Asr Melkote
Vedanta Dipa Of Bhagavadramanujacharya Vol.1
Front matter
No text on this page.
3.356
5101
NJA
No text on this page.
34 3356 B BENARES SANSKRIT SERIES; A COLLECTION OF SANSKRIT WORKS: EDITID BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE, UNDER THE SUPERINTENDENCE OF R. T. H. GRIFFITH, M. A., ('. I. E. AND G. THIBAUT, Ph. D. .V. 69. भी१०८भगवद्रामानुजाचार्यविनिर्मितो वेदान्तदीपः । बादरायणसूत्राणां संग्रहव्याख्यारूपः । श्रीमदाचार्यभट्टनाथस्वामिना मंशोधितः । VEDÂNTADEEPA Br ŜREE BHAGAVAT RÂMÂNUJÂCHÂRYA, EDITED BY SREE ACHARYA BIATTANATHASWAMY. FASCICULUS I. BENARES. Publishrd by the Proprietors Messrs. Braj B. Das & Co. AND SOLD BY H. D. GUPTA, Saretury, Chord'humha Sunskrit Book Depot. Printed at the Vilya vilas Press, BENAXES. 1902. DO2 R672, 2,2
No text on this page.
Ace 3358. श्रीहयग्रीवाय नमः ॥ नमः परमर्षिभ्यः॥ श्रीभगवद्रामानुजाचार्यानुगृहीतो वेदान्तदीपः। (मङ्गलाचरणम् ।) श्रियः कान्तोऽनन्तो वरगुणगणैकास्पदवपु- हताशेषावद्यः परमखपदो (१) वाङ्मनसयोः । अभूमिभूमिर्यो नतजनदृशामादिपुरुषो मनस्तत्पादाब्जे परिचरणसक्तं भवतु मे ॥ प्रणम्य शिरसाऽऽचार्यास्तदादिष्टेन वर्मना । ब्रह्मसूत्रपदान्तःस्थवेदान्तार्थः प्रकाश्यते ॥ (सिद्धान्तसंक्षेपः।) अवेयमेव हि (२)वेदविदा प्रक्रिया-अचिद्वस्तुनः स्वरूपतः स्वभावतश्चात्यन्त(३)विलक्षणस्तदात्मभूतश्चेतनः प्रत्यगात्मा । तस्माद्बद्धान्मुक्तानित्याच्च निखिलहेयप्रत्यनीकतया कल्या- गागुणैकतानतया च सर्वावस्थचिदचिद्वयापकतया धारक- तया (४) नियन्तृतया शेषितया चात्यन्तविलक्षणः परमा- स्मा। यथोक्तं (५) भगवता- - (१) 'परमविषयों का (२) 'पव हिं' इति गपुस्तके नास्ति । (३) अत्यन्त ' इति क० पुस्तके नास्ति । (४)'धारकतया' इति ग. पुस्तके नास्ति । (4) तदुक्तं' ग० ૨ वेदान्तदीपे “ " द्वावमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः । यस्मात्मरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥" इति । श्रुतिश्च प्रधानक्षेत्रज्ञपतिर्गुणशः । पति विश्वस्यात्मेश्व- रम् । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः" इत्या- दिका । कूटस्थो मुक्तस्वरूपम् । ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥" इत्यादिव्यपदेशात् । सूत्रकारश्चैव(१)मेव वदति “नेतरोऽ- नुपपत्तेः। भेदव्यपदेशात् । अनुपपत्तेस्तु न शारीरः। कर्मकर्तृव्य- पदेशाच्च । शब्दविशेषात् । संभोगप्राप्तिरिति चेन वैशेष्यात् । न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च । उभयेऽपि हि भेदेनैन- मधीयते। विशेषणभेदव्यपदेशाभ्यां च नेतरौ। मुक्तोपसृप्यव्य- पदेशाच्च । स्थित्यदनाभ्यां च । इतरपरामर्शात्स इति चेन्ना- संभवात् । उत्तराच्चेदाविर्भूतस्वरूपस्तु। सुषुप्त्युत्क्रान्त्योर्भेदेन । पत्यादिशब्देभ्यः। अधिकं तु भेदनिर्देशात् । आधिकोपदेशातु बादरायणस्यैवं तदर्शनाव । जगद्वयापारवर्ज प्रकरणादसंनिहि- तत्वाच्च । भोगमात्रसाम्यलिङ्गाच" इत्यादिभिः । न चाविद्या- कृतमुपाधिकृतं वा भेदमाश्रित्यैते निर्देशाः । "इदं ज्ञानमुपाश्रिय मम साधर्म्यमागताः । (१) 'श्चद' क. R672, २१२ अयतारिका। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ सदा (१) विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमु- पैति । मुक्तोपमृप्यव्यपदेशाच्च । उत्तराचेदाविर्भूतस्वरूपस्तु । संपद्याविर्भावः स्वन शब्दात् । जगद्व्यापारवर्ज प्रकरणादसंनि- हितत्वाच्च । भोगमावसाम्यालिङ्गाच्च" इति सर्वाविद्योपाधि- विनिर्मुक्तमधिकृत्यैव(२)भेदोपपादनात् । श्रुतिस्मृतिस्वेषु सर्वत्र भेदनिर्देशे (३)चिदचिदीश्वरस्वरूपभेदः स्वाभाविको विवक्षित इति निश्चीयते । “सर्व खल्विदं ब्रह्म तज्जलानिति शान्त उ- पासीत । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । सदेव सोम्येदमग्र प्रासीदेकमेवाद्वितीयम् । तदैक्षत बहुस्यां प्रजायेयति तत्तेजोऽसृजत । सन्मूलाः सोम्येमाः सर्वाः प्रजा सदायतनाः सत्प्रतिष्ठाः । ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो । क्षेत्रज्ञं चापि मां विद्धि । त. दनन्यत्वमारम्भणशब्दादिभ्यः" इति परस्य ब्रह्मणः कारणत्वं कृत्स्नस्य चिदचिदात्मकमपञ्चस्य कार्यत्वं कारणात्कार्यस्था- नन्यत्वं चोच्यमानमेवमेवोपपद्यते । सर्वावस्थस्य चिदचिद- स्तुनः परमात्मशरीरत्वं परमात्मनश्चात्मत्वं “यः पृथिव्यां ति- ठन्-यस्य पृथिवी शरीरम् । य आत्मनि तिष्ठन्-यस्यात्मा शरीरं यात्मानमन्तरो य मयति । यस्याव्यक्तं शरीरम्-य- स्याक्षरं शरीरम्-यस्य मृत्युः शरीरमेष सर्वभूतान्तरा- स्माऽपहतपाप्मा दिव्यो देव एको नारायणः । अन्तः प्र- विष्टः शास्ता जनानां सर्वात्मा" इत्यादिश्रुसैवोपदिष्टमिति सूक्ष्मचिदचिद्वस्तुशरीरः परमात्मा कारणम्, स एव परमात्मा (१) उभे' क० (३) 'भेदे निर्दिष्टे' मु० (२) विनिर्मुक्तस्यैव' गर वंदान्तदीप . स्थूलचिदचिद्वस्तुशरीरः कार्यमिति कारणावस्थायां कार्याव- स्थायां च चिदचिद्वस्तुशरीरतया (१) तत्पकारः (२)परमात्मैव सर्वशब्दवाच्य इति परमात्मशब्देन सर्वशब्दमामानाधिकरण्यं मुख्यमेवोपपन्नतरम् । “अनेन जीवेनात्मनाऽनुभविश्य नामरूपे व्याकरवाणि । तत्सृष्ट्वा तदेवानुप्राविशत, तदनुपविश्य मच्च सच्चाभवत्" इति(३)श्रुतिरेवेममर्थमुपपादयति । मर्वमात्म(४)त- याऽनुमविश्य तत्तच्छरीरत्वेन (५) सर्वप्रकारतया म एव सर्व- शब्दवाच्यो भवतीत्यर्थः । बहुस्यामिति बहुभवनसंकल्पोऽपि- नामरूपविभागानह सूक्ष्मचिदचिदस्तुशरीरकतयैक वाऽस्थित- स्य विभक्तनामरूपचिदचिद्वस्तुशरीरकतया (६) बहुप्रकारता विषय:-इति हि वेद(७)वित्प्रक्रिया ।। ( शङ्कर-भास्करमतप्रतिक्षेपः।) ये पुनर्निर्विशेषकूटस्थस्वप्रकाशनियचैतन्यमात्रं ब्रह्म ज्ञा- तव्यतयोक्तमिति वदन्ति तेषां “जन्माद्यस्य यतः । शास्त्रयो- नित्वात् । तत्तु समन्वयात् । ईक्षतेनीशब्दम्" इत्यादि(८)- "जगद्वयापारवर्जम् (६)। भोगमात्रसाम्यलिङ्गाच्च । अनावृ- तिः शब्दादनावृत्तिः शब्दात्" इत्यन्तस्य सूत्र(१०)- गणस्य ब्रह्मणो जगत्कारणत्वबहुभवनसङ्कल्पपेक्षणायन- न्तविशेषप्रतिपादनपरत्वात्सर्व सूत्रजातं सूत्रकारोदाहनाः "यतो वा इमानि भूतानि जायन्ते । तदैक्षत बहुस्यां प्रजाये- - प (१) शरीरकतया' मु० (२)'तत्तत्प्रकार:'ग० (३) ' इत्यादि ' मु० (४) “सर्वात्मतया' ग० (५) तच्छरीरत्वेन' क. (६)'शरीरतया' (७) वेदान्त' ग० (८) इत्याद:" मु० (९)मुद्रितपुस्तके संपूर्ण सूत्रमात । (१०) ' इत्यन्तसूत्र' का , अवतारिका । य" इत्याद्याः सर्वाः श्रुतयश्च न संगच्छन्ते । अथोच्येत "येनाश्रुतं श्रुतम्" इसकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय “यथा सोम्यैकेन मृत्पिण्डेन" इत्येकमृत्पिण्डारब्धघटशरावादीनां त- न्मृत्पिण्डादनन्यतया(१) तद्ज्ञानेनैव (२) तेषां ज्ञाततेव ब्रह्मज्ञानेन तदारब्धस्य कृत्स्नस्य चिदचिदात्मकस्य जगतस्तद (३)नतिरि- क्तवस्तुतया ज्ञातता संभवतीत्युपपाद्य "सदेव मोम्येदमग्र प्रासी- देकमेवाद्वितीयम्" इतीदं शब्दवाच्यस्य चिदीचदात्मकप्रपञ्चस्य सृष्टेःमानिखिलभेदप्रहाणेन सच्छब्दवाच्यतयैकता(४)ऽऽपत्ति घटशरावाद्युत्पत्तेः प्रागुत्पादकमृत्पिण्डैकता(५)ऽऽपत्तिवदभिधा- य “तदक्षत बहुस्यां प्रजायेय" इति(६)तदेव सच्छब्दवाच्यं परं ब्रह्म चिवचिदात्मकप्रपञ्चरूपेणात्मनो बहुभवनमेकमृत्पिण्डस्य घटशरावादिरूपेण बहुभवनवत्संकल्प्यात्मानमेव तेजःप्रभृतिज- गदाकारेणासृजतेति चाभिधाय "ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि" इत्यभिधानाद्ब्रह्मैकमेवाविद्याकृतेन पारमा- थिकेन वो(७)पाधिना संबद्धं देवादिरूपेण बहुभूतमिति वै- दिकै(८)रभ्युपगन्तव्यमिति । तदयुक्तम्(६)। "ज्ञाज्ञौ द्वावजावी- शनीशौ । नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विद- धाति कामान्"इत्यादिश्रुतिभिर्जीवानामजत्वनित्यत्वबहुत्ववच- नात् । यदि घटशरावादेरुत्पत्तेः प्रागेकीभूतस्य मृद्रव्यस्योत्प- (१) 'मृत्पिण्डानन्यतया' ग० 'तन्मृत्पिण्डादनन्यद्रव्यतया'मु० (२) "एव' इति मुद्रिते नास्ति । (३) तस्माद 'मु. (४) 'सच्छब्दवाच्यतयैकधा' ग० 'सच्छब्दवाच्यनैकता' मु. (५) मृत्पिण्डेकधा' ग० (६)" बहुस्याम् इति' इत्येवास्ति मुद्रिते । (७)' कृतनापारमार्थिकन चो क० ग० (८) वेदविद्भि' मु० (९) मिति यत्तदयुक्तम् , वेदान्तदीपे त्युत्तरकालभाविबहुत्ववत्सृष्टेः प्रागेकीभूतस्यैव ब्रह्मणः सृष्टुथ- त्तरकालं(१) नानाविधजीवरूपेण बहुत्वमुच्येत, तदा जीवाना- मजत्वनित्यत्वबहुत्वादि विरुध्येत । मूत्रविरोधश्च “इतरव्य- पदेशाद्धिताकरणादिदोषप्रसक्तिः" इति ब्रह्मैव देवमनुष्यादिजी- वरूपेण(२) बहुभूतं चेत्त(३)दाऽऽत्मनाहिताकरणादिदोपमसक्ति- रित्युक्त्वा "अधिकं तुभेदनिर्देशात्" इति जीवादब्रह्मणोऽर्थान्त- रत्वमुक्तम् । तथा च "वैपम्यनैपृण्ये न सापेक्षत्वात्" इति देवा- दिविषमसृष्टिप्रयुक्तपक्षपातनैपुण्ये (४) जीवानां पूर्वपूर्वकर्मापेक्ष- त्वाद्विषमसृष्टेरिति परिहते । तथा(५)"न कमाविभागादिति चे- नानादित्वादुपपद्यते चाप्युपलभ्यते च" इति "सदेव साम्येद- मग्र आसीदेकमेवाद्वितीयम्" इति सृष्टेःप्रागविभागवचनात्सृष्टेः माग्जीवानामभावात्तत्कर्म न सम्भवतीति परिचोद्य (६) जीवानां तत्कर्मप्रवाहाणां चानादित्वादिति परिहृतम्। “नात्माऽश्रुतेनि- त्यत्वाच्च ताभ्य" इसात्मन उत्पत्त्यभावश्चोक्तः नित्यत्वं च । स्वा भ्युपगमविरोधश्चाआमाक्षाज्जीवभेदस्यानादित्वं मर्वेरेव हि वेदा- न्तवादिभि(७)रभ्युपगम्यते। अतः श्रुतिविरोधात्मूत्रविरोधात्स्वा भ्युपगमविरोधाच सृष्टेः प्रागेकत्वावधारणं नामरूपविभागाभा- वाभिप्रायम्, नामरूपविभागानह सूक्ष्मचिदचिद्वस्तुभेद(८)सहं चेति सर्वैरभ्युपगम्यते । इयांस्तु विशेपः। अविद्यापरिकल्पनेऽ- , (१) 'कालीनं 'मु० (२) 'स्वरूपेण' मु० (३) तदा' इति मुद्रिते नास्ति । (४) नैघृण्ये न' क० 'नघृण्ये न सापेक्षत्वादिति' ग० (६) तथा' इति क० पुस्तके नास्ति । (६)'परिचोद्य' इति ग० पुस्तके नास्ति । (७) वेदान्तिभि' मु० (८) चिचिद्वस्तुशक्तिभेद' मु. .
अवतारिका। प्युपाधिपरिकल्पनेऽपि ब्रह्मव्यतिरिक्तस्याविद्यासंबन्धिन- श्वोपाधिसंबन्धिनश्च चेतनस्याभावादविद्योपाधिसंबन्धौ (१) तत्कृताश्च दोषा ब्रह्मण एव (२) भवेयुरिति ॥ (यादवसिद्धान्तविमर्शः।) सन्मात्रब्रह्मवादेऽपि प्राक्सृष्टेः सन्मानं ब्रह्मैकमेव सृष्टुयत्तर- कालं भोक्तृभोग्यनियन्तृरूपेण त्रिधा भूतं चेद्धटशरावमणिकव- ज्जीवेश्वरयोरप्यु(३)त्पत्तिमत्त्वमनित्यत्वं च स्यात्।अथैकत्वा (४) पत्तिवेलायामपि भोक्तृभोग्यनियन्तृशक्तित्रयमवस्थितमिति चेत्, किमिदं शक्तित्रयपद(५)वाच्यमिति विवेचनीयम्।यदि सन्मा- त्रस्यैकस्यैव भोक्तृभोग्यनियन्तृरूपेण परिणामसामर्थ्य शक्तित्रय- शब्दवाच्यम्, एवं तर्हि मृत्पिण्डस्य घटशरावादिपरिणामसम- र्थस्य तदुत्पादकत्वमिव ब्रह्मण ईश्वरादीनामुत्पादकत्वमिति तेषामनियत्वमेव । अथेश्वरादीनां मूक्ष्मरूपेणावस्थितिरेव शक्तिरित्युच्येत । तर्हि तदतिरिक्तस्य सन्मात्रस्य ब्रह्मणः - माणाभावात्तदभ्युपगमे च तदुत्पाद्यतयेश्वरादीनामानित्यत्वप्र- सङ्गाच्च त्रयाणांनामरूपविभागानह सूक्ष्मदशाऽऽपत्तिरेव प्राक्स- टेरेकत्वा(६)वधारणावसेयेति वक्तव्यम् । न तदा तेषां ब्रह्मात्म- कत्वा (७)देकत्वावधारणं विरुद्धयेत ॥ अतः सर्वावस्थस्य(८) चिदचिदस्तुनो ब्रह्मशरीरत्वश्रुतेः सर्वदा सर्वशब्दब्रह्मैव तत्तच्छ- (१) संबन्धेन'क० (२) ब्रह्मण्येव' ग० (३) 'अपि' इति मुद्रिते नास्ति । (४) “एकताऽऽ'क० एकधा 55'ग (५) 'शब्द' मु० (६) एकधा 'ग (७) 'अन्यथा तेषामब्रह्मात्मकत्वा' क० तथा तेषामब्रह्मात्म- कत्वा' ग० तदा तेषां बहुत्वा' पा० (८) सर्वावस्थावस्थितस्य' मु.
