Scl

Kavyalamkarasutravritti Of Vamana

Narayan Nathaji Kaulkarni

PDF Proofread

Front matter

विषयानुक्रमणिका। शारीर नाम प्रथममधिकरणम् । १ प्रयोजनस्थापना २ अधिकारिचिन्ता रीतिनिश्चयश्च ३ काव्याङ्गानि काव्यविशेषाश्च दोषदर्शनं नाम द्वितीयमधिकरणम् । १ पदपदार्थदोषविभागः २ वाक्यवाक्यार्थदोषविभागः गुणविवेचनं नाम तृतीयमधिकरणम् । १ गुणालंकारधिवेकः शब्दगुणविवेकश्च २ अर्थगुणविवेचनम् आलंकारिकं नाम चतुर्थमधिकरणम् । १ शब्दालंकारविचारः २ उपमाविचारः ३ उपमाप्रपञ्चाधिकारः प्रायोगिक नाम पञ्चममधिकरणम् १ काव्यसमयः २ शब्दशुद्धिः १-१५ १-३ ३-९ ९-१५ १६-३१ १६-२२ २२-३१ ३१-४७ २१-३९ ३९-४७ ४७--७६ ४७--५४ ५४-६२ ६२-७६ ७७-९६ ७७-८१ ८१-९६ Printed by Mr. L. V. Saptarshi, at Prabhakar Printing Press, 82 Budhwar Peth, Poona City. Published by Dr. N. G. Sardesai, for Oriental Book Agency, 15 Shukrawar Peth, Poona City.

ॐ अथ प्रस्तावना " प्राचीनेष्ट्रलंकारनिवन्धषु ( अस्मदवलोकितेषु ) वामनवृत्तिरे- वोत्कृष्टा । तस्यां वापि क्वापि समीचीना युक्तिरुन्दाविता। शब्दशुद्धि विना- प्रासङ्गिकविषयो नावाणि, नापि च श्रृङ्गाररसः, यदनुषङ्गादश्लीलतादोषस्य संभवः । अत एक नास्ति तत्राश्लीलता दोषः । नापि चेयं वृत्तिरतीव विस्तृता । प्रसिद्धेषु तावदलंकारनिबन्धेषु बालानां प्रथनपाठोपयोगिन्येषैवे- तिमन्यामहे " । इति स्वमुद्रितकाव्यप्रकाशोपोद्घाते न्यायरत्नश्रीयुतमहेश- चन्द्रपण्डिताः । पण्डितां वरस्यानयोक्त्यैव वयमस्य ग्रन्थस्य ( अन्यत्र प्रकाशितस्यापि ) प्रकाशनाय चोदिताः। वृत्तिसमेतकाव्यालंकारसूत्राणां प्रणेतुरलकारशास्त्रज्ञस्य श्रीवामनस्य जीवितसमयो जन्मस्थानं च सम्यङ् निर्णेतुं न शक्यते । किंतु तस्य जीव- नस्य शककाल एव पुराविद्भिर्दर्शितपथेनानुयिते । * इयं गेहे लक्ष्मी ' रिति महाकविभवभूतिप्रशीतोत्तररामचरितस्थस्य लोकस्योपन्यासादु बामनो भवभतेरनन्तरं संबभवेत्यनुमितुं शक्यम् । भवभूतिस्त कान्यकुब्जमहीपालयशोवर्मणः सभायां ख्रिस्तीयसप्तमशकोत्तरार्धाष्टमशक- पूर्वार्धयोर्मध्य आसीदिति पण्डिता मन्यन्ते । तस्मात् ख्रिस्तीयसप्तम- शकोत्तराधों वामनस्य जीवितकालस्योपरितनी सीमेति स्पष्टमेव । तस्य जीवतस्याधस्तनी मर्यादा राजशेखरस्य वामनकाव्यालंकार- सूत्रस्यावतरणाद् वामनीया ( वामनानुचरा ) इति संबोधनाच्चोयते । सा च खिस्तीयनवमशकोत्तरार्धा । केचित् " अथ च ध्वन्यालोकलोचने प्रथमो- योते ' वामनाभिप्रायेणायमाक्षेपः भामहाभिप्रायेण तु समासोक्तिरित्यमु- माशयं हृदये गृहीत्वा समासोक्त्याक्षेपयोरिदमेकमेवोदाहरणं व्यतरद्ग्रन्थकृद्' इति वदन्तः श्रीमदाचार्याभिनवगुप्तपादा ध्वन्यालोककर्तुः श्रीमदाचार्यानन्दव- धनस्य प्राचीनत्वं प्रकटयन्ति" इति मन्यन्ते। एष पशोऽप्युपरितननिर्दिष्टकाल- (ख्रिस्तीयनवमशकोत्तरार्ध ) मेव निर्दिशति, यतः काश्मीरेप्ववन्तिवर्म- राज्यसमये नवमशकोत्तरार्धे श्रीमदानन्दवर्धनाचार्य आसीदिति राजतरङ्गिण्या: प्रतीयते । श्रीमदाचार्यनन्दवर्धनस्तु वामनाचार्य न कदापि प्रत्यक्ष- ४ मुपक्षिपति । किंतु स्ववृत्त्यां वामनाचार्थस्य रीतिसिद्धान्तमुद्दिश्य लिख- तौति स्पष्ट भाति । अत एव वामनाचार्यों भामहदण्डयुद्भटप्रभृतय इव श्रीमदाचार्यानन्दवर्धनेनोपन्यस्ताद् ध्वनिसिद्धान्तात् पूर्व समजायत इत्य- नुमीयते । दृढी करोति चैतदेवानुमानं प्रतीहारेन्दुराजो ध्वन्यालंकारं विव- रणमानः । एवं सति वामनाचार्यः सप्तमशकोत्तरार्धनवमशकपूर्वार्धयोर्मध्ये संबभूवेति स्पष्टमेव । काश्मीरमहीपतेः श्रीजयापीडस्य मन्त्री कश्चन वामननामासादिति राजतरङ्गिण्या एतेन श्लोकेन ज्ञातम् । " मनोरथः शङ्खदत्तश्चटकः संधिमांस्तथा । बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः ॥ काश्मीराधिराजः श्रीजयापीडस्त्वष्टमे शतके संबभूवति निश्चितम् । अत एव जयापीडस्य मन्त्री वामनः काव्यालंकारसूत्राणां प्रणेता वामनश्चैक एवेति बुहरादयः । एवं गते नवमशत केऽधिवसन्तुद्भटो वामनश्च समकालीनौ प्रति- स्पर्धिनौ चेति ज्ञायते । तिप्पभूपालगोविन्द [ गोपेन्द्र ] कृता कामधेनुटीका मूलस्यातीव विशदं विवरणमस्तीत्यस्या असकृद् मुद्रणात् सिद्धम् । अस्य गोविन्द- स्यापि विषये न किंचिज्ज्ञातुं शक्यम् । अनेन दाक्षिणात्यनृपतिना भवित- व्यम् । अन्यग्रन्थकारानुपक्षिपन्नसौ विद्याधरविद्यानाथभट्टगोपालप्रभृतीन् धर्मदासमरेविदग्धमुखमण्डनं चोद्दिश्य स्वव्याख्याने लिखति। अत एवानेन चतुदर्शशतकानन्तरं भवितव्यम् । एतस्मिन् ग्रन्थे यत्र यत्र मूलं ग्राहयितुमतीव सुदुष्करं तत्र तत्रैव कामधेनुर्टीकाया उद्धारः कृतः । यत्र तु मूलमात्रस्य वाचनेनैवार्थप्रतीति- र्भवति तत्र टीकया किमिति समग्रा टीका न मुद्रिता । अस्य ग्रन्थस्याय- मेको विशेषः । अस्य प्रकाशनस्यान्यद्विशिष्टं लिङ्गमेवमस्ति यद् दक्षिणविद्या- लये [ Deccan College ] राज्यकर्तृभियंस्तानां हस्तलिखितग्रन्थानां [ Govt. Mss. Library] न केनापि प्रकाशकेनाद्याप्युपयोगः कृतः । तेषां चतुर्णा ग्रन्थानां सहाय्येनैष ग्रन्थः संशोधितः । पाठान्तराणां (एषां ग्रन्थमूले स्वीकारो न कृतः ) परिशिष्टं ग्रन्थावसान उपाहितम् ।

पण्डितवरश्रीवामनविरचितानि काव्यालंकारसूत्राणि वृत्तिसमेतानि कामधेनुसंकलितटिप्पणीसहितानि च । چینی शारीरं नाम प्रथममधिकरणम् । प्रयोजनस्थापना नाम प्रथमोऽध्यायः । प्रणम्य परमं ज्योतिमिनेन कविप्रिया । 'काव्यालंकारसूत्राणां स्वेषों वृत्तिर्विधीयते ।। श्रीः अध्याये प्रथमे काव्यप्रयोजनपरीक्षणम् । आधिकारिविचारश्च द्वितीये रीतिनिश्चयः ॥ १॥ काव्याङ्गकाव्यभेदानां तृतीये प्रतिपादनम् । तुर्ये पदपदार्थानां दोपतत्त्वविवेचनम् ॥ २॥ वाक्यवाक्यार्थदोषाणां पञ्चमे तु प्रपञ्चनम् । गुणालंकारभेदस्तु षष्ठे शब्दगुणास्तथा ॥३॥ सप्तमेऽर्थगुणाः शब्दालंकाराः पुनरष्टमे । उपमा नवमे तस्याः प्रपञ्चो दशमे भवेत् ॥ ४॥ काव्यस्यैकादशे संविद्वादशे शब्दशोधनम् । इत्येष द्वादशाध्यायीप्रमेयाणामनुक्रमः ॥ ५॥ १ काव्यति । ' कवनीयं काव्यम् ' इति लोचनकारः । 'कवयति इति कविः , तस्य कर्म काव्यम् । इति विद्याधरः | कौति शब्दायते विमृशति रसभावान इति कविः, तस्य कर्म काव्यम् ' इति भट्टगोपालः । 'लोकोत्तरवर्णनानिपुणकविकर्म काव्यम् ' इति काव्यप्रकाशकारः । भामहोऽपि प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता । तरनुप्राणनाज्जीवेद्वर्णनानिपुणः कविः ॥ तस्य कर्म स्मृतं काव्यम् ' इति । तदेतत्काव्यशब्दव्युत्पत्तिकथनम् | चास्नाशालिशब्दार्थयुगलं काव्यमिति रूढोऽर्थः । २ स्वेषामिति । सूत्रवृत्त्यारेककर्तृकत्वप्रतिपादनेन सूत्रकाराभिमतार्थप्रतिपादिनी वृत्तिः, वृत्तेरन्यकर्तृकत्वशङ्काविरहश्चेयुभयमप्युपक्षिप्यते । ३ वृत्तिलक्षणमुक्तं भामहेन, सूत्रमात्रस्य या व्याख्या सा वृत्तिरभिधीयते।' इति । - काव्यालंकारसूत्राणि [ शारीरंमधिकरणम् काव्यं ग्राह्यमलंकारात् ॥१॥ काव्यं खलु ग्राह्यमुपादेयं भवति । अलंकारात् । काव्यशब्दोऽयं गुणा- लंकारसंस्कृतयोः शब्दार्थयोर्वर्तते । भक्त्या' तु शब्दार्थमात्रवचनोऽत्र गृह्यते । कोऽसावलंकार इत्यत आह-- सौन्दर्यमलंकारः ॥२॥ अलंकृतिरलंकारः । करणव्युत्पत्त्या पुनरलंकारशब्दोऽयमुपमादिषु वर्तते । स दोपगुणालंकारहानादानाभ्याम् ॥ ३ ॥ स खल्बलंकारो दोषहानात् । गुणालंकारादानाच संपाधः कवेः । शास्त्रतस्ते ॥४॥ ते दोरगुणाझंकारहानादाने शास्त्रादस्यात् । शास्त्रतो हि ज्ञात्वा दोपानह्या । गुणालंकारांश्चाददीत । किं पुनः फलमलंकारवता काव्येन येनैतदर्थोऽयं यत्न इत्याह- काव्यं सदृष्टादृष्टार्थम् । प्रीतिकीर्तिहेतुत्वात् ॥५॥ काव्यं सच्चारु दृष्टप्रयोजनन् । प्रीतिहेतुत्वात् । अदृष्टप्रयोजनन् । कीर्तिहेतुत्वात् । अत्र श्लोकाः- 'प्रतिष्ठा काव्यबन्धस्य यशसः सरणिं विदुः । अकीर्तिवर्तनों त्वेवं क्रुकविश्वविडम्बनान् । कोति स्वर्गफलानाहुरासंसारं विपश्चितः । अकीति तु निरालोकनरकोद्देशदूतिकाम् ॥ - १ भक्त्यति । भक्त्या उपचारेण । 'भज्यते सेव्यते मुख्यार्थोऽनयेति भक्तिः उपचारः लक्षणेत्यर्थः। २ अमुमेवार्थमन्वयव्यतिरेकाभ्यापभियुक्तोक्तिसंवादेन समर्थयते ।

३ -१-२.३] वृत्ति-कामधेनुटिप्पणी-सहितानि । तस्मात्कीर्तिमुपादातुमकीर्ति तु निबर्हितुम् । काव्यालंकारशास्त्रार्थः प्रसाद्यः कविपुंगवः ॥' इति काव्यलंकारसूत्रवृत्तौ शारीरे' प्रथमेऽधिकरणे प्रयोजनस्थापना नाम प्रथमोऽध्यायः । -- अधिकारिचिन्ता रीतिनिश्चयश्च नाम द्वितीयोऽध्यायः । अधिकारिनिरूपणार्थमाह-- अरोचकिनः सतृणाभ्यवहारिणश्च कवयः॥१॥ इह खलु द्वये कवयः संभवन्ति-अरोचकिनः, सतृणाभ्यवहारिण- श्चेति । अरोचकिस्तृणाभ्यवहारिशब्दौ गौणार्थौ । कोऽसावर्थः-विदे- किल्वमविवेकित्वं चेति । ॥ तदाह-- पूर्वे शिष्याः। विवेकित्वात् ॥२॥ पूर्वे खल्वरोचकिनः शिष्याः शासनीयाः । विवेकित्वाद्विवेचनशील- त्वात्। नेतरे । तद्विपर्यात् ॥३॥ इतरे सतृणाभ्यवहारिणो न शिष्याः । तद्विपर्ययादविवेचनशीलत्वात् । न च शीलमपाकर्तुं शक्यम् । १ शारीर इति । प्रथम काव्यशरीरम्, तदनु दोषाः, ततो गुणाः, तदनन्तर- मलंकाराः, ततः शब्दप्रयोगशैलीति क्रमेण पञ्चाधिकरणानि । तत्र काव्यशरीरमधिकृत्य कृतामति शारीरमधिकरणम् । अधिक्रियन्तेऽवान्तरप्रमेयरूपाणि प्रकरणान्यस्मिन्महाप्र- मेयात्मनीत्यधीकरणं प्रमेयविरतिस्थानम् । 'विषयो विषयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्ण- यश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् ॥' इति त्वन्यत्र दृश्यते । २ प्रयोजने काव्यस्य प्रतिष्ठापिते तदर्थितया अधिकारिणो निरूपणीया इ याध्यायद्वयसंगतिमधिगमयति ।

४ -- काव्यालंकारसूत्राणि [शारीरमधिकरणम् नन्वेवं न शास्त्रं सर्वानुग्राहि कुतस्तदुपादीयते तदाह- ने शास्त्रमद्रव्येष्वर्थवत् ॥ ४॥ न खलु शास्त्रमद्रव्येष्वविवेकिप्वर्थवत् । निदर्शनमाह- न कतकं पङ्कप्रसादनाय ॥५॥ नहि कतकं पयस इव पङ्कस्य प्रसादनाय प्रभवति । अधिकारिणो निरूप्य रीतिविनिश्चयार्थमाह- रीतिरात्मा काव्यस्य ॥६॥ रीतिर्नामेयमात्मा काव्यस्य । शरीरस्येवेति वाक्यशेषः । का पुनरियं रीतिरित्याह- विशिष्टा पदरचना रीतिः। ॥ ७ ॥ विशेषवती पदानां रचना रीतिः । कोऽसौ विशेष इत्याह विशेषो गुणात्मा ॥ ८॥ वक्ष्यमाणगुणरूपो विशेषः । सा त्रिधा -वैदर्भी गौडीया पाञ्चाली च ॥९॥ सा चेय रीतिस्त्रिधा भिद्यते-वैदर्भी, गौडीया, पाञ्चाली चेति । १ न शास्त्रमिति । शास्त्रोपदेशदारा यत्र सद्भिराधीयमना गुणाः संक्रामन्ति, तद्रव्यमिहि विवक्षितम् । तद्विपरीतान्यद्रव्याणि गुणहीना अविवेकिन इति यावत् | अत्र गाथा, ' अयं भस्मनि होमः स्यादियं वृष्टिर्मरुस्थले । इदमश्रवणे गानं यज्जडे शास्त्रशिक्षणम् ॥ ' इति । २ अधिकारिण इति । कर्तृनिरूपणानन्तरं कर्मनिरूपणमुचितमिति संगति. । ३ रीतिर्नामेति । रिणन्ति गच्छन्ति अस्यां गुणा इति, रीयते क्षरत्यस्या वाङ्मधुधारेति वा रीतिः । ' काव्यस्यात्मा ध्वनिरिति बुधै यः समाम्नातपूर्वः' इत्या- नन्दवर्धनः । ' शब्दार्थों मूर्तिराख्यातौ जीवितं व्यङ्गथवैभवम् ' इति विद्यानाथः । वाद- दग्ध्यप्रधानेपि रस एवात्र जीवितम्' इत्यग्निपुराणम् । 'काव्यरयात्मनि सङ्गिनि रसादिरूपे न कस्यचिागुमतिः' इति व्यक्तिविवेकः । 'ये रसस्यागिनो धर्माः शायर्यादय इात्मनः' इति काव्यप्रकाशः । 'अलंकारास्त्वलंकारा गुण एव गुणाः सदा । औचित्यं रससिद्धस्य स्थिरं काव्यस्य जीवितम् ' इति क्षेमेन्द्रः । ‘वक्रोक्तिः काव्यजी- वितम्' इति वक्रोक्तिजीवितकारः । - -- . -१-२.११] वृत्ति-कामधेनुटिप्पणी-सहितानि ।। किं पुनर्देशवशाव्यवद्गुणोत्पत्तिः काव्यानाम् , येनायं देशविशेषव्य- पदेशः । नैवम् यदाह-- विदर्भादिषु दृष्टत्वात्तत्समाख्या ॥ १० ॥ विदर्भगौडपाञ्चालेषु देशेषु तत्रत्यैः कविभिर्यथास्वरूपमुपलब्धत्वात्तत्स- माख्या । न पुनर्देशैः किंचिदुपक्रियते काव्यानाम् । तासां गुणभेदाढ़ेदमाह-- समग्रगुणा वैदर्भी ॥ ११ ॥ समौरोजःप्रसादप्रभृतिभिर्गुणैरुपेता वैदर्भी नाम रीतिः । अत्र श्लोको-- अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता । विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते ॥ तामेकामेवं कवयः स्तुवन्ति-- सति वक्तरि सत्यर्थे सति शब्दानुशासने । अस्ति तन्न विना येन परिस्रवति वाङ्मधु ॥ अत्रोदाहरणम् - ' गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विस्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्ति लभतामिदं च शिथिलज्यावन्धमस्मद्धनु': ।' शा. २.६. १ तथा हि-'छायाबद्धकदम्बकम्' 'शिथिलज्याबन्धम्' इत्यत्र बन्धस्य गाढ- स्वादोजः। 'छायाबद्धकदम्बकं मृगकुलम् ' इत्यत्र बन्धस्य गाढत्वशैथिल्ययोः संप्लवात्प्रसादः। 'महिषा निपानसलिलम् ' इत्यत्र मसृणत्वाच्छ्लेषः । 'गाहन्ताम् ' इत्यारभ्य येनैव मार्गे ग उपक्रमः, तेनैव मार्गेण उपसंहार इति | मार्गाभेदात्समता । ' गाहन्ताम् इत्यत्रागहः। 'महिषाः' इत्यत्रावरोहः । एवमन्यत्रापि आरोहावरोहक्रमस्फुरणात्समाधिः । शृङ्गैर्मुहुस्ताडितम्' इति पृथक्पदत्वान्माधुर्यम् | रामन्थमभ्यस्यतु' इत्यादौ बन्धस्याजर- ठत्वात्सौकुमार्यम् । ' शिथिलज्याबन्धमस्मद्धनुः ' इत्यत्र बन्धस्य विकटत्वादुदारता । पदानामुज्ज्वलत्वाकान्तिः । अर्थाभिव्यक्तिहेतुत्वादर्थव्यक्तिरिति दिङ्मात्रप्रदर्शनम् । गुण- स्वरूपनिरूपणं तु गुणविवेचने आधिकरणे करिष्यते । - - काव्यालंकारसूत्राणि [ शारीरमधिकरणम् ओजःकान्तिमती गौडीया ॥ १२ ॥ ओजः कान्तिश्च विद्यते यस्यां सा ओजःकान्तिमती गोडीया नाम रीतिः। माधुर्यसौकुमार्ययोरभावान् । समासबहुला अत्युल्वणपदा च । अत्र श्लोकः- समस्तात्युत्कटपदामोजःकान्तिगुणान्विताम् । गोडीयामिति गायन्ति रीति रीतिविचक्षणाः ।। उदाहरणम्-- 'दोर्दण्डाञ्चित चन्द्रशेखरधनुर्दण्डावभङ्गोचत- ष्टंकारध्वनिरायवालचरितप्रस्तावनाडिण्डिमः । वापर्यतकपालमपुटनिलद्रहाण्डमाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥' महावीरचरित १.५४ माधुर्यसौकुमार्योपपन्ना पाञ्चाली ॥ १३ ॥ माधुर्येण सौकुमायेंग च गुणेनोपन्ना पाञ्चाली नाम रीतिः । ओजः कान्त्य भावादनुस्वणपदा विच्छाया च । तथा च श्लोकः-- आश्लिष्टश्लथभावां तु पुराणच्छाययाश्रिताम् । मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः ॥ १ समस्तति । समस्तानि समासवृत्तिमापन्नानि अत्युद्भटानि पदानि यस्या इति विग्रहः । २ एषा खलु धनुर्धरधुरन्धरेण रघुनन्दनेन गाढाकर्षणात्खण्डिते खण्डपरशोः कोदण्डे "तद्भङ्गसंघटितनिराघाटघोषवर्णनोपोद्धातेन तस्यैव भुजबलभूमानमभिलक्षयतो लक्ष्मणस्योक्तिः। बन्धस्य गाढगज्ज्वल्ययोरुरक्टत्वादुल्बणावोजःकान्तिगुणौ । समास भ्यस्त्वोषणपद वें चातिस्फुटे । mr अत्र ७ , -१-२. १८ वृत्ति-कामधेनुटिप्पणी-सहितानि । अत्रोदाहरण- । ग्रामऽस्निन्पथिकाय पान्थ वसतिनैवाधुना दीयते रात्रावत्र विहारमण्डपतले पान्थः प्रसुप्तो युवा । तेनोत्थाय खलेन गजति घने स्मृत्वा प्रियां तत्कृतं येनाद्यापि करकदण्डपतनाशङ्की जनस्तिष्ठति ॥ एतानु तिवृष रीतिपु रेखास्तिव चित्रं काव्यं प्रतिष्ठितमिति । तासां पूर्वी ग्राह्या । गुणसाकल्यात् ॥ १४ ॥ तासां तिसृणां रीतीनां पूर्वा वैदर्भी ग्राह्या । गुणानां साकल्यान् । न पुनरितरे । स्तोकगुणत्वात् ॥ १५ ॥ इतरे गौडीयपाञ्चाल्यो न ग्राह्ये । स्तोकगुणत्वात् । तारोहणार्थमितराभ्यास इत्येके ॥ १६ ॥ तस्यादा एवारोहणार्थमितरयोरपि रीत्योरभ्यास इत्येके मन्यन्ते । ततु न । अतत्वशीलस्य तत्त्वानिष्पत्तेः ॥ १७ ॥ नयतत्त्वं शीलयतस्तत्त्वं निप्पद्यते । निदर्शनार्थमाह-- न शणसूत्रवानाभ्यासे त्रसरसूत्रवानवैचित्र्यलाभः ॥ १८ ॥ ॥ १ ग्राम इति । इयं हि कस्यत्चिद्वामीणस्य गृहे निशि निद्रातुं भद्रवेदि- मधिशव्य पर्जन्यजितैस्तर्जिते निजनिदेशापचारनिष्कृपकुपितकुसुमशर शरवातपातक्लिष्ट- तया निर्विष्ठवति कष्टां दशा वैदेशिके तण्डपातभीतिसमाकुलायाः कुलवृद्धायाः पुनर- भ्यमवन्यं प्रत्युक्तिः। २ वाहारोहाय बालस्य मेषारोहानुशीलनवदर्भासंदर्भलाभाय तदितराभ्यास इति केचिदाचक्षते । तत्पशं प्रतिक्षेप्तुमुपक्षिपति-तदारोहणार्थमिति । ३ न यतादृशं कम परिशीलयतस्तादृशकर्मकौशलं सिध्यति । यथा लोके वाजिनमारुरुक्षतो राजपुत्रादेस्तदुपयोगिजान्ववष्टम्भजवगतिमण्डलीक्रियादिसिद्धये मेषारो- हाभ्यासो दृश्यते, न तथा कस्यचिदपि कुविन्दस्य सूक्ष्मतन्तुवानकौशलसिथै गोणीवाना- भ्यासो दृष्टः; तयोर्वैसादृश्येन उपयोगाभावात् । अतो वैदर्भीसंदर्भलाभाय गौडीयपाञ्चा- लरीत्योरभ्यास इति मतमनादरणीयम् ।

८ काव्यालंकारसूत्राणि (शारीरमधिकरणम् नहि 'शणसूत्रवानमभ्यस्यन्कुविन्दनसरसूत्रवानवैचित्र्यं लभते । सापि समासाभावे शुद्धवेदीं ॥ १९ ॥ सापि च वैदर्भी रीतिः शुद्धवैदर्भी भण्यते। यदि समासवत्पदं न भवति । तस्यामर्थगुणसंपदास्वाद्या ॥२०॥ तस्यां वैदामर्थगुणसंपदास्वाद्या भवति । तदुपारोहादर्थगुणलेशोऽपि ॥ २१॥ तदुपधानतः खल्वर्थलेशोऽपि स्वदते । किमङ्ग, पुनरर्थगुणसंपत् । तथा चाहुः-- 'कि त्वस्ति काचिदपरैव पदानुपूर्वी यस्या न किंचिदपि किंचिदिवावभाति । आनन्दयत्यथ च कर्णपथं प्रयाता चेतः सताममृतवृष्टिरिव प्रविष्टा ॥ वचसि यमधिगम्य स्पन्दते वाचकश्री- वितथमपि तथात्वं यत्र वस्तु प्रयाति । उदयति हि स ताइक्वापि वैदर्भरीतौ सहृदयहृदयानां रञ्जकः कोऽपि पाकः ।। १ शणसूत्रं गोण्याद्युपादानम् । त्रसरतन्तुः श्लक्ष्णवस्त्रायुपादानम् | वानमिति- धयतेल्युटि रूपम् । २ कि स्विति । यस्या पदानुपाम् । न किंचिदपि असदपि वस्तु । किंचिदिव सदिव । अवभाति प्रतिभाति, प्रबन्धपढिप्रकटितपदघटनापरि पाटिवशात्कल्प्यं वस्तु प्रत्यक्षायमाणं प्रतिभासत इत्ययः । यदाहुः, ' अपारे काव्य- संसारे कविरेकः प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते ।। ' इति । ३ यत्र यस्मिन्वैदर्भीपाके । वितथं नीरसं वस्तु । अवितथवं सरसत्वम् । प्रयाति । तदुक्तं लोचने, 'जगवावप्रख्यं निजरसभरात्पूरयति च' इति । अन्यञ्च, 'भावानचेतनानपि चे नवचेतनानचेतनवत् । व्यवहारयति यथेच्छं सुकविः काव्ये स्वतन्त्रतया ॥' इति । .

-१-३.५ वृत्ति-कामधेनुटिप्पणी-सहितानि । सापि वैदर्भी । तात्स्थ्यात् ॥ 'सापीयमर्थगुणसंपद्वैदर्भीन्युक्ता। तास्थ्यादित्युपचारतो व्यवहारं दर्शयति । इति काव्यालंकारसूत्रवृत्तौ शारीरे प्रथमेऽधिकरणे अधिकारचिन्ता रीतिनिश्चयश्च नाम द्वितीयोऽध्यायः । - काव्याङ्गानि काव्यविशेषश्च नाम तृतीयोऽध्यायः । रीतितत्त्वं निरूप्य काव्याङ्गान्युपदर्शयितुमाह- लोको विद्या प्रकीर्णं च काव्याङ्गानि ॥ १ ॥ उद्देशक्रमेणेतद्वयाचष्टे- लोकवृतं लोकः ॥ २॥ लोकः स्थावरजङ्गमात्मा तस्य वर्तनं वृत्तमिति । शब्दस्कृत्याभिधानकोषच्छन्दोविचितिकलाकामशास्त्रदण्डनीति- पूर्वाविद्याः॥३॥ शब्दस्मृत्यादीनां तत्पूर्वकत्वं पूर्व काव्यबन्धेष्वपेक्षणीयत्वात् । तासां काव्याङ्गत्वं योजयितुमाह- शब्दस्मृतेः शब्दशुद्धिः ॥ ४ ॥ शब्दस्मृतेाकरणाच्छब्दानां शुद्धिः साधुत्वनिश्चयः कर्तव्यः । शुद्धानि हि पदानि निःशङ्कः कविभिः प्रयुज्यन्ते । अभिधानकोषतः पदार्थनिश्चयः॥५॥ पदं हि रचनाप्रवेशयोग्यं भावयन्संविधार्थत्वेन न गृह्णीयान्न वा जया- दिति काव्यबन्धविनः । तस्मादभिधानकोषतः पदार्थनिश्चयः कर्तव्य इति । अपूर्वाभिधानलाभार्थत्वं त्वयुक्तमभिधानकोषस्य । अप्रयुक्तस्थाप्रयोज्यत्वात् । १ सापीति । तस्मिन् तिष्ठतीति तत्स्थः, तस्य भावः तात्स्थ्यं तस्मादिति, उपचारे संबन्ध उक्तः । २ अधिकारिचिन्तामिति । अङ्गिनि निरूपितेऽङ्गानां निरूपणमुचितमिति संगतिः। ३ पदं हीति । अयमर्थः-'आधानोद्धरणे तावद्यावद्दोलायते मनः' इत्युक्तनी- त्या किमपि पदं काव्यबन्धे प्रयोगयोग्यं पुनः पुनश्चेतसि विनिवेशयन्कविरभिधानकोशप: रिशीलनमन्तरेण संदिग्धार्थतया प्रयोक्तुं परित्यक्तुं वा नोत्सहते । का...२ १० काव्यालंकारसूत्राणि [शारीरमधिकरणम् यदि प्रयुक्तं प्रयुज्यते तर्हि किमिति संदिग्धार्थत्वमाशङ्कितं पदस्य । तन्न । । तत्र सानान्येनार्थावगतिः संभवति'। यथा नीवीशब्देन जघनवस्त्रग्रन्थि- रुच्यत इति कस्यचिन्निश्चयः। स्त्रिया वा पुरुषस्य वेति संशयो नीवी संग्रथने नार्या जघनस्थस्य वाससः' इति नाममालाप्रतीकमपश्यत इति । अथ कथम् । केनचित्पूर्वमुक्तोऽपि नीवीवन्धः श्लथीकृतः । विचित्रभोजनाभोगवर्धमानोदरादिना ॥' इति प्रयोगः । प्रान्तेरुपचाराद्वा । छन्दोविचितेवृत्तसंशयच्छेदः ॥ ६ ॥ काव्याभ्यासावृत्तसंक्रान्तिर्भवत्येव । किं तु मात्रावृत्तादिद्यु क्वचित्संशयः स्यात् । अतो वृत्तसंशच्छेदश्छन्दोविचितेर्विधेय इति । फलाशालेयः ॥ ७॥ कली गीतन अचित्रादिलास्तासानभिधायकानि शाजाणि विशाखिलादि- प्रणीतानि कलालागि । केन्यः कलातत्त्वस्य संविसंवेदनन् । नहि कला- तत्त्वानुपलब्धी कलावस्तु सम्यनिवडुं शक्यमिति । १ सामान्येनति। एवा हि मे रणगतस्य दृढा प्रतिज्ञा द्रक्ष्यन्ति यन्न रिपवो जवनं हवानाम् ' इति प्रयोगदर्शनात् जवनशब्दः पृष्ठवंशाधरत्रिकमात्रमभिधत्त इत्य- भिमन्यमानस्य कस्यचिनीवीशब्दा जयन्वस्त्रग्रन्थिमभिधत्त इति प्रतिपत्तिजायते ! तच स्त्रिया वा पुत्रत्य वत्ति संशय उपपद्यत इत्यर्थः । ६ स्थापि मात्रावृतादिषु मात्राकल्प्येषु वैतालीसरिधु छन्दःशास्त्रं विना निगयो दुष्कर इत्यर्थः । वैतालीयलक्षणं तु वृत्तरत्नकारे, 'पडियमेऽटौ समे कला- ताश्च समे स्युनों निरन्तरा: न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः' इति । ३ कला नृत्यगीतादयश्चतुःषष्टिः । उपकलाश्चतु:शतम् । कलानामुद्देश: तो भामहेन-- नृत्तं गीतं तथा वाद्यमालेल्यं मणिभूमिकाः । दशनाद्यङ्गरागश्च माल्यगुम्फविचित्रता । वणुषीणादिकालापपाटवं शेखरक्रिया | नेपथ्यं गन्धयुक्तिश्च कर्ण पत्रक्रियाभिधा । विशेषभेद्यक्लतिश्च नानाभूषणयोजनम् । इन्द्रजालं कौचिमारं सामुद्रं हस्तलाववम् । सूीवानक्रिया सूत्रक्रिया सलिलगद्यकम् । सूदशास्त्रपरिशानं शारिकाशुकवादनम् । रसवादो वास्तुविद्या तक्षणं मेचिकोत्करः । सजीवनिर्जीवद्यूत शास्त्रसंपाद्यपाटवम् । धारणा मातृका यन्त्रं मातृकाकाव्यलक्षणम् | आकर्षकक्रीडितं च निमित्तागमवेदनम् । अन्यम्बुसेनादिस्तम्भो विषप्रतिविषागमः । पाञ्चालीनृत्तकरणं तण्डुलादिबालिकिया ।

