Bharti Bhawan Liabrary, Allahabad

Shringar Satkam

Pandurang Jawaji

PDF Proofread

Front matter

श्री।
भर्तृहरिविरचितं
शृंगारशतकम्।
महावलोपाकृष्णशास्त्रिविरचितया
व्याख्यया समलङ्कृतम् ।
पञ्चमं संस्करणम् ।
मुम्बय्यां
पाण्डुरङ्ग जावजी,
इत्येतैः स्वीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा
प्रकाशितम् ।
शाकः १८४८, सनाब्दाः १९२६.
मूल्यं ५ आणकाः ।

( All rights reserved by the publisher, ]
PUBLISHER:-Pandurang Jawaji,
PRINTER:-Ramchandra Yesu Shedge,
Nirnaya-sagar' Press,
}26-28, Kolbhat Lano, Bombay.

॥ श्रीः॥ विद्वदभ्यर्थना। स्वस्तिश्रीमत्समस्तजगदाधारपरमकरुणावतारस्य घनश्यामकल्पविटपि- विशङ्कटविटपतटप्रकटप्रोत्कटसुमनःसमानमृदुलभक्तावतंसमनःसिंहासन- कृताधिवासनस्य भगवतो नारायणस्य लीलातः प्रवर्तमानायामस्यां पञ्चम्यां भूतसृष्टौ समस्तकविकलाकोविदस्याप्यवगतसकलशास्त्रस्य निजयशःसुधाध- वलितविशुद्धविज्ञानविलसितविबुधजनमानसमन्दिरस्य नितान्तशौयौदार्य- धैर्यवीर्यगाम्भीर्यसौशील्यादिगुणमणिगणाभरणविभूषितकलेवरस्य,पवित्रच- रित्रपवित्रीकृतधरित्रीवलयस्य, सकलावनीशवन्दितचरणस्य, दिगन्तरलु- ठत्कीर्ते राजर्षिप्रवरस्य, श्रीमतो भर्तृहरिमहीपालस्य, निजानुभवपुरःसरं संसारतत्त्वार्थसारोपदेशदेशिकीभूतमिदं शतकत्रयात्मकं नीतिशृङ्गारवै- राग्यविषयनिबद्धं काव्यं समस्तजनकल्याणाय संप्रसार्यमाणं विबुधजनचे- तोमहानन्दं समुत्पादयतीति हि तावद्भूयोभूयो जोघुष्यत एव सरलबुद्धि- भिर्विद्वद्भिः॥ तदेतत्काव्यमनन्वितटीकार्थमस्ताव्यस्तनिर्गलितनिरर्गलविषयमासीत् । तादृशाव्यवस्थया ग्रन्थदोष पालोच्य सहृदयसूचनया प्रेरितोऽहं गोदावरी- तीरविलसच्छ्रीनासिकक्षेत्रनिवासिभिर्महाबलोपनामधेयैः कृष्णशास्त्रिभिर्न- वीनां काव्यानुगतां टीका कारयित्वा प्राचीनलिखितपञ्चषट्पुस्तकानि मेलयित्वा ग्रन्थं शोधयित्वा सुविमलकीलकाक्षरैरङ्कित्वा विदुषामग्रतः प्रसि- द्धिमनैषम् । तद्धि सुधियो मदीयं प्रयासमभिन्दनेन कृतार्थयन्त्वित्याशासे- aysafe

No text on this page.

अथ भर्तृहरिकृतं शृङ्गारशतकं प्रारभ्यते। श्रीमद्राजर्षिप्रवरो भर्तृहरिः शृङ्गाररससेवनमपि नीतिपूर्वकमेव कर्तव्यं न तद्विरुद्धमिति सूचयन् प्रथमं नीतिज्ञानाय नीतिशतकं कृत्वा ततः शृङ्गार- रसस्य परिणामे वैराग्यजनकत्वात्वचिद्धेयत्वेन क्वचिदुपादेयत्वेनादौ तं वर्ण- यित्वा पश्चाद्वैराग्यं वर्णयिष्यामीति मनसि निधाय शृङ्गारशतकं प्रारिप्सुस्तत्र कामस्य प्राधान्यादादौ तन्नमस्कारात्मकं मङ्गलमाचरति- शंभुस्वयंभुहरयो हरिणेक्षणानां येनाक्रियंत सततं गृहकर्मदासाः। वाचामगोचरचरित्रविचित्रिताय तस्मै नमो भगवते कुसुमायुधाय ॥१॥ शंभुस्वयंन्विति ॥ शंभुः शिवश्च स्वयंभूर्ब्रह्मा च हरिविष्णुश्च ते शंभुवयंभु- हरयः कर्तुमकर्तुमन्यथाकर्तुं शक्ता अपि येन मदनेन हरिणस्य ईक्षणे नेत्रे इव ईक्षणे यासां तासां स्त्रीणां गृहकर्मणि दासा दासवत्सेवाकारिणः सततं निरन्त- रमक्रियन्त कृताः तस्मै अत एव वाचां वाणीनां न गोचराणि अविषयभूतानि । वाचा अनुच्चारणीयानीति यावत् । चरित्राणि तैर्विचित्रितो लोकविलक्षण- चरित्रकर्ता तस्मै अत एव भगवते ऐश्वर्यवते कुसुममेवायुधं शस्त्रं यस्य तस्मै कामाय नमोऽस्तु । अत्र कस्मिंश्चित्पुस्तके "चूडोत्तंसितचारुचन्द्र" इति श्लोकः प्रथमं पठितः । परंतु बहुपुस्तकेष्वदृष्टत्वादयोग्यत्वाच्च न संगृहीतः किंत्वयमेव योग्यत्वादन्यबहुपुस्तकेषु दृष्टत्वाच्च लिखित इति । वसन्ततिलका वृत्तम् । "उक्ता वसन्ततिलका तभजा जगौ गः" इति तल्लक्षणात् ।। यावद्भाग्योदयोऽस्ति तावच्छृङ्गारोद्बोधकं गृहादिकं स्थिरं भवति, तद्वैपरीये तत्सर्व नष्टं भवतीति नष्टतन्तुकमुक्ताजालदृष्टान्तपुरःसरं तदनित्यत्वं वर्णयति- शुभ्रं सम सविभ्रमा युवतयः श्वेतातपत्रोज्वला लक्ष्मीरित्यनुभूयते स्थिरमिव स्फीते शुभे कर्मणि । विच्छिन्ने नितरामनङ्गकलहक्रीडात्रुटतन्तुकं मुक्काजालमिव प्रयाति झटिति भ्रश्यदिशो दृश्यताम् ॥२॥ शुभ्रमिति ॥ शुभ्रं सुधालेपादिना श्वेतं सद्मा गृहम् , विभ्रमो विलासस्तत्स- हिताः युवतयः स्त्रियः, श्वेतं शुभ्रं यदातपत्रं छत्रं तेनोज्ज्वला देदीप्यमाना २ भर्तृहरिकृतं लक्ष्मीः संपदिति एतत्सर्वे शुभे पुण्ये कर्मणि स्फीते पुष्टे सति स्थिरमिवाचल- मिव लोकैरनुभूयते । तस्मिन्पुण्ये विच्छिन्ने नष्टे सति नितरां अनङ्गः कामस्त- जनिता या कलहक्रीडा तया त्रुटन्तस्तन्तवो यस्यात एव भ्रश्यन्नष्टं मुक्ताजाल- मिव दिशो दशदिशो झटिति शीघ्रं याति नश्यतीति यावदिति सदश्यतां प्रत्यक्षमनुभूयताम् । शार्दूलविक्रीडितं वृत्तम् । “सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्" इति तल्लक्षणात् ॥ यावत्स्त्रीकटाक्षैविवेकी पुरुषो न ताड्यते तावत्तस्य हृदि विवेकः स्फुरतीति स्त्रीणां विवेकध्वंसकत्वं वर्णयति- तावदेव कृतिनां हृदि स्फुरत्येष निर्मलविवेकदीपकः। यावदेव न कुरङ्गचक्षुषां ताड्यते चपललोचनाञ्चलैः॥३॥ तावदिति ॥ कुरङ्गचक्षुषां हरिणीदृशां चपलानि चञ्चलानि लोचनानि नेत्राणि तान्येवाञ्चलाः प्रान्तभागास्तैर्यावन्न ताड्यते तावदेव कृतिनां विवेकि- पुरुषाणां हृदि अन्तःकरणे एष निर्मलः कामादिमलरहितो विवेकदीपकः स्फुरति । अनेन स्त्रियाः कटाक्षेण विवेकिनामपि विवेकभङ्गो भवतीति सूचितम् । रथोद्धता वृत्तम् । “रो नराविह रथोद्धता लगौ" इति तल्लक्षणात्।। स्त्रियं दृष्ट्वा निर्विकारमनसो ये ते पुरुषा जगति धन्या इत्याह- धन्यास्त एव चपलायतलोचनानां तारुण्यदर्पघनपीनपयोधराणाम् क्षामोदरोपरि लसत्रिवलीलतानां दृष्वाकृति विकृतिमेति मनो न येषाम् ॥ ४॥ धन्यास्त इति ॥ चपले चञ्चले आयते विस्तृते लोचने नेत्रे यासाम् । तारुण्यस्य यौवनस्य दो गर्यो यासां ताश्च । घनौ निरन्तरौ पीनौ पुष्टौ पयोधरौ स्तनौ यासां ताश्च ताश्च तासाम् । क्षामं कृशं यदुदरं तस्योपरि लसन्ती त्रिवलीलता यासां तासां स्त्रीणामाकृतिमाकारं दृष्ट्वा येषां पुरुषाणां मनो विकृति विकारं नैति न प्राप्नोति त एव धन्याः पुण्यवन्तः । “सुकृती पुण्यवान्धन्यः" इत्यमरः । स्युः। अनेन स्त्रियो दर्शनमात्रेणावश्यं मनो- विकृतिं जनयन्तीति व्यज्यते । वसन्ततिलका वृत्तम् ॥ स्त्रीसङ्गत्यागवार्ताकारिणो जना बहवः सन्ति परंतु तज्जधनत्यागी दुर्लभ इत्याह- भवति वचसि सङ्गत्यागमुद्दिश्य वार्ता श्रुतमुखरमुखानां केवलं पण्डितानाम् ।

शृङ्गारशतकम्। mr जघनमरुणरत्नप्रन्थिकाञ्चीकलाप कुवलयनयनानां को विहातुं समर्थः ॥ ५॥ भवतीति ॥ श्रुतेन अनेकविधश्रवणेन मुखरं सशब्दं मुखमाननं येषाम् । बहुजल्पाकानामिति यावत् । तेषां पण्डितानां सङ्गलागं स्त्रीसङ्गत्यागमुद्दिश्य वचस्येव केवलं वार्ता भवति वार्तामात्रमेव भवति न तु तथाचरणमित्यर्थः । किंतु कुवलयं कमलपत्रं तत्सदृशे नेत्रे यासा तासां अरुण रक्तवर्णै रत्नैर्ग्रन्थि- प्रथनं यस्मिन्नेतादृशः काञ्चीकलापः कटिभूषणं यस्मिंस्तत् जघनं विहातुं त्यक्तुं कः समर्थः । न कोऽपीत्यर्थः । स्त्रीसङ्गत्यागवाती वाण्या कर्तुं बहवः पण्डिताः सन्ति परंतु तत्त्यागं मनसा कर्तु कोऽपि न समर्थ इति भावः । मालिनी वृत्तम् । “ननमयययुतेयं मालिनी भोगिलोकैः" इति तल्लक्षणात् ।। गजादिगर्वहरणे केचिच्छ्रराः सन्ति परंतु दुर्जयं कामं जेतुं समर्था अतिदुर्लभा इत्याह मत्तेभकुम्भदलने भुवि सन्ति शूराः केचित्प्रचण्डमृगराजवधेऽपि दक्षाः। किं तु ब्रवीमि बलिनां पुरतः प्रसह्य कन्दर्पदर्पदलने विरला मनुष्याः ॥ ६॥ मत्तेभेति ॥ मत्तो मदोन्मत्तो य इभो गजस्तस्य कुम्भो गण्डस्थलं तस्य दलने विदारणे शूरा मुवि सन्ति, केचित्प्रचण्डोऽत्यन्तकोपनः । "चण्डस्त्व- त्यन्तकोपनः" इत्यमरः। इत्यमरः । यो भृगराजः सिंहस्तस्य वधे हननेऽपि दक्षाः समर्थाः सन्ति किंतु परंतु कन्दर्पः कामस्तस्य दर्पो गर्वस्तस्य दलने मनुष्या विरलाः सन्तीति बलिनां बलिष्ठानां पुरतोऽप्रभागे प्रसह्य हठात् । “प्रसह्य तु हठार्थ- कम्" इत्यमरः । अहं ब्रवीमि । अत्याग्रहपूर्वकं ब्रवीमीत्यर्थः । वसन्ततिलका वृत्तम् ॥ स्त्रियः स्मितादिभावैः पुरुषमवश्यं बनन्तीत्याह- स्मितेन भावेन च लज्जया भिया परामुखैरर्धकटाक्षवीक्षणैः । वचोभिरीाकलहेन लीलया समस्तभावैः खलु बन्धनं स्त्रियः ॥७॥ स्मितेनेति ॥ स्त्रियः स्मितेनेषद्धास्येन, भावेन हस्ताद्यवयवचालनेन, लज्जया मुखादिगोपनरूपया, भिया कदाचिद्भीत्या, पराङ्मुखैः पराचीनमुखैः, अर्धकटाक्षवीक्षणैरोन्मीलितापाङ्गदर्शनैः, वचोमिश्चारुभाषणैः, ईर्ष्या परो- त्कर्षासहिष्णुत्वं तेन कलहस्तेन, लीलया बिलासेन, एतैः समस्तभावैः सर्व- 90 भर्तृहरिकृतं । चेष्टामिः । "भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु" इत्यमरः । पुरुषस्य बन्धनं खलु निश्चयेन भवन्ति । वंशस्थं वृत्तम् । “जतौ तु वंशस्थमुदीरितं जरौ" इति तल्लक्षणात् ॥ स्त्रियः कस्य मनो वशं न कुर्वन्ति, अपि तु सर्वस्यापि कुर्वन्तीत्याह- एताश्चलद्वलयसंहतिमेखलोत्थ- झङ्कारनूपुररवाहृतराजहंस्यः। कुर्वन्ति कस्य न मनो विवशं तंरुण्यो वित्रस्तमुग्धहरिणीसहशाक्षिपातैः॥ ८॥ एता इति ॥ चलन्ति वलयानि कङ्कणानि तेषां संहतिः समूहः मेखला काञ्ची च ताभ्यामुत्थितो झङ्कारः शब्दः नूपुराणां पादभूषणानां रवश्च ताभ्या- माहृता पराभूता राजहंसी यामिस्ताः। कङ्कणकाञ्चीनूपुररवैर्जितराजहंसीशब्दा इत्यर्थः। एतादृश्यस्तरुण्यः वित्रस्ता भयचकिता मुग्धा सुंदरी या हरिणी तत्सदृशानामक्ष्णां नेत्राणां पातैश्चालनैः कस्य पुरुषस्य मनोऽन्तःकरणं विवशं व्याकुलं न कुर्वन्ति । अपि तु सर्वस्यापि कुर्वन्तीत्यर्थः । स्त्रियः पुरुषं सर्वथा वशीकुर्वन्तीति भावः । वसन्ततिलका वृत्तन् ।। योषिदेव सुखदुःखैकहेतुर्नान्यत्किमपीत्याह- सत्यं जना वच्मि न पक्षपाताल्लोकेषु सर्वेष्वतितथ्यमेतत् । नान्यन्मनोहारि नितम्बिनीभ्यो दुःखस्य हेतुर्न हि कश्चिदन्यः ॥ ९ ॥ सत्यमिति । हे जनाः, अहं सत्यं वच्मि । पक्षपातान्न । सर्वेषु लोकेषु एतदेवातितथ्यम् । किं तत् । नितम्बिनीभ्यः स्त्रीभ्योऽन्यन्मनोहारि मनसः आकर्षकम् । मनःसंतोषकरमिति यावत् । नास्ति । अन्यो योषिदतिरिक्तः कश्चिदपि दुःखस्य हेतुः कारणं नहि । असति वैराग्ये स्त्रीभ्योऽन्यन्मनोरम नास्ति । वैराग्यपूर्वकविचारे क्रियमाणे दुःखहेतुरन्यन्नास्तीति भावः । इन्द्रवज्रा वृत्तम् । “स्यादिन्द्रवज्रा यदि तौ जगौ गः" इति तल्लक्षणात् ॥ स्त्रीणां खभावसिद्धान् कटाक्षादीन् दृष्ट्वा स्वीयत्वेन मत्वा मूढपुरुषो मोहितो भवतीति भ्रमरदृष्टान्तपूर्वकमाह- लीलावतीनां सहजाः स्वभावास्त एव मूढस्य हृदि स्फुरन्ति । रागो नलिन्या हि निसर्गसिद्धस्तत्र भ्रमत्येव मुधा षडतिः ॥१०॥ लीलावतीनामिति ॥ लीलावतीनां विलासवतीनां स्त्रीणां सहजाः सहो- । ।

