Svi-vmpl-machilipatnam

Mukundaanandabhaand-an'

Shriikaashipati

PDF Proofread

Front matter

No text on this page.

KÂVYAMÂLÂ. 16.
THE
MUKUNDÂNANDA BHÂNA
OF
KÄSIPATI.
EDITED BY
PANDIT DURGAPRASAD
AND
KÂS'ÎNÂTH PÂNDURANG PARAB.
Second Edition.
PRINTED AND PUBLISHED
BY
TUKÂRÂM JAVAJÎ,
PROPRIETOR OF JAVAJI DADAJI'S “ NIRNAYA-SAGAR" PRESS.
BOMBAY.
1894.

(Reyistered according to act XXV of 1867) (All rights reserved by the publisher.)

काव्यमाला. १६. श्रीकाशिपतिविरचितः मुकुन्दानन्दभाणः। जयपुरमहाराजाश्रितेन पण्डितब्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परखोपाव- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः । द्वितीयं संस्करणम्। मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः। १८९४ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरयन्त्रालयाधिपते- रेवाधिकारः।)

No text on this page.

काव्यमाला। श्रीकाशीपतिकविप्रणीतो मुकुन्दानन्दभाणः। वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम् । अमन्दानन्दसंदोहबन्धुरं सिन्धुराननम् ॥ १ ॥ कण्ठालिङ्गनमङ्गलं घनकुचाभोगोपभोगोत्सवं श्रोणीसंगमसौभगं च सततं मत्प्रेयसीनां पुरः । प्राप्तुं कोऽयमितीर्ण्ययेव यमुनाकूले बलाद्यः स्वयं गोपीनामहरहकूलनिचयं कृष्णः स पुष्णातु नः ॥ २ ॥ चन्द्रे शीतलयत्यलीकनयनं शंभोः सुधाशीकरै- विष्वग्व्याकुलयत्सु संयमधनान्कान्तादृगन्तेषु च । लीलायै परमैक्षवं धनुरिन्बिभ्रत्प्रसूनात्मनः- खच्छन्दं रतिवल्लभो विजयते त्रैलोक्यवीरः स्मरः ॥ ३ ॥ (नान्द्यन्ते) मूत्रधारः-(पुरोऽवलोक्य । सप्रमोदम् ।) अद्य खलु फलितमीमूलचूडमस्म- दीयपुरातनपुंण्यकल्पलताभिः । यतः, इत एव नूतनपुरऍरिसरालंकारभद्र- १. कवेर्देशकालौ न ज्ञायते. भाति चायं कश्चन द्रविडः, नातिप्राचीनश्च. २. एतद्भा- णमुद्रणावसरे पुस्तकत्रयमस्माभिरधिगतम्. तत्र प्रथमं पुण्यपत्तने 'काव्येतिहाससंग्रह'- नाम्नि मासिकपत्रे मुद्रितं क-संज्ञकम्, द्वितीयं जयपुरराजगुरुभट्टलक्ष्मीदत्तसूनुश्रीदत्त- भट्टानां संग्रहात्याप्तं १८५३ मिते विक्रमाब्दे काश्यां लिखितं ख-संज्ञकम्, तृतीयमपि तेषामेवासमाप्तमशुद्धं च ग-संज्ञकम्. ३. क-पुस्तके प्रारम्भे 'वन्दामहे महेशानचण्डको- दण्डखण्डनम् । जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥' अयं श्लोकोऽधिकोऽस्ति. ४. 'वः' ख. ५. 'अपि च' क-पुस्तके नास्ति. ६. 'तरुमूलचूडं' ख. ७. 'पुण्य' ख-ग- पुस्तकयो स्ति. ८. 'परिषदा' ख; 'परिसदा' ग.

- गिरिचूडामणेभंगवतश्चूडेश्वरस्य वसन्तोत्सवदर्शनसमुत्सुकाः सामाजिकाः कल्याणमण्डपमध्यासते । तदेनानुपसृत्य चिरपरिचितलास्यकलाविलोक- नाय सविनयमभ्यर्थये । (पदान्तरं गत्वा सप्रश्रयमञ्जलिं बद्धा ।) भो भोः सकलकलाविदः सभासदः, एष भरताचार्यपुत्रः कलाप्रवीणो निजविद्या- प्रदर्शनायात्रभवतामनुग्रहमाकाङ्क्षते । (आकाशे । कर्ण दत्त्वा ।) किं ब्रूथ- 'साधु भरताचार्यपुत्र, साधु । वयमपि चिरात्कस्यापि सरसकवेः सूक्तिमु- तामणिग्रथितमभिनवं मिश्रभाणमवलोकयितुमुत्कण्ठिताः । तदधुना ताह- शंमेव कमपि भाणमभिनीय दर्शयतु भवान्' इति । अनुगृहीतोऽस्मि । (आत्मगतम् ।) अधुना विरलः खलु मिश्रभाणप्रचारः। विरलाश्च तथा- विधाः कवयः । अयं गरीयान्खलु सामाजिकानामादेशः । तत्कथमिदमश- क्यसंघटनमापतितम् । (स्मरणमभिनीय ।) अहो, मया प्रणयकुपितगृहि- णीमनोविनोदव्यासक्तचित्तेन विस्मृतीपि सामाजिकानुग्रहेण पुनरनति- चिराभ्यस्तमिदं तादृशमेव रूपकं स्मर्यते । भवतु तावत् । गृहिणीमेवाहूय कथयामि । (प्रकाशम् ।) आर्ये, इतस्तावत् । (प्रविश्य ।) नटी-एससि । को णिओओ आणवेदु अज्जो । (क) सूत्रधारः-आर्ये, कौण्डिन्यवंशरत्नस्य कवेः काशीपतेः कृतिः। मुकुन्दानन्दनामायं मिश्रमाणः प्रयुज्यते ॥ ४ ॥ तदत्र-(इत्य/क्ते ।) (क) एषास्मि । को नियोग आज्ञापयत्वार्यः । १. 'तत्रभवता' ख-ग. २. 'कस्यापि चिरात्' ख-ग. ३. 'तदद्य तादृशमपि' क. ४. 'सूत्रधारः-अनु-' ख. ५. 'संघटन' ख-ग. ६. 'विस्मृततम' ख; 'वि- स्मृततमः' ग. ७. 'पुनरपि' ख-ग. ८. 'एव' ख-ग. ९. 'आणवेदु अज्जो' ख-ग- पुस्तकयो स्ति. १०. 'गोत्ररत्नस्य' ख.

क N नटी--अज, अच्चरिअं अञ्चरिअं। तके कक्कसवक्कोत्तिणिटुरा तस्स भारई । जादा महुरसंदभे कव्वम्मि मिउला कहम् ॥ ५ ॥ (क) सूत्रधारः-(सपरिहासम् ।) त्वमेव तावत्कथय । क्षणं प्रणयकोपे त्वं निष्ठुरापि कथं पुनः प्रेमाहृदया जाता मृदुलप्रकृतिः प्रिये ॥ ६ ॥ नटी-एक्कावि भारई कहं ककसा मिउला एत्ति पुच्छिदे कि अण्णं कहेहि अज्जो । (ख) सूत्रधारः-कोऽत्र विरोधः । उक्तं चैतेनैवे कविना- तकें कर्कशवक्रवाक्यगहने या निष्ठुरा भारती सा काव्ये मृदुलोक्तिसारसुरभौ स्यादेव मे कोमला। या प्रायः प्रियविप्रयुक्तवनिताहृत्कर्तने कर्तरी प्रेयोलालितयौवैते न मृदुला सा किं प्रसूनावलिः ॥ ७ ॥ नटी-कुसुमसिरीविअ मिउँला से कइणो भारई । (ग) सूत्रधारः-किमुच्यते कुसुमश्रीरिवेति । व्याकोचप्रसवश्रियोऽपि मृदुला वाचामियं प्रक्रिया मन्दस्यन्दिमरन्दतोऽपि मधुरस्तत्रायमर्थक्रमः । सौरम्यादपि संमतं पुनरिह व्यङ्ग्यं मिकेभ्योऽप्यमी मद्वर्या मधुरस्वराः कविरयं श्लाघ्यो वसन्तादपि ॥ ८ ॥ (क) आर्य, आश्चर्यमाश्चर्यम् । तर्के कर्कशवक्रोक्तिनिष्ठुरा तस्य भारती । जाता मधुरसंदर्भे काव्येऽपि मृदुला कथम् ॥ (ख) एकापि भारती कथं कर्कशा मृदुला चेति पृष्टे किमन्यत्कथयस्यायः । (ग) कुसुमश्रीरिव मृदुलास्य कवेर्भारती । १. 'कर्कशा' ख. २. 'चैतेन' ख; 'चैवैतेन' ग. ३. 'मधुरोक्ति' ख-ग. ४. 'कृ- न्तने' क. ५. 'यौवने' क-ग. ६. 'मिउला' ख-ग-पुस्तकयो स्ति. ७. 'संगत' ख-ग, ८. 'काव्येऽस्मिन्' ख-ग.

नटी-(सर्वतोऽवलोक्य ।) अंज, एदं चूदवणं कहेहि वसन्दाअमणम् । ईदो पेक्ख पेक्ख । किसलयकरसंपुडेण वल्ली किरइ पुरो कुसुमञ्जलिं णडन्ती । पवणणिहदतालपत्ततालटुंणिमणुगाअइबंम्भरावलीआ ॥९॥ (क) सूत्रधारः--आयें, साधु निरूपितम् । इतोऽपि मन्दानिलेरितमनोहरपल्लवाग़- किन्दवीरुदियमाह्वयतीव रागात् । प्रत्युत्तरं परभृतोऽपि दिशन्निवास्यै कूजन्कुरिति समेति सपक्षपातम् ॥ १० ॥ इतोऽपि पुनः श्रेणीभूय मदालसा मधुकराः पुष्णन्ति वेणीश्रियं प्राञ्चद्गुच्छभरोऽप्युरोजकलशप्रागल्भ्यमालम्बते । रागोल्लासि च पल्लवं कलयते रम्याधरप्रक्रियां वासन्तीलतिकापि तेन वहते वामालकाविभ्रमम् ॥ ११ ॥ (विमृश्य ।) आर्ये, सर्वमपि सुघटितमस्सद्भाग्यवशात् । यतः । कालः कोकिलकोमलोक्तिमधुरः काव्यज्ञमान्यः कविः काव्यस्यापि स एव कामजनको राधाविटो नायकः । सारज्ञाश्च सभासदः पुनरमी नाट्ये प्रवीणा वयं किं चायं समुदञ्चितो भगवतश्रूडेश्वरस्योत्सवः ॥ १२ ॥ तदत्र संगीतकमनुतिष्ठतु भवती । (क) आर्य, इदं चूतवनं कथयति वसन्तागमनम् । इतः पश्य पश्य । किसलयकरसंपुटेन वल्ली किरति पुरः कुसुमाञ्जलिं नटन्ती । पवननिहततालपत्रतालध्वनिमनुगायति बैंभरावलीका ॥ १. 'सर्वतोऽवलोक्य' क-पुस्तके नास्ति. २. अज' ख-ग-पुस्तकयो स्ति. ३. 'गमणं' ख. ४. 'इदो पेक्ख इदो पेक्ख' क. ५. 'रमई' ख-ग. ६. 'ज्झणि' ख-ग. ७, 'बम्भ- रावलिः' ख-ग. ८. 'इहमन्त्रयतीव' ख. ९. 'रमयति' ख. १०. 'बम्भरावलि:' ख-ग.

- नटी- पल्लइदचूदलदिअं कोइलतरुणा रमन्दि रमणिजम् । उज्झन्दोवि मुहुत्तं काअलकूरणिस्सणं सुणिअ ॥ १३ ॥ (क) सूत्रधारः-(सशिरःकम्पम् ।) अहो 'संगीतमाधुर्यम् । (नेपथ्ये ।) प्राप्य प्रबोधमधुना रेटतीव नाथो हा हा हतास्मि विधिनेति विनिन्द्य दैवम् । निःश्वस्य मत्करधृतं निजमम्बरान्त- माकृष्य हन्त चलितैव कथं प्रिया मे ॥ १४ ॥ सूत्रधारः-(श्रुत्वा नेपथ्याभिमुखमवलोक्य ।) अयं किल मञ्जरीवियुक्त- स्य मन्दारोद्यानगतस्य भुजंगशेखरस्य भगवतो मुकुन्दस्य भूमिकामादाय इत एवाभिवर्तते मातुलपुत्रो मधुकरः । तदावामप्यनन्तरकरणीयाय सजी- भवावः। (इति निष्क्रान्तौ।) प्रस्तावना। (ततः प्रविशति यथानिर्दिष्टो भुजंगशेखरः।) भुजंगशेखरः-('प्राप्य प्रबोधम्-' इति पठित्वा । विमृश्य ।) तदानीमेवाहं तस्याः स्फुटवनपुलककदम्नं स्पृष्ट्वा कुचकलशयुगलमविलम्बम् । मधुमधुराधरबिम्बं मदवत्याः किमिति मङ्गु नाचुम्बम् ॥ १५ ॥ (क) पल्लवितचूतलतिका कोकिलतरुणा रमन्ते रमणीयाम् । उज्झन्तोऽपि मुहूर्त काककुलकूरनिस्वनं श्रुत्वा ॥ १. 'तरुणो रमई' ख-ग. २. 'संगीतस्य क. ३. 'नटतीव' ख. ४, 'विधिनैव' ग. ५. 'मन्दारमसदनोद्यान' ख-ग. ६. लतायां' क. ७. 'रमन्ति' क; 'रमति' ख-ग. ८. 'उज्झन्नपि क-ख.

६. काव्यमाला। (पुनर्विमृश्य ।) कथमेतावतोऽपि तत्कालेऽवकाशः । यतः । कुञ्जे कोमलशाबले पदमिह द्रागर्पितं वा न वा किंचिच्चाटु चमत्कृतं च वचनं किं व्याहृतं वा न वा । साकूतप्रणयं च सामि नयनं व्यापारितं वा न वा तन्व्या हंन्त तदन्तरे विधिवशात्तस्याः प्रबुद्धः पतिः ॥ १६ ॥ इयं चै पुनरभागधेयेन मया उत्सङ्गे विनिवेशयामि पुलकिन्याघ्राय वक्त्राम्बुजं वक्षोजौ परिरभ्य वारिजदृशश्चुम्बामि बिम्बाधरम् । जल्पन्त्याः श्रवणे रहः किमपि मे विश्लेषयामि च्छला- न्नीवीमित्यफलैर्मनोरथशतैर्नीता निशा केवलम् ॥ १७ ॥ अथवा कृतमनया व्यतीतचिन्तया । (निःश्वस्य ।) अत्रैवोद्याने पुनरप्येषा आरुह्योरुयुगं प्रसह्य रभसादुन्नीय नीवी प्रिया काञ्चीकिङ्किणिकानिनादचकिता मन्दोच्चलन्मध्यमा । किंचित्कूजितकंधरा रतिपरिश्रान्ता च दष्टाधरा कामं मे परिपूरयिष्यति न किं श्वो वा परश्वोऽपि वा ॥१८॥ (क्षणमात्र विचिन्त्य ।) अलमनयाप्यनागतावगाहिन्या वाञ्छावाहिन्या. । किंत्वेतावदाशासनीयम् । आनीलकुन्तलपरिष्कृतमायताक्ष- मापाटलाधरदलाञ्चितमन्दहासम् । आपीनतुङ्गकुचनप्रतिमावलग्न- मङ्गं पुरः स्फुरतु मे पुनरङ्गनायाः ॥ १९ ॥ (स्मृतिमभिनीय ।) इदमपि मे दुर्लभं मन्दभाग्यस्य । यतः (आकाशे ।) या पत्युः प्रयासि सदनं मृत्योरिव सपदि भीषणं वदनम् । सा त्वं प्रिये कथं मे यास्यसि भूयोऽपि नयनयोरयनम् ॥ २० ॥ १. 'एतावता' ख. २. 'यतः' ख-ग-पुस्तकयो स्ति. ३. 'च' ख-ग-पुस्तकयो- नास्ति. ४. 'कृतं कृतमनया' क. ५. 'व्यतीतगोचरया' ख-ग.

मुकुन्दानन्दभाणः। (सास्त्रम् ।) लीलापाङ्गतरङ्गितं तव किमप्यालम्ब्य भूयश्चिरा- देतावत्कुपितं तृणाय यमहं मत्वा सधैर्य स्थितः । तस्यैवाद्य करे त्वया विनिहितो मारस्य निःसंशयं कान्ते किं नु करोमि को नु शरणं का वा गतिः कथ्यताम् ।।२१॥ (पुन: 'तस्यैव-'इत्यादि पठति ।) (नेपथ्ये।) अयमयमुदयाद्रेर्नातिदूरे विवस्वा- नयमयममृतांशुः पातकी याति चास्तम् । इयमियमुपकण्ठे त्वद्वियोगासहत्वा- निवसति तरुणी ते कोक शोकं विमुञ्च ॥ २२ ॥ (श्रुतिमभिनीय सहर्षम् । नयनयोरस्रमपमृज्य ।) प्रियावियोगविक्लवं गृहदी- पिकाचक्रवाकं शोकारवमुखरमुखं मन्दमन्दमाश्वासयता मन्दारेण मञ्जरी- वियुक्तोऽप्यहमाश्वासित इवास्मि । (हृदयं प्रति ।) हृदय, धैर्यमाकलय । इयमुपश्रुतिरवश्यं प्रियासमागमं फलिप्यति । (विचिन्य ।) अद्यैवाध्यवसि- तगमनो माधवो मञ्जरीधवः कथमेनामनादाय गच्छति । (सविमर्शम् ।) उ- पश्रुत्या तु प्रत्युरेव प्रस्थानं प्रियायाः पुनरिहैवावस्थीनं सूचितम् । अतः सर्वथा प्रियासमागमेन भवितव्यम् । (पुनः सोच्छासम् ।) कथमिदम कृतसुकृ- तस्यासंभावनीयमेव मम संभावनां गोचरयति । उत्ताम्यतोरतिचिरादपि मन्मथाग्ने- रद्यावयोर्घटनमंत्र कथंचिदासीत् । तत्रान्तरे पतिरभूत्पुनरन्तरायः संगृह्यते तदपि हन्त मनोरथो मे ॥ २३ ॥ निर्याति किं न पतिरेष कुतोऽपि हेतो- द्रक्ष्यामि वा किमहमिन्दुमुखी न भूयः । 'सं- १. 'भ्यस्तरां' ख-ग. २. 'कुपिते' ख. ३. 'अहमप्याश्वासित' ख-ग. ४. गममाफलिष्यति' क. ५. 'संगमेन' क. ६. 'पुण्यस्य' ग. ७. 'एव' ग. ८. 'संत्रायते सपदि' ख-ग.

'८ काव्यमाला। (सगद्गदम् ।) हा हन्त किंतु मदनो दम तावदेव मर्माणि कृन्तति कृतान्त इवाततायी ॥ २४ ॥ (किंचिद्धैर्यमवलम्ब्य ।) पञ्चापि युगपदेवायं मयि अशोकपद्मोत्पलधूतमल्लिकाशराननङ्गो यदि 'संदधाति सः । तथाविधानेतत्समसंख्याकान् करास्यनेत्राधरहासमार्गणांस्तदा प्रियाया अनुसंदधाम्यहम्॥ २५ ॥ इति तामेव तामरसलोचनां मनसा गोचरयन्कि करोमि प्रियामे चिन्त- यन्नपि न पारयामि विरहपारावारम् । यतः, मेम सा प्रियतमापि मन्दस्मितेन मधुराधरपल्लवेन कुम्भोन्नमत्कुचभरेण कृशोदरेण । विद्युन्निभाङ्गलतया च विचिन्त्यमाना चेतो धुनोति च धिनोति च चञ्चलाक्षी ॥ २६ ॥ (किंचिदिव स्मित्वा ।) अहो दुःशीलता मदीयहृदयस्य यदिदं तथापि तत्पादाम्बुरुहं तदूरुयुगलं ताडितम्बस्थलं तन्मध्यं तु गभीरनाभिवलयस्तावानुरोजक्रमः । तद्वकं तदपाङ्गमुग्धवलनं ते नीलनीलालकाः सा तन्वीति तदङ्गकेषु हृदयं धावन्न विश्राम्यति ॥ २७ ॥ (स्पर्शमभिनीय ।) कथमियं प्रभातप्राया रजनी संवृत्ता। पुरातनपरीमलप्रकरमेदुरा मारुता न वान्ति मुकुलीभवत्कुमुदगर्भलीना इव । चरन्ति नवसौरभाः पुनरमी समीराकुराः सजृम्भणसरोजिनीसरसिजास्यमुक्ता इव ॥ २८ ॥ १. 'संदधानः ख-ग. २. 'तथाविधान्-'इत्यादि ख-ग-पुस्तकयो स्ति. ३. 'तथा' ख-ग. ४. “एवं' क. ५. 'मम प्रिया दूती' ख; 'मामतिप्रियायुवतिः' ग. ६. 'चपला मम चञ्चलाक्षि' ख-ग. ७. 'स्थित्वा ख-ग.

मुकुन्दानन्दभाणः । ९ (प्रतीचीमवलोक्य ।) अहमिह जरठ इव मरालो जर्जराप्रैर्मयूखैः स्खलति शिशिरभानुः पश्चिमाम्भोधिपारे । (अर्ध्वमवलोक्य ।) अत्र पुनः श्लथगरुत इवामूस्तत्र तत्रान्तरिक्षे -विरलविरलभासः किं च तारा लुठन्ति ॥ २९ ॥ कलङ्कदाशो गगनाम्बुराशौ प्रसार्य चन्द्रातपतन्तुजालम् । लग्नोड्डुमीनांल्लघु संजिघृक्षुश्चन्द्रप्लवस्थश्चरमाब्धिमेति ॥ ३० ॥ नभोवनं नक्तमसौ विगाह्य नक्षत्रसेनासहितः शशाङ्कः । कराग्रलग्नान्कतिचित्प्रहृत्य पान्थान्प्रभाते प्रपलायतेऽद्य ॥ ३१ ॥ अपि च । आलोकैरतिपाटलैरचरमां विस्तारयद्भिर्दिशं नक्षत्रद्युतिमाक्षिपद्भिरचिरादाशङ्कय सूर्योदयम् । पुनीभूय भयादिवान्धतमसं मन्ये द्विरेफच्छला- न्मीलन्नीलसरोरुहोदरकुटीकोणान्तरे लीयते ॥ ३२ ॥ तदितो निष्कुटवनाबहिरयैव गन्तव्यम् । (इत्युत्थाय वनप्राकारमुल्लङ्य वार्थी प्रविश्य हालीमवलोक्य चं।) व्यामिश्रैकैकबाहु पँवलितपृथुलैकैकचारूरुकाण्डं र्देष्टादष्टाधरोष्टं दरशिथिलतनुश्लेषमालिङ्गय कान्ताः । शश्वन्निःश्वासवेगस्फुरितगुरुकुचद्वन्द्वसंघृष्टवक्षाः श्रान्तः शेते रतान्ते सुखमिह सुकृती लीलया कामिलोकः॥ ३३॥ किं च काश्चन पुनरिहैव निःशेषं व्यपनीय नीविवसनं मञ्जुक्वणन्मेखलं क्रीडान्दोलनखिन्नमध्यलतिकं किंचित्प्रकम्प्रस्तनम् । ४. "दृष्ट्वा १. "भवन' क. २. 'च' ख-ग-पुस्तकयो स्ति. ३. 'प्रचलित' ख. दष्ट्वा क.

