Bharatiya Vidya Bhavan Library, Mumbai
The Tantraloka Of Abhinava Gupta Vol.-iv
Front matter
. श्रीसोमानन्दनाथप्रमृतिगुरुवरादिष्टसन्नीतिमार्गों लन्ध्या यवं सम्पपटिभनि घटनामीश्वराद्वैतवादः । फश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रअयन्सर्वदेश्यान् देशेऽन्यस्मिन्नदृष्टो घुसूणविसरवत्सर्ववन्दयत्वमाप ॥१॥ तरत तरसा ससाराधि विधत्त परे पदे पदमविचल नित्यालोरुममोदसुनिर्भरे । विमृशात शिवादिष्टाद्वैतानबोधसुधारस समनिलमत्सयुम्यान्त समुत्प्लवदायिनम् ॥ २॥ .
SUPEETHEHLOEVISE काश्मीर-संस्कृतग्रन्थावलिः PL ग्रन्थाङ्क: ३६ श्रीतन्त्रालोकः। श्रीमन्महामाहेश्वराचार्यवर्व- श्रीममिनवगुप्ताचार्यविरचितः । श्रीमन्महामाहेश्वराचार्य श्रीजयरथकृतविवेकाभिख्यटीकोपेतः। श्रीभारवधर्ममार्तण्ड-कश्मीरमहाराज- श्रीप्रतापसिंहवर-प्रतिष्ठापिते प्रतविद्याप्रकाश-(रिसर्च) कार्यालये तदध्यक्ष-पण्डित-मधुसूदन-कौल-शास्त्रिणा उद्दिष्ट कार्यालयस्थपण्डितसहायेन संगृह्य, संशोधन-पर्यायाङ्कन-विवरणादिसंस्करणोत्तरं पाश्चात्यविद्वत्परिपत्संमताधुनिकसुगमशुद्धरीत्युपन्यासादिपस्तौः परिष्कृत्य मुम्बय्यां तत्त्वविवेचकाख्य-मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीतः (चतुर्थो भागः) JAMMU & SBIWAS स्तान्दः १९१२ संवत् १९७९ काश्मीर-श्रीनगर (अस्य ग्रन्थस्य सर्वे प्रकाशन-मुदापणाधिकायः प्रोक्तमहाराजवय: स्वायत्तताः शान्त
All rights reserved )
Printed by
Vithal Tapayı Diodak at The “Tatva-Vivecbaka" Press,
No 3544, Parei Road, New Nagpada, opposite
Richardson & Cruddas Office, Bombay.
and Published by
The Research Department, Jammu and Kasbmır State,
Sorinagar.
अथ श्रीतन्त्रालोक-पष्टाह्निक-मूलश्लोकानामकारा- ' द्यनुक्रमणिका ८८ . पृ० हो. अकारण शिव विन्दे १९३ १५९ अर्कः प्रमा सोमस्तु १.२ अमिरगेरिता लोके ११४ | अन्दुराहुसंघद्यात् अरेविति पदिश. २३२ १०० | अलमप्रस्तुतेनाय अतः सामनसास्काटा १६७ अवधानादस्याशा- भतहान्यननता १८ | अवेद्ययलो यत्नेन १८८ १५६ मोर त्यो क्लेय ३२ अव्यक्तास्ये ह्याविरिया १५. भाउपशानारप्राय १५ १८ अात्रिंशं च तत्ताव अप्यो स्टि कान्ति २४३ १९७ | बहाना सदेश्ये तु १४५ १९९ अप्पनःसनरत ४ अप्यायनारमने केका ণ কণ অবম भामापास्यं सदा व... सपा मस्त एवार्य' • ३ मामुनिक षः पुम्मा १९ १०२ बनेनामा १९२ १५. बरभ्यानिशादि . २.५ भन्न सन्ति प्र ...रोकारयोसरि भन्दा मिस्तम्भ ११ पशिसे अगमारने १४ १.. पति मनोदये पेऽर्य १५ महापानमन एपंग सारे भर हिरणोपत्र " ११. इलमेर रात्रि एमा १४५ भोपांगत 1. पेश १४ २१ . ४ स्टो. पृ० ४४ लो. . इन्द्रालिमये मुहये १९९ १६४ कन्दाधारात्प्रभृत्येव इयं स प्राणनाशक्तिः १२ | कादिपवक्रमायस्य २२२ इह सर्वन शन्दाना ३१ कालशक्तिस्ततो बाये १८३ ईश्वरः कालनियती कालसंख्या समूक्ष्मंक २१० ईश्वरः प्राणमाता च ४० | कालानि वि संहती १७१ १४५ उक्तं श्रीकामिाया च ८१ | क्रमसपूरणाशालि उक्तः परोज्यमुदयो २२४ १८२ क्रमाक्रमात्मा कालश्च ६ ( उक्तः सूक्ष्मोदयग्नेय २४० १९६कियाशक्तिः समस्ताना ३९ उत्पत्तिस्थितिसंहारान ५९ ५१ करता सौम्यता वाभि उदिताभोगकार्यात्म ३७ क्षधरः सर्वसंयोग एकत्रमप्रदर २४१ १९६क्षीयते तदुपासाया १९४ एवंकवणे प्राणाना २४६ १९९क्षीयेते यदि नदीक्षा एकेदान्या तावद्धिः १५९ क्षोदिष्ठे पा महिछे वा ६२ एथे नादात्मको वर्णः २१७ १७८ सरसास्तिध्य एकस्मि १२४ १०६ एतावस्यक्तित्व १६३ १३. गर्भता प्रोद्युभूपिण्य एवं कटाः पचदश ८३ गुणयित्वेश्वरं काले एवं देवस्वहोरात्र. ११० | प्रसमोक्षान्तरे सान एवं प्रविशति चित्. ১৪ | মহমনুলহাস एते बदा विमा यत्र २८ चत्वार एले प्रल्या .एवमध्य कालं १५६ १३३ / चन्दमूर्यात्मना पेई ८१ एर पादयो राया २४२ चार एकत्रनप्रत्र लगे पत्र ९६ घेरितान्यनुर्वाणो दर दून ५. मदितिः सोमी १२५ भेगमाः प्राण বিশীর १७९ १०७ . .
. . . १३४ १८ श्लोक पृ० जन्म सत्ता परिणति ११८ १०१ तद्वासनाक्षये त्वेषा जीवादित्यो न चोगच्छेत् २५ २५ तदिनप्रक्षये विश्व तत एव तमोरूपो १०३ ८८ | तयोस्तु विश्रमोऽर्थेऽर्थे '५७ तत्क्रमानियातः कालो १५४ १३३ / तल्लयो वान्तरस्तस्मा १७२ १४६ तत्क्रमणव सकान्ति २०८ . १७२ | तस्माद्विभ्रमतुट्यर्घा तत्वमध्यस्थितात्कालात् ३८ ता पुनर्विशता हत्या तत्प्रमातरि मायीये ४१ ३८ | तामेव बालमूर्खत्री तत्र क्रियाभासनं यत् ३४ ३३ तावती वैश्वरी रात्रि १५८ तत्र पञ्चदशी यासौ ८४ तावत्तत्पदमुक्तं नो २३० १८७ तन प्रातिपदे तस्मि ८६ | तावदेवास्तमयनं ८१ तत्रापि तु प्रयत्नोऽसौ तावद्वहनहोरानं २०० तनाप्यहोराप्रविधि १२२ १०४ | तावानेव क्षणः कल्पो तनाप्योपाधिकाढ़ेदात् १७६ १४८/तिपिच्छेद ऋशंकासो १०९ ६३ तनार्कमण्डले लीनः १०१ an| तुटिः सपादागुलयुक्... तत्साधकाः शिवा १४९ / तेनाः किल संवित्प्राक् १२ तत्सूटो स्टसंहारा १७३ १४७ | तेनोदानेन हदयात् २१३ तयापानेऽपि हृदयात् १८६ १५५ ते चोक्ताः परमेशेन' तथा पुरेष्वपीत्येवं ८८ • ७७ | तेषा तथा भावना चेत् १७ तदहति च यः कालो २०७ १७२ ) तो कृप्ती यावति तया ७३ ७. तदा श्रीकण्ठ एव स्या १९ १२९ निकद्वयेत्र प्रत्येक ३४ तदीयेनातं विश्व १४४ १२४ दवा रोकत्रयं धूमा १४१ १२२ तदेव पुंसो मायादि ३८ | दशशतसहसम्यु १६८ १४३ तदेव शून्यरूपत्वं दिनं कृष्णो निशा शुक. तदेवेन्द्रमत्रान्ये २२५ १८२ | दिन रात्रिश्च तत्काले वा १७ ७४ . . ८ सो. पृ. ठो पृ० दिनयविक्रम में श्री प्रधानान्तं नायकाच दिनराज्यविमागे तु प्रधाने यदहोरात्र २४८ १३२ दीप प्तं माद्विति प्रभुशक्ति वचिन्मुख्या ५३ २३४ १९.. प्रभो शिवस्य या शक्ति ५२ देवाना यदहोरान देहमप्यनुवानास्त- प्रमानदे भेदे ऽथ १८५ १५४ १५ १५८ द्विघा न सोचा क्रियया २२ प्रवेशे खलु तत्रैव १२० १०२ नक्षमाणा तदन्येपा. प्रवेशे तु तुलाथे के ११६ ६९ नयोक्ता झोऽधिकारे तु१५. प्रहरदयमन्येपा १३१ नववर्गास्तु ये प्राहु- प्रहराहनिशामास- २४४ १२८ ११० नवामुशतमेक पाणचारेन यो वर्ण- २०३ ५६७ नाब्यन्तराधिता नाही १९७ प्राणनावृत्तितादात्म्य- १४ १६२ नादो नाशन्तदृश्या तु १६२, १३७ प्राणविक्षेपरन्ध्राख्य २२ प्राणन्याप्ती यदुक्त त- २१२ निर्गमे दिनदि स्यात् १२१ १७५ निर्गमेन्तनिशेने-दा प्रापशक्ति कचित्राण. निद्याक्षये पुनः साट प्राणसंख्या वदेत्तत्र, १३४ १४५ १२५ नैमित्तिकी प्रसिद्धा च प्राणे ब्रह्माबिले शान्ते १५९ १३६ न्यूना स्यारस्वारमविधान्ति ८५ बद्धा यागादिकाले तु २३ २२ पर: मुप्त सये रात्रि- विन्दु 'प्राणो हाचैव पितामहान्त सदा स्यु१२३ ब्रह्मण प्रलयोटा- १४८ १२८ विध्य व दिव्यदिन- १३८ प्रागोऽहम्ता चन्दा १४० १२० प्रसादयोऽनाश्रितान्ता* १८९ पिन्ति च मुराघवें ८२ मनायनारितान्ताना १५६ पुरा विचारयावा. मण्डल स्थण्डिल पान २ प्रारविश्रमवशा- ६८ | मण्यारे दक्षवियुवत् प्रय लिपीना १०८ मात्रा इस्ता पच दीपी-३२६.१८३ १०४ . ८४ UY ३ . (६) सो. लो. पृ. सर्युदयो मध्य. २०६ .१७१ स्थूलसूहमाः क्रमात्तेपा ६२ सांस्यवेदादिवसिद्धान् १५२ १३२ स्थूलै काशीतिपदज- १८६ सा प्राणपि. प्राणाय-१४ १३ स्थूलोपायाः परोपाय- २३१ १८८ सामावस्यात्र सक्षीण- ५४. ८० स्थूलो वर्णोदयः सोऽयं २५१ २०२ मरिः प्रविलयः स्थमा ११५ १५६ हृदआरभ्य यत्तेन पर यादयश्च ते सो हृदयात्राणचारथ ५२ मथ्यादितत्त्वमशास्त्रा ५. सेर संविधाहस्यात्म हृयकारो द्वादशान्ते २३८ सोऽपि संविदि संविष १८. १५१ हृद्येष प्राणरूपस्तु २२३ स्पानप्रकल्पस्यतया , ये तु दर्शिते शिष्याः स्थानभेदविधा प्रोक्त २। हस्ताणत्रयमे २१९ . १९४ ८ २ . Nandesh अथ RIY श्रीतन्त्रालोक-सप्तमाह्निक-मूलश्लोकानामर काराद्यनुक्रमणिका । स्टो. . १ १२ २६ १७. २२ ३ ८ २ ૨ अप परमरहस्योऽय भन्यथा न स निर्व भयुधाः शक्तिमा অগ্রনায় বষ্ট भाधन्तोदयनिर्मुसा एययनसमाख्यात उदय सत्वयोग: उपयः सप्तनिरा. एअनुमरियरनेन एनि एernat परे प्रसस्मेरास्तस्य पत समस्या पराय टो. १ ततोऽपिदिगुणेऽश- तदमावत नो सावत् सदमावान शिानी २५ सन्मन्तदेवता यमत् ५ सापती पु . न्या तादानको विकास म्या• १२ तेनास्यात एक प्रयोदय द्वापरपा १८ शिक सप्त समन ३ प्रतिशतस्यार दानिश माराम वाह वादस्तेि विधिमा स्यान ५५ मिनि मातानिः मसमेनगे. मपित १५ ५ मि . . 16 साल . . . १८ ८ ४८ r :२१ - . प मी: AR १४ ७ स 17 (८) . . ग्लो पदमन्त्राक्षरे चके पदमन्त्रेषु सर्वेषु पिण्डाक्षरसदेमंन्त्र- पूर्ण समुदये खत्र । ५४ प्रवेशविश्रान्युमसे ६२ मागपोडशकस्थित्या मन्त्रचोदयज्ञस्तु माटामन्त्रेषु सर्वेषु वस्तुतो छत एवेय विकल्प शिवतादायी विकार उपजायेत विज्ञान तद्विकल्यात्म विदधत्परसवित्ती विन्दाना निर्विकल्पापि विमग्यते विमान विद्यार्षिायोगा- वि मधिलयास्ते लो. पृ० व्याप्त तद्वत्तनुर ६८ ३८ | शरिस्य नैव त तत्र ४६ शश्यन्तेऽध्वनि तरस्पन्दा. ६४ शतद्वादशिका सप्त. १३ पण्णवत्यामधः षड्वि- . ५५ पोशाख्ये द्वादशिते ४९ पोडशाख्ये पोउशिते ५० ३५ सविदव पूर्णा स्या- १४ स नाडीरूपतामेत्य ६७ २९ सप्तके निसहन तु सप्तत्रिंशत्सहाधेन २८ स स्पन्दे से सतचित्यो ६३ २४ सत्येको न भवेत्कश्चित् ३३ सा च स्यात्कमिवेत्य २६ याचदुदयते स्पन्द ५६ । सिद्धामते कुण्डलिनी २३ . ८ ८ २ . ४.
अथ श्रीतन्त्रालोके श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते श्रीजयरयकृतविवेकाख्यटीकोपेते - पष्ठमासिकम् । . कवलयितुं किल कालं कलयति यो व्यायतास्यतां सततम् । जयति स सुजयः साक्षा- संसारपराकृती संजयः॥..' इदानीमाणवोपायस्यैवाङ्गभूतमुच्चारादिप्रमे- यचतुष्टयानन्तरोद्दिष्टं स्थानकल्पनाल्यं परमं प्रमेयं द्वितीयाधैनावतारयितुमुपंक्रमते स्थानप्रकल्पाख्यतया स्फुटस्तुं बाह्योऽभ्युपायः प्रविविच्यतेऽथ॥१॥ स.पु. मुगप इति पाठ । २०.. ममते इति पार।
२ श्रीतन्त्रालोकः - . अथशब्दोऽधिकारे । तेनेतः प्रभृत्याद्वादशा- ह्निकं यत्किंचिदुच्यते तत्सर्वं स्थानकल्पनाधि- कारेण, इति पञ्चदशाहिकात्प्रभृति पुनरेतदेव वाह्यस्थण्डिलमण्डलायधिकृत्याभिधीयते, --- इत्याग्रन्थपरिसमाप्तः प्राधान्यात् स्थानक- रूपनस्येव सकलोऽयं प्रपञ्च, इति ॥१॥ तदेवाह स्थानभेदस्त्रिधा प्रोक्तः प्राणे देहे बहिस्तथा। एपामपि भेदान्तराणि सन्ति, -इत्याह । प्राणश्च पञ्चधा देहे द्विधा बाह्यान्तरत्वतः ॥२॥ मण्डलं स्थण्डिलं पात्र- मक्षसत्रं सपस्तकम्। .
. . श्लो० ५] पष्ठमाह्निकम् लिङ्गं तूरं पटः पुस्तं प्रतिमा मूर्तिरेव च ॥ ३ ॥ इत्येकादशधा बाह्यं. पुनस्तबहुधा भवेत् । 'पुस्तं' लेपादिनिर्मिताकृतिः। मूर्तिर्वा- दिसंवन्धिनी। तदित्यानन्तर्यादाह्य, पुनरित्येका- दशविधत्वेऽपि, बहुधेति मण्डलादीनामप्येक- शूलत्रित्रिशूलादिक्रमेण नानात्वात् ॥३॥ एवं स्वरूपतः स्थानभेदमभिधाय तद्गतं वि- धिमप्युपदेष्टुं प्रतिजानीते तत्र प्राणाश्रयं ताव- द्विधानमुपदिश्यते ॥ ४॥ तदेवाहः अध्वा समस्त एवायं षधिोऽप्यतिविस्तृतः। १० पु. विधानमुपदिश्यत इति पाठः । .
श्रीतन्त्रालोकः १ . . यो वक्ष्यते स एकत्र प्राणे तावत्प्रतिष्ठितः ॥५॥ वक्ष्यत इति भुवनाध्वप्रकाशनादौ । 'प्राण इति सामान्यस्पन्दनात्मनि । यदुक्तम् 'पविधाध्वविभागस्तु माणेकत्र यथा स्थितः ।' (स्व० ४१२३२) इति । विशिष्टे पुनः पदमन्त्रवर्णात्मा त्रिविध एव । यद्वक्ष्यति 'पडिपादध्वनः पाच्यं यदेतत्त्रितयं पुनः । एप एव स कालाध्वा प्राणे स्पष्टं प्रतिष्ठितः ॥' (तं० ६।३७) इति ॥ ५॥ तदेवोपपादयति अध्वनः कलनं यत्त- क्रमाक्रमतया स्थितम् । . C . 1. पु.मकामादाविति पाठः।
५ श्लो० १] पष्ठमाह्निकम् क्रमाक्रमौ हि चित्रैक कलना भावगोचरे ॥६॥ नन्वेतत्क्रमाक्रमात्मतत्रैव कस्मास्थितमित्या- शङ्कयाह ‘क्रमेत्यादि । इह द्विधैव भावाना- मवभासः क्रमेणाक्रमेण च; तंत्र क्रमेण यथा कार्यकारणादौ, अक्रसेण यथा चित्रज्ञानादौ । स च चित्रे यदैकस्यैवैकदैव च कंचित्पूर्वकाल- भाविनं समानकालभाविनं च भावमपेक्ष्य क्रमेणाक्रमेण चावभासः, -इति । तद्यां नाम भावनामेवं 'कलना' परिच्छित्तिः स एव क्रमाक्रमात्मा काल इति ॥६॥ ननु सर्वमिदं जगत्संविल्लंग्नमेवावभासतेऽ- न्यथा ह्यस्य भानमेव न भवेत् , संविदि च नित्यत्वात्कालयोगो नास्ति; इति कथमसौं १ ख. पु. क्रमाकमेति शोधितपाठ । २ क. पु. तया नामेति पाठ । स्व. पु. भावनानामेवमिति मूलपाठ। स. पु० सलममिति पाठ ।
श्रीतन्त्रालोकः तदनुपक्तस्य भावजातस्यापि स्यात् ? इत्या- शङ्कयाह • क्रमाक्रमात्मा कालश्च परः संविदि वर्तते। नन्वेवं 'क्रमाक्रमकथातीतं संवित्तत्त्वं सुनि- मलम् ' इत्यायुक्तं व्याहन्येत, सौगतमतान्तः- पातश्च स्यात्,-इत्याशङ्कयाह काली नाम परा शक्तिः सेव देवस्य गीयते ॥७॥ यन्नाम परस्य प्रकाशस्य कालेन योगः सास्य 'शक्तिः' स्वेच्छावभासितस्य प्रमातृप्र- मेयाद्यात्मनो जगतस्तत्तद्रूपलया कलने सा- मध्यं न पुनः स्वात्मनि कश्चिदकमः क्रमो वा, - इति, न ह्यग्नेहशक्तियोगे स्वात्मनि स्फोटाद्याविर्भावः ॥७॥ ..पु. सः संविदीनि पारः।
को०९] पष्टमादिकम् तदाह सैवं संविदाहिः स्वात्म- गर्भीभूतौ क्रमाक्रमौ । स्फुटयन्ती प्ररोहण प्राणत्तिरिति स्थिता ॥८॥ सैव कालशक्तियोगिनी संवित्स्वाविभागेना- वस्थितौ क्रमाक्रमौ वहिः प्ररूढतयावभासय- न्ती प्राणवृत्तिरिति स्थिता, प्राणनात्मतया प्र- स्फुरितेत्यर्थः ॥८॥ ननु कथं नामेयं. प्राणवृत्त्यात्मना प्रस्फु- रिता, - इत्याशङ्कयाह संविन्मानं हि यच्छुद्धं प्रकाशपरमार्थकम् । तन्मयमात्मनःप्रोड्य "विविक्तं भासते नभः ॥ ९ ॥ १० पु० स्वैव सविदिति पाठ । ख० पु० सविरपुनरिति पाठ २० पु० प्राणेनारमतयेति पाठ ।
v , श्रीतन्त्रालोकः यन्नाम हीदं प्रमातृप्रमेयात्मनो विश्वस्य स्वाविभागेनैवावभासनात्प्रकाशपरमार्थकम् ,अ- त एवं तदारूपणापा अभावाच्छुद्धं संवि- न्मात्रं तत्स्वस्वातब्योत् स्वात्मन्यपूर्णत्वाववि- भासयिपया स्वाविभागेनावस्थितं विश्वात्म 'मेयं' औत्मनः सकाशात् 'प्रोज्झ्य' पृथकृत्य 'विश्वस्मादुत्तीर्णोऽहम् ' इत्यामृश्य 'विविक्तं नभोऽवभासते' सकलभावशून्यत्वान्निरावरण- रूपतया प्रस्फुरतीत्यर्थः ॥ ९ ॥ अत एवाह तदेव शून्यरूपत्वं संविदः परिगीयते। शून्यरूपत्वम्' इति शून्यप्रमातृत्वमि- त्यर्थः । शून्यत्वं चास्य सर्वस्य संवेदास्य संक्ष. ...पु. म्यानध्यामनि अपूर्णयापति पारः।। . ३.पु.म्बामन. इनि पारा । ३.पु.पाविपश्य इति पाठः ।
श्लो. १०] पष्ठमाह्निकम् यात् न तु संविदोऽपि, तथात्वे हि निखिलमि- दमनेलमूकप्रायं स्यात् । यदुक्तम् अशून्यं शून्यमित्युक्तं शून्यं. चाभाव उच्यते । , अभावः स समुद्दिष्टो यत्र भावोः क्षयं गताः ॥' (स्व० ४।२९१) इति । 'सर्वालम्बनधर्मैश्च सर्वसत्त्वैरशेपतः ।' सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः ॥' इति च ॥ एतच्च परमुपेयमितो वाह्यानामित्याह नेति नेति विमर्शन योगिनां सा परा दशा ॥१०॥ सेयं 'न भावो नापि चाभावो मध्यमापतिपचितः।' इत्याद्युक्तयुक्त्या भावाभावविषयेणे नेति नेति परामर्शद्वयेन मध्यमपदावेशशालिनां योगिनां स० पु. भायः क्षयं गतः इति पाठः। १.पु० विषयावेन इति पाठः। ३. पु. प्रतिपदावेतति पाठ:1 . ३ १० श्रीतन्त्रालोकः परा' शुन्यातिशून्यरूपा ‘दशा' विश्रान्ति- स्थानमित्यर्थः । यदाहुः • 'शून्यतावस्थितः पश्चात्संवेदनविवर्जितः । निर्वाणः कृष्णवर्मेव निरुपाख्यो भवत्यसो ॥' इति ॥ १०॥ स एव च शून्यप्रमाता बहिर्मुखीभवन्त्रा- णप्रमातृतामासादयति,-इत्याह स एव खात्मा मेयेऽस्मि- न्भेदिते स्वीक्रियोन्मुखः । पतन्समुच्छलत्त्वेन प्राणस्पन्दोर्मिसंज्ञितः॥११॥ स एव च 'खात्मा' शून्यप्रमाता अभिसापो मलोऽत्र तु ।' (स्व० ४-१०४) इत्यायुक्तरपूर्णम्मन्यतात्मकाणवमलयोगात्सा- कासतया पुनस्तत्स्वीकरणोन्मुखः सन् स्वस्मात् १.पु. रूपाशा इति पाठ. । २१.पु. सर्वेम्पनेति पाठः । .............
लो० १२] षष्ठमाहिकम् 'भेदिते' पृथकृतेऽस्मिन् नीलसुखादिरूपे 'मेये समुच्छलत्त्वेन पतन्' वहिर्मुखीभवन् प्राणादिशब्दव्यपदेश्यो भवेदित्यर्थः । किंचिच्च- लनात्मनःस्वविमर्शरूपस्य स्पन्दनस्यैवायमाद्यः प्रसरः, - इत्युपचारात्तच्छन्दव्यपदेश्यो न तुस एवायं तस्य शून्यप्रमात्रुल्लासादप्यूचं भावात् । एवमूर्मिशब्दादावुत्तरत्रापि ज्ञेयम् ॥ ११ ॥ यदभिप्रायेणैव भट्टश्रीकल्लटादयोऽप्येवमूचुः,- इत्याह तेनाहुः किल संवित्प्रा- पाणे परिणता तथा अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः ॥१२॥ यद्यपि शून्यतावभासनपुरःसरं संवित्प्राण- रूपतया परिस्फुरिता तथापि तदवभासनेऽस्या न कश्चिद्रूपान्तरोपग्रहः,- इत्युकं 'प्रासंवि- श्रीतन्त्रालोक . पाणे परिणता' इति । तेरप्येतन्निर्मूलमेव नोक्तम्, - इत्यागमोऽपि संवादितः अन्तःकर- णेत्यादिना'.। अन्तःकरणानां 'तत्त्वं' सार- भूता बुद्धिस्तस्य धुद्धिप्रमातुरित्यर्थः । तेन बुद्धि- प्रमातुःपूर्व प्राणोवासः, -इति सिद्धम् । अ- न्यथा कथं स तस्याश्रयः स्यात् ॥ १२ ॥ एवमयमेव परस्याः संविदः प्रथमः परिस्प- न्दः, इति तदभेदवृत्त्येव सर्वत्रास्य व्यवहारः,- उत्याह इयं सा प्राणनाशक्ति- रान्तरोद्योगदोहदा । स्पन्दः स्फुरत्ता विश्रान्ति- जीवो. हृत्प्रतिभा मता ॥१३॥ आन्तर' आद्यो योऽसो 'उद्योग' उद्य- क.पु. मारभूत तस्य बुदिप्रमातुरित्ययं । .व. पु. जीवे इति पाट ।
. श्लो १०१४ पष्ठमाद्विकम् न्तृतात्मा परिस्पन्दस्तत्र 'दोहदो'ऽभिलाषो यस्याः सा तदेकनिष्ठेत्यर्थः ॥ १३ ॥ नन्वेवमुल्लसिताया अस्याः किं प्रयोजनम् ? इत्याशङ्कयाह सा प्राणवृत्तिः प्राणांद्यै रूपेः पञ्चभिरात्मसात् । देहं यत्कुरुते संवि- पूर्णस्तेनैप भासते ॥ १४ ॥ सेयं सामान्यपरिस्पन्दात्मा प्राणवृत्तिः प- ञ्चभिः प्राणापानाये रूपेर्यत्तदन्तर्वहिष्करणा- द्याक्रान्तं 'पाञ्चभौतिकं 'देहमात्मसात्कुरुते' व्याप्यावतिष्ठते तेनेप देहो घटादिवत्संवेद्यत्वे- ऽपि संवित्पूर्णो भासते संवेत्तृतया प्रथत इ. त्यर्थः। अत एव मूढानामयं भ्रमो यच्चेतन्य- विशिष्टात्कायादन्यः कश्चिन्नास्ति इति । यदु- क्तम् ...पु. भरमामनेननति पाठः। .
१४ श्रीतन्त्रालोकः 'चैतन्यखचितात्कायानात्मान्योऽस्तीति मन्यते ।' इति ॥ १४ ॥ तदाह प्राणनावृत्तितादात्म्य- सवित्खचितदेहजाम् । चेष्टां पश्यन्त्यतो मुग्धा नास्त्यन्यदिति मन्वते ॥१५॥ 'मुग्धा' इति देहात्मनोविवेकमजानानाः । अयमेषां भावः-भूतान्येव हि मृदाद्यवस्थाया- मचेतनान्यपि सुराकारतया परिणता गुडपिष्टा- दय इव मदशक्तिं, शरीराकारपरिणतानि चै- तन्यं प्रतिपद्यन्ते, कालान्तरे च परिणामविशे- पभाक्त्वाच्च तच्छन्यतामुपगच्छन्ति, तावन्तं च कालं चेतन्यानपायात्स्मृत्यनुसन्धानादिव्यवहा- रनिपुणतया चेष्टन्ते, - इति किमन्येम तदति- रिक्तनात्मनेति ॥ १५॥ क. पु० मूढा इति पाठः। , • क. पु. मूढा इति पाठः ।
. श्लो० १६] षष्ठमाह्निकम् एतदधिशयाना एव 'चार्वाका' इत्युच्य- न्ते, -इत्याह तामेव बालमूर्खस्त्री- प्रायवेदिवसंश्रिताम् । मतिं प्रमाणीकुर्वन्त- श्वार्वाकास्तत्त्वदर्शिमः ॥१६॥ तामेव मतिमिति, 'चैतन्यविशिष्टः कायः पुरुषः' इत्याद्युक्त्या चैतन्यखचितो देह एवा- त्मा न पुनस्तदतिरिक्तः कश्चित्, - इत्येवं- रूपाम् । वालादिसंश्रयेणास्या महाजनानुपसे- व्यत्वं दर्शितम् । प्रमाणीकुर्वन्त इति, देहांदू- मपि यदि कश्चित्तदतिरिक्त आत्मा संभवेत्त- त्तस्य पूर्वशरीरमपहाय शरीरान्तरमधितिष्टत एतच्छरीरशैशवादिदशानुभूतार्थस्मरणवत् पूर्व- पूर्वशरीसनुभूतार्थस्मरणमपि भवेत् । न हि तस्य शीरभेदेऽपि नित्यत्वात्स्मरणविशेपे का- रणे किंचिदुत्पश्यामो येनेह जन्मन्येवानुभूतं श्रीतन्त्रालोकः स्मरति नान्यजन्मानुभूतम्, - इति तस्मादू- र्ध्वमन्यः कश्चिन्नात्मास्तीत्येव युक्तम् । यच्छु- तिरपि. 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु- विनश्यति न मेस संज्ञास्ति' (वृ. आ० उ०४-५-१३) .इति । अतश्च परलोकादिचिन्तामपास्य याव- जीवं सुखमेवासितव्यम्,-इत्येषां तत्त्वमि- त्युक्तं 'तत्त्वदर्शिन' इति । यदाहुः 'यावज्जीवं मुखं जीवेनास्ति मृत्युरगोचरः। भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः॥' इति ॥ १॥ नन्वे तत्त्वमनुशीलयतामेपां किं स्यात् । इत्याशङ्कयाह तेपां तथा भावना च- हाळमेति निरन्तरम् । तद्देहभङ्गे सुप्ताः स्यु- रातादृग्वासनाक्षयात् ॥१७॥ ॥१७॥ .
श्लो. १८] पष्टमाह्निकम् 'सुप्ता' इत्यपवेद्यालयाकलप्राया इत्यर्थः १७ तद्वासनाक्षये त्वेषां किं भवेत् ? इत्याश- याह तहासनाक्षये त्वेषा- मक्षीणं वासनान्तरम् । बुद्धं कुतश्चित्संसूते विचित्रां फलसम्पदम् ॥१८॥ नन्वेषां सांख्यादिभिरपि साम्यं यत्तेपामा प्येवंप्रायैव मुक्तिः, पुनरपि तत्तद्वासनानुसारं विचित्रफलोपभोगस्योदयात् । यद्वक्ष्यन्ति: ''सांख्यवेदादिसंसिद्धाश्ट्रीकण्ठस्तदहर्मुखे ! सृजत्येव पुनस्तेनु न सम्यमुक्तिरीदृशी॥' .(त०६-१९३) इति । तत्सर्वत्रास्यैव कथमवरतया 'निर्देशः । यदाहुः 'चार्वाकास्तु वराकाः प्रतिक्षेतव्या एव .क.पु. पुनस्तस्मान इति पाठः । 3 श्रीतन्त्रालोक १८ कः क्षुद्रतकस्य तदीयस्येह गणनावसर' इति । नत्किमेतत् ? इत्याशङ्कयाह अंदाळशङ्कनात्प्राच्य- वासनातादवस्थ्यतः। अन्यकर्तव्यशैथिल्या- त्संभाव्यानुशयत्वतः ॥१९॥ अतढूँढान्यजनता- कर्तव्यपरिलोपनात् । नास्तिक्यवासनामाहुः पापात्पापीयसीमिमाम् ॥२०॥ यदप्यस्मदपेक्षया दर्शनान्तराणां तुल्यमेव पापत्वं तथापि नास्तिक्यवासनायास्ततोऽप्यति- शयेन पापस्वं, यतः 'प्राच्या अनिषेध्यत्वात्पू- १५० क. पु• आदाति पाठ । २ स० पु. अतस्येति पाठ । ३ क. पु. पाहुरिति पाए। क. पु० यद्यपाति पार्ट ।
श्लो २० ] पष्ठमाह्निकम् वभाविनी येयमास्तिक्यवासना तस्यास्तादव- स्थ्यं; नहि नास्तिक्यवासनाया दाढर्येन प्ररोहोऽ- स्ति येनैतदुपरमो भवेन्निर्मूलत्वेनादाढर्यस्या- त्राशयमानत्वात् ! यथा परं ब्रह्म मूलवेनाव- 'लम्ब्य प्रपञ्चो मिथ्या, - इत्यायुंच्यमानं दा- ट्येन प्ररोहमियान्नैवमेतत्; आत्मनो हि ना- स्तित्वे किमन्यदवशिष्यते यन्नामाजडं मूलभू- तमधिकृत्य सर्वमिदं सुव्यवस्थितं स्यात् ; जडा- नामेव च परिणामो भवेदिति न चेतनत्वेना- सौ युज्यते,-इत्यन्यैर्वहूक्तमिति तत एवाव- धार्यम् । अत एवास्तिक्यवासनायास्ताद्वस्थ्येन 'अन्येषां' दर्शनान्तरस्थानाम् 'अग्निहोत्रं जुहु- यात् , न हिंस्यात्सर्वभूतानि' इत्याद्यात्मना विधिनिषेधरूपेण 'कर्तव्येन' शैथिल्यमस्या. जायते । यदात्मनोऽस्तित्वे यदि कैश्चित्पारलौ- किकं किंचिदनुष्ठीयते तद्यावद्दूरे आस्ताम् । आत्मनः पुनर्नास्तित्वेऽप्यन्यैः कुशलप्रवृत्तिरकु- . क. पु. तावद्यावदिति पाठः । . .
२० . . श्रीतन्त्रालोकः शलविरतिश्च क्रियते,-इत्यत्र निमित्तं किंचि- संभवेत् , अन्यथा सर्व एव किमेवं कुर्युः । अ- स्माकं च किंचिदपि.कर्तव्यं नास्ति,-इत्य- स्थान एवास्माभिर्धान्तं , किमिदं व्यामूरि- वासितम्,-इत्येवमात्मा पश्चात्तापोऽप्यत्र सं- भावनीयस्तस्मिन्नुत्पन्ने सति सुखमेव न्यायो.. पन्यासकदर्थनां परिहत्य 'सन्दिग्धेऽपि परे लोके त्याज्यमेवाशुभं बुधैः । यदि नास्ति ततः किं स्यादस्ति चेन्नास्तिको इतः ॥' इत्यादिना मित्रसंमतेनाप्युपदेशेन तस्या- मास्तिक्यवासनायां रूढयान्यया दर्शनान्तर- स्थया जनतयावश्यमेवास्याः परिलोपः कार्यः,- इति ॥ २०॥ तदेवमत्र प्रसक्तानुप्रसक्तिफया परदर्शन- कथा मा प्रसासीत् , -इति प्रकृतभेवानुसरति . . , क.पु. निवृत्तिति पाठः । २ क. पु० किमिदमिति पाठः। ३ क.पु. रूदायामन्ययेति पाठः।
-- श्लो० ० २१] । । पष्ठमाहिकम् २१ अलमप्रस्तुतेनाथ प्रकृतं प्रविविच्यते । तदेवाह यावान्समस्त एवाय- मध्वा प्राणे प्रतिष्ठितः॥२१॥ द्विधा च सोऽध्वा क्रियया मूर्त्या च प्राविभज्यते द्विधेति देशकालभेदेन । तत्र क्रियया का- लाध्वा प्रविभज्यते. मूर्त्या च देशाध्य । यदुक्तम् 'मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ । क्रियावैचित्र्यनिर्भासात्कालक्रममपीश्वरः . . (ई०प्र० २।१५) इति ॥ २१ ॥ नतु. -- अध्वा समस्त एवायं चिन्मात्रे संप्रतिष्ठितः । गत्तत्र नाहि विश्रान्तं तनभाकुसुमायते ॥' (तं. ८१३) २२ श्रीतन्त्रालोकः इत्यादिवक्ष्यमाणनीत्यास्य संविदि प्रतिष्ठितत्वं युक्तं न जडात्मनि प्राणे, - इत्याशङ्कयाह 'प्राण एव शिखा श्रीम- विशिरस्युदिता हि सा ॥२२ बड़ा यागादिकाले तु निष्कलत्वाच्छिवात्मिका । 'शिखा परिमिता शक्तिभैरवस्य तु कथ्यते । क्रियाशक्तिरिति ख्याता............... ........॥ इति ॥ २२ ॥ ननु को नामास्या वन्धो येन यागादो नि- कलस्वाच्छिवात्मिकेयं स्यात् ? इत्याशङ्कयाह यतोऽहोरात्रमध्येऽस्या- श्चतुर्विंशतिधा गतिः ॥२३॥ प्राणविक्षेपरन्ध्राख्य- शतश्चित्रफलप्रदा। 1 क.पु. काले चेति पाठः ।
लो० २३] षष्ठमाझिकम् यत्पष्टिघटिकासंख्याकस्य वाह्यस्याहोरात्रस्य मध्येऽस्याः प्राणरूपायाः पारमेश्वर्याः क्रिया- शक्तेः प्राणचाराणां रन्ध्राख्यैारसंख्याकैर्नव- भिः शैतैरुपलक्षिता, अत एव चतुर्विशतिभिः संक्रान्तिलक्षणैः प्रकारैरैहिकासुत्रिकभेदाच्चित्र- फलप्रदा गतिरूर्ध्वाधरवाहलक्षणश्चारो भवे- दित्यर्थः । अयमत्रामिप्रायः-इह खलु सर्वप्रा- णिनां 'मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् । तथा भवर्तते माणस्त्वयनादेव सर्वदा ॥' (स्व० ७५७) इत्याद्युक्त्या स्वरसत एव मध्यमः प्राणो वह- ति, - इति वा नांहोरात्रेण "पट् शतानि वरारोहे सहस्राण्येकविंशतिः । अहोरात्रेण बाह्येन अध्यात्मं तु सुराधिपे । (स्व०७५३) इत्याद्युत्त्यान्तः 'सपट्शता सहलेकविंशतिः प्राणचाराणां भवेत् । तत्र प्रतिघदिकं 'शतानि त्रीण्यहोरात्राः पष्टिरेव तथाधिकाः । वर्पमेतत्समाख्यातं याह्ये वै घटिका च सा ।।'(स्व०७/५१) .क. पु० घटिकास्यस्येति पाठः। २ ख. पु. नवभिलेरिति पाठः । ." ..