-१-३.१२ वृत्ति-कामधेनटिप्पणी-सहितानि । कामशास्त्रतः कासोपचारस्य ।। ८ ॥ संविदित्यनुवर्तते । कामोपचारत्त्य संविकामशास्त्रत इति । कामोपचार- वहुलं हि वस्तु काव्यस्यति । दण्डनीतेनयापनययोः ॥९॥ दण्डनीतेरर्थशास्त्रान्नयस्यापनयस्य च संविदिति तत्र घागुण्यस्य' यथा- वत्प्रयोगो नयः । तद्विारीतोऽपनयः । नहि तावविज्ञाय नायकप्रतिनायक- योर्वृत्तं शक्यं काव्ये निबद्धमिति । इतिवृतकुटिलत्वं च ततः ॥१०॥ इतिहासादिरितिवृत्तं काव्यशरीरम् । तस्य कुटिलत्वं ततो दण्डनीते- बलीयस्त्वादिप्रयोगो व्युत्पत्तिमूलतत्वात्तस्याः । एवमन्यासामपि विद्यानां यथास्वमुपयोगो वर्णनीय इति । लक्ष्यज्ञत्वमभियोगो वृद्धसेवावेक्षणं प्रतिभानमवधानं च प्रक्री- र्णम् ॥ ११॥ तत्र काव्यपरिचयो लक्ष्यज्ञत्वम् ॥ १२ ॥ अन्येषां काव्येषु परिचयो लक्ष्यज्ञत्वन् । ततो हि काव्यबन्धस्य व्युप्तत्ति- भवति ॥ प्रहेलिका दुर्वचकप्रतिमायादियोजनम् । मन्त्रवादपरिज्ञानं विशीर्णाक्षरमुष्टिका | सर्वाभिधानकोशोक्तिः परकायप्रवेशनम् । जयव्यायामचित्राप्तिपत्रिकाचित्रकर्तनम् रत्नोत्पत्तिस्थानशास्त्रं दर्पणादिलिपिक्रिया | तिरस्करिण्याद्यावाप्तिपुष्पशाटकिकागमः । इस्त्यश्वलक्षणज्ञानं तियंग्वृदयवेदनम् । परेगितपरिज्ञानं जलयानागमज्ञता । परचेतःप्रवेशश्च चतुःषष्टिरिमाः कलाः । अन्या उपकलाः प्रोक्तास्तासां संख्याचतुःशतम् । आभिरेव प्रपञ्चोऽयं वर्तते विजयी स्फुटम् ' इति । १ पाड्गुण्यस्येति । संधिविग्रहयानासनद्वैधीभावसमाश्रयाः षड्गुणाः । २ कुटिलत्वमिति । यथा तापसवत्सराजादौ । आवलीयतेति । अबली- यांसमधिकृत्य कृतमधिकरणमाबलीयसम्, तत्प्रभृतौ प्रयोगा: मित्रभेदसुहृल्लामादयः तेषां व्युत्पत्तौ सा दण्डनीतिमलमिति भावः । ३ एवमन्यासामिती। एवमष्टादशभेदभिन्नानामशेषाणामपि विद्यानां काव्या- इत्वमुक्त भवति । सामुपयोगश्च यथास्वं लब्धवर्णैर्द्रष्टव्यः । यथाहुः, 'न स शब्दो न तद्वान्यं न सा विद्या न सा कला जायते यन्न काव्याङ्गमहो भागे गुरुः कवः।। - १२ काव्यालंकारसूत्राणि [शारीरमविकरणम् काव्यबन्धोद्यमोऽभियोगः ॥ १३ ॥ 'काव्यस्य बन्धनं रचना काव्यबन्धः । तत्रोद्यमोऽभियोगः। स हि कवि- स्वप्रकर्षमवसंदधाति । काव्योपदेशगुरुशुश्रूषणं वृद्धसेवा ॥ १४ ॥ काव्योपदेशे गुरव उपदेष्टारः । तेषां शुश्रूषणं वृद्धसेवा । ततः काव्य- विद्यायाः संक्रान्तिर्भवति । पदाधानोद्धरणमवेक्षणम् ॥ १५ ॥ पदस्योधानं न्यासः । उद्धरणमपसारणम् । नयोः खल्ववेक्षणम् । अत्र श्लोको- जागरूकता. 'आधानोद्धरणे तावद्यावदोलायते मनः । पदम्य स्थापिते स्थैयें हन्त सिद्धा सरस्वती ॥ यत्पदानि न्यजन्त्येव परिवृत्तिसहिष्णुताम् । तं शब्दन्याप्तनिष्णाताः शब्दपाकं प्रचक्षते ॥' कवित्ववीजं प्रतिभानम् ॥ १६ ॥ कवित्वस्य बीजं कवित्ववीज जन्मान्तरागतसंस्कारविशेषः कश्चित् । यस्माद्वी विना काव्यं न निष्पद्यते । निष्पन्नं वावहास्यायतनं स्यात् । १ पूर्व कथापरीक्षा, तत्राधिकाबावापोदापौ, फलपर्यन्ततानयनम्, रसं प्रति रसोचितविभावादिवर्णनायामलंकारौचित्यमित्याद्युल्लेखपूर्वकं गुम्फन काव्यवन्धः २ पदाधानेति । अत्र भामहेन भणितं प्रमाणयति-आधानोद्धरणे इति । श्लोकद्वयेन क्रमादन्वयव्यतिरेकाभ्यां पदानां स्थैर्य संपादनीयामित्युक्तम् । इत्थ- मर्थपाकोऽपि समर्थनीयः । ३ यदाह भट्टगोपालः, ' कवित्वस्य लोकोत्तरवर्णनानैपुणलक्षणस्य, बीजमुपादान- स्थानीयः , संस्कारविशेष: कार्यकल्पनीया काचिद्वासना शक्तिः ' इति । काव्यादर्शेऽपि न विद्यते यद्यपि पूर्ववासना गुणानुचन्धि प्रतिभानमद्भुतम् । ' इति । ४ तदुक्तम्. । 'नाकवि'वमधर्माय मृतये दण्डनाय वा । कुकवि वं पुनः साक्षान्मृतिमाहुर्मनीषिण' ! ' इति । .

-१-३.२२] वृत्ति-कामधेनुटिप्पणी-सहितानि । १३ -- चित्तैकाग्यमवधानम् ॥ १७॥ चित्तस्यैकाग्र्यं बाह्यानिवृत्तिः । तदवधानम् । अविहितं हि चिद- मर्थान्पश्यति । तद्देशकालाभ्याम् ॥ १८॥ तदवधानं देशात्कालाञ्च समुत्पद्यते । को पुनर्देशकालावित्याह-- विविक्तो देशः ॥ १९ ॥ विविक्तो निर्जनः । रात्रियामस्तुरीयः कालः ॥ २० ॥ रात्रेर्यामो रात्रियामः 'प्रहरस्तुरीयश्चतुर्थः काल इति । तहशाहिष- योपरतं प्रसन्नं चित्तवधत्ते । एवं काव्याङ्गान्युपदर्य काव्यविशेषकथनार्थमाह-- काव्यं गद्यं पद्यं च ॥ २१ ॥ गद्यस्य पूर्व निदेशो दुर्लक्ष्यविषयत्वेन दुर्वन्धत्वात् । यथाहु:-'गधं कवीनां निकर्ष वदन्ति' । तञ्च त्रिधा भिन्नमिति दर्शयितुमाह-- गधं वृत्तगन्धि चूर्णमुत्कलिकाप्रायं च ॥ २२ ॥ १ तुरीय इति । प्रथमादिषु त्रिषु प्रहरेप्वाहारनिद्रातु सामुख्यं मनसः । पश्चिमे तु प्रहरे प्रसादः संभवतीति तुरीय इत्युक्तम् । २ तथा च कालिदासः, 'पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना । ' इति। मावोऽपि 'गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ।' इति। ३ तञ्चेति । वृतगन्धि कचिद्भागे वृत्तच्छायानुकारि । चूर्णपदेनोपचारात् व्यस्तंपदसमाहागे लक्ष्यते । तेन व्यस्तपदबहुलं चूर्णम् । उत्कलिकाप्रायमिति । उकलिका उत्कण्ठा । 'उत्कण्ठो कालिके समे इत्यमरः । उत्कलिकायाः प्रायः प्रयोगबाहुल्यं यस्मिस्तत् उ कलिकामायं गद्यम् । यस्मिन् श्रूयमाणे श्रीतुणामुत्कण्ठा बहुला भवतीत्यर्थः । यद्वा कलि का शब्दोऽत्र लक्षणया रुहरुहिकायां वर्तते । उल्लसन्ती कलिका महरुहिकां प्रति प्राप्नोतीत्युत्कलिकाप्रायम् । यत्र पदसंदर्भपरिपाटी काण्डोप- काण्डसंरोहशालिनी कलिकवोल्लसति, तदुत्कलिकाप्रायमित्यर्थः ।

काव्यालंकारसूत्राणि [ शारीरमधिकरणम् तल्लक्षणान्याह- पद्यभागवद्वत्तगन्धि ॥ २३ ॥ पद्यस्य भागाः पद्यभागास्तद्वृत्तगन्धि । यथा-' पातालतालुतलवासिषु दानवेषु' इति । अत्र हि वसन्ततिलकाल्यस्य वृत्तस्य भागः प्रत्यभिज्ञायते । अनाविद्धललितपदं चूर्णम् ॥ २४ ॥ अनाविद्धान्यदीर्घसमासानि ललितान्यनुद्धतानि पदानि यस्मिंस्तदना- विद्धललितपदं चूर्णनिति । यथा-' अभ्यासो हि कर्मणां कौशल मावहति । नहि सकृन्निपातमात्रे- णोदविन्दुरपि प्रावणि निन्नतामादधाति ' । विपरीतमुत्कलिकाप्रायम् ॥ २५ ॥ विपरीतमाविरोद्धतपदमुत्कलिकाप्रायम् । यथा-' कुलिशशिखरखरनखरप्रचयप्रचण्डचपेटापाटितमत्तमातङ्गकुम्भ- स्थलगलन्मदच्छटाच्छुरितचारुकेसरभारभासुरमुखे केसरिणि' इति । पद्यमनेकभेदम् ॥ २६॥ पद्यं खल्वेनकेन 'समाधसमविषमादिना भिन्नं भवति । तदनिबद्धं निबद्धं च ॥ २७॥ तदिदं गद्यपधरूपं काव्यमनिबद्धं निबद्धं च। अनयोः प्रसिद्धत्वा- लक्षणं नोक्तम् । १ समेति । समवृत्तनर्धसमवृत्तं विषमवृत्तम् । आदिशब्देनार्यावैतालीयादिमात्रा- वृत्तानां परिग्रहः । समवृत्तादिलक्षणमुक्तं भानहेन, सममर्धसमं वृत्तं विषमं च त्रिधा मतम् । अझयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः । तच्छन्दःशास्त्रतत्त्वज्ञाः समवृत्तं प्रचक्षते । प्रथमानिसमा यस्य तृतीयश्चरणो भवेत् । द्वितीयस्तुर्यवहृत्तं तदर्धसममुच्यते । यस्य पादचतुष्केऽपि लक्ष्म भिन्न परस्परम् । ताहुर्विषमं वृत्तं छन्दःशास्त्रवि- शारदाः ॥' इति । २ अवयोः प्रसिद्धत्वादिति । अनिनदं मुक्तकं निबद्धं प्रबन्धरूपमिति प्रसिद्धिः । मुक्तकलक्षणमुक्तं भामहेन, 'प्रथमं मुक्तकादीनामृजु लक्षणमुच्यते । यदेव गाम्भीर्यो- दार्यशौर्यनीतिमतिस्पृशा । भवन्मुक्तकमेकेने द्रिक द्वाभ्यां त्रिकं त्रिभिः ॥' इति । निबद्धानि सर्गबन्धाशन । तलक्षणं काव्यादर्श, · सर्वबन्धो महाकाव्यमुच्यते तस्य लक्ष. णम् ' इत्यादिना द्रष्टव्यम् ॥

-१-३.३२] वृत्ति-कामधेनुटिप्पणी-सहितानि। १५ क्रमसिद्धिस्तयोः स्रगुत्तंसवत् ॥ २८ ॥ तयोरित्यनिवद्धं निबद्धं च परामृश्यते । क्रमेण सिद्धिः क्रमासद्धिः । अनिबद्धसिद्धौ निवद्धसिद्धिः स्रगुत्तंसकम् । यथा स्रजि मालायां सिद्धा- यामुत्तंसः शेखरः सिध्यतीति । कोचिनिबद्ध एव पर्यवसितास्तदूषणार्थमाह- नानिवद्धं चकास्त्येकतेजःपरमाणुवत् ॥ २९ ॥ न खल्वनि बद्धं काव्यं चकास्ति दीप्यते । यथै कतेजः परमाणुरिति । अत्र श्लोक:- ' असंकलितरूपाणां काव्यानों नास्ति चारुता । न प्रत्येक प्रकाशन्ते तेजसाः परमाणवः ।। संदर्भेषु दशरूपक श्रेयः ॥ ३० ॥ 'संदर्भेषु प्रवन्धेषु दशरूपकं नाटकादि श्रेयः । कस्मात्तदाह- तद्धि चित्रं चित्रपटवद्विशेषसाकल्यात् ॥ ३१ ॥ तद्दशरूपकं हि यस्माच्चित्रं चित्रपटवत् । विशेषाणां साकल्यात् । ततोऽन्यभेदक्लप्तिः ॥ ३२ ॥ ततो दशरूपकादन्येषां भेदानां क्लप्तिः कल्पनमिति । दशरूपकस्यैव हीदं सर्व विलसितम् । यच्च कथाख्यायिके महाकाव्यमिति तलक्षणं च नातीव हृदयंगमित्युपेक्षितमस्माभिः । तदन्यतो ग्राह्यम् । इति काव्यालंकारसूत्रवृत्तौ प्रथमेऽधिकरणे काव्याङ्गानि काव्यविशेषाश्च नाम तृतीयोऽध्यायः । समाप्तं चेदं शारीरं नाम प्रथममधिकरणम् । ' १ निबद्वेषु, तरतमभावं निरूपयति-संदर्भेष्यिति । रूपकस्वरूप निरूपितं दशरूपके, ' अवस्थानुकृति ट्यं रूपं दृश्यतयोच्यते । रूपकं त समारोपाद्दशधैव रसाश्र- यम् ॥' इति ।। भावनकाशेऽपि 'रूपकं तद्भवेद्रूपं दृश्य वात्प्रेक्षकैरिदम् । रूप- कत्वं तदारोपात्कमलारोपवन्मुखे । ' इति । दश रूपकाणि तु, नाटकं सप्रकरणं भाणः प्रहसनं डिमः । व्यायोगसमवाकारौ वीथ्यलेहामृगा दश ॥ ' इति ।

- काव्यालंकारसूत्राणि [ दोषदर्शनाधिकरणम् दोषदर्शनं नाम द्वितीयमधिकरणम् । पदार्थदोपविभागो नाम प्रथमोऽध्यायः । काव्यशरीरे स्थापिते काव्यसौन्दर्याक्षेपहेतवस्त्यागाय दोषा विज्ञातव्या इति दोषदर्शनं नामाधिकरणमारभ्यते । दोषस्वरूपकथनार्थमाह- गुणविपर्ययात्मानो दोषाः ॥१॥ गुणानां वक्ष्यमाणानां ये विपर्ययास्तदात्मानो दोषाः । अर्थतस्तदवगमः ॥२॥ गुणस्वरूपनिरूपणात्तेषां दोषाणामर्थादवगमोऽर्थसिद्धिः। किमर्थ ते पृथक्प्रपञ्यन्त इत्याह- सौकर्याय प्रपञ्चः ॥३॥ सौकर्यार्थ प्रपञ्चो विस्तारो दोषाणाम् । उद्दिष्टलक्षणा हि दोषाः सुज्ञाता भवन्ति । पददोषान्दर्शयितुमाह- 'दुष्टं पदमसाधु कष्टं ग्राम्यमप्रतीतमनर्थकं च ॥ ४ ॥ क्रमेण व्याख्यातुमाह- . शब्दस्मृतिविरुद्धमसाधु ॥ ५ ॥ शब्दस्मृत्या व्याकरणेन विरुद्धं पदमसाधु । यथा--- ' अन्यकारकवैय- य॑म् ' इति । अत्र हि अषष्ठयतृतीयास्थानस्य दुगाशीराशास्थान- स्थितोत्सुकोतिकारकरागच्छेषु ' इति दुका भवितव्यमिति । श्रुतिविरसं कष्टम् ॥ ६॥ श्रुतिविरसं श्रोत्रकटुपदं कष्टम् । तद्धि रचनागुम्फितमप्युद्वेजयति । यथा- अचुचुरच्चण्डिकपोलयोस्ते कान्तिद्रवं द्राविशदः शशाङ्क: १ दुष्ट पदमिति प्रत्येकं संबन्धनीयम् । २ अ चचुरदिति । अत्र द्रागिति पदं कष्टम् ।

यथा-कष्ट कथ -२-१.९] वृत्ति-कामधेनुटिप्पणी-सहितानि । लोकमात्रप्रयुक्तं ग्राम्यम् ॥७॥ लोक एव यत्प्रयुक्तं पदं न शास्त्रे तद्वाम्यम् । रोदिति फूत्कृतेयम् ' । अन्यदपि तल्लगल्लादिकं द्रष्टव्यम् । शास्त्रमात्रप्रयुक्तमप्रततिम् ॥ ८ ॥ शास्त्र एव प्रयुक्तं यन्न लोके तदप्रतीतं पदम् । यथा- किं भाषितेन बहुना रूपस्कन्धस्य सन्ति मे न गुणाः । गुणानन्तरीयकं च प्रेमेति न मेऽस्त्युपालम्भः ।। अत्र रूपस्कन्धान्तरीयको न लोक इत्यप्रतीतम् । पूरणार्थमनर्थकम् ॥ ९॥ पूरणमात्रप्रयोजनमव्ययपदमनर्थकम् । दण्डापूपन्यायेन पदमन्यदप्यन- - र्थकमेव । यथा- . उदितस्तु हास्तिकविनीलमयं तिमिरं निपीय किरणैः सविता। अत्र तुशब्दस्य पादपूरणार्थमेव प्रयोगः न वाक्यालंकारार्थम् । वाक्या- लंकारप्रयोजनं तु नानर्थकन् । अपवादार्थमिदम् । यथा- 'न खल्विह गतागता नयनगोचरं मे गता' इति । तथा हि खलु हन्तेति । संप्रति पदार्थदोषानाह- १ कष्टामिति । अत्र फूत्कृतेति पदं ग्राम्यम् , तस्य काव्ये प्राचुर्येण प्रयोगादर्श- नात् । ताम्बूलभूतगल्लोऽयं तल्लं जल्पति मानवः' इत्यादौ यत् तल्लगल्लादिपदं प्रयुज्यते, तदपि ग्राम्यं द्रष्टव्यम् । तल्लशब्दस्तडागवाचकः । २ किं भाषितेनेति । इयं हि कस्याश्चिद्विपलब्धायाः शठनायकं प्रत्युक्तिः । रूपविज्ञानवेदनासंज्ञासंस्कारलक्षणाः पञ्च स्कन्धाः सौगतमते प्रसिद्धाः । अत्र विषये- न्द्रियलक्षणस्य रूपस्कन्धस्य गुणा मे न सन्ति । गुणनान्तरीयकम् , अन्तरशब्दोऽत्र विनार्थः । ३ दण्डापूपेति । दण्डप्रोता अपूपा दण्हापूपाः । तथा च दण्डानयनप्रेरणायां दण्डानयनेनैवापूपानयने सिद्ध पुनरपूपानयनप्रेरणं व्यमिति दण्डापूपन्यायः । अथवा, अपूपदण्डो मूषकैक्षित इत्युक्ते पुनरपूपभक्षणप्रश्नवचनं व्यर्थमिति दण्डापूपन्यायः । का...३ १८ काव्यालंकारसूत्राणि [दोषदर्शनमधिकरणम् अन्यार्थनेयगूढार्थाश्लीलक्लिष्टानि च ॥ १० ॥ दुष्टं पदमित्यनुवर्तते । अर्थतश्च वचनविपरिणामः । अन्यार्थादीनि पदानि दुष्टानीति सूत्रार्थः। एषां क्रमेण लक्षणान्याह-- रूढिच्युतमन्यार्थम् ॥ ११ ॥ रूढिषु च्युतं रूढिमनपेक्ष्य यौगिकार्थमात्रोपादानादन्यार्थ पदम् । स्थूलत्वा- सामान्येन घटशब्दः पटशब्दार्थ इत्यादिकमन्याथै नोक्तम् । यथा-- 'ते दुःखमुच्चावचमावहन्ति ये प्रस्मरन्ति प्रियसंगमानाम् ।' अत्रावहतिः करोत्यथों धारणार्थप्रयुक्तः, प्रस्मरतिर्विस्मरणार्थः प्रकृ- ष्टस्मरण इति । कल्पितार्थ नेयार्थम् ॥ १२ ॥ अश्रुतस्याप्यन्यस्य' पदार्थस्य कल्पनात्कल्पितार्थ नेयार्थम् । यथा- ' सपदि पतिविहंगमनामभृत्तनयसंवलितं बलशालिना । विपुलंपर्वतवर्षिशितैः शरैः प्लवगसैन्यमुलुकजिता जितम् ॥' अत्र विहंगमश्चक्रवाकोऽभिप्रेतः। तन्नामानि चक्राणि । तानि बिभ्रतीति विहंगमनामभृतो रथाः । पङ्क्तिरिति दशसंख्या लक्ष्क्षते । पतिर्दश विहं- गमनामभृतो रथा यस्य स पङ्क्तिविहंगमनामभृद्दशरथः । तस्य तनयाभ्यां रामलक्ष्मणाभ्यां संवलितं प्लवगसैन्यं जितम् । उलूकजिता इन्द्रजिता । कौशीकशब्देनेन्द्रोलकयोरभिधानमिति कौशिकशब्दवाच्यत्वेनेन्द्र उलूक -- " १ अश्रौतस्योति । संकेतसहायः शब्दव्यापारः, तद्विाशेष्टः शब्दो वा श्रुतिः । तत आगतोऽर्थः श्रोतः, स न भवतीति अश्रौतः अनभिधेय इत्यर्थः । नन्विदमश्रीत- त्वमर्थस्य किं लाक्षणिकत्वम् ? नेत्याह--उन्नेयस्येति । ' अभिधेयाविनाभूतप्रतीति- लक्षणोच्यते ' इत्येवंलक्षणलक्षणाकक्ष्यामधिक्षिप्य कस्यचिदर्थस्य कल्पने कल्पितार्थम् , न लाक्षणिकार्थमित्यर्थः।

-२-१.१५) वृत्ति-कामधेनुटिप्पणी-सहितानि । १९ उक्तः ! ननु चैवं रथाङ्गनामादीनामपि प्रयोगोऽनुपपन्नः । न । तेषां निरू- ढलक्षणत्वात् ! अप्रसिद्धार्थप्रयुक्तं गूढार्थम् ।। १३ ।। यस्य पदस्य लोकेऽर्थः प्रसिद्धश्वाप्रसिद्धश्च तदप्रसिद्धेऽर्थ प्रयुक्तं गूढा- थम् ! यथा- . सहस्रगोरिवानीकं दुःसहं भवतः परैः ' इति । सहलं गावोऽझीणि यस्य स सहस्रगुरिन्द्रः। तस्येवेति गोशब्दस्याक्षिवा- चित्वं कविष्वप्रसिद्धमिति । असभ्यार्थान्तरमसभ्यस्मृतिहेतुश्चाश्लीलम् ॥ १४ ॥ यस्य पदस्यानेकार्थस्यैकोऽर्थोऽसभ्यः स्यात्तदसभ्यार्थान्तरम् । यथा-वर्चः' इति पदं तेजसि विष्ठायां च । यत्तु पदमेकदेशद्वारेणासभ्याथै स्मारयति तदसभ्यस्मृतिहेतुः । यथा-'कृकाटीका' इति ! न गुप्तलक्षितसंवृतानि ॥ १५ ॥ १ नन्विति । रथाङ्गनामादीनामित्यादिपदेन रथाङ्गपाणिनभृतीनां परिग्रहः । स्थाङ्गनामादिपदानां चक्रवाकादौ निरूढत्वेन रूढ्या योगस्य निगीर्णत्वान्न काचिदनुप- पत्तिरिति परिहरति-नेति । निरूढा लक्षणा येषामिति बहुव्रीहिः । लक्षणा हि रूढिप्रयोजनवशात् द्विविधा भवति । तत्र रूढलक्षणाः कुशलादयः शब्दाः प्रयोगप्रा- चुर्यबलेन वाचकशब्दवत्प्रयुज्यन्ते । प्रयोजनलक्षणास्तु ' मुखं विकसितस्मितं वशितव- क्रिम प्रेक्षणम्' इत्यादौ विकसितादयः शब्दाः स्मितविलासादिलक्षकतयाद्यापि प्रयु- ज्यन्ते । तदुक्तम् 'निरूढा लक्षणाः काश्चित् सामर्थ्यादभिधानवत् । क्रियन्ते सांप्रत काश्चित्काश्चिन्नैव त्वशक्तितः ॥' इति । २ कृकाटिकेति । 'प्रेतयानं खटिः काटिः' इति वैजयन्त्यां शवयानपर्या- यत्वेनाभिधानात् कष्ठापरभागवाचकमपि कृकाटिकापदं काटीत्येकदेशेनासम्यार्थस्मृति- हेतुरित्यश्लीलमित्यभिप्रायः ।

२० काव्यालंकारसूत्राणि [दोषदर्शनमधिकरणम् अपवादार्थमिदम् । गुप्तं लक्षितं संवृतं च नाश्लीलम् । एषां लक्षणान्याह- अप्रसिद्धासभ्यं गुप्तम् ॥ १६ ॥ अप्रसिद्धासभ्यार्थान्तरं पदमप्रसिद्धासभ्यम् । तद्गुप्तम् ! यथा- ''संबाधः' इति पदम् । तद्धि संकटार्थ प्रसिद्धम् , न गुह्यामिति । लाक्षणिकासभ्यान्वितं लक्षितम् ॥ १७ ॥ तदेवासभ्यार्थान्तरं लाक्षणिकेनासभ्येनार्थेनान्वितं पदं लक्षितम् । यथा-'जन्मभूमिः ' इति । तद्धि लक्षणया गुह्यार्थम् , न स्वशक्त्यति । लोकसंवीतं संवृतम् ॥ १८॥ लोकेन संवीतं लोकसंवीतं यत्तत्संवृतम् । यथा-'सुभगा' 'भगिनी, 'उपस्थानम्' 'अभिप्रेतम्' 'कुमारी' 'दोहदम्' इति । . अत्र हि श्लोकः- संवीतस्य हि लोकेन न दोषान्वेषणं क्षमम् । शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावना ॥ तत्रैविध्यम् । ब्रीडाजुगुप्सामङ्गलातङ्कदायिभेदात् ॥ १९ ॥ तस्याश्लीलस्य त्रैविध्यं भवति । ब्रीडाजुगुप्सामङ्गलातङ्कदायिनां भेदात् । किंचिद्रिडादायि भवति । यथा-'वाक्चाटवम्' 'हिरण्यरेताः' इति १ संबाध इति । ' लेशेऽपि गन्धः संबाधो गुह्यसंकटयोद्रयोः ।' इत्यभि- धाने सत्यपि 'संवाधे सुरभीणाम् ' ' आसने मित्रसंबाधे' इत्यादिषु प्रयोगप्राचुर्यात संबाधशब्दः संकटार्थः प्रसिद्धः । तदभावात् गुह्यार्थोऽप्रसिद्ध इत्यर्थः । २ लोकेन संवीतम् आवृतं परिगृहीतमित्यर्थः । ३ तदुक्तं दण्डिना, 'भगिनीभगवत्यादि सर्वत्रैवानुमन्यते ।' ४ दायिशदः प्रत्येकमभिसंबध्यते । ५ तत्राद्यमुदाहर्तुमाह-किंचिदिति । वाक्काटवमिति | कटोभीवः काट- वम्, वाचः काटवं वचस्तक्ष्ण्यमित्यर्थः । अत्र काट इत्येकदेशेन लिङ्गप्रतीतेव्रीडादा- यि, 'काटश्चार्णवश्च' इत्यत्र मन्त्रभाष्ये तथा दर्शनात् । द्वितीयं दर्शयितुमाह-किंचिदि- ति । पर्दः पायवीयपवनध्वनिः । 'पर्दस्तु गुदजेशब्दे कुर्दः कुक्षिजनिःस्वने' इति वैजयन्ती अवशिष्टमश्लील स्पष्टयति- किंचिदिति । 'प्रमीतः संस्थितो मृतः इत्यमरः। . १ -२-१.२२] वृत्ति-कामधेनुटिप्पणी-सहितानि । २१ किंचिज्जुगुप्सादायि भवति । यथा 'कपर्दकः' इति। किंचिदमङ्गलातङ्कदायि भवति । यथा । संस्थितः ' इति । व्यवहितार्थप्रत्ययं क्लिष्टम् ॥ २० अर्थस्य प्रतातिरर्थप्रत्ययः । स व्यवहितो यस्माद्भवति तदव्यवहितार्थ- प्रत्ययं क्लिष्टम् ! यथा- दक्षात्मजादयितवल्लभवेदिकानां ज्योत्स्नाजुषां जललवास्तरलं पतन्ति ॥' दक्षात्मजास्ताराः । तासां दयितो दक्षात्मजादयितश्चन्द्रः । तस्य वल्ल- माश्चन्द्रकान्ताः । तद्वेदिकानामिति । अत्र हि व्यवधानेनार्थप्रत्ययः । अरूढार्थत्वात् ॥ २१ ॥ अरूढार्थत्वेऽपि यतोऽर्थप्रत्ययो झटिति न, तक्लिष्टम् यथा- 'काश्चीगुणस्थानमनिन्दितायाः' इति । अन्त्याभ्यां वाक्यं व्याख्यातम् ॥ २२ ॥ अश्लीलं क्लिष्टं चेत्यन्त्ये पदे । ताभ्यां वाक्यं व्याख्यातम् । तदप्यश्लीलं क्लिष्टं च भवति ! अश्लीलं यथा- १ अश्लील वाक्यमपि त्रिविधम् । तत्र व्रीडादायि अश्लीलमुदाहरति- यथोति । सा तादृशी ! धनोन्नतिः अर्थसंपत्तिः । न भवति । या कलत्ररतिदायिनी, कलत्रस्य रतिं प्रीतिं दातुं शीलमस्या इति कलत्ररतिदायिनी, न तु परप्रीतिदायिनी यस्मात् । तस्मात् परार्थबद्धकक्ष्याणां परेषामर्थे प्रयोजने बद्धा कक्ष्या कच्छो यैस्तेषां परोपकारबद्धप्रतिज्ञानामित्यर्थः । ' कक्ष्या कच्छे वरवायाम् ' इति वैजयन्ती | धनम् अर्थः । यत्सत्यं परमार्थतः । पेलवं मनोज्ञमिति प्रकृतार्थः । अर्थान्तरं तु--साधनस्य शेफस उन्नतिः । ' साधनमुपगमनत्योः शेफसि सिद्धौ निवृत्तिदापनयोः ' इति नानार्थ- माला | यस्मात् कलत्रस्य रतिं सुरतं दातुं शीलमस्या इति तादृशी न भवति; तस्मात् परासामर्थे बद्धकक्ष्याणां परस्त्रीवशंवदचित्तानामित्यर्थः । धनं पेलवं विरलं भवति । 'पेलवं विरलं तनु ' इत्यमरः । अत्र व्रीडादायित्वमतिरोहितम् । अवशिष्टमश्ली- लद्वयमुदाहरति--सोपानेति | सोपानपथभुत्सृभ्य । वायुवेगः वायोर्वेग इव वेगो यस्य स तादृशः, समुद्यतः सन् , जनैः स्तूयमानगुणः सन् , महापथेन राजमार्गेण गतवा- निति प्रकृतार्थः । वायुवेगः अपानपथमुत्सृज्य समुद्यत इति जुगुप्सादायि | महापथेन परलोकमार्गेण गतवानित्यमङ्गलातङ्कदायि | - २२ काव्यालंकारसूत्राणि । [दोषदर्शनमधिकरणम् 'न सा धनोन्नतिर्या स्यात्कलत्रसुखदायिनी ।' 'परार्थबद्धकक्षाणां यत्सत्यं पेलवं धनम् ॥' 'सोपानपथमुत्सृज्य वायुवेगसमुद्धतम् । महापथेन गतवान्कीय॑मानगुणो जनैः ॥' क्लिष्टं यथा- 'धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः । रज्यत्यपूर्ववन्धव्युत्पत्तेर्मानसं शोभाम् ॥' एतान्पञ्च पदार्थदोषान्विभक्ताज्ञात्वा कविस्त्यजेदिति तात्पर्यार्थ : । इति काव्यालंकारसुत्रवृत्तौ दोषदर्शने द्वितीयेऽधिकरणे पदपदार्थदोषविभागो नाम प्रथमोऽध्यायः । - वाक्यवाक्यार्थदोपविभागो नाम द्वितीयोऽध्यायः इदानीं वाक्यदोषान्दर्शयितुमाह- भिन्नवृत्तयतिभ्रष्टविसंधीनि वाक्यानि ॥ १॥ दुष्टानीत्याभिसंबन्धः । क्रमेण व्याचष्टे- स्वलक्षणच्युतवृत्तं मिन्नवृत्तम् ॥ २ ॥ स्वस्मालक्षणाच्चयुतं वृत्तं यस्मिस्तत्स्वलक्षणच्युतवृत्तं वाक्यं भिन्न- सम् | यथा--' आये पश्यासि सौधमाश्रितामविरलसुमनोमालभारिणीम् । वैतालीययुग्मपादे लध्वक्षराणां षण्णां नैरन्तर्य निषिद्धम् । तच्च कृतमिति भिन्नवृत्तत्वम् । विरसविरामं यतिभ्रष्टम् ॥ ३ ॥ विरसः श्रुतिकटुर्विरामो यस्निस्तद्विरसविरामं यतिभ्रष्टम् । तद्धातुनामभागभेदे स्वरसंध्यकृते प्रायेण ॥३॥ १ धम्मिल्लस्य संयतकचनिचयस्य । २ अत्रान्वयव्यवधानान्त हाठिकी वाक्यार्थप्रतिपत्तिरिति स्पष्टमेव क्लिष्टत्वम् । ननु किं फलममीषां दोषाणामवबोधनेनेत्याशय, परित्याग एव फलमित्याह-- -- - -२-२.५] वृत्ति-कामधेनुटिप्पणी-सहितानि । २३ तद्यतिभ्रष्टं धातुभागभेदे नामभागभेदे च सति भवति । स्वरसंधीनाकृते प्रायेण बाहुल्येन । 'धातुभागभेदे मन्दाक्रान्तायां यथा- एतासां राजति सुमनसा दाम कण्ठावलम्बि ।' नामभागभेदे शिखरिण्यां यथा-'कुरङ्गाक्षीणां गण्डतलफलके स्वेदविसरः।' मन्दाक्रान्तायां यथा-'दुर्दर्शश्चक्राशखिकपिशः शाङ्गिणो बाहुदण्डः ।' धातुनामभागपदग्रहणात्तद्भागातिरिक्तभेदे न भवति यतिभ्रष्टत्वम् । यथा मन्दाक्रान्तायाम्-'शोभा पुष्यत्ययमभिनवः सुन्दरीणां प्रबोधैः ।' शिखरिण्यां यथा-विनित्रः श्यामान्तेष्वधरपुटसीत्कारविरुतैः । स्वरसंध्यकृत इति वचनात्स्वरसंधिकृते भेदे न दोषः। यथा---' किं- चिद्भावालसमसरलं प्रेक्षितं सुन्दरीणामें । न वृत्तदोषात्पृथग्यतिदोषः । वृत्तस्य यत्यात्मकत्वात् ॥ ५ ॥ वृत्तदोषात्पृथन्यतिदोषो न वक्तव्यः । वृत्तस्य यत्यात्मकत्वात् । यत्यात्मकं हि वृत्तमिति भिन्नवृत्त एव यतिभ्रष्टस्यान्तर्भावान्न पृथग्ग्रहणं - कार्यमत आह- - १ तत्र प्रथममुदाहर्तुमाह-धातुभागभेद इति । एतासामिति । मन्दा- कान्ताख्यमिदं वृत्तम् । मन्दाक्रान्ता जलधिषडगम्भौं न तौ तो गुरु चेत् ' इति तल्लक्षणादादितश्चतुर्भिः, ततः षड्भिः, ततः सप्तभिर्वणविरामः कर्तव्यः । तथा सति । एतास रा-' इत्यत्र धातुभागभेदे प्राप्तस्य तस्य वैरस्यादिदं वाक्यं यतिम्रष्टं नाम दुष्टं भवति । द्वितीयमुदाहरति--नामभागभेद इति । कुरङ्गाक्षीणामिति । शिखरिणीवृत्तमिदम् । 'रसै स्ट्रैश्छिन्ना यमनसभला गः शिखरिणी' इति लक्षणा- दादितः षड्भिः तत एकादशभिर्यतिः कर्तव्या | ततश्च — कुरङ्गाक्षीणां ग-' इत्यत्र प्रादिपदिकभागभेदे प्राप्तायास्तस्या वैरस्यात् यतिभ्रष्टं भवति । उदाहरणान्तरमाह-- दुर्दर्श इति । मन्दाक्रान्तालक्षणमुक्तम् । ' दुर्दर्शश्च ' इत्यत्र विरामो विरसः । २ यथेति ।। ' शोभा पुष्य--' इत्यत्र विरामो न वैरस्यमावहतीति भावः। ३ ' श्यामान्ते-' इत्यत्र प्रातिपदिकप्रत्ययमध्यविरामो न दुष्यति । ४ स्वरसंधीती। उदाहरति-किंचिद्भावालसमिति । अत्र चतुर्थाक्षरा- वसाने यतिर्विहिता । तथा च अलसमित्यत्र अकारस्य सवर्णदीर्घेणैकादेशेन कवलित- त्वात्स्वरसंधिकृतोऽयं नामभागभेद इति न यतिभ्रष्टत्वम् ।

