Sringeri Sharada Peetham

Sri Machankara Digvijayaha

N.s.anantakrishna Sastri · 2005/03/10

PDF Proofread

Front matter

विद्योदयग्रन्थमाला १-प्रथम पुष्पम् ।
श्रीशृङ्गेरी जगद्गुरुमहासंस्थानं श्रीशारदापीठम् ।
॥ श्रीमच्छङ्करदिग्विजयः ॥
मूलमात्रात्मकः ॥
Edited by
N.S. Ananthakrishna Sastri,
Vedantha Siromani,
Nurani, PALGHAT
All Rights reserved by the Editor.
Published on the occasion of the Chathur masya
of His Holiness at Kaladi on Ist September 1956
by
THE SRINGERI MATH,
SRINGERI

॥ विषयानुक्रमणिका ॥ सर्गः विषयः पृष्ठम् 1 1 2 11 3 19 4 28 5 41 6 58 7 70 8 81 उपोद्धातः आचार्यजन्मादिकथनम् देवावतारः कौमारचरितवर्णनम् । संन्यासग्रहणम् आत्मविद्याप्रतिष्ठा व्यासदर्शनादिवरितवर्णनम् श्रीमदाचार्यमण्डनमिश्रसंवादः श्रीमदाचार्यसरखतीसंपादः राजदेहप्रवेशादिकथनम् उग्रभैरववधः हस्तामलकादीनां शिष्यत्वेन ग्रहणम् ब्रह्मविद्याविचारः पद्मपादतीर्थयात्रावर्णनम् आचार्यकृतदिग्विजयवर्णनम् श्रीमदाचार्याणां शारदापीठवासवर्णनम् 9 93 10 103 11 114 12 121 13 129 14 136 15 152 16 168 ܕ܀ ܀ श्री जगद्गुरु श्रीशृङ्गगिरिसंस्थान- श्रीमदभिनव विद्यातीर्थस्वामिचरणाः ॥ *- - ॥ श्रीरस्तु॥ श्रीगुरुचरणारविन्दाभ्यां नमः ॥ ॥ प्रस्तावना ॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ निश्चप्रचमिदं समेषामास्तिकमहाशयानाम् , यत् , करुणावरुणालयो भगवांस्तरुणेन्दुशेखरः . स मुद्दिधीवुरिमं मानवं लोकमुरीकृत्य मार्त्य शरीरमवातरत् पृथिव्यां श्रीशङ्करनाम्नेति । पञ्चम एव वयस्यवाप्तोपनयन- संस्कारोऽसौ सकला अपि कला अनायासेनाचिरादधिगम्याष्टम एव वयसि समधिगततुरीयाश्रमः स्व शेमुषीचातुरीविजिताखिलविद्वन्मण्डलो भगवतो बालेन्दुमौलेः परमेश्वरस्यानितरसुलभां प्रसादस्य परां काष्ठा- मधिरूढोऽथ च भगवतो द्वैपायनाचानन्यसुलभमाशीविशेषं चावाप्य भगवत्पादसंज्ञां, परमाचार्याभिधां" च समार्जयत् , इतीदं विस्मय- मानन्दभरं चादधाति भारतीयानामखिलानामपि मानवानाम् । चिन्तामणिर्लोकस्सुखं सुरगुः स्वर्गसम्पदम् । प्रयच्छति गुरुः प्रोतो वैकुण्टं योगिदुर्लभम् ॥ इति हि गुरोर्महिमोक्षुष्यते । भगवान् कपिलो हि देवहूत्यास्तपोमहिना भाग्यातिशयाश्चात्मजभावमुपेत्य तपोनिधि जनकं कर्दम तपश्चरणायानु- मान्य परिव्राजकपदवीमधितिष्ठति तस्मिन् साध्वीकुलललामभूतायै खजनन्यै परमामध्यात्मविद्यां गुरुमूर्तिः सन् उपादिक्षत् । प्रापयञ्च तां योगिजनदुर्लभां वैकुण्ठपदवीमिति च श्रीमद्भागवतशास्त्रमवबोधयति । प्रकृते च भगवान् संयमिचक्रवर्ती श्रीशङ्करभगवत्पादो मातुश्चरमां दशामात्मनो योगशक्त्याऽवगत्य तेनैव योगमहिना विजययात्राप्रसङ्गेऽ- ध्युषितात् श्रीङ्गगिरिक्षेत्रात् कालटीक्षेत्रमात्मनः प्रादुर्भावभूमि मातुरा- वसथं च प्रत्यागत्य भगवन्तं रमारमणमर मस्तोत् , अगमयच्च प्रसवित्री- मात्मनोऽप्राकृतां पुनरावृत्तिरहितामकुण्ठां वैकुण्ठपदवीमित्यहो! अनि- वर्णनीयः सतीकुलतिलकीभूतायास्तत्तादृश्या वनितामणेस्तथाऽमोघ- सङ्कल्पस्य भगवतः शङ्करस्य च प्रभावविशेषो न मनसो वचसोऽपि वा ii गोचर इति । एवमनेके मानवाः पुनरावृत्तिरहितं मुक्तिसुखं प्रापिता इति करुणासागरस्य श्रीमश्छङ्करभगवत्पादमुनेर्वदान्यता न तुलामोरहति ॥ "ज्ञानं महेश्वरादिच्छेत् , मोक्षमिच्छेजनार्दनात् " इति चाभि- युक्तानां वाचमर्थवतीं बोधयन् श्रीशङ्करभगवत्पादोऽज्ञानोपहतान् जना- नात्मविद्योपदेशेन निराकृताविद्याकानापादयन् सन्ततानुसन्धीयमान- नारायणस्वरूपोऽभ्यस्यमानतन्नामधाराकश्च हरिहरयोः प्रसादमेवात्यन्ति- कश्रेयःसाधनमखिलानप्यास्तिकान् विशेषेण बोधयति स्म । तत्तादृक्षस्य भगवतः श्रीशङ्करभगवत्पादस्य लीलाविशेषावबोधकोऽयं माधवीयोऽथवा विद्यारण्यकीयो ग्रन्थो द्रविड (तमिल) भाषायामनूद्य मुद्राप्य प्रकाशितो विधेयतमेनानेन दासजनेन । आस्तिकजनतायाः पारायणस्य सुकरतामालोच्य मूलमात्रात्मकश्चायमन्यो भागः कचित् क्वचित् लघु- टिप्पणीसंवलितो मुद्रापणाय समभिलषितः ॥ सोऽयमभिलाषोऽकिञ्चनस्यास्य सजनविधेयस्य, यमनियमाद्यष्टाङ्ग- योगानुष्ठानपारावारपारीणानां श्रीशृङ्गगिरिव्याख्या महासिंहासनमलं- कुर्वतां सन्ततशारदावरिवस्यावशीकृतान्तःकरणानां परमहंसपरिव्राज- काचार्याणां श्रीमदभिनव विद्यातीर्थभारतीस्वामिचरणानां प्रसादप्रभावे- णानुगृहीत इति धन्यधन्योऽयं समजनीति नासकृतचने नाप्यात्मानं तोषयितुमलम् ॥ 'विद्योदयग्रन्थमाले'ति नामनिर्देशपूर्वकं मुद्राप्य प्रकाशं जिगमि- षितेषु ग्रन्थेष्वयं ग्रन्थः प्राथमिकं प्रसूनपदं लभतामिति चानवरतानति- पूर्वकं प्रार्थयता सप्रश्रयं समर्प्यतेऽयमुपहारः ॥ श्री १००८-मतां विश्वजनीनाचरितानां श्रीचरणानां दुर्मुखनाम संवत्सरीय-चातुर्मास्यव्रतानुष्ठानबद्धदीक्षाणामादिभगवत्पाद-श्रीशङ्करा- चार्याविर्भावभुवं कालटीक्षेत्रं निजचातुर्मास्यव्रतानुष्ठानाय पवित्रीकुर्वतां श्रीशृङ्गगिरिजगद्गुरुचरणारविन्दानां तत्तादृशचातुर्मास्यवतानुष्ठानकाल एव समठमाणोऽयमुपहारः प्रसादपरम्परा विश्वजनीनाः पुष्णात्विति च भूयोभूयोऽभ्यर्थये ॥ इति विधेयतमः N. S. Ananthakrishna Sastry, PALGHAT, 25-8-1956) Retired Sanskrit Pandit:

.
":
पुमर्थाश्चत्वारः किमुत निगमा ऋक्प्रभृतयः
प्रभेदा वा मुक्तेविमलतरसालोक्यमुखराः ।
मुखान्याहो धातुश्विरमिति विमृश्याय वियुधा
विदुः शिष्यान् हस्तामलकमुखराञ्छङ्करगुरोः ॥
[सर्ग १२-श्लोका ८७]

२०
॥ श्रीः॥
ओं तत्सद्ब्रह्मणे नमः
श्री गुरुचरणारविन्दाभ्यां नमः
ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंशर्षिभ्यो नमो गुरुभ्यः
श्रीविद्यारण्यविरचितः
॥ श्रीमच्छङ्करदिग्विजयः ॥
प्रथमः सर्गः
२
उपोद्धातः
प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् ।
प्राचीनशङ्करजये सारः संगृह्यते स्फुटम् ॥
यद्वद्घटानां पटलो विशालो विलोक्यतेऽल्पे किल दर्पणेऽपि ।
तद्वन्मदीये लघुसंग्रहेऽस्मिन्नुद्वीक्ष्यतां शाङ्करवाक्यसारः॥
यथाऽतिरुच्ये मधुरेऽपि रुच्युत्पादाय रुच्यान्तरयोजनाहीं ।
तथेष्यतां प्राक्कविहृद्यपद्येष्वेषाऽपि मत्पद्यनिवेशभङ्गी ॥
स्तुतोऽपि सम्यक्कविभिः पुराणैः कृत्याऽपि नस्तुष्यतु भाष्यकारः।
क्षीराब्धिवासी सरसीरुहाक्षः क्षीरं पुनः किं चकमे न गोष्ठे ॥
पयोब्धिविवरीसुनिःसृतसुधाझरीमाधुरी-
धुरीणभणिताधरीकृतफणाधराधीशितुः ।
शिवङ्करसुशङ्कराभिधजगद्गुरोः प्रायशो
यशो हृदयशोधकं कलयितुं समीहामहे ॥ .५
३
४

2
८
श्रीमच्छङ्करदिग्विजये
[प्रथमः
केमे शङ्करसगुरोर्गुणगणा दिग्जालकूलङ्कपाः
कालोन्मीलितमालतीपरिमलावष्टंभमुष्टिंधयाः।
काहं हन्त तथाऽपि सद्गुरुकृपापीयूषपारम्परी-
मनोन्मनकटाक्षवीक्षणबलादस्ति प्रशस्ताऽर्हता ॥
धन्यमन्यविवेकशून्यसुजनंमन्याब्धिकन्यानटी-
नृत्योन्मत्चनराधमाधमकथांसंमर्ददुष्कर्दमैः ।
दिग्धां मे गिरमद्य शङ्करगुरुक्रीडासमुद्ययश:-
पारावारसमुच्चलज्जलझरैः संक्षालयामि स्फुटम् ॥
वन्ध्यामनुखरीविषाणसदृशक्षुद्रक्षितीन्द्रक्षमा-
शौयौदार्यदयादिवर्णनकलादुर्वासनावासिताम् ।
मद्वाणीमधिवासयामि यमिनस्त्रैलोक्यरङ्गस्थली-
नृत्यत्कीर्तिनटीपटीरपटलीचूर्णैविकीर्णैः क्षितौ ॥
पीयूषधुतिखण्डमण्डनकृषारूपान्तरश्रीगुरु-
प्रेमस्थेमसमर्हणाईमधुरव्याहारसूनोत्करः ।
प्रौढोऽयं नवकालिदासकवितासन्तानसंतानको
दद्यादद्य समुद्यतः सुमनसामामोदपारम्परीम् ॥
सामोदैरनुमोदिता मृगमदैरानन्दिता चन्दनै-
मन्दारैरभिवन्दिता प्रियगिरा काश्मीरजैः स्मेरिता ।
वागेषा नवकालिदासविदुषो दोषोज्झिता दुष्कवि-
वातैनिष्करुणैः क्रियेत विकृता धेनुस्तुरुष्कैरिव ॥ १०
यद्वा दीनदयालवः सहृदयाः सौजन्यकल्लोलिनी-
दोलान्दोलनखेलनैकरसिकस्वान्ताः समन्तादमी ।
सन्तः सन्ति परोक्तिमौक्तिकजुषः किं चिन्तयाऽनन्तया
यद्वा तुष्यति शङ्करः परगुरुः कारुण्यरत्नाकरः ॥ ११
उपक्रम्य स्तोतुं कतिचन गुणाञ्छङ्करगुरोः
प्रभग्नाः श्लोकार्थे कतिचन तदधिरचने ।

3 र्गः।१] उपोद्धातः अहं तुष्टषुस्तानहह कलये शीतकिरणं कराभ्यामाहर्तुं व्यवसितमतेः साहसिकताम् ॥ १२ तथाऽप्युज्जम्भन्ते मयि विपुलदुग्धाब्धिलहरी- ललकल्लोलालीलसितपरिहासैकरसिकाः। अमी मूकान्वाचालयितुमपि शक्ता यतिपतेः कटाक्षाः किं चित्रं भृशमघटिताभीष्टघटने ॥ १३ अस्मज्जिह्वाग्रसिंहासनमुपनयतु स्वोक्तिधारामुदारा- मद्वैताचार्यपादस्तुतिकृतसुकृतोदारता शारदाम्बा । नृत्यन्मृत्युञ्जयोच्चैर्मुकुटतटकुटी निःस्रवत्स्वःस्रवन्ती कल्लोलोद्वेलकोलाहलमदलहरीखण्डिपाण्डित्यहृद्याम् ॥ १४ केदं शङ्करसद्गुरोः सुचरितं काहं वराकी कयं निर्वघ्नासि चिरार्जितं मम यशः किं मज्जयस्यम्बुधौ । इत्युक्त्वा चपलां पलायितवीं वाचं नियुङ्क्ते बलात् प्रत्याहृत्य गुणस्तुतौ कविगणश्चित्रं गुरोर्गौरवम् ॥ १५ रूकाक्षरवानिघण्टुशरणैरोणादिकप्रत्यय- प्रान्त यङन्तदन्तुरत दुर्बोधदुरान्वयैः। कराणां कवितावतां कतिपयैः कष्टेन कृष्टैः पदै- हाहा स्याद्वशगा किरातविततेरेणीव वाणी मम ॥ १६ नेता यत्रोल्लसति भगवत्पादसंज्ञो महेश: शान्तियत्र प्रकचति रसः शेषवानुज्वलाथैः । यत्राविद्याक्षतिरपि फलं तस्य काव्यस्य कर्ता धन्यो व्यासाचलकविवरस्तस्कृतिज्ञाश्च धन्याः ॥ तत्रादिम उपोद्धातो द्वितेये तु तदुद्भवः । तृतीये तत्तदमृतान्धोवतारनिरूपणम् ॥ १८ चतुर्थसर्गे तच्छुद्धाष्टमप्राक्चरितं स्थितम् । पञ्चमे तद्योग्यसुखाश्रमप्राप्तिनिरूपणम् ॥ १९ १७ 4 श्रीमच्छङ्करदिग्विजये [प्रथमः २० २१ २२ २३ २५ महताऽनेहसा यैषा सम्प्रदायागता गता । तस्याः शुद्धात्मविद्यायाः षष्ठे सर्गे प्रतिष्ठितिः ॥ तव्यासाचार्यसन्दर्शविचित्रं सप्तमे स्थितम् । स्थितोऽष्टमे मण्डनार्यसंवादो नवमे मुनेः ।। वाणीसाक्षिकसार्वज्ञनिर्वाहोपायचिन्तनम् । दशमे योगशक्त्या भूपतिकायपवेशनम् ।। बुद्धवा मीनध्वजकलास्तत्प्रसङ्गमपञ्चनम् । सर्ग एकादशे तूप्रभैरवाभिधनिर्जयः ॥ द्वादशे हस्तधाच्यार्यतोटकोभयसंश्रयः। वार्तिकान्तब्रह्मविद्याचालनं तु त्रयोदशे॥ चतुर्दशे पद्मपादतीर्थयात्रानिरूपणम् । सर्गे पञ्चदशे तुक्तं तदाशाजयकौतुकम् ॥ षोडशे शारदापीठवासस्तस्य महात्मनः । इति षोडशभिः सगैव्युत्पाद्या शाङ्करी कथा ॥ सैषा कलिमलच्छेत्री सकृच्छ्रुत्याऽपि कामदा । नानाप्रश्नोत्तरै रम्या विदामारभ्यते मुदे ॥ एकदा देवता रूप्याचलस्थमुपतस्थिरे । देवदेवं तुषारांशुमिव पूर्वाचलस्थितम् ॥ प्रसादानुमितस्त्रार्थसिद्धयः प्रणिपत्य तम् । मुकुलीकृतहस्ताब्जा विनयेन व्यजिज्ञपन् । विज्ञातमेव भगवन्विद्यते यद्धिताय नः । वश्चयन्सुगतान् बुद्धवपुर्धारी जनार्दनः ॥ तत्पणीतागमालम्बैबौद्धैर्दर्शनदूषकैः । व्यालेदानीं प्रभो धात्री रात्रिः संतमसैरिव ।। २६ २७ २८ २९ ३१ 5 सर्गः १] उपोद्धातः वर्णाश्रमसमाचारान्विषन्ति ब्रह्मविद्विषः । ब्रुवन्त्याम्नायवचसां जीविकामात्रतां प्रभो ॥ न सन्ध्यादीनि कर्माणि न्यासं वा न कदाचन । करोति मनुजः कश्चित्सर्वे पाखण्डतां गताः ॥ ३३ * श्रुते पिदधति श्रोत्रे क्रतुरित्यक्षरद्वये । क्रियाः कथं प्रवर्तेरन् कथं क्रतुभुजो वयम् ॥ ३४ शिवविष्ण्वागमपरैलिंडाचक्रादिचिह्नितः । पाखण्डैः कर्म संन्यस्तं कारुण्यमिव दुर्जनैः ।। ३५ अनन्येनैव भावेन गच्छन्त्युत्तमपूरुषम् । श्रुतिः साध्वीं मदक्षीवैः का वा शाक्यैन दृषिता ॥ सद्यः कृत्त द्विजशिरःपङ्कजार्चितभैरवैः । न ध्वस्ता लोकमर्यादा का वा कापालिकाधमः ॥ अन्येऽपि बहवो मार्गाः सन्ति भूमौ सकण्टकाः । जनैर्येषु पदं दत्त्वा दुरन्तं दुःखमाप्यते ॥ तद्भवान् लोकरक्षार्थमुत्साद्य निखिलान् खलान् । वर्त्म स्थापयतु श्रौतं जगद्येन सुखं व्रजेत् ॥ ३९ इत्युक्त्वोपरतान्देवानुवाच गिरिजाप्रियः । मनोरथं पूरयिष्ये मानुष्यमवलम्ब्य वः ।। ४० * सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्यध्वमेष वोऽस्विष्टकामधुक् ॥ देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्त्यथ ।। यज्ञो दानं तप: कर्म पावनानि मनीषिणाम् । विद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ॥ ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥ इत्यादीनी भगवद्गीतावचनानि यज्ञादीनामवश्यानुष्ठेयत्वमुपदिशन्ति । ३७ ३८ ३ 6 श्रीमच्छङ्करदिग्विजये [प्रथमः ४४ : ४ दुष्टाचारविनाशाय धर्मसंस्थापनाय च । भाष्यं कुर्वन्ब्रह्मसूत्रतात्पर्यार्थविनिर्णयम् ॥ ४१ मोहनप्रकृतिद्वैतध्वान्तमध्याह्नभानुभिः । चतुर्भिः सहितः शिष्यैश्चतुरैर्ह रिवद्भुजैः ।। ४२ यतीन्द्रः शङ्करो नाम्ना भविष्यामि महीतले । मद्वत्तथा भवन्तोऽपि मानुषीं तनुमाश्रिताः ॥ ४३ तं मामनुसरिष्यन्ति सर्वे त्रिदिववासिनः । तदा मनोरथः पूर्णो भवतां स्यान्न संशयः ॥ ब्रुवन्नेवं दिविषदः कटाक्षानन्यदुर्लभान् । * कुमारे निदधे भानुः किरणानिव पङ्कजे ॥ ४५ क्षीरनीरनिर्वाचिसचिवान प्राप्य तान् गुहः । कटाक्षान्मुमुदे रश्मीनुदन्वानन्दवानिव ॥ ४६ • अवदन्नन्दनं स्कन्दममन्दं चन्द्रशेखरः । दन्तचन्द्रातपानन्दिवृन्दारकचकोरकः ॥ शृणु सौम्य वचः श्रेयो जगदुद्धारगोचरम् । काण्डत्रयात्मके वेदे प्रोद्धृते स्याद द्विजोद्धृतिः ॥ ४८ तद्रक्षणे रक्षितं स्यात्सकलं जगतीतलम् । तदधीनत्वतो वर्णाश्रमधर्मततेस्ततः ।। ४९ इदानीमिदमुद्धार्यमितिकृत्तमतः पुरा । मम गूढाशयविदौ विष्णुशेषौ समीपणौ ॥ मध्यमं काण्डमुद्धर्तुमनुज्ञातौ मयैव तौ । अवतीर्याशतो भूमौ सङ्कर्षणपतञ्जली ॥ *कुत्सितो मारः यस्मात् , सः कुमारः । अथवा कुत्सितान मारयतीति कुमारः इति धा कुमारशब्दनिर्वचनम् ॥ ४७ 7 ५३ ५४ ५६ 1:१] उपोद्धातः मुनी भूत्वा मुदोपास्तियोगकाण्डकृतौ स्थितौ । अग्रिमं ज्ञान काण्डं तूद्धरिष्यामीति देवताः ॥ सम्प्रति प्रतिजाने स्म जानात्येव भवानपि । जैमिनीयनयाम्भोधेः शरत्पवंशशी भव ॥ विशिष्टं कर्मकाण्डं त्वमुद्धर ब्रह्मणः कृते । सुब्रह्मण्य इति ख्यातिं गमिष्यसि ततोऽधुना ।। नैगमीं कुरु मर्यादामवतीर्य महीतले । निर्जित्य सौगतान्सर्वानाम्नायार्थविरोधिनः ॥ ब्रह्माऽपि ते सहायार्थ मण्डनो नाम भूसुरः । भविष्यति महेन्द्रोऽपि सुधन्वा नाम भूमिपः ॥ तथेति प्रतिजग्राह विधेरपि विधायिनीम् । बुधानीकपतिर्वाणी सुधाधारामिव प्रभोः ।। अथेन्द्रो नृपतिर्भूत्वा प्रजा धर्मेण पालयन् । दिवं चकार पृथिवीं स्वपुरीममरावतीम् ॥ सर्वज्ञोऽप्यसतां शास्त्रे कृत्रिमश्रद्धयाऽन्वितः । प्रतीक्षमाणः क्रौञ्चार मेलयामास सौगतान् ।। ततः स तारकारातिरजनिष्ट महीतले । भट्टपादाभिधा यस्य भूषा दिक्सुदृशामभूत् ॥ स्फुटयन्वेदतात्पर्यमभाजैमिनिसूत्रितम् । सहस्रांशुरिवानूरुव्यञ्जितं भासयञ्जगत् ॥ राज्ञः सुधन्वनः पाप नगरी स जयन्दिशः । प्रत्युद्गम्य क्षितीन्द्रोऽपि विधिवत्तमपूजयत् ।। सोऽभिनन्याशिषा भूपमासीनः काश्चनासने । तां समां शोभयामास सुरभिर्यवनीमिव ॥ ५९ ६० ६१ ६२ 8 श्रीमच्छङ्करदिग्विजये [प्रथमः ६४ ६५ ६ ६७ ६८ ६९ सभासमीपविटपिश्रितकोकिलकूजितम् । श्रुत्वा जगाद तद्वयाजाद्राजानं पण्डिताग्रणीः ॥ मलिनैश्चेन्न सङ्गस्ते नीचैः काककुलैः पिक । श्रुतिदृषकनि दैः श्लाघनीयस्तदा भवः ॥ षडभिज्ञा निशम्येमां वाचं तात्पर्यगर्भिताम् । नितरां चरणस्पृष्टा भुजङ्गा इव चुक्रुधुः ॥ छित्त्वा युक्तिकुठारेण बुद्धसिद्धान्तशाखिनम् । स तद्ग्रन्थेन्धनैश्चीणैः क्रोधज्वालामवर्धयत् ॥ सा सभा वदनैस्तेषां रोषपाटलकान्तिभिः । बभौ बालातपातानैः सरसीव सरोरुहैः ॥ उपन्यस्यत्सु साक्षेपं खण्डयत्सु परस्परम् । तेषूदतिष्ठन्नि?षो भिन्दन्निव रसातलम् ।। अधः पेतुर्बुधेन्द्रेण क्षताः पक्षेषु तत्क्षणम् । व्यूढकर्कशतर्केण तथागतधराधराः ।। स सर्वज्ञपदं विज्ञोऽसहमान इव द्विषाम् । चकार चित्रविन्यस्तानेतान्मौनविभूषितान् ॥ ततः प्रक्षीणदर्पेषु बौद्धेषु वसुधाधिपम् । बोधयन्बहुधा वेदवचांसि प्रशशंस सः ॥ बभाषेऽथ धराधीशो विद्यायत्तौ जयाजयौ । यः पतित्वा गिरेः शृङ्गादव्यग्रस्तन्मतं ध्रुवम् ॥ तदाकर्ण्य मुखान्यन्ये परस्परमलोकयन् । द्विजाग्र्यस्तु स्मरन्वेदानारुरोह गिरेः शिरः ।। यदि वेदाः प्रमाणं स्युभूयात्काचिन मे क्षतिः । इति घोषयता तस्मान्न्यपाति सुमहात्मना । ७१ ७२ ७३ ७४ सर्गः १] 9 ७६ ७७ ७८ ७९ उपोद्धातः किमु दौहित्रदत्तेऽपि पुण्ये विलयमास्थिते । ययातिश्चयवते स्वर्गात्पुनरित्यूचिरे जनाः ॥ अपि लोकगुरुः शैलातूलपिण्ड इवापतत् । श्रुतिरात्मशरण्यानां व्यसनं नोच्छिनत्ति किम् ॥ श्रुत्वा तदद्भुतं कर्म द्विजा दिग्भ्यः समाययुः । घनघोषमिवाकर्ण्य निकुञ्जेभ्यः शिखावळाः ।। दृष्ट्वा तमक्षतं राजा श्रद्धां श्रुतिषु सन्दधे । निनिन्द बहुधाऽऽत्मानं खलसंसर्गदूषितम् ॥ सौगतास्त्वब्रुवन्नेदं प्रमाणं मतिनिर्णये । मणिमन्त्रौषधैरेवं देहरक्षा भवेदिति ॥ दुर्विधैरन्यथा नीते प्रत्यक्षेऽर्थेऽपि पार्थिवः । भृकुटीभीकरमुखः सन्धामुग्रतरां व्यधात् ।। पृच्छामि भवतः किञ्चिद्वक्तुं न प्रभवन्ति ये । यन्त्रोपलेषु सर्वोस्तान्यातयिष्याम्यसंशयम् ।। इति संश्रुत्य गोत्रेशो घटमांशीविषान्वितम् । आनीयात्र किमस्तीति पप्रच्छ द्विजसौगतान् । वक्ष्यामहे वयं भूप श्वः प्रभातेऽस्य निर्णयम् । इति प्रसाद्य राजानं जग्मुर्भूसुरसौगताः ।। पद्मा इव तपस्तेषुः कण्ठद्वयसपाथसि । घुमणि प्रति भूदेवाः सोऽपि प्रादुरभृत्ततः ॥ सन्दिश्य वचनीयांशमादित्येऽन्तर्हिते द्विजाः । आजग्मुरपि निश्चित्य सौगताः कलशस्थितम् ॥ ततस्ते सौगताः सर्वे भुजंगोऽस्तीत्यवादिषुः । भोगीशभोगशयनो भगवानिति भूसुराः ॥ ८३ ८४ ८५ ८६ ८७ 10 ८८ ९१ श्रीमच्छङ्करदिग्विजये [प्रथमः सर्गः १] श्रुतभूसुरवाक्यस्य वदनं पृथिवीपतेः । कासारशोषणम्लानसारसश्रियमाददे । अथ प्रोवाच दिव्या वाक सम्राजमशरीरिणी । तुदन्ती संशयं तस्य सर्वेषामेव शृण्वताम् ।। ८९ सत्यमेव महाराज ब्राह्मणा यद्वभाषिरे । मा कृथाः संशयं तत्र भव सत्यपतिश्रवः ॥ श्रुत्वाऽशरीरिणीं वाणी ददर्श वसुधाधिपः । मूर्ति मधुद्विषः कुम्भे सुधामिव सुराधिपः ।। निरस्ताखिलसन्देहो विन्यस्तेतरदर्शनात् । व्यधादाज्ञां ततो राजा वधाय श्रुतिविद्विषाम् ।। ९२ आसेतोरातुषारादेबौद्धानासुद्धबालकम् । न हन्ति यः स हन्तव्यो भृत्यानित्यन्वशान्नृपः ।। ९३ इष्टोऽपि दृष्टदोषश्वेद्वध्य एव महात्मनाम् । जननीमपि कि साक्षान्नावधीद्भगुनन्दनः ॥ स्कन्दानुसारिराजेन जैना धर्मद्विषो हताः। योगीन्द्रेणेव किं योगन्ना विघ्नास्तत्त्वावलम्बिना ।। ९५ हतेषु तेषु दुष्टेषु परितस्तार कोविदः । श्रीतवर्त्म तमिस्रेषु नष्टेष्विव रविर्महः ।। ९६ कुमारिलमृगेन्द्रेण हतेषु जिनहस्तिषु । निष्पत्यूहमवर्धन्त श्रुतिशाखाः समन्ततः । प्रागित्थं ज्वनलभुवा प्रवर्तितेऽस्मिन् कर्माध्वन्यखिलविदा कुमारिलेन । उद्धर्तु भुवनमिदं भवाब्धिमग्नं कारुण्याम्बुनिधिरियेष चन्द्रचूडः ॥ ९८ इति श्रीमाधवीये तदुपोद्घातकथापरः । संक्षेपशङ्करजये सर्गोऽयं प्रथमोऽभवत् ।। आदितः श्लोकाः 98 ९४ २ द्वितीयः सर्गः ॥ १ ॥ आचार्यजन्मादिकथनम् ॥ ततो महेशः किल केरलेषु श्रीमद्वषाद्रौ करुणासमुद्रः । पूर्णानदीपुण्यतटे स्वयंभूलिङ्गात्मनाऽनङ्गधगाविरासीत् ॥ तच्चोदितः कश्चन राजशेखरः स्वमे मुहुईष्टतदीयवैभवः । प्रासादमेकं परिकल्प्य सुप्रभं प्रावर्तयत्तस्य समर्हणं विभोः ॥ तस्येश्वरस्य प्रणतातिहर्तुः प्रसादतः प्राप्तनिरीतिभावः । कश्चित्तदभ्याशगतोऽग्रहारः कालव्यभिख्योऽस्ति महान्मनोज्ञः ॥३ कश्चिद्विपश्चिदिह निश्चलधीविरेजे विद्याधिराज इति विश्रुतनामधेयः । रुद्रो वृषाद्रिनिलयोऽवतरीतुकामो यत्पुत्रमात्मपितरं समरोचयत्सः ॥ ४ पुत्रोऽभवत्तस्य पुरात्तपुण्यैः सुब्रह्मतेजाः शिवगुवभिख्यः । ज्ञाने शिवो यो वचने गुरुस्तस्यान्वर्थनामाऽकृत लब्धवर्णः ॥ ५ स ब्रह्मचारी गुरुगेहवासी तत्कर्यकारी विहितान्नभोजी । सायंप्रभातं च हुताशसेवी व्रतेन वेदं निजमध्यगीष्ट । क्रियाद्यनुष्ठानफलोऽर्थबोधः स नोपजायेत विना विचारम् । अधीत्य वेदानथ तद्विचारं चकार दुर्बोधतरो हि वेदः ॥ वेदेष्वधीतेषु विचारितेऽर्थे शिष्यानुरागी गुरुराह तं स्म । अपाठि मत्तः सषडङ्गवेदो व्यचारि कालो बहुरत्यगात्ते ।। भक्तोऽपि गेहं ब्रज संपति त्वं जनोऽपि ते दर्शनलालसः स्यात् । गत्वा कदाचित्वजनप्रमोदं विधेहि मा तात विलम्बयस्ख ॥ विधातुमिष्टं यदिहापराह्ने विजानता तत्पुरुषेण पूर्वम् । विधेयमेवं यदिह श्व इष्टं कर्तुं तदद्येति विनिश्चितोऽर्थः ।। १० कालोप्तबीजादिह यादृशं स्यात्सस्यं न ताग्विपरीतकालात् । तथा विवाहादि कृतं स्वकाले फलाय कल्पेत न चेट्टथा स्यात् ।। w ७ ८ ९ 12 श्रीमच्छङ्करदिग्विजये [प्रथमः आ जन्मनो गणयतो ननु तान्गताब्दान्माता पिता परिणयं तव कर्तुकामौ। पित्रोरियं प्रकृतिरेव पुरोपनी तिं यद्धयायतस्तनुभवस्य ततो विवाहम् ।। तत्तत्कुलीनपितरः स्पृहयन्ति कामं तत्तत्कुलीनपुरुषस्य विवाहकर्म । पिण्ड प्रदात्पुरुषस्य ससन्ततित्वे पिण्डाविलोपमुपरि स्फुटमीक्षमाणाः ॥ अर्थावबोधनफलो हि विचार एष तच्चापि चित्रबहुकर्मविधानहेतोः। अत्राधिकारमधिगच्छति सद्वितीयः कृत्वा विवाहमिति वेदविदां प्रवादः॥ सत्यं गुरो न नियमोऽस्ति गुरोरधीतवेदो गृही भवति नान्यपदं प्रयाति । वैराग्यवान्त्रजति भिक्षुपदं विवेकी नो चेट्टही भवति राजपदं तदेतत् ॥ श्रीनैष्ठिकाश्रममहं परिगृह्य यावज्जीवं वसामि तव पार्श्वगतश्चिरायुः । दण्डाजिनी सविनयो बुध जुह्वदग्नौ वेदं पठन् पठितविस्मृतिहानिमिच्छन् । दारग्रहो भवति तावदयं सुखाय यावत्कृतोऽनुभवगोचरतां गतः स्यात् । पश्चाच्छनैर्विरसतामुपयाति सोऽयं किं निगुषे त्वानुभूतिपदं महात्मन् ॥ यागोऽपि नाकफलदो विधिना कृतश्चेत पायः समग्रकरणं भुवि दुर्लभं तत् । पृष्टयादिवन्न हि फलं यदि कर्मणि स्यात् दिष्टया यथोक्तविरहे फलदुर्विषत्वम् ।। निःस्वो भवेद्यदि गृही निरयी स नूनं भोक्तुं न दातुमपि यः क्षमतेऽणुमात्रम् । पूर्णेपि पूर्तिमभिमन्तुमशक्नुवन्यो मोहेन शं न मनुते खलु तत्र तत्र ॥ १९ यावत्सु सत्सु परिपूर्तिरथो अमीषां साधो गृहोपकरणेषु सदा विचारः । एकत्र संहतवतः स्थितपूर्वनाशस्तच्चापयाति पुनरप्यपरेण योगः ॥ २० एवं गुरौ वदति तज्जनको निनीषुरागच्छदत्र तनयं स्वगृहं गृहेशः । तेनानुनीय बहुलं गुरवे प्रदाप्य यत्नानिकेतनमनायि गृहीतविद्यः ॥ २१ १८ 13 सर्गः २] आचार्यजन्मादिकथनम् गत्वा निकेतनमसौ जननीं ववन्दे साऽऽलिङ्गय तद्विरहजं परितापमौज्झत् ॥ प्रायेण चन्दनरसादपि शीतलं तद्यत्पुत्रगात्रपरिरम्भणनामधेयम् ॥ २२ श्रुत्वा गुरोः सदनतश्विरमागतं तं तद्धन्धुरागमदथ त्वरितेक्षणाय । प्रत्युद्गमादिभिरसावपि बन्धुतायाः संभावनां व्यधित वित्तकुलानुरूपाम् ।। वेदे पदक्रमजटादिषु तस्य बुद्धिं संवीक्ष्य तज्जनयिता बहुशोऽप्यपृच्छत् । यस्याभवत्यथितनाम वसुन्धरायां विद्याधिराज इति सङ्गतवाच्यमस्य ॥ भाट्टे नये गुरुमते कणभुङ्मतादौ प्रश्नं चकार तनयस्य मतिं बुभुत्सुः । शिष्योऽप्युवाच नतपुर्वगुरुः समाधि पित्रोदितः स्मितमुखो हसिताम्बुजास्यः ॥ २५ वेदे च शास्त्रे च निरीक्ष्य बुद्धिं प्रश्नोत्तरादावपि नैपुणी ताम् । दृष्ट्वा तुतोषातितरां पिताऽस्य स्वतः सुखा या किमु शास्त्रतो वाक् ॥ कन्यां प्रदातुमनसो बहवोऽपि विप्रास्तन्मन्दिरं पति ययुगुणपाशकृष्टाः । पूर्व विवाहसमयादपि तस्य गेहं संबन्धवकिल बभूव वरीतुकामैः ॥ २७ बह्वर्थदायिषु बहुष्वपि सत्सु देशे कन्याप्रदातृषु परीक्ष्य विशिष्टजन्म । कन्यामयाचत सुताय स विप्रवर्यो विप्रं विशिष्टकुलजं प्रथितानुभावः ॥ कन्यापितुर्वरपितुश्च विवाद आसीदित्यं तयोः कुलजुषोः प्रथितोरुभूत्योः । कार्यस्त्वया परिणयो गृहमेत्य पुत्रीमानीय सम तनयाय सुता प्रदेया॥ सङ्कल्पिताद् द्विगुणमर्थमहं प्रदास्ये मद्नेहमेत्य परिणीतिरियं कृता चेत् । अर्थ विना परिणयं द्विज कारयिष्ये पुत्रेण मे गृहगता यदि कन्यका स्यात् ।। कश्चित्तु तस्याः पितरं बभाण मिथः समाहूय विशेषवादी । अस्मासु गेहं गतवत्स्वमुष्मै विगृह्य कन्यामपरः प्रदद्यात् ।। ३१ तेनानुनीतो वरतातभाषितं द्विजोऽनुमेने वररूपमोहितः । दृष्टो गुणः संवरणाय कल्पते मन्त्रोऽभिजापाचिरकालभावितः ॥ ३२ 14 श्रीमच्छङ्करदिग्विजये [द्वितीयः विद्याधिराजमघपण्डितनामधेयौ संप्रत्ययं व्यतनुतामभिपूज्य दैवम् । सम्यङ्मुहूर्तमवलम्ब्य विचारणीया मौहूर्तिका इति परस्परमूचिवांसौ ॥ उद्वाह्य शास्त्रविधिना विहिते मुहूर्ते तौ संमुदं बहुमवापतुराप्तकामौ । तत्रागतो भृशममोदत बन्धुवर्गः किं भाषितेन बहुना मुदमाप वर्गः ॥ तौ दंपती सुवसनौ शुभदन्तपती संभूषितौ विकसिताम्बुजरम्यवक्तौ । सत्रीडहासमुखवीक्षणसंपहृष्टौ देवाविवापतुरनुत्तमर्म नित्यम् ॥ ३५ अग्नीनथाधित महोत्तरयागजातं कर्तुं विशेषकुशलैः सहितो द्विजेशः । तत्तत्फलं हि यदनाहितहव्यवाहः स्यादुत्तरेषु विहितेष्वपि नाधिकारी। यागैरनेकैबहुवित्तासध्यैविजेतुकामो भुवनान्ययष्ट । व्यस्मारि देवैरमृतं तदाशैदिने दिने सेवितयज्ञभागैः ।। ३७ संतर्पयन्तं पितृदेवमानुषांस्तत्तत्पदार्थैरभिवाञ्छितैः सह । विशिष्टवित्तैः सुमनोभिरश्चितं तं मेनिरे जङ्गमकल्पपादपम् ॥ ३८ परोपकारवतिनो दिने दिने व्रतेन वेदं पठतो महात्मनः । श्रुतिस्मृतिप्रोदितकर्म कुर्वतः समा व्यतीयुर्दिनमाससंमिताः ।। ३९ रूपेषु मारः क्षमया वसुन्धरा विद्यासु वृद्धो धनिनां पुरःसरः। गर्वानभिज्ञो विनयी सदा नतः स नोपलेभे तनयाननं जरन् । गावो हिरण्यं बहुसस्यमालिनी वसुन्धरा चित्रपदं निकेतनम् । संभावना बन्धुजनैश्च संगमो न पुत्रहीनं बहवोऽप्यममुहन् । ४१ अस्यामजाता मम सन्ततिश्चेच्छरद्यवश्यं भवितोपरिष्टात् । तत्राप्यजाता तत उत्तरस्यामेवं स कालं मनसा निनाय ।। खिन्दन्मनाः शिवगुरुः कृतकार्यशेषो जायामचष्ट सुभगे किमतः परं नौ। साङ्गं वयोऽर्धमगमत्कुलजे न. दृष्टं पुत्राननं यदिहलोक्यमुदाहरन्ति ।। ४३ एवं प्रिये गतवतोः सुतदर्शनं चेत्पञ्चत्वमैष्यदथ नौ शुभमापतिष्यत् । अस्याभ्युपायमनिशं भुवि वीक्षमाणो नेक्षे ततः पितृजनिर्विफला ममाभूत् ।। ४० १ ४२ सर्गः२] 15 1 ४८ आचार्यजन्मादिकथनम् भद्रे सुतेन रहितौ भुवि के वदन्ति नौ पुत्रपौत्रसरणिक्रमतः प्रसिद्धिः । लोके न पुष्पफलशुन्यमुदाहरन्ति वृक्षं प्रवाल समये फलितं विहाय ।। इतीरिते प्राह तदीयभार्या शिवाख्यकल्पद्रुममाश्रयावः । तत्सेवनान्नौ भविता सुनाथ फलं स्थिरं जङ्गमरूपमैशम् ।। ४६ भक्तेप्सितार्थपरिकल्पनकल्पवृक्षं देवं भजाव कमितः सकलार्थसिद्धयै । तत्रोपमन्युमहिमा परमं प्रमाणं नो देवतासु जडिमा जडिमा मनुष्ये ॥ ४७ इत्थं कलत्रोक्तिमनुत्तमां च श्रुत्वा सुतार्थी प्रणतैकवश्यम् । इयेष सन्तोषयितुं तपोभिः सोमाघमर्धानमुमामीशम् ।। तस्योपधाम किल संनिहिताऽऽपगैका स्नात्वा सदाशिवमुपास्त जले स तस्याः । कन्दाशनः कतिचिदेव दिनानि पूर्व पश्चात्तदा स शिवपादयुगाब्जभृङ्गः ॥ जायाऽपि तस्य विमला नियमोपतापैश्चिक्लेश कायमनिशं शिवमर्चयन्ती । क्षेत्रे वृषस्य निवसन्तमजं स भर्तुः कालोऽत्यगादिति तयोस्तपतोरनेकः।। देवः कृपापरवशी द्विजवेषधारी प्रत्यक्षतां शिवगुरुं गत आत्तनिद्रम् । प्रोवाच भोः किमभिवाञ्छसि किं तपस्ते पुत्रार्थितेति वचनं स जगाद विप्रः।। देवोऽप्यपृच्छदथ तं द्विज विद्धि सत्यं सर्वज्ञमेकमपि सर्वगुणोपपन्नम् । पुत्रं ददान्यथ बहून्विपरीतकांस्ते भूर्यायुषस्तनुगुणानवदद द्विजेशः ॥ पुत्रोऽस्तु मे बहुगुणः प्रथितानुभावः सर्वज्ञतापदमितीरित आवभाषे । दद्यामुदीरितपदं तनयं तपो मा पूर्णो भविष्यसि गृहं द्विज गच्छ दारैः ।। आकर्णयन्निति बुबोध स विपर्यस्तं चाब्रवीनिजकलत्रमनिन्दितात्मा । स्वमं शशंस वनितामणिरस्य भार्या सत्यं भविष्यति तु नौ तनयो महात्मा ।। तौ दम्पती शिवपरौ नियतौ स्मरन्तौ स्वमेक्षितं गृहगतौ बहुदक्षिणानैः संतर्घ्य विप्रनिकरं तदुदीरिताभिराशीभिरापतुरनल्पमुदं विशुद्धौ ॥ ५५ .

16 श्रीमच्छङ्करदिग्विजये [द्वितीयः तस्मिन्दिने शिवगुरोरुपभोक्ष्यमाणे भक्त प्रविष्टमभवकिल शैवतेजः । भुक्तानविप्रवचनादुपभुक्तशेषं सोऽभुत साऽपि निजभर्तृपदान्जभृङ्गी ॥ गर्भ दधार शिवगर्भमसौ मृगाक्षी गर्भोऽप्यवर्धत शनैरभवच्छरीरम् । तेजोऽतिरेकविनिवारितदृष्टिपातविश्वं स्वेदिवसमध्य इवोग्रतेजः ॥ ५७ गर्भालसा भगवती गतिमान्धमीषदापेति नाद्भुतमिदं धरते शिवं या। यो विष्टपानि बिभृते हि चतुर्दशापि यस्यापि मूर्तय इमा वसुधाजलाद्याः॥ संव्याप्तवानपि शरीरमशेषमेव नोपास्तिमाविरसकावकृतात्र कांचित् । यत्पूर्वमेव महसा दुरतिक्रमेण व्याप्तं शरीरमदसीयमनुष्य हेतोः ॥ ५९ रम्याणि गन्धकुसुमान्यपि गर्धिमस्यै नाधातुमैशत भरात्किम भूषणानि । यद्यद्गुरुत्वपदमस्ति पदार्थजातं तत्तद्विधारणविधावलसा बभूव ॥ ६० तां दौहदं भृशमवाधत दुःशरारिः प्रायः परं किल न मुञ्चति मुञ्चतेऽपि । आनीतदुर्लभमपोहति याचतेऽन्यत्तच्चाप्यपोह्य पुनरर्दति साऽन्यवस्तु ।। तां बन्धुताऽऽगमदुपश्रुतदोहदार्तिरादाय दुर्लभमनय॑मपूर्ववस्तु । आस्वाद्य बन्धुजनदत्तमसौ जहर्ष हा. हन्त गर्भधरणं खलु दुःखहेतुः ॥ मानुष्यधर्ममनुसृत्य मयेदमुक्तं काऽपि व्यथा शिवमहोभरणे न बध्वाः । सर्वव्यथाव्यतिकरं परिहर्तुकामा देवं भजन्त इति तत्वविदां प्रवादः ।। उक्ष्णा निसर्गधवलेन महीयसा सा स्वात्मानमैक्षत समूढमुपात्तनिद्रा । संगीयमानमपि गीतविशारदाढ्यैर्विद्याधरप्रभृतिभिर्विनयोपयातैः ॥ ६४ आकर्णयजय जयेति वरं दधाना रक्षेति शब्दमवलोकय मा शेति । आकर्ण्य नोत्थितवती पुनरुक्तशब्द सा विस्मिता किल भृणोति निरीक्षमाणा ॥ ६५ नर्मोक्तिकृत्यामपि खिद्यमाना किञ्चापि चञ्चत्तरमञ्चरोहे । जित्वा मुदाऽन्यानतिहृद्यविद्यासिंहासनेऽसौ स्थितिमीक्षते स्म ॥ ६६ सर्गः २] 17 आचार्यजन्मादिकथनम् समानता सात्विकवृत्तिभाजां विरागता वैषयिकप्रवृत्तौ । तस्याः स्त्रिया गर्भगपुत्रचित्रचरित्रशंसिन्यजनिष्ट चेष्टा ॥ तद्रोमवल्ली रुरुचे कुचायावृण्वत्प्रभाधुन्युरुशैवलालिः । यत्नाच्छिशोरस्य कृते प्रशस्तो न्यस्तो विधात्रेव नवीनवेणुः ।। ६८ पयोधरद्वंद्वमिषादमुष्याः पयःपिवत्यर्थविधानयोग्यौ । कुम्भौ नवीनामृतपूरितौ द्वावम्भोजयोनिः कलयांबभूव ।। ६९ द्वैतप्रवादं कुचकुम्भमध्ये मध्ये पुनर्माध्यमिकं मतं च । सुभ्रूमणेर्गर्भग एव सोऽर्भो द्राग्गर्हयामास महात्मगर्यम् ॥ लग्ने शुभे शुभयुते सुषुवे कुमारं श्रीपार्वतीव सुखिनी शुभवीक्षिते च । जाया सती शिवगुरोर्निजतुङ्गसंस्थे सूर्ये कुजे रविसुते च गुरौ च केन्द्रे ॥ दृष्ट्वा सुतं शिवगुरुः शिववारिराशौ. मग्नोऽपि शक्तिमनुसृत्य जले न्यमांक्षीत् । व्यश्राणयबहु धनं वसुधाश्च गाश्च जन्मोक्तकर्मविधये द्विजपुंगवेभ्यः । तस्मिन्दिने मृगकरीन्द्रतरक्षुसिंहसर्पाखुमुख्यबहुजन्तुगणा द्विषन्तः । वैरं विहाय सह चेरुरतीव हृष्टाः कण्डूमपाकृषत साधुतया निघृष्टाः ॥ वृक्षा लता:कुसुमाराशिफलान्यमुञ्चन्नद्यः प्रप्तन्नसलिला निखिलास्तथैव । जाता मुहुर्जलधरोऽपि निजं विकारं भूभृद्गणादपि जलं सहसोत्पपात ॥ अद्वैतवादिविपरीतमतावलम्बिहस्ताग्रवर्तिवरपुस्तकमप्यकस्मात् । उच्चैः पपात जहसुः श्रुतिमस्तकानि श्रीव्यासचित्तकमलं विकचीबभूव ॥ सर्वाभिराशाभिरलं प्रसेदे वातैरभाव्यद्भुतदिव्यगन्धैः । प्रजवलेऽपि ज्वलनैस्तदानीं प्रदक्षिणीभूतविचित्रकीलैः ॥ सुमनोहरगन्धिनी सतां सुमनोवद्विमला शिवंकरी । सुमनोनिकरमचोदिता सुमनोवृष्टिरभूत्तदाऽद्भुतम् ।। ७२ '७६ ७७ 18 ७८ श्रीमच्छङ्करदिग्विजये [द्वितीयः लोकत्रयी लोकशेव भास्वता महीधरेणेव मही सुमेरुणा । विद्या विनीत्येव सती सुतेन सा रराज तत्ताशराजतेजसा । सत्कारपूर्वमभियुक्तमुहूर्तवेदिविप्राः शशंसुरभिवीक्ष्य सुतस्य जन्म । सर्वज्ञ एव भविता रचयिष्यते च शास्त्रं स्वतन्त्रमथ वागधिपांश्च जेता ।। कीर्ति स्वकां भुवि विधास्यति यावदेषा किंबोधितेन बहुना शिशुरेष पूर्णः । नापृच्छि जीवितमनेन च तैर्न चोक्तं प्रायो विदन्नपि न वक्त्यशुभं शुभज्ञः ॥ तज्ज्ञातिबन्धसुहृदिष्टजनाङ्गनास्तास्तं सूतिकागृहनिविष्टमयो निदध्युः । सोपायनास्तमभिवीक्ष्य यथा निदाघे चन्द्रं मुदं ययुरतीव सरोजवक्त्रम् ।। तत्सूतिकागृहमवैक्षत न प्रदीपं तत्तेजसा यदवभातमभूत्क्षपायाम् । आश्चर्यमेतदजनिष्ट समस्तजन्तोस्तन्मन्दिरं वितिमिरं यदभूददीपम् ॥ यत्पश्यतां शिशुरसौ कुरुते शमग्यं तेनाकृतास्य जनकः किल शङ्कराख्याम् । यद्वा चिराय किल शङ्करसंप्रसादाजातस्ततो व्यधित शङ्करनामधेयम् ।। सर्व विदन्सकलशक्तियुतोऽपि बालो मानुष्यजातिमनुसृत्य चचार तद्वत् । बालः शनैर्हसितुमारभत क्रमेण सप्तुं शशाक गमनाय पदाम्बुजाभ्याम् ॥ बालेऽथ मञ्चे किल शायितेऽस्मिन्सतां प्रसन्नं हृदयं बभूव । संवीक्षमाणे मणिगुच्छवर्य विद्वन्मुखं हन्त विलीनमासीत् ॥ ८५ संताडयन्हन्त शनैः पदाभ्यां पर्यङ्कवर्य कमनीयशय्यम् । बिभेद सद्यः शतधा समूहान्विभेदवादीन्द्रमनोरथानाम् ॥ वित्राणि वर्णानि वदत्यमुष्मिन्द्वतिमवीरा दधुरेव मौनम् । मुदा चलत्यघिसरोरुहाभ्यां दिशः पलायन्त दशापि सद्यः ॥ उदचारयदर्भको गिरः पदचारानतनोदनन्तरम् । विकलोऽभवदादिमात्तयोः पिकलोकश्वरमान्मरालकः ॥ ८७ ८८ सर्गः २] 19 आचार्यजन्मादिकथनम् नवविद्रुमपल्लवास्तृतामिव काश्मीरपरागपाटलाम् । रचयन्नचलां पदत्विषा स चचारेन्दुनिभः शनैः शनैः ।। ८९ मूर्धनि हिमकरचिह्न निटिले नयनाङ्कमंसयोः शूलम् । वपुषि स्फटिकसवर्ण प्राज्ञास्तं मेनिरे शंभुम् ।। राज्यश्रीरिव नयको विदस्य राज्ञो विद्येव व्यसनदवीयसो बुधस्य । शुभ्रांशोश्छविरिख शारदस्य पित्रोः संतोषैः सह वधे तदीयमूर्तिः ।। नागेनोरसि चामरेण चरणे बालेन्दुना फालके पाण्योश्चक्रगदाधनुर्डमरुकैर्मूर्ध्नि त्रिशूलेन च । तत्तस्याद्भुतमाकलय्य ललितं लेखाकृते लाञ्छितं चित्रं गात्रममस्त तत्र जनता नेत्रनिमेषोज्झितैः ।। ९२ सर्गे प्राथमिके प्रयाति विरति मार्गे स्थिते दौर्गते स्वर्गे दुर्गमतामुपेयुषि भृशं दुर्गेऽपवर्गे सति । वगै देहभृतां निसर्गमलिने जातोपसर्गेऽखिले सर्गे विश्वसृजस्तदीयवपुषा भर्गोऽवतीर्णो भुवि ।। इति श्रीमाधवीये तदवतारकथापरः। संक्षेपशङ्करजये सर्गः पूर्णो द्वितीयकः ॥ आदितः श्लोकाः 191 तृतीयः सर्गः ॥ ३ ॥ देवावतारः ॥ इति बालमृगाङ्कशेखरे सति बालत्वमुपागते ततः । दिविषत्पवराः प्रजज्ञिरे भुवि षट्शास्त्रविदां सतां कुले ॥ कमलानिलयः कलानिधेर्विमलाख्यादजनिष्ट भूसुरात् । भुवि पद्मपदं वदन्ति यं सविपद्येन विवादिनां यशः ।। २ 20 ३ ur ७ श्रीमच्छङ्करदिग्विजये [तृतीयः पवमानोऽप्यजनि प्रभाकरात्सवनोन्मीलितकीर्तिमण्डलात् । गलहस्तितभेदवाद्यसौ किल हस्तामलकाभिधामधात् ॥ पवमानदशांशतोऽजनि प्लवमानाऽञ्चति यद्यशोम्बुधौ । धरणी मथिता विवादिवाक्तरणी येन स तोटकाहयः ॥ उदभावि शिलादमृनुना मदवद्वादिकदम्बनिग्रहः । समुदश्चितकीर्तिशालिनं यमुदकं ब्रुवते महीतले ॥ विधिरास सुरेश्वरो गिरां निधिरानन्दगिरिय॑जायत । अरुणः समभूत्सनन्दनो वरुणोऽजायत चित्सुखाइयः ।। अपरेऽप्यभवन्दिवौकसः स्वपरापरविद्विषः प्रभोः । चरणं परिसेवितुं जगच्छरणं भूसुरपुङ्गवात्मजाः ।। चार्वाकदर्शनविधानसरोषधात- शापेन गीष्पतिरभूद्भुवि मण्डनाख्यः । नन्दीश्वरः करुणयेश्वरचोदितः स- नानन्दगिर्यभिधया व्यजनीति केचित् ।। अथावतीर्णस्य विधेः पुरन्ध्री साऽभूद्यदाख्योभयभारतीति । सरस्वती सा खलु वस्तुत्या लोकोऽपि तां वक्ति सरस्वतीति । पुरा किलाध्यैषत धातुरन्तिके सर्वज्ञकल्पा मुनयो निजं निजम् । वेदं तदा दुर्वसनोऽतिकोपनो वेदानधींयन्कचिदस्खलत्स्वरे ॥ १० तदा जहासेन्दुमुखी सरस्वती यदङ्गमर्णोद्भवशब्दसन्ततिः । चुकोप तस्यै दहनानुकारिणा निरेक्षताक्षणा मुनिरुग्रशासनः ॥ ११ शशाप तां दुनियेऽवनीतले जायस्व मर्येष्वविभेत्सरस्वती । प्रसादयामास निसर्गकोपनं तत्पादमूले पतिता विषादिनी ॥ १२ दृष्ट्वा विषण्णां मुनयः सरस्वती प्रसादयांचक्रुरिमं तमादरात् । कृतापराधा भगवन्क्षमस्व तां पितेव पुत्रं विहितागसं मुने । १३ or सर्गः३] 21 १४ १५ १६ १७ १८ देवावतारः प्रसादितोऽभूदथ सम्प्रसन्नो वाण्या मुनीन्द्रैरपि शापमोक्षम् । ददौ यदा मानुषशङ्करस्य संदर्शनं स्याद्भवितास्यमा ॥ सा शोणतीरेऽजनि विप्रकन्या सर्वार्थवित्सर्वगुणोपपन्ना । यस्या बभूवुः सहजाश्च विद्याः शिरोगतं के परिहर्तुमीशाः ॥ सर्वाणि शास्त्राणि षडङ्गावेदान्काव्यादिकान्वेत्ति परं च सर्वम् । तन्नास्ति नो वेत्ति यदत्र बाला तस्मादभूचित्रपदं जनानाम् ।। सा विश्वरूपं गुणिनं गुणज्ञा मनोऽभिरामं द्विजपुङ्गवेभ्यः । शुश्राव तां चापि स विश्वरूपस्तस्मात्तयोर्दर्शनलालसाऽभूत् ।। अन्योन्यसंदर्शनलालसौ तौ चिन्ताप्रकर्षादधिगम्य निद्राम् । अवाप्य संदर्शनभाषणानि पुनः प्रबुद्धौ विरहाग्नितप्तौ ॥ दिदृक्षपाणावपि नेक्षमाणावन्योन्यवार्ताहतमानसौ तौ । यथोचिताहारविहारहीनौ तनौ तनुत्वं स्मरणादुपेतौ ।। दृष्ट्वा तदीयौ पितरौ कदाचिदपृच्छतां तौ परिकर्शिताङ्गौ । वपुः कृशं ते मनसोऽप्यगर्यो न व्याधिमीक्षे न च हेतुमन्यम् ॥ इष्टस्य हानेरनभीष्टयोगाद्भवन्ति दुःखानि शरीरभाजाम् । वीक्षे न तौ द्वावपि वीक्षमाणो विना निदानं नहि कार्यजन्म ।। न तेऽत्यगादुद्वहनस्य कालः परावमानो न च नि:स्वता वा । कुटुम्बभारो मयि दुःसहोऽयं कुमारहत्तेस्तव काऽत्र पीडा । न मूढभावः परितापहेतुः पराजितिर्वा तव तन्निदानम् । विद्वत्सु विस्पष्टतयाऽग्रपाठात्सुदुर्गमार्थादपि तर्कविद्भिः ॥ आ जन्मनो विहितकर्मनिषेवणं ते स्वप्नेऽपि नास्ति विहितेतरकर्मसेवा । तस्मान्न मेयमपि नारकयातनाभ्यः किं ते मुखं प्रतिदिनं गतशोभमास्ते ॥ १९ २० २१ २२ २३ २४ 22 २५ २७ श्रीमच्छङ्करदिग्विजये [तृतीयः निर्वन्धतो बहुदिनं प्रतिपाद्यमानौ वक्तुं कृपाभरयुताविदमूचतुः स्म । निर्बन्धतस्तव वदामि मनोगतं मे वाच्यं न वाच्यमिति यद्वितनोति लज्जाम् ॥ शोणाख्यपुंनदतटे वसतो द्विजस्य कन्या श्रुतिं गतवती द्विजपुङ्गवेभ्यः । सर्वज्ञतापदमनुत्तमरूपवेषां तामुद्विवक्षति मनो भगवन्मदीयम् ॥ २६ पुत्रेण सोऽतिविनयं गदितोऽन्वशाद् द्वौ वित्रौ वधूवरणकर्मणि सम्भवीणौ । तावापतुर्द्विजगृहं द्विजसंदिदक्षु देशानतीत्य बहुलान्निजकार्यसिद्धथै ।। भूभृनिकेतनगतः श्रुतविश्वशास्त्रः श्रीविश्वरूप इति यः प्रथितः पृथिव्याम् । तत्पादपबरजसे स्पृहयामि नित्यं साहाय्यमत्र यदि तात भवान्विदध्यात् ।। पुत्र्या वचः पिबति कर्णपुटेन ताते श्रीविश्वरूपगुरुणा गुरुणा द्विजानाम् । आजग्मतुः सुवसनौ विशदाभयष्टी संप्रेषितौ सुतबरोद्वहन क्रियायै ॥ २९ तावार्य स द्विजवरौ विहितोपचारैरायानकारणमयो शनकैरपृच्छत् । श्रीविश्वरूपगुरुवाक्यत आगतौ स्व इत्यूचतुर्वरणकर्मणि कन्यकायाः ॥ संप्रेषितौ श्रुतवयःकुलवृत्तधर्मैः साधारणी श्रुतवता वसुतस्य तेन । याचावहे तव सुतां द्विज तस्य हेतोरन्योन्यसंघटनमेतु मणिद्वयं तत् ।। ३१ मह्यं तदुक्तमभिरोचत एव विप्रो पृष्ट्वा वधू मम पुनः करवाणि नित्यम् । कन्यामदानमिदमायतते वधूषु नो चेदमूर्व्यसनसक्तिषु पीडयेयुः ।। ३२ २८ सर्गः ३] देवावतार 23 भार्यामपृच्छदथ किं करवाव भद्रे विप्रो वरीतुमनसौ खलु राजगेहात् । एतां सुतां सुतनिभा तव याऽस्ति कन्या ब्रूहि त्वमेकमनुमाय पुनर्न वाच्यम् ।। ३३ दूरे स्थितिः श्रुतवयःकुलवृत्तजातं न ज्ञायते तदपि कि प्रवदामि तुभ्यम् । वित्तान्विताय कुलवृत्तसमन्विताय देया सुतेति विदितं श्रुतिलोकयोश्च ।। नैवं नियन्तुमनघे तव शक्यमेतत्तां रुक्मिणी यदुकुलाय कुशस्थलीशे । प्रादात्स भीष्मकनृपः खलु कुण्डिनेशस्तीपदेशमटते त्वपरीक्षिताय ॥ कि केन सङ्गतमिदं सति मा विचारीयों वैदिकी सरणिमपहतां प्रयत्नात् । पातिष्ठिपत्सुगतदुर्जयनिर्जयेन शिष्यं यमेनमशिषत्स च भट्टपादः ॥ ३६ किं वर्ण्यते सुदति यो भविता वरो नो विद्याधनं द्विजवरस्य न बाह्यवित्तम् । याऽन्वेति सन्ततमनन्तदिगन्तभाज यां राजचोरवनिता न च हर्तुमीशाः ॥ वध्वर्जनावनपरिव्ययगानि तानि वित्तानि चित्तमनिशं परिखेदयन्ति । चोरान्नपात्स्वजनतश्च भयं धनानां शर्मेति जातु न गुणः खलु बालिशस्य ॥ केचिद्धनं निदधते भुवि नोपभोगं कुर्वन्ति लोभवशगा न विदन्ति केचित् । अन्येन गोपितमथान्यजना हरन्ति तच्चेन्नदीपरिसरे जलमेव हर्तृ ॥३९ सर्वात्मना दुहितरो न गृहे विधेयास्ताश्चेत्पुरा परिणयाद्रज उद्गतं स्यात् । पश्येयुरात्मपितरौ बत पातयन्ति दुःखेषु घोरनरकेष्विति धर्मशास्त्रम् ।। मा भूदयं मम सुता कलहः कुमारी पृच्छाव सा वदति यं भविता वरोऽस्याः। एवं विधाय समयं पितरौ कुमार्याः अभ्याशमीयतुरितो गदितेष्टकाौँ ।। ४१ ३८ 24 ४२ ४४ श्रीमच्छङ्करदिग्विजये [तृतीयः श्रीविश्वरूपगुरुणा प्रहितौ द्विजाती कन्यार्थिनौ सुतनु कि करवाव वाच्यम् । तस्याः प्रमोदनिचयो न ममौ शरीरे रोमाञ्चपूरमिषतो बहिरुज्जगाम ॥ तेनैव सा प्रतिवचः प्रददौ पितृभ्यां तेनैव तावपि तयोर्युगलाय सत्यम् । आदाय विषमपरं पितृगेहतोऽस्यास्तौ जग्मतुर्द्विजवरौ स्वनिकेतनाय ॥ अस्माच्चतुर्दशदिने भविता दशम्यां जामित्रभादिशुभयोगयुतो मुहूर्तः । एवं विलिख्य गणितादिषु कौशलास्या व्याख्यापराय दिशति स्म सरस्वती सा ।। तौ हृष्टपुष्टमनसौ विहितेष्टकार्यों श्रीविश्वरूपगुरुमुत्तममैक्षिषाताम् । सिद्धं समीहितमिति प्रथितानुभावो दृष्ट्वैव तन्मुखमसावथ निश्चिकाय ॥ ४५ अन्यः स्वहस्तगतपत्रमदात्स पत्रं दृष्ट्वा जहास सुखवारिनिधौ ममज्ज । विमान्यथोचितमपूजयदागतांस्तानत्वांऽशुकादिभिरयं बहुवित्तलभ्यः ।। पित्रानुशिष्टवसुधासुरशंसितेन विज्ञापितः सुखमवाप स विश्वरूपः । कार्याण्यथाह पृथगात्मजनान्समेतान्वन्धुप्रियः परिणयोचितसाधनाय ॥ मौहूर्तिकैर्बहुभिरेत्य मुहूर्तकाले संदर्शिते द्विजवरैर्बहुविद्भिरिष्टैः । माङ्गल्यवस्तुसहितोऽखिलभूषणान्यः स प्रापदक्षततनुः पृथुशोणतीरम् ॥ शोणस्य तीरमुपयातमुपाशृणोत्स जामातरं बहुविधं किल विष्णुमित्रः । प्रत्युजगाम मुमुदे प्रियदर्शनेन प्रावीविशद् गृहममुं बहुवाद्यघोषैः ॥ ४९ दत्त्वाऽऽसनं मृदुवचः समुदीर्य तस्मै पाद्यं ददौ समधुपर्कमनपात्रे । अयं ददावहमियं तनया गृहास्ते गावो हिरण्यमखिलं भवदीयमूचे ॥

