कर्मत्वोपपत्तेः । अत एव काचित्को व- चेरुच्चारणे प्रयोगो लाक्षणिक इत्यनुसन्धेयम् । एवञ्च क्लुप्तिपदस्याऽर्थपरत्वावसायात्तस्याश्च बहुत्वस- ङ्ख्यया भेदावगतरर्थभेदोऽध्यत्र मुलभ एव । युक्तश्च(१)उत्त. राधिकरणन्यायेन यावत्प्रथमान्तं क्लुप्तिभेद इति, न कपिनला. धिकरणन्यायेन त्रित्वमात्रपर्यवसानाशङ्का । विभागमन्त्रे तु ब- हुवचनाभावात्कारकभेदस्य च स्वरूपेणाऽसमवायितया एक- स्यामपि क्रियायां स्तुतिमात्रार्थत्वेनोपपत्तेने भेदकतेति विशेषः । अतश्च 'क्लप्तीर्वाचयती'त्यस्य क्लुप्तिभेदकतयाऽप्युपपत्चेस्तन्मन्त्र- समुच्चयस्य च मन्त्राणां भिन्नार्थत्वादेव सिद्धरर्थभेदावगमा. द्विभज्यमानसाकाङ्क्षत्वस्य च च दूरभ्रष्टवाद्वाक्यभेदावगमेन यजुर्भेदोपपत्तिः । प्रयोजनम्-प्रथमोदाहरणे स्पष्टमेव । द्वितीये तु यावन्मन्त्रं ऋष्यायनुसन्धानम् , एकमन्त्रभ्रेषेवा तन्मात्रोच्चारणं सिद्धान्ते । पूर्वपक्षे तु सकृदेव तदनुसन्धानं समस्तोचारणं चेति द्रष्टव्यम् । सूत्रं तु-समेष्वन्योन्यनिराकाझेषु वाक्यभेदस्स्या. दिति स्पष्टम् ॥ ४८ ॥ इति षोडशं वाक्यभेदाधिकरणम् ॥ १६ ॥ १. उत्तरान्यायेनेति, क. व. पु. उत्तरागोदोहन (११. १. ५.) न्यावेनेत्यर्थः॥
अथ समदशं अनुषङ्गाधिकरणम् ॥ १७ ॥ अनुषङ्गो वाक्यपरिसमाप्तिस्सर्वेषु तुल्य- योगित्वात् ॥२-१-४९॥ (विषयसंशयो) ज्योतिष्टोमे तिसृणामुपसदां द्वितीयतृतीयचतुर्थेष्वहस्सु पूर्वा. हापराह्नभेदेन द्विरायाऽनुष्ठीयमानानां क्रमे संहितायां मन्त्रत्रय- मुपसदङ्गभूतोपहोमाङ्गत्वेन समाम्नातम् । तत्राऽऽद्यो(१) "या ते अग्ने अयाशया तनुर्वर्षिष्ठा गहरेष्ठोनं वचो अपावधीत् त्वेषं वचो अपावधीत्स्वाहेति । द्वितीयतृतीयौ तु “या ते अग्ने रजाशया, या ते अग्ने हराशयेति । एतेषां च मन्त्राणां क्रमणकैकस्य तत्तदहःक्रियमाणोपसदङ्गभूतहोमाङ्गतत्यप्यविवादम् । तत्रो. चरयोमन्त्रयोर्यच्छब्दस्त्रीलिङ्गनिर्देशास्त्रीवाचकपद साकाङ्क्षताव- गतेरवश्यं कश्चित्तत्परिपूरणसमर्थो वाक्यैकदेशः कल्पनीयः । न चाऽध्ययनविधिनाऽध्ययनोपायनियमात्कथमनधीतस्य (२)त. देकवाक्यत्वोपपत्तिरिति वाच्यम् । तेन प्रत्यक्षपठिते वेदे तन्नि- यमेऽपि अनधीते प्रवादिपदवदेव वेदैकदेशत्वोपपत्तेः । ततश्चा- वश्यकल्पनीये वाक्यैकदेशे किं लौकिकोऽध्याहर्तव्यः ? उत बैदि. क एव 'तन'रित्यादिराधमन्त्रैकदेशोऽनुषञ्जनीय ? इति सन्देहः । (सङ्गतिः) अत्राऽनुषङ्गपक्षे आम्नानस्य सर्वार्थत्वेनैव साधयिष्यमाण- १. वा. सं.५.८.८. २. तस्य वेदैकवाक्यत्वति. क. पु.
मीमांसाकौस्तुभे [ अनुषनाधिकरणम् । खेनाऽतुषक्तस्याऽऽम्नातत्वेन मन्त्रस्ववद्यजुष्वस्याऽप्युपपत्तेः पूर्व- वद्यजु परिमाणचिन्तात्मकत्वेन सङ्गत्युपपत्तिः । (पूर्वपक्षः) तत्र वैदिकश्शेष आद्यानन्तरपठितवादपेक्षितदेशपाठाच्चा. ऽऽद्यस्यैव स्वारस्येन सम्बध्यते, नाऽनन्तरयोरिति तावदविवाद- म् । अतश्चाऽगृह्यमाणविशेषत्वात्प्रयाजादिवत्सर्वार्थमेवाऽयमाम्ना. त इति नैवाऽऽशङ्कितुं शक्यम् । न च शेषस्याऽऽद्यसम्बन्धेन निरा- काङ्क्षस्याऽप्युत्तरयोस्साकाङ्क्षत्वात्तदन्वयोपपत्तिः, तयोरप्य- निबद्धलौकिकशेषग्रहणेन निराकाङ्क्षयोराद्यमन्त्रमात्रनिबद्धवदि. कशेषग्रहणानुपपत्तेः । अत एव 'अग्निमुपनिधाय स्तुवीने' त्यस्य लौकिकाग्निग्रहणेनाऽपि निराकाक्षत्वात्कार्यविशेषपुरस्कारेण निबद्धानां वचनव्यतिरेकेणाऽऽयतनार्हिर्नेतुमशक्यानामाहवनी. यादीनामग्निपदेनाऽग्रहणमिति(१) सप्तमे वक्ष्यते । एवञ्च सत्य. पि यदि लौकिकस्याऽप्रकृतत्वादाग्नेयीमन्त्रन्यायेन प्रकृत. स्यैव वैदिकस्य 'तन'रित्यादेग्रहणमित्याशङ्केयत, तत आग्नेयी- मन्त्रस्याऽन्यत्र विनियुक्तस्याऽपि 'कुशा दादय' इतिवचना- समस्तस्याऽन्यत्र विनियोगे मन्त्रत्वानपायेऽपि मन्त्रैकदेशस्य तनुरित्यादेरन्यत्र नयने मन्त्रत्वानापत्तिः । अतश्चोपस्थितत्वान्म- याऽपि स एव गृह्यते । न त्वेतावता तस्य मन्त्रत्वं यजुष्ट्वं वा शक्यमापादयितुमिति न तद्भेषे यजुर्भेषनिमित्तप्रायश्चित्ताद्या. पत्तिरिति प्राप्ते- (सिद्धान्तः) अभिधीयते-वैदिकस्यैव सर्वत्राऽनुषङ्गः, तस्य सर्वार्थमा. १. पू. मी, ७. ३. १०.
द्वितीयाध्यायस्थ प्रथमः पादः । . म्नातत्वात् । यथैव हि तनूरित्यादेराद्यमन्त्रसम्बन्धे आकाङ्क्षा. योग्यतासानिधयः कारणं, तथैवोचरमन्त्रद्वय सम्बन्धेऽपि । तथा हि-आकाङ्क्षा तावद्विशेष्यविषयिण्याद्यस्येवोत्तरयोरप्यविशि. ष्टा । योग्यता च निराकाङ्क्षीकरणसामर्थ्यरूपा पूर्वस्मिन्निवोत्त. रयोरप्यविशिष्टैव । सन्निधिस्तु यद्यप्यानन्तर्यरूपो नाऽविशिष्टः, तथाप्यसम्बन्धिपदाव्यवधानरूपोऽविशिष्ट एव । न ह्यानन्तर्याख्या स्सन्निधिश्शाब्दबोधे कारणम् , तदभावेऽपि देवदत्त गामानये. त्यादौ देवदत्तादिपदानामानयनान्वयदर्शनात् , अपि त्वसम्ब. न्धिपदान्यवधानमेव । गोशब्दस्य च सत्यपि व्यवधायकत्रे आ- नयनान्वयित्वेन(१) नाऽसम्बन्धित्वम् । अतश्च प्रकृतेऽप्याद्य इव द्वितीये तृतीयेऽपि उक्तरूपस्सन्निधिरविशिष्टः । न च द्वितीये सन्निध्युपपत्तावपि तृतीये तेनैव व्यवहित. स्वात्कथं सन्निधानोपपत्तिरिति वाच्यम् । द्वितीयस्याऽपि शेषा- न्वययोग्यत्वेन गोषदवदेवाऽसम्बन्धित्वाभावात् । अतश्चाऽसम्ब. न्धिपदाव्यवधानरूपस्य सन्निधानस्य सर्वेष्वविशेषात्सर्वार्थमा. म्नानावगतेस्सर्वसम्बन्धोपपत्तिः । अत एवैकस्यैवाऽव्यवहिता. नन्तर्य यथापेक्षितश्च स्वपाठोत्तरकाले पाठोऽप्यकिञ्चित्करः, सर्व. मन्त्राव्यवहितानन्तर्यस्य सकृत्पाठेऽशक्यत्वेनाऽऽचपाठस्य चा. ऽऽकामादित्रयेणैव सर्वार्थत्वज्ञानोपपत्तेरनर्थकत्वेन सर्वान्तपा. ठनियमस्य चाऽऽपादयितुमशक्यत्वेनैकाव्यवधानस्याऽवर्जनीय. स्वात् , उत्तरयोरपेक्षितदेशोच्चारणस्य लिङ्गेनैव ज्ञातुं शक्यत्वाच । ततश्च युक्तमाकाङ्क्षादित्रयसाधारण्यात्सर्वार्थत्वम् । न चैवमव्यवधानस्याऽन्वयाप्रयोजकत्वे समानपदप्रत्यास. क्या यागस्यैव करणत्वोक्तिर्विरुध्येतेति वाच्यम् । अव्यवहिता. १. असम्बन्धित्वाभावादिति क. ख. पु.
१३२ मीमांसाकौस्तुभे [ अनुपमाधिकरणम् । नन्तर्यस्याऽन्वयतात्पर्यग्राहकत्वाभावेऽप्यन्वयनियामकत्वोपपत्तेः । तत्र हि फलनिरूपकत्वं किं यागस्य, उत सोमादरित्यनियमे प्राप्त नियामकमानं पदप्रत्यासत्तिः । प्रकृते स्वाकाङ्क्षादित्रयसाधरण्या सर्वत्र नियमेनैव(१) सम्बन्धप्राप्तेनानन्तर्यस्य नियामकत्वोपप त्तिः। न होकस्य नैराकामोणेतरयो राकाचं शक्यते वक्तुम् । अतश्च यथैव प्रयाजादीनां सत्यप्याग्नेयाव्यवधाने अग्नीषोमीया- दरप्याकाङ्क्षादिवयसाधारण्यात्सर्वार्थत्वं, एवमिहापि द्रष्टव्यम् । तस्माद्वैदिकस्य सर्वसम्बन्धरूपोऽनुषङ्ग एव युक्तः, न तु क्रमि कान्दयाङ्गीकारेणैकसम्बन्ध एव वैदिकत्वं, इतरसम्बन्धे लौ. किकत्वमिति । यतश्शेषान्वयं विना आद्यस्येवोत्तरयोरपि न प. रिसमाप्तिः, अतस्सर्वेषु तुल्याम्नानादनुषङ्ग इति सूत्रार्थः । प्रयोजनं तु तद्भेषे यजुर्भेषनिमित्तप्रायश्चित्तमाप्तिस्स्पष्टैव ।। ( अनुषणाधिकरणवर्णकान्त रम् ) (विषयसंशयौ) एवं तावदनेकेषामुत्थिताकाङ्क्षाणां सभिधावानायमानश्शे- पस्सर्वत्राऽनुषज्यत इत्युक्तम् । इदानीं तूत्थाप्याकाङ्क्षाणामनके पां सन्निधावाम्नायमानश्शेषस्सर्वत्राऽनुषज्यते न वेति विषय- व्याप्त्यर्थं तस्मिन्नेव सूत्रे विचार्यते । ज्योतिष्टोमे यजमानपाव. नार्थी मन्त्राः(२) "चित्पतिस्त्वा पुनातु, वाक्पतिस्त्वा पुनातु, देवस्त्वा सविता पुनात्वि" त्येवंविधाः क्रियापदान्तत्वेन स्वतो निराकाङ्क्षाः पठिताः । तेषामन्ते "अच्छिद्रेण पवित्रेण वसो. स्सूर्यस्य रश्मिभि"रिति क्रियासाकाङ्कश्शेषस्समाम्नातः । स कि अनन्तरेणैव मन्त्रेण सम्बध्यते ? उत सर्वैरपीति विचारः । १. शेषप्राप्तेरिति. क. पु.
द्वितीयाध्यायस्थ प्रथमः पादः । १३३ ( पूर्वपक्षः) तत्र तेषां तावत्स्वरूपेण निराकाङ्क्षत्वाच्छेषाकाङ्क्षयै- वाकाङ्क्षामुत्थाप्य मम्बन्धो वाच्यः । तत्र चैकपदसम्बन्धे. नैव(१) निराकाङ्क्षस्य शेषस्येतराकाझोत्थापकत्वे प्रमा- णाभावानियामकापेक्षायां यागादाविवाऽऽनन्तर्यस्य निया- मकत्वोपपत्तेर्न सर्वत्राऽनुषङ्गः । न चैवमपि 'यजमानं पावय- तीति विधिना विहितस्यैकस्यैव पावनस्य विभिरपि मन्त्रैः प्र. काशनादच्छिद्रादेश्चाऽपूर्वसाधनीभूतप्रकाश्यमानपावनक्रियाक- रणप्रकाशनार्थत्वात्पूर्वमन्त्रयोरप्यन्तिममन्त्रवत्प्रयोगोपपत्तिरिति वाच्यम् : पावनक्रियैक्येऽपि मन्त्रभेदेन तत्प्रकाशनानां भेदा. दन्तिमप्रकाशनविषयीभूतपावनक्रियाकरणप्रकाशनार्थस्यैवाऽऽन. न्तर्यादवगतत्वेन चित्पत्यादिकर्तृव्यवस्थावदेव करणव्यवस्थाया अप्युपपत्तेः । न चाऽत्र मन्त्राणां विकल्पः, येनैकस्मिन्नेव प्रकाशने त्रया- णां करणत्वाबीहियवयोरिव धर्माणामव्यवस्थापत्तिः, सत्यपि दृष्टार्थत्वे 'त्रिभिर्यजमानं पावयतीति वचनात् पार्थसारथिमि. श्रधृतात्समुच्चयोपपत्तेः । अतश्च विकल्पोक्तिर्याज्ञिकाचारविसंवादि- नी वार्तिककारीयाऽतिशयाथैव । अतश्व सत्यप्यच्छिद्रादेस्सर्वार्थत्वे प्रयाजादिवत्सकृत्प्रयुक्तस्यैव सर्वोपकारकत्वोपपत्तेर्न प्रयेकं प्र. योगाख्यानुषङ्गोपपत्तिः । वस्तुतस्तु बोधायनादिकल्पपर्यालोचनया पावनस्याऽपि मुखनाभिगुल्फप्रदेश भेदेन विरभ्यासादेकैकमन्त्रस्यैकैकाभ्यास करणत्वावगमादानन्तविशेषेणाऽच्छिद्रादेः गुल्फप्रदेशसंस्कारा. थपावनक्रियाभ्यासप्रकाशकपदैकवाक्यतया विजातीयापूर्वसा- १. निवृत्ताकाङ्क्षस्येति. क. व. पु.
तथा
मीमांसाकौस्तुभेः [ अनुषणाधिकरणम् ।
धनीभूतपावनक्रियाभ्यासात्वावगतेः “पयसा मैत्रावरुणं श्री.
णाती” तिवदभ्यासान्तरे प्राप्तयभावाद्वयवस्थोपपत्तिस्सुल.
भैव । अतो नेशस्थले अनुषङ्ग इति प्राप्ते-
( सिद्धान्त:)
अभिधीयते-आकाङ्क्षादित्रयसाधारण्यदत्रापि सर्वा-
र्थाम्नानावगमेनाऽनुषङ्गेणैव वाक्यपरिसमाप्तिः
हि-सन्निधि योग्यत्वे तावत्पूर्ववदेवाऽविशिष्टे । आकङ्क्षा
चाऽपि यथैवाऽन्तिमस्यैतदाकाङ्क्षावशेन कल्प्या, तथैव पू.
वयोरपि । न छत्रानन्तर्यस्य नियामकता सम्भवति । तत्र
हि तनियामकं, यत्र तत्पत्तेः पूर्व विकल्पेनाऽनेकेषु प्राप्तिः,
यथा-प्रतिपदाधिकरणसिद्धान्तरीया यागसोमयोः । प्रकृते
तूत्थाप्याकाङ्क्षाणामपि तेषां विनिगमनाविरहेण प्रधानत्वात् प्र.
तिप्रधानावृत्तिन्यायेन च प्रत्येक समुच्चयेनैव शेषग्राहित्वागतेनि:
यामकानाकाङ्कत्वान्नाऽऽनन्तर्यस्य तन्नियामकत्वोपपत्तिः। अ
तश्च यथैवाऽनेकहविष्कासु विकृतिषु श्रुतानामुपहोषानां विनिगः
मनाविरहेण प्रधानत्वेन च सर्वहविगतामेवाऽऽकाक्षां प्रकल्प्य
समुच्चयेन सर्वार्थतावगतेनियामकाकाङ्क्षाविरहेण नानन्तर्य-
स्य नियामकत्वं, तथैव प्रकृतेऽपीति पूर्ववदेव सर्वार्थमाम्नानावग-
तेयुक्तोऽनुषङ्गः ॥ ४९ ।।
इति सप्तदशमनुषणाधिकरणम् ॥ १७ ॥
अथाऽष्टादशं व्यायाधिकरणम् ॥ १८ ॥ व्यवायान्नाऽनुषज्येत ३२-१-५० ॥ असम्बन्धिपदाव्यवसाने सरानुषों साधिते, यत्राऽसम्बन्धि- पदव्यवधानं तत्राऽनुषङ्गो नाऽस्तीति प्रत्युदाहरणार्थमिदं मूत्रम् । यथा--(१) सन्ते वायुातेन गच्छतां संयजत्रैरङ्गानि संय- ज्ञपतिराशिष"स्यत्र 'गच्छतामित्यस्य अङ्गानी त्यनेन तावदयो. ग्यत्वेनाऽसम्बन्धात् असम्बन्धिपद(२)व्यवधानेन 'संयज्ञपतिरा- शिषे त्यनेन सत्यपि साकाङ्क्षत्वे योग्यत्वे च, सन्निधानाभा- वान्नाऽनुषङ्गः। अतः संथजत्रैरङ्गानी'त्यत्र 'गच्छन्तामि'त्यस्येव 'मं यज्ञपतिराशिषे त्यत्रापि 'गच्छतामिति पदमध्याहर्तव्यम् । न चाऽनयोस्लाकाङ्क्षत्वेऽपि गमनरूपस्यैवाऽर्थस्य योग्यता. बललभ्यस्याऽन्वयोपयत्तेः किमर्थं पदाध्याहारकल्पनेति वा- च्यम् । तत्तत्पदार्थशाब्दबोधत्वावच्छिन्नं प्रति वृत्तिमत्त्वसम्ब. न्धेन तत्पदज्ञानस्यैद कारणत्वात् । अन्यथा देवदत्तः पचतीति केनचिदुक्त प्रत्यक्षदृष्टेनैव कलायेन कर्माकाङ्क्षानिवृत्तेः किं पच. तीति प्रश्नानापत्तिः। अस्मन्मते तु कलायोपस्थितावपि तद्वा. चकपदस्योद्धोधकामावादनुपस्थितौ प्रश्नोपपचिरिति वैषम्यम् । किञ्च घट स्मरेत्यादौ वृत्या घटोपस्थितिबदेकसम्बन्धिद. शेनेनाऽपरसम्बन्धिस्मरणमिति न्यायेन घटपदममवायिकारणी. भूताकाशोपस्थितौ तस्याऽपि स्मरणकर्मत्वेनाऽन्वयापत्तिः । अतो- ऽवश्यं शाब्दत्वसिध्यर्थं गच्छतामिति पदमेवाऽध्याहृत्योचार- णीयम् । न चैवं पदाध्याहारोपपत्तावप्यध्याहृतस्य पदस्य ध्या- नेनाऽपि स्मरणोपपत्वेनाऽवश्यमुच्चारणोपपत्तिः, मन्त्राधिकर- । १.ते. सं. १.३.८. २. व्यवायनेति. क. पु. १८ मी० को . मीमांसाकौस्तुभ [ व्यवायाधिकरणम् । णोक्तन्यायेन पठितमन्त्रेष्विवाऽध्याहृतमन्त्रेष्वपि प्रयोगसमवे. तार्थप्रकाशकेषूच्चारणोपपत्तेः । अतोऽत्र लौकिकत्वाद्च्छता- मिति पदस्य तद्भेषे यजुर्भेषनिमित्तप्रायश्चित्ताभावेऽपि यत्रा- सम्बन्धिपदाव्यवधानम्, तत्र वैदिकस्याऽनुषङ्गोपपत्तेर्युक्तं तद्- भ्रेषे यजुर्भेषप्रायश्चित्तादि । ततश्च तत्राऽनुषक्तस्यैव यजुष्टम् । वस्तुतस्तु गमिधातुमात्रस्य द्वितीयमन्त्रेऽप्यनुषङ्गसम्भवेन तृतीये संबन्धोपपत्तेः प्रत्युदाहरणेऽपि प्रत्ययमात्रस्यैव व्यवाया. दनुषङ्गो निराकर्तव्यः । न चैकपदत्वात्प्रत्ययाननुषङ्गे प्रकृतेर. पि(१)अननुषङ्गापत्तिः, प्रत्ययमात्रोहे प्रकृतेरार्षत्ववत्तस्याऽनुष) बाधकाभावात् । अत एवेशविषये विपरिणतानुषङ्गमाचक्षते वृद्धाः । तेन प्रत्ययरहितस्यैव यजुष्टुमिति सिद्धम् ॥ ५० ॥ इत्यष्टादशं व्यवायाधिकरणम् ॥ १८ ॥ मीमांसाम्बुनिधि प्रमथ्य विविधन्यायोच्चयनिझरैः कृत्वा जैमिनिसूत्रमन्दरममुं वेदं तथा वासुकिम् । यद्धालाहलसंज्ञमेव कलितं ग्रन्थान्तरं सज्जनः श्रीकृष्णस्य तु भूषणाय स परं यः कौस्तुभाख्यो मणिः ॥ इति पूर्वोत्तरमीमांसापारावारपारीण श्रीरुद्रदेवमूनोः खण्डदेवस्य कृतौ मीमांसाकौस्तुभे द्वितीयाध्यायस्य प्रथमः पादः॥ १ ॥ .. १. अनुषङ्गानुपपत्तिरिति. क. पु.
श्रीः। मीमांसाकौस्तुभः॥ (द्वितीयाध्यायस्य द्वितीयः पादः) प्रथमं शब्दान्तराधिकरणम् ॥ १ ॥ शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् ।। २-२-१ ॥ ( विषयसंशयसङ्गतयः) एवमुपोद्धातप्रसक्त मन्त्रलक्षणादौ समाप्ते 'यत्प्रसङ्गेन यदा- गतं तत्समाप्तौ तत् बुद्धिस्थं जायत' इति न्यायेन भावार्थाधिक- रणोक्तधात्वर्थकरणत्वस्योपस्थितेः तस्य चाऽपूर्वभेदसिद्धिद्वारा भावनाभेदसिध्यर्थत्वस्योक्तत्वादिदानीमवसरप्राप्तो लक्षणार्थभू- तो भावनाभेद एव शब्दान्तरादिप्रमाणैः प्रतिपाद्यते । तत्राऽपि शब्दान्तरस्य प्रमाणान्तरसिद्धधात्वर्थभेदोपजीवित्वेन भावना. भेदमात्रे व्यापारात् सूचीकटाहन्यायेन प्रथमं तस्यैव भेदकता निरूप्यते। ज्योतिष्टोमेन स्वर्गकामो यजेते ति प्रकृय 'सोमेन यजेत' (१) दाक्षिणानि जुहोति' (२) हिरण्यमात्रेयाय ददाती'त्यादि श्रु. तम् । तत्र यागदानहोमादिसकलप्रकृतधात्वर्थानुरक्ता एका भा. वना ? अथ वा प्रतिधात्वर्थ भावनाभेदः १ इति विचारः। अत्र च प्रकरणान्तरातिरिक्तसकलभेदकप्रमाणनिरूपणस्य पादार्थत्वात पादाभ्यायसङ्गतिः स्पष्टा । ( पूर्वपक्षः) तत्र लाघवादेकैच भावना। न च तद्वाचकतिष्प्रत्ययाभ्यासात् १. आप. श्री१३, ५.६. २. आप. श्री. १३. ६. १२.
भावात् । . " मीमांसाकौस्तुभे [शब्दान्तराधिकरण- भेदः, तस्य धात्वर्थविधानार्थमनुवादकत्वाभ्युपगमेनाऽनन्यपरत्वा- न चैवमप्ये केन वाक्येन भावनाविधौ तद्वाक्यस्थस्य धात्वर्थस्य, गुणादेवी उत्पत्तिशिष्टत्वेन वाक्यान्सरविहितात्पन्न शिष्टधात्वर्थान्तरादिनिवेशानुपपत्तेर्गुणाद्भेदापतिः, फलवाक्ये स्व गोद्देशेन शुद्धभावनाविध्यङ्गीकारेण तदनुवादेन सोमादिवाकर गुणविशिष्टधात्वर्थविध्यभ्युपगमे सर्वेषामुत्पत्रांशष्टत्वेन (२)गुण- न्यायानवतारात् । न च फलवाक्येऽपि धातूपादानान शुद्धभा- वनाविधिः शक्यः, विशिष्टविधिगौरवापच्या फलवाक्यस्थस्य यजेरवयुत्यानुवादकत्वेन, प्रकृतधात्वर्थमात्रोपलक्षणत्वेन वा सा. धुत्वार्थमनुवादक या विधेयार्थकस्याभावात् । न च फलानुकूलव्यापार सामान्यस्य लोकत एक प्राप्तत्वात धात्वर्थविशेषावच्छिन्नस्य च तब विधेयत्वेनाऽनिष्टत्वात् कथं शुद्धभावनाविधानोपपत्तिः ? स्वर्गस्य जन्यत्वेन तदनुकूले व्या. पारसामान्ये लोकतोऽवगतेऽपि तदुद्देश्यकस्य पुरुषनिष्ठयत्नरू- पव्यापारस्थ नियमेनाऽनाक्षेपात्तद्विधानोपपत्तेः, पुत्रादौ यत्र- स्याप्यवगमेऽपि तदूतलेजात्यस्याऽनवगमाद्विधानोपपत्तेश्च । न च 'प्रकृतिप्रत्ययौ प्रसयार्थ सह ब्रूत' इत्यनुशासनेन प्रत्ययानां नि- यमेन प्रकृत्यान्वितस्वार्थबोधकत्वावगतेः शुद्धभावनाविधाना. नुपपत्तिः । वस्तुतो धात्वर्थावच्छिन्नभावनाभिधानेऽपि धास्व. विच्छेदस्य प्रमाणान्तरप्राप्तत्वात विशेष्यमानांशे विधिफलोष. पत्तेः :। अत एव गुणफलस्थले धास्वविच्छेदकत्वस्य प्रकरण- प्राप्तत्वेऽपि भावनामात्र विधिराश्रितः । अतश्च यजिपदस्य प्रमा. णान्तरानुरोधेन प्रकृतसर्वधात्वर्थपरत्वावगतेः तत्समानाधिकर णस्य ज्योतिष्टोमपदस्याऽपि एकदेशप्रतिनिमित्तेन सर्वनामधेय- १.पू. मी. २. २. ९. :
पूर्वपक्षः] द्वितीयाध्यायस्य द्वितीयः पादः। १३९ स्वापत्तिः । एवञ्च फलवाक्ये शुद्धभावनाविधानेऽवगते सोमादि- वाक्यस्थतिप्प्रत्ययेन प्रत्येकं सामनूय तत्करणतया सोमादि. विशिष्टधात्वर्थविधानोपपत्तेः, सर्वेपाञ्चोत्पन्नशिष्टत्वेन गुणन्या. याभावात् भेदकपमाणाभावेन भावनैकत्वसिद्धिः । एवञ्च तत्त- द्वाक्ये निरपेक्षतया तत्तद्धात्वर्थानामेकफलभावनाकरणत्वावग. मेन विकल्पोपपत्तेरेक जातीयस्यैवाऽ पूर्वस्य तृणाराणिमाणिन्या. येन सकलजन्यत्वोपपत्तेः तद्वैजात्य कल्पनाभावादपि लाघवम् । अस्तु वा व्यभिचारपरिहारार्थं तद्भेदोऽपि, न चैतावता भावना. भेदः । न च भेदकान्तराभावेऽपि अवच्छेदकीभूत धात्वर्थभेदरू- पाच्छब्दान्तरादेव भेदोपपत्तिः, समूहालम्बनस्थले एकस्मिन्नेव ज्ञाने घटपटादीनामने केषां विषयतासम्बन्धेनाऽबच्छेदकत्वरदे- कस्यामेव कृतौ सर्वेषां घालीनां साहिलेनाऽवच्छेदकत्वोपप. तेः । अस्तु वा एकस्यां भावनायां वैकल्पिका सर्वेषामवच्छेद- कता, सर्वथा सिद्धं भावनैकत्वम् । सत्त्वत्र भाष्यकारेण यागदानहोमानां स्वत्वत्यागांशेन एकत्वादवच्छेदकीभूतधात्वर्थ स्याऽप्येकत्वमित्युक्तम् , तत् स्व. त्वत्यागांशस्यैक्येऽपि परस्वत्वापादनप्रक्षेपांशयोराधिक्येन धा- स्वर्थै क्यानुपपत्तेरतिशयार्थम् । किञ्चैवं ददातिवाक्थे प्राप्तकर्मा- नुवादेन हिरण्यात्रेयरूपानेकगुणविधाने वाक्यभेदप्रसङ्गादवश्य मुभयविशिष्टकर्मविधानावगतः धात्वर्थैक्योक्तिरसम्बदैव । तथा दाक्षिणानि जुहोती त्यत्राऽपि जुहोतिलक्षितयागानुवादेन वि धेयस्य गुणस्याऽभावात् धात्वर्थविधानावश्यकत्वेन तदैक्योक्ति- रसम्बद्धा। न च दाक्षिणपदेन दक्षिणकालरूपगुणविधिः, दाक्षिणा. नीति तद्धितस्थ कालार्थे स्मरणाभावेन कालांविधौ प्रमाणामा- - भीमामाकौस्तुभे [शब्दान्तराधिकरण- वात् । दक्षिणायास्तु यागाङ्गत्वेन प्राप्तत्वादेव विधिरनाशनः । अतो विधेयान्तराभानेन कर्मविध्यवश्यम्भावे पाठप्राप्तदक्षिणो. चरकालतारूपप्रवृत्तिनिमित्तेन दाक्षिणशब्दो नामधेयम् । अत. श्व धात्वर्थंक्यस्य बाधितत्वात् सत्यपि धात्वर्थ भेदे भावनाया ऐक्यमिति प्राप्ले- (सिद्धान्तः) उच्यते--यत्राऽपर्यायधातुभेदरूपं शब्दान्तरम् , तत्राऽव. इयं भावनारूपकर्मभेदः प्रत्येतव्यः । तथा हि--भावना तावत् कृतिस्सविषया, कृतिविषयत्वमपि न ज्ञानविषयत्वादिवत् सिद्ध पदार्थवृत्ति, अपि तु साध्यमात्रवृत्तित्वात् तज्जन्यत्वापरपर्या. यम् । अतश्च फलवाक्यविहिताया अपि कृतेविषयापेक्षायां सो. मादिवाक्यविहितो यागादिरेव साध्यत्वात् जन्यत्वेन सम्ब- ध्यत इत्यभ्युपगन्तव्यम् । तत्र च कार्यतावच्छेदकस्य यागत्वादे- मैदान कारणीभूतायां कृतावपि वैजात्यमावश्यकमेव । न च तत्त- कार्यतावच्छेदकावच्छिन्नं प्रति यत्नत्वेनैव कारणताऽस्तु, होमोत्प. त्तिदशायां यागोत्पत्तिप्रसक्तिस्तु विजातीयादृष्टरूपसामग्रय भावा- देव निराकर्तव्येति वाच्यम् । विजातीयादृष्टस्य कारणत्वकल्पने प्रमाणाभावात् , अन्यथा तन्मात्रादेव कार्यमात्रोत्पत्युपपत्तौ कार- णमात्रोच्छेदापत्तेः, अष्टगतवैजाय कल्पनापेक्षयोपस्थितकृतावेव वैजात्यस्य कल्पयितुं युक्तत्वाच्च । एवञ्च कार्यमात्रवृत्तिजातेः किञ्चित्पति कार्यतावच्छेदकत्वनियमोऽप्यनुगृहीतो भवति । न चैवं ईश्वरकृतौ कार्यद्वयजनकतावच्छेदकजातियसत्वा. सातापत्तिः, ईश्वरकृतेरेवाऽनङ्गीकाराम् । एवं सत्यपि यदि सककपाकरणिकधात्वर्थयाधिश्रयणफूत्कारादिवृत्तिपाकवमिव कार्यतावच्छेदकतया केनचित्पदेनोपा. व्यापकसामान्यमेव सिद्धान्तः] द्वितीयाध्यायस्य द्वितीयः पादः । १४१ ? स्यात् , ततो भवेत्कार्यतावच्छेदकैक्येन कारणीभूतभावनैक्यः म् , न च प्रकृते तदस्ति, सोमादिवाक्यांगत्वादिनैव तत्तद्वा. त्वर्थोपस्थितः । अतश्च तत्तत्कार्यतावच्छेदकवाचिधातुपदभे दाद्युक्त एव कारणीभूतभावनाभेदः । न चैवमपि सोमादिवाक्ये यागादेः फलभावनाकरणत्वस्यै. व (१)शाब्दत्त्वादार्थिककर्मतादशायां च कल्पनालाघवानुरोधेनैक- स्यैव व्यापकधर्मस्य कार्यतावच्छेदकत्वकल्पनोपपत्तेः कथं त. द्भेदेन भावनाभेद इति वाच्यम् ? शाब्दस्य करणत्वस्य शब्द- भेदेन भिन्नत्वात् तदन्यथानुपपत्तिकल्पितस्य कर्मत्वस्याऽपि क. ल्पकभेदेन भेदोपपत्तेः। अनयैव च दिशा 'तिस्र आहुती होती'. त्यादावपि भावनाभेदो बोध्यः, मूलोक्तरीत्या तदसिद्धेरिति ध्येयम् । अतश्च भावनाभेदावश्यकत्वेन तत्तद्वाक्यैरेव तत्तद्वाक्यो. पात्तसकलकारकविशिष्टभावनाविधानमित्यङ्गीकर्तव्यम् , न तु फ- लवाक्य एवाऽनेकभावनाविधानम् , इतरैस्तु एकैकभावनानुवादेन तत्तद्धात्वर्थविधिरिति । फलवाक्ये भावनानेकत्वग्राहकममाणानु. पस्थितेः तद्वाक्यस्थयजेस्सर्वोपलक्षणार्थत्वे प्रमाणाभावाच्च, ज्यो. तिष्टोमपदे एकदेशप्रवृत्तिनिमित्तत्वाङ्गीकारस्याऽयुक्तत्वाच्च । अ. तश्च तत्तद्वाक्येनैव तत्तद्धात्वर्थविशिष्टभावनाविधानमङ्गीकृत्य फ. लवाक्ये लाघवात्फलसम्बन्धमात्रविधानम् । तदपि च ज्यो. तिष्टोमपदानुरोधात्(२) चातुर्थिकन्यायेन सोमद्रव्यकयागस्यैव । न चाऽस्तु तर्हि फलवाक्य एव'उद्भिदा यजेते'तिवद्यागकरणि. कभावनायाः फलोद्देशेन विधिः, सोमवाक्ये तु मत्वर्थ लक्षणाविशि. ष्टविधिगौरवभिया यागकर्मकभावनानुवादेन सोममात्रविधिरिति वाच्यम् । फलवाक्ये दीक्षणीयादिमाकरणिकयागानामेव राजसू. १. शाब्दत्वेनेति क. पु. २. पू. मी. ४. ४. १२.
मीमांसाकौस्तुभे [ शब्दान्तराधिकरणम् ।
यवत् फल सम्बन्धापत्त्या तत्र तदपेक्षया कर्मान्तरविधाने प्रमा.
णाभावात् ज्योतिष्टोमपदस्य चौतर कालिकाङ्गत्वरूपसम्बन्धमा
दायैव सर्व पर स्वोपपत्तेः । न चेष्टापतिः, तथाल्छे दीक्षणीया.
दिवाक्ये उत्पत्तिीशष्टद्रव्यावरोधेन तन्त्र सोमविधानानुषपत्तो मो.
मवाक्ये गुणात सोमविशिष्टकर्मान्तरविधानस्याऽवश्यकत्वात् ।
अतश्च युक्तं चातुर्थिकन्यायेन तस्यैव फलसम्बन्धनिधानमिति
सिद्धो धात्वर्थभेदेन भावनाभेदः ।
किश्च यत्र संज्ञोपपदयुक्ताख्यातश्रवणं तत्र फलवाक्ये प्रा-
सभावनानुवादेन धात्वर्थमात्रविधा
धानोपपत्तावपि गुणोपपदयुक्त
सोमादिवाक्ये सोमवाल्वर्थरूपानेककारकविधाने वाक्य भेदस्त३.
वस्थ एव । न च सोमविशिष्टयागविधानान वाक्यभेदः, यागस्या.
ऽपि कारकत्वाविशेषेण गुणविशिष्टगुणान्तरविध्य योगवद गुण.
विशिष्टधात्वर्थस्य विध्ययोगस्याऽपि तुल्यत्वात् । अतश्च सर्वे
षामपि प्रथमतो भाबनायामेवाऽन्वयङ्गीकृत्य तस्या एव विशि
टाया विधिरङ्गीकर्तव्यः, तस्य च स्याऽनङ्गीकरणात फलवा-
क्यप्राप्तभावनानुवादेनोभयविधौ च वाक्य भेदो दुरपतवः । अ.
तस्सिद्धपपर्यायधातुभेदरूपाच्छब्दान्तरात कार्यतावच्छेद कभेदे
न कार्यभेदावगती कारणीभूताया भावनाया वैजात्यमिति ।
प्रयोजनम्-पूर्वपक्षे सर्वेषां धात्वर्थानां समप्राधान्यं विक-
ल्पश्च । सिद्धान्ते तु सोमयागस्यै च प्राधान्यम्, अन्येषां तु तद.
ङ्गत्वान्न विकल्प।
सूत्रं तु-उक्तविधे शब्दान्तरे भावनारूपकर्मभेदः प्रत्ये.
तव्यः, कार्यकारणयोरेकवैजात्येनाऽपरबैजात्यरूपानुवन्धस्य कृ.