शृङ्गारशतकम्। त्पन्ना ये स्वभावाः कटाक्षक्षेपादिधर्माः । “धर्मः स्वभाव आत्मा स्यात्' इति हलायुधः । त एव मूढस्याज्ञस्य हृदि अन्तःकरणे स्फुरन्ति प्रकाशन्ते । तत्र दृष्टान्तः । हि यस्मात् नलिन्या रक्तोत्पलिन्याः रागो लोहितादिनिसर्गसिद्धः खभावसिद्धोऽस्ति, तत्र तस्यां नलिन्यां षडजिभ्रमरो मुधा व्यर्थमेव भ्रमते स्वाद्देश्यकं रागं मत्वा भ्रमरो व्यर्थमेव भ्रमतीत्यर्थः । वृत्तं पूर्वोक्तमेव ।। ज्यभिलाष एव प्रणामादिहेतुर्भवतीत्याह- सिद्धाध्यासितकन्दरे हरवृषस्कन्धावगाढद्रुमे गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि । कः कुर्वीत शिरःप्रणाममलिनं म्लानं मनखी जनो यद्वित्रस्तकुरङ्गशावनयना न स्युः स्मरात्रं स्त्रियः॥११॥ सिद्धाध्यासितेति । यद्यदि वित्रस्तो भयचकितो यः कुरङ्गशावो हरिण- शिशुस्तत्सदृशे नयने यासां ताः स्त्रियः स्मरास्त्रं कामास्त्रभूता न स्युस्तर्हि सिद्धरध्यासिता अधिष्ठिताः कन्दरा गुहा यस्मिन् । हर: शिवस्तस्य वृषो नन्दी तस्य स्कन्धाभ्यामवगाढा घर्षिता द्रुमा वृक्षा यस्मिन् । गङ्गया धोतं शिलातलं यस्मिन् । एतादृशे श्रेयसि श्रेयःसाधनभूते। निरुपद्रवे इति यावत् । हिमवतः स्थाने स्थिते सति को मनस्वी जनः शिरः मस्तकं प्रणामेन मलि- नमत एव म्लानं कुर्वीत । अपितु न कोऽपीत्यर्थः । प्रणाममालिन्यपूर्वकशिरो- म्लानीकरणे स्त्रिय एव हेतवो नान्य इति भावः । शार्दूलविक्रीडितं वृत्तम् ।। अस्मिन् संसारे परोपकारादन्यत्पुण्यमधिकं नास्ति तथा कमलनयनाभ्यः स्त्रीभ्योऽन्यद्रम्यं नास्तीत्याह- भवन्तो वेदान्तप्रणिहितधियामाप्तगुरवो विचित्रालापानां वयमपि कवीनामनुचराः। तथाप्येतद्रूमो नहि परहितात्पुण्यमधिकं न चास्मिन्संसारे कुवलयदृशो रम्यमपरम् ॥१२॥ भवन्त इति ॥ भवन्तो वेदान्ते प्रणिहिता धृता घीर्बुद्धियस्तेषामाप्ताश्च ते गुरवः शिक्षकाः । “मन्त्रगुरवः" इत्यपि पाठः । स्थ, वयमपि विचित्रा आ- लापा भाषणानि येषां तेषां कवीनामनुचरा अनुवर्तिनः स्मः । तथाप्यस्मि- न्संसारे परहितात्परोपकारादधिकं पुण्यं नहि नास्ति, तथा कुवलयदृशः कमलनयनायाः स्त्रिया अपरमन्यद्रम्यं रमणीयं वस्तु नास्तीत्येतद्वयं ब्रूमः । शिखरिणी वृत्तम् । “रसै रुदैश्छिन्ना यमनसभला गः शिखरिणी" इति ।।

भर्तृहरिकृतं भूधरनितम्बस्य स्त्रीनितम्बस्य चेत्युभयोरपि सुखहेतुत्वात्तयोर्मध्ये आल्य- न्तिकसुखहेतुत्वं कस्येत्याशयेन युग्मेन पृच्छति- मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु । सेव्या नितम्बाः किमु भूधराणामुत सरस्सेरनितम्बिनीनाम् ॥ १३ ॥ मात्सर्यमिति ॥ आर्याः कार्याकार्यविचारनिपुणाः विद्वांसः, मात्सर्यं परो- त्कर्षासहनमुत्सार्य त्यक्त्वा कार्यमवश्यकर्तव्यं विचार्य समर्यादं शास्त्रीयमर्या- दानुल्लङ्घनपूर्वकमिदं वक्ष्यमाणं वदन्तु कथयन्तु । इदं किम् । लोकैर्भूधराणां पर्वतानां नितम्बाः कटकाः "कटकोऽस्त्री नितम्बोऽदेः" इत्यमरः । सेव्याः सेवनीयाः किमु, उताथवा स्मरः कामः स्मेर ईषद्धास्यं तद्युक्तानां नितम्बिनीनां स्त्रीणां नितम्बाः कटिपुरोभागाः सेव्या इति । उपजातिवृत्तम् ।। अधिकारभेदेनोभयोरपि सेव्यत्वमित्युत्तरमाह- किमिह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापै- यमपि पुरुषाणां सर्वदा सेवनीयम् । अमिनवमदलीलालालसं सुन्दरीणां स्तनभरपरिखिन्नं यौवनं वा वनं वा ॥ १४॥ किमिहेति ॥ इह लोके बहुभिरनेकैर्युक्त्या शून्या रहितास्तैस्तैः प्रलापैर- नर्थकवचनैः किम् । “उक्तैः" इति पाठे उक्तैः कथितरित्यर्थः पुरुषाणां पुरुषैः द्वयमपि द्वयमेव सर्वदा सेवनीयं सेव्यम् । द्वयं किम् । अभिनवो मदस्तारुण्यगर्वस्तत्संबन्धिनी लीला भृकुट्यादिचालनं तेन लालसमौत्सुक्यं य- सिन्, स्तनयोः भरोऽतिशयस्तेन परिखिन्नं परिक्लिष्टं, सुन्दरीणां यौवनं तारुण्यं वा अथवा वनमरण्यं वेति । असति वैराग्ये यौवनवत्यः स्त्रियः सेव्याः। सति तु तस्मिन्वनं सेव्यम् । अवस्थाभेदेनोभयोरपि सुखहेतुत्वादिति भावः । मालिनी वृत्तम् ॥ यस्तरुणीमुजालिङ्गितः सन् रात्रौ शेते स धन्य इत्याह- मत्तेभकुम्भपरिणाहिनि कुडमार्दै कान्तापयोधरतटे रसखेदखिन्नः। वक्षो निधाय भुजपञ्जरमध्यवर्ती धन्यः क्षपांक्षपयति क्षणलब्धनिद्रः॥१५॥ मत्तेमेति ॥ यः पुरुषः रसः शृङ्गारादिस्तत्सेवनजन्यो यः खेदस्तेन खिनः श्रान्तः सन् मत्तो मदोन्मत्तो य इभो गजस्तस्य कुम्भो गण्डस्थलं. तद्वत्परि- पस्य को वा भोक्ता भविष्यतीति नाहं जान इत्यर्थः । शि। एतस्य रू. शृङ्गारशतकम् । णाहिनि विस्तीर्णे, कुङ्कुमेनार्दै, कान्तायाः पयोधरतटे स्तनतटे वक्ष उरो निधाय अर्थास्त्रिया एव भुजावेव पञ्जरस्तन्मध्यवर्ती सन् क्षणं क्षणमात्रं लब्धा निद्रा येन एतादृशः सन् क्षपां रात्रि क्षपयति नयति स धन्यः । अस्मिन्संग सारे ख्यालिङ्गनपूर्वकं शयनमेवात्यन्तसुखहेतुरिति भावः । वसन्ततिलका वृत्तम् ।। निरतिशयरूपवती स्त्रियं दृष्ट्वा मोहितस्य तामलभमानस्य कस्यचित्पुरुषस्य तद्दौलभ्यसूचिकामुक्तिमाह- अनाघ्रातं पुष्पं किसलयमलूनं कररुहै- रनाविद्धं रत्नं मधुवनमनास्वादितरसम् । अखण्डं पुण्यानां फलमिव भवद्रूपमनघं न जाने भोकारं कमिह समुपस्थास्यत इति ॥ १६ ॥ अनाघ्रातमिति ॥ न आघ्रातं घ्राणविषयीकृतं पुष्पं कुसुमम् । न केना- प्यास्वादितमित्यर्थः । कररहैनखैरलूनमच्छिन्नं किसलयं पल्लवः केनाप्यस्पृ- ष्टम् । अम्लानमित्यर्थः। “पल्लवोऽस्त्री किसलयम्" इत्यमरः । अनाविद्धं वेधरहितं रत्नम् । तेजसा किंचिदपि न हीनमित्यर्थः । न आस्वादितो रसो यस्य तत् मधु- वनं मधुररसवनम् । न केनाप्युपभुक्तमित्यर्थः । पुण्यानामखण्डं फलमिव अ- नघं दोषरहितं भवत्या रूपम् । “सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः" । इह संसारे कं भोक्तारं उपस्थास्यते संगमिष्यते मित्रीकरिष्यते वा इत्यहं न जाने । “उ- पाद्देवपूजा-' इत्यादिना संगतिकरणे मित्रीकरणे वा आत्मनेपदम् । एतस्य रू- तृष्णाया दुर्जयत्वमाह- राजस्तृष्णाम्बुराशेन हि जगति गतः कश्चिदेवावसानं कोवार्थोऽर्थः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागः । गच्छामः सद्म यावद्धिकसितनयनेन्दीवरालोकिनीना- माक्रम्याक्रम्य रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ १७ ॥ राजनिति ॥ हे राजन् , जगति लोके तृष्णारूपो योऽम्बुराशिः समुद्रस्त- स्यावसानमन्तम् । पारमिति यावत् । कश्चिदपि नहि गतः । अतः प्रभूतैः प्रचुरै- रथैः कोवाऽर्थः किं प्रयोजनम् । न किमपीत्यर्थः । प्रभूतेऽर्थे सत्यपि तृष्णाया अशान्तेरिति भावः । तथा स्ववपुषि स्वशरीरे गलिते शिथिलपाये सति यौवने सानुरागः प्रीतियुक्तो भवति । तृष्णायाः शान्त्यभावादित्यर्थः । "सानुराग" ॥ ।

८ भर्तृहरिकृतं - इत्यत्र पाठान्तराणि त्वनुपयुक्तत्वात्त्यक्तानि । यतो वयं विकसितानि नयनानीन्दी- वराणि कमलानीवेन्दीवराणि तैरवलोकयन्ति तासाम् । “नयनेन्दीवर" इत्यत्रापि पाठान्तराण्यनुपयुक्तत्वात्त्यक्तानि । प्रेयसीनां स्त्रीणां रूपं आक्रम्याक्रम्य झटिति जरया यावन लुप्यते छिद्यते तावत्तासां सम गृहं गच्छाम एव । अनेन वृद्धत्वं प्राप्तस्यापि पुरुषस्य तृष्णाशान्ति व भवतीति सूचितमिति भावः। स्रग्धरा वृत्तम् । "म्रन्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्। इति तल्लक्षणात् ॥ कामोद्दीपकमेघादिदर्शनेन प्रियाविरहखिन्नानां पथिकानां स्थितिमाह- उपरिघनं धनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः। क्षितिरपि कन्दलधवला दृष्टिं पथिकः क यापयतु ॥ १८॥ उपरीति ॥ उपर्युरिष्टात् घनं निबिडं धनपटलमभ्रपटलम् , तिर्यक् तिर्यक्प्रदेशे नर्तिता मयूरा येषु ते गिरयः पर्वता अपि सन्ति, क्षितिरपि पृथ्व्यपि कन्दलैनवाकुरैर्धवला सुन्दरी । “धवलागवि । वृषश्रेष्ठे पुमान्वाच्यलिङ्गः शुक्ले च सुन्दरे" इति मेदिनी । अस्ति अतः पथिको दृष्टिं क यापयतु प्रापयतु । विनोदयविति यावत् । तस्मात्प्रेयसीसहवास एव सुखहेतुरिति भावः । आर्या- वृत्तम्॥ इह संसारे पण्डितानां द्विधा कालयापनं भवतीत्याह- संसारेऽस्मिन्नसारे परिणतितरले द्वे गती पण्डितानां तत्त्वज्ञानामृताम्भप्लवलुलितधियां यातु कालः कदाचित् । नो चेन्मुग्धाङ्गनानां स्तनजघनघनाभोगसंसर्गिणीनां स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलोलोद्यमानाम् ॥ १९ ॥ संसार इति ॥ अस्मिन्नसारे सारांशरहिते, परिणतिः परिणामस्तत्र तरले चञ्चले । विनाशिनीत्यर्थः । संसारे पण्डितानां द्वे गती मार्गों दशे वा भवतः। "गतिः स्त्री मार्गदशयोः” इति मेदिनी । द्वे के। तत्त्वज्ञानमेवामृताम्भो. ऽमृतोदकं तस्मिन्प्लवोऽवगाहनम् । "प्लुत" इति पाठेऽपि स एवार्थः । तस्मि- न्विषये लुलिता लठिता धीबुद्धिर्येषां तेषां कालो यात्वित्येका गतिः । नोचे- तत्त्वज्ञानं न चेत् स्तनौ कुचौ जघनं कटिपुरोभागश्च तेषां घनो निविडो य आ- भोगः परिपूर्णता तस्य संसर्गो विद्यते यासाम् । “भराभोग" इत्यपि क्वचित्पाठः। तासां मुग्धाङ्गनानां सुन्दरस्त्रीणां स्थूलानि यान्युपस्थानि तान्येव स्थल्यः प्रदे- शास्तासु स्थगितः स्थिरो यः करतलस्तस्य स्पर्शस्तस्मिन्लोलस्तृष्णासहितः । । LABNomyamitra-MARI शृङ्गारशतकम् । अभिलाषपूर्वक इति यावत् । एवंविध उद्यम उद्योगो येषां तेषाम् । सर्वदा- भिलाषपूर्वकनितम्बिन्युपस्थनिहितहस्तानामित्यर्थः । कालो यात्विति द्वितीया गतिः । इह संसारेऽसति तत्त्वज्ञाने सर्वदा नितम्बिनीसेवनं तत्त्वज्ञानवत्सुख- जनकमिति तात्पर्यम् । स्रग्धरा वृत्तम् ॥ विद्वानपि पुरुषः स्त्रियं दृष्ट्वा मोहितो भवतीत्याह- कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युत्सुकः पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभूरिति । दृष्ट्वा मुह्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि प्रत्यक्षामसिपुत्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ॥ २० ॥ कान्तेति ॥ अहो इत्याश्चर्ये । विद्वानपि दोषज्ञोऽपि पुरुषः प्रत्यक्षामक्षिगो- चरभूतामसिपुत्रिकां प्राणान्तपर्यन्तं वेधकत्वेन छुरिकातुल्यामपि स्त्रियं दृष्ट्वा मुह्यति मोदते च । ततस्तद्विषय उत्सुक उत्कण्ठितः सन् कान्ता मनोहरेति, उत्पललोचना कमललोचनेति, विपुलो विस्तृतः श्रोणीभरः कटिप्रदेशो यस्याः सेति, पीनौ पुष्टावुत्तुङ्गावुनतौ पयोधरौ स्तनौ यस्याः सेति, सुष्ठु मुखाम्भोज मुखकमलं यस्याः सेति, सुष्ठु शोभने ध्रुवौ झुकुटी यस्या, सेति एवं प्रस्तौति अभिरमते रममाणो भवति च । एतन्मोहस्य दुश्चेष्टितं दुर्व्यापारोऽस्ति । अनेन विद्वानपि मोहेन स्त्रीलम्पटो भवतीति सूच्यते । शार्दूलविक्रीडितं वृत्तम् ॥ शृङ्गारालम्बनमूतां त्रियं वर्णयति पञ्चभिः श्लोकैः- क्वचित्सुभूभङ्गैः क्वचिदपि च लजापरिगतैः क्वचिद्भीतित्रस्तैः क्वचिदपि च लीलाविलसितैः। नवोढानामेतैर्वदनकमलैत्रलसितैः स्फुरनीलानानां प्रकरपरिकीर्णा इव दिशः ॥ २१ ॥ कचिदिति ॥ कचिच्छोभनो भ्रूभङ्गो भृकुटीचालनं येषु तैः, कचिदपि च लज्जां परिगतैः प्राप्तैः । “लजापरिणतैः” इति पाठे लज्जया परिणतैनप्रैः, कचिद्भीत्या भयेन त्रस्तैस्त्रासं प्राप्तः, क्वचिदपि च लीलानां हावभावादीनां विलसितं येषु तैः, कचिन्नेत्राणां लसितं विलासो येषु तैः, “नेत्रचलितैः” इति पाठे चलितानि नेत्राणि येषु तैः । वाहिताग्न्यादित्वाचलितशब्दस्य परनिपातः । यद्वा नेत्राणां चलितं चलनं येषु तैः । भावे क्तः। एतादृशैरेतैर्नवोढानां स्त्रीणां Preeta ।

