Svi-ksri-chennai

Laavand-yamayii

Vishhnd-uuraama

PDF Proofread

Front matter

No text on this page.

लावण्यमयी श्रीमत्पण्डितराजवंशावतंसश्रीमत्कान्ताचार्यविदुषां छात्रेण वासिष्ठेन श्रीमत्सदाशिवबुधेन्द्रतनुजन्मना गीर्वाणवाणीपरिचरणबद्धादरेण नेकविधगद्यपद्यप्रबन्धसंग्रथनसमासादितपृथुयशसा वङ्गीय- विबुधमण्डलीसमर्पितविद्यावाचस्पतिविरुदेन वारा- णसेयभारतधर्ममण्डलोपहृतविद्यालङ्कारमहो- पदेशकोपाधिना सूनृतवादिनीसंस्कृत- चन्द्रिकासम्पादकेन राशिवडे- करोपान श्रीमदप्पाशर्मणा विरचिता सा चेयं सम्पादिता गणेश जोशी आचार्य विष्णूराम द्विवेदी शास्त्री इत्येताभ्याम् मूल्यं ] १९४७ [ भष्टाणकाः - मुद्रक तथा प्रकाशक- बो० के० शास्त्री, ज्योतिष प्रकाश प्रेस, विश्वेश्वरगंज, बनारस ।

प्रास्ताविकम् इह किल जगति विद्यमानानां प्रायेण निखिलानामपि भाषाणां प्रकृति- भूता श्रीमती संस्कृतैव भाषेति समस्वरमेवैतत्स्वीक्रियते सर्वैः । किन्तु भाषान्तरेष्विव नास्यां भूयांसि गद्यकाव्यानि सन्दृश्यन्ते । गरीयाँश्च प्राचा पद्यकाव्यप्रणयो न प्रावर्तयद्गद्यप्रणयने प्रायेणेतान् । संप्रति पुनर्गद्यकाव्यानां विशेषतश्च नव्ययैव शैल्या विरचितानां रसास्वाद एकान्तत एवोन्मुखानि भूयसामेव संस्कृतविदा हृदयानि । तदवश्य पूरणीयोऽयममीषां मनोरथ इति विचिन्तयद्भिरुपक्रान्तमिदानी नव्यशैलीसमुद्भासितानां गद्यकाव्यानां प्रणयनं तत्तद्देशवासिभिर्विवद्भिः। प्रणीतानि च संसारचक्रयुगलाङ्गुलीयप्रभृतीनि हृदयहारीणि गद्यकाव्यानि । नव्यशैलीसमुल्ल सिताश्च यावन्तो नामेदानीं भारते वर्षे उपन्यासास्तेषु वङ्गीयेन श्रीमता बंकिमचन्द्रमहाशयेन संग्रथिता एव सर्वोत्तरा इत्यनेकेषां गद्यकाव्यमर्मविदामर्वाचीनरसिकानामभिप्रायः। अत एव च तेनैव संहब्धमिदं लावण्यमय्यभिधानं गद्यकाव्यं संस्कृतभाषयाऽनूध प्रियपाठकमहोदयेभ्यः समुपहृतमस्माभिः। अत्र च यद्यदनुचितमस्मद्देशीयाचाराणां यच विरुद्धमिव श्रीमतः सनातनस्य धर्मस्य तदेतदशेषमपि यथामति परिवर्तितमस्माभिः । भवतु प्रयासोऽयमस्मदीयः प्रियपाठकमहोदयानां परितोषायेति शिवम् ।

No text on this page.

सम्पादकीयम् सुगृहीतनामधेयानां राशिवडेकर अप्पाशास्त्रिणां नामधेयं सर्वेषामपि सरससरलगद्यपद्यप्रणयिनां रसनाग्रेषु नृत्यतीति विदितमेव विपश्चिदपश्चि- मानाम् । यैश्च पञ्चदशवर्षपर्यन्तं संस्कृतचन्द्रिका सूनृतवादिनीश्च सम्पाद्य भृशमुपकृताः सर्वेऽपि सुरसरस्वतीसेवासमाराधकाः। ये च सम्प्रत्यपि अङ्गुलिपरिगणनीयाः सरससरलसंस्कृतलेखकाः सन्ति, तेऽपि मुक्तकण्ठं स्तुवन्त्येतान् सम्मानयन्ति पूजयन्ति कथयन्ति चाधीत्यैव संस्कृतचन्द्रिका. मभ्यस्य च सूनृतवादिनी सम्पादितं लेखनकौशलं किश्चिदत एव विद्या- गुरवस्तेऽस्माकमिति कृतज्ञतां प्रथयन्ति । वङ्गीयानामुपन्यासानामनुवादः, प्राचीनकविचरितानि, “अरेबियन् नाइट्स्" इत्यस्यानुवादः, तदानीं सामाजिका धार्मिकाश्च विद्वद्रोष्ठीषु विवादास्पदीभूता विषयाः, सरसानि काव्यानि, कथा,आख्यायिका इत्यादि बहुविषयानधिकृत्य लिखितान् लेखाम् , तत्र च विद्यमानां हृदयहारिणी भाषासरणिं नितान्तं समुपयुक्तानां शब्दानां प्रयोगानालोक्यानायासेनैव भवति परिचयः सर्वेष्वपि विषयेष्वप्रतिहतायाः प्रतिभायाः श्रीमतामप्पा- शास्त्रिणाम्। तदेतेषां जीवनचरितं, सर्वेषां संस्कृतलेखानां शनैः शनैः प्रकाशनमवश्य- मविगणय्य केशान् तृणीकृत्य चापदोऽवश्यं कर्तव्यमिति निश्चितमस्माभिः। यैश्च महाभागैरस्मिन्कर्मणि प्रोत्साहितं द्रविणदानेन साहाय्यं समाचरितं तेषां सर्वेषां नामधेयान्यन्तिमे भागे प्रकाशानीयानीति निर्णीतमस्माभिः । प्रकाशितपूर्वाऽप्यसौ लावण्यमयी सम्प्रति न सर्वजनसुलभेति विचार्य प्रकाश्यते । आशास्महे च वयं यद्नया विदुषां मनोरञ्जनं छात्राणां गा- लेखनप्रणालीपरिचयेनोपकारच सम्पति शिवम् । -

THE K3 :v
men
WESEARTH **** prvi
GYLAPORE NADA

प्रथमः परिच्छेदः कुत्र गता सरला ? अस्ति किल वङ्गेषु हरिपुराभिधानः कश्चन क्षुद्रो ग्रामः । तत्र च श्रीमान् रमेशचन्द्रो नाम श्रीलः प्रतिवसति। आसीच्चास्य विशालतमो हृदयहारी संख्यातिगामिना परिजनेन समुद्भासमानः सौधः । अभूवँश्च भूयस्यो गोशालाश्च मन्दुराश्चैतस्य । आसँश्च कियन्त्यश्चिद्विपण्योऽप्यस्मि- नायत्ताः । इत्थमखिलेनापि वैभवेन समुद्भासितं सदनं श्रीमतो रमेशचन्द्र- महाभागस्य केवलमपत्यशून्यतया शून्यमिव बभूव । अपरं हि भूषणं च वैभवं च गेहस्यापत्यं नामेति । न किल न प्रजाता सहधर्मिणी रमेशचन्द्रस्य किन्तु प्रजातायामेवास्यामपत्यं व्ययुज्यत प्राणैः । द्विश्चैवं संवृत्ते समाचरितानि श्रीमता रमेशमहोदयेन सह सहधर्मि- ण्या व्रतानि नैविधानि समासेवितानि पुण्यपुण्यानि तीर्थानि । जप्तानि जप्यानि । श्रुतानि च पावनतमानि पुराणानि । गृहिण्याप्यस्य नासत्य- कल्पैभिषक्प्रवरैः प्रदत्तानि भेषजाण्यासेव्यन्त । एवं समाश्रितेष्वेतेष्व- भ्युपायेषु नैकोपि फलोन्मुखत्वमापेदे । अथैकस्यां निशीथिन्यां रमेशचन्द्रमहोदयः सह भार्ययाऽन्तःपुरे पयोधिफेनपाण्डरे शयनीये कृतपदः प्रस्वापसुखमनुबभूव । समयः किलायं प्रावृषः। अवसरेऽस्मिन्पयोदपटलप्रावृततया गगनस्य सर्वतः सूचीभेचं तमः प्रससार । वितेनुर्भुवनभीषणं स्तनितमम्भोदाः । अन्तरान्तरा च दुर्जनसम्पदमिवानुकुर्वाणा व्यद्योतत क्षणदृष्टनष्टालोकप्रसरा विद्युत् । सातत्येन च प्रावृतद्वृष्टिः । ववौ च सावेगं चण्डतमः पवनः । कालेऽ- स्मिन्निपुणमपि पिहितेषु भवनद्वारेषु व्याकुलीचकार स्तेन इवावि- दितमेवान्तःप्रविष्टः शीतलशीतलः समीरो मध्येगृहं प्रसुप्तान्मानुषान् शैत्यातिशयेन। अतएव नातिस्थूलेन कुसुमसुकुमारेण नीशारेण सर्वतः प्रावृत्य गात्रं प्रसुप्त इदानी रमेशमहाभागः । प्रस्वपँश्च कमप्यतिमात्रं मनोरमं स्वप्नम- द्राक्षीत् । तद्यथा-एतावता समयेन रमेशचन्द्रमहोदयस्य गृहिण्यपत्य- मेकं प्रासूत । शिशुरयमतिमात्रं मनोहराकारः समभूत्। हैयङ्गवीन- सुकुमारं चासीगावमेतस्य । अधरे चास्य विनैवनिमित्तमुन्मिषतो , ( २ ) विललास छविर्निदर्शनमनोहारिणो हसितस्य । कुमारमेनं कराभ्या- मादायाङ्कशय्यामारोपयन् दिव्यमिव कमपि सुखातिशयं निरविशद्रमेश- चन्द्रमहाभागः । किन्तु कुमारोऽयमसहमान इव करस्पर्शमदसीयं रोदितुं प्रावर्तिष्ट । नानाविधैश्च क्रीडनकैः प्रलोभ्यमानस्यापि रमेश- महोदयेन नांशतोऽपि व्यरंसीद्रुदितमेतस्य । आकर्णयन्नेव तु निरन्तर- प्रवृत्तं रुदितमेतस्य भग्नप्रस्वापः प्राबोधि श्रीमान् रमेशचन्द्रमहाभागः । रुदितध्वनिः पुनर्नायं विरराम प्रत्युत स्वप्न इव जागरितेऽपि समारुरोहैव श्रवणपथम् । प्रबुद्धस्य करतलाभ्यां चात्मनो नयनद्वयं परिमृजतः सुदूरमपससार स्वप्न एतस्य रुदितध्वनिस्तु यथापूर्वमेव श्रवणसरणिमनु- ससार । ततश्च किंनामैतत्स्यादिति विचिन्तयन्नेव भीतभीत इवोत्थाय च सहधर्मिणीमाचक्रन्द रमेशचन्द्रमहाभागः प्रेयसि, प्रेयसि, समु. स्थीयतां तावत् । सहधर्मिणी किलास्य सरलादेवीति नाम समभूत् । उपरिनिर्दिष्टया रीत्या द्विस्त्रिः संबोधयताऽपि गृहिणी नाधिगतं प्रतिवचो रमेशचन्द्र- महाभागेन । अवसरेऽस्मिन् गाढं प्रसुप्ततया गृहवर्तिनामशेषाणां शून्य इवस्तिमित इववाऽऽसीत्सर्वतः सौधो रमेशमहाभागस्य । गर्भागार- वर्तिनश्च निर्वाणोन्मुखस्येव प्रदीपस्य प्रकाशो मन्दतरत्वमापेदे। किमधिकं समयेऽस्मिन्नवासीद्गर्भागारे प्रदीपप्रकाशलेशोऽपि किन्तु गाढं तम एव समुपाचीयतेति चेदुच्येत नैतदतिशयोक्तिकोटिमाटीकेत । शिशुजनरुदि- तध्वनिश्रवणेन विस्मयस्तिमित इव रमेशो मुहुर्मुहुः सहधर्मिणी शब्दायते स्म । न पुनरवाप्तवान्प्रतिवचनम् । मन्दत्वात्प्रदीपार्चिषो दुनिरुपे गर्भा- गारे मुहुर्मुहुः करतलाभ्यां पस्पर्श शयनीयतलं सहधर्मिणी प्रबोधयितु- मीहमानो रमेशमहाभागः । किन्तु नाध्यगच्छत् सहधर्मिणी नाम । यदा तु निपुणमपि गवेष्यमाणा भूयोभूयश्च प्रणयपेशलमाहूयमानापि नालम्बि सहधर्मिणी न चापि विरराम चिरायप्रवृत्तो रुदितरवो बालस्य तदा किल परां काष्ठामारूढो विस्मयस्य रमेशचन्द्रमहाभागः । समाक्रान्तं तदात्व एव भीत्यापि हृदयमेतस्य । ततश्च सरभस- मुत्थाय विकासयामास प्रभां प्रदीपस्य रमेशमहाभागः। एवञ्च दूरी- भूते तमसि शतनीयतले दृष्टिं निक्षिपता भार्यायाः शय्यातले पराजय- मानेव सौन्दर्यातिशयेन दिव्यकन्यका, प्रदीपयन्तीव शरीररोचिषा वासगृहं व्यलोकि कापि मासजाता कन्यकाऽनेन । विलोकमानस्य चैनां निस्तरलतारकस्य नांशतोऽपि पर्यतृप्यन्नयनयुगं रमेशमहाभागस्य ।