सर्गः३] देवावतारः 25 अस्माकमद्य पवितं कुलमादृताः स्मः संदर्शनं परिणयव्यपदेशतोऽभूत् । नोचेद्भवान्बहुविदग्रसरः कचाहं भद्रेण भद्रमुपयाति पुमान्विपाकात् ॥ यद्यद्गृहेऽत्र भगवनिह रोचते ते तत्तनिवेद्यमखिलं भवदीयमेतत् । वक्ष्यामि सर्वमभिलाषपदं त्वदीयं युक्तं हि सन्ततमुपासितवृद्धपूगे ॥ ५२ एवं मिथः परिनिगद्य विशेषमृद्वया वाचा युतौ मुदमवापतुरुत्तमां तौ । अन्ये च संमुमुदिरे प्रियसत्कथाभिः स्वेच्छाविहारहसनैरुभये विधेयाः ।। कन्यावरौ प्रकृतिसिद्धसुरूपवेषौ दृष्ट्वोभयेऽपि परिकर्म विलम्बमानाः । चक्रुर्विधेयमिति कर्तुमनीश्वरास्ते शोभाविशेषमपि मङ्गलवासरेऽस्मिन् ॥ 'एतत्सभापतिहतात्मविभूतिभावादाकल्पजातमपि नातिशयं वितेने । लोकप्रसिद्धिमनुसृत्य विधेयबुद्धया भूषां व्यधुस्तदुभये न विशेषबुद्धया॥ मौहूर्तिका बहुविदोऽपि मुहूर्तकालमपाक्षुरक्षतधियं खिलती सखीभिः । पश्चात्तदुक्तशुभयोगयुने शुभांशे मौहूर्तिकाः स्वमतितो जगृहुर्मुहूर्तम् ।। ५६ जग्राह पाणिकमलं हिममित्रसूनुः श्रीविष्णुमित्रदुहितुः करपल्लवेन । भेरीमृदङ्गपटहाध्ययनानघोषैर्दिङमण्डले सुपरिमूर्च्छति दिव्यकाले । यं यं पदार्थमभिकामयते पुमान्यस्तं तं पदाय समतुतुषतां तदीड्यौ । देवद्रुमाविव महासुमनस्त्वयुक्तौ संभूषितौ सदसि चेरतुरात्मलाभौ ॥ ५८ आधाय वह्निमथ तत्र जुहाव सम्य- ग्गृह्योक्तमार्गमनुसृत्य स विश्वरूपः । लाजा हाव च वधः परिजिघ्रति स्म धूमं प्रदक्षिणमथाकृत सोऽपि चाग्निम् ।। होमावसानपरितोषितविप्रवर्यः प्रस्थापिताखिलसमागतबन्धुवर्गः । संरक्ष्य वह्निमनया सममग्निगेहे दीक्षाघरो दिनचतुष्कमुवास हृष्टः ॥६० प्रतिष्ठमाने दयिते वरेऽस्मिन्नुपेत्य मातापितरौ वरायाः । आभाषिषातां शृणु सावधानो बालेव बाला न तु वेत्ति किश्चित् ॥६१ ५९ 26 श्रीमच्छङ्करदिग्विजये [तृतीयः बालैरियं क्रीडति कन्दुकाद्यैर्नातक्षुधा गेहमुपैति दुःखात् । एकेति बाला गृहकर्म नोक्ता संरक्षणीया निजपुत्रितुल्या ॥ ६२ बालेयमङ्ग वचनैर्मृदुभिर्विधेया कार्या न रूक्षवचनैर्न करोति रुष्टा । केचिन्मृदृक्तिवशगा विपरीतभावाः केचिद्विहातुमनलं प्रकृति जनो हि ॥ कश्चिद् द्विजातिरधिगम्य कदाचिदेनामुद्दीक्ष्य लक्षणमवोचदनिन्दितात्म । मानुष्यमात्रजननं निजदेवभावेत्यस्माच्च वो वचनमुग्रमयोज्यमस्याम् ॥ सर्वज्ञतालक्षणमस्ति पूर्णमेषा कदाचिद्वदतोः कथायाम् । तत्साक्षिभावं व्रजिताऽनवद्या संदिश्य नावेवमसौ जगाम || ६५ वश्रूर्वराया वचनेन वाच्या स्नुषाभिरक्षाऽऽयतते हि तस्याम् । निक्षेपभूता तव सुन्दरीयं कार्या गृहे कर्म शनैः शनैस्ते ॥ ६६ बाल्येषु बाल्यात्सुलभोऽपराधः स नेक्षणीयो गृहिणीजनेन । वयं सुधीभूय हि सर्व एव पश्चाद्गुरुत्वं शनकैः पयाताः ।। दृष्ट्वाऽभिधातुमनलं च मनोऽस्मदीयं गेहाभिरक्षणविधौ न हि दृश्यतेऽन्यः । दृष्ट्वाऽभिधानफलमेव यथा भवेन्नो ब्रूयात्तथेष्टजनता जननीं वरस्य ॥ ६८ वत्से त्वमद्य गमिताऽसि दशामपूर्वी तद्रक्षणे निपुणधीर्भव सुभ्र नित्यम् । कुर्यान्न बालविहृतिं जनतोपहास्यां सा नाविवापरमियं परितोषयेत्ते॥ पाणिग्रहात्स्वाधिपती समीरितौ पुरा कुमार्याः पितरौ ततः परम् । पतिस्तमेकं शरणं व्रजानिशं लोकद्वयं जेष्यसि येन दुर्जयम् ॥ पत्यावभुक्तवति सुन्दरि मा स्म भुव याते प्रयातमपि मा स्म भवेद्विभूषा । पूर्वापरादिनियमोऽस्ति निमज्जनादौ वृद्धाङ्गनाचरितमेव परं प्रमाणम् ॥ रुष्टे धवे सति रुषेह न वाच्यमेकं क्षन्तव्यमेव सकलं स तु शाम्यतीत्थम् । तस्मिन्प्रसन्नवदने चकितेव वत्से सिध्यत्यभीष्टमनघे क्षमयैव सर्वम् ॥

सर्गः३] देवावतारः 27 ७३ ७४ ७५ भर्तुः समक्षमपि तद्वदनं समीक्ष्य वाच्यो न जातु सुभगे परपूरुषस्ते । कि वाच्य एष रहसीति तवोपदेशः शङ्का वधूपुरुषयोः क्षपयेद्धि हार्दम् ॥ आयाति भर्तरि तु पुत्रि विहाय कार्य- मुत्थाय शीघ्रमुदकेन पदावनेकः । कार्यों यथाभिरुचि हे सति जीवनं वा नो पेक्षणीयमणुमात्रमपीह कं ते ॥ धवे परोक्षेऽपि कदाचिदेहं तदीया अपि वा महान्तः । ते पूजनीया बहुमानपूर्व नो चेन्निराशाः कुलदाहकाः स्युः ॥ पित्रोरिव श्वशुरयोरनुवर्तितव्यं तद्वन्मृगाक्षि सहजेष्वपि देवरेषु । ते स्नेहिनो हि कुपिता इतरेतरस्य योग विभियुरिति मे मनसि प्रतर्कः ॥ हितोपदेशे विनिविष्टमानसौ वधूवरौ राजगृहं समीयतुः । लब्धानुमानौ गुरुबन्धुवर्गतो बभूव संज्ञोभयभारतींति ॥ सा भारती दुर्वसनेन दत्तं पुनः प्रसन्नेन पुराऽऽत्तहर्षा । शापावधि संसदि वय॑ते यत्सर्वज्ञतानिर्वहणाय साक्ष्यम् ।। स भारतीसाक्षिकसर्व विचोऽप्यात्मीयशक्त्या शिशुवद्विभातः । खशैशवस्योचितमन्वकांक्षीत्स केशवो यद्वदुदारवृत्तः ॥ शैशवे स्थितवता चपलाशे शाहिणेव वटवृक्षपलाशे । आत्मनीदमखिलं विलुलोके भाविभूतमपि यत्खलु लोके ॥ तं ददर्श जनताऽद्भुतबालं लीलयाऽधिगतनूतनदोलम् । वासुदेवमिव वामनलीलं लोचनैरनिमिषैरनुवेलम् ॥ कोमलेन नवनीरदराजिश्यामलेन नितरां समराजि । केशवेशतमसाऽधिकमस्य केशवेशचतुरास्यसमस्य ॥ ७६ ७७ ७८ ७९ ८१ ८२ 28 श्रीमच्छङ्करदिग्विजये [तृतीयः शाक्यैः पाशुपतैरपि क्षपणकैः कापालिकैवैष्णवै- रप्यन्यैरखिलैः खलैः खलु खिलं दुर्वादिभिर्वैदिकम् । पन्थान परिरक्षितुं क्षितितलं प्राप्तः परिक्रीडते घोरे संमृतिकानने विचरतां भद्रंकरः शङ्करः ॥ इति श्रीमाधवीये तत्तद्देवावतारार्थकः । संक्षेपशङ्करजये तृतीयः सर्ग आभवत् ।। आदितः श्लोका: 274. २ 0 अथ चतुर्थः सर्गः ॥ ४ ॥ कौमारचरितवर्णनम् ॥ अथ शिवो मनुजो निजमायया द्विजगृहे विजमोदमुपावहन् । प्रथमहायन एव समग्रहीत्सकलवर्णमसौ निजभाषिकाम् ।। द्विसम एव शिशुलिखिताक्षरं गदितुमक्षमताक्षरवित्सुधीः । अथ स काव्यपुराणमुपाशृणोत्स्वयमवैत्किमपि श्रवणं विना ॥ अजनि दुःखकरो न गुरोरसौ श्रवणतः सकृदेव परिग्रही । सहनिपाठजनस्य गुरुः स्वयं स च पपाठ ततो गुरुणा विना ॥ रजसा तमसाऽप्यनाश्रितो रजसा खेलनकाल एव हि । स कलाधरसत्तमात्मजो सकलाश्चापि लिपीरविन्दत । सुधियोऽस्य विदियुतेऽधिकं विधिवच्चौलविधानसंस्कृतम् । ललितं करणं घृताहुतिज्वलितं तेज इवाशुशुक्षणेः ॥ उपपादननिर्व्यपेक्षधीः स पपाठाहृतिपूर्वकागमान् । अधिकाव्यमरंस्त कर्कशेऽप्यधिकांस्तर्कनयेऽत्यवर्तत ।। हरतस्त्रिदशेज्यचातुरी पुरतस्तस्य न वक्तुमीश्वराः । प्रभवोऽपि कथासु नैजवाग्विभवोत्सारितवादिनो बुधाः ॥ ७ सर्गः ४] 29 ८ ९ १० १२ कौमारचरितवर्णनम् अमुकक्रमिकोक्तिधोरणीमुरगाधीशकथावधीरिणीम् । मुमुहुर्निशमय्य वादिनः प्रतिवाक्योपहृतौ प्रमादिनः । कुमतानि च तेन कानि नोन्मथितानि प्रथितेन धीमता । स्वमतान्यपि तेन खण्डितान्यतियत्नैरपि साधितानि कैः ।। अमुना तनयेन भूषितं यमुनातातसमानवर्चसा । तुलया रहितं निजं कुलं कलयामास स पुत्रिणां वरः ॥ शिवगुरुः स जरंस्त्रिसमे शिशावमृत कर्मवशः सुतमोदितः । उपनिनीषितसूनुरपि स्वयं न हि यमोऽस्य कृताकृतमीक्षते ॥ इह भवेत्सुलभं न सुतेक्षणं न सुतरां सुलभं विभवेक्षणम् । सुतमवाप कथञ्चिदयं द्विजो न खलु वीक्षितुमैष्ट सुतोदयम् ॥ मृतमदीदिहदात्मसनाभिभिः पितरमस्य शिशोर्जननी ततः । समनुनीतवती धवखण्डितां स्वजनता मृतिशोकहरैः पदैः ॥ कृतवतीं मृतचोदितमक्षमा निजजनैरपि कारितवत्यसौ । उपनिनीषुरभूत्सुतमात्मनः परिसमाप्य च वत्सरदीक्षणम् ॥ उपनयं किल पञ्चमवत्सरे प्रवरयोगयुते सुमुहूर्तके । द्विजवधनियता जननी शिशोळधित तुष्टमनाः सह बन्धुभिः । अधिजगे निगमांश्चतुरोऽपि स क्रमत एव गुरोः सषडङ्गकान् । अजनि विस्मितमत्र महामतौ द्विजसुतेऽल्पतनौ जनतामनः ॥ सहनिपाठयुता बहवः समं पठितुमैशत न द्विजसूनुना । अपि गुरुर्विशयं प्रतिपेदिवान्क इव पाठयितुं सहसा क्षमः ॥ अत्र किं स यदशिक्षत सर्वोश्चित्रमागमगणाननुवृत्तः । द्वित्रिमासपठनादभवद्यस्तत्र तत्र गुरुणा समविद्यः ॥ १३ १४ १५ १६ १८

30
श्रीमच्छङ्करदिग्विजये
[चतुर्थः
वेदे ब्रह्मसमस्तदङ्गनिचये गाग्र्योपमस्तकथा-
तात्पर्यार्थविवेचने गुरुसमस्तत्कर्मसंवर्णने ।
आसीज्जैमिनिरेव तद्वचनजप्रोद्बोधकन्दे समो
व्यासेनैव स मूर्तिमानिव नवो वाणीविलासैदृतः ॥ १९
आन्वीक्षिक्यैक्षि तन्त्रे परिचितिरतुला कापिले काऽपि लेभे
पीतं पातञ्जलाम्भः परमपि विदितं भाघट्टार्थतत्वम् ।
यत्तैः सौख्यं तदस्यान्तरभवदमलाद्वैतविद्यासुखेऽस्मि-
न्कूपे योऽर्थः स तीर्थे सुपयसि वितते हन्त नान्तर्भवेस्किम् ॥२०
स हि जातु गुरोः कुले वसन्सवयोभिः सह भैक्षलिप्सया ।
भगवान्भवनं द्विजन्मनो धनहीनस्य विवेश कस्यचित् ॥ २१
तमवोचत तत्र सादरं यतिवयं गृहिणः कुटुंबिनी।
कृतिनो हि भवादृशेषु ये वरिवस्यां प्रतिपादयन्ति ते ॥ २२
विधिना खलु वञ्चिता वयं वितरीतुं वटवे न शक्नुमः ।
अपि भैक्षमकिञ्चनत्वतो धिगिदं जन्म निरर्थकं गतम् ।। २३
इति दीनमुदीरयन्त्यसौ पददावामलकं व्रतीन्दवे ।
करुणं वचनं निशम्य सोऽप्यभवज्ञाननिधिदयाधीः ।।
स मुनिर्मुरभित्कुटुम्बिनी पदचित्रैर्नवनीतकोमलैः ।
मधुरैरुपतस्थिवांस्तवैर्द्विजदारियदशानिवृत्तये ।।
अथ कैटभजित्कुटुम्बिनी तटिदुद्दामनिजाङ्गकान्तिभिः ।
सकलाश्च दिशः प्रकाशयन्त्यचिरादाविरभूत्तदग्रतः ॥ २६
अभिवन्द्य सुरेन्द्रवन्दितं पदयुग्मं पुरतः कृताञ्जलिम् ।
ललितस्तुतिभिः प्रहर्षिता तमुवाच स्मितपूर्वकं वचः ॥
२४
२५

सर्गः४] कौमारचरितवर्णनम 31 २८ २९ ३० ३१ ३२ ३३ विदितं तव वत्स हृद्गतं कृतमेभिर्न पुरा भवे शुभम् । अधुना मदपाङ्गपात्रतां कथमेते महितामवाप्नुयुः ॥ इति तद्वचनं स शुश्रुवानिजगादाम्ब मयीदमर्पितम् । फलमद्य ददस्व तत्फलं दयनीयो यदि तेऽहमिन्दिरे ॥ अमुना वचनेन तोषिता कमला तद्भवनं समन्ततः । कनकामलकैरपूरयज्जनताया हृदयं च विस्मयैः ।। अथ चक्रभृतो वधूमये सुकृतेऽन्तर्षिमुपागते सति । प्रशशंसुरतीव शङ्करं महिमानं तमवेक्ष्य विस्मिताः ॥ दिवि कल्पतयथा तथा भुवि कल्याणगुणो हि शङ्करः । सुरभूसुरयोरपि प्रियः समभूदिष्टविशिष्टवस्तुदः ।। अमरस्पृहणीयसम्पदं द्विजवर्यस्य निवेशमात्मवान् । स विधाय यथापुरं गुरोः सविधे शास्त्रवराण्यशिक्षत ।। वरमेनमवाप्य भेजिरे परभागं सकला: कला अपि । समवाप्य निजोचितं पति कमनीया इव वामलोचनाः ॥ सरहस्यसमग्रशिक्षिताखिलविद्यस्य यशस्विनो वपुः । उपमानकथाप्रसङ्गमप्यसहिष्णुश्रियमन्वपद्यत ॥ जयति स्म सरोरुहप्रभामदकुण्ठीकरणक्रियाचणम् । द्विजराजकरोपलालितं पदयुग्मं परगर्वहारिणः ।। जलमिन्दुमणि स्रवेद्यदि यदि पद्मं दृषदः ततः सः । यदि तत्र भवेत्कुशेशयं तदमुष्यांघ्रितुलामवाप्नुयात् ।। पादौ पद्मसमौ वदन्ति कतिचिच्छ्रीशङ्करस्यानघौ वक्तं च द्विजराज-मण्डलनिभं नैतद् द्वयं साम्प्रतम् । प्रेष्यः पद्मपदः किल त्रिजगति ख्यातः पदं दत्तवा- नम्भोजे द्विजराजमण्डलशतैः प्रेष्यैरुपास्य मुखम् ॥ ३४ ३५ ३७ ३८ 32 श्रीमच्छङ्करदिग्विजये [चतुर्थः मुहुः सन्तो नै हृदयकमलं निर्मलतरं विधातुं योगीन्द्राः पदकमलमस्मिन्निदधति । दुरापां शक्रायैवमति वदनं यन्नवसुधां ततो मन्ये पद्मात्पदमधिकमिन्दोश्च वदनम् ॥ ३९ तत्वज्ञानफलेपहिर्घनतरव्यामोहमुष्टिंधयो निःशेषव्यसनोदरंभरिरघमाग्भारकूलंकषः । लुण्टाको मदमत्सरादिविततेस्तापत्रयारंतुदः पादः स्यादमितंपचः करुणया भद्रंकरः शङ्करः ॥ ४० पादाघातस्फोटवणकिणितकाान्तिकभुज प्रघाणव्याघातप्रणतविमतद्रोहबिरुदम् । परं ब्रह्मैवासौ भवति तत एवास्य सुपदं गतापस्मारार्तीञ्जगति महतोऽद्यापि तनुते ॥ ४१ प्राप्तस्याभ्युदयं नवं कलयतः सारस्वतोज्जम्भणं खालोकेन विधूतविश्वतिमिरस्यासन्नतारस्य च । तापं नस्त्वरितं क्षिपन्ति घनतापन्नं प्रसन्ना मुने- राह्लादं च कलाधरस्य मधुराः कुर्वन्ति पादक्रमाः ॥ नतिर्दत्ते मुक्ति नतमुत पदं वेति भगव- सदस्य प्रागल्भ्याज्जगति विवदन्ते श्रुतिविदः । वयन्तु बमस्तद्भजनरतपादाम्बुजरजः- परीरम्भारम्भः सपदि हृदि निर्वाणशरणम् ॥ लांशुकपल्लवाहतं विललासोरुयुगं विपश्चितः । तार्णवफेनमञ्जरीच्छुरितैरावतहस्तशस्तिभृत् ।। द हाटकवल्लरीत्रयीघटिता स्फाटिककूटभृत्तटी । टमस्य तया कटीतटी तुलिता स्यात्कलितत्रिमेखला । ४२ ४४ सर्गः । कौमारचरितवर्णनम् 33 ७ ४८ ५० आदाय पुस्तकवपुः श्रुतिसारमेकहतेन वादिकृततद्गतकण्टकानाम् । उद्धारमारचयतीव विवोधमुद्रामुद्विभ्रता निजकरेण परेण योगी ॥ ४६ सुधीराजः कल्पद्रुमकिसलयाभौ करवरौ करोत्येतौ चेतस्यमलकमलं यत्सहचरम् । रुचेश्वोरावेतावहनि किमु रात्राविति भिया निशादेरामातर्निजदलकवाट घटयति ॥ रुचिरा तदुरस्थली बभावररस्फालविशालमांसला धरणीभ्रमणोदितश्रमात्पृथुशय्येव जयश्रियाऽऽश्रिता । परिघथिमापहारिणौ शुशुभाते शुभलक्षणौ भुजौ । बहिरन्तरशत्रुनिग्रहे विजयस्तंभयुगीधुरन्धरौ ।। ४९ उपवीतममुष्य दिद्युते बिसतन्तुक्रियमाणसौहृदम् । शरदिन्दुमयूखपाण्डिमातिशयोल्लङ्घनजाहिकप्रभम् ।। समराजत कण्ठकम्बुराड् भावत्पादमुनेर्यदुद्भवः । निनदः प्रतिपक्षनिग्रहे जयशङ्खध्वनितामविन्दत ।। अरुणाघरसंगताऽधिकं शुशुभे तस्य हि दन्तचन्द्रिका । नवविद्रुमवल्लरीगता तुहिनांशोरिव शारदी छविः ॥ सुकपोलतले यशस्विनः शुशुभाते सितभानुवर्चसः । वदनाश्रितभारतीकृते विधिसङ्कल्पितदर्पणाविव ।। ५३ समासीत्तस्यास्यं सुकृतजलधेः सर्वजगतां पयःपारावारादजनि रजनीशो बहुमतात् । सुधाधारोद्गारः सुसहगनयोः किन्तु शशभृ- सतां तेज:पुजं हरति वदनं तस्य दिशति ॥ ५४ पुरा क्षीराम्भोधेरहह तनया यद्विषयता- जुषो दीनस्याग्रे धनकनकधाराः समकिरत् । इदं नेत्रं पात्रं कमलनिलयाप्रीतिवितते- मुनीशस्य स्तोतुं कृतसुकृत एव प्रभवति ।। ५५ ५२ 34 ५८ श्रीमच्छङ्करदिग्विजये [चतुर्थः दुरिमविपक्षषणसमुन्मेषक्षितौ कल्पने सेतोरप्यनघस्य तापसकुलैणाङ्कस्य लङ्कारयः । अपन्नानतिकायविभ्रममुषः संसारिशाखामृगान् पुष्णन्त्यच्छपयो ब्यवीचिवदलङ्काराः कटाक्षाङ्कराः निःशङ्कक्षतिरुक्षकण्टककुलं मीनाङ्कदावानल- ज्वालासंकुलमार्तिपङ्किलतरं व्यध्वं धृतिध्वंसिनम् । संसाराकृतिमापयच्छलच लचलदुर्वारदुर्वारणं मुष्णन्ति श्रममाश्रिता नवसुधादृष्ट्यायिता दृष्टयः ॥ ५७ त्रिपुण्ठं तस्याहुः सितभसितशोभि त्रिपथगां कृपापारावारं कतिचन मुनि तं श्रितवतीम् । चयं वेतद् ब्रूमो जगति किल तिस्रः सुरुचिरा- स्त्रयीमौलिव्याकृत्युपकृतिभवाः कीर्तय इति ।। असौ शंभोर्लीलावपुरिति भृशं सुन्दर इति द्वयं सम्पत्येतजनमनसि सिद्धं च सुगमम् । यदन्तः पश्यन्तः करणमदसीयं निरुपम वृणीकुर्वन्येते सुषममपि कामं सुमतयः ।। ५९ अज्ञानान्तर्गहनपतितानात्मविद्योपदेशै- स्त्रातुं लोकान्भवदवशिखातापपापच्यमानान् । मुक्त्वा मौनं वटविटपिनो मूलतो निष्पतन्ती शम्भोर्मूर्तिश्चरति भुवने शङ्कराचार्यरूपा ॥ ६० उच्चण्डाहितवावदककुहनापाण्डित्यवैतण्डिकं जाते देशिकशेखरे पदजुषां सन्तापचिन्तापहे । कातर्य हृदि भूयसाऽकृत पदं वैभाषिकादेः कथा- चातुर्य कलुषात्मनो लयमगाद्वैशेषिकादेरपि ॥ अमुना क्रतवः प्रसाधिताः क्रतुविभ्रंशकरः स शङ्करः । इयमेव भिदाऽनयोजितस्मरयोः सर्वविदोर्बुधेड्ययोः॥ ६२ सर्गः४] कौमारचरितवर्णनम् 35 कलयाऽपि तुलानुकारिणं कलयामो न वयं जगत्तये । विदुषां स्वसमो यदि स्वयं भविता नेति वदन्ति तत्र के ॥ ६३ घुवनान्त इवामरद्रुमा अमरदृष्विव पुष्पसञ्चयाः । भ्रमरा इव पुष्पसञ्चयेष्वतिसंख्याः किल शङ्करे गुणाः ।। ६४ काम वस्तु विचारतोऽच्छिनदयं पारुष्यहिसाक्रुधः क्षान्त्या दैन्यपरिग्रहानृतकथालोमांस्तु सन्तोषतः । मात्सर्य त्वनसूयया मदमहामानौ चिरं भावित- खान्योत्कर्षगुणेन तृप्तिगुणतस्तृष्णां पिशाचीमपि ॥ ६५ कामं यस्तु समूलघातमवात्स्वर्गापवर्गापहं रोषं यः खलु चूर्णपेषमपिषन्निःशेषदोषावहम् । लोभादीनपि यः परांस्तृणसमुच्छेदं समुच्चिच्छिदे स्वस्यान्तेवसतां सतां स भगवत्पादः कथं वर्ण्यते ॥ ६६ केऽमी कान्त दिवा निशाकरकरा धर्मस्य मर्मच्छिदो मुग्धे शम्भुनवावतारसुगुरोरेते गुणानां गणाः । कस्मादुत्पलसन्ततिर्विकसिता विस्मेरदिग्योषिता- मेषाऽगङ्गझरीति दिग्गजवधूप्रश्नोत्तरे रेजतुः ॥ ६७ नाक्ष्णा माक्षिकमीक्षितं क्षणमपि द्राक्षा मुहुः शिक्षिता क्षीरेथू समुपेक्षितौ भुवि यया सा शङ्करश्रीगुरोः । कान्तानन्तदिगन्तलखनकलाजङ्घालतत्तद्गुण- श्रेणी निर्भरमाधुरीमदधुरा धन्येति मन्यामहे ॥ ६८ शान्तिश्चेद्वसुधा जहातु महती सर्वसहत्वप्रथां विद्याश्चेद्विरहन्तु षण्मुखमुखाः स्वावर्गगर्वावलीम् । वैराग्यं यदि बादरायणियशः कार्य परं गाहतां कि जल्पैर्मुनिशेखरस्य न तुलां कुत्रापि मन्यामहे ॥ ६९ या मूर्तिः क्षमया मुनीश्वरीमयी गोत्रासगोत्रायते विद्याभिनिरवद्यकीर्तिभिरलं भाषाविभाषयते ।

36 ७२ ७४ - श्रीमच्छङ्करदिग्विजये [चतुर्थः भक्ताभीप्सितकल्पनेन नितरां कल्यादिकल्पायते कस्तां नान्यपृथग्जनैस्तुलयितुं मन्दाक्षमन्दायते ॥ न बभूव पुरातनेषु तत्सदृशो नाद्यतनेषु दृश्यते । भविता किमनागतेषु वा न सुमेरोः सदृशो यथा गिरिः ।। ७१ समशोभत तेन तत्कुलं स च शीलेन परं व्यरोचत । अपि शीलमदीपि विद्यया ह्यपि विद्या विनयेन दिद्युते ॥ सुयशाकुसुमोच्चयः श्रय द्विबुधालिगुणपल्लवोद्गमः । अवबोधफलः क्षमारस: सुरशाखीव रराज मूरिराट् ॥ न च शेषभवी न कापिली गणिता काणभुजी न गीरपि । फणितिष्वितरासु का कथा कविराजो गिरि चातुरीजुषि ।। भट्टभास्करविपर्ददुर्दशामज्जदागमशिर:करमहा । हन्त शङ्करगुरोगिरः क्षरन्त्यक्षरं किमपि तद्रसायनम् ॥ जाटाटङ्कजटाकुटीरविहरत्नलिम्पकल्लोलिनी- क्षोणीशप्रियकृन्नवावतरणावष्टम्भगुम्फच्छिदः । गर्नन्तोऽवतरन्ति शङ्करगुरुक्षोणीधरेन्द्रोदरा- द्वाणीनिर्झरिणीझराः क नु भयं दुर्भिक्षुदुर्भिक्षतः ॥ वारी चित्तमतङ्गजस्य नगरी बोधात्मनो भूपते- दूरीभूतदुरन्तदुर्वदझरी हारीकृता मृरिभिः । चिन्तासन्ततितूलवातलहरी वेदोल्लसच्चातुरी संसाराब्धितरीरुदेति भगवत्पादीयवाग्वैखरी ॥ कथादर्पोत्सर्पत्कथकबुधकण्डूलरसना- सनालाघःपाते खयमुदयमन्त्रो व्रतिपतेः । निगुम्फः सूक्तीनां निगमशिखराम्भोजसुरभिः जयत्यद्वैतश्रीजयबिरुदघण्टाघणघणः ॥ ७५ सर्गः ४] कौमारचरितवर्णनम् 37 कस्तूरीधनसारसौरभपरीरंभप्रियंभावुका- स्तापोन्मेषमुषो निशाकरकराहकारकूलंकषाः । द्राक्षामाक्षिकशर्करामधुरिमयामाविसंवादिनो व्याहारा मुनिशेखरस्य न कथंकारं मुदं कुर्वते ॥ ७९ अद्वैते परिमुक्तकण्टकपथे कैवल्यघण्टापथे स्वाहपूर्वकदुर्विकल्परहितपाज्ञाध्वनीनाकुले । प्रस्कन्दन्मकरन्दवृन्दकुसुमसक्तोरणप्रक्रिया- माचार्यस्य वितन्वते नवसुधासिक्ताः स्वयं मूक्तयः ॥ ८० दूरोत्सारितदुष्टपांसुपटलीदुर्नीतयोऽनीतयो वाता देशिकवाङ्मयाः शुभगुणग्रामालया मालयाः । मुष्णन्ति श्रममुल्लसत्परिमलश्री मेदुरा मे दुरा- यासस्याऽऽधिहविर्भुजो भवमये धीमान्तरे प्रान्तरे । ८१ नृत्यन्त्या रसनाग्रसीमनि गिरां देव्याः किमङ्घिकण- न्मञ्जीरोजितसिञ्जितान्युत नितम्बालम्बिकाञ्चीरवाः । किं वलगत्करपद्मकङ्कणझणकारा इति श्रीमतः शङ्कामड्डुरयन्ति शङ्करकवेः सद्युक्तयः सूक्तयः ॥ वर्षारम्भविज़म्भमाणजलमुग्गम्भीरघोषोपमो वात्यातूर्णविघूर्णदर्णवपय:कल्लोलदर्पापहः । उन्मीलन्नवाल्लकापरिमलातानिहन्ता निरा- तङ्कः शङ्करयोगिदेशिकगिरां गुम्फः समुज्जम्भते ॥ ८३ हृद्या पद्यविनाकृता प्रशमिता विद्याऽमृषोद्या सुधा- खाथा माद्यदरातिचोद्यभिदुराऽभेद्या निषयायिता। विद्यानामनघोद्यमा सुचरिता साद्यापदुद्यापिनी पद्या मुक्तिपदस्य साऽद्य मुनिवानुद्यादनाद्या रुजः ॥ ८४ आयासस्य नवाङ्करं घनमनस्तापस्य बीजं निजं क्लेशानामपि पूर्वरङ्गमलघुपस्तावनाडिण्डिमम् । ८२ 38 ८७ श्रीमच्छङ्करदिग्विजये [चतुर्थः दोषाणामतृतस्य कार्मणमसच्चिन्ताततेनिष्कुट देहादौ मुनिशेखरोक्तिरतुलाऽहंकारमुत्कृन्तति ॥ ८५ तथागतपथाहतक्षपणकप्रथालक्षण- प्रतारणहतानुवर्त्यखिलजीवसञ्जीवनी। हरत्यतिदुरत्ययं भवभयं गुरूक्तिर्नृणा- मनाधुनिकभारतीजरठशुक्तिमुक्तामणिः ॥ ८६ झंझामारुतवेल्लितामरधुनीकल्लोलकोलाहल- प्रारभारैकसगर्यनिर्भरजरीजम्भवचोनिझराः । नैकालीकमतालिधृलिपटलीमर्मच्छिदः सद्गुरो- रुद्यदुर्मतिघमदुर्मतिकृताशान्ति निकृन्तन्ति नः ॥ उन्मीलनवमल्लिसौरभपरीरम्भप्रियंभावुकाः मन्दारद्रुमरन्दबृन्दविलुठन्माधुर्यधुर्या गिरः । उद्गीर्णा गुरुणा विपारकरुणावाराकरेणाऽऽदरात् सचेतो रमयन्ति हन्त मदयन्त्यामोदयन्ति द्रुतम् ॥ धारावाहिंसुखानुभूतिमुनिवाग्धरासुधाराशिषु क्रीडन्द्वैतिवचःसुकः पुनरनुक्रीडेत मूढेतरः । चित्रं काञ्चनमम्बरं परिदधञ्चित्ते विधत्ते मुहुः कञ्चित्कच्चरदुष्पटच्चरजरत्कन्थानुबद्धादरम् ॥ ८९ तत्तादृक्षमुनिक्षपाकरवचःशिक्षासपक्षाशयः क्षारं क्षीरमुदीक्षते बुधजनो न क्षौद्रमाकांक्षति । रूक्षा क्षेपयति क्षितौ खलु सितां नेहूं क्षणं प्रेक्षते द्राक्षां नापि दिक्षते न कदली क्षुद्रां जिघृक्षत्यलम् ॥ ९० विक्रीता मधुना निजा मधुरता दत्ता मुदा द्राक्षया क्षीरैः पात्रधियाऽर्पिता युधि जिताल्लब्धा बलादिक्षुतः । न्यस्ता चोरभयेन हन्त सुधया यस्मादतस्तद्रािं माधुर्यस्य समृद्धिरद्भुततरा नान्यत्र सा वीक्ष्यते ॥ ९१ ८८ सर्गः.] 'कौमारचरितवर्णनम् 39 : ९४ ९४ कपूरेण ऋणीकृतं मृगमदेनाधीत्य सम्पादितं मल्लीभिश्चिरसेवनादुपगतं क्रीतं तु काश्मीरजैः । प्राप्तं चौरतया पटीरतरुणा यत्सौरभं तद्विरा- मक्षय्यं महि तस्य तस्य महिमा धन्योऽयमन्यादृशः ॥ ९२ अप्सां द्रप्सं सुलिप्सं चिरतरमचरं क्षीरमद्राक्षमिक्षु साक्षाद्राक्षामचक्षं मधुरसमधयं प्रागविन्दं मरन्दम् । मोचामाचाममन्यो मधुरिमगिरमा शङ्कराचार्यवाचा- माचान्तो हन्त किं तैरलमपि सुधासारसीसारसीना ॥ ९३ संतप्तानां भवदवथुभिः स्फारकर्पूरवृष्टिः मुक्ताष्टिः प्रकृतिविमला मोक्षलक्ष्मीमृगाक्ष्याः । अद्वैतात्मानवधिकसुवासारकासारहंसी बुद्धेः शुद्धयै भवतु भगवत्पाददिव्योक्तिधारा ॥ आम्नायान्तालवला विमलतरसुरेशादिमुक्ताम्बुसिक्ता कैवल्याशापलाशा विबुधजनमनःसालजालाधिरूढा । तत्वज्ञानपसना स्फुरदमृतफला सेवनीया द्विजैर्या सा मे सोमावतंसावतरगुरुवचोवल्लिरस्तु प्रशस्त्यै ।। नृत्यद्भूतेशवल्गन्मुकुटतटरटत्स्वधुनीस्पर्धिनीभि- ग्भिनिर्भिन्नकूलोच्चलदमृतसरःसारिणीधोरणीभिः । उद्वेलद्वैतवादिस्वमतपरिणताहं क्रिया९क्रियाभि- भांति श्रीशङ्करायः सततमुपनिषद्वाहिनीगाहिनीभिः ॥ साहङ्कारसुरासुरावलिकराकृष्टभ्रमन्मन्दर- क्षुब्धक्षीरपयोब्धिवीचिसचिवैः सूक्तैः सुधावर्षणात् । जङ्घालैर्भवदावपावकशिखाजालैर्जटालात्मनां जन्तूनां जलदः कथं स्तुतिगिरां वैदेशिको देशिकः ॥ कलशाब्धिकचाकचिक्षम क्षणदाधीशगदागदिप्रियम् । रजताद्रिभुजाभुजिक्रियं चतुरं तस्य यशः स्म राजते. ।। ९८ 40 श्रीमच्छङ्करदिग्विजये [चतुर्थः परिशुद्धकथासु निर्जितो यशसा तस्य कृताङ्कनः शशी । खकलङ्कनिवृत्तयेऽधुनाऽप्युदधौ मज्जति सेवते शिवम् ॥ ९९ धम्मिल्ले नवमल्लिवल्लिकुसुपस्रकल्पनाशिल्पिनो भद्रश्रीरसचित्रचित्रितकृतः कान्ते ललाटान्तरे । तारावल्यनुहारिहारलतिकानिर्माणकर्माणुकाः कण्ठे दिक्सुदृशां मुनीश्वरयशःपूराः नमःपूरकाः ॥ उत्सङ्गेषु दिगङ्गाना निदधते ताराः कराकर्षिकाः रागाद द्यौरवलम्ब्य चुम्बति वियद्गङ्गा समालिङ्गति । लोकालोकदरी प्रसीदति फणी शेषोऽस्य दत्ते रति त्रैलोक्ये गुरुराजकीर्तिश शिनः सौन्दर्यमत्यद्भुतम् ॥ १०१ संपाप्ता मुनिशेखरस्य हरितामन्तेषु सांकाशिनं कल्लोला यशसः शशाङ्ककिराणानालक्ष्य सांहासिनम् । कुर्वन्ति प्रथयन्ति दुर्मदसुधावैदग्थ्यसंलोपिनं सम्यग् घ्नन्ति च विश्वजांधिकतमःसंघातसांघातिनम् ॥ १०२ सोत्कण्ठाकुण्ठकण्ठीरवनखवरक्षुण्णमत्तेभकुम्भ- प्रत्ययोन्मुक्तमुक्तामणिगणसुषमाबद्धदोर्युद्धलीला । मन्याद्रिक्षुब्धदुग्धार्णवनिकटसमुल्लोलकल्लालमैत्री- पात्रीभूता प्रभूता जयति यतिपतेः कीर्तिमाला विशाला ॥१०३ लोकालोकदरि प्रसीदसि चिराकि शङ्करश्रीगुरु- प्रोद्यत्कीर्तिनिशाकरं प्रियतमं संश्लिष्य संतुष्यसि । त्वं चाप्युत्पलिनि प्रहृष्यसि चिरात्कस्तत्र हेतुस्तयो- रित्यं प्रश्नगिरां परस्परमभूत्स्मेरत्वमेवोत्तरम् ॥ १०४ दुर्वाराखर्वगर्वाहितबुधजनतातूलवातूलवेगो निर्वाधागाधबोधामृतकिरणसमुन्मेषदुग्धाम्बुराशिः । निष्पत्युहं प्रसर्पद्भवदवदहनोद्भूतसन्तापमेघो जागर्ति स्फीतकीर्तिर्जगति यतिपतिः शङ्कराचार्यवर्यः ॥ १०५ सर्गः ५] संन्यासग्रहणम् 41 इतिहासपुराणभारतस्मृतिशास्त्राणि पुनःपुनर्मुदा। विबुधैः सुबुधो विलोकयन्सकलज्ञत्वपदं प्रपेदिवान् । १६ स पुनः पुनरैक्षतादराद्वरवैयासिकशान्तिवाक्ततीः । समगादुपशान्तिसंभवां सकलज्ञत्ववदेव शुद्धताम् ।। १०७ असत्प्रपञ्जश्चतुराननोऽपि सन्नभोगयोगी पुरुषोत्तमोऽपि सन् । अनङ्गजेताऽप्यविरूपदर्शनो जयत्यपूर्वी जगदद्वयीगुरुः ।। १०८ आलोक्याननपङ्कजेन दधतं वाणी सरोजासनं शश्वत्सन्निहितक्षमाश्रियममुं विश्वम्भरं पूरुषम् । आर्याराधितकोमला िकमलं कामद्विषं कोविदाः शंकन्ते भुवि शङ्करं व्रतिकुलालङ्कारमङ्कागताः ॥ १०९ एकस्मिन् पुरुषोत्तमे रतिमती सत्तामयोन्युद्भवां मायाभिक्षुहृतामनेकपुरुषासक्तिभ्रमान्निष्ठराम् । जित्वा तान् बुधवैरिणः प्रियतया प्रत्याहरद्यश्चिरा- दास्ते तापसकैतवात् त्रिजगतां त्राता स नः शङ्करः ॥ ११० इति श्रीमाधवीये तदाशुद्धाष्टमवृत्तगः । संक्षेपशङ्करजये चतुर्थः सर्ग आभवत् । आदितः श्लोकाः 384 अथ पञ्चमः सर्गः ॥ ५ ॥ ॥ संन्यासग्रहणम् ॥ इति सप्तमहायनेऽखिलश्रुतिपारंगततां गतो वटुः । परिवृत्य गुरोः कुलाद् गृहे जननी पर्यचरन्महायशाः ॥ परिचरञ्जननीं निगमं पठन्नपि हुताशरवीं सवनद्वयम् । मनुवरैर्नियतं परिपूजयञ्छिशुरवर्तत संस्तरणिर्यथा ॥ २ 42 श्रीमच्छङ्करदिग्विजये [पञ्चमः mm ६ ७ शिशुमुदीक्ष्य युवाऽपि न मन्युमान् दिशति वृद्धतमोऽपि निजासनम् । अपि करोति जनः करयोयुगं वशगतो विहिताञ्जलि तत्क्षणात् ॥ मृदु वचश्चरितं कुशलां मतिं वपुरनुत्तममास्पदमोजसाम् । सकलमेतदुदीक्ष्य सुतस्य सा सुखमवाप निरर्गलमम्बिका ॥ जातु मन्दगमनाऽस्य हि माता स्नातुमम्बुनिधिगां प्रतियाता । आतपोयकिरणे रविबिंबे सा तपःकृशतनुर्विललम्बे ॥ शङ्करस्तदनु शङ्कित्तचित्तः पङ्कजैविगतपङ्कजलाः । वीजयन्नुपगतो गतमोहां तां जनेन सदनं सह निन्ये ॥ सोऽथ नेतुमनवद्यचरित्रः सद्मनोऽन्तिकमृषीश्वरपुत्रः । अस्तवीज्जलधिगां कविहृद्यैर्वस्तुतः स्फुरदलंकृतपयैः ।। ईहितं तव भविष्यति काल्ये यो हितं जगत इच्छसि बाल्ये । इत्यवाप्य स वरं तटिनीतः सत्यवाक् सदनमाप विनीतः ॥ प्रातरेव समलोकत लोकः शीतवातहतशीकरपूतः । नूतनामिव धुनी प्रवहन्ती माधवस्य समया सदनं ताम् ॥ एवमेनमतिमर्त्यचरित्रं सेवमानजनदैन्यलवित्रम् । केरलक्षितिपतिर्हि दिदृक्षुः प्राहिणोत्सचिवमातभिक्षुः ॥ १० सोऽप्यतन्द्रितमभीरुपदाभिः प्राप्य तं यदनु सद्विरदाभिः । उक्तिभिः सरसम पदाभिः शक्तिभृत्सममजिज्ञपदाभिः ।। ११ यस्य नैव सदृशो भुवि बोद्धा दृश्यते रणशिरःसु च योद्धा । तस्य केरलनृपस्य नियोगाद् दृश्यसे मम च सस्कृतियोगात् ।। १२ राजिताभ्रवसनैर्विलसन्तः पूजिताः सदसि यस्य वसन्तः । पण्डिताः सरसवादकथाभिः खण्डितापरगिरोऽवितथाभिः ।। १३ सोऽयमाजिजितसर्वमहीप: स्तूयमानचरणः कुलदीपः । पादरेणुमवनं भवभाजामादरेण तव विन्दतु राजा ॥

सर्गः५] संन्यासग्रहणम् 43 १५ १६ एष सिन्धुरपरो मदपूर्णो दोषगन्धरहितः प्रवितीर्णः । अस्तु तेऽद्य रजसा परिपूतं वस्तुतो नृपगृहं शुचिभूतम् ॥ इत्युदीय परिसाधितदौत्यं पत्युदीरितसदुक्तिममात्यम् । अत्युदारमृषिभिः परिशस्तं प्रत्युवाच वचनं क्रमशस्तम् ॥ भैक्षमन्नमजिनं परिधानं रूक्षमेव नियमेन विधानम् । कर्म दातवर शास्ति वटूनां शर्मदायिनिगमाप्तिपट्नाम् ॥ कर्म नैजपपहाय कुभांगैः कुर्महेऽह किमु कुम्भिपुरोगैः । इच्छया सुखममात्य यथेतं गच्छ नाथमसकृत्कथयेत्थम् ।। प्रत्युत क्षितिभृताऽखिलवर्णा वृत्त्युपाहरणतो विगतः । धर्मवर्त्मनिरता रचनीयाः कर्म वय॑मिति नो वचनीयाः ॥ १७ २१ २२ इत्यमुष्य वचनादकलङ्कः प्रत्यगात्पुनरमात्यमृगाङ्कः । वृत्तमस्य स निशम्य धरापः सत्तमस्य सविध स्वयमाप ॥ भूसुराकवरैः परिवीतं भासुरोडुपगभस्त्युपवीतम् । अच्छजझुसुतया विलसन्तं सुच्छविं नगमिव द्रुमवन्तम् ॥ चर्म कृष्णहरिणस्य दधानं कर्म कृत्स्नमुचितं विदधानम् । नुतनाम्बुदनिभाम्बरवन्तं पूतनारिसहज तुलयन्तम् !! जातरूपरुचिमुञ्जसुधाम्ना छातरूपकटिमद्भुतधाम्ना । नाकभूजमिव सत्कृतिलब्ध पाकपीतलतिकापरिरब्धम् ॥ सस्मितं मुनिवरस्य कुमारं विस्मितो नरपतिर्वहुवारम् । संविधाय विनतिं वरदाने तं विधातृसदृशं भुवि मेने ॥ तेन पृष्टकुशल: क्षितिपाल: खेन सृष्टमथ शात्रवकालः । हाटकायुतसमर्पणपूर्व नाटकत्रयमवोचदपूर्वम् ॥ तद्रसागुणरीतिविशिष्टं भद्रसन्धिरुचिरं सुकवीष्टम् । संग्रहेण स निशम्य सुवाचं तं गृहाण वरमित्यमुमूचे ॥ २३ २५ २६ 44 [पञ्चमः २७ २८ २९ ३० ३१ श्रीमच्छङ्करदिग्विजये तां नितान्तहृदयङ्गमसारां गां निशम्य तुलितामृतधाराम् । भूपतिः स रचिताञ्जलिबन्धः स्वोपमं सुतमियेष सुसन्धः ।। नो हिताय मम हाटकमेतदेहि नस्तु गृहवासिजनाय । ईहितं तव भविष्यति शीघ्रं याहि पूर्णमनसेत्यवदत्तम् ।। राजवर्यकुलवृद्धिनिमित्तां व्याजहार रहसिश्रुतिवित्ताम् । इष्टिमस्य सकलेष्टविधातुस्तुष्टिमाप हि तया क्षितिनेता ॥ स विशेषविदा सभाजितः कविमुख्येन कलाभृतां वरः । अगमत्कृतकृत्यधीनिजां नगरीमस्य गुणानुदीरयन् ॥ बहवः श्रुतिपारदृश्वनः कवयोऽध्यैषत शङ्कराद्गुरोः । महतः सुमहान्ति दर्शनान्यधिगन्तुं फणिराजकौशलीम् ॥ पठितं श्रुतमादरात्पुनः पुनरालोक्य रहस्यनूनकम् । प्रविभज्य निमञ्जतः सुखे स विधेयान् विदधेतमा सुधीः ॥ सर्वार्थतत्वविदपि प्रकृतोपचारैः शास्त्रोक्तभक्त्यतिशयेन विनीतशाली । सन्तोषयन् स जननीमनयत्कियन्ति संमानितो द्विजवरैर्दिवसानि धन्यः ॥ सा शङ्करस्य शरणं स च तज्जनन्या अन्योन्ययोगविरहस्त्वनयोरसह्यः । नो वोढुमिच्छति तथाऽप्यमनुष्यभावान् मेरुं गतः किमपि वाञ्छति दुष्पदेशम् ॥ कृतविद्यममुं चिकीर्षवः श्रितगार्हस्थ्यमथाप्तबन्धवः । अनुरूपगुणामचिन्तयन्ननवद्येषु कुलेषु कन्यकाम् ॥ अथ जातु दिदृक्षवः कलाववतीर्ण मुनयः पुरद्विषम् । उपमन्युदधीचिगौतमत्रितलागस्त्यमुखाः समाययुः ।। ३२ ३३. ३४ ३५ सर्गः ५] संन्यासग्रहणम् 45 ३७ ३९ ४१ ४२ प्रणिपत्य स भक्तिसंनतः प्रसवित्र्या सह तान्विधानवित् । विधिवन्मधुपर्कपूर्वया प्रतिजग्राह सपर्यया मुनीन् ॥ विहिताञ्जलिना विपश्चिता विनयोक्त्याऽर्पितविष्टरा अमी । ऋषयः परमार्थसंश्रया अमुना साकमचीकरन् कथाः ।। निजगाद कथान्तरे मुनीञ्जननी तस्य समस्तदर्शिनः । वयमद्य कृतार्थतां गता भगवन्तो यदुपागता गृहान् ॥ क कलिर्बहुदोषभाजनं क च युष्मञ्चरणावलोकनम् । तदलभ्यत चेत्पुराकृतं सुकृतं नः किमिति प्रपञ्चये ॥ शिशुरेष किलातिशैशवे यदशेषागमपारगोऽभवत् । महिमाऽपि यदद्भुतोऽत्य तद द्वयमेतत्कुरुते कुतूहलम् ॥ करुणादृशाऽनुगृह्यते स्वयमागत्य भवद्भिरप्ययम् । वदतास्य पुराकृतं तपः क्षममाकर्णयितुं मया यदि ॥ इति सादरमीरितां तया गिरमाकर्ण्य महर्षिसंसदि । प्रतिवक्तुमभिप्रचोदितो घटजन्मा प्रवयाः प्रचक्रमे ॥ तनयाय पुरा पतिव्रते तब पत्या तपसा प्रसादितः । स्मितपूर्वमुपाददे वचो रजनीवल्लभखण्डमण्डनः ॥ वरयस्व शतायुषः सुतानपि वा सर्वविदं मितायुषम् । सुतमेकमिती रितः शिवं सति सर्वज्ञमयाचतात्मजम् ।। तदभीप्सितसिद्धये शिवस्तव भाग्यात्तनयो यशस्विनि । स्वयमेव बभूव सर्वविन्न ततोऽन्योऽस्ति यतः सुरेष्वपि ॥ इति तद्वचनं निशम्य सा मुनिवर्य पुनरप्यवोचत । कियदायुरमुष्य भो मुने सकलज्ञोऽस्यनुकम्पया वद ॥ शरदोऽष्ट पुनस्तथाऽष्ट ते तनयस्यास्य तथाऽप्यसौ पुनः । निवसिष्यति कारणान्तराद्भुवनेऽस्मिन् दश षट् च वत्सरान् ॥ ४३ ४४ ४५ ४६ ४७ ४८

46
श्रीमच्छङ्करदिग्विजये
[पञ्चमः
इति वादिनि भाविनी कथामृषिमुख्ये घटजे निवार्य तम् ।
ऋषयः सह तेन शङ्करं समुपामन्त्र्य ययुर्यथागतम् ॥
४९
सृणिना करिणीव साऽदिता शुचिना शैवलिनीव शोषिता ।
मरुता कदलीव कम्पिता मुनिवाचा सुतवत्सलाऽभवत् ॥
अथ शोकपरीतचेतनां द्विजराडित्यमुवाच मातरम् ।
अवगम्य च संमृतिस्थिति किमकाण्डे परिदेवना तव ॥
प्रबलानिलयेगवेल्लितध्वजचीनांशुककोटिचञ्चले ।
अपि मूढमतिः कलेबरे कुरुते कः स्थिरबुद्धिमम्बिके ।। ५२
कति नाम सुता न लालिताः कति वा नेह वधुरभुञ्जि हि ।
कनु ते कच ताः कवा वयं भवसंगः खलु पान्थसंगमः ॥ ५३
भ्रमतां भववर्त्मनि भ्रमान हि किंचित्सुखमम्ब लक्षये ।
तदवाप्य चतुर्थमाश्रमं प्रयतिष्ये भवबन्धमुक्तये ॥
इति कर्णकठोरभाषणश्रवणाद्वाष्पपिनद्धकण्ठया ।
द्विगुणीकृतशोकया तया जगदे गद्गदवाक्यया मुनिः ॥
त्यज बुद्धिमिमां शृणुष्व मे गृहमेधी भव पुत्रमाप्नुहि ।
यज च क्रतुभिस्ततो यतिवितास्यङ्ग सतामयं क्रमः ॥ ५६
कथमेकतनुभवा त्वया रहिता जीवितुमुत्सहेऽबला ।
अनयैव शुचौर्ध्वदेहिकं प्रमृतायां मयि कः करिष्यति ॥
त्वमशेषविदप्यपास्य मां जरठां वत्स कथं गमिष्यसि ।
द्रवते हृदयं कथं न ते न कथंकारमुपैति वा दयाम् ॥
एवं व्यथां तां बहुधाऽऽश्रयन्तीमपास्तमोहैबहुभिर्वचोभिः ।
अम्बामशोकां व्यदधाद्विधिज्ञः शुद्धाष्टमेऽचिन्तयदेतदन्तः ।। ५९
मम न मानसमिच्छति संमृति न च पुनर्जननी विजिहासति ।
न च गुरुर्जननी तदुदीक्षते तदनुशासनमीषदपेक्षितम् ॥
६०
५८

