Svi-ksri-chennai

Sringarashekharabhaand-a

T S Sundaresa Sarma

PDF Proofread

Front matter

No text on this page.

VINILUARA
SEKARA BHANA.
By
T: S. SUNDARESA SARMA
THE KUPPUSWAMI SASTA
RESEARCH WSTITUTE
MYLAPORE, CHENNAI.&
Published By
THE GENERAL STORES,
Ayyan-kadai Street, Tanjore.
PRINTED AT THE
SRI VIDYA POWER PRESS,
KUMBAKONAM.
1938.
All Rights Reserved]
[Price 6 Annas

No text on this page.

THE KUPPUSWAMI SASTP RESEARCH INSTITUTE MYLAPORE, CHENNAI-4 ॥श्रीः॥ सुन्दरेशशर्मविरचितः ॥ शृङ्गारशेखरभाणः॥ केलीसौधगृहं मिताश्चितमुखः क्षोणीसुतायाः करं प्रेम्णाऽऽलम्ब्य भुजान्तरे मलयजं धृत्वा खजाऽलंकृते । कर्पूरद्रववीटिकामपि करेणादाय चेटीकरा. च्छृङ्गारः स तु मूर्तिमानिव रघूत्तंसो विशन्पातु वः ॥१॥ (नान्द्यन्ते) सूत्रधार संभिन्नं कुचमण्डलं लघुतरो रोमावलीनीलिमा वक्रत्वं च विलोचने तरलता गात्रवतत्यामपि । येनवेदेति वचःसु चादुरचना बिम्बाधरे वा सुधा तादृशं नवयौवनं मृगदृशां चेतोहरं वर्धताम् ॥२॥ ( इति पुष्पाञ्जलिं विकीर्य, नेपथ्यामिमुखमवलोक्य।) मारिष, इतस्तावत् । (प्रविश्य ) पारिपार्श्वका-भाव, अयमहमसि । सूत्रधारः-अद्य किल रघुवीरचरण निरन्तरसेवानन्दभरितश्रीस्थाग- राजार्यवर्यपरमानुग्रहपात्रशरभोजिराजवंश्यपरिपूजितस्य, खाक तिसमुमतिसंदर्शनसकौतुकसंकृष्यमाणनिखिललोकपरिवृतनन्दी- शसमुपासितपुरोभागस, सकलमोक्षान्तफलदाधिवाससंवेदनो- घसमुमतमहागोपुरालंकृतमहालयप्रतिष्ठितस्स बृहदीश्वरस्य वस- म्तोत्सवसंदर्शनायायातैनागरिकैरादिष्टोऽसि ।

रमाण पारिपार्श्वक-कथमिव ? सूत्रधार:- अदीर्घमश्रुतं किंचिद्रूपकं रसनिर्भरम् । प्रयुज्य भरताचार्य मोदयख मनांसि नः ॥३॥ इति । पारिपार्श्वकः-न ज्ञायते तादृशं रूपकं यद्वा प्रयुञ्जानाः सामा- जिकानावर्जयिष्यामः । सूत्रधारः-कथामिदं विस्मृतं सुन्दरेशशर्मणाऽचिरादेव निबद्धं शृङ्गारशेखरनामकं रूपकम् ? सुललितपदैनिगुम्भितमधुनातनहृदयहारिरसभावम् । शृङ्गारहास्यरूपकममलं शृङ्गारशेखराभिख्यम् ॥४॥ पारिपार्श्वकः--आः, ज्ञातम् । तदेवात्र प्रयोक्तव्यम् । यतः, सभा सारज्ञेयं सरसकविसर्वस्ववचसां वयं प्राप्ता नाट्ये सुभृशमपि नैपुण्यपदवीम् । कवेर्वाचो नूनं त्रिदशजनजीवातुसहजा विधिः पुण्येनेदं सकलमपि नः संघटयति ॥५॥ परं तु विसयास्पदमाभाति मे यत्किल सततसमर्चितरघुनाथ- चरणस्य श्रीत्यागराजचरितरामामृततरङ्गिणीमुखभक्तिमयग्रन्थनि- मातुः शमप्रवणस्यापि कवेरस्य कथं प्रवृत्ता मतिः शृङ्गारकाव्यरच- नायामिति । सूत्रधारः-किमत्र चित्रं नाम अनृतशतसाध्ये वाणिज्ये व्यापृतस्यापि कथमिव मनो विनिहितं रघुकुलतिलकचरणयोः ? विभाति कविरेष तु त्रुटितसर्वदुश्चेष्टितः प्रशान्तहृदयः स्वयं प्रहतसर्वचित्तैषणः । ?

भृङ्गारशेखरमाणः। ३ जादरकपूर्तये विहितनव्यचेलापणः प्रभौ रघुकुलोत्तमे वितनुते हि भक्ति पराम् ॥६॥ पारिपार्श्वक:- युक्तमेवैतत् । भूपाला उपभोक्तुमक्षमतया काव्याङ्गनाचातुरी चिन्वन्तः प्रमदाजनान्नवनवान्देशाटनं कुर्वते । कृत्वा पापमपीह मूढधनिनो विने यतन्ते पुन भनास्ते कवयो निजोदरकृते कुर्वन्ति तास्ताः कृतीः ॥७॥ सूत्रधारः-मारिष, न विलम्बनीयमस्माभिः । त्वर्यतां प्रसाध- नविधानाय । पारिपार्श्वकः -- तथा। ( इति निष्क्रान्तः।) सूत्रधारः-(परितो विलोक्य। ) अहो रमणीयता वसन्तागमस्य । माकन्दपल्लवरसानुभवोद्गतेन कण्ठेन कोकिलयुवाऽऽह्वयतीव कान्ताम् । भृतश्विरं विचिनुते नवमल्लिका तां सद्याप्रसक्तसुमनोरजसाऽभिरामाम् ॥८॥ ( पुरोऽवलोक्य ।) क एषः? रक्तांशुकाकलितकृत्तशिरोविभागः संदृश्यदेहरुचि चांशुकमादधानः । ताम्बूलचर्वणसुरक्तरदच्छदोऽय- मायाति सत्वरमिहोद्धतलोलवेत्रः ॥९॥ ( विचिन्त्य ।) अयं खलु मे मातृष्वस्रीयः सौगन्धरः शृङ्गारशेखरभूमि- कामादायेत एवायाति । तदनन्तरकरणीयाय यतिष्ये । (इति निष्क्रान्तः।) प्रस्तावना।

शृङ्गारशेखरभाण. ( ततः प्रविशति यथानिर्दिष्टः शृङ्गार शृङ्गारशेखरः- ( र बाष्पगद्गदम् ।) प्रियां लब्ध्वा कान्तां चिरतरकृतैरुद्यमचयै- यंदा प्रेमालापानहह कृतवान्कर्णनिकटे । सहस्रांशुधैरो ह्युदयति भृशं चण्ड इति सा विधुन्वाना हस्तं चकितचकिता विद्रुतवती ॥१०॥ (म्मरणमभिनीय।) शिञ्जनपुरमिन्दुविम्बवदना मन्दं यदायात्पुरा मन्दसेरमुखेण रागविवशा यन्मामपश्यच्च सा । पार्श्वे यच्च शिलातले पुलकिता हृष्टा न्यषीदत्पुन- यचाटूनि वचांस्यवोचदथ सा तन्मे मनः कृन्तति ॥११॥ ( सास्त्रम् ।) पश्याम्यनङ्गविशिखाकृतिकां च कान्ता- माकर्णयामि मधुराणि वांसि तानि । ( पार्श्वतो दृष्ट्वा ।) नष्टा पुनर्नलिनपत्रसमायताक्षी त्वासादयेयमबलां कथमद्य दीनः ॥१२॥ (आकाशे दृष्टिं बचा।) अनूरुसारथे, किं मयाऽपराद्धं नाम ते? यत्प्रध्वंसयसि मे सुचिराभिलषितम् । स्पृशसि करैर्दिग्ललनाश्चुम्बसि नलिनी च जातमात्रस्त्वम् । विघटयसि किं दुरात्मंश्चिरलब्धां तां तु बिम्बोष्ठीम् ॥१३॥ (सक्रोधम्।) भवतु, पश्यामि तावदद्य ते साहसम् । श्वस्तवोद- यात्मागेव यदि तां नाधिगच्छामि, नाहं शृङ्गारशेखरः। भवतु, साधयामि । (इति परिक्रम्य, परितोऽवलोक्य च।)

शृङ्गारशेखरमाणः।
रमणीयेयं क्षणदावसानवेला । संप्रति हि,
शीतांशुश्वरमाद्रिशृङ्गमयते तेजोविहीनः स्वयं
प्रेम्णाऽऽभुज्य कुमुद्वतीं प्रियतमां तारा अनादृत्य च ।
प्राच्योऽयं तु समीरणः स्तबकसलीनान्विरेफवजा.
नुत्सार्य स्वयमेव चूतलतिकां गाढं समालिङ्गति ॥१४॥
( पुरो दृष्टा । ) क एष कटिनिबद्धसमुद्धतधवलवसनः सर्वावयव-
समुल्लसिततनूरुहः कृत्तकेशपाशश्चकितचकित इत एवाभिवर्तते ।
( निपुणं निरूप्य।) कथं हेमगुप्तस्य तनयो मित्रवर्धन एव ।
भवतु, एनमालापयिष्ये । ( इति परिक्रम्य । ) प्रियसख, कुत्र वा प्रत्यूष-
समये प्रस्थितोऽसि ? सभयं किं ब्रवीषि? "मा शद्धं कुरु" इति ।
( खगतम् । ) कथमेष भृशमुद्विग्नः । (प्रकाशम् ।) सखे, सर्वकार्यक्षमे
शृङ्गारशेखरे स्थिते किमर्थ विभेषि ? यो वा को वा भवतु, हस्त-
तलेनैव निहन्याम् ।
भित्तयः शतसहस्रिका मया लविताः कुलवधूकृते सखे।
घातिलाश्च पतयः पराशता मुष्टिभिस्तु मम धीरसत्तमाः ॥
ततो विसन्धो भण। किं ब्रवीपि ? नाहमकामय आचार्य-
तनूजां कनकवल्लरीमिति । (स्वगतम् । ) एष किल माधवदत्तसुता-
मुपगतो गुरुणा तेन संदृष्टः प्रहृत इति मन्ये ! सा किल,
प्रमुग्धा लोलाक्षी नवसमुदितैणाङ्कसुषमा
समुत्कर्ष सृष्टः प्रथयति मनोजाम्बुजजनेः ।
खयं यूनो दृष्ट्वा तरलविषमैरेव नयन-
रनूढा दीर्घ सा श्वसिति च समुहुद्धमदना ॥१६॥
(प्रकाशम्।) किं तु तयैव स्वयमुपभुक्तोऽसि ? तर्हि भाग्यवानसि।
पुण्यफलमेव मन्ये यूनां खयमेव कुलवधूवरणम् ।
स्पृहणीयोऽसि सखेऽद्य प्रथितैर्विटशेखरैनूनम् ॥१७॥

६ शृङ्गारशेखरभाणः। सविषादं किं ब्रवीषि? न मया भुक्ता, शृणु यवृत्तमिति । अरे, यथाजात, किं त्वया नोपभुक्ता ? किमु केशकर्तनमेव फलं पाप्तम् ? किं ब्रवीषि? “सा किल पठनकालेषु चिन्तनसमये च कपाटान्तरे विलीना मामेव पश्यन्ती तिष्ठेत् । चिरमित्थंभूतेऽपि गुरु- कन्यकेति भीत्योदासीनतया वर्तमान मामालक्ष्य खिन्नेव ? ह्यः पुनः शिवालयं गतयोस्तत्पित्रोः, आपणं गतेषु सहाध्यायिषु, चरमगिरिम- वरोहति सहस्रमरीचिमालिनि, एकान्ततया पम पार्श्वमागत्य श्लिष्ट पिष्टानि वाक्यान्यभाणीत्" इति । सदृशमेवैतन्मुग्धानाम् । ततस्ततः । किं ब्रवीषि ? " परिज्ञातान्तरार्थतत्त्वे मयि, रात्रौ दशमघटिकायाः परं यात्रिकगृहबहिर्वेदिकायां संकेतितं स्थानम्" इति । उचित एव स्थलविशेषश्चौर्यरतस्य । ततस्ततः। किं ब्रवीषि? “निशा- मुख एव भुक्त्वा क्षणमपि कृच्छ्रेण युगवन्नीत्वा, प्रसुप्तेषु सर्वजनेषु, गाढान्धकारेण समावृते नमसि, मन्दं मन्दं चलन् गृहबाहिर- मासाद्य, कपाटमनर्गलं दृष्ट्वा, परां तुष्टिमुपगतः पश्यन्नेव परितो मन्दं मन्दमभिसरन्संकेतवेदिकामासादयम् " इति । सखे, धीर- तरोऽसि । ततस्तत.। किं ब्रवीषि ? कचग्रहणाननुवेद्ये गाढे तमस्युपविशजानुभ्यां शोधयन्मार्ग हस्तेनैव, प्रकम्पितशरीरः शनैरुपागमं यावता, तावदालग्नं करे मम पदयुगलम्" इति । भाग्यवानसि यल्लब्धं नवनीतम् । ततस्ततः। साश्रुनेत्रः किं ब्रवीषि? नासादितं नवनीतम् । शृणु यवृत्तम् । सपद्येव सकौतुकेन मया जानुनि न्यस्ते हस्ते, पादेन खलु भृशं वक्षसि संताडितः पार्श्वे न्य पतम्" इति । कष्टं कष्टम् । सा किं धूर्ता त्वां प्रलोभ्य शिक्षितवती' कुलस्त्रियस्तु परं न विश्वसनीयाः । सस्पृहा इव वीक्षन्ते प्रलपन्ति च सादरम् । गम्यते यदि पार्श्वे तु घोषयन्ति खरा इव ॥१८॥ “