२४ काव्यालंकारसूत्राणि । [दोषदर्शनमधिकरणम् न, लक्ष्मणः पृथक्त्वात् ॥ ६॥ नायं दोषः लक्ष्मणो लक्षणस्य पृथक्त्वात् । अन्यद्धि लक्षणं वृत्तस्य, अन्यद्यतेः । गुरुलघुनियमात्मकं वृत्तम् । विरामात्मिका च यतिरिति । विरूपपदसंधिर्विसंधिः ॥७॥ पदानां संधिः पदसंधिः । स च स्वरसमवायरूपः प्रत्यासत्तिमात्ररूपो वा । स विरूपो यस्मिन्निति विग्रहः । पदसंधिवैरूप्यं विश्लेषोऽश्लीलत्वं कष्टत्वं च ॥ ८ ॥ विश्लेषो 'विभागेन पदानां संस्थितिरिति । अश्लीलत्वमसभ्यस्मृतिहेतुत्वम् । कष्टत्वं पारुष्यमिति । विश्लेषो यथा- 'मेघानिलेन अमुना एतस्मिन्नद्रिकानने । 'कमले इव लोचने इमे अनुबन्नाति विलासपद्धतिः।' ' लोलालकानुबद्धानि आननानि चकासति।' अश्लीलत्वं यथा- - , - . १ विभागेनेति । स च विश्लेषो द्विविधः-- प्रगृह्यनिबन्धनः, संध्यविवक्षानि' बन्धनश्च । तत्राद्यमुदाहरति-- कमले इति । यदवादि दण्डिना, 'न संहितां विव- क्षामीत्यसंधानं पदेषु यत् । तद्विसंधीति निर्दिष्टं न प्रगृह्यादिहेतुकम् ॥' इति । अत्र प्रगृह्मादिहेतुकं विसंधि न भवतीति सकृत्प्रयोगविषयमिदं द्रष्टव्यम्; असकृत्प्रयोगे तु दुष्टमेव । तदुक्तं साहित्यचूडामणौ, “ प्रगृह्यादिनिबन्धनत्वे पुनरसकृद्दोषः । यथा-- 'धीदोर्बले अतितते उचितार्थवृत्ती' इत्यादि । सकृत्तु न दोषः । तथाच प्रयोगः-- लीलयैव धनुषी अधिग्यताम् ' इति, ' सहसंपाते इव लक्ष्यमाणे " इति च । द्विती- यमुदाहरति-लोलालकेत्यादि । अत्र ‘न संहितां विवक्षामि' इति कामचार- प्रयुक्तः सकृदपि दोष एव, 'नित्या संहितैकपदवत्पादेष्वर्धान्तवर्जम् ' इति काव्यसम- याध्याये वक्ष्यमाणत्वात् । २ त्रिविधमश्लील क्रमेणोदाहरति- . m - -२-२-१२] वृत्ति-कामधेनुटिप्पणी-सहितानि । २५ 'विरेचकमिदं नृत्तमाचार्या आसयोजितन् ।' ' चक्रासे पनसप्रायः पुरी पण्डमहाद्रुमैः । ' विना शपथदानाभ्यां पदवादसमुन्सुकन् । कष्टत्वं यथा--'मअयुगमगीस्ते गुर्वाभोगा द्रुमा वभुः । एवं वाक्यदोपानभिवाय वाक्यार्थदोषान्प्रतिपादयितुमाह- व्यर्थैकार्थसंदिग्धाप्रयुक्तापक्रमलोकविद्याविरुद्धानि च ॥९॥ वाक्यानि दुष्टानीति संवन्धः । क्रमेण व्याख्यातुमाह- व्याहतपूर्वोत्तरार्थं व्यर्थम् ॥ १० ॥ व्याहतौ पूर्वोत्तराव? यस्मिस्तद्वयाहतपूर्वोत्तरार्थ वाक्यं व्यर्थम् । यथा--' अद्यापि स्मरति रसालसं मनो मे मुग्धायाः स्मरचतुराणि चेष्टि- तानि । ' मुग्धायाः कथं स्नग्चतुराणि चेष्टितानि । तानि चेत्कथं मुग्धा । अत्र पूर्वोत्तरयोरर्थयोर्विरोधाद्वयर्थमिति । उक्तार्थपदमेकार्थम् ॥ ११॥ उक्तानि पदानि यस्मिस्तदुक्तार्थपदमेकार्थम् । यथा- चिन्ता- मोहमनङ्गमङ्ग तनुते विप्रेक्षितं सुभ्रवः । ' अनङ्गः शृङ्गारः । तस्य चिन्ताया मोहात्मकत्वाच्चिन्तामोहशब्दो प्रयुक्तावुक्तार्थों भवतः । एकार्थपदत्वा- द्वाक्यमेकार्थमित्युक्तम् । न, विशेषश्चेत् ॥ १२ ॥ १ रेचका नाम नृत्ते पाणिपादादिभ्रमणरूपाश्चत्वारो भरतशास्त्रे प्रसिद्धाः । तदुक्तं संगीतरत्नाकरे, 'रेचकानथ वक्ष्यामश्चतुरो भरतोदित'न् । पदयोः करयोः कथा ग्रीवायाश्च भवन्ति ते ॥ इति । २ अत्र विरेचकयामशेषपुरीषविनाशपदविन्यासैः, विरेचनमिथुनीभावमेहनपुरीष- विनाशप्रतीतस्त्रिविधान्यश्लीलानि द्रष्टव्यानि । ३ चिन्तामोहामिति । कामिनीकटाक्षपातकल्लाषितान्तःकरणस्य विरहवेदनाम- सहमानस्य कस्यचित्कामुकत्येयमुक्तिः । . का...

काव्यालंकारसूत्राणि [दोषदर्शनमधिकरणम् न गतार्थ दुष्टं विशेषश्चेत्प्रतिपाद्यः स्यात् । तं विशेष प्रतिपादयितुमाह- धनुाचनौ धनुःश्रुतिरारूढेः प्रतिपत्त्यै ॥ १३ ॥ धनुाध्वनावित्यत्र ज्याशब्देनोक्तार्थत्वेऽपि धनुःश्रुतिः प्रयुज्यते । आरूढेः प्रतिपत्त्यै आरोहणस्य प्रतिपत्त्यर्थम् । नहि धनुःश्रुतिमन्तरेण धनु- प्यारूढा ज्या धनुज्योंत शक्यं प्रतिपत्तुम् । यथा--- 'धनुाकिणचिन्हे न दोष्णा विस्फुरितं तव ' इति। कर्णावतंसश्रवणकुण्डलशिरःशेखरेषु कर्णादिनिर्देशः संनिधेः॥१४॥ कर्णावतंसादिशब्देषु कर्णादीनाभवतंसादिपवरुक्तार्थानामपि निर्देशः संनिधेः प्रतिपत्त्यर्थमिति संबन्धः। नहि कर्णादिशब्दनिर्देशमन्तरेण कर्णादि- संनिहितानामवतंसादीनां शक्या प्रतिपत्तिः कर्तुमिति । यथा--' दोला- विलासेषु विलासिनीनां कर्णावतंसाः कलयन्ति कम्पम् । लीलाचलच्छ्रवणकुण्डलमापतन्ति ।' आययुभृङ्गमुखरशिरःशेखरशालिनः ।' मुक्ताहारशब्दे मुक्ताशब्दः शुद्धेः ॥ १५ ॥ मुक्ताहारशब्दे मुक्ताशब्दो हारशब्देनैव गतार्थः प्रयुज्यते शुद्धः । प्रतिपत्त्यर्थमिति संबन्धः । शुद्धानामन्यरत्नैरमिश्रितानां हारो मुक्ताहारः । ग्रथा- 'प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः ।. मुक्ताहारेण लसता हसतीव स्तनद्वयम् ॥ १ धनुर्व्याकिणेति । ज्याशब्दमात्रप्रयोगे ज्या बन्धननापि किणसंभवात् भवे- दनौचित्यम् तथा च प्रयोगः, 'ज्याबन्धनिष्पन्दभुजेन यस्य ' इति । २ ननु हसतीव स्तनद्वयामिति हासोत्प्रेक्षणसामर्थ्यादेव हारस्य रत्नान्तरासंवल- नलक्षणा शुद्धिः प्रतीयते, न मुक्ताशब्दसंनिधानात् । अन्यथा हासोत्प्रेक्षैव नोदयमासा दयेत् । अतो नेदमुदाहरणमिति चेत् , मैवम् ; हाग् शुध्दिप्रतिपत्या हासोत्प्रेक्षा हासों त्प्रेक्षया च हारशुध्दिप्रतिपत्तिरिति परस्पराश्रयप्रसङ्गात् । अतो मुक्ताशब्दसनिधानादेव हारशुध्दिप्रतिपत्तिरिति भवत्युदाहरणमिदम् ।। . . i -२-२.१९] वृत्ति-कामधेनुटिप्पणी-सहितानि । पुष्पमालाशब्दे पुष्पपदमुत्कर्षस्य ॥ १६ ॥ पुष्पमालाशब्दे मालाशब्देनैव गतार्थ पुष्पपदं प्रयुज्यते उत्कर्षस्य प्रति. पत्त्यर्थ निति । उत्कृष्टानां पुष्पाणां माला पुष्पमालेति । यथा---' प्रायशः पुष्पमालेव कन्या सा कं न लोभयेत् ' । ननु मालाशब्दोऽन्यत्रापि दृश्यते यथा रत्नमाला शब्दमालेति सन्यम् । उपचरितस्य प्रयोगः निरुपपदो हि मालाशब्दः पुष्परचनाविशेषमेवाभिधत्त इति । करिकलभशब्दे करिशब्दस्ताद्रुप्यस्य ॥ १७ ॥ करिकलभशब्दे करिशब्दः कलभेनैव गतार्थः प्रयुज्यते ताद्रूप्यस्य प्रतिपत्त्यर्थमिति । करी प्रौढकुञ्जरः । तद्रूपः कलभः करिकलभ इति । यथा---'त्यज करिकलभ त्वं प्रीतिवन्धं करिण्याः । विशेषणस्य च ॥ १८॥ विशेषणस्य विशेषप्रतिपत्त्यर्थमुक्तार्थस्य पदस्य प्रयोगः । यथा-- 'जगाद मधुरां वाचं विशदाक्षरशालिनीम्' । तदिदं प्रयुक्तेषु ॥ १९ ॥ तदिदमुक्तं प्रयुक्तेषु नाप्रयुक्तेषु । नहि भवति यथा । श्रवणकुण्डलम्' इति तथा 'नितम्बकाञ्ची' इत्यपि। यथा वा 'करिकलभः इति तथा उष्ट्रकलभः' इत्यापि । अत्र श्लोकः-- . - १ विशेषणस्येति । शब्दान्तरस्य संनिधानादुक्तार्थोऽपि विशेष्यशब्दः प्रयुज्यते- स च विशेषणस्य प्रतिपत्त्यै भवतिः। जगादेत्यनेन गतार्थस्य वाक्छब्दस्य माधुर्यवर्णवैशद्य लक्षणप्रतिपत्त्यै प्रयोग इष्यत इति वाक्यार्थः । 'जगाद मधुरोदारविशदाक्षरमीश्वरः' इति विन्यासकल्पनायां विशेषणस्य प्रयोगः क्रियाविशेषणत्वेऽप्युपपद्यते । अतः 'नील- नीरजविकासहारिणा कान्तमीक्षणयुगेन वीक्षते' इत्युदाहार्यम् । २ तदेतत्सार्थकत्वसमर्थनमभियुक्तप्रयुक्तपदनिर्वाहाय, न सर्वत्रेति नियन्तुमाह तदिदामिति ॥

. २८ काव्यालंकारसूत्राणि (दोषदर्शनमधिकरण 'कर्णावतंसादियदे कर्णादिध्वनिनिर्मितिः । संनिधानादिबाधार्थ स्थिते बेतत्समर्थनम् ॥ 'संशय कृत्संदिग्धम् ॥ २० ॥ यद्वाक्यं साधारणानां धर्माणां श्रुतेः, विशिष्टानां वा श्रुतेः संशयं करोति तत्संशयकृत्संदिग्धमिति। यथा- स महात्मा भाग्यवशान्महापदमुपागतः । किं भाग्यवशान्महापदापागत आहोम्बिदभाग्यवशान्महतीमापदमिति संशयकद्वाक्यं प्रकरणाद्यभावे सतीति । मायादिकल्पितार्थमप्रयुक्तम् ॥ २१ ॥ मायादिना कल्पितोऽर्थों यस्मिस्तन्मायादिकल्पितार्थमप्रयुक्तम् । अत्र स्तोकादाहरणम् । क्रमहीनार्थमपक्रमम् ॥ २२ ॥ उद्देशितानामनुद्देशितानां च क्रमः संबन्धस्तेन विहीनोऽर्थों यस्मिस्तत्क्रम हीनार्थमपक्रमम् । यथा-'कीर्तिप्रतापौ भवतः सूर्याचन्द्रमतोः सनौ । अत्र कीर्तिश्चन्द्रमसस्तुल्या प्रतापः सुर्यस्य तुल्यः । सूर्यस्य पूर्वनिपातादप- क्रमः । अथवा प्रधानार्थस्य निर्देशः क्रमः तेन विहीनोऽर्थों यस्मिंस्तदपक्रमम् । यथा-'तुरंगमय मातङ्गं प्रयच्छास्मै मदालसम् ।' १ इत्थ काथै सपर्थ्य, संदिग्धं समर्थयितुमाह-संशयकल्संदिग्धमिति २ किं भाग्यवशादिति । लक्षणं विशिनष्टि प्रकरणादिति । अत्रादिपदेन संयोगादयो गृह्यन्ते । यथोक्तं हरिणा- 'संयोगो विप्रयोगश्च साहचर्य विरोधिता | अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्यसंनिधिः ॥ सामर्थमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः॥' इति । ३ अस्तोकमुदाहरणमिति । विवृतं हि विदग्धमुखमण्डने, 'प्राय॑तं समस्तं च द्विस्तं द्विःसमस्तकम् । तथा व्यस्तसमस्तं च दिय॑स्तकसमस्तके ।। इत्यादिना । - -२-२.२३] वृत्ति-कामधेनुटिप्पणी--सहितानि । २९ देशकालस्वभावविरुद्धार्थानि लोकविरुद्धानि ॥ २३ ॥ देशकालस्वभावैर्विरुद्धोऽर्थो येषु तानि देशकालस्वभावविरुद्धार्थानि वाक्यानि लोकविरुद्धानि । अर्थद्वारेण लोकविरुद्धत्वं वाक्यानाम् । देशवि- रुद्धं यया- 'सौवीरेप्वस्ति नगरी मथुरानाम विश्रुता । अक्षोटनालिकराढया यस्याः पर्यन्तभूमयः ॥ कालविरुद्धं यथा-'कदम्बकुसुमस्मेरं मधौ वनमशोभत । स्वभावविरुद्धं यथा-'मत्तालिसङ्गमुखरासु च मञ्जरी सप्तच्छदस्य तर- तीव शरन्मुखश्री: 1 सप्तच्छदस्य स्तवका भवन्ति न नार्य इति स्वभावविरुद्धम् । तया- भृङ्गेण कलिकाकोषस्तथा भृशमपीडयत । यथा गोष्पदपूरं हि ववर्ष बहुलं मधु ।। १ यमुनातीरवर्तिन्या मधुराया नगर्याः सौंवीरेषु देशेष्वसंभवात् देशविरोधः । २ प्रावृषि प्रप्तवोद्गमशालिनः कदम्बस्य वसन्ते प्रसूनप्रसङ्गासंभवात् कालविरोधः ३ मङ्खः स्तुतिपाठकः । ' नान्दीकारश्चाटुकारो मङ्खःश्च स्तुतिपाठकः' इति वैजयन्ती। ४ अतः सप्तच्छदस्य स्वभावतो गुच्छा एव, न तु मञ्जयः संभवन्तीति स्वभावविरुद्धम् । ५ भृगौधैरिति । कलिका कोरकः । अनुद्धिन्नमुकुला कलिका कलिकाकाश तत्र गोष्पदपूरणपर्याप्तस्य मधुनोऽसंभवात् स्वभावविरुद्धम् । गोष्पदपूरमित्यत्र---गोः पदं प्रमाणतया अवच्छेदकमस्य वर्षस्यत्यस्मिन्नथें गोष्पदमिति भवति 'गोष्पदं सेवि- तासेवितममाणेषु' इति गोष्पदशब्दो निपातितः । गोष्पदं पूरयित्वा ववर्ष गोष्पदपूरं ववर्ष । ' वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् ' इति णमुल् | लोकविरुद्धमपि क्वचित्क- विसमयप्रसिद्धेः प्राबल्यान्न दुष्टम् ; यथा- 'सुसितवसनालंकारायां कदाचन कौमुदीमहसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः । तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशङ्का व नासि शुभप्रदः॥' इति एवमन्यत्रापि लोकयात्राकविमर्यादयोर्विप्रतिषेधे पूर्वदौर्बल्यमवगन्तव्यम् । .. .

३० काव्यालंकारसूत्राणि [दोषदर्शनमधिकरणम् कलिकायाः सर्वस्या मकरन्दस्यैतावद्वाहुल्यं स्वभावविरुद्धम् । कलाचतुर्वर्गशास्त्रविरुद्धार्थानि विद्याविरुद्धानि ॥ २४ ॥ कलाशास्त्रैश्चतुर्वर्गशास्त्रैश्च विरुद्धोऽर्थों येषु तानि कलाचतुर्वर्गशास्त्रवि- रुद्धार्थानि वाक्यानि विद्याविरुद्धानि । वाक्यानां विरोधोऽर्थद्वारकः । कलाशास्त्रविरुद्धं यथा-'कालिङ्गं लिखितमिदं वयस्य पत्रं पत्रज्ञैरपतित कोटिकण्टकाग्रम् ।' कालिङ्ग पतितारकोटिकण्टकमिति पत्रविदामाम्नायः । तद्विरुद्धत्वात्कला- शास्त्रविरुद्धम् । एवं कलान्तरेष्वपि विरोधोऽभ्यूह्यः 'चतुर्वर्गशास्त्रविरुद्धानि तूदाहियन्ते---- कोमोपभोगसाफल्यफलो राज्ञां महीजयः'। धर्मफलोऽश्वमेधादियज्ञफलो वा राज्ञां महीजय इत्यागमः । तद्विरोधा- द्धर्मशास्त्रविरुद्धार्थमेतद्वाक्यमिति । ' अहंकारण जीयन्ते द्विषन्तः किं नयश्रिया । द्विषजयस्य नयमूलत्वं स्थितं दण्डनीतौ । तद्विरोधादर्थशास्त्रविरुद्धार्थ वाक्यमिति । 'दशनाङ्कपवित्रितोत्तरोष्ठं रतिखेदालसमाननं स्मरामि । १ धर्मार्थकाममोक्षाः चतुर्वर्गः । ' विर्गो धर्मकामार्थेश्चतुर्वर्गः समोक्षकः ' इत्यमरः । २ तत्र धर्मशास्त्रविरुद्धमुदाहरति-कामोपभोगेति । ३ अर्थशास्त्रमत्र दण्डनीतिः । यत्र पुनरर्थकामौ प्रधानम्; लोकयात्रानुवृत्तिमा- त्राय धर्मः, सा दण्डनीतिः ; यस्या:भगवान् बृहस्पतिः प्रवक्ता । तद्विरुद्धमुदाहरति- अहंकारेणोति । ४ तत् कामशास्त्रम्, यत्र त्रिवर्गस्य परस्परानुपरोधादुपयोगोपदेशः ; यस्य भगवान भार्गवः प्रणेता | कामशास्त्रविरुद्धं दर्शयति--दशनेति । - 1 -३-१.१] वृत्ति-कामधेनुटिप्पणी-सहितानि । ३१ 'उत्तरोष्ठमन्तर्मुखं नयनान्तमिति मुक्त्वा चुम्बननखरदशनस्थानानि । इति कामशास्त्रे स्थितम् । तद्विरोधात्कामशास्त्रविरुद्धार्थ वाक्यमिति । 'देवताभाक्तितो मुक्तिन तत्त्वज्ञानसंपदा ।' एतस्यार्थस्य मोक्षशास्त्रे स्थितत्वात्तद्विरुद्धार्थम् । एते वाक्यवाक्यार्थदोषास्त्यागाय ज्ञातव्याः । ये त्वन्ये शब्दार्थदोषाः सूक्ष्मास्ते गुणविवेचन एवोच्यन्ते । उपमादोषाश्चोपमाविचार इति । इति काव्यालंकारसूत्रवृत्ती दोषदर्शने द्वितीयेऽधिकरणे वाक्यवाक्यार्थदोषविभागो नाम द्वितीयोऽध्यायः । समाप्तं चेदं दोषदर्शनं द्वितीयमधिकरणम् । गुणविवेचनं नाम तृतीयमधिकरणम् । गुणालंकारविवेकः शद्वगुणविवेकश्च नाम प्रथमोऽध्यायः । यद्विपर्ययात्मनो दोषास्तान्गुणान्विचारयितुं गुणविवेचनमधिकरणमा- रभ्यते-- तत्रौजः प्रसादादयो गुणाः, यमकोपमादयस्त्वलंकारा इति स्थितिः का- व्यविदाम् । तेषां किं भेदनिबन्धनमित्याह- काव्यशोभायाः कर्तारो धर्मा गुणाः ॥१॥ ये खलु शब्दार्थयोधर्माः काव्यशोभा कुर्वन्ति ते गुणाः। ते चौजः प्रसा- १ मोक्षशास्त्रविरुद्धमुदाहरति--देवताभक्तित इति । विरोधं व्युत्पादयति-- एतस्येति । ' चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन | आर्को जिज्ञासुरांथीं ज्ञानी च भरतवर्षभ । तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ॥'. इत्युक्तनीत्या या ज्ञानलक्षणा भक्तिः सात्र न विवक्षिता ; किंत्वार्तत्वादिप्रयुक्ता त्रिरूपा, ज्ञान- रूपायास्तु भक्तमोक्षो भवत्येव । तदुक्तं तत्रैव-'ज्ञानी त्वात्मैव मे मतम् । ' इति । 'न तत्त्वज्ञानसंपदा ' इत्येतत् 'ज्ञानादेव तु कैवल्यम् ' इत्यादिमोक्ष- शास्त्रविरुद्धम् । -- अत:

३२ काव्यालंकारसूत्राणि [गुणविवेचनमधिकरणम् दादयः । न यमकोपनादयः । 'कैवल्येन तेषामकाव्यशोभाकरत्वात् । ओजः प्रसादादीनां तु केवलानामस्ति काव्यशोभाकरत्वमिति । तदतिशयहेतवस्त्वलंकाराः ॥२॥ तस्याः काव्यशोभाया अतिशयस्तदतिशयस्तस्य हेतवः। तुशब्दो व्यति- रेके । अलंकाराश्च यमकोपमादयः । अत्र श्लोको--- युवतेरिव रूपमङ्ग काव्यं स्वदते शुद्धगुणं तदप्यतीव । 'विहितप्रणयं निरन्तराभिः सदलंकारविकल्पकल्पनाभिः ।। 'यदि भवति वचश्चतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः । अपि जनदयितानि दुर्भगत्वं नियतमलंकरणानि संश्रयन्ते ॥ पूर्व नित्याः ॥३॥ पूर्वे गुणा नित्याः । तैविना काव्यशोभानुपपत्तेः । एवं गुणालंकाराणां भेदं दर्शयित्वा शब्दगुणनिरूपणार्थमाह- ओजः प्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्ति- कान्तयो बन्धगुणाः ॥ ४ ॥ बन्धः पदरचना । तस्य गुणा बन्धगुणा ओजःप्रभृतयः । ताक्रमेण दर्शयितुमाह-- गाढबन्धत्वमोजः॥ ५॥ -- -- १ कैवल्य इति । तेषामलंकाराणां कैवल्ये गुणसाहचर्याभावे काव्यशोभा- कलनाक्षमत्वादित्यर्थः । २ तान् क्रमेणेति । बन्धस्य पदरचनायाः गाढत्वं कनकशलाकावयवघटनवन्नि- बिडत्वम् । तत्र हेतवः-संयुक्ताक्षरत्वम्, निरन्तररेफशिरस्कैर्वगांणां प्रथमद्वितीयैस्तृती- यचतुर्थैः प्रथमैस्तृतीयेच संयोगाः, विसर्जनीयजिह्वामूलीयोपध्मानीयाः, गुर्वन्तता, समासाच, इत्येवमादयस्तरतमभावनावस्थिताः !

-३-१.१०] वृत्ति-कामधेनुटिप्पणी-महितानि । -- वन्धस्य गाढत्वं यत्तदोजः । यथा-'विलुलितमकरन्दा नचरीनर्तयन्ति । न पुनः, 'विलुलितम- धुधारा मञ्जरीलोलयन्ति । शैथिल्यं प्रसादः ॥६॥ वन्धस्य शैथिल्यं शिथिलत्वं प्रसादः । नन्वयमोजोविपर्ययात्मा दोषः, तत्कथं गुण इत्याह-- गुणः संप्लवात् ।। ७॥ गुणः प्रसादः । ओजला सह संप्लवात् । न शुद्धः॥८॥ स शुद्धस्तु दोष एवेति । ननु विरुद्धयोरोजःप्रसादयोः कथं संप्लव इत्याह- स त्वनुभवसिद्धः॥९॥ स तु संप्लवस्त्वनुभवसिद्धः तद्विदां रत्नादिविशेषवत् । अत्र श्लोकः- 'करुणप्रेक्षणीयेषु संप्लवः सुखदुःखयोः । यथानुभवतः सिद्धस्तथैवोजः प्रसादयोः' ।। 'साम्योत्कर्षों च ॥१०॥ साम्यमुत्कर्षश्चौजःप्रसादयोरेव । साम्यं यथा---'अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् । रघुवंश ३.७०. - १ साम्योत्कर्षों चेति । क्रमेण त्रिविधं प्रसादमुदाहृत्य दर्शयति-साम्य यथेति । विषयव्यावृत्तात्मा--' इत्यादावोजः, 'यथाविधि सूनवे' इत्यादौ प्रसादः । भिन्नदेशयोरप्योजः प्रसादयोः परस्परच्छायानुकारितया संप्लवः । उभयोरत्र साम्यं वेदितव्यम् | ओजसः प्रसाशदुत्कर्षमुदाहरति--बजतीति । भल्लातको नाम वीरवृक्षः । 'वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु' इत्यमरः । 'कुसुमशयनम् ' इत्यत्र प्रसादस्योत्कर्षों द्रष्टव्यः । का...५ ३४ काव्यालंकारसूत्राणि [गुणविवेचनमाधिकरणम् क्वचिदोजः प्रसादादुत्कृष्टम् । यथा-व्रजति गगनं भल्लातक्याः फलेन सहोपमाम् । क्वचिदोजसः प्रसादस्योत्कर्षः । यथा---' कुसुमशयनं न प्रत्यग्रं न चन्द्रमरीचयो न च मलयजं सर्वाङ्गीणं न वा मणियष्टयः'। विक्रमोर्वशीयम्३.१० मसृणत्वं श्लेषः ॥११॥ मसृणत्वं नाम यस्मिन्सति बहून्यपि पदान्येकवद्भासन्ते । यथा--'अत्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः'। कु.स.१.१ न पुनः, ' सूत्रं 'ब्राह्ममुरःस्थले-', 'भ्रमरीवलगुगीतयः', 'भ्रमरीवलगुगीतयः', ' तडित्कलिलमा- काश' इति । एवं तु श्लेषो भवति-'ब्राझं सूत्रमुरःस्थले', 'भ्रमरीम गीतयः', 'तडिज्जटिलमाकाशं ' इति । मार्गाभेदः समता ॥ १२ ॥ मार्गस्याभेदो मार्गाभेदः समता । येन मागणोपक्रमस्तस्यात्याग इत्यर्थः । श्लोके प्रबन्धे चेति । पूर्वोक्त,दाहरणम् । विपर्यय॑स्तु यथा-- ' प्रसीद चण्डि ! त्यज मन्युमञ्जसा जनस्तवायं पुरतः कृताञ्जलिः । किमर्थमुत्कम्पितपीवरस्तनद्वयं त्वया लुप्तविलासमास्यते ॥' आरोदावरोहक्रमः समाधिः ॥ १३ ॥ आरोहावरोहयोः क्रम आरोहावरोहक्रमः समाधिः परिहारः । आरोहस्या- वरोहे सति परिहारः, अवरोहस्य वा आरोहे सतीति । १ सूत्र ब्राममित्यत्र परसवर्णेऽपि परषाक्षरोत्थानगन्न श्लेषः । २ समता समाख्यातुमाह--मार्गाभेद इति । आदिमध्यावसानेकरूप्यं समतेत्यर्थः । ३ पुर्वोक्तमिति । अस्त्युत्तरस्यामित्यादि । ४ विपर्ययस्त्विति । प्रसीद त्यजति कर्तृवाचितया प्रक्रान्तस्य मार्गस्य आ- स्यत इत्यत्र त्यागान्न समता। ५ दीर्धादिगुर्वतरपाचुर्यः आरोहः । लध्वादिशिथिलप्रायत्वे चावरोह इति द्रव्यम् । -- . -३-१.१७) वृत्ति-कामधेनु टिप्पणी-सहितानि। 'तत्रारोहपृवोऽवरोहो यथा--'निसनन्दः कौन्दे मधुनि परिभुक्तोज्झित- रसे । अवरोहपूर्वम्त्वारोहो यथा--' नरीः शीलभ्रष्टा व्यसन इव मज्जन्ति तरवः' । आरोहस्य क्रमोऽवरोहम्य च क्रम आरोहावरोहक्रमः क्रमेणाराहणमव- रोहणं चंति केचिन् । यथा--निवेशः स्वःसिन्धोस्तुहिनगिरिवीथीषु जयति ।' न पृथक्, आरोहावरोहयोरोजःप्रसादरूपत्वात् ॥ १४ ॥ न पृथक्समाधिर्गुणः । आरोहावरोहयोरोजःप्रसादरूपत्वात् । ओजोरूप- श्वारोहः प्रसादरूपश्चावरोह इति । न, संपृक्तत्वात् ॥ १५॥ यदुक्तमोजःप्रसादरूपत्वमारोहावरोहयोस्तन्न । संपृक्तत्वात् संपृक्तौ खल्वो- जःप्रसादौ नदीवेणिकावद्वहतः । अनकान्त्याच ॥ १६॥ न चायमेकान्तः यदोजस्यारोहः, प्रसादे चावरोह इति । ओजःप्रसादयोः क्वचिद्भागे तीवावस्थायां ताविति चेदभ्युप- गमः ॥१७॥ ओजःप्रसादयोःक्वचिद्भागे तीवावस्थायामारोहोऽवरोहश्चेत्येवं चेन्मन्यसे, अभ्युपगमः न विप्रतिपत्तिः। १ तत्राद्यमुदाहरति-आरोहपूर्वक इति । 'निरानन्दः कौन्दे' इत्यत्र गुर्वक्षर- बाहुल्यादारोहः । मधुनीत्यत्र लध्वक्षरप्राचुर्याइवरोहः । द्वितीयमुदाहरति-अवरोह- पूर्वक इति । २ नरा इत्यत्र शैथिल्यादवरोहः । शीलभ्रष्टा इत्यत्र गुर्वक्षरप्रचुरत्वादारोहः । अस्यैव लक्षणवाक्यस्यान्यैरभिहितमर्थमभ्यनुजिज्ञासुरनुवदति--आरोहस्य क्रमइति । निःश्रेणिकारोहावरोहन्यायेन क्रमेणारोहणम्, क्रमेण चावरोहणमिति लक्षणवाक्यार्थः । उदाहरति- ३ निवेश इति । 'निवेशः स्वःसिन्धोः' इत्यत्र निःश्रेणिकाक्रमेणारोहः । 'हिनगिरि--' इत्यत्रावरोहः ।