सर्गः ५]
संन्यासग्रहणम्
47
६२
इति विचिन्त्य स जातु मिमक्षया बहुजलां सरितं समुपाययौ ।
जलमगाहत तत्र समग्रहीज्जलचरश्चरणे जलमीयुषः ।। ६१
स च रुरोद जले जलचारिणा धृतपदो हियतेऽम्ब करोमि किम् ।
चलितुमेकपदं न पारये बलवता विकृतोरुमुखेन ह ॥
गृहगता जननी तदुपाशृणोत्परवशा द्रुतमाप सरित्तटम् ।
मम मृतः प्रथमं शरणं धवस्तदनु मे शरणं तनयोऽभवत् ॥
स च मरिष्यति नक्रवशं गतः शिव न मेऽजनि हन्त पुरा मृतिः ।
इति शुशोच जनन्यपि तीरगा जलगतात्मजवक्तगतेक्षणा ॥ ६४
त्यजति नूनमयं चरणं चलो जलचरोऽम्ब तवानुमतेन मे ।
सकलसंन्यसने परिकल्पिते यदि तवानुमतिः परिकल्पये ।। ६५
इति शिशौ चकिता वदति स्फुटं व्यधित साऽनुपतिं द्रुतमम्बिका।
सति सुते भविता मम दर्शनं मृतवतस्तदु नेति विनिश्चयः ॥ ६६
तदनु संन्यसनं मनसा व्यधादथ मुमोच शिशुं खलनक्रकः ।
शिशुरुपेत्य सरित्तटमत्रसन प्रसुवमेतदुवाच शुचाऽऽकृताम् ॥ ६७
मातर्विधेयमनुशाधि यदत्र कार्य
संन्यासिना तदु करोमि न सन्दिहेऽहम् ।
वस्त्राशने तव यथेष्टममी प्रदद्यु-
गृहन्ति ये धनमिदं मम पैतृकं यत् ॥
देहेऽम्ब रोगवशगे च सनामयोऽपी
द्रक्ष्यन्ति शक्तिमनुसृत्य मृतिप्रसङ्गे ।
अर्थग्रहाजनभयाच यथाविधानं
कुर्युश्च संस्कृतिममी न विभेयपीषत् ॥ ६९
यज्जीवितं जलचरस्य मुखात्तदिष्टं संन्याससंगरवशान्मम देहपाते ।
संस्कार मेत्य विधिवत्कुरु शङ्कर त्वं नो चेत्यम्य मम किं फलमीरय त्वम् ।।
६८

48 ७२ श्रीमच्छङ्करदिग्विजये [पञ्चमः अयम्ब रात्रिसमये समयान्तरे वा संचिन्तय ववशगाऽवशगाऽथवा माम् । एष्यामि तत्र समयं सकलं विहाय विश्वासमाप्नुहि मृतावपि संस्करिष्ये ॥ ७१ संन्यस्तवाञ्छिशुरयं विधवामनाथां क्षिप्त्वेति मां प्रति कदापि न चिन्तनीयम् । यावन्मया स्थितवता फलमापनीयं मातस्ततः शतगुणं फलमापयिष्ये ॥ इत्थं स्वमातरमनुग्रहणेच्छुरुक्त्वा प्रोचे सनाभिजनमेष विचक्षणाय्यः । संन्यासकल्पितमना व्रजितोऽस्मि दूरं तां निक्षिपामि जननीमधवां भवत्सु ।। एवं सनाभिजनमुत्तममुत्तमाय्यः श्रीमातृकार्यमभिभाष्य करद्वयेन । सम्पार्थयन् स्वजननीं विनयेन तेषु न्यक्षेपयन्नयनजाम्बु निषिञ्चमानाम् ।। आत्मीयमन्दिरसमीपगतामथासौ चक्रे विदूरगनदीं जननीहिताय । तत्तीरसंश्रितयवहधाम किंचित्सा निम्नगाऽऽरभत ताडयितुं तरङ्गैः ॥ ७५ वर्षासु वर्षति हरौ जलमेत्य किंचिदन्तःपुरं भगवतोऽपनुनोद मृत्स्नाम् । आरब्ध मूर्तिरनघा चलितुं क्रमेण देवोऽविभेदिव न मुञ्चति भीरुहिंसाम् ।। प्रस्थातुकाममनघं भगवाननङ्गवाचाऽवदत्कथमपि प्रणिपत्य मातुः । पादारविन्दयुगलं परिगृह्य चाज्ञां श्रीशङ्करं जनहितैकरसं स कृष्णः ॥ ७७ आनेष्ट दूरगनदी कृपया भवान् यां सा माऽतिमात्रमनिशं बहुलोमिहस्तैः । क्लिश्नाति ताडनपरावद कोऽभ्युषायो वस्तुं क्षमे न नितरां द्विजपुत्र यासि॥ आकर्ण्य वाचमिति तामतनुं गुरुनः प्रोद्धृत्य कृष्णमचलं शनकैर्भुजाभ्याम् । प्रातिष्ठिपनिकट एव न यत्र बाधा नधेत्युदीर्य सुखमास्व चिराय चेति ।। तस्मात्स्वमातुरपि भक्तिवशादनुज्ञा- मादाय संमृतिमहाब्धिविरक्तिमान् सः । गन्तुं मनो व्यधित संन्यसनाय दूरं किं नौस्थितः पतितुमिच्छति वारिराशौ ॥ ८० 49 ८२ सर्गः ५] संन्यासग्रहणम् इत्थं सुधीः स निरवग्रहमातृलक्ष्मी- शानुग्रहो घटजबोधितभाविवेदी । एकान्ततो विगतभोगपदार्थतृष्णः कृष्णे प्रतीचि निरतो निरगान्निशान्तात् ॥ ८१ यस्य त्रिनेत्रापरविग्रहस्य कामेन नास्थीयत दृक्पथेऽपि । तन्मूलकः संमृतिपाशबन्धः कथं प्रसज्येत महानुभावे ॥ स्मरेण किल मोहितौ विधिविधू च जातून्पथौ तथाऽहमपि मोहिनीकुचकचादिवीक्षापरः । अगामहह मोहिनी मिति विमृश्य सोऽजागरीत् यतीशवपुषा शिवः स्मरकृतार्तिवार्तोज्झितः ॥ ८३ निष्पत्राकुरुतासुरानपि सुरान् मारः सपत्राऽकरो- दप्यन्यानिह निष्कुलाऽकृततरां गन्धर्वविद्याधरान् । यो धानुष्कवरो नराननलसात्कृत्वोदलासीदलं यस्तम्मिन्नशुशरतैष मुनिभिर्वर्ण्यः कथं शङ्करः ॥ ८४ शान्तिश्चाक्शयन्मनो गतिमुखा दान्तिय॑रुद्ध क्रिया: आधात्ता विषयान्तरादुपरतिः क्षान्तिमदुत्वं व्यधात् । ध्यानैकोत्सुकतां समाधिविततिश्चक्रे तथाऽऽस प्रिया श्रद्धा हन्त वसुमथाऽस्य तु कुतो वैराग्यतो वेद्मि नो॥८५ विजनतावनितापरितोषितो विधिवितीर्णकृतात्मतनुस्थितिः । परिहरन् ममतां गृहगोचरां हृदयगेन शिवेन समं ययौ ॥ ८६ गच्छन्वनानि सरितो नगराणि शैलान् ग्रामाञ्जनानपि पशून् पथि सोऽपि पश्यन् । नन्वैन्द्रजालिक इवाद्भुतमिन्द्रजालं ब्रह्मैवमेव परिदर्शयतीति मेने ॥ वादिभिर्निजनिजावकर्शितां वर्तयन् पथि जरद्गवीं निजे । दण्डमेकमवहज्जगद्गुरुर्दण्डिताखिलकदध्वमण्डलः ।। ८७ ८८ 50 श्रीमच्छङ्करदिग्विजये [पञ्चमः सारङ्गा इव विश्वकद्रुभिरहंकुर्वद्भिरुच्छृखलै- जल्पाकैः परमर्मभेदनकलाकण्डूलजिह्वाञ्चलैः । पाखण्डैरिह कान्दिशीकमनसः कं नामुयुर्वैदिकाः क्लेशं दण्डधरो यदि स्म न मुनिस्त्राता जगद्देशिकः ॥ ८९ दण्डान्वितेन धृतरागनवाम्बरेण गोविन्दनायवनमिन्दुभवातटस्थम् । तेन प्रविष्टमजनिष्ट दिनावसाने चण्डत्विषा च शिखरं चरमाचलस्य ।। ९० तीरद्रुमागतमरुद्विगतश्रमः सन् गोविन्दनाथवनमध्यतलं लुलोके । शंसन्ति यत्र तरवो वसतिमुनीनां शाखाभिरुज्ज्वलमृगाजिनवल्कलाभिः।। आदेशमेकमनुयोक्तुमय व्यवस्यन् पादेशमात्र विवरप्रतिहारमाजम् । तत्र स्थितेन कथितां यमिनांगपेन गोविन्ददेशिकगुहां कुतुकी ददर्श ॥९२ यस्य प्रपन्नपरितोषदुहो गुहायाः स त्रिः प्रदक्षिणपरिक्रमणं विधाय । द्वारं प्रति प्रणिपतञ्जनतापुरोगं तुष्टाव तुष्टहृदयस्तमपास्तशोकम् ॥ ९३ पर्यङ्कतां भजति यः पतगेन्द्रकेतोः पादाङ्गदत्वमथवा परमेश्वरस्य । तस्यैव मूर्ध्नि धृतसाब्धिमहीध्रभूमेः शेषस्य विग्रहमशेषमहं भजे त्वाम् ।। दृष्ट्वा पुरा निजसहस्रमुखीमभैषुरन्तेवसन्त इति तामपहाय शान्तः । एकाननेन भुवि यस्त्ववतीर्य शिष्यानन्वग्रहीन्ननु स एव पतञ्जलिस्त्वम् ।। उरगपतिमुखादधीत्य साक्षात्स्वयमवनेर्विवरं प्रविश्य येन । प्रकटितमचलातले सयोगं जगदुपकारपरेण शब्दभाष्यम् ।। तमखिलगुणपूर्ण व्यासपुत्रस्य शिष्यादधिगतपरमार्थ गौडपादान्महर्षेः । अधिजिगमिषुरेष ब्रह्मसंस्थामहं त्वां प्रसृमरमहिमानं प्रापमेकान्तभक्त्या ।। तस्मिन्निति स्तुवति कस्त्वमिति ब्रुवन्तं दिष्टया समाधिषदरुद्धविसृष्टचित्तम् । गोविन्ददेशिकमुवाच ततो वचोभिः प्राचीनपुण्यजनितात्मविबोधचिरैः ।। खामिन्नहं न पृथिवी न जलं न तेजो न स्पर्शनो न गगनं न च तद्गुणा वा । नापीन्द्रियाण्यपि तु विद्धि ततोऽवशिष्टो यः केवलोऽस्ति परमः स शिवोऽहमस्मि ।।

सर्गः ५] संन्यासग्रहणम् 51 आकर्ण्य शङ्करमुनेर्वचनं तदित्थ- मद्वैतदर्शनसमुत्थमुपात्तहर्षः । स प्राह शङ्कर स शङ्कर एव साक्षा- जातस्त्वमित्यहमवैमि समाधिदृष्टया ॥ १०० तस्योपदर्शितवतश्चरणौ गुहाया द्वारे न्यपूजयदुपेत्य स शङ्करायः। आचार इत्युपदिदेश स तत्र तस्मै गोविन्दपादगुरवे स गुरुर्मुनीनाम् ॥ १०१ शङ्करः सविनयैरुपचारैरभ्यतोषयदसौ गुरुमेनम् । ब्रह्म तद्विदितमप्युपलिप्सुः सम्प्रदायपरिपालनबुद्धया ॥ १०२ भक्तिपूर्वकृततत्परिचर्यातोषितोऽधिकतरं यतिवर्यः । ब्रह्मतामुपदिदेश चतुर्भिर्वेदशे वरवचोभिरमुष्मै ॥ १०३ साम्प्रदायिकपराशरपुत्रप्रोक्तसूत्रमतगत्यनुरोधात् । शास्त्रगूढहृदयं हि दयालोः कृत्स्नमप्ययमबुद्ध सुबुद्धिः ॥ १०४ व्यासः पराशरसुतः किल सत्यवत्यां तस्यात्मजः शुकमुनिः प्रथितानुभावः । तच्छिष्यतामुपगतः किल गौडपादो गोविन्दनाथमुनिरस्य च शिष्यभूतः ॥ शुश्राव तस्य निकटे किल शास्त्रजालं यश्चाशृणोद्भुजगसद्मगतस्त्वनन्तात् । शब्दाम्बुराशिमखिलं समयं विधाय यश्चाखिलानि भुवनानि विभर्ति मूर्धा || सोऽधिगम्य चरमाश्रममार्यः पूर्वपुण्यनिचयैरधिगम्यम् । स्थानमर्यमपि हंसपुरोगैरुन्नतं ध्रुव इवैत्य चकाशे ॥ १०७ छन्नमूर्तिरतिपाटलशाटीपल्लवेन रुरुचे यतिराजः । वासरोपरमरक्तपयोदाच्छादितो हिमगिरेरिव कूटः ।। १०८ 52 १०९ श्रीमच्छङ्करदिग्विजये [पञ्चमः एष धूर्जटिरबोधमहेभं संनिहत्य रुधिराप्लुतचर्म । उद्यदुष्णकिरणारुणशाटीपल्लवस्य कपटेन बिभर्ति ।। श्रुतीनामाक्रीडः प्रथितपरहंसोचितगति- निजे सत्ये धाम्नि त्रिजगदतिवर्तिन्यभिरतः । असौ ब्रह्मवास्मिन्न खलु विशये किन्तु कलये बृहेरर्थं साक्षादनुपचरितं केवलतया ॥ ११० मित पादेनैव त्रिभुवनमिहैकेन महसा विशुद्धं यत्सत्वं स्थितिजनिलयेष्वप्यनुगतम् । दशाकारातीतं स्वमहिमनि निर्वेदरमणं ततस्तद्विष्णोः परमपदमाख्याति निगमः ॥ १११ न भूतेष्वासङ्गः कचन न गवा वा विहरणं न भूत्या संसर्गो न परिचितता भोगिभिरपि । तदप्याम्नायान्तत्रिपुरदहनात्केवलशा तुरीयं निर्द्वन्द्वं शिवमतितरां वर्णयति तम् ।। ११२ न धर्मः सौवर्णो न पुरुषफलेषु प्रवणता न चैवाहोरात्रस्फुरदरियुतः पार्थिवरथः । असाहाय्येनैवं सति विततपुर्यष्टकजये * कथं तं न ब्रूयानिगमनिकुरम् परशिवम् ॥ ११३ दुःखासारदुरन्तदुष्कृतघनां दुःसंमृतिप्रावृषं दुर्वारामिह दारुणां परिहरन्दूरादुदाराशयः । उच्चण्डपतिपक्षपण्डितयशोनालीकनालाकुर- ग्रासो हंसंकुलावतंसपदभाक् सन्मानसे क्रीडति ॥ ११४ * 1. ज्ञानेन्द्रियपञ्चकम, 2. कमेन्द्रियपञ्चकम् , 3. प्राण- 'पञ्चकम, 4. अन्तःकरणवतुष्टयम् , 5. अविद्या, 6. कामः, 7. कर्म, 8. वासना इति पुर्यष्टकम्-इति व्याख्या ॥

सर्गः ५]
संन्यासग्रहणम्
53
क्षीरं ब्रह्म जगच्च नीरमुभयं तद्योगमभ्यागतं
दुर्भेदं वितरेतरं चिरतरं सम्यग्विभक्तीकृतम् ।
येनाशेषविशेषदोषलहरीमासेदुषर्षी शेमुषीं
सोऽयं शीलवतां पुनाति परमो हंसो द्विजात्यग्रणीः ॥ ११५
नीरक्षीरनयेन तथ्यवितथे संपिण्डिते पण्डितै-
दुर्बोधे सकलैर्विवेचयति यः श्रीशङ्कराख्यो मुनिः ।
हंसोऽयं परमोऽस्तु ये पुनरिहाशक्ताः समस्ताः स्थिताः
जृम्भान्निम्बफलाशनैकरसिकान् काकानमून्मन्महे ।। ११६
दृष्टिं यः प्रगुणीकरोति तमसा बाह्येन मन्दीकृतां
नालीकप्रियतां प्रयाति भजते मित्रत्वमव्याहतम् ।
विश्वस्योपकृतेविलुम्पति सुहृच्चक्रस्य चार्ति घनां
हंसः सोऽयमभिव्यक्ति महतां जिज्ञास्य मर्थ मुहुः ॥ ११७
हंसभावमधिगम्य सुधीन्द्रे तं समर्चति च संमृतिमुक्त्यै ।
संचचाल कथयन्निव मेघश्चञ्चलाचपलतां विषयेषु ।। ११८
एष नः स्पृशति निष्ठुरपादैस्तत्तु तिष्ठतु वितीर्णमवन्यै ।
अस्मदीयमपि पुष्पमनैषादित्यरोधि नलिनीपतिरब्दैः ॥ ११९
वारिवानिवहे क्षणलक्ष्यश्रीररोचत किलाचिररोचिः ।
अन्तरङ्गगतबोधकलेच व्यापृतस्य विदुषो विषयेषु ।। १२०
किं नु विष्णुपदसंश्रयतोऽब्दा ब्रह्मतामुपदिशन्ति सुहद्भयः ।
यनिशम्य निखिला: स्वनमेषां बिभ्रति स्म किल निर्भरमोदान् ॥ १२१
देवराजमपि मां न यजन्ति ज्ञानगर्वभरिता यतयोऽमी ।
इत्यमर्षवशगेन पयोदस्यन्दनेन धनुराविरकारि ॥ १२२
आववुः कुटजकन्दलबाणास्फीतरेणुकलिता वनवात्याः ।
सत्वमध्यमतमोगुणमिश्रा मायिका इव जगत्सु विलासाः॥ १२३
बभ्रमस्तिमिरसच्छविगात्राश्चित्रकार्मुकभृतः खरघोषाः ।
ध्यानयज्ञमथनाय यतीनां विद्युदुज्जलदृशो घनदैत्याः ।। १२४

54
[पञ्चमः
श्रीमच्छङ्करदिग्विजये
उत्ससर्जुरसकुन्जलधारा वारिदा गगनधाम पिधाय ।
शङ्करो हृदयमात्मनि कृत्वा संजहार सकलेन्द्रियवृत्तीः ॥ १२५
शनैः सान्त्वालापैः सनयमुपनीतोपनिषदां
चिरायत्तं त्यक्त्वा सहजमभिमानं दृढतारम् ।
तमेत्य प्रेयांसं सपदि परहसं पुनरसा-
वधीरा संस्मष्टुं कनु सपदि नद्रालयमगात् ।। १२६
न सूर्यो नैवेन्दुः स्फुरति न च ताराततिरियं
कुतो विद्युल्ले वा कियदिह कृशानोविलमितम् ।
नो विद्मो रोदस्यौ न च समयस्मिन्न जलदे
चिदाकाशे सान्द्रस्वसुखरसवर्षण्यविरतम् ।। १२७
किमादेयं हेयं किमिति सहजानन्दजलधा-
वतिखच्छे तुच्छीकृतसकलमाये परशिवे ।
तदेतस्मिन्नेव स्वमहिमनि विस्मापनपदे
स्वतः सत्ये नित्ये रहसि परमे सोऽकृत कृती ॥ १२८
पाप विष्णुपदभागपि मेवः प्राडागमनतो मलिनत्वम् ।
विद्युदुज्ज्वलरुचाऽनुसृतश्च कोऽध्यवन्यपि भजेन विरागम् ॥ १२९
आशये कलुषिते सलिलानां मानसोकहृदयाः कलहंसाः ।
कोऽन्यथा भवति जीवनलिप्सु श्रये भजति मानसचिन्ताम् ॥ १३०
अभ्रवर्त्मनि परिभ्रममिच्छशुभ्रदीधितिरदभ्रपयोदे ।
न प्रकाशनमवाप कलावान कश्चकास्ति मलिनाम्बरवासी ॥ १३१
चातकावलिरनल्पपिपासा प्राप तृप्तिमुदकस्य चिराय ।
प्रामुयादमृतमप्यभिवाञ्छन् कालतो बत घनाश्रयकारी ।। १३२
इत्युदीर्णजलवाहविनीले स्फीतवातपरिधूततपाले ।
प्राणभृत्यचरणप्रतिकूले नीडनीलघनशालिनि काले ॥ १३३
अग्रहारशतसंभृतशोभे सुग्रहाक्षतुरगः स महात्मा ।
अध्युवास तटमिन्दुभवायाः सुध्युपास्यचरणं गुरुमर्चन् ।। १३४

सर्गः ५] 55 संन्यासग्रहणम् त्रस्तमर्त्यगणमस्तमिताश हस्तिहस्तपृथुलोदकधाराः । मुञ्चति स्म समुदञ्चित विद्युत्पञ्चरात्रमहिशत्रुरजस्रम् ॥ १३५ तीरभूरुहततीरपकर्षन्नग्रहारनिकरैः सह पूरः । आययावधिकघोषमनल्पः कल्पवाधिलहरीव तटिन्याः ।। १३६ घोषवारिझरभीरुनराणां घोषमेष कलुषं स निशम्य । देशिकं ध्रुवसमाधिविधानं वीक्ष्य च क्षणमभूदविवक्षुः ॥ १३७ सोऽभिमन्य करकं त्वरमाणस्तत्ववाहपुरतः प्रणिधाय । कृत्स्नमत्र समवेशयदम्भः कुम्भसंभव इव स्वकरेऽब्धम् ।। १३८ तं निशम्य निखिलैरपि लोकैरुत्थितोऽस्य गुरुरुक्तमुदन्तम् । योगसिद्धिमचिरादयमापेत्यभ्यपद्यततरां परितोषम् ।। १३९ छात्रमुख्यममुपाह कियद्भिर्वासरैगनघने गगने सः । पश्य सौम्य शरदा विमलं खं विद्ययेव विशदं परतत्वम् ।। १४० वारिदा यतिवराश्च सुपायोधारया सदुपदेशगिरा च । ओषधीरनुचरांश्च कृतार्थीकृत्य सम्पति हि यान्ति यथेच्छम् ॥ १४१ शीतदीधितिरसौ जलमुग्भिर्मुक्तपद्धतिरतिस्फुटकान्तिः । भाति तत्वविदुषामिव बोधो मायिकावरणनिर्गमशुभ्रः ॥ १४२ वारिवाहनिवहे प्रतियाते भान्ति भानि शुचिभानि शुभानि । मत्सरादिविगमे सति *मैत्रीपूर्वका इव गुणाः परिशुद्धाः ।। १४३ मत्स्यकच्छपमयी धृतचक्रा गर्भवर्तिभुवना नलिनाढ्या । श्रीयुताऽद्य तटिनी परहंसैः सेव्यते मधुरिपोरिव मूर्तिः ॥ १४४ नीरदाः सुचिरसंभृतमेते जीवनं द्विजगणाय वितीर्य । त्यक्तवियुदबलाः परिशुद्धाः प्रवजन्ति घनवीथिगृहेभ्यः ।। १४५ चन्द्रिकाभलितचर्चितगात्रश्चन्द्रमण्डलकमण्डलुशोभी । बन्धुजीवकुसुमोत्करशाटीसंवृतो यतिरिवायमनेहाः ।। १४६ मैत्री करुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भाव- नातश्चित्तप्रसादनम्" इति पातञ्जलयोगसूत्रम् ॥

56
श्रीमच्छङ्करदिग्विजये
[पञ्चमः
हेससंगतिलसद्विरजस्कं क्षोभवर्जितमपद्भुतपङ्कम् ।
वारि सारसमतीव गभीरं तावकं मन इव प्रतिभाति ॥ १४७
शारदाम्बुधरजालपरीतं भ्राजते गगनमुज्ज्वलभानु ।
लिप्तचन्दनरजः समुदश्चत्कौस्तुभं मुररिपोरिव वक्षः ।। १४८
पङ्कजानि समुदूढहरीणि प्रोद्गतानि विकचानि कनन्ति ।
सौम्य योगकलयेव विफुल्लान्युन्मुखानि हृदयानि मुनीनाम् ॥ १४९
रेणुभमकलितैर्दकबाटीसंवृतः कुसुमलिजपमालैः ।
वृन्तकुड्मलकमण्डलुयुक्तैर्धार्यते क्षितिरुहैयतितौल्यम् ॥ १५०
धारणादिभिरपि श्रवणायैार्षिकाणि दिवसान्यपनीय ।
पादपद्मरजसाऽद्य पुनन्तः संचरन्ति हि जगन्ति महान्तः ।। १५१
तद्भवान् व्रजतु वेदकदम्बादुद्भवां भवदवाम्बुदमालाम् ।
तत्वपद्धतिमभिज्ञ विवेक्तुं सत्वरं हरपुरीमविविक्ताम् ।। १५२
अत्र कृष्णमुनिना कथितं मे पुत्र तच्छृणु पुरा तुहिनाद्रौ ।
वृत्रशत्रुमुखदैवतजुष्टं सत्रपत्रिमुनिकतकमास ॥
१५३
संसदि श्रुतिशिरोऽर्थमुदारं शंसति स्म पराशरसूनुः ।
इत्यपृच्छमहमत्रभवन्तं सत्यवाचमभियुक्ततमं तम् ।।
१५४
आर्य वेदनिकरः प्रविभक्तो भारतं कृतमकारि पुराणम् ।
योगशास्त्रमपि सम्यगभाषि ब्रह्मसूत्रमपि मूत्रितमासीत् ।। १५५
अत्र केचिदिह विपतिपन्नाः कल्पयन्ति हि यथायथमर्थान् ।
अन्यथाग्रहणनिग्रहदक्षं भाष्यमस्य भगवन् करणीयम् ।। १५६
मद्वचः स च निशम्य सभायां विद्वदग्रसर वाचमवोचत् ।
पूर्वमेव दिविषद्भिरुदीर्णः पार्वतीपतिसदस्ययमर्थः । १५७
वत्स तं शृणु समस्तविदेको मत्समस्तव भविष्यति शिष्यः ।
कुम्भ एव सरितः सकलं यः संहरिष्यति महोल्बणमम्भः ॥
१५८

सर्गः ५]
संन्यासग्रहणम्
57
दुर्मतानि निरसिष्यति सोऽयं शर्मदायि च करिष्यति भाष्यम् ।
कीर्तयिष्यति यशस्तव लोकः कार्तिकेन्दु करकौतुकि येन ॥ १५९
इत्युदीर्य मुनिराट् स वनान्ते पत्युराप सुगिरि गिरिजायाः ।
तन्मुखाच्छूतमशेषमिदानी सन्मुनिप्रिय मया त्वयि दृष्टम् ।। १६०
स त्वमुत्तमपुमानसि कश्चित्तत्त्ववित्यवर नान्यसमानः ।
तद्यतस्व निरवद्यनिबन्धैः सद्य एव जगदुद्धरणाय ।। १६१
गच्छ वत्स नगरं शशिमौले: स्वच्छदेवतटिनीकमनीयम् ।
तावता परमनुग्रहमाद्या देवता तव करिष्यति तस्मिन् ।।
१६२
एवमेनमनुशास्य दयालुः पावयनिनशा विससर्ज ।
भावतः स्वचरणाम्बुजसेवामेव शश्वदभिकामयमानम् ।। १६३
पङ्कजप्रतिभटं पदयुग्मं शङ्करोऽस्य निरगादसहिष्णुः ।
तद्वियोगमभिवन्ध कथंचित्तद्विलोकनमयन् हृदयाब्जे ॥ १६४
प्राप तापसवरः स हि काशी नीपकाननपरीतसमीपाम् ।
आपगानिकटहाटकचञ्चयूपपतिसमुदश्चितशोभाम् ॥ १६५
संददश स भगीरथतप्तामन्दतीव्रतपसः फलभूताम् ।
योगिराडुचिततीरनिकुञ्जां भोगिभूषणजटातटभूषाम् ।। १६६
विष्णुपादनखराज्जननाद्वा शंभुमौलिशशिसंगमनाद्वा ।
या हिमाद्रिशिखरापतनाद्वा स्फाटिकोपमजला प्रतिभाति ॥ १६७
गायतीव कलषट्पदनादैर्नृत्यतीव पवनोच्चलिताजैः ।
मुञ्चतीव हसितं सितफेनैः श्लिष्यतीव चपलोमिकरैर्या १६८
श्यामला कचिदपाङ्गमयूखैश्चित्रिता कचन भूषणभाभिः ।
पाटला कुचतटीगलितैर्या कुड्डमैः वचन दिव्यवधूनाम् ।। १६९
सोऽवगाह्य सलिलं सुरसिन्धोरुत्ततार शितिकण्ठजटाभ्यः ।
जाह्नवीसलिलवेगहतस्तद्योगपुण्यपरिपूर्ण इवेन्दुः ।। १७०
%3D

58 [षष्ठः श्रीमच्छङ्करदिग्विजये वर्णदीजलकणाहितशोभा मूर्तिरस्य सुतरां विललास । चन्द्रपादगलदम्बुकणाङ्का पुत्रिका शशिशिलारचितेव ॥ १७१ विश्वेशश्चरणयुगं प्रणम्य भक्त्या हर्यायैत्रिदशवरैः समर्चितस्य । सोऽनैषीत्मयतमना जगत्पचित्रे क्षेत्रेऽसाविह समयं कियन्तमार्यः ॥१७२ इति श्रीमाधवीये तत्सुखाश्रमनिवासगः । संक्षेपशङ्करजये सर्गोऽयं पञ्चमोऽभवत् ॥ ५ ॥ आदितः श्लोकाः 556 २ अथ षष्ठः सर्गः ॥ ६ ॥ आत्मविद्याप्रतिष्ठा ॥ अथागमद्राह्मणसूनुरादरादधीतवेदो दलयन् स्वभासा । तेजांसि कश्चित्सरसीरुहाक्षो दिदृक्षमाणः किल देशिकेन्द्रम् ॥ आगत्य देशिकपदाम्बुजयोरपतत् संसारवारिधिमनुत्तरमुत्तितीर्घः। वैराग्यवानकृतदारपरिग्रहश्च कारुण्यनावमधिरुह्य दृढां दुरापाम् ।। उत्थाप्य तं गुरुरुवाच गुरुर्द्विजानां कस्त्वं क धाम कुत आगत आत्तधैर्यः । बालोऽप्यबालधिषणः प्रतिभासि मे त्व- मेकोऽप्यनेक इव नैकशरीरभावः ।। पृष्टो बमाण गुरुमुत्तरमुत्तरज्ञो विप्रो गुरो मम गृहं बुध चोलदेशे । यत्रापगा वहति तत्र कवेरकन्या यस्याः पयो हरिपदाम्बुजभक्तिमूलम् ।। अटाट्यमानो महतो दिक्षुः क्रमादिम देशमुपागतोऽस्मि । बिभेमि मज्जन भववारिराशौ तत्पारगं मां कृपया विधेहि ३ ४ ५ सर्गः ६] 59 आत्मविद्याप्रतिष्ठा अपाङ्रुत्तरमृतझरभङ्गः परगुरो शुचा दूनं दीनं कलय दयया मामविमृशन् । गुणं वा दोषं वा मम किमपि संचिन्तयसि चेत् तदा कैव श्लाघा निरवधिकपानीरधिरिति ॥ स्यात्ते दीनदयालुताकृतयशोराशिस्त्रिलोकीगुरो तूर्ण चेद्दयसे ममाद्य न तथा कारुण्यतः श्रीमति । वर्षन भूरि मरुस्थलीषु जलभृत्सद्भिर्यथा पूज्यते नैवं वर्षशतं पयोनिधिजले वर्षन्नपि स्तुयते ॥ * त्वत्सारस्वतसारसारससुधाकूपारसत्सारस- स्रोतःसंभृतसंततोज्ज्वलजलक्रीडा पति मुने । चश्चत्पञ्चशरादिवञ्चनहतं न्यञ्चं प्रपञ्चं हित- ज्ञानाकिञ्चनमा विरिश्चमखिलं चालोचयन्त्यञ्चतु ॥ सौरं धाम सुधामरीचिनगरं पौरन्दरं मन्दिरं कौबेरं शिविरं हुताशनपुरं सामीरसमोसरम् । वैधं चाऽऽवसथं वीयफणितिश्रद्धासमिद्धात्मनः शुद्धाद्वैतविदो न दोग्धि कुतुकं विरतिश्रीधातुकं कौतुकम् ॥९ न भौमा रामाद्याः सुषमविषवल्लीफलसमाः समारम्भन्ते नः किमपि कुतुकं जातु विषयाः । न गण्यं नः पुण्यं रुचिरतररम्भाकुचतटी- परीरम्भारंभोज्ज्वलमपि च पौरन्दर १० न चञ्चद्वरिञ्च पदमपि भवेदादरपदं वचो भव्यं नव्यं यदकृत कृती शङ्करगुरुः । चकोरालीचनूपुटदलितपूर्णेन्दुविगल- सुधाधाराकारं तदिह वयमीहेमहि मुहुः ॥ ११ तव सरस्वत्याः साररूपः सारससुधाकूपारः चन्द्रसम्बन्धी अमृतसमुद्रस्तस्य सतां सारसानां पक्षिणां कमलानां वा स्रोतोभिः प्रवाहैः यत् संभृतं संमिश्रितं संधितं वा संततमुज्ज्वलं जलं तस्मिन् क्रीडा यस्यास्तथा भूता सती मे मतिः-इति व्याख्या ॥ ॥

60
१३
श्रीमच्छङ्करदिग्विजये
[षष्ठः
द्यावाभूमिशिवकरैर्नवयशःप्रस्तावसौवस्तिकैः
पूर्वारवर्वतपःपचोलिमफलैः सर्वाधिमुष्टिंधयैः ।
दीनाढ्यंकरणैर्भवाय नितरां वैरायमाणैरलं-
कर्मीणं प्रसितं त्वदीयभजनैः स्यान्मामकीनं मनः ।। १२
संसारबन्धामयदुःखशान्त्यै स एव नस्त्वं भगवानुपास्यः ।
भिषक्तमं त्वां भिषजां शृणोमीत्युक्तस्य योऽभूदुदितावतारः ॥
इत्युक्तान्तं कृपया महात्मा व्यदीपयत्संन्यसनं यथावत् ।
पाहुमहान्तः प्रथमं विनेयं तं देशिकेन्द्रस्य सनन्दनाख्यम् ॥ १४
संसारघोरजलधेस्तरणाय शश्वत्सांयात्रिकीभवनमर्दयमानमेनम् ।
हन्तोत्तमाश्रमतरीमधिरोप्य पारं निन्ये निपातितकृपारसकेनिपातः ॥१५
येऽप्यन्येऽमुं से वितुं देवतांशा यातास्तेऽपि प्राय एवं विरक्ताः ।
क्षेत्रे तस्मिन्नेव शिष्यत्वमस्य प्रापुः स्पष्टं लोकरीत्याऽपि गन्तुम् ॥ १६
व्याख्या मौनमनुत्तराः परिदलच्छङ्काकलङ्काडरा-
इछात्रा विश्वपवित्रचित्रचारितास्ते वामदेवादयः ।
तस्यैतस्य विनीतलोकतृतिमुद्धतु धरित्रीतलं
प्राप्तस्याद्य विनेयतामुपगता धन्याः किलान्यादृशाः ॥ १७
शेषः साधुभिरेव तोषयति नृञ्छब्दैः पुपर्थाथिनो
वाल्मीकिः कविराज एष वितथैरथैर्मुहुः कल्पितैः ।
व्याचष्टे किल दीर्घसूत्रसरणिर्वाचं चिरादर्थदां
व्यासः शङ्करदेशिकस्तु कुरुते सद्यः कृतार्थानहो ।
चक्रितुल्यमहिमानमुपासांचक्रिरे तमविमुक्तनिवासाः।
वक्रमृत्यनुसृतामपि साध्वी चक्रुरात्मधिषणां तदुपास्त्या ॥ १९
चण्डभानुरिव भानुमण्डलैः पारिजात इव पुष्पजाततः ।
त्रशत्रुरिव नेत्रवारिजैश्छात्रपतिभिरलं ललास सः ।।

सर्गः ६] संन्यासग्रहणम 61 २१ २२ २३ २४ २५ एकदा खलु वियत्रिपुरविड्भाललोचनहुताशनभानोः । विस्फुलिङ्गपदवीं दधतीषु प्रज्ज्वलत्तपनकान्तिशिलासु ।। दर्शयत्युरुमरीचिसरस्वत्पूरमृज्यपरमायिनि* भानौ । साधुनकमणिकुट्टिममूर्च्छद्रश्मिजालकशिखावलपिच्छम् ।। पङ्कजावलिविलीनपराले पुष्करान्तरभिगत्वरमीने । शाखिकोटरशयालुशकुन्ते शैलकन्दरशरण्यमयूरे ।। शङ्करो दिवसमध्यमभागे पङ्कजोत्पलपरागकषायाम् । जाह्नवीमभिययौ सह शिष्यराह्निकं विधिवदेष विधित्सुः ।। सोऽन्त्यज पथि निरीक्ष्य चतुर्भिर्भीषणैः श्वभिरनुद्रुतमारात् । गच्छ दूरमिति तं निजगाद प्रत्युवाच च स शङ्करमेनम् ।। अद्वितीयमनवद्यमसङ्गं सत्यबोधसुखरूपमखण्डम् । आमनन्ति शतशो निगमान्तास्तत्र भेदकलना तव चित्रम् ।। दण्डमण्डितकरा धृतकुण्डा: पाटलाभवसनाः पटुवाचः । ज्ञानगन्धरोहता गृहसंस्थान् वञ्चयन्ति किल केचन वेषैः ।। गच्छ दूरमिति देहमुनाहो देहिनं परिजिहीर्षसि विद्वन् । भिद्यतेऽन्नमयतोऽन्नमयं कि साक्षिणश्च यतिपुंगव साक्षी ।। ब्राह्मणश्वपचभेदविचारः प्रत्यगात्मनि कथं तव युक्तः । विम्बितेऽम्बरमणो सुरनद्यामन्तरं किमपि नास्ति सुरायाम् ।। शुचिदिजोऽहं श्वश्च बजेति मिथ्याग्रहस्ते मुनिवर्य कोऽयम् । सन्तं शरीरेष्वशरीरमेकमुपेक्ष्य पूर्ण पुरुषं पुराणम् ।। अचिन्त्यमव्यक्तमनन्तमा विस्मृत्य रूपं विपलं विमोहात् । कलेवरेऽस्मिन्करिकर्णलोलाकृतिन्यहंता कथमाविरास्ते ।। विद्यामवाप्यापि विमुक्तिपद्यां जागर्ति तुच्छा जनसंग्रहेच्छा । अहो महान्तोऽपि महेन्द्रजाले मज्जन्ति मायाविवरस्य तस्य ॥ २६ २८ २९ ३० ३१ ३२ * लोकविलक्षणेन्द्रजालिके-इति व्याख्या ॥

62 [षष्ठः ३ श्रीमच्छङ्करदिग्विजये इत्युदीर्य वचनं विरतेऽस्मिन् सत्यवाक्तदनु विप्रतिपन्नः । अत्युदारचरितोऽन्त्यजमेनं प्रत्युवाच स च विस्मितचेताः ।। ३३ सत्यमेव भवता यदिदानी प्रत्यवादि तनुभृत्सवरैतत् । अन्त्यजोऽयमिति सम्पति बुद्धिं संत्यजामि वचसाऽऽत्मविदस्ते ॥ ३४ जानते श्रुतिशिरांस्यपि सर्वे मन्यते च विजितेन्द्रियवर्गाः । युञ्जते हृदयमात्मनि नित्यं कुर्वते न धिषणामपभेदाम् ॥ ३५ भाति यस्य तु जगद् दृढबुद्धः सर्वमप्यनिशमात्मतयैव । स द्विजोऽस्तु भवतु श्वपचो वा वन्दनीय इति मे दृढनिष्ठा ॥ ३६ या चितिः स्फुरति विष्णुमुखे सा पुत्तिकावधिषु सैव सदाऽहम् । नैव दृश्यमिति यस्य मनीषा पुल्कसो भवतु वा स गुरुमे ।। ३७ यत्र यत्र च भवेदिह बोधस्तत्तदर्थसमवेक्षणकाले । बोधमानमवशिष्टमहं तद्यस्य धीरिति गुरुः स नरो मे ॥ ३८ भाषमाण इति तेन कलावानेष नैक्षत तमन्त्यजमग्रे । धूर्जटिं तु समुदैक्षत मौलिस्फूर्जदैन्दवकलं सह वेदैः ।। भयेन भक्त्या विनयेन धृत्या युक्तः स हर्षेण च विस्मयेन । तुष्टाव शिष्टानुमतः स्तवैस्तं दृष्ट्वा दृशोर्गोचरमष्टमूर्तिम् ॥ दासस्तेऽहं देहदृष्टयाऽस्मि शंभो जातस्तेऽशो जीवष्टया त्रिदृष्टे । सर्वस्यात्मन्नात्मदृष्टया त्वमेवेत्येवं मे धीनिश्चिता सर्वशास्त्रैः ॥ ४१ यदालोकादतबहिरपि च लोको वितिमिरो न मञ्जूषा यस्य त्रिजगति न शाणो न च खनिः । यतन्ते चैकान्तं रहसि यतयो यत्पयिनः नमस्तस्मै स्वस्मै निखिलनिगमोत्तंसमणये ॥ अहो शास्त्रं शास्त्रात्किमिह यदि न श्रीगुरुकृपा चिता सा किं कुर्यान्ननु यदि न बोधस्य विभवः । किमालम्बश्चासौ न यदि परतचं मम तथा नमः स्वस्मै तस्मै यदवधिरिहाश्चर्यधिषणा ॥ ४३ ४० ४२ सर्गः ६] 63 00 ४७ ४८ आत्म विद्याप्रतिष्ठा इत्युदारवचनैर्भगवन्तं संस्तुवन्तमथ च प्रणमन्तम् । बाष्पपूर्णनयनं मुनिवर्य शङ्करः सबहुमानमुवाच ॥ अस्मदादिपदवीमभजस्त्वं शोधिता तव तपोधननिष्ठा । बादरायण इव त्वमपि स्याः सद्वरेण्य मदनुग्रहपात्रम् ॥ ४५ संविभज्य सकलश्रुतिजालं ब्रह्मसूत्रमकरोदनुशिष्टः । यत्र काणभुजसांख्यपुरोगाण्युद्धृतानि कुमतानि समूलम् ।। ४६ तत्र मूढमतयः कलिदोषाद् द्वित्रवेदवचनोदलितानि । भाष्यकाण्यरचयन् बहुबुद्धैर्दूष्यतामुपगतानि च कैश्चित् ॥ तद्भवान्विदितवेदशिखार्थस्तानि दुर्मतिमतानि निरस्य । सूत्रभाष्यमधुना विदधातु श्रुत्युपोलितयुक्त्यभियुक्तम् ॥ एतदेव विबुधैरपि सेन्ट्रैरर्चनीयमनवद्यमुदारम् । तावकं कमलयोनिसभायामप्यवाप्स्यति वरां वरिवस्याम् ।। ४९ भास्कराभिनवगुप्तपुरोगान्नीलकण्ठगुरुमण्डनमुख्यान् । पण्डितानथ विजित्य जगत्यां ख्यापयाद्वयमते परतत्वम् । मोहसंतमसवासरनाथांस्तत्र तत्र विनिवेश्य विनेयान् । पालनाय परतत्त्वसरण्या मामुपैष्यसि ततः कृतकृत्यः ।। ५१ एवमेनमनुगृह्य कृपावानागमैः सह शिवोऽन्तरघत्त । विस्मितेन मनसा सह शिष्यैः शङ्करोऽपि सुरसिन्धुमयासीत् ॥ ५२ संनिवर्त्य विधिमाह्निकमीशं ध्यायतो गुरुमथाऽखिलभाष्यम् । कर्तुमुद्यतमभूद गुणसिन्धोर्मानसं निखिललोकहिताय ।। ५३ कर्तृत्वशक्तिमधिगम्य स विश्वनाथात् काशीपुरान्निरगमत्त्व विकासभाजः । प्रीतः सरोजमुकुलादिव चञ्चरीकनिर्वन्धतः सुखमवाप यथा द्विजेन्द्रः ।। अद्वैतदर्शनविदां भुवि सार्वभौमो यात्येष इत्युडुपबिम्बसितातपत्रम् । अस्ताचले वहति चारु पुरः पकाशव्याजेन चामरमथादिव दिक्सुकान्ता ।। ५० 64 [षष्ठः श्रीमच्छङ्करदिग्विजये शान्तां दिशं देवनृणां विहाय नान्या दिगस्मै समरोचताद्धा। तत्रत्यतीर्थानि निषेवमाणो गन्तुं मनोऽधादरी क्रमात्सः ।। ५६ तेनान्ववर्ति महता कचिदुष्णशालि शीतं कचित्कचिजु कचिदप्यरालम् । उत्कण्कटकं कचिदकण्टकवत्कचिच्च तद्वर्त्म मूर्खजनचित्तमिवाव्यवस्थम् ।। आत्मानमक्रियमपव्ययमीक्षितापि पान्थैः समं विचलितः पथि लोकरीत्या। आदत्फलानि मधुराण्यपिवत्पयांसि प्रायादुपाविशदशेत तथोदतिष्ठत् ।। तेन व्यनीयत तदा पदवी दवीयस्यासादिता च बदरी वनपुण्यभूमिः । गौरीगुरुस्रवदमन्दझरीपरीता खेलत्सुरीयुतदरी परिभाति यस्याम् ।। ५९ *स द्वादशे वयसि तत्र समाधिनिष्ठैब्रह्मर्षिभिः श्रुतिशिरो बहुधा विचार्य। षड्भिश्च सप्तभिरथो नवभिश्च खिन्नैर्भव्यं गभीरमधुरं फणति स्म भाष्यम् । करतलकलिताद्वयात्मतत्वं क्षपितदुरन्तचिरन्तनप्रमोहम् । उपचितमुदितोदितैर्गुणोधैरुपनिषदामयमुज्जहार भाष्यम् ॥ ६१ *क्षुत्पिपासे जरामृत्यू शोकमोहो षडूर्मयः । त्वक चर्ममालास्थिमेदोमजारेतांसि सप्तधातवः पञ्चज्ञानेन्द्रियाणि, चत्वार्यन्तःकरण्यनीति नवकम् , अथवा, १) ज्ञानेन्द्रियपञ्चकम, .) कमें- न्द्रियपञ्चकम, ३) प्राणपञ्चकम, ४) अन्तःकरणचतुष्टयम,- ("मनो- बुद्धिरहंकारश्चित्त करणमन्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया इमे ॥” इति वृत्तिचतुष्टयमेदभिन्नम् ) ५) भूतपञ्चकम, ६) अविद्या, ७) कामः, ८) कर्म, ९) वासना इति नव पदार्थाः, नवद्वारोपितं शरीरं वा। अथवा १) चार्वाकः, २) आर्हतः, ३) सौत्रान्तिकः, ४) वैनाशिकः, ५) वै- भाषिकः, ६) योगाचार इति षड् दर्शनकाराः १) गौतमः, २) काणादः, ३) कपिलः, ४) पतञ्जलिः, ५) जैमिनि:, आस्तिकदर्शनकाराः पञ्च । ६) साख्यैकदेशिनः, ७) शाक्तमीमांसकाद्येकदशिनः इति आकलय्य सप्त। १) जीवेश्वरभेदः, २) ईश्वरजगद्भेदः, ३) जीवपरस्परमेदः, ४) जगत्परस्परमेदः, ५) जीवजगद्भेदः, ६) ७) ८) ९) पूर्वोक्तविद्यादि- चतुष्टयम् । एतैः खेदं प्राप्तानां श्रेयःप्रदं भाष्यम् ॥

सर्गः ६] आत्मविद्याप्रतिष्ठा 65 ततो महाभारतसारभूताः स व्याकरोद्भायवतीश्च गीताः । सनत्सुजातीयमसत्सुदरं ततो नृसिंहस्य च तापनीयम् ।। ६२ ग्रन्थानसंख्यांस्तदनूपदेशसाहरिकादीन्व्यदधात्सुधीड्यः । श्रुत्वाऽर्थविद्यानविवेकपाशान्मुक्ता विरक्ता यतयो भवन्ति ।। ६३ श्रीशङ्कराचार्यरवावुदेत्य प्रकाशमाने कुमतिप्रणीताः । व्याख्यान्धकारा प्रलयं समीयुदुर्वादिचन्द्रप्रभयाऽवियुक्तात् ॥ ६४ अथ व्रतींन्दुर्विधिवद्विनेयानध्यापयामास स नैजभाष्यम् । तर्कै परेषां तरुणैर्विवस्वन्मरीचिभिः सिन्धुवदनशोष्यम् ।। ६५ निजशिष्यहदब्जभास्वतो गुरुवर्यस्य सनन्दनादयः । शमपूर्वगुणैरशुश्रुवन्कतिचिच्छिष्यगणेषु मुख्यताम् ॥ स नितरामितराश्रवतो लसन्नियममद्भुतमाप्य सनन्दनः । श्रुतनिजश्रुतिकोऽप्यभवत्पुनः पिपठिषुर्गहनार्थविवित्सया ॥ ६७ द्वभक्तिममुमात्मपदारविन्दद्ववे नितान्तदयमानमना मुनीन्द्रः । आम्नायशेखररहस्यनिधानकोशमात्मीयकोशमखिलं त्रिरपाठयत्तम् ॥ ६८ ईर्ष्याभराकुलहदामितराश्रवाणां प्रख्यापयन्ननुपमामदसीयभक्तिम् । अभ्रापगापरतटस्थममुं कदाचिदाकारयनिगमशेखरदेशिकेन्द्रः ॥ ६९ संतारिकाऽनवधिसंमृतिसागरस्य किं तारयेन सरितं गुरुपादभक्तिः । इत्यञ्जसा प्रविशतः सलिलं थुसिन्धुः पद्मान्युदञ्चयति तस्य पदे पदे स्म ।। पाथोरुहेषु विनिवेश्य पदं क्रमेण प्राप्तोपकण्ठममुमप्रतिमानभक्तिम् । आनन्दविस्मयनिरन्तनिरन्तरोऽसावाश्लिष्य पद्मपदनामपदं व्यतानीत् ।। तं पाठयन्तमनवद्यतमात्मविद्यां ये तु स्थिताः सदसि तत्वविदो सगर्वाः । आचिक्षिपुः कुमतपाशुपताभिमानाः केचिद्विवेकविटपोग्रदवायमानाः ।। तद्विकल्पनमनल्पमनीषः श्रुत्युदाहरणतः स निरस्य । ईषदस्तमितगभराणामागमानपि ममन्थ परेषाम् ॥ ७३ 66 [षष्ठः ७७ श्रीमच्छङ्करदिग्विजये अद्वितीयनिरता सति भेदे मुक्तिरीशसमतैव कथं स्यात् । ध्यानजा किमिति सा न विनश्येद्भावकार्यमखिलं हि न नित्यम् ।। ७४ किंच संक्रमणमीशगुणानामिष्यते पशुषु मोक्षदशायाम् । तन्न साध्ववयवैविधुराणां संक्रमो न घटते हि गुणानाम् ।। ७५ पद्मगन्ध इव गन्धवहेऽस्मिन्नात्मनीश्वरगुणोऽस्त्विति चेन्न । तत्र गन्धसमवायि नभवत्संयुतं दिशति गन्धधियं यत् ॥ ७६ किंचैकदेशेन समाश्रयन्ते कात्स्न्येन वा शंभुगुणा विमुक्तान् । पूर्वे तु पूर्वोदितदोषसङ्गस्त्वन्तेऽज्ञतादिः परमेश्वरे स्यात् ॥ इत्थं तकः कुलिशकठिनैः पण्डितं मन्यमाना भिद्यत्स्वार्थाः स्मयभरमदं तत्यजुस्तान्त्रिकास्ते । पक्षाघातैरिव रयभरैस्ताड्यमानाः फणासु क्ष्वेडज्वालां खगकुलपते: पनगा: साभिमानाः ॥ व्याख्याजम्भितपाटवात्फणिपतेर्मन्दाक्षमुद्दोपयन् संख्यालवितशिष्यहद्वनरुहेष्वादित्यतामुद्वहन् । उद्वेलस्वयशःसुमैः स भगवत्पादो जगद्भूषयन् कुर्वन्वादिमृगेषु निर्भरमभाच्छार्दूलविक्रीडितम् ।। वेदान्तकान्तारकृतप्रचारः सुतीक्ष्णसयुक्तिनखाग्रदंष्ट्रः । भयङ्करो वादिमतंगजानां महर्षिकण्ठीरव उल्ललास ॥ अमानुषं तस्य यतीश्वरस्य विलोक्य बालस्य सतः प्रभावम् । अत्यन्तमाश्चर्ययुतान्तरङ्गाः काशोपुरस्था जगदुस्तदेत्थम् ॥ अस्मान्मुहुर्योतितसर्वतन्त्रात्पराभवं पण्डितपुण्डरीकाः । प्रपेदिरे भास्करगुप्तमिश्रमुरारिविद्येन्द्रगुरुपधानाः ॥ अस्यात्मनिष्टातिशयेन तुष्टः प्रादुर्भवन् कामरिपुः पुरस्तात् । चोदयामास किल प्रणेतुं वेदान्तशारीरकसूत्रभाष्यम् । ८३ ७८ ७ ९ ८२ सर्गः ६] संन्यासग्रहणम्, 67 ८४ कुदृष्टितिमिरस्फुरत्कुमतपङ्कमग्नां पुरा पराशरभुवा चिराद् बुधमुदे बुधेनोद्धृताम् । अहो बत जरदवीमनघभाष्यमूक्तामृते- रपङ्कयति शङ्करः प्रणतशङ्करः सादरम् ॥ त्रैलोक्यं ससुखं क्रियाफलपयो भुङ्क्ते ययाऽऽविष्कृतं यस्या वृद्धतरे महीसुरगृहे वास: प्रवृद्धाध्वरे । तां पङ्कपसृते कुतर्ककुहरे घारैः खरैः पातितां निष्पङ्कामकरोत्स भाष्यजलधेः प्रक्षाल्य मुक्तामृतैः ॥ ८५ मिथ्या वक्तीति कैश्चित्पुरुषमुपनिषदरमुत्सारिताऽभू- दन्यैरस्मिन्नियोज्यं परिचरितुमसाबर्हतीति प्रणुना । अर्थाभासं दधानमृदुभिरिव पश्चिता चोरितार्थे- विन्दत्यानन्दमेषा सुचिरमशरणा शङ्कराय प्रपन्ना ॥ ८६ हन्तुं बौद्धोऽन्वधावत्तदनु कथमपि स्वात्मलाभः कणादा- जातः कौमारिलायनिजपदगमने दर्शितं मार्गमात्रम् । सांख्यैर्दुःखं विनीतं परमथ रचिता प्राणधृत्यर्हताऽन्यै- रित्थं खिन्नं पुमांसं व्यधित करुणया शङ्करायः परेशम् ॥ ८७ अस्तं भूतैर्न देवं कतिचन ददृशुः के च दृष्ट्वाऽप्यधीराः केचिद्भूतैर्वियुक्तं व्यधुरथ कृतिनः केऽपि सर्वैविमुक्तम् । किन्त्वेतेषामसत्वं न विदधुरजहान्नैव भीतिं ततोऽसो तेषामुच्छिद्य सत्तामभयमकृत तं शङ्करः शङ्करांशः ॥ चार्वाकैनिद्भुतः प्राग्वलिभिरथ मृषा रूपमापाद्य गुप्तः काणादैर्हा नियोज्यो व्यरचि बलवताऽऽकृष्य कौमारिलेन । सांख्यैराकृष्य हत्वा मलमपि रचितो यः प्रधानैकतन्त्रः कृष्ट्वा सर्वेश्वरं तं व्यतनुत पुरुषं शङ्करः शङ्करांशः ।। वाचः कल्पलताः प्रसूनसुमनःसन्दोहसन्दोहनाः भाष्ये भूष्यतमे समीक्षितवतां श्रेयस्करे शांकरे । ८८ ८९ 68 श्रीमच्छङ्करदिग्विजये भाष्याभासगिरो दुरन्वयगिराऽऽश्लिष्टा विमृष्टा गुण- रिष्टाः स्युः कथमम्वुजासनवधूदौर्भाग्यगर्भीकृताः ॥ ९० कामं कामकिरातकार्मुकलतापर्यायनिर्यातया नाराचच्छटया विपाटितमनोधैर्यैर्धिया कल्पितान् । आचार्याननवर्यनिर्यदभिदासिद्धान्तशुद्धान्तरो धीरो नानुसरीसरीति विरसान्ग्रन्थानबन्धापहान् ॥ ९१ सुधास्यन्दाहन्ताविजयिभगवत्पादरचना समस्कन्धान् ग्रन्थान् रचयति निबद्धा यदि तदा । विशङ्कां भङ्गानां मृडमुकुटम्पृङ्गाटसरितः कृतौ तुल्या कुल्या नियतमुपशल्याहतगतिः ।। ९२ यया दींनाधीना घनकनकधारा समरचि प्रतीति नीताऽसौ शिवयुवतिसौन्दर्यलहरी । भुजङ्गो रौद्रोऽपि श्रुतभयहृदाधायि सुगुरो- गिरां धारा सेयं कलयति कवेः कस्य न मुदम् ॥ ९३ गिरां धारा कल्पद्रुमकुसुमधारा परगुरो- स्तदर्थाली चिन्तामणिकिरणवेण्या गुणनिका । अभङ्गव्यङ्गयोधः सुरसुरभिदुग्धोर्मिसहभू- दिवं भव्यैः काव्यैः सृजति विदुषां शङ्करगुरुः ॥ ९४ वाचा मोचाफलाभाः श्रमशमनविधौ ते समर्थास्तदर्था व्यङ्गयं भङ्गयन्तरं तत्खलु किमपि सुधामाधुरीसाधुरीतिः । मन्ये धन्यानि गाढं प्रशमिकुलपतेः काव्यगव्यानि भव्या- न्येकश्लोकोऽपि येषु प्रथितकविजनानन्दसन्दोहकन्दः ॥ ९५ वाग्गुम्भैः कुरुविन्दकन्दलनिभैरानन्दकन्दैः सता- माँ धैररविन्दवृन्दकुहरस्यन्दन्मरन्दोज्ज्वलैः व्यङ्गयैः कल्पतरुप्रफुल्लसुमनःसौरभ्यगर्भीकृतै- दत्ते कस्य मुदं न शङ्करगुरोर्भव्यार्थकाव्यावलिः ॥ ९६

सर्गः६]
आत्मविद्याप्रतिष्ठा
69
तत्तादृग्यतिशेखरोद्धृतनिषद्भाष्यं निशम्येयया
केचिद्देवनदीतटस्थविदुषामक्षांघ्रिपक्षश्रिताः ।
मौात्खण्डयितुं प्रयत्नमनुमानैकेक्षणा विक्षमा-
चक्रुर्भाव्यविचार्य चित्रकिरणं चित्राः पतङ्गा इव ॥
निघर्षणच्छेदनतापनाद्यैर्यथा सुवर्ण परभागमेति ।
विवादिभिः साधु विमथ्यमानं तथा मुनेर्भाष्यमदीपि भूयः ॥ ९८
स भाष्यचन्द्रो यतिदुग्धसिन्धोरुत्थाय दास्यन्नमृतं बुधेभ्यः ।
विधूय गोभिः कुमतान्धकारानतर्पयद्विपमनश्चकोरान् ॥ ९९
अनादिवाक्सागरमन्थनोत्था सेव्या बुधैर्धिक्कृतदुःसपत्नैः ।
विश्राणयन्ती विजरामरत्वं विदिद्युते भाष्यसुधा यतीन्दोः ।।
सतां हृदब्जानि विकासयन्ती तमांसि गाढानि विदारयन्ती ।
प्रत्यर्युलूकान् प्रविलापयन्ती भाष्यप्रभाऽभाग्रतिवर्यभानोः ॥ १०१
न्यायमन्दरविमन्थनजाता भाष्यनूतनसुधा श्रुतिसिन्धोः ।
केवलश्रवणतो विबुधेभ्यश्चित्रमत्र वितरत्यमृतत्वम् ॥ १०२
पादादासीत्पद्मनाभस्य गङ्गा शंभोवक्ताच्छांकरी भाष्यसूक्तिः ।
आद्या लोकान्दश्यते मज्जयन्तीत्यन्या मनानुद्धरत्येष भेदः ॥ १०३
व्यासो दर्शयति स्म सूत्रकलितन्यायौघरत्नावली-
रालाभवशान कैरपि बुधैरेता गृहीताश्चिरम् ।
अर्याप्त्या सुलभाभिराभिरधुना ते मण्डिताः पण्डिता
व्यासश्चाऽऽप कृतार्थतां यतिपतेरौदार्यमाश्चर्यकृत् ॥ १०४
विद्वज्जालतपःफलं श्रुतिवधूधम्मिलमल्लीज
सद्वैयासकसूत्रमुग्धमधुरोगण्यातिपुण्योदयम् ।
वाग्देवीचिरभोग्यभाग्यविभवपाग्भारकोशालयं
भाष्यं ते निपिबन्ति हन्त न पुनर्येषां भवे संभवः ।। १०५