तत्वादिति व्याख्येयम् ।
इति प्रथमं शब्दान्तराधिकरणम् ॥ १ ॥
, अथ द्वितीयमण्यासाधिकरणम् ॥ २॥ एकस्यैवं पुनःश्रुतिरविशेषादनर्थक हि स्यात् ॥ २-२-२ ॥ (विषयसंशयौ) इदानीमभ्यासानेदोऽभिधीयते । दर्शपूर्णमासयोः(१) समि- धो यजति, तनूनपातं यजति, इडो यजति,बहिर्यजति, स्वाहाकार य जतीति पञ्चकृत्वो यजतिपदमभ्यस्तं श्रुतम् । तत्र किमेको यागः ? उत प्रत्यभ्यासं यागभेदः ? इति विचारः । यागै- कत्वे भावनापूर्वयोरप्येकत्वम् , तद्भेदेऽर्थान्तरपरधातूचारणभे- दात शब्दान्तराधिकरणन्यायेनैव भावनाभेदसिद्धिः, अपूर्वाधिः करणोक्तन्यायेन चाऽपूर्व भेदसिद्धिः। यद्यपि चाऽभ्यासाद्यागभे- दवद्भावनाभेदोऽपि शक्यते वक्तुम् , तथाऽपि शब्दान्तरेणाऽपि तत्सम्भवादसाधारण्याभावेन नोपन्यस्तः। ( सङ्गतिः) अत्र च धात्वर्थभेदमात्रस्यैव विवक्षितविवेकेन निरूपीय. स्वेऽप्यध्यायार्थरूपभावनाभेदसिध्यर्थत्वादध्याय सङ्गत्यविरोधः । एवं सङ्ख्यायधिकरणेष्वपि द्रष्टव्यम् । पादसङ्गतिस्तु स्पष्टैव । अनन्तरा तु पूर्वाधिकरणे सत्यप्याख्यातैक्येन भावनाप्रत्यभिज्ञाने धातुभेदेन तदर्थभेदायुक्तो भावनाभेदः, प्रकृते तु धातोरप्येकत्वेन तद्भेदे प्रमाणाभाव इति पूर्वपक्षोत्थानाद्दष्टव्या । ( पूर्वपक्षः) तत्र धातुस्तावत स एवेति दृढतरप्रत्यभिज्ञयाऽवगम्यत इ. १. तै. सं. २.६.१. १९ मी० कौ० १४४ मीमांसा कौस्तुभे [अभ्यासाधिकरण- त्यविवादम् । अतस्तदर्थोऽप्येक एव ! न च पुनरुच्चारणा दस्तस्य, लोके पटः पट इत्यादौ शतश उच्चारितोऽपि भेदाप्रतीतेः । प्रत्यु. त प्रत्यभिज्ञापकत्वेनाऽभेदसाधकतया विरुद्धत्वात् । न च पुन:- श्रुतिमात्रस्याऽभेदसाधकत्वेऽपि विधिपुनःश्रुतिः स्वसमभिव्याहृ- तार्थे विहितविधानायोगेन भेदसाधकत्वान्न विरुध्यत इति वाच्य. म् । उपक्रमस्थय जिपुनःश्रुतिबलेनैकवाक्यतालाभाय च 'एकं वृणी- ते द्वौ वृणीते इतिवत् 'तनूनपातं यजती'त्यादौ लडन्तत्वस्याऽपि स. म्भवेन विधिपुनःश्रुतेरेवाऽसिद्धेः। अतश्च(१) तद्वदेवाऽयमेकस्याऽ. यवाद इति नाऽनर्थक्यप्रतिहतत्वेनाऽपि विधिपुनःश्रुतेर्भेदकता। अस्तु वा(२) 'समिधो यजति वसन्तमेवर्तनामवरुन्धे 'तनून- पातं यजति ग्रीष्ममेवाऽवरुन्धे' इत्यादिपृथगर्थवादाम्नानानिस्सन्दि- ग्धगुणविधिव्यवहितत्वाच 'तनुनपातं यजती' त्यादिरपि विधिः, तथाऽपि 'दना जुहोती' त्यादिवत् गुणसङ्क्रान्तशक्तिकत्वात् विधेर्धात्वर्थभावनाविषयत्वाभावेन न तद्भेदकत्वापत्तिः सर्वत्र हि समिदादिपदानां द्वितीयान्तानामपि 'विष्णुं यजती' तिवद्देवतापर- त्वमेवाऽवगम्यते, न तु नामधेयत्वम् ,येन तस्याऽविधेयत्वाद्विधिः धात्वर्थभावनाविषय एक 'अग्निहोत्रं जुहोती' तिवद्ध्याप्रियेत, ते. षां तूभयत्र तुल्यवत्तिकत्वाभावेन नामधेयन्यायाविषयत्वात् । न च न्यायान्तराविषयत्वेऽपि समिदादिदेवतानां(३) याज्या- मन्त्रवणैरेव सम्भवत्प्राप्तिकत्वात अग्निहोत्रं जुहोती तिव त्तत्पख्यन्या. यविषयत्वोपपत्तिः,(४) वसन्तमृतूनां प्रीणामी' त्याद्यनुमन्त्रणमन्त्रैः १. अयं च विषयः (६. १. १०. ) अधिकरणे द्रष्टव्यः । २. ते. सं. २.६.१. ३. समिधस्समिधोऽग्न आजस्य वियन्तु इत्यादयो मन्त्रवर्णाः। ४. तै. सं.१. ६.२.
पूर्वपक्षः] द्वितीयाध्यायस्य द्वितीयः पादः । वसन्नादिदेवतानामपि प्राप्तिसम्भवेन समिदादीनां नित्यप्राप्त्य. भावात् । अतो वसन्तादिमान्त्रवर्णिकदेवताव्यात्तिफलकस्य स. मिदादिनियमस्याऽप्राप्तत्वेन विधिवाक्यौर्विधानोपपत्तेः नामधेय. त्यासम्भवाद्विधायकस्य गुणसङ्क्रान्तशक्तित्वेन धात्वर्थ भावना. विषयत्वाभावान्न तद्भेदकत्वम्। न चैवं कर्मोत्पत्तिवाक्यस्थदेवताः वरोधात् कथमुत्पन्नवाक्यस्थदेवतान्तरविधानोपपत्तिः, कर्मोत्प. त्तिवाक्यस्थोपपदस्य नामत्वाङ्गीकारात्, अत एव न गुणा . दशङ्का । न चैवमपि विनिगमनाविरहः, प्राथमिकत्वेन समिद्वाक्ये कर्मविधिरितरत्र गुणविधिस्त दनुवादेनेति विनिगन्तुं शक्यत्वादि ति पार्थसारथिभवदेवश्च । वस्तुतस्तु समित्पदस्थाऽपि नामधेयत्वं नोद्भिन्यायासिद्धम् , उभयत्र तुल्यवद्वृत्तिकत्वाभावात् । वाक्यभेदतव्यपदेशौ तु ना. शङ्कनीयावेव । तत्प्रख्यन्यायोऽपि नियमस्याऽमाप्तत्वादनुपपन्नः, देवतामात्रप्राप्त्या तदुपपादनं तु तनुनपातादिपदेवप्यविशिष्टम् । अतो न समित्पदमात्रस्य नामधेयत्वाभिधानं युज्यते । तस्मादेवं प. रिहर्तव्यम्-स्वाहाकारवाक्ये कर्मविधिः, तत्रत्यस्वाहाकारपदस्य नामधेयत्वात् । न हि तत्र स्वाहाकारपदं स्वाहाकाररूपदेवता. विधायकम् , तस्य णमुलन्तत्वस्याऽपि सम्भवेन द्वितीयान्तत्व- स्यैव नियामकाभावात् देवताविध्यप्रतीतेः, मन्त्रतः पक्षे स्वाहा. कारदेवताया अमाप्तत्वेनाऽपूर्वायाः स्वाहाकारदेवताया विधौ गौरवाच । नाऽपि स्वाहाकारशब्दमात्रविधिः, णमुलन्तत्वस्याऽपि संशयितत्वेन तद्दोषतादवस्थ्यात् , स्वाहाकारशब्दस्य मन्त्रवर्णा नित्यप्राप्तत्वेन नियमविधेरप्यनाशङ्कनीयत्वाच्च । अतोऽसौ त. प्रख्यन्यायेन नामधेयमिति तत्रैव कर्मविधिः । इतरे तु तदनु वादेन वैकल्पिकदेवताविधयः। अस्पिश्च पक्षे(१) 'स्वाहाऽग्निम् , १.ते. बा.३.५ ५. ।
Dia १४६ मीमांसाकौस्तुभे [अभ्यासाधिकरण- स्वाहा सोम मित्यादिमन्त्री मुख्यलिङ्गकर्मान्तर्याज्याकार्ये वा. धितेऽपि महापकरणसहकृताल्लिङ्गासामधानदेवताप्रकाशनार्थ- सन् 'स्वाहा देवां आज्यपाँ' इत्यादिना प्रयाजदेवताया अपि प्रकाशितत्वाचदङ्गमपि भवत्येवेति नैतस्य प्रधानमात्राङ्गत्वापत्या प्रयाजे स्वाहाशब्दस्याऽमाप्तत्वात् तत्प्रख्यन्यायविधातश्शक्यः। अ. तः समिदादिवाक्यानां तत्रैव देवताविधायकत्वोपपत्तेविधिपुन:- श्रवणस्य धात्वर्थविषयत्वाभावात् न तद्भेदकत्वोपपत्तिः । अस्तु वोपांशुयागोत्पत्तिवाक्ये देवताभावात्तदनुवादेन स- मिदादिवाक्येषु पञ्चस्वपि देवताविधिः, तत्क्रमानातविष्ण्वादि. देवत्ययाज्यानुवाक्पायुगलानां तु क्रम बाधित्वा सपाख्यासह. कृतलिङ्गेनोत्कर्ष इति भवदेवोक्तः पक्षः। अस्तु वा वक्ष्यमाणसि- द्वान्तरीत्यैव समिदादीनां पञ्चानामपि नामधेयत्वम् , तथाऽपि प्राथमिकत्वेन समिद्वाक्य एव कर्मविधिः, इतरे तु तस्यैव कर्मणो. sभ्यासविधायकाः,(१) तेन पुनर्यजेतेतिक्त् । न तु कर्मान्तरविधाय. काः, प्रकृतप्रसभिज्ञावाधप्रसङ्गात् । अस्मिश्च पक्षे 'अतिहायेडोब. हि प्रतिसमानयते 'चतुर्दश पौर्णमास्यामाहुतयः' इत्यादिसमुच्चय- ज्ञापकान्युपपन्नानि भवन्ति । न चैवं संज्ञातो भेदापत्तिः, तस्या- ऽप्यभ्यासाभिप्रायेणैवोपपत्तेः। अतस्सिद्धं कमैकत्वमिति प्राप्ते- (सिद्धान्तः) अभिधीयते-सत्यपि लेट् लट्सन्देहे विध्यन्त रैकवाक्य. स्वाभावात् ,स्वतन्त्रानुवादमात्रत्वे त्वानर्थक्यापत्तेः, निस्सन्दिग्ध- गुणविधिव्यवहितत्वाच्च एतेषामेव मध्ये कस्य चिद्विधित्वमितरे १. याद्वाता अपच्छिन्द्याददक्षिणं तं यज्ञमिष्टातेन पुनर्यजेते' त्यत्र दक्षिणां विना समापितस्यैव प्रथमप्रयोगस्य 'तेन पुनर्यजेते'त्य- नेनाऽभ्यासविधिः तद्वदित्यर्थः ।
सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । १४७ तदर्थवादा इति शङ्कानुपपत्तेः, सर्वेऽपि तावद्विधय इत्याविवादः । तन्त्र समानाभिधानश्रुत्या समानपदश्रुत्या च विधिर्धात्वर्थभाव. नयोरेव व्याप्रियते, न तूपपदार्थ (१)इत्ययमप्युत्सर्गः, प्रथम विधिप्रकाराङ्गीकारात् । तच्चेदं तदा बाध्येत यदि दध्यादिवदु. पपदार्थोऽनन्यगतिः स्यात् । तथा हि--विधिः स्वस्य विशिष्टत्रि. धिगौरवपरिहारार्थ धात्वर्थभावनयोः प्राप्तिमन्यतोऽपेक्षते । त- स्थाश्चाऽपेक्षायां प्रत्याभिज्ञानमनुवादकारणम्, न त्वपेक्षाराहि. त्येऽपि । अतश्वाऽपेक्षाप्रत्यभिज्ञयोर्द्वयोरपि परस्परापेक्षत्वेनाऽनु. वादकारणत्वात् यथैव यथैव 'सोमेने'त्यादौ सत्यामध्यपेक्षायां प्रत्यभिज्ञाभावान धात्वर्थभावनयोरनुवादः, तथैव प्रकृते विधे. यान्तराभावेनाऽनुवादापेक्षाभावात सत्यपि प्रत्यभिज्ञाने नाऽनु- वादोपपत्तिः। अतश्च स्त्रोपमर्दापत्तेः विधिस्तावन्नैतादृशविषये सनिधिकृतप्रत्यभिज्ञोपजीवी । नाऽपि यजिः, तस्यापि समा. नपदोपात्तविधिश्रुत्पनुरोधवृत्तित्वेन समिधिकृतप्रत्यभिज्ञानुप- जीवकत्वात् । एवं सत्यपि यदि यजिस्तच्छन्दवत् प्रकृतमात्र वाची भवेत्ततस्तस्योपक्रमस्थत्वेन बलवचात् तदनुरोधेन जघ. न्यो विधिरेव देवांश्च याभिर्यजत' इतिवदनुवादकत्वेनैव नीयेत । वस्तुतस्तु तद्वदिह प्रयोजनामावादानर्थक्यप्रतिहतत्वेन उ. पक्रमस्थयजेरेवाऽप्रकृतपरत्वं लक्षणयाऽभ्युपगम्येतैव,किमुत यदा यजिः प्रकृताप्रकृतसाधारणः, तदा समानपदोपाचविधिपुन:. श्रुयनुरोधेन सन्निधिकृतप्रत्यभिज्ञां बाधित्वा अप्रकृतविषयके यजेन किञ्चिद्वाधकं पश्यामः । यत्तु प्रकृतेऽपि समिदादिदेव- तानियमस्य (२)सत्चात् विधिर्धात्वर्थ भावनांशे प्राप्तिसापेक्ष इ. त्युक्तम् , तन्न; अन्यतराकाहावललभ्यसम्बन्धानुमन्त्रणमन्त्रक. १. इत्युत्सर्ग इति क. पु. २. विधेयस्य सत्वादिति क. पु. .
१४८ मीमांसाकौस्तुभे [ अभ्यासाधिकरण - .. . ल्प्यवसन्तादिदेवतापेक्षया उभयाकाङ्क्षाबललभ्ययाज्यामन्त्रवर्ण- कल्प्यसमिदादिदेवतानां बलवत्वेन विषमशिष्टविकल्पानुपपत्तेः नियमाविध्ययोगात् । अत: समिद्यागे, स्वाहाकारयागे वाऽवा- न्तराधिकाराख्यप्रकरणेन सर्वेषां थाज्यामन्त्राणामङ्गत्वावगतः तरलेन मान्त्रवणिकसमिदादिमात्रदेवताकल्पनं नऽनुपपन्नम् । न चैवं 'वसन्तमृतूना' मित्यायनुमन्त्रणमन्त्राणां पूषानुम . न्त्रणमन्त्रवदुत्कर्षांपत्तिः, तहदेतेषां प्रयाजानुमन्त्रणसमाख्यात. सेन प्रयाजातिरिक्त सामान्य सम्बन्धबोधकममाणाभाबादुत्कर्षा नुपपत्तेः। अतो(१) मनोतामन्त्रवल्लक्षणयाऽत्र समिदादिदेवताम. काशनार्थान्येतीनीति द्रष्टव्यम् , न तु तन्त्ररत्रोक्तमदृष्टार्थत्वम् । न चैत्र(२) 'एको म त्यादीनामनुमन्त्रणमन्त्रान्तराणां विकल्पापत्तिः, तेषामपि लक्षणया प्रयाजफल प्रकाशकत्वेन भिन्न कार्यतया समुच्चयोपपत्तेः । विशिष्य चाऽयमर्थः (३)पश्चमे न रूपयिष्यते । अतस्तमिदादिपदानां तत्प्रख्यन्यायेन ना. मधेयत्वाद्विधेयान्तराभावेन विधेर्धात्वर्थभावनाविषयत्वावग- तो विहितविधानायोगेन विधिपुनःश्रवणरूपादभ्यासाद्भद. सिद्धिः । अत्र च न पुनः श्रुतिमात्रस्य भेदसाधकत्वम् , त. स्या अभेदसाधकत्वेन विरुद्धत्वात् । अतो विधिपवेशः । तस्य च स्त्रोपपदार्पत्तरेभदेसाधकत्वाभावान विरुद्धता । पुनःश्रवणं चऽनन्यपरं द्रष्टव्यम् । अतश्च 'दधना जुहोती'त्यादौ सत्यपि वि धिपुनःश्रवणे गुणनिमित्तफलादिसम्बन्धपरत्वान्न भेदकता वि. १. त्वं ह्यग्ने प्रथमो मनोतेति' मन्त्रः मनोतापदघटितत्वान्मनोता. मन्त्र इत्युच्यते। २. 'एको मम एका तस्य योऽस्मान्द्रष्टि यं च बयं दिध्मः' इति पञ्च अनुमन्त्रणमन्त्राः प्रयाजप्रकरणे वाजसनेयिशाखायामाम्नाताः॥ ३. पू. मी.५.१.३. .
सिद्धान्तः] द्वितीयाध्यायस्य द्वितीयः पादः। १४९ । धिपुनःश्रवणस्य । अनन्यपरत्वेऽपि च विधानयांग्यपरत्वं द्रष्टव्यः म् । अतश्च य एवं विद्वानि'त्यादौ सत्यप्यनन्यपरत्वे रूपाभावेन विधानयोग्यत्वाभावान भेदकतेति(१)उत्तराधिकरणे वक्ष्यते । प्रकृते तु जौहवाज्यस्य समिदादिदेवतायाः प्राप्तत्वेन रूपला. भान्न विधानायोग्यत्वम् । वस्तुतस्तु ‘य एवं विद्वानि'त्यत्राऽपि अधिकारवाक्यगत. द्वित्वसिद्धि फलकसमुदायपरत्वेनाऽनन्यपरत्वाभावादेव न भेद. कता । रूपाभावस्त्वतिशयार्थमुक्तः, अन्यथाऽव्यक्तत्वेन सौमिक धर्मातिदेशस्य विद्वद्वाक्ययोः, वैश्वदेवेन यजेते त्यादौ च कथमपि निवारयितुमशक्यत्वात् । न चैवमत्राऽपि विधिपुनःश्रवणस्य 'एकादश प्रयाजान यजती निवदावृत्तिविधानार्थत्वेनाऽन्यपर. स्वात् भेदकता न स्यादिति वाच्यम् । तत्र हि प्रयाजानुवादेन वि. धीयमाना सङ्ख्या निर्माता संख्येषु तेषु साक्षात्सम्बन्धेन निवेशमल. भमाना प्रयाजप्रयोगपरिच्छेदकत्वेन विधेयत्वाद्युक्तं यददिभ्या- समापादयतीति,प्रकृते तु विधेयान्तराभावेन यागपुनःप्रयोगस्यैव विधेयत्वकल्पनात् 'तनूपातं यजती'त्यादियजिना अदृष्टान्तरफलक. स्य यागप्रयोगगतद्वितीयत्वादेः पुनःप्रयोगाभ्यासात्यपरनामधे. यस्य लक्षणापत्तेः तत्परत्वायोगात् । 'तेन पुनर्यजेते त्यत्र तु पुन- शब्देनैव पौनःपुन्यस्य कृतत्वाद न लक्षणेति वैषम्यम् । न चैवं सिद्धान्तेऽपि यजिधातुना यागत्वसामान्यवाचकेन विधेयतावच्छेद के विजातीययागत्व लक्षणा तुल्यैवेति वाच्यम् । त- ल्लक्षणायामपि तदवच्छेद्ययागव्यक्तेश्शक्यतावच्छेदकीभूतयाग. त्वेनाऽप्यवच्छेदेनेशलक्षणाया अदोषत्वात् । अत: आत्तिरूपा. न्यपरत्वायोगात् अनन्यपरपुनःश्रवणस्य भेदकत्वयावश्यकमेव । १. पू. मी.२.२.३.