( ३ ) अवसरेऽस्मिन् प्रस्यन्दितुमिवारभत हृदयतोऽस्य वात्सल्यम् । समुपसृत्य च साह्लादं बालिकामेनां तदात्वएवात्मनोऽङ्कमारोपयामास रमेशमहा- भागः । अहो नु खलु भोः सैवैयं दारिका यां किल स्वप्ने प्रत्यक्षी- कुर्वाणस्य पस्पर्श ब्रह्मानन्दं हृदयमेतस्य । रमेशमहोदयेनाङ्कमारोपिता च दारिकेयं प्रशान्तरुदितध्वनिः कान्तिविशेषशालिना नयनयुगलेन तमेनमश्रान्तं निरीक्षमाणा तस्थौ। समयेऽस्मिन् भूयोभूयः प्रेयसि, प्रेयसीति शब्दायमानो रमेशमहाभागः "क नु खल्वियमिदानीं गता स्या" दित्येवमालोचयन्नासीत् । यत्सत्यं निष्फलः खल्वयं प्रेयसी प्रत्याव्हानविधिः श्रीमतो रमेश- महाभागस्य । तदा हि न किल मन्दिरेऽस्मिन्सन्निहिता सरला। तत्कथं नामैषा संभावयत्वेनं प्रतिवचनप्रदानेन । अनवगततद्वृत्तान्तस्तु रमेशः सप्रमोदोन्मेषमवलोकमानः कन्यका क्रियासमभिहारेण सरला- माह्वयति स्म । स ह्यमस्त मन्दिर एव कुत्रापि प्रदेशे सरलया भवितव्यमिति । यदा तु भूयोभूयः समाहूयमानाऽपि न प्रत्यवदत्सरला तदा समुद्घाट्य गर्भगृहद्वारकपाटं चेटी काश्चिदाजुहाव श्रीमान् रमेशमहाभागः । सम्प्रवृत्ते चैवंविधे संरम्भे प्रलीनस्वापाः परिजनाः सरभसमुत्थाय गर्भा- गारमुपतस्थुः ।, किन्तु सरला नाम नासीन्नयनगोचर एतेषाम् । कन्यकायां पुनरस्यां संक्रान्तदृष्टयः सर्वेऽप्यमी सपद्येवागृह्यन्त हृदि विस्मयातिशयेन । किमेतदिति पृष्टस्तु प्रत्याह श्रीमान् रमेशमहाभागो यद्गाढं प्रसुप्तोऽहम वितर्कितप्रवृत्तेन बालिकाया अस्या रुदितध्वनिना प्राबोधिषि, ततश्च कुतोन्वियमिति जिज्ञासाकुलो विकिरामि ततइतो दृष्टि तावदेवोपागतवती चक्षुर्गोचरतां हृदयहारिणी दारिका सेयम् । एताव- त्पुनर्नावगम्यते केन नामेयमत्रोपनीतेति । प्रेक्षमाणेषु पुनस्तनयामिमां न कश्चिदपि प्राभवत्प्रतिवक्तुमनुयोगं श्रीमतो रमेशमहोदयस्य “केन नामेयमत्र दारिकाऽऽनीते"ति । सर्वेऽपि समपावृत्य द्वाराणि ततइतः सप्रयासमेव गवेषयामासुः। किन्तु न कापि प्रत्यक्षीचकार सरलां कोऽपि । न चाऽपि व्यज्ञायि केनेयं बालिकानीतेति । तदेतदालोचयतश्च सपदि गृहीतं साध्वसेन हृदयं श्रीमतो रमेशमहा- भागस्य । प्रादुरासीच्च हृदि वेपथुरेतस्य । आरूढानेकतर्कश्च व्याकुलता. मिवोपजगाम हृदयमेतस्य । आसीश्चास्य मनसि कुत्र वा गतवती श्रीमती सरला ! किमियमात्मानमेव घातयेत् । न पुनरेतत्संभवति । एवं हि ( ४ ) कलेवरमपि तावदस्या नयनविषयत्वमापद्येत् , नपुनरापन्नम् । किञ्च निवासभूमिरेषा पातिव्रत्याः । तत्किन्वेतत् । केनचेयमिहोपहृता बाला । एतच्चान्यच्च विचिन्तयता भूयिष्ठमनुसंहितं रमेशमहाभागेन । नैव पुनः किश्चिदपि विज्ञातम् । ततः परञ्च मासमेकमविश्रान्तमेव मागिता श्रीमती सरला । किन्तु प्रयासोऽयमेकान्तत एव निष्फलीभूतः । एवं भूते च व्यतिकरे परित्यक्तः स्वास्थेन श्रीमान् रमेशचन्द्रमहाभागः । सरलैक- गतमानसश्च विसस्मार बालिकामेनाम् । स्थाने चैतत् । न हि प्रध्वनति जलधरस्तनितधीरध्वनौ पटहे श्रवणसरणिमारोहत्येकतन्त्रीनिनाद इति । इति लावण्यमय्यां प्रथमः परिच्छेदः द्वितीयः परिच्छेदः नामकरणम् अतिक्रान्तप्रायो मास एकः प्रथमपरिच्छेदनिर्दिष्टस्य वृत्तान्तस्य । अथैकदा सौधपुरवर्तिनि प्रच्छायशीतले प्रमदवने दुर्निवारचिन्तागृहीतेन चेतसा समुपविष्टे श्रीमति रमेशचन्द्रमहाभागे मूर्तीमतीमिव सौन्दर्या- धिदेवतां बालिकां तामुपादाय तैस्तैर्विनोदनोपायविनोदयन्ती काऽपि धात्रेयिका नातिदूरएव परिचक्राम । तस्याश्च करतलविहारिणी कन्यका- मिमामवेक्षमाणः प्रत्यभिज्ञातवान् रमेशमहाभागः सैवेयं बालिकेति । सरलाविप्रयोगसमाक्रान्ततया मनसः प्राथमिकादेव दिवसात्प्रभृति वि. स्मृतिपथमुपारूढा बालिकेयं स्मरणसरणिमारोहत् । तदनु चाहूय धा- त्रेयिकां निस्तरलतारकेण चक्षुषा दारिकायास्तस्या मुखमवेक्षाञ्चकार श्रीमान् रमेशमहाभागः । आदाय चैनामात्मनः करतले सवात्सल्यमस्याः शिरः समाजिघ्रत् चुचुम्ब च बालभावसुकुमारेऽस्याः कपोलतले । अपि नाम संवदत्यस्या आकृतिः सरलायाः शरीरेणेति जिज्ञासमानश्च सुचि- रमेवैनां सुनिपुणमालोकयामास । किन्तु नासीन्नयनगोचरः सरलासाह- श्यमेतस्याम् । आसीञ्चास्य मनसि । कुतो वा समुपस्थितेयं दारिकेति कालमेतावन्तमनुसन्दधानेन न किल मया युक्तमन्वाष्टायि। अन्याय्यो हि एवं विधेषु विषयेष्वनाश्रित्य युक्ततरमभ्युपायं तूष्णीभावसमालम्बः । तदवश्यमनुसन्दधातव्यं मया केयं कुतश्चेयमस्मदीयं सदनमनुप्राप्तेति ।

( ५.) किञ्चैवमनुतिष्ठतः कदाचिदनुकूलतया दैवस्यास्या एवोपगमवृत्तान्तानु- सन्धाने सम्बन्धवशात्सरलाया अपि प्रवृत्तिर्विज्ञायेत ? इत्थश्च विचिन्त्य कुमारिकायास्तस्या आगमप्रवृत्तिमनुसन्धातुमा रेभे रमेशमहाभागः । स किल गर्भगृहे संवृत्तं व्यतिकरमशेषमपि संवादपत्रिकासु प्रकाशयामास । प्रतिश्रुतवाँश्चैतत्प्रवृत्तिनिवेदकेभ्य उपहारान् । ग्रामे ग्रामे च वृत्तमेतदा- घोषयामास । प्रैरिरच्च दूताँस्तेषु तेषु प्रदेशेषु । किन्तु व्यतिगतेऽपि बहुतिथे समये नाध्यगच्छत् काञ्चिदप्यनुकूलां प्रवृत्तिं नाम । न चाप्यधिगतः कोऽपि बान्धवो दारिकाया एतस्याः । अतएव च परित्यज्यानुसन्धान- व्यापार तूष्णींबभूव श्रीमान् रमेशमहाभागः । यदा तु नोपस्थितो भूयसापि समयेन दारिकायास्तस्याः कोऽपि बान्धवो नाम तदा किल रमेशमहोदय एवास्या अनुचिन्तयन् लावण्या- तिशयं लावण्यमयीत्येव नाम चकार । अमँस्त चैनां तनयामेव स्वीयाम् । निरवर्तयच्च समहोत्सवं नामकरणमिवान्नप्राशनविधिमेतस्याः। प्रत्यहञ्च समधिकमेव जगामोपचयं तद्गतममुष्यप्रेम । निमर्यादमिव च प्रववृधे वात्सल्यमस्यैतस्यां येन किल न कश्चिदपि व्यज्ञासीत्कथश्चिदपि नेयं रमेशचन्द्रमहोदयस्य तनयेति । स्तनन्धयावस्थायां वर्तमाना तु तपस्विनी लावण्यमयी रमेशचन्द्रमहोदयमेवात्मनः पितरं धात्रीमेव च मातरमा- कलयामास । किं पुनरितोऽप्यपरमवगम्यतामनया । अनभिज्ञं हि सर्वथा शैशवं नामेति । गच्छता च कालेन शुक्लपक्षीयेव सुधांशुकला लावण्यमयी शनैः शनैः वृद्धिमापेदे। अवाप्ता चेयमष्टनववर्षदेशीयत्वम् । प्रवर्धमान- वास्या वपुरतिक्रम्यैव ववृधे लावण्यं येन किल दिव्येनैव ज्योतिषा समुद्भासितमिवाऽभवन्मन्दिरं रमेशमहाभागस्य । इति लावण्यमय्यां द्वितीयः परिच्छेदः तृतीयः परिच्छेदः सौहार्दपरोपणम् अथैकदा गगनतलचरमार्धवर्तिनि भगवति दिवसाधिनायके एका. किन्येव श्रीमती लावण्यमयी स्वीयमन्दिरपक्षद्वारसन्निहिते निष्कुटप्रदेशे कुसुमान्यवचिनु कुसुमपतङ्गमाननुधाष कोमळकोमलानि वीरुधों शाखाग्राण्यवनमयत्येवं शिशुभावसहजं क्रीडितुमारेभे । तथाविधां चैनां नातिदूरवर्तिनी काचन तापसी च षोडशवर्षदेशीयश्चापरः कोऽपि कुमार इति मानुषद्वितयमेतदवेक्षमाणमवतस्थे । अथ दारिकामेनां साङ्गुलिनिर्देशं प्रदर्य समादिदेश कुमारं तापसी वत्ससुधाकर “सम्भा- व्यतां कुमारिकेयं सहक्रीडनेने"ति । अनतिक्रान्तबालभावस्तु कुमारः सुधाकरो नेदमनाहूतोपस्थानं न्याय्यं विशेषतश्चासंस्तुतपूर्वायाः कुलकन्याया इत्याकलयन्न किश्चिदप्यनुष्ठातुं प्रबभूव । किन्तु भूयो भूयः प्रवर्तयामासैनं तापसीत्यनन्यगतेः कथ- कथमप्युपसर्पणोन्मुखत्वमापेदे हृदयमेतस्य । कुमारिकाप्यसौ क्रीडाव- शात्तत इतः परिभ्रमन्ती दैववशादितोमुख्येव प्रातिष्ठत । कियन्तिचित्पुनः पदान्यतिक्रान्तवत्या एतस्या अवितर्कितमेव समासजदशंकाञ्चलः कस्याञ्चित्कण्टकिनस्तरोः शाखायाम् । ततश्च स्खलितगतिः प्रत्यावृत्य यथायथेयमञ्चलमुन्मोचयितुं प्रायतत तथा तथा सोऽयं समधिकमेवसमासजच्छाखायाम् । एवमनेकशः सभा- स्थितस्यापि वसनाचलोन्मोचनप्रयासस्य वैफल्यमवलोकमानाया दारि. कायाः प्रावर्तन्त बालानामन्तिमाभ्युपायभूतान्यनुबद्धधाराणि सुकुमा- रतरं कपोलतलं निष्प्रभयन्त्यश्रणि । ततश्च साहाय्यमिव स्पृहयन्ती यावद्विकिरतीतम्ततः सनस्तकुर- गमविलोचनविडम्बिनी दीनदीनां दृष्टिं तावदेवायमेवोपसर्पणावसर इत्याकलयन्नुपससऍनां सुधाकरमहाभागः । तापसी पुनरनयो रोहिणी- शशाङ्कयोरिव कुमारकुमारिकयोस्तथाविधेन समागमेन कमपि कमप्या- नन्दमनुविन्दती महीरुहान्तरिता व्यापारमनयोरालोकयन्त्यासीत् लाव- ण्यमयीमुपागतस्तु सुधाकरःसलीलमादाय करमेतस्याः सस्मितमभाषिष्ट- सुधाकर-अये किमेतत्संवृत्तम् ? लावण्य-महाभाग क्रीडावशात्तत इतः परिभ्रमन्त्याः किल मे समासक्तोऽयमुत्तरीयाञ्चलोऽस्यां कण्ट किनस्तरोः शाखायाम् । तदपि नाम मोचयेदेनं महाभागः । सुधाकर-धिक भीरु, किमेतावतैवाणि मुच्यन्ते एष इदानी मोचयामि ते वसनाञ्चलम् । त्वं पुनर्यथावस्थितमेव स्थिरपदमवतिष्ठस्व । मा किल समधिकमेव समासाडीदेषः । लावण्य-यथा ज्ञापयति महाभागः। न किल पदात्पदमपीतः प्रचलिष्यामि। , - ( ७ ) एतदाकण्ये सुधाकरः शनैःशनैर्वसनाञ्चलमस्या उन्मोचयितुमारेभे । लावण्य-महाभाग. तथा किलावधीयतां यथा नासौ विदीर्येत । विदीर्णे यस्मिंस्ताडयिष्यति मां धात्री देवी। सुधाकर-भीरु कासौ धात्री नाम। लावण्य-अपि नाम नेयं ते विदिता। सा किल मे धात्री देवी ययाऽस्मि आजन्मनः परिपोषिता संवर्धिता च । सुधाकर-अये तत्किमु नास्ति ते जननी। लावण्य-सेयमेव मदीया जननी, अपि नाम नास्ति ते धात्री देवी। सुधाकरस्तु प्रश्नमेनमेतस्याः प्रत्युत्तरयितुमप्रभविष्णुः प्रत्याह भद्रे ! एवमिदं नास्ति खलु मे धात्री देवीति । लावण्य-(मनागिव पाटितमुत्तरीयाञ्चलमालोक्य) धिग् भद्रमुख, पाटितो मे वसनाञ्चलः । अनिपुणः खल्वसि । सुधाकर-(सलज्जामिव ) भद्रे कचित्ताडयति त्वां ते धात्री देवी। लावण्य-नातिमात्रम्। अनुष्ठिते चापलातिशये स्तोकमिव ताडयति । अन्यदा पुनरात्मनः प्राणेभ्योपि मां लालयति । अथावलोक्य साकल्येनोन्मोचितमंशुकाऊचलं पुनरप्यसौ सुधाकर- मभाषिष्ट । लावण्य-अपि समुपागच्छेत्सह मया मन्दिरं नो महाभागः । सुधाकर-भद्रे अनाहूतोपस्थिताय नूनं कोपिष्यन्ति मह्यं ते सदन- निवासिनः । तत्स्वीयमेवेदानीं भवनं गन्तुकाम आपच्छे श्रीमतीम् । लावण्य-कुत्र ते भवनम् ? सुधाकर-इतो नातिदूरवर्तिनि कुसुमोद्याने । लावण्य-कञ्चिदस्माकमिवातिमात्रमेव रमणीयं सदनं भवदीयमपि । सुधाकर-निष्कचनाः खलु वयम् , कुतो नाम रमणीयं सदन- मस्माकम् । लावण्य-तत्किमिति नास्मदीयमेव मन्दिरमधिष्ठीयते महाभागेन । सुधाकर-अपि नाम समनुमन्येरन्नस्मदीयां वसतिं भवत्सदन- वर्तिनः पुरुषाः। लावण्य-किमिति वा नानुमन्येरन् । एहि तावदहमेव पितृपादा- विज्ञापयिष्यामि । इत्यभिधाय च जग्राह पल्लवमृदुना करेणास्य करं लावण्यमयी। सुधा- करस्तु प्रतारयितुमेनां प्रत्याह । एहि भद्रे कुसुमानि तेऽवचित्य दास्यामि ।

