Svi-ksri-chennai
Madhvaanandalaharii
Front matter
२९ मध्वानन्दलहरी । आसंसारमखण्डलोकसुलभैः संशोभमानः फलैः स्वर्गारोहणमार्ग एप विलसत्यभ्रङ्कपोच्यायतः ॥ ॥९७॥ यावत् स्थास्यति पश्चभेदसहितः सत्यः प्रपश्चोऽखिल- स्तावद् द्वैतमतं चरिष्यतितरामस्मिन् धरित्रीतले । यावत् स्थास्यति सञ्चरिष्णुरथवा द्वैतप्रकाशः क्षितौ तावद्वय॑ति सर्वमेव भुवन मायान्धकारोज्झितम् ॥९८॥ शान्तः सर्वजनान् समीरयति यश्चेतः समुल्लासयं- श्वण्डोदामगतिः प्रभञ्जयति चोद्दण्डान् प्रकाण्डानपि । योऽसौ सर्वजगत् पुनाति पवनो नृत्यन्ति येनागमाः सोऽयं मध्वमुनीश्वरो विजयते साक्षाअगत्पावनः ॥९९।। येनोद्भासितविष्टपेन निविडं निधूतमन्धं तमो येनोन्मीलितलोचनेन जनता सम्प्रापिता सत्पथम् । येनादर्शितवस्तुना प्रकटितो भेदप्रपश्चोऽखिल- स्तस्मै विष्णुपदाश्रिताय महसे हंसोत्तमायों नमः ॥१०॥ (९८) अत्र पूर्वार्धोपवर्णितं जगतो द्वैताधारत्वं निरस्योत्तरार्धे द्वैत- स्यैव जगदाधारत्वं आस्थीयते । (९९) अस्मिन् श्लोके साक्षाद्वायुरूपी श्रीमदाचार्यों वर्ण्यते । प्रका- ण्डान्-तरुस्कन्धान्, लक्षणया उद्दण्डपण्डितांश्च । येनागमा:- येन अगमा आगमाश्चेति द्वेधा पदच्छेदः । (१००) विष्णुपदाश्रितः-आकाशाश्रितः, विष्णुचरणाश्रितश्च । हंसो- त्तमः-तेजस्विश्रेष्ठः सूर्यः, परमहंमोशाक्ष ।
No text on this page.
336
॥ श्रीः॥
॥ मध्वानन्दलहरी ॥
विद्यासागर-व्याकरणमहोपाध्याय-साहित्यशिरोमणि-
साहित्यनिपुणादि विद्योपाधिभाजा
के. एल्. व्यासरायशास्त्रिणा
विरचिता
कुम्भघोणस्थ
शारदाविलासमुद्रालये"
मुद्रापिता
THE KUPPUSWAM!
RESEARCH INSTREE
MADRAS.
" उडुपि” नगरे
कल्मजे व्यासाचार्येण
प्रकाशिता च ।
1940.
All Rights Reserved.
No text on this page.
॥ श्रीः प्रस्तावना। अथ द्वैतमतप्रतिष्ठापकः श्रीमान् मध्वाचार्यः ११९९ तमें ऊस्ताब्दे “ उडुपि" इति नाम्ना प्रसिद्धस्य रजतपीठपुरस्य नातिदूरवर्तिनि पाजकक्षेत्रे श्रीमद्वेदवतीमध्यगेहभट्टयोः पुत्र- त्वेन भुवमवततार । सोऽयमाचार्यो भगवत्कार्यसाधनार्थमादौ हनूमद्रपेण पश्चात् भीमरूपेण चावतीर्णस्य साक्षाद्वायोरवतार- त्वेन प्रथते । तस्मादयं हनूमानिति भीमसेन इति च प्रथामवाप । द्वैतमतस्य प्रचारणार्थमासेतुहिमाचलं सर्वाणि तीर्थ- क्षेत्राण्यटन तत्र तत्र विद्वद्गोष्ठीषु दर्शितात्मविक्रमोऽसौ बादीमा सिंहः अनुमानतीर्थः, आनन्दतीर्थः इत्यादीन्यन्वर्थानि नामा- न्यवाप । विद्वत्सभास्वनितरसाधारण्या वाग्धोरण्या विदलया, मास विमतानि । कन्दलयामास द्वैतसिद्धान्तप्ररोहान् निगमा- वनौ । कुण्ठयामास साटोपान् प्रतिभटान् । आरुरोह वेदान्त- साम्राज्यसिंहासनम् । प्रतिष्ठापयामास च द्वैतमतेन सह यह- च्छया द्वारकातः समागतां श्रीकृष्णप्रतिमां रजतपीठपुरे । द्वैतमतं प्रतिष्ठापयन्नसौ सर्वेषां निगमवचसां विष्णोः सर्वोत्तमत्वे महातात्पर्यमदीदृशत् । जीवात्मपरमात्मनोः शाश्वतिकं भेदमातिष्ठत । जगतः सत्यत्वं प्रत्यपादयत् । एवं तदुपन्यस्यमानानां सिद्धान्तानां सुश्लिष्टत्वमवगच्छन्तः सहस्रशो जनास्तच्छिष्यत्वमवापुः।
2 श्रीमदाचार्योऽसौ पुण्यसलिलाया भागीरथ्यास्तीर- मधिवसन् सूत्रभाष्यादिकानुच्चावचान ग्रन्थान् प्राणैषीत्, ये खलु तदीया यशोराशय इव दिगन्तविसृमरप्रभाः समन्तात् विभ्राजन्ते । उच्चावचानां निगमवचसां स्वारसिकानविरुद्धान- र्थान् वर्णयन् विविधानि व्याख्यानरत्नानि निरमासीत् , यानि खल्वद्यापि परंपरागतानि शिष्यनिचयस्य कण्ठभूषणतां व्रजन्ति । एते चान्ये च साम्प्रदायिकेषु ग्रन्थेषूपवर्ण्यमानाश्चरित्रां- शाः कृतावस्यां वाच्यविधया व्यङ्ग्यविधया चानुवर्णिताः । अथत्वाधुनिकैश्चरित्रकारैरुट्टङ्कितो मार्गश्चाप्यत्र मन गादृतः । तथाहि- अनन्तशयनं गतेन श्रीमदाचार्गेण शङ्कराचार्यों वादे निर्जित इत्येतावन्मालं मध्वविजयादवगम्यते । स च शृङ्गेरि- मठाधीशो विद्याशङ्कराचार्य इति ग्रन्थान्तराणां शासनपत्राणां च परीक्षया निश्वप्रचं चरित्रकारैः । तदनुरोधेन विद्याशङ्करा- चार्यः श्रीमदाचार्येण निर्जित इत्युक्तमस्मिन् ग्रन्थे । अपरं च श्रीमदाचार्यः काञ्चीपुरं गत इति मध्वविजयादौ न प्रस्तूयते । कृतावस्यां श्रीमदाचार्यस्य काञ्चीपुरवृत्तान्तः समनुवर्णितः । किमत्र प्रमाणमिति चेदवधीयताम् मध्वविजये पयस्विनीतटं गतः इति वर्ण्यते श्रीमदाचार्यः । पयस्विनीतटं चोभयत्र प्रस्तूयते मध्वविजये- केरलेष्वेकं श्रीरङ्गसभीपे ऽन्यत् । तत्र श्रीरङ्गसमीपस्थं पयस्विनीतटं काञ्चीपुरमेवेति बहुप्रमाणपर्यालोचनया निणीतमाधुनिकैश्चरित्रकारैः । तस्मा- दस्मिन् ग्रन्थे काश्चीपुरगमनमाचार्यस्य वर्णितम् । एतादृशानां 3 चरित्रमूलकानां विषयाणां निर्मूलत्वं न शङ्कनीयमास्तिकधौरे यैरित्यर्थयामः। कृतिरियं वाचकमहाशयानां सौकर्याय विषमपद- टिप्पण्या संयोज्य प्रकाश्यते । यद्यत्र मूले टिप्पण्यां वा मानु- षतासुलभाः प्रमादाः सम्भवन्ति तहिं ते सदयं मर्पणीया सहृदयैरित्यर्थयामः। अपि च स्वीयमुदारमाशयं प्रकाश्य कृतिमिमामभिन न्दितवतां महामहोपाध्यायपुरोगमानां महाशयानां पुरस्तात् शतशो धन्यवादानर्पयामि । अपरञ्च ग्रन्थमिमं सदयं प्रकाशि तवतां सुगृहीतनाम्नां श्रीमत्कल्मञ्जे व्यासाचार्याणां पुरस्ताद कृतज्ञता प्रकटयामि । कृतिरियं साधुरसाधुर्वा भवतु; सर्वथैव वस्तुगौरवात् श्रीमदाचार्यबहुमानाच सहृदयैराद्रियेतेति कृत्वा सम्प्रति तेषां पुरस्तादुपहियते । अकौशलेन ग्रथितेति जाति- प्रसूनमालां किमु सन्त्यजन्ति" के. एल्. व्यासराजशास्त्री.
महामहोपाध्याय-पण्डितराज-अभिनवभट्टबाण-शब्दतर्कालङ्कार
विद्याभूषण-विद्वत्कविप्रभृतिविरुदमालालङ्कृतानां श्रीमतां
रा. च. वि. कृष्णमाचार्याणामभिप्रायः-
भोः शास्त्रिमहाशयाः!
भवतां शिवतातीनां पुस्तकं मस्तकेन मे ।
कलितं ललितं प्रीतिमतनीदतनीयसीम् ।।
श्रव्यता शब्दसंदर्भ भव्यता व्यङ्गयवाच्ययोः ।
नव्यता च समुल्लेखे न व्यपैति हृदो मम ॥
सरमाः कवयोऽद्यापि महसा कविताजुपा ।
दीप्यन्त इति हर्षो मे कोऽप्यन्तः कुरुते स्थितिम् ।।
भवदीयः
रा. च. वि. कृष्णमाचार्यः ।
40
इमां श्रीमन्मध्वानन्दलहरी
श्रीमद्वैतसिद्धान्तप्रतिष्ठापनधुरन्धराणां श्रीमत्परमहंसपरिवा-
जकाचार्यवर्याणां दिगन्तविसमरविशदयशोभासुराणां
श्रीमदुत्तरादिमठाधीश्वराणां
श्रीमत्सत्यध्यानतीर्थ श्रीचरणानां
सन्निधौ भक्तिपुरःसरमुपहारीकुरुते
श्रीमद्गुरुपदकमलचञ्चरीकः
व्यासराजशास्त्री.
॥ श्रीः॥ महामहोपाध्याय-भारतसिंह-विद्याभूषणादिविरुदमालाभूषिताना श्रीमतां खापे. रामचन्द्राचार्याणामभिप्रायः- - महोपाध्याय-विद्यासागरादि विरुदावलीभूषित श्रीयुत- व्यासराजाचार्यैः विरचिता श्रीमन्मध्वानन्दलहरी सादरमालो- किता। सरससाहित्यरीतिमवलंब्य रचितेयं निस्संशयं सहृदय- हृदयावर्जनं कुर्यादिति दृढ़ विश्वसिमि । श्रीयुतशास्त्रिणां कृतौ कापि विलक्षणा विलसति वर्णनाचातुरी । उत्प्रेक्षानैपुणी काचन निरुपमा जागर्ति । सर्वतोमुखं पाण्डित्यमाविष्कुर्वाणा वृत्तविन्यासवैखरी विशेषतो राजते। श्रीमदानन्दतीर्थगुरुवर्याणां प्रसादेन कृतिरेषा सर्वत्र प्रचयं प्राप्नुयादिति श्रीमध्यान्तर्गत श्रीलक्ष्मीनरसिंहमभ्यर्थये । व्यासाद्रिसरसनिस्सृत- सुखमुनिगुरुराट्कथासुधालहरी । भवतापशमनशीला निषेव्यतां रामचन्द्रमतिमहिता ॥ खापे. रामचंद्राचार्यः।
श्रीमदानन्दतीर्थभगवत्पादाचार्यः ।
शान्तः सर्वजनान् समीरयति यश्चतः समुल्लासयं-
श्चण्डोदामगतिः प्रभञ्जयति चोदण्डान् प्रकाण्डानपि ।
योऽसौ सर्वजगत् पुनाति पवनो नृत्यन्ति येनागमाः
सोऽयं मध्वमुनीश्वरो विजयते साक्षाजगत्पावनः ॥
॥ श्रीः॥ ॥ मध्वानन्दलहरी ॥ k: अस्ति प्रशस्तविभवा नगरी पवित्रा कर्णाटकक्षितितलाभरणायमाना । यां रौप्यपीठनगरीति गिरन्ति सन्तो रूप्यातिप्रसरनिर्धतकल्मषौघाम् ।। ॥१॥ सत्याश्रयां सुकृतिभिः परिमृग्यमाणां विश्वम्भरेण जगतीपतिनाभिरामाम् । नित्यं जयेन विजयेन च सेव्यमानां यामामनन्ति विबुधा भुवि विष्णुलोकम् ॥ ॥२॥ तस्यां नगर्या बहुवैभवायां पाश्चात्त्यपाथोनिधितीरगायाम् । श्रीपाजकक्षेत्रपवित्रभूमा- ववातरन्मध्वमुनिर्यमीन्द्रः॥ ॥३॥ निखिलभुवनमध्ये भासमानोऽसमानः सकलबुधकदम्बः प्रार्थ्यमानावतारः । (१) रूप्यद्युतिः- रजतद्युतिः हनूमानित्यपि शब्दरत्नमाला । (२) जयः विजयश्च तन्नामको द्वारपालको जयविशिष्टजयों च । (४) बुधकदम्बेः- बुधानां देवानां प्राज्ञानां च सप्पैः । आधः मम्मानन्दलहरी। ॥४॥ उपनिषद इवाधः पूरुषः पूर्णरूपो हरिरलभत गर्भाद्वेदवत्याः प्रकाशम् ॥ प्रासीदन्मरुतः प्रमोदमगमन् साङ्गाः समस्तागमाः प्राप्तामोदभराः परं सुमनसः सद्यो विकासं गताः। श्रुत्याह्लादकरं शुकादिवचनं सम्प्राप पुष्टिं परां मध्वाविर्भवनेन सर्वभुवनं जज्ञे प्रमोदाकुलम् ॥ मिथ्यात्वभ्रमकल्पितत्वविरसत्वाधैरसत्कल्पनैः श्रुत्युद्वेगकरैर्वचःक्रकचकैः कैश्चिद् वृथा दूषितम् । प्रासीदद्भुवनं स्वतत्वविदुपि द्वैतार्थधौरेयके लोकानन्दकरे धरामवतरत्यानन्दतीर्थे मुनौ ॥५॥ ॥६॥ सावयवाश्च । समस्तागमा:- - पूरुषः- पुरुषोत्तमो जीवोत्तमश्च । हरिः- विष्णुः, हनुमांश्च । वेदवत्याः- मध्यगेहभट्टात् वेदवत्यामाविर्भूतः श्रीमदाचार्यः । (५) मरुतः ---देवाः वायवश्च । साङ्गाः-शिक्षादिभिरङ्गः सहिताः समस्ताश्च ते आगमाश्च सर्वे वेदाः समस्ताश्च ते अगमाश्च सर्वे तरवश्च | आमादः- हर्षः परिमलश्च । सुमनसः-- सहृदयाः पुष्पाणि च । श्रुतिः- वेदः श्रोत्रं च । शुकादिवचनम्- शुकादेः व्यासस्य शुका- दीनां पक्षिणां च वचनम् । मध्वाविर्भवनम् मधोश्च आविर्भावः । (६) विरसत्वाद्यैः-- मिथ्यात्वकृतं विरसत्वमत्र विवक्षितम् । श्रुन्युद्वेगः- वेदव्याझोपः, श्रवणवेरस्यं च । मन्त्रस्य ॥७॥ मध्वानन्दलहरी । आदौ येन हनूमता सुकृतिना द्वैतार्थमात्माऽपितो भीमेनापि ततश्विराय चरितं द्वैताभिधाने वने । द्वैतार्थाभिरतः स एव भगवान् द्वैतं समुद्भासयन् सर्वज्ञत्वमवाप्य भव्यजनुषा प्रादुर्बभूव स्वयम् ॥ डोलायां निहितः समुत्सुकमना उत्तानशायी मुदा हस्तादेश्वलनैर्निषेधगमकैरुच्चैः प्रहासैरपि । हुकारादिमिरप्युदात्तनिनदैः खेलनसावर्भकः सर्वाण्येव मतान्तराण्यवचनं निन्दन्निवाद्योतत ।। सङ्ख्याशब्दान् ललितवचनैः पाठयन्त्यां जनन्या- मेकस्योक्तौ तदुपरिगतं द्वे इति प्रब्रुवाणः । क्रीडासक्तोऽप्ययमतिशिशुः स्वीयसिद्धान्ततत्त्व- स्यायोद्भेदप्रकटनमिव व्यादधानश्चकाशे ।। समस्तवस्तुप्रतिबोधहेतो- जनैः प्रणप्रेरभिवन्दितस्य । ॥८॥ ॥९॥ (७) श्लोकेऽस्मिन् श्रीमदाचार्यस्यावतारत्रयेऽपि द्वैतसम्बन्धः प्रद- यते । द्वैतार्थमात्माऽर्पितः- सीतारामरूपद्वन्द्वार्थमात्मा सम- र्पितः । द्विधा इतं द्वीतं ततः स्वार्थेऽणि द्वैतं द्वयमित्यर्थ इति हेमचन्द्रः । संछिन्नद्वैतसंशय इत्यत्र द्वैतशब्दो द्वयार्थक इति शब्दकल्पद्रुमः। (९) एकस्य- 'एकम्' इत्यस्य सङ्ख्याशब्दस्य । उद्भेदः- अङ्करः । द्वे इत्ययं शब्दो द्वैतस्याङ्करत्वेन द्रष्टव्यः (१०) अत्रत्यानि विशेषणानि सर्वाण्युभयसाधारणत्वेन द्रष्टव्यानि ।
४ मध्यानन्दलहरी आह्लादिनी तस्य बभूव बुद्धिः प्रमेव भानोरुदयाश्रितस्य ॥ ॥१०॥ वेदांस्तदङ्गानि च तद्गुरुस्त- मध्यापयामास यथाक्रमेण । वेदान्तवेद्याभिरतस्य तस्य बभूव वेदान्तमयं समग्रम् ॥११॥ शिक्षातोऽक्षरतत्त्वमाशुगमनो मात्राविधिं छन्दसो निर्वाच्यत्वमथो निरुक्तवचनात् तत्त्वं दिवो ज्योतिषात् । ध्याकृत्या अपि नामरूपमखिलं कल्पाच्च यज्ञक्रमा- नित्येवं निगमाङ्गतो विदितवान् वेदान्ततत्त्वान्ययम् ॥१२॥ अथाच्युतप्रेक्षगुरोरुपान्तं वेदान्तविद्याधिगमाय पित्रा । निन्येऽरुणेनोज्ज्वलचारुकान्तिः पूषेव पौरस्त्यगिरेः समीपम् ॥ ॥१३॥ गुरोरुपान्ते स्थितिमात्रभाजः प्राग्जन्मसंस्कारविशुद्धबुद्धेः। (१२) अक्षरतत्वम् – अक्षराणामकारादिवर्णानां अक्षराख्यस्य पुरु. षस्य च तत्वम् । आशुगमन:-वायुः। मात्रा-छन्दःशास्त्र- प्रसिद्धोऽक्षरावयवः । मीयत इति व्युत्पत्त्या विषयश्च । दिवः- आकाशस्य ज्योतिषामिति यावत् , स्वर्गस्य च । नामरूपम्- सुबन्तरूपम् , नामरूपे व्याकरवाणीत्यादी प्रसिद्धं नामरूपञ्च । यज्ञक्रमान्– यागविधीन्, विष्णोः पराक्रमाश्च (१४) कलानिधेः- चन्द्रस्य, चतुःषष्टेः कलानां निधेश्च ।
मध्वानन्दलहरी। ५ दिने दिने वृद्धिमशिश्रियन्त कलानिधेस्तस्य कलाः समग्राः ॥ ॥१४॥ तर्कः कर्कशतां विहाय यतिनं संसेवते स्मादरात् साङ्खयं दर्शनमाततान पुरुषं सङ्ख्यावदग्रेसरम् । मीमांसापि चकार मांसलमतिं योगोऽपि तं योगिनं वेदान्तः पुनरेक एव यतिनो वादान्ततामागतः ॥ ॥१५॥ सामोदं गुरुतल्लजाच्छ्रतिशिरस्तत्वान्यधीयन्नयं वाचोयुक्तिभिरन्यभाष्यदलनं कुर्वन् स्वयं लीलया । आचार्यस्य बबन्ध कण्ठमभितः प्रश्नप्रसूनस्रजा रुद्धात्मप्रसरश्च देशिकवरो जज्ञे भृशं विस्मितः ॥ ॥१६॥ गुरोरवाप्ता निगमान्तविद्या तस्मिन् प्रसन्नात्मनि साधुवृत्ते । प्राप्यामृतत्वं नितरां चकाशे पूष्णः प्रभा चन्द्रमसीव हृद्ये ॥ ॥१७॥ (१५) सङ्ख्यावदग्रेसरम् - विद्वदग्रेसरम् । वादान्तताम्-वादपर्य- वसायिताम् । (१६) अधीयन्- इधार्योः शत्रकृच्छृिणीति शतृप्रत्ययः । आचा- यस्य गुरोः अच्युतप्रेक्षाचार्यस्येति यावत् । देशिकवरः गुरुवरः अच्युतप्रेक्षाचार्यः । (१७) प्रसन्नात्मनि- प्रसन्नः आत्मा यस्य सः प्रसन्नरूपः, प्रसन्नः आत्मा यस्मिन् सः प्रतिपन्नात्मस्वरूपश्च । साधुवृत्त- सम्य- ग्वर्तुलाकारे साधुशीले च । अमृतत्वम् चन्द्रकिरणाना ममृतमयत्वं प्रसिद्धमेव, अन्यत्र च मोक्षहेतुत्वमित्यर्थः ।
मध्वानन्दलहरी। गुरोरसौ वारिनिधेदृहीत सारं स्वयं खादुरसं विधाय । क्षोणीतले मेघ इवाभिवर्षन् स्वान्तं व्यधादुल्लसितं जनानाम् ॥ ॥१८॥ अद्वैतिनं द्वैतमतानुरक्तं शैवं तथा वैष्णवमार्गसक्तम् । गुरुं वितन्वन्नमितप्रभाव- श्वकार दुर्वर्णमसौ सुवर्णम् ॥ ॥१९॥ आचार्यवोऽप्यनसूयकः स- नानन्दपाथोनिधिमग्नचेताः । द्वैतं मतं स्थापयितुं जगत्या- मानन्दतीर्थ मुनिमावभाषे ॥ ॥२०॥ गुरोराज्ञां धृत्वा शिरसि सुममालामिव नवां प्रसूपित्रोः कृच्छ्रादनुमतिमवाप्य प्रमुदितः । गृहीत्वा संन्यासं सपदि तत एव व्रतिवरा- द्ययौ तांस्तान्देशान् भुवनविदितप्राज्ञमहितान् ॥ ॥२१॥ (१८) गुरोः-महतः, विद्यागुरोश्च । सारम्-जलं सारभूतमंशं च । मेघपक्षे महतः बारिनिधेरित्यर्थः । श्रीमदाचार्यपक्षे तु गुरोः वारिनिधेरिति व्यस्तरूपकं द्रष्टव्यम् । महतः वारिनिधेः गृहीतं जलं मेघ इव विद्यागुरोः वारिनिधेगृहीतं सारं स्वयं स्वादुरसं विधायाभिवर्षन्नित्यर्थः । (१९) दुर्वर्णम् - रजतम्, दुष्टा वर्णाः यस्मिन्निति च । एवं सुवर्णमि- त्यत्रापि द्रष्टव्यम्।
नास्तिक्यं सहसा ययौ क्षितितले नास्तित्वमेव क्षणाद् बौद्धं चापि मतं नमोनलिनवबौद्धत्वमापद्यत । तीर्थे क्वापि निमजति स तरसा तैर्थङ्करीयं मतं स्वेच्छादृष्टिहरे प्रभञ्जनवरे वातुं प्रवृत्ते सति ॥ ॥२२॥ सद्यः स्वस्य विशिष्टतां प्रविजहौ रामानुजीयं मतं स्वस्याकारमगोपयद्भयवशादद्वैतमाशान्तगम् । प्रस्थानान्यपराणि चैवमभवन् प्रस्थानभाञ्जि क्षणात् स्वेच्छादृष्टिहरे प्रभञ्जनवरे वातुं प्रवृत्ते सति ॥ ॥२३॥ माया निर्गलिता दिगन्तमगमन्मिथ्यात्ववार्ता भया- दज्ञानं कुहचिन्न्यलीयत भिया कुत्राप्यविद्या गता। भ्रान्तिः शान्तिमवाप नैव धरणावध्यासवार्ता श्रुता स्वेच्छादृष्टिहरे प्रभञ्जनवरे वातुं प्रवृत्ते सति ॥ ॥२४॥ (२२) बौद्धृत्वम् – बुद्धिकल्पितपदार्थत्वम् । तर्थडू-रीयं मतम् -जैन- मतम् । स्वेच्छादृष्टिहरे- स्वच्छन्दावलोकननिरोधिनि, स्वेच्छ या प्रवृत्तानां शास्त्राननुगृहीतानां दर्शनानां निरोधिनि च । प्रभञ्जनवरे- वायी श्रीमदाचार्ये । (२३) रामानुजीयं मतम् - विशिष्टाद्वैतम्, तच्च स्वस्य विशिष्टता. मुत्कृष्टतां विजहो । स्वगतं विशिष्टेत्यंशं परित्यज्य अद्वैतरूपेण परिणतमित्यपि द्रष्टव्यम् । अद्वैतञ्च अकारगोपनेन द्वैतमम वत् । स्वीयमाकारमगोपयदित्यपि द्रष्टव्यम् । प्रस्थानभाञ्जि- यात्राभाञ्जि, अपराणि प्रस्थानानि देशान्तरगमनाय प्रस्थिता- नीत्यर्थः। (२४) अस्मिन् श्लोके मतान्तरीयैराहतानां जगन्मिध्यात्वप्रतिपादन- पराणां विविधानां पारिभाषिकशब्दानां निर्गलनादिकं वर्ण्यते।
८ मध्वानन्दलहरी। प्रथमं दक्षिणं देशं दक्षिणोऽसौ समीरणः। भिक्षुरूपेण निरगाच्चक्षुरुन्मीलयन् नृणाम् ॥ ॥२५॥ सर्वज्ञेन सताऽपि तेन मुनिना सर्वज्ञवादः क्षतो द्वैतार्थव्रतिना च वादसरणावद्वैतिता ख्यापिता। विष्णूपासनदेशिकेन निखिलो लोकः शिवे योजितो भव्यानां कृतयश्चमत्कृतिभृतस्तन्वन्ति कौतूहलम् ॥२६॥ रत्नानि शास्त्राम्बुनिधेगृहीत्वा व्याख्यानसंस्कारयुतानि कृत्वा । सन्दर्शयन् नैगमवर्मभाजां सचेतसां चेत उपाददेऽसौ ॥ ॥२७॥ कश्चित् पुमानित्यवधीरितः पुरा ततो महानित्यवधारितः शनैः । ततश्च वैकुण्ठपदाध्वभानुमा- निति क्रमेणायमवेक्षितो जनैः ।। ॥२८॥ स्यानन्दूरपुरं गतोऽथ यतिराड् यात्राप्रसङ्गक्रमा- दृष्ट्रा तत्र यदृच्छया यतिवरं शृङ्गाद्रिपीठाधिपम् । (२५) दक्षिणः- दक्षिणदेशीयः, समर्थश्च । समीरणः- वायुः श्रीमदाचार्यः । (२६) सर्वज्ञः- पूर्णप्रज्ञः । सर्वज्ञवाद:- बुद्धवादः । अद्वेतिता- अद्वैतानुसारिता, असदृशता च । शिवे -शम्भी, मङ्गले च । (२७) नेगमवर्मभाजाम- वेदवानुसारिणाम्, वणिजां च । (२९) स्यानन्दरपुरम् -- अनन्तशयनम् । शृङ्गाद्रिपीठाधिपम् - शृङ्गेरि ” पीठाधिपम् । 1 १० मध्वानन्दलहरी । विश्वार्थातिशयप्रकाशनचणो भास्वान् स दिव्यौजसा तेषां नैगममार्गहेयरुचिता व्यक्तीचकार क्षणात् ॥ ॥३४॥ पश्चान्मायामोहिनी धर्ण्यमाणा जवाशक्तिं दर्शयामास सद्यः । मायामुक्ता साऽपि काञ्ची सरत्ना क्षिप्रं भिक्षोः पादमूले पपात ॥ ॥३५॥ मासान् बहून् दक्षिणदिग्विभागे सञ्चारपूतान् स विधाय देशान् । विश्वार्थातिशयप्रकाशनच: विश्वपामथानामतिशयेन प्रका- शने प्रसिद्ध इति श्यपक्ष, विश्वशब्दम्य नानाविधानामर्थानां प्रकाशन वणने प्रमिहान श्रीमदाचायपक्ष । श्रीमदाचायः पयस्विनीतटं गतम्तवन्यः पण्डित: आक्षिप्तः सभायां विष्णो- नाम्नामाद्यस्य विश्वशब्दस्य विविधानथान वर्णयन् तान् वि. जिग्यइति मध्वविजयः । पम्बिनीतटं च काचीपुरीत्यभि- युक्ताः । केरलदेशस्था पयस्विनी तावदन्यव मध्वविजये प्रस्तुता । नगममार्गहेयरुचिताम्--- नगमानां वेदविदां मार्ग हेया रुचिः अभिष्वङ्गः यपामिति काचीगतपण्डितानां पक्षे । नगमानां वणिजां मार्ग हया रुचिः कान्तिः येषामिति काश्ची. गतरत्नपक्षे । भास्वत्प्रभायां रत्नानामुत्कर्पोऽपको वा ज्ञायत इति लोकतः सिद्धम् । (३५) अवाशक्ति दर्शयामास - - 'पलायत । पलायनसंरम्भे च तन्मु. क्ता काञ्ची भिक्षोः पादमूले पपातेत्यर्थः ।
मध्वानन्दलहरी। ११ पश्चादुदीची ककुभं प्रतस्थे पौषे विवस्वानिव दीप्ततेजाः ॥ ॥३६॥ महसां पतिमुत्तरां दिशं परिवृत्तं समवेक्ष्य योगिनम् । मुदिताः खलु तत्र मेनिरे त्रिदिवद्वारमपावृतं जनाः ॥ ॥३७॥ सहस्रशस्तन महीपतीनां स उत्तमाङ्गानि नतानि भिक्षुः । स्वपादधूलीनिकरैः पवित्र- रनुत्तमाङ्गानि चकार सद्यः ॥ ॥३८॥ गोदावरीतीरगतस्ततोऽसौ गोष्ठयां महापण्डितमण्डितायाम् । पड्दर्शनी दुर्नयदूषिताङ्गी वाग्वर्षधारास्नपितां वितेने ॥ ॥३९॥ ततः स शृङ्गाद्रिमुपेत्य भिक्षु- रद्वैतमालोकत काननान्ते । (३७) त्रिदिवद्वारमपावृतम् --- भास्करे उत्तरायणं गते स्वर्गद्वारमपा- वियत इति प्रसिद्धम् । (३८) उत्तमाङ्गानि-- शिरांसि । अनुत्तमाङ्गानि-न उत्तमाङ्गान्य- नुत्तमाङ्गानीति विरोधः, न विद्यन्ते उत्तमान्यङ्गानि येभ्य- स्तानीति परिहारश्च द्रष्टव्यः । (४०) हर्यक्षः-सिंहः, हरौ अक्षि यस्य स इति विग्रहेण विष्णुतत्व- १२ मध्वानन्दलहरी । हर्यक्षसञ्चारभयादिवात्र कृतात्मरक्षं निगमान विहाय ॥ ॥४०॥ वीरोऽयं वादगोष्ठीषु दर्शयन् भीमविक्रमम् । अद्वैतस्य शिरश्छिच्चा छैनं चक्रे प्रतिष्ठितम् ॥ ॥४१॥ अद्वैतं द्वैततां यातं तस्याकारविलोपनात् । तस्यादिरहितस्यैवमनादिलं दृढीकृतम् ।। ॥४२॥ अन्येषां सुदुरुद्धरा मितिशिलामादाय वेदावने- रायान्तं तमवेक्ष्य माध्वसवशादात्माभिरक्षेच्छया । रज्जुर्या विषसर्पिणी भयकरी गा मुक्तमायातनुः स्वं रज्जुत्वमगात् तयैव सुनिनाऽवध्यन्त मायाविनः॥४३॥ स्यक्त्वाऽज्यानि मतानि जातकरुणः स्वीयप्रतिद्वन्द्विनो मायावादमतगाजस्य सुहं कुम्भस्थलं भञ्जयन् । दर्शी श्रीमदाचायश्च । हर्यक्षसञ्चारभयेन निगमान् विहाय बनान्तं प्रविश्य कृतात्मरमिव स्थितं अंद्रुतमालोकतेत्यर्थः । (४१) अद्वैतस्य शिरदिच्छत्वा शिरःस्थानीयमकारं छित्वेत्यप्यर्थः । (४२) आदिरहितस्य अकाररहितस्य अद्वैतस्य तथाच द्वतस्य अनादित्वं व्यवस्थापितम् । अथवा अद्वैतस्य अनादित्वं परै- रुच्यमानं तस्याद्यक्षररहितत्वकृतमिति व्यवस्थापितमित्यर्थः । (४३) मितिशिला- मितिरव शिांत रूपकम्, प्रमाणशिलेत्यर्थः । श्लोकेऽस्मिन् मायावादिभिरुपन्यस्यमानो रज्जुसर्पदृष्टान्तो विपयीकृतः । (४४) हरिवरः- सिंहः श्रीमदाचार्यश्च । माध्यमित्यस्य सिंहपक्षे मध्वानन्दलहरी । १३ मायाध्वंसनमित्यतः पदयुगादायक्षराभ्यामसौ मन्ये विक्रमतत्परो हरिवरो 'माध्वं' पदं निर्म मे ॥ ॥४४॥ आत्मद्वैतवृषप्रचारणकृते दण्डं श्रितेनामुना भग्नेऽतत्वमसीति वेदविपिनावस्कन्दिनि द्वीपिनि । हर्ष प्राप वृषः प्रसादमतुलं भेजेऽखिलं गोकुलं गोपालोऽपि परं प्रहष्टहृदयो गोरक्षणे व्यापृतः ॥ ॥४५॥ दृष्ट्वाऽखिलान् द्वैतकृतान्तविद्धान् विपक्षसिद्धान्तभटान् प्रचण्डान् । लक्षणया उत्कृष्टमित्यर्थो द्रष्टव्यः । अद्वैतस्य द्वैतप्रतिद्वन्द्वित्वेन मायावादस्यापि तथात्वं स्पष्टमेव । (४५) आत्मद्वैतवृषप्रचारणकृते--- जीवात्मपरमात्मनोः भेदप्रतिपाद- नरूपः योऽसौ द्वैतधर्म एव वृष इति श्लिष्टरूपकम् । वृषः धर्मो वृषभश्च । प्रचारणकृते प्रख्यापनार्थं प्रचारभूमिनयनार्थ च । वृषप्रचारणे दण्डस्यावश्यकता द्रष्टव्या । द्वीपिनि- तत्वमसीति वाक्यं द्वैतवृषशत्रुत्वात् द्वीपित्वेन रूपितम् । तस्य च अतत्वमसीत्येवं रूपेण च्छेदः । भग्ने तत्वमसीत्यत्र तन्त्रेण 'तत्वमसि' ' अतत्वमसि' इत्येवं द्वेधा पदविभागेन तत्वमसीत्ययं द्वीपी अतत्वमसीत्येवं भग्न इत्यर्थः । वृषः-वृषभो धर्मश्च । गोकुलं गवां वाचां च समूहः । वेदवाचः सर्वाः प्रसादाख्यगुणयुक्ताः सञ्जाता इत्यर्थः । गोपाल:-गवां पालकः, श्रीकृष्णश्च । गोरक्षणम् -गवां धरायाश्च रक्षणम् । अत्र श्रीमदाचार्यस्य भगवत्कार्यसाधकत्वं सूचितं भवति ।
॥४६॥ ॥४७॥ १४ मध्वानन्दलहरी । यतिर्जयस्तम्भचयान् समन्ता- दचीखनत् स्वीययशःपताकान् ।। वेदान्तकान्तारचरः समन्तात् स्वीयौजसा निर्धतसर्वसत्वः। वादीभसिंहः प्रकटप्रभावो वेदान्तभद्रासनमारुरोह ॥ शान्तेषु वैमत्यजुषां बजेषु ममेत्य शिष्यैः सह रौप्यपीठम् । म सर्वलोकं भविकाभिवृद्धया संयोजयन्नेवमुदाजहार ॥ अस्माभिरात्तकरुणः सुपरीक्षितानि सर्वाणि भाष्यकलितानि मतान्तराणि । नैतेषु किश्चिदपि साधुतमं समस्ति स्थालीपुलाकवदुदाहियनेऽयमर्थः ।। श्रुतीनां तात्पर्य यदि भवति मिथ्यात्वकथने तदा तन्मिथ्यात्वं प्रसजतितरां वेदवचसाम् । जडोऽप्येवं दध्यान खलु परशुं स्वस्य शिरसि स्वयं स्वस्य ध्वंसं कलयतु कथं वेदपुरुषः ॥ ॥४८॥ ॥४९॥ ॥५०॥ (४६) कृतान्तः– यमः सिद्धान्तश्च । (४७) निर्धतमर्वसत्व:- निर्जिताखिलमृगः, निर्जिताखिलबलश्च । भद्रासनम् - सिंहासनम् ।
मध्वानन्दलहरी । १५ नित्यं शुद्धे वस्तुनि ब्रह्मरूपे येन भ्रान्तिः कल्प्यते लोकसृष्टये । तस्मिन्नेव भ्रान्तिरेपा प्रसिध्य- त्यात्मब्रह्माद्वैतभावप्रसङ्गात् ॥ ॥५१॥ यद्यप्यन्ये विष्णुमार्गाश्रयित्वात् संलक्ष्यन्ते द्वैतसत्पक्षभाजः। भेदाभेदाद्यात्मकैः पक्षभेदै- रेते तावद्वस्तुतः शून्यपक्षाः ॥ ॥५२॥ एवं विचारपदवीमधिरुह्य सम्यक् तत्तद्विवादविषये परिभाव्यमाने। दोषान्धकारगहनानि भवन्त्यमूनि तस्मादिमं श्रयत राजपथं विशालम् ॥ ॥५३॥ "निर्णीयते सकलशास्त्रविलोडनेन तत्वद्वयं सकललोकनिषेवणीयम् । (५२) अन्ये ---विष्णुपारम्यवादिनो मतान्तरीया विवक्षिताः । विष्णु मार्गाश्रयित्वात्-वैष्णवमार्गाश्रयित्वात्, आकाशाश्रीयत्वाच्च । द्वैतसत्पक्षभाजः-द्रुतात्मकं सत्पक्षं भजन्तीति तद्भाजः, युक्त. रूपपक्षद्वयमाजश्च । पक्षभेद: भेदः अभेदः, भेदाभेद इत्येतेः परस्परविरुद्धैः पक्षभेदः, पक्षमङ्गश्च । शून्यपक्षाः- शून्यः शून्य- वादः पक्षः येषामिति विग्रहेण शून्यवादपक्षीयाः, पक्षहीनाश्च । अत्र विशेषणानां बलात्-अन्येषां विष्णुमार्गाश्रयित्वेन पक्ष- वत्वप्रतिभासेऽपि वस्तुतः पक्षभङ्गात् पक्षहीनत्वमभिव्यज्यते । तेन तेषां द्युलोकपतनासाममोलको
१६
मध्वानन्दलहरी।
॥५४॥
॥५५॥
॥५६॥
विष्णुः समस्तजगतामधिपः स्वतन्त्र-
स्तद्भिन्नवस्तु तदधीनतयाऽस्वतन्त्रम् ॥
जीवात्मनोऽखिलपतेः परमात्मनश्च
भेदो मिथः सकलशास्त्रगणैरुदीर्णः ।
तस्मादभेदकथनप्रतिभासि वाक्यं
व्याख्येयमेतदनुकूलतया समग्रम् ॥
नाजः कदापि गजतां न पिकः शुकत्वं
काशोऽपि नैव कुशतां न घटः पटत्वम् ।
जीवोऽपि नैव लभते परमात्मभावं
मायामहस्रजटिलैरपि तर्कजालैः ॥
"सत्यं भिदा" जगदिदं न विवर्तरूपं
सत्या श्रुतिः सकलजीवगणाश्च सन्याः ।
मन्या भिदा घटपटादिषु दृश्यमाना
नासत्यमस्ति तु विना मतमन्यदीयम् ।।
कामं हरो भवतु शङ्कर ईश्वरो वा
गङ्गाधरो भवतु चन्द्रकलाधरो वा ।
नास्माकमस्ति विपत्र विवादलेशः
सर्वोत्तमस्तु भगवान् हरिरेक एव ।
सोऽयं हरिनिखिलवेदवचोधिगम्यः
सर्वातिगः सकलमद्गुणसान्द्रमूर्तिः ।
ब्रह्मादयः सुरगणा मनुजाश्च स
तस्येव दासपदवीमनिशं भजन्ते ।।
॥५७||
॥५८॥
॥५९॥
मध्वानन्दलहरी । १७ संसारयन्ध इह देहभृतामनादि- विच्छित्तिरस्य भविता भगवत्प्रसादात् । तस्य प्रसादनविधाविह तत्त्ववित्ति- भक्तिश्च साधनमिति प्रथितं रहस्यम् ।। ॥६०॥ मुक्तिः सुखैकनिलये परमात्मधाम्नि दुःखाभिभूतिरहितस्वसुखानुभूतिः । मुक्तावपि स्वगतकिङ्करतादियुक्तो भोगानुपार्च्छति हरिं वरिवस्यमानः ॥ ॥६१॥ अक्षादिकं त्रितयमेव मतं प्रमाण- मेतेन तत्वमखिलं परिमार्गणीयम् । तत्र त्वथो निगमवाक्यविरोधिता च- नाक्षं नचाप्यनुमितिर्भवति प्रमाणम् ॥ ॥६२॥ मर्त्यस्य चक्रिपदवीगमनोत्सुकस्य चक्रेण मुद्रणमवश्यमिहेव कार्यम् । मुद्रां विना गतवतः पथिकस्य तत्र लोकान्तरे नहि भवेत् सुलभः प्रवेशः" ॥ ॥६३॥ इत्थं यतेः स्वीयमतप्रचार- मातन्वतो गाः परिपातुकामः। (६२) अक्षम्-प्रत्यक्षम् । (६३) चक्रिपदवी-विष्णुलोकः । गृहीतमुद्रस्यैव पथिकस्य देशान्तर- इव लोकान्तरऽपि प्रवेशः सुलभः स्यादिति भावः । (६४) याः-वाचः । अत्र गोपालबालस्य गवां परिपालनार्थमागमनं युक्तमुत्पश्यता कषिना NिE NUMPUSH १८ मध्वानन्दलहरी । गोपालवालस्तरणिं प्रविश्य समागमद् द्वारवतीप्रदेशात् ॥ ॥६४॥ स्वप्ने च तस्यागमनं विदित्वा गत्वा समुद्रस्य तटं यमीन्द्रः । सांयात्रिकादोपशिशुं गृहीत्वा त्रैलोक्यमप्यात्मवशं निनाय ।। ॥६५॥ लोको यत्पदमाचिनोति महता क्लेशेन नक्तन्दिवं सोऽयं त्वत्पदमूलमादरवशात् सम्प्राप्तवान् केशवः । कान्तत्वं त्वयि वर्तते यदि मुने लोहः समाकृष्यतां श्रीकान्तो ननु गोपिकाधृततनुः कान्तेन कृष्टः कथम् ॥ भक्तिर्ज्ञानमिति द्वयेन कृतिनो गच्छन्ति विष्णोः पदं नो कश्चित् कुहचिच्छतो यतिपते यत्पार्चमागाद्धरिः । केन ब्रूहि चराचराखिलगुरुस्त्वत्पार्श्वमभ्यागतः प्राप्तः कुत्र कुतः कदा कथमसावा कृष्टिमन्त्रस्त्वया ॥६॥ काषायेण हतः किमात्ममविध का शक्तिरस्याथवा किं दण्डेन हृतः स गोपशिशुकः किं तस्य दण्डाद्भयम् । किं वा मन्त्रबलेन ते वशमगानैतत्क्वचिच्छ्यते ..किं वा.ते.तपसा हृतम्तदपि नो दृष्टं श्रुतं वा क्वचित् ॥६८|| (६६) कान्तत्वम्-अयस्कान्तत्वम्, आवर्जकत्वं च । लोहः-अयः, वित्तं च । श्रीकान्तः श्रीयुक्तः अयस्कान्तः. लक्ष्मीकान्तश्च । गोपिकाधृततनुः- गोपस्त्रीभिः गोपीचन्दनेन वा धृता तनुः यस्येति द्रष्टव्यम् ।
२० मध्वानन्दलहरी । ग्रन्थानुपर्युपरि यः प्रणयन् धुलोक- सोपानमार्गमिव मध्वमुनिबन्ध । ॥७३॥ तमोवशादेकतया प्रतीतं द्वैतप्रपञ्चं परमो यमीन्द्रः। तत्त्वप्रदीपोज्ज्वलभाष्यभामा प्राचीकटत् पञ्चभिदाभिगमम् ॥ ॥७४॥ सौवर्णानि महार्थभाञ्जि भगवत्सूत्राणि संयोज्य यः शुद्धैः शास्त्रमहोदधेरधिगतेस्तत्वोक्तिमुक्ताफलैः । हारं ग्रन्थमरीरचद्यतिवरः सर्वातिशायिप्रभं यं कण्ठे दधदेष शिष्यनिचयो हारी समिन्धेनराम् ॥७५।। व्यासोपक्रममूत्रबीजनिवहं भाष्याणुभाष्यादिना सिञ्चन्नरयस्ततः किसलयन् वृक्षन्त्रमापादयन् । (७४) त्रिविक्रमपण्डिताचार्यविरचितेन तत्वप्रदीपेन तन्नाम्ना व्याख्या- नेन उज्वलया भाप्यभामेति द्रष्टव्यम् । (७५) सौवर्णानि--मुत्रणमयानि, शोभनेः वर्णरक्षरः घटितानि च । महार्थभाञ्जि - अर्थगौरवयुक्तानि महापाणि च । हारम् हरि- शब्दादणप्रत्यये रूपम् । हरिसम्बर्दू, मुक्ताहारं च । हारं अन्धम्-हरिसम्बद्धं ग्रन्थम्, प्रध्यतइति व्युत्पत्या मुक्ताहार- रूपां मालां च । हाम- हारवान्, मनोहरश्च । 'भक्तिहरो तत्पुरुषे च सख्यं तदेव हारं वद मन्यसे चेत्' इति भागवत प्रयोग हारं हरेश्वरितमिति श्रीधरः । (७६) श्रेयः-अभ्युदयः, निश्रेयस च, 'श्रेयो निश्रेयसामृते' इत्यमरः ।
मध्वानन्दलहरी। २१ सत्पुष्पैः सरसैः फलैश्च घटयन् श्रेयःप्रधानैरसौ मध्वाचार्ययमीश्वरः सहृदयानानन्दयत्यञ्जसा ॥ ॥६॥ भिक्षो त्वदीयवचनानि वचोऽतिशायि- मन्त्रप्रभावकलितानि भवन्ति नूनम् । यत् त्वं स्वशिष्यनिवहं पुरुभक्तिभाज मुक्तात्मतां नयसि ते वचसां प्रभावः ॥ ॥७७॥ अन्यस्त्वदीयवचनं सुधया समान- माख्यायते परमिदं न विचारचारु । यत्ते वचांसि परिभूतसुधारसानि मानमर्त्यपदभाजनतां नयन्ति । ||७८॥ मितिपदादुपमाननिराकृते- रुचितचारुपदन्यसनादपि । उभयथा कृतयस्तव संयमिन निरुपमानतया विचकासति ॥ ॥७९॥ शब्दार्थभावनापूर्वकल्पनाश्रुतिभूषिताः । कृतयो रमणीयास्त्वामाहुर्मीमांसकं गुरुम् ।। ॥८॥ (७७) मुक्तात्मताम् --- मुक्ताफलस्वरूपताम्, मुक्तस्वरूपतां च । (७९) मितिपदात्-- प्रमाणपदव्याः । उपमाननिराकृतेः-उपमाना- ख्यस्य प्रमाणस्य निराकरणात् । उपमानस्य परैरङ्गीकृतस्य प्रमाणत्वेनानभ्युपगमादित्यर्थः । (८०) शब्दार्थभावना- शाब्दी आर्थी च भावना, अदृष्टकल्पना, श्रुतिः एताभिः भूपिता इति मीमांसापक्षे, शब्दार्थयोः भावना २२ मध्वानन्दलहरी । यो देवताप्रत्ययवृद्धिकारी कर्तुः स्वतन्त्रत्वविधौ प्रसिद्धः । यश्चागमादेशविधानदक्षः स त्वं ध्रुवं व्याकरणस्य कर्ता ॥ चिरेण वन्ध्यत्वमुपेयिवांसः शाखिवजाः पुष्पदशावरुद्धाः। फलैस्त्वया सङ्घटिता नमन्ति त्वद्धस्तविन्यस्तशिरःप्रदेशाः ॥ ॥८१॥ ॥८२॥ विचारः, अभिनयकल्पना, श्रुतिः, एताभिः भृषिता इति श्रीमदाचार्यकृतिपक्षे । मीमांसकः-भीमांसाशास्त्रज्ञः, विचार दक्षश्च । गुरु:-मीमांसाशास्त्रप्रवर्तकः आचार्यश्च । एतत्कृतेः ग्रन्थैरस्य विचारदक्षत्वं स्फुटमवगम्यत इति पर्यवसितोऽर्थः । (८१) देवताप्रत्ययवृद्धिकारी-सास्य देवतेत्यादिना विहिताः तद्धिताः देवताप्रत्यया इत्युच्यन्त । तान् वृद्धिं च करोतीति तत्कारीति व्याकरणपक्षे देवताविषयकज्ञानवृद्धिकारील्याचार्यपक्षे। कर्तुः स्वतन्त्रत्वविधी - स्वतन्त्रः कर्तव्यनेन कर्तृकारकस्य स्वतन्त्रत्वं विधीयते व्याकरणे । जगत्कतुः स्वतन्त्रत्वमाचष्टे श्रीमदाचार्यः। आगमादेशविधानदक्षः-आगमानामादेशानां च विधाने दक्ष इति व्याकरणपक्षे. आगमानां वेदानामादेशस्य आज्ञाया विधानेऽनुसरणे दक्षइति श्रीमदाचार्यपक्षे । व्याकरणस्य- शब्दागमस्य व्याख्यानस्य च । (८२) शाखिव्रजाः- वृक्षाणां वेदानां च समृहाः । पुष्पदशाव- रुद्धाः- पुष्पावस्थावरुद्धाः, पर: ‘यामिमां पुष्पितां वाचम्' मस्वातस्तकहना २३ . परेणोच्चैः पुंसा कपटमृगतृष्णाकुलधिया कृतो यः सम्मोदाच्छ्रुतिपतितकान्तोक्तिवशिना । गुरोः शोकात् तस्माद् द्रुतमवनिजाता हनुमता परित्राता दिष्टयाऽगणितनिजदुःखेन कृतिना ॥ ॥८३॥ दोषाकरत्वविरहेऽपि कलानिधित्व- मभ्यूह्यतेऽस्य कुमुदाश्रयतां गतस्य । इत्याद्युक्तिभिः पुष्पितत्वेनास्थिताश्च । त्वद्वस्तविन्यस्तशिरः- प्रदेशा:-फलभरेण नम्रास्तरवः हस्तावचेयफलाः संवृत्ता इति वृक्षपक्षेऽर्थः । आचार्यपक्षे तु-वेदानां शिरःप्रदेशो नाम वेदा- न्तः, वेदाः वेदान्तभारं श्रीमदाचार्यहस्ते निक्षिप्तवन्त इति ज्ञेयम् । (८३) परेणाः पुंसा- ... परमपुरुषेण श्रीरामेण, परमतबादिना च । कपटमृगतृष्णाकुलधिया कपटरूपे मृगे या तृष्णा तया आकु: ला धीः यस्य सः, कपटरूपा या मृगतृष्णा तया आकुला धीः यस्य स च । श्रुतिपतितकान्तोक्तिवशिना- कर्ण प्रविष्टा या कान्तायाः सीताया उक्तिः तदृशिना, वेदपतिताः याः कान्ताः रम्याः आपातरमणीया इत्यर्थः उक्तयः तत्वमसीत्यादि वाक्यानि तद्वशिना च । अवनिजाता सीता अवनिजाताः माः । एतदानुगुण्येन परित्राता परित्राताः इति द्वेधा पदविभागो द्रष्टव्यः । हनुमता-आअनेयेन. श्रीमदाचार्येण च । (८४) दोषाकरः- निशाकरः दोपाणाभाकरश्च । कलानिधिः- चन्द्रः, चतुःषष्टेः कलानां निधिश्च । कुमुदाश्रयः-कुमुदा- नामाश्रयः, कोः भूमेः मुदः प्रीतः आश्रयश्च । विबुधान्- मध्यानन्दलहरी। स्वीयोदयेन यदयं विबुधान् धिनोति यस्साच तानमृतमाशयति द्विजेन्द्रः ।। ॥८४॥ गभीरे शास्त्राब्धौ भ्रमदुरवगाहोमिंजटिले महामोहापन्नेष्वनधिगतपारेषु बहुषु । भवान् पारं प्राप्तः कथमिव च सम्मोहरहितः कियानम्भोराशिस्तव पुनरसौ वायुजनुषः ॥ ॥५॥ कान्तारेषु शिलोच्चयेषु विपिनेष्वारामकुञ्जाद्रिषु प्राकारेषु जलाशयेषु तटिनीष्वन्येषु दुर्गेष्वपि । स्वच्छन्दं चरतः प्रभञ्जन तव द्यावापृथिव्योः समं सञ्चारः कथमत्र वेदगहने व्याहन्यतां कुत्रचित् ॥ ॥८६॥ योऽसौ द्वैतवृषस्य वेदगहने लीनस्य बुध्या गति गत्वा तत्र विलोक्य तं परिचरं दण्डी परिव्राजकः। श्रुत्यन्तेन निगृह्य तं क्षितितले सञ्चारयन् लीलया चक्रे कस्य मनो न विस्मयपदं गोपालवालाग्रणीः ॥८७॥ देवान् विदुपश्च । अमृतम् -पीयूषं, निश्रेयसं च । द्विजेन्द्र:- द्विजराजः, ब्राह्मणश्रेष्टश्च । (८५) भ्रमदुरवगाहोर्मिजाटले---- भ्रमा एव दुरवगाहा ऊर्मयः तैः जटिले भ्रभेः आवतः युक्ताः दुरवगाहा ऊर्मयः तैः जटिले च। (८७) द्वेतवृषस्येति श्लिष्टरूपकम्, वृपो नाम धर्मो वृपभश्च । परि घरम्-परितो धावन्तम्, सर्वतो व्याप्तं च, द्वैतधर्म सर्ववेद प्रतिपाद्यं विलोध्येत्यय । दण्डा-दण्डवान्, तिश्च । परि यामकः-परितो धावन् वृषभेण सहेत्यर्थः, परितः परीक्षमाणश्च मध्वानन्दलहरी । २५ चार्वाकादिकृतान्तदावदहनज्वालावलीढागमा- रण्यक्षोणितले शरीरिशरणे निर्दह्यमाने भृशम् । आनन्दाभिधतीर्थनिःसृतपृथुद्वैतामृतस्रोतसा सन्तापः शमितः समस्तजगतामानन्दमातन्वता ॥ ॥८८॥ मध्वानन्दयतीश सर्वजगतीचेतःसमावर्जक ध्वान्तत्वं त्वयि वर्ततां परमतस्यान्धत्वसम्पादनात् । कान्तोऽसीतरदुर्लभामुपगतस्त्वं शान्तदान्तात्मतां सर्वाकारमनोहरोऽसि जगतामत्यद्भुतोऽसि प्रभो ॥८९॥ कीशत्वं प्रथतेतरामधिगते दुर्गामशोकावनि भीमत्वं च परोरुभङ्गनिरते सुस्पष्टमेव त्वयि । मायारित्वमिदं च ते स्फुटमभूत् पूर्वावतारद्वये तस्मात् त्वां कलयन्ति साधु भगवन्नात्तावतारत्रयम् ॥१०॥ यतिः सर्व वेदं परीक्षमाण इत्यर्थः । श्रुत्यन्तेन-कर्णान्तेन, वेदान्तेन च । गोपालबालाग्रणीः-गोपालबालाग्रेसरः, गोपाल- बालः अग्रणीः यस्येति विग्रहेण विष्णुसर्वोत्तमत्वप्रतिपादकः श्रीमदाचार्यश्च । (८८) तीर्थम् - जलाशयः, गुरुश्च । (८९) अत्र मध्व, आनन्द, यतीश, सर्वजगतीचेतःसमावर्जक, इत्येतेषु पदेषु यथाक्रमं ध्वान्तत्व, दान्तत्व, शान्तत्व, कान्त- त्वानि विशेषतो द्रष्टव्यानि । (९०) कीशत्वम् - कपित्वम् । अधिगते-कर्तरि क्तः, हनूमत्पक्षे- प्राप्तवति, श्रीमदाचार्यपक्षे तु-विदितवति । दुर्गाम्-दुष्प्रापां, 39 २६ मध्वानन्दलहरी। भारतीरमणतामुपेयिवा- नक्षदोषकृतमात्मनोऽशुभम् । अञ्जसैव रिपुवर्गनिग्रहात् सञ्जहार मरुदात्मसम्भवः ॥ ॥९॥ आहयेषु पिशिताशनक्रम वारयन् कलिमलेन दूषितम् । दुर्शानां च । अशोकावनिम्- अशोकवनिकाम् , शोकरहितं स्थानं च विष्णुलोकमिति यावत् । परोरुभङ्गः- परस्य शत्रोः ऊरुभङ्गः, परेपा परमतवादिनामुरुभङ्गश्च । मायारित्वं-पूर्वा बतारद्वये शत्रुगतमायारित्वं अस्मिन् जनुपि तु परमतगतमाया- रित्वमिति विवेकः । (९१) अस्मिन् श्लोके हनुमद्भीमश्रीमदाचार्या वर्ण्यन्ते । तदनुरोधेन त्रयोऽर्था द्रष्टव्याः । भारतीरमणत्वं मुख्यप्राणस्य प्रसिद्धमेव । भीमश्च भारत्याः कथायाः नायकः । श्रीमदाचार्यश्च वाणी- रमणः । अक्षशब्दन यथाक्रम अक्षकुमारः अक्षक्रीडा इन्द्रि- याणि च ग्राह्याणि । रिपुवर्गः-शत्रुसमृहः, कामक्रोधादि- पड़र्गश्च । अक्षकुमारस्य अक्षक्रीडायाश्च दोषेण कृतं स्वस्या- शुभं शत्रुसमृहनिग्रहेण परिहृतवान् हनुमान् भीमश्च । इन्द्रि- यदोषकृतं जीवात्मनोऽशुभं पड़र्गनिग्रहमुपदिश्य संहृतवान् श्रीमदाचार्यः । अस्मिन्नर्थे ल्यबलोपे पञ्चमी द्रष्टव्या । अत्रात्म- शब्देन पूर्णप्रज्ञादन्ये जीवात्मानो विवक्षिताः । मरुदात्मस- म्भवः-हनुमान् भीमः श्रीमदाचार्यश्च । (९२) अस्मिन्नपि श्लोके हनूमीमश्रीमदाचार्यपरास्त्रयोऽर्था द्रष्टव्याः । आहवेषु-युद्धेषु यज्ञेषु च । पिशिताशनक्रमम् -पिशिताशना- मध्वानन्दलहरी । २७ पिष्टमेव पिशितं व्यधादयं मारुतिः परपदं विदन् स्वयम् ॥ ॥९२॥ आदौ येन हरीश्वरा उपकृताः सञ्जीवनेन न्वया निधूताश्च ततो यया स्वगदया मायाविनः शत्रवः । ताभ्यामेव वचोमयत्वमधुना सम्प्रापिताभ्यां त्वया सन्त्राताः प्रथमे परे तु परुपं कुण्ठत्वमापादिताः॥॥९३।। भ्रान्तिक्षिप्ते दुर्भरे दुःखहेतौ द्वैतस्कन्धेनोद्धृते विष्टपेऽस्मिन् । नां राक्षसानां मांसाशिनां दुष्टानामिति यावत् । दुर्योधनादीनां चाक्रमणम् । श्रीमदाचार्यपक्षे तु पिशिताशनस्य मांसाशनस्य विधिमित्यर्थः, यज्ञेषु प्राणिहिंसायाः निषिद्धत्वादिति भावः । कलिमलेन- कलहस्य कलिकालस्य च दोषेण । पिष्टमेव पिशितं व्यधात् शत्रूणां पिशितं पिष्टमेव चकारेति, यज्ञेषु पिशितस्थाने पिष्टमेवाकल्पयदिति चार्थः । मारुतिः हनूमान्, भीमः, श्रीमदाचार्यश्च । परपदं विदन्-परेषां शत्रूणां व्यवसितं जानन्, उत्कृष्टं स्थानं च जानन्; यागेषु प्राणि- हिंसानिरोधेन पिष्टपशुकल्पनेन च जनानां परलोकप्राप्तो व्या- घातो न स्यादिति जानन्निति यावत् । (९३) हरीश्वराः-कपीश्वराः । मायाविनः-कापटिकाः। प्रथमे-हरी. श्वराः, हरिः ईश्वरः येषामिति विग्रहेण हरिभक्ताइत्यर्थः । परे-मायाविनः, मायावादिन इत्यर्थः । (९४) भ्रान्तिक्षिप्ते-- भ्रान्तौ मिध्यामती भ्रमणे च क्षिप्ते । जग- . दिदं मिथ्यामती क्षिप्तत्वात् अशेषाणां भ्रमणे क्षिप्तत्वात २८ मध्वानन्दलहरी। नैकः शेषः किन्त्वशेषोऽपि ताव- ल्लब्धाश्वासस्त्वां कृतार्थः स्तवीति ॥ ॥९४|| शास्त्राब्धेर्मथनेन पूर्वमभवन्वस्तूनि यानि क्रमा- दन्यैस्तानि हतानि तृप्तहृदयैरेकैकशः सादरम् । आविर्भतमथान्ततो यदमृतं द्वैतं मतं तत् त्वया सम्मोदात् समुपाहृतं सुमनसां सम्प्रीतये कल्पते ॥ ॥९५॥ द्वैताख्यं सुरभूरुहं क्षितितले संरोप्य कारुण्यत- स्तत्सेकार्थमथो कमण्डलुधरानादिश्य शिष्यान् बहून् । तद्रक्षार्थमभीष्टदानकुशलं सम्प्रार्थ्य विश्वप्रभु सम्पन्नात्ममनोरथः स यतिराट् प्रायाददर्याश्रमम् ॥९६॥ योऽसौ द्वैतमहीरुहः श्रुतिमहीसंरूढमूलो महान् नानाहंसगणैः समुज्झितनिजावामसुदा सेवितः । शेषस्य च दुर्भरं दुःखहेतुश्चामीत् । तस्मिश्च जगति द्वैतस्क- न्धेनोद्धृते सति न केवलं शेषस्य किन्तु अशेपस्यापि आश्वासः समजनीत्यर्थः । (९५) सुमनसाम् --- देवानां सहृदयानां च । (९६) कमण्डलुधराः- यतिनः; सेचनकर्मानुगुण्येन कमण्डलुधर- शब्दः प्रयुक्तः कविना। (९७) हंसगणैः- हंसानां, परमहंसानां च गणैः । हंसाः वृक्ष सौन्दर्याकृष्टाः निजावासं पद्मभरः परित्यज्य वृक्षमाश्रिताः । परमहंसाश्च परित्यक्तस्त्रगृहाः द्रुतवृक्षमिमं समाश्रिता इत्यर्थः । उष्ट्रायः-औन्नत्यम् ।
.. ३० मध्वानन्दलहरी । ध्यासेन सर्वगुरुणा परमेण पुंसा व्यासेन शिष्यपरमाणुकणेन चापि । साक्षाजगद्गुरुरसाविति यः प्रमोदा- तोष्ट्रय्यते स खलु मध्वमुनिर्गरिष्ठः ॥ मध्यानन्दलहरी सम्पूर्णा ॥ ॥१०॥ (१०१) सर्वेषां गुरुणा परमपुरुषाभिन्नेन भगवता बादरायणेन श्रीम- दाचार्यः जगति सर्वमहत्वेन वर्णित इति मध्वविजयादवगम्यते। यो गुरुणा शिष्येण च गुरुत्वेन वर्ण्यते तादृशः पुरुषः गरिष्टो भवितुमर्हतीत्याशयः । शिवं भूयात् ।
No text on this page.