Bharti Bhawan Library, Allahabad
Pramadanyattvalokalndarasy
Front matter
HTRA SHNA AMBARIYANIRNaminearning अहम् श्रीजैनयशोविजयग्रन्थमाला [५] gama ॐ श्रीवादिदेवसूरिधिरचित- प्रमाणनयतत्त्वालोकालङ्कारस्य- परिच्छेदद्वयम्। SARAN पण्डितश्रीज्ञानचन्द, मल्लधारि-श्रीराजशेखरसूरिनिर्मित- टिप्पण-पञ्जिकाभ्यां समलङ्कृतश्रीरत्नप्रभाचार्यविरचित- रत्नाकरावतारिकाभिधटीकया संयुतम् । काशीस्थन्यायविशारदमहामहोपाध्यायश्रीयशोविजय- नामाङ्कितजैनश्वेताम्बरपाठशालातः मुम्बयी- वास्तव्यश्रेष्ठिवर्य-चुन्नीलाल-पन्नालाल-साहाय्येन प्राकाश्यं नीतम् । MARATime काश्यां चन्द्रप्रभायन्त्रालये मुद्रितम् । वीर संवत् २४३१ एकरूप्यक SON भारती-भ क्रमिक संर विभाग शोधनपत्रम् । Poetryanyar Kahani पृष्टः पङ्क्ति अशुद्धम् शुद्धम् । १७ १६ टच न्टश्च- ८ द्वय- -द्रुय. ३९ १५ प्ररूपम- १४ यो -य: दौ:- ४९ १५ परमाण ५२ २६ -मुपे -मप- न्धम् १८ १८. न्याय ६२ ९ -स्तुती- स्कुती- ६६ २३ -मन- पृष्टः पक्ति अशुद्धम् शुद्धम् ३ -ज्ञाः -तं २१ ग्न् रन् ९१ १४ हेतु पर- हेतुर- २० -तीन -तीन- २३ -श्व- छ २३ दौ- -चे. १६ च- RALA -भ- -पद २४ पदे ६ - २२ ना- १०३ २५ ता व्या- १०९ १८ -वन्ते ११२ १६ -धाम ९ -बन्ध -ताव्या- -वन्त २ -यो १२ -यो १९ -यो ८ ४ धपरि- ८७ १९ १९ - ८८ २३ बीन्द्रे- २५ का -व्योप -धेऽपर कु- पुनः -होन्द्रि- १७ पूनः २. ९ -ति- ११७ पूज्यश्रीमहर्मविजयगुरुभ्यो नमः।
श्रीः श्रीवादिदेवसूरिविरचित प्रमाणनयतत्त्वालोकालंकारस्य । टिप्पणपञ्जिकाचेतिद्वयालंकृतश्रीरत्नप्रभाचार्यसङ्कलित रत्नाकरावतारिका नाम्नी लघुटीका । wder (रत्नाकरावतारिका।) सिद्धये वर्द्धमानः स्तात्ताम्रायन्नखमण्डली । प्रत्यूहशलभप्लोष दीपदीपाङ्कुरायते ॥ १ ॥ यैरत्र स्वप्रभया दिगम्बरस्यार्पिता पराभूतिः । प्रत्यक्षं विबुधानां जयंतु ते देवसूरयो नव्याः ॥२॥ स्यादादमुद्रामपनिद्रभक्त्या क्षमाभृतां स्तौमि जिनेश्वराणां। सन्न्यायमार्गानुगतस्य यस्यां सा श्री स्तदन्यस्य पुनःस दण्डः॥ ३ ॥ (टिप्पणम् ।) एकांतमत्तमातंगसिंहमभ्युदयालयम् । प्रणिपत्यजिनं वीरं सर्वसम्पत्तिकारणम् ॥ १ ॥ गुरूपदेशतः सम्यक ज्ञात्वाशास्त्रार्थनिर्णयम् । रत्नाकरावतारिकाटिप्पणं रचयाम्यहम् ॥ २ ॥ इहेष्टदेवतानमस्यानन्तरं सुधियोविधेयमारभेरन् । श्रीरनप्रभाचार्य- इंहितार्थसिद्धये विघ्नविनायकोपशान्तये चादौ इलोकत्रयं रचितवान् । सिद्धयइत्यादि । वर्डयति गर्भावतीणोजनकसने राष्ट्रादिगजतुर गादिसमृद्धिं विस्तारयतीति वर्डमानः सिद्धये ऐहिकसर्वार्थसम्पत्तये मोक्षाय च अनेन वचनातिशयो भगवतः प्रकटीचक्रे नहिसद्गुरूपदेशमन्तरेण सिद्धिःस्यात् अनेनैवज्ञानातिशयो बलादाक्षिप्तएव यतोज्ञानमन्तरेण न सिडयुपदेशः सम्भवति ज्ञानातिशयेन चापायापगमातिशयः प्रसभमभि- हितः तदविनाभावित्वात् वईते चतुस्त्रिंशदतिशयरशोकाद्यष्टमहाप्राति- हाथैः समृडियुक्तोभवतीति व्याख्यया पूजातिशयोप्याविश्चक्रे शास्त्रादी * स एव त्यपिपाठः।
TERINAR
भारती-म
ऋमिक संर
विभाग
।
।
प्रमाणनयतत्त्वालांकालंकारः
हि भगवतश्चत्वारोतिशयावर्णनीयाः शास्त्रकारेणात्मनश्चतुरतिशयसिद्धयर्थं
श्लोकोत्तरपादद्वितयेन जैनमतानुगानामपि जिनपतिपदप्रसादनोपायापग-
मत्वं सूचयांचके दीपदीपाङ्करायतेइत्यनेनैतच्छास्त्राध्ययनकारिणामन्तवा-
सिनां मोहध्वान्तविनाशः सूचितः ॥ १ ॥
यैरत्रेत्यादि । यैः स्वप्रभयानिरुपाधिप्रज्ञया दिगंबरस्य क्षपणककुमुद्-
चन्द्रस्य विदुषां समक्षं पराभूतिः पराभवो दत्ताराजसमाजे महाराजा-
धिराजजयसिंहदेवसमक्षं जित इत्यर्थः । नच्याइति णुक्स्तुतौ नवनं नवस्त-
वस्तमहन्तीति नव्याः अथ च नव्या मनुष्यावतारत्वात् नवीना बृहस्पतयो
बुद्धिवैभवेन तत्समानत्वात् षाचस्पतिना हि स्वकांत्या दिगम्बरस्य महेश्व-
रस्य परा प्रकृष्टाभूतिः ऋद्धिः समपिता ईश्वरस्य देवरूपत्वात् बृहस्पतेश्च
देवगुरुत्वाद् गुरुणा हि समृद्धिीयतेभक्तजनस्य अथचबृहस्पतिना
नास्तिकमतप्रसिद्धशास्त्रसूत्रधारेण देवानांप्रत्यक्षं भस्म समापितं । नास्ति-
केनहि न मन्यते शिवः भस्मसमर्पणमतस्तस्योचितम् ॥ २॥
स्याबादेत्यादि । अपनिद्रभक्त्येति निरतिशयभक्त्या स्थाद्वादमुद्रा
स्याद्वादमार्ग अन्येषामपि क्षमाभृतां राज्ञां मुद्रा जनैः स्तूयते अथच क्षमा-
भृतां विन्ध्यादीनां पर्वतानामुच्छंखलमुच्छ्वसितुमारब्धानां मुद्रा मर्यादा
वर्ण्यते मुद्रेतिपदंवावदूकवादव्यपाकरणेन साभिप्रायम् यस्यामिति। स्याद्वा-
दमुद्रायाम् सन्न्यायति सत्तर्कपद्धतिमाश्रितस्य सेति स्याद्वादमुद्रा श्री.
लक्ष्मीहेतुर्भवति वादचत्वरे जयसिडिलाभात् । अथचसाऽनिर्वचनीयाश्रीः
परमपदप्राप्तिलक्षणा तदन्यस्येति स्याद्वादमुद्राव्यतिरिक्तस्य सएवेति सत्त-
के मार्गएपदण्डः स्यात्तस्यपराजयपानत्वात् अथच संसारपतनलक्षणोदण्डः
अस्यवक्ष्यमाणशास्त्रस्य स्वाभिमतस्य स्याद्वादमतमवस्थापयितुं पराभिप्रेत.
कांतमतमत्यसितुमेव प्रचिक्रसितत्वादादौ सूचनानिमित्तं श्लोकोत्तराद्धमे-
तदुपन्यस्तम् ॥ ३॥
(पत्रिका)
उहन्तांशुर्देशनायां पातुवः प्रथमोजिनः ।
परब्रह्मप्रकाशानां वर्णिकामिव दर्शयन् ॥ १॥
जयन्तुगौतमाद्यास्ते येऽपवर्ग गता अपि ।
शास्त्ररूपेण देहेनोपकुर्वन्ति जगन्न्यपि ॥ २ ॥
नन्दन्ति गुरवोऽस्माकं वात्सल्यामृतसिन्धवः।
मलधारिंगणाधीशा श्रीश्रीतिलकसूरयः ॥ ३ ॥
स्याद्वादरत्नाकर इत्यस्तितकों महत्तमः ।
वादिवृन्दारकश्रीमद्देवसूरिविनिर्मितः ॥४॥
टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्तः श्रीदेवसूरिशिष्येन्द्रः श्रीरत्नप्रभसूरिभिः । तत्र टीका लघुश्चक्रे रत्नाकरावतारिका ॥ ५ ॥ ग्रन्थस्यैतस्य भागौ द्वौ सुगमावन्तराऽन्तरा। भागास्त्रयस्तुविषमाः प्रायशो मन्दमेधसाम्॥ ६ ॥ अतोऽहं विवृति तत्र कर्तुमिच्छामि किञ्चन । तनोतु मयि सान्निध्यं श्रीमतीभाषितेश्वरी ॥ ७ ॥ व्याख्येयपदमत्यन्तं तद्व्याख्यानन्तु तत्पुरः। एषएवक्रमः शास्त्रे सर्वत्रास्मिन् भविष्यति ॥ ८॥ आघ्रायपुस्तकं येऽत्रसर्वज्ञाः स्युर्जयन्तिते । किञ्चिज्ज्ञजनबोधेन सफलोऽयं ममश्रमः ॥ ९ ॥ ग्रन्थारम्भे शिष्टसमयपारपालनाय ग्रन्थकद्देवगुरुसिद्धान्तानां क्रमान्नमस्कारमाह सिद्धये वर्द्धमान स्तात्ताम्रायन्नखमण्डली ॥ प्रत्यूहशलभप्लोषेदीप्रदीपाकुरायते ॥१॥ सिद्धये इति । मोक्षाय प्रारिप्सितकार्यसमाप्तिलक्षणायै वा, । प्रत्यूहा विघ्नाः प्रति- कूलाऊहाश्च । दीप्रदीपाङ्कुरायते इति वर्तमाननिर्देशःसाभिप्रायः, तदातनी भगवतो नखमण्डली, इदानीं यावत् दीप्रदीपाङ्कुरायते दीप्रत्वं दीपस्य रात्रावेव शलभप्लोषश्च प्रायेण तदैवेति रात्रि- सत्कप्रदीपाक्षेपस्तस्य च माङ्गलिक्याय जायमानत्वात् , यैरत्रेत्यादि देवसूरयः बृहस्पतयः पूज्यत्वात. बहुवचनम्, स्वप्रभया स्वकान्त्या, दिशां अम्बरस्य च, परा प्रकृष्टाभूतिः प्रकाश- लक्षणार्पिता, एतचापूर्वम् तेषां हि एतावत्सामर्थ्य न विद्यते, स्वप्रभयेतिप्रतिभया दिगम्ब- रस्योत कुमुदचन्द्रस्य । पराभूतिरिति पराभवः । विबुधानामिति विदुषां देवानाञ्च । नव्याइति स्तुत्याः अथवानूतनाः। (रत्ना०)-इहहि लक्ष्यमाणाक्षोदीयो क्षणाक्षरक्षीरनिरन्तरे ततइतो दृश्यमानस्याद्वादमहामुद्रामुद्रितानिद्रप्रमेयसहस्रोचंगरंगत्तरंगभंगिसंगसौ- भाग्यभाजने अतुलफलभरभ्राजिष्णुभूयिष्ठागमाऽभिरामातुच्छपरिच्छेद- संदोहशादलासन्नकानननिकुंजे निरुपममनीषामहायानपात्रव्यापारपरा- यणपुरुषप्राप्यमाणाप्राप्तपूवरत्नविशेषे वचन वचनरचनानवद्यगद्यपरं पराप्रवालजालजटिले कचन सुकुमारकांतालोकनीयास्तोकश्लोकमौ- क्तिकप्रकरकरंबिते कचिदनेकांतवादोपकल्पितानल्पविकल्पकल्लोलोल्ला- सितोदामदूषणादिविद्राव्यमाणानेकतीर्थिकनकचकचकवाले क्वचिदपगता शेषदोषानुमानाभिधानोदर्तमानासमानपाठीनपुच्छच्छटाच्छोटनोच्छल- दतुच्छशीकरश्लेषसंजायमानमार्तण्डमण्डलप्रचण्डच्छमत्कारे (दि )-क्वचिदपगतेत्यादि । असमानागुरुतरा लक्षणयापरतीर्थिकास्तेषां पुच्छच्छटाच्छोटनेन लक्षणया करास्फालनादिपूर्व साहंकारवाक्यनाच्छ ।
SUPRETARINMSUNAINA भारत क्रमिक विभाग । । प्रमाणनयतत्वालोकालंकारः लदिल्लसद्भिः श्लेषै रुत्पद्यमानो मार्तण्डमण्डले लक्षणयानवद्यविद्यावि- नोदतेजस्विविद्वज्जनचके छमत्कारश्चमत्कारोयत्र (५०)-आगमाभिरामेत्यादि । आगमाभिरामं काननपक्षे आगमावृक्षास्तैरभिरामम् । असमानपाठीनोति । अपरिमिता अथवा असमानादीपमाना ये पाठीनाः । (रत्रा०)-कापि तीर्थिकग्रंथग्रंथिसार्थसमर्थकदर्थनोपस्थापितार्थानवस्थि- तपदीपायमानप्लवमानज्वलन्मणिफणींद्रभीषणे सहृदयसैद्धांतिकतार्किक- वैयाकरणकविचक्रचक्रवर्तिसुविहितमुगृहीतनामधेयास्मद्गुरुश्रीदेवसूरि- भिर्विरचितस्यादादरत्नाकरे नखलु कतिपयतर्कभाषातीर्थमजानंतोऽपा- ठीना अधीवराश्च प्रवेष्टुंप्रभविष्णव इत्यतस्तेषामवतारदर्शनं कर्तु- मनुरूपं तच संक्षेपतः शास्त्रशरीरपरामर्शमंतरेण नोपपद्यते । (टि०)-नखलिति । अपाठीनाः पठन्तीतिपाठिनोध्ययनकारिणोलेख- शालिनस्तेषामिनाः स्वामिनः पश्चान्नमासम्बन्धः । अधीवराइति । नधियाबुद्धयावरायेपाठीनाः सहस्रदंष्ट्रामहामत्स्यायेचधीवराः कैवर्तीपुत्राः समुद्रे तीर्थमवतारं विदांचक्रुः तएवान्तः प्रवेष्टुमुचितानान्ये तेषामिति । अपाठीनानामधीवराणांच तीर्थदर्शनम् । तच्चेत्यवतारदर्शनम् । (५०)-तिर्थिकग्रन्थग्रन्थीति । ग्रन्थयो विषमस्थानानि । अनुरूपमितियुक्तम् । (रना०)-सोपि समासतः सूत्राभिधेयावधारणविनानेतिप्रमाणनय- तत्त्वालोकाख्यतत्सूत्रार्थमात्रप्रकाशनपरा रत्नाकरावतारिकानाम्नी लघी- यसी टीका प्रकटीक्रियते । तत्र चेह यत्रकचिदपि प्रवर्त्तमानस्य पुरुषत्वा- भिमानिनोनेकप्रकारतत्तद्गुणदोषदर्शनाहितसंस्कारस्याहाय द्वये स्मृति कोटिमुपढौकनीया भवन्त्युपकारिणोऽपकारिणश्च विशेषतो ये यत्र तदभि- मततत्त्वावधारणेनारिराधयिषिता स्तदुपहितदोषापसारणेन पराचिकीर्षि- ताश्च द्वयपि चामी द्वेधापरापरभेदादाह्यांतरंगभेदाचेत्यास्मिन् प्रमाण- नयतत्वपरीक्षाप्रवीणे प्रक्रमे कृतज्ञा स्तत्र भवंत स्तेषां प्रागेव स्मृतये श्लोकमेकमनमचिकीर्तन् । (टि०)-सोपीति । शास्त्र शरीरपरामर्शः सूत्राभिधेयेति सूत्रार्थावधा- रणमन्तरेण नोपपद्यतेइति शेषः तत्सूत्रोति स्याद्वादरत्नाकरसूत्राणामर्थ ५ टि. पं. इयोपेतरत्नकरावतारिकायुक्तः मात्रप्रकटयित्री यत्रेति प्रमेयादौ प्रवर्त्तमानस्येति प्रमातुः पुरुषत्वमा- त्मन्यभिमन्यते पुरुषत्वाभिमानी तस्य स्मृतीति स्मरणाग्रंनेयाः विशेषतइति येउपकारिणोऽपकारिणश्च यत्रेति शास्त्रारम्भादिकार्ये तदभिमतेति उप- कार्यभीत्वस्य संस्मरणेनाराधायितुमिष्टाः तदुपहीति अपकार्युत्पादि तदोषतिरस्कारेण तिरस्कर्तुमाभिलषिताः परापरेति उपकारिणोद्विविधाः तत्रपरे तीर्थकरा अपरे गौतमप्रभृतयो गणधरा निजसद्गुरुपर्यवसाना अपकारिणस्तु बाह्या एकान्तमतानुसारिणः सौगतादयः अन्तरङ्गाश्च कामा- दिषड्वर्गः । यदुक्तं कामः क्रोधश्च लोभश्च मानोहर्षो मदस्तथा अन्त. रंगारिषड्वर्गः सर्वेषामपिकीर्तितः ॥ १॥ प्रक्रमति प्रमाणनयतत्त्वालो- काख्यसूत्रव्याख्यारम्भे तत्रभवन्तइति पूज्याः श्रीदेवसूरयः तत्रभवान् भगवानिति शब्दो वृद्धः प्रयुज्यते पूज्यइति वचनात् तेषामिति द्वेधो- पकारिणामपकारिणांच मया तव्यतिरिक्तास्मृतिर्नवितन्यते यतस्तत् कृतमेव सूत्रमत्रापिसमासतो वित्रियते अचिकीर्तन्निति कृतसंशब्दने चुरात्वादित् अद्यतनीत् णिश्रिदुश्रुकमीत्यादिना चण् कीर्तीषोक्तेश्चेति कीतिरादेशः विकल्पेनहनि चण्परऋवर्णस्य ऋदिति ऋद्भावः द्विवचने सिबमाचकीर्तन् अचीकृतन्वा । (५०)-सोपीति । शास्त्रशरीरपरामर्शः। अहायति झटित्येव । द्वयेऽपीति पुरुषाः। - मू०-रागद्वेषविजेतारं ज्ञातारं विश्ववस्तुनः। शक्रपूज्यं गिरामीशंतीर्थेशंस्मृतिमानये॥१॥ (रत्ना०)-तीर्थस्य चतुर्वर्णस्य श्रीश्रमणसंघस्यशं स्वामिनमास- नोपकारित्वेनात्र श्रीमहावीरमहमिह प्रक्रमे स्मृतिमानये इति संटंकः । रागद्वेषयोः प्रतीतयोविशेषेणापुनर्जेयतारूपेण जयनशीलमिति ताच्छी- लिकस्तृन् ततोकर्तृतृजकाभ्यामिति तृचा षष्ठीसमासप्रतिषेधात्कथमत्रा- यमितिनारेकणीयम् । तथाविश्ववस्तुनः कालत्रयवर्तिसामान्यविशेषा- त्मकपदार्थस्य ज्ञातारममलकेवलालोकेन शक्राणामिंद्राणांपूज्यमर्चनी- यम् जन्मस्नात्राष्टमहापातिहार्यादिसंपादनेन गिरां वाचामीशमीशि- ह SON प्रमाणन यतत्त्वालोकालंकारः तारमवितथवस्तुबातविषयत्वेन तासां प्रयोक्तृत्वात् । अनेनच विशे- षणचतुष्टयेनामी यथाक्रमं भगवतो मूलातिशयाश्चत्वारः प्ररूपितास्तद्यथा अपायापगमातिशयो ज्ञानातिशयः पूजातिशयो वागतिशयश्चेति । एतेनैवच समस्तेन गणधरादेः स्वगुरुपर्यन्तस्य स्मृतिः कृतैव द्रष्टव्या तस्याप्येकदेशेन तीर्थेशत्वानिगदितातिशयचतुष्टयाधारवाचेति परापर- प्रकारेण दिविधस्याप्युपकारिणः सूत्रकाराः सस्मरुः । (टि०)-नारेकणीयमिति नाशकनीयम् । (रत्ना०)-अपकारिणस्तु तथाभूतस्येत्थमनेनैव श्लोकेन स्मृतिमकुर्वन् तीर्थस्य प्रागुक्तस्य तदाधयस्यागमस्य वा ईंलक्ष्मी महिमानं वा श्यति तत्तदसद्भूतदूषणोद्घोषणैः स्वाभिप्रायेण तनूकरोति यः स तीर्थेश- स्तीर्थांतरीयो बहिरंगापकारी तं किं भूतं शकः पूज्योयागादौ हविर्दा- नादिना यस्य स तथा तं एतावता वेदानुसारिणो भट्टप्रभाकरकणभ- क्षाक्षपादकपिलाः सूचयाञ्चक्रिरे पुनः किंभूतं तीर्थेशं गिरामीशं वाचस्प- तिमिति नास्तिकमतप्रवर्तयितुर्वृहस्पतेः सूचा तथागिरांवाचामी लक्ष्मी शोमां श्यति य स्तं परमार्थतः पदार्थप्रतिपादनं हि वाचांशोभा तां च तासामपोहमात्रगोचरतामाचक्षाणस्तथागतस्तनूकरोत्येवेति विशेषणा- वृत्या सुगतोपक्षेपः पुनः कीदृशंतं ज्ञातारंविश्ववस्तुनः नोऽस्माकंश्वे तभिक्षूणां संबंधि विश्ववस्तु समस्तजीवादितत्त्रं कर्मतापन्नं समानतं- त्रत्वात् ज्ञातारमिति दिगम्बरावमर्शः। ज्ञातारमितिच तृन्नन्तमिति तृन्नुदन्तेत्यादिना कर्मणिषष्ठीप्रतिषेधः । नन्वेकस्मिन्नेव वक्तरि वा- स्माननिर्दिशति कथमानये इत्येकवचनं न इति बहुवचनं च समगं- सातामिति चेन्नैतद्वचनीयं वचनीयम् । (टि०)-तदाधेयस्येति तीर्थतयाभिहिते संघे समारोप्यस्य । एतावतेति भद्दोजौमिनिष्कर्म्यमीमांसाकृत् प्रभाकरः सकर्ममीमांसाकृत् दुर्गासिंहा- परनामा कणभक्षो वैशेषिकः अक्षपादो नैयायिकः कपिलः सांख्यः एते सूचिताः परमार्थतइति तत्त्वतः शब्दानामर्थप्रकाशनमेव शोभा नहि- निरर्थकं वाक्यमाभाति कार्यानुपयोगित्वादुन्मत्तविरुतवत् तामिति शोभा । टि.पं.द्वयोपेतरत्नाकरावतारिकायुक्तः तनूकरोतीति सम्बन्धः तासामिति वाणानां अपोहति निर्णयमानं अयंघटः पटोनभवतीति सामान्यं नतु विशिष्टस्य परमाणुलक्षणस्वलक्षणस्य वस्तुनो निर्णयः वाणीनां विकल्पविषयत्वात् स्वलक्षणांतः प्रवेशामावाञ्च यदुक्तं तेनान्यापोहाविषयाः प्रोक्ताः सामान्यगोचराः शब्दाइचबुद्धयश्चैव वस्तु न्येषामसम्भवात् ॥ १॥ अस्यव्याख्या तेनाचार्यदिग्नागेनान्यापोह- विषयाविकल्पबुद्धिप्रतिभासविषयाः शब्दाबुद्धयश्चमोक्ताः किं भूताबुद्धयः सामान्यगोचराः सविकल्पिकानतुसर्वा निर्विकल्पाध्यक्षबुडीनां वस्तु- विषयत्वांगीकारात्सौगतैरपि बुद्धीनामेवैतद्विशेषणं नतुशब्दानां तेषां सामान्यविषयत्वाव्यभिचारात् विकल्पवत् किंकारणं वस्तुनि स्वलक्षणे एषांशब्दानां बिकल्पानांचासम्भवादिति एतदर्थश्च विस्तरार्थना प्रमा- वात्तिके कल्याणचन्द्रकृतटीकातोबसेयः । तथागतो बौद्धः समगंसाता- मिति गम् सम्पूर्वः समोगम्लित्यादिनात्मनेपदं सङ्गच्छतेस्म वचनीयमिति नदूषणं वक्तव्यम् । (रत्ना०)--नइत्यत्रापि वच्चा स्वस्यैकत्वेनैव निर्देशादहुवचनं त्वेक- शेषवशात् तथाहि तेचान्ये सर्वे श्वेतवाससो हंच प्रचिक्रसितशास्त्र- सूत्रधारो वयं तेषां नस्त्यदादिरित्यनेनास्मच्छब्दोवशिष्यते बहुवचनंच भवति ततोऽस्माकं खेतवासोदर्शनाश्रितानां सर्वेषां तत्त्वं योजानाति तंच स्मरामीत्युक्तं भवति । इत्थंचैकशेषशालिविशेषणं कुर्वाण स्तच्छब्दो- पदिष्टमार्गस्थाशेषश्वेताम्बरपारतंत्र्यं स्वस्याविश्चक्रे पुनः कीदृशं तंरागद्धे पविजेतारं । इतं प्राप्तसंबंधमारं सांसारिकानेकलेशस्वरूपशत्रुसमूहो यस्मिस्तीर्थशे सतथा तंच कथमेतादृशंतमित्याह । रागद्वेषविजा राग- देषाभ्यां कृत्वा यासौविक् श्रीमदहत्प्रतिपादितात्तत्वात्पृथग्भाव स्तया भगवदहत्यतिपादितं तत्तमनुभवन्तोपि हि रागदेषकालुष्यकलंकाक्रांत- स्वांततया परेऽपरथैव प्रलपन्तः सांसारिकक्लेशशात्रवगोचरतां गच्छन्त्येव अनेनचाशेषाणांशेषाणामपि संभवैतिाप्रमाणवादिचरकप्रमुखाणामा विष्करणम् । नखलु मोहमहाशैलूषस्यैको नर्तनप्रकारो यदशेषार्थि- कानां प्रत्येकं स्मृतिः कर्तुशक्येत । (टि०)-प्रचिक्रसितेति प्रचिक्रमिषतेतिपाठः प्रारघुमिष्टः शास्त्रका ८ प्रमाणनयतत्त्वालोकालंकार (रत्ना०)-नन्वेवमेतान् प्रतिक्षेपार्थ मुपक्षिपतोऽस्य रागद्वेषकालुष्य वृद्धिः स्यादिति श्रेयांविशेषार्थ मुपस्थितस्याऽश्रेयसि प्रवृत्ति रापन्नेति शंका निरसितुं रागद्वेषेति विशेषणं श्लिष्टमजीघटन् अरमत्यर्थं रागद्वे- घयोर्विजयनशील स्तेषां स्मृतिमस्मिकरोमि नत्वन्यथेति तत्र भवदभि- प्रायः । प्रमाणनयतत्वं खल्वत्र शुचिविचारचातुरीपूर्वमालोकनीयम् । न चरागदेषकषायितांतःकरणैर्विरच्यमानो विचारश्चारुतामंचतीत्यंतरंगाप. कारि स्मरणं ननु तथापिकथमेतैर्दिव्यदृगभिरागदृशोऽस्य तत्वविचारः साधीयानित्यारेकामपाकत्तुं श्लेषेणैवव्यशीशिषन् । ज्ञातारं विश्ववस्तु- नः। विमलकेवलालोकालोकितलोकालोकश्रीमदहत्प्रतिपादितागमव- शाखल्वहमपि कामं विश्ववस्तूनां ज्ञातैवेति । वृहद्वृत्तौतु स्वकर्तृकत्वा नामीषामपकारिणां निराचिकीर्षितत्वेन स्मरणं व्याख्यायि । नखलु- महतामीदृश मर्थमित्थं प्रकटयता मौचिती नातिवर्त्तते फलानुमेयप्रारंभ- वातेषां सूचामात्रन्तु सूत्रे कतिपयात्यन्तसहृदयहृदयसंवेद्यमविरुद्धमिति। ननु यदिहज्वरप्रसरापसारिशेषशिरोरत्नोपदेशवदशक्यानुष्टानाभिधेयं जननीपाणिपीडनोपदेशवदनभिमतप्रयोजनं दशदाडिमादिवाक्यव- त्सम्बन्धवंध्यंच नतत्र प्रज्ञाचक्षुषः क्षोदिष्टामपि प्रवृत्तिं प्रारमन्ते तद्य- दीदमपि तथा नतहितेषांप्रवृत्तीनिमित्तं स्यादित्यारेकामधरीकर्तुमची- । (टि०)-नन्वेतानिति परतीथिकान्निराकर्तुं । उपक्षिपइति उपन्यास कुर्वतः अस्येति आचार्यस्य । ननुतथापीत्यादि एतैरिति कणभक्षाक्षपाद- कपिलादिभिः। दिव्यति ज्ञानदृष्टिभिः अर्वागिति जडरूपस्य चर्मचक्षुषः अस्यति आचार्यस्य तत्तेति प्रमाणविचारः साधुः आरेकामिति आशंका निराका व्यशीशिषन्निति स्वविशेषणद्वारेण व्याख्यां चक्रिरे ननुयदि- हेत्यादि तत्रेति प्रयोजनादिरहिते शास्त्र प्रज्ञाचक्षुषइति प्रेक्षावतो विद्वांसः क्षोदिष्टामपि स्वल्पामपि इदमपीति भवदारभ्यमाणं शास्त्रं तथेति अशक्या- नुष्टानप्रयोजनादियुतं निष्कलङ्कं स्यात् । नतहीति तेषां विदुषां । -- टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्तः । मू०-प्रमाणनयतत्त्वव्यवस्थापनार्थमिदमुप- क्रम्यते इति । (रत्ना)-प्रकर्षेण संशयाद्यभावस्वभावेन मीयते परिच्छिद्यते वस्तु येन तत्प्रमाणं नीयते गम्यते श्रुतप्रमाणपरिछिन्नार्थकदेशो ऽनेनेति नय स्ततो दयोरपि बंदे बचतेपि प्रमाणस्याभ्यर्हितलेन लक्षणहेलोरित्या दिवदल्पाचतरादपिनयशब्दालागुपादानं ततः प्रमाणनययोस्तत्व- मसाधारणं स्वरूपं तस्यव्यवस्थापनं यथावस्थिततत्त्वनिष्टहनं तदेवार्थ:- प्रयोजनं यत्रोपक्रमणे तत्तदर्थमितिक्रियाविशेषणमेतत् नपुनरिदमिति- निर्दिष्टस्य शास्त्रस्य आचार्योंहि शास्त्रण कृत्वा प्रमाणनयतत्त्वं व्यवस्थापयतीत्याचार्यव्यापारस्यैवोपक्रमस्य तद्विशेषणमनुगुणं । (टि०) प्रकर्षणेत्यादि संशयादीति आदिशब्दाद्विपर्ययानध्यवसायौ ज्ञेयौ- बह्वचत्वेपीति बहुस्वरत्वपि अभ्यर्हितेति पूजितत्वात् अल्पाच्तरादिति स्तोकस्वरात् अच्शब्दः स्वरसंज्ञयाव्याकरणप्रसिद्धः । (५०)-बह्वचत्वपीति बहुस्वरत्वे पि । (रत्ना०)-नतु शास्त्रस्य तस्य करणतयैव तत्रोपयोगात् कर्तृत्वस्य तत्रौ- पचारिकत्वात् । इदंस्वसंवेदनप्रत्यक्षेणान्तस्तत्वरूपतया प्रतिभासमानं प्रकृतं शास्त्रमुपक्रम्यते । बहिः शब्दरूपतया प्रारभ्यते । इदं च वाक्यं मुख्यतया प्रयोजनमेव प्रतिपादयितुमुपन्यस्तं तस्यैवप्राधान्येन प्रवृत्त्य- ङ्गत्वात् । अमिधेयसम्बन्धौतुसामर्थ्यागमयति तथाहि । प्रमाणनय- तत्त्वमभिधेयंप्रमाणनयतत्त्वेत्यवयवेनलक्षितं सुखानुष्ठेयंचैतदित्यशक्या- नुष्ठानाभिधेयाशङ्का निराकारि प्रयोजनं बेधा कर्तुः श्रोतुश्च तत्र कर्तुः प्रयोजनं प्रमाणनयतत्त्वनिश्चयव्यवस्थापनं प्रमाणेत्यादिसूत्रावय- वेनण्यन्तेन साक्षादाचचक्षे श्रोतृप्रयोजनं च व्यवस्थेत्युपसर्गधातुसमुदाये- नैव तदन्तर्गतं प्रत्याय्यते । प्रमाणनयतत्त्वनिश्चयमिच्छचोहि श्रोतारोऽ. हंप्रथमिकयात्र शास्त्रप्रवर्तेरन् अभिमतञ्चैतत्प्रयोजनं द्वयोरपीत्यनभि- २.
१० प्रमाणनयतत्त्वालोकालंकारः मतप्रयोजनवारेकानिरस्ता । सम्बन्धस्त्वभिधेयेन सह वाच्यवाचक- भावलक्षणः शास्त्रस्यावश्यम्भावीत्यनुत्तोप्यर्थाद्गम्यते इति सम्बन्धर- हितलाशङ्कानुत्थानोपहतैवेति । (दि०)-नतुशास्त्रस्येत्यादि तत्रेति व्यवस्थापने तोतिशास्त्रे इदमिति शास्त्रं हि द्विविधं अर्थतः शब्दतश्च अन्तरर्थरूपं बहिः शब्दरूपं तत्त्वरू- पति ज्ञानरूपतया तस्यति प्रयोजनस्य मुख्यत्वेन प्रवृत्तिहेतुत्वात् तदन्त- गतमिति आचार्यप्रयोजनान्तर्गतं प्रत्याय्यते प्रतीतिगोचरंनीयते। (५०)-अन्तस्तत्त्वरूपतयेति शास्त्ररूपतया । (रत्ना०)-अत्रधर्मोत्तरानुसारी पाह। प्रयोजनमादिवाक्येन साक्षा- दाख्यायतइति न क्षमे यतः सम्बद्धमसम्बद्धंवा तत्तदभिदधीत यद्यसम्बद्ध- मेव तदादिवाक्यादेवसमस्तशास्त्रार्थसन्दर्भगाविर्भावसम्भवार्किप्रकृत- शास्त्रोपक्रमक्लेशेन । सम्बद्धं चेत्तदसम्बद्धशब्दार्थयोः सम्बन्धासम्भवात् तथाह्ययमनयोर्भवस्तादात्म्यं तदुत्पत्तिर्वाच्यवाचकभावो वा भवेत् । प्राचीनपक्षेसएवात्मा यस्येति विग्रहे किंतच्छब्दस्य शब्दएव तदर्थोवा वाच्यतया त्वचित्ते चकास्यात् यदिशब्दस्तहिंसमस्ताअप्यर्थाः स्वस्ववा- चकस्वभावा बभवासइति युगपदशेषाणां तेषां निःशेषकालं यावदुगुमगुमा. यमानतापत्तेरयत्नोपनतपणवयेणुवीणामृदङ्गसङ्गसङ्गीतकारंभनिभृतमिव त्रिभुवनं भवेत् । अथतदर्थस्तहितुरगतरङ्गशृङ्गारभृङ्गारादिशब्दोच्चारणे चूरणप्लावनसम्भोगघट्टनादिप्रसक्तिः किंचातीतानागतवर्द्धमानपद्म- नामादिकल्पितकथादिवचसामुच्चारणमचतुरस्रस्यात् । नहि वृक्षात्मा शिंशपा तमन्तरेणापि कापि सम्पद्यते । तथाले हि स्वरूपमेवासौ जह्यात् कुम्भस्तम्भाम्भोरुहादिवत् प्रत्यक्षमपिचैतयोस्तादात्म्यं न क्षमते कर्ण- कोटरकुटुम्बी खत्लामिलापः प्रत्यक्षेण लक्ष्यते क्षितितलावलम्बी तु कलशकुलिशादिर्भावराशिरिति कथमनयोरैक्यं शक्येत वक्तुं तन्न तादात्म्यपक्षोपक्षेपः सूक्ष्मः । (टि)-अत्रधम्मोत्तरेत्यादि तदिति आदिवाक्यं तदिति प्रयोजनं सम- । । टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्तः स्तशास्त्रेति लक्षणसाहित्यतर्कादि तथाहीत्यादि अयमितिसम्बन्धः अन- योरिति शब्दार्थयोः विग्रहे इति समासेतादात्म्यशब्दादिप्रयुक्ततच्छब्दस्य शब्दएव वाच्यः। तदर्थोवेति शब्दार्थोवा यदिशब्दइति तच्छन्दवा- च्यश्चेच्छब्दः स्वस्ववांचकेति आत्मानमात्मनाख्यापयेयुः शब्दात्मक- स्वादर्थानां । अथतदर्थइति तच्छब्दवाच्यश्चेदर्थः किञ्चेति अतीतकथानामुः चारणमयुक्तं स्यात् । नहीतिशिंशपाशब्दः तमिति वृक्षपदार्थमन्तरेण तथावेइति अवृक्षत्वे स्वरूपमिति शिंशपात्वं असाविति शिंशपा कुम्भ- स्तम्भति यदास्तम्भः स्तम्भस्वरूपएव न स्यात् तदापदार्थहानिरेवभवेत् तस्यासत्वातखपुष्पवत् । (५०)-तत्तदभिदधीतेति तदादिवाक्यं कर्तृ तत्प्रयोजनं कर्म । आदिवाक्यादेवेति एतस्मादेव । अनयोरिति शब्दार्थयोः । तदर्थोवेति तदभिधेयोघटादिः । चकास्या दिति प्रतिभासेत । स्वस्ववाचकस्वभावाइति स्वस्वंवाक्यं प्रति वाचकस्वरूपाः । बभूवांसइति भूताः। निभृतमिति निश्वलम् । तदर्थइति शब्दोऽर्थात्मकः। चतुरस्त्र- मिति शोभनम् । तमन्तरेणेति वृक्षात्मानमन्तरेण । तथात्वेहीत्यादि यदि वृक्षात्मा- नमन्तरेणापि शिंशपाभवेत् । अभिलाप इति शब्दः । प्रत्यक्षेणेति श्रोत्रेण । कथ- मनयोरैक्यमिति एकः शब्दः आगत्यकर्णयोर्लगति । अर्थस्ताक्षतितलावलम्धी तथैव तिष्ठति । अतः कथमनयोस्तादात्म्यमित्यर्थः । (रत्ना०)-तदुत्पत्तिपक्षेपि किम् शब्दादर्थउन्मजेदर्थादाशब्दः प्राचिकविकल्पे कलशादिशब्दादेव तदर्थोत्पत्तेर्नकोपि सूत्रखण्डदण्ड- चक्रचीवरादिकारणकलापमीलनक्लेशमाश्रयेत् । प्रयोजनवाक्यमात्रा- देव च तत्प्रसिद्धेः प्रकृतशास्त्रारम्भाभियोगोपि निरुपयोगः स्यात् । द्वितीये पुनरनुभवबाधनमधररदनरसनादिभ्यः शब्दोत्पत्तिसंवेदनात् । वाच्यवाचकभावपक्षोपि न क्षेमकारः । यतोसौ वाच्यवाचकयोः स्वभाव भूत स्तदतिरिक्तो वा भवेत् । आद्यभिदायां वाच्यवाचकावेव न कश्चि. दाच्यवाचकभावोनाम सम्बन्धः द्वितीयभिदायान्तु वाच्यवाचकाभ्या मेकान्तेन भिन्नोसौस्यात् कथञ्चिद्धा । आधभेदे भेदत्रयं त्रोकते किमयं ।
प्रमाणनयतत्त्वालोकालंकारः नित्यो ऽनित्योनित्यानित्योवेति नित्यश्चेत् सम्बन्धिनोरपि नित्यतापत्ति रन्यथा सम्बन्धस्याप्यनित्यत्वाऽनुषङ्गात् तत्सम्बन्धिसम्बद्धसम्बन्धस्वभा- वप्रच्युतेः। अथानित्यस्तदासर्ववाच्यवाचकेवेकः प्रतिवाच्यवाचकम्- मिन्नोवा एकश्चेत्तइँकस्मादेव शब्दादशेषपदार्थप्रतिपत्तिप्रसङ्गः । द्विती. यपक्षेतु किमसौ तत्र सम्बद्धोऽसम्बद्धोवा भवेत् । असम्बद्धश्चेत्तर्हि घटशब्दादपि पटप्रतीतिः स्यात् पटशब्दाच घटप्रतीतिर्द्वयोरपि वाच्य- वाचकभावयोरुभयत्राविशेषात् । अथसम्बद्धस्तादात्म्येन तदुत्पत्त्यावा । नतावत्तादात्म्येन भेदपक्षकक्षीकारात् । नापितदुत्पत्या। यतः किमयं वाच्योत्पत्तिकाले जायेत १ वाचकोत्पत्तिकाले २ युगपदुभयोरुत्पत्ति- काले ३ एकस्य प्रथममुत्पादेपि यदैव च द्वितीय उत्पद्यते तदैववा।।। नाद्यौपक्षावक्षुण्णौ दयाधारत्वेनास्यान्यतरस्याप्यसत्तायामुत्पत्तिविरो- धात् । तार्तीयीकविकल्पेतु क्रमेणोत्पदिष्णवः पदार्थाः शब्दाश्च अवाच्या अवाचकाश्च भवेयुः । तुरीयपक्षेतु किमसौ वाच्यवाचकाभ्या- मेव सकाशादुल्लसेदन्यतएवान्यतोपिवा । आद्यकल्पनायामनाकलि. तसङ्केतस्यापि नालिकरदीपवासिनः शब्दोचारणानन्तरमेव पदार्थ. प्रतीतिः स्यात्तदानीमेव तस्योत्पादात् । (दि०)-तदुत्पत्तीत्यादि प्रयोजनेति आदिवाक्यादेव वाच्यार्थप्रयोजन- सिहेः तत्मसिद्धरिति प्रयोजनप्रसिद्धः यतोसाविति सम्बन्धःशब्दार्थयोः स्वभाव इति अभिन्नः तदतिरिक्तोवेति भिन्नोवा । असाविति सम्बन्धः अन्यथेति सम्बन्धिनोरनित्यतायां। तत्सम्बन्धीति तौचसम्बन्धिनौ च तत्सम्बन्धिनौ तत्सम्बन्धिभ्यां यः सम्बद्धः स्वभावः तत्प्रच्यवनात्तस्यभ्रं- शात् अथचतैः सम्बन्धिभिः सह यः सम्बद्धसम्बन्धभावस्तस्यपतनात् असाविति सम्बन्धः तत्रेति पदार्थे भेदपक्षेति तावत्तादात्म्यमभिन्नभि- दङ्वीकारेजाघटीति न भिन्नपक्षे सर्वथाभिन्नत्वात् नालिकेरकपित्थवत् अत्रापि प्राज्ञेन भिन्न प्रकारस्वीकारपरेण वरीवय॑ते । तार्तीयीकेति युगप- दुभयोरुत्पत्तिकालस्वीकारात् क्रमोत्पत्तिविरोधः असाविति सम्बन्धः अन्यत इति सङ्केत्तात् अन्यतोपोति सङ्केतात्अपिशब्दावाच्यवाचकाभ्या- ।
टि. पं. दयोपेतरत्नाकराधतारिकायुक्तः मपि सकाशात् अनाकलितेति नालिकेरद्वीपवासी नालिकेरमन्तरेणघटा- दिपदार्थसाथै नमनुते व्यवहारबाह्यत्वात्तस्य तदानीमिति तस्यवाच्यस्य दर्शनएव । तस्येति सम्बन्धस्य । (५०)-अन्यथा सम्बन्धस्याप्यनित्यत्वानुषङ्गादिति चेत् सम्बन्धिनौ नित्यौ न भवतः। तत्सम्बन्धिसम्बद्धसम्बन्धस्वभावप्रच्युतेरिति तौ च तौ सम्बन्धिनौ वाच्यवाचकौ तत्सम्बद्धत्वलक्षणः सम्बन्धस्य स्वभावस्तस्य प्रच्युतिः। तत्रेति वाच्यवा- चकयोः। वाच्यवाचकभावयोरिति वाच्यवाचकसम्बन्धयोः। उभयत्राविशेषा- दिति उभयत्रघटे पटेवाऽसम्बद्धत्वाविशेषात् । अन्यतरस्याप्यसत्तायामिति द्विष्ठ- सम्बन्धसम्वित्तिकरूपप्रवेदनात् । अन्यतोSपिवेति वाच्यवाचकाभ्यामप्यन्यतोऽपि । पदार्थप्रतीतिः स्यादिति स्थादिति वाच्यवाचकसम्बन्धस्य प्रतीतिभवेत् । (रत्ना०)-अथोत्पन्नोप्यसौ सङ्केतामिव्यक्तएव वाच्यप्रतिपत्तिनिमित्तं ननुकार्यकारणभावविशेष एवाभिव्यंग्याभिव्यञ्जकमावस्तबचान्यतोपीति विकल्पप्रतिविधानमेव समाधानं । अथान्यतः सङ्केतादेवायमुत्पद्यते । तदप्यवद्यम् तदाधारस्य धर्मस्यान्यतएवोत्पत्तिविरोधात् नचैवं वाच्य. वाचकयोस्तदुत्पत्तिसम्बन्धोऽस्य कथितः स्यात् अथसङ्केतसहकृताभ्यां वाच्यवाचकाभ्यामेषजायते इत्यर्थवानन्यतोपीति तृतीयः पक्षः कक्षी- क्रियते । नन्वसौ सङ्केतः प्रतीते वस्तुनि विधीयेताप्रतीते वा । नतावदप्रतीतेऽतिप्रसङ्गसङ्गतेः । नापिप्रतीते यतस्तक्षणिकत्वेन तदानी- मेव खरसमीरसमीरिताम्भोधरध्वंसमध्वसिष्टेति कुत्र सङ्केतः क्रियेत । अथ तत्समानजातीयक्षणपरम्पराया विद्यमानत्वात् कथं न सङ्केतगोचरता तस्य तदसन्नखल्वप्रतीतं विद्यमानमपि शब्दगोचरीभूयमुपनेतुं शक्य- मतिप्रसक्तेः । यच्च प्रथमं प्रतीतं तत्तदानीमेव व्यतीतं। एवंशब्दोपि गवादिः प्रतीतो ऽप्रतीतोवा तत्रसङ्केत्येतेति प्राग्वदोषाः सङ्केताभावेच कथं वाच्यवाचकभावोत्पादः। स्तांवा ते शब्दार्थव्यक्ती क्षणिकत्वपराङ- मुखेउत्पादयतांच सङ्केतसहकृते वाच्यवाचकभावम् किन्तु न ते एव व्यव- हारकालमनुगच्छत इत्यर्थान्तरे शब्दान्तरेच वाव्यवाचकभावोत्पत्तये १४ प्रमाणनयतत्त्वालोकालंकारः सङ्केतान्तरं कर्त्तव्यम् । तथाचव्यवहाराभाव एव भवेत् । प्रतिवाच्यवाचक- विशेष सन्तक रवश्यम्भावाभावात् । (दि०)-तदाधारस्येति वाच्यवाचकाधारस्य धर्मस्येति सम्बन्धस्य अन्यत इति सङ्केतात् अतिप्रसङ्केति देशकालविप्रकृष्टेपिसङ्केतमाप्तेः तत्क्षणिकेति तद्वाच्यं तस्यति वाच्यस्य नखल्वप्रतीतमिति प्रतीतविनाशा- नन्तरोत्पन्नासमानजातीयक्षणपरम्परा विद्यमानापि प्रतीतैव सा शब्दगो- चरा नस्यात् अतिप्रसक्तेरिति देशविप्रकृष्टसङ्कतप्राप्तेः एवंशब्दइति प्रतीताम्प्रतीतार्थवत्प्रतीताप्रतीतशब्देपि दोषोडूवनम् भाधनीयं स्तांवेति भवेताम् क्षणिकत्वेति अक्षणिकेस्थिरइत्यर्थः । तेएवेति शब्दार्थव्यक्ती सङ्केताभावात्पूर्वसङ्केतः पूर्वार्थदर्शनेनैव साकं विनष्टइति भावः । (५०)-तदाधारधर्मस्येति तौ वाच्यवाचकावाधारोयस्येति विग्रहः। अति- प्रसङ्गसङ्गतेरिति देशकालविप्रकृष्टेऽपि सङ्केतप्राप्तेः । अतिप्रसक्तेरिति देशादिविप्रकृष्टे- ऽपि सङ्केतप्राप्तेः। किन्तुनते एवव्यवहारकालमित्यादि। ते इति ते शब्दार्थव्यक्ती । -- । अत्रचकाक्वाव्याख्या। (रना०)-अथ सामान्यगोचर एव सङ्केतः क्रियते । तदेवच वाच्यवाचकभावाधिकरणम् कालान्तरव्यक्त्यन्तरानुसरणनैपुण्यधरं च नित्यत्वाद्यक्तिनिष्ठत्वाचेतिचेत्तन्नमनीषिमान्यं सामान्यस्याभावात् । कथं प्रतिभासभाजनमपि तन्नास्तीतिचेत् न तत्प्रतिभासासिद्धेः । तथाहि दर्शने परिस्फुटत्वेनासाधारणमेव रूपं प्रथते नसाधारणम् अथ साधारणमपि रूपमनुभूयते । गौ¥रिति तदसाधीयः शावलेय. बाहुलेयादितीव्रतीव्रतरगोशब्दादिरूपविवेकेन तस्याप्रतिभासनात् नचशावलेयादिरूपमेवसाधारणं प्रतिव्यक्तिभिन्नरूपोपलम्भात् । यदिच सामान्याधार एव वाच्यवाचकभावस्तदा न शब्दात्प्रवृत्तिः स्यात् ज्ञानमात्रलक्षणलात सामान्यार्थक्रियायास्तस्याश्च तदेवनिष्पन्नत्वात् । अथापि सामान्यविशेषोभयाधारोऽसौ स्यात् तदापि तदेव दूषणम् । प्रत्येक योभवेदोषो योर्भावे कर्थनस इति वचनात् । अथ- १ परिस्फुटमसाधारणमेवेत्यपि पाठान्तरम् ।