काव्यालंकारसूत्राणि [गुणविवेचनमधिकरणम् 'विशेषापेक्षत्वात्तयोः ॥ १८ ॥ स विशेषो गुणान्तरात्मा । आरोहावरोहनिमित्तं समाधिराख्यायते ॥ १९ ॥ आरोहावरोहक्रमः समाधिरिति गौण्या वृत्त्या व्याख्येयम् । क्रमविधानार्थत्वाद्वा ॥२०॥ पृथक्करणमिति । पाठधर्मत्वं च न संभवतीति । न पाठधर्माः सर्वत्रा- दृष्टेः' इत्यत्र वक्ष्यामः। पृथक्पदत्वं माधुर्यम् ॥ २१॥ वन्धस्य पृथक्पदत्वं यत्तन्माधुर्यम् । पृथक् पदानि यस्य स पृथक्पदः तस्य भावः पृथक्पदत्वम् । समासदैयविनिवृत्तिपरं चैतन् । पूर्वोक्तमुदा- हरणम् । विपर्ययस्तुं यथा-'चलितशबरसेनादत्तगोशृङ्गचण्डध्वनिचकितवराह- व्याकुला विन्ध्यपादाः। - १ परोक्तस्याभ्युपगमे पर्यवसितमथै समर्थयितुमाह--विशेषेति । विशेषः तीब्रावस्थात्मा, तमपेक्षितुं शीलमनयोरिति विशेषापक्षिणी तयोर्भावस्तत्त्वं तस्मात् । आरोहावरोहाभ्यामोजः प्रसादयोस्तीवावस्था हि स्वनिमित्तत्वेनापेक्षिता । सोऽयमोजः- प्रसादव्यतिरके समाधिरन्यो गुण इति सूत्रार्थः । २ ननु अवस्था पुनरवस्थावतो यदा न भिद्यते, तदा तीवावस्था ओजःप्र- सादात्मिकैव भवति । यद्यपि यद्यत् योजः, तत्तत् आरोह इति नास्ति नियमः , तथापि यो य आरोहः, तत्तत् ओज इति भवति । ततः सत्यं न समाधिना प्रसादः स्वीक्रियते, प्रसादेन च समाधिः संगृह्यत एवेति किमर्थमस्योपादानमि- त्यत आह- क्रमविधानार्थं वेति । नात्र क्रमः परस्परम् ; अपि तु क्रमेणा रोहणं क्रमेणावरोहणमित्येवरूपः क्रमो शेयः । नन्वारोहावगेहक्रमः पाठधर्मः किं न स्यादिति चोद्यं वक्ष्यमाणयुक्त्या विघटितमित्याह- पाठधर्मश्चेति । ३ पूर्वोक्तमिति । ' अस्त्युत्तरस्याम् ' इत्याशुदाहरणम् । ४ विपर्ययस्त्विति ! समासपददै त् विपर्ययः ।

-३.१-२५] वृत्ति-कामधेनुटिप्पणी-सहितानि । ३७ अजरठत्वं सौकुमार्यम् ॥ २२ ॥ वन्धस्याजरठत्वमपारुण्यं यत्तत्सौकुमार्यम् । पूर्वोक्तमुदाहरणम् । विपर्ययस्तु यथा---'निदानं निद्वैतं प्रियजनसहक्वव्यवसितिः सुधामे- कप्लोषौ फलमपि विरुद्धं मम हृदि ।' विकटत्वमुदारता ॥२३॥ वन्धस्य विकटत्वं यदसावुदारता। यस्मिन्सति नृत्यन्तीव पदानीति जनस्य वर्णना भवति तद्विकटत्वम् । लीलायमानत्वमित्यर्थः। यथा- 'स्वचरणविनिविष्टै पुरैर्नर्तकीनां झटिति रणितमासीत्तत्र चित्रं कलं च ।' न पुनः, 'चरणकमललग्नै पुरैर्नर्तकीनां झटिति रणितमामीन्मञ्ज चित्रं च तत्र ।' अर्थव्यक्तिहेतुत्वमर्थव्यक्तिः ॥ २४ ॥ यत्र झटित्यर्थप्रतिपत्तिहेतुत्वं स गुणोऽर्थव्यक्तिरिति । पूर्वोक्तमुदाहरणम्। प्रत्युदाहरणं तु भूयः सुलभं च । औज्ज्वल्यं कान्तिः ॥ २५ ॥ बन्धस्योज्ज्वलत्वं नाम यदसौ कॉन्तिरिति । यदभावे पुराणच्छाये- त्युच्यते । यथा-'कुरङ्गीनेत्रालीस्तबकितवनालीपरिसरः ।' विपर्ययस्तु भूया- न्सुलभश्च। श्लोकाश्चात्र भवन्ति- पदन्यासस्य गाढत्वं वदन्त्योजः कवीश्वराः । अनेनाधिष्ठिताः प्रायः शब्दाः श्रोत्ररसायनम् ॥ १ पूर्वोक्तमिति । ' अस्त्युत्तरस्याम्' इत्याद्युदाहरणम् । २ प्रत्युदाहरणमाह-विपर्ययस्त्विति । सौकुमार्यस्य विपर्ययः कष्टत्य- भिन्नवृत्तत्वे । ३ पूर्वोक्तम् — अस्त्युत्तरस्य'म्' इति । सुलभं चेति । 'सपदि पङि विहङ्गम- नाम ' इत्यादि । ४ कान्ति कथायितुमाह-औवल्यामिति । पत्रमिति वक्तव्ये किसलयमि- त्यादि, जलधाविति वक्तव्ये अधिजलधीति, राज्ञीति वक्तव्ये राजनीति कमलमिवेति वक्तव्ये कमलायत इत्यादिः कान्तहेतुः । - .

३८ काव्यालंकारसूत्राणि गुणविवेचनमधिकरणम् श्लथत्वमोजसा मिश्रं प्रसादं च प्रचक्षते । अनेन न विना सत्यं स्वदते काव्यपद्धतिः ।। यत्रैकपदवद्भावः पदानां भूयसामपि । अनालक्षितसंधीनां स श्लेषः परमो गुणः ।। प्रतिपादं प्रतिश्लोकमेकमार्गपरिग्रहः । दुर्बन्धो दुर्विभावश्च समतेति मतो गुणः ।। आरोहन्त्यवरोहन्ति क्रमेण यतयो हि यत् । समाधि म स गुणस्तेन पूता सरस्वती ।। बन्धे पृथक्पदत्वं च माधुर्यमुदितं बुधैः । अनेन हि पदन्यासाः कामं धारामधुश्श्युतः ॥ यथा हि च्छिद्यते रेखा चतुरं चित्रपण्डितैः । तथैव वागपि प्राज्ञैः समस्तगुणगुम्फिता ॥ बन्धस्याजरठत्वं च सौकुमार्यमुदाहृतम् । एतेन वर्जिता वाचो रूक्षत्वान्न श्रुतिक्षमाः । विकटत्वं च बन्धस्य कथयन्ति युदारताम् । वैचित्र्यं न प्रपद्यन्ते यया शून्याः पदक्रमाः ॥ पश्चादिव गतिर्वाचः पुरस्तादिव वस्तुनः । यत्रार्थव्यक्तिहेतुत्वात्सोऽर्थव्यक्तिः स्मृतो गुणः ।। औज्ज्वल्यं कान्तिरित्याहुर्गुणं गुणविशारदाः । पुराणचित्रस्थानीयं तेन वन्ध्यं कवर्वचः ॥ 'नासन्तः, सद्वेद्यत्वात् ॥२६॥ न खल्वेते गुणा असन्तः । सद्वद्यत्वात् । १ नन्वते गुणाः स्वसंकल्पनामात्रसाराः, रूपरसादिवदपरोक्षतया अधिगन्तुम, शक्यत्वादिति शङ्कामुट्टङ्कायितुमाह-नासन्त इति । अयमर्थः--ओजःप्रमुखा एते गुणाः, असन्तः तुच्छा न भवान्ते । कुतः ? संवेद्यत्वात् । सहृदयसंवेदनस्य वि- घयत्वात् ।

-३-२.२] वृत्ति-कामधेनुटिप्पणी-सहितानि । ३९ तद्विदां सद्वद्यत्वेऽपि भ्रान्ताः स्युरित्याह-- न भ्रान्ताः, निष्कम्पत्वात् ॥ २७ ॥ न गुणा भ्रान्ताः । एतद्विषयायाः प्रवृत्तेर्निष्कम्पत्वात् । न पाठधर्माः, सर्वत्रादृष्टेः ॥ २८ ॥ नैते गुणाः पाठधर्माः । सर्वत्रादृष्टेः । यदि पाठधर्माः स्युस्तर्हि विशेषा- नपेक्षाः सन्तः सर्वत्र दृश्येरन् । न च सर्वत्र दृश्यन्ते । विशेषापेक्षया विशे- षाणां गुणत्वाद्गुणाभ्युपगम एवेति । इति काव्यालंकारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे गुणालंकारविवेकः शब्दगुणविवेकश्च नाम प्रथमोऽध्यायः । -- - अर्थगुणविवेचनं नाम द्वितीयोऽध्यायः । संप्रत्यर्थगुणविवेचनार्थमाह--- त एवार्थगुणाः॥१॥ त एवौज:प्रभृतयोऽर्थगुणाः । शब्दार्थगुणानां 'वाच्यवाचकद्वारेण भेदं दर्शयति-- अर्थस्य प्रौढिरोजः ॥२॥ अर्थस्याभिधेयस्य प्रौढिः प्रौढत्वमोजः । पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा । प्रौढिव्याससमासौ च साभिप्रायत्वमस्य च ॥' पदार्थे वाक्यवचनं यथा---' अथ नयनसमुत्थं ज्योतिरत्रेग्वि द्यौः।' अत्र चन्द्रपदवाच्येऽर्थे ' नयनसमुत्थं ज्योतिरत्रेः ' इति वाक्यं प्रयु- क्तम् । पदसमूहश्च वाक्यमभिप्रेतन् । अनया दिशान्यदपि द्रष्टव्यम् । १ शब्दगुणा एव चेदर्थगुणाः, किमनेन विधान्तरविधानव्यसनेन, लक्षितत्वा- तेषामित्याशय, शब्दार्थगुणानां नामतो भेदाभावेऽपि शब्दार्थोपश्लेषवशादस्ति भेद इत्याह- २ प्रोटिं पद्येन पञ्चधा प्रपञ्चयति---पदार्थ इति - काव्यालंकारसूत्राणि गुणविवेचनविकरणम् तद्यथा-- पुरः पाण्डुच्छायं तदनु कपिलिन्ना कृतपदं' ततः पाकोत्सेकादरुणगुणसंसर्गितवपुः । शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषम वने वीतामोदं बदरमरसत्वं कलयति' । न चैवमातिप्रसङ्गः । काव्यशोभाकरत्वस्य गुणसामान्यलक्षणस्याव- स्थितत्वात् । वाक्यार्थे पदाभिधानं यथा--- दिव्येयं न भवति किं तु मानुषी ' इति वक्तव्ये निमिषति ' इत्याहेति । अस्य वाक्यार्थस्य व्याससमासों । व्यासो यथा-- ' अयं नानाकारो भवति सुखदुःखव्यतिकरः सुखं वा दुःखं वा भवति न भवत्येव च ततः । पुनस्तस्मादूर्ध्वं भवति सुखदुःखं किमपि त- पुनस्तस्मादूर्ध्वं भवति न च दुःखं न च सुखन् । समासो यथा-- 'ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः॥ कुमारसंभव ६.९४ १ अत्र कपिलमिति वक्तव्ये 'कपिलिम्ना कृतपदम्' इति, शुष्कमिति वक्तव्ये शनैःशोषारम्भे' इत्यादि च वाक्यं प्रयुक्तमिति पदार्थे वाक्यरचना । २ द्वितीयां प्रौढिं द्रढयति--वाक्यार्थ इति । किमियं देव्युत मानुषीवि पृष्टः कश्चिदुत्तरमाह-निमिषतीति । अनेन मानुषधर्मवाचिना पदेन--देवीयं न भवति, किं तर्हि, मानुषी-इति वाक्यार्थः प्रतिपादितो भवति । ३ अस्य वाक्यार्थस्येति । व्यासमुदाहरति--अयं नानाकार इति । अयम् अविसंवादितया अनुभूयमानः दुखदुःखव्यतिकरः, नानाकारो विचित्ररूपो भव- तीति वाक्याथः। अस्यैव विस्तर: 'सुखं वा दुःखं वा' इत्यादिना कृत इति व्यासः । समासं समुन्मेषयति-ते हिमालयमिती । अत्र संक्षेपः स्फुटः ।

-३-२.५] वृत्ति-कामधेनुटिप्पणी-सहितानि । ४१ -- . 'साभिप्रायत्वं यथा-- 'सोऽयं संप्राते चन्द्रगुप्ततनयश्चन्द्रप्रकाशो युवा । जातो भूपतिराश्रयः कृताधियां दिष्ट्या कृतार्थश्रमः ।। आश्रयः कृतधियामित्यस्य च सुबन्धुसाचिव्योपक्षेपपरत्वात्साभिप्रायत्वम् । एतेन, ‘रतिविगलितबन्धे केशपाशे सुकेश्या: ' इत्यत्र मुकेश्या इत्यस्य च साभिप्रायत्वं व्याख्यातम् । अर्थवैमल्यं प्रसादः ॥३॥ अर्थस्य वैमल्यं प्रयोजकमात्रपरिग्रहः प्रसादः । यथा--' सवर्णा कन्यका रूपयौवनारम्भशालिनी' । विपर्ययस्तु-उपास्तां हस्तो मे विमलमाणकाञ्चीपदमिदम्'। काञ्चीपदमित्यनेनैव नितम्बस्य लक्षितत्वाद्विशेषणस्याप्रयोजकत्वमिति । घटना श्लषः ॥४॥ क्रमकौटिल्यानुल्बणत्वोपपत्तियोगो घटना । स श्लेषः । यथा- -- 'दृष्टैकासनसंगते मियतमे पश्चादुपेत्यादरा- देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः । ईषद्वक्रितकंधरः सपुलकः प्रेमोल्लसन्मानसा- मन्तसिलसत्कपोलफलका धूर्तोऽपरां चुम्बति ॥' अमशतक १९. शूद्रकादिरचितेषु प्रबन्धेष्वस्य भूयान्प्रपञ्चो दृश्यते । अवैषम्यं समता ॥ ५ ॥ अवैषम्य प्रक्रमाभेदः समता । क्वचित्क्रमोऽपि भिद्यते । यथा- १ पञ्चमी प्रौदि प्रपञ्चयति-सामिप्रायत्वमिति । पदान्तरमयोगमन्तरेण तद- थप्रत्यायनप्रागल्भ्यं साभिप्रायत्वम् । २.प्रयोजकमात्रपदपरिग्रह इति । विवक्षितार्यसमर्पकपदमात्रमयोगेऽर्थस्य मस्यं स प्रसादः । का...६ ४२ काव्यालंकारसूत्राणि । [गुणविवेचनमाधिकरणम् च्युतमुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा मलयमरुतः सर्पन्तीमे वियुक्तधृतिच्छिदः । अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जरठतामालम्बन्ते क्लमोदयदायिनीम् ॥' औचित्यविचारचर्चा ५.२. ऋतुसंधिप्रतिपादनपरेऽत्र द्वितीये पादे क्रमभेदो मलयमरुतामसाधार- णत्वात् । एवं तु द्वितीयः पादः पठितव्यः । 'मनसि च गिरं बध्नन्तीमे किरन्ति न कोकिलाः' इति । सुगमत्वं वा अवैषम्यमिति ॥ ६॥ सुखेन गम्यते ज्ञायत इत्यर्थः । यथा---'अस्त्युत्तरस्यां दिशि देवतात्मा' इत्यादि । प्रत्युदाहरणं सुलभम् । 'अर्थदृष्टिः समाधिः ॥ ७॥ अर्थस्य दर्शनं दृष्टिः । समाधानकारणत्वात्समाधिः । अवहितं चित्त- मर्थान्पश्यन्तीत्युक्तं पुरस्तात् । अर्थो द्विविधः, अयोनिरन्यच्छायायोनिर्वा ॥८॥ यस्यार्थस्य दर्शन समाधिः सोऽयों द्विविधः--अयोनिः, अन्य- च्छायायोनिर्वेति । अयोनिरनन्यकारणः । अवधानमात्रकारण इत्यर्थः । अन्यस्य काव्यस्य च्छाया अन्यच्छाया तयोनिर्वा । तद्यथा--- 'आश्वहि मम सीधुभाजनाद्यावदग्रदशनैर्न दश्यसे । चन्द्र मद्दशनमण्डलाङ्कितः खं न यास्यसि हि रोहिणीभयात् ॥' *केषु चित्पुस्तकेष्विदं पधं आधिकं दृश्यते । का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या । मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥ शाकुंतल ५.१४. १ अर्थदृष्टिरिति । ननु. समाधिरवधानम्, दर्शनं तु शानविशेषः । कथमु- भयोः सामानाधिकरण्यामित्यत आह-समाधिकारणत्वादिति । समाधिः कारणं यस्येति बहुविहिः । कार्यकारणयोरुभयोरभदमुपर्योक्तमित्यर्थः--कार्यकारणभावमेव शापयति । २ अयोनिरकारण इति । कथरसति कारणमात्रे कार्योत्पत्तिरित्याशय कवित्वबीजप्रतिमोन्मेषप्रयोजकमवधानमेवात्र कारणमित्यगवमयितुं ना प्रसिद्धकारणं प्रतिषिष्यत इत्याह- -- Mine -३-२.१०] वृत्ति-कामधेनुटिप्पणी-सहितानि । 'मा भैः शशाङ्क मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर किं बिभेषि । प्रायो विदग्धवनितानवसंगमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम् ॥' पूर्वस्य श्लोकस्यार्थोऽयोनिः, द्वितीयस्य च च्छायायोनिरिति । अर्थो व्यक्तः सूक्ष्मश्च ॥ ९॥ यस्यार्थस्य दर्शनं समाधिरिति स द्वेधा--व्यक्तः सूक्ष्मश्च । व्यक्तः स्फुट उदाहृत एव । सूक्ष्मं व्याख्यातुमाह- सूक्ष्मो भाव्यो वासनीयश्च ॥ १० ॥ सूक्ष्मो द्वेधा भवति-भाव्यो वासनीयश्च । शीघ्रनिरूपणागम्यो भाव्यः । एकाग्रताप्रकर्षगम्यो वासनीय इति । 'भाव्यो यथा- 'अन्योन्यसमिलितमांसलदन्तकान्ति सोल्लासमाविरलसंवलितार्धतारम् । लीलागृहे प्रतिकलं किलकिञ्चितेषु व्यावर्तमानविनयं मिथुनं धकास्ति ॥' वासनीयो यथा- १ 'अत्र मिथुनमालम्बनविभावः । लिलागृहमुद्दीपनविभावः । अथरास्वादाङ्ग- क्लमास्मतकम्पनयनव्यावर्तनभूभेदादयोऽनुभावाः । उल्लासोन्मीलितहषात्सुक्यादयःकिलि- किञ्चिताक्षिप्तक्रोधशोकभयगर्वाश्च संचारिणः । इत्थं विभावानुभावसंचारिभिरास्वाद- नीयतामापाद्यमानो रातिलक्षणः स्थायी भावःसाधारण्येन चळमाणतैकप्राणः संभोगशृङ्गारो रसः । तदुक्तं दशरूपके,' 'विभावैरनुभावश्च सात्त्विकैयभिचारिभिः । आनीयमानः स्वादुत्वं स्थायी भावो रसःस्मृतः ॥' इति । वासनीयमुद्भासयति । २ कासनीय इति । अवहित्थेति । अवहित्थमाकारगोपनम् | दुर्लभस्त्व- संभोगः, त्वय्येष लग्नमिदं मदीयं मनः, दुरन्तसंतापशान्तये हारलतिकेयमेका मयि दाक्षिण्यमवलम्बत इत्येवं स्वाभिप्रायप्रकाशनमवधानप्रकर्षणात्र सहृदयहृदयसंवेद्यम् । अत्र विप्रलम्भशृङ्गारः । विभावादयः स्वयमूह्याः । अस्य गुणस्य विपर्ययो ग्राम्यत्वम् 'स्वपिति यावत् ' इत्यादौ दृष्टव्यम् । - ४४ - . काव्यालंकारसूत्राणि । [गुणविवेचनमधिकरण 'अवहित्थवलितजघनं विवर्तिताभिमुखकुचतटं स्थित्वा । अवलोकितो ऽहमनया दक्षिणकरकलितहारलतम् ॥' उक्तिवैचित्र्यं माधुर्यम् ॥ ११॥ उक्तेवैचित्र्यं यतन्माधुर्यमिति । यथा- रसवदमृतं कः संदेहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् सकृदपि पुनर्मध्यस्थः सन्रसान्तरविजनो वदतु यदिहान्यत्स्वादु 'स्यात्प्रियादशनच्छदात्' । शारङ्गधरपद्धतिः ३३१२. अपारुष्य सौकुमार्यम् ॥ १२ ॥ परुषेऽर्थेऽपारुष्यं सौकुमार्यमिति । यथा मृतं यशःशेष इत्याहुः । एकाकिनं देवताद्वितीयमिति । गच्छेति साधयेति च । अग्राम्यत्वमुदारता ॥ १३ ॥ ग्राम्यत्वप्रसङ्गे ग्राम्यत्वमुदारता । यथा- 'त्वमेवंसौन्दर्या स च रुचिरतायां परिचितः कलानां सीमानं परमिह युवामेव भजथः । १ नानाविधोपमानातिशायि दशनच्छदमाधुमिति वक्तव्ये,रसवदमृतमित्यादिभ यन्तरेण प्रतिपादनादत्रमाधुर्यम् । २ अग्राम्यत्वमिति । अत्र कन्ये कामयमानं कान्तं कामयस्वेति वक्तव्ये ग्राम्या यदौचित्येन प्रतिपादनं सा उदारता | त्वमेवमिति । एवं वर्णनापथोत्तीर्णतयानुभूयमा सौन्दर्य यस्याः सा तथोक्ता । स च माधो रुचिरतायां सौन्दर्यविषय, परिचित संस्तुतः, प्रसिद्ध इति यावत् । युवां स चत्वं च । युवामेव परमिह लोके कलानां सीमा भजयः । अयि हे मालति ! वां युवयोः द्वन्दं मिथुनं दिष्टया भाग्येन संबदति सहर भक्तीत्यर्थः । अतःशेष पाणिग्रहणरूपं मङ्गलं कर्म स्याच्चेत्, तदानीं गुणितया गुण वत्त्वेन जितम्, युवयोर्गुणसंपत्तिर्विश्वातिशायिनी भवेदित्यर्थः । अत्र प्रथमं त्वं स चेरि पृथक्तयोक्तेः, ततो युवामिति मिश्रीकरणेन; तदनन्तरं इन्द्वमिति, ततः शेषमिति २ विवक्षितार्थव्यञ्जनमुखेन फलपर्यवसायित्वमित्यौचित्यशालिना कमेण कामन्दक्या मालती मुद्दिश्योक्तमिति स्पष्टमुदाहरणत्वम् ।

-३-२.१५] वृत्ति-कामधेनुटिप्पणी-सहितानि । . अपि द्वन्द्व दिष्टया तदिति सुभगे संवदति वा- मतः शेषं चेत्स्याज्जितमिह तदानीं गुणितया'.॥ मालतीमाधवम् विपर्ययस्तु- 'स्वपिति यावदयं निकटे 'जनः स्वपिमि तावदहं किमपैति ते । इति निगद्य शनैरनुमेखलं मम कर स्वकरेण रुरोध सा ।' वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः ॥१४॥ वस्तूनां भावानां स्वभावस्य स्फुटत्वं यदसावर्थव्यक्तिः । यथा- पृष्ठेषु शङ्खशकलच्छविषु च्छदानां राजीभिरङ्कितमलतकलोहिनीभिः । गोरोचनाहरितब बहिःपलाश- मामोदते कुमुदमम्भासि पल्वलस्य' । यथा वा-- 'प्रथममलसैः पर्यस्ताग्रैः स्थितं पृथुकेसरै- विरलविरलैरन्तःपत्रैर्मनाङ्गिलितं ततः । तदनु वलनामात्रं किंचिद्वयधायि बहिर्दलै- मुकुलनविधौ वृद्धाब्जानां बभूव कदर्थना' । दीप्तरसत्वं कान्तिः ॥ १५ ॥ दीप्ता रसाः शृङ्गारादयो यस्य स दीप्तरसः, तस्य भावो दीप्तरसत्वं कान्तिः । यथा-- 'प्रेयान्सायमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मनाः । तावत्प्रत्युत पाणिसंपुटलसन्नीवीनितम्ब घृतो धावित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः' । १ स्वपीतीति । अत्र कश्चित् कामी वयस्याय रहस्यं कथयति । २ प्रेयानिति । अत्र विप्रलम्भपूर्वकः संभोगशृङ्गारः ।

-- काव्यालंकारसूत्राणि । गुणविवेचनमधिकरणम् 'एवं रसान्तरेष्वप्युदाहरणीयमिति । १ एवं रसान्तरेध्विति । शृङ्गारो द्विविधः--संभोगो विपलम्भश्च । तत्राद्यः परस्परावलोकनपरिचुम्वनाधनन्तभेदादपरिच्छेद्यः । तत्रैको भेद उदाहृतः । विप्रलम्भस्तु परस्पराभिलाषविरहेाप्रवासशापहेतुक इति पञ्चविधः । तत्राद्यो यथा--- 'प्रेमाः प्रणयस्पृशः परिचयादुगाढरागोदया- स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुमयि । यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणात्- आशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रोलयः || एवमन्येऽपि विप्रलम्मभेदा ज्ञातव्याः । वीरो यथा-- 'क्षुद्राः संत्रासमेते विजहित हरयो भिन्नशक्रेभकुम्भा युष्मद्गात्रेषु लनां दधति परममी सायकाः संपतन्तः सौमित्रे तिष्ठ पात्रं त्वमसि न हि रुषो नन्वहं मेधनादः किंचिद्धृभङ्गलीलानियमितबलधि राममन्वेषयामि' ॥ करणो यथा- हा मातस्त्वरितासि कुत्र किमिदं हा देवताः काशिषो धिक् प्राणान्परितोऽशनिईतवहो गात्रेषु दग्धे दृशौ । इत्थं गद्दकण्ठद्धकरुणाः पौराइनानां गिरः- चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि । अद्भुतो यथा- 'चित्रं महानेष बतावतारः क कान्तिरेषाभिनवैव भङ्गी । लोकोत्तरं धैर्यमहो प्रभावः काप्याकृतितन एष सर्गः ॥ हास्यो यथा- आकुञ्थ्य पाणिमशुचिं मम मूर्ध्नि वेश्या मन्त्राम्भसा प्रतिपदं पृषतैः पवित्रे । तारस्वनं प्रहितसीत्कमदात्प्रहारं हा हा हतोऽहामिति रोदिति विष्णुशर्मा ॥' भयानको यथा- 'ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बदृष्टिः पश्वार्धेन प्रविष्ठः शरपतनभिया भूयसा पूर्वकायम् । दभैरावलीटैः श्रमविवृतमुखम्रशिभिः कीर्णवा पश्योदग्रप्लुतत्वारियति बहुतरं स्तोकमुयो प्रयाति'। शाकुंतल १.७ रौद्रो यथा- - एतत्कालकरवालनिकृत्तकण्ठनालोच्चलहुलबुब्दुइफेनिलोधैः । सार्ध डमडमस्डारकृतिहूतभूतवर्णोण भर्गगृहिणी रुधिरैबिनोमि' ॥

-४-१.१] वृत्ति-कामधेनुटिप्पणी-सहितानि । ४७ अत्र श्लोकाः-- ''गुणस्फुटत्वसाकल्यं काव्यपाकं प्रचक्षते । चूतस्य परिणामेन स चायमुपमीयते ॥ सुप्तिसंस्कारमात्रं यक्लिष्टवस्तुगुणं भवेत् । काव्यं वृन्ताकपाकं तज्जुगुप्सन्ते जनास्ततः ॥ गुणानां दर्शनान्मुक्तो यस्यार्थस्तदपार्थकम् । दाडिमानि दशेत्यादि न विचारक्षम वचः ॥' इति काव्यालंकारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे अर्थगुणविवेचनं नाम द्वितीयोऽध्यायः । समाप्तं चेदं गुणविवेचनं तृतीयमधिकरणम् । -- आलंकारिक नाम चतुर्थमधिकरणम् । शब्दालंकारविचारो नाम प्रथमोऽध्यायः । गुणनिर्वृत्या काव्यशोभा । तस्याश्चातिशयहेतवोऽलंकाराः। तन्निरू- पणार्थमालंकारिकमधिकरणामारभ्यते--- तत्र शब्दालंकारौ द्वौ यमकानुप्रासौ क्रमेण दर्शयितुमाह- पदमनेकार्थमक्षरं चावृत्तं स्थाननियमे यमकम् ॥ १॥ पदमनेकार्थ भिन्नार्थमेकमने वा तस्य तद्वदक्षरमावृत्तं स्थाननियमे सति बीभत्सो यथा-- 'उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्संधभूयासि मांसा- न्यसस्फिक्पृष्टपीठाद्यवयवटिलान्युअपूतीनि जग्या । आत्तस्नाय्वान्गनेत्रः प्रकटितदशनः प्रेतरङ्गः करसात् अस्थिसंधिस्थपुटगतमपि अव्यमव्यप्रमत्ति' ॥ शाम्तो यथा- 'अहो वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्टे वा बलवति रिपौ वा सुहृदि वा। तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित्पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥ १ इत्थमर्थगुणान् समय काव्यस्य गुणस्फुरत्वसाकल्याभ्यां तदभावेन चोपादेये- खानुपादेरवे सदृष्टान्तमाचष्टे ॥

काव्यालंकारसूत्राणि । [आलंकारिकमधिकरणम् यमकम् । स्वावृत्त्या सजातीयेन वा कात्स्न्येकदेशाभ्यामनेकपाडव्याप्तिः स्थाननियम इति । यानि त्वेकपादभागवृत्तीनि यमकानि दृश्यन्ते तेषु लोकान्तरस्य संस्थानं यमकापेक्षयैव स्थाननियम इति । स्थानकथनार्थमाह- पादाः पादस्यैकस्यानेकस्य चादिमध्यान्तभागाःस्थानानि॥२॥ 'पादाः एकस्य च पादस्यादिमध्यान्तभागाः,अनेकस्य च पादस्य त एव स्थानानि । पादयमकं यथा- ' असज्जनवचो यस्य कलिकामधुगर्हितम् । तस्य न स्याद्विषतरोः कलिकामधु गर्हितम् ॥' एकपादस्यादिमध्यान्तयमकानि यथा- 'हन्त हन्तररातीनां धीरधीरर्चिता तव । कामं कामन्दकी नीतिरस्या रस्या दिवानिशम् ॥' वसुपरासु परासुमिवोज्झतीप्वविकलं विकलङ्कशशिप्रभम् । प्रियतमं यतमन्तमनीश्वरं रसिकता सिकतास्विव तासु का ॥' 'सुदृशोऽवसरे चकितं चकितं भवतीक्षितमस्ति मितं स्तिमितम् । अपि हासलवस्तव कः स्तबकस्तुलयेन तु कामधुरां मधुराम् ॥' पदियोरादिमध्यान्तयमकानि यथा- भ्रमर द्रुमपुष्पाणि भ्रम रत्यै पिबन्मधु । का कुन्दकुसुमे प्रीतिः काकुं दत्त्वा विरौषि यत् ॥' १ पाद इति । आत्रयं विभागः-प्रथमपादो द्वितीये तृतीये चतुर्थे क्रमेण यभ्यते । एवं द्वितीयस्तृतीये चतुर्थे च । तृतीयश्चतुर्थे । तथा प्रथमो द्वितीयादिषु त्रिषु युगपद्यभ्यत इति सप्तधा भवति । प्रथमो द्वितीय तृतीयश्चतुर्थे, प्रथमश्चतुर्थे द्वितीयस्त- तीये, इति दो भेदाविति पादयमकं नवधा | पादस्य त्रेधा विभागपक्षे प्रथमादिपादा- दिभागः पूर्ववत् द्वितीयादिपादादिभागेषु, प्रथमादिपादमध्यभागो द्वितीयादिपादमध्य- भागेषु, प्रथमादिपादान्तभागो द्वितीयादिपादान्तभागेषु यम्यत इति सप्तविंशतिधा । खडभेदकल्पनया परिगणनायो भूयसी भेदसंख्येत्युपरम्यते । तत्र दिल्यानं दर्शयितुं पादयमकं तावदुदाहरति- २ अथैकस्य पादस्यादिमध्यान्तेषु यमकं क्रमेणोदाहरति । ३ अथ पादयोरादिमध्यान्तभागेषु यमकं क्रमेणोदाहरति ।