शृङ्गारशेखरभाणः ।
भवतु, अपांसुला भवितुमिच्छन्ती किमर्थं संकेतस्थानमधि-
गतवती ? किं ब्रवीषि ? " मा त्वरस्व । विषयमवधेहि । उत्थातुं
कृतोद्यमे मयि सक्रोधमेकः कचं गृहीत्वा मां सुदूरमाकृष्य वैद्युतं
दीपमुज्ज्वाल्य मन्मुखं वीक्षमाणः 'रे धूर्त मित्रवर्धन, अकिंचन
इति जनान्वश्चयन्नाकण्ठमपि भुञ्जानः सर्वेषु गृहेषु, शिवालयपरि-
चारिकामनुभवसि । साधु रे धूर्त', इत्युदीरयन्नेव कटिनिहितेन
कृपाणेन मम शिरोरुहान्कृन्तन् ‘गच्छ रे पाप, इयं दुष्टा वराकी
जर गर्दभी, मद्दत्तांस्तस्करिततण्डुलानन्यांश्च तैलादीन्यथेच्छं विस्रब्धं
भुक्त्वाऽन्येन केनापि सुदृढं भुज्यत इति चिरेण समदिहि । स एव
त्वमद्यैव करग्राहं गृहीतः। मय्यपि महाशनशिवद्विजे ते साहसं
दर्शयासि' इति संघुष्य संताड्य बलवत्कपोले, पदा च मामभिहत्य,
क्रुधा मां निष्कास्य, कपाटं च सारवमर्गलयनन्तर्गतः। अहमपि
यावद्रजनीं सुदूरेण तिन्त्रिणीमूल एवं संगृहितशरीरो निलीनः प्रभा-
तमनुचिन्त्य भीतभीत इत एवागच्छामि " इति । अरे विधिनेमां
गमितोऽस्यवस्थाम् ।
नियोजयत्येव विधिः कुकर्मणि
प्रदत्त एतेन महत्फलानि च ।
संताडयत्यन्यमनात्तकामक
दुर्लङ्घनिर्देश इति प्रभाति मे ॥१९॥
यत्तेन सजीव एवोन्मुक्तस्त्वमेतदपि तव सुकृतपरिपाक इति
मन्ये । यता,
सदा द्विजकुलाधमः क्षुरकृपाणपाणिर्बला-
च्छताधिकपराङ्गनाः स हि निषेवते कामुकः ।
न चापि सहते शठः सकृदपि प्रभुक्तं जनं
समीक्षितुमपीक्षणैः परजनानिहन्ति कुधा ॥२०॥

८
शृङ्गारशेखरमाणः।
अपि च,
अहरपि च दिनान्तो यामिनी प्रत्युषश्च
प्रसभवरवधूटीसंगमायैव कालः ।
न च गणयति पुण्यं वाऽपि देशं स मूढो
न च वयसि गरिष्ठां नापि जाति सरातः ॥२१॥
किं ब्रवीषि ? "प्ररोहााय मे केशपाशाय नाहं विषीदामि ।
नापि वा शीलक्षयाय । कथंभूता कनकवल्लरीत्येव मानसं मे परित-
प्यते" इति ।
उचितमेव स्वयं कृतानुरागायां विशिष्टः प्रेमबन्धो नाम ।
मूर्तित्रयकृतानुशासनो भगवाञ्शम्बरशासन एव परिपालयेद्युवतीर्युव-
जनं च । विस्रब्धं गच्छ । ( इत्यन्यतो गत्वा । )
केयं पुरातनमहार्हवसनपरिधाना संसेचिताङ्गारकातिर्मामे-
वाभिवर्तते ( निरूप्य ।) कथं मजुभाषिण्याश्चेटी सरमा! कुतः
सत्वरमायाति । ( उपसृत्य । ) अयि सरमे, अपि कुशलं मे प्रिय-
सख्या:?
किं ब्रवीषि?
" कुशलमेव भवादृशानामनुग्रहदृष्ट्या ।
देवी विज्ञापयति-अद्य किल सायं गृहोघाने नूतनडोलाविहार
प्रवर्तिष्यते । देवेन साकं तमुत्सवमासेवितुमभिलषामि" इति । अनुः
गृहीतोऽसि । महाननुरागः किल मयि ते देव्याः। कथय तां मयि
निहितप्रेमानुबन्धसदृशं संभावयामीति । भवतु, किं तव मदन
महोत्सवाः सदनेषु निरर्गलं प्रवर्तन्ते ?
गच्छसि युवानमधनं जरठं बधिरं च पङ्गुमूकमपि ।
पुंभावमात्रतस्त्वं रमसे रमयस्सहर्निशं सकलान् ॥२२॥

2 भृङ्गारशेखरभाणः। सलासितं किं ब्रवीषि? "किमप्यविदितं नाम नास्ति भवताम्" इति । भवतु, सृष्टासि चिकित्सकानां भागधेयेन । साधय मनोरथान् । (अन्यतोऽवलोक्य।) क एष कोलाहलः । अत्र किलाचिरसंपत्स्यमानमदनमहाहव- संसूचकबदरीलिकुचकपित्थफलोपमकुचमण्डला नवयुवत्यः कृत- हस्ततालाः कलं च गायन्त्यः कन्यकामेकां मध्ये संस्थाप्य प्रदक्षिणी- कुर्वन्ति । अन्याश्च प्रगल्भास्तरुण्यः संनद्धतालफलकलशमहीधरा- धरीकरणचतुरकुचमण्डलाश्चर्वितमधुरसुरभिताम्बूलाः परित उपवि- शन्त्यः समोदमनुभवन्ति नृत्यरसम् । सरसः संनाह एतासाम् । हंसपद्मसमाकीर्णस्तटाक इव शोभते। विचित्रकुसुमाकीर्णलतानिष्कुटवञ्च सः ॥२३॥ कथमेताः सत्वरं नृत्यगीतानि समाप्य मामेव सबहुमानं पश्यन्ति । अस्तु, संभावयाम्येनाः । ( इति परिक्रम्य।) सरभसमुपसृत्य सहर्ष कलभाषिणि, किं ब्रवीपि ? " अद्य रमणीयेयं परिषत्तारका- वलिरिव कलाधरेण" इति । स्वभावनियता किल वचसि चटुलता वनजनिदृशाम् । किमुत भवादृशां शतवारसुनीतानां वारवनितानाम् । सिद्धेह वाचि नयने भृकुटीलतिकासु वक्रता सुदृशाम् । तारल्यमद्य चेतसि गात्रच्छविवीक्षणेषु तनियतम् ॥२४॥ किं ब्रवीषि ? "अद्य किल कनीयसी मम कलावती कुसुमिता। ततश्च प्रवृत्तस्तदभिनन्दनविलासोऽद्य विलासिनीनाम् | भवतोऽत्र समागमः कलावत्या भाविभाग्योदयमभिव्यनक्ति" इति । नैतदुचितं नाम। यत्सा, नूनं पशशरेण पञ्चभिरहो आणप्रसूनैरियं लोकोन्मादकते तु शवदहनप्राप्त कुधा निर्मिता।

१०
शृङ्गारशेखरभाणः ।
अप्रौढामपि कन्यकां पुनरिमे दृष्ट्वा प्रमुह्यन्ति य.
मन्ये पुष्पधृतिं नवां युवजनस्योत्फुल्लभाग्योद्गतिम् ।।
किं ब्रवीषि? "
आस्थायात्र ताम्बूलग्रहणेनानुग्रहणीयोऽयं
जनः" इति । किमेतेन वीटिकामात्रग्रहणेन ।
स्नातामिमां तु मुग्धां सरसवचोभिर्मुदा वशीकृत्य ।
बिम्बाधरस्य पानादोष्ठं रक्तं करोमि मे नूनम् ॥२६॥
किं ब्रवीषि? धन्या बालेति । भवतु, साधयामि ।
( इत्यन्यतो गत्वा ।)
क एष नवकोमलपल्लवविलसद्वकुलतरुमूलशिलातल उपविश-
त्रुन्मत्त इव स्वयं प्रलपन्मोदते नितराम् |
( निर्वर्ण्य । ) कथं मम प्रियसख एव! ( परिक्रम्य । ) अरे चन्द्रदत्त,
कथमुन्मत्त इव लक्ष्यसे?
किं ब्रवीषि ? “विटशेखर, अद्यैव त्वां व्यचिन्तयम् । काले
किल समागतोऽसि" इति । किं मयाऽद्य करणीयं ते ? किं ब्रवीषि?
सुखं दुःखं च सन्मित्रैविभक्तुमुचितं प्रियः ।
एकस्य हृदये तिष्ठगिनत्येव हि मानसम् ॥२७॥ इति ।
उचितमेवैतत् । यदद्य किल तव वदनमनुपश्यन्नतर्कितेन
श्रेयसा नियोजितो दैवेनेत्यनुमिमे । येन किल,
शीताश्रुवर्षि नेत्रं पुलकभरेणाकुलं च संहननम् ।
स्फुरितं च गण्डयुगलं शंसति हृदयस्थितं तोषम् ॥२८॥
( निपुणं निर्वर्ण्य । ) अहो कृतभाग्योऽसि । यतः,
वक्षोजद्वयकुङ्कुमाङ्कितमुरो गण्डोऽधरालेपन-
प्रस्निग्धः कटकावलीकिणचितस्त्वंसोऽलसे लोचने ।
पाणिविश्लथ एष शंसति सखे दीर्घ पुनर्यत्स्वयं
तालाकारकुचद्वयीविरचितं सबस्तु वीरायितम् ॥२९॥

शृङ्गारशेखरभाणः। ११ सप्रमोदं कि अवीषि? "पण्डितोऽसि मदनविद्यायां यत्प्रत्यक्षदृष्टमिव वर्णयसि वृत्तम्" इति । भवतु, कया नीतमिदमधिगतभागधेयं शरीरमियन्तं विपर्ययम् ? किं ब्रवीषि? "दीर्घतरमिदं पुराणमिव । संग्रहेण कथयामि तावत् । आलयपूजकस्य महाशनस्य नवोढया भार्यया परिचारिकामुखेण सार्धयामात्परं निशायां गोपुरपुरोगततीर्थसरणिं समागन्तुमभि- प्रार्थितः" इति । उचितमेव निमन्त्रणमिदम् । सा किल, नवार्तवमहोत्सवे युवतिसंघमध्ये पुरा मनोजमपि साक्षिणं विदधती यथा तत्प्रसूः । उवाच शपथेन सा नवनवेन पुंसा पुन- स्त्वनाकलितसंगमा न हि शयिष्य इत्यन्वहम् ॥३०॥ किं ब्रवीषि ? " मया च सत्यप्रतिज्ञेन, अनादृत्य शिवारव- मविगणय्य गाढं तमस्तृणांकृत्य भुजंगवर्ग प्रलोभ्य यातुधानगण- मिवास्थितं यामिकवर्ग मन्दं मन्दं गोपुरमासाद्य तस्या आगमनमा- कलयन्मनस्यचिरमवसम्" इति । सखे, धीरतरोऽसि । ततस्ततः । किं ब्रवीषि ? " तदा किल तटिल्लतिकेव धरणिमासन्ना सश- रीरेव शशधरच्छविः शरीरशुतिभिन्नतमोराशिरेकाकिनी ललना पार्शवस्थितयात्रिकगेहादागत्य परितो दृष्टिं प्रसारयन्ती सोद्वगं चकितचकिता निवर्तितुमारमत" इति । ततस्ततः । किं ब्रवीषि ? "अहमप्यभिसारिका मन्वानस्तां पञ्चषट्पदान्य- नुसृत्य मन्दम् ‘प्रिये' इत्याह्वयम्" इति । सरसोऽयं वृत्तान्तः। ततस्ततः ।