70 श्रीमच्छङ्करदिग्विजये षष्ठः मन्थानाद्रिधुरंधरा श्रुतिसुधासिन्धोर्यतिक्ष्मापते- ग्रन्थानां फणितिः परावरविदामानन्दसंधायिनी । इन्धानैः कुमतान्धकारपटलैरन्धीभवचक्षुषां पन्थानं स्फुटयन्त्यकाण्डकमभात्तकार्कविद्योतितः ॥ १०६ आ सीतानाथनेतुः स्थलकृतसलिलद्वैतमुद्रात्समुद्रा- दारुद्राकर्षणाद्रागवनतशिखराद्भोगसान्द्रानगेन्द्रात् । आ च प्राचीनभूमीधरमुकुटतटादा तटात्पश्चिमाद्रे- रद्वैताद्यापवर्गा जयति यतिधरापोद्धृता ब्रह्मविद्या ॥ १०७ इति श्रीमाधवीये तब्रह्मविद्यापतिष्ठितिः । संक्षेपशङ्करजये षष्ठः सर्ग उपारमत् ॥ ६ ॥ आदितः श्लोकाः 663. अथ सप्तमः सर्गः ॥७॥ व्यासदर्शनादिचरितवर्णनम् ॥ स जातु शारीरकसूत्रभाष्यमध्यापयन्नभ्रसरित्समीपे । शिष्यालिशङ्काः शमयन्नुवास यावन्नभोमध्यमितो विवस्वान् ।। श्रान्तेष्वथाधीत्य शनैविनेयेष्वाचार्य उत्तिष्ठति यावदेषः । तावद् द्विजः कश्चन वृद्धरूपः कस्त्वं किमध्यापयसीत्यपृच्छत् ॥ २ शिष्यास्तमूचुर्भगवानसौ नो गुरुः समस्तोपनिषत्स्वतन्त्रः । अनेन दुरीकृतभेदवादमकारि शारीरकसूत्रभाष्यम् ॥ स चाब्रवीद्भाष्यकृतं भवन्तमेते वदन्त्यद्भुतमेतदास्ताम् । अथैकमुच्चारय पारमार्ष यतेऽर्यतस्त्वं यदि वेत्थ सूत्रम् ।। तमब्रवीद्भाष्यकृदग्र्यवाचं सूत्रार्थविद्भयोऽस्तु नमो गुरुभ्यः । सूत्रज्ञताहंकृतिरस्ति नो मे तथाऽपि यत्पृच्छसि तद्रवीमि ॥ ४ ५ सर्गः ६] 71 wr ७ व्यासदर्शनादिचरितवर्णनम पपच्छ सोऽध्यायमथाधिकृत्य तृतीयमारम्भगतं यतीशम् । 'तदन्तरे 'त्यादिकमस्ति सूत्रं ह्येतदर्थं यदि वेत्थ किञ्चित् ॥ स माह जीवः करणावसादे संवेष्टितो गच्छति भूतसूक्ष्मः । ताण्डिश्रुतौ गौतमजैवलीयप्रश्नोत्तराभ्यां प्रथितोऽयमर्थः ॥ इत्युक्तमर्थ निशमय्य तेन स वावदृकः शतधा विकल्प्य । अखण्डयत्पण्डितकुञ्जराणां मध्ये महाविस्मयमादधानः ॥ अनुद्य सर्व फणितं तदीयं सहस्रधा तीर्थकरश्वखण्ड । तयाः सुराचार्यफणीन्द्रवाचोदिनाष्टकं वाक्कलहो जजृम्भे ॥ ९ एवं वदन्तौ यतिराद्विजेन्द्रौ विलोक्य पार्श्वस्थितपद्मपादः । आचार्यमाहेति महीसुराऽयं व्यासो हि वेदान्तरहस्यवेत्ता ॥ त्वं शङ्करः शङ्कर एव साक्षात् व्यासस्तु नारायण एव नूनम् । तयोविवादे सततं प्रसक्ते किं किङ्करोऽहं करवाणि सद्यः ।। ११ इतीदमाकर्ण्य वचो विचित्रं स भाष्यकृत्सूत्रकृतं दिक्षुः । कृताञ्जलिस्तं प्रयतः प्रणम्य बभाण वाणी नवपद्यरूपाम् ॥ १२ भवांस्तडिच्चारुजटाकिरीटपवर्षकाम्भोधरकान्तिकान्तः । शुभ्रोपवीती धृतकृष्णचर्मा कृष्णो हि साक्षात्कलिदोषहन्ता ॥ १३ भावत्कसूत्रप्रतिपाद्यताक्परापरार्थप्रतिपादकं सत् । अद्वैतभाष्यं तव संमतं चेत्सोवा ममाऽगः पुरतो भवाऽऽशु ॥ १४ एवं वदन्नयमथैक्षत कृष्णमाराच्चामीकरव्रततिचारुजटाकलापम् । विद्युल्लतावलयवेष्टितवारिदाभ चिन्मुद्रया प्रकटयन्तमभीष्टमयम् ॥१५ गाढोपगूढमनुरागजुषा रजन्या गर्दापदं विदधतं शरदिन्दुबिम्बम् । तापिच्छरीतितनुकान्तिझरीपरीतं कान्तेन्दुकान्तघटितं करकं दधानम् ॥ सप्ताधिकाच्छदरविंशतिमौक्तिकाढ्यां सत्यस्य मूर्तिमिव बिभ्रतमक्षमालाम् । तत्ताशस्वपतिवंशविवर्धनात्मा- तारावलीमुपगतामिव चानुनेतुम् ।। १७ 72 २० २२ श्रीमच्छङ्करदिग्विजये [षष्ठः शार्दूलचर्मोद्वहनेन भूतेरुद्भूलनेनापि जटाच्छटाभिः । रुद्राक्षमालावलयेन शम्भोरर्धासनाध्यासनसख्यपात्रम् ॥ १८ अद्वैतविद्यासृणितीक्ष्णधारावशीकृताहंकृतिकुञ्जरेन्द्रम् । खशास्त्रशङ्कज्ज्वलसूत्रदामनियन्त्रिताकृत्रिमगोसहस्रम् ।। १९ तत्तागत्युज्ज्वलकीर्तिशालिशिष्यालिसंशोभितपार्श्वभागम् । कटाक्षबीक्षामृतवर्षधारानिवारिताशेषजनानुतापम् ।। विलोक्य वाचंयमसार्वभौम स शङ्करोऽशङ्कितदर्शनं तम् । गुरुं गुरूणामपि हृष्टचेताः प्रत्युद्ययौ शिष्यगणैः समेतः ॥ २१ अत्यादराच्छात्रगणैः सहासौ प्रत्युद्गतस्तच्चरणौ प्रणम्य । यत्यग्रगामी विनयी प्रहृष्यन्नित्यब्रवीत्सत्यवतीसुतं सः ।। द्वैपायन स्वागतमस्तु तुभ्यं दृष्ट्वा भवन्तं चरिता मयाऽर्थाः । युक्तं तदेतत्त्वयि सर्वकालं परोपकारव्रतदीक्षितत्त्वात् ॥ २३ मुने पुराणानि दशाष्ट साक्षाच्छ्रुत्यर्थगर्भाणि सुदुष्कराणि । कृतानि पद्यद्वयमत्र कर्तु को नाम शक्नोति सुसंगतार्थम् ।। वेदार्णवं व्यतियुतं व्यदधाश्चतुर्धा शाखाप्रभेदनवशादपि तान् विभक्तान् । मन्दाः कलौ क्षितिसुरा जनितार एते वेदान् ग्रहीतुमलसा इति चिन्तयित्वा ।। २५ एष्यद्विजानासि भवन्तमर्थ गतं च सर्व न न वेत्सि यत्तत् । नो चेत्कथं भूतभवद्भविष्यकथाप्रबन्धान रचयेरजानन् । २६ आभासयन्नन्तरमङ्गमान्ध्यं स्थूलं च सूक्ष्म बहिरन्तरं च । अपानुदन् भारतशीतरश्मिरभूदपूर्वो भगवत्पयोधेः ।। वेदाः षडङ्ग निखिलं च शास्त्रं महान् महाभारतवारिराशिः । त्वत्तः पुराणानि च संबभूवुः सर्वं त्वदीयं खलु वाङ्मयाख्यम् ॥ २८ २४ सर्गः ] 73 व्यासदर्शनादिचरितवर्णनम् द्वीपे कचित् समुदयन्नृतमेव धाम शाखासहस्रसचिवः शुकसेव्यमानः । उल्लासयत्यहह यस्तिलको मुनीनामुच्चैः फलानि सुदृशां निजपादभाजाम् ॥ धत्से सदाऽऽर्तिशमनाय हृदा गिरीशं गोपायसेऽधिवदनं च चिरन्तनीः । दूरीकरोषि नरकं च दयादृष्टया कस्ते गुणान् गदितुमद्भुतकृष्ण शक्तः ॥ यमामनन्ति श्रुतयः पदार्थ न सन्न चासन्न बहिर्न चान्तः । स सच्चिदानन्दघनः परात्मा नारायणस्त्वं पुरुषः पुराणः ॥ ३१ इति स्तुतस्तेन यथाविधानमासेदिवान् विष्टरमात्मनिष्ठः । द्वैपायनः प्रश्रयनम्रपूर्वकायं यतीशानमिदं बभाषे।।। स्वमस्मदादेः पदवीं गतोऽभूरखण्डपाण्डित्यमबोधयं ते । शुकर्षिवत् प्रीतिकरोऽसि विद्वन् पुरेव शिष्यैः सह मा भ्रमीस्त्वम् ।। ३३ कृतं त्वरा भाष्यमितीन्दुमोले: सभाङ्गणे सिद्धमुखान्निशम्य । हृदा प्रहृष्टेन दिदृक्षया ते दगध्वनीनः प्रशमिन्नभूवम् ।। ३४ इत्यं मुनीन्द्रवचनश्रवणोत्थहर्ष रोमाञ्चपूरमिषतो बहिरुप्लवन्तम् । बिभ्रत्तमभ्ररुचिमाख्यददभ्रशक्तिं श्रीशङ्करः शुकमताणवपूर्णचन्द्रः ॥३५ सुमन्तुपैलप्रथमा मुनीन्द्रा महानुभावा ननु यस्य शिष्याः । तृणाल्लघीयानपि तत्र कोऽहं तथाऽपि कारुण्यमदर्शि दीने ॥ ३६ सोऽहं समस्तार्थविवेचकस्य कृत्वा भवत्सूत्रसहस्ररश्मेः । भाष्यपदीपेन महर्षिमान्य नीराजनं धृष्टतया न लज्जे ॥ अकारि यत्साहसमात्मबुद्धया भवत्पशिष्यव्यपदेशभाजा । विचार्य तत्सूक्तिदुरुक्तिजालमर्हः समीकर्तुमिदं कृपालुः ।। ३८ इत्थं निगद्योपरतस्य हस्ताद्धस्तद्वयेनाऽऽदरतः स भाष्यम् । आदाय सर्वत्र निरैक्षतासौ प्रसादगांभीर्यगुणाभिरामम् ।। सूत्रानुकारिमृदुवाक्यनिवेदितार्थ स्वीयैः पदैः सह निराकृत्तपूर्वपक्षम् । सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपं दृष्ट्वाऽभिनन्ध परितोषवशादवोचत् ।।

74 ४४ श्रीमच्छङ्करदिग्विजये [सप्तमः न साहसं तात भवानकार्षीयत्सूत्रभाष्यं गुरुणा विनीतः । विचार्यतां सूत्रदुरुक्तमत्रेत्येतन्महत्साहसमित्यवैमि ॥ ४१ मीमांसकानामपि मुख्यभूतो वेत्याखिलव्याकरणानि विद्वन् । विनिःसरेत्ते वदनाद्यतीन्दो गोविन्दशिष्यस्य कथं दुरुक्तम् ॥ ४२ न प्राकृतस्त्वं सकलार्थदर्शी महानुभावः पुरुषोऽसि कश्चित् । यो ब्रह्मचर्या द्विषयानिवार्य पर्यव्रजः सूर्य इवान्धकारान् ॥ ४३ बह्वर्थगर्भाणि लघूनि यानि निगृहभावानि च मत्कृतानि । खामेवमित्थं विरहय्य नास्ति यस्तानि सम्यग्विवरीतुमीष्टे ।। निसर्गदुनितमानि को वा सूत्राण्यलं वेदितुमर्थतः सन् । क्लेशस्तु तावान् विवरीतुरेषां यावान् प्रणेतुर्विबुधा वदन्ति ।। ४५ भावं मदीयमवबुध्य यथावदेवं भाष्यं प्रणेतुमनलं भावानपीशः । सांख्यादिनाऽन्यथयितं श्रुतिमूर्धवर्मों- द्धतु कथं परशिवांशमृते प्रभुः स्यात् ।। ४६ रोपानुषमकलयाऽपि सुदरमुक्तो धत्सेऽधिमानसमहो सकला: कलाश्च सर्वात्मना गिरिजयोपहितस्वरूप: शक्यो न वर्णयितुमद्भुतशङ्करस्त्वम् ।। . व्याख्याप्यसंख्यैः कविभिः पुरैतद्वयाख्यास्यते कैश्चिदितः परं च । भवानिवास्मद्धृदयं किमेते सर्वज्ञ विज्ञातुमलं निगूढम् ॥ व्याख्याहि भूयो निगमान्तविद्यां विभेदवादान विदुषो विजित्य । ग्रन्थान् भुवि ख्यापय सानुबन्धानहं गमिष्यामि यथाभिलाषम् ॥ ४९ इत्युक्तवन्तं तमसाववोचत् कृतानि भाष्याण्यपि पाठितानि । ध्वस्तानि सम्यक्कुमतानि धैर्यादितः परं किं करणीयमस्ति ।। मुहूर्तमानं मणिकर्णिकायां विधेहि सद्वत्सल सन्निधानम् । चिराद्यतेऽहं परमायुषोऽन्ते त्यजामि यावद्वपुरद्य हेयम् ।। ५१ ४७ ४८ सर्गः ७] 175 व्यासदर्शनादिचरितवर्णनम इतीदमाकर्ण्य वचो विचिन्त्य स शङ्करं प्राह कुरुष्व मैवम् । अनिर्जिताः सन्ति वसुन्धरायां त्वया बुधाः केचिदुदारविद्याः ॥ ५२ जयाय तेषां कति हायनानि वस्तव्यमेव स्थिरधीस्त्वयाऽपि । नो चेन्मुमुक्षा भुवि दुर्लभा स्यात् स्थितियथा मातृधुतस्य बाल्ये ! ५३ प्रसन्नगम्भीरभवत्प्रणीतपबन्धसन्दर्भभवः पहर्षः । प्रोत्साहत्यात्मविदामृषीणां वरेण्य विश्राणयितुं वरं ते ॥ अष्टौ वयांसि विधिना तव वत्स दत्ता- न्यन्यानि चाष्ट भवता सुधियाऽऽर्जितानि । भूयोऽपि षोडश भवन्तु भवाज्ञया ते भूयाच्च भाष्यमिदमारविचन्द्रतारम् ।। त्वमायुषाऽनेन विरोधिवादिगर्वाङरोन्मूलन जागरूकैः । वाक्यैः कुरुष्वोज्झितभेदबुद्धीनद्वैतविद्यापरिपन्थिनोऽन्यान् ॥ ५६ इतीरयन्तं प्रति वाचमूचे स शङ्करः पावितप्तर्वलोकः । त्वत्सूत्रसम्बन्धवशान्मदीयं भाष्यं प्रचारं भुवि यातु विद्वन् ।। इतीरयित्वा चरणौ ववन्दे यतिर्मुनेः सर्वविदो महात्मा । प्रदाय संभाव्य वरं मुनीशो द्वैपायन: सोऽन्तरपाद्यतात्मा ॥ ५८ इत्थं निगद्य ऋषिवृष्णि तिरोहितेऽस्मिन्नन्तर्विवेकनिधिरप्यथ विव्यथेसः। हृत्तापहारिनिरुपाधिकृपारसानां तत्तादृशां कथमहो विरहो विषयः ।। तत्पादपद्मे निजचित्तपझे पश्यन् कथंचिद्विरहं विषय । यतिक्षितीशोऽपि गुरोनियोगान्मनो दधे दिग्विजये मनीषी ॥ ६० भाष्यस्य वार्तिकमथैष कुमारिलेन भट्टेन कारयितुमादरवान् मुनीन्द्रः । वन्ध्यायमानदरविन्ध्यमहीधरेण वाचंयमेन चरितां हरितं प्रतस्थे॥६१ ततः स वेदान्तरहस्य वेत्ता भेत्ताऽमतानां तरसा मतानाम् । प्रयागमागात्पथमं जिगीषुः कुमारिलं साधितकर्मजालम् ॥ ६२ 76 श्रीमच्छङ्करदिग्विजये [सप्तमः आमज्जतां किल तनूमसितां सितां च कर्तु कलिन्दसुतया कलितानुषङ्गाम् । अह्नाय जद्भुतनयामथ निद्भुताघां मध्येप्रयागमगमन्मुनिरर्थमार्गम् ॥ ६३ गङ्गापवाहैरुपरुद्धवेगा कलिन्दकन्या स्तिमितप्रवाहा । अपूर्वसख्यागतलज्जयेव यत्राधिकं भाति विचित्रपाथाः ॥ अन्तेवसद्भिरमलच्छविसम्पदायमध्येतुमाश्रितजलां कुहचिन्मरालैः । चक्रद्वयेन रजनीसहवाससौख्यसंशीलनाय किल संवलितां परत्र ॥६५ यत्राप्लुता दिव्यशरीरभाज आचन्द्रतारं दिवि भोगजातम् । संभुञ्जते व्याधिकथानभिज्ञाः प्राहेममर्थ श्रुतिरेव साक्षात् ।। अज्ञातसंभवतिरोधिकथाऽपि वाणी यस्याः मितासिततयैव गृणाति रूपम् । भागीरथीं यमुनया परिचर्यमाणामेतां विगाह्य मुदितो मुनिरित्यभाणीत् ।। सिद्धापगे पुरविरोधिजटोपरोधक्रुद्धा कुतः शतमदःसदृशान् विधत्से । बद्धा न किं नु भवितासि जटाभिरेषामद्धा ज्डपकृतयो न विदन्ति भावि ॥ सन्मार्गवर्तनपराऽपि सुरापगे त्वमस्थीनि नित्यमशुचीनि किमाददासि । आ ज्ञातमम्ब हृदयं तव सज्जनानां प्रायः प्रसाधनकृते कृतमज्जनानाम् ।। खापानुषङ्गजडताभरिताञ्जनौघान् स्वापानुषङ्गजडताविधुरान्विधत्से । दुरीभवद्विषयरागहदोऽपि तूर्ण धृर्तावतंसंयसि देवि क एष मार्गः॥ ७० इति स्तुवंस्तापसराट् त्रिवेणी शाट्या समाच्छाद्य कटीं कृपीटे । दोर्दण्डयुग्मोद्धृतवेणुदण्डोऽघमर्षणस्नानमना बभूव ।। ७१ सस्नो प्रयागे सह शिष्यसंधैः स्वयं कृतार्थों जनसंग्रहार्थी । अस्मारि माताऽपि च सा पुपोष दधार या दुःखमसोढ भूरि ॥ ७२ अनुष्ठितिं द्रागवसाय्य वातैः कल्हारशीतैरुपसेव्यमानः । तीरे विशश्राम तमालमालिन्यत्नान्तरेऽश्रूयत लोकवार्ता ॥ ७३ गिरेरवप्लुत्य गतिः सतां यः प्रामाण्यमाम्नायगिरामवादीत् । यस्य प्रसादात्तिदिवौकसोऽपि प्रपेदिरे प्राक्तनयज्ञभागान् ॥ ७४ सर्गः ७] व्यासदर्शनादिवरितवर्णनम 77 ७७ ७८ सोऽयं गुरोरुन्मथनप्रसक्तं महत्तरं दोषमपाकरिष्णुः । अशेषवेदार्थविदास्तिकत्वात्तुधानलं प्राविशदेष धीरः ।। अयं ह्यधी ताखिलवेदमन्त्रः कूलंकषालोडितमर्वतन्त्रः । नितान्तदूरीकृतदुष्टतन्त्रस्त्रैलोक्यविभ्रामितकीर्तियन्त्रः ॥ श्रुत्वेति तां सत्वरमेष गच्छन् व्यालोकयत्तं तुषराशिसंस्थम् । प्रभाकरायैः पथितप्रभावैरुपस्थितं साश्रुमुखैविनेयैः ॥ धूमायमानेन तुषानलेन संदह्यमानेऽपि वपुष्यशेषे । सन्दृश्यमानेन मुखेन वाष्पपरीतपद्मश्रियमादधानम् ॥ दूरे विधूताघमपाङ्गभङ्गया तं देशिकं दृष्टिपथावतीर्णम् । ददर्श भट्टो ज्वलदग्निकल्पो जुगोप यो वेदपथं जितारिः ॥ अष्टपूर्व श्रुतपूर्ववृत्तं दृष्ट्वाऽतिमोदं स जगाम भट्टः । अचीकरच्छिष्यगणैः सपर्यामुपाददे तामपि देशिकेन्द्रः ॥ उपात्तभिक्षः परितुष्टचित्तः प्रदर्शयामास स भाष्यमस्मै । सों निवन्धी ह्यमलोऽपि लोके शिष्टेक्षितः संचरणं प्रयाति ॥ दृष्ट्वा भाष्यं हृष्टचेताः कुमारः प्रोचे वाचं शङ्करं देशिकेन्द्रम् । लोके त्वल्पो मत्सरग्रामशाली सर्वज्ञानो नाल्पभावस्य पात्रम् ॥ अष्टौ सहस्राणि विभान्ति विद्वान् सदार्तिकानां प्रथमेऽत्र भाष्ये । अहं यदि स्यामगृहीतदीक्षो ध्रुवं विधास्ये सुनिबन्धमस्य । भवादृशां दर्शनमेव लोके विशेषतोऽस्मिन् सपये दुरापम् । पुराऽऽर्जितैः पुण्यचयैः कथंचिवमय मे दृष्टिपथं गतोऽभूः ।। असारसंसारपयोब्धिमध्ये निमज्जतां सद्भिरुदारवृत्तः । भवादृशैः संगतिरेव साध्या नान्यस्तदुत्तारविधावुपायः॥ चिरं दिदृक्षे भगवन्तमित्थं त्वमय मे दृष्टिपथं गतोऽभूः । नात्र संसारपथे नराणां स्वेच्छाविधेयोऽभिमतेन योगः ।। ८१ ८२ ८३ ८४ ८६ 78 श्रीमच्छङ्करदिग्विजये [सप्तमः युनक्ति काल: कचिदिष्टवस्तुना कचित्वरिष्टेन च नीचवस्तुना। तथैव संयोज्य वियोजयत्यसौ सुखासुखे कालकृते प्रवेमयतः ॥ ८७ कृतो निबन्धो निरणायि पन्था निरासि नैयायिकयुक्तिजालम् । तथाऽन्वभूवं विषयोत्थजातं न कालमेनं परिहर्तुमीशे ॥ ८८ निरास्थमीशं श्रुतिलोकसिद्धं श्रुतेः स्वतोमात्वमुदाहरिष्यन् । न निढुवे येन विना प्रपश्चः सौख्याय कल्पेत न जातु विद्वन् ॥ ८९ तथागताक्रान्तमभूदशेषं स वैदिकोऽध्या विरलीबभूव । परीक्ष्य तेषां विजयाय मार्ग प्रावतिषि त्रातुमनाः पुराणम् ॥ सशिष्यसङ्घाः प्रविशन्ति राज्ञां गेहं तदादि ववशे विधातुम् । राजा मदीयोऽजिरमस्मदीयं तदाद्रियध्वं न तु वेदमार्गम् ॥ वेदोऽप्रमाणं बहुमानबाधात् परस्परव्याहतवाचकत्वात् एवं वदन्तो विचरन्ति लोके न काचिदेषां प्रतिपत्तिरासीत् ।। ९२ अवादिषं वेदविघातदक्षैस्तन्नाशकं जेतुमबुध्यमानः । तदीयसिद्धान्तरहस्यवा(निषेध्यबोधाद्धि निषेध्यबाधः ॥ ९३ तदा तदीयं शरणं प्रपन्नः सिद्धान्तमौषमनुद्धतात्मा । अदुषद्वैदिकमेव मार्ग तथागतो जातु कुशाग्रबुद्धिः ॥ तदाऽपतन्मे सहसाऽश्रुबिन्दुस्तच्चाविदुः पार्श्वनिवासिनोऽन्ये । तदाप्रभृत्येव विवेश शङ्का मय्याप्तभावं परिहत्य तेषाम् ।। ९५ विपक्षपाठी बलवान् द्विजातिः प्रत्याददद्दर्शनमस्मदीयम् । उच्चाटनीयः कथमप्युपायैनैतादृशः स्थापयितुं हि योग्यः । ९६ संमन्त्र्य चेत्थं कृतनिश्चयास्ते ये चापरेऽहिंसनवादशीलाः । न्यपातयन्नुच्चतराव प्रमत्तं मामग्रसौधाद्विनिपातभीरुम् ॥ पतन् पतन् सौधतलान्यरोहं यदि प्रमाणं श्रुतयो भवन्ति । जीवेयमस्मिन् पतितोऽसमस्थले मज्जीवने तच्छ्रुतिमानता गतिः ।। ९८ सर्गः ७] 79 व्यासदर्शनादिचरितवर्णना यदीह सन्देहपदप्रयोगाद्वयाजेन शास्त्रश्रवणाच्च हेतोः । ममोच्चदेशात्पततो व्यनंक्षीत्तदेकचक्षुर्विधिकल्पना सा ॥ ९९ एकाक्षरस्यापि गुरुः पदाता शास्त्रोपदेष्टा किमु भाषणीयम् । अहं हि सर्वज्ञगुरोरधीत्य प्रत्यादिशे तेन गुरोर्महागः ।। १०० तदेवमित्थं सुगतादधीत्य पाघातयं तत्कुलमेव पूर्वम् । जैमिन्युपशेऽभिनिविष्टचेताः शास्त्रे निरास्थं परमेश्वरं च ।। १०१ दोषद्वयस्यास्य चिकीर्षुरर्हन् यथोदितां निष्कृतिमाश्रयाशम् । प्राविक्षमेषा पुनरुक्तभूता जाता भवत्पादनिरीक्षणेन ।। १०२ भाष्यं प्रणीतं भवतेति योगिन्नाकर्ण्य तत्रापि विधाय वृत्तिम् । यशोऽधिगच्छेयमिति स्म वाञ्च्छा स्थिता पुरा सम्पति किं तदुक्त्या ॥ जाने भवन्तमहमार्यजनार्थजातमद्वैतरक्षणकृते विहितावतारम् । प्रागेव चेन्नयनवर्त्म कृतार्थयेथाः पापक्षयाय न तदेशमाचरिष्यम् ।। पायोऽधुना तदुभयमभवाघशान्त्यै प्राविक्षमार्य तुषपावकमात्तदीक्षः । भाग्यं न मेऽजनि हि शाबरभाष्यवत्त्व- द्भाष्येऽपि किंचन विलिख्य यशोऽधिगन्तुम् ।। १०५ इत्यूचिवांसमथ भट्टकुमारिलं तमीषद्विकस्वरमुखाम्बुजमाह मौनी । श्रुत्यर्थकर्मविमुखान् सुगतानिहन्तुं जातं गुहं भुवि भवन्तमहन्तु जाने । संभावनाऽपि भवतो न हि पातकस्य सत्यं व्रतं चरसि सज्जनशिक्षणाय । उज्जीवयामि करकाम्बुकणोक्षणेन भाष्येऽपि मे रचय वार्तिकमङ्ग भव्यम् ।। इत्यूचिवांसं विबुधावतंसं स धर्मविद्रह्मविदां वरेण्यम् । विद्याधनः शान्तिधनाग्रगण्यं सप्रश्रयं वाचमुवाच भूयः ॥ १०८ नार्हामि शुद्धमपि लोकविरुद्धकृत्यं कर्तुं मयीड्य महितोक्तिरियं तवारे । आजानतोऽतिकुटिलेऽपि जने महान्तस्त्वारोपयन्ति हि गुणं धनुषीव शराः॥ संजीवनाय चिरकालमृतस्य च त्वं शक्तोऽसि शङ्कर दयोर्मिलदृष्टिपातैः । आरब्धमेतदधुनाव्रतमागमोक्तं मुञ्चन् सतां न भविताऽस्मि चुधाविनिन्धः।।

80 श्रीमच्छङ्करदिग्विजये [सप्तमः जाने तबाह भगवन् प्रभावं संहृत्य भूतानि पुनर्यथावत् । स्रष्टुं समर्थोऽसि तथाविधो मामुज्जीवयेश्चेदिह किं विचित्रम् ॥ १११ नाभ्युत्तहे किन्तु यतिक्षितीन्द्र सङ्कल्पितं हातुमिदं व्रताग्र्यम् । तत्तारकं देशिकवर्य मह्यमादिश्य तद्ब्रह्म कृतार्थयेथाः ।। ११२ अयं च पन्था यदि ते प्रकाश्यः सुधीश्वरो मण्डनमिश्रशर्मा । दिगन्तविश्रान्तयशा विजेयो यस्मिञ्जिते सर्वमिदं जितं स्यात् ।। ११३ सदा वदन् योगपदं च साम्पतं स विश्वरूपः प्रथितो महीतले । महागृही वैदिककर्मतत्परः प्रवृत्तिशास्त्रे निरतः सुकर्मठः ।। ११४ निवृत्तिशास्त्रे नकृतादरः स्वयं केनाप्युपायेन वशं स नीयताम् । वशं गते तत्र भवेन्मनोरथस्तदन्तिकं गच्छतु मा चिरं भवान् ॥ ११५ उवेक इत्यभिहितस्य हि तस्य लोकैवेति बान्धवजनैरभिधीयमाना । हेतोः कुतश्चिदिह वाक्सुरुषाऽभिशप्ता दुर्वाससाऽजनि वधूद्रयभारतीति ।। सर्वासु शास्त्रसरणीषु स विश्वरूपो मत्तोऽधिकः प्रियतमश्च मदाश्रवेषु । तत्प्रेयसी शमधनेन्द्र विधाय साक्ष्ये वादे विजित्य तमिमं वशगं विधेहि ॥ तेनैव तावककृतिष्वपि वार्तिकानि कर्मन्दिवर्यतम कारय मा विलम्बम् । त्वं विश्वनाथ इव मे समये समागास्तत्तारकं समुपदिश्य कृतार्थयेथः ।। निर्व्यानकारुण्य मुहूर्तमात्रपत्र त्वया भाव्यमहं तु यावत् । योगीन्द्रहृत्पङ्कजभाग्यमेतत् त्यजाम्यमन् रूपमवेक्षमाणः ।। ११९ इत्यूचिवांसमिममिद्ध सुखपकाशं ब्रह्मोपदिश्य बहिरन्तरपास्तमोहम् । तन्वन्दयानिधिरसौ तरसाऽभ्रमार्गाच्छीमण्डनस्य निलयं स इयेष गन्तुम् ।। अथ गिरमुपसंहृत्यादराद्भट्टपादः शमधनपतिनाप्तौ बोधिताद्वैततत्वः । प्रशमितममतः संस्तत्प्रसादेन सद्यो विदलदखिलबन्धो वैष्णवं धाम पेदे ।। इति श्रीमाधवीये तद्वयाससंदर्शचित्रगः । संक्षेपशङ्करजये सर्गोऽसौ सप्तमोऽभवत् ॥ ७ ॥ आदितः श्लोकाः 784.

सर्गः ८] 81 १ २ سم ४ श्रीमदावार्यमण्डनमिश्रसंवादः अथाष्टमः सर्गः ॥८॥ श्रीमदाचार्यमण्डनमिश्रसंवादः ॥ अथ प्रतस्थे भगवान् प्रयागात्तं मण्डनं पण्डितमाशु जेतुम् । गच्छन् खमृत्या पुरमालुलोके माहिष्मती मण्डनमण्डितां सः ।। अवातरदन वचित्रवां विलोक्य तां विस्मितमानसोऽसौ । पुराणवत्पुष्करवर्तनीतः पुरोपकण्ठस्थवने मनोज्ञे ।। प्रफुल्लराजीवक्ने विहारी तरङ्गरिङ्गत्कणशीकरार्द्रः । रेवामरुत्कम्पितसालमाल: श्रमापहृद भाष्यकृतं सिषेवे ॥ तस्मिन् स विश्रम्य कृताह्निकः सन् खस्वस्तिकारोहणशालिनीने । गच्छन्नतौ मण्डनपण्डितौको दासीस्तदीयाः स ददर्श मार्गे ॥ कुत्रालयो मण्डनपण्डितस्येत्येताः स पपच्छ जलाय गन्त्रीः । ताश्चापि दृष्ट्वाऽद्भुतशङ्करं तं सन्तोषवत्यो ददुरुत्तरं स्म ॥ स्वत:प्रमाणं परतः प्रमाणं कीराङ्गाना यत्र गिरं गिरन्ति । द्वारस्थनीडान्तरसंनिरुद्धा जानीहि तन्मण्डनपण्डितौकः ॥ फलमदं कर्म फलपदोऽजः कीराङ्गना यत्र गिरं गिरन्ति । द्वारस्थनीडान्तरसंनिरुद्धा जानीहि तन्मण्डनपण्डितौकः ।। जगद ध्रुवं स्याज्जगदध्रुवं स्यात्कीराङ्गना यत्र गिरं गिरन्ति । द्वारस्थनीडान्तरसंनिरुद्धा जानीहि तन्मण्डनपण्डितौकः ॥ पीत्वा तदुक्तीरथ तस्य गेहाद्गत्वा बहिः सम कवाटगुप्तम् । दुर्वेशमालोच्य स योगशक्त्या व्योमाध्वनाऽत्रातरदङ्गणान्तः ॥ तदा स लेखेन्द्रनिकेतनाभं स्फुरन्मरुच्चञ्चलकेतनाभम् । समग्रमालोकत मण्डनस्य निवेशनं भूतलमण्डनस्य ॥ १० सौथायसंच्छन्ननभोवकाशं प्रविश्य तत्वाप्य कवेः सकाशम् । विद्याविशेषात्तयशःप्रकाशं ददर्श तं पद्मजसन्निकाशम् ॥ ११ ८ or

82
श्रीमच्छङ्करदिग्विजये
[अष्टमः
तपोमहिम्नैव तपोनिधानं सजैमिनि सत्यवतीतनूजम् ।
यथाविधि श्राद्धविधौ निमन्त्र्य तत्पादपद्मान्यवनेजयन्तम् ॥ १२
तत्रान्तरिक्षादवतीर्य योगिवर्यः समागम्य यथार्हमेषः ।
द्वैपायनं जैमिनिमप्युभाभ्यां ताभ्यां सहर्ष प्रतिनन्दितोऽभूत् ॥ १३
अथ धुमार्गादवतीर्णमन्तिके मुन्योः स्थितं ज्ञानशिखोपवीतिनम् ।
संन्यास्यसावित्यवगत्य सोऽभवत्प्रवृत्तिशास्त्रैकरतोऽपि कोपनः ।। १४
तदाऽतिरुष्टस्य गृहाश्रमेशितुर्यतीश्वरस्थापि कुतूहलंभृतः ।
क्रमात्किलैवं बुधशस्तयोस्तयोः प्रश्नोत्तराण्यासुरथोत्तरोत्तरम् ॥ १५
कुतो मुण्ड्यागलान्सुण्डी पन्थास्ते पृच्छयते मया ।
किमाह पन्थास्त्वन्माता मुण्डेत्याह तथैव हि ॥ १६
पन्थानं त्वमवृच्छस्त्वां पन्थाः प्रत्याह मण्डन ।
वन्मातेत्यत्र शब्दोऽयं न मां ब्रूयादपृच्छकम् ॥ १७
अहो पीता किम्नु सुरा नैव श्वता यतः स्मर ।
किं त्वं जानासि तद्वर्णमहं वर्ण भवान् रसम् ॥ १८
मत्तो जातः कलजाशी विपरीतानि भाषते ।
'सत्यं ब्रवीति पितृवत्त्वत्तो जातः कलञ्जभुक् ।। १९
कन्यां वहसि दुर्बुद्धे गर्दभेनापि दुर्वहाम् ।
शिखायज्ञोपवीताभ्यां कस्ते भारो भविष्यति ।।
कन्यां वहामि दुर्बुद्धे तव पित्रापि दुर्वहाम् ।
शिखायज्ञोपवीताभ्यां श्रुतेर्भारो भविष्यति ।। २१
त्यक्त्वा पाणिगृहीती स्वामशक्त्या परिरक्षणे ।
शिष्यपुस्तकभारेच्छोाख्याता ब्रह्मनिष्ठता ॥
गुरुशुश्रूषणालस्यात्समावर्त्य गुरोः कुलात् ।
स्त्रियः शुश्रूषमाणस्य व्याख्याता कर्मनिष्ठता ॥
२३
२२

सर्गः ८]
२७
२८
श्रीमदाचार्यमण्डनमिश्रसंवादः
83
स्थितोऽसि योषितां गर्भे ताभिरेव विवर्धितः ।
अहो कृतघ्नता मूर्ख कथं ता एव निन्दसि ॥
यासां स्तन्यं त्वया पीत यासां जातोऽसि योनितः ।
तासु मूर्खतम स्त्रीषु पशुबद्रपसे कथम्
वीरहत्यामवाप्तोऽसि वह्नीनुद्वास्य यत्नतः ।
आत्महत्यामवाप्तस्त्वमविदित्वा परं पदम् ॥
दौवारिकान्वञ्चयित्वा कथं स्तेनवदागतः ।
भिक्षुभ्योऽन्नमदत्वा त्वं स्तेनवद्भोक्ष्यसे कथम् ॥
कर्मकाले न संभाष्य अहं मूर्वेण सम्मति ।
अहो प्रकटितं ज्ञानं यतिभङ्गेन भाषिणा ॥
यतिभङ्गे प्रवृत्तस्य यतिभङ्गो न दोषभाक् ।
यतिभङ्गे प्रवृत्तस्य पञ्चम्यन्तं समस्यताम् ।।
कं ब्रह्म क च दुर्मेधाः क संन्यासः क वा कलिः ।
स्वान्नभक्षकामेन वेषोऽयं योगिनां धृतः ॥
क स्वर्गः क दुराचारः काग्निहोत्रं क वा कलिः ।
मन्ये मैथुनकामेन वेषोऽयं कर्मिणां धृतः ॥
३१
इत्यादिवाक्यगणं ब्रुवाणे रोषेण साऽहंकृतिविश्वरूपे ।
श्रीशङ्करे वक्तरि तस्य तस्योत्तरं च कौतूहलतश्च चारु ॥ ३२
तं मण्डनं सस्मितजैमिनीक्षितं व्यासोऽब्रवीज्जल्पसि वत्स दुर्वचः ।
आचारणा नेयमनिन्दितात्मनां ज्ञातात्मतत्वं यमिनं धुतैषणम् ॥ ३३
अभ्यागतोऽसौ स्वयमेव विष्णुरित्येव मत्वाऽऽशु निमन्त्रय त्वम् ।
इत्याश्रयं ज्ञातविधि प्रतीतं सुध्यग्रणीः साध्वशिषन्मुनिस्तम् ॥
अथोपसंस्पृश्य जलं स शान्तः ससंभ्रमं मण्डनपण्डितोऽपि ।
व्यासाज्ञया शास्त्र विदर्चयित्वा न्यमन्त्रयद्भक्ष्यकृते महर्षिम् ॥

84
श्रीमच्छङ्करदिग्विजये
[अष्टमः
स चाब्रवीत्सौम्य विवादभिक्षामिच्छन् भवत्संनिधिमागतोऽस्मि ।
साऽन्योन्यशिष्यत्वपणा प्रदेया नास्त्यादरः प्राकृतभक्तभैक्ष्ये ॥ ३६
मम न किंचिदपि ध्रुवपीप्सितं श्रुतिशिरःपथविस्तृतिमन्तरा ।
अवहितेन मखेष्ववधीरितः स भवता भवतापहिमद्युतिः ॥
जगति सम्पति तं प्रथयाम्यहं समभिभूय समस्तविवादिनम् ।
त्वमपि संश्रय मे मतमुत्तमं विगद वा बद वाऽस्मि जितस्त्विति ।। ३८
इति यतिप्रवरस्य निशम्य तद्वचनमर्थवदागतविस्मयः ।
परिभवेन नवेन महायशाः स निजगौ निजगौरवमास्थितः ॥ ३९
अपि सहस्रमुखे फणिनामके न विजितस्त्विति जातु फणत्ययम् ।
न च विहाय मतं श्रुतिसम्मतं मुनिमते निपतेत्परिकल्पिते ॥
अपि कदाचिदुदेष्यति कोविदः सरसवादकथाऽपि भविष्यति ।
इति कुतूहलिनो मम सर्वदा जयमहोऽयमहो स्वयमागतः ॥ ४१
भवतु सम्प्रति वादकथाऽऽवयोः फलतु पुष्कलशास्त्रपरिश्रमः ।
उपनता स्वयमेव न गृह्यते नवसुधा वसुधावसथेन किम् ॥
अयमहं यमहन्तुरपि स्वयं शमयिता मयि तावकसद्रािम् ।
सुकलह कलहंसकलाभृतां दिश सुधांशुसुधामलसत्तनो ॥
अपि तु दुहृदयस्मयकाननक्षतिकठोरकुठारधुरन्धरा ।
न पटुता मम ते श्रवणान्तिकं ननु गताऽनुगताखिलदर्शना ।।
अत्यल्पमेतद्भवतेरितं मुने भैक्ष्यं प्रकुर्वे यदि वाददित्सुता ।
गतोद्यमोऽहं श्रुतवादवार्तया चिरेप्सितेयं वदिता न कश्चन ॥
वादं करिष्यामि न संदिहेऽत्र जयाजयौ नौ वदिता न कश्चित् ।
न कण्ठशोषैकफलो विवादो मिथो जिगीषू कुरुतस्तु वादम् ॥ ४६
वादे हि वादिप्रतिवादिनौ द्वौ विपक्षपक्षग्रहणं विधत्तः ।
का नौ प्रतिज्ञा वदतोश्च तस्यां किं मानमिष्टं वद कः स्वभावः ॥ ४७
४२
४
४४

सर्गः८] 85 श्रीमदाचार्यमण्डनमिश्रसंवादः कः पाणिकोऽहं गृहमेधिसत्तमस्त्वं भिक्षुराजो वदतामनुत्तमः । जयाजयौ नौ सुपणौ विधीयतां ततः परं साधु वदाव सुस्मितौ ॥ ४८ अद्यातिधन्योऽस्मि यदार्यपादो मया सहाभ्यर्थयते विवादम । भविष्यते वादकथाऽपरेयुर्माध्याह्निकं सम्प्रति कर्म कुर्याम् ।। ४९ तथेति सूक्ते स्मितशङ्करेण भविष्यते वादकथा श्व एव । तत्साक्षिभावं व्रजतं मुनीन्द्रावित्यर्थयद्धादरजैमिनी सः ।। विधाय भार्या विदुषी सदस्यां विधीयतां वादकथा सुधीन्द्र । इत्यं सरस्वत्यवतारताज्ञौ तद्धर्मपन्यास्तमभाषिषाताम् ।। ५१ अथानुमोद्याभिहितं मुनिभ्यां स मण्डनार्यः प्रकृतं चिकीर्षुः । आनर्च देवोपगतान्मुनीन्द्रानग्नीनिव त्रीन्मुनिशेखरांस्तान् ॥ ५२ भुक्त्वोपविष्टस्य मुनित्रयस्य श्रमापनोदाय तदीयशिष्यौ । अतिष्ठतां पार्श्वगतौ वटू द्वौ सचामरौ वीजनमाचरन्तौ ॥ ५३ अथ क्रियान्ते किल सुपविष्टास्त्रय्यन्तवेद्यार्थविदत्रयोऽपी । अमन्त्रयंश्चारु परस्परं ते मुहूर्तमानं किमपि प्रहृष्टाः ॥ तेषां द्विजेन्द्रालयनिर्गतानामदर्शनं जग्मतुरञ्जसा द्वौ । रेवातटे रम्यकदम्बजाले देवालयेऽवस्थितवांस्तृतीयः ।। ५५ इति स यतिवरेण्यो दैवयोगाद्गुरू- णामितरजनदुरापं दर्शनं प्राप्य हृष्टः । तदुदितवचनानि श्रावयन्नात्मशि- प्याननयदमृततुल्यान्यात्मवित्तां त्रियामाम् ।। प्रातः शोणसरोजबान्धवरुचिपथोतिते व्योमनि प्रख्यातः स विधाय कर्म नियतं प्रज्ञावतामग्रणीः । साकं शिष्यवरैः प्रपद्य सदनं सन्मण्डितं माण्डनं वादायोपविवेश पण्डितसभामध्ये मुनिध्येयवित् ॥ ५७ ततः समादिश्य सदस्यतायां सधर्मिणी मण्डनपण्डितोऽपि । स शारदां नाम समस्तविद्याविशारदां वादसमुत्सुकोऽभूत् ॥ ५८ 86 श्रीमच्छङ्करदिग्विजये [अष्टमः पत्या नियुक्ता पतिदेवता सा सदस्यभावे सुदती चकाशे । तयोविवेक्तुं श्रुततारतम्यं समागता संसदि भारतीव ॥ प्रद्धवादोत्सुकतां तदीयां विज्ञाय विज्ञः प्रथमं यतीन्द्रः । परावरज्ञः स पशबरैक्यपरां प्रतिज्ञामकरोत्स्वकीयाम् ॥ ६० ब्रह्मैकं परमार्थप्तच्चिदमलं विश्वप्रपञ्चात्मना शुक्ती रूप्यपरात्मनेव बहलाज्ञानावृतं भासते । तरज्ञानानिखिलप्रपञ्चनिलया खात्मव्यवस्था परं निर्वाणं जनिमुक्तमभ्युपगतं मानं श्रुतेर्मस्तकम् ॥ ६१ बाढं जये यदि पराजयभागहं स्यां संन्यासमङ्ग परिहत्य कषायचेलम् । शुक्लं वसीय वसनं द्वयभारतीयं वादे जयाजयफलपतिदीपिकाऽस्तु ।। इत्थं प्रतिज्ञां कृतवत्युदारां श्रीशङ्करे भिक्षुबरे स्वकीयाम् । स विश्वरूपो गृहमेधिवर्यश्चक्रे प्रतिज्ञां स्वमतप्रतिष्ठाम् ।। ६३ वेदान्ता न प्रमाणं चितिवपुषि पदे तत्र संगत्ययोगा- त्पूर्वो भागः प्रमाणं पदचयगमिते कार्यवस्तुन्यशेषे । शब्दानां कार्यमानं प्रति समधिगता शक्तिरभ्युन्नतानां कर्मभ्यो मुक्तिरिष्टा तदिह तनुभृतामाऽऽयुषः स्यात्समाप्तेः ॥ ६४ वादे कृतेऽस्मिन्यदि मे जयान्यस्त्वयोदितात्स्याद्विपरीतभावः । येयं त्वयाऽभूगदिता प्रसाक्ष्ये जानाति चेत्सा भविता वधूर्मे ।। ६५ जेतुः पराजित इहाश्रममादददीतेत्येतौ मिथः कृतपणौ यतिविश्वरूपौ अम्बादारधिषणामभिषिच्य साक्ष्ये जल्पं वितेनतुरथो जयदत्तदृष्टी ।। आवश्यकं परिसमाप्य दिने दिने तौ वादं समं व्यतनुतां किल सर्ववेदो। एवं विजेतुपनसोरुपविष्टयोस्तां मालां गले न्यधित सोभयभारतीयम् ।। माला यदा मलिनभावमुपैति कण्ठे यस्यापि तस्य विजयेतरनिश्चयः स्यात् । उक्त्वा गृहं गतवती गृहकर्मसक्ता भिक्षाशने पिचरितुं गृहिमस्करिभ्याम् ।। अन्योन्यसञ्जयफले विहितादरौ तौ वाद विवादपरिनिर्णयमातनिष्टाम् । ब्रह्मादयः सुरवरा अपि वाहनस्थाः श्रोतुं तदीयसदने स्थितवन्त ऊर्ध्वम् ।।

87 ७२ ७३ सर्गः८] श्रीमदाचार्यमण्डनमिश्रसंवादः ततस्तयोरास महान्विवादः सदस्यविश्राणितसाधुवादः । खपक्षसाक्षी कृतसर्ववेदः परस्परस्यापि कृतप्रमोदः ॥ दिने दिने चाधिातपकर्षों भूरीभवत्पण्डितसन्निकर्षः । अन्योन्यभङ्गाहिततीव्रतर्षस्तथाऽपि दूरीकृतजन्यमर्षः ।। ७१ दिने दिने वासरमध्यमे सा ब्रूते पतिं भोजनकालमेव । समेत्य भिक्षु समयं च भैक्ष्ये दिनान्यभूवन्निति पञ्चषाणि ।। अन्योन्यमुत्तरमरखण्डयतां प्रगल्भं बद्धासनौ स्मितविकासिमुखारविन्दौ । न स्वेदकम्पगगनेक्षणशालिनो वा न क्रोधवाक्छलमवादि निरुत्तराभ्याम् ।। ततो यतिक्ष्माभृदवेक्ष्य दाक्ष्यं क्षोदक्षमं तस्य विचक्षणस्य । चिक्षेप तं क्षोभितसर्वपक्षं विद्वत्समक्षाप्रतिभातकक्ष्यम् ॥ ७४ ततः स्वसिद्धान्तसमर्थनाय प्रागल्भ्यहीनोऽपि स सभ्यमुख्यः । जगाद वेदान्तवच प्रसिद्धमद्वैतसिद्धान्तमपाकरिष्णुः ॥ भो भो यतिक्ष्माधिपो भवद्भिर्जीवेशयोर्वास्तवमैकरूप्यम् । विशुद्धमझी क्रियते हि तत्र प्रमाणमेवं न वयं प्रतीमः ॥ ७६ स प्रत्यवादीदिदमेव मानं यच्छ्वेतकेतुप्रमुखान्विनेयान् । उद्दालकाद्या गुरवो महान्तः संग्राहयन्त्यात्मतया परेशम् ।। वेदावसानेषु हि तत्वमादिवचांसि जतान्यघमर्षणानि । हुंफण्मुखानीव वांसि यो गिन्नैषां विवक्षाऽस्ति कुहस्विदर्थे । अर्थाप्रतीतौ किल हुफडादेपोपयोगित्वमाणि विज्ञैः । अर्थप्रतीतौ स्फुटपत्र सत्यां कथं भवेत्प्राज्ञ जपार्थतैव ।। आपाततस्तत्त्वमसीति वाक्याद्यतीश जीवेश्वरयोरभेदः । प्रतीयतेऽथाऽपि मखादिकर्तृप्रशंसया स्याद्विधिशेष एव ।। क्रत्वङ्गपादिकमर्यमादिदेवात्मना वाक्यगणः प्रशंसन् । शेषः क्रियाकाण्डगतो यदि स्याकाण्डान्तरस्थोऽपि भवेत्कथं सः॥८१ ७७ ७८ ८२ ८४ 88 श्रीमच्छङ्करदिग्विजये [अष्टमः तास्तु जीवे परमात्मदृष्टिविधायकः कर्मसमृद्धयेऽर्हन् । अब्रह्मणि ब्रह्मधियं विधत्ते यथा मनोऽन्नार्कनभस्वदादौ ॥ संश्रूयतेऽन्यत्र यथा लिङादिविधायको ब्रह्मविभावनाय । तथा विधेरश्रवणान्मनीषिन् संजाघटीत्यत्र कथं विधानम् ॥ ८३ यद्वत्प्रतिष्ठाफलदर्शनेन विधिर्यतीनां वर रात्रिसत्रे । प्रकल्प्यते तद्वदिहापि मुक्तिफलश्रुतेः कल्पयितुं स युक्तः ॥ तर्हि क्रियाजन्यतया विमुक्तिः स्वर्गादिवद्धन्त विनश्वरा स्यात् । उपासना कर्तुमकर्तुमन्यथा वा कर्तुमर्हा मनसः क्रियैव ॥ ८५ मा भूदिदं तत्त्वमसीति वाक्यमुपासनापर्यवसायि कामम् । किन्त्वस्य जीवस्य परेण साम्यप्रत्यायकं सत्तम बोभवीतु ॥ ८६ किं चेतनत्वेन विवक्ति साम्यं सार्वझ्यसार्वात्म्यमुखैर्गुणैर्वा । आद्ये प्रसिद्धं न खलूपदेश्यमन्ते स्वसिद्धान्तविरुद्धता स्यात् ॥ नित्यत्वमात्रेणं मुने परात्मगुणोपमानः सुखबोधपूर्वैः । गुणैरविद्यावृतितोऽप्रतीतैः साम्यं ब्रवीत्वस्य ततो न दोषः ॥ यद्येवमेतस्य परत्वमेव प्रत्याययत्वत्र दुराग्रहः कः । त्वयैव तस्य प्रतिभासशङ्का विद्वन्न विद्यावरणानिरस्ता ॥ भोश्चेतनत्वेन शरीरिसाम्यमावेद्यतापस्य जगत्प्रसूतेः । चिदुत्थितत्वेन परोदितस्याप्यणुप्रधानप्रभृतेनिरासः ॥ हन्तवमस्तीति तदा प्रयोगः स्याचन्मते तत्त्वमसीति न स्यात् । तदैक्षतेत्यत्र जडत्वशङ्काव्यावर्तनाचात्र पुनर्न चोद्यम् ।। न त्वेवमप्यैक्यपरत्वमस्य प्रत्यक्षपूर्वप्रमितिपकोपात् । न युज्यते तज्जपमात्रयोगिखाध्यायविध्याश्रितमभ्युपेयम् ॥ ९२ अक्षेण चेद्भेदमितिस्तदा स्यादभेदवादिश्रुतिवाक्यबाधः । असन्निकर्षान्न भवेद्धि भेदप्रमैव तेनास्य कुतो विरोधः ॥ ९३ सर्गः८] 89 श्रीमदाचार्यमण्डनमिश्रसंवादः भिन्नोऽहमीशादिति भासते हि भेदस्य जीवात्मविशेषणत्वम् । तत्संनिकर्षोऽस्त्वथ सम्पयोगाभावेऽपि भेदेन्द्रिययोर्मनीषिन् । अतिप्रसक्तेन तु केवलस्य विशेषणत्वस्य तदभ्युपेयम् । भेदाश्रये हीन्द्रिय सन्निकृष्ट न सन्निकृष्टत्वमिहात्मनोऽस्ति । भेदाश्रयात्मेन्द्रियसंनिकर्षों नेत्युक्तमेतच्चतुरं न यस्मात् । चित्तात्मनोव्यतया द्वयोरप्यस्त्येव संयोगसमाश्रयत्वम् ।। ९६ आत्मा विभुः स्यादथवाऽणुपात्रः संयोगिता नोभयथाऽपि युक्ता । दृष्टा हि सा सावयवस्य लोके संयोगिता सावयवेन योगिन् । ९७ मनोऽक्षमित्यभ्युपगम्य भेदासङ्गित्वमुक्तं परमार्थतस्तु । साहाय्यकृल्लाचनपूर्वकस्य दीपादिवन्नेन्द्रियमेव चित्तम् ।। ९८ भेदप्रमा नेन्द्रियजाऽस्तु तर्हि साक्षिस्वरूपैव तथाऽपि योगिन् । तया विरोधात्परमात्मजीवाभेदं कथं बोधयितुं प्रमाणम् ॥ ९९ प्रत्यक्षमात्मेश्वरयोरविद्यामायायुजोर्योतयति प्रभेदम् । श्रुतिस्तयोः केवलयोरभेदं भिन्नाश्रयत्वान्न तयोविरोधः ॥ स्याद्वा विरोधस्तदपि प्रवृत्तं प्रत्यक्षमग्रेऽबलमेव बाध्यम् । प्राबल्यवत्या चरमप्रवृत्त्या श्रुत्या ह्यपच्छेदनयोक्तरीत्या* ॥ १०१ * पाष्ठ पारमर्षे सूत्रम-“पौर्वापयै पूर्वदौबल्यं प्रकृति वत्" इति । ज्योतिष्टोमे बहिष्पवमानार्थ हविर्धानानिर्गच्छतामृत्विग्यजमानानां- अवधु प्रस्तोताऽन्वारभते, प्रस्तोतारमुद्गाता, उद्गातारं प्रतिहर्ता " इत्यादिनाऽन्वारंभणं विहितम् । तद्विच्छे इनिमित्तं प्रायश्चित्तं यते- यद्युद्गाताऽपच्छिद्येताऽदक्षिणं तं यज्ञमिष्ट्वा तेन पुनर्यजेत तत्र तद् दद्यात् यत्पूर्वस्मिन् दास्यन् स्यात् . यदि प्रतिहर्ताऽपच्छिद्येत सर्ववेदसे दद्यात् " इति । तत्रोद्गातृपतिहोंः क्रमेण विच्छे दे विरुद्धप्रायश्चित्तयोः समुच्चयासंभवात् किं पूर्व कार्यम , उतापरमिति विशये, अनुपजातविरो. धितया पूर्वमिति प्राप्ते-राद्धान्तः, पौर्वापर्ये सति निमित्तयोः पूर्वस्य नैमित्तिकस्य दौर्बल्यम , उत्तरस्य पूर्व निरपेक्षस्य तद्बाधकतयोतत्वात् , पूर्वोदयकाल उत्तरस्याप्राप्तत्वेन पूर्वेण बाध्यत्वायोगात् । तदुक्तम्- पूर्व परमजातत्वादबाधित्वैव जायते । परस्यानन्यथोत्पादानत्वबाधेन संभवः ॥ इति - - 90 श्रीमच्छङ्करदिग्विजये [अष्टमः नन्वेवमप्यस्त्यनुमानबाधोऽभेदश्रुतेः संयमिचक्रवर्तिन् । घटादिवब्रह्मनिरूपितेन भेदेन युक्तोऽयमसर्ववित्वात् ।। १०२ किमेष भेदः परमार्थभूतः प्रसाध्यते काल्पनिकोऽथवाऽऽये । दृष्टान्तहानिश्चरमे तु विद्वन्नूरीकृतोऽस्माभिरसाधनीयः ॥ १०३ स्वप्रत्ययाबाध्यभिदाश्रयत्वं साध्यं घटादौ च तदस्ति योगिन् । त्वयाऽऽत्मबोधेन भिदा न बाध्येत्यनभ्युपेतेति न कोऽपि दोषः ॥ १०४ ननु स्वशब्देन सुखादिमान्वा विवक्षितस्तद्विधुरोऽथवाऽऽत्मा । आद्योऽस्मदिष्टं ननु साध्यमन्त्ये दृष्टान्तहानिः पुनरेव ते स्यात् ।। १०५ योगिन्ननौपाधिकभेदवत्वं विवक्षितं साध्यमिह त्वदिष्टः । औपाधिकस्त्वीश्वरजीवभेदो घटेशभेदो निरुपाधिकश्च ।। १०६ घटेशभेदेऽप्युपधिद्य विद्या तवानुमानेषु जडत्वमेव । चित्वादभिन्नः परवत्परस्मादात्मेति वाऽत्र प्रतिपक्षहेतुः ॥ १०७ धर्मिप्रमाबाध्यशरीरिभेदो ह्यसंमृतौ ब्रह्मणि साध्यमिष्टम् । त्वयेष्यते ब्रह्मधियाऽऽत्मभेदो बाध्यो घटादिप्रमया त्वबाध्यः ॥ १०८ किं कृत्स्नधर्मिप्रमया न बाध्यः किं वा स यत्किंचनर्मिबोधात् । घटाधिके ब्रह्मणि चात्मभेदस्पैक्यात् पुनः स्यान्ननु पूर्वदोषः ।। १०९ किंचागुणो वा सगुणो मनीषिन्विवक्ष्यते धर्मिपदेन नान्त्यः । भेदस्य तबुध्यविबाध्यतेष्टेर्नाद्यश्च तत्रोभयथाऽपि दोषात् ।। किं निर्विशेष प्रमितं न वाऽन्त्ये प्राप्ताऽऽश्रयासिद्धिरथाद्यकल्पे । शरीर्यभेदेन परस्य सिद्धेः प्राप्नोति धर्मिग्रहमानकोपः ॥ १११ तत्र दृष्टान्तः प्रकृतिवत्-यथा प्रकृतौ कृतोपकाराः कुशाः प्रथममतिदेशेन विकृतावुपकाराकांक्षिण्यां प्राप्ताः कल्योपकारच रमप्राविभिरपि शरैर्निर- पेर्बाध्यन्ते तद्वत् । तथा च यथा प्रथमप्रवृत्तं दुबलं पूर्वनैमित्तिकमेव पश्चात्प्रवृत्तेन प्रबलेनोत्तरेण नैमित्तिकेन बाध्यम, तद्वद् यथोक्तं प्रत्यक्ष- मेव यथोक्तश्रुत्या बाध्यम् । इति डिण्डिमः ॥ ११० 91 सर्गः८ श्रीमदाचार्यमण्डनमिश्रसंवादः भो 'द्वा सुपर्णा सयुजा सखाये'त्याद्या श्रुतिर्भेदमुदीरयन्ती । जीवेशयोः पिप्पलभोक्तूभोक्तोस्तयोरभेदरश्रुतिवाधिकाऽस्तु ॥ ११२ प्रत्यक्षसिद्धे विफले परात्मभेदे श्रुतिर्नो नय वित्प्रमाणम् । स्यादन्यथा मानमतत्परोऽपि स्वार्थेऽर्थवादः सकलोऽपि विद्वन् ॥ ११३ स्मृतिपसिद्धार्थविवोधि वाक्यं यथेष्यते मूलतया प्रमाणम् । प्रत्यक्षसिद्धार्थकवाक्यमेवं स्यादेव तन्मूलतया प्रमाणम् ॥ ११४ श्रुतिः स्मृतेऽर्थे यदि वेद विद्भिर्भवेन्न तन्मूलतया प्रमाणम् । कथं भवेद्वेद कथानभिज्ञैर्शातेऽपि भेदे परजीवयोः सा ॥ ११५ जीवेश्वरौ सा वदतीत्युपेत्य प्रावोचमेतत्परमार्थतस्तु । विविच्य सत्वात्पुरुषं समस्तसंसारराहित्यममुष्य वक्ति ।। यदीयमाख्यात्यथ सत्त्वजीवौ विहाय सर्वज्ञशरीरभाजौ । जडस्य भोक्तृत्वमुदाहरन्ती प्रामाण्यमहन् कथमश्नुवीत ॥ ११७ न चोदनीया वयमत्र विद्वन् यतस्त्वया पैङ्गिरहस्यमेव । अत्तीति सत्त्वं त्वभिपश्यति ज्ञ इति स्म सम्यग्विवृणोति मन्त्रम् ॥ ११८ शरीरवाची ननु सत्त्वशब्दः क्षेत्रज्ञशब्दः परमात्मवाची । तत्राप्यतो नान्यपरत्वमस्य वाक्यस्य पैङ्गयोदितवर्मनाऽपि ॥ ११९ तदेतदित्यादिगिरा हि चित्ते प्रदर्शिता सत्वपदस्य वृत्तिः । क्षेत्रज्ञशब्दस्य च वृत्तिरुक्ता शारीरके द्रष्टरि तत्र विद्वान् ॥ १२० येनेति हि स्वमहशिक्रियायाः कर्लोच्यते तत्र स जीव एव । क्षेत्रज्ञशब्दाभिहितश्च योगिन् स्यात्स्वमाक् सर्वविदीश्वरोऽपि ॥ १२१ तिङ्मत्ययेनाभिहितोऽत्र कर्ता ततस्तृतीया करणेऽभ्युपेया। द्रष्टा च शारीरतया मनीषिन् विशेष्यते तेन स नेश्वरः स्यात् ॥ १२२ वृत्तिः शरीरे भवतीत्यमुष्मिन्नर्थे हि शारीरपदस्य योगिन् । तस्मिन् भवन् सर्वगतो महेशः कथं न शारीरपदाभिधेयः ॥ १२३ 4 92 श्रीमच्छङ्करदिग्विजये [अष्टमः भवञ्छरीरादितरत्र चेशः कथं च शारीरपदाभिधेयः । नभः शरीरेऽपि भवत्यथापि न केऽपि शारीरमितीरयन्ति ।। १२४ यद्येष मन्त्रोऽनभिधाय जीवप्राज्ञौ वदेद्बुद्धिशरीरभानौ । अत्तीति भोक्तृत्वमचेतनाया बुद्धेवदेत्तर्हि कथं प्रमाणम् ॥ १२५ अदाहकस्याप्ययसः कृशानोराश्लेषणादाहकता यथाऽऽस्ते । तथैव भोक्तत्वमचेतनाया बुद्धेरपि स्याच्चिदनुपवेशात् ।। १२६ छायातपो यद्वदतीव भिन्नौ जीवेश्वरौ तद्वदिति ब्रुवाणा । ऋतं पिबन्ताविति काठकेषु श्रुतिस्त्वभेदश्रुतिबाधिकाऽस्तु ॥ १२७ भेदं वदन्ती व्यवहारसिद्धं न बाधतेऽभेदपरश्रुति सा । एषा त्वपूर्वार्थतया बलिष्ठा भेदश्रुतेः प्रत्युत बाधिका स्यात् ॥ १२८ मानान्तरोपोदलिता हि भेदश्रुतिर्बलिष्ठा यमिनां वरेण्य । तद्धाधितुं सा प्रभवत्यभेदश्रुति प्रमाणान्तरबाधिताम् ॥ १२९ पावल्यमापादयति श्रुतीनां मानान्तरं नैव बुधाग्रयायिन् । गतार्थतादानमुखेन तासां दौर्बल्यसम्पादकमेव किन्तु ।। १३० इत्याद्या दृढयुक्तिरस्य शुशुभे दत्तानुमोदा गिरां देव्या तादृशविश्वरूपाभसावष्टंभमुष्टिंधया । भर्तृन्यासविलक्ष्यक्तिजननीसाक्षित्वकुक्षिभरिः सश्लाघाद्भुतपुष्पवृष्टिलहरी सौगन्ध्यपाणिन्धया । १३१ इत्थं यतिक्षितिपतेरनुमोद्य युक्तिं मालां च मण्डनगले मलिनामवेक्ष्य । भिक्षार्थमुच्चलतमद्य युवामितीमावाचष्ट तं पुनरुवाच यतीन्द्रमम्बा ॥ १३२ कोपातिरेकवशतः शपता पुरा मां दुर्वाससा तदवधिर्विहितो जयस्ते । साऽहं यथागतमुपैमि शमिमवीरेत्युक्त्वा ससंभ्रममुं निजधाम यान्तीम् ॥ बबन्ध निःशङ्कमरण्यदुर्गामन्त्रेण तां जेतुमना मुनीन्द्रः । जयोऽपि तस्याः स्वमतैक्यसिद्धयै सार्वज्ञतः स्वस्य न मानहेतोः ॥ १३४ . 19 सर्गः९] 93 १३५ श्रीमदाचार्य सरस्वतीसंवादः : जानामि देवीं भवतीं विधातुर्देवस्य भार्या पुरभित्सगाम् । उपात्तलक्ष्म्यादिविचित्ररूपां गुप्त्यै प्रपञ्चस्य कृतावताराम् ।। व्रज जननि तदा त्वं भक्तचूडामणिस्ते निजपदमनुदास्याम्यभ्यनुज्ञां यदैतुम् । इति निजवचनेऽस्मिञ्छारदासंमतेऽसौ मुनिरथ मुदितोऽभून्माण्डनं हृदुभुत्सुः ॥ इति श्रीमाधवीये तन्मण्डनार्यकथापरः । संक्षेपशङ्करजये सर्गोऽसावष्टमोऽभवत् ॥ ८ ॥ आदितः श्लोकाः 920. १३६ अथ नवमः सर्गः ॥९॥ श्रीमदाचार्यसरस्वतीसंवादः ॥ २ MY अथ संयमिक्षितिपतेर्वचनैनिगमार्थनिर्णयकरैः सनयैः । शमिताग्रहोऽपि पुनरप्यवदत् कृतसंशयः सपदि कर्मजडः ॥ यतिराज संप्रति ममाभिनवान्न विषादितोऽस्म्यपजयादपि तु । अपि जैमिनीयवचनान्यहहोन्मथितानि हीति भृशमस्मि कृशः ॥ स हि वेत्यनागतमतीतमपि प्रियकृत्समस्तजगतोऽधिकृतः । निगमप्रवर्तनविधौ स कथं तपसां निधिर्वितथसूत्रपदः ।। इति संदिहानमवदत्तमसौ न हि जैमिनावपनयोऽस्ति मनाक् । प्रमिमीमहे न वयमेव मुनेहृदयं यथावदनभिज्ञतया ॥ यदि विद्यते कविजनाविदितं हृदयं मुनेस्तदिह वर्णय भोः । यदि युक्तमत्र भवता कथितं हृदि कुर्महे दलदहंकृतयः ।। अभिसंधिमानपि परे विषयपसरन्मतीननुजिघृक्षुरसौ । तदवाप्तिसाधनतया सकलं सुकृतं न्यरूपयदिति स्म परम् ॥ ४ wr