टि. पं. द्वयोपेतरत्नाकराधतारिकायुक्तः कथमिदं भवेन्नहि स्वतन्त्रौ सामान्यविशेषौ तदधिकरणमभिदध्महे । किन्तुतदुभयात्मकत्वेन जात्यन्तररूपं प्रत्यक्षप्रतीतिसिद्धं कथञ्चिदनुगम- व्यावृत्तिमद्वास्त्विति चेत् । तदिदमपूर्व किमपिकपटनाटकपाटवप्रकटनम् सामान्यावशेषोभ यात्मकत्वस्य दुर्द्धरविरोधानुबन्धदुर्गन्धत्वात्। एतेनैवच कथञ्चिद्भेदनित्यानित्यत्वपक्षावपि प्रतिक्षिप्तौलक्षयितव्यौ। तन्नादि. वाक्यं साक्षात्प्रयोजनं जल्पितुमलं नहिशब्दाः श्वपाकाइव वराकाः स्खलक्षणं ब्राह्मणम् क्षणमपि स्पष्टुमर्हन्ति । विकल्पशिल्पिकल्पितार्थमात्र गोचरत्वात् तेषां विकल्पानांचोत्प्रेक्षालक्षणव्यापारपर्यवसितत्वात् । तदुक्तम विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः कार्यकारणता- तेषां नार्थ शब्दाः स्पृशन्त्यपि । १ । तदेतदखिलमनिलान्दोलितार्कतू- लतरलम् । (दि०)-तदेवेति सामान्यम् कालान्तरेति विशेषभावाधिगामुकम् सामान्यं हि नित्यं कालान्तरे व्यक्तिगामुकंच सामान्यस्यति सामान्यम् नमन्यन्ते बौद्धाः केवलविशेषाङ्गीकारात् तथाहीत्यादि दर्शनइति निर्वि- कल्पकप्रत्यक्षे प्रत्यक्षविषयस्य विविक्तपरस्परनिरपेक्षस्वलक्षणस्य तथागतैः प्रतिपन्नत्वात् अथसाधारणमिति प्रथमसामान्यदर्शने लोकव्यवहारोक्तौ- वा विवेकनेति विशेषरूपपरिज्ञानेन। तस्येति साधारणस्य । प्रतिव्य- तीति व्यक्तौ २ श्वेतकृष्णरक्तरूपादिप्राप्तेः प्रवृत्तिरिति चाह दोहादिका क्रिया। ज्ञानमात्रेति सामान्य ज्ञानमात्रं नत्वर्थक्रियासाधकं विशेषः क्रियाहेतुजैनैरप्यभ्युपगतः । तस्याइति सामान्यार्थक्रियायाः तदैवेति प्रथमगवादिदर्शनसमये वस्त्वनिश्चये असाविति वाच्यवाचकभावसम्बन्धः तदेवेति यत्सामान्याधारे दूषणं विशेषाधारे तदेव सामान्यविशषोभया- धारे तदेव स्वतन्त्राविति परस्परनिरपेक्षौ स्वच्छन्दावित्यर्थः। तदधिकति वाच्यवाचकभावसम्बन्धाधिकरणं नाभिध्महे नप्रतिपादयामः वैशेषि- कादिवत् । तदुभयेति सामान्यविशेषात्मकत्वन नकेवलं सामान्यं नकेवला- विशेषा अतएव जात्यन्तरं सामान्यस्य विशेषाणांचानुभवात् प्रत्यक्षसिद्ध कथञ्चिदिति अयंघटइत्यनुगमः घटः पटायावृत्तइति व्यावृत्तिः तद्वत् । ।
प्रमाणनयतत्वालोकालंकारः विकल्पशिलीति शिल्पीमालिनजातीयः कारुरिति साभिप्रायं शिल्पीहि पदार्थरचयति तेषामिति शब्दानां तदेतत सकलं निष्फलं कथञ्चित्तादा- त्भ्यस्य शब्दार्थयोः स्वीकारात् नात्रविरोधावरोधः मोदकाचलकरवाला- युच्चारणमात्रेपि वदनपूरणचरणपाटनाद्युपपात: स्यात् सचनदृश्यते ऽतो भेदः मोदकाद्गुच्चारणोन पदार्थप्रतीत्याऽभेदः अथानेकार्थत्वाच्छब्दानां कथंप्रतिनियतपदार्थप्रत्ययइतिचेद्विवक्षाताहि शब्दानां प्रवृत्तिनतुस्वच्छन्दतः आपिच यदिनकश्चित्सम्बन्धः तत्परमाणुरित्युक्ते स्वलक्षणं कथमभ्युपगम्यते सौगतैः वेद्यवेदकभावादिति चद्वाच्यवाचकभावात् शब्दार्थयोरपि प्रत्ययः स्यात् विस्तरोन्यायावतारावसेयः । सूरयस्तु भगन्यन्तरेण उत्तरयाश्चक्रुः । (५०) तदेवनिष्पन्नत्वादिति तदैवज्ञानमात्र असाविति वाच्यवाचकभावः । उत्प्रेक्षालक्षणव्यापारपर्यवसितत्वादिति आरोपलक्षणव्यापारपर्यवसितत्वात् । - (रत्ना०)-यतएवंबदतस्ते किमादिवाक्योपक्षेपप्रतिक्षेपः काशितः किंवा कारणान्तरं किमपि तत्करणेस्तीति विवक्षितं नाद्यः पक्षस्तत्र तत्र- तावकैस्तस्य करणात् । नाप्युत्तरस्तस्य कस्यचिदसत्त्वात् । अथास्त्येव प्रयोजनार्थ प्रवृत्तिनिमित्तार्थसन्देहोत्पादनं तत् तथाहि । प्रक्षितप्रयोजन- वाक्यानां प्रयोजनार्थिनां तदुपदर्शितप्रयोजनभावाभावपरामर्शपरः संशयः समाविर्भवति ततोऽपि च संशयतः सस्यसम्पत्त्यादिफले कृष्यादौ कृषीवलाइव ते तत्र प्रवर्तन्त इति चेत् तदमाज्यं प्रयोजन- वाक्योपन्यासात् प्रागप्यस्यसाधकबाधकप्रमाणाभावेन भावात् । अथ- तदासौ प्रयोजनसामान्ये सत्तासत्ताभ्यां संशयः। प्रमातारश्च प्रायः प्रयोजनविशेषार्थिन एवेति तदिषयसंशयोत्पादनाय युक्तमेवेदमिति चेत् नास्यापि प्रागेवभावात् । तथाहि । प्रमाता शास्त्रमात्रमप्यालोक्या- नुभूतप्रयोजनविशेषण शास्त्रेणास्य वर्णपदवाक्यकृतसाधर्म्यमवधार्य च किमिदमपिसप्रयोजनमप्रयोजनं वा । सप्रयोजनमपि किमस्मदभिमतेन तेन तदाकिंवान्येनेत्यादि वाक्यालोकनं विनापि सन्दिग्धे । आपिच । वन्मते न ध्वनिरर्थाभिधानधुरां दधाति । तत्कथंप्रयोजनविशेषविषय- सन्देहोत्पादनेपि प्रत्यलः स्यात् ।
टि. पं. इयोपेतरत्नाकरावतारिकायुक्तः (दि०)-यतएवमित्यादि किंवेति आदिवाक्यकरणे आचार्यकाल्पित प्रयोजनादन्यत् कारणमस्तीतितेवतुमिधू तस्योति आदिवाक्यस्य नापि- तस्यति कारणान्तरस्य तदिति कारणान्तरं प्रेक्षितेति शास्त्रान्तरे विलो- कितादिवाक्यानां तदुपति तेनादिवाक्येनोपदार्शतं तत्रेति शास्त्रे अर्थ- संशयः प्रवृत्त्यङ्गं अनर्थसंशयस्तुनिवृत्त्यङ्गं प्रयोजनेत्यादि अस्येति संश- यस्य असाविति संशयः सत्वेति अस्तिनास्तिवेति सन्देहः तद्विषयेति प्रयोजनगोचरसन्देहोत्पादनाय। इदमित्यादिवाक्यं अस्यापीति एवं विधस्यापि संशयस्य प्रमातेत्यादि अस्यति शास्त्रस्य साधयमिति समा. मतां अस्मदिन विशेषशास्त्रेणसह तददिति प्रयोजनवत् सन्दिग्धेइति सन्देहंकुरुत। (६०)-संशयः समाविर्भवतीति अर्थसंशयोऽपि प्रवृत्यङ्गं अनर्थसंशयोऽपि निवृ. स्यङ्गम् । अस्येति प्रयोजनभावाभावस्य । अस्मदभिमतेन तेन तददित्यत्रतेनेति प्रयोजनेन । तदादिति प्रयोजनवत् । सन्दिग्धेइति सन्देहं कुरुते । प्रत्यलः स्यादिति । । ध्वनिः । (रत्ना०)-अर्चटचर्चचतुरः पुनराह इह प्रेक्षावतां प्रवृत्तिः प्रयोजन- बत्त्या व्याप्ता ततो यन्निष्प्रयोजनंन तरारम्भणीयम् । यथाकाकदन्त परीक्षा । तथाचैतदितिशास्त्रारम्भप्रतिषेधायप्रयुज्यमानाया व्याप- कानुपलब्धरसिद्धतोद्भावनार्थमादिवाक्यंकर्तव्यमितितदप्यनुपपन्नं वा- क्यस्यप्रमाणवेनाऽनवस्थिततया प्रयोजनविशेषसद्भावप्रकाशनसामर्थ्य- शून्यत्वात् तदसिद्धिमुद्धावयितुमपर्याप्तत्वात् । (दि०) तथाचेति निःप्रयोजनं । एतदिति प्रकृतशास्त्रं व्यापकति इह- प्रतिषेध्यमानमारम्भणीयत्वं तस्य व्यापकं प्रयोजनवत्त्वं तस्यानुपलब्धि- निःप्रयोजनत्वादितिहेतुनोक्ता व्यापकं निवर्तमानंहि व्याप्यमादाय निव- त्तते प्रयोजनवत्वंच व्यापकं तन्निवर्त्तनेआदिवाक्यस्यापिवैयर्थ्यप्रसङ्गात् । आदिवाक्यमिति तादात्म्यतदुत्पत्तिलक्षणसम्बन्धविकलतयादिवाक्य स्थापनाचं सर्वसौगतसम्मतमेवातः प्रमाणरहितमप्यादिवाक्यं विधेयं - RU Mad प्रमाणनयतरवालोकालंकारः वाक्यस्येत्यादि प्रमाणेति प्रामाण्येन निश्चयाभावात् । तदसिद्धिमिति व्यापकानुपलब्ध्यसिद्धिमपि । (५०)-व्यापकानुपलब्धेरिति । इहप्रतिषेध्यमारम्भणीयं तस्यव्यापकं प्रयोजनवत्त्वं तस्यानुपलब्धिनिष्प्रयोजनत्वादिति हेतुनोक्ता । तदसिद्धिरिति व्यापकानुपलब्धेरसिद्धिः । (रत्ना०)-रामटस्तुप्रकटयति । यद्यपीदवाक्यमप्रमाणत्वात् प्रयोज- नोपस्थापनाद्वारेणनिष्प्रयोजनत्वसाधनमसिद्धविधातुमधीरं । तथापि विदग्धंसन्दिग्धंकर्तुसन्दिग्धासिद्धमपिचसाधनमगमकमेव । यथास- मुच्छलद्धवलधूलिपटलं धूमत्वेन सन्दिह्यमानं धनञ्जयस्येति । तदप्य- शस्तमनुपन्यस्तेपिप्रयोजनवाक्येऽनुभूतपूर्वप्रयोजनविशेषशास्त्रान्तरसा- धर्म्यदर्शनेन शास्त्रमात्रादपि निष्प्रयोजनत्वगोचरसन्दहस्य सद्- भावात् । ननुयद्येवमादिवाक्यं पराक्रियते नतहीदं भवद्भिरपि कर्तव्य- मितिचेत् नैवं । कर्त्तव्यञ्चतम्प्रति योनान्यथाप्रयोजनं विदाञ्चकार । वाच्यवाचकोत्पत्तिसमयसम्मष्णुशक्तिस्वभावस्याबाधिततथाऽनुभवेन चि- त्रज्ञानरूपस्पष्टदृष्टान्तावष्टम्भेन च कृतविरोधपरिहारत्वान्नित्यानित्यस्य- वाच्यवाचकाभ्यां कथञ्चिभिन्नस्य सामान्यविशेषोभयस्वभाववस्तु- गोचरोपरचितसङ्केताभिव्यक्तस्य वाच्यवाचकभावसम्बन्धस्य बलेन शब्दानामर्थस्य प्रतिपादकलं प्रतिपद्य प्रामाण्यं चाङ्गीचकार । एतच यथास्थानं समर्थयिष्यते । यःपुनरन्यथापिप्रयोजनमजानाद्यश्च न शब्द. विशेष प्रमाणत्वेनामस्त तोप्रति नकर्तव्यञ्चत्यनेकान्तो विजयते । (दि०)-साधनमिति हेतुं अगमकमिति अनिश्चायक धनञ्जयस्येति धहः तदपीत्यादिनोत्तरयति जैनः । यद्येवामिति संशयोत्पादकानभ्युपगमेन निराक्रियते यतोनेन संशयोत्पादनमन्तरेण नकिमपि प्रयोजनं कर्त्तव्यञ्चे- त्यादि अन्यथेति याश्रोता आदिवाक्यं विना यः प्रमाण्यं चाङ्गीचकारेति वाक्यसमन्वयः चित्रज्ञानेति पञ्चवर्णालेख्यज्ञानं वाच्यवाचकेति एतद्विशे- व्यपदं प्राच्यानि षष्टयन्तान्यस्यविशेषणानि पाक्सुगतकल्पितोत्तरसूच- कानि । प्रमाण्यमिति शन्दानामेव । । - टि. पं. द्वयोपेतरत्नाकरावसारिकायुक्तः १९ (५०)-विदाञ्चकारेति यः प्रामाण्यञ्चाङ्गीचकारेति वाक्यसमन्वयः। शक्तिस्व- भावस्येति शक्तिस्वभावविशेषस्य । चित्रज्ञानरूपस्य दृष्टान्तावष्टम्भनेति सौग- ताभिमतेन यथैकस्मिन् चित्रपटेनानावर्णसङ्करऽपि नज्ञानविरोधः । अङ्गीचकारेति शब्दा- नामेव अथ प्रमाणस्यादौ लक्षणं व्याचक्षते । मू०-स्वपरव्यवसायि ज्ञानं प्रमाणमिति ॥ (रवा)-अत्रचादग्धदहनन्यायेनयावदप्राप्तं तावद्विधेयमिति विप्र- तिपन्नानाश्रित्यस्खपरेत्यादिकमव्युत्पन्नान्प्रति प्रमाणं प्रमाणप्रमेया- पलापिनस्तूद्दिश्य द्वयमपि विधेयं । शेषं पुनरनुवाद्यं । तत्रप्रमाण- मितिप्राग्वत् । स्वमात्माज्ञानस्यस्वरूपं परःस्वस्मादन्योऽर्थ इति यावत् तौविशेषेण यथावस्थितस्वरूपेणाऽवस्यति निश्चिनोतीत्येवं लिं यत्तत् स्वपरव्यवसायि ज्ञायते प्राधान्येन विशेषो गृह्यतेऽनेनेति ज्ञानं एतच विशेषणमज्ञानरूपस्य व्यवहारधुराधोरेयतामनादधानस्य सन्मात्रगो- चरस्य स्वसमयप्रसिद्धस्य दर्शनस्य सन्निकर्षादेश्वाचेतनस्य नैया- यिकादिकल्पितस्य प्रामाण्यपराकरणार्थ । तस्यापिच प्रत्यक्षरूपस्य शाक्यनिर्विकल्पकतया प्रामाण्येन जल्पितस्य संशयविपर्ययानध्यवसा- यानांच प्रमाणत्वव्यवच्छेदार्थव्यवसायीति । स्पष्टनिष्टयमानपार- मार्थिकपदार्थसार्थलुण्टाकज्ञानाद्वैतादिवादिमतमत्यसितुं परेति नित्य. परोक्षबुद्धिवादिनां मीमांसकानामेकात्मसमवाविज्ञानान्तरप्रत्यक्षज्ञानवा- दिनां यौगानामचेतनज्ञानवादिनां कापिलानांच कदाग्रहग्रहं निग्र- हीतुं खेति । समग्रलक्षणवाक्यंतु परपरिकल्पितस्यार्थोपलब्धिहेतुत्वादेः प्रमाणलक्षणत्वप्रतिक्षेपार्थम् । (टि०)-तत्रचेत्यादि यावदप्राप्तमिति अगृहीतं विप्रतिपन्नादिभिःस्वप- रेति स्वपरव्यवसायिज्ञानं व्यवस्थापनीयं अव्युत्पन्नानिति शिष्यान द्वय- मपीति प्रमाणा मेयश्च शेषमिति परेणप्रतिपन्नं स्पष्टार्थमनुवदनीयं ज्ञायते- २० प्रमाणनयतत्त्वालोकालंकार: इति ज्ञानेप्राधान्येन विशेषः गौणत्वेनतुसामान्यदर्शनेतुप्राधान्येन सामान्य गौणत्वेनतु विशेषागृह्यते अज्ञानरूपस्येति ज्ञानाव्यतिरिक्तस्य नतुजडरू- पस्य व्यवहारेति व्यवहारविमुखस्य विशेषसाध्यत्वाद्व्यवहारस्य सन्मात्रेति सत्तामात्रं स्वसमयेति जिनसमयप्रख्यातस्य दर्शनस्यति सामान्यग्रा. हित्वाद्दर्शनस्य तस्येति ज्ञानस्य ताहि निर्व्यवसायंकल्पितं शाक्यैः स्पष्टेति प्रत्यक्षण निर्णीयमानं ज्ञानाद्वैतेति ब्रह्मवादिमतं निराकर्तुं नित्यपरोक्षति परोक्षा पराभासिनी स्वात्मनि जडा एकात्मेति नज्ञानमात्मानमात्मना. जानाति किन्तु ज्ञानं ज्ञानान्तरवेद्यमितिभावः । (५०)-स्पष्टनिष्टकन्यमानत्यादि गये ज्ञानादेतवादिमतमिति आदिश- दात शून्यधादिमतम् । एकात्मत्यादि एकात्मसमवेतं यद्ज्ञानान्तरं तस्यप्रत्यक्षं नपुन रात्मनः प्रत्यक्षज्ञानं वदन्तीत्येवं शीलास्तेषां । यौगानामिति नैयायिकानां कापिला- नामिति साझ्यानां । परपरिकल्पितस्यति नैयायिकादिपरिकल्पितस्य । अर्थोपल- ब्धिहेतुत्वादेरिति अर्थोपब्धिहेतुः प्रमाणम् ॥ (रत्ना०)-तथाह्यर्थोपलब्धेरनन्तरहेतुः परम्पराहेतुर्वा विवक्षांचक्रे परम्पराहेतुश्चेत्तीन्द्रियवदञ्जनादेरपिप्रामाण्यप्रसङ्गः अथानन्तरहेतुरि- न्द्रियमेव प्रमाणं । तत्किन्द्रव्येन्द्रियं भावेन्द्रियंवा । द्रव्येन्द्रियमप्युप- करणरूपं निवृत्तिरूपंवा । नप्रथमं तस्य निर्वृत्तीन्द्रियोपष्टम्भमात्रे चरि- तार्थत्वात् । नापिद्वितीयं तस्य भावेन्द्रियेणार्थोंपलब्धौ व्यवधानादा- नन्तर्या सिद्धेः । भावेन्द्रियमपि लब्धिलक्षणमुपयोगलक्षणं वा । नपौ. रस्त्यं तस्यार्थग्रहणशक्तिरूपस्यार्थग्रहणव्यापाररूपेण तेन व्यवधानात् उदीचीनस्यतु प्रमाणवे ऽस्मल्लक्षितमेव लक्षणमक्षरान्तरैराख्यातं स्यात् नचनास्त्येवामूदृशमिन्द्रियमितिभौतिकमेवतत्तत्रानन्तरो हेतुरिति वक्तव्यं। व्यापारमन्तरेणात्मनः स्वार्थसम्बित्फलस्यानुपपत्तेः । नवव्याप्त आत्मास्पर्शादिप्रकाशकः सुषुप्तावस्थायामपि प्रकाशप्रसङ्गात् नच- तदानीमिन्द्रियंनास्ति यतस्तदभावः स्यात् । अथ नेन्द्रियं सत्ता- मात्रेण तहेतुः किन्तु मनसाऽर्थेनच सनिकृष्टमिति चेत् । ननु- टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्तः २१ सुषुप्तावस्थायामपि तत्तादृशमस्त्येव मनसः शरीरव्यापिनः स्पर्शना- दीन्द्रियेण स्पर्शनादेश्च तूलिकादिना सन्निकर्षसद्भावात् । नचाणु- परिमाणवात् मनसःशरीरव्यापित्वमसिद्धमितिवाच्यं तत्र तस्य प्रमाणेन प्रतिहतत्वात् । तथाहि मनोऽणुपरिमाणंनभवतीन्द्रियत्वान्नयनवत् नचशरीरव्यापित्वे युगपत् ज्ञानोत्पत्ति प्रसङ्गः तादृक्षक्षयोपशमविशेषेणैव तस्य कृतोत्तरत्वादिति नैतत्प्रमाणलक्षणमक्षणं । आचक्ष्महिच मतपरीक्षा- पञ्चाशति । अर्थस्य प्रमितौ प्रसाधनपटु प्रोचुः प्रमाणं परे तेषामञ्जन. भोजनाद्यपि भवेद्वस्तु प्रमाणं स्फुटं ॥ आसन्नस्यतु मानता यदि तदा संवेदनस्यैव सास्यादित्यन्धभुजङ्गरन्ध्रगमवत्तीयः श्रितन्त्वन्मतमिति ॥ (टि०)-अथानन्तरेत्यादि द्रव्येन्द्रियमिति द्विविधंद्रव्यन्द्रियं निवृत्ति- रूपं उपकरणरूपंच उपकरणेन्द्रियं विषयग्रहणसामर्थ्य च्छेद्यच्छेदनेकरवा- लस्येव धारा यस्मिन्नुपहतनिवृत्तिसद्भावपि विषयनगृह्णातीति उपकरणस्य निवृत्तीन्द्रियाधारकृतार्थत्वात् निर्वृत्तिराकारः साच बाह्याभ्यन्तरभेदाद्विधा लत्रवालाअनेकप्रकारा आभ्यन्तरापुनः क्रमेणश्रोत्रादीनां कादम्बपुष्प ? धान्यमसूर २ अतिमुक्तकपुष्पचन्द्रिका ३ क्षुरप्र ४ नानाकारसंस्थाना ५ लब्ध्युपयोगेन भावेन्द्रियं लब्धीन्द्रियं पुनस्तदावरणक्षयोपशमरूपं उपयोगे- न्द्रियं यः स्वविषये व्यापारः तस्यति लब्धीन्द्रियस्य तेनति भावेन्द्रियण उपयोगरूपेण अर्थग्रहणेन अस्मल्लक्षितमिति स्वपरावभास्येव ज्ञानं अमू- दृशमिति भवदुक्तं भौतिकमिति महाभूतोद्भवमेव तदिति इन्द्रियं तत्रेति अर्थोपलब्धौ स्वार्थसम्विदिति स्वपरज्ञानं यतइति इन्द्रियाभावात् तद- भावइति प्रकाशाभावः तद्धेतुरिति प्रकाशहेतुः तदिति इन्द्रियं तादृश- मिति मनसार्थेनच संसृष्टं तत्रेति मनसि तस्येति अणुपरिमाणत्वस्य युग- पदिति समकालं मनोज्ञानेन्द्रियज्ञानयोरुत्पादप्रसक्तिः अर्थस्येत्यादि प्रमिताविति अर्थोपलब्धौ प्रसाधनति साधनपरिष्टोहेतुः आसन्नस्यति सन्निकर्षस्य । (पं०)-परम्पराहेतुर्वेति प्रामाण्येन, अञ्जनादेरपीति तस्यापि चक्षु मल्य करणादिनाऽर्थोपलब्धिहेतुत्वात । उपकरणमिति इन्द्रियशक्तिरूपम् । निर्वृत्तिरूपमिति २२ । । प्रमाणनयतत्त्वालोकालंकारः निवृत्तिििवधाबहिनिवृत्तिः अन्तर्निवृत्तिः । बहिनिवृत्तिः श्रोत्रादिषु कर्ण शाकुल्यादिरूपा अन्तर्निवृत्तिस्त्वम् । कदम्बपुष्पगोलकाकारं श्रोत्रं मसूराकारंचक्षुः आंतमुक्तकपुष्पाकारं ब्राणे- न्द्रियम् । क्षुरप्रसंस्थानं रसनम् । नानाकारं स्पर्शनम् । अर्थग्रहणशक्तिरूपस्येति क्षयोपशमरूपस्य । तेनेति उपयोगेन। तदिति इन्द्रियम् । तत्रेति अर्थोपलब्धौ । नाव्यापृतआत्मेत्यादि भवन्मतेऽपिस्पर्शादीनां फलन्तावदात्मनएव । प्रकाशप्रस- ङ्गादिति तदाप्यव्यापृतत्वात् । तदभावइति प्रकाशाभावः। तत्तादृशमस्त्येवेति मनसाऽर्थेनचसान्निकृष्टम् । तत्रेति मनसि । तस्यति अणुपरिमाणत्वस्य । प्रमाणेन प्रतिहतत्वादिति मूलपाठः क्वचित्प्रत्यक्षज्ञप्तिकरणत्वादिति प्रत्यक्ष पञ्चेन्द्रियग्राह्य ज्ञान- न्तस्य करणं साधकतमम् । क्वाचित्कारणत्वादिति पाठः सोऽपिरम्यः, तस्यति अणुपरिमाण- त्वस्य युगपत्ज्ञानोत्पत्तिप्रसङ्गस्य । अञ्जनभोजनाद्यपीति तद्धिअञ्जनभोजनादिकं व्यव हितं कारणम् । (रत्ना०)-अनधिगतार्थाधिगन्तृप्रमाणमित्यपिप्रमाणलक्षणंन मीमां- सकस्यमीमांसामांसलतांसूचयति । प्रत्यभिज्ञानस्याप्रामाण्यप्रसङ्गात् । अथात्रापूर्वोप्यर्थः प्रथते । इदानीन्तनमस्तित्वं नहि पूर्वधियाधिगत- मिति चेत् । इदमन्यत्रापि तुल्यं । उत्तरक्षणसत्त्वस्य प्राक्क्षणवर्तिसम्बेद- नेनावेदनात् पूर्वोत्तरक्षणयोः सत्त्वस्यैक्यात् कथन्तेन तस्यावेदनमितिचेद प्रत्यभिज्ञागोचरेऽपि तुल्यमेतत् । रजतंगृह्यमाणंहि चिरस्थायीति गृह्यते इति वचनात्यागेवतबेदनेच तदिदानीमस्ति नवा कीदृग्वाऽस्तीति तदनन्तरं नकोपि सन्दिहीत । ततोऽपार्थकमेवानधिगतेतिविशेषणं व्यवच्छेद्याभावात् । नचाव्यापकत्वदोषः प्रकृतलक्षणे प्रत्यक्षपरोक्षलक्ष- णव्यक्तिव्यापकत्वात् । नाप्यतिव्यापकत्वकलङ्कः । संशयाचप्रमाण- विशेषष्ववर्त्तनात् । नाप्यसम्भवसम्मवः प्रमाणस्वपरव्यवसायिज्ञानं प्रमाणत्वान्यथानुपपत्तेरित्यतस्तत्र स्वपरव्यवसायिज्ञानत्वसिद्धेः। (दि०)-प्रत्यभिज्ञति सएवायमिति अत्रेति प्रत्यभिज्ञाने इदमन्यत्रा- पीत्यादि अन्यत्रापीति अधिगतार्थाधिगन्तृषु धारावाहिज्ञानेषु तेनेति पूर्वक्षणेन तस्येति उत्तरक्षणस्य तवेदनेति पूर्वोत्तरक्षणयोर्शाने व्यवच्छेद्येति विशेषणंहि व्यवच्छेदकमस्य व्यवच्छेद्यं नास्ति नचाव्यापकेत्यादि व्य- ताति विशेषः अतस्तत्रेति प्रमाणे ।
२३ टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्तः (५०)-प्रमाणत्वान्यथानुपपत्तेरिति भवातहि धर्मिविशेषेसाध्ये धर्मिसामान्य हेतुः। तत्रेति प्रमाणत्वान्यथानुपपत्त्याख्यहेतौ । (रत्ना०)-अत्रचायंकण्टकोद्धारप्रकारस्तथाहि । नतावदत्रपक्षप्रति. क्षेपदक्षदोषसंश्लेषः । अयंहिभवन किं प्रतीतसाध्यधर्माविशेषणत्वमन- भीप्सितसाध्यधर्माविशेषणता निराकृतसाध्यधर्मविशेषणवं वा भवेदिति भेदत्रयीत्रिवलीव तरलाक्षीणामुन्मीलति । तत्र न तावत् प्रतीतसाध्य. धर्मविशेषणत्वमत्राख्यायमानं संख्यावतां ख्यातये यतः प्रसिद्धमेव साध्यसाधयतामेतदुन्मजति। आपोवाइत्यादिवत् । नचैतत्प्रमाणलक्षण- मद्यापि परेषां प्रसिद्धिकोटिमादीकिष्ट नाप्यत्रानभीप्सितसाध्यधर्मवि- शेषणताभाषणीया साहिस्वानभिप्रेतं साध्यं साधयतामधीमतां धावति- शौद्धोदनस्य नित्यत्वसाधनवत् । नचाहतानामेतत् प्रमाणलक्षणमना. कासितं । नापिनिराकृतसाध्यधर्मविशेषणत्वमत्रोपपत्तिपद्धतिप्रतिबद्धता दधाति । तद्धि प्रत्यक्षेण अनुमानेनागमेनवा साध्यस्यनिराकरणाद भवेत् । नचैतदनुष्णस्तेजोऽवयवी नास्ति सर्वज्ञो जैनेनरजनिभोजनं भजनीयमित्यादिवत् प्रत्यक्षानुमानागमादिभिर्वाधासम्बन्धवैधुर्य दधान. मीक्ष्यते । तस्मान्नात्र दोषः पक्षस्य सूक्ष्मोप्युत्प्रेक्षितुं पार्यते । नापि- हेतोः स खल्वसिद्धताविरुद्धताव्यभिचारोवा भवेत् यदितावदसिद्ध- तातदापि किमन्यतरासिद्धिरुभयासिद्धिर्वाभवेत् अन्यतरासिद्धिश्चेत् तदापि वादिनः प्रतिवादिनोबान्यतरस्येयमसिद्धिः स्यात् । यदि- वादिनस्तदा किंस्वरूपदारणाश्रयदारणभिन्नाधिकरणतादारेण पक्ष- कदेशद्वारेण प्रतिज्ञार्थंकदेशद्धारेण वासौ स्यात् । स्वरूपद्वारेणचेत् तत्कि हेतुस्वरूप विप्रतिपत्तेरप्रतिपत्तेः सन्देहादा। नपाच्यः प्रकारः सारः प्रमाणत्वाख्यहेतुस्वरूपे समस्तप्रामाणिकपरिषदामविवादात् । नापि द्वितीयः प्रमाणस्वरूपमप्रतिपद्यमानस्य वादिनोप्रामाणिकत्व प्रसङ्गात् । नापि तृतीयः सर्वथैवानिर्णीतप्रमाणस्वरूपस्यप्रतिपत्तुस्तत्र सन्देहानु- त्पादात् । नखलुसकलकालमनाकलितस्थाणुत्वस्य स्थाणुत्वपुरुषत्वो. ल्लेखी सन्देहः कस्यापि सम्पद्यते तत्वरूपप्रतिपत्तौ वा कचित्कथं २४ प्रमाणनयतत्त्वालोकालंकारः सर्वथा प्रमाणस्वरूपे संशयः स्यात । आश्रयासिद्धिव्यधिकरणासिद्धीतु वादिनो जैनस्य दोषावेव नसम्मतौ अस्ति सर्वज्ञः सुनिश्चितासम्भव- दाधकप्रमाणत्वादुदेष्यतिशकटंकृत्तिकोदयादित्यादेर्गमकत्वेन स्वीकृत- तात् । सम्मतत्वेवा नतयोरऽत्राऽवकाशशङ्काशङ्कुसङ्कथा । प्रमाणस्य धर्मिणः सकलवादिनामविवादास्पदत्वात् प्रमाणत्वहेतोस्तत्रवृत्तिनि- र्णयाच । पक्षकदेशासिद्धतापि नात्रसाधीयस्तां दधाति । साहि संम्पूर्ण- पक्षाव्यापकत्वे सति सम्भविनी । सचेतनास्तरवः स्वापादित्यादिवत् नचैतदत्रास्तिनाप्यनित्यःशब्दो नित्यत्वादित्यादिवत् प्रतिज्ञार्थंकदेशा सिद्धताभिधानीया । तस्यास्तत्त्वतः स्वरूपासिद्धिरूपत्वादन्यथा- धमिणापि हेतुत्वे तत्प्रसङ्गात् । स्वरूपासिद्धिश्वात्र न यथास्थेमान मास्तिघ्नुते तथानन्तरमेवन्यरूपीतिनवादिनःसाधनमसिद्धमेतत् नापि प्रतिवादिनस्तत्राप्येवं प्रकारकल्पनाप्रबन्धस्य प्रायः समानत्वात् । अत एव वादिप्रतिवाद्युभयस्यापि नासिद्धमिदम् । (टि०)-अयंहीति दोषसंश्लेषः अत्रेति विद्वज्जनसदसि संख्यावतामिति विदुषां ताकिकाणां प्रसिद्धये तत्किंतित्यादि विप्रतिपत्तेरिति विप- ययात् अप्रतिपत्तेरिति अनध्यवसायात् तत्रेति प्रमाणस्वरूपे तत्स्व- रूपेति प्रमाणस्वरूपप्रतिपत्तौ वा क्वचित्सन्देहपि अस्तिसर्वज्ञइति विकल्पसिकस्यापि धम्मिणः सिनत्वानस्य प्रमाणवेति प्रमाणत्वादिति लक्षणस्यहेतोः तत्रेति प्रमाणवर्तननिश्चयात् पक्षकेत्यादि सेति पक्षकदेशा- सिद्धता तस्याइति प्रतिज्ञाथैकदंशासिद्धतायाः धर्मिणइति नित्यः शब्दोनित्यत्वादित्यत्र नित्यत्वस्य साधनत्वे प्रमाणं स्वपरव्यवसायि ज्ञानं प्रमाणत्वादितिवत् तत्प्रसङ्गादिति प्रतिज्ञार्थंकदेशासिताप्रसक्तः आस्ति. घ्नुतेइति ष्टिआस्कन्दनआङपूर्वः स्वादिः उपसर्गेणहिधात्वर्थोवलादन्य- ननीयते इतिवचनात् स्थिरत्वमाश्रयति स्वपरत्वमाश्रयति । (५०) क्वचित्कथंसर्वथा प्रमाणस्वरूपे संशयः स्यादिति अपित्वेकदेशेनैव स्यात् । तत्प्रसङ्गादिति प्रतिशार्थंकदेशासिद्धताप्रसङ्गात् ।
टि.पं. हृयोपेतरत्नाकरावतारिकायुक्तः २५ (रत्रा०)-एवं कथमिदंसाधनमसिद्धिसम्बन्धं दधीत । नापि विरुद्ध- ताबन्धकीसम्पर्ककलङ्कितमेतत् । विपक्षादयावृत्तत्वात् । नापि व्यभिचार- पिशाचसञ्चारदुरसञ्चरं। यतोनिर्णीतविपक्षवृत्तित्वेन सन्दिग्धविपक्षवृत्तिवेन वाज व्याभिचारः प्रोच्यते । नतावदायेन । अनित्यः शब्दः प्रमेय- वादित्यादिवद्विपक्षे वृत्तिनिर्णयामावात् स्वपरव्यवसायिज्ञानस्य हि विपक्षः संशयादिर्घटादिश्च। नच तत्र कदाचन प्रमाणतावरिवर्त्ति । नापि द्वितीयेन विवादापन्नः पुमान सर्वज्ञो न भवति वकृत्वादित्यादिवदिपक्षे वृत्तिसन्देहस्यासंभवात् । संशयघटादिभ्यः प्रमाणत्वव्यावृत्तेनिर्णीतत्वात् । तन्नानैकान्तिकत्वलक्षणमपिदूषणमत्रोपढौकत इति न हेतोरपि कलङ्ककलि- कापि प्रोन्मीलति । निदर्शनं पुनर्नोपदर्शितमेवात्रति नतद्दोषोद्धारसंरम्भः। भवतु वा तदपि व्यतिरेकरूपं संशयघटादि न चात्र कश्चिदूषणकणः । सखल्वसिद्धसाध्यव्यतिरेकोसिद्धसाधनव्यतिरेकोसिद्धोभयव्यतिरेकः सन्दिग्धसाध्यव्यतिरेकः सन्दिग्धसाधनव्यतिरेकः सन्दिग्धोभयव्यति- रेकोऽव्यतिरको प्रदर्शितव्यतिरेकोविपरीतव्यतिरेको वा स्यात् तत्र न तावदाद्याः षघटादौसाध्यसाधनव्यतिरेकस्य स्पष्टनिष्टङ्कनात् । नापि सप्तमः व्याप्त्याऽत्र व्यतिरेकनिर्णयात् । नाप्यष्टमनवमौ यत्र नस्व- परव्यवसायिज्ञानलं नतत्र प्रमाणत्वमिति व्यतिरेकोपदर्शनादित्यतो निष्कलङ्कादनुमानात् तल्लक्षणसिद्धेरनवद्यमिदं लक्षणम् । (टि०)-स्वपरव्यवसायीत्यादि संशयादिरिति स्वपरव्यवसायिनो वि. पक्षः संशयादिः ज्ञानस्यतु विपक्षो घटादिः नचतत्रेति संशयादौ घटादौवा सखल्लिति आसिद्धः साध्याभावो यस्य व्यतिरेकोभाव उच्यते विपरीत- व्यतिरको यथा यत्रनप्रमाणत्वं नतत्र स्वपरव्यवसायिज्ञानत्वमिति साधनो- पसंहरणपूर्वसाध्यस्योपसंहारः अनुमानादिति प्रमाणत्वलक्षणात् तल्लक्षणेति प्रमाणलक्षणसिद्धः लक्षणमिति स्वपरव्यवसायित्वरूपम् । (५०)-विपक्षेवृत्तिसन्देहस्यासम्भवादिति विपक्षे उपलखण्डे । ४ २३ प्रमाणनयतत्त्वालोकालंकारः अथात्रैवज्ञानमिति विशेषणं समर्थयन्ते । मू०-अभिमतानभिमतवस्तुस्वीकारतिर- स्कारक्षमहिप्रमाणमतोज्ञानमेवेदमिति।. (रत्ना०)-अभिमतमुपादेयमनभिमतं हेयं तवयमपि देवा मुख्य गौणंच । तत्र मुख्यं सुखं दुःखंच गौणं पुनस्तयोः कारणं कुसुमकुङ्कुम- कामिनीकटाक्षादिकं खलकलहकालकूटकण्टकादिकंच ॥ एवंविधयो रभिमतानभिमतवस्तुनोर्यो स्वीकारतिरस्कारौ प्राप्तिपरिहारौ तयोः क्षमंसमर्थ प्रापकं परिहारकंचेत्यर्थः अनयोरुपलक्षणवादेतदुभयाभाव- स्वभाव उपेक्षणीयोध्यत्रार्थो लक्षयितव्यः । रागगोचरः खल्वभिमतो द्वेषविषयोऽनभिमतोरागद्वेषद्वितयानालम्बनन्तु तृणादिरूपेक्षणीयस्त- स्यचोपेक्षक प्रमाणं तदुपेक्षायां समर्थमित्यर्थः हिर्यस्मादर्थे यस्मादभिम- तानभिमतवस्तुस्वीकारतिरस्कारक्षमं प्रमाणमतइदंज्ञानमेव भवितुमर्ह- ति । नाऽज्ञानरूपं सन्निकर्षादिकं प्रयोगश्च प्रमाणं ज्ञानमेव अभिम- तानभिमतवस्तुस्वीकारतिरस्कारक्षमतात् यत्तु नैवं नतदेवं यथास्तम्भ स्तथाचेदं तस्मात्तथा। (दि०)-अथेत्यादि अत्रैवेति सूत्रे। उपपत्त्यन्तरं प्रकटयन्ति । मू०-नवैसन्निकर्षादेरज्ञानस्य प्रामाण्यमुप- पन्न।तस्यार्थान्तरस्येव स्वार्थव्यवसितौ साधकतमत्वानुपपने रिति। (रत्ना०)-अयमर्थः। यथासम्पतिपन्नस्य पटादेरर्थान्तरस्याज्ञान- रूपस्य स्वार्थव्यवसितौ साधकतमत्वाभावात् प्रामाण्यन्नोपपत्तिश्रिय मशिश्रियत्तथासन्निकर्षादेरपि प्रयोगः सन्निकर्षादिनप्रमाणव्यवहार- २७ टि. पं. द्वयोपेतरनाकरावतारिकायुक्तः भाक् स्वार्थव्यवसितावसाधकतमत्वाद्यदेवं तदेवं यथापटस्तथाचार्य तस्मात्तथा। (टि०)-नवैसन्निकर्षादिरित्यादि तस्येति सन्निकर्षादेः स्वार्थेति स्वपरव्यवसाये। (५०)-सम्प्रतिपन्नस्येति उभयवादिसम्मतस्य । अथास्यसाधनस्यासिद्धिसम्बन्धवैधुर्य व्यञ्जयन्तः सूत्रद्वयं ब्रुवते । मू०-नखल्वस्य स्वनिर्णीतौ करणत्वं स्तम्भा देरिवाचेतनत्वात् । नाप्यर्थनिश्चितौ स्वनिश्चितावकरणस्यकुम्भादेवितत्रा- प्यकरणत्वादिति। (रत्ना०)-अस्यति सन्निकर्षादेः करणत्वं साधकतमत्वं नाप्यर्थनि- श्चिताविति अस्य करणत्वमितियोगः। तत्रापीत्यर्थनिश्चितावपीत्यर्थः । शेषमशेषमुत्तानार्थम् । प्रयोगौतु सन्निकर्षादिः स्वनिर्णीतौकरणं नभवत्य- चेतनवाद्य इत्थं सइत्थं । यथास्तम्भस्तथाचायं तस्मात् तथा सन्नि- कर्षादिरनिश्चितौ करणं नभवति स्वनिश्चितावकरणत्वाद्यएवं स एवं यथास्तम्भो यथोक्तसाधनसम्पन्नश्वायं । तस्माद्यथोक्तसाध्यः। अत्र केचि- द्यौगाः सङ्गिरन्ते । सन्निकर्षादिनप्रमाणव्यवहारमागित्यादि यदवादि तत्रादिशब्दसूचितकारकसाकल्यादेः काममप्रामाण्यमस्तु सन्निकर्षस्यतु प्रामाण्यापकों नोमर्षप्रकर्षसिद्धये तस्य र्थोपलब्धौ साधकतमत्वावधार- णेन सार्थव्यवसितावसाधकतमत्लादित्यत्र हेत्वकदेशस्यासिद्धः । यत्तु तत्सिद्धौ साधनमधुनैवाभ्यधुस्तदसाधीयः प्रदीपेन व्यभिचारात् । तस्य स्वनिश्चितावकरणस्याप्यर्थनिश्चितीकरणत्वादिति । तदेतत्रपापात्र मर्थोपलब्धौसन्निकर्षस्यसाधकतमत्वासिद्धेर्यत्रहिनमात्राव्यापारितेसत्यव- श्यंकार्यस्योत्पत्तिरन्यथा पुनरनुत्पत्तिरेव । तत्तत्र साधकतमं यथा २८ प्रमाणनयतत्त्वालोकालंकारः छिदायां दात्रं नच नभसि नयनसन्निकर्षसम्भवेपि प्रमोत्पत्तिः । रूपस्य सहकारिणोऽभावात् तत्रतदनुत्पत्तिरितिचेत् । कथमसौ रूपेपि स्यात् । नहिरूपे रूपमस्ति निर्पणवाद्गुणानां नापि तदाधारभूते द्रव्ये रूपा- न्तरमस्ति यावद्रव्यभाविसजातीयगुणद्वयस्य युगपदेकत्र त्वया नभ्यु- पगमात् । अवयवगतं रूपमवयविरूपोपलब्धौ सहकारि समस्त्येवेति चेत् । कथं व्यणुकावयविरूपोपलम्भो भवेत् । नहिद्वयणुकलक्षणावयवत्रयवर्ति- रूपमुपलभ्यते । यतः सहकारि स्यात् । अनुपलभ्यमानमपितत्तत्रसहका- रीतिचेत् । तहिकथंनतप्तपाथसि पावकोपलम्भसम्भवस्तदवयवेष्वनुपलभ्य मानस्य रूपस्य भावात् यदिचरूपंसहकारि कल्प्यते तदा समाकलित- सकलनेत्रगोलकस्य दुगसन्नतिमिररोगावयविनः कथनोपलब्धिः । (टि०)-अथास्येत्यादि साधनस्यति स्वार्थव्यवसितावसाधकतमत्वा- दित्येवं रूपस्य वैधुर्यमिति अभावं साधकतमत्वमिति प्रमाणत्वं यइत्थं- मिति घोचेतनः सस्वनिश्चिती करणं नभवति सन्निकर्षादिरित्यादि तत्रेति सन्निकर्षादौ कारकेति कारकाणि सहकारिकारणानि उपादानादीनि च तेषां सकलतायाः तस्यति सन्निकर्षस्य अत्रेति पक्षे हेत्वेकदेशेति स्वार्थव्यवसितावसाधकतमत्वाद्भवतुस्वव्यवसितावसाधकतमत्वं सन्निकर्ष- स्यार्थव्यवसितौतुसाधकतमइति हेत्वेकदेशोऽसिद्धः तत्सिद्धाविति अर्थ- व्यवसितिविषयेऽसाधकतमत्वसिडौ तस्यति सन्निकर्षस्य प्रदीपस्य च यत्र हीति दानादौ अन्यथेति अव्यापारिते तदिति दानादि तत्रेति कार्योत्पत्ती रूपस्यति नीलपीतादः तत्रति नभसि तदनुत्पत्तीति प्रमानुपपत्ति: अमाविति प्रमा यावद्रव्यति संयोगसंख्यादयो गुणा अयावद्व्यभा- विनः अपरंतु विपरीता यावद्व्यभाविन इत्यर्थः कथंत्र्यणकति अणुद्वयसंयोगेच्यणुकः द्वयणुकत्र येणच्यणुकास्यादित्यौलूक्यसिद्वान्तः अनुपलभ्येत्यादि तदिति व्यणुकलक्षणमवयवयं तत्रेति व्यणुकाव- यविरूपोपलम्भे पावकेति चाक्षुषप्रत्यक्षेण ग्रहणाभाषः तदवयवेष्विति पावकावयवेषु रूपस्यति अग्नेः समाकलितति आवेष्टितसमग्र- नयननीलमणेः । ..