१० भर्तृहरिकृतं वदनकमलैर्मुखकमलैः कृत्वा स्फुरन्ति नीलाब्जानि नीलकमलानि तेषां प्रकरः समूहस्तेन परिकीर्णा व्याप्ता इव दिशो भवन्ति । चतुर्थचरणस्थपाठान्तराणि स्वसंबद्धत्वात्त्यक्तानि । स्त्रीष्वत्यन्तासक्तस्य सर्वत्र तन्मुखादिस्फुरणं तत्सदृश- वस्तुस्फुरणं च भवतीति भावः । शिखरिणी वृत्तम् ।। सुन्दरस्त्रीणां स्वभावसिद्धं भूषणमाह- वकं चन्द्रविडम्बि पङ्कजपरीहासक्षमे लोचने वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः। वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली वाचोहारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम् ॥ २२ ॥ वक्रमिति ॥ चन्द्रं विडम्बयति तच्छीलं चन्द्रानुकारि । तत्सदृशमिति यावत् । एवंविधं वक्रं मुखम् । पङ्कजानां कमलानां परीहास उपहासस्तस्मि- न्क्षमे समर्थे । तदधिकशोभाशालिनीत्यर्थः । एवंविधे लोचने । स्वर्ण सुवर्ण- मपाकरोति दूरीकरोति तच्छीलः । जयशील इति यावत् । एवंविधो वर्णः । अ- लिनी भ्रमरिणीं जयति तच्छीलः । भ्रमरसदृश इति यावत् । एवंविधः कचानां केशानां चयः समूहः । इभानां गजानां कुम्भौ गण्डस्थले तयोविभ्रमः शोभा। "अथ विभ्रमः । शोभायां संशये हावे" इति मेदिनी । तां हरतस्तौ गजगण्डसदृशावित्यर्थः । वक्षोजौ स्तनौ । गुर्वी स्थूला नितम्बस्थली कटिप- श्चाद्भागः । हारि मनोहारि वाचो मार्दवं मृदुत्वम् । एतत्पूर्वोक्तं सर्वं युवतिषु तरुणस्त्रीषु स्वाभाविक नैसर्गिकं मण्डनं भूषणमस्ति । एते सर्वे पूर्वोक्ताः स्त्रीषु स्वभावसिद्धा गुणाः सन्तीति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ एकैव स्त्री अनुरक्तिविरक्तिभ्याममृतवत्सुखदात्री विषवहुःखदात्री च भव- तीत्याह नामृतं न विषं किंचिदेकां मुक्त्वा नितम्बिनीम् । सेवामृतलता रक्ता विरक्ता विषवल्लरी ॥ २३॥ नामृतमिति ॥ एकां नितम्बिनी स्त्रियं मुक्त्वा त्यक्त्वा किंचिदपि अमृतं नास्ति विषमपि नास्ति, किंतु सैव स्त्री रक्तानुरक्ता सती अमृतलतामृत- चलरी भवति, विरक्ता सती विषवल्लरी विषलता भवति । प्रसिद्धममृतममृतं न भवति तद्वत्प्रसिद्धं विषं विषं न भवति, किंतु एकैव स्त्री अनुरक्तिविरक्ति- भ्याममृतरूपा विषरूपा च भवतीति भावः । अनुष्टुब्वृत्तम् ॥

शृङ्गारशतकम् । । । स्त्रीणां स्वभावसिद्धाः कटाक्षादयो भावाः भूषणवच्छोभदायका आयुधव. त्पुरुषाणां हृदयवेधकाश्च भवन्तीत्याह- भ्रूचातुर्याकुञ्चिताक्षाः कटाक्षाः स्निग्धा वाचो लजितांताश्च हासाः। लीलामन्दं प्रस्थितं सस्मितं च स्त्रीणामेतद्भूषणं चायुधं च ॥ २४ ॥ भ्रूचातुर्येति ॥ भ्रूवोश्चातुर्यं तेनाकुञ्चितानि संकुचितान्यक्षीणि येषु ते । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्पचिति' षच् । कटाक्षा अपाङ्गदर्शनानि, स्निग्धाः प्रेमयुक्ताः वाचो वचनानि, लजितो । लज्जायुक्तोऽन्तो मध्यो येषां ते। लज्जागर्भिता इत्यर्थः। हासा हास्यानि, लीलया मन्दं प्रस्थितं गमनं, सम्यक् स्मितमीषद्धास्यं च, एतत्पूर्वोक्तं सर्व स्त्रीणां भूषणमलङ्करणमायुधं शस्त्रं च भवति । शालिनी वृत्तम् । “शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः" इति तल्लक्षणात् ।। तारुण्यप्रादुर्भावसमये स्त्रीणां ये ये भावा आविर्भवन्ति ते ते सर्वे रम्या एवेत्याह- स्मितं किंचिद्वके सरलतरलो दृष्टिविभवः परिस्पन्दो वाचाममिनव विलासोक्तिसरसः। गतीनामारम्भः किसलयितलीलापरिकरः स्पृशन्त्यास्तारुण्यं किमिह नहि रम्यं मृगदृशः ॥ २५ ॥ स्मितमिति ॥ वके मुखे किंचिदीषस्मितं हास्यम् , सरलोऽवक्रश्चासौ तर- लश्चञ्चलश्चैतादृशो दृष्टयाः विभव ऐश्वर्यम् , अभिनवा या विलासोक्तयः शृङ्गार- चेष्टायुक्तभाषणानि तैः सरसो रसयुक्तो वाचां वाणीनां परिस्पन्दो रचना, "रचना स्यात्परिस्पन्दः" इत्यमरः । किसलयितो नवाङ्कुरितो लीलानां परि- कर आरम्भः समूहो वा यस्मिन् “भवेत्परिकरो व्राते पर्यङ्कपरिवारयोः । प्रगा- ढगात्रिकाबन्धे विवेकारम्भयोरपि" इति विश्वः । एवंविधो गतीनां गमनानामा- रम्भः । इह एतेषु पदार्थेषु मध्ये तारुण्यं यौवनं स्पृशन्त्या मृगदृशो मृगनय- नायाः किं रम्यं नहि । अपि तु सर्व रम्यमस्तीत्यर्थः। शिखरिणी वृत्तम् ।। पुरुषो यावत्सुन्दरीणां दृग्विशिखैर्विद्धो न भवति तावदेव सन्मार्गादिक- मालम्बत इत्याह- सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥२६॥ Apan १२ भर्तृहरिकृतं सन्मार्ग इति ॥ धृतिं धैर्य मुष्णन्ति चोरयन्तीति धृतिमुषः एते लीलाव- तीनां विलासवतीनां स्त्रीणां दृष्टिबाणा नयनशराः पुरुषस्य हृदि हृदये यावन्न पतन्ति तावदेव पुरुषः सन्मार्गे आस्ते । तावदेवेन्द्रियाणां प्रभवति समर्थों भवति । स्वाधीनेन्द्रियो भवतीत्यर्थः । तावदेव निन्द्यकर्मणि लजां विधत्ते धारयति । निन्द्यं कर्म नाचरतीत्यर्थः । तावदेव विनयमपि नम्रतामपि समा- लम्बत आश्रयते । अनुद्धतो भवतीत्यर्थः । कीदृशा दृष्टिपाताः । भूरेव चापो धनुस्तेनाकृष्टाः पश्चान्मुक्तास्यक्ताः । पुनः कीदृशाः । श्रवणपथं कर्ण. मार्गम् । कर्णपर्यंतमिति यावत् । गताः प्राप्ताः । पुनः कीदृशाः । नीलानि पक्ष्माणि पुङ्खस्थानीयानि येषु ते । स्रग्धरा वृत्तम् ॥ अमृतमयमपि स्त्रीमुखं परिणामे विषसदृशं भवतीति किंपाकफलदृष्टान्तेन दर्शयन्नाह- यदेतत्पूर्णेन्दुद्युतिहरमुदाराकृतिधरं मुखाजं तन्वङ्ग्याः किल वसति यत्राधरमधु । इदं तकिपाकद्रुमफलमिदानीमतिरसं व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् ॥ २७ ॥ यदेतदिति ॥ पूर्णेन्दुः षोडशकलात्मकश्चन्द्रस्तस्य द्युतिं कान्ति हरतीति तथा । पूर्णचन्द्रसदृशमित्यर्थः । उदारा सरला या आकृतिस्तस्या धरं, "दक्षिणे सरलोदारौ” इत्यमरः । यदेतत्तन्वङ्गयाः कृशाझ्याः स्त्रियो मुखाब्जं मुखकमल- मस्ति, यत्र मुखाब्जे अधरमधु अधरामृतं वसति तिष्ठति । किल निश्चयेन तदिदं मुखाजं किंपाको महाकालसंज्ञको द्रुमो विषवृक्षस्तस्य फलमस्ति "किंपाकः स्यान्महाकालः" इति हलायुधः । तथापीदानीमुपभोगक्षम- यौवनसमयेऽति अत्यन्तं रसो गुणोऽनुरागो वा यस्मिन्नेवंविधं भवति । परंतु अस्मिन्पूर्वोक्ते काले यौवनसमये व्यतीतेऽतिक्रान्ते सति असुखदं दुःखदं विष- मिव भवति "इदं तावत्" इत्यादि पाठान्तरं त्वप्रयोजकत्वात्त्यक्तम् । तथा च स्त्रीणामतिरम्यमपि मुखाब्जादिकं सर्वमवस्थाभेदेन सुखदं दुःखदं च भवतीति भावः । शिखरिणी वृत्तम् ॥ इदानीमस्मिन्संसारे दुष्टराजद्वारसेवाखिन्नमानसाः पुरुषास्तरुणस्त्रियोऽवल- म्बनेन खस्थचित्ता भवन्तीत्याह- संसारऽस्मिन्नसारे कुनृपतिभवनद्वारसेवावलम्ब व्यासङ्गध्वस्तधैर्य कथममलधियो मानसं संनिदध्युः।

शृङ्गारशतकम् ।
यद्येताःप्रोद्यदिन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः
प्रेतत्काञ्चीकलापाः स्तनभरविनमन्मध्यभागास्तरुण्यः॥२८॥
संसार इति ॥ यदि अस्मिन्नसारे निःसारे संसारे प्रकर्षणोद्यन्नुदयं प्राप्तो
य इन्दुश्चन्द्रस्तस्य द्युतिः कान्तिस्तस्या निचयः समूहस्तं बिभ्रति धारयन्ति ताः,
अम्भोजनेत्राः कमलनयनाः, प्रेकन् शब्दायमानः काञ्चीकलापो यासां ताः,
स्तनयोः कुचयोभरो भारस्तेन विनमन्नम्रो मध्यभागो यासामेवंविधा एता-
स्तरुण्यः स्त्रियो न स्युस्तर्हि अमलधियो निर्मलमतयः पुरुषा कुनृपतिर्दुष्टराजः
तस्य भवनद्वारं गृहद्वारं तस्य सेवा शुश्रूषा तस्या अवलम्ब आश्रयस्तस्य व्या-
सङ्गोऽभ्यासस्तेन ध्वस्तं गलितं धैर्य यस्यैतादृशं मानसमन्तःकरणं कथं केन
प्रकारेण संनिदध्युः धारयेयुः। समाहितमनस्का भवेयुरित्यर्थः । कुत्सित
सेवादुःखेन विमनस्काः पुरुषा उक्तविधतरुणीसेवनेन स्वस्थचित्ता भवन्तीति
भावः । स्रग्धरा वृत्तम् ।।
वसन्तप्रादुर्भावे सर्वेषां कामोद्दीपकपदार्थगुणानां प्रादुष्करणं भवतीति
वक्तुं वसन्तं वर्णयति पञ्चभिः श्लोकः-
परिमलभृतो वाताः शाखा नवाङ्कुरकोटयो
मधुरविरुतोत्कण्ठा वाचः प्रियाः पिकपक्षिणाम् ।
विरलसुरतस्वेदोद्दारा वधूवदनेन्दवः
प्रसरति मधौ राज्यां जातो न कस्य गुणोदयः॥ २९ ॥
परिमलेति ॥ मधौ वसन्ततौं प्रसरति प्रकटिते सति कस्य पदार्थस्य
का गुणानामुदयः प्रादुर्भावो न जातः। अपि तु सर्वेषामपि भवतीत्यर्थः । ते पदार्थाः
के तानाह-वाता वायवः परिमलं सुगन्धं बिभ्रति त एवंविधा भवन्तीति शेषः ।
एवमुत्तरत्रापि । तथा शाखाः शिफाः । “शाखा शिफावरोहः स्यात्" इत्य-
मरः । नवाङ्कुराणां कोटयो यासु ता एवंविधाः, पिकपक्षिणां कोकिलपक्षिणां
वाचः मधुरं यद्विरुतं शब्दितं तेन उत्कण्ठा यासु ता अतएव प्रियाः, तथा
रात्र्यां विरलः स्वल्पः सुरते स्वेदो धर्मस्तस्योद्गारः प्रादुर्भावो येषु ते । अत्र
पाठान्तराणि मनोरमाणि न भवन्तीति कृत्वा त्यक्तानीति बोध्यम् । वधूवद-
नान्येवेन्दवश्चन्द्रा इति । हरिणी वृत्तम् ॥
-
किंच।
मधुरयं मधुरैरपि कोकिलाकलकलैर्मलयस्य च वायुभिः ।
विरहिणः प्रणिहन्ति शरीरिणो विपदि हन्त सुधापि विषायते ॥ ३० ॥

भर्तृहरिकृतं मधुरिति । अयं मधुर्वसन्तो मधुरैरपि कोकिलानां पिकानां कलकलैः शब्दः च पुनः मलयस्य मलयपर्वतस्य संबन्धिमिर्वायुभिः कृत्वा विरहिणः कामाग्नि- संतप्तान् शरीरिणो देहिनः प्रणिहन्ति संतापयति । इममेवाथै सामान्यमुखेन द्रढयति-विपदीति । विपदि आपत्तौ प्राप्तायां सुधाप्यमृतमपि विषायते विष- मिवाचरति । विषवद्धातयतीत्यर्थः । हन्त इति खेदे । द्रुतविलम्बितं वृत्तम् । “द्रुतविलम्बितमाह नभौ भरौ" इति तल्लक्षणात् ।। आवासः किल किंचिदेव दयितापाचे विलासालसः कर्णे कोकिलकामिनीकलरवः मेरो लतामण्डपः। गोष्ठी सत्कविभिः समं कतिपयैः सेव्याः सितांशोः करा: केषांचित्सुखयन्त्यवेहि हृदये चैत्रे विचित्राः क्षपाः ॥ ३१ ॥ आवास इति ॥ हे जन, चैत्रे मासि विचित्राः क्षपा रात्रयः केषांचित् हृदये सुखयन्ति सुखं कुर्वन्तीत्यवेहि जानीहि । क्षपाणां वैचित्र्यं दर्शयति—यासु क्षपासु दयितायाः स्त्रियाः पार्श्वे किंचिद्विलासेनालसो मन्द आवासो वसतिः । किंचिदेव भवतीति शेषः । एवमुत्तरत्र । किलेति प्रसिद्धौ । एवेति वाक्य- पूरणे । कर्णे कोकिलकामिनीनां कोकिलस्त्रीणां कलरवो मधुरध्वनिः, लतानां मण्डपः स्मेरः प्रफुल्लितः, "प्रफुल्लोत्फुल्लसंफुल्लोच्छ्रसितानि विजृम्भितम् । स्मेरं विनिदमुन्निद्रविभुद्रहसितानि च" इति हेमचन्द्रः । कतिपयैः सत्कविमिः समं गोष्ठीसंलापः । “गोष्ठी सभासंलापयोस्त्रियाम्" इति मेदिनी । सितांशो- श्चन्द्रस्य कराः किरणाः सेव्या भवन्ति । शार्दूलविक्रीडितं वृत्तम् ॥ । । किंच। पान्थस्त्रीविरहानलाहुतिकथामातन्वती मञ्जरी माकन्देषु पिकाङ्गनामिरधुना सोत्कण्ठमालोक्यते । अप्येते नवपाटलापरिमलप्राग्भारपाटञ्चरा वान्ति क्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः॥ ३२ ॥ पान्थेति । अधुना । वसन्तकाल इत्यर्थः । पान्थस्य पथिकस्य स्त्री तस्या विरह एवानलोऽग्निस्तस्मिन्नाहुतिर्हवनं तस्याः कथा तामातन्वती वि- स्तारयन्ती माकन्देषु आम्रवृक्षेषु । “माकन्दः सहकारेऽस्त्री" इति मेदिनी । "आम्रचूतो रसालोऽसौ सहकारोतिसौरभः" इत्यमरश्च । मञ्जरी पिकाङ्गनाभिः कोकिलस्त्रीभिः सोत्कण्ठं यथा स्यात्तथा आलोक्यते । अपि च एते प्रसिद्धाः नवा चासौ पाटला पाटलिवृक्षस्तत्सम्बन्धी परिमलः सुगन्धस्तस्य प्राग्भा-