वेदान्तदीपे रीरतया तत्तद्विशिष्टमेवाभिधेयामिति(२)स्थूलोचदचिद्रस्तुविशिष्ट अझैव कार्यभूतं जगत्, नामरूपविभागानह लक्ष्मचिदचिद्रस्तुवि. शिष्टं ब्रह्म कारणमिति । तदेव मृत्पिण्ड भ्थानीयम् "मदेव मो- म्येदमा आसीदेकमेवाद्वितीयम्' इत्युच्यते । तदेव विभक्त- नामरूपचिदचिद्रस्तुविशिष्टं ब्रह्म कार्यमिति सर्व समझनम् ।। श्रुतिन्यायाविरोधस्तु तेषां भाप्ये प्रपञ्चित इति नेह मन- म्यते । भाष्योदितो ऽधिकरणार्थः सबूत्रविवरण: सुख(२)- ग्रहणाय संक्षेपेणोपन्यस्यते ॥ ( संक्षेपतः प्रमेयकथनम् ।) तत्र प्रथमे पादे प्रधानपुरुपावेव जगत्कारणतया वेदान्ताः प्रतिपादयन्तीत्याशङ्कय सर्वज्ञं सससंकल्पं निरवयं ममस्तक- ल्याणगुणाकरं ब्रह्मैव जगत्कारणतया प्रतिपादयन्तीत्युक्तम् । द्वितीयतृतीयचतुर्थपादेषु कानि चिद्वेदान्तवाक्यानि प्रधाना- दिप्रतिपादनपराणीति तन्मुखेन सर्वाक्षेपमाशङ्का तान्यपि ब्रह्म :- पराणीत्युक्तम् । तत्रास्पष्टजीवादिलिङ्गकानि वाक्यानि द्विः तीये निरूपितानि, स्पष्टलिगकानि तृतीये, चतुर्थे तु प्रधानादि प्रतिपादनच्छायानुसारीणीति विशेपः।अतः प्रथमेऽध्याये सर्व वेदान्तवाक्यजातं सर्वज्ञत्वमयसंकल्पत्वादियुक्तं ब्रह्मैव जगन्का- रणतया प्रतिपादयतीति स्थापितम् । द्वितीयेऽध्याये ऽस्या- र्थस्य दुर्धर्षत्वप्रतिपादनेन द्रढिमोच्यते । तत्र प्रथमे पार सांख्यादिस्मृतिविरोधान्न्यायविरोधाच्च प्रसक्तो दोपः परिह ताद्वितीये सांख्यादिवेदवाह्यपक्षप्रतिक्षेपमुखेनास्यवादरणीयता स्थिरीकृता तृतीयचतुर्थयोर्वेदान्तवाक्यानामन्योन्यविप्र - (१)' अभिधीयत इति' मु० (२) सूत्नविवरणसुग्व' क० ग० ' सूत्रार्थविवरणसुख' पा० अवतारिका। तिषेधादिदोषगन्धाभावख्यापनाय वियदादीनां ब्रह्मकार्य- ताप्रकारो विशोध्यते । तत्र तृतीये पादे चिद (१) चित्पात- श्वस्य ब्रह्मकार्यत्वे सत्यप्यचिदंशस्य स्वरूपान्यथाभावेन कार्य- त्वम्, चिदंशस्य स्वभावान्यथाभावेन ज्ञानसंकोच विकासरूपेण (२) कार्य्यतोदिता।चतुर्थे तु जीवोपकरणानामिन्द्रियादीनामु- त्पत्तिप्रकारः । इति प्रथमेनाध्ययद्येन मुमुक्षुभिरुपास्यं निर- स्तनिखिलदोषगन्धमनवधिकातिशयासंख्येयकल्पाणगुणगणं निखिलजगदेककारणं ब्रह्मेति प्रतिपादितम् । उत्तरेण द्विकेन ब्रह्मोपासनप्रकारस्तत्फलभूतं मोक्षस्वरूपं च चिन्त्यते । तत्र तृतीयाध्यायस्य प्रथमे पादे ब्रह्मोपासिषोत्पत्तये जीवस्य संस- रतो दोषाः प्रकीर्तिताः । द्वितीये चोपासनोत्पत्तये ब्रह्मणो निरस्तनिखिलदोषता-कल्याणगुणाकरतारूपोभयलिङ्गता प्र- तिपाद्यते । तृतीयेतु ब्रह्मोपासनैकत्वनानात्वपूर्वकमुपासनेषूपमं- हा-नुपसंहार्यगुणविशेषाः प्रपञ्चिताः । चतुर्थे तूपासनस्य वर्णाश्रमधर्मेतिकर्तव्यताकत्वमुक्तम् । चतुर्थेऽध्याये ब्रह्मापा- सनफलचिन्ता क्रियते । तत्र प्रथमे पादे ब्रह्मोपासनफलं वक्तुं उपासनस्वरूप(३)पूर्वकोपासनप्रकारो विद्यानुष्टान (४)माहा- त्म्यं चोच्यते । द्वितीये तु ब्रह्मोपासिनां ब्रह्मप्राप्तिगत्युप्रक्रम(५)- प्रकारश्चिन्यते। तृतीये चार्चिरादिस्वरूपम्, अचिरादिनैव ब्रह्ममा प्तिरिति प्रतिपाद्यते । चतुर्थे तु मुक्तस्य ब्रह्मानुभवप्रकारश्चिन्स ताअतो मुमुक्षुभिर्जातव्यं निरस्तनिखिलदोपगन्धानवधिकातिश- (१) वियदादिचिद' का (२) 'चिदंशस्य खरूपान्यथाभावाभावेन ज्ञानसोचवकासरू- पेणान्यथाभावेन' क० (३) खरूपविचार' मु० (४) 'अनुष्ठान' पदं नास्ति ग० पुस्तके। (५)' गन्युक्त' गा , वेदान्तदीपे यासंख्येयकल्पाणगुणगणाकरं निखिलजगदेककारणं परं ब्रह्मा- ज्ञानं (१) च मोक्षसाधनमसकृदावृत्तं स्मृतिसन्तानरूपमुपास- नात्मकम्, उमासनाफलं चाचिरादिना परं ब्रह्मोपपद्य स्वेन रूपेण स्वरूपभूतज्ञानादिगुणाविर्भावपूर्वकानन्तमहावि- भूत्यनवधिकातिशयानन्दब्रह्मानुभवोऽपुनरावृत्तिरूप इति शा- रीरकशास्त्रेणोक्तं भवति ॥ (जिज्ञासाऽधिकरणम् ।) अथातो ब्रह्मजिज्ञासा ॥ १ ॥ ब्रह्ममीमांसा विषयः ॥सा किमारम्भणीयोतानारम्भणी- येति संशयः॥