94
७
८
श्रीमच्छङ्करदिग्विजये
[नवमः
वचनं तमेतमिति धर्मचयं विदधाति बोधननिहेतुतया ।
तदपेक्षयैव स च मोक्षपरो निरधारयन्न परथेति वयम् ॥
श्रुतयः क्रियार्थकतया सफला अतदर्थकानि तु वचांसि वृथा ।
इति सूत्रयन्ननु कथं मुनिराडपि सिद्धवस्तुपरतां मनुते ॥
श्रुतिराशिरद्वयपरोऽपि परंपरयाऽऽत्मबोधफलकर्मणि च ।
प्रसरत्कटाक्ष इति कार्यपरत्वमसूचि तत्प्रकरणस्थगिराम् ॥ ९
ननु सच्चिदात्मपरताऽभिमता यदि कृत्स्नवेदनिचयस्य मुनेः ।
फलदात्तामपुरुषस्य वदन् स कथं निराह परमेशमपि ॥
१०
ननु कर्तृपूर्वकमिदं जगदित्यनुमानमागमवचांसि विना ।
परमेश्वरं प्रथयति श्रुतयस्त्वनुवादमात्रमिति काणभुजाः ।। ११
न कथंचिदौपनिषदं पुरुषं मनुते बृहन्तमिति वेदवचः ।
कथयत्यवेदविदगोचरतां गमयेत् कथं तमनुमानमिदम् ॥ १२
इति भावमात्मनि निधाय मुनिः स निराकरोनिशितयुक्तिशतैः ।
अनुमानमीश्वरपरं जगतः प्रभवं लयं फलमपीश्वरतः ॥ १३
तदिहास्मदुक्तविधया निषदा न विरुद्धमण्वपि मुनेवचसि |
इति गूढभावमनवेक्ष्य बुधास्तमनीशवाद्ययमिति ब्रुवते ।। १४
किमु तावतैव स निरीश्वरवाद्यभवत् परात्मविदुषां प्रवरः ।
न निशाटनाहिततमः कचिप्यदहनि प्रभां मलिनयेत्तरणेः ॥ १५
इति जैमिनीयवचसां हृदयं कथितं निशम्य यतिकेसरिणा ।
मनसा ननन्द कविराण्णितरां सह शारदाश्च सदसस्पतयः ।। १६
विदिताशयोऽपि परिवर्तिमनाग्विशयः स जैमिनिमवाप हृदा ।
अवगन्तुमस्य वचसाऽपि पुनः स च संस्मृतः सविधमाप कवेः ॥ १७
अवदच्च शृण्विति स भाष्यकृति प्रजहाहि संशयमिमं सुमते ।
यदवोचदेष मम सूत्रततेर्हदयं तदेव मम नापरथा ॥ १८

सर्गः ९]] 95 १९ २० २१ २२ २३ श्रीमदाचार्यसरस्वतीसंवादः न ममैव वेद हृदयं यमिराडपि तु श्रुतेः सकलशास्त्रततेः । यदभूद्भविष्यति भवत्तदपि ह्ययमेव वेद न तथा वितरः ॥ गुरुणा चिदेकरसतत्परता निरणायि हि श्रुतिशिरोवचसाम् । कथमेकसूत्रमपि तद्विमतं कथयाम्यहं तदुपसादितधीः ॥ अलमाकलय्य विशयं सुयशः शृणु मे रहस्यमिममेव परम् । स्वमवेहि संमृतिनिमग्न जनोत्तरणे गृहीतवपुषं पुरुषम् ॥ आधे सत्वमुनिः सतां वितरति ज्ञानं द्वितीये युगे दत्तो द्वापरनामके तु सुमतिासः कलौ शङ्करः । इत्येवं स्फुटमीरतोऽस्य महिमा शैवे पुराणे यत- स्तस्य त्वं सुपते मते त्ववतरेः संसारवाधि तरेः ॥ इति बोधितद्विजबरोऽन्तरधान्मनसोपगुह्य यमिनामृषभम् । स च यायकपरिषत्प्रमुखः प्रणिपत्य शङ्करमवोचदिदम् ।। विदितोऽस्ति संप्रति भवाञ्जगतः प्रकृतिनिरस्तसमतातिशयः । अवबोधमात्रवपुरप्यबुधोद्धरणाय केवलमुपात्ततनुः यदेकमुदितं पदं यतिवर त्रयीमस्तकै- स्तदस्य परिपालकस्त्वमसि तत्त्वमस्यायुधः । परं गलितसौगतपलपितान्धकूपान्तरे पतत्कथमिवान्यथा प्रलयमद्य नापत्स्यते ।। प्रबुद्धोऽहं स्वमादिति कृतमतिः स्वममपरं यथा मूढः स्वग्ने कलयति तथा मोहवशगाः। विमुक्तिं मन्यन्ते कतिचिदिह लोकान्तरगति हसन्त्येतान् दासास्तव गलितमायाः परगुरोः ॥ मुहुधिविग्भेदिमलपितविमुक्ति यदुदयेऽप्य- सारः संसारो विरमति न कर्तृत्वमुखरः । भृशं विद्वन्मोदे स्थिरतमविमुक्ति त्वदुदितां भवातीता येयं निरवधिचिदानन्दलहरी ॥ ॥ २४ २५ २६ २७ 96 २८ श्रीमच्छङ्करदिग्विजये [नवमः अविद्याराक्षस्या गिलितमखिलेशं परगुरो पिचण्डं भिवास्याः सरभसममुष्मादुदहरः । वृतां पश्यन् रक्षोयुवतिभिरमुष्य प्रियतमां हनूमाल्लोकेड्यस्तव तु कियती स्यान्महितता ॥ जगदार्तिहन्ननवगम्य पुरा महिमानमीदृशमचिन्त्यमहम् । तव यत्पुरोऽब्रवमसाम्प्रतमप्यखिलं क्षमस्व करुणाजलधे । २९ कपिलाक्षपादकणभुक्प्रमुखा अपि मोहमीयुरमितपतिमाः । श्रुतिभावनिर्णयविधावितरः प्रभवेत्कथं परशिवांशमृते ॥ ३० समेतैरेतैः किं कपिलकणभुगौतमवच- स्तमस्तोमेश्चेतोमलिनिमसमारम्भणचणः । सुधाधारोद्गारप्रचुरभगवत्पादवदन- प्ररोहदयाहारामृतकिरणपुञ्जे विजयिनि । ३१ भिन्दानैर्देवमेतैरभिनवयवनैः सद्गवीभञ्जनोत्कै- ाप्ता सर्वेयमुर्वी क जगति भजतां कैव मुक्तिमसक्तिः । यद्वा सद्वादिराजा विजितकलिमला विष्णुतत्त्वानुरक्ता उज्जम्भन्ते समन्तादिशि दिशि कृतिनः किं तया चिन्तया मे ॥ ३२ कथमल्पबुद्धिविकृतिपचयप्रबलोरगक्षतिहताः श्रुतयः । न यदि त्वदुक्त्यमृतसेकधृता विहरेयुरात्मविधृतानुशयाः ॥ ३३ भवदुक्तसूक्त्यमृतभानुकरा न चरेयुरार्य यदि कः शमयेत् । अतितीव्रदुःसहभवोष्णकरमचुरातपप्रभवतापमिमम् ॥ बत कर्मयन्त्रमधिरुह्य तप:श्रुतगेहदारसुतभृत्यधनैः । अतिरूढमानभरितः पतितो भवतोद्धृतोऽस्मि भवकूपविलात् ।। ३५ अहमचरं बहुतपोऽसुकरं ननु पूर्वजन्मसु न चेदधुना । जगदीश्वरेण करुणानिधिना भवता कथा मम कथं घटते ।। ३६ सर्गः ९] श्रीमदाचार्यसरखतीसंवादः 97 शान्तिपाक्सुकृताडून दमसमुल्लासोल्लसत्पल्लवं वैराग्यद्रुमकोरकं सहनतावल्लीप्रसूनोत्करम् । ऐकाग्रीसुमनोमरन्दविमृतिं श्रद्धासमुद्यत्फलं विन्देयं सुगुरोगिरां परिचयं पुण्यैरगण्यैरहम् ॥ त्रिदिवौकसामपि पुमर्थ करीमिह संसरज्जनविमुक्तिकरीम् । करुणोमिलां तव कटाक्षझरीमवगाहतेऽत्र खलु धन्यतमः ॥ ३८ केचिच्चञ्चललोचनाकुचतीचेलाञ्चलोचालन- स्पर्शद्राक्परिरंभसंभ्रमकलालीलासु लोलाशयाः । सन्त्वेते कृतिनस्तु निस्तुलयशःकोशादयः श्रीगुरु- व्याहारक्षरितामृताब्धिलहरीदोलासु खेलन्त्यमी ॥ चिन्तासन्तानतन्तु ग्रथितनवमवत्सूक्तिमुक्ताफलौघ- रुद्यद्वैशयसद्य:परिहततिमिरारिणो हारिणोऽपी । सन्तः सन्तोषवन्नो यतिवर किमतो मण्डनं पण्डितानां विद्या हृया स्वयं तान् शतमखमुखरान् वारयन्ती वृणीते ॥४० सन्तः सन्तोषपोषं दधतु तव कृताम्नायशोभैर्यशोभिः सौरालोकैरुलूका इव निखिलखला मोहमाहो वहन्तु । धीरश्रीशङ्करायपणतिपरिणतिभ्रश्यदन्तर्दुरन्त- ध्वान्ताः सन्तो वयं तु प्रचुरतर निजानन्दसिन्धौ निमग्नाः ॥ ४१ चिन्तासन्तानशाखी पदसरसिजयोर्वन्दनं नन्दनं ते सङ्कल्पः कल्पवल्ली मनसि गुणनुतेर्वर्णना स्वर्णदीयम् । स्वर्गो दृग्गोचरस्त्वत्पदभजनमतः संविचार्येदमार्या मन्यन्ते स्वर्गमन्यं तृणवदतिलघु शङ्कराय त्वदीयाः ॥ ४२ तदहं विसृज्य सुतदारगृहं द्रविणानि कर्म च गृहे विहितम् । शरणं वृणोमि भगवच्चरणावनुशाधि किङ्करममुं कृपया ॥ ४३ इति मूनृतोक्तिभिरुदीर्णगुणः सुधियाऽऽत्मवाननुजिघुक्षुरसौ । समुदैवतास्य सहधर्मचरी विदिताशया मुनिमवोचत. सा ॥ ४४ 98 श्रीमच्छङ्करदिग्विजये [नवमः यतिपुण्डरीक तव वेझि मनो ननु पूर्वमेव विदितं च मया । इह भावि तापसमुखादखिलं तदुदीर्यते शृणु ससभ्यजनः । ४५ मयि जातु मातुरुपकण्ठजुषि प्रभया तडित्पतिभटोच्चजटः । सितभूतिरूषितसमस्ततनुः श्रमणोऽभ्ययादपरसूर्य इव ॥ परिगृह्य पाद्यमुखयाईणया रचिताञ्जलिनमितपूर्वतनुः जननी तदाऽऽत्तवरिवस्य ममुं मुनिमन्वयुतः मम भाव्यखिलम् ॥ भगवन्न वेद्मि दुहितुमम भाव्यखिलं च वेत्ति तपसा हि भवान् । प्रणते जने हि सुधियः कथयन्त्यपि गोप्यमार्यसदृशाः कृपया ॥ ४८ कियदायुरवाप्स्यति सुतान् कति वा दयितं कथंविधमुपैष्यति च । अथ च ऋतूनपि करिष्यति मे दुहिता प्रभूतधनधान्यवती ॥ ४९ इति पृष्टभाविचरितः प्रसुवा क्षणमात्रमीलितविलोचनकः । सकलं क्रमेण कथयन्निदमप्यपरं जगाद सुरहस्यमपि ।। निगमाध्वनि प्रबलबाह्यमतैरमितैरधिक्षिति खिले द्रुहिणः । पुनरुद्दिधीपुरवतीर्य खलु प्रतिभाति मण्डनकवीन्द्रमिषात् ॥ ५१ तमवाप्य रुद्रमिब साऽद्रिसुता दुहिता तवाच्युतमिवाब्धिसुता । अनुरूपमाहतसमस्तमखा ससुता भविष्यति चिरं मुदिता ॥ अथ नष्टमौपनिषदं प्रबलैः कुमतैः कृतान्तमिह साधयितुम् । ननु मानुषं वपुरुपेत्य शिवः समलंकरिष्यति धरां स्वपदैः ।। सह तेन वादमुपगम्य चिरं दुहितुः पतिस्तु यतिवेषजुषा । विजितस्तमेव शरणं जगतां शरणं गमिष्यति विसृष्टगृहः ॥ इति गामुदीर्य स मुनिः प्रययौ सकलं यथातथमभूञ्च मम । भवदीयशिष्यपदमस्य कथं वितथं भविष्यति मुनेर्वचसि ॥ अपि तु त्वयाऽद्य न समग्रजितः प्रथिताग्रणीमम पतिर्यदहम् । वपुरर्धमस्य न जिता मतिमन्नपि मां विजित्य कुरु शिष्यमिमम् ॥ ५६ ५२

सर्गः ९]
99.
श्रीमदाचार्यसरस्वतीसंवादः
यदपि त्वमस्य जगतः प्रभवो ननु सर्वविच्च परमः पुरुषः ।
तदपि त्वयैव सह वादकृते हृदयं बिभर्ति मम तूत्कलिकाम् ॥
इति यायजूकसहधर्मचरीकथितं वचोऽर्थवदगापदम् ।
मधुरं निशम्य मुदितः सुतरां प्रतिवक्तुमैहत यतिप्रवरः ॥
यदवादि कलहोत्सुकतां प्रतिपद्यते हृदयमित्यवले ।
तदसांप्रतं न हि महायशसो महिलाजनेन कथयन्ति कथाम् ॥ ५९
स्वमतं प्रभेत्तु मिह यो यतते स वधूजनोऽस्तु यदि वाऽस्त्वितरः ।
यतितव्यमेव खलु तस्य जये निजपक्षरक्षणपरैर्भगवन् !!
६०
अत एव गार्यभिधया कलहं सह याज्ञवल्क्यमुनिराडकरोत् ।
जनकस्तथा सुलभयाऽबलया किममी भवन्ति न यशोनिधयः॥
६१
इति युक्तिमद्गदितमाकलयन्मुदितान्तरः श्रुतिसरिजलधिः ।
स तया विवादमधिदेवतया वचसामियेष विदुषां सदसि ।। ६२
अथ सा कथा प्रवकृते स्म तयोरुभयोः परस्परजयोत्सुकयोः ।
मतिचातुरीरचितशब्दझरी श्रुतिविस्मयीकृतविचक्षणयोः ॥ ६३
अनयोविचित्रपदयुक्तिभरैर्निशमय्य संकथनमाकलितम् ।
न फणीशपप्यतुलयन्न पपी न गुरुं कवि किमपरं जगति ॥
न दिवा न निश्यपि च वादकथा विरराम नैयमिककालमृते ।
इति जल्पतोः सममनल्पधियोदिवसाश्च सप्त दश चात्यगमन् ।। ६५
अथ शारदाऽकृतकवाक्प्रमुखेष्वखिलेषु शास्त्र निचयेषु परम् ।
तमजय्यमात्मनि विचिन्त्य मुनि पुनरप्यचिन्तयदिदं तरसा ॥
अतिबाल्य एव कृतसंन्यसनो नियमैः परैरविधुरश्च सदा ।
मदनागमेष्वकृतबुद्धिरसौ तदनेन संपति जयेयमहम् ॥ ६७
इति संपधार्य पुनरप्यमुना कथने प्रसंगमथ संगतितः ।
यमिनं सदस्यमुमपृच्छदसौ कुसुमास्त्रशास्त्रहृदयं विदुषी ॥ ६८

७१ ७२ 100 श्रीमच्छङ्करदिग्विजये [नवमः कलाः कियन्त्यो वद पुष्पधन्वनः किमात्मिकाः किंच पदं समाश्रिताः । पूर्वे च पक्षे कथमन्यथा स्थितिः कथं युक्त्यां कथमेव पूरुषे ॥ नेतीरितः किंचिदुवाच शङ्करो विचिन्तयनत्र चिरं विचक्षणः । तासामनुक्तौ भविताऽल्पवेदिता भवेत्तदुक्तौ मम धर्मसंक्षयः ॥ इति संविचिन्त्य स हृदाऽऽशु तदाऽनवबुद्धपुष्पशरशास्त्र इव । विदितागमोऽपि सुरिरक्षयिषुर्नियमं जगाद जगति व्रतिनाम् ।। इह मासमात्रमवधिः क्रियतामनुमन्यते हि दिवसस्य गणः । तदनन्तरं सुदति हास्यसि भोः कुसुमास्त्रशास्त्रनिपुणत्वमपि ॥ उररीकृते सति तथेति तयाऽऽक्रमते स्म योगिमृगराड् गगनम् । श्रुतविग्रहः श्रुतविनेययुतो दधदभ्रचारमथ योगशा ॥ ७३ स ददर्श कुत्रचिदमर्त्यमिव त्रिदिवच्युतं विगतसत्त्वमपि । मनुजेश्वरं परिवृतं प्रलपत्पमदाभिरातिमदमात्यजनम् ॥ अथो निशाखेटवशादटव्यां मृले तरोर्मोहवशात्परासुम् । तं वीक्ष्य मार्गेऽमरुकं नृपालं सनन्दनं प्राह स संयमीन्द्रः ॥ ७५ सौन्दर्यसौभाग्यनिकेतसीमाः परःशता यस्य पयोरुहाक्ष्यः । स एव राजाऽमरुकाभिधान: शेते गतासुः श्रमतो धरण्याम् ॥ ७६ प्रविश्य कायं तमिमं परासोनृपस्य राज्येऽस्य सुतं निवेश्य । योगानुभावात्पुनरप्युपैतमुत्कण्ठते मानसमस्मदीयम् अन्यादृशानामदसीयनानाकुशेशयाक्षीकिलकिञ्चितानाम् । सर्वज्ञतानिर्वहणाय सोऽहं साक्षित्वमप्याश्रयितुं समीहे ॥ इत्यूचिवांसं यतितल्लजं तं सनन्दनः प्राह ससान्त्वमेनम् । सर्वज्ञ नैवाविदितं तवास्ति तथाऽपि भक्तिर्मुखरं तनोति ॥ ७९ मत्स्येन्द्रनामा हि पुरा महात्मा गोरक्षमादिश्य निजाङ्गगुप्त्यै । नृपस्य कस्यापि तनुं परासोः प्रविश्य तत्पत्तनमाससाद ॥ ७७ ७८ सर्गः९] 101 ८४ ८५ श्रीमदाचार्यसरस्वतीसंवादः भद्रासनाध्यासिनि योगिवर्ये भद्राण्यनिद्राण्यभवन्मजानाम् । ववर्ष कालेषु वलाहकोऽपि सस्यानि चाशास्यफलान्यभूवन् । ८१ विज्ञाय विज्ञाः सचिवा नृपस्य काये प्रविष्टं कमपीह दिव्यम् । समादिशबाजसरोरुहाक्षी: सर्वात्मना तस्य वशी क्रियायै ॥ ८२ संगीतलास्याभिनयादिकेषु संसक्तचेता ललितेषु तासाम् । स एष विस्मृत्य पुनः समाधि सर्वात्मना प्राकृतवद्धभूव ॥ ८३ गोरक्ष एषोऽथ गुरोः प्रवृत्ति विज्ञाय रक्षन् बहुधाऽस्य देहम् । निशान्तकान्तानटनोपदेष्टा नितान्तमस्याभवदन्तरङ्गः ॥ तत्रैकदा तत्त्वनिबोधनेन निवृत्तरागं निजदेशिकं सः । योगानुपूर्वीमुपदिश्य निन्ये यथापुरं प्राक्तनमेव देहम् ।। इन्तेदृशोऽयं विषयानुरागः किंचोर्ध्वरेतोव्रतखण्डनेन । कि नोदयेकिल्बिषमुल्बणं ते कृत्यं भवानेव कृती विवेक्तुम् ॥ ८६ व्रतमस्मदीयमतुलं क महत् क च कामशास्त्रमतिगर्यमिदम् । तदपीष्यते भगवतैव यदि ह्यनवस्थितं जगदिदेव भवेत् ॥ अधिमेदिनि प्रथयितुं शिथिलं धृतकङ्कणस्य यतिधर्ममिमम् । भवतः किमस्त्यविदितं तदपि प्रणयान्मयोदितमिदं भगवन् ॥ स निशम्य पद्मचरणस्य गिरं गिरति स्म गीपतिसमप्रतिभः । अविगीतमेव भवता फणितं शृणु सौम्य वच्मि परमार्थमिदम् ॥ ८९ असङ्गिनो न प्रभवन्ति कामा हरेरिवाभीरवधूसखस्य । वज्रोलियोगप्रतिभूः स एष वत्सावकीर्णित्वविपर्ययो नः ॥ सङ्कल्प एवाखिलकाममूलं स एव मे नास्ति समस्य विष्णोः । तन्मूलहानौ भवपाशनाशः कर्तुः सदा स्याद्भवदोषदृष्टेः ॥ ९१ अविचार्य यस्तु वपुराद्यहमित्यभिमन्यते जडमतिः सुदृढम् । तमबुद्धतत्त्वमधिकृत्य विधिप्रतिषेधशास्त्रमखिलं सफलम् ॥ ९२ ८७

102
९६
६
श्रीमच्छङ्करदिग्विजये
[नवमः
कृतधीस्त्वनाश्रममवर्णमजात्यवोधमात्रमजमेकरसम् ।
खतयाऽवगत्य न भजेन्निवसन्निगमस्य मूर्ध्नि विधिकिङ्करताम् ॥ ९३
कलशादि मृत्पभवमस्ति यथा मृदमन्तरा न जगदेवमिदम् ।
परमात्मजन्यमपि तेन विना समयत्रयेऽपि न समस्ति खलु ॥ ९४
कथमज्यते जगदशेषमिदं कलयन्मृषेति हृदि कर्मफलैः ।
न फलाय हि स्वपनकालकृतं सुकृतादि जात्वनृतबुद्धिहतम् ॥ ९५
तदयं करोतु हयमेधशतान्यमितानि विपहननान्यथवा ।
परमार्थविन्न सुकृतैर्दुरितैरपि लिप्यतेऽस्तमितकर्तृतया ॥
अवधीत्तिशीर्षमददाच यतीन् कमण्डलाय कुपितः शतशः ।
बत लोमहानिरपि तेन कृता न शतक्रतोरिति हि बचगीः ॥ ९७
बहुदक्षिणैरयजत कतुभिविबुधानतर्पयदसंख्यधनैः ।
जनकस्तथाऽप्यभयमाप परं न तु देहयोगमिति काण्ववचः ॥ ९८
न विहीयतेऽहिरिपुचदुरितैर्न च वर्धते जनकवत्सुकृतैः ।
न स तापमेत्यकरवं दुरितं किमहं न साध्वकरवं विति च ॥ ९९
तदनङ्गशास्त्रपरिशीलनमप्यमुनैव सौम्य करणेन कृतम् ।
न हि दोषकृत्तदपि शिष्टसरण्यवनार्थमन्यवपुरेत्य यते ॥
इति सत्कथाः स कथनीययशा भवभीतिभञ्जनकरीः कययन् ।
सुदुरासदं चरणचारिजनैगिरिशृङ्गमेत्य पुनरेव जगौ ॥ १०१
अधिसानु पश्यत विभाति गुहा पुरतःशिला समतला विपुला ।
सरसी च तत्परिसरेऽच्छजला फलभारनम्रतारम्यतटा ॥ १०२
परिपाल्यतामिह वसद्भिरिदं वपुरप्रमादमनवद्यगुणाः ।
अहमास्थितस्तदुचितं करणं कलयामि यावदसमेषुकलाम् ॥ १०३
इति शिष्यवर्गमनुशास्य यतिप्रवरो विसृष्टकरणोऽधिगुहम् ।
महिपस्य वर्म गुरुयोगबलोऽविशदातिवाहिकशरीरयुतः ॥

सर्गः१] राजदेहप्रवेशादिकथनम 163 अङ्गुष्ठमारभ्य समीरणं नयन् करन्ध्रमार्गाद्वहिरेत्य योगवित् । करन्ध्रमार्गेण शनैः प्रविष्टवान् मृतस्य यावच्चरणायमेकधीः ॥ १०५ गात्रं गतासोर्वसुधाधिपस्य शनैः समास्पन्दत हृत्पदेशे । तथोदमीलन्नयनं क्रमेण तथोदतिष्ठत्स यथापुरैव ॥ १०६ आदौ तदङ्गमुदयन्मुखकान्ति पश्चान्नासान्तनिर्यदनिलं शनकैः परस्तात् । 'उन्मीलदंघ्रिचलनं तदन्यदक्षिव्याकोचमुत्थितमुपात्तबलं क्रमेण ॥ १०७ तं प्राप्तजीवमुपलभ्य पतिं प्रभूतहर्षस्वनाः प्रमुदिताननपङ्कजास्ताः । नार्यों विरेजुररुणोदयसंप्रफुल्लपद्माः ससारसरवा इव वारिजिन्यः ॥१०८ हर्ष तासामुदितमतुलं वीक्ष्य वामेक्षणाना- मात्तपाणं नृपमपि महामात्यमुख्याः प्रहृष्टाः । दध्मुः शङ्खान् पणवपटहान् दुन्दुभीश्चाभिजघ्नु- स्तेषां घोषाः सपदि बधिरीचक्रिरे द्यां भुवं च ॥ १०९ इति श्रीमाधवीये तत्सर्वियोपायगोचरः । संक्षेपशङ्करजये सर्गोऽयं नवमोऽभवत् ॥ ९ ॥ आदितः श्लोकाः 1029 अथ दशमः सर्गः ॥ १० ॥ राजदेहप्रवेशादिकथनम् ॥ अथ पुरोहितमन्त्रिपुरःसरैर्नरपतिः कृतशान्तिककर्मभिः । विहितमाङ्गलिकः स यथोचितं नगरमास्थितभद्रगजो ययौ ॥ समधिगम्य पुरं परिसान्वितप्रियजनः सचिवैः सह सम्प्रतैः । भुवमपालयदादृतशासनो नृपतिभिर्दिवमिन्द्र इवाधिराट् ॥ इति नृपत्वमुपेत्य वसुन्धरामवति संयमिभूभृति मन्त्रिणः । तमधिकृत्य परं कृतसंशया इति जजल्पुरनल्पधियो मिथः ।। मृतिमुपेत्य यथा पुनरुत्थितः प्रकृतिभाग्यवशेन तथा त्वयम् । नरपतिः प्रतिभाति न पूर्ववत्समुदिताखिलदिव्यगुणोदयः ।। २ ४ ५ or 104 श्रीमच्छङ्करदिग्विजये [दशमः वसु ददाति ययातिवदथिने वदति गीष्पतिवद्गिरमर्थवित् । जयति फाल्गुनवत्प्रतिपार्थिवान् सकलमप्यवगच्छति शर्ववत् ॥ अनुसवनविमृत्वरैरपूर्वैवितरणपौरुषशौर्यधैर्यपूर्वैः । अनितरसुलभैर्गुणैर्विभाति क्षितिपतिरेष परः पुमानिवाद्यः ॥ अन्तुषु तरवः सुपुष्पिताया बहुतरदुग्धदुधाश्च गोमहिष्यः । क्षितिरभिमतवृष्टिराठ्यसस्या स्वविहितधर्मरताः प्रजाश्च सर्वाः ॥ ७ कालस्तिष्यः सर्वदोषाकरोऽपि त्रेतामत्येत्यद्य राज्ञः प्रभावात् । तस्मादस्मद्राजवर्ष प्रविश्य प्राप्तैश्वर्यः शास्ति कश्चिद्धरित्रीम् ।। तदयं गुणवारिधिर्यथा प्रतिपद्येत न पूर्वकं वपुः । करवाम तथेति निश्चयं कृतवन्तः सचिवाः परस्परम् ॥ अथ ते भुवि यस्य कस्यचिद्विगतासोर्वपुरस्ति देहिनः । अविचार्य तदाशु दह्यतामिति भृत्यान् रहसि न्ययोजयन् ॥ अथ राज्यधुरं धराधिपः परमाप्तेषु निवेश्य मन्त्रिषु । बुभुजे विषयान् विलासिनीसचिवोऽन्यक्षितिपालदुर्लभान् ॥ ११ स्फटिकफलके ज्योत्स्नाशुभ्रे मनोज्ञशिरोगृहे वरयुवतिभिर्दीव्यन्नादुरोदरकेलिषु । अधरदशनं बाहावाहं महोत्सलताडनं रतिविनिमयं राजाऽकार्षीद्ग्लहं विजये मिथः ।। १२ अधरजसुधाश्लेषाद्य सुगन्धि मुखानिल- व्यतिकरवशात्कामं कान्ताकरात्तमतिप्रियम् । मधु मदकरं पायंपाय प्रियाः समपायय- कनकचषकैरिन्दुच्छायापरिष्कृतमादरात् ॥ १३ मधुमदकलं मन्दस्विन्नं मनोहरभाषणं निभृतपुलकं सीत्काराढ्यं सरोरुहसौरभम् । दरमुकुलिताक्षीषल्लज्जं विसृत्वरमन्मथं प्रचरदलकं कान्तावक्तं निपीय कृती नृपः ॥ १४ सर्गः १०] 105 १५ ६ १७ राजदेहप्रवेशादिकथनम विकृतजघनं संदष्टोष्ठं प्रणुन्नपयोधरं प्रसृतभणितं प्राप्तोत्साहं रणन्मणिमेखलम् । निभृतकरणं नृत्यगात्रं गतेतरभावन प्रस्परसुखं प्रादुर्भूतं किमप्यपदं गिराम् ॥ मनसिजकलातत्त्वाभिज्ञो मनोज्ञविचेष्टितः सकलविषयव्यावृत्ताक्षः सदानुसृतोत्तमः । कृतकुचगुरूपास्त्याऽत्यन्तं सुनितमानसो निधुवनवरब्रह्मानन्द निरर्गलमन्वभूत् ।। १६ पुरेव भोगान् बुभुजे महीभृत्स भोगिनीभिः सहितोऽप्यरंस्त । कन्दर्पशास्त्रानुगतः प्रवीणैर्वात्स्यायने तच्च निरक्षताद्धा ॥ वात्स्यायनप्रोदितमूत्रजातं तदीयभाष्यं च निरीक्ष्य सम्यक् । स्वयं व्यधत्ताभिनवार्थगर्भ निबन्धमेकं तृपवेषधारी ।। १८ पारशर्यवनिभृति प्रविश्य राज्ञो वष्मैवं विहरति तद्विलासिनीभिः । दृष्ट्वा तत्समयमतीतमस्य शिष्या रक्षन्तो वपुरितरेतरं जजल्पुः ॥ १९ आचार्यैरवधिरकारि मासमात्रं सोऽतीतः पुनरपि पञ्चषाश्च घस्राः । अद्यापि स्वकरणमेत्य नः सनाथान् कर्तु तन्मनसि न जायतेऽनुकम्पा । किं कुर्मः क नु मृगयामहे व यामः को जाननिह वसतीति नोऽभिदध्यात् । विज्ञातुं कमिमर्म महे विचिन्त्याप्या सिन्धु क्षितितलमन्यगात्रगूढम् ॥ गुरुणा करुणानिधिना ह्यधुना यदि नो निहिता विहितास्त्यजिताः । जगतिक गतिर्भजतां त्यजतां स्वपदं विपदन्तकरं तदिदम् ।। २२ निःशेषेन्द्रियजा ब्यहमवनवाहलादं मुहुस्तन्वती नित्याश्लिष्टरजोयतीशचरणाम्भोजाश्रया श्रेयसी । निष्पत्यूहविज़म्भमाणजिनस्योद्वासना वासना निःसीमा हृदयेन कल्पितपरीरम्भा चिरं भाव्यते ॥ २३ फलितैरिव सत्वपादपैः परिणामैरिव योगसम्पदाम् । समयैरिव वैदिकश्रियां सशरीरैरिव तत्वनिर्णयः ।। २४ 106 २५ २७ श्रीमच्छङ्करदिग्विजये [दशमः सधनैर्निजलाभवैभवात् सकुटुम्बैरुपशान्तिकान्तया । अतदन्यतयाऽखिलात्मकैरनुगृह्येय कदा नु धामभिः ॥ अविनयं विनयन्नसतां सतामतिरयं तिरयन् भवपावकम् । जयति यो यतियोगभृतां वरो जगति मे गतिमेष विधास्यति । २६ विगतमोहतमोहतिमाप्य यं विधुतमायतमा यतयोऽभवन् । अमृतदस्य तदस्य दृशः मृतवावतरेम तरेम शुगर्णवम् ॥ शुभाशुभविभाजकस्फुरणदृष्टिमुष्टिधयः क्षपान्धमतपान्थदुष्कथकदम्भकुर्शिभरिः। कदा भवसि मे पुन:पुनरनाद्यविद्यातमः प्रमृद्य गलितद्वयं पदमुदञ्चयन्नद्वयम् ।। २८ मानां निजपादपङ्कजजुषामाचार्य वाचा यया रुन्धानो मतिकल्मषं त्वमिह किंकुर्वाणनिर्वाणया । द्राङ् नायास्यसि चेत्सुधीकृतपरीहासस्य दसस्य ते दुःखान्तो न भवेदितीड्य स पुनर्जानीहि मीनीहि मा॥ २९ इति खेदमुपेयुषि मित्रजने प्रतिपन्नयतिक्षितिभृन्महिमा । शुचमर्थवता शमयन्वचसा निजगाद सरोरुहपाद इदम् ॥ ३० पर्याप्तं नः क्लैब्यमुपेत्यात्र सखायः कृत्वोत्साहं भूमिमशेषामपिधानात् । अन्वेष्यामो भूविवराण्यप्यथ च द्यां यदद्देवं देवमनुष्यादिषु गूढम् ।। ३१ अनिर्विण्णचेताः समास्थाय यत्नं सुदुष्पापमप्यर्थमाप्नोत्यवश्यम् । मुहुर्विघ्ननालैः सुरा हन्यमाना सुधामप्यवापुर्यनिर्विणचित्ताः ॥ ३२ यदप्यन्यगात्रप्रतिच्छन्नरूपो दुरन्वेषणः स्याद्गुरुर्नस्तथापि । खभानूदरस्थः शशीव प्रकाशैस्तदीयैर्गुणैरेव वेत्तुं स शक्यः ॥ इक्षुचापागमापेक्षया निर्गतो वह्म तस्योचितं कृष्णवर्मद्युतिः । विभ्रमाणां पदं सुभ्रुवां भूपतेः प्राप्तुमर्हत्यकामाग्रणी: संयमी ।। ३४ नित्यतृप्ताग्रयाय्याश्रिते निर्वृताः प्राणिनो रोगशोकादिना नेक्षिताः। दस्युपीडोज्झिताः स्वस्वधर्मे रताः कालवर्षी खराण्मेदिनी काममः ॥

सर्गः ०१]
107
३
९
राजदेहप्रवेशादिकथनम
तदिहाऽऽलस्यमपास्य विचेतुं निरवधिसंसृतिजलधेः सेतुम् ।
देशिकवरपदकमलं यामो न वृथाऽनेहसमत्र नयामः ।।
इति जलरुहपदवचनं सर्वे मनसि निधाय निराकृतगर्वे ।
कांश्चित्तत्र निवेश्य शरीरं रक्षितुमन्ये निरगुरुदारम् ॥
ते चिन्वन्तः शैलाच्छैलं विषयाविषयं भुवमनुवेलम् ।
प्रापुर्धिक्कृतविबुनिवेशान् स्फीतानमरुकनृपतेर्देशान् ॥
मृत्वा पुनरप्युत्थितमेनं श्रुत्वा वैयदिलीपसमानम् ।
त्यक्त्वा विरहजदैन्यममन्दं मत्वाऽऽचार्य धैर्यमविन्दन् ।
ते च ज्ञात्वा गानविलोलं. तरुणीसक्तं धरणीपालम् ।
विविशुः स्वीकृतगायकवेषा नगरं विदितसमस्तविशेषाः ।।
राज्ञे ज्ञापितविद्यातिशयास्ते तत्संग्रह विधृतातिशयाः ।
रमणीशतमध्यगमवनीन्द्रं ददृशुस्तारातमित्र चन्द्रम् ।।
वरचामरकरतरुणीकङ्कणरञ्जितमनोहरपश्चाद्भागम् ।
गीतिगतिज्ञोद्गीतश्रुतिसुखतानसमुल्लसदाग्रिमदेशम् ।।
४२
धृतचामीकरदण्ड सितातपवारणरञ्जितरत्नकिरीटम् ।
श्रितविग्रहमिव रतिपतिमाश्रितभुवमिव सान्तःपुरममरेशम् ॥ ४३
रुचिरवेषाः समासाद्य तां संसदं नयनसंज्ञावितीर्णासना भूभुजा ।
समतिसृष्टास्ततः सुस्वरं मूर्च्छनापदविदस्ते जगुर्मोहयन्तः सभाम् ।। ४४
भृङ्ग तव सङ्गतिमषास्य गिरिशृङ्गे तुङ्गविटपिनि सङ्गमजुषि त्वदने ।
स्वागरचिताः सकलुषान्तरङ्गाः संगमकृते भङ्गमुपन्ति भृङ्गाः ।। ४५
पञ्चशरसमयसञ्चयकृते प्राञ्चं मुञ्चत्रिवेह सञ्चरसि प्रपश्चम् ।
पञ्चजनमुख पञ्चमुखमप्यनञ्चस्त्वं च गतिरिति किंच किल वञ्चितोऽसौ ॥
पर्वशशिमुख सर्वमपहाय पूर्व कुर्वदिह गर्वमनुमृत्य हृदपूर्वम् ।
न स्मरसि वस्त्वस्मदीयमिति कमात्संस्मर तदस्मर परमस्मदुक्त्या ॥