शृङ्गारशतकम्।
रोऽतिशयस्तस्य पाटच्चराश्चोराः । पाटलाकुसुमगन्धहारिण इत्यर्थः । “चौरि-
कागारिकस्तेनदस्युतस्करमोषकाः । प्रतिरोधिपरास्कन्दिपाटचरमलिम्लुचाः"
इत्यमरः । क्लान्तिः क्लमस्तस्य वितानो विस्तारस्तस्य तानवं तनुत्वं कुर्वन्तीति
कृतः एवंविधाः श्रीखण्डशैलश्चन्दनपर्वतस्तत्सम्बन्धिनोऽनिला वायवो वान्ति
वहन्ति । शार्दूलविक्रीडितं वृत्तम् ॥
किंच।
सहकारकुसुमकेसरनिकरभरामोदमूर्च्छितदिगन्ते ।
मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥ ३३ ॥
सहकारेति ॥ सहकारस्याम्रवृक्षस्य कुसुमं पुष्पं तत्संबन्धिनः केसराः
किञ्जल्कास्तेषां निकरः समूहस्तस्य भरोऽतिशयित आमोदः सुगन्धस्तेन मूर्छिता
व्याप्ता दिगन्ता यस्मिंस्तस्मिन् मधुरं यन्मधु तेन विधुरा विकला मधुपा
भ्रमरा यस्मिंस्तस्मिन् । “वैकल्येऽपि च विश्लेषे विधुरं विकले त्रिषु' इति
त्रिकाण्डशेषः । एवंविधे मधौ वसन्ते कस्य पुरुषस्योत्कण्ठा न भवेदपितु
सर्वस्याऽपि भवेदित्यर्थः। आर्या वृत्तम् ॥
ग्रीष्मेऽपि हर्षकामयोर्वर्धकाः पदार्था भवन्तीति तत्पदार्थदर्शनपुरःसरं
क्रमप्राप्तं ग्रीष्मं वर्णयति श्लोकत्रयेण-
अच्छार्द्रचन्दनरसाईकरा मृगाक्ष्यो
धारा गृहाणि कुसुमानि च कौमुदी च ।
मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥ ३४॥
अच्छाति ॥ ग्रीष्मे ग्रीष्मर्ती एते प्रसिद्धाः पदार्थाः पुरुषस्य मदं हर्ष
"मदो रेतसि कस्तू- गर्वे हर्षेभदानयोः” इति मेदिनी । मदनं कामं च
विवर्धयन्ति विस्तारयन्ति । एते के। अच्छः स्वच्छो य आर्द्रचन्दनस्तस्य
रसेनाौं करौ यासां ता मृगाक्ष्यो मृगनयनाः स्त्रियः, धारागृहाणि जलयत्र-
गृहाणि, कुसुमानि पुष्पाणि, कौमुदी चन्द्रिका, मन्दः सुखस्पर्शो मरुद्वायुः,
सुमनसो मालतीलताः, शुचि शुभं हर्म्यपृष्ठं चेति । वसन्ततिलका वृत्तम् ।।
।
,
।
किंच।
स्रजो हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः
परागः कासारो मलयजरजः सीधु विशदम् ।
शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजद्दशो
निदाघार्ता ह्येतत्सुखमुपलभन्ते सुकृतिनः ॥ ३५॥

भर्तृहरिकृतं सुकृतिनः पुण्य- स्रज इति ॥ निदाघेन ग्रीष्मेणार्ताः पीडिताः वन्त एव एतत् पूर्वोक्तं सुखमनायासेन यथा स्यात्तथोपलभन्ते प्रामुवन्ति । हि निश्चयेन । एतत्किम् । हृयो मनोहारी आमोदः सुगन्धो यासां ता एवं- विधाः स्त्रजः पुष्पमालाः, व्यजनपवनस्तालवृन्तवायुः, "व्यजनं तालवृन्तकम्" इत्यमरः । चन्द्रकिरणाश्चन्द्रमयूखाः, परागः पुष्परेणुः, “परागः कौसुमे रेणौ" इत्यमरः । कासारः सरोवरम् , मलयजरजश्चन्दनरेणुः, विशदं स्वच्छं सीधु मद्यम् , "मैरेयमासवः सीधुः” इत्यमरः । “मध्वासवः सीधुसुराः” इति हलायुधश्च । शुचिः शुभ्रः सौधस्य राजगृहस्योत्सङ्ग उपरिभागः, प्रतनु सूक्ष्मं वसनं वस्त्रम् , पङ्कजदृशः कमलनयनाः स्त्रियश्चेति । शिखरिणी वृत्तम् ॥ किंच। - सुधाशुभ्रं धाम स्फुरदमलरश्मिः शशधरः प्रियावक्राम्भोज मलयजरजवातिसुरमिः। स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने करोत्यन्तः क्षोभं न तु विषयसंसर्गविमुखे ॥ ३६ ॥ सुधाशुभ्रमिति ॥ तत्प्रसिद्धमिदं पूर्वोक्तमखिलं सर्व रागिण्यनुरागवति जनेऽन्तर्मनसि क्षोभं विकारं करोति । पुनः विषयाणां संसर्गः संपर्कस्तस्मा- द्विमुखे पराङ्मुखे । वैराग्यवति जन इत्यर्थः । न करोति । इदं किम् । सुधया प्रासादलेपनद्रव्येण शुभ्रं स्वच्छं धाम गृहम् , स्फुरन्तो देदीप्यमाना अमलाः स्वच्छा रश्मयः किरणा यस्य स एवंविधः शशधरश्चन्द्रः, प्रियायाः स्त्रिया वक्राम्भोजं मुखकमलम् , अतिसुरमि अतिसुगन्धि मलयजश्चन्दनस्त- सम्बन्धि रजो धूलिः, हृद्यामोदाः मनोहारिसुगन्धा एवंविधाः स्त्रजः पुष्पमा- लाश्चेति । शिखरिणी वृत्तम् ॥ क्रमप्राप्तां प्रावृषं वर्णयति पञ्चभिः श्लोकः- तरुणीवैषा दीपितकामा विकसितजातिः पुण्यसुगन्धिः। उन्नतपीनपयोधरभारा प्रावृद तनुते कस्य न हर्षम् ॥ ३७॥ तरुणवैषेति ॥ एषा प्रावृट् तरुणीव युवतिरिव कस्य पुरुषस्य हर्ष न तनुले विस्तारयति । अपि तु सर्वस्यापि हर्षे तनुत इत्यर्थः। “कुरुते" इत्यपि पाठः । कथंभूता प्रावृट् तरुणी च । दीपित उद्दीपितः कामो यया पक्षे यस्यां च । विकसिता प्रफुल्लिता जातिर्मालतीलता यस्याम् , पक्षे केशादौ धा- पुष्टाः पयोधरा मेघा यस्याम् , पक्षे उन्नतौ उच्चौ पीनौ पुष्टौ पयोधरौ स्तनौ शृङ्गारशतकम्। रणत्वेन विकसिता जातयो जातिपुष्पाणि यस्यामत एव पुण्यो मनोज्ञः सुगन्धो यस्याम् , पक्षे अङ्गादिसौगन्ध्यं तरुणीपक्षेऽपि तथैव बोध्यम् । "पुण्यं त्रिषु मनोज्ञे स्यात्' इति विश्वः । पुनः कथंभूता । उन्नता उच्चा पीनाः Rame यस्या इति । उपचित्रा वृत्तम् । "नवमे भवति गुरावुपचित्रा" इति लक्षणात् ।। किंच- वियदुपचितमेधं भूमयः कन्दलिन्यो नवकुटजकदम्बामोदिनो गन्धवाहाः। शिखिकुलकलकेकारावरम्या वनान्ताः सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ ३८॥ वियदिति ॥ प्रादृषि एते पूर्वोक्ताः पदार्थाः सुखिनमसुखिनं दुःखिनं वा सर्वे जनमुत्कण्ठयन्ति उत्कण्ठायुक्तं कुर्वन्ति । एते के। उपचिताः पुष्टा मेघा यस्मिंस्तत् एवंविधं वियद्गगनम् , कन्दलिन्यो नवाङ्कुरयुक्ता भूमयः, नवा नूतनाः कुटजाः कदम्बाश्च तेषामामोदः सुगन्धोऽस्ति येषु ते गन्धवाहा वायवः, शिखिनां मयूराणां कुलं समूहस्तस्य कलो मन्द्रः केकारावः केकाशब्दस्तेन रम्या मनोहरा बनान्ता अरण्यप्रदेशाश्चेति । मालिनी वृत्तम् ।। किंच। इतो विद्युदल्लीविलसितमितः केतकितरोः स्फुरद्वन्धः प्रोद्यजलदनिनदस्फूर्जितमितः। इतः केकीक्रीडाकलकलरवः पक्ष्मलदृशां कथं यास्यन्त्येते विरह दिवसाः संभृतरसाः ॥ ३९ ॥ इत इति ॥ संभृतः पुष्टो रसः शृङ्गारादिरसो येषु त एते पूर्वोक्ताः पक्ष्म- लदृशां स्त्रीणां विरहदिवसाः कथं यास्यन्ति गमिष्यन्ति । एते के । इत एकतः विद्युबल्ल्या विद्युल्लताया विलसितम् , इत एकतः केतकितरोः केतकिवृक्षस्य स्फुरन्प्रकाशमानो गन्धः सुगन्धः, इत एकतः प्रोद्यदुद्गच्छन्यो जलदो मेघ- स्तस्य निनदो गर्जितं तस्य स्फूर्जितं स्फुरणम् , इत एकतः केकिनां मयू- राणां क्रीडासु कलकलरवो बहुभिः क्रियमाणः कलकलाख्यो ध्वनिश्चेति । शिखरिणी वृत्तम् ॥ किंच। असूचीसंसारे तमसि नभसि प्रौढजलद- ध्वनिप्राये तस्मिन्पतति दृषदां नीरनिचये। ar भर्तृहरिकृतं इदं सौदामिन्याः कनककमनीयं विलसितं मुदं च ग्लानिं च प्रथयति पथिष्वेव सुदृशाम् ॥ ४०॥ असूचीति ॥ प्रौढो यो जलदो मेघस्तस्य ध्वनेः प्रायो बाहुल्यं यस्मिन् , "प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपि” इf इति विश्वः । एवंविधे नभसि श्रा- वणे, "नमः खं श्रावणो नभाः" इत्यमरः । न विद्यते सूच्याः संसारः संसरणं यस्मिन् । अतिगाढ इत्यर्थः । तस्मिन् प्रसिद्धे तमसि अन्धकारे दृशदां करको- पलानां नीरेण जलेन सह निचये समूहे पतति सति इदं प्रसिद्धं कनकमिव सुवर्णमिव कमनीयं सुन्दरं सौदामिन्या विद्युल्लताया विलसितं स्फुरणं पथि- ब्वेव मार्गेष्वेव शोभने दृशौ यासां तासां स्त्रीणां मुदं हर्ष ग्लानिं क्लान्ति च प्रथयति विस्तारयति । प्रोषितानां सुदृशां विद्युत्प्रकाशे हर्षं तदभावे ग्लानिं, अथवा प्रियसहितानां मुदं तद्रहितानां ग्लानि चेत्युभयविधान्भावानेकस्मिन्नेव मार्गे जनयतीत्यर्थः । शिखरिणी वृत्तम् ।। । । किंच। आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्ग्यते। जाताः शीतलशीकराश्च मरुतश्चात्यन्तखेदच्छिदो धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासंगमे ॥४१॥ आसारेणेति ॥ धन्यानां पुण्यवतां प्रियासंगमे स्त्रीसंगमे दुर्दिनमपि मेध- च्छन्नदिवसोऽपि सुदिनतां याति प्राप्नोति । बतेति हर्षे । तदेव विवृणोति आसारेण धारासंपातेन हेतुना प्रियतमैः पतिभिर्हर्म्यतो गृहाबहिर्यातुं गन्तुं न शक्यते। तथा शीतेन य उत्कम्पः कम्पनं तन्निमित्तं आयतदृशा विशालाक्ष्या स्त्रिया गाढं समालिङ्गयते । पतिरिति शेषः । तथा शीतलाः शीकरा कणा येषु ते अत एवात्यन्तं खेदं श्रमं छिन्दन्ति ते एवंविधा मरुतो वायवो जाता उत्पन्ना इति । शार्दूलविक्रीडितं वृत्तम् ॥ क्रमप्राप्तां शरदं वर्णयति- अर्धे नीत्वा निशायाः सरभससुरतायासखिन्नश्लथाङ्गः प्रोद्भूतासातृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्के । संभोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो ज्योत्स्वामिनाच्छधारं पिबति न सलिलं शारदं मन्दभाग्यः ४२ अर्धमिति ॥ निशाया रात्र्या अर्धे यथाकथंचिन्त्रीत्वा पश्चात्सरभसे सातिवेगे अम्बु- शृङ्गारशतकम् । । । - सुरते मैथुने य आयासः श्रमस्तेन खिन्नान्यत एव श्लयानि शिथिलीभूतान्य- गानि यस्य स एवंभूतस्तथा प्रकर्षणोद्भूतातएवासह्या सोढुमशक्या तृष्णा यस्य स एवंभूतस्तथा मधुनो मद्यस्य मदे निरतस्तत्परः । मधुमदयुक्त इत्यर्थः । एवंविधः पुरुषः विविक्ते विजने । एकान्त इति यावत् । हर्म्यपृष्ठे प्रासादो- परिभागे संभोगेन क्लान्ता ग्लानिं प्राप्ता या कान्ता स्त्री तस्या या शिथिला भुजलता बाहुलता तया आवर्जितमानीतं, ज्योत्स्नया चन्द्रिकया भिन्नं मिश्रं एवंविधं शारदं शरत्कालिकं सलिलं जलं कर्करीतः कर्कर्या "कर्कर्यालुर्गल- न्तिका" इत्यमरः । सार्वविभक्तिकस्तसिः । यो न पिबति स मन्दभाग्योऽस्ती- ति शेषः । शरदि सुरतायासखिन्नः सन् प्रासादोपरिभागे तथाविधकान्तया- र्पितं जलं पिबति स नरो धन्य इति भावः । स्रग्धरा वृत्तम् ।। क्रमप्राप्तं हेमन्तं वर्णयति- हेमन्ते दधिदुग्धसर्पिरशनामाजिष्ठवासोभृतः काश्मीरद्रवसान्द्रदिग्धवपुषः खिन्ना विचित्र रतैः। पीनोरुस्तनकामिनीजनकृतालेषा गृहाभ्यन्तरे ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥४३॥ हेमन्त इति ॥ हेमन्ते हेमन्तौ गृहाभ्यन्तरे गृहमध्ये सुखं यथा स्या- त्तथा ये शेरते निद्रां कुर्वन्ति ते धन्याः कीदृशाः । दधि च दुग्धं च सर्पि- घृतं च तेषामशनं येषां ते, तथा माञ्जिष्ठं मञ्जिष्ठया रञ्जितं वासो वस्त्रं बिभ्रति ते माञ्जिष्ठवासोमृतः, तथा, काश्मीरद्रवः केशरद्रवस्तेन सान्द्रं निबिडं दिग्धं लिप्तं वपुर्येषां ते, तथा विचित्रैरनेकप्रकारै रतैः सुरतैः खिन्नाः, तथा पीनौ पुष्टौ ऊरू विशालौ स्तनौ कुचौ येषां एतादृशाः ये कामिनीजनाः स्त्रीजना- स्तैः कृत आश्लेष आलिङ्गनं येषां ते, तथा ताम्बूलीदलं नागवल्लीदलं पूगः क्रमुकफलं च ताभ्यां पूरितं मुखं येषां ते एवंविधाः । शार्दूलविक्रीडितं वृत्तम् ॥ क्रमप्राप्त शिशिरतु वर्णयति द्वाभ्यां श्लोकाभ्याम्- चुम्बन्तो गण्डभित्तीरलकवति मुखे सीकृतान्याधाना वक्षासूत्कचकेषु स्तनभरपुलकोद्रेदमापादयन्तः। ऊरूनाकम्पयन्तः पृथुजघनतटात्तंसयन्तोऽशुकानि व्यक्तं कान्ताजनानां विटचरितकृतः शैशिरावान्ति वाताः॥४४॥ चुम्बन्त इति ॥ कान्ताजनानां स्त्रीणां गण्डभित्तीः कपोलप्रदेशान् व्यक्तं ANIMAL भर्तृहरिकृतं स्पष्ट चुम्बन्तः, तथा अलकवति कुटिलकुन्तलवति मुखे आनने सीत्कृता- न्यादधानाः कुर्वन्तः, तथा उद्गताः कञ्चुकाः चोलका येम्यस्तेषु । निष्कासि- तकञ्चुकेष्विति यावत् । एवंविधेषु वक्षःसु हृदयेषु स्तनयोः कुचयोर्भरो भार- स्तस्मिन् पुलकानां रोमाञ्चानामुद्भेदमुद्गममापादयन्तः। संपादयन्तः । तथा ऊरून्सक्थीनि आकम्पयन्त ईषत्कम्पयन्तः, पृथु विस्तीर्ण यजघनतटं तस्मा- दंशुकानि वस्त्राणि संसयन्तो निष्कासयन्त एवंविधा विटानां चरितमिव चरितं कुर्वन्तीति ते । विटा यथा चुम्बनादि चरितं कुर्वन्ति तथा चरितका- रिण इत्यर्थः । तथाविधाः शैशिराः शिशिरसंबन्धिनो वाता वायवो वान्ति वहन्तीति । स्रग्धरा वृत्तम् ॥ केशानाकलयन् दृशौ मुकुलयन् वासो बलादाक्षिप- नातन्वन्पुलकोद्गमं प्रकटयन्नङ्गेषु कम्पं गतः। वारंवारमुदारसीत्कृतकृतो दन्तच्छदान् पीडय- प्रायः शैशिर एष संप्रति मरुत्कान्तासु कान्तायते ॥४५॥ केशानिति ॥ केशान्कचानाकलयन्नितस्ततः परिभ्रामयन् , पक्षे धार- यन् । दृशौ नेत्रे मुकुलयन्मीलयन् , पक्षे हस्तादिनाच्छादयन् । वासो वस्त्रं बलादाक्षिपन्नाकर्षयन् , स्पर्शादिना पुलकोद्गमं रोमाञ्चप्रादुर्भावमात- न्वन्विस्तारयन् , अङ्गेषु सरीरावयवेषु गतैर्गमनैः कृत्वा कम्पं प्रकटयन्प्रक- टीकुर्वन् , वारंवार पुनःपुनः उदारं महत्सीत्कृतं सीत्कारशब्दं कुर्वन्तीति ते कृतः एवंविधान् दन्तच्छदानोष्ठान् पीडयन् एवंविधः, पक्षे चुम्बनादौ दन्तक्षतैः पीडयन् संप्रतीदानीमेष प्रसिद्धः शैशिरः शिशिरर्तुसंबन्धी मरुद्वायुः कान्तासु स्त्रीषु प्रायः बाहुल्येन कान्तायते । कान्त इवाचरतीत्यर्थः । कान्तो यथा केशाकर्षणादिकं करोति तथायमपि करोतीति भावः । शार्दूलविक्रीडितं वृत्तम् ।। प्रोद्यत्प्रौढप्रियङ्गुद्युतिभृति विदलत्कुन्दमाद्यद्विरेफे काले प्रालेयवातप्रचलविकसितोद्दाममन्दारदाग्नि । येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोदरक्षा मृगाक्षी तेषामायामयामा यमसदनसमा यामिनी याति यूनाम् ॥ ४६ ॥ प्रोद्यदिति ॥ प्रोद्यन्तः प्रौढा ये प्रियङ्गवः प्रियङ्गुवृक्षास्तेषां द्युतिं शोभा विभीति द्युतिभृत् तस्मिन् । प्रियङ्गुवृक्षशोभायुक्त इत्यर्थः । तथा विदलन्तो विकसन्तो ये कुन्दाः कुन्दवृक्षस्तेषु माद्यन्तो मदं प्राप्ता द्विरेफा भ्रमरा य- शृङ्गारशतकम्। २१ me सिंस्तस्मिन् , तथा विकसिता उद्दामाः प्रौढा ये मन्दारा मन्दारवृक्षास्ते- षां दाम माला, प्रालेयवातेन हिमयुक्तवायुना प्रचलं चञ्चलं विकसितो- हाममन्दारदाम यस्मिंस्तस्मिन् एवं विधे काले क्षणमपि क्षणमात्रमपि तुहिनस्य हिमस्य क्षोदाश्चूर्णानि । कणा इति यावत् । तेभ्यो रक्षतीति सा । शीतनिवा- रिणीत्यर्थः । “चूर्णे क्षोदः समुत्पिञ्जः" इत्यमरः । एवंविधा मृगाक्षी मृगलोचना स्त्री येषां कण्ठे लग्ना संलग्ना नो, तेषां यूनां यामिनी रात्रिः आ- यामो दैर्ध्य तद्विशिष्टा यामाः प्रहरा यस्या एवंविधा सती यमस्य सदनं गृहं तेन समा तुल्या । अत्यन्तदुःखकारिणीत्यर्थः । याति गच्छति । स्रग्धरा वृत्तम् ॥ प्रियाया नासाग्रमौक्तिकं चन्द्रत्वेनोत्प्रेक्ष्य वर्णयति- सुधामयोऽपि क्षयरोगशान्त्यै नासानमुक्ताफलकच्छलेन । अनङ्गसंजीवनदृष्टिशक्तिर्मुखामृतं ते पिबतीव चन्द्रः॥४७॥ सुधामय इति ॥ हे नायिके, सुधामयोऽमृतमयः अत एव अनङ्गस्य कामस्य संजीवने दृष्टिशक्तिदृष्टिसामर्थ्य यस्य सः । कामोद्दीपक इत्यर्थः । एवंविधो- ऽपि चन्द्रः क्षयरोगस्य शान्त्यै शमाय नासाया नासिकाया यदग्रं तत्संबन्धि यन्मुक्ताफलकं तस्य छलेन मिषेण ते मुखामृतं पिबतीवेत्यहं मन्य इति शेषः। उपजातिवृत्तम् ॥ संसारसुखेच्छुना कान्तासहवासोऽवश्यं कार्यों न तु संसारतरणेच्छुनेत्यमु मर्थ बोधयन्नाह- संसारोदधिनिस्तारपदवी न दवीयसी। अन्तरा दुस्तरा न स्युर्यदिरे मदिरेक्षणाः ॥४८॥ संसारेतिारे जन, यदि अन्तरा संसारसमुद्रे दुस्तरा दुर्घटामदिरेक्षणाः स्त्रियो- न स्युस्तर्हि संसारोदधेः संसारसमुद्रस्य निस्तारो निस्तरणं तस्य पदवी मार्गः दवीयसी दूरतरा नास्ति किन्तु समीपवर्तिन्येव "संसार तव" इति पाठे संसारेति संबोधनम् । तथा च सति वैराग्ये कान्तासेवनं त्याज्यमसति तु तस्मिन्सं- सारसुखेच्छुना कान्तासेवनमेव कार्यमिति भावः । अनुष्टुब् वृत्तम् ॥ एतदेव भङ्गयन्तरेणाह- कामिनीकायकान्तारे कुचपर्वतदुर्गमे । मा संचर मनःपान्थ तत्रास्ते स्मरतस्करः॥ ४९ ॥ कामिनीति ॥ हे मनःपान्थ, कुचावेव पर्वतौ ताभ्यां दुर्गमे गन्तुमशक्ये २२ भर्तृहरिकृतं कामिन्याः स्त्रियाः काय एव कान्तारमरण्यं तस्मिन् मा संचर मा गच्छ । कुतः, तत्र तस्मिन्नरण्ये स्मरः काम एव तस्करश्चोर आस्ते । अनुष्टुब् वृत्तम् ॥ सर्वेषामनर्थानां मूलं यौवनमित्याह- रागस्यागारमेकं नरकशतमहादुःखसंप्राप्तिहेतु- मौहस्योत्पत्तिबीजं जलधरपटलं ज्ञानताराधिपस्य। कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं लोकेऽस्मिन्नह्यनर्थव्रजकुसुमवनं यौवनादन्यदस्ति ॥ ५० ॥ रागस्येति ।। रागस्यानुरागस्यैकमगारं गृहम् , नरकाणां शतानि तेषु महादुःखानि तेषां संप्राप्तिस्तस्या हेतुः कारणं, मोहस्योत्पत्तिस्तस्या बीजम् , ज्ञानमेव ताराधिपश्चन्द्रस्तस्य जलधरपटलम् । मेघपटलवदाच्छादकमिति यावत्। कन्दर्पस्य मदनस्यैकमित्रं मुख्यमित्रम् , प्रकटितो विविधा नानाप्रकाराः स्पष्टा ये दोषास्तेषां प्रबन्धो रचना यस्मिंस्तत् , एवंविधमर्थाद्यौवनमेव अस्मिं. लोके अनर्थानां व्रजः समूहस्तस्य वनं पुष्पवाटिका, यौवनात्तारुण्याद- न्यत्किमपि नास्ति । हि निश्चयेन । स्रग्धरा वृत्तम् ।। पूर्वश्लोके यौवनस्य सर्वानर्थकरत्वं प्रतिपाद्यैदानी तादृशं यौवनं प्राप्य यो विक्रियां न व्रजति स धन्य इत्याह- शृङ्गारदुमनीरद विसृमरक्रीडारसस्रोतसि प्रद्युम्नप्रियबान्धवे चतुरतामुक्ताफलोदन्वति । तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥५१॥ शृङ्गारेति । यः कोऽपि कश्चित्पुरुषः शृङ्गार एव द्रुमो वृक्षस्तस्य नीरदे पोषकत्वेन मेघरूपे, विसृमरो विसृत्वरो यः क्रीडारसस्तस्य स्रोतसि प्रवाहे । क्रीडारसजनक इत्यर्थः । प्रद्युम्नः कामस्तस्य प्रियबान्धवे हितकारिणि बन्धौ, चतुरतैव मुक्ताफलानि तेषामुदन्वति समुद्रे । तजनक इत्यर्थः । तन्व्याः स्त्रिया नेत्रे एव चकोरौ चकोरपक्षिणौ तयोः पर्वणि भवः पार्वणः पौर्णिमासंबन्धी विधुश्चन्द्रस्तस्मिन् । तन्वीनेत्रयोरत्यन्ताहादजनक इत्यर्थः । सौभाग्यलक्ष्मीनितरां धीयते यस्मिंस्तथाविधे । सौभाग्यलक्ष्म्या निवासस्थान इत्यर्थः । एवंविधे नवे नूतने यौवने प्राप्ते सति विक्रियां मनोविकारं न - शृङ्गारशतकम्। कलयति न प्राप्नोति स धन्यः पुण्यवान् । पूज्य इति यावत् । भवतीति शेषः । शार्दूलविक्रीडितं वृत्तम् ॥ प्रायः सद्गतिप्रतिबन्धकत्वं स्त्रीणामेवेत्यभिप्रायेणाह- शास्त्रज्ञोऽपि प्रथितविनयोऽप्यात्मबोधोऽपि बाद संसारेऽस्मिन्भवति विरलो भाजनं सद्गतीनाम् । येनैतस्मिन्निरयनगरद्वारमुद्धाटयन्ती वामाक्षीणां भवति कुटिला भूलता कुञ्चिकेव ॥५२॥ शास्त्रज्ञोऽपीति ॥ एतस्मिञ्जगति निरयनगरस्य नरकपुरस्य द्वारमुद्घाट- यन्ती उद्घाटनं कुर्वन्ती । कीत्यर्थः । कुटिला वक्रा वामाक्षीणां सुन्दरनय- नानां स्त्रीणां झूलता कुञ्चिकेव लोके “किल्ली" इति प्रसिद्धसाधनभूतेव येन हेतुना भवति, तस्माद्धतोः शास्त्रं जानातीति शास्त्रज्ञोऽपि प्रथितो वि- ख्यातो विनयो यस्यैवंविधोऽपि बाढं दृढमात्मनो बोधो ज्ञानं यस्यैवंवि- धोऽपि पुरुषः अस्मिन्संसारे सद्गतीनामुत्तमगतीनां भाजनं पात्रं विरलः कश्चिदेव भवति । निरयद्वारोद्घाटनकी कुञ्चिकासदृशी मोहिका स्त्रीणां भ्रू- लता यावज्जगति जागरूका तावत् शास्त्रज्ञत्वादिगुणविशिष्टा अपि पुरुषाः सद्गतीनां पात्राणि न भवन्तीति भावः । मन्दाक्रान्ता वृत्तम् । “मन्दाक्रान्ता जलधिषडगैम्भौं नतौ ताद्गुरू चेत्” इति तल्लक्षणात् ।। द्रष्टव्यश्राव्यादिषु रूपादिविषयेषु किमुत्तममिति प्रश्नोत्तरविधयाह- द्रष्टव्येषु किमुत्तमं मृगदृशां प्रेमप्रसन्नं मुखं नातव्येष्वपि किं तदास्यपवनः श्राव्येषु किं तद्वचः । किं स्वाघेषु तदोष्ठपल्लवरसः स्पर्शषु किं तत्तनु- ध्येयं किं नवयौवनं सुहृदयैः सर्वत्र तद्विभ्रमः ॥ ५३ ॥ द्रष्टव्येष्विति ॥ द्रष्टव्येषु दर्शनीयवस्तुघूत्तमं किमस्तीति शेषः । एव- मुत्तरत्रापि । मृगदृशां मृगलोचनानां स्त्रीणां प्रेम्णा प्रसन्नं मुखमाननमुत्तमम- स्ति । उत्तमपदस्य सर्वत्रान्वयः । प्रातव्येष्वपि प्राणयोग्येष्वपि उत्तमं किम् , तस्याः स्त्रिया आस्यं मुखं तत्संबन्धी पवनो वायुः श्राव्येषु श्रवणीयेषु उत्तम किम् , तस्याः स्त्रियो वचो वचनम् । स्वायेषु स्वादनीयेषु उत्तमं किम् , तस्या ओष्ठपल्लवोऽधरोष्ठपल्लवस्तत्संबन्धी रसः । स्पर्शेषु किमुत्तमम् , तस्यास्तनुः शरीरम् । सुहृदयैः शोभनान्तःकरणैः पुरुषैः ध्येयं ध्यातुं योग्यं किम् , नवं नूतनं यौवनं तारुण्यम् , सर्वत्र सर्वकर्मणि तस्या विभ्रमो विलासश्चेष्टा वा । शार्दूलविक्रीडितं छन्दः ॥