तदर्थं परीक्ष्यते वेदान्ताः किं ब्रह्माण प्रमाणमुत नेति । तदर्थ परीक्ष्यते परिनिष्पन्नेऽर्थे शब्दस्य बोधनसामर्थ्या- वधारणं संभवति न वेति (२)। न संभवतीति पूर्वपक्षः । सं- भवतीति राद्धान्तः। यदि (३) न मंभवति तदा परिनिष्पन्नेऽर्थे शब्दस्य बोधनसामर्थ्याभावात्सिद्धस्वरूपे ब्रह्माण न वेदान्ताः प्रमाणामति तद्विचाराकारा ब्रह्ममीमांसा नारम्भणीया । यदा संभवति तदा सिद्धेऽप्यर्थे शब्दस्य बोधनसामर्थ्यसंभवाद्वे- दान्ताः ब्रह्मणि प्रमाणमिति सा चारम्भणीया स्यात् ॥ तत्र पूर्वपक्षवादी मन्यते-उद्धव्यवहारादन्यत्र व्युत्पत्त्यसंभवात् व्यवहारस्य च कार्यबुद्धिपूर्वकत्वेन कार्य एवार्थे शब्दशक्त्यव- धारणात परिनिष्पन्नेऽर्थे (४) ब्रह्मणि न वेदान्ताः प्रमाणमिति तद्विचाररूपा ब्रह्ममीमांसा नारम्भणीयेति ।। राद्धान्तस्नु-बा- लानां मातापितृप्रभृतिभिरभ्वातातमातुलशशिपशुमृगादि (१)' तज्ज्ञानं' मु० (३) ' यदा' मु० (२) 'नेति' मु. (४) ' अर्थे ' इति क० पुस्तकोस्ति ।
प्रथमाध्यायस्य प्रथमः पादः । वगुल्या (१) निर्दिश्य तत्तदभिधायकशब्दान्प्रयुञ्जानैः क्र. मेण बहुशः शिक्षितानां तत्तच्छब्दश्रवणसमनन्तरं स्वात्मना- मेव तत्तदर्थबुद्धयत्पत्तिदर्शनाच्छब्दार्थयोः संबन्धान्तरादर्श- नात्संकेतयितृपुरुषाज्ञानाच बोध्यवोधकभाव एव शब्दार्थयोः संबन्ध इति निश्चिन्वानानां परिनिष्पन्नेऽप्यर्थे शब्दस्य बाधक- त्वावधारणं संभवतीति ब्रह्मणि वेदान्तानां (२) प्रामाण्यातद- विचाराकारा ब्रह्ममीमांसाऽऽरंभणायेति ॥ सूत्रार्थः (३)- अथेसानन्तयें।अत इति च वृत्तस्य हेतुभावे । ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा । ज्ञातुमिच्छा जिज्ञासा। इच्छाया इष्यमाणप्रधान:- त्वादिष्यमाणं ज्ञानमिहाभिप्रेतम् । पूर्वदृत्तादल्यास्थिरफल- केवलकाधिगमादनन्तरं तत एव हेतोरनन्तस्थिरफलब्रह्माधि- गमः कर्तव्य इति ॥ (जन्माद्यधिकरणम् ।) जन्माद्यस्य यतः ॥ २ ॥ तैतिरीयके “यतो वा इमानि भूतानि जायन्ते, येन जाता:- नि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्त्र तब्रह्म" इसे तद्वाक्यं विषयः ॥ किमेतजिज्ञास्यतया प्रतिज्ञातं ब्रह्म जग- जन्मादिकारणतया लक्षणतः प्रतिपादयितुं शक्नोति न वेति संशयः ॥ न शक्नोतीति पूर्वपक्षः । कुतः। जगजन्मादीनामु- पलक्षणतया विशेषणतया च (४), ब्रह्मलक्षणत्वासंभवात् । उपलक्षणत्वे ह्युपलक्षितस्याकारान्तरयोगोऽपेक्षितः । न चेह तदास्ति । अत उपलक्षणत्वं न संभवति । विशेषणत्वेऽप्यनेक- (१) ' अङ्गुल्यादिना' ग० (२), वेदान्तवाक्यानां' मु० (३) 'सूत्रार्थः-अथातो ब्राह्मजिज्ञासा--अथे "मु० कर (४)'चा 'मु० वेदान्तदीपे विशेषणावाशष्टतयाऽपूर्वस्यैकस्य प्रतिपादकत्वं न संभव ति । विशेषणानां व्यावर्तकत्वेन विशेपणबहुत्वे ब्रह्मवद्दुत्वम सक्तेः॥ राद्धान्तस्तु-एकस्मिन्नविरुद्धानां विशेपणानामनेकत्वे. ऽपि श्यामत्वयुवत्वादिविशिष्टदेवदत्तवज्जन्मादिविशिष्टंब्रह्मैकमा भवति । उपलक्षणत्वे ऽपि जगज्जन्मादिभिरूपलक्षितस्य ब्रह्मश- ब्दावगतबृहत्त्वाद्याकराश्च सन्तीति जगज्जन्मादिकारणं ब्रह्मोति लक्षणतः प्रतिपादयितुं शक्नोतीति ।। सूत्रार्थ:-अस्य विविधवि- चित्रभाक्तृभोग्यपूर्णस्य जगतः यतो जन्मादि तद्ब्रह्मोति प्रति- पादयितुं शक्नोसेतद्वाक्यमिति ॥ (शास्त्रयोनित्वाधिकरणम् ।) शास्त्रयोनित्वात् ॥ ३ ॥ यतो वा इमानि (१)" इसादिवाक्यमेव विषयः ॥ त- तिक जगत्कारणे ब्रह्माण शास्त्रं (२) प्रमाणमुत नेति संशयः ॥ नैतत्पमाणमिति पूर्वपक्षः। कुतः । अनुमानसिद्धब्रह्मविपयत्ता- त् । प्रमाणान्तराविषये हि शास्त्रं प्रमाणम् (३)।जगतः मानय- वत्वेन कार्यत्वात्कार्यस्य च स्वोपादानोपकरण प्रदानप्रयो- जनाद्य (४)भिज्ञकर्तृकत्वाजगन्निर्माणचतुरः कर्मपरवशपरिमि- तशत्यादिक्षेत्रज्ञविलक्षणः मर्वज्ञः सर्वशक्तिः (५)मर्वेश्वरोऽनुमा- नमिद्ध इति न तस्मिन् “यतो वा इमानि भूतानि" इसादि वाक्यं प्रमाणमिति ॥राद्धान्तस्तु-जगतः कार्यत्वेऽप्येकदैवकेन कृत्स्नं (१)' इमानि भूतानि" इत्या' मु० (२) तच्छास्त्रमित्यन्वयः । ' शास्त्रम्' इति नास्ति मुद्रिते । (३) “प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुद्ध्यते । एतं विदन्ति वेदेन तस्माद्वेदस्य वेदता" इति वचनादिति बोध्यम् । (४) 'नाभिज्ञ' ग. (५) सर्वशक्तः' मु.