२२ श्रीतन्त्रालोकः इत्यादिवक्ष्यमाणनीत्यास्य संविदि प्रतिष्ठितत्वं युक्तं न जडात्मनि प्राणे, - इत्याशङ्कयाह 'प्राण एव शिखा श्रीम- त्रिशिरस्युदिता हि सा ॥२२ बदा यागादिकाले तुं निष्कलत्वाच्छिवात्मिका। 'शिखा परिमिता शक्तिभैरवस्य तु कथ्यते । क्रियाशक्तिरिति ख्याता ........" इति ॥ २२॥ न को नामास्या वन्धो येन यागादी नि- प्कलवाच्छिवात्मिकेयं स्यात् ? इत्याशङ्कयाह यतोऽहोरात्रमध्येऽस्या- श्चतुर्विंशतिधा गतिः ॥२३॥ प्राणविक्षेपरन्ध्राख्य- शतैश्चित्रफलप्रदा। . , क. पु. काले चेति पाठः ।
। लो० २४ ] पष्टमाह्निकम् नन्वेवंविधः शिखाया वन्धः, -इति वक्तुं प्रस्तुते किमिदमप्रस्तुतमभिधीयते यत्प्राणचा- राणामियती गतिरिति । नैतत् , • अयमेव हि शिखावन्धो यत्प्राणशक्तेः प्रतिचारमादिमध्या- - न्तेष्ववधानेन पुनः पुनः परामर्शनं नाम । यद- भिप्रायेणैव 'पद् शतानि दिवा रात्री सहस्राण्येकविंशतिः । जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो जडैः ॥" (वि० भै० १५६) इत्याद्यन्यत्रोक्तं, तदाह क्षपा शशी तथापानो नाद एकत्र तिष्ठति ॥२४॥ जीवादित्यो न चोद्नुच्छे- .त्तुंव्यधैं सान्थ्यमीदृशम् । ऊर्चवक्रो रविश्चन्द्रोऽ- धोमुखो वह्निरन्तरे ॥ २५॥ .
६ श्रीतन्त्रालोकः माध्याह्निकी मोक्षदा स्या- व्योममध्यस्थितो रविः। अनस्तमितसारो हि जन्तुचक्रप्रबोधकः ॥ २६ ॥ बिन्दुः प्राणो ह्यहश्चैव रविरेकत्र तिष्ठति। महासन्ध्या तृतीया तु सुप्रशान्तात्मिका स्थिता॥२७ रद्धानेकत्र चामपार्श्वे द्वादशान्ताद्धृदन्तं चरन्क्षपाशशी तिष्ठति हृदये निवृत्तगतिर्भवति प्राणादित्यश्च ततो नोद्गच्छति तदेशमपानी- यमन्त्यं तुट्यधं सान्ध्यं वक्ष्यमाणनीत्योद्गच्छत्प्रा- णार्काद्यतुट्यर्धसंमीलनया सचतुर्भागाङ्गुलद्वय- प्रमाणप्राणचाररूपा प्राभातिकी सन्ध्या भवे. दित्यर्थः। यदुक्तं तत्र १० पु. हृदयान्तमिति पाठः। २ क. पु. कीन् तुव्यमिति . श्लो. २७] पष्टमाह्निकम् 'स चन्द्रो विद्यमानोऽपि अपानो हृदि मध्यतः । यदा तूत्सन्नतां यानि जीवादित्यो न चोदमेत् ।। प्राभातिकीति विज्ञया आत्मतत्त्वप्रबोधिनी । क्षपा शशी तथापानो नाद एकत्र तिष्ठति ॥ तुटयर्धं ज्ञानमहसा सन्ध्या वै समुदाहृता।' इति । तदनन्तरं च यदा प्राणात्मा रविरू- र्ध्वमुखत्वेन चरंस्तावाद्यात्मन्यन्तर स्थितश्च- न्द्रश्चापानात्माधोमुखत्वेन, - इति तयोः प्रमा- णप्रमेयात्मनोः संघहात्प्रमातृरूपो वह्निरुदिया- त्तदेयं माध्याहिकी सन्ध्या मोक्षदा स्यात् । यतो मध्यनाडीसंवन्धिनो 'व्योम्नः' सुपिरस्य 'मध्ये ' तालुस्थाने स्थितो बहिर्मुखत्वेन प्रमा- णत्वेऽपि प्रमातृरूपस्यानपायादनस्वमितसारो रविर्जन्तुचक्रस्य प्रकर्येण 'बोधकः' प्रमाण- प्रमेयमयत्वेऽपि प्रमातृरूपतयावभासक इत्यर्थः। यदुक्तं तत्र 'अर्द्धवाः स्थितो भानुचन्द्रश्यापोमुखः स्थितः।' इत्युंपक्रम्य ' .
. २८ श्रीतन्त्रालोकः 'तदन्तसले उदितस्ताल्लामाशान्तगोचरे । प्रमाणरहितो भाव्यः मुशान्तः शान्तवोधनाद ।। व्योमवयोमबतिस्तु तुय कालकल्पनात् । माध्याहिकी तु विज्ञेया संध्या मोक्षपदायिका ॥ व्योममध्यस्थितः सूर्यः परादिसति कथ्यते । अनस्तमितसारो हि जन्तुचक्रमवोधकः ।।' इति । तदनन्तरं च विन्द्वाद्यात्मना रविर्यदेकत्र द्वादशान्ते ‘तिष्ठति' निवृत्तगतिर्भवति, अर्था- चापानचन्द्रश्च नोद्गच्छति तदा निःशेषविश्वो- पशमात्स्वप्रशान्तात्मिका, अत एवेयं महती सन्ध्या तृतीया "स्थिता' स्वरसोदितत्वेन वर्तम्णनेत्यर्थः । यदुक्तं तन ‘विन्दुः प्राणोऽयहचैव रविरेकर तिष्ठति । मुपशान्तं तु संतिष्ठन्मनोव्यावृत्तिवर्जितः ।। कृत्वा प्रशान्तभूमौ च स्वरूपं सन्धिदेशतः । महासन्ध्या तु मझया तृतीया परिकीर्तिता ॥ इति ॥ २७॥ एतच्चोपसंहारद्वारेण प्रकृते योजयति 1. पु. बहारनि पाट ।
लो० २८] पष्ठमाह्निकम् २९ एवं बचा शिखा यत्र तत्तत्फलनियोजिका। एवमुक्तेन प्रकारेण क्रमेण यत्र यागादा प्राणशक्त्यात्मिका शिखा वद्धा मार्गान्तरखि- लीकारेण मध्यधामन्येव निश्चलत्वमापादिता तत्र तस्य तस्य मन्त्रसंनिधानादेः फलस्य नियो. जिका भवेदित्यर्थः । तदुक्तं तत्र 'तया नियद्धया देहे संनिधानं गुणेश्वरा. । विदयुः साधकेन्द्राणां देवि नास्सत्र संशयः ॥ इति ॥ .एवं प्राणः पारमेश्वरी शक्तिरिति तत्र यद- ध्वनः प्रतिष्ठानमुक्तं तत्संविद्येव पर्यवस्येत्,- इत्याह अतः संविदि सर्वोऽय- मध्वा विश्रम्य तिष्ठति॥२८॥ . . म. पु. भाग- प्राग इति पाठः।
श्रीतन्त्रालोक नन्वमूर्तायां निष्क्रियायां च संविदि मूर्तः ऋमिकश्चाध्या कथमास्ते ? इत्याशङ्कयाह 'अमूर्तायाः सर्वगत्वा- निष्क्रियायाश्च संविदः। मूर्तिक्रियाभासनं य- त्स एवाध्वा महेशितुः ॥२९॥ एवमेवंविधायाः संविदो यन्नाम मूर्तिक्रिया- मलावभासनं स एव भुवनादिरूपो मन्त्रादि- रूपो वाध्वा न वेतिरिक्तः कश्चिदाधेयो येनेव- माशङ्का स्यात् ॥ २९॥ नन्वत्रावशब्दस्य प्रवृत्ती किं निमित्तम् ? दन्याशङ्कयाह अध्वा क्रमेण यातव्ये पदे संप्राप्तिकारणम् । क. पु० तदतिरिन इति पार ।
, भो० ३०] पष्टमाहिकम् द्वैतिनां भोग्यभावात्तु प्रबुद्धानां यतोऽद्यते ॥३०॥ 'यातव्ये पदे ' इति शिवतत्त्वात्मनि । भेददशायां हि तत्तत्तत्त्वोल्लङ्घनक्रमेण पटुिंशं शिवतत्त्वं प्राप्यत्वेनोक्तम् । भोग्यभावादित्यद- नीयत्वात्। अधिगतसंवित्तत्त्वा हि सर्व स्वात्म- सार्कुवन्तीति भावः। तेनाध्चैवावा, अद्यत इत्यध्वा चेति ॥३०॥ ननु सर्वशब्दानां समयमात्रादेवार्थप्रति- पादनं सिद्ध्येत्,--इति किमत्रानुन्विस्मरणेन नहि सर्वत्रैवैतत्संभवेत् ? इत्याशङ्कयाह इह सर्वत्र शब्दाना- मन्वर्थ चर्चयेद्यतः । यद्यप्यर्थाभिधाने शब्दांनां त्रयी गतियों- गिकी रूढा योगरूढा च । तत्रापि यौगिक्या एव प्राधान्यं सनिमित्तं तत्र तस्याः प्रवृत्तः, १० पु. मनिमित्तत्वमिति पादः।
श्रीतन्त्रालोक अत एवान्यद्वयमत्रैव यथाकथंचिदन्तर्भावनीयं येन सर्वत्रेवान्वर्थवर्चा पारं यायात् ।। उक्तं श्रीमनिशाचारे संज्ञान त्रिविधा मता ॥३१॥ नैमित्तिकी प्रसिद्धा चं तथान्या पारिभापिकी ।। पूर्वत्वे वा प्रधानं स्या- त्तत्रान्तर्भावयेत्ततः ॥ ३२॥ "अतोऽध्वशब्दस्योक्तेयं निरुक्तिनोंदितापि चेत् । क्वचित्स्वबुद्ध्या साप्यूह्या कियल्लेख्यं हि पुस्तके ॥३३॥ प्रसिद्धति, सनिमित्तत्वेऽपि वचिदेव रूढेः। यदुक्तं तत्र २ स० पु. पुम्नकमिति पाया। स.पु. घेत्तथैति पार ।
. लो० ३४ ] पष्ठमाह्निकम् 'संज्ञा हि त्रिविधा ज्ञेया शिवशास्त्रेषु सर्वदा । पारिभाषिकनैमित्ती सिद्धा चासौ प्रसिद्धिभाक् ॥ इह नैमित्तिकी संज्ञा निमित्तात्तु समागता ।, इति । एवमिह सर्वसंज्ञानां निमित्तताप्यवश्य वाच्येत्यत्रैवमुक्तमित्याह 'अत' इति । ननु यद्येवं तत्सर्वत्रैव कस्मादेवं नोक्तमित्याशङ्कयाह नोदितेत्यादि । कियदिति, नह्यत्र शब्द- व्युत्पादनं प्रस्तुतमिति भावः ॥ ३३॥ ननु परस्याः संविदो मूर्तिक्रियाभासनम. ध्वेत्युक्तं तत्र कियावभासने कतरोऽध्या मूर्त्यव- भासने च कतर ? इत्याशङ्कयाह तत्र क्रियाभासनं य- त्सोऽध्या कालाह्व उच्यते। वर्णमंत्रपदाभिख्य- मत्रास्तेऽध्वत्रयं स्फुटम्॥३४॥ . १ स. पु. कलम इति पाठ।
१४ श्रीतन्त्राटोकः . यस्तु मूर्त्यवभासांशः स देशाध्वा निगद्यते। 'कलातत्त्वपुराभिख्य- मन्तर्भूतमिह त्रयम् ॥३५॥ ननु यदि नाम मूर्तिक्रिययोचिच्यावभा- साद्देशकालभेदेनाध्वनो वैविध्यमुच्यते तदास्तां, तत्रापि प्रत्येकं त्रैविध्ये किं निमित्तम् ? इत्या- शचाह त्रिकद्वयेऽत्र प्रत्येक स्थूलं सूक्ष्मं.परं वपुः। यतोऽस्ति तेन सर्वोऽय- मध्वा पड़िध उच्यते ॥३६॥ तेनेति, स्थूलसूक्ष्मपरत्वेन पढ़वर्णमन्त्रात्म- तया भुवनतत्त्वकलात्मतया च प्रत्येक वेत्रि- ध्येन हेतुनेत्यर्थः । यदुक्तम् पदानि मन्त्रारब्धानि मन्त्रा वर्गविग्रहाः । वर्णाः स्वनिष्ठा इत्येषा स्थरमूक्ष्मपरात्मता ॥ ८ .
श्लो० ३७] पष्ठमाहिकम् . इति । तथा 'भुवनव्यापिता तत्त्वेप्वनन्तादिशिवान्तके ।। (स्व० ४९६) इति । तथा कलान्त विनस्ते वै निवृत्त्याद्यास्तु ताः कलाः॥ (स्व०४।९७) इति ॥ ३६ ॥ तत्र प्रस्तुतं कालाध्वानं तावदवतारयति षधिधादध्वनः प्राच्यं यदेतत्रितयं पुनः। एष एव स कालाध्वा प्राणे स्पष्टं प्रतिष्ठितः ॥३७॥ प्राच्यमिति पूर्वोद्दिष्टं पदमत्रवर्णाख्यम् । प्राण' इत्युपलक्षणं, तेनापानादावप्येवमेव।। ॥ ३७॥. नन्वे क्रमाक्रमात्मा काल उक्तः स एव किं तत्त्वानामन्तः परिगणितो न वा ? इत्याशङ्कयाह .. .
३६ श्रीतन्त्रालोकः तत्त्वमध्यस्थिताकाला- दन्योऽयं काल उच्यते। अन्यस्तद्वैलक्षण्यात् ॥ तदेवाह एप कालो हि देवस्य 'विश्वाभासनकारिणी॥३८॥ क्रियाशक्तिः समस्तानां तत्त्वानां च परं वपुः। परं वपुः' इत्युत्पत्तिस्थानम् , अत एव 'विश्वरभासनकारिणी' इत्युक्तम् ॥३८॥ ननु परस्याः संविदो विश्वावभासकारित्र नाम पहिरुन्मेप उच्यते तदेवमस्येश्वररूप- त्वमुक्तं स्यादित्याह एलदीश्वरतत्त्वं त- च्छिवस्य वपुरुच्यते ॥३९॥ १ क. पु. विश्वाभासकारिणीति पार 1२ क. पु०मासनाहिरवं . . . बहिरिति पाट - ] . श्लो०४० पष्ठमाह्निकम् उद्विक्ताभोगकार्यात्म- विश्वकात्म्यमिदं यतः। 'तत्' तस्माइहिरुन्मेपलक्षणाद्विश्वावभास- कारित्वाद्धेतोरेतदीश्वरतत्त्वमुच्यते, कालात्मनः क्रियाशक्तेरेवैतद्विश्वकलनात्मकत्वं बहिर्मुखं रूपमित्यर्थः । ननु मायादीनामप्येवरूपं संभा- व्यते,इत्येतदेव कथमुक्तमित्याशङ्कयाह 'शिवस्य वपुः' इति । वहिरोन्मुख्येऽपि स्वात्मन्येव विश्रान्तं, यत इदं वहिर्मुखत्वस्य धाराधिरूढ- त्वादुद्रिक्ताभोगम् , एव कार्यात्म यद्विश्वं तस्य 'इदमहम्' इति प्रतीतेः ऐकात्म्य' स्वात्मसात्कार इत्यर्थः । अत एव भेदाभेद- दशेयमिति सर्वैरुद्धोष्यते ॥ ३९ ॥ नन्वेवमनेनेव विश्वकलनात्कालतत्त्वस्य पृथ- परिगणमं न प्राप्तमिति, 'एवं कालः प्रसर्तव्यस्तच तत्त्वमनिन्दितम् ।' क. पु. कारित्वादेव इति पाठः । अत . १८ श्रीतन्त्रालोकः इत्यादिश्रुतिविरोध आपतेदिति किमेतत् ? इत्याशङ्कयाह 'एतदीश्वररूपत्वं परमात्मनि यत्किल ॥४०॥ तत्प्रमातरि मायीये कालतत्त्वं निगद्यते। ननु मायाप्रमातरि किमेवं कालतत्त्वमेवोत तत्वान्तराण्यपि,-इत्याशङ्कयाह शिवादिशुद्धविद्यान्तं यच्छिवस्य स्वकं वपुः ॥४१॥ तदेव पुंसो मायादि- रागान्तं कञ्चकीभवेत् । शिवादीत्यनेन शिवशब्देनानाधितभट्टारक उक्तः। स्वकं वपुरित्यानन्दादिशक्तिरूपत्वात् । .क.पु. श्रुतेति पाठः।
श्लो० ४३]
पष्टमाह्निकम्
३९
'पुंस' इति शिवस्यैव स्वस्वातन्याद्गृहीतपशुभा-
वस्येत्यर्थः ॥४१॥
एतदेव विभजते
अनाश्रितं यतो माया
कलाविये सदाशिवः ॥४२॥
ईश्वरः कालनियती
सद्विद्या राग उच्यते ।
यदुक्तं
'शत्यादिस्तत्ववर्गस्तु कञ्चकत्वेन वै पशोः ।
शक्तिर्माया कला विद्या कालो नियतिरेव च।
सदाशियेश्वरौ विद्या रागस्तु वरवर्णिनि ।'
इति ॥४२॥
न केवलमेपामेवंरूपत्वमेव यावत्प्रमातृत्व-
मपि, इत्याहं .
अनाश्रितः
शून्यमाता
बुद्धिमाता सदाशिवः ॥४३॥
१० श्रीतन्त्रालोकः ईश्वरः प्राणमाता च विद्या देहप्रमावता। नन्वेषां शून्यादिप्रमातृवे किं निमित्तम् ? इत्याशङ्कयाह अनाश्रयो हि शून्यत्वं ज्ञानमेव हि बुद्धिता ॥४४॥ विश्वात्मता च प्राणत्वं देहे वेद्यकतानता। शून्यमिति,विश्वोच्छेदाता ज्ञानमिति, सदा- शिवस्य ज्ञानशक्तिप्राधान्यात्। 'विश्वात्मता' इति बहिरुन्मेपरूपत्वात् । वेद्यकतानतेति, तोवाभि- प्वगात् ॥४४॥ एवं प्राणे विश्वात्मस्वमस्ति, इति तदेवात्र संप्रत्यभिधीयते,-इत्याह १ क. पु. मकरवं प्राण देहवेद्यति पाटः। विश्वारमावमिति पाठः। २ क. दु० ओ०४६] पष्ठमाहिकम् तेन प्राणपथे विश्वा- कलनेयं विराजते ॥४५॥ येन रूपेण तहमः सद्भिस्तदवधीयताम् । येन रूपेणेति, कालात्मना ॥ ४५ ॥ ननु प्राणस्य सर्वशरीरव्यापकत्वेनावश्यमव- स्थानमस्ति, अन्यथा हि कानिचिदङ्गानि स्तम्भादिवत्स्तधान्येव भवेयुः, तदस्य श्रीस्व- च्छन्दशास्त्रादौ हृदयादारभ्यैव चारः कस्मा- दुक्त ? इत्याशङ्कयाह द्वादशान्तावधावस्मि- न्देहे यद्यपि संवतः॥ ४६॥ ओतप्रोतात्मकः प्राण- स्तथापीत्थं न सुस्फुटः। ,
४२
श्रीतन्त्रालोकः
.
इत्थमिति, ओतप्रोतत्वेन । न सुस्फुट इति,
सर्वव देहे; क्वचिद्धि शरीरे सुस्फुटत्वेन प्राणोऽ-
वभासते क्वचिच्चारफुटत्वेनेति ॥ ४६॥
अत एवाह
यत्नो जीवनमात्रात्मा
तत्परश्च द्विधा मतः ॥४७॥
संवेद्यश्चाप्यसंवेद्यो
द्विवेत्थं भिद्यते पुनः।
• स्फुटास्फुटत्वा विध्यं
प्रत्येकं परिभावयेत् ॥४८॥
'यत्न 'इति प्राणीयः स्पन्दः । जीवनमात्रा-
स्मेति, स्वारसिको येनावयवानां स्तब्धतैव न
स्यात् । तत्पर इच्छापूर्वकः । प्रत्येकमिति,
चतुर्णा द्वैविध्येऽष्टधा प्राणीयो यन इति
सिद्धम् ॥ १८॥
लो० ५०] पष्ठमाहिकम् तत्र स्वारसिकः प्राणीयो यत्नः कन्दात्प्र- भृत्येव संवेद्यते किंवस्फुटत्वेन, इत्याह संवेद्यजीवनाभिख्य- . प्रयत्नस्पन्दसुन्दरः। प्राणः कन्दात्प्रभृत्येव तथाप्यत्रं न सुस्फुटः ॥४९॥ यदभिप्रायेणेव श्रीस्वच्छन्दशास्त्रे ततः प्रभृति प्राणादेरवस्थानमुक्तम्, इत्याह कन्दाधारात्प्रभृत्येव व्यवस्था तेन कथ्यते स्वच्छन्दशास्त्रे नाडीनां . वाय्वाधारतया स्फुटम् ॥५०॥ तेनेति, प्राणस्य संवेद्यत्वेन हेतुनेत्यर्थः । यदुक्तं तंत्र ...पु. सामादिशाच इति पाठः । २. पु. व्ययम्या- मन इनि पादः।
श्रीत बालोक . नाभ्यधो मेहूकन्दे च स्थिता वै नाभिमध्यतः । तस्माद्विनिर्गता नाड्यस्तिर्यगूर्वमयः प्रिये ।।" (स्व. ७१८) इति । ५० ॥ ननु यद्येवं तत्तत्रेय 'हमके तु समारयाताः साधकाना हितावहाः । प्राणो धे चरते तासु अहोरानविभागतः ।। तथा ते कथयिष्यामि प्रविभज्य यथा स्फुटम् ।' (० २१) इत्यादिना हृदयात्प्रभृति वितत्य पुनः प्राण- चारः कस्मादुक्त ? इत्याशङ्कयाह तत्रापि तु प्रयत्नोऽसी न संवेद्यतया स्थितः। 'तत्र'कन्दाधारे ह्यसारपीच्छापूर्वकः प्रयत्नो न स्फुटं संवेद्यते, इति न तत्र वितत्य प्राण- चार उक्तः। न हि स्वारसिकेन प्राणचारेणोक्तेन किंचित्फलं स्वेच्छया हि चारितःप्राणस्तत्तत्सि- . . .
श्लो० ५२)
पष्टमाहिकम्
द्धिनिमित्तं योगिनां स्यात् यदर्थमेवमुपदेशः।
तच हृदयात्प्रभृत्येव भवेत्, इति तत्रैवासी
तथा निर्दिष्टः॥
एतञ्चास्माभिरप्येवमेवोच्यत, इत्या।
वेद्ययत्नात्तु हृदया-
प्राणचारो विभज्यते ॥५१॥
वेद्ययत्नादिति, अर्थादिच्छापूर्वकस्य । 'विभ-
ज्यत' इति तुट्याद्यात्मना विभागेनोच्यत
इत्यर्थः ॥ ५१॥
ननु व्यापकत्वात्सर्वत्राविशेषेऽपि प्राणनस्य
वचित्स्फुटं तदीयो यत्नः संवेद्यते, क्वांचञ्चान्यथे-
त्यत्र किं निमित्तम् १ इत्याशङ्कयाह.
प्रभोः शिवस्य या शक्ति-
वीमा ज्येष्ठा च रौद्रिका ।
सतदन्यतमावात्म-
प्राणी यत्नविधायिनी॥२२॥
. श्रीतन्त्रालोक इह खलु परमेश्वरसंवन्धिन्या तासां वामा- दीनां मध्यादन्यतमया शक्त्या सहभूतावात्म- प्राणो यत्नविधायिनी, प्रभुशक्तिरात्मा प्राणश्चेति त्रयः संमिलिताः प्राणस्पन्दं विदधतीत्यर्थः । यदुक्तं तनात्मा प्रभुशक्तिश्च वायुर्वे नाडिभिश्चरन् ।' (स्व० ७७ इति ॥ ५२ ॥ एनमेषां समानेऽपि यत्नविधायित्वे क्वचित्क- स्यचिन्मुख्यत्वम् , इत्याह प्रभुशक्तिः क्वचिन्मुख्या. यथाङ्गमरुदीरणे । आत्मशक्तिः क्वचित्कन्द- संकोचस्पन्दने यथां ॥५३॥ प्राणशक्तिः क्वचित्प्राण- चारे हार्दै यथा स्फुटम् । । .
शोः ५.] त्रयं द्वयं वा मुख्यं स्या- द्योगिनामवधानिनाम् ॥५४॥ 'अङ्गमरुदीरणे' चक्षुःस्फुरणादौ । अत्र हि भाविशकुनाशकुनप्रकाशनाद्यर्थ प्रभुशक्तेरेव प्राधान्येन प्राणस्पन्दने कर्तृत्वम् । 'कन्दस्य' आनन्देन्द्रियस्य संकोचे विकासात्मनि स्पन्दने चात्मन एव प्राधान्यं, तत्र हि तदिच्छेव निव- वाहित्वात्स्पन्दने कर्तृत्वम्, इतरवयं पुनः सर्व वेव गुणभावेन स्थितमन्यथैवंभावाभावात्। एव- मेषां स्वारसिकत्वेन गोणमुख्यभावमुका प्राय- लिकत्वेनाप्यभिधत्ते 'वयम्'इत्यादिना योगिनो योजयन्ति, तवेवात्मानं प्रभुशक्तिं तदन्यतम पष्टमाहिकम् वेति ॥ ५४॥ 1.पु.विकाराने बाग्मन हात पार यर इमि पार। न्धनम् । हृदि च प्राधान्येन प्राणस्येव स्वरस: हि तत्तत्फलेप्सयो योवावधानातिशयात्प्राणं २.पु.मम्मी . श्रीतन्त्रायोकः न केवलमेषां गोणमुख्यभावो भवेद्यावद- न्वथापि,-इत्याह • अवधानाददृष्टांशा- हलवत्त्वादथेरणात् । विपर्ययोऽपि प्राणात्म- 'शक्तीनां मुख्यतां प्रति॥१५॥ अवधानाद्यथा योग्यपि स्वावधाननेव चक्षुः स्फारयेत्, इत्यत्रात्मनः प्राधान्यम् । अदृष्टांशा- द्यधा गयामपि जन्मान्तरीयसंस्कारवशात् स्वार- सिक्येव प्राणशक्त्या नियतमङ्गं स्फुरेत् येनात्र तस्या एवं प्राधान्यम् । बलवत्त्वाचथा मल्ला- दीनां श्रमाद्यभ्यासादायत्तीकृतया प्राणशक्त्येव तत्तष्टुत्यादिसिद्धिः । ईरणाद्यथा वाताभिभू- तानां प्राणस्य बलवत्त्वेऽपि प्रभुत्यैव तत्तद- ट्रपरिस्पन्दो भवेत् इति तस्या एव मुख्यत्वम्। एवमेपां यत्रेवोद्रितलेनावस्थानं तव प्राणी- १० पु. विपर्यये पि प्राणामा इति पाट सो ५६] . यस्यापि यत्नस्य स्फुटता संवेद्यत्वमन्यथा ननु प्रभुशक्तिर्यद्यात्मप्राणाभ्यां सह प्राणीयं यत्नं विदधाति तदस्तु नस्यास्तु विध्यं किम- .'विधायिनी' इत्यर्थात्प्राणीयं यत्नं विद- पटनादिकम्। पुनरतधात्वमिति सिद्धम् ॥५५॥ यमुक्तम् ? इत्याशङ्कयाह धातीति ॥ ५६ ॥ वामा संसारिणामीशा प्रभुशक्तिर्विधायिनी । ज्येष्ठा तु सुप्रबुद्धानां बुभुत्सूनां च रौद्रिका ॥५६॥ अत्र किं निमित्तम् ? इत्याशङ्कयाह वामा संसारवमना ज्येष्ठा शिवमयी यतः ।
धीतन्त्रालोकः ८ द्रावयित्री रुजां रोद्री रोधी चाखिलकर्मणाम्॥५७॥ वामाद्या हि प्राभव्यः शक्तयः सृष्टिसंहार- स्थित्यात्मिकाः, इति तथेपां प्राणीयं यत्नं विद- धति यथा संसारिणामधोधःपातो भवेत् , सुप्र- बुद्धानां शिवीभावापत्ति(भुत्सूनां च शिवीभा- वोन्मुख्येन संसार एवावस्थानमिति । तदुक्तम् 'अणुं स्वम्पदृश्वानं वामाधो विनिपातयेत् । राठी सासारिकानन्दं कढाचिद्वितरेदपि ॥ ज्येष्ठा म्बातश्यलेशं तु तनुते ज्ञानकर्मणोः । इति ॥ ५७॥ नन्वेतत्स्वरसत एव सिधेदिति किमनेनेव- मुपदिष्टेन ? इत्याशङ्कयाह सृष्ट्यादितत्त्वमज्ञात्वा न मुक्तो नापि मोचयेत् । नन्वत्र किं प्रमाणम ? इत्याशङयाह .
श्लो० ६०] पष्टमाह्निकम्। उक्तं च श्रीयोगचारे मोक्षः सर्वप्रकाशनात् ॥५८॥ सर्वप्रकाशनादिति, सर्वस्य सृष्टयादेस्रथा- तत्त्वं परिज्ञानादित्यर्थः । नहि तदतिरिक्तम- न्यत्किंचित्संभवेदिति भावः ॥५८॥ अत एवाह उत्पत्तिस्थितिसंहारान् ये न जानन्ति योगिनः। न मुक्तास्ते तदज्ञान- बन्धनकाधिवासिताः ॥१९॥ 'तदज्ञानं' सृष्टयादितत्त्वासंवित्तिः ॥ ५९ ॥ ततश्च कृते किम् ? इत्याशङ्कयाह सृष्टयादयश्च ते सर्वे कालांधीना न संशयः । सच प्राणात्मकस्तस्मा- दुचारः कथ्यते स्फुटः ॥६०॥ 1.म. दु. सांयागेनि कल्पते स्फुट इनि च पाठः। ग. पु. व्यवस्थिता इति पाठः। . २.० पधेनवेति पाठ:
श्रीतन्त्रालोक . कालाधीना इति, सृष्टिः स्थितिः संहारश्चेति क्रमात्मकत्वात् । 'उच्चार'इति प्राणचारः, तत्क- थनेन हि सृष्टयादीनां यथातत्त्वं परिज्ञानं भवे- दिति भावः॥ ६॥ तदाह हृदयात्प्राणचारश्व नासिक्यहादशान्ततः। पटुिंशदङ्गलो जन्तोः सर्वस्य स्वाङ्गलक्रमात् ॥६१॥ 'नसते कुटिलं गच्छतीति नासिका शक्तिः, तस्या इदं (अयं) 'नासिक्यः' शाक्तो द्वाद- शान्तः। तदुक्तम् पष्ट्रिंशदगुलवारो हृत्पद्माद्याव शक्तितः । (स्व० ४।२३५ इति ॥ ६१॥ ननु यद्येवं तदतिक्षुद्रे मशकादिसंवन्धिन्य- तिमहति वा हस्त्यादिसत्के देहे कथमेतत्संग- च्छते ? इत्याशङ्कयाह १ ख. पु. मृष्टस्येति पाट ।
श्लो० ६२] पष्टमाह्निकम् । क्षोदिष्ठे वा महिष्ठे वा देहे तादृश एव हि। 'तादृशः' पटिशदङ्गुल एव किंतु स्याङ्गु- लापेक्षया ॥ न च सर्वस्य जन्तोः प्राणचार एव समो यावद्वीर्यादयोऽपि,-इत्याह वीर्यमोजो बलं स्पन्दः प्राणचारः संमं ततः ॥ ६२॥ अयमत्राशयः-संविद एव ह्ययं स्फारो यत्क्षोदिष्टो महिष्टो वा जन्तुवर्गः समुजृम्भते, न च तस्याः क्वचित्कश्चिद्विशेषः । यदुक्तम् 'येव चिद्गनाभोगभूपणे भाति भास्वति । धराविवरकोगस्य सैव चित्कीटकोदरे । ( वासिष्टे). इति । तदाहिताश्च वीर्यादयः-इति तेपामपि विशेपे न किंचिनिमित्तमुत्पश्यामः । यत्पुनरेपां १. पु. पावसायति पाठः । २ ग. पु. पनः ममा इनि पारः।
. ६४ श्रीतन्त्रालोकः तारतम्यमभिलक्ष्यते तत्र कर्मवैचित्र्यमपरा- ध्यति, यत्पुंसामप्यन्योन्यापेक्षया वीर्याद्यतिशा- ययतीति ॥ २॥ एवं सपीठिकावन्धं प्राणस्य चारमानमभि- धाय तदानन्तर्येणानुजोद्देशोदिष्टमहोरात्राद्यपि विभक्तुमुपक्रमते पटुिंशदङ्गले चारे यद्गमागमयुग्मकम् । नालिकातिथिमासाब्द- तत्सङ्घोऽत्र स्फुटं स्थितः६३॥ 'गमागमौ' प्राणापानरूपावारोहावरोहो । तच्छब्देन नालिकादीनां सर्वेपामेव परामर्शः ॥६३॥ एतदेव क्रमेण विभजते तुटिः सपादाङ्गलयु- क्प्राणस्ताः पोडशोच्छसन् । 12. ख. पु० सा इतिपाठ. ।
. लो० ६५] पष्टमाहिकम् । निःश्वसंश्चात्र चषकः सपश्चांशेऽङ्गलेऽङ्गले ॥६॥ श्वासप्रश्वासयोर्नाली प्रोक्ताहोरात्र उच्यते। नवाङ्गलाम्बुधितुटौ प्रहरास्तेऽब्धयो दिनम्॥६५॥ निर्गमेऽन्तर्निशेनेन्दू तयोः संध्ये तुटेर्दले। सचतुर्भागमङ्गुलयुग्मं तुटिरुच्यते, - इति तत्पोडशधा गुणितं पदिशदगुलानि भवन्ती- त्युक्तं 'प्राणस्ताः पोडशोच्छुसन्' इति । अपा- नवाहेऽप्येवमित्युक्तम् ‘निश्वसंश्चेति' तेनो- भयत्र द्वात्रिंशत्तुटयः । यदुक्कम् 'मानपानाश्रित वाहे द्वात्रिंशत्तुटयः स्थिताः । इति। तथात्र पदिशदङ्गुलात्मनि प्राणचारे सप- श्चभागमगलं प्रति चषकः, - इति त्रिंशद्धा श्रीतन्त्रालोक विभक्ते प्राणवाहे त्रिंशञ्चपका भवन्ति, एवम- पानवाहेऽपि,-इति प्राणापानोभयमीलनेन चघ- कपष्टधात्मनो घटिकाया उदयः, - इत्युक्तं 'श्वासप्रश्वासयोर्नाडी प्रोक्ता'इति । 'निर्गमे' प्राणस्य वहिरुलासे, 'नवाङ्गुलाम्बुधितुटौ' नवा- गुलिस्थानासु चतसृषु तुटिपु प्रहरो, नवस्वद्गु- लीप्वसावुदेतीत्यर्थः । यदुक्तम् महरः स्यान्नबाडुलः। इति । 'ते'इति नवागुलिमानाःप्रहराः 'अब्धयः' चत्वारः, अन्तरित्यर्थादपानस्योदये। एवं नि- शापि सारः प्रहराः। तदुक्कम् 'अहोरावस्त्वयोऽष्टभिः ।' (स्व० ७१८) इति । तारेन च प्राणापानो 'इनेन्दू' सूर्याच- न्द्रमसो भवत इत्यर्थः । यदुक्तम् यासरे तु चरेत्मों धाराया संचरञ्छशी । चन्द्रदियो क्षेप ॥' (स्व० ७४०) इति । तयोः प्राणापानरूपयो रात्रिदिनयोरा- द्वादशान्ते हृदि च तुटेर्दले संध्ये । सायंप्रातः- .
