University Library,gurukul Kangri Vishwavidyalaya

वीणावासवदत्तम्

Shaastrii Es. Kuppusvaamii · 2006/03/01

PDF Proofread

Front matter

Madras Oriental Series No. 2.
VĪNĀVĀSAVADATTAM
1
थि
प...
प
PUBLISHED IN THE JOURNAL DA ORIENTAL RESEARCH
MADRAS
स्टाक प्रमाणीकरण १६४-११८५
Price As. 8.]
[Foreign Ish.

वीणावासवदत्तम् ओरियण्टल रिसर्च त्रैमासिक- पत्रिकायां प्रकाशितम् मद्रास ला जर्नल मुद्राशालायाम् मुद्रितम् 1931 [मूल्यम् अष्टौ आणकाः] FOREWORD This work is based on a single manuscript deposited in the Government Oriental Manuscripts Library, Madras and described under R, No. 2784. It is an incomplete anonymous play breaking off at the beginning of the fourth Act. Virāvāsavadatta is reported to be the name by which the work is known to the owner of the manuscript as may be gathered from a card tagged on to the original manuscript. It is closely similar in plot, style and spirit to the Pratijña-Yaugandharāyaṇa which was published in the Trivandrum Sanskrit Series and ascribed to Bhāsa. As pointed out at page 20 of the introduction to the Āścaryacūļāmaņi, published in 1926 by the Sri Bālamanoramā Press, Mylapore, it would not be an unreasonable guess that this play may be identical with the Uninādavāsavadatta of Saktibhadra mentioned in the prologue to his Cūdāmaņi. The Bhāsa hypothesis, regarding the thirteen plays published in the Trivandrum Sanskrit Series, is still open to much doubt. In the present state of our knowledge, the verdict regarding these plays "cannot as yet be any other than not proven", as Professor Macdonell observed in his India's Past (page 106), in 1927. It is expected that the fragment now published as a supplement to the Journal of Oriental Research, Madras, will be helpful in solving some of the difficulties of the Bhāsa problem. The press-copy of the manuscript of this work was prepared by Dr. C. Kunhan Raja M.A., D. Phil., Mr. T. R. Chintamani M,A., of the Oriental Research Institute of the Madras University, and Mr. T. Chandrasekharan, M.A., Manager and correspondent of the Journal of Oriental Research, Madras. The work was finally edited by me, after conjecturally filling up the gaps in some places and emending the text of the manuscript in others. Such

vi
cases are enclosed in brackets and indicated by a mark of
query. In re-making this publication from Royal to Demy size,
a few mistakes have crept in. They have been corrected in the
Errata which will be found at the end of the book,
S. KUPPUSWAMI SASTRI.

श्रीः वीणावासवदत्तं नाम नाटकम् । (नान्द्यन्ते ततः प्रविशति सूत्रधारः) --- सूत्रधारः-जयति गिरिसुतास्तनावमर्दप्रविरलभस्मविराजिपीनवक्षाः । स्वशरहुतवहे हुतासुरश्रीः पितृवनरङ्गमहानटस्त्रिनेत्रः ॥ १ ॥ (परिक्रम्य नेपथ्याभिमुखमवलोक्य) आर्ये! इतस्तावत् । (प्रविश्य) नटी-'अय्य! इअं मि। सूत्र—आर्ये ! त्वद्गीतप्रसादिते रङ्गे किञ्चिन्नाटकमारब्धुमिच्छामि । नटी-असमत्था विअ अहं अज्ज गाइदुम् । सूत्र-किन्नु खलु कारणम् ? (विचिन्त्य) आः ज्ञातम् । कन्याप्रदानं प्रति मामनादरं मन्यसे । नटी-दिहिआ दाणिं वि सुमरिदम् । सूत्र-आर्ये! अलमतित्वरया । कुतः- -- १. आर्य ! इयमस्मि । २. असमर्थेवाहमद्य गातुम् । ३. दिष्टयेदानीमपि स्मृतम् । 2. 3. Cf. I. There is nothing in the body of the manuscript to warrant this title. This is the name by which the work is known to the owner of the ms. There was a card tagged on to the ms. with this name. This is one of the so-called "Bhāsa-features ". Pratijñāyaugandharāyaṇa' तव गीतप्रसादिते रङ्गे वयमपि प्रकरणमारभामहे. The names of the author and of the work are not given २ वीणावासवदत्ते विवाहो जन्म मरणं यत्र येन यदा भवेत् । तत्र तेन तदैवैतज्जायते किल नान्यथा ॥२॥ नटी-'अल एरिसेण उत्तरेण । सम्पत्तजोव्वणा सा दारिआ । बहुआ तं पत्थयन्तो । अणुरूवेसु कुलेसु कण्णाणं विवाहो कादव्यो । सूत्र-यद्येवं व्रतनियमोपवासैभगवन्तं महेश्वरमाराध्य तदभिप्रेताय दास्यामि । कुतः- नृपमौलितलस्थाज्ञो जिष्णुरक्षौहिणीपतिः । व्रतादि] तावत्प्रद्योतः कर्तुमारब्धवान् यथा ॥ ३ ॥ (निष्क्रान्तौ) स्थापना ॥ (ततः प्रविशति शालङ्कायनो वसुवर्मा च) शाल-वसुवर्मन् ! सर्वेष्वपत्येषु वासवदत्तां प्रत्यतिस्नेहता महाराजस्य । कुतः- 'तामश्मकेश्वरसुतस्य सुनिश्चितोऽपि दातुं पुनः प्रबलहार्दतया निवृत्य । दास्यामि यद्यनुमतं भगवान् प्रदद्यात् तत्रेति शम्भुमभिराधयितुं प्रवृत्तः ॥ ४ ॥ वसु-कथमिव तस्यामतिरेकस्नेहो महाराजो न स्यात् । सा हि- सौभाग्यश्रीविनयमधुरालापचातुर्यलज्जा- लीलादीनां परमवनिताभूषणानां गुणानाम् । मञ्जूषेव क्षितिपवृषभे साध्विमां पालयेति न्यस्तान्यत्र व्ययबहुलतां नेच्छता भूतधात्रा ॥ ५॥ १. अलमीदशेनोत्तरेण । सप्राप्तयौवना सा दारिका । बहवस्तां प्रार्थयमानाः । अनुरूपेषु कुलेषु कन्यकानां विवाहः कर्तव्यः । 4. cf. Pra. अतिलोभावरगुणानामतिस्ने- हाच्च वासवदत्तायां न शक्नोमि निश्चयं गन्तुम् । suggest व्रतादि। 1. Three syllables are missing. To fit into the metre there must be :-~ I This is another "Bhasa-feature." 3, अतिस्निग्धता or स्नेहातिरेकः is more idomatic. 5. This incident is not seen in Pra. 6. स्नेहातिरेको महाराजस्य will be happier.

प्रथमोऽङ्कः शाल-भोः! कथाप्रसङ्गादविदितान्तरालमार्गाः प्रविष्टास्मश्चित्रमण्डपम् । (उभौ परिक्रम्य तिष्ठतः) (प्रविश्य) प्रतीहारी-(सहर्षम् ) अह्मो भट्टिणो 'इस्सिविणदस्सणप्पवुत्तपीदिप्पवाहभरिददाए तुवरन्ती वि अहं ण पारेमि सिग्धं गन्तुम् । (इति परिक्रम्य) अम्मो अमच्चो अय्य सालङ्कायणो वसुवम्मा अ । भोदु । पिअं णिवेदइस्सम् । (उपेत्य) सुहं अय्याणम् । भट्टिणो अभिप्पेदसिविणदस्सणेण वड्डावीअदु [न्तु] । उमौ--एवंरूपाणां प्रियाख्यानशतानां निवेदिकैवं भवतु भवती । शाल-भवति ! कुत्र खलु वर्तते महाराजः ? प्रती-सुणादु अय्यो सव्वम् । णियमगिहादो णिग्गच्छिअ भट्टा ह्राणगिहं पविसिअ सोव्वण्णपदुमपीठमझगओ रदणसिरीससिद्धत्थकुसुमगन्भेहिं मन्तपूदविमलसीदलसुरभिसलिलसम्पुण्णेहिं मङ्गलकलसेहिं हाइअ किद- मङ्गलसोत्थिविहाणो अहदक्खो मणिवसणो हुदग्गिहोत्तो पुव्वोदरदिसाभाए कणअभद्दपीठे पुव्वमुहमुपविसिअ अह्माणत्तसमुदीरिदेसु मङ्गलपटहतुङ्गेसु [य्येसु] पुरोहिदप्पमुहाणं बहुणं रदणपुण्णपाणीणं हेमासणगदाणं जहदिडं सिविणं णिवेदिअ तेहिं सव्वेहिं पसादुप्फुल्लवदणेहिं साहु साहु सफलो १. अहो ! भर्तुः स्वप्नदर्शनप्रवृत्तप्रीतिप्रवाहभरिततया त्वरमाणाप्यहं न पारयामि शीधं गन्तुम् । अहो ! अमात्य आर्यशालकायनो वसुवर्मा च । भवतु । प्रियं निवेदयिष्यामि । अपि सुखमार्याणाम् । भर्तुरभिप्रेतस्वप्नदर्शनेन वर्धापयन्तु । २. शृणोत्वार्यः सर्वम् । नियमगृहान्निर्गत्य भर्ता स्नानगृहं प्रविश्य सौवर्णपद्मपीठमध्यगतो रत्नशिरीषसिद्धार्थकुसुमगभैर्मन्त्रपूतत्रिमलशीतलसुरभिसलिलसम्पूर्णैर्मङ्गलकलशैः स्नात्वा कृतमङ्गल- स्वस्तिविविधानोऽहतक्षौमनिवसनो हुताग्निहोत्रः पूर्वोत्तरदिशाभागे कनकभद्रपीठे पूर्वमुखमुपविश्य अस्मदाज्ञप्तसमुदीरितेषु मङ्गलपटहतुङ्गेषु [तूर्येषु] पुरोहितप्रमुखाणां बहूनां रत्नपूर्णपाणीनां हेमासन- गतानां यथादृष्ट स्वप्नं निवेद्य तैः सर्वैः प्रसादोत्फुलबदनैः साधु साधु सफल इति पुनः पुनः प्रशंसितस्वनो विसर्य तं यथानुरूपं द्विजातिगणमार्येण भरतरोहकेण सह कनकप्रासादत अवतरति। 1. सिविण?

