Svi-ksri-chennai
Naliniicharithamuu
Front matter
No text on this page.
This book is incomplete
NALINI CHARITHAM
4620
TIFUPPUSWAMI SASTK
1. SEARCH INSTITUTE
MADRAS.
BY
Mahakavi T. S. SUNDARESA SHARMA
Published by
The General Stores,
Tanjore.
All Rights Reserved ]
1948
(Price As. 6
॥विषयाः॥
पृष्ट
१
१. नलिनी चरितम्
२. श्रीरामप्रसादस्तवः
३. मनोनथश्रेणिः
४.
आर्यापश्चाशत्
४३
4670
THE KUPPUSWAMI SASTRI
RESEARCH INSTITUTE,
MADRAS.
॥श्री.॥
॥ नलिनीचरितम् ॥
॥ महाकविसुन्दरेशशर्मप्रणीतम् ।।
॥ प्रथमः सर्गः॥
कालिन्दीतटकानने कवचितप्राये तमालद्रुपैः
सद्यः प्रोद्गतवारिवाहनिचयैच्छन्ने च शीतद्युतौ ।
अन्तर्धानमवेक्ष्य यस्य दयितस्याभीरनारीगणे
कन्द त्याविरभूस्मितांचितमुखस्सेन्दुस्स कृष्णोऽवतु ॥१॥
आसीनन्दबजे पूर्व चिराद्विश्रान्तयौवना ।
सदा विदिशाभिख्या गोपी पण्डितमानिनी ॥२॥
पुत्रो मानधनस्तस्याः सुधामेति बहुश्रुतः ।
न्यवसद्रूपशालिन्या जायया च नवोढया ॥३॥
कुलीना तु स्नुषा भीरुर्नलिनीत्याह्वयान्विता ।
परिचर्यापरा भर्तुः तथा श्वश्वाश्च साऽभवत् ॥४॥
अन्तर्गृहैकसचारा सा सखीभिरुदाहृतम् ।
अभीक्ष्णमपि शुश्राव कृष्णस्याद्भुतचेष्टितम् ॥५॥
पूतनामारणं पूतं शकटासुरभञ्जनम् ।
चकवत्सतृणावर्तरासमादिनिबर्हणम् ॥६॥
2
कालीयगर्वभङ्गं च रक्षणं दवपावकात् ।
गोवर्धनाद्रेरुद्धारं सर्व शुश्राव विस्मिता ॥७॥
अद्भुतान्यपदानानि शृण्वन्त्या गोकुलेशितुः ।
बालायाः साधुवृत्तायाः मनस्तेनैव सङ्गतम् ॥८॥
सदा ससार तं कृष्णम् यथा सख्या समीरितम् ।
नीलमेघनिभाकारं निटिलाकीर्णकुन्तलम् ॥९॥
नवकस्तूरितिलकं नवकारुणेक्षणम् ।
कटकाङ्गदकेयूरकुण्डलामरणान्वितम् ॥१०॥
ईषद्विशददन्ताग्रमन्दहासमनोहरम् ।
ससौहृददयाप्रेमवीक्षणाकृष्टगोकुलम् ॥११॥
मयूरवहस्तबकसमलंकृतकुन्तलम् ।
सव्यांसन्यस्तशृङ्गाग्रं वेणुवेत्रलसत्करम् ॥१२॥
सुवर्णमालिकाकण्ठं विचित्रकुसुमस्रजम् ।
धेनुवृन्दखुरोद्धृतधूलोधूसरितालकम् ॥१३॥
यशोदानन्ददम्पत्योः चिरधर्मफलात्मकम् ।
शर्मप्रमोदनिलयं ब्रजबालकसंहतेः ॥१४॥
दुष्टदैतेयदहनकालवारिधरोपमम् ।
ध्यायन्ती सततं सा तु कालं परमनीनयत् ॥१५॥
3
एकदा सायमायान्तं सा तं गोगोपसंवृतम् ।
शृङ्गवेणुरवैख़त्वा गवाक्षं त्वरितं ययौ ॥१६॥
अपश्यदथ तन्वङ्गी मोहनं सर्वदेहिनाम् ।
मध्ये बजकुमाराणां कृष्णं मुग्यप्रसाधनम् ।।१७।।
यावदक्षिपथं सा तु दृष्टाप्युत्फुल्ललोचना ।
न तृप्तिमुपलेभे तद्रूपं यत्तादृशं स्वयम् ॥१८॥
दधानमपि वेत्रं तमासन्नामृष्टगोत्रजम् ।
दृष्टं कृष्णमनुध्यायन्यास्त सर्वात्मना सती ॥१९॥
कैपास्य रूपसंपत्तिः कोवा गुणसमाश्रयः।
शरीरबद्धं सुकृतं ब्रजस्येत्यप्यचिन्तयत् ॥२०॥
निश्चिकायाथ सा न्यूनमुक्तं तावद्ववस्यया ।
यदवर्ण्यमिदं रूपं यथावदपि कोविदैः ॥२१॥
तस्य दर्शनमात्रेण प्रेमभारवशंगता ।
तमेव हृदि कुर्वाणा चिरं तत्र बभूव सा ॥२२॥
सायन्तनार्ककिरणविशदीकृतभूषणः ।
तस्यौ हृदन्तरे तस्याः स्मेरमुग्धमुखस्सदा ॥२३॥
प्रातस्तं प्रस्थितं द्रष्टुं यतते स प्रसाधितम् ।
सायाहेषु च कान्तारात्प्रत्यागच्छन्तमेव सा ॥२४॥
4
वातायनस्य पार्श्वे सा ध्यायन्ती सततं प्रियम् ।
अतिष्टत चिरं तन्वी तदर्शनकृतक्षणा ।.२५।।
दृष्टश्चेद्भगवान् कृष्णः चिरेण यतमानया।
तत्तनुं संप्रविष्टेव नैवात्मानं विवेद सा ॥२६॥
एकदा भगवान् कृष्णः सर्वज्ञस्सर्वान्धवः ।
तदेहसविधे सायं विलम्ब्य च मनाक्स्वयम् ॥२७॥
गवाक्षान्तरगां साध्वीमपि निर्वर्ण्य सादरम् ।
साभिलाषं स्मितं कृत्वा गोगोपैरावृतो ययौ ॥२८॥
अपूर्व तस्य तत्कर्म दृष्ट्वातु हृदयप्रियम् ।
चकोरी शरदारम्भं समीक्ष्येव ननत सा ॥२९॥
तत्रैव चिरामास्ते स्म स्मरन्ती सा तदुत्स्मयम् ।
अरुणाधरसंशोभि मुग्धं तच्च मुखाम्बुजम् ॥३०॥
प्रनष्टमिव सर्वस्वं दृष्ट्वा तस्य तिरोभवम् ।
अन्वशोचत्पृथुश्रोणी निश्वसन्ती सवेपथुः ॥३१॥
ततः कलुषितस्वान्ता मुग्धा सा तस्य वीक्षणात् ।
न प्रावर्तत कृत्येषु स्वयं वा चोदितापि वा ॥३२॥
श्वश्रूस्सा विदिशा वृद्धा नूनं वीक्ष्य स्नुषाहठम् ।
प्रभुत्वात्तस्य गेहस्य तां चुकोपात्यमर्षणा ॥३३॥
5
नापारयत्कथश्चित्सा गोविन्दाकृष्टचेतना ।
यतमानापि कार्याणि सम्यक्कतुं मनीषिणी ॥३४॥
निधाय दधिपात्रेषु गोमयं विवशान्तरा।
लिलेप नवनीतेन बहिरवितर्दिकाम् ॥३५॥
गवां पानीयभाण्डेषु पक्कमन्नं विमुच्य सा1
भुक्तये सिक्तपिण्याकं श्वश्वाः पत्युश्च सा न्यधात् ॥३६॥
धेनूनां पुरतो गोष्टे काष्ठभारं निधाय सा।
पलालनिचयं कृच्छ्रादाजहार महानसम् ॥३७॥
बलादुद्योजिता कृत्ये यदि व्यवसिता वधूः।
बभञ्ज पात्राण्यथवा वस्तून्यन्यवशान्तरा ॥३८॥
आक्रन्ददथ सा श्वश्रूः जातपात्रार्जनश्रमा ।
प्रसमीक्ष्य प्रनष्टानि भाण्डानि स्नुषया तया ॥३९॥
चिखेद सापि पात्राणि वीक्ष्य भग्नान्यनेकधा ।
अवशेन्द्रियसंग्रामं निनिन्दात्मानमात्मना ॥४०॥
श्रद्धया जागरूकेण चेतसा कुर्वती कृतीः ।
सपदि स्मृतगोविन्दा चक्रे किमपि सा वधूः ॥४१॥
सुधामश्रवणं नीतं सर्व तस्यास्तु चेष्टितम् ।
वृद्धयाऽद्य यथा लोके कल्पयित्वा यथामति ॥४२॥
6
भन्ने भाण्डद्वये प्रत्ने निर्मूल्ये नीलिमान्विते ।
शतं भग्नमिति प्रोक्तं नवानां वृद्धया तदा ॥४॥
क्षणं शय्यागृहगतां श्राम्यन्ती वा क्षणार्धकम् ।
वक्ति पुत्राय जरती शयानां सर्वदा वधूम् ॥४४॥
किमद्य वहुनोक्तेन श्वश्वा भाच साधुना ।
तद्रेहवासिनी सा तु लम्भिता यातनाशतम् ॥४५॥
सहमाना च कृच्छ्राणि सातु साध्वी पतिव्रता ।
यथा पुरं परिचरन्त्यनयद्वहुवासरान् ॥४६॥
॥ इति प्रथमः सर्गः॥
॥ द्वितीयः सर्गः ॥
एकदा नन्दजं गोपैः प्रत्यावृत्तं दिनात्यये ।
पुरतः स्वगृहस्यापि विलम्ब्याकारणं चिरम् ॥१॥
गवाक्षान्तरमालक्ष्य स्मयमानं सकैतवम् ।
स्नुषां चाप्यभिनन्दन्तीं ददर्श विदिशा स्वयम् ॥२।।
असंभाव्यमचिन्त्यंच पुरो वृत्तं विलोक्यसा ।
चितानलशिखेवारात् जज्वाल क्रूरदर्शना ॥३॥
4670
THE KUPPUSWAMI SAS
PESEARCH INSTITUTE
MADRAS.