108 श्रीमच्छङ्करदिग्विजये [दशमः नेतिनेती त्यादिनिगमवचनेन निपुणं निषिध्य मूर्तामूर्तराशिम् । यदशक्यनिह्नवं स्वात्मरूपतया जानन्ति कोविदास्तत्वमसि तत्त्वम् ॥ ४८ खाद्यमुत्पाद्य विश्वमनुप्रविश्य गूढमन्नपयादिकोशतुषजाले । कवयो विविच्य युक्त्यवघाततो यत्तण्डुलवदाददति तत्त्वमसि तत्त्वम् ।। विषमविषयेषु सञ्चारिणोऽक्षाश्वान् दोषदर्शनकशाभिघाततः । स्वैरं संनिवर्त्य स्वान्तरश्मिभिर्धीरा वनन्ति यत्र तत्त्वमसि तत्त्वम् ॥ ५० व्यावृत्तजाग्रदादिष्वनुस्यूतं तेभ्योऽन्यदिव पुष्पेभ्य इव मुत्रम् । इति यदौपाधिकत्रयपृथक्त्वेन विदन्ति सरयस्तत्त्वमसि तत्त्वम् ॥ ५१ पुरुष एवेदमित्यादिवेदेषु सर्वकारणतया यस्य । सार्वात्म्यं हाटकस्येव मुकुटादितादाम्यं सरसमाम्नायते तत्त्वमसि तत्त्वम् ।। यश्चाहमत्र वर्मणि भामि सोऽसौ योऽसौ विभाति रविमण्डले सोऽहमिति । वेदवादिनो व्यतिहारतो यदध्यापयन्ति यत्नतस्तत्त्वमसि तत्त्वम् ॥ ५३ वेदानुवचनसहानमुखधर्मैः श्रद्धयाऽनुष्ठितविद्यया युक्तैः । विविदषन्त्यत्यन्तविमलस्वान्ता ब्राह्मणा यद्ब्रह्म तत्त्वमसि तत्त्वम् ।' ५४ शमदमोपरमादिसाधनैर्धीराः स्वात्मनाऽऽत्मनि यदन्विष्य कृतकृत्याः । अधिगतामितसच्चिदानन्दरूपा न पुनरिह खिद्यन्ते तत्त्वमसि तत्त्वम् ।। अविगीतमेवं नरपतिराकर्ण्य वर्णितात्मार्थम् । विससर्ज पूरिताशानेतान्नितिकर्तव्यः ॥ ५६ उद्घोधितः सदसि तैरवलम्ब्य मूर्छा र्निगत्य राजतनुतो निजमाविवेश । गात्रं पुरोदितनयेन स देशिकेन्द्रः संज्ञामवाप्य च पुरेव समुत्थितोऽभूत् ।। तदेनु कुहरमेत्य पूर्वदृष्टं नरपतिभृत्यविसृष्टपावकेन । निजवपुरवलोक्य दह्यमानं झटिति स योगधुरन्धरो विवेश ।। सपदि दहनशान्तये महान्तं नरमृगरूपमधोक्षजं शरण्यम् । स्तुतिभिरधिकलालसत्पदाभिस्त्वरितमतोषयदात्मवित्प्रधानः ॥ ५८ ५ ९ सर्गः १०] 109 CC राजदेहप्रवेशादिकथनम नरहरिकृपया ततः प्रशान्ते प्रबलतरे स हुताशने प्रविष्टः । निरगमदचलेन्द्रकन्दरान्ताद्विधुरिव वक्तबिलाद्विधुन्तुदस्य ॥ ६० तदनु शमधनाधिपो विनेयैश्विरविरहादतिवर्धमानहार्दैः । सनक इव वृतः सनन्दनाधैर्जिगमिषुराजनि मण्डनस्य गेहम् ॥ तदनु सदनमेत्य पूर्वदृष्टं गगनपथाद्गलितक्रियाभिमानम् । विषयविषनिवृत्ततर्षमुच्चैरतनुत मण्डनमिश्रमक्षिपात्रम् ॥ ६२ तं समीक्ष्य नभश्च्युतं स च प्राञ्जलिः प्रणतपूर्वविग्रहः । अर्हणाभिरभिपूज्य तस्थिवानीक्षणैरनिमिषैः पिबन्निव ।। ६३ स विश्वरूपो बत सत्यवादी पपात पादाम्बुजयो यतीशः । गृहं शरीरं मम यच्च सर्व तवेति वादी मुदितो महात्मा ।। प्रेयसा प्रथममचितं मुनि प्राप्तविष्टरमुपस्थितं बुधैः । प्रश्रयावनतमूर्तिरबबीच्छारदाऽमिवदने विशारदा ॥ ईशानः सर्वविद्यानामीश्वरः सर्वदेहिनाम् । ब्रह्मणोऽधिपविब्रह्मन् भवान् साक्षात्सदाशिवः ।। ६६ सदसि मामविजित्य तथैव यन्मदनशासन कामकलास्वपि । तदवबोधकृत कृतिमाचरस्तदिह मर्त्यचरित्रविडम्बनम् ॥ ६७ त्वया यदावां विजितौ परात्मन्न तत्तुपामावहतीड्य सर्वथा । कृताभिभूतिर्न मयूखशालिना निशाकरादेरपकीर्तये खलु ॥ ६८ आदावात्म्यं धाम कामं प्रयास्याम्यहस्यच्छं मामनुज्ञातुमर्हन् । इत्यामन्त्र्यान्तर्हितां योगशक्त्या पश्यन् देवीं भाष्यकर्ता बभाषे ॥ ६९ जानामि त्वां देवि देवस्य धातुर्भार्यामिष्टामष्टमूर्तेः सगाम् । वाचामाद्या देवतां विश्वगुप्त्यै चिन्मात्रामप्यात्तलक्ष्यादिरूपाम् ।। ७० तस्मादस्मत्कलिलतेष्वय॑माना स्थानेषु त्वं शारदाख्या दिशन्ती । इष्टानऋष्यशृङ्गादिकेषु क्षेत्रेष्वास्स्व प्राप्तसत्संनिधाना ॥ ७१ ' 110 ७२ ७७ श्रीमच्छङ्करदिग्विजये [दशमः तथेति संश्रुत्य सरस्वती सा पायात्प्रियं धाम पितामहस्य । अदर्शनं तत्र समीक्ष्य सर्व आकस्मिकं विस्मयमीयुरुच्चैः ॥ तस्या यतीशजितभर्तृयतित्वजातवैधव्यसंभवशुचा भुवमस्पृशन्त्याः । अन्तर्धिमेक्ष्य मुदितोऽजनि मण्डनोऽपि तत्साधु वीक्ष्य मुमुदे यतिशेखरश्च ॥ मण्डनमिश्रोऽप्यथ विधिपूर्व दत्वा वित्तं यागे सर्वम् । आत्मारोपितशोचिष्केशो भेजे शङ्करमस्तमिताशः ॥ ७४ संन्यासगृह्यविधिना सकलानि कर्माण्यवाय शङ्करगुरुर्विदुषोऽस्य कुर्वन् । कर्णे जगौ किमपि तत्त्वमसीति वाक्यं कर्णेजपं.निखिलसंमृतिदुःखहानेः।। संन्यासपूर्व विधिवद्धिभिक्षे पश्चादुपादिक्षदयाऽऽत्मतत्त्वम् । आचार्यवर्यः श्रुतिमस्तकस्थं तदादिवाक्यं पुनरावभाषे । ७६ त्वं नासि देहो घटवद्धयनात्मा रूपादिमत्त्वादिह जातिमत्त्वात् । ममेति भेदपथनादभेदसंप्रत्ययं विद्धि विपर्ययोत्थम् ।। लोप्यो हि लोप्यव्यतिरिक्तलोपको दृष्टो घटादिः खलु तादृशी तनुः । दृश्यत्वहेतोर्व्यतिरेकसाधने त्वत्तः शरीरं कथमात्मतागतिः ॥ नापीन्द्रियाणि खलु तानि च साधनानि दात्रादिवत्कथममीषु तवाऽऽत्मभावः । चक्षुर्मदीयमिति भेदगतेरमीषां खमादिभावविरहाच्च घटादिसाम्यम् ॥ यद्यात्मतेषां समुदायगा स्यादेकव्ययेनापि भवेन तद्धीः । प्रत्येकमात्मत्वमुदीर्यते चेन्नश्येच्छरीरं बहुनायकत्वात् ।। आत्मत्वमन्यतमगं यदि चक्षुरादेश्चक्षुर्विनाशसमये स्मरणं न हि स्यात् । एकाश्रयत्वनियमात्स्मरणानुभूत्योदृष्टश्रुतार्थविषयावगतिश्च न स्यात् ।। मनोऽपि नाऽऽत्मा करणत्वहेतोर्मनो मदीयं गतमन्यतोऽभूत् । इति प्रतीतेर्व्यभिचारितायाः सुप्तौ च तच्चिन्मनसोविविक्तता ॥ ८२ अनयैव दिशा निराकृता न च बुद्धरपि चाऽऽत्मता स्फुटम् । अपि भेदगतेरनन्वयाकरणादाविव बुद्धिमुज्झ भोः ।। ८३ ७९ सर्गः१०] 111 राजदेहप्रवेशादिकथनम नाहंकृतिश्चरमधातुपदप्रयोगात् प्राणा मदीया इति लोकवादात् । प्राणोऽपि नाऽऽत्मा भवितुं प्रगल्भः सर्वोपसंहारिणि सन् सुषुप्ते ॥ ८४ एवं शरीराद्यविविक्त आत्मा त्वंशब्दवाच्योऽभिहितोऽत्र वाक्ये । तदोदितं ब्रह्म जगन्निदानं तथा तथैक्यं पदयुग्मबोध्यम् ।। कथं तदैक्यं पतिपादयेद्वचः सर्वज्ञसंमूढपदाभिषिक्तयोः । न ह्येकता संतमसप्रकाशयोः संदृष्टपूर्वा न च दृश्यतेऽधुना ॥ ८६ सत्यं विरोधगतिरस्ति तु वाच्यगेयं सोऽयं पुमानितिवदत्र विरोधहानेः । आदाय वाच्यमविरोधि पदद्वयं तल्लक्ष्यैक्यबोधनपरं ननु को विरोधः ।। जहीहि देहादिगतामहंधियं चिराजितां कर्मशटैः सुदुस्त्यजाम् । विवेकबुद्धया परमेव सन्ततं ध्यायाऽऽत्मभावेन यतो विमुक्तता ॥ ८८ साधारणे वपुषि काकशृगालवहिपात्रादिकस्य ममतां त्यज दुःखहेतुम् । तद्वज्जहीहि बहिर्थगतां च विद्वंश्चित्तं बधान परमात्मनि निर्विशङ्कम् ।। तीरात्तीरं संचरन् दीर्घमत्स्यस्तीराद्भिन्नो लिप्यते नापि तेन । एवं देही संचरञ्जायदादौ तस्माद्भिन्नो नापि तद्धर्मको वा ॥ जाग्रत्स्वप्नसुषुप्तिलक्षणमदोऽवस्थात्रयं चित्तनौ त्वय्येवानुगते मिथो व्यभिचरद्धीसंज्ञमज्ञानतः । क्लप्तं रज्ज्विदमंशके वसुमतीच्छिद्राहिदण्डादिवत् तह्मासि तुरीयमुज्झितभयं मा त्वं पुरेव भ्रमीः ॥ ९१ प्रत्यक्तमं परपदं विदुषोऽन्तिकस्थं दूरं तदेव परिमूढमतेर्जनस्य । अन्तर्बहिश्च चितिरस्ति न वेति कश्चि- चिन्वन् बहिर्बहिरहो महिमाऽऽत्मशक्तेः ।। ९२ यथा प्रपायां बहवो मिलन्ते क्षणे द्वितीये बत भिन्नमार्गाः । प्रयान्ति तद्वबहुनामभाजो गृहे भवन्त्यत्र न कश्चिदन्ते ॥ सुखाय यद्यत् क्रियते दिवानिशं सुखं न किंचिदहुदुःखमेव तत् । विना न हेतुं सुखजन्म दृश्यते हेतुश्च हेत्वन्तरसन्निधौ भवेत् ॥ ९४ ९ 112 श्रीमच्छङ्करदिग्विजये [दशमः परिपकमतेः सकृच्छ्रुतं जनयेदात्मधियं श्रुतेर्वचः । परिमन्दमतेः शनैः शनैर्गुरुपादाब्जनिषेवणादिना ॥ ९५ प्रणवाभ्यसनोक्तकर्मणोः करणेनापि गुरोनिषेवणात् । अपगच्छति मानसं मलं क्षमते तत्वमुदीरितं ततः ॥ मनोऽनुवर्तेत दिवानिशं गुरौ गुरुर्हि साक्षाच्छिव एव तत्ववित् । निजानुस्त्या परितोषितो गुरुर्विनेयवक्तं कृपया हि वीक्षते ॥ सा कल्पवल्लीव निजेष्टमर्थ फलत्यवश्यं किमकार्यमस्याः । आज्ञा गुरोस्तत्परिपालनीया सा मोदमानीय विधातुमिष्टा ॥ ९८ गुरूपदिष्टा निजदेवता चेत्कुप्येत्तदा पालयिता गुरुः स्यात् । रुष्टे गुरौ पालयिता न कश्चिद्गुरौ न तस्माज्जनयेत को पम् ॥ पुमान् पुमर्थ लभतेऽपि चोदितं भजन्निवृत्तः प्रतिषिद्धसेवनात् । विधि निषेधं च निवेदयत्यसौ गुरोरनिष्टच्युतिरिष्टसंभवः ।। आराधितं दैवतमिष्टमर्थं ददाति तस्याधिगमो गुरोः स्यात् । नो चेत्कथं वेदितुमीश्वरोऽयमतीन्द्रियं दैवतमिष्टदं नः ॥ १०१ तुष्टे गुरौ तुष्यति देवतागणो रुष्टे गुरौ रुष्यति देवतागणः । सदाऽऽत्मभावेन सदात्मदेवताः पश्यन्नसौ विश्वमयो हि देशिकः ॥ १०२ एवं पुराणगुरुणा परमात्मतत्त्वं शिष्टो गुरोश्चरणयोर्निपपात तस्य । धन्योऽस्म्यहं तव गुरो करुणाकटाक्षपातेन पातिततमा इति भाषमाणः । ततः स संप्राप्य सुरेश्वराख्यां दिगङ्गनाभिः क्रियमाणसख्याम् । सच्छिष्यतां भाष्यकृतश्च मुख्यामवाप तुच्छीकृतधातृसौख्याम् ।। १०४ निखिलनिगमचूडाचिन्तया हन्त यावत् स्वमनवधिकसौख्यं निर्विशनिर्विशङ्कम् । बहुतिथमभितोऽसौ नर्मदां नर्मदां तां मगधभुवि निवासं निर्ममे निर्ममेन्द्रः ।। १०५ सर्गः १०] 113 राजदेहप्रवेशादिकथनम् इति वशीकृतमण्डनपण्डितः प्रणतसत्करणत्रयदण्डितः । सकलसद्गुणमण्डलपण्डितः स निरगात् कृतदुर्मत खण्डितः ॥ १०६ कुसुमितविविधपलाशभ्रमदलिकुलगीतमधुरस्वनम् । पश्यन् विपिनमयासीदाशां कीनाशपालितामेषः ।। १०७ तत्र महाराष्ट्रखे देशे ग्रन्थान् प्रचारयन् प्राज्ञतमः । शमितपतान्तरमानः शनकैः सनकोपमोऽगमच्छीशैलम् ॥ १०८ प्रफुल्लमल्लिकावनप्रसङ्गसङ्गतामितमकाण्डगन्धबन्धुरपवातधूतपादपम् । सदामदद्विपाधिपमहारशुरकेसरिव्रजं भुजंगभूषणप्रियं स्वयंभुकौशलम् ॥ कलिकल्मषभङ्गायां सोऽनेराराच्चलत्तरङ्गायाम् । अधरीकृततुङ्गायां सस्तौ पातालगामिगङ्गायाम् ॥ ११० नमन्मोहभङ्गं नभोलेहिशृङ्गं त्रुटत्पापसङ्गं रटत्पक्षभृङ्गम् । समाश्लिष्टगङ्गं प्रहृष्टान्तरङ्गं तमारुह्य तुझं ददर्शेशलिङ्गम् ।। प्रणमद्भवबीजभर्जनं प्रणिपत्यामृतमम्पदार्जनम् । प्रमुमोद स मल्लिकार्जुनं भ्रमराम्बासचिवं नतार्जुनम् ॥ ११२ तीररुहैः कृष्णायास्तीरेऽवात्सीतिरोहितोष्णायाः । आवजिततृष्णाया आचार्येन्द्रो निरस्तकाायाः ॥ ११३ तत्रातिचित्रपदमत्रभवान् पवित्रकीर्तिर्विचित्रसुचरित्रनिधिः सुधीन्द्रान् । अग्राहयत्कृतमसग्रहनिग्रहार्थमग्र्यान् समग्रसुगुणान् महदग्रयायी ॥ अध्यापयन्तम सदर्थनिरासपूर्व किन्त्वन्यतीर्थयशसं श्रुतिभाष्यजातम् । आक्षिप्य पाशुपतवैष्णववीरशैवमाहेश्वराश्च विजिता हि सुरेश्वराद्यैः ।। केचिद्विसृज्य मतमात्म्यममुष्य शिष्य- भावं गता विगतमत्सरमानदोषाः । अन्ये तु मन्युवशमेत्य जघन्यचित्ता निन्युः क्षणं निधनमस्य निरीक्षमाणाः ।। ११६ 114 श्रीमच्छङ्करदिग्विजये [एकादशः वेदान्तीकृतनीचशूद्रवचसो वेदाः स्वयं कल्पनाः पापिष्ठाः स्वमपि त्रयीपथमपि प्रायो दहन्तः खलाः । साक्षाद्ब्रह्मणि शङ्करे विदधति स्पर्षानिबद्धां मति कृष्णे पौण्डकवत्तथा न चरमां किं ते लभन्ते गतिम् ॥ ११७ वाणी काणभुजी च नैव गणिता लीना कचित्कापिली शैवं चाशिवभावमेति भजते गर्हापदं चाहतम् । दौंगै दुर्गतिमश्नुते भुवि जनः पुष्णाति को वैष्णवं निष्णातेषु यतीशमूक्तिषु कथाकेलीकृतासूक्तिषु ॥ ११८ तथागतकथा गता तदनुयायि नैयायिक वचोऽजनि न चोदितो वदति जातु तौतातितः । विदग्धति न दग्धधीविदितचापलं कापिलं विनिर्दयविनिर्दलद्विमतसङ्करे शङ्करे ॥ ११९ इति श्रीमाधवीये तत्कलाज्ञत्वमपञ्चनम् । संक्षेपशङ्करजये सर्गोऽयं दशमोऽभवत् ॥ १० ॥ आदितः श्लोकाः 1148. अथैकादशः सर्गः ॥ ११ ॥ उग्रभैरववधः ॥ तत्रैकदाच्छादितनैजदोष: पौलस्त्यवत्कल्पितसाधुवेषः । निर्मानमायं स्थितकार्यशेषः कापालिकः कश्चिदनल्पदोषः ।। असावपश्यन्मदनाद्यवश्यं वश्येन्द्रियाश्चमुनिभिर्विमृग्यम् । आदिश्य भाष्यं सपदि प्रशस्यमासीनमाश्रित्य मुनि रहस्यम् ॥ दृष्दैव हृष्टः स चिरादभीष्टं निर्धार्य संसिद्धमिव स्वमिष्टम् । महद्विशिष्टं निजलाभतुष्टं विस्पष्टमाचष्ट च कृत्यशिष्टम् ॥ गुणांस्तवाकर्ण्य मुनेऽनवद्यान्साझ्यसोशील्यदयालुताद्यान् । द्रष्टुं समुत्कण्ठितचित्तवृत्तिर्भवन्तमागां विदितप्रवृत्तिः ॥ २ ३ सर्गः११] 115 ५ ur ७ ८ उग्रभैरववधः त्वमेक एवात्र निरस्तमोहः पराकृतद्वैतिवचःसमूहः । आभासि दूरीकृतदेहमानः शुद्धाद्वये योजितसर्वमानः ॥ परोपकृत्यै प्रगृहीतमूर्तिरमर्त्यलोकेम्वपि गीतकीतिः । कटाक्षलेशादितसज्जनातिः सदुक्तिसम्पादितविश्वपूर्तिः ।। गुणाकरत्वाद्भुवनैकमान्यः समस्तवित्वादभिमानशून्यः । विजित्वरत्वादलहस्तितान्यः स्वात्मप्रदत्वाच महावदान्यः ॥ अशेषकल्याणगुणालयेषु परावरज्ञेषु भवादृशेषु । कार्यार्थिनः काप्यनवाप्य कामं न यान्ति दुष्पापमपि प्रकामम् ॥ तस्मान्महत्कार्यमहं प्रपद्य निर्वर्तितं सर्वविदा त्वयाऽद्य । कपालिनं प्रीणयितुं यतिष्ये कृतार्थमात्मानमतः करिष्ये ॥ अनेन देहेन सहैव गन्तुं कैलासमीशेन समं च रन्तुम् । अतोषयं तीव्रतपोभिरुग्रं सुदुष्करैरब्दशतं समग्रम् ॥ तुष्टोऽब्रवीन्मां गिरिशः पुमर्थमभीप्सितं प्राप्स्यसि मत्प्रियार्थम् । जुहोषि चेत्सर्वविदः शिरा वा हुताशने भूमिपतेः शिरो वा ॥ एतावदुत्त्वाऽन्तरधान्महे शस्तदादि तत्संग्रहणे धृताशः । चराम्यथापि क्षितिपो न लब्धा न सर्ववित्तत्र मयोपलब्धः ॥ दिष्टयाऽद्य लोकस्य हिते चरन्तं सर्वज्ञमद्राक्षमहं भवन्तम् । इतःपरं सेत्स्यति मेऽनुवन्धः संदर्शनान्तो हि जनस्य बन्धः ॥ मृर्धाभिषिक्तस्य शिर:कपालं मुनीशितुर्वा मम सिद्धिहेतुः । आचं पुनर्मे मनसाऽप्यलभ्यं ततःपरं तत्रभवान् प्रमाणम् ॥ शिरःप्रदानोऽद्भुतकीर्तिलाभस्तवापि लोके मम सिद्धिलाभः । आलोच्य देहस्य च नश्वरत्वं यद्रोचते सत्तम तत्कुरु त्वम् ।। तद्याचितुं न क्षमते मनो मे को वेष्टदायि स्वशरीरमुज्झतु । भवान्विरक्तो न शरीरमानी परोपकाराय धृतात्मदेहः ।। १० १२ १३ १४ १५ १६ 116 श्रीमच्छङ्करदिग्विजये [एकादशः जनाः परक्लेशकथानभिज्ञा नक्तं दिवा स्वार्थकृतात्मचित्ताः । रिपुं निहन्तुं कुलिशाय वज्री दाधीचमादात्किल वाञ्छितास्थि ।। १७ दधीचिमुख्याः क्षणिकं शरीरं त्यक्त्वा परार्थे स्म यशःशरीरम् । प्राप्य स्थिरं सर्वगतं जगन्ति गुणैरनयः किल रञ्जयन्ति ।। १८ वपुर्धरन्ते परतुष्टिहेतोः केचित्पशान्ता दयया परीताः । अस्मादृशाः केचन सन्ति लोके स्वार्थंकनिष्ठा दयया विहीनाः ॥ १९ परोपकारं न विनाऽस्ति किंचित्पयोजनं ते विधुतैषणस्य । अस्मादृशाः कामवशास्तु युक्तायुक्ते विजानन्ति न हन्त योगिन् ॥ २० जीमूतवाहो निजजीवदायी दधीचिरप्यस्थि मुदा ददानः । आचन्द्रतारार्कमपायशुन्यं प्राप्तौ यशः कर्णपथं गतौ हि ॥ २१ यदप्यदेयं ननु देहवद्भिर्मयार्थितं गर्हितमेव सद्भिः । तथाऽपि सर्वत्र विरागवद्भिः किमस्त्यदेयं परमार्थविद्भिः ॥ २२ अखण्डमूर्धन्यकपालमाहुः संसिद्धिदं साधकपुङ्गवेभ्यः । विना भवन्तं बहवो न सन्ति तद्वत्पुमांसो भगवन् पृथिव्याम् ॥ २३ प्रयच्छ शीर्ष भगवन्नमः स्तादितीरयित्वा पतितं पुरस्तात् । तमब्रवीद्वीक्ष्य सुधीरधस्तात्कृपालुरावृत्तमनाः समस्तात् ॥ नैवाभ्यसूयामि वचस्त्वदीयं प्रीत्या प्रयच्छामि शिरोऽस्मदीयम् । को वाऽर्थिसात्माज्ञतमो नृकायं जानन कुर्यादिहि बहपायम् ।। पतत्यवश्यं हि विकृष्याणं कालेन यत्नादपि रक्ष्यमाणम् । वामुना सिध्यति चेत्परार्थः स एव मर्त्यस्य परःपुमर्थः ॥ २६ वर्ते विविक्तेऽधिसमाधि सिद्धिविनिमयः समायाहि करोमि ते मतम् । नाहं प्रकाशं वितरीतुमुत्सहे शिरःकपालं विजनं समाश्रय ॥ शिष्या विदन्ति यदि चिन्तितकार्यमेतत् योगिन् मदेवशरणा विहति विदध्युः । को वा सहेत वपुरेतदपोहितुं स्वं को वा क्षमेत निजनाथशरीरमोक्षम् ॥ २८ २७ 117 सर्गः .१] उमेरववधः तौ संविदं वितनुतामिति संपहृष्टौ योगी जगाम मुदितो निलयं मनस्वी । श्रीशङ्करोऽपि निजधामनि जोषमास पाचे न किंचिदपि भावमसौ मनोगम् ॥ २९ शूली त्रिपुण्ड्री पुरतोऽवलोकी कंकालमालाकृतगात्रभूषः । संरक्तनेत्रो मदघूर्णिताक्षो योगी ययौ देशिकवासभूमिम् ।। ३० शिष्येषु शिष्टेषु विदग्गेषु स्ननादिकार्याय विविक्तभाजि । श्रीदेशिकेन्द्रे तु सनन्दनाख्यभीत्या स्वदेह व्यवधाय गूढे ॥ ३१ तं भैरवाकारमुदीक्ष्य देशिकस्त्यक्तुं शरीरं व्यधित स्वयं मनः । आत्मानमात्मन्युदयुत यो जपन समाहितात्मा करणानि संहरन् ॥३२ तं भैरवोऽलोकत लोकपूज्यं स्वसौख्यतुच्छीकृतदेवराज्यम् । योगीशमासादितनिर्विकल्पं सनत्सुजातप्रभृतेरनल्पम् ॥ ३३ जत्रुपदेशे चिबुकं निधाय व्यात्ताम्यमुत्तानकरौ निधाय । जानुपरि प्रेक्षितनासिकान्तं विलोचने सामि निमील्य कान्तम् ॥ ३४ आसीनमुच्चीकृतपूर्वगात्रं सिद्धासनं शेषितबोधमात्रम् । चिन्मात्रविन्यस्तहषीकवर्ग समाधिविस्मारितविश्वसर्गम् ॥ ३५ विलोक्य तं हन्तुमपास्तशङ्कः स्वबुद्धिपूर्वार्जिततीव्रपङ्कः । प्रापोद्यतासिः सविधं स यावद्विज्ञातवान पद्मपदोऽपि तावत् ।। ३६ त्रिशूलमुद्य निहन्तुकामं गुरुं यतात्मा समुदक्षतान्तः । स्थितश्चुकोप ज्वलिताग्निकल्पः स पद्मपादः स्वगुरोहितैषी ।। ३७ स्मरनथैष स्मरदार्तिहारि प्रहादवश्यं परमं महस्तत् । स मन्त्रसिद्धो नृहरेनृसिंहो भूत्वा ददर्शोग्रदुरीहचेष्टाम् ॥ स तत्क्षणक्षुब्धनिजस्वभावः प्रद्धरुड् विस्मृतमर्त्यभावः । आविष्कृतात्युग्रनृसिंहभावः समुत्पपातातुलितमभावः ।। ३९ 118 ४० ४२ श्रीमच्छङ्करदिग्विजये [एकादशः सटाच्छटास्फोटितमेघसंघस्तीवारवत्रासितभूतसंघः । संवेगसंमृञ्छितलोकसंघः किमेतदित्याकुलदेवसंघः ॥ क्षुभ्यत्समुद्रं समुदृढरौद्रं रटन्निशाटं स्फुटदद्रिकूटम् । ज्वलदिशान्तं प्रचलद्धरान्तं प्रभ्रश्यदक्षं दलदन्तरिक्षम् ।। ४१ जवादभिद्रुत्य शितस्वरूग्रैर्दैत्येश्वरस्येव पुरा नखागः । क्षिपत्तिशुलस्य स तस्य वक्षो ददार विक्षिप्तसुरारिपक्षः ॥ तत्तागत्युग्रनखायुधाग्यो दंष्ट्रान्तरप्रोतदुरीहदेहः । निन्ये तदानीं नृहरिविदीर्णापट्टनाट्टालिकमट्टहासम् ॥ आकर्णयंस्तं निनदं बहिर्गता उपागमन्नाकुलचित्तवृत्तयः । व्यलोकयन् भैरवमग्रतो मृतं ततो विमुक्तं च गुरुं सुखोषितम् ॥ ४४ प्रहदश्यो भगवान् कथं वा प्रसादितोऽयं नृहरिस्त्वयेति । सविस्मयैः स्निग्धजनैः स पृष्टः सनन्दनः सस्मितमित्यवादीत् ॥ ४५ पुरा किलाई बलभूधराग्रे पुण्यं समाश्रित्य किमप्यरण्यम् । भक्तैकवश्यं भगवन्तमेनं ध्यायन्ननेकान् दिवसाननैषम् ॥ किमर्थमेको गिरिगह्वरेऽस्मिन् वाचंयम त्वं वससीति शश्वत् । केनापि पृष्टोऽत्र किरातयूना प्रत्युत्तरं प्रागहमित्यवोचम् ॥ आकण्ठमत्यद्भुतमर्त्यमूर्तिः कण्ठीरवात्मा परतश्च कश्चित् । मृगो वनेऽस्मिन् मृगयो वसन्मे भवत्यहो नाक्षिपथे कदापि ॥ इतीग्यत्येव मयि क्षणेन वनेचरोऽयं प्रविशन बनान्तम् । निबध्य गाढं नृहरि लताभिः पुण्यैरगण्यैः पुरतो न्यधान्मे ॥ महर्षिभिस्त्वं मनसाप्यगम्यो वनेचरस्यैव कथं वशेऽभूः । इत्यद्भुताविष्टहदा मयाऽसौ विज्ञाप्यमानो विभुरित्यवादीत् ॥ ५० एकाग्रचित्तेन यथाऽमुनाहं ध्यातस्तथा धातमुखैन पूर्वैः । नोपालभेथास्त्वमितीरयन्मे कृत्वा प्रसादं कृतवास्तिरोधिम् ॥ ५१ ४७ ४८ 119 ५६. सर्गः ११] उग्रभैरववधः आकर्ण्य तां पद्मपदस्य वाणीमानन्दमग्नैरखिलैरभावि । जग चोच्चैर्जगदण्डमाण्डं भून्ना स्वधाम्ना दलयन् नृसिंहः ॥ ५२ ततस्तदा टचलसमाधिः स्वात्मपबोधोन्मथितत्र्युपाधिः । उन्मील्य नेत्रे विकरालवक्तं व्यलोकयन्मानवपञ्चवक्तम् ॥ ५३ चन्द्रांशुसोदर्यसटाजटालं तार्तीयनेत्राब्जकनन्निटालम् । सहोद्यदुष्णांशुसहस्रभासं विध्यण्ड विस्फोटकूदट्टहासम् ।। नखाग्रनिर्भिन्नकपालिवक्षःस्थलोच्चलच्छोणितपङ्किलाङ्कम् । श्रीवत्सवत्सं गलवैजयन्तीश्रीरत्न संस्पर्धितदन्त्रमालम् ॥ ५५ सुरासुरत्रासकरातिघोरखाकारसारव्यथिताण्डकोशम् । दंष्टकरालानननिर्यदग्निज्वालालिसंलीढनभोवकाशम् ॥ खरोमकूपोद्तविस्फुलिङ्गपचारसंदीपितसर्वलोकम् । जम्भद्विडुजम्भितशम्भुदम्भसंस्तम्भनारम्भकदन्तपेषम् ॥ मा भूदकाण्डे प्रलयो महात्मन् कोपं नियच्छेति गृणद्भिरारात् । ससाध्वसैः प्राञ्जलिभिः सगात्रकम्पैर्विरिञ्च्यादिभिरर्थ्यमानम् ॥ ५८ विलोक्य विद्युच्चपलोपजिलु यतिक्षितीशः पुरतो नृसिंहम् । अभीतिरैडिष्ट तदोपकण्ठं स्थितोऽपि हर्षाश्रुपिनद्धकण्ठः ।। नरहरे हर कोपमनर्थदं तब रिपुनिहतो भुवि वर्तते । कुरु कृपां मयि देव सनातनी जगदिदं भयमेति भवदशा ।। ६० तव वपुःकिल सत्वमुदाहृतं तत्र हि कोपनमण्वपि नोचितम् । तदिह शान्तिमवामुहि शर्मणे हरगुणं हरिराश्रयसे कथम् ॥ सकलभीतिषु दैवतम स्मरन् सकलभीतिमपोह्य सुखी पुमान् । भवति किं प्रवदामि तवेक्षणे परमदुर्लभमेव तवेक्षणम् ॥ ६२ स्मृतवतस्तव पादसरोरुहं मृतवतः पुरुषस्य विमुक्तता । तव कराभिहतोऽमृत भैरवो न हि स एष पुनर्भवमेष्यति ॥ ६३ 120 श्रीमच्छङ्करदिग्विजये [एकादशः दितिजसूनुममुं व्यसनादित सकृदरक्षदुदारगुणो भवान् । सकलगत्वमुदीरितमस्फुटं प्रकटमेव विधित्सुरभूत्पुरः ।। ६४ सृजसि विश्वमिदं रजसाऽऽवृतः स्थितिविधौ श्रितसत्व उदायुधः । अवसि तद्धरणे तमसाऽऽतो हरसि देव तदा हरसंज्ञितः ॥ तव जनिर्न गुणास्तव तत्वतो जगदनुग्रहणाय भवादिकम् । तव पदं खलु वाङ्मनसातिगं श्रुतिवचचकितं तव बोधकम् ॥ नरहरे तव नामपरिश्रवात प्रमथगुह्यकदुष्टपिशाचकाः । अपसरन्ति विभोऽसुरनायका न हि पुरःस्थितये प्रभवन्त्यमी ॥ ६७ त्वमेव सर्गस्थितिहेतुरस्य त्वमेव नेता नृहरेऽखिलस्य । त्वमेव चिन्त्यो हृदयेऽनवद्ये त्वामेव चिन्मात्रमहं प्रपद्ये ॥ इतो वराको हि रुषं नियच्छ विश्वस्य भूमन्नभयं प्रयच्छ । पते हि देवाः शममर्थयन्ते निरीक्ष्य भीताः प्रतिखेदयन्ते ।। ६९ द्रष्टुं न शक्या हि तवानुकम्पाहीनैजननिहतकोटिशंपाम् । मृति तदात्मन्नुपसंहरेमां पाहि त्रीलोकी समतीतसीमाम् ॥ कल्पान्तोज्जम्भमाणपमयपरिवृहप्रौढलालाटवह्नि- ज्ज्वालालीढत्रिलोकीजनितचटचटाध्वानधिक्कारधुर्यः । मध्ये ब्रह्माण्डमाण्डोदरकुहरमनैकान्त्यदुःस्थामवस्था स्त्यानस्त्यानो ममायं दलयतु दुरितं श्रीनृसिंहाट्टहासः ॥ ७१ मध्ये व्यानद्धवातंधयवलनाधानमन्थानभूभृ- न्मन्थेनोत्क्षिप्तदुग्धोदधिलहरिमिथःस्फालनाचारघोरः । कल्पान्तोनिद्ररुद्रोच्चतरडमरुकवानबद्धाभ्यसूयो घोषोऽयं कर्णघोरः क्षपयतु नृहरे रंहसां संहतिं नः ॥ क्षुन्दानो मंक्षु कल्पावधिसमयसमुज्जम्भदम्भोदगुम्भ- स्फूर्नभोलिसंघस्फुरदुरुरटिताखर्वगर्वपरोहान् । क्रीडाकोडेन्द्रघोणासरभसविसरद्वोरघूोरवश्री- गम्भीरस्तेऽट्टहासो हर हर हरे रहंसाऽहांसि हन्यात् ॥ ७३ ७२ 1.21 सर्गः १२] हस्तामलकादीनां शिष्यत्वेन ग्रहणम् एवं विशिष्टनुतिभिर्नेहरौ प्रशान्ते स्खं भावमेत्य मुनिरेष बभूव शान्तः । स्वप्मानुभूतमिव शान्तमनाः स्मरंस्तमात्मानमात्मगुरवे प्रणतिं चकार ।।७४ चारित्र्यमेतत्प्रयतस्त्रिसन्ध्यं भक्त्या पठेयः शृणुयादवन्ध्यम् । तीर्थोऽपमृत्युं प्रतिपय भक्तिं स भुक्तभोगः समुपैति मुक्तिम् ॥ इति श्रीमाधवीये तदुप्रभैरवनिर्जयः । संक्षेपशङ्करजये सर्ग एकादशोऽभवत् ॥ ११ ॥ आदितः श्लोकाः 1223 M अथ द्वादशः सर्गः ॥ १२ ॥ हस्तामलकादीनां शिष्यत्वेन ग्रहणम् ॥ अथैकदाऽसौ यतिसार्वभौमस्तीर्थानि सर्वाणि चरन् सतीयः । घोरात् कले!पितधर्ममागाद्गोकर्णमभ्यर्णचलार्णवौघम् ।। विरिश्चिनाम्भोरुहनाभवन्धं प्रपञ्चनाख्याद्भुतसूत्रधारम् । तुष्टाव वामार्धवधूटिपस्तदुष्टावलेपं प्रणमन् महेशम् ॥ वपुः स्मरामि कचन स्मरारेबलाहकाद्वैतवदावदधि । सौदामिनीसाधितसम्प्रदायसमर्थनादेशिकमन्यतश्च ॥ वामाङसीमाङ्करदंशुखण्याचश्चन्मृगाञ्चत्तरदक्षपाणि । सव्यान्यशोभाकलमायभक्षसाकांक्षकीरान्यकरं महोऽस्मि ॥ महीध्रकन्यागलसंगतोऽप माङ्गल्यतन्तुः किल हालहालम् । यत्कण्ठदेशेऽकृत कुण्ठशक्तिभैक्यानुभावादहमस्मि भूमा । गुणत्त्यातीतविभाव्यमित्थं गोकर्णनाथं वचताऽर्चयित्वा । तिस्रः स रात्री त्रिजगत्पवित्रे क्षेत्रे मुदैष क्षिपति स्म कालम् ॥ वैकुण्ठकैलासविवर्तभूतं हरन्नताघ हरिशङ्कराख्यम् । दिव्यस्थलं देशिकसार्वभौमस्तीर्थप्रवासी नचिरादयासीत् ॥ ३ ४ ६ 122 on श्रीमच्छङ्करदिग्विजये [द्वादशः भ्रमापनोदाय भिदावदानामद्वैतमुद्रामिह दर्शयन्तौं । आराध्य देवौ हरिशङ्करौ स द्वयर्थाभिरित्यर्चयति स्म वाग्भिः ॥ ८ वन्यं महासोमकलाविलासं गामादरेणाऽऽकलयन्ननादिम् । 'मैनं महः किंचन दिव्यमङ्गीकुर्वन् विभुर्मे कुशलानि कुर्यात् ॥ यो मन्दरागं दधदादितेयान् सुधाभुजः स्माऽऽतनुते विषादी । खामद्रिलोलोचितचारुमूर्ते कृपामपारां स भवान् विधत्ताम् ।। १० उल्लासयन्यो महिमानमुच्चैः स्फुरद्वराहीशकलेवरोऽभूत् । तस्मै विदध्मः करयोरजस्रं सायन्तनाम्भोरुहसामरस्यम् ॥ ११ समावहन केसरितां वरां यः सुरद्विषत्कुञ्जरमाजघान । प्रहलादमुल्लासितमादधानं पञ्चाननं तं प्रणुमः पुराणम् ।। १२ उदैत्तु बल्याहरणाभिलाषो यो वामनं हार्यजिनं वसानः । तपांसि कान्तारहितो व्यतानीदाद्योऽवतादाश्रमिणामयं नः ।। १३ येनाधिकोद्यत्तरवारिणाऽऽशु जितोऽर्जुनः संगररङ्गभूमौ । नक्षत्रनाथस्फुरितेन तेन नाथेन केनापि वयं सनाथाः ॥ १४ विलासिनाऽलीकभवेन धाम्ना कामं द्विषन्तं स 'दशास्यमस्यन् । देवो धरापत्यकुचोष्मसाक्षी देयादमन्दात्मसुखानुभूतिम् ॥ उत्तालकेतुः स्थिरधर्ममूर्तिहालाहलस्त्रीकरणोयकण्ठः । स रोहिणीशानिशचुम्ब्यमाननिजोत्तमाङ्गोऽवतु कोऽपि भूमा । १६ विनायकेनाऽऽकलिताहितापं निषेदुषोत्सङ्गभुवि प्रहृष्यन् । यः "पूतनामोहकचित्तत्तिरव्यादसौ कोऽपि कलापभूषः । १७ पाठीनकेतोर्जयिने प्रतीतसर्वज्ञभावाय दयैकसीम्ने । प्रायः क्रतुद्वेषकृतादराय बोधकधाम्ने स्पृहयामि भूम्ने । १८ 1 मेनाया इदम, मीनस्येदम् । पक्षे, अविषादीति पदच्छेदः । के इति छेदः। 4चारिशब्दो बालकवाची। दशेन्द्रियद्वारकं कामम् । 'क्रियाविशेषणम् । 'पूतनामा चासावूक चित्तवृत्तिश्च ।

सर्गः १२] 123 १९ २० २१ २२ २३ हस्तामलंकादीनां शिष्यत्वेन ग्रहणम व्यतीत्य चेतोविषयं जनानां विद्योतमानाय तमोनिहन्त्रे । भूम्ने सदावासकृताशयाय भूयांसि मे सन्तुतमां नमांसि ॥ 'वृषाकपायीवरयोः सपर्यो वाचाऽतिमोचारसयेति तन्वन् । मुनिप्रवीरो मुदितात्मकामो मूकाम्बिकायाः सदनं प्रतस्थे ।। अङ्के निधाय व्यसुमात्मजातं महाकुलौ हन्त मुहुः प्ररुय । तदेकपुत्रौ द्विजदम्पती स दृष्ट्वा दयाधीनतया शुशोच ॥ अपारमञ्चत्यथ शोकमस्मिन्नभूयतोच्चैरशरीवा वा । जायेत संरक्षितुमक्षमस्य जनस्य दुःखाय परं दयेति ॥ आकर्ण्य वाणीमशरीरिणी तामसाविति व्याहरति स्म विज्ञः । जगत्तयीरक्षणदक्षिणस्य सत्यं तवैकस्य तु शोभते सा ।। इतीरयत्येव यतौ द्विजातेः सुतः सुखं सुप्त इबोदतिष्ठत् । समीपगैः सर्वजनीनमस्य चारित्र्यमालोक्य विसिष्मिये च ॥ रम्योपशल्यं कृतमालसालरसालहितालतमालशालैः । सिद्धिस्थलं साधकसम्पदां तन्मूकाम्बिकायाः सदनं जगाहे ॥ उच्चावचानन्दजबाष्पमुच्चैरुद्गीर्णरोमाञ्चमुदारभक्तिः । अम्बामिहापारकृपावलम्बां संभावयन्नस्तुत निस्तुलं सः ॥ पारेपरार्धं पदपद्मभाःसु षष्टयुत्तरं ते त्रिशतं तु भासः । आविश्य वह्नयर्कसुधामरीचीनालोकवन्त्यादधते जगन्ति ॥ अन्तश्चतुःषष्टयुपचारभेदैरन्तेवसत्काण्डपटपदानैः । आवहनाघेस्तव देवि नित्यमाराधनामादधते महान्तः ।। अम्बोपचारेष्वधिसिन्धुषष्टि शुद्धाज्ञयोः शुद्धिदमेकमेकम् । सहस्रपत्रे द्वितये च साधु तन्वन्ति धन्यास्तव तोषहेतोः ॥ आराधनं ते बहिरेव केचिदन्तर्बहिश्चैकतमेऽन्तरेव । अन्ये परे त्वम्ब कदापि कुयु व त्तदैक्यानुभवैकनिष्ठाः ॥ 1'वषाकपायी श्रीगौर्योः' इति निघण्टुः । २४ २५ २६ २७ २८ २९ ३० 124 ४ श्रीमच्छङ्करदिग्विजये [द्वादशः अष्टोत्तरत्रिंशति याः कलास्ताः स्वाः कलाः पञ्च निवृत्तिमुख्याः । तासामुपर्यम्ब तवाङ्घ्रिपद्म विद्योतमानं विबुधा भजन्ते । ३१ कालाग्निरूपेण जगन्ति दग्ध्या सुधात्मनाऽऽप्लाव्य समुत्सृजन्तीम् । ये त्वामवन्तीममृतात्मनैव ध्यायन्ति ते सृष्टिकृतो भवन्ति ॥ ३२ ये प्रत्यभिज्ञामतगारविज्ञा धन्यास्तु ते प्राविदितां गुरूक्त्या । सैवाहमस्मीति समाधियोगात् त्वां प्रत्यभिज्ञाविषयं विदध्युः ।। ३३ आधारचक्रे च तदुत्तरस्मिन्नाराधयन्त्यैहिकभोगलुब्धाः । उपासते ये मणिपूरके त्वां वासस्तु तेषां नगराद्वहिस्ते ।। अनाहते देवि भजन्ति ये त्वामन्तःस्थितिस्त्वन्नगरे तु तेषाम् । शुद्धाज्ञयोर्ये तु भजन्ति तेषां क्रमेण सामीप्यसमानभोगौ ।। ३५ सहस्रपत्रे ध्रुवमण्डलाख्ये सरोरुहे वामनुसंदधानः । चतुर्विधैक्यानुभवास्तमोहः सायुज्यमम्बाञ्चति साधकेन्द्रः ।। श्रीचक्रषट्चक्रकयोः पुरोऽथ श्रीचक्रमन्योरपि चिन्तितैक्यम् । चक्रस्य मन्त्रस्य ततस्तवैक्यं क्रमादनुध्यायति साधकेन्द्रः ॥ इति तां वचनैः प्रपूज्य भैक्षौदनमात्रेण स तुटपान कृतार्थः । बहुसाधकसंस्तुतः कियन्तं समयं तत्र निनाय शान्तचेताः ॥ ३८ श्रयति स्म ततोऽग्रहारकं श्रीवलिसंज्ञं स कदाचन स्वशिष्यैः । अनुगेहहुताग्निहोत्रदुग्धपसरत्पावनगन्धलोभनीयम् ॥ ३९ यतोऽपमृत्युबहिरेव याति भ्रान्त्वा प्रदेशं शनकैरलब्ध्वा । दृष्ट्वा द्विजातीनिजकर्मनिष्ठान दुरानिषिद्धं त्यजतोऽप्रमत्तान् । यस्मिन् सहस्रद्वितयं जनानामग्न्याहितानां श्रुतिपाठकानाम् । वसत्यवश्यं श्रुतिचोदितासु क्रियासु दक्षं प्रथितानुभावम् ।। ४१ मध्ये वसन् यस्य करोति भूषां पिनाकपाणिगिरिजासहायः । हारस्य यष्टेस्तरलो यथा वै रात्रेरिवेन्दुर्गगनाधिरूढः ॥ ४२ सर्गः १२] 125 ४४ ४७ हस्तामलकादीनां शिष्यत्वेन ग्रहणम् तत्र द्विजः कश्चन शास्त्रवेदी प्रभाकराख्यः प्रथितानुभावः । प्रवृत्तिशास्त्रैकरतः सुबुद्धिरास्ते क्रतून्मीलितकीर्तिबृन्दः ॥ ४३ गावो हिरण्यं धरणी समया सद्वान्धवा ज्ञातिजनाश्च तस्य । सन्त्येव किं तैन हि तोष एभिः पुत्रो यदस्याजनि मुग्धचेष्टः ॥ न वक्ति किंचिन शृणोति किंचित् ध्यायनिवास्ते किल मन्दचेष्टः । रूपेषु मारो महसा महस्वान् मुखेन चन्द्रः क्षमया महीसमः ॥ ग्रहग्रहात् किं जडवद्विचेष्टते किं वा स्वभावादुत पूर्वकर्मणः । संचिन्तयंस्तिष्ठति तत्पिताऽनिशं समागतान् प्रष्टुमना बहुश्रुतान् ॥ ४६ शिष्यैः पशिष्यैबहुपुस्तभारैः समागतं कश्चन पूज्यपादम् । शुश्राव तं ग्राममनिन्दितात्मा निनाय सुनुं निकटं स तस्य । न शुन्यहस्तो नृपमिष्टदैवं गुरुं च यायादिति शास्त्रवित् स्वयम् । सोपायनः प्राप गुरुं व्यशिश्रणत् फलं ननामास्य च पादपङ्कजे ॥ ४८ अनीनमत्तं च तदीयपादयो डाकृतिं भस्मनिगूढवह्निवत् । स नोदतिष्ठत पतितः पदाम्बुजे प्रायः स्वजाड्यं प्रकटं विधित्सति ॥ ४९ उपात्तहस्तः शनकैरवाङ्मुखं तं देशिकेन्द्रः कृपयोदतिष्ठिपत् । उत्था पिते स्वे तनये पिताब्रवीत् वद प्रभो जाड्यममुष्य किंकृतम् ।। ५० वर्षाण्यतीयुर्भगवनमुष्य पश्चाष्ट जातस्य विनाऽवबोधम् । नाध्यैष्ट वेदानलिखच्च नार्णानचीकरं चोपनयं कथञ्चित् ।। ५१ क्रीडापरः क्रोशति बालवर्गस्तथाऽपि न क्रीडितुमेष याति । बाला: शठा मुग्धमिमं निरीक्ष्य सन्ताडयन्तेऽपि न रोषमेति ॥ ५२ भुङ्क्ते कदाचिन्न तु जातु भुङ्क्ते स्वेच्छाविहारी न करोति चोक्तम् । तथापि रुष्टेन न ताड्यतेऽयं स्वकर्मणा वर्धत एव नित्यम् ॥ ५३ इतीरयित्वोपरते च विप्रे पप्रच्छ तं शङ्करदेशिकेन्द्रः । कस्त्वं किमेवं जडवत् प्रवृत्तः स चाब्रवीद्वालवपुर्महात्मा ॥ ५४ 126 श्रीमच्छङ्करदिग्विजये [द्वादशः नाहं जडः किन्तु जडा:प्रवर्तते मत्संनिधानेन न सन्दिहे गुरो । *घडूमिषड्भावविकारवर्जितं सुरकतानं परमस्मि तत्पदम् ।। ५५ ममेव भूयादनुभूतिरेषा मुमुक्षुवर्गस्य निरूप्य विद्वन् । पद्यैः परैदशभिर्बभाषे चिदात्मतत्त्वं विधुतप्रपञ्चम् ॥ ५६ प्रकाशयन्ते परमात्मतत्वं करस्थधात्रीफलवद्यदेकम् । श्लोकास्तु हस्तामलकाः प्रसिद्धास्तत्कर्तुराख्यापि तथैव वृत्ता॥ विनोपदेशं स्वत एव जातः परात्मबोधो द्विजवयमुनोः । व्यस्मेष्ट सम्प्रेक्ष्य स देशिकेन्द्रो न्यधात्स्वहस्तं कृपयोत्तमाङ्गे ॥ ५८ सुते निवृत्ते वचनं बभाषे स देशिकेन्द्रः पितरं तदीयम् । वस्तुं न योग्यो भवता सहायं न तेऽमुनाऽर्थो जडिमास्पदेन । पुराभवाभ्यासवशेन सर्व स वेत्ति सम्यङ् न च वक्ति किंचित् । नो चेत्कथं स्वानुभवैकगर्भपद्यानि भाषेत निरक्षरास्यः ॥६० न सक्तिरस्यास्ति गृहादिगोचरा नात्मीयदेहे भ्रमतोऽस्य विद्यते । तादात्म्यताऽन्यत्र ममेति वेदनं यदा न सा स्वे किमु बाह्यवस्तुषु ॥ ६१ इतीरयित्वा भगवान् द्विजात्मजं ययौ गृहीत्वा दिशमीप्सितां पुनः । विप्रोऽप्यनुव्रज्य ययौ स्वमन्दिरं कियत्मदेशं स्थिरधीबहुश्रुतः ॥ ६२ ततः शतानन्दमहेन्द्रपूर्वैः सुपर्वबृन्दैरुपगीयमानः । पद्मांघ्रिमुख्यैः सममाप्तकामक्षोणीपतिः शृङ्गगिरिं प्रतस्थे । ६३ यत्राधुनाऽप्युत्तममृष्यशृङ्गस्तपश्चरत्यात्मभृदन्तरङ्गः । संस्पर्शमात्रेण वितीर्णभद्रा विद्योतते यत्र च तुङ्गभद्रा ।। अभ्यागतार्कल्पितकल्पशाखाः कूलंकषाधीतसमस्तशाखाः । इज्याशतैर्यत्र समुल्लसन्तः शान्तन्तराया निवसन्ति सन्तः ॥ *(1) जन्म, (2) मरणम्, (3) क्षुत्, (4) पिपासा, (5) शोकः, (6) मोहः इति षडूर्मयः। (1) जायते,(2) अस्ति, (3) वर्धते, (4) परिणमते, (5) अपक्षीयते, (6) नश्यति इति पदभावविकाराः ॥ , सर्गः १२] हस्तामलकादीनां शिष्यत्वेन ग्रहणम् 127 अध्यापयामास स भाष्यमुख्यान् ग्रन्थानिजांस्तत्र मनीषिमुख्यान । आकर्णनपाप्यमहापुमर्थानादिष्ट विद्याग्रहणे समर्थान् ॥ ६६ मन्दाक्षननं कलयनशेषं पराणुदत् प्राणितमांस्यशेषम् निरस्तजीवेश्वरयोविशेष व्याचष्ट वाचस्पतिनिर्विशेषम् ॥ ६७ प्रकल्प्य तन्त्रेन्द्रविमानकल्पं प्रासादमाविष्कृतसर्व शिल्पम् । प्रवर्तयामास स देवतायाः पूजामजाद्यैरपि पूजितायाः ॥ ६८ या शारदेत्यभिधां वहन्ती कृतां प्रतिज्ञा प्रतिपालयन्ती । अद्यापि शृङ्गेरिपुरे वसन्ती प्रद्योततेऽभीष्टवरान् दिशन्ती ॥ ६९ चित्तानुवर्ती निजधर्मचारी भूतानुकम्पी तनुवामिभूतिः । कश्चिद्विनेयोऽजनि देशिकस्य यं तोटकाचार्यमुदाहरन्ति । स्नात्वा पुरा क्षिपति कम्बलवस्त्रमुख्यैरुच्चासनं मृदु समं स ददाति नित्यम् । संलक्ष्य दन्तपरिशोधनकाष्ठमय्यं बाह्यादिकं गतवते सलिलादिकं च ॥ श्रीदेशिकाय गुरवे तनुमार्जवस्त्रं विश्राणयत्यनुदिनं विनयोपपन्नः । श्रीपादपद्मयुगमर्दनको विदश्च छायेव देशिकमसौ भृशमन्वयाद्यः ।। ७२ गुरोः समीपे न तु जातु जम्भते प्रसारयन्नो चरणौ निषीदति । नोपेक्षते वा बहु वा न भाषते न पृष्ठदर्शी पुरतोऽस्य तिष्ठति ॥ ७३ तिष्ठन् गुरौ तिष्ठति संप्रयाते गच्छन् ब्रुवाणे विनयेन शृण्वन् । अनुच्यमानोऽपि हितं विधत्ते यच्चाहितं तच्च तनोति नास्य ॥ तस्मिन् कदाचन विनेयवरे स्वशाटीप्रक्षालनाय गतवत्यपवर्तनीगाः । व्याख्यानकर्मणि तदागममीक्षमाणो भक्तेषु वत्सलतया विललम्ब एषः।। शान्तिपाठमथ कर्तुमसंख्येषूयतेषु स विनेयवरेषु । स्थीयतां गिरिरपि क्षणमात्रादेष्यतीति समुदीरयति स्म ।। ७६ तां निशम्य निगमान्तगुरूक्ति मन्दधीरनधिकार्यपि शास्त्रे । किं प्रतीक्ष्यत इति स्म ह भित्तिः पद्मपादमुनिना समदर्शि ॥ ७४ ७७ 128 ७८ श्रीमच्छङ्करदिग्विजये [द्वादशः तस्य गर्वमपहर्तुमखर्व स्वाश्रयेषु करुणातिशयाच्च । व्यादिदेश स चतुर्दश विद्याः सद्य एव मनसा गिरिनाम्ने । सोऽधिगम्य तदनुग्रहमय्यं तत्क्षणेन विदिताखिलविद्यः । ऐट्ट देशिकवरं परतत्त्वव्यञ्जकैर्ललिततोटकवृत्तः ॥ ७९ श्रीमद्देशिकपादपङ्कजयुगीमूला तदेकाश्रया तत्कारुण्यसुधावसेकसहिता तद्भक्तिसद्वल्लरी । हा तोटकवृत्तवन्तरुचिरं पद्यात्मकं सत्फलं लेभे भोक्तुमनोतिसत्तमशुकैरास्वाद्यमानं मुहुः ॥ येनौन्नत्यमवापिता कृतपदा कामं क्षमायामियं निःश्रेणिः पदमुन्नतं जिगमिषोयोम स्पृशन्ती परम् । वंश्या काप्यधरीकृतत्रिभुवनश्रेणी गुरूणां कथं सेवा तस्य यतीशितुर्न विरलं कुर्वीत गुर्वी तमः ॥ अथ वोटकत्तपद्यजातैरयमज्ञातसुपर्वमुक्तिकोऽपि । दययैव गुरोत्रयीशिरोऽर्थ स्फुटयन्नैक्षि विचक्षणः सतीः ।। अथ तस्य बुधस्य वाक्यगुम्भं निशमय्यामृतमाधुरीधुरीणम् । जलजांघ्रिमुखाः सतीर्थ्यवर्याः स्मयमन्वस्य सविस्मया बभूवुः ।। ८३ भक्त्युत्कर्षात् प्रादुरासन्यतोऽस्मात्पद्यान्येवं तोटकाख्यानि सन्ति । तस्मादाहुस्तोटकाचार्यमेनं लोके शिष्टाः शिष्टवंश्य मुनीन्द्रम् ॥ ८४ अद्यापि तत्प्रकरणं प्रथितं पृथिव्यां तत्संज्ञया लघु महार्थमनल्पनीति । शिष्टैगृहीतमतिशिष्टपदानुविद्धं वेदान्तवेद्यपरतत्वनिवेदनं यत् ॥ ८५ तोटकाह्वयमवाप्य महर्षेः ख्यातिमाप स दिशासु तदादि । पद्मपादसदृशप्रतिभावान् मुख्यशिष्यपदवीमपि लेभे ॥ ८६ पुमर्थाश्चत्वारः किमुत निगमा ऋक्मभृतयः प्रभेदा वा मुक्तेविमलतरसालोक्यमुखराः । मुखान्याहो धातुश्चिरमिति विमृश्याथ विबुधा विदुः शिष्यान् हस्तामलकमुखराञ्छङ्करगुरोः ॥ ८२ सर्गः १३] 129 ब्रह्मविद्याविचारः स्फारद्वारमाणद्विरदमदसमुल्लोलकल्लोलभृङ्गी- सङ्गीतोल्लासभङ्गीमुखरितहरितः संपदोऽपिचानः । निष्ठीव्यन्तेऽतिदुरादधिगतभगवत्पादसिद्धान्तकाष्ठा- निष्ठासम्पद्विजम्भनिरवधिसुखदस्वात्मलाभकलोभैः ॥ ८८ समिन्धानो मन्थाचलमथितसिन्धदरभव- सुधाफेनाभेनामृतरुचिनिभेनाऽऽत्मयशसा । निरुधानो दृष्ट्या परमहह पन्थानमसतां पराधृष्यैः शिष्यैररमत विशिष्यैष मुनिराट् ॥ ८९ इति श्रीमाधवीये. तद्धस्तधात्र्यादिसंश्रयः । संक्षेपशङ्करजये सर्गोऽयं द्वादशोऽभवत् ॥ १२ ॥ आदितः श्लोकाः 1312. २ अथ त्रयोदशः सर्गः ॥ १३ ॥ ब्रह्मविद्याविचारः ॥ ततः कदाचित् पणिपत्य भक्त्या सुरेश्वरार्यो गुरुमात्मदेशम् । शारीरकेऽत्यन्तगभीरमावे वृत्ति स्फुटं कर्तुमना जगाद ॥ मम यत्करणीयमस्ति ते त्वमिमं मामनुशाध्यसंशयम् । तदिदं पुरुषस्य जीवितं यदयं जोवति भक्तिमान् गुरौ ।। इतीरिते शिष्यवरेण शिष्यं प्रोचे गरीयानतिहृष्टचेताः । मत्कस्य भाष्यस्य विधेयमिष्टं निबन्धनं वार्तिकनामधेयम् ॥ द्रष्टुं सतर्क भवदीयभाष्यं गम्भीरवाक्यं न ममास्ति शक्तिः । तथाऽपि भावककटाक्षपाते यते यथाशक्ति निबन्धनाय ॥ अस्त्वेवमित्यायपदाभ्यनुज्ञामादाय मूर्ना स विनिर्जगाम । अथाम्बुजा दयिताः सतीर्थ्यास्तं चित्सुखाद्या रहसीत्थमूचुः ।। योऽयं प्रयत्नः क्रियते हिताय हिताय नायं विफलत्वनर्थम् । प्रत्येकमे गुरवे निवेद्य बोद्धा स्वयं कर्मणि तत्परश्च ॥ 20 ६ 130 ८ ९ श्रीमच्छङ्करदिग्विजये [त्रयोदशः यः सावलौकिकमपीश्वरमीश्वराणां प्रत्यादिदेश बहुयुक्तिभिरुत्तरज्ञः । कर्मैव नाकनरकादिफलं ददाति नैवं परोऽस्ति फलदो जगदीशितेति ।। प्रत्येकमस्य प्रलयं वदन्ति पुराणवाक्यानि स तस्य कर्ता । व्यासो मुनिजैमिनिरस्य शिष्यस्तत्पक्षपाती प्रलयावलम्बी ॥ गुरोश्च शिष्यस्य च पक्षभेदे कथं तयोः स्याद्गुरुशिष्यभावः । तथाऽपि यद्यस्ति स पूर्वपक्षः सिद्धान्तभावस्तु गुरुक्त एव । आ जन्मनः स खलु कर्मणि योजितात्मा कुर्वन्नवस्थित इहानिशमेव कर्म । ब्रूते परांश्च कुरुतावहिताः प्रयत्नात् स्वर्गादिकं सुखमवाप्स्यथ किं स्थाध्वे ॥ एवंविधन क्रियते निबन्धनं यदि त्वदाज्ञामवलम्ब्य भाष्यके । भष्यं परं कर्मपरं स योक्ष्यते मा च्यावि मूलादपि वृद्धिमिच्छता ॥११ संन्यासमप्येष न बुद्धिपूर्वकं व्यवत्त वादे विजितो वशो व्यधात् । तस्मान्न विश्वासपदं विभाति नो मा चीकरोऽनेन निबन्धनं गुरो ॥१२ यः शक्नुयात् कर्म विधातुमीप्सितं सोऽयं न कर्माणि विहातुमर्हति । यद्यस्ति संन्यासविधौ दुराग्रहो जात्यन्धमूकादिरमुष्य गोचरः ॥ १३ एवं सदा भट्टमतानुसारिणो ब्रुवन्त्यसौ तन्मतपक्षपातवान् । एवं स्थिते योग्यमदो विधीयतां न नोऽस्ति निवन्धनमत्र किञ्चन ॥ १४ पुरा किलास्मासु सुरापगायाः पारे परस्मिन् विचरत्सु सत्सु । आकारयामास भवानशेषान् भक्तिं परिज्ञातुमिवामदीयाम् ॥ १५ तदा तदाकर्ण्य समाकुलेषु नावर्थमस्माप्सु परिभ्रमत्सु । सनन्दनस्त्वेष वियत्तटिन्या झरीमभिपस्थित एव तूर्णम् ॥ १६ अनन्यसाधारणमस्य भावमाचार्यवर्थे भगवत्यवेक्ष्य । तुष्टा त्रिवा कनकाम्बुजानि प्रादुष्करोति स्म पदे पदे च ।। १७ पदानि तेषु प्रणिधाय युष्मत्सकाशमागायदयं महात्मा । ततोऽतितुष्टो भगवांश्चकार नाम्ना तमेनं किल पद्मपादम् ।। १८ सर्गः १३] ब्रह्मविद्याविचार: 131 स एव युष्मचरणारविन्दसेवाविनिर्धत समस्तभेदः । आजानसिद्धाऽर्हति सूत्रभाष्ये वृत्तिं विधातुं भगवन्नगाधे ।। १९ यद्वाऽयमानन्दगिरिर्यदुप्रतपःप्रसन्ना परमेष्ठिपत्नी भवत्प्रबन्धेषु यथाभिसंधि व्याख्यानसामर्थ्यवरं दिदेश ।। कर्मैकतानमतिरेष कथं गुरो ते विश्वासपात्रमभवन्ननु विश्वरूपः । भाष्यस्य पद्मपद एव करातु टीकामित्यू चिरे रहसि योगिवरं विधेयाः ।। अत्रान्तरेऽभ्यर्णगतः स तूर्ण सनन्दनो वाक्यमुदाजहार । आचार्य हस्तामलकोऽपि कल्पो भवत्कृतौ वार्तिकमेष कर्तुम् ॥ २२ यत: करस्थामलकाविशेषं जानाति सिद्धान्तमसावशेषम् । अतो ह्यमुष्मै भवतैव पूर्वमदायि हस्तामलकाभिधानम् ॥ २३ वार्णी समाकर्ण्य सनन्दनस्य सामिस्मितं भाष्यकृदाबभाषे । नैपुण्यमन्यादृशमस्य किन्तु समाहितत्वान्न बहिः प्रवृत्तिः ॥ अयं तु बाल्ये न पपाठ पित्रा नियोजितः सादरमक्षराणि । न चोपनीतोऽपि गुरोः सकाशादध्यैष्ट वेदान् परमार्थनिष्ठः ॥ २५ वालै चिक्रीड न चान्नमैच्छन्न चारुवाचं ह्यवदत् कदापि । निश्चित्य भूतोपहतं तमेनमानिन्यिरेऽस्मन्निकटं कदाचित् ॥ २६ अस्मानवेक्ष्यैव मुहुः प्रणम्य कृताञ्जलौ तिष्ठति बालकेऽस्मिन् । इमामपूर्वी प्रकृति विलोक्य विसिमिये तत्र जनः समेतः ॥ कस्त्वं शिशो कस्य सुतः कुतो वेत्यस्माभिराचष्ट किलैष पृष्टः । आत्मानमानन्दघनस्वरूपं विस्मापयन् वृत्तपयैवचोभिः तदा कदाऽप्यश्रुतिगोचरं तदाकर्ण्य वाग्वैभवमात्मजस्य । पिता प्रपद्यास्य परं प्रहर्ष सप्रश्रयां वाचमुवाच विज्ञः ।। २९ जनैर्जडत्वेन विनिश्चितोऽपि ब्रवीति योष परात्मतत्त्वम् । प्रज्ञोन्नतानामपि दुर्विभाव्यं किं वर्ण्यतेऽर्हन् भवतः प्रभावः ।। ३० ॥ २८ 132 CC श्रीमच्छङ्करदिग्विजये [त्रयोदशः आ जन्मनः संसृतिपाशमुक्तः शिष्योऽस्त्वयं विश्वगुरोस्तवैव । प्रफुल्लराजीववने विहारी कथं रमेत क्षुरके मरालः ॥ ३१ विज्ञाप्य तस्मिन्निति निर्गतेऽसौ तदाप्रभृत्यत्र वसत्युदारः । आ शैशवादात्मविलीनचेताः कथं प्रवतेत महाप्रबन्धे ॥ ३२ श्रुत्वेति पप्रच्छुरमुं विनेयाः स्वामिन् विनैव श्रवणायुपायैः । अलब्ध विज्ञानमयं कथं वा भवानिदं साधु विदांकरोतु ॥ ३३ तानब्रवीत् संयमिचक्रवर्ती कश्चित् पुरा यामुनतीरवर्ती । बभूव सिद्धः किल साधुत्तः सांसारिकेभ्यः सुतरां निवृत्तः ॥ तस्यान्तिके काचन विप्रकन्या विहायनं जातु निवेश्य बालम् । क्षणं प्रतीक्षस्व शिशुं द्विजेति स्नातुं सखीभिः सह निर्जगाम ॥ ३५ अत्रान्तरे दैववशात्स बालश्चक्रम्यमाणो निपपात नद्याम् । मृतं तमादाय शिशुं तदीयाश्चक्रन्दुरुच्चैः पुरतो महर्षेः ॥ आक्रोशमाकर्ण्य मुनिः स तेषामत्यन्तखिन्नो निजथोगभूम्ना। माविक्षदङ्गं पृथुकस्य तस्य स एष हस्तामलकस्तपस्वी ॥ ३७ तस्मादयं वेद विनोपदेशं श्रुतीरनन्ताः सकलाः स्मृतीश्च । सर्वाणि शास्त्राणि परं च तत्त्वमज्ञातमेतेन न किञ्चिदस्ति ।। तत्ताहगात्मा न बहिःप्रवृत्तौ नियोगमहत्ययमत्र वृत्तौ । स मण्डनस्त्वहति बुद्धतत्वः सरस्वतीसाक्षिकसर्व विचः ।। ३९ तत्तादृशात्युज्ज्वलकीर्तिराशिः समस्तशास्त्रार्णवपारदर्शी । आसादितो धर्महितः प्रयत्नात् स चेन्न रोचेत न दृश्यतेऽन्यः ॥ अहं बहूनामनभीष्टकार्य न कारयिष्ये हि महानिबन्धे । किंचात्र संशीतिरभून्ममातो यदेककार्ये बहवः प्रतीपाः ।। ४१ भवनिदेशाद्भगवन् सनन्दनः करिष्यते भाष्यनिबन्धमीप्सितम् । स ब्रह्मचर्यादुररीकृताश्रमो मतिप्रकर्षों विदितो हि सर्वतः ॥ ४२ my सर्गः १३] 133 ब्रह्मविद्याविचारः सनन्दनो नन्दयिता जनानां निबन्धमेकं विदधातु भाष्ये । न वार्तिकं तत्तु परप्रतिज्ञं व्यधात् प्रतिज्ञां स हि ननदीक्षः ॥ आदिश्येत्थं शिष्यसङ्घ यतीन्द्रः प्रोवाचेत्थं नून भिक्षु रहस्तम् । भाष्ये भिक्षो मा कृथा वार्तिकं त्वं नेमे शिष्याः सेहिरे दुर्विदग्धाः ॥४४ तात्पर्य ते गेहिधर्मेषु दृष्ट्वा तत्संस्कारं सांपतं शङ्कमानाः । भाष्ये कृत्वा वार्तिकं योजयेत्स भाष्यं प्राहुः स्वीयसिद्धान्तशेषम् ॥४५ नास्त्येवासावाश्रमस्तुर्य इत्थं सिद्धान्तोऽयं तावको वेदसिद्धः । द्वारि द्वाःस्थैर्वारिता भिक्षमाणा वेश्मान्तस्ते न प्रवेशं लभन्ते ॥ इत्याद्यां तां किंवदन्ती विदित्वा तेषां नाऽऽसीत्प्रत्ययस्त्वययनल्पे । स्वातन्त्र्याचं ग्रन्थमेकं महात्मन् कृत्वा मह्यं दर्शयाध्यात्मनिष्ठम् ॥ ४७ विद्वन् यद्वत्पत्ययः स्यादमीषां शिष्याणां नो ग्रन्थसंदर्शनेन । इत्युक्त्वेमं वार्तिकं सूत्रभाष्ये नाभूद्धाहेत्याप खेदं च किञ्चित् ॥ शिष्योक्तिभिः शिथिलितात्ममनोरथोऽसा- वेने स्वतन्त्रकृतिनिर्मितये न्ययुत । नैष्कर्म्यसिद्धिमचिराद्विदधत्स चेत्थं न्याय्यामविन्दत सुरेश्वरदेशिकाख्याम् ॥ ४९ नैष्कर्म्यसिद्धिमथ तां निरवद्ययुक्ति निष्कर्मतत्त्व विषयावगतिपधानाम् । आद्यन्तहृद्यपदबन्धवतीमुदारामाद्यन्तमैक्षततरां परितुष्टचेताः ।। ग्रन्थं दृष्ट्वा मोदमानो मुनीन्द्रस्तं चान्येभ्यो दर्शयामास हृद्यम् । तेषां चाऽऽसीत्पत्ययस्तदस्मिन् यद्वचान्यस्तत्वविद्यः स नेति ॥ ५१ यत्राद्यापि श्रूयते मस्करीन्द्रनिष्कर्माऽऽत्मा यत्र नैष्कर्म्यसिद्धिः । तन्नाम्नाऽयं वधे ग्रन्थवर्यस्तन्माहात्म्यात सर्वलोकादृतोऽभूत् ॥ ५२ आचार्यवाक्येण विधित्सितेऽस्मिन् विघ्नं यदन्ये व्यधुरुत्ससर्ज । शापं कृतेऽस्मिन् कृतमप्युदारैः तद्वार्तिकं न प्रसरेत् पृथिव्याम् ॥ ५३ ४८ 134 श्रीमच्छङ्करदिग्विजये [त्रयोदशः नैष्कर्म्यसिद्धयाख्यनिबन्धमेकं कृत्वाऽऽत्मपूज्याय निवेद्य चाऽऽप्त्वा । विश्वासमुक्त्वाऽथ पुनर्बभाषे स विश्वरूपो गुरुमात्मदेवम् ।। न ख्यातिहेतोन च लाभहेतो प्यर्चनायै विहितः प्रबन्धः । नोल्लङ्घनीयं वचनं गुरूणां नोल्लङ्घने स्याद्गुरुशिष्यभावः ।। ५५ पूर्व गृहीत्वेऽपि न तत्स्वभावो न बाल्यमन्वेति हि यौवनस्थम् । न यौवनं वृद्धमुपैति तद्वत् वजन् हि पूर्वस्थितिमोज्य गच्छेत् ॥ ५६ अहं गृही नात्र विचारणीयं किं तेन पूर्व मन एव हेतुः । बन्धे च मोक्षे च मनोविशुद्धो गृही भवेद्वाऽप्युत मस्करी वा ।। नास्त्येव चेदाश्रम उत्तमाऽऽदिः कथं च तत्याप्तिनिवृत्तिगामिनौ । प्रतिश्रवौ नौ कथमल्पकालौ न हि प्रतिज्ञा भगवनिरुद्धा ॥ ५८ संभिक्षमाणा न लभन्त एव चेद्गृहप्रवेशं गुरुणा प्रवेशनम् । कथं हि भिक्षा विहिता ननुत्तमा को नाम लोकस्य मुखाभिधायकः।।५९ तत्वोपदेशाद्वितितात्मतत्त्वो व्यधामहं संन्यसनं कृतात्मा । विरागभावान्न पराजितस्तु वादो हि तत्वस्य विनिर्णयाय ।। पुरा गृहस्थेन मया प्रबन्धा नैयायिकादौ विहिता महार्थाः । इतः परं मे हृदयं चिकीर्षु त्वदध्रिसेवां न विलय किञ्चित् ॥ ६१ श्रद्धामद्वैतबद्धादरबुधपरिषच्छेमुषीसंनिषण्णा- माग्दुर्वादिगर्वानलविपुलतरज्वालमालावलीढाम् । सिक्त्वा मुक्तामृतौघैरहह परिहसञ्जीवयस्यद्य सद्यः को वा सेवापटुः स्याद्रणतरणविधौ सद्गुरोर्नैव जाने । ६२ इत्युक्त्वोपरते सुरेश्वरगुरौ तेनैव शारीरके नो संभाव्यहहात्र वार्तिकमिति प्रौढं शुगग्निं शनैः । धीराग्यः शमयन्विवेकपयसा देवेश्वरेण त्रयी- भाष्ये कारयितुं स वार्तिकयुगं बद्धादरोऽभून्मुनिः ॥ भावानुकारिमृदुवाक्यनिवेशितार्थ स्वीयैः पदैः सह निराकुतपूर्वपक्षम् । सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपं दृष्ट्वाऽभिनन्य परितोषवशादवोचत् ॥