लो० ६५] पष्टमाहिकम् संध्ययोः प्रत्येक प्राणीयस्यापानीयस्य चान्त्य- स्यान्त्यस्य च तुट्यर्धस्य संमेलनया सकलैव तुटिरुदयस्थानमित्यर्थः । अत एव संध्ययोस्तु- टिद्वयमहोरात्रस्य च त्रिंशत्तुटयः। यदाहुः 'संध्याकालं विना त्रिंशत्तुटिकोऽहोरात्रः।' इति । यतु 'चतुर्थान्ते च देवेशि प्राणर्यः सदास्तगः । • सतोऽस्तमयसंध्यात्र तुय्यर्थं तु भवेत्मिये ।। (स्व. ७१३६) इति । तथा 'हृत्पनं नु यदा प्राप्तः प्रभातसमयस्तदा । नुय्य तु वरारोह पूर्वसंध्या भवत्ततः ।।' (स्व० ७१३९) इत्याद्युक्तं तत्केवलमेव प्राणवाहमधिकृत्यापान- वाहं चेत्यधिगन्तव्यम् । एवं शक्तमध्योर्धभागे तु तुभ्यर्थं यत्मकीर्तितम् । पक्षसन्धिस्त्वसी शेयः........' (स्व. ७६८) इत्यादो पक्षसन्धिग्रन्थेऽप्ययमेवाशयो योज्यः । अन्यथा खेका तुटिरकृतविनियोगा स्यात् ॥३५॥ १.पु. संध्या इति पाठः। २१. पु.६पन्तमिति पाट:
श्रीतन्त्रालोकः . न केवलमत्र सूर्याचन्द्रमसोरेवोदयो याव वहान्तराणामपि,-इत्याह • केतुः सूर्ये विधौ राहु- भीमादेरिभागिनः ॥ ६६ ॥ प्रहरद्वयमन्येषां ग्रहाणामुदयोऽन्तरा। केतुः सूर्येऽन्तर्भवति, एवं विधो राहुः । तेन य एव सूर्याचन्द्रमसोरुदयःस एवानयोरित्यर्थः। यदुक्तम् 'राहुश्चरति सोमन केतुश्वरति भास्वता।' (स्व ० ७१४२) इति । वारभागिनः पुनीमादेर्यहस्य प्रहरद्वय- मुदयस्तस्य प्रत्यहोरात्रमाद्यन्तार्धप्रहरचतुष्टयो- पभोगात्, अन्येषां पष्टपञ्चमानां ग्रहाणाम- न्तरा प्रहरं प्रहरं प्रत्येकमुदयः प्रत्यहोरात्रमर्ध- प्रहरद्वयोपभोगात्। तदुक्तम् .
श्लो०६८] पष्ठमाह्निकम् ६९ 'पूर्वोऽष्टभागो दिवसाधिपस्य तथैव चान्ते दिवसस्य विद्यात् ।। शेपाः ग्रहाः पदपरिवर्तनेन भुञ्जन्ति होरां निशि पञ्चमेन ॥ इति ॥६६॥ अत्रैव प्रथमार्थप्रहरादारभ्य क्रमेण फलं निर्दिशति सिद्धिर्दवीयसी मोक्षो- भिचारः पारलौकिकी ॥६७॥ ऐहिकी दूरनकट्या- तिशया प्रहराष्टके। "सिद्धिर्दवीयसीत्यादिना सप्त भेदाः ॥६॥ ननुसंध्यायाश्चतु|दयोऽपि कथं द्विधैवोक्त ? इत्याशङ्कयाह मध्याह्नमध्यनिशयो- रभिजिन्मोक्षभोगदा ॥६८॥ १० १० पु. चिन्पादिति पाठः । . ..
F.. श्रीतन्त्रालोकः अभिजयति सर्वान्वितानित्यभिजिन्नक्षत्रवि- शेषः । यदुक्तम् . . मध्याह्ने चाधरात्रे च उदयोऽभिजितो भवेत् । अभीप्सितं फलं तत्र साधकानां भवेदिह ॥' (स्व० ७१४७) इति।सच तालुनि, इत्यधिगन्तव्यम् । यदुक्तम् ............मध्याहस्ताटमध्यतः।' (स्व० ७.३३) इति ॥ ६८॥ न केवलमत्राभिजिते एवोदयो यावदश्वि- न्यादीनामपि, इत्याह नक्षत्राणां तदन्येपा-. मुदयो मध्यतः क्रमात् । 'तदन्येपाम्' इति राशितारादीनाम् । यदु- 'कम् आणि राशपावैध नारास्त्वंशास्तथैव च । माणे वे उदयन्त्येते अहोरानेण मुरते स्व०७४३१) .. 1.पु.चाभिनित उदयो भवेदिति पार ।
लो. १० ७१] पष्टमाह्निकम् इति । अत्र च नक्षत्राणां सत्रिभागमगुलमुद- यस्थानम्, एवमन्येपामपि संख्यानुसारमुदय- स्थानं परिकल्पनीयम् ॥ प्रहराष्टके च न नक्षत्राणामेवोदयोऽपि त्व- . न्येपामपि,-इत्याह नागा लोकेशमूर्तीशा गणेशा जलतत्त्वतः ॥६९॥ प्रधानान्तं नायकाच विद्यातत्त्वाधिनायकाः। सकलाद्याश्च कण्ठ्योष्ठ्य- पर्यन्ता भैरवास्तथा ॥७॥ शक्तयः पारमेश्वर्यो वामेशा वीरनायकाः। अष्टांवष्टौ ये य इत्थं व्याप्यव्यापकताजुषः ॥७१॥ . . ग० पु. श्वरा म्त्य इति पाठ-1 २ क. पु. कण्ठोष्टेति पाठ।
६२ श्रीतन्त्रालोकः स्थूलसूक्ष्माः क्रमात्तेषा- मुदयः प्रहराष्टके। . ‘भागा' इत्यनन्ताद्याः । यदुक्तम् इनस्त्वनन्त इत्युक्तः सोमो वासुकिरुच्यते । तक्षकः कुज इत्युक्तः कार्कोटः सोमजो भवेत् ॥ सरोजो गुरुराख्यातो महालः शुक्र उच्यते । शहो मन्दगतिज्ञेयः सप्त नागाः ग्रहाः क्रमाव ।। अष्टमः कुलिको नाम राहुः ऋरग्रहो भवेद ।' इति। एपां च ग्रहवदेव पट्परिवृत्त्यादिक्रमे- णोदयः किंतु कुलिकस्य शङ्खवन्मन्दगतिनेव सहोदयः । यदुक्तम् 'शनवरस्य यः कालस्तं मुझे कालेकः प्रिये । सोऽपि दृष्टः समाख्यातः सर्वकर्मस्वसिद्धिदः ॥' इति । लोकेश्वरादीनां पुनराद्यार्धप्रहरक्रमेणे- वोदयोऽन्यथा सप्तानां ग्रहाणामष्टकैः सह संग- त्ययोगात् । एते च सर्व एवाष्टका भुवनाध्वनि वक्ष्यन्ते,- इति तत एवावधार्याः, इति किं तयावर्णनग्रन्थविस्तरेण । व्याप्यव्यापकले 4.
लो. ७२] पष्ठमाह्निकम् स्थूलसूक्ष्मत्वं हेतुः, स्थूलं हि सूक्ष्मेण व्याप्यत इति भावः । यथा ग्रहाणां नागा व्यापकास्ते. पामपि लोकेश्वराः, इत्याद्युत्तरोत्तरम् अत एव क्रमादित्युक्तम् । तदुक्तम् 'ये ग्रहास्ते च वै नागा लोकपालाष्टकं च ते । मूर्तयश्चैव ते चाटावष्टौ ते च गणेश्वराः ॥' (स्व: ७४३) इत्यादि । एवमनेन 'तेन माणपथे विश्वाकलनेयं विराजते ॥' (त० ६४५) इत्यादि यदुक्तं तत्स्मारितमित्यवसेयम्॥७॥ ननु यत्र प्रहराष्टके फलभेद उक्तस्तत्र दिननिशयोंः कथं न इत्याशङ्कयाह दिने क्रूराणि सौम्यानि रात्रौ कर्माण्यसंशयम् ॥७२॥ ननु 'वासनाभेदतः प्राप्तिः सांध्यमग्रमवोदिता।' १.पु. मगरा इति पादः।
श्रीतन्त्रालोकः इत्यादिदृशानुसन्धानभेदेने फलमपि भिद्यते, इति कथमेवं नियम एव भवेत् ? इत्याशङ्कयाह . क्रूरता सौम्यता वाभि- संन्धेरपि निरूपिता। तेन कदाचियत्ययोऽपि भवेदिति भावः ॥ ननु संध्याद्वयस्य फल निर्दिष्टं सायंप्रातः- संध्ययोः पुनः किं न ? इत्याशङ्कयाह दिनरात्रिक्षये मुक्तिः सा व्याप्तिध्यानयोगतः॥७३॥ ते चोक्ताः परमेशेन श्रीमहारावलीकुले । 'दिनरात्रिक्षये' इति सायंप्रातःसन्ध्ययोः । 'ते' इति व्याप्तिध्यानादयः ॥ ७३ ॥ तदेव पठति 12. पु. भेदपलमिति पार । इति पारः। २० पु० सौम्यमावापि '६५ श्ले० ७५] पष्ठमाह्निकम् सितासितौ दीर्घहस्वी धर्माधर्मों दिनक्षपे ॥ ७४॥ क्षीयेते यदि तद्दीक्षा व्यात्या ध्यानेन योगतः। अहोरात्रः प्राणचारे कथितो मास उच्यते ॥७॥ यदि नाम प्राणापानरूपौ सितासितौ पर- स्परव्यावृत्त्या वर्तमानौ दीर्घहस्वादिशब्दव्य- पदेश्यौ शुभाशुभौ पक्षी 'क्षीयेते' अपोहा- त्मविकल्परूपताघटनेन निर्विकल्पात्मपरसंवि- दूपत्वेन परिस्फुरतस्तदेव व्याप्त्या ध्यानेन योगेन च दीक्षा, ज्ञानयोगक्रियात्मिकया दीक्षया नियन्त्रणमेव मुक्तिर्भवेदित्यर्थः । एत- देव हि व्याप्तिध्यानयोगानां मुख्यं रूपं यत्सि- तासितादिपक्षयोः प्रक्षयो नामेति । तदुक्तं तत्र १० पु. हीयते इति पाठः ।
C ६६. श्रीतन्त्रालोक 'सितासितीच यो पक्षौ दीर्घहस्तौ च कीर्तितौ । धर्माधर्ममयो पाशी महायोरी भयानको ।। द्वयोर्यत्र मवेच्छेदः क्षयेन्माया तु योगिनी । सये शून्य परं ज्ञेय दीक्षा ोपा मकीर्तिता । नान्यथा भवते दीक्षा रजसां पातने न तु । नव शास्त्रभवेन्मुक्तिर्यजने नैव याजने ॥ एपा ब्रह्मविदा दीक्षा नान्यथा तु वदाम्यहम् । इति । तथा सितासितो कथिप्यामि नामपर्यायवाचः।' इत्युपकम्य अहः शुम्स्तथा माण: इति । 'अधर्मश्च सपा चव । इति । एवमहोरानमुपसंहृत्य मासमवतारयति अहोरात्र" इत्यादिना ॥७५॥ तमेवाह दिन कृष्णो निशा शुक्लः पक्षी कर्मसु पूर्ववत् । १० पु. शास्त्र इति पाट । प. पु. नय यात्रने इति पाठ ।' " . . ।
श्लो० ७७]
पष्ठमाहिकम्
पूर्वदिति, रात्रिन्दिनवत् । तेन कृष्णपक्षे
क्रूराराणि कर्माण्यन्यत्र च सौम्यानीति । तदु-
कम्
'क्रूरकर्माणि तत्रैव कुर्वन्सिद्धिमवाप्नुयात् ।
शुभकर्माणि कृष्णे च न च सिद्ध्यन्ति सुव्रते ।।
इात । तथा
'तदारभ्य च कर्माणि शुभान्याभ्युदयानि च ।
ध्यानमत्राभियुक्तस्य सिद्धान्ते नात्र संशयः ॥'
इति ॥
तव तिथिभागमाह
याः षोडशोक्तास्तिथयं-
•स्तासु ये पूर्वपश्चिमे ॥७६..
तयोस्तु विश्रमोऽर्धेऽधैं
तिथ्यः पञ्चदशेतराः।
उक्ता इति, प्राणवाहेऽपानवाहे वा । तयो-
रिति, पूर्वपश्चिमयोस्तुट्योः । विश्रम इति,
...पु. विमागमिति पार
३ ग. पु. मुट्य इति पारः।
६८ श्रीतन्त्रालोकः पक्षसंधित्वेन वक्ष्यमाणः । अर्धेऽर्ध इति, प्राणीयेऽपानीये च । तयोश्च संमेलनातुटिर्विश्र- मस्थानं स्यान्नतु तुव्यर्धम् । 'इतरा' इति हृदि द्वादशान्ते च विश्रमस्थानत्वेनार्धाधिक- योक्तायाः पोडझ्यास्तुटेरन्या इत्यर्थः । यदुक्तम् 'तुझ्यधैं चाप्यधयोध्य विश्रमः परिकीर्तितः । मध्ये पञ्चदशोक्ता यास्तिथयस्वाः प्रकीर्तिताः।' (स्व० ७६१) इति ॥ ७६ ॥ .अत्राप्यहोरात्रविभागमाह सपादे बङ्गुले तिथ्या अहोरात्रो विभज्यते ॥७७॥ प्रकाशविश्रमवशा- त्तावेव. हि दिनक्षपे। 'विभज्यत' इति प्रकाशविश्रमात्मना विभा- गेन व्यवस्थाप्यत इत्यर्थः । कचित् पत्र प्रका- शस्य प्राधान्यं, कचिच्च विश्रमात्मन आनन्दस्य;
लो० ७८] यष्ठमाह्निकम् तत्र प्रकाशप्राधान्ये दिनमन्यथा तु रात्रिरि- त्युक्तं 'तावेव हि दिनक्षपे' इति । तेनैकै- कस्यास्तुटेः साष्टभागाङ्गुलपरीमाणमाद्यम प्रकाशरूपं दिनं, परं तु विश्रान्त्यात्मा रात्रि- रिति । तदुक्तम् 'प्रथमोदये हृत्पमातुश्चर्य तु दिनं भवेत् । द्वितीये चैव तुटयर्धे यदा चरति शर्वरी॥' (स्व० ७१६२) इति ॥ ७७॥ ननु यदहोरात्रस्य प्रकाशविश्रान्तितारत- म्पेन दिननिशाविभाग उक्तस्तदास्तां को दोपः, यत्पुनर्वाह्याहोरात्रंकमातिक्रमेणाप्युक्त- मन्तः प्राणापानरूपं दिननिशाविभागमुलाय तुट्यन्तरमितयोरवस्थानमुच्यते तदपूर्वमिव नः प्रतिभाति, - इत्याशङ्कयाह ...पुरावातिम्मनति पाठः ।
श्रीतन्त्रालोकः C संवित्प्रतिक्षणं यस्मा- प्रकाशानन्दयोगिनी ॥७८॥ तो कृप्ती यावति तया तावत्येव दिनक्षपे। प्रतिक्षणमिति, सदेव प्रकाशानन्दमयी- त्यर्थः । अतश्च तथा संविद उदयः प्रमातॄणां वेद्यग्रहणपरत्वादेस्तारतम्यात्कस्यचिक्षणः क- स्यचित्कल्पः कस्यचिन्निमेपोऽपि वा स्यात्।।७८॥ अत एवाह यावत्येव हि संवित्ति- रुदितोदितसुस्फुटा ॥७९॥ तावानेव क्षणः कल्पो निमेपो वा तदस्त्वपि। नन्वेवमपि भवतु को दोपस्तंत्राप्यस्या वेद्य- ग्रहणपरत्वं स्वात्मनि विश्रान्तिपरत्वं वा किं तुल्यकक्ष्यतयैव भवेदुतान्यथापि १ इत्याशङ्कयाह •७१ श्लो० ८१] पष्ठमाह्निकम् . ' यावानेवोदयो वित्ते- वैद्यैकग्रहतत्परः ॥ ८॥ तावदेवास्तमयनं वेदितस्वात्मचर्वणम् । 'वित्तेः' इति संविदः । अस्तमयनमिति, वेद्यप्रकाशस्य न्यग्भावात् । 'चर्वणम् ' इति विश्रान्तिः । एवकाराभ्यां च साम्यमेव द्योति तम् ॥८॥ ननु स्वात्मविश्रान्तिपरत्वेऽप्यन्तारूपाणां सुखादीनां वेद्यानां सद्भावात् तद्ब्रहणपरत्वं न हीयेत, - इति कथमनयोस्तुल्यकक्ष्यत्वं स्यात् , इत्याशङ्कयाह वेद्ये च बहिरन्तवा द्वये वाथ द्वयोज्झिते॥८१॥ ...पु. एप निवेदिनम् इति पार ।
၆၃၈ श्रीतन्त्रालोकः . सर्वथा तन्मयीभूति- र्दिनं वेत्तृस्थता निशा। वेद्यं नाम वहिरस्त्वन्तर्वा, मा वा भूल्किम- नेन प्रयोजनं, यावता हि तन्मयीभावो नाम सर्वथा दिनं वेत्तृस्थता स्वात्मविश्वान्तिश्च निशा, - इत्यस्माकं विनक्षितं; तेन यावद्वेद्य- ग्रहस्तावदिनमन्यथा तु रात्रिरिति । यदाहुः 'ततो यत्र यावत्तावदनया वेद्यग्रहवेदकविश्रा- न्तिभूमो प्रकाशानन्दावाभास्येते तत्र तावद्रूपे एवं दिननिशे' इति । अतश्च दिननिशयो- स्तुल्यकक्ष्यत्वमेव भवति, इति न कश्चिनियमः। 'द्वयोज्झिते' इत्यनेन वेद्यस्यानवक्तृप्तिरेवोपोद्द, लिता न वेवमस्य संभवो दर्शितः, नानन्त- वहीरूपं वेद्यं किंचित्संभवेत् ।। ८१ ॥ ननु योऽयं संविदः प्रकाशविमर्शयोरेकतर- प्राधान्याद्विशेप उक्तः स किं प्रमातॄणामपि संभवेन्न वा ? इत्याशङ्कयाह श्लो० ८३] षष्ठमाह्निकम् वेदिता वेद्यविश्रान्तो वेत्ता त्वन्तर्मुखस्थितिः॥८२॥ 'वेदिता' इति ज्ञाता, 'वेत्ता " इति विचा- रयिता विम्रष्टेत्यर्थः । तेनेकत्र प्रकाशप्राधान्य- मन्यत्र तु विमर्शस्य, - इति प्रमातुरपि द्वैवि- ध्यम् ॥ ८२॥ वेत्तापि द्विधा,-इत्याह पुरा विचारयन्पश्चा- त्सत्तामात्रस्वरूपकः । विमर्शनान्तरीयक एव हि स्वरूपलाभो भवेदिति भावः । एवमत्र ज्ञानविचारसत्तार्थ- तया त्रिविधोऽपि विधिराश्रयणीयो येन प्रमातु- विध्यं सिम्येदिति भावः ॥ अत्रैव प्रसगाजाप्रदादिस्वरूपमपि निरूप- यति ७४ श्रीतन्त्रालोकः जाग्रहेदितृता स्वप्नो वेत्तृभावः पुरातनः ॥ ८३॥ परः सुप्तं क्षये रात्रि- दिनयोस्तुर्यमद्वयम् । जाग्रदिति, वेद्यविश्रान्तरेव प्राधान्यात् । पुरातन इति, विम्रष्टुतात्मकः । स्वप्न इति, वेद्यस्य कथंचिदप्राधान्यात् । पर इति, सत्ता- मात्रनिष्टः । सुप्तमिति, वेद्यक्षोभप्रक्षयात् । 'अद्वयमिति, प्रमातृभेदस्यापि विगलनात् । अनेन च 'विश्वात्मता च प्राणत्वम्' इत्या- द्युक्तं स्मारितम् ॥ ८३ ॥ ननु रात्रिदिनयोर्वहिः कदाचित्साम्यं भवेत् कदाचिच्चं वेपम्यमित्यत्र किं निमित्तम् ? इत्या- शङ्कयाह कदाचिद्वस्तुविश्रान्ति- साम्येनात्मनि चर्वणम्॥८॥ 1.पु.दाधिनायगम्पमिति पाए ।
श्लो० ८५] पष्ठमाह्निकम् वेद्यवेदकसाम्यं तत् सा रात्रिदिनतुल्यता । यन्नाम कदाचिद्वद्ये स्वात्मनि च तुल्यकक्ष्य- तया विश्रान्तिर्भवेत् तदेव वेद्यवेदकयोः साम्यं भवेत्, तद्नुप्राणितं च रात्रिदिनयोस्तुल्यत्वं, यत्सर्व एव योगिनो महापुण्यं विषुवत्काल- माचक्षते । यदुक्तम् 'वेद्यवेदकमाम्येन वस्तुविश्रमचर्वणम् । यदा कदाचिद्भवाति सा रात्रिदिनतुल्यता ॥ विपुवत्कालयोगोऽसौ योगिभिः समुदाहृतः ।' इति ॥ ८४॥ "एवं च वेद्यस्य वेदकस्य च विश्रान्तेरा- धिक्ये दिनस्य निशायाश्च दैयं भवेदन्यथा त्वपचयः, तदाह वेद्ये विश्रान्तिरधिका दिनाय तत्र तु ॥ ८५॥ ,स. पु० दिनयोश्चेति पाठः। २२. पु. विधामेति पाठः।
०६ श्रीतन्त्रालोकः न्यूना स्यात्स्वात्मविश्रान्ति- विपरीते विपर्ययः। स्वामौत्सुक्ये प्रवुद्धे हि वेद्यविश्रान्तिरल्पिका ॥८६॥ न्यूनेति, अन्यथा हि वेद्यविश्रान्तेराधिक्य- मेव न स्यात् । स्यादित्यर्थाद्वात्र्यपचयनिमि- त्तम्, 'विपरीत' इति स्वात्मनो विश्रान्तेराधिक्ये वेद्यस्य चान्यथात्वे; यतः स्वात्मन्योत्सुक्ये दिश्रान्त्यभिलापे विकस्वरतामुपेयुपि वेद्यवि- श्रान्तिरल्पीयसी भवेत् , येन निशाया दैव्यं दिनस्यापचयः । तदुक्तम् 'द्राधीयमी वैद्यतिर्दिनदाय कल्पते । तयन स्वात्मविश्रान्तिचिः स्याद्रातिविम्तरः॥' इति ॥ ८६ ॥ अयमेव चात्र पक्षो युक्तः, इत्याह इत्थमेव दिवारात्रि- न्यूनाधिक्यक्रमं वदेत् ।
. ७७ लो०८८] पष्ठमाह्निकम् नन्वन्तर्वहिश्च रात्रिदिनयोः स्थितेऽप्यौत्स- निके क्रमे यथान्तरसावुक्तयुक्त्या प्रकाशविम- शंयोरेकतरप्राधान्यात्प्रतिप्रमातृ विशिष्यते, तथा बहिरपि प्रतिभुवनं किं विशिष्यते न वा ? इत्याशङ्कयाह यथा देहेष्वहोरात्र- न्यूनाधिक्यादि नो समम् ॥८७॥ तथा पुरेप्वपीत्येवं तद्विशेषेण नोदितम् । विशेपेणेति देहमधिकृत्य, तथात्वेन हि तत्कृथितं तत्तत्फलसंपत्तिनिमित्तं स्यादित्या- शयः॥ ८७॥ नन्वेवं रात्रिदिनविभजने किं प्रमाणम् ? इत्याशङ्कयाह. श्रीत्रयम्बकसन्तान- वितताम्बरभास्करः ॥ ८८॥ १ ख० पु० क्येनेति पाठ । २ क. पु. पुरीप्विति पाठः। . .
७८ श्रीतन्त्रालोकः दिनरात्रिक्रमं मे श्री- शंभुरिस्थमपप्रथत् । अत एवान्यथान्ययत्तद्विभजनं कृतं तद- ग्राह्यमेव, इत्याह श्रीसन्तानगुरुस्त्वाह 'स्थानं बुद्धाप्रबुद्धयोः ॥८९॥ हृद आरभ्य यत्तेन . रात्रिन्दिवविभाजनम् । तदसत्सितपक्षेऽन्तः प्रवेशोल्लासभागिनि ॥९॥ अबुद्धस्थानमेवैत- दिनत्वेनं कथं भवेत् । यन्नाम प्राच्यहृदयादारभ्य द्वादशान्तं यावत्तुट्यधपरीमाणं प्राणीयमाद्य स्थानं बुद्धस्य .... नेति पाट । ३.पु.दिनाय नेति पाट । २०० पु. इति पाद । .
. ७९ श्लो० ९२] पष्ठमाहिकम् परं त्वयुद्धस्य, इत्युक्तं, तेनैव बुद्धाबुद्धस्थान- वदनेन समाख्यौचित्याद्रात्रिदिनयोरपि वि. भागः कृतो यहुद्धस्थानं दिनमबुद्धस्थानं तु रात्रिरिति, तत्त्वयुक्तं; यदन्तःप्रवेशात्मन्य- पानवाहे स्थानस्याविशेषाद्रात्रित्वेन परिकल्पि- तमबुद्धस्थानमेव दिनं स्यात्, इति पूर्वापर- व्याहतत्वम् ॥ ९॥ न चैतद्विद्वेषपूर्वमस्माभिरुक्तमिति न शिष्ट- निन्दा कृता स्यात्,-इत्याह अलं वानेन नेदं वा प्राङ्मतमत्सरः ॥ ९१ ॥ हेये तु दर्शिते शिष्याः सत्पथैकान्तदर्शिनः । इदानीं प्रकृतमेवावतारयति व्याख्यातः कृष्णपक्षो ये स्तत्र प्राणगतः शशी॥९२॥ मम. २ गपु. अयमिति पाठः। .१ ग. पु० गामिन इति पाठः। ३ ख. पु. प्राणयुतः इति पास। .
श्रीतन्त्रालोकः L आप्यायनात्मनैकैका कलां प्रतितिथित्यजेत् । द्वादशान्तसमीपे तु यासौ पञ्चदशी तुटिः ॥९३॥ सामावस्यात्र स क्षीण- श्चन्द्रः प्राणार्कमाविशेत् । प्राणगत इति, तत्रास्य प्राधान्यात् । तेन तुटिस्थानावस्थितां यां तिथिं प्राणादित्य आक्र- मते तस्यां तस्यामपानचन्द्रः सुरादीनामपान- रूपेण हेतुना 'एकैकां कलां त्यजेत् ' एकैक- कलाहासक्रमेण क्षेण्यमासादयेत् ; यावत्स एव कलामानशेपवाक्षीणः सन् द्वादशान्तसमीप- स्थायां पञ्चदशतुट्यात्मिकायाममावास्यायां 'प्राणार्कमाविशेत् ' तदन्तीको भवेत् , यदे- वास्य वहिरस्तमय इत्युच्यते ॥ ९३ ॥ २ ख पु. प्राणयुत इति पाद: । १ ग. पु. तुटीति पाठः। ३ स. पु. एकामेकामिति पाठः।
. . श्लो. ९४] पष्ठमाहिकम् न चेतन्निर्मूलमेवोक्तम्, इत्याह उक्तं श्रीकामिकायां च नोर्वेऽधः प्रकृतिः परा। अर्धार्धे क्रमते माया द्विखण्डा शिवरूपिणी ॥९४॥ चन्द्रसूर्यात्मना देहं पूरयेत्प्रविलापयेत् । इह खलु 'परा' पूर्णा, अत एव 'शिव- रूपिणी' शक्तिमदवियुक्ता 'प्रकृतिः, विश्वो- त्पत्तिभूः संवित् 'माया' स्वरूपगोपनशीला प्रथमं प्राणात्मतया समुच्छलन्ती 'द्विखण्डा प्राणापानात्मतया वैध्यमापन्ना सती नोर्ध्व एव. नाध एव अपि. तूर्ध्वाधःप्रवाहात्मना 'अर्धाधे क्रमते' दक्षवामनाडयोरन्तः समप्रविभागेन प्रवहतीत्यर्थः । अत एवं प्राणापानदशामधि- शयांना परा संविञ्चन्द्रात्मनाप्यायकारितया १ :
( ८२ श्रीतन्त्रालोकः देहं प्रपूरयेत् सूर्यात्मना च चान्द्रीणामेव कलानामपचयात् 'प्रविलापयेत्' झोपयोदि- त्यर्थः ॥ ९॥ ननु चान्द्रीणां कलानामपचये किं निमि- त्तम् ? इत्याशङ्कयाह अमृतं चन्द्ररूपेण द्विधा पोडशधा पुनः ॥१५॥ पिवन्ति च सुराः सर्वे दशपञ्च पराः कलाः। अमा शेषगुहान्तःस्था- . मावास्या विश्वतर्पिणी ॥९६॥ यच्चन्द्ररूपेण पोडशधा भिन्नममृतं स्थित तत्पुनर्द्विधा दृश्यमानसितरूपपञ्चदशकला- तद्भित्तिभूतातिस्वच्छात्रूपंकलात्मना चेत्यर्थः । तत्र पञ्चदश कलाः सर्व एव वहिः त्मना क. पु. छेदयति पारः। २ ग. पु. च ता इति पाठः ।
...... श्लो० ९७] पष्ठमाह्निकम् सुरादयोऽन्तः करणानि कार्याणि चाप्यायलि- प्सया पिवन्ति येनासां प्रतिदिनमपचयः स्यात्। यदभिप्रायेणव 'यस्मिन्सोमः सुरपितॄनरैरन्वहं पीयमानः क्षीणः क्षीणः भविशात 1( साम्ब ५० ८ श्लो०) इत्यायन्यत्रोक्तम् । अमाख्या पोडशी पुनः कला सुराद्युपसंहृतकलापञ्चदशकावशिष्टस्वभावत्वा- च्छेपरूपा, अत एव गुहान्तरिव स्थितं वस्तु सुरक्षितत्वादक्षीणं स्यात्तथैवेयमपीत्यर्थः । यतुः सा विश्वस्य पञ्चदशकलाकोडीकारितयाप्याय- कारिणी, अत एव येयममा सह योगपद्येन पञ्चदशानां' कलानां वसनात् 'अमावास्या' तब्यपदेश्येत्यर्थः । तिथौ पुनस्तदधिष्ठितत्वा- दौपचारिकस्तयपदेश इत्याशयः ॥ ९६ ॥ एतदेव पंकृते योजयति एवं कलाः पञ्चदश क्षीयन्ते शशिनः क्रमात् । .
८४ श्रीतन्त्रालोकः आप्यायिन्यमृताप- तादात्म्यात्षोडशी न तु॥९७॥ पोडशी न तु क्षीयते, यदब्रूपतादात्म्या- दर्कस्तां क्षपयितुमक्षम इत्यभिप्रायः ॥ ९७ ॥ इदानीमेतदनन्तरभाविनं कृष्णस्य शुक्लस्य च पक्षस्य सन्धि दर्शयति तत्र पञ्चदशी यासौ तुटिः प्रक्षीणचन्द्रमाः। तदूर्ध्वगं यत्तुव्यर्धं पक्षसंधिः स कीर्तितः ॥९॥ पञ्चदशी तुटिरित्यमावास्योदयस्थानम् , 'अत एव 'प्रक्षीणचन्द्रमा' इत्युक्तम् । यदिति, प्राणीयं पोडशतुटिसंवन्धि ॥९८॥ ननु संधि भयोर्भवति, तत्कथमेकस्यैव प्रा- णीयस्य तुट्यर्धस्यासो स्यात् ? इत्याशङ्कयाह श्लो० ९९] पष्टमाह्निकम् तस्माद्विश्रमतुट्यर्धा- दामावस्यं पुरादलम् । परं प्रातिपदं चार्ध- मिति संधिः स कल्प्यते ॥१९॥ तत्प्राणीयमन्त्यं विश्रमतुट्यर्धमवलम्ब्य 'पुरादलं' प्रथममर्धांमावस्यं तत्संलग्नं “परं' द्वितीयं चापानीयमाद्यं तुट्यधं प्रातिपदं तत्सं- लग्नम् , इत्यनयोरुभयोरर्धयोः संमेलनात्प्रति- पदमावस्यान्तरालभूतोऽसावेकतुट्यात्मा सन्धिः कल्प्यते' तथा व्यपदिश्यत इत्यर्थः। तदुक्तम् • ‘स पक्षप्सन्धिः पतिपत्पश्चदश्योर्यदन्तरम् । (अ० को० १२४७) इति । इदमेवान्यन प्रधानतया पूजाकालत्वे- 6 नोक्तम् । यदुक्तम् 'न दिवा पूजयेद्देवं रात्रौ नैव च नैव च । अर्चयेद्देवदेवेश दिनरात्रिपरिक्षये ॥' इति । अत्र विश्रमतुव्यर्ध एवार्धार्धिकया श्रीतन्त्रालोकः ८६ विभक्ते यदि सन्धिाख्यायते तत्सन्धिद्वय- स्याप्येकैव तुटिरर्धाधिकया स्यात्, - इत्येकस्या- स्तुविनियोगाभावादासमञ्जस्यं पर्यवस्येदि- त्यलं वहुना ॥ ९९॥ एवं प्राणे पक्षोदयं प्रदर्य सूर्यग्रहणमपि दर्शयति तत्र प्रातिपदे तस्मि- स्तुव्यर्धार्चे पुरादलम् । आमावस्यं तिथिच्छेदा- त्कुर्यात्सूर्यग्रहं विशेत् ॥१०॥ अर्ध चार्धं च अर्धाधं, तुटेरर्धाधं नुट्यर्धाध, तस्मिन् सन्धित्वेन परिकल्पिते तुव्यर्धद्वय 'इत्यर्थः । तत्रेवं स्थिते सति तुट्यर्धद्वयमध्या- दामावस्यं पूर्वमर्धम् अर्थात्परस्मिन्प्रातिपदेऽधे वक्ष्यमाणाहणशब्दाभिधेयात् तिथिच्छेदाद्वि- . क. पु. वियदिति पाए ।
८७ . श्लो. १०१] पष्टमाह्निकम् 'शत् सत् सूर्यग्रहणं कुर्यात्, प्रतिपदमावास्या- संघहात्सूर्यग्रहणं भवेदित्यर्थः ॥ १०॥ नन्वेतावन्मात्रात्सूर्यग्रहणं भवेदित्यत्र• क इवाशयः ? इत्याशङ्कयाह तत्रार्कमण्डले लीनः शशी स्रवति यन्मधु। तप्तत्वात्तत्पिबेदिन्दु- सहभूः सिंहिकासुतः ॥ १०१ ॥ मध्वित्यमृतं । ततत्वादिति, यथायथमर्केणे संनिकर्षात् । इन्दुसहभूरिति 'विधौ राहुः' इत्याद्युक्त्या तत्सहचारित्वात्, अन्यथैपी त्रया- णामपि संघटो न भवेदिति भावः । यदुक्तम् 'रविषिम्वान्तरे देषि चन्द्रविम्यं तदा भवेत् । तदन्तरे भवेद्राहुरमृतार्थी घरानने । अमृतं सवते चन्द्रो राहुश्च ग्रसते तु तत् । पीत्वा त्यजति तद्विम्बं तदा मुक्तः स उच्यते ।' (स्व. ७७०) तु तमिति मूलपाटः। .
श्रीतन्त्रालोका इति ॥ १०१॥ ननु त्रयाणामप्येयां संघ किं सतत्वम् ? इत्याशङ्कयाह अर्कः प्रमाणं सोमस्तु मेयं ज्ञानक्रियात्मको। राहुमायाप्रमाता स्या- त्तदाच्छादनकोविदः ॥१०२॥ तत एव तमोरूपो विलापयितुमक्षमः । ' तयोः ' प्रमाणप्रमेययोः 'आच्छादनं' स्वात्मसात्कारेण तिरोधानं न पुनरत्यन्तमेव विलयः, संस्कारात्मना पुनरपि वोधकमाहा- स्म्यात्तदुदयस्य भावात्, अत एवोक्तं 'विला- पयितुमक्षमः' इति । 'तत' इत्याच्छादक- त्वात् , तमसो ह्यावरकत्वमेव तत्त्वम् ॥ १०२ ॥ नन्वेयमेतद्विलापने कक्षम? इत्याशङ्कयाह १व. पु. तदुमयस्यापि भावादिति पाट । , ८ श्लो० १०४ ] पष्ठमाह्निकम् तत्संघद्याद्वयोल्लासो मुख्यो माता विलापकः।।१०३॥ तेषां मातृमानमेयानां 'संघट्टः' सामरस्य ततः समुल्लसितमद्वयमेव मुख्यः प्रमाता विला- 'पकस्तत्रयसंघहनेन परसंविन्मात्रसार एवेत्यर्थः। यदाहुः 'प्राणार्कमानहठघट्टितमेयचन्द्र- विद्रावितामृतरसोत्सुकितः खमाता । स्वर्भानुरावृणुत एव रवि रसं तु पुण्ये ग्रहेऽत्र रसयेत्त्रयघटनज्ञः॥ इति ॥ १०३ ॥ अत एव चायं कालो महापुण्यः, इत्याह अर्केन्दुराहुसंघद्यात् प्रमाणं वेद्यवेदको। अहयेन ततस्तेन पुण्य एवं महाग्रहः ।।१०४॥ १ ख. पु० एव इति पाठः । ४ १२.