भृतोपहतचित्तेव नृत्यन्ती च गृहान्तरे।
बभ्राम परितो वृद्धा लपन्ती वाग्वशं वचः॥४॥
अपूर्वा तां समालक्ष्य चेष्टां श्वश्वा भयावहाम् ।
बिभेति स्म स्वयं भीरुः शीलविप्लवशङ्कया ॥५॥
स तु कृष्णोऽरविन्दाक्षो नापयाति हृदन्तरात् ।
कृच्छ्रेणोद्वास्यमानोऽपि करिष्ये किन्नु दुर्बला ॥६॥
मूढया स्वयमेवेदं कष्टं सम्पादितं मया ।
किन्नु वक्ष्यति मां भर्ता जना वा गोकुलौकसः ॥७॥
साध्वी सा चिन्तयन्तीत्थं भयशोकाकुलान्तरा ।
न तुतोषाद्य कृष्णस्य लीलाहासावलोकनैः ॥८॥
निवेद्य पुत्रे तत्पत्न्याः कृष्णेनाभाषणं रहः ।
वक्तुं तत्सवयस्कानां यशोदायाश्च सां ययौ ॥९॥
श्रुत्वेदं स सुधामापि पत्नी तां विनमानसाम् ।
दुरुक्तनिचयैर्विध्वा विव्यथे कार्यमूढधीः ॥१०॥
गर्जन्ती विदिशा सापि निन्दन्ती नन्दनन्दनम् ।
कुर्वती च द्विधा वीथीः चचार व्रजभूमिषु ॥११॥
सव्यांसन्यस्तसंन्याना स्रवद्वार्योष्ठनासिका ।
सुदूरे न्यस्य चरणी प्राप नन्दगृहं क्षणात् ॥१२॥
8
यशोदापार्श्वमभ्येत्य रोषेण स्फुरिताधरा ।
तत्तुप्रोवाच निर्लजा खेदयन्ती मनस्विनीम् ॥१३॥
कृष्णस्य चेष्टितं पश्य दुष्टस्य तनयस्य ते ।
रहस्याविश्य मे गेहं स्नुषया रन्तुमिच्छति ॥१४॥
बहुशस्तु निरस्तोऽपि दुरुक्तोप्यपमानितः।
वलते सुचिरं नित्यं गेहस्य पुरतो मम ॥१५॥
सम्भावयन्त्या सौहार्द्र बान्धव्यं च चिरोर्जितम् ।
एतावन्मर्षितं देवि नैतच्छक्यामितः परम् ॥१६।।
त्वया चेन्न कृतः कृष्ण इतः शीलगुणान्वितः ।
कृतं तावन्मया विद्धि तस्य दुष्टस्य शिक्षणम् ॥१७॥
इत्थं विनिन्ध सन्तयं यशोदां पुत्रवत्सलाम् ।
आजगाम क्षणार्धेन शपमाना सुतं गृहम् ॥१८॥
यशोदा गृहमानाय्य कृष्णं संक्षुब्धमानसा ।
अङ्के सादरमावेश्य विदिशोक्तमुदैरयत् ।।१९।।
न्याय्याः किमङ्ग दुश्चेष्टाः विदुषः कुलजस्य ते ।
धुरन्धरस्य रक्षायां यादवानां व्रजौकसाम् ॥२०॥
गच्छन्ति पुनरागच्छन्त्यन्याः सर्वाश्च सम्पदः।
यान्त्येव न निवर्तन्ते शीलकीर्तिगुणाः क्वचित् ॥२१॥
9
गणयेन गुणान् लोको नापि वोपकृतीः कृताः।
स्तोकं कचित्कदाचिद्वा प्रथयेधदि दुष्कृतम् ॥२२॥
यदि प्रशस्यते सद्भिः कृते कर्मणि दुष्करे ।
जुगुप्सितं ख्यापयेयुः कृतपूर्वमिवापरे ॥२३॥
नूनं दुष्टस्त्वयं लोको नैवाहः किल जीवितुम् ।
साधूनां धर्मशीलानां दुर्विधानां च मानिनाम् ॥२४॥
चिराय जातः पुत्र त्वं तेजोरूपगुणालयः ।
न सहन्ते पुनस्त्वेताः प्रलपन्ति यथामति ॥२५॥
मा गच्छान्यगृहं तात मा व्याहर परस्त्रिया।
अन्तर्गृहनिवासिन्या युवत्या च विशेषतः ॥२६॥
श्रुत्वा मातुरिदं वाक्यं प्रेम्णा भन्याय शंसितम् ।
अङ्गीकृत्येव मूर्धानं कम्पयन् स द्रुतं ययौ ॥२७॥
नूनं तदृद्धगर्दभ्याः प्रापणीयं च यत्फलम् ।
मृषोक्तेः सविधे मातुरित्यप्यन्तरचिन्तयत् ॥२८॥
शृगालीव गृहं प्राप्य नदन्ती भैरवस्वना ।
स्नुषां सुतं च निर्मस्य वृद्धा वाक्यैररुन्तुदैः ॥२९॥
अन्तर्गेहान्तरागारबद्धां कृत्वा च सा स्नुषाम् ।
कृत्वाङ्के कुञ्चिकां मूढा कृतकृत्येत्यमन्यत ॥३०॥
10 विषण्णा नलिनी सा तु बद्धान्तगृहकोटरे । अचिन्तयत्स्वपापौधफलमेव न चान्यथा ॥३१॥ भर्तारमपि वा श्वश्रू साधी सा नाभ्यसूयत । इदं शीलं तु नारीणां कुलजानां निसर्गजम् ॥३२॥ एकान्तनिष्ठा तस्यास्तु कृष्णं गोकुलमण्डनम् । मनस्यावेशयामास निवृतिं च परां गता ॥३३॥ हृदा ददर्श गोपालमुक्तमादौ वयस्यया । ततः पद्मपलाशाक्षमायान्तं गोपबालकैः ॥३४॥ सप्रेमवीक्षणं पश्चात् हृदये पर्यवर्तत । ध्यानादुरपुलका तन्वी तस्थावानन्दनिर्भरा ॥३५॥ पश्येयं किमु गोपालं मुग्धहासलसन्मुखम् । किमु वा व्याहरेद्भक्तां रहसि प्रेमविह्वलाम् ॥३६॥ दृढं स बाहुलतया किमाश्लिष्येदिमां प्रभुः। चिन्तयन्ती चिरायेत्थं बभूवोद्गतमानसा ॥३७॥ दिवसेषु गतेष्वेवं केषुचिन्मधुसूदनः । इयेषानुग्रहं कतुं नलिन्या भक्तजीवितः ॥३८॥ विधातुं गर्वमङ्गं च श्वश्वास्तस्याः खलान्तकः । वैशद्यमात्ममायाया गोपालः स मनो दधे ॥३९॥ ॥ इति द्वितीयः सर्गः ॥
450
11
THE KUPPUSWAMI SAS
RESEARCH INSTITUTI
MADRAS.