(८) लावण्य-सानन्दमलं तावत्कुसुमैः। कुसुमपतङ्गमं तु मह्यमेकं वितर। समयेऽस्मिन्परिभ्रमन्ति स्म कुसुमात्कुसुमं नैकविधवर्णसमुल्लसिताः प्रसूनपतङ्गमाः। हृदयहारि खल्वेषां रामणीयकमासीत् । कुसुमान्यपि न किल न मनोज्ञानि किन्तु कुसुमेध्वनुपलभ्यमानं चैतन्यमेवैतान्सवि. शेष भूषयामास । किञ्च प्रतिपदं किल सुलभानि कुसुमानि । कुसुमपत. ङ्गमाः पुनः सुतरामेव दुष्प्रापाः। विशेषतश्च लावण्यमयीसदृशानां कुमा- रिकाणाम् । अत एव च स्पृहयति स्म तेभ्यो लावण्यमयी निसर्गएव ह्यसौ प्राणिनां यदेते सुदूरमपहाय सुप्रापं वस्तु दुष्प्रापेष्वेव प्रायेण बध्नन्त्यनुरागमिति । अथ समादातुकामः समन्वधावत्कुसुमपतङ्गमान्सुधाकरः । किन्तु नैकोपि पतङ्गमः समाससाद करतलमेतस्य । आशा हि नाम प्रायेण नाविलम्बितमेवाभीष्टं फलति । तद्यथा यथाऽनुधावति स्म सुधाकरस्तथा तथा प्रसूनपतङ्गमा अप्यपहायाधिष्ठितपूर्वा लतिका लतान्तरमनुव्रजन्ति स्म । समयेऽस्मिन् लावण्यमय्यपि सुधाकरमनुव्रजन्त्यासीत् । स प्रया- समनुधावन्नपि सुधाकरो नैकमपि पतङ्गमं ग्रहीतुं प्रबभूव । एवञ्च निष्फ- लीभवन्तमालोक्य प्रयत्नमेतस्य विजहास लावण्यमयो । ततश्च वीडित इव सुधाकरः पुनरपि द्विगुणितोत्साहः पतङ्गमाननुदधाव । नैव पुनः प्रबभूव ग्रहीतुं पतङ्गममेकमपि । इत्थञ्च पुनः पुनः प्रयतमानस्य व्यत्य. गाहोरामात्रः समय एतस्य । लावण्यमयी त्वेनमनुधावन्ती सप्रमोदं प्राह विलोक्यतां तावन्मयैव गृहीतोऽयं पतङ्गमो न तु महाभागेनेति । अथास्याः कौतुकरसग्रथितेनेव वचसा समुपजातब्रीडस्येव परावर्त्य वदनमवेक्षमाणस्यासीन्नयनगोचरः सुधाकरस्य नवकिसलय सहोदराभ्यामिवाङ्गुलिभ्यां तथा गृहीतः प्रत्यग्र- कुसुमसच्छविः प्रसूनपतङ्गः । अवेक्ष्य चैतप्रत्याह सविस्मयमेतत् । सुधाकर-कथं नाम गृहीतोऽयं श्रीमत्या । लावण्य-किमुच्यते कथमिति । एष किल स्वयमेव समध्यतिष्ठन्मे गात्रम् (सानन्दोत्साहम् )। भद्रमुख अवश्यमचिरादेव भविष्यत्यथो ममोद्वाही। सुधाकर-कथमिवैतत्प्रतीतं श्रीमत्या । कच्चिद्गात्रलतामधिष्ठिते कुसुमपतङ्गमे परिणयो भवति । लावण्य-अथ किम् ? एवं किल ब्रवीति मे धात्री देवी मन्ये नैतद्भवतो विदितमिति ।

इत्थमालपन्त्येव लावण्यमयी यावद्गृहीतप्रसूनपतगैव पलायितुमा- रभते तावदेव करे गृहीत्वैनां प्राह स्म सुधाकरमहाभागः । सुधाकर-भद्रे नाद्यापि निवेदितं श्रीमत्याऽऽत्मीयं नाम । लावण्य-अपि नाम नैतद्विदितं महाभागस्य ! नामग्राहमेव ननु मामाह्वयन्ति जना निखिलाः। सुधाकर-स्यादेतन्मया पुनर्न कस्यापि वदनतः समाकर्णितं ते नाम । लावण्य-कथमेतत् ? सुधाकर-ह्य एव नन्वत्रानुप्राप्ताः स्मः । लावण्य-तदाकर्णयतु महाभागः । मम किल नाम लावण्यमयोति श्रीमतः पुनः। सुधाकर-मम तु सुधाकर इति । लावण्य-किमात्थ सुधाकर इति, अहो मधुरिमा नामाक्षराणाम् । सुधाकर-कञ्चित्स्यात्पुनस्ते समागमः। लावण्य-अहमपि नन्वेतदेव प्रष्टुमभिलषन्त्यासम् । श्रीमता किला- स्यां वेलायामत्रोपस्थातव्यम् । अहं किल कुसुममालिकां संग्रथ्य कण्ठे त आमोचयिष्यामि। सुधाकर-भवतु। लावण्य-तन्मुच्यतां तावन्मे पाणिर्यावदापृच्छच धात्रीदेवीं प्रत्या. गमिष्यामि। इत्येवमभिधाय च स्वभावसरलान्तरङ्गा समुदश्चितस्मिता बालिका लावण्यमयी मन्दं मन्दं ततो निश्चक्राम । प्रत्याजगाम चानतिक्रान्तबाल- भावः सुधाकरः सकाशं तापस्याः प्रत्यागतश्चैनं सकौतुकश्च सप्रसादच सपरितोषश्च सवात्सल्यश्च परिष्वज्य मूर्ध्नि चोपाघ्राय तापसी सह तेन नातिदूरवर्तिनी वृक्षवाटिकां प्रविवेश । ॥ इति लावण्यमय्यां तृतीयः परिच्छेदः।। चतुर्थः परिच्छेदः सरलायाः समाममः अतिक्रान्तानि कियन्तिचिद्वर्षाण्यदर्शनं गतायाः सरलायाः । एषा किल बहिश्वराः प्राणाः श्रीमतो रमेशभागस्येति विसोढवताऽपि दुरुत्तरं THE KUPPUSWAY SASTR RESEARCH INSTITUTE. JYLAPORE MADRAS-A (१०) विप्रयोगव्यसनं स्वप्नेऽपि न व्यापारितं मनः पुनः परिणय एतेन । अव्यभिचारि हि भवति महात्मनां प्रेम । विज्ञापितः किलायं पुनः परिणयविषयेऽनेकधाऽनेकैः । किन्तु न व्यचालयद्वधारणां स्वीयाम् । अतिगतानि किल प्रायेण द्वादशवत्मराणि दर्शनपथातीतायाः सरलायाः । एतानि पुनरेनां विचिन्तयतैव कथं कथमप्यतिवाहितानि श्रीमता रमेश- महाभागेन । एवं क्षणमेकमपि सरलामविस्मरतः श्रीमतो रमेशस्यान्तरं न जानीमः कुतो वा लावण्यमयीसुधाकरसमागमदिन ऐकान्तिकमदृष्टपूर्वमेवास्वा- स्थ्यमापेद इति । न किल निदानमस्य स्वयमप्यज्ञायि श्रीमता रमेशेन । विहरति स्म किल प्रत्यहमेव हृदयेऽस्य श्रीमती सरला । तथापि नन्धसौ दिवसेऽस्मिन्ननालोकितपूर्वमन्यादृशमेव स्वरूपमापन्नाप्रादुरभून्मनस्येतस्य । तदेकतानतां चोपगतवतः समुल्ललासेवास्य चक्षुःपथे शरीरिण्या इव सौन्दर्याधिदेवतायाः सरलायाः मूर्तिः । तत एव चाधिकाधिकामेव वैया- कुलीमापद्यमानमन्तरङ्गमात्मनो विनोदयितुकामो विनिर्गत्य मन्दिरात्सा. यंतनसमीरसेवनादिभिरत्यवाहयत्समयं कमपि रमेशमहाभागः। अस्त- मिते च भगवति दिवाकरे प्रतिनिवृत्तः कथं कथमपि निर्वयं तत्कालनि- वर्तनीयानि कर्माणि शयनमन्दिरमनुप्रविष्टः सिषेवे क्षीराब्धिफेनपटल- पाण्डुरां हंसतूलमयीं शय्याम् । नातिचिरादेव चाग्राहि निद्रया सोऽयम् । यथा किल प्रारद्वादशेभ्यो वत्सरेभ्यः प्रगाढं प्रसुप्तः समाकर्ण्य शिशु- रुदितं प्राबुध्यत रमेशमहोदय एवमस्मिन्दिवसे विस्मयस्तिभितेनेव मनसाऽवितर्कितमेवायं प्राबुध्यत । अनवगच्छन्निव च किश्चिदपि समा- चक्रन्द प्रेयसि,प्रेयसीति क्रियासमभिहारेण । शुश्राव च परिचितपूर्वमिव हृदयग्राहि विडम्बितसुधारसमत्रप्रतिवचनं "किमाज्ञापयत्यार्यपुत्र" इति । समाकर्णयन्नेव प्रत्युक्तिमिमां सावेगमेवोदतिष्ठशयनीयतलाद्रमेश- महाभागः । नासीदिदानी प्रदीपः शयनीयमन्दिर एतस्य । अपावृतान्येव त्वभूवन्वातायनकपाटानि । परिप्लावयामासेव चेदानी पीयूषरसपूरेण धरातलमशेष ज्योत्स्ना। अत एव च नासीदभ्यन्तरेऽस्य शयनागारस्य प्रगाढस्तमःप्रसरः। आसीच्च मन्दतमोऽप्ययमालोकः स्थूलस्थूलानामभ्य- न्तरवर्तिनामर्थानामालोकने पर्याप्तः। अत एव च शयनतलेऽपि निषीदता प्रत्यक्षीकृतमिदानी रमेशमहाभागेन यन्मूर्तिमतीव सुकुमारता मनोहराकृ- तिर्युवतिः कापि मन्दमन्दमुपसर्पति द्वारोपान्तमिति । तस्याश्च तच्छरीर- सौभाग्यं स च सुकुमारमधुरश्चरणविन्यासस्ते च मुहुर्मुहुः परावर्त्य ( ११) वदनाम्बुजमन्तरान्तरा क्रियमाणाः कटाक्षविक्षेणः समुत्कीर्णा इवाभव- नन्तरङ्गपटले श्रीमतो रमेशमहाभागस्य । तथा च निभृतमिव गृहीतहृद- योऽयमुत्थाय शयनीयतलात्सरभसमेनामनुगन्तुमारेभे । यावत्पुनर्विन्यस्यत्यसौ पदानि द्वित्राणि तावदेव तिरोदधे मृगेक्षणा- सेयम् । ततश्च समुद्घाटितद्वारः किल रमेशमहाभागः सुनिपुणमेव व्यकि- रत्तत इतो दृष्टिम् । नैव पुनरासी दसौ नयनगोचर एतस्य । मन्यामहे सेयमाकाश एव लीनेति । तदिदमवलोकमानश्च सपदि साध्वसेन समाक्रान्तहृदयो रमेश- महोदयः परिजनानाचुक्रोश | समाकर्ण्य च तदेतदाकस्मिकमाक्रन्दितं सावेगमेव प्रबुध्यमानानां महीयानेवाभवत्संरम्भ एतेषाम् । अकाण्डा- क्रन्दभीताश्च संरब्धा इव प्रचक्रन्दुः प्रकृतिभीरवो नार्यः। परिजनोऽपि च समुपसृत्य श्रीमन्तं रमेशमहाभागमाक्रन्दितनिदानमप्राक्षीत् । सपुन- र्जाप्रतैवानुभूतमननुभूतपूर्व स्वप्नमिव सीमन्तिन्यास्तस्याः साक्षात्कारश्च तश्च श्रवणसुभगं प्रतिभाषितरवं विचिन्तयन्ननन्यगतमानसः प्रथमतो न किश्चिदपि प्रत्याह। भूयोभूयस्तु साग्रहमेवाभ्यर्थ्यमानः संवृत्याकारं प्रतिजगाद शङ्के प्रविष्टः सदनमास्माकीनं स्तेनः। तदन्विष्यतां तावदयं निपुणमेवेति । निशम्य च सदने प्रवेशं ग्तेनस्य साध्वसव्याकुलेन मनसा प्रन्याल्य प्रदीपिकाः समादाय च करे कुलिशकर्कशान्दण्डान सुष्ठुतममन्वेषयामा- सुरशेषेऽपि मन्दिरे परिचारकाः । किन्तु कुतो नामाधिगम्यतां तस्करोऽमीभिः । न किल शक्यत उपलब्धुं महीयसाऽपि प्रयत्नेन किमप्यसदेवेति । व्यतिकरेण चामुना जाग्रतामेव निखिलानां व्यत्यगा- दशेषा रजनी । रमेशमहोदयस्य पुनः सुदूरापेतैव प्रस्वापकथा। नयन- युगलं निमीलत एव ह्येतस्य पुरतः प्रादुर्भूय विहरति स्म संदृष्टपूर्वाऽसौ रमणी । यावत्पुनरसौ गृहीतुमेनां कामयमानश्चक्षुरुन्मीलयति तावदेवासी तिरोधत्ते । तत एव च नान्वभवदिदानी लेशतोऽपि स्वास्थ्यं मनो रमेशस्य। इति लावण्यमय्यां चतुर्थः परिच्छेदः ।