। टि.पं. दर्यापेतरत्नाकरावतारिकायुक्तः (५०) यथोक्तसाधनसम्पन्नश्चायमिति अयंप्रयोगः । हेवेकदेशस्यासि- द्वेरिति तस्य स्वव्यवसितो साधकतमत्वं नास्त अथव्यवसितौ च सुतरामस्ति । तत्- सिद्धाविति अर्थव्यवसितिविषयेऽसाधकतमत्वसिद्धौ । अभ्यधुरिति भवन्तः । तत्रेति नभसि । तदनुत्पत्तिरिति प्रमानुत्पत्तिः । रूपान्तरमस्तीति रूपान्तरम् कृष्णादि । कथंत्र्यणुकाश्यविरूपापलम्मइति त्रिभिस्यणुकैस्त्र्यणुकः अवयवगतरूपानुपलम्भे साते कथज्यणुकावयांवरूपोपलम्भा भवेत् इतिवाक्यभावार्थः । रूपस्य भावादिति अग्नेः सत्कस्या (रत्रा)-अथात्यन्तासत्त्यभावोपिसहकारी नचासौतिमिर स्तीति- चेत् । नन्वियमासत्तिरात्मापेक्षया शरीरापेक्षया लोचनापेक्षया तदधि- ष्ठानापेक्षया वा विवक्षांचक प्रेक्षादक्षेण । आधेकल्पे कथं कस्यापि पदार्थस्योपलब्धिापकस्यात्मनः सर्वभावैरासत्तिसम्भवात् द्वितीयेकथं. करतलतुलितमातुलिङ्गादरुपलम्भः । तृतीये कथंक्वापि चाक्षुषप्रत्यक्ष- मुन्मजेत् चक्षुषः प्राध्यकारित्वकक्षीकारेण सर्वत्रस्वगोचरेणासत्तिसद्धा- वात् । तुरीयकथमधिष्ठानसंयुक्ताञ्जनशलाकायाः समुपलब्धिः । अथये- नांशेनतस्यास्तत्रसंसर्गः सनोपलभ्यतएवनैवमवयविनानिरंशत्वेन स्वीका- रात् । अपिचकथमुदीचीप्रतिव्यापारितनेत्रस्य प्रमातुनकाच्चन काच- नाचलोपलब्धिमनुभवामः । नचदवीयस्त्वान्नतत्रनेत्ररशमयः प्रसर्नु शक्तास्तेषां शशाङ्केपिप्रसरणाभावापत्तेः अथ तदालोकमिलितास्ते- वर्द्धन्ते तर्हिखरतरकरनिकरनिरन्तरापूरितविष्टपोदरे मरीचिमालिनि सति सुतरां सुराद्रिमभिसर्पतां तेषां वृद्धिर्भवेत् । नच दिनकरमरीचीनां नितरां कठोरलेन तैस्तेषां प्रतिघातस्तदालोककलापाकलितकलशकुलि- शादिपदार्थानामप्यनुपलम्भापत्तेः । ततोनसन्निकर्षसद्भावेप्यवश्यं सम्बे- दनोदयोऽस्ति । नापितदभावेऽभावएव । प्रातिभप्रत्यक्षाणामार्ष संवेदनविशेषाणांच तत्कालाविद्यमानवस्तुविषयतया सन्निकर्षामावपि समुद्भवात् । तन्नसन्निकर्षस्यसाधकतमत्वं साधुत्वसौधाभ्यासधैर्यमार्जि- जत् | यचपदीपेन व्यभिचारमुदचीचरः सोपिनचतुरचेतश्चमत्कारचञ्चुः प्रदीपस्यमुख्यवृत्त्याकरणत्वानुपपत्तेर्नेत्रसहकारितयाकरणलोपचारात् ।
KHARATTIA MAYEENSane.in alities प्रमाणनयतत्वालोकालंकारः यथाचोपचारादर्थव्यवसितौकरणमयं तथास्वव्यवसितावपि नहिप्रदीपो- पलम्भेप्रदीपान्तरान्वेषणमस्ति । किंवात्मनैवात्मानमयम्प्रकाशयतीति- कव्यभिचारः। तन्नसन्निकर्षस्यार्थव्यवसितावसाधकतमत्वमसिद्धम् । अन- यैवदिशा कारकसाकल्यादेरप्यर्थव्यवसितावसाधकतमत्वं समर्थनीयमिति नहेत्वेकदेशासिद्धिः। (टि०)-असाविति अत्यन्तासत्त्यभावः कथंकस्यापीति नकस्यापिनक- स्यापि प्राप्नोतीत्यर्थः कथंक्वापीति काक्वानक्यापीत्यर्थः तस्याइति अञ्जन शलाकायाः तत्रेति अधिष्ठाने सइति अंशः अपिचकथमित्यादि दवीयस्त्वा- दिति दूरत्वात् तत्रेति काश्चनाचले तेषामिति नेत्ररश्मीनां तदालोकेति तस्यशशांकस्या लोकेन सङ्गताः तइति रश्मयः तेषामिति नयनकिरणानां तैरिति दिनकरमरीचिभिः तेषामिति नेत्रांशूनां तदालोकेति दिनकर निकरालोककलापेन तदभावइति सन्निकर्षाभावे प्रातिभेति केवलज्ञानादि- संवेदनानां अयमिति प्रदीपः । (०-कथंकस्यापिपदार्थस्योपलब्धिरिति नकस्यापि प्राप्नोति । कथं कापि चाक्षुषप्रत्यक्षमन्मज्जेदिति नवापीत्यर्थः। चक्षुषः प्राप्यकारित्व- कक्षीकारेणेति भवद्भिः। तस्या इति अञ्जनशलाकायाः स्वीकारादित्यतोऽग्ने । अपिचेति यद्यत्यन्तासत्त्यभावः सहकारीतिगम्यम् । तदालोकमिलिता इति शशाङ्कालोकामलिताः । तदभावइति सन्निकर्षाभावे । करणमयमिति अयंदीपः । अथव्यवसायीतिविशेषणसमर्थनार्थमाहुः । मू०-तव्यवसायस्वभावंसमारोपपरिपन्थि- त्वात्प्रमाणत्वावति। (रत्ना०)-तत्प्रमाणत्वेनसम्मतंज्ञानं व्यवसायस्वभाव निश्चयात्मक- मित्यर्थः समारोपः संशयविपर्ययानध्यवसायस्वरूपोऽनन्तरमेव निरूप- यिष्यमाणस्तत्परिपन्थित्वं तद्विरुद्धत्वं यथावस्थितवस्तुग्राहकत्वामिति यावत् प्रमाणत्वादातत्तथाविधं वाशब्दोविकल्पार्थः तेनप्रत्येकमेवामूहेतू- -- MARATE टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्तः प्रमाणत्वाभिमतज्ञानस्यव्यवसायस्वभावत्वमिद्धौसमर्थावित्यर्थः। प्रयो- गौतु प्रमाणत्वाभिमतं ज्ञानं व्यवसायस्वभावं समारोपपरिपन्थित्वात्म- माणवादा यत्पुन वं नतदेवं यथाघटः प्रोक्तसाधनदयाऽधिकरणं चेदं । तस्मादयवसायस्वभावमिति । अत्रैकदशेनपक्षस्य प्रत्यक्षप्रतिक्षप- माचक्षतभिक्षरस्तथाहि । संहृतसकलविकल्पावस्थायां नीलादिदर्शनस्य व्यवसायवन्ध्यस्यैवानुभवात्पक्षीकृतप्रमाणैकदेशस्य प्रत्यक्षस्य व्यवसाय- स्वभावत्वसाधनमसाधीयस्तदसाधिष्टं यतः केनप्रत्यक्षेणतादृक्षस्य तस्या- नुभवोभिधीयते ऐन्द्रियेण मानसेन योगिसत्केन स्वसंवेदनेन वा नाद्येन तंत्रन्द्रियकुटुम्बस्य व्यापारपराङ्मुखत्वात् । नद्वितीयेन तस्येन्द्रियज्ञान- परिच्छिन्नपदार्थानन्तरक्षणसाक्षात्कारदक्षत्वात् । नतृतीयेन अस्मादृशां- योगिप्रत्यक्षस्पर्शशन्यत्वात् । योगीतुतथाजानातीतिकोशपानप्रत्याय- नीयं । नापि तुर्येण यतस्तत्स्वरूपोपदर्शनादेव प्रमाणं स्यादनुरूपवि- कल्पोत्पादकत्वादा। आद्यपक्षे प्रत्यक्षं क्षणक्षयस्वर्गप्रापणशक्त्यादावपि प्रमाणतामास्कन्देत् । द्वितीयपक्षोप्यक्षमः संहृतसकलविकल्पावस्थाभावि- नीलादिदर्शनानन्तरं नीलादिरयमित्यर्थोल्लखशेखरस्यैव विकल्पस्य प्राये- णानुभवात् । यत्रापिनीलादिज्ञानं ममोत्पन्न मिति ज्ञानोल्लेखी विकल्प- स्तत्रापिज्ञानमात्रोलखित्वादस्यतत्रैवदर्शनस्यप्रामाण्यस्यान्नतुतन्निर्विक- ल्पकले । अपिच विकल्पस्यापिकथंसिद्धिः स्वसंवेदनप्रत्यक्षादितिचेत् । तस्यापिस्वरूपोपदर्शनमात्रात्यामाण्येतदेवदूषणं विकल्पान्तरोपजननात्- पुनरनवस्था । तथाच कथंस्वसंवेदनस्य प्रामाण्यसिद्धिर्यतस्तेन बाधा- पक्षांशेस्यात् । (टि०)-अत्रैकदेशेनेत्यादि नीलादीति निर्विकल्पकप्रत्यक्षस्य पक्षी- कृतेति पक्षोज्ञानं प्रत्यक्षपरोक्षरूपं तस्यैकदेशस्य प्रत्यक्षस्य तादृक्षस्यति व्यवसायवन्ध्यस्य तस्येति नीलादि दर्शनस्य तत्रेति निर्विकल्पकप्रत्यक्ष इन्द्रियति नहीन्द्रियाणांघटादिवत्प्रत्यक्षं प्रत्यक्षं भवति तस्येति मानसस्य ऐन्द्रियेणपरिछिन्नेरूपादौ तदनन्तरंयपादि ततस्तत्रमनोज्ञानप्रवर्त्तते नापितुर्येणेत्यादि तदिति स्वसंवेदनं अनुरूपेति निर्विकल्पकामिदमिति प्रमाणनयतत्त्वालोकालंकारः आद्यपक्षइति प्रत्यक्षस्वरूपं दर्शयत् क्षणक्षयं ज्ञापयेत् तदाकारोपदर्शनमा त्रेण प्रामाण्ये क्षणिकत्वेपि तस्य प्रामाण्यप्रसक्तिः यदिप्रत्यक्षं स्वरूपमुपद- यत् प्रमाणं तदामयाक्षणक्षयिणः परमाणवाग्रहीता इत्यस्याप्यात्मस्व- रूपोपदर्शने प्रमाणतांगच्छेत् तथाच क्षणिकत्वानुमाने वैकल्यश्च स्यात् तथा- हि यथा दानपरिणामचित्तानुभवः स्वसंवेदनाध्यक्षलक्षणस्तद्गतं सद्रव्य- चंतनादिकं विषयीकरोति तथास्वर्गप्रापणसामर्थ्यमपि तत्स्वरूपा- व्यनिरिक्तत्वाद् विषयी कुर्यादिति भावार्थः क्षणक्षयज्ञानात् स्वर्गप्रातिः स्याजन्तोः क्षणिकाः सर्वसंस्काराः इत्येवं वासना यकासमार्गइहविज्ञेय- इति वचनात् * बौद्धानांमतेऽध्यक्षेण क्षणोगृह्यते नतुतत्क्षयो वस्तुनोनिरंश- त्वेनाभिन्नापि नचयन्निरंशवस्तुप्रभवंज्ञानं तन्निरंशग्राहि प्रत्यक्षप्रभवविक- ल्पस्य तद्भावानुपपत्तौ वा हिंसाविरतिदानचित्तस्वसंवेदनाध्यक्षप्रभवनिर्ण- येन तद्ग्रहणोपपत्तेनिश्चयविषयीकृतस्य चानिश्चितरूपान्तराभावात् स्वर्ग- प्रापणसामार्थ्यादेरपि तद्गतस्य निश्चयात्तत्र विप्रतिपत्तिनस्वर्गानापितत्प्राप्ति हेतु कश्चिद्भावइत्यादिरूपाचार्वाकार्दनस्यात् किंतुस्वर्गप्रापणसामर्थ्यस्य दानचित्तादभिदावस्तुस्वरूपनाहिणाचस्वसंवेदनाध्यक्षणानुभव सद्व्य- चंतनत्वादाविव विवादाभावोभवेदिति क्षणक्षयवर्गप्रापणेत्यादि बौद्ध- मतेहिनीलाद्यप्रत्यक्षं नीलाद्यमिवतद्गतं क्षणक्षयमपि विषयीकरोति परं- नीलाद्यर्थविषयेतत्प्रत्यक्ष अनुरूपविकल्पोत्पादकत्वात् बौद्धैः प्रमाणमि- व्यतेतु नतत्प्रमाणमनुरूपविकल्पोत्पादकत्वाभावात् यत्रैवजनयेदेनां तत्रै- वास्यप्रमाणतेतिवचनात् यत्रैवविषयेहमांकल्पनाचनयेत्तत्रैवविषयेस्यप्रत्य- क्षस्य प्रामाण्यमित्यर्थः तथास्वसंवेदनप्रत्यक्षं बौद्धमतेस्वगतंक्षणक्षयं सत्व- चेतनत्वादिच विषयीकुर्वदनुरूपविकल्पोत्पादकत्वात्सत्वादिविषयेप्रमाणं प्रतिपाद्यते क्षणक्षयविषयेत्वप्रमाणं तदनुसारिविकल्पाजनकत्वात् तथा हिं. साविरतिचित्तं दानचित्रांचस्वर्गहेतुत्वादिनास्वर्गप्रापणसामयाद्युपेतं बौ- द्धामन्यन्ते तच्चहिंसाविरतिदानचित्तस्वसंवेदनप्रत्यक्षं स्वगतसचेतनत्वादि- कमिव स्वगतस्वर्गप्रापणसामादिकमपि गृह्णाति गृहीतस्यहि स्वस्वरूपस्य निरंशत्वेनागृहीतरूपान्तराभावात् बौद्धस्तत्स्वसंवेदनप्रत्यक्षं सचेतनत्वादी प्रमाणं मन्यते स्वर्गप्रापणसामादिविषयेत्वप्रमाणं तद्विषयेविकल्पाजन- नात् एवं च सति हि यदि स्वरूपोपदर्शनादेव प्रमाणमिष्यते तदाक्षणक्षय. विषयेपि स्वर्गप्रापणसामार्थ्यादिविषयेपि च तत्प्रमाणं भवेत् स्वरूपोपदर्श- नमात्रस्य तत्रापिसद्भावात् नचबौद्धैः क्षणक्षयादिविषये तत्प्रमाणमिष्यते ततः स्वरूपोपदर्शनादेवेति पक्षोपिनयुक्तइतिभावः संहृतेति निर्विकल्पक- टि.पं.द्वयोपेतरनाकरावतारिकायुक्ता - ज्ञानावस्थायां भावि यन्नीलादिदर्शनं तत्रापीति निर्विकल्पकसावकल्पक- विचारे ज्ञानमात्रेति निर्विकल्पकसविकल्पकविचाररहितं ज्ञानमात्रं अस्येति ज्ञानोल्लेखिविकल्पस्य तत्रैवेति ज्ञानमात्रे दर्शनस्येति स्वसंवेदनप्रत्यक्षस्य दर्शनस्पति स्वसंवेदनस्य ततः संवेदनप्रामाण्येन मीलादिज्ञानममोत्पन्नं इति- विकल्पएवसिद्धो नतु निर्विकल्पकत्वं तस्य जात्याशुल्लखरहिततया निर्देष्टुम- शक्यत्वात् तन्निर्विकल्पकत्वइति स्वसंवेदनप्रत्यक्षस्यनिर्विकल्पकत्वे तस्यापीति स्वसंवेदनप्रत्यक्षस्य स्वरूपति क्षणिकत्वोपदर्शनमात्रात् तदेवेति पूर्वप्रक्रान्तं क्षणक्षयस्वर्गप्रापणशक्त्यादावित्यादि विकल्पान्तरेति विक- ल्पान्तरस्यापि कथंसिद्धिः स्वरूपोपदर्शनमात्रात्तदेव दृषणं विकल्पा- न्तरोपजननादनवस्थाऽनया दिशा भावनीयं यतइति प्रामाण्यसिद्धेः तेनेति स्वसंवेदनेन । (पं०) तादृक्षस्येति व्यवसायवन्ध्यस्य । तस्येति नीलादिदर्शनस्य । तस्येन्द्रि- यज्ञानेत्यादि । इन्द्रियेण परिछिन्ने रूपादौ तदनन्तरं यद्पादि ततस्तत्रमनोज्ञानं प्रवर्तते। इतिश्लोकस्तर्कभाषासूत्रञ्चात्रैव । स्वविषयानन्तरविषयसहकारिणा इन्द्रियज्ञानेन समनन्तर- प्रत्ययजनितं मनो विज्ञानम् । प्रत्यक्षमिति स्वसम्वेदनम् । आस्कन्ददिति यथास्वरूपे अस्योति विकल्पस्य, तत्रैवेति विकल्पे एव । (रना०)-अथयन्ननिर्विकल्पकं तन्नैवविकल्पेनसहोत्पद्यते। यथावि- कल्पोविकल्पान्तरेण विकल्पेनापि सहोत्पद्यते च प्रत्यक्षं । नचेदं नसि- षेधसाधनं गन्धर्वविकल्पदशायामपि गोः साक्षात्करणादन्यथासमया- न्तरे तत्स्मरणानुत्पत्तिप्रसङ्गादित्यनुमानबाधितः पक्षकदेशइतिचेत्तदपि- कवलितंकालेन कालान्तरे स्मरणसद्भावाद्वयवसायात्मकस्यैव प्रत्यक्षस्य प्रसिद्धनिर्विकल्पकस्य संस्कारकारणत्वविरोधात्क्षणिकत्वादिवत् । अथा- भ्यासप्रकरणबुद्धिपाटवार्थित्वेभ्यो निर्विकल्पकादपि प्रत्यक्षावादी संस्कारः स्मरणं च समगंस्त नतु क्षणक्षयादौ तदभावादितिचेत्तदप्यल्पी- योभयोदर्शनलक्षणस्याभ्यासस्य क्षणक्षयादावक्षोदीयसः सद्भावात् पुनः पुनर्विकल्पोत्पादरूपस्य चाभ्यासस्य परंप्रत्यसिद्धत्वात्तत्रैव विवादात् । क्षण- १ "मीलादौ" इत्यपि पाठान्तरम् । - PM प्रमाणनयतत्वालोकालंकारः मिदेलिमभावाभिधानवेलायांक्षणिकप्रकरणस्यापि भावात्। बुद्धिपाटवस्य क्षणिकत्वादौ नीलादौच समानत्वात् । तत्प्रत्यक्षस्य निरंशत्वेन कक्षीकारा- दन्यथाविरुद्धधर्माध्यासेन तस्य भेदापत्तः ॥ अर्थित्वस्यापिजिज्ञासितत्व- लक्षणस्य क्षणिकवादिनःक्षणिकत्वे सुतरां सद्भावान्नीलादिवत् । अभि- लषितत्वरूपस्य तु तस्य व्यवसायजननं प्रत्यानिमित्तत्वादनभिलषितेपि वस्तुनि कस्यापि व्यवसायसम्भवात् । ततो नाऽनंशवस्तुवादिनः काच- देवस्मरणं समगत । तथाच। यद्धयवसायशून्यं ज्ञानं न तत्स्मृतिहेतुर्यथा क्षणिकत्वादिदर्शनम् । तथाचाश्वविकल्पकाले गोदर्शनामतिप्रसङ्गस्तथाच तत्स्मृतिहेतुर्नस्याद्भवति च पुनर्विकल्पयतस्तदनुस्मरणं । तस्मात्तद्वयवसा- यात्मकमिति प्रसङ्गविपर्ययः। एवं चस्मरणात्तस्य व्यसायात्मकस्यैव सिद्धे- व्यवसायस्य च व्यवसायान्तरेण समानकालत्वाभावादिकल्पेनापि सहो- त्पद्यमानत्वादितिहेतुरसिद्धिबन्धकीसम्बन्धबाधित इतिसिद्धम् । अथ न व्यवसायखभावत्वेन समारोपपरिपन्थित्वप्रमाणत्वहेत्वोाप्तिरुपापादि तदभावेपि व्यवसायजनकत्वमात्रण तयोः क्वचिद्भावाविरोधात् । अनुमानं हि व्यवसायस्वभावं सत्समारोपपरिपन्थि प्रमाणं च प्रत्यक्षन्तु व्यवसायज- नकमितिकोविरोधइति चेत् । इहतावत्प्रमाणत्वहेतोाप्तिरुपदर्श्यते।प्रमाणं खल्वविसंवादकमवादिषुः सौगताः अविसंवादकत्वं चार्थप्रापकत्वेन व्याप्तमर्थाप्रापकस्याविसंवादित्वाभावान्निविषयज्ञानवत्तदपिप्रवर्तकत्वेन व्यापि। अप्रवर्तकस्यार्थापापकत्वात्तद्धदेव तदपि विषयोपदर्शकत्वेन व्या- नशे स्वविषयमुपदर्शयतः प्रवर्तकत्वव्यवहारविषयत्वसिद्धेनहि पुरुष हस्ते गृहीला ज्ञानं प्रवर्त्तयति। स्वविषयंतूपदर्शयत्प्रवर्तकमुच्यतेऽर्थप्रापकञ्चेति। (टि०)-अथयन्नेत्यादि प्रत्यक्षेण पक्षांशस्य बाधेसिढे परोक्तं तद्वाध- कानुमानमाशंक्य परिहरत्याचार्यः : अनुमानं चेदं प्रत्यक्षं निर्विकल्पकं व्यवसायवन्ध्यमित्यर्थः विकल्पैः सहोत्पद्यमानत्वात् ततोयन्निर्विकल्पक- मित्यादि व्यतिरेकव्यासिः यदिति प्रत्यक्षं निर्विकल्पकविकल्पेन सहोत्पा- दात् इदमिति विकल्पेनसहोत्पाद्यमानत्वादित्यादि लक्षणं नसिषेधेति आसिद्धमिति न गन्धर्वेति तुरगः साक्षात्करणादिति निर्विकल्पकप्रत्य- १"उद्पादि" इत्यपि पाठान्तरम् ।
टि. पं. हृयोपेतरत्नाकरावतारिकायुक्तः क्षेण निष्टङ्कनात् अन्यथेति साक्षात्करणव्यतिरेके तत्स्मरणेति गोस्मृत्यनु- त्पादप्रसक्तेः क्षणिकत्वति क्षणिकत्वादाविवसप्तम्यर्थे पति यथाक्षणिकत्वा- दिविषये निर्विकल्पकत्वादु' ज्ञान नसंस्कारं जनयति एवं गोविषयेपि नजन- येदित्यर्थः तदभावादिति अभ्यासप्रकरणायभावात् अक्षोदीयस इति बहुतरस्य परमिति जैनं प्रति तत्रैवेति विकल्पोत्पादकत्वे बुद्धिपाटवस्यति चोप्यर्थे यादग् बुद्धिपाटवं निर्विकल्पके क्षणिकत्वेपि तादृगेव उभयोरपि निरंशत्वात् तत्प्रत्यक्षस्येति नीलप्रत्यक्षस्य अन्यथेति सांशत्वाङ्गीकारे तस्यति नीलप्रत्यक्षस्य अर्थित्वस्येति अथित्वंद्विविधं जिज्ञासितत्वलक्षण- मभिलषितत्वलक्षणं च तस्योति अर्थित्वस्य अनिमित्तति निमित्तनिश्च- याभावात् यद्धयवसायेति अश्वविकल्पकाले गोदर्शनं न स्मृतिहेतुर्व्यव- सायशून्यत्वात् प्रसङ्ग इति परेष्टेनानिष्टापादनप्रसङ्गः तथाचेति तस्मा- देवं सति तदिति गोदर्शनं तदनुस्मरणमिति गोदर्शनस्मरणम् तद्व्यव. सायेति गोदर्शनव्यवसायस्वभावं तद्धिपर्यइति पाठे प्रसङ्गाविपर्ययः अश्वविकल्पकालोत्पन्नं गोदर्शनं नस्मृतिहेतुरित्यत्र प्रसङ्गानुमानेपक्षः व्यवसायशून्यज्ञानत्वादितिहेतुः ययवसायइत्यन्वयव्याप्तिदृष्टान्तः तस्यति गोदर्शनस्य तदभावपीति व्यवसायस्वभावत्वाभावेपि तयो- रिति समारोपपरिपन्थित्वप्रमाणत्वहेत्वोः सन्दिग्धानकान्तिकं प्रमाणत्वं अविसम्बादेत्यादि यथावुद्धिपाटवेन परमाणुद्वयं पश्यति तथाक्षणक्षयं किं नपश्यति बुद्धिपाटवस्य तत्रापिविद्यमानत्वात् यदिच तं न पश्यति प्रत्यक्षं तहिप्रत्यक्षस्य निरंशता विरुध्यति एकस्यवस्तुनः परमाणुरूपं दृश्यं क्षणक्ष- यित्वंचादृश्यं इति विरुद्धौधौं तदपीति अर्थमापकत्वं तददेवेति निविषय- ज्ञानवदेव तदपीति प्रवर्तकत्वं । (पं०)-नचेदं नसिषेधसाधनमिति नासिद्धम् । गन्धर्वविकल्पदशायामिति अश्वविकल्पावस्थायाम् । क्षणिकवादिवदिति क्षणिकत्वादाविव सप्तम्यर्थे वत्, यथाक्षणि- कत्वादिविषये निर्विकल्पकत्वात शानं न संस्कारं जनयति एवं गोविषयेऽपि न जनयेदित्यर्थः । तदभावादितिचेदिति अभ्यासप्रकरणबुद्धिपाटवार्थित्वेभ्योऽभावात् । परम्प्रतीति मां प्रति, तत्प्रत्यक्षस्येति निर्विकल्पकस्य, कचिदेवस्मरणं समागतेति नीलादावे- प्रमाणनयतत्वालोकालंकारः वांशेन तु क्षणिकत्यादौ । यद्यवसायशून्यमित्यादि अश्वबिकल्पकाले गोदर्शनं न स्मृति- हेतुः व्यवसायशून्यत्वात् , प्रसङ्गविपर्यय इति यःस्मृतिहेतुस्तद्भयवसायात्मकं स्मृति- हेतुश्चाश्वविकल्पकाले गोदर्शनामत्यत्र च प्रसङ्गविपर्ययानुमाने व्याप्तिग्रहः प्रागुक्तप्रसङ्गादेव । अथ नखल प्रत्यक्षस्य व्यवसायस्वभावतेति कृत्वासमारोपपरिपन्थित्वं प्रमाणत्वं च किन्तु- ब्यवसायजनकमेतदिति तस्य तत्स्वरूपत्वमित्युक्तौ कोनामात्र विरोधइतिचेदिति पराशङ्कायामाह सूरिरिहतावदित्यादि । तद्धदेवेति निर्विषयज्ञानवदेव। (रत्रा०)-तत्रेदं चर्च्यते किंदर्शनस्य व्यवसायोत्पत्तौ सत्यां विषयोपद- शंकवं सञ्जायेत समुत्पन्नमात्रस्यैव वा सम्भवेत् । प्राचिकविकल्पे विकल्प- काले दर्शनस्यैव विनाशात् कनामविषयोपदर्शकलं व्यवतिष्ठेत द्वितीयकल्प- नायां पुनः किमनेन कृतक्षौरनक्षत्रपरीक्षा प्रायेण पश्चात्प्रोल्लसता नीला- दिविकल्पेनापेक्षितेन कर्त्तव्यं तमन्तरेणापि विषयोपदर्शकत्वस्य सिद्ध- खात् । तथाच । यत्रैवजनयेदेनान्तवास्य प्रमाणतति राद्धान्तविरोधः । व्यवसायं विनैवविषयोपदर्शकत्वसद्भावे प्रामाण्यस्यापितं विनवभावात् । तन्मात्रनिमित्तत्वात्तस्यकथञ्चैवं क्षणक्षयस्वर्गप्रापणशक्त्यादावपि दर्शनस्य विषयोपदर्शकलं न प्रसज्यत अथाध्यवसानपर्यवसानो व्यापारो दर्शनस्ये- त्यध्यवसायव्यापारवत एवास्य विषयोपदर्शकत्वमवतिष्ठत नपुनस्तमन्त- रेणोति चेत् तंदप्यल्पं निर्विकल्पककार्यवेन व्यवसायस्य तताभिन्नका- लत्वात्तेन तस्य व्यापारवत्त्वानुपपत्तेः अस्तु वैतत्तथापि तद्वगपार- भूतोसौव्यवसायो दर्शनगोचरस्योपदर्शकोऽनुपदर्शको वा स्यात् । यापदर्शकस्तदा सएव तत्र प्रवर्तकः प्रापकश्च स्यात् ततोऽपि संवाद. कत्वात् प्रमाणं न पुनस्तकारणीभूयमाभेजानं दर्शनं । अथानुपदर्शका कथं दर्शनं तजननात् खविषयोपदर्शकमतिप्रसङ्गात् । संशयविपर्यय- कारणस्यापि तस्य स्खविषयोपदर्शकत्वापत्तेः दर्शनविषयसामान्यव्यव- सायित्वादिकल्पस्य तजनकं दर्शनं स्वविषयोपदर्शकं नेतरदिति चेत् तदशस्यं दर्शनविषयसामान्यस्यान्यापोहलक्षणस्यावस्तुत्वात् तद्विषय- व्यवसायजनकस्य वस्तूपदर्शकत्वविरोधात । 1 "तदत्यल" इत्यपि पाठान्तरम् ।
। दि. पं. व्योपेतरत्नाकरावतारिकायुक्तः (टि०)-तत्रेदमित्यादि दर्शनस्थति निर्विकल्पकप्रत्यक्षस्य व्यवसायेति विकल्पोत्पत्तौ तमन्नरेणति नीलादिविकल्पं विना यत्रैवेत्यादि अभ्या- सपाटवापत्तितारतम्यादिभेदतः इति पूर्वार्द्ध एनामिति संवृति विकल्पं यदुक्तं 'अनिरूपिततत्त्वार्थ-प्रतीतिः संवृतिर्मता' अस्यति निर्विकल्पकस्य तमिति विकल्पं तन्मात्रेति विषयोपदर्शकत्वमानहेतुत्वात् तस्यति प्रामा- प्यस्य अस्येति दर्शनस्य तमिति अध्यवसायम् तेनेति निर्विकल्पकन तस्यति व्यवसायस्य तव्यापारेति दर्शनव्यापारस्वरूपः सएवेति व्यव- सायः तत्रति दर्शने तत्कारणीति विकल्पस्य कारणभावं भजमानं संशये- त्यादि तस्यति निर्विकल्पकस्य दर्शनविषयेति दर्शनस्य योसौ विषय- स्तस्य यत्सामान्यं तत्रवत्तित्वात् तजनकमिति व्यवसायोत्पादकं दर्शने. ति दर्शनस्य विषयो घटादिस्वलक्षणं तस्य यत्सामान्यं तस्य तद्विषयेति सामान्यगोचरविकल्पोत्पादकस्य दर्शनस्य । (५०) व्यवसायोत्पत्ताविति विकल्पोत्पत्तौ । यत्रैवेत्यादि श्लोकार्द्ध ग्रन्थे- ऽस्ति अपरार्द्धगुरुमुखालिख्यते, अभ्यासपाटवापत्ति-तारतम्यादिभेदतः, अत्रैव च । एना कल्पनाम् । अस्य निर्विकल्पकदर्शनस्य। व्यवसायंविनैवेत्यादि अत्रापात- निका नन्धस्माभिः प्रमाणतेत्युक्तं भवांश्चविषयोपदर्शकत्वं व्यवस्थापयतीति कोऽयं न्याय इत्येवं- रूपा ततइति दर्शनात् । तेनेति व्यवसायेन । तस्येति निर्विकल्पकस्य, तत्कारणी. भूयमिति तत्कारणत्वम् । आभेजानमिति प्राप्तम् । तस्येति दर्शनस्य । स्वविष- योपदर्शकलापत्तेरिति संशयितस्थाणुपुरुषलक्षणाः स्वविषयः। दर्शनविषयसामा- न्यव्यवसायित्वादिति दर्शनविषयसामान्य व्यवस्यतीत्येवं शालं तस्य भावस्तस्मात् । तजनकमिति विकल्पजनकम् । (रत्ना०)-अथदृश्यविकल्प्ययोरेकीकरणादस्तूपदर्शकएव व्यवसाय- इति चेन्नन्वेकीकरणमेकरूपतापादनमेकलाध्यवसायो वा । प्राचिपक्षे. ऽन्यतरस्यैव सतत्त्वं स्यात् । द्वितीयेतूपचरितमेवानयोरैक्यं । तथाचकथ- मेषव्यवसायोविषयोपदर्शकः स्यान्नहि षण्डः कुण्डोनीत्वेनोपचरितोऽपि पयसापात्री पूरयति। किञ्च तदेकत्वाध्यवसायो दर्शनेन विकल्पेन ज्ञाना- न्तरेण वा भवेत् । नायेनदर्शनश्रोत्रियस्याव्यवसायश्वपाकसंस्पासम्म- - । - प्रमाणनयतत्वालोकालंकारः वात् । नचतस्य विकल्प्य विषयतामेति । न द्वितीयेन विकल्पकौणपस्य दृश्य दाशरथिं गोचरयितुमपर्याप्तत्वात् । नापि तृतीयेन निर्विकल्पकसवि- कल्पकविकल्पयुगलानतिक्रमेण दृश्यविकल्प्यद्वयविषयत्वविरोधात् नच- तदुभयागोचरं ज्ञानं तदुभयैक्यमाकलयितुं कौशलमालम्बते । तथाहि । यद्यनगोचरयति नतत्तदैक्यमाकलयितुं कुशलं यथा कलशज्ञानं वृक्षत्व- शिशपालयोस्तथा च प्रकृतमिति । तन्न व्यवसायजननात् प्रत्यक्षस्य प्रामाण्यमुपपादकं कथंचैतरक्षणक्षयस्वर्गप्रापणशक्त्यादावप्यनुरूपं वि- कल्पंकदाचिन्नोत्पादयति। स्वविकल्पवासनाबलसमुज्जृममाणाक्षणिक- लादिसमारोपानुप्रवेशादितिचेत् तदपेशलं नीलादावपितविपरीतसमा. रोपप्रसक्तः। कथमन्यथाविरुद्धधर्माध्यासात्तदर्शनभेदो न भवेत् नानशं दर्शनं कचित्समारोपाक्रान्तं कचिन्नेति वक्तुं युक्तं । अथ तत्तद्धयावृत्तिव- शादनंशस्थापि दर्शनस्य तथापरिकल्पनाददोषः । समारोपाक्रान्तेभ्यो हि व्यावृत्तमसमारोपाक्रान्तमसमारोपाक्रान्तेभ्यस्तु व्यावृत्तंसमारोपाक्रान्तं तदुच्यतइति । तदप्यसूपपादं । यतो व्यावृत्तिरपि वस्त्वंशं कंचिदाश्रित्यक- ल्प्येतान्यथावा। अन्यथाचेचित्रभानुरप्यचन्द्रव्यावृत्तिकल्पनया चन्द्रता. माद्रियेत । वस्त्वंशाश्रयणपक्षेतु सिद्धोविरुद्धधर्माध्यासस्तथाहि। तदर्शनं येन स्वभावेन समारोपाक्रान्तेभ्यो व्यावर्तिष्ट नतेनैवाऽसमारोपाकान्तेभ्यो ऽपि येन चाऽमीम्यो व्यावन्त न तेनैव तेभ्योपि तयोर्दयोरपि व्यावृत्तयारै- क्यापत्तेः । यदिपुनः स्वभावभेदोपि वस्तुनोऽतत्स्वभावव्यावृत्त्याकल्पित- एवेति मतं तदाकल्पितस्वभावान्तरकल्पनायामनवस्था स्थेमानमास्तिघ्नु- वीत। ततोन व्यवसायजननादस्य प्रामाण्यमनुगुणं किंतु व्यवसायस्वभा. वत्वादेव एवं प्रामाण्यसहचरं समारोपपरिपन्थित्वमपि वाच्यम (टि०)-अन्यतरस्यति इयोर्मध्यादेकस्य सतत्त्वमिति स्वरूपं नदितीयस्थ विरोधात् एषइति उपचरितकत्वाध्यवसायः किञ्चतदेकेति तयोः दृश्यवि- कल्प्पयोरेकीकरणं नचतस्थति दर्शनस्य विकल्प्यामिति वस्तु तदुभयेति तत् इश्यविकल्पनियमगोचरोऽविषयोयस्य तथाहीत्यादि यदिति ज्ञानं कर्व- टि.पं.द्वयोपेतरत्नाकरावतारिकायुक्त यदिति वस्तु कथंचैतदिति निर्विकल्पकं स्वविकल्पेति स्वविकल्पार्थमनाद्य- विद्याबलेनोल्लसमानो योक्षणिकत्वादिसमारोपो भ्रान्तिज्ञानं तस्यानुप्रवेशात नीलादावपीति निर्विकल्पकदर्शने ऽपि तद्विपरीतेति नीलादिदर्शनाद्विपरी- तोविकल्पस्तस्य कथमन्यथति नीलादौ क्षणक्षयादौ चेलमारोपानुप्रवेशोन- तुल्यः तदर्शनेति नीलादिदर्शनं अथतत्तद्वयावृत्तीति अन्यापोहसामर्थ्यात् तथेति भेदपरिकल्पनात् अदोषइति भेदस्य वस्त्वंशमिति दर्शन ततो नव्यवसायेति विकल्पोत्पादकत्वात् अस्यति निर्विकल्पकप्रत्यक्षस्य । (५०)-दृश्यविकल्प्ययोरिति दर्शनविषयविकल्पविषययोः। निर्विकल्पकसवि- कल्पयुगलानतिक्रमणेत्यादि । यद्विमानान्तरं परिकल्प्यते तन्निर्विकल्पकं वा भविष्यति साविकल्पकं वा भविष्यति एतद्युगलं नाति कामति निर्विकल्पकं चेद् दृश्यंविषयः सविकल्पकं वा तहिविकल्प्यविषयः । स्वविकल्पवासनाबलसमुज्जृम्भमाणेत्यादि मदीयेयं योषिदहमे- नामुद्रक्ष्यामि। अहमेनामुपभोश्ये इत्यादि । तथापरिकल्पनादिति सांशत्वपरिकल्पनात् । (रत्ना)०-समारोपपरिपन्थित्वादित्युक्तामति । समारोपं प्ररूपप्रयन्ति । - मू०-अतस्मिँस्तदध्यवसायः समारोपइति। (रत्ना०)-अतत्प्रकारेपदार्थे तत्प्रकारतानिर्णयः समारोपइत्यर्थः । अथैनंप्रकारतः प्रकटयन्ति । । मू०-सविपर्ययसंशयानध्यवसायभेदात्रेधेति। (रत्ना०)-उत्तानार्थमदः । अथोद्देशानुसारेण विपर्ययस्वरूपं तावत्प्ररूपयन्ति । मू०-विपरीतैककोटिनिष्टङ्कनं विपर्ययइति । (रत्ना०)-विपरीताया अन्यथास्थिताया एकस्या एवकोटेर्वस्त्वंशस्य निष्टइनं निश्चयनं विपर्ययइति । (टि०)-अथोद्देशति उद्देशः समासतो निर्देशो व्यासतः ।
४० प्रमाणनयतत्वालोकालंकार: अत्रोदाहरन्ति । मू०-यथाशुक्तिकायामिदं रजतमितीति । (रत्रा०) यथेत्युदाहरणोपन्यासार्थोऽपि सर्वत्रशुक्तिकायामरजता- कारायामिदं रजतमिति । रजताकारतया ज्ञानं विपर्ययो विपरीतख्याति- रित्यर्थः । इतिशब्द उल्लेखार्थो ऽपिउदाहरणसूत्रं चेदमन्येषामपि प्रत्य- क्षयोग्यविषयविपर्ययाणां पीतशडज्ञानादीनां तदितरप्रमाणयोग्यविषय- विपर्ययाणां हेत्वाभासादिसमुत्थज्ञानानां चोपलक्षाणार्थम् । (टि०)-उदाहरणसूत्रमित्यादि तदितरेति प्रत्यक्षतरम् । (५०)-इतिशब्दउल्लेखार्थ इति उल्लेखोरीतिः' इतरप्रमाणेत्यादि इतरशवनात्र परोक्षस्याख्या, (रत्ना०)-अत्र विवेकाख्यातिवादीवदति विवादास्पदमिदं रजतमिति प्रत्ययोन वैपरीत्येन स्वीकर्तव्यस्तथाविचार्यमाणस्य तस्यानुपपद्यमानत्वा- द्यद्यथाविचार्यमाणं नोपपद्यते न तत्तथास्तीकर्त्तव्यं । यथा स्तम्भः कुम्भरूप. तयेति नचेदंसाधनमसिद्धिमधारयत्। तथाहि । किमिदं प्रत्ययस्य वैपरीत्यं स्यादर्थक्रियाकारिपदार्थाप्रत्यायकत्वमन्यथा प्रथनं वा। आधेभेदे विवा- दास्पदप्रत्ययप्रत्यायिते पदार्थे किमर्थक्रियामात्रमपि नास्ति तद्विशेषसा- ध्या वा सा न विद्यते । नाद्यः पक्षःशुक्तिसाध्यायास्तस्याभावात् । द्विती- येतु ज्ञानकाले सा नास्ति कालान्तरेऽपि वा ज्ञानकाले तावत्तथ्यकलधौ- तबोधपि कापि सानास्त्येव । कालान्तरेतु प्रचुरतरसमीरसमीरणाशुव्यपा- यिपयोबुबुदबोधेऽपि सान विद्यतएव ॥तन्नार्थक्रियेत्यादिपक्षःक्षेमकारः। तत्पुरस्सरपक्षेतु तथाविधवैपरीत्यं तस्य स्खेनैव पूर्वज्ञानेनोत्तरज्ञानेन वाऽवसीयेत । नवेनैव तेन स्वस्य वैपरीत्यावसाये प्रमातुः प्रवृत्त्यभाव- प्रसङ्गात् । अथ पूर्वज्ञानेन किंस्वकालस्थेन तत्कालस्थेन वा । नाद्यन तत्काले वैपरीत्यास्पदसंवेदनस्यासत्वात् । नापिद्वितीयेन ज्ञानयोर्योग- पद्यासम्भवात् । अथोचरज्ञानेन तत्कि विजातीयं सजातीयं वा स्यात् । विजातीयमध्येकसन्तानं भिन्नसन्तानं वा भेदद्धयोपि घटज्ञानं पटज्ञानस्य PINTERNA । टि.पं. हृयोपेतरत्नाकराचतारिकायुक्त वैपरीत्यावसायि भवेत् । सजातीयमप्येकविषयं भिन्नविषयं वा । एक- विषयमप्येकसन्तानं भिन्नसन्तानं वा । इयमपीदं संवाददत्तहस्तावलम्ब कथंवैपरीत्यावबोधधुराधौरेयतान्दधीत । भिन्नविषयमप्येकसन्तानं भिन्न- सन्तानं वा। उभयत्रापि पटज्ञानं पटान्तरज्ञानस्य तथा भवेत् । अथन सर्वमेवोत्तरज्ञानं प्राक्तनस्यान्यथावावबोधबद्धकक्ष किन्तुयदेवबाधकत्वे- नोल्लसति । ननुकिमिदन्तस्य तदायकत्वं तदन्यत्वं तदुपमईकत्वं तस्य सविषये प्रवर्तमानस्य प्रतिहन्तृत्वं प्रवृत्तस्यापि फलोत्पादप्रतिबन्धकत्वं वा। प्राचिपक्षे मिथ्याज्ञानमपि तस्य बाधकं स्यादन्यत्वस्योभयत्राविशेषात् द्वितीयेघटज्ञानंपटज्ञानस्य बाधकं स्यात् तस्यापि तदुपमहेनोत्पादात् । तृतीये न प्रवृत्तिस्तस्य तेन प्रतिहन्तुं शक्या ॥ यत्रक्वचन गोचरे प्रागेव प्रवृत्तत्वात् । तुरीयेपि न फलोत्पत्तिस्तस्य तेन प्रतिबद्धं पार्यते । उपादा- नादिसंविदोऽपि प्रथममेवसमुत्पन्नत्वात्। किञ्च विपरीतप्रत्यये रजतमसच्च- कास्ति सद्धा। असच्चेदसत्ख्यातिरेवेयं स्यात् । सचेत् तत्रैवान्यत्रवा । यदितत्रैव तदा तथ्यपदार्थख्यातिरेवेयं भवेत् । अन्यत्रतु सतः कथं तत्र- प्रतीतिः पुरस्सरगोचर एव चक्षुरादापारात् दोषमाहात्म्यादितिचेन्न । दोषाणामिन्द्रियसामर्थ्यकदर्थनमात्रचरितार्थत्वेन विपरीतकार्योत्पत्ति प्रत्य- किञ्चित्करत्वात् । ततस्तथाविचार्यमाणस्यतस्यानुपपद्यमानत्वमसिध्य- देव । नापि व्यभिचारि । विपक्षादत्यन्तं व्यावृत्तेरत एव न विरुद्धमपि । ततः सत्यमैवैतत्संवेदनद्वयमिदमिति प्रत्यक्षं रजतमिति तु स्मरणं करणोजूतदोषवशाच्छुक्तिरजतयोः प्रत्यक्षस्मरणयोश्चमेदाप्रतिभासाढ़े- दाख्यातिरियमुच्यतइति। (टि०)-अत्रविवेकाख्यातिवादी प्रभाकरः तदिशेषेति तेनपदार्थेन विशेषेण रजतलक्षणेन साध्या साज्यक्रिया तस्याइति अर्थक्रियायाः सेति अर्थक्रिया तत्पुरइत्यादि तथेति अन्यथाप्रथनरूपं तस्येति रजतज्ञानस्य स्वेनैवेति तत्कालोत्पन्नरजतज्ञानेन पूर्वज्ञानेनेति तस्मात्तत्कालपूर्वकालो- त्पन्नेन अथपूर्वेति भ्रांतिज्ञानपूर्वकालभावियत्तत्पदार्थविषयेनज्ञानेन ६ HODAI । ४२ प्रमाणनयतत्त्वालोकालंकारः तत्कालेति उत्तरज्ञानकालस्थेन तत्काले इति पूर्वज्ञानकाले ज्ञानयोरिति ज्ञानद्वयमेककाले न सम्भवति जुगवन्दोनत्थिउवओगाइति वचनात् आदी. घटज्ञानं पश्चात्पटज्ञानमिति विजातीयं आदौपटज्ञानं पश्चादपिपटज्ञान- मिति सजातीयं एकसन्तानमिति एकपुरुषस्थज्ञानसन्तानम् ॥ उभयत्रा- पीति तथेति वैपरीत्यावसायि जायेत इदंतस्येति पूर्वज्ञानस्य तदिति उत्तरज्ञानं तस्येति पूर्वज्ञानस्य उभयत्रेति मिथ्याज्ञाने सत्यज्ञाने च तस्यापीति घटज्ञानस्यापि तदुपमर्दैनति पटज्ञानोपमर्दैन तस्येति पूर्व- ज्ञानस्य तेनेति बाधकस्वभावेनोत्तरज्ञानेन नफलोत्पत्तिरित्यादि तस्योति पूर्वज्ञानस्य तेनेति उत्तरज्ञानेन उपादानेति अर्थग्रहणादिज्ञानस्य अन्यत्रेति हद्दपट्टादौ तत्रेति विपरीतप्रत्यये असिध्यदेवेति सिद्धमेवेत्यर्थः विपक्षादिति स्वीकर्तव्यलक्षणात् अतएवेति विपक्षादत्यन्तव्यावृत्तेरेव एतत्संवेदनति एतत्प्रत्यक्षस्मरणज्ञानोभयम् । (पं०)-विवेकाख्यातिवादीति मेदाप्रतिभासनवादी अर्थक्रियाकारिपदार्था- प्रत्यायकत्वमिति अर्थक्रियाकारिणं पदार्थ न प्रत्येति न परिच्छिनत्ति। पदार्थेइति रजतरूपे। तद्विशेषसाध्येति विवादास्पदप्रत्ययसाध्या। शुक्तिसाध्यायाइति कुङ्कुमनिक्षेपादिकायाः। द्वितीयेविति तद्विशेषसाध्येत्यस्मिन् तावत्तथ्यकलधौत- बोधेऽपीति नकेवलं विपरीतबोधे । क्वापिसानास्त्येवेति साक्रिया । आशु- व्यपायिपयोबुद्धदबोधेपीति बुबुदेष्वपयस्सुबुबुदज्ञानमपि चाक्षुषं विनष्टम् । अतो- ज्ञानस्य कालान्तरम् । तत्पुरस्सरपक्षेत्विति अन्यथा प्रथमपक्षे। वैपरीत्यावसाये इति । तत्स्वस्य वैपरीत्यमवस्यति स्वयमेवेति विकल्पे, पूर्वज्ञानेनेति विपरीतज्ञानात् पूर्वज्ञानेन । स्वकालस्थेनेति पूर्वकालस्थेन, तत्कालस्थेनेति वैपरीत्यकालस्थेन तत्किमित्यादि तत् उत्तरज्ञानम् । विजातीयमिति आदौ घटज्ञानं पश्चात् पटज्ञान- मिति विजातीयम् सजातीयमिति आदौ पटज्ञानं पश्चादपि पटज्ञानमिति सजातीयम् । एकसन्तानमिति एकप्रमातृगतम् । भिन्नसन्तानमिति भिन्नप्रमातृगतं । घटज्ञानं पटज्ञानस्य वैपरीत्यावसायिभवेदिति । यद्युत्तरज्ञानं तेनतेन पाश्चात्यस्य वैपरीत्य- मवसीयते । ततश्चघटज्ञानेनोत्तरेण पटज्ञानस्य पाश्चात्यस्य वैपरीत्यमवसीयताम् । एक- -- ।
टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्तः विषयमिति एकं पटंपश्यति । भिन्न विषयमिति बहून् पटान् पश्यति । संवाददत्त- हस्तावलम्बमिति स्वविषयनियतम् । तथा भवेदिति वैपरीत्यावसायिभवेत् । सर्वमेवेति पटशानम् । प्राक्तनस्येति पटान्तरङ्गानस्य। मिथ्याज्ञानमपीति नकेवलं सत्यज्ञानम् । प्रागेव प्रवृत्तत्वादिति उत्तरज्ञानात् प्राकू । उपादानादि- सम्बिदोऽपीति यदैवतज्ज्ञानमुत्पन्नं तदैवोत्पादित्सापिजाता, तत्रैवेति विपरीत प्रत्यये अन्यत्रेति दशैलादी, तदातथ्यपदार्थख्यातिरिति सत्ख्यातिरेव, पुरस्सर- गोचरएवेति पुरोवर्तिपदार्थगोचरएव, विपरीतकार्योत्पत्तिमिति अन्यप्रसतोरज- तस्य तत्र चकासनं विपरीतकार्योत्पत्तिः । तथाविचार्यमाणस्यति तथावैपरीत्येन विचार्यमाणस्य तस्येति विपरीतप्रत्ययस्य । व्यभिचारीति अनैकान्तिकम् । (रत्ना०)-अत्राभिदध्महे । येतावत्साधनासिद्धिविध्वंसनाय व्यधा- यिषतविकल्पास्तत्रशुक्त्यादिरूपतयान्यथास्थितार्थस्यान्यथारजताद्यर्थप्र- कारेण यत्प्रथनं तत्स्वरूपं वैपरीत्यनेदं रजतमित्येव तदुपमईतः पश्चादुज्जृम्भमाणेन बाधकेनावधार्यतइति ब्रूमः । तथाचान्यथाप्रथनोत्तर- ज्ञानतदुपमर्दकत्वविकल्पाभ्यां शेषं तु विकल्पनिकुरुम्बं तुण्डताण्डवाडं- बरविडम्बनामात्रफलमेव । अथविजातीयं सजातीयं वा तदित्यादिप्रका- रेषु किमुत्तरं ते स्यान्ननुवितीर्णमेव । अस्तु यत्किश्चित्तदुपमर्दैन चेदुत्पद्यते। तदा तदखिलं बाधकं सत् तस्यतथात्वमाविष्करोतीति उपमईश्चनप्र- ध्वंसोयतः पटज्ञानप्रध्वंसेनोत्पद्यमानस्य घटज्ञानस्य बाधकलं स्यात् किन्तु तत्प्रतिभातवस्त्वसत्वख्यापनं । यन्मदीयवेदने रजतमिति प्रत्यभात् तद्रजतंनभवत्येवेति । अपि च भेदाख्यातावपि प्रत्यक्षस्मरणयोर्भेदाख्यानं किस्खेनैव वेद्यतइत्यादिसकलविकल्पपेटक माटीकत एवेतिस्ववधायकृत्यो- स्थापनमेतद्भवतः। (टि०)-अथविजातीयमित्यादि तदिति उत्तरज्ञानं तेइति हेसमा- धानवादिन् तव तस्यति रजतमिति प्रत्ययस्य तथात्वमिति वैपरीत्यं किन्तुतत्प्रतीति तेनपूर्वज्ञानेन प्रतिभातं प्रतिभासितैयद्वस्तु तस्यासत्व- ख्यापनं अपिचेत्यादि भेदाख्याताविति विवेकाख्यातावपि ।
४४ । प्रमाणनयतत्त्वालोकालंकारः (प)-पश्चादुज्जृम्भमाणेन वाधकेनावधार्यते इति उत्तरमाननायधातये । तदखिलमिति विजातीय वा सजातीयं वा तथात्वमिति वैपरीत्यम् तत्प्रतिभा- तवस्त्वसत्तख्यापनमिति असत्त्वख्यापनमुपमर्दः । स्ववधायकृत्योत्थापनमेत- दिति यथाकश्चित्कृत्यां मारिमुत्थापयति साचोत्थिता सतीतमेवहन्ति । (रवा)-अथपूर्वानुभूतरजतप्रतिभाने कथं तेन शुक्तिकापेक्ष्येत तत्र संवृतखाकारायाः समुपातरजताकारायाः शुक्तिकाया एवात्र प्रतिभा- नात् । वस्तुस्थित्या हि शुक्तिरेवसा त्रिकोणत्वादिविशेषग्रहणाभावात्तु संवृतस्त्राकारा चाकचिक्यादिसाधारणधर्मदर्शनोपजनितरूप्पस्मरणा- रोपितरजताकारत्वाच्च समुपात्तरजताकारेत्यभिधीयते । यत्खलु यत्र कर्मतया चकास्ति तत्तत्रालम्बनमेतच शृङग्राहिकया निर्दिश्य- मानायां शुक्तौ समस्त्येव । सैवहि दोषवशात तथाप्रतिभाति । दृष्टं च दोषवशादिपरीतकार्योत्पादकत्वं यथा क्षिप्तमन्दाक्षलक्ष्मीकायाः कुल- पक्ष्मलाक्ष्यास्तत्तद्विरुद्धवीक्षणभाषणादि त्वयापिचैतदङ्गीकृतमेव प्रकृत- रजतस्मरणस्यानुभूतरजतदेशानुसारिप्रवृत्तिजनकत्वौत्सर्गिककार्यपरिहा- रेण पुरोदेश एव प्रवृत्तिजनकत्वस्वीकारात् । भेदाग्रहणं सहकारिण- मपेक्ष्य प्रकृतरजतस्मरणस्य तदविरुद्धमितिचेत् दोषान्सहकारिणोपेक्ष्य हृषीकस्यापि तत् तथास्तु ॥ किञ्च प्रत्यभिज्ञानेन रजतसंवित्तेः शुक्ति- गोचरत्वमवस्थाप्यते। यदेव ममरजतत्वेन पूर्वमचकात् तदेवशुक्तिशकल- मित्येव तस्योत्पादात् । अनुमानेन च विवादपदं रजतज्ञानं शुक्तिगो- चरं तत्रैवप्रवर्तकत्वाद्यदेवं तदेवं यथासत्यरजतज्ञानं रजतगोचरमिति विचारेण वैपरीत्यस्योपपत्तेरसिद्धिदुर्गन्धमेवत्वत्साधनमिति स्थितम् । (टि)-कथन्तेनेति रजतज्ञानेन एवात्रेति रजतज्ञानप्रदेशे यत्खल्लिति यवस्तु यत्रज्ञाने यथाघटे ज्ञानंजानाति यथाज्ञानेघटंजानाति इत्यत्रदृश्यते तदिति वस्तुचकासनं तत्रेति ज्ञाने एतच्चेति वस्त्वालम्बनं शृङ्गेति अङ्गु- लीनिर्देशनंत्यर्थः सैवेति शुक्तिः दोषेति नेत्रदोषः तथेति रजतत्वेन औत्सर्गिकेति मुख्यं भेदाग्रहणमिति इदं रजतमिति प्रत्ययज्ञाने प्रत्यक्ष टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्तः ४५ स्मरणयोः तदिति पुरोदेशे प्रवृत्तिजनकत्वं विपरीतकार्योत्पादकत्वं वा हृषीकस्येति इन्द्रियस्य तदिति पुरोदेशे प्रवृत्तिजनकत्वं तथति अविरुद्ध तस्यति प्रत्यभिज्ञानस्य अनुमानेनेत्यादितत्रैवेति शुक्तिकायामेव तत्रै- वेति यद्यत्रैवप्रवर्तकं तत्तद्गोचरं तदेवमिति शुक्तिगतं यथासत्येति क्तिगतम्। (पं०)-अथप्रकृतज्ञाने रजतप्रतिभाने इति मौलः पाठः । पूर्वानुभूतरजतप्रति- भाने इति पाठान्तरम् । पूर्वानुभूतंटङ्कशिलादिकम् । तेनेति विवादास्पदप्रत्ययेन, शुक्ति- कापेक्ष्यतेति शुक्तिकापेक्षानयुक्तेत्यर्थः तस्मात्सत्यमेवैतत्सम्वेदनद्वयमिति भावार्थः। तत्रति विपर्ययज्ञाने रजतप्रतिभासनं न । अत्र प्रतिभासनादित्यतोऽग्ने एतदेव व्याख्यातीतिगम्यम् । कर्मतयेति देवदत्तः शुक्तिशकलं रजतरूपं पश्यति । शृङ्गवाहिकयेति अङ्गुलीनिर्देशेन । वयापि चैतदङ्गीकृतमेवेति शुक्केरालम्बनत्वम् । तस्योत्पादादिति शुक्ति- गोचरत्वोत्पादात् । अनुमानेनेति शुक्तिगोचरत्वमवस्थाप्यते। तदेवमिति यद्यत्रैव- प्रवर्तकं तत्तद्गोचरम् । (रत्ना०) यच्चोक्तं शुक्तिरजतयोः प्रत्यक्षस्मरणयोश्च भेदाप्रतिभा- सादिति तत्रभेदाप्रतिभासस्तुच्छः कश्चिदुच्येत अभेदप्रतिभासोवा नाद्यः प्राभाकरैरभावानभ्युपगमात् । नापिद्वितीयो विपरीतख्याति- प्रसक्तेभिन्नयोरभेदेन प्रतिमासात् । अथभेदोव्यावर्त्तकधर्मयोगस्तस्य चाप्रतिभासः साधारणधर्मप्रतिभासइति चेन्न।शुक्तिज्ञानेसत्यपि तस्य- भावादीप्रतादेस्तत्रापि प्रतिभासात् । अथनतत्रतस्यैवप्रतिमासस्त्रिको- णतादिव्यावर्तकधर्माणामपि प्रतिमासादिति चेत् तर्हिसावधारणः सा- धारणधर्मप्रतिभासः प्रकृतरजतबोधेऽपि नास्त्येव रजतगतस्य रजतत्व- स्येव शुक्तिगतस्यत्वनियतदेशकालस्मर्यमाणरजतासम्भाविनियतदेश- कालत्वस्य व्यावर्त्तकधर्मस्य प्रतिभानादिति । अहणस्मरणसंवित्ती अपि खसंविदिते प्राभाकराणां तेचयदिस्वरूपेणप्रतिभातस्तदानरज- तार्थिनस्तथाप्रवृत्तिः स्यात् । अथग्रहणं स्मरणरूपतया प्रतिभाति तदाविपरीतख्यातेरस्पष्टतया प्रतिभानमनुभूतरजतदेशे प्रवृत्तिश्वस्यात् ।