भर्तृहरिकृतं शृङ्गाररससेवनं कुर्वतापि पुरुषेण वेश्यासङ्गमो न कार्योऽतिनिन्द्यत्वादिति बोधयन् वेश्यावृत्तमाह श्लोकत्रयेण- वेश्यासौ मदनज्वाला रूपेन्धनसमेधिता। कामिभिर्यत्र हूयन्ते यौवनानि धनानि च ॥५४॥ वेश्येति ॥ यत्र यस्यां कामिमिः पुरुषैः यौवनानि तारुण्यानि धनानि द्रव्याणि च हूयन्ते, असौ प्रसिद्धा वेश्या रूपमेवेन्धनं काष्ठं तेन समेधिता वर्धिता मदनज्वाला कामाग्निज्वाला अस्ति । अनेन यौवनधननाशकारिणी वेश्या पुरुषैर्न सेव्येति सूचितम् । अनुष्टुब् वृत्तम् ॥ । । किंच। । । कश्चम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि । चारभटचौरचेटकनटविटनिष्ठीवनशरावम् ॥ ५५ ॥ क इति ॥ चारः स्पशः, भटो नीचपुरुषविशेषः । “भटः स्यात्पुंसि वीरे च विशेषे पामरस्य च" इति मेदिनी । चौरः स्तेनः । चेटको दासः, "दासगो- प्यकचेटका" इत्यमरः । नटो नर्तकः, विटो जारस्तेषां निष्ठीवनस्य श्लेष्मो- त्सर्गस्य शरावः पात्रविशेषस्तम् , एवंविधं मनोज्ञमपि मञ्जुलमपि वेश्याया अध- रपल्लवस्तं कः कुलपुरुषः कुलीनः पुरुषश्चुम्बति चुम्बनं करोति । अपि तु न कोऽपीत्यर्थः । तस्मात्कुलीनपुरुषेण कुलमालिन्यकरं वेश्यासेवनं न कर्तव्य- मिति सूचितम् । आर्या वृत्तम् ॥ किंच। जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च । यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ॥५६॥ जात्यन्धायेति ॥ जात्यैवान्धस्तस्मै, च पुनर्दुर्मुखाय दुर्गन्धेन दुष्टं मुखं यस्य तस्मै, जरया जीर्णान्यखिलान्यङ्गानि यस्य तस्मै, प्रामीणाय ग्राम्याय । विलासाचतुरायापीति यावत् । दुष्कुलाय नीचकुलाय, गलत्प्रस्त्र- वद्यत्कुष्ठं तेनामिभूताय व्याप्ताय, एवंविधाय पुरुषाय लक्ष्म्या लवो लेशस्तस्य श्रद्धयेच्छया “संप्रत्ययः स्पृहा" इत्यमरः । मनोहरं निजवपुः स्वकीयशरीरं यच्छन्तीषु ददतीषु विवेक एव कल्पलतिका कल्पवल्ली तस्याः शस्त्रीषु शस्त्र- वच्छेदिकासु एवंविधासु पण्यस्त्रीषु सेव्यासु कः पुरुषो रज्येतासक्तो भवेत् । न शृङ्गारशतकम् । कोऽपीत्यर्थः । अनेन केवलं लक्ष्मीलेशप्राप्तीच्छया जात्यन्धत्वादिदोषविशि- ष्टायापि पुरुषाय स्वशरीरमर्पयन्ती विवेकच्छेदिका वेश्या विवेकिपुरुषेण न सेव्येति सूचितम् । शार्दूलविक्रीडितं वृत्तम् ॥ एकचित्तपूर्वकः सङ्गम एव कामफलं विभिन्नचित्तकृतः सङ्गमस्तु शवसङ्ग- मत्रनिष्फल इत्याह- एतत्कामफलं लोके यद्वयोरेकचित्तता। अन्यचित्तकृते कामे शवयोरिव सङ्गमः ॥ ५७ ॥ एतदिति ॥ लोके यत् द्वयोः स्त्रीपुरुषयोरेकचित्तता एकचित्तत्वमेतदेव कामस्य फलं भवतीति शेषः । अन्यस्मिन्पुरुषेऽन्यस्यां योषिति वा यञ्चित्तं तेन कृते कामे सति शवयोम॒तयोर्द्वयोः सङ्गम इव भवति । अनुष्टुब्वृत्तम् ॥ यावत्पर्यन्तं पुरुषः कामाधीनो न तावन्महत्त्वादयो गुणाः सन्तीत्याह- तावन्महत्त्वं पाण्डित्यं विवेकित्वं कुलीनता। यावज्वलति नाङ्गेषु हन्त पञ्चेषुपावकः ॥ ५८ ॥ तावदिति ॥ यावत्पुरुषस्याङ्गेषु अवयवेषु पञ्चेषुः काम एव पावकोऽग्निर्न ज्वलति तावदेव महत्त्वं महतो भावो महत्त्वं पूज्यत्वम् । पाण्डित्यं विवेकित्वं सदसद्विवेकित्वम् , कुलीनता सत्कुलप्रभवत्वम् । तिष्ठतीति शेषः । विवेकिना पुरुषेण कामवशेन न भाव्यमित्यनेन सूचितम् । अनुष्टुब्वृत्तम् ॥ लोकप्रसिद्धराजवत्कामाख्यो राजा स्त्रीरूपस्वीयमुद्रोल्लङ्घनकर्तारं दण्डय- तीत्याह- स्त्रीमुद्रां झषकेतनस्य परमां सर्वार्थसंपत्करी ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः। ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचित्पञ्चशिखीकृताञ्च जटिलाः कापालिकाश्चापरे ॥ ५९ ॥ स्त्रीमुद्रामिति ॥ ये मूढा अज्ञानिनः कुधियः कुत्सितबुद्धयः पुरुषा मिथ्या- फलानि स्वर्गादीनि अन्वेषयन्ति मृगयन्ति त एवंविधाः सन्तः परमामुत्कृष्टां सर्वार्थानां संसारसुखोपयोगिपुरुषार्थानां संपदं करोतीति तां तथाविधाम् । सर्वार्थप्राप्तिकरीमिति यावत् । झषो मत्स्यः केतने ध्वजे यस्य एवंविधस्य कामस्य स्त्रीरूपां मुद्रां विहाय त्यक्त्वान्यत्र यान्ति ते पुरुषास्तेन कामेनैव निर्दय- तरं यथा स्यात्तथा निहत्य ताडयित्वा नग्नीकृता वस्त्रहीनाः कृताः । केचि- न्मुण्डिताः केशरहिताः कृता इति शेषः । एवमेवोत्तरत्रापि बोध्यम् । - भर्तृहरिकृतं । केचित्पञ्चशिखीकृताः पञ्चशिखाधारिणः कृताः । केचिजटिला जटाधारिणः कृताः । अपरेऽन्ये कापालिका नरकपालधारिणः कृता इति । यथा प्रसिद्धो राजा स्वीयमुद्रोल्लङ्घनकर्तारं दण्डयति तथा कामाख्यो राजापि संसार- सुखसाधनं कामिन्येवेति सिद्धान्तं कृत्वा तदुपरि कृतां स्वीयां स्त्रीरूपां मुद्रा- मुल्लङ्य येऽन्यथा वर्तन्ते तान् नग्नीकरणादिरूपदण्डेन दण्डयतीति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ कामजनितस्त्रीमोहो दुरुद्धर इत्यथै रूपकविधयाह- विस्तारितं मकरकेतनधीवरेण स्त्रीसंशितं बडिशमत्र भवाम्बुराशौ । तेनाचिरात्तद्धरामिषलोलमर्त्यमत्स्यान्विकृष्य सपचत्यनुरागवह्रौ॥६०॥ विस्तारितमिति ॥ अत्रास्मिन् भवाम्बुराशौ भवसमुद्रे मकरकेतनः काम एव धीवरः कैवर्तस्तेन स्त्रीसंज्ञितं स्त्रीनामकं बडिशं मत्स्यवेधनं विस्तारितं प्रसारितम् । तेन कामप्रसृतबडिशेनाचिराच्छीघ्रं तासां स्त्रीणामधर एवामिषं मांसं तस्मिन् लोलाः सतृष्णा ये मर्त्यमत्स्या मनुष्यरूपा मत्स्यास्तान् विकृष्या- कृष्य स कामोऽनुरागवह्नौ प्रेमाग्नौ पचति । वसन्ततिलका वृत्तम् ।। प्रेमपूर्वकं स्त्रीमिः क्रियमाणं कर्मोल्लङ्घयितुं कोऽपि न समर्थ इत्याह- उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गनाः। तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ॥ ६१ ॥ उन्मत्तेति ॥ अङ्गनाः स्त्रिय उन्मत्तमुच्छृङ्खलं यत्प्रेम तस्य संरम्भाद्वेगा- द्यत् कर्म आरभन्ते तत्र प्रत्यूहं विघ्नमाधातुं कर्तुं ब्रह्मापि कातरो भयचं. कितो भवति । खलु निश्चयेन । सोपि न समर्थोऽस्तीत्यर्थः । स्त्रीचरित्रोल्लङ्घन ब्रह्मणोऽपि दुर्घटमिति स्वकन्यानुवर्तनादिना पुराणादौ प्रसिद्धमिति भावः । अनुष्टुब् वृत्तम् ॥ कामिनीष्वत्यन्तासक्तस्य पुरुषस्य ताः सर्वस्वं हरन्तीत्याह- प्रणयमधुराः प्रेमोगाढा रसादलसास्तथा भणितमधुरा मुग्धप्रायाः प्रकाशितसंमदाः । प्रकृतिसुभगा विश्रम्भार्हाः स्मरोदयदायिनो रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ १२॥ प्रणयेति ॥ मृगीदृशां हरिणाक्षीणां स्त्रीणां स्वैरालापाः स्वेच्छाभाषणानि किमप्यनिर्वचनीयं हरन्ति । सर्वखं हरन्तीत्यर्थः । कीदृशाः खैरालापाः । प्रणयेन नम्रतया मधुराः प्रियाः, प्रेम्णा उद्गाढा भरिताः, तथा रसांच्छृङ्गारा- शृङ्गारशतकम् । २७ दिरसादलसाः शिथिलाः, तथा भणितेन रतिकूजितेन मधुराः, मुग्धप्राया अस्फुटाः, प्रकाशितः संमदो हर्षो येषु ते तथाविधाः, प्रकृत्या खभावेन सुभगाः सुन्दराः, विश्रम्भारे विश्वासयोग्याः, स्मरस्य कामस्योदयं ददति त- च्छीला एवंविधाः । हरिणी वृत्तम् ॥ मालाचन्दनादिधारणपूर्वकः प्रियासङ्गमः स्वर्गसुखद इत्याह मालती शिरसि जृम्भणोन्मुखी चन्दनं वपुषि कुङ्कुमाविलम् । वक्षसि प्रियतमा मनोहरा स्वर्ग एष परिशिष्ट आगतः ॥ ६३ ॥ मालतीति ॥ यस्य शिरसि जृम्भणे विकसन उन्मुखी मालती जातिपु- ष्पमाला । अस्तीति शेषः । एवमुत्तरत्रापि बोध्यम् । यस्य वपुषि शरीरे कुङ्कु- मेनाविलं मिश्रं चन्दनमस्ति, यस्य वक्षसि हृदये मनोहरा मनोज्ञा प्रियतमा स्त्री अस्ति, तस्य पुरुषस्य एष परिशिष्टः पुण्यावशिष्टः स्वर्गो भुवि आगतः प्राप्त इति बोध्यम् । रथोद्धता वृत्तम् । “रान्नराविह रथोद्धता लगौ” इति तल्लक्षणात्॥ इह जगति कामिन्येव सर्ववशीकरणसमर्था भवतीत्याह- कुङ्कुमपङ्ककलङ्कितदेहा गौरपयोधरकम्पितहारा । नूपुरहंसरणत्पदपद्मा कं न वशं कुरुते भुवि रामा ॥ ६४ ॥ कुङ्कुमेति ॥ कुङ्कुमस्य काश्मीरस्य पङ्कः कर्दमस्तेनाङ्कितश्चिहितो देहो यस्याः सा, गौरौ पयोधरौ स्तनौ ताभ्यां कम्पितो हारो यस्याः सा, नूपुराणि मञ्जीराण्येव हंसास्तै रणती शब्दायमाने पदपझे चरणकमले यस्याः सा एवंविधा रामा स्त्री मुवि पृथिव्यां कं पुरुषं वशमधीनं न कुरुते । अपि तु सर्वे वशं कुरुत इत्यर्थः । दोधकं वृत्तम् । “दोधकवृत्तमिदं भभभाद्गौ” इति लक्षणात् ।। स्वकटाक्षपातैरिन्द्रादीनामपि मोहनकर्तृत्वसामर्थ्यवतीनां स्त्रीणां कविमिः क्रियमाणोऽबलात्वव्यवहारो मुधेति कथयस्तासां बलवत्त्वमाह- नूनं हि ते कविवरा विपरीतबोधा ये नित्यमाहुरबला इति कामिनीनाम् । यासिर्विलोलतरतारकदृष्टिपातैः शकादयोऽपि विजिता अबलाः कथं ताः॥६५॥ नूनमिति ॥ ये कवयः कामिनीनां कामिनीः । कर्मणः शेषत्वविवक्षायां संबन्धसामान्ये षष्ठी । यद्वा नामेत्यध्याहृत्य कामिनीनां नाम अबला इति नित्यमाहुर्वदन्ति ते कविवराः कविश्रेष्ठाः विपरीतो बलवत्त्वविरुद्धो बोधो २८ भर्तृहरिकृतं - कथम् । अपि ज्ञानं येषां ते तथाविधाः सन्ति । हि निश्चितम् । नूनमिति वितर्के । अथवा ते कविवराः कामिनीनां विषये विपरीतबोधाः सन्ति । ते के । ये ताः अ- बला इति आहुरित्यन्वयः । कुतो विपरीतबोधा इत्याशङ्कयाह-याभिरिति । यामिः कामिनीभिः विलोलतरा अतिचञ्चलास्तारका अक्षिकनीनिका येषु एवंविधा ये दृष्टिपाताः कटाक्षास्तैः शक्रादय इन्द्रादयोऽपि विजिताः ताः स्त्रियोऽबलाः तु न भवन्तीत्यर्थः । वसन्ततिलका वृत्तम् ।। दिश वनहरिणीभ्यो वंशकाण्डच्छवीनां कवलमुपलकोटिच्छिन्नमूलं कुशानाम् । शुकयुवतिकपोलापाण्डुताम्बूलवल्ली- दलमरुणनखात्रैः पाटितं वा वधूभ्यः ॥ ६६ ॥ दिशेति ॥ हे जन, त्वं वने अरण्ये या हरिण्यो मृग्यस्ताभ्यः वंशस्य वेणोः काण्डो दण्डः । “काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु" इत्यमरः । तस्येव छविः कान्तिर्येषां तेषां कुशानां दर्भाणाम् । “अस्त्री कुशं कुथो दर्भः" इत्यमरः । उपलस्य पाषाणस्य कोटिरग्रभागस्तेन छिन्नं मूलं यस्यैवं- विधं कवलं ग्रासम् । “प्रासस्तु कवलः पुमान्" इत्यमरः । दिश देहि । वा अथवा वधूभ्यः स्त्रीभ्यः अरुणानि कृष्णलोहितानि, "अरुणः कृष्णलोहितः" इत्यमरमाला । ईषद्रक्तानीति यावत् । यानि नखानि तेषामग्राणि तैः पा- टितं छिन्नं एवंविधं, शुकयुवत्याः कीरस्त्रियाः। “गृध्रौ कीरशुकौ समौ" इत्य- मरः । कपोलो गण्डस्तद्वत् आ ईषत् पाण्डुः पीतमिश्रश्वेतवर्णा, “पाण्डु- स्तु पीतभागाधः केतकीधूलिसंनिभः” इति शब्दार्णवः । या ताम्बूलवल्ली तस्याः दलं पर्ण दिशेत्यर्थः । मालिनी वृत्तम् ।। स्तनभारादयो व्यथां कुर्वन्त्यथापि तदपेक्षयाऽधिकां व्यथां मध्यस्थापि रोमावली ददातीत्याह- उदृत्तः स्तनभार एष तरले नेत्रे चले भूलते रागाधिष्ठितमोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् । सौभाग्याक्षरपत्रिकेव लिखिता पुष्पायुधेन स्वयं मध्यस्थापि करोति तापमधिकं रोमावली केन सा ॥ ६७ ॥ उद्वृत्त इति ॥ उद्वृत्त उन्नत एष स्तनभारः कुचभारः तथा तरले चञ्चले नेत्रे, तथा चले भूलते, तथा रागेण रक्तिम्नाधिष्ठितमिदमोष्ठपल्लव- मधरपल्लवम् , एते सर्वे कामिपुरुषस्य व्यथां पीडां कुर्वन्तु नाम; परंतु तद- शृङ्गारशतकम्। पेक्षया पुष्पमेवायुधं यस्य तेन कामेन स्वयं लिखिता । सौभाग्यद्योतकानि यानि अक्षराणि वर्णास्तेषां पतिरेव पतिका । स्वार्थे कः । सेव मध्यस्थापि रोमावली रोमपतिः सा अधिकं यथा स्यात्तथा तापं दुःखं करोति सा केन हेतुनेत्यहं न जाने । लोके हि मध्यस्थस्तथा तापं न ददातीति प्रसिद्धम् , इयं च रोमावली मध्यस्था सत्यपि हेतुं विनैवाधिकं तापं ददातीति तस्याः सर्वापे. क्षयाधिकतापदातृत्वमस्तीति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ स्त्रीणां सर्वथा प्रियः कोऽपि नास्तीत्याह- जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः। हृदये चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥ ६८॥ जल्पन्तीति ॥ सविभ्रमा हावादिचेष्टायुक्ताः स्त्रियः । “विभ्रमो भ्रान्ति- हावयोः" इति मेदिनी । अन्येन पुरुषेण साधं जल्पन्ति, तथा अन्यं पुरुषं पश्यन्ति, तथा हृदयेऽन्तःकरणेऽन्यं चिन्तयन्ति तस्मात् योषितां स्त्रीणां प्रियः को नाम । न कोऽपीत्यर्थः । अनुष्टुब् वृत्तम् ॥ युवतीलाभ एव तपसः फलमित्याह- स्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतीः। यस्मात्तपसोऽपि फलं स्वर्गः स्वर्गेऽपि चाप्सरसः ॥ ६९ ॥ खपरेति ॥ अलीकपण्डितो मिथ्यापाण्डित्यविशिष्टो यः पुरुषो युवती- स्तरुणस्त्रीनिन्दति असौ स्वस्य परस्य च प्रतारको वञ्चकोऽस्ति । कुतः । यस्माद्धेतोस्तपसः फलं वर्गोऽस्ति स्वर्गेऽपि च अप्सरस एव फलं भोग्यं ना- न्यदित्यर्थः । तपःकरणपूर्वकं खर्गे गतस्याप्यप्सरसामेव भोग्यत्वमतो युवतीनि- न्दानुचितेति भावः । पथ्या वृत्तम् । “त्रिष्वंशकेषु पादो दलयोरायेषु दृश्यते यस्याः । पथ्येति नाम तस्याश्छन्दोविद्भिः समाख्यातम्" इति तल्लक्षणात् ।। शशिकिरणान् निवारयन्त्याः कस्याश्चिस्त्रिया वने विचरणमाह- विश्रम्य विश्रम्य वने द्रुमाणां छायासु तन्वी विचचार काचित् । स्तनोत्तरोयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् ॥७०॥ विश्रम्येति ॥ काचित्तन्वी विरहिणी स्त्री, द्रुमाणामरण्यवृक्षाणां छायासु विश्रम्य विश्रम्य विश्रान्ति कृत्वा । आदरार्थे वीप्सा । करेण हस्तेनोद्धृतं तेन स्तनोत्तरीयेण स्तनोपरिस्थवस्त्रेण शशिनश्चन्द्रस्य मयूखान्किरणान् निवार- यन्ती सती वने अरण्ये विचचार । संचारं कृतवतीत्यर्थः । उपजातिवृत्तम् ।।