-- . .. . १५० मीमांसाकौस्तुभेः [अभ्यासाधिकरण- यत्तु भव देवेनोपांशुयाजानुवादेन सामदादिदेवताविधान मिति पूर्वपक्षः कृतः, स वैकल्पिकसगिदादिदेवताकत्वे 'अति- हायेडो बर्हिः प्रतिसमानयत' इत्यादिसमुच्चयज्ञापकानुपपत्तेरेतद्वि- ध्यन्यथानुपपत्तिकल्पितसमुच्चयविधिप्रसूतोपांशुयाजावृत्तिकल्पने च गौरवापत्तेः, विष्णुरुपांशु यष्टव्योऽजामित्वाय त्याद्यर्थवादा. नुपपत्तेश्च निराकर्तव्यः । तत्सिद्धमनन्यपरविधिपुनःश्रवणरूपाद. भ्यासादेतेषु पञ्चस्वपि धात्वर्थभावनयोयोरपि विधानावगतेः निहितविधानायोगेन भेद इति । नन्वेवं संज्ञोपबन्धाख्यातेषु सर्वत्राऽभ्यालेनैव भेदसिद्धेनं कचित्संज्ञाया भेदकत्वं भवेत् , तस्या वा भेदकत्वे प्रकृतेऽपि तत एत्र भेदसिद्धेनाऽभ्यासस्याऽसङ्कीर्णोदाहरणलाम इति चेत्, न ; यत्राऽऽख्यात सामानाधिकरण्याभावेन यागविशेषनामत्वानवगमेऽ पि 'अथैष ज्योतिरित्यादौ अधिकारादथब्दान्वयनाऽनिर्धारित. क्रियाविशेषसंज्ञावनिश्चयं कृत्वा तद्वलेनैव विध्याख्यातकल्पनम् , तत्राऽभ्यासस्य संज्ञाधीनसिद्धिकत्वेन दुर्बलत्वात् संज्ञयैव तदव. धारणम् । यत्र वा 'उद्भिदा यजते त्यादौ संज्ञाभावे प्रकृतस्यैव यागस्य फलसम्बन्धो गुणफलसम्बन्धो वा प्रकृतयागाश्रितो विधिपुनःश्रवणेऽपि विधीयत इत्यनन्यपरत्वाभावान्नाऽभ्यासस्य भेदकत्वम् , तत्राऽपि निष्प्रतिद्वन्द्वमेव संज्ञाया भेदकत्वम् । प्र. कृते स्वभ्यासस्वरूपस्य संज्ञानधीनत्वादन्यपरत्वाभावेनाऽधि कबलत्वाच्च युक्तं तस्य भेदकत्वम् । न च संज्ञाया अपि प्रकृते प्रत्यख्यन्यायसिद्धत्वेनाऽभ्यासस्य यागविध्यधीनस्वाभावात् , प्रत्युत संज्ञात्वाभावे देवताविधिपरत्वे. नाऽभ्यासस्यैव तदधीनत्वात् , संज्ञयैव भेदसिद्धर्नाभ्यासस्याऽस- कीर्णोदाहरणत्वमिति वाच्यम् । प्रकृतोदाहरणे प्रमाणद्वयसङ्करे. , सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । ऽपि यत्रोभयत्र तुल्यवृत्तिकधातुपारादिना नामधेयतासिद्धिः, तत्र विधेर्धात्वर्थभावनाविषयत्वद्वारकभेदागमोत्तरमेव संज्ञात्व. सिद्धेरभ्यासस्यैवाऽसङ्कीर्णस्य भेदबोधकत्वोपपत्तेः, प्रकृतोदाह- रणेऽपि तत्प्रख्यन्यायस्य गुणविधिमात्रप्रतिबन्धकत्वात्, यजिस- मभिव्याहारस्य च मन्त्रवर्णप्राप्तदेवतानुवादकत्वेनाऽप्युपपत्ते - मधेयकृत्यस्य चाऽवच्छेदस्य स्ववाक्योपात्तनामधेयेनैव सिद्धर्नाम- त्वानवगमात् ततः पूर्वमेव विधिपुनःश्रवणस्य भेदकत्वोपपत्तेश्च । न चैवं तदुत्तरमपि नामत्वानवगमप्रसङ्गः,अभ्यासभिन्नकान्तरस्यै- वाऽवच्छेदकापेक्षायां तदङ्गीकारात् । अतश्च सिद्धोऽभ्यासमात्र- माणकोऽत्र धात्वर्थ भेद इति । भेदश्चाऽत्र न व्यक्तिमात्रस्य, अपि तु तद्तजातेरपि, विधे. यभेदे विधेयतावच्छेदकभेदस्यौत्सर्गिकत्वात् । अतश्च यागत्वा. दिव्याप्या जातयः समिधागत्वतनूपाद्यागत्वादिरूपास्तत्तद्वाक्य- गतेन यजिना लक्षायित्वा तत्तदवच्छिन्नयागव्यक्तयो विधीयन्ते । न चाऽत्र विधेयतावच्छेदकमुपाधिरूपं किञ्चित्सम्भवति, तनून. पातादिदेवतानां यागविधेयतावगत्युत्तरकालं विधेयत्वेन विधेय. स्वानवच्छेदकत्वात् । यत्तु वार्तिके गकारादिवदेव समिद्यागव्यक्तिनिया तद्दे- शकालद्रव्यकादिभेदेनाऽभिव्यज्यते, द्रुताद्युच्चारणभेदेनेव गका. रव्याक्तिः । अतस्तद्भेदोपाधिकैव तस्या भेदप्रतीतिर्न तु स्वतः । सैव च विधिना विधीयते, विधेयतावच्छेदकाभावेऽपि च व्य- क्तिमात्रं विधिना विधीयत इति पक्षान्तरमुक्तम् , तत् शब्दादपि निर्विकल्पकप्रययोत्पत्तिमङ्गीकृत्येति द्रष्टव्यम् । यदा तु शब्दा. सविकल्पकमेचेति नियमः, तदा व्यवहारसौकर्यार्थ समिद्याग- त्वादिजातिकल्पनेऽपि न किञ्चिद्धाधकम् । अत एव यत्रोपाधि- , २० मी०कौ०
.
१५२
मीमांसाकौस्तुभ [ अभ्यासाधिकरणम् ।
रूपमेव पदप्रकृत्तिनिमित्तं सम्भवति, यथा था-दर्शपूर्णमासेष्टिसत्रैक-
हायनीशब्देषु तत्तत्कालत्वादि, तत्र न जातिकल्पनम् , गौर-
वात् । प्रकृते तु तादृशोपाध्यभावाज्जातिकल्पनेऽपि न किञ्चिद्धा
धकं पश्यामः । अस्तु वा समिद्यागत्वाद्यखण्डोपाधिः। तस्मा-
सिद्धोऽभ्यासाद्भेदः।
प्रयोजनम् ---देवताविधिपूर्वपक्षे तासां दृष्टार्थत्वेन विकल्पास.
कृदेव कर्मानुष्ठानम् | आवृत्तिविधिपूर्वपक्षे तु यत्र विकृतिविशेषे
ऽपूर्वार्थ समिद्यागपुनःश्रवणम् , तत्राऽपि तनूनपातादिसंज्ञिकाया
आवृत्तेस्समिद्यागाङ्गत्वेन 'प्रधानं नीयमानं हि तत्राऽङ्गान्यपक-
पती'ति न्यायेन प्राप्तः पञ्चकृत्वोऽनुष्ठानम् । तथा समिद्यागाश्रि-
तस्य फलार्थस्य गुणस्य सायं प्रातरग्निहोत्रावृत्तौ दध्यावृत्तिव.
स्पञ्चवारमात्तिः। सिद्धान्ते तु प्रकृती प्रयाजानामदृष्टार्थत्वा-
पञ्चानामप्यनुष्ठानम् । न च तत्राऽप्येकया प्रयाजसमाख्यया
एककार्यत्वावगतेर्विकल्प एच युक्त इति वाच्यम् । 'त्रिरतः
प्राचीनान्प्रयाजान्यजति' 'अतिहायेडो वर्हिः प्रतिसमानयत'
इत्यादिसमुच्चयज्ञापकबलेन तत्सिद्धर्विकल्पायोगात् । विकृति-
विशेषे च पुनःश्रुतस्य समिद्यागमात्रस्यैवाऽनुष्ठानम् , काम्यश्च
गुणस्तत्रैवाऽनुष्ठेय इति ।
सूत्रंतु-एकस्थ या अविशेषेण पुनःश्रतिः साऽप्येवं
कर्मभेदिका, अन्यथा आनर्थक्यापत्तेरिति व्याख्येयम् ॥ ३॥
इति द्वितीयमभ्यासाधिकरणम् ॥२॥
अथ तृतीयं पौर्णमास्यधिकरणम् । प्रकरणं तु पौर्णमास्यां रूपावचनात् ।। २-२-३ ॥ ( विषयसंशयौ) इदानीमभ्यामस्याऽपवादः क्रियते । दर्शपूर्णमासयोः(१) 'य एवं विद्वान् पौर्णमासी यजते 'य एवं विद्वानमावास्यां यजत' इति वाक्यद्वयं श्रुतम् । तत्र किं कर्मान्तरं पौर्णमासीसंज्ञकममाव- स्यासंज्ञकं च विधीयते ? उत ये श्रुतपौर्णमासीकालसम्बन्धा आ. मेयोपांशुयाजाग्नीषोमीयाः प्रकृता यागास्ते पौर्णमासीवाक्यन, ये च श्रुतामावास्याकालसम्बन्धा आग्नेयसानाय्यैन्द्रानास्त अ. मावास्यावाक्येन समुदायलिध्यर्थमन्यन्त ? इति विचारः । ( पूर्वपक्षः) तत्र यजत इत्ययं तावद्विधिरित्य सन्दिग्धम् । सत्यपि च वर्तमानविभक्तित्वसन्देहे विध्यन्तरैकवाक्यत्वाभावेन स्तुत्यर्थम- नुवादानुपपत्तेः, स्वतन्त्रानुवादस्य च वक्ष्यमाणरीत्या सार्थक स्वासम्भवेनाऽऽनर्थक्यापत्तेः परिशेषादेव पञ्चमलकारत्वनिश्च. यात् । अत एव(२) 'यावदुक्थ्येनोपाप्नोति तावदुपाप्नोती'ति पौर्णमासीवाक्यस्य 'यावदतिरात्रेणोपाप्नोती' त्यमावास्यावाक्य- स्याऽर्थवादोऽपि सङ्गच्छते । अन्यथा हि विधेयाभावात्कस्य स्तुतिरेताभ्यां क्रियेत । (३)न चैवं सति यच्छन्दैवंशब्दाभ्यां विधित्वप्रतिबन्धः, क्रियाविशेषितकर्तृसमानाधिकरणस्य यच्छब्दस्य, क्रियाविशेषः . : १. २.ते. सं. १.६.९. ३ न चैवमपीति. क. पु.
१ १५४ मीमांसाकौस्तुभे [पौर्णमास्यधिकरण- परामर्शकस्यैवंशब्दस्य च समभिव्याहृतवेदनक्रियाविधिप्रतिब- न्धकत्वेऽपि यागक्रियाविधि(१)प्रतिबन्धकत्वाभावस्य भवदेवेनै- वोक्तत्वात् । अत एव(२) 'यो दीक्षितो यदग्नीषोमीयं पशुमाल- भत' इत्यत्र दीक्षाविधिः प्रतिबध्यते, न तु यागविधिः । अतश्च पूर्ववदेव विधिपुनःश्रवणात् कर्मान्तरत्वम् । न चानान्यपर- स्वम् , स्त्रवाक्ये फलनिमित्तगुणादिप्रतिपादकशब्दाभावेन त. त्परत्वासम्भवात् , पौर्णमास्यमावास्याशब्दयोस्तव मम च नाम- धेयत्वात् । न च प्रापकप्रमाणात्पूर्वमेवैतद्वाक्यप्रवृत्यङ्गीकारेण तस्यैव कर्मणः प्रयोजनान्तरार्थं विधिरङ्गीक्रियत इति वाच्यम् । प्रापक- प्रमाणस्याऽप्याग्नेयादिवाक्यरूपस्य श्रौतत्वेन ततः पूर्व(३)एतत्पर. श्यङ्गीकारानुपपत्तेः, पुनर्विधानस्य च प्रयोजनाभावाच्च । तथा हे-न तावदेकेन पदेनाऽनेकेषामुपादाने साहित्यप्रतीतेस्स- मुदायासद्धिः प्रयोजनम् , तस्यास्स्वतो निष्प्रयोजनवाद । न चैतद्वाक्याभावे 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते' त्यधिका- रवाक्ये दर्शपूर्णमासनामावच्छिन्नेन यजिनोपात्तानामेव यागानां फलमम्बन्धावगमेऽपि तेन द्विवचनान्तदर्शपूर्णमासपदावयत्रश- क्तिपर्यालोचनया कालयोगिनां, द्वित्वयोगिनां चोपादानावगते. रुत्पत्तिवाक्ये कालयोगिनां चाऽऽग्नेयादीनां द्वित्वयोगाभावात् , द्वित्वयोगिनां चाज्यभागादीनां कालयोगाभावादप्रसिद्धार्थकद- शपूर्णमासनामकत्वागतेः, तत्समाभिव्याहृतेनाऽपि यजिना राज- सूयवत्मकृतयागमात्रग्रहणेन सर्वेषां फलसम्बन्धापत्तेः, एतद्वा. क्यद्वयसत्त्वे च कालयोगिनामाग्नेयादीनां समुदायद्वयकरणेन १. प्रतिबन्धकताभावस्यति. के. पु. ३. एतद्वाक्यप्रवृत्तीति. क. पु. २.ते. सं. ६.१.११ पूर्वपक्षः] द्वितीयाध्यायस्य द्वितीयः पादः। १५५ . तवारकाद्वित्वसम्बन्धावगतज्योतिष्टोमवत्यसिद्धार्थकदर्शपूर्णमा- सनामावच्छिन्नेन यजिना तन्मात्रोपादानेन तेषामेव फलसम्ब- न्धावगतेषड्यागफलसम्बन्धापादकनामगतद्विवचनप्रसिध्युप. योगिसमुदायद्वयफलकत्वेन वचनद्वयसार्थक्योपपत्तिरिति वाच्य. म् । एतद्वाक्यद्वयेन पौर्णमास्यमावास्यासंज्ञकयागसमुदायद्वयकर णेऽप्यधिकारवाक्यस्थदर्शपूर्णमास शब्दस्य तनो भिन्नत्वेन तदु- पस्थापकत्वानुपपत्तेरप्रसिद्धार्थकत्वस्य तदवस्थत्वात् । न हि पौ. भासीपदं पूर्णमासपदं च तुल्यम् , दर्शामावास्यापदयोस्त्वैक्य- पनाशङ्कनीयमेव । (२) यदा तु पूर्णमासशब्दस्याऽत्यन्तसाम्या. भावेऽपि नामैकदेशत्वेन वाऽऽख्याविकारत्वेन वा पौर्णमासीपदो. पस्थापनद्वारा तदर्थोपस्थापकत्वोपपत्तेः, दर्शशब्दस्य च विरु- द्धलक्षणया चन्द्रादर्शनाधिकरणकामावास्यातिथिसम्बन्धिकर्मोप- स्थापकत्वोपपत्तेः, अन्वारम्भणीयावाक्यशेषे च(२) "दों वा एतयोः पूर्वः, पूर्णमास उत्तरोऽथ यत्पूर्णमासं पूर्वमारभते त. दयथा पूर्व क्रियते, तस्मात्पूर्णमासं पूर्वमारभमाणस्सरस्वत्यै चरुं निर्वपेत्सरस्वते द्वादशकपालममावस्या चै सरस्वती पूर्णमासस्सर- स्वानि" ति दर्शामावास्याशब्दयोः पर्यायत्वावगमात् पसिद्धा. थकत्वमाशङ्कयेत, तत(३) एतद्वाक्यद्वयफलभूतसमुदायानुवाद. द्वयाभावेऽपि अधिकारवाक्ये दर्शशब्देन पूर्णमासशब्देन च श्रुत- कालयोगिनां त्रयाणामेव कर्मणामुपादानेन, तत्समानाधिकरणे. न यजिना षण्णामेव फलसम्बन्धोपपत्तेर्वाक्यवैयर्थ्यात् । न च दर्शपूर्णमासप्रातिपदिकस्य कालयोगि प्रसिद्धार्थक- वेऽपि द्विवचनस्याऽप्रसिद्धः कथं तस्य यज्यवच्छेदकत्वमिति १. अथ तु इति. क. पु. २. मै. सं. १.४. १५. ३. एतद्वाक्यफलीभूतसमुदायद्वयाभावेऽपीति. क. पु.
मीमांसाकौस्तुभे [पौर्णमास्यधिकरण ? , वाच्यम् ? प्रातिपदिकमसिद्धिसच्चे (१)पाशाधिकरणन्यायेन द्वि. वचनानुरोधेन तत्यागानुपपत्तेः । (२)अवश्यं च समुदायद्वय सिद्धावपि फलवाक्ये भावार्थाधिकरणन्यायेन यजतेरेव करणस. मर्पकत्वात् , तेन च षण्णामेकपदोपादानात् तन्त्राभिधानावगतै- कसमुदायप्रतीतावपि यजिपदेन समुदायस्य शक्तयाऽनभिधाना. द, तच्छक्यानां यागानामेव लक्षित समुदायविशिष्टानां फलकर णत्वावगतः,तेषां बहुत्वात् तरसामानाधिकरण्यार्थ दर्शपूर्णमासपदे. ऽपि द्विवचनेन बहुत्व लक्षणा । अतश्च समुदायद्वयाभावेऽपि पा पाशाधिकरणन्यायेन बहुत्व(३)लक्षणायामपि न दोषः । न चयं निषिद्धा, 'सुपां सुपो भवन्ती' सभ्यनुज्ञानात् । न च लक्षणाविशेषेऽपि मन्मते द्वित्वस्य समुदायत्ति. त्वात् स्वाश्रयसमुदायघटकसमुदायित्तित्वरूपस्य शक्यसम्ब- न्धस्य सत्वात्तदुपपत्तिः, तव तु तदभावे कथं लक्षणेति वाच्य. म् ? ममाऽपि द्वित्वस्य पौर्णमास्यमावास्याकालवृत्तित्त्वात् स्वाश्र यकालीनयागवृत्तित्वरूप स्वशक्यसम्बन्धेन बहुत्व लक्षणोपपत्तेः । अतश्च विद्वद्वाक्याभावेऽपि षड्यागफलसम्बन्धापादकनामगत. द्विवचनप्रसिध्युपपत्तेः समुदायकरणस्य चैयर्थ्यान्न तत्प्रयोजनत. या समुदायिविधानोपपत्तिः । एतेन समुदायिनामनुवादः समु. दायद्वयप्रयोजनक इति सिद्धान्त्यभिप्रेतं प्रत्युक्तम् । अत श्चाऽनन्यपरविधिपुनःश्रवणरूपादभ्यासात् कर्मान्तरं विधीयते । पौर्णमास्यमावास्याशब्दश्च पौर्णमास्यां पौर्णमास्या यजेत' 'अमा- १. पू. मी. ९.३.५. २. अतश्च तदनुरोधेन द्विवचन एव बहुत्वलक्षणाऽवगन्तव्येत्य. धिकः पाठः 'क' पुस्तक उपलभ्यते । ३. लक्षणा न दोषायति क. पु.
पूर्वपक्षः] द्वितीयाध्यायस्य द्वितीयः पादः । १५७ वास्यायाममावास्यथा यजेते नि वाक्यस्यप्राप्तपौर्णमाम्यमावा- स्थाकालयोगेन तत्प्रख्यन्यायेन नामधेयम् । इदं हि वाक्यद्वयं तृतीयान्तनामधेयवशात् विद्वद्गाक्यविहितकर्मानुवादेन कालचि. धायकम् , अनन्यप्रयोजनत्वाच्च । न ह्याग्नेयादीनामुत्पत्तिवाक्य- विहितकालकत्वेन प्रयाजाद्यङ्गानां च प्रधानकालकत्वेन तव मने एतस्य कालविधायकता सम्भवति । न चैवमपि काळविधौ सति नामधेयत्वम् , नामधेयत्वे च सति तदनुवादेन कालविधिरितीतरेतराश्रयापत्तिः, अग्निहोत्र. न्यायेन पूर्व सामानाधिकरण्येन(१) नामधेयत्वेऽवधारिते, पश्चा- तदनुवादविहितकालयोगेन प्रवृत्तिनिमित्तावधारणोपपत्तेः । अतस्तत्संज्ञककर्मान्तरविधानपेवेदम् । अत एव 'पौर्णमासी'मि. त्येकवचनं कर्मण एकत्वात्सङ्गच्छते । इतरथा समुदायिनां या. गानां बहुत्वात् बहुवलक्षणार्थं स्यात् । द्वितीया तु 'अग्निहोत्रं जुहोती तिवत् सामानाधिकरण्यार्थ करणत्वं लक्षयतीति न कि- श्चिदनुपपन्नम् । न चैवमपि द्रव्यदेवतालक्षणरूपाभावाद्विधानायोग्यत्त्वम् , रूपाभावस्याऽसिद्धेः। तथा हि-द्रव्यं तावत् 'चतुर्भुवायां गृह्णा- ती' ति प्रयोजनसाकाझं धौवं द्रव्याकाङ्काभ्यामेव ताभ्यामुपांशुया. जवत् उभयाकाङ्क्षारूपाधिकराख्यप्रकरणेन सम्बध्यते ।(२) 'स. स्मै वा एतद्यज्ञाय गृह्यते यद्धृवायामाज्य'मिति वचनेनाऽपा प्तिबललब्धविधिशक्तित्वेन सर्वयज्ञार्थत्वेन तादर्थ्य चतुझं धौ वविधानाच्च । न चात्राऽऽज्यानुवादेन ध्रौवतामात्रस्य लाघ- वेन विधिप्रतीते न दृष्टान्ते दार्शन्तिके वा सामान्यतोऽप्राप्ता. ज्यके तद्विधिसम्भव इति वाच्यम् । यज्ञाङ्गभूनाज्यानुवादेन त- १. नामत्व इति. क. पु. २. तै. ब्रा. ३. ३.५.