C ९० . श्रीतन्त्रालोक 'अद्वयेन' चिन्मात्रात्मना भवन्तीत्यर्थः । तदुक्तम् राहुरादित्यचन्द्रौ च त्रय एते ग्रहा यदा । दृश्यन्ते समवायेन तन्महाग्रहण भवेत् ।। स कालः सर्वलोकाना महापुण्यतमो भवेत्।'स्व.७१७३ इति ॥ १०४॥ नन्वयं सूर्यादीनां संघहः किं प्रतिपदमा- वस्थासंभेद एव भवेदुतान्यथापि ? इत्याश- ङ्कयाह अमावस्यां विनाप्येष • संघदृश्वेन्महाग्रहः। यथार्के मेषगे राहा- वश्विनीस्थेऽश्विनीदिने ॥१०५॥ अमावस्यां विनापि शुद्धायामेव प्रतिपादि यद्येप संघट्टः स्यात् तदापीदं महदहणं भवे- देव । यथा वहिश्चन्द्रार्कराहणामश्विन्यामेवाव- स्थानादेकःण वैशाखामावस्यायां प्रहरद्वयादूर्ध्व श्लो० १०६] पष्ठमाह्निकम् शुद्धायामेव प्रतिपदि सूर्यस्य ग्रहणं संभवेत्, लम्बनस्य धनगतत्वाग्रहणस्थित्यर्धस्य लम्ब- नादूनत्वात् । एवं यत्र प्रतिपदमावास्यासंभेदेन सूर्यग्रहणं भवेत् तत्रामावस्यायां प्रग्रहणं मो- क्षस्तु प्रतिपदि, अन्यथा तूभयमपि प्रतिपद्येवे- त्यर्थसिद्धम् ॥ १०५॥ तदेवाह आमावास्यं यदा त्वर्धं लीनं प्रातिपदे दले। प्रलिपञ्चं विशुद्धा स्या- त्तन्मोक्षो दूरगे विधौ।।१०६॥ तन्मोक्षे च विधुदूरीभावो हेतुरित्युक्तं 'दूरगे विधौ' इति । तस्मिन् हि दूरीभूते तत्सहचारी राहुरपि तथा भवेदिति भावः ॥ १०६ ॥ अस्य च ग्रहणस्य महत्त्वे निमित्तं दर्शयति ९२ श्रीतन्त्रालोकः ग्रासमोक्षान्तरे स्नान- ध्यानहोमजपादिकम् । लौकिकालौकिकं भूयः- फलं स्यात्पारलौकिकम् ॥१०७॥ भूयःफलमित्यनन्तफलम् । यदुक्तम् तत्र स्नानं तथा दानं पूजाहोमनपादिकम् । यत्कृतं साधकैर्देवि तदनन्तफलं भवेत् ।। स्व० ७/७४ इति ॥ १०७॥ पारलौकिकवे निमित्तमाह ग्रास्यग्रासकताक्षोभ- प्रक्षये क्षणमाविशन् । मोक्षभाग्ध्यानपूजादि कुर्वश्चन्द्रार्कयोमुहे.॥ १०८॥ इह खल्ल योगी चन्द्रार्कयोहे सूर्यग्रहणे 'ग्रास्यग्रासकयो प्रमेयप्रमात्रोर्यः संवन्धस्तद्रूपो यः क्षोभः' , तत्प्रक्षयात्मनि परस्मिन्प्रमातर्या- .
९३ शो० १०९] पष्ठमाहिकम् विशन् परां वृत्तिमवलम्व्य क्षणमात्रं ध्यानादि कुर्वन् मोक्षभागपवृज्यत एवेत्यर्थः । यदुक्तम् 'पक्षद्वयं परित्यज्य पूर्वोक्तकरणेन च । उन्मन्यन्ते स्थितो नित्यं परत्यवलम्बकः ।। परित्यज्य त्वधः सबै ध्यानमास्थाय योजयेत् । तस्य मुक्तिर्न सन्देहस्त्वन्यथा सिद्धिभाग्भवेत् ॥' इति ॥ १०८ ॥ तिथिच्छेदादित्युक्तमधिकावापेन लक्षयति तिथिच्छेद ऋणं कासो वृद्धिनिःश्वसनं धनम् । अयत्नजं यत्न तु रेचनादथ रोधनात् ॥ १०९॥ यन्नाम कासवशेन शीघ्रमेव प्राणस्य प्रसर-, णात् सहसेवामावास्यो भागः प्रतिपद्भागमनु- प्रविशति तदुच्यते ऋणं, तिथिच्छेदयोः कार्य- कारणयोरभेदोपचारात्कासश्चेति । यन्नाम च निःश्वासवशादपानवाहस्य चिरेण प्रसरणात् . ९४ श्रीतन्त्रालोकः N तिथेरधिकीभावेन पूर्णतया पोर्णमास्युदयस्तदु- च्यते वृद्धिर्धनं निःश्वसनं च, इत्येतच्चोभयं सर्वेपामयोगिनामपि कासश्वासादिना स्वरसत एवोत्पद्यते, इत्युक्तम् 'अयत्नजम्' इति, यदशा- दन्तरा चन्द्रसूर्योपरागो भवन्नपि तैरनवधा- नान्न परं लक्ष्यते । योगिनां पुनश्चन्द्रसूर्योपरा- गयोग्येतत्प्राणस्य रेचकपूरकाद्यात्मना यत्नेन भवेदित्युक्तं 'यनजम्' इति । यदुक्तम् 'तिथिच्छेद ऋणं ज्ञेयं वृद्धी चैव धनं भवेत् । ऋणं चैव भवेत्कासो निःश्वासो धनमुच्यते ॥' (स्व. ७१६४) इति । तथा 'तिपिच्छेदस्तथा द्धिः कासश्वासादि वा भवेत् । अयनजो यनजस्तु प्राणवृत्तिनिरोधतः ॥' इति ॥ १०९॥ एतदेवापानवाहेऽप्यतिदेष्टुमाह एवं प्राणे विशति चि- त्सूर्य इन्दुं सुधामयम्। .
श्लो० १११] घष्ठमाह्निकम् एकैकंध्येन बोधांशु कलया परिपूरयेत् ॥ ११० ॥ क्रमसंपूरणाशालि- शशाङ्कामृतसुन्दराः। तुट्यः पञ्चदशैताः स्यु- स्तिथयः सितपक्षगाः ।। १११॥ 'एवं पूर्वोक्तयैव गत्या प्राणे 'विशति' शक्ते- हृदन्तमवरोहति चिदात्मा प्राणसूर्यः प्रति- तुट्येकैकथ्येन प्रवुद्धांशुजालया कलया सुधाभ- यमिन्दु परिपूरयेत, येन प्रतिपद्येककलो द्विती- यस्यां द्विकालः इत्याद्यात्मना क्रमेण संपूरणा- शालिनः शशाङ्कस्थामृतेन सुन्दरा एताः पञ्च- दश तुट्य एव सितपक्षगास्तिथयो भवेयुः । यदुक्तम् 'माणहंसो यदा मातस्त्वरस्तात्मयमा टिम् । पूर्वमधैं त्वहः मोक्तं तुव्यर्धमपरं निशा(स्व० ७७७) ११.३० एककस्यैवेति पार । २० व. पु. एवेति पाठः ।
श्रीतन्त्रालोकः इत्युपक्रम्य 'प्रतिपत्सा तु विज्ञेया चन्द्रश्वककलो भवेत् । द्वितीयायां द्वितीया तु वृद्धिमेति क्रमेण तु ।। तिथयश्वमारभ्य यावत्पञ्चदशी तुटिः । (२०७७९) इति ॥ १११॥ अत्रेव च पक्षसन्धिताद्यप्यतिदिशति अन्त्यायां पूर्णमस्तुट्यां पूर्ववत्पक्षसन्धिता। इन्दुग्रहश्च प्रतिप- सन्धौ पूर्वप्रवेशतः ॥११२॥ ऐहिकं ग्रहणे चात्र साधकानां महाफलम् । प्रांग्वदन्यदयं मासः प्राणचारेऽब्द उच्यते॥११३॥ पूर्णो माश्चन्द्रो यस्यामबंविधायां पञ्चदश्यां तुड्यां पूर्ववदिति, तुट्यर्धद्वयसंमेलनया। पूर्वेति, 12. पु. इत्यायुपैति पाठः । २० स० पु. चान्द्रे इति पाठः।
श्लो० ११४] पष्ठमाहिकम् पूर्व पौर्णमासं सन्धिलक्षणं तुट्यधं तत्प्रवे- शात् । एतच्च यद्यपि पूर्ववदित्यतिदेशागतार्थ- मेव तथापि पूर्णिमाप्रतिपत्संभेदेनैवेन्दुग्रहो, भ- वेत् न तु शुद्धायामेव प्रतिपद्यपि, इति दर्श- यितुं साक्षादुक्तम् । ऐहिकमिति, सृष्टिप्राधा- न्यात् । प्राग्वदन्यदिति, मातृमेयसंघद्यादि । यदाहुः 'शक्तिसंनुतमुधारसक्रमा पूर्णमिन्दुमणराहुराहरन् । छादयेदिह महाशुभे ग्रहे दायितं पियति तं महामुनिः॥' इति । इदानी मासमुपसंहरनन्दमवतारयति अयमित्यादिना ॥११३॥ तमेवाह षट्सु षट्स्वङ्गुलेवकों हृदयान्मकरादिपु । १.पु. घरादिति इति पाठः । .."
श्रीतन्त्रालोकः ९८ तिष्ठन्माघादिकं पढें कुर्यात्तच्चोत्तरायणम् ॥११४॥ मकरादिप्वन्मिथुनान्तेपु, तेन पड्रिङ्गुलैः पगुणितानि पष्ट्रिंशद्भवन्तीति भावः । माघे हि मकरस्योदयो यावदापाढे मिथुनस्य । यदुक्तम् पडगुलं च सङ्कामो मकरादिषु राशिपु । भानोर्माघाद्यापादान्तं भवेत्तयोत्तरायणम् ॥' इति ॥ ११४॥ अत्रैव विपुवत्सङ्क्रान्ति दर्शयति संक्रान्तित्रितये वृत्ते भुक्ते चाष्टादशाङ्गुले। मेषं प्राप्ते रवी पुण्यं विषुवत्पारलौकिकम् ॥११५॥ अष्टादशाङ्गुल इति प्रतिसंक्रान्याग भोगात् । .
. श्लो० ११८] पष्ठमाह्निकम् 'हृदयादुदयस्थानात्सङ्क्रान्तिर्मकरे स्मृता। पडद्गुग्लान्यधस्त्यक्त्वा कुम्भे सङ्गमते पुनः॥ कण्यो बङ्गुलं त्यक्त्वा मीने समते पुनः । गलोर्धाद्यावत्तावन्तं त्यक्त्वा मेपेऽथ संक्रमेत् ।। नासान्तं यावत्सङ्क्रान्तिरङ्गुलानि पडेव हि । एषा वै विघुसङ्कान्तिरुत्तर संव्यवस्थिता॥' (स्व० तः ७९९४) इति । विघु व्याप्ति साम्यमर्हति इति विपुवत् । 'विपुवत्पारलौकिकम्' इत्येतच्च यद्यपि निखि- लस्येवोत्तरायणस्य संभवति तथाप्यत्र विशेपे- णेति स्वकण्ठेनेतदुक्तम् । यदुक्तम् 'मकराच समारभ्य मिधुनान्तं च सुव्रते। उत्तरायणमतदहिकीमिद्विवर्जितम् ॥' (स्व० त०७९७) इति ॥ ११५॥ ननु यद्येतद्विपुवत्पारलौकिकं दक्षिणायनं' पुनः कीदृक् ? इत्याशङ्कयाह प्रवेशे तु तुलास्थेकें तदेव विपुवद्भवेत् । .
श्रीतन्त्रालोकः इह सिदिप्रद चत- . दक्षिणायनगं ततः ॥ ११६॥ 'प्रवेश' इति शक्तितो हृदन्तम् । 'तदेव' इत्यष्टादशाङ्गुलोपभोगात्मसंक्रान्तित्रयानन्तर- भावीत्यर्थः । यदुक्तम् । 'शत्यो हृदय इंसः सट्टामत्कटे प्रिय । पडद्गुलानि संयज्य सिंहे वै समेत्पुनः ॥ पडद्गुलः पुनस्यक्तः कन्यां समते पुनः । नासिकाग्रात्तु ताल्वन्तं त्यक्त वै विपुवद्भवेत् ॥ तुलासंक्रान्तिरेपोक्ता दक्षिणं विघुवद्भवेत् ।' (ख० ११३) इति । इह सिद्धिप्रदमिति, यदुक्तम् 'साधनं यत्कृतं तत्र इह जन्मनि सिद्धिदम् । इति ॥ ११६ ॥ ननु मकरादे राशिद्वादशकस्य सामान्येन पारलौकिकहलोकिकत्वेऽपि प्रत्येकमस्ति कश्चि- विशेपो न वा ? इत्याशझ्याह श्रो० ११८] पष्ठमाह्निकम् गर्भता प्रोडुभूषिष्य- द्भावश्चाथोदुभूषुता। उद्भविष्यत्त्वमुद्भूति- प्रारम्भोऽप्युद्भवस्थितिः ११७ जन्म सत्ता परिणति- वैदिर्हासः क्षयः क्रमात् । मकरादीनि तेनात्र क्रिया सूते सदृक्फलम्।।११८॥ 'गर्भता' आधानं, प्रोद्भवितुमेपिप्यन् 'भावः' सत्ता यस्यासो तथा आद्य इच्छापरिस्पन्दः । उद्भवितुमिच्छुरुकुभूपुस्तस्य भावस्तत्त्वं, उद्भव- नात्मकैपणीयसंयुक्तमिच्छामात्रमित्यर्थः। 'उद्भ-. विष्यत्वम्' उद्भवनाय स्वात्मन्येवोच्छलत्त्वेनाव- स्थानम् । 'उद्भूतिप्रारम्भः' तत्रैव नेविड्यम् । 'उद्भवस्थितिः' तत्रैवोन्मुख्यम् । एवं मकरा- दिराशिद्वादशकं क्रमादिति, गर्भतादिरूपं यतो -- १०२ श्रीतन्त्रालोकः भवति तेन हेतुनात्र वाह्यवीजादिवजपादि- क्रियापि गर्भतायनुगुणमेव फलं 'सूते' ददा- तीत्यर्थः । यदुक्तम् आधानमिच्छा संयोग आनन्दो घनता स्थितिः । जन्म सत्ता परिणतिद्भिर्दासः क्षयः क्रमात् ॥ माघान्मासात्समारभ्य स्थितयः परिकीर्तिताः । साधकानां सिद्धिविधौ भावानां चापि संभवे ॥' इति ॥ ११८॥ अत्राप्यवान्तरोऽस्ति विशेष,:-इत्याह आमुत्रिके झषः कुम्भो मन्त्रादेः पूर्वसेवने। चतुष्कं किल मीनाद्य- मन्तिकं चोत्तरोत्तरम् ॥११९॥ प्रवेशे खलु तत्रैव शान्तिपुष्ट्यादिसुन्दरम् । . , क. पु. सेवनमिति पाठ ।
श्लो० १२५] पष्ठमाह्निकम् कर्म स्यादैहिकं तच्च दूरदूरफलं क्रमात् ॥ १२० ॥ 'झपो' मकरः। एतौ चाासिद्धमन्त्रस्य, असिद्धमत्रस्य तु मन्त्रादिसेवानिमित्तं मीनादि- चतुष्क; 'प्रवेशे' इत्यपानवाहे । यदुक्तम् तस्मादारभ्य मकराख्यानहोमजपादिकम् । परलोकनिमित्ताय तदनन्तफलं भवेत् पुरश्चर्यानिमित्ताय मत्रग्रहवतं च यत् । मीनादावारभेत्सर्व मत्रसिद्ध्यर्थमात्मनः ॥' (स्व०७१०३) इति । तथा. तस्मादिहात्मंसिद्ध्यर्थं पुष्टवर्थ चैव साधयेत् । दक्षिणायनजे काले यस्मात्सृष्टिः मजायते ॥' (स्व० ७.११० इति । एवमुत्तरायणस्य वेद्यग्रहणपरत्वम्,- इति यथायथं फलदानेऽप्यासन्नत्वं; दक्षिणा. १ व. पु. अर्थसिद्धीति पाठः।
१ श्रीतन्त्रालोकः यनस्य त्वन्तर्विश्रान्तिपरत्वम्, इति फलदाने यथायथं दूरत्वम् , अत एवोत्तरायणे दिनस्य वृद्धिनिशाया हासोऽत्र वन्यथा ॥ १२० ॥ तदाह निर्गमे दिनद्धिः स्या- ." द्विपरीते विपर्ययः। वर्षेऽस्मिस्तिथयः पश्च प्रत्यङ्गुलमिति क्रमः॥१२१॥ तत्राप्यहोरात्रविधि- रिति सर्वं हि पूर्ववत् । ननु मासारब्धो वर्षः-इति तेषां प्रत्यङ्गुल- पढ़े उदय उक्तः, ते च तिथ्यारब्धा,-इति कथमत्र न तासाम् ? इत्याशङ्कयाह 'प्रत्यङ्गुलं पञ्च तिथय' इति । तत्पट्टे त्रिंशद्भवन्ति येन तत्र मासोदय उक्तः । तत्रापि' इत्यङ्गुल.
श्लो० १२३] पष्ठमाह्निकम् पञ्चाशे तेन प्रत्यङ्गुलदशांशं दिनं निशा च । 'सर्व' पक्षादि, तेन पूर्वस्मिन्नङ्गुलत्रये कृष्ण- यक्षोऽन्यत्र तु परः । तदुक्तम् ' अङ्गुले ह्यमुले ह्यत्र तिथयः पञ्च संस्थिताः । तस्याप्य दिन पूर्वमपराधैं निशा भवेत् ॥ पट्पश्चकास्तिथीनां ये नेहोराबास्तु मासिकाः । 'त्रिंशता तैरहोरात्रदिपक्षो मास उच्यते ॥' (स्व० ७९१) इति ॥ १२१ ॥ ननु प्रहराष्टकन्यायेन मासद्वादशकस्यापि किमधिष्ठातारः केचित्संभवन्ति न वा ? इत्या- शङ्कयाह प्राणीये वर्ष एतस्मि- कार्तिकादिषु दक्षतः।।१२२॥ • पितामहान्तं रुद्राः स्यु- हादशाग्रेऽत्र भाविनः। यदुक्तम् ।
११
श्रीतन्त्रालोकः
.
'दक्षनामा तु यो रुद्रः कथितोऽत्र महेश्वरि ।
कार्तिकं माममखिलं स तु भुङ्क्ते महेश्वरि ॥
नण्डो मार्गशिरोमासि हरः पौपे तु कीर्तितः ।
शौण्डी तु माघमासे च प्रमथः फाल्गुने तथा ।।
भीमचैत्रे समाख्यातो वैशाखे मन्मथः स्मृतः ।
शकुनिज्येष्ठमासे तु आपाढे मुमतिस्तया ।
नन्दोऽथ श्रावणे मासि भाद्रे गोपालकस्तथा ।
पितामहश्च वीरेशो मासस्याश्वयुजस्य च ॥'
इति । अग्र इत्येकीकारप्रकाशनाहिके ॥१२२ ॥
एतदुपसंहरन्नन्यदवतारयति
प्राणे वर्षादयः प्रोक्तो.
द्वादशाब्दोदयोऽधुना ॥ १२३॥
खरसास्तिथ्य एकस्मि-
नेकस्मिन्नङ्गुले क्रमात् ।
हादशाब्दोदये ते च
चैत्राद्या द्वादशोदिताः ॥ १२० ॥
श्लो० १२५ ] पष्ठमाह्निकम् १०७ खरसा इति । खेति, शून्यं रसाः' पट्, एवं पष्टिः । तेन प्रत्यङ्गुलमृतुरङ्गलानां त्रयेऽ यनं पट्टे वर्पः । एवमेकस्मिन्नेव प्राणचारे वर्पो- दये यथा प्रत्यङ्गुलपटुं द्वादशानां संक्रान्तीना- मुदयः एवमिहान्दानामित्यभिप्रायः। यदुक्तम् "सान्तयो द्वादशात्र यादब्दे प्रकीर्तिताः । द्वादशाब्दोदये प्रोणे वत्सरास्ते प्रकीर्तिताः॥" (स्व० ७/१२६) इति ॥ १२४ ॥ ननु चैत्रस्य प्राक् तालुन्युदयः, इति ततः प्रभृति मन्त्रसेवादि कार्यमित्युक्तम्, इह तु हृदि तस्यैवोदय उक्तः, तदिदानी साधकः कुत्र मन्त्रादिसेवों कुर्यात् ? इत्यशङ्कयाह चैत्रे मनोदितिः सोऽपि तालुन्युक्तोऽधुना पुनः। दये काले इति पाठः। २ क. पु. सेवादिकमिति पाठः ।
श्रीतन्त्रालोकः ;. हृदि चैत्रोदितिस्तेन तत्र मन्त्रोदयोऽपि हि ॥ १२५ ।। उक्त इत्पन्दोदये । अधुनेति, द्वादशाब्दो- दये ॥ १२५ ॥ एवं द्वादशाब्दोदयमभिधाय पष्टयन्दोदय- मप्यभिधत्ते प्रत्यङ्गुलं तिथीनां तु त्रिशते परिकल्पिते। सपञ्चांशाङ्गुलेऽन्दः स्या- प्राणे षष्टयब्दता पुनः॥१२६॥ प्रत्यङ्गुलं तिथिशतत्रयमित्यङ्गुलपञ्चभागे पष्टिरहोरात्राः । एवं सपञ्चभागेऽङ्गुले पष्टयधिक- शतत्रयात्माब्द उदियात् । ततः सपञ्चांशाङ्गुले - ब्दस्योदयात्प्रागुक्तचपकोदयस्थित्या प्राणापा- . स. पु. परिकीर्तिते इति पाठः ।
. श्लो. १२७ ] षष्ठमाह्निकम् नवाहात्मनि प्राणे पष्टयन्दता, पष्टिरव्दा भवन्तीत्यर्थः । यदुक्तम् । 'हृत्पद्माद्याव शक्त्यन्तं त्रिंशदन्दोदयो भवेत् ।' (स्व: ७/१३४) इति ॥ १२६ ॥ अत्रैवाहोरात्राणां संकलनां दर्शयति शतानि षट् सहस्राणि चैकविंशतिरित्ययम् । विभागः प्राणगः षष्टि- वर्षाहोरात्र उच्यते ॥ १२७॥ अनेन चात्र श्रोतृणामपूर्वदर्शनात् .संमोहो मां भूत्, इति वाह्याहोरात्रगतप्राणचारसंख्या- साजात्यमुद्भावितम् । तदुक्तम् 'विंशतिस्तु सहस्राणि सहस्रं पद्शताधिकम् । अहोरात्रास्तु पष्टयन्द संख्यातास्तु वरानने ॥ (स्व० ७१३६) इति ।। १२७ ॥ , न. पु० य-होरात्र एवं चेति पाठ. । - श्रीतन्त्रालोकः नन्वेवं तिथिविभाजनेऽस्य किं प्रयोजनम्,- इत्याशङ्कयाह प्रहराहर्निशामास- ऋत्वन्दरविषष्टिगः । यश्छेदस्तत्र यः सन्धिः स पुण्यो ध्यानपूजने ॥१२८॥ अब्दरवीत्यब्दवादशक 'छेदः, समाप्तिः, संधिः' संध्या । अयमन्त्राशयः- यन्नाम हि नित्यनैमित्तिकादि वाह्ये प्रयत्नशतैरपि पुरुपा- युपेण निप्पत्तिं यायात् न वा, तदन्तरेकस्मि- न्नेव प्राणचारे प्रहराहनिशादिक्रमेण क्षणमात्र- मवधानात्सुखमेव योगिनः सिध्येदिति। यदुक्तम् 'चन्द्रमूपिरागे च पक्षमासापनेषु च । युगादिपु युगान्तेषु यद्य संवत्सरेऽप्यय ।। वपदादश चैव पष्टचन्देऽथ वरानने । मानदानेन यथ पूनाहोमगपेन च ।।
ओ० १२८] पष्ठमाह्निकम् ध्यानयोगतपोभिश्च वाद्ये कालेऽथ यत्कृतम् । अमुनोक्ते वरारोहै तत्फलं लभते महत् ।। पाणहंसगति चारे ज्ञात्वैकस्मिंस्तु तद्धनेत् ।' (स्व०.७१४०). इति । यदभिप्रायेणैवाह 'या अग्निहोत्राहुतयः सहस- द्रासप्ततिः स्युः पुरुषायुपेण । नाड्यंशयुक्त्या सकृदाशु जुबत् संपादयेद्यस्तव मार्गवित्सः ।। इत्याद्यन्यैरुक्तम् । ननु भवतु नामैतद्यदन्तः क्षणमवधानमात्राद्योगिनो जन्मकृत्यं सिद्ध्ये- दिति, इदं तु न नः प्रतिभाति यदन्तःप्राण- चारे नालिकाद्यब्दान्तं क्रमेणाभिधाय द्वित्रि- चतुरब्दादिक्रमव्यतिक्रमण निष्कारणमेव द्वादशाब्दाभिहितमिति । तत्रापि द्वादशाना- मेवान्दानामुदयो न त्रयोदशानां, पष्टिरेव ने पुनरकोनपष्टिरिति, तदधिकस्य चोदयानभिधा- नमिति न किंचिदत्र निमित्तमुत्पश्यामः, इति किमेतदिति न जानीमः । अत्रोच्यते-इह ताव- श्रीतन्त्रयोकः . . द्योगिनां प्राणे जिते सत्येतद्भवेत् न त्वन्यथा, प्राणजयश्च योगशास्त्रायुक्त्या क्रमेणैव भवेत्। अत एव तत्र 'क्रामेदाजितां मात्राम्' इत्याधु- कम् । ततश्चात्र तुव्यादिक्रमेणेव यथायथं तारत- म्यादब्दपर्यन्तं तदुदय उक्तः । एवं जितप्राणः कश्चिद्योगी यदि क्रममपहाय तत्र द्वादशानाम- ब्दानामुदयमनुसंदध्यात्, तत्तस्य निमित्तता- मियात् अत्यन्तमेव प्राणस्य जितत्वातः न चेह ज्योतिःशास्त्रवत् संवत्सराणां क्रमः कश्चिद्वि- बक्षितो येनास्यातिक्रमः स्यात् ; यावता हि जितप्राणो योगी यन्नाम तत्रानुसंधत्ते तत्तस्य साक्षात्कृतं भवेत्,- इत्यभिधानीयं, तच्चैवमस्तु नवं वा को विशेषः । न चात्र योगिनां प्राणं जेतुं किंचिदपेक्षान्तरमस्ति येन क्रमोऽवश्य- स्वीकार्यः स्यात् । न च सहसेवात्यन्तं विदूरे प्यनुसन्धान कार्यम्, इत्यन्तरा सोपानकल्पतया म.पु. ग्यविक्रम इति पाट श्लो० १२८] पटमाह्निकम् द्वादशान्दोदय उक्तः । एवं पष्टयब्दोदयेऽपि वाच्यम् । तस्माद्यथांशांशिकाक्रमेण विपं भक्ष- यन् कश्चिजीर्णविषः सन् अक्रमेण वह्वपि विषं भक्षयन् जरयेदेवमिहापि ज्ञेयम् । एतदेव च तदधिकस्याप्युदयानभिधाने निमित्तम् । एवं परां काष्टां प्राप्तो योगी यत्किंचित्तत्रानुसंदध्यात् तदेव साक्षात्कुर्यात्,- इत्यानन्त्यात्कियदन्यद- भिधीयते इति । न ह्यतोऽधिकेनोफेन किंचित्प्र- योजनान्तरमुत्पश्यामः । यदुक्तमनेनान्यत्र 'न पश्यन्दोदयादधिक परीक्ष्यते आनन्त्यात् ।' (तं. सा० ६ आ०) इति । यत्पुनरन्यत्र विंशत्यधिकोत्तरांन्दशतो- दयोऽप्युक्तस्तदप्येवं प्रदर्शनपरमेवेत्येकस्मिन्नेव प्राणचारे कल्पोऽप्यनुपसंहितःसाक्षात्कृतो भवेदे- वको नामात्र विरोधः । यत्तु द्वादशानामेवाब्दा. नां पप्टेरेव वा कथमभ्युदयोऽभिहितः, इत्युक्तं तद्यद्यपि शिंशपाचोद्यं तदन्याभिधानेऽप्येवंचो- . . , २० पु.स्यमुदर इनि पारः।
११४ श्रीतन्त्रालोकः द्यावकाशात्, तथापि अत्यन्तमेवापूर्वार्थदर्शनेन श्रोतृणामत्र संमोहोमा भूत, इति कारुण्याद्भ- गवता प्राच्यगणनाक्रमसजातीयमेवैतदुक्तमिति न कश्चिद्दोपः ॥ १२८ ॥ एवमन्तः कालस्य स्वरूपं निरूप्य बहिरपि निरूपयति इति प्राणोदये योऽयं कालः शत्येकविग्रहः । विश्वात्मान्तःस्थितस्तस्य बाह्ये रूपं निरूप्यते॥१२९॥ प्राणोदय इत्यर्थादपानोदयेऽपि विश्वात्मत्वे हेतुः ‘शत्येकविग्रह' इति । तदेवाह पट् प्राणाश्चपकस्तेपां पष्टिनाली च तास्तथा । - :
. लो० १३२] पष्ठमाह्निकम् तिथिस्तत्रिंशता मास- स्ते द्वादश तु वत्सरः॥१३०॥ अब्दं पित्र्यस्त्वहोरात्र. उदग्दक्षिणतोऽयनात् । पितॄणां यत्स्वमानेन वर्ष तद्दिव्यमुच्यते ॥१३१॥ षष्टयधिकं च त्रिशतं वर्षाणामत्र मानुपम् । तथेति यष्टिरेव । स्वमानेनेति मानुपात्मक- स्वकाहोराबकल्पनयेत्यर्थः । यत्पित्र्यं वर्ष तदेव दिव्यमुच्यते, येन पितॄणां देवानामप्यहो- रानादि समानमेवेति भावः । तस्य च पित्र्यस्य दिव्यस्य वा वर्पस्य कियन्मानमित्युक्तं 'मानुपं पष्टयधिकं वर्पशंतत्रयम्,' इति ॥ १३१॥ एतदेव विभजति ,क.पु. विणीतीति पार।
श्रीतन्त्रालोक तच्च द्वादशभिर्हत्वा माससंख्यात्र लभ्यते॥१३२॥ 'तां पुनस्त्रिंशता हत्वा- होरात्रकल्पना वदेत् । हत्वा तां चैकविंशत्या सहस्रैः पट्शतेन च ॥१३३॥ प्राणसंख्यां वदेत्तत्र पष्ट्याद्यब्दोदयं पुनः । तदिति, दिव्यं वर्ष 'द्वादशभिर्हत्वा, इति द्वादशभिर्विभज्य, तेनात्र मानुपवर्पत्रिंशदात्मा द्वादशो भागो मासः । तामिति, माससंख्यां 'त्रिंशता हत्वा' त्रिंशद्धा कृत्वा, तेनात्र मानु- पवर्षात्मा त्रिंशोभागो दिव्योऽहोरात्रः।तामिति, मानुषपष्टयधिकशतत्रयदिनामिकामहोरात्रक- ल्पनाम् 'एकविंशत्या सहलेः पट्शतेन च , प.पु. वहदिति पाट । २० पु. द्वादशधा विभज्येति पार ।
श्ये० १३५] पष्ठमाह्निकम् हत्या' इति तथात्वेन भागशः कृत्वेत्यर्थः । एवं हि प्रति मानुषी नालिकां दिव्यः प्राणचारो भवेदिति भावः । एवमविशिष्दैव सर्वत्र प्रत्यहं प्राणचारे संख्येत्याख्यातं स्यात् । तत्रेति प्राण- संख्यायां, पुनरित्यादाविवेत्यर्थः ॥ १३३ ॥ नन्वन्ये पित्र्यमेव वर्ष देवानां दिनमित्यु- क्तवन्तस्तत्कथमिह तयोः साम्यमुक्तं, किमत्र किंचित्साधकं प्रमाणमस्ति? इत्याशङ्कयाह उक्तं च गुरुभिः श्रीम- द्रौरवादिस्वत्तिषु ॥ १३४ ।। नदेव पठति देवानां यदहोरात्रं मानुपाणां स हायनः। शतत्रयेण पष्टया च नृणां विबुधवत्सरः ॥ १३९ ॥ , क. पु. आदविवेति पाटः।
. १८ श्रीतन्त्रालोक पित्र्यं दिन मानुपाणां हायन इत्यविवादः। देवानामप्येवमित्युक्तेरनयोः साम्यमेव, इत्य- थासिद्धम् । नृणामित्यत्र हायनानामिति शेषः॥ न केवलमेतद्गुरुभिरेवोक्तं यावदागमोऽप्येव- मेव, इत्याह श्रीमत्स्वच्छन्दशास्त्रे च तदेव मतमीक्ष्यते । पितॄणां तदहोरात्र- मित्युपक्रम्य पृष्ठतः ॥१३६॥ एवं देवस्त्वहोरात्र इति क्यिोपसंहृतिः। पृष्टत इति पश्चात् । यदुक्तं तत्र 'दक्षिण चायनं रानिरत्तरं चायन दिनम् । पितृणा तदहोरानमनेनाग्दस्तु पूर्ववत एव देवस्त्वहोरावस्तत्राप्यन्दादि पूर्ववत् ।' (स्व० १११२०८) 12.3• मन तयोगिते पार । २ ग.पु. भपीमि पार ।
श्लो० १३९] पष्ठमाहिकम् इति ॥ १३६ ॥ एवं पित्र्यं वर्ष देवानां दिनमिति यदन्यैरुक्तं तदयुक्तमेव, इत्याह तेन ये गुरवः श्रीम- स्वच्छन्दोक्तिद्वयादितः॥१३७ पित्र्यं वर्ष दिव्यदिन- मूचुन्तिा हि ते मुधा। भ्रान्ता' इत्यत्र हेतुः 'उक्तिद्वयादितः', इति । पितृणामित्येकोक्तिः, एवं देव इति द्वितीया, आदिशद्वाद्गुरुवृत्तिकारोक्तिः ॥१३७॥ इदानीमेतंदुपजीवनेनैव युगादिव्यवस्था- मप्याह दिव्यार्काब्दसहस्राणि युगेषु चतुरादितः ॥१३८॥ एककहान्या तावद्भिः शतेस्तेष्वष्ट संधयः ।
श्रीतन्त्रालोकः . चतुर्युगेकसप्तत्या मन्वन्तस्ते चतुर्दश ॥१३९॥ ब्रह्मणोऽहस्तत्र चेन्द्राः क्रमाद्यान्ति चतुर्दश । अर्का' द्वादश । युगेषु चतुर्वपि चतुरा- दित एकेकहान्येत्येपां विभागः; तेन कृते चत्वारि सहस्राणि, त्रेतायां त्रीणि, द्वापरे द्वे, कलावेकम्, इति दिव्यानां वर्षाणां दशसह- स्राणि चतुर्पु युगेपु मानम् । अवशिष्टस्य सह- स्रद्वयस्य विभागमाह 'तावद्भिरित्यादिना' । तावद्भिश्चतुरुयादिभिरेवाट सन्धय इति चतुर्णा युगानामाद्यन्तयोर्भावात्, उभयमीलनया तु चत्वारः । एवं कलेरन्तंगं शतं कृतस्यादी चत्वारि शतानीति कलिकृतयुगसंध्या पञ्च शतानि एवं कृतत्रेतयोः संध्या सप्तशतानि, वेताद्वापरयोः पञ्च, द्वापरकलियुगयोस्त्रीणि क.प.पु. अन्तरगतिति पाट..
श्लो० १३९] पष्ठमाहिकम् १२१ गणयित्वा सहलद्वयम्, इत्युभयतो दिव्यं वर्ष- सहस्रद्वादशकं चतुर्युगम् । तदुक्तम् 'द्वादशाब्दसहस्राणि विज्ञेयं तु चतुर्युगम् । चतुर्भिस्तु कृतं देवि सहस्तु यथाक्रमम् ।। त्रेता ज्ञेया विभिटेंवि द्वाभ्यां वै द्वापरः स्मृतः । सहस्रेणैव वर्षाणां विज्ञेयस्तु कलिः मिये ॥' (स्व० १११२१०) इति । तथा शतानि चत्वारि कृते त्वादिरन्तथ कीयते । त्रेते शतनयं ज्ञेयं द्वापरे तु शतद्वयम् ॥ कलौ चापि शतं ज्ञेयं संध्यामानमिदं स्मृतम् ।' (स्व०११।२१२) इति । त इति मन्वन्ताः । तत्रेति ब्राह्मेऽह्नि, चतुर्दशेति तेन प्रतिमन्वन्तरमेकैक इन्द्रः संहारं यातीत्यर्थः । तदुक्तम् दिनेनेकेन ब्राह्मण इन्द्राश्चैव चतुर्दश । राज्यं कृत्वा क्रमाद्यान्ति मन्वन्तरव्यवस्थया । (स. ११।२२९) श्रीतन्त्राटोकः इति । अत एवानेन संहारचित्रताया अप्यव- काशो दत्तः ॥ १३९ ॥ तदाह ब्रह्माहोऽन्ते कालवड्- वाला योजनलक्षिणी॥१४० दग्ध्वा लोकत्रयं धूमा- त्त्वन्यत्प्रस्वापयेत्त्रयम् । लोकत्रयमिति, निरयेभ्यः प्रभृति भूर्भुवः- स्वःपर्यन्तमित्यर्थः । यदुक्तम् सा दहेन्नरकान्देवि पातालानि समन्ततः । त्रील्लोकांश्चैव दहति भूर्भुवःस्वापदान्तकान् ॥" (स्व. ११२३७) इति । अन्यदिति, महोजेनस्तपःसंज्ञम् ॥१४०॥ ननु सर्वेपां भुवनेश्वराणामधोऽध एव सर्वत्र सृष्टिसंहारकारित्वं श्रूयते; वक्ष्यते च पुरस्ता- त्तदिदं पुनः कस्मादन्यथोक्तम्,-इत्याशङ्कयाह । ..पु. महान इति पाट ।
श्लो० १४२] पष्ठमाहिकम् १२३ निरयेभ्यः पुरा काल- वह्वयक्तिर्यतस्ततः ॥१४१॥ विभुरधःस्थितोऽपीश इति श्रीरौरवं मतम् । खल्लु निरयेभ्यः पूर्व स्मृष्टिरिति तदधोऽवस्थानं न तु तदपकर्षात्; अतश्च तदधः- स्थितोऽपि विभुर्व्यापकत्वादूर्ध्वमपि संहारादौ स्वामीत्यर्थः । न चैतदस्माभिः स्वोपज्ञमेवो, क्तमित्याह ' इति श्रीरौरवं मतम् इति । तदुक्तं तत्र नरकाणामधः पूर्व व्यक्तिरस्योपजायते। सर्वस्थानोऽपि संस्तस्मादधास्थ इव लक्ष्यते ॥" इति ॥ १४१॥ न केवलमेवं विश्वमास्ते यावदेकार्णवीभावे- ऽपि,-इत्याह . , ग. पु. विभुरप्येप तदध इति पाठः।
१२४ श्रीतन्त्रालोकः . ब्रह्मनिःश्वासनिधूते भस्मनि स्वेदवारिणा॥१४२॥ 'तदीयेनाप्लुतं विश्व तिष्ठेत्तावन्निशागमे । ननु यद्येवं तत्तदा तेषां भुवनानामीश्वरा- स्तद्वासिनो वा जीवाः कुत्रासते? इत्याशङ्कयाह तस्मिन्निशावधी सर्वे पुद्गलाः सूक्ष्मदेहगाः ॥१४३॥ अग्निवेगेरिता लोके जने स्युलयकेवलाः । कूष्माण्डहाटकाद्यास्तु क्रीडन्ति महदालंय ॥१४४॥ सूक्ष्मदेहगाः' पुर्यष्टकरूपाः । तुशब्दो व्यतिरेके । अत एव क्रीडन्तीत्युक्तम् ॥१४४॥ निशाक्षये पुनः किं स्यात्,-इत्याशङ्कयाह . .स. ० महदाइये इति पारः ।
.