भर्तृहरिकृतं AN मनस्युत्पन्नोऽमिलाष उत्तरोत्तरमधिकाधिकः संस्तृप्तिहेतुर्न भवतीत्याह- अदर्शने दर्शनमात्रकामा दृष्ट्वा परिष्वङ्गरसैकलोलाः। आलिङ्गितायां पुनरायताक्ष्यामाशास्महे विग्रहयोरभेदम् ॥ ७१ ॥ अदर्शन इति ॥ पुरुषाः स्त्रियाः प्रथमं अदर्शने दर्शनाभावे दर्शनमात्रे कामोऽभिलाषो येषां तथाभूताः । भवाम इति शेषः । एवमुत्तरत्रापि । तां दृष्ट्वा परिष्वङ्गे आलिङ्गने यो रसः प्रेम तस्मिन्नेकलोला अत्यन्तं सतृष्णा भवामः । दैववशादर्शने जाते तदालिङ्गनाभिलाषिणो भवाम इत्यर्थः । पुनरायताक्ष्यां दीर्घलोचनायां स्त्रियामालिङ्गितायां सत्यां वयं विग्रहयोदेहयोरभेदं अपार्थक्यमा- शास्मह इच्छामः । दैववशादालिङ्गनलामेऽपि तावता तुष्यन्तो वियोगभीत्या देहाभेदमाशासानाः सन्तो न तृप्याम इति भावः । उपजातिवृत्तम् ।। इह संसारेऽनुकूलां स्त्रियमुपभुञ्जाना ये पुरुषास्त एव धन्या नान्य इत्याह- उरसि निपतितानां त्रस्तधम्मिल्लकानां मुकुलितनयनानां किंचिदुन्मीलितानाम् । सुरतजनितखेदस्विन्नगण्डस्थलाना- मधरमधु वधूनां भाग्यवन्तः पिबन्ति ॥ ७२॥ उरसीति ॥ उरसि हृदये निपतितानां पतितानामर्थाद्विपरीतसुरत इत्यर्थः । स्रस्तो विस्रस्तो धम्मिल्लः केशपाशो यासां तासाम् । समासान्तः कम् । मुकुलिते सुखवशान्मीलिते नयने नेत्रे यासां तासाम् । किंचिदीषदुन्मीलिता- नामीषत्पश्यन्तीनामित्यर्थः । सुरते जनितो यः खेदः श्रमस्तेन खिन्ने धर्म- युक्ते गण्डस्थले कपोलौ यासां तासामेवंविधानां वधूनां स्त्रीणामधरमधु अ- धरासवं ये पिबन्ति ते भाग्यवन्तः सन्ति । मालिनी वृत्तम् ।। पथिकः पुरुषो नवीनमेघप्रादुर्भावं दृष्ट्वा गन्तुमशक्तः स्वप्रियां चिन्तय- न्सन् तत्रैव तिष्ठन्नास्ते तामेव चिन्तां दर्शयति--- किं गतेन यदि सा न जीवति प्राणिति प्रियतमा तथापि किम् । इत्युदीर्य नवमेघमालिकांन प्रयाति पथिकः स्वमन्दिरम् ॥ ७३ ॥ किं गतेनेति ॥ कश्चित्पथिकः नवमेघमालिकां नूतनमेघपतिं दृष्ट्वा यदि सा प्रियतमा स्त्री मद्विहरेण न जीवति तर्हि गतेन गृहगमनेन किम् , अथवा प्राणिति जीवति तथापि किं कर्तव्यमिति शेषः । मेघाद्याविर्भावेण गन्तुम- शक्यत्वादित्यर्थः । इति पूर्वोक्तप्रकारेण उदीर्य स्खमन्दिरं वगृहं न प्रयाति न गच्छति । स्थोद्धता वृत्तम् ।।