॥ तृतीयः सर्गः॥
सुधामा निरगाजातु कुतोऽपि मथुरां प्रति ।
भार्या संरक्षणधुरं न्यस्य मातरि विज्वरः ॥१॥
श्वश्रूरपि दृढं वद्धा कवाट सार्गलं स्वयम् ।
विन्यस्य कुञ्चिका नीव्यां बहिरागाद्यदृछया ॥२॥
ददर्श कृष्णं गच्छन्तं गोपैदिनवादिभिः ।
सक्रोधं पुरतोऽभ्येत्य तं दादिदमब्रवीत् ॥३॥
इतो दर्शय मा दुष्ट साहसं कैतवं मयि ।
जानीहि मां दुराधर्षों विदिशामपि घातुकैः ॥४॥
उन्मोचितः कथं धूर्तः तदेत्यद्यापि चिन्तये ।
स्नुषया मम सम्भाष्य को वान्यो जीवितं धरेत् ॥५॥
कृपया नियतेनं मोचितस्त्वं तदा शठः ।
इतो गेहदिशं वा मे मा द्राक्षीः खलपांसन ॥६॥
न याचे पुनर्गत्वा मातरं गर्विणी तव ।
करिष्ये धृतदण्डाहमुचितं तव दुष्कृतेः ॥७॥
अकारणं तर्जयन्त्या समागम्य पुरःस्वयम् ।
अन्याइरन् विदिशया ययौ सोत्सय एव सः॥८॥
12 यथाजाता तु सा वृद्धा रोषाधिक्याच्च मन्दधी।। कृष्णं मेने भृशत्रस्तं वाक्यैस्स्वैरद्य निष्ठुरैः ॥९॥ सायाहे जरतीसङ्घ चलितेऽस्या गृहाङ्गणे । काचिदसारयद्रात्रौ पुराणपठनोत्सवम् ॥१०॥ अन्याप्यवर्णयदृद्धा सोत्सुका श्रोत्रमागतान् । तदुत्सवाय सम्भारान् ग्रामीणैर्बहु कल्पितान् ॥११॥ स्थानलाभाय सर्वाभिः गन्तव्यं प्रथमं दुतम् । इति निश्चित्य तास्सर्वा उत्सवैकप्रिया ययुः ॥१२॥ घृणयेवोडुसन्दोहे द्योतयंस्तं दिवस्पतिः । ममज पश्चिमाम्भोधौ स सप्ततुरगारुणः ॥१३॥ विदिशायाः पुनस्तस्याः डोलारूढमभून्मनः । स्थातव्यं गृहकोणे वा गन्तव्यं वा कथां प्रति ॥१४॥ स्नुषाया रक्षणं खेतत् पुत्रेणार्पितमेकतः । अन्यत्र बहु सम्भारैः क्रियते स महोत्सवः ॥१५॥ प्रातः निर्भसितः कृष्णः कातरो नोत्तरं ददौ । अथवा कितवः सोऽयं नैव विस्रम्भमर्हति ॥१६॥ मिलेत्तत्रोत्सवे नक्तं सर्वो ब्रजगतो जनः । दास्यते विविधं भक्ष्यं पुराणान्ते ब्रजौकसाम् ।।१७।।
13
इत्थं विचिन्त्य सुचिरं विदिशा भक्ष्यलोलुपा ।
गन्तुं तदुत्सवायैव व्यतनोत्सा विनिश्चयम् ॥१८॥
पूर्वरात्रविधिं कृत्वा भोजयित्वा च सा स्नुषाम् ।
अन्तर्गृहान्तरावश्य दीनां ध्यानपरायणाम् ॥१९॥
अर्गलैः सुदृढां कृत्वा बहिवारकवाटिकाम् ।
बद्धां कुश्चिकया कृत्वा तचाकृष्य समीक्ष्य च ॥२०॥
कुश्चिकामपि वस्त्रान्ते सङ्घन्थ्य द्वित्रिवारकम् ।
शान्तेन मनसा तूर्ण ययावुत्सवमन्दिरम् ॥२१॥
तत्र दृष्ट्वा महत्कर्म कृतं गोपजनैर्महे ।
विसयात्कुतुकाचापि पश्यन्त्यासीत् चिराय सा ॥२२॥
अन्तर्गृहे निबद्धा सा वधूरायतलोचना ।
ध्यायन्त्येव तदा कृष्णं तस्थावामीलितेक्षणा ॥२३॥
उत्सवाय तदा तत्र सङ्घ महति संकुले ।
जज्वाल दीपसाहस्रं जेतुमिन्दुमिवोदितम् ॥२४॥
युवगोपालसंधुष्टान् शृण्वन्त्यो वाद्यसंचयान् ।
स्त्रियो बालाश्च पुरुषाः तत्र तत्रावतस्थिरे ॥२५॥
पौराणिक: समभ्येत्य दृश्यालङ्कारभूषणः ।
प्रयत्नानिर्मिते स्वसै समुपाविशदासने ॥२६॥
14
विरतस्तत्क्षणादेव जनकोलाहलो महान् ।
वाद्यानां निनदः स्त्रीणामालापोऽपि महारवः ॥२७॥
वृद्धाया विदिशायास्तु रसयन्त्या महोत्सवम् ।
दुनोति सासकृचिन्ता स्नुषया गृहसंस्थया ॥२८॥
तदा तु भगवान्कृष्णः रूपं सौधाममास्थितः ।
आविरासीजनौघेऽस्मिन् जरत्यास्सविधे पूरः ॥२९॥
दृष्ट्वा तु तं परिक्लान्तं वसानं क्लिष्टवाससम् ।
खेदवारिपरिक्लिन्नं विशदोष्टपुटाधरम् ॥३०॥
अन्तर्गतेक्षणं क्षामकण्ठं परिगतोदरम् ।
भयसंविग्रहृदया पप्रच्छ सदयं तदा ॥३१॥
सुखेन किं गतं पुत्र स्नातं किं किमु वाशितम् ।
चिरायगमनं कच्चित् सप्रयोजनमेव ते ॥३२॥
प्रणयेन भयेनापि तया पृष्टः प्रसन्नधीः ।
प्रत्युवाचाथ जरती लीलामानुषविग्रहः ॥३३॥
सफलं सकलं मातः भवेत्पूर्ण चिकीर्षितम् ।
दुर्गमार्गाटनादद्य खिद्यते चरणौ मम ॥३४॥
अपश्य गृहमागत्य बहिबेद्धं कपाटकम् ।
इहस्थां भवती ज्ञात्वा त्वरयाऽहमुपागतः ॥३५॥
INCIUTI VUTIWIT
15
RESEARCH INSTITU
MADRAS.
इत्युक्तवन्तं तं दृष्ट्वा भृशं शोकाकुलान्तरा ।
कुश्चिकामवमुच्याथ ग्रन्थित्रयमदात्स्वयम् ॥३६॥
वत्स नूनं परिक्लान्तः गच्छ गेहमितो द्रुतम् ।
कवाटमनयोद्धाव्य याह्यन्तरमनिन्दित ॥३७॥
आस्तेन्तनलिनी बाला यथेष्टं भुव मा चिरम् ।
इत्युक्तवत्यां तस्यां तु गृहीत्वा कुञ्चिकां प्रभुः ॥३८॥
उवाच त्रस्तवत्तान्तु किश्चित्संक्षुब्धलोचनः ।
दुरुक्तः किं त्वया कृष्णः प्रात!पैर्गतो वनम् ॥३९॥
जरती तमुवाचाथ रोषेण कलुषेक्षणा।
उक्तं दुरुक्तं किं तेन पूज्यः किं जारपुङ्गवः ॥४०॥
बन्धुं बालं च तं मत्वा मुक्तस्त्वेतावता खलः ।
अन्यथा जरतीकृत्यं दर्शितं स्यात्सुदुस्सहम् ॥४१॥
सक्रोधमुक्तं श्रुत्वेदं प्रोवाच खलसूदनः ।
ज्ञातं ग्रामप्रविष्टेन मया मातरिदं पुनः ॥४२॥
न्याय्यैरपि वचोभिस्ते कृष्णः कोपवशंगतः।
रचयिष्यति यामिन्यामित्थमित्यवधीयते ॥४३॥
इत्युक्त्वा श्रवणे किश्चिदुवाच स विचक्षणः ।
श्रुत्वैतत्तु वचो वृद्धा जहास च ननाद च ॥४४॥
16
उवाच च ततो धृष्टा गच्छ शीघ्रमितो गृहम् ।
कृत्वान्तरर्गलं वत्स कवाट नलिनी व्रज ॥४५॥
यावन्ममागमस्तत्र तावद्भव तया सह ।
मामन्तरा कवाटन्तु मामोद्घाटय कस्यचित् ॥४६॥
समागच्छतु मूढोऽयं त्वद्वेषेण नराधमः ।
करिष्ये करणीयञ्च दुर्वृत्तस्योचितं तदा ॥४७॥
तथेति स प्रतिज्ञाय जगामैव क्षणात्ततः ।
आदाय कुश्चिकां यत्र साध्वी सा ध्यानमास्थिता ॥
स्नुषां निक्षिप्य तसिंस्तु विस्वब्धहृदया पुनः ।
अवतारितभारेव महं तं रमते म सा ।।४९॥
॥ इति तृतीयः सर्गः ॥
॥ चतुर्थः सर्गः॥
याम एको गतो रात्र्यां प्रशान्ताः सत्वसंचयाः।
विहरत्यम्बरतले खच्छा जीमूतसंहतिः ॥१॥
कुतुकेन च तां पश्यन् याति तारापथे विधुः ।
कलारामोदभारेण मन्दं गन्धवहो ययौ ॥२॥
17
व्याकोचस्तबकावल्यो वलन्त्यो विटपस्तिदा।