मीमांमाकौस्तुभे [पौर्णमास्यधिकरण- न द्विधौ विशिष्टोद्देशे वाक्य भेदापतेः, आज्यमात्रानुवादेन तद्विध चाऽलङ्करणादायपि तदापत्तेः यज्ञपदवैयर्यप्रसङ्गात् , तदुद्देशे नात्र धौवाज्यस्यैव विधिप्रतीतेः बाधकाभावात् । न चैवमुभयाकाङ्क्षाबलेनैव तत्प्राप्त्युपपत्तेः विधिवैयर्यम् , तरलेनाऽलङ्करणादिष्वयज्ञेष्वपि तत्प्राप्तिसम्भवेन तस्य तद्वथा. वृत्तिफलकत्वात् । अत एवाऽलङ्करणादौ जौहवादिग्रहणेन नि. राकाङ्गस्याऽप्याज्यस्थाल्याज्यस्यैव विनियोगः, न तु धौवस्य । तस्माद्व्यं तावन्निधिम् । देवताऽप्याज्यभागक्रमाम्नातानामपि वानीवधन्वतीमन्त्रा. णा(१) वात्रघ्नी पौर्णमास्यामनूच्यते वृधन्वत्यमावास्याया' मिति व. चनेन क्रमं बाधित्वा विद्वद्वाक्यविहित कर्माङ्गत्वेन विनियुक्तवाद , तदन्यथानुपपत्तिफल्या अग्नीषोमरूपाऽत्र मान्त्रवर्णिकी । चाडबाधेनोपपत्तो बाधायोगादाज्यभागयोरेवाऽव्यवस्थया प्रा तानां मन्त्राणां व्यवस्थामात्रकरणेन वचनोपपत्तेः मान्त्रवर्णिक देवताकल्पने प्रमाणाभाव इति वाच्यम् । आज्यभागयोः पौर्ण मास्यभावास्याकालकर्तव्यत्वस्य विध्यभावेनाऽमाप्तत्वात् तिथ्य न्तरक्रियमाणविकृतिषु वाघ्नयादिप्राप्तयभावापत्तेश्च । पौर्ण- मास्यां यावाज्यभागौ तत्र वानी इति कालकृतव्यवस्थानुप. पत्तेरेतद्वाक्यस्थपौर्णमास्यमावास्यापदाभ्यां प्रसिद्धनामधेयत्वेन विद्वद्वाक्यस्थकर्मणोरेव लक्षणयोपस्थापनावगमादाज्यभागयोश्चै- तत्पूर्वपक्षे समप्राधान्यस्य वक्ष्यमाणत्वेन विद्वाक्यविहितकर्मा- नङ्गत्वात् पौर्णमास्यमावास्यापदाभ्यां तत्तद्वाक्यविहितकर्माङ्ग भूताज्यभागलक्षणायां गौरवापत्तेश्च । एतद्वाक्यविहितपौर्णमा- स्याख्यकर्माङ्गभूताज्यभागयोत्रिनी इति कर्मकृतव्यवस्थाया १. तै. सं. २. ५.२. - पूर्वपक्षः ] द्वितीयाध्यायस्य द्वितीयः पादः । १५९ अप्यनुपपत्तेलाघवेन एनद्वाक्यविहितकाङ्गत्वेनैव मन्त्रविध्यय- गमात् मान्नवर्णिकदेवताविधानोपपत्तेः । एवं सत्यप्येतयोर्यध. ग्नीषोमीयादिवदन्यदेवताकत्वमवगतं स्यात् , ततो वाक्येन लि. बाधायोगादगत्या विशिष्टलक्षणामङ्गीकृत्य गौरवमपि(१) मिथश्चा. ऽनर्थसम्बन्ध' इति तुनीयस्थाधिकरणन्यायेनाऽऽश्रियेत, न तु तद. स्ति । अत एवोपक्रमस्थपौर्णमास्यमावास्यापातिपदिकगतविशिष्टः लक्षणागौरवभिया उपसंहारस्था सप्तम्येव 'तत्र जयाजुहुया' दितिवल्लक्षणया प्राधान्यं प्रतिपादयन्ती न दुष्यति । अतो- ऽग्नीषोमप्रकाशकयोनियोचोः पौर्णमासीकाङ्गत्वात्ताह श्योरेव च वृधन्वत्योरमावास्याकङ्गित्वादेकैकस्मिन् कर्माण मन्त्रद्वयस्य दृष्टार्थत्वेन विकल्पावगतः देवताद्वयस्याऽपि विकल्पः। एतयोश्चाऽनुवाक्यासमाख्यातत्वेऽपि न देवतालक्षणा, 'याज्या. नुवाक्या' इति स्मरणात् तत्तदैवत्य याज्यान्तरकल्पनं द्रष्टव्यम् । वस्तुतस्तु वार्वघ्नी सायकपदोपादानसामर्थ्यात् द्वयोरपि मः न्त्रयोः साहिस प्रतीतेः न विकल्पः । अतश्च मान्त्रवार्णकदेवताद्वय स्थाऽपि समुच्चयादेककस्य कर्मणोऽग्निहोत्रादिवदावृत्तिः, समुचित याज्यायकल्पनश्च । अस्तु वा मन्त्रद्वयेनाऽपि लाघवाद्यासज्य. वृत्येकदेवतात्वकल्पनम् , उभयप्रकाशकैकयाज्याकल्पनं च । स. थाऽस्ति विद्वाक्यविहिते कर्मणि देवता । यत्तु वार्तिके अनयोरेवैका अनुबाक्या, एका याज्या, उभ• यत्राऽपि मनोतान्यायेनोभयत्र लक्षकत्वमङ्गीकृत्य कल्पनीयत्यु क्तम् , तत् अनुवाक्यासमाख्याबाधापत्तेर्लक्षणायां प्रमाणाभावा. चोपेक्षितम् । आज्यभागयोस्तु 'तौ होचतुरनीषोमौ किमावयोर्व. स्तु तत्स्या' दिति प्रकृतयोरनीषोमयोः 'यस्यैककस्यै देवतायै ह. १. जै. सू. ३. १. २३. , २१ मी०को मीमांसाकौस्तुभे [ पणिमास्यधिकरण- विर्निर्बपन्नाज्यस्यैव नौ यज' नित्यत्र पुराकल्पसरूपार्थवाद- कल्ये विधौ 'नौ' इत्यनेन द्वितीयान्तेन देवतात्वस्य 'विष्णु यजती' तिवदुक्तत्वात् , 'अग्नीषोमाभ्यामाज्यभागौ यजतीति. वचनेनैव वा तद्विधानात् तदनुरूपानुवाक्याकल्पनम् । याज्या तु. क्रमप्राप्ता अव्याहतैव । अतश्च विद्वद्वाक्य विहिते कर्मणि क- मरूपसत्वान्न विधानायोग्यत्वम् । अथ वाऽस्तु(१) एतद्वाक्यविहितकर्मानुवादेन समिदादि- वाक्ये देवताविधिः, समुच्चयज्ञापकसत्वाच्च(२) समुच्चयः। न चोपांशुयाजे समिदादिदेवताविधौ 'विष्णुरुयांशु यष्टव्य' इत्या. बार्थवादानुपपत्तिवदिह काचिदनुपपत्तिरस्ति । अस्तु वा (३)अ. व्यक्तत्वसादृश्यात् सौमिकधर्मातिदेशः। न च वाचनिकपौर्ण- मास्यमावास्या(४)काळसम्बन्धबाधप्रसङ्गात् पार्थसारथ्युक्तानति- देशः, वाचनिककालानुरोधेन मुत्यान्यकालीनाङ्गबाधेऽपि त. कालीनाङ्गानामतिदेशोपपत्तेः । प्रयाजानां तु मान्नवार्णिकदेवता. कत्वेन व्यक्तत्वात् कृत्स्नविधानाच्च(५) न सौमिकधर्मातिदेश प्रसक्तिरिति न तत्प्रतिबन्यापादन(६) शक्यम् । तस्मादूपोपपत्तेः (७)कर्मान्तरविधी एताविति सिद्धम् । एवञ्च फलवाक्येन षण्णामेव फलसम्बन्धस्सिध्यति । तथा हि-सर्वत्र प्रसिद्धपदसमभिव्याहारेणाप्रसिद्धपदार्थनिर्णयः । तधत्र नामधेयं प्रसिद्धम् , यथा चतुर्थान्यन्यायेन ज्योतिष्टोमप. दं सोमयागे, तत्र प्रकृतमात्रग्राहियजिनिर्णयः । यत्र वा यजि. इति क. पु. १. एतत्कर्मानुवादेनेति क. पु. २. ताला लमुच्चय ३. अव्यक्तत्वादिति क. पु. ४ कालबाधप्रसङ्गादिति क. पु. ५. सौमिकधर्मातिदेशप्रसङ्गानुपपत्तेरिति क. पु. ६. अनाशयमेवेति क. पु. ७. कर्मान्तरविधिरेवेति क. पु.
पूर्वपक्षः द्वितीयाध्यायस्य द्वितीयः पादः। पदं यागमात्रे प्रसिद्धम् , नामधेयं तु राजसूयादिरूपं प्रकृतया- गायागमात्रपरं सम्भाव्यते, तत्र यजिनैव चतुर्थपादाद्यन्यायेन नामधेयनिर्णयः । न च राजा सोमस्सूयते अभिषूयतेऽस्मिन्निति व्युत्पत्त्या राजस्यपदस्याऽपि सोमयागमात्रे ज्योतिष्टोमपदवत्प सिद्धार्थकत्वात् तेनैव यजिनिर्णयोपपत्तेः कथं यजिना नामधेय. निर्णयः ? राज्ञा क्षत्रियेण सूयते निष्पाद्यते असाविति व्युत्पत्या, राजा क्षत्रियः मुनोति स्नाति अभिषेकेणाऽऽीक्रियतेऽस्मिन्निति व्युत्पत्या वा सर्वेऽवपीष्टिपशुमोमयागेषु राजस्यपदप्रवृत्तिसम्भ- वेन तस्य प्रसिद्धार्थकत्वाभावात् यजिना तनिर्णयोपपत्तेः । त. दिह दर्शपूर्णमासाभ्यामिति द्विवचनान्तं नामधेयमपि न प्रसिद्धा. थम् । द्वित्वस्याऽऽज्यभागादौ प्रसिद्धत्वेऽपि प्रातिपदिकस्य का. ऽप्यप्रसिद्धत्वात् । न च तस्याऽपि पौर्णमास्यमावास्याकालरूपस्वशक्यसम्ब. न्धेनाऽस्त्याग्नेयादौ प्रसिद्धिः, दर्शपूर्णमासपदस्य पौर्णमास्य मावास्यापदाद्भिन्नत्वेन तदर्थ(१)वाचकत्वे प्रमाणाभावात् । अत एव पौर्णमास्यमावास्यानामकयोरपि विद्वद्वाक्यद्वयविहितकर्मणो- दर्शपूर्णमासपदेना ग्रहणम् । न चैवमपि द्वित्वमात्रस्यैव प्रसिद्धः तदनुरोधेन याजिना आज्यभागयोरेवोपादानोपपत्तेस्तयोरेव.फ. लसम्बन्धापत्तिः, आग्नेयवाक्ये यागद्वयविधानस्याऽनुपदमेव व. क्ष्यमाणत्वात् तावादाय विनिगमनाविरहात् । अतो द्विवचनमः तिरूपकमव्ययमिदं यजिसामानाधिकरण्यात् प्रकृतयागवाचक त्वेन निर्णीयते इति राजसूयन्यायेन सर्वेषां फलसम्बन्धान प. ड्यागमात्रवृत्ति फलम् । अस्तु वा पूर्वोक्तनामैकदेशत्वादियुक्तिनिचयबळेन दर्शपूर्णमास. १. वाचित्व इति क. पु. .
- " १६२ मीमांसाकौस्तुभे [पौर्णमास्यधिकरण शब्दस्य शत्या पौर्णमास्यमावास्याकालवाचित्वं निरूढलक्षणया च तद्योगिकर्मपरत्वम् , तथापि आग्नेयादीनां षण्णां विद्वद्वा- क्यविहितयोश्च कर्मणोः कालयोगस्याऽविशेषाद्दर्शपूर्णमास- पदेन ग्रहणोपपत्तेः, द्विवचनस्य च(२) पाशाधिकरणन्यायेन ब. हुत्वलक्षणार्थत्वेऽपि बाधकामावादष्टानामेव फलसम्बन्धोप- पत्तेः न षण्णामेव सः । अथ वा विद्वद्वाक्यविहितकर्मणोः पौर्णमास्यमावास्यासंबकत्वप्रसिध्या तत्पर्यायदर्शपूर्णमाससंज्ञ. कत्वस्याऽपि प्रसिद्धः, सिद्धान्त वत्पूर्वपक्षेऽपि प्रचयशिष्टद्वि- त्वप्रसिध्युपपत्तेः, तयोरेव फलसम्बन्धान षण्णामेव सः । अपि चाऽऽनेयद्वये पौर्णमास्यमावास्याकालत्वेन प्रातिपदिकप्रसिद्ध रेकवाक्योपादानावगतद्वित्वप्रसिध्या च द्विवचनप्रसिध्युपपत्तेस्त- स्यैव फलसम्बन्धान्न षण्णामेव सः । तस्माधस्य कस्यचित्फल. सम्बन्धेऽपि विद्वद्वाक्ययोः कर्मान्तरविधित्वमव्याहतमिति प्राप्त- (सिद्धान्तः) अभिधीयते- नाऽत्राऽभ्यासस्वरूपमस्ति, 'यजत' इत्य. स्य वर्तमानापदेशत्वेन बिधित्वाभावात् । न चाऽप्राप्तार्थकत्वेन लेट्त्वनिश्चयः, आग्नेयादियागानां प्राप्तानामेवाऽनुवादसम्भवेन तदसिद्धेः । प्रत्युत यच्छन्दैवंशब्दसमभिव्याहारेणाऽनुवादत्वो पोदलनाच्च । न च तयोर्वेदनमात्रविधिप्रतिबन्धकत्वेऽपि न यागविधिप्रतिबन्धकत्वम् ,तस्य तच्छब्दसमभिव्याहारावधिकसम- भिव्याहृतमात्रवृत्तिविधिप्रतिबन्धकत्वस्म(२) 'देवांश्च याभियजत' इत्यत्र साधितत्वात् । एवं सत्यपि यच्छब्दस्य प्राप्तिधोतनमात्र- कारित्वात् यदि प्रमाणान्तरेण विशेषणस्य विशेष्यस्य विशिष्टस्य वा प्राप्तिनं भवेत् , ततोऽगत्या विधिरप्यङ्गीक्रियेत । अत एव १. पू. मी. ९. ३. ४. २. पू. मी. २. ८ ११.
सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । 'यो दीक्षितो यदग्नीषोमीय' मियत्र यच्छब्दो दक्षिामात्ररूपविशे. षणप्राप्तिद्योतक एव, यागस्त्वप्राप्तत्वाद्विधेय एवेति विशेषः । अतश्च यच्छब्दोपबन्धादपि न लेट्त्वनिश्चयः । न चाऽऽनर्थक्यप्रमङ्गात्तनिश्चयः, तदसिद्धेः । तथा हि-य- जत इत्यनेन तावदेकैकन प्रकृतत्वाविशेषेऽपि तत्तन्नामधेयसामा. नाधिकरण्यात् श्रुततत्काळयोगिन एव त्रयो यागा अनुयन्ते । तेषां च पौर्णमास्यमावास्यापदं तत्प्रख्यन्यायेन नामधेयम् । त. तश्च त्रयाणामेकशब्दोपादानादेकप्रतीतिविषयत्वाच्च समुदायमा तीतिः । अत एव 'पौर्णमासी मित्यायेकवचनं स्वाश्रयाघटक. त्तित्वसम्बन्धेन बहुत्वलक्षणार्थम् । द्वितीया तु यागानां(?)अर्थाः क्षिप्तकर्मानुवादिनी मन्मते यथाश्रुतैव । अत्र समुदायस्य चाऽनुव- दितारौ समुदायत्रचनावेताविति यथाश्रुत भाष्यानुसारान्न पौ. र्णमास्यमावास्यादिशब्दा आग्नेयादिसमुदायवचना इति न भ्र. मितव्यम् , तयोः कालयोगाभावेन तत्मख्यन्यायाविषयत्वात मानान्तराममितत्वेनाऽनुवादायोगाच्च, यजिना तदनुवादे लक्ष. णापत्तेश्च । अतश्च समुदायिनामेव समुदायसिध्यर्थगनुवाद इति द्रष्टव्यम् । तत्प्रयोजनं च फलवाक्ये निमित्तवाक्ये चाऽनूद्यमानाना- मेव फलादिसम्बन्धसिद्धिः । तथा इि-दर्शपूर्णमासशब्दस्य पौ. णमास्यमावास्याशब्दपर्यायत्वस्य स्थापितत्वात् तत्संज्ञकाना- मानयादीनां षण्णामेव फलादिसम्बन्धित्वेन यजिनोपादानं सिद्धं भवति । तत्रत्य द्विवचनस्य च बहुत्व लक्षणायां स्वाश्रयघटक त्तित्वरूप शक्यसम्बन्धोऽपि प्रमापिता भवति । न चैतद्वाक्याभावेऽपि दर्शपूर्णमासप्रातिपदिकस्य श्रुतका १. अथांक्षिप्तकर्मवनवाऽनुवादादिति क. पु. .
मीमांसाकौस्तुभे [पौर्णमास्यधिकरण- लयोगिष्वाग्नेयादिष्वेव प्रवृत्युपपत्ते, द्विवचनस्य च स्वाश्रयका. लीनयागत्तित्वसम्बन्धेन बहुत्वलक्षणोपपत्तेः षण्णामेव फला- दिसम्बन्धः (१)सिध्यतीति वाच्यम् । एतद्वाक्याभावे साक्षात्त. म्बन्धेन कालद्वित्वोभययोगिनोराग्नेय योरेव तत्सम्बन्धापत्तौ बहु- त्वलक्षणायां प्रमाणाभावेन षण्णां फलादिसम्बन्धासिद्धेः । अत. स्तसिध्यर्थोऽयं समुदायानुवादः । सति धस्मिन्ननुवाद आन- र्थक्याभिया तत्प्रयोजनजिज्ञासायां फलवाक्यस्थद्विवचनस्य उक्त सम्बन्धेन बहुत्व लक्षणातात्पर्यग्राहकत्वावसायात् षण्णां फल- सम्बन्धसिद्धिः सुलभैव । ननु नाऽऽग्नेय भेदे प्रमाणमस्ति । न तावदेकस्मिन् कर्मण्यि सम्भवन्निवेशः समुच्चितकालयलक्षणो गुणः, तस्याऽऽस्या- पिनिवेशोपपत्तेः । अन्यथा सायम्प्रात:कालभेदेनाऽग्निहोत्रस्याऽपि भेदापत्तेः । न च कालस्याऽनुपादेयत्वेनोद्देश्यत्वात् तदनेकत्व. निमित्तवाक्य भेदापल्या गुणविधयैव भेदकत्वोपपत्तिः, कालस्यो. द्देश्यत्वेऽप्यङ्गत्वापरपर्याय स्याऽज्ञातज्ञापनविषयत्वापरपर्यायस्य च विधेयत्वस्य सत्त्वेन 'अमावास्यायामपराह्ने पिण्डपितृयज्ञेन' इतिवद्वाक्य भेदानापादकत्वात् । विधेयानेकत्वकृतं तु सत्यपि प्रा. तकर्मानुवादे 'अर्धमन्तर्वेदि मिनोती तिवत् पौर्णमास्यमावास्या- पदाभ्यां पर्वलक्षणयोभयविधानोपपत्तौ यत्र परिहर्तुं शक्या, तत्राऽपूर्वकर्मविधौ पिण्डपितृयज्ञवाक्य इव कालद्वयविशिष्टकर्म- विधानोपपत्तेः कथं न शक्यते परिहर्तुम् । नाऽप्यनुपादेयगुणयोगरूपं प्रकरणान्तरं तद्भेदकम् तस्य 'सन्निधौ त्वविभागा' दिति न्यायेन सन्निधावप्रवृत्तः । किन संख्याव्यतिरिक्तभेदकप्रमाणानां वाक्यान्तरविहितकर्म १, सिध्यत्वेताति. क पु. : .