१२ शृङ्गारशेखरभाणः। किं प्रवीषि ? “सा किल सभयं मामभिवीक्ष्यादृष्टपूर्वतया वेपमाना 'आर्य, क्षन्तुमर्हसि । सोदरं विचिन्वती समागताऽहम् । तं तु निवृत्तं मन्ये' इति वदन्त्येव गन्तुं समुद्यता" इति । पटव्यः किल पङ्कजाक्ष्यः । ततस्ततः । किं ब्रवीपि ? " अहं पुनः 'अयि प्रेयसि, किमु युक्तं नाम रजनीमध्ये मामेकमभिज्ञायापि विहाय गन्तुम् । भृशकातरश्चन्द्र- दत्त इति किल घण्टाघोषः पौरेषु । अहमपि मम सोदरीमेव विचिन्वन्संचरामीतस्ततः' इत्यवोचम्" इति । पण्डितः किल परवश्व- नायाम् -- ततस्ततः । किं ब्रवीषि? “सा क्षणमिव निपुणं मां निर्वर्ण्य कथं त्वं चन्द्रदत्तः। अरे जाल्म विटशेखर, मदनविद्यापारंगत इति श्रुतोऽसि । चिरेण त्वामधिगन्तुं यतमानाऽपि नासादयम् । देवेनाद्य गमितोऽसीति वदन्त्येव गाढमालिङ्गन्ती कर्षन्ती सुदूरमधिगत्येदं शिलातलं पात- यित्वा मामधः, तरलनयनं ताम्यन्मध्यं तिरस्कृतभीतिक चलितचिकुरं चण्डोत्कम्पाकुलाङ्गतटिल्लतम् । क्वणितमणितं क्लिश्यद्वक्षोजतुङ्गमहीधरं रभसरभसं तन्वी चक्रे तदा पुरुषायितम् ॥३१॥” इति अरे धन्यस्त्वं यदनुकूलविधिरसि । ततस्ततः । किं ब्रवीषि अविरतरतिकेलीश्रान्तचित्तेन्द्रिया सा तरुमिव नववल्ली गाढमालिङ्गय मेङ्गम् । चिरतरमपि सुप्ता निश्चला चञ्चलेव प्रणयभरवशेन प्रीतिभूम्ना च तन्वी ॥३२॥ इति । प्रियसख, इतः परमासादनीयं किमारते ?

शृङ्गारशेखरभाणः । १३ सुरतावसानवेलाक्लान्तिभरेणाकुलां तु तन्वङ्गीम् । उद्वहति चेदवाप्तं यूना तजन्मसाफल्यम् ।।३३।। ततस्ततः । किं ब्रवीषि? चिरतरमपीत्थंभूते, अरुणकिरणजालेरावृतं व्योम दृष्ट्वा चकितचकितचेता धुन्वती दोर्लताग्रम् । प्रसभमपि च बन्धान्मोचयित्वाऽश्रुनेत्रा स्खलितचरणपद्मा गच्छति सामनस्का ।।३४॥ तचिन्तयतो मे कम्पते शरीरम् । पश्यन्ती सा प्रणयपिशुनैर्दीर्घदी(रपाङ्ग- मन्दं मन्दं स्खलितवसनं कुर्वती च स्तनाग्रे । उद्युक्ताऽपि प्रलपितुमनीशा पुनर्गद्गदेन प्रेम्णाऽऽक्रान्ता निरगमदहो केवलं त्वङ्गकेन ॥३५।। इति । इदं परमसह्यतरं कुलाङ्गनानाम् । ततस्ततः। किं ब्रवीषि ? "अहमपि तस्या विरहमसहमानस्त्वरितमनुसृत्य 'प्रेयसि, कथम- गतिकं मां परित्यज्य गन्तासि ? यत्र कुत्रापि वा निलीनौ रस्यावहे, तिष्ठ तिष्ठ' इत्यवोचम् । सा पुनरंसे मम विन्यस्यन्ती करपल्लवं निश्वसती दीर्घम् 'हा प्रिय! अहं किल माधवदत्तस्य दुहिता कनकवल्लरी । मम पिता किल अविज्ञातनारीनिसर्गः, ऋतुमतीमपि मां न प्रादात् । चिरेण त्वामौषम् । अद्यैव च संगता कृतकृत्यासि। अद्य च रात्रौ त्वामत्रैव प्रतीक्षे। स्नानाय पुनरागच्छेयुरत्र नागरिकाः । गच्छा- न्यतस्त्वरितम् । मुश्च मामित एव' इति वदन्त्येव विद्रुतवती। तामेव ध्यायंस्तदेव चिन्तयंस्तद्विरहेण च परिदूयमानः प्रलपत्रहमपश्यं प्रियसखम्" इति । किं कनकवल्लर्येव सा! दुर्निरूपं हि विधिविलसितम् । --- VUODISWAMI SASTRY

१४
शृङ्गारशेखरमाणः।
घटयति फलमेकस्य प्रहरत्यन्यं विधिस्तु दुर्ललितः ।
यान्ती पुनरन्यस्मै भुक्ता भवता सुशिक्षितः सोऽयम् ॥३६॥
अरे, धन्योऽसि नवयुवतीसंगमेन। प्रतीक्षस्व दिनावसानम् ।
( इत्यन्यतो दृष्ट्वा।)
का नाममाः परिष्कृतचिकुरविन्यस्तार्धचन्द्राकारदान्तवलयाः,
लम्बमानधम्मिल्लार्धविराजमानचमरीवालसदृशकेशपाशरमणीयाः,सं-
दर्शनीयबाहुमूलकुचपरिणाहसूक्ष्मकञ्चुकधारिण्यः, कान्तिझरगोपन-
भीत्येवैकमेव कनकौवेयकं दधानाः, नयननिहितकनकोपनेत्राः,
प्रकोष्ठपरिकलितघटिकायन्त्राः, करलम्बितकुरङ्गचर्मभस्रिकाः, चरण-
निहितकौशेयपदत्राणाः संघशः,
पादलम्बिसितचेलभूषिताः
पुस्तकैश्च विनिगृहितस्तनाः।
मन्दमन्दमधरोदिताशया
अत्र यान्ति ललनाः समन्ततः ॥३७॥
( निरूप्य।) विद्याशालामनुप्रयान्ति विशालाक्ष्यः ।
असे कृत्वा करकिसलयं पार्श्वगाया युवत्या
मुग्धा वामाः सरससरसं संलपन्त्यः सहर्षम् ।
विद्याशालां कुतुकरभसं संप्रयान्त्यो मनो मे
कर्षन्त्यम्भोरुहसुरभयः षट्पदानामिवालिम् ॥३८॥
एताभिः सहाध्ययनं परण पुण्येन भाव्यं युवमाणवकानाम् ।
यत,
कुचाग्रमिह संस्पृशंश्चलति संघसंघर्षितः
कदापि भुजमूलमप्युपसमीक्षते सस्पृहम् ।
रहस्यपि च संलपत्यहह संशयच्छमना
बधूपरवशीकृतिः परमहो समभ्यस्यते ॥३९॥

शृङ्गारशखेरभाणः। १५ कैषा सहाध्यायिनीकरग्रहणान्मोचयन्ती ममाभिमुखमायाति । ( निरूप्य।) कथं मम वर्षमात्रकलत्रस्य कनकलतायाः कनीयसी कीरवाणी। किमियमियन्तमापना वेषव्यत्यासम् । दृश्यन्ते न च नूपुराणि चरणे नैव प्रकोष्ठे पुनः सप्लाष्ट ग्रथितानि हैमवलयान्यङ्गे हरिद्रारसः । मुक्ताचम्पकमालिकाश्च न गले चूडामणि कचे वासः सूक्ष्मतमं च केवलमियं कान्त्या परं लक्ष्यते ॥४०॥ अपि च । श्वेतद्वीपसमागतललनेवेयं प्रसाधिता तरुणी । आजानुलम्बिवसनाऽप्यकरं परमद्य कञ्चुकं दधती ॥४१॥ अयि कीरवाणि, किं त्वयाऽप्यभ्यस्यते साधारणजनैरिव केवलमियं विद्या? स्रीत्वेनैव पिकीयं प्रलोभ्य काकी प्रसूत इह पोतम् । किं विद्यया युवत्याः कुशलायाश्चापि वेशवृत्त्यां ते ॥४२॥ किं ब्रवीषि ? कथमिमां चटुलां मन्यते भवान् ? यदि द्रष्टासि पुनरध्यापयित्रीं वेत्तासि कौशलं स्त्रीणाम् । संलम्बिस्तनमण्डलाऽपि वसनैरारोहयन्ती दृढं मुग्धेव प्रतिभाति विंशतितमं स्वस्या वयो वक्ति सा। पातिव्रत्यमनारतं समुपदिश्यासान्विटैगच्छति प्रायस्ता गणिकाजनस्य नियतैर्जीवन्ति वे वर्तनः ॥४३॥ अपि च, अन्तर्धत्वा कलुषकलुषं चांशुकं दीर्घरोगाः संधार्यापि प्रतनुललितं चेलमाडम्बरेण । गन्धोन्मित्रैर्वदनमुकुलं लेपयन्त्यः परागै- इत्वा चेतस्त्ववलमनसामर्जयन्त्याशु वित्तम् ! ४४॥ इति ।

१६ शृङ्गारशेखरभाणः। तर्हि ताभिः किमिव साधयिष्यसि ? ( इत्यन्यतो कथमुपगतोऽहं वेशवाटिकाम् । कुसुमगन्धपरागककञ्चुलीकनककङ्कणविक्रयशालिभिः । अनुगृहं च गतागतलालसैः परिवृतः परवञ्चनपण्डितैः ॥ कैपा मां दृष्ट्वाऽन्तरुपयाति । ( निर्वयं । ) कथं पिकभाषिणी । प्राक्तनेनाल्पागसा भृशममर्षिता । भवतु, उपसरामि । ( इति परिक्रम्य ।) प्रिये, किमद्यापि ते कलुषितं मनः ? सरोषं किं ब्रवीषि ? "गच्छ गन्छ यत्रास्ते खरकण्ठी" इति । ( स्वगतम् ।) व्यत्यस्तगुणगणा अपि वितरन्त्योऽङ्गानि विटनटानां च । रोषामर्षादिगुणैरनुकुर्वन्त्येव किं सती वेश्याः ॥४६॥ ( प्रकाशम् । ) प्रिये, किमल्पोऽप्यनल्पीक्रियते भवत्या । किं ब्रवीषि? सा किल बहुमता भवतः। किमत्र वृथा संलापेन । गच्छ यथेष्टमिति । (स्वगतम् । ) धर्मसंकटे किल नियोजितवान्पुरा, प्रियसखा शृङ्गारभूषणः। घण्टामेकां कनककलितां मेखलायां निबध्य प्रौढा या वा निधुवनकृतौ ते तु धीरस्य जेत्री । दातव्येति प्रथममदिशत्सा पुनर्मद्विजेत्री दत्तायां किं कलुषितमनाः कुप्यति प्राप्तमेषा ॥४७॥ ( प्रकाशम् । ) प्रिये, त्वयाऽपि किल बहुशः प्रयतितं पणलाभाय । तय पुनः कलकण्ठ्या साधितम् । किं मयि कोपेन ? भवतु, अनन्त पश्यामि ।

3 शृङ्गारशेखरभाणः। १७ ( इत्यन्यतो गत्वा । ) कैषा गृहालिन्दे हस्ते कपोलमावेश्य ध्यायन्तीव लक्ष्यते । ( निरूप्य।) मञ्जुवदना किलैषा। ( परिक्रम्य।) अपि कुशलम् ? किं ब्रवीषि? "कथं कुशलमपि मन्दभाग्यायाः" इति । ( स्वगतम्।) कस्येयमद्य कामिनी। आः स्मृतम् ! कनकमित्रेण मासत्रयं कलत्रीकृता । ( प्रकाशम्। ) किं कनकमित्रेण यथापत्रं दातव्यं न दीयते ? सविषादं किं ब्रवीषि? “किं सर्वेऽपि शृङ्गारशेखराः ? न केवलं दातव्यं न दीयते । कमलमित्रेणान्यैश्च दत्तान्यप्यपहृतानि" इति । जाल्म, किं मजुवदनायामपि ते दौरात्म्यं दर्शयसि ? शृणु तेन पुरा कृतम्। दीनारं द्विशताधिकं दद इति प्रोच्य प्रतिज्ञामयं कल्याणी स तु मासमेकाददाद्भुक्ता पुनर्दीर्घशः । दास्यत्यद्य परश्व इत्यहरहः सा तु प्रतीक्षान्विता नादादेष तु काचमप्यहह संभुज्यापि मासान्दश ॥४८॥ किं ब्रवीषि ? "नाजानामेतावतेममुदन्तम् । ततस्ततः" इति । राकाभार्गववासरोऽयमिति वै यामत्रयान्तं पुनः कृत्वा केलिचयान्स वञ्चकमणिः प्रास्वापयत्तां शनैः । क्लान्ता सा तु तपस्विनी रतिभरश्रान्ता प्रसुप्ता दृढं हृत्वा सर्वमहो कलापनिचयं दुद्राव पापाग्रणीः ॥४९॥ किं ब्रवीषि? "हन्त किं कल्याण्यपि तेन मुण्डिता? ततस्ततः" इति । ततः किम् ? सर्वस्वमपि दत्त्वा सा पुनः काचाय करमुग्नमयन्ती चरति । भवतु, कथय ते कथाम् । किं प्रवीषि ? रूप्यसहस्रं दास्ये प्रतिमासमिति प्रलोभ्य भुक्ताऽहम् । पत्रयुगलं च नूत्नं कञ्चुकषद्कं च हेमतन्तुकृतम् ॥ इति ।