-४-१] वृात्ते-कामधेनुटिप्पणी-सहितानि । ४९ - 'अप्यशक्यं त्वया दत्तं दुःखं शक्यन्तरात्मनि ॥ बाप्पो वाहीकनारीणां वेगवाही कपोलयोः' ॥ 'सपदि कृतपदस्त्वदीक्षितेन स्मितशुचिना स्मरतत्त्वदीक्षितेन । भवति बत जनः सचित्तदाहो न खलु मृषा कुत एव चित्तदाहो' । एकान्तरपादान्तयमकं यथा-- 'उद्वेजयति भूतानि यस्य राज्ञः कुशासनम् । सिंहासनवियुक्तस्य तस्य क्षिप्रं कुशासनम् ॥ 'एवमेकान्तरपादादिमध्ययमकान्यूह्यानि । समस्तपादान्तयमकं यथा- 'नतोन्नतंभ्रगतिबद्धलास्यां विलोक्य तन्वीं शशिपेशलास्याम् । मनः किमुत्ताम्यसि चञ्चलास्यां कृती स्मराज्ञा यदि पुष्कला स्याम् ।। एवं समस्तपादादिमध्यान्तयमकानि व्याख्यातानि । अन्ये च संकरजाति- भेदाः सुधियोत्प्रेक्ष्याः । अक्षरयम त्वेकाक्षरमनेकाक्षरं च । एकाक्षरं यथा- नानाकारेण कान्ताभूराराधितमनोभुवा । विविक्तेन विलासेन ततक्ष हृदयं नृणाम् ।। १ एवमिति । एकान्तरितपादादियमकं यथा-- करोऽतिताम्रो रामाणां तन्त्रीताडनविम्रमम् । करोति सेयै कान्त च श्रवणोत्पलताडनम् ॥ एकान्तरितपादमध्ययमकं यथा- 'यान्ति यस्यान्तिके सर्वेऽप्यन्तकान्तमुपाधयः। तं शान्तचित्तवृत्तान्तं कालीकान्तमुपास्महे'। इति । २ चतुर्वपि पादेषु अन्तयमकमुदाहरति । ३ एवमिति । समस्तपादादियमकं यथा- 'सारसालंकृताकारा सारसामोदनिर्भरा। सारसालवृतप्रान्ता सा रसाढ्या सरोजिनी' || समस्तपादमध्ययमकं यथा- 'स्थिरायते यतेन्द्रियो न हीयते यतेर्भवान् | अमायते यतेऽप्यभूत्सुखाय ते यते क्षयम्'। ४ अन्ये चेति । 'सनाकवनितं नितम्बरूचिर चिरं सुनिनदैर्नदैर्वृतममुम् । मता फणवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति ।। इत्यादि। का...७ -- ५० काव्यालंकारसूत्राणि [आलंकारिकमधिकरणम् 'एवं स्थानान्तरयोगेऽपि द्रष्टव्यः । सजातीयनैरन्तर्यादस्य प्रकर्षों भवति। स चायं हरिप्रबोधे दृश्यते । यथा--- 'विविधधर्ववना नागगर्द्धर्द्धनानाविविततगगनानाममज्जज्जनाना । रुरुशशललना नाववन्धुं धुनाना मम हि हिततनानाननस्वस्वनाना' । अनया च वर्णयमकमालया पदर्यमकमाला व्याख्याता। भङ्गादुत्कर्षः ॥ ३॥ उत्कृष्टं खलु यमकं भङ्गाद्भवति । शृङ्खला परिवर्तकचूर्णमिति भङ्गमार्गः ॥ ४ ॥ एते खलु शृङ्खलादयो यमकभङ्गानां प्रकारा भवन्ति । तान्क्रमेण व्याचष्टे- वर्णविच्छेदचलनं शृङ्खला ॥ ५ ॥ वर्णानां विच्छेदो वर्णविच्छेदः तस्य चलनं यत्सा शृङ्खला । यथा-'कलिकामधुशब्दे विच्छेदः धुशब्दे च तस्य चलनम् । लिमव- र्णयोर्विच्छेदात् । १ एवमिती । स्थानान्तरयोगे यथा- सभासु राजन्नसुराहतैर्मुखैमहीसुराणां वसुराजितः स्तुताः। न भासुरा यान्ति सुरान्न ते गुणाः प्रजातु रागात्मतु राशितां गताः ॥ इति, ' अकलङ्कशशाङ्काकामिन्दुमौलेर्मतिर्मम ' इत्यादि । २ इत्थमक्षरयमकमुदाहृत्य तदेव नैरन्तर्यणावृत्तमुदाहतुमुपश्लोकयति- ३ विविधेति । अत्र पारावारपरिसरभवमाभिलक्ष्य हलधर हरिराह । ४ पदयमकमालेति । 'स्वभुवे स्वभुवे भयोभयोर्भवतां भवताम्भसि ते भसिते' इत्यादि द्रष्टव्यम । ५ यथेति । 'कलिकामधुशब्दे कामशब्दविच्छेदे च तस्य चलनम्' इति पाठः । अत्र चस्त्वर्थे । पदद्वयात्मके कलिकामधुशब्दे, कामशब्दस्य तु विच्छेदे पृथकार तस्य कलिकामघुशब्दस्य चलनं भवति । कुत इत्यत आह-लिमवर्ण- योरिति । यहा, 'कलिकामधुशब्दे कामशब्दविच्छेदे मधुशब्दविच्छेदे च तस्य चलनम् ' इति पाठान्तरम् । अत्र चः समुच्चये। अत्र कामशब्दस्य विच्छेदे पृथक्कारे कलिकाविच्छेदस्य चलनं भवति, लिवर्णस्य विच्छेदात् । मधुशब्दस्य विच्छेदे पृथक्कारे कामविच्छेदस्य चलनं भवति, मवर्णस्य विच्छेदादित्यर्थः । एवं शृङ्खलारूपेण वर्ण- विच्छेदप्रतीतेरयं भङ्गमार्गः शृङलेति व्यपदिश्यते । - यथा- - - -४-१.७] वृत्ति-कामधेनुटिप्पणी-सहितानि । सङ्गविनिवृत्तौ स्वरूपापत्तिः परिवर्तकः ॥ ६ ॥ अन्यवर्णसंसर्गः सङ्गः । तद्विनिवृत्तौ स्वरूपस्यान्यरूपतिरस्कृतस्या- पत्तिः प्राप्तिः परिवर्तकः। 'कलिकामधु गर्हितम् ' इति । अत्राहितमिति पदं गकारस्य व्यञ्जनस्य सङ्गाद्गर्हितमित्यन्यस्य रूपमापन्नम् । तत्र व्यञ्जनसङ्गे विनिवृत्ते स्वरूपमापद्यते अर्हितमिति । अन्यवर्णसंक्रमेण भिन्नरूपस्य पदस्य तादू- प्यविधिरयमिति तात्पर्यार्थः । 'एतेनेतरावपि व्याख्यातौ । पिण्डाक्षरभेदे स्वरूपलोपचूर्णम् ॥ ७ ॥ पिण्डाक्षरभेदे सति पदस्य स्वरूपलोपश्चूर्णम् । यथा- योऽचलकुलमवति चलं दूरसमुन्मुक्तशुक्तिमीनां कान्तः । साग्नि बिभर्ति च सलिलं दूरसमुन्मुक्तशुक्तिमीनाङ्कान्तः ॥ अत्र शुक्तिपदे क्तीति पिण्डाक्षरम् । तस्य भेदे शुक्तिपदं लुप्यते । कका- रतिकारयोरन्यत्र संक्रमात् । दूरसमुन्मुक्तशुक् अचलकुलम्, तिमीनां कान्तः समुद्रः। श्लोकाश्चात्र- अखण्डवर्णविन्यासचलनं शृङ्खला मता। अनेन खलु भङ्गन यमकानां विचित्रता' ॥ यदन्यसङ्गमुत्सृज्य नेपथ्यमिव नर्तकः । शब्दस्वरूपमारोहेत्स ज्ञेयः परिवर्तकः' । पिण्डाक्षरस्य भेदेन पूर्वापरपदाश्रयात् । वर्णयोः पदलोपो यः स भङ्गश्चूर्णसंज्ञकः' । ." . १ एतनेति । नानाविच्छेदशालिपदमेलने स्वरूपलाभः, भिन्नयोहलोः पिण्डी- करणे च स्वरूपलाभ इति द्वौ भेदौ द्रष्टव्यौ । २ पिण्डाक्षरस्य संयुक्ताक्षरस्थ ) ५२ काव्यालंकारसूत्राणि [आलंकारिकमधिकरणम् 'अप्राप्तचूर्णभङ्गानि यथास्थानस्थितान्यपि । अलकानीव नात्यर्थ यमकानि चकासति ॥' विभक्तिपरिणामेन यत्र भङ्गः क्वचिद्भवेत् । न तदिच्छन्ति यमकं यमकोत्कर्षकोविदाः ॥' 'आरूढं भूयसा यत्तु पदं यमकभूमिकाम् । न युज्यते पुनस्तस्य युक्तानुप्रासकल्पना ।।' विभक्तीनां विभक्तत्वं संख्यायाः कारकस्य च । आवृत्तिः सुप्तिङन्तानां मिथश्च यमकाद्भुतम् ॥' शेषः सरूपोऽनुप्रासः ॥ ८॥ पदमेकार्थमनेकार्थ च स्थानानियतं तद्विधमक्षरं च शेषः । सरूपोऽन्येन प्रयुक्तेन तुल्यरूपोऽनुप्रासः । ननु च 'शेषोऽनुप्रासः' इत्येतावदेव सूत्रं कस्मान्न कृतम् ? आवृत्तिशेषोऽनुप्रास इत्येव हि व्याख्यास्यते। सत्यम् । सिध्यत्येवावृत्तिशेषे । किं त्वव्याप्तिप्रसङ्गः। विशेषार्थं च सरूपग्रहणम् । कात्स्न्येनैवावृत्तिः कात्स्न्यैकदेशाभ्यां तु सारूप्यमिति । अनुल्बणो वर्णानुप्रासः श्रेयान् ॥ ९ ॥ १ भङ्गादुत्कर्ष इत्युपक्रम्य भङ्गमार्गेषु प्रकर्ष प्रतिपाद्य अन्यत्रापकर्षमवगम- यितुमाह-अप्राप्तेति । २ विभक्तीनामिति । प्रथमादीनां विभक्तीनां विभक्तत्वं विविधत्वम्, एकव- चनादिलक्षणायाः संख्यायाः कर्तृकर्मादेः कारकस्य विभक्तत्वम्, सुबन्तानां तिङन्तानां च पदानामावृत्तियंत्र, तत् यमकाद्भुतम् अतिशयितं यमकमित्यर्थः । क्रमेणोदाहरणानि विश्वप्रमात्रा भवता जगन्ति व्याप्तानि मात्रापि न मुच्चति त्वाम्' एताः सन्नाभयो बाला यासां सन्नाभयः प्रियः' यतस्ततः प्राप्तगुणाः प्रभावे यतस्ततश्चेतसिभासतेऽयम् ' : सरति स रतिकान्तस्ते ललामो ललामः' इत्यादीनि | अत्र विभक्तिविपारणाममात्रे यमकत्वहानिः। प्रकृयर्थस्यापि भेदे यमकाद्भुतत्वमिति विवेकः । - ८ -४-१.१०] वृत्ति-कामधेनुटिप्पणी-साहितानि । ५३ वर्णानामनुप्रासः स खल्वनुल्बणोऽलीनः ('अपीनः) श्रेयान् । यथा- ' वचिन्ममृणमांसलं क्वचिदतीव तारास्पदं प्रसन्नसुभगं मुहुः स्वरतरङ्गलीलाङ्कितम् । इदं हि तव वल्लकीरणितनिर्गमैर्मुम्फितं मनो मदयतीव मे किमपि साधुसंगीतकम् ॥' उल्वणस्तु न श्रेयान् । यथा-वल्लीबद्धोर्ध्वजूटोद्भटमटति रटत्कोटिको- दण्डदण्डः' इति । पादानुप्रासः पादयमकवत् ॥ १० ॥ ये पादयमकस्य भेदास्ते पादानुपासस्येत्यर्थः । तेषामुदाहरणानि यथा- कविराजमविज्ञाय कुतः काव्यक्रियादरः । कविराजं च विज्ञाय कुतः काव्यक्रियादरः ।' 'आखण्डयन्ति मुहुरामलकीफलानि बालानि बालकपिलोचनपिङ्गलानि ।' 'वस्त्रायन्ते नदीनां सितकुसुमधराः शकसंकाशकाशा: काशाभा भान्ति तासां नवपुलिनगताः श्रीनदीहंस हंसाः । हंसाभाम्भोदमुक्तः स्फुरदमलरुचिर्मेदिनीचन्द्र चन्द्रः चन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां काल कालः ।।' १ अपीन इति । मसृण इत्ययः । उदाहरणं तु अपसारय धनसारं कुरु हारं दूर एव किं कमलैः । अलमलमालि मृणालैरिति वदति दिवानिशं बाला' ॥ इत्यादि प्रसिद्धमिति मत्वा उल्बणमुदाहरवि-यथा वल्लीबद्धति । २ कविराजमिति । एकत्र आदरः, अन्यत्र दरः । 'दरत्रासौ भीतिीः साध्वसं भयम्' इत्यमरः । उभयत्र आदर इति वा व्याख्येयम् । ३ आखण्डयन्तीति । अत्र 'लानि' इत्यक्षरानुप्रासः ! ४ अत्र समस्तपादान्तपदानुप्रासः । पादान्तपदानामुपरि पादादिषु पुनर्ग्रहणा- न्मुक्तपदग्रहाख्यमन्यदपि वैचित्र्यं द्रष्टव्यम् ।

काव्यालंकारसूत्राणि [आलंकारिकमधिकरणम् 'कुवलयदलश्यामा मेघा विहाय दिवं गताः कुवलयदलश्यामो निद्रां विमुञ्चति केशवः । कुवलयदलश्यामाश्यामालताद्य विजृम्भते कुवलयदलश्यामं चन्द्रो नभः प्रविगाहते ॥' एवमन्येऽपि भेदा दृष्टव्याः । इति काव्यालंकारसूत्रवृत्तावालंकारिके चतुर्थेऽधिकरणे शब्दालंकारविचारो नाम प्रथमोऽध्यायः । उपमाविचारो नाम द्वितीयोऽध्यायः । संप्रत्यर्थालंकाराणां प्रस्तावः । तन्मूलं चोपमेति सैव विचार्यते उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा ॥ १॥ उपमीयते सादृश्यमानीयते येनोत्कृष्टगुणेनान्यत्तदुपमानम् । यदुपमी- यते न्यूनगुणं तदुपमेयम् । उपमानेनोपमेयस्य गुणलेशतः साम्यं यदसा- वुपमेति । ननूपमानमित्युपमेयमिति च संबन्धिशब्दावेतौ तयोरेकतरोपा- दानेनैवान्यतरसिद्धिरिति । यथा-' उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इत्यत्रोपमितग्रहणमेव कृतं नोपमानग्रहणमिति, तद्वदत्रोभयग्रहणं न कर्तव्यम् । सत्यम् । तत्कृतं । लोकप्रसिद्धिपरिग्रहार्थम् । यदेवोपमेयमुप- मानं च लोकप्रसिद्धं तदेव परिंगृह्यते, नेतरत् । नहि यथा 'मुखं कमल- मिव' इति, तथा 'कुमुदमिव' इत्यपि भवति । गुणबाहुल्यतश्च कल्पिता ॥२॥ गुणानां बाहुल्यं गुणबाहुल्यं तत उपमानोपमेयस्य साम्यात्कल्पितोपमा । १ कुवलयदलेति । अत्र सर्वपादादिपदानुप्रासः । २ एवमन्येऽपीति । 'सितकरकारकचिरविभा विभाकराकार धरणिधर कीर्तीः । पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ॥ इत्यादयः प्रत्येतव्याः ।।

-- -४-२.४] वृत्ति-कामधेनुटिप्पणी-सहितानि । कविभिः कपितत्वात्कल्पिता । पूर्वा तु लौकिकी । ननु कल्पिताया लोकप्रसिद्धधभावात्कथमुपमानोपमेयनियमः । गुणबाहुल्यस्योत्कर्षापकर्ष- कल्पनाभ्याम् । तद्यथा-- उद्गर्भहूणतरुणीरमणोपमर्द- भुग्नोन्नतिस्तननिवेशनिभं हिमांशोः । बिम्ब कठोरबिसकाण्डकडारगौरै- विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति' || सद्योमुण्डितमत्तहूणचिबुकप्रस्पर्धि नारङ्गकम् । अभिनवकुशसूचिस्पर्धि कर्णे शिरीषम्' ' इदानीं प्लक्षाणां जरठदलविश्लेषचतुरः शिखानामाबन्धः स्फुरति शुकचञ्चपुटनिभः । ततः स्त्रीणां हन्त क्षममधरकान्ति तुलयितुं समन्तान्निति स्फुटसुभगरागं किसलयम् ॥ इति । तद्वैविध्यम् । पदवाक्यार्थवृत्तिभेदात् ॥ ३ ॥ तस्या उपमाया द्वैविध्यम् । पदवाक्यार्थवृत्तिभेदात् । एका पदार्थवृत्तिः, अन्या वाक्यार्थवृत्तिरिति । पदार्थवृत्तिर्यथा- 'हरिततनुषु बभ्रुत्वग्विमुक्तासु यासां कनककणसधा मान्मथो रोमभेदः' । वाक्यार्थवृत्तिर्यथा- ' पाण्डयोऽयमंसार्पितलम्बहारः क्लुप्ताङ्गरागो नवचन्दनेन । आभाति बालातपरक्तसानुः सनिझरोद्वार इवाद्रिराजः' । सा पूर्णा लुप्ता च ॥ ४॥ सा उपमा पूर्णा लुप्ता च भवति । - १ हरिततनुध्विति । कनककणसधर्मेत्यत्र पदार्थवृत्तिरुपमा ।

-- ५६ काव्यालंकारसूत्राणि । (आलंकारिकमाधिकरणम् गुणद्योतकोपमानोपमेयशब्दानां सामग्ये पूर्णा ॥ ५ ॥ 'गुणादिशब्दानां सामग्र्ये साकल्ये पूर्णा । यथा-- 'कमलमिव मुखं मनोज्ञमेतत् ' इति । लोपे लुप्ता ॥६॥ गुणादिशब्दानां वैकल्पे लोपे लुप्ता । गुणशब्दलोपे यथा-'शशीव राजा' इति । द्योतकशब्दलोपे यथा---'दूर्वाश्यामेयम्' । उभयलोपे यथा- 'शशिमुखी' इति । उपमानोपमेयलोपस्तूपमाप्रपञ्चे दृष्टव्यः । स्तुतिनिन्दातत्त्वाख्यानेषु ॥ ७ ॥ स्तुतौ निन्दायां तत्त्वाख्याने चास्याः प्रयोगः । स्तुतिनिन्दयोर्यथा- 'खिग्धं भवत्यमृतकल्पमहो कलत्रं हालाहलं विषमिवापगुणं तदेव ।' तत्त्वाख्याने यथा-- 'तो रोहिणी विजानीहि ज्योतिषामत्र मण्डले । यस्तन्वि तारकान्यासः शकटाकारमाश्रितः ॥' हीनत्वाधिकत्वलिङ्गवचनभेदसादृश्यासंभवास्तदोषाः ॥८॥ तस्या उपमाया दोषा भवन्तिहीनत्वमधिकत्वं लिङ्गभेदो वचनभेदोऽ- सादृश्यमसंभव इति। १ गुणादीति । उपमानोपमेयसमानधर्मसादृश्यप्रतिपादकानामन्यूनत्वेन प्रयोगे पूर्णा । २ कमलमिवेति । अत्र कमलमुपमानम्, मुखमुपमेयम्, इवशब्दः सादृश्या योतकः, मनोज्ञशदः समानधर्मवचनः, एतेषामन्यूनतया प्रयोगादियमुपमा पूर्णा । ३ गुणादिशब्दानामिति । उपमानोपमेयगुणसादृश्यप्रतिपादकानां मध्ये एकस्य योन्बयाणां वा लोपे लुप्ता । ४ स्तुतीति । स्निग्धमित्यादौ स्तुतिः । ५ हालाहालमित्यादौ निन्दा । ६ तां रोहिणीमित्या तत्वाख्यानम् !

- -४-२.१०] वृत्ति-कामधेनुटिप्पणी-सहितानि । तान्क्रमेण व्याख्यातुमाह- जातिप्रमाणधर्मन्यूनतोपमानस्य हीनत्वम् ॥ ९ ॥ जात्या प्रमाणन धर्मेण चोपमानस्य न्यूनता या तद्धीनत्वमिति । जातिन्यूनत्वरूपं हीनत्वं यथा--'चाण्डालैरिव युष्माभिः साहसं परम कृतम्। प्रमाणन्यूनत्वरूपं हीनत्वं यथा-वह्रिस्फुलिङ्ग इव भानुरयं चकास्ति' । उपमेयादुपमानस्य धर्मतो न्यूनत्व यत्तद्धर्मन्यूनत्वम् । तद्रूपं हीनत्वं यथा- 'स मुनिलाञ्छितो मोझ्या कृष्णाजिनपटं वहन् । व्यराजन्नीलजीमूतभागाश्लिष्ट इवांशुमान् ' ॥ अत्र मौञ्जीप्रतिवस्तु तडिन्नास्त्युपमान इति हीनत्वम् । न च कृष्णा- जिनपटमात्रस्योपमेयत्वं युक्तम् । मौझ्या व्यर्थत्वप्रसङ्गात् । ननु नीलजी- मूतग्रहणेनैव तडित्प्रतिपाद्यते । तन्न । व्यभिचारात् । अव्यभिचारे तु भवन्ती प्रतिपतिः केन वार्यते । तदाह-- धर्मयोरेकनिदेशेऽन्यस्य संवित् । साहचर्यात् ॥ १० ॥ धर्मयोरेकस्यापि धर्मस्य निर्देशेऽन्यधर्मस्य संवित् प्रतिपत्तिर्भवति । कुतः । साहचर्यात् । सहचरितत्वेन प्रसिद्धयोरवश्यमेकस्य निदेशेऽन्यस्य प्रतिपत्तिर्भवति । तद्यथा-- 'निष्टऽपि बहिने न विरमन्त्यन्त रश्मनो लतातन्तुततिच्छिदो मधुपृषत्पिङ्गाः पयोबिन्दवः। चूडाबबरके निपत्य कणिकाभावेन जाताः शिशो- रङ्गास्फालनभन्ननिद्रगृहिणीचित्तव्यथादायिनः ॥ अत्र मधुपृषतां वृत्तत्वपिङ्गत्वे सहचरिते । तत्र पिङ्गशब्देन पिङ्गत्वे प्रति- पन्ने वृत्तत्वप्रतिपत्तिर्भवति । एतेन 'कनकफलकचतुरस्त्रं श्रोणिबिम्बम् ' इति व्याख्यातम् । कनकफलकस्य गौरत्वचतुरस्रत्वयोः साहचर्याच्चतुरस्रत्वश्रु- काव्यालंकारसूत्राणि [आलंकारिकमधिकरणम् स्यैव गौरत्वप्रतिपत्तिरिति । 'ननु च यदि धमन्यूनत्वमुपमानस्य दोषः, कथ- मयं प्रयोगः सूर्याशुसंमीलितलोचनेषु दीनेषु पद्मानिलनिर्मदेषु । साव्यः स्वगेहेष्विव भर्तृहीनाः केका विनेशुः शिखिनां मुखेषु ॥ अत्र बहुत्वमुपमेयधर्माणामुपमानात् । न विशिष्टानामेव मुखानामुमेय- त्वात् । तादृशेष्वेष केकाविनाशस्य संभवात् । तेनाधिकत्वं व्याख्यातम् ॥ ११॥ तेन हीनत्वेनाधिकत्वं व्याख्यातम्, जातिप्रमाणधर्माधिक्यमधिकत्व. विति । जात्याधिक्यरूपनधिकत्वं यथा-- विशन्तु वृष्णयः शीघ्रं रुद्रा इव महौजसः'। प्रमाणाधिक्यरूपं यथा- 'पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ । वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः ' ॥ धर्माधिक्यरूपं यथा- १ धर्मन्यूनत्वस्योपमादोषत्वे प्रयोगविरोधमाशङ्कते-ननु चति । प्रयोग प्रदर्शयति-सूर्येति । मुखेष्वित्युपमेयस्य लोचनसंमीलनदैन्यनिर्मदत्वानां धर्माणां बाहूल्यं प्रतीयत इति विरोधः । परिहरति-नेति । भर्तृहीनजनाश्रयत्वेन गृहेष्वपि दैन्यमवगम्यते । तादृशेषु गृहेषु साध्वीनामिव दैन्यविशिष्टेषु शिखिमुखेषु विलयो वक्तव्यः, अन्यथा तदसंभवात् । दैन्यं च नेत्रनिमीळननिर्मदत्वाम्यो तदनुभावा. भ्यामुपपादितमिति नास्ति धर्मन्यूनतेत्याह--विशिष्टानामिति । 'धर्मागमे दुर्मदतिग्मरश्मिसंतापसंमीलितलोचनेषु । साध्व्यः स्वगेहेष्विव भर्तृहीनाः केका विलीनाः शिखिना मुखेषु ॥' इति विधान्तरं विधातुं न प्रबन्धकर्ता न प्रगल्भते; किंतु भर्तृहीनत्व निर्मदत्वादेश्वोपपादकस्य भेदेऽप्युभयन दैन्यमेव साधयमिति विवक्षितमिति । कश्चिद्विरोधः । * · विष्टयः' इत्वपि पाठान्तरम् । 'विष्टिः कारी कर्मकारे' इति वैजयन्ती - -४-२.१४] वृत्ति-कामधेनुटिप्पणी-सहितानि । ५९ 'सराश्मि चञ्चलं चक्रं दधद्देवो व्यराजत । सवाडवाग्निः सावर्तः स्रोतसामिव नायकः ॥ सवाडवाग्निरित्यस्योपमेयेऽभावाद्धर्माधिक्यामति । अनयोर्दोषयोविपे- ययाख्यस्य दोषस्यान्तर्भावान्न पृथगुपादानम् । अत एवास्माकं मते षड्दोषा इति । उपमानोपमेययोलिङ्गव्यत्यासो लिङ्गभेदः ॥ १२ ॥ उपमानस्योपमेयस्य च लिङ्गयोय॑त्यासो विपर्ययो लिङ्गभेदः । यथा- 'सैन्यानि नद्य इव जग्मुरनर्गलानि' । इष्टः पुनपुंसकयोः प्रायेण ॥ १३ ॥ पुनपुंसकयोरुपमानोपमेययोर्लिङ्गभेदः प्रायेण बाहुल्येनेष्टः । यथा- 'चन्द्रमिव मुखं पश्यति' इति । ' इन्दुरिव मुखं भाति ' एवंप्रीयं तु नेच्छन्ति । लौकिक्यां समासाभिहितायामुपमाप्रपञ्चे च ॥ १४ ॥ लौकिक्यामुपमायां समासाभिहितायामुपमायामुपमाप्रपञ्चे चेष्टो लिङ्गभेदः प्रायेणेति । लौकिक्यां यथा--'छायेव स तस्य' ' पुरुष इव स्त्री ' इति । १ सवाडवेति । अत्र सरश्मीति चऋविशेषणवदावर्तविशेषणानुपादानान्यून- त्वमपि द्रष्टव्यम् । जातिप्रमाणहीनत्वाधिकत्वे पदार्थोपमायां दोषः, धर्मन्यूनत्वाधिकत्वे तुवाक्यार्थोपमायाम् । पदार्थोपमायां न धर्मन्युनाधिकभावः संभवति, समानधर्मत्यैक- खेन वाक्यार्थोपमायामिवानेकविशेषवशिष्ठयासंभवादिति द्रष्टव्यम् | २ विपर्ययाख्यस्योति । उपमेयधर्मस्य हीनत्वमाधिकत्वं च विपर्ययः; तदात्म- कस्य दोषस्य हीनत्वाधिकत्वानतिरेकात् तत्रैवान्तर्भाव इति तन्निरुपणेनैव निरुपितमायत्वान्न प्रथगभिधानं कृतमित्यर्थः । ३ एवंप्रायमिति । एवंप्रायं तु नेच्छन्तीत्यात्मनस्तत्रौदासीन्यमवगमयति । यत्र हि लिङ्गभेदेऽपि विशेषणमुभयान्वयक्षमम्, तत्र न दोषः । यत्र तु विशेषणमेकत्रा- न्वितं सदितरत्र नान्वयक्षमम् , तत्र दोष इति तात्पर्यम् ।

काव्यालंकारसूत्राणि। [आलंकारिकमधिकरणम् सभासाभिहितायां यथा---' भुजलता नीलोत्पलसदृशी' इति । उपमा- प्रपञ्चे यथा-- "शुद्धान्तदुर्लभामिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥' शाकुंतल १.१५ एवमन्यदपि प्रयोगजातं दृष्टव्यम् । तेन वचनभेदो व्याख्यातः ॥ १५ ।। तेन लिङ्गभेदेन वचनभेदो व्याख्यातः। यथा---'पश्यामि लोचने तस्याः पुप्पं पुष्पलिहो यथा ।' अप्रतीतगुणसादृश्यमसादृश्यम् ॥ १६ ॥ अप्रतीतैरेव गुणैर्यत्सादृश्यं तदप्रतीतगुणसादृश्यमसादृश्यम् । यथा- । अथ्नामि काव्यशशिनं विततार्थरश्मिम् ' काव्यस्य शशिना सह यत्सा- दृश्यं तदप्रतीतैरेव गुणैरिति । ननु चार्थानां रश्मितुल्यत्वे सति काव्यस्य शशितुल्यत्वं भविष्यति । मैवम् । काव्यस्य शशितुल्यत्वे सिद्धेऽर्थानां रश्मि- तुल्यत्वं सिद्धयति । नार्थानां रश्मीनां च कश्चित्सादृश्यहेतुः प्रतीतो गुणोऽ- स्ति । तदेवमितरेतराश्रयदोषो दुरुत्तर इति । - - १ शुद्धान्तदुर्लभमित्यत्र प्रतिवस्तूपमा । २ एवमिति । 'नेदं नभोमण्डलमम्बुराशिः' इत्याद्यप?त्यादौ द्रष्टव्यम् । ३ पास्यामीति । पास्याम इति वक्तव्ये पास्यामीति प्रयुक्तत्वाद्वचनभेदः । ४ नन्वर्थानां रश्मिसादृश्यप्रतीत्या काव्यशशिनोरपि सादृश्यं संभवतीति शङ्कते- नन्विति । ५ परस्पराश्रयपराहतमिदं चोद्यमिति परिहरति-नैवमिति । अर्थानां रश्मि- सादृश्ये सिद्ध शशिसादृश्यं काव्यस्य सिध्यति; सिद्धे च काव्यस्य शशिसादृश्येऽर्थाना रश्मिसादृश्यमिति परस्पराश्रय इत्यर्थः । ननु काव्यशशिसादृश्यनिरपेक्षमेव अर्थराश्मिना- दृश्यं संभवति ; कुतः परस्पराश्रयप्रसङ्ग इत्यत आह-नाग्यर्थानामिति । दुरुत्तरः दुष्परिहरः ।

-५-२.२०] वृत्ति-कामधेनुटिप्पणी-सहितानि । असादृश्यहता युपमा । तनिष्ठाश्च कवयः ॥ १७ ॥ 'असादृश्येन हता असादृश्यहता उपमा, तन्निष्ठा उपमाननिष्ठाश्च कवय इति । उपमानाधिक्यात्तदपोह इत्येके ॥ १८ ॥ उपमानाधिक्यात्तस्यासादृश्यस्यापोह इत्येके मन्यन्ते । यथा--कपूरहार- हरहाससितं यशस्ते ।' कराँदिभिरुपमानैर्बहुभिर्यशसः सादृश्यं संस्थापितं भवति । तेषां शुक्लगुणातिरेकात् । नापुष्टार्थत्वात् ॥ १९॥ उपमानाधिक्यातदपोह इति यदुक्तं तन्न । अपुष्टार्थत्वात् । एकस्मिन्नु- पमाने प्रयुक्ते उपमानान्तरप्रयोगो न कंचिदर्थविशेषं पुष्णाति । तेन · बल- सिन्धुः सिन्धुरिव शुभितः' इति प्रयुक्तम् । ननु सिन्धुशब्दस्य द्विः प्रयो- गात्पौनरुक्त्यम्। न। अर्थविशेषात् । बलं सिन्धुरिव वैपुल्याङ्कलसिन्धुः सिन्धुरिव क्षुभित इति क्षोभसारूप्यम् । तस्मादर्थभेदान्न पौनरुक्त्यम् । अर्थपुष्टिस्तु नास्ति । सिन्धुरिव क्षुभित इत्यनेनैव वैपुल्यं प्रतिपत्स्यते । उक्तं हि--'धर्मयोरेकनिर्देशेऽन्यसंविन् । साहचर्यात् ।' अनुपपत्तिरसंभवः ॥ २० ॥ अनुपपत्तिरनुपपन्नत्वनुपमानस्यासंभवः । यथा- 'चकास्ति वदने तस्याः स्मितच्छाया विकासिनि । उन्निद्रस्यारविन्दस्य मध्ये मुग्धेव चन्द्रिका ॥ १ सादृश्यैकसारायामुपमायां परां काष्ठामातिष्ठमानैः कविभिरसादृश्यमवश्यमपोह- नीयमिति शिक्षयितुं सूत्रमुपक्षिपति-असादृश्येति । २ श्वेतिमातिशयविशिष्टतया वर्णनीये यशसि सितिमगुणाप्रतीतो वैसादृश्यशङ्कायां सितिमगुणातिशयविशिष्टबहुभिरुपमानैः सादृश्यदृढीकरणे उपमेये शौक्ल्यगुणातिरेका- वगमात् वैसादृश्यमपोह्यत इत्यभिसंधाय व्याचष्टे-अचति ।