वीणावासवदत्ते M त्ति पुणो पुणो पसंसिअसिविणो विसजिअ तं जहाणुरूवं दुजादिजणं अय्येण भरदरोहएण सह कणअप्पासादादो ओदरइ । शाल-विजयाय । वसु -कुत्र पुनस्त्वं प्रस्थितासि? प्रती-'सव्वेसु देवाअदणेसु सविसेसा अज्न पूआ कादव्वत्ति कंचुईअस्स भवरादस्स णिवेदेदुम् । शाल-साधु, युक्तमेतत् । गम्यताम् । प्रती-'अहं खु भट्टिणो आणत्तिं अणुचिहिस्सम् । (निष्क्रान्ता) शाल-(विलोक्य) अये! अयं महाराजः । सितरुचिरदुकूलो निर्गतः खेलगामी नरपतिरुपवासक्लान्तदेहो विमानात् । कनकगिरिगुहान्ताद्गन्धहस्तीव गौरः प्रचुरमदविसर्गात्किञ्चन क्षामगात्रः ॥ ६ ॥ (ततः प्रविशति राजा भरतरोहकश्च) राजा--सखे भरतरोहक ! मया सुखमिति वासवदत्तां दातुमेष संश्रितो मार्गः । वरप्रदानादपि दुःखे पुनर्मामभियोजितवान् भगवान् भवः । भरत-स्वामिन् ! शम्भोः प्रसादात्तदकृच्छ्रेणैव सिध्यति । राजा-तथास्तु। भरत-देव! उपवासश्रान्ततया न युक्तमिह चिरं स्थातुम् । (राजा आसनमारोहति) शालकायनवसुवर्माणौ--विजयतां देवः । १. सर्वेषु देवायतनेषु सविशेषाद्य पूजा कर्तव्येति काभुकीयस्य भवरातस्य निवेदयितुम् । २. अहं खलु भर्तुराज्ञप्तिमनुष्ठास्यामि ।

प्रथमोऽङ्कः शाल-अभिप्रेततमो महाराजेनाद्य स्वप्नो दृष्ट इति सकलं राजकुलं प्रीतिविशे- षादस्वतन्त्रमिव । राजा-नवार्यस्तं श्रोतुकामः ? शाल-यदि देवस्यायासो न स्यात् । राजा-तत्सम्प्रधारणार्थमेव नन्विहागता वयम् । शाल-अनुगृहीतोऽस्मि । राजा-यः खल्वहं यथाविधानं व्रतनियमोपवासैर्देवपूजया दिवसं नीत्वा प्राप्तायां रजन्यां निद्रावशमुपगतवानस्मि । शाल-ततस्ततः । राजा- ततः- प्रविलम्बभुजङ्गभोगहारं शशिलेखास्मितवज्जटाकिरीटम् । भगवन्तमुपेतमभ्यपश्यं गिरिशं भस्मविलेपनावदातम् ॥ ७॥ शाल-अहो! दैवसिद्धिः । ततस्ततः । राजा-ततस्तदर्शनात्समुदीर्णहर्षस्त्वरिततरमुत्थाय प्रणम्य गगनतलमभ्युच्छ्रिता- अलिरहमतिष्ठम् । शाल -ततस्ततः । राजा-ततस्स भगवान् सजलजलदमन्द्रस्तनितगम्भीरेण मनश्रुतिह्लादिना खरेणैकं श्लोकमुक्त्वान्तर्हितः । अहमपि तेन ध्वनिना प्रबुद्धः । शाल-किं देवस्य स्मृतिपथमपि प्राप्तः स श्लोकः? राजा-श्रूयताम् । यो विक्रान्तः कुलीनो नयविनयपरः सर्वविद्याकलाज्ञो दाताव्याधिः कृतास्त्रो व्यसनविमुखधीनिर्विकारो विपत्सु । मृत्योर्निीश्चिरायुर्मूदुरतिसुभगो दीप्तिमान्प्राज्ञमन्त्री कन्या नीताप्यकामं भवति सुखयशोभागिनी तादृशेन ॥ ८ ॥ शाल-चन्द्रिकास्थितिरिवेदं संवरणम् ।

६ वीणावासवदत्ते - राजा--सखे भरतरोहक! येऽस्माभिस्सम्बन्धकामाः को नु खलु तेषु सर्वैर्गुणैर्युक्तः ? भरत-दूषिता इव ते सर्वे भगवता शर्वेण ।' राजा-कथमिव ? भरत अश्मकराजसूनुः सञ्जयो रुधिरोद्गारी पानप्रसक्तश्च । माधुरो राजा जयवर्मा मूर्खः । काशीपतिर्विष्णुसेनो मृगयाक्षप्रसङ्गी । राजा- एभिर्गुणैर्विरचितः पुरुषोऽस्त्यवश्य यूयं गवेषयत बुद्धिविलोचनैस्तम् । तादृग्विधो भुवि न चेत्स्वयमभ्युपेत्य ब्रूयात्स्वयं स भगवान्वृषराजकेतुः ॥९॥ वसु-सदृशमुक्तं प्रज्ञातिशयस्य । भरत-मागधो राजा दर्शकः क्रूरः । अङ्गेश्वरो जवरथो विरूपः । मत्स्याधिपतिः शतमन्युर्मत्सरी । सिन्धुराजः सुबाहुर्भीरुः । राजा-किं त्वमसि वक्तुकाम इव ? वसु-उपलक्षित इव मया शङ्करानुमतो वरः । राजा-कथयतु भवान् , कथयतु । वसु-त्रासः पुना वारयति । राजा-मन्त्रो ननु वर्तते । वसु-एवं मन्ये- विचित्य वत्सेश्वरकल्पवृक्षादम्लानशोभं गुणरत्नपुष्पम् । श्लोकस्रगेषा ग्रथितेव यत्नाद्धीहेमसूत्रेण महेश्वरेण ॥ १० ॥ शाल-सम्यगुपलक्षितं वसुवर्मणा । राजा-यद्यसौ सर्वगुणसम्पन्नस्तथाप्यहं नोत्सहे स्वां दुहितरं तस्मै दातुम् । I. cf. Pra. महासेन वर्जयित्वा न हीदानी 3. cf Pra. दुहितुः प्रदानकाले दुःखशीला मेते गुणाः क्वचिदेकस्था दृश्यन्ते । हि मातरः तस्माद्देवी तावदाहयताम् । In this 2. कथम् Supported by Vatsaraja. drama, he does not consult the queen prabandha also. .. at all.

प्रथमोऽङ्कः भरत-किन्नु खलु कारणम् ? राजा -'स हि- कुलबलमतिरूपविक्रमश्रुतिसचिवास्त्रविशेषगर्वतः । न गणयति नरेश्वरान् क्षितौ' मृगपतिपोत इव द्विपेश्वरान् ॥११॥ भरत—यद्येवं तमिह बध्वानीय सर्वेषां मदव्याधीनां चिकित्सा कर्तव्या । राजा-सखे ! किं तच्छक्यमिव ? भरत -देवपादानामाज्ञामात्रापेक्षिण्यो ननु सर्वाः कार्यसिद्धयः । शाल-येन वयं सम्बन्धार्थिनस्तद्वन्धने को गुणः ? भरत—साक्षात्कृत्य वरस्य गुणागुणयोनिश्चयः कर्तव्यः, न लोकरवतः । शाल-किं खराज्यस्थ एव न शक्यः परीक्षितुम् । भरत- -आपन्नाम- नयक्षमाधृतिमतिशौर्यविक्रम- प्रवीणताश्रुतबलवीर्यसम्पदः । खबान्धवप्रणयिजनांश्च देहिनां परीक्षितुं निकषशिलेव निर्मिता ॥ १२ ॥ शाल–यदि तस्य तथा गृह्यमाणस्यानिष्टं किञ्चित् स्यात् । भरत-तत्र तस्य वरगुणहीनतापरिव्यक्तिः शत्रुवधात्स्वामिनस्तेजोवृद्धिर्दर्शकस्य च पक्षाघातः। शाल-परीक्ष्यमाणस्सर्वैगुणैरसमन्वितो भवेत्ततः किम् ? भरत-कीर्तिविशेषो लाभश्च । I. cf. भामह 4.40 राजर्षिनामधेयो वेदाक्षरसमवायप्रविष्टो भारतो 2. cf. Pra. न च मम परितोषो यन्न मां वंशः ।...दर्पयत्येनं दायाद्यागतो गान्धर्वो वेदः वत्सराजः प्रणमति गुणशाली कुञ्जरज्ञानहप्तः ॥ विभ्रमयत्येनं वयस्सहज रूपम् । विषेभयत्येनं and महासेनशब्दमपि न गणयति । किं कथमप्युत्पन्नोऽस्य पौरानुरागः । सम्बन्धमभिलषति and उत्सेकयत्येनं प्रकाश 3. लोकमुखतः?

८ वीणावासवदत्ते वसु-कथं लाभः? भरत-स खलु गान्धर्वे हस्तिशिक्षायामस्त्रसम्पदि चैकवीर इति लोके गण्यते । यथाक्रमेण तत्तस्माच्छिष्यन्ते च नृपात्मजाः । दुष्टान् सर्वांश्च विधिवद्दमयिष्यति च द्विपान् ॥ १३ ॥ शाल -वत्सराजभयान्ननु पाञ्चालोऽस्माननुवर्तते ? भरत-अथ किम् । शाल-गृहीते तत्र भवति कौशाम्बी प्रतिपत्स्यते सः । तद्वृद्धिरपि नोपेक्षितव्या । भरत-वत्सराजमोक्षभयात् द्विगुणं सर्वप्रदानैरारुणिरनुदिनमस्माकं महाराज आराधयिष्यति । अपि च- अनिर्जितात्मा स्वविधेयबुद्धिः प्रचण्डदण्डो निकृतिप्रधानः । नाशो भवेत्तस्य विभूतिवृद्धया लताभिवृद्धयेव महीरुहस्य ॥१४॥ राजा-यदि तस्य परीक्ष्यमाणस्य लोकविख्याता गुणविभूतिरविसंवादिनी स्यात् किमस्माभिः कार्यम् ? भरत-स नो महेश्वरानुमतो वरः । राजा-सञ्जयाय दास्यामीति शुल्कं प्रतिगृह्य तस्मै न दत्तवानिति नन्वस्माकमयशः ? भरत-यथा वाच्यं दोषं वाच्यदोषो]न भवति तथोपायं करिष्यामः । राजा--कथमिव ? भरत-स्वयमेव नेष्यति । राजा-ततोऽपि ननु पापकरम् । भरत-तथापि दैवादुपपन्नमिव दृश्यते । राजा-कथमिव ? भरत-यथाप्रतिज्ञादाने त्रयो दोषाः । राजा-के ते? भरत-शम्भोरभिप्रायव्यतिक्रमः, कोशक्षयः, राजपुत्र्या दुःखभागिता च ।

९ प्रथमोऽङ्कः राजा-कथं कोशक्षयः ? भरत-शुल्कात् द्विगुणं त्रिगुणं वा ननु तस्मै देयम् । राजा--धिगतिकार्पण्यमभिहितम् । भरत-देव ! कार्येषु गुरुलाघवं नन्वत्र चिन्त्यते । राजा -ततस्ततः । भरत -वत्सराजः [जस्य] स्वयं प्रदाने सञ्जये प्रीतिविश्लेषोषे]ऽपि संवादिता जातिकीर्तश्च [जातिः कीर्तिश्च ।' राजा-नन्वत्रापि विद्यते कोशक्षयः । भरत-आरुणिरस्मत्कटाक्षसाध्यः तस्मात्स्वराज्यप्रदानादेव सत्कृतो भविष्यति । शाल–युक्तमभिहितं भवता । भरत --प्रसह्य हरणे केवलं प्रमादिताख्यातिः । किमेतत्वयंभरम् [स्वयंप्रदानाद्वरम् ] सदोषेषु कार्येषु यदल्पदोषं तत्प्रारब्धव्यम् ।' वसु -स्वामिन् ! तत्राप्यहं वाच्यदोषं न पश्यामि । कुतः- नीता बलात्प्रकृतिभद्रतरा सुभद्रा यद्वा सुभद्रभगिनी कपिकेतनेन । देवस्य तेन समभूद्वचनीयता किं तेजःप्रकाशयशसां यदुदन्तिनां वा ॥ १५॥ शाल साधु निरुक्तमभिहितं वसुवर्मणा । भरत-देवस्यापि स एव विधिरिष्ट इव दृश्यते । राजा--कथमिव? -- - । 2. The passage is not at all clear. This may well be broken up as. The text is very much inutilated It may राजा-प्रसह्य हरणे केवलं प्रमादिताख्यातिः । be वत्सराजस्य संप्रदाने संजयप्रीतिविश्लषेऽपि... किमेतत्स्वयं प्रदानाद्वरम् । भर-सदोषेषु कार्येषु यदल्पदोष प्रारब्धव्यम् । श १० वीणावासवदत्ते भरत-तद्विधिप्रधानो हि श्लोकार्थः ।। राजा-स्यादेतत् । शाल--भो! अस्ति पुनरुपायो वत्सराजं गृहीतुम् ? भर-आर्य विद्यते । शाल-कः खलु। भर-स किल- बाल्ये गजोऽस्मीति नरेन्द्रमार्गे क्रीडन्सहायैः सह हर्षमत्तैः । अङ्गारकं नाम मुनिं प्रयान्तं मुहुर्मुहुः पांसुभिरभ्यषिश्चत् ॥ १६ ॥ - शाल-ततस्ततः । भरत-ततस्तेन महर्षिणा समुपजातामर्षेण हस्तिहेतोरेव बन्धनं शत्रुवशतां च यास्यतीति स तु शप्तः । राजा--अहो! नृशंसता महर्षेः । शाल-कथं त्वयैतदुपलब्धम् ? भरत-अदूरस्थेनाऽस्मदीयेन चारेणैव तच्छ्रुतम् । राजा-यद्येवं गृहीत एव वत्सराजः । शाल-भोः! कथमिदानी प्रारब्धव्यम् ? भरत–स खल्विदानी हस्तिबन्धनप्रियः । अत:- आकृष्य द्विरदेन शिक्षितवता वन्यद्विपानां परां लीलां कृत्रिमवर्णलक्षणवता मन्देन भद्रश्रिया । शूरैः कक्षगतैरतीव बहुभिः स्निग्धायुधीयैबलै- श्शक्यश्शक इवर्षिशापविवशो युद्धे ग्रहीतुं बलात् ॥ - 1. cf. कन्या नीताप्यकामम। 2. This is not a motive fore capturing Udayana in Pr. 3. This is in conflict with Brhatkathāślokasangraha and BỊhatkatliā. marjari, according to which Udayana. was brought up in a hermitage.