काव्यमाला । उद्यत्कुण्डलताण्डवं च रुचिरं विक्रम्य कान्तोपरि क्लान्ता वक्षसि कामिनां मुकुलितप्रान्ताक्षिकं शेरते ॥ ३४ ॥ अन्यच्च । वीरोयितेषु मृगशावविलोचनानां कण्ठोदितान्यचरमं कलकूजितानि । आनेडयद्भिरथ सौधगतैः कपोतैः शङ्के गृहीत इव संप्रति शिष्यभावः ॥ ३५ ॥ (पदान्तरं गत्वा ।) कोऽयं कमलापीडसदनप्राकारादवतीर्य पर्यायस्खलितचर- 'णस्तरुण इत एवाभिवर्तते । निपुणं निरूप्य स्वगतम् ।) कोऽन्यो वसन्तका- तेऽसन्मित्रादेतादृशे चरित्रे प्रगल्भः । (प्रकाशम् ।) सखे वसन्तक, चेराय शीतलयसि मे लोचने । सत्रासगद्गदं किं ब्रवीषि-'वयस्य, मन्दं मन्दं जल्प' इति । सखे, कुतस्ते भयमिदम् । किं ब्रवीषि-कमला- पीडात्' इति । सखे, मा भैषीः । (हस्ते गृहीत्वा ।) तिष्ठतु कमलापीडानां शतं सहस्रमयुतं वा । जिष्णुवी विष्णुर्वा स्रष्टालिकदृष्टिरष्टमूर्तिर्वा । स्प्रष्टुं वा प्रष्टुं ा मत्सखमीष्टेऽपि नान्ततो द्रष्टुम् ॥ ३६ ॥ (कतिचित्पदान्यतिक्रम्य ।) कथमद्यापि विकम्पसे । किं ब्रवीषि- 'उद्यत्करालकरवालतडित्कराग्र- मुद्भान्तभीमतरशोणितशोणदृष्टिम् । उद्दण्डदण्डधरदुर्धरचण्डिमान- मुद्वीक्ष्य तं कथय हन्त न कम्पते कः ॥ ३७॥ इति । सत्यम् । तथाविध एव कमलापीडः । किंतु दूरप्रवासिनस्तस्यासंभावित- मालोकनम् । अथवा स्वप्नविजृम्भितमेतत्प्रियसखस्य भवितव्यम् । किं ब्र १. 'विश्रम्य कान्ता परिक्लान्ता' ख-ग. २. 'प्रान्तेक्षण शेरते' ख; 'प्रान्ताक्षि संशेरते' ग. ३. 'वीरायितेन' ख. ४. 'इति' क-ग. ५. 'पर्याय' ख-ग-पुस्तकयो- नास्ति. ६. 'चकोरतरुण इवायाति' ख-ग. ७. 'नयने' ख-ग. ८. 'वयस्य' क-पुस्तके गस्ति. ९. 'हस्त' ख-ग. १०. 'वत्सबलिष्ठेऽपि' ख. ११. 'शोणितकोण' क. - मुकुन्दानन्दभाणः। ११ - वीषि-'वयस्य, नायं स्वप्नः' इति । कथं तर्हि तव पुनरागमनम् । किं तावत् । 'अणुमात्रमपि नात्र मया मिथ्या वचः कथ्यते। सत्यं दूरप्रवासीति । अहमपि तथैव दूतीवचनलम्भितविस्त्रम्भतया तया सममसमशरसंभ्रमसंभृत- हृदयो यथापूर्व तैस्तैर्विलासैविलासगृहविद्रुमचरणपर्यङ्कपर्यन्त एव शयानो निःशङ्को निशामनैषम् । अयं तु कमलापीडहतकः प्रच्छन्न एव कदा वागत्य निजकलत्रवृत्तपरिशोधनाय कुत्र वा निलीय स्थित इति नावेदिषम् । ततो निशावसाने निःशङ्कमेव तस्मान्निशान्तान्निर्गतः प्राङ्गणगतं तं घातुकमप- श्यम्' इति । वयस्य, कष्टं कष्टम् । कथं पुनर्निष्क्रान्तोऽसि। किं ब्रवीषि- 'स मां दृष्ट्वा हन्तुं करधृतकृपाणः प्रचलितो बहिरं यावत्त्वरितमरुणज्जाल्महतकः । अहं दैवात्तावत्कथमपि चलन्निष्कुटपथा- दुदयप्राकारं लघु समतिलच्यागत' इति ॥ ३८ ॥ दिया पुनरपि जातं वयस्येन । किं ब्रवीषि-~-'विशेषतः प्राणसंर- क्षकं प्रियसखमुपलभ्य' इति । भवतु तावत् । तिष्ठ। कोऽयं कमलापीडसदना ङ्गणे कलकलः । (श्रुतिमभिनीय सगद्गदम् ।) किं ब्रवीषि'सखे, नूनं कमला- पीड़ेन खड्गपाणिना सा मत्राणवल्लभा कलवाणी व्यापादिता । तत्कृतोऽय- ममन्दः परिजनाक्रन्दः । हा प्रिये कलवाणि, हा मदर्थत्यक्तजीविते, हा म- प्राणवल्लभे, कथं पत्यपदेशेन पापीयसा मृत्युनी दुर्दशां नीतासि । अ- थष किमिति पतिरिहोपालभ्यते । किंत्वहमेव तावदुपारब्धव्यः । कण्ठाश्लेषं शशिमुखि मया तन्वता दोरहिभ्यां प्राणान्पातुं प्रणयगरलं नूनमापूरि गात्रे । नो चेत्पूर्व यदमृतमयं नेत्रयोर्गात्रमासी- तत्ते भर्तुः कथमिव भवेत्तादृशामर्षपात्रम् ॥ ३९ ॥' इति । वयस्य, कलकलमात्रेण कैथमेवमधीर इवासाशोकपावके पतितोऽसि । १. 'तिष्ठ तिष्ठ' ख. २. 'दोर्युगाभ्यां' ख; 'दोरगाभ्यां' ग. ३. 'कथमापीतमदिर इव' ख; 'कथमापीतहृदय इव' ग. N १२ काव्यमाला। नात्मनः प्राणान्गणयसि । किं ब्रवीषि-'सखे, किं ममापि प्राणेष्वभि- प्वङ्गः । येनैवं त्रैलोक्याद्भुतजीवरत्नमवलां स्वप्राणनाड़ी पतिः किं कुर्यात्कुपितोऽपि तामिति मया दुस्तर्कर्वक्रात्मना । जाल्मेनानुपकारिणा जडधिया भूयः कृतघ्नेन म. त्प्राणा एव निरीक्षिता न तु पुनः प्राणप्रिया रक्षिता ॥४०॥ इति । (स्वगतम् ।) कथमप्रतिकारशोकवेगः संवृत्तो वयस्यस्य । किमत्र क- तव्यम् । इत्थं तावत्कथयामि । (प्रकाशम् ।) वयस्य, तत्त्वतः कमलापी- डस्य तस्यां प्रवृत्तिमनवेक्ष्य केवलेन कलकलेन किमप्यमङ्गलमुत्प्रेक्ष्य ग- दितुमेवमनुभवितुं वा क्लेशमनुचितम् । तदेहि । कलवाणीवृत्तान्तं तत्त्वतो ज्ञास्यावः' इति । (कतिचित्पदानि गत्वा विलोक्य च ।) वयस्य, पश्य कोऽयं कक्षान्तरनिक्षिप्तकृपाणद्वितीयोऽर्धावगुण्ठितमूर्धा इत एव सत्वरमायाति । (निर्वर्ण्य ।) किं ब्रवीषि-सखे, अयं मदनुचरः कलकण्ठो मैंदवलोकनो- स्कण्ठो जवादभिपतति । यः किल निशीथे कलवाणीविलासगृहं प्रवि- शता मया मदीयकृपाणं प्रदाय बाह्यकक्षान्तरे मेम रक्षणाय निक्षिप्तः' इति । भवतु । एनमेद पृच्छावः । अरे कलकण्ठ, इत इतः । खड्गमुत्तं- सयन्प्रणम्य किं ब्रवीषि-'सम्मक्खु अणुट्ठिदं देवस्स वअस्सेण मम सा- मिणा णिवातदिण्णजीविदंवि जणं परिहरिअ अत्ताणं रक्खअन्तेण' (क) इति । (स्वगतम् ।) कथमयं वयस्यमुपालभमानः कलवाणीगतं किंचिदशुभं (क) सम्यक्खल्वनुष्टितं देवस्य वयस्येन मम स्वामिना निजघातदत्त- जीवितमपि जनं परिहृत्यात्मानं रक्षता । १. 'अमलां' ख-ग. २. 'धौतात्मना' ख-ग. ३. 'केवलं' ख-ग. ४. 'इति' क-पुस्तके नास्ति. ५. "द्वितयः' ख-ग. ६. 'इत एव' ख-ग-पुस्तकयो स्ति. ७. 'मदवलोकनकृतोत्कण्ठो' ख-ग. ८. 'आदाय' ख. ९. 'ममैव' ख-ग. १०. 'अरे' ख-पुस्तके नास्ति. ११. 'अम्हे' ख. १२. 'णिपादविसण्ण' ख. 'निजपादविषण्ण' इति तच्छाया. १३. 'अशुभं शुभं वा न' ख-ग.

मुकुन्दानन्दभाणः। - पिशुनयति । (प्रकाशम् ।) अरे मूर्ख, किं दुःखितमेव वयस्यं पुनरेवमरंतु- दैर्वचनैर्दुःखयसि । किं ब्रवीषि-'किंदि दुक्खिदो दे वअस्सो' (क) इति । केनापि न रक्षिता निजवल्लभा कमलापीडेन व्यापाद्यमाना कलवाणी । किं ब्रवीषि-'अह इं । केणावि ण रक्खिदा सा-' (ख) (इत्योक्ते ।), वयस्य, सास्त्रगद्दं कि ब्रवीषि- 'द्वाभ्यामाभ्यां कुवलयमयी मालिका मत्कभ्यिां यस्मिन्क्रीडाविधिषु निहिता सस्पृहं सानुकम्पम् । सोऽयं कण्ठः केनककदलीकन्दलीगर्भसारः कान्ते जातः कथमसिलताघोरपातस्य पात्रम् ॥ ४ १ ॥ इति । (स्वगतम् ।) कथं वयस्यमाश्वासयामि । शोकं त्यजेति परुषं किमितः शुचेति निन्दानुशोचनविधिर्वहुशोकहेतुः । मौनं कृपाविधुरता कथमात्तशोक- माश्वासयन्ति सुहृदं सुहृदो न विद्मः ॥ ४२ ॥ (प्रकाशम् ।) वयस्य, निःशेषमसंबद्धप्रलापिनोऽस्य वचनमैनाकर्ण्य न युक्त- मेवं विलपितुम् । अरे, किं ब्रवीषि-'एव्वं णेदम् एसो मह वअणंसम- गं ण सुणादि' (ग) इति । समग्रमेव तावत्कथय । किं ब्रवीमि-'सुणिअदु दाव । एदं कहिअदि । ण केणावि रक्खिदा सा अप्पणो बुद्धिमन्दरेण' (घ) इति । वयस्य, तव प्रियतमात्मनो बुद्धया रक्षितेत्युक्तं भवति । तदलममङ्गलेन शोकेन । तत्प्रकारमेव पृच्छावः। (इति पटाञ्चलेनाश्रूणि परि- (क) किमिति दुःखितस्ते वयस्यः । (ख) अथ किम् । केनापि न रक्षिता सा । (ग) एवमिदम् । एष मम वचनं समग्रं न शृणोति । (घ) श्रूयतां तावत् । एतत्कथ्यते । न केनापि रक्षिता सात्मनो बुद्धिम- न्तरेण । १. 'मे वयस्य' ख. २. 'कमलकदली' ख. ३. 'दूरघातस्य' ख-ग. ४. 'आ- कर्ण्य क.

१४ काव्यमाला। मृज्य कलकण्ठमालोक्य च ।) अरे कलकण्ठ, किं सा विनिष्क्रम्य सौभाग्य- वीथिकां प्रविष्टा । यत्र भर्तुः क्षितिभर्तुर्वा भयं न भवति स्वैरिणीनाम् । वयस्य, किं ब्रवीषि-'यदि गणिकासरणिमवतरति मदनकरिणी सा तरुणी तदा सौधे सुधाकिरणचुम्बिनि लम्बमान- मुक्तावितानवति मञ्चतले शयानः । आरोप्य वक्षसि ममानिशमायताक्षी- मज्ञातरात्रिदिनभेदमहं वसेयम् ॥ ४३ ॥ इति । (कलकण्ठमालोक्य ।) अरे, किं ब्रवीषि---'देव, एव्वं णेदम् । धम्मिल्लअं सिरिमुहं हसि विआसि णेत्ताइ सोणमहरं अ घणत्थणे अ। ताए विलोइअ सआवि दिणं दिणंति जाणादु को णु खु कहंवि णिसं णिसेति ॥ ४४ ॥ किंदु तह ताए ण किदम्' (क) इति । तहिं ततः किं कृतं कलवाण्या । कि ब्रवीषि-'देव, जाव इमो घरादो णिग्गदुअ तुवरिदं घरवणपहेण चलिदो दाव एव्व का चदुरा अत्तणो आहरणाई कहिं वि णिक्खिविअ णिअवक्खताडणपुव्वयं इमो इमो चोरो मह आहरणाई आहरिअ ग- च्छइ । हा, हदम्हि । सुवो एव्व दूरदेसादो आअदे अजउत्ते किं करि- सम् । किं कहइस्सम् । का गई । को णु सरणं ति अदिमेत्तं अक्कन्दन्ती (क) देव, एवमेतत् । धम्मिल्लकं श्रीमुखं हसितं विकासि नेत्रे च शोणमधरं च घनस्तनौ च । तस्या विलोक्य सदापि दिनं दिनमिति जानातु को नु खलु कथमपि निशां निशेति ॥ किंतु तथा तया न कृतम् । १. "तथा यदि ख-ग, २. 'मदनमकरिणी' ख.

मुकुन्दानन्दभाणः । अस्सुधाराकिलिण्णलोअणा सअण्णादो णिग्गदा' (क) इति । (सबहुमानम् ।) साधु कलवाणि, साधु । वयस्य, अन्यादृशमेव खलु पतिप्रतारणचातुर्य- मस्यास्तव प्रेयस्याः। (कलकण्ठं प्रति ।) ततस्ततः । किं ब्रवीषि-तदो सोवि कमलापीडो सव्वं चोरचरिअं नव्व मण्णन्तो अइ हिअअवल्लहे, मा होहि मा होहि भआउला । एसो दे रक्खिदा सणिहितो कमलापीडोत्ति भणिअ तं एव्व घरवणं किवाणपाणि पविट्ठो । अहंवि दाव एव्व सुण्ण- द्धण्णकुम्भट्टिदो लहु णिग्गमिअ देवपाअसण्णिहिं आअदोन्हि' (ख) इति । वयस्य, सा तव पुरातनपुण्यविभवेन विपदमिमामतीतवती नितम्बिनी । किं ब्रवीषि-'तस्या एव नैपुण्यविभवेनेति वक्तव्यम्' इति । भवतु । तथैव यथाभिलषितं भवतः (पदान्तरं गत्वा अङ्गुल्या निर्दिश्य ।) इयं बिभ्राणा दरशिथिलां करेण नीवीं निश्वासस्फुरितकुचौ मुहुः स्पृशन्ती । पश्यन्ती चकितमितस्ततो मृगाक्षी पर्यायस्खलितपदं प्रयाति तूर्णम् ।। ४५ ॥ किं ब्रवीषि-'किं न जानासि । इयं रत्नगुप्तस्नुषा' इति । तर्हि जानामि । इयं किल (क) देव, यावदसौ गृहानिर्गत्य त्वरितं गृहवनपथेन चलितस्तावदेव सा चतुरात्मन आभरणानि कुत्रापि निक्षिप्य निजवक्षस्ताडनपूर्वकम् 'अयमयं चोरो ममाभरणान्याहृय गच्छति । हा, हतास्मि । श्व एव दूरदेशादागते आर्यपुत्रे किं करिष्यामि । किं कथयिष्यामि । का गतिः । को नु शरणम्' इत्यतिमात्रमाक्रन्दन्त्यश्रुधाराक्लिनलोचना सदनान्निर्गता । (ख) ततः सोऽपि कमलापीडः सर्व चोरचरितभेव मन्यमानः 'अयि हृदयवल्लभे, मा भव मा भव भयाकुला । एष ते रक्षिता संनिहितः कमला- पीडः' इति भणित्वा तदेव गृहवनं कृपाणपाणिः प्रविष्टः । अहमपि तावदेव शून्यधान्यकुम्भस्थितो लघु निर्गम्य देवपादसंनिधिमागतोऽस्मि । १. 'अतिनीतवती नितम्बवती' ख-ग. २. 'यथाभिमतं' ख, ३. 'कासौ येयम्' ख-ग. ४. 'पदापि याति' ख; 'पदानि याति' ग. ५. 'रत्नगुप्तस्य' ख-ग.

काव्यमाला। - कार्ये सत्यपि जातु याति न बहिर्नाप्यन्यमालोकते साध्वीरप्यनुकुर्वती गुरुजनं श्वश्रू च शुश्रूषते । विस्तम्भं कुरुते च पत्युरधिकं प्राप्ते निशीथे पुन- निद्राणे निजेभर्तृबन्धुनिवहे निर्याति रन्तुं विटैः ॥ ४६ ॥ किं ब्रवीषि- 'एषैव योषितां धन्या शीलं च लभते सुखम् । दिवा पतिव्रता भूत्वा नक्तं च कुलटायते ॥ ४७ ॥ इति । वयस्य, सम्यगुक्तम् । (परिक्रम्य विलोक्य च ।) वयस्य, पश्य पश्य । इयमिह अङ्गुष्ठतर्जनीभ्यामधरं धृत्वा विलोकयत्यवला । कुँचयुगमुद्धृतसिचयं पश्यति भावयति परिमृशत्यपि च ॥.४८ ॥ सखे, इतः पश्य । एकं विश्लथकेशपाशनहने व्यापारयन्त्याः करं श्वासोत्कम्पिकुचस्थलीपरिचलच्चेलाञ्चले चापरम् । अस्याः संसिनि लोलरत्नरशनालग्ने शनैरंशुके मन्दं मन्दमिवाविरस्ति नयनानन्दाय नाभीसरः ॥४९॥ इति। (अन्यां निर्दिश्य ।) आलग्नेश्वरमाङ्गके त्रिचतुरैः शय्याप्रसूनैरियं शङ्के रन्ध्रगवेषिणा निजशरैर्विद्धेति पञ्चेषुणा । मीलल्लोचनशोणकोणचपलप्रस्निग्धतारं मुखं शीत्कारस्फुरिताधरं च सुतनोरस्या यदुत्ताम्यति ॥ ५० ॥ (क्षणमात्रं विचिन्त्य ।) किं ब्रवीषि-'सखे, किंचित्पृच्छामि यदि सत्यमेव १. 'अनुकुर्वते' ख-ग. २. "निखिले जने शशिमुखी निर्याति' ख-ग. ३. 'भूयो नक्तं च कुलटा यतः' ख-ग. ४. 'कुचकलशयुगलमुद्धृतसिचया पश्यति परामृशत्यपि च' ख. ५. 'परिगलत्' ख-ग. ६. 'संसति' ख; 'खंसित' ग. ७. 'मन्ये ख.

उन्नाराण । कथयसि, न वञ्चयसि' इति । वयस्य, किंचित्कदापि किं कथितपूर्वमसत्यम्, येनाधुनाप्यसत्यकथनेन वञ्चयामि । किं ब्रवीषि- 'कार्यं दधाति गात्रं गमयति निद्रालयं च नेत्रान्तः । विरहदहनातिरेकं विवृणोति श्वसितमारुतोऽपि तव ॥ ५ ॥ किमत्र कारणम्' इति । (स्वगतम् ।) कथं कृतावहित्थोऽप्यहमनेन विदितोऽस्मि । (प्रकाशम् ।) अस्ति कारणम् । (करें ।) एवमिदम् । किं ब्र- वीषि- 'अद्यैव पुरोहितपुत्रं वीतिहोत्रमाश्रयस्व' इति । किमयाश्रयण- मस्ति । स मे बालमित्रं पुरोहितपुत्रः । किं ब्रवीषि-'तर्हि स भवतो विदितवृत्तान्तः कार्तान्तिकशिरोमणिः स्वयं कंचिदन्तरायं पिशुनयंस्तस्याः पतिगृहगमनं निवारयति' इति । वयस्य, साधु मन्त्रितम् । क्व पुनरद्य पुरोहितपुत्रः । (सविमर्शम् ।) किं ब्रवीषि-'तेन नियतमद्य देवतार्चनाय कुसु- मान्यवचिन्वता पुरोद्याने स्थातव्यम्' इति । कलकण्ठ, किं ब्रवीषि-'चे. डिआअञ्चणायेत्ति भणिदव्वम्' (क) इति । आः दुर्मते, पूजाहेष्वपि यत्कि- चित्प्रलपसि । किं ब्रवीषि-'कहं पूआअरिहो सो, सन्दिहोमबलिकम्म- एसु जं दक्खिणेत्ति दविणं गहिअदि तप्पणीकदुअ मत्थएण जो चेडिआणं चरणाई वन्दइ' (ख) इति । वयस्य, त्वमपि किं ब्रवीष्—ि'सखे, एवमेतत् । विस्फूर्जत्तिमिरे कुटीरकुहरे दृङ्मीलितोन्मीलितै- रायासेन पुरीपुरोहितसुतैस्तावन्निशा नीयते । सायं स्वीकृतदक्षिणावसुपणो यावन्निनस्वामिनी- प्रस्वापावधिकोपचारनिरतो नाभ्येति दासीजनः ॥ १२ ॥' इति । (सोपहासम् ।) वयस्य, न जानासि । (क) चेटिकार्चनायेति भणितव्यम् । (ख) कथं पूजार्हः सः, शान्तिहोमबलिकर्मकेषु यदक्षिणेति द्रविणं गृह्यते तत्पणीकृत्य मस्तकेन यश्चेटिकानां चरणानि वन्दते १. 'असत्यवचनेन' ख-ग. २. 'एवमिति' ख-ग. ३. 'आश्रयणीयं' ख-ग. ४. 'स एव' ख-ग. ५. 'हा' ख.

१८. काव्यमाला । गणिकानिशान्तघटचेटिकाविटाः कतिचित्परे पुनरयं तु मे सखा । सफलीकरोति परयोषिदुन्नत- स्तनकुम्भिकुम्भपरिरम्भणैरुरः ॥ ५३ ॥ तदहमुद्यानं गत्वा पुरोहितपुत्रमन्वेषयामि । व पुनरितो गच्छति वयस्यः । किं ब्रवीषि-'वेशवाटीम्' इति । सन्तु शुभास्ते पन्थानः । (कतिचित्पदान्यति- क्रम्य ।) इयं खलु विशृङ्खलमदावष्टम्भविजृम्भमाणमदनधनुष्टंकारशङ्कावह- मधपझंकारमुखरशिखरा ललितरसालकिसलयास्वादसँहितपरभृतकुलबहुल- कोलाहला मन्दमन्दस्यन्दमानमकरन्दबिन्दुसंदोहपरिपूरितकुसुमपरागपर- म्परापरिकल्पितालवालरेखा विभाति वनरेखा। (वनप्रवेशं नाटयित्वा विलोक्य ।) अत्र हि परागपालीघनसैकतासु मन्दं मिलिन्दा मधुवाहिनीषु । क्रीडन्ति मन्दानिलकर्णधारसंचार्यमाणप्रसवप्लवासु ॥ १४ ॥ (अन्यतो विलोक्य ।) आप्रभातमिहैव विहरन्ति पौरजारिण्यः । एतान्यङ्गजकेलिभग्नवलयान्येषा परिष्कारभू- रेतत्पल्ललतल्पमेष चिकुरस्रस्तःप्रसूनोच्चयः । एषा विस्मृतहारयष्टिरिदमालिप्तं पदं लक्तकै- रेताः कामुकलोकपादकमलन्यासैकधन्या भुवः ॥ ५५ ॥ (पदान्तरं गत्वा ।) केथमियमुद्यानपालिका मरालिका । सखि मरालिके, कि- मत्र कुसुमावचयार्थमागतो वयस्यो मे वीतिहोत्रः । किं ब्रवीषि-'अह इं। दाणि एव्व कुसुमपुडिआहत्थो दक्खिणदो रुक्खवाडी पविट्टो' (क) इति । (क) अथ किम् । इदानीमेष कुसुमपुटिकाहस्तो दक्षिणतो वृक्षवाटी प्रविष्टः। १. 'तथा सखा' ख. २. 'वेश्यावाटीम्' ख-ग. ३. 'सुखित' क. ४. 'हस्तकः' क. ५. 'कथमिहोद्यान' ख-ग.

मुकुन्दानन्दभाणः । तमेव पन्थानं दर्शय । किं ब्रवीषि-'इंदो' (क) इति । (पदान्तरं गत्वा ।) सखि, पश्य । यथा यथायं मकरन्दपूरैरापूरयत्याम्रतरुः प्रकामम् । तथा तथा मन्दमरुत्परागैरुदञ्चयत्युन्नतमालवालम् ॥ ५६ ॥ (निर्दिश्य ।) कुसुमरसबिन्दुपूरे बम्भरगम्भीरधीरझंकारे । मञ्जुलरसालपुञ्जे सरसा विहरन्ति सरसमिह कुञ्जे ॥ १७ ॥ कि ब्रवीषि-'णं आणामि' (ख) ('कुसुमरसबिन्दुपूरे' इत्यादि पठति । पुनरन्यतो विलोक्य सविषादमिव ।) अस्मिन्निष्पतितोष्णवाष्पसलिलम्लानाङ्कुरे केवलं तृप्ता वल्लभविप्रलब्धसुदृशा संकेतकुञ्जोदरे । कंदर्पासिनिकृत्तगात्रपतितस्त्यानामिषप्रोच्चय- श्रेणीवेयमशोकपल्लवमयी शय्या दरीदृश्यते ॥ ५८ ॥ किं ब्रवीषि-'इदो पेक्ख, इँदो पेक्ख । इमो दे वअस्सो' (ग) इति । (दृष्ट्वा सहर्षम् ।) कथमग्रत एव वयस्यः । आलम्बिपुष्पपुटकेन करेण शाखा- मालम्ब्य तत्क्षणसमुञ्चलितालिजालाम् । उद्यम्य दक्षिणकराग्रमुदीक्षमाणः पुष्पाण्यसाववचिनोति कुरण्टकस्य ॥ ५९ ।। (उपसृत्य ।) वयस्य-(इत्य|क्ते । ससंभ्रमं शाखामुत्सृज्य क्षणमवलोक्य च ।) किं. ब्रवीषि-'सखे, संप्रति दुर्विज्ञानं तैवाभिज्ञानम् । यतः । (क) इतः । (ख) ननु जानामि । (ग) इतः पश्य, इतः पश्य । अयं ते वयस्यः । १. 'इदो इदो इति' ख-ग. २. 'समसंस्कृतप्राकृतम्' इति ख-पुस्तके टिप्पणम् . ३. 'सुदृशः' ख-ग. ४. 'इदो' ख-ग-पुस्तकयो स्ति. ५. 'तवाभिज्ञानम् ख-ग, २० काव्यमाला। कामं कृशैरवयवैः परिपाण्डुरेण गण्डस्थलेन च भृशालसया दृशा च । बिम्बाधरेण च मुहुर्मसृणीकृतेन मन्ये भवन्तमधुना भवदन्यमेव ॥ ६ ॥ किंचान्यत् । आरक्तमर्धपरिमृष्टनवाश्रुपूरं पक्ष्मावपातभरदुष्प्रसरावलोकम् । एतत्तवाक्षियुगलं विवृणोति कान्ता- विश्लेषजं किमपि दुःखमसह्यवेगम् ॥ ६१ ॥ तत्किं प्रस्थिता मञ्जरी पतिभवनम्' इति । (स्वगतम् ।) कथमयं जानात्येव प्रथममकथितमपि रहस्यम् । अथवा दैवज्ञानां किमविज्ञातमस्ति । (प्र- काशम् ।) अपि नाम पश्यसि ज्योतिःशास्त्रेण चक्षुषा मे चरितम् । यन्न वेत्ति परः किंचिदेकां मुक्त्वा जटावतीम् । या निष्कुटवने तन्वी मया तां समयोजयत् ।। ६२ ॥ (विहस्य ।) किं ब्रवीषि-किमेतत्परिज्ञानार्थमपि ज्योतिःशास्त्रं चक्षुरपेक्षि- तम् । यतः । क्रीडा परस्त्रीषु कियद्भिरेव दिनैर्निगूढापि नै गूढिमेति । पङ्के निखातापि गभीरतोये पाथोजिनी किं न समुजिहीते ॥ ६३ ॥ इति । यद्येवं तर्हि किमिति न परिहरन्ति न परिवदन्ति च पद्ममुखीम् । किं ब्रवीषि-'मा मैवं वादी। सुचरितमीदृशमखिलं सर्वे जानन्ति सर्वेषाम् । न तु परिवदन्ति निपुणाः स्फुटतरमेते परस्परत्रासात् ॥ ६४ ॥ तत्कतिपयैरेव दिवसैरियं स्वयं परिहरिष्यति सकलमपि बन्धुकुलम्' इति। (निःश्वस्य ।) वैयस्य, अतः परमखिलमपि संभावयामि, यदि तावदिदानी शार्दूलवदनबिलादवगलति सा हरिणाक्षी। किं वदसि-'सखे, नक्तमेवोक्तं १. 'निरूढिमेति' ख-ग. २. 'वयस्य ख-ग-पुस्तकयो स्ति.

मुकुन्दानन्दभाणः। • २१ त्वयि स्नेहवत्या जटावत्या । वत्स, तथा प्रयतितव्यं यथा मन्दारदुहिता मञ्जरी पतिमन्दिरकन्दरभाजनं न भवेत् । तत्प्रथममुपदेशो भगवत्या जटावत्याः । तदुपरि प्रियसुहृदो निदेश इत्युभयथाप्यवश्यं करणीयमेव मे मञ्जरीगमनभञ्जनम् , तव च मनोरञ्जनम्' इति । (स्वगतम् ।) अहो मयि, भगवत्या जटावत्याः प्रसादातिशयः, यदेवमप्रार्थिताप्यननुयुक्ताप्यात्म- नैव कृतप्रयत्ना ममैव हितमातनोति । (प्रकाशम् ।) इत्यं कृतनिश्चये त्वयि तावदस्माकं सहजप्रेमसरसे स्वभावचतुरे जने । किमर्पितात्मभाराणां वक्तव्यमवशिष्यते ॥ १५ ॥ तदद्य सत्वरमेव त्वया गन्तव्यम् । किं ब्रवीषि-'अहं गच्छामि' इति । (विलोक्य ।) कथमतिक्रान्त एव प्रियमित्रेण प्रमदवनपर्यन्तः । मरालिके, किं ब्रवीषि-'इदो कमलमित्तेण मित्तेण अक्कन्दो पुत्वगिरिपजन्तो' (क) इति । (प्राचीमवलोक्य ।) घटमानकोककुचमामृशन्करैविकसत्ययोजनयनावलोकितः । परिचुम्बतीदमरुणप्रभाधरं रविरद्य वारवनितामुखं मुहुः ॥ ६६ ।। अथवा। भूयो निपीय लवणाम्बुधिमाप्रभातं पुञ्जीभवन्नुदयते तपनच्छलेन । और्वाग्निरम्बरपयोनिधिमद्य पातुं लीनोडुबुद्बुदकदम्बमिति प्रतीमः ॥ ६७ ॥ (वामतोऽवलोक्य।) उन्निद्रपद्मकोशादुद्गच्छन्ती शनैरविच्छिन्ना । इयमिह मधुपश्रेणी मरकरखड्गश्रियं वहति ॥ ६८ ॥ (क) इतः कमलमित्रेण मित्रेणाक्रान्तः पूर्वगिरिपर्यन्तः । 1. 'रसिके' ख-ग. २. 'अयं ख. मुकु० ३ २२ काव्यमाला। किं ब्रवीषि–'तक्खु पुत्वदिणविअसिअं सरसिअम्, जदो उग्गयहि महुअरश्शेणी' (क) इति । यद्येवमद्यैव विकसितं कमलाविलसितं दर्शय मे कमलम् । (निर्दिश्य !) किं ब्रवीषि-~~-'एदं पेक्ख । जत्थ (ख) इन्दिरावरविहारमन्दिरे मन्दमन्दमरविन्दकंदरे । गन्धतुन्दिलमरन्दसुन्दरे बम्भरा इह चरन्ति बन्धुरे ॥ ६९ ॥' इति । (सशिरःकम्पं तदेव पठित्वा ।) सखि, कथमपूर्वमेव कॅथयसि समसंस्कृ- तप्राकृतं हृद्यं पद्यम् । कराग्रहादजिनि केवलं ते विभुर्विवस्वानिति लोकवादः । आप्रातरासायमपास्तशङ्क भुङ्क्ते रसं भूरि मिलिन्द एव ॥ ७० ॥ कि च । जन्मारभ्य प्रतिकलमसावारजोदर्शनं ते भ्राम्यन्भृङ्गः क्षणगणनया वासरानत्यनैषीत् । त्वं तूद्भिन्ने रजसि मरुता दक्षिणेनासि भुक्ता सोढव्यं तत्कमलिनि कथं तेन लोकेन वापि ॥ ७१ ॥ (पुनर्विलोक्य ।) आलिप्ताः कुसुमपरागभस्मनामी कापालव्रतमिव काममाचरन्तः । गायन्तः किमपि मधूनि भिक्षमाणा गाहन्ते कमलगृहाङ्गणानि भृङ्गाः ॥ ७२ ॥ (पदान्तरं गत्वा ।) अयि, पश्य तावत् । एष पौराणिको मुद्गलभट्ट इत एवा- भिवर्तते । किं ब्रवीषि-'जाणामि णं गूढपाल्लविअम् । अक्खु (क) तत्खलु पूर्वदिनविकसितं सरसिजम् , यत उद्गच्छति मधुकरश्रेणी। (ख) एतत्पश्य । यत्र । १. 'विकसितकमल' क. २. 'बन्धुरे' ख-ग. ३. 'सुन्दरे' ख-ग. ४. 'कलयसि' क. ५. 'गृहान्तराणि ख-ग. .

मुकुन्दानन्दभाणः। २३ . - तह तह पढइ पुराणं तह तह वक्खाइं अत्थेवि । तह तह पेक्खइ किदवो जह जह रजन्दि बालविहवाओ ॥ ७३ ॥ एदं क्खु सुणिदं जं मुग्गलभट्टोत्ति । किंदु चिदम्बरभटोत्ति एव्व किल एदस्स णाम' (क) इति । सत्यं चिदम्बरभट्ट इति तातकृतं नाम । गुर्ज- रास्तु मुद्गलभट्ट इत्यावयन्ति । भवतु तावत् । एनमालापयामि । (उपस्टत्य । एकं हस्तमुत्तंसुयन् ।) पौराणिक, प्रणम्यसे भुजंगशेखरेण । किं ब्रवीषि- 'सकलरतिकलादेशिकेऽपि त्वयि कामाशिषमाशासहे' इति । (सविनयम् ।) कथमलीकवचोभिरेव मैयि गौरवमारोपयसि । किं ब्रवीषि-'अपि नाम ममापि वचनमलीकं संभावयसि । स्मरसि तावदिदानीं त्वमेव उत्ताने शयने ललन्नुपहसन्नव्यक्तमालापय- बाल्येऽपि व्रजसुभ्रुवां रतिकलाः किं कृष्ण नोपादिशः । या दोलावलनच्छलादुपरि ते व्यातेनुरुत्कण्ठया यत्किचित्क्रममुच्चलत्कुचकचश्रेणीकमेणीदृशः ॥ ७४ ॥' इति । भवतु । कँस्य गृहमद्य पवित्रीकर्तुमुद्यमः । किं ब्रवीषि-गुर्जरस्य निर्जर- दासस्य गृहम्' इति । (स्वगतम् ।) एष नक्तंदिवं तस्य मन्दिरं न विमुञ्चति ! कलावत्यक्षियुगलमलोहनिगडं यतः ॥ ७९ ॥ (प्रकाशम् ।) तर्हि गृहिणीमिति वक्तव्यम् । किं भणसि-'सा खलु विश्रु- तपुण्यंचरिता शक्नोति जगदेव पवित्रीकर्तुम्' इति । ( सकौतुकम् ।) कथय तस्याः पुण्यचरितम् । किं वदसि- (क) जानाम्येनं गूढपाल्लविकम् । अयं खलु तथा तथा पठति पुराणं तथा तथा वक्ष्यसर्थानपि । तथा तथा प्रेक्षते कितवो यथा यथा रज्यन्ते बालविधवाः ॥ ७५॥ एतत्खलु श्रुतं यन्मुद्गलभट्ट इति । किंतु चिदम्बरभट्ट इत्येव किलैतस्य नाम । १. 'रति' ख-ग-पुस्तकयो स्ति. २. 'मम' ख-ग. ३. 'उत्तान' ख-ग. ४. 'कस्य वा' ख-ग. ५. 'विश्वतः पुण्य' ख.

काव्यमाला । 'मध्यं विष्णुपदं कुचौ शिवपदं वक्त्रं विधातुः पदं धम्मिल्लः सुमनःपदं प्रविलसत्काञ्ची नितम्बस्थली । वाणी चेन्मधुराधरोऽरुणधरः श्रीरङ्गभूमिर्वपु- स्तस्याः किं कथयामि पुण्यचरितं मान्या सदा निजेरैः ॥७६॥' इति । (सबहुमानम् ।) तत एव तत्रभवान्महीयते । भवतु । तत्रभवति कीदृशी तस्या मनोवृत्तिः । किं ब्रवीषि-'किमपूर्वमिव पृच्छसि । पुरुषोत्तमाय भवते देवायेदमिति मे समर्पयति । सायंतननीराजनसमये वीटीशतं वधूटी सा ॥७७॥' इति । सत्यं जानामि । धर्मोपदेशगुरुरित्यखिलान्प्रतार्य बाह्योपचारशतमातनुते नतभ्रूः । अभ्यन्तरे तु रतिदेशिक इत्यनङ्ग- तत्त्वं तदेव कुरुते गुरुदक्षिणां ते ॥ ७८ ॥ (अनादरमिव ।) किं ब्रवीषि-'सखे, किमेतावतैव मे साम्राज्यम् । कूर्पासगूढकुचपङ्कजकुड्लानां को नाम शंसति रतिं भुवि गुर्जरीणाम् । अज्ञातचौलदुरुपद्रवचोलनारी- पीनस्तनस्तबकमण्डलदत्तहस्तः ॥ ७९ ॥ इति । (आत्मगतम् ।) सर्वोऽपि जनः सजातीयमेव प्रियं मन्यते । ये भुवि यज्जातीयास्तज्जातीयासु तेऽनुरज्यन्ते । शुकयोषित्पिकयूनोंरुदयति किं प्रीतिरन्योन्यम् ॥ ८० ॥ (प्रकाशम् ।) अये, कस्ते चोलनारीषु पक्षपातः । चोलच्छन्ना यदि कुचतटी दुर्लभा गुर्जरीणां कच्छाभावादलघुजघनं तर्हि शक्यावमर्शम् । तद्व्यत्यस्तं द्रविडसुदृशामन्ततः किं ततः स्या- देकत्रैकं भवति सुलभं तद्वदन्यत्र चान्यत् ॥ ८१ ॥ १. 'सखे, किमपूर्वमेव' ख-ग. २. 'अरे' क. ३. 'चोलीषु' ख-ग.

मुकुन्दानन्दभाणः। २६ परंतु नक्तंदिवमपि पतिपार्श्ववर्तिनी सा कथमनुवर्तनीया तत्रभवतेति तरलं भवति मे चेतः । किं ब्रवीषि-'यत्किचिदेतत् । यतः। कथितसमये गत्वा गूढं मया लिखिता नखैः खेपिति शयने पत्यौ पार्श्वेऽप्यहो परिवृत्य सा। तमपि निपुणालिङ्गयैवालं भुजालतयैकया चपलनयना मां च क्रोडीकरोति तदन्यया ॥ ८२ ॥ इति । (साश्चर्यम् ।) अहो श्रोत्रियस्य साहसम् । (मरालिका प्रति ।) विधत्तां संकेतं विशतु सदनं वा कथमपि क्रमात्तस्यां गूढं किमपि कुरुतां वा मृगशी। प्रबुद्धे पत्यौ चेदयमपि भवेत्कीदृशदशो वराकी वा सा तद्भुजवलयलग्ना सखि तदा ॥ ८३ ॥ पोराणिक, किं ब्रवीषि—'प्रबुद्धेन तेन वा किं कर्तव्यम् । गुर्जरीणां कुलाचारक्रमोऽयं यद्गृहे गृहे । पौराणिकः पुरोधा वा भृत्यो वा गूढवल्लभः ॥ ८४ ॥ तदलमतिप्रसङ्गेन । साधयामि' इति । साधय, साधय । अहमपि वेश- वादिकां गच्छामि । (मरालिकामालोक्य ।) सखि, पुरोहितपुत्रस्य वीतिहो- त्रस्य प्रवृत्तिमचिरेण ज्ञातुमर्हसि । किं ब्रवीषि–'तस्स अ ताए तुह दइआए अ उत्तन्तं सम्मं ओलहिअ तुज्झ अज एव णिवेदेमि' (क) इति। सखि, साधु । गन्तव्यम् । (परिक्रम्यावलोक्य च ।) एषा किल यो- पालभाषाजितरोषावृतकीरायुतकारायितमणिमञ्जुलरुचिपिञ्जरनवपञ्जरमा- लाशतलीलायुतप्रतिसदनप्रतिहारा पारावतवाराश्रितविटङ्का धारायन्त्रश- तसंतानितजलबिन्दुकंकणा कुङ्कुमरसपङ्किलसदनाङ्गणा लङ्केव लक्ष्यमाणा- (क) तस्य च तस्यास्तव दयितायाश्च वृत्तान्तं सम्यगुपलभ्य तवाद्यैव निवेदयामि । । १. 'स्वपतिशयने क. २. 'मना' ख-ग. ३. 'जन' ख-ग, ४. 'रोषाधृत' क, 'रोपायित' ख. ५. 'जलबिन्दु' ख-ग-पुस्तकयो स्ति.

२६ . काव्यमाला। क्षविहारा, अयोध्येव रामानुवृत्तभरतप्रचारा, हरमूर्तिरिव भुजंगविभूषिता, सरसीव पद्मिनीप्रचुरा, वनभूमिरिव हस्तिनीकरनमित'नागा, कादम्बरीव प्रकटितहेमकूटविस्तारा, नारायणतनुरिव भोगिभोगानुषक्ता, विप्रसभेव श्रु- तिमिलितविविधवाद्यारब्धकोलाहला हालामदतरलचेटिकाहस्तविस्त्रस्तपे- टिकागलितवीटिकाकलनचटुलचटिका वेशवाटिका । (प्रविशति नाटितकेन । किंचित्परिक्रम्य ।) इह हि चरन्तीनां सौधे चपलनयनानां तनुरुचो गवाक्षान्तर्वान्ताः कतिचन गृहीत्वा जलमुचः । क्षणं गोपायन्ति क्षणरुचिमिषेण क्षणमहो विवृण्वन्ति स्वर्ण करगतमिवाकिंचनजनाः ॥ ८५ ॥ किं च। तारास्तामरसाञ्चलेषु कदलीकाण्डषु भूमण्डला- न्यावर्ता गगने शिरःसु फणिनां शैलास्तुषारत्विषाम् । विम्वेष्वम्बुजपत्रचुम्बिषु तमस्तोमास्तदेतत्पुनः सर्व हेमलतासु ताः प्रतिगृहं चित्रं प्रतिप्राङ्गणम् ॥ ८६ ॥ (सर्वतोऽवलोक्य ।) अहो रमणीयता बालातपस्य । रञ्जयति लोकमखिलं ललितो बालातपप्रसरः । सरसयति सदनवामीसारससौरभ्यसंपदप्यभितः ॥ ८७ ॥ (आकाशे ।) किं ब्रूथ- 'इह क्रीडावल्गत्कुवलयदृशामेतधर- प्रभावीचीरोचिविलसति न बालातपरुचिः । असावप्येतासां वदनकमलामोदलहरी न तु क्रीडावापीसरसिजवनीसौरभझरी ॥ ८८ ॥इति । सत्यमीदृशः किलात्र मृगीदृशः। यतः । लब्ध्वाम्भोजे मुखशयपदा हक्तरङ्गैः सभृङ्गे दोर्वल्लीभ्यां बिसवति करीत्तशैवालजाले । १. 'वेश्यावाटिका' ख. २. 'गोपायन्तः' क. ३. 'आप्त' ख-ग.

मुकुन्दानन्दभाणः। वक्षोबद्धस्तनघनलसत्कुम्भतुम्बीफलाभ्यां वारस्त्रैणं निजरुचिसरोमण्डले पोप्लवीति ॥ ८९ ।। (कतिचित्पदानि गत्वा । निर्वर्ण्य ।) कथमत्रैव बालातपमनुभवति लीलावती । अस्याः आमृश्य नीलकबरीमवसज्य कण्ठे गाढोपगूढकठिनस्तनकुम्भभारः । नीवीमपि श्लथयितुं निभृतं करात्रै रागाद्रविः स्पृशति नाभिपदं नताशयाः ॥ ९ ॥ अपि च। बालातपमपमाष्टुं बाला पर्युषितकुङ्कुमभ्रान्त्या । स्तनतटमार्द्रनखाकं काषं काषं करेण सीत्कुरुते ॥ ९१ ॥ (उपमृत्य ।) सखि, तव सीत्कारसुधारसश्विराय मे श्रवणयोरानन्दं कन्दल- यति । साभिमानावहित्थं किं ब्रवीषि-'का तव पुरतः पुरा पुनरद्य वा कृतवती सीत्कारम्' इति । तहि विस्मृतम् । वयं तु न विस्मरामः । यतः। कान्ते द्यूतजिते तवाधरदले दष्टे सरागं मया स्वैरत्रंसिदुकूलदृश्यजघना तत्रैव लोलेक्षणम् । मामुद्रीक्ष्य सरोषलज्जमसकृत्सीत्कारतारं वचो. यत्त्वं जल्पितवत्यलं तदधुनाप्यानन्दयत्येव नः ॥ ९२ ॥ सरोषं किं ब्रवीषि—'कथमेवमनृतभूषितं ते भाषितम् । अथवा । यस्या नखशिखमनृतालिङ्गितमङ्गं जनिष्वनेकासु । कथयसि कथमथ तत्त्वं स त्वं कृष्णानृतोज्झितो भूयः ॥९३ ॥ इति। (विहस्य ।) कुतोऽन्यत्राप्यनृतकथा। यत्किलात्र भुवनत्रयोदरे संकटेन समवस्थितं चिरात् । तत्समस्तमनृतं नताङ्गि ते कुक्षिलग्नमवलग्नकैतवात् ॥ ९४ ॥ किं ब्रवीषि-'गच्छ यथागतम् । किमनेन वाक्कलहेन' इति । तर्हि कायि- कमेव कुरु कलहम् । १. 'एष' क.

२८ काव्यमाला। बद्धा दोर्खामभिमतगृहे मामधस्तान्निपात्य द्रागारुह्य स्तनगिरिहतोरस्कमास्कन्दयन्ती । तावत्कान्ते रचय सकलं साहसं हृगतं ते श्रान्ता यावत्कनकसुमनोमालिकेवासि तान्ता ॥ ९५ ॥ किं ब्रवीषि-'अद्य दिनमुखे कस्य वा मुखमवलोकितमित्थमनेन विव- दितुम्' इति । (सस्मितम् ।) अयि मानिनि, तदपि में सुखावहं सं- भावयामि । शनैरुत्तिष्ठन्त्यास्तव करते हेमवसने हठादाकृष्टे सत्यतिभृशनमद्गात्रलतिका । सरोषं सत्रीडं सुमुखि मुखमालोकितवती प्रभाते यस्य त्वं स्मरसि कृतिनस्तस्य न कथम् ॥ ९६ ॥ किं ब्रवीषि-'कुतः स्वमानमविज्ञाय सीमानमतिकामसि' इति । (स्वग- तम् ।) इयं सुलभकोपा सर्वथा परिहासवचोऽपि मे परमार्थ मन्यते । तेद- -न्यतो नयामि । (प्रकाशम् ।) अयि प्रिये, मा कृथा मयि वृथा कोपाड- म्बरम् । अम्बरमाभरणानि वा यदभिलषितं तदाशु वृणीष्व । वितरप्यामि। साञ्जलिबन्धं किं ब्रवीषि-'अलं तावदतिवदान्यतया । याचामहे जातु न किंचन त्वां पुण्यप्रदानादधिकं तवेदम् । गोपाङ्गनाचारुदुकूलचोरो यत्कृष्ण मुष्णासि न विद्यमानम् ॥९७॥' इति । मुग्धे, न जानासि जाराणां चोरः खलु मुख्यः । सस्मितं किं ब्रवीषि- भाव, सत्यं चोर एवासि । यदेवं मोचारसमुचा वाचा मे चेतश्चोरयसि । (सानन्दम् ।) सखि, यदि प्रसन्नमुखी जातासि, तर्हि शृणु । आलिङ्गय गाढममलाङ्गि तवाङ्गमङ्गै- रापाटलं त्वदधरं मधुरं निपीय । १. 'आरुद्ध' क. २. 'किमहं न जानामि' ख. ३. 'कृते' ख-ग. ४. 'अविज्ञाय सीमानम्' ख-ग-पुस्तकयो स्ति. ५. 'यावदन्यतो' ख-ग. ६. 'मुधा' ख-ग. ७. 'अङ्गमङ्ग ख-ग.

मुकुन्दानन्दभाणः । २९ नीवीमथ श्लथयितुं निभृतं करेण नीलोत्पलाक्षि यतते नितरां मनो मे ॥ ९८ ॥ किं ब्रवीषि-'भवतु नाम । याहि, सायमायाहि' इति । तर्हि गच्छामि । (इत्यन्यतो गत्वा विलोक्य ।) कथमत्रैव काञ्चनलतासंतानको । (निर्वर्ण्य ।) इयमिदानी विलोकयन्ती मुकुरे विलासान्मुखाम्बुजं मुग्धकुरङ्गनेत्रम् । कर्पूरपङ्केन करोति बाला बालेन्दुलेखातिलक ललाटे ॥ ९९ ॥ (उपसृत्य ।) सखि, तप्ता तपो हरशिरस्तटिनीतटान्ते मुक्त्वा कलङ्कमयि ते मुखभावलोभात् । बालेन्दुचारुतिलकेन चिराय वाले चन्द्रोऽन्वविन्ददिव नन्दनजन्मशर्म ॥ १० ॥ सविनयं किं ब्रवीषि-'चिराय स्मरणसरणीमधिरोपितास्मि भावेन' इति । सखि, मा मैवम् । अद्यापि वल्गत्कुचानि वलनासहमध्यमानि कण्ठोदयत्कलरुतानि गलत्कचानि । आस्वादिताधरदलान्यलसेक्षणानि तान्येव तन्वि सुरतानि तव स्मरामि ॥ १०१ ॥ किं च । ध्वान्तप्रान्तपरीतशीतकिरणं निद्रालुनीलोत्पलं मन्दोदश्चिकपोतनादमधुरं शश्वद्गलत्तारकम् । चक्रद्वन्द्वविलासनाट्यचतुरं चञ्चत्तुषारोदयं चेतो मे समयं तमेव सुदति प्राप्तुं पुनर्वाञ्छति ॥ १०२ ॥ १. 'नामाद्य' ख-ग. २. 'इति' क-पुस्तके नास्ति. ३. 'इत्यग्रतोऽवलोक्य' ख. ४. 'रेखातिलकं निटाले' ख. ५. 'लोभात्' क. ६. 'रोहितास्म्यस्मद्भावेन' ख.