काव्यालंकारसूत्राणि। [आलंकारिकमाधिकरणम् चन्द्रिकायामुन्निद्रत्वमरविन्दस्येत्यनुपपत्तिः । नन्वर्थविरोधोऽयमस्तु । किमुपमादोषकल्पनया । न । उपमायामतिशयस्येष्टत्वात् । कथं तर्हि दोषः । न विरुद्धोऽतिशयः ॥ २१॥ विरुद्धस्यातिशयस्य संग्रहो न कर्तव्य इत्यस्य सूत्रस्य तात्पर्यार्थः । तानेतान्षडुपमादोषान् ज्ञात्वा कविः परित्यजेत् । इति काव्यालंकारसूत्रवृत्तावालंकारिके चतुर्थेऽधिकरणे उपमाविचारो नाम द्वितीयोऽध्यायः । - उपमाप्रपञ्चाधिकारो नाम तृतीयोऽध्यायः । संप्रत्युपमाप्रपञ्चो विचार्यते-कः पुनरसावित्याह- प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः ॥ १॥ 'प्रतिवस्तु प्रभृतिर्यस्य स प्रतिवस्तुप्रभृतिः । उपमायाः प्रपञ्च उपमा- प्रपञ्च इति । वाक्यार्थोपमायाः प्रतिवस्तुनो भेदं दर्शयितुमाह- उपमेयस्योक्तौ समानवस्तुन्यासः प्रतिवस्तु ॥ २॥ समानं वस्तु वाक्यार्थः । तस्य न्यासः समानवस्तुन्यासः । उपमेयस्या- द्विाक्यार्थस्योक्तौ सत्यामिति । अत्रे द्वौ वाक्याौँ । एको वाक्यार्थः प्रति- वस्तूपमाया इति भेदः । तद्यथा- १ प्रतिवस्त्विति । प्रभृतिशब्द आद्यर्थः । प्रतिवस्तुप्रमुखाणाम् अलंकारा- णामुपमागर्भत्वादुपमाप्रपञ्च इति व्यपदेशः कृतः- प्रतिवस्तुप्रभृतय उद्दिश्यन्ते यथाक्रमम् । प्रतिवस्तु समासोक्तिरथाप्रस्तुतशंसनम् ।। अपगुती रूपकं च श्लेषो वक्रोक्त्यलंकृतिः । उत्प्रेक्षातिशयोक्तिश्च संदेहः सविरोधकः ॥ विभावनानन्वयः स्यादुपमेयोपमा ततः । परिवृत्तिः क्रमः पश्चाद्दीपकं च निदर्शना ॥ अर्थान्तरस्य न्यसनं व्यतिरेकस्ततः परम् । विशेषोक्तिरथ व्याजस्तुतिया॑जोक्त्यलंकृतिः ।। स्यात्तुल्ययोगिताक्षेपः सहोक्तिश्च समासतः । अथ संसृष्टिभेदौ द्वावुपमारूपकं तथा ॥ उत्प्रेक्षावयवश्चति विज्ञयोऽलंकृतिक्रमः ॥ २ उपमेयस्य वाक्येन प्रतिपादन उपमानस्यापि वाक्यान्तरेण प्रतिपादन प्रति- वास्त्विति लक्षणार्थः । अत एव वाक्यार्थोपमायाः प्रतिवस्तुनो मे इत्याह--अत्रेति । " -४-३.४] वृत्ति-कामधेनुटिप्पणी--सहितानि । -- ''देवीभावं गमिता परिवारपदं कथं भजत्येषा । न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ।। प्रतिवस्तुनः समासोक्तेर्भेदं दर्शयितुमाह-- अनुक्तो समासोक्तिः ॥ ३ ॥ उपमेयस्यानुक्तौ समानवस्तुन्यासः समासोक्तिः । संक्षेपवचनान्समासो- क्तिरित्याख्या । यथा-- लाध्या ध्वस्तावालानेः करीरस्य मरो स्थितिः । धिनेरो कल्पवृक्षाणामनुत्पन्नार्थिनां श्रियः ।।' ममासोक्तेरप्रस्तुतप्रशंसाया भेदं दर्शयितुमाह- किंचिदुक्तावप्रस्तुतप्रशंसा ॥ ४ ॥ उपमेयस्य किंचिल्लिङ्गमात्रेणोक्तो समानवस्तुन्यासेऽप्रस्तुतप्रशंसा । -- यथा- - 'लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्लवन्ते । उन्मजाति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ॥ अप्रस्तुतस्यार्थस्य प्रशंसनमप्रस्तुतप्रशंसा । अपन्हुतिरपि ततो भिन्नति दर्शयितुमाह- - १ देवीभावमिति । अत्र पूर्वोत्तरवाक्याभ्यां वस्तुप्रतिवस्तुनोः प्रतिपादनात् प्रतिवस्त्वलंकारः। २ अत्र करीरस्य मरुस्थिति-श्लाघनन कल्पवृक्षाणां मेरुस्थितिनिन्दनेन च तदुप- मेययोः परोपकारप्रवणतद्विमुखयोः श्लाघानिन्द समस्योक्ते इति समासोक्तिः । ३ लिङ्गमात्रेणोक्ती एकदेशेनोपादान । ४ लावण्यति । अत्र लावण्यपदार्थनकदशेनापमयानां नयनादीनामुक्तावुत्पला. दीनामप्रस्तुताना प्रशंसनादप्रस्तुतप्रशंसा नामालंकारः ।

काव्यालंकारसूत्राणि। [आलंकारिकमाधिकरणम् समेन वस्तुनान्यापलापोऽपङ्गुतिः ॥ ५॥ मन तुल्येन वस्तुना वाक्यार्थेनान्यस्य वाक्यार्थस्यापलापो निह्नवो यस्त- त्वाध्यारोपणायासावपन्हुतिः । यथा- "न केतकीनां विलसन्ति सूचयः प्रवासिनो हन्त हसत्ययं विधिः । तडिल्लतेयं न चकास्ति चञ्चला पुरः स्मरज्योतिरिदं विवर्तते ॥' वाक्यार्थयोस्तात्पर्यात्ताप्यमिति न रूपकम् । रूपकं तु कीदृशामित्याह- उपमानोपमेयस्य गुणसाम्यात्तत्त्वारोपो रूपकम् ॥ ६ ॥ उपमानोपमेयस्य गुणसाम्यात्तत्त्वस्याभेदस्यारोपणमारोपो रूपकम् । उप- मानोपमेययोरुभयोरपि ग्रहणं लौकिक्याः कल्पितायाश्चोपनायाः प्रकृतित्वमत्र यथा विज्ञायतेति । यथा--- इयं गेहे लक्ष्मीरियममृतवर्तिनयनयो- रसावस्याः स्पशों वपुषि बहलश्चन्दनरसः । अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ।। उत्तररामचरितम् १.३८. मुखचन्द्रादीनां तूपना । समासात् न चन्द्रादीनां रूपकत्वं युक्तमिति । रूपकाच्छ्रेषस्य भेदं दर्शयितुमाह-- १ केतकीसूचिविलासतडिल्लताविलासयोरुपमेययोरुपमानभूतविधिहासस्मरज्यो- तिर्विवतनाध्यारोपण तयोरपलापादपहातः । २ आरोपरूपत्वाविशेषात् कथमपहृते रुपकाद्भद इत्याशङ्कय भेदं दर्शयति- वाक्यार्थयोरिति । अपहृतौ वाक्यार्थयोरार्थिकं ताप्यम्, । रूपके तु पदार्थयोः शाब्दं ताद्रूप्यामिति भेदः । ३ इयं गेहं लक्ष्मीरिति । अत्र इयमिति सर्वनाम्ना सीतां निर्दिश्य तत्र लक्ष्मीत्वममृतवर्तित्वम्, अस्याः स्पर्श चन्दनरसत्यम्, बाहो मौक्तिकसरत्वं चाध्यारोप्यत इति रूपकम् ।

-४-३.७] वृत्ति-कामधेनुटिप्पणी-सहितानि । स धर्मेषु तन्त्रप्रयोगे श्लेषः ॥ ७ ॥ उपमानेनोपमेयस्य धर्मेषु गुणक्रियाशब्दरूपेषु स 'तत्त्वाध्यारोपस्तन्त्रप्रयोगे तन्त्रेणोच्चारणे सति श्लेषः । यथा-- आकृष्टामलमण्डलाग्ररुचयः संनद्धवक्षःस्थला: सोष्माणो ब्रणिता विपक्षहृदयप्रोन्माथिनः कर्कशाः । उद्वृत्ता गुरवश्व यस्य शमिनः श्यामायमानानना योधा मारवधूस्तनाश्च न दधुः क्षोभं स वोऽव्याजिनः' ।। यथा च गौणस्यार्थस्यालंकारत्वं तथा लाक्षणिकस्यापीति दर्शयितुमाह- . -- ( इत्थमुपमानोपमेययोासेन प्रयोगे रूपकमुदाहृत्य समासेन प्रयोगे तूपमैव न रूपकमित्याह--मुखति । मुखचन्द्रादीनां पुरुषव्याघ्रादिसादृश्यादुपमात्वमेव, न रूप- कत्वं संभवति, तत्त्वाच्यारोपासंभवादिति भावः । इदमत्रानुसंधयम्-येषां व्याघ्रादिषु पाठोऽस्ति तेषामुपमैव । ये विन्दुप्रभृतयस्तत्र न पश्यन्ते ते च व्याघ्रादेराकृतिगण- स्वात् तत्र द्रष्टव्याः । तथापि मतान्तरानुरोधेन मुखचन्द्रादिषु क्वचिदुपमा, क्वचि- द्रूपकमिति द्वैरूप्यं संभवति । तथाच यत्र ' ज्योत्स्नेव भात द्युतिराननेन्दोः' इत्या- दावुपमायां साधकं प्रामाणमस्ति, तत्र व्याघ्रादिसमासः । यत्र ' मोहमहाचलदलने भक्तिः कुलिशाप्रकोटिरेव नृणाम् ' इत्यादौ रूपके साधकं प्रमाणमस्ति, तत्र मयूर- व्यंकादिसमासः; 'अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः' इति वचनात् ।) १ अनेकोपकारकारि सकुदुच्चारणं तन्त्रम् । उपमानोपमेययोर्गुणसाम्ये तडर्मेषु गुणादिषु तन्त्रेण प्रयोगे सति यत्ताप्यारोपणम्, स श्लेष इति लक्षणार्थः । २ अत्र यथासंभवं गुणक्रिया द्रष्ठव्याः । यद्यपि समुच्चयोऽत्र स्फुरति, तथापि साधारणविशेषणमाहन्ना आरोपः प्रतिपाद्यत इति श्लेषः । ३ यथा चेति । यथा मुखचन्द्रादौ गुणयोगादागतस्य गौणार्थस्य रूपकाद्यलंकारसा, तथा लक्षणातः प्रतिपन्नस्य लाक्षणिकार्थस्य वक्रोक्त्यलंकारता भवतीति लक्षणार्थः ।

.. काव्यालंकारसूत्राणि। [आलंकारिकमाधिकरणम् सादृश्याल्लक्षणा वक्रोक्तिः॥८॥ 'बहूनि हि निवन्धनानि लक्षणायाम् । तत्र सादृश्याल्लक्षणा वक्रो- क्तिरसाविति । यथा-'उन्भिमील कमलं सरसीनां कैरवं च निमिमील मुहूर्तात्। अत्र नेत्रधर्मावुन्मीलननिमीलने सादृश्याद्विकाससंकोचौ लक्षयतः । इह च निरन्तरनवमुकुलपुलकिता हरति माधवी हृदयम् । यदयति च केसराणां परिणतमधुगन्धि निःश्वसितम् ' ॥ अत्र निःश्वसितमिति परिमलनिगमं लक्षयति । ' संस्थानेन स्फुरतु सुभगः स्वर्चिषा चुम्बितु द्याम् ॥ 'आलस्यमालिङ्गति गात्रमस्याः' । 'परिम्लानच्छायामनुवदति दृष्टिः कमलिनीम्' । प्रत्युषेषु स्फुटितकमलामोदमैत्रीकषायः '। 'ऊरुद्वन्द्व तरुणकदलीकाण्डसब्रह्मचारि ।' इत्येवमादिषु लक्षणार्थी निरूप्यत इति । लक्षणायां च झटियर्थप्रतिपत्तिक्ष- मत्वं रहस्यमाचक्षत इति । असादृश्यनिबन्धना तु लक्षणा न वक्रोक्तिः । यथा---' जरठकमलकन्दच्छदगौरैर्मयूखैः'। १ बहूनीति । ' अभिधेयेन संबन्धात्सादृश्यात्समवायतः । वैपरीत्याक्रियायोगाल्लक्षणा पञ्चधा मता ॥' इति लक्षणाया निमित्तानि द्रष्टव्यानि । द्विरेफशब्दस्याभिधेयो भ्रमरशब्द इति तेन स्वाभिधेयसंबन्धात् भृङ्गरूपार्थो लक्ष्यते । सिंहो माणवकः, गङ्गायां घोषः, बृहस्प- तिरयं मूलः, महति समरे शनस्त्वम्, इति यथाक्रममुदाहरणानि द्रष्टव्यानि । २ उन्मिमालेति । कमलं विचकास कैरवं संचुकोचेति ऋशुवृत्या वक्तव्ये तसादृश्यादुन्मिमील निमिमीलेति नेत्रक्रियाध्यवसायवक्रिम्णोक्तिरिति वक्रोक्तिः । ३ अत्र चेति । मुकुलपुलकितेत्यत्र पुलकितत्वं माधव्या मुकुलैरावृतत्वं लक्ष- यतीत्यपि द्रष्टव्यम् । चुम्बतु द्यामिति चुम्बनं घोसम्बन्धम्, गात्रमालिङ्गतीति आलि. गनम् आलस्यवैशिष्टयं गात्रस्य, अनुवदतीत्यत्रानुवादः कमलिनीसादृश्यम, मैत्री च आमोदसंक्रान्तिम्, सब्रह्मचारीति कदलीकाण्डसमानतां च लक्षयतीत्येवमादिषु प्रयो- गेषु लक्षणार्थों निरूप्यते । ४ यथा जरठेति । सामीप्यमत्र धर्मधर्मभावसंबन्धः ।

-४-३.१०] वृत्ति-कामधेनुटिप्पणी-सहितानि । ६७ अत्र च्छेदः सामीप्याइव्यं लक्षयति । तस्यैव गौरत्वोपपत्तेः । रूपकवक्रोक्तिभ्यामुत्प्रेक्षाया भेदं दर्शयितुमाह- 'अतद्रूपस्यान्यथाध्यवसानमतिशयार्थमुत्प्रेक्षा ॥ ९ ॥ अतद्रूपस्यातत्स्वभावस्य । अन्यथा अतत्स्वभावतया । अध्यवसानमध्य- वसायः । न पुनरध्यारोपो लक्षणा वा । अतिशयार्थमिति भ्रान्तिज्ञाननिव- त्यर्थम् । सादृश्यादियमुत्प्रेक्षेति । एनां वादिशब्दा द्योतयन्ति । यथा-- स वः पायादिन्दुर्नवविसलताकोटिकुटिल: .स्मरारेयों मूर्ध्नि ज्वलनकपिशे भाति निहितः । स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकघवलेनाङ्कुर इवै' । उत्प्रेक्षवातिशयोक्तिरिति केचित् । तन्निरासार्थमाह- संभाव्यधर्मतदुत्कर्षकल्पनातिशयोक्तिः॥ १० ॥ संभाव्यस्य धर्मस्य तदुत्कर्षस्य च कल्पनातिशयोक्तिः । यथा- १ स्वरूपान्यथाभावकल्पनास्वभावत्वाविशेषेण रूपकवकोक्तिभ्यामुत्प्रेक्षाया अ- भेदशायां लक्षणतो भेदं दर्शयितुमनन्तरसूत्रमवतारयति-- २ सादृश्यादियमुत्प्रेक्षेति । प्रयुक्तोऽपि क्वचिदिवशब्दः सादृश्यनिबन्धनत्व- सूचनद्वारेणोत्प्रेक्षामपि द्योतयतीत्यर्थः । तदुक्तं दण्डिना, ' मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ' इति । ३ स कः पायादिति । अत्र नवविसलताकोटि कुटिल इति विशेषणसामर्थ्या- दिन्दुपदेनेन्दुकलावगम्यते । इन्दुर्मन्दाकिनीसलिलनेकेन कपालादुद्भिन्नोऽङ्कुर इवेत्यु. स्प्रेक्ष्यत इत्युत्प्रेक्षालंकारः । ४ संभावनारूपत्वाविशेषादुत्प्रेक्षातिशयोक्त्योरभेदं केचिन्मन्यन्ते; तन्मतं निर- सितुं लक्षणभेदं दर्शयतीत्याह--उत्प्रेक्षैवति । ५ संभाव्यस्य उत्प्रेक्ष्यस्य । ६ उदाहरति-उमाविति । यदि तथाविधं व्योम संभाव्येत, तदेव आमुक्त . मुक्ताफलस्य वक्षस उपमानं भवेत् न पुनरन्यत् किंचिदित्यतिशयस्योक्तेरतिशयोक्तिः ।

काव्यालंकारसूत्राणि। [आलंकारिकमधिकरणम् (उभौ यदि व्योन्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमायेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ यथा वा-- 'मलयजरसविलुप्ततनवो नवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः। 'शशभृति विततधानि धवलयति धरामविभाव्यतां गताः प्रियवसात प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ॥ यथा भ्रान्तिज्ञानस्वरूपोन्प्रेक्षा तथा संशयज्ञानस्वरूपः संदेहोऽपीति दर्शयितुमाह- उपमानोपमेयसंशयः संदेहः ॥ ११ ॥ उपमानोपनेययोरतिशयार्थ यः क्रियते संशयः स संदेहः । यथा- 'इदं कणोत्पलं चक्षुरिदं चेति विलासिनि । न निश्चिनोति हृदयं किंतु दोलायते पुनः ।। संदेहवद्विरोधोऽपि प्राप्तावसर इत्याह- विरुद्धाभासत्वं विरोधः ॥ १२ ॥ अर्थस्य विरुद्धस्येवाभासत्वं विरुद्धाभासत्वं विरोधः । यथा- १ एवं संभाव्यधर्मकल्पनामुदाहृत्य तदुत्कर्षकल्पनामुदाहरति- मलयजेति । मलयजरसनवहारलतादीनां तावान् धावल्यस्योत्कर्षोऽतिशयः कल्प्यते, यावता चन्द्रि- कायां तद्विवेचनाक्षमत्वं चक्षुषोरिति । २ यथा लौकिकभ्रमसजातीयामुत्प्रेक्षामतिशयार्थकल्पनात्ववैधhण लौकिक- प्रान्तितः पृथक्कृय प्रदर्शितवान्, तथा संशयपपि लौकिकवजातीयं तथाविधेन वैध- र्येण ततः पृथकृत्य दर्शयितुमाह--यथेति । ३ कल्पनारूपत्वाविशेषादतिशयोक्तेरनन्तरं यथा संदेहालङ्कारः प्राप्तावसरः, तथा विरुद्धकोटियावलम्बिनः संदेहस्यानन्तरं विरोधालंकारः प्राप्तावसर इति तल्लक्षणं दर्शयतीत्याह-संदेहवदति।

- -४-३.१४]] वृत्ति-कामधेनुटिप्पणी-सहितानि । ६९ पीतं पानमिदं त्वयाद्य दयिते मत्तं ममेदं मनः पत्राली तव कुङ्कुमेन रचिता रक्ता वयं मानिनि । त्वं तुङ्गस्तनभारमन्थरगतिर्गात्रेषु मे वेपथु- स्त्वन्मध्ये तनुता ममाधृतिरहो मारस्य चित्रा 'गतिः ॥ यथा वा- 'सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । सा क्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥ विरोधाद्विभावनाया भेदं दर्शयितुमाह- क्रियाप्रतिषेधे प्रसिद्धतत्कलव्यक्तिर्विभावना ॥ १३ ॥ क्रियायाः प्रतिषेधे तस्या एव क्रियायाः फलस्य प्रसिद्धस्य व्यक्ति- विभावना । यथा । 'अप्यसजनसांगत्ये न वसत्येव वैकृतम् । अक्षालितविशुद्धेषु हृदयेषु मनीषिणाम् ॥ विरोधप्रसङ्गेनानन्वयं दर्शयितुमाह-- एकस्योपमेयत्वोपमानत्वेऽनन्वयः ॥ १४ ॥ एकस्यैवार्थस्योपमेयत्वमुपमानत्वं चानन्वयः । यथा- 'गगनं गगनाकारं सागरः सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव ॥ अनन्यसादृश्यमेतेन प्रतिपादितम् । १ पानादीनां च वैयधिकरण्याद्विरोधः। मदानीनामर्थान्तरत्वस्वीकारणेन विरोध- परिहारः । २ सा बालेत्यादावपि विरुद्धाभासत्वं दृष्टव्यम् । ३ अक्षालितविशुद्धष्वित्यत्र कारणरूपक्षालनक्रियाप्रतिषधेऽपि तत्फलभूताया विशुद्धेः प्रकाशनात् विभावना ।

७० - काव्यालंकारसूत्राणि। [आलंकारिकमधिकरणम् क्रमेणोपमेयोपमा ॥ १५॥ एकस्यैवार्थस्योपमेयत्वनुपमानत्वं च क्रमेणोपमेयोपमा । यथा-- 'खमिव जलं जलमिव खं हंस इव शशी शशीव हंसोऽयम् । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि' ।। इयमेव परिवृत्तिरित्येके । तन्निरासार्थमाह- समावसदृशाभ्यां परिवर्तनं परिवृत्तिः ॥१६॥ समेन विसदृशेन वार्थनार्थस्य परिवर्तनं परिवृत्तिः । 'यथा- 'आदाय कर्णकिसलयामियमस्मै चरणमरुणमर्पयति । उभयोः सदृशविनिमयादन्योन्यमवञ्चितं मन्ये' ॥ यथा वा-- 'विहाय सा हारमहार्यनिश्चया विलोलदृष्टिः प्रविलुप्तचन्दना । बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥' कु. सं. ५.८, उपमेयोपमायाः क्रमो भिन्न इति दर्शयितुमाह- उपमेयोपमानानां क्रमसंबन्धः क्रमः॥ १७ ॥ उपमेयानामुपमानानां चोदेशिनामनुद्देशिनां च क्रमेण संबन्धः क्रमः। यथा- तस्याः प्रवृद्धलीलाभिरालापास्मितदृष्टिभिः । जीयन्ते वल्लकीकुन्दकुसुमेन्दीवरस्रजः' ॥ संबन्धप्रसङ्गेनैव दीपकं दर्शयितुमाह- - - १ उदाहरति-यथेति । अत्र प्रसारिताख्यं करणं सूचितमिति केचिदाचक्षते 'नायकस्यांस एको द्वितीयः प्रसारित इति प्रसारितकम् ' इति वात्स्यायनसूत्रम् तद्विवृत्तं रतिरहस्ये, 'प्रियस्य वक्षोंऽसतलं शिरोऽथवा नयेत सव्यं चरणं नितम्बिनी । प्रसारयेद्दा परमायतं पुनर्विपर्ययः स्यादिति हि प्रसारितम् ' इति । अत्र चरणकिसलययोः सादृश्यात् समपरिवृत्तिः । विहायेत्यादौ हारवल्कलयं वैसादृश्याद्विसदृशपरिवृत्तिः ।

-४-३.२०]] वृत्ति-कामधेनुटिप्पणी--सहितानि । ७१ उपमानोपमेयवाक्येष्वेका क्रिया दीपकम् ॥ १८ ॥ 'उपमानवाक्येपूपमेयवाक्येषु चैका क्रिया अनुषङ्गतः संवध्यमाना दीपकम् । तत्त्रिविधम् । आदिमध्यान्तवाक्यवृत्तिभेदात् ।। १९ ॥ तत्रिविधं भवति । आदिमध्यान्तेषु वाक्येषु वृत्तभेदाः । यथा-- 'भूप्यन्ते प्रमदवनानि बालपुप्पैः कामिन्यो मधुनदमांसलेविलासैः । ब्रह्माणः श्रुतिगदितै क्रियाकलापैः राजानो विरलितवेरिभिः प्रतापैः ।। 'बाप्पः पथिककान्तानां जलं जलमुचां मुहुः । विगलत्यधुना दण्डयात्रोद्योगो महीभुजाम् ' । ' गुरुशुश्रूषया बुद्धिर्मधुगोष्ठया मनोभवः । उदयेन शशाङ्कस्य पयोराशिविवर्धते ॥ दीपकवन्निदर्शनमपि संक्षिप्तमित्याह--- क्रिययैव स्वतदर्थान्वयख्यापनं निदर्शनम् ॥ २० ॥ क्रिययैव शुद्धया स्वस्यात्मनस्तदर्थस्य चान्वयस्य संबन्धस्य ख्यापनं सर्वलित (लुलित) हेतुदृष्टान्तविभागं निदर्शनम् । यथा-- अत्युच्चपदाध्यासः पतनायेत्यर्थशालिनां शंसत् । आपाण्डु पतति पत्रं तरोरिदं बन्धनान्थेः' । पतीति क्रिया । तस्याः खं पतनम् । तदर्थोऽत्युच्चपदाध्यासः पत- नायेति शंसनम् । तस्य ख्यापनमर्थशालिनां शंसदिति । इदं च नार्थान्तरन्यासः । स धन्यथाभूतः । तमाह--- १ उपमानति । एकस्यैव प्रधानसंबन्धितया सकृदुपात्तस्य पदस्य वाक्यान्त. रेषु प्रसङ्गात संबन्धोऽनुषङ्गः । २ भूष्यन्त इत्यत्र आदिदीपकम् । ३ बाष्प इत्यत्र मध्यदीपकम् । ४ गुरुशुश्रूषयेत्यत्र अन्तदीपकम् । ५ संलुलितेति । संलुलितः अविवेचितः हेतुदृष्टान्तयोविभागस्तस्य दर्शना- विवेचनात्, निगूढहेतुदृष्टान्तदर्शनरूपत्वानिदर्शनमित्यर्थः ।

७२ काव्यालंकारसूत्राणि [आलंकारिकमाधिकरणम् उक्तसिद्धथै वस्तुनोऽर्थान्तरस्यैव न्यसनमर्थान्तरन्यासः ॥२१॥ उक्तसिद्धये उक्तस्यार्थस्य सिद्धयर्थ वस्तुनो वाक्यार्थान्तरस्यैव न्यसन. मर्थान्तरन्यासः । वस्तुग्रहणादर्थस्य हेतोयसनं नार्थान्तरन्यासः । इह नातिदूरगोचरमस्ति सरः । कमलसौगन्ध्यात्' इति । अर्थान्तरस्यैवति वच- नम् , यत्र हेतुाप्तिगूढत्वात्कथंचित्प्रतीयते तत्र यथा स्यात् । 'यद्यत्कृतकं तत्तदनित्यम्' इत्येवंप्रायेषु मा भूदिति । उदाहरणम्---- "प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने । स्रजं न काचिद्विजहों जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि '। अर्थान्तरन्यासस्य हेतुरूपत्वात् हेतोश्वान्वयव्यतिरेकात्मकत्वात् न पृथव्यतिरेक इति केचित् । तन्निरासार्थमाह-- उपमेयस्य गुणातिरेकत्वं व्यतिरेकः ॥२२॥ उपमेयस्य गुणातिरेकत्वं गुणाधिक्यं यत् अर्थादुपमानात् सव्यतिरेकः। -- यथा- . । सत्यं हरिणशावाक्ष्याः प्रसन्नसुभगं मुखम् । समानं शशिनः किं तु स कलङ्कविडम्बितः ॥ कश्चित्तु गम्यमानगुणो व्यतिरेकः । यथा कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं हसितममृतं भन्न स्वादोः पदं रससंपदः । विषमुपहितं चिन्ताव्याजान्मनस्यपि कामिनां चतुरमधुरैलीलातन्त्रैस्तवार्धविलोकितैः' ।। व्यतिरेकाद्विशेषोक्तेभैदै दर्शयितुमाह-- १ प्रियेणेति । अत्र विशेषरूपमुपमेयं सामान्यनोपमानेन समय॑ते । २ सत्यमिति । अत्र कलकविडम्बितपदवाच्येनोपमानस्यापकर्षहेतुनाकलाई त्वगुणेनोपमेयस्यार्थादकललिवलक्षणं गुणातिरेकित्वमिति व्यतिरेकः ।

-४-३.२४] वृत्ति-कामधेनुटिप्पणी-सहितानि । ७३ एकगुणहानिकल्पनायां साम्यदाय विशेषोक्तिः ॥ २३ ॥ एकस्य गुणस्य हानेः कल्पनायां शेषैर्गुणैः साम्यं यत्तस्य दाय विशे- षोक्तिः । रूपकं चेदं प्रायेणेति । यथा- ' भवन्ति यत्रौषधयो रजन्यामतेलपूराः सुरतपदीपाः' । द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम् । 'निद्रयमकमला लक्ष्मीः ।' ' हस्ती हि जङ्गमं दुर्गम् । ' इति । अत्रापि जङ्गमशब्दस्य स्थावरत्वनिवृत्तिप्रतिपादन वादेकगुणहानिक- पनैव । एतेन- 'वेश्या हि नाम मूर्तिमत्येव निकृतिः । 'व्यसनं हि नाम सोच्छ्वासं मरणम् । द्विजो भूमिबृहस्पतिः । इत्येवमादिष्वेकगुणहानिकल्पना व्याख्याता । व्यतिरेकविशेषोक्तिभ्यां व्याजस्तुति भिन्नां दर्शयितुमाह- संभाव्यविशिष्टकर्माकर गानिन्दास्तोत्रार्था व्याजस्तुतिः ॥२४॥ अत्यन्तगुणाधिको विशिष्टस्तस्य च कर्म विशिष्टकर्म तस्य संभाव्यस्य कर्तुं शक्यस्याकरणान्निन्दा विशिष्टसाम्यसंपादनेन स्तोत्रार्था व्याजस्तुतिः । यथा-- बबन्ध सिन्धुं गिरिचक्रवालैर्बिभेद सप्तैकशरण तालान् । एवंविधं कर्म ततान रामस्त्वया कृतं तन्न मुधैव गर्वः' । व्याजस्तुतेाजोक्तिं भिन्नां दर्शायतुमाह- व्याजस्य सत्यसारूप्यं व्याजोक्तिः ॥२५॥ १ अतैलपूरा इति, असिंहासनमिति, अकमलेल्यत्रैकगुणहानिकल्पना सिध्यति। २ विशिष्टो रामादिरुपमानभूतस्तस्य कर्म सेतुबन्धनादि । शक्यस्य कर्मणोऽकरणावर्णनीयस्य निन्दा रामादिसाम्यापादनात् स्तुतिपर्यवसायिनी व्याजस्तुतिः । बबन्धेति । त्वं राम एवासौति तात्पर्यम् । निन्दाव्याजेन स्तुतिरूप- त्वात् व्यतिरेकविशेषोक्तियां भेदः । - -- - तस्य कर्तु १ काव्यालंकारसूत्राणि । [आलंकारिकमधिकरणम् व्याजस्य च्छमनः सत्येन सारूप्यं व्याजोक्तिः । यां मायोक्तिरित्याहुः। यथा- "शरच्चन्द्रांशुगौरेण वाताविद्धन भामिनि । काशपुप्पलवेनेदं साश्रुपातं मुखं कृतम् ॥ व्याजस्तुतेः पृथक्तुल्ययोगितेत्याह-- विशिष्टेन साम्यार्थमेककालक्रियायोगस्तुल्ययोगिता ॥ २६॥ विशिष्टेन न्यूनस्य साभ्यार्थमेककालायां क्रियायां योगस्तुल्ययोगिता । यथा- m- 'जलनिधिरशनामिमां धरित्रीं वहति भुजंगविभुर्भवद्भुजश्च' । उपमानाक्षेपश्चाक्षेपः ॥ २७॥ उपमान्यस्याक्षेपः प्रतिषेध उपमानाक्षेपः । तुल्यकार्यार्थस्य नैरर्थक्य- विवक्षायाम् । यथा-- 'तस्याश्चेन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ च यदि चेतिक नाम नीलोत्पलैः । किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे हा धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥ उपमान्यस्याक्षेपतः प्रतिपत्तिरित्याप सूत्रार्थः । यथा- 'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानानखक्षताभम् । प्रसादयन्ती सकलङ्कमिन्दं तापं खेरभ्यधिकं चकार' । अत्र शरद्वेश्येव, इन्दु नायकमिव, खेः प्रतिनायकस्येवेत्युपमानानि गम्यन्त इति । तुल्ययोगितायाः सहोक्ते दमाह- वस्तुद्वयक्रिययोस्तुल्यकालयोरेकपदाभिधानं सहोक्तिः ॥२८॥ १ अत्र सत्येन सात्त्विकभावेन कृतोऽश्रुपातः पुष्पळवन कृत इत्यसत्यस्य सत्यतो- क्तिमत एब व्याजस्तुतितो भेदः । N - - - -४-३.३१] वृत्ति-कामधेनुटिप्पणी-सहितानि । ७५ वस्तुद्वयस्य क्रिययोस्तुल्यकालयोरेकेन पदेनाभिधानं सहार्थशब्दसामर्थ्या- सहोक्तिः । यथा- 'अस्तं भास्वान्प्रयातः सह रिपुभिरयं संहियन्तां बलानि'। अत्रार्थयोन्यूनत्वविशिष्टत्वे न स्त इति नेयं तुल्ययोगितेति । समाहितमेकमवशिष्यते तल्लक्षणार्थमाह- यत्सादृश्यं तत्संपत्तिः समाहितम् ॥२९॥ 'यस्य वस्तुनः सादृश्यं गृह्यते तस्य वस्तुनः संपत्तिः समाहितम् । यथा- 'तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा । चिन्तामोहमिवास्थिता मधुलिहां शब्दैविना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा'। विक्र. ४. ३८ अत्र पुरूरवसो लतायामुर्वश्याः सादृश्यं गृह्णतः सैव लतोर्वशी संपन्नेति । एते चालंकाराः शुद्धा मिश्राश्च प्रयोक्तव्या इति विशिष्टानामलंकाराणां मिश्रत्वं संसृष्टिरित्याह-- अलंकारस्यालंकारयोगित्वं संसृष्टिः ॥ ३० ॥ अलंकारस्यालंकारयोगित्वं यदसौ संसृष्टिरिति । संसृष्टिः संसर्गः संबन्ध इति। तद्भेदावुपमारूपकोत्प्रेक्षावयवौ ॥ ३१ ॥ तस्याः संसृष्टÈदावुपमारूपकं चोत्प्रेक्षावयवश्चेति । उपमाजन्यं रूपक- मुपमारूपकमिति । यथा- १ तस्य संपत्तिस्तदाकारतापरिणतिः, ताप्यसंपत्तिरिति यावत् । अत्रोदाहरणं विक्रमोर्वशीये दर्शयितुमाह-तन्वीति । लतायामुवंशीसादृश्यं पश्यतः पुरूवरस इयमुक्तिः । अत्रेति । लतामवलोक्य तत्राश्रुधौताधरस्वाभरणशून्यत्वचिन्तामौनाश्रित- स्वाध्यवसायेन सा तादृश्युर्वशीवेत्युत्प्रेक्षमाणस्य पुरूरवसः सैव लतोवंशी संपन्नेति सताया उर्वशीत्वसंपत्तेः संभवात् समाहितम् । समनन्तरक्षणभावित्वेऽपि तत्संपत्तस्तस्य तादात्विकत्वाभिमानं सूचयितुं भूतप्रत्ययः ।।