उपगूढविटास्तन्व्य इव रेजुर्विभूषिताः ॥३॥
आसाद्य भगवान् कृष्णः नलिन्यास्सदनं द्रुतम् ।
अन्तर्गृहान्तराबद्धां ददर्शायतलोचनाम् ॥४॥
उपविश्यासने चित्रे ध्यायन्तीमात्मविग्रहम् ।
अल्पाकल्पामपि प्राज्यं भूषितां यौवनश्रिया ॥५॥
निमील्य लोचनद्वन्द्वं निश्चलं समवस्थिताम् ।
आगत्य पुरतस्तस्याः प्रेम्णा तां समलोकयत् ॥६॥
किश्चिच्छब्दमिव श्रुत्वा स्वयमुन्मृज्य लोचने ।
पश्यन्ती पुरतस्तन्वी ददर्श मधुसूदनम् ॥७॥
सम्यकल्पितकेशानन्यस्तरनललाटिकम् ।
विशालफालविन्यस्तकस्तूरीतिलकाश्चितम् ॥८॥
मारचापप्रतिद्वन्दिभूतलाभ्यां विराजितम् ।
कारुण्यवर्षिनेत्रान्तं कुचलाकारनासिकम् ॥९॥
कुण्डलद्वयकान्त्यौपभ्राजद्रम्यकपोलकम् ।
शार्दूलनखसंक्लप्सरनौवेयकोवलम् ॥१०॥
विचित्रकुसुमाक्लप्सहारोल्लसदुरस्स्थलम् ।
रक्तचंदनसंलिप्तविशालतरवक्षसम् ॥११॥
18 बहुमूल्यैरमूल्यैश्च शोभितं कटकाङ्गदैः। नागनाथवराभोगसमशृङ्खलिकायुतम् ॥१२।। अङ्गुलीषु दधानं तमङ्गुलीयकसंहतिम् । रत्नैरीशाश्रयात्तारा परिभाविमिरास्तृताम् ॥१३॥ वसानं वसनं पीतं महाघे हेमकल्पितम् । ऊवं ततो दधानंच वासो मारकतच्छवि ॥१४॥ नवरत्नप्रभोद्भासिनू पुरालङ्कृताविकम् । वरालक्तकसंसेकरक्तप्रपदमण्डित ॥१५॥ कृतार्थयन्तमात्मानमाविर्भूय पुरस्स्वयम् । विवशामेव कुर्वन्तं मञ्जुस्मेरावलोकनैः ।।१६।। विस्मयेन भयेनापि समुत्थाय ससंभ्रमा । पादयोरपतन्मुग्धा वक्त्तुं वाचमनीश्वरा ॥१७॥ चिराय पादपतिता नोत्तस्थौ मोहितान्तरा । काङ्क्षणीया हि जन्तूनामियमेव मनोगतिः ॥१८॥ पादयोः पतितां कृष्णस्तदा भक्तिमती सतीम् । करैरुत्थापयामास स्वयमाार्तिभञ्जनः ॥१९॥ सा तु खिन्नेन गात्रेण साञ्जलिः शिरसानता। भक्तया च परया युक्ता पश्यन्ती तत्पदाम्बुजे ।
19
अहो स भगवान् कृष्णः स्वयमस्मगृहं गतः ।
इत्थं सश्चिन्तयन्त्येव तिष्ठति स्मावशान्तरा ॥२१॥
मत्वा भक्तिभरेणैव तिष्ठन्तीं तां निरुत्तराम् ।
सौहादादथ सम्प्रेक्ष्य स्मयमानस्तदाब्रवीत् ॥२२॥
मा शुचस्त्वं महाभागे त्यज मोहं भयं शुचम् ।
तवानुग्रहमाकांक्षनागतोऽहं गृहं तव ॥२३॥
उन्नम्य वदनं
सुभ्रूः
पश्येमं त्वयि वत्सलम् ।
श्रोतुं ते मधुरं वाक्यं कुतुकेनाहमागतः ॥२४॥
इत्थमुक्तं वचः श्रुत्वा कृष्णेन प्रेमगर्भितम् ।
किश्चिदुन्नम्य वदनं सा समैक्षत तन्मुखम् ॥२५॥
लज्जया सङ्कुचन्त्येव गात्रमुत्पुलकं निजम् ।
.पश्यतिस्म मुखाम्बोज प्रभोस्तत्तनुमध्यमा ॥२६॥
उवाच वीडिता साधी ततस्मा विनयानता ।
श्रुतं मुखाद्वयस्यानां पारम्यं भवतः प्रभो ॥२७॥
यन्नेशा भवतः स्तोत्रे शक्रधातृभवादयः।
कथमल्पमतिर्देव प्रमदा पारयिष्यति ॥२८॥
इममेव प्रसादेन गृह्णन्नञ्जलिमीश्वरः ।
अनाथां पालयत्वेनां शरण्यः सर्वदेहिनाम् ॥२९॥
20 इत्थं वदन्त्यां तस्यां तु भक्तबन्धुर्जर्नादनः । निर्ममे योगमाहात्म्यादद्भुतं केलिमन्दिरम् ॥३०॥ शावकुम्भमयस्स्तम्भैः वितानैर्नेत्रहारिभिः । सुखस्पर्शोपधानाढ्यरत्नमश्चैस्समावृतम् ॥३१॥ घ्राणहारि सुपस्रग्भिः सर्वतः सुपरिष्कृतम् । दीप्रैर्दीपशतैदृश्यैर्निरन्तरयलकृतम् ।।३२॥ वरास्तरणसंवीतं वल्लीपात्रशताकुलम् । तत्र तत्र कृतैर्युक्तं भोज्यैः पेयैरमानुषैः ॥३३॥ सुगन्धै पितं धूपैर्दुर्दर्शमकृतात्मभिः । कृतपुण्यैः परं सेव्यं शयनागारमावभौ ॥३४॥ दृष्ट्वैतद्विस्मयाक्रान्ता न किंचिद्वेद सा सती । कथं वा केन वा सद्यः सृष्टमित्यद्भुतं गृहम् ॥३५॥ तदा तु भगवान् कृष्णः करैरादाय कामिनीम् । शय्यामारोपयामास लज्जयावनताननाम् ॥३६॥ आलिङ्गय सुदृढं तन्वी बाहुभिः परिघायतैः । मुग्धामुन्मादयामास यथाभिलषितं पुरा ॥३७॥ रमयामास तां साध्वी रमायाः सदृशाकृतिम् । रामानयनकहारराकानाथनिभाननः ॥३८॥ ॥ इति चतुर्थः सर्गः॥
21
॥ पञ्चमः सर्गः॥
इत्थमन्तःस्थिते कृष्णे नलिन्या भक्तया तया ।
गतस्सुदूरं संश्रान्तः सुधामा गृहमाययौ ॥१॥
अन्तरर्गलितं वीक्ष्य कवाट मोऽहनत्सकृत् ।
न किचिदुत्तरं प्राप्य ततो भृशमधट्टयत् ॥२॥
अनुद्धाटितमालक्ष्य कवाटं खिन्नमानसः ।
चुक्रोश मातरित्येव बलवद्धलिनां वरः ॥३॥
आक्रोशैस्सुचिरेणापि ताडनैबलवत्तरैः।
यदा नैवाप संज्ञाश्च त्रासो हृदयमाविशत् ॥४॥
अन्तरर्गलितं केन गृहं माता व वा गता।
कुत्र वा सा गता राज्यामिति चिन्तापरोऽभवत् ॥५॥
विलम्ब्य सुचिरं कालं बहिः प्राङ्गणभूमिषु ।
इतिकर्तव्यतामूढो वीथीमध्यं जगाम सः ॥६॥
द्विजराजस्तदारुढो नभोमध्यं विनिर्मलम् ।
संख्यातुमिव दस्यूंश्च कुलटाश्च कुलद्रुहः ॥७॥
तत्रागतेन गोपेन ज्ञात्वा पौराणिकोत्सवम् ।
मातरं च गतां तत्र सुधामा सहसा ययौ ॥८॥
22
तदास्प महती चिन्ता मानसे पर्यवर्तत।
किन्नु सापि गता तत्र कोवाऽन्तरभिवर्तते ॥९॥
क्रन्दनं ताडनं भर्ना चिराय कलितं पुनः ।
न श्रोत्रपथगं तस्याः मायाधीशस्य मायया ॥१०॥
स गत्वा त्वरया दूरमुत्सवायतने तदा ।
अपश्यद्विपुलं सङ्घमुपविष्टं सकौतुकम् ॥११॥
मूर्धभिः शतसाहस्रैरावृता सा वसुन्धरा ।
नीरन्ध्राम्भोजमुकुला सरसीव तदा बभौ ॥१२॥
ततस्स मृगयामास प्रियाप्रस्वाश्च मस्तकम् ।
दृष्टिक्षमेऽक्षिणीवेष्टे सहस्राक्षस्य वर्मणि ॥१३॥
भ्रमंश्च सुचिरं कालं तत्र तत्र च शङ्कया।
अलक्षयत्कथंचित्तां जरतीमध्यविष्ठिताम् ॥१४॥
विवृतोष्ठाधरपुटां किंचिदामीलितेक्षणाम् ।
पौराणिकमुखं वीक्ष्य रसयन्ती च तत्कथाम् ॥१५॥
कृच्छ्रादुपेत्य तं देशं लब्ध्वा दुर्वचसां शतम् ।
पुरतश्च समागम्य जननी तां ददर्श सः ॥१६॥
आपादशीर्षमपि तमेकवारं विभाव्य सा ।
अनुक्त्वा वचनं किंचिदास्थितावनतानना ॥१७॥
23
अपूर्वचेष्टया तस्या आकुलस्समचिन्तयत् ।
किंवा न भाषते माता द्रष्टुं वा परिशङ्कते ॥१८॥
किं वाऽपराद्धमालस्यादथवानवधानतः ।
अपावृणोति मां वीक्ष्य मुखं केन प्रियात्मजा ॥१९॥