१८ शृङ्गारशेखरभाणः। वचनेष्वपि किं दरिद्रता। भवतु, जरत्यापि न किमयं रूप्याय नियन्त्रितः? किं ब्रवीषि ? "जरती किमिमं विजहाति । प्राप्तमात्रमेनमेषा शार्दूलीव भृशं तुदन्त्यासीत्" इति । ततः कुतो वा स मोचितः? किं ब्रवीषि? “जरत्या यात- नामसहमानः पञ्चदशदिनेभ्यः परमयमेकामन| कनकचम्पक- मालिकां मरकतमणिग्रैवेयकं च प्रादात्" इति । जरत्याः परमो मोदः स्यात् । ततस्ततः । किं ब्रवीषि? न केवलं वृद्धा, अहमपि मुदमपारामाप्त्वाऽकर- वमिममपि विस्रम्भभाजनम्" इति । ततस्ततः । किं ब्रवीषि? "एकदा किल रात्र्यां चिरादुपागत्य 'भूषण- द्वयमपि धनागारस्य निक्षिप्तम् । तदव स्थापयितव्यं तत्र । अतः प्रदेहि' इति निर्बबन्ध" इति । किं वृद्धपिशाचिकाऽपि तमन्वमन्यत? किं ब्रवीषि? "जरत्याः सविधेऽपि किमयमोजायेत? तया क्षणेन निष्कासितः" इति । उचितमेवैतत् । ततस्ततः । किं ब्रवीषि? " महता कोपेन गतः स पञ्चघटिकाया परमागत्य बहिःकपाटं बलवदताडयत् । अन्तरुपविष्टया जरत्य कुत्सितोऽपि बहुधा न निरगात् । अनुकम्पावशेन मया कपाटेपा वृते द्वित्रैः समं सरभसं प्रविश्य वैद्युतं दीपमुज्ज्वलयन्करस्यम् संदर्य कृपाणं तद्दत्तमाभरणद्वयमन्यदत्तान्यपि बहुशो बहुध भूषणानि चापहत्य क्षणादन्तर्दधे," इति । अहो नृशंसता विटजनख ।

भृङ्गारशेखरभाणः। १९ । ) दयनीयासु पिशाचैरपि किं क्रौर्य चरन्ति ते पापाः । विषमा वामा इति तु प्रथयन्त्येते कथं माः ॥५१॥ ततस्ततः। किं ब्रवीषि? “यो वा समागमिष्यतीति पश्यन्ती परितो वसामि" इति । भवतु, श्वः पुनरनर्घया कनकमणिमालिकया त्वां योजयिष्यामि । ( इत्यन्यतो दृष्ट्वा कथं मम प्रियसखी सौधमुखमधिवसन्ती नखमुखैः कुन्तलभ- रमालिखन्ती तिष्ठति । (परिक्रम्य ।) अयि सरसवाणि, अपि कुशलम् ? किं ब्रवीषि ? "कितव मन्दं वद । संनिहिता वृद्धा । भुजंग- श्रुतिः श्रोष्यति" इति । सत्यं भुजंग्य एव जरत्यः । यथा भुजंग्या फणधारिरत्ना उद्वेजयन्तीह परान्प्रकामम् । एता जरत्यः स्वसुताप्रवालपार्श्वे वलन्त्यः परितर्जयन्ति ।। अपि जरती न मर्तुकामा ? अथ व्यस्सरद्वा प्रेतपतिः । सोत्मयं किं ब्रवीषि ? “किमर्थं तां मृतां कामयसे?" इति । प्रिये, धनमेव काजमाणा गमयति धनिनोऽपि रोगिणो वृद्धान् । न च पश्यति सा यूनो निधुवनकुशलांश्च मन्मथाकारान् ॥ किं ब्रवीषि ? "गच्छ त्वरितम् । पश्यति चेद्देयाय तुदेन्मासि- कधनाय" इति । युक्तमेव, भुक्ता पुनस्तु तन्वी मासत्रयमप्यनाकुशला सा। दातव्याय तुदन्त्यां मार्जार इवाहमद्रवं मौनी ॥५४॥ भवतु, किं सरसि तान्दिवसान् ? ?

२० शृङ्गारशेखरभाणः। अहर्निशविभावनाविधुरमानसौ मंततं व्यवायकुशलौ पुनः सुदृढबद्धरागोत्कटौ। प्रनष्टतिलकावलीप्रचुरसंस्रवत्खेदको पुरा ह्यकलयाव ता नवनवाश्च केलीर्मुहुः ॥५५॥ सलजं किं ब्रवीषि? दीर्घकालादपि त्वयैव मनसि धृतमिदं सकलमिति । भवतु, अचिरेणैव जरतीरहितां त्वां पश्यामि । (इत्यन्यतो गत्वा ।) कैषा करकलितचित्रातपत्रा समायाति । ( निर्वर्ण्य । ) कथं मुकुलमालिका! किं कुशलिन्यसि ? धर धवलवसनमार्ये चूचुकमात्रस्य किं नु कञ्चुल्या । अलमिह पुंभावस्याप्यङ्कुरितं ते मुखे मश्रु ॥५६॥ किं ब्रवीषि? "दुष्टवराक, किं प्रहिणोषि वाग्वजं मय्यपि साहसिन्याम् । जाने स्त्रीवेषेण पर्यटन्तं त्वाम्" इति । अयि शुष्कस्तनि! कि त्वया सत्यं दृष्टः । किं ब्रवीषि ? "जाने देव जाने । कृत्वा वक्षसि नालिकेरशकलं बद्धं दृढं ककुकै- धृत्वा चित्रितमंशुक लघुकचं संगोपयन्वाससा । भोक्तुं तां रजनीषु यावनसुतां पुंभिस्त्वदृश्यां परै- गच्छंस्त्वं शतवारमप्यहह रे दृष्टोऽसि पापाधम । ५७॥ अरे वैधवेय, भवतु, तव दुर्वृत्तं यातुधानाय तसै निवेद्य प्रति- करिष्यामि" इति । अयि दुष्टचारिणि, किं वनजम्बुको बिभेति चञ्चलशब्दतः । अहमपि तस्य चेष्टितं द्वितीयगृहिणीरहासमुपभोगं तत्से. व्याय हेमगुप्ताय प्रथममाख्याय तव भर्तरि च तेऽपदानानि संलप्य यथागतं गच्छामि ।

शृङ्गारशेखरभाणः ।
२१
सभयं किं ब्रवीषि? "किं मय्यपि किंवदन्ती जनानाम्?" इति ।
किं जन्मभवनमाहात्म्यं सोदर एव दर्शयसि । अरहस्यानि ते
शीलवृत्तानि ।
कृच्छादेव गृहादवश्यकृतये निर्गच्छसि प्रत्यह
दृष्टिं पादतले निवेश्य सभयं यासीह घुमां पुरः ।
ब्रूषे कृच्छ्रतरेण वामनयनापृष्टा परं भाषितं
दृष्ट्वा काकमपि प्रभूतनिनदं नूनं विभेषि स्वयम् ।।५८॥
किं ब्रवीषि? “तत्कथं मयि वचनीयतालेशस्यापि संभवः
इति। भवतु,
संगोपितमपि वृत्तं स्त्रीणामाकाशमुड्डयेतैव ।
धूम इव सिक्तकाष्ठगवह्वेर्लशुनस्य पूतिगन्ध इव ॥५९॥
शृणु ते पुण्यवृत्तं यावदहं जानामि ।
मल्लीवर्धनमेत्य गूढरमणं नीतं तु वर्षद्वयं
नीतो वर्ष इह प्रभूतधनिभिर्जातिव्यवस्था विना ।
पञ्चत्वं स च यापितो दमनको लब्ध्वाऽपि पञ्चायुतं
ह्यद्य त्वं स्थविरं शिखण्डिवणिज यान्ती परं निर्वता ॥
किं ब्रवीषि? "सत्यमेव वदन्ति वेदान्तिनः प्रपश्चोऽयं
मिथ्यामय इति । यन्मय्यप्येतादृशी जनश्रुतिः" इति ।
अयि, किमर्थं गोपयसि ? सृष्टाऽसि विधिना तस्यैव गूढभार्या ।
यतः।
वक्षोजभारमपहृत्य तवानताङ्गया-
स्तस्योदरे निहितवान्कमलासनोऽयम् ।
तस्योत्तमाङ्गमतुलं पलितं विधाय
षट्सप्तगौरचिकुराणि तवैक शीर्षे ॥६१॥

२२ शृङ्गारशेखरभाणः। किं ब्रवीषि ? "किं यथार्थं मन्यते देवो मिथ्याप्रसारितमिम- मुदन्तमपि" इति । भवतु, का हानिः । (इत्यन्यतः परिक्रम्य।) क एष महाशब्दो निदाघस्तनितमिव भूतलं कम्पयन्नावृणोति कर्णयुगलम् । (निरूप्य । ) कथं बृहदीश्वरः प्रातरुत्सवाय वीथीमलं- करोति। तत एवायं कोलाहलो नागरिकाणाम् । (सादरं पश्यन् ।) निमेषक्रोधोऽसौ रभसरभसं शम्बररिपुं निहत्यायों कामादहह निजवामे कलितवान् । ततः प्रायश्चित्तं रचयितुमिवाभीरतरूणी सहस्राक्षापत्यं च स हि विदधे सूनुललने ॥६२।। किमेते बालका ग्रामीणाश्चासमावृतबदनाः साश्चर्य पश्यन्ति । भवतु, पश्यामि । अहो! क्वणड्डमरुमर्दलप्रचुरनिःस्वनःस्फुरद्- द्रुतादिगतिभेदसंकलितपादविन्यासकम् । मृषाचरणवाजिनं मुकुरखण्डिकामण्डितं स्वलंकृतनरेरितं सकुतुकं प्रपश्यन्ति ते ॥६३।। किमेते युवानश्चपलाश्च वृद्धाः परिवृत्य तिष्ठन्तः समुन्मीलितनयनाः पश्यन्ति । ( उपसृत्य । ) आः! अत्र किल प्रवर्तते नाट्यम् । अनङ्गलता किलामिनयति । दृढं बढ़ा चेलं पदयुगलशिञ्जन्मणिगणा प्रगायन्ती मन्दं सुषिरपणवातोधमधुरम् । करौ तत्तद्भावानुगुणमधरीकृत्य चतुरा भुवा नेत्रेणापि प्रथयति परं भावमखिलम् ॥६४॥ ( निरूप्य ।) कथमेकान्तबाससुखमनुभवति मगवान्हदीश्वरः। ( अन्यतो दृष्ट्वा ।) 1 ) शागरशेखरभाणः। २३ परिवार्य वारवनितां परितस्तिष्ठन्ति सादरं तरुणाः। पलितकचा जरितमुखाः पुत्रै लश्च मुग्धवनिताभिः ।। किंमत्र तरुण्यः सवयोभिः साकमङ्गुलीनिर्दिश्य सोत्साह संलपन्ति । अर्धावगुण्डितशिरोरुहरम्यवक्त्राः संदर्शनीयतरकच्छनितम्बभागाः । हस्तार्धसंकलितकञ्चुकभूषणैश्च दृश्यास्तु गूर्जरयुवत्य इहावभान्ति ॥६६॥ (अन्यतो विलोक्य।) एताः पन्नगभोगसोदरतुलाकोटित्रयाभूषिताः संसिक्तान्कनकेन पश्च कटकान्संधारयन्त्यः करे। आपाश्र्वावृतदृश्यकच्छवसनाः फालस्फुरत्कुङ्कुमाः संदृश्यस्तनमण्डलाकलितसंव्यानाः किलान्ध्राङ्गनाः ॥ दृष्टा। ) दृष्टेरिदमामिषम् । धवलवसनमेकं धारयन्ती नितम्बे वसनमपि च सूक्ष्मं हाटकान्तं कुचान्ते । प्रसृतकचकलापा जानुनि स्वर्णकान्ति वितरति मम मोदं केरली केलिधीरा ॥६८|| ( अन्यतो गत्वा।) चेलं महाचं पुनरादधानाचोलाङ्गनाश्चित्रमटन्ति पार्थे । शिरोरुहाभावनिगृहनार्थ धरन्ति ये पुच्छमहो चमर्याः ॥ कथं क्षणत एव सुदूरं गतः परमेश्वरः । ( निर्वर्ण्य । ) नमोमध्यमारूडो दिनमाणिः। (अन्यतो २४ शृङ्गारशेखरभाणः। सेवन्ते तरुकोटरं परभृताः स्वस्वागनाभिः समं खादन्तो नवशावलं च हरिणाः शीतं परं निष्कुटम् । नूनं नृत्यकलामिह प्रथायितुं न्यग्रोधकं केकिनः संकेत कुलटाः समीरणसुखास्वादस्य च च्छमना ॥७०॥ अतो देवालयपरिसरगतमुपवनमधिष्ठाय तपनातपखेदमपोह- यिष्ये । ( इत्युपवनप्रवेशं नाटयित्वा । ) ( सुखमभिनीय। ) सरसोऽयमभिनिवेशः। नीरन्ध्रद्रुमशीतलो निधुवनक्रीडानिकुञ्जावृतो निष्यन्दामृतपानमत्तमधुपव्यूहारवालंकृतः । निःसीमोत्थितफुल्लमल्लिकुसुमामोदाहरन्मारुतो नूनं निष्कुट एष नन्दननिभो मां नन्दयत्यन्वहम् ॥७१॥ दृष्टा ।) शीतश्वेतजलाशयः पुनरयं शीतांशुधारारुचिः शालीनेक्षणकामिनीविरहहत्तापव्यपोहक्षमः । शिल्पाकल्पसमुच्चयाकलितसत्पद्याभिराभूषितः शान्तं मे हृदयं करोति शशभृद्वक्त्राभितप्तस्य च ॥७२।। (पावतो क एषः! स्वेदक्लिनशरीरः सीत्कारेण व्यपोहयंस्तापम् । आयाति गृहिताङ्गः कोमलगानः करातकरवालः ॥७३॥ कथं स्यमन्तक एव ? अहो, दिष्टया त्वां कुशलिनमवलोकये। राजन्यकुलवामाक्ष्यां यत्त्वं व्याप्रियसे दृढम् । अवेहि तत्त्वदन्ताय विषमिश्रं यथाऽऽभिषम् ॥५४॥ ?