प्रथमोऽङ्कः
११
वसु-अहो! सुनिपुणो ग्रहणोपायः ।
शाल-मन्दहस्तिनियमः किम् ?
भरत—कदाचित्कार्यविसंवादे परस्य वृद्धिर्मा भूदिति ।
राजाकिमस्ति पुनस्तद्योगानुरूपो हस्ती ?
भरत-देव! अस्यैव कार्यस्य हेतो'ढं सुपरिकल्पिताश्चत्वारो हस्तिनः ।
राजा-
-को
नु खलु तत्र यास्यति?
भरत-आर्यशालङ्कायनः ।
राजा--किं तच्छक्यमिव ?
शाल अवन्ध्यफला हि देवस्याभिप्रायाः ।
राज--कदा नु खल्वार्येण तत्र गन्तव्यम् ?
भरत —यदा स राजा हस्तिवनं प्रविष्टवान् ।
राजा-कथं पुनस्तज्ज्ञास्यामः ?
भरत न्यस्ता मया सर्वत्र हस्तिवनेषु वनचरपुलिन्दतापसाङ्गारिकादि-
व्यञ्जनाश्चाराः । कौशाम्ब्यां च तत्रादि]नुरूपत[पा]स्तेभ्यो यथावृत्तत्तिं]
कालहीनं मया उपलभ्यते ।
-
राजा-सखे! किं त्वया पूर्वमेव व्यवसितं वत्सराजग्रहणम् ?
भरत-न हि।
राजा-कथं पुनरेतत्सर्वं सुविनिहितम् ?
भरत--सर्वेषां आज्ञा[राज्ञां]छिद्रमुपलभ्य छिद्रानुरूपो विधिः प्रागेव मया क्रियते,
स्वामिनः पश्चादाज्ञासमकालमेवाभिप्रायसिद्धये ।
राजा-सदृशमेव[वै]तदाबाल[ल्य]वृद्धस्नेहपुरस्सरस्य प्रज्ञातिशयस्य ।

वीणावासवदत्ते
(प्रविश्य)
यतीहारी-'जेदु भट्टा । कालो दाणि अत्याणीए । (१)
भरत-देव! परिसमाप्तो ननु मन्त्रः ?'
राजा--तथास्तु।
(सर्वे उत्थाय परिकामन्ति)
राजा-भोः
मम तावदिदं दुःखं नित्यं दुहितृहेतुतः ।
बढ्यो दुहितरो येषां कुर्वते किन्नु नाम ते ।।
(निष्क्रान्ताः सर्वे)
इति प्रथमोऽङ्कः
१. जयतु भर्ता । काल इदानीं स्नानाय (?) उत्थानाय (?)
The corresponding portion in the
Pratiñāyaugandharāyaṇa is known as
मन्त्रालोचनाङ्कम ।

॥ द्वितीयोऽङ्कः ॥
(ततः प्रविशति तापसव्यञ्जनश्चारः)
चारः-'जदा वेणुवणं पविट्रो वच्छराओ तदेव मए पेसिदो कवोदको । किं
संपत्तो बुखुि]सो उज्जयिणीम् । (परिक्रम्य) किं णु हु सुक्कपण्णमम्मरसद्दो
विअ । (विलोक्य) अए ! आउहीओ।
(प्रविश्य)
भटः--भअवं! पाणीअं व, भअवं! पाणीअं व ।
चारः-भद्द ! करअत्थं विणा णत्थि अण्णम् ।
भटः-तं एव्व परमपवित्तम् ।
चारः-तह होदु ।
भटः-(अञ्जलिना पानीयं पीत्वा) अन्न जीवाविदमि भअवदा ।
चारः--भई ! अदिसीअला इअं वेला । किं णु हु तुए अदिमत्तं पाणीअं पीदम् ?
भट: -भअवं ! भट्टा वच्छराओ सिलिद्धअसण्डे णाअवणे रण्णवारिप्पविटुं
महंतं हथिजूहं उवलंभिअ अदीव तुरिदं आआदो ।
१. यदा वेणुवनं प्रविष्टो वत्सराजस्तदेव मया प्रेषितः कपोतक: । किं सम्प्राप्तः खलु स
उज्जयिनीम् । किन्नु खलु शुष्कपर्णमर्मरशब्द इव । अये ! आयुधीयः ।
भगवन् ! पानीयं वा, भगवन् ! पानीयं वा ।
३. भद्र! करकस्थं विना नास्त्यन्यत् ।
४. तदेव परमपवित्रम् ।
तथा भवतु
६. अद्य जीवितोऽस्मि भगवता ।
भद्र ! अतिशीतलेयं वेला । किन्नु खलु त्वयातिमात्रं पानीयं पीतम् ।
भगवन् ! भर्ता वत्सराजः शिलीध्रकषण्डे नागवने अरण्यवारिप्रविष्टं महान्तं
हस्तियूथमुपलभ्यातीव त्वरितमायातः ।

१४ वीणावासवदत्ते चारः--(आत्मगतम्) एव्वं एदम् । पुच्छिस्सं दाव णम् । (प्रकाशम्) भो! किण्णिमित्तं स राआ अप्पेण बलेण परिब्भमदि ? भटः-- किं अप्पबलम् ? दुवे सहस्सा वदाभि (पदादओ) ? ; दी सद मत्ता तुरआ ; विसंदि[विंसदि] मत्तवारणा । चारः-'किं जोअंधराअणो मोण्डो रुमण्णो] अ अग्गदो गदो, आदु पिट्टदो आअच्छदि ? भट:--"अय्यजोअंधराअणो पुण रक्खाए णिउत्तो ; अय्यो उण रुमण्णो खुलिन्दखोहं उवसमीदुं पड्ढवणं (?) पविट्ठो । चारः-(आत्मगतम्) भो! जस्स लहेण [जह लेहण] उत्तं तह एव्व सव्वं । भटः - भअवं! वंदामि । गच्छामि[गच्छम्मि] अहम् । . चारः-सोत्थि । (निष्कान्तो भटः) चारः--'किं णु हु दाणी कत्तव्वं । पविट्रो वच्छराओ सिलिद्धअसण्डं णाअवणम् । कोच्चि वि] उज्जइणीओ आअच्छदि । (एकतो विलोक्य) दिहिआ एसो कवोदओ इदो एव्व आअच्छदि । १. एवमेतत् । पृच्छामि तावदेनम् । भोः ! किनिमित्तं स राजाल्पेन बलेन परिभ्रमति । २. किमल्पबलम् ? द्वे सहले पदातयः, द्विशतं मत्तास्तुरागाः, विंशतिमत्तवारणाः । ३. किं यौगन्धरायणो स्मण्वांश्चाग्रतो गतौ, उत पृष्टत आगच्छतः ? ४. आर्ययौगन्धरायणः पुना राक्षायै नियुक्तः । आर्यः पुना स्मण्वान्पुलिन्द- क्षोभमुपशमयितुं प्रस्थानं (१) प्रविष्टः । भो यथा लेखेनोक्तं तथैव सर्वम् । ६. भगवन् ! वन्दे । गच्छाम्यहम् ७. स्वस्ति । किन्नु खल्दिानी कर्तव्यम् । प्रविष्टो वत्सराजः शिलीध्रकषण्डं नागवनम् । कोऽप्युज्जयिनीत आगच्छति । दिष्टयैष कपोतक इत एवागच्छति । ८.

द्वितीयोऽङ्कः १५ (प्रविश्य) --- पुलिन्दवेषश्चारः-- भो! सुड्ड खु एदं पुच्छदि । णिक्कम्मसीळाणं तपो त्ति एत्थ तुवं चिठसि । अहं पुण तदुवाअणाली विअ दोतपो [आदवे] परिब्भमामि । प्रथमः भो! मच्चंथिअ! किं तुवं णअरं आअच्छ (2) एव्व णिवुत्तो, ण खु वा । नितीयः--भो ! मए गच्छंतेण मग्ग एव्व अय्यो साळंकाअणो दिहो । प्रथमः---"कहं तेण विण्णादं वच्छराओ सिलिद्धअसण्डं पविठ्ठो त्ति ? द्वितीयः---णअरत्थेहिं चारेहिम् । प्रथमः-जुजइ । तदो तदो । सो दाणी कहिं ? द्वितीयः---"अय्यो साळंकाअणो तहिं तहिं चौरग्गर्छl जहाणुरूवं ठाविअ चउस्सदेहि पदादीहि सबरराअं [अ]णिदिसिअमाणमग्गो णीळहत्यिा स्थिम् ] गह्निअ जमुणाकओच्छ साळवणं पविसिअ णिऊढं उपविहो । प्रथमः-- तदो तदो। १. भो! सुष्ठु खल्विदं पृच्छामि । निष्कर्मशीलानां तप इत्यत्र त्वं तिष्ठसि । अहं पुनस्तन्तुवायनालीवातपे परिभ्रमामि । २. भो! मत्सन्धीय ! किं त्वं नगरमगत्वैव निवृत्तः, न खलु वा । ३. भो ! मया गच्छता मार्ग एवार्यः शालकायनो दृष्टः । ४. कथं तेन विज्ञातं वत्सराजः शिलीध्रकषण्डं प्रविष्ट इति ? ५. नगरस्थैश्चारैः । ६. युज्यते । ततस्ततः । स इदानीं कुत्र ? ७. आर्यशालकायनस्तत्र तत्र चौरंगजं (?) यथानुरूपं स्थापयित्वा चतुश्शतैः पदातिभिः शबरराजनिर्दिश्यमानमार्गो नीलहस्तिनं गृहीत्वा यमुनाकच्छे सालदनं प्रविश्य निगूढमुपविष्टः । ततस्ततः । ८. 1. चौरग्गयं चउस्सदेहिं पदादिहिं ।

१६
वीणावासवदत्ते
3
द्वितीयः—'तदो अहं अय्येण साळंकाअणेण सेणस्स समीवं गच्छिअ
वच्छराअप्पवुत्तिं जाणीहि त्ति पेसिदो सि ।
प्रथमः अजुत्तं किदं तेण सेणस्स समीवं कवोदअं विसज्जतेण ।
द्वितीयः अलं परिहासेण । को दाणिं वुत्तन्तो ?
प्रथमः-'विदिदम् मए एव्व सव्वम् । आअच्छ दाणिम् । तहिं गए एव्व
गच्छामो ।
द्वितीयः-"तह ।
(निष्क्रान्तौ)
प्रवेशकः
(ततः प्रविशति राजा, विष्णुत्रातः, विदूषकश्च )
राजा-सखे! विष्णुत्रात!
तरुभिरिभकरामभग्नशाखैः कारदशनोल्लिखितैर्महाद्रिकुजैः ।
द्विपपदविषमैश्च भूमिभागैर्गजमयवत्प्रतिदृश्यते वनं मे ॥
विदू-मम उण बुभुक्खाए ओदणमअं विअ पडिभादि ।
विष्णु नैतदाश्चर्यम् ।
राजा-वयस्य ! किमिदानीमेव प्रारब्धा बुभुक्षा ?
विदू-कुक्कुडेहिं सह पबुद्धा ।
१. ततोऽहमार्येण शालकायनेन श्येनस्य समीपं गत्वा वत्सराजप्रवृत्तिं जानीहीति
प्रेषितोऽस्मि ।
२. अयुक्तं कृत तेन श्येनस्य समीपं कपोतकं विसर्जयता ।
३. अलं परिहासेन । क इदानीं वृत्तान्तः ?
विदितं मयेव सर्वम् । आगच्छेदानीम् । तत्रैव गच्छावः ।
४.
तथा ।
मम पुनर्बुभुक्षया ओदनमयमिव प्रतिभाति ।
कुक्कुटैस्सह प्रबुद्धा ।