३० काव्यमाला। किं ब्रवीषि-भाव, मुरलीवल्लभस्य कथं तैव मादृशीषु तरलीभावः । तथाहि । संकेतानयनाय सारसदृशां सा कृष्ण ते दूतिका क्रीडालापकलापगानचतुरा केलीवयस्या च सा । त्वबिम्बाधरचुम्बनादृतमुखी सैवान्ततः प्रेयसी या ते पाणिपरिग्रहेण मुरली नानामुखं जल्पति ॥१०३॥' इति । (अपवार्य ।) वयस्य संतानक, सांप्रतं सफलतपःसंतान इव लक्ष्यसे । यतः। वक्षस्ते दृढलग्नकर्कशकुचद्वन्द्वावभुग्नान्तरं कण्ठः कंकणरत्नकोटिकलनासुव्यक्तमुद्राङ्कितः । व्यत्यासव्यतिषञ्जितश्च तिलकः फाले तवायं सखे कस्याश्चित्प्रकटीकरोति सुरतप्रौढिं परां सुभ्रवः ॥ १०४ ॥ वयस्य, किं ब्रवीषि-अस्या एव । अथ किं विविधकरणकल्पनातिशिल्पं सपुलकचुम्बनडम्बराभिरामम् । कलरवकलकूजितात्तकण्ठं निधुवनकौशलमद्भुतं नताशयाः ॥१०॥' इति । (सौत्सुक्यम् ।) का सा रसिका युवमनःकासारसारसिका । किं ब्रवीषि- 'इयमेव' इति । (सबहुमानम् ।) कुसुमशरविधेयं कोमलं रूपधेयं तदनुगुणविकासस्त्वद्गुणानां विलासः । किमितरमिह लोकानन्दहेतुस्त्वमेका तव रतिसुखभाजः कामिनोऽपि धुराजः ॥ १०६ ॥ (सप्रश्रयम् ।) किं ब्रवीषि-'भाव, किमेवमनुचितं निजेऽपि जने कथयितु- मुचितम्' इति । सत्यमनुचितमेवेदं यत्त्वदनुभवरसिका धुराज इति । यतः। जम्भारेरपि पाशपादतरुणीजाराज्जयन्तादपि स्वैराश्लिष्टसुराङ्गनाकुचभराद्धन्यश्च मान्यश्च सः । १. 'तव' क-पुस्तके नास्ति. २. 'तरलभावः' ख-ग. ३. नानाविध' ख-ग. ४. 'अस्या एव' ख-ग-पुस्तकयो स्ति. ५. 'कमलकासार' ख-ग. ६. 'कामिनां नामधेयं ख-ग. ७. 'इतरत्' ख-ग. ८. 'पश्यपाद ख-ग. - मुकुन्दानन्दभाणः । MY रम्भाकेलिकुतूहलापहरतारम्भाधिकप्रौढया पुंभावं गतया त्वया जगति यो रम्भोरु संभाव्यते ॥ १०७ ॥ सखि, किं ब्रवीषि-'भाव, केवलं सुरतरङ्गिणीरिङ्गद्गुरतरङ्गसंमतवचो- भङ्गिभिरेव मामुत्तुङ्गयसि । न पुनरनङ्गविलासनटनरङ्गैरङ्गैः' इति । सखि, मा मैवं वादीः। तर्हि सायमायास्यामि । (पदान्तरं गत्वा सदृष्टिक्षेपम् ।) कथम- अत एव मुदमुदञ्चयति चन्द्रमुखी । क्रीओक्षिप्तभुजामृणाललतिकापाशान्तराले बला- द्ववेन्दु विरचय्य वैरिणमिदं वक्षोजकोकद्वयम् । हर्षादुन्नमतीव वारिजद्दशो वक्षःसरोमण्डला- निद्राभङ्गनिरूढजृम्भणजुषो मुग्धाङ्गभङ्गोत्सवे ॥ १०८ ॥ (अन्यतो विलोक्य । वक्षोजौ निबिडं निरुध्य सिचयेनाकुञ्चय मध्यं शनैः कृत्वा चम्पकतैलसेकमवला संपीड्य मन्दं शिरः । पाणिभ्यां चलकंकणोद्यतझणकारोत्तराभ्यां करो- त्यभ्यङ्गं परिपश्यतोऽस्य चपलं दोरन्तरं प्रेयसः ॥ १०९॥ (कतिचित्पदानि गत्वा । सानन्दम् ।) इहमिह जानुभ्यामुपविश्य पाणिनिहितश्रोणीभरा प्रोन्नम- दोर्वल्ली नमदुन्नमत्कुचतटी दीव्यन्नखाङ्कावलिः । पाणिभ्यां चलकंकणोद्यतझणत्कारावतारोत्तरं बाला नह्यति किं निजालकभरं किंवां मदीयं मनः ॥ ११० ॥ मच्चेतसा सह भुजद्वयमुन्नमय्य धैर्यण मे सममसाववधूय भूयः। बध्नाति कुन्तलभरं कुटिलान्तकेशी साकं ममैव कथमद्य विलोचनाभ्याम् ॥ १११ ॥ (उपमृत्य।) कमलाक्षि विलम्ब्यतां क्षणं कमनीये कचभारबन्धने । दृढलग्नमिदं दृशोर्युगं शनकैरद्य समुद्धराम्यहम् ॥ ११२ ॥ १. 'वादीः' ख-ग-पुस्तकयो स्ति. २. 'पाणिभ्यामवधूय कंकणझणत्कारावतारो. त्तर' ख-ग.

३२ काव्यमाला। अनादरमिव किं ब्रवीषि-'कात्र भवन्तमाकारितवती' इति । (सानुनयम् ।) कल्याणि, कथमनालोक्यैव मामधिक्षिपसि । पुनः किं ब्रवीषि-'कि त्वामालोक्य भाग्यमुपगन्तव्यम्' इति । अयि, नास्ति किमपि किं मयि । कि ब्रवीषि-'नास्त्येव । चौर्येणैव कृतं हि कुक्षिभरणं जन्मप्रभृत्यन्वहं गोपीनां पणदानशून्यसुरतक्रीडाऋणं चेत्पुनः । दुर्वारं तव जन्मकोटिभिरपि त्वं कृष्ण तत्तादृशः किं मे दास्यसि किं तवास्ति च वयं किं वा ग्रहीष्यामहे॥११३॥'इति। मुग्धे, न जानासि । नित्यं श्रीरनपायिनी मम परं धामापि रत्नाकरः शक्रादीनतिशेरते च विभवै त्यास्तदास्तामिदम् । किं चान्यत् । ऐश्वर्य महदस्ति षड्गुणम् किं ब्रवीषि-'क्व तदर्शय' इति । इह प्रख्याप्यतां तत्कथं पुनः किं ब्रवीषि--'किमिति न प्रख्यापनीयम्' इति । प्रच्छन्नोऽद्य किलास्मि तन्वि समये सर्व त्वमेवैष्यसि ॥१६॥ (विहस्य ।) किं ब्रवीषि-यां कांचिदेवं वञ्चय चञ्चलदृशम् । मम तु जातुचिदपि पुरो मैवं वादीः' इति । (स्मित्वा ।) अद्य यद्यपि मद्वचनं न रोचते तदा त्वमेव पुनः स्मरिष्यसि । (इत्यैन्यतो गत्वा सस्पृहमालोक्य ।). कथमिहालंकरोति लवङ्गिका कनकाङ्गीम् । तथाहि । निविडानुषक्तकुचकोकदंपती मुखतारकापरिवृढेन शासितुम् । अवतारितेव निजतारकावली हरिणीदृशः स्फुरति हारवल्लरी॥११५॥ (उपमृत्य ।) अनया तावदिदानीम् आत्मनैव विधृतापि मुग्धया हारयष्टिरधरांशुपाटला । विद्रुमावलिधिया विलोलया दृश्यतेऽपि परिमृश्यते मुहुः॥११६॥ १. 'स्थित्वा' ख-ग. २. 'पुरः' ख-ग. ३. 'अग्रतो'ख-ग.४.'निबिडं निषक्त'ख-ग.

मुकुन्दानन्दभाणः॥ ३३ (लवङ्गिकामालोक्य ।) कथं कनकाङ्गया अप्यङ्गेषु भूषणान्यर्पयसि। जेतुं कल्पलताशिल्पमा कल्पं सखि कल्पताम् । अकल्पा कल्पकल्पे ते वपुष्याकल्पकल्पनाम् ॥ ११७ ।। (साकूतम् ।) किं ब्रवीषि-'देव, अदो जेव आहरणाई अप्पयिस्सम् । अङ्गेसु लावण्णतरङ्गएसु णिसग्गसोहग्गसमग्गदेसे । देतॄण लोअस्स अलोअणाइंणं संकिदा भूसणमप्पइंससम्(?) १ १८(क)इति । अयि, कुशलासि । यतस्त्वमस्या अङ्गकान्यपिदधासि नताझ्या भूषणैर्जनदुरीक्षणभीत्या । चञ्चलाक्षि पथि चम्पकवल्ल्याः पल्लवैरिव परं कुसुमानि ॥ ११९ ॥ (क्षणमात्र निर्वर्ण्य ।) अयि, विफलोऽयं तवायासः । अङ्गानामपिधानमाकलयसे मुग्धे मुधा भूषणै- मज्जन्त्यत्र तु भूषणानि सुतनोरङ्गप्रभास्रोतसि । लीलासु श्रवणोत्पले नयनयोः स्मेरे च हारावली लाक्षाश्रीः पदपाटलिम्नि तनुभा सीमासु हेमाम्बरम् ॥ १२॥ (पुननिर्वर्ण्य ।) अस्याः कर्णान्ततान्तनयनान्तविलोकनश्री- संछादितश्रवणपूरसितेतराजम् । मन्दस्मितद्युतितिरोहितचारुनासा- मुक्ताफलं वितनुते वदनं मुदं नः ॥ १२१ ॥ (सानुरागं सपुलकोद्भेदं च विभाव्य ।) अयि प्रेयसि, किं करोमि । पद्मेन्दीवरकुन्दचम्पकजपाजातीषु जातस्पृह क्रीडाकाञ्चनशैलतुङ्गशिखरारोहावरोहालसम् । (क) देव, अत एवाभरणान्यर्पयिष्ये । अङ्गेषु लावण्यतरङ्गितेषु निसर्गसौभाग्यसमप्रदेशे। दृष्ट्वापि लोकस्य च लोचनानि ननु शङ्किता भूषणमर्पयिष्ये ॥ १. 'हारावलिः' ख. मक०४ काव्यमाला । मार्गे प्रस्खलितं क्रमेण विषमे मग्नं सरोमण्डले यम् । पर्यन्ते पुलिनस्य कान्तकदलीमूले मनो मुह्यति ॥ १२२ कि लवङ्गिके, किं ब्रवीषि-'उइदं खु पिदुणो तणअस्स सअणाणुवत्तणम्'(क) इति । (स्वगतम् ।) कथमनया निर्लज्जयेवाभिहितम् । (प्रकाशम् । सरोषलज्ज श्रीडाकमलेन लवङ्गिकां ताडयन्ती।) किं ब्रवीषि-'हजे, कथमपास्तलज्जा त्रासादुरक्षराणि प्रलपर्सि' इति । लवङ्गिके, सधैर्य किं ब्रवीषि-'सामिणि, पढमप्पलाविणं णं उज्झिअ कथं मइ जेव्व कुप्पसि' (ख) इति । (सस्मितम् ।) अयि, मय्यपि कुप्यतु नाम तव स्वामिनी । किमत्र परिहीयते । प्रत्यासीदति रोषतो यदि मुखामोदस्तदा लभ्यते बाहाबाहिरणे तु कर्कशकुचाश्लेषः स्वयं सिध्यति । मामुत्तानमधो निपात्य मयि चेदारोहतीयं ततो- ऽप्यन्यत्कि मम काङ्कितं तदधुनैवालं द्रुतं कुप्यतु ॥ १२३ ॥ (श्रवणमभिनीय ।) क एष कलकलः पौरबालकानाम् । (पुरस्तादवलोक्य । सोपहासम् ।) सखि, पश्य पश्य । अयं किल कपटपुण्याहशान्तिबलि- होमविधिविलिप्तविविधचन्दनविकृतललाटतटघटितहरिद्राक्षतो वञ्चितदासी- जनदत्तपञ्चाङ्गुलनिकञ्चितपुरातनपरिधानकल्पितोष्णीषपरिलम्बमानदशास- हस्रपरिवेषदूषितवदनश्चञ्चलचेलाञ्चलकीलितमपि पञ्चाङ्गं पतनशङ्कया कु- शतृणाञ्चितेन पाणिना पुनःपुनरामृशन् , सव्यांसगैतपटचरभस्त्रिकाविवरग- लितकतिपयमुद्गतिलतण्डलग्रहणव्यग्राग्रकरः परिहासपरपौरबालकारिवा- रमन्तरान्तरा दर्भमुष्टिना दण्डेन निवारयन्, चिन्तोपचितांश्चिरंतनानप्याः त्मसदनव्यापारानात्मनैव प्रकाशमालपन्वेशवाटिकापुरोहितो गणदत्तमातुलो वराहभट्टश्चन्द्रिकागृहादायाति । (सहासम् ।) किं ब्रवीषि-'अहो, का- (क) उचितं खलु पितुस्तनयस्य सदनानुवर्तनम् । (ख) स्वामिनि, प्रथमप्रलापिनमेनमुज्झित्वा कथं मय्येव कुप्यसि । १. 'क्रीडाकमलेन' क-पुस्तके नास्ति. २. 'रोषिता' ख. ३. 'पुरातनपटुदशास- हस्र' ख. ४. 'गतपष्टिकाविवर' ख. ५. 'व्यप्रकरः' ख. ६. 'परिहासी' क.

मुकुन्दानन्दभाणः। लस्य वैचित्र्यम् । अयमिहैवैतावतो वासरांश्चेटीकुटीरकोटरकोण एव नक्तदि- वमप्यतिवाह्य पुनरद्य पलितपरिहते शिरसि वैदिकपद्यामनुरुध्य प्रत्यहं प्रातरुदकोपस्पर्शनमिव नित्यकर्मनिधानमिव किमपि कुर्वन्ननतिचिरादेव सदवनीदेव इव संवृत्तो वराहभट्टः' इति । न केवलमयमेव । अस्य भार्यापि । प्रागतीतमिह कि विविच्यतां कामशासनबुलेन कारितम् । यौवनापसरणादनन्तरं सर्वथा ननु पतिव्रतैव सा ॥ १२४ ॥ (पुनर्विलोक्य ।) कथमयं प्रत्यासन्नो भूत्वा पञ्चाङ्गं वाचयति । (श्रुत्वा सहासम् ।) सखि, पश्य । पञ्चाङ्गमञ्चितकुशेन करेण धृत्वा पति प्रमृज्य किल पत्ररसेन भूयः । आवर्तयन्नसकृदक्षरमेकमेकं तारादि वाचयति तत्पुनरन्यदन्यत् ॥ १२५ ॥ तेदेनमसंबद्धप्रलापिनमालापयन्ती तिष्ठ । साधयामि । (परिक्रम्य पुरो- ऽवलोक्य च ।) कथमत्र मयूरकः । (उपसृत्य ।) अपि कुशलं प्रियसखस्य । किं ब्रवीषि-'कुतः कुशलं भग्नभागधेयानाम्' इति । (सोद्वेगमात्मगतम् ।) कथमयं किमप्यरंतुदं कथयिष्यति । अथवा परिहासशीलस्य वचोऽस्य न विश्वसनीयं भवति । (प्रकाशम् ।) कथमद्य तवाकुशलम् । किं ब्रवीषि- 'कुटिलचिकुरा कुन्दस्मेरा कुरङ्गविलोचना कमलवदना कम्बुग्रीवा कठोरपयोधरा । कनकलतिकाकान्ता कान्ता कराङ्कगता' इति । (विहस्य ।) सत्यमिदमकुशलं यदतिचिरनिबद्धघोटकब्रह्मचारिणस्तव कामि- नीरत्नं करतललग्नम्' इति । (सरोषविषादम् ।) किं ब्रवीषि-कथम|क्त एवाक्षिप्य परिदेवनावसरे परिहसति वयस्यः' इति । तहिं कथय कथय । mo- १. 'किमपि किमपि' क. २. 'तदेवमप्यसंबद्ध' ख. ३.आलपन्ती' ख. ४. 'अस्य' ख-पुस्तके नास्ति.

काव्यमाला। किं ब्रवीषि-कराङ्कगता गता' इति । (विमृश्य ।) तर्हि । कठिनहृदयः कामम् । किं ब्रवीषि-'वयस्य, किं त्वया वक्तव्यमिदम्। कठिनहृदय एवाहं योऽयं प्राणवल्लभाप्रयाणेऽपि प्राणिमि'- इति । (स्वगतम् )कथमयमन्यथा मन्यमानो मन्युमेव प्रविशति । (प्रकाशम् ।) सखे, किं त्वां कठिनहृदयं ब्रवीमि । किंतु। कठिनहृदयः काम कामः कथ कुशल तव ।। १२६ ।।' इति वक्तुं प्रवृत्तोऽस्मि । किं ब्रवीषि-'वयस्य, अहमप्येतदेव कुटिलचिकुरा कुन्दस्मेरा कुरङ्गविलोचना कमलवदना कम्बुग्रीवा कठोरपयोधरा । कनकलतिकाकान्ता कान्ता कराङ्कगता गता कठिनहृदयः कार्म कामः कथं कुशलं मम ॥ १२७ ॥ इति वक्तुं प्रवृत्तोऽस्मि' इति । (सचमत्कारम् ।) तदावयोरेकमेवान्ततो विव- क्षितं संवृत्तम् । उक्तिप्रत्युक्तिकया त्वन्ततोऽप्यतर्कितं संविधानवैचित्र्यं संपन्नं भवतु । कोऽत्र विरोधः । का सा-कनकवर्णाङ्गी त्वत्कराङ्कगता गता । किं ब्रवीषि- 'सखे सौदामिनी नाम कान्ता कादम्बिनीस्नुषा।।१२८॥ इति । जानामि सकलजननयनहारिणी खलु तदीयतनुरुचिधोरणी ।। कथं सा करतलगता । कथं च पुनर्गता । किं ब्रवीषि–'सखे, चिरादपि तत्सं-- गमायान्विष्यन्त एव तावदुपायाः । पुनरतीते निशीथे निबिडान्धकारम- गारपरिसरमधितिष्ठता मया बहिरागता सौदामिनी सरभसं करेण गृहीता' इति । धीरोऽसि । तदा तया किं व्यवसितम् । किं ब्रवीषि-'न कि- मपि । क्षणमात्रमवस्थिता 'धिङ् मूर्ख, मुञ्च मुञ्च' इति मामवधूय पुनरगारं प्रविष्टा । अहमपि कुक्कुटकूजितावधि तदागमनाशयैव स्थित्वा तदनन्तर- १. 'प्रहाणे' ख. २. 'तु कुतोऽपि' ख. ३. अन्विष्यतैवोपायान् ख. - मुकुन्दानन्दभाणः। ३७ मागतोऽस्मि' इति । भवतु । वयस्य, यदा कदापि किं तथा कथितपूर्वमङ्गी- कारवचनम् । किं ब्रवीषि—'कथमपूर्व कथ्यते । यतः। संल्लापे सिचयग्रहे कुचतटैस्पर्सेऽधरास्वादने नीवीविश्लथने च किं नु बहुना काले च तस्मिन्नपि । जल्पन्त्यप्रकटं निषेधवचनान्येवासकृत्कर्णयो- रङ्गीकारवचः पराम्बुजदृशां केन श्रुतं कथ्यताम् ॥१२९॥ इति । सखे, न जानासि । पराङ्गनानां सुरताभ्यनुज्ञा मन्दोदिता एव निषेधवाचः। किं ब्रवीषि-'किमिदैमहं न जानामि । क्रीडानिषेधोक्तिमयी यदासां निषेधगाथाप्यत एव शास्त्रे ॥१३॥ परंतु न तेषामपि निषेधवचसामवसरो" लब्धपूर्वः' इति । कथमविदिता- शयामनुवृत्तोऽसि । किं ब्रवीषि–'अस्ति किंचिदनुरागवीजम् । तथाहि । सव्याज सदनं समेयुषि मयि श्वश्रूसमक्षं तया ब्रीडामीषदिवामिनीय शनकैरुत्थाय यान्त्या बहिः। यत्किचिद्व्यपदिश्य सामिवलितग्रीवं पुनर्वीक्षितं तन्वङ्गया' इति । (सशिरःकम्पम् ।) विश्वसनीयमिदमनुरागबीजं भवति । किं ब्रवीषि- 'तत एव तत्र सुदृशि स्निह्यामि मुह्यामि च १३१' इति । यद्येवमद्य श्वो वा भविष्यति युवयोरफि मन्दाकिनीमरालयोरिव विनैवायासं समागमः । किं ब्रवीषि--'कथमिव तयोर्व्यतिकरः संवृत्तः' इति । शृणु। अन्योन्यं ललितैरपाङ्गवलनैराविष्कृताकूतयो- रौत्सुक्याकुलयोः कथं कथमिव प्राप्तक्षपामध्ययोः । १. 'पूर्व' ख. २. 'तटी' ख. ३ किमिदमहं न जानामि' ख-पुस्तके नास्ति. ४. किंचन' ख, ५. 'चलितैः' ख. -- ३८ काव्यमाला। दैवादायतने क्वचिन्मिलितयोः साशङ्कमुत्ताम्यतो- श्चेष्टाद्यैरभिजानतोरथ तयोरासीदनङ्गोत्सवः ॥ १३२ ॥ तत्किचित्कालं सोढव्यो विरहवेगः । किं ब्रवीषि-'कथं सोढव्यो- ऽप्रतीकारोऽयं मदनशरसंतापः' इति । ननु प्रेयसीचिन्तयैव प्रतिक्रियताम् । किं ब्रवीषि-~-'सखे, प्रतिकलमपि चिन्तयामि । कथं कामेषुदलितमङ्गमङ्गात्रणं भवेत् । प्रियागुणानुसंधानसंधानकरणी न चेत् ॥ १३३ ॥ तदपि संतापयत्येव संताप इति । वयस्य, अद्भुतमनङ्गहतकस्य चरितम् । निःसारं क्रमशो धनुः प्रतितरुः किं मार्गणैः किं गुणै- मन्दं स्यन्दति वा न वा तरुलतागुल्माहतः स्यन्दनः । लीनं पाथसि यस्य लक्ष्म च परं निर्दग्धमूर्तिः पुनः सर्वाङ्गीणमहो तनोति स कथं संतापमद्य सरः ॥ १३४ ॥ (पदान्तरं गत्वा । अग्रतो दृष्ट्वा च ।) सखे, पश्य पश्य । किं ब्रवीषि-'मैया सांप्रतमालोकनीयानामतिरमणीयानामाकृतीनां परं पारमालोकितमेनामा- लोकयता । मन्ये च तावदित्थम् । अस्या लावण्याम्बुनिधौ सरेण मथिते रोमावलीभोगिना निक्षिप्य स्तनमन्दरादिशिखरद्वन्द्वं कुरङ्गीदृशः। जातं लोचनवीचिकासु गरलं बिम्बाधरे चामृतं तेनाद्यं विदधाति तापमपरं तूज्जीवनं कामिनाम् ॥१३५॥ कि च। अधरे पल्लवरागो विटपसमाश्लेषविभ्रमो बाह्वोः। अस्या भुजंगभोगप्रागल्भ्यं स्फुरति किं च रोमाल्याम् १३६' इति । (पुनर्विलोक्य ।) स्तनाभोगो मध्यं तरलयति तावद्गुरुतया पृथुश्रोणीभारश्चलनमपि रुन्धे चरणयोः । १. 'प्रियानुगुणसंधानसंजीव' ख. २. 'संप्रति मया सांप्रतं' क. ३. 'विश्रमो' क. ४ 'पुनर्निर्वर्ण्य ख. wammer मुकुन्दानन्दभाणः। ३९ करालम्बं दातुं तदपि बत नासीदति सखी कथं कल्याणीयं मदभिमुखमुत्तिष्ठति हठात् ॥ १३७॥ किं ब्रवीषि-'कथमियं वयस्यमालोक्य चिरपरिचयसमुचितप्रणयेव सविनयमुत्तिष्ठति' इति । अथ किम् । इयमङ्गराजामात्यस्य कलानिधेः क. लत्रं चन्द्रिका नाम । किं ब्रवीषि-'केन पुनरनवद्याङ्गी गणिकापद्यामव- तारिता' इति । ननु भगवता भावजेनैव । किं ब्रवीषि-'युक्तमाह वयस्यः। विसदृशघटनाकुटिलं पङ्कजयोनि चिराय परिभूय । करुणाशाली कामः कान्तानां कान्तमनुगुणं कुरुते ॥ १३८ ॥ भवतु । तदियं वयस्येन गणिका सती परिगृहीता, किं वा कुलाङ्गना सत्येव' इति । (सावज्ञम् ।) किं गणिकाजनं गणयति साधारणो भुजंग इव तव प्रियसखो भुजंगशेखरः । किं ब्रवीषि- 'एवमेतत् । क्व पणावधिकं प्रेमनटनं पण्ययोषिताम् । पल्लवेषु परस्त्रीणां क्व च नैसर्गिको रसः ॥ १३९ ॥ कि च। शीलं नाद्रियते कुलं न मनुते नैवानुरुन्धे गुरू- नारीणां कुलदेवता किल पतिस्तं चाप्यहो मुञ्चति । कि बमः परयोषितः पुनरसावन्योऽनुरागक्रमः स्वप्राणानपि जातुचिन्न गणयत्येषा विटार्थे यतः॥ १४० ॥ इति । वयस्य, पणाशयैव परिभूयते गणिकाजनगौरवम् । न चेदेवं तदा अशङ्कितनखक्षतं पुनरलज्जमुक्ताम्बरं प्रवृत्तकरणक्रमं प्रचुरचुम्बनाडम्बरम् । सशब्दकरताडनं सपरिहाससंभाषणं न कस्य सुरतं मनो हरति वारवामभ्रुवाम् ॥ १४१ ॥ १. 'नासीदिति' क. २. 'भुजंगेश्वरः' क. ३. 'पणोफाधिक' ख. ४. 'मुक्ताम्बर- प्रवृत्त क.