शो० १४५] पष्टमाह्निकम्
निशाक्षये पुनः सृष्टिं .
कुरुते तामसादितः।
तामसादित इति, यदुक्तम्
'प्रथम तामसी सृष्टिं करोति तमसोत्कटाम् ।'
(स्व० ११।२४४)
इत्युपक्रम्य
'तमोरजःसमावेशान्मानवान्स सृजेत्पुनः।
रजासत्वसमाविष्टः सृजेन्मुनिवरेश्वरान् ॥
गतनिद्रः प्रयुद्धः स सत्वाविष्टो जगत्पतिः।।
सृजेदेवान्सलोकांश्च पूर्वयैव व्यवस्थया ॥'
(स्त्र० ११।२४६)
इति॥
एवं प्रत्यहं कुर्वतो मन्वन्तराष्टाविंशत्यात्म-
काहोरात्रकलनया स्वकवर्षशतान्तेऽस्य संहारः,-
इत्याह
स्वकवर्षशतान्तेऽस्य
क्षयस्तद्वैष्णवं दिनम् ॥१४॥
१२६
श्रीतन्त्रालोकः
रात्रिश्च तावतीत्येवं
विष्णुरुद्रशताभिधाः।
क्रमात्स्वस्वशतान्तेषु
नश्यन्त्यत्राण्डलोपतः ॥१४६ .
एतदेव यथोत्तरमतिदिशति तदित्या-
दिना'। तहामं वर्पशतम् । 'अण्डलोपतः'
इत्यण्डलोपमधिं कृत्वा, तेन तन्नाशाद्ब्रह्मा-
ण्डोऽपि नश्यतीत्यर्थः । तदुक्तम्
विष्णोय तदिनं प्रोक्तं रात्रि तत्समा भवेत् ।
अनेन परिमाणेन तस्यान्दं तु विधीयते ।।
वर्षाणां च शते पूर्ण सोऽपि याति परे लयम् ।
विष्णोरायुर्यदेवोक्तं रदस्यतदिनं मिये ॥'
(स्व० ११।२६३)
इति ।
'वत्सराणां शते पूर्णे तस्द्रदिनक्षयात् ।
सोऽपि याति परं स्थानं.... ॥' (स्व० ११२७१)
इति।
.
. श्लोक पष्ठमाह्निकम् शतरुद्राश्च देवेशि स्वान्दानां तु शतात्यये । ते प्रयान्ति परं तत्वं ततोऽण्डं च विनश्यति ।। (स्व० १११२७३) इति च । अण्डनाशाच कालाग्निरुद्रस्यापि नाशः,-इत्यर्थसिद्धम् । यदुक्तम् ततः कालानिरुद्रश्च कालतत्त्वे लयं ब्रजेत् ।' (स्व० ११॥२७७) इति ॥ १४६ ॥ अव्यक्तान्तमपीयमेव व्यवस्था,-इत्याह अबाद्यव्यक्ततत्त्वान्ते- वित्थं वर्षशतं क्रमातू। दिनरात्रिविभागः स्यात् । स्वस्वायुःशतमानतः॥१४७॥. एवं व्यवस्थयाव्यक्तस्थानां कियन्मानं दिन भवेत् -इत्याशङ्कयाह , ग. पु० स्वमायुरिति पाठः !
१२८ श्रीतन्त्रालोक ब्रह्मणः प्रलयोल्लास- सहस्रेस्तु रसाग्निभिः । अव्यक्तस्थेषु रुद्रेषु दिनं रात्रिश्च तावती ॥१४८ . रसाग्निभिरिति, पद्विशता । ब्रह्मण इति, बुद्धितत्त्वस्थस्य न तु सत्यलोकस्थस्य नहि तदा- युप्कलनयेतत्कलयितुमेव शक्यमिति भावः । तेन बुद्धितत्त्वस्थस्य ब्रह्मणो गुणतत्त्वशतरुद्रदि- नान्ते संहारस्तदिनारम्भे च सृष्टिः, इति तदीये- इन्दे तस्य सपष्टिशतत्रयं प्रलयोल्लासा भवन्ति, ते च शतेन गुणिताः पटुिंशत्सहस्रसंख्याका भवे- ‘युरित्युक्तं ' रसाग्निभिः प्रलयोल्लाससहलेरिति तावगुणपरीमाणं च गुणतत्ववासिनां रुद्राणा- मायुर्यदव्यक्तस्थानां दिनमित्युक्तम् 'अव्यक्त- स्थेषु दिनं रात्रिश्च तावती' इति । यदुक्तम् . श्लो० १५०] षष्ठमाह्निकम् રરર 'पदिशतु सहस्राणि ब्रह्मणां प्रलयोद्भवाः । अव्यक्ते च दिनं प्रोक्तं रुद्राणां तनिवासिनाम् ॥' (स्व० १११२८९) इति । अस्याश्च व्यवस्थायाः शक्तितत्त्वान्तम- विशेपेऽप्यव्यक्तान्तमेवमतिदेशस्येदमेव प्रयो जनं यदत्र गुणतत्त्ववर्तिरुद्रायुरपेक्षया दिनमा नस्य संख्यानेयत्यमुत्पन्नमिति ॥ १४८॥ अत्र च सृष्टिसंहारादो कस्याधिकारः,- इत्याशङ्कयाह तदा श्रीकण्ठ एव स्या- साक्षात्संहारकृत्प्रभुः। सर्वे रुद्रास्तथा मूले मायागर्भाधिकारिणः ॥१४९ अव्यक्ताख्ये ह्याविरिश्चा- च्छीकण्ठेन सहासते। - १३० श्रीतन्त्रालोकः साक्षान्न तु विरिश्चादिमुखेन, यतस्तदानीं विरिश्चात्प्रभृति प्रकृतिगर्भाधिकारिणः सर्व एव तत्तद्भुवनेश्वररूपा रुद्रा अव्यक्ताख्ये मूले प्रकृतितत्त्वे 'श्रीकण्ठेन सहासते, अर्थाच्छीक- पठनाथमेव नायकतया प्रधानीकृत्य तिष्ठन्ती- त्यर्थः । यदुक्तम् . मजा मनानां पतयः पितरो मानवैः सह । सांख्यज्ञानेन ये सिद्धा वेदेन ब्रह्मवादिनः ॥ छन्दःमामानि चोङ्कारो बुद्धिस्तद्देवताः मिये । अदि तिष्ठन्ति ते सर्वे परमेशस्य धीमतः ॥' इति ॥ १४९ ॥ ननु. 'महाकल्पस्य पर्यन्ते ब्रह्मा याति परे लपम् । (स्व० ११।२६१) इत्याद्युक्त्या तस्य परगिवे लय उक्तस्तत्कथ- मसावास्ते,-इत्याशङ्कयाह निटत्ताधःस्थकर्मा हि ब्रह्मा तत्राधरे धियः ।।१५०॥ . .
श्लो. १५१] पष्ठमाह्निकम् न भोक्तां ज्ञोऽधिकारे तु वृत्त एव शिवीभवेत् । स एषोऽवान्तरलय- स्तक्षये सृष्टिरुच्यते॥१५॥ यद्यसाववृत्तपरशक्तिपातस्तदुध्यधोनिवृत्त- कर्मतया भोगाभावात्तत्रं भोक्तान भवेतू,-इत्य- त्रैवास्ते, अन्यथा पुनर्यदि ज्ञानी साक्षात्कृता- त्मतत्त्वः स्यात् अधिकारनिवृत्त्यनन्तरं स 'शिवीभवेत् ' तदैकात्म्येनेव प्रस्फुरेदित्यर्थः । एवमन्येषामपि ज्ञेयम् । अवान्तरलय इति, ब्रह्माण्डलयस्योक्तत्वात्प्रकृत्यण्डलयस्य च वक्ष्य- मणत्वात् ॥ १५१॥ . 'बुद्धितचे स्पिना चौदा गुणेप्वप्पाहताः स्थिताः। स्थिता वेदविदः पुसि त्वन्यक्ते पाभरातिकाः ।। 1. ग. पु.ज्ञाधिकारे इति तथा म.पु. वृत्तेरे येति पाद । . पु. भोगा हान्याधिकारे मुइति पार।
११२ श्रीतन्त्रालोकः इत्यायुक्त्या केचिदात्मानो मुक्ताः संभवन्ति, केचिञ्च वद्धास्तस्कथमविशेषेणैवोक्तं 'तत्क्षये स्वृष्टिरुच्यते' इति, नहि मुक्तात्मनां पुनः संसृतिः स्यात्,-इत्याशङ्कयाह सांख्यवेदादिसंसिद्धा- न्छीकण्ठस्तदहर्मुखे । सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी॥१५२ इदानी पूक्तियेव नीत्या यथोत्तरं वृद्धिक- मेण दिनादिव्यवस्थामतिदेशद्वारेण दर्शयति- 'प्रधान' इत्यादिना 'सामनसे पदे' इत्यन्तम् प्रधाने यदहोरात्रं तज्जं वर्षशतं विभोः। श्रीकण्ठस्यायुरेतच्च दिन कञ्चकवासिनाम्॥१५३॥ १० पु. मुनानामिति पाठः।
श्लो० १५७ पष्ठमाह्निकम् तत्क्रमान्नियतिः कालो रागो विद्या कलेत्यमी। यान्त्यन्योन्यं लयं तेषाः मायुर्गाहनिकं दिनम् ॥१५४॥ तदिनप्रक्षये विश्वं मायायां प्रविलीयते। क्षीणायां निशि तावत्यां गहनेशः सृजेत्पुनः ॥१५५॥ एवमव्यक्तकालं तु परार्धेर्दशभिर्जहि । मायाहस्तावती रात्रि- भवेत्प्रलय एष सः ॥१५६॥ मायांकालं परार्धानां गुणयित्वा शतेन तु। । . १ के० स० पु. मायाया इति पाठः।
. १३४ श्रीतन्त्रालोक ऐश्वरो दिवसो नादः प्राणात्मात्र सृजेजगत् ॥१५७ तावती चैश्वरी रात्रि- यंत्र प्राणः प्रशाम्यति । अहोरात्रमिति, गुणतत्त्ववर्तिरुद्रायुरपेक्षया ब्राह्मप्रलयोल्लासद्वासप्ततिसहस्रसंख्याकम्। तज्ज- मिति, पष्टयधिकेन शतत्रयेण गुणयित्वा इत्यर्थः । एतदिति, वर्षशतपरीमाणं श्रीकण्ठी- थमायुः । कञ्चकवासिनामित्यान्नियतितत्त्व- स्थानां वामदेवादीनां न तु कालतत्त्वादिगता- नामपि तदपेक्षया हि कालंतत्त्वादो यथोजरं वृद्धयादिव्यवस्था संभवेत्, अत एव 'क्रमाद- न्योन्य लयं यान्ति' इत्युक्तम् । आगमोऽप्येवं 'ततो नियतिकाली च गगो विद्या का तथा । परस्परं लय यान्ति कमात्सर्व समानतः ॥" (स्व० ११।२९२) इति । तेपामिति, कलातत्त्वस्थानां महादेवा- । श्लो० ४५८] पष्ठमाहिकम् दीनां न तु सर्वेषां कञ्चुकवासिनां; तथात्वे हि गाहनिकं दिनमव्यक्तकालसंख्यामपेक्ष्य पञ्च- दशस्थानावस्थितेन दशगुणेन परार्धेन.वक्ष्य- माणं गुणनं सङ्गतिमियात् । तत्सपामेव कञ्च- कवासिनां यथोत्तरमायुषो वृध्या गाहनिकस्य दिनस्यानवच्छिन्नसंख्याप्रतिपादनार्थमेवं वक्ष्य- माणं सङ्गच्छते,-इत्यलं बहुना । गणना तु ग्रन्थविस्तरभयान लिखिता, इति स्वयमेवा- भ्यूह्या । तावत्यामिति, वक्ष्यमाणदिनसमाना- याम् । जहीति गुणयेत्यर्थः । यदुक्तम् 'प्राधानिकपरार्धेन दशधा गुणितेन च । माया संहरते सर्व पुनथैव सृजेजगत् ।। मायाकालपरार्धस्य शतधा गुणितस्य च । ईश्वरः कुरुते सृष्टिं संहरच्चं पुनः सृजेत् ॥' (स्व० १११२९७) इति । अनेनं चात्रोत्तरोत्तरं कालः प्रकृप्यते,- इत्युक्तं स्यात्। एवमुत्तरत्रापि ज्ञेयम् । 'नाद' . . . . १ पुनश्च संहोजगदिति मूलमन्धपाठः।
. १६ श्रीतन्त्रालोकः इति वहिरुन्मेपरूपतया नदनस्वभाव ईश्वरः । प्राणात्मेति, प्राणप्रमातृत्वात् । प्रशाम्यतीति, अत ऊध्वं प्राणस्य प्राधान्याभावात्, विश्व- मिति तस्याप्यहन्तायां विश्रान्तेः ॥ १५७ ॥ न केवलमत्र नादात्मनः प्राणस्यैव प्रशमो यावद्विन्द्वाद्यात्मिकायाः संविदोऽपि भविष्यति,- इत्याह प्राणगर्भस्थमप्यत्र विश्वं सीपुम्नवर्त्मना ॥१५८॥ प्राणे ब्रह्मविले शान्ते संविद्याप्यवशिष्यते। अंशांशिकातोऽप्येतस्याः सूक्ष्मसूक्ष्मतरो लयः॥१५९॥ गुणयित्वेश्वरं कालं परार्धानां शतेन तु। .
श्लो० १६३]
षष्ठमाह्निकम् ।
सादाशिवं दिनं रात्रि-
महाप्रलय एव च ॥१६॥
सदाशिवः स्वकालान्ते.
बिन्द्वर्धेन्दुनिरोधिकाः।
आक्रम्य नादे लीयेत
गृहीत्वा सचराचरम् ॥१६१॥
नादो नादान्तटत्त्या तु
भित्त्वा ब्रह्मबिलं हठात् ।
शक्तितत्त्वे लयं याति
निजकालपरिक्षये ॥१६२॥
एतावच्छक्तितत्त्वे तु
विज्ञेयं खल्वहर्निशम् ।
शक्तिः स्वकालविलये
व्यापिन्यांलीयते पुनः॥१६३॥
.. १३८ श्रीतन्त्रालोकः व्यापिन्या तदिवारानं लीयते साप्यनाश्रिते। परार्धकोट्या हत्वापि शक्तिकालमनाश्रिते॥१६४॥ दिनं रात्रिश्च तत्काले परार्धगुणितेऽपि च । सोऽपि याति लयं साम्य- संज्ञे सामनसे पदे॥१६५॥ महाप्रलय इति, शुद्धावनोऽपि संहरणात् । तदुक्तम् 'ततः सदाशियो देवः स्वमानेन च संहरेत् । मृनते च पुनर्भूय आत्मीये देष्यहर्मुखे ।। महामलय एवोक्तः सादारव्ये तु दिनक्षये ।' (स्व० १११२९८) दति । .म.पु. एपोत इति पाट ।
, श्लो० १६५] यष्ठमाहिकम् । १३९ 'विन्दं चैवार्थचन्द्रं च भिवा चैव निरोधिकाम् । नादतत्त्वे लयायाति गृहीत्वा सचराचरम् ॥" (स्व० ११॥३००) इति । नादान्तवृत्त्येति, नादान्तभूमिकामासा- येत्यर्थः । यदुक्तम् 'नादः सौषुम्नमार्गेण भित्वा ब्रह्मविलं मिये । शक्तितत्त्वे लयं याति शक्तितचदिनक्षये ॥.' (स्व० १११३०१) इति । एतावदिति, सदाशिवायुःसंख्यातम् । तदिति, यः शक्तिलयकालः । परार्धकोव्येति, यदुक्तम् 'शक्तिकालपरार्धस्य कोटिया गुणितस्य तु । अनाश्रितस्य देवस्य दिनमेकं प्रकीर्तितम् ।। (स्व० ११३०३) सोऽपीत्यनाश्रितः। तदुक्तम् 'अनेन परिमाणेन परार्धगुणितेन च । सोऽपि याति पर स्यानं कारणं सपनाश्रयम् ॥' (स्व. ११॥३०४) इति ॥१६५ ॥ म. पु.दिनमेतदिति पाठः । .
श्रीतन्त्रालोकः नन्वेवं समनाया अपि लयः कस्मान्नोच्य- ते,-इत्याशङ्कयाह स कालः साम्यसंज्ञः स्या- नित्योऽकल्यः कलात्मकः । यत्तत्सामनसं रूपं तृत्साम्यं ब्रह्म विश्वगम् ॥१६६॥ यतः स विश्वकलनाकारी कालः समना- ख्या येयं कला शक्तिस्तदात्मकोऽत एव नित्यो, न ह्यस्याः समनाख्यायाः शक्तेमहाप्रलयेऽपि नाशः,-इत्याशयः । यदभिप्रायेणैवान्यैः 'शंभुः पुरुपो माया नित्यम्'इत्याद्युक्तम् । अत एव पृथिव्यादेरनाश्रितान्तस्य विश्वस्याभेदात्मना साम्येनावस्थानात्साम्यशब्दाभिधेयः, अत एव भेदप्रथाया अभावात् 'अकल्य कलयितुमशक्य इत्यर्थः । शत्यन्तं हि विश्वसंहारे वृत्ते सकलोऽ यमणुवर्गः संभृय समनायामेवास्ते, इत्याह १.पु.इत्यर्थ इति पाठः।
xܨ श्लो० १६७] पष्ठमाहिकम् । 'यत्तत्सामनसं रूपं तद्विश्वगं साम्यम्'इति । न चैवमपि भेदवादिवदिदं परस्माद्ब्रह्मणोऽति- रिक्तमित्युक्तं 'ब्रह्म' इति, परब्रह्मरूपमित्यर्थः । तदुक्तम् 'स कालः साम्यसंज्ञश्च जन्ममृत्युभयापहः । तस्याप्यूर्ध्वममेयस्तु कालः स्यात्परमावधिः ॥ नित्यो नित्योदितो देवि अकल्यश्च न कल्यते । (स्व० १९१३४६) इति ॥ १६६ ॥ न केवलमत्र प्रलयावसरे विश्वस्यावस्थान- मेव यावत्स्सृष्टिर(टाव)पि, इत्याह अतः सामनसात्काला- निमेषोन्मेषमात्रतः। तुट्यादिकं परार्धान्तं स॒ते सैवात्र निष्ठितम् ॥१६७॥ मृत्युजरापह इति मूलमन्ये पाठः। २ ख.पु. सामरसादिति पाठः। ३ ख.पु. उन्मेपरूपत इति पाठः। ४ क. ख. पु० सूत्रं चैवेति पाठः। .
श्रीतन्त्रालोकः निमेपोन्मेपमात्रत इति, सदाशिवेश्वरद- शामधिशयानादित्यर्थः । यदुक्तम् 'स.चापः कलयेत्सर्व व्यापिन्याधं धरावधि । तुट्यादिभिः कलाभिश्व देव्यध्वानं चराचरम् ॥' (स्व० ११३३०७) इति । अत एव चान्येरस्मच्छास्त्रप्रक्रियामजा- नानैः 'शत्यन्तं महाप्रलये वृत्ते सकलोऽयम- णुवर्गःप्रलयान्त ऊोर्ध्वमवस्थितेरभिधानात्प- रिशिष्टं शिवतत्त्वमेवासादयेत् । तदासादनमेव च मुक्तिः, तदक्रमेण सर्वेपामनायासमेव सा सिद्धयेदिति किं शास्त्रानुष्टानादिना' इत्यादि यच्चोदितं तदुत्थानोपहतमेव । न हि शक्त्यन्तं प्रलयेऽप्येपां शिवतत्त्व एवावस्थानं समनाया- मेवमभिधानात् 'समनान्तं वरारोहे पाशजालमनन्तकम् ।' (स्व० ४१४२९) इत्यायुक्त्या तदन्तं च वन्ध एव, इति को १ क. पु. कलयेद्विमिति पाठः ।
श्लो० १६९] पष्ठमाहिकम् । नाम तत्र मुक्तेरवकाशः । न चैवमपि शंभुवत्स- मनाया अपि नित्यत्वादभेदवादक्षति दमेवा- धिकृत्य सृष्टिप्रलयादिव्यवहारस्योत्थानात्व- स्तुतः पुनरभेदवादचर्चा प्रतिपदमिह दर्शिता दर्शयिष्यते च, इत्यलं बहुना ॥१६७ ॥ एवमुक्तवक्ष्यमाणपरिमाणोपयोगिन्याः सं- ख्यायाः क्रमेण रूपं दर्शयति दशशतसहस्रमयुतं लक्षनियुतकोटि सार्बुदं वन्दम् ।. खर्वनिखर्वे शंखा- जजलधिमध्यान्तमथ परार्धं च ॥ अब्जेति पद्म, जलधीति सागरः ॥ १६८॥ नन्वेवमवस्थाममेषां कथं स्यात् ? इत्या-. शङ्कयाह इत्येकस्मात्प्रभृति हि दशधादशधा क्रमेण कलयित्वा ।
१४४ श्रीतन्त्रालोकः एकादिपरार्धान्ते- प्वष्टादशसु स्थितिं ब्रूयात् ॥१६९ यदुक्तम् 'एक दशगुणं पूर्व शतं दशगुणं तु तत् । शतं दशगुण कृत्वा सहस्रं परिकीर्तितम् ।। सहस्रं दशधा चैवमयुतं तद्धि कीर्तितम् । दशायुतानि लक्ष तु नियुतं दश तानि तु ॥ दश तानि च कोटिः स्याद्दश कोट्यस्तदर्बुदम् । अर्बुदैर्दशभिन्दै सबै दशभिरेव तैः ।। दशभिस्तन्निखर्वं तु शड्डः स्यादश तानि तु । शङ्कुभिर्दशभिः पद्म दश पानि सागरः ॥ सागरैर्दशभिर्मध्यमन्तस्तैर्दशभिः स्मृतः । अन्तं दशाहतं कृत्वा परार्ध तु प्रकीर्तितम् ।। एवमष्टादशैतानि स्थानानि गणितस्य तु ।' इति ॥ १६९ ॥ एवमत्र सृष्टिप्रलयानामानन्त्येऽपि गौण- मुख्यभावं दर्शयितुमाह चत्वार एते प्रलया मुख्याः सर्गाश्च तत्कलाः ।
श्लो० १७१] पष्ठमाह्निकम्
भूमूलनैशशक्तिस्था-
स्तदेवाण्डचतुष्टयम् ॥१७॥
मुख्या इत्यवान्तराणामनन्तानां प्रलयानां
सर्गाणां चात्रैवान्तर्भावात् । 'तत्कला' इति
तेपां प्रलयानां सर्गाणां च 'कलाः' पृथि-
व्यादिभेदचतुष्टयरूपा, अंशा इत्यर्थः । तदेवेति,
भूमूलादि । तदुक्तम्
'निजशक्तिवैभवभरादण्डचतुष्टयमिदं विभागेन ।
शक्तिर्माया प्रकृतिः पृथ्वी चेति प्रभावितं प्रभुणा॥'
(१० सा० ४ श्लोक
इति ॥ १७० ॥.
अत्रैव स्रष्टसंहर्तविभागमपि दर्शयति
कालाग्निर्भुवि संहर्ता
मायान्ते कालतत्त्वराट्।
श्रीकण्ठो मूल एकत्र
सृष्टिसंहारकारकः ॥ १७१॥
श्रीतन्त्रालोकः १४६ तल्लयो वान्तरस्तस्मा- देकः सृष्टिलयेशिता। 'श्रीमानघोरः शक्त्यन्ते संहर्ता सृष्टिकृञ्च सः ॥१७२॥ संहर्ता न पुनः स्रष्टा तद्धि ब्रह्मादीनामेव हि पूर्वमुक्त, कालतत्त्वराडिति कालतत्त्वाधिपः . श्रीकण्ठः । यदुक्तम् एकवीरः शिखोदश्च श्रीकण्ठः कालमाश्रितः।' (मा० वि० ५२७) इति। श्रीकण्ठ इत्यव्यवस्थः। एकोपि त्रि- प्वपि योज्यम् । तल्लय इति श्रीकण्ठकर्तृकः संहारः । यद्वा त्रिप्वपि पृथिव्यादिषु स्थानेषु परापररूपतामधिशयानः श्रीकण्ठनाथ एककः 'सृष्टिसंहारकारकः । यदुक्तम् 'श्रीकण्ठ एव परया मूर्त्या कालाग्निरुच्यते ।' इति । तथा त्रिवेव संस्थिता रुद्रः कालरूपी महेश्वरः।'
श्लोक १० १७४ ] पष्ठमाहिकम् १४७ इति । शत्यन्त'इति शुद्धाध्वनि । तदुक्तम् 'तर्वे शुद्धमध्वानं यावच्छत्यन्तगोचरम् । तत्सर्व संहरेखोरमघोरो घोरनाशनः ॥' इति ॥ १७२ ॥ न केवलं शत्त्यन्तं प्रलयस्यैव महत्त्वं याव- स्कृष्टेरपीत्याह तत्सृष्टौ सृष्टिसंहारा निःसंख्या जगतां यतः । अन्तर्भूतास्ततः शाक्ती महासृष्टिरुदाहृता ॥ १७३ ॥ ननु पृथिव्यादितत्त्वप्रलये यैव तन्निवासि- नामणूनां व्यवस्था सैव किं तत्त्वेश्वरणां न वा? इत्याशङ्कयाह । लये ब्रह्मा हरी रुद्र- शतान्यष्टकपञ्चकम।
१४८ श्रीतन्त्राटोकः इत्यन्योन्यं क्रमाद्यान्ति लयं मायान्तंकेऽध्वनि ॥१७४ 'मायातत्त्वलये लेते प्रयान्ति परमं पदम्। शुद्धाध्वव्यवस्थितानां पुनः किं परमं पदम् ? इत्याशङ्कयाह मायोर्चे ये सितावस्था- स्तेपां परशिवे लयः ॥१७५॥ तत्राप्यापाधिकाढ़ेदा- • लये भेदं परे विदुः। तत्रापीति, परशिवे । परे विदुरिति, न पुन- रस्माकमिदं मतमित्याशयः ॥ १७५ ॥ नन्वेवमपयुक्तेषु पुनः सृष्टो तन केपामधि- कारः? इत्याशङ्कयाह ग. पु. गे इति पाटः। क० पु. तद्रझोपेन्द्ररदाणामाशमादाम्यशालयः । इति अधिकः पाठः।
श्लो० १७८] पष्ठमाहिकम् एवं तात्त्वेश्वरे वर्गे लीने सृष्टौ पुनः परे ॥१७६॥ तत्साधकाः शिवेष्टा वा. तत्स्थानमधिशेरते । तत्साधका इति 'लोकर्मिणमारोप्य मते भुवनभर्तरि ।' इत्यादिना निरूपिताश्चर्यादिकमेण प्रेप्सिततत्त- द्भुवनेश्वर्याः। शिवेष्टा इति, नदिच्छामात्रानु: गृहीताः ॥ १७६॥ नन्वेवमप्येषां ब्रह्मादिशब्दप्रवृत्तौ कि निमि- त्तम् ? इत्याशङ्कयाह ब्राह्मी नाम परस्यैव शक्तिस्तां यत्र पातयेत् ॥१७७॥ स ब्रह्मा विष्णुरुद्राद्या वैष्णव्यादेरतः क्रमात् ।
१६. १५० श्रीतन्त्रालोकः 'अत'इति शक्तेः। तदुक्तम् 'ब्राह्मी च वैष्णवी शक्तिरधिकारपदं गता। यं चाधितिष्ठत्यात्मानं तत्संज्ञां स मपद्यते ।। तदाधिकारं कुरुते इच्छया परमात्मनः ।' (स्व० ११।२६५) इति ॥ १७७॥ ननु ब्राह्मी नाम यदि शिवस्यैव शक्तिस्त- कथमसावन्यं यायायेनायं ब्रह्मेत्युच्यते, न ह्य- न्यदीयधर्मस्यान्यत्रान्वयः संभवेत् १ इत्याश- झ्याह शक्तिमन्तं विहायान्यं शक्तिः किं याति नेदृशम् १७८ छादितप्रथिताशेष शक्तिरेकः शिवस्तथा। न ह्येतच्छिवलक्षणं शक्तिमन्तं विहायान्य ब्रह्मादिलक्षणं शक्तिर्याति'इत्येवंविधमुक्तं, किं- खनन्तशक्तिखचितत्वेऽपि कांचिच्छक्तिं प्रच्छाद्य . . श्लो० १८१] पष्ठमाहिकम् कांचिच्च प्रकटीकृत्यैक एव शिवस्तथा ब्रह्मवि- पवाद्यात्मनावभासत इति ॥ १७८॥ ननु प्राणस्य परं तत्त्वं प्रत्युपायत्वमस्तीति प्रागुपक्रान्तं तत्तदनभिधाय तदाश्रयेण सृष्टि- संहारादीनामेव स्वरूपमुच्यते,-इति किमेतत्? इत्याशङ्कयाह एवं विसृष्टिप्रलयाः प्राण एकत्र निष्ठिताः ॥ १७९॥ सोऽपि संविदि संविच चिन्मात्रे ज्ञेयवर्जिते। चिन्मात्रमेव देवी च सा परा परमेश्वरी ॥ १८॥ अष्टात्रिंशं च तत्तत्त्वं हृदयं तत्परापरम् । १ ख. पु. परंगतेति पाठः। २० पु० सदधिकारनिति पाठः। ५ क. पु. प्रागुपात्तमित्ति पाठः ।
१५२ श्रीतन्त्रालोकः संविदीति, तत्तन्नीलाद्याभाससंभिन्नायां प- रिमितात्मरूपायाम् । चिन्मात्रमेव चाप्टात्रिंशं तस्वमित्येतदन एवोपपादयिष्यते, इति नेहा- यस्तम् । तस्थितमेवास्य चिन्मात्रविश्रान्तत्वं यदशादेवात्र नालिकादिपष्टयब्दोदयान्तं लयो- दययोर्वचित्र्यमिति ॥ १८० ॥ तदा तेन संवित्त्वमेवैत- स्पन्दमानं स्वभावतः॥१८१॥ लयोढ़या इति प्राणे पष्टयदोदयकीर्तनम् ।. संवित्त्वमिति, ये नाम लयोदयास्तत्संवि- स्वातन्त्र्यम् , इत्येवं संविदधीनमेव सर्वमेत- कालीयं वैचित्र्यं, न पुनरस्वाधीनं किंचिद्रूपं वहिरस्तीत्युक्तं स्यात् ॥ १८१ ॥ अत आह . ग.पु. पर यन्तति पादः।
१५३.
--
".
श्लो० १८४ ].
पष्ठमादिकम्
'इच्छामात्रप्रतिष्ठेयं
क्रियावैचित्र्यचर्चना॥१८२॥
कालशक्तिस्ततो बाह्ये.
नैतस्या नियतं वपुः।
नैतस्या नियतं वपुरिति, तथात्वे हि यत्रैक-
चपकोदयस्तत्रैवान्दोदयः कथं भवेदिति भावः
॥ १८२॥ .
ननु कथमतिपरिमितस्यापि कालांशस्य वै-
तत्येनावभासो भवेत् ? इत्याशङ्कयाह
स्वनस्वप्ने तथा स्वप्ने
सुप्ते संकल्पगोचरे ॥ १८३॥
समाधौ विश्वसंहार-
सृष्टिक्रमविवेचने ।
मितोऽपि किल कालांशो
विततत्वेन भासते ॥ १८४ ॥
१५४ श्रीतन्त्रालोकः यत्राद्या स्वाप्नीमेव दशां जाग्रहशात्वेन परि- कल्प्य द्वितीयां स्वप्नत्वेन कश्चिदभिमन्यते स स्वप्नस्वप्न उच्यते। एवं स्वप्ने क्षणेनैव हरि- श्चन्द्रस्येवानेकंकालिकोऽप्यनुभवोऽभवदिति यु- तमुक्त मितेऽपि काले वैतत्येनावभासः' इति । 'सुते'इति सुपुप्तदशायाम्। तत्र हि क्षणमात्र- मपि मोहादौ ‘चिरस्यं गाढमूढोऽहमासम्' इत्याद्यभिमानोदयः। 'सङ्कल्पगोचरे'इति स्वत- विकल्पादौ तत्र हि क्षणेनैव कल्पपरिकल्प- नमपि शक्यम् । 'समाधौ'इति विश्वसाक्षात्का- रात्मनि । विश्वसंहारसृष्टिक्रमस्य 'विवेचने' समनन्तरोक्तकालीयप्रमेयसंकलनानुद्धावित्यर्थः एतच्च कालीयं वैतत्यं स्वपरदृष्टत्वेनापि वैचि- व्यमियात, इत्याह प्रमात्रभेदे भेदेऽथ चित्रो विततिमाप्यसो। १ व. पु. संकल्पनाबुद्धाविति पाठः। २ क.स.पु. मानिति पाटः।
श्लोक १८६ पष्ठमाहिकम् अनेनैतत्स्वप्नादावनुभूतम्, इति प्रमात्रन्त- रेकीकारेण विततिनोऽवभासः, मयैवैतदसाधा- रण्येनानुभूतम्, इति वा॥ इदानीं प्राणीयमेव कालविभागमपानेऽप्य- तिदिशति एवं प्राणे यथा कालः ' क्रियावैचित्र्यशक्तिजः ॥१८५ तथापानेऽपि हृदया- न्मूलपीठविसर्पिणि । यद्यपि द्वादशान्तावृदन्तमपाने कालवैचि- त्र्यमुक्तं तथापि हृदयान्मत्तगन्धपर्यन्तं प्रसर- णेऽस्यैव प्राधान्यमित्येवमुक्तम् । तदुक्तम् 'अपानस्यापि संचारे सर्पितेयं सुविस्तृता । गुदं यावत्ततो वायुरधस्तादुपयाति हि ॥' इति ॥ १८५ ।। नन्वत्रापि प्राणवत्कालवैचिव्यं किं संचेत्यते न वा ? इत्याशङ्कयाह । -- श्रीतन्त्रालोकः मूलाभिधमहापीठ- सङ्कोचप्रविकासयोः ॥१८६॥ ब्रह्माद्यनाश्रितान्तानां चिनुते सृष्टिसंहृती। 'रासभी वडवा यद्वत् ' (तं० ५।५८) इत्या- दिप्रागुक्तयुक्या जन्माधारोदितायाः शक्तों सोचविकासौ तो ब्रह्माद्यनाश्रितान्तस्य वि- श्वस्य सृष्टिसंहारादो योगिनामनुभवसिद्धावि- स्युक्तं चिनुते सृष्टिसंहृती'इति ॥ १८६ ॥ ननु यद्येवं तत्सर्वत्र प्राणोदय एव प्राधा- न्येनेतत्कस्मान्निर्दिष्टम् ? इत्याशङ्कयाह शश्वद्यद्यप्यपानोऽय मित्थं वहति कित्वसौ ॥१८७ अवेद्ययत्नो यत्नेन योगिभिः समुपास्यते।
लो. १८९]
१५७
षष्ठमाह्निकम्
ननु यद्यत्र ब्रह्मादीनां कारणानां सृष्ट्यादि
संभवेत् तत्कुत्र कस्यावस्थानम् ? इत्याशङ्कयाह
हृत्कन्दानन्दसंकोच-
विकासहादशान्तगाः ॥१८८
ब्रह्मादयोऽनाश्रितान्ताः
सेव्यन्तऽत्र सुयोगिभिः।
द्वादशान्तः' शक्तेरुदयविश्रान्तिस्थानम् ।
सुयोगिभिरित्यन्तःप्राणे सावधानैर्न सामान्य
स्तेपामपानस्यावेद्ययत्नतया तत्सेवनस्य यत्न-
साध्यत्वात् ॥ १८८॥
ननु व्यापकत्वादेषां स्वरसत एव सर्वत्रा-.