4 शृङ्गारशेखरभाणः। २५ किं ब्रवीषि ? "राजन्यो वा स भवतु ! उत वा खयं राजा । किं कुर्यात्स कृपाणपाणिमपि च हरिणप्लुतेन पलायमानम्" इति । भवतु, राजन्यगृहेष्वेव निशीथे स्थितं वयस्येन ? किं ब्रवीषि? न हि न हि । चिरमपि राज्यां द्वियामावधि परिसरवकुलोद्याने तिष्ठन्नपि यथा संकेतितं यदा तां नाध्यगच्छं दीनमनाः प्रतिनिवृत्तः। इतिकर्तव्यतामूढमनसि मन्दं मन्द- मुपयियासति मयि, शिवालयस्य परिसरे एका किल तरुणी गाढान्धकारे तिष्ठन्ती मां दृष्ट्वा 'आर्य यत्किंचित्किल मगृहमागत्य भवद्भिपकर्तव्यम् ' इत्यभाणीत् । परियूनां तां दृष्ट्वा दयमानहृदयः किं कर्तव्यमिति पृच्छन्नेव परिसर एव तहमासादयम् । तत्र किल ललनेयं निर्मनुजे गृहेऽन्तर्गृहमानाय्य, भृशमपि परितुष्टा नूतनाप्तेन यूना परवशहृदया मां पातयित्वा च तल्पे । अरचयुदथ केलीः प्राप्तपुंभावशीला प्रबलतरशरीरा कामुकी केलिधीरा ॥७५।। रसवदिदं वृत्तम् । । ततस्ततः । किं ब्रवीषि? "चिरेणाप्यपूर्णकामा मां वीक्ष्य खिन्ना पति- समागमकालोऽयं गच्छ त्वरितमित्याभाष्य करेण मां संगृह्य 'प्रिय, श्वो निश्यवश्यमागन्तव्यम् , कदापि न विस्मरणीयमिदं महाशन- द्विजस्य गृहमिति पुनः पुनः प्रार्थयन्ती आगृहद्वारमनुगम्य विसर्ज- यामास । अहमपि निशामेव प्रतीक्षमाणो यत्र कुत्रापि संचरन्प्रिय- सखमद्याद्राक्षम् सखे, तस्यां पिशाचिकायां किमु लग्नोऽसि । अतिविस्मयनीयोऽसि यचं सप्राणो विमुक्तः । किं ब्रवीषि ? कया निर्वतो वयस्यो ह्यो निशीति । सखे, व्रणे किल तप्तसूचीमानेडयसि । " इति ।

शृङ्गारशेखरभाणः।
किं ब्रवीषि? कथं वयस्यो भृशं खिन्न इव" इति ।
अवधे दन्तम् । द्वित्रदिनेभ्यः किल पूर्व सकलभुवन-
मण्डलमण्डनायमानं काञ्चीनगरं विषधराशनवाहनं वरदराजमासे-
वितुकाम उपयातः।
किं ब्रवीषि ? अरे कितव, किं भगवति निरर्गला भक्ति-
निरगलत्ते हृदयकोशात् ।
विन्दन्ति देवं गरुडाधिरूढं संद्रष्टुकामा इव पत्तनं तत् ।
गच्छन्ति नूनं मधुपानमत्ता मुग्धाङ्गना एव तदुत्सवेषु ॥ इति ।
भवतु, यथेष्टं मन्यस्त्र प्रयात एव च मयि, अस्त-
शिखरशेखरीभूते सवितरि, महोत्सवदर्शनागतनानानगरनरनारी-
मणिभिरावृतासु नगरवीथीषु दीप्यमानैः शतसाहस्रकैद्युतदीपै-
स्तारागणालंकृते नभोमण्डल इव विराजमाने भुवनमण्डले, क्रयविक्र-
यणच्छलेन संघसंघशः सर्वतः समलंकृत्य संचरत्सु प्रमदाजनेषु,
तदीक्षणमार्गपरेषु द्वित्रिशोऽनुगच्छत्सु युवजनेषु, संकेततलनिश्च-
यव्यापृतेषु पूर्वपरिचितेषु, नवपरिचयाय विटसार्वभौमेषु वीक्षण-
वागुरां सृजन्तीषु वक्षोजशालिनीषु, नवयुवतीषु नयनाय नवागताऽ
नानानागरजनं मृगयमाणासु दृतिकासु, वाणिज्यव्याजेन विपणि-
मुखमागत्य विविधमालपन्तीरिवनिताः सादरं वाचालयत्सु वयास्थ-
पण्यानुजीविषु, दिक्षु विक्षिपन्नक्षियुगलमनतिरभसमहमचरम् ।
किं ब्रवीषि ? " युक्तमेवैतत् । तत्रैव किल सर्वमुपनतं भवति ।
ततस्ततः" इति ।
तदा किल,
मुग्धा वामा मदनधनुषो विच्युतेवेषुरागा-
न्मन्दं मन्दं मधुकरकचाक्लप्तचित्रप्रसूना ।
पश्यन्तो यां परवशहदः पार्श्वभागे युवानो
याता यादःपतिसमजनव्यूहमध्याभिसंस्थाः ॥७७॥

शृङ्गारशेखरभाणः । २७ किं ब्रवीषि? ततस्ततः इति । नैकव्याजानुयायिविटजनानुकर्षणक्लान्तेव मन्दं विन्यस्यन्ती चरणे मदन्तिकमुपागता क्षणमिव मां निर्वर्ण्य सानुरागमीक्षमाणा पदगलितमिव नू पुरं समीकुर्वन्ती तस्थौ । किं ब्रवीषि ? स एव किल सारसाक्षीणां छलविलम्बनप्रकारः। ततस्ततः। अहमपि तदीयसितवदनसरोजवीक्षणमात्रेण क्षणमवि- ज्ञातशरीरो विस्मरन्प्रपञ्चं विभावयंस्तन्मुखमण्डलमेव सकलमपि कुव- लयमतिष्ठम् । किं ब्रवीषि ? दर्शनादेव कुसुमितानुरागौ जम्पती! ततस्तत इति । चिरेणापि प्रतिष्ठामापनः पतिबन्धुजनपरिवृतामालक्ष्य खिन्न- हृदय इतिकर्तव्यताविमूढस्तन्निहितदृष्टिरभवम् । कि ब्रवीषि ? पतिबन्धुजनाः परमतिमात्रं पङ्कजाक्षीहरिण- ततीनां पञ्चाध्या एव । ततस्तत इति । सा तु मामेव सस्पृहमवलोकयन्त्यपि पतिजनसमाहूता प्रस्थिता । क्षणेन निर्वापिते वै ते दीपनिचय इवान्धकारमग्नमखिल- कुवलयमाकलयताऽन्वगामि मया च । तादृशं च मामुपलक्ष्य स्वावास- मावेदयन्तीवासकृदभिवीक्षमाणा द्वित्रवीथीरतिक्रम्य खगृहद्वार- मुपेत्यान्तराविष्टेषु सहानुयायिषु व्याजेन दूरादुपस्थितं माम् , वृषभ चर यथेष्टं पत्तने वा स्वतन्त्रो वस कितव भुजङ्गादर्शितो निष्कुटे वा । इह किल निशि मध्ये कंधरे बन्धयिष्ये करकिसलयरज्जु शाहलासेवनाय ॥७८॥ इति वदन्त्येव बलवदाह्वानरवमाश्रुत्य ससंभ्रममन्तर्गता। किं अवीषि? अन्यादृशमेव कौशलं कामिनीनामिति ।

२८ शृङ्गारशेखरमाणः। अहमपि तद्भावं विज्ञाय सुचिरं वलमानोऽपि तगृहवलय- मनासन्नसुन्दरीदर्शनः प्रतिनिवृत्य पण्यवीथिकां तद्गतमनाश्विरमपि परिभ्रमन्यामान्त एव तदृहपार्श्वमुपरुध्य यावदवालोकयं तावता । स्थालादयस्तदीया दीपयुताः संलपन्ति सवयोभिः । संकृत्यमानहृदयस्त्वशपं तान्प्राणनाशाय ॥७९॥ • सहासं किं ब्रवीषि ? मन्ये भस्मीभूतानसत्प्रियसखशापा- नलेन तान् । ततस्तत इति । अल्पायुषस्ते प्रलपितमेव प्रलपन्तोऽपि अस्मृतकालात्य- याः सुचिरमप्यासन् । मनस्तु मे त्वरयति, माद्यति, खिद्यति, शीर्यते इव, म्लायते च । किमु हन्यामेतानित्यप्यालोचयम् । चिरेण किल ते पापिनः प्राप्तस्वेदाः प्रलापेन निर्वाप्य दीपं प्रस्थिताः शयनागारम् । अहमपि गृहद्वाराभिमुखो मूषकशब्दमपि मञ्जुवदनाया नू पुरशब्दमभिमन्वानः सोत्कण्ठं प्रतीक्षमाणोऽवतस्थे । चिरमित्थं भूतेऽपि नागता सा तरुणी। नूनं प्रलोभितवतीत्यचिन्तयम् । किं ब्रवीषि ? नैतदुचितं नाम भारतीयरमणीषु । वैदेशि- कीनां किल सा प्रकृतिर्यत्तरुणान्प्रियवचनैः परं वशीकृत्य वैद्युत- यानेषु समारोप्य समानीय सुदूरं व्याजेन पुनर्दुर्गतरे मार्गेऽवतार्य सहस्ततालमपहसन्त्यः प्रलोभ्य गच्छन्तीति । ततस्ततः इति । ततः किल कपाटापावरणं श्रुत्वा संविग्रहृदये मयि वीक्षमाणे सा किल मन्दं विन्यस्यन्ती चरणे सचकितमभितः पश्यन्ती गृहालि- न्दादहिरायात् । अहमपि सकौतुकं तदुन्मुखीभूय प्रिये इत्याह- यम् । सा पुनः “मानद, रसालतरुमूले निलीय मामेव परिकाङ्क्ष माणं वातायनमार्गेण भवन्तं चिरेणाप्यपश्यम् । कि क्रियता दीनया? नायमवसरः प्रलपितुम् । पतिरसुतो वर्तते ।