द्वितीयोगः १७ (सर्वे परिक्रामान्ति) विष्णु-देव! इतो विलोक्यताम् । उच्चत्वादस्य प्रदेशस्य विस्पष्टं दृश्यते वारी । एषा हि- - बंभ्रम्यमाणकलभेभकरेणुपोत- धेनूमिभङ्गकलिला रदभे फे]नमाला । वारी विभाति विलसत्करभोगिसङ्घा व्यालोलफेनभुजगोर्मिमतीव वापी ॥ ३ ॥ राजा-सम्यगाह भवान् ! उपलनिचयनीलं धीरगम्भीरघोषं दशनशबलमेतद्धाजते हस्तियूथम् । विरलतरबलाकं तोयभारावनम्र मवमिव घनवृन्दं मन्दमन्द्रप्रणादम् ॥ ४ ॥ विदू- भो! मूळकन्दा विअ दन्ता, मोदआ विअ कुम्भा, मंणा विअ कणा, गुछित्ता(?) विअ णअणा, ओदणरासी विअ णआ । राजा-अतिसादृश्यमभिहितम् । (प्रविश्य) पाशिकाध्यक्षः- 'जेदु भट्टा! किदं सव्वासु दिसासु जहाणत्तं बलिविहाणं । हुदो अग्गी । वाइदा सोत्थी ळत्थदक्खिणेहिं बह्मणेहिम् । परिवुदा १. भो ! मूलकन्दा इव दन्ताः, मोदका इव कुम्भाः, मण्डका इव कर्णाः, कुलित्था इव नयनानि, ओदनराशिरिव नासा । २. जयतु भर्ता ! कृतं सर्वासु दिशासु यथाशसं बलिविधानम् । हुतोऽग्निः । वाचितं स्वस्ति लब्धदक्षिणैाह्मणैः । परिवता वारी । उत्थापिताः पताकाः । तव 8 वीणावासवदत्ते वारी । उत्याविदा पदाआ । तुझस्स धसमालले(१) दुवारसमीवे ठिदा पुरिसा उत्थिद(?)वेणुदंडपासाणंकुसपासाउह(१)समत्थेहिं सह गएहि ओदिण्णो । पडि पादस्सा(१)चम्मकञ्चुआसाहावच्छादिदसररिदकरेणु- वादंतरिदा(?) पादवंधीआ। पेक्खदु पेक्खहु भट्टा एदाणं कम्मविहाणम् ! राजा-गच्छतु भगवान् । यावदहमप्यागच्छामि । पाशि- भट्ट ! तह । (इति निष्क्रान्तः) (प्रविश्य) वनचरवेषश्चारः अज खु जूहपदि विअ सुसिक्खिदा करेणू वश्चिअ'वच्चराअ- बन्धणं पवेसिअ भट्टिणो पज्जोजदस्स अणिरिणो भविस्सम् । (परिक्रम्य) पविट्ठो मि सिलिद्धअसण्डम् । कहिं हु हु बच्छराओ ? (विलोक्य) एसो सो। (उपसृत्य) जेदु भट्टा ! ण हन्त वञ्जिदो ! णीलो गजो मए दिट्टो।' राजा-(सानन्दम् )भद्र ! नीलो गजः क त्वया दृष्टः ? गहनालये(१) द्वारसमीपे स्थिता: पुरुषा उद्धृतवेणुदण्डपाषाणाङ्कुशपाशायुधसमर्थैः सह । गजै: अवतीर्णे पथि पातस्य (?) चर्मकञ्चुकावच्छादितशरीरकरेणुपादान्तरिताः (१) पादबन्धनीयाः (१) । प्रेक्षता, प्रेक्षतां, भर्तेदानी कर्मविधानम् ! १. भर्तः! तथा। २. अद्य खलु यूथपतिमिव सुशिक्षिता करेणुर्वञ्चयित्वा वत्सराज बन्धनं प्रवेश्य भर्तुः प्रद्योतस्यानृणो भविष्यामि । प्रविष्टोऽस्मि शिलीध्रकषण्डम् । कुत्र नु खलु वत्सराजः ? एष स: । जयतु भर्ता ! न हन्त वञ्चितः ! नीलो गजो मया दृष्टः । 1. 3. वचराअं? पज्योदस्स। Ct. Pr. एकनीलो इस्ती मया दृश्यते . 2. P.9 द्वितीयोऽङ्कः १०. चार:--'इदो जोअणमत्ते जमुणाकच्छे सालवणम् । तहिं माणलभरिआ णाम अदिमुत्तअलआ ति से समीवे सो अहिरमदि । राजा-सखे ! विष्णुत्रात ! नीलकुवलयतनुर्नाम' चक्रवर्तिनो हस्ती । न शक्यः सोऽन्यैर्ग्रहीतुम् । अहं तु पुनः- शक्तो ग्रहीतुं द्विरदप्रवारं तं वीणया केवलयाश्रमेण । विशेषतः कृल्यकरी ममैषा विद्या गजेन्द्रेषु तथाविधेषु ॥५॥ विष्णु-ऐरावतादीनपि दिग्गजान् देवो ग्रहीतुं समर्थः । किं पुनस्तं वनगजम् !' राजा-सखे । त्वमिदानीं सर्वैः साधनैर्हस्तिबन्धने प्रयतख । अहं पुनस्तं द्विरदवरं स्वीकृत्य शीघ्रमानयिष्ये । विष्णु- सापायाः प्रत्यन्ता न च साधु परीक्षिता नदीकक्ष्या । तस्माद्बलैः समस्तैर्गन्तव्यं नान्यथा तत्र ॥ ६॥ - 1. Cf. Pr. 5. P.9. अस्थि। 2. १. इतो योजनमात्रे यमुनाकच्छे सालवनम् । तत्र मानलभरिता नाम अतिमुक्तकलता अस्ति । अस्याः समीपे स आभिरमते । ...इत: क्रोशमात्रे गआणं गहणं ण सम्भणीअम P. 9. मालिकासालप्रच्छादितशरीरः Cf. Pr. ता अप्पमत्ता होह तुझे इमसिंस जूहे । गअं तं अहं वीणादुदीओ कुवलय- आणमि । नीलतनु and again as नीलकुवलयतनु । 6. Cf. Pr. अविदु दुरारक्खदाए भट्टिण उत्त-अस्थि एसो चक्र- आसण्णदोसाणि विसअन्तराणि । वर्ती हत्थी णीलकुवलयतणू णाम ता पदादिमात्राहि ठिदं इमं जूहं कारिअ हत्थिसिक्खाए पठिदो सव्व एव्व गच्छामो ण एकाइणा सामिणा C. Pr. भट्टा अमच्चेण विण्णा. गन्तव्वम् । विदो-ण हु दे एलावणादीणं वि दिसा- 3. Once mentioned as Cf. Pr. P. 9.

२० वीणावासवदत्ते विदू.---'सुठु तत्तहोदा उत्तम् । अपरिच्छिदो णाम देसो अपरिच्छिदओदणं विअ दुःक्खमुप्पादेदि । राजा- वयस्य! तद्दर्शनमनियतम् । नियतप्राप्तस्य महदो हस्तियूथस्य त्यागा. दर्थहानिर्भवेत् । किमत्र विचारेण । पश्य- दृष्टो [ष्ट]भवेद्यदि स घोषवती ममैषा संविद्यते गजवरग्रहणैकहेतुः । स्यादत्ययस्तमपि साधयितुं समर्था व्यालोदरासिततलास्ति ममासियष्टिः ॥ ७ ॥ विष्णु-हस्तिबन्धनं कृत्वैव ननु गन्तव्यम् । रााज न युक्तः सातिशये वस्तुनि कालातिक्रमः । सामसाध्यत्वाद्गजपतेः कोपकारणं च महाबलदर्शनम् । विदू-भो किं पुण कादव्वम् ? राजा-सखे, विष्णुत्रात ! अहमेनं गृहीत्वा सायं सप्तपर्णवेदिकाद्वारे वासार्थ- मागमिष्यामि । त्वं तु पुनः- क्षीणव्याधितवृद्धनिन्दितगजान् दन्ताधिकान् धेनुकान् बालान् गर्भवतीविलक्षणतमाश्वेतादिवर्णाधिकान् । प्राप्तैश्वर्यसुखांश्च वारणवरांस्त्यक्त्वा प्रशस्तान् गजान् बाथ व्रज साधनैः परिवृतस्तत्रैव वस्तुं सखे ॥ ८ ॥ १. सुष्ठु तत्रभवता उक्तम् । अपरीक्षितो नाम देशः अपरीक्षित ओदन इष दुःखमुत्पादयति । २. भोः ! किं पुनः कर्तव्यम् ? gives दृष्टा। 1. The reading in the Vinavasavadatta is cet but the Vatsarajaprabandha

द्वितीयो
१
-
विष्णु-यदाज्ञापयति देवः ।
चारः भट्ट ! काळादिक्कमेण अळिअवादी विअ भट्टिणो समीवे भविस्सम् ।
राजा भद्र ! बहुशो दृष्टप्रत्ययं ननु ते वचः !
चारः-'अदो एव्व मए भणीयदि ।
राजा--सुन्दरपाटलस्तावत् ।
अश्ववन्धकः-(प्रविश्य) भट्ट ! एसो सुन्दरपाटलो ।
राजा -आनय(इत्यश्वमारुह्य) विष्णुत्रात ! गच्छ त्वम् । कात्यायनमिश्रानग्रतः कुरु ।
विष्णु -यदाज्ञापयति देवः । कष्टं भोः !
नृपाः प्रभुत्वात्प्रतिषेधवामा
जिह्मो विधिस्तद्वशवर्ति कार्यम् ।
साचिव्यतो नापरमस्ति पुंसां
विषाददुःखायशसां निदानम् ॥
(निष्क्रान्तः)
चार:--"जइ बच्छराओ ससाहणो आअच्छदि तदा तुवं पळाइअ आअच्छ"
इति अय्यसाळंकायणेण । उत्तम् एसो दाणिं बलम् उज्झिअ णिग्गदो ;
सव्वदा सिद्ध कन्जम् ।
राजा-घोषवती तावत् ।
१. भर्तः ! कालातिक्रमेण अलीकवादीव भर्तुः समीपे भविष्यामि ।
२. अतः खलु मया भण्यते ।
३. भर्तः ! एष सुन्दरपाटलः ।
४. "यदि वत्सराजः ससाधन आगच्छति तदा त्वं पलाय्य आगच्छ” इति
आर्यशालङ्कायनेन उक्तम् । एष इदानी बलमुज्झित्वा निर्गतः । सर्वदा
सिद्धं कार्यम् ।

२२
वीणावासवदत्ते
औपगायकः-(प्रविश्य घोषवतीहस्तः) जेदु भट्टा ! एसो मि ।
राजा-त्वं मदनुपदमागच्छ ।
औपगा--भट्ट ! तह ।
विद-भो ! एसो कच्चायणो विंसदिमत्तेण बळेण परिवुदो अग्गदो गदो ।
अहं दाणिं तुए एव्व सह गमिस्सम् ।
राजा-वयस्य ! शीघ्रमस्माभिर्गन्तव्यम् । अतस्त्वं विष्णुकातेन सह गच्छ ।
विदू-'भो ! तुए एव्व अहं आअच्छामि ।
राजा-वयस्य ! तिष्ठ त्वम् । मम खलु प्राणैः शापितः ।
विद- एसो मि । गच्छ तुवं विअआअ ।
(निष्क्रान्तः)
चारः---'भट्ट ! ण दाणिं चिराइदव्वम् ।
राजा-भद्र ! त्वमग्रतो भूत्वा मार्गमादेशय ।
चार: तह । इदो इदो ।
(सर्वे परिक्रामन्ति)
-
राजा--अहो सुन्दरपाटलस्य जवविशेषः । इह हि-
१. जयतु भर्ता ! एषोऽस्मि ।
२. भर्त: ! तथा ।
३. भोः ! एष कात्यायनो विंशतिमात्रेण बलेन परिवृतो अग्रतो गतः ।
अहमिदानीं त्वयैव सह गमिष्यामि ।
४.
भोः ! त्वयैवाहमागच्छामि ।
५. एषोऽस्मि । गच्छ वं विजयाय ।
६. भर्तः ! नेदानी चिरायितव्यम् ।
तथा । इत इतः ।