सिद्धान्तः] द्वितीयाध्यायस्थ द्वितीयः पादः । অর্থ प्रतियोगिक भेदकत्वनैयत्यस्य पार्थसारथिनोक्तत्वान्न स्वचाक्य. विहितकर्मप्रतियोगिकभेदबोधकत्वं तयोः सम्भवति । (१)आग्नेयैक्यस्यैव पार्थसारथ्युक्तस्य युक्तत्वात् कथं तावादाय फलसम्बन्धापत्तिरिति चेत्, न; आग्नेयद्वित्वे गुणस्यैव भेदकत्वात्। तथा हि-यो हि पदार्थों भेदमात्तिं वा विना न कर्मान्वययोग्यः, स उत्पत्तिवाक्यस्थस्सन् कर्मभेदं बोधयति, उत्पन्नवाक्यस्थस्तु(२) पदार्थः तदात्तिम् । (३)दृष्टश्चैतत् सङ्ख्यायाम् । अतश्च समुच्चितकालद्वयरूपगुणो. ऽपि भेदमावृत्तिं वा विना कर्मान्वयमममतिपद्यमान उत्पत्तिवा- क्यस्थत्वादिह कर्मभेदं बोधयति, उत्पन्नवाक्यस्थस्तु सायं प्रातः कालरूपमावृत्तिम् । अत एकस्मिन् कर्मण्यसम्भवनिवेशो गुण एव समुच्चितकालद्वयरूपो भेदकः । यथा चैवं सति सङ्ख्याया न गुणान्तर्भावस्तथा(४) सङ्ख्याधिकरणे वक्ष्यते । प्रमाणबलेन च गुणस्य स्ववाक्यविहितकर्मप्रतियोगिकभेदबोधकत्वेऽपि न दोषः । अत एव पार्थसारथ्युक्तमुत्पत्तिशिष्टगुणावरोधे वाक्य भेदापत्तौ च गुणात् भेद इति द्वैविध्यं प्रमाणाभावेनैवाऽषास्तम् , 'वषट्कर्तुः प्रथमभक्ष' इत्यत्रैकप्रसरतामङ्गप्रसङ्गेन तस्य भेदक- स्वाङ्गीकारात् । न च वषट्कर्त(५)भक्षोद्देशेन प्राथम्यविधौ(३) विशिष्टोदे- शापत्तेः वाक्यभेदाभयैव गुणस्तद्भेदक इति वाच्यम् । वषट्क तत्वे निमित्ते भक्षानुवादेन प्राथम्यविधावपि विजातीयोद्देशे तद. १. आग्नेयैकत्वस्यैवेति. क. पु. २. पदार्थ इति नास्ति क. पु. ३. व्यक्तञ्चति. क. पु. ४. पू. मी. २. २.७ ५. भक्षानुवादेनेति क. पु. ६. विशिष्टोदेशे वास्यभेदापत्तेस्तद्भियैवेति क. पु.
मीमांसाकौस्तुभेः पौर्णमास्यधिकरण- . भावादेकप्रसरतामङ्गभयेनैव तस्य भेदकत्वात् । अतो यथाकथ. ञ्चिदेककर्मण्यनिविशमानस्यैव गुणस्य भेदकत्वात् सिद्धोऽत्राऽपि गुणाद भेदः । भेदोऽपि चाऽत्र सङ्ख्यावदनेकत्वबोधनद्वारैव बोध्यते, न तु किश्चित् प्रतियोगिकः, प्रमाणान्तरवत् प्रतियो. गिनः पूर्वमप्रसिद्ध्या तन्निरूपितभेदस्य बोधयितुशमक्यत्वात् । तस्मादाग्नेय भेदः। केचित्चत्र (१)प्रकरणान्तरन्यायेन भेदं समर्थयन्ते । तथा हि-यद्यनिविशमानत्वेनाऽनुपादेयस्थलेऽपि गुणस्यैव भेदक. ता, ततो 'मासमग्निहोत्रमित्यत्रापि तस्यैव भेदकत्वोपपत्तेः कृतं प्रकरणान्तरेण । अतोऽनुपादेयत्वावच्छिन्नं प्रति तावत् प्रकर. णान्तरस्यैव भेदकतेति स्वीकर्तव्यम् । न चैवमध्यसान्निध्य भावात कथं तस्य भेदकता ? भेदवोधकतादशायां तत्प्रतियोगिककर्मों पस्थित्यभावरूपस्याऽसन्निधेर्मासाग्निहोत्रवदिहापि तुल्यत्वादि. त्याहुः-तन्न, मासाख्यगुणस्याऽपूर्व(२)कर्मण्यसनिविशमानत्वेऽ. व्यसन्निध्युपष्टम्भकत्वेन स्वतो भेदकत्वात् गुणवैलक्षण्येन प्रक रणान्तरत्वोपपत्तेः । अन एव सन्निधौ सायं जुहोतीत्यत्र न तस्य भेदकत्वम् । किञ्चाऽसन्निधिः किमुपस्थित्यभावः ? उपस्थापका- माणाभावो वा ? नाऽऽद्यः, अत्यन्तविस्मरणशीलस्य 'सायं जुहो. ती'त्यादावपि उपस्थित्यभावे भेदप्रमापत्तेः । 'मासमग्निहोत्रं जु. होती'त्यादावपि अत्यन्त मेधाविनः तत्सत्त्वे भेदप्रमानुपपत्तेश्च । अन्त्येऽपि ज्ञातस्य वा भेदबोधकता ? उताऽज्ञातस्य बा ? अ. न्त्ये उपस्थापकस्य प्रमाणस्य प्रकरणादेः भ्रमात्मकोपस्थिताव- पि 'मासमग्निहोत्रं जुहोती'त्यादौ वस्तुतः प्रमाणाभावस्य सवा- मी. २. ३. ११ २. कर्मण्यनिविशमानत्वेऽपीति क. पु. ? ? १.पू सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः। १६७ म् भेदप्रमाबोधापत्तेः। आये तु आग्नेयवाक्ये भेदप्रतियोगिनो- ऽप्रसिद्धः तदुपस्थापकपमाणाभावज्ञानस्याऽशक्यत्वात् भेदबोधा. सम्भवः । मासाग्निहोत्रादौ तु नित्याग्निहोत्रविधिनोपस्थितस्य प्रतियोगिन इहोपस्थापकप्रमाणाभावस्य ज्ञातुं शक्यत्वादसनि- ध्यविघातः । तस्मात गुणादेवाग्नेय भेदः । विस्तरेण चैतत् प्रक. रणान्तरन्यायशरीरोपपादनप्रस्तावे उपपादयिष्यते । अतश्चानेय भेदात् समुदायानुवादाभावे तयोरेव फलसम्ब. धापत्तेः तयावृत्तिफलकतया षण्णां फलसम्बन्धसिद्धिरेव समु. दायानुवादप्रयोजनमिति मिद्धम् । (१)विशेषाचेदं (२)चतुर्थे उपपादयिष्यने । अनश्वानर्थक्याभावादपि न तद्भयेन विधि. स्वनिश्चयः । अर्थवादस्त्वेतद्वाक्य फलीभूत समुदायस्तावक एवं सन् प्रयोगविधियोध्यप्रवृत्तिप्रतिबन्धकीभूतालस्यनिवृत्तावेव पर- म्परासम्बन्धेनोपयुज्यत इति न सोऽपि विधित्वनिश्चायकः। अस्तु वा विधिनत्वानिश्चयः, तथाऽपि फल सम्बन्धसिध्युपयोगि- समुदायफलकत्वेन तस्याऽस्यपरत्वान्नाऽभ्यासस्वरूपसद्भाव: स यस्तीति न कर्मान्तरम् । अत एवैतद्वाक्यविहितकर्मानुवादेन स- मिदादिदेवताविधिः, ज्योतिष्टोमधर्मातिदेशः, अन्यदपि वा देव- ताप्रापकं नैवोपन्य मनीयम् । ज्यौतिष्टोमिकधर्मातिदेशस्तु सोम. विधेदक्षिणीयाद्यङ्गद्वारेण दर्शपूर्णमासविध्युपजीवित्वात् तयो. रपि तदुपजीवत्वेइतरेनराश्रयापत्तिरिति भवदेवोक्तप्रकारेणाऽपि निराकर्त्तव्यः । वार्बनीवृधन्वत्योस्तु लिङ्गक्रमाभ्यामाज्यभागा. त्ववगतः न विद्वद्वाक्यविहितकर्मणि देवताविधायकत्वम् । न च ब्राह्मणवाक्येन तयोर्वाधः, अबाधेनाऽप्युपपत्तौ बाधायोगात् । किञ्च ब्राह्मणवाक्यमपि स्वरसेनाऽऽज्यभागपरतामेव मन्त्र- १ विशेषतश्चेति. क पु. २. पू. मी. ४. ४. ११ २२ मी० कौ० १६८ ममिांसाकौस्तुभे [पौर्णमास्यधिकरण- स्याऽवगमयति । अन्यथा पौर्णमास्यमावास्याप्रातिपदिकयोः क. मपरत्वे लक्षणापत्तेः, सप्तम्या प्राधान्य लक्षणकत्वापत्तेश्च । अपूर्व विधित्वाङ्गीकारे अश्रुतदेवताविधिकल्पने अश्रुतयाज्यान्तरकल्पने आज्यभागयोश्वाऽश्रुतानुवाक्याकल्पने गोरवापत्तेश्च । अतो म. चतुष्टयस्याऽप्याज्याभागाङ्गतया अनियमेन प्राप्तस्य निय. ममा विधिवाक्येन क्रियते, लाघवात् । पौर्णमास्यमावास्यामा तिपादकाभ्यां शत्या काल एव प्रतिपाद्यते, सप्तम्या चाऽधि. करणत्वं वा । अतश्चाज्यभागाङ्गतया प्राप्तयोवत्रियोः पौर्णमा- सीनिमिनकत्वं, तादृश्योश्च वृधन्वत्योरमावास्यानिमित्तकत्वमिति सम्भवति, पौर्णमास्यमावास्ययोस्तन्निमित्तकता, आज्यभागयोः तत्कालीनप्रधानाङ्गत्वेन तत्कालकत्वात् । निमित्तसम्बन्धप्रयो. जनं च व्यवस्थासिद्धिरिति नियमफलकत्वं लाघवं च । वस्तुतस्तु न कालस्य निमित्तता, आज्यभागयोः प्रतिपदि क्रियमाणत्वेन तत्कालीनस्वाभावात् । न च खण्डपर्वीणि कदा. चित् तत्कालकत्वसम्भवात् निमित्तत्वोपपत्तिः, तथात्वे सम्पू. पणि तत्कालिकत्वासम्भवेन मन्त्रनित्तिरूपशेषपरिसंख्या. फलकत्वापत्तेः । अतः शेषनियमरूपलाघवानुरोधेन पौर्णमा. स्यमावास्यापदं तत्कालीनप्रधानाङ्गभूताज्यभागलक्षकम् । प्रधाने तत्कालीनता च प्रयोगारम्भद्वारिकैव, न तु साक्षात् , प्रधानस्य तस्मिन् काले नियमेनाऽकरणात् । अत एव प्रकृती सर्वत्र पौर्ण- मास्यादिकालविधिः वचनान्तरानुसारादारम्भद्वारक एव । स. प्तमी च प्राधान्यपरा । तेन तादृशाज्यभागयोर्मन्त्रविशेषविधानात् प्रकृतौ सर्वदैव व्यवस्थासिद्धिः । विकृतौ च पौर्णमासीविकार- स्याऽमावस्याविकारस्य वा यस्मिन् कस्मिंश्चित् दिने करणेऽपि वाघ्नीधन्वयोव्यवस्थासिद्धिः । अतो 'वानी पौर्णमास्यामि' सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । त्येतद्वाक्यद्वयमेव खगौरवपरिहारार्थमाज्यभागाङ्गत्वं मन्त्रस्याऽ. प्यनुजानातीति न तद्वलेन विद्वद्वाक्यविहिते कर्माण देवताविधिः सम्भवतीति देवताभावादपि समुदायानुवादत्वम् । न चैवं सर्व- स्य वाक्यस्याऽनुवादकत्वे अनधिगतार्थगन्तृत्वरूपप्रामाण्याना- पत्तिः, शक्यानुवादकत्वेऽप्यनधिगत समुदायादिबोधकत्वेन प्रा. माण्योपपत्ते(१)मन्त्राधिकरण एवोक्तत्वात् । नन्वेवं विद्वद्वाक्ययोरर्थवत्वेन प्रामाण्येऽपि पौर्णमास्यां पौ. र्णमास्या यजेते' यादिवाक्ययोरानर्थक्येनाऽप्रामाण्यापत्तिः स्यादे. व, काळस्याऽऽग्नेयादिषु पौर्णमास्यादिपदाभिधेयेषूत्पत्तिवाक्यै- रेब प्राप्तत्वादिति चेत्--न; एतद्वाक्याभावे हि उत्पत्तिवाक्येऽ. षि श्रुतः पौर्णमास्यमावस्याकालः फलसम्बन्धोत्तरकालं प्रयोग. विधिकल्पनवेलायां कालस्य प्रयोगद्वारैवाऽङ्गत्वादुत्पत्तिवाक्ये प्र- सेकश्रुत्यनुरोधेन प्रत्येकमेव(२) 'अग्नयेऽनाकवते प्रातः पुरोडाश मष्टाकपालमि' त्यादावनीकवयादिप्रयोगवत् प्रयोगं कल्पयति । न च प्रत्येकप्रयोगकल्पने एकफलसाधनत्वानुपपत्तिः, प्रत्येक प्रयुक्तानामप्याग्ने यादीनामनीकवत्यादिवदेव अपूर्वरूपेणैकक्षण. वृत्तित्वेन फले साहित्योपपत्तेः । अत एव 'समे दर्शपूर्णमासाभ्यां यजेते' त्यनेन देशविधेः प्रयोगविधित्वात् षण्णां दैशिकसाहि. त्यावगमेऽपि एकस्मिन्नेव समे तिसृषु पौर्णमासीष्वमावास्यासु चैकैकप्रधानस्याऽन्वाधानप्रभृतिम्राह्मणतर्पणान्ताङ्गविशिष्टस्य प्र. योगोऽपि नाऽनुपपन्नः । न चैवमपि लाघवादेकस्यामेव पौर्णमा. स्थाममावास्यायां च तत्तत्कालीनप्रयोगत्रयोपपत्तेः पौर्णमास्या. दित्रयप्रसङ्गे प्रमाणाभावः । द्वयहकालीनत्वप्रात:कालीनत्वयोरपि वचनान्तरप्रमितत्वेनकस्यां तिथाविष्टित्रयकरणे तद्वाधप्रसङ्गात् । १. पू. मी. १.२.४. २. मै. सं. १. १०.१.
७ मीमांसाकौस्तुभे [पौर्णमास्यधिकरण- अत: 'पौर्णमास्यां पौर्णमास्या यजेते' त्यतद्वाक्यद्वयाभावे प्रत्येक- मेव साङ्गानामानेयादीनां करणापत्तिः । यतु वार्तिके एकफल (१) सम्बन्धानुरोधादेकस्यैव प्रयो- गविधेः कल्पनम् । तत्र चोत्पत्तिकालानुरोधास्त्रिषु पौर्णमासीषु प्रधानत्रयम् । लाघधादेकस्थामवे वा तत् । एवममावास्यायाम. पि । अतश्च मासत्रयकालीनः पक्षद्वयमात्र कालीनो वा एक एक पण्णां प्रयोगः, तदन्तःपातीनि चाऽङ्गानि सर्वाण्यपि सकृदेव सवनीयपश्चगानामिव कचित्कचित् कर्तव्यानीत्येतद्वाक्याभा- वेऽनुष्ठानमुक्तम् । तत् राजसूयचातुर्मास्यादिष्वपि एकफल साधन- वेनैकमयोगत्वापचेरोत्पत्तिककालभेदेऽपि च तत्तत्काले प्रधान- मात्रकरणेन तावत्कालीनप्रयोगक्योपपती अङ्गानामपि सकुकर- णापत्तेरुपेक्षितम् । यथा च सवनीये नाऽङ्गातिः, तथा (२)आ. घाराग्निहोत्राधिकरणे वक्ष्यते । अत उत्पत्तिवाक्येषु नरपेक्ष्येण कालस्य श्रवणाव प्रत्येकमेव प्रयोगाणामेतद्वाक्यद्वयाभाडे कल्प. नापत्रेतद्वाक्यद्वयसत्वे च त्रयाणां त्रयाणामेकप्रयोगसिद्धः त. सिद्धिरेव बाक्यद्वयप्रयोजनमिति नाऽऽनर्थक्यम् । तथा हि-- पौर्णमासीशब्दवाच्यानां त्रयाणां प्रधानानां स्वरूपेण प्रा. सानामपि प्रयोगविषयत्वेनाऽप्राप्तवाद पौर्णमासीकाले उपादेय स्वावगमात् पौर्णमासीकालविशिष्टप्रधानत्रयमयोगविधानावगतः प्रयोगस्य च(३)एकादशाधिकरणन्यायेन साङ्गतावत्प्रधानविषय- स्वादङ्गसाहित्यस्य प्रधानगतपरस्परसाहित्यस्य च विधेयविशेषण स्वेन विवक्षितत्वात् एकस्मिन् काले युगपत् साङ्गप्रधानत्रयकर्त. व्यतासिद्धिः । एवममावास्यावाक्येऽपि द्रष्टव्यम् । एवं च सत्यपि -- १.सम्बन्धादिति. क. पु. ३. पू. मी. ११.१.२. २. पू. मी. २. २०४.
सिद्धान्तः] द्वितीयाध्यायस्य द्वितीयः पादः । कालिकप्रयोगविधिभेदे देशवाक्येन पणामेकपयोगस्य विधाना. देकस्मिन्नेव देशे षण्णां (१)साङ्गानां कर्तव्यताऽपि सिद्धा भ. वति । सर्वे हि देशकालादयः प्रयोगविशेषणत्वेनैवाऽन्वयं भज. मानाः स्वसम्बन्धिन प्रयोग विनिगमनाविरहात् कल्पयन्ति । अतश्च तत्तद्वाक्ये कालादिविशिष्ट प्रयोगविधिसिद्धिः । न च उत्पत्तिवाक्ये नैरपेक्ष्येण कालश्रवणात् फलसम्ब. धोत्तरकालं प्रयोगविधिकल्पने प्रत्येकमेव प्रयोगविधिकल्पना. बगतेस्तदनुवादेनाऽत्र कालादिभात्रविधानोपपत्तेः प्रत्येकमेवाऽनु- ष्ठानप्रसङ्गेन एतद्वाक्य सत्त्वेऽपि नेष्टसिद्धिरिति वाच्यम् । प्रत्येक प्रयोगविधिकल्पनातः पूर्वमेवैतद्वाक्यप्रवृत्यङ्गीकारेणाऽत्रैव प्रयो- गविध्युपपत्तेः । अन्यथा तादृशानुष्ठानस्यैतद्वाक्याभावेऽपि सि- द्धावेतद्वाक्यानर्थक्यापत्तेः । न चैवं 'य इष्टया पशुना सोमेन वा यजेत, सोऽमावास्यायां पौर्णमास्यां वा यजेतेति वाक्येन स- वर्षासां विकृतीष्टीनामपि पर्वका लविशिष्टकप्रयोगविधानादेका योगतापत्तिः, तत्र (२)यत्तच्छब्दसमभिव्याहारात् तत्तद्विवनि- प्रयोगानुवादेन कालमात्रविधानावगतेः तत्चद्विकृतिवाक्येप्वेव प्र. त्येकप्रयोगविधिकल्पनाया अभ्यनुज्ञानात् , तत्तद्विलक्षणफलप्ता. धनानां तासामेकप्रयोगविधिविषयत्वानुपपत्तेश्च । अतश्च य इष्टये'. तिवाक्येनाऽवगतमपि तत्तद्विकृतिप्रयोगसाहित्य मनुवाद्यगतत्वा. दविवक्षितम् । प्रकृते तु (३)कालविशिष्टभावनारूपस्य प्रयोग स्यैव विधेयत्वायुक्त वेष्टसिद्धिरिति वैषम्यम् । न चैवमुत्पत्तिवाक्ये कालवणवैयथ्यापतिः, तस्य फलस- १. यागानमिति, क पु. २. यच्छब्दतच्छब्दसमभिव्याहारादिति. क. पु. ३. कालविशिष्टप्रयोगस्यैवेति. क. पु.