शृङ्गारशेखरमाणः। २९ तञ्जा- ........ पुनरहं मम कनीयस्या आर्तवमहोत्सवाय तज्जानगरमासादयिष्ये " इति वदन्त्येवाश्रूण्यवर्षत् । श्रुत्वा दीनां वाचमस्या दृष्ट्वा च परिभ्लानं मुखपङ्केरुहं भृशं परिघुनः " प्रिये मा शुचः । नगरमेव मम जन्मभुवनम् । नूनं त्वां श्वो द्रष्टास्मि ।" इत्यभि- दधे । सा किल परितुष्टा हस्तेन मामालम्ब्य प्रिय महासदन- वीथिकायां नन्दगुप्तवणिजो गेहे. इत्य|क्त एवान्तरुद्गतेन शब्देन भीतभीता विद्रुतवती । किं ब्रवीषि ? पतिगृहवासो नाम परमसंकटावहः पङ्कजाक्षी. णाम् । ततस्ततः इति । हस्तस्पर्शसमुद्गतपुलकेनाहं भृशं तु तुष्टोऽपि । सर्वस्वनाशमेत्येवाहो कृपणो व्यपीदमुझान्तः ॥८॥ चिरतरमपि तदागमनमभिकाझ्माणो रसालमूल एव स्थितः, उदयगिरिमारोहति भास्वति निखिलनिशाजागरेण परिक्लान्तः, मन्दं मन्दमुत्थाय तद्दिदृक्षातुर इत एवाभ्यवर्ते । किं ब्रवीषि? साहसी किल प्रियसुहृत् । ततस्ततः । तदापणिकगृहमार्तवमहोत्सवं च विज्ञाय भृशं परितुष्टोऽभि- मुखगृहं चिरमधिवसतोऽपि बहुजनसंकुले सा न दृष्टिपथमधिगता । ततस्तु निशामुखे मन्दं मन्दमन्धकारेणावृते नभसि गवाक्षान्तरुत्म- यमाना, यामार्धे पार्श्वनिष्कुटमासादयितुमादिदेश हस्ताक्षेपेण । किं ब्रवीषि ? कुशलिनी किल कमलाक्षी | ततस्ततः इति । अहमपि पर्यन्तोद्यानमासाद्य, सुदीर्घमपि कालं वृक्षालेष्वेव निलीय सर्वतश्वारयंश्चक्षुरभवम् । तदा किल तिरस्कुर्वती तरुण- ज्योत्निकामुत्सयेनैव परितर्जयन्तीव चकोराङ्गना नू पुररवेणैव गृहा- राममासादितवती । तदर्शनमात्रेणैव प्रकम्पितजानुः सघः संविग्न- हृदयकमला स्वेदलिभसर्वाङ्गः स्तब्ध इव मूक इवोन्मत्त इव संवृत्तः।

शृङ्गारशेखरभाणः।
म्वुजा,
क्षणेन धैर्यमालम्ब्य सितमुखाम्बुजमवलोक्य करेण करपल्लवमा-
लम्ब्य पाविस्थितपूनागतरुमूलशिलातलमुपसृत्य,
ऊरौ कृत्वा निवेशं धनकुचकलशेनादरात्पीडयन्ती
मन्दसेराम्बुजास्यां मम गलनिहिताशोकवल्लीप्रवेष्टाम् ।
प्रेम्णा वाचः प्रकुर्वन्नहह किल निशां व्यर्थमेवानयं तां
नापि स्पृष्टं स्तनाग्रं रसित इह न तद्विम्बदन्तच्छदो वा ॥
इत्थमेव मूढे प्रलपति मयि सुदीर्घमुत्थाय सरमसमेषा ।
उदयति सहस्रकिरणस्त्विति सा हस्तौ विधूवती भीत्या ।
अश्रूणि वर्तयन्ती विमनास्त्वरितं गृहाङ्गणं याता ।।८२॥
किं ब्रवीषि ? अहो दुर्विनीतता विधेः ! इति
अहमपि दुर्लभपुनःसमागमा निश्चिन्वन्ध्यायमानरमणीमुखा-
स्मर्यमाणकामिनीवचनमाधुर्यः, तामेव दिदृक्षमाणः पर्यट-
न्वयस्यमद्राक्षम् ॥
किं ब्रवीषि? चतुरा एव प्रायो मूढा भवन्त्युपस्थिते
कार्ये । भवतु, तामद्य निशायामेव योजयिष्यामि" इति ।
कथं नाम साध्यं भविष्यति शताधिकातिगृहजनमध्यगता
तामानेतुम् ।
किं ब्रवीषि? किं जानासि पुंश्चलीनां परममुपकारं करोति
पटनाट्यमिति । कथमिव ?
किं ब्रवीषि?
प्रतार्य पतिमङ्गनाः पटविलासकच्छन्द्रना
प्रयान्ति बहिरेव ता नटविटान्समासादितुम् ।
चिरं समुपभुज्य तान्कलुषितेक्षणाचालसा
गदन्ति धवमन्ततः पटविलाससंभावितम् ॥८३॥

शृङ्गारशेखरबाणः । ३१ शृणु चापरं चेष्ठितं तासाम् । एताः किल वृषस्यन्त्यः छाया दर्शिनीनटिका इव परिभूषयन्त्यः तिरस्करिणिकारुद्धेषु विविक्तेष्वा- सनेषु संकेतितेन जारपतिना सममुपविशन्त्यः, निर्वापितेषु दीपेषु मन्दान्धकारेण मलीमसेषु मण्डपेषु निर्निमेषं नटनं पश्यत्सु नाट्य- रसिकेषु, संलप्य भूरि विविधाश्च कथाः पुराणाः प्रेमानुबद्धहृदया कृतकण्ठहस्तम् । आलिङ्गयत्यथ विचुम्बति केलिलोला बिम्बाधरं कुचतटे कृतहस्तकस्य ।।८४॥ इति । भवतु, कथं तां समानेष्यसि पटनाट्यव्याजेन वा ? सहासं किं ब्रवीषि ? विटसार्वभौम इति नाम संप्राप्यापि कथमिदमप्यविदितं ते ? गृहमार्जनकारिण्यः प्रायः कुर्वन्ति दूतिकावृत्तिम् । तण्डुलमपि तैलादीनहसि लभन्ते च येन कुलवध्वाः ॥ इति विचक्षणोऽसि वश्यविद्यायाम् । कथं वा वशीकुर्वन्ति कुल- योषितामपि मानसमेताः सेविकाललनाः ? किं ब्रवीषि? दारियेण निपीडितां धनचयैर्मुग्धां च चाटूक्तिभि- वीरां कामकलासु धीरपुरुष संयोजयन्त्यः स्वयम् । पुत्र्यास्तूद्भवकारणेन तनयाहीनां चिरायाङ्गनां तोकौघाकुलितां त्वपुत्रजनकं ख्यात्वा वशीकुर्वते ।। इति । प्रियसख, सिंचन्तीव सुधारसं तव वचनाक्षराणि । निशा- मुख एव यदि सा नासादिता, न सप्राणमेनं जनं द्रक्ष्यसि । यतः, mir VIIDDIICWAM SASTA ३२ २ शृङ्गारशेखरमाणः । वायुः कालदिशः किरत्यसदृशं गन्धद्रुमाहेविषं शीतांशुमयि वर्षतीव शकलाशंभुत्रिनेत्रोद्गतान् । सूच्या वेधयतीव कोकिलगणः कूजन्स्वरं पञ्चमं हृत्तापज्वलनं प्रदीपयति मे चञ्चत्प्रसूना लता ॥८७॥ किं ब्रवीपि ? मा शुचः, नूनं त्वामौत्र लतागृहे रजनी- मुख एव तया योजयिष्ये, अनुमन्यस्व दृतिकां प्रेषयितुम् । इति । साधय यावदिनावसानं कृच्छ्रेण प्राणान्धारयिष्ये । कथं स त्वरितं प्रस्थित एव । नूनमेष साधयिष्यति मे मनोरथम् । ( आकाशं निरूप्य।) सह्यातपस्तपनः । नवधनमवाप्य धूर्तः साधून्सक्लिश्य वित्तमदमत्तः । विरते कोशे कोमलशील इवायं चकास्ति दिननाथः ॥८८॥ भवतु, कुत्र वा समेत्य विनोदयिष्ये मदिराक्षीकामुकं मानसम् । (स्मृतिमभिनीय । ) आः स्मृतं मजुभाषिण्या किल दूतीमुखेन डोला- विहाराय सायमभिप्रार्थितः । तत्रैव गत्वा मानसं परितोष. यिष्ये ( इति परिक्रम्य । ) पण्याथिकां खलूपगतोऽहम् । कैषा चेला- पणमुखमधितिष्ठन्ती कलहायते विपणिगतेन साकम् । भवतु, पृच्छामि-( इति परिक्रम्य । ) कथं कमलवदनैव ! चतुरा रतिकलहेष्विति पूर्व विदिताऽसि में तन्वी । दृष्टा पुनरथैव प्रथिता करवचनकलहे च ॥८९॥ किं ब्रवीषि ? "प्रकृतिरेव यूनां युवजनपक्षसमाश्रयणं नाम इति । अयि कमलवदने, कि शृङ्गारशेखरेऽपि युवतिजनविरोध- भावतामारोपयसि । आः कष्टं यच्छ्रुतं प्रियसख्या मुखादपि घोरतरं वचनम् । किं ब्रवीषि? क्षमख । व्यवहारः कश्चित्प्रियसखेन निर्णय इति । कथमिव ? दिया 5 शृङ्गारशेखरभाणः। ३३ किं ब्रवीषि ? " एष किलापणिको ह्य एव पट्टचेलमिदमपुराणं प्रतिज्ञाय बहुमूल्येन विक्रीतवान्मह्यम् । तच्च सूचीकरण कञ्चुकी- कृत्य शुक्रवासर इति निशायामेवाचिरं धृत्वा निर्मुक्तवती । अद्य तु यावद्धारयामि घटिकाधेनैव द्वैधीभूतः । एष तु नूत्न इत्येव शपमानो नेच्छति प्रतिप्रदातुं मूल्यम् । तत्प्रियेण लम्भनी- यम्” इति । अरे आपणिक, किं वनिताजनेष्वपि दर्शयसि ते वाणिज्य- कौशलम् ? किं ब्रवीषि? कथमविज्ञाय निवृत्तमेकपक्षपातितां वहसि ? नूनं चेलमिदं तु नूतनकृतं नूनं दृढं निर्मितं नूनं रूपमपि त्रिधा सुरचितं नूनं न मूल्याधिकम् । इति । अरे घातुक, कथं वा दिनेनैकेनैवेदं द्विधाभूतम् ? किं ब्रवीषि? स्निग्धश्चेत्सदयं प्रपश्यति पुनर्यत्र द्विधा तत्कृतं ज्ञास्यत्यद्य निदानमब्जनयनाकायोद्गतां वैकृतिम् ॥ इति (नाट्येन कञ्चुकमादाय सादरं पश्यन् । ) अयि कमलवदने, नापराधी पुनरापणिकः, क्षणक्षणविजृम्भमाणकठिनकुचभूधरयुगलं ते यौवन- मेव परमपराध्यति । इतः पश्य । पूर्वेधुर्यत्समीभूतं तदद्य किल भामिनि | संवर्धितेन सुदृढं वक्षोजेन द्विधाकृतम् ।।९१॥ तत्कुचकलश समुन्नतिभङ्गाय परमद्य प्रथमतो यतनीयम् । अन्यथा दोषमावहेत् । सायमागत्य ते सदनं समीकरिष्यामि । किं ब्रवीषि? आर्यस्यायं स्वभाव इति । ( इत्यन्यतः परिक्रम्य ।) भवतु।

शृङ्गारशेखरभाणः । कथमत्र सौधिकमेकं परिवार्य तिष्ठन्ति प्रदीपदर्शिन्यः । ( निरूप्य । ) अहो सूचीकरस्य विदग्धता । मुग्धाङ्गनामुपेतां कञ्चुककरणाय मानदम्भेन । सूचीकरः कुलस्त्रियमालिङ्गत्यद्य किं तरुणः ॥१२॥ ( पार्श्वतो विलोक्य ।) क एष करनिहितमानपट्टः सायास इव लक्ष्यते । आः, ज्ञातम् । तिर्यक्तु भूधरकुचां मातुं यत्तः समानतन्तुरयम् । आपार्श्वपूरितकः पश्यति परितश्च लोलनेत्रान्तः ॥९३॥ अरे मूढ, किं परिक्लप्लेन मानतन्तुनैव मातुमेनामुद्युक्तोऽसि । एतस्याः स्तनमण्डलं वलयितुं नालं परो वासुकिः यस्त्रिर्मन्थरभूधरं स ललितं बध्नाति पूर्व दृढम् । किं ब्रवीषि? एषा वक्ति शिलाकठोरकुचभृत्सर्वाः कृताः कञ्चुली- यूंना एव कलेबरस्य न पुनर्मातुं परं पारये ॥९४॥ इति । उद्यतो भव । चिरादपि साधयिष्यसि । ( इत्यन्यतो अहो शाकटिकस्य परैरविज्ञातं वैदग्ध्यम् । भारस्यायं समकृतिमिषादावहन्पार्श्वभागे साध्वीमूलं करिकरसमं जानुनि स्वस्य कृत्वा । पक्षोजाग्रं स्पृशति सततं बाहुपृष्ठेन धृष्टो वाहं वेगादिव स तु तुदन्सारथिः शाकटस्य ॥१५॥ ( अन्यतो दृष्ट्वा । ) कैषा विपणिमुखमधिष्ठाय वलयमादधाति । तटिद्भिरेनां विरचय्य कान्तां मनोजवेघा जनमोहनाय । दृष्ट्वा ।)