संविग्नपभवञ्चेतस्तस्य मातुर्विपर्ययान्।
आजुहाव स मातेति समालोच्य चिरं स्वयम् ॥२०॥
सा दहन्तीव नेत्राभ्यां दृष्ट्वा तं पुरतः स्थितम् ।
न किंचिदपि चोवाच पुनरप्यानतानना ॥२१॥
मुमोह सुभृशं चेतस्तस्य शुद्धात्मनस्तदा ।
एतावन्तं विपर्यासं मातुर्मनसि पश्यतः ॥२२॥
अनन्यगतिरालोच्य चिरं पप्रच्छ मातरम् ।
क्क गता सा स्नुषातेऽद्य गृहं केनार्गलीकृतम् ॥२३॥
किमर्थमियती चिन्ता रोषो वा मयि दारुणः ।
मया तयापि वा मन्ये नापराधः कृतो महान् ॥२४॥
मूलं किमस्य रोषस्य कुतो वा नाभिभाषसे ।
सदैन्यमित्थं सा पृष्टा दुरुक्तैरुत्तरं ददौ ॥२५॥
कितवस्त्वं कथं तेऽद्य दर्शयस्यनयं मयि ।
विद्धि मां विदिशां दुष्टां ज्ञातां च ब्रजवेश्मभिः ॥२६॥
24
किंवा तव तया कार्य नलिन्या कुलपसिन ।
अथैव मुष्टिनानेन भेदयेयं शिरस्तव ॥२७॥
किं गत्वापि निवृत्तोऽसि गेहं मम दुरासदम् ।
अवेहि जाल्म मां नित्यं निकृति तव जानीम् ॥२८॥
मा तुदः पुरतः स्थित्वा दुष्टभोगीव पांसन ।
अन्यथा निश्चितं पूर्व रचयेयं तवाधुना ॥२९॥
श्रुत्वैतत्तु वचो मातुरपूर्व भृशदारुणम् ।
किमेतदित्यविज्ञाय क्षणं तूष्णीं बभूव सः ॥३०॥
सुस्राव वारि नेत्राभ्यां कण्ठो गद्गदतां गतः।
प्रचचाल च जङ्घास्य स्थातुं नापारयततः॥३१॥
किमुन्मत्ता पुनस्त्वेषा किमाविष्टा पिशाचकैः।
ज्वराभिभूतावलवदित्थं किं वक्तयांप्रतम् ॥३२॥
प्रसभेन मुखेनाद्य नोन्मत्ता जननी भवेत् ।
अविकाराकृतेर्नेयमाविष्टा वा पिशाचकैः ॥३३॥
पूर्वापराविरुद्धामिर्वाग्भिर्ने ज्वरातुरा ।
विभ्रमस्य मतेरस्याः किन्नु वा कारणं भवेत् ॥३४॥
चिरमालोचयभित्थमनवाप्यैव निश्चयम् ।
वक्तुं पुनस्समारेमे लेलिहन् जिह्वयाऽधरम् ॥३५॥
25
अम्ब नूनमहं क्लान्तः सुदरगमनादिह ।
तथाऽपि किं तुदसि मां वाक्यरेतैररुन्तुदैः ॥३६॥
आदिश प्रथमं तांतु मातनिर्वृतये मम ।
ततः प्रतिवदिष्यामि वत्त व्यं वचसा तव ॥३७॥
कृष्णः स्नुपायास्संल्लापं अन्विच्छन्नेव दुर्मतिः ।
आयात इति सा मत्वा जज्वालाग्निरिवैधिता ॥३८॥
ततस्सनिनदं वृद्धा जगर्ज क्रोधमूर्छिता ।
अदन्तमन्तरास्यश्च सम्प्लाव्य रसनाग्रतः ॥३९॥
अरे कितव दुर्बुद्धे नृशंस कुलपसिन ।
अप्रलोभ्यामिमां विद्धि जातु धूर्तशतैरपि ॥४०॥
हन्यामद्यैव पापं त्वां नित्यं च दुरनुष्ठितम् ।
यदीह न भवेयं वा जनतामध्यवर्तिनी ॥४१॥
सारवं शपमानायां इत्थं तस्यां महोत्सवे ।
कोसौ शब्द इति क्रुद्धाश्चुक्रुशुस्तत्र तत्र ते ॥४२॥
तत्रस्थेन तदा लभ्यमपमानं निरीक्ष्य सः ।
निरगादञ्जसा तसात् सङ्घान्मानधनः स्वयम् ॥४३॥
निर्गत्य च ततः श्रान्तः पुरा दूरागमेन सः।
क्षुधयाद्य परिक्लिष्टो वाक्यैर्मातुश्च दारुणैः ॥४४॥
26
अन्तर्गताभ्यां नेत्राभ्यां स्रावयन्नश्रु विहलः ।
खेदधारापरिक्लिन्नः पदा चलितुमक्षमः । ४५॥
मूढेन मनसा विष्वक् मन्दं मन्दं विलोकयन् ।
स्वस्यैव वेश्मनो द्वारमाजगाम शनैश्शनैः ॥४६॥
आगत्य च पुनर पिहितंच यथापुरम् ।
वीक्ष्य खिन्नमनास्तत्र पपात धरणीतले ॥४७॥
प्रस्थिते च पुनस्तसिन् विदिशा प्राज्ञमानिनी ।
इत्थमालोचयामास प्रहष्टेनान्तरात्मना । ४८॥
अहो कृष्णस्य दुश्चेष्टाः प्रविश्यमं जनार्णवम् ।
प्रलोभयति मां दुष्टः जागरुकामतन्द्रिताम् ॥४९॥
विदिशापि प्रलोभ्या किं मायिनी मायिभिता ।
किं वा नाज्ञासिषं कृष्णं सुधानो रूपधारिणम् ॥५०॥
प्रातर्मम दुरक्तानामागतः प्रतिकर्मणे ।
करणीये कृते सम्यग्लम्बतुण्डो विनिर्गतः ॥५१॥
विभियात् किमियं संघं दृष्ट्वापि विदिशादृढा ।
पुमांसमपि वा दुष्टं प्रेक्ष्य पूर्वमवस्थितम् ॥५२॥
सम्यग्दुरुक्तं सार्थेऽसिन्नुचितं तस्य दुष्कृतेः ।
विचक्षणां मामालभ्य न खलः पुनरेष्यति ॥५३॥
27
अवेत्य
सुहृदः
प्रोक्तं
यत्सुधाना तु मूरिणा।
तदेव खलु सम्प्राप्तं घटिकार्धेन मामिह ॥५४॥
पूर्वमेव सुतेनाहं नोक्ता चेत्तचिकीर्पितम् ।
पतेयमपि तत्सृष्टवागुरायां विमूढधीः ॥५५॥
स्थाने समर्पिता तन्वी नवोढा सा तपखिनी।
वित्रासितो मया चैषः
सम्या
द्वितयं
कृतम् ॥५६॥
इति सश्चिन्त्य शान्ता सा रमते स कथारसे ।
लोलुपां भव्यभक्ष्येषु रसनां लेलिहत्यलम् ॥५७॥
कोलाहलेन महता पुराणे विरतिं गते ।
पौराणिकाय सम्मानान्यतुलान्युपवीक्ष्य सा ॥५८॥
भक्ष्यांश्च विविधान् खाद्यान् गृहीत्वा प्रचुरान् करे ।
राव्यां यामावशिष्टयां सा गेहं पुनराययौ ॥५९॥
॥इति पञ्चमः सर्गः॥
॥ षष्टरसर्गः॥
आगत्य बहिरालिन्दं ज्योत्स्नया विशदीकृतम् ।
आह्वयन्ती सुधामानं सा कवाटमुपाहनत् ॥१॥
अन्तरानन्दरूपेण कृष्णेन नलिनी तदा ।
तन्वती विविधाः केली तल्पे कुसुमसंवृते ॥२॥
28 श्रुत्वा श्वश्रूरवं दीना तदाभृद्भयविह्वला । स्तनितारवमाकर्ण्य फणिकन्येव गहरे ॥३॥ अहो श्वश्रूस्समायाता कोपनाचात्यमर्षणा । यत्किचिदपिवा स्वेष्टं मयि कर्तुमपि प्रभुः ॥४॥ अहो नष्टास्मि देवेश न जीवेवेयमितः परम | यदि नेत्रपथं तस्याः प्राप्ता नाथ त्वयासह ॥५॥ किं वा मयाऽद्यकर्तव्यं भवता वा सुरर्षभ । मारयिष्यति मां नूनमित्थं दृष्टिपथं गताम् ।।६।। यद्वा तद्वा भवतु मे न शोचाम्यात्मनः कृते । यल्लब्धो भवतः सङ्गः स्वस्स्त्रीणामपि दुर्लमः ॥७॥ अपयातु भवान् शीघं येन केनापि वा पथा । भवतो वर्तनादेव जीवन्त्यत्र व्रजौकसः ॥८॥ इत्युक्तवत्यां प्रेयस्यां सभयं साश्रुपातनम् । उवाच मगवांस्तस्या असे कृत्वा कराम्बुजम् ॥९॥ मा भैषीर्मा च सन्तापं कामिय्यत्र सुस्थिते। भक्तान् कुच्छूगतान् पश्यन्न तिष्ठेयं क्षणार्धकम् ॥१०॥ भक्तया परमया तन्वि त्वया ध्यातोस्म्यनारतम् । जयामहं कथं वा त्वां प्राणैः प्रियतरां मम ॥११
29
तपसाऽद्य प्रभूतेन चिरध्यानार्जितेन ते ।
निबद्धं फलदानाय विद्धि मां गेहमागतम् ॥१२॥