शृङ्गारशतकम्। SHREMIERRORE अङ्गीकृतस्य कामाख्यपुरुषार्थस्य परमावधिमाह- आमीलितनयनानां यत्सुरतरसो नु संविदं कुरुते। मिथुनैमिथोऽवधारितमवितथमिदमेव कामनिर्वहणम् ॥ ७४ ॥ आमीलितेति ॥ आ ईषन्मीलिते नयने नेत्रे यासां तासां, सुरते यो रसः स नु निश्चितं संविदं ज्ञानम् । सुखसाक्षात्कारमिति यावत् । “संविस्त्रियां प्रतिज्ञाया- माचारज्ञानसंङ्गरे” इति मेदिनी । कुरुत इति यत् , तदेवेदं मिथुनैर्द्वन्द्वैरव- धारितं निश्चितं अवितथं सत्यं कामस्य, निर्वहणं निष्ठा । आरब्धस्य कामाख्य- पुरुषार्थस्य पर्यवसानमिति यावत् । “निर्वहणं तु निष्ठा स्त्री संहारश्च स- मापने" इति शब्दार्णवः । गीतिवृत्तम् , “आर्या प्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कलयति शोभां तां गीति गीतवान्भुजङ्गेशः" इति तल्लक्षणात् ॥ संभोगे कुलस्त्रीरतस्य रमणीयत्वमाह- प्राङ्मामेति मनागमानितगुणं जाताभिलाषं ततः सबीडं तदनु श्लथीकृततनु प्रत्यस्तधैर्य पुनः। प्रेमा स्पृहणीयनिर्भररहःक्रीडाप्रगल्भं ततो निःशङ्काङ्गविकर्षणाधिकसुखं रम्यं कुलस्त्रीरतम् ॥ ७५ ॥ प्राङ्मामेति ॥ प्राक् रतिसमये मामा नेतिनेति निषेधवाचकशब्दैर्मनाक् ईषत् न मानिता गुणा यसिंस्तत् , मनागित्यनेन सर्वथा गुणावमाननं नेति सूचितम् । अत एव ततोऽनन्तरं जातोऽभिलाष इच्छा यस्मिंस्तत्, तदनु सब्रीडं सलज्जं यथा स्यात्तथा श्लथीकृता शिथिलीकृता तनुः शरीरं यस्मिंस्तत्, तनुशैथिल्यविशिष्टमित्यर्थः । तथापि तदलामे पुनः प्रत्यस्तं नष्टं धैर्य यस्मिंस्तत् , प्रेम्णा आर्द्र स्निग्धम् । प्रेमयुक्तमित्यर्थः। स्पृहणीया स्पृहायोग्या निर्भरा अतिशयिता या रहःक्रीडा एकान्तक्रीडा तया प्रगल्भं प्रौढम् । ततो निःशङ्कं यदङ्गस्य विकर्षणमाकर्षणं तेनाधिकं सुखं यस्मिन्नेवंविधं कुलस्त्रीरतं कुलीनस्त्रीरतं रम्यं मनोहरमस्ति । नान्यस्त्रीरतमित्यर्थः । शार्दू- लविक्रीडितं वृत्तम् ॥ एकस्याः स्त्रिया दर्शनादर्शनभेदेनामृततुल्यत्वं विषतुल्यत्वं चाह- तावदेवामृतमयी यावल्लोचनगोचरः। चक्षुःपथादपेता तु विषादप्यतिरिच्यते ॥ ७६ ॥ तावदेवेति ॥ यावत् स्त्री लोचनगोचरश्चक्षुर्विषयीभूता भवतीति शेषः । ता- Anuman ३२ भर्तृहरिकृतं वदेव अमृतमयी अमृतप्राया भवति, तत्तुल्यसुखदत्वादित्यर्थः । चक्षुःपथान्नेत्र- मार्गादपेता रहिता तु विषादपि अतिरिच्यत अधिका भवति । तत्तुल्यदुःखदा- तृत्वादित्यर्थः । अनुष्टुब् वृत्तम् ।। कामस्य दुर्जयत्वमपस्माररूपकेणाह- न गम्यो मन्त्राणां न च भवति भैषज्यविषयो न चापि प्रध्वंसं व्रजति विविधैः शान्तिशतकैः। भ्रमावेशादङ्गे किमपि विदधद्भङ्गमसमं सरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥ ७७ ॥ न गम्य इति । अयं स्मर एवापस्मारो रोगविशेषो मन्त्राणां गम्यो न भवति, मन्त्ररूपैरुपायैरप्यपरिहार्य इत्यर्थः । च पुनभैषज्यं औषधं तद्विषयो न भवति । तेनाप्यपरिहार्य इत्यर्थः । च पुनर्विविधैः शान्तिशतकैः शान्तिकार- कैरुपायैः प्रध्वंसं नाशं न व्रजति गच्छति, तथा भ्रमावेशादसमं न्यूनाधिक- भावेन विषममङ्गे शरीरे किमपि अनिर्वचनीयं भङ्ग भेदन् । शान्त्यादिनाप्यप- रिहार्य इत्यर्थः । विदधत् कुर्वन्सन् दृशं दृष्टिं भ्रमयति भ्रमणं कारयति । घूर्णयति च । प्रसिद्धापस्मारो हि मन्त्रादिभिः परिभवत्ययं च तैरप्यपरिहार्य- त्वादतिदुर्जय इति भावः । शिखरिणी वृत्तम् ॥ अयं च मदनः स्त्रीकटाक्षसंचाराधीनसंचारवत्त्वात्तदाज्ञाकर इत्याह- नूनमाज्ञाकरस्तस्याः सुभुवो मकरध्वजः। यतस्तन्नेत्रसंचारसूचितेषु प्रवर्तते ॥ ७८ ॥ नूनमिति ॥ सुष्ठु ध्रुवौ भृकुटी यस्यास्तस्याः स्त्रियो मकरध्वजः कामो नूनं निश्चितमाज्ञाकर आज्ञापालकोऽस्ति । यतो यस्माद्धेतोस्तस्याः स्त्रियो नेत्रसं- चारेण नेत्रचालनेन सूचितेषु पुरुषेषु प्रवर्तते प्रवृत्तो भवति । अनुष्टुब् वृत्तम् ॥ स्त्रीष्वत्यन्तासक्तः पुरुषः कमपि जगद्व्यवहारं न जानातीत्याह- सति प्रदीपे सत्यग्नौ सत्सु तारारवीन्दुषु । विना मे मृगशावाक्ष्या तमोभूतमिदं जगत् ॥ ७९ ॥ सतीति ॥ प्रदीपे सति, अग्नौ सति, तारा शुक्रादयः रविः सूर्य इन्दुश्चन्द्रश्च तेषु तमोनाशकेषु सत्स्वपि, “सत्सु नानामणिष्वपि" इति पाठः । मृगशावाक्ष्या मृगस्य हरिणस्य शावो बालकस्तस्याक्षिणीवाक्षिणी नेत्रे यस्यास्तया स्त्रिया शृङ्गारशतकम् । सर्व जगत् तमोभूतं तमोरूपमस्ति । स्त्रीकटाक्षर्विद्धोऽहं जगति कार्यमकार्य वा किमपि न पश्यामीत्यर्थः । अनुष्टुब् वृत्तम् ॥ एतादृशीं मोहिकां स्त्रियमेव वर्णयति- मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहः। पाणिभ्यां पद्मरागाभ्यां रेजे रतमयीव सा ॥ ८०॥ मुखेनेति ॥ सा प्रसिद्धा स्त्री चन्द्रवत्कान्तं मनोहरं तेन मुखेन, पक्ष चन्द्रकान्तेन मणिना, तथा महान्तश्च ते नीलास्तैः कृष्णवर्णैः शिरोरुहै। केशैः, पक्षे महानीलैर्नीलमणिभिः, तथा, पद्मं रक्तकमलं तद्वद्रागो रक्तिमा ययोस्ताभ्यां पाणिभ्यां हस्ताभ्यां, पक्षे पद्मरागाभ्यां पद्मरागमणिभ्यां रत्नमयीव रत्नप्रचुरेव रेजे शुशुभे । अनुष्टुब् वृत्तम् ॥ गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता। शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा॥८१॥ गुरुणेति ॥ सा स्त्री गुरुणा महता स्तनभारेण कुचमारेण, पक्षे गुरुणा बृहस्पतिना, भास्वता देदीप्यमानेन मुखमेव चन्द्रस्तेन, पक्षे भास्वता सूर्येण वा चन्द्रेण च, शनैर्मन्दं चरतस्ताभ्यां पादाभ्यां चरणाभ्यां, पक्षे शनै- श्वरेण, शनैश्वराभ्यामिति द्विवचनं तु पादयोर्विशेषणामिप्रायेण, ग्रहमयीव सूर्यादिग्रहप्रचुरेव रेजे शोमितवती । अनुष्टुब् वृत्तम् ॥ एतामेव स्त्रियं प्रसिद्धधानुष्कापेक्षया वैलक्षण्येन वर्णयति- मुग्धे धानुष्कता केयमपूर्वा दृश्यते त्वयि । यदा विध्यसि चेतांसि गुणैरेव न सायकैः ॥ ८॥ मुग्ध इति ॥ हे मुग्धे सुन्दरि, केयमपूर्वा प्रसिद्धधानुष्कापेक्षया विलक्षणा धनुः प्रहरणमस्य धानुष्कं तस्य भावो धानुष्कता धनुष्मत्त्वं त्वयि दृश्यते । "तदस्य प्रहरणम्" इत्यर्थे ठक् । "इसुसुक्तान्तात्कः" इत्यनेन ठस्य कः। शरदः कृतार्थेत्यादिवत्सामान्ये नपुंसकम् । वैलक्षण्यमेवाह-यदिति । यद्यस्मात्पुरुषाणां चेतांसि गुणैर्धनाभिरेव आविष्यसि हंसि, सायकैर्बाणैन । प्रसिद्धो हि धनुष्मान् बहिर्दश्यमानं लक्ष्यं बाणैर्विध्यति त्वं त्वदृश्यमपि पुरुषचेतोरूपं लक्ष्यं गुणैरेव वि- ध्यसि न तु बाणैरित्यदृष्टपूर्वा विलक्षणा तव धनुष्मत्तेति भावः । अनुष्टुब् वृत्तम् ॥ रागिविरागिणोर्मध्ये एकः शिव एव राजते नान्ये तेषामुभयथा व्युतत्वा- दित्याह एको रागिषु राजते प्रियतमादेहार्धहारी हरो नीरागेष्वपि यो विमुक्तललनासंगो न यस्मात्परः। walpan ४ MORA भर्तृहरिकृतं दुर्वारस्मरबाणपन्नगविषज्वालावलीढो जनः शेषः कामविडम्बितो हि विषयान् भोक्तुं च मोक्तुं क्षमः ॥ ८३॥ एक इति ॥ प्रियतमायाः पार्वत्या देहाधैं हरति तच्छीलो हारी एवंविध एक एव हरः शिवो रागिषु राजते, यो विमुक्तस्त्यक्तो ललनासंगः स्त्रीसंगो येनैवंविधो नीरागेष्वपि राजते, यस्माच्छिवात्परोऽन्यः दुर्वारो वारयितुमशक्यो यः स्मरबाणः कामबाणः स एव पन्नगः सर्पस्तस्य या विषज्वाला तयाव- लीढ आस्वादितः शेषोऽवशिष्टो जनः कामेन विडम्बितः सन् विषयान्भोक्तुं मोक्तुं त्यक्तुं च क्षमः समर्थो न भवतीति शेषः । अयमेक एव शिवपार्वती- परिणयात्प्राक् एनं मोहयितुं प्राप्तोऽपि कामो येन दग्धोऽत एव विमुक्तललना- संगत्वाद्विरागिषु राजते स्म, पश्चात्पार्वतीतपश्चर्यया तुष्टः सन् तद्वियोगभङ्ग- मिया तां देहार्धत्वेन धारयन् रागिष्वपि राजते स्म । नान्ये तथाविधा इति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ स्त्रीपुरुषयोः स्थिताववस्थाभेदेनानौचित्यं व्युत्क्रमं चाह- इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकाराः। यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ॥४॥ इदमिति ॥ इह लोके पुंसां पुरुषाणां जराखपि मन्मथस्य कामस्येमे मान्मथा विकारा भवन्ति इति यत् , तथा यदपि च नितंबिनीनां स्त्रीणां स्तनपतनावधि स्तनपतनपर्यन्तं जीवितं, वा अथवा रतं सुरतं च न कृतं इद- मनुचितमयोग्यमक्रमः । क्रमाभावश्चास्तीति शेषः । पुरुषस्य तारुण्यावस्थायां कामविकारोद्भवस्य सार्थक्येऽपि वृद्धावस्थायां तस्य नैरर्थक्यादनुचितत्वं क्रमवैपरीत्यं च स्त्रीणां च, तारुण्यावस्थायां जीवितस्य रतस्य सफलत्वेऽपि वृद्धावस्थायां जीवितस्थिती रताकरणं चानुचितं क्रमवैपरीत्यं चेति भावः । पुष्पिताग्रा वृत्तम् । “अयुजि न युगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताना" इति तल्लक्षणात् ॥ सर्पदंशजन्यविषापेक्षया स्त्रीकटाक्षवीक्षणरूपविषस्य दुश्चिकित्सकत्वमाह- व्यादीभ्रुण चलेन वक्रगतिना तेजस्विना भोगिना नीलालद्युतिनाहिना वरमहं दष्टो न तचक्षुषा। दष्टे सन्ति चिकित्सका दिशि दिशि-प्रायेण धर्मार्थिनो मुग्धाक्षीक्षणवीक्षितस्य नहि मे मन्त्रो नवाप्यौषधम् ॥ ८५ ॥ व्यादीर्घेणेति ॥ अहं व्यादीघेणातिविस्तीर्णेन, चलेन चञ्चलेन, वक्रा कुटिला गतिर्यस्य तेन, तेजस्विना कान्तिमता, भोगः फणास्ति यस्य तेन, झारशतकम् । ED नीलाजवन्नीलकमलवड्युतिः कान्तिर्यस्य, कृष्णसर्पस्यातिविषस्वमस्तीत्यनेन सूचितम् । एवंविधेनाहिना सर्पण दष्टः कृतदंशोऽहं भविष्यामीति वरं मनाक् प्रियम् । सर्पदंशजन्यविषबाधा मनाप्रियेत्यर्थः । परंतु तस्या मुग्धाक्ष्याश्चक्षुषा नेत्रेण दष्टो न वरम् । स्त्रीकर्तृककटाक्षदर्शनजन्यविषबाधा न प्रियेत्यर्थः । कुतः। तेनाहिना दष्टे सति दिशि दिशि प्रायेण बाहुल्येन धर्मार्थिनश्चिकित्सका विषवैद्याः सन्ति परंतु मुग्धाक्ष्याः सुन्दरस्त्रिया ईक्षणं नयनं तेन वीक्षितस्यावलोकितस्य । वीक्षणरूपविषदग्धस्येत्यर्थः । मे मम मन्त्रो विषा- पहारको न, वा अथवा औषधमपि नास्तीत्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ एतदेव भङ्गयन्तरेण वर्णयन्नाह- अपसर सखे दूरादस्मात्कटाक्षविषानला- प्रकृतिविषमाद्योषित्साद्विलासफणाभृतः। इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधै- श्वटुलवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः॥८६॥ अपसरेति ॥ हे सखे, वं अस्मात् कटाक्षा एव विषानलो विषाग्निर्यस्मि- स्तस्मात् "शिखानलात्" इति पाठे कटाक्ष एव शिखा ज्वालास्तद्विशिष्टो- ऽनलो यस्मिंस्तस्मात् प्रकृत्या स्वभावेन विषमः प्रसिद्धसापेक्षया विलक्षण- 'स्तस्मात् , विलास एव फणा फटा तां बिभर्तीति भृत् । तस्मात् एवंविधा- । घोषित्सर्पास्त्रीरूपभुजङ्गमादूरादपसर गच्छ । पलायनं कुर्वित्यर्थः । कुतः। हि यस्मात् इतरफणिना जातितः प्रसिद्धसर्पण दष्टः पुरुषः औषधैश्चिकित्सितुं शक्यः परंतु मन्त्रिणो मन्त्रवन्तः पुरुषाः चटुला चतुरा या वनिता स्त्री सैव भोगी सर्पस्तेन प्रस्तं दष्टं पुरुषं त्यजन्ति । चिकित्सितुं शक्ता न भवन्तीत्यर्थः। हरिणी वृत्तम्। "रसयुगहयैन्सौं नौ स्लो गो यदा हरिणी तदा" इति लक्षणात् ॥ परस्परं संगतमनसां विरहोऽपि संगम एव, विघटितमनस्कानां संगमोऽपि विरह एवेत्याह- विरहोऽपि संगमः खलु परस्परं संगतं मनो येषाम् । यद्धृदयविघटितः संगमोऽपि विरहं विशेषयति ॥ ८७॥ विरह इति । येषां मनोऽन्तःकरणं परस्परं संगतं संल्लग्नमस्तीति शेषः । तेषां विरहोऽपि वियोगोऽपि संगम एव भवतीति शेषः । यद्यदा हृदयविघटितः विघटितं हृदयं यस्मिन्सः । वाहितान्यादित्वात्परनिपातः । एवंविधः संगमोऽपि विरहं वियोगं विशेषयति वर्धयति । करोतीत्यर्थः । आर्या वृत्तम् ॥ । ।