वस्थानं सिद्धमित्यत्र विशेषाभिधाने किं प्रयो-
जनम् ? इत्याशङ्कमाह
एते च परमेशान-
शक्तित्वाद्विश्ववर्तिनः ॥१८९॥
i १५८ श्रीतन्त्रालोकः . देहमप्यनुवानास्त- कारणानीति कामिके। तत्कारणानीति, तस्य देहस्य कारणानि तत्त- दधिष्ठानद्वारेणोत्पत्तिनिमित्तमित्यर्थः ॥ १८९॥ कामिकीयमेव ग्रन्थं पठति बाल्ययौवनद्वंद्वत्व- निधनेषु पुनर्भवे ॥ १९०॥ मुंक्ती च देहे ब्रह्माद्याः पडधिष्ठानकारिणः। तघाल्ये ब्रह्मणोऽधिष्ठानकारित्वं, यावन्मुक्का- वनाश्रितस्योति ॥ १९० ॥ नन्वस्मद्दर्शने मुक्तः किमनाश्रिताधिष्ठानं युक्तम् ? इत्याशङ्कयाह १ क. पु. टपपत्ति इति पाठ । २ म. पु. विधानेषु इति पाटः। ३ क. पु. मुझे इति पाट ।
लो० १९२] तु परा देवी षष्ठमाहिकम् तस्यान्ते । यत्र युक्तो न जायते॥१९१॥ अनेन ज्ञातमात्रेण दीक्षानुग्रहकृद्भवेत्। अन्त इति, यदुक्तम् 'पदत्यागात्सप्तमे लयः । ( स्व० ४१२६७) इति । 'युक्त'इत्यर्थाद्गुरुणा योजितः ॥ १९१ ॥ नन्वपानस्य कालवैचित्र्याभिधाने प्रकान्ते किमनेनोपदिष्टेन ? इत्याशङ्कयाह समस्तकारणोल्लास- पदे सुविदिते यतः ॥१२॥ अकारणं शिवं विन्दे- द्यत्तद्विश्वस्य कारणम् । हेये हि सुष्टु ज्ञाते सुखमुपादेये विश्रान्ति र्भवेदिति भावः ॥ १९२॥ १.पु० या रिति पार।
१५८ श्रीतन्त्रालोकः देहमप्यनुवानास्त- कारणानीति कामिके। तत्कारणानीति, तस्य देहस्य कारणानि तत्त- दधिष्ठानद्वारेणोत्पत्तिनिमित्तमित्यर्थः ॥ १८९॥ कामिकीयमेव ग्रन्थं पठति बाल्ययौवनदृद्धत्व- निधनेषु पुनर्भवे ॥ १९॥ मुक्तौ च देहे ब्रह्माद्याः षडधिष्ठानकारिणः। तहाल्ये ब्रह्मणोऽधिष्ठानकारित्वं, यावन्मुक्का- वनाश्रितस्यति ॥ १९०॥ नन्वस्मदर्शने मुक्तेः किमनाश्रिताधिष्ठानं युक्तम् ? इत्याशङ्कयाह १० पु. उपपत्ति इति पाठ' । २ ख. पु० विधानेषु इति पाठः। ३ क. पु. मुक्के इति पाठ ।
लो. • १९६ षष्ठमाहिक अत्रापानोदये प्राग्व- षष्टयब्दोदययोजनांम् १९४॥ यावत्कुर्वीत तुल्यादे- र्युक्ताङ्गुलविभागतः। युक्तं तुट्यनुगुणमङ्गुलविभागमाश्रित्य तुव्या- देरारभ्य पष्टयव्दोदययोजनां यावत् प्राग्व- दत्रापानोदयेऽर्थायोजनां कुर्वीत, येनैवं विश्रा- न्तिः स्यात् ॥ १९४॥ न केवलमेतदपाने यावत्समानेऽपि इत्याह' एवं समानेऽपि विधिः स हि हार्दीषु नाडिषु।।१९५॥ संचरन्सर्वतोदिक्क दशधैव विभाव्यते। हार्दीपु, हृदि तासामभिव्यक्तः, वस्तुत- स्वासां नाभेरुदयः । यदुक्तम् .क.पु. सामामिति पाठ ११२ श्रीतन्त्रालोक नाभ्यधो मेट्ठकन्दे च स्थिता वै नाभिमध्यतः । तस्माद्विनिर्गता नात्यस्तिर्यगूर्ध्वमधः प्रिये ॥ चक्रवत्संस्थितास्तत्र प्रधाना दश नाडयः । (२०७८) इति । समानस्यापि मुख्यया वृत्त्या नाभिरेव स्थानम् । यदुक्तम् हृदुदे नाभिकण्ठे च सर्वसन्धौ तथैव च । माणाद्याः सस्थिता होते !! (स्व० ७३०१) इति ॥ १९५॥ नन्वेवं व्यपदेशस्य किं निमित्तम् ? इत्या- शङ्कयाह दश मुख्या महानाडीः पूरयन्नेषं तद्गताः ॥ १९६ ॥ नाड्यन्तराश्रिता नाडीः कामन्देहे समस्थितिः। मुख्या इति प्रधानाः । तदुक्तम् 'इडा च पिङ्गला चैव सुषुम्ना च तृतीयिका । गान्धारी हस्तिजिता च पूपा चैकार्यमा तथा ।। १. स. पु. एवेति पाठ ।
लो० १९८] षष्ठमाहिकम् अलम्बुसा कुहूथैव शड्विनी दशमी स्मृता । एताः प्राणवहाः प्रोक्ताः प्रधाना दश नाडयः।। (स्व० ७१६) इति । तद्गताः' इति तद्भेदरूपद्वासप्ततिलह- नसंख्याकाः। नाड्यन्तरेति, तदुपभेदरूपाणि । यदुक्तम् 'दासप्ततिसहस्राणि नाज्यस्ताभ्यो विनिर्गताः । पुनर्विनिर्गताथान्या आभ्योऽप्यन्याः पुनः पुनः॥ (स्व० ७९) इति । अत एव देहे समननात्समाननामाय- मित्युक्तं 'समस्थितिः' इति ॥ १९६ ॥ ननु यदि नामायं दश नाडीराक्रम्य वर्तते तावतास्य किमायातं येन दशधात्वमुच्यते ? इत्याशङ्कयाह अष्टासु दिग्दलेष्वेष कामंस्तदिक्पतेः क्रमात् १९७ चेष्टितान्यनुकुर्वाणो रौद्रः सौम्यश्च भासते। 1. पु..भपि योग इति पाया। .
१६४ श्रीतन्त्रालोकः तदिक्पतेरिति, इन्द्रादेः। चेष्टितानीति, स्त- म्भादिरूपाणि । रौद्रो याम्यादौ, सौम्यश्च वारुण्यादौ; अत एव पुंसां प्रतिक्षणं क्रोधहा- द्याविर्भावः। यदुक्तम् 'पद्मस्याष्टदलस्येत्यं तन्मध्ये भोगभुक्सदा । संस्थितः सर्वगोऽप्यस्मात्कारणात्सुमतीयते ॥ येनाश विपयान्दृष्टा विचारयति सादरम् । शोकः क्रोधो विपादो वा विस्मयस्ताप एव च ॥ हो वाप्यय संचिन्त्य हृदयेनैव भाव्यते ।' इति ॥ १९७॥ एवमस्य सर्वत्र साम्येनावस्थानेऽपि मुख्यया वृत्त्या नाडीत्रय एव चारः, -इत्यांह स एव नाडीत्रितये वामदक्षिणमध्यगे ॥ १९८॥ इन्द्वकाग्निमये मुख्ये चरंस्तिष्ठत्यहर्निशम्।
श्लो० २०.] पष्ठमाहिक नाडीत्रितये इति, इडापिङ्गलासुषुम्नात्मके। यदुक्तम् 'दक्षिणे तु स्थितः सूर्यो वामे सोमो विराजते ।। पाके प्रकाशकत्वे च मध्यस्थश्चैव पावकः ।। (स्व० ५५२) इति यदुक्तम् 'दशानां तु परं देवि नाडीत्रयमुदाहृतम् ! विन्दुनादात्मिके द्वे वै मध्ये शक्यात्मिका स्मृता !! इति ॥ नन्वत्र कथमसावहर्निशं चरन्नास्ते ? इत्या- शङ्कयाह सार्धनालीद्वयं प्राण- शतानि नव यत्स्थितम् ॥१९९॥ तावहहन्नहोरात्रं चतुर्विंशतिधा चरेत्। 'पद्माणाश्चपकस्तेषां पष्टिर्नाली तथा वियिः।
श्रीतन्त्रालोकः इत्यायुक्त्या वाह्यायां घटिकायामन्तः प्राण- चाराणां सपष्टिशतत्रयमुदियात्, इति वाह्येन सार्धेन. घटिकाद्वयन नवशतानि वहन् पष्टि- घटिकात्म वाह्यमहोरात्रं चतुर्विंशतिभिः प्रका- रेरर्थात् स एव समानश्चरेत्, येनात्र सपट्शत- सहलेकविंशत्यात्मकप्राणचाराश्रयेण चतुर्विंश- तिः संक्रान्तीनामुदियात् । यदुक्तम् 'चतुर्विंशतिसंक्रान्त्यः समधातोः स्वभावतः । शतानि नव वै हंस एकामेकां वहेत्सदा ॥' ( स्व०७/१६८) इति । 'पाये चैव त्वहोरात्रे अध्यात्मं तु वरानने । चतुर्विंशतिसंक्रान्तीः माणहंसस्तु संक्रमे ।। अहनि द्वादश मोक्ता रात्रौ वै द्वादश स्मृताः। (स्व० ७/१६६) इति च ॥ १९९ ॥ एतदेव विभजते .
स्थे० २०३]
पष्टमाहिकम्
विषुववासरे प्रातः
सांशां नाली स मध्यगः॥२०॥
वामेतरोदक्सव्यान्यै-
वित्संक्रान्तिपञ्चकम् ।
एवं क्षीणासु पादोन-
'चतुर्दशसु नालिषु ॥ २० ॥
मध्याह्ने दक्षविषुव-
नवप्राणशती वहेत् ।
दक्षोदगन्योदग्दः
पुनः संक्रान्तिपञ्चकम् ॥ २०२॥
नवासुशतमेकैकं
ततो विषुवदुत्तरम् ।
पञ्चके पञ्चकेऽतीते
संक्रान्तेर्विषुवदाहिः ॥ २०३॥
१६८ श्रीतन्त्रालोकः यहत्तथान्तः सङ्क्रान्ति- नवप्राणशतानि सा। . 'विपुवद्वासरे' रात्रिन्दिनसाम्यात्मनि मेप- संक्रान्तिदिने प्रातः सार्धशतचतुष्टयप्राणचारा- त्मिकां सचतुर्भागां घटिकां मध्यगः सीपुम्न- मार्गावस्थितः सन् स'समानस्तावद्वामेतरोद- क्सव्यान्यैर्वामदक्षनाड्योः प्रत्येकं साधं नाली- द्वयं पञ्चधा गमागमेश्वरेत् यावद्वपादिकन्यान्तं 'संक्रान्तिपञ्चकं भवेत्, येन सभागत्रयासु त्रयो- दशसु घटिकासु व्यतीतासु मध्यनाड्यां मध्या- इसमये दक्षविपुवत्तुलासंक्रान्तिनवप्राणशती वहेत्, साधं घटिकाद्वयमुदियादित्यर्थः । ततोऽ पि दक्षोदगन्योदग्दक्षेर्दक्षवामनाड्योः समा- नस्य पञ्चधा गमागमेः पुनरेकैकं नवासुशतं प्रत्येक साधं नालीद्वयं वृश्चिकादिमीनान्तं सं- कातिपञ्चकमुदेतीत्यर्थः । तदनन्तरं च मध्य- नाड्यां सायमुत्तरं मेपसङ्क्रान्तिरूपं विपुवत् ओ० २०४] षष्टमाहिकम् २६९ प्राग्वत्सार्धशतचतुष्टयप्राणचारात्म सचतुर्भाग- कटिकोदयं भवेयेन त्रिंशद्धटिकात्मनि दिने सक्रान्तिद्वादशकमुदियात् । तत्र सक्रान्ती- नामेकादशकमखण्डम् , एका तु सायंप्रातरर्धा- धिकया, तस्य चार्धद्वयस्य पक्षसन्धिवद्रात्रीयार्ध- द्वयसंमेलनेऽप्यखण्डत्वम्, इति सायंप्रातरुत्तर विषुववयं मध्याह्नार्धरात्रयोश्च दक्षविपुवद्य- मिति । यद्वक्ष्यति राध्यन्तदिनपूर्वाशौ मध्याह्नो दिवसक्षयः । स शर्युदयो मध्यमुदक्तो विभुतेदृशी ।' (त०६।२०४) इति । एतच्च दक्षविपुवदिनोदयाभिप्रायेण दक्षिणादुत्तरं याति उत्तरादक्षिणं यदा । दक्षिणोत्तरसंक्रान्तिः सा चैवं संविधीयते ।। दक्षिणस्यां यदा नात्यां संक्रामेत्तु पदोत्तरम् । याचदर्धं तु तत्रस्थं मध्यनोत्तरतो वहे ।। तोवत्तु विपुवत्मोक्तमुत्तरं तूतरायणे १० पु. तावत्सत् इति पाठः। २२ १. श्रीतन्त्रालोकः उत्तरादक्षिणायां तु संक्रामन्स वरानने ॥ यावढयं वहेत्तत्र अर्ध दक्षिणतो वहेत् । विषुबदक्षिणं तावदक्षिणायन प्रिये ॥' (स्व० ७१६३) इत्यादि श्रीस्वच्छन्दशास्त्रेऽभिहितम् । ने चा- न्तरपूर्व एवायं संक्रान्तीनामुदय इत्याह पञ्चक' इत्यादि। सङ्क्रान्तिरिति, विपुवद्रूपा। ‘नव प्राणशतानि सा' इत्यनेन यथोक्तमेव मानं . स्मारितम् ॥ २०३ ॥ एतदेवान्यत्राप्यतिदिशति एवं रात्रावपीत्येवं 'विपुवद्दिवसात्समात् ॥२०४॥ आरभ्याहर्निशारद्धि- हाससङ्क्रान्तिगोऽप्यसी। इत्येवं वाह्येनाहोरात्रेण संक्रान्तिचतुर्विशते- रुदयादि सर्व समाविंशटिकाद्विपुवदिवसा- १.पु. नवम्तीति पाट । २ ग.पु. स समिति पाठः। 4 -- स्लो० २०६] पष्टमाह्निकम् दारभ्योक्तम्, अन्यथा ह्यहर्निशयोवृद्धिहासौ न स्यातां, येन संक्रान्तिष्वपि चयापचयाभ्याम् अहनि द्वादश संक्रान्तयो रात्रौ च, इत्येवं विभागनियमो नोक्तः स्यात् ।। २०४॥ अत्र चविषुवत्संक्रान्तीनां विभाग स्फुटयति रात्र्यन्तदिनपूर्वांशी मध्याह्नो दिवसक्षयः ।।२०५॥ स शर्वर्युदयो मध्य- मुदत्तो विषुतेदृशी। मध्यमित्यर्थाच्छयाः। 'उदक्तः' इति उत्त- राद्विपुवत आरभ्येत्यर्थः । यदुक्तम् । 'पूर्वाह्न विपुववेक मध्याह्ने तु द्वितीयकम् । तृतीयं वापतर् वै अर्धरात्रे चतुर्थकम् ॥ चनुर्धा विषुवत्सोक्तमहाराण मुक्तिदम् ।। (स्व० ७१६७) इति ॥ २०५॥ .
श्रीतन्त्रालोकः नन्वासां चतस्तृणां संक्रान्तीनामेवं व्यपदेशे किं निमित्तम् ? इत्याशङ्कयाह व्याप्ती विपर्यतो वृत्तिः साम्यं च व्याप्तिरुच्यते ॥२०६॥ तदर्हति च यः कालो विपुवत्तदिहोदितः। वृत्तिरिति, “विपू व्याप्तौ' इति पाठात् । 'अर्हति' इत्यहेऽर्थे वतेः प्रयोगात् ॥ २०६ ॥ ननु विपुवत्संक्रान्तो यद्येवं नियमस्तत्तदि- तरासु का व्यवस्था ? इत्याशङ्कयाह विपुवत्प्रभृति हास- वृद्धी ये दिनरानिगे ॥२०७॥ तत्क्रमेणेव संक्रान्ति- हासरद्दी दिवानिशोः। तत्क्रमेणेति, रात्रिदिनवृद्धिहासपरिपाट्या । . .
श्लो० २१०] पष्ठमाह्निकम् तेन पञ्चत्रिंशद्धटिके दिने चतुर्दश संक्रान्तयः, पञ्चविंशतिघटिकायां रात्रौ दशेति ।। २०७ ।। तदेवोपसंहरति इत्थं समानमरुतो वर्षद्वयविकल्पनम् ॥२०८॥ चार एकत्र.नह्यत्र श्वासप्रश्वासचर्चनम्। वर्षद्वय इति, संक्रान्तिचतुर्विशतेरुदयात् ।। एकत्रेति, न तु प्राग्वत्प्राणापानात्मनि चारव्ये . ॥ २०८॥ ननु किमत्र वर्षद्वयमेवोदियादुतान्यदपि?इ- त्याशङ्कयाह समानेऽपि तुटेः पूर्व यावंषष्ट्यब्दगोचरम्॥२०९॥ कालसंख्या सुसूक्ष्मैक- चारगा गण्यते बुधैः। , ग.पु. पदत इति पाठः । २०० स्व० पु. बन्धनमिति पाठः।
१७४ श्रीतन्त्रालोकः सुसूक्ष्मवे हेतुः 'एकचारगा' इति । पूर्व हि तुटयाद्युदयश्चारद्वये प्रोक्तः,-इत्येतदपेक्षया तत्र स्थौल्यं .संभाव्यमिति भावः ॥ २०९ ॥ नन्वत्राप्येवं विभागेन कोऽर्थ ? इत्याशङ्कयाह संध्यापूर्वाह्नमध्याह्न- मध्यरात्रादि यत्किल ॥२१०॥ अन्तःसंक्रान्तिगं ग्राह्य तन्मुख्यं तत्फलोदितेः। एतदुपसंहरन्नन्यदवतारयति उक्तः समानगः काल उदाने तु निरूप्यते ॥२११॥ तदेवाह १.पु. बाणमिति पाठः।
मो० २१४] पष्टमाह्निकम् प्राणव्याप्तौ यदुक्तं त- दुदानेऽप्यत्र केवलम् । नासाशत्त्यन्तयोः स्थाने । ब्रह्मरन्ध्रोलधामनी ॥२१२॥ तेनोदानेऽत्र हृदया- न्मूर्धन्यवादशान्तगम्। तुट्यादिषष्टिवर्षान्तं विश्वं कालं विचारयेत्॥२१३॥ यदि परमत्रानयोः प्राणोदानयोरियान्विशेयो यत्प्राणस्य ब्रह्मरन्ध्रवर्तिनासिवयद्वादशान्तमु- दयस्थानमस्य तु ऊर्वधामवर्तिशक्तिद्वादशान्त- मिति । तेनेति,शक्तिद्वादशान्तं यावदुदानव्यातेः ॥२१३॥ नन्वेवं कालीयो विभागः किं व्याने संभवेन्न वा ? इत्याशङ्कयाह व्याने तु विश्वात्ममये व्यापके क्रमवर्जिते।
श्रोतन्त्रालोकः सूक्ष्मसूक्ष्मोच्छलद्रूप- मात्रः कालो व्यवस्थितः॥२१४॥ सूक्ष्मसूक्ष्मति, स्पन्दमात्रात्मेत्यर्थः । अत्रेव विश्वात्ममयत्वादिविशेषणद्वारेण हेतुत्रयम् अत एव चास्य व्यापकत्वात्मना विशेपेणाननाघ्या- नत्वम् ॥ १४ ॥ एषां च क्रमेण सृष्टयादिपञ्चकृत्यकारित्वम- स्ति, इत्याह सृष्टिः प्रविलयः स्थेमा संहारोऽनुग्रहो यतः। क्रमात्प्राणादिके काले तं तं तत्राश्रयेत्ततः॥२१५॥ तं तमिति, प्राणादिकम् । तत्रेति, सृष्टया- दिकारिने ॥२१५॥ एवं प्राणे चारमानादि सर्वमभिधाय तदा- नन्तर्येणानुजोद्देशोद्दिष्टं वर्णोदयं वकुमुपक्रमते श्लो० २१७] पष्ठमाह्निकम् १७७ प्राणचारेऽत्र यो वर्ण- पदमन्त्रोदयः स्थितः। यत्नजोऽयत्नजः सूक्ष्मः परः स्थूलः स कथ्यते॥२१६॥ इह तावत्प्राणचारे वर्णानां पदानां मन्त्राणां चोदय इति स्थितम् । स तु द्विधा स्वारसिकः प्रायत्तिकश्चेति । तत्राद्यो वर्णानां तेषां नैयत्येन सर्वत्रैवाविशेषात्; द्वितीयस्तु पदानां मन्त्राणांच, तेहि वर्णवदपरिगणितत्वादनियताः,इति योगी- च्छानिवन्धन एवैपामुदयः। यो हि यस्याभिप्रेतो मन्त्रादिः स तस्योदयं कारयेत, अतश्च.परेच्छा- धीनत्वादेपां प्रायनिक एवोदयः, स च समनन्त- राह्निके प्रतिपादयिप्यते । यद्वक्ष्यति इत्ययनज़माख्यातं यननं तु निगद्यते । (त०७२) ' इति ॥ २१६ ॥ इह पुनर्वर्णोदय एवायत्तजः परसूक्ष्मस्थू- लात्मतया निप्रकारोऽभिधीयते। तत्र परस्यापि .
१७८ श्रीतन्त्रालोकः वर्णोदयस्य तरतमभावेन वैविध्यमिति परतमं तदुदयमभिधातुमुपक्रमते .एको नादात्मको वर्णः सर्ववर्णाविभागवान्। सोऽनस्तमितरूपत्वा- दनाहत इहोदितः॥२१७॥ इह खल्वेक एव सर्ववर्णसामान्यात्मा सत- तोच्चरद्रूपत्वादनाहतशब्दाभिधेयो नादात्मको वर्ण 'उदितः सततमेवोदयमान आस्त इत्यर्थः ॥ २१७॥ स एव च परमुपेयः, इत्याह स तु भैरवसद्भावो मातृसद्भाव एप सः। परा सेकाक्षरा देवी. यत्र लीनं चराचरम्॥२१८॥ द्वितीयं परतरमपि एपामुदयमभिधातुमाह . •• भिधो य इति । व.पु. नदनारमक इति पाठः।
सो० २२१] षष्ठमाहिकम् हस्वार्णत्रयमेकैकं ख्यङ्गुलमथेतरत् । प्रवेश इति षड़र्णाः सूर्येन्दुपथगाःक्रमात्॥२१९॥ इकारोकारयोरादि- सन्धौ संध्यक्षरद्वयम् । एओ इति प्रवेशे तु ऐऔ इति द्वेयं विदुः ॥२२०॥. षण्ठार्णानि प्रवेशे तु द्वादशान्तललाटयोः। गले हृदि च बिन्द्वर्ण- विसौ परितःस्थिती॥२२१॥ रव्यङ्गुलम्' इति द्वादशाङ्गलम्; अत एवाकारादेईस्वत्रयस्योदयात्प्राणवाहे पटिश २० पु. परतः स्थितौ इति पाठः। ग. पु• युगमिति पाटः।
१० श्रीतन्त्रालोकः दगुलानि भवन्ति । इतरदिति, दीर्घत्रयम् । पर्णा इति, अकारायूकारान्ताः । क्रमादिति, सूर्यपथे ह्रस्वानां त्रयमिन्दुपथे च दीर्घाणामिति। आदिसंधाविति, अकारेणाकारेण च 'संधी' संधिकार्य कृते सतीत्यर्थः । अस्यैव संध्यक्षर- द्वयस्यादिसंधावितरत्संध्यक्षरद्वयम् । एषां च प्रत्येकमष्टादशाङ्गुलमुर्दयो येन प्राणापान- वाहयोाप्तिः सियेत् । प्रवेश इति न तु नि- र्गमेऽपि । द्वादशान्तेति न तु समचतुर्भागक- नया, तेन द्वादशान्ते ऋकारः, इत्यादिक्रमः। 'परितः' इति सर्वतः । तेन प्राणे विन्दोः पद्रिंशदङ्गलात्मन्यभ्युदयो विसर्गस्य त्वाने, द्वयोरपि विन्दुनादात्मकत्वात् ॥ २२१ ॥ एतदेवान्यत्राप्यतिदिशति कादिपञ्चकमाद्यस्य वर्णस्यान्तः सदोदितम्। C । .क.पु.कल्पनयेति पाट।
. श्लो० २२३] पष्टमाहिकम् एवं सस्थानवर्णाना- मन्तः सा सार्णसन्ततिः॥२२२॥ अन्तरिति, तेन यदेवाकारस्योदयस्थान तदेव कवर्गस्येति । सस्थानवर्णानामितीकारा दीनां सा सेति चवर्गादिका, तदिकारोदय स्थाने चवर्गस्य यकारशकारयोश्चोदय इत्या दिक्रमः ॥ २२२ ।। ननु सर्वत्रायं नियमः किं संभवेन्न वा इत्याशङ्कयाह हृद्येष प्राणरूपस्तु सकारो जीवनात्मकः।. बिन्दुः प्रकाशो हार्णश्च पूरेणात्मतया स्थितः ।।२२३॥ यद्यपि सस्थानतया सकारस्य दन्ता उद- यस्थानं हकारस्य च कण्ठस्तथापि प्राणात्मजी- १० पु. चवात्मिकेति पाठः । २ स० पु. पूरणात्माभिघ इति पाठः। ग. पु. प्रेरणात्माभित इति पाठः।
१८२ श्रीतन्त्रालोकः वनरूपत्वासकारो हृद्युदेति हकारश्च प्रकाशा त्मकत्वात्सर्वत इति ॥ २२३ ॥ एतदुपसंहरन्नन्यदवतारयति उक्तः परोऽयमुदयो वर्णानां सूक्ष्म उच्यते । सूक्ष्मश्च विधेति, सत्र सूक्ष्मसूक्ष्मं तावदुद- यमाह प्रवेशे षोडशोन्मुख्ये रखयः षण्ठवर्जिताः॥२२४ ॥ तदेवेन्दर्कमत्रान्ये. वर्णाः सूक्ष्मोदयस्त्वंयम् । पोडशेति, अपानवाहस्यानन्दप्राधान्यात् अत एव परोदयेऽप्यपानवाह, एव पण्ठवर्णाना- मुदय उक्तः । 'औन्मुख्ये' इति निर्गमे । तेनापाने प्रत्येकं सचतुर्भागमङ्गलद्वयमुदयः प्राणे पुनरकुलत्रयमिति । तदेव वर्णानां पोड- .
. लो० २२६ ] पष्ठमाटिकम् १८ शकंद्वादशकं वावलम्व्यान्ये सस्थानाः कवर्गाद्या इन्द्वकं प्राणापानविपये समुदयन्ति, इत्यत्र सूक्ष्मेऽपि वर्णोदये सूक्ष्मोऽयमुदय इत्यर्थः॥२२॥ एवं सूक्ष्मसूक्ष्मं वर्णोदयमभिधाय सूक्ष्म- स्थूलमप्याह कालोऽर्धमात्रः कादीनां त्रयस्त्रिंशत उच्यते ॥३२५॥ मात्रा ह्रस्वाः पञ्च दीर्घा- ष्टकं द्विस्त्रिःप्लुतं तुल। दीर्घाप्टकमिति, संध्यक्षरैः सह । द्विरिति द्विमात्रं, त्रिरिति निमात्रं, दीर्घाणां च प्लुतत्वे तन्नोक्तं तस्योच्चारणापेक्षत्वात्। न पां दीर्घत्व वत्प्लुतत्वमपि स्वाभाविकमिति भावः । एवं लकारस्यापि प्लुतत्वमेव स्वभावः, इति दीर्घ त्वापरिगणनेन तदेवेहास्य प्राधान्येनोक्तमिति . १. पु० मोक्षितत्वात् इति पाठः श्रीतन्त्रालोकः न कश्चिद्दोपः । तेन कादीनां त्रयस्त्रिंशदर्ध- मात्राः हस्वानां दश, दीर्घाणां द्वात्रिंशत्, प्लु- तस्य.पडित्येकाशीतिरर्धमात्राणामिति ॥२२५॥ नन्वेवं विभाजने किं प्रमाणम् १ इत्या- शङ्कयाह .एकाशीतिमिमामर्ध- मात्राणामाह नो गुरुः॥२२६॥ तस्याप्येवमभिधाने क इवाशयः ? इत्याश- याह यहशाद्भगवानेका- शीतिकं मन्त्रमभ्यधात्। यद्वशादिति, अस्याः परस्या मन्त्रमातुरे- काशीतिमात्रासद्भावात्। एकाशीतिकमिति, ता- वत्संख्याकपदारव्धत्वात् ॥ ननु भगवतो व्योमव्याप्यभिधानेऽप्येतन्नि- मित्तमित्यत्र किं प्रमाणम् ' इत्याशङ्कयाह .
श्लो०.२२८] पष्टमाह्निकम् एकाशीतिपदा देवी शक्तिः प्रोक्ता शिवात्मिका ॥२२७ श्रीमातङ्गे तथा धर्म- संघातात्मा शिवो यतः। शक्तिरिति, व्योमव्यापिरूपा । प्रोक्तेति, श्रीमातङ्गे । यदुक्तं तत्र 'एकाशीतिपदा देवी या सा शक्तिः शिवात्मिका । (म. त. ११७३१) इति । तथा मन्त्राथ शक्तिगर्भस्थाः शक्ति पारमेश्वरी । कालानलान्तमध्वानं शिवायाप्तं यया मुने । एकाशीतिपदोपेता विद्यापादे मयोदिता ।' (म० त०) इति। नन्वस्या व्योमव्यापिरूपिण्याः पार- मेश्वर्याः शक्तेस्तचढ्दादिमन्त्रात्मकत्वेऽपि कथं शिवात्मकत्वमपि स्यात् ? इत्याशङ्कयोक्तं 'तथे.. त्यादि । यत्तथोक्तेन प्रकारेण धर्माणां 'पत्युर्घः शक्तयस्तु.. (मत. ११२०) इत्याद्युक्त्या शक्तीनामेकाशीत्यात्मा यः संघात- . ........ २४.
श्रीतन्त्राटोकः स्तदात्मा शिवः,-इति सामस्त्येनास्यास्तदात्म- कत्वम् । तदुक्तं तत्र 'एकत्रय समस्तानि एकाशीतिपदानि तु । अष्टपष्टयधिक प्रोक्तं वर्णानां तु शतत्रयम् ॥ अची तु देवदेवस्य समस्तव्यस्तरूपिणी ।' इति । 'एकोऽपि वर्णो देवानां वाचकः परिकीर्तितः । सर्वेऽप्येकस्य युज्पन्त यतस्ते विश्वमूर्तयः ।।' इति च ॥ न चैतदागमेनेव सिद्धं यावद्युक्तितोऽपि,- इत्याह तथा तथा परामर्श- शक्तिचक्रेश्वरः प्रभुः॥२२८॥ स्थूलैकाशीतिपदज- परामर्शेविभाव्यते। 'शक्तिमतः खलु शक्तिरनन्या' इत्याद्युक्त- युक्त्या वस्तुतः सर्वशक्त्यविभिन्नस्वभावोऽपि 'प्रभुः' परमेश्वरः शिवस्तत्तद्वारब्धत्वात् स्थू- , श्लो० २३०] पष्ठमाहिकम् लानि यान्येकाशीतिपदानि तज्जा ये प्रणवाद्याः परामर्शास्तैस्तथा तथा सर्वात्मानन्तादितया प- रामर्शो यस्यैवंविधो यदृदादिशक्तिचक्रं तस्य 'ईश्वरः ' संयोजनवियोजनकारी विभाव्यते' एवं यस्य ज्ञप्तिः क्रियते इत्यर्थः। अत एव चात्र सर्वात्मादीनां यावता परामर्शः सिद्ध्येत् ताव- त्येव पदवं,येनैकाशीतित्वं स्यात् ॥ २८॥ तदाह तत एव परामर्शो यावत्येकः समाप्यते॥२२९॥ ॥२२९॥ तावत्तत्पंदमुक्तं नो सुप्तिङियमयन्वितम्। नो सुप्तिडियमः, तथात्वे हि 'नमः शिवायेति पदं पटणे प्रणवादिकम् ।' इत्यायुक्तयैकत्वेऽप्यस्य पदस्य त्रिपदत्वमाप- तेदिति गणना विसंवदेत् ॥ २२९ ।। , ८ श्रीतन्त्रालोकः . . ननु यद्येवं तदेकाशीत्यर्धमात्रात्मिकेयमेव भगवती परा शक्तिरवस्थितेति किमनेनैतत्स- मव्याप्तिकेन व्योमव्यापिनोपदिष्टेन? इत्याश- ङ्कयाह एकाशीतिपदोदार- विमर्शक्रमबृंहितः ॥२३०॥ स्थूलोपायः परोपाय- स्त्वेप मात्राकृतो लयः। 'लयः' इति स्वात्ममात्रविश्रान्तिः। स्थू- लोपायः इत्यनेनोपदेश्यभेदादुपदेशस्यापि भेदः, इति प्रकाशितम् ॥ २३०॥. एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवानुसरति अर्धमात्रा नव नव' स्युश्चतुषु चतुर्षु यत्॥२३१॥ अङ्गुलेष्विति पट्विंश- त्येकाशीतिपदोदयः। .
. . ओ०२३३] षष्ठमाह्निकम् प्रत्यङ्गुलचतुष्टयं नवार्धमात्राः, इत्यङ्गुलप- दिशदात्मनि प्राणचारेऽर्धमात्राणामेकाशीति- रुदियात्॥ २३१ ॥ आसां चोदये विभागान्तरमस्ति-इत्याह अङ्गले नवभागेन विभक्ते नवमांशकाः ॥ २३२॥ वेदा मात्रार्धमन्यत्तु द्विचतुःषगुणं त्रयम्। एकैकस्मिन्नङ्गले नवधा विभाजिते पत्रिंश- तोऽमुलाना सचतुर्विंशतिशतत्रयं मानं भवेत् । भागानां तत्रैकैकस्यार्धमात्रात्मनो व्यञ्जनस्य चत्वारो नव भांगा उदयस्थानमित्युक्तं 'नव- मांशका वेदाः मात्रार्धम् ' इति । अन्यत्पुनई- स्वदीर्घप्लुतलक्षणं त्रयं द्विचतुःपगुणं , इस्वस्यै- . , १ क. पु० विभछन नयांशकाः इति पाठः ।
१९. श्रीतन्त्रालोकः कमात्रत्वादष्टौ नव भागा उदयस्थानं, दीर्घस्य द्विमात्रत्वात्पोडश,प्लुतस्य त्रिमात्रत्वाच्चतुर्विंशतिः।। 'एतदेव संकलयति एवमङ्गुलरन्ध्रांश- चतुष्कद्वयगं लघु ॥२३३॥ दीर्धं प्लुतं क्रमाद्वित्रि- गुणमधूततोऽपि हल । 'रन्ध्रांशानां' नवभागानां 'चतुष्कद्वयम्' अष्टौ नवभागा इत्यर्थः ।लघिति, इस्वं ततो' लघोरपीत्यर्थः । तेन पञ्चानां इंस्वानां प्रत्येक- मष्टसु भागेपूदयाच्चत्वारिंशन्नव नव भागा भवन्ति, दीर्घाणामष्टानां प्रत्येक पोडशभागक- लनया साष्टाविंशति शतम् इति । प्लुतस्य चतुर्विंशतिस्त्रयस्त्रिंशतां हलां प्रत्येकं भागचतु- प्टयकलनया द्वात्रिंशदधिकं शतमिति । यद्यप्ये- काशीतेरर्धमात्राणां प्रत्येकमङ्गुलीयाश्चत्वारो नव श्लो० २३५] पष्ठमाह्निकम् १९१ भागा उदयस्थानमित्येव स्पष्टमभिधातव्यं, तथाप्येवमभिधानेऽयमाशयः- यदादौ ह्रस्वा- नामुदयस्तदनन्तरं दीर्घाणां प्लुतस्य व्यञ्ज- नानां च, इति क्रमः प्रदर्शितो भवेदिति॥२३३॥ नन्बेतन्मध्ये क्षकारश्चेद्गण्यते तदा किय- त्योऽर्धमात्रा अधिकीभवन्ति, तथावे वासां कथमुदयः ? इत्याशङ्कयाह क्षकारख्यर्धमात्रात्मा मात्रिकः सतथान्तरा॥२३४॥ विश्रान्तावर्धमात्रास्य तस्मिंस्तु कलिते सति। अङ्गुलार्धेऽद्रिभागेन वर्धमात्रा पुरा पुनः ॥२३५॥ १० पु. कल्पित इति पाठः । २ ख० गपु० भागोने इति पाठः। ३.पु. पुनरिति पाठः। .