४० काव्यमाला। (उपसृत्य । भुजं प्रसार्य) आस्यतामास्यतां तावदुपचारैरलं प्रिये । कासौ गुरुकुचाभोगः क्वेदमुत्थानसाहसम् ॥ १४२ ॥ (इति हस्ते गृहीत्वोपवेश्य ।) सखि, चिराय रूपानुरूपमनुवृत्तं वारव- नितावृत्तम् । किं ब्रवीषि -'भाव, किमेतावता संवृत्तम् । विचारयतु प- भवानेव । वल्लरीषु मधुपेन वल्गता पद्मिनी न परिभुज्यते यदि । किं फलं कितव सौरभश्रियः कर्दमादपि कथंचिदुत्थितः ॥१४३' इति । सखि, त्वदेकायत्तचित्तमपि मामन्यासक्तं संभावयसि । ननु नक्तंदिनमपि यत्तावत्पतिवाहुपाशवलयं विश्लेप्य निश्यागतं यत्कर्णे कथितं रहस्यमितरावेद्यं च हृद्यं पुनः । यच्चाप्यस्खलदिन्द्रनीलवलयं गाढं त्वयालिङ्गितं तन्मे तामरसायताक्षि नितरामावर्तते चेतसि ॥ १४४ ॥ कि चान्यदपि कथयामि । स्मरतु सखी । चिरं पत्या नक्तं मयि कृतकसल्लापिनि गृहे बहिर्व्याजाद्गत्वा सुमुखि निवसन्त्यां त्वयि पुनः । मया निर्यातेन स्मितरुचिनिरस्ते तमसि य- त्तदा वक्त्रं पीतं स्फुरति तदिदानीमिवै तव ॥ १४५ ॥ मयूरक, किं ब्रवीषि-'वयस्य, धन्यः खलु भवान् , यत एवमुदीरयन्ति पल्लवतल्लजाः। पति मुक्त्वा निद्राशिथिलभुजबन्धं चलितया कपाटं निःशब्दं लघु विवृतवत्या मृगदृशा । कचित्कोणे लीनो घनतमसि सांकेतिकगिरा समाहूतः स्वैरं विहरति तया कोऽपि सुकृती ॥ १४६ ॥ इति । १. 'वारवनितावृत्तम्' ख-पुस्तके नास्ति. २. 'विश्लेषयित्वा गतं' ख. ३. 'अपि' क.

मुकुन्दानन्दभाणः॥ ४१ सखि, सबीडविलक्ष किं ब्रवीषि-'अतएव . भवता लघुतामा नीता. मि' इति । (स्वगतम् ।) कथमियमुपालम्भगर्भवचनसंदर्भेण मामधिक्षिपति । तदेनामन्यतो नयामि । (प्रकाशम् ।) सखि, का सा कन्दुकक्रीडांकलित- कौतुकाक्रान्ता कान्ता । किं ब्रवीषि-'इयं ममैव मातृष्वस्त्रेयी मल्लिका नाम । मत्कृतस्नेहानुबन्धा बन्धुजनमतिसंधाय मामनुसंगता वर्तते' इति । (सानन्दम् ।) इदमपि ममैव भागधेयम्, यत्करगलितामिव काञ्चनोमिकामे- कामेव त्वां विचिन्वता मौक्तिकमालिकेव पुनरियं मल्लिका मया त्वया समं समासादिता । तदधुना यदि न कुप्यसि, किंचित्पृच्छामि । किं. ब्रवीषि-'पृच्छ' इति । (सानुरागम् ।) उन्मीलत्पुलकं कपोलतलयोरुद्धान्तमीषद्भुवो- रालोलं नयनान्तयोर्मयि पित्यास्यं प्रवालाधरम् । व्याधूतारुणपाणिकङ्कणरवव्यामृष्टमस्या वचो मा मा मुञ्च विमुञ्च मामिति मनः श्रोतुं समुत्कण्ठते ॥१४७॥ (सस्मितम् ।) किं ब्रवीषि-'त्वमेव तावदीप्सितमिमां पृच्छ, खयमेव सा कथयति' इति । भवतु तावत् । इमामालापयामि । (मल्लिकामालोक्य । अयि, पतन्नपि पयोजाति पादमूले तवासकृत् । कन्दुकः करलग्नोऽयमिति संताज्यते कथम् ॥ १४८ ॥ किं ब्रवीषि- 'पतितमपि पादमूले पश्चादुत्पतनशीलमविलम्बम् । कन्दुकमपि कापुरुषं करतललग्नं न ताडयत्का वा ॥ १४९॥ इति । अयि, किमेतावता हीयते । तरुणीपदपल्लवप्रहार तरुणानां परमं वदन्ति भाग्यम् । परिपाटलतत्करप्रहारः परिभावः किमयं वरोरु तेषाम् ।। १५० ॥ मयूरक, किं ब्रवीषि-'सखे, कथमस्याः कुलक्रमागतगणिकाक्रमाया इव १. 'वैलक्ष्य' ख. २. 'आनीताः स्म इति' ख. ३. 'कासौ' ख. ४. 'व्याख्यातं' ख. ५. 'अये ख. ६. 'कन्तुकः' ख. ७. 'पुनः' ख. ८. 'कन्तुकं' ख. ९. तरुणा ये' क. - .

४२. काव्यमाला। प्रत्यग्रगणिकाया अपि न लजाकणिका' इति । सुतनु, किं ब्रवीषि-'भाव, कुञ्जरमारुह्य किमिति कुटिलद्वारपथेन गन्तव्यम्' इति । (सबहुमानम् ।) साधु मल्लिके, साधु । सखे, किं ब्रवीषि-'नैवं खलु वक्तव्यम् । किंतु कथं वराहमारुह्य पुरीषं निषेद्धव्यम्' इति । मल्लिके, त्वमपि किं ब्रवीषि- 'अरे मयूरक, कुलत्थयूषार्थिनस्तव कुतो मन्दुरातुरगाधिकारः । गच्छ गच्छ । किं दाता किमदाता वा त्वम्' इति । सखे, किं ब्रवीषि--'कथमियं गणिकाया जननीव कथयति दुरक्षराणि । (अपवार्य ।) सखे, विरम वि- रम । कुटिलान्तरङ्गाः खलु कुरङ्गाक्ष्यः । किं ब्रवीषि--'कुटिलतरान्तरङ्गा इति वक्तव्यम् । किं च । किं ब्रूमहे कुटिलतीक्ष्णकठोरभावा नाङ्गेषु मान्ति सुशां किमुतान्तरङ्गे। यत्तावदाद्यमलकेषु दृशोद्वितीय- मुज्जृम्भते तदितरत्कुचकुम्भयोश्च ।। १५१ ॥ भवतु । चन्द्रिकामालोक्य सोढव्यम्' इति । चन्द्रिके, किं ब्रवीषि- 'मयूरक, त्वयि किंचित्प्रथममुदितमविनीतं तदनु यौवनमददुर्ललितायाम- स्यामपि किंचिदुदञ्चितम् । किमेतावता । पश्यतु कन्दुकक्रीडाचातुर्यमस्याः पल्लवपाणेः । अयि मल्लिके, मुधा मा कृथाः कलहं परिहासकुतुके मयू- रके । विहर तावत्कन्दुकेन' इति । (सहर्षमात्मगतम् ।) दिव्या मल्लिका- मयूरको समीकृतवती चन्द्रिका । (प्रकाशम् ।) सखे, पश्य पश्य । गुणिनमपि सुवृत्तं कन्दुकमालोक्य ताडितं तन्व्या । परिनृत्यति कुचभारः किं ब्रवीषि- 'कर्कशवृत्तस्य कुत्र कारुण्यम् १५२' इति । वयस्य, दीयतामितो दृष्टिः, यत्र शुकमालापयति शुकभाषिणी । (इति विलोक्य सकौतुकम् ।) १. 'श्चाङ्गेषु यान्ति' क. २. 'उदीरितं विनीतम्' क. ३. छन्दोभङ्गदूषितोऽयमार्या- - प्रथमपाद:.

मुकुन्दानन्दभाणः। आलापयन्त्याः शुकमायताक्ष्या मूर्ता मुखस्थाक्षरपतिरेव । विलोक्यतेऽस्या विमले कपोले ताटङ्कमुक्तामणिविम्बदम्भात् ॥ १९३॥ (श्रवणमभिनीय ।) कोऽयं कलकलः पौराणाम् । किं ब्रवीषि-'वयस्य, गत्वा निरूपयावः' इति । सखि, सावधानं तिष्ठ । (इति कतिचित्पदानि गत्वा पुरोऽवलोक्य सकौतुकम् ।) सखे, पश्य पश्य । अयमिह पौरानाकुलयत्यलं तत इतः पश्यन्पतत्यापणे व्यग्रानापणिकान्विवृत्य वदनं वित्रासयन्गर्जति । पाणिभ्यां युगपन्मुखेन च मुहुर्गृह्णाति मुद्ान्यवा- न्धावत्युत्पतति प्लवत्यपि कपिः प्रासादमारोहति ॥ १५४ ॥ (सहासम् ।) किं ब्रवीषि–'प्रतिक्षणविलक्षणं खलु प्लवंगचेष्टालक्षणम् । पश्य। 'लीलाचङ्क्रमणैविटङ्कशिखरश्रेणीषु लोलं चर- नासीनः क्वचिदूर्ध्वजानु कलयशेफःसमुज्जृम्भणम् । ब्रीडाकारिविचेष्टितैविनमयन्वक्त्राणि वामभ्रुवां पौराणां पुरतश्चरन्प्रहसनं प्रस्तौति शाखामृगः ॥ १६६ ॥ (श्रवणमभिनीय ।) अयमिदानी नाडीभेदविभिन्नकालकलनाविज्ञानसंसिद्धये दैवज्ञाभिहतादमन्दघटिकाघण्टामणेरुत्थितः । लोकानां श्रवणोत्सवं विरचयन्सन्धन्क्रमाद्रोदसी द्राधीयान्निनदः कदम्बमुकुलन्यायान्समुज्जृम्भते ॥ १५६ ॥ तदयं मध्याह्नसमयो वर्तते । (अर्ध्वमवलोक्य ।) सखे, पश्य पश्य । पादानुग्रतरपर्वतमस्तकेषु विन्यस्य सान्द्ररुचिरय सहस्रभानुः । अन्वेष्टुमन्धतमसं गहनेषुलीन- मारोहतीति गगनाग्रमयं प्रतीमः ॥ १७ ॥ १. 'उत्प्लवति' ख. २. 'कुतः' क.

काव्यमाला। किं ब्रवीषि-'मम तु पुनरेवं प्रतिभाति । कान्तारलीनमिव सन्तमसं विचेतु- माकाशपादपशिखामधिरुह्य भानुः । भूयोऽप्ययं पतनभीत इवाखिलाशा- शाखालि निजकरैयुगपद्विभर्ति ॥ १५८ ॥” इति । (समन्तादवलोक्य ।) अहो स्थावराणामपि शरणागतपरित्राणपरायणता पश्य पश्य । (अङ्गल्या दिनकरमण्डलं निर्दिश्य ।) रोषादेष करान्प्रसार्य कुरुते संनाहमहांपति- श्छायां नाशयितुं निजातपभयत्राणोद्यतामद्यताम् (पादपानिदिश्य।) एते भूमिरुहास्तु पल्लवकरैः संरुध्य भास्वत्करा- न्गोपायन्ति किं ब्रवीषि- न को नु वा परपरित्राणोद्यतं त्रायते ॥ १५९ ॥ परंतु छायापरिपालनं न पादपानां प्रशंसापदम् । ये पालयन्ति निरुपाधि फलादिभिः स्वैः पान्थान्कुतोऽपि विषयात्क्वचन प्रयातान् । खाकारमेव दधतीं स्वशरीरजातां छायां नपान्तु तरवः कथमातपात्ते ॥ १६० ॥' इति । (अन्यतो दृष्ट्वा ।) कमलोदरमकरन्दं सपदि कदुष्णं विहाय सानन्दम् । मदशिशिरकरटपालीमिभकलभानामुपैति मधुपाली ॥ १६१ ।। (कतिचित्पदानि गत्वा ।) इयमिह सिक्तं स्वेदपयोभिः सक्तं करजवणेषु चार्टेषु । सीत्कृतिसंकुचधरं कञ्चकमबला शनैरुदश्चयति ॥ १६२ ।।

मुकुन्दानन्दभाणः। किं ब्रवीषि-'एवमेतत् । उच्चैरुन्नमनाद्भुजालतिकयोरुन्ननितौ पार्श्वयो- रानाईनखत्रणाङ्कवलयावादर्शयन्ती कुचौ । बिभ्राणा चुवुकाञ्चलेन सिचयं बिम्बाधरापाटलं कान्ता मुञ्चति निःसहातपपरिश्रान्ता शनैः कञ्चकीम् ॥१६३॥ इति (पुनर्विलोक्य ।) कथमग्रत एव समुदग्रकनकदण्डकाण्डकलितपाण्डुरात पत्रपुण्डरीकमण्डलच्छायान्तरितधनातपा कापि कमलमुखी सखीकरमव लम्ब्य सलीलमभिमुखीभवति । (निर्वर्ण्य ।) करैहरिं हारं मुखपरिमलं मोहनशो रुचां नेता नेता कमलममलं बान्धवमिति । रुषा छत्रछद्मा तिरयति रवि शीतकिरणो दुरालोकं लोके रिपुविभवमालोकयति कः ॥ १६४ ॥ (सप्रत्यभिज्ञम् ।) कथमियमसदपहृतकौमारा नातिचिरादेव समग्रयौवना- वतारा तारा । यतः । उद्भेदं प्रतिपद्य पक्कबदरीभावं समेत्य क्रमा- त्पुनागाकृतिमाप्य पूगपदवीमारुह्य बिल्वश्रियम् । लब्ध्वा तालफलोपमां च ललितामासाद्य भूयोऽधुना चञ्चत्काञ्चनकुम्भजृम्भणमिमावस्याः स्तनौ विभ्रतः ॥ १६५ ॥ (आलिङ्गय । आत्मगतम् ।) अलं क्रोडीकर्तुं यदपहृतमप्यङ्गमभव- द्भुजेनैकेनापि प्रथमपरिरम्भे मृगदृशः । तदेवाद्य प्रेम्णा गतमपि मदेकैकरसतां न माति प्रोत्तुङ्गस्तनभरतया बाहुयुगले ॥ १६६ ॥ (प्रकाशम् ।) अयि, अपि नाम यदाकदाचन सरसि भुजंगशेखरम् । (सोपालम्भम् ।) किं ब्रवीषि-'किमिति स्मरामि कितवाचारं भवन्तम् । १. 'कंचुलीम्' क. २. 'लोको' क. ३. 'तारा' क-पुस्तके नास्ति. ४. 'अयि' ख-पुस्तके नास्ति. ५. 'कदा वा ख. मुकु०५ ४ काव्यमाला। मायाविन्यतिकर्कशात्मनि दयादूरे मृषाभाषणे मिथ्यावाह्यविडम्बनैकचतुरे श्रीकृष्ण किं मे त्वयि । आस्ते कोऽपि वियोगभीरुरनिशं कृष्णो ममान्तर्बहि- यै पश्यामि च संलपामि च मुहुःश्लिष्यामि हृष्यामि च ।। १६७॥ इति । (सहर्षमात्मगतम् ।) कथं वारयुवतिजातेरपि प्रेमभावबन्धुरं हृदयम् । (प्रका- शम् ।) सखि, जानामि ते साहजिकरागरमणीयं चेतः । भवतु । केयं पार्श्ववर्तिनी । यस्याः किंचित्किंचिदुदञ्चतीव वलयाकारेण वक्षःस्थली मन्दं मन्दमिवाधिरोहति वचोलीलाक्रमे वक्रिमा । स्तोकं स्तोकमिवाविरस्ति सरसबीडाविलासो दृशो- वरि वारमवेक्षते च मदनो वस्तुं वराङ्गया वपुः ॥ १६८ ॥ किंच। पदमधरदले विधाय रागः प्रविशति संप्रति मानसं मृगाक्ष्याः । पतति कुटिलतापि कुन्तलेभ्यो विपुलविलोचनलोलवीचिकासु ॥ १६९॥ किं ब्रवीषि-'भाव, इयं ममैव कनीयसी शशिरेखा' इति । (सप्रत्यभि- ज्ञानाश्चर्यम् ।) कथमेतावतैवानेहसा तावदियमियतीमाकृतिसंपदमधिगता। म- म त्विमामालोकयतः अव्यक्तवर्णमपि कर्णरसायनं य- प्रायः स्खलत्पदमपि प्रियदर्शनं यत् । आभाषणं च गमनं च तदेव साक्षा- दद्यापि मे भवति शैशववृत्तमस्याः ॥ १७० ॥ तदस्या अपि कौमारमहमेवापहरिष्यामि । मयूरक, किं ब्रवीषि- 'विदग्धः खलु भवान्मुग्धाङ्गनाजनमनोरञ्जनकलासु' इति । यद्येवमङ्गीक- रोति प्रेयसी तारा, तर्हि सफलं मे वैदग्ध्यम् । सखि, किं ब्रवीषि-'यदु- पभुक्तशेषं किल तयापिभोक्तव्यम् । गच्छ गच्छ । कठोरातपेन पादनखंपचे १. 'प्रेमबन्धुरं' ख. २. 'सहजानुराग' ख.

मुकुन्दानन्दभाणः । ४७ पथि किं वृथालापेन' इति । तर्हि गच्छ । वयमपि पुरोधानवार्टी प्रविश्या- तपमपनेष्यामः । सखे, पुरोधानपद्यां प्रदर्शय । किं ब्रवीषि—इत इतः' इति । (परिक्रम्यावलोक्य च सकौतुकम् ।) कथमत्र सरसि मध्याहिकस्नानमा- चरन्ति महीसुराः। (विहस्य ।) किं ब्रवीषि-'अनवरतजडाशयपरिचयादेव नूनमेषां श्रोत्रियजनानां प्रतिदिनमतिशेते मतिजाड्यम् । किं च । सिता- सितसरित्प्रमुखमहातीर्थराशेरतिमहत्तरमिदं मरकतनामकं सरः पारलौकि- कसुखसांधनमिति पौराणिककथामनुधावतामवनिसुराणामनिवारणीयमम्भोव- गाहनव्रतम्' इति । ननु रहस्यविदामत्रैव सुखमस्ति । यतः । दरहासविलोकनापदेशान्मिलिते यत्र सितासिते तटिन्यौ । सुदृशां पुरतो विगाह्य तस्मिन्सुखमत्रैव भजन्ति केऽपिधन्याः ॥१७१॥ अन्यच्च। भृङ्गोत्पलाम्बुरुहकम्बुमृणालकीक- शैवालवीचिसलिलभ्रमसैकतानि । यत्रेभहस्तकमठस्फुरितानि भान्ति क्रीडन्ति तत्र रसिकाः सततं सरस्याम् ॥ १७२॥ किं ब्रवीषि-'सखे, दीयतामितो दृष्टिः । अम्बुसिक्तविमलाम्बरान्तराद्विम्व्यमानजघनोरुमण्डलाः । उत्तरन्ति सरसोऽद्य बालिकाश्चित्तलोभकरसिद्धमूलिकाः॥१७३॥' इति । (दृष्ट्वा स्मरणमभिनीय ।) वयस्य, विमलसलिलासिक्तासक्ताम्बरप्रतिबिम्बितां मुहुरवयवश्रेणीमेणीदृशां मम पश्यतः । स्मरति तदलं चित्तं व्यक्तं यदारचयन्पुरा मुषितवसने मन्दं कुऑ गते मयि गोपिकाः ॥ १७ ४ ॥ पुनः किं ब्रवीषि--'इतोऽपि विततनलिनदलच्छायायां विकचराजीवराजी- विरंचितावतंसा राजहंसावली' इति । (निर्वर्ण्य ।) १. 'गच्छ गच्छ' क. २. 'श्रोत्रियजडानां' क-पुस्तके नास्ति. ३. 'गाथा' ख. ४. 'कमल' ख. ५. 'मन्द' क. ६. 'अपि' क-पुस्तके नास्ति..७, 'विरचितनिवासा' ख. ८. “निर्वर्ण्य' क-पुस्तके नास्ति.

काव्यमाला । , " छायामायतनालपत्रकपटच्छत्तोदितामाश्रिता कुर्वाणा निजपक्षपाति भुवनं कोशोदयामोदिनी । जानन्दं कविभाषितानि कलयन्त्याबद्धपद्मासना लक्ष्मी विन्दति राजहंसपरिषन्नामानुरूपामियम् ॥ १७६ ॥ (पदान्तरं गत्वा ।) इदमिदानीमविरलतरुनिकरनिवारितरविकरप्रवेशं रवि- करप्रकाशचकितगुरुतिमिरशरणीकरणीयलतागृहप्रवेशं वचन समुल्लसि- तशताङ्गमिव विकसदशोकशाखाभिः, क्वचिदुन्नतमातङ्गमिव निबिडतम- तमालतरुभिः, क्वचिदुदारतुरंगमिव क्रीडाकुरङ्गैः, कचन वाचालबन्दिवृन्द- मिव कलकलायमानकोकिलकुलैः, वचन पुरोत्तम्भितपताकमिव राजर- म्भाभिः, क्वचिदुद्भान्तकुन्तमिव 'फेतकीप्रसूनैः, क्वचिदुद्यतकरवालमिव चूत- प्रवालैः, क्वचिदुद्धृतातपत्रमिव शत त्रैः, क्वचिदुद्भूतचामरमिव चपलकलहंसैः, क्वचिदुपनतगीतमिव मधुरमधुकरझंकारैः, क्वचिदुदञ्चितनटनचटुलवारनि- तम्बवतीनिकुरम्बमिव मलयानिलचलितललितलताभिः, क्वचिदुपरचितविता- नमिव कायमानैः, क्वचिदुच्छ्रितपटमण्डपमिव कुसुमितलतानिकुंजैः समन्त- तश्च कुसुमशरनृपशिविरमिव पुनरनेन सकलेनापि स्फुरति पुरः पुरोद्यानम् । अपि च। मधुराप्सरोविलासा मधुरसकलनाकुलालिसहकारा । अक्षतरूपश्लाघ्या वनिताजनतेव भाति पुरवन्या ॥ १७६ ॥ किंच। अलिकलसदगरुर्तिलका चलदलकान्ता सुवर्णकृतमाला । तरुणवयोरमणीया तरुणीलीलां दधाति वनरेखा ॥ १७७ ॥ अन्यच्च । मृदुलवलिललितमध्यं पृथुलकुचं चारुविपुलभूजघनम् । पुंनागस्पृहणीयं स्फुरति वनं यौवनं च नारीणाम् ॥ १७८ ॥ १. 'दल' ख. २. 'कचिदुत्तम्भित' ख, ३. 'उपवन' क. ४. “निकुरवैः' क. ५. 'पुन: क. ६. 'अपि च ख.

मुकुन्दानन्दभाणः। ४ ९ (वनं प्रविश्य ।) सखे, पश्य पश्य । मन्दमन्दमुपगम्य मारुते मञ्जरीकुचकिशोरकस्पृशि । रागवत्यपि रसालवल्लरी पल्लवेन पिदधाति पाणिना ।। १७९ ॥ (पुनर्विलोक्य।) कोऽयमपरिशीलितसंनिवेश इव, आविष्ट इव, मुक्तचैतन्य' इव, मुषितेन्द्रिय इव, अनियतमितस्ततो विवशमेव कथंचन बलादात्मानं संचारयन्क्वचिदपि न विश्राम्यति । (निर्वर्ण्य !) किं ब्रवीषि-'वयस्य, कलहंसको मदनविह्वलः परिभ्राम्यति' इति । (उपमृत्य।) वयस्य, किमित- स्ततो भ्राम्यसि । किं ब्रवीषि-किं करोमि । अत्राकारितमत्र चुम्बितमिहाश्लिष्टं च हृष्टं पुन- स्तन्वङ्गयात्र विसृष्टमत्र शयितं रत्रैिव संभाषितम् । इत्थं कुञ्जगृहेषु तान्तसुमनस्तल्पेषु वीपीतट- क्रीडासैकतकेषु च प्रतिपदं भ्राम्यामि ताम्यामि च ॥१८०॥ इति । कया गणिकया मुषितचेतनो मुह्यसि । किं ब्रवीषि-'आः, किमुच्यते गणिकयेति । नैहि गणिकाजनकामुकस्तव वयस्यः । किंतु प्रभाकर- कलत्रस्य कमलिन्यः कैरपि विभ्रमैर्विभ्रान्तस्वान्ततया मेनागपि नात्मनः प्रभामि' इति । सखे, साधु साधु । उपरिप्लवस्वभावाः प्रायो गणिकाश्च तार्णकणिकाश्च । कथय कथं गाहन्तां रसिकानां मनसि सरसि च स्वरसात् ॥ १८१ ।। मयूरक, सशिरःकम्पं किं ब्रवीषि-'सदृश एव कमलिन्यां कलहंसस्य गानुबन्धः । अपि च तादृशमेव तदीयं सौन्दर्यम् । यतः । वीथीमुपैति यदि नाम विलासिनी सा देवोत्सवादिदिवसेषु यदाकदाचित् । व्याजात्कुतोऽपि विनिवृत्य पुरोजुषोऽपि पश्चाल्लगन्ति परिफुल्लदृशो युवानः ॥ १८२ ॥' इति ॥ १. 'भूताविष्टः' ख. २. 'कथं' ख. ३. 'ते' ख. ४. 'पद्मिन्याः कैरपि विलासैः'ख. ५. 'मनागपि' ख-पुस्तके नास्ति.