गत्वा सधैर्य तन्वनि कुरुकार्यमनन्तरम् ।
उदाटय कवाटं च साधये ते मनोरथान् ॥१३॥
इत्थं त्रुवति कृष्णे सा विस्रम्भा महामतिः ।
आलम्ब्य धैर्य कृच्छ्रेण कवाटार्गलमाददे ॥१४॥
अनुगम्य च तत्पाद्यं तदा मायाविशारदः।
स स्मेरवदनाम्भोजस्तस्थौ प्रेम प्रदर्शयन् ॥१५॥
कवाट स्वयमुद्धाट्य जरती जागराकुला ।
अपश्यद्भयसंविनां स्नुषां तामाकुलान्तराम् ॥१६॥
विष्वक्प्रकीर्णचिकुरां प्रमृष्टतिलकावलिम् ।
अञ्जनाक्तकपोलान्तां भृशं कलुषितेक्षणाम् ॥१७॥
पाणिपल्लवसंक्लप्तविस्रवन्नीविबन्धनाम् ।
भृशसंमर्दसन्ताम्यद्वम॑हाटकवल्लरीम् ॥१८॥
कदलीमिव विध्वस्तां कंपमानशरीरिणीम् ।
दृष्ट्वा किमेतदिति सा चिन्तयन्ती व्यतिष्ठत ॥१९॥
तस्याश्शरीरव्यत्यासात्तथा हावविभावयोः ।
लोकज्ञया जरत्यास्यां भृशं च परिशातितम् ॥२०॥
30
लोलनेत्रा ततः पार्श्वे तस्याः कृष्णं व्यलोकयत् ।
नीलजीमूतसङ्काशं नवचम्पकमालिनम् ॥२१॥
कुचकुङ्कुमसंरक्तचन्दनाङ्कितवक्षसम् ।
दयितञ्जनसंक्षोदश्यामरम्यकपोलकम् ॥२२॥
तरुणीचरणालक्तशोणपीनभुजान्तरम् ।
मदर्णितनेत्रान्तं मदनाकारशालिनम् ॥२२॥
द्रुतबद्धान्यथाभूतं वसानं क्लिष्टमम्बरम् ।
श्लथवाहुयुगोनेयप्रबलप्रेयसीरतम् ॥२४॥
दर्शनात्तदवस्थस्य तस्य कृष्णस्य वेश्मनि ।
जरत्यास्तु तदा देहः स्वयं दग्ध इशाबभौ ॥२५॥
ततः कोपेन महता वाचा संसजमानया।
प्रोवाच तत्तदपि सा दुःश्रवं दुःसहं वचः ॥२६॥
सृष्टोऽसि किमु वा धात्रा शीलभङ्गाय योषिताम् ।
को गुणस्तेन वा लब्धो जारं त्वां सृजतेदृशम् ॥२७॥
दुरुक्तश्शतवारं च सदस्यप्यपमानितः ।
न जहासि कथं मूढ दुष्कृतौ साहसं त्विदम् ॥२८॥
हैय्यङ्गवीनं मुष्णासि गुप्तान्यपि गृहान्तरे ।
कुतुकं किमु वा तेऽद्य दधिभाण्डप्रभञ्जने ॥२९॥
81
नूनं त्वं बाल एवासि भुते गोपीशतं कथम् ।
अन्तर्गृहगता एता वशयस्यद्य केनवा ॥३०॥
मन्त्रः किमौषधं वास्ते येनेदं क्रियतेऽधुना ।
त्वया किलापजातेन सकलङ्को व्रजः कृतः ॥३१॥
ईदृशायैव पुत्राय नन्दः किमकरोत्तपः ।
पुत्रमेनं समुत्पाद्य यशोदा सा महीयते ॥३२॥
अवलोकन हासेन ब्रज एष वशीकृतः ।
किं वा करिष्यसि पुनरेनं त्वद्वशगं जनम् ॥३३॥
पूतना पारिता सापि शकटश्शकलीकृतः ।
बकवत्सतृणावर्ताः प्रापिता यममन्दिरम् ॥३४॥
प्रेषिता विधिना ते तु भाविकाय वौकसाम् ।
हत्वा तानपि दुष्टात्मन् राजसे राजराजवत् ॥३५।।
कृतं सर्व प्रयत्नेन तव दुर्वृत्तशान्तये ।
तेनैव वर्धते मूर्ख सहजं तव कैतवम् ॥३६॥
कथमुद्घाटितं जार बहिबद्ध कवाटकम् ।
भुक्ता पुनरियं तन्वी कमाद्वा वद तत्वतः ॥३७॥
ततः प्रोवाच भगवान् सयमानो रुषान्विताम् ।
प्रेयस्यां विकलाङ्गायां शृण्वन्त्यां च ससम्भ्रमम् ॥३८॥
32
जराजर्जरिताङ्गी त्वं विस्मरस्येव तां कृतिम् ।
स्मरणाय पुनस्तेऽद्य वदाम्यवहिता शृणु ॥३९॥
सङ्घमध्यं मयि प्राप्ते ग्रन्थेरुन्मुच्य कुश्चिकाम् ।
स्वयमेवाददाः पूर्व किन्तत्स्मरसि कोपने ॥४०॥
तदा त्वमवदो वृद्धे नलिनी वर्तते गृहे ।
भुक्ष्व स्वैरमिति प्रेम्णा किंवा स्मरसि तद्वचः ॥४१
ततः प्रोवाच सा स्रष्टा स्मरन्ती प्राकृतां कृतिम् ।
सत्यमेतन्मम सुतं मत्वा त्वय्यर्पितं द्वयम् ॥४२॥
ततस्तु भगवानाह नापराधी भवाम्यहम् ।
भुक्ता पुनरियं तन्वी या श्वश्वैव समाप्तिा ॥४३॥
शृण्वन्नेतद्वचः सोऽपि सुधामा शयनोत्थितः ।
आजगामाकुलस्वान्तः स मध्यं मातृभार्ययोः ॥४४॥
दृष्ट्वा तमनुतापार्दा क्षुत्क्षामं दीनचेतनम् ।
अहो नु मूढया क्लप्तमित्थमित्याक्रुशभृशम् ॥४५॥
अन्तर्हितं तदा दृष्ट्वा नलिनी केलिमन्दिरम् ।
श्रुत्वा श्वश्वा अपि वचः विस्मयं परमं ययौ ॥४६॥
सौहार्देन ततः कृष्णस्तेषां मुग्धधियामपि ।
दर्शयामास तं रूपं निजं भक्तान्यदुर्लभम् ॥४७॥
33
महार्हमणिकेयूरमधुरालोकमस्तकम् ।
शार्ङ्गचक्रगदापबराजदाहुचतुष्टयम् ॥१८॥
कम्बुकण्ठसमालम्बिवरकौस्तुभमालिनम् ।
वनमालिकया राजद्विशालतरवक्षसम् ॥४९॥
सुगन्धिचन्दनामृष्टपृथुदीर्घभुजद्वयम् ।
पीतकोशेयवसनं प्रमृष्टमणिकुण्डलम् ॥५०॥
मन्दहासमुखांभोजं रुचिराधरनासिकम् ।
त्रिभगिललिताकारं त्रिवर्गफलदायकम् ।।५१॥ ,
दृष्ट्वा तं कमलाकान्तं रूपेणोनन संगतम् ।
विस्मयं परमं जग्मुः सर्वे ते जातसम्भ्रमाः॥५२॥
ततस्तं ददृशुः कृष्णं विपुलीकृत्य लोचने ।
पुलकैरश्चिताङ्गास्ते भक्त्या च प्रवणान्तराः ॥५३॥
मोहनं सर्वजन्तूनां मधुरैरवलोकनैः ।
प्रह्लादवरदं देवं प्रकृष्टजनवत्सलम् ।।५४॥
वारणामयदानेन वारणास्यसुहृद्वरम् ।
क्षीराम्बुधिकृतावासं क्षारनीरधिबन्धनम् ॥५५॥
गमनत्वरयेवाद्य गरुडारूढविग्रहम् ।
दायकं सर्वभव्यानां नाशकं निखिलापदाम् ॥५६॥
ववन्दिरे पदद्वन्द्वे भक्त्या परमया तदा।
याचमानाः सानुशयं खापराधक्षमापणम् ॥५७॥
34
प्रणम्य सुचिरं तं तु प्रणम्रजनवत्सलम् ।
तुष्टबुर्गद्गदैर्वाक्यैरानन्दभरितान्तराः ॥५८।।
किमस्माभिस्तपस्तप्तं किमु पूर्वैर्महात्मभिः ।
यदागतः स्वयं गेहमस्मदीयमधोक्षजः ।।५९।।
समागमाय साधूनां यदि तप्यं परं तपः ।
किमु वा सर्वलोकानां नाथस्यास्य मधुद्विषः ॥६०॥
यन्न पारयतीश त्वां त्रयी साप्युपवर्णने ।
कथं वयं त्रयो मूढाः पारयामस्तव स्तवे ॥६१॥
चिरं तपन्तिमुनयः क्षणं त्वदर्शनेप्सया ।
केन वा सुकृतं वर्ण्यममाकं चिरदर्शिनाम् ॥६२॥
मर्षणीयं दयाइँण नाथेन दुरनुष्ठितम् ।
प्रोक्तान्यपि दुरुक्तानि बालिशैर्दीनबान्धव ।।६३॥
इति गद्गदया वाचा साश्रुभिश्चापि लोचनैः ।
उपतस्थुरुपस्थेयं पश्चात्तापामितापिताः ॥६४॥
ततश्च विदिशा दीना प्रोवाच विनयान्विता ।
पश्यन्ती च स्नुषां साध्वी सगौरव मिदंवचः ॥६५॥
सती समुद्धरत्येव कुलद्वयमितीरिता ।
सत्यं पुरातनीवाक्सा यदद्य विशदीकता ॥६६॥
तपस्विन्यानयानाथ स्नुषया पावितावयम् ।