(१२) पञ्चमः परिच्छेदः योगिनी अथापरेयुः कस्मिंश्चन कुटीरे किमप्यबलाद्वयं परस्परं संलपत्समभूत् । तस मा परिचितपूर्वैव नस्तापसी। द्वितीया च योगिनी कापि-तत्राह योगिनी हुं ततस्ततः । तापसी-किं ततस्ततः-अभ्यन्तरप्रविष्टायामेव मयि प्रबुद्ध आर्यपुत्र इति नोचितमवसरे तम्मिस्तत्रावस्थानमित्याकलयन्ती निरक्रामम् । स किल मां सरभसमुपेत्य ग्रहीतुमभ्यलष्यत् । किन्तु सूचीभेद्ये तमसि तत्रैव कचन निलोनाऽहमिति विफलमनोरथः सम्भ्रान्तश्च परिजनान्प्रबो. धयामास । योगिनी-हला नैतयुक्तरूपमनुष्ठितं श्रीमत्या यदसि तदानीमप- क्रान्ता। उचितं हि समये तस्मिन्नुपगत्य संभावयितुमेनं श्रीमत्याः । तापसी-सखि न जाने कुत इति समाक्रान्तं साध्वसेन वेपमानमि- वासीत्तदानी मे हृदयम् । तत एव च न प्राभूवमुपसर्पितुमेनम् । योगिनी--कियन्तं वाऽतिवाहयिष्यसि समयमेवं तूष्णीकैव । तापसी-यवधीति लिखितं ललाटे भगवता विधिना को हि खलु प्रभवति प्रमाष्टुं लिखितमेतस्य । योगिनी-भवतु अतिवाह्यतां नामैवं कियाँश्चित्समयः । अवश्यं पुन- रसौ साक्षात्करणीयः श्रीमत्या। तापसी-धिमुग्धे, कथं वैनमसाक्षात्कृत्यैवास्थास्ये । अवश्यं किल योजनीयः फलेन मनोरथ इत्यत एव हि साहसमेतदालम्बितम् । योगिनी-कञ्चित्मत्यभ्यज्ञासीत्त्वां वत्सा लावण्यमयी। तापसी-कथं वाऽसौ तपस्विनी प्रत्यभिजानातु । योगिनी-भरे समेधमान इव संलक्ष्यते लावण्यमयीसुधाकरयोः प्रणयः । उद्यानभूमौ पुनर्विहरन्तावेतौ समालोकमानायाः संभावयति मे चिसमिति हि नाम रमणीयमेतद्विनिर्मितं मिथुनं विधात्रेति । तापसी-अशेषमप्येतत्परात्मनोऽनुग्रहेण । योगिनी-(अर्ध एव वचनमाक्षिप्य ) आस्तामेतत् । किन्तु सखि कथं नाऽस्मै स्तोकमान वैद्यैवास्यपक्रान्ता। प्रदायापि हि मे सुधाकरं बत्सरद्वयं न्यवात्सौः सदने । तत्कथं नु केनापि प्रसङ्गेन कस्मिन्नपि समये नेपासि किञ्चिदप्युक्तवती।

(१३) तापसी-समादाय सुधाकरमपेतायां त्वयि मोहमेवोपागच्छम् । अवाप्तसंज्ञा च परस्तादवेदिषं मृतजात एवेति नीतः शिशुः साविकयेति "अहमेव कुमार नेष्यामीति भवदीयं पुनर्वचनं संस्मरन्त्याःसमदभून्मे मनस्याश्वासः। सदनवर्तिनस्तु निखिला अपि व्यपेतासोरेव कुमारम्य प्रसूतिमाचख्युः । न चापि ततः प्रभृति श्रीमती नयनगोचरत्वमापन्ना । अत एव च समुन्मूलितमिवात्मानो मनोरथद्रुममाकलयन्ती नैव समय- बन्धमावयोः कस्यापि सकाशे प्रकाशयितुं प्राभूवम् । योगिनी-सखि मा तावद्विस्मार्षीः प्रतिज्ञामात्मीयाम् । तापसी-हला कच्चिदात्मानमपि विस्मरिष्यामि । यया किल सम्पू. रितः सुदुर्लभोऽपि मनोरथः कथं नामास्यै प्रतिश्रुतस्य विस्मरणं युज्येत भवतु । भद्रे समुत्कण्ठते मे चेतः प्रवृत्ति चामूलान्तमवबोद्भुम् । तदपि नाम स्यां भाजनमनुग्रहस्यास्य । योगिनी-समुपनते समुचितेऽवसरे समग्रमप्ये तच्छ्रोष्यसि । तापसी-कुतः पुनर्नेदानीमेव । योगिनी-मा तावत्-नाद्याप्युपस्थितोऽसौ समयः । तापसी-यद्येवं ममापि नास्ति निर्बन्धः । योगिनी--अवश्यं तावत्सम्भाव्यतामुपसर्पणेन दयितः श्रीमत्या । तापसी-ममाप्ययमभिलाषः। किन्तु न जाने कुतो वा वेपते मे हृदयम् । मन्ये दिनान्येतावन्ति । योगिनी-अलमाशङ्कया । न किल निदाघोपहतश्चिरेणाधिगतं चन्दन- रसं प्रतिक्षिपति । न चाप्येतद्विवेकिषु सम्भवति । तदयमाकर्ण्य ते प्रवृत्ति- मामूलान्तां प्रशंशेदेव केवलं तवाचरितम् । न पुनस्तिरम्कुर्यात् । तापसी-यद्येव ( मद्यैव ) तर्हि एनमुपसर्पिष्यामि । योगिनी-(सपरिहासम् ) निपुणं तावदवधीयताम् । मा खलु पूर्वमिवाद्यापि प्रभीतैवाऽपक्रमिष्यसि । तापसी-अलं परिहासेन । न खलु प्रत्यहमित्थमेव सम्पद्येत । एवं संलपन्त्योः पुनरनयोर्योगिनी समापृच्छथ तापसी काननोन्मुखी प्रातिष्ठत । तापसी तु गृहीतान्तरेव कयाचिद्गरीयस्या चिन्तया तत्रैव समुपाविक्षत् । इति लावण्यमय्यां पञ्चमः परिच्छेदः ।

(१४ ) षष्ठः परिच्छेदः योगीन्द्रः अथापृच्छय तापसी विनिर्गता किल योगिनी महीयांसं प्रदेशमति- क्रम्य निरन्तरप्ररूढानेकतरुनीरन्ध्रितं नानाविधसत्वसंकुलं विजनप्राय किमप्यरण्यं प्राविक्षत । गगनमध्यमारूढः किलेदानी भगवान् सविता प्रखरतरैः किरणैरनलमिव प्रकिरन्प्रातापयद्भुवनम् । प्रचण्डतमतापविह्वला इदानीं पतत्रिणः प्रविश्य कोटराणि शीतलशीतलानि च किसलयान्या- श्रित्य प्रच्छादितगात्रा अवतस्थिरे । आरण्यकपशुकदम्बकान्यपि विहाय वनपरिभ्रमणं प्रविक्लवा अधिष्ठाय प्रच्छायशीतलानि तरुमूलानि रोमन्थ. मावर्तयामासुः । नेदानी काननेऽस्मिन्मानुषो नाम कोऽपि दृष्टिपथमापेदे। केवलं तु प्रगल्भाकृतिस्त्रिशद्वर्षदेशीये वयसि वर्तमाना सौन्दर्याधिदेवतेव विग्रहिणी योगिन्येवेयमेकाकिनी पन्थानमतिलङ्घयन्त्यासीत् । सावेगश्च प्रयान्ती सेयं समयेन कियतापि समुल्लङ्घय कियन्तमप्यध्वानमटव्या एतस्या मध्यप्रदेशमुपागच्छत् । तत्र च समुन्नमय्येव शीर्षमवलोकमानः काननश्रियमभ्रंलिहशाखा- शतसमाकुलः कोऽपि पादपः समभूत् । एतस्य छायायां मध्याह्नभा- नुकरतापतप्ताः प्रक्लान्ततया प्रसार्य ग्रीवां निषणाः कतिपया गावश्च महि- ध्यश्च । पत्रच्छायासु लीनानाञ्च प्रावर्तत श्रवणसुभगं कूजितं विहङ्गमा- नाम् । नातिदूरे चास्य तरुमूलस्य प्रसारितालोलजिह्वो विनिश्वसन् विस्रब्धमिव प्रसुप्तः कोऽपि कुक्कुरः समभूत् । सर्वतः किल प्रदेशेऽस्मिन् विललास प्रकामं शान्तिः । उपस्थितायां पुनरत्र योगिन्यां विलयोन्मुखी वासौ समभूत् ! प्रादुरासीच्च संभ्रमः सर्वत्र । अवेक्षमाणाश्च योगिनीमा- लस्यजडेन चक्षुषा सपदि समुदतिष्ठन्समाधूतगात्र्यो गावः । साध्वसेनेव च समानान्ताः पर्यत्य जन्मधुरमधुराणि कूजितानि पक्षिणां निवह ः। सरभसञ्च पार्श्वपरिवर्तनेनोत्थाय विलोलयन् रसनां समुपससर्प इवा पादमूलं योगिन्याः । नूनमतिमात्रमिदानी हृदयहारिणी काननश्रीः सम- भूत् । योगिनी पुनरसावननुगृह्मैव हविक्षिपेनैना तरुशिखरव्यापारित- लोचना योगीन्द्र योगीन्द्रेति तारतरमाचक्रन्द । समाकये चैतदस्या आक्रन्दितं तदात्व एव निबिडतमतरुशाखान्त- रालविनिर्गतः समवारुरोह भुवस्तले कोऽपि वामनः पुरुषः ।