काव्यालंकारसूत्राणि । [आलंकारिकमधिकरणम् "निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपञ्चम् । प्रथम इव भवान्स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ॥ एवं 'रजनिपुरंघ्रिरोध्रतिलकः शशी' इत्येवमादयस्त।दा द्रष्टव्याः। उत्प्रेक्षाहेतुरुत्प्रेक्षावयवः ॥ ३२॥ उत्प्रेक्षाया हेतुरलंकार उत्प्रेक्षावयवः । अवयवशब्दो ह्यारम्भकं लक्षयति। यथा-- अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः । कुड्नलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी' ॥ एभिर्निदर्शनैः स्वीयैः परकीयैश्च पुष्कलैः । शब्दवैचित्र्यगर्भयमुपमैव प्रपञ्चिता ॥ अलंकारैकदेशा ये मताः सौभाग्यभागिनः । तेऽप्यलंकारदेशीया योजनीयाः कवीश्वरैः ।। इतिकाव्यालंकारसूत्रवृत्तावालंकारिके चतुर्थेऽधिकरणे उपमाप्रपञ्चाधिकारो नाम तृतीयोध्यायः । समाप्तं चेदमालंकारिक चतुर्थमाधिकरणम् । १ यथेति । नन्वत्र कूर्मर्तेः कंदत्वारोपाल्लोकानां वल्लित्वारोपणं वक्तुं युरुम्। तथा च रूपकजन्यामिह रूपकमिति वक्तव्यम् । यन्मतान्तरे परंपरितरूपकमित्युच्यते । तत्कयमिदमुपमाजन्यं रूपकमिति चेत्, सत्यम् लोको वल्लिरिव लोकवल्लिः 1 व्याघा- देराकृतिगणत्वादुपमितसमासः । लोकवल्ल्याः कंद इति धर्ममूतौ कंदत्वारोपणमिह अन्यकृतो विवक्षितमिति न दोषः । इत्थमेव रजनिपुरंध्रीत्यादावपि । २ अङ्गुलोभिरिति । अत्रोपमारूपकानुप्राणितस्य श्लेषस्य उत्प्रेक्षोपपादक- स्वादुस्प्रेक्षावयवत्वम् ।

-५-१.३] वृत्ति-कामधेनुटिप्पणी-सहितानि । ७७ प्रायोगिकं नाम पञ्चममधिकरणम् । काव्यसमयो नाम प्रथमोऽध्यायः । संप्रति काव्यसमयं शब्दशुद्धिं च दर्शयितुं प्रायोगिकाख्यमधिकरण- मारभ्यते । तत्र काव्यसमयस्तावदुच्यते- नैकं पदं द्विः प्रयोज्यं प्रायेण ॥ १॥ एकं पदं न द्विः प्रयोज्यं प्रायेण बाहुल्येन । यथा--' पयोद पयोद' इति । किंचिदिवादिपदं द्विरपि प्रयोक्तव्यामिति । यथा--' सन्तः सन्तः खलाः खला:'। नित्यं संहितैकपदवत्पादेवर्धान्तवर्जम् ॥ २ ॥ नित्यं संहिता पादेप्वेकपदवदेकस्मिान्नव पदे । तत्र हि नित्या संहितेत्या- म्नाय : । यथा---'संहितैकपदे नित्या नित्या धातूपसर्गयोः' इति । अर्धा- न्तवर्जमर्धान्तं वर्जयित्वा । न पादान्तलघोर्गुरुत्वं च सर्वत्र ॥ ३॥ पादान्तलघोर्गुरुत्वं प्रयोक्तव्यं न सर्वत्र न सर्वस्मिन्वृत्त इति । यथा-- ' यासां बलिर्भवति मद्गृहदेहलीनां हंसैश्च सारसगणैश्च विलुप्तपूर्वः । तास्वेव पूर्वबलिरूढयवाङ्कुरासु बीजाञ्जलिः पतति कीठमुखावलीढः 'एवंप्रायेष्वेव वृत्तष्विति । न पुनः 'वरूथिनीनां रजसि प्रसर्पति समस्तमासीद्विनिमीलितं जगत् ।' इत्यादिषु । चकारोऽर्धान्तवर्जमित्यस्यानुकर्षणार्थ :। मृच्छ. १. ९. १ एवंप्रायेष्विति । ' श्रीतिप्पभूपालक मध्यलोकदेवन्द्र वज्राङ्गदचन्द्रिकाभिः । त्वदाहुराभाति हसन्निवायं प्रोदौ प्रदाने मणिपरिजातौ ।' इत्यादिषु इन्द्रवत्रादिषु उपजातिभेदेष्वपि द्रष्टव्यम् ।

७८ काव्यालंकारसूत्राणि । [प्रायागकमाधकरणम् न गधे समाप्तप्रायं वृत्तमन्यत्रोद्गतादिभ्यः संवादात् ॥ ४ ॥ गधे समाप्तप्रायं वृत्तं न विधेयम् । शोभानंशात् । अन्यत्रोद्गतादिभ्यो विषमवृत्तेभ्यः । संवादात् गद्येनेति । न पादादौ खल्वादयः ॥ ५ ॥ 'पादादौ खल्वादयः शब्दा न प्रयोज्याः । आदिशब्दः प्रकारार्थः । येषामादौ प्रयोगो न लिप्यति ते गृह्यन्ते । न पुनर्बतहन्तप्रभृतयः । नार्धे किंचिदसमाप्तप्रायं वाक्यम् ॥६॥ वृत्तस्यार्धे किंचिदसमाप्तप्रायं न प्रयोक्तव्यम् । यथा- जयन्ति ताण्डवे शंभोर्भङ्गुराङ्गलिकोटयः। कराः कृष्णस्य च भुजाश्चक्रांशुकपिशत्विषः ॥' न कर्मधारयो बहुव्रीहिप्रतिपत्तिकरः ॥७॥ बहुव्रीहिप्रतिपत्ति करोति यः कर्मधारयः स न प्रयोक्तव्यः । यथा- 'अध्यासितश्चासौ तरूश्चाध्यासिततरुः' इति । तेन विपर्ययो व्याख्यातः ॥ ८ ॥ बहुव्रीहिरपि कर्मधारयप्रतिपत्तिकरो न प्रयोक्तव्यः । यथा---'वीराः पुरुषा यस्य स वीरपुरुष : । 'कलो रवो यस्य स कलरवः ।' इति संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ ॥ ९ ॥ संभाव्यस्य निषेधस्य निवर्तने द्वौ प्रतिषेधौ प्रयोक्तव्यौ । यथा- समरमूर्धनि येन तरस्विना न न जितो विजयी त्रिदशेश्वरः स खलु तापसबाणपरम्पराकवलितक्षतजः क्षितिमाश्रितः ॥ विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ ॥ १० ॥ विशेष्यस्य प्रतिपत्तौ जातायां विशेषणामात्रस्यैव प्रयोगः । यथा- - १ यथा-'खलूक्त्वा खलु वाचिकम् ' ' इव सीतागृहन्छयच्छन्नो ला- पतिः पुरा ।' 'किल सृनति कामिनीनां किलकिञ्चितमेव कामिजनमोहम् ।' इत्यादि।

-५-१.१३] वृत्ति-कामधेनुटिप्पणी-सहितानि । "निधानगर्भामिव सागराम्बराम्' रघु ३.९। अत्र हिपृथिव्या विशेषणमात्रमेव प्रत्युक्तम् । एतेन माघ १.१२ क्रुद्धस्य तस्याथ पुरामरातेललाटपट्टादुदगादुदर्चिः ' । ' गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीटादुदतिष्ठदच्युतः । इत्यादयः प्रयोगा व्याख्याताः । सर्वनाम्नानुसंधिर्वृत्तिच्छन्नस्य ॥ ११ ॥ सर्वनाम्नानुसंधिरनुसंधानं प्रत्यवमर्शः । वृत्तिछन्नस्य वृत्तौ समासे छन्नस्य गुणीभूतस्य । यथा- 'तवापि नीलोत्पलपत्रचक्षुषो मुखस्य तद्रेणुसमानगन्धिनः ' इति । संबन्धसंबन्धेऽपि षष्ठी क्वचित् ॥ १२ ॥ संबन्धेन संबन्धः संबन्धसंबन्धस्तस्मिन् षष्ठी प्रयोज्या कचित्, न सर्व- त्रेति । यथा-'कमलस्य कन्दः' इति । कमलेन संबद्धा कमलिनी नलिनी तस्याः कन्द इति संबन्धासंबन्धः । तेन कदलीकाण्डादयो व्या- ख्याताः। अतिप्रयुक्तं देशभाषापदम् ॥ १३॥ अतीव कविभिः प्रयुक्तं देशभाषापदं प्रयोज्यम् । यथा- योषिादेत्यभिललाष न हालां' इत्यत्र हालेति देशभाषापदम् । अन- तिप्रयुक्तं तु न प्रयोज्यम् । यथा-- 'कथेलीकाननालीरविरलविलसत्पल्लवा नर्तयन्तः ' इत्यत्र कथेलीपदम् । लिङ्गाध्याहारौ ॥ १४ ॥ १ निधानेति । अत्र सागराम्बरत्वं भुव एव, ऊर्वाचिोगश्चाग्नेरेव; तडि- संबन्धश्चमेघस्यैवेत्येषामनन्यसाधारणत्वम् । यत्र तु विशेषणमहिम्ना प्रतिपन्नं विशेष्यं साधारणविशेषणविशिष्टमभिषिरिसतम्, तत्र विशेष्यस्यापि गतार्यस्य प्रयोगे न दोष इत्यपि दृष्टव्यम् २ तद्रेण्विति । अत्र तच्छब्दः समासे उपसजनाभूतं नीलोत्पलं परामृशति । ३ कङ्केलिरशोकः ।

८० काव्यालंकारसूत्राणि । [प्रायोगिकमधिकरणम् लिङ्गं चाध्याहारश्च लिङ्गाध्याहारावतिप्रयुक्तौ प्रयोज्याविति । यथा- 'वत्से मा बहु निःश्वसीः कुरु सुरागण्डूषमेकं शनैः' इत्यादिषु गण्ड्षशब्द: पुसि भूयसा प्रयुक्तः, न स्त्रियामोन्नातोऽपि स्त्रीत्वे । अध्याहारो यथा-- 'मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा । वाहिनीजलभरः कुलिशं वा स्वास्त तेऽस्तु लतया सह वृक्ष ॥' अत्र हि घाक्षीदित्यादीनामध्याहारोऽन्वयप्रयुक्तः । लक्षणाशब्दाश्च ॥ १५ ॥ लक्षणाशब्दाश्चातिप्रयुक्ताः प्रयोज्याः । यथा द्विरेकरथचरणशब्दो भ्रमरचक्रवाकाौँ लक्षणापरौ । अनतिप्रयुक्ताश्च न प्रयोक्तव्याः । यथा-द्विकः काक इति । न तद्बाहुल्यमेकत्र॥१६॥ तेषां लक्षणाशब्दानां बाहुल्यमेकस्मिन्वाक्ये न प्रयोक्तव्यम् । शक्यते ोकस्यावाचकस्य वाचकवद्भावः कर्तुम् , न बहूनामिति । स्तनादीनां द्वित्वाविष्टा जातिः प्रायेण ॥ १७ ॥ स्तनादीनां द्वित्वाविष्टा द्वित्वाध्यासिता जातिः प्रायेण बाहुल्येनेति । यथा- स्तनयोः स्तरुणीजनस्य-' इति । प्रायेणेति वचनावचिन्न भवति । यथा---' स्त्रीणां चक्षुः' इति । अथ कथं द्वित्वाविष्टत्वं जातेः । तद्धि द्रव्ये, न जातौ । अतद्रूपत्वाज्जातेः । न दोषः । तदतद्रूपत्वाज्जातेः। कथं तदतद्रूपत्वं जातेः । तद्धि जैमिनीया जानन्ति । वयं तु लक्ष्यसिद्धौ १ न लियामिति । ' शुण्डाग्रभागे गणषा द्वयोस्तु मुखपूरणे ' इति स्त्री प्यानातः स्त्रियां न प्रयुज्यते । २ धाक्षीदित्यत्र आदेपेदन भासीत्, छत्सात्, मैत्सीत् इत्येषामध्याहारो दुष्यति, अतिप्रयुक्तत्वेन बुम्बाबढत्वादिति मावः ।

-५-२.४] वृत्ति-कामधेनुटिप्पणी-सहितानि । ८१ सिद्धपरमतानुवादिनः । न चैवमतिप्रसङ्गः लक्ष्यानुसारित्वान्यायस्यति । एवमन्यापि व्यवस्थाह्या। इति काव्यालंकारसूत्रवृत्रा प्रायोगिक पञ्चमऽधिकरण कायसमया नाम प्रथमोऽध्यायः । शब्दशुद्धिनाम द्वितीयोऽध्याय । सांप्रतं शब्दशुद्धिरुच्यते- रुद्रावित्येकशेषोऽन्वष्यः ॥ १ ॥ रुद्रावित्यत्र प्रयोगे एकशेषोऽन्वेष्योऽन्वेषणीयः । रुद्रश्च रुद्राणी चेति 'पुमान्स्त्रिया' इत्येकशेषः । स च न प्राप्नोति । तत्र हि तलक्षणश्वेदेव विशेष: ' इत्यनुवर्तत इति तत्रैवकारकरणात् स्त्रीपुंसकृत एव विशेषो भव- तीति व्यवस्थितम् । अत्र तु 'पुंयोगादाख्यायाम्' इति विशेषान्तरमप्यस्तीति। एतेनेन्द्रौ भवौ शावित्यादयः प्रयोगाः प्रत्युक्ताः । मिलिक्लविक्षपिप्रभृतीनां धातुत्वम् । धातुगणस्यासमाप्तेः ॥ २ ॥ मिलतिविक्लबतिक्षपयतीत्यादयः प्रयोगाः । तत्र मिलिक्लविक्षपिप्रभू- तीनां कथं धातुत्वम् । गणपाठात् गणपठितानामेव धातुसंज्ञाविधानात् । तत्राह--धातुगणस्यासमाप्तेः । वर्धते धातुगण इति हि शब्दविद आच- क्षते । तेनैषां गणपाठोऽनुमतः शिष्टप्रयोगादिति । वलेरात्मनेपदमनित्यं ज्ञापकात् ॥ ३ ॥ चलेरनुदात्तेत्त्वादात्मनेपदं यत्तदनित्यं दृश्यते 'लज्जालोलं वलन्ती इत्यादि प्रयोगेषु । तत्कथमित्याह---ज्ञापकात् । किं पुनस्तज्ज्ञापकमत आह- चक्षिको धनुबन्धकरणम् ॥ ४ ॥ चक्षिङ इकारणैवानुदात्तेन सिद्धमात्मनेपदं । किमर्थं डित्करणम् । यत्कि- यते अनुदात्तनिमित्तस्यात्मनेपदस्यानित्यत्वज्ञापनार्थम् । एतेन वेदिभति- ८२ काव्यालंकारसूत्राणि । [प्रायोगिकमधिकरणम् तर्जिप्रभृतयो व्याख्याताः । आवेदयति-भर्त्सयति-तर्जयतीत्यादीनां प्रयोगाणां दर्शनात् । अन्यत्राप्यनुदात्तनिबन्धनस्यात्मनेपदस्यानित्यत्वं ज्ञापकेन द्रष्ट- व्यमिति । क्षीयत इति कर्मकर्तरि ॥ ५॥ क्षीयत इति प्रयोगो दृश्यते स कर्मकर्तरि द्रष्टव्यः । क्षीयतेरनात्मनेप- दित्वात् । स्विद्यत इति च ॥६॥ स्विद्यत इति च प्रयोगो दृश्यते सोऽपि कर्मकर्तयेव द्रष्टव्यः, न कतरि। अदेवादिकत्वात्स्विदेः। मार्गेरात्मनेपदमलक्ष्म ।। ७ ।। चुरादौ ' मार्ग अन्वेषणे ' इति पठ्यते ' आ धृषाद्वा ' इति विक- ल्पितणिच्कः तस्माद्यदात्मनेपदं दृश्यते- मार्गन्तां देहभारं '--इति तदलक्ष्म अलक्षणम् । परस्मैपदिन्वान्मार्गेः । तथा च शिष्टप्रयोगः कर- किसलयं धूत्वा धूत्वा विमार्गति वाससी । लोलमानादयश्चानशि ॥ ८ ॥ लोलमानो वेल्लमान इत्यादयश्चानशि द्रष्टव्याः । शानचस्त्वभावः । पर- स्मैपदित्वाद्धातूनामिति । लभेर्गत्यर्थत्वाणिच्यणौ कर्तुः कर्मत्वाकर्मत्वे ॥ ९ ॥ अस्त्ययं लभिर्यः प्राप्त्युपसर्जनां गतिमाह, अस्ति च गत्युपसर्जनां प्राप्ति- माहेति । अत्र पूर्वस्मिन्पक्षे गत्यर्थत्वाल्लभेणिच्यणौ यः कर्ता तस्य गत्यादि- सूत्रेण कर्मसंज्ञा । यथा-- 'दीर्घिकासु कुमुदानि विकास लम्भयन्ति शिशिराः शशिभासः'। द्वितीयपक्षे गत्याल्लभेणिच्यणौ कर्तुन कर्मसंज्ञा । यथा---- 'सितं सितिन्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन् । द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥ माघ १.२५ -- मे, . - -५-२.१५] वृत्ति-कामधेनुटिप्पणी-सहितानि । ८ ते-मे-शब्दौ निपातेषु ॥ १०॥ त्वयामयेत्यस्मिन्नर्थे ते-मे-शब्दौ निपातेषु द्रष्टव्यौ । यथा-- श्रुतं ते वचनं तस्य ', ' वेदानधीत इति नाधिगतं पुरा तिरस्कृत इति परिभूतेऽन्तर्युपचारात् ॥ ११ ॥ तिरस्कृत इति शब्दः परिभूते दृश्यते । ' राज्ञा तिरस्कृतः ' इति । स च न प्राप्नोति । तिरःशब्दस्य हि तिरोऽन्तौ ' इत्यन्तौं गतिसंज्ञा । तस्यां च सत्यां ' तिरसोऽन्यतरस्याम् ' इति सकारः तत्कथं तिरस्कृत इति परिभूते आह–अन्तर्युपचारादिति परिभूतो ह्यन्तर्हितवद्भवति । मुख्यस्तु प्रयोगो यथा--' लावण्यप्रसरतिरस्कृताङ्गलेखां' इति । नैकशब्दः सुप्सुपेतिसमासात् ॥ १२ ॥ ' अरण्यानीस्थानं फलनमितनैकद्रुममिदं ' इत्यादिषु नैकशब्दो दृश्यते स च न सिध्यति । नसमासे । नेलोपो नञः' इति नलोपे । तस्मान्नु- डचि इति नुडागमे सत्यनेकमिति रूपं स्यात् । निरनुबन्धस्य नशब्दस्य समासलक्षणं नास्ति । तत्कथं नैकशब्द इत्याह-सुप्सुपेति समासात् । मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पाठात् ॥ १३ ॥ मधुपिपासुमधुव्रतसेवितं मुकुलजालमजृम्भत वीरुधाम् ' इत्यादिषु मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पिपासुप्रभृतीनां पाठात् । श्रिता- दिषु गमिगाम्यादीनाम् इति द्वितीयासमासलक्षणं दर्शयति । त्रिवलीशब्दः सिद्धः संज्ञाचेत् ॥ १४ ॥ त्रिवलीत्ययं शब्दः सिद्धो यदि संज्ञा ।' दिक्संख्ये संज्ञायाम् ' इति संज्ञायामेव समासविधानात् । बिम्बाधर इति वृत्तौ मध्यमपदलोपिन्याम् ॥ १५ ॥ 'बिम्बाधरः पीयते' इति प्रयोगो दृश्यते । स च न युक्तः । अधर- बिम्ब इति भवितव्यम् । ' उपमितं व्याघ्रादिभिः---' इति समासे सति । तत्कथं बिम्बाधर इत्याह--वृत्तौ मध्यमपदलोपिन्यां शाकपार्थिवादित्वा- .

८४ काव्यालंकारसूत्राणि । [प्रायोगिकमधिकरणम् समासे । मध्यमपदलोपिनि समासे सति बिम्बाकारोऽधरो बिम्बाधर इति । तेने विम्बौष्ठशब्दोऽपि व्याख्यातः । अत्रापि पूर्ववद्वृत्तिः। शिष्टप्रयोगेषु वेष विधिः । तेन नातिप्रसङ्गः । आभूललोलादिषु वृत्तिस्पिटपटुवत् ।। १६ ॥ आमललोलमामलमरलमिन्यादिषु वृत्तिविस्पष्टपटुवा । मयुरव्यंसका- दित्वात् । लोलमिव लोलभ आमूलं च तल्लोलं चेति । न धान्यषष्ठादिषु षष्ठीसमासप्रतिषेधः । पूरणेनान्यतद्धितान्त- स्वात् ॥१७॥ धान्यषष्ठं 'तान्युञ्छषष्ठाङ्कितसैकतानि' इत्यादिषु न षष्ठीसमासप्रति- षेधः । पूरणेन पुरणप्रत्ययान्तेनान्यतद्धितान्तत्वात् । षष्ठो भागः षष्ठ इति । 'पुरणाद्भागे तीयादन्' 'षष्ठाष्टमाभ्यां न च' इत्यन्विधानात्स प्राप्तः । पत्रपतिमादिषु गुणवचनेन ॥१८॥ पत्रपीतिमा पत्रालीपिङ्गलिन्नः इत्यादिषु षष्ठीसमासप्रतिषेधो गुणवचनेन प्राप्तो बालिश्यात्तु न कृतः। अवयॊ बहुव्रीहिय॑धिकरणो जन्मायुत्तरपदः॥ १९ ॥ अवयॊ न वर्जनीयो व्यधिकरणो बहुव्रीहिः । जन्माधुत्तरपदं यस्य स जन्माधुत्तरपदः । यथा---'शास्त्रार्थजन्मा हि विवेकलाभः', 'कण्ठवृत्तयः प्राणाः' इति । हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात् ।। २० ॥ हस्ताग्रमग्रहस्तः पुष्पाग्रमग्रपुष्पमित्यादयः प्रयोगाः कथम् । आहि- ताम्यादिप्वपाठात् । पाठे वा तदनियमः स्यात् । आह-गुणगुणिनोर्मेंदा- भेदात् । तत्र भेदात् हस्ताग्रादयः । अभेदादग्रहस्तादयः । पूर्वनिपातेऽपभ्रंशो रक्ष्यः ॥ २१ ॥ काष्ठतृणं तृणकाष्ठमिति यदृच्छया पूर्वनिपातं कुर्वन्ति तत्रापभ्रंशो रक्ष्यो रक्षणीयः । अनित्यत्वज्ञापनं तु न सर्व विषयामिति ।

-
-५-२.२६] वृत्ति-कामधेनुटिप्पणी-साहितानि ।
८५
निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य
प्रायिकत्वात् ॥ २२॥
अनभिहिते' इत्यत्र सूत्रे तिड़ कुत्तद्वितसमासैरिति परिगणनं कृतं
तस्य प्रायिकत्वाधिपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिर्भवति ।
यथा---'विषवृक्षोऽपि मंवयं स्वयं छेत्तुममांप्रतम्' (कु. २.५५) इति । पण्डितं
मर्ख इति मन्यते'।
शक्यमिति रूपं विलिङ्गवचनस्यापि कर्माभिधायां सामान्योप-
क्रमात् ॥ २३ ॥
शके: 'शकिसहोश्च' इति कर्मणि यति कृते शक्यमिति रूपं भ-
वति । विलिङ्गवचनस्यापि विरुद्धलिङ्गवचनस्यापि कर्माभिधायां कर्मवचने
सामान्योपक्रमात् विशेषानपेक्षायामिति । यथा-.
'शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव ।
अप्रगल्भयवसूचिकोमलाइछेतुमग्रनखसंपुटैः कराः
अत्र भाष्यकृद्वचनं लिङ्गम् । यथा--' शक्यं च श्वमांसादिभिरपि
क्षुत्प्रतिहन्तुम् ' इति । न चैकान्तिक: सामान्योपक्रमः। तेन--' शक्या
भर्नु झटिति बिसिनीकन्दवच्चन्द्रपादाः' इत्यपि भवति ।
हानिवदाधिक्यमप्यङ्गानां विकारः ॥ २४ ॥
'येनाङ्गविकारः' इत्यत्र सूत्रे यथाङ्गानां हानिस्तथाधिक्यमपि विकारः।
यथा--' अक्ष्णा काणः ' इति भवति, तथा ' मुखेन त्रिलोचनः' इत्यपि
भवति ।
न कृमिकीटानामिति । एकवद्भावप्रसंगात् ॥ २५ ॥
'आयुषः कृमिकीटानाभलंकरणमल्पता' इत्यत्र कृमिकीटानामिति प्रयोगो
न युक्तः । 'क्षुद्रजन्तवः' इत्येकवद्भावप्रशात् । न च मध्यमपदलोपी समासो
युक्तः। तस्यासर्वविषयत्वात् ।
न, खरोष्ट्रौ । उष्ट्रखरमिति पाठात् ॥ २६ ॥

काव्यालंकारसूत्राणि । [प्रायोगिकमधिकरणम् 6 खरोष्ट्री वाहनं येषाम् ' इत्यत्र खरोष्ट्राविति प्रयोगो न युक्तः । गवा. श्वप्रभृतिषूष्ट्रखरमिति पाठात् । आसेत्यसतेः॥ २७ ॥ लावण्यमुत्पाद्य इवास यत्नः' इत्यत्रासेत्यसतेर्धातो: ' अस गतिदीप्त्या. दानेषु' इत्यस्य प्रयोगः, नास्तेः । भूभावविधानात् । युध्येदिति युधः क्यचि ॥ २८॥ ' यो भर्तृपिण्डस्य कृते न युध्येत्' (पतिशायौगंधरायण ४.३)इति प्रयोगः स चायुक्तः। युधेरात्मनेपदित्वात् । तत्कथं युध्येदित्याह-युधः क्यचि । युधमात्मन इच्छेयुध्येदिति । विरलायमानादिषु क्यङ् निरूप्यः ॥२९॥ 'विरलायमाने मलयमारुते' इत्यादिषु क्यङ् निरूप्यः । भृशादिषु पाठात् । नापि क्यम् । लोहितादिष्वपाठात् । अहेतौ हन्तेणिच् । चुरादिपाठात् ॥ ३० ॥ 'घातयित्वा दशास्यम् ' इत्यत्राहेतौ णिच् दृश्यते स कथमित्याह- चुरादिपाठात् । चुरादिषु " चट स्फुटभेदे 'घट संघाते' हन्त्यर्थाश्च" इति पाठात् । अनुचरीति चरेष्टित्वात् ॥ ३१ ॥ — अनुचरी प्रियतमा मदालसा ' इत्यत्रानुचरीति न युक्तः । ईकारल- क्षणाभावात् । तत्कथम् । आह-चरेष्टित्वात् । पचादिषु चरडिति पठ्यते। केसरालमित्यलतेराण ॥ ३२॥ 'केसरालं शिलीन्धं ' इत्यत्र केसरालमिति कथम् । आह--अलते. रणि । ' अलं भूषणपर्याप्तिवारणेषु' इत्यस्माद्धातोः केसरशब्दे कर्मण्युप- पदे 'कर्मण्यण् ' इत्यनेनाणि सति केसरालमिति सिद्धयति । पत्रलमिति लातेः के॥३३॥ 'पत्रलं वनमिदं विराजते ' इत्यत्र पत्रलमिति कथम् । आह-लातेः - - .

-५-२.२०]
वृत्ति-कामधेनुटिप्पणी-सहितानि ।
८७
के । 'ला आदाने' इत्येतस्माद्धातोरादानार्थात् पत्रशब्दे कर्मण्युपपदे
आतोऽनुपसर्गे कः' इति कप्रत्यये सतीति ।
महीधादयो मूलविभुजादिदर्शनात् ॥ ३४ ॥
महीध्रधरणीध्रादयः शब्दाः मूलविभुजादिदर्शनात्कप्रत्यये सतीति । महीं
धरतीति महीध्र इति । एवमादयोऽन्येऽपि द्रष्टव्याः ।।
ब्रह्मादिषु हन्तेनियमादरिहाद्यसिद्धिः ॥ ३५ ॥
ब्रह्मादिषूपदेषु हन्तेः क्विब्विधौ ‘ब्रह्मभ्रूणवृत्रेषु--' इत्यत्रारिहा रिपुहा
इत्येवमादीनामसिद्धिः । नियमात् । ' ब्रह्मादिष्वेव, हन्तेरेव, विबेव, भूत-
काल एवेति चतुर्विधश्चात्र नियमः' इति नियमान्यतरविषयो निरूप्यः ।
ब्रह्मविदादयः कृदन्तवृत्त्या ॥ ३६ ॥
ब्रह्मवित्वृत्रभिदित्यादयः प्रयोगा न युक्ताः । ब्रह्मभ्रूण-' इत्यादिषु
' हन्तेरेव' इति नियमात् । आह--कृदन्तवृत्त्या । बेत्तीति वित् । भिन-
तीति भित् । 'विप्च' इति विप् । ततः कृदन्तैर्विदादिभिः सह ब्रह्मादीनां
षष्टीसमास इति ।
तैर्महीधरादयो व्याख्याता ॥ ३७॥
तैर्विदादिभिर्महीधरादयो व्याख्याताः । धरतीति धरः । मह्या धरो
महीधरः । एवं गङ्गाधरादयो व्याख्याताः ।
भिदुरादयः कर्मकर्तरि कर्तरिच ॥ ३८ ॥
भिदुर काष्ठम् । भिदुर तमः । 'तिमिरभिदुरं व्योन्नः शृङ्ग-' इति ।
छिदुरातपो दिवसः । मत्सरच्छिदुरं प्रेम । भङ्गुरा प्रीतिः । ' मातङ्गं मा-
नभङ्गुरम् ' इत्यादयो हि प्रयोगा दृश्यन्ते । कथमित्याह---ते कर्मकर्तरि
कर्तरि च भवन्ति । कर्मकर्तरि चायमिष्यते ' इत्यत्र हि चकारः कर्तरि
चेत्यस्य समुच्चयार्थः ।
गुणविस्तरादयश्चिन्त्याः ॥ ३९ ॥

.. ८८ काव्यालंकारसूत्राणि [प्रायोगिकमधिकरणम् गुणविस्तरः व्याक्षेपविस्तरः इत्यादयः प्रयोगाश्चिन्त्याः । 'प्रथन वाव. शब्दे ' इति धप्रसङ्गात् । अवतरावचायशब्दयादीर्घहस्वत्वव्यत्यासो बालानाम् ॥ ४० ॥ अवतरशब्दस्यावचायशब्दस्य च दीर्घत्वहस्वत्वयोर्व्यन्यासो बालानां बालिशानां प्रयोगेष्विति । ते यवतरणमवतार इति प्रयुञ्जते । मारुतावतार इति । स ह्ययुक्तः । भावे तरतेरविधानात् । अवचयनमवचय इति प्रयुञ्जते। पुप्पावचय इति । अत्र · हस्तादाने चेरस्तेये' इति घअप्राप्त इति । शोमेतिनिपाननात् ॥४१॥ शोभैत्ययं शब्दः माधुः । निपातनात । ' शुभ शुभ्श शोभायौँ ' इति शुभर्भिदादेराकृतिगणन्वादङ् सिद्ध एव । गुणप्रतिषेधाभावस्तु निपात्यत इति । शोभार्थावित्यत्रैकदेशे किं शोभा, आहोस्विच्छोभ इति विशेषावग- तिराचार्यपरम्परोपदेशादिति । अविधौ गुरोः स्त्रियां बहुलं विवक्षा ॥ ४६॥ अविधावविधाने ' गुरोश्च हल: ' इति स्त्रियां बहुलं विवक्षा । क्वचि- द्विवक्षा, क्वचिदविवक्षा, क्वचिदुभयमिति । विवक्षा यथा--ईहा लज्जेति । अविवक्षा यथा--आतङ्क इति । विवक्षाविवक्षे यथा--बाधा बाधः, ऊहा ऊहः, ब्रीडाः, बीडः इति । व्यवसितादिषु क्तः कर्तरि चकारात् ॥ ४३ ॥ ध्यबासितः प्रतिपन्न इत्यादिषु भावकर्मविहितोऽपि क्तः कसरि । गत्या- दिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् । भावकर्मानुकर्षणार्थत्वं चकारस्येति चेत्, आवृत्तिः कर्तव्या। आहेति भूतेऽन्यलडन्तभ्रमाद् ब्रुवो लटि॥ ४४ ॥ ब्रुवः पञ्चानां-' इत्यादिना आहेति लटयुत्पादितः । स भूते प्रयुक्तः इत्याह भगवान्प्रभुः' इति । अन्यस्य भूतकालाभिधायिनो लडन्तस्य लिटि भ्रमात् । निपुणाश्चैवं प्रयुञ्जते---आह स्म स्मितमधुमधुराक्षरां गिरम्' .