शृङ्गारशेखरभाणः। नूनं धरिच्यां स्थितिकारणाय स्तनद्वयीभारशिला चकार ॥१६॥ ( निरूप्य ।) मामेति सा गदन्ती सीत्कारमनारतं च संदधती । ज्ञपयति नवां तु केलि भ्रमयन्ती भ्रूलतां च सखेदा ॥१७॥ वलयमोचनानन्तरं कथमेतौ कलहायेते, पश्यामि तावत् । इत्युपसृत्य। ) अरे वलयवणिक् , किमबलामनाथामेनां तर्जयसि ? किं ब्रवीषि ? "बहूनि वलयानि विच्छिद्य करतानामेव मूल्यमर्पयत्येषा" इति । अयि कुशोदरि, किमु न्याय्यमेतद् बहु धनं व्ययीकृत्यापि विक्रयणस्य विरलतया विद्यमानहृदो वणिजो विलोभनं नाम ? किं ब्रवीषि ? " मन्मुखमविरलं वीक्षमाणेन 'क्व ते निलयः किं ते वयः इति प्रश्नानुमश्निकां कुर्वता अनवधानेन भग्ना- नामपि किं मया दातव्यम् अरे आपणिक, अपि तं प्रियसख्या वचनम् ? कि बूषे ? "न हि मय्यपराधलेशस्यापि प्रसक्तिः ? पश्चदश- वयस्काया अप्यस्या इयन्तं परिणाहमासादितवती कुचमण्डले अष्टा- दशे वयसि कियन्तं परिणाहं संपादयिष्यत इति चिन्ताकुलचेतसा भन्नानि वलयानि" इति । अयि प्रेयसि, अपराधः पुनस्ते कुचकलशयोः किल निष्पतति। किं प्रवीषि? यधेपोऽदृष्टचरयुवतिजन इव मम कुचयुगमेव दृष्ट्वाऽधिगत इयन्तं विलयं यदि पश्यति मत्कनीयसीकुचभूधरं कामवस्था गमिष्यतीति विसये। " इति ।

३६
शृङ्गारशेखरभाणः।
अनुदिनविवर्धमानस्तनगिरिभारेण पूर्वनतकायाम् ।
परिचुम्बितुमिह कृच्छ्रायुवका यत्ताश्च पारयन्ति न हि ॥ इति ।
अरे आपणिक मुञ्चेमाम् । यदि तामानयेत सर्वाणि तव
विपणिगतानि वलयानि भक्त्वा कपालहस्तं त्वां विधास्यति ।
प्रियसखी प्रति किं ब्रवीषि? अयि कलशस्तनि, यथेष्टं गच्छ ।
करधृतवलयानामपि वा माऽस्तु मूल्यदानम् । मा पुनस्तामिहानय
इति । कथमुत्स्मयमाना गतैव ।
( पदान्तरे स्थित्वा । ) किमत्र चत्वरे महान्कोलाहलः ।
चरणधृतकृपाणौ चक्रवर्णमानौ
समबलपरिमाणौ युद्धकृत्यप्रवीणौ ।
कुरुत इह हि रोषादाहवं त्यक्तनीडी
परहनननिबद्धोत्साहिनौ ताम्रचूडौ ।।९९।।
( अन्यतो साश्चर्यम् । ) क्षणक्षणप्रतीक्षमाणकृतान्ताह्वानपत्रि-
कयोरपि मेषयोरयमाहवसमुत्साहः ।
विटनटगणिकाभिः प्रेरितावत्र मेषौ
सरभंसमपि यात्वा पार्श्वभागे च पृष्ठे !
भृशमिह कलुषाक्षौ किंचिदानम्रशीर्षों
विधमत इह रक्तस्राविफालेन मूढौ ॥१०॥
( अन्यतः परिक्रम्य । ) किमत्र जनौघोऽयं परिवार्य तिष्ठन्सादरं
पश्यति ।
कट्या निवद्धदृढकच्छविशेषभीमौ
भीमाकृती सुभृशमांसलबाहुदण्डौ ।
अन्योन्यपातनकृताध्यवसायरूक्षी
पक्रादिमण्डलमिमौ भ्रमतोत्र मल्लौ ॥१०१॥

शृङ्गारशेखरमाणः। ३७ ( इत्यन्यतो दृष्ट्वा ।) एताः किमतेषामायोधनपराणां दर्शनेन । ( किल चमरीदृशः समायान्ति सहाध्यायिनीभिर्विद्याशालायाः। ( निर्वर्ण्य ।) अपाङ्गं साकृतं नवयुवजनं द्रष्टुमसक च्छ्रुतिर्बद्धोत्साहा रतिकलहकेलीषु निभृतम् । स्तनौ यूना दृश्यौ लिकुचफलसाम्यं विदधतौ वयःसंधिप्रेक्ष्यं हरति हृदयं मे वपुरिदम् ॥१०२॥ ( अन्यतो दृष्ट्वा।) अस्याः किल । गतिर्मन्दा पीनस्तनजघनभारेण सुतनो- भृशं भोगीवाद्य स्फुरति मृदुला रोमलतिका । स्तनौ बद्धस्पर्धी शिखरिशिखरेणेव कलितो स्पृहादृष्टिनि प्रसरति भयात्संकुचति च ।।१०३॥ इयं हि, तिर्यपश्यति लज्जयेव सुतनुः पूर्वं युवानं गतं संकोचाद्विमना इवास्त्यवहिता केलीकथास्वादरात् । वक्तुं हृच्छयमुद्यताऽपि वयसा तुल्येष्वशक्ता भयाद् गृहन्ती हृदये मनोजकदनं दीना पुनः पश्यति ॥१०४॥ दृष्ट्वा ।) कैषा निवृत्तातपतया लम्बमानसखीकरपल्लवकलितकरांगाल- मन्दमभिसर्पति तरुमूलमिदम् । गच्छन्ती विजनेऽपि सा पथि वृथा संगोपयन्ती कुचौ गर्वेणैव न लजया कृशतनुर्वस्त्राश्चलेन स्वयम् । स्निग्धैश्वापि सखीजनैः परिवृता मुग्धा पर निर्भये त्रस्यत्येव भृशं प्रवृद्धशरमे यान्तीव वाला मृगी ॥१०५॥ ( अन्यतो ३८ शृङ्गारशेखरभाणः । अहो रमणीयता दिनान्तारुणतपनकिरणपिञ्जरिताया अस्या गात्रलतिकायाः । लावण्याम्बुभिरङ्गनेयमधुना क्लप्ताभिषेकक्रिया नूनं पञ्चशरेण किं नु बलवत्प्राप्तव्यनैजाहवे । सैनापत्यपदेऽन्यथा पुनरियं नूत्नेव भात्यद्य मे नेत्राकर्षणरूपसंपदमला केनेह वा हेतुना ॥१०६॥ शिलातले समुपविशन्ती। एकान्ते परिवीक्ष्य वक्षसिरुही तालोपमा भामिनी संतुष्टा हृदये यथैव कृपणः प्राप्येव वित्तार्णवम् । ध्यात्वा व्यर्थगतं नवं निजवयः सीदत्यशर्माकुला संकीर्णेव वनाग्निना गजसती दीर्घ श्वसित्याकुला ॥ उपसृत्यैनां संलपामि । ( इति परिक्रम्य ।) एषा किल हाटक- मित्रस्य तनूजा हेमाङ्गी वर्षत्रयात्प्रागेव कुसुमिता । नवयुवतीनामयं किल स्वभावः । बालोलतमाऽपि केलिकुतुकैर्मन्दं त्यजन्ती च ता- नस्पृष्टाऽज्ञातशरीरमावविषयैः संकोचयत्यङ्गकम् । प्राप्तुं वा दृढयौवनाश्च तरुणीरप्राप्तधैर्याः स्वयं कालं व्यर्थमहो नयन्ति कलुषा एकान्तमेवाश्रिताः॥ ( अन्यच्च ।) जायन्ते हृदये पुनर्नवनवा भूषाम्बरेषु स्पृहाः प्राप्यापि क्षणभङ्गुरा च भवति प्रीतिस्तु तेष्वन्वहम् । क्रुध्यन्ति क्षणतोऽपि ता भृशतरं त्वव्यक्तमूलं पुनः स्पष्टव्या न लतेति पनग इति प्रोल्लानीया न तु ।। अयि सुलोचने, किमेकान्तमाश्रित्य दीर्घ नियसिपि ?

शृङ्गारशेखरभाणः।
३९
किं ब्रवीषि ? किमविदितं देवस्येति । ज्ञातमखिलं भावे-
नैव । असह्यमिदमनवाप्तपतिसमागमं नामाबलानामासकुसुमानाम् ।
भवतु, कुतो वा न परिणीतासि ?
किं ब्रवीषि? “पुरा
किल मम पिता प्रत्यग्रयौवनामपि मां
राजकीयाज्ञानियमितपरिणयवयोन्यूनां मत्वा न पर्यणीनयत् । अतः
परमन्विष्यन्नपि जामातरमनधिगतस्वाभिलषितवरव्याजेन चिरं
कालमनीनयत् । अद्य पुनरुपयमप्रस्तावोऽपि गाढं सुप्तः" इति ।
भवतु नाम । पतिगृहपातालमुखपतनात्पातुमेव प्रमदाजना-
पश्चशरः पार्थिवाज्ञामेनां परिकलितवानिति मन्ये । अत इत:
परं संचर यथाभिलषितम् । आश्रय गणिकावीथीम् । अनुभुक्ष्व
विटनटसार्वभौमान् । किं वदसि ? स्वैरिण्यः सदोपवासिन्य इति
किल श्रूयत, इति ।
मैवम् । पुरावृत्तमेतत् । अद्य तु,
पटनायकारिधनिनो मृगयन्ते तास्तु पुंश्चलीः प्रायः ।
स्वैरं स्वयमुपभुज्य प्रलभन्ते वित्तमपि ताभ्यः ॥११॥
सोत्साहं किं ब्रवीषि?
अनुगृहीताऽसि । अद्यैव पातिव्रत्यमहादुर्गादात्मानमुपमोच-
यन्ती भवदनुग्रहेण पारदारिकमहासौधमधिरोहामि तावदिति ।
भवतु, पञ्चबाणः प्रतिदिनमेकमनुष्यानुगृह्णातु भवतीम् ।
( इत्यन्यतः परिक्रम्योर्धमवलोक्य ।)
एषा किल सौधमुखमास्थाय प्रसाधयति चात्मानम् ।
इयं वेणीवन्धं विरचयति फुल्लाम्बुजमिव
प्रसूनं वर्णाढ्यं क्षिपति नवमीचन्द्रसदृशम् ।
पुनः प्रक्षाल्यास्यं वरनवसुधाखणनिचयैः
प्रलिम्पन्ती लेपं नवजससं श्वेतमधुरम् ॥१११॥

४० शृङ्गारशेखरभाणः। अपि च, ) ततो धृत्वा चा?रुकवसनमत्यन्तमृदुलं नवं वासः सूक्ष्मं धरति लतिकाचित्रितमपि । उपर्याराद्धत्ते कुचकलशमात्रावरणिकां पुनर्दोर्मूलश्रीविवरणचणं कञ्चुकमपि ।।११२॥ ततस्तु, प्रकोष्ठ सा कृत्वा कनकघटिकायन्त्रममलं धरन्ती वित्तौघं हरिणशिशुचर्मप्रणिहितम् । पदत्राणारूढा करकलितचित्रातपहरा क वा निर्यात्येषा सुतनुरिह किं नृत्यसदनम् ॥११३॥ भवतु, यथेप्सितं साधयत्वेषा । ( इति परिक्रम्य।) इदं हि निकेतनं हरतीव मे नयनयुगलम् ( निर्वर्ण्य । ) लीला- मन्दिरमिदं नितम्बिनीनाम् । भवतु, पश्यामि । ( इति परिक्रम्य ।) एष किल नीलश्वेतसुधासंलिप्तसकलभित्तिकेन सर्वत्र संदृश्यमान- चारुरचितवातायनशतपरिमण्डितेन द्विवभौमेन समावृतः, सुखस्पर्श- नीलरक्तहरितादिकौशेयसमलंकृतसुखासनशतापूरितान्तःपदः, सर्वत्र लम्बमानचित्रपात्रविराजमानसंदर्शनीयच्छदकुसुमप्रतानिनीसहस्रप रिमण्डितः, तत्र तत्र चक्राकारकृतपञ्चषपरमासनपरिवृतः, मध्य- विराजमानवर्णविकृतबडिशविभूषितचतुरश्रसमसर्वसहापरिष्कृतपार्श्व- भागः, नेत्रहारिमुकुरपात्रपरिदृश्यमानमधुमैरेयापूरितान्तर्गृहः, विला- सिनीनां विलासावासः समाह्वयतीव माम् । अन्तः प्रविशामि ( इत्युपसृत्य । )। अहो रमणीयता संनिवेशस्य । नयनमिह दीपसंहतिरबला इव चारु कर्षति द्युत्या । विक्रीडितमिव तासां वल्लीदं सकौतुकं तनुते ॥११४॥ तावत् ।