AN NA - प्रमाणनयतत्त्वालोकालंकारः अथस्मरणंग्रहणरूपतया तदापि विपरीतख्यातिरेख प्रभूतं चात्रवक्तव्यं । तचोक्तमेव वृहद्वृत्तौ वितत्य श्रीपूज्यैः । (टि०)-भेदाप्रतिभासइति प्रसज्यनज्ञाप्यम्प्रतिषेधमात्रम् तुच्छइति अभावरूपः व्यावतकेति व्यावतको धर्मस्त्रिकोणत्वादिः सत्यपि तस्येति साधारणधर्मप्रतिभासस्य पाकिचिक्याविरूपस्य । अथनतत्रेति सत्येपि शुक्तिज्ञाने तस्यैवेति साधारणधर्मप्रतिभासस्यैव ग्रहणेत्यादि शुक्तिका- यामिदं रजतमिति मिथ्याज्ञानलक्षणे ऽयमर्थः यथासत्ये शक्तिज्ञाने दीप्रता- दिसाधारणधर्माणां त्रिकोणत्वादिव्यावर्त्तकधर्माणांच प्रतिभासस्तथात्र- शुक्तौ इदं रजतमिति मिथ्याज्ञानेपि उभयेषां प्रतिभासोनकेवलः साधारण- धर्मप्रतिभास इति तेइति ग्रहणस्मरणसवित्ती येनैवस्वभावनेत्यादि शुक्ते- ग्रहणं रजतस्यस्मरणं यदिग्रहणस्य स्मरणरूपता भवति तदास्मरणस्यैव ग्रह- णपर्यायस्य प्रत्यक्षस्य अस्पष्टतया प्रतिभासः स्पष्टश्चप्रातभासः विशदंप्रत्य- क्षमिति वचनात् । अनुभूतेत्यादि प्रत्यक्षस्मरणयोरेकरूपतायां सत्यां प्रत्य- क्षस्य अनुभूतरजतदेशे स्मरणविषयप्रवृत्तिः प्राप्नोतीति भावः । (पे०)-तुच्छइति निरुपाख्यः कोऽर्थअभावः अनेनप्रसज्यनलक्षितः । अभेदप्रति- भासोऽवेत्यनेन पर्युदासः । पर्युदासः सदृग्ग्राहीप्रसज्यस्तु निषेधकृत् द्वौनाहिसमाख्यातो पर्यु- दासप्रसज्यको ॥ व्यावर्त्तकधर्मयोगइति व्यावतको धर्मस्त्रिकोणत्वादिः। तस्येति साधारणधर्मस्य । तस्यैवेति दीप्रतादेरेव, सावधारणइति निश्चितः, साधारण- धर्मप्रतिभासइति दीप्रतादिः । अथ संशयं लक्षयन्ति। मू०-साधकबाधकप्रमाणाभावादनवस्थिता- नेककोटिसंस्पर्शिज्ञानं संशयइति। (रत्ना०)-उल्लिख्यमानस्थाणुत्वपुरुषत्वाद्यनेकांशगोचरयोः साधक- बाधकप्रमाणयोरनुपलंभादनवधारितनानांशावलम्बिविधिप्रतिषेधयोरस- मर्थ सम्वेदनं संशयइत्यर्थः समिति समन्तात्सर्वप्रकार शेतइवेति व्युत्पत्तेः । ।
टि. पं. हयोपेतरत्नाकरावतारिकायुक्तः (टि.)-शेतइति आत्माऽस्मिन्निति अनवधृतसाध्यसाधनसम्बन्धादप्य- नुमानात्साध्यसिद्धौ सश्यामस्तत्पुत्रत्वात् धवलः प्रासादः काकस्यकाण्या- दित्यादीनामपिगमकत्वप्रसंगः । (५०)-समिति समन्तात् सर्वप्रकारैः शेतइवति व्युत्पत्तेरिति । ससम्यक् शेते आत्मा- अस्मिन्निति तु मलयगिरिमिश्राः । उदाहरन्ति । मू०-यथायंस्थाणुर्वापुरुषोवेति । व्यक्तम्। (रवा)-अयं च प्रत्यक्षविषये संशयः। परोक्षविषयेतु यथाक्वापि विपिनप्रदेशे शृङ्गमात्रदर्शनात्किौरयं स्याद्गवयोवेत्यादि । अथानध्यवसायस्वरूपम्प्ररूपयन्ति । मू-किमित्यालोचनमात्रमनध्यवसाय इति। (स्त्रा०)-अस्पृष्टविशिष्टविशेष किमित्युल्लेखेनोत्पद्यमानं ज्ञानमात्र- मनध्यवसायः प्रोच्यते समारोपरूपत्वं चास्यौपचारिकमतस्मिंस्तदध्यव- सायस्य तल्लक्षणस्याभावात् समारोपनिमित्तंतु यथार्थापरिछेदकत्वम् । (५०)-समारोपनिमित्तमिति समारोपोऽपि किमपिनिमित्तमपेक्ष्यप्रवर्तते । यथा- माणवकेशित्व समारोपितम् । उदाहरन्ति । भू०-यथागच्छतृणस्पर्शज्ञानमिति । (स्ना०)-गच्छतः प्रमातुस्तृणस्पर्शविषयं ज्ञानमन्यत्रासक्तचित्तत्वा- देवं जातीयकमेवं जातीयकमेवं नामकमिदं वस्त्वित्यादिविशेषानुल्ले खिकिमपि मयास्पृष्टमित्यालोचनमात्रमित्यर्थः प्रत्यक्षयोग्यविषयश्चाय- मनध्यवसायः एतद्दाहरणदिशाच परोक्षयोग्यविषयोप्यनध्यवसायोड- बसेयः । यथाकस्यचिदपरिज्ञातगोजातीयस्य पुंसः कचनवननिकुञ्ज सानामात्रदर्शनात् पिण्डमात्रमनुमाय कोनुखवत्र प्रदेशे प्राणी स्यादि- त्यादि।
प्रमाणनयतत्वालोकालंकारः अथ प्रमाणलक्षणसूत्रोपात्तं परशब्दं व्याख्यान्ति । मू०-ज्ञानादन्योऽर्थः पर इति । (रत्ना०)- ज्ञानाद्ग्राहकात्सकाशादन्यो ग्राह्यतया पृथग्भूतो ऽचे- तनः सचेतनोवाऽर्थोर्थक्रियार्थिभिरर्थ्यमानः परः परशब्दवाच्यः ।। (पं०)-परमतिकोपनत्वादिना तैक्षण्यं मनसि विमृश्य अचेतनः सचेत- नोवेति । अचेतनोघटादिः सचेतनोगवादि । (रत्ना०)-अत्र शून्यवादिनः कतिपयविकल्पाटोपोच्चण्डतुण्डमुत्स्व- प्नायन्ते । अहोआहेताः किंज्ञानं कश्चार्थः । ग्राहकमन्तान प्रायो- बाह्योऽर्य इति चेत्कस्य ज्ञानं ग्राहकमर्थस्य चेदर्थ एवानर्थमूलं तर्हि- सएवोन्मूलनीयस्तथाहि ॥ किमयमणुरूपः स्थूलरूपस्तदुभयस्वभावोनु- भयस्वभावो वा । अणुरूपश्चेत् कुतोणूनामवधारणं । प्रत्यक्षादनुमाना- द्वा । प्राचिपक्षे किंयोगिप्रत्यक्षादस्मदादि प्रत्यक्षादा । धुर्यः श्रद्धा- मात्रावधार्योः द्वितीयस्त्वनुभूतिपराभूतः। नहिवयमयं परमाणुरयं परमा- णुरिति स्वप्नेपि प्रतीमः स्तम्भोयं कुम्भोयमित्येवमेवनः सदैव संवेदनोद- यात् अथानुमानात्परमाणुप्रवेदनं किमयधृतसाध्यसाधनसम्बन्धात् तदि- तरस्मादा । नतावत्तदितरस्मादतिप्रसङ्गसङ्गमात् प्राचिकप्रकारे तु सम्बन्धावधारणं प्रत्यक्षणानुमानेन वा । नप्रत्यक्षेण । अणूनामतीन्द्रिय- खेन तैः सहाविनामावस्य वापिलिङ्गे ग्रहीतुमशक्यत्वात् । अनुमाने- नापि तेनैवानुमानान्तरेण वा तदवधारणं । नतावत्तेनैव परस्पराश्रय- प्रसङ्गात् सतिसम्बन्धावधारणे तदनुमानोत्थानं सतिचास्मिंस्तवधा- रणमिति । अनुमानान्तरमपि गृहीतप्रतिबन्धमगृहीतप्रतिबन्धमेववा प्रव- तेत्याद्यावृत्तावनस्थादौस्थ्योपस्थापनं तन्नानुमानादपि परमाणुप्रतीतिः किचामी परमाणवो नित्यावा स्युरनित्यावा नित्याश्चकिमर्थक्रियाका- रिणो ऽकिंचित्करा वा उदीचीनस्तावत्पक्षः क्षोदीया नन्तरिक्षवृक्षव. तेषामसत्त्वापत्तेः। अर्थक्रियाकारित्वं तु तेषां क्रमेण युगपड़ा। क्रमेण रि. पं. दयोपेतरनाकराबतारिकायुक्तः त्किस्वभावाभेदेन तद्भेदेन वा। स्वभावाभेदमिदायां ते येनैव स्वभा. वेन प्राच्यं कार्यमर्जयन्ति तेनैवोत्तरमपि यदा येनैवोत्तरं तेनैव प्राच्य- मपि । प्रथमे प्रथमकार्यकाल एवोत्तरस्याप्युत्पत्तिप्रसक्तिस्तद्वत् द्वितीये द्वितीयकार्यकालएव प्रथमस्यापिः प्रभवप्राप्तिः । तद्वदेवस्वभावभेद- पक्षे क्षणिकत्वापत्तिस्तलक्षणत्वात्क्षणभङ्गुरतायाः । युगपत्पक्षे सकृदेव सकलस्वकार्यकार्यपुञ्जस्यार्जितलाद् द्वितीयादिक्षणे तेषामसत्वं स्यात् । तन्नामी नित्याः । अनित्याश्चेत्क्षणिकाः कालान्तरस्थायिनो वा । क्षणिकाचेत् किमकस्माद्भवन्ति कारणादाकुतोपि । अकस्माचेत् ननुकिमिहकारणप्रतिषेधमात्रं भवनप्रतिषेधः स्वात्महेतुकत्वं निरुपाख्य- हेतुकलं वा विवक्षितं । आधे भवनस्यानपेक्षत्वेन सदा सत्तस्यासत्त्वस्य वा प्रसक्तिः । नित्यसत्त्वमसत्त्ववाहेतोरन्यानपेक्षणादित्युक्तः । द्वितीये प्रागिव पश्चादपि नामी भवेयुः तृतीये कथमुत्पत्तिस्तेषां स्वयमसतां स्वोत्पत्तौ व्यापार व्याहतेः । तुरीये प्रागपि सत्वापत्तेस्तेषां सनातनत्वं स्यात् कारणाद्भवनपक्षेतु स्थूलं किञ्चित् तेषां कारणं परमाणएव वा। नस्थूलं परमाणुरूपार्थपक्षस्यैव कक्षीकारात् । परमाणवश्चेत्ते किंसन्तो ऽसन्तः सदसद्रूपा अनुभयस्वभावा वा खकार्याणि कुर्युः सन्तश्चेत् किमुत्पत्तिक्षणएव द्वितीयादिक्षणपि वा। नाद्यस्तदानीमुत्पत्तिमात्रव्य- प्रत्वात् तेषां । अथ भूतिर्येषां क्रिया सैवकारणं सैववोच्यतइति वचनाद् भवनमेव तेषामुत्तरोत्पत्तौ कारणतेति चेदेवं तर्हि रूपाणवो रसाणूनां तेच तेषामुपादानं स्युरुभयत्र भवनाविशेषात् नद्वितीयः क्षणक्षयक्षया- पत्तेः। अथासन्तस्ते तदुत्पादकास्तहितत्सत्ताक्षणमेकमपहायसर्वदात- दुत्पादप्रसङ्गस्तद्रवनस्य सर्वदाऽविशेषात् । सदसद्रूपपक्षस्तु दुनिरोध- विरोधानुबन्धदुर्द्धरः । यदिहि तेसन्तः कथमसन्तस्तथाचेत् कथंसन्तः। अनुभवस्वभावभेदोप्यसाधुर्विर्षिप्रतिषेधयोरेकतरप्रतिषेधेऽन्यतरस्यावश्य म्भावात् । तन्नाणवः क्षणिकाः सूक्ष्ममनीपामार्ग मैयरुः । नापि- कियत्कालस्थायिनः । क्षणिकपक्षोपक्षिाप्रतीकारस्थात्राप्यवतारात् ।
प्रमाणनयतवालोकालंकारः किंच । कियत्कालस्थायिनोप्यमी किमर्थक्रियापराङ्मुखास्तत्कारिणो वा भवेयुः प्रथमभिदायामम्बरोद्भगम्भोरुहसौरभवदसत्त्वापत्तिः । उद- विकल्पे किमसद्रूपं सद्रूपमुभयरूपमनुभयरूपं वा ते कार्यकुर्वीरन् असदूपञ्चेत् कथकरिकेसरकलापादेरपि नकरण । सद्रूपञ्चेत् कथन्तस्य करणं सतोपि करणे कथं कदाचिक्रियाविरतिः । तृतीयतुरीयभेदौ तु प्रायोक्तसदसद्रूपादिभेदवद्भञ्जनायो । तन्नाणुरूपोऽर्थः सर्वथास्थे- मानमातेनिवान् नापिस्थूलरूपो यतस्तादृशोप्यसौ नित्यो ऽनित्यो वा स्यात् । नतावन्नित्यः परमाणुनित्यतानिराकरणानुसारेणास्यापि व्यपासितुं शक्यतात् । नाप्यनित्यः यतस्तस्यसमुत्पादे स्थूलमेव किञ्चित्कारणमणवो या प्राच्या पक्षः स्थवीयान् स्थूलाद्वैतवादस्य वा- बदुकानां वदितुमयुक्तत्वात् । सूक्ष्मायेक्षयैव स्थूलस्यव्यवस्थानात् कुबला- पेक्षया कुवलयस्येव । अथाणवस्तत्कारणं तर्हि तदऽग्रेतनस्तदुभयस्वमा- वार्थपक्षः कक्षीकृतः स्यात् । अस्त्वयमवेति चेत् । तर्हि ते निरतिशयाः सातिशयावा स्थूलमर्थ प्रथयेयुः । आद्यभेदे भूर्भुवः स्वस्त्रयीकुहरकोण- कुट्टितैकैकपरमाणुभिर्विशकलितैरपि सदैव तदुत्पादनप्रसङ्गः द्वितीयेतु कस्तेषामतिशयः एकदेशावस्थितिः संयोगः क्रियावा । प्रथमपक्ष क्षोणीमण्डलालम्बिपरिमण्डलेः स्थूलैककार्यक्रियाप्रसक्तिस्तस्यैकदेश- रूपत्वात् । अथ यावति प्रदेशे कतिपयेपि परमाणवः कार्यमेकमर्ज- यन्ति तावानेवैकः प्रदेशो नसकलमिलामण्डलमिति चेत्तहींतरेतरा- श्रयपिशाच प्रवेशः । सिद्धेहिकार्ये देशैक्यसिद्धिस्तत्सिद्धौच तत्सि- द्विरिति । संयोगश्चेदतिशयः सकिन्नित्यो नित्योवा । यदिनित्यस्तदा- सदापितदुत्पाद्यकार्योत्पादप्रसङ्गः । अनित्यश्चेत् किमन्यतएव तेभ्योपि वा प्रादुःष्यात् नाघोभेदस्तदाधारधर्मस्यान्यत एवोत्पत्तिविरोधात् । द्वितीयेतु तदुत्पत्तावपि निरतिशयाः सातिशयावा ते व्याप्रियेरन् । माचि प्राचीन एवंदोषः द्वितीयेलतिशयोत्पत्तावप्यतिशयान्तरेण भाव्यं तत्रापि तेनेत्यनवस्थाकदर्थनं किञ्चायं संयोगस्तत्स्वभावभूतस्तत्पृथग्भूतो टि. पं. दयोपेतरत्नाकराषतारिकायुक्त वा । प्राच्ये परमाणवएव नकश्चित्संयोगो नाम द्वितीयेतु सर्वथापृथग्- भूतः कथंचिद्धा। कथंचित्पक्षस्तावद्विरोधाषितः सर्वथापक्षेतु संबद्धो ऽसंबद्धोवा तत्रासौ स्यात् । असम्बद्धविधायां तेषामेषइति सम्बन्धा- योगः सम्बद्धस्तु संयोगेन समवायेन तादात्म्येन तदुत्पत्त्याऽविष्वग्भावे- नवा । नसंयोगेन तस्य गुणरूपेसंयोगे सम्भवाभावात् । निर्गुणागुणा- इतिवचनात् । नसमवायेन यतोयावदयमेकं संयोगमेकत्र सम्बन्धयति तावदन्यत्राप्येनं किन्नसम्बन्धयेदस्य सर्वत्रैश्यात् । नतादात्म्येन भेद- पक्षकक्षीकारात् । नापितदुत्पत्त्या परमाणुभ्यः संयोगोत्पादस्य प्रागेव व्यपास्तत्वात् । नाप्यविष्वग्भावेन तस्य कथाश्चित्तादात्म्यरूपत्वात तत्रचकथंचिदित्यन्धपदंविरोधावरोधदुर्द्धरत्वात् किंचायंसंयोगः सर्वा- स्मनैकदेशेनवाणूनाम्प्रणिगधेत प्रथमेपिण्डोणुमात्रः स्यात् द्वितीये षइकेन युगपद्योगात्परमाणोः षडंशतास्यादिति परमाणुकथाप्यस्त- मियात् । तन्नसंयोगोतिशयः। एतेन क्रियारूपातिशयपक्षापि प्रति- क्षिप्तः किञ्चायस्थूलो ऽवयवी निराधारः साधारो वा । नतावनि- राधारः साधारप्रतीतिविरोधात् । साधारश्चेत् किमेकाव्यवाधारो ऽने- कावयवाधारोवा प्रथमे प्रतीतिविरोधस्तथाहि प्रतीतिरिहावयवेष्ववय- वीति नावयवे ऽवयनीति अथानकावयवाधारस्तत्राप्यविरोध्यनेका वयवधारो विरोध्यनेकावयवाधारोवा नपाच्यश्चलाचलस्थूलास्थूलनीला- नीलादिरूपाणामवयवानां विरोधप्रतीतः । अथद्वितीयस्तहि नैकः स्थूलोऽवयवीस्याविरुद्धधर्माध्यासात् । अपिचासौतेषु वर्तमानः साम- स्त्येनैकदेशेन वा वर्तेत । सामस्त्येनवृत्तावेकस्मिन्नेवावयवे परिसमाप्त- स्वादनेकावयववृत्तित्वं नस्यात् एकदेशेन वृत्तौ निरंशलं तस्योपगतं- विरुध्येत । सांशत्वेवा तेष्यंशास्ततोभिन्नाभिन्ना वा भवेयुः भिन्न- खेपुनरप्यनेकांशवृत्तरेकस्य सामस्त्यैकदेशविकल्पानतिक्रमादनवस्था अभिन्नत्वे न केचिदंशाः स्युरिति न तदुभयस्वभावार्थपक्षापि सङ्गतिशृङ्ग- सङ्गमगात् । अनुमयस्वभावभेदोप्युपेक्षाक्षेत्रं प्रेक्षाणां परमाणुस्थूलयो HACTOR ममाणनयतस्वालोकालंकारः परस्परप्रतिषेधात्मकत्वेनान्यतरप्रतिषेधेतदितरविधेरवश्यंभावादितिनार्थः कश्चिदिचारचूलामालम्बते । तदभावे तद्ग्राहकतया संमतं ज्ञान- मपि तथैव । किंचैतदर्थसमकालं । तद्भिन्नकालंवा। तद्ग्राहकं कल्प्येत । प्राकल्पनायां त्रिलोकीतल्पोपगता अपि पदार्थास्तत्र प्रथेरन् समकाल- लाविशेषात् तदग्यप्रकारेतु निराकारं साकारं वा तत्स्यात् । प्रथमे प्रतिनियतपदार्थपरिच्छेदानुपपत्तिः द्वितीयेतु किमयमाकारो व्यतिरिक्तो ऽव्यतिरिक्तो चा ज्ञानात् । अव्यतिरेके नकश्चिदाकारो नाम तथाच निराकारप्रकारप्रकाशितः परीहारः। व्यतिरेके चिदुरूपो ऽचिद्रूपो वायं भवेत् चिद्रूपश्चेत् तदानीमाकारोपि वेदकः स्यात् तथाचायमपि निराकार साकारोवा तद्वेदको भवेदित्यावर्त्तनेनानवस्था। अथाचिदु- रूपः किमज्ञातो ज्ञातो वा तत्ज्ञापकः स्यात् । प्राचीने चैत्रस्येव मैत्र- स्याप्यसौ तज्ज्ञापकः स्यात् । तदुत्तरेतनिराकारेण साकारण वा ज्ञानेन तस्यापि ज्ञानं स्यादित्याद्यावृत्तावनवस्थैवेति नज्ञानमपि किञ्चिच्चतुर- चेतोगोचरे सञ्चरति । ततः सर्वशून्यतैवपरंतत्त्वमवास्थितेति सर्वापलापि विकल्पसंक्षेपः। (टि०)-तेषामिति परमाणूनां असत्त्वमिति यतोऽर्थक्रियाकारित्वं नः संमतं ननुकिमिहत्यादि भवनप्रतिषेधइति कस्मादपि नभवतीत्यर्थः निर- पाख्येति आद्यन्तोपाख्यानरहितत्वात्सनातनः शाश्वतइत्यर्थः नित्यं सत्व. मिति अहेतोरिति निर्हेतुकपदार्थस्य अन्यति कारणाभावात् अथभूति- रित्यादि सैवेति अन्यषस्तूनां कारणं सैवभूतिरेव तेचेति रसाणवः तेषा- मिति रूपाणूनां अथासन्तइत्यादि तत्सत्तेति यस्मिन् क्षणे तेषां सत्व- मभूत् तदपहाय द्वितीयादिक्षणेषु तेषामसत्वात् क्षोणीमण्डलत्यादि परिमण्डलैरिति समस्तपरमाणुाभः एककार्यस्य क्रियाविधानं तस्याः प्रसङ्गः तस्यति स्थूलकार्यस्य नसमवायेनेत्यादि यथातघटादिकं कार्यमुत्पादयन्तो गतिशयमपेक्षन्ते एवं संयोगमुत्पादयन्तोप्यतिशयमुपेक्षिष्यन्ते अयमिति समवायः एकत्रेति पदार्थे एनमिति सम्बन्धः अस्योति समवायस्य टि. पं. इयोपेतरनाकरावतारिकायुक्तः तस्येति अविष्वग्भावस्य तत्रेति अविष्वरमावे अन्धपदमिति प्रकाश रहितं निस्तेजस्कमन्धलामिति लोकप्रसिडेः साधारति अवयवलक्षणाधार- दर्शनात् अपिचासाविति स्थूलावयवी तेष्विति अवयवेषु तस्योपगत- मिति अवयविनोङ्गीकृतं ततइति अवयविनः सकाशात् तदभावइति अर्थाभाथे तद्ग्राहकति अर्थग्राहकतया तथैवेति विचारचूलानालम्थ- नमेव किश्चैतदर्थेत्यादि एतदिति ज्ञानं तद्ग्राहकमिति अर्थवाहक तत्रेति ज्ञाने तदग्येति तद्भिनकालपक्षे तदिति ज्ञान तथाचेति एवं सति आकारप्रतिषेधेसति अयमिति आकार तथाचेति आकारस्थापि अर्थप्रकाशकत्वेसति अयमपीति आकारोपि पुनरपि पूर्वविकल्पा. वर्तनात् आपशब्दप्रयोगः तदेदकइति अर्थज्ञापकः तज्ज्ञापकइति अर्थ- वेदक: असाविति आकारः तदुत्तरेइति ज्ञातपक्षे तस्यापीति आका- रस्यापि अत्रापि अपिशब्दः प्रागवत् । (५०)-नतावत्तदितरस्मादति प्रसङ्गसङ्गमादिति अनवधृतसाभ्यसाधनसम्ब- न्धादप्यनुमात् साध्यसंसिद्धौ सश्यामस्तत्पुत्रत्वात् धवलः प्रासादः काकस्य कार्यादित्या- दीनामपि गमकत्वप्रसङ्गः । प्राचिक प्रकारेइति अवधृतलाध्यसाधनप्रकारे। सम्ब- न्धावधारणमिति सम्बन्धः केनप्रमाणेनावधारित इत्याशयः । अनामतीन्द्रि- यत्वेनेति क्षितिधरकन्धरान्तरितोहिवहिः प्रत्यक्षोऽस्ति यःकश्चित्तमारोहति सोऽवश्यसा- भात्कुरुते अमीचपरमाणयोऽतीन्द्रियास्तैः सहाविनाभावोदुर्घटः । अविनाभावस्येति सम्बन्धस्य । तदवधारणमिति सम्बन्धावधारणम् । क्षोदीयानिति वद्रोऽसारइत्यर्थः। तदादिति प्राध्यकार्यवत् । अनपेक्षत्वेनेति कारणस्था पेक्षा नास्ति। नित्यं सत्त्व- मित्यादि श्लोकाछम् । उत्तरार्धन्तु अपेक्षातोहिभावानां कादाचित्कत्वसम्भवः ॥ सन्त- श्चेदिति स्वकार्य कुर्युरिति योगः। क्षणक्षयक्षयापत्तेरिति । क्षणिकपक्षस्य चर्च्य- मानस्यात् । तदुत्पत्तावपि निरतिशयाः सातिशया वा ते व्याप्रियेरनिति यथाहि ते घटादिकं कार्यमुत्पादयन्तोऽप्यतिशयमपेक्षिष्यन्ते एवं संयोगमुत्पादयन्तोऽप्यति- शयमपेक्षिष्यन्ते। अत्र च कथञ्चिदित्यन्धपदमिति उभयांशप्राहकत्वेनानिर्णाय- कत्वात । साधारणप्रतीतिविरोधादिति । अवयवलक्षणाधारदर्शनात् । चला- बलस्थूलास्थूलनीलानीलादि रूपाणामिति भादिशम्बादातानावृत्तादि । । ।
५४ प्रमाणनयतश्वालोकालंकारः (रत्ना०)-तदेतदखिलमनल्पपलालपूलकूटकल्पमप्रतिमोत्तरकृशानुक- णमात्रसाध्यं तथाहीदं प्रमाणमूलमालप्येतान्यथावा । अन्यथाचे- दुत्तिष्ठोत्तिष्ठ तर्हि कथमकृथाः प्रामाणिकपर्षदीह प्रवेशम्प्रमाणमूलञ्चत्त- त्पमाणमर्थरूपं ज्ञानरूपं वा भवेदित्यादिस्वमार्गणैरेव मर्माविद्भिर्विद्धः कथमुवसितुमपिशक्नोषि कथंचप्रमाणाभ्युपगमे शून्यसिद्धिः शून्यरूप- मेव प्रमाणमिति चेत्तर्हिशून्यतासिद्धिरपि शून्यैवेति नशून्यसिद्धिः स्यात् । अभ्यधिष्महिच । शून्येमानमुपैतिचेन्ननु तदा शून्यात्मता दुस्थिता । नोचेत्तर्हि तथापि किंनसुतरां शून्यात्मता दुस्थिता। वन्ध्या मेजननीत्यमुष्यसदृशी मप्याश्रयन्शून्यतां शङ्के दुःशकसाहसैकरसिका स्वामिन्नसौ सौगतः । अथेत्थमेव विचारयतां यदा न किञ्चित्सङ्गति गाते तदाशून्यमेव तत्त्वमवतिष्टतइतिचेत् । तदेतत्प्रबलशृङ्खलस्खलितांघे- रुत्प्लवनप्रागल्भ्याभ्यसनं । यतः। विचारोवस्तुरूपश्चेत्किंसिध्येत्सर्वशून्यता विचारोवस्तुरूपश्चेत् किं सिध्येत्सर्वशून्यता। नचतवामून्यर्थज्ञानदूषणा- न्यपि सूपपादानि । यस्मादुभयस्वभाव एवार्थइति नः पक्षः नचाणुभ्यः स्थूलोत्पादः सर्वत्र स्वीक्रियते यतस्तत्कार्यकारणभावमात्रवित्रासने नार्थकथाविश्राम्येत् । स्थूलादपि सूत्रपटलादेः स्थूलस्य पटादेः प्रादुर्भा- वविभावनात् आत्माकाशादेरपुद्गलकार्यत्वकक्षीकाराच्च यत्रपुनरणुभ्य- स्तदुत्पत्तिस्तत्रतत्तकालादिसामग्रीसव्यपेक्षक्रियावशात् प्रादुर्भूतं कथं चित्पृथग्भूतं संयोगातिशयमपेक्ष्येयमविरुद्धैवकेवलंकथंचिदिति किञ्च- नत्वचेतस्तुदति तत्रेयं प्रतिक्रिया । एकेनैवहिरूपेणभेदाभेदयोरभि- धाने विरोधनिरोधः स्यात् नचैवमिहपर्यायरूपतया भेदस्य द्रव्यरूप तयावा उमेदस्यभणनात् । त्वयापि च प्रमाणप्रमेयतत्वं नास्त्येवेत्ये- कमेव वचनं स्वपरपक्षावपेक्ष्यसाधकबाधकं वा कक्षीकृतमेव । यापिपर- माणोः षडंशतापत्तिरुक्ता साप्ययुक्ता। यतो ऽत्रांशशब्दस्य सम्बन्ध- निबन्धनं शक्तिस्वरूपोर्थो विवक्ष्येता ऽवयवलक्षणो वा। नपाच्येप्रसङ्ग: सङ्गतस्तथाऽस्माभि स्तदभ्युपगमात् । द्वितीयेतु नास्त्यविनाभावस्तत्त- टि. पं. बयोपेतरनाकरावबारिकायुक्ता न्छक्तिमात्रेणैव तत्तत्परमाणुसम्बन्धस्य प्रतिषेधुमशक्यत्वात् यदपि निरा- भार इत्यादि न्यगादि तत्रापि कथंचिदिरोध्यविरोध्यनेकावयवाविष्व- ग्भूतवृत्तिरवयव्यभिधीयते तत्रच यदिरोध्यनेकावयवाधारतायां विरु- द्धधर्माध्यासनमभ्यधायि तत्कथंचिदुपेयतएव । तावदवयवात्मकस्य तस्यापि कथंञ्चिदनेकरूपत्वात् । यच्चोपन्यस्तं सामस्त्यनैकदेशेनवे- त्यादि । तत्रापि विकल्पद्धयानभ्युपगम एवोत्तरं । अविष्वग्भावनावय- विनो ऽवयवेषु वृत्तेः स्वीकारात् । यच्चार्थसमकालमित्यायुक्तं तत्रापि विकल्पद्धयमपि स्वीक्रियत एव । अस्मदादिप्रत्यक्षं हि योग्यसमका- लार्थाकलनकुशलं स्मरणमतीतस्य शान्दानुमाने त्रैकालिकस्याप्यर्थस्य परिच्छेदके निराकारञ्चैतद्वयमपि नचातिप्रसङ्गः तद्ग्रहणपरिणामश्चे- दाकारस्तदभ्युपगच्छामः स्वज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषवशा- देवास्यनयत्येनप्रवृत्तेः शेषविकल्पनिकुरुम्बडम्बरेऽस्वीकारएतिरस्कारः निरस्ताशन्यतासेयमाशा शाक्यवसन्त्यमः । उन्मीलयचिरान्नेकौतुका- लोकनोत्सुके। (टि०)-तदेतदखिलमित्यादि मर्माविद्भिरिति व्यधताडनेममन् पूर्वः माणिव्यधतीतिक्विप् नहितिवृषिष्यधिकचिसहितनिषु क्विवन्तेषु प्रादिकारकाणामेवदीर्घइति दीर्घत्वं ग्राहिज्याच्यचिव्यधीत्यादिनासम्प्रसारणं पेल्लोपः पदान्तमर्मच्छेदकैः शून्यमानमित्यादि यदिप्रमाणमेवशून्यं तवम- तम्प्रमाणशून्यत्वात् शून्यतासिद्धिरप्यसिद्धाप्रमाणस्यासिद्धत्वात् यदिप्रमाणं नशून्यं ततः प्रमाणसत्वे सर्वशून्यवादः सापवादतान्दधाति उक्तं च बुद्धस्य नास्तिदेवत्वं मोहाच्छून्याभिधायिनः प्रमाणसिद्धेशून्यत्वे शून्यवादकथावृथा गातेइति गाङ् गतौतेआते अन्तेत्रिषुवचनेषु समानमत्रत्वेकवचनेन निर्देशः यस्मादुमयेति अणुभ्यः स्थूलेभ्योवा समुत्पद्यतेइति द्वयं न इति अस्माकं अणु- भ्यः स्थूलोत्पत्तिः स्थूलेभ्यश्च स्थूलोत्पत्तिः आत्माकाशादिः पदार्थः अपौद्ग- लिकोपिप्रथमानः प्रतीयते यत्रपुनरित्यादि तत्कालादीति पूर्वहि तेषां पर- माणूनां संयोगाख्यः पर्यायोनासीत्पश्चात्तत्कालादिसामग्रीसव्यपेक्षक्रिया- वशात् प्रादुर्भूतः सचतेभ्योनसर्वथाभिन्नः स्वभावभूतत्वात् अन्यच्चद्रव्यं निकालावस्थापि पर्यायाश्चवार्तमानिकाः द्रव्यमाघारः पर्यायाचधेयास्तस्मा. ।
प्रमाणनयतत्वालोकालंकार: न्नसर्वथाऽभिन्नः किन्तुभिन्नः नचसर्वथाभिन्नः कथंचिदभिन्नोपि याव. तातएवपरमाणवः संयोगरूपतयापरिणमन्तिनपुनः संयोगः पृथग्भूतः इय- मिति उत्पत्तिःविरोधेति विरोधमनिरोधःपर्यायेति क्रमभाविधर्मरूपतया नपाच्येप्रसङ्गइति षडंशतालक्षणंदूषणं तथेति षडंशताप्रकारतया तदम्यु- पगमादिति परमाण्वङ्गीकारात् नास्त्यविनाभावइति अवयथेषुसत्सुसम्ब- न्धोभवति नान्यथेत्ययंयतः अवयवैरवपरमाणुरात्मानं करोति नानाविना- भावः तैस्तैः परमाणुभिः सहविवक्षितपरमाणोर्यः सबन्धः सप्रतिषेधुम- शक्यः केन तत्तच्छक्तिमात्रेणैवेति सासायायाशक्तिस्तत्तत्परमाणुसम्ब- न्धनलक्षणा तन्मात्रेण शक्तिरूपेण सावयषतास्ति नसाक्षात्कथमन्यथा- पश्चादपि इतरपरमाणुसम्बन्धे सावयवतास्यात् क्रोडीकृतचुन्चुनखपक्षाघ- वयवाण्डकरसन्यायेन अवयवीति स्थूलोवयवी उपेयतेइति अङ्गीक्रियत एक तस्येति स्थूलावयविनः वैशेषिकैरपि एकस्मिन्नवयविनि बहुनांखण्डा- वयधिनामङ्गीकारात् अविष्वग्मावेनेति कथञ्चित्तादात्म्येन समकेति वार्त- मानिकम् शाब्देति आगमः साध्यसाधनयोः सम्बन्धहेतुशक्तिरूपण प्रति बन्धमनास निश्चित्यानुमानप्रयोक्ता त्रिकालवेदी भवति अर्थसमकालं तद्भि- लकाले वा अतिप्रसङ्गइति अनियतपरिच्छेदापत्तिः अस्येति ज्ञानस्य । (पं०-तत्तत्कालादिसामग्रीसव्यपेक्षक्रियावशादिति । भावनियति पुरुषा- काराः कालादयउच्यन्ते । अथवा क्षेत्रकालभावलक्षणासामग्रीभावः स्निग्धरूमादिः चलन- फ्रियासंयोगोऽचलनक्रियापूर्वको यथाङ्गुल्योः । पर्यायरूपतया भेदस्य द्रव्यरूपतया- वा ऽभेदस्य भणनादिति पूर्व हि तेषां परमाणूनां संयोगास्यः पर्यायोनासीत् । पश्चा- तत्कालादिसामग्रीसव्यपेक्षक्रियावशात् प्रादुर्भूतः सचतेभ्यो न सर्वथाऽभिन्नो यखि यस्माद- भिन्नं तत्तस्य स्वभाव भूतं स्यात् स्वभावश्च न कदाचिदपि व्यपैति यथापरमाणोः परमाणुत्वं ज्यपयन्ति च पर्यायाः अन्यश्चद्रव्यं त्रिकालावस्थायि पर्यायाश्चवार्त्तमानिकाः द्रव्यमाधारः पर्यायाचाधेयाः तस्मान्नसर्वथाऽभिन्नः किन्तुभिन्नः नचसर्वथाभिन्नः कथञ्चिदमिन्नोऽपि यावता तएवपरमाणवः संयोगरूपतयापारणमन्ति पृथग्भूतएतावता अभेदोऽपि । कक्षीकृतमेवेति पतावतात्वयापि कथञ्चित्पक्षोऽनीकृतः। सम्बन्धनिबन्धनशक्ति- स्वरूपइति । संयोगनिमित्तघटोत्पादनसामर्थ्यस्वरूपः । नपाच्येप्रसङ्गइति भनि- प्टापादनं हि प्रसङ्गः तदभ्युपगमादिति सांशताङ्गीकारात् । तत्तच्छक्तिमात्रेणैवेति इतरपरमाणुसम्बन्धनशक्तिः। तत्तत्परमाणुसम्बन्धस्य प्रतिषेधुमशक्यत्वादिति - नपुनः संयोगः टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्तः ५७ तैस्तैः परमाणुभिः सहविवक्षितपरमाणोर्यः सम्बन्धः सप्रतिषेधुमशक्यः केन सा सायाशक्तिस्त- स्परमाणुसम्बन्धलक्षणा तन्मात्रण कार्थः शक्तिरूपण सावयवतास्ति न साक्षात् कथमन्यथा पश्चादाप इतरपरमाणुसम्बन्ध सावयवता स्यात् क्रोडीकृतचञ्चुमखपक्षाद्यवयवाण्डकरसन्या- येन । कथञ्चिदनेकरूपत्वादिति नचैतत्तन्त्रान्तरीयैः सह बिरुद्धं वैशेषिकैरापि एकस्मिन्न- न्यवयवावाने बहूनां खण्डावयविनामङ्गीकारात् । शाब्दानुमाने त्रैकालिकस्यापीति साध्यसाधनयाहिप्रतिबन्धं मनसिनिश्चित्यानुप्रयोक्तात्रिकालवेदी भवति। निराकारश्चै- तवयमपीति तद्ग्रहणपरिणामश्चेदाकारस्तदभ्युपगच्छामः । निरस्ताशून्यतेत्यादि पद्यनिरस्तामया । कौतुकालोकनोत्सुक इति त्वयाहे शून्यं सर्वमिति कृत्वा नेत्रेनि- मीलिते तञ्चन यतः सर्वाऽपिदिशो वसन्ति । (रत्ना०)-अथ ब्रह्मवादिवावदूका वदन्ति । युक्तं यदेष सकलापलापी- पापीयानपास्तः आत्मब्रह्मणस्तात्त्विकस्य सत्त्वात् । नच सरलसालर- सालप्रियालहिन्तालतालतमालप्रवालप्रमुखपदार्थसार्थोप्यहमहमिकया प्र- तीयमानः कथं न पारमार्थिकः स्यादिति वक्तव्यं तस्य मिथ्यारूपत्वात्। तथाहि प्रपञ्चो मिथ्या प्रतीयमानत्वाद्यदेवं तदेवं यथाशुक्तिशकलेकल- धोतं तथाचायं तस्मात्तथा (टि०)- नच सरलेत्यादि तस्येति तालतमालादितरुणतरतरुपर्वता. दिपदार्थसार्थस्य । (स्त्रा०)-तदेतदेतस्य न तर्कवितर्ककार्कश्यं सूचयति । तथाहि मिथ्यात्वमत्रकीदृक्षमाकाहितं सूक्ष्मदृशा किमत्यन्तासत्त्वमुतान्यस्या- न्याकारतया प्रतीतत्वमाहोखिदनिर्वाच्यत्वमिति भेदत्रयीत्रिनेत्रनेत्र- त्रयीव चौकते । प्राचिपक्षद्वये त्वदनङ्गीकारा परीहारः । तार्तीयीकविक- ल्पेतु किमिदमनिर्वाच्यत्वं नाम किं निरुक्तिविरह एव निरुक्तिनिमित्त- विरहो निःस्वभावत्वं वा। न प्रथमः कल्पः कल्पनाहः । सरलोयं सालो- यमिति निश्चितोक्तेरनुभवात् । नापिद्वितीयः निरुक्तेहिनिमित्तं ज्ञानं वा स्यात् विषयो वा। न प्रथमस्यविरहः सरलसालादिसंवेदनस्य प्रतिमाणि- प्रतीतेः । नापिद्वितीयस्य यतो विषयः किंभावरूपो नास्त्वभावरूपोवा प्रथमकल्पनायामसत्ख्यात्यभ्युपगमप्रसङ्गः। द्वितीयकल्पनायान्तु सत्- FARMINodla HAINEERTAN ५८ प्रमाणनयतत्त्वालाकालंकारः ख्यातिरेव उभावपि नस्त इतिचेत् । ननु भावाभावशब्दाभ्यां लोकमती- तिसिद्धौ तावभिप्रेतौ विपरीतौ वा । प्रथमपक्षे तावद्यथोभयोरेकत्र विधिर्नास्ति तथाप्रतिषेधोपि परस्परविरुद्धधर्मयोर्मध्यादेकतरविधिनिषे- धयोरन्यतरनिषेधविधिनान्तरीयकत्वात् । द्वितीयपक्षेतु नकाचित् क्षतिर्नोलौकिकविषयसहस्रनिवृत्तावपि लौकिकज्ञानविषयनिवृत्तिस्तन्नि- क्तिनिवृत्तिर्वा निःस्वभावत्वपक्षेपि निस प्रतिषेधार्थत्वे स्वभावशब्द- स्यापि भावाभावयोरन्यतरार्थत्वे पूर्ववत्प्रसङ्गः । प्रतीत्यगोचरत्वं निःस्व- भावत्वमिति चेदत्र विरोधः प्रपञ्चो न प्रतीयते चेत्कथं धम्मितया प्रतीय- मानत्वं च हेतुतयोपाददे । तथोपादाने वा कथं न प्रतीयते । यथाप्रती- यते न तथेतिचेत् तर्हि विपरीतख्यातेरभ्युपगमः स्यात् किञ्चयमनिर्वाच्यता- प्रपञ्चस्य प्रत्यक्षेण प्रत्यक्षेपि सरलोयमित्याद्याकारं हि प्रत्यक्षं प्रपञ्चस्य सत्यतामेव व्यवस्यति सरलादिप्रतिनियतपदार्थपरिच्छेदात्मनस्तस्यो- त्पादादितरेतरविविक्तवस्तूनामेव च प्रपञ्चवचोवाच्यत्वेन सम्मतत्वात् । अथकथमेतत्सत्यक्षं पक्षप्रतिक्षेपकं तद्धिविधायकमवेति तथातथाब्रह्मैवविद- धाति न पुनः प्रपञ्चसत्यतां प्ररूपयति साहि तदापरूपितास्याद्यदीतरस्मि- नितरेषां प्रतिषेधः कृतः स्यात् नचैवं निषेधेकुण्ठत्वात्प्रत्यक्षस्योतिचेत् तद- युक्तं यतो विधायकमिति कोर्थः इदमिति वस्तुस्वरूपं गृह्णाति न्यायस्व. रूपं प्रतिषेधति प्रत्यक्षमिति चेन्मैवं अन्यरूप निषेधेमन्तरेण तत्स्वरूपपरि- च्छेदस्याप्यसम्पत्ते पीतादिव्यवच्छिन्नं हि नीलं नीलमिति गृहीतं भवति। नेतरथायदेदमिति वस्तुखरूपमेव गृह्णाति प्रत्यक्षमित्युच्यते। तदाऽवश्यमप- रस्त्र प्रतिषेधयपि तत्प्रतिपद्यत इत्यभिहितमेव भवति केवलवस्तुस्वरूपपति- पत्तेरेवान्यप्रतिषेधपतिपत्तिरूपत्वात् । अपिचविधायकमेव प्रत्यक्षमिति निय- मस्याडीकारेविद्यावदविद्याया अपि विधानंतवानुषज्यते सोयमविद्याविवे- केन सन्मात्र प्रत्यक्षात्पतियन्नेव न निषेधकं तदिति ब्रुवाणः कथंस्वस्थ- (1) विपरीताख्यातिरियमभ्युपगता स्यात् इत्यापाठान्तरा।
टि. पं. हृयोपेतरत्नाकरावतारिकायुक्तः इतिसिद्धं प्रत्यक्षबाधितः पक्षइति । अनुमानबाधितश्च प्रपञ्चो मिथ्या- नभवत्यसद्विलक्षणत्वाद्यएवं सएवं यथात्मा तथाचायं तस्मात्तथति प्रतीयमानत्वंचहेतुर्ब्रह्मात्मना व्यभिचारी सहि प्रतीयते । नचमिथ्या अप्रतीयमानत्वेत्वस्य. तद्गोचरवचनानामप्रवृत्तेर्मूकतैव तत्र वः श्रायसी स्यात्। दृष्टान्तश्च साध्यविकलःशुक्तिशकलकलधौतेपिप्रपञ्चान्तर्गतत्वेना- निर्वचनीयतायाः साध्यमानत्वात् किञ्चेदमनुमानं प्रपञ्चाद्भिन्नमभिन्नं वा। यदि भिन्नं तर्हि सत्यमसत्यं वा । यदि सत्यं तर्हि तददेव प्रपञ्चस्यापि सत्यत्वं स्यात् । अथासत्यं तत्रापि शून्यमन्यथाख्यातमनिर्वचनीय वा । आद्यपक्षद्धयेपि न साध्यसाधकत्वं नृशृङ्गवच्छुक्तिकलधौतवच्च । तृतीयपक्षोप्यक्षमः। अनिर्वचनीयस्यासम्भवित्वेनाभिहितत्वात् । व्यव- हारसत्यमिदमनुमानमतो ऽसत्यत्त्वाभावात् स्वसाध्यसाधकमिति चेत् किमिदं व्यवहारसत्यं नाम व्यवहतिर्व्यवहारो ज्ञानं तेन चेत्सत्यं तर्हि पारमार्थिकमेव तत्तत्र चोक्तोदोषः । अथव्यवहारः शब्दस्तेन सत्यं । ननु शब्दोपिसत्यस्वरूपस्तदितरोवा । यद्याद्यस्तर्हि तेन यत्सत्यं तत्पारमार्थि कमेवति तदेवदूषणम् । अथासत्यस्वरूपः शब्दः कथं ततस्तस्य सत्यत्वं नाम नहिस्वयमसत्यमन्यस्य सत्यत्वव्यवस्थाहेतुतिप्रसङ्गात् । अथ कूटकार्षापणे सत्यकार्षापणाचितक्रयविक्रयव्यवहारजनकत्वेन सत्त्यकार्षा. पणव्यवहारवदसत्येप्यनुमाने सत्यव्यवहारइतिचेत् तीसत्यमेव तदनु- मानं तत्रचोक्तोदोषः । अतो न प्रपञ्चाद्भिन्नमनुमानमुपपत्तिपदवीमापे- दानम् । नाप्यभिन्नं प्रपञ्चस्वभावतया तस्यापि मिथ्यात्वप्रसक्तेमिथ्यारूपं च तत्कथंनामस्वसाध्यं साधयेदित्युक्तमेव एवंच प्रपञ्चस्यमिथ्यात्वासिद्ध कथंपरमब्रह्मणस्तात्विकत्वं स्याद्यतोबाह्यार्थाभावो भवेदिति । (टि०)-तदेतदिति एतद्वयवहारप्रतिपन्नपदार्थसार्थस्य मिथ्यानरूपणेन कदर्थनम् एतस्यति ब्रह्मवादिनः किन्तुवावदूकतामेव वेदयति नप्रथमस्यति ज्ञानस्य नद्वितीयस्यति विषयस्य विरहइति सम्बन्धाननुभावत्यादि ताविति भावाभावी विपरीताविति अलौकिको प्रतिषेधाति नास्तीति शेषः परस्प- १ श्रेयसा इत्यपिपाठः ।
प्रमाणनयतरवालाकालंकार: रेति भावाभावयो:नान्तरीयति अविनाभावित्वात् तन्निरुक्तीतिलौकिकनि- श्चितोक्तिनिषेधः निसइति षष्ठ्यन्तंपदं कलापकनिरितिसिद्ध स्वभावेति भाव- स्वरूपोऽभावस्वरूपो वा स्वभावः। अन्यतरेति भावाभावयोर्मध्यादेकनिषे- धेपरेण भवितव्यं तथोपादानइति धम्भित्वोपादाने यतःप्रसिद्धएवहि धर्मी क्रियते प्रत्यक्षेपीति निराकारि तस्येति प्रत्यक्षस्य वाच्यत्वेनेति घटादिवि- वर्तरूपेण पक्षेति प्रपत्रोमिथ्याइत्येतस्य पक्षस्य तद्धीति प्रत्यक्षं विधाय- कमिति ब्रह्मलक्षणप्रकृतपक्षजनकमेव तथातथेति प्रत्यक्षं कर्तृ तेनतेन प्रकारेण विचार्यमाणं ब्रह्मैवकर्मतापन्नं साहीति प्रपञ्चसत्यता तथेति नि- षिद्धा भवेत् यदीतरस्मिन्निति सरले इतरेषामिति तमालादीनां नचैव- मिति प्रत्यक्षेण प्रतिषेधो नकृतः प्रत्यक्षस्य निषेधकुण्ठत्वात् तदाऽवश्य- मित्यादि तदिति प्रत्यक्ष प्रतिपद्यतइति मुण्डभूतले घटाभावग्रहण- वत् येनाहि पदास्खलनादिना मुण्डभूतलं गृहीतं घटाभावोपि तेन गृहीता, केवलेति प्रतिपत्तेज्ञानस्यैव विवेकनेति निरासेन प्रतियनिति जानन प्रतिपूर्वकः इण्गतौ प्रत्येतीति शतृप्रत्ययःगमनार्थाधातवः सर्वेपि ज्ञानार्थी इति वचनादवगच्छन्नित्यर्थः तदिति प्रत्यक्षं प्रपञ्चो मिथ्येत्यादि सहीति ब्रह्मात्मा अस्योति ब्रह्मात्मनः तद्गोचरेति ब्रह्मविषयः तद्वदेवेति सत्यानुमानवदेव प्रतीयमानत्वादेव हेतोर्यथाऽनुमानमिदं सत्यं तथाप्रपञ्चोपि प्रतीयमानत्वादेव सत्योपस्त्वित्यर्थः नृशृङ्गति शून्यत्वे नृशृङ्गदृष्टान्तः अन्यथाख्यातत्वे शुक्तिशकले कलधौतमिति निदर्शनं तत्तत्रचोक्तदोष- इति प्रपश्चसत्यतालक्षण: यद्यनुमान व्यवहारसत्येन सत्यव्यवहारसत्येनप्रप- श्रोपि सत्यः स्यात् इतिभावार्थः तदितरइति सत्यादितरोग्लीक इत्यर्थः तदे. वेति प्रपञ्चसत्यतालक्षणम् ततइति शब्दात् तस्येत्यनुमानस्य आपेदानमिति प्रपेदे तस्येति अनुमानस्य तदित्यनुमानम् । (५०)-कथं धर्मितया प्रतीयमानत्वं च हेतुतयोपाददइति प्रसिद्धएव हि धर्मी क्रियते । प्रत्यक्षपीति प्रतिक्षिप्ता । तद्धिविधायकमवति आहुर्विधातृप्रत्यक्षं न निषे- अधिपश्चितः नेकत्वआगमस्तेन प्रत्यक्षेण प्रवाध्यते । तथातथेति घटादिविवत्र्तरूपेण ब्राझै- टि. पं. इयोपेतरत्नाकरावतारिकायुक्तः ६१ यति कर्मतापन्नब्रह्म अन्यप्रतिषधे प्रतिपत्तिरूपत्वादिति । मुण्डभूतले घटाभाव ग्रहणवत् येनहि पदास्खलनादिना मुण्डभूतलं गृहीतं घटाभावोऽपि तेन गृहीतः। नृशृङ्गब- दिति शून्यम् । शुक्तिकलधौतवदिति अन्यथाख्यातम् । प्रमाणत्वाभिमतज्ञानस्य स्वव्यवसायीति विशेषणं व्याख्यान्ति । मू०-स्वस्य व्यवसायः स्वाभिमुख्येन प्रका- शनं बाह्यस्येव तदाभिमुख्येन करिक- लभकमहमात्मनाजानामीति । (रत्ना०)-यथाबाह्याभिमुख्येन बाह्यानुभवनेन प्रकाशनं बाह्यव्यवसायो ज्ञानस्य तथास्वाभिमुख्येन प्रकाशनं खव्यवसायः अत्रोल्लेखः करिकलभक मित्यादि । यथाकरिकलमकमितिप्रमेयस्याहमिति प्रमातुर्जानामांति प्रमितेः प्रतिभासस्तथात्मनेति प्रमाणत्वाभिमतज्ञानस्याप्यस्त्येवेति भावः। (टि०) प्रमितेरिति परिच्छेदस्य प्रमाणवेति स्वपरव्यवसायिनः । खव्यवसायमेव स्पष्टदृष्टान्तप्रकटनेन निष्टकयन्ति । मू-कःखलुज्ञानस्यालम्बनं बाह्यं प्रतिभात- मभिमन्यमानस्तदापि तत्प्रकारं नाभि- मन्येत मिहिरालोकवदिति । (रत्ना०)-तदपीति ज्ञानमपि। तत्प्रकारमिति स प्रतिभातत्वलक्षणः प्रकारः प्रतिनियतं स्वरूपं यस्य तत्तत्प्रकारं प्रतिभातमित्यर्थः । यथैवहि गिरिनगरगहनादिकं मिहिरालोकस्य विषयं प्रतिभातमभिमन्यमानैर्मि- हिरालोकोपि प्रतिभातोमिमन्यते लौकिकपरीक्षकैस्तद्वदज्ञानस्य विषय कुम्भादिकं प्रतिभातममिमन्यमानस्तानमपि प्रतिभातं स्वीकर्तव्य- मिति ।
प्रमाणनयतत्त्वालोकालंकारः (रत्ना०)--अत्रेयं भट्टचट्टघट्टना। ननु न खसंवेदनं वेदनस्य सुन्दरं स्वात्मनि क्रियाविरोधादित्यस्य पारोक्ष्यमेवालणं कक्षीकरणीयं तदेतदरमणीयं । यतः किमुत्पत्तिईप्तिास्वात्मनि विरुध्येत । यद्युत्प- त्तिः साविरुध्यतां नहिज्ञानमात्मानमुत्पादयतीति वयमध्यगीष्महि । अथ ज्ञप्तिर्नेयमात्मनि विरोध मदीधरत्तदात्मनैव ज्ञानस्य खकारण- कलापादुत्पादात् प्रकाशात्मनेव प्रदीपकलिकालोकस्य । अथप्रकाशात्म- नैव प्रदीपालोकोयमुदयामाशिवानिति परप्रकाशकोस्तु आत्मानमप्ये- तावन्मात्रेणैव प्रकाशयतीतितु कौतस्तुतीनीतिरिति चेत्तत्किं तेन प्रका- शितनैव वराकेण स्थातव्यमालोकान्तरादा प्रकाशेनास्य भवितव्यं । प्रथमे प्रत्यक्षबाधा द्वितीयेपि सैवानवस्थापत्तिश्च । अथनासौ स्वमपेक्ष्य कर्मतया चकास्तीत्यस्वप्रकाशकः स्वीक्रियते प्रकाशरूपतया तूत्पन्न- खात् स्वयंप्रकाशतएवेति चेदनेनैव सुधामद्धि। नहि वयमपि ज्ञानकर्म- तयैव प्रतिभासमानं स्ववेद्यमावेदयामहि । ज्ञानंस्वयं प्रतिभासतइत्यादा- वकर्मकस्य तस्य चकासनात्। यथानुज्ञानञ्जानामीतिकर्मतयापि तद्भाति तथाप्रदीपः स्वप्रकाशयतीत्ययमपि तथाप्रथतएक अथावयवैरालोकावयवी प्रकाश्यत इत्यस्वप्रकाशक एवायमिति चेत् ननुतेपिकेन प्रकाशनीयाः। अवयानोति चेत् नन्वऽमीषां परस्परगोचरज्ञानजनने सहकारित्वमेव तावत्प्रकाशकत्वमुच्यते । तच्चामीषामज्ञातानां ज्ञातानां वा स्यात् । नाज्ञातानामेवं ह्यनालोकित एव प्रदीपकुमलालोकोपि कदाचित्कलश- कुलिशादीन् ज्ञापयेत् । ज्ञातानाञ्चेदितरेतराश्रयापतिआता खल्ववयवा अवयविनं ज्ञापयेयुः सोपिच ज्ञातएव तान ज्ञापयेदिति। अथ तेषामप्य- वयवानामवयवित्वानिजावयवैज्ञप्तिः करिष्यते तदानीमनवस्था अथ- पर्यन्ते केचिदवयवाः स्वयमेवात्मानं ज्ञापयेयुस्तहि ज्ञानमपि स्वय- मेवात्मानं निश्चिनोतीति किनकक्षीकुरुषे । कथंचपारोक्ष्ये ज्ञानस्य ज्ञानं. स्यात् । अन्यथानुपपद्यमानार्थप्राकट्यरूपार्थसमुत्थापितार्थापत्तेरिति- चेत् । ननु तदर्थप्राकट्यमात्मधर्मोज्ञानधर्मो ऽर्थधर्मों वा भवेत् ।
टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्त. नाद्यः प्रकारः प्रभाकरकक्षापञ्जरप्रवेशप्रसङ्गात् । नरैतीयीकः ज्ञानस्य. क्षणिकत्वेन तत्क्षणएव क्षीणत्वादुपरितनक्षणोत्पदिष्णास्तस्य तद्धर्मत्व- विरोधात् नापितार्तीयीकस्तथात्वेहि चैत्रस्येव मैत्रस्यापि सपदार्थः प्रकटः स्यात् । अथ यस्यैव ज्ञानेन जनयाम्बभूवे ऽसौ तस्यैव तत्प्रकटनं तदुर्घटं घटस्य प्रतिनियतप्रमातृप्रबोधितप्रदीपाङ्गुरप्रकटितस्याप्यनियतेद- र्शनात् तन्नियमानुपपत्तेः । अस्तुवैतत्तथाप्ययमर्थधर्मोजडश्चिद्रूपो वा भवेत् । यदिजडः कथमर्थदर्शनं स्यात् । अर्थदर्शनं ह्यर्थदृष्टिरर्थज्ञप्ति- रुच्यते जंडत्वेतु प्राकट्यस्य कथमिदं घटेत ज्ञानप्रमाणशब्दयोश्चैवं सामानाधिकरण्यमसूपपादं यतोज्ञायते ज्ञप्तिजन्यते येन तत् ज्ञानमाम्ना- यते प्राकट्यस्यचजडत्वेनाज्ञप्तिरूपत्वे कथंतञ्जनकंप्रमाणं ज्ञानं व्यप- दिश्येत चिद्रूपश्चेत् स्वसंवेद्योवेदनान्तवेद्यो वा यदि स्वसंवेद्यस्ताह. कृतश्च शीलविध्वंसोनचानङ्गःशमङ्गतइतिन्यायः समायातः स्वात्मनिकि- याविरोधाद्विज्ञाने स्वसंवित्तिप्रतिक्षेपपातकं कृत्वापि प्राकटये तस्याः स्वयं स्वीकारात् । वेदनान्तवेद्यत्वं पुनरस्य कुतस्त्यं । तथाहि किमयं यावदर्थ यावदक्षव्यापारं वा ऽवतिष्ठेत ज्ञानवत्क्षणिको वा भवेत् । नाद्यः पक्षः पदार्थमालोक्य निमीलितलोचनोत्पलयुगलस्य प्रकटतत्प्रतीति प्रसक्ते नद्वितीयोऽक्षादिव्यापारस्य ज्ञानोत्पत्तिमात्रे व्यापारात् प्राकट्यस्य तदपेक्षानुपपत्तेः नापितृतीयः क्षणजातनष्टस्य वेदनान्तरेण वदितुम- शक्यत्वाद्धेदनेतु द्वित्रिक्षणावस्थिति प्रसक्तेः तन्न तबेदनमवदातं यतो ऽर्थापत्तिरुल्लसेदिति । (टि०)--अथज्ञप्तिरित्यादि तदात्मनेति ज्ञप्तिस्वरूपेणैव प्रकाशात्मनति प्रकाशस्वरूपेणैव आशिवानिति अशोटिव्याप्ती आत्मनेपदमनित्यमिति न्यायात् क्वसकानाविति क्वसप्रत्ययः एतावन्मात्रेणेति पदार्थप्र- काशनकारणसामग्येण किंतेनेतिपदीपेन आलोकान्तेति दीपवन्नोपपद्यत विश्ववस्तुप्रकाशनं अनात्मवेदनेज्ञानेजगदान्ध्यं प्रसज्येते अस्येति प्रदीपा- १ जडत्वेन इत्यापिपाठः।
४ प्रमाणन यतत्त्वालोकालंकार: लोकस्य अमाविति प्रदीपालोकः कर्मतयेति यथादीपो दीपञ्जानाति तस्यति ज्ञानस्य ननुतंपीति अवयवाः नन्वमीषामिति अवयवानाम- वयविनश्च अवयवप्रकाशमन्तरेणावयव्यप्रकाशकः अवयवप्रकाशाइते अवयवानिस्तेजस्काः अतएवसहकारित्वं तच्चेति प्रकाशनं अमीषामित्य- वयवानां कयञ्चेत्यादि पारोक्ष्यति ज्ञानस्य परोक्षत्वङ्गीकृते सति ज्ञानमेवकथं ज्ञायतइत्यर्थः अन्यथेति अन्यथा ज्ञानाविनाभाविनी उपपद्यमाना पदार्थप्राक- व्यलक्षणाअर्थेन कार्येण निष्पादिताया अर्थापत्तिस्तस्याः प्रभाकरोति प्राकटय- स्थात्मधर्मत्वं प्रभाकरैराश्रियेत नभः ज्ञानस्यक्षणिकत्व इति मीमांसकाहि ज्ञानं क्षणिकमभ्युपगच्छेयुः उपरितनेति द्वितीयक्षणात्पत्तिशीलस्य तस्य विनष्टस्य ज्ञानस्य धर्मस्तद्धर्मस्तस्य भावस्तत्वम् तस्यति अर्थप्राकट्यस्य तद्धर्मवेति ज्ञानधर्मत्वेविरोधात् तथात्वइति अर्थधर्मत्वे अथयस्येत्यादि असाविति अर्थप्राकटयरूपोऽर्थधर्मः कथमिति अर्थदर्शनं तजनकमिति प्राकट्य जनकं यतः कारणानुमानेन कार्यकार्यानुमानतः कारणमनुमीयते ज्ञानं तावद् ज्ञानरूपोत्पादकमेव जाघहि नजडजनकं विरोधप्रतिबन्धात् स्वात्मनीति तस्याइति स्ववित्तेः अस्येति अर्थधर्मस्य तथाहीत्यादि अय- मिति अर्थधर्मः तत्प्रतीतीति पदार्थप्रतीतिप्रसङ्गात् तदपक्षेति तस्याक्षव्या- पारस्यापेक्षातयाऽनुत्पादात् तद्भेदनमिति क्षणिकस्यार्थप्राकट्यस्य ज्ञानम्। (५०)-यतउत्पत्तिज्ञप्तिर्वा स्वात्मनि विरुद्ध्यतइति क्रियाविरोधादिति डाक्तमत- सतामेवोपजीव्यचर्च यति । तथाप्रदीपः खंप्रकाशयतीत्ययमपि तथाप्रथतएवेति तथाकर्म तया, तस्य तद्धमत्वविरोधादिति तस्य अर्थप्राकट्यस्य । तस्य विनष्टस्य ज्ञानस्यधर्मस्तद्धर्मस्तभावस्तस्मात् । (रत्ना) अथ यौगाः सङ्गिरन्ते । अहो आईता नास्मिन्मीमांसके वराके व्यपाकृतेपि संवेदने स्वसंवेदनदोहदः पूरयितुंपार्यते तथाहि ज्ञानं स्वान्यप्रकाश्यमीश्वरज्ञानान्यत्वे सति प्रमेयत्वाद्यदेवं तदेवं यथा घट. स्तथाचेदन्तस्मात्तथा समुत्पन्नं हि ज्ञानमेकात्मसमवेतान्तरसमयसमुत्प. दिष्णुमानसप्रत्यक्षेणेव लक्ष्यते न पुनः स्खेन नचैवमनस्थावल्लेकल्लासः । ।
टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्त ६५ अर्थावसायिवेदनोत्पादमात्रेणेवार्थसिद्धेस्तद्धि पदार्थपरामर्शस्वभावमे- वेत्युत्पन्नमात्रमेव पदार्थप्रथामनोरथरथास्थितं कृतार्थयति प्रमातारं अर्थज्ञान जिज्ञासायां तु तत्रापि ज्ञानमुत्पद्यतएवेति तदेतदेतेषां मतेस्तरल- तां तनोति । प्रकटितप्रयोगेपक्षस्यानुमानेन मानखण्डनात्तथाच ताव. काकूतेन तत्रहेतोः कालात्ययापदिष्टत्वनिष्टङ्कनाच तथाहिविवादास्पदं ज्ञानं स्वसंविदितं ज्ञानवादीश्वरज्ञानवत् वाद्यसिद्धमेतन्निदर्शनं जैनैरी- श्वरासीकारेण तज्ज्ञानस्यतेषामप्रसिद्धरितिवेत्तदचतुररस्त्रमनवद्यविद्या. विद्यावरीबन्धुरपरिष्वङ्गस्य पुरुषातिशेषविशेषस्य खण्डपरशोःस्वीकारात् त्रिविष्टपघटनलंपटपटिम्नः सकलावलोकनकौशलशालिन एवत्रास्यतिर- स्कारात् व्यर्थविशेष्यश्चात्रहेतुः समर्थविशेषणोपादानेनैव साध्यसिद्धे धूंमध्वजसिद्धौ धूमवत्वेसति द्रव्यवादितिवत् नहीश्वरज्ञानादन्यत् स्वसं. विदितमप्रमेयं चास्ति यदपोहाय प्रमेयत्वादिति क्रियेत अप्रयोजकश्चायं हेतुः सोपाधिकत्वात् साधनाव्यापकः साध्येनसमव्याप्तिकः खलूपाधिर- भिधीयते तत्पुत्रवादिना श्यामत्वे साध्ये शाकाद्याहारपरिणामवत् । कापुनरुपाधिरत्रसूक्ष्मेक्षणैरीक्षाञ्चक्रेइति चेदुच्यते निविडजडिमनजडिम- लक्षणः । तथाहीश्वरज्ञानान्यत्वे प्रमेयले सत्यपि यदेवजडिमपात्रं पात्रादि तदेव स्वस्मादन्यनैव प्रकाश्यते । वप्रकाशेपरमुखोत्प्रेक्षित्वं हि जडस्य लक्षणं नच ज्ञानं जडस्वरूपमिति सिद्ध साधनाव्यापकत्वं जाड्यस्य साध्येन समव्याप्तिकत्वं चास्य स्पष्टमेव । जाइयं विहाय स्वप्रकाशाभावस्य तञ्च त्यक्त्वा जाड्यस्य क्वचिदप्यदर्शनादिति । (टि०)-अर्थावसायीत्यादिअर्थसिद्धेरिति नाहिपूर्वज्ञानं जातमेव अकार्य- साधकं सदपि प्रमाणामिति वयं मन्यामह किन्तुकार्यसाधकमेव प्रमाणं तद्धीति अर्थावसायिवेदनं तत्रापीति एकात्मसमवेतज्ञाने पूर्वज्ञान में घटाकारमुत्पन्नमिति ज्ञानं ज्ञानान्तरेण वेचते नतुस्वनैव तजज्ञानस्येति ईश्वरवंदनस्य तेषामिति जनानां अस्येतीश्वरस्य तत्पुत्रत्वादिनेत्यादि सश्यामस्तत्पुत्रत्वात्दृश्यमानतादतरपुत्रवत् अत्रसाधने शाकाद्याहारपरि- SHARTI B ६६ प्रमाणनयतत्त्वालोकालंकारः णामलक्षणस्य उपाधेः प्रवेशप्रबन्धः सुदुःप्रतिषेधः स्यात् साध्यं श्यामत्वं ध्याप्तं तेन तमन्तरेण श्यामत्यासम्भवात् तत्पुत्रत्वन्तु साधनं नव्याप्तं यत्तत्- तनयाअपरेगौरकायाअपि प्रेक्ष्यन्ते कापुनरित्यादि अत्रेति ईश्वरज्ञानान्यत्वे सतिप्रमेयत्वादित्येवं रूपे अस्यति उपाधेः शाकाद्याहारपरिणाम उपाधिः नहियेयेतत्पुत्रास्तेषांसर्वेषामपि शाकाद्याहारपरिणाम इति साधनाध्यापकः यत्रयनश्यामत्वंतत्रतत्र शाकाद्याहारपारणामः यत्र यत्र शाकाद्याहारपरि- णामस्तत्र तत्रश्यामत्वमिति साध्येन समवाप्तिक: तमिति स्वप्रकाशाभावं तदुत्पादेति संवेदनोत्पत्तिप्रतीतेः। (५०)-नचैवमनवस्थावल्लेकल्लास इति यथाकेलार्थज्ञानं मानसप्रत्यक्षेण चात- मेवं तदप्यन्येन तदप्यन्येनेत्यनवस्था। पदार्थप्रथामनोरथस्थितमिति प्रथाशब्देन प्रकाशनम् । अनुमानेनेति प्रत्यनुमानेन । तथाचेति प्रत्यनुमानं बाधितत्वे. तत्रति प्रकटितप्रयोगे । तजज्ञानस्येति इश्वरशानस्य । अनवद्यविद्याविद्याधरीत्यादि गधे विद्याशब्देनात्र केवलज्ञानं नपुनर्गिरिजतनयाश्लेषविश्लेषलालसस्य, व्यर्थविशेष्यइति प्रमेयत्वादित्ययं हेतुः। अन्यत्स्वसंविदितमप्रमेयमिति भवन्मते सर्वस्यापि ज्ञानस्य प्रमेयत्वात् । साधनाव्यापकः साध्येनसमव्याप्तिकः खलूपाधिरमिधीयते इति यथातत्पुत्रत्वादिना श्यामत्वेसाध्ये शाकाद्याहारपरिणामउपाधिः । नहि ये ये तत्पुत्रा- स्तेषां सर्वेषामापे शाकाद्याहारपरिणामः यत्रयत्र शाकाद्याहारपरिणामः । तत्पुत्रत्वमपि भवि- ज्यात केषाञ्चिच्छाकाद्याहारपारणामश्च नभविष्यति इति साधनाव्यापकः येये श्यामास्तेषां तेषां शाकाद्याहारपरिणामः यत्रयत्र श्यामत्वं तत्रतत्र शाकाद्याहरपरिणाम: यत्रयत्र शाकाद्या- हारपारिणामस्तत्रतत्र श्यामत्वमिति साध्यन समव्याप्तिकः । (रत्रा०) यच्चोक्तं समुत्पन्नं हि ज्ञानमेकात्मसमवतेत्यादि तदपि नावितथमित्थमर्थज्ञानतज्ज्ञानयोरुत्पद्यमनयोः क्रमानुपलक्षणात् । आशूत्पादादत्र क्रमानुपलक्षणमुत्पलपत्रशतव्यतिभेदवदिति चेत्तद- चारु जिज्ञासाव्यवहितस्यार्थज्ञानज्ञानस्योत्पादप्रतिपादनात् नच जि- ज्ञासासमुत्पाद्य संवेदनानां सङ्गच्छते। अजिज्ञासितेष्वपि योग्य- देशेषु गोचरेषु तदुत्पादप्रतीतर्नचायोग्यदेशमर्थज्ञानमात्मसमवेतस्यास्य समुत्पादादिति जिज्ञासामन्तरेणैवार्थज्ञान ज्ञानोत्पादप्रसङ्गः । बाढमुत्प- द्यतां नामेदं कोदोषइतिचेत् नन्वमेव तज्ज्ञानज्ञानप्यपरज्ञानोत्पाद- टि. पं. द्वयोपेतरत्नाकरावतारकायुक्तः ६७ प्रमङ्गः । तत्रापि चैवमैवायमित्यपरापरज्ञानोत्पादपरम्परायामेवात्मनो व्यापारान्नविषयान्तरसञ्चारः स्यादिति न ज्ञानस्य ज्ञानान्तरज्ञयतापि युक्तिमार्गमवगाहते । (टि०)-नचायोग्यति न विद्यते योग्योदेशोऽस्य तत् अस्येति ज्ञानस्य ज्ञानस्येत्यादि प्रमेयमव्यभिचारि यत्र तत्तस्यभावः अनभ्यासदशायामि- त्यादि तदिति सम्वादकबाधकज्ञानम् । प्रमाणं विवेच्यास्यैव प्रामाण्यस्वरूपंधर्ममाविष्कुर्वन्ति । मू०-ज्ञानस्यप्रमेयाव्यभिचारित्वं प्रामाण्य- मिति। (रत्ना०)-प्रमीयमाणार्थाव्याभिचरणशीलवं यज्ज्ञानस्य तत्यामाण्य- मित्यर्थः। प्रसङ्गायातमप्रामाण्यरूपमपि धर्म प्रकटयन्ति । मू-तदितरत्त्वप्रामाण्यमिति । (रत्ना०)-तस्मात्प्रमेयाव्यभिचारित्त्वादितरत्प्रमेयव्यभिचारित्व- मप्रामाण्यं प्रत्येयं । प्रमेयव्याभिचारित्वं च ज्ञानस्य स्वव्यतिरिक्तग्राह्यापेक्ष- यैव लक्षणीयं स्वास्मिन्व्यभिचारस्यासम्भवात् तेन सर्वे ज्ञानं स्वापेक्षया प्रमाणमेव न प्रमाणाभासं बहिरर्थापेक्षयातु किञ्चित् प्रमाणं किञ्चित्त- माणाभासम् । (५०-सस्मिन् व्याभिचारस्यासम्भवादिति संशयविपर्ययादीनामपि स्वसि- अथोत्पत्तो स्वनिश्चये च ज्ञानानां स्वतएव प्रामाण्यमप्रामाण्यन्तु परतएव यजमिनीयाजगुस्तन्निराकुर्वन्ति । षये प्रमाणत्वात् । मू०-तदुभयमुत्पत्तौ परतएव ज्ञप्तौतु स्वतः परतश्चेति।
६८ प्रमाणनयतस्वालोकालंकारः (रत्ना०) अत्र ल्यप्लोपे पञ्चमी परं वं चापेक्ष्यत्यथः । ज्ञानस्याहे. प्रामाण्यमप्रामाण्यं च द्वितयमपि ज्ञानकारणगतगुणदोषरूपं परमपेक्ष्या- त्पद्यते । निश्चीयते स्वभ्यासदशायां स्वतो ऽनभ्यासदशायां तु परत. इति । तत्र ज्ञानस्याभ्यासदशायां प्रमयाव्यभिचारि तदितरच्चास्मीति प्रामाण्याप्रामाण्यनिश्चयः । सम्बादकबाधकज्ञानमनपेक्ष्य प्रादुर्भवन स्वतोभवतीत्यभिधीयते । अनभ्यासदशायान्तु तदपेक्ष्य जायमानोऽसी परतइति । अत्रैवं मीमांसका मीमांसामांसलतां दर्शयन्ति । स्वतएव सर्वथाप्रमाणानां प्रामाण्यं प्रतीतिकाटिमाटीकते तथाहि तदुत्पत्ति- प्रगुणागुणाः प्रत्यक्षेणानुमानेन वा मीयेरन् । यदिप्रत्यक्षेण तत्किमेन्द्रिये- णातीन्द्रियेण वा । नैन्द्रियेणातीन्द्रियेन्द्रियाधिकरणत्वेन तेषां तद्ग्रहणा- योग्यत्वात् । नाप्यतीन्द्रियेण तस्यचारुविचारगोचरचरिष्णुत्वाभावात् । अनुमानेन तानिरणेष्महीति चेत्कुतस्तत्रनियमनिर्णयः स्यान्नमत्यक्षाद- गुणेषु तत्प्रवृत्तेः परास्तत्वात् तथाच द्विष्ठसम्बन्धसवित्तिर्नेकरूपप्रवेदनात् यस्वरूपग्रहणे सति सम्बन्धवेदनम् । नाप्यनुमानात् ततएवतनिश्चित्ता- वितरेतराश्रयस्य तदन्तरात्पुनरनवस्थायाः प्रसक्तः । ततोनगुणाःसन्ति- कचिदिति स्वरूपावस्थेभ्य एकारणेभ्यो जायमानं तत्कथमुत्पत्तौ परतः स्यात् निश्चयस्तु तस्य परतः कारणगुणज्ञानादाधकाभावज्ञानात् सम्पादिवदनाद्वा स्यात् तत्र प्राच्यं प्रकार प्रागव प्रास्थामगुणग्रहणप्रवीण. प्रमाणपराकरणात् द्वितीयतु तात्कालिकस्य कालान्तरमाविनो वा बाध. कस्याभावज्ञानं तनिश्चायकं स्यात्पौरस्त्यं तावत्कूटहाटकनिष्टनेपि पष्टमस्त्येव द्वितीयन्तु नचर्मचक्षुषां सम्भवति । संवादिवेदनन्तु सह- कारिरूपं सत् तन्निश्चयं विरचयेद्ग्राहकं वा । नाद्यभिभिन्नका- लत्वेन तस्य सहकारितासम्भवात् द्वितीयपक्षेतु तस्यैवग्राहक पत्नद्विषयस्य विषयान्तरस्य वा । न प्रथमः पक्षः प्रवर्तकज्ञानस्य सुदूरनष्टत्वेन ग्राह्य- स्वायोगात् । द्वितीयेवेकसन्तानं भिन्नसन्तानं वा तत्स्यात्पक्षद्रयेपि तै- टि. पं. द्वयोपेतरनाकराचतारिकायुक्तः मिरिकावलोक्यमानमृगाङ्कमण्डलद्रयदर्शिदर्शनेन व्यभिचारस्तद्धिचै- प्रस्य पुनः पुनमैत्रस्यचोत्पद्यतएव । तृतीये पुनक्रियाज्ञानमन्यद्धा तद्भ- वेत् न पौरस्त्यं प्रवर्तकस्य प्रामाण्यानिश्चये प्रवृत्त्यमानार्थक्रियायाएवा- भावात् । निश्चितप्रामाण्यात्तुप्रवर्तकज्ञानात् प्रवृत्तौ चक्रकम् । निश्चित- प्रामाण्यात् प्रवर्तकात्प्रवृत्तिः । प्रवृत्तेरर्थकियाज्ञानं तस्माच प्रवर्तकज्ञा- नस्य प्रामाण्यनिश्चयइति । कथं चार्थक्रियाज्ञानस्यापि प्रामाण्यनिश्चयो ऽन्यस्मादर्थक्रियाज्ञानाचंदनवस्था। प्रवर्तकज्ञानाच्चेदन्योन्याश्रयः स्वत- श्चेत्प्रवर्तकज्ञानस्यापि तथैवास्तु । अन्यदपिविज्ञानमेकसन्तानं भिन्न- सन्तानं वा। यमपिचैतदेकजातीयं भिन्नजातीयं वा । चतुष्टयमपि चैतदयभिचाराभिचारदुस्सञ्च तथाोकसन्तानं भिन्नसन्तानं चैकजाती- यमपि तरलतरतुङ्गत्तरङ्गतरङ्गिणीतोयज्ञानं भिन्नजातीयञ्च कुम्भाम्भोकाहा. दिज्ञानं मरुवमुन्धराचारिचतुरतरतराणिकिरणश्रेणिसङ्गिसलिलसंवेद- नस्य न संवादकमिति न ज्ञप्तावपि तत्परतः अप्रामाण्यन्तूत्पत्तौ दोषा. पेक्षत्वात् । ज्ञप्तौतु बाधकापेक्षत्वात् परतएवेति । (टि०) असाविति प्रामाण्याप्रामाण्यनिश्चयः सर्वथति उत्पसौज्ञप्तोष तदुत्पत्तीति प्रामाण्योत्पादप्रवणा अतीन्द्रियति अतीन्द्रियमिन्द्रियगोचरा. तीतमिन्द्रिमाभ्यन्तरं निवृत्तिरूपमधिकरणमाधारो येषां तद्रावस्तवः तेषा. मिति गुणानां तद्ग्रहणेति तेन्द्रियेण ज्ञानाऽसम्भवात् तस्यचार्षिति अती- न्द्रियप्रत्यक्षस्य अतीन्द्रियप्रत्यक्षसिद्धौ हि सर्वज्ञःसिध्यति नचामीतं मन्यन्ते अनुमानेन तानिति गुणान् निरणेमहीति निश्चयपूर्वमन्यामहे तंत्रति सेषु गुणेषु नियमनिर्णयइति अनुमानाधिनाभावनिश्चयः तत्प्रवृत्तेरिति प्रत्यक्षप्रवृत्तः परास्तत्वादिति अपाकृतत्वात् द्विष्ठसम्बन्धेति द्वयोः स्वरूपग्रहणेसति सम्बन्धवेदनं सतएवेति गुणसाधकादेवानुमानात् तन्नि- श्चिताविति अविनाभावसम्बन्धनिश्चितौ इतरेतराश्रयस्य प्रसक्तिः तदन्तरादिति अनुमानान्तरात् तनिश्चिती तन्निश्चयस्त्वित्यादि तस्येति १ "धारि" इत्यपि पाठान्तरम् ।
७० । प्रमाणनयतत्त्वालोकालंकारः प्रामाण्यस्य प्रास्थामति क्षिप्तवन्तः तनिश्चायकमिति प्रामाण्यनिर्णा यकं भिन्नकालत्वेन तस्येति संवादकज्ञानस्य तस्यैवेति प्रामाण्यस्य तद्विषयस्येति प्रामाण्यविषयस्य प्रवर्तकंति संथादकज्ञानस्य तदिति संवादि वेदनम् पक्षद्रयेपीति तिमिररोगाभिभूतनयनो जनः चन्द्रमण्डल- द्वितयं पुनःपुन: पश्यति प्रथमालोकितशशियुगलस्य संवादकं पुनः २ विधुवीक्षणं भवेलथापि तद्ज्ञानं संवाददत्तहस्तावलम्बमपि नप्राज्ञप्रवृत्ति- प्रतिपत्तिनिमित्तं विमलनयनजनविलोकनेन व्यभिचारात् । तस्यप्रामा- ण्यगोचराभावात् तद्धीति ननुएकपुरुषप्रतिष्ठं शशिवयावलोकनमप्रमाणं भवतु पुनर्घनजननयनगोचरीभूतं तत्कथमप्रमाणं स्यात् मैवं यएकत्र- दोषः सर्वत्रापिसएव अन्यदपीति विषयान्तरसम्बन्धि किन मल्या- दीनिति उत्तरयन्तिसूरयः । (पै०)-मीमांसामांसलतामिति मीमांसाग्रन्थविशेषः । स्वतएव सर्वथा प्रमा- णानामिति उत्पत्तौ ज्ञप्तौ च तदिति प्रामाण्यम् तेषामिति गुणानां तद्ग्रहणा- योग्यत्वादिति इन्द्रियग्रहणायोग्यत्वात् । तत्रेति अनुमाने, नियमनिर्णयइति प्रतिबन्धनिर्णयः । नप्रत्यक्षादिति धूमधूमध्वजयो विनाभावं प्रत्यक्षानिश्चिन्धान्तिकृतिनः इहच म प्रत्यक्षात् तत्प्रवृत्तेरिति प्रत्यक्षप्रवृत्ते: । द्विष्ठसम्बन्धसम्वित्तिरिति इन्द्रियाणां गुणिनां परिक्षानेपि गुणानामपरिज्ञानात् । द्विष्ठसम्बन्धइत्यादि पूर्वार्द्ध मन्थेऽस्ति अपराईन्तु दयस्वरूपाहणेसति सम्बन्धवेदनम् ॥ १॥ ततएवेति गुणनिर्णाययकानुमाना- देव तदन्तरादिति अनुमानान्तरात् तत्कथमिति तत्प्रामाण्यम् तनिश्चयं विरचयदिति मधज्ञाननिश्चयं प्रामाण्यमित्यर्थः। तस्यैवग्राहकं सदिति तस्यैव प्राहकसत् तनिश्चयंघिरचयदिति योगः तद्धीति तैमिरिकावलोक्यमानमृगाङ्कमण्डलय. दर्शिदर्शनम् । चैत्रस्य पुनः पुनमैत्रस्यचोत्पद्यतएवेति तस्यैष तैमिरिकस्य चैत्राख्यस्य पुनः पुनर्दर्शनं सम्वादिज्ञानमेकसन्तान मैत्रस्यापि द्विचन्द्रदर्शन भिन्नसन्तानम् । मद्यदिसम्वादिज्ञानेन तद्विषयग्रहणमात्रेणैव प्रामाण्यीनश्चयः सोऽत्रापि प्रसज्येत तद्भवे- दिति विषयाम्लरघ्राहकं भवेत् । अर्थक्रियाज्ञानस्यापि प्रामाण्यनिश्चयइति प्रवर्तकज्ञानस्य तावदर्थक्रियाज्ञानात् प्रामाण्यनिश्चयः, (रत्ना०) अनाभिदध्महे । यत्तावद्गुणाः प्रत्यक्षेणानुमानेन वा मीयेरनित्यादिन्यगादि तदखिलं नखलु नदोषप्रसरेपि प्रेरयितुं पार्यते टि. पं. प्रयोपतरक्षाकरावतारिकायुक्तः अथाध्यक्षेणैव चक्षुरादिस्थान दोषानिश्चिक्यिरेलोकाः। किन्न नैर्मल्या. दीन गुणानपि । अथतिमिरादिदोषाभावमात्रमेव नैर्मल्यादिनतुगुण- रूपमिति कथमध्यक्षेण गुणनिश्चयः स्यादेवं तर्हि नैर्मल्यादिगुणाभाव- मात्रमेव तिमिरादि नतुदोषरूपमितिविपर्ययकल्पना किं न स्यात् अस्तु- वादोषाभावमात्रमेव गुणस्तथापि नायं तुच्छः कश्चित्सङ्गच्छते भावान्तर- विनिर्मुक्तोभावोऽञानुपलम्भवत् । अभावः सम्मतस्तस्य हेतोः किंन समुद्भवइति वयंभट्टेन प्रकटनात् तदपेक्षायामपि च कथं न परतः प्रामा- ण्योत्पत्तिः। अथासतां नैर्मल्यादयो गुणास्तथाप्यधिष्ठानप्रतिष्ठानेव तान् प्रत्यक्षंसाक्षात्करोति नकरणस्थांस्तेषां परोक्षत्वात्तर्हि तत एव दोषानपि तत्स्थानेवतत्साक्षात्कुर्यादितिकथंदोषाअपि प्रत्यक्षलक्ष्याः स्युः अथा- प्रामाण्यं विज्ञानमात्रोत्पादककारणकलापातिरिक्तकारकोत्पाचं विज्ञान- मात्रानुवृत्तावपि व्यावर्त्तमानतात् तदनुवृत्तावपि यदयावर्तते तत्तन्मा. त्रोत्पादककारणकलापातिरिक्तकारकोत्पाद्यं यथापाथः पृथिवीपवनात. यानुवृत्तावपि व्यावत्तमानः कोद्रवाङ्कुरस्तदतिरिक्तकोद्रवोत्पाद्यइत्यनुमाना- दोषप्रसिद्धिरिति चेचिरंनन्दताद्भवानिदमेव ह्यनुमानमप्रामाण्यपदं निरस्य प्रामाण्यपदञ्च प्रक्षिप्यगुणसिद्धावपि विदध्यादिति कथं न दोषदगणा- अपिसिद्वयुः । यतो नोत्पत्तौ परतः प्रामाण्यं स्यात् प्रतिबन्धश्च यथादो- षानुमाने तथागुणानुमानेपि निर्णयः कथंवादित्यगत्यनुमाने तन्निर्ण या दृष्टान्तेतु यथान साध्यसाधनसम्बन्धोबाधोऽस्ति तथागुणानुमानपि (दि०)-तथापीति अयमिति गुण: तुच्छइति अभावरूपः भावान्तरेत्यादि भावान्तरेण विवक्षितघटादिना रहितोभावोभूतलादिः यथाघटाभावोभूतलं तत्रभूतलम्भावरूपमस्त्वेव अपरोपभावाः सन्ति किन्तु विवक्षितोघटएवना- स्ति अनुपलम्भेति यथात्रभृतलेघटस्थानुपलम्भस्तथाभावोपि तदपेक्षाया- मिति दोषाभावापेक्षायाम् तेषामिति गुणानां ततस्थानोति अधिष्ठान प्र- तिष्ठान तदिति प्रत्यक्षम् तदनुवृत्ताविति विज्ञानानुवृत्तावपि प्रतिबन्धइति आविनाभावः तन्निर्णयति अविनाभावनिश्चयः ।
EASEX प्रमाणनयतत्त्वालोकालंकार: (५०)-तस्यैवतुकथमित्याह अभावः सम्मतः इत्यतोऽप्रे तस्यहेतोः किन्नसमुद्भवः (रत्ना०) यच्चावाचि निश्चयस्तु तस्य परतइत्यादि तत्र संवादिवेद. नादिति बमः कारणगुणज्ञानबाधकामावज्ञानयोरपि च संवादकज्ञान- रूपत्वं प्रतिपद्यामहे । यादृशोऽर्थः पूर्वज्ञाने प्रथापथमवतीर्णस्तादृशएवासौ येन विज्ञानेन व्यवस्थाप्यते तत्सम्बादकमित्येतावन्मात्रं हि तलक्षण- माचचक्षिरे धीराः। यस्तु गुणग्रहणप्रवणप्रमाणपराकरणपरायणातिदेश. प्रयासः प्रयास एवकेवलमयमजनि भवतः दोषसन्दोहबद्गुणगणेपि प्रमाणप्रवृत्तरनिवारणात् । यत्तुबाधकाभावज्ञानपक्षे विकल्पितं तात्कालिकस्य काला- न्तरभाविनो वेत्यादि । तत्राद्यविकल्पपरिकल्पनाल्पीयसी । नखलु. साधननिर्भासिसंवेदेनोदयकाले कापि कस्यापि बाधकस्योदयः सम्भवी । उपयोगयोगपद्यासम्भवात् । भविष्यत्कालस्यतु बाधकस्या- भावज्ञानात् प्रामाण्थनिर्णयो निरखद्य एव न च चर्मचक्षुषां तदभावो भवितुमर्हति यदुदनसमग्रसामग्री सम्पाद्य संवेदनं न तत्र भाविबाधका- वकाशइत्येवन्तन्निर्णयात् । यदिचभाविवस्तुसंवेदनमस्मादृशां नस्यादव तदा कथं कृत्तिकोदयाच्छकटादयानुमाननास्तमियात् । (टि) नखलुसाधनेति कारणावभासि यदुदग्रेत्यादि तत्रेति संवेदने तन्निर्णयादिति प्रामाण्यनिश्चयात् । (रत्रा०) यत्पुनरवादि संवादिवेदनंत्वित्यादि तत्र संवादिवेदनात् साधननिर्भासिप्रतिभासविषयस्य विषयान्तरस्य वा ग्राहकात् प्रामाण्य- निर्णयति ब्रूमः । भवतिहि तिमिरनिकुरुम्बकरम्बितालोकसहकारि कुम्भावमासस्य तत्रैकसन्तानं मिन्नसन्तानं च निरन्तरालोकसहकारि- सामर्थ्यसमुद्भूतं संवेदनं संवादक। न च तैमिरिकादिवेदनेपि तत्प्रसङ्गस्त- त्रपरतोबाधकात् स्वतःसिद्धप्रामाण्यादुत्तरस्याप्रामाण्यानिर्णयात् विषया- न्तरग्राहकमपि संवादकमेव यथाऽथक्रियाज्ञानं न चात्र चक्रकावकाशः प्रवर्तकप्रामाणप्रामाण्यनिर्णयादिप्रयोजनायाः प्रथमप्रवृत्तः संशयादपि टि. पं. द्वयोपेतरनाकरावतारिकायुक्तः ७३ भावात्। अर्थक्रियाज्ञानस्य तु स्वतएवप्रामाण्यनिश्चयोऽभ्यासदशापन्नतेन दृढतरस्यैवास्योत्पादात् । न च साधननिर्भासिनोपि तथैवायमस्त्विति वाच्यं तस्य तद्धिलक्षणत्वात् । अन्यदप्येकसन्तानं भिन्नसन्तानं चैक मातीयं च यथैकदनदर्शनं दस्रान्तरदर्शनस्य भिन्नजातीयं च यथा निशीथे तथाविधरसास्वादनंतथाभूतरूपस्य संवादकम्भवत्येवानचमिथ्या- पाथः प्रथायाः पाथोन्तरे कुम्भादौ वा संवेदनं संवादकं प्रसज्यते । यतो न खलुनिखिलं प्रागुक्तं संवेदनं संवादकं सङ्गिरामहे किन्तर्हि यत्र पूर्वो- त्तरज्ञानगोचरयोरव्यभिचारस्तत्रैव । किंचस्वत एव प्रामाण्यनिर्णयवर्णन- सकर्णेनानेन स्वशब्द आत्मार्थआत्मीयार्थो वा कथ्येत । नाद्यः पक्षः खावबोधविधानेप्यन्धयाबुध्या स्वधर्मस्य प्रामाण्यस्य निर्णतुमशक्तः द्वितीये तु प्रकटकपटनाटकघटनपाटवं प्राचीकटत् । प्रकारान्तरेणा- स्मन्मताश्रयणात् । अस्माभिरप्यात्मीयेनैव ग्राहकण प्रामाण्यनिर्णयस्य स्वीकृतत्वात् । अथ येनैव ज्ञानमात्रं निर्णीयते तेनैव तत्प्रामाण्यमपीति स्वतः प्रामाण्यनिर्णयो वर्ण्यते नन्वर्थप्राकटयोत्थापितार्थापत्तेः सकाशा- त्वया ज्ञाननिर्णीतिस्तावदभीप्सामासे । अर्थप्राकटयञ्च यथार्थत्वविशेषण- विशिष्टं निर्विशेषणं वाऽर्थापत्तिमुत्थापयेत् । प्राचिपक्षे तस्यतद्विशेषणग्रहणं प्रथमप्रमाणादन्यस्मात्स्वतो वा भवेत् प्रथमपक्षे परस्पराश्रयप्रसङ्गः निश्चित- प्रामाण्याधिप्रथमप्रमाणाद्यथार्थत्वविशिष्टार्थप्राकट्यग्रहणं तस्माच्च प्रथम. प्रमाणे प्रामाण्यनिर्णयइति । द्वितीयविकल्पे वनवस्था । अन्यस्मिन्नपि हिप्रमाणे प्रामाण्यनिर्णायकार्थापत्त्युत्थापकस्यार्थप्राकट्यस्य यथार्थत्ववि- शेषणग्रहणमन्यस्मात्प्रमाणादिति । अथस्वतस्तद्विशेषणग्रहणं तथाहि स्वसंविदितमर्थप्राकटयं तच्चात्मानं निर्णयमानं स्वधर्मभूतं यथार्थवमपि निर्णयते । तथाच ततोऽनुमीयमाने ज्ञाने स्वतः प्रामाण्यज्ञतिरिति तदे. तदनवदातमेवंसत्यप्रामाण्यस्यापि स्वतोज्ञप्तिप्रसक्तेः। खतोनिश्चितवै. तथ्यविशेषणादर्थप्राकटयाद्धिज्ञानमनुमीयमानमास्कन्दिताप्रामाण्यमेवा. १ प्रामाण्यमपि इत्यपिपाठान्तरम् ।
७४ प्रमाणनयतत्वालोकालंकारः नुमीयते। ततः कथं प्रामाण्यवदप्रामाण्यस्यापि खतो निर्णीतिर्न स्यात् अथ तत्र बाधकादेवाप्रामाण्यनिर्णयो नपुनर्ज्ञाननिर्णायकादेवं तार्हसंवाद- कादेव प्रामाण्यस्यापि निर्णयोस्विति तदपिकथं स्वतोनिर्णीतं स्यात् । निर्विशेषणंचत्तदर्थप्राकट्यमर्थापत्त्युत्थापकं तद्यप्रामाणेपि प्रामाण्यनि- र्णायकार्थापत्त्युत्थापनापत्तिरर्थप्राकटयमात्रस्य तत्रापि सद्भावादिति सूत्रोक्तैन व्यवस्थासिद्धिसौधमध्यमध्यरुक्षत् । इतिप्रामाणनयतत्वालोकेश्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्य. लघुटीकायां प्रमाणस्वरूपनिर्णयोनाम प्रथमः परिच्छेदः । (टि०)-भवतीत्यादि तत्रैवेति प्रदेशे स्वल्पालोकस्य संपूर्णालोकः संवा दकः स्यात् उभयोरप्येकत्रप्रवृत्तेः तत्प्रसङ्गइति संवादकत्वप्रसङ्गः । अर्थ- क्रियेत्यादि अस्येति अर्थक्रियाज्ञानस्य साधननिर्मासिनइति प्रवर्तक- ज्ञानस्य तथैवेति अभ्यासदशापन्नत्वेनैव अयमिति प्रामाण्यनिश्चयः तस्येति प्रवर्तकज्ञानस्य तद्विलक्षणेति अर्थक्रियाज्ञानविपरीतत्वात् अन्य दप्यकेत्यादि भिन्नजातीयमिति रूपाद्रसोभिन्नजातीयः अथस्वतइत्यादि तचेति अर्थप्राकट्यम् ततइति अर्थप्राकटयात् ॥ इति श्रीसाधुपूर्णिमागच्छीयश्रीमदाचार्यगुणचन्द्रसूरिशिष्य पं०-ज्ञानचन्द्र- विरचिते रत्नाकरावतारिकाटिप्पणकप्रथमः परिच्छेदः समाप्तः ॥ (पं०)-तत्प्रसङ्गइति सम्पादकत्यप्रसङ्गः । तत्रपरतोबाधकादिति निर्मलच- धुराप्तपुरुषदर्शनप्राक्कालानुभूतचन्द्रेक्यस्मरणाद्वा । पाथाऽन्तरे इति तरङ्गिणीतोयज्ञाने निर्णीति न स्यादित्यतोऽने येन तत्परतः कल्प्यते इति गम्यम्। अप्रमाणेपीति विचन्द्रज्ञाने मृगतृष्णाजलज्ञाने वा ॥ समाप्तः प्रथमः परिच्छेदः अत्र वादस्थलानि । शब्दार्थयोः सम्बन्धनिराकरणं तदस्थापनं च १ । परोक्षप्रमाणलक्षणनि- राकरणम् २ । स्वप्रमाणलक्षणकण्टकोद्धारः ३ । सन्निकर्षप्रामाण्यनिराकरणम् ४ । निर्विकल्पक- निराकरणम् ५। प्रभाकराभिमतविवेकाख्यातिनिराकरणं विपर्यये । शून्यवादनिराकरणम् तत्रैवा- वयविचादनिराकरणम् ७। ब्रह्माद्वैतवादिनिराकरणम् ८। त्रिपुटीप्रत्यक्षवादिभनिरासेन ज्ञानस्य स्वसंवेद्यत्वनियमनम् ९ । योगाभिप्रेतस्य ज्ञानान्तरवेद्यज्ञानस्य निराकरणम् १० । जैमिनीयाभिमत यत् ज्ञानस्यस्वतएव प्रामाण्यं परतएवत्वप्रामाण्यं तस्यनिराकरणं यच्चस्वमते प्रामाण्यमप्रामाण्यं चोत्पत्तौ परतएव इप्तौतुस्वतः परतश्चेति तस्यस्थापन एवमेकादश।
अहम् द्वितीयो परिच्छेदः। एवं प्रमाणस्य स्वरूपंप्रतिपाद्य संख्यां समाख्यान्ति । मू०-तद्धिभेदं प्रत्यक्षं च परोक्षं चेति । (रत्ना०)-अक्षमिन्द्रियं प्रतिगतमिन्द्रियाधीनतया यदुत्पद्यते तत्प- त्यक्षमिति तत्पुरुषः । नन्वक्षिशब्दादपि प्रतिपूर्वात् प्रतिसमनुभ्योष्ण इत्यव्ययीभावसमासान्ते टचिप्रत्यक्षमिति सिद्ध्यति तत्किन कक्षीचक्रिवांसः नचैवं स्पर्शनादिप्रत्यक्षं नैतच्छदवाच्यं स्यादिति वाच्यं । तत्प्रवृत्तिनिमि. त्तस्य स्पष्टत्वस्य तत्रापिभावेन तच्छन्दवाच्यतोपपत्तेः । व्युत्पत्तिनिमित्त- मात्रतया ह्यत्राक्षिशब्दः शब्धते कथमन्यथा ऽक्षशब्दोपादानेप्यनिन्द्रि- यप्रत्यक्षस्य तच्छब्दवाच्यता चतुरखा स्यात् । द्वितीयो परिच्छेदः । (दि०)-नन्त्रक्षिशब्दादित्यादि तदिति प्रत्यक्षम् किनकक्षीति कथं- नाङ्गीचक्रुर्भवन्तः एतच्छब्देति एतेनाव्ययाभावसमासकृतप्रत्यक्षशब्दन वाच्यम् तत्प्रवृत्तीति स्पार्शनप्रत्यक्षहेतोः स्पष्टत्वलक्षणत्वात् प्रत्यक्षस्य तत्रापीति अव्ययीभावकतप्रत्यक्षेपि तच्छन्दति तेन अव्ययीभावसमा- নানযুল এহালায়মানযাহাৰসৰাজ अनिन्द्रियेति मानसप्रत्यक्षस्य तच्छब्देति प्रत्यक्षशब्देन द्वितीयो परिच्छेदः । (पं०)-एतच्छब्दवाच्यमिति प्रत्यक्षशब्दवाच्यं अक्षिशब्दपक्षेपरंपृच्छतिकश्चित् । (रत्ना०)-अथकथमेवं प्रत्यक्षः प्रेक्षाक्षणः प्रत्यक्षापक्ष्मलाक्षीति स्त्री- पुंसभावो ऽस्याव्ययीभावस्य सदा नपुंसकत्वान्नैवं प्रत्यक्षमस्यास्तीत्यर्श- आदित्वेनादन्तत्वात् तद्भावसिद्धेः । (५०)-अथकथमित्यादि ७६ प्रमाणनयतत्वालोकालंकारः (रत्ना०)-अत्रोच्यते ॥ एवमपि प्रत्यक्षोबोधः प्रत्यक्षाबुद्धिरित्यत्र पोस्नं स्त्रैणं च न प्राप्नोति नद्यत्र मत्वर्थीयार्थो घटते प्रत्यक्षस्वरूपस्यैव वंदनस्य बोधबुद्धिशब्दाभ्यामभिधानात् । अक्षाणाम्परमक्षव्यापारनिर- पेक्षं मनोव्यापारेणासाक्षादर्थपरिच्छदेकं परोक्षमिति परशब्दसमाना- र्थेन परसशब्देन सिद्धं । च शब्दौ द्वयोरपि तुल्यकक्षतां लक्षयतस्तेन या प्रत्यक्षस्य कैश्चित ज्येष्ठताभीष्टा नासौ श्रेष्ठति सूचितं योरपि प्रामाण्यंप्रति विशेषाभावात् । ननु कथमेतद्वैतमुपपद्यते यावता प्रत्यक्ष- मवैकं प्रमाणमिति चार्वाकोऽवोचत । अपरेतु प्रत्यक्षानुमानागमोपमा- नार्थापत्त्यभावसम्भवैतिह्यपातिभस्वभावान् भूयसो भेदान् प्रमाणस्य प्रोचुस्तत्कथमेतदिति चेदुच्यते । समयिष्यमाणप्रमाणभावनानुमा- नेन तावच्चार्वाकस्तिरस्करणीयः अपरेतु सम्भवत्प्रमाणभावानामत्रैवान्त- भीवनबोधनीयाः । तत्रानुमानागमो परोक्षप्रकारावेव व्याख्यास्यते । उपमानन्तु नैयायिकमते तावत् कश्चित् प्रेष्यः प्रभुणा प्रेषयांचके गवयमानयेति सगवयशब्दवाच्यमर्थमजानानः कञ्च न वनेवरं पुरुष- मप्राक्षीकीदृग्गवयइति सप्राह यादृग्गौस्तादृग्गवयइति ततस्तस्य प्रेष्यपुरुषस्यारण्यानीं प्राप्तस्याप्तातिदेशवाक्यार्थस्मरणसहकारिगोस- दृशगवयपिण्डज्ञानमयं सगवयशब्दवाच्योर्थ इति प्रतिपत्तिफलरूपा- मुत्पादयत्प्रमाणमिति । मीमांसकमतेतु येनप्रतिपत्रागौरुपलब्धो नग- वयो नातिदेशवाक्यं गौरिख गवयइति श्रुतं तस्य विकटावीपर्यटन- लम्पटस्य गवयदर्शने प्रथमे समुत्पन्ने सति यत्परोक्षे गवि सादृश्यज्ञान- मुन्मजत्यनेन सदृशः सगौरिति तस्य गोरनेन सादृश्यमिति वा तदुप- मानम् । तस्माद्यत्स्मर्यतेतत् स्यात सादृश्येन विशेषिते । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितमिति वचनादिति तदुच्यते । (टि०)-एवमपीत्यादि अव्ययीभावसिडप्रत्यक्षप्रतिक्षेपार्थमाचार्येष्ट प्रत्यक्षप्रेक्षाक्षणइत्यादिक परेण अर्शआदिना अप्रत्ययेन अव्ययीभावसा- ध्यसिद्धिमुपढौकयांबभूवे तस्यापि निराकरणाय सूरय उत्तरयामासुः प्रत्य- टि. पं. इयोपेतरत्नाकरावतारिकायुक्त क्षोषोधोत्रअर्शआदिप्रत्ययमन्तरेणापि प्रत्यक्षशब्दसिद्धेः अतोनाव्ययी- भावसमासप्रत्येक्षे घटामटाटयेत अपरेविति सांख्यमीमांसकप्रभाकर- कणभक्षाक्षपादसौगतचरकाः सम्भवदिति घटमानप्रामाण्यानां अत्रैवेति प्रत्यक्षपरोक्षद्वये अथप्रमाणद्वैतमेवाभिमतमाहतानां तदन्येषामनुमानादी- नामपि सम्भवत् प्रामाण्यं भवद्भिः कथमङ्गीक्रियतेति चेन्मैवमप्रमाणस्य प्रमाणान्तर्भावोपिदुरुपपादः अन्यथायन्धकारस्यालोकान्तर्भावोभवेत् अथ यदिसर्वेषाम्प्रमाणभावस्वीकारः सुविचारगोचरचरिष्णुतामश्चति तत्प्र. माणद्वैतवादमदस्त्यज्यताजैनाः एतदिति मलिनिमानमावहति तेषांपरोक्षा शस्वेन प्रामाण्याङ्गीकारात् ननुव हिमानयं पर्वतनितम्ब इत्यत्रानुमानमन्त. रेण धनञ्जयसत्वं कथंसिद्धिपद्धतिमादधाति मैवं तदापरोक्षात्कथं चिद्भिन्ना. नामेवानुमानादीनां प्रामाण्याभ्युपगमात् स्याद्वादमताभिप्रायेण द्वैतस्यानु. मानादिभिः कथञ्चिद्भिन्नस्यैव सम्मतत्त्वात् तस्माद्यदीत्यादि तस्मादिति ज्ञानात् यदिति गवयपिण्डदृश्यते अदव्यां पर्यटतापुंसेतिशेषः सादृश्येनेति सादृश्यविशिष्टंपिण्डं विशिष्टंवासादृश्यंगोचरयत्संवेदनमुदीयेत तेन. विशेषितं सादृश्यवति गोगवयगतं तदन्वितमिति गोगवयपिण्डसम्बद्धं तदुच्यते इति उपमानमभिधीयते। (पं0-अत्रोच्यतेइति सूरिणा पौरनमिति पुंस्त्वम्। स्त्रैणमिति स्त्रीत्वम्। स्वभावानिति लक्षणान् एतदिति प्रमाणाद्वैतम् । अत्रैवेति द्वयएव स्मरणसहकारीत्यत्र । स्मरणं सहकारियस्य, नचातिदेशेति गद्येन चातिदेशवाक्य, श्रुतमिति सम्बन्धः । अनेनति गवयेन सगौरिति पिण्डविषयं ज्ञानम् । अनेनेति गवयेन । यदिति गोपिण्डः सादृश्येनेति गवयसादृश्येन प्रमेयमिति गोचरः । तदन्वितमिति गचयान्वितम् । (रत्ना०)-एतच्च परोक्षभेदरूपायां प्रत्यभिज्ञायामेवान्तर्भावयिष्यते। (दि०)-एतचेति उपमानम्प्रामाण्येत्यादि । (रत्ना०)-अर्थापचिरपि प्रमाणषटकविज्ञातो यत्रार्थोऽनन्यथाभ- वन् । अदृष्टं कल्पये दन्यं सार्थापत्तिरुदाहृता इत्येवंलक्षणा । (दि०) यत्रेति देवदत्तादी प्रमाणपदकेन प्रत्यक्षानुमानागमोपमानार्था- - प्रमाणनयतत्त्वालोकालंकारः पत्त्यभावलक्षणेन विज्ञातः अत्रतन्मतानुसारेण सामान्यतः प्रमाणषट्कशब्द- प्रयोगः प्रकृतामापत्तिं विहाय पञ्चकेनैव विज्ञातोऽथोंदृष्टंकल्पयन्नाप- त्तिमुत्थापयति इति तात्पर्यार्थः अर्थइति पीनत्वादि अदृष्टमिति दिवसे- भुञानस्यादर्शनात् अन्यमिति रात्रिभोजनलक्षणं यथापीनोदेवदत्तो दिवा नभुंक्त अर्थापश्या बहुलान्धकारकरंबितदशदिशिनिशिभुक्ते । (६०)-अर्थइति पीनत्वादिः । अनन्यथा भवन्निति भोजनंविना अन्यथा न भवति म घटते। (रत्ना०)-अनुमानान्तर्गतैव तथाार्थापत्त्युत्थापकोऽर्थोऽन्यथानुपपद्य. मानत्वेनानवगतो ऽवगतोवा दृष्टार्थपरिकल्पनानिमित्तं स्यात् । नतावद- नवगतोऽतिप्रसङ्गात् । अथावगतस्त_न्यथानुपपद्यमानत्वावगमोऽर्थापत्ते. ख प्रमाणान्तराद्वापाच्यप्रकारे परस्पराश्रयस्तथाह्यन्यथानुपपद्यमानत्वेन प्रतिपन्नादर्थादर्थापत्तिप्रवृत्तिस्तत्प्रवृत्तेश्वास्यान्यथानुपपद्यमानत्वप्रतिपत्ति- रिति । प्रमाणान्तरं तु भूयोदर्शनं विपक्षेऽनुपलम्भो वा भूयोदर्शनमपि साध्यम्मिणि दृष्टान्तम्मिणिवा । यदिसाध्यधम्मिणि तदाभूयो- दर्शनेनैव साध्यस्यापि प्रतिपन्नत्वादांपत्तेर्वैयर्थ्यम् । अथदृष्टान्तध- म्मिणि तर्हि तत्र प्रवृत्तं भूयोदर्शनं साध्यमिण्यष्यन्यथानुपपद्यमा- नवं निश्चाययति तत्रैव वा तत्रोत्तरः पक्षो ऽसन्नखलुदृष्टान्तधम्मिणि निश्चितान्यथानुपपद्यमानत्वो ऽर्थः साध्यम्मिणि तथात्वेनानिश्चितः स्वसाध्यङ्गमयत्यतिप्रसङ्गात् । प्रथमपक्षेतुलिङ्गार्थापत्त्युत्थापकार्थयोर्भेदा- भावः । विपक्षेऽनुपलम्भात् तदवगमइति चेत् नन्वसावनुपलम्भमात्ररूपोऽ निश्चितो निश्चितो वा तदवगमयेत्। प्रथमपक्षे तत्पुत्रत्वादेरपि गमकत्वा- पत्तिः। निश्चितश्चेत् तद्यनुमानमेवार्थापत्तिरापन्ना निश्चितान्यथानुपपत्ते- रनुमानरूपत्वात् । नच सपक्षसद्भावासद्भावकृतो ऽनुमानार्थापत्त्योर्मेदः पक्षधर्मतासहितादनुमानात्तद्रहितस्य प्रमाणान्तरत्वानुषङ्गात् । नच पक्षधर्मत्ववन्ध्यमनुमानमेव नास्तीति वाच्यं । पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणतानुमा सर्वलोकप्रसिद्धा नपक्षधर्ममपेक्षतइति भट्टेन स्वयम- भिधानात् । यदपि प्रत्यक्षादेरनुत्पत्ति प्रमाणाभावउच्यते । सात्मनो- टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्तः ऽपरिणामोवा विज्ञानं वा ऽन्यवस्तुनि सेति प्रत्यक्षाद्यनुत्पत्तिः। आत्मनो घटादिग्राहकतया परिणामाभावः प्रसज्यपक्षे पर्युदासपक्षे पुनरन्यस्मिन् घटविविक्तताख्ये वस्तुन्य भावे घटोनास्तीति विज्ञानमित्यभावप्रमाणम- भिधीयते तदपि यथासम्भवं प्रत्यक्षाद्यन्तर्गतमेव । (टि०)-अतिप्रसङ्गादिति अप्रतीतानां वामनोविषयातीतानामप्यर्थी- पत्तेर्वेदनोत्पत्तेः तत्प्रवृत्तेरिति अर्थापत्तिप्रवृत्तेः अस्येत्यर्थस्य यदिसाध्ये. त्यादि साध्यस्येति भोजनस्य तर्हितत्रेति दृष्टान्तधर्मिणि तत्रैवेति दृष्टान्त- धम्मिण्येव निश्चितेति निश्चितमन्यथानुपपद्यमानत्वं यस्य तथालेनेति अन्य- थानुपपद्यमानत्वेन लिङ्गेति हेतुः तदवगमइत्यन्यथानुपपद्यमानत्वावगमः तदित्यन्यथानुपपद्यमानत्वं तत्पुत्रादेरप्युपाधिप्रवेशदूषितोपि तत्पुत्रत्वादि हेतुरपि देवदत्तादौ श्यामत्वं साधयेत् । नचसपक्षेत्यनुमाने सपक्षोस्ति सचा- थापत्तौ नास्त्येवेति नवाच्यं तदहितस्येति पक्षधर्मवजितस्य यदपीत्य. भावप्रमाणमभिधीयतेइति सम्बन्धः । प्रसज्येति द्रौनौहि समाख्याती पर्यु- दासप्रसज्यको पर्युदासः सदृग्ग्राही प्रसज्यस्तुनिषेधकृत् इतिवचनात्। प्रसज्य आत्मनस्तदाकारपरिणामाभावाद्घटादिपदार्थसार्थोत्रनास्तीतिज्ञानमुदय- मासादयति पर्युदासेति भूतलादिव्यतिरिक्त विवक्षितेघटादौ ॥ (पं)-अर्थइति पीनत्वादि । अन्यथेति रात्रिभोजनं विना अदृष्टार्थपरि- कल्पनानिमित्तमिति रात्रिभोजनपरिकल्पना निमित्तम् । अर्थादिति पीनत्वरूपात् । (रत्ना०)-तथाहि गृहीत्वावस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया॥१॥ इतीयमभावप्रमाणजनिका सामग्री।तत्रचभूतलादिकं वस्तुप्रत्यक्षेण घटादिभिः प्रतियोगिभिः संसृष्ट- मसंसृष्टंवा गृह्येत । नाद्यः पक्षः प्रतियोगिसंसृष्टस्य भूतलादिवस्तुनः प्रत्यक्षेण ग्रहणे तत्रप्रतियोग्यभावग्राहकत्वेनाभावप्रमाणस्य प्रवृत्तिवि- रोधात् । प्रवृत्तौ वा न प्रामाण्य प्रतियोगिनः सत्वेपि तत्प्रवृत्तेः द्वितीय- पक्षेत्वभावप्रमाणवैयर्थ्य प्रत्यक्षेणैव प्रतियोगिनां कुम्भादीनामभावप्रति- १झानामन्यापि पाठान्तरम् ।
८० प्रमाणनयतत्त्वालोकालंकार! पत्तेः। अथ न संसृष्टं नाप्यसंसृष्टं प्रतियोगिभिर्भूतलादिवस्तु प्रत्यक्षेण गृह्यते वस्तुमात्रस्य तेन ग्रहणाभ्युपगमादिति चेत् । तदपि दुष्ट संसृष्टत्वासंसृष्टत्वयोः परस्परपरिहारस्थितिरूपत्वे नैकनिषेधपरिविधानस्य परिहर्तुमशक्यता- दिति सदसद्रूपवस्तुग्रहणप्रवणेन प्रत्यक्षेणैवायं वेद्यते । कचित्तु तदघट भूतलमिति स्मरणेन तदेवेदमघटं भूतलमिति प्रत्यभिज्ञानेन योनिमान- भवति नासौधूमवानिति तर्केण नात्रधूमोऽनग्नेरित्यनुमानेन गृहे गर्गो- नास्तीत्यागमेनाभावस्य प्रतीतेः काभावप्रामाणं प्रवर्ततां सम्भवोपि समुदायेन समुदायिनो जगमइत्येव लक्षणः सम्भवति खार्या द्रोणइत्या- दिर्नानुमानात्पृथक् । तथाहि खारीद्रोणवती खारीत्वात् पूर्वोपलब्धखारी- वत् । ऐतिह्यं त्वनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमितीहोचुर्वृद्धा यथेहवटे- यक्षः प्रतिवसतीति तदप्रमाणमनिर्दिष्टप्रवक्तृकत्वेन सांशयिकत्वात आप्तप्रवक्तृकत्वनिश्चयेत्वागमइति । यदपिप्रातिभमक्षलिङ्गशब्दव्यापा- रानपेक्षमकस्मादेवाद्यमे महीपतिप्रसादो भवितेत्याद्याकारं स्पष्टतया वेदन- मुदयते तदप्यनिन्द्रियनिबन्धनतया मानसमिति प्रत्यक्षकुक्षिनिक्षिप्तमेव यत्पुनः प्रियाप्रियप्राप्तिप्रभृतिफलेन सार्वगृहीतान्यथानुपपत्तिकात्मनः प्रसादोरेगादेलिङ्गादुदेति तत्पिपीलिकापटलोत्सर्पणोत्थज्ञानवदस्पष्टम- नुमानमेवेति न प्रत्यक्षपरोक्षलक्षणदेविध्यातिक्रमः शक्रेणापि कर्तुं शक्यः (टि०)-अभावरूपेगृहीत्वेत्यादि गृहीत्वा ज्ञात्वा वस्तुनोभूतलादेः सद्भावं प्रतियोगिनमिति घटादिकमभावेन विवक्षितं अभावरूपत्वात्स- दावस्य शत्रुभूतम् मानसमिति मनोव्यापारद्रव्यसमुद्भूतं अक्षानपेक्षयति इन्द्रियव्यापारमन्तरेण तत्रचेति भूतलादौ यत्र हि साक्षात्प्रतियोगी दृग्धि- षयतामेति नतत्राभावोभवेत्तस्य वस्तुमात्रस्येति तेन भन अयमित्यभावः आगमेनेति आगमोऽत्राप्तपुरुषवचनं नवीतरागादिप्रणीतधर्मशास्त्रम् । (५०)-समुदायेनेति खारीसमुदायेन समुदायिनइति द्रोणाः समुदायिनः ।