. . -५-२.४७] वृत्तिकामधेनुटिप्पणी-सहितानि । इति । ' अनुकरोति भगवतो नारायणस्य ' (कादं.६) इत्यत्रापि मन्ये 'स्म' शब्दः कविना प्रयुक्तो लेखकैस्तु प्रमादान्न लिखित इति । शबलादिभ्यः स्त्रियां टापोप्राप्तिः ॥ ४५ ॥ 'उपस्रोतः स्वस्थस्थितमहिषशृङ्गाग्रशबलाः स्रवन्तीनां जाताः प्रमुदितविहंगास्तटभुवः।' 'भ्रमरोत्करकल्माषाः कुसुमानां समृद्धयः ।' इत्यादिषु स्त्रियां टापोऽप्राप्तिः । ' अन्यतो ङीष् ' इति डीविधानात् । तेन शबली कल्माषीति भवति । प्राणिनि नीलेति चिन्त्यम् ॥ ४६ ॥ 'कुवलयदलनीला कोकिला बालचूते' इत्यादिषु नीलेति चिन्त्यम् कोकिला नीलीति भवितव्यम् । नीलशब्दात् 'जानपद--' इत्यादि सूत्रेण 'पाणिनि च' इति डीविधानात् । मनुष्यजातेर्विवक्षाविचक्षे ॥ १७ ॥ ' इतो मनुष्यजातेः ऊडुतः इत्यत्र मनुष्यजातेर्विवक्षा अवि- वक्षा च लक्ष्यानुसारतः । मन्दरस्य मदिराक्षि पार्श्वतो निन्ननाभि न भवन्ति निन्नगाः। वासु वासुकिविकर्षणोद्भवा भामिनीह पदवी विभाव्यते ॥ अत्र मनुष्यजातेर्विवक्षायां ' इतो मनुष्यजातेः' इति डीषि सति ' अम्बार्थनधोईस्वः' इति संबुद्धो हस्वत्वं सिद्धयति । नाभिशद्वात्पुनः इतश्च प्राण्यङ्गात् ' इतीकारे कृते निन्ननाभीकेति स्यात् । 'हृतोष्ठरागैनयनोदबिन्दुर्भािनमन्मनाभेनिपताद्भिरङ्कितम् । च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम् ॥ अत्र निममनाभरिति मनुष्यजातरविवक्षति डोष्न कृतः। ' सुतनु जहिहि कोपं-' इत्यत्र मनुष्यजातेर्विवक्षेति सुतनुशब्दात् ' ऊडुतः' इत्यूङि सति हस्वत्वे सुतन्विति सिध्यति । ' वरतनुरथवासौ नैव दृष्टा त्वया मे '(विक. ४)। अत्र मनुष्यजातेरविवक्षेत्यूङ् न कृतः । . , ९० काव्यालंकारसूत्राणि । [प्रायोगिकमधिकरणम् . 'काला' ऊकारान्तादप्यूझवृत्तेः ।। ४८ ॥ उत ऊङ् विहितः । ऊकारान्तादपि क्वचिद्भवति । आचार्यप्रवृत्तेः । कासौ प्रवृत्तिः । · अप्राणिजातेश्चारज्ज्वादीनाम् ' इति अलाबूः कर्कन्धरि- त्युदाहरणम् । तेन 'सुश्रु किं संभ्रमेण ' । अत्र सुश्रुशब्द ऊङि सिद्धो भवति। ऊङि त्वसति सुभूरिति स्यात् । कार्तिकीय इति ठञ् दुर्धरः ॥ ४९ ॥ 'कार्तिकीयो नभस्वान् ' इत्यत्र 'कालाकृञ् ' इति ठञ् दुर्धरः । ठञ् भवनं दुःश्वेन ध्रियत इति । शार्वरमिति च ॥ ५० ॥ शावरं तमः इत्यत्र च ' कालाहञ् ' इति ठञ् दुर्धरः । शाश्वतमिति प्रयुक्तेः ॥ ५१ ॥ 'शाश्वतं ज्योतिः' इत्यत्र शाश्वतमिति न सिद्धयति । इति ठञ्प्रसङ्गात् । 'येषां च विरोधः शाश्वतिकः' इति सूत्रकारस्यापि . प्रयोगः । आह--प्रयुक्तेः । ' शाश्वते प्रतिषेधः' इति प्रयोगात् शाश्वत- मिति भवति । राजवंश्यादयः साध्वर्थे ये भवन्ति ॥ ५॥ राजवंश्याः सूर्यवंश्या इत्यादयः शब्दाः ' तत्र माधुः' इत्यनेन साध्वर्थे यति प्रत्यये सति साधवो भवन्ति । भवार्थे पुनर्दिगादिपाठेऽपि वंशश- ब्दस्य वंशशब्दान्तान्न यत्प्रत्ययः । तदन्तविधेः प्रतिषेधात् । दाखशब्दो दुष्प्रयुक्तः ॥ ५३ ॥ 'दारवं पात्रम् ' इति दारवशब्दो दुष्प्रयुक्तः । नित्यं वृद्धशरादिभ्यः' इति मयटा भवितव्यम् । ननु बिकारावयवयोरर्थयोर्मयड्ः विधीयते । अत्र तु दारुण इदमिति विवक्षायां दारवमिति भविष्यति । नैवमपि स्यात् । 'वृद्धाच्छः' इति च्छविधानात् । मुग्धिमादिष्विमनिज् मृग्यः ॥ ५४ ॥ मुन्धिमापौढिमेत्यादिषु इमनिज् मन्यः अन्वेषणीय इति । , " -५-२.६०] वृत्ति-कामधेनुटिप्पणी-सहितानि । औपम्यादयश्चातुर्वर्ण्यवत् ॥ ५५ ॥ औपम्यं सांनिध्यमित्यादयश्चातुर्वर्ण्यवत् ' गुणवचन इत्यत्र 'चातुर्व- ादीनां [ स्वार्थे ] उपसंख्यानम् ' इति वातिकात्स्वार्थिकप्यजन्ताः । प्युञः पित्करणादीकारो बहूलम् ।। ५६ ॥ 'गुणवचनब्राम्हणादिभ्यः' इति यः प्यञ् तस्य पित्करणादीकारो भवति स बहुलम् । ब्राम्हण्यमित्यादिषु न भवति । सामग्र्यमित्यादिषु विकल्पेन ॥ ५७ ॥ सामध्यं सामग्री । वैदग्ध्यं वैदग्धीति । धन्वीति ब्रीद्यादिषु पाठात् ॥ ५८॥ ब्रीह्यादिषु धन्वशब्दस्य पाठात् धन्वीति इनौ सति सिद्धो भवति । चतुरस्त्रशोभीति णिनौ ॥ ५९॥ 'बभूव तस्याश्चतुरस्त्रशोभि वपुर्विभक्तं नवयौवनेन'(कु १.१२)इत्यत्र चतुर- संशोभीति न युक्तम् । ब्रीह्यादिषु शोभाशब्दस्य पाठेऽपि इनिरत्र न सिध्यति। अहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात् । भवतु वा तदन्तविधिः षेधात् । भवतु वा तदन्तविधिः कर्मधारयान्मत्वर्थीयानुपपत्तिः । लघुत्वात्प्र. क्रमस्थति बहुव्रीहिणैव भवितव्यम् । तत्कथमिति मत्वर्थीयस्याप्राप्तौ चतुरस्त्र- शोभीतिप्रयोगः । आह--णिनौ । चतुरस्रं शोभत इति ताच्छीलिके णिना- वयं प्रयोगः । अथ ' अनुमेयशोभि' इति कथम् । नात्र पूर्ववद्वृत्तिः शक्या कर्तुमिति शुभेः साधुकारिण्यावश्यके वा णिनिं कृत्वा तदन्तादभावप्रत्यये पश्चाबहुव्रीहिः कर्तव्यः । अनुमेयं शोभित्वं यस्येति । भावप्रत्ययस्तु गता- र्थत्वान्न प्रयुक्तः । यथा निराकुलं तिष्टति, ' ' सधीरमुवाच ' इति । कञ्चुकीया इति क्यचि ॥६॥ 'जीवन्ति राजमहिषीमनु कञ्चुकीयाः' इति कथम् । मत्वर्थीयस्य छप्रत्ययस्याभावात् । आह---क्यचि । क्यचि प्रत्यये सति कञ्चुकीया इति भवति । कञ्चुकमात्मन इच्छन्ति कञ्चुकीयाः ।

७ ९२ काव्यालंकारसूत्राणि। [प्रायोगिकमधिकरणम् बौध्यप्रतियोग्यपेक्षायामप्यातिशायनिकाः ॥ ६१ ॥ बौदस्य प्रतियोगिनोऽपेक्षायामप्यातिशायनिकास्तरवादयो भवन्ति । धनतरं तमः', 'बहुलतरं प्रेम' इति । कौशिलादय इलचि वर्णलोपात ॥६२ ॥ कौशिलवासिल इत्यादयः कथम् । आह--कौशिकवासिष्ठादिभ्यः शब्देभ्यो नीतावनुकम्पायां वा 'घनिलचौ च ' इति इलचि कृते 'ठाना- दावूर्व द्वितीयादचः' इति वर्णलोपासिध्यन्ति । मौक्तिकभिति विनयादिपाठात् ॥ ६३ ॥ मुक्तैव मौक्तिकमिति विनयादिपाठादृष्टव्यम् । स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यतिवर्तन्त इति नपुंसकत्वम् ।। प्रातिभादयः प्रज्ञादिषु ॥ ६४ ॥ प्रातिभादयः शब्दाः प्रज्ञादिषुः द्रष्टव्याः। प्रतिभा-विकृति-द्विता- दिभ्यः शब्देभ्यः प्रज्ञादिपाठादाण स्वार्थिके कृते प्रातिभं वैकृतं द्वैत- मित्यादयः प्रयोगाः सिद्धयन्तीति । न सरजसमित्यनव्ययीभावे !। ६५ ॥ 'मधु सरजसं मध्येप- पिबन्ति शिलीमुखाः' इत्यादिषु सरजसमिति न युक्तः प्रयोगः अनन्ययीभावे । अव्ययीभाव एव सरजसशब्दस्येष्टत्वात् । न धृतधनुषीत्यसंज्ञायाम् ॥ ६६ ॥ घृतधनुषि शौर्यशालिनि' इत्यत्र धृतधनुषीत्यसंज्ञायां न युक्तः प्र- योगः । 'धनुषश्च' इत्यनविधानात् । संज्ञायां ह्यनङ् विकल्पितः ‘वा. संज्ञायाम् ' इति । दुर्गान्धपद इहुर्लभः॥६७॥ 'दुर्गन्धिः कायः' इत्यादिषु दुर्गन्धिपदे इत्समासान्तो दुर्लभः । उत्पू. त्यादिषु दुःशब्दस्यापाठात् । सुदत्यादयः प्रतिविधेयाः ॥ ६८ !!

-४-२.७५] वृत्ति-कामधेनुटिप्पणी-सहितानि । ९३ 'सा दक्षरोषासुदती ससर्ज' इति, शिखरदति पतति रशना' इत्यादिषु सुदत्यादयः शद्वाः प्रतिविधेयाः । दत्रादेशलक्षणाभावात् । तत्र प्रति- विधानम्--" अग्रान्त-' आदिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात्सुदत्या- दिषु दत्रादेशः" इत्येके । अन्ये तु वर्णयन्ति--सुदत्यादयः स्त्र्यभिधायिनो योगरूढिशद्वाः । तेषु 'स्त्रियां संज्ञायाम्' इति दनादेशो विकल्पेन सिद्ध एवेति । क्षतदृढोरस इति न कप् । तदन्ताविधिप्रतिषेधात् ।। ६९ ॥ ' प्लवंगनखकोटिीभः क्षतदृढोरसो राक्षसाः इत्यत्र दृढोरःशद्वात् 'उरःप्रभृतिभ्यः कप ' इति का न कृतः । ग्रहणवता प्रातिपदिकेन तदन्त- विधेः प्रतिषेधात् । वाक्यं त्वेवं कर्तव्यम्----क्षतं दृढोरो येषामिति । अवैहीति वृद्धिरवद्या ॥ ७० ॥ अवैहीत्यत्र वृद्धिरवधा । गुण एव युक्त इति । अपाङ्गनेत्रेति लुलगभ्यः ॥ ७१ ॥ अपाङ्गे नेत्रे यस्याः सेयमपाङ्गनेत्रेत्रत्य लुगलभ्यः । 'अमूर्धमस्तकात्स्वा- कादकामे ' इति सप्तम्या अलुम्विधानात् । नेष्टाः श्लिष्टप्रियादयः । पुंवद्भावप्रतिषेधात् ॥ ७२ ॥ लिष्टप्रियः वृद्धकान्तः इत्यादयो नेष्टाः । ' स्त्रियाः पुंवत्--' इति पुंव- द्भावस्य प्रियादिषु निषेधात् । दृढभक्तिरसौ सर्वत्रेति ।। ७३ ।। 'दृढभक्तिरसौ ज्येष्ठे ।' अत्र पूर्वपदस्य 'स्त्रियाम्' इत्यविवक्षितत्वात् । जलजम्बुलतादयो ह्रस्वविधेः ॥ ७४ ॥ जलजम्बुलताविला: स्त्रवन्त्यः ' ' अग्रे कर्कन्धुग्रहणम् ' इत्यादिषु कथं जलजम्बुलतादयः प्रयोगा: । आह -हस्वविधेः । 'इको ह्रस्वोऽड्यो गाल- वस्य' इति स्विविधानात् । तिलकादयोऽजिरादिषु ॥ ७५ ॥ तिलकादयः शङ्का अजिरादिषु द्रष्टव्याः । अन्यथा तिलकवती कनक- .

९४ काव्यालंकारसूत्राणि । [प्रायोगिकमधिकरणम् वतीत्यादिषु मतुपि ' मतो बह्वचोऽनजिरादीनाम् ' इति दीर्घत्वं स्यात् । केचित्तु वर्णयन्ति-- नद्यां मतुप्' इति यो मतुप् तत्रायं विधिः। तेषां मतेनामरवतीत्यादीनामसिद्धिः । निशम्यनिशमय्येशब्दो प्रकृतिभेदात् ॥ ७६ ॥ निशम्यनिशमय्येत्येतौ शद्वौ श्रुत्वेत्येतस्मिन्नर्थे । शमेः 'ल्यपि लघुपूर्वात् इत्ययादेशे मति निशमय्येति भवितव्यम्, न विशम्येति । आह-प्रकृति- भेदात् । शमेदेवादिकस्य निशम्येति रूपम् । ' शमो दर्शने ' इति चुरादौ णिचि मित्संज्ञकस्य निशमय्यति रूपम् । संयम्यनियम्यशब्दावणिजन्तत्वात् ॥ ७७ ॥ कथं संयम्यनियम्येति । 'ल्यपि लघुपूर्वात् ' इति शेरथादेशेन भवित- व्यम् । आह--अणिजन्तत्वात् । धातोणिच् न कृतः । गतार्थत्वात् । यथा---'वाचं नियच्छति ! इति । णिजानवगतौ तु णिच् प्रयुज्यत एव । यथा-'संयमयितुमारब्धः' इति । प्रतीयेति पीङः ॥ ७८॥ प्रपीयेत्ययं शङ्कः 'पीङ् पाने' इत्येतस्थ । पिबतेर्हि 'न त्यपि ' इतीत्वप्रतिषेधात्प्रपायेति भवति । दूरयतीति बहुलग्रहणात् ॥ ७९ ॥ 'दरयत्यवनते विवस्वति' इत्यत्र यतीति कथम् । णाविष्ठवद्भावे 'स्थू. लदूर-' इत्यादिना गुणलोपयोः कृतयोर्दवयताति भवितव्यम् । आह--- बहुलग्रहणात् । 'प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च इत्यत्र बहुलग्रहणात् 'स्थूलदूर--' आदिसूत्रेण यद्विहितं तन्न भविष्यतीति । गच्छ्तीप्रभृतिष्वनिषेध्या नुम् ॥ ८० ॥ 'हरति हि वनराजिर्गच्छता श्यामभावम् इत्यादिषु गच्छतीप्रभृतिषु शहषु 'श्यपश्यनोनित्यम् ' इति नुमनिषेध्यो निषेद्धुमशक्यः । मित्रेण गोत्रेति पुंवद्भावात् ।। ८१ ॥ 'मित्रेण गोत्रा' इति कथम् । गोप्तृणा भवितव्यम् । इकोऽचि वि- - -५-२.८७] वृत्ति-कामधेनुटिप्पणी-सहितााने । ९५ भक्तौ' इति नुमाविधानात् । आह-पुंवद्भावात् । 'तृतीयादिषु भाषित- पुंस्कं पुंवद्गालवस्य' इति पुंवद्भावेन गोप्त्रोत भवति । वेत्स्यसीति पदभङ्गात् ॥ ८२ ॥ 'पतितं वेत्स्यसि क्षितौ ' (वेणी ३.५१ ) इत्यत्र वेत्स्यसीति न सिध्यति । इट्प्रसङ्गात् । आह-पदभङ्गात् सिध्यति । वेत्स्यसीति पदं भज्यते वेत्सि- असि । असन्यियं निपातस्त्वमित्यस्मिन्नर्थे । क्वचिद्वाक्यालंकारे प्रयुज्यते । यथा- पार्थिव त्वमसि सत्यमभ्यधाः' इति । कामयानशब्दः सिद्धोऽनादिश्चेत् ॥ ८३ ॥ कामयानशब्दः सिद्धः ' आगमानुशासनमनित्यम् ' इति मुक्यकृते य. धानादिः स्यात् । सौहृददौह्रदशब्दावणि हृद्भावात् ॥ ८४ ॥ सुहृदयदुहृदयशब्दाभ्यां युवादिपाठादाणि कृते हृदयस्य हृद्धावः । आ- दिवृद्धौ सौहृददौ«दशद्वौ भवतः। सुहृदुहच्छशद्वाभ्यां युवादिपाठादेवाणि कृते ' हृद्भगसिन्ध्वन्ते-' इति हृदन्तस्य तद्धितेऽणि कृते सत्युभयपदवृद्धौ मत्यां सौहार्द दौहादमिति भवति । विरम इति निपातनात् ॥ ८५ ॥ रमेरनुदात्तोपदेशत्वान् । नोदात्तोपदेशस्य ' इत्यादिना वृद्धिप्रतिषेधस्या- भावात्कथं विरम इति । आह-निपातनात् । निपातनं तु ' यम उपरेम' इत्यत्रोपरम इति । अतन्त्रं चोपसर्ग इति । उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया ।। ८६ ॥ उपर्यादिषु शद्वेषु सामाप्ये द्विरुक्तेषु ' उपर्यध्यधसः सामीप्ये नेन उपयादिपु त्रिषु । द्वितीयामेडितन्तेषु ' इति द्वितीया । वीप्सायां तु द्विरुक्तेषु षष्ठयेव भवति । ' उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः' मन्दमन्दामत्यप्रकारार्थत्वे ॥ ८७ ॥ ' मन्दं मन्दं नुक्षति पवनः इत्यत्र मन्दमन्दमित्यप्रकारार्थे भवति । प्रकारार्थत्वे तु ' प्रकारे गुपचनस्य ' इति द्विवंचने कृते कर्मधारयवद्भावे .

९६ काव्यालकारसूत्राणि । [प्रायोगिकमधिकरणम् मन्दमन्दमिति प्रयोगः । मन्दमन्दमित्यत्र तु · नित्यवीप्सयोः' इति द्वि- वचनम् । अनेकभागात्मकस्य नुदेयंदा सर्वे भागा मन्दत्वेन व्याप्तुमिष्टा भवन्ति तदा वीप्सोति । न निद्राद्रुागिति । भष्भावप्राप्तेः ॥ ८८ ॥ 'निद्रानुक्काद्रवेयच्छविरुपरिलसद्धर्धरो वारिवाहः' इत्यत्र निद्रागुागेति न युक्तः । 'एकाचो बशो भष्-' इति भष्भावप्राप्तेः । अनुप्रासप्रिय- स्त्वपभ्रंशः कृतः । निष्यन्द इति षत्वं चिन्त्यम् ॥ ८९ ॥ नह्यत्र षत्वलक्षणमस्ति । कस्कादिपाठोऽप्यस्य न निश्चितः । नाङ्गुलिसङ्ग इति । मूर्धन्याविधेः ।। ९० ॥ म्लायन्त्यङ्गुलिसङ्गेऽपि कोमलाः कुसुमस्रजः' इत्यत्राङ्गुलिसङ्ग इति न युक्तः । 'समासेऽङ्गुलेः सङ्गः' इति मूर्धन्यविधानात् । तेनावन्तिसेनादयः प्रत्युक्तः ॥ ९१॥ तेनाङ्गुलिसङ्ग इत्यनेनावन्तिसेन इन्दुसेन एवमादयः शब्दाः प्रत्युक्ताः प्रत्याख्याताः । सुषामादिषु ' एति संज्ञायामगात् ' इति मूर्धन्यविधानात् । नेन्द्रवाहने णत्वम् । आहितत्वस्याविवक्षितत्वात् ॥ ९२ ॥ 'कुथेन नागेन्द्रमिवेन्द्रवाहनम् ' माघ १. इत्यनेन्द्रवाहनशढे 'वाहनमा- हितात् ' इति णत्वं न भवति । आहितत्वस्याविवक्षितत्वात् । स्वस्वामिभाव- मात्र बन्न विवक्षितम् । तेन सिद्धमिन्द्रवाहनामिति । सदसन्तो मया शहा विधिनाल्पेन दर्शिताः। अनयैव दिशा कार्य शेषाणामप्यवेक्षणम् ॥ इति काव्यालंकारसूत्रवृत्तौ प्रायोगके पञ्चमेऽधिकरणे शब्दशुद्धिनाम द्वितीयोऽध्यायः । समाप्तं चेदं प्रायोगिक पञ्चममधिकणम् । . प्रथश्च समाप्तः।

सूत्रानुक्रमणिका. . ४४ अथों व्यक्तः ... ४३ ... ... ३७ ६७ ८८ ... ८४ ... अनाम्यत्वमुदारता अजरठत्वं सौकु अतद्रूपत्यान्यथा अतिप्रयुक्तं अनाविद्धलालेन अनुक्तौ समासोक्तिः अनुचरीति अनुपपत्तिरसंभवः अनुल्बणो १४ ८८ :: " ... ... ९३ १९ १ ८६ ६१ ५२ ३५ अनकान्त्याच ८६ '८४ १८ अन्त्याभ्यां वाक्यं अन्यार्थनेयगूढा अपाङ्गनत्रेति अपारुष्यं सौकु अप्रतीतगुण अप्रसिद्धार्थप्रयु अप्रसिद्धासभ्यं अभिवानकाशानः अब्दार्थत्वात अलंकारस्याल अवतरावचाय अवज्यों बहु अविधो गुरोः अवैषम्यं समता अबहीति वृद्धिर असभ्यार्थान्तर असादृश्यहता अहेतो हन्तर्णि आमूललोलादिषु आरोहावरोहक्रमः आरोहावरोहनिमित्तं आसेत्यसतेः आहेति भूते इतिवृत्तकुटिलत्वं इष्टः पुनपुंसकयोः उक्तसिद्धय उक्तार्थपदमका उक्तिवैचित्र्यं उत्प्रेक्षाहतुल्लो उपमाजालेपश्चा उपनानाधिक्यात्त उपमानेनोपमेयस्य उपमानोपमेयत्य उपमानोपमेययोर्लिङ्ग ६० ... ... '११' २० '७२ ९ २१ ... अरोचकिनः सतृणा ६ ६१ अर्थतस्तदवगमः अर्थदृष्टिः समाधिः अर्थवमल्यं अर्थव्यक्तिहेतुत्व अर्थस्य प्रीढि अथों द्विविधः १३ ... ३७ ... ६४ ...

९८ काव्यालंकारसूत्रवृत्ती पृष्ठम् पृष्ठम् ... ... ६२ १५ २८ :: ... ... ९० ७३ ६९ *९३ ... ६९ ... कौशिलदिय इलचि क्रमविधानार्थत्वाद्वा क्रमसिद्धिस्तयोः क्रमहनिार्थम क्रमेणोपमेयोपमा किययैव स्वतदर्था क्रियाप्रतिषेधे क्षतढोरस इति क्षीयत इति खिद्यत इति च गच्छतीप्रभृतिष्व गद्यं वृत्तगन्वि गाढबन्धत्वमोजः गुणः संप्लवात् गुणद्योतकोप गुणबाहुल्यतश्च गुणविपर्यया गुणविस्तरादय (? ८२ ६ ३५ ३२ ३७ ३ १३ ३२ ... ९१ उपमानोपमेयवाक्येष्वे उपमानोपमेयसंशयः उपमेयस्य गुणाति उपमेयस्योको उपमेयोपमानानां उपर्यादिषु सामीप्ये ऊकारान्तादप्यूङ एकगुणहानि एकस्योपमेयत्वो ओजःकान्तिमती ओजप्रसादयो ओजःप्रसाद श्लेष औज्ज्वल्यं कान्तिः औपम्यादयश्चा काञ्चुकीया इति करिकलभशब्दे कर्णावतंसश्रवण कलाचतुर्वर्ग कलाशास्त्रेभ्यः कल्पितार्थ नेयार्थम् कवित्वबीज कामयानशब्दः कामशास्त्रतः कार्तिकीय इति काव्यं गचं पद्यं च काव्यं प्राधमलं काव्यं सदृष्टादृष्टा काव्यबन्धोद्यमो काव्यशोभायाः काव्योपदेशगुरु किंचिदुक्तावप्रस्तुत केसरालगिल्पल ... २७ ... ... २६ ३० ... ... १० घटना श्लेषः ... ४१ १८ ... ... १२ ... १३ ११ ... चलिडो चतुरस्रशोभीति चित्तैकाग्यमव छन्दोविचितेवृत्त जलजम्वुलतादयो जातिप्रमाण त एवार्थगुणाः तत्तु न अतत्त्व ततोऽन्यभेद तत्त्रैविध्यम् ब्रीडा ९० १३ २ ... ३९ ... २ १२ १५ ... ... १२ तत्त्रिविधम् तत्र काव्यपरिचयो तदतिशयहेतव २० ७१ ११ ३२ सूत्रानुक्रमणिका। ९९ पृष्ठम् ७८ १४ न कर्मधारयो न कृमिकांटा न, खरोष्ट्री २७ ८५ ... न गद्य समाप्त १३ १९ ... ... ... ... २२ १५ ९२ ८ ३९ ... ... ७ ८३ ... न गुप्तलक्षित न तद्वाहुल्य न धान्यषष्ठादिषु न धृतधनुषीत्य न निद्राह्यगिति न पाठधर्माः न पादादौ खल्वा न पादान्तलघो न पुनरितरे न पृथक, आरोहाव नधान्ताः, निष्कम्प न लक्ष्मणः पृथक्त्वान् न विरुद्धोऽतिशयः न विशेषश्चेत् न वृत्तदोषात्पृथ न शणसूत्रवाना ६० ::: ३५ तदनिबद्धं निब नदारोहणार्थ तदिदं प्रयुक्तेषु तदुपारोहादर्थ तद्देशकालाभ्याम् तद्वैविध्यं तद्धातुनामभाग तद्धि चित्रं चित्र तद्भेदावुप तस्यामर्थगुण तासां पूर्वा ग्राह्या तिरस्कृत इति तिलकादयोऽजि तेन वचनभेदो तेन विपर्ययो तेनाधिकत्वं तेनावन्तिसेनादयः तेमेशब्दो तैर्महीधरादयो त्रिवलीशब्दः दण्डनीतेर्नया दारवशब्दो दीतरसत्वं कान्तिः दुर्गन्धिपद दुष्टं पदमसाधु दूरयतीति बहुल दृढभक्तिरित देशकालस्वभाव धनुध्विनौ धन्वीति बीह्यादि धर्मयोरेक न कतकं पह ... : :: न शास्त्रमद्रव्ये ३ ... ૮૨ ११ ९० ४५ ९२ १६ ९४ १५ ... ९३ २९ न शुद्धः न सरजसमित्य न, संपृक्तत्वात नाङ्गलिसङ्ग इति नानिबद्धं चकास्त्येक नापुष्टार्थत्वात् नार्धे किंचिदसमाप्त नासन्तः नित्यं सहितक निपातेनाप्यभिहिते निशम्यनिशमय्य ३८ ९१ ८५ ... mr" १०० काव्यालंकारसूत्रवृत्ती पृष्ठम् ९६ निष्यन्द इति षत्वं नेतरे तद्विपर्य मनुष्यजातेर्वि मन्दं मन्दमित्य ३ ... नेन्द्रवाहने णत्वम् म तृणत्वं श्लेषः महीधाइयो मूल ८७ ६ २८ ... ८६ : : १२ २६ १४ १४ ९० ९२ ... ४८ ८६ माधुर्यसौकुमार्यों मायादिविकल्प मार्गाभेदः समता मागेरात्मनेपद मित्रेण गोत्रेति मिलिथि मुक्ताहारशब्दे मुग्धिमादिप्विम मौक्तिकमिति यत्सादृश्यं तत्स युध्येदिति युधः राजवंश्यादयः साध्व रात्रियामस्तुरीयः रीतिरात्मा काव्यस्य रुद्रादित्येक रूडिच्युतमन्यार्थम लक्षणाशब्दाश्च लक्ष्यमत्वमभियो लभेत्यर्थत्वा लाक्षणिकासभ्यं लिङ्गाध्याहारी लोकनानप्रयुक्तं लोकवृत्तं लोकः लोकसंवीतं लोको विद्या प्रकीर्ण ९० नेष्टाः लिष्टप्रिया नैकं पदं द्विः नैकशब्दः सुप्तु पत्रपतिमादिषु पत्रलमिति पदमनेकार्थमक्षरं पदसंधिवरूप्यं पदाधानोद्धरण पथभागव पद्यमनकभेदम् पादाः पादस्यकन्या पादानुप्रासः पिण्डाक्षरभेदे पुष्पमालाशब्दे पूरणार्थमनर्थकम् पूर्वनिपातेऽपभ्रंशो पूर्व नित्याः पूर्व शिष्याः पृथक्पदत्वं प्रतिवस्तुप्रभृति प्रतीयेति पीङ प्राणिनि नलेति प्रातिभादयः बिम्बाधर इति बौध्यप्रतियोग्य ब्रह्मविदादयः ब्रह्मादिषु हन्ते भङ्गादुत्कर्षः भिदुरादयः कर्म भिन्नवृत्तयति मथापिपासुप्रभू १३ :: ३ ८१ १८ ८० ११ ८२ २० ६२ ... ८३ ९२ ९ २० ९ लोपे लुसा ८२ ५९ लोलमानोदय लौकिक्यां समासा वर्णविच्छेदचलनं बलेरात्मनेपद ८३ ८१ सूत्रानुक्रमणिका। १०१ पृष्ठम् ७४ पृष्ठम् १६ स्तुद्वयक्रिययो श्रुतिविरसं कष्टम् प्युनः पित्कर ३७ १५ ५ :::: १४ ६७ ८६ स्तुस्वभावस्फुट कटत्वमुदारता दर्भादिषु दृष्टत्वा वेपरीतमुत्कलिका बेरम इति निपातनात् वरलायमानादिषु वेरसविराम वेरुध्दाभासत्वं वेरूपपदसंधि- वेवितो देशः वैशिष्टा पदरचना वेशिष्टेन साम्यार्थ वेशेषणमात्र वेशेषणस्य च वशेषापेक्षित्वालू २२ ६८ १३ २८ ५१ ३३ २ ६५ ५ ... 9. ३६ ६४ वशेषो गुणात्मा ९५ २५ ८८ २१ ७३ २५ ८५ ८९ संदर्भेषु दशरूपकं संबन्धसंबन्धेऽपि संभाव्यधर्म संभाव्यनिषेध संभाव्यविशिष्ट संयम्यनियम्यशब्दा संशयकृत्सं सङ्गविनिवृत्ती स त्वनुभवसिध्दः स दोषगुणालंकार स धर्मेषु तन्त्र समग्रगुणा समविसदृशाभ्यां समेन वस्तुनान्याप सर्वनाम्नानु सा त्रिधा वैदर्भी सादृश्यालक्षणा सापि वैदर्भी सापि समासाभावे सा पूर्णा लुता च सामग्र्यमित्या साम्योत्कर्षों च मुगमत्वं वा सुदत्यादयः सूक्ष्मो भाव्यो सौकर्याय प्रपश्चः सौन्दर्यमलंकारः सौहृददौर्हद स्तनादीनां स्तुतिनिन्दा स्वलक्षणच्युत हस्तामाग्रहस्ता हानिवदाधिक्य हीनत्वाधिकत्व ५५ ... वत्स्यसीतिपद व्यर्थैकार्थ व्यवसितादिषु व्यवाहितार्थ च्याजस्य सत्य व्याहतपूर्वोत्त शक्यमिति रूपं शबलादिभ्यः शब्दस्मृतिविरुध्द शब्दस्मृतेः शब्द शब्दस्मृत्याभिधान शार्वरमिति च शाश्वतमिति प्रयुक्तेः शास्त्रतस्ते शास्त्रमात्रप्रयुक्त शृङ्खला परिवर्तक शेषः सरूपोऽनुप्रास शथिल्यं प्रसादः शोभेति निपातनात ३३ ९ २ ९२ ४३ १६ २ ९५ ९० २ ५६ २२ ५२ ३३ ८८ ५६ अथ पाठभेदाः। वृत्ति २ १-१-५ वृत्ता ११ १-३-१० १२ १-३-१३ १-३-१४ १४ १-३-२६ १५ १-३-३० स्वीकृतपाठः निबर्हितुम् यथास्व. संदधाति काव्यविद्यायाः भिन्न श्रेयः पाठभेदः व्यपोहितुम् यथायथम्, यथास्वरूपम् आराधयति, आरोपयति काव्यच्छायायाः भेदेन श्रेयः । कस्मात् । ना सप्रकरणकमङ्गाद्यायोग च । भाणः समवकार वीथीप्रहसनं डिमः। ईहामृगश्चेति । मसाधुपदम् एतन्नास्ति " १६ २-१-५ . " " 1८ २-१-११ २-१-२० २२ २-१-२२ " " २-८ मसाधु न खल्विह...मे गता यौगिकार्थ स्तरलं ०कलत्र. समुद्धतम् नुबद्धानि •दानाभ्याम् पदवादसमुत्सुकम् विस्फुरितम् कर्णावतंसादि समर्थनम् •नालिकेराख्या सर्वस्या वयस्य चुम्बननखर० लौकिकार्थ स्तरलाः कलत्रे ०समुद्धताः। नुविद्धानि दानान्माम् यदवारयदुत्सुकम् विस्फूर्जितम् एतन्नास्ति " २६ २-२-१३ २-२-१९ २९ २-२-२३ ३० २-२-२४ " " नालिकेरान्ता कोशस्य यस्य चुम्बनवत् नखर० सप्त. ३४ ३-१-१२ पाठभेदाः। १०३ ३ छम् सूत्र वृत्ति ३७ ३-१-२२ वृत्तौ ३-१-२३ ३८ ३-१-२५ १० ३-२-२ " पाठभेदः समहृदि, सहहदि भणित. समस्तपदविप्लुता अरुणमणि विभ्रम्भ बीजामोदम् ; नीतामोदम् वसुबन्धु प्रविरले बीवीनिबन्ध " " " " ४३ ३-२-१० १५ ३-२-१५ ९ ४-१-२ भवजनः ताप्यं विधेयामिति १५ ४-२-२ १५ स्वीकृतपाठः व्यवसितिः झटिति समस्त...गुम्फिता अरुणगुण विष्कम्भ० वीतामोदम् सुबन्धु प्रतिकलम् बीवीनितम्ब बत जनः ताप्यविधिरय० भुमोन्नति मत्तहूग समन्तानियोति हरित बर्ववि नवचन्दनेन रङ्गास्फालन विकासिनि भन्नं पदं रससंपदः निद्रेयमकला मायोक्ति एभिर्निदर्शनैः तरस्विना वाहिनी...कुलिशं वा . " " - . " " " " " १७ ४-२-१० ६१ ४-२-२० ७२ ४-२-२२ भमोन्नति मुण्डहण समन्तादुदाति हरति; तरति बन्युत्वग्वि० हरिचन्दनेन रहाच्छादन विलासिनि हन्त रसेषु निराकृतः इयमकमला पर्यायोकि अभिलक्षणैः यशस्विना वमिन्द्रकरविप्रसृतं वा " " " ७३ ४-२-२३ ४-२-२५ ७६ ४-२-३२ ७८ ५-१-९ ५-१-१४ " " "

Kavyalamkarasutravritti Of Vamana

Author
Narayan Nathaji Kaulkarni
Other authors
Ccl
Title
Kavyalamkarasutravritti Of Vamana
File name
Kavyalamkarasutravritti Of Vamana
Text
OCR done
Citation
1927
Publisher
Oriental Book Agency
Language
Sanskrit
Pages
106
Library
Scl
DLI number
326257
Barcode
2020010005783.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
FXKln0GTWi6
Download PDF

Kavyalamkarasutravritti Of Vamana