प्रथमाध्यायस्य प्रथमः पादः । २ जगन्निर्मितमिति(१)प्रमाणाभावात्,क्षेत्रज्ञानामेव विलक्षणपुण्या- नां ज्ञानशक्तिवैचित्र्यसंभावनया कदाचित्कस्यचि (२)जगदेकदे शनिर्माणसामर्थ्यसंभवात् तदतिरिक्तपुरुषानुमानं न संभवतीति शास्त्रकप्रमाणत्वाब्रह्मणः “यतो वा इमानि"इसादिवाक्यं ब्रह्मणि प्रमाणमिति (३)॥ मूत्रार्थस्तु-शास्त्रं यस्य योनिः कारणं प्रमाणं तहह्म शास्त्रयोनि । तद्बुद्धिकारणत्वेन शास्त्रस्य योनित्वम्(४)। प्रमाणान्तराविषयत्वेन शास्त्रैकप्रमाणकत्वाब्रह्मणस्तत्प्रतिपाद- कत्वेन तस्मिन् “यतो वा इमानि" इसादि वाक्यं प्रमाणमिति॥ (समन्वयाधिकणम्।) तत्तु समन्वयात् ॥ ४ ॥ ब्रह्मणः शास्त्रप्रमाणकत्वं संभवति नवेति(५)विचार्यते॥न संभवतीति पूर्वपक्षः। कुतः । प्रत्तिनिवृत्त्यन्वयविरहिणो ब्रह्मणः स्वरूपेणापुरुषार्थत्वात्पुरुपार्थावबोधित्वेन (६) च शास्त्रमामा- ण्यान्मोक्षसाधनब्रह्मध्यानविधिपरत्वेऽप्यसत्यपि ब्रह्मणि तद्धया- नविधानसंभवान्न ब्रह्मसद्भावे तात्पर्य्यमिति ब्रह्मणः शास्त्रपमा- णकत्वं न संभवतीति ॥ राद्धान्तस्तु-प्रतिशयितगुणपितृपु- त्रादिजीवनज्ञानवदनवधिकातिशयानन्दस्वरूपव्रह्मज्ञानस्य नि- रतिशयपुरुषार्थत्वात्तस्य शास्त्रप्रमाणकत्वं संभवात " आनन्दो ब्रह्म । यदेष आकाश आनन्दो न स्यात् । (१) 'मित्यत्र' मु० (२) कस्य चित्' इति क० ग० पुस्तकयोनास्ति । (३) 'शास्त्रैकप्रमाणकत्वाब्रह्मणस्तत्प्रतिपादकत्वेन तस्मिन् “यतो वा इमानि ” इति वाक्यं प्रमाणामिति' मु०। 'न संभवति' इत्यनन्तरं सूत्रार्थपर्यन्तं स्थितो ग्रन्थो नास्ति क० पुस्तके। (४) 'तबुद्धि' इत्यादि पक्तिर्मुद्रिते नास्ति । (५) 'नेति' मु. (६) 'बोधकत्वेन 'मु० १४ वैदान्तदीप मनसा यतो वाचो निवर्तन्ते अप्राप्य सह, आनन्द ब्रह्मणो विद्वान् " इसेवसादिभि(१)रनवधिकातिशयानन्दस्वरू- प(२) ब्रह्मेति हि प्रतिपाद्यते । अतो ब्रह्म स्वेन परेण वाऽप्यनुभू- यमानं निरतिशयानन्दस्वरूपमेवेति तत्प्रतिपादन परम्यव सा- क्षात्पुरुषार्थान्वयः। प्रत्तिनिवृत्तिपरस्य तु तत्साध्यफलमंव- न्धात् पुरुपार्थान्वय इति ॥ मूत्रार्थस्तु-तु शब्दः प्रसक्ताऽऽश- कानिवृत्त्यर्थः । तत्पूर्वसूत्रोदितं ब्रह्मणः शास्त्रयोनित्वं समन्व- यात्सिद्ध्यति । सम्यक् पुरुषार्थतयाऽन्वयः समन्वयः । वेदि- तु(३)निरतिशयानन्दरूपत्त्वेन परमपुरुषार्थरूपे ब्रह्मणि वेदकतया शास्त्रस्यान्वयाव(४) ब्रह्मणः शास्त्रप्रमाणकत्वं सिद्धयत्येवेति ॥ ( ईक्षत्यधिकरणम् ।) इक्षते शब्दम् ॥ ५ ॥ जगत्कारणवादि वेदान्तवेद्यं विपयः ॥ तत्कि सा- ख्योक्तं प्रधानमुतानवाधिकातिशयानन्दं ब्रह्मेति संशयः ॥ प्रधानमिति पूर्वपक्षः । कुतः । प्रतिज्ञादृष्टान्तान्वयेनानुमानाका- रवाक्यवेद्यत्वात् (५) । "येनाश्रुतं श्रुतं भवति" इत्यनेनै (६)- कविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय " यथा सोम्यैकेन मृत्पिण्ड- न" इति दृष्टान्तेन हापपाद्यते । एवनानुमानिकमेवैतद्राक्यवे- द्यमिति निश्चीयते (७)। “सदेव सोम्य" इति सच्छब्दः प्रधा नविषयः । “तदैक्षत वहुस्याम्" इति च गौणमीक्षणं भवितुमर्ह- (१)' इत्यादिभि' मु० (२) 'रूप' ग. (३) वेत्तु ' ग० (४) परमपुरुषार्थतया वेद्यत्वेनात्वयात्' का परमपुरुषार्थ- तया वेद्यत्वेनान्वयत्वेनान्वयात्' पा० (६) वाक्ये वेद्यत्वात् ' ग० (६) 'इत्यादिनैक' ग० मु. (७)' निश्चिते सति' पा० .