टि. पं. इयोपतरत्नाकरायतारिकायुक्तः ८१ प्रत्यक्ष लक्षयन्ति । मू०-स्पष्टं प्रत्यक्षमिति। (रत्ना०)-प्रबलतरज्ञानावरणवीर्यान्तराययोः क्षयोपशमातक्षयादा स्पष्टताविशिष्टं वैशद्यास्पदीभूतं यत् तत्प्रत्यक्षं प्रत्येयम् । स्पष्टत्वमेव स्पष्टयन्ति । मू०-अनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वमिति । अनुमानादिभ्यो वक्ष्यमाणपरोक्षप्रकारेभ्योतिरेकेण यदिशेषाणां नियतवर्णसंस्थानाधाकाराणां प्रतिभासनं ज्ञानस्य तत् स्पष्टत्वमिति । प्रत्यक्षस्य प्रकारप्रकाशनायाहुः मू-तद्विप्रकारं सांव्यवहारिक पारमार्थिक चेति । Meagun संव्यवहारो वाधारहितप्रवृत्तिनिवृत्ती प्रयोजनमस्येति सांव्यवहारिक बाहोन्द्रियादिसामग्रीसापेक्षत्वादपारमार्थिकमस्मदादिप्रत्यक्षमित्यर्थः। पर- मार्थे भवं पारमार्थिकं मुख्यमात्मसन्निधिमात्रापेक्षमवध्यादिप्रत्यक्षमित्यर्थः। (१०)-बाधारहितप्रवृत्तिनिवृत्ती इति इष्टविषयेऽनिष्टावषये च । सांव्यवहारिकस्य प्रकारौ दर्शयन्ति । मू० -तत्राद्यं द्विविधमिन्द्रियनिबन्धनमनि- न्द्रियनिबन्धं चेति। (रत्ना०)-इन्द्रियाणि चक्षुरादीनि निबन्धनमस्येतीन्द्रियनिवन्धनम्। नन्विन्द्रियज्ञाने मनोऽपि व्यापिपीति कथं न तेन व्यपदेशः । उच्यते । इन्द्रियस्यासाधारणकारणत्वान्मनः पुनरनिन्दियवेदनेपि व्याप्रियतइति प्रमाणनयतस्वालोकालंकार: साधारणं तत् । असाधारणेन च व्यपदेशो दृश्यते यथा पयः पवनातपादि- जन्यत्वेष्यङ्करस्य बीजेनैव व्यपदेशः शाल्यङ्करः कोद्रवाकरोयमिति । अनि- न्द्रियं मनोनिबन्धनं यस्य तत्तथेति । इदमिदानीं मनाग्मीमांसामहे । प्राप्यकारीणीन्द्रियाण्यप्राप्यकारीणि वेति । तत्र प्राप्यकारीण्येवेति कण- भक्षाक्षपादमीमांसकसांख्याः समाख्यान्ति । चक्षुःश्रोत्रेतराणि तानि तथोति ताथागताः । चक्षुर्वानीति तु तथा स्यादादावदातहृदया। तत्र प्रथमे प्रमाणयन्ति । चक्षुः प्राप्य मतिं करोति विषये बाह्येन्द्रियत्वादितो यदायोन्द्रियतादिना परिगतं तत्प्राप्यकारीक्षितं । जिहावत्प्रकृतं तथा च विदितं तस्मात्तथा स्थीयता नात्रासिद्धिमुखश्च दूषणकणस्तल्लक्षणानीक्षणात् ॥ १ ॥ अद्रिचन्द्रकलनेषु यापुनर्योगपद्यधिषणा मनीषिणां । पद्मपत्रपटलीविलोपवत् सत्वरोदयनिबन्धनैव सा ॥ २ ॥ प्रथमतः परिसृत्य शिलोचयं निकटतः क्षणमीक्षणमीक्षते। तदनुदूरतराम्बरमण्डलीतिलककान्तमुपेत्य सितत्विषम् ॥३॥ कुर्महेऽत्र वयमुत्तरकेली कीदृशी दृगिह धम्मितयोक्ता। किंतु मांसमयगोलकरूपा सूक्ष्मताभृदपरा किमु कापि ॥ ४ ॥ आदिमा यदि तदापि किमर्थों लोचनानुसरणव्यसनी स्यात् । लोचनं किमुत वस्तुनि गत्वा संसजेत् प्रियइव प्रणयिन्याम् ॥५॥ प्रत्यक्षबाधः प्रथमप्रकारे प्राकारपृथ्वीधरसिन्धुरादिः। संलक्ष्यते पक्षमपुटोपटडी प्रत्यक्षकाले कलयापिनो यत् ॥६॥ पक्षे परत्रापि सएव दोषः सर्पन्न वस्तु प्रतिवीक्ष्यते ऽक्षि। संसपणे वास्य सकोटरत्वप्राप्त्या पुमान किन्न जरद्रुमः स्यात्।।७॥ चक्षुषः सूक्ष्मतापक्षे सूक्ष्मता स्यादमूर्तता। यद्वाल्पपरिमाणत्वमित्येषा कल्पनोभयी ॥ ८ ॥ स्यायोमवद्धयापकतापसक्त्या सर्वोपलम्भः प्रथमप्रकारे ।
टि. पं. द्वयोपेतरताकराथतारिकायुक्तः
८३
प्राकारकान्तारविहारहारमुख्योपलम्भो न भवेत द्वितीये ॥ ९॥
नखलू नखलु शस्त्रं स्वप्रमाणातप्रथि
पटकटशकटादौ भेदकारि प्रसिद्ध ।
अथ निगदसि तस्मिन् रश्मिचक्र क्रमेण
प्रसरति तत एतत्स्यादनल्पप्रकाशम् ॥ १०॥
तथाहि ।
प्रोदाममाणिक्यकणानुकारी दीपाकुरस्त्विद्पटलीपभावात् ।
किनव कश्मीरजकजलादीन् प्रथीयसोपि प्रथयत्यशेषान् ॥ ११॥
नन्वेवमध्यक्षनिराक्रिया स्यात् पक्षे पुरस्तादुपलक्षितेऽस्मिन् ।
प्रौढप्रभामण्डलमण्डितोऽर्थो नाभासते यत्प्रतिभासमानः ।। १२ ।।
अथाप्यनुद्भूततया प्रभायाः पदार्थसंपर्कजुषोप्यनीक्षा।
सिद्धिस्तदानीं कथमस्तु तस्या ब्रवीषि चेत्तैजसताख्यहेतोः॥१३॥
रूपादिमध्ये नियमेन रूपप्रकाशकवे नच तैजसत्वं ।
प्रभाषसे चक्षुषि संप्रसिद्धं यथा प्रदीपाङ्करविादादौ ॥ १४ ॥
तदिदं घुसणविमिश्रण मन्ध्रपुरन्ध्रीकपोलपालीनां ।
अनुहरते व्यभिचाराद्रूपेक्षणसन्निकर्षेण ॥ १५ ॥
द्रव्यत्वरूपेपि विशेषणे स्याद्धेतोरनैकान्तिकताञ्जनेन ।
तस्यापि चेत्तैजसतां तनोषि तन्वादिना किन्तु तदापराद्धम् ॥१६॥
सौवीरसौवर्चलसैन्धवादि निश्चिन्वते पार्थिवमेव धीराः ।
कृशानुभावोपगमो ऽस्य तस्मादयुक्त एवं प्रतिभात्यमीषाम्॥१७॥
तथाच ।
सौवीरसौवर्चलसैन्धवादिकं स्यादाकरोद्भूतिवशेन पार्थिवम् ।
मृदादिवन्नव्यभिचारचेतनं चामीकरणानुगुणं निरीक्ष्यते ॥ १८ ॥
चामीकरादेरपि पार्थिवत्वं लिङ्गेन तेनैव निवेदनीयम् ।
शाब्दप्रमाणेन न चात्रवाधापक्षस्य यन्नास्ति तदत्र सिद्धम् ॥१९॥
प्रमाणनयतत्वालोकालंकारः अञ्जनं मरिचरोचनादिकं पार्थिवं ननु तवापि संमतम् । अञ्जनेपि तदसौ प्रवृत्तिमानप्रयोजकविडम्बडम्बरी॥ २० ॥ हनूमल्लोललाङ्गललम्बात् ते साधनादतः । नसिद्धिस्तैजसत्वस्य दृष्टसुस्पष्टदूषणात् ॥२१॥ चक्षुर्न तैजसमभास्वरतिग्ममावा दम्भोवदित्यनुमितिप्रतिषेधनाच्च । सिद्धिं दधाति नयनस्य न तैजसत्वं तस्मादमुष्य घटते किमु रश्मिवत्ता।२२॥ अपि च। प्रत्यक्षबाधः समलक्षि पक्षे न रश्मयो यदृशि दृष्टपूर्वाः । तथा च शास्त्रेण तवैव कालातीतत्वदोषोप्युदपादि हेतोः ॥२३॥ अनुद्भवद्रूपजुषो भवयुश्चे द्रश्मयस्तत्र ततो न दोषः। नत्वेवमेतस्य पदार्थसार्थप्रकाशकत्वं न सुवर्णवत स्यात ॥ २४ ॥ आलोकसाचिव्यवशादथास्य प्रकाशकत्वं घटनामियति । नन्वेवमेतत् सचिवस्य किं स्यात् प्रकाशकत्वं न कुटीकुटादेः॥२५॥ अथास्तु कामं ननु तैजसत्वमुत्तेजितं किं न भवेत्त्वया ऽस्य । तथा च नव्यस्त्वदुपज्ञ एषोऽद्वैतप्रवादोऽजनि तैजसत्वे ॥ २६ ॥ उत्पद्यन्ते तरणिकिरणश्रेणिसंपर्कतश्चेत तत्रोद्भताः सपदिरुचयोलोचने रोचमानाः । यद्गृह्यन्ते नखलुतपनालोकसंपत्तानः तस्मिन हेतुर्भवति हि दिवा दीपभासामभासः ॥ २७ ॥ (टि०)-चक्षुः प्राप्येत्यादि नात्रेति चक्षुः प्राप्यकारीत्येवं लक्षणेऽस्मदाभ- मतेसिन्डिप्रमुखः तल्लक्षणेति असिद्धिलक्षणानवलोकनात् । अदिचन्द्रेत्या- दि योगपद्यति युगपबुडिः मनीषिणामित्यत्र साभिप्राय जडबुडीनां विवे- कपराङ्मुखत्वात् पद्मति कमलदलमूचीव्यतिभेदइव सेति धिषणार स्याइयो मरदित्यादिव्यापकतेति चक्षुः सर्वव्यापकममूर्तत्वाद्यदेवं तदेवं यथा गगन तथा चायं तस्मात्तथा द्वितीयेइति अल्पपरिमाणत्वे चक्षुः प्राकारकान्तारा वग्राहकमल्पपरिमाणत्वाद्यदेवं तदेवं यथा परमाणु: ३ नखलित्यादि नख- ८५ टि. पं. इयोपेतरनाकरावतारिकायुक्तः लिति नखच्छेदनिकालूच्छेदने नखपूर्वानखान लुनातीतिक्विप च स्वरो इस्वो नपुंसके नखलु सिद्धं तस्मिन्निति चक्षुषि ततइति रश्मिचक्रात् एत- दिति चक्षुः अनपेति प्राकारादिस्थूलप्रकाशम् नन्वेवमित्यादि पुरम्ता- दिति पूर्वप्रक्रान्ते चक्षुराश्मिवादित्येवं रूपे यत्प्रतिभासेति यया दृशा गृह्यमाणः अथाप्यनुद्भूतत्यादि तस्याइति प्रभायास्तैजसतति चक्षुः प्रभावत्तैजसत्वात् प्रदीपवत् रूपादीत्यादि रूपेति द्रव्यस्य व्यवच्छेदः नियमेन मनसोव्यवच्छेदःसंख्यासंयोगादिभिर्व्यभिचारः स्यादिति रूपादी- ति पदं साभिप्रायं तदिदमित्यादि अनुहरते इति अनुकरोति श्यामत्वात्ता- सां स्वभावकाराच्छयामशरीरे कुङ्कुमशोभाभावान्नि:श्रीकमित्यर्थः रूपेक्षणेति रूपप्रकाशकनयनसंयुक्तसमवायेन सन्निकर्षस्लैजसं रूपादि- मध्ये नियमेन रूपप्रकाशकत्वान्नयनवत्सन्निकर्षः पररूपप्राकशको न तेजसः अतएवष्यभिचारान्नशोभाभाजनमित्यर्थः द्रव्यत्वेति चक्षुस्तै जसं द्रव्यत्वे सति रूपादिमध्ये नियमेन रूपप्रकाशकत्वादित्येवं रूपस्य अञ्जनं तैजसं अतएवहेतोरिति वचनभङ्गप्रसङ्गः सङ्गतिं न गतौ तस्यापीति अञ्चनस्यापि तन्वादिनेति शरीरादिना शरीरमादिशब्दात् पृथ्वीपृथ्वीधरसिन्धुरादितै- जसमङ्गीकुरु सौवीरेत्यादि कृशानुभावेति तेजसत्वाभ्युपगमः तैजसत्वं पाचकानुभवः अस्येत्यञ्जनस्य अमीषामिति धीराणां अञ्जनं सौवीरसौवर्च- लादितो जायते तानि पार्थिवाणि तत्कथमञ्जन तैजसत्वघटनाहेतुहेतुमहिरो- धात् सौवीरेत्यादि आकरोद्भूतेति सौवीरादिपार्थिवमाकरोत्पन्नत्वात् सुव- णेन व्यभिचारज्ञानमनुगुणं युक्तियुक्तं न चामीकरेत्यादि तेनैवेति सुवर्ण पार्थिवमाकरोद्भूतवशत्वात् सौवीरादिवत् अत्रेति सुवर्णस्य पार्थिवत्व- प्रसाधके साधने यदिति यस्मातदित्यागमप्रमाणम् अत्रेति वादिनि जैने अतएवसुवर्णस्य तेजसत्त्वसिधिवद्धप्रतिज्ञेलिङ्गभवभिप्रेतोऽन्यतरासिद्धि नामदोषो अनुषज्यते अञ्जनमित्यादि असाविति चक्षुस्तैजसत्वसाधको द्रव्यत्वे सति रूपादिमध्ये नियमेन रूपप्रकाशकादित्येवं रूप अप्रयोजक- एव चक्षुर्नतैजसमित्यादि अमुष्येति नयनस्य प्रत्यक्षबाधइत्यादि पक्षे- इति चक्षुरश्मिवादित्येवं रूपे तवैवेति सवतकाभिप्रायेण प्रथमं प्रत्यक्ष- ८६ - प्रमाणनयतत्त्वालोकालंकारः विरुद्ध पक्षे हेतुः कालात्ययापदिष्टः अनुद्भवेत्यादि तत्रेति नेत्रे एत- स्येति नेत्रस्य आलोकेत्यादि आलोकसहकारिकारणवलात् अस्येति चक्षुषः एतत्सचिवस्योति आलोकसहकारिणः अथास्त्वित्यादिउत्तेजितमि- ति प्रकाशितम् अस्येति कुडयादेः तथाचेति कुड्यादिप्रकाशनेत्वदुपज्ञ- मिति तव उपज्ञा यत्र अद्वैतेति सर्वत्रतैजसवादः तथा अद्वैतवादे आलो- कसाचिव्यवशावतात्रिभुवनभवनकोणभाविभावानां तैजसत्वमेव प्रति- पन्नम्। (५०) तल्लक्षणानीक्षणादिति असिद्धादिलक्षणादर्शनात् सत्वरोदयनिबन्ध- नैवेत्यत्र सत्वरोदयो ज्ञानस्य शीघ्रोत्पत्तिः। प्रथमप्रकारेइति लोचनानुसरणव्यसनअर्थ इत्येवं रूपे । सर्पदिति गच्छत् । खल्विति निश्चये। नखलशस्त्रमिति नखह- रणिका। प्रथिष्ठे इति पृथुतरे। तस्मिन्निति महीयसि पदार्थे । रश्मिचक्रमिति चाक्षुषम्। तत्प्रकाशमिति तंमहीयांसम्पदार्थ प्रकाशयति तत्प्रकाशम् प्रसरति ततएतत् स्यादनल्पप्रकाशम् । पाठान्तरमेतत् पक्षेइति चक्षुः प्राप्यमति करोत्येवं रूपे । अनुद्भूत- तयेति सदपि वस्तुयदोद्भूतं भवति तदा ज्ञायते यथा देहान्तर्गता वातादयः। तस्याइति प्रभायाः। तैसजताख्यहेतोरिति चक्षुः प्रभावत्तैजसत्वात् प्रदीपयत् घुसृणेति कुंकुमस्याख्या घुसृणः विभणमित्यत्र वाक्ये यथा न किञ्चिच्छोभाविशेषमावहति एवमयमि. ति हेतुः रूपादिमध्ये नियमेन रूपप्रकाशकत्वलक्षणो न किञ्चित्प्रायइति भाषः। रूपेक्षणस- निकर्षण व्यभिचारादिति यदिकिलरूपादिमध्ये नियमेन रूपप्रकाशत्वेमैव हेतुना तैजसत्वं नयनस्य तदारूपेक्षणसान्निकर्षस्यापि तैजसत्वं प्राप्नोति सोऽपि रूपादि मध्ये नियमेन रूपप्रकाशकोऽस्ति सन्निकर्ष विना रूपापलब्धेरभावात् तस्य च तैजसत्वं भवतापि नेष्यत इत्यनै- कान्तिकोऽयं हेतुरूपादिमध्येनयमेन रूपप्रकाशकत्वमपि भविष्यति तैजसत्वमपि न भविष्यति यथा सन्निकर्षे । द्रव्यत्वरूपे इत्यादि चक्षुर्हिद्रव्यं द्रव्यत्वे सति यद्पादिमध्ये नियमेन रूपप्रकाशकं तदेव तैजसं सन्निकर्षश्च न द्रव्यं किन्तु गुणइति चेत् एवञ्चाञ्जनेन व्यभिचार- स्तद्धि द्रव्यत्वेसति रूपादिमध्ये नियमेन रूपप्रकाशकमस्ति नैर्मल्यापादनद्वारेण न च तैजसम् । अस्येति अञ्जनस्य अमीषामिति धीराणाम्। नव्यभिचारचेतनमिति सूरिवा- क्यम् । चेतनमिति ज्ञानम् तेनैवेति आकरोभूतिवशेन हेतुना । शान्दप्रमाणेनेति भागमप्रमाणेन । यदिति यस्मात्कारणात् । तदत्रेति शाब्दप्रमाणम् । सिद्धमिति वादिना जैनानां मते भवदागमो न सिद्धिस्तस्यायापि विवादास्पदत्वात् तदसदिति - । ।
८७ टि. पं. हृयोपेतरत्नाकरावतारिकायुक्तः रूपादिमध्यइत्यादिनोक्तः। हनूमल्लोललाङ्गेललम्बात्ते साधनादत इति इष्यत्वे सति रूपादिमध्ये नियमेन रूपप्रकाशकत्वात् एवं रूपात् । दृष्टसुस्पष्टदूषणदिति भैनकान्तिकत्वाख्यात् । अभावरतिग्मभावादिति भास्वरस्य सतस्तिग्मभावो भास्व- रतिग्मभावो न सः असस्तस्मात् । पक्षेइति चक्षुरश्मिवत्तैजसत्वात् एवं उक्त पूर्वे । तत्रेति नयने अथास्तुकाममिति कुटीकुटादेरापे प्रकाशकत्वं भवत्वितिभावः। अस्येति कुटीकुटादेः। तत्रेति नयने । चेदेवं ब्रूषे तत्र नयने तरणिकिरणश्रेणिसंपर्कतो रुचयउद्भू- ताउत्कटा उत्पद्यन्ते परं ता रुवयो यल्लोचने रोचमानाः खलु न गृहान्त इति योगः तस्मिन्नग्रहणे तपनालोकसम्पत्प्रतानो हेतु रविकिरणहताना तेषां चक्षुरश्मीनां न दर्शन मिति सम्बन्धः। (रत्रा०)-अत्रेयं प्रतिक्रिया। मुष्टियाह्ये कुवलयदलश्यामलिम्नाऽविलिप्ते स्फीत धान्ते स्फुरति चरतो घूककाकोदरादेः । किं लक्ष्यन्ते क्षणमपि रुचो लोचनेनैव यस्मात् आलोकस्य प्रसरणकथा काचिदप्यत्र नास्ति ॥२८॥ उत्पत्तिरुद्भूततयाथ तासां तत्रैव यत्रास्ति रविप्रकाशः। काकोदरादेरपि तर्हि नैता कीटप्रकाशे कुशला भवेयुः॥२९॥ अविवरतिमिरव्यतिकरपरिकरितापवरकोदरे वचन । वृषदंशशि न दृष्टा मरीचयः किमुकदाचिदथ॥३०॥ अतएवविलोकयन्ति सम्यक्तिमिराङ्करकरम्बितेपि कोणे । मूषिकपरिपन्थिनः पदार्थान् ज्वलनालोकविजृम्भणं विनैव ॥ ३१॥ (टि०) मुष्टीत्यादि अत्रेति निशीथे उत्पत्तिरित्यादि उद्भूततया बाहुल्य- तया तासामिति रुचीनाम् तत्रैवेति प्रदेशे काकोदरादेरिति सप्पंप्रमुखस्य एताइति रुचयः अविवरेत्यादि परवचनमेतत् वृषदंशेति दंशदशने वृषान् मूषकान दशतीति कर्मण्यण मार्जारस्तन्नेत्रे न दृष्टाइति अपितुदृश्यते एव अतएवेत्यादि अतइति मरीचिचयप्रभावादेव तिमिरेति अन्धकारबहुलेपि मूषकपरीति भाजारः।
८८ प्रमाणनयतत्त्वालोकालंकारः (पं०)-काकोदरादेरिति सर्पादेः। किंलक्ष्यन्ते इत्यादि किं नैव लक्ष्यन्ते इति सष्टकः। एताइति रुच्ययः । किमुकदाचित् अथेति अहो जैन किन्नदृष्टामरी- चय इति पुच्छा। (रवा)-अत्रोत्तरम्। चाकचिक्यप्रतीभास मात्रमत्रास्ति वज्रवत् । नांशवः प्रसरन्तस्तु प्रेक्ष्यन्ते सूक्ष्मका अपि ॥३२॥ मार्जारस्य यदीक्षणप्रणयिनः केचिन्मयूखाः सखे विद्यरनतदा कथं निशि भृशं तच्चक्षुषा प्रेक्षिते । प्रोन्मीलत्करपुञ्जपिञ्जरतनौ सञ्जातवत्युन्दरे प्रोज्जम्भेत तवापि हन्तधिषणा दीपप्रदीपाद्यथा ॥३३॥ कृशतरतया तेषां नोचेदुदोति मतिस्तव- प्रभवति कथं तस्याप्यस्मिन्नसौ निरुपप्लवा। घटननिपुणा साक्षात्प्रेक्षाविधौहिततिस्त्विां नखलु नसमाधीमन सा चोभयत्र विभाव्यते ॥३४॥ अमूदृग्मूषिकारीणां तस्मादस्ति वयोग्यता। यया तमस्यपीक्षन्ते न चक्षरश्मिवत्पूनः॥३५॥ इत्थं न चक्षुषि कथंचिदपि प्रयाति संसद्धिपद्धतिमियं खलु रश्मिवत्ता। तस्मात्कथं कथय तार्किकचक्षुषः स्यात् प्राध्यैव वस्तुनि मतिप्रतिबोधकत्वं ॥३६॥ बहिरर्थग्रहोन्मुख्यं बहिः कारणजन्यता। स्थायित्वं वा बहिर्देशे किं बाह्यान्द्रेयता भवेत् ॥३७॥ तत्रादिमायां भिदिचेतसास्यादेतस्य हेतोय॑भिचारचिह्न। अप्राप्यकारिप्रकारोति यस्मान्मन्दाकिनीमन्दरबुद्धिमेतत् ॥ ३८॥ दोषः सएवोत्तरकल्पनायां यदात्मनः पुद्गलएष बाह्यः। चेतश्चतस्मादुपजायमानमेतबहिः कारणजन्यतामृत् ।। ३९ ॥
८ ९ टि. पं. इयोपेतरत्नाकराचतारिकायुक्तः चेतः सनातनतया कलितस्वरूपं सर्वापकृष्टपरिमाणपवित्रितञ्च । प्रायः प्रियःप्रणयिनीप्रणयातिरेका देतत्करोति हृदये ननुतर्कतज्ञाः॥४०॥ एनदत्र विततीक्रियमाणं प्रस्तुतेतरादिव प्रतिभाति । विस्तराय च भवेदिति चिन्त्यं तद्विलोक्य गुरुगुम्फितवृत्तिम् ॥४१॥ पक्षे तृतीये विषयप्रदेशः शरीरदेशो यदि वा बहिः स्यात् । स्थायित्वमाये विषयाश्रितत्वं यद्वाप्रवृचिर्विषयोन्मुखी स्यात् ॥ ४२ ॥ प्राचीनपक्ष प्रतिवाद्यसिद्धिकलङ्कपङ्कः समुपैति हेतोः। स्याद्रादिना यत्प्रतिवादिनास्य नाङ्गीकृतमेयसमाश्रित्वम् ॥ ४३ ॥ पक्षे तथा साधनशन्यतास्मिन् दृष्टान्तदोषः प्रकटः पटूनाम् । जिह्वेन्द्रियं नार्थसमाश्रितं यद्विलोकयामासु रमी कदाचित् ॥ ४४ ॥ द्वितीयकल्पे किमसौ प्रवृत्तिराभिमुख्येन विसर्पणं स्यात् । आश्रित्य किंवा विषयप्रपञ्चं प्रतीतिसंपत्प्रतिबोधकत्वम् ॥४५॥ पक्षे पुरश्चारिणि सिद्धिवन्ध्यं स्यात्साधनं जैनमतानुगानां । यस्मान्न तैर्लोचनरश्मिचक्रमङ्गीकृतं वस्तुमुखं प्रसपत् ॥ ४६ ॥ निदर्शनस्य स्फुटमेव दृष्टं वैकल्यमत्रैवहि साधनेन । पदार्थसार्थ प्रतियन्नसपजिहेन्द्रियं केनचिदिष्टपूर्वम् ॥ १७ ॥ पक्षान्तरेतु व्यभिचारमुद्रा किंचेतसा नैव समुजजम्भे । यस्मात्तदप्राप्य सुपर्वशैलस्वर्गे समुत्पादयति प्रतीतिम् ॥ ४८॥ शरीरस्य बहिर्देशे स्थायित्वं यदि जलप्यते । बाह्येन्द्रियत्वमत्र स्यात् संदिग्धव्यभिचारिता ॥ ४९ ॥ अप्राप्तार्थपरिच्छेदेनापि साई न विद्यते । हेतोर्बाह्येन्द्रियत्वस्य विरोधो बत कश्चन ॥ ५० ॥ क्वचित्साध्यनिवृत्यातु हेतुव्यावृत्तिदर्शनात् । प्रतिबन्धप्रसिद्धिश्चत्तदाऽत्रापि कथं न सा ।। ५१।। रसनस्पर्शनघ्राणश्रोत्रान्येन्द्रियताबलात् । चक्षुरप्राप्यविज्ञातृमनोवत् प्रतिपद्यताम् ॥ ५२ ॥ १२
HARN
९०
प्रमाणनयतत्वालोकालंकारः
साध्यव्यावृत्तितोऽत्रापि हेतुव्यावृत्तिरीक्षिता ।
न च कश्चिदिशेषोऽस्ति येनैकत्रैव सा मता ॥ ५३॥
बाह्यन्द्रियत्वं सकलङ्कमेवं न तार्किकान्प्रीणयितुं तदीष्टे ।
भ्रूविभ्रमोदुर्भगभामिनीनां वैदग्ध्यभाजो भजते न चेतः ॥ ५४ ॥
किंचात्र संसूचितमादिशब्दावृत्ते पुरश्चारिणिकारकत्वं ।
यत्प्राप्यकारित्वसमर्थनाय नेत्रस्य तत्काणगञ्जनाभम् ॥ ५५॥
यस्मादिदं मन्त्रजपोपसर्पोदामरामाव्यभिचारदोषात् ।
उत्तालबेतालकरालकेलीकलवितश्रीकमिवा वभाति ॥ ५६ ॥
तथाहि ।
कनकनिकपस्निग्धां मुग्धां मुहुर्मधुरस्मितां
चटुलकुटिलभूविभ्रान्ति कटाक्षपटुच्छटाम् ।
त्रिजगतिगतां कश्चिन्मन्त्री समानयति क्षणा-
तरुणरमणीमारान्मंत्रान्मनो भुवि संस्मग्न् ॥ ५७ ॥
कश्चिदत्र गदतिस्म यत्पुनमन्त्रमंत्रणगवीसमानयेत् ।
पुक्तमेव मदिरेक्षणादिकं तेन नाभिहितदूषणोदयः ॥ ५८॥
मन्त्रस्य साक्षाद्घटनाप्रियादिना परम्परातो यदि वा निगद्यते ।
साक्षान्न तावद्यदयं विहायसोध्वनिस्वरूपस्तवसम्मतो गुणः॥५९।।
ततोऽस्य तेनैव समंसमस्तिसंसक्तिवार्ता नतुपक्ष्मलाक्ष्या।
अथाक्षरालम्बनवेदनं स्यान्मंत्रस्तथाप्यस्त्वियमात्मनैव ॥ ६० ॥
अथापि मंत्रस्य निवेद्यते त्वया संसक्तिरेतत्पतिदेवतात्मना ।
सन्तोषपोषप्रगुणाच सा प्रियां प्रियं प्रति प्रेरयति खयोगिनीम् ॥६१॥
ब्रूमहेत्र ननुदेवतात्मना मन्त्रवर्णविसरस्य का घटा।
अम्बरस्य गुण एव तत्कथं देवतात्मनि मजेत सङ्गतिम् ॥६२॥
आश्रयद्धारतो ऽप्यस्य ससंगों नास्ति सर्वथा।
व्यापकद्रव्ययोर्यस्मात् संसर्गो नामुनामतः ॥ ६३ ॥
टि. पं. हृयोपेतरनाकरावतारिकायुक्तः ११ व्यापकेषु वदति व्यतिषङ्गं यस्तु तेन मनसा वनिना च । तीतवस्तुविषयेण विमृश्य स्पष्टएव विलसन व्यभिचाराः ॥ ६४ ॥ अयस्कान्तादनेकान्तस्तथाऽत्र परिभाव्यतां । आक्षपश्चसमाधिश्च ज्ञेयो रवाकरादिह ।। ६५ ॥ कारकत्वमपि तन्न शोभते प्राप्यकागिण यदीक्षणे मतं । प्राप्यवस्तु वितनोति तन्मतिं नैव चक्षुरिति तत्त्वनिर्णयः ॥६६॥ अदिचन्द्रकलनेषु येत्यदः प्राक्प्ररूपितमुपैति नो घटां। रश्मिसञ्चयविपश्चितं हि तत्तेच तत्र नितरां व्यपाकृताः ॥६७॥ किंच। चक्षुरप्राप्यधीकृतव्यवधिमतोऽपि प्रकाशकं यस्मात् । अन्तःकरणं यद्यतिरेके स्यात् पुनारसना ॥६॥ अथद्रुमादिव्यवधानभाजः प्रकाशकत्वन्ददृशे न दृष्टौ। ततोऽव्ययं हेतु परसिद्धतायां धौरेयभावं विभराम्बभूव ॥६९।। एतन्न युक्तं शतकोटिकाच स्वच्छोदकस्फाटिकभित्तिमुख्यैः । पदार्थपुञ्जव्यवधानमाजि सञ्जायते किं नयनान्नसंवित् ॥७॥ दम्भोलिप्रभृति प्रभिद्यभिदुगश्चेद्रोचिषश्चक्षुषः संसगोपगताः पदार्थपटली पश्यन्ति तत्र स्थितां । एवं तहिंसमुच्छलन्मलभरं भिवाजलं तरक्षणात् तेनाप्यन्तरितस्थिती ननिमिषानालोकयेयुन किम् ॥ ७१।। विध्यातास्तेन ते चेद्धिमलजलभरात् किंभजन्ते न शान्ति किञ्चांभः काचकूपोदरविवरगतं निष्पतेत् तत्तदानीं। दोषश्चन्नेषतूर्णं यदयमुदयते नूतनव्यूह रूपः सर्पयुस्तर्हि नैताः कथमपिरुचयोलोचनस्यापि तस्मिन् ॥७२॥ १ किमाप इत्यापि पाठः । २ उदक इत्यपि पाठः ।
BLINE HUMAN प्रमाणनयतत्त्वालोकालंकारः भवतिपरिगमश्चेत् वेगवत्वा दमीषां कतिपयकलयास्तु क्षीरपातस्तदानीं। नच भवति कदाचिबुबुदस्यापि तस्मात् प्रपतनमिति युक्तस्तस्य नाशः किमाशु ॥ ७३ ॥ किंव। कलशकुलिशप्राकाराद्यत्रिविष्टपकन्दरा कुहरकलितं विश्ववस्तु प्रतिक्षणभङ्गुरम् । ज्वलनकलिकावरिकत्वस्मिन् निरन्तरताभ्रमः प्रभवतिवदन्नित्थशाक्यः कथं प्रतिहन्यते ॥ ७४ ॥ तस्थौ स्थमा तदस्मिन् व्यवधिमदमुना प्रेक्ष्यते येन सर्व तसिद्धा नेत्रबुद्धिव्यवधिपरिगतस्यापि भावस्य सम्यक । कुडयावष्टब्धबुद्धिर्भवति किमुनचेन्नदृशीयोग्यतास्य प्राप्तस्यापि प्रकाशे प्रभवति न कथं लोचनाद्गन्धबुद्धिः।।७।। किंवा न प्रतिभासते शशधरे कापि तद्रूपवत् दूराचेद्विलसत् तदस्य हृदये लक्ष्येत किलांछनं । तस्माच्चक्षुषि योग्यतैव शरणं साक्षी च नः प्रत्यय- स्ततर्कप्रगुणप्रतीहिनयनेष्वप्राप्यधीकर्तृताम् ॥ ७६ ॥ (दि०)-चाकचिक्येत्यादि अत्र चक्षुषि कृशतरेत्यादि तेषामिति रश्मीनां तस्यापीति विडालस्य अस्मिन्निति उन्दरे असाविति मतिः साचेति त्विषां सन्ततिः उभयत्रेति त्वच्चक्षुषि ओतुचक्षुषि च इत्थमि- त्यादि तार्किकेति षट्तर्कभाषापरितककर्कशमते इतिसोल्लुण्ठवचनं प्रतिबोधकत्वमिति ज्ञानोत्पादकत्वम् तत्रादिमायामित्यादि तत्रेति बाह्य- न्द्रियत्वादिति हेतौ एतदिति मनः दोषःसएवेत्यादि एषइति चेतो वर्गणारूपः तस्मादिति पुद्गलात् अथैवं मन्यसेचेतोनित्यं ततः कथंकारं कारणं जन्यं स्यादित्याशंक्याह चेतः सनातनेत्यादि सनातनेति नित्यतया तन्मते चेतोनि त्यमित्यर्थः सर्वापकृष्टेति अणुपरिमाणं मनः प्राचीनेत्यादि टि.पं. इयोपेतरनाकराधतारिकायुक्तः अस्येति विषया भित्तस्वरूपस्य हेतोः पक्षेपुरइत्यादिसाधनमित्यर्थाभिमुख्येन विसर्पणं जनानामसिद्धम् तैरिति जैनैः अप्राप्तार्थत्यादि चक्षुरप्राप्यविषये मतिं करोति वाधेन्द्रियवाजिह्वाचादित्यपि हेतोर्नविरोध: क्वचित्साध्येत्यादि तन्मतेहि विपक्षेव्यासावपि साधनस्य व्यावृत्ति पूर्व साध्यव्यावृत्तिरिष्यते अतः क्वचित्साध्येति प्राप्यकारित्वव्यावृत्त्या हेतोरिति बाह्येन्द्रियत्वस्य अप्राप्तति यत्प्राप्यकारि न स्यात् तद्बाह्येन्द्रियमपि न यथा मनः एवं विधे. व्यावृत्तिप्रधाने साधने प्रतिबन्धेति प्रतिबन्धस्याविनाभावस्य प्रसिद्धिः अत्रापीति चक्षुरप्राप्यकारीत्येवं रूपे सेति प्रतिबन्धप्रतिपत्तिः अस्मन्मतेग्य स्वभावो विपक्षे साध्यव्यावृत्तिपूर्वा साधननिवृत्तिः साध्यव्यावृत्तीत्यादि सेति प्रतिबंधप्रसिद्धिः तावकानुमाने आस्माकीने च समानाउभयोर्विशेषा- भावात् । यस्मादिदमित्यादि सकलङ्कमिति सन्दिग्धानकान्तिकत्वदू- षितम् कारकत्वमिति यत्कारकं तत्प्राप्यकारीतिव्याप्तिः यस्मादिति कार- णात् इदमिति कारकत्वं मन्त्रः प्राप्यकारी रामाधाकर्षणकारकत्वात् अत- एवानकान्तिकोग्यं हेतुः कश्चिदत्रेत्यादि युक्तमिति सम्बडमेव मदिरेति नारीप्रभृतिकम् तेनेति कारणेन भवद्भिरभिहितमुक्तं दूषणं तस्योदयो न मन्त्रस्येत्यादि विहायस इति आकाशस्य शब्दोाबरगुणोभवतः सम्मतःयो यस्य गुणः सतनव सम्बद्धो भवति नान्येन ततोऽस्येत्यादि ततः कारणा- दस्यति ध्वनिरूपस्य मन्त्रस्य अनेनेति आकाशेन वेदनमिति ज्ञानं इयमिति संसक्तिवर्ती ज्ञानमात्मगुणः अतएवात्मसम्बद्धो भवतु अथापीत्यादि एतत्पतीति एतस्य मन्त्रस्याधिष्ठातृदेव्या सेति अधिष्ठात्री स्वयोगिनीमित्यात्मसम्बद्धां आश्रयेत्यादि परम्परापक्षस्य परिहारः आश्रयस्य गगनस्य द्वारेण मंत्र वर्णविसरी गगने संसज्यते आकाशं पक्षमालाक्ष्याइत्यपि नघटते व्यापकेति आकाशात्मनोः अमु. नेति भवदाचार्येण व्यापकेष्वित्यादि व्यतिषंगमिति संयोग तेनति भवतांचतुर्णी मध्येकेनापि यइति मनसः प्राप्यकारित्ववादिवशेषिकादिः मनसेति अप्राप्यकार्यपिमनोध्वनियकारकं व्यभिचारः कारकत्वायहेतोः प्रमाणनयतत्वालोकालंकार: अद्रिचन्द्रेत्यादि कारकत्वहेतोरनैकान्तिकत्र्ष कोभाषः अतीतमस्तु विषयस्प मनसः शब्दस्यच यद्यपि चिंतकत्वेनार्थप्रकाशकत्वेन च कारकत्वमस्ति तथापि प्राप्यकारित्वं नास्ति विषयस्यातीतत्वात् अयस्कान्ताहिकारकम- स्ति परमप्राप्यकारी तेइति रश्मयः तत्रति चक्षुषि व्यपाकृताइति पूर्वोक्त प्रकारेण निराकृताः चक्षुरप्राप्येत्यादि व्यतिरेकइति यत्प्राप्यकारिन भवति तवचवधिमत्प्रकाशकं न भवति यथाजिला अथट्ठमेत्यादि ततोऽपीति अदर्शनादेव अयमिति व्यवधिमतोपि प्रकाशकत्वादित्यवं रूपः एतन्ने- त्यादि शतकोटिवनं हीरकश्च संविदिति ज्ञानं दभोलीति भिदुगइति भेद- नशीलाः तत्रेति व्यवधाने मलभरमिति कलुषमित्यर्थः तेनति सलिलन। अनमिषानिति मत्स्यान् विध्याताइत्यादि विध्याताःउपशान्ता तेनेति कलुषजलेन तेइति नयनरश्मयः नूतनेति नव्यकाचकूपरचनाविशेषः एताइति लोचनरुपयः तस्मिन्निति काचकूपेनव्यव्यूहस्य तत्कालोत्पद्यमानत्वात् भवतीत्यादि परिगमइति वेगेनगमनं अमीषामिति नेत्रकिरणानां कतिप- येति ले शेनापि तस्मादिति काचकूपात् तस्येति काचकूपस्य कलशत्यादि तस्मिन्निति कलशकुलिशादौ यथानवनवोत्पद्यमानापि ज्वाला सैवेयमिति प्रतीयते कल शकुलिशादिरपि तस्थावित्यादि अस्मिन्निति काचकूपादी स्थिरएचकाचकूपः अमुनेति चक्षुषा अस्येति चक्षुषः किंवानेत्यादि कर्मा- पीति गतिक्रियापि तद्पवदिति वर्तुल निर्मलशशलांच्छनरूपयर्ने अस्येति निशाकरस्य नइत्यस्माकं तर्कप्रगुणेति न्यायतईन्यायसारकन्दलीकिरण- वली प्रमुखप्रमाण ग्रन्थवीथीविचारणप्रवणप्रोल्लसत्प्रचुरप्रज्ञाप्राग्भारविस्फू- ज्जितगुणगणकलितेति तज्जयात सोपहासवाक्यम् । (५०)-तच्चक्षुषति मार्जारचक्षुषा । अत्र काव्ये तवापिश्रेिषणा कथन्नप्रोज्जृम्भते इति संयोगः । तस्यापीति ओतोरपि । अस्मिन्निति मूषिकेमतिप्रबोधकत्वमिति प्रत्यक्षल क्षणमितिजनकत्वम् । तर्कतज्ञाइति नित्यानित्यमनः शुभाशुभचिन्ताहेतुत्वस्वभावात् । मनो अणुपारमाणं न भवतिकरणत्वालोचनादिवत् । एवंप्रायः प्रयोगविदुराः अर्थसमाश्रित- मिति अर्थाधेयम् आश्रित्यति उद्दिश्य । पुरश्चारिणीति प्रथमे । सन्दिग्धव्यभि- चारितेति । अकान्तिकत्वम् । अप्राप्तार्थपरिच्छेदेनापीति अप्राध्यकारित्वेनापि ।
९९
टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्तः
कचिदितियत् प्राप्यकारि न भवति तद्बाह्यन्द्रियमपि न भवति यथामनः । एवंविधजेनोक्ते
व्यावृत्तिप्रधानेसाधने । अत्रापीतिउत्तरपद्येन वक्ष्यमाणे प्रयोगे । सेतिप्रतिबन्धप्रसिद्धिः स-
कलङ्कमिति सन्दिग्धानकान्तिकत्वदूषितम् । पुरश्चारिणीति चक्षुःप्राप्येत्यस्मिन् आरा-
दिति दुरात् युक्ततमिति सम्बद्धम् अस्येति शब्दस्या तेनैवेति विहायसा । अथापीति
परम्परापक्षस्योपक्षेपः स्वयोगिनीमिति स्वसम्बद्धा आश्रयदारतइति शब्दस्याश्रयोह्या-
काशःसचसर्वव्यापी। अस्येति मन्त्रवर्णविसरस्य। व्यापकोष्विति आत्मादिषु । यस्त्विति
मनसः प्राप्यकारित्ववादवैिशेषिकादिः । व्यभिचारइति कारकत्वहेतोरनैकान्तिकस्वं को भावः
अतीतवस्तुविषयस्य मनसः शब्दस्य चयद्यपिचिन्तकत्वेनार्थप्रकाशकत्वेन चकारकत्वमस्ति तथा-
पि प्राप्यकारित्वं नास्ति विषयस्य तीतत्वात्। अयस्कान्तादनेकान्तइति सहिकारकमस्ति
परं अप्राप्यकारी । अत्रेति कारकत्वहेतौ। मतमिति भवतामिष्टम् । प्राप्यवस्वित्यादि
चक्षु कर्तृवस्तुप्राप्यमतिनैववितनोतीतियोजना। तत्रेति नयने । नूतनव्यूहरूपइति नवीन-
रचनारूपः परिगमइति प्रेवशः क्षीरपातइति जलगलनम् । कर्मापितद्रूपवदिति
तद्रूपं प्रकाशते । एवं गगनमपिप्रकाशताम् न च प्रकाशते तस्माद्योग्यतैव प्रमाणम्। अस्यति
।
।
यथा
शशधरस्य।
(रत्ना०)--बौद्धाः पुनरिदमाहुः श्रोत्रं नप्राप्यबुद्धिमाधत्ते ।
दिग्देशव्यपदेशान् करोति शब्दे यतोहग्वत् ॥ ७७ ॥
तथाहि ।
प्राच्या मत्र विजृम्भते जलमुचामत्यूर्जितं गजितं
प्रोन्मीलत्यलमेष चातकरवो ऽक्षामः क्षणं दक्षिणः ।
केकाः केकिकुंटुम्बकस्य विलसन्त्येताः कलाः कानना-
दिग्देशव्यपदेशवानिति न किं शब्देऽस्ति सम्प्रत्ययः।।७८॥
प्राप्यकारि यदितु श्रवणं स्यात् तर्हि तत्र न कथञ्चन सैषः ।
प्रस्तुतः समुदियाद्यपदेशः शर्करास्पृशियथारसनायाम् ॥ ७९॥
वेश्यानुरागप्रतिमं तदेतत् सुस्पष्टदृष्टव्याभिचारदोषात् ।
प्राणयदेतद्यपदेशमा प्राप्तप्रकाशं कुरुते मनीषां ॥ ८०॥
JIMER प्रमाणनयतत्वालोकालंकारः तथा च। मन्दमन्दमुदत्ययम्परिमलः प्रारमाधवीमण्डपा- यः सौरभमुद्रमंत्युपवने फुल्लाः स्फुटमल्लिकाः । गन्धोबन्धुरएषदक्षिणदिशः श्रीचन्दनात्प्राप्तवा- नित्यवं ननुविद्यते तनुभूतां प्राणात् तथाप्रत्ययः ॥ ८॥ अस्ति लगिन्द्रियेणापि व्यभिचारविनिश्चयः। शेमुषी मादधानेन दिग्देशव्यपदेशिनीम् ॥ ८२ ॥ तथाहि । सेयं समीरलहरी हरिचन्दनेन्दुसंवादिनी वनभुवः प्रसभम्प्रवृत्ता। स्फीतस्फुरत्पुलकपल्लविताङ्गयष्टिं मा मातनोतितरुणीकरपल्लवश्च ।।८३॥ अथानुमानादधिगम्य तेषां हेतूस्तंतस्तद्ध यपदेशिनी धीः । नघ्राणतः स्पर्शनतश्चतादृप्रत्यक्षरूपा प्रथतेमनीषा ॥ ८४ ॥ श्रोत्रेपि सर्वन्तदिदं समान मालोकमानोपिन मन्यसेकिम् । दृष्टव्यलीकामपि कामीनी यत्संमन्यते कामुक एवसाधीं॥ ८५॥ स्मृत्वायथैवप्रतिबन्धमाशशंखादिशब्दोयीमीत प्रतीतिः। प्राच्यादिदूरादिगतेपि शब्दे तथैवयुक्ता प्रतिपत्तिरेषा ॥ ८६ ॥ दिग्देशानां श्रुतिविषयताकिंच नो युक्तियुक्ता युक्तत्वेवा भवति नकथं ध्वानरूपत्वमेषां। तस्माद्भिन्न मितिविषयास्तेविशिंषन्ति शब्द- सिद्धेचैवं भवतुसुतरां साधनेसाप्यसिद्धिः ॥ ८७ ॥ अपि च गृह्यते यदिविनैष संगतिं किंतदानुगुणमारुते ध्वनौ । दूरतोपिधिषणा समुन्मिषदेऽन्यथा तु निकटेपि नैवसा ॥ ८८ ॥ मुहर्मरति मन्थरं स्फुरतिसानुलोमागमे समुल्लसितवल्लकीक्वणकलाकलापप्लुता।
टि. पं. द्वयोपेतरनाकराषतारिकायुक्त सकामनवकामिनीकलितघोलनाडम्बरा न किं निशि निशम्यते सपदि दूरतः काकली ॥ ८९ ॥ पटुघटितकपाटसंपुटौघे भवति कथं सदनेऽथ शब्दबुद्धिः । पटुघटितकपाटसंपुटौघे भवति कथं सदनेऽपि गन्धबुद्धिः ॥१०॥ तथाहि कर्पूरपारीपरिरम्भमाजि श्रीखण्डखण्डे मृगनाभिमिश्ने । धूमायमाने पिहितेऽप्यगारे गन्धप्रबन्धो बहिरभ्युपैति ॥ ९१ ।। द्वारावतेऽपि सदने प्रणयप्रकर्षादेवं प्रिये स्फुरदपत्रपया स्खलन्ती । द्वारिस्थितस्य सरसाकुलबालिकायाः कर्णातिथीभवति मन्मनसूक्तिमुद्रा ९ एवं व प्राप्त एवैष शब्दः श्रोत्रेण गृह्यते । श्रोत्रस्यापि ततः सिद्धा निर्बाधा प्राप्यकारिता ।। ९३ ॥ (टि०)-प्राप्यकारीत्यादि तत्रेति श्रवणे प्रस्तुतइति प्राच्यादिदिग्देश- लक्षणः मन्दमन्दमित्यादि यथा रसनायामिति कोऽर्थः शर्करास्वादे रस- नाशन्दे किमेवं जानाति यदेषा शर्करा पूर्वदिशआगता तथेति दिग्देश- व्यपदेशप्रत्ययः अथानुमानेत्यादि तेषामिति परिमलादीनाम् हेतूनिति माधवीमण्डपादीनि निमित्तानि तव्यपदेशिनीति परिमलादिव्यपदेशिनी दिग्देशानामित्यादि श्रुतविषयतेति कर्णगोचरता एपामिति दिग्देशानां दिग्देशा अपि शब्दरूपा भवेयुः भिन्नति अपरप्रमाणविषयायेन प्रमाणेनन शब्दग्रहणं तेन न दिग्देशग्रहणं किंत्वपरेण ते इति दिग्देशाःविशिषन्तीति विशिष्टरूपं दर्शयन्ति गृह्यतइत्यादि सङ्गतिमिति सम्बन्धं विना अनु- गुणेति अनुकूलवायौ शब्दे धिषणेति बुद्धिः समुन्मिषेदिति उल्लसेत् अन्यथेति प्रतिकूलपवने सेति बुद्धिः । (५०)-काननेइति देशव्यपदेशः । यदिति यस्मात् कारणात् । एतदयपदेश- भाजमिति दिग्देशव्यपदेशाश्रितम् । प्राप्तप्रकाशमिति प्राप्तं सत्प्रकाशयति प्राप्य- कारीत्यर्थः । प्राण कर्तृ एतव्यपदेशभाजं मनीषां कुरुतइति योगः । उपवनेइति देशनिर्देशः बनभुवइति देशकथनम् । अथानुमानादित्यादिपरवाक्यम् । तेषामिति Save beta ARTHA - अत्राप्यनुमाना- प्रमाणनयतत्वालोकालंकारः गन्धादीनाम् । हेतूनिति माधवीमण्डपादीन्। तादृगिति दिग्देशव्यपदेशवती मनीषा न प्रवर्त्तते घ्राणतः स्पर्शनतश्च । श्रोत्रेऽपि समिति देवदिग्देशव्यपदेशवतांधीः प्रवर्तते न प्रत्यक्षरूपा प्रतिबन्धमिति प्रत्यक्षं हि शब्दोऽयमिति शात्वा कृतार्थ पश्चाच्छंखशब्दोऽयामिति या प्रतीतिर्भवति सा च प्रतिबन्धपूर्व- कादनुमानादेव जायते यः किल शब्दो मया पूर्वमुपलब्धस्तत्सद्दशोऽयं उपलभ्यमानः शब्दः सच्च शङ्खशब्देआसीत् तस्मादनेन शङ्खशब्देन भाव्यम् । तथैवेति अनुमानादेव प्रति- पचिरेषेति दिग्देशव्यपदेशवती । ध्वनिरूपत्वमिति योयःश्रुतिविषयः स स शब्दो यथा शङ्खशब्दः। भिन्नप्रमितिविषयाइति भिन्नानुमानलक्षणप्रमाणविषयाः। ते इति दिग्देशाः। साधनेइति दिग्देशव्यपदेशवत्वे । सङ्गतिमिति सम्बन्धम् । अन्य- थेति प्रतिलोममारुते श्वनौ। निकटेऽपीत्यादि यदि हदिमप्राप्यकारिस्यात्तदा मारुत- कतानुकूल्यापेक्षा न स्याद्यथा चक्षुषः। पटुघटितेत्यादि पये परो वक्ति । अपराई सूरिया- क्यम् । दारास्थितस्येति कस्यचित्पुरुषस्य । अथास्य द्विविधस्यापि प्रकारान् प्रकटयन्ति । । मू०-एतद्वितयमवग्रहहावायधारणाभेदा- देकशश्चतुर्विकल्पमिति । अवग्रहश्वेहाचावायश्च धारणा च तामिदो विशेषस्तस्मात् प्रत्येक- मिन्द्रियानिन्द्रियनिबन्धनप्रत्यक्षं चतुर्भेदमिति । अवग्रहादीनां स्वरूपं सूत्रचतुष्टयेन स्पष्टयन्ति । मू०-विषयविषयिसन्निपातानन्तरसमुद्भू- तसत्तामात्रगोचरदर्शनाज्जातमाद्यम- वान्तरसमान्याकारविशिष्टवस्तुग्रहण- मवग्रहइति। ।
टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्तः विषयःसामान्यविशेषात्मकोऽर्थो विषयी चक्षुरादिस्तयोः समीचीनो भ्रान्त्याद्यजनकत्वेनानुकूलो निपातो योग्यदेशाद्यवस्थानं तस्मादनन्तर- समुद्भूतमुत्पन्नं यत्सत्तामात्रगोचरं निःशेषविशेषवैमुख्येन सन्मात्रविषयं दर्शनं निराकारो बोधस्तस्माजातमाद्यं सत्त्वसामान्यादवान्तरैः सामा- न्याकारैर्मनुष्यत्वादिमिर्जातिविशेषैर्विशिष्टस्य वस्तुनो यद्गृहणं ज्ञानं तदवग्रहइति नाम्ना गीयते । मू०-अवगृहीतार्थविशेषाऽकाङ्क्षणमीहति । अवगृहीतोऽवग्रहेण विषयीकृतोयोऽर्थो ऽवान्तरमनुष्यत्वादिजाति- विशेषलक्षणस्तस्य विशेषः कर्णाटलाटादिभेदस्तस्याकांक्षणं भवितव्यता- प्रत्ययरूपतया ग्रहणाभिमुख्यमीहेत्यभिधीयते । मू०-ईहितविशेषनिर्णयोऽवायइति । ईहितस्येहयाविषयीकृतस्य विशेषस्य कर्णाटलाटादेनिर्णयो याथा- म्येनावधारणमवायइति कीर्त्यते । मू०-सएवदृढतमावस्थापनोधारणेति॥ स इत्यवायो दृढतमावस्थापन्नोविवक्षितविषयावसाय एव सादरस्य प्रमातुरत्यन्तोपचितः कश्चित्कालं तिष्ठन् धारणेत्यभिधीयते। दृढतमावस्था- पन्नो ह्यवायः स्खोपढौकितात्मशक्तिविशेषरूपसंस्कारद्वारेण कालान्तरे स्मरणं कर्तुं पर्याप्नोतीति । नन्वनिश्चयरूपत्वादीहायाः संशयखभावतैवेत्यारेकामपाकुर्वन्ति । मू०-संशयपूर्वकत्वादीहायाः संशया द इति पुरुषावग्रहानान्तरं हि किमयं दाक्षिणात्य उतौदीच्य इत्यनेककोटि- परामर्शिसंशयस्ततोऽपि प्रमातुर्विशेषलिप्सायांदाक्षिणात्येनानेन भवितव्य- मित्येवमीहा जायतइति हेतुहेतुमद्भावात् तन्तुपटवद्यक्तमनयोः पृथक्त्वम्।