१७२ मीमांसाकौस्तुभे [पौर्णमास्यधिकरण- म्बन्धापादकफलवाक्यगतविद्वद्वाक्यादिगतपौर्णमास्यमावास्यादि. पदप्रसिद्ध्यर्थत्वेनाऽर्थवत्त्वात् । अत एवोपांशुयाजस्योत्पत्तिवाक्ये काळसम्बन्धाभावेऽपि 'तावबूतामग्नीषोमावाज्यस्यैव नाबुपांशु पौर्णमास्यां यजनिति वाक्येन कालसम्बन्धात्फलसम्बन्धसिद्धिः। अतश्च कस्याऽपि वाक्यस्य वैयर्थाभावात्समुदायसिद्ध्यर्थं समु. दाय्यनुवादके एव विद्वद्वाक्ये इति सिद्धम् । सूत्रं तु-पौर्णमास्युपलक्षित योर्विद्वद्वाक्ययोः, प्रकरणं प्रकृतानुवादः, रूपावचनात् कर्मान्तरविध्यनुपपत्तेरिति व्या- ख्येयम् ॥ ३ ॥ विशेषदर्शनाच्च सर्वेषां सर्वेषु ह्यप्र- वृत्तिस्स्यात् ॥ २-२-४ ॥ यदि चैतौ कर्मान्तरविधी स्याताम् , ततो यदि सर्वेषां समप्राधान्यम् , ततो विकृतिषु प्रधानस्याऽनतिदेशात् प्रयाजा- दीनाममाप्तेः, सौर्ये 'प्रयाजे प्रयाजे कृष्णलं जुहोती त्यनेन प्रया. जानुवादेन कृष्णलरूपविशेषविधिर्नोपपद्येत । यदि तु विद्वाक्य. विहितकर्मणोरेव प्रधान्यम् तत आग्नेयादीनामङ्गत्वेऽपि सौर्यस्यौ. पधद्रव्यकत्वेनाऽऽयविकृतित्वस्यैवाऽऽवश्यकत्वात् तद्धर्माणा- मबघातादीनामतिदेशेऽपि प्रयाजादीनामनङ्गत्वेनाऽऽग्नेयादिसम- त्वात् सौर्यादिध्वप्राप्तेः प्रयाजानुवादेन कृष्णलविधेरनुपपत्तिः तद- वस्थैव । एवमानेययोरेव प्राधान्यपक्षेऽपि द्रव्यसादृश्येन सान्ना. ग्याविकारस्येव पशोः प्रयाजाङ्गत्वाभावात् तदनुवादेनकादवावा. दिविध्यनुपपत्तिः । (१)अतो नैतौ कर्मान्तरविधी । अत्र च सू. . १. 'अतश्च' इति. क. पु.
सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । त्रेऽन्वाचयवाचिचशब्दोपादानात् यागाष्टकपाधान्यपक्षे नाऽयं. दोष इत्यव्यापकत्वादन्वाचयत्वं सूचितम् ॥ ४ ॥ गुणस्तु श्रुतिसंयोगात् ॥ २-२-५॥ नैतौ समुदायानुवादौ, विधायकत्वेनाऽर्थवचसम्भवे उक्त प्रयोजनस्याऽपि समुदायानुवादत्वस्याऽनुपपत्तेः। अतः कर्म- विध्यपेक्षया प्रयोजनवत्तरत्वेनाऽन्यपरत्वाभावादभ्यासादेव कर्म- भेदसिद्धिः। एवञ्च पौर्णमासी'मित्येकवचनं कर्मकत्वैनोपपद्यते । अन्यथा स्वाश्रयघटकवृत्तित्वसम्बन्धेन समुदायिबहुत्वलक्षणा स्यात् । अतोऽत्र तावत् कविधिः । न च रूपाभावः, यदाने यादिवाक्यैस्तद्विधानोपपत्तेः । तथा हि-तत्रत्यपौर्णमास्यमावा. स्याशब्दाभ्यां विद्वद्वाक्यविहितकर्मोद्देशं कृत्वाऽऽग्नेयादिरूपविधा- नोपपत्तिः । एवञ्चैतेषु वाक्येवश्रुतयागकल्पनं विशिष्टविधिगौ- रवं च नैवाश्रितं भवति । न चैवं वाक्यभेदः, अनीषोमीयसा. माययादिवाक्येषु तावदेकैकस्यैवोद्देशेन वनिमित्तकवाक्यभेदस्य तावदप्रसक्तः । आग्नेयादिवाक्येऽपि पौर्णमास्यमावास्याशब्दल क्षणया 'अर्थमन्तर्वेदि मिनोती तिवत्मकृतप्रधान यागस्यैवोद्देशात् न तन्निमित्तो वाक्यभेदः । यदि तु (४)एतस्मिन्नपि पक्षे प्रया. जादिसाधारण्येन सर्वेषां प्राधान्यमुच्येत, ततो रूपसाकाङ्कम- कृतयागत्वस्यैव लक्ष्यतावच्छेदकत्वेनोदेश्यतावच्छेदकत्वोपपचेर्न वाक्यभेदः । न चैवमपि द्रव्यदेवतारूपविधेयानेकत्व निमित्तो वाक्यभेद. स्तदवस्थ एवेति वाच्यम् । तद्धितान्तपदेनैकेनैव देवताविशिष्टद्र- व्यविशेषवाचिना विशिष्टस्यैकस्यैव प्राप्तभावनानुवादेन विधानो- १. अस्मिन्नपीति. ख. पु , " १७४ मीमांसाकौस्तुभे [ पौर्णमास्यधिकरण- पपत्तेः । अत एव (१)गुणाधिकरणे वक्ष्यमाणन्यायेनाऽष्टाकपा- कपदस्य तात्पर्यग्राहकत्वान्न तदंशे तद्भिन्नपदोपात्तताप्याशङ्कनी. या । अतश्चैकपदोपादानाद्वैशिष्टयबोधोपपत्तेर्न वाक्य भेदः । यत्र तु 'पञ्चदशान्याज्यानी'त्यादौ भिन्नपदोपादानम् , तत्र भा- बनान्वयात्पूर्वं परस्परवैशिष्ट्याप्रतीतेः प्राप्तभावनानुवादनोभय. विधौ युक्तो वाक्य भेदः, प्रकृते त्वेकपदत्वेन भावनान्वयात्पूर्व- मेव द्रव्यदेवतावैशिष्ट्यप्रतीतेः, प्रत्युत तदनङ्गीकारे 'साऽस्य देवतेति द्रव्यसम्बन्धाधिकारविहितदेव तातद्धितानुपपञ्चेविना- न्वयात्पूर्वमेव परस्परवैशिष्टयस्याऽऽनश्यकत्वात् प्राप्तभावनानुवा. देनाऽपि विशिष्टविध्युपपत्तेन वाक्य भेदः । अत एव न (२)पश्वे. कत्वाधिकरणपूर्वपक्षन्यायेन देवताया अविवक्षा, तदिह प्राथ. मिकभावनान्वयस्य तद्धितमङ्गभयेनाऽव्युत्पन्नत्वात् । यवत्र भवदेवेन पुरोडाशसान्नाय्यादेः संस्कारविध्यन्य. थानुपपत्यैव प्राप्तत्वादानेयादिवाक्यैर्देवतामात्रविधानात् न वा- क्य भेद इति परिहृतम् , तत् पुरोडाशादेः कथञ्चित् प्राप्तिसम्भ- वेऽपि अष्टत्वादिप्रारभावात् , तद्विधाने वाक्यभेदापत्तेरेकैक स्मिन्नपि च द्रव्ये सर्वासां देवतानां विकल्पेन प्राप्त्यापत्तेरुपे. क्षितम् । तस्मादुक्तप्रकारेणैव वाक्य भेदपरिहाराद्रूपलाभोपपत्ते: कर्मान्तरविधिरेवाऽयम् । अस्मिश्च पक्षे विद्वद्वाक्यविहितयोरेव कर्मणोः प्राधान्या. व, प्रयाजादीनां तदङ्गगत्वात् , सौर्यादीनां चाऽऽग्नेयचा. क्यविहितयागाभावेन विद्वद्वाक्यविहितकर्मविकृतित्वादतिदेशेन प्रयाजमाप्त्युपपत्तेर्युक्तस्तदनुवादेन कृष्णलविधिः । यदि त्वस्मिन्नपि पक्षे पूर्ववत्ममप्राधान्याङ्गीकरणम् , ततः कृष्ण. १. पू. मी. २.३.९. २. पू. मी. ४. १.५. .
सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः। १७५ mega लविशिष्टप्रयाजान्तरस्यैव सौर्य यागाङ्गतया विध्यङ्गीकारेण दार्श. पौर्णमासिकमयाजानुवादेन कृष्ण लविध्यङ्गोकारेण वा 'यत्र नि. त्यानुवादवचनानि स्यु' रिति न्यायेन परिहतव्यम् । अत: क- थं समुदायानुवादकत्वमिति चेत- चोदना वा गुणानां युगपच्छास्त्राच्चोदिते हि तदर्थ- त्वात्तस्य तस्योपदिश्येत ॥ २-२-६ ॥ नाऽऽग्नेयादिवाक्ये रूपविधिसम्भवति, प्राप्तकर्मानुवादेन द्रव्यदेव तारूपानेकार्थविधाने वाक्य भेदात् । यत्र प्राप्ता भा- वनाऽऽनेककारकविशिष्टा विधीयते, विधीयते, तत्र(१)श्रौतविधेर्वि- शिष्टभावनाविधान एव व्यापाराद्विशेषणानाच विशिष्टविध्यन्य. थानुपपत्तिकल्पितविशेषणविधिभिरेव विधानसिद्धेः श्रौतस्य विधेस्तत्र व्यापाराभावात् न विधेयानेकत्वानिमित्तो वाक्यभेदः। न च तत्राऽपि विशिष्टज्ञानस्य विशेषणज्ञानाधीत्वाद्विशेषणविध्यु. तरकालप्रवृत्तिकस्य विशिष्टविधेर्न विशेषणविधिकल्पकत्वसम्भः वः, विशिष्टज्ञानस्य विशेषणज्ञानाधीनत्वेऽपि विशिष्टकर्तव्यता. रूपस्य तद्विधेः विशेषणकर्तव्यताज्ञानाधीनज्ञानविषयत्वाभावाद , विशिष्टज्ञानापेक्षितविशेषणज्ञानस्य च विशिष्टविधिवेलायां सो. मादिपदैरेव जननोपपत्तेः । अतश्च श्रुतस्य विधेस्तत्तत्पदोपनी- तविशेषणयुक्तविषेष्यविधान एवं व्यापारादार्थिकविशेषणविधिः बाचकपदकल्पनव्यापारकत्वेऽपि तद्विधानव्यापारकत्वाभावान्ना. ऽनेकविधितात्पर्यकत्वकृतो वाक्यभेदः । प्रकृते तु विशेष्य भूताया भावनाया विद्वद्वाक्यादेव प्रा. सत्वाधेिस्तद्विधितात्पर्यविषयत्वायोगादा(२)नर्धक्यतदङ्गन्यायेन २. श्रौतम्य विधेरिति. क० पु० २. पू. मी. ३ १.९ २३ मी०को अत मीमांसाकौस्तुभे [पौर्णमास्यधिकरण- विशेषण एवाऽवतारात् तत्र च विशेषणानेकत्वे तेषां परस्परवि- शेषणविशेष्यभावे नियामकाभावेन प्रत्येकमेव विधितात्पर्यावगते सकृच्छ्रुतस्य चाऽनेकत्र तात्पर्यकल्पने आवृत्तिमन्तरेण तदयो गादात्तिलक्षणो वाक्य भेदः । यद्यपि च विशिष्टविधिस्थळे भा. बनाया अनेकान्वयित्वस्वाभाव्यादनेकेषां विशेषणानामन्वयेऽपि नाऽऽसत्तिः, तथाऽपि विधेः विशिष्टविधावपि विशेष्यरूपैकवि. धायकतया क्लप्तस्य नानेकविधिस्वाभाव्यम्, तस्मादिहाऽनेकवि- धाने वाक्यभेदो दुष्परिहर एव, आवृत्तिप्रसङ्गात् । एव प्राप्तायामपि मुख्यविशेष्य भूतायां भाव- नायो विशेषणानामपि व्युत्पत्तिवशेन परस्परबै- शिष्टयावगमः, तत्र भवसेवानेकविशेषणविशिष्टस्याऽप्येकस्य विशेष्यस्य प्राप्तानुवादेन विधिः, यथा 'पशुना यजेत' (१) धेनुर्दक्षिणे' यादौ जातिसंख्यादिविशिष्टस्यैकस्य कारकस्य, यथा चैकक्रयवादिमते (२)"अजया क्रीणाती"त्यादौ । (३)तत्र हि तृतीयोपात्ते करणत्वे पाठिकान्वयलभ्यद्रव्यपरिच्छेदद्वारा समानाभिधानश्रुत्या संख्यायाः, पदश्रुत्या च जातेरन्ययो व्यु. त्पत्तिसिद्ध एव । अतश्च तत्रोभयकारकविशिष्टद्रव्यगतैककरण- स्वविधानान्न वाक्यभेदः । यद्यपि जातिसंख्याद्वय वृत्तिकरणत्व. द्वयस्यैव तृतीययोपादानमित्याश्रीयते, तथाऽपि द्वयोः करण. त्वयोरेकशब्दोपादानेन वाक्य भेदो(४) ऽवगन्तव्यः । एवं मूलानुयायिमते षष्ठया अपि भावनान्वयनियमाभावात् पष्टयन्तस्य कारकविशेषणत्वोपपत्तेः प्राप्तभावनानुवादेनाऽपि विशिष्टविधिद्रष्टव्यः । यथा-'तस्य द्वादशशतं दक्षिणे' त्यत्र प्रा. १. तै. सं. १.८.१ २. तै. सं.६.१.१०. ३. अत्र हीति. क. पु. ४. अधिगन्तव्य इति. क. पु.
सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । १७७ प्रदक्षिणानुवादेनाऽपि तच्छब्दापात्तगोविशिष्टसंख्याविधिः । व- स्तुतस्तु प्राप्तदक्षिणानुवादेन गोविशिष्टसंख्याविधावपि समु. चितावादेरपि विधेयत्वात् तत्रोभयविशिष्टदक्षिणाविधानमेव स्वीकर्तव्यम् । अत एव षष्ठीस्थलेऽपि निमित्तवत्प्रधानभूतभा. बनान्वये सम्भवति व्युत्पत्त्यन्तरकल्पनापादकोऽवयो नाङ्गी- क्रियत एव । अतस्तत्राऽपि प्राप्तकर्मानुवादेनाऽनेकविधानेऽस्त्ये. व वाक्यभेदः। यवत्र पार्थसारथिना(१) 'अग्नये दात्रे पुरोडाशमष्टाकपाल. निवेपे"दित्यादौ प्राप्तद्रव्यानुवादेनाऽग्निर्दाता च विधीयते । न च तत्र वाक्यभेदः, अग्निदातृत्वयोः परस्परविशेषणविशेष्यभावस्य मन्त्रार्थवादादौ प्रसिद्धत्वेन दातृत्वगुणविशिष्टस्याऽः प्राप्तकर्मा- नुवादेऽपि द्रव्योद्देशेन विधातुं शक्यत्वादित्युक्तम् । तत् अन्यप. रमन्त्रार्थवादादिकृतप्रसिध्यवलम्बनेनाऽपि वैशिष्टयोपपत्तौ सुतरां व्यगुणयोर्वास्तविकलोकमसिद्धचिशषणविशेष्यभावेन वैशियो- पपत्तेः स्तोत्रानुवादेन संख्याविशिष्टाज्यविधाने वाक्यभेदाना- पत्तेपेक्षितम् । (२)यदप्युक्तं तन्त्ररत्ने दात्रादिपदानां कृदन्तानां सन्निहि. तद्रव्यवाचकत्वात् दापदेनैव दातृत्वगुणविशिष्टाग्निविधानम् , अग्निपदं चाऽऽमिक्षापदवत्तात्पर्यग्राहक(३) इति, तत् स्वयमेव शास्त्रदीपिकाया(४)माग्नेय्यधिकरणे यौगिकानां पदानां सन्नि हितमात्रवाचकत्वस्य निराकृतत्वादयुक्तमेव । न च आग्नेयापद- स्याऽकृदन्तस्य सनिहितासन्निहितसाधारणद्रव्यमानवाचित्वे. ऽपि दातृशब्दस्य कृदन्तत्वात् सन्निहितमात्रबाचित्वोपपत्तिः, १.त. सं. २. ३. २. २. यदपि तन्त्ररत्न इति. क. पु. ३. इति परिहतमिति. क. पु. मी.३.२.८. . .
मीमांसाकौस्तुभे [पौर्णमास्यधिकरण- दातृपदस्य सन्निहितवाचित्वे सर्वनामार्थविहिनतद्धितान्ताग्नेयीप- दस्य सुतरां तदापत्तिः, अतः तत्रापि प्राप्तकर्मानुवादेनाऽनेकवि. धानादस्त्येव बाक्यभेदः। अत एव तत्र द्रव्यदेवताविशिष्टभाव नाविधिपक्ष एवाश्रयिष्यते । यानि च तत्पक्षे दूषणानि तानि तत्रैवोपन्यस्य परिहरिष्यामः । तस्मात्सिद्धमव्युत्पन्नपरस्पराविशेषणविशेष्यभावानां विशेष णानां प्राप्तभावनानुवादेन विधाने वाक्य भेद इति । यत्तु प्रकृतेऽपि आग्नेय इति तद्धितवृत्तिविधानात् द्रव्यदेव. तयोविशेषणविशेष्यभावोऽव्युत्पन्न एवेत्युक्तम् । तत्रेदमुत्तरं वा- च्यम्-यत्र तद्धितवृत्तौ समासवृत्तौ वा कारकतातिरिक्तसम्ब. न्धेन वृत्तिस्तत्राऽकृत्वापि भावनासम्बन्धं प्रथमतोऽन्योन्यसम्ब. न्धेन वैशिष्ट्य उच्यमानेऽपि न वाक्य भेदः । अत एव(१) 'लोहि. तोष्णीषा लोहितवसना ऋत्विजः प्रचरन्ति', 'हियण्यमालिनःप्र. चरन्ती'त्यादौ प्राप्तप्रचारानुबादेन ऋत्विग्गतलौहित्यविशिष्टो. उणीपविधिः। एतदभिप्रायेणैव च(२) चित्राधिकरणे 'यदि पञ्च दशाज्यानीति समासः स्यात् ततो न वाक्य भेदो भवे' दिति पार्थसारथिनोक्तम् । तु कारकतासम्बन्धेन वृत्तिः, यथा-आग्नेय इत्यादौ देवतात्वेन, तदपि हि सम्प्रदानकारक कर्मकारक बेत्यग्रिमाधिकरणे वक्ष्यते, तत्र प्राथमिकक्रियासम्बन्धात् प्रा. गन्यसम्बन्धाभ्युपगमे कारकत्वव्याघातापत्तेः प्रथमतः क्रिया सम्बन्ध एवाभ्युपगम्यते, पश्चात्तु द्रव्यसम्बन्धः, एकहायनीस सम्बन्धवत् । युक्तश्चैतत् । यथैवाऽऽरुण्यस्य सत्यप्येकहायनी- सामानाधिकरण्यै टाबन्तत्वे च कारकश्रुत्या क्रियासम्बन्धमेव १. का. श्री. २२. ३. १५. २. पू. मी. १.४. ३.