५० काव्यमाला। सखे, कलहंसक, कथय कथमनया सममनायासमत्रैवोद्याने मिलितोऽसि । किं ब्रवीषि-'कथमनायासमासाद्यते परकलत्रम् । शृणु तावत् । वीक्षाविभ्रमचेष्टितैरपि मनो विज्ञातुमेवाक्षम ज्ञातेऽप्यापितुं न शक्यमथवा संभाषितापि क्रमात् । नेतव्या ववशं कथं वशमथानीतापि कृच्छ्रात्क्वचि- निर्विघ्नं पुनरन्ततः परवधूरासाद्यते वा न वा ॥ १८३ ॥' इति । (आत्मगतम् ।) एवमेतत् । अत्रायं सौदामिनीकामुको मयूरक एवोदाह- रणम् । अथवा मय्येव तिष्ठति भग्नभागधेये किमन्यगवेषणया। (प्रकाशम् ।) एवमेतत् । किमालापः स्वैरं क्षणमपिः किमेकत्र वसतिः किमाश्लेषो गाढं किमु हृदयतृप्तिः किमथवा । रतान्ते विश्रान्तिः किमिह परकीयासु घंटते तदप्याश्चर्यं नः परिपतति तास्वेव हृदयम् ॥ १८४ ॥ तत्कथमासादिता कमलिनी वयस्येन । किं ब्रवीषि--'तत्कृते मत्कृता- यासो मासमेकं नक्तंदिनमपि कथ्यमानो न पार्यत एव । श्रुत्वा वा ततः किमस्ति प्रयोजनम् । फलितं तु कथयामि । सा खलु प्रथमावलोकनप्रभृति प्रकर्षेण वा प्राचीनपुण्यपरिपाकानाम्, अनुग्रहेण वा शुभग्रहाणाम्, आनु- कूल्येन वा कुलदेवतानाम्, अनुरोधेन वा मधुमासवासराणाम्, दाक्षिण्येन वा दक्षिणानिलानाम्, गौरवेण वा कोकिलगुरूपदेशानाम्, महिमातिशयेन वा मधुमदचपलमधुव्रतविरुतमन्त्राक्षराणाम्, प्रभावेण वा प्रसवरजःसिद्धचू- र्णानाम्, महत्तया वा मदनमहाराजविभूतीनाम्, किंबहुना स्वकीयेनैव पर- तापासहिष्णुना स्वभावतरलेन रसिकसमाजहृदयरञ्जनेन परप्रार्थनाभङ्गभी- रुणा निसर्गसरसेन प्रकृतिविशेषेण वा क्रमेणास्य जनस्योपरि ग्राहित- रागानुबन्धा बन्धूनपि श्वश्रूमपि श्वशुरमपि पतिमपि परिजनमप्यतिसंधाय कृतसमयबन्धा यदा यदा वयमेव मामभिगन्तुमुद्यतवती, तदा तदा नि- १. 'हृदयसाहित्यमथवा' ख. २. स्निग्ध' ख. ३. 'महाराजाज्ञा' ख. ४. 'सरसेन' मुकुन्दानन्दभाणः। .५१ द कारणवैरिणा सदृशसमायोगविघटनकुटिलेन परश्रेयोविघातकारिणा प्रकृ- तिदारुणेन करुणागन्धविधुरेण वात्सल्यकथानभिज्ञेन दुर्विदग्धेन विधिना बहूनपि वासरान्न केवलं विफलमनोरथा कमलिनी कृता, किंत्वेसावहमपि शोकमलिनीकृतः । ह्यस्तने तु पुनरहनि गभस्तिमालिनि शनैरतगिरिमस्त- ' कादवतीर्णे चरमार्णवमुपरि परिलग्नमयूखमञ्जरीभिरिव रविपतनपरिक्षुभित- जलधिजलोत्पतितवाडवशिखाभिरिव विरहिजनहृदयतार्णगृहवितीर्णपरि- शिष्टमदनविसृष्टदहनहेतिभिरिव संध्यारागरुचिभिरापाटलेषु पयोदपटलेषु, दुर्विषहर्तंदुष्णवेगासहिष्णुतयेव तारतरविरावमुखरमुखमभीक्ष्णकृतपक्षपुट- विधूननं शिशिरकुसुमरसपरागपिहितनिजहितकुलायमहीरुहं गतेषु विहं- गमेषु, तदात्व एव तदालोकनभयादिव श्रया घटितदलकवाटेषु कमल- वाटेषु, तत्कृतदुरन्तसंतापादिव संजातविस्कोटेषु कुमुदमुक्तास्फोटेषु, समुत्तु- ङ्गतदङ्गारकणिकास्विव दर्शितावतारासु तारासु, गगनतलगाढलग्नाभिरतिब- हुलतया पुनरवगलन्तीभिस्तदुज्ज्वलकज्जलधूलिभिरिव तिमिरपालिभिराक्रा- न्तेषु दिगन्तेषु, विस्फारतदीयविस्फुलिङ्गेष्विव विद्योतितविपिनाङ्गणेषु ज्यो- तिरिङ्गणेषु, किंच विफलजनचक्षुषि विस्फुरितसकलतारकारोचिषि प्रचीय- मानकौशिकगायुषि दूरदृश्यानलाचिंषि दूयमानचक्रवाकहृदयंप्लुषि चञ्चरी- कपरिपीयमानकुवलयमकरन्दविग्रुषि उद्वेलचकोरिकातृषि उन्मिषदोष- धिज्योतिषि उदग्रदीपिकात्विषि उद्बोधितकुसुमधनुषि शिशिरमरुदनुमीय- मानसरसि प्रनष्टसंध्यारागतेजसि अपरिदृष्टचन्द्रमसि अप्रविष्टचन्द्रिकाम- हसि तस्मिन्ननेहसि, प्रबलतमःपटलपटकृतावगुण्ठनतया केनचिदप्यल- क्ष्यमाणो निभृतपदक्रम क्रमात्प्रभाकरग्रहप्राङ्गणं प्रविश्य तस्मिन्नेव पूर्वकृत- संकेते स्नानगृहे न्यवसम्' इति । तर्हि संप्रदायज्ञोऽसि । १. 'संयोग' ख. २. 'सा विवाहमपि' क. ३. 'जठरोत्पतित' ख. ४. 'ग्रह' क. ५. 'पयोधर' ख. ६. 'तदुत्थ' ख. ७. 'गमेषु' क. ८. 'तदा तदाविलोकन' क. ९. 'विस्फोटासु कुमुदमुक्तास्फोटासु' क. १०. 'समुत्तरङ्गदुत्तुङ्ग ख. ११. 'वि- प्पषि' क. १२. 'स्नाननिकेतने ख.

५२ . काव्यमाला। स्नानालये वा ततनिष्कुटे वा गोष्ठेऽपि वा पुष्पकुटीरके वा। पराङ्गनाभोगपरेण यूना वस्तव्यमालोक्य विलोकशून्ये ॥ १८५ ॥ ततस्ततः । किं ब्रवीषि-'ततस्तस्या देवरस्तदेव गृहं गृहीतधूमवर्तिरङ्गा- रार्थी प्रविश्य समुपविश्य चुल्लीसमीपभुवि तत्रत्येनैव केनचित्प्लुष्टावशिष्टेन काष्ठेन गाढावनमितमूर्धा किंचिदुल्मुकमुज्ज्वलयन्, उपरि बैंद्धभस्मपरागमु- सारयन्, वदनमरुता यावदेव दरदृश्यमानाङ्गाररुचिभिरगारतिमिरनिकरं मदीयधैर्यसारेणैव सोकमपसारयति स्म' इति । हन्त, अत्याहितमत्याहितम् । 'ततस्ततः । किं ब्रवीषि–'तावदेव मदुपकण्ठगते सलिलकलशे मयैव निपाति- ते तदम्बुपरिवाहविगाहनसमसमयमेव सफूत्कारमुत्थितेन कदुष्णेन भस्मना युगपदेव नासानयनवदनविवरपानिना कमपि विकारमापादितः । तत्काल- मेव कलशपतनचकितपलायमानगृबिडालकं कलशपतनकारणं मन्यमानो मन्युना शपन्, काष्ठेन क्षिपन्, पक्ष्मपुटनासिकाधरश्मश्रूणि कराञ्चलेन परि- मार्जयन्, नष्टहुताशनतया निराशो निर्जगाम' इति । (सहर्षम् ।) दिष्टया पुनरुज्जीवितोऽसि । ततस्ततः । किं ब्रवीषि-'गत्वा च पञ्चषाणि पदानि पुनरेव निवृत्य वामकरण कवाटमाकृष्य बहिरायसकीलकेन बद्धा निर- गात्' इति । (सविषादम् ।) कष्टं कष्टम् । ततस्ततः । किं ब्रवीषि-'अथ कथंचन कंचिदिव समयं समवस्थितो मन्दं मन्दं कवाटपुटं विघटयितुमने- कधात्मानमायास्य नीरन्ध्रकृतवन्धतनया बहुभिरप्युपायैरशक्यविघटनमव- धारयन्नचिन्तयम् । तदा खल्विदं कवाटबन्धनमकिंचित्करं भवेत्, यदि ना- म सा प्रसीदति प्रेयसी कमलिनी । यदि च केनचिदन्तरायणोपहन्यमा- नया तया सदनान्निर्गन्तुमेव न पार्यते, तदा पुनरत्र गाढकवाटवन्धे धने- ष्टकारचितभित्तौ अभेद्योपरिपरिच्छदे संप्रच्छद्मनि दारुपञ्जरे बुद्धिपूर्वमा- त्मनैव निपतितस्य मम प्रभाते गृहपतिकरपतनमवश्यमसंशयमेव भवि- ष्यति । कोऽत्र प्रतीकारः । को वा निर्गमोपायः । का वा युक्तिः । किंवा १. 'कुञ्ज' ख. २. 'आलोकविलोक' ख. ३. 'उल्ललयन्' ख. ४. 'परिबद्ध' ख. ५. 'सह निःसारयति' ख. ६. 'सचूत्कार' ख. ७. 'आस्थितो' ख. ८. भवति' ख. ९. 'दृढेष्टका' ख. १०. 'सद्मनि दारुण ख. A मुकुन्दानन्दभाणः। • ५३ . शरणम् । कस्मै कथयामि । कथं गौरवं प्रतिपालयामि । कथं वा जनोप- हासं परिहरामि । कथं वा बन्धुगृहेषु चरामि । कथमपनेतव्योऽपवादः । कथमवलोकनीया गुरवः । सर्वथा. चोरं जारं वा व्यपदिशन्ति जनाः । किंच किमनुभूय महत्फलमेतावत्परिभवस्य भाजनता नीतोऽस्मि, यद- नुसंधाय सर्वमपि विस्मरामि । किं च । नालिङ्गितं घनपयोधरतुङ्गमङ्गं नास्वादितं मधुरमप्यधरप्रवालम् । नाघ्रातमाननपयोरुहमप्यमुष्या हन्ताधुनैव कथमापतितोऽन्तरायः ॥ १८६ ॥ इत्यादिकमामीलितलोचनमेवाकलयन्कमपि, पदशब्दमश्रौषम् । श्रुत्वा चो. न्मीलितनयनो द्वारसंधिविवरप्रविष्टैराय मिभिरिन्दुकान्तमयकुन्तानुकारि- भिरर्धावमथितगेहान्धकारैरपरिस्फुटाकारविशेषमर्थजातमुपदर्शयद्भिरनतिव- हुभिरिन्दुपादैरनुमितचन्द्रोदयसमयपरिमाणः साशं च साशकं च कवाट- विवरदत्तचक्षुरतिप्रौढचन्द्रातपतया निःशेषपरिस्फुटाकृति दरफुल्लमल्लिका- दामवलितकेशकलापं शशिकिरणपाशपरिवेष्टितमिव तिमिरपटलं शिरसा धारयन्तीम्, सदनवनविहारचकोरकवलितचन्द्रिकातुच्छप्रदेशानच्छकपोल- कान्तिपूरैरापूरयन्तीम्, श्रुतिपथविलङ्घनजङ्घालविपुलविलोचनवसतिसीमावि, भागहेतुना सेतुनेव नासावंशेनालंकृताम्, गृहदीपिकाविकासिकुमुदकुवलया. वलेपसारमपसारयितुमिव तत इतो दिक्षु कटाक्षान्विक्षिपन्तीम् , जाम्बूनदाम्ब 'रपरिपिहितावयवतया सहोदरीमोहमिलितयेव सौदामिनीलतया कृता श्लेषां विमलनखमणिप्रतिबिम्बदम्भकृतपादपतनं वदनकमलपराजितं चन्द्रमसं प. दक्रमापदेशेन पदे पदे विधूयावधीरयन्तीम्, गुरुकुचकुसुममञ्जरीमञ्जुलतनुल. तापरिमलतरलपटीरपवमानमन्तरान्तरा पर्यस्तपटाञ्चलोच्चलनकपटेन पाणि. कमलेन परिहरन्तीम्, प्रावृषमिव धनपयोधराम्, शरदमिव प्रसन्नसरसाश- याम्, चन्द्ररेखामिव चारुसुधाधराम्, समुद्रसंमदमिव समकरस्फुरितकंकणा. १. 'लोचनः' ख. २. 'इन्दुकान्तमयकान्तानु' ख. ३. 'चकोरकिशोरककवलित. च्छन्नप्रदेशान् ख.

काव्यमाला । न भिरामाम् , तारामिव सुग्रीवाधिरोपितहाराम्, सुयोधनसेनामिव कर्णावस- कगाङ्गेयाभरणाम् , सुमेरुधरामिव सुवर्णमेखलाम्, सुरवनीमिव सुरतरुचि- रोपगूढस्वान्ताम्, समग्रसकलावयवामपि दरदर्शितानङ्गविभ्रमाम्, सेनाम- प्यबलाम्, संजातसात्त्विकोदयामपि सान्द्रतमोविगाहनकुतूहलाम्, गुणानु- रागिणीमपि दोषागमोत्सुकाम्, परलोकभीतामप्यङ्गीकृतस्वैरभावाम् , तामेव कान्तामपश्यम्' इति । सखे, खरकिरणसंतापितोऽपि शिशिरकरकलामा- लोकते न किं कुमुदाकरः । ततस्ततः । किं ब्रवीषि-'ततस्तदवलोकनसु- धारसाप्यायितसकलावयवतया कमपि प्रमोदभरमन्तरासाद्य सद्य एव तया विघटितकवाटबन्धे प्रागेव दरविवृतकवाटपुटनिहितकरः पुरस्तात्प्रसार्य पूर्व- कायं कायजसाम्राज्यकलाम्, कमलिनी करेण गृहीत्वा तमेव मज्जननिवेशं प्रावेशयम् । प्रविश्य । धम्मिल्लं मम मुञ्च मुञ्च किमिदं गृह्णासि चेलाञ्चलं किमि हारस्युट्यति तिष्ठ तिष्ठ गुरवो निष्कारणाशङ्किनः । मन्दं जल्प गृहे पतिः स्वपिति मे धूर्तेति संलापिनी मामालिङ्गितवत्यमुक्तवसना सा सत्वरं प्रेयसी ॥१८७॥ इति । सखे, धन्योऽसि । यतः। वेश्या किं तव कञ्चकी श्लथयितुं वेणीग्रहं मा कृथा राज्यं नेदमराजकं तव बलात्कारेऽधिकारः कुतः । नीवीं मा स्पृश ते स्पृशामि चरणावित्यालपन्ती हठा- घेनालं परिरभ्यते परवधूः सोऽयं हि धन्यो युवा ॥ १८८ ॥ किं ब्रवीषि-'ततः पादाग्रेण कथंचन स्थितवती बाहू निधायांसयो- रुन्नम्योरसि मे गुरुस्तनभरेणोल्लेखनं कुर्वती । बाला चुम्बनलम्पटेव चपलं स्पृष्ट्वा कपोलस्थली- मासिञ्चन्मम कामपि श्रवणयोरालापरूपां सुधाम् ॥ १८९ ॥ १. 'भरमतिमात्रमासाद्य ख. २. “निर्गत' ख. ३. 'अकायसाम्राज्यकमला' ख. ४. 'मान्यो' ख. ५. 'वेश्या' क, ६ 'कबुली' क. ७. 'ततः' क-पुस्तके नास्ति. ८. 'लम्बितेव चपला' क.

मुकुन्दानन्दभाणः। यथा किल । अद्याहं शिरोवेदनापरिदूनेनार्यपुत्रेण श्वश्रूसमीप एव शयि- तुमादिष्टास्मि । श्वश्रूश्च मां प्रागेव शयनगृहं प्रस्थाप्य निद्रां प्रविश्य वर्तते । तदेहि तावत् । आवामराङ्गं पुरोधाने विहराव' इति । सखे, साधु मन्त्रितं तया । श्वश्रूसमीपशायिनीं मन्यते पतिः । पतिसविधशायिनी च. श्वश्रूः । तदुभयतोऽपि न शङ्कनीयम् । ततस्ततः । कि ब्रवीषि-'ततश्च विततनालिकेरतरुशाखादलवलयकायमानान्तरितचन्द्रकरधोरण्या तया तरुण्या तावदिदमेवोद्यानमानीतोऽस्मि । आनीय च सा संलापकेलिकरताडनसोपहास- ताम्बूलचुम्बनकचग्रहणैर्विलासैः। उद्बोधिताङ्गजतया स्वयमेन ताव- सावर्तत प्रथमतो रहये नतभ्रूः ॥ १९० ॥ सरण्या कि च। कण्ठाश्लेषिणमुन्नतस्तनभरश्रोणीतटग्राहिणं संसक्तोरुयुगं गृहीतजघनप्रावारमप्यन्ततः । प्रागेव श्लथबन्धमिन्दुवदना गाढावमसिहं विज्ञायात्यजदाशु काञ्चनपटं ब्रीडाकुलापि क्षणम् ॥१९१॥' इति । मयूरक, सहासं किं ब्रवीषि-'काञ्चनपटमित्यभिधाय मामुज्जीवितवानसि। यत आत्मानमेव तादृशमत्यजदिति कथयसीति भीतोऽसि' इति । (सस्मितम् ।) भवतु । ततस्ततः । किं ब्रवीषि-'वयस्य, ततः परम् । प्रागल्भ्य पुरुषायिते मम पुरः पश्येति संनद्धया तन्व्या ताम्यदुरोजयापि सुचिरं विक्रम्य रम्यं तया । श्रान्ता वक्षसि मे निपत्य च पुनः सापत्र सस्मितं साकूतं च समीक्षितं मृगदृशा यत्तत्कथं कथ्यते ॥ १९२ ॥ एवमनेकविधविहारैरायामवतीमपि यामवतीं विरामवतीमाकलय्य यावदेव पुनरहमेकवारमालिङ्गितुमुद्यतोऽस्मि, तावदेव १. 'परिद्यमानेन' ख. २. 'दागेव' क. ३. 'यतः किल' ख.

काराभ्यामाकृष्य वणितवलयाभ्यां सरभसं समासज्य खैरं कुचकलशयोरुत्पुलकयोः । गलत्काञ्चीदामन्यलघुनि समारोप्य जघने तया बद्धो गाढं तदनु सुकृती (इत्य|क्ते ।) वयस्य, सत्यमेव सुकृती भवान् । यतः । परिरम्भकेलिपरिहासभाषणे शमादृतोऽपि न वशं समेति यः । स वधूननोऽपि यतते यदि स्वयं ग्रहणाय तत्पुरुषपुण्यगौरवम् ॥ १९४ ॥ (सनिःश्वासम् ।) किं ब्रवीषि-'क्व वामेतादृशं सुकृतम्' इति । कस्तहि । किं ब्रवीषि। 'काञ्चनपटः ॥ १९३ ॥' इति । ततस्ततः । किं ब्रवीषि-ततश्च प्रभातप्रायेयं रजनिरजनि प्राग्गुरुजन- प्रबोधाद्गन्तव्यं विसृज विसृजेति द्रुतगतिः । पटान्ते लग्नं मां परिहृतवती पद्मनयना प्रयाता पश्यन्ती विवलितमुखेन्दुः प्रतिपदम् ॥ १९५ ॥ ततः प्रभृति अत्राकारितमत्र चुम्बितमिहाश्लिष्टं च हृष्टं पुन- स्तन्वङ्गयात्र विसृष्टमत्र शयितं चात्रैव संभाषितम् । इत्थं कुञ्जगृहेषु तान्तसुमनस्तल्पेषु वापीतट- क्रीडासैकतकेषु च प्रतिपदं भ्राम्यामि हृष्यामि च ॥ १९ ॥ मयूरक, किं ब्रवीषि-सखे' नक्तंदिवमपि तया किं तवाङ्कमारूढया भ- वितव्यम् । प्रयाता चेन्नक्तमागमिष्यति किमेतावता' इति । एवमेतत् । अतनुतापमपास्य निशि प्रभाकरकलत्रमसौ मुकुलस्तनीम् । कमलिनीमचिरात्कलहंसको रमयतीति वयस्य किमद्भुतम् ॥ १९७ ॥ किं ब्रवीषि-'यदि तावदनेहसं प्रसूनमार्गणो मार्गणानुपसंहरिष्यति ततः १. 'तथ्य ख. २. 'मम' ख. ३. 'भवति रजनी' ख. ४. 'तदा' ख. ५. किमु वावता' ख. ६. 'उपसंहरति' ख.

मुकुन्दानन्दभाणः । शुभोदक भविष्यति न भविष्यति वा' इति । मयूरक, किं ब्रवीषि- 'सखे, प्रमदवनपालिकां मरालिकामाहूय कलहंसकस्य शिशिरोपचारं का. रय' इति । (स्मरणमभिनीय स्वगतम् ।। प्रियाप्रस्थानवृत्तान्तावगमाय प्रेषिता किल मया वनपालिका मरालिका । भवतु । (प्रकाशम् ।) वेदानी मरा- लिका । कलहंसक, किं ब्रवीषि-'वयस्य, मरालिकानामग्रहणेन स्मृत्वा कथयामि । सा खल्वितः पूर्वस्मिन्नेव मुहूर्ते वयस्यमेव सुचिरमितस्ततो- ऽन्विष्यान्विष्यानुपलभ्य क्वापि मत्सकाशमागत्य 'अये कलहंसक, तव प्रियसखो मुकुन्दश्चिरमन्विष्टोऽपि न दृष्टः । तदागते तस्मिन्निदं तस्य करे समर्पणीयम्' इति स्वकरकुसुमपुटिकान्तरादुद्धृत्य पत्रिकायुगलं मदुप- कण्ठे निधाय मया पुनरपि 'त्वमेव तदागमनपर्यन्तं स्थित्वा गच्छ' इति मुहुरुदीरितापि 'ननु तावदहं राजवल्लभेन मन्दारेण पुराबहिरद्य नक्तं का. लिकाया बल्युत्सवं कारयता कुसुमानयनायादिष्टास्मि । तत्क्षणमपि विल- म्बितुं बिभेमि' इत्युक्त्वा गतवती' इति । (सहर्ष स्वगतम् ।) विजहाति वक्रिमाणं विधिरधुना तावदीपदिव । शुभसूचकान्यमूनि श्रूयन्ते कतिचिदक्षराणि यतः ॥ १९८ ॥ अद्योत्सवदिने नूनं कन्यकापत्यवत्सलः । प्रस्थापयति मन्दारो भर्तुर्गेहं न मञ्जरीम् ॥ १९९ ॥ ततस्तत्रैव मरालिका कालिकायतनोद्याने प्रियतमा पूरयिष्यति में मनो- रथमिति तर्कयामि । (प्रकाशम् ।) सखे, एकां तावदुपनय पत्रिकाम् । किं ब्रवीषि-'इदं गृह्यताम्' इति । (गृहीत्वा विलोक्य ।) कथमिदं प्रियाकब. रीभारपरिमिलितं केतकीदलमेव । तदेव निर्दिश्य प्रियावियोगविधुरं ममेवाकृतिनस्तव । परिम्लानमभूदङ्गं केतकच्छद तत्कथम् ॥ २००॥ अथवा। आनीय सस्मितमुखीभिरलं सखीभि- नद्धोऽसि मुग्ध इव वेणिकया नताङ्गयाः । १. 'समीपं ख. २. 'मे' क-पुस्तके नास्ति. ३. 'कैतकदलं' ख. मुकु०६ ५८. काव्यमाला। हे केतकच्छद तयैव नखैलिखन्त्या भुक्तस्त्वमेव सुकृती पुनरेष नाहम् ॥ २०१॥ सखे, किं ब्रवीषि-वाचय' इति । (प्राकृतमाश्रित्य वाचयति ।) सत्थि महा- भाअस्स । एसा गच्छमि मन्दभाइणी पइभवणम् (क)। (सास्रम् ।) व- यस्य, अतःपरं न शक्नोमि वाचयितुम् । कम्पः पाणेः श्लथयति बलात्केतकीबर्हमेत- चक्षुर्बाष्पं स्थगयति ततो नैव बध्नाति लक्ष्यम् । चेतो मोहप्रसरकलुषं बुध्यते नापि किंचि- जातं शून्यं शिव शिव जगत्प्रस्थितेति प्रिया मे ॥ २०२॥ तत्त्वमेव वाचय । (गृहीत्वा ।) किं वाचयसि । ओहरइत्ति पई मं पिअ मा पज्जाउलो तुम होहि । सो हरइ ताव अङ्ग अत्ताणं हरइ तुइ कहं लग्गम् ॥२३॥ अण्णं अ॥ सीसम्मि कदुआ पाणी सदवारं णाह विण्णवेमि काऊण मइ सिणेहं मा णिअकाअम्मि णिद्दओ होहि ।। २०४ ॥ (ख) (सोच्छासम् ।) अतिसाहसमारूढमियतैव प्रिये त्वया। असाविदमपि शृण्वन्हन्त प्राणिमि कर्कशः ॥ २०५ ॥ वयस्यौ, किं ब्रूथः- 'सखे, सर्वथा नास्मिन्दिवसे तस्या प्रस्थानं भवति । (क) स्वस्ति महाभागस्य । एषा गच्छामि मन्दभाग्या पतिभवनम् । (ख) अपहरतीति पतिर्मा प्रिय मा पर्याकुलस्त्वं भव । स हरेत्तावदङ्गमात्मानं हरति त्वयि कथं लग्नम् ॥ अन्यच्च । शीर्षे कृत्वा पाणी शतवारं नाथ विज्ञापयामि त्वाम् । कृत्वा मयि स्नेहं मा निजकाये निर्दयो भव ॥ तुमम् । " A १. 'लिखित्वा' ख. २. 'वाचयेति' क-पुस्तके नास्ति. ३. 'संभवति' ख.