प्रथमाध्यायस्य प्रथमः पादः। ति।"तत्तेज ऐक्षत" इत्यादिगौणेक्षणसाहचर्याच ॥राद्धान्तस्तु- "तदक्षत बहुस्याम्" इति वहुभवनसंकल्परूपेक्षणान्वयात "सदेव सोम्येदम्" इति कारणवाचिसच्छब्दविषयो नाचेतनं प्रधानम् । अपि तु सार्वज्यसत्यसंकल्पत्वादियुक्तं परं(१)ब्रह्मैवेति निश्चीयते। न चानुमानाकारमेतद्वाक्यं हेत्वनुपादानात् (२)। अन्य (३) ज्ञानेनान्यज्ञानासंभवपरिजिहीर्षया तु दृष्टान्तोपादानम् । न च मुख्येक्षणसंभवे गौणपरिग्रहसंभवः । तेजःप्रभृतिष्वपि न गौण- मीक्षणम् । तेजआदिशब्दानां तेजः प्रभृतिशरीरकस्यान्ता- मिणो वाचकत्वादिति परमेव ब्रह्म जगत्कारणवाचिवेदान्तवेद्य- मिति ॥ सूत्रार्थ:-इक्षतिरी(४)क्षतिधात्वर्थ ईक्षणम् । शब्द एव(५) प्रमाणं यस्य न भवति तदशब्दम् । परोक्तमानुमानिक प्रधानम् । “सदेव सोम्येदम् " इति जगत्कारणतया प्रतिपा- दितान्वयिन ईक्षणव्यापारान्नाचेतनमशब्दं तत् । अपितु सर्वज्ञ सत्यसंकल्पं (६) ब्रह्मव जगत्कारणमिति निश्चीयत इति ।। गौणश्चेन्नात्मशब्दात् ॥ ६ ॥ "तत्तेज ऐक्षत" इत्यचेतनगतगौणेक्षण(७)साहचर्यात् “तदैक्ष त"इत्यवेक्षति(८)ौण इति चेन्नाआत्मशब्दात्।सच्छब्दाभिहिते ईक्षितरि “ऐतदात्म्यामिदं सर्वं तत्ससं स आत्मा" इति श्रूयमाणा- चेतनवाचिन आत्मशब्दादयमीक्षतिर्मुख्य ऐवेति प्रतीयते। “ऐत (१) 'संकल्पत्वयुक्तं ब्रह्मैवेति' क० (२)' हेत्वनुपदशाते' ग० (३) तेनान्य' ग. (४) 'इक्षतेरिती' कामुक (५) ' एव' कारो ग° मुद्रितपुस्तकयोास्ति । (६) 'सर्वशं परं' ग० पा० (७) 'गौणशब्दसाह ' ग० (८)'इतीक्षति!' का ६ वदान्तदीप दात्मामिदं सर्वम्” इति तेजामभृतीनामपि तदात्मकत्वावगमा- तेजःप्रभृतीक्षणमपि मुख्यमेवेत्यभिप्रायः ॥ तन्निष्ठस्य मोक्षोपदेशात् ॥ ७ ॥ इतश्च सच्छब्दाभिहितं न प्रधानम् । अपि तु परमेव ब्रह्मा"तत्त्वमसि" इति सदात्मकतया प्रत्यगात्माऽनुमंधाननिष्ठस्य "तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये" इति मोक्षो- पदेशात्तत्कारणं परमेव ब्रह्म । हेयत्वावचनाच्च ॥ ८ ॥ यदि प्रधानामह कारणतया विवक्षितं तदा तस्य मोक्षविरो- धित्वाद्धेयत्वमुच्येत । न चोच्यते । अतश्च न प्रधानम् ॥ प्रतिज्ञाविरोधात् ॥ ९॥ प्रधानवादे (१) प्रतिज्ञा च विरुद्धयते (२)। " येनाश्रुतं श्रुतम्” इति वक्ष्यमाणकारणविज्ञानेन चेतनाचेतनमिश्रकृत्स्न- प्रपञ्चज्ञानं हि प्रतिज्ञातम् । चेतनांशं प्रति प्रधानस्याकार- णत्वात्तज्ज्ञानेन चेतनांशो न ज्ञायत इति न प्रधानं कारणम् ॥ स्वाप्ययात् ॥ १० ॥ "स्त्रमपीतो भवति।सता सोम्य तदा संपन्नो भवति" इति जीव- स्य सुषुप्तस्य स्वाप्ययः श्रूयते(३)।स्वकारणे ह्यप्ययः स्वाप्ययः। जीवं प्रति प्रधानस्याकारणत्वात्स्वाप्ययश्रुतिविरुद्धयते। अतश्च न प्रधानम् । अपि तु परब्रह्मैव ॥ (१) प्रधानकारणवाद' ग० (२) 'विरुद्ध्येत' ग. (३) खाप्ययश्रुतेः' मु. , .