सर्गः १३] ब्रह्मविद्याविचारः 135 सत्यं यदात्थ विनयिन् मम याजुषी या शाखा तदन्तगतभाष्यनिबन्ध इष्टः। तद्वार्तिकं मम कृते भवता प्रणेयं सच्चेष्टितं परहितैकफलं प्रसिद्धम् ॥ तद्वत्त्वदीया खलु काण्वशाखा ममापि तत्रास्ति तदन्तभाष्यम् । लद्वार्तिकं चापि विधेय मिष्टं परोपकाराय सतां प्रवृत्तिः ॥ तत्रोभयत्र कुरु वार्तिकमातिहारि कीर्ति च याहि जितकार्तिकचन्द्रिकामाम् । मा शङ्कि पूर्वमिव दुःशठवाक्यरोधो मद्वाक्यमेव शरणं व्रजमा विचारीः ।। इत्थं स उक्तो भगवत्पदेन श्री विश्वरूपो विदुषां वरिष्ठः । चकार भाष्यद्वयवार्तिके द्वे ह्याज्ञा गुरूगां ह्यविचारणीया ।। आज्ञा गुरोरनु चरैन हि लड्डनीयेत्युक्त्वा तयोनिगमशेखरयोरुदारम् । निर्माय वार्तिकयुगं निजदेशिकाय निःसीमनिस्तुलनधीरुपदां चकार । सनन्दनो नाम गुरोरनुज्ञया भाष्यस्य टोकां व्याधितेरितः पराम् । यत्पूर्वभागः किल पञ्चपादिका तच्छेषगा वृत्तिरिति प्रथीयसी ॥७० व्यासपिसूत्रनिचयस्य विवेचनाय टीकाभिधं विजयडिण्डिममात्मकीर्तेः । निर्माय पद्मचरणो निरवद्ययुक्तिदृब्धं प्रबन्धमकरोद्गुरुदक्षिणां सः ॥ आलोचयन्नथ तदानुगति ग्रहाणामूचे सुरेश्वरसमाह्वयमुपहरे सः । पञ्चैव वत्स चरणाः प्रथिता इह स्युस्तत्रापि मूत्रयुगलद्वयमेव भूम्ना ॥ प्रारब्धकर्मपरिपाकवशात् पुनस्त्वं वाचस्पतित्वमधिगम्य वसुन्धरायाम् । भव्यां विधास्यसितमां मम भाष्यटीका- माभूतसंलयमधिक्षिति सा च जीयात् ।। ७३ इत्येवमुक्त्वऽथ यतीश्वरोऽसावानन्दगिर्यादिमुनीन् स हत्वा । कुरुध्वमद्वैतपरानिबन्धानित्यन्वशानिर्ममसार्वभौमः ॥ ७४ 136 श्रीमच्छङ्करदिग्विजये [चतुर्दशः ते सर्वेऽप्यनुमतिमाप्य देशिकेन्दोरानन्दाचलमुखरा महानुभावाः । आतेनुर्जगति यथास्वमात्मतत्वाम्भोजार्कान् विशदतरान् बहून्निबन्धान ।। इति श्रीमाधवीये तद्वार्तिकान्तप्रवर्तनः । संक्षेपशङ्करजये पूर्णः सर्गस्त्रयोदशः ॥ १३ ॥ आदितः श्लोकाः 1387. २ ३ अथ चतुर्दशः सर्गः ॥ १४ ॥ पद्मपादतीर्थयात्रावर्णनम् ॥ अथाब्जपात् कर्तुमनाः स तीर्थयात्रामयाचिष्ट गुरोरनुज्ञाम् । देया गुरो मे भगवन्ननुज्ञा देशान्दिदृक्षे वहुतीर्थयुक्तान् ॥ स क्षेत्रवासो निकटे गुरोर्यो वासस्तदीयाद्भिजलं च तीर्थम् । गुरूपदेशेन यदात्मदृष्टिः यदात्मदृष्टिः सैव प्रशस्ताऽखिलदेवदृष्टिः ॥ शुश्रूषमाणेन गुरोः समीपे स्थेयं न नेयं च ततोऽन्यदेशे । विशिष्य मार्गश्रमकर्शितस्य निद्राभिभूत्या किमु चिन्तनीयम् ॥ द्विधा हि संन्यास उदीरितोऽयं विबुद्धतत्वस्य च तबुभुत्सोः । तत्त्वंपदार्थैक्य उदीरितोऽयं यत्नाचमर्थः परिशोधनीयः ॥ संभाव्यते क च जलं क च नास्ति पाथः शय्यास्थलं कचिदिहास्ति न च क चास्ति । शय्यास्थलीजलनिरीक्षणसक्तचेताः पान्थो न शर्म लभते कलुषीकृतात्मा ॥ ज्वरातिसारादि च रोगजालं बाधेत चेत्तर्हि न कोऽप्युपायः । स्थातुं च गन्तुं च न पारयेत तदा सहायोऽपि विमुञ्चतीमम् ।। स्नानं प्रभाते न च देवतार्चनं क चोक्तशौचं क च वा समाधयः । क चाशनं कुत्र च मित्रसंगतिः पान्थो न शाकं लभते क्षुधातुरः ॥ ४ ५ ६ सर्गः १४] 137 ९ पद्मपादतीर्थयात्रावर्णनम् नास्त्युत्तरं गुरुगिरस्तदपीह वक्ष्ये सत्यं यदाह भगवान गुरुपार्श्ववासः । श्रेयानिति प्रथमसंयमिनामनेकान् देशानवीक्ष्य हृदयं न निराकुलं मे ।। सर्वत्र न कापि जलं समस्ति पश्चात् पुरस्तादथवा विदुक्षु । मार्गों हि विद्येत न सुव्यवस्थः सुखेन पुण्यं क नु लभ्यतेऽधुना ॥ जन्मान्तरार्जितमघं फलदानहेतो- ाध्यात्मना जनिमुपैति न नो विवादः । साधारणादिह च वा परदेशके वा कर्म ह्यभुक्तमनुवर्तत एव जन्तुम् ।। १० इह स्थितं वा परतः स्थितं वा कालो न मुश्चेत् समयागतश्चेत् । तदेशगत्याऽमृत देवदत्त इत्यादिकं मोहकृतं जनानाम् ॥ मन्वादयो मुनिवराः खलु धर्मशास्त्रे धर्मादि संकुचितमाहुरतिमद्धम् । देशाद्यवेक्ष्य न तु तत्सरणिं गतानां शौचाद्यतिक्रमकृतं प्रभवेद नः ।। दैवेऽनुकूले विपिनं गतो वा समाप्नुयाद्वाछितमन्नमेषः । द्वियेत नश्येदपि वा पुरस्थं तस्मिन् प्रतीपे तत एव सर्वम् ।। १३ गृहं परित्यज्य विदेशगो ना सुखं समागच्छति तीर्थदृश्वा । गृहं गतो याति मृति पुरस्तात्तदागमादत्र च किं निमित्तम् ।। देशे कालेऽवस्थितं तद्विमुक्तं ब्रह्मानन्दं पश्यतां तत्र तत्र । चित्तैकाय्ये विद्यमाने समाधिः सर्वत्रासौ दुर्लभो नेति मन्ये ।। १५ सत्तीर्थसेवा मनसः प्रसादिनी देशस्य वीक्षा मनसः कुतूहलम् । क्षिणोत्यनर्थान् सुजनेन सङ्गमस्तस्मान्न कस्मै भ्रमणं विरोचते ॥ १६ अटाट्यमानोऽपि विदेशसङ्गति लभेत विद्वान् विदुषाऽभिसङ्गतिम् । बुधो बुधानां खलु मित्रमीरितं खलेन मैत्री न चिराय तिष्ठति ॥ १७ समीपवासोऽयमुदीरतो गुरोविदेशगो यद् हृदयेन धारयेत् । समीपगोऽप्येष न संस्थितोऽन्तिके न भक्तिहीनो यदि धारयेद् हृदि ।।

138 २२ श्रीमच्छङ्करदिग्विजये [चतुर्दशः सुजनः सुजनेन संगतः परिपुष्णाति मतिं शनैः शनैः । परिपुष्टमतिर्विवेकवाञ्शनकैयगुणं विमुञ्चति ॥ १९ यद्याग्रहोऽस्ति तव तीर्थनिषेवणायां विघ्नो मयाऽत्र न खलु क्रियते पुमर्थे । चित्तस्थिरत्वगतये विहितो निषेधो मा भूद्विशेषगमनं त्वतिदुःखहेतुः ।। नैको मार्गो बहुजनपदक्षेत्रतीर्थानि यातां चौराध्वानं परिहर सुखं त्वन्यमार्गेण याहि । विप्राय्याणां वसतिविततिर्यत्र वस्तव्यमीष- नो चेत्सार्धं परिचितजनैः शीघ्रमुद्दिष्टदेशम् ॥ २१ सद्भिः सङ्गो विधेयः स हि सुखनिचयं सूयते सज्जनाना- मध्यात्मैक्ये कथास्ता घटितबहुरसाः श्राव्यमाणाः प्रशान्तैः । कायक्लेशं विभिन्द्युः सततभयभिदः श्रान्तविश्रामवृक्षाः खान्तश्रोत्राभिरामाः परिमृषितवृषः क्षोभितक्षुत्कलङ्काः ॥ सत्सङ्गोऽयं बहुगुणयुतोऽप्येकदोषेण दुष्टो यत् स्वान्तेऽयं तपति च परं मूयते दुःखजालम् । खल्वासङ्गो वसतिसमये शर्मदः पूर्वकाले प्रायो लोके सततविमलं नास्ति निर्दोषमेकम् ।। २३ मार्गे यास्यन्न बहुदिवसान पाथसः संग्रही स्या- तस्माद्दोषो जिगमिषुपदप्राप्तिविघ्नस्ततः स्यात् । प्राप्योद्दिष्टं वस निरसनं तत्र कार्यस्य सिद्धे- मूलाभ्रंशोऽभिलषितपदप्राप्त्यभावोऽन्यथा हि ॥ मार्गे चोरा निकृतिवपुषः संवसेयुः सहैव छन्नात्मानो बहुविधगुणैः संपरीक्ष्याः प्रयत्नात् । देवान् वस्त्रं लिखितमथवा दुर्विधा नेतुकामा विश्वासोऽतोऽपरिचितनृषु प्रोज्ज्ञनीयो न कार्यः ।। २५ मध्येमार्ग योजनाभ्यन्तरे वा तिष्ठेयुश्चेद्भिक्षवस्तेऽभिगम्याः । पूज्याः पूज्यास्तद्वयतिक्रान्तिरुया श्रेयस्कार्य निष्फलीकर्तुमीशाः ॥ २६ २४ सर्गः १४] 139 २७ पद्मपादतीर्थयात्रावर्णनम् यदापदपदं सदा यतिवर स्थितं वस्तु त- न्मतं भज मितंपचान् मनसि मा कृथाः प्राकृतान् । कषायकलुषाशयक्षतिविनिर्वृतः सन्मतः सुखी चर सुखे चिरात् स्फुरति संततानन्दता ॥ इत्थं गुरोर्मु खगुहोदितवाक्सुधां तामापीय हृष्टहृदयः स मुनिः प्रतस्थे । प्रस्थाप्य तं गुरुवरोऽथ सुरेश्वराद्यैः कालं कियन्तमनयत् सह शृङ्गकुधे ।। अधिगम्य तदाऽऽत्मयोगशक्तेरनुभावेन निवेद्य चाऽऽश्रवेभ्यः । अवलंबिततारकापथोऽसावचिरादन्तिकमाससाद मातुः ।। २९ तत्राऽऽतुरां मातरमैक्षतासौ ननाम तस्याश्चरणौ कृतात्मा । सा चैनमुद्रीक्ष्य शरीरतापं जहौ निदाघात इवाम्बुदेन ॥ ३० असावसङ्गोऽपि तदाऽऽर्द्रचेतास्तामाह मोहान्धतमोपहर्ता । अम्बायमस्त्यत्र शुचं जहीहि प्रब्रूहि किं ते करवाणि कृत्यम् ।। ३१ दृष्ट्वा चिरात पुत्रमनामयं सा दृष्टान्तरात्मा निजगाद मन्दम् । अस्यां दशायां कुशली मया त्वं दिष्टयाऽसि दृष्टः किमतोऽस्ति कृत्यम् ॥ इतः परं पुत्रक गात्रमेतद्वोढुं न शक्नोमि जरातिशीर्णम् । संस्कृत्य शास्त्रोदितवर्मना त्वं सद्वृत्त मां प्रापय पुण्यलोकान् ॥ ३३ सुतानुगां सूक्तिमिमां जनन्याः श्रुत्वाऽथ तस्यै सुखरूपमेकम् मायामयाशेषविशेषशून्यं मानातिगं स्वप्रभमप्रमेयम् ॥ ३४ उपादिशब्रह्म परं सनातनं न यत्र इस्ताधिविभागकल्पना । अन्तर्बहिः संनिहितं यथाऽम्बरं निरामयं जन्मजरादिवर्जितम् ।। ३५ सौम्यागुणे मे रमते न चित्तं रम्यं वद त्वं सगुणं तु देवम् । न बुद्धिमारोहति तत्वमात्रं यदेकमस्थूलमनण्वगोत्रम् ॥ ३६ निशम्य मातुर्वचनं दयालुस्तुष्टाव भक्त्या मुनिरष्टमूर्तिम् । वृत्तभुजङ्गोपपदैः प्रसन्नः प्रस्थापयामास स च वदृतान् ।

140 श्रीमच्छङ्करदिग्विजये [चतुर्दशः विलोक्य ताशूलपिनाकहस्तान्नैवानुगच्छेयमिति ब्रुवत्याम् । तस्यां विमृज्यानुनयेन शैवानस्तौदथो माधवमादरेण ॥ ३८ भुजगाधिपभोगतल्पभाज कमलाङ्कस्थलकल्पिताङ्घ्रिपद्मम् । अभिवीजितमादरेण नीलावसुधाभ्यां चलमानचामराभ्याम् ।। ३९ विहिताञ्जलिना निषेव्यमाणं विनतानन्दकृताऽग्रतो रथेन । धृतमूर्तिभिरखदेवताभिः परितः पञ्चभिरश्चितोपकण्ठम् ॥ महनीयतमालकोमलाङ्गं मुकुटीरत्नचयं महार्हयन्तम् । शिशिरेतरभानुशीलितायं हरिनीलोपलभूधरं हसन्तम् । ४१ तत्तादृशं निजसुतोदितमम्बुजाक्षं चित्ते दधार मृतिकाल उपागतेऽपि । चित्तेन कञ्जनयनं हृदि भावयन्ती तत्याज देहमबला किल योगिवत्सा ॥ ततः शरच्चन्द्रमरीचिरोचिर्विचित्रपारिप्लकेतनाट्यम् । विमानमादाय मनोज्ञरूपं प्रादुर्बभूवुः किल विष्णुदूताः ॥ ४३ वैमानिकांस्तान्नयनाभिरामानवेक्ष्य हृष्टा प्रशशंस पुत्रम् विमानमारोप्य विराजमानमनायि तैः सा बहुमानपूर्वम् । इयमर्चिरहर्वलक्षपक्षान षडदङ्माससमानिलार्कचन्द्रान् । चपलावरुणेन्द्रधातृलोकान् क्रमशोऽतीत्य परं पदं प्रपेदे ॥ ४५ स्वयमेव चिकीर्षुरेष मातुश्चरमं कर्म समाजुहाव बन्धून् । किमिहास्ति यते तवाधिकारः कितवेत्येनममी निनिन्दुरुच्चैः ।। अनलं बहुधाऽर्थिताऽपि तस्मै वत नाऽऽदत्त च बन्धुता तदीया । अथ कोपपरीतान्तरोऽसावखिलांस्तानशपञ्च निर्ममेन्द्रः सञ्चित्य काष्ठानि सुशुष्कवन्ति गृहोपकण्ठे धृततोयपात्रः । स दक्षिणे दोष्णि ममन्थ वह्नि ददाह तां तेन च संयतात्मा ॥ ४८ न याचिता वह्निमर्यदस्मै शशाप तान् स्वीयजनान् सरोषः । इतः परं वेदबहिष्कृतास्ते द्विजा यतीनां न भवेच्च भिक्षा । ४९ ४४ ॥ ४७ सर्गः१०] 141 ५१ पद्मपादतीर्थयात्रावर्णनम गृहोपकण्ठेषु च वः श्मशानमद्यप्रभृत्यस्त्विति ताशशाप । अद्यापि तद्देशभवा न वेदमधीयते नो यमिनां च भिक्षा ॥ ५० तदापभृत्येव गृहोपकण्ठेष्वासीच्छ्मशानं किल हन्त तेषाम् । महत्सु धीपूर्वकृतापराधो भवेत् पुनः कस्य सुखाय लोके ।। शान्तः पुमानिति न पीडनमस्य कार्य शान्तोऽपि पीडनवशात क्रुधमुद्हेत् सः। शीतः सुखोऽपि मथितः किल चन्दनद्रु- स्तीबाहुताशजनको भवति क्षणेन ॥ ५२ यद्यप्यशास्त्रीयतया विभाति तेजस्विनां कर्म तथाऽप्यनिन्द्यम् । विनिन्यकृत्यं किल भार्गवस्य ददुः वपुत्रान् कतिचिट्टकाय ॥ ५३ इति स्वजननीमसौ मुनिजनैरपि प्रार्थितां पुनः पतनवर्जितामतनुसौख्यसंदोहिनीम् । यतिक्षितिपतिर्गति वितमसं स नीत्वा तत- स्ततोऽन्यमतशातने प्रयतते स्म पृथ्वीतले । ५४ अथ तत्सहायजलजायुपागमेच्छुरभीप्सितेऽत्र विललम्ब एषकः । जलाजाधिरप्पथ पुरा निज ज्ञया कृतवानुदीच्यबहुतीर्थसेवनम् ॥ ५५ आससाद शनकैर्दिश मुनिर्यस्य जन्म वसुधाघटी स्मृता । सा श्रुतिः सकलरोगनाशिनी योऽपिबज्ज धिमेकबिन्दुवत् ।। ५६ अद्राक्षीसुभगाहिभूषिततनुं श्रीकालहस्तीश्वरं लिङ्गे सन्निहितं दधानमनिशं चान्द्रीं कलां मस्तके । पार्वत्या करुणारसामनसाऽऽश्लिष्टं प्रमोदास्पदं देवैरिन्द्रपुरोगमैर्जय जयेत्याभाष्यमाणं मुनिः ॥ ५७ स्नात्वा सुवर्णमुखरीसलिलाशयेऽन्तर्गत्वा पुनः प्रणमतिम शिवं भवान्या। आनर्च भावकुसुमैर्मनसा नुनाव स्तुत्वा च तं पुनरयाचत तीर्थयात्राम् ।। लब्ध्वाऽनुज्ञां तज्ज्ञराट् कालहस्तिक्षेत्रात् काश्चीक्षेत्रमागात् पवित्रम् । संसाराब्धि संतितीर्षोः प्रसिद्धं वृद्धाः पाहुर्यद्धि लोके ह्यमुष्मिन् ॥ ५९ 142 श्रीमच्छङ्करदिग्विजये [चतुर्दशः तत्रैकाम्राधीश्वरं विश्वनाथं नत्वा गम्यं स्वीयभाग्यातिशीत्या । देवी धामान्तर्गतामन्तकारेहोर्दै रुद्रस्येव . जिज्ञासमानाम् ॥ ६० कल्लालेशं द्राक्ततो नातिदूरे लक्ष्मीकान्तं संवसन्तं पुराणम् । कारुण्याद्रस्वान्तमन्तादिशून्यं दृष्टा देवं संतुतोषैकभक्त्या ॥ पुण्डरीकपुरमाययौ मुनिर्यत्र नृत्यति सदाशिवोऽनिशम् । वीक्षते प्रकुतिरादिमा हृदा पार्वतीपरिणतिः शुचिस्मिता ॥ ६२ ताण्डवं मुनिजनोऽत्र वीक्षते दिव्यचक्षुरमलाशयोऽनिशम् । जन्ममृत्युभयभेदि दर्शनान्नेत्रमानसविनोदकारकम् ।। किंचात्र तीर्थमिति भिक्षुगणेन कश्चित् पृष्टोऽब्रवीच्छिवपदाम्बुजसक्तचित्तः । संप्रार्थितः करुणयाऽस्मरदत्र गङ्गां देवोऽथ संन्यधित दिव्यसरित् सुतीर्थम् ।। ६४ शिवाज्ञयाऽभूदिति तीर्थमेतच्छिवस्य गङ्गां प्रवदन्ति लोके । स्नानादमुष्यां विधुतोरुपापाः शनैः शनैस्ताण्डवमीक्षमाणाः ।। ६५ शिवस्य नाट्यश्रमकर्शितस्य श्रमापनोदाय विचिन्तयन्ती । शिवेति गङ्गापरिणामगाऽभूत्ततोऽथवैतत्मथितं तदाख्यम् । ६६ नृत्यत्तीरइतस्खलज्जलगतेः पर्यापतद्विन्दुकं पार्श्वे स्वावसतेविनोदवशतो यज्जझुकन्यापयः । नृत्यं तन्वति धूर्जटौ विगलितं प्रेसज्जटामण्डला- त्तेनैतच्छिचजाह्नवीति कथयन्त्यन्ये विपश्चिज्जनाः ॥ स्नायस्नायं तीर्थवर्येऽत्र नित्यं वीक्षवीक्षं देवपादाब्जयुग्मम् । शोधंशोधं मानसं मानवोऽसौ वीक्षेतेदं ताण्डवं शुद्धचेताः ।। ६८ शुद्धं महद्वर्णयितुं क्षमेत पुण्यं पुरारिः स्वयमेव तस्य । निमज्ज्य शम्भुासरित्यमुष्यां दाक्षायणीनाथमुदीक्षते यः ॥ ६९ इतीरितः शङ्करयोजितात्मा केनापि भिक्षुर्मुदितो जगाहे । तीर्थं तदाप्लुत्य ननाम शम्भोरप्रिं जितात्मा भुवनस्य गोप्तुः ॥ ७० ७ 143 ७२ सर्गः १४] पद्मादतीर्थयात्रावर्णनम् रामसेतुगमनाय संदधे मानसं मुनिरनुत्तमः पुनः । वर्मनि प्रयतमानसो व्रजन संददर्श सरितं कवेरजाम् ॥ ७१ यत्पवित्रपुलिनस्थलं पयःसिन्धुवासरसिकाय विष्णवे । अभ्यरोचत हिरण्यवाससे पद्मनाभमुखनामशालिने । सह्यपर्वतसुतातिनिर्मलाम्भोभिषिक्तभगवत्पदाम्बुजे । आकलय्य बहुशिष्य संहतः प्रास्थिताभिरुचितस्थलाय सः ।। गच्छन् गच्छन् मार्गमध्येऽभियातं गेहं भिक्षुतुलस्याऽऽजगाम । दृष्ट्वा शिष्यैस्तं चिरेणाभियातं मोदं प्रागन्मातुल: शास्त्रवेदी ॥ ७४ शुश्राव तं बन्धुजनः सशिष्य स्वमातुलागारमुपेयिवांमम् । आगत्य दृष्ट्वा चिरमागतं तं जहर्ष हर्षातिशयेन साश्रुः ॥ ७५ रुरोद कश्चिन्मुमुदेऽत्र कश्चिजहास पूर्वावरितं बभाषे । कश्चित्प्रमोदातिशयेन किश्चिद्वचः स्खलद्गीः प्रणनाम कश्चित् ।। ७६ ऊचेऽथ तं ज्ञातिजनः प्रमोदी दृष्ट्वा चिरायाक्षिपथं गतोऽभूः । दिदृक्षते त्वां जनताऽतिहात्तिथाऽपि शक्नोषि न वीक्षणाय ॥ पुत्राः समित्रान न बन्धुवर्गों न राजबाधा न च चोरभीतिः । कृतार्थतामूलपदं यतित्वं प्रसूनवन्तं फलितं महान्तम् ॥ ७८ शाखोपशाखाश्चितमेव वृक्षं बाधन्त आगत्य न तद्विहीनम् । यथा तथा वा धनिनं दरिद्रा बाधन्त आगत्य दिने दिने स्म ॥ ७९ कुटुम्बरक्षागतमानसानामायाति निद्राऽपि सुखं न जातु । क देवतार्चा कच तीर्थयात्रा क वा निषेवा महतां भवेन्नः ।। अश्रौष्म संन्यासकृतं भवन्तं विपात् कुतश्चिगृहमागतान्नः । कालोऽत्यगात्ते बहुरद्य दैवात्तीर्थस्य हेतोहमागतस्त्वम् ॥ ८१ यथा शकुन्ताः परवर्धितान् द्रुमान् समाश्रयन्ते सुखदांस्त्यजन्त्यपि । परप्रक्लप्तान् मठदेवतागृहान्यतिः समाश्रित्य तथोज्जति ध्रुवम् ॥ ८२ ७७ ८० 141 श्रीमच्छङ्करदिग्विजये [चतुर्दशः यथा हि पुष्पाण्यभिगम्य षट्पदाः संगृह्य सारं रसमेव भुञ्जते । तथा यतिः सारमवाप्नुवन् सुखं गृहाद्गृहादोदनमेव भिक्षते ॥ ८३ यतेविरज्यात्मगतिः कलत्रं देहं गृहं संयतमेव सौख्यम् । विरक्तिभाजस्तनयाः स्खशिष्याः किमर्थनीयं यतिनो महात्मन् ॥ ८४ मनोरयानां न समाप्तिरिष्यते पुनः पुनः संतनुते मनोरथान् । दारानभीसुर्यतते दिवानिशं तान् प्राप्य तेभ्यस्तनयानभीप्सति ॥ ८५ अनाप्नुवन् दुःखमसौ सुतीव्र प्राप्नोति चेष्टेन वियुज्यते पुनः । सर्वात्मना कामवशस्य दुःखं तस्माद्विरक्तिः पुरुषेण कार्या ॥ ८६ विरक्तिमूलं मनसो विशुद्धि तन्मूलमाहुमहतां निषेवाम् । भवादृशास्तेन च दूरदेशे परोपकाराय रसामटन्ति ॥ अज्ञातगोत्रा विदितात्मतत्त्वा लोकस्य दृष्ट्या जडवद्विभान्तः । चरन्ति भूतान्यनुकम्पमानाः सन्तो यदृच्छोपनतोपभोग्याः ।। चरन्ति तीर्थान्यपि संग्रहीतुं लोकं महान्तो ननु शुद्धभावाः । शुद्धात्मविद्याक्षपितोरुपापास्तज्जुष्टमम्भो निगदन्ति तीर्थम् ।। ८९ वस्तव्यमत्र कतिचिदिवसानि विद्वंस्त्वदर्शनं वितनुते मुदितादि भव्यम् । एष्यद्वियोगचकिता जनतेयमास्ते दुःखं गतेऽत्र भवितेति भवत्यसङ्गे ॥ कोशं क्लेशमलस्य कास्यगृहमप्युदंडसामलयं पैशुन्यस्य निशान्तमुत्कटमृषाभाषाविशेषाश्रयम् । हिंसामांसलमाश्रिता घनधनाशंसानृशंसा वयं वर्ण्य दुर्जनसङ्गमं करुणया शोध्या यतीन्दो त्वया ॥ ९१ संयुनक्ति वियुनक्ति देहिनं दैवमेव परमं मनागपि । इष्टसङ्गतिनिवृत्तिकालयोनिर्विकारहृदयो भवेन्नरः ।। ९२ मध्याह्नकाले क्षुधितस्तृषार्तः क मेऽनदातेति वदन्नुपैति । यस्तस्य निर्वापयिता क्षुदातेः कस्तस्य पुण्यं वदितुं क्षमेत ॥ ८८ सर्गः१४] 145 ९७ पद्मपादतीर्थयात्रावर्णनम् सायंपातर्वह्निकार्य, वितन्वन् मज्जस्तोये दण्डकृष्णाजिनी च । नित्यं वर्णी वेदवाक्यान्यधीयन् क्षुद्ध्वा शीघ्रं गेहिनो गेहमेति ॥ ९४ उच्चैः शास्त्रं भाषमाणोऽपि भिक्षुस्तारं मन्त्रं सञ्जपन्वा यतात्मा । मध्येषत्रं जाठराग्नौ प्रदीप्ते दण्डी नित्यं गेहिनो गेहमेति ॥ ९५ यदन्नदानेन निजं शरीरं पुष्णंस्तपोऽयं कुरुते सुतीव्रम् । कतुस्तदध ददतोऽन्नमर्धमिति स्मृति: संववृतेऽनवद्या । ९६ पुण्यं गृहस्थेन विचक्षणेन गृहेषु संचेतुमलं प्रयासात् । विनाऽपि तत्कर्तृ निषेवणेन तीर्थादिसेवा बहुदुःखसाध्या ।। गृही धनी धन्यतरो मतो मे तस्योपजीवन्ति धनं हि सर्वे । चौर्येण कश्चित्प्रणयेन कश्चिदानेन कश्चिदलतोऽपि कश्चित् ।। ९८ सन्तोषयेद्वेदविदं द्विजं यः सन्तोषयत्येष स सर्वदेवान् । तद्वेदविप्रे निवसन्ति देवा इति स्म साक्षाच्छतिरेव वक्ति । ९९ स्वधर्मनिष्ठा विदिताखिला जितेन्द्रियाः सेवितसर्वतीर्थाः । परोपकारव्रतिनो महान्त आयान्ति सर्वे गृहिणो गृहाय ॥ १०० गृही गृहस्थोऽपि तदश्नुते फलं यत्तीर्थसेवाभिरवाप्यते जनः । तत्तस्य तीर्थ गृहमेव कीर्तितं धनी वदान्यः प्रवसेन्न कश्चन ॥ १०१ अन्तःस्थिता मूषकमुख्यजीवा बहिःस्थिता गोमृगपक्षिमुख्याः । जीवन्ति जीवाः सकलोपजीव्यस्तस्माद्गृही सर्ववरो मतो मे ॥ १०२ शरीरमूलं पुरुषार्यसाधनं तच्चान्नमूलं श्रुतितोऽवगम्यते । तच्चान्नमस्माकपर्मःषु संस्थितं सर्वं फलं गेहपतिद्रुमाश्रयम् ॥ १०३ ब्रवीमि भूयः शृणुताऽऽदरेण वो गृहागतं पूजयताऽऽतुरातिथिम् । संपूजितो वोऽतिथिरुद्धरेत्कुलं निराकृतात् किं भवतीति नोच्यते ॥ १०४ विनाऽभिसन्धि कुरुत श्रुतीरितं कर्म द्विजा नो जगतामधीश्वरः । तुष्येदिति प्रार्थनयाऽपि तेन स्वान्तस्य शुद्धिर्भविताऽचिरेण वः ॥१०५ 146 श्रीमच्छङ्करदिग्विजये [चतुर्दशः ससंरम्भाश्लिष्यत्सुफणितिवधृटीकुचतटी- पटीवत्पाटीरागरवनवपङ्काङ्कितहृदः । तथाऽप्येते पूता यतिपतिपदाम्भोजभजन- क्षणक्षीणक्लेशाः सदयहृदयाभाः सुकृतिनः ॥ संदिश्येत्थं बन्धुतां भिक्षुराजो भिक्षां चक्रे मातुलस्यैव गेहे । पप्रच्छैनं मातुलो भुक्तवन्तं किंस्विच्छन्नं पुस्तकं शिष्यहस्ते ।। १०७ टीका विद्वन् भाष्यगेति ब्रुवाणं तां देहीति प्रोचिषे दत्तवांश्च । अद्राक्षीत्तां मातुलस्तस्य बुद्धिं दृष्ट्वाऽऽनन्दीत् खेदपापञ्च किश्चित् ॥१०८ प्रबन्धनिर्माणविचित्रनैपुणीं दृष्ट्वा पमोदं स विवेद किश्चित् । मतान्तराणां किल युक्तिजालैर्निरुत्तरं बन्धनमालुलोके ॥ १०९ गुरोर्मतं स्वाभिमतं विशेषान्निराकृतं तत्र समत्सरोऽभूत् । साधुर्निबन्धोऽयमिति ब्रुवाणस्तं साभ्यसूयोऽपि कृताभिनन्दः ।। ११० सेतुं गच्छाम्यालये पुस्तभारं ते न्यस्येमं वर्तते मेऽत्र जीवः । विद्वन् यद्गोगृहादौ परेषां प्रीतिः पूर्णा नस्तथा पुस्तभारे ॥ १११ इत्युक्त्वा तैर्मातुलं मस्करीशः शिष्यह॒ष्यन् सेतुमेष प्रतस्थे । प्रस्थातुः श्रीपद्मपादस्य जातं कष्टं चैष्यत्सूचनायै निमित्तम् ॥ ११२ वाम नेत्रं गन्तुरस्पन्दतैव बाहुः पुस्फोरापि वामस्तयोरु: चुक्षावोहन्त कश्चित्पुरस्तात्तत्सर्वं द्राग्ज्ञाऽगणित्वा जगाम ।। ११३ गतेऽत्र मेने किल मातुलोऽस्य ग्रन्थे स्थितेऽस्मिन् गुरुपक्षहानिः । दग्धेऽत्र जायेत महान् प्रचारो नोक्त्या निराकर्तुमपि प्रभुत्वम् ।। ११४ पक्षस्य नाशाद्गृहनाश एव नो वरं गृहेणैव दहामि पुस्तकम् । एवं निरूप्य न्यदधाद्भुताशनं चुक्रोश चाग्निर्दहीति मे गृहम् ।। ११५ ऐतिह्यमाश्रित्य वदन्ति चैवं तदेव मूलं मम भाषणेऽपि । यावत्कृतं तावदिहास्य कर्तुः पापं ततः स्याद्विगुणं प्रवक्तः ॥ ११६ सर्गः १४] 147 पद्मपादतीर्थयात्रावर्णनम् गच्छन्नसौ फुल्लमुनेजगाम तमाश्रमं यत्र च रामचन्द्रः । अश्वत्थमूले न्यधित स्वचापं स्वयं कुशानामुपरि न्यषीदत् ॥ ११७ तीर्खा समुद्रं जनकात्मजायाः सन्दर्शनोपायमनीक्षमाणः । वसुन्धरायां प्रवणाः प्लवङ्गा न वारिराशौ प्लवनं क्षमन्ते ॥ ११८ सञ्चिन्तयन्निति कुशासनसंनिविष्टो ज्योतिस्तदैक्षत विदरगमेव किञ्चित् । संव्याप्नुवज्जगदिदं सुखशीतलं यत्संप्रार्थनीयमनिशं मुनिदेवताभिः ॥ आगच्छदात्माभिमुखं निरीक्ष्य सर्वे तदुत्तस्थुरुदारवीर्याः । ततः पुमाकारमदृश्यतैतन्महापभामण्डलमध्यवर्ति ॥ १२० मध्ये पभामण्डलमैक्षताञ्चितं शिवाकृति सर्वतपोमयं पुनः । लोपादिमुद्रासहितं महामुनि प्राबोधि कुम्भोद्भवमादराजनैः ॥ १२१ अगस्त्यदश्वा रघुनन्दनस्ततः स खेदमन्तःकरणोत्थमत्यजत् । प्रायो महर्दशनमेव देहिनां क्षिणोति खेदं रविवन्महातमः ॥ १२२ सभार्यमा दिभिरर्चयित्वा रामस्तदधिं शिरसा ननाम । तूष्णीं मुहूर्त व्यसनार्णवस्थो धृति समास्थाय पुनर्बभाषे ।। १२३ दृष्ट्वा भवन्तं पितृवत्प्रमोदे यन्मामगा दुःखमहार्णवस्थम् । मन्ये ममाऽऽत्मानमवाप्तकामं वंशो महान्मे तपनात्प्रवृत्तः ॥ १२४ न तत्र माहग्जनिता न जातः पदच्युतोऽहं प्रथमं सभार्यः । सलक्ष्मणोऽरण्यमुपागतश्च मारीचमायानिहतान्तरङ्गः ॥ १२५ तत्रापि भार्यामहत च्छलेन स रावणो राक्षसपुंगवो मे । सा चाधुनाऽशोकवने समास्ते कृशा वियोगात्स्वत एव तन्वी !! १२६ ती समुद्र विनिहत्य दुष्टं बलेन सीतां महता हरामि । थथा तथोपायमुदाहर त्वं न मे त्वदन्योऽस्ति हितोपदेष्टा ।। १२७ इतीरितो वाचमुवाच विद्वान्मा राम शोकस्य वशं गतो भूः । वंशद्वये सन्ति नृपा महान्तः संपाप्य दुःखं परिमुक्तदुःखाः ॥ १२८ 148 श्रीमच्छङ्करदिग्विजये [चतुर्दशः त्वमग्रणीर्दाशरथे धनुभृतां तवानुजस्यापि समो न लक्ष्यते । प्लवङ्गमानामधिपस्य कोटिशो मा मुञ्च मा मुञ्च वचो विनार्थम् ॥ १२९ सहायसंपत्तिरियं तवास्ति हितोपदेष्टाऽप्यहमस्मि कश्चित् । वारां निधिः किं कुरुते तवायं स्मराधना गोष्पदमात्रमेनम् ।। १३० पुरेव चार्वब्धिमहं पिबामि शुष्केऽत्र तेन प्रतियाहि लङ्काम् । एवं मया कीर्तिरुपार्जिता स्याद्धे तु वाधौँ तव साऽर्जिता स्यात् ॥ सेतुं वाौँ बन्धयित्वा जहि त्वं दुष्टं चौर्यायेन सीता हृताऽऽसीत् । पामोषि त्वं कीर्तिमाचन्द्रतारं तेनात्राब्धि बन्धय त्वं कपीन्द्रैः ॥ १३२ इत्यं यत्र प्रेरितेऽगस्त्यवाचा सेतुं रामो बन्धयामास वाधौं । तुङ्गैः शृङ्गैर्वानरैस्तेन गला तं हत्वाऽऽजौ जानकीमानिनाय ॥ १३३ तत्तादृक्षे तत्र तीर्थे स भिक्षुः स्नात्वा भक्त्या रामनार्थ प्रणम्य । तत्र श्रद्धोत्पत्तये मानुषाणां शिष्येभ्यस्तद्वैभवं सम्यगूचे ॥ १३४ तन्माहात्म्यं वर्णयन्तं मुनि तं पप्रच्छैनं कश्चिदेवं विपश्चित् । रामेशाख्या किंसमासोपपन्ना पृष्टस्त्रेधाजोचदेवं समासम् ॥ १३५ रघूद्वहस्तत्पुरुषं परं जगौ शिवो बहुव्रीहिसमासमैरयत् । रामेश्वरे नामनि कर्मधारयं परं समाहुः स्म सुरेश्वरादयः ।। एवं निश्चित्योदितं तत्समासं श्रुत्वा तत्रत्यो बुधो योऽभ्यनन्दत् । अम्भोजाङ्घ्रिस्तैरथ स्तूयमानः कञ्चित्कालं तत्र योगीडनैषीत् ॥ १३७ तस्मादार्यः प्रस्थितोऽभूत् सशिष्यस्तीर्थस्नानोपात्तचित्तामलत्वः । पश्यन् देशान्मातुलीयं जगाहे गेहं दग्धं तस्य पुस्तेन सार्धम् ॥ १३८ श्रुत्वा किञ्चित् खेदमापेदिवान् स मत्वा मत्वा धैर्यमापेदिवान् सः । श्रावं श्रावं मातुलीयस्य तीनं दाहं गेहस्यानुकम्पां व्यधत्त ।। १३९ विश्वस्य मां निहितवानसि पुस्तभारं तं चादहद्भुतवहः पतितः प्रमादाद तावान मे सदनदाहकृतोऽनुतापो यावांस्तु पुस्तकविनाशकृतो मम स्यात् ।।

सर्गः१४] 149 पद्मपादतीर्थयात्रावर्णनम इत्थं ब्रुवन्तं तमथो न्यगादीत् पुस्तं गतं बुद्धिवस्थिता मे । उक्त्वा समारब्ध पुनश्च टीका कर्तुं स धीरो यतिन्दवन्धः ॥ १४१ दृष्वा बुद्धिं मातुलस्तस्य भूयो भीतः प्रास्यद्भोजने तन्मनोनम् । किञ्चिद्रव्यं पूर्ववन्नाक्षमिष्ट टीकां कर्तुं केचिदेवं ब्रुवन्ति ॥ १४२ अत्रान्तरेऽन्यैनिजवच्चरद्भिः खैस्तीर्थयात्रां दयितैः सतीः । अर्थादुपेत्याऽऽश्रमतः कनिष्ट्रातः सखेदैः स मुनिः समैक्षि ॥ १४३ दृष्ट्वा पद्माधिं कमात्ते प्रणेमुस्तत्पादाम्भोजीयरेणून दधानाः । अन्योन्यं द्रागाददुस्ते ददुश्चानेकानेहोयोगजैक्यानपांसि ॥ १४४ वाणीनिर्जितपन्नगेश्वरगुरुपाचेतसा चेतसा विभ्राणा चरणं मुनेविरचितव्यापल्लवं पल्लवम् । धुन्वन्तं प्रभया निवारिततमाशङ्कापदं कामदं रेजेऽन्तेवसतां समष्टिरसुहृत्तत्याहितात्याहिता ॥ १४५ शुश्राव साऽन्तेवसतां समष्टिः स्वदेशकीयां सुखदां सुवार्ताम् । अर्थात् समीपागततः कुतश्चिद द्विजेन्द्रतः सेवितसर्वतीर्थात् ॥ १४६ अथ गुरुवरमनवेक्ष्य नितान्तं व्यथितहृदो मुनिवर्य विनेयाः । कथमपि विदिततदीयसुवार्ताः समधिगताः किल केरलदेशान् ।। १४७ अत्रान्तरे यतिपतिः प्रसुवोऽन्त्यकृत्यां कृत्वा स्वधर्मपरिपालनसक्तचित्तः । आकाशलधिवरकेरमहीरुहेषु श्रीकेरलेषु मुनिरास्त चरन् विरक्तः ।। विचरन्नथ केरलेषु विष्वनिजशिष्यागमनं निरीक्ष्य मौनी । विनयेन महासुरालयेशं विनयन्नस्तुत निस्तुलानुभावः ।। १४९ सदसत्त्वविमुक्तया प्रकृत्या चिदचिद्रूपमिदं जगद्विचित्रम् । कुरुषे जगदीश लीलया वं परिपूर्णस्य न हि प्रयोजनेच्छा ॥ १५० रजसा सृजसीश सत्चत्तिस्त्रिजगद्रक्षसि तामस: क्षिणोषि । बहुधा परिकीयसे च स त्वं विधिवैकुण्ठशिवाभिधाभिरेकः ॥ १५१ 150 श्रीमच्छङ्करदिग्विजये [चतुर्दशः विविधेषु जलाशयेषु सोऽयं सवितेव प्रतिबिम्बितस्वभावः । बहुरूपमिदं प्रविश्य विश्वं स्वयमेकोऽपि भवान् विभात्यनेकः ॥ १५२ इति देवमभिष्टुवन् विशिष्टस्तुतितोऽसौ सुरसद्मसंनिविष्टः । चिरकालवियोगदीनचित्तैः शिरसा शिष्यगणैरथो ववन्दे ॥ १५३ गुरुणा कुशलानुयोगपूर्व सदयं शिष्यगणेषु सान्त्वितेषु । अतिदीनमनाः शनैरवादीदजहद्गद्गदिकं स पद्मपादः ॥ १५४ भगवन्नभिगम्य रङ्गनाथं पथि पद्माक्षमहं निवर्तमानः । बहुधाविहितानुनीतिनीतो बत पूर्वाश्रममातुलेन गेहम् ॥ १५५ अहमस्य पुरो भिदावदेन्दोरपि पूर्वाश्रमवासनानुबन्धात् । अपठं भवदीयभाष्यटीकामजयं चात्र कृतानुयोगमेनम् ॥ १५६ दग्धमुद्रमुखमुद्रणमन्त्रैर्ध्वस्ततर्कगुरुकापिलतन्त्रैः । वर्मितो निगमसारसुधाक्तैर्मातुलं तमजयं तव सूक्तैः ॥ १५७ खड्गाखङ्गिविहारकल्पितरुजं काणादसेनामुखे शस्त्राशस्विकृतं श्रमं च विषमं पश्यत्पदानां पदे । यष्टीयष्टिभवं च कापिलबले खेदं मुने तावकैः सूक्तैयौक्तिकवंशमौक्तिकमयैर्नाऽऽपद्यते वर्मितः ॥ १५८ अथ गूढहृदो ययापुरं मामभिनन्द्याऽऽहितसक्रियस्य तस्य । अधिसम निधाय भाष्यटीकामहस्याऽऽयमङ्कितो निशायाम् ॥ १५९ युगपर्ययनृत्यदुग्रफालज्वलनज्वालकरालकीलजालः । दहनोऽधिनिशीथमस्य धाम्ना बत टीकामपि भस्मसादकार्षीत् ॥ १६० अदहत्स्वगृहं स्वयं हताशो विमतग्रन्थमसौ विदग्धुकामः । मतिमान्धकरं गरं च भैक्षे व्यधितास्येति विजृम्भते स्म वार्ता ॥ १६१ अधुना धिषणा यथापुरं नो विधुनाना विशयं प्रसादमेति । विषमा पुनरीशी दशा नः किमु युक्ता भवदशिकिङ्कराणाम् ॥ १६२ सर्गः१४] पद्मपादतीर्थयात्रावर्णनम् 151 गुरुवर तव या भाष्यवरेण्ये व्यरचि मया ललिता किल वृत्तिः । निरतिशयोज्ज्वलयुक्तियुता सा पथि किल हा विननाश कशानौ ॥ १६३ प्रयतेऽहं पुनरेव यदा तां प्रविधातुं बहुधाकृतयत्नः । न यथापूर्वमुपक्रमते ताः पटुयुक्तीर्भगवन्मम बुद्धिः ।। १६४ कृपापारावारं तव चरणकोणाग्रशरणं गता दीना दूनाः कति कति न सर्वेश्वरपदम् । गुरो मन्तुनन्तुः क इव मम पापांश इति चे- न्मृषा मा भाषिष्ठाः पदकमलचिन्ताव धिरसौ ॥ १६५ इति वादिनमेनमार्यपादः करुणापूरकरम्भितान्तरङ्गः । अमृताब्धिसखैरपास्तमोहैवचनैः सान्त्वयति स्म वल्गुबन्धैः ।। १६६ विषमो बत कर्मणां विपाको विषमोहोपमदुर्निवार एषः । विदितः प्रथमं मयाऽयमर्थः कथितश्चाङ्ग सुरेशदेशिकाय ।। १६७ पूर्व शृङ्गक्ष्माधरे मत्समीपे प्रेम्णा याऽसौ वाचिता पश्चपादी । सा मे चित्तान्नापयात्यद्य शोको याताच्छीघ्रं तां लिखेत्याख्यदायः ॥ आश्वास्येत्थं जलजचरणं भाष्यकृत्पञ्चपादी- माचख्यौ तां कृतिमुपहितां पूर्वयैवाऽऽनुपूर्व्या । नैतच्चित्रं परमपुरुषेऽव्याहतज्ञानशक्ती तस्मिन् मूले त्रिभुवनगुरौ सर्वविद्याप्रवृत्तेः ॥ १६९ प्रसभं स विलिख्य पञ्चपादी परमानन्दभरेण पद्मवादः । उदतिष्ठदतिष्ठदभ्यरोदीत् पुनरुद्रायति तु स्म नृत्यति स्म । १७० कविताकुशलोऽथ केरलक्ष्माकमनः कश्चन राजशे खराख्यः । मुनिवर्यममुं मुदं वितेने निजकौटीरनिघृष्टपन्नखाग्यः ॥ १७१ प्रथते किमु नाटकत्रयी सेत्यमुना संयमिना ततो नियुक्तः। अयमुत्तरमाददे प्रमादादनले साऽऽहुतितामुपागतेति ॥ १७२ मुखतः पठितां मुनीन्दुना तां विलिखन्नेष विसिमियेऽथ भूपः । वद किं करवाणि किङ्करोऽहं वरदेति प्रणमन् व्यजिज्ञपच ॥ १७३ 152 श्रीमच्छङ्करदिग्विजये [चतुर्दशः नृप कालटिनामकाग्रहारा द्विजकर्मानधिकारिणोऽद्य शप्ताः । भवताऽपि तथैव ते विधेया बत पापा इति देशिकोऽशिषत्तम् ॥ १७४ पद्माङ्ग्रौ प्रतिपद्य नष्टविकृति तुष्टे पुनः केरल- मोपालो यतिसार्वभौमसविधं प्राप्य प्रणम्याञ्जसा । लब्ध्वा तस्य मुखात् खनाटकवराण्यानन्दपाथोनिधौ मज्जंस्तत्पदपद्मयुग्ममनिशं ध्यायन प्रतस्थे पुरीम् ।। १७५ इति श्रीमाधवीये तत्तीर्थयात्राटनार्थकः । संक्षेपशङ्करजये सर्गोऽजनि चतुर्दशः ॥ १४ ॥ आदितः श्लोकाः 1562. २ अथ पञ्चदशः सर्गः ॥.१५ ॥ आचार्यकृतदिग्विजयवर्णनम् ॥ अथ शिष्यवरैर्युतः सहस्रैरनुयातः स सुधन्वना च राज्ञा । ककुभो विजिगीषुरेष सर्वाः प्रथम सेतुमुदारधीः प्रतस्थे । अभवत् किल तस्य तत्र शाक्तैर्गिरिजार्चाकपटान्मधुपसक्तैः । निकटस्थवितीर्णभूरिमोदस्फुटरिङ्घत्पटुयुक्तिमान् विवादः ॥ स हि युक्तिभरैविधाय शाक्तान् प्रतिवाग्व्याहरणेऽपि तानशक्तान् । द्विजजातिबहिष्कृताननार्यानकरोल्लोकहिताय कर्मसेतुम् ॥ अभिपूज्य स तत्र रामनाथं सह पाण्डेयः स्ववशे विधाय चोलान् । द्रविडांश्च ततो जगाम काञ्ची नगरी हस्तिगिरेनितम्बकाश्चीम् ॥ सुरधाम स तत्र कारयित्वा परविद्याचरणानुसारि चित्रम् । अपवार्य च तान्त्रिकानतानीद्भगवत्याः श्रुतिसम्मतां सपर्याम् ॥ निजपादसरोजसेवनायै विनयेन स्वयमागतानथाऽऽन्ध्रान् । अनुगृह्य स वेङ्कटाचलेशं प्रणिपत्याऽऽप विदर्भराजधानीम् ।। ४ ४ ६ सर्गः१५] 153 ७ ८ ९ आचार्यकृतदिग्विजयवर्णनम् अभिगम्य स भक्तिपूर्वमस्यां कृतपूजः क्रयकैशिकेश्वरेण । निजशिष्यनिरस्तदुष्टबुद्धीन् व्यदधा स्वतन्त्रसावलम्बान् ॥ अभिवाद्य विदर्भराडवादीदथ कर्णाटवसुन्धरामियासुम् । भगवन् बहुभिः कपालिजालैः स हि देशो भवतामगम्यरूपः ।। न हि ते भगवद्यशः सहन्ते निहितेाः श्रुतिषु ब्रवीम्यतोऽहम् । अहिते जगतां समुत्सहन्ते महितेषु प्रतिपक्षतां वहन्ते ॥ इति वादिनि भूमिपे सुधन्वा यतिराजं निजगावधिज्यधन्वा । मयि तिष्ठति किं भयं परेभ्यस्तव भक्ते यतिनाथ पामरेभ्यः ।। १० अथ तीर्थकराग्रणी: प्रतस्थे किल कापालिकजालकं विजेतुम् । निशमय्य तमागतं समागाक्रकचो नाम कपालिदेशिकाय्यः ॥ ११ पितृकाननभस्मनाऽनुलिप्तः करसंप्राप्तकरोटिरात्तशुलः । सहितो बहुभिः स्वतुल्यवेषैः स इति स्माऽऽह महामनाः सगर्वः ।। १२ भसितं धृतमित्यदस्तु युक्तं शुचि संत्यज्य शिरःकपालमेतत् । वहथाशुचि खपरं किमर्थ न कथंकारमुपास्यते कपाली ॥ १३ नरशीर्षकुशेशयैरलब्ध्वा रुधिराक्तैर्मधुना च भैरवार्चाम् । उमया समया सरोरुहाक्ष्या कथमाश्लिष्टवपुर्मुदं प्रयायात् ।। १४ इति जल्पति भैरवागमानां हृदयं कापुरुषेति तं विनिन्छ । निरवासयदात्मवित्समाजात पुरुषैः स्वैरधिकारिभिः सुधन्वा ।। १५ भृकुटीकुटिलाननश्चलोष्ठः सितमुद्यम्य परश्वधं स मूर्खः । भवतां न शिरांसि चेद्विभिन्द्यां क्रकचो नाहमिति ब्रुवन्नयासीत् ॥ १६ रुषितानि कपालिनां कुलानि प्रलयाम्भोधरभीकरारवाणि । अमुना प्रहितान्यतिप्रसंख्यान्यभियातानि समुद्यतायुधानि । १७ अथ विपकुलं भयाकुलं तद्रुतमालोक्य महारथः सुधन्वा । कुपितः कवची रथी निषङ्गी धनुरादाय ययौ शरान विमुञ्चन् ॥ १८ २२ 154 श्रीमच्छङ्करदिग्विजये [पञ्चदशः अवनीभृति योधयत्यस्तांस्त्वरयैकत्र ततोऽन्यतो नियुक्ताः । क्रकचेन वधाय भूसुराणां द्रुतमासेदुरुदायुधाः सहस्रम् ॥ अवलोक्य कपालिसङ्घमाराच्छमनानीकनिकाशमापतन्तम् । व्यथिताः प्रतिपेदिरे शरण्यं शरणं शङ्करयोगिनं द्विजेन्द्राः ॥ असितोमरपट्टिशत्रिशुलैः प्रजिघांमून् भृशमुज्झिताट्टहासान् । यतिराट् स चकार भस्मसात्तानिजहुङ्कारभुवाऽग्निना क्षणेन ॥ २१ नृपतिश्च शरैः सुवर्णपुङ्खैर्विनिकृतैः प्रतिपक्षवक्तूपझैः । रणरङ्गभुवं सहस्रसङ्घः समलंकृत्य मुदाऽगमन्मुनीन्द्रम् ॥ तदनु क्रकचो हतान् स्वकीयानरुजांश्च द्विजपुङ्गवानुदीक्ष्य । अतिमात्र विद्यमानचेता यतिराजस्य समीपमाप भूयः ।। २३ कुमताश्रय पश्य मे प्रभावं फलमाप्स्यस्यधुनैव कर्मणोऽस्य । इति हस्ततले दधकपालं क्षणमध्यायदसौ निमील्य नेत्रे ॥ २४ सुरया परिपूरितं कपालं झटिति ध्यायति भैरवागमज्ञे । स निपीय तदर्धमर्धमस्या निदधार स्मरति स्म भैरवं च ॥ २५ अथ मर्त्यशिरःकपालमाली ज्वलनज्वालजटाछटस्त्रिशूली । विकटपकटाट्टहासशाली पुरतः प्रादुरभून्महाकपाली ॥ २६ तव भक्तजनद्रह दृशा सञ्जहि देवेति कपालिना नियुक्तः । कथमात्मनि मेऽपराध्यसीति क्रकचस्यैव शिरो जहार रुष्टः ।। यमिनामृषभेण संस्तुतः सनयमन्तधिमवाप देववर्यः । अखिलेऽपि खिले कुले खलानाममुमानचुरलं द्विजाः प्रहृष्टाः ।। यतिराडथ तेषु तेषु देशेष्विति पाषण्डपरान् द्विजान् विमथ्नन् । अपरान्तमहार्णवोपकण्ठं प्रतिपेदे प्रतिवादिदर्पहन्ता ॥ २९ विललास चलत्तरङ्गहस्तैनदराजोऽभिनयन्निगूढमर्थम् । अवधी रितदुन्दुभिस्वनेन प्रतिवादीव महान् महारेण ॥ ३० २७ २८ सर्गः१५] 155 आचार्यकृतदिग्विजयवर्णनम् बहुलभ्रमवानयं जडात्मा सुमनोभिर्मथितश्च पूर्वमेव । इति सिन्धुमुपेक्ष्य स क्षमावानिव गोकर्णमुदारधी: प्रतस्थे ।। ३१ अवगाह्य सरित्पतिं स तत्र प्रियमासाद्य तुषारशैलपुत्र्याः। स्तवसत्तममद्भुतार्थचिंत्र रचयामास भुजङ्गवृत्तरम्यम् ॥ ३२ तदनन्तरमागमान्तविद्यां प्रणतेभ्यः प्रतिपादयन्तमेनम् । हरदत्तसमायोऽधिगम्य स्वगुरुं सगिरते स्म नीलकण्ठम् ॥ भगवन्निह शङ्कराभिधानो यतिरागत्य जिगीषुरार्यपादान् । स्ववशीकृतभट्टमण्डनादिः सह शिष्यैगिरिशालये समास्ते ॥ ३४ इति तद्वचनं निशम्य सम्यग्ग्रथितानेकनिबन्धरत्नहारः । शिवतत्परसूत्रभाष्यकर्ता प्रहसन् वाचमुवाच शैववर्यः ।। ३५ सरितां पतिमेष शोषयेद्वा सवितारं वियतः प्रपातयेद्वा । पटवत्सुरवर्त्म वेष्टयेद्वा विजये नैव तथाऽपि मे समर्थः ॥ ३६ परपक्षतमिस्रचञ्चदकर्मम तहुधा विशीर्यमाणम् । अधुनैव मतं निजं स पश्यविति जल्पनिरगादनल्पकोपः ।। ३७ सितभूतितरङ्गिताखिलाङ्गैः स्फुटरुद्राक्षकलापकम्रकण्ठैः । परिवीतमधीतशैवशास्त्रैर्मुनिरायान्तममुं ददर्श शिष्यैः ॥ ३८ अधिगत्य महर्षिसन्निकर्ष कविरातिष्ठिपदात्मपक्षमेषः । शुकतातकृतात्मशास्त्रतः प्राक्कपिलाचार्य इवाऽऽत्मशास्त्रपद्धा ॥ ३९ भगवन् क्षणमात्रमीक्ष्यतां तत्पथमं तु स्फुरदुक्तिपाटवं मे । इति देशिकपुङ्गवं निवार्य व्यवदत्तेन सुरेश्वरः सुधीशः ॥ सुमते तव कौशलं विजाने स्वयमेवैष मुनिः प्रतिब्रवीतु । इति तं विनिवर्त्य नीलकण्ठो यतिकण्ठीरवसंमुखस्तदाऽऽसीत् ॥ परपक्षबिसावलीमरालैर्वचनैस्तस्य मतं चखण्ड दण्डी । अथ नीलगलः स्वपक्षरक्षां जहदद्वैतमपाकरिष्णुरूचे ।। ४२ ४० ४४ . ४७ 156 श्रीमच्छङ्करदिग्विजये [पञ्चदशः प्रशमिस्तदसीति यस्त्रयीकैः कथितोऽर्थः स न युज्यते त्वदिष्टः । अभिदा तिमिरप्रकाशयोः किं घटते हन्त विरुद्धधर्मवत्वात् ॥ ४३ रवितत्प्रतिबिम्बयोरिवामिद्धटतामित्यपि तत्त्वतो न वाच्यम् । मुकुरे प्रतिबिम्बितस्य मिथ्यात्वगतेयोमशिवादिदेशिकोक्क्या ॥ मुकुरस्थमुखस्य बिम्बवक्ताद्भिदया पार्श्वगलोकलोकनेन । प्रतिबिम्बितमाननं मृषा स्यादिति भावकमतानुगोक्तिका च ॥ न च मायिकजीवनिष्ठमौढ्येश्वरसार्वज्ञविरुद्धधर्मबाधात् । उभयोरपि चित्स्वरूपताया अविशेषादभिदैव वास्तवीति ॥ ४६ न हि मानशतैः स्थितस्य बाधाऽपरथा दत्तजलाञ्जलिभिदा स्यात् । विपरीतहयत्वगोत्वबाधादयपचोर्निजरूपकैक्ययुक्त्या ॥ यदि मानगतस्य हानमिष्टं न भवेत्तर्हि न चेश्वरोऽहमस्मि । इति मानगतस्य जीवसर्वेश्वरभेदस्य न हानमप्यभीष्टम् ॥ इति युक्तिशतैः स नीलकण्ठः कविरक्षोभयदद्वितीयपक्षम् । निगमान्तवच:प्रकाश्यमानं कलभः पद्मवनं यथा प्रफुल्लम् ।। ४९ अथ नीलगलोक्तदोषजालो भगवानेवमवोचदस्तु कामम् । शृणु तत्त्वमसीति संप्रदायश्रुतिवाक्यस्य परावरेऽभिसन्धिम् ॥ ननु वाच्यगता विरुद्धताधीरिह सोऽसावितिवद्विरोधहाने । अविरोधि तु वाच्यमाददैवयं पदयुग्मं स्फुटमाह को विरोधः ।। ५१ यदिहोक्तमतिप्रसञ्जनं भो न भवेन्नो हि गवाश्वयोः प्रमाणम् । अभिदाघटकं तयोर्यतः स्यादुभयोर्लक्षणयाऽभिदानुभूतिः ॥ ५२ ननु मौढ्यसमस्त वित्त्वधर्मान्वितजीवेश्वररूपतोऽतिरिक्तम् । उभयोः परिनिष्ठितं स्वरूपं बत नास्त्येव यतोऽत्र लक्षणा स्यात् ॥ ५३ इति चेन्न समीक्ष्यमाणजीवेश्वररूपस्य च कल्पितत्वयुक्त्या । तदधिष्ठितसत्यवस्तुनोऽद्धा नियमेनैव सदाऽभ्युपेयतायाः ॥ ४८ सर्गः १५] 157 आचार्यकृतदिग्विजयवर्णनम भवताऽपि तथा हि दृश्यदेहायहमन्तस्य जडत्वमभ्युपेयम् । परिशिष्टमुपेयमेकरूपं ननु किश्चिद्धि तदेव तस्य रूपम् ॥ ५५ जगतोऽसत एवमेव युक्त्या त्वनिरूप्यत्वत एव कल्पितत्वात् । तदधिष्ठितभूतरूपमेष्यं ननु किञ्चिद्धि तदीश्वरस्य सत्यम् ॥ ५६ तदिह श्रुतिगोभयस्वरूपे निरुपाधौ न हि मौढ्यसर्व वित्त्वे । न जपाकुसुमात्तलोहितिम्नः स्फटिके स्यान्निरुपाधिके प्रसक्तिः ॥ ५७ अपि भेदधियो यथार्थतायां न भयं भेदशः श्रुतिब्रवीतु । विपरीतहशो ह्यनर्थयोगो न भिदाधीविपरीतधीर्यतः स्यात् ।। ५८ अभिदा श्रुतिगाऽप्यतात्त्विकी चेत्पुरुषार्थश्रवणं न तद्गतौ स्यात् । अशिवोऽहमिति भ्रमस्य शास्त्राद्विधुमानत्वगतेरिवास्ति बाधः ॥ ५९ तदवाधितकल्पनाक्षतिनों श्रुतिसिद्धात्मपरैक्यबुद्धिवाधः । निगमात् प्रबलं विलोक्यते माकरणं येन तदीरितस्य बाधः ॥ ऋषिभिर्वहुधा परात्मतत्वं पुरुषार्थस्य च तत्त्वमप्यथोक्तम् । तदपास्य निरूपितपकारो भवताऽसौ कथमेक एव धार्यः ॥ प्रबलश्रुतिमानतो विरोधे बलहीनस्मृतिवाच एव मेयाः । *इति नीतिबलात्तूयीविरुद्धं न ऋषीणां वचनं प्रमात्वमीयात् ॥ ६२ ननु युक्तियुतं महर्षिवाक्यं श्रुतिवद्ग्राह्यतमं परं तथा हि । प्रतिदेहमसौ विभिन्न आत्मा सुखदुःखादिविचित्रतावलोकात् ॥ ६३ यदि चाऽऽत्मन एकता तदानीमतिदुःखी युवराजसौख्यमीयात् । अमुकः ससुखोऽमुकस्तु दुःखीत्यनुभूतिर्न भवेत्तयोरभेदात् ॥ ६४ अयमेव विदन्वितश्च कर्ता न हि कर्तृत्वमचेतनस्य दृष्टम् । अत एव भुजेर्भवेत्स कर्ता परभोक्तत्वमतिप्रसङ्गदुष्टम् ॥ ६५ * "विरोधेत्वनपेक्षं स्यादसति हनुमानम्" इति जैमिनीयसूत्रम् ॥