AASinge १०० प्रमाणनयतत्वालोकालंकार: दर्शनादीनां कथंचिदव्यतिरेकेऽपि संज्ञाभेदं समर्थयन्ति । मू०-कथंचिदभेदेऽपि परिणामविशेषादेषां व्यपदेशभेदइति। यदष्येकजीवद्रव्यतादात्म्येन द्रव्यार्थादेशादमीषामैक्यम् । तथापि पर्यायार्थादेशाद् भेदोऽपीति तदपेक्षया व्यपदेशभेदोऽपि सूपपादइति । अथामीषां भेदं भावयन्ति । मू.-असामस्त्येनाप्युत्पाद्यमानत्वेनाऽसङ्कीर्ण- स्वभावतया ऽनुभूयमानत्वादपूर्वापूर्व- वस्तुपर्यायप्रकाशकत्वात् क्रमभावि- त्वाच्चैते व्यतिरिच्यन्त इति ॥ असङ्कीर्णस्वभावतया परस्परस्वरूपवैविक्त्येनानुभूयमानत्वाद्दर्शना- दयो भिद्यन्ते । तथानुभवनमप्यमीषामसामस्त्येनाध्यकत्र्यिादिसंख्य- तयोत्पद्यमानत्वादवसेयम् । तथाहि । प्रमातुर्विचित्रक्षयोपशमवशात् कदाचिद् दर्शनमेव कदाचिद्दर्शनावग्रहो कदाचिद्दर्शनावग्रहसंशयादयः क्रमेण समुन्मजन्तीति सिद्धमतोऽसङ्कीर्णत्वेनैव तेषामनुभवनम् अपूर्वापूर्व- वस्तुपर्यायप्रकाशकत्वक्रमभावित्वेऽपि प्रत्यात्मवेद्य एवात्र प्रयोगाः पुन- खम् । ये ऽसङ्कीर्णस्वभावतयाऽनुभूयन्ते अपूर्वापूर्ववस्तुपर्यायप्रकाशकाः क्रमभाविनो वा ते परस्परं व्यतिरिच्यन्ते यथा स्तम्भादयोऽनुमानादयो ऽङ्गुरकन्दलकाण्डादयो वा तथा चैतइति । अथामीषां क्रमनियमार्थमाहुः। मू०-क्रमोप्यमीषामयमेव तथैव संवेदनादेवं १०१ टि. पं. द्वयोपेतरनाकरावतारिकायुक्तः क्रमाविर्भतनिजकर्मक्षयोपशमजन्य- त्वाच्चेति । अयमेव दर्शनावग्रहादिरमीषां क्रमस्तेनैव क्रमेणानुभवाद्यदेव हि सन्मात्रमैक्षि तदेव वर्णाद्याकारेण केनचिदवाग्राहि तदनन्तरमनिर्धारित- रूपतया सन्देहास्पदीचक्रेततोऽपिनियताकारेणेहामासे। ततोऽपीहिताका- रेण निरणायि पुनः कालान्तरे स्मृतिहेतुत्वेन धारयाञ्चके इतिसर्वैरनुभूयते । दर्शनज्ञानावरणक्षयोपशमलक्षणकारणेनाप्येवमेव भूष्णुनाऽमीषामुत्पा- द्यत्वाचायमेवक्रमः। कमोत्पदिष्णुना हि कारणेन क्रमेणैव स्वकार्य जनयि- तव्यम् । यथा स्थासकोशकुशूलच्छवादिनेति । व्यतिरेके दोषमाहुः॥ मू०-अन्यथा प्रमेयानवगतिप्रसङ्गइति ॥ अन्यथेति यथोक्तकमानभ्युपगमे प्रतीयमानक्रमापह्नवे हि दर्शना. दीनां प्रमेयापह्नव एव कृतो भवतीति । उक्तमेवक्रमं व्यतिरेकदारा समर्थयन्त मू०-नखल्वदृष्टमवगृह्यते । नचानवगृहीतं सन्दिह्यते नचासन्दिग्धमीह्यते नचा- नींहितमवेयते नाप्यनवेतं धार्यतइति॥ स्पष्टम् । क्वचिदेषां तथा क्रमानुपलक्षणे कारणमाहुः । मू-क्वचित्क्रमस्यानुपलक्षणमेपामाशूत्पा- दादुत्पलपत्रशतव्यतिभेदक्रमवदिति १०२ प्रमाणनयतत्त्वालोकालंकारः कचिदित्यभ्यस्ते करतलादौ गोचरे । शेषं व्यक्तम् । पारमार्थिकप्रत्यक्ष लक्षयन्ति । मूक-पारमार्थिकंपुनरुत्पत्तावात्ममात्रापेक्ष- मिति॥ क्षयक्षयोपशमविशेषविशिष्टमात्मद्रव्यमेवाव्यवहितं समाश्रित्य पार- मार्थिकमेतदवध्यादिप्रत्यक्षमुन्मज्जति न पुनः सांव्यवहारिकमिवेन्द्रि- यादिव्यवहितमात्मद्रव्यमाश्रित्येति भावः । अस्य भेदावुपदिशन्ति । मू०-तद्विकलं सकलं चेति॥ असम्पूर्णपदार्थपरिच्छेदकत्वादिकलम् । तद्धिपरीतं तु सकलम् । विकलं भेदतो दर्शयन्ति । मू०-तत्र विकलमवधिमनःपर्यायज्ञानरूप- तया द्वेधेति। सुगमम् । अवधि लक्षयन्ति । मू०-अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं रूपिद्रव्यगोचरमवधि- ज्ञानमिति ॥ अवधिज्ञानावरणस्य विलयविशेषः क्षयोपशमभेदस्तस्मात्समुद्भवति यत् । भवः सुरनारकजन्मलक्षणो गुणः सम्यग्दर्शनादिस्तो प्रत्ययौ हेतू- यस्य तत्तथा।तत्र भवप्रत्ययं सुरनारकाणाम् । गुणप्रत्ययं पुनर्नरतिश्चाम् । रुपिद्रव्यगोचरं रूपिद्रव्याणि पृथिवीपाथापावकपवनान्धकारच्छाया- १०३ टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्तः प्रभृतीनि तदालम्बनमवधिज्ञानं ज्ञेयम् । अत्र न्यायमार्गानुयायिनः सङ्गि- रन्ते। ननु पृथिव्यादीनां चतुर्णा सकर्णा वर्णयन्तु द्रव्यताम् । तिमिरच्छाय. योस्तु द्रव्यता वाचोयुक्तियुक्तिरिक्तैव भासामभावएव हि तमश्छाये गदतां सच्छाये । तथाहि शशधरदिनकरकरनिकरनिरन्तरप्रसरासम्भवे सर्वतोऽपि सति तमइति प्रतीयते । यदातु प्रतिनियतप्रदेशेनातपत्रा- दिना प्रतिबद्धस्तेजःपुजो यत्र यत्र न संयुज्यते तदा तत्र तत्र च्छायेति प्रतीयते । प्रतिबन्धकाभावेतु स्वरूपेणालोकः समालोक्यत इत्यालोकाभाव एवं तमश्छाये। यदि च तमो द्रव्यं भवेत् तदा रूपवद्रव्यसंस्पर्शाव्यभिचारात स्पर्शवव्यस्य च महतः प्रतिघातहेतुत्वात्तरलतरतुङ्गतङ्गत्तरङ्गपरम्परोपेत- पारावारावतार इव प्रथमजलधरधाराधोरणीधौताजनगिरिगरीयः शृङ्ग- प्रतिवादिनीव नियन्निझरझात्कारिवारिदुर्वारशीकरासारसिच्यमानाभि- रामाराममहीरुहसमूहमतिछन्द इव च प्रवृत्ते तिमिरभरे सञ्चरतः पुंसः प्रतिबन्धः स्याद्भूगोलकस्येवचास्यावयवभूतानि खण्डावयविद्रव्याणि प्रतीयेरनेवं छायायामपीति कथं ते द्रव्ये भवेताम्। अत्राभिदध्महे। तमसस्ता- वदभावस्वभावतास्वीकृतिरानुभाविकी आनुमानिकी वा। न तावदा- नुभाविकी यतोऽभावानुभवो भावान्तरोपलम्भे सत्येव सम्भवी कुम्मामा- वोपलम्भवत् न च प्रचुरतरतिमिरनिकरपरिकरितापवरकोदरे स्वकरतला- दिमात्रस्याप्युपलम्भः सम्भवति तत्कथं तदनुभूतिर्भवेत् । कथं वा प्रदीपादिप्रभामाग्भारपोज्जृम्भणमन्तेरणास्योपलम्मा कुम्भाद्यभावो हि तद्भावे एवानुभूयमानो दृष्टस्तत्कथमेष न्यायमुद्रातिकमो न कृतः स्यात् । अथ यो भावो यावता सामग्येण गृह्यते तदभावोऽपि तावतैव तेन । तदिहालोकस्य स्वातन्त्र्येणालोकान्तरमन्तरेणैव ग्रहणमालोकित- मिति । तदभावस्यापि तत्किं न स्यादिति चेत् । अहो पीतविषस्याप्य- ऽमृतोद्गारः । एवं वदता त्वयैव तमसि द्रव्यता व्याहारात् । किमिद. मीदृशमेवेन्द्रजालमिति चेत् इदमीशमिन्द्रजालमालाक्यताम् । आलोकः किल चक्षुषा संयोगाद्गृह्यते। यदि च तदभावस्यापि तत्सामग्येणैव ग्रहणं ।
१०४ । प्रमाणनयतवालोकालंकारः स्यात् तदा तस्यापि ग्रहणे चक्षुः संयोगसद्भावादायाता द्रव्यतापत्तिः। संयोगस्य गुणवेन तद्वृत्तित्वात् । अथासंयुक्ताप्ययं प्रेक्ष्यते तदा कथं यो भावो यावतोत्पाद्यं मृषांद्यं न स्यात् । कथं वा चक्षुषःप्राप्यकारिता प्रवादः सूपपादः स्यात् । विशेषणविशेष्यभावसम्बन्धबन्धुरस्यान्धका- रस्य ग्रहणादयमदोषइति चेत् । कतमस्यैष विशेषणं न शरीरस्य तदन्यत्रापि प्रतिभासनात्। नापि भूतलकलशकुड्यादेस्तत एव। तर्हि भवतु नभसइति चेत्तदशस्यमेतस्य तदिशषणविशेष्यीभावेन कदाचिदप्रति- मासनात् । तन्नैतदभावतास्वीकृतिरानुभाविकी भव्या। नप्यानुमानिकी। यतः कतमोऽत्र हेतुराख्यायते सङ्ख्यावता । किं भाववैलक्षण्येन लक्ष्यमाणत्वम् । १ । भावविलक्षणसामग्रीसमुत्पाद्यत्व । २। मसत्ये वा- लोकेतत्प्रतिभासना। मालोकग्रहणसामग्ऱ्या गृह्यमाणत्वम् ।४। तिमिर- द्रव्योत्पादककारणाऽभावो । ५। द्रव्यगुणकातिरिक्तकार्यत्व । ६ । मालोकविरोधित्वं । ७ । भावरूपताप्रसाधकप्रमाणाभावो वे ।। त्यष्टपक्षीराक्षसीव त्वत्पक्षभक्ष्यभक्षणविचक्षणोपतिष्ठते । तत्र न तावताद्यः पक्षः क्षेमङ्करः। कुम्भोऽयं स्तम्भोयमिति हि यथा कुम्भादयो भावा विधिमु- खेन प्रत्यक्षेण प्रेक्ष्यन्ते । तथेदं तमइति तमोऽपि । अभावरूपतायां तस्य प्रतिषेधमुखेन प्रत्ययः प्रादुःष्यात् । यथा कुम्भोऽत्र नास्तीति । ननु नाश- प्रध्वंसादिप्रत्यया विधिमुखेनापि प्रवर्त्तमाना दृश्यन्ते । नैवं नाशादि- शब्दानामेव भावप्रतिषेधाभिधायकत्वात् । अतएव हि कुम्भस्य प्रध्वंस इति सोपपदानामेषां प्रयोगोपपत्तिः यदितु तमः प्रभृतिशब्दाअपि तत्समानार्थतामाबिधीरस्तदानीं कुम्भस्याभाव इति वदालोकस्य तमइत्यपि प्रोच्येत । नचैवं कश्चिदिपश्चिदपि प्रवाक्ति । अथालोकाभावे संकेतितस्तमः शब्दो नाभावमात्रे ततो न तथा व्यपदेशइतिचेन्नैवं यदिह्यन्धकाररूपोऽभावोऽपि विधिमुखेन वीक्ष्येत तदानीं किमन्यदेतस्य भाववैलक्षण्येन लक्ष्यमाणत्वं स्याद्यतो हेतुसिद्धिर्भवेत् । १ । अथ भाव- विलक्षणसामग्रीसमुत्पाद्यवं हेतुस्तथाहि समवाय्यऽसमवायिनिमित्त- दि. पं. इयोषतरत्नाकरावतारिकायुक्तः १०५ कारणकलापव्यापाररूपाभावोत्पादिकासामग्री नैव तमसीयं समगंस्त तदशस्तम् । यतः किमिदं समवायिकारणनाम्ना त्वमाम्नासीः । यत्र कार्य समवेतमुत्पद्यते तदिति चेत् तदसम्यक समवायस्य निरन्तरसुहृद्रो- ष्ठीषु गोरखाहत्वात् तत्प्रसाधकत्वाभिमतस्येह तन्तुषुपट इत्यादि प्रत्ययस्या- प्रसिद्धेः पटे तन्तव इत्यादिरूपस्याबालगोपालं प्रतीतत्वात् सिद्धौ वा इह भूतले घटाभाव इत्यभावप्रत्ययेन व्यभिचारात् सम्बन्धमात्रपूर्वता प्रसाधने सिद्धसाधनादविष्वग्भावमात्रनिमित्ततया तदङ्गकिारात् । एकान्तकस्वरूपत्वेन चास्यैकवस्तुसमवायसम्भवे समस्तवस्तुसमवायस्य विनश्यदेकवस्तुसमवायाभावे समस्तवस्तुसमवायाभावस्य वा प्रसङ्गात् । तत्तदवच्छेदकभेदात्तदुपपत्तौ तस्यापि कथञ्चिद्भेदापत्तेरनेकपुरुषावच्छि- नपर्षदादेरपि तावत्स्वभावभावेन कथं चिद्भेदात् । अप्रच्युतानुत्पन्नस्थि- रकरूपतया चास्याकाशसामान्यायेतादृग्वस्तुसमाश्रितत्वमेव भवेन्न- तु कार्यवस्तुसमाश्रितत्वम् । तत्तत्सहकारिकारणकलापोपनिपातप्रभावात कार्यसमवायस्वीकारोऽपि सनिकारस्तत्स्वभावप्रभावप्रतिबद्धानां तेषामपि सदा सन्निधानप्रधानत्वात तथा चास्तमिता समवायिकारणकिंवदन्ती तदसवे किमसमवायिकारणं समवायिकारणप्रत्यासन्नत्वं हि तल्लक्षणं तदसत्वे कथमेतत्स्यात् । तथाच तच्छेषभूतस्य निमित्तकारणस्यापि का व्यवस्था । सन्तु वा कारणान्यमूनि तथापि यथाकथंचिदालोककला- पस्योत्पादस्तथा तमसोऽपि भविष्यति किमरुचिविरचनाभिर्व्यपासित शक्यते। किमस्योत्पादकमिति चेदालोकस्य किमिति वाच्यम्। तेजोऽणव- इति चेदस्यापि तमोऽणव एव सन्तु सिद्धास्तावत्तैजसास्तेऽविवादेन वादिप्रतिवादिनोरिति चेत् तामसा अपि तददेव किं न सेत्स्यन्तीति- त्यज्यतामाग्रहः । २ असत्येवालोके तत्सतिभासनमध्यसम्यक नहि यस्मिन्नमत्येव यत्प्रतिभासते तत्तदभावमात्रमेव भवति असत्येव व्यव- धाने प्रतिभासमानैर्घटादिभिर्व्यभिचारात् । कथंचनैव प्रतिबन्धके असत्येव समुत्पद्यमानस्य स्फोटस्थापि तदभावमात्रता स्यात् । अथ १०६ प्रमाणनयतत्त्वालोकालंकार: स्फोटोदाहकात्मकतया स्पार्शनप्रत्यक्षेणानुभूयते ! अभावमात्रतायां हि तस्य नेयमोपपत्तिकी स्यात् तर्हि तमोऽपि शैत्येन तेनैव प्रत्यक्षेण प्रेक्ष्यमाणं कथमभावस्वभावं भवेत् । ३ अथालोकग्रहणसामाग्या गृह्यमाणत्वं हेतुस्तथा च शङ्करन्यायभूषणो यो हि भावो यावत्या सामग्य गृह्यते तदभावोऽपि तावत्यैवेत्यालोकग्रहणसामग्या गृह्यमाणन्तमस्तदभाव एवे- ति तदपि न किञ्चित्। तमो ग्रहणसामग्या गृह्यमाणस्यालोकस्यैव तद- भावताप्रसङ्गेनानैकान्तिकत्वात् । घटपटयो; समानग्रहणसामग्रीकतया परस्परामावत्वप्रसङ्गात् ४ । (टि०)-तदनुभूतिरिति अभावानुभवः अस्योपलम्भइति अभावस्योप- लब्धिः तद्भावइति प्रदीपप्रभाप्राग्भारप्रोज्जृम्भणएव तावतैव तेनेति साम- ग्येण तदभावस्यापीति आलोकाभावस्थापि तदिति भावान्तरोपलम्भ- मन्तरेण प्रदीपाद्यालोकादिना वा ग्रहणम् आलोकः किलत्यादि तदभा- वस्यापीति आलोकाभावस्यापि तत्साग्येणेति आलोकसामग्या तस्यापीति आलोकाभावस्यापि तदात्तत्वादिति द्रव्यवृत्तित्वात् संयोग- स्तावद्गुणः गुणाश्रयो द्रव्यमिति भवतापि स्वीकारात् तमसश्चक्षुःसंयोग- ग्रहणे बलादद्रव्यतासमायाता अथासंयुक्तेत्यादि अयमित्यालोकाभावः कतमस्येति नगनगरसागरागुरुकुरङ्गतुरङ्गतरङ्गसारङ्गमातङ्गादि स्थावरत्रस- षविधजीवनिकाये स्फुरति सति तन्मध्ये कस्य एषइत्यन्धकारः तदन्यत्रेति शरीरव्यतिरेकेपि तत एवेति तदन्यत्रापि प्रतिभासनादिति हेतस्वि एतस्येत्यन्धकारस्य तदिशेषणेति नभोविशेषणम् एतदभावतेति एतस्य तमसः अभावताया आलोकाभावत्वस्य स्वीकारः सनिकारः यतःकतम- इत्यादि संख्यावतेति संख्यावद्विद्वज्जनमान्येनेत्युपहासवाक्यम् अभावे- त्यादि तस्येति तमसः पदार्थस्य वा ननु नाशेति नाशप्रध्वंसादिप्रत्यया हि अभावस्वभावाः तथापि घटस्य नाशोग्यं विधिमुखेनापि प्रत्ययप्रतातिः प्रोज्जृम्भत कोऽर्थः तमोऽपिइदं तमहति विधिमुखेन प्रत्यक्षेण प्रेक्ष्यते तस्म टि. पं. हृयोपेतरत्नाकरावतारिकायुक्तः नाभावस्तमः एषामिति माशप्रध्वंसादीनां तत्समानार्थतामिति नाश- प्रध्वंसादिसाम्यं अथालोकत्यादि तथेत्यालोकस्य तमः यदिसामान्येना- भावे तमः शब्दः सङ्केतितः स्यात्तदा घटाद्यभावप्रचुरतया तमोबाहुल्याप- सारणाय आलोकस्य तम इति प्रोच्येत अत्र तुन तथा आलोकाभाव एव सङ्केतितत्वात् तमाशब्दस्य एतस्येत्यभावस्य यतइति भाववैलक्षण्येन लक्ष्यमाणत्वात् समवायीत्यादि विधाकारणं यत्राहि कार्य समवैति तत्समवायिकारणं यथा व्याकस्याणुद्वयं यचकायकार्थसमवेतङ्कार्यकारण- कार्थसमवेतं वा कार्यमुत्पादयति तदसमवायिकारणं यथा पटावयवि- द्रव्यारम्भे तन्तुसंयोगः पटसमवेतरूपाद्यारम्भे पटोत्पादकतन्तुरूपादिच शेषं तूत्पादकं निमित्तकारणं यथा पटाकाशादि प्रतिषेधाभिधायकत्वादेव यतोभावोपि विधिमुखेन वीक्ष्यते ऽभावोपि तत्कथं हेतुर्घटते भाववैलक्ष- प्येनेत्यादि एतदेव हि भावलक्षणं यद्विधिमुखेन प्रेक्षणं इयमिति कारण- त्रयरूपासामग्री यत्रकार्यमिति यत्रेति वृत्तिकादिके वस्तुनि कार्य घटादि समवेतमिति सम्बद्धं तदिति समवायिकारणं तत्पसाधकत्वेति समवाय- प्रसाधकत्वेनाभीष्टस्य कारणे कार्यस्य समवेतत्वात्समवायः सच्छायः कार्येतु पटादौ कारणं तन्त्वादि समवेतं प्रसिद्धमतः समवायः शिश्राय- विच्छायताम् सम्बन्धमात्रेति तन्तुनन्तरेण पटः मृत्तिकामन्तरेण घटोन स्यात् इति सम्बन्धमात्राङ्गाकारे सिद्धं साधनं कारणोत्पद्यमानत्वं तस्मान्न- समवायस्वीकारे अविधगिाते तादात्म्यकारणतया तदङ्गीकारादिति सम्बन्धस्वीकारात् एकान्तकति एकान्तेनैकस्वभावत्वेन अस्यति समवा- यस्य तत्तदवच्छेदेनेति तेषां तेषामवच्छेदकानां घटादीनां भेदात् तदुप- पत्ताविति भेदोपपत्तौ तस्यापीति समवायस्यापि अप्रच्युतेत्यादि अस्यीत समवायस्य एताहागित्येतादृग् अप्रच्युतानुत्पन्नस्थिरैकस्वभावं वस्तु तत्तत्स- हकारीति तानि कार्य प्रति भिन्नानि सहकारीणि दण्डचक्रचीवरदोरकादीनि तुरीवेमप्रभृतीनि च तेषां कलापः समूहस्तत्सामग्यवशात् यथाकाशस्यापि अवच्छेदकभेदान्नानात्वं घटाकाशं पटाकाशमित्येव समवायस्यापि नाना- त्वम् कायेंति कार्येषु सनिकारइति सविगोपकः तत्स्वभावति तस्य सम- Plearinganwadav १०८ प्रमाणनयतत्त्वालोकालकार: वायस्य स्वभावोऽप्रच्युतानुत्पन्नस्थिरैकलक्षणः तेषामिति सहकारिणामपि तदसत्वइति समवायिकारणाभावे तल्लक्षणमिति असमवायिलक्षणम् तदसत्वइति असमाविकारणलक्षणाभावे एतदिति असमथायिकारणं तच्छे- षभूतस्येति समवाय्यसमवयिशेषरूपस्य किमस्येत्यादि अस्येति तमसः अस्यापीति तमसोपि तेइति परमाणवः तद्वदेवति तैजसपरमाणुवतू व्यवधाने इति कुड्यादिके प्रतिबन्धके इति मन्त्रादिके स्फोटस्यापीति न केवलं घदादेः तदभावेति प्रतिबन्धकाभावमात्रत्वं तस्येति स्फोटस्य इयमिति दाहात्मकता तेनैवेति स्पार्शनेनैव तदभावतेति तमोभाव आलो. कातिप्रसङ्गसङ्गतेः। (पे.'-रूपवव्यस्य स्पर्शाव्यभिचारादिति अरूपिद्रव्याणां दिक्कालादीनां परिगणि तत्वेन तमसस्तेष्वसम्भवात् पारिशेष्याद्पवद्र्व्यं सम्भवति । एवं छायायामपीति। तुल्ययोगक्षेमत्वात् । स्वातन्त्र्येणेति भावान्तरनिरपेक्षत्वेन। अयमिति अभावः । अन्धकारस्य ग्रहणादित्यत्र अन्धकारस्येत्यभावस्तस्य कोभावः आलोकाभावविशिष्टा इतरपदार्थागृह्णन्ते इति भावः। तदन्यत्रापीति नहि केवले एव शरीरे तमः प्रतिभाति । किन्त्वन्येषु घटादिष्वपि ततएवेति तदन्यत्रापि प्रतिभासनात् । एतस्येति अभावस्य तविशेषणविशेष्यीभावेनति तन नभसा विशेषणविशेष्यीभावस्तेन । अभावोहि नभो- विशेषणविशेष्यीभावेन कदाचनापि न प्रतिभासते। तमोऽपीति कोर्थः । तमोऽपि इदं तमइति विधिमुखेन प्रत्यक्षेण प्रक्ष्यते तस्मान्नाभावस्तमः । अत एव प्रतिषेधाभिधाय- कत्वादेव । सोपपदानामेषां प्रयोगोपपत्तिरिति । अत एव शुद्धशब्दवाच्यत्वाद्वस्तु रूपं तमः न तथा व्यपदेश इति किन्तु प्रतिषेधमुखेन व्यपदेशः । अन्धकाररूपो- ऽभावोऽपीति गद्ये एतदेव हि भावलक्षणं यद्विधिमुखन प्रेक्षणम् । तदानीमिति गधे एतस्येति तमसः कोऽर्थः उपहासोऽयं यदिहि विधिमुखेन प्रत्ययन लक्ष्यमाणोऽप्यन्धकारो भाववैलक्षण्यन लक्ष्यते इति स्वयोच्यते । तदाकिमपरं भावलक्षणं स्यादिति यावत् । तदुपपत्ताविति यथाकाशस्थापि अवच्छेदकभेदान्नानात्वं घटाकाशं पटाकाशमिति । एवं समवायस्यापि नानात्वम् । तावत्स्वभावभावनेति यवान्तोऽवच्छेदकास्तावद्वाभेद प्रसक्तिः। एतादृग्वस्तुसमाश्रितत्वमेवेति आकाशसामान्यादीनि । एताहाशि यानि ।
टि. पं. इयोपेतरत्नाकरावतारिकायुक्तः वस्तूनि एतत्सदृशानि नित्यानि तत्समाश्रितत्वम् । तत्सहकारिकारणेति नहि कील- कास्थतास्तन्तवः परस्य कारणम् भवन्ति । तत्स्वभावप्रभावप्रतिबद्धानां तत्तत्सह- কৰক্ষাৰজামানলামবালা समवायिकारणप्रत्यासन्नत्वमिति अवधृतसामर्थ्यासमवायिकारणम् । इयमिति दाहात्मकता । (रत्ना०)-अथ तिमिरव्योत्पादककारणाभावो हेतुः तथाच श्रीधर- स्तमम्परमाणवः स्पर्शवन्तस्तदहिता वा। न तावत्स्पर्शवन्तः स्पर्शवत- स्तत्कार्यव्यस्य क्वचिदण्यनुपलम्भात् । अदृष्टव्यापाराभावात् स्पर्शवत्कार्य- द्रव्या नारम्भका इति चेत् । रूपवन्तोवायुपरमाणवो ऽदृष्टव्यापारवैगु- ण्याद् रूपवत्कार्य नारभन्ते इति किन्न कल्प्येत किंवा न कल्पितमेक- जातीयादेव परमाणोरदृष्टोपग्रहाच्चतुर्दाकार्याणि जायन्तइति कार्यैक- समधिगम्याः परमाणवो यथा कार्यमुन्नीयन्ते न तद्विलक्षणाः प्रमाणा- भावादिति चेत् । एवं तर्हि तामसाः परमाणवोप्यस्पर्शवन्तः कल्पनी- याः तादृशाश्च कथं तमोद्रव्यमारभेरन् । अस्पर्शवत्वस्य कार्यद्रव्या- नारम्भकत्वेन व्यभिचारोपलम्भात् । कार्यदर्शनात् तदनुगुणं कारणं कल्प्येत नतुकारणवैकल्येन दृष्टकार्यविपर्यासो युज्यतइति चेन्न वयमन्ध- कारस्य प्रत्यार्थिनः कित्वारम्भानुपपत्तेर्नीलिममात्रप्रतीतेश्च द्रव्यमिदं न भवतीति बमइति नैतदुपपत्तिपदवीं प्रतिपद्यते । यतः स्पर्शवन्ते एव तामसाः परमाणवः प्रोच्यन्ते यत्पुनस्तत्रोपादेशि स्पर्शवतस्तत्कार्यस्य क्वचिदप्यनुलम्भादिति । तदसत्यं शीतस्पर्शवतस्तमोदव्यस्यैव तत्कार्यस्य दर्शनात् । तत्र स्पर्शसद्भावे किंप्रमाणमिति चेत् तदभावे किंप्रमाणमिति वाच्यम् । नहि तत्प्रतिषेधकप्रमाणमन्तरेणास्पर्शवत्वात् कार्यद्रव्यानारम्भ- स्त्वया प्रसाधयितुं शक्यते अस्माकं तु तद्भावे प्रमाणाभावेऽपि तावन्न काचित्क्षतिः । नच नास्त्येव तत प्रत्यक्षस्यैव सद्भावात् तथाहि दिवादि- वाकरकरालातपप्रपातोपतप्तवपुषः पथिकास्तमिस्रासन्तमसशैत्यसम्पर्कात् प्रमोदन्ते न च तापाभावमात्रसूचित एव तेषां प्रमोदः प्रतीतिबाधात् तन्मात्रनिमित्तोहि घटोत्र नास्तीति वत् तापः सम्प्रति नास्तीति प्रतिषेध- प्रमाणनयतत्त्वालोकालंकारः मुखएव प्रत्ययः प्रादुःष्यान्नतु सम्प्रति शीतलीभूतं मे शरीरमिति विधिमुखः । तथाहि तमो भावमात्रसूचित एवायमालोकप्रत्यय इत्यपि वावदूकस्य वदतो वदनं न वक्रीभवेत् । (टि०)-तथाच श्रीधरः कन्दलीकारः तद्रहिताइति स्पर्शवियुक्तः तत्कायेंति परमाणुद्रव्यकार्यस्य रूपवन्त इति वायुपरमाणवांमूर्ता. अपि कर्मवशात्कार्य नारभेरन्तिति कल्प्यतां ते स्वभावेन कार्यमना- रभमाणास्तिष्ठन्ति एकजातीयादिति रसाणोरूपाणोर्वा चतुति पृथ्व्यप्ते जोवायुरूपतया कार्यैकेति कार्येण घटादिना एकेनरूपाणको रसाणवो वा- समधिगम्यन्ते ते रसेहि रसाणवएव तेजसि तेजोणवएव तदिलक्षणाइति रसे रसाणोविलक्षणास्तजाणवो नेक्ष्यन्ते एवमित्यादि तादृशः परस्परम- सम्बडाः अस्पर्शवत्वस्येति असंयोगवतः शीतस्पर्शेत्यादि तत्कार्यस्येति तमः कार्यस्य तत्रेति तमसि तदभावे इति स्पर्शाभावे तत्प्रतिषेधकेति स्पर्शनिषेधकं विना तत्सद्भावे इति शीतस्पर्शसद्भावे तदिति प्रमाणं तेषामिति पथिकानां तन्मात्रेत्यभावमानहेतुः तथात्वे इति अभावस्य विधिमुखप्रत्ययसद्भावे। (५०)-अदृष्टव्यापाराभावादिति अदृष्टं हि सर्वोत्पत्तिमतां निमित्तम् । चतुकार्याणीति पार्थिवादीने। परवाक्यं कार्यैकेत्यादि । (रत्ना०)-अथान्धकारनिबन्धवे शैत्यस्पर्शप्रत्ययस्य निबिडतर- घटितकपाटसम्पुटे गालकुवलयकलकण्ठीकण्ठकाण्डकृष्णान्धकारैकार्ण- वीभूते कारागारे क्षिप्तस्य पुंसः सुतरां तत्प्रत्ययो भवेदिति चेत् तापा- भावनिमित्तत्तायामपि सुतरांस किं तत्र न स्यात्तत्रात्यन्त तापाभाव- सम्भवात् । तस्मान्मन्द मन्दसमीरलहरिपरिचय एव जलस्पर्शस्येक तत् स्पर्शस्याप्यभिव्यक्तौ हेतुर्न चासौ तत्रास्तीति नतत्र तत्यतीतिः प्रादु- भवति । अनुमानतोऽपि तत्र स्पर्शप्रतीतिः। तथाहि तमःस्पर्शवद्रूप- वत्वात् पृथ्वीवत् । नचरूपवत्त्वमसिद्धमन्धकारः कृष्णोऽयमिति कृष्णा- कारप्रतिभासात् । ननु यदि तिमिरं श्यामरूपपरिकलिनकलेवरं स्यात् PadMEANITANY टि. पं. इयोपेतरत्नाकरावतारिकायुक्तः तदावश्यं स्वप्रतिभासे आलोकमपेक्षेत कुालयकोकिलतमालादिकृष्ण- वस्तूनामालोकापेक्षवीक्षणत्वादिति चेत्तन्नाकलङ्कम उलू कादीनामालोक- मन्तरेणापि तत्प्रतिमासात् । अथास्मदादिप्रतिभासमपेक्ष्यैतदुच्यते । तदपि न पेशलम् । यतो यद्यपि कुालयादिक मालाकमन्तरणालोकयितुं न शक्यते स्मदादिभिस्तथापि तिमिरमालोकयिष्यते विचित्रत्वाद्भावा- नामितरथा पीतावदातादयोऽपि तपनीयमुक्ताफलप्रमुखा नालोकनिर- पेक्षवीक्षणा इति प्रदीपचन्द्रादयोऽपि प्रकाशान्तरमपेक्षेरन्निति सिद्धं तमोरूपवत् । तथा तमोरूपवत्कार्यवत्वेन प्रतीयमानत्वात्कुघलयवदि. त्यतोपि तत्र रूपवत्त्वसिद्धिः । नखवरूपं कुम्भाभावादि कृष्णाद्याकारेण कदाचित्प्रतीयमानमालोकितमिति रूपवत्तसिद्धौ च सिद्धं स्पर्शवत्त्वम् । तथा च तामसपरमाणूनां कार्यद्रव्यारम्भप्रतिषेधापन्यस्तमस्पर्शवत्वं स्वरूपासिद्धं परस्य तामसपरमाणुनामप्रसिद्धराश्रयामिद्धं चेति स्थितम्५ । द्रव्यगुणकातिरिक्तकार्यत्वमपि नहेतुव्यातिरिक्तकार्यत्वस्य तस्मिन्न- सिद्धत्वनैकदेशासिद्धतापत्तः । तत्पसिद्धिहि तस्याभावरूपतयान्यतो वा कुतोप्यभिधीयते नाद्यः पक्षः परस्पराश्रयप्रसंगात् अभावरूपता- सिद्धौ हि तस्य द्रव्यातिरिक्तकार्यवसिद्धिस्ततोऽपि सेति । अन्यहेतु. तस्तत्सिद्धौतु स एवास्तु किमनेन सिद्धोपस्थायिना कृतकभक्तिभृत्येनेव कर्तव्यम् । ६ । आलोकविरोधित्वमपि न साधीयः । नहि योयद्धिराधी स तदभावस्वभाव एव वारिवैश्वानरयोः परस्पराभावमात्रतापत्तेः । अथ सहानवस्थानलक्षणो विरोधस्तिमिरस्याभावस्वभावतासिद्धौ साधन- सेनाभिप्रेतो नवध्यघातकभावः । सचभावाभावयोरेव सम्भवी न पुनड़योरपि भावयोस्तदिहालोकानवकाशे सत्येव समुजृम्भमाणस्यान्ध- कारस्य अभावरूपतैव श्रेयसी कुम्भाभाववादिति चत् । तदपवित्र मत्रापि वध्यघातकभावस्यैव भावात् घनतरतिमिरपूरिते पथि प्रसपता प्रदीपप्रभाप्राग्भारेण तिमिनिकुरम्बाडम्बरविडम्बनात् ।७। भावरूपता प्रसाधकप्रमाणाभावोप्यसिद्धः । तत्प्रसाधकानुमानसद्भावात् तथाहि प्रमाणनयतत्त्वालोकालंकारः भावरूपं तमोघनतरनिकरलहरिप्रमुखशब्दयपदिश्यमानत्वादालोकवत् । नचासिद्धिः साधनस्य । तथाहि । रहः सङ्केतस्थो घनतरतमः पुञ्ज- पिहिते वृथोन्मेषं चक्षुर्मुहुरुपदधानः पथिपथि खटत्कारादल्पादपि निभृतसम्प्राप्तरमणीभ्रमभ्राम्यदाहुर्दमदमिकयोत्ताम्यति युवा । १ । पर्यस्तोदिवसस्तटीमयमटत्यस्ताचलस्यांशुमान् सम्प्रत्यंकुरितान्धकारनि- करैर्लम्बालकाद्यौरभूत् । एह्यन्तर्विशवेश्मनः प्रियसखि द्वारस्थलीतो- रणस्तम्भालम्बितबाहुवाल रुदती किं त्वं पथः पश्यसि ।२। तिमिरलहरी- गुर्वीमुर्वी करोतु विकखराम्। हरतु नितरां निद्रामुद्रां क्षणात् गुणिनां गणात् तदपि तरणे तेजःपुञ्जः प्रियो न ममैष ते किमपि तिरयन् ज्योतिश्चक्रं स्वजातिविराजितम् । ३। औपचारिकएवायं तत्र तयपदेश इति चेत् । नैवमेतदभावरूपताप्रसिद्धि विना घनतरादिव्यपदेशस्य भावरूपमुख्यार्थवाधाविरहेण तस्यौपचारिकत्वाऽयोगात् । तथापि वा तस्य तमसोभावरूपतैव प्रसिद्ध्यति नखल्लुकुम्भाधभावस्तथप्रका- रोपचारगोचरचारितामास्तिनुते । तत्र सादृश्याधुपचारकारणाभा- वात् । तथा नामावरूपं तमः प्रागभावाद्यस्वभावत्वाद्योंमवत् । नचायमपि हेतुरसिद्धस्तथाह्यालोकस्य प्रागभावः । प्रध्वंसाभाव इतरे- तराभावोऽत्यन्ताभावो वा तमाभवेत् आद्यएकस्यानेकस्य वायं तत्स्यात् । न तावदेकस्यालोकस्य प्रागभावस्तमः प्रदीपालोकेनेव प्रभाकरालोकेनापि तस्य निवर्त्यमानत्वात् । यस्य हि यः प्रागभावः सते- नैव निवर्त्यते । यथा पटनागभावः पटेनैव । नाप्यनेकस्यैकेन निवर्त्य- मानत्वात्पटमागभाववदेव । नच वाच्यं प्रत्यालोकं स्वस्वनिवर्तनीयस्य तमसोभेदात्प्रदीपादिना निवर्तितेऽपि तमोविशेषे पूषादिनिवर्त्तनीयं तमोऽन्तरं तदभावान्ननिवर्त्तत इत्येकन निवर्त्यमानत्वादिति हेतुरसिद्ध- इति प्रदीपादिनिवर्तिततमासि प्रदेशे दिनकरादिनिवर्तनीयस्य तमो न्तरस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धेः सम्प्रतिपन्नवत् । यदिचेदं. प्रागभावस्वभावं स्यात्तदा प्रदीपप्रभाप्रबन्धप्रध्वंसे ऽस्योत्पत्तिनस्यादना- दि. पं. इयोपेतरत्नाकरावतारिकायुक्तः दित्वात्यागभावस्य नाघ्यालोकस्य प्रध्वंसाभावस्तमो निवर्त्यमानत्वात् तस्यैव प्रागभाववत् । नापीतरेतरामावस्तस्य प्रसृतेऽपि प्रचण्डे मात- ण्डीये तेजसि सद्भावेन तमिस्रायामिव वासरेऽपि तमःप्रतीतिप्रसङ्गात् । नाप्यालोकस्यात्यन्तामावस्तमस्तस्य खकारणकलापोपनिपातकाले समु- त्पद्यमानत्वादिति पक्षाऽष्टकेनाध्यघटमानवान् नानुमानिक्यपि तमसोऽ भावरूपतास्वीकृतिः ॥ एतत्सकलमपि प्रायेण छायायामपि समानमिति यथासम्भवं योज्यं विशेषतश्चैतदव्यताप्रसिद्धिः परिपाटिप्राप्तस्याद्वाद- रत्नाकरादवधारणीया। यत्पुनरवाचि तमसि सञ्चरतः पुंसः प्रतिबन्धस्या- दित्यादि तदाखिलमालोकपि समानमिति स एव प्रतिविधास्यतीति किमतिप्रयत्नेन । तत्रास्माकमिति सिद्धे तमश्छाये द्रव्ये । (टि० कारागारइति तत्रात्यन्त धर्मसम्भवात् तत्प्रत्ययइति शैत्यम- त्ययः अन्धकारनिबन्धनाच्छीतत्वस्य स इति तापाभावः तत्रेति कारागारे तत्स्पर्शस्येति तमस्पर्शस्यापि अभिव्यक्ताविति प्रकटने असाविति मन्द- मन्दसमीरलहरिपरिचयः तत्रेति कारागारे तत्प्रतीतिरिति शीतस्पर्शप्र- तीतिः उलूकादर्दानामित्यादि तत्प्रतिभेति तमाप्रतिभानात् इतरथेति यदि भाववैचित्र्यं नाभिमतम् परस्येति शैवस्य तामसेति स्पर्शवत्वं क्व- वर्त्ततां वराकं आश्रयस्याऽसिद्धेः द्रव्यातिरिक्तत्यादि तस्मिन्निति तमसि तत्प्रसिद्धिरिति द्रव्यगुणकातिरिक्तकार्यत्वसिद्धिः तस्येति तत्सिद्धाविति द्रव्यादिहेतुसिद्धौ स एवेति अन्यएवहेतुः अनेनेति द्रव्य- गुणकातिरिक्तकार्यहेतुना अथ सहेत्यादि सचेति वध्यघातकभावः तत्प- साधकेति तमसो भावप्रसाधकस्य अनुमानस्य सम्भवात् नैवमेतदित्यादि एतदभावेति तिमिराभावरूपता नहि तमसोऽवयमभावरूपतां प्रतिपद्यामहे तस्येति तद्वयपदेशस्य घनतरादिरूपस्य तथात्वेऽपीति व्यपदेशोपचारयो- गेऽपि नखलुकुम्भादीति भावस्य भावउपचारो भवति नत्वभावे यथाग्नि- माणवकः तथा प्रकारेति धनतरादिव्यपदेशप्रकारः तत्रति अभावे नताव- दित्यादि तस्येति तमसः नाप्यनेकस्येति अनेकस्यालोकस्य प्रागभावस्तम- तमसः प्रमाणनयतत्त्वालोकालंकारः इति पाश्चात्येन सम्बन्धःतदातदभावादिति रात्री सूर्याभावात् यदिचेद मित्यादि इदमिति तमः प्रागभावेति क्षारे दध्यादि यन्नास्ति प्रागभाव: स उच्यते अस्येति तमसः प्रागभावोहनादिः सान्तश्च नाप्यालोकस्यति नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् निवर्त्यमानत्वादिति आलोके नेति शेषः यद्यालोकस्य प्रध्वंसाभाव एव तमः तदाऽलोकनिवयं न स्यात् तत्पूर्वमसत्वात् अत्रापि प्रागभावप्रसङ्गात् तस्यति आलोकस्य गवि योऽश्वाद्यभावस्तु सोऽन्योन्याभाव उच्यते नाप्यालोकस्यति शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः शशशृङ्गादिरूपेण सोऽत्यन्ता- भावउच्यते॥१॥ निवर्तिततमइवऽनिवतितमपि तमो न दृश्यते दृश्यमान- स्वेत्यर्थः तमसःप्रागभावोह्यनादिः सान्तश्चः आलोकेनति शेषः आलोक- स्य यथा प्रागभावो निवर्त्यमानत्वात्प्रध्वंसाभावोन स्यात् योग्त्यन्ताभावो भवति स कदाचिन्न विवर्तते। । (५०)-तत्प्रतिभासादिति कृष्णवस्तुप्रतिभासात्। प्रतिषेधोपन्यस्तमिति प्रतिषेधायोपन्यस्तम् । अस्पर्शवत्वं स्वरूपासिद्धमिति अस्पर्शवत्त्वस्य साधकप्रमाणा- भावात् यद्यत्र न भवति तत्तत्र स्वरूपासिद्धम् यथा अनित्यः शब्दः चाक्षुषत्वादिति एवं पर- माणुष्वस्पर्शवत्त्वम् । परस्येति भवतः। आश्रयासिद्धमिति अस्पर्शवत्त्वं साधनम् तस्मिन्निति तमसि । तत्प्रसिद्धिरिति द्रव्यातिरिक्तकार्यत्वप्रसिद्धिः। तत्सिद्धा- विति व्यातिरिक्तकायत्वासद्धौ स एवास्त्विति तमसोऽभावत्वसाधनाय अने- नेति द्रव्यातिरिक्तकार्यत्वेन । वृथोन्मेषमिति वृथोन्मेषो यत्र तत्तथा । दमदमिकयेति औत्सुक्येन। तत्रेति अभावरूपे तमसि। तथावे इति औपचारिकत्वे। तथा- प्रकारोपचारादिति गद्ये घनतरादयस्तथा प्रकारा उपचारा ज्ञेयाः । तत्रेति कुम्भा- द्यभावे। प्रागभावइति यथा मृत्पिण्डो घटस्य प्रागभावः । घटे समुत्पन्ने सति घटस्य प्रागभावलक्षणो मृत्पिण्डो निवर्तते । एवं आलोके उत्पन्ने सति प्रागमावलक्षणं तमो निवर्त्तते। निवर्त्यमानत्वादिति आलोकस्य प्रध्वंसाभावस्तमो न भवति निवर्त्यमानत्वात् प्राग- भाववत् । यथाप्रागभावो निवर्त्यमानत्वात् प्रध्वंसाभावो न भवति । निवर्त्यमानः पटादियः तस्येति आलोकस्य। ।
INNAR टि. पं. इयोपेतरत्नाकरावतारिकायुक्तः मनःपर्यायं प्ररूपयन्ति । मू०-संयमविशुद्धिनिबन्धनाहिशिष्टावरण- विच्छेदाज्जातं मनोद्रव्यपर्यायालम्बनं मनःपर्यायज्ञानमिति । (रत्ना०)-विशिष्टचारित्रवशेन यो ऽसौ मनःपर्यायज्ञानावरणक्षयोप- शमस्तस्मादुद्भूतं मानुषक्षेत्रवर्तिसंज्ञिजीवगृहीतमनोद्रव्यपर्यायसाक्षात्कारि यत् ज्ञानं तन्मन:पर्यायज्ञानमित्यर्थः । सकलप्रत्यक्ष लक्षयन्ति । मू०-सकलन्तु सामग्रीविशेषतः समुद्भूतस- मस्तावरणक्षयापेक्षं निखिलद्रव्यपर्या- यसाक्षात्कारि स्वरूपं केवलज्ञान- मिति । (रना०)-सामग्री सम्यग्दर्शनादिलक्षणान्तरङ्गा बहिरङ्गातु जिनका- लिकमनुष्यभवादिलक्षणा। ततः सामग्रीविशेषात् प्रकर्षप्राप्तसामग्रीतः समुद्भतो यः समस्तावरणक्षयः सकलघातिसंघातविघातस्तदपेक्षं सकल- वस्तुप्रकाशस्वभाव केवलज्ञानं ज्ञातव्यम् । यस्तु नैतदमस्त मीमांसको मीमांसनीया तन्मनीषा। तथाहि । बाधकभावात् साधकामावाद् वा सकलप्रत्यक्षप्रतिक्षेपः ख्याप्येत । आद्यपक्षे प्रत्यक्षमप्रत्यक्ष वा बाधकमभिदध्याः प्रत्यक्षं चेत् पारमार्थिक- सांव्यवहारिकं वा पारमार्थिकमपि विकलं सकलं वा विकलमष्यवधिलक्षणं मनःपर्यायरूपं वा नैतत्पक्षद्वयमपि क्षेमाय दयस्यास्य क्रमेण रूपिद्रव्य मनोवर्गणागोचरत्वेन तदाधनविधावधीरत्वात् । सकलं चेदहो शुचि- ११६ प्रमाणनयतत्त्वालोकालकारः विचारचातुरी यत्केवलमेव केवलप्रत्यक्षस्याभावं विभावयतीति वक्षि ॥ वन्ध्यापि प्रसूयतामिदानी स्तनन्धयान् । वान्ध्येयोऽपि च विधत्तामुत्तं. सान् । सांव्यवहारिकमप्यनिन्द्रियोद्भवामिन्द्रियोद्भवं वा न तावत् प्रथम. • मस्य प्रातिभातिरिक्तस्य स्वात्माविष्वग्भूतसुखादिमात्रगोचरत्वात्। प्राति. भन्तु तदाधकं नानुभूयतएव ऐन्द्रियन्तु स्वकीयं परकीयं वा स्वकीयम- पीदानीमत्र तद्भावे बाधेत सर्वत्र सर्वदा वा । प्राचिपक्षे पिष्टं पिनष्टि भवांस्तथा तदभावस्यास्माभिरप्यभीष्टेः द्वितीयतु सर्वदेशकालानाक- लाय्येदं तदभावमुद्भावयदितिरथा वा । आकलय्य चेदाकालं नन्दताद्ध- वान् भवत्येव सकलकालकलाकलापाशेषदेशविशेषवेदिनि वेदनस्य ता- दृशः प्रसिद्धेः अनाकलय्यचेत् कथं सकलदेशकालानाकलने सर्वत्र सर्वदा वेदनं तादृग्नास्तीति प्रतीतिरुल्लसेत् । परकीयमपीदानीमत्र तद्भावं बाधेत सर्वत्र सर्वदा वेत्यादि विकल्पजालजर्जरीभूतं न तद्बाधनधुरां धार. यितुं धीरतां दधाति । कथं वा परगृहरहस्याभिज्ञो भवानेवमभूत् । तादृक्षप्रत्यक्षप्रतिक्षेपदक्षं प्रत्यक्षं प्रावर्तिष्ट ममेति तेन कथनाचेत् यदि कथिते प्रत्ययस्तर्हि तादृक्षाध्यक्षप्रतिक्षोपप्रत्यक्षं नास्त्येवेत्युत्तंभितहस्ता वयं व्याकुर्महइति किन्न तथानुमन्यसे । अथ न यौष्माकीणः प्रमाणप्रवीणः समुल्लापः परकीयः कथमिति वाच्यम् । नखल्वयं स्वप्रत्यक्षं त्वत्प्रत्यक्षं कर्तुं शक्नोति । वचसातु यथाऽ सौ कथयति तथा वयमपि । (टि०)-नैतत्पक्षद्वमित्यादि रूपिद्रव्योति अवधिः मनोवर्गणेति मन:- पर्यायः तत्बाधने इति सकलप्रत्यक्षबाधने नतावत् प्रथमस्येति अनिन्द्रियो- द्भवस्य प्रातिभत्विति केवल नास्तीति अद्य मे महाप्रसादोभवितेत्यादि एतत् प्रातिभमदृढं मानसप्रत्यक्षं दृढतरं अत्रतदिति प्रत्यक्ष कर्म तदभा- वस्येति तस्य सकलमत्यक्षस्याभाव इदानीमत्र इदमिति स्वकीयं ज्ञानम् तदभावमिति केवलाभावं भवतीति त्वयि तादृक्षेत्यादि तेनेति जैमि बिना परकीय इति जैमिनिसम्बन्धी ११७ -- । टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्तः (५०)--सर्वोति सर्वस्मिन् क्षेत्रे । सर्वदेति सर्वस्मिन् काले । इदमिति स्वकीयं प्रत्यक्षम् । भवत्येवेति त्वय्येव । तादृश इति तादृशस्य । कथं वापर- गृहेत्यादि गद्ये कथमेतत्त्वया ज्ञातं यदुतैतत्प्रत्यक्षं सर्वत्र सर्वदा तद्भाव बाधेत । परचे तोवृत्तीनां भवादृशां दुर्लक्ष्यत्वादेतन्न घटते इत्यघटते इत्यर्थः ॥ तेनेति परेण । नखल्वय. मिति अयं परकीयः समुल्लापः । (रत्ना०)--अथ तदुपदर्शितऽर्थे संवादात् तद्धचः प्रमाणं नन्वेवं प्रत्यक्षमप्रत्यक्ष वा संवादकं स्यादित्यादि पूर्वोक्तावर्तनेनाननवस्थावल्लि- रुल्लसन्ती कथं कर्त्तनीया। किं च ॥ संविदामिन्द्रियागोचरत्वादैन्द्रि- यमध्यक्षं सकलप्रत्यक्षस्य विधौ प्रतिषधे वा मूकमेव वराकम् । न च त्वन्म- ते नाभावः प्रत्यक्षेण प्रेक्ष्यते तथात्वे हि किमिदानीमपहृतसर्वस्वेन तपस्वि- नाभावप्रमाणेन कर्त्तव्यम् । तन्न प्रत्यक्षं तदाधविधानसंविधानोधुरम् । अप्रत्यक्षमपि प्रत्यक्षाभावमात्रमपरप्रमाणरूपं वा प्रणिगद्यते आधं चेत तर्हि निद्राणदशायामम्भस्तम्भकुम्भाभोरुहाम्भोधरादिगोचरप्रत्यक्षाभा- वात् तेषामभावो भवेत् । द्वितीयं चेद्भावस्वभावमभावस्वभाव वा भावस्वभावमप्यनुमानं शाब्दमर्थापत्तिरुपमानं वा अनुमानं चेत्कस्तत्र धर्मी सकलप्रत्यक्षं पुरुषो वा कश्चित् सकलप्रत्यक्षं चेत् तत्रोपादीयमानः समस्तो हेतुराश्रयासिद्धतामाश्रयेद्भवतस्तस्याप्रसिद्धः । पुरुषोऽपि सर्वज्ञ. तदन्यो वा धर्मी वयेत । सर्वज्ञश्चेत् किं सर्वज्ञत्वेन निर्णीतः पराभ्यु- पगतो वा निर्णीतश्चेत्कथं तत्र तादृक्षप्रत्यक्षप्रतिक्षेपः प्रेक्षाकारिणः कर्नु- मुचितस्तनिर्णायकप्रमाणेनैव तदाधनात् । (टि०)-अथतदुपदर्शिते इति तेन जैमिनिनोपदर्शिते तद्धचइति तस्य जैमिनिमुनेर्वाक्यं तथात्वेइति अभावस्य प्रत्यक्षप्रेक्षत्वे परचेतोवृत्तीनां भवादृशां दुर्लक्ष्यत्वात् इत्यर्थः तेषामिति स्तम्भकुम्भाम्भोरुहादीनाम् अनु- मानंचेदित्यादि तत्रेति अनुमाने तत्रति सकलप्रत्यक्षे तस्येति सकलप्रत्य- क्षस्य तदन्यइति तस्मात्सर्वज्ञादन्यो व्यतिरिक्तो मूर्खः कश्चित् तत्रेति सर्वज्ञे ताहक्षेति सकलप्रत्यक्षनिरासः तन्निर्णायकेति सर्वज्ञनिश्रायकेन तदाधनादिति तादृक्षप्रत्यक्षप्रतिक्षेपधाधनात् ।
२१८ प्रमाणनयतत्त्वालोकालंकारः (५०)-नन्ववं प्रत्यक्षमप्रत्यक्षं वा संवादकं स्यादिति तवचलः प्रत्यर्थ संवादकमप्रत्यक्षं वेति योगः। प्रत्यक्षाभावमात्रमिति सदपि इदानीं न दृश्यते एताव- तैव नास्तीति गर्भः । तस्येति सकलप्रत्यक्षस्य । तदाधनादिति तादृक्षप्रतिक्षेप- बाधनात् । (रत्ना०)-अथ सर्वज्ञत्वेन परैरभ्युपगतः पुमान् वर्द्धमानादिधर्मी तर्हि किं तत्र साध्यं नास्तित्वमसर्ववित्वं वा न तावन्नास्तित्वं तथा विधपुरुषमात्रसत्तायामुभयोरविवादात् तथा व्यवहारपारमार्थिकापारमार्थि- कत्व एव विप्रतिपत्तेः। असर्ववित्वं चेत् कस्तत्रहेतुरुपलब्धिरनुपलब्धिर्वा । उपलब्धिश्वेदविरुद्धोपलब्धिविरुद्धोपलब्धिर्वा । अविरुद्धोपलब्धिस्ताव- यभिचारिणी नित्यत्वनिषेधाभिधीयमानप्रमेयत्ववत् । विरुद्धोपलब्धि- स्तु किं साक्षादिरुद्धोपलब्धिविरुद्धव्याप्तोपलब्धिविरुद्धकार्योपलब्धि- विरुद्धकारणोपलब्धिर्विरुद्धसहचराग्रुपलब्धिर्वा स्यात् । नाद्या सर्वज्ञ- खेन साक्षाद्विरुद्धस्य किंचिज्ज्ञत्वस्य तत्र प्रसाधकप्रमाणाभावात् । नाग्रेतनविकल्पचतुष्टयमपि घटामटाट्यते । प्रतिषेध्यस्य हि सर्ववित्त्वस्य विरुद्धं किंचिज्ज्ञवं तस्य च व्याप्यं कतिपयार्थसाक्षात्कारित्वं २ कार्य कतिपयार्थप्रज्ञापकत्वं ३ कारणमावरणक्षयोपशमः। ४ सहचरादि रागद्वेषा- दिकं५न च विवादापेदाने पुंसि तेषामन्यतमस्यापि प्रसाधकं किंचित्प्रमाणं तवाऽस्ति । यतस्तदुपलब्धीनां सिद्धिः स्यात् वक्तृत्वरूपाविरुद्धकार्योलब्धि- रस्त्येव तनिषेधे साधनं साधिष्ठमिति चेत् ननु कीदृगवत्तृत्वमत्र विवक्षां चक्रे । यत्सर्ववित्तविरुद्धस्य कार्य स्यात् प्रमाणविरुद्धार्थवक्तृत्वं १ तद- विरुद्धार्थवक्तत्वं २ वक्तत्वमात्र वा ३ आद्यभिदायामसिद्धं साधनं वर्द्धमानादौ भगवति तथाभूतार्थवत्कृत्वाभावात् । द्वितीयभिदि तु नेयं विरुद्धकार्योपलब्धिः किं तु कार्योपलब्धिख तद्विधिसाधनी धूमध्वज- सिद्धिनिबन्धनोपन्यस्तधूमोपलब्धिवत् तथा च विरुद्धो हेतुः । तृतीय- भेदेवनेकान्तो वक्तृत्वमात्रे सर्ववित्त्वकार्यत्वस्याविरोधात् । अनुपलब्धि- रपि विरुद्धानुपलब्धिः अविरुद्धानुपलब्धिर्वा विरुद्धानुपलब्धस्ताव- टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्तः ११९ द्विधिसिद्धावेव साधीयस्तां दधात्यनेकान्तात्मकं वस्त्वेकान्तस्वरूपानु- पलब्धेरित्यादिवत् । अविरुद्धानुपलब्धिरपि स्वभावानुपलब्धिाप- कानुपलब्धिः २ । कार्यानुपलब्धिः कारणानुपलब्धिः ३ सहचराउनुप- लब्धिर्वाभिधीयते स्वभावानुपलब्धिरपि सामान्येनोपलब्धिलक्षणप्राप्त- खविशेषणा वा व्याक्रियेत पौरस्त्या तावनिशाचारादिना व्यभिचारिणी द्वितीया पुनरसिद्धा सर्ववित्वस्य खभावविप्रकृष्टत्वात् । व्यापकानुपल- ब्धिप्रभृतयोऽपि विकल्पा अल्पीयांसः। यतः सर्ववित्त्वस्य व्यापक सकलार्थसाक्षात्कारित कार्यमतीन्द्रियवस्तूपदेशः कारणमखिलावरण- विलयः सहचरादिक्षायिकचारित्रादिकं नच तत्र तदनुपलब्धीनां सिद्धौ साधनं किंचित्तेऽस्तीत्यसिद्धा एवामूः अथ सर्वज्ञादन्यः कश्चिद्धर्मी तर्हि तस्यासर्ववित्ते साध्ये सिद्धसाध्यता। तन्नानुमानं तदाधकमा नापि शाब्दम्। यतस्तदपौरुषेयं पौरुषेयं वा स्यात् नतावदपौरुषेयमपौरुषेयत्वस्य वचस्सु सम्भवाभावात् । पौरुषेयमपि केवलालोकाकलितपुरुषप्रणीतं तदि- तरपुरुषप्रणीतं वा आद्यं कथं बाधकं विरोधात्। द्वितीयेत्वसौ पुरुषः केव- लालोकविकलाः सकलाः पुरुषपर्षदः प्रेक्षते नवा । प्राच्यपक्षे कथं तत्प्रतिषेधस्तस्यैव तदाकलिततात् द्वितीयेपि कथन्तरां तत्प्रणीतश- ब्दस्य पांशुलपादकोपदिष्टशब्दस्येव प्रमाणत्वासम्भवात् नाप्यर्थापत्ति- स्तदाधिका तदभावमन्तरणानुपपद्यमानस्य प्रमाणषट्कनिष्टंकितस्या- र्थस्य कस्यचिदसत्वात् । नाप्युपमानं तस्य सादृश्यमात्रगोचरत्वात् तन्न भावरूपं प्रमाणं तबाधबद्धकक्षम् । नाप्यभावरूपं तस्य सत्तापरामर्शि प्रमाणपंचकाप्रवृत्तौ सत्यां भावात् । नचासौ समस्ति विवादास्पदं कस्य- चित्प्रत्यक्षं प्रमेयत्वात्पटवदिति तद्ग्राहकानुमानस्य प्रवृत्तेः तन्न बाधक भावात् सकलप्रत्यक्षाऽभावः । नापि साधकामावादनुमानस्यैव तत्साध- कस्येदानीमेव निवेदनादिति सिद्धं करतलकलितनिस्तुलस्थूलमुक्ता- फलायमानाकलितसकलवस्तुविस्तारं केवलनामधेयं संवेदनमिति सिद्ध- मेवं केवलज्ञानम् । ।