प्रथमाध्यायस्य प्रथमः पादः। गतिसामान्यात् ॥ ११ ॥ इतरोपनिपद्दतिसामान्यादस्यांचोपनिपदि प्रधान कारणं विवक्षितम्।इतरामु चोपनिपत्सु “यः सर्वज्ञः सर्ववित्- तस्मादेतहह्म नाम रूपमन्नं च जायते। पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया च । स कारणं करणाधिपा- धिप:आत्मनि खल्वरे विज्ञाते (५)मर्वमिदं विज्ञातं भवति।तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः (२)। पुरुष एवेदं सर्व यद्गतं यच्च भव्यं । तस्माद्विराडजायत । आत्मा वा इदमेक एवान आसीत्-स इमाल्लोकानसृजत । तस्माद्वा एतस्मादात्मन आकाशः संभूतः ।एको ह वै नारायण आसीत् । स एकाकी नारमेत"इति सर्वज्ञः पुरुपोत्तम एवं कारणतया प्रतिपाद्यते । अस्याश्च तद्गतिसामान्यादत्रापि स एव कारणतया प्रति- पादनमहतीति । न च प्रधानम् ॥ श्रुतत्वाच्च ॥ १२ ॥ श्रुतमेवा (३) स्यामुपनिपदि "आत्मत एवेदं सर्वम्" इति । अतश्च "सदेव सोम्येदम्" इत्यादिजगत्कारणवादिवेदान्तवेद्यं न प्रधानम् । सर्वज्ञ सखसंकल्पं परमेव ब्रह्मेति (४) स्थितम् ॥ ( आनन्दमयाधिकरणम् ।) आनन्दमयोऽभ्यासात् ॥ १३ ॥ तैत्तिरीयके " तस्माद्वा एतस्मादात्मन आकाशः संभूतः" इति मकृत्य तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर (१) 'विदिते' ग. (२) 'पतहम्वेदः' गाक० पुस्तक 'एतद्यहग्वेदः' इत्यंशो नास्ति। (३)' एव ह्यस्या' क० (४)' परं ब्रह्मेति ' ग० ३ २८ घेदान्तदीपे प्रात्माऽऽनन्दमयः" इत्यत्र जगत्कारणतयाऽवगत आनन्दमय: किं प्रत्यगात्मोत परमात्मति संशयः ॥ प्रसगात्मेति पूर्वप. क्षः । कुतः। " तस्यैष एव शारीर आत्मा इसानन्दमयस्य शारीरत्वश्रवणात् । शारीरो हि शरीरसंबन्धी । स च प्रत्य- गात्मैव । तस्य चेतनत्वेनेक्षापूर्विका च सृष्टिरुपपद्यते ॥ राद्धान्तस्तु-" सैषाऽऽनन्दस्य मीमांसा भवात " इत्यारभ्य यतो वाचो निवर्तन्ते अमाप्य मनसा सह, प्रानन्दं ब्रह्मणो विद्वान्" इति निरतिशय(१)दशाशिरस्कोऽभ्यस्यमान आनन्दः प्रत्यगात्मनोऽर्थान्तरभूतस्य परस्यैव ब्रह्मण इति निश्चीयते। शारीरात्मत्वं च परमात्मन एव । तस्माद्वा एतस्मादात्मन आकाशः संभूतः " इसाकाशादिजगत्कारणतयाऽवगत एवा- नमयस्य शारीर आत्मेति प्रतीयते । आत्मान्तरा(२)निर्देशा- त् । श्रुत्यन्तरेषु पृथिव्यक्षरादीनां (३) शरीरत्वं परमात्मन आत्मत्वं च श्रूयते “ यस्य पृथिवी शरीरम्" इसारभ्य एप सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इति । अन्नमयस्यात्मैव प्राणमयादिषु “ तस्यैप एव शारीर आत्मा यः पूर्वस्य" इसनुकृष्यते। इति प्रत्यगात्मनो विज्ञानम- यस्य स एव शारीर आत्मा । आनन्दमये तु " तस्यैप एव शारीर आत्मा यः पूर्वस्य " इति निर्देशः आनन्दमयस्यान- न्यात्मत्वप्रदर्शनार्थः । अतो जगत्कारणतया निर्दिष्ट आन- न्दमयः परमात्मैवेति ॥ सूत्रार्थस्तु-आनन्दमयशब्दनिर्दिष्ट आकाशादिजगत्कारणभूतः प्रत्यगात्मनोऽर्थान्तरभूतः परमा- (१) निरतिशयानन्द' ग. (२) मयादिशारीर आत्मति प्रतीतेरात्मान्तरा' पा० (३) पृथिव्यानिां' क० प्रथमाध्यायस्य प्रथमः पादः। स्मा। कुतः । अस्यानन्दस्य निरतिशयत्वप्रतीतिवलात् । एको मानुष आनन्द:-ते ये शतम् " इत्याद्यभ्यासातातस्य च प्रत्यगात्मन्यसंभावितस्य तदतिरिक्त परमात्मन्येव संभवात् ॥ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १४ ॥ आनन्दमयः" इति विकारार्थान्मयट् (१) छब्दान्नायम विकृतः परमात्मा । अस्य च विकारार्थत्वमेव युक्तम् । अन्न-- मयः" इति विकारोपक्रमादिति चेन्न । प्रसगात्मन्यपि" न जाय- ते म्रियते वा विपश्चित् (२)" इति विकारप्रतिषेधात् । प्रा- चुर्यार्थ एवायं मयाडिति निश्चयात् । अस्मिश्चानन्दे “ यतो वाचो निवर्तन्ते " इति (३) वक्ष्यमाणप्राचुर्य्या (४) दयमानन्दप्रचुरः परमात्मैव । नानवधिकातिशयरूपः (५) प्रभूतानन्दः प्रत्यगा स्मनि संभवति ॥ तद्धेतुव्यपदेशाच्च ॥ १५ ॥ एष ह्येवानन्दयाति " इति जीवान्प्र(६)यानन्दयितृत्व- व्यपदेशाच्चायं परमात्मैव ॥ मान्त्रवार्णिकमेव च गीयते ॥ १६ ॥ “ ससं ज्ञानमनन्तं ब्रह्म"इति मन्त्रवर्णोदितं ब्रह्मैव स्माद्वा एतस्मादात्मनः" इत्यारभ्यानन्दमय इति गीयते । सतश्चानन्दमयो ब्रह्म ।। (१) 'विकारार्थमयट्' ग० (२) विपश्चित् ' इत्यशो नास्ति मुद्रिते । ' वा विपश्चितू' इत्यंशी सास्ति क० पुस्तके। (३)' इत्यादि'मु० (४) वक्ष्यमाणात्प्राचुर्या' मु० (4) नानवधिकातिशयानन्दरूपः' ग० (६) 'जीवात्मानं प्र'ग . .
बंदान्तदीपे प्रत्यगात्मनः परिशुद्ध स्वरूपं मन्त्रवर्णोदितमिसाशङ्कयाह-- नेतरोऽनुपपत्तेः ॥ १७ ॥ परस्माब्रह्मण इतरः प्रसगात्मा न मन्त्रवर्णोदितः । तस्य “ विपश्चिता ब्रह्मणा "इति विपश्चित्त्वानुपपत्तेः । विविधं पश्यच्चित्वं हि विपश्चित्त्वम् । तच्च "सोऽकामयत बहुस्यां प्रजा- येय " इसादिवाक्योदितनिरुपाधिकबहुभवनसंकल्पपूर्वकं (१) सर्वज्ञत्वम् । तत्तु प