एष किल शिरस्यायतायतैरपि स्नेहसम्पर्कशून्यतया सर्वाङ्गीणमिव रौक्ष्यमावहद्भिः पर्याकुलप्रायैर्मूर्धजैः प्रव्याप्तश्चुबुकमूलप्रसृतेन चानाभि- प्रलम्बमानेन नातिकृष्णेन कूचिकाकलापेन समुल्लसितः कपोलतलव्यापिना च कूर्चिकाकलापस्पर्शिना श्मश्रुजालेन नितान्तमेव दुरुन्नेयमुखकुहरो विभीषणवदनः शोणविलोचनो निर्मासप्रायगात्रयष्टिः करकालतनातिपीना- यतवेणुदण्डः प्रशान्तभीषणाकरः समभूत् । योगिनीपुनरवेक्ष्यैनमप्रभीतै- वोपमृत्य कृतप्रणामा सप्रणयञ्च सस्मितञ्च सपरिहासमिव च वक्तुमारेभे । योगिनी- साधु योगीन्द्र साधु पर्यङ्कमप्यधिशयिता नाधिगच्छन्ति प्रस्वापम वस्थायामीदृश्यामितरे । श्रीमान्पुनरस्य तरोः शाखाम्वेव प्रगाढं सवेशसुखमनुभवति । योगीन्द्र-सुन्दरि. एवमिदमनभिज्ञाः किल पारमार्थिकस्य सुखस्यैते, वयं पुनः सर्वथा सुखिनः अत एव च बलादिव गृह्णाति नो निद्रा । योगिनी--कुतो नाम वार्तापि सौख्यस्य, एतत्पुनर्विभाव्यत एव केवलं समाहितेन मनसा भवता । यदा पुनः समनुभूयमानेयं भवता दुःसहतरा विपत्प्रादुष्करोति मे मनस्यात्मानं तदा किल वज्रोपहतमिव भवति मे चेतः, भवतु का गतिः सर्वथा विश्वम्भरः शरणम् । योगीन्द्र:-प्रेयसि कुतो नामेदानी मे व्यसनम् । यथा हि पूर्वमेवं नैतधुनापि मे मनः स्पृशति । यस्य किल नामापि शृण्वन्तः साध्वस- कम्पिता इवाऽभवन्परिपन्थिनो भूपा यमेव चोपजीव्य सुखमत्यवाह- यन्समयं परःसहस्रा महात्मानो यस्यैव च बाहुबलमवलम्ब्य पर्यत्यद्भयं वसुधा किमिव नामास्य । केवल श्रीमत्यैव समनुभूयमानमेतद्वयाकुली- करोति मे चेतः अनहीं हि सर्वथाऽस्या विपदः शिरीषकुसुमपेशलेय- माकृतिः श्रीमत्या। योगिनी-किमिति वा नेदानीमपि नगरप्रवेशे मनः क्रियते । सप्त- दशः किलायं वत्सरो नगरं परित्यक्तवतामस्माकम् । अपि नाम गृहीयुरि- दानीमप्यस्माननुशास्तारः । न खल्वेतत्संभाव्यते तदनुमन्यतां मे प्रणयः । शक्यं हि मन्दिर आत्मनः कथमपि सुखमेव कालमतिवाहयितुम् । योगीन्द्र-प्रेयसि नास्ति किल म्लेच्छानां राज्ये क्षमा नाम । तत्र किल निर्दृष्टा अपि दोषित्वेन गृह्यन्ते दोषिणोऽपि च नियतमेव निर्दुष्टता. मापद्यन्ते । वयं किल गोपालपुराधीशाः। सर्वतः प्रसुप्ते च प्रक्षोभे समादाय नालिकास्त्राणि सुदूरमपनीत: प्रत्यवस्थायिनां मदोऽम्माभिः । १ प्रादायि च म्लेच्छेभ्यः साहाय्यम् । दूरे तावत्कर्मणोऽस्य कृते नः पारितोषिकम् । वयमेव पुनरत्रापराधित्वेन निर्णीताः । प्रकाश्य चास्माकं शारीराभिज्ञानानि प्रतिश्रुतं चाघोषितं चास्मदुपलम्भवार्ताव- देकेभ्यः पारितोषिकद्रव्यम् । मार्गयन्ति खल्विदानीमप्यस्मान्नि- गूढचारिणश्चारा म्लेच्छानाम् । यत्तुकालमेतावन्तमाश्रित्य काननमिदं जीवामः सोऽयमनुग्रह एव केवलं भगवतो धातुः । प्रेयसि का कथा षोडशानां सप्तदशानां वा वर्षाणाम् । एते किल व्यतीतेष्वपि पश्चाशद- भ्यधिकेषु वर्षेषु प्रत्यक्षीकृतानस्मान्गृह्णीयुः। वियोजयेयुश्चोध्य प्राण- निवसियेयुर्वाप्यपुनरागमनाय राष्ट्रात् । अत एव च युक्ततरोऽयमिदानी विजन एव वासोऽस्माकम् । योगिनी-अलमाशङ्कया ! को हि नामेदानी वेषेणामुना समाच्छन्न- मपि श्रीमन्तमभिजानीयात् । सर्वथा हि परिवृत इदानी भवदीय आकारः तथा किलेदं वचनमुदीरितं प्रणयपरिप्लुतान्तःकरणया श्रीमत्या योगिन्या यथा श्रवणकुहरप्रविष्ट एवैतस्मिन् प्रादवद्योगिनो हृदयम् । प्रत्याह चायं सुदीर्घमुष्णञ्च निश्वस्य "प्रेयसि" "कुत इदानी नगरे नः सुखस्य प्रत्याशे"ति। योगिनी-सा तु चिरायैव परित्यक्ताऽस्माभिः। योगीन्द्र-तत्क इवेदानी चिन्ताया अवसरः (स्मरणमभिनीय) कथमिदानी वत्सा। योगिनी-बाढं कुशलिनी। योगीन्द्र-उत्कण्ठते मे हृदयं सकृदपि तावदेनां साक्षात्कर्तुम् । योगिनी-तत्को विलम्बः ? सम्प्रति हि सह सुधाकरेणोपवन- सन्निहितया तया भवितव्यम् । योगीन्द्र-प्रेयसि, यदि नाजीवयिष्यत्कुमारं श्रीमतो रमेशचन्द्र- महोदयस्य श्रीमती तदा कुतः संभावनापि नाम परिणयरय वत्सायाः । न खलु प्राभविष्यदात्मानं वा मामपि वा प्रत्यभिज्ञापयितुं भवती । अविज्ञातकुलशीलायाश्च योगिन्याः कन्यकां को वा परिणेतुमीहेत । इत्येवमभिधाय च योगीन्द्रः सुदीर्घ निशश्वास । योगिन्यपि दीर्घ निश्वस्य निजगाद-"सर्वथा प्रभवति विश्वभावनो भगवान्" आस्तामेत- स्कच्चिदागमिष्यति श्रीमान् । योगीन्द्र-प्रेयसि न खल्वद्य प्रभवाम्यागन्तुम् । न जाने कुतो वा व्याकुलोक्रियते मे हृदयं सपदि साध्वसातिशयेनेति ।

( १७ ) योगिनी-तत्कदा पुनरनुग्रहीष्यत्यार्यः ? योगीन्द्र-जानात्येव भवती यथाऽहमस्मिन्नपि प्रदेश उपतिष्ठामीति । योगिनी-जानाम्येतत् । तथापि वान्छामि नियतं कमपि समयमव- बोद्भुमागमनस्य । योगीन्द्र-अतः परंमासेनैकेनास्मिन्नेव वासरे समागमिष्यामि । योगिनी-तकिमिति सम्प्रत्येव नानुगृह्यतेऽसौ परिचारिका कुटीरा- गमनेन । तत्रैव हि वत्सां लावण्यमयीमानेष्यामि । योगीन्द्र-सति सौकर्ये विधास्याम्येतत् । अन्यथा पुनः श्रीमत्येव मे कुटीरमुपयातु । योगिनी-(सविनयम्) नाथ ! एतानि तावद्भवन्तु पञ्चाशद्रूप्यकाणि । अनुगृह्यतामियं दासी स्वीकरणेनैतेषाम् ( इति रूप्यकाण्यर्पयति)। योगीन्द्र-(सोद्वेगं रूप्यकाणि विलोक्य) आर्ये, नूनं श्रीरेव भवती नः सदनस्य (अश्रूण्युन्मुच्याकाशे लक्ष्य बद्ध्वा ) भगवन् कृतान्त किमि- त्युपेक्ष्यतेऽयं जनः । अनुगृहीतो हि त्वया स्मरणशेषतामापन्नः क्लेशानां पुनरेतेषां भाजनं न भविष्यामि । नाथ, किमेतत् । परिचारिका नन्वियं भवदीया। विहाय चैनां का वाऽन्या जीवितनिर्विशेषं परिचरेदार्यम् । तदलमस्थाने शोकेन । तथा चैक एवावयोरात्मा तथा भवदीयमेव नन्वे- तद्रविणम् । तदलमनौचित्यसम्भावनया । समाकर्ण्य वंचनमेतद्योगिन्या वनोपहत इव तूष्णीं बभूव योगीन्द्रः । उत्थाय च ससम्भ्रम निर्वर्ण्य पुनर्योगिनी कथमपि गृहीतद्रविणः प्रायासीत्। यावञ्चासौ नान्तर्हितो वनराज्या तावदेवं निस्तरलतारकेण चक्षुषा वीक्षमाणा योगिनी तिरोहिते तस्मिन्नायततरं निश्वस्य कुटीरोन्मुखी प्रातिष्ठत। इति लावण्यमय्यां षष्ठः परिच्छेदः । . , सप्तमः परिच्छेदः लावण्यमयी सुधाकरश्च यदेतदुपवर्णितपूर्वमस्माभिरुद्यानं तत्र किल प्राथमिकात्समा- गमतः प्रभृति प्रत्यहं नियतसमयमेव समागत्य लावण्यमयीसुधाकरौ ३ TTE) Nordkna-1 सप्रणयं परस्परं साक्षात्कुरुतः । वितनुतश्च शैशवोचितास्तास्ताः क्रीडाः । यद्यपि द्वादशवर्षदेशीया सरलतमस्वभावा श्रीमती लावण्यमयी नासी- सर्वथैवानभ्यन्तरे यौवनरसस्य । तथापि किमपि किमप्यनभिज्ञत्वमे- वाऽभवद्विषयेऽस्मिन्नेतस्याः। संस्पृष्टयौवनोऽपि षोडशवर्षदेशीयः श्रीमान्सुधाकरो नासीत्परिचितो विषयवासनापरपर्यायाः पशुवृत्तेः । तत एव चासीदन्तरङ्गमनयोरव्याजेन घालौकिकेन च प्रेम्णा समुल्लसितम् । विललास चात्र मधुरिमानुगामि सारल्यं, सौन्दर्यानुवृत्ति सौजन्यं, प्रणयनिकारानुसारिणी प्रीतिव्रीडाऽविनाभूता क्रीडा, क्रीडायाश्च सहचारिणी ब्रीडा। उभयोरपि सुविशुद्धमिव सुरस्रोतस्विनीसलिलमविज्ञातदुरितसम्पर्क- मविस्पृष्टजघन्याचरितमासीत् हृदयम् । न खल्वासीद्विदितमेतयोः कुलं पारस्परिक तथाप्यासी देवानयोगरीयसी प्रीतिः । निसर्ग एव ह्यसौ प्रीते. यदियमविचार्यैव कुलशीलादिकमान्तरेणैव केनापि हेतुना प्रेर्यमाणा प्रादुर्भवति । प्रादुर्भूता च विनयत्यात्मनो गोचरे पतितम् । न चाप्यसौ केनापि प्रतिबन्धकेन विनिरोधुं शक्यते । यत्तु क्वापि समवेक्षते प्रतिरोध एतस्याः स खलु विद्योतयत्येतस्या नैसर्गिकेतरताम् । दुर्निवारा हि नैसर्गिकी प्रीतिः। इदानीं पुनर्नातिप्रगल्भयोरपि प्रणयपरिप्लुतान्तरयोरनयोः कुमार- कुमारिकयोः संलापसुधारसं प्रियपाठकमहोदयेभ्य उपहर्तुमिच्छामः । आस्वाद्यतां तावदयं विज्ञातास्वादैर्यथेष्टममोभिः । कस्मिंश्चित्रूलु दिवसे ससुपस्थिता प्रमदवनं लावण्यमयी कस्यापि निरन्तरनिचितकुसुमसमुल्ल सतस्य धकुलतरोर्मूले प्रच्छायशीतले शिलातले समुपविश्य निजकरकमलावचितानां नानाविधप्रसूनानां मालाश्च हाराँश्च स्तबकाँश्चैकतानेन मनसा ग्रन्थन्ती शनैःशनैश्वान्तराऽन्तरा श्रवणमधुराणि गीतान्यावर्तयन्त्यासीत्। अस्मिन्नेवावसरे समवचितकुसुमः सुधाकरोऽप्यविदितचरणविन्यास शनैः शनैः पृष्ठतोऽस्या भूत्वाऽवस्थितः । कुसुमग्रथनकर्मणि नितान्तमेव प्रसक्तमानसया तु नायमभिलक्षितः श्रीमत्या लावण्यमय्या। अतिक्रा- न्तायां पुनः कियत्यां कालकलायां शनैः शनैः सन्निधाय पिदधेऽस्या नयनसरसिजद्वितयमवितर्कितमेवात्मनः पाणिपल्लवद्वितयेन श्रीमान् सुधाकरः । लावण्यमयी तु पिहितमात्र एव नयने प्राह । सुधाकर, सुधाकरः एषोऽसि विज्ञातः। मुञ्चेदानी मे नयनद्वितयमिति। तदा.