कुलद्वंयमिदं देव कृतं स्तव्यं महात्मभिः ॥१७॥
35
इत्थं प्रार्थयमानेषु तेषु भक्तैकवान्धवः ।
उत्स्मयन् भगवानाह स सौहार्दमिदं वचः ॥६८॥
माऽनुतापं भजत्वद्य वृद्धा शीलकतत्परा ।
श्वश्वा यदुचितं कर्म तदेव समनुष्ठितम् ॥६९॥
इयं तु साध्वी मच्चित्ता मद्ध्यान करतासदा ।
भक्ता परं प्रिया सा मे बान्धवा एव तजनाः ॥७०॥
कोवा बन्धुजनस्योक्तो क्रुध्येद्यदपि बालिशः ।
नचाद्य मर्षणीयं वा नापि वक्तव्यमात्मनि ॥७१॥
सस्मितं तदिदं वाक्यमुक्ता प्रेम्णा निजान् जनान् ।
आशीभिरभिनन्याथ क्षणादन्तर्दधे विभुः ॥७२॥
चिन्तयन्तः प्रभोलीला वर्णयन्तश्च तद्गुणान् ।
ध्यायन्तः सततं रूपं ते कालं परमत्ययुः ॥७३॥
नलिनी सा तु तन्वङ्गी ध्यायन्त्येव जनार्दनम् ।
अनन्यहृदया साध्वी चिरं कालमुवास सा ॥४॥
न पुमान् नलिनी देवी नापि विप्रकुलोद्भवा ।
न च वा वयसा वृद्धा नापि शास्त्रविचक्षणा ॥५॥
प्रत्नेन सुकतेनैव परं भावमुपेयुषी ।
गोविन्दे परमानन्दे शाश्वतीमाप सद्गतिम् ॥७६॥
न पूजा कालता तन्व्या बहूपकरणैरपि ।
न तोयमपि वा दत्तं नाचितं चरणं सकृत् ॥७७॥
36 समर्प्य केवलं स्वान्तं तसिन्भक्तथा चतुर्भुजे । इदमाप पदं पूतं यदुरापं तपोधनैः ।।७८॥ निर्णेयमेतद्विद्वद्भिः पूजां नापेक्षते हरिः । अर्पणं स्वात्मनो नूनं भक्तयाकृष्टेन चेतसा ॥७९॥ रचितं सुन्दरेशेन भक्तायाश्चरितं महत् । पापापनोदमाशास्य भक्तिवृद्धिंच केशवे ॥८॥ अब्दे सैकोनपञ्चाशत्पश्चसाहस्रके कलेः। महाकविः सुन्दरेशः काव्यं रचितवानिदम् ॥८१॥ ॥ इति षष्टः सर्गः ॥ ॥ नलिनी चरितं समाप्तम् ।।
॥ श्रीरामप्रसादस्तवः॥
क्षणं यदि हृदंबुजे रघुपतेः पदं प्रापित
कृतान्त न किलेश्वरस्त्वयामि तस्य पुण्यात्मनः ।
अनारतमधोक्षजे निहितधीरयं यत्कविः
विभेत्यसुलयक्षणे तव करालदण्डाय किम् ।।१॥
पिशाचसदृश मनः प्रचलितं दिशामन्तरे
प्रसाद्य पुरुसंक्लपैस्तव कृतं पदाब्जे सकृत् ।
मदेनसि विवेचनं रघुपते दृढं कुर्वता
क्षणं यदि विलंब्यते ननु हतोऽसि पापैकभूः ॥२॥
स गर्जतु पयोधरो वमतु वाऽशनीनां शतं
पतन्तु तपनस्य वा द्रुतविभिन्नखण्डाः पुरः ।
विचास्य गिरयः क्षितिं शतश एव शीर्यन्तु वा
न साध्वसमिहास्ति मे रघुपतेः पदालंबिनः ॥३॥
प्रभो करुणवीक्षणं यदि तवास्ति सीतापते
सुसंभृतमिवातुलैरपि गृहं तु शून्यान्तरम् ।
तुरङ्गकलभाचितं यदपि भूभृतां मन्दिरं
विना करुणया विभोर्ननु परेतभूमिद्युति ॥४॥
38 करे कमलमालिका रसितरामनामामृता मदीयरसना विभुहृदयमन्दिरे राघवः । क्षणं यदि भवेदिदं मम पुरातनैर्वा वृषः कृतार्थमिह मानवं ननु भवेदिदं जन्म मे ॥५॥ सुचन्दनकशादयोरुत वरेक्षुनिंबढुवोः प्रफुल्लसुममालिकाभुजगभोगयोर्वा स्वयम् । मृदंगपटहध्वनेरपि न वेत्ति भेदं पुन विहाय रघुनन्दनं श्रयति योऽपरं दैवतम् ॥६॥ दयाऽपिदयिताकुचप्रदलनोद्यते दर्शिता रिपोरपि च सोदरः स्वजन एव सद्यः कृतः । प्रभुक्तमवशेषितं रसनया किरातस्त्रियाः विना तमिह राघवं भजसि केन देवान्तरम् ॥७॥ प्रपन्नजनतावने सशयथं प्रतिज्ञा कृता पुरः प्लवगभूपतेरपि वनौकसामर्णवे । निशाचरपरिग्रहात्तदपि नस्तु सन्दर्शितं विना तमिह राघवं भजसि केन देवान्तरम् ॥८॥ किंवा तेन कुटुंबिनी जनकजा श्येनेन संरक्षिता किं नीतो यममन्दिरं स तु रिपुस्तेनैव वा रावणः । मद्धेतोरयमुद्यतः सुमहती संप्रापितो यातना- मित्यालोच्य दयाकुलेन विभुना नीतो विधातुः पदम्॥
39
द्वैताद्वैतविचारणा तु धिषणामुन्मादयत्येव नः
प्रस्थानत्रयभाष्यसेवनमपि प्रायाऽनुलापक्षमम् ।
दन्तानामपि धावने न हि वयं शक्ता यथोक्तं स्मृती
भक्तेरस्ति गती रघूत्तमपदे नान्यैव रक्षाविधौ ॥१०॥
दत्तं मानवजन्म तत् द्विजकुले पूतान्ववाये पुन:
संसर्गश्च महद्भिरेव दिविषद्वाण्या परं प्रेम च ।
बुद्धिर्नश्वरडित्यनन्तविषयेपूर्वी हिरण्यादिषु
प्रीतिस्त्वच्चरणे रघोः कुलमणे देयं किमास्ते त्वयि ॥११॥
॥ मनोरथश्रेणिः॥
:
भुक्ता भोगचयाः सतर्षमखिला भोज्याः परं मानवै.
स्तीर्थेषु प्रतिपादितं वसु मया भक्त या च कृछ्रार्जितम् ।
सुध्यातं चरणांबुजं रघुपतेराराधिताः पूर्वजाः
प्राणानां श्रममन्तरैव विगमादाप्तुं किमास्ते मम ॥१॥
ध्यायंस्ते गुणसंचयान् रघुपते भृण्वन् कथास्तेऽमलाः
पश्यन्नुत्फुलकं तवांगसुषमामानेडयन्नाम ते ।
मोक्तुं जीर्णतरं कलेबरमिदं निर्यातनं कामये
नैवान्यन्मम कासणीयमधुना पृथ्व्यामुत खर्भुवि ॥२॥
यावद्विश्लथनेन सन्धिनिवहः प्राप्नोति वाऽपाटवं
यावन्नित्यकृतौ परैरुप कृतिश्चावश्यकी वा भवेत् ।
यावद्वन्धुगणः स्थिति मम विभो भारं परं मन्यते
तावत्ते चरणांघुजं रघुपते प्राप्तुं मनीषा मम ॥३॥
प्राणप्रयाणसमये रघुपुंगवस्य
पश्येयमातधनुषः पुरतो नियोज्यान् ।
सन्तानिकं जनमिमं किल नेतुकामान्
मञ्जुक्कणकनककिकिणिना रथेन ॥४॥
41
यानं विधाय सविधे प्रणयेन भूम्ना
सोत्पातमेत्य मम चान्तिकमुत्तमास्ते ।
आदाय वाहुभिरिमं परिघातिदीर्धेः
तत्स्यन्दने कुतुकतो विनिवेशयेयुः ॥५॥
चित्रासने मृदुतरे विनिवेश्य मां ते
निर्वर्ण्य वक्रमपि मे गुरुगौरवेण ।
आलापयंश्च कुतुकादथ देवयान-
मार्गेण शर्मनिलयं सहसा नयेयुः॥६॥
आनीय हेमकलितेन रथेन दीन-
मन्तर्गृहं प्रचुरभक्तजनावकीर्णम् ।
अन्तःपुरं रघुपतेरमलं प्रवेश्य
मां राघवाय विनयेन निवेदयेयुः ॥७॥
तन्नूनरुक्मसदनं नवरत्नक्लप्त-
स्तंभान्वितं नयनहारि विचित्रशिल्पम् ।
उत्फुल्ललोचनयुगस्तु निभालयेय.
माश्चर्यकौतुकतृषातरलान्तरङ्गः ॥८॥
अस्मांस्तु सर्व विभवैरपि यः समार्चत
तञ्जापुरादयमुपैति स सुन्दरेशः ।
वीक्षध्वमित्यवनिजामनुजांश्च शंसन्
देवो भविष्यति ससौहृदमग्रतो मे ॥९॥
42
आयाहि बालक चिरं खलु विश्लथोऽसी.
त्यामृश्य पाणिकमलेन मदीयमङ्गम् ।
आरोप्य पीतवसनोज्वलमङ्गमारा.