सिद्धान्तः] द्वितीयाध्यायस्य द्वितीयः पादः । १७९ प्रथमतोऽभ्युपगम्य पाश्चात्यसम्बन्धेनैव सामानाधिकरण्यादेनि: वाह्यले, न तु द्रव्य सम्बन्धमेव प्रथमतोऽभ्युपगम्य परम्परासम्ब. न्धेन कारकत्वम् ; तथा प्रकृतेऽपि कारकत्वाविशेषात् प्रथमतः क्रियासम्बन्धः पश्चादेव द्रव्य सम्बन्धः. तदभिप्रायिकैव च वृत्तिः। न च सम्बन्धज्ञानं विना वृत्यनुपपत्तिः, अरुणयेत्यादौ टाबादा- विव द्रव्यासम्बन्धित्वानिश्चयस्यैव तद्वीजत्वात् । अतश्च सम्बन्धा- ज्ञानवदसम्बन्धस्याऽप्य ज्ञानात् वृत्युपपत्तेः द्रव्यषद् देवताकार- कस्यापि प्रथमतः क्रियासम्बन्धसिद्धिः । अत्तश्च "पञ्चदशान्या. ज्यानी"तिवदेवोभयोः क्रियासम्बन्धाद्वैशिष्टयानुपपत्तेः प्राप्तभाव. नानुवादेनानेकगुणविधाने वाक्यभेदो दुरुधर एव । अत आ- नेयादिवाक्ये द्रव्यदेवताविशिष्टयागान्तरस्यैव विधानात् विद्वद्वा- क्ये रूपाभावस्तदवस्थ एव । नन्वेवमपि द्रव्यदेवताविशिष्टभावनामात्रविधिरेवाऽऽग्नेयादि- वाक्येष्वस्तु, न तु स्वतन्त्रयागकल्पनम् , गौरवात् , अभ्युदिते. ष्टौ भावनान्तरविधिवत् । तस्याश्चावच्छेदकीभूतयागापेक्षायां तब्द- देवेन्द्रियकामहोमवच्च विद्वद्वाक्यविहितौ यागौ यथायोगं पौर्णमा- स्थमावास्यापदोपनीतौ सम्बध्येते, अत एव विद्वद्वाक्येऽपि प्रा. सभावनानुवादेन यागमात्रविधिः, न तु यागविशिष्टभावनावि- घिरिति लाघवमिति चेन्न; तथा सति "तावतामग्नीषोमा- वाज्यस्यै "वेत्यादिवाक्यस्य वैयर्यापत्तेः । इदं युपांशुयाजस्या- न्तरालविधिवशेन सम्भवत्प्राप्तिकपौर्णमासीकालसम्बन्धविधा- नार्थ सत्तस्य फल सम्बन्धार्थमित्युत्तराधिकरणे वक्ष्यते । बिद- द्वाक्यविहितकर्मयाङ्गीकारे च तस्यैव नितिनामकत्वेन फलस- म्बन्धापत्ते: उपांशुयाजे कालविधिरनर्थक एवेति तस्य कर्मवि. धायकताया एवाऽप्रसिद्धः दुर्घटैवाऽऽग्नेयादिवाक्यविहितभावनाव- च्छेदकतोक्तिः।
मीमांसाकौस्तुभे [पौर्णमास्यधिकरण- वस्तुतस्तु अमावास्याव्यावर्तनफलकत्वेनाऽपि तत्मार्थ- क्योपपत्तेः पूर्वोक्तविधयाऽन्यपरत्वाद्विधि कल्पकाभावेनाभ्यास स्वरूपविघटनेनैवाऽयं पूर्वपक्षो निराकर्तव्यः । एतेन सत्यप्यानेयादिवाक्येषु यागान्तरविधाने विद्वाक्य. चिहितकर्मणोरप्येकप्रयोगविधिपरिग्रहेण सानाय्यवदाग्नेयादि. यागः सह तन्त्रेणाऽनुष्ठानोपपत्तेः तदीयद्रव्यदेवतायाः प्रसङ्गे- नोपकारकत्वोपपत्तेरुपपन्नं रूपमिति विधित्वमित्यप्यपास्तम् , विद्वद्वाक्ये विधेरेवाऽनिश्चयेन कर्मविध्यनिश्चयात् , प्रत्युत यच्छ- ब्दोपबन्धल्वेनाऽनुवादत्वस्यैव निश्चयाच्च । अत एव समुदाया. नुवादकत्वापेक्षया प्रयोजनवत्तरमपि विधित्वं नैवाङ्गीकृतम् । किश्चाऽस्मिन् पक्ष आग्नेयादिवाक्य वाक्यस्थपौर्णमास्यमावास्याशब्दयोः सप्तम्यन्तयोः लाक्षणिकत्वमपि निष्प्रयोजनकमापयेत । विद्वद्वा. क्यस्थ 'पौर्णमासी' मित्यायेकवचनञ्चोपक्रमस्थयच्छब्दानुरोधेन लक्षणया नीयमानं न दुष्यति । तस्मात् समुदायानुवादौ । सूत्रं तु-कर्मचोदना वा स्यात् आग्नेयादिवाक्ये, तथा सति गुणानां युगपदेकेन शास्त्रेण विधानं शक्यं कर्तुम् , प्राप्ते तु कर्मणि गुणमात्रविषयत्वात् विधेः तस्य तस्योपदेशे वाक्यभेदाप. त्तिः, इति व्याख्येयम् ॥ व्यपदेशश्च तद्धत ॥२-२-७॥ (सि) "उग्राणि वा एतानि हवींष्यमावास्यायां सम्भ्रियन्ते आ. मेयं प्रथममैन्द्रे उत्तरे" इत्यत्र त्रयाणामेव तावदग्रत्वापरपर्याय प्राधान्यव्यपदेशो भवपक्षे न युज्यते । किञ्च द्वितीये पक्षे विद्व- द्वाक्यविहिते कर्मणि आग्नेयादिहविषां त्रिकल्पापत्तेः सम्भर- णपदवाच्यं साहित्यं प्रथमादिपदवाच्यश्च क्रमो न युज्ये- त । एतदन्यथानुपपत्यैव समुच्चयविध्यङ्गीकारे त्वतिगौरवम् ।।
सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । १८२ लिङ्गदर्शनाच्च ॥२-२-८॥ "चतुर्दश पौर्णमास्यामाहुतयो हूयन्ते, त्रयोदशामावास्या- या" मित्याहवनीयगतवषट्कारादिपरिगणनं प्रथमभवत्पक्षे पौ- णमास्यां पञ्चदशत्वापत्तेरमावास्यायां चतुर्दशत्वापत्तेः द्वितीय पक्षे चोभयत्र द्वादशत्वापत्तेनोपपद्यत । अस्मन्मते तु पञ्च प्रया- जाः, द्वाचाज्यभागौ, स्विष्टकृत , त्रयोऽनूयाजाः, पौर्णमास्यां प्रधानाहुतित्रयम् , अमावास्यायां सान्नाय्यस्य सहानुष्ठानात प्रधानाहुतिद्वयमिति चतुर्दशत्वत्रयोदशत्वानुवादो नाऽनुपनः । यद्यपि चाऽसोमयाजिनो ऽग्नीषोमीयामावादस्मन्मतेपि चतुर्दश- त्वसङ्ख्याऽनुपपन्नैव, तथाऽपि सोमयाजिन एव तावत्सम्भव- तीति न विरोध: । त्रयोदशत्वसंख्या वसन्नयतोऽप्यन्द्रामविधा- नादुपपन्नैव । तस्मात्समुदायानुवादावेतो, न कर्मान्तरविधी, इति सिद्धम् ॥ ६॥ इति तृतीयं पौर्णमास्यधिकरणम् ॥ ३ ॥ अथ चतुर्थमुपांशुयाजाधिकरणम् ॥ ४ ॥ पौर्णमासीवदुपांशुयाजस्स्यात् ॥ २-२-९ ॥ (पू.) दर्शपूर्णमासयोः "जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशावुपांशुयाजमन्तरा यजति, विष्णुरुपांशु यष्टव्योऽजा. मित्वाय, प्रजापतिरुपांशु यष्टव्योऽजामित्वाय, अग्नीषोवुमापांशु यष्टव्यावजामित्वाये"ति श्रुतम् । तैत्तिरीयशाखायां तु (१)उपां. शुयाजमन्तरा यजयजामित्वाय' इत्यपि समानातम् । तत्र सन्दे. १. तै. सं. २. ६. ६० मीमांसाकौस्तुमे T [ उपांशुयाजाधिकरण- " है:-किं विष्ण्वादिवाक्येषु तत्तद्देवताविशिष्टयागविधिरन्तराल- वाक्ये च तेषां त्रयाणां समुदायार्थमनुवादः, अथ वा तत्रैवाऽन्तरा- लकालोपांशुत्वविशिष्टयागविधिः, इतरे तस्यैवार्थवादाः ? इति । अत्र च समुदायानुनादत्वस्याऽपवादादनन्तरसङ्गतिस्तावत् स्पष्टा । पूर्वपक्षे गुणादभ्यासाद्वा कर्मभेदः, सिद्धान्ते नेत्यभिधा- नाच्च पादाध्यायसङ्गतिरपि द्रष्टव्या । तत्र तव्यप्रत्ययस्य(१) 'स्वाध्यायोऽध्ये तव्य' इतिवनिस्सन्देहं विधित्वात् 'यजती'त्यस्य लट्लेट्साधारणत्वेन सन्दिग्धत्वादुम- यत्र तुल्यत्वेऽपि वा(२) 'भूयस्त्वेनोभयश्रुती'त्यनेन न्यायेन यत्र यागपरिचायकदेवतादिमत्ता तत्रैव च यागविधिरिति निश्चयात् विष्ण्वादिवाक्येष्वेव कर्मविधानम् । न चैवं विष्ण्वादिदेवतात्रयविशिष्टैककर्मविधाने तव्य. प्रत्ययान्तरपुनःश्रुति वैयर्यापत्तेः विनिगमनाविरहेण सर्वेषां विधायकत्वावसायात् विहितविधानायोगाच्च कर्मभेदे सति वैश्वानरवाक्यवदुपक्रमोपसंहारैक्यबलगम्यैकवाक्यत्वस्य विधे. यभेदेन भङ्गापत्तिरिति वाच्यम् , तत्र हि जातेष्ट्यैवोपक्रमात् तयैव चोपसंहाराद्युक्तैकवाक्यता, प्रकृते तु पुरोडाशनैरन्तर्यापा- दितालस्यापरपर्यायजामित्वेनोपक्रमादजामित्वेन चोपसंहारादु- पक्रमोपसंहारक्याभावेनैकवाक्य त्वाप्रतीते। यद्यपि च दोषरूपस्य जामित्वस्य तदपनायककर्मस्तुत्यर्थत्वेनैव सङ्कीर्तितत्त्वात् जामित्वाजामित्वयोरेकविषयत्वमुच्यते, तथाप्य. जामित्वस्य प्रत्येकमुपसंहारात् तदनुरोधेनोपक्रमस्थापि प्रत्येकम. नुषङ्गावगतः भिन्नवाक्यत्वोपपत्तिः । न ह्यन्यथा प्रत्येकमुपसंहारः कथमपि युज्यते; जातेष्टिवत् युगपदेवोपसंह्रियेत । अतो भिन्न- १. तै. आ. २. १५० २. पू. मी. सु. ३. ३. १०.
काशी संस्कृत सीरिज़ प्रन्यमाला । १ ८ ७० जागदीशीपञ्चलक्षणी सिंहव्याघ्रलक्षणं च । श्रीजगदीशतर्कालङ्कारकृतम् । न्याया- चार्य प. शिवदत्तमिश्र विरचित गंगानिर्झरिणीव्याख्यया टिप्पण्यादिविभूषित [न्यायावि०९] रु० ०-८ ७१ (१) ब्रह्मसूत्रशाङ्करभाष्यम् । चतुःसूत्र्यन्त पूर्णानन्दीय व्याख्या सहितया श्रीगोविन्दानन्द प्रणीतया रत्नप्रभया समन्वितम् । द्वितीयाध्यायस्य द्वितीय- पादान्तो प्रथमोभागः । अविभागे ९] रु०२-८ ७१ [२, ब्रह्मसूत्रशाङ्कर प्रभया समन्वि- तम् । द्वितीयाध्या. द्वितीयोभागः। न्त वि० ९] रु०२-८ ७२ [१]-सिद्धान्तशिरो ध्यायः"वास. वाभाष्य सहितः । स्विकृतटिप्पणी सहितः। वि० ४] रु०२-० ७२-[२]-सिद्धान्तशिरो "गोलाध्याय" वासनाभाष्य सहि देवशास्त्रि कृत टिप्पणी सहितः। ०वि०४] रु०२ ७३ काकचण्डीचरकल्पतर म् । पण्डिन बटुकनाथ शम्मा एम प्रस्तावनया सनाथीकृतम् । भागे ] रु००- ७४ किरातार्जुनीयम् । श्र थमूरिकृतया घण्टापथसमास्यव्यार घाऽऽस्यव्या. ख्यया समलकृतम् । ०१०] रु००-१२ ७६ चन्द्रालोकः। पीयूषद मेश्रापराभि- धान प्रद्योतनभट्टाचार्य रदागमा टीकया सङ्कलितः । साहित्या - भूमिकादिभिः सम्भृष्य सम्पादितः। अलङ्कार वि० ३] रु०० -१० ७६ किरातार्जुनीयम् । श्रीमत्कविकुलचूडामणिभारविविरचितम् । मल्लिनाथसूरि- कृतया घण्टापथसमाया तथा पं० श्रीकनकलाल शर्मणा कृतया भावार्थदीपिनी- व्याख्यया समलकृतम् । [सर्गत्रयमात्रम् ] [ काव्य वि०११] रु० ०-६ ७ शक्तिवादः, श्रीगदाधरभाचार्यप्रणीतः, पण्डितप्रवरश्रीहरिनाथतकसिद्धान्तभट्टा. चार्यविरचितविवृतिसहितः। [ न्यायविभागे १० ] रु०३-० ४८ माथुरीपञ्चलक्षणी। पं श्रीउमानाथालकृतव्याख्या सहिता तथा माथुरीसिह. व्याघ्रलक्षणम् । पं० श्रीहरिरामशुक्ल विरचितया व्याख्यया सहितं तथा पं० श्रीहरिहरशास्त्रि सङ्कलित माथुरोपञ्चलक्षणी क्रोडपत्रेण च । न्याय वि० ११] रु० ०-६ ७९ रसाध्यायः। टीकया संवलितः। [ आयुर्वेदशास्त्र वि० २] रु० ०- ८० (१) पाणिनिव्याकरणे वादरत्नम् । न्यायव्याकरणाचार्य मीमांसक शिरोमणि पं० सूर्यनारायणशुक्लेन विरचितम् । (तत्र च न्यास परिष्कारपरिशिष्ट भेदेन प्रकरण त्रयम् यत्र पञ्चन्यून सार्धशतसूत्रेषु १४९ महताटोपन न्यासाविचारताः तत्र प्रथम प्रकरणं मुदितं प्रथमो भागः । [ व्या० वि १०] रु०१-८ ८० (२) पाणिनीव्याकरणे वादरत्नम् । द्वितीयोभागः [न्या०वि० रु.१-४ ८१ गणितकौमुदी। [हिन्दीभाषाटीकासहिता] प्रथमापरीक्षापाट्यनिर्धारितगणित. संग्रहपुस्तकम् । [गणितविभागे१] रु० ०-६ ८२ छन्दः कौमुदी। [हिन्दीभाषाटीकासहिता] प्रथमापरीक्षापाट्यनिर्धारितछन्द. संग्रहपुस्तकम् । [छन्दोविभागे ३ ] रु० ०० [ काशी संस्थत सोरिज़ अन्यमाला । - भागः। ८३ योगदर्शनम् । महर्षिप्रवरपतालिप्रणीतम् । तत्र (१) भोजवृत्तिः, [२] भावा. गणेशवृत्तिः, [३] नागोजानवृत्तिः, [४] मणिप्रभा, [१] योगचन्द्रिका, [६] योगसुधाकराख्य टीका पटकसमेतम् । सटिप्पण। [योग विभागे १ रु० ३४-८ ८४-[१] रघुवंशमहाकाव्यम् । श्रीकालिदासविरचितम् । म. म. मल्लिनाथकृत सञ्जीविनीटीका तथा पं० ब्रह्मशमिश्रकृतपरोक्षोपयोगि सुधाऽऽख्यव्याख्या सहितः । १ से ४ स्वर्गः मृज्यम् रु. १-४-० तथा १ से ६ सगः। २१-८ ८४-[२] रघुवंशमहाकाव्यम् । श्रीकालिदासविरचितम् । म० म० मलिनाथ कृत सञ्जीविनीटीका पं० श्रीमुदामामिश्रकृत परीक्षोपयोगि स्वधाऽऽख्य व्याख्या साहितः । ६ से १० बर्ग। ( काव्य वि०१२)२०१-८ ८५ योगदशनम् । पं० श्रीबलदेवमिश्रकृत योगसूत्रप्रदीपिकाख्यव्याख्यया महितम् । सटिप्पण। [ योग वि० २] १.० ८६ काव्यमीमांसा । राजशेषरविरचिता। साहित्याचार्य पं. श्रीनारायणमात्रि खिस्ते कृत काव्यमीमांसा--चन्द्रिका टीका सहित [१ से ६ अध्याय ] प्रथमो- [काव्यविभागे १३ ] 6000-6 ८७ नागानन्दनाटकम् । श्रीहषदेवप्रणीतम् । काशीविश्वविद्यालयध्यापकन एम. ए. साहित्याचायति पदवी विभूपितन पण्डित श्री बलदेव उपाध्यायेन स्वप्रणीतया भावार्थदीपिकाख्यया व्याख्यया नमलङ्कृत्य वृहत् भूमिका हिन्दीभापानुवादादि- भिः सनाथीकृत्य सम्पादितम् । [नाटक विभाग १] ०१-४ ८८ मेवदुतकाव्यम् । महाकवि श्रीकालीदास विरचितम् । मल्लिनाथकृत सञ्जीविन्या, चारित्रवर्द्धनाचार्य विरक्ति चारित्र द्वन्या तथा साहित्याचार्य पं. श्री नारायण शास्त्री खिस्तेकृत भावप्रनाविनाव्याख्या टिप्पण्या च सहितम् । [काव्य० १४] रु७०-०८ ८९ जागदीशीव्यधिकरणम् । न्यायाचार्यश्रीनिवारिश्रविचित गंगाल्यव्याख्या टिप्पणी सहितम् । (न्याययिभागे १२ ) 6.0.0 ९०व्यकल्पलतात्तिः। श्रीशमरचन्द्रयतिगिामता अरिसिंहकृतसूनहिता। (अड्डारविभागे ४ ) ०१-४ ९१ दैयाकरणसिद्धान्तचन्द्रिका। श्रीरामाश्रमत्रणीता। श्रीसदानन्दकृत-सुवाधिन्या, श्रीलोकेशकरकृत-तत्त्वदीपिकया व्याख्यया च सहिता। पं० श्रीनवकिशोरशास्ति- णानिनितया चक्रधराख्य टिप्पण्या च संवलिता उत्तरार्द्ध । ( व्या०वि०११) रु २..८ ९२ त्रिपुरारहस्यम् (महात्म्यखण्डम् ) साययोगशास्त्राचार्य श्रीमुकुन्दलाल शर त्रिणा संशोधितम् । साहित्याचाय खिल्ते-इत्युपाख्य पं० श्रीनारायणशाक्षिणा निबद्धाभ्यां भूमिकाऽध्यायानुक्रमणिकाभ्यां च सहितम्। (पुराणेतिहास वि०१) रु. ८... ९३ आपस्तम्बधर्मसूत्रम् । श्रीमद्धरदनमिश्र विरचित या उज्ज्वलाख्या वृत्त्या संवलितम् । (कर्मकाण्डविभागे७) रु०४-० ९४ अवच्छेदकत्वनिरुक्तिः। श्रीजगदीशतर्काल कारकृताः । न्यायाचार्य श्रीशिवदत्त- मिश्रविरचित गंगाख्यव्याख्या टिप्पणी सहितः । (न्याय वि०१३) रु०१-४ ९५ संस्कारदीपकः । गणेशपूजादिग्रहयागान्त-पूर्वाङ्ग-निरूपणात्मकः प्रथमो भागः । म० म० पण्डित श्रीनित्यानन्दपात पर्वतीयविरचितः। (कर्मकाण्ड वि०८)२०२-... ९६ वर्षकृत्यदीपकः । कालनिर्णयव्रतोद्यापनसहितः । म० म०प० नित्यानन्दपन्त पर्वतीय विरचितः। ( कर्मकाण्ड वि०९) रु०३-८ ९७ श्रौतसूत्रम् । (सामवेदीयं) श्रीमन्महर्षि-लाट्यायनप्रणीत अनिष्टोमान्तम् । सरलावृत्तिसहितम् । (कर्मकाण्ड वि०१०) रु. २० ९८ नलचम्पू: अथवा दमयन्तीकथा । महाकविश्रीत्रिविक्रमभट्टविरचिता । विषमपद. प्रकाशाख्यव्याख्यया सहिता । भावबोधिनो टिप्पणी सहिता । (का० वि०१५)रु.१-४ प्रतिस्थानम-चौखम्बा सकत चौखस्या मरकत प्रमालग बसिनी।
No text on this page.
No text on this page.
No text on this page.