(१९) कर्ण्य विहसन्तुन्मुच्य तस्या नेत्रद्वन्द्वं पुरस्ताद्भूत्वा प्रोवाच सुधाकरः- "पश्य तावत्कियन्ति वा समानीतानि मया त्वदर्थमेतानि कुसुमानी"ति । अभिधायचेत्थं नानाविधान्यस्यै कुसुमान्यर्पयामास । अवेक्ष्य चैनं प्रसूनराशिं प्रसन्नान्तरङ्गा श्रीमती लावण्यमयी करे गृहीत्वा सुधाकर प्राह । किमित्येवमवस्थानेनायास्यत आत्मा ! इतस्तावदास्यतां मत्स. विध इति । सुधाकर-कुतोऽत्रतावानवकाशः। लावण्य-भूयान्ननु विद्यते। इत्यभिधाय च सकरप्रहमुपावेशयदात्मनः समीपे सुधाकर लावण्यमयी। लावण्य-पश्यतु महाभागो भवदर्थमेव मया प्रथितान्कुसुमहा- रानेतान् । सुधाकर-अहो रामणीयकमेतेषाम् । अमपीदानी श्रीमत्याः शिरोविभूषणोचितं कुसुमजालकं ग्रन्थामि । लावण्य-अलमलं मदर्थमात्मानमायास्य । सुधाकर-साधु भद्रे, कथं वा न गुम्फयिष्यामि । इत्येवमभिधाय च पुनरपि समासक्तौ कुसुमग्रथनकर्मण्येतौ। तदनु पुनः सुधाकरः किञ्चिदिव समुदञ्चितस्मितः प्रावोचत्-"भद्रे लावण्यमयि कच्चित्प- रिणेष्यति मां भवती ।" लावण्य-कोऽत्र सन्देहः। न जाने कोऽयं परिणयो नामेति । नाममात्रश्रवणेऽपि पुनरस्य प्रसीदतितमा मे चेतः । अवश्यं परिणेष्यामि त्वामेव । सुधाकर-अथ यदि पिता तेऽन्यस्मै प्रदान संकल्पयेत् ? लावण्य-अलमन्यथा सम्भाव्य। अहं हि परमं प्रेमास्पदं तातस्य । स हि यद्यन्मया प्रार्थ्यते तत्तदवश्यं प्रयच्छति । यथा च मयाऽभिधीयते तथा विद्धाति । तत्कथं नाम प्रार्थितोऽपि मया नानुमन्येत श्रीमता साकं ममोद्वाहम् ? सुधाकर-अपि नाम दद्यादेवं प्रार्थयितुमवसरं ते ब्रीडा । लावण्य-कैव नामात्र ब्रीडा। अपि नाम भवत्युद्वाहेप्येषा आस्तां तावदिदम् । किन्तु भद्रमुख, किमिति वा नोपाव्रजसि नः सदनम् ? सुधाकर-आगमिष्यामि । लावण्य-कदा (२०) सुधाकर-यदा ते पाणिं ग्रहीष्यामि । लावण्य-तदद्यैव तावत्पितरं विज्ञापयिष्यामि विधीयतां ममो. द्वाहोऽविलम्बितमेव श्रीमता सुधाकरेणेति येन सत्वरमेवागमिष्यति सदनमस्मदीयं श्रीमान् । सुधाकर-भद्रे! यदि दैवदुर्विपाकात्पिताऽन्यस्मै प्रतिपादयेत्तदा किं वा प्रतिपत्स्यते भवती? लावण्य-मामैवम् । न खल्वेवं भविष्यति । सुधाकर-तथापि यदि घटेत ? लावण्य-तदा किल प्राणानेवात्मनः परित्यक्ष्यामि । सुधाकर-विहाय प्राणपरित्यागसाहसं कञ्चिनिगूढमेवानुसरिष्यसि माम् । वरं घेतत्प्राणपरित्यागात् । निशम्यैतत्क्षणमिव तूष्णीभूता लावण्यमयी समवलम्ब्येव नैराश्यं प्रत्याह-"कथं वा पितरं परित्यक्तुं प्रभवेयमिति ? सुधाकर-न पुनरत्र गत्यन्तरं पश्यामि । लावण्य-न खलु कश्चिदपि प्रतिकूलमाचरिष्यति मे तातः । इत्येवं संलप्य धोभाभ्यां मुक्ताः परस्परयोः कण्ठे कुसुममालिकाः, वितीर्णौ च परस्पराभ्यां हृदयहारिणौ गुच्छौ । यत्पुनरुल्ललासेदानीं लावण्यमय्या लावण्यं न खल्वेतदुपवर्णयितुं प्रभविष्यति लेखन्यस्माकम् । अन्ततः पुनर्गाढं परिष्वज्य निष्क्रमितुः मारभेतामुद्यानादेतौ। प्रत्यासन्ना हि तदानीं तमिस्रति । लावण्य-श्वः पुनरनतिपातितकालमेवोपागच्छतु । सुधाकर-आगमिष्यामि अनतिपात्यैव समयमागमिष्यामि । इत्येवं विहितसंलापकौतुको स्वं स्वमालयं प्रविष्ठेता लावण्यमयी- सुधाकरौ। इति लावण्यमय्यां सप्तमः परिच्छेदः । अष्टमः परिच्छेदः समागता सरला अथ कस्मिंश्विहिवसे समनुभवन्निद्रासुखं श्रीमान् रमेशचन्द्रमहोदयः स्वप्नं कमप्यद्राक्षीत् । बासीचाचास्य नयनगोचरः शनैः शनैः पल्लव- ( २१ ) कोमलाभ्यां पाणिभ्यां चरणसरोरुहद्वितयमवमृद्गन्ती निरर्गलश्व निष्पतताऽनुबद्धधारेण बाप्पाम्बुना ग्लपयन्ती कपोलतलं मुहुर्मुहुश्च सगद्गदाक्षरं क्षमामभ्यर्थयमाना श्रीमती सरला । श्रीमतो रमेशमहोदयस्यापि बहोरेव कालाज्जीवितवल्लभां समवे क्षमाणस्य समुच्छलतेवानन्दपूरेण सातिशयमेव परिप्लावितं हृदयम् । आसीञ्च बाष्पजडा दृष्टिः। एवं स्वप्नमनुभवँश्चायं सुदीर्घतरं निशश्वास । उन्मुक्तनिश्वास एव च प्राबुध्यत। प्रबुद्धमात्रश्चावगच्छत् । यदेतत्का- लमेतावन्तमनुभूतं तदेतदशेषमपि स्वप्नगतमेवेति । किन्तु तदात्व एव कोष्णकोष्णाश्रुबिन्दुसम्पर्कमात्मनश्चरणयोः सन्दिहानः समभिलष्यश्च भूतार्थमवगन्तुं चरणमात्मनः करतलेन पस्पर्श । अज्ञासीच नूनमश्रूण्येवैतानीति । अस्मिन्नेव च समये गर्भागार. कोणाद्विनिर्गतः प्रस्फुरन्निव रुदितध्वनिरविसष्टतमोऽस्य श्रवणसरणि- मारुक्षत । तं पुनराकर्णयतो गृहीतमिव युगपदेव भीत्या च विस्मयेन कुतूहलेन चान्तरङ्गमेतस्य । अप्राक्षीच्चासौ सावेगं कम्ताचदत्रेति । न पुनरधिगतमत्र प्रतिवचनमेतेन । केवलं तु यथापूर्व स्खलिताः कियन्तश्चित् कवोष्णकवोष्णा अश्रुबिन्दवश्वरणयोरेतस्य । ततस्तु प्रतिपत्तिमूढ इव किं जागर्मि कि वा स्वप्न एवायमिति नाव- गन्तुं प्रबभूव । 'सञ्जातसाध्वस इव च पुनरप्यप्राक्षीत्कः कस्तावदिति । न पुनरत्रापि प्राप्तं प्रतिवच एतेन । येन केनाप्यत्र निःशब्दमेव रुदता भवितव्यमिति । निशम्य चेदं रुदितं झटिति समुत्थितः श्रीमान् रमेश. महोदयो गर्भागारद्वारमनुलक्ष्य गन्तुमारेभे । आसीकिल कतिपयेभ्यो दिवसेभ्यो भीरोरिव प्रकृतिः श्रीमतो रमेशस्य । नासीरिकल पुरास्य पिशाच्चसत्तायां विश्वासः । किन्तु भूयो भूयोऽनुभूयमानैराश्चर्यैः सन्दि- ग्धमिवासीदिदानी हृदयमेतस्य । अथ यावद्वारदेशमनुप्राप्तः प्रसारयति पाणिं कवाटमुद्घाटयितुं तावदेव तु पश्चादुपेत्य गृहीतः सन्निधाय केनापि सोऽयं पाणिरेतस्य आदित एव साशवं हृदयं तत्र च करे कोमलतरस्य कस्यापि करतलस्य स्पर्श इति नूनं महत्येवेयमिदानीमनर्थपरम्परा श्रीमति रमेशचन्द्रमहोदये समापतिता। वाचामगोचरं किलेदानीतनं पर्याकुलत्वमेतस्य । यावत्पुनः समाक्रान्तो भीत्याऽयमाक्रोष्टुं प्रवर्तते तावदेव यया गृहीतः पाणिः श्रीमतो रमेशमहाभागस्य सेयं युवतिः सकरुणं प्राह ।

( २२ ) आर्यपुत्र-कश्चिन्नाद्याप्यभिज्ञानम् । अपि नाम विस्मृतोऽयं जन आर्येणेति । द्वादशः किलायं वत्सरोऽदर्शनमुपागतायाः श्रीमत्याः सरलायाः । तथापि न खलु नाभिज्ञातः स्वरसंयोगोऽयमेतस्याः श्रीमता रमेशेन । कुतो हि नाम प्रत्यभिज्ञाप्रलोपस्तत्ताशस्य प्रेम्णः । समागते च श्रवण सरणिं तन्त्रीस्वनविडम्बिनि श्रीमत्याः सरलायाः स्वरसंयोगे स्तिमित इव विस्मयेनावोचच्छ्रोमान् रमेशमहाभागः- "कथं भवतीति ? सरला-आर्यपुत्र ! अथ किम् ? रमेश-(सानन्दमन्थरम् ) धिक् प्रेयसि ! कुत्र तावदतिवाहितः कल्पायमानोऽयमेतावान्समयः श्रीमत्या कथञ्चानिवैद्यवास्मानसि प्रयात- वती। कथश्च नासीत्समय एतावत्यपि सकृदपि तावदस्मानवेक्षितुं ते मनस्यभिलाषः! सरला-( रमेशस्य करौ कराभ्यां गृहीत्वा) क्षम्यतां नाथ ! अस्ति मे सम्भावना यदि श्रोष्यत्यामूलान्तमेव मे वृत्तं तदा नांशवोऽपि दास्यति कोपाय करावलम्बर ठम्बमार्यपुत्र इति । रमेश-प्रेयसि, कुतो नाम त्वयि मे कोपवापि । किमु नास्मि परिचितस्ते विशुद्धतमस्य चारित्र्यस्य येन कोपभाजन श्रीमतीमाकल- यिष्यामि । यद्यप्यनापृच्छयैवास्मान् व्यधायि प्रयाणं श्रीमत्या यद्यपि विनिपात्य निरन्तरसमुच्छलत्कल्लोलभीषणे विप्रयोगसागरे जनमेनमन्त. हिंता समभूः यद्यपि च परित्यक्तमस्मदीयशय्याको मासजातमपत्यं तथापि नास्पृशन्मे हृदयं रोषलेशोऽपि गरीयान्हि मे विश्वासः सुनिर्म लतमे श्रीमत्याश्चारित्र्ये । श्रीमत्या पुनरिदानी स्वयमेव समुपस्थाय समुज्ज्वलीकृतश्च विभूषित चैतदात्मीयं सदनम् । तत्कोहि नाम सम्प्रति कोपस्यावसरः। सरला-इत्थमेव मे मनसो विश्वासः । स एव च प्रत्यागमयदिमां वो दासीम् । रमेश-प्रेयसि, प्रदीपं तावत्प्रज्वालयितुमिच्छामि । सरला-अनुचितं खल्वेतत् , सन्निहिता नन्विदानीमेषा परि. चारिका। अस्या एव चाधिकारः कर्मण्येतस्मिन् । सत्तिष्ठतु तावदार्य- पुत्री यावत्स्वयमेव प्रज्ज्वाल्य प्रदीपं साक्षात्कुर्वती सुचिरमुपोषितयोरनयो- विलोचनयोः पारणां निर्वर्तयिष्यामि ।