न्मां तोषयेद्रघुपतिः करुणासमुद्रः ॥१०॥
दृष्ट्वा तदद्भुतमुखं रघुपुंगवस्य
स्पृष्ट्वा च कोमलवपुः परमस्य पुंसः ।
कम्पाकुला पुलकिता च भवेत्तनुमें
भावेन तत्क्षणभवन हृदंबुजान्तः ।।११
उत्कण्ठितं जनमिमं गुरुगौरवेण
लज्जानतं च सविशेपसमादरेण ।
अंकावरोहणकृतोद्यममार्तबन्धुः
संश्लेषयेदुरसि चन्दनशादशीते ॥१२॥
आब्रह्मकल्पमिह संवस भूरिभोगान्
मद्भक्तमात्रसुलभान् रसयननर्धान् ।
अन्तेमदीयतनुमाविश पुण्यभूतां
यस्मान्न निर्गतिरिति प्रण गढ़वीत ॥१३॥
इत्थं विचिन्त्य सुदृढं परया च भत्त्या
यातः पदं रघुपतेः शरणं चिराय ।
किं पूरयिष्यति मनोरथमेनमीशः
किं मे निरोत्स्यति तमप्यथ दुष्कृतौषः ॥१४॥
॥ आर्यापञ्चाशत् ॥ आर्या प्रणम्य जननी- मायाँबामपि च तत्सुतं सदाचार्यम् । आशास्य मोक्षसम्पद- मार्यापंचाशतं वितनुतेऽयम् ॥ आशा आशा ममास्ति महती पारं भववारिधेः प्राप्य । उपगूढश्च विरत्या रन्तुं सुचिरं प्रमोदनिलयान्तः ॥१॥ पद्मासनोपविष्टः पादपमूले कवेरकन्यायाः । नासाग्रदत्तदृष्टी रसयेयं किंतु तं परानन्दम् ॥२॥ संभावयन् प्रपंचं स्वात्माभिन्नं चिदात्मकं सत्यम् । वीतद्वन्द्वविभः किन्नु भवेयं दिगंबरो मौनी ॥३॥ अन्तर्मुखं च कृत्वा सेन्द्रियवर्ग मनः प्लवगमेनम् । योगोद्घाटितहृदये यमयिष्ये किंनु निश्चलं सुचिरम् ।। अंसप्रकीर्णकेशो नावेक्षितकायनिधन निर्वाणः। आशांवरश्च मौनी किंतु चरेयं यथेच्छमटवीषु ॥५॥ एकैव मेऽद्य कांक्षा विषयानुपभुज्य सुचिरमार्तस्य । आन्तरमेव मदीयं तत्वं ध्यायन् वने रहसि वस्तुम् ॥
44
लीयेत तत्र चेतो ब्रह्मणि मोदात्मके परे पूर्णे ।
इत्येव कांक्षयाहं राघवचरणौ चिराय संसेवे ॥७॥
दीपमिव वीतिहोत्रे करकोपलामिव सुरापगानीरे ।
एनं जीवात्मानं तस्मिन् संलाप्य किंनु मुदितः स्याम् ।।
गुरुकरुणा
त्रिगुणमयी प्रकृतिनदी ततुं पोतोऽस्ति गुरुकरुणा ।
तामन्तरा तितीपुर्यास्यसि कृष्टो भवाम्भोधिम् ॥९॥
खप्ने दृष्टानि जनो जाग्रति मिथ्या यथेह जानाति ।
गुरुणा प्रबोधित सन् विषयानतुलांस्तथैव स ज्ञानी ॥
गिरिराजकन्दरान्तर्गुरुकृपया लब्धदिव्यविज्ञानः ।
एकान्ततो निविष्टो भुङ्क्ते कश्चिन्मुनिः स्वसंमोदम् ॥११॥
अविमर्शरम्यभूते विरसान्ते को रमते विषयेऽस्मिन् ।
गुरुकृपया लब्धधियो वान्ताशितवद्विधूय मोदन्ते ॥
गुणरहिते प्रकृतिपरे सुखभूयिष्ठे चिदात्मनि स्वच्छे ।
किमु वा परं विलीनः मुदममितां तां लभेय गुरुकृपया ।।
न पुराणशास्त्रवादी नापि कलाकेलिकौतुकरसज्ञः ।
न च धर्मसंचयरतः शरणं मे त्वात्मविद्योगी ॥१४॥
रघुकुलपतिकारुण्याव लब्धस्तावद्गुरुप्रसादोऽयम् ।
तेनापावृतनेत्रो लीये तसिन् सुखात्मके धाम्नि ॥१५॥
मद्भिन्नमेतदखिलं नाना पश्यन्नविद्ययात्वभवम् ।
गुरुकृपयाऽद्यतु. वीक्षे जगदखिलं मन्मयं चैकम् ॥१६॥
45 विषयविगर्हणम् विषये नितान्तविपमे सूकर इव लुठसि कर्दमे किं वा । पश्यान्तरेव विद्वन् आस्ते निस्सीममोददं भवनम् ।। विपयावटे विलग्ना वनितातनयादिपूर्तिगन्धाढ्ये । करुणा यदि कामरिपोश्चिरसुकृतैरुत्तरेयुरुत्तुङ्गाः ॥१८॥ विषयाभिलापपाशैर्मायाव्याधेन बद्धोऽसि । ज्ञानासिनाऽद्य कृन्तन् विहर यथेच्छं करीव कान्तारे ।। भववागुरापिनद्धेष्वेको बन्धं च नैव जानाति । यतते त्वपरो मुक्त्यै कोप्येव कृती भिनत्ति बन्धमिमम् ॥ मृग इव मरीचिकांभः सुखवृषितो विशति विषयधन्वानम् अनवाप्यापि चिराय भ्रमति तु तत्रैव मूढधीः केन । स्पर्शेन्द्रियं तु बलवत् कर्षति विज्ञं च वीतविषयेच्छम् । ग्राहैरपि दुर्धर्षे हास्तिकमिव पाल्पलं पंकम् ॥२२॥ निधिनिकरे निहितपदो नाथति काचं यथैव संमोहात् । आनन्दसागरस्थो विषयसुखे लोलुपो मर्त्यः ॥२३॥ शिशुरिव कालभुजङ्गान् लौल्यादाकांक्षते विषयान् । कुशलाय यदि निरस्तः क्रुध्यति दैवाय मूढचित्तोऽयम् ॥ न हि शर्मणा स लभ्यः सुखभूयिष्ठः सुखावसानो वा । विपथं भवाभिधं कि यान्त्येते नैव जानीमः ॥२५॥ कश्चित्पतति सुखेच्छु रीव्याले भवाभिधे कुहरे । अन्यस्तमेव पश्यन् विशति व्यथते च निर्गमाशक्तः ।।
46 प्रकृतिः प्रकृतिरियं दुर्ललिता किं किं तनुते विमोहनाय नृणाम् । दर्शयति वैपरीत्यात हितमहितं चैव सा यथार्थमिव ।। अवमंस्था मा प्रकृति त्रिगुणमयीं तां जडेति मन्वानः । सा किल सृजति जगत्त्रयमनवधिक नैजनैपुण्यात् ॥ खज्ञाननखरकोट्या प्रकृतिकरणं गुणत्रयनिदानम् । आक्रम्य भववनान्ते चरति यथेच्छ स योगिपंचास्यः॥ यावान् विषये क्लेशस्तावानभिवर्धते मोहः । प्रकृतेरियं तु शक्तिः पण्डितमपि संप्रतारयति ॥३०॥ कृत्रिमनांसापतनात् नटीव रङ्गादतीव लजालुः । प्रकृतिर्दोषावगमात् सद्यो विदुषः स्वयं तिरोभवति । इयमञ्जलिः कृताते प्रकृते विरमाद्य दर्शिताल्लास्यात् । पश्यामि तव परस्तादास्ते कोऽयं सुखात्मकः शुद्धः ॥ मानसानसगः बहिरेव गमनशीलं मानसतुरगं नियम्य वैराग्यात् । नियमयसि चेदिहान्तनिरपायं पारमध्वनो यायाः॥३३॥ रघुनाथभक्तिधूल्या प्रमृज्य मलिनं मनोमुकुरम् खच्छतरः कोपि कृती पश्यति विश्वस्य तात्विक रूपम् ।। चलसि द्रवसि चिरं त्वं किन्नु सुखं मानस प्राप्तम् । भृणु वाक्य मेतदाप्तं क्षणमचलं चेदवाप्नुया मोदम् ।।
47
विषयमपीमलिनमिदं ज्ञानाद्भिश्चेत् प्रमृज्यते खान्तम् ।
स्फुरति किल तत्वभूतं स्वयमेवेदं परं ज्योतिः ॥३६॥
हयवत् द्रवनि नितान्तं प्लवामि च देशान्तराणि कीमडव ।
विश्रम्यतां क्षणं वेत्यभिशास्तिमें न कर्णपथगा ते ॥
खानुभूतिः
उदवमिते निष्पवने निश्चलमित्र दीपकज्योतिः ।
हृदयाब्जभासमानं तेजः ९ कृती भुते ॥३८॥
अज्ञातलोकवार्ता अविदितनिजकायसंक्रमयालाः।
अन्तर्नियम्य मानसमानन्दथुमन्तरेव रसयन्ति ॥३९।।
अवियति चन्द्रविहीने ज्योत्स्नाप्रसरं हृदंबुजे पूर्णम् ।
पश्यंश्चिराय योगी मुदितो जीवति पुरातनैः पुण्यैः ॥
अनवरतार्चितशर्वा अपगतविविधेषणासमाघाताः।
आमोदशिखरिमध्यं सुकृतैः केचित्प्रपद्य मोदन्ते ॥४१॥
मलिनतरगात्रयुक्तोप्यमलहृदुद्भासिकेवलानन्दः ।
जडबधिरमूकवद्गामटति स विज्ञानवान् योगी ॥४२॥
पश्यति जिघ्रति विषयानिति मनुते योगिनं जनौघोयम् ।
अन्तर्मुखेन मनसा रमते कुत्रापि हत्तले सोऽयम् ॥४३॥
बाह्यं जगहिलाप्य स्वस्मिन्नेवात्मनि महान्तः ।
अद्वैतभावनार्दा आनन्दमयाः पुनन्ति देशमिमम् ॥४४॥
आशांवरः स विद्वानाशारहितेन शान्तचिन्तेन ।
आशास्यनिर्मलयशा आशक्रपदात समुद्विजते ॥४५॥
48 वैश्वानरं समिद्धा योगबलात्सुकृतिनस्तु मूलस्थम् । दग्ध्वा कर्मफलान्यथ मोदन्ते शर्मवारिधर्मध्ये ॥४६॥ उद्घाट्य हृदयपद्मं विस्रवदमृतांशुधारया सिक्तम् । आनन्दमनवधि तं कश्चिद्भुक्ते कदाचिदेव भुवि ॥४७॥ अनुभूय दुस्सहतरं तरुणीतरलायताक्षिसंपातम् । तरुणेन्दुचूडभूतं वीक्षेऽन्तर्षोदवार्धिमात्मीयम् ॥४८॥ विहसति निभृतमकाण्डे स्खलति च निम्नेतरेष्वपि तलेषु । अन्तर्मुखेन मनसा बहिरयमन्धो जडश्च बधिरश्च ॥४९॥ चिरसंगबभावं समुझितं भूतपंच कृच्छ्रात् । लीयेऽद्य निर्मनस्को ब्रह्मणि तमिन् परानन्दे ॥५०॥ ॥ आर्यापश्चाशत् संपूर्णा । ।। शुभमस्तु ।
No text on this page.