158 | पञ्चदशः श्रीमच्छङ्करदिग्विजये पुरुषार्थ इहैष दुःखनाशः सकलस्यापि सुखस्य दुःखयुक्त्वात् । अतिहेयतया पुमर्थता नो विषपृक्तानवदित्यभेद्ययुक्तेः ॥ ६६ इति चेन्न सुखादिचित्रताया मनसो धर्मतयाऽऽत्मभेदकत्वम् । न कथञ्चन युज्यते पुनः सा घटयेत्प्रत्युत मानसीयभेदम् ॥ ६७ चितियोगविशेष एव देहे कृतिमत्ताघटकोऽप्यचेतने स्यात् । तदभावंत एव कर्तृता स्यान्न तृणादेरिति कल्पनं वरीयः ।। ६८ विषयोत्थसुखस्य दुःखयुक्त्वेऽप्यलयं ब्रह्मसुखं न दुःखयुक्तम् । पुरुषार्थतया तदेव गम्यं न पुनस्तुच्छकदुःखनाशमात्रम् ।। ६९ इति युक्तिशवोपबृंहितार्थैर्वचनैः श्रुत्यवरोधसौ विदल्लैः । यतिरात्ममतं प्रसाध्य शैवं परकृद्दर्शनदारुणैर पीत् ।। विजितो यतिभूभूता स शैवः सह गर्वेण विसृज्य च स्वभाष्यम् । शरणं प्रतिपेदिवान् महर्षि हरदत्तपमुखैः महाऽऽत्मशिष्यः ।। ७१ यमिनामृषभेण नीलकण्ठं जितमाकर्ण्य मनीपिधुर्यवर्यम् । सहसोदयनादयः कवीन्द्राः परमद्वैतमुपश्चकम्पिरे स्म ।। विषयेषु वितत्य नैजभाष्याण्यथ सौराष्ट्रमुखेषु तत्र तत्र । बहुधा विबुधैः प्रशस्यमानो भगवान् द्वारवतीं पुरी विवेश ।। भुजयोरतितप्तशङ्खचक्राकृतिलो हाहतसंभृतबगाङ्काः । शरदण्डसहोदरोर्ध्वपुण्डास्तुलसीपर्णसनाथकर्णदेशाः ।। शतशः समवेत्य पाश्चरात्रास्त्वमृतं पञ्चभिदाविदां वदन्तः । मुनिशिष्यवरैरतिप्रगल्भैमगराजैरिव कुञ्जराः प्रभग्नाः इति वैष्णवशैवशाक्तसौरभमुखानात्मवशंवदान्विधाय । अतिवेलवचोझरीनिरस्तप्रतिवाद्युञ्जयिनी पुरीमयासीत् !! ७६ सपदि प्रतिनादितः पयोदस्वनशङ्काकुलगेहकेकिजालैः । शशभृन्मुकुटाईणामृदङ्गध्वनिस्श्रूयत तत्र मूर्छिताशः ॥ ॥

सर्गः १५] 159 ७८ ७९ ८२ आवार्यकृतदिग्विजयवर्णनम् मकरध्वज विद्विाप्ति विद्वाश्रमहत्पुष्पसुगन्धवन्मरुद्भिः । अगरूद्भवधूपधूपिताशं स महाकालनिवेशनं विवेश ।। भगवानभिवन्ध चन्द्रमौलिं मुनिवृन्दैरभिवन्धपादपद्मः । श्रमहारिणि मण्डपे मनोज्ञे स विशश्राम विसत्वरप्रभावः ।। कवये कथयास्मदीयवार्ता मिह सौम्येति स भट्टभास्कराय । विससर्ज वशंवदाग्राण्यं मुनिरभ्यर्णगतं सनन्दनार्यम् । अभिरूपकुलावतंसभूतं बहुधाब्याकृतसर्ववेदराशिम् । तमयत्ननिरस्तदुःसपत्नं प्रतिपयेत्थमुवाच वावदुकः ।। ८१ जयति स्म दिगन्तगीतकीर्तिभंगवाञ्शङ्करयोगिचक्रवर्ती । प्रथयन् परमाद्वितीयतचं शमयंस्तत्परिपन्थिवादिदर्पम् ।। स जगाद बुधायाभवन्तं कुमतोत्पेक्षितमूत्रत्तिजालम् । अभिभूय वयं त्रयी शिखानां समवादिष्म परावरेऽभिसन्धिम् ।। ८३ तदिदं परिगृह्यतां मनीषिन् मनसाऽऽलोच्य निरस्य दुर्मतं स्वम् । अथवाऽस्मदुदग्रतवज्रपतिघातात् परिरक्ष्यतां स्वपक्षः ॥ इति तामवहेलपूर्ववर्णा गिरमाकर्ण्य तदा स लब्धवर्णः । यशसां निधिरीषदात्तरोषस्तमुवाच प्रहसन् यतीन्द्रशिष्यम् ।। ध्रुवमेष न शुश्रुवानुदन्तं मम दुर्वादिवचस्ततीर्नुदन्तम् । परकीर्तिविसाङरानदन्तं विदुषां मूर्धसु नानटत्पदं तम् ॥ ८६ मम बलगति मुक्तिगुम्फटन्दे कणभुग्जल्पितमल्पतामुपैति । कपिलस्य पलायते प्रलापः सुधियां कैव कथाऽधुनातनानाम् ।। इति वादिनमब्रवीत् सनन्दः कुशलोऽथैनमविज्ञ माऽवमंस्थाः । न हि दारितभूधरोऽपि टङ्कः प्रभवेद्वज्रमणिप्रभेदनाय ॥ स तमेवाछुदीर्य तीर्थकीर्तेरुपकण्ठं प्रतिपद्य सद्विदग्र्यः । सकलं तदवोचदानुपूर्वा स महात्माऽपि यतीशमासप्लाद ॥ ८९ ८५ ८८ 160 श्रीमच्छङ्करदिग्विजये [पञ्चदशः अथ भास्करमस्करिप्रवीरौ बहुधाक्षेपसमर्थनप्रवीणौ । बहुभिर्वचनैरुदारवृत्तैर्व्यदधातां विजयैषिणौ विवादम् ॥ अनयोरतिचित्रशब्दशय्यां दधतोर्दुर्नयभेदशक्तयुक्त्योः । पटुवादमृधेऽन्तरं तटस्थाः श्रुतवन्तोऽपि न किश्चनान्यविन्दन् ॥ अथ तस्य.यतिः समीक्ष्य दाक्ष्यं निजपक्षाब्जशरज्जडाब्जभूतम् । बहुधाऽऽक्षिपदस्य पक्षमार्यो विबुधानां पुरतोऽप्रभातकक्ष्यम् ॥ ९२ अथ भास्करवित्स्वपक्षगुप्त्यै विधुतो वाग्ग्मिधरः प्रगल्भयुक्त्या । श्रुतिशीर्षवचःप्रकाश्यमेवं कविरद्वैतमपाकरिष्णुरूचे ॥ ९३ प्रशमिस्त्वदुदीरितं न युक्तं प्रकृति वपरात्मभेदिकेति । न भिनत्ति हि जीवगेशगा दोभयभावस्य तदुत्तरोद्भवत्वात् ।। मुनिरेवमिहोत्तरं बभाषे मुकुरो वा प्रतिबिम्ब बिम्बभेदी । कथमीरय वक्तमात्रगश्चेञ्चितिमात्राश्रिदियं तथेति तुल्यम् ॥ ९५ चितिमात्रगप्रकृत्युपाधे हतो बिम्बपरात्मपक्षपातम् । प्रतिविम्बितजीवपक्षपातो मुकुरस्येव विरुध्यते न जातु ॥ ९६ अविकारिनिरस्तसङ्गबोधैकरसात्माश्रयता न युज्यतेऽस्याः । अत एव विशिष्टसंश्रितत्वं प्रकृतेः स्यादिति नापि शङ्कनीयम् ॥ ९७ न हि मानकथा विशिष्टगत्वे भवदापादित ईक्षते तथा हि । अहमज्ञ इति प्रतीतिरेषा न हि मानत्वमिहाश्नुते तथा चेत् ।। ९८ अनुभव्यहमित्यपि प्रतीतेरनुभूतेश्च विशिष्टनिष्ठता स्यात् । अजडानुभवस्य नो जडान्तःकरणस्थत्वमितीष्टता न तस्याः ॥ ९९ ननु दाहकता यथाग्नियोगादधिकूटं व्यपदिश्यते तथैव । अनुभूतिमदात्मयोगतोऽन्तःकरणे सा व्यपदिश्यतेऽनुभूतिः ॥ १०० इति चेन्मैवमिहापि तस्य मायाश्रयचिन्मात्रयुते तथोपचारः । न पुनस्तदुपाधियोगतोऽन्तःकरणस्येति समाऽन्यथागतिर्हि ।। १०१ सर्गः १५] 161 आचार्यकृतदिग्विजयर्णनम् न च तत्र हि बाधकस्य सत्वादियमस्तु प्रकृतेन साऽस्त्यबाधात् । इति वाच्यमिहापि तज्जचित्ते तदुपाश्रित्ययुतेश्च बाधकत्वात् ॥ १०२ अधिसुप्त्यपि चित्तवति तत्स्याद्यदि चाज्ञानमिदं हृदाश्रितं स्यात् । तदिहास्ति न मानक्तरीत्या प्रकृतेश्यविशिष्टनिष्ठतायाम् ।। १०३ ननु न प्रतिबन्धिकैव सुप्ताविति सा दृरत एवं चिद्गति । प्रतिबन्धकशुन्यता तु सुतेः परमात्मैक्यगतः सतेति वाक्यात् ।। १०४ न च तत्र च तत्स्थितिप्रतीतिः सति संपद्य विदुर्न हीति वाक्यात् । श्रुतिगीस्तदधिक्षिपत्यभावपतिपत्तेर्न च निनोऽत्र नेति ॥ १०५ किमु नित्यमनित्यमेव चैतत्प्रथमो नेह समस्ति युक्त्यभावात् । अनिवर्तकसत्त्वतोऽस्य नान्यो न हि भिन्द्यादविरोधि चित्प्रकाशः ॥ न च तच्छमयेज्जड प्रकाशोऽप्यविरोधात सुतरां जडत्वतोऽस्य । तदिहापतिबन्धकत्वमस्य प्रभवेत् किंत्विह तभ्रंमाग्रहादि ॥ १०७ इति चेदिदमीरय भ्रमः को मनुजोऽहं विति शेमुषीति चेन्न । अतिविस्मृतिशीलता तवाही गदितुः सर्वपदार्थसङ्करस्य ॥ १०८ प्रमितित्वमुपाश्रयन् प्रती तेरमुकः खण्ड इति स्वाशास्त्रसिद्धात् । भिदभिवयगात्तरत्वहेतोर्धियमेतां तु किमित्युपेक्षसे त्वम् ॥ १०९ अनुमानमिदं तथा च सिद्धं विपता धीः प्रमितिभिदाभिदत्वात् । इह चारु निदर्शनं भवेत् सा तव खण्डोऽयमिति प्रतीतिरेषा ॥ ११० ननु संहननात्मधी: प्रमाणं न भवत्येव निषिद्धयमानगत्वात् । इदमिति प्रतिपन्नरूप्यधीवत्पबला सत्पतिपक्षतेति चेन ॥ १११ व्यभिचारयुतत्वतोऽस्य खण्डः पशुरित्यत्र तदन्यधीस्थमुण्डे । इतरत्र निषिध्यमानखण्डोल्लिखितत्वेन निरुक्तहेतुमत्त्वात् ॥ ११२ ननु हेतुरयं विवक्ष्यतेऽत्र प्रतिपन्नोपधिक निषेधगत्वम् । इति चेन्न विवक्षितस्य हेतोपभिचारात् पुनरप्यमुत्र चैव ॥ ११३ 162 श्रीमच्छङ्करदिग्विजये [पञ्चदशः ननु गोत्व उपाधिके त्वमुष्य प्रतिपन्नस्य हि तत्र नो निषेधः । अपि तु प्रथमानमुण्ड इत्यत्र तथा च व्यभिचारिता न हेतोः ॥ ११४ इति चेन विकल्पनासहत्वात् किमु खण्डस्य तु केवले निषेधः । उत गोत्वसमन्विते स मुण्डे प्रथमो नो घटते प्रसत्यभावात् ॥ ११५ न हि जात्वपि खण्डके प्रसक्तः परमुण्डस्त्विति संपसत्यभावः । चरमोऽपि न गोत्वयुक्तमुण्डे खलु खण्डस्य निषेधकाल एव ॥ ११६ खविशेषणभूतगोत्व एव स्फुटमेतस्य निषेधनं श्रुतं स्यात् । तदिहोदितहेतुसत्त्वतोऽस्य व्यभिचारो दृढवज्रलेप एव ॥ ११७ ननु भातितरामुगाधिरत्रादलदेतद्वयवहतेति चेन्न । अहमोऽनुभवेन साधनव्यापकभावादवगत्यनन्तरं च ॥ ११८ ननु तद्वयवहारसंछिदाया इह तत्केन कमित्यनेन मुक्तौ । श्रुतिवाक्यगतेन संपतीतेपवहतुन कथं छिदेति चेन्न । ११९ तदिदं घटते मतेऽस्मदीये तदबोधोल्लसितत्वतोऽखिलस्य । तदबोधलये लयोपपत्तेजगतः सत्यतया छिदा न ते स्यात् ॥ १२० ननु पञ्चसु तु स्थलेषु भेदो ह्यभिदा नो तु शरीरदेहिनोस्ते । प्रथितस्थलपञ्चकेतरत्वात् फलिता ह्यत्र तथा च हेत्वसिद्धिः ॥ १२१ इति चेन्न विकल्पनासहत्वान्मिलितानां भिदभेदतन्त्रता किम् । उत वा पृथगेव तत्र नाऽऽद्यो मिलिताः पञ्च न हि कचिद्यतः स्युः ।। चरमोऽपि न युज्यते तदाऽङ्गाङ्गिकभावस्य च तन्त्रता न किं स्यात् । न च योजकगौरवं च दोषः प्रकृते तस्य तवापि सम्मतत्त्वात् ॥ १२३ अपि चान्यतमस्य जातितद्वत्प्रभृतीनां घटकत्व आग्रहश्चेत् । अपि सोऽत्र न दुर्लभश्चिदात्माङ्गकयोः कारणकार्यभावभावात् ।। १२४ न च वाच्यमिदं परात्मजवात्सकलस्यापि न जीवकार्यतेति । तदभेदत एव सर्वकस्याप्युपपत्तेरिह जीवकार्यतायाः ॥ १२५ सर्गः१५] आचार्यकृतदिग्विजयवर्णनम् 163 तदसिद्धिमुखानुमानदोषानुदयादुक्तनयस्य निर्मलत्वम् । नमधीप्रमितित्ववेदिनोऽतस्तव न भ्रान्तिपदार्थ एव सिध्येत् ॥ १२६ अपि च भ्रम एष किं तवान्तःकरणस्येति चिदात्मनोऽथवाऽसौ । परिणाम इहाऽऽदिमो न तस्याऽऽत्मगतत्वानुभवस्य भङ्गपत्तेः ।। १२७ ननु रक्ततमप्रसूनयोगात् स्फटिके संस्फुरणं यथाऽरुणिम्नः । भ्रमसंयुतचित्तयोगतोऽस्य भ्रमणस्यानुभवस्तथाऽऽत्मनि स्यात्।। १२८ इति चेदयमीरयाऽऽत्मयोगो भ्रमणस्याऽऽश्रित एष सनसन्वा । प्रथमो घटते न संसृजेस्तेऽपरथाख्यातिवदस्य शून्यकत्वात् ॥ १२९ चरमोऽपि न युज्यतेऽपरोक्षपथनस्यानुपपद्यमानतायाः । परिणामविशेष आत्मनोऽसौ भ्रम इत्येष न युज्यतेऽन्त्यपक्षः॥ १३० असभागतयाऽऽत्मनो निरस्तेतरयुक्तेः परिणत्ययोग्यतायाः । परिणत्ययुजेश्च योग्यतायामपि बुद्धयाकृतितश्चिदात्मनोऽस्य ।। १३१ न हि नित्यचिदाश्रयपतीचः परिणामः पुनरन्यचित्स्वरूपः । गुणयोः समुदायगत्ययोगाद्गुणतावान्तरजातित: सजात्योः ।। १३२ युगपत्समवैति नो हि शौक्लयद्वयकं यत्र च कुत्रचिद्यदेतत् । ननु चिन्न गुणो गुणी तथा च प्रसरेनोदितदुष्टतेति चेन्न ।। १३३ कटकाश्रयभूतदीप्तहेम्नो रुचकाधारकभाववत्तथैव । अविनाशिचिदाश्रयस्य भूयोऽन्यचिदाधारतया स्थितेरयोगात् ॥१३४ न च संस्कृतिरग्रहोऽप्यविद्या भ्रमशब्दार्थनिरुत्यसंभवेऽपि । भ्रमसंज्ञितवस्त्वसंभवेन भ्रमसंपादितसंस्कृतेरयोगात् ॥ १३५ अपि नाग्रहणं चितेरभावश्चितिरूपग्रहणस्य नित्यतायाः । तदसंभवतो न वृत्यभावस्तदभावेऽपि चिदात्मनोऽवभासात् ॥ १३६ न च भञ्जकमीक्ष्यते न तस्योपगमे दुःखजडानृतात्मकस्य । इति वाच्यमखण्डवृत्तिरूढेश्वरबोधस्य निवर्तकत्वयोगात् ।। १३७ 161 ॥ श्रीमच्छङ्करदिग्विजये [पञ्चदशः अपि चेष्टतदन्यहेतुधीजे जगतः कृत्यकृती न ते घटेते । सकलव्यवहारसङ्करत्वात्तदलं जीवनिकाऽपि दुर्लभा ते ॥ १३८ इति युक्तिशतैरमर्त्यकीर्तिः सुमतीन्द्रं तमतन्द्रितं स जित्वा । श्रुतिभावविरोधिभावभाजं विमतग्रन्थममन्थरं ममन्थ १३९ इति भास्करदुर्मतेऽभिभूते भगवत्पादकथासुधा प्रसस्रे । घनवार्षिकवारिवाइजाले विगते शारदचन्द्रचन्द्रिकेव ।। १४० स कथाभिरवन्तिषु प्रसिद्धान् विबुधान् बाणमयूरदण्डिमुख्यान् । शिथिलीकृतदुर्मताभिमानान्निजभाष्यश्रवणोत्सुकांश्चकार ॥ १४१ प्रतिपद्य तु बालिकान् महर्षों विनयिभ्यः प्रविष्यति स्वभाष्यम् । अवदन्नसहिष्णवः प्रवीणाः समये केचिदथाऽऽहताभिधाने ॥ १४२ ननु जीवमजीवमास्रवं च श्रितवत्संवरनिर्जरौ च बन्धः । अपि मोक्ष उपैषि सप्तसंख्यान्न पदार्थान् कथमेव सप्तभङ्गया ।। १४३ कथयाऽऽहंत जीवमस्तिकायं स्फुटमेवं विध इत्युवाच मौनी । अवदत्स च देहतुल्यमानो दृढकर्माष्टकवेष्टितश्च विद्वन् । १४४ अमहाननणुर्घटादिवत्स्यात्स न नित्योऽपि च मानुषाच्च देहात् । गजदेहमयन्विशेन कृत्स्नं प्रविशेच्च प्लुषिदेहमप्यकृत्स्नः ॥१४५ उपयान्ति च केचन प्रतीका महता संहननेन सङ्गमेऽस्य । अपयान्त्यधिजग्मुषोऽल्पदेहं तदयं देहसमः समश्रुतेश्च ॥ १४६ उपयन्त इमे तथाऽपयन्तो यदि वमेव न जीवतां भजेयुः । प्रभवेयुरनात्मनः कथं ते कथमात्मावयवाः प्रयन्तु तस्मिन् । १४७ जनितारहिताः क्षयेण हीनाः समुपायान्त्यपयान्ति चाऽऽत्मनस्ते । अमुकोपचितः प्रयाति कृत्स्नं त्वमुक्रैश्चापचितः प्रयात्यकृत्स्नम् ॥ किमचेतनतोत चेतनत्वं वद तेषां चरमे विरुद्धपत्या । वपुरुन्मथितं भवेत्तु पूर्वे बत कात्स्न्येन वपुर्न चेतयेयुः ॥ १४९ सर्गः १५] 165 १५२ आचार्यकृतदिग्विजयवर्णनम् चलयन्ति रथं यथैकमत्या बहवो वाजिन एवमप्रतीताः । इतरेतरमझमेजयन्तु ज्ञपते चेतनतामपि प्रपद्य १५० बहवोऽपि नियामकस्य सत्त्वात्सुमते तत्र भजेयुरैकमत्यम् । कथमत्र नियामकस्य तद्विरहात् कस्यचिदप्यदो घटेत ॥ १५१ उपयान्ति न चापयान्ति जीवावयवाः किन्तु महत्तरे शरीरे । विकसन्ति च सङ्घन्त्यनिष्टे यतिवर्यात्र निदर्शनं जलौका ।। यदि चैवममी सविक्रियत्वाद्ववत्ते च विनश्वरा भवेयुः । इति नश्वरतां प्रयाति जीवे कृतनाशाकृतसङ्गमौ भवेताम् ।। १५३ अपि चैवमलाबुवद्भवाब्धौ निजकोष्टकभारमग्न जन्तोः । सततोर्ध्वगतिस्वरूपमोक्षस्तव सिद्धान्तसमर्थितो न सिध्येत् ।। १५४ अपि साधनभूतसप्तभङ्गीनयमप्याहत नाऽऽद्रियामहे ते । परमार्थसतां विरोधमाजां स्थितिरेकत्र हि नैकदा घटेत ॥ १५५ इति माध्यमिकेषु भग्नदपेष्वथ भाष्याणि स नैमिशे वितत्य । दरदान् भरतांश्च शूरसेनान् कुरुपाञ्चालमुखान् बहूनजेषीत् ।। १५६ पटुयुक्तिनिकृत्तसर्वशास्त्रं गुरुभट्टोदयनादिकैरजय्यम् स हि खण्डनकारमूढदर्प बहुधा व्युद्य वशंवदं चकार ॥ १५७ तदनन्तरमेष कामरूपानधिगत्याभिनवोपशब्दगुप्तम् । अजयकिल शाक्तभाष्यकारं स च भग्नो मनसेदमालुलोचे ।। १५८ निगमाजविकासिवालभानोन समोऽमुष्य विलोक्यते विलोक्याम् । न कथञ्चन मदर्शवदाऽसौ तदमुं दैवतकृत्यया हरेयम् ॥ १५९ इति गूढमसौ विचिन्त्य पश्चात सह शिष्यैः सहसा स्वशाक्तभाष्यम् । परिहत्य जनापवादभीत्या यमिनः शिष्य इवान्ववर्ततैषः ।। १६० निजशिष्यपदं गतानुदीच्यानिति कृत्वाऽथ विदेहको शलाद्यैः । विहितापचितिस्तथाऽङ्गबङ्गेष्वयमास्तीर्य यशो जगाम गौडान ॥ १६१ 166 श्रीमच्छङ्करदिग्विजये [पश्चदशः अभिभूय मुरारिमिश्रवयं सहसा चोदयनं विजित्य वादे । अवधृय च धर्मगुप्तमिश्रं स्वयशः प्रौढमगापयत्स गौडान् ॥ १६२ पूर्व येन विमोहिता द्विजवरास्तस्यासतोऽरीन् कलौ बुद्धस्य प्रबिभेद मस्करिवरस्तान् भास्करादीन् क्षणात् । शास्त्राम्नायविनिन्दकेन कुधिया कूटपवादाग्रहा- निष्णातो निगमागमादिषु मतं दक्षस्य कूटग्रहे ।। १६३ शाक्तैः पाशुपतैरपि क्षपणकैः कापालिकैवैष्णवै- रप्यन्यैरखिलैः खिलं खलु खलैर्दुर्वादिभिर्वैदिकम् । मार्ग रक्षितुमुग्रवादिविजयं नो मानहेतोय॑धा- सर्वज्ञो न यतोऽस्य संभवति सम्मानग्रहग्रस्तता ॥ १६४ दिष्टे पङ्कजविष्टरेण जगतामायेन तत्सूनुभि- निर्दिष्टे सनकादिभिः परिचिते प्राचेतसाचैरपि । श्रौताद्वैतपथे परात्मभिदुरान् दुर्वा दिनः कण्टकान् प्रोद्धृत्याथ चकार तत्र करुणो मोक्षाध्वगक्षुण्णताम् ॥ १६५ शान्तिर्दान्तिविरागते ह्यपरतिः क्षान्तिः परैकाग्रता श्रद्धेति प्रथिताभिरेधिततनौ षड्वक्तवन्मातृभिः । भिक्षुक्षोणिपतौ पिचण्डिलतरोच्चण्डातिकण्डूच्चल- त्पाखण्डासुरखण्डनैकरसिके बाधा बुधानां कुतः ।। १६६ यत्राऽऽरम्भजकाहलाकलकलैर्लोकायतो विद्रुतः काणाः काणभुजास्तु सैन्यरजसा सांख्यैधृताऽसांख्यधीः । युवा तेषु पलायितेषु सहसा योगाः सहैवाद्रवन् को वा वादिभटः पटुर्भुवि भवेद्वस्तुं पुरस्तान्मुनेः ॥ १६७ उच्चण्डे पणबन्धबन्धुरतरे वाचंयमक्ष्मापतेः पूर्व मण्डनखण्डने समुदभूयो डिण्डिमाडम्बरः । जाताः शब्दपरम्परास्तत इमाः पाखण्डदुर्वादिना- मद्य श्रोत्रतटाटवीषु दधते दावानलज्वालताम् ॥ १६८ सर्गः १५] 167 आचार्यकृतदिग्विजयवर्णनम् बुद्धो युद्धसमुद्यतः किल पुनः स्थित्वा क्षणाद्विद्वतः कोणे द्राक्कणभुग्व्यलीयत तमःस्तोमातो गौतमः । भग्नोऽसौ कपिलः पलायत ततः पातञ्जलाश्चाञ्जलि चक्रुस्तस्य यतीशितुश्चतुरता केनोपमीयेत सा ॥ १६९ हस्तग्राहं गृहीताः कति चन समरे वैदिका वादियोधाः काणादाद्याः परे तु प्रसभमभिहता हन्त लोकायताद्याः । गाढं बन्दीकृतास्ते सुचिरमथ पुनः स्वस्वराज्ये नियुक्ताः सेवन्ते तं विचित्रा यतिधरणिपतेः शूरता वा दया वा ॥ १७० शान्त्याद्यर्णववाडवानल शिखा सत्याभ्रवात्या दया- ज्योत्स्नादर्शनिशाऽथ शान्तिनलिनीराकाशशाङ्कद्युतिः । आस्तिक्यद्रुपदावपावकनवज्वालावली सत्कथा- हंसीपाडखण्डि दण्डिपतिना पाखण्डवामण्डली ॥ १७१ अद्वैतामृतवर्षिभिः परगुरुन्याहारधाराधरैः कान्तैर्हन्त समन्ततः प्रसृमरैरुत्कृत्ततापत्रयैः । दुर्भिक्षं स्वपरैकताफलगतं दुर्भिक्षुसंपादितं शान्तं संपति खण्डिताश्च निबिडाः पाखण्डचण्डातपाः ॥ १७२ शान्तानां सुभटाः कपालिकपतदग्राहग्रहव्यापृताः काणादपतिहारिणः क्षपणकक्षोणीशवैतालिकाः । सामन्ताश्च दिगम्बरान्वयभुवश्चार्वाकवंशाङ्कुरा नव्याः केचिदलं मुनीश्वरगिरा नीताः कथाशेषताम् ॥ १७३ इति सकलदिशासु द्वैतवार्तानिवृत्तौ स्वयमथ परितस्तारायमद्वैतवम् । प्रतिदिनमपि कुर्वन् सर्वसन्देहमोक्ष रविरिव तिमिरौघे संप्रशान्त महः स्वम् ।। इति श्रीमाधवीये तत्तदाशाजयकौतुकी । संक्षेपशङ्करजये सर्गः पञ्चदशोऽभवम् ॥ १५ ॥ आदितः श्लोकाः 1736.

168 [षोडशः श्रीमच्छङ्करदिग्विजये अथ षोडशः सर्गः॥ १६ ॥ श्रीमदाचार्याणां शारदापीठवासवर्णनम् ॥ १ २ ३ अथ यदा जितवान्यतिशेखरोऽभिनवगुप्तमनुत्तममान्त्रिकम् । स तु तदाऽपजितो यतिगोचरं हतमनाः कृतवानपगोरणम् ॥ स ततोऽभिचचार मूढबुद्धिर्यतिशार्दूलममुं प्ररूहरोषः । अचिकित्स्यतमो भिषम्भिरस्मादनिष्टास्य भगन्दराख्यरोगः ।। अचिकित्स्यभगन्दराख्यरोगपसरच्छोणितपङ्किलस्वशाध्या: । अजुगुप्सविशोधनादिरूपां परिचर्यामकृतास्य तोटकार्यः । भगन्दरव्याधिनिपीडितं गुरुं निरीक्ष्य शिष्याः समबोधयशनैः । नोपेक्षणीयो भगवन् महामयस्त्वपीडितः शत्रुरिवर्द्धिमामुयात् ॥ ४ ममत्वहानाद्भवता शरीरके न गण्यते व्याधिकृताऽऽतिरीशी । पश्यन्त एवान्तिकवर्तिनो वयं भृशातुराः स्मः सहसा व्यथासहाः ।। ५ चिकित्सका व्याधिनिदानकोविदाः संपच्छनीया भगवन्नितस्ततः । प्रत्यक्षवत्संपति सन्ति पूरुषा जीवातुवेदे गदितार्थसिद्धिदाः ॥ ६ उपेक्षमाणेऽपि गुरावनास्थया शरीरकादौ सुग्वमात्मनीश्वरैः । नोपेक्षणीयं गुरुदुःखःश्वभिदुःखं विनेयैरिति शास्त्रनिश्चयः ।। स्वस्थे भवत्पादसरोरुहद्वये स्वस्था वयं यन्मधुपायिवृत्तयः । तस्माद्भवेत्तावकविग्रहो यथा स्वस्थस्तथा वाञ्छति पूज्य ना मन: ।। ८ व्याधिर्हि जन्मान्तरपापपाको भोगेन तस्मात् क्षपणीय एषः । अभुज्यमानः पुरुषं न मुञ्चेजन्मान्तरेऽपीति हि शास्त्रवादः ।। व्याधिर्द्विधाऽसौ कथितो हि विद्भिः कर्मोद्भवो धातुकृतस्तथेति । आद्यक्षयः कर्मण एव लीनाचिकित्सया स्याञ्चरमादितस्य ॥ १० संक्षीयतां कर्मण एव संक्षयाव्याधिः प्रवृत्तो न चिकित्स्यने मया । पतेच्छरीरं यदि तन्निमित्ततः पतत्ववश्यं न विभेमि किञ्चन ।। ७ सर्गः १६] 1 श्रीमदाचार्याणां शारदापीठवासवर्णनम् 169 सत्यं गुरो ते न शरीरलोभः स्पृहालुता नस्तु चिराय तस्मै । त्वज्जीवनेनैव हि जीवनं नः पाथश्वराणां जलमेव तद्धि ॥ १२ स्वयं कृतार्थाः परतुष्टिहेतोः कुर्वन्ति सन्तो निजदेहरक्षाम् । तस्माच्छरीरं परिरक्षणीयं त्वयाऽपि लोकस्य हिताय विद्वन् । १३ निर्बन्धतो गुरुवरः प्रददावनुज्ञां दिग्भ्यो भिषग्यरसमानयनाय तेभ्यः । नत्वा गुरुं प्रतिदिशं प्रययुः प्रहृष्टाः शिष्याः प्रवासकुशळा हरिभक्तिभाजः ।। प्रायो नृपं कविजना भिषजो वदान्यं वित्तार्थिनः प्रतिदिनं कुशला जुषन्ते । तस्मादमी नृपपुरेषु निरीक्षणी या इत्येव चेतसि मनोरथमादधानाः ।। तेऽतीत्य देशान् बहुलान् स्वकार्यसिद्धथै कचिद्राजपुरे भिषम्भिः । अवाप्य सन्दर्शनभाषणानि समानयंस्तान् गुरुवर्यपार्श्वम् ।। १६ ततो द्विजेन्द्रैर्निजसेवकैस्तान् सन्तोषितान् स्वाभिमतार्थदानैः । यदत्र कर्तव्यमुदीर्यतां तत्कुर्मः स्वशत्येति वदाञ्जगौ सः ॥ १७ उपगुदं भिषजः परिबाधते गद उदेत्य तनुं तनुमध्यगः । यदिदमस्य विधेय मदं ध्रुवं वदत रोगतस्तिमिरारयः ॥ १८ चिरमुपे क्षतवानहमेतकं दुरितजोऽयमिति प्रतिभाति मे। तदपि शिष्यगणैर्निरहिंस्यहं हितवान् भवदानयनाय तान् । निगदिते मुम्नेति भिषग्वरा विदधिरे बहुधा गदसत्क्रियाः । न च शशाम गदा बहुतापदो विमनसः पटवो भिषजोऽभवन् ।। अथ मुनिर्विमनस्त्वसमन्वितानिदमवोचत सिद्धभिषग्वरान् । अटल गेहमगात्समयो बहुगदहते भवतामित ईयुषाम् ॥ २१ दिनचयं गणयन पथिलोचनः प्रियजनो निवसेद्विरहातुरः । नरपतिर्भवतां शरणं ध्रुवं स च विदेशगमं श्रुतवान्यदि । रुषितवान्न च वो वितरेन्नृपः फणितजीवितमक्षतशासनः । दुरगवन्नृपतिश्चलमानसो भिषजमन्यमसौ विदधीत वा ॥ २३ १९ २२ । 170 २४ श्रीमच्छङ्करदिग्विजये [षोडशः जनपदो विरलो गदहारकैबहुलरुग्णजनः प्रकृतेरतः । मृगयते भवतो भवतां गृहे गदिजनः सहितुं गदमक्षमः ॥ पितृकृता जनिरस्य शरीरिणः समवनं गदहारिषु तिष्ठति । जनितमप्यफलं भिषजं विना भिषासौ हरिरेव तनुभृतः ॥ २५ यदुदितं भवता वितथं न तत्तदपि न क्षमते व्रजितुं मनः । सुरभुवं प्रविहाय मनुष्यगां व्रजितुमिच्छति कोऽत्र नरः सुधीः ॥ २६ इति निगद्य ययुभिषजां गणा विमनसः पटवोऽपि निजान् गृहान् । अथ मुनिर्विजहन्ममतां तनौ गुरुवरो गुरुदुःखमसोढ सः ॥ प्रथितैरवनौ परःसहस्रैरगदंकारचयैरथाचिकित्स्ये । प्रबले सति हा भगन्दराख्ये स्मरति स्म स्मरशासनं मुनीन्द्रः ॥ २८ स्मरशासनशासनानियुक्तौ द्विजवेषं प्रविधाय भूमिमाप्तौ । उपसेदतुरश्विनौ च देवौ सुभुजौ साञ्जनलोचनो सुपुस्तौ ।। २९ यतिवर्य चिकित्सितुं न शक्या परकृत्याजनिता हि ते रुगेषा । इति तं समुदीर्य योगिवर्य विबुधौ तौ प्रतिजग्मतुर्यथेतम् ।। ३० तदनु स्वगुरोर्गदापनुत्यै परमन्त्रं तु जनाप जातमन्युः । मुहुरार्यपदेन वार्यमाणोऽप्यरिवर्गेऽप्यनुकम्पिनाऽब्जपादः ॥ ३१ अमुनैव ततो गदेन नीचः प्रतियातेन हतो ममार गुप्तः । मतिपूर्वकृतो महानुभावेष्वनयः कस्य भवेत्सुखोपलब्ध्यै ।। ३२ स्वस्थः सोऽयं ब्रह्म सायं कदाचिद्ध्यायन् गङ्गापूरसङ्गावातैः । आगच्छन्तं सैकते प्रत्यगच्छद्योगीशानं गौडपादाभिधानम् ॥ ३३ पाणौ फुल्लश्वेतपङ्केरुहश्रीमैत्रीपात्रीभूतभासा घटेन । आराद्राजकैरवानन्दसन्ध्यारागारक्ताम्भोदलीलां दधानम् ॥ ३४ पाणौ शोणाम्भोजबुद्धया समन्तादभ्राम्यद्भुङ्गीमण्डलीतुल्यकुल्याम् । अगुल्यग्रासङ्गिरुद्राक्षमालामङ्गुष्ठाग्रेणासकृद्भ्रामयन्तम् ॥ ३५ 171 सर्गः १६] श्रीमदाचार्याणां शारदापीठवासयर्णनम् आर्यस्याथो गौढपादस्य पादावभ्यासौ शङ्करः पङ्कजाभौ । भक्तिश्रद्धासंभ्रमाक्रान्तचेताः प्रहस्तस्थावग्रतः पाञ्जलिः सन् ॥ सिञ्चन्नेनं क्षीरवाराशिवीचीसाचिव्यायाऽऽसन्नयत्नैः कटाक्षः । दन्तज्योत्स्नादन्तुराश्चापि कुर्वनाशाः सूक्ति सन्दधे गौढपादः ।। कञ्चित्सा वेरिस गोविन्दनाम्नो हृद्या विद्या संमृदुद्धारकृया । कचित्तचं तवमानन्दरूपं नित्यं सच्चिन्निर्मलं वेत्सि वेद्यम् ॥ ३८ भक्त्या युक्ता स्वानुरक्ता विरक्ताः शान्ता दान्ताः सन्ततं श्रद्धधानाः । कच्चित्तत्वज्ञानकामा विनीताः शुश्रूषन्ते शिष्यवर्या गुरुं त्वाम् ॥ ३९ कञ्चिन्नित्याः शत्रवो निर्जितास्ते कच्चित्प्राप्ताः सद्गुणाः शान्तिपूर्वाः । कच्चियोगः साधितोऽष्टाङ्गयुक्तः कच्चिच्चित्तं साधुचित्तत्त्वगं ते ।। इत्यद्वैताचार्यवर्येण तेन प्रेम्णा पृष्टः शङ्करः साधुशीलः । भक्त्युद्रेकाद्वाष्पपर्याकुलाक्षो बन्नन्मूर्धन्यञ्जलिं व्याजहार ॥ ४१ यद्यत्पृष्टं स्पष्टपाचार्यपादैस्तत्तत्सर्व भो भविष्यत्यवश्यम् । कारुण्याब्धेः कल्पयुष्मत्कटाक्षैर्दृष्टस्याऽऽहुदुर्लभं किंनु जन्तोः ।। मूको वाग्मी मन्दधीः पण्डिताय्यः पापाचारः पुण्यनिष्ठेषु गण्यः । कामासक्तः कीर्तिमानिःस्पृहाणामार्यापाङ्गालोकतः स्यात्क्षणेन ॥ ४३ लेशं वाऽपि ज्ञातुर्माष्टे पुमान्कः सीमातीतस्थाद्य युष्मन्महिम्नः । तुष्ट्वाऽत्यन्तं तत्वविद्योपदेष्टा जातः साक्षाद्यस्य वैयासकिः सः ॥ आजानात्मज्ञानसिद्धं यमारादौदासीन्याजातमात्रं वजन्तम् । प्रेमावेशात्पुत्र पुत्रेति शोचन्पाराशर्यः पृष्ठतोऽनुपपेदे ॥ यश्चाऽऽहूतो योगभाष्यप्रणेला पित्रा प्राप्तः स प्रपञ्चकभावम् । सर्वाहताशीलनाद्योगभूमेः प्रत्याक्रोशं प्रातनोवृक्षरूपः ॥ तत्तादृक्षज्ञानपाथोधियुष्मत्पादद्वन्द्वं पद्मसौहार्दहृद्यम् । दैवादेतद्दीनदृग्गोचरश्चेद्भक्तस्यैतद्भागधेयं हमेयम् ॥ ४२ ४५ ४७ 172 पाह श्रीमच्छङ्करदिग्विजये (षोडशः इत्याकाथाब्रवीगौडपादो वत्स श्रुत्वा वास्तवांस्त्वद्गुणोघान् । द्रष्टुं शान्तवान्तवन्तं मम त्वां गाढोत्कण्ठागर्भितं चित्तमासीत् ॥ ४८ कृतास्त्वया भाष्यमुखा निबन्धा मत्कारिकावारिजनुःसुखार्काः । श्रुत्वेति गोविन्दमुखात्प्रहृष्य दृगध्वनीनोऽस्मि तवाद्य विद्वन् ॥ ४९ इति स्फुटं प्रोक्तवते विनीतः सोऽश्रावयद्भाष्यमशेषमस्मै । विशिष्य माण्डूक्यगभाष्ययुग्मं श्रुत्वा प्रहृष्यन्निदमब्रवीत्तम् ।। मत्कारिकाभावविबोधिताहमाण्डूक्यभाष्यश्रवणोत्थहर्षः । दातुं वरं ते विदुषां वराय प्रोत्साहयत्याशु वरं वृणीष्व ॥ ५१ पर्यायशुकर्षिमीक्ष्य भवन्तमद्राक्षमतिष्यपूरुषम् । वरः परः कोऽस्ति तथाऽपि चिन्तनं चित्तत्त्वगं मेऽस्तु गुरो निरन्तरम् ।। तथेति सोऽन्तर्धिमपास्तमोहे गते चिरञ्जीविमुनावथासौ । वृत्तान्तमेतं स मुदाऽऽश्रवेभ्यः संश्रावयंस्तां क्षणदामनैषीत् ॥ ५३ अथ धुनद्यामुषसि क्षमीन्द्रो निर्वर्त्य नित्यं बिधिवत्स शिष्यैः । तीरे निदिध्यासनलालसोऽभूदत्रान्तरेऽश्रूयत लोकवार्ता ॥ ५४ जम्बूद्वीपं शस्यतेऽस्यां पृथिव्यां तत्राप्येतन्मडलं भारताख्यम् । काश्मीराख्यं मण्डलं तत्र शस्तं यत्राऽऽस्तेऽसौ शारदा वागधीशा ॥ ५५ द्वारैर्युक्तं माण्डपैस्तच्चतुर्भिर्देव्या गेहं यत्र सर्वज्ञपीठम् । यत्राऽऽरोहे सर्ववित्सजनानां नान्ये सर्वे यत्प्रवेष्टुं क्षमन्ते ।। प्राच्याः प्राच्या पश्चिमाः पश्चिमायां ये चोदीच्यास्तामुदीची प्रपन्नाः । सर्वज्ञास्तद्द्वारमुद्घाटयन्तो दाक्षा नद्धं नो तदुद्घाटयन्ति ॥ ५७ वार्तामुपश्रुत्य स दाक्षिणात्यो मानं तदीयं परिमातुमिच्छन् । काश्मीरदेशाय जगाम हृष्टः श्रीशङ्करो द्वारमपावरीतुम् ॥ ५८ द्वारं पिनद्धं किल दाक्षिणात्यं न सन्ति विद्वांस इतीह दाक्षाः । तां किंवदन्तीं विफलां विधातुं जगाम देवी निलयाय हृष्यन् ।। ५९ सर्गः१६] 173 ६० श्रीमदाचार्याणां शारदापीठवासवर्णनम् वादिबातगजेन्द्रदुर्मदघटादुर्गसङ्कर्षण- श्रीमच्छङ्करदेशिकेन्द्रमगराडायाति सर्वार्थवित् । दूरं गच्छत वादिदुःशठगजाः संन्यासदंष्ट्रायुधो वेदान्तोरुवनाश्रयस्तदपरं द्वैतं वनं भक्षति ॥ करटनटान्तवान्तमदसौरभसारभर- स्खलदलिसंभ्रमत्कलभकुम्भविज़म्भबलः । हरिरिव जम्बुकानमददन्तगजान्कुजना- नपि खलु नाक्षिगोचरयतीह यतिहतकान् ॥ ६१ संश्रावयन्नध्वनि देशिकेन्द्रः श्रीदक्षिणद्वारभुवं प्रपेदे । कवाटमुद्धाट्य निवेष्टुकामं ससंभ्रमं वादिगणा न्यरौत्सीत् ॥ ६२ अयात्रवीद्वादिगणः स देशिकं किमर्थमेवं बहुसंभ्रमक्रिया । यदत्र कार्य तदुदीर्यतां शनैर्न संभ्रमः कर्तुमलं तदीप्सितम् ॥ ६३ यः कश्चदेत्येतु परीक्षितुं चेद्वेदाखिलं नाविदितं ममाणु । इत्थं भवान्वक्ति समुन्नतीच्छा दत्वा परीक्षां वन देवतालयम् ॥ ६४ षड्भाववादी कणभुमपतस्थः पच्छ तं स्वीयरहस्यमेकम् । संयोगभाजः परमाणुयुग्माज्जातं हि सूक्ष्म द्वयणुकं मतं नः ॥ ६५ यत्स्यादणुत्वं तदुपाश्रितं तज्जायेत कस्माद्वद सर्वविच्चेत् । नो चेत्लभुत्वं तव वक्तमेते सर्वज्ञभाषां विहितां ब्रुवन्ति ।। ६६ या द्वित्वसंख्या परमाणुनिष्ठा सा कारणं तस्य गतस्य मात्रा । इती रिते तद्वचनं प्रपूज्य स्वयं न्यवर्तिष्ट कणादलक्ष्मीः ।। तत्रापि नैयायिक आत्तगर्वः कणादपक्षाच्चरणाक्षपक्षे । मुक्तविशेष वद सर्वविच्चेन्नो चेत्पतिज्ञां त्यज सर्ववित्वे ॥ ६८ अत्यन्तनाशे गुणसङ्गतेर्या स्थितिनभोवत्कणभक्षपक्षे । मुक्तिस्तदीये चरणाक्षपक्षे साऽऽनन्दसंवित्सहिता बिमुक्तिः ॥

174 ७० श्रीमच्छङ्करदिग्विजये [पोडशः पदार्थभेदः स्फुट एव सिद्धस्तथेश्वरः सर्वजगद्विधाता । स ईशवादीत्युदितेऽभिनन्ध नैयायिकोऽपि न्यतन्निरोधात् ।। तं कापिलः प्राह च मूलपोनिः किं वा स्वतन्त्रा चिदधिष्ठिता वा । जगनिदानं वद सर्ववित्चान्नो चेत्सवेशस्तव दुर्लभ: स्यात् ।। ७१ सा विश्वयोनिबहुरूपभागिनी स्वयं स्वतन्त्रा त्रिगुणात्मिका सती । इत्येव सिद्धान्तगतिस्तु कापिली वेदान्तपक्षे परतन्त्रता मता ॥ ७२ ततो नदन्तो न्यरुधन सग; दत्वा परीक्षां व्रज धाम देव्याः । बौद्धास्तथा संपथिताः पृथिव्यां बाह्यार्थविज्ञानकशुन्यवादैः ।। बाह्यार्थवादो द्विविधस्तदन्तरं वाच्यं विविक्षुर्यदि देवतालयम् । विज्ञानवादस्य च किं विभेदकं भवन्मतादब्रूहि ततः परं वन ॥ सौत्रान्तिको वक्ति हि वेद्यजातं लिङ्गाधिगम्यं वितरोऽक्षिगम्यम् । तयोस्तयोर्भङ्गुरताऽविशिष्टा भेदः कियान्वेदनवेद्यभागी ।। विज्ञानवादी क्षणिकत्वमेपामङ्गीचकारापि बहुत्वमेपः । वेदान्तवादी स्थिरसंविदेक रङ्गीचकारेति महाविशेषः ।। ७६ अथाब्रवीदिग्वसनानुसारी . रहस्यमेकं वद सर्वविञ्चत् । यदस्तिकायोत्तरशब्दवाच्यं तत्कि मतेऽस्मन्वद देशिकाऽऽशु ॥ तत्राऽऽह देशिकवरः शृणु रोचते चेन्जीवादिपञ्चकममाष्टमुदाहरन्ति ! तच्छब्दवाच्यमिति जैनमतेऽप्रशस्ते यद्यस्ति बोद्धमपरं कथयाऽऽशु तन्मे ।। दत्तोत्तरे वादिगणे तु बाह्ये बाण कश्चित्किल जैमिनीयः । शब्दः किमात्मा वद जैमिनीये द्रव्यं गुणो वेति ततो व्रज त्वम् ।। ७९ नित्या वर्णाः सर्वगाः श्रोत्रवेचा यत्तद्रपं शब्दजालं च नित्यम् । द्रव्यं व्यापीत्यब्रुवजैमिनीया इत्येवं तं प्रोक्तवान्देशिकेन्द्रः ॥ ८० सर्गः १६ 175 श्रीमदाचार्याणां शारदापीठवासवर्णनम् शास्त्रेषु सर्वेष्वपि दत्तवन्तं प्रत्युत्तरं तं समपूजयंस्ते । द्वारं समुद्घाटय ददुश्च मार्ग ततो विवेशान्तरभूमिभागम् ।। ८१ पाणौ सनन्दनमसावबलम्ब्य विद्याभद्रासनं तदवरो ठुसनाश्चचाल । अत्रान्तरे विधिवधूर्विबुधाग्रगण्यमाचार्यशङ्करमवाचदनङ्गवाचा ॥ ८२ सर्वज्ञता तेऽस्ति पुरैव यस्मात्सर्वत्र पर्यै क्षे भवान्न चेत्ते । विरिचिरूपान्तरविश्वरूपः शिष्यः कथं स्यात्तथताग्रणीः सः ।। ८३ सर्वज्ञतकैव भवेन्न हेतुः पीठाधिराहे परिशुद्धता च । सा तेऽस्ति वा ने त विचार्यमेतत्तिष्ठ क्षणं त्वं कुरु साहसं मा ।। वं चाङ्गनाः समुपभुज्य कलापहन्यप्रावीण्यभाजनमभूर्यतिधर्मनिष्टः । आरोपीशपदं कथमर्हता ते सर्वज्ञतेच विमलत्वमपीह हेतुः ।। नास्मिशरीरे कृत कि त्वषोऽहं जन्मपभृत्यम्ब न संदिहेऽहम् । व्यधायि देहान्तरसंश्रयाद्यन्न तेन लिप्येत हि कर्मणाऽन्यः ॥ इत्थं निरुत्तरपदां स विधाय देवीं सर्वज्ञपीठमधिरुह्य ननन्द सभ्यः । संमानितोऽबदसौ विबुधेश्च वाण्या गार्या कहोलमुखरैरिव याज्ञवल्क्यः ।। बादपार्विनोदपतिकथनसुधीवाददुरितर्क- न्यक्कारस्वैरधाटीभरितहरिदुपन्यस्तमाहानुभाव्यः सर्वज्ञो वस्तुमर्हस्त्वमिति बहुमतः स्फारभारत्यमोघ- श्लाघाजीघुष्यमाणो जयति यतिपतेः शारदापीठवासः ॥ ८८ कुत्राप्यासीत्पीनेक्षणचरणकथा कापिली क्वापि लीना भग्नाऽभन्ना गुरूक्तः कचिदजनि परं भट्टपादपवादः । भूमावायोगकाणादननिमतपथाभूतवाग्भेटवार्ता दुर्दान्तब्रह्मविद्यागुरुदुरुदकथादुन्दुभेधिन्धिमेतः ॥ ८९ काणादः क प्रणादः क च कपिलवचः काक्षिपादप्रवादः । काप्यन्धा योगकन्था क गुरुरतिलघुः कापि भाट्टपघट्टम् ।

176 ९१ श्रीमच्छङ्करदिग्विजये [षोडशः क द्वैताद्वैतवार्ता क्षपणकविकृतिः कापि पाषण्डषण्ड- ध्वान्तध्वंसैकभानोजयति यतिपतेः शारदापीठवासे ॥ ततो दिविषदध्वनि त्वरितमध्वराशावली- धुरन्धरसमीरितत्रिदशपाणिकोणाहतः । अरुन्द्र हरिदन्तरं स्वरभरैभ्रंपत्सिन्धुभि- घनाघनघनारवपथमबन्धुभिदुन्दुभिः ॥ कचभरवहन पुलोमजायाः कतिचिदहान्यपगर्भ यथा स्यात् । गुरुशिरसि तथा सुधाशनाः स्वस्तरुकुसुमान्यथ हर्पतोऽभ्यवर्षन् ॥ ९२ इति मुनिरतितुष्टोऽध्युष्य सर्वज्ञपीठं निजमतगुरुतायै ना पुनर्मानहेनोः । कतिचन विनिवेश्याथर्घ्यशृङ्गाश्रमादौ मुनिरथ बदरी स पाप कैश्चित्स्व शिष्यैः ॥ दिवमान्विनिनाय तत्र कांश्चित्स च पातञ्जलतन्त्रनिष्ठितेभ्यः । कृपया पदिशन्स्वमूत्रभाष्य विजितत्याजितसर्वदर्शनेभ्यः ॥ नितरां यतिराडुडुराजकरपकरप्रचुरप्रसरस्त्रयशाः । स्वमयं समयं गमयरमयन्हृदयं सदयं सुधियां शुशुभे । एवंपक रैः कलिकल्मषन्नैः शिवावतारस्य शुभैश्चरित्रः । द्वात्रिंशदत्युज्ज्वलका तिराशेः समा व्यती युः किल शङ्करस्य ।। भाष्यं भूष्यं सुशीलैरकलि कलिमलध्वंसि कैवल्यमूल्य हन्ताहन्ता समन्तात्कुपतिनतिकृता खण्डिता पण्डितानाम् । सद्यो विद्यातिताऽसौ विषयविमर्थनमुक्तिपद्याऽनवद्या श्रेयो भूयो बुधानामधिकतरमितः शङ्करः किं करोतु ।। हन्ताशोभि यशोभरैसिजगतीमन्दारकुन्देन्दुभा- मुक्ताहारपटीरहीरविहरनी हारतारानिभैः । कारुण्यामृतनिझरैः सुकृतिनां देन्यानल: शून्यता नीतः शङ्करयोगिना किमधुना सौरभ्यमारभ्यताम् ॥

सर्ग:१६]
177
श्रीमदाचार्याणां शारदापीठवासवर्णनम्
आक्रान्तानि दिगन्तराणि यशसा साधीयसा भूयसा
विस्मेराणि दिगन्तराणि रचितान्यत्यद्भुतैः क्रीडितैः ।
भक्ताः स्वेप्सितभुक्तिमुक्तिकलनोपायैः कृतार्थीकृता
भिक्षुक्ष्मापतिना किमन्यदधुना सौजन्यमातन्यताम् ।। ९९
पारिकाङ्गीश्वरोऽप्यापदुद्धारक सेवमानातुलखस्तिविस्तारकम् ।
पापदावानलातापसंहारकं योगिबृन्दाधिपः प्राप केदारकम् ॥ १००
तत्रातिशीतादितशिष्यसडन्संरक्षणायातुलितप्रभावः ।
तप्तोदकं प्रार्थयते स्म चन्द्रकलाधरात्तीर्थकरप्रधानः ॥ १०१
कर्मन्दिबृन्दपतिना गिरिशोऽर्थितः सन् संतप्तवारिलहरी स्वपदारविन्दात् ।
प्रावर्तयत्प्रथयती यतिनाथकीर्ति याऽद्यापि तत्र समुदञ्चति तप्ततोया ।।
इति कृतसुरकार्य नेतुमाजग्मुरेनं
रजतशिवरशृङ्गं तुङ्गमीशावतारम् ।
विधिशतमख चन्द्रो पेन्द्रवाय्वग्निपूर्वाः
सुरनिकरवरेण्याः सर्षिसङ्घाः ससिद्धाः ॥ १०३
विद्युदल्लीनियुतसमुदारब्धयुद्धैर्विमानैः
संख्यातीतैः सपदि गगनाभोगमाच्छादयन्तः ।
स्तुत्वा देवं त्रिपुरमथनं ते यतीशानवेषं
मन्दारोत्थैः कुसुमनिचयैरब्रुवन्नयन्तः ॥ १०४
भवानाद्यो देवः कवलितविषः कामदहनः
पुरारातिर्विश्वप्रभवलयहेतु स्त्रिनयनः ।
यदर्थ गां प्राप्तो भवमथन वृत्तं तदधुना
तदायाहि स्वर्ग सपदि गिरिशासत्प्रियकृते ॥ १०५
उन्मीलद्विनयपधानसुमनोवाक्यावसाने महा-
देवे संभृतसंभ्रमे निजपदं गन्तुं मनः कुर्वति ।
शैलादिः प्रमथैः परिष्कृतवपुस्तस्थौ पुरस्तत्क्षणा-
दुक्षा शारदवारिदुग्धवरटाहङ्कारहुङ्कारकृत् ॥

178
श्रीमच्छङ्करदिग्विजये
[षोडशः
इन्द्रोपेन्द्रप्रधानैत्रिदशपरिवृद्वैः स्तुयमानः प्रसनै-
दिव्यैरभ्यय॑मानः सरसिरह वा दत्तहस्तावलम्बः ।
आरुह्योक्षाणपत्र्यं प्रकटितसुजटाजूटचन्द्रावतंसः
शृण्वन्नालोकशब्दं समुदितमृपिभिर्धाम नै प्रतस्थे ।।
आदितः श्लोकाः 1843.
६
इति श्रीमाधवीये तच्छारदापीठवासगः ।
संक्षेपशङ्करजये सर्गः पूर्णोऽपि षोडशः ।।
इति श्रीमद्विधारण्यविरचितः श्रीमच्छङ्करदिग्विजयः समाप्तः ॥
LAIMINISTRIMILSIBILE
ISLATIALAMUNI101
MUNTIRTIRISHUNT
MTHANI
Printed at The Scholar Press, Palghat.

Sri Machankara Digvijayaha

Author
N.s.anantakrishna Sastri
Title
Sri Machankara Digvijayaha
File name
Sri Machankara Digvijayaha
Text
OCR done
Published
2005/03/10
Publisher
Published On The Occasion Of The Chathurmasya Of His Holiness At Kaladi
Language
Sanskrit
Pages
184
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
495694
Barcode
1990030070611.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Available
VMLT id
Fc163rCTijS
Download PDF

Sri Machankara Digvijayaha