6
- शृङ्गारशेखरभाणः।
४१
अत्र किल पञ्चषाः प्रमदा हस्तविस्तृतपत्रनिचयमनिमेषं
पश्यन्त्यश्चित्रलिखिता इव दृश्यन्ते । ( निरूप्य ।) कथमिमाश्चतु-
रधिकत्रिशतं नाम पत्रविहारमभिविहरन्ति । उचितैव चित्तापहृतिः।
( इत्यन्यतो दृष्ट्वा ।)
अत्र किल विहरन्ति करकलितकन्दुकविद्राविण्यः कातराक्ष्यः।
( साश्चर्यम् ।)
आजानुलम्बिदृढबद्धदुकूलरम्या
आबाहुमूलकुचमात्रपटं दधानाः ।
उल्लअन्य पार्श्वमभिहत्य च कन्दुकानि
क्रीडन्ति कन्दुकविहारमिहायताक्ष्यः ॥११५।।
पार्श्वतः किल,
दृढनिवद्धनिजावरणोत्थित-
स्तनभराकलितेक्षणमानसाः ।
परित एत्य पर शतमानवाः
सकुतुकं ललितं रसयन्ति ते ॥११६।।
अत्र किल मम मनो विनोदयत्यतासां विहारः।
संनमस्तनमण्डलं पुनरियं प्रोन्नामयन्त्यंशुकैः
क्रीडत्याससुमेव कन्दुकमहो पश्चाशदग्दान्विता ।
मुग्धाः केलिवशेन वक्षसि पुनः संताडनायोपता-
थेलं पङ्गुणितं समीक्ष्य सुभृशं खियन्ति सीदन्ति च ॥
सकतुकमेषा किल,
कोपेन कन्दुकमियं प्रहिणोति वृद्धा.
वामा पयोधरतटे नवयौवनायाः।
प्रत्यामतेन कठिनाचलपातनोत्थ-
वेगेन ताम्पति भृशं प्रतिहन्यमाना ॥११८॥

४२
शृङ्गारशेखरमाणः।
इयमत्र मम प्रियसखस्य विहारशेखरस्य पूर्वजा मदनमञ्जरी ।
कथं सप्ताष्टाप्यपत्यानि परित्यज्य कन्दुकप्रेषणीहस्ता परिक्रीडति ।
इतश्च दृष्टमात्रं माम्, विहाय कन्दुकमभियाति ।
अयि मदनमञ्जरि, शोभसे नितरां कन्दुकप्रेषणीहस्ता ।
तदुचितप्रसाधनेन च । भवतु, मृतानि किं तेऽपत्यानि ? येन त्वं
निर्विशकं चिरं परिक्रीडसे।
किं ब्रवीषि? “न मृतानि । मासद्वयात्प्रागपि शिशुरेका
कुटुम्बगणनायामधिकतामातनोत्" इति ।
कथं तमपि परित्यज्यायाताऽसि ?
किं ब्रवीषि? " भर्तेति नाम्ना किमर्थमेका समभिवर्तते" इति ।
उचितमेवैतत् । (स्वगतम्।) स किल,
वहन्नथेनैकं शिशुमपि च संक्रन्दनपरं
क्षुधा क्षीणं चान्यं दृढतरशिरोरोगमपरम् ।
कराभ्यामाकर्षश्वलति गृहपृष्ठेषु सुचिरं
प्रियामन्विष्यमप्यटति च स पूर्वापरदिशोः ॥११९॥
(प्रकाशम् ।) अयि कुशलाऽसि । उचिता च नागरिकामण्ड-
लाधिपत्यस्य । यत्त्वया भरीपदं यथार्थतामुपनीतम् । नाहमुपरुन्धे ।
गच्छ, विहर यथेष्टम् ।
(इत्यन्यतः परिक्रम्य, सादरं पश्यन् ।)
किमत्र मन्दिरे मेषशिशुमेकः खांसे निधाय तत्पुच्छं चुम्बति ।
अयं च पनगमिव वक्षसि कुण्डलितं धरन् तद्वालं मुखे करोति ।
किमेतेषां समवेषाणां दर्शनमात्रेण युवानो युवत्यश्च सरभसमन्तरा-
यान्ति । पश्यामि ( इति परिकम्य।) कथमेते वाबविशेषाः!
एते षोडश मनुजा वाद्यवरान्वादयन्ति किल विविधान् ।
स्थायित्रये च क्लप्तांस्ततसुपिरषनांस्तथाऽऽनद्धान् ॥१२०॥

शृङ्गारशेखरभाणः ।
अहो मनोहरता वृन्दातोद्यानाम् !
विस्मार्य भावमन्यं विवशयति मनो विनाऽपि हठयोगम् ।
मदयति नटयति रसयत्यपि मां मोदयति मोहयति ॥
कथं तरुण्यस्तरुणान्करे गृहीत्वा नर्तनमारभन्ते ।
उनम्य पाणिकमलं धृतमङ्गुलीभि-
श्चित्तेप्सितस्य तरुणस्य पुनः प्रगल्भाः।
वक्षोनिविष्टकुचभारमिहानताङ्गयो
नृत्यन्ति तालसदृशं किल पङ्कजाक्ष्यः ॥१२२॥
कथमेता अचिरेणैव सह नृत्यन्तं परित्यज्य पुनरन्येन नटन्ति ।
नवं नवमिहागना नयनहारिरूपोच्चयं
प्रगृह्य करपल्लवैः स्तनभरं निधायोरसि ।
नटन्ति नवनागरं परमुपेत्य नेपथ्यक
विहर्तुमिह चेप्सितैः कुलवधूः समायात्यहो ॥१२३॥
पटनाटश्चादपि परममुपकरोति विहारसदनं वामविलोचनानाम् ।
एकान्ते रचनीयमेव ललितं दीपेषु निर्वापिते
धन्यालक्षितमेव वैद्युतमये नाट्ये प्रगल्भैरपि ।
गेहेऽस्मिन्शतदीपदीपितनिजप्रान्ते जने पश्यति
प्रोद्दष्टे मुरजादिवाद्यनिचये क्रीडन्ति नृत्यन्ति च ॥१२४॥
अनुचितमन्तराययितुमेता मत्संलापेन नृत्यपरायणाः ।
( इति परिक्रम्य ।)
कथमस्तशिखरमवतरितुमभिलपतीवाहस्पतिः ।
कार्तखरेण कवचेन विभूष्यमाणां
वीक्ष्येव पत्रपतिना सुवमत्रहस्तैः ।
वेश्यास्तु यान्ति सहसा परिक्लप्त भूषा
नूनं विटा धनचयेन कलत्रितास्ताः ॥१२५॥

शृङ्गारशेखरमाणः। अतो न विलम्बनीयम् । त्वरितमितो मजुभाषिणीपार्श्व- मासादयिष्यामि ( इति परिक्रम्य ।) इदमेव प्रियसख्याः सदनम् । कथं मजुभाषिणी स्वयमेव सकौतुकमायाति । अयि प्रेयसि, क्षमस्व विलम्बितागमनं माम् । सोत्स्मयं ममांसे करपल्लवं विन्य- स्यन्ती किं ब्रवीषि? " कया वा मुग्धया रुद्धा गतिः" इति । को रमेतैतामिरविदितमदनतन्त्राभिर्मुग्धाभिः । पैशल्यं वा करचरणयोः किंचिदुनम्रभावो वक्ष पीठे भवतु सुभृशं विस्तृतिर्वा नितम्बे । संदृश्या वा त्रिवलिरथ वा रोमराजिवलग्ने किं वाऽप्येतैर्यदि पुनरियं संवृता हीपटेन ॥१२६॥ शृणु चेष्टितमेतस्याः। रहः केलीस्थानं गमयति हठेनैव रमणे रतेच्छां संप्राप्याप्यहह कलुषा विद्रुतवती । किमर्थ स्वां शय्यामपि पुनरनासाद्य सुभृशं प्रमुञ्चन्ती चाश्रु प्रतपति कृशा निश्वसिति सा ॥१२७॥ सहस्ततालं किं ब्रवीषि ? "अद्यैव परिज्ञातं प्रियसखस्य प्रगल्भाङ्गनावलनकारणम्" इति । भवतु, कुतो वा न प्रवृत्तो डोलाविहारः ? किं ब्रवीषि? आर्यस्यैव संनिधानं प्रतीक्ष इति | तर्हि प्रारभ्यतां विहार।। किं कंजलोवा कवितागुलिः कलं गायन्ती विपी वादयितुमारभते । (श्रुतिममिनीय।) कथं गायसि?

शृङ्गारशेखरभाणः। जयतु जयतु देवः पश्चवाणो यदीया. मुपकृतिमिह काहत्यात्मभूः सृष्टिकृत्ये । जडमपि भुवनं यदृष्टिपातेन जीव- द्रसयति निखिलांश्च प्राणिनः सर्वदाऽपि ॥१२८॥ अहो मधुरता परिवादिनीनिनदस्य विशेषतः पङ्कजाक्षी- गीतिसंयुतस्य । हरति हृदयमेतद्वल्लकीनादजुष्टं सुमधुरगलजातं नायिकाप्रेमगीतम् । परिसरधृतकोकं प्रावृषीवाद्य पद्म किसलयमिव सायं भानुरोचिः प्रदीप्तम् ॥१२९।। सादरं किं ब्रवीषि ? पार्थासनमास्थाय कृतार्थयतु प्रियसखी- मिति । ( नाटयेनोपविश्य।) घ्राणक्षारिकुसुमस्त्रगावृता हेमतन्तुकृतचेलभूषिता । नन्दयत्यहह कामिनीव मां डोलिका नवनवं विनिर्मिता ।। अयि प्रेयसि, पश्य । प्रोन्नतं प्रथमतश्चलन्त्यहो सारयत्यखिलपांसुलादशाम् । सच्चरित्रकुलयोषितामियं दर्शयत्यवनता सुखं प्रिये ॥१३१॥ किं ब्रवीपि ? आर्येणैव सर्व विज्ञायत इति । (आकाशमुद्रीक्ष्य, सोद्गम् । ) किमुदितः कलाधरः । ( सश्लाघम् । ) भुक्त्वाऽसौ रजनीं सुरारिनिकरणीतिकसं नित्यशः समापि द्विदशाधिकान्वयमहो तारागणान्सेवते । तैरप्येष सुधाकरः पुनरितोऽसंपूरितानन्यज- स्तारामप्यपरां गुरोरपि सती कामातुरो मच्छति ॥१३२।।

४६ शृङ्गारशेखरमाणः। ( खगतम् । ) स्यमन्तकः परं ममागमनं प्रतीक्षमाणोऽभिवर्तेत । ( प्रकाशम् ) अयि प्रेयसि, अनुमन्यस्व मामावश्यिककार्यानिवर्तनाय । पुनस्त्वामचिरादेव द्रक्ष्यामि । सविषादं किं अवीषि ? किमेतस्मादपि परमावश्यिक कार्यम् । भवतु,ताम्बूलग्रहणेन कृतार्थयतु प्रियजनमिति। ( करेण वीटिको गृह्णान् किंचित्परिक्रम्य।) किं स्यमन्तको ममाभिमुख- मायाति । दृष्टमात्रं मां सहर्ष किं ब्रवीषि ? कथं प्रियजनेन विलम्ब्यत इति । किं सा हस्तगता? किं ब्रवीषि ? कः संदेहः पूर्वोक्तमार्गेणैव समानीता दृतिकया निष्कुटे निक्षिप्ता। उपभुक्ष्व च यथेष्टमिति । ( सत्वरं परिक्रम्य ।) कथं दृतिकापार्श्वमधितिष्ठन्ती लजयाव- नता तिष्ठति । दृतिके, किं ब्रवीषि ? अनधिगतकामतन्त्रणेयं भुक्ता चिरेण किल पत्या। अनवाप्तकामपूर्तिनिधुवनकुशलं प्रतीक्षतेऽद्य त्वाम् ॥ इति । यथाकौशलं तर्पयाम्येनाम् । ( इति वदनमुन्नमयन् ) अयि प्रियसखि, अकलङ्कमेव मन्ये वदनं ते कुमुदबान्धवं तन्वि । मम नयनयुग्मजीवंजीवं पातुं प्रियेऽनुमन्यस्व ॥१३४॥ समितं किं ब्रवीषि ? स्वाधीना किलाहं प्रियसखस्येति । तर्हि समवाप्तं जीवितफलम् । स्यमन्तक, कि प्रवीषि? इतश्च किं करणीयमिति । :: . किमास्ते कर्तव्यम् ।

Sringarashekharabhaand-a

Author
T S Sundaresa Sarma
Title
Sringarashekharabhaand-a
File name
Sringarashekharabhaand-a
Text
OCR done
Citation
1938
Publisher
The General Stores , Ayyan Kadai Street, Tanjore
Language
Sanskrit
Pages
49
Library
Svi-ksri-chennai
Classification
Linguistics And Languages
DLI number
368700
Barcode
5010010078181.00
Scanning centre
RMSC, IIIT-H
Rights
IN_COPYRIGHT
VMLT id
G2E9yo8Hkld
Download PDF

Sringarashekharabhaand-a