मुकुन्दानन्दभाणः। परंतु श्वशुरकुलमाकुलयितुं तस्याः पतिहतकेन केवलं विचेष्टमानेन भ- वितव्यम् । तथाहि । मृष्टान्नेषु मृषारुचिः सुवसने दर्पादिवानादरः सान्त्वोक्तौ कुटिलोक्तयः किल सुहृद्भावेऽपि सासूयता । प्राप्तेषूत्सववासरेषु च पुनः सद्यः प्रयाणोद्यम- स्तजामातृपदाङ्कितो न कुरुते किंनाम दुश्चेष्टितम् ॥ २०६॥' इति । प्रकृतिरेवेयं मूर्खाणां यत्प्रस्तुतेषु प्रतीपाचरणम् । किं ब्रवीषि-'इमा. मपि पत्रिकां शृणोतु वयस्यः' इति । (साशङ्कम् ।) सखे, बिभेमि श्रोतुम् । (पुनः सधैर्यम् ।) किमितोऽधिकं दारुणं भविष्यति । वाचय वाचय । किं वाचयसि -'स्वस्ति समस्तविलासिनीजलमस्तकमणिस्तोमनीराजितचरण- नखमण्डलाय विटमण्डलाखण्डलाय युव तेहृदयानन्दकन्दाय मुकुन्दाय । सादरमिदमाकलनीयं वयस्येन वचनं बालमित्रस्य वीतिहोत्रस्य । मा प्रस्थिता प्रियतमेति कृथा विषाद प्रागेव सा पुनरुपैति गृहान्प्रदोषात् । मा भारती मम मृषेति च जातु शङ्का ज्योतिर्विदां व्यभिचरन्ति वांसि नार्थात् ॥ २०७ ॥ तत्कतिचिदेव कालं सोव्यः संतापः' इति । (विहस्य ।) सायमागन्तुमेव किल महोत्सवमप्यनादृत्य पत्या तामादाय प्रातर्गतम् । किं ब्रवीषि-व- यस्य, मा मैवम् । न खलु दैवज्ञा मृषाभाषिणो भवन्ति । तदा प्रदोषं प्रतिपा- लनीयमेव' इति । किमेवमपि वक्तव्यम् । प्रतिपाल्यत एव यावत्प्राणधार- णम् । किं ब्रवीषि-किं नाम करणीयम् । अकारणवैरिणा देवेन दारुणम- मासु त्रिष्वपि प्रदर्शितम् । अत्र भवितव्यतैव भगवती प्रभवति' इति । भवतु। कश्चन कथाप्रसङ्गः प्रस्तूयतां वासरशेषमतिवाहयितुम् । (इतरेतरमव- लोक्य ।) किं ब्रूथः-'किमप्रस्तुतेनान्यकथाप्रस्तावेन । यदेव तावदाकर्ण- १. 'मिष्टानेषु' ख. २. 'किं वाचयसि' क-पुस्तके नास्ति. ३. 'बाल्य' ख. ४. “वृथा' ख. ५. 'नार्थम' ख. ६. 'सोढव्याः संतापाः' क. ७. 'मागतमेव' क. ८. 'तावत्' क. ९. 'बूथः' ख.

काव्यमाला। H- यितुमावयोरद्भुतजलनिधिमग्नमन्तःकरणम्, तदेव मञ्जरीसमागमसंविधानमा- नुपूर्येण कथयतु वयस्यः' इति । (किंचिन्मुखमैवनम्य ।) किमनेन कथितेना- कथितेन वा विफलेन मनोरथेन । तथापि प्रियसहचरयोरनुयोगो न प्रत्या- देशमहतीति कथयामि तावत् । आकर्णयतं वयस्यौ । किं ब्रूथः-'इमावव- हितौ स्वः' इति । अस्ति किल समस्तसुरमस्तकमणिस्तबकपालीदीपाली- नीराजितचरणनखस्य चरणानतचतुर्मुखस्य भगवतो भागवतहृदयमन्दिरा- भरणस्य श्रीमदिन्दिरारमणस्य निरन्तरतरङ्गदभङ्गुरोत्सवनटनरङ्गं निखि- लनगरोत्तमाङ्गं निशाकरपुष्करिणीपरिष्कृतोत्सङ्गं कवेरकन्यकाकृतपरिष्वङ्गं कनकगोपुरोत्तुङ्गं वन्दनमालिकावलदनेकभृङ्ग वन्दारुजनपापभङ्गं वैजयन्ति- काचुम्बितगगनगङ्गंगगनगङ्गाधौतसौधशृङ्गशृङ्गाटकनटत्क्रीडाकुरङ्गं कुरङ्ग- लोचनापाङ्गतरङ्गितानङ्गमनङ्गमद बटुलवारकान्तावशीकृतभुजंगं जङ्गमगाङ्गे यगिरिगुरुशताङ्गं शताङ्गचरणकरपरिचरणपरिणतमत्तमातङ्गं मार्तङ्गमदज- लासिक्तरथ्यानटत्तुरंगं तुरंगखुरदलितकुट्टिमसमुत्थितपरागपरम्परापिहितप- तङ्गं पतङ्गमणिमण्डपमण्डनशुकसारिकाक्रियमाणहरिकथाप्रसङ्गं संगतनिग- महृदयान्तरङ्ग श्रीरङ्गम् । कि ब्रूथ: -'अस्त्यसकृदवलोकितमध्यासितं च । सह्यक्ष्माधरतुङ्गशृङ्गघटितप्रालम्बमानोल्लस- कावेरीपरिवाहरश्मियुगलीपर्यन्तपर्यङ्किका । मन्ये रङ्गपुरीति व्यत्र भगवान्वातूलतूलाञ्चिते तल्पे कल्पितकौतुकः कमलया दोलासुखं ढौकते ॥ २०८ ॥ ततस्ततः' इति । कदाचन किल कमलाहृदयकमलभृङ्गराजस्य रङ्गराजस्य- चैत्रोत्सवावलोकनप्रसङ्गाद्वसन्तकसंतानकप्रमुखैः प्रियसखैः सह रङ्गनगरी गतः । तत्र तैस्तैरुत्सवैरमन्दकन्दलितमानन्दमनुभवन्कतिचन दिनान्यनै- षम् । एकदा तु कलकलायमानकोकिलकुलकण्ठगर्जिततर्जितपथिकजनन- यनबाप्पधारापूरपूरितसरणीपु मधुमदचपलमधुकरतरलवकुलमुकुलगलित- मकरन्दधोरणीषु चन्दनमरुदान्दोलितलताकुसुमपरागपुलिनशबलितासु कु- सुमावचयकुतुकपौराङ्गनाचरणचङ्क्रमणरणन्मणिम मञ्जीरमञ्जुलरवाकृष्ट- १. 'निमग्नं ख. २. 'अवनमय्य' ख. ३. 'चरत्' ख. ४. 'पराङ्गना' ख. K- मुकुन्दानन्दभाणः। कलहंसधवलितासु क्रीडाकुरङ्गकिशोरककवलितदूर्वाङ्कुरासु वनदेवताकर- कलितबलिकुसुमकोरकितशशिकान्तमणिवेदिकासु कवेरजातटवनवीथिकासु कदाप्यदृष्टपूर्वतया निसर्गरमणीयतया च तस्य देशस्य चित्रीकृतहृदय- स्तत्र तत्र संचरन्कंचन चञ्चलापुञ्जमिव जलदावतीण पञ्चबाणकलितमिव- काञ्चनलतालीलावनं कृतभूतलावतारमिव तारकानिकुरम्बं तरुणीकदम्ब- मालोकयम् । किं ब्रूथः-'ततस्ततः' इति । वदनपरिमलाशावल्गदिन्दिन्दिराली- वलयशिखिशिखण्डच्छन्नशालिन्यधोधः । युवतिजनकदम्बे मञ्जरी तत्र दृष्टा नवकिसलयलेखामण्डले मनरीव ॥ २०९ ॥ तया च। कालिन्दीपुलिनेषु मे विहरतश्चेतोदुकूले चिरं चित्रं गोपवधूमयं विरचितं चेतोभुवा यत्पुरा । तन्वङ्गया मम दृक्पथेन रभसादन्तः प्रविश्य क्षणा- त्तत्सर्वं निजकान्तिकुङ्कुमरसैः कोपादिव क्षालितम् ॥ २१० ॥ मयूरक, किं ब्रवीषि-'अपि नाम तादृशी रूपसंपत्तिः' इति । कलहं- सक, किं ब्रवीषि-'कथमन्यथा हृदयमवगाहतां वयस्यस्य इति । अथ किम् । अमृतमयपयोधिमजयोनौ हरिणकिशोरडशो मुखापदेशात् । कलयति गलितो य एकबिन्दुर्जगति बभूव स एव नूनमिन्दुः॥२११॥ अपि च। कुन्ताः कुटिलगन्ता दन्ता नवकुन्दकुसुमसामन्ताः । (निःश्वस्य ।) चिन्ता मम तु दुरन्ता तथापि संग्रहेण कथयामि। वान्ता तडिदेव वारिदात्कान्ता ॥२१२॥ १. 'जालान्यधोधः' ख. २. 'कुन्द' क-पुस्तके नास्ति. ३. 'संक्षेपेण ख.

६२ काव्यमाला। किं ब्रूथः--'ततस्ततः' इति । ततश्च तासु यथाभिलषितं तत्र तत्र लता- कुलेषु कुसुमावचयं कुर्वतीषु स्वयमेकैव सा मञ्जरी मदनमदकुञ्जरीव तत इतश्चरन्ती वचन माकन्दलतामन्दिरद्वारवेदिकामधिरुह्य वसति मयि किं चिदिव विवर्तितवदना मदनावेशतरङ्गितान्यपाङ्गानि व्यापारयति स्म । तथाहि । स्वच्छन्दमेत्य मयि न प्रसृतानि कामं खावास एव निभृतं न पुनःस्थितानि । लक्ष्यान्तरेऽपि च न लब्धपदानि तस्याः पारिप्लवानि पथि केवलमीक्षितानि ॥ २१३ ॥ किंच। स अन्यासु तासु कुसुमान्युपचिन्वतीषु कुलेषु मञ्जु मदकुञ्जरगामिनीषु । सा मञ्जरी तु मम सामिविलोकितेन चेतोमयं जलजमाहरदेकमेव ॥ २१४ ॥ कि बहुना। पादाभ्यामुपरुद्धमूरुयुगलीयन्त्रेण निष्पीडितं मध्येनानृतमूर्तिना मृगदृशो नाभौ बलान्मज्जितम् । व्याकृष्य त्रिवलीषु रोमलतया वक्षोजशैलाग्रयोः क्षिप्तं वीक्षितसायकैर्मम मनो विद्धं च बद्धं कचैः ॥ २१५ ॥ किंच। आयातं कचभारबन्धनगृहादास्यामृताम्भोनिधौ स्नातं दन्तपटीपटीपरिहितं नेत्रोत्पलालंकृतम् । चेतो मे विनिवेश्य चित्तजनुषा वक्षोजसिंहासने साम्राज्ये पुनरभ्यषेचि सुदृशः स्मेरापदेशामृतैः ॥ २१६ ॥ १. 'आनतमूर्तिना' ख. २. 'कोमलतया' ख. ३. 'अस्या मुखाम्भो' क.

मुकुन्दानन्दभाणः। ३ किं ब्रूथः- 'स्थाने खलु मनोजन्मनो जनकसमाराधनानुरोधः' इति । वयस्यौ, मा मैवम् । अनियतमनङ्गहतकस्य सौहार्दम्, यतस्तेनैन पुनः अवचितकुसुमाभिस्ताभिरालीभिरेषा कथमपि पुरमारात्प्रस्थिता यावदेव । शिव शिव मम तावञ्चित्तजेनाशु चित्तं प्रमथितमवदीर्णं चूर्णितं धूणितं च ॥ २१७ ॥ वयस्यौ, किं ब्रूथः-'अव्यवस्थितचित्तस्य प्रसादोऽपि भयंकरः इति सत्यमेव संवृत्तम् । ततस्ततः' इति । ततश्चान्तरान्तरा सव्याजविवलित- मुखी सुमुखीमारादिवानुसरंस्तदगारद्वारपर्यन्तं गतोऽस्मि । तदेन्द्रजालसंरम्भं समजृम्भयनङ्गजः। प्रविष्टामपि गेहं तां यन्मे प्रवेशयन्मनः ॥ २१८ ॥ अथ तावदशिथिलावयवैसंधिबन्धमज्ञातकैतवकथागन्धं सिन्धुमिव जडाश- यम्, जलदमिव पयोवाहम्, जलदकालमिव घनमषीमलिनाम्बरम्, प्रल- यानलमिव दग्धकाष्ठावलिम्, हरमिवाग्निविकारलोचनम्, नारायणमिव भक्तानुकूलव्यापारम्, शेषमिवोदग्रदर्वीकरम्, गरुडमिवाधिगतमहानसम्, कृष्णमिव क्षालितकंसमालिन्यम्, राममिव मारीचमथनम्, भीमसेनमिव दलितज्वलितकीचकशतम्, शक्रमिव पाकशासनम्, मत्तमातङ्गमिव करपि- ष्टनॉगरम्, वैयाकरणमिव विदितस्वरसव्यंजनप्रक्रियम्, वैशेषिकमिव द्रव्य- गुणक्रियाजातिविशेषतत्समवायक्रमाभिज्ञम्, मीमांसकमिवार्थभावनास्वरू- पज्ञम्, सुकविमिव विज्ञातशिखरिणीभेदम्, पण्डितमिव परिचितसकलर- सपरिपाकम्, कमपि कजलमेचकं पाचकमपश्यम् । स च वसन्तकमुखेन पृष्टः स्वभावसरलतया तस्याः सकलमपि नामकुलशीलादिकमकथयत् । तथा हि-यथा किल इयमस्मत्स्वामिनो मलयस्य स्नुषा माधवस्य कलत्रं मञ्जरी नाम्नी मन्दारस्य नन्दिनी । इयमद्य श्वो वा बन्धुकुल- दिदृक्षया नवीननगरं गमिष्यति । यत्र पितुर्मन्दारस्य मन्दिरम्' इति । १. 'वयस्यौ' क-पुस्तके नास्ति. २. 'अपचित' क. ३. 'सकलावयव' ख. ४. दग्ध' ख. ५. 'नागरङ्ग' ख. ६. 'विक्रिय' ख. ७. 'तथा हि' क-पुस्तके नास्ति. 'प्र- ६४ काव्यमाला। वयस्यौ, किं बूथः- 'अहो परमार्थवादिता याचकस्य । ततस्ततः' इति । ततः कतिपयदिनान्तर एव सा नवीननगरमिदमागता । पश्चादहमपि । अत्र च मयीव तस्यामप्यपक्षपातं दर्शितदर्पे कंदर्प तत्र भगवत्या ज- टावत्या विदिततदभिप्रायया परमकारुणिकया स्वयमेव तीर्थयात्राप्रसङ्गेन कालिन्दीतीरवृन्दावने विज्ञातपूर्व मामुपगम्य कृतप्रणाममाशीभिरभिनन्ध 'वत्स मुकुन्द, कथं कन्दर्पसुन्दरायां कन्दलति तव तनाविन्दाविव तानवम् । किमेतदध्वश्रमाद्भवेत् , आहोस्विदिष्टबन्धुविप्रयोगात्, किंवा मदनधनुश्चे- ष्टितादित्यसकृदनुबध्यानुयुक्तो मनस्येव किं मामुपहसितुम्, किमवधीरयि- तुम्, किं वा निग्रहीतुम्, किं वानुग्रहीतुं पृच्छति । किमस्यै संवरणीयं कि- वरणीयं वेति क्षणं विचिन्त्य पुनरेव कुतो महाभावानामनुग्रहार्दन्यत्राभिनि- वेशो भवेदिति कृताध्यवसायः सानुपूयं भगवत्यै मदनवेदनां न्यरूप- यम् । वयस्यौ, किं ब्रूथः- 'वयस्य, सम्यगध्यवसितम् । ततस्ततः' इति । सा च तदाकर्ण्य 'वत्स, एवमेव वत्सयापि बाल्यात्प्रभृति मन्दक- लालितया मञ्जर्याप्यभिधाय सप्रार्थनं वत्ससकाशं प्रहितासि । शृणु तस्याः समवस्थाम्। सूते बालरसालपल्लवततिः श्वासाहता मर्मर पाणिस्पर्शनशोषिताः सुमनसो भ्रश्यन्ति वृन्तैः समम् । म्लायन्ते नयनान्तवान्तसलिलैहीं हन्त दूर्वाङ्कुरा- दावस्पृष्टमिवाद्य निष्कुटवनं तन्व्या दरीदृश्यते ॥ २१९ ॥ तद्भद्र, नोपेक्षणीया बलवदुःस्वस्था बाला' इत्यभिहितवती भगवतीम् 'अयमहं- प्रियायाः साहजिकानङ्गतरङ्गितैरपाङ्गैरेव प्रथमं क्रयविक्रयाहदशामासादि- तोऽसि । विशेषतश्चाद्य तत्रभवत्याः प्रसादेन । तद्यथाभिलषितं नियुज्यस्व' इत्यवोचम् । किं ब्रूथः-'सांप्रतं भगवत्यां न्यस्तभारोऽसि । ततस्ततः' इति । ततः सा भगवती दीर्घ निःश्वस्य । रूपलावण्यसौन्दर्यसंपदा समयोर्द्वयोः । प्रेम्णा च युवयोर्हन्त परिपन्थी वृथा विधिः ॥ २२० ॥ १. 'मदनदुश्चेष्टिता' ख. २. 'अन्यथा' ख. ३. 'सा तु' क. ४. विक्रयाहो' ख.

मुकुन्दानन्दभाणः। .६५ तदमुना निष्कारणवैरिणा विहन्यमानो मत्प्रयत्नः कथं शुभोदर्को भवि- प्यति । अथवा त्रिलोकविजयिनो मन्मथस्य व्यवसितुं कथं नाम विघट- यतु कुटिलधीरपि विधिः । भवतु । समयमन्विष्य योजयिष्यामीत्युक्त्वा तप्रभृति तया कृतो बहुविधोऽपि प्रयत्नो मदीयदुर्विधिपाकादेव प्रति. हतः । ह्यस्तु पुनर्मन्दारारामे सा मे भगवत्या जटावत्याः प्रसादाप्रियतमा मञ्जरी करतललैंग्नेव । किं ब्रूथः-'चिराय फलितं प्रियसखस्य मनोर- थेन' इति । ('सनिःश्वासम् ।) नहि नहि । किं तु फलोन्मुख एव भन्नः । वयस्यौ, किं ब्रूथः--'कथं कथम्' इति । (सविषादम् ।) कुले कोमलशाद्वले पदमिह द्रागर्पितं वा न वा किंचिच्चाटु चमत्कृतं च वचनं किं व्याहृतं वा न वा साकूतप्रणयं च सामि नयनं व्याारितं वा न वा तन्व्या हन्त तदन्तरे विधिवशात्तस्याः प्रबुद्धः पतिः ॥ २२१ ॥ अद्यतनस्तु वृत्तान्तः प्रियवयस्ययोविदित एवास्ति । किं ब्रूथः - 'भवतु । किमेतावता । अस्मिन्दिवसे फलिष्यत्येव ते मनोरथः' इति । (विहस्य।) नूनमद्यैव फैलिष्यति, यस्मानियतमा पत्या समं प्रस्थिता । किं ब्रूथः 'सखे, अपि नाम विस्मृतं वीतिहोत्रप्रेषितं पत्रम्' इति । (दिशो विलोक्य ।) विस्मृतप्रायमेव, यदयं प्रदोषसमयोऽप्युपनतः । तथा हि । द्रागैन्द्रीमनुचुम्ब्य सस्मितमुखीमामोदिनी पद्मिनी कृत्वासौ परिरम्भसंभ्रमपरिश्रान्तां च वारश्रियम् । संरक्तोऽहिमभानुरद्य , समाश्लिष्यत्यही रागिणीं काश्मीरोपलसत्पयोधरभरां कान्तां दिशं वारुणीम् ॥२२२ ॥ . कि च। पुराणरश्मिजालेषु सस्तेष्वस्तावलम्बनम् । विम्बमम्बुरुहां नेतुरम्बरादवलम्बते ॥ २२३ ॥ १. 'निहन्यमानो' ख. २. 'अथवात्र ख. ३. 'विपाकेनैव' ख. ४. 'लग्नैव' क. ५. 'भविष्यति' ख. ६. 'ब्रवीषि' क. ७. स्त्रियम्' क. ८. 'चरमां श्लिष्यत्यहो' क.

काव्यमाला । अपि च। जगदिव बहुलातपाभितप्तं जनयितुमद्य जलाभिषेकशीतम् । परिधृतरविशातकुम्भकुम्भा प्रचलति पश्चिमवारिधिं दिनश्रीः ॥२२४॥ किं च । पतति रविरपूर्ववरिराशौ हृदि पथिकस्य यथात्मभूर्हताशः। प्रसरति च तमां तमःप्ररोहः प्रतिपदमस्य यथा मनोविमोहः ।। २२५ ॥ कि ब्रूथ:- 'अभिभूय सतामवस्थिति जडजेषु प्रतिपाद्य च श्रियम् । जगतीपरितापकृत्कथं जलधौ नावपतेदसौ रविः ॥ २२६ ॥' इति । (अन्यतोऽवलोक्य सकरुणम् ।) हन्त हन्त । चरमाचलपरभागं चक्षुर्जगतामगाद्यावत् । हा तावदेव कोको दूंनावन्योन्यमगमतां दूरम् ॥ २२ ॥ (पुनर्विलोक्य ।) कथमित एवागच्छति भगवती जटावती । (सप्रश्रयम् ।) भ- गवति, इत इतः । (किंचिदुत्थाय ।) भगवति, प्रणम्यसे । किं ब्रवीषि- 'वत्स, अचिरादेवाभिमतं लभस्त्र' इति । (सनिर्वेदम् ।) कथं ममाप्यभि- मतलाभः । किं ब्रवीषि–'अद्यैवोपनतमित्यवधार्यताम्' इति । (सहर्षम् ।) कथमिव । किं ब्रवीषि-'अर्धपथात्पुनरागता मञ्जरी' इति । वयस्यौ, किं ब्रूथः-'अहो सूनृतवादिता पुरोहितपुत्रस्य वीतिहोत्रस्य' इति । कथं नाम ज्योतिर्विदां वितथवादिता भवेत् । (सस्पृहं स्वगतम् ।) अन्तर्मनोजदहनोष्णशिखावलीढ- श्वासोपरोषपरिपाण्डुलसत्कपोलम् । मद्वीक्षणक्षणभवन्नवकान्तिपूरं द्रक्ष्यामि तद्वदनवारिरुहं कदा नु ॥ २२८ ॥ किं ब्रूथः--'भगवति, किं पत्यैव पुनरानीता' इति । भगवति, किं वदसि नहि नहीति । (सप्रमोदं स्वगतम् ।) तर्हि कथमागता प्रियतमा। किं ब्रवीषि- 'शृणु । यावदेवैनामादाय क्रोशमात्रं गतो माधवस्तावदेव तत्पित्रा मलयेन १. 'चरमां' क. २. 'अद्य' क. ३. 'यूनां' क. ४. 'वत्स वत्स' क. ५. 'कथमित्र कथमिव' क. ६. 'वयस्यौ' क-पुस्तके नास्ति. ७. 'कदाई' ख. ८. 'ब्रवीपि' ख. - मुकुन्दानन्दभाणः । प्रेषितं पत्रमुपनतम्' इति । किमिति प्रेषितं पत्रम् । किं ब्रवीषि-'इदानीं राजोपप्लवाद्रङ्गनगरं विहाय मधुरां गताः सः । तद्वत्सा मञ्जरी कृतिचन मासांस्तत्रैव मातृभवने स्थातुमर्हति । त्वं तावदेतत्पत्रिकावलोकनात्परं न क्षणमपि विलम्बितुमर्हसि' इति । वयस्यौ, किं ब्रूथः--- 'वयस्य, दि- श्या तव प्रसन्नाः कुलदेवताः' इति । (सौत्सुक्यम् ।) ततस्ततः । किं ब्रवी. षि-'ततस्तां मञ्जरी तत्सहोदरं खच्छगुच्छं च पुनर्निवलं तेन पत्रिका- नेत्रा सद्वितीयः प्रस्थितो माधवः' इति । (सविस्मयानन्दम् ।) हन्त पत्यपदेशेन मृत्युना हरिणेक्षणा । कला चान्द्रीव तमसा वियुक्ता सहसा कथम् ॥ २२९ ॥ क्वेदानीं प्रेयसी । किं ब्रवीषि-'भद्र, भवद्विरहविह्वलामध्वपरिश्रम- खिन्नां मन्यमानो मन्दारो मन्दिर एव मरालिकाद्वितीयां मञ्जरीमास्थाप्य सकलबन्धुकुलसमेतः कालिकामाराधयितुं बाह्योद्यानं गतः' इति । अन्य- दप्यनुकूलं भगवत्याः प्रसादेन । क्षणमात्रं ध्यानारूढा भगवती कलहंस- कमयूरको प्रति किं वदति- 'वत्सौ, युवयोरपि दिष्टया फलिष्यति मनोरथः । तदवश्यं व्याप्रियतामभिमतविषयेषु' इति । मयूरक, किं ब्र- वीषि-'कलहंसकस्य कमलिनी करतलगतैव वर्तते । मम कथं मन्दभा- ग्यस्य प्रकृतिचपला सौदामिनी प्रैसीदेत्' इति । (पुनरपि ध्यात्वा ।) कि ब्रवीति भगवति–'मयूरक, पूर्वेचुर्जाग्रतो गुरुंजनाभीता सौदामिनी प्र- तिनिवृत्ता । न खल्वस्यामपि रजन्यां तथा करिष्यति' इति । वयस्यौ, किं ब्रूथः-'न खलु ज्ञायते किं वा भविष्यति' इति । आः, कथं भग- वत्या वचनेऽपि विचिकित्सा । (श्रवणमभिनीय ।) कथं पदशब्द इव श्रू- यते । (विलोक्य ।) कथं सत्वरं मरालिका समापतति । भगवति, किं ब्र- वीषि-'भद्र,.. सांप्रतमसह्यवेदनया वत्सया प्रेषितेयं भविष्यति' इति । (पुनर्विलोक्य ।) कथं प्रत्यासन्नैव । किं ब्रवीषि-'कहं विलम्बीअदि। . । ....१. 'राजकार्यो' क. २. 'त्वं तावत्' इत्यादि 'अर्हसि' इत्यन्तं क-पुस्तके नास्ति. ३. 'स्वच्छं च' ऊ. ४. 'मरालको ख. ५. 'प्रसीदतीति' ख. ६. "विज्ञायते' ख.

काव्यमाला। महुरसविसलित्तमग्गणेहिं कुसुमसरेण हैदाएँ हा सहीए। णिबइअ मैलआणिलो हदासो हर हर जीविदसंसरं करेदि ॥२३०॥ (क) (संस्कृतमाश्रित्य ।) किंबहुना। सेचं सेचं तुहिनसलिलैलॊचने विक्षिता सा खादं स्वादं हिमकरघटे का दशां ते वदामि । श्रोत्रे शश्वन्मलयजदलैः श्रूयतां वीजयित्वा प्राणास्तन्व्यास्तव करतले तत्र देवः प्रमाणम् ॥२३१॥' इति । भगवति, किं ब्रवीषि-वर्यताम् । यावदेव नोदयशिखरिशिखरमँधिरो- हति तुषारकरः' इति । एवमेतत् । तिमिरतिरोहित एव समये समुपसर्प- णीयाः स्वैरिण्यः । (सर्वतोऽवलोक्स ।) आपूरितमिदं श्यामतमसंतमसैरलम् । ब्रह्माण्डमण्डलं भाति सकजलकरण्डवत् ॥ २३२ ॥ कलहंसक, किं ब्रवीषि- 'सर्वे ध्वान्तमिदं वदन्तु बहुधा सिद्धान्त एवं तु नः वाधारेषु करेषु पुष्करमणेः स्रस्तेषु नूनं शनैः । अस्तालम्बतयाम्बरेण पतता ग्रस्ते समस्ते जग- त्युन्मीलत्करकन्दलैरंथ विधोस्तत्तावदुत्तार्यते ॥ २३३ ॥ इति । वयस्य, सम्यगुक्तम् । मरालिके, किं ब्रवीषि- 'कंदप्पचन्दणसमीरणकोइलाली- कोलाहलाउलमणा मह दाव आली । (क) कथं विलम्ब्यते । मधुरसविषलिप्तमार्गणैः कुसुमशरेण हेताया हा सख्याः । निपत्य मलयानिलो हताशो हर हर जीवितसंशयं करोति ॥ १. 'सित्त' ख. २. 'हदाइ हा सही ईक. ३. 'मअआणलो' क. ४. 'वीक्षते' ख. ५. 'हिमकरघटि:' ख..६. 'त्वर्यतां त्वर्यताम्' ख. ७. 'आरोहति' ख. ८. 'स- मपसर्पणीया स्वैरिणी' ख. ९. अपि' क. १०. "सिक्त' ख. ११. 'हता हि हा सखी में क. १२. 'निपतति मदनानलो' क.

मुकुन्दानन्दमाणः। - चन्दोदए जदि पदे घणचन्दिआ वि Jणं भवे अहह दावहदा लदे व्व ॥ २३४ ॥ ता तुवरिजदु' (क) इति । अये कलहंसक, मयूरक, युवाभ्यामपि भग- वत्युपदेशक्रमेण व्याप्रियताम् । इयं भगवती मरालिका च मां त्वरयतः । किं ब्रूथः—'अथ किम् । वयस्य, साधय साधय' इति । मरालिके, म- न्दारसदनमार्ग दर्शय । किं ब्रवीषि-'देव, इदो इदो' (ख) इति । (कतिचित्पदान्यतिक्रम्य ।) कथं क्षणेन मन्दारोद्यानमागतोऽसि । (विलोक्य सविस्मयम् ।) कथमिहानुदितेऽपि चन्द्रमसि चन्द्रिकाप्रसरः। मरालिके, किं ब्रवीषि-'ण क्खु चन्दिआपसारो एसो। देव तुह दंसणादो तरुणीए हरिसगिब्भरङ्गीए । कन्दलइ मन्दहासो कन्दलिआणन् कन्दलो व्व मुँहात् ॥२३५॥ ता पेक्ख मेक्ख । इमाए वाणी महुरसवेणी वेणी महुमत्तमहुअरीसेणी । खोणी विसालसोणी एणीणअणा वि मअणसरतूणी ॥२३६॥ (ग) (क) कंदर्पचन्दनसमीरणकोकिलालि- कोलाहलाकुलमैना मम तावदालिः । चन्द्रोदये यदि पतेद्धनचन्द्रिकापि नूनं भवेदहह दावहता लतेव ॥ तत्त्वर्यताम् । (ख) देव, इत इतः । (ग) न खलु चन्द्रिकाप्रसर एषः । देव तव दर्शनात्तरुण्या हर्षनिर्भराङ्गयाः । कन्दलति मन्दहासः कन्दलितानन्दकन्दल इव मुखात् ।। तत्पश्य पश्य । एतस्याः वाणी मधुरसवेणी वेणी मधुमत्तमधुकरीश्रेणी। क्षोणी विशालश्रोणी एणीनयनापि मदनशरतूणी ॥ १. 'पूर्ण क. २. 'कतिचन' ख. ३. इयमार्या क-पुस्तके गद्यान्तः पातिता. ४. 'मुहादो' ख. ५. 'मला' क. ६. 'त्वर्यतां त्वर्यतां' क, ७. 'तत्प्रेक्ष्य प्रेक्ष्य अस्याः क.

काव्यमाला । भगवति, किं ब्रवीषि-'एवमेतत् । अमुष्या लावण्यं मृदुलमृदुलानप्यवयवा- न्मनोलौल्यं धातुः करकठिनतां मे विमृशति । पदं चित्ते धत्ते मतिरिति पुरा पङ्कजभुवा ध्रुवं कल्याणीयं कलितसुकृतैरेव रचिता ॥ २३७ ॥ तदुपसर्पतु वेत्सः' इति । (उपसृत्य सचमत्कारम् ।) प्रणये प्रतार्यमाणे कृष्णभुजंगेन कोकदंपत्योः । चकित इव चित्रमेतत्पार्श्वे वर्तयति बहिणं चन्द्रः ॥ २३८ ॥ - कुचदुर्गराजधान्योर्मध्येमार्ग मृगीदृशो मदनः । किमकृत नाभीवापीमपि रोमालीतमालवनरेखाम् ॥ २३९ ॥ मरालिके, लज्जया किंचिदिव संभ्रान्तां मञ्जरी प्रति किं ब्रवीषि- 'ओणेहि सुमुहि दूलं वीलां विस्सासघाइणी झत्ति । जा संमुहे वि दइए कितवा विमुहीकरेदि तुमम् ॥ २४ ॥(क) प्रिये, किं ब्रवीषि-'सहि, इमो माआवी महाभाओ जदा मह दिट्ठिपहं गतो तदो जेव दूलं पलाइदं वीलाए अणुप जेव कुलवुत्तेण अ' (ख) इति (सस्मितम् ।) मरालिके, किं ब्रवीषि- 'अणुवट्टिअ सेरगई अम्बां अजं वि अणुसरिअ । सैरं चरमाणाए ण तुए लुत्तं सुवेणि कुलवुत्तम्।।२४१॥' (ग) इति । (क) अपनय सुमुखि दूरं ब्रीडां विश्वासघातिनी झटिति । या संमुखेऽपि दयिते कितवा विमुखीकरोति त्वाम् ।। (ख) सखि, अयं मायावी महाभागो यदा मम दृष्टिपथं गतस्तदैव पलायितं ब्रीडयानुपदमेव कुलवृत्तेन च । (ग) अनुवर्य स्वैरगतिमम्बामार्य चानुसृत्य । स्वैरं चरमाणाया न त्वया लुप्तं सुवेणि कुलवृत्तम् ॥ १. 'कठिनकरतां मे विमृशतः' ख. २. 'भवान्' ख. ३. 'प्रतीयमाणे' ख. ४. 'केकिन ख. ५. "किं च' क-पुस्तके नास्ति.

मुकुन्दानन्दभाणः । प्रिये, मरालिका कर्णोत्पलेन ताडयन्ती समितं किं ब्रवीषि-'हला म. रालिए, कहं अम्बं वि परिससि' (क) इति । भगवति, किं ब्रवीष्टि 'आ शतसंवत्सरान्तमस्त्येव कुलवृत्तम् । अयं तु दुर्लभः स्वाभिमतविषयानु- भवः' इति । प्रिये, अपि नाम श्रुतो भगवतीनिदेशः । प्रिये, सस्मितं किं ब्रवीषि—'ण केवलं सुणीअदि अनुट्ठीअदि अ' (ख) इति । कथं भग- वत्युपदेशेनाकलङ्कहृदया प्रेयसी संवृत्ता । भगवती किं ब्रवीति- 'निसर्गादेव युवयोनिरूढप्रेमबन्धयोः । निशायितं मया जोषं कैरविण्यजयोरिव ॥ २४२॥ इति । प्रिये, किं ब्रवीषि—'पेक्ख पेक्ख । एदं कन्दलइ चन्दबिम्बम्' (ग) इति । अयि, इन्दुना मम किमब्धिबिन्दुना सिन्धुना च पुनरस्य बन्धुना । आनने जयति ते वरानने चञ्चले च कलिते दृगञ्चले ॥ २४३ ॥ (प्राचीमवलोक्य ।) कथमुदितमेव विरहिजनप्राणजगत्प्राणफणिना हरशिरो- मणिना । तथा हि । कलितमम्बरमाकलयन्करैर्मुदितपङ्कजकोशपयोधरः । विकसदुत्पलनेत्रविलोकितः सखि निशां सरसीकुरुते विधुः ॥ २४४ ॥ किं च । आलोक्य चन्द्रमसमभ्युदितं समन्ता- दुद्वेल्लदुर्मिविचलत्कलशाम्बुराशेः विष्वग्विसारिपरमाणुपरम्परैव ज्योत्स्नात्मना जगदिदं धवलीकरोति ॥ २४५॥ (क) सखि मरालिके, कथमम्बामपि स्पृशसि । (ख) न केवलं श्रूयतेऽनुष्ठीयते च । (ग) प्रेक्षस्व प्रेक्षस्व । इदं कन्दलयति चन्द्रबिम्बम् । १. 'भगवति, किं ब्रवीषि' ख. २. 'विलसत् ख.

૭૨ काव्यमाला। भगवति, किं ब्रवीषि---- 'एवमेतत् । भास्वत्कर्कशशाणचक्रकषणैराकाशकालायसा- द्यचूर्ण निबिडं निपत्य तम इत्याख्यां जगत्यामगात् । तेच्छेन्दुच्छलसिद्धपारदमहाबिन्दोः समायोगतो जातं रूप्यरजोमयं वयमिदं ज्योत्स्नां समाचक्ष्महे ॥२४६ ॥ इति । अहमेवं तर्कयामि । समयशबरो व्योमारण्ये सुधाशनमक्षिका- -विहितसुधाबिम्बक्षौद्रस्फुरत्पटलं प्रति । कलयति कलङ्काख्यं धूमं निपीड्य पुनश्च त- त्किरति मधुरज्योत्स्नाक्षौद्रं महीतलभाजने ॥ २४७ ॥ अपि च । दष्टे जगद्वपुषि कालभुजंगमेन तत्रान्धकारमिषमाविरभूद्विषं यत् । संजातलक्ष्मणि तदिन्दुमणौ निपाय्य ज्योत्स्नामये पयसि तं क्षिपति स्म धाता ॥ २४८॥ अथवा । आयताग्रसितरश्मिनिबद्धं लाञ्छनछविमषीरसदिग्धम् । चन्द्रकैतवमरुत्पटचक्र क्रीडयोत्सृजति किं स्मरबालः ॥ २४९ ॥ कि च। दिग्यन्त्रतस्तिमिरचूर्णविशेषपूर्णा- दुद्गत्वरॊडुमयरञ्जकविस्फुलिङ्गात् । कालेन पूर्वगिरिदुर्गजुषा प्रयुक्तो वृत्तोपलो विधुमिषात्पथिकान्हिनस्ति ॥ २५० ॥ अथवा नायं चन्द्रः। शम्बरारिरमृतं विषगर्भ चन्द्रबिम्बकपटाप्रयुनक्ति यद्वहिः सितमथासितमन्तः प्रोषितान्दहति दर्शनमात्रात् ॥ २६१ ।। १. 'शोणकोणकषणः' ख. २. 'यश्चन्दोश्चल' क. ३. 'सुविहित' ख. ४. 'चन्द्रका. बनमषी' ख. ५. 'यन्त्र' ख. ६. 'मयरम्वुक' ख.

मुकुन्दानन्दभाणः । प्रिये, किं ब्रवीषि-'सच्चं कहेइ महाभाओ। णिसग्गवैरी खु एसो विर- हिजणस्स' (क) इति । मरालिके, किं ब्रवीषि-'कहं विअ सहासी- अलो संदावेइ चन्दमा' (ख) इति । सत्यम् । नेत्रमग्निमयमङ्गजशत्रोः संप्रतार्य सुचिराश्रयणेन । दाहशक्तिमपहृत्य तदीयां चन्द्रमा दहति नूनमयुक्तान् ॥ २५२ ॥ (सविमर्शम् ।) इन्त, चिरादप्यनेन हताः स्मः । तदद्य प्रियासाहाय्यादसं- जातभीतिरेनमुपालभे । (चन्द्र प्रति ।) खण्डशस्तव निकृन्तति कालो मण्डलं यदमृतस्य हिमांशो । अर्जितस्य हननात्पथिकानां पातकस्य सदृशः स हि दण्डः ॥ २५३ ॥ अथवा त्वञ्चरितविलोकनेन दुर्मनायमानस्तवैव तातो नित्यमुपालभते । तथा हि। विप्रयोगिहननाय वृथा मे जातवानिति कथं जठरात्त्वम् । उद्यतोर्मिकरताडितवक्षाः क्रन्दति त्वदुदयेऽम्बुधिरिन्दो ॥ २१४ ॥ भगवति, किं ब्रवीषि—'मा मवैम् । लोकानुग्रहतत्पराः खलु चन्द्रमदन- मलयानिलादयः । अतो नोपालम्भमर्हन्ति । यतः । कामानलेन मलयानिलबोधितेन कोरुः कलाद इव शीतकरः प्रताव्य । स्त्रीपुंसयोः प्रणयटङ्कणतो द्रवत्वं नीत्वा मनःकनकमेकरसीकरोति ॥ २५५ ॥ इति । (सप्रश्रयम् ।) तर्हि प्रणमामि । स्फुरदिन्दीवरानन्दनाडिंधमकराङ्कुरम् । वृन्दारजीवजीवातुं वन्दे शिवशिरोमणिम् ॥ २५६ ॥ (क) सत्यं कथयति महाभागः । निसर्गवैरी खल्वेष विरहिजनस्य । (ख) कथमिव स्वभावशीतलः संतापयति चन्द्रमाः । १. 'मन्दानिला ख. २. 'काम' ख.

७४. काव्यमाला। - M (श्रवणमभिनीय ।) चञ्चूपुटचञ्चञ्चन्द्रिका मधुरविरावैश्चन्द्रादेशाचकोरिकाः किं वदति- 'मुकुन्द मञ्जरीमेतां मुदा त्वं शरदां शतम् । आनन्दय यथानन्दमिन्दुरिन्दीवरश्रियम् ॥ २६७ ॥' इति । भगवति, किं ब्रवीषि-'तथास्तु' इति । (सविनयम् ।) अनुगृहीतोऽस्मि । पुनः किं ब्रवीषि-~~-'किं ते भूयः प्रियमुपकरोमि' इति । (सविनयम् ।) किमितोऽपि प्रियमस्ति । तथापीदमस्तु भरतवाक्यम् । वर्षन्तु कामं भुवि वारिवाहा गोब्राह्मणेभ्यः कुशलानि सन्तु । हृष्यन्तु सन्तः सुकविप्रबन्धस्तेषां च शाम्यन्तु खलोपसर्गाः ॥२५८ ॥ मुकुन्दानन्दनाम्ना मे भाणेनानेन तोषितः । कमलाकामुकः कामं कल्लोलयतु मङ्गलम् ।। २५९ ।।- कृति लसदलंकृति रसविदो बुधा ये मम प्रसन्नहृदया दयाजलधयो बहूकुर्वते । तदीयपदपद्मयोरयमयं प्रणामाञ्जलिः सरोजमुकुलाकृतिः शिरसि संततं न्यस्यते ॥ २६० ॥ इति श्रीमत्काशीपतिकविराड्विरचितो मुकुन्दानन्दनामा भाण: संपूर्णः । १. 'चकोराः ख. २. 'कमलैकमनाः' ख, ३. 'धार्यते' ख.

निर्णयसागर छापखान्यांत विक्रीस तयार. काव्यमाला. - या नांवाचे संस्कृत मासिक पुस्तक, सन १८८६ चे जान्युअरी महिन्यापासून प्रसिद्ध होत आहे. यांत उत्तम उत्तम प्राचीन संस्कृत काव्य, नाटके, चंपू, भाण, प्रह- सनें, छंद, अलंकार इत्यादिकांचा यथावकाश संग्रह होत असतो. फार प्राचीन आणि अत्यंत सुरस असेच ग्रंथ निवडून ते या मालेत गुंफले जातात. महामहोपाध्याय पं. डित दुर्गाप्रसाद या नांवाचे विद्वान्, बहुश्रुत आणि शोधक गृहस्थ जयपूरच्या महाराजांचे आश्रयास होते. त्यांनी काश्मीर, पंजाब, बंगाला, राजपुताना, मध्यदेश, तैलंगण, वगैरे सर्व प्रदेश फिरून नानाप्रकारचे काव्यग्रंथ संपादित केले होते. त्यांतील कित्येक ग्रंथ तर ८०० किंबहुना १००० वर्षांच्याही पूर्वीचे होते. ते सर्व ग्रंथ रा०रा० काशिनाथ पांडुरंग परब यांनी आमांस तपासून दिलेले या मालेत येत जातात. ज्या ग्रंथांच्या टीका उपलब्ध आहेत, ते ग्रंथ सटीक छापले जातात; परंतु टीकारहित ग्रंथांतील दुर्बोध शब्दांवर टिप्पणी देण्यात येते. शिवाय कवींचे वृत्त, काल व ग्रंथ इत्या- दिकांविषयी माहिती जागोजाग दिली जाते. या मालेचे अंक प्रतिमासास एकदां प्रसिद्ध होतात. प्रत्येक अंकांत डेमी अष्टपत्री सांच्याची १०० पृष्ठे असतात: याची वर्षाची आगाऊ किंमत ६ रुपये, ट.ख. १२ आणे. फुटकळ अंकाची किंमत. १० आणे. ट, ख. १ आणा. हैं मासिक पुस्तक आज नर वर्षे एकसारखें निघत आहे. यांत आजपर्यंत ग्रंथ छापूर वायाप झाले आहेत, त्यांची नांवें:- १. गोवर्धनाचार्यकृत आर्यासप्तशती, अनन्तपण्डितकृत टीकेसहित. किंमत १॥ रुपया. ट. ख. २ आणे. २. रुद्रटकृत काव्यालंकार, नमिसाधुकृत टीकेसहित. किंमत १॥ रुपया. ट. ख. १॥ आणा. ३. मङ्खककृत श्रीकण्ठचरित काव्य, जोनराजकृत टीकेसहित. किंमत २॥ रुपये. ट. ख. २॥ आणे. ४. राजशेखरकृत कर्पूरमञ्जरी सहक, वासुदेवकृत टीकेसहित, आणि बालभारत ना. टक. किंमत १ रुपया. ट. ख. १॥ आणा. ५. मुरारिकृत अनर्घराघव नाटक, रुचिपत्युपाध्यायकृत टीकेसहित. किंमत २ रुपये. ८. ख. २॥ आणे. ६. शेषकृष्णकृत कंसवध नाटक. किंमत ८ आणे. ट. ख. १ आणा. ७. बिह्रणकृत कर्णसुन्दरी नाटिका. किंमत ८ आणे. ट. ख. १ आणा. ८. हरिचन्द्रविरचित धर्मशर्माभ्युदय काव्य. किंमत १ रुपया. ट. ख. २ आणे. माधवभट्टप्रणीत सुभद्राहरण श्रीगदित. किंमत ४ आणे. ट. ख. ॥ आणा. १०. क्षेमेन्द्रविरचित समयमातका काव्य. किंमत ८ आणे. ट. ख. १ आणा. ११. अभिनन्दकृत कादम्बरीकथासार काव्य. किंमत ८ आणे. ट. ख. १ आणा. १२. जगन्नाथपण्डितराजकृत रसगङ्गाधर, नागेशभट्टकृत टीकेसहित. किंमत ३॥ रुपये. ८. खं. ३॥ आणे.

२ १३. साम्बकविप्रणीत साम्बपञ्चाशिका, क्षेमराजकृत टीकेसहित. किंमत ४ आणे. ट.. ख.४॥ आणा. १४. शेषकृष्णविरचित पारिजातहरण चम्पू. किंमत ६ आणे. ट. ख. १ आणा. १५. वामनविरचित काव्यालंकारसूत्रे (वृत्तिसमेत). किंमत ९ आणे. ट. ख. १ आणा. १६. काशीपतिविरचित मुकुन्दानन्द भाण. किंमत ६ आणे. ट. ख. १ आणा. १७. भास्करकविविरचित उन्मत्तराघव प्रेक्षाणक. किंमत २ आणे. ट. ख.॥ आणा. १८. अमरुककविविरचित अमरुशतक, अर्जुनवर्मदेवप्रणीत टीकेसहित. किंमत १० आणे. ट, ख. १ आणा. १९. मयूरकविप्रणीत सूर्यशतक काव्य, त्रिभुवनपालविरचित टीकेसहित.. किंमत ६ आणे. टे. ख. १ आणा. २०. शङ्खधरविरचित लटकमेलक प्रहसन. किंमत ४ आणे. ट. ख. ॥ आणा. २१. सातवाहनकृत प्राकृत गाथासप्तशती, गङ्गाधरभट्टकृत टीकेसहित. किंमत १॥ रुपया. ट. ख. ३ आणे. २२. राजानकरत्नाकरविरचित हरूविजय महाकाव्य, राजानकअलकविरचित टीके- सहित. किंमत ५ रुपये. ट. ख. ४॥ आणे. २३. जगद्धरभट्टविरचित स्तुतिकुसुमाञ्जलि काव्य, राजानकरत्नकण्ठविरचित टीकेस- हित. किंमत ३ रुपये. ट. ख. ३ आणे. २४. गोविंदविरचित काव्यप्रदीप, वैद्यनाथतत्सत्कृत टीकेसहित. किंमत ३। रुपये. ट. ख. ३ आणे. २५. आनन्दवर्धनाचार्यकृत ध्वन्यालोक, अभिनवगुप्ताचार्यकृत टीकेसहित किमत १॥ रुपये. ट.ख. २ आणे. २६. क्षेमेन्द्रविरचित दशावतारचरित काव्य. किंमत १ रुपया. ट. ख. १॥ आणा. २७. आनन्दरायमखीकृत जीवानन्दन नाटक. किंमत १२ आणे. ट. ख. १ आणा. २८. सुभटविरचित दूताङ्गद छायानाटक. किंमत २ आणे. ट. ख. ॥ आणा. २९. हरिहरोपाध्यायविरचित भर्तृहरिनिर्वेद नाटक. किंमत २॥ आणे.ट. ख. ॥आणा. ३०. वीरनन्दिविरचित चन्द्रप्रभचरित काव्य. 'किंमत १२ आणे. ८. ख. १॥ आणा. ३१. पुरुषोत्तमविरचित विष्णुभक्तिकल्पलता काव्य, महीधरविरचित टीकेसहित. किंमत १० आणे. ट. ख. १॥ आणा. ३२. कृष्णानन्दविरचित सहृदयानन्द काव्य. किंमत १० आणे. ट. ख. १ आणा. ३३. वेङ्कटेशकविप्रणीत श्रीनिवासविलासचम्पू, धरणीधरकृत टीकेसहित. किंमत १४ आणे. ट. ख. १॥ आणा. ३४. प्राचीनलेखमाला. किंमत १॥ रुपया. ट. ख. २ आणे. ३५. राजानकरुय्यककृत अलंकारसर्वस्व. किंमत. रुपया. ट.ख. २ आणे. ३६. श्रीमदप्पयदीक्षितप्रणीत वृत्तिवार्तिक. किंमत. ३ आणे. ८. ख. ॥ आणा. ३७. युवराजकविविरचित रससदनभाण. किंमत ७ आणे. ८. ख. १ आणा. ३८. अप्पयदीक्षितकृत चित्रमीमांसा, जगन्नाथपण्डितराजकृत चित्रमीमांसाखं- डना सहित. किंमत १० आणे. ट. ख. १॥ आणा. ३९. आनन्दरायमखिविरचित विद्यापरिणयन नाटक. किंमत.९आणे.ट.ख.१ आणा.

No text on this page.

Mukundaanandabhaand-an'

Author
Shriikaashipati
Title
Mukundaanandabhaand-an'
File name
Mukundaanandabhaand-an'
Text
OCR done
Citation
1894
Publisher
Tukaram Javaji,bombay
Language
Sanskrit
Pages
82
Library
Svi-vmpl-machilipatnam
Classification
Literature
DLI number
368863
Barcode
5010010032878.00
Scanning centre
RMSC, IIIT-H
Rights
OUT_OF_COPYRIGHT
VMLT id
FlhMKHs3txk
Download PDF

Mukundaanandabhaand-an'