द्वितीयोः २३ • . तरुगहनमिदं नदीप्रवाहे पतितमिवोभयपार्थयोर्विरूढम् । अभिमुखमभिधावतीव वेगा- त्प्रमुखगतं समवेक्ष्य दूरतो माम् ॥ १० ॥ चारः-'पविसम जमुणाकच्छं । अज ! दिडिया चउ(त्य)भाअवशिट्टे दिअसे संपत्तह्म (परिक्रम्य) भट्ट ! एसो खु सो वारणो अदिमुत्तअसाळ- च्छाआए ठिदो। राजा-सखे ! अयमत्र । एष हि- समसितनखरान्तः कार्मुकाकारवंशः सुहनुकटललाटो दीर्घपुच्छो दृढांसः । पृथुतरमुखकर्णो व्यायतावृत्तहस्तो जलभरगुरुमेघश्यामपूर्वोच्छिताङ्गः ॥ ११ ॥ चारः-- (आत्मगतम् ) दाणिं फुळामि विअ । (प्रकाशम् ) मुहुत्त तिन्दुस- च्छाआए विस्समिस्सम् । (निष्क्रान्तः) राजा--(अश्वादवरह्य) भृङ्गारकस्तावत् । चेटः- (प्रविश्य भृङ्गारकहस्तः) जेदु भट्टा ! एसो आणीदो । राजा-(आचम्य) औपगायक ! घोषवतीमानय । औपगा- भट्ट ! एसा घोसवदी । १. प्रविशामो यमुनाकच्छम् । आर्य ! दिष्टया चतुर्थभागावशिष्ट दिवसे सम्प्राप्ता: स्मः । भर्त: ! एष खलु स वारण: अतिमुक्तकसालच्छायायां स्थितः । २. इदानी फुल्लामीव । मुहूर्त तिन्दुकच्छायायां विश्रमिध्ये । ३. जयतु भर्ता ! एष आनीतः । ४. भर्तः ! एषा घोषवती ।

२७
वीणावासर्वदते
राजा-(प्रगृह्य वीणां मूर्छयति)
चेटः-'अहं दाणि तहिं एन्व उवविसिस्सम् ।
(निष्कान्तः)
राजा-(आत्मगतम्) किं नु खलु क्षीणो मे बाहुः ? वेपते मे सव्यं चक्षुः ।
औपगा-हद्धि ! पडिपुय्यं (पडिमुहं ?) कण्णअरुत्ते (रुन्तुअं) वाअसो कूजइ ।
बहुचोराणं आवासं खु इदं वणगहणम् ; किं णु हु भवे !
(तत. प्रविशति चोरसेनापतिः खड्गहस्तश्चेटश्च)
चोरः-अहो नु खलु राज्ञां प्रभावो नाम ! वत्सराजो वनमिदं प्रविष्टवानिति
श्रुतमात्रेणैव भिन्नो नः सङ्घातः ।
(उभौ परिक्रामतः)
राजा-(वीणां वादयन् गायति)
निरुपमबलवीर्यशौर्यतेजः
कुवलयनीलतनो मनोज्ञवंश ।
शृणु वचनमनेकपप्रबह
व्रज वशतां मम भद्र भद्रमस्तु ।। १२ ॥
(नेपथ्ये भेरीपटहशङ्खाकुष्टः शब्दः क्रियते)
राजा-हन्त ! वश्चिताः स्मः नीलकुवलयतनुरप्रतिनिधिरय हस्तीति । केनाप्यसौ.
मदाकर्षणार्थ नियुक्तः प्रणिधिः ।
१. अहमिदानीं तत्रैवोपविशामि ।
२.
हा धिक् ! पडिपुय्यं (प्रतिमुखं) कर्णारन्तुदं वायस: कूजति । बहुचोराणा-
मावास: खलु इदं वनगहनम् । किन्नु खलु भवेत् !

द्वितीयोऽधः २५ औपगा-'सव्वदो परिवुदह्म । साउहेहिं मणुस्सेहिं । राजा--(औपगायकाय वीणां दत्वा, अश्वमारुह्य) असौ खलु प्रदेशस्तुरगसक्ष- रणायोग्य इव दृश्यते । तदागम्यताम् । (सर्वे परिक्रामन्ति) राजा-भोः ! तिष्ठ प्राग्जयधन्व नागरक हे कात्यायनोपेहि मां पृष्ठं चुन्द भजस्व सव्यमरिमन्नृक्षापसव्यं मम । मा गा हंसक दूरमुन भव मत्पार्श्वेऽत्र तिष्ठाग्निजि- द्धेहि व्याघ्र हयः (य) शिवेन सहिताः शेषा भवन्त्वग्रतः ॥ १३ ॥ अश्व- साहु जहाणत्तं सव्वे ठिदा । (प्रविश्य) शालकायन-देव ! मा साहसं कार्षीः । परीतोऽसि महता हयगजकलिलेन प्रद्योतबलेन । राजा-आः! तस्यैव दुरात्मनः प्रयोगः खल्वसौ । भवतु पुनरितः प्रभृत्यहं त- स्कुलमिह हन्मि समस्तमाकुमारम् । बनमिव सुसमृद्धमातृणेभ्य- स्तरुपरिघट्टनजो हिरण्यरेताः ॥ १४ ॥ १. सर्वतः परिवृताः स्मः सायुधैर्मनुष्यैः । २. साधु, यथाशप्तं सर्वे स्थिताः । 4 वीणावासवदत्ते शाल-कुशलिनमक्षतं त्वां द्रष्टुमिच्छति महासेनः । राजा-(आत्मगतम् ) यथाक्रममारब्धाः क्रिया विद्वद्भिरनपहास्याः सफलाश्च भवन्ति । अतः सामादिनयैरिमामापदमुत्तरेयम् । (प्रकाशम् ) कस्त्वम् ? किं ते गोत्रम् ? शाल-देव ! सूर्यदत्तो नाम्ना शालङ्कायनो गोत्रेण । राजा-सुप्रभातमद्य यच्चिराभिलषितो भवतो दर्शनोत्सवः समासादितः । एष खल्वर्थानुबन्धोऽर्थो नाम । साधु, इहागम्यताम् । शाल --अग्नय इव नात्यासनेन नातिदूरस्थितवता ननु सुखसेव्या राजानः । औपगा 'पदीआळीव (पदिआईव्व ?) धुत्तो बह्मणो । राजा-आगच्छेदानी गच्छामः । कुरुष्व तावत्त्वद्भूक्षेपानुवर्तिनी वत्सेश्वरलक्ष्मीम् । कुतः विन्यस्य सम्यनिजराज्यभारं प्रज्ञाश्रुतिश्रीमति सूर्यदत्ते। खप्स्याम्यहं स्वस्थमनाः कदेति या प्रार्थना साद्य मम प्रसिद्धा ॥ १५ ॥ शाल-प्रतिगृहीतो देवस्य प्रसादः । किन्तु स्वामिनो यथोद्दिष्टकारिता ननु परत्रेह च हितसुखयोर्निदानम् । १. प्रतिवादीव धूतों ब्राह्मणः।

द्वितीयो
२७
राजा-भो सूर्यदत्त ! तत्रभवान् भरतरोहकस्त्वद्गुणविभूतिमसहमानश्चण्डाल
इव वराहकलहे द्वयोरेकतरवधेनात्मनो वृत्तिमपेक्षमाणस्त्वां नित्यं
जिघांसुरीदृशेष्वासनापायेषु नियुनक्ति, लकुटस्थानीयस्त्वं तस्य संवृत्तः ।
शाल–महासेनस्याहं भृत्यो न भरतरोहकस्य ।
राजा-आर्य ! प्रद्योतस्यातिङ्करस्य समीपचारिणो व्याघ्रसमीपचारिणो मृगस्येव
नियतस्तव प्रत्यवायः । ततस्तत्र स्थानं न श्रेयस्करं भवतः । अपि च,
परीक्ष्यतां तावद्भवता ।
जालेन वह्निवदवार्यतरस्त्वयाह
प्रद्योतनो (तो) ध्रुवमतस्तव मृत्युरेव ।
पौरोग्रहस्तिपकनापितसूदमुख्यान्
योऽहन् कृतागसमसौ न हिनस्ति किं त्वाम् ॥ १६ ॥
शाल—(कर्णी पिधाय) शान्तं शान्तं पापम् । नाहं भर्तुरपवादं श्रोतुं समर्थः ।
अस्थाने पुनर्देवेन वाग्व्ययः क्रियते । कुतः-
अभेद्यया खाम्यनुरागरक्षया
सदा कृतस्वस्त्ययनं मनो मम ।
अतः परेषां परुषाक्षरायुधै-
न भिद्यते भेदवचोमहाग्रहैः ॥ १७ ॥
अपि च
प्रद्योतं भज मुक्त्वास्त्रं श्रेयः स्यात्ते महत्ततः ।
देशकालौ हि विधेते क्षमायास्तेजसोऽपि चं ॥ १८ ॥

वीणावासवदत्ते राजा-हा धिक् ! कः क्षत्रियः सहजमानमयामृतस्य श्रीमद्यशःसमुपदंशवतो रसज्ञः । शस्त्रं विहाय वशतां द्विषतामुपेया- द्यायामकर्कशदृढायतपीनबाहुः ॥ १९ ॥ अश्व- 'भट्ट ! आरूढो एसो हत्थिणं । सज्जो होहि । औप- हस्थिवको सखग्गभीसणं उत्तिविआमाणसजिरीरणिअरंपपुच्छसीहणादं (१) वणगच्छदोणिग्गदं सत्तुबलं परिक्खिदं च अह्माणं जोहेहि । राजा-भवतु भवतु । अहमारपृतनानामद्य साश्वद्विपानां धरणितलमसृग्भिस्तर्पयिष्यामि कोष्णः । वृकशुनकशृगालान् काककङ्कांश्च मांसै- दयिततरयुगान्तं प्राणदानैः कृतान्तम् ॥ २० ॥ (निष्क्रान्तः सार्धमौपगायकाश्वबन्धकाभ्याम् ) शाल-अहो, क्षात्रं तेजः ! अहमप्यात्मनो बलस्यो(पान्ते)भविष्यामि । १. भर्त: ! आरूढ एष हस्तिनम् । सजो भव । २. हस्तिपकः सखङ्गभीषणं (१) सिंहनादं वनकच्छतो निर्गत शत्रुबलं परीक्षितं च अस्माकं योधैः । ... ....