६२३४ प्रियपाठकमहाभागाः-इत्येवमभिधाय च श्रीमतां परिचितपूर्वया तापस्या साम्प्रतिक्या सरलया समादायाचिःशलावा प्रज्ज्वालितो दीपः । प्रादुर्भूते च प्रदीपे यावद्विकिरति पुरस्तात्प्रमदभरजडीकृतां दृशं श्रीमान् रमेशमहाभागस्तावदासीदस्य नयनगोचरस्तापसीवेषसमाच्छन्ना सरला यत्सत्यमपरेव देवतेय मिदानीमालक्ष्यत । ब्रीडावनतवदना चेयं पुरस्तात् श्रीमती रमेशभागस्यातिष्ठत् । यदि तावद्वेषमरया इदानींतनं यः कोऽपि साक्षादकरिष्यत्तदा नूनमवश्यं प्रादुरभविष्यन्मनस्येतस्य सरलायामादरा- तिशयः । श्रीमान् रमेशमहाशयोऽपि समवेक्ष्यैनां विस्मयस्तिमित एवादितः समभूत् । परस्तात्तु समुच्छलत्प्रणयरसेन चेतसा सरभसं गाढं परिष्वज्य मुहर्मुहुरचुम्बनातिमांसलमनोरमौ दरविकसितपाटल- कुसुमप्रभौ कपोलावस्याः । व्यपगतः खल्विदानी तुषारशिशिरेण'स्याः शरीरस्पर्शेन सर्वाङ्गीणस्तापः श्रीमतो रमेशमहाभागस्य । परस्तात्पुनर्य- दनयोः संवृत्तं तदेतदाचष्टे महाकवेः श्रीमतो भवभूतेरिदं पद्यम् । किमपि किमपि मन्दं मन्दमानत्तियोगा- दविरडितकपोलं जल्पतोरक्रमेण । शिथिम्परिरम्भ व्यापृतैकैक्दोष्णो- रबिदितगतयामा रात्रिरेव व्यरंसीत् ।। अन्ततः पुनरभ्यधात्सरला "यद्यनुमन्यत आर्यपुत्रेण तदा वाञ्छामि विनिवेदयितुम शेषमपि वृत्तमात्मीयम् । येन किमिति चानिवेद्यैव प्रयाता न्यषातयं कालमेतावन्तं दुस्तरतरे विरहाम्बुधावात्मानमितीदं विशदी- स्यादिति । रमेश-अवहितोऽस्मि किन्त्वार्ये ! बहु खल्वास्ति ममेदानी जिज्ञा- स्यम् । तथापि किंवा प्रथमतः किन परस्तात्प्रष्टव्यमिति न किल किमपि मे चेतसि परिस्फुरति । तदिदानी स्वयमेव तावनिवेदयतु श्रीमती यथा- भिलषितक्रममात्मनो वृत्तम् । इत्थमनुमोदिता श्रीमता रमेशमहाभागेनोपक्रान्तवती वृत्तमात्मीय- माख्यातुं श्रीमती सरला। आर्य, यदा किल जातमात्रमेव दिवंगतमपत्यमस्माकं ततःप्रभृति सन्तानार्थिना समवलम्बिताः किल नानाविधा अभ्युपायाः । भवता सेविताश्च यथादेशं मयानैकविधा ओषधयः । किन्तु नासीद्विना नैराश्यं किमपि फलमभ्युपायानामेतेषाम् । अथ समुपदिष्टः किल गुरुभिरायपुत्रः पुनः परिणेतुम् । अनुमतश्च भयाऽप्ययं गुरुजनानामुपदेशः । प्रयतितञ्चा- ( २४ ) नेकशः समावर्जयितुमन्तरङ्गमार्यपुत्रस्य । तथापि यदा नान्वमोदिष्टार्थमिमं श्रीमाँस्तदा तु समधिकमेव व्याकुलीवभूव मे हृदयम् । अथ कदाचि. पश्चिमेन मन्दिरं वृक्षवाटिकायां विचरन्ती यदृच्छयोपगतां कामपि योगिनीमद्राक्षम् । सन्दर्शनमात्रपरिचि तयाऽपि सञ्जनितप्रीत्या स्नेहैक- रसया तया संलपन्ती तत्तदशेषमपि व्यवृणवं पुरस्तादस्या वृत्तमात्मीयम् । नापि नाववमन्यपत्यताव्यसनम् । पातु तत्समाकर्ण्य सावधारणमिव समाश्वासयन्ती प्रत्याह-भद्रे, अस्ति किल मत्सविधे मूलं किमपि, यस्मिन्नासेविते सञ्जायते चापत्यं जीवति च सुदीर्घ समयं यदि नैतदनु. पालयिष्यति जनन्येतस्य । तथा हि परिपाल्यमानमिदं वियुज्यते प्राणै- रिति । अथ 'किंवाऽत्र मयाऽनुष्ठेय'मिति मयानुयुक्ता च प्रत्यवदत्सेयं भद्रे, सेव्यतां मया प्रदीयमानमिदं मूलं, तेन चावश्यं सञ्जनिष्यते ते गर्भः। अथ यदा व्यतीतेषु नवसु मासेषु समनुभूयेरन् प्रसववेदना. स्तदा समाह्वयतां श्रीमत्या सखीयमात्मीया। अस्याः पुनरयमेव ग्रामो निवास इत्यवबुध्यतां श्रीमत्या अवसरे च तस्मिन्नुपस्थिताऽहं कथमप्य- पवाह्य तत्तवापत्यं यथोचितमनुपालयिष्यामि । अतिक्रान्ते शैशवे चैतन्नेष्यसि सदनमात्मीयम् । ततो हि नास्ति निधनभीतिरेतस्येति । अथाहं स्वीकृत्य तस्याः सकाशान्मूलिकां यथोपदेशमासेवेषि । अचिरादेवाहमन्तर्वत्नीत्वमापन्ना । ततः प्रभृति प्रत्यहमेवासीदस्याः साक्षात्कारः। अथ यदा प्रत्यासन्नः प्रसूतेः समयः तदा निराकृत्य सार्व. दिकी साविकामपरामेव सन्यधापयमिति मन्ये स्मरत्येवैतदार्यपुत्र इति । सैवेयं योगिनी । एष च जातमात्रं कुमारकं पञ्चत्वमापन्न इति व्यपदिश्य समादाय प्रतिजगामेति विदितमेवेदमार्यपुत्रस्य । रमेश-आम स्मयते खल्वेतत् । सरला-ततः परं पुनर्व्यपगतेष्वपि पञ्चषु वर्षेषु न किल सकृदपि मे योगिन्याः समागमः संघटितः तेन च गृहोतं मे मनो बलीयसा नैराश्येन । कुतश्चावसरेऽस्मिन्नेतावान्मे प्रागल्भ्यं येन संघटितपूर्व वृत्तमेतदाख्यातुं प्रभवेयम् । तत एव च नास्मि श्रीमतः सविधे किमप्या- ख्यातवती । केवलं तु गुरुतरया चिन्तया कवलीक्रियमाणेन चेतसा समवास्थिषि । अथैकदाऽवितर्कितोपगतां महाभागामिमामद्राक्षम् । अप्राक्षश्च सोत्कण्ठामेनां कुशलं कुमारस्य । असौ तु कृतं चिन्तया, कुशली किलेदानीं ते तनयः । यदि च समनुष्ठास्यतिःमयोपदिश्यमानं विधिं भवती तदैनमवश्यं प्रदर्शयिष्यामीति प्रत्याह । अथ कस्तावन्म- :- (२५) हाभागायाः समादेश इत्यनुयुक्ता सा पुनरप्यसावभाषिष्ट । सखि, नाधिकं किमपि । इदमेव केवलं विधीयतामद्य किल प्रौढप्रायायां तमस्विन्यां सह मया समागच्छतु भवती। समादाय च मया वितीणों कामपि मासजातां स्तनंधयों तनयां तूष्णीमेव प्रतिनिवृत्ता प्रविश्य- मन्दिरमात्मीयं विनिधाय चैनामात्मनः पत्युः शयनीये पुनरपि मे समीपं समागच्छ । आत्मजा किलेयं मदीयैव । श्रीमत्याः पुनः कुमारमनु- पालयन्ती नाहमिदानीमेनां प्रपोषयितुं प्रभवामि । बलवद्धि मे दारि- द्रयम् । अवश्यं पुनः परिपालयिष्यति दयितस्ते कुमारिकामेनामिति । रमेश-ततस्ततः। सरला-स्वीकृते च मयाऽस्मिन्नर्थे पुनरप्यसौ प्राह सखि सुष्ठु सावहितश्च यत्परिपाल्यते मया ते तनयः। तत्र केन पुनः कर्मणा में प्रत्युपकरिष्यति भवती । एतदाकर्णयन्त्येव त्वहं झगिति प्रत्यवदम् यदा- देक्ष्यति महाभागेति । सा न किश्चिदप्यधिकं, यदि किल प्रतिश्रूयते श्रीमत्या कुमारकेणात्मनस्तनयाया ममोद्वाहो यदि चायमर्थो नाऽति- प्रकाशतां नीयेत तदाऽवश्यं साक्षात्करिष्यामि ते तनयम् । अहं तु बलवदेव गृहीता दारकावलोकनकुतूहलपिशाचिकया तदात्व एव शिर. स्यकार्षमादेशमतस्याः । अस्मिन्नेव च वासरे निशीथे समुपेत्य प्रती. क्षमाणाया मे सविधं योगिन्यसौ समवलम्वितशिशुविग्रहामिव सुकु- मारतरां कन्यको आत्मनः प्रायच्छत् । निधाय चैनां पयोधिफेनपाण्डुरे हंसतूलविनिर्मित आर्यस्य शयनीये झगित्येवास्मि अपक्रान्तवती । रमेश-(ततस्ततः ) ततश्च योगिनीमनुपस्थिता सह तया कुटीरं किमपि नातिदूरवर्ति प्राविक्षम् । अद्राक्षं चात्र केनापि महात्मनोपला. ल्यमानमङ्काती बालम् । अथ योगिनी समादाय नयनविलोभनीयं कुमारकमेनं नातिदूरोपविष्टायाः कृतयथोचिताचारायाश्च न्यवेशयन्म- मोत्सङ्गे। तेन च नवोदितेनेव निष्कलङ्कमधुरेण राकाचन्द्रमसा च तदात्व एवोढेलतामापेदे मदीयः प्रमोदाम्भोधिः । प्रस्तुतस्तनी च मुहुर्मुहुः मूर्धानमस्योपजिघ्रम् । मुहुर्मुहुश्च क्रोडेऽकार्षम् । मुहर्मुहुश्च पर्यचुम्बं नवनीतमृदुलौ कपोलावेतस्य । मुहुर्मुहुश्च परिस्फूर्जता वात्सल्येन प्रमोदपरिवाहिना च चक्षुषेनमवेक्षमाणाया नासीन्मे मनसस्तृप्तेरन्तो नाम । प्रतीतच नूनं मदीय एवात्मज इति । रमेश-(सोत्कण्ठातिशयम् ) प्रेयसि, कुत्र तावदिदानी हृदया- हादको वत्सः।