१२० प्रमाणनयतत्त्वालोकालंकारः (टि०) तथाव्यवहारेति व्यवहारस्य सर्वज्ञत्वस्य पारमार्थिकेति वयं ब्रूमः परमार्थेन सर्वज्ञो स्ति त्वं भणसि नास्ति सर्वज्ञ इत्यत्रैव विवादात् व्यभिचारिणीति वक्तृत्वपुरुषत्वादिभिः विरुद्धसहचरादीति आदि- शब्दादू विरुद्धपूर्वचरोपलब्धिः विरुद्धोत्तरचरोपलब्धिश्च नायेत्यादि तत्रेति सर्वज्ञे तस्यचेति किंचिजज्ञत्वस्य विवादापेदाने इतिविवादपदाधिरूढे सर्वज्ञे तेषामिति कतिपयार्थसाक्षात्कारित्वादीनां रागादीनां च अन्यतमस्येति एकस्यापि यतइति साधकप्रमाणात् तदुपलब्धीनामिति तस्य विरुद्धस्य किंचिज्ज्ञत्वस्य व्याप्याद्युपलब्धीनाम् तनिषेधेइति सर्वज्ञत्वनिवारणे आ- द्यभिदायामित्यादि तथाभूतेति प्रमाणविरुद्धार्थस्य वक्तृत्वाऽसम्भवात् साध्यस्य सर्वज्ञत्वस्य कार्यमिदं प्रमाणाविरुद्धवक्तृत्वं तस्योपलब्धिः इय- मिति प्रमाणाविरुद्धार्थवत्कृत्वलक्षणा तदिधीति सर्वज्ञविधिसाधनी सामान्येनेति नास्ति सर्वज्ञोऽनुपलब्धेः यतः सर्ववित्त्वस्येत्यादि तत्रेति सर्वज्ञे सर्वज्ञत्वेन सह यदविरुद्धं तस्योपलब्धिः सा व्यभिचारिणी कार्य- प्रसाधिका नस्यादित्यर्थः यतो नास्त्यत्र शीतं वन्ापलम्भादिति वत् विरुद्धोपलब्धिनिषेधं गमयति न पुनरविरुद्धोपलब्धिः तदनुपलब्धीना- मिति सकलार्थसाक्षात्कारित्वाद्यनुपलब्धीनाम् अथसर्वज्ञादित्यादि तस्यति जडस्वभावस्य अस्माभिरप्यङ्गीक्रियतएवैतत् तदाधकमिति सकल प्रत्यक्षबाधनबडकक्षम् यतस्तदिति शाब्दम् तत्प्रतिषेधइति सकल- प्रत्यक्षनिषेधः तस्यैवेति पुरुषस्यैव तदाकलितेति केवल विकलसक- लपुरुषपर्षद्ज्ञानात् कथन्तरामिति तत्प्रतिषेधइति सम्बन्धः तत्प्रणी- तेति तेन केवलालोकविकलसकलपुरुषपर्षदेवलोककेनोपदिष्टध्वनेः पांशु- लेति पथिकन पान्थवाक्यमप्रमाणं तस्याप्तस्वनिश्चयाभावात् द्यूतकारादि वाक्यवत् नाप्यर्थापतिरित्यादि तदभावमिति केवलाभावं विना तस्ये- त्युपमानस्य तद्बाधेति सकलप्रत्यक्षबाधने प्रवुभूषति तस्येति अभावस्य प्रमाणपंचकाभावे प्रवृत्तेः प्रमाणपञ्चकं यत्र वस्तुस्वरूपेन जायते वस्त्व- सत्तावबोधार्थ तत्राभावप्रमाणतेति वचनात् नचासाविति प्रमाणपञ्चका- प्रवृत्तिः विवादास्पदमिति देशकालस्वभावविप्रकृष्टादिवस्तु कस्यचि- SHEORG टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्ता दिति वर्द्धमानादेः तद्ग्राहकति प्रत्यक्षग्राहकम् तत्साधकस्येति केवल- ज्ञानसाधकस्य। (५०)-तथाव्यवहारेति गद्ये सर्वशत्वस्य यत्पारमार्थिकत्वमपारमार्थिकत्वञ्च तत्रैव विप्रतिपत्तिः। अविरुद्धोपलब्धिस्तावद्धयभिचारिणीति सर्वज्ञत्वेन सह यदविरुद्ध तस्योपलब्धिः सा व्यभिचारिणी कार्यप्रसाधिका न भवतीत्यर्थः, यतो नास्त्यत्र शीतं वय- पलम्भादिति विरुद्धोपलब्धिनिषेधं गमयति न पुनरविरुद्धोपलब्धिरिति यावत् । स्वभाववि- रुद्धोपलब्धिरिति अत्र प्राय: सर्वादशैषु साक्षाद्विरुद्धोपलब्धिरिति हेतुनामास्ति तव्याख्या चाग्नेतनैवेति, निषेध्येन सर्ववित्त्वेन सहस्वभावविरुद्धं किञ्चिशत्वं तस्योपलब्धिः। विरुद्धव्या- सोलब्धिरिति निषेध्येन सह विरुद्धं किञ्चिज्ज्ञत्वं तेन व्याप्तं कतिपयार्थसाक्षात्कारित्वं तस्यो- पलब्धिरिति । नायति स्वभावविरुद्धोपलब्धिः। तत्रति वर्द्धमानादौ। वक्तृत्वरूपेत्यादि गद्य वक्तृत्वरूपात विरुद्धकार्योपलब्धिस्तन्निषेधे सर्ववित्त्वनिषेधे साधिष्ठं साधनमस्त्येवेति- योगः। सर्ववित्तविरुद्धस्योति किञ्चिज्जत्वस्य । द्वितीयभिदीति प्रमाणाविरुद्धार्थ- वक्तृत्वपक्षे किन्तुकार्योपलब्धिरिति विरुद्धं किञ्चिज्ज्ञत्वं तस्य प्रमाणविरुद्धार्थवक्तृत्वं न कार्यम् यदुपलभ्यत अपितु साध्यस्य सर्वज्ञत्वस्य कार्यमिदं प्रमाणाविरुद्धार्थवक्तृत्वं तस्योप- लब्धिः। विरुद्धोहेतुरिति विपरीतसाधनात् । वत्कृत्वमात्र इति वक्तृत्वमात्रं सर्ववित्त्व स्य कार्य भवन्न विरुध्यते। विरुद्धानुपलब्धिरित्यादि अस्त्यत्र शीतं वशानुपलब्धेस्तव च निषेधोऽभीष्टः । असिद्धाएवामूरिति स्वभावानुपलब्ध्यादयः। कथन्तरामित्यत्र कथन्तरां तत्प्रतिषेधइति योगः। सादृश्यमात्रगोचरत्वादिति असता च सादृश्यं नोपप- द्यते । विवादास्पदमिति सचराचरं विश्वम्। निस्तुलेति निस्तुलशब्देन वर्तुलस्याख्या। किन्तु कतरं पूरुषमेतदास्पदीकरोतीत्यत्राहुः । - -- - मू०-तद्वान्नर्हन्निर्दोषत्वादिति । (रत्ना०)-तत्केवलं नित्यमस्यास्तीति नित्ययोगे मतुए। निष्कान्तो दोषेभ्यो रागद्वेषाऽज्ञानलक्षणेभ्यो निर्दोषस्तद्भावस्तत्वं तस्मात् प्रयोगः । अर्हन् सर्वज्ञो निर्दोषत्वाद्यस्तु नैवं स नैवं यथा रथ्यापुरुषस्तथाचाहस्त स्मात्सर्वन इति।
१२२ प्रमाणनयतत्त्वालोकालंकारः निर्दोषत्वमस्य प्रसाधयन्ति । भू०-निर्दोषोऽसौ प्रमाणाऽविरोधिवाक्त्वा- दिति । प्रयोगः । अहन्निर्दोषः प्रमाणाविरोधिवात्वात्। यस्तु न निर्दोषःस न तथा यथा रथ्यापुरुषः प्रमाणाविरोधिवाक्चार्हस्ततो निर्दोष इति । प्रमाणाविरोधिवात्वमेवाहतः प्रसाधयन्ति । मू०-तदिष्टस्य प्रमाणेनाबाध्यमानत्वात् तद्वाचस्तेनाविरोधसिद्धिरिति । तस्याऽर्हत इष्टस्य प्रतिपाद्यतया सम्मतस्यानेकान्ततत्त्वस्य तद्धाच- इत्यर्हद्वाचः । अर्हन सर्वत्र प्रमाणाविरोधिवाक् तत्र प्रमाणावाध्यमाना- भिमततत्त्ववाद्यस्याभिमतं तत्वं यत्र प्रमाणेन न बाध्यते। स तत्र प्रमाणा- विरोधिवाग यथा रोगादौ भिषग्वरोन बाध्यते च प्रमाणेनाहतोऽभि- मतमनेकान्तादितत्त्वं तस्मात्तत्राऽसौ प्रमाणाविरोधिवागिति सिद्धमहन्नेव सर्वज्ञ इति । (पं.)-अर्हन्निति गद्ये तत्रति सर्वत्र । (रत्ना०)-नन्वियं त्रिभुवनभवनान्तवर्तमानाऽन्तरितानन्तरितपदा- र्थप्रथालतीर्थनाथवृत्तिर्न भवति । यतो भूभूधरप्रभृतिपदार्थप्रबन्धविधान- द्वारा प्रमथपतेरेवेयमुपपद्यते । यदेतदनुमानमत्र प्ररूप्यते न्यायतात्पर्याव- बोधप्रधानमनोवृत्तिविद्वद्वन्देन । विवादपदभूतं भूभूधरादिबुद्धिमदिधेयम् यतो निमित्ताधीनात्मलामं यन्निमित्तावीनात्मलाभं तबुद्धिमदिधेयं यथा मान्दिरं तथा पुनरेतत्तेन तथा नतावन्निमित्ताधीनात्मलाभवं वादिनः प्रतिवादिनो वाऽप्रतीतं यतो भूभूधरादेरात्मीयात्मीयनिमित्त- वातनिर्वर्तनीयताभुवनभाविभवभृत्यतीतैव नापि दोलायमानवेदननि- मित्तं मतिमन्निवर्तनीयेतराम्बरादिपदार्थतो ऽत्यन्तव्यावृत्तत्वेन । नापि टि. पं. द्वयोपेतरनाकरावतारिकायुक्तः विरुद्धतावरोधदुर्द्धरमम्बरादितोऽत्यन्तव्यावृत्तत्वेनैव नापि तुरीयव्याप्या- भताप्रतिबद्धमिन्द्रियवेदनेनानुमाननाम्ना राधान्ताभिधानेन वा माने- नाबाधिताऽभिप्रेतधर्माधर्म्यनन्तरप्रतिपादितत्वेन । नापि प्रत्यनुमा- नापमानतानिबन्धनमेतत्परिपन्थिधर्मोपपादनप्रत्यलानुमानामावेन ननु भवतीदं तावदनुमानं परिपन्थिधर्मोपपादनप्रत्यलम् । यथा भूताधि- भूर्भूभूधरादिविधाता न भवति वपुर्वन्ध्यत्वेन निवृतात्मवत् तदनवदातम् यतोत्र त्रिनेत्ररूपो धर्मी धीधनेन प्रतिपन्नो अतिपन्नो वा प्ररूपितः। न तावदप्रतिपन्नो यदेवमाधारद्वाराप्रतीतत्वोपद्रवो वपुर्वन्ध्यताव्याप्योप- निपातीभवन्न निरोद्धं तीर्यते । यदि पुनः प्रतिपन्नोऽयं धर्मी तदा येन मानेन प्रतिपत्तिमन्मथप्रत्यर्थिनो ऽभिधीयते तेन तत्वादिविधानव्युत्पन्न- मतेरेवेयमिति तत्रोपादीयमाना वपुर्वन्ध्यता बाधितवत्मैवेति न नाम- प्रवर्तितुं पर्याप्नोति । तदेवं निमित्ताधीनात्मलामताव्याप्यमत्यन्तपूतरूपं पर्वतादे(मद्धेतुताप्रतिपादनावदातमेवेति। तत्राभिधीयते । यदिदंताव- निमित्ताधानात्मलाभत्वं व्याप्यमालपितं तद्व्यद्धारापर्यायद्धारावेति मेदो- भयी । यद्याद्यः पन्थाः प्रथ्यते तदानीमप्रतीतिर्नामव्याप्योपतापः । यतो द्रव्यरूपतया पृथ्वीपर्वतादेर्नित्यत्वमेव प्रतिवादिनाऽभ्युपेयते । (टि०)-त्रयोदशाक्षरवादविवरणमतः प्रारभ्यते परः शैवः प्रगल्भते पण्डितपर्षदि नन्वियमित्यादि त्वत्तीर्थनाथेति तवजैनस्य संमते तीर्थकरे वर्धमानादौ स्थितिः प्रबन्धविधानति सम्बन्धोत्पादनद्वारेण प्रमथपतेरिति ईश्वरस्यव इयमिति पदार्थप्रथा यतइति निमित्ताधीनात्मलाभत्वात् कार्य- वादित्यर्थः अप्रतीतमिति अनिश्चितत्वादसिद्धं ततोऽपि दोलेति नान- कान्तिकत्वं पक्षसपक्षविपक्षव्यापकत्वाद्यहोलाचदाचरणं तन्न मतिमन्निर्व. तनीयेति बुडिमन्निष्पायेभ्य इतरेन्ये येऽम्बरादय आकाशात्मप्रमुखा नित्याः पदार्थसास्तेभ्यो नितरांब्यावृत्तत्वात् नापितुरीयेति व्याप्यो हेतुस्तदा- भासता कालात्ययापदिष्टत्वम् इन्द्रियेति प्रत्यक्षेण ज्ञानेन राद्धान्तति आगमप्रमाणेन प्रतिपादीति प्रतिपादितत्वात् नापिप्रत्यनुमानेति नप्रकर- प्रमाणनयतत्त्वालोकालकारः णसमत्वदूषितम् एतत्परीति एतदेतुतयोपादीयमानं निमित्ताधीनात्मला भत्वं तस्य परिपन्थीशत्रुभूतो धर्मोऽकर्तृकस्तस्योत्पादनप्रवणानुमानाभा- वात् ननुभवतीत्यादि इदमिति वक्ष्यमाणलक्षणम् परिपन्थीति शत्रुभूतस्य धर्मस्य अकर्तृकत्वस्य जननसमर्थम् भूताधिभूरिति भूतपतिरीश्वरः भूभू- धरेति पृथ्वी २ धरादिस्रष्टा न वपुरिति देहशून्यत्वात् निर्वृत्तिपरमात्मवत् यतोऽत्रेति अनुमाने त्रिनेत्रेति ईश्वररूपोधी धीधनेनेति बुद्धिमता भव. ता प्रतिपन्नइति ज्ञातः आधारेति आश्रयद्वारेणानिश्चितत्वव्याघातः वपुर्वन्ध्यतति हेतुसमीपवर्तीभवन् तीर्यतइति शक्यते यदिपुनरित्या. दि अयमिति त्रिनेत्ररूपायेनेति प्रत्यक्षादिप्रमाणेन मन्मथेति कामवै रिणोनीलकंठस्य तेनैवेति प्रमाणेन तत्वादीति शरीरजननकुशलबुडेरेव इयमिति वपुर्वन्ध्यता तत्रेति मृत्युञ्जये तत्राभिधीयते जैनैः निमित्तेति कार्यत्वं व्याप्यमिति हेतुः । आलपितमिति अभिहितम् तद्रव्येति तत्का- यत्वं द्रव्यद्वारेण पर्यायद्वारेण । (पं०)-अन्तरिताइति मेादयः । अनन्तरिता इति घटपटादयः पदार्थाः । खत्तीर्थनाथवृत्तिरिति त्वत्तीर्थनाथे वृत्तिवर्तनं यस्येति विग्रहः। भुवनमावि- भवभृत् प्रतीतति एतावता ते पदार्थाः कार्या यश्च कर्ता स ईश्वरः। नापि दोला- यमानवेदननिमित्तमिति अनैकान्तिकलक्षणदोषाकलुषितम् नापि तुरीयव्याप्या- भताप्रतिबद्धमिति कालात्ययापदिष्टहेत्वाभासत्वविवर्जितम् । इन्द्रियवेदनेनेति प्रत्यक्षेण । अनुष्णस्तेजोऽवयवीकृतकत्वादिति वत् । अनुमानेनेति शुचितरशिरः कपालं प्राण्यङ्गत्वाच्छंखशुक्तिवदिति वत् । राधान्ताभिधानेनेति आगमाख्येन ब्राह्मणेन सुरा पेया द्रवत्वात् क्षीरवादिति वत्। अबाधिताभिप्रेतधर्मधर्म्यनन्तरप्रतिपादितत्वे. नेति अबाधिताभिप्रेतधर्मश्चासौ धर्मी च । अबाधितः सन् अभिप्रेतो धर्मो यस्यासावबा- धिताभिप्रेत इत्येवं समासः । नापि प्रत्यनुमानोपमानतानिबन्धनमिति नित्यः शब्दोऽनित्यधर्मानुपलब्धेः एष प्रकरणसमः ॥ एतद्विपरीतप्रत्यनुमानसम्भवादेवं प्रकारप्रकरण- समदोषाः स्पष्टम् । परिपन्थिधर्मोपपादनप्रत्यलमिति अविधेयत्वधर्मोपपादनक्षमम् । आधारदारोति आश्रयद्वारेण । अप्रतीतलोपद्रवइति असिद्धतोपप्लवः । तेनेति - टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्तः मानेन। तत्वादीति स्वकीयतत्त्वादीति ज्ञेयम् । धीमद्धेतुतेति बुद्धिमद्विधयत्वम् । प्रतिवादिनेति जैनेन। (रत्ना०)-ननु भूभूधराधमुत्पादवदवयवित्वेन यदेवं तदेवं यथेन्दी- वरमवयविरूपं पुनरिदं तदुत्पादवदेवेत्यनुमानेन तन्नित्यता निर्मूलोन्मू- लितैवेति नैतद्धीमबृत्तिविधानप्रधानम् । यतो भूभूधरादेखयवित्वमवयवा- रभ्यत्वेन यदाऽवयवद्रातवर्तमानतया मन्यते। न प्रथमविधा विबुधावधा. नधाम यतोन नामैतत्पृथ्वीपृथ्वीधरप्रभृतिद्रव्यमभूतपूर्वमवयववृन्देन निर्व- तितमिति प्रतिवादिनःप्रतीतिर्विद्यते। यदि पुनरवयववृत्तिभेदोऽभिधीयते तदानीमवयवत्वेन दोलायमानतात्र । यतो ऽवयवोऽयमवयवोऽयमितीत्थं बुद्धिवेद्यमवयवत्वमवयववितानवृत्ति भवति । न पुनरुत्पादपराधीनं नित्य- त्वेन। ननु नार्थोऽनेन दुर्भेदप्रबन्धप्रतिपादनेन । प्रतीतोऽयमवयवी तावदा- दिविततेरविवादेन पद्मपत्रपात्रदात्रादिरिति न नामनप्रतीतोपि त्वात्मा- ऽपि तथा नियमेन प्रतीतो वर्तते।न पुनरुत्पादवानित्यनुमेयतत्तुल्यतद्विरु- द्धवृत्तित्तोपद्रवः। यदि तु पर्यायद्वारा निमित्ताधीनात्मलाभत्वं भूभूधरादेर- भिधीयते । तदा नरामरादिपर्यायद्वारोत्पद्यमानात्मनोऽपि बुद्धिमदुत्पाद्य- समापद्यते। ननु नरामरायुत्पादनप्रत्यलधमाधर्मोत्पाद्यानुभवायतनभूता तथाविधा तनुरेवोत्पद्यते । न पुनरात्मा लवमात्रतोप्यनादिनिधनत्वेन यदि पुनरात्माप्युत्पत्तिविपत्तिधर्मा भवति । तदानीं भूतमात्रतत्त्ववादिम- तापत्तिरात्मनः पूर्वोत्तरभवानुयायिनोऽभेदिनोऽनभ्युपेतत्वेनेति। तन्नबन्धुरं यतो यद्यात्मनो भिन्नरूपतैवाऽऽवेद्यते तदाऽन्यतरनरामरादिभववयैवाय- मपरिमेयात्मीयानुभवनीयतत्तद्भवपर्यायप्रबन्धानुभवनेन द्वितीयादिभवानु- भववान्न भवितुमुपपद्यते । वेद्यतेत्वनेनेयं भवपर्यायपरंपरेति तद्रूपतया- ऽयमुत्पत्तिमानिति नियम्यते । नाप्येवं भूतमात्रतत्ववादितापत्तिरात्मनो- द्रव्यरूपतया नित्यताभ्युपायेन पूर्वोत्तरभवप्रतीतितः । तन्मतेन तु न नाम द्रव्यतया नित्यं वेदनं वर्तते यतो भूतधर्मतयाऽनेन प्रतिपादित- मेतत् । तथैतदनुमानधर्मीन्द्रियोडूतबोधेनार्द्ध तो बाध्यते । रूपं ध्वनिरपि प्रमाणनयतत्वालोकालंकार: नयनोत्थप्रथाप्रत्येयमित्यादिवत्। यतोऽत्र दोलायमानविधानतत्परनरव्या- पारः । पृथ्वीपृथ्वीधरामतरुपुरन्दरधनुरादिर्भावतातो धर्मी प्ररूपितः । तत्रत्वभ्रतरुविद्युदादेरिदानीमप्युत्पद्यमानतया वेद्यमानतनोविधाता नोप. लभ्यते । ननु भवत्येव बाधेयं यद्येतद्विधानावधानप्रधानः पुमानिन्द्रिय- प्रभवप्रमालम्बनीभूतोऽभ्युपेतो भवतियावतातीन्द्रियोयमिति नायमुपद्रवः प्रभवति तदनभिधानीयम् । यतो व्याप्तिप्रतिपादनप्रत्यलं मानमत्रेन्द्रिय- द्वारोद्भूतं वेदनंतवाभिमतम् । धूमानुमानवत् धूमानुमानेपि न पारावारो- द्भवौदर्यतनूनपात्तदितरतनूनपातुल्यत्वेन व्याप्तिः प्रतीतेतीन्द्रियो- द्भववेदनवेद्यभावालंबनेनैवाऽनेनाऽनुमानेन भवितव्यमन्यथातु तेन व्या. प्तिप्रतीतिर्दुरुपपादैव । ततोऽपि तत्र व्याप्त्यनालम्बनीभूतेन तेन बुद्धिमनिमित्तेनानुमेयतापि नाद्रियते। तथात्वेन प्रतिपादितं खेतद- वेन्द्रियबोधावबोध्यतया नियमेनाभ्युपेतव्यम् यदितु तथाभ्युपेयते तदा नैतन्निमित्तं तरुविादादेरुपलभ्यते । ततोऽनेन वेदनेनात्र बाधो भवत्येव । ननु धूमानुमानप्रत्याय्यतनूनपातोऽप्येवमनेन वेदनेन बाधो भवति । यतो न तत्रापि विधीयमानानुमानेन प्रमात्रा तनून- पादिन्द्रियवेदनेन वेद्यते । तदमनोरमं यतोत्रानुमातुर्व्यवधिर्विद्यते- व्यवधिमान्पुनः पदार्थो नेन्द्रियालम्बनीभवतीति तदनालम्बनीभूतः पर्व- ततनूनपान तेन बाधितुं पार्यते । यदा पुनः प्रमाता तत्र प्रवृत्तो भवति तदानीमव्यवधावानयंतनुनपात्तेनोपलभ्यते। तसविदुल्लताधादि- बुद्धिमन्निमित्तं तु तत्र प्रवर्त्तमानेनापि नितरामवधानवतापि नोप- लभ्यते। ततो भवति तत्रेन्द्रियोद्भवबोधबाधेति । ततोऽपि तथाविधधर्म्य- ऽनन्तरनिमित्ताधीनात्मलाभत्वरूपव्याप्यप्रतिपादनेन त्वन्मतेन तुरीय- व्याप्यामत्वोपनिपातः । मन्मतेन त्वन्ताप्तेरभावेनानियतप्रतिपत्ति- निमित्ततात्र व्याप्यपराभूतिः । तथेदं निमित्ताधीनात्मलाभवं यदि तन्मात्रमेव व्याप्यत्वेन प्रतिपाद्यते । तदा नाभिप्रेतपदार्थप्रतीतिनिर्व नपर्याप्तमनुपलब्धपूर्वोत्पत्तिव्यापारेन्द्रमोमर्त्यपूर्वत्वप्रतीत्यर्थोपात्तमृन्म- टि. पं. हृयोपेतरत्नाकरावतारिकायुक्तः १२७ यत्ववत् । न नाम निपेन्द्रमोम॒न्मयत्वमपि भिद्यते । ननु यद्यपि मृन्मयत्वं तुल्यमवोभयत्रापि तथापि नेन्द्रमोऽन्यो मानवपूर्वत्वेन प्रतीतो विद्यते ततो विवादपदापन्नोऽप्ययं तत्तुल्यखेन न मर्त्यनिर्वयों भवति तन्ना- वदातम् यतोत्रापि न भूभूधरभुवनादिप्रायः पदार्थोऽन्योबुद्धिमन्निमित्तो- पेतः परिभावितो वर्तते। ततो विवादपद्धतिप्रातिबद्धोऽप्ययं न तथा भवितुं लभते । ननु निपादिर्विद्यते बुद्धिमन्निमित्तोपेतः परिभावितो ऽतो- विवादापन्नोऽपि तथाऽनुमातुमनुरूपः। तदवद्यं यतोऽन्यत्रापि निपा- दिरेव मानवनिर्वयों विभावितो विद्यते । ततः पुरन्दरमूर्द्धाऽपि तन्निवान नितरांभावितव्यम् । ननु नरनिर्मितनिपादितः पुरन्दरमूोवेरूप्यमुपल- भ्यते। ततो न तत्र मर्त्यनिवर्त्यतानुमानमुपपन्नम् यद्येवं तदानीमेतरूप्यं निपादितो भूभूधरभुवनादेरपि परिभाव्यते यतो निपादिना ऽनुपलब्ध बुद्धिमद्यापारात्मनाप्युपलब्धेन नियमतो निवर्तितोऽयं मतिमतेति बुद्धि- रुत्पाद्यते।न पुनर्भुवनादिना ततो न निमित्ताधीनात्मलाभत्वमात्रं बुद्धि- मद्धेतुत्वप्रतीतिविधानबन्धुरम्। यदातुधरित्रीधरित्रीधरत्रिभुवनादिविधानं नप्रतीतम् । तदानीं त्रिनयनो भुवनभवनान्तर्भाविभावत्रातप्रद्योतनप्रबल- वेदनप्रदीपवानिति निद्धनदानमनोरथप्रथैवेयमिति । त्यादिवचनद्वयेन स्यादिकवचनत्रयेण वर्णैस्तु । त्रिभिरधिकर्दशमिरयं व्यधायि शिवसिद्धिवि. ध्वंसः॥१॥ ति, ते, सि । टा । उस । तथदधन। पबमम । यरलव । (टि०)-अवयवित्वेनेति अवयवित्वात् इदमिति भूभूधरादि तनित्यतेति पृथ्वीपर्वतादि सनातनत्वम् नैतद्वृत्तीति नैतच्चतुरचेतश्चमत्कारकारि अवयवेति अवयवैरारभ्यमाणत्वात्पर्वतादेः यथा तन्तुभिः पटः क्रियते अवयवसमूहे वर्तमानत्वात्तस्य यथा तन्तुषुपट इति वा यथा किलाग्भूतपूर्व घटाद्यवयववृन्देन निर्वय॑ते तथा पर्वतादयो नानादिसिहत्वात् तेषां अभूतपूर्वमविद्यमानम् प्रतिवादिनो जैनस्य यदिपुनरित्यादि अवयवत्वे- नेति अवयवसामान्येन वा अवयववृत्तित्वेन दोलेति पक्षसपक्षविपक्षवृ- त्तित्वलक्षणानकान्तिकत्वम् अत्र हेतौ अनेनदुर्भेदेति दुष्टविकल्पोत्पादनेन प्रमाणनयतत्त्वालोकालंकार: ननुनामति अवयवीप्रसिद्धएच पुनरात्मापि तथेति अवयवित्वेन अनु- मेयेति अनुमेयः पक्षः तत्तुल्यः सपक्षः तद्विरुडो विपक्षः तत्र वृत्तित्वं पक्षसपक्षविपक्षलक्षणानैकान्तिकत्वम् अनुभवेति आत्मनो भोगायतनभूता तथाविधेति नरामरादिरूपा भूतमात्रेति भूतचतुष्टयवादिनी नास्तिकस्य मतप्रसङ्गः अमेदिनइति एकाकिनः अभ्युपतेति अनङ्गीकृतत्वात् अभि- न्नरूपतति एकस्वभावता तदाऽन्यतरस्मिन्नेकस्मिन्नरभवेऽमरभवे वा वर्त- मानः अयमिति आत्मा अपरिमेयेति अपरिमितानामपाराणां स्वकी- यानुभवनीयानां नरामरादिभवपर्यायाणाम् अनेनेति आत्मना तद्रूप तयेति भवपर्यायवेदनरूपतया अयमिति आत्मा नियम्यते इति निश्चीयते भूतमात्रेति नास्तिकत्वम् तन्मतेनेति चार्वाकाभिमायेण अने- नेति लोकायितेन एतदिति वेदनम् तथैतदित्यादि एतस्य नैयायिकप्र- तिपन्नस्याऽनुमानस्य धम्मी भूभूधरादिकं बुद्धिमद्विधेयमित्यत्र इन्द्रियेति प्रत्यक्षेण अर्द्धतइति अंशेनेत्यर्थः दोलायमानेति दोलायमानोविधान- तत्परनरव्यापारो यत्र तथा सन्दिग्धकर्तृक इत्यर्थः भावव्रातइति पदार्थ संघातः तत्रेति भावनाते ननुभवतीत्यादि एतद्विधानेति भूभूधरादिजनक- इन्द्रियप्रभवेति प्रत्यक्षज्ञानविलोकनीयः मानमिति प्रमाणम् इन्द्रियदा- रोति प्रत्यक्षज्ञानमन्तरेण त्वन्मतेऽपि व्याप्तिः संभवति पारावारेति वडवानलः औदयेति जठरसंभूतवहिस्तयोरितरः सामान्यः पर्वतावष्टब्धो वा तेषां सामान्येन इन्द्रियोद्भवेति प्रत्यक्षज्ञानज्ञेयपदार्थाधारश्रितेन अन्यथति दृश्यत्वाभावे तेनेति ऐन्द्रियज्ञानेन ततोऽपीति ततश्च तत्रेति साधने व्याप्त्यनालम्बेति अदृश्येन बुद्धिमत्कनी अनुमेयेति व्याप्त्यनालम्बनीभूतं साध्यं न भवतीत्यर्थः तथात्वेनेति अनुमेयतया एतदितिवुद्धिमन्निमित्तं अत्रेति अनुमाने इन्द्रियबोधति प्रत्यक्षवेदनवेद्य तया यदितुतथेति प्रत्यक्षज्ञेयतया एतदिति बुद्धिमत्पूर्वकम् ततोऽनेनेति ऐन्द्रियप्रत्यक्षेण अति अनुमानधम्मिाणि अंशेन अनेनेति ऐन्द्रिय- प्रत्यक्षेण तत्रापीति कृशानुविषयानुमानेपि विधीयमानेति विधीयमान RRC ASMALLiri yaang ALTA टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्त मनुमानं येन स तथा तेनाऽत्र बहुव्रीहिः तदनालम्बेति इन्द्रियगोचरातीतः तेनेति ऐन्द्रियेण यदापुनरित्यादि तति बहिमस्पर्वतादिप्रदेशे तेनेति प्रमात्रा तत्रेति तरुमूलोपविष्टेनाऽपि तत्रोति वृक्षादौ बुद्धिमनिमित्तपूर्वके- साध्ये इन्द्रियोद्भवति प्रत्यक्षज्ञानयाधा तथाविधेति प्रत्यक्षबाधितधर्मध- म्यनन्तरमव्याप्यति हेतुप्ररूपणात तुरीयेति त्वत्तकाभिप्रायेण कालात्यया. पदिष्टहेत्वाभासोपद्वः मन्मतेनेति ममतर्कपरितणन्यायेन व्याप्यपरा- भूतिरिति अनैकान्तिकत्वमित्यर्थः तन्मात्रमेवेति निर्विशेषणमेव तदा- नाभिप्रेतेति अभिप्रेतस्य बुद्धिमद्विधेयतयाऽभिलषितस्य पदार्थस्य भूभू. धरादेनिश्चयोत्पादनसमर्थम् अनुपलब्धः पूर्वमज्ञातः पूर्व उत्पत्तिव्यापारो यस्य एवं विधस्येन्द्रमूडावल्मीकशृङ्गस्य मनुष्यनिष्पाचनिश्चयनिमित्तं गृही- तमृन्मयत्ववत् यथा मूर्हामानवकृतः मृन्मयत्वात् कलशवत् एतदनुमानम- लीकम् निपेति घटः उभयत्रापि घटे इन्द्रमूर्ति च अयमिति इन्द्रसूर्ण तत्तुल्येति मानवपूर्वत्वात्प्रतीतान्येन्द्रमूईसाम्येन यतोऽत्रापीति भवत्प्रयुक्ता. नुमाने अयमिति भूभूधरादिः पदार्थप्रसरः तथेति बुद्धिमन्निमित्ताधी- नात्मलाभरूपः निपादिरिति घटादिः परिभावितइति विचारतः विवा- देति विवादपद्धतिसमारूढो भूभुधरादिरपि तथेति बुद्धिमनिमित्तोपेतः पुरन्दरेति इन्द्रमापि वल्मीकेनापि तन्निवत्यति मानवनिष्पाद्येन न तत्रेति वल्मीकशृङ्गे यद्येवमिति कुटपुरन्दरमूडाराकारवरूप्यादेव मानव. निष्पाद्यानिष्पाद्यभेदः एतदैरूप्यइति बल्मीकोपदिष्टवरूप्यः अनु. पलब्धति पूर्वमज्ञातमतिमच्चक्रजीविकव्यवसायस्वरूपेण ज्ञातेन अय. मिति निपादिः शिवसिद्धीति त्रयोदशभिर्वणाभ्यां स्यादेस्त्रिभिचनैः स्यादनियमेन शैवाभिमतं विश्वस्य शिषकतत्वं निरस्तं सूरिभिः। (५०)-नैतडीमवृत्तीत्यादि सारेवाक्यम् । अभूतपूर्वमिति यथा किलाभूतपुर्व- घटाद्यवयववृन्देन निर्वय॑ते तथा न पर्वताद्यनादिसिद्धत्वात् तेषाम प्रतिवादिन इति जैनस्य अवयवत्वेनेति अवयवत्वसामान्येन । दोलायमानतेति अनैकान्तिकता। १ व्याप्ति इति वा पाठम्। १७ - -- - प्रमाणनयतत्त्वालोकालंकारः ननामेति आचार्यवाक्यम् । तथेति अवयवित्वेन अनुमेयेति भूभूधरादि । तत्- त्यति बटादि । तद्विरुद्धेति आत्मादि । वृत्तितोपद्रवइति पक्षसपक्षविपक्षेषु त्रि- ध्यापि वर्तमानोऽनैकान्तिकोऽनैकान्तिकत्वमित्यर्थः । ननुनरामरोति गये धमाधर्मशब्देना- एष्टम् तथाविधातनुरिति नराणां तादशी तिरश्नां तादशी । तन्मतेति गये वेदनमिति चेतना । अनुमानधर्मीति भूभूधरादिरूपो धर्मी अर्द्धतइति अर्द्धतएकदेशेऽनतरुप्रभृतौ प्रत्यक्षबाधः दोलायमानेति गद्ये दोलायमानो विधानतत्परनरव्यापारो यस्मिन् स तथा- विधः सन्दिग्धकर्तृकश्त्यर्थः वेद्यमानतनोरिति दृश्यशरीरस्य इन्द्रियप्रभवप्रभाल- बनीभूतइति नाथनरश्म्याश्रयीभूतः। उपद्रवइति एकदेशे प्रत्यक्षबाधः । व्यातिप्रति- पादनप्रत्यलमिति अनुमानं हि गृहीतव्याप्तिकं प्रवर्तते। व्याप्तिश्च प्रत्यक्षेण गृह्यते भव- ताम् । तवेति नैयायिकस्य। इन्द्रियोद्भवेत्यादि गधे वेद्यशब्देन दृश्यम् । अन्यथेति अदृश्यत्वाभावे तेनेति इन्द्रियवेदनेन। ततोऽपीति ततश्च। तत्रेति अनुमाने तेन- बुद्धिमन्निमित्तेनेति अदृश्येन बुद्धिमता का । अनुमेयतानाद्रियत इति व्याप्त्यनालम्ब भूतं साध्यं न भवतीत्यर्थः । तथात्वनेति व्याप्त्यालम्बनत्वेन एतदिति धुद्धिमन्निमित्तम् । इन्द्रियबोधावबोध्यतयेति प्रत्यक्षग्राहातथा। तथेति इन्द्रियबो- धावबोध्यतया। विधीयमानानुमानेनेति बहुव्रीहिः । तदनालम्बनीभूतइति इन्द्रियानाश्रयीभूतः । तेनेति इन्द्रियवेदनेन। बुद्धिमनिमित्तमिति बुद्धिमञ्च तन्नि- मितञ्च। तथाविधधर्मीत्यादिगो तथाविधइति प्रत्यक्षबाधितः । व्याप्यशब्देन हेतुः। तुरीयव्याप्याभलोपनिपातइति कालात्ययापदिष्टोपनिपातः । अनियत. प्रतिपत्तिनिमित्ततेति अनैकान्तिकत्वम् । निमित्ताधीनात्मलामत्वमपि भविष्यति बुद्धि- मद्विधेषत्वमपि न भविष्यतीति भावः । तदानाभिप्रेतेति गद्ये अभिप्रेतपदार्थो बुद्धिम- स्कर्तृकत्वम् अनुपलब्धपूर्वोत्पत्तिव्यापारेन्द्रमूर्द्धइति अनुपलब्धपूर्वउत्पत्तिव्यापारो" यस्यति समासः स हि पिपीलिकादिभिर्निःपाद्यमानो न दृष्टः । इन्द्रमुर्दावल्मीकः । निपेन्द्रमूर्द्धइति घटवल्मीकयोः समाहारद्वन्द्वकत्वात् । अन्यइति अनुपलब्धपुर्वो. स्पत्तिप्पारेन्द्रमूर्नोऽन्यः कोऽर्थ उपलब्धपूर्वोत्पत्तिव्यापार इत्यर्थः। अयमिति तरुविद्यु, दादिः। । ।
टि. पं. इयोपेतरत्नाकरावतारिकायुक्तः केवलिनः कवलाहारवत्वे सर्ववित्त्वं विरुध्यत इतीष्टवतो नग्नाटान विघटयितुमाहुः । मू०-न च कवलाहारवत्वेन तस्याऽसर्वज्ञत्वं कवलाहारसर्वज्ञत्वयोरविरोधादिति। (रत्ना०)-तथाानयोः साक्षात्परंपरयावाविरोधमभिदधीरनहीकाः। तत्र यदि साक्षात्पक्षोपक्षेपदीक्षादक्षा विवक्षेयुः क्षपणकास्तर्णम्। नहि सति सार्वज्ञय केवली कवलान नपानोति । प्राप्तानपि नाहतुं शक्नोति । शक्तो- ऽपि वा विमलकेवलालोकपलायनशंकया नाहरतीत्यस्ति सम्भवोऽन्त- रायकेवलावरणकर्मणोः समूलकाषंकषणात् । अथ परंपराकल्पकल्पना- स्वल्पतल्पगा जल्पेयुस्तदप्यल्प्यीयः । यतः किमेवं सति कवलाहारस्य व्यापकं कारणं कार्य सहचरादि वा सार्वज्येन विरोधमधिवसेदशेषमपि चैतत्परस्परपरिहारेण सहानवस्थाऽनेन वा विरुध्येत । प्राचीनेन चेत् तदानीं तावकज्ञानेनापि साकं कवलाहारव्यापकादेः परस्परपरिहार- स्वरूपविरोधसद्भावाद्भवतोऽपि कवलाहाराभावः स्यादित्यहोपुरुषकारो यत्स्वस्यैव प्रभवितासि द्वितीयेन तु न तावद् व्यापकं व्याहन्यते । कवला- हारस्य हि व्यापकं शक्तिविशेषवशादुदरकन्दराकोणे क्षेपः। स च सति सार्व. इये सुतरां सम्भाव्यते । वीयान्तरायकर्मनिर्मूलोन्मूलनात् तत्र तरक्षेपहेतोः शक्तिविशेषस्य सम्भवात् । कारणमऽपि बाह्यमाभ्यन्तरं वा विरोध- मधिरोहेत् । बाह्यमपि कवलनीयं वस्तु तदुपहारहेतुपात्रादिकमौदारिक- शरीरं वा । न प्रथमं यतो यदि सर्ववेदिसंवेदनं कवलनीयपुरलैर्विरोध- धुरां धारयेत् तदानीमस्मदादिसंवेदनमपि तथा स्यान्नखलु तरुणतर- तरणिकिरणनिकरेणान्धकारनिकुरुम्बं विरुद्धं प्रदीपालोकेनापि न तथा भवति तथा च करतलतुलिताहारगोचरज्ञानोत्पादे ऽस्मदादीनामपि तदभावो भवेदित्यहो किमपि नूतनतत्वालोककौशलं यदात्मन्यपि ना- हारापेक्षा अस्मदादौ तयोर्विरोधावबोध एव हि तत्र तत्प्रतिपत्तावुपाय- १३२ प्रमाणनयतत्त्वालोकालंकार: स्तस्याऽस्मदादीनामगोचरत्वाद्यथास्मदादौ ज्ञानतारतम्यावबोधस्तस्य निःशेषविषयत्वस्य प्रतिपत्ताविति । पात्रादि पक्षोऽपि नाक्षणः। भगवता- महतां पाणिपात्रत्वादितरेषामपि केवलिनां स्वरूपमात्रेण तत्तविरोध- दुद्धरं स्यान्ममकारकारणतया वा तत्रादिमः समनन्तरपक्षः प्रहारेणैवो- पक्षीणः द्वितीयोऽपि नास्ति निर्मोहत्वेन तेषां तत्र ममकारविरहान नच पात्रादिभावे भवितव्यमेवानेनेत्यवश्यम्भावास्ति शरीरभावेऽपि तद्भाव- प्रसङ्गादितरजनेषुभयभावेऽपि तदर्शनात् । औदारिकशरीरमपि न तेन विरोधमध्यूषिवत्केवलोत्पत्तिसमनन्तरमेव तदभावापत्तेः । आभ्यन्तर. मपि तत्कारणं शरीरं कर्म वा । न तावत्प्रथमं विरुध्यते । भुक्तिहेतोस्तै- जसशरीरस्य सार्वत्येन सार्द्ध त्वयापि सत्तस्वीकारात् । कापि धात्य- घाति वा पात्यपि मोहरूपमितरता । इतरदापि ज्ञानदर्शनावरणं अन्त. रायो वा । नाद्यस्तयोानदर्शनावरणमात्रचरितार्थत्वेन तत्कारण- खानुपपत्तेः । नापि द्वितीयोऽन्तरायविलयस्यैव तत्कारणत्वात्तस्य च साकल्येन केवलिनस्त्वयापि स्वीकारात् । मोहोऽपि बुभुक्षालक्षण- स्तत्कारणं सामान्येन वा। प्रथमप्रकारे सर्वत्रापीयं तत्कारणमस्मदादा- वेव वा। प्राच्यः प्रमाणमुद्रादरिद्रा । (टि)-तथाहीत्यादि अनयोरिति कवलाहारसर्वज्ञत्वयोः नहीकाः क्षपणकाः निर्लज्जा नग्नत्वात् तत्रेति पक्षद्वयमध्ये प्राचीनेत्यादि परस्परेति ज्ञाने कवलाहारो नास्ति कघलाहारे च ज्ञानं नास्तीतीतरेतराभावः तवाऽपि करतलगतकवलादिज्ञानसद्भावे कवलाहारोनयुक्तियुक्तः विरोधात् द्विती- येनेति सहानवस्थाऽनेन तत्रेति सर्वज्ञे तत्क्षेपेति कवलाहारक्षेपनिमित्तस्य कवलनीयमिति अन्नाद्यं शाकपानकाद्यम् तदुपहारेति कवलनीयवस्त्वा- नयनकारणम् तथास्यादिति अस्मद्ज्ञानमपि कवलाहारेण विरुद्धं भवेत् नतथेति अन्धकारनिकुरुंबं प्रदीपेन समं विरुद्धं न तथाचेति केवलाहारज्ञा- नयोर्विरोधसद्भावे सति हस्तस्थितकवलज्ञानमप्यस्माकं न स्यात् स्वल्पम- प्यस्मत्ज्ञानं तथा निर्मूलनाशमासादयेत् अस्मदादावित्यादि केवला- वरणकर्मणोरिति अन्तरायक्षयात् प्राप्नोति आहर्तुं शक्नोति केवलं न टि. पं. इयोपेतरनाकरावतारिकायुक्तः पलायते तयोरिति ज्ञानकवलनीयाहारपुङ्गलयोः अवबोधेइति विरोधज्ञाने सति तत्रेति सर्वज्ञत्वे तत्प्रतिपत्तो विरोधप्रतिपत्तौ तस्येति विरोधस्य तारतम्येति अधिकाधिकावबोध: तस्येति सर्वज्ञत्वस्य उपायइति सम्बन्धः इतरेषामिति सामान्यकेवालना अस्मदादीनां वा तदिति पात्रादि समन- न्तरेति पात्रादिना सह सर्वज्ञत्वस्य विरुद्धत्वे सति अस्मदादिज्ञानमपि पा- त्रादिना सहविरोधमधिवसेत निर्मोहवेन तेषामिति भगवतां तीर्थङ्कराणां सामान्यकेवलीनांवा तत्रेति पात्रादौ अनेनेति ममकारेण मोहेन वा तद्भावे- ति ममकारभावप्रसक्तेः उभयभावेऽपीति पात्रादिशरीरलक्षणव्यसम्भवेऽपि तद्दर्शनादिति ममकारविलोकनान्मोहनिरीक्षणाद्वाऔदारिकेत्यादि तेनेति सर्वज्ञत्वेन अध्यूषिवत् इति अधिपूर्ववमनिवासे वम् अभ्युवास क्वन्सुकानौ वम् प्रत्ययः स्वपिवचीत्यादिना सम्प्रसारणं द्विवचनं अत्तीण्यसैक० इडन्तः प्र. सिनपुंस्का० सिलोपः विरामव्यञ्जनादावुक्तमिति देशबलादिति नलोप: विरामव्यञ्जना सस्य दत्वं वाविरोमे तत्त्वम् तदभावेति औदारिकशरीराभा- वप्राः नाथस्तयोर्ज्ञानदर्शनावरणयोः तत्कारणत्वेति कवलाहारकारणत्वम् तत्कारणत्वादिति कवलाहारकारणत्वात् नान्तराये सति महाकुलप्रसूतस्या- ऽपि सद्गुरुदीक्षितस्यापि गुरुतपश्चरणभरधरणसमर्थस्यापि कवलप्राप्तिर्भ- वेत् ढण्ढणकुमारवत् ॥ यदुक्तं सिरिवासुदेवतणुओ सीसोतिअलुक्कसामिने- मिस्स सव्वगुणाणनिवासोधणकणयसमिद्धनयरीए । भममाणोविन पावह भिक्खामेत्तंपि ढंढणकुमारो जम्मन्तरनिव्वत्ति- यतिब्वमहाकम्मदोसण। (पं०)-समनन्तरपक्षप्रहारेणैवेति अस्मदादिसंवेदनमपीत्यादिरूपेण। अनेनेति ममकारेण । (रत्ना०)-अथ या चेतनक्रिया सेच्छापूर्विकैव यथा संप्रतिपन्ना तथा च भुजिक्रियेत्यस्ति प्रमाणं। तथाहि प्रथमं प्रमाता प्रमिणोति ततइच्छत्य- नन्तरं यतते ततोऽपि करोतीति । नैवं सुप्तमत्तमूर्छितादिक्रियाभिव्यभि- चारात् । खक्शचेतनक्रियेति सविशेषणहेतूपादानेऽपि केवलिगतगति- स्थितिनिषद्यादिक्रियाभिर्व्यभिचारात् । द्वितीये तु सिद्धसाध्याः स्मः केव- लिनि वेदनीयादिकारणिकाया भुक्तेः सिद्धत्वात । न सामान्येनापि प्रमाणनयतत्त्वालोकालंकारः मोहस्तत्कारणमेवं हि गतिस्थितिनिषद्यादीनामपि स एव कारणं स्यात् तथा च केवलिनि मोहाभावात् तासामध्यभावो भवेदिति कुतस्तीर्थप्र- वृत्तिः स्यात् । अथ गत्त्यादिकम्मैव तत्कारणं न मोहस्तर्हि वेदनीयादिकम्मैव कव. लाहारकारणं न मोह इत्यपि प्रतिपद्यताम् । अधाघातिकर्मतत्कारणं किमाहारपर्याप्ति मकर्मभेदो वेदनीयं वा न द्वयमप्येतत्प्रत्येकं तथायुक्तं तथाविधाहारपर्याप्तिनामकर्मोदये वेदनीयो- दयप्रबलप्रज्वलदौदर्यञ्चलनोपतप्यमानोहि पुमानाहारमाहारयति। एवं च समुदितं पुनरेतद्भवति तत्कारणं किन्तुन सावश्येन विरुध्यते सर्वज्ञे त्वयाऽपि तदुपगमात् । अथ मोहसहकृतं तत्तत्कारणं तदसङ्गतं गत्यादिकर्मणामिवा- स्यापि मोहसाहायकरहितस्यैव तत्र तत्कारित्वाविरोधात् । अथाशुभप्रकृतय एवैतस्य साहायकमपेक्षन्ते नान्यागत्यादयो ऽशुभप्रकृतिश्चेयमसातवेदनीयरूपेति चेत् । तत्किमियं परिभाषा । अस्मदादौ तथा दर्शनादेवं कल्प्यत इति चेत् ननुशुभप्रकृतयोऽप्यस्मदादौ मोहसहकृता एव खकार्यकारणकौशलमवलम्बमाना विलोकयांचक्रिरे ततस्ता अपि तथा स्युस्ततो नैतद्यस्य मोहापेक्षस्य तत्कारणलं किन्तु स्वतन्त्रस्य तच केवलिन्यविकलमस्त्येव । तन्नकारणं केवलित्वेन विरुध्यते। कार्य तु यदि विरुद्धं तदा तत्तत्र मोत्यादि । अविकलकारणस्तु तत्रो- त्पद्यमानः कवलाहारोनिवार्य एव किंच किनामाहारकार्य सार्वइयेन हन्यते रसनेन्द्रियोद्भवमतिज्ञानं ध्यानविघ्नः परोपकारकरणान्तरायो विस- चिकादिव्याधिरीर्यापथः पुरीपादिजुगुप्सितं कर्मधातूपचयादिना रिरंसा निद्रावा। नाद्यः पक्षस्तावन्मात्रेण रसनेन्द्रियज्ञानासम्भवादन्यथा ऽमर- निकरनिरन्तरनिर्मुक्तकुसुमपरिमलादिसम्बन्धात् प्राणेन्द्रियज्ञानमपि भवेत् । न द्वितीयः केवलिनः शैलेशीपारम्भात्याग्ध्यानानभ्युपगमात १ तत्कामित्यपि पाठान्तरम् । २ तेनेत्यपि पाठान्तरम् ।
टि. पं. द्वयोपेतरत्नाकरावतारिकायुक्तः तत्र च कवलाहारास्वीकारात् तद्ध्यानस्य च शाश्वतत्वादन्यथा गच्छ- तोऽपि कथन्नैतदिन्नः स्यात् न तृतीयस्तृतीययाममुहूर्त्तमात्र एव भगवतां भुक्तेः शेषमशेषकालमुपकारावसरान्न चतुर्थः । परिज्ञाय हितमिताहारा- भ्यवहारात् । न पञ्चमो गमनादिनापीर्यापथप्रसङ्गात् । न षष्ठो यतस्त. स्मिन क्रियमाणे तस्यैव जुगुप्सा सम्पद्येताऽन्येषां वान तावत्तस्यैव भग. वतोनिम्मोहत्वेन जुगुप्साया असम्भवात् । अथाऽन्येषां तत्किमनुजदनु- जामरेन्द्रतद्रमणीसहस्रसङ्घलायां सभायामनंशुके भगवत्यासीने सा तेषां न सञ्जायते । अथ भगवतः सातिशयत्वान्नतन्नाग्न्य तेषां तद्धेतुस्तहि तत एव तन्नीहारस्य मांसचक्षुषामदृश्यत्वान्न दोषः सामान्यकेवलिमिस्तु विविक्तदेशे तत्करणादोषाभावः । नाऽपि सप्तमाष्टमौ रिरंसानियोर्मोह- नीयकार्यत्वाद्भगवति तु तदभावात् । तन्न कार्यमपि तस्य तेन विरुध्यते । नापि सहचरादि यतस्तत्सहचरं छद्मस्थत्वमन्यद्वा निगदेत। न तावदाद्य- मुभयवाद्यविवादास्पदत्वेनासिद्धेः अस्मदादौ तथा दर्शनात् तत्साहच- यनियमोपगमे गमनादेरपि तत्सहचरं स्यात् । अन्यत्तु करवऋचालनादि भवति तत्सहचरं नतु केवलित्वेन विरुद्धं । एवमुत्तरचरादिकमपि न केव- लित्वेन विरुध्यत इति स्थितं कवलाहारसर्वज्ञलयोरविरोधादिति हेतु. सिद्धिवधूसम्बन्धबन्धुर इति । इतिप्रमाणनयतत्त्वालोकालंकारेश्रीरत्नप्रभाचार्यविरचितायां रत्नाकराव- तारिकाख्यलघुटीकायां प्रत्यक्षस्वरूपनिर्णयो नाम द्वितीयः परिच्छेदः।।२।। (टि०)-तस्यति अन्तरायविलयस्य साकल्येनेति सकलतया सर्वथान्त- रायस्य नाशे केवलोत्पत्तिरिति भावः तत्कारणमिति कवलाहारकारणम् सर्वत्रापीति अस्मदादी सर्वज्ञत्वे च इयमिति भोजनेच्छा द्वितीयविति अस्मदादावेवेति पक्षे अस्मदादौ भोजनेच्छा वर्तते नचसर्वज्ञेइति नः पक्षकक्षाप्रविष्टो भवान सएवेति मोहएव तथाचेति मोहस्य गत्यादिकार णत्वे सति तेषामपीति गतिस्थितिनिषद्यादीनाम् अवगत्यादीत्यादि तत्कारणमिति गतिस्थितिनिषद्यादिकारणम् तथायुक्तमिति कवलाहा- रकारणमुचितम् समुदितमिति मिलितम् एतदिति आहारपर्याप्ति- प्रमाणनयतत्त्वालोकालंकार: वेदनीयकर्मद्वयम् तत्कारणमिति कवलाहारकारणम् तदुपगमादिति आ- हारपर्याप्तिवेदनीयकर्मवयस्याङ्गीकारात् अस्याऽपीति आहारपर्याप्तिवेदनी- यद्वयस्य तत्रेति सर्वज्ञे तत्कारित्वेतिकवलाहारकारित्वाविरोधात् एतस्येति मोहस्य इयमिति आहाररूपा परिभाषेति सिदान्तभाणितम् तथादर्शना- दिति आहारस्यासातारूपस्यावलोकनात् ततस्ताइति शुभप्रकृतयः तथेति मोहसहकृताएव भवेयुःतचेति स्वतन्त्रं द्वयं तदातदित्यादि तदिति कार्यम् तति सर्वज्ञे तत्कामिति आहारकार्यम् तेनेति सर्वज्ञेन तावन्मात्रेणेति कवलाहारसम्बन्धमात्रेणैव किन्तुक्षयोपशमेनैव सर्वज्ञस्य त्विन्द्रियज्ञानकर्म सर्वथा क्षीणम् अन्यथेति इन्द्रियज्ञानकर्मणि अक्षीणे सति तद्धयानस्यति केवलिध्यानस्य केवलिनः शैलेशीप्रारम्भात् ध्यानानभ्युपगमात् तत्र च कवलाहारास्वीकारात् अन्यथति आशाश्वतत्वे एतद्विनइति ध्यानान्तरायः अथान्येषामित्यादि सेति जुगुप्सा तेषामिति अन्येषां मानवादीनाम् तन्नाग्न्यमिति भगवान्निरावरणता तेषामिति अमरेन्द्रादीनाम् तद्धेतुरिति जुगुप्साकारणम् ततएवेति सातिशयत्वादेव तन्नीहारस्योति सर्वज्ञनीहा- रस्य तत्करणादिति नीहारकरणात् तदभवादिति रिरंसानिद्राभावात तन्नेत्यादि तस्येति कलवाहारस्य तेनेति सर्वज्ञत्वेन अस्मदादावित्यादि तथेति आहारच्छद्मस्थत्वयोः साहचर्यावलोकनात् तत्साहचर्येति सर्वज्ञे- ऽपि च्छद्मस्थत्वसाहचर्यनिश्चये सति तदिति च्छमस्थत्वम् । इति श्रीसाधुपूर्णिमागच्छीयश्रीमदाचार्यगुणचन्द्रसूरिशिष्य पं० ज्ञानचन्द्र- विरचिते रत्नाकरावतारिकाटिप्पणके द्वितीयः परिच्छेदः समासः॥ (पं०)-अथमोहसहकृतमिति गये अस्येति माहारपर्याप्तिवेदनीयस्य । तत्रेति सार्वज्ये। तत्कारित्वाविरोधादिति कवलाहारकारित्याविरोधात् । अस्वीकारा- दिति अस्माभिः श्वेताम्बरैरपि। द्वितीयपरिच्छेदस्थलसंख्या । उपमानस्यार्थापत्तेरभावस्य संभवस्य ऐतिहस्य प्रातिभस्य च पृथक्प्रामाण्यनिरा- करणानि १॥ चक्षुषः प्राप्यकारित्वनिरासः २ ॥ श्रोत्रस्य प्राप्यकारितानिरास:३॥ तमश्च्छाय- योद्रव्यवस्थापनम् ४॥ मीमांसकाभिप्रायेण सर्वशनिषेधोयस्तस्य निराकरणम् ५:॥ ईश्वरसृष्टि- निराकरणम् ६॥ केवलिनः कवलाहारो नास्तीति वादिदिगम्बरनिराकरणम् ॥ ७॥ एवं सप्त ॥ - इति द्वितीयपरिच्छेदः समाप्तः । *