१९२ श्रीतन्त्रालोकः क्षकारः सर्वसंयोग- ग्रहणात्मातु सर्वगः। सर्ववर्णोदयाद्यन्त- सन्धिपूदयभाग्विभुः ॥२३६॥ कथमस्य व्यर्धमात्रात्मकत्वमित्याशङ्कयोक्तं 'मात्रिकः' इत्यादि । ककारसकारात्मकार्धमा- त्राद्वयारब्धत्वात् । अन्तरा विश्रान्ताविति, क- • कारान्तरमर्धमात्रीयं कालं विश्रम्य सकारस्यो- चारात् । 'कलिंते' इत्येकाशीत्या, तेनार्ध- मात्राणां चतुरशीतिरिति । ' अद्रि' इति सप्त । अङ्गुलार्धे हि सप्तधा विभक्ते प्रत्यगुलं चतुर्दश भागाः-इति पत्रिंशतोऽगुलानां सचतुष्टयं शत- पञ्चक भागानां भवेत् । तेनार्धागुलीयेपु पट्सु सप्तभागेवर्धमात्रेति पड्रिंशदडलात्मनि प्राण- चारे चतुरशीतेरर्धमात्राणामुदय इति । नन्वेव- मेकाशीतिकलोदयपक्षेक्षकारस्य नास्त्येवोदयः- , .क. स. पु कल्पित इति पाट ।
श्लो० २३७ षष्ठमाझिकम् १९३ , इत्युक्तं स्यादित्याशङ्कयाह पुरेत्यादि । सर्वसं- योगग्रहणात्मेति, संयोगान्तलक्षणपरत्वात् । यदुकं प्राक् 'योनिरूपेण तस्यापि योगे क्षोभान्तरं विदुः । तन्निदर्शनयोगेन पञ्चाशत्तमवर्णता । (त० १८१) इति । अनुत्तरविसर्गानुप्राणितयोः ककार- सकारयोः प्रत्याहारतयोपादाने निखिलस्य वर्णजातस्य गर्भीकारात्, अत एवायं सर्ववर्णा- नामादावन्ते परस्परं संमेलनात्मनि 'संधौ' चोदयभाक्सर्ववर्णानुस्यूततयोदियात्, यतोऽयं विभुः' व्यापक इत्यर्थः ॥ २३६ ॥ . नन्वेवं वर्णोदयेनाभिहितेन कोऽर्थ ? इत्या- शङ्कयाह इत्थं षड्विंशके चारे वर्णानामुदयः फले। क्रूरे सौम्ये विलोमेन हादि यावदपश्चिमम्॥२३७॥ २५
१९४
श्रीतन्त्रालोकः
'वर्णानाम्' इत्यकारादीनां, उदय इत्य-
Cढ्दयाबादशान्तम् । 'क्रूरे' इति मुक्तिलक्षणे,
'सौम्ये' इति तत्तत्सिद्ध्यात्मनि भोगलक्षणे ।
'विलोमेन' इत्यर्थादपानोदये । विलोममेवाह
'हादि यावंदपश्चिमम्' इति । तदुक्तम्
'अर्थः प्रवहणे सिद्धिहृत्पदं यावदागतः ।
मुक्तिथैव भवेर्चे परतत्त्वे तु मुत्रते ।। (स्व०७५६)
इति । वस्तुतस्त्वकारस्य हृद्युदयस्थानं, हका-
रस्य तु द्वादशान्त इति ॥ २३७ ॥
एवमेतदुपजीवनेनैव सूक्ष्मपरमपि वर्णाना-
मुदयमाह
हृद्यकारो द्वादशान्ते
हकारस्तदिदं विदुः।
अहमात्मकमहेतं
यः प्रकाशात्मविश्रमः॥२३८॥
सो० २३९] पष्ठमाहिकम् अद्वैतमिति, प्रत्याहारक्रमेणाशेपवर्णान्तः- कारात् । प्रकाशेति, यदुक्तम् 'प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः।' (अ० प्र०सि० २२) इति ॥ २३८॥ एतच्चापानोदयेऽप्यतिदेष्टुमाह शिवशत्यविभागेन मात्रैकाशीतिका त्वियम् । द्वासप्ततावङ्गुलेषु द्विगुणत्वेन संसरेत् ॥२३९॥ शिवशक्त्योरविभाग इति, विन्दुनादात्म- प्राणापानोभयमेलनायामित्यर्थः । एकाशीति- रित्युपलक्षणं, तेन चतुरशीतिरपि । द्विगुण- त्वेनेति, पट्रिंशतोऽङ्गुलानाम् ॥ २३९ ॥ एतदुपसंहरन्नन्यदवतारयति श्रीतन्त्रालोकः उक्तः सूक्ष्मोदयस्वैधं द्विधोक्तस्तु परोदयः। अथ स्थूलोदयोऽर्णानां भण्यते गुरुणोदितः ॥२४०॥ अथ इत्यानन्तर्ये । गुरुणोदित इति सर्वशेषः॥ तत्र वर्गक्रमेण तावद्वर्णानां स्थूलमुदयमाह एककमर्धप्रहरं दिने वर्गाष्टकोदयः। रात्री च ह्रासयत्र केचिदाहुन केऽपि तु॥२४॥ हासवृन्डीति, वाह्यमहोरात्रमपेक्ष्यानपेक्ष्य वा ॥२१॥ तत्र वाह्याहोरात्रानपेक्षिमते साम्येनेवेपामु- दयः, इत्याह
१९७
लो० २४३] पष्ठमाह्निकम्
एष वर्गोदयो रात्री
दिवा चाप्यर्धयामगः।
'अर्धयामग' इति, प्रतिवर्गसार्धचतुरंगुलं-
मुदय इत्यर्थः॥
एवं वाह्याहोरात्रानपेक्षिमतमभिधाय तदि-
तरेपामपि दर्शयति
प्राणत्रयोदशशती
पञ्चाशदधिका च सा॥२४२॥
अध्यर्धा किल संक्रान्ति-
वर्गे वर्गे दिवानिशोः ।
सेति प्राणचारीया सार्धत्रयोदशशती।
'अध्यर्धा' इति साधी, प्रतिसंक्रान्ति नवांनां
प्राणचारशतानामभिधानात् । तेन दिने द्वाद-
शानां संक्रान्तीनामुदयः, इति साष्टशतं सहल-
दशकं प्राणचाराणां भवेत् । रात्रावप्येवं सषट्-
शतसहलेकविंशतिः ॥ २४२ ॥
श्रीतन्त्रालोकः
८
६०
अहोरात्रमेलनायां पुनः प्रतिसंक्रान्तित्रय-
मेकैकस्य वर्गस्योदयः, इत्याह
तदेक्ये तूदयश्चार-
शतानां सप्तविंशतिः॥२४॥
एवं प्रागुक्तसंक्रान्तिद्वयवहाह्याहोरात्रहास-
ध्यनुसारं वर्गाष्टकोदयस्यापिहासवृद्धी भवतः,-
इति सिद्धम्, अन्यथा प्रतिवर्गोदयं प्राणचा-
राणां नेयत्यं न स्यात् ॥ २४३॥
ननु क्षकारेण सह नव वर्गाः, इति येपां
मतं तत्रैपामुदये प्राणचाराणां कीदृग्विभागः?
इत्याशङ्कयाह
नव वर्गास्तु ये प्राहु-
स्तेषां प्राणशती रवीन् [वि.]
सत्रिभागैव संक्रान्ति-
वर्ग प्रत्येकमुच्यते ॥२४४॥
ओ० २४१]
पष्टमाहिकम्
१९९
अहर्निशं तदैक्ये तु
शतानां श्रुतिचक्षुषी।
रवीनिति द्वादश । सत्रिभागेति प्राणश-
तत्रयस्याधिक्येनोपादानात् । तेन प्रतिवर्गप्राण-
चाराणां शतद्वादशकम्, इति वर्गनवके साष्टशतं
सहलदशकं भवेत् तदैक्ये' इत्यहर्निशमेलने ।
श्रुतिचक्षुपी' इति चतुर्विंशतिः॥
एवं वर्णानां वर्गक्रमेण स्थूलमुदयमभिधाय
क्रमान्तरेणाप्याह
स्थूलो वर्गोदयः सोऽय-
मथार्णोदय उच्यते ॥२४५॥
तदाह
एकैकवर्षे प्राणानां
द्विशतं षोडशाधिकम्
बहिश्चषकपष्ट्विंश-
दिन इत्थं तथा निशि ॥२४६॥
.
२००
श्रीतन्त्रालोकः
चपकपटुिंशदिति, प्रतिचपकं पाणां प्राण-
चारणामुदयात् । तेन पञ्चाशतो वर्णानां साष्ट-
शतं सहस्रदशक प्राणचाराणां स्यात् ॥२४६॥
अत्र चोदये विशेष दर्शयति
शतमष्टोत्तरं तत्र
। रौद्रं शाक्तगथोत्तरम् ।
यामलस्थितियोगेतु
रुद्रशक्तयविभागिता॥२४७॥
'यामलस्थितियोगे' इत्युभयसंमेलनायाम्
॥ २४७॥
एतदेवं चाहोरात्रसंमेलनायां द्विगुणी-
भवेत, इत्याह
दिनरात्र्यविभागे तु
हरवह्नयध्यसुचारणाः।
सपश्चमांशा नाडी च
बहिर्वर्णोदयः स्मृतः ॥२४८॥
श्लो० २५०] पष्ठमाह्निकम् दृग्बह्वयब्धिरिति, द्वात्रिंशदधिकं शतचतुष्ट- यम् 'असुचारणाः' इति प्राणसंचारणाः।सपञ्च- मांशा नाडीति, चपकपड्रिंशतो द्वैगुण्याता२४८ एतदुपसंहरन्नन्यदवतारयति इति पञ्चाशिका सेयं वर्णानां परिचर्चिता । एकोनां ये तु तामाहु- स्तन्मतं संप्रचक्ष्महे॥२४९॥ तदाह वेदाचाराः पञ्चमांश- न्यून चारार्धमेकशः । वर्णेऽधिकं तद्विगुण- मविभांगे दिवानिशोः ॥२५०॥ 'वेदाश्चत्वारः । पञ्चमांशेनात्किंचिदं- शेन 'न्यूनं' रहितम् । अधिकमिति, पोडशा- - क. प. पु. गं परिभागः इति पाठः।
. २०२ श्रीतन्त्रालोकः धिकशतद्वयस्योपरीत्यर्थः । तेनैकोनपञ्चाशतो वर्णानां प्रत्येकं पोडशाधिकशतद्वयात्मकत्वात् चतुरशीतिशतपञ्चकाधिकं सहस्रदशकं प्राण- चारा भवन्ति, अधिकेश्च प्रत्येकं चतुर्भिः सप- प्रणवतिशतम्, अनेन च चाराणां सार्धचतुर्वि- शतेः किंचिदंशन्यूनं .पञ्चभागं विंशति (2) साष्टशतं सहस्रदशकम् ॥ २५० ॥ एतदेवोपसंहरति स्थूलो वर्णोदयः सोऽयं पुरा सूक्ष्मो निगद्यते। सूक्ष्म इत्यर्थात्परोऽपि पुरा निगदित इत्यर्थः “॥ २५१ ॥ इदानीमाह्निकार्थमार्यायांः प्रथमार्धेनोपसं- हरति इति कालतत्त्वमुदितं शास्त्रमुखागमनिजानुभवसिद्धम् । . c । - श्लो० २५१] पष्ठमाहिकम् मुखागमेति शैवी मुखमिहोच्यते' (वि०म० २० श्लो०) इत्यादिन्यायेन परतत्त्वप्रवेशीपाय- त्वाद्गुरुस्तस्य 'आगमो' वचनमित्यर्थः । सि- द्धमिति 'यतः शास्त्रक्रमातमगुरुपज्ञानुशीलनाद । आत्मपत्ययितं ज्ञानं पूर्णत्वाद्धैरवायते ।। (२०४७७) इत्यायुक्तयुक्त्या पारिपूर्येन लब्धसिद्धीति शिवम् ॥ प्राणापानसमाश्रय- चारप्रविचारचातुरीनिष्ठः। पटाहिके वरिष्ठां विवृतिमिमां जयरथश्च ॥ . इति श्रीमन्महामाहेश्वराचार्यवयं-श्रीमदभिनवगुप्तविररिते समालो भीजपरयविरचितविवेकाभिब्यव्याख्योपेते कालतरव. प्रकाशन नाम पष्ठमाहिकम् ॥ ६॥ है श्रीमंतापभूभनुरामया पीतये सताम् । मधुसूदनकौलेन संपायेदं प्रकाशितम् ।
मथ
श्रीतन्त्रालोके
श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते
श्रीजयरयकृवविवेकाख्यटीकोपेते
सप्तममाह्निकम् ।
तत्तन्मन्त्राभ्युदय-
प्रगुणीकृतचण्ड भैरवावेशः।
विद्रावितभवमुद्रो
द्रढयतु.भद्राणि जयरुद्रः॥
इदानीं कालतत्त्वानुपक्कमेव द्वितीयार्थेन
चक्रोदयं वक्तुमुपक्रमते
अथ परमरहस्योऽयं
चक्राणां भण्यतेऽभ्युदयः॥१॥
चक्राणामिति मन्त्राद्यात्मनाम् ॥१॥
. श्रीतन्त्रालोकः ननु सर्वमन्त्रसामान्यभूताया भगवत्या मातृ- कायाः समनन्तरमेवोदय उक्तः, तत्तद्विशेषरू- राणां मन्त्राद्यात्मनां चक्राणामप्युदयाभिधाने किं निमिचम् ? इत्याशङ्कयाह इत्ययत्नजमाख्यात यत्नजं त निगद्यते। नन्वेतन्निगदनेन कोऽर्थः ? इत्याशङ्कयाह बीजपिण्डात्मकं सर्व संविदः स्पन्दनात्मताम् ॥२॥ विदधत्परसंवित्ता- वुपाय इति वर्णितम् । सर्वमिदं वीजपिण्डात्मकं मन्त्रजातम् अर्था- प्राणान्तरुदयत् संविदः स्पन्दनात्मतां शाक्त- स्वरूपावेशं विदधत् परवित्तावुपायः पारम्प- येण शाम्भवमपि रूपमाविशेत, इत्याणवोपाये वर्णतत्त्वान्तर्वर्णितं तन्नास्यानर्थक्यमित्यर्थः ॥२१॥ .. पु. उदयादिति पाठः।
लो०५] सप्तममाधिकम् नन्विह मन्त्राणां प्राणान्तरेवमुदयः, इत्य- भिधातुं प्रक्रान्तं, स च यलजः, इति तत्र यले क्रियमाणे तदेव सिद्ध्येत् नान्यदिति कथमत्रैव परसंविदुपायत्वमप्येषां स्यात् ? इत्याशङ्कयाह यथारघट्टचक्रान- घटीयन्त्रौघवाहनम् ॥३॥ एकानुसंधियत्नेन चित्रं यन्त्रोदयं भजेत् । एकानुसंधानबला- जाते मन्त्रोदयेऽनिशम् ॥४॥ तन्मन्त्रदेवता यत्ना- तादात्म्येन प्रसीदति। इहारघवाहकृस्य यन्त्रमानवाहनक्रियाविष- यत्वात् एकेनैवानुसंधानेन अरघट्टचक्राग्रगतघ. टीसंवन्धिनो यन्त्रस्यौधेन नैरन्तर्येण वाहनं यथा , ग. पु० वशादिति पाठ ।
L ८ to- श्रीतन्त्रालोकः 'चित्रं यत्रोदयं भजेत्' ऊर्ध्वाधोमुखरिक्तपूर्ण- घटीचक्रात्मना वैचित्र्येण निष्पत्तिमियात्, तथा साधकस्यानिशं मनोदयविपयेणैकेनवानुसंधा- नेन न केवलमेतदुदय एव सिध्येत् यावत्तन्नान्त- रीयकतया प्रयत्नान्तरमन्तरेण एतन्मन्नदेवतापि तादात्म्येन प्रसीदतीति । इदमत्र तात्पर्यम्- यथा हि यत्रं वाहयन् अरघवाहकस्तत्र वैचि- त्र्यान्तरमपि प्रयत्नान्तरनिरपेक्षमासादयेत्, एवं साधकोऽपि मन्बोदय एव प्रयतमानः परसंवि- दैकात्म्यमिति। एवं चक्रोदयः परसंविदासादने निमित्तमित्यावश्याभिधेयः,-इत्युक्तं स्यात्॥४॥ तदाह 'खे रसैकाक्षि नित्योत्थे तदर्धं द्विकपिण्डके ॥५॥ १.पु.तग्मप्रेति पारः। २ ख.पु. निरपेक्षमेवेति पाठः। ...पु.प परसंविदिति पारः। .....ग.पु. पिण्डगे इवि पाटः।
लो०९] सप्तममाह्निकम् त्रिके सप्त सहस्राणि हिशतीत्युदयो मतः। चतुष्के तु सहस्राणि पञ्च चैव चतुःशती ॥६॥ पश्चार्णेऽब्धिसहस्राणि त्रिशती विंशतिस्तथा. षट्रे सहस्रत्रितयं षट्शती चोदयो भवेत् ॥७॥ . सप्तके त्रिसहस्रं तु षडशीत्यधिकं स्मृतम् । शतैस्तु सप्तविंशत्या वर्णाष्टकविकल्पिते ॥८॥ चतुर्विंशतिशत्या तु नवार्णेषूदयो भवेत् ।
श्रीतन्त्रालोकः अधिषष्टयेकविंशत्या शतानां दशवर्णके ॥९॥ 'एकानविंशतिशतं चतुःषष्टिः शिवार्णके। अष्टादश शतानि स्यु- . रुदयो द्वादशार्णके ॥१०॥ त्रयोदशाणे हापष्टया शतानि किल षोडश । त्रिचत्वारिंशता पञ्च- दशेति भुवनार्णके ॥११॥ . चतुर्दशशती खाब्धिः स्यात्पञ्चदशवर्णके ॥ त्रयोदशशती सार्धा पोडशाणे तु कथ्यते ॥१२॥ .... वर्गगे इतिरायः।
में सप्तममाहिकम् . शतहादशिका सप्त- दशाणे सैकसप्ततिः। अष्टादशाणे विज्ञेया शतहादशिका बुधैः ॥१३॥ चतुर्विंशतिसंख्याके चक्रे नवशती भवेत् । सप्तविंशतिसंख्याते तूदयोऽष्टशतात्मकः ॥१४॥ हात्रिंशके महाचके षट्शती पञ्चसप्ततिः । द्विचतुर्विंशके चक्रे सार्धा शतचतुष्टयीम् ॥१५॥ उदयं पिण्डयोगज्ञः पिण्डमन्त्रेषु लक्षयेत् । ग. पु. संश्यावे इति पाठ । २ म० पु. तस्वयोग इति पाठः।
श्रीतन्त्रालोकः चतुष्पञ्चाशके चक्रे शतानां तु चतुष्टयम् ॥१६॥ 'सप्तत्रिंशत्सहार्थेन त्रिशत्यष्टाष्टके भवेत् । अर्धमत्रिभागश्च '. षट्षष्टिर्दिशती भवेत् ॥१७॥ एकाशीतिपदे चक्रे उदयः प्राणचारगः । चक्रे तु षण्णवत्याख्ये सपादा द्विशती भवेत् ॥१८॥ अष्टोत्तरशते चक्रे द्विशतस्तूदयो भवेत् । खे इति द्वे शून्ये, रसाः पद, अक्षीति द्वयं, नित्योत्थ इति स्वरसत एव हि सततं प्रवहतः स.ग.पु. मस इति पाठः ।
श्लो. १९] सप्तममातिकम् प्राणस्य सपट्शतसहलैकविंशत्यातिःJ चाराणां भवेदिति भावः । एवमेकपिण्डात्मनो मन्त्रस्य प्रतिप्राणचारं तदानुगुण्यात् तत्संख्याक एवो- दयः तेन प्रतिप्राणचारमेकैकस्य पिण्डस्य वर्णस्य वोदयात् यादिपिण्डवर्णात्मना मन्त्राणां नित्योदितप्राणचारार्धत्रिभागक्रमेण .न्यूनसं- ख्याक उदयः, इत्याह 'तदध द्विकपिण्डके' इति । तस्याः सपट्शतायाः सहस्रकविंशतेरधं साष्टशतं सहस्रदशकम् । अत्र हि स्वारसिकपा- णचारद्वयकालस्यैकपाणचारतयोदयस्य चिकी- र्पितत्व; 'जपः प्राणसमः कार्यः' इति हि सर्व- वाविशेषेणोद्धोप्यते, अत एवेह यत्नजत्वमुक्तम् । सप्त सहस्राणि द्विशतीति, स्वारसिकप्राणचार- त्रयकालस्यैकप्राणवारतयोदयस्य कर्तुमभिप्रे- तत्वात् । एवमुत्रापि अवसेयम् । अब्धीति चत्वारः। पडशीत्यधिकमिति भूना, एवं हि चारद्वयमधिकं.भवेत् , तेनात्र प्रतिचारं किंचि- क. पु. इत्यत आहेत्ति पाठः।
८ १० श्रीतन्त्रालोकः दंशन्यूनता कार्या येन गणनासाम्यं स्यात् । न चैतदस्माभिः स्वोत्प्रेक्षितमुक्तमिति साक्षा- दागम' एवं पठितः, अस्माभिरप्यत्र गणना विभज्य न दर्शिता ग्रन्थविस्तरभयादनुपयो- गाच्च । अधिकपष्टिरकविंशतिशती तया दशव- र्णगे इत्युदयः। 'शिवाः' रुद्रा एकादश, चतुः- पष्टिरितिः भूम्ना, एवं हि चारचतुष्टयमधिकं भवेत् । द्वापष्टयेति भूम्ना, पण्णां प्राणचारा- णामतिरेकात् । त्रिचत्वारिंशतति भूम्ना, चार- द्वयाधिक्यात् । पञ्चदशेति शतानि । भुवनेति चतुर्दश। खाब्धिरिति चत्वारिंशत् । सैकसप्त- तिरिति भूम्ना चारसप्तकातिरेकात् । न चात्र संख्यायाः कश्चित्क्रमो विवक्षितः, इत्येकोन- विंशादीनां चक्राणामन्तरानुपदेशे न कश्चि- दोपो, यावता हि अत्र प्रतिघ्राणचारमेकेकस्य चक्रस्योदये यत्नः कार्यः, इत्यभिधित्सितं तच्चे- वमपि सिद्ध्येदिति । 'द्विचतुर्विशके' इत्य- 12. म. ग. पु. वर्णभाग इति पार ।
श्लो० १९] सप्तममाह्निकम्
११
प्टाचत्वारिंशदात्मक इत्यर्थः । 'अष्टाष्टके' इति
चतुःषष्टयात्मके। सहार्धेनेति येनावशिष्टा द्वात्रिं-
शत्प्राणचारा भवन्ति । अर्धमिति अर्धत्रिभाग
इति, येन सार्धाश्चत्वारिंशत्प्राणचारा भवेयुः
सार्धास्त्रयोदश चेत्युभयथा चतुःपञ्चाशदिति
गणनासान्यं स्यात् । तदुक्तं श्रीयोगिनीकौले
'नियोदिते सहस्राणि एकविंशच्छतानि पटू ।
द्विके दश सहस्राणि तथाप्टौ च शतानि ||
त्रिके सप्त सहस्राणि द्विशतीत्युदयः स्मृतः ।
चतुष्क तु सहस्राणि पञ्च तुर्यशतानि तु ॥
पञ्चाक्षरे सहस्राणि चत्वारि त्रिशतोदयः ।
विंशाधिकः समाख्यातो ज्ञेयश्चोदयवाहिभिः।
पट्टे तु त्रिसहस्राख्यः परशतान्तोदयः स्मृतः ।
सप्तके त्रिसहस्रं तु पडशीत्यधिकं स्मृतम् ।।
इत्यादि।
- ' अष्टोत्तरशते चने मन्त्रपिण्डाक्षरात्मके ।
द्विशतात्मा पुनः प्रोक्त उदयः सर्वसिद्धिदः ॥
इत्यन्तम् ॥
१ ख. पु. वादिभिरिति पाठः।
.
श्रीतन्त्रालोकः . न चेतावतैव विरन्तव्यमित्याह क्रमेणेत्थमिदं चक्र षट्कृत्वो द्विगुणं यदा।। १९॥ ततोऽपि द्विगुणेऽष्टांश- स्यार्धमध्यर्धमेककम् । ततोऽपि सूक्ष्मंकुशले- रर्धार्धादिप्रकल्पने ॥२०॥ भागपोडशकस्थित्या सूक्ष्मश्वारोऽभिलक्ष्यते। 'इत्थं 'वक्ष्यमाणेन प्रकारेणेदमष्टोत्तरशता- स्मकं चक्र क्रमेण पकृत्वो द्विगुणं, प्रथमं पोड- शाधिकशतद्वयात्मकं यावदन्ते सद्वादशशतन- वकाधिकपट्सहस्रात्मकं यदा भवेत् तदा तस्मि- न्नपि द्विगुणे सचतुर्विशतिशताष्टकाधिकसहस्र- प्रयोदशात्मके चक्रेभ्यर्धमत्रेति कृत्वा सार्धमे- क. पु. कृयति पाठः । २ क. पु. मप्यमिति पाठः।
श्लो० २१] सप्तममाह्निकम् ककं प्राणस्य चरणमष्टांशस्याध पोडशो भाग- चोदयो भवेदित्यर्थः। तदनन्तरमपि भागपो- डशकस्थित्यार्धार्धादिकल्पने कृते सति "सूक्ष्म- कुशलैः' परधाराधिरूढैयोगिभिः 'सूक्ष्मो'ऽति- परिमितः प्राणीयश्चारांशोऽ'भिलक्ष्यते' ज्ञायते इत्यर्थः । इदमत्र तात्पर्यम्-एवंकलनायां हि प्राणचारीयः पोडशो भागः सपट्शतपञ्चचत्वा- रिंशत्सहस्राधिकलक्षत्रयात्मनश्चक्रस्योदयःस्यात् तस्याप्यर्धकल्पने सशतद्वयकनवतिसहस्राधिक.. लक्षपदात्मनश्चक्रस्य द्वात्रिंशोभागः; तस्याप्येवं कल्पने सचतुःशंतयशीतिसहस्राधिकत्रयोदश- लक्षात्मनश्चक्रस्य चतुःपष्टितमो भागः, इत्यः न्तमेव परिमितः प्राणचारीयो भागो योगिना- मभिलक्ष्यो भवतीति । नन्वेवमभिलक्षणेन योगिनां किं स्यात् ? इत्याशङ्कयाह श्रीतन्त्रालोकः एवं प्रयत्नसंरुख- प्राणचारस्य योगिनः ॥२१॥ क्रमेण प्राणचारस्य पास एवोपजायते । ग्रास इति विरुद्धतया पुनरनुदयात् ॥ अतोऽप्यस्य किं स्यात् ? इत्याशङ्कथाह प्राणग्रासक्रमावाप्त- कालसंकर्पणस्थितिः ॥२२॥ संविदेकेव पूर्णा स्या- ज्ज्ञानभेदव्यपोहनात् । ज्ञानभेदापोहनमेवोपपादधति तथा हिं' प्राणचारस्य नवस्यानुदये सति ॥२३॥ . ग. पु. तपापीति पार।
लो० २४] सप्तममाहिकम् न कालभेदजनितो ज्ञानभेदः प्रकल्पते। कालस्य हि साक्षात् प्राणोऽधिष्ठानमिति प्राणस्यानुदये कालोऽपि नोदियात्, इति तस्या- भावात् तज्जनितोऽपि ज्ञानस्य भेदो न भवेत्,- इति युक्तमुक्तम् ‘एकैव पूर्णा संवित्स्यात्'इति॥ ननु प्राणग्रासक्रमेण कालस्यापि ग्रासो वृत्तः, इति तदाहितश्चेत्संविदि भेदो नास्ति तज्ज्ञेयाहितो भविष्यति येनेदं नीलज्ञानमिदं पीतज्ञानमिति विभागः, इत्येतावतेव कथमे- कत्वमस्याः सिद्ध्येत् ? इत्याशङ्कयाह संवेद्यभेदान्न ज्ञानं भिन्नं शिखरित्तवत् ॥२४॥ नहि एकान्ततः संवेद्यभेदः संविदं भिन्द्यात्। एवं हि तत्तद्गृहाणां नामादिवेद्यभेदेऽपि कथमे- कमेव नगरादिज्ञानं स्यादित्युक्तं 'शिखरिवृत्त-
श्रीतन्त्रालोक
.
वत्' इति । उन्नतप्रदेशावस्थितस्य हि पुंसस्त-
त्तदाभासमय एक एव प्रकाशो भवेदिति भावः।
यपाहुः
'तस्मात्सत्यपि वाह्येऽर्थे धीरेकानेकवेदनात् ।
अनेकसहषाकारा नानेकेव प्रसज्यते ।'
इति। तस्मादस्य काल एव भेदकः, स चाति-
सूक्ष्मक्षणात्माभिमतो येन ज्ञानस्योत्पादानन्तरं
निरोधो भवेत् ॥२४॥
तदाह
कालस्तु भेदकस्तस्य
स तु सूक्ष्मः क्षणो मतः।
तुशब्दो हेतौ। स इति कालः ॥
ननु चास्य सौक्ष्म्ये कोऽवधिः ? इत्या.
शङ्कयाह
सौक्ष्म्यस्य चावधिर्ज्ञानं
यावत्तिष्ठति स क्षणः ॥२५॥
३ श्लोक २६] सप्तममाह्निकम् १७ तेन नियतोभयान्तपरिच्छिन्ना ज्ञानीयैव स- त्तास्य सत्तेत्यर्थः। नन्यस्य परोपाधिकः कस्मादेवनिर्देशः? इत्याशङ्कयाह अन्यथा न स निर्वक्तुं निपुणैरपिं पार्यते अन्यथेति 'अभेद्यो निरंशः काललवक्षणः' इत्यादिना साक्षाल्लक्षणेनेत्यर्थः। एवं हि उत्पा- दानन्तरं निरोध इत्येवमुच्यमाने तस्याद्यन्तो कथितौ स्यातां तत्सद्भावे च मध्यमप्यवश्य- संभाव्यम्,-इत्यस्यादिमध्यावसानेख्यशत्वमा- पतेदिति निरंशत्वेऽभिधित्सिते सांशत्वमभिहित स्यात् । यदाहुः 'यथान्तोऽस्ति क्षणस्यवमादिमध्यं च चिन्त्यताम् । आत्मकत्वात्मणस्यैवं न लोकस्य क्षणे स्थितिः।।' इति । इत्थम्. प. पु. विरोष इति पाठः। ३ .
श्रीतन्त्रालोक 'आदिमध्यावसानानि चिन्त्यानि क्षणवत्पुनः।" इत्यायुक्तयुक्त्यादिमध्यान्तरूपाणां तदंशाना- मप्येवंविचारे क्रियमाणे स एव पर्यनुयोगः,- इत्यनवस्थानात् न किंचित्सियेत्, - इत्यति- निपुणेरपि तस्य लक्षणं कर्तुं न शक्यं, कृतं वा न प्ररोहमियात् ॥ ननु यद्येवं तज्ज्ञानस्यापि कोऽवधिर्यनैतन्नि- रूपितं भवेत् ? इत्याशङ्कयाह ज्ञानं कियद्भवेत्तांव- त्तदभावो न भासते ॥२६॥ कियदिति, क्षणिकत्वेऽपि किंपरिमाणमि- त्यर्थः । तदभावः' इति ज्ञानाभावः, तेन याव- तदभावो न वृत्तस्तावदेकमेव. तज्ज्ञानं भवेदि- ति भावः । अभावश्च प्रत्यक्षग्राह्यः कार्यश्चेति अन्यत्रोपपादितमिति तत एवावधार्यम् ॥ २६॥ . ग. पु. यावदिति पाठ ।
१९ . भाग उत्पद्यते, पीतादिना वा संयोगस्तदा नदः पयोगात् ज्ञानस्य क्षणिकत्वे सर्वेपां तावदविवा- लादिज्ञानं न स्यात् तत्किमेतदुक्तं यदिन्द्रियाणां सो०२७] समममाह्निकम् ननु यद्येवं तत्तदभावोऽपि कदा जायते येन ज्ञानस्याप्यवधिः १ इत्याशङ्कयाह तदभावश्च नो ताव- द्यावत्तत्राक्षवम॑नि ! अर्थ वात्मप्रदेशे वा न संयोगविभागिता ॥२७॥ ज्ञानस्य च तावदभावो न जायते यावदि- 'न्द्रियाणामर्थस्य प्रमातुर्वा संयोगविभागों न स्यातां, तदविरतेन्द्रियव्यापारस्य प्रमातुर्नीला- दिविपये ज्ञाने जायमाने यंदा नीलादिना वि. भाव इति। ननु प्रदीपादिवत् प्रतिक्षणं करणी दोऽन्यथा विततकरणव्यापारस्यापि प्रमानुनी- , ग. पु. अत इति पाठः। २ काकर २० श्रीतन्त्रालोकः यावन्न संयोगविभागोदयस्तावदेकमेव ज्ञान- मिति; एवं हि धारावाहिनां विज्ञानानामभावोऽ- लिहितो भवेत्। सत्यं, किंतु भवदभिरुचितं निरन्वयविनाशात्म क्षणिकत्वं ज्ञानस्य न स्यात् , इत्यभिदध्मः । अनन्तरं हि त्रिचतुरादिक्षणा- वस्थायि ज्ञानं भवेदिति समनन्तरं क्षणनिर्ण, येनैवोपपादितम् । तस्मादेकरसेऽपि नीलादि- विपये विज्ञानेऽन्तरा चक्षुरादीन्द्रियविभागा- दिना तदभावादि स्थितमेव किंतु न तथा संचेत्यते; तेन धारावाहिनां विज्ञानानामप्य- भावो न स्यादिति न कश्चिद्विरोधः ॥२७॥ ननु संयोगविभागितापि किं सकारणिका भवेत् न वा? इत्याशङ्कयाह सा चेदुदयते स्पन्द- मयी तत्प्राणगा ध्रुवम् । भवेदेव ततः प्राण- स्पन्दाभावे न सा भवेत्॥२८ ।। .
त्स्यादित्युपक्रान्तं तदेव कथं निर्वहेत् इत्यु- श्लो० २९ ] पष्ठमाह्निकम् स्पन्दमयीति, स्पन्दः प्रकृतिर्मूलकारणं यस्याः सा स्पन्दाधीनैव इत्यर्थः । देशादेशा- न्तरं हि चलद्वस्तु वस्त्वन्तरेण संयुज्यते विमु- ज्यते वेत्यभिप्रायः। स्पन्दश्च प्राणांश्रयः, इति पारम्पर्येण संयोगविभागितापि. प्राणगतेव निश्चितं भवेत्, इति.प्राणस्पन्दाभावे सा न भवेत; निमित्ताभावे नैमित्तिकस्वाप्यभावः, इतिनीत्या तद्भावोऽपि कुतस्त्य इत्यर्थः ॥२८॥ ननु भवतु नाम संयोर्गविभागिता मा वा भूत् किमनया नश्चिन्तया, यावता ह्यत्र प्राण- प्रासक्रमेण कालंगासे वृत्ते एकैव पूर्णा संबि- . १ ख.पु. संयोज्यते इति, ग० पु० विमग्य चति पादः। च्यताम् ? इत्याशङ्कयाह २ ख. पु. संयोगवियोगभागितेति पाठः । ३ क. पु. निश्चितैवेति पाठः। १ ख. पु. वियोगितेति पाठः ।
श्रीतन्त्रालोकः . तदभावान्न विज्ञाना- भावः सैवं त सैव धीः। तस्याः संयोगविभागिताया अभावाद्विज्ञान- स्याप्यभावो न स्यात्, यद्धि यदन्वयव्यतिरे- कानुविधायि तत्तत्कार्य भवेदिति भावः । एवं हि सति सा प्राच्या या धीः संवित्सैवेयं नतु संविदन्तरमेकैव पूर्णा संवित्स्यादित्यर्थः॥ नन्वेवमेकस्या एव संविदः किं पूर्वापरेकी- फाराद्वैतत्येनावभासो भवेत् ? इत्याशङ्कयाह न चासो वस्तुतो दीर्घा कालभेदव्यपोहनात ॥२९॥ • असाविति धीः दीर्धेत्यर्थान्न सूक्ष्मापि, देादि हि कालाधीनं, न चास्यास्तस्पर्श एवास्ति अकालकलितत्वात् ॥ २९ ॥ तदाह . स. पु० वियोगभागिताया इति पाठः ।
.
२३
]
श्लो. ३०
सप्तममाहिकम्
वस्तुतो ह्यत एवेयं
कालं संविन्न संस्टशेत् ।
एवं वस्तुतो नित्यत्वमप्यस्था न संभवेत्,
तद्धि कालत्रयानुगामित्वमुच्यते . नतु सदा-
भासमानत्वम्, एवं हि त्रिपु कालेषु भासमान-
त्वमुक्तं स्यात् । यदाहुः
'न सदा न तदा न चैकदे-
त्यपि सा यत्र न कालधीर्मवेत् ।
तदिदं भवदीयदर्शन
न च नित्यं न च कथ्यतेऽन्यथा ॥'
(उ० स्तो०.१२।५)
ननु यद्येवमकालकलिता वस्तुत एकैव संवि.
दस्ति तत्कथमयं वहिर्भेदनिष्टो व्यवहारः सि.
द्ध्येत् ? इत्याशयाह
अत एकव संवित्ति-
नौनारूपे तथातथा ॥३०॥
श्रीतन्त्रालोकः . विन्दाना निर्विकल्पापि विकल्पो भावगोचरे। अतः कालसंस्पर्शाभावात् एकैव निर्विक- ल्पापि संवित्तिर्नानारूपेऽनेकाभाससंमूर्छनात्म- नि भावविपये तथातथा नीलानीलादिरूपतया विन्दाना विमृशन्ती विकल्प इत्युच्यते, इति न वाह्यस्यापि व्यवहारस्य विप्रलोपः ॥ ननु तथातथाविमर्शेऽप्यस्याः कथमेकत्वमेव ? इत्याशङ्कयाह स्पन्दान्तरं न यावत्त- दुदितं तावदेव सः ॥ ३१ ॥ तावानेको विकल्पः स्या- द्विविध वस्तु कल्पयन्। तत्तस्मात्पूर्वोक्तात्तत्तदर्थादिसंयोगविभागो- त्पादलक्षणात् हेतोर्यावद्विकल्प्यतस्त्वन्तरविषय स्पन्दान्तरं नोदितं तावन्नानाप्रकारं वस्तु कल्प- शो० ३३] सप्तममाह्निकम् यन्नपि तावान्दीर्घदीर्घ एक एव विकल्पः स्यात् न पुनरनेक इत्यर्थः। यत्तदनेकाभाससंमूर्छना- स्मतया विकल्प्यमानेऽपि नीलादौ विकल्पस्यै- क्यमेव तावत एकस्यैवानुसंधानस्य भावात् अन्यथा पुनरस्य स्वरूपलाभ एव.न भवेदिति भावः॥ तदाह ये त्वित्थं न विदुस्तेषां विकल्पो नोपपद्यते ॥ ३२ ॥ स ह्येको न भवेत्कश्चित् त्रिजगत्यपि जातुचितं । ये इति बौद्धाः, इत्थमिति स्पन्दान्तरोदय एव विकल्पान्तराणामुदयो नत्वेकस्मिन्नेव । स्पन्दे इत्यर्थःएक इति, येन स्मृत्यपलापा- यनेकाश्रयनिवन्धनो वाह्यो व्यवहारः सियेत्। एतदेवं दर्शयति , .