द्वितीयोः २९ (निष्क्रान्तः) चेटः अय्य ! भीददाए सुटु अहं वाउळो को एसो देसो ? चोरः-अरे ! नन्वयं यमुनाकच्छः । चेटः-'अय्य ! इदाणिं खु मए अभिण्णादम् । (उभौ परिक्रामतः) चोरः-(आकर्ण्य) अये! अरण्ये महदाक्रुष्टम् । श्रुतं मया ह्यद्य शालंकायनः प्रविष्टवानिति । न खलु किंचिद्वत्सराजस्तेन छलितः स्यात् । चेटः- (परिक्रम्य अवलोक्य सभयम् ) अय्य! इदो इदो विलोहेहि । केसाकेसी संपहारो संवुत्तो। चोरः-हन्त ! तदेवात्र संवृत्तम् । वारिसका आवन्तिकाश्च खल्वमी योधाः । एते हि- समुन्नदन्तो धृतचापशूल- प्रासासिशक्तिक्षुरिकागदायैः । परस्परं नन्ति रुषा प्रवीरा द्विधा विभक्ता इव मृत्युदंष्ट्राः ॥ २१ ॥ चेटः *अय्य ! एदस्स सल्लरुक्खस्स समीचे चिट्टिअ सुहं गं पेक्खिस्सामो । चोरः-अरे ! सम्यगुपलक्षितं भवता । (उभौ परिक्रम्य तिष्ठतः) - १. आर्य ! भीततया सुष्टु अहं व्याकुलः । क एष प्रदेशः ? २. आर्य ! इदानीं खलु मया आभिज्ञातम् । ३. आर्य ! इत इतो विलोकय । केशाकेशि संप्रहारः संवृत्तः । आर्य! एतस्य सालवृक्षस्य समीपे स्थित्वा सुखं ननु प्रेक्षिप्यावहे ।

३० वीणावासवदत्ते चेट:--- 'अय्य ! को गु खु एसो पदुमवणं विअ जोहाणं मुहवणं छिंदतो तुरअचकं विअ जुद्धमंझे पारम्भमदि ? चोरः----अये ! नन्वेष वत्सराजः । अयं हि- हुतहुतवहतेजाः कुश्चितभ्रूपताकः प्रचुररुधिरलिप्तः प्रोद्यतप्रांशुखड्गः । विचरति गतशङ्कः शत्रुसंघान् विनिघ्नन् तुरगगतिविशेषात् सर्वतो दृश्यमानः ॥ २२ ॥ < चेटः-अय्य ! एसो खु सबरराओ "अरे कच्चाअणा ! पुत्तं मे साणुगं एसिअ कहिं गच्छसि" त्ति भणिअ भट्टिणो समी एव्व धावइ । चोरः-अरे ! पश्य पश्य- - परिपूर्ण्य भुजेन रोषदीप्तो नृपतिः काश्चनतालसन्निभेन । अवधीदुरसि प्रदीप्तशक्त्या द्विषमेषो न्यपतक्षितौ गतासुः ॥ २३ ॥ १. आर्य ! को नु खल्वेषः पद्मवनमिव योधानां मुखवनं छिन्दन् तुरगचक्रमिव युद्धमध्ये परिभ्रमति ? २. आर्य ! एष खलु शबरराजः "अरे कात्यायन! पुत्रं मे सानुगम् एष्यति, कुत्र गच्छसि" इति भणित्वा भर्तुः समीपमेव धावति ।

द्वितीयो ३१ चेटः- 'अय्य ! मज्जिदा विअ भूमी भट्टिणा णिहदेहिं सबरबळेहिं दुदिणं विअ वणगहणम् । चोरः--सम्यगाह भवान् । यथा यथा हरिरिव माहिषं गणं नराधिपः समभिनिहन्ति निर्दयम् । तथा तथा शबरबलं समन्ततो निशामुखे तिमिरमिवाभिवर्धते ॥ २४ ॥ चेटः -- ह द्धि ! हदा सव्वे भट्टिणो जोहा । चोरः--अरे ! गता खामिपिण्डानृण्यमिति ब्रूहि । चेटः कोसुब्भरणकच्चुओ हिउडिभग्गभीसणो तब्बणअणो आअण्ण- पुण्णचाओ को एसो ? चोरः-अयं ननु शालङ्कायनः । एष खलु राजानं सस्मितं बाणैरलंकुर्वाणः शरेण तीक्ष्णायसतेजनेन पादोरदेशे न्यवधीनरेन्द्रम् । चेट: चोरः---प्रासेन राज्ञा निहतोऽसमूले व्यपेतसंज्ञो न्यपतद्धरायाम् ॥ २५ ॥ ह द्धि ! २. १. आर्य ! मजिता इव भूमि: भा निहतैः शबरबलै: दुर्दिनमिव वनगहनम् । हा धिक् ! हताः सर्वे भर्तुर्योधाः । ३. कौसुम्भरणकञ्जुकः भृकुटीभङ्गभीषणः तप्तनयनः आकर्णपूर्णचापः क एषः? हा धिक् ।

३२ वीणावासवदत्ते चेटः- 'अविहा ! एदेण अजं गळगिरिप्पडिमेण हथिणा सरम विअ भट्टार करअन्तो अहिपददि हत्थिजोहो । चोरः-अहो, बलौदार्य राज्ञः ! उद्वीक्ष्यैनं रौद्रमभ्यापतन्तं राजा प्रासं क्षिप्तवानुमतेजाः । भिन्नात्मासौ विग्रहे तेन नागः त्रासाद्रौति प्रावृषीवाभ्रराशिः ॥ ॥ २६ ॥ चेटः --- ह द्धि ! गआरोहएण हिअअप्पदेसे तोमरेण हदो भट्टिणो तुरओ । चोरः-अरे! पश्य पश्य । एष खलु राजा त्वरिततरं मञ्चादवरुह्य हरिणप्लुतके- नोत्प्लुत्य कैशिकामार्गेण प्रहारेण- निकृत्तवान् द्विरदपतेर्महाभुजं महासिना सदशनमश्मकर्कशम् । पतन्नसौ व्यपगतजीवितोऽवधीत् स्वशस्त्रिणः स्वयमचलाभविग्रहः ॥ २७ ॥ चेटः अय्य ! अत्थग्गदो भअवो सुय्यो । धूमाअदि खु सव्वं वणगहणम् चोरः-सम्यगुक्तं शेखरकेण । कृत्वा सुखेन गणनीयमरातिसैन्य भूमिं कळेबरशतैरतिदुर्गमां च । ३ १. अपिहा ! एतेन अयं नलगिरिप्रतिमेन हस्तिना शरमयमिव भतारं कुर्वन् अभिपतति हस्तियोधः । २. हा धिक् ! गजारोहकेन हृदयप्रदेशे तोमरेण हतो भर्तुस्तुरगः । ३. आर्य ! अस्तंगतो भगवान् सूर्यः । धूमायते खलु सर्व वनगहनम् ।

द्वितीयोऽयः न्यस्यैव गङ्गामवतीर्य सन्ध्या रणाजिरेऽस्मिन् क्षतजाभिताने । परं स्वतेजश्च नरेन्द्रसिंह निमग्नवानम्बुनिधौ विवस्वान् ॥ २८ ॥ चेटः-' अथ ! भट्टिणो भीददाए तहिं तहिं रुक्खावुदसरीरा ठिदा संभु (सबर ?) वारा । चोरः-एष खलु राजा- कृत्वा सुखेन गणनीयमरातिसैन्यं भूमि कळेबरशतैरतिदुर्गमां च ! युद्धाङ्गणे चरति भूमिपातः श्रमातः गाढप्रहारपरिविह्वलयेव गत्या ॥ २९ ॥ चेटः- ह द्धि ! पडिदो भट्टा । चोरः-इदानीमस्तमितः सूर्यः । चेटः- अय्य ! एसो खु भट्टा उञ्झिदसज्जोपसुट्टो बिअ सीहो भीदभीदं उवअदेहि अमित्तेहि बद्धो । १. आर्य ! भर्तुः भीततया तत्र तत्र वृक्षावृतशरीराः स्थिताः शबरवीराः । २. हा धिक् ! पतितो भर्ता । ३. आर्य ! एष खलु भर्ता उज्झितत्त्वोपसृष्ट (१) इव सिंहो भीतभीतमुपगतः अमित्रैः बद्धः। 5 वीणावासवदत्ते चोरः-कष्टं कष्टम् ! भूमिः कराग्रेण विवर्तिताथ श्वासेन भनो हिमवान् महाद्रिः । आसारवृष्टया शमितोऽग्निरौर्वो विनिर्हतः कीटशतैरनन्तः ॥ ३०॥ चेटः-'अय्य! एहि, इह ण ठादव्वं अह्मेहि । चोरः-तथास्तु । (परिक्रम्य) अहो खलु नु विधे१रतिक्रमता ! एष हि-- अतुलबलपराक्रमप्रभाव: प्रथितयशाः समरव्रणागात्रः । नरपतिररिभिर्निबध्य नीतो बलिरिव भोगिपभोगपाशबद्धः ॥ ३१ ।। (निष्क्रान्ता) ॥ इति द्वितीयोऽङ्कः ।। १. आर्य! एहि, इह न स्थातव्यमस्माभिः !

॥ तृतीयोऽङ्कः ॥ . (ततः प्रविशति सचिन्तो यौगन्धरायणः) पौग-(विष्णोर्नामानि पठन् ) विष्णुस्त्रिधामा भगवानुपेन्द्रो नारायणश्चक्रधरो मुरारिः । दामोदरः शौरिरनन्तमूर्तिः कृष्णोऽच्युतः कंसरिपुर्मुकुन्दः ॥ १ ॥ (परिक्रम्य) परेयुः प्रमृत्यहं दुःस्वप्नं पश्यामि । नागवनं च प्रविष्टवान् स्वामी। किं नु खलु भवेत् ! (निश्वस्य) अहो नु खलु स्नेहबलदुर्बलस्य मनसो नित्यातुरता ! कुतः तस्यापरैरपरिधृष्यबलप्रभाव- श्रीवीर्यशौर्यधृतितामभिजानतोऽपि । तत्तद्विकल्प्य हृदयं परिवपते मे प्रेम्णा सहैव सततं भ्रमतीव दुःखम् ॥ २॥ (परिक्रम्य तिष्ठति) प्रतीहारी--- (प्रविश्य) 'कहिं हु हु अय्यजोअंधराअणो ? (विलोक्य) एसो चन्दणमंडपे ठिदो । जाव उवसप्पामि । (उपेत्य) जेदु . अय्यो ! अय्य ! उज्जयिणीदो को वि पत्तहत्थो आअदो । १. कुत्रनु खलु आर्ययौगन्धरायणः ? एष चन्दनमण्डपे स्थितः । यावदुप- सामि । जयत्वार्यः! आर्य ! उजयिनीतः कोऽपि पत्रहस्त आगतः।

३६ वीणावासवदत्ते - योग-भवति ! प्रवेशयैनम् । प्रती जं अय्यो आणवेदि (निष्क्रम्य चारेण सह प्रविश्य) एसो अय्यो, उक्सप्पदु । (निष्क्रान्ता) चारः-(उपसृत्य) जेदु अय्यो! योग-स्वागतम् । भद्र ! का वार्ता तत्र ? चारः- एसो खु संकिंचाअणीए (सालंकाअणीओ ?) ळेहो। योग-आनय (गृहीत्वानुवाच्य) भद्र ! कदा शालकायनः सनीलगजो निर्गतः ? चारः अज दसमो दिअसो। योग-किमर्थं पुनस्त्वया विळम्बितम् ? चारः-सब्वे कोसंबीमग्गा बंधाविदा । तेण अहं विळंबिअं आअदो । योग-~(आत्मगतम्) अनाथाः कृता वयं प्रद्योतेन, अथवा स्वामी । अतीव दीर्घायुरतीव शूरः शस्त्रैरवध्यो मतिमान् कृतास्त्रः । श्रियः परं धाम च सार्वभौमः स्वस्थं विजित्यैष्यति शत्रुसङ्घान् ॥ ३ ॥ (प्रकाशम्) भद्र ! विश्रम्यताम् । १. बदार्य आज्ञापयति । एष आर्यः, उपसर्पतु । २. जयत्वार्यः! ३. एष खलु शालङ्कायनीयो लेखः । अद्य दशमो दिवसः। ५. सर्वः कौशाम्बीमागों बन्धितः । तेनाहं विलम्बितमागतः ।

तृतीयोऽङ्कः चारः-'ज अय्यो आणवेदि । (निष्क्रान्तः) यौग-अतिक्रान्त इव कालः । किं नु खल कर्तव्यमिदानीम् ? अथवा ससंशयत्वादातव्य एव लेखः । स्वस्तिके ! प्रतीहारी-(प्रविश्य) अय्य ! इअं ह्मि । यौग-शीघ्रं लेखावासात् लेखनीयं पत्रं चानय । प्रती- अय्यो आणवेदि । (निष्क्रान्ता) यौग-(निश्वस्य) अपि नाम भवेन्नृपस्य शान्ति- निरतस्य ग्रहणे वनद्विपानाम् । अपि नाम न लक्षतां च यामः स्फुटधिग्वादशरस्य पण्डितानाम् ॥ ४ ॥ प्रतीहारी (प्रविश्य) आणीदं मए जहाणत्तं सव्वम् । योग-भद्रे ! आनय । प्रती-" अय्य ! इदं । (दत्वा निष्क्रान्ता) यागै—किं नु खलु हस्तान्मे लेखनी पतिता (विचार्य) भवत्वहमेव तत्र यास्यामि । १. यदार्य आज्ञापयति । २. आर्य ! इयमस्मि । ३. यदार्य आशापयति । ४. आनी तं मया यथाशतं सर्वम् । ५. आर्य ! इदम्।

३८
वीणावासवदत्ते
प्रतीहारी- '(प्रविश्य) जेदु अय्यो ! उपाअमस (उपासअमढ!) समीवादो
...: किळबन्धी एअदो ।
यौग-(आत्मगतम् ) बन्धक इति । एतदप्यनिमित्तमेव । (प्रकाशं) अहमेवैनं
प्रत्युद्गमिष्यामि ।
(उमौ परिकामतः)
यौग-(निश्वस्यात्मगतम् ) निगशमिव मे मनः स्यामिनं प्रति । अथवा
अनियतं हि निमित्तं नाम ।
प्रती-अय्य ! एसो खु सो । (निष्क्रान्ता)
यौग-(विलोक्य) अये ! दृष्टपूर्व इव ।
(प्रविश्य पाशुफ्तवेषो हंसकः)
जेदु भवम् !
यौग-अये ! हंसको दिष्टया वेषान्तरेणायमागतः ।
यौग-अये ! हंसको दिष्टया वेषान्तरेणायमागतः ; कार्यविशेषो विद्यत इति
नूनम् । (प्रकाशम् ) किमस्ति प्राणधारणोपायः ?
हंस- (आत्मगतम् ) विदिदो मि । (प्रकाशम् ) धीरो खु अय्यो !
१. जयत्वार्यः ! उपासकमठ(?)समीपात् किल बन्धक आगतः ।
२. आर्य ! एष खलु स: ।
३.
जयतु भवान् !
विदितोऽस्मि | धीरः खल्वार्यः !