( २६ ) सरला-आर्यपुत्र, धीरस्तावद्भव । अशेषमप्येतदाख्यास्यामि । ततः किल महात्मायमवादीत् न खलु शक्यते चिरायात्रावस्थातुमस्माभि- विदिता हि वयमिदानी रक्षापुरुषाणामिति । अथास्मि योगिन्या समा- दिष्टा-भगिनि गम्यतामिदानीमात्मनः सदनम्। अहं किल यथोचित- मात्मजं ते पालमिष्यामि । तदलं चिन्तया। परिपाल्यतां पुनस्त्वया मे तनया । सम्प्राप्ते पुनरवसरे स्वयमेवाहमादाय कुमारकमन्तिकं ते समागमिष्यामि । एतत्पुनाशतोऽपि विस्मयतां तत्कथमप्यप्रत्याख्येय. मेवानयोः कुमारीकुमारयोर्विषये विज्ञापनं मदीयमिति । इत्थमुभाभ्या. मप्येताभ्यामनुज्ञातगमनाया अपि न व्यमुश्चन्ममोत्सङ्गं वत्सः । विलोभ्यापि समादीयमानोऽयमेताभ्यां झगिति परावृत्तवदनो मामेव पर्यध्वजत्कराभ्यां गाढम् । योगिन्या त्वाहूयमानो वसनाचलमस्याः पाणिनैकेन सस्मितं धृतवान् । नैव पुनर्मा पर्यंत्याक्षीत् । मन्ये द्विधैव भूतमिदानीमतरङ्गमेतस्य । अनेन चास्य हृदयापहारिणा सभाचरितेन विमोहमापन्ना मन्त्रौषधिवर्श कृतेव भुजगी योगिनीमेब सहपुत्रकेणान्वा. गमम् । अनेकशश्च निवर्त्यमानाऽप्यनया नैव प्रतिन्यवृत्तम् । एवमेकादश. द्वादश वा वत्सराणि सह तया तेषु तेषु तीर्थेषु परिभ्रमन्ती सम्प्रति नगर मेतदुपागच्छम् । अत्र चोपस्थिताया अतीतप्रायो मे मासः । आसीच्च मे मनसि साक्षात्करणीय इदानीं पुनरार्यपुत्र इति । महापराधजनिता पुनर्भीतिभूयो भूयो न्यवारयन्मां कर्मण एतस्मात् । अविगणय्य चैनां कदाचिनिशि निगूढमेव सदनमेतत्प्राविक्षम् । समुपलक्ष्य तु प्रबुद्धमार्य- पुत्रं गृहीतेन साध्वसेन झगित्येव प्रत्यपाक्रामम् । रमेश-भवतु यद्भूतम् । किन्तु प्रेयसि ! कुत्र तावदिदानी बहिश्चरं मदीयमुच्छवसितं वत्सः। समाकयेदमुत्कण्ठातिशयगृहीतहृदयस्य वचनं श्रीमतो रमेशमहाभा. गस्य गर्भागारबहिःशालायां समवतिष्ठमानमाह्वयत्कुमारकं श्रीमती सरला। वत्स सुधाकर, इतस्तावदिति । एष पुनर्मातुराज्ञावशाद्गर्भागारस्य बहिः कक्षायामुपविष्टः समभूत् । आहूतश्चानया शनैः शनैर्वासगृहं प्राविक्षत् । कालातिपातासहिष्णुः पुनः श्रीमान् रमेशमहाभागः प्रमोदभरतरलितेन परिस्पन्दमानवात्सल्येन च चेतसा स्वयमेवैनमुपसृत्य सुनिर्दयं समालि- अत् । स्वयमेव तावद्विभाव्यतां प्रणयरसार्दैन चेतसाऽयमिदानींतनः संमोदो रमेशमहोदयस्य प्रियपाठकमहाभागैः । अथ प्रभातायां तमस्विन्यां भूतल मुपगतयैव कयापि तन यानुगतया देवतया श्रीमत्या सरलया सनाथीकृत भवनमवेक्षमाणाः श्रीमतो रमेश- महाशयस्य सदनवर्तिनो जना अमन्दमेवानन्दमन्वविन्दन्त। यादृशश्चेदानी सुधाकरच तापसीश्चात्मनो भवने विलोकमानायाः कुमार्या लावण्यमय्या आनन्दः सोऽयं स्वयमेवानुमीयतां रसिकैः । अथ यदा निवेदितः सरलया लावण्यमयीसुधाकरयोगद्यानवृत्तान्त. स्तदा प्रत्यङ्गमिव प्रास्फुरत्प्रमोदातिशयः श्रीमतो रमेशमहाभागस्य । ततः प्रभृति पुनम्तथा समाक्रान्तौ लजया च विनयेन च लावण्यमयीसुधाकरौ यथैतौ प्रकाशतो नैव परस्परं किमप्यालपितुं प्राभूताम् । इति लावण्यमय्यामष्टमः परिच्छेदः नवमः परिच्छेदः परिणयकौतुकम अथ व्यतिगतेषु केषुचिदिवसेषु सुनिश्चितः श्रीमता रमेशचन्द्रमहो- दयेन लावण्यमयीसुधाकरयोरुद्वाहः । न खलु साक्षाद्विदितमेतेन कुल योगिन्याः। किन्तु कुतो महात्मनामेवं विधानां दुष्कुलेषु प्रभवः । न हि लवणाकरेषु चामीकरम्य निष्पत्तिः संदृष्टा । इत्येवमाकलयन्सम्भा- व्यैव समुन्नतकुलोद्तत्वं श्रीमत्या योगिन्याः प्रसन्नतमेन चान्तरङ्गेण प्रोत्साहित आत्मजामस्या लावण्यमयीं तनयेनात्मनो विवाहयितुमैहिष्ट । उपालभन्त खल्वाचरितेनामुना रमेशमहोदय पुरोभागिनः केऽपि । न पुनरुपालम्भमेनं गणयाञ्चकार श्रीमान् रमेशमहाभागः। अयुक्तः किल कर्मणामेवंविधानां कालातिपात इति च मन्यमानो निर्णीय विद्व- त्तमैज्यौतिषिकैर्विवाहदिनं निमन्त्रणपत्रिकाः प्राहैषीत् । अथ शनैः शनैः समुपतिष्ठद्भिर्निचितमिव निरन्तरं प्राघुणिकैः सदनं श्रीमतो रमेशस्य । समाहितनानाविधसंस्कार चैतदपरमिव दिव्य- मन्दिरं महोत्सवमयमिव मानवमयमिव ध्वनिमयमिव संमदसंरभ. मयमिव च व्यभासिष्ट । संकल्पितश्चात्र महोत्सवे महीयसो धनराशे उत्सर्गो निसर्गोदारेण श्रीमतो रमेशमहाभागेन । सज्जीकृता अशेषा साहित्यसम्भाराः । वितीर्णश्च सुसज्जितचामतरोपवनवलयितः सौध आत्मीयो वधूपक्षीयाणां (२८) निवासाय श्रीमता रमेशेन । तेषामपि व्ययः स्वयमेव निर्वाह्य इत्यासी- न्मनसि श्रीमतो रमेशस्य । योगिनी पुनर्नानुमन्यतामुष्यैवंविधामभ्यर्थ- नाम् । यावच्छक्यं स्वयमेवाहमात्मनो व्ययं निर्वाहयिष्यामि इति च सनिर्बन्धमेवैषा प्रावोचत् । तत एव च शिथिलीचकाराभिनिवेश- मात्मीयं श्रीमान् रमेशमहाभागः । इत्यमेतदशेषमपि संघटितप्रायम् । किन्तु कः पुनरत्र कन्यायाः प्रदातेति न किल केनापि विज्ञातम् । न चापि तत्र तदानीं तथाविधः कोऽपि संदृष्टो यस्य नाम कर्मण्यत्राधिकारः स्यात् । न चाप्येतद्विषये कोऽपि योगिनीमनुयोक्तुं प्रागल्भत । अवसरेऽस्मिन्सर्वत एवाप्रकाशं व्याहरल्लोकाः जघन्यजातीया किल योगिनी। एतस्याश्च तनयायाः कुमारेणात्मनः पाणिं ग्राहयता न किल साम्प्रतमनुष्ठितं रमेशमहाभागेन । एतेन हि समुन्मूलितमिव गौरवमात्मनः कुलस्य जातेश्चेति । नैव पुनर्व्यापारितं जनवादेऽस्मिन्मनः श्रीमतारमेशेन । अथ समुपस्थिते विवाहदिने श्रीमान् रमेशमहोदयो यथा संकल्पितं महीयसा विभवेनात्मनस्तनयस्योद्वाहमङ्गलं निवर्तयामास । अवसरेऽस्मि- ध्वनिमयमिवाभवन्मङ्गलवादित्रनिर्घोषैरशेषं नगरम् । आसीच्च महीया न्समदः। कन्याप्रदानावसरे पुनः सह योगिन्या कोऽपि नातिधवला-- यतश्मश्रुः समुल्लसता कनकपिङ्गलेनाप्यन्तराऽन्तरा मृणालतन्तुधवलेन जटाकलापेन समुद्भासितशीर्षः प्रसन्नगम्भीराकृतिः कोऽपि पीठमारूढः कन्याप्रदानविधि विधातुमारेभे। तस्मिंश्च व्यापारितविलोचनो रमेश- महोदयः सपदि विस्मयस्तिमितः समभूत् । पुलकितानि चादसीयानि गात्राणि । नियन्त्रितेव चासीदिदानी वागेतस्य । प्रादुरभूच सर्वाङ्गीण कम्पः । अथ यथाकथमपि विनिवृत्ते प्रदानविधौ सदनं प्रविष्टः श्रीमान् रमेशमहोदयः समाहूय भार्यामप्राक्षोत् । रमेश-प्रेयसि, अपि नाम जानासि कस्य वा तनया लावण्यमयीति ? सरला-अथ किं सा किल यागिन्या दुहिता । रमेश-कच्चिदाख्यातवती विशेषतः कमपि वृत्तान्तं योगिनी श्रीमत्याः ? सरला-न खलु कश्चिदपि । एतावत्तु प्राह निर्वृत्ते परिणये विशेषतो वक्ष्यामीति। रमेश-कञ्चिन्निपुणमवेक्षितः श्रीमत्याः प्रदाता कन्यायाः ? सरला-किमत्र निपुणं द्रष्टव्यम् । स किल महात्मा योगीन्द्रः अयमेव श्रीमत्या लावण्यमय्याः पितृदेवः । एष एव च योगिन्या साकं परिभ्रमति।

(२९) वधूः श्रीमत्या। रमेश-( सानन्दगद्गदम् ) यत्सत्यं धुरि किलेदानी भाग्यवहां वर्तामहे । येनाऽयं महात्मा नः सम्बन्धी संवृत्तः । प्रेयसि, यः किल नर- पतिरस्मदीयस्य ग्रामस्य स एव नन्वयं भूसम्पत्तिमान् श्रीयुतः शशिशेखर. महाभागः। सरला-(सविस्मयम् ) कथं नरपतिः शशिशेखसेऽयं महाभागः? रमेश-कोऽत्र सन्देहः । सुनिपुणं किल मया निरुप्यायमभिन्नातः । अहो ! अनुग्राह्याः किल वयं दैवस्य । येनेदानीं नृपात्मजा नो संवृत्ता । सरला-प्रभवति सर्वथा मनोरथो धातुः । रमेशः-अनुयुज्यतां तावदत्रार्थे समधिगत्यावसरं निगूढमेव योगिनी सरला-यदादिशत्यार्यः। अथोपगता योगिनी स्वभावसरला श्रीमती सरला समधिगत्यावसरं दयितसमादिष्टमर्थमप्राक्षीत् । आकर्ण्य चानुयोगमेतस्या न्यवीविदद्यथा- वशेषमप्यात्मनो वृत्तं योगिनी। यदा किल प्रादुरभूद्राज्ञि प्रत्यवस्थायिनां गरीयान्प्रक्षोभस्तदा भूयाँस एवामीभिः प्राणैर्वियोजिता अस्मदीयराष्ट्र रक्षापुरुषाः । संभाविताश्चात्र दुर्दैववशादपराधीति नरपालः सार्व- भौमेन । ततः प्रभृति च योगोन्द्रवेषप्रच्छन्नः सह सहधर्मिण्या देशाद्देशान्तरं परिभ्रमति । अन्यत्पुनर्विदितमेव नश्चरितं श्रीमत्याः। भद्रे, बहिश्चर- मुच्छवसितं किल मदीयं भवतीत्यतएव श्राविता रहस्यमिदम् । तत्तथा खल्ववधीयतां यथा नायमर्थः प्रकाशतां विन्देत । सरला-तन्महाराज्ञी चन्द्रप्रभा खलु भवती। योगिनी-अथ किम् ? सरला-(सहर्षगद्गदं पादयोः प्रणिपत्य) क्षम्यतां महाभागे अजानत्या किल मयासि भूयिष्ठमायासिता। नूनं प्रसन्न इदानीं मे भगवान् येनाय मेवविधः स्पृहणीयतमः सम्बन्ध आवयोः संघटितः । योगिनी तु सरभसमुत्थाप्यैनां गाढं परिषस्वजे। यत्सत्यमगोचरः किलायं वाचां तदानींतनस्तयोः प्रमोदव्यापारः। स्वयमेव तावदयं स्नेहरसपेशलेन मनसा विभाव्यतां सहृदयप्रवरैः । निवेदितमप्येतद्योगिन्या वृत्तमात्मीयं नासीद्विहाय केवल श्रीरमेश- महाभागं कस्यापि श्रवणयोर्विषयः। ततः पुनः सावशेषमेव महोत्सवेन च वैभवेन च निवृत्तो विवाहविधिः शनैः शनैश्च प्रशान्तो महोत्सवसमा- रम्भो विसर्जिताश्च यथोचितं सम्भाव्य यथाग सम्बन्धिनश्च प्राघुणिकाश्च .

( ३० ) श्रीमता रमेशमहाभागेन । न किल केनापि महोत्सवेऽस्मिन्भूपतया गृहीतो योगीन्द्रो नापि वा महाराज्ञीति सम्भाविता योगिनी । प्रिय- पाठकाः, निरवधिः किलेदानी समुज्जृम्भितः प्रमोदपूरः श्रीमतोळवण्य- मयीसुधाकरयोः। प्लाविताविवेदानी निरर्गलं समुच्छलता प्रणयरसे. नैतौ निरतिशय सुखं निरविशताम् । इति लावण्यमय्यां नवमः परिच्छेदः उपसहार: अथ व्यपगतेषु कतिपयेषु दिवसेषु समवगत्य निरपराधितां प्रशंसित आघोषणपत्रिकया महाराजः शशिशेखरः श्रीमता सार्वभौमेन । प्रतिपा- दिता च पूर्वमात्मसात्कृता निखिलापि भूसम्पदेतस्य । अवबुध्य चैतत्प्रत्यागतावुपरागविमुक्तसुधाकरविनिर्मलौ श्रीमन्तौ चन्द्रप्रभाशशि- शेखरौ नगरमात्मीयम् । ज्योतिषिकसमादिष्टे च शाभने मुहूर्ते समहो- सर्व मन्दिरमात्मनः प्राविशताम् । तदनु च कियन्तं कालमनुभूय महाराजपदसौख्यं प्रत्यासन्ने वाधके विना सुकृतातिशयं सुदुलभतरं वारणसीवासमरोचयताम् । प्रतिष्ठमानाभ्याश्च त्रिभुवनपावनसलिलया श्रीमत्या सुरसरिता समुद्भासितां विश्वनाथपदपवित्रतां श्रीमती वाराणसी भूयिष्ठ एवात्मनो विभव एकमात्रायै दुहिने श्रीमत्यै लावण्यमय्यै प्रादायि। निरमायि च वाराणस्यां विशालतममपरमिव हिमशैलशिखरं श्रीशिवा. यतनं किमप्येताभ्याम् । तत्रैव च क्षपयितुमुपक्रान्त आयुषः शेषः । इतश्च श्रीमान् रमेशमहोदयोऽपि विचिन्त्य सांसारिकभागेद्वहनक्षम तनयं सफलीक कामो जीवितमात्मीयमनुगतः श्रीमत्या सरलया वैराग्यमापन्नोऽविमुक्तपुरीं प्रायासीत् । नियुक्तवाँश्वात्मनः पदे प्रौढप्रायं श्रीमन्तं सुधाकर महाभागम् । सुधाकरोऽपि श्वशुरस्य पितुश्च सम्पदं समा- साद्य सुव्यवस्थमेवैनामासेवमानः सर्वोत्तरलावण्यसमुल्लसितया सदानु- गतया सहधर्मिण्या श्रीमत्या लावण्ममय्या समं ताँस्तान भोगानुपभुञ्जान: सम्पादयश्च लोकोत्तरैः कर्मभिः दिगन्तसञ्चारिणी कीर्ति सुखमुवास । येषाश्च प्रागासील्लावण्यमय्या आभिजात्ये सन्देहस्तेऽपि विदितपरमार्थाः पर प्रमोदमासादयामासुः अन्तराऽन्तरा च सह भार्यया समुपमृत्य श्वश्रूश्वशुरौ च मातापितरौ च संभावयामास । गृहीताशीश्च तदुपदिष्ट- मध्वानमनुशीलयामास । सम्भावितश्चायं नानाविधोपाधिप्रदानादिभिः सदाचरितप्रसन्नेन श्रीमता सार्वभौमेन । आसँश्चास्य श्रीमत्या लावण्यमय्यां त्रिचतुराण्यनुरूपाण्यपत्यानि । एवं समुपचिता च सर्वतः श्रीः सुधाकरमहाभागस्येति शिवम् । .. समाप्ता

No text on this page.

No text on this page.

Laavand-yamayii

Author
Vishhnd-uuraama
Title
Laavand-yamayii
File name
Laavand-yamayii
Text
OCR done
Citation
1947
Publisher
Not Available
Language
Sanskrit
Pages
39
Library
Svi-ksri-chennai
Classification
Poetry. Poems. Verse
DLI number
369024
Barcode
5010010078361.00
Scanning centre
RMSC, IIIT-H
Rights
IN_COPYRIGHT
VMLT id
FwhtabWdoJE
Download PDF

Laavand-yamayii