श्रीतन्त्रालोकः शब्दारूपणया ज्ञानं विकल्पः किल कथ्यते ॥३३॥ सा च स्यात्क्रमिकैवेत्थं किं कथं को विकल्पयेत् । घट इत्यपि नेयान्स्या- द्विकल्पः का कथा स्थितौ ॥३४॥ न विकल्पश्च कोऽप्यस्ति यो मात्रामात्रनिष्ठितः। कथ्यते इति भवद्भिः । यदुक्तं 'अभिला- पसंसर्गयोग्यप्रतिभासा प्रतीतिः । कल्पना: इति। सेति शब्दारूपणा, क्रमिकेति वाचः क्रमभावित्वात् , इत्थं ऋमिकत्वाद्विकल्पस्यो- दितानां तत्क्षणानां प्रध्वस्तत्वान्नवानां चानु- दयात् को न कश्चित्कल्पितोऽपि विकल्पात्मा प्रमाता किमुत्पन्नप्रध्वस्तप्रकल्प्यं, पूर्वापरानुसं- धानादेरभावाच्च कथं विकल्पयेत् विकल्पस्य
२७
श्लो० ३५]
सप्तममाह्निकम्
स्वरूपलाभ एव न भवेदित्यर्थः। अत एव
घकारोच्चारकाले टकारस्याभावात्तदुच्चारकाले च
तस्य प्रध्वस्तत्वात् यत्र 'घट' इत्येतावन्मात्रोपि
विकल्पो न सिध्येत् तत्र व्यवहारादिचिन्ता दूर
एवास्तां तदवस्थानमात्रेऽपि का. वार्तेत्यर्थः ।
नहि तन्मते कोऽप्येवंविधो विकल्पोऽस्ति
यस्यांशमात्रेऽपि परिनिष्ठितत्वं तथात्वे ह्येपां
क्षणभङ्गव्रतविलोपो भवेदिति भावः ॥
नन्वेकमेव मालासूत्रवत्सर्वत्रानुयायि ज्ञानं
किंचिन्नास्ति, इत्यस्माकं मतं नतु क्षणभङ्गु-
राण्यनेकानि ज्ञानानि न सन्तीति तत्तान्येव
समुदितानि वाह्यव्यवहारनैपुण्यभाञ्जि भवि-
प्यन्ति, इति को दोपः' इत्याशङ्कयाह
न च ज्ञानसमूहोऽस्ति
तेषामयुगपस्थितेः ॥ ३५॥
अयुगपस्थितेरिति, उत्पादानन्तरं तन्निरो
धस्याभिधानात् ॥ ३५॥
२८ श्रीतन्त्रालोकः " तस्माद्वैकल्पिकः सकल एवायं व्यवहारस्त- न्मते न सिद्ध्येत, इत्याह तेनास्तगत एवैष व्यवहारो विकल्पजः। तेनास्मत्पक्ष एव ज्यायानित्याह तस्मात्स्पन्दान्तरं याव- नोदियात्तावदेककम् ॥३६॥ विज्ञानं तद्विकल्पात्म- धर्मकोटीरपि स्टशेत् । तद्यावद्विकल्पान्तरनिष्ठं स्पन्दान्तरं नोदेति तावद्गोत्वशुक्लत्वचलवाद्यात्मकं धर्मोघमपि वि. कल्पयेत् एकमेवैतद्वैकल्पिकं ज्ञानं स्यात् येनै- कानुसंध्यनुप्राणितः समग्र एवार्य व्यवहारः सिध्येत् ॥ न चेतदपूर्वतया स्वोपज्ञमेवोक्तमित्याह २९ . लो० ३८] सप्तममाहिकम् एकाशीतिपदोदार- शक्यामर्शात्मकस्ततः ॥३७॥ विकल्पः शिवतादायी पूर्वमेव निरूपितः। तत उक्तानेकधर्मपरामर्शकत्वेऽप्येकृत्वलक्ष- णाद्धेतोव्योमव्यापिरूपः शुद्धविद्यामा विक- ल्पस्तत्तदनेकदादिशक्त्यामर्शकत्वेऽप्यकत्वात पार्यन्तिकफलरूपां शिवतामेव ददातीति पूर्व- मेवास्माभिरुक्तम् ॥ नन्वेवमेकस्मिन्नेव प्राणचारे एकपिण्डात्म- काचकादारभ्य सचतुःशतयशीतिसहस्राधिक- त्रयोदशलक्षात्मकचक्राद्यन्तं यावञ्चक्राणां स्वा- रसिक एवोदयो वर्तते,-इति योगिनां प्रतिनि- यतचक्रविषयः कथमवगमो भवेत् ? इत्याशङ्कां दृष्टान्तोपदर्शनेनोपशमयति १२. पु. भाग्मक इति पाठः । २ ब. ग. पु० मगममा हात पादः।
३० श्रीतन्त्राटोकः यथा कर्णो नर्तयामी- त्येवं यत्नात्तथा भवेत् ॥३८॥ चक्रचारगताद्यना- त्तद्वत्तच्चक्रगेव धीः। कर्णी नर्तयामीत्येवमिच्छापूर्वकात्प्राणीया- द्यत्नात् यद्द्योगिनस्तथा भवेत् , गोस्फुरितादि- न्यायेन कर्णद्वयमेव नृत्यत्स्यात् तद्वदेकपिण्डा- दिचक्रप्रधानो यः प्राणीयश्चारस्तद्गतादपि य- 'त्नात्तच्चक्रगेव धीः प्रारिप्सितोदयप्रतिनियतच- क्रनिष्ट एवाववोधो भवेदित्यर्थः । अयमत्र भावः-इह खल्लु योगिना यत्रं क्वापि कर्मणि यस्य कस्यचिन्मन्त्रस्यावश्यं प्राणसाम्येनोच्चारः कार्यः, अन्यथा हि न कार्यसिद्धिः स्यात् । तदुक्तम् जपेत्तु पाणसाम्येन ततः सिद्धिर्भवेब्रुवम् । नान्यथा सिद्धिमामोति हास्यमानोति मुन्दरि ॥' १स. ग. पु. प्रजपेदिति पार ।
ओ० ४०] सप्तममाह्निकम् इति । ततश्चैकपिण्डात्मनोऽन्यस्य वा चक्र- स्योदये तुल्य एव विधिः प्राणसाम्यस्य सर्व त्राविशेषात् ॥ तदाह जपहोमार्चनादीनां प्राणसाम्बमतों विधिः ॥३९॥ होमेति, तत्रापि मन्त्रोच्चारस्य भावात् । अत इत्युक्ताच्चक्रोदयाद्धेतोः, संख्यायास्तु स्वार- सिकप्राणचाराभिप्रायेण वर्णभूयस्त्वाभूयस्त्वनि- बन्धन तथात्वमिति न कश्चिद्विरोधः॥ किमत्र प्रमाणम् ? इत्याशङ्कयाह . सिद्धामते कुण्डलिनी- शक्तिःप्राणसमोन्मना। उक्तं च योगिनीकोले तदेतत्परमशिना ॥ ४० ॥ सर्वप्रवेति २ क० म० पु. श्रीनिकसारे- स.पु.स तिवार..
३२ श्रीतन्त्रालोकः तदेतत्परमेशिनाश्रीसिद्धयोगीश्वरीमते श्री- योगिनीकोले चोक्तमिति संवन्धः । तत्तदेक- दिण्डाद्यात्मकमन्त्ररूपतया वहिरुल्लसन्ती वर्ण- कुण्डलिन्याख्या पारमेश्वरी शक्तिर्यदि नाम प्राणसमा भाणसाम्येनोदयमियात् तदुन्मना शिवकात्म्येन प्रस्फुरेदित्यर्थः । यदुक्तं तत्र कुर्यात्माणसमं जप्यं होमं प्राणसमं कुरु । एवं माणसमा शक्तिः कुण्डलाख्या मनोन्मनी ।।' इति ॥ ४०॥ श्रीयोगिनीकोलग्रन्थं पठति पदमन्त्राक्षरे चक्रे विभागं शक्तितत्त्वगम् । पदेपु कृत्वा मन्त्रज्ञो जपादौ फलभारभवेत् ॥४१॥ पदप्रधानानि मन्त्राक्षराणि यत्रैविधे चक्रे पदेषु शक्तितत्त्वगं विभागं कृत्वा एकैकं पदं ख. ग.पु. मनोन्मनेति पाठ ।
. श्लो० ४२] सप्तममाहिकम् प्रतिप्राणचारं प्रविभागेनोदयं कारयित्वा जप- होमादौ मन्त्रोदयं जानानो योगी फल- भाग्भवेत् , यथोचितं फलमाप्नुयादित्यर्थः॥४॥ ननु कोऽसौ विभागः किं वा फलम् ? इत्याशङ्कयाह हित्रिसप्ताष्टसंख्यातं लोपयेच्छतिकोदयम् । इह चक्राणां प्रायुक्तवदेकद्वित्रिसप्ताहादि- पदपिण्डसंख्यातम्, अर्थात् शतिकोदयमनेक- पदपिण्डात्मकचक्रपर्यन्तं विभागमाश्रित्य, अर्थात् प्राणचारं लोपयेत् प्राणग्रासं कुर्या: दित्यर्थः । एतदेव हि मुख्यं फलं योगिनां यदकालकलितायां परस्यां संविद्यनुप्रवेश इति॥ एवं चात्रेवावधातव्यमित्याह इति शक्तिस्थिता मन्त्रा विद्या वा चक्रनायकाः॥४२॥ ग. पु० द्विस्ति सप्तेति पाठः । २ क. स. पु० इयामेति पाट.। ३ ग० पु० नायिका इति पाठः। .
श्रीतन्त्रालोकः . पदपिण्डस्वरूपेण ज्ञात्वा योज्याः सदा प्रिये । नित्योदये महातत्त्वे उदयस्थे सदाशिवे ॥ ४३ ॥ अयुक्ताः शक्तिमार्गे तु न जप्ताश्चोदयेन ये। ते न सिद्ध्यन्ति यत्नेन जप्ताः कोटिशतैरपि ॥४४॥ इति. प्रागुक्तं सर्व ज्ञात्वा चक्रप्रधाना मन्त्रा विद्या वा पदपिण्डस्वरूपेण समनन्तरोक्तपद- पिण्डादिगत्या 'शक्तिस्थिताः' प्राणसाम्येनो- दिताः सर्वकालं जपादौ योज्या येन यथो- चिता योगिनां सिद्धिः स्यात् । अन्यथा हि नित्योदयेऽत एव परमुपेयत्वान्महातत्त्वे, सृष्टि- प्राधान्यादुदयस्थेऽत एव तसिद्धिप्रदायित्वात् ० ४६] सप्तममाह्निकम् सदैव श्रेयोरूपे शक्तिरूपे मध्यधाम्न्ययोजिताः, तथा प्राणस्योदयेन निर्गमेन अर्थात्प्रवेशेनापि ये मन्त्रादयो न जतास्ते कोटिशतैर्यत्नेनापि जप्ता न सिद्धयन्ति, तां पूर्णा दातुं न शक्ता इत्यर्थः । यदुक्तम् 'न विन्दति यदा मन्त्री सृष्टिसंहारवर्मनी । उदयास्तमरूपेण मन्त्रा अल्पफलपदाः ॥ भोग मोक्ष न यच्छन्ति जप्ता ध्यातास्तु पूजिताः । ईपत्फलं प्रयच्छन्ति शिवाज्ञासंप्रचोदिताः ॥" इति। मन्त्रा विद्या वेत्यनेनानुजोद्देशोदिष्टो मन्त्रविद्याभेदोऽप्यासूत्रितः॥ १४ ॥ ननु सर्वेयां मन्त्रादीनामविशेषेणैव किमियं व्यवस्था किमन्यथा वा ? इत्याशझ्याह मालामन्त्रेषु सर्वेषु मानसो जप उच्यते। उपांशुर्वा शत्युदयं 'तेषां न परिकल्पयेत् ॥४५॥ . .
श्रीतन्त्राटोकः सर्वेप्विति विद्यास्वपि,मानस इति। तदुक्तम् आत्मा न शृणुते यं स मानसो जप उच्यते । आत्मना शृणुते यस्तु तमुपांशु विजानते ।। परे शृण्वन्ति यं देवि स शब्दः स उदाहृतः।' (स्व० २।११७) इति । वेति विकल्पे । सशब्दस्यार्थसिद्धो निषेधः॥ ननु ससनन्तरमेवोक्तं यच्छक्तिवर्मन्ययो- जिता मन्त्रा न सिद्धयन्तीति तत्कथमिद- मुच्यते 'शक्त्युदयं तेपां न परिकल्पयेत्' इत्या- शङ्कयाह पदमन्त्रेषु सर्वेषु यावत्तत्पदशक्तिगम् । शक्यते सततं युक्त- स्तावज्जप्यं तु साधकः ॥४६॥ तावती तेषु वै संख्या पदेषु पदसंज्ञिता। क. पु. मइंति पाठः।
श्लो० ५०]
सप्तममाह्निकम्
तावन्तमुदयं कृत्वा
त्रिपदोक्त्यादितः क्रमात्॥४७॥
हादशाख्ये हादशिते
चक्रे साधं शतं भवेत्।
उदयस्तद्धि सचतु-
श्चत्वारिंशच्छतं भवेत्॥४८॥
षोडशाख्ये हादशिते
हानवत्यधिके शते।
चारार्धन समं प्रोक्तं
शतं द्वादशकाधिकम् ॥४९॥
पोडशाख्ये षोडशिते
भवेचतुरशीतिगः।
उदयो द्विशतं तद्धि
पंटपञ्चाशत्समुत्तरम् ॥५०॥
२८ श्रोतन्त्रालोकः . चाराष्टभागांस्त्रीनत्र कथयन्त्यधिकान्वुधाः। अष्टाप्टके द्वादशिते पादार्धं विंशतिं वसून् ॥५१॥ उदयः सप्तशतिका साष्टा पष्टिर्यतो हि सः। पदप्रधानेषु सर्वेषु विद्यादिरूपेषु मन्त्रेषु •पदानां प्राणशक्तेश्च साम्यं गतं तजपादि अभियुक्तेः साधकर्यावत्कर्तुं शक्यते तावदेव सर्वकालं जपनीयं, येन तेषु पदेपु लिपदो- न्यादिकं क्रममवलम्व्य 'लिषु बहुत्वं परिस- माप्यते' इत्यादिनीत्या क्रमेणेककं पदं. बहु पदतया विभज्य समस्तस्य पदस्य प्राणचार- माम्येन सकृदुच्चारयितुमशक्यत्वात् तावन्तं पदांशपरीमाणं प्राणशक्तावुदयं कृत्वा तावती १.प. पु. उदयं मप्तशनिमामिनि पाटः ।
३ श्लो० ५२] सप्तममाह्निकम् पदांशपरिमाणव पदसंज्ञिता जपस्य संख्या स्यादिति । अयमत्र भावः न केवलमनेक- पदस्य मन्त्रस्य प्राणशक्ती सकृदुच्चारयितुम- शक्यत्वं यावद्दवर्णतया तत्पदस्यांपीति त- स्याप्यंशांशिकया विभागः कार्यो येन शनैः शनैरेकमेकं तदंशं प्राणंसाम्येनोच्चारयतां यो- गिनां लक्षजपादि सिद्ध्येदिति । तदुक्तं तत्र 'पढमत्राक्षरे चक्रे विभागं शक्तितत्त्वगम् । पदेषु कृत्वा मन्त्रज्ञो जपं नित्यं तु कारयेत् ।। द्वित्रिसप्ताष्टसंख्यातं लोपयेच्छतिकोदयम् । इति शक्तिस्थिता मन्त्रा विद्या वा चक्रनायकाः ।। पदपिण्डस्वरूपेण ज्ञात्वा योज्याः सदा मिये । नित्योदये महातत्त्वे उदयस्थे सदाशिवे ॥ अयुक्ताः शक्तिमार्गे तु अजप्ताश्चोदयेन तु । नैव सिद्ध्यन्ति यत्लेन. इति । तथा 'मालामन्त्र मानसो जप उच्यते । शक्त्योदयं तु वै वेषु न कदाचित्मकल्पयेत् ॥ १. पु. प्राणचारणेति द्वितीयः पारः।
श्रीतन्त्रालोकः . यतस्तेपां वरारोहे मानसस्तु जपः स्मृतः । कचिचैव उपांशुः स्याजपः शास्त्रेषु कीर्तितः ॥ महामन्त्रेषु सर्वेषु यावत्तत्पदशक्तिगम् । शक्यते सततं युक्तैः प्रजनुं साधकोत्तमैः ।। तावती तेषु वै संख्या पदेषु पदसंज्ञिता । तावन्तमुदयं कृत्वा त्रिपदोक्त्यादितः क्रमात् ॥' इति । अतश्च सामस्त्येन मालामन्त्रादीनां प्राणशक्तातुदयं कर्तुं न शक्यते,-इत्युक्तमेपा शक्त्युदयं न परिकल्पयेदिति । न तु सर्वस- किया, तथात्वे हि जपस्याल्पफलप्रदत्वादध- मत्वं स्यात् । यदुक्तम् अधमस्तु जपः प्रोक्तः प्राणसंख्याविवर्जितः।' इति । ‘पदविभागमेव दर्शयति 'द्वादशेत्या- दिना । द्वादशाख्ये' द्वादशपदात्मके माला- मन्त्राद्यात्मनि चक्रे 'द्वादशिते संजातद्वादश- संख्याके प्रत्येक पदद्वादशकस्य द्वादशधावि- भागे कृते सति द्वादशानां चतुश्चत्वारिंशदधिकं शतं भवेत् येन तस्यापि प्रत्येकं स्राधं शतं प्राण- चाराणामुदयः, इति सपशता सहनेकविंश- (V -
लो० ६२] सतममाह्निकम्
तिः प्राणचाराणां स्यात् । तथा पोडशपदात्मके
चक्रे द्वादशधा कृते तदंशानां द्वानवत्यधिकं शतं
पण्णवतेरवशिष्टत्वादयं चोदयः।तथा पोडशाख्ये
एव चक्रे पोडशधा कृते पोडशीशानां पट्पञ्चा-
शदधिकं शतद्वयं भवेदिति भावः तस्य प्रत्येक
प्राणचाराणां चतुरशीतिः पपणवतेरेवावशिष्ट-
स्वात् चाराष्टभागैरयमुदयो भवेत् । तथाप्टाष्टके
चतुप्पष्टिपदात्मके चक्रे द्वादशधा कृते प्रतिपदं
द्वादशकं प्राणचाराणां विंशतिवसूनष्टाविंशति
तथा पण्णवतेरर्धावशिष्टत्वात् पादार्धमष्टभाग-
मुदयो यतश्चतुःपष्टपात्मनश्चक्रस्य द्वादशभिर्गु-
•णनात् अष्टपष्टयधिकशतसप्तकलक्षणा सा
संख्या भवेदित्येवमत्र सर्वत्र प्राणचाराणां
सपट्छता सहलेकविंशतिरेव भवेत् ॥
एतदेवोपसंहरति
एष चक्रोदयः प्रोक्तः
साधकानां हितावहः ॥५२॥
श्रीतन्त्रालाकः ननु प्राणचारोदयानुसारं चक्राणामुदय इति स एव कीदृक् येन सोऽपि स्यात् ? इत्या- शङ्कयाह. निरुज्य मानसीईत्ती- चक्रे विश्रान्तिमागतः। व्युत्थाय यावहिश्राम्ये- तावच्चारोदयो ह्ययम् ॥५३॥ इह खलु योगी संकल्पात्मिका मानसीवृत्ती 'निरुद्धय' अन्तर्मुखीकृत्य 'चक्रस्य' एकपिण्डा द्यात्मनो मन्त्रस्य विश्रान्ति' मध्यधामेकात्म्य मागतः सन् यावदुत्थाय हृद आरभ्य द्वादशा न्तपर्यन्तं निर्गम्य पुनरन्तःप्रविश्य हृद्येव विश्रा म्येत् तावदयं प्राणस्योदयो भवेदित्यर्थः ॥५३ अत्रैव प्रेरूप्यं निरूपयन् सिद्ध्यादिविभा गमप्याह पूर्ण समुदये त्वत्र प्रवेशकात्म्यनिर्गमाः श्लो० ५६ ] सप्तममाहिकम् त्रय इत्यत एवोक्तः सिद्धी मध्योदयो वरः ॥५४॥ अत्र पुनः सम्यक् मध्यधामैकात्म्येन प्रवे- शपर्यन्तं प्राणस्योदये निर्गमे 'पूर्णे' यथोक्त- गत्या परिपूर्ति प्राप्ते प्रवेशैकात्म्यनिर्गमलक्षणा- स्त्रयः प्रकाराः सन्तीत्यंतः प्रकारत्रयमध्याल्सि- द्धिनिमित्तमैकात्म्यलक्षणो मध्योदय एव प्रवेशादपि 'वरः' श्रेष्ठ उक्त इत्यर्थः ॥ ५४ ॥ नन्वेवंवचने किं प्रमाणम् ? इत्याशङ्कयाह आद्यन्तोदयनिर्मुक्ता मध्यमोदयसंयुताः। मन्त्रविद्याचक्रगणाः सिद्धिभाजो भवन्ति हि॥५५॥ मन्त्रचक्रोदयज्ञस्तु विंद्याचक्रोदयार्थवित् । ?
४४ श्रीतन्त्रालोकः C क्षिप्रं सिद्धयेदिति प्रोक्तं श्रीमविशतिके त्रिके ॥ ५६ ॥ 'आद्यन्तोदयौ' निर्गमप्रवेशो, 'मध्यमोद- यो' मध्यधामकात्म्यम् । हितो । तेनैवं मन्त्र- विद्याचक्रोदयं जानानो योगी निर्विलम्वमेव सिद्धिभाग्भवेदित्यर्थः ॥ ५६ ॥ ननु जितप्राणस्यारूढस्य योगिनः किं नामा- साध्यं यन्न प्राणगं कुर्यात् , प्राणं जयतः पुन- 'रारुरुक्षोः कथमेतत्सिध्येत् ? इत्याशङ्कयाह हिस्त्रिश्चतुर्वा मात्राभि- विद्यां वा चक्रमेव वा। तत्त्वोदययुतं नित्यं टथग्भूतं जपेत्सदा ॥ ५७ ॥ पिण्डाक्षरपदैर्मन्त्र- मेककं शक्तितत्त्वंगम्।
श्लो. १९] सतममाह्निकम् वह्वक्षरस्तु यो मन्त्रो विद्या वा चक्रमेव वा ॥५८॥ शक्तिस्थं नैव तं तत्र . विभागस्त्वोंनमोन्तगः। आरुरुक्षुः पुनर्योगी नित्यं द्वित्रिश्चतुर्वाभ्या- सतारतम्यानुसारमेयादिक्रमेण 'बिजीनवेष्टनान्मात्रा त्रिगुणच्छोटिकात्रयात् ।' ( मा० नि० १७११२) इति लक्षिताभिर्मात्राभिरनेकाक्षरां विद्या- मनेकपिण्ड वा चक्रमनेकपदं वा मन्त्रमेकैक पिण्डाक्षरपदैः पृथग्भूतमेकमेव पिण्डमक्षरं पदं वा पूर्वोक्तयुक्त्या प्राणशक्तितत्वगतं कृत्वा तत्त्वो- दययुतं मध्यधामैकात्म्येन सदा जपेत्, लक्ष- जपादि कुर्यादित्यर्थः । अत एव पदादि- विभागशून्यो वहक्षर एव यः पुनर्मन्त्रादिस्त- मारुरुक्षुयोंगी तावतः प्राणनिरोधस्थाशक्यत्वात् शक्तिस्थं नैव कुर्यात् शत्युदयमेपां न परिक; .
श्रीतन्त्रालोकः कल्पयेदित्यर्थः । ननु यद्येषां वह्वक्षरतया साम- स्त्येन प्राणशक्तावुदयं कर्तुं न शक्यते तत्सम- नन्तरोक्तक्रमेण व्यस्ततयेतदस्तु,-इत्याशङ्कयो- क्तं तत्रेत्यादि । भानमन्तग इति, नतु मन्त्रा- न्तरवत् पदपिण्डादिक्रमेणेपां विभागोऽस्ति येनांशांशिकयापि शक्तावुदयः सिद्धयेत् । अत- श्चारुरुक्षुभिरेवंविधानां मन्त्राणां जप एव न कार्यः,-इत्युक्तं स्यात् ॥ आरूढस्य पुनयोंगिनो न केवलं पूर्ण एव संमुदये प्रवेशादित्रैविध्यं यावत्तदंशेप्वपीत्याह अस्मिंस्तत्त्वोदये तस्मा- दहोरात्रस्त्रिशस्त्रिंशः ॥ ५९॥ विभज्यते विभागश्च. पुनरेव त्रिशस्त्रिगः। तस्मात्पूर्वोक्ताहेतोः, अस्मिन् प्रकान्ते 'तत्त्वोदये कार्यकारणयोरभेदोपचारांत् चक्रोदये , श्लो० ६१] सममाह्निकम् प्राणापानात्माहोरात्रस्त्रिशस्त्रिशो विभज्यते, के- वल एव प्राणोऽपानो वा प्रवेशकात्म्यनिर्गमा- स्मना प्रकारत्रयेण विभागमापद्यते इत्यर्थः । तेन पर्टिशदात्मनोरुभयोरपि प्राणापानवाहयोः प्रत्येक प्रवेशादित्रैविध्यमिति प्रवेशादेः प्रत्यं- गुलद्वादशकमुदयः । एवमात्मा विभागोऽपि पुनस्त्रिशस्त्रिश एव, प्रवेशाद्यपि प्रवेशनिर्गमैका- त्म्यलक्षणप्रकारत्रयभाग्भवेदित्यर्थः। तेन प्रत्यं- गुलचतुष्टयमपि प्रवेशादीनामुदयः, इति सि- ब्रम् ; तदारुढस्य योगिनः परिमिते प्राणचा- रीयेऽप्यंशेऽप्येवं चक्रोदयः सिद्धयदित्यभिप्रायः॥ एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवांनुसरति पूर्वोदये तु विश्रम्य द्वितीयेनोल्लसेद्यदा ॥ ६० ॥ विशेचार्धर्धिकायोगा- त्तदोक्ता|दयो भवेत् । १ स. ग. पु. दयेऽपीति पाठः । २ व. पु. र्धादिकति पाठः। .
४८ श्रीतन्त्रालोकः यदा पूर्णोदयात्मा तु समः कालस्त्रिके स्फुरेत्॥६१॥ प्रवेशविश्रान्त्युल्लासे स्यात्स्वत्र्यंशोदयस्तदा। तस्मात् 'पूर्वस्मिन्' प्रधाने मध्यधामात्मनि 'उदये विश्वम्य' तदेकात्म्येन स्थित्वा 'यदा द्वि- तीयेन' निर्गमात्मना प्रकारेण 'उल्लसेत्' प्राण- क्रमेणोध्वं गच्छेत् , अर्थात्तृतीयेनापि प्रवेशा- स्मना प्रकारेण 'विशेत्' अपानक्रमेण हृदन्त प्रवेशं कुर्यात् तदा प्राणापानयोः प्रत्येकमर्धा- धिकया संवन्धात् सपट्छतसहस्रकविंशत्या- रमन उक्तस्य कालस्यार्धेन प्राणचाराणां साप्ट- शतं सहस्रदशकमुदयो भवेत् । यदा पुनः 'पूर्णः' सपट्छतसहलेकविंशतिरूपो योऽसावु- दयस्तदात्मा कालः प्रवेशविनान्युल्हासाख्ये त्रिक साम्येन स्फुरत् तदा प्रवेशादीनां प्रत्येक
लो० ६३]
सप्तममाह्निकम्
स्वः' आत्मीयो यः सशतद्वयसहस्रसप्तकात्मा
'ऽयंशः' तस्योदयो भवेदित्यर्थः ।।
ननु प्राक्
'अन्तः संविदि सर्वोऽयमध्वा विश्रम्य तिष्ठति । (तं०६।२८)
इति प्रतिज्ञातं तत्कथमिह कालाध्वनः
प्राण एवैवं प्रतिष्ठितत्वमुच्यते १ इत्याशङ्कयाह
इत्येष कालविभवः
प्राण एवं प्रतिष्ठितः ॥ ६२॥'
‘स स्पदे खे स तच्चित्यां
तेनास्यां विश्वनिष्ठितिः।
'प्राण' इति प्राधान्यात् तेनापानादावपि ।
स इति प्राणः। 'स्पन्दे' इति सामान्यात्मि-
कायामाद्यप्रसररूपायां प्राणनावृत्तो । 'खे इति
शून्यप्रमातरि । स इति मेयौत्सुक्येन बहिः-
समुच्छलन्प्राणस्पन्दादिशब्दव्यपदेश्यो भवे-
दिति भावः । तदिति खं, चित एव स्वात:
श्रीतन्त्रालोकः त्र्याच्छ्न्यरूपत्वेन परिस्फुरणात् । तेनेत्युक्तेन पारम्पर्येण हेतुना, विश्वेति पड्डिधस्याध्वनः । यक्ष्यति अध्वा समस्त एवायं चिन्मात्रे संप्रतिष्टितः । यत्तत्र न हि विश्रान्तं तन्नभाकुम्मायते ।। संविद्वारेण तत्सृष्टे शून्ये धियि मरुत्सु च । नाडीचक्रानुचक्रेषु वहिदेहेऽध्वसंस्थितिः' (त०८।४)। इति ॥ एवं संविदधीनावेव विश्वस्य सृष्टिसंहारा- वित्याह अतः संवित्प्रतिष्ठानी यतो विश्वलयोदयौ ॥६३ ॥ शत्त्यन्तेऽध्वनि तत्स्पन्दा- संख्याता वास्तवी ततः । अतः कालस्य पारम्पर्येण संविद्येव निष्टित- त्वात् संचित्कर्तृकावेव यतो विश्वस्य सृष्टिसं- .
. लो० ६५] सप्तममाहिकम् हारौ, ततः शक्त्यन्तेऽध्वनि तेषां प्रागुक्तानां स्मृष्टिसंहाराद्यात्मनां स्पन्दानां 'तत्सृष्टौ सृष्टिसंहारा निःसंख्या जगतां यतः। अन्तर्भूता ततः शाक्ती महासृष्टिरुदाहृता ।' इत्यायुक्तयुक्त्यावान्तराणां स्पन्दानामन्ती- वात् असंख्यातापि वास्तवी सन्मात्रैकरूपत्वात् पारमार्थिकीत्यर्थः । यो हि नाम बहिः कश्चन परिस्पन्दः स संवित्सतत्त्व एव, इत्यभिप्रायः॥ न चैतदस्मदुपजमेव यावदागमेऽपि एक- 'मित्याह उक्तं श्रीमालिनीतन्त्रे गात्रे यत्रेव कुत्रचित् ॥६४॥ विकार उपजायेत तत्तत्त्वं तत्त्वमुत्तमम् । इह खलु,परसंविदावेशशालिनो योगिनो यंत्रेव कुत्रचिचक्षुरादौ गात्रे 'सर्वो ममायं' .
. श्रीतन्त्रालोकः विभवः' इत्यादिसंकल्पपूर्वक उपजायमानो यो विकारः स्पन्दस्तस्य यत्तत्त्वं सर्वभावानां स्वा- विभागेनावभासनं तदुत्तमं तत्त्वं, संविदनतिरे- कात्परः परमार्थ इत्यर्थः । तदुक्तं तत्र 'यत्रैव कुत्रचिदात्रे विकार उपजायते । संकल्पपूर्वको देवि तत्तत्त्वं तत्त्वमुत्तमम् ।। (मा०वि० । १८१४२) इति । ननु भवतु नामैतत् तत्राप्यस्य प्राणस्य देहनिष्टत्वेन कस्माद्रूपमुच्यते ? इत्याशङ्कयाह प्राणे प्रतिष्ठितः काल- स्तदाविष्टा च यत्तनुः ॥६५॥ देहे प्रतिष्ठितस्यास्य ततो रूपं निरूप्यते । तदाविष्टेति, तच्छन्देन प्राणपरामर्शः । तत इति, प्राणस्य तनावाविष्टत्वात् ॥ ननु कथं नाम देहस्य तदायशः ? इत्या- शङ्कयाह श्लो०६७ सप्तममाहिकम् चित्स्पन्दप्राणवृत्तीना- मन्त्या यास्थूलता सुषिः॥६६॥ सा नाडीरूपतामेत्य देहं संतानयेदिमम् । प्राङ्किरूपितस्वरूपाणां चिदादीनां कार्यज- ननौन्मुख्यादन्त्या, अत एव चिदादेरन्तःकर- णात् सुपिशब्दव्यपदेश्या या स्थूलता वहीरू- पतया श्यानीभावः सा 'पादाङ्गुष्ठाग्रतो व्यक्ता नाभितो हृदयं गता । सुपुन्ना नाम, सा ज्ञेया ब्रह्मरन्ध्राब्जनिर्गता। माणिनां माणसंचारे निर्मिता परमेष्ठिना ।।' इत्याद्युक्त्या प्रथमं मध्यस्थूणान्यायेन मध्य- नाडीरूपतामाश्रित्य वक्ष्यमाणप्रमाणमिमं देह संतानयेत् सर्वतो भेदोपभेदरूपतया नाड्यन्त- रोपजननात् जालवत्संतानवन्तं कुर्यादित्यर्थः ।। अतश्चागमोऽप्येवमित्याह श्रीतन्त्रालोकः श्रीस्वच्छन्देऽत एवोक्तं यथा पर्ण स्वतन्तुभिः ॥६७ ।। व्याप्तं तद्वत्तनुर्दार- हारिभावेन नाडिभिः। यथा पलाशपत्रं मध्यवन्त्ववलम्विभिरात्मी- येस्तन्वन्तरेः सर्वत्र व्याप्तं तथा शरीरमपि भेदोपभेदरूपत्वेन द्वारद्वारिकया मध्यनाडिसं- नाभिर्गुणप्रधानभावेनावस्थिताभिनाडीभि- रिति वाक्यार्थः । यदुक्तं तत्र 'नाभ्यो प्रेढ़कन्दे च स्थिता वे नाभिमध्यतः । तस्माद्विनिर्गता नाड्यस्तियंगूर्वमधः पिये ॥ चक्रवत्संस्थितास्तत्र प्रधाना दश नाडयः। द्वासप्ततिसहस्राणि नाड्यस्ताभ्यो विनिर्गताः॥ पुनर्विनिर्गताश्चान्या आभ्योऽप्यन्याः पुनः पुनः । यावत्यो रोमकोट्यस्तु तावत्यो नाडयः स्मृताः ॥ यया पर्ण पलाशस्य व्याप्त सर्वत्र तन्ताः (स्व० ७११) इति ॥ .
लो० ७० सप्तममाह्निकम् ननु 'मारुतापूरिताः सर्वाः । इत्याद्युक्त्या सर्वा एव तावन्नाडयः प्राणवहाः, ताभिश्च नि- खिलमेव शरीरं व्याप्तमिति नास्त्यत्र. विमतिः, तत्कथं हृदयाहादशान्तं मत्तगन्धस्थानं वा यावत्पटुिंशदङ्गुल एव प्राणचार-उक्तः ? इत्या- शङ्कयाह पादाङ्गष्ठादिकोर्ध्वस्थ-. ब्रह्मकुण्डलिकान्तगः॥ ६८ ॥ कालः समस्तश्चतुर- शीतावेवाङ्गुलेष्वितः। द्वादशान्तावधिं किंचि- त्सूक्ष्मकालस्थितिं विदुः॥६९॥ षण्णवंत्यामधः षड्वि- क्रमाचाष्टोत्तरं शतम्। उर्ध्वस्था ब्रह्मकुण्डलिका ब्रह्मविलं, समस्तः प्रायुक्तः कालश्चतुरशीताबगुलेविति सार्धतिः .
५६ श्रीतन्त्रालो हस्तात्मकत्वात् देहस्य । इत इति, गतः स्थि इत्यर्थः। पण्णवत्यामङ्गुलेप्विति पूर्वतो योज्यम् तथात्वे च द्वादशानामङ्गुलानामाधिक्येनो पादानात् सूक्ष्मशब्दसन्निधेः पूर्वापरयोर्मानयो स्थूलत्वं परत्वं चार्थसिद्धम् । अध इति पादाङ्ग ठात् । पविक्रमादिति, पण्णां द्वियोंऽसौ द्वाद- शाकुलात्मा क्रमस्तस्माद्यदूर्ध्व इवाधोऽपि द्वादशान्तः संभवेदिति भावः ।। नन्वेवं देहस्य मानवैचित्र्ये प्राणादेरपि क- श्चिदतिशयो न वा ? इत्याशङ्कयाह अत्र मध्यमसंचारि- प्राणोदयलयान्तरे ॥७॥ विश्वे सृष्टिलयास्ते तु चित्रा वाय्वन्तरक्रमात् । अत्र त्रिप्रकारप्रमाणावच्छिन्ने देहे प्राधा- न्यान्मध्यवाहिनः प्राणस्य ये उदयलया निर्गम- . श्लो० ७१] सप्तममाह्निकम् प्रवेशास्तदन्तराले विश्वे प्रागुक्तकलना एव सर्वे सृष्टिसंहारा भवन्ति, किंत्वेपामपानवाय्व- न्तरक्रमादेव प्राग्वद्वैचित्र्यं नतु देहवैचित्र्या- दित्यर्थः॥ इदानीमाह्निकार्थमेव श्लोकस्य प्रथमाधैं- नोपसंहरति इत्येष सूक्ष्मपरिम- र्शनशीलनीय- श्चक्रोदयोऽनुभवशास्त्र- दृशा मयोक्तः॥ ७१.॥ सूक्ष्मपरिमर्शनेत्यनेन अत्यन्तमस्यावधानग- म्यत्वमुक्तमिति शिवम् ॥ प्रतिनियतमन्त्रसमुदय- चारभिदनुभवनिभालनोयुक्तः। सप्तममाहिकमेत- भ्याकृतवाजयरथाभिल्यः॥
श्रीतन्त्रालोका इति श्रीमन्महामाहेश्वराचार्यवर्य-श्रीमदभिनवगुप्तविरचिते संघालोके श्रीजयरथविरत्रितविवेकाभिख्यव्याख्योपेते चोदय। प्रकाशनं नाम सप्तममाहिकम् ॥ ७ ॥ श्रीमत्सतापभूभर्तुराज्ञया प्रीतये सताम् । मधुसूदनकौलेन संपायेदं प्रकाशितम् ।। । . श्रीसाम्बशिवार्पणं भूयात् ।