तृतीयोशः योग-अल्परक्षरैरनल्पमुक्तम् । हंस-'अय्य ! यौग-तिष्ठ तावत् । बहूपहरमिदं स्थानम् । कर्णे कथय । इंस- 'अय्य ! तह । (कर्णे) एव्वं विअ । योग-हा स्वामिन् ! (इति मोहमुपगतः) हंस-(उदकेन मुखमवसिच्य) समस्ससदु समस्ससदु अजो । यौग-(प्रत्यागत्य) हा देव ! (इति पुनर्मोहमुपगतः) हंस-समस्ससदु समस्ससदु अय्यो । योग-(प्रत्यागत्य) धियन्त्रिणो धिक्प्रभुशक्तिमत्त्वं धिङ्नीतिशास्त्रं धिगुपायचिन्ताम् । न विद्यते किश्चन जीवलोके प्रत्यर्थिभूतं भवितव्यतायाः ॥ ५ ॥ हंस-सुणाहि सव्वम् । यौग-(उत्थाय) कथयतु भवान् कथयतु । अथवा आगच्छ चन्दनमण्डपे विश्वस्तः तत्रैव निःशवं श्रोष्यामः । १. आर्य ! २. आर्य! तथा । एवमिव । ३. समाश्वासयतु समाश्वासयत्वार्यः । समाश्वासयतु समाश्वासयत्वार्यः । शृणु सर्वम् । ५.

वीणावासवदत्ते (उभौ परिक्रामतः) यौग-भो ! मया मोहमुपगतेन न खलु मन्त्रस्रावि वचनमुक्तम् ? हंस-'णत्थि किंचित् । यौग—दिष्टया ! हंस-'अय्य ! पविटं चन्दणमण्डवम् । योग- अस्त्रेणेन्द्रजिता प्रसह्य समरे यद्रामरामानुजौ बद्धाविल्यवदन्महर्षिवृषभो वाल्मीकिरायः कविः । बन्धात्प्रत्ययितं तदद्य नृपतेः पूर्णस्य सर्वैर्गुणै- दैवं मुख्यतमं नयादि सकलं खेदावहं केवलम् ॥ ६ ॥ (उपविश्य) भो हंसक ! गाढप्रहारप्रवृद्धमूप्रिवासितस्मृतिः स्वामी बद्ध इति शङ्के। हंस-अय्य ! अण्णहा कहं भविस्सदि ? मए उण मत्थअळद्धखग्ग- प्पहारेण चिरेण सुण्णं उवळंभिअ बंधिअ णीअमाणो दिह्रो । यौग--बछवा नीयमानो दृष्टः भोः मयि जीवति नाम वत्सराजो गतपा (गजपा) वारणराजदीर्घबाहुः । १. नास्ति किञ्चित् । २. आर्य ! प्रविष्टं चन्दनमण्डपम् । ३. आर्य ! अन्यथा कथं भविष्यति । भया पुन: मस्तकलन्धखङ्गप्रहारेण चिरेण शून्यमुपलभ्य बद्धा नीयमानो दृष्टः ।

तृतीयोः ५१ वशतामविशद्विषां जनानां किमतः कष्टतरं नु नाम लोके ॥ ७ ॥ हंस-' तदो तहिं एव पाणं परिचत्तुं ववसिदो वि अय्यस्स इमं वुत्तन्तं भणिअ मरिस्सं त्ति आअदो ह्मि । यौग.-अतीव कर्तव्यमनुष्ठितं भवता । कुतः ! आदौ यथा प्रवृत्तं कार्य लोकैरसंविदितमेव । शक्यं यथानुरूपं प्रतिपत्तुं वश्चयित्वान्यान् ॥ ८ ॥ हंस अदो एव्व मए वेसपरिवट्टो किदो । योग -साधु कृतम् ! अपि जानीषे क नु खलु वर्तते स्वामी ? हंस-- उज्जयिणी एव्व णीदो ति तक्केमि । योग -कथमिव ? हंस-* सुदं मए साळंकाअणवअणं सवअणं (सावहाणं !) "सूरा णीदीमंतो वचराअस्स सइवा ; ता सिग्धं उज्जइणी एव्व गंतव्वा" त्ति । ततः तत्रैव प्राणान् परित्यक्तुं व्यवसितोऽपि आर्यस्येमं वृत्तान्तं भणित्या मरिष्यामीति आगतोऽस्मि । २. अत एव मया वेषपरिवर्तः कृतः। ३. उजयनीमेव नीत इति तर्कयामि । श्रतं मया सालङ्कायनवचनम् (सावधानं ?) शूरा नीतिमन्तो वत्सराजस्य सचिवाः। तच्छीघ्रम् उजयिन्येव गन्तव्या" इति । 6 वीणावासवदत्ते योग-हा कष्टम् ! शूरा वयं किल वयं किल नीतिमन्तो यातः सपत्नवशतामवशः पतिर्नः । तस्यैव वा वचनमस्तु तथैव पुंसां शौर्य नयश्च महति व्यसने प्रथेते ॥९॥ हंस अय्य ! तारिसं परिभवं अणुभविअ मिस्सदि ण खु भट्टा ! यौग—मा मैवम् , पश्य- अन्तर्निगूढामर्षाणां तेजःसत्त्वक्षमावताम् । नास्त्यसह्यतरं दुःखं महतां धैर्यशालिनाम् ॥ १० ॥ -- हंस-उज्जइणी गदस्स भट्टिणो ण हु किंचि अणिठं भवे ? यौग-तत्रापि नास्त्यपायः । हंस कहं वि? यौग--अस्मत्स्वभावानभिज्ञतया स्वामिनं प्रत्यपायेऽसति रुमण्वतो मम वा प्रद्योतं विना नास्त्यन्या गतिरित्याशङ्कमानः तत्रभवान् भरतरोहकः सर्वप्रकारेण स्वामिनं परिपालयिष्यति । हंस- एवं होदु । ४ - १. आर्य ! तादृशं परिभवमनुभूय मूष्यति न खलु भर्ता ? २. उजयनीं गतस्य भर्तुर्न खलु किञ्चिदनिष्टं भवेत् ? कथमिव ? एवं भवतु।

तृतीयोऽङ्कः योग---(विचिन्त्य) हंसक ! त्वमिदानी नगरानिष्क्रम्य खेनैव वेषेण हतो राजेति प्रकाशयन्नागत्य निवेदय । हंस-'अय्य ! तह । (निष्क्रान्तः) पौग--(पत्रं लेखनी च आदाय सचिन्तम् ) रुमण्वता राज्ञा चेमान्यक्षराणि प्रबुध्यन्ते नान्यैः, अतो लेखविसंवाद सत्यपि नास्ति मन्त्रभेदः । (लिखित्वा संवेष्टय) कोऽत्र भोः ? पुरुषः-(प्रविश्य) जेदु जय्यो ! अहं दओ (करमओ ?) । यौग-अद्य खल्विहागमिष्यति रुमण्वानिति श्रूयते । शीघ्रमेव लेखं तस्मै प्रापय । पुरु अय्य ! तह । (गृहीत्वा निष्क्रान्तः) योग-लिखितं च यथा कर्तव्यं रुमण्वतः । सुष्ठु खल्वहं चक्षुर्मोहिनी विद्यां जानामि । अतः- विमोह्य नेत्राणि तया जनानां प्रविष्टवदारुचितां प्रदीप्ताम् । गत्वा पुरीमुज्जयिनी पति मे विमोचयिष्यामि नयेन शत्रोः ॥ ११ ॥ कष्टं नाम । किं नाम मे मुखान्निर्गतम् । कोऽहम् ? कः स्वामी ? सिंहा यथा परपराक्रमसाधितानि खादन्ति नैव पिशितानि बुभुक्षयार्ताः । -- १. आर्य ! तथा। २. जयत्वार्यः ! अहम्-- (करभक: ?) ३. आर्य ! तथा ४ वीणावासवदत्त दुःखे महल्यपि तथैव परेण लब्धान् वान्छन्त्यसूनपि न मानधना महान्तः ॥ १२ ॥ अतः प्रद्योतं वश्चयित्वा स्वामिनो यथाभीष्टकारी भविष्यामि । यतीहारी--(प्रविश्य) 'जेदु अय्यो ! भट्टिणो उपज्झाओ हंसओ रुदंतेहिं जणेहिं परिवुदो दुवारे चिठिदि । यौग-किं किं तन्ना(तेना :)गतम् । अहमेवैनं प्रत्युद्गमिष्यामि । (उत्थाय परिक्रामतः) प्रती- अय्य ! आअदं ह्म चोणीरगोरअं (१) । यौग-भवति ! त्वमिदानीमभ्यन्तरं प्रविश । प्रती अय्य ! तह (निष्क्रान्ता)। (ततः प्रविशति साश्रुहंसकः नगराध्यक्षश्च) हंस--' अय्य ! हदो दे भट्टा पज्जोदस्स बलेहिं णीळणाअव्ववदेसेण (इति पादयोः पतति)। यौग-हा स्वामिन् ! हा सखे ! (मोहमुपगत इव) अध्यक्षः-समाश्वासयतु । योग-(प्रत्यागत्येव) धिगद्याप्यहं जीवामि । अस्थाने मामपास्य गतो भर्ता । - १. जयत्वार्यः ! भर्तुरुपाध्यायो हंसको रुदद्भिर्जनैः परिवृतो द्वारे तिष्ठति। २. आर्य ! आगताः स्म: चतुरिगोचरम् (१) ३. आर्य ! तथा। आर्य ! हतस्ते भर्ता प्रद्योतस्य बलै: नीलनागव्यपदेशेन । ४.

तृतीयोशः ४५ विहाय मां यद्यपि देव यातो दिडागजेन्द्रग्रहणाय नाकम् । अथाप्यहं त्वामनुयाम्यवश्यं चितां प्रविश्याग्निविधूतपाप्मा ॥ १३ ॥ अध्यक्षः---इदानी खल्लु वयं विनष्टाः । योग-भो हरिवर्मन् ! अध्यक्षः -आज्ञापय । योग-गच्छ त्वं शीघ्रं यमुनातीरे चितां कारय । अध्यक्षः-प्रसीदत्वार्यः । नार्हति भवानस्मान् विनाथीकर्तुम् । योग---अनिश्चितमपि मया प्रोक्तपूर्वम् ? अध्यक्षः- हन्त ! त्यक्ता एव वयम् । (रुदन्निष्क्रान्तः) हंस अय्य ! किं एदं ? यौग--उज्जयिनीमहं यास्यामि । हंस जइ अय्यो गओ णिस्संस रुमण्णो वि तहिं आगमिस्सदि । यौग ततः किम् ? हंस पविठ्ठो भवे एत्थ पंचालो । यौग पिङ्गळादयस्तं निवारयिष्यन्ति । हंस जुद्धं णाम अणिअभजअत्तेविणं रक्खिदव्या (१)। ४ -sive १. आर्य किमेतत् ? २. यद्यार्यों गतः निस्संशयं रुमण्वानपि तदा अगमिष्यति । ३:. प्रविष्टो भवेदत्र पाञ्चाल: । ४. युद्धं नाम अनियतभद्रम् ; आत्मापि नूनं रक्षितव्यः (१)

वीणावासवदते
१
योग-समानवंश्या ननु राज्ञो रिपवः ।
हंस-' मए उण किं कादव्वं ?
यौग-यद्रुमण्वता प्रोक्तम् ।
ब्राह्मणः--(प्रविश्य) स्वस्ति भवते ! सर्वाः प्रकृतयस्तत्रागमनमिच्छन्ति ।
योग-किं स्वामिनः समीपे ?
बाह्य -न हि । राजभवने ।
यौग--निवृत्त इदानी राजभवनव्यापारः ।
ब्राह्म.---तथापि ननु सन्ति तस्य त्रयो भ्रातरः ।
योग-किं तैः ?
ब्राह्म-तेषामेकं राज्येऽभिषिच्य प्रद्योतवैरनिष्क्रयः कर्तव्यः । न चिता
प्रवेष्टव्येति प्रकृतिजनानां सन्देशः ।
.
यौग-नान्यत् ।
ब्राह्म-दुःखं ननु चिताप्रवेशः ।
योग --तस्मादपि दुःखतरं स्वामिनो वियोगः ।
ब्राह्म--रक्षितव्या ननु प्राणाः ।
योग-ततोऽपि प्रतिज्ञा ।
ब्राह्मवन्ध्यो ननु निष्कारणजीवितत्यागः ।
योग - भर्तृदर्शनहेतुत्वादवन्ध्यः ।
ब्राह्म-अनियतं हि तत् ।
यौग--अनिश्चितानामेतत् ।
१.
मया पुनः
किं कर्तव्यम् ?

तृतीयोजकः ब्राह्म-सन्दिग्धा ननु परलोकाः । योग-निस्सन्दिग्धा मम । ब्राह्म-न शक्ष्याम्यहमतः परं वक्तुम् । हंस-' अळं, गच्छदु अय्यो । ण सकं परिस्समेण अण्णहा कादुम् । ब्राह्म-भोः ! तथा (निष्क्रान्तः) । नगराध्यक्षः--(प्रविश्य) आर्य ! कृतं यथाज्ञप्तम् । योग-अहो ! प्रियं कृतम् । (उत्थाय सर्वे परिक्रामन्ति) २ -- अहो ! भट्टिणो उवरि अणुराओ पकिडिजणाणं, णत्थि मुह (हं) अबफदुट्टिणं । योग-सम्यगाह भवान् । इयं हि सचिवद्विजपौरयोषितां क्दनैः सन्ततबाष्पवार्षिभिः । नळिनीव विराजते पुरी प्रचुरासारजलार्द्रपङ्कजा ॥ १४ ॥ अध्यक्षः---आर्यस्य चिताप्रवेशश्रवणेन द्विगुणीकृतः प्रकृतिजनानां सन्तापः हंस-णिग्गदो भवणादो। योग-भो हरिवर्मन् ! यावद्रुमण्वानागच्छति तावदस्यां नगर्या अप्रमादेन भवितव्यम् । १. अलं, गच्छत्वार्यः । न शक्यं परिश्रमेण अन्यथा कर्तुम् । २. अहो! मर्तुरुपरि अनुरागः प्रकृतिजनानाम् , नास्ति मुखम् अबाष्पदुर्दिनम् । ३. निर्गतो भवनतः।

४८ वीणावासवदचे अध्य ----अथ किम् । हंस-(एकतो विलोक्य) अहो ! णअरं विअ जमुणादीरं सव्वुत्तं । यौग–साधु बहुजनप्रत्यक्षं नाम विचारणीयं भवति । हंस-इदो चिदा। यौग-(विलोक्य) एषा हि- - विकसत्प्रचुरोल्लसत्स्फुलिङ्गा पवनालोलशिखासहस्रकीर्णा मदुपागमनं नृपाय वक्तुं त्रिदिवं प्रेषयतीव धूम एति ॥ १५ ॥ (परिक्रम्य) हंसक ! गच्छ त्वमिदानीम् । यौगन्धरायणो गतः स्वामि- समीपमिति रुमण्वन्तं ब्रूहि । हंस- अय्य ! तह (पादयोर्निपत्य साश्रुमुखो निष्क्रान्तः) । यौग-पुष्पं पुष्पम् । (प्रविश्य चाङ्गरिकाहस्तः) चेटः---अय्य ! इदं पुष्पम् । योग-(प्रगृह्य तामर्चयति) - १. अहो ! नगरमिव यमुनातीरं संवृत्तम् । . २. इतश्चिता। ३. आर्य तथा ।

तृतीयोऽकः ४९ ) - चेटः-'सुणिस्समहं भट्टिणो मरणं ; पेक्खिद् ण पारेमि । (रुदनिष्क्रान्तः) यौग-(आत्मगतम्) बद्धमिदानी विधया जनानां चक्षुः । (प्रकाशम् ) भोः ! सर्वान् पौरान विज्ञापयामि । यत्किश्चिन्मे स्खलितं तन्मर्षणीयं भवद्भिः । (चितां प्रदक्षिणीकृत्य) एष भोश्चितां प्रविशामि । (उल्लध्य परिकामति) (नैपथ्ये हाहाकारः क्रियते) यौग---दिष्टया जनाः सर्वे वञ्चिताः । तथा हि- केचिद्भूमितले पतन्ति विचरन्त्येके सहाहारवाः केचिन्मुक्तशिखा रुदन्ति विलपन्त्युद्वाहवः केचन । केचिद्रावणि पातयन्ति च शिरः सर्पन्ति केचित्क्षितौ केचिद् घ्नन्ति करैरुरो मुहुरयं सिद्धप्रयोगो मम ॥ १६ ॥ अतः खल्वहम्- उन्मत्तवेषः सुखमुज्जयिन्यां भ्रान्त्वा यथाहं प्रतिपद्य कार्यम् । इहागमिष्यामि सहैव भा विकासयन् पौरजनाननानि ॥ १७ ॥ संप्रति हि- उपागतं वमदिव दिङ्मुखैस्तमो निशामुखं परभृतकर्णमेचकम् । परिक्षरत्तिमिरपरीतमम्बरं शनैः शनैरवतरतीव मेदिनीम् ॥ १८ ॥ (निष्क्रान्तः) ॥ इति तृतीयोऽकः ॥ - १. श्रोष्याम्यहं भर्तुमरणम् : प्रेक्षितुं न पारयामि । 7

॥ चतुर्थोऽङ्कः॥
(ततः प्रविशति डिण्डिकवेषो हंसकः )
हंस-ससमुहळे सळरुक्खससुळासुणसिद्धणाअं धबधम्माधादेहाणं एकेण
विणा सरळोवे । (विचिन्त्य) अज्ज खु मए पअळाउज्जइणी परिभमिदा।
मुहुत्तों इमं सीसुदेपउळे विस्समिस्सम् । (परिक्रम्य) इदं मे
1*
* एतावानेव भाग: आदर्श उपलभ्यते ।
PRINTED AT THE MADRAS LAW JOURNAL PRESS, MYLĄPORE, MADRAS.

ALPHABETICAL INDEX OF VERSES. 40 अतीव दीर्धायुः 36 अतुलबल. 34 अनिर्जितात्मा 8 अन्तर्निगूढामर्षाणां 42 अपि नाम भवेत् 37 अभेद्यया स्वाम्यनु 27 अस्त्रेणेन्द्रजिता अहमरिपृतनानां 28 आकृष्य द्विरदेन 10 आदौ यथा प्रवृत्तं 41 उदीक्ष्येनं 32 उन्मत्तवेषः 49 उपलनिचमनीलं 17 उपागतं वमदिव 49 एभिर्गुणैः। 6 कः क्षत्रियः 28 कुलबलमतिरूप- 7 कृत्वा सुखेन 33 केचिद् भूमितले 49 क्षीणव्याधित- 20 जयति गिरिसुता 1 जालेन वहिवत् 27 तरुगहनमिदं 23 तरुभिरिभकर- 16 तस्यापरैरपरि- 35 तामश्मकेश्वर- 2 तिष्ठ प्राग्जयधन्व 25 दृष्टो भवेद्यदि 20 धिङ्मन्त्रिणः 39 नयक्षमाधृति- 7 निकृत्तवान् 32 निरुपमबल 24 नीता बलात् 9 नृपमौलितल- 2 नृपाः प्रभुत्वात् 21 न्यस्यैव गङ्गां 33 परिघूर्ण्य भुजेन 30 प्रद्योतं भज 27 प्रविलम्बभुजङ्ग 5 बम्भ्रम्यमाण- 17 बाल्ये गजः 10 भवतु पुनरितः 25 भूमि: कराग्रेण 34 मम तावदिदं 12 मयि जीवति 40 यथाक्रमेण तत् 8 यथा यथा हरिरिव यो विक्रान्तः 5 31 52 ALPHABETICAL INDEX OF VERSES. 42 शूरा वयं किल सचिवद्विजपौर- समसितनखरान्तः 47 23. समुन्नदन्तः 29 विकसत्प्रचुरोलसत्- 48 विचित्य वत्सेश्वर 6 विन्यस्य सम्यक सम्यक् 26 विमोह्य नेत्राणि 43 विवाहो जन्म 2 विष्णुस्त्रिधामा 35 विहाय मां यद्यपि, 45 शक्तो ग्रहीतुं शरेण तीक्ष्णायस- 31 सापाया: प्रत्यन्ताः 19 सितरुचिरदुकूल: सिंहो यथा 43 सौभाग्यश्री- 2 हुतहुतवहतेजाः 30 19 (N. B. The reference is to pages.]

ERRATA " Page Line For 3 14 अहदरवो मणिवसणो 23 स्वस्तिविविधानो 9 23 विश्लषेऽपि 10 बलात् ॥ 23 fore 12 2 यतीहारी 14 लेहण 9 राक्षायै 19 15 नितीयः 6 21 Read. अहदक्खोमाणिवसणो स्वस्तिविधानो विश्लेषेऽपि बलात् ॥ १७॥ for प्रतीहारी लेहेण रक्षायै द्वितीयः वनं मे ॥ १॥ कृतं 1भो कण्णा णाआ 2 अज 16 वनं मे ॥ 13 " 20 कृत भो 17 13 " कणा 11 18 20 21 28 delete उत्तम्। 2 हथिवको 1अय्य एष्य 29 30 31 4ह दि 32 33 14 णआ 8 5 [2]] 15 । उत्तं 7 हत्थिवको 2 अय्य 17 एष्यति 15 हद्धि 17-18 delete 5 अथ 12 14 4अय्य 18 उज्झितत्वोपसृष्ट 12 निष्क्रान्ता 6 स्यामिनं 12 delete 4 यतीहारी 20 अगमिष्यति अय्य " 3ह द्धि 3 अय्य उज्झितसत्वोपसृष्ट निष्कान्तौ स्वामिनं 34 38 " 44 प्रतीहारी आगमिष्यति 45

No text on this page.

वीणावासवदत्तम्

Author
Shaastrii Es. Kuppusvaamii
Title
Viind-aavaasavadattam.
File name
वीणावासवदत्तम्
Text
OCR done
Citation
1931
Published
2006/03/01
Publisher
The Journal Of Oriental Research, Madras
Language
Sanskrit
Pages
58
Library
University Library,gurukul Kangri Vishwavidyalaya
Classification
LANGUAGE LINGUISTICS LITERATURE
DLI number
477438
Barcode
99999990173297.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
VMLT id
FWv7BRnV1kw
Download PDF

वीणावासवदत्तम्