भर्तृहरिकृतं पुण्यैर्विना सुन्दरवनितालाभो दुर्लभ इति पुण्यकरणविषये चित्तप्रार्थनां करोतीत्याह- यस्याः स्तनौ यदि घनौ जघनं विहारि वक्रं च चारु तव चित्त किमाकुलत्वम् । पुण्यं कुरुष्व यदि तेषु तवास्ति वाग्छा पुण्यैर्विना नहि भवन्ति समीहितार्थाः ॥ ८८॥ यस्या इति ॥ यस्याः स्तनौ कुचौ घनौ सान्द्रौ, जघनं कटिपुरोभागः विहारि विशेषेण मनोहारि, वक्रं मुखं च चारु सुन्दरमस्ति यदि तर्हि हे चित्त, तवाकुलत्वं किमिति । यदि तस्याः तेषु स्तनादिषु तव वाञ्छा इच्छा अस्ति चेत्तर्हि त्वं पुण्यं कुरुष्व । हि यस्मात् पुण्यैर्विना कस्यापि समीहितार्था वान्छितार्था न भवन्ति । न सिध्यन्तीत्यर्थः । वसन्ततिलका वृत्तम् ।। सुन्दरस्त्रीणां विलासस्य महत्त्वं वर्णयति- इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरत- प्रतापप्रारम्भाः स्मरविजयदानप्रतिभुवः। चिरं चेतश्चौरा अभिनव विलासैकगुरवो विलासव्यापाराः किमपि विजयन्ते मृगशाम् ॥ ८९॥ इम इति ॥ तारुण्यस्य यौवनस्य श्रीः शोभा तस्या नवो नूतनः परिमलः। अतिसंमर्द इति यावत् । यद्वा अतिमर्दो मनोहारिगन्धो येषु ते, यौवनश्रिया. तिशयशोभावन्त इत्यर्थः। "स्यात्परिमलोऽतिमर्दातिमनोहरगन्धयोश्चापि" इति मेदिनी । प्रौढं यत्सुरतं तद्विषयको यः प्रतापः प्रभावस्तस्य प्रारम्भो येषु ते स्मरस्य कामस्य विजयस्तस्य यदानं तस्य प्रतिभुवो लग्नकाः। विजयं दातुं समर्था इति यावत् । “स्युर्लग्नकाः प्रतिभुवः" इत्यमरः । चिरं चिरकालं चेतश्चोर- यन्ति ते । मनोहारिण इत्यर्थः । अभिनवो नूतनो यो विलासस्तस्यैकगुरवो मुख्य शिक्षकाः एवंविधा इमे प्रसिद्धा मृगदृशां हरिणाक्षीणां विलासव्यापाराः शृङ्गारचेष्टाविशेषाः किमपि अनिर्वचनीयं यथास्यात्तथा विजयन्ते सर्वोत्कर्षण वर्तन्त इति । शिखरिणी वृत्तम् ॥ ऐहिकपारत्रिकभेदेन पुरुषस्य कर्तव्यमाह- आवासः क्रियतां गाङ्गे पापहारिणि वारिणि । स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥९॥ आवास इति ॥ पुरुषेण पापं हरति तच्छीले गङ्गाया इदं गाङ्गं तस्मिन् । * skin HA शृङ्गारशतकम्। वारिणि जले । तत्तीर इत्यर्थः। आवासः स्थितिः क्रियताम् । पुण्यसंपादना- र्थमित्यर्थः । वा अथवा हारो मुक्ताहारोऽस्ति यस्मिंस्तस्मिन् मनोहारिणि तरुण्या युवत्याः स्तनद्वये आवासः स्थितिः क्रियताम् । ऐहिकसुखार्थमित्यर्थः । अनुष्टुब् वृत्तम् ॥ स्त्रीणां प्रशान्तस्यापि वपुषः क्षोभकत्वं श्लेषानुविद्धरूपकविधयाह- केशाः संयमिनः श्रुतेरपि परंपारं गते लोचने चान्तर्वक्रमपि स्वभावशुचिभिः कीर्ण द्विजानां गणैः । मुक्तानां सतताधिवासरुचिरं वक्षोजकुम्भद्वयं चेत्थं तन्वि वपुः प्रशान्तमपि ते क्षोभं करोत्येव नः॥९१॥ केशा इति ॥ केशाः कचाः संयमो बन्धनमस्ति येषां ते, पक्षे संयमिनो योगिरूपाः, सन्तीति शेषः । तथा लोचने नेत्रे श्रुतेरपि कर्णस्यापि । श्रुतेरिति जात्यभिप्रायेणैकवचनम् । कर्णयोरित्यर्थः । परंपारं गते स्तः । आकर्णविशाले इत्यर्थः । पक्षे श्रुतेर्वेदस्य पारं गते। संपूर्णवेदाध्यायिनीत्यर्थः। तथा वक्र मुखमपि खभावेन शुचिभिः शुद्धैर्द्विजानां दन्तानां, पक्षे ब्राह्मणानां गणैः समूहै: कीर्ण व्याप्तम् । "दन्तविप्राण्डजा द्विजाः" इत्यमरः । तथा वक्षोजी स्तनावेव कुम्भौ घटौ तयोर्द्वयं युग्मं मुक्तानां मुक्ताहाराणां सततं निरन्तरं अधिवासो वसतिस्तया रुचिरं सुन्दरम् । पक्षे मुक्तानां जीवन्मुक्तानामधिवासस्तेन रुचिर- मित्यर्थः । हे तन्वि हे कृशाङ्गि, इत्थं पूर्वोक्तप्रकारेण प्रशान्तमपि ते वपुः शरीरं नोऽस्माकमन्तरन्तःकरणे क्षोभं करोति । शार्दूलविक्रीडितं वृत्तम् ।। उद्दीपकसामग्रीसमवधाने स्त्रीणां मनसि मानोदयो न भवतीत्याह- प्रियपुरतो युवतीनां तावत्पदमातनोतु हृदि मानः । भवति न यावञ्चन्दनतरुसुरभिर्निर्मल: पवनः ॥९२ ॥ प्रियपुरत इति ॥ यावच्चन्दनतरुणा चन्दनवृक्षण सुरभिः सुगन्धिर्निर्मल: खच्छः पवनो वायुनं भवति तावत् प्रियस्य पुरतोऽप्रभागे युवतीनां स्त्रीणां हृदि अन्तःकरणे मानोऽभिमानः पदं आतनोतु करोति चेत्करोतु । तत्सम- बधाने तु सुतरां नश्यतीति भावः । आर्या वृत्तम् ।। स्त्रीसंगल्यागं कर्तुं विद्वानपि न समर्थ इत्याह- वचसि भवति संगत्यागमुद्दिश्य वार्ता श्रुतिमुखरमुखानां केवलं पण्डितानाम् ।

भर्तृहरिकृतं mompas जघनमरुणरत्नप्रन्थिकाञ्चीकलापं कुवलयनयनानां को विहातुं समर्थः॥९३॥ वचसीति ॥ श्रुत्या शास्त्रेण मुखराणि वाचालानि मुखानि येषां तेषां शास्त्रनिपुणानां पण्डितानां संगस्य संगतेस्त्यागमुद्दिश्य वचसि वाण्यां केवलं वातैव भवति । न तु ते संगत्यागं कृतिविषयतामानयन्तीत्यर्थः । तस्मात् अरुणरत्नैः पद्मरागमणिमिम्रन्थिग्रंथनं यस्मिन्नेतादृशः काञ्चीकलापो यस्मिंस्तत् एवंविधं कुवलयनयनानां कमलनयनानां स्त्रीणां जघनं कटिपुरोभागं विहातुं त्यक्तुं कः समर्थोऽस्तीति शेषः । अपि तु न कोऽपीत्यर्थः । मालिनी वृत्तम् ॥ मदनवेगस्य दुष्परिहरत्वं श्वदृष्टान्तेनाह- कृशः काणः खजःश्रवणरहितः पुच्छविकलो वणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः। क्षुधा क्षामो जीर्णः पिठरककपालार्पितगल: शुनीमन्वेति श्वा हतमपि निहन्त्येव मदनः ॥ ९४ ॥ कृश इति ॥ कृशः क्षीणः, काण एकाक्षः, "काणः काकैकचक्षुषोः" इति मेदिनी । खञ्जः खोडः । गतिविकल इति यावत् । "खोडे खञ्जस्त्रिषु जरावराः” इत्यमरः। श्रवणाभ्या कर्णाभ्यां रहितो हीनः, पुच्छेन लाडूलेन विकलो हीनः, व्रणोऽस्यास्तीति व्रणी, पूयेन क्लिन्न आर्द्रः, कृमीणां कुलं तस्य शतानि तैरावृता व्याप्ता तनुः शरीरं यस्य सः । क्षुधा क्षुधया क्षामः क्षीणः, जीर्णः वृद्धोऽपि, पिठरकस्य घटस्य कपाले शकले अर्पितो गलः कण्ठो येन सः, एता- दृशोऽपि श्वा शुनी अनु पश्चादेति गच्छति। नायं शुनीस्वभावो न शुनः स्वभावः किं तु मदनस्यैवायं प्रभाव इत्याह-हतमपीति । मदनः कामो हतमपि विकल- मपि पुरुषं निहन्त्येव मारयत्येव, न मोचयतीत्यर्थः । शिखरिणी वृत्तम् ॥ इन्द्रियनिग्रहस्यातिदुर्घटत्वं विश्वामित्रादिदृष्टान्तपूर्वकमाह- विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशना- स्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । शाल्यन्नं सघृतं पयोदधियुतं भुजन्ति ये मानवा- स्तेषामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यस्तरेत्सागरम् ॥ ९५॥ विश्वामित्रेति ॥ वातो वायुः, अम्बु उदकं, पर्णानि पत्राणि तानि अश्न- न्ति ते, एवंविधा अन्नादित्यागिनोऽपि विश्वामित्रः पराशरश्च तौ प्रभृती येषां ते तेऽपि सुललितं सुन्दरं स्त्रियाः मुखपंकजं मुखकमलं दृष्ट्वैव मोहं । शृङ्गारशतकम्। ३९ गताः । अभूवन्निति शेषः । ये तु मानवाः घृतेन सहितं सघृतं पयो दुग्धं दधि च ताभ्यां युतं शाल्यन्नमोदनं भुजन्ति तेषामिन्द्रियाणां निग्रहो यदीति संभावनायाम् । यदि भवेत्तर्हि विन्ध्यः पर्वतः सागरं समुद्रं तरेत् । समुद्रे विन्ध्यतरणं यथा दुर्घटं तथा शाल्यन्नादिभोजिनामिन्द्रियनिग्रहोऽप्यतिदुर्घट इति भावः । इति शार्दूलविक्रीडितं वृत्तम् ॥ अत्यन्तापकारजनकत्वेन स्त्रीणां भ्रूविक्षेपं खलसादृश्येन वर्णयति- अजितात्मसु संबद्धः समाधिकृतचापलः। भुजङ्गकुटिलः स्तब्धो भ्रूविक्षेपः खलायते ॥९६ ॥ अजितात्मस्विति ॥ स्त्रिया भ्रूविक्षेपः कटाक्षचालनं खलायते खल इवाचरति । “कर्तुः क्यङ्-" इति क्यङ् । कीदृशो भ्रूविक्षेपः खलश्च । न जित आत्मा चित्तं यैस्तेष्वजितेन्द्रियेषु संबद्धः, तथा समाधौ चित्तैकाग्र्ये, पक्ष सम्यगाधौ मानसपीडायां विषये कृतं चापलं येन सः, तथा भुजङ्गो जारस्तद्वत्, पक्षे भुजङ्गवत्सर्पवत्कुटिलः, तथा स्तब्धः स्थिरः, पक्षे गर्विष्ठ एवंविधः । अनुष्टुब् वृत्तम् ॥ रूपकविधयाधरचुम्बनकुचमर्दनयोः सहेतुकत्वप्रदर्शनपूर्वकत्वं विषय- निगरणपूर्वकं दर्शयन् स्त्रीणां बाह्याभ्यन्तरस्वभाववैजायमाह- मधु तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम् । अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥९७॥ मध्विति ॥ योषितां स्त्रीणां वाचि वाण्यां मधु तिष्ठति, हृदि हृदये केवलं हालाहलं तत्संज्ञकविषं तिष्ठतीति संबन्धः । अत एव पुरुषेण स्त्रीणाम. धरोऽधरोष्ठो निपीयते, हृदयं तु मुष्टिमिरेव ताड्यते। वैतालीयं वृत्तम् । "षड्डिषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः । न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः" इति तल्लक्षणात् ।। एतावत्पर्यन्तं कृतेन शृङ्गारवर्णनेन परलोकसाधनं न भवतीति तत्साधक वैराग्यं संपादयितुमादौ तदन्तरायभूतां स्त्रियं निन्दयन्नाह श्लोकद्वयेन- आवर्तः संशयानामविनयभवनं पत्तनं साहसानां दोषाणां संनिधानं कपटशतमय क्षेत्रमप्रत्ययानाम् । स्वर्गद्वारस्य विघ्नो नरकपुरमुखं सर्वमायाकरण्डं स्त्रीयन्त्र केन सृष्टं विषममृतमयं प्राणिनामेकपाशः॥९८॥ आवर्त इति ॥ संशयानां संदेहनामावर्तः । जलभ्रमणवदविरतसंशयजन- कमित्यर्थः । अविनयस्यानीतिकर्मणो भवनं गृहम् । अविनयाव्यभिचारीत्यर्थः । MAHARASHAN ४० भर्तृहरिकृतं एकपाशो साहसानामविचाराणा पत्तनं नगरम् । अविचारप्रचुरमित्यर्थः । दोषाणां संनिधीयन्तेऽस्मिन्निति संनिधानं स्थानम् । दोषनिवासभूतमित्यर्थः । कपटशत. मयं अनन्तकपटप्रचुरं, अप्रत्ययानामविश्वासानां क्षेत्रमुत्पत्तिस्थानम् । जनक- मिति यावत् । स्वर्गद्वारस्य विघ्नोऽन्तरायः, नरकपुरस्य मुखम् , सर्वमायानां कपटानां करण्डम् । करण्डवत्सर्वकपटसंग्राहकमित्यर्थः । विषं विषमयम् । अन्तर्विषवन्मारकमित्यर्थः । बहिः अमृतमयममृतप्रचुरम् , प्राणिनां मुख्यबन्धनं एवंविधं स्त्रीयन्त्रं केन सृष्टं निर्मितं तन्न जाने । एवंविधं स्त्रीयन्त्र दृष्ट्वा ततो दूरतः स्थेयमिति भावः । स्रग्धरा वृत्तम् ॥ सत्यत्वे न शशाङ्क एष वदनीभूतो नवेन्दीवर- द्वन्द्वे लोचनतां गते न कनकैरप्यङ्गयष्टिः कृता। किंत्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि त्वड्यांसास्थिमयं वपुर्मुगदृशां मन्दो जनः सेवते ॥ ९९॥ सत्यत्वे नेति ॥ सत्यत्वे याथार्थ्य विचारिते सतीति शेषः । एष शशाङ्क- श्चन्द्रः वदनीभूतो न, वा अथवा इन्दीवरद्वन्द्वे नीलकमलयुग्मे लोचना नेत्रतां गते न, अङ्गयष्टिः शरीरयष्टिरपि कनकैः सुवर्णैः कृता न, किंतु एवं पूर्वोक्तप्रकारेण कविभिः प्रतारितं वञ्चितं मनो यस्य सः, एवंविधः तत्त्वं याथार्थ्य विजानन्नपि यो जनः त्वक् च मांसं च अस्थि च तन्मयं मृगदृशां हरिणीदृशां स्त्रीणां वपुः शरीरं सेवते स मन्दो मूढः । मूर्ख इति यावत् । भाग्यहीनो वास्ति । "मूढाल्पापटुनिर्भाग्या मन्दाः” इत्यमरः । शार्दूलविक्रीडितं वृत्तम् ॥ किंच- स्मृता भवति पापाय दृष्टा चोन्मादकारिणी। स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ १०० ।। इति श्रीमद्भर्तृहरिविरचितं शृङ्गारशतकं समाप्तम् ॥ स्मृतेति ॥ या स्त्री स्मृता सती पापाय भवति, तथा दृष्टा च उन्माद करोति तच्छीला एवंविधा भवति, तथा स्पृष्टा सती मोहाय भवति सा दयिता प्रिया कथं नामेति संभावनायाम् । अनुष्टुब् वृत्तम् ॥ अया कृष्णेन व्यरचि शृङ्गारशतकोपरि। अर्थद्योतनिका व्याख्या प्रीयतां तेन माधवः ॥१॥ इति श्रीमहाबलोपनामककृष्णसरिविरचितायामर्थद्योतनिका- भिधायां टीकायां शृङ्गारशतकं संपूर्णम् ॥

Shringar Satkam

Author
Pandurang Jawaji
Title
Shringar Satkam
File name
Shringar Satkam
Text
OCR done
Citation
1926
Publisher
Nirnaya Sager Press, Bombay
Language
Sanskrit
Pages
44
Library
Bharti Bhawan Liabrary, Allahabad
Classification
Litrature
DLI number
273772
Barcode
5990010894388.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
FtKGx1RTDSd
Download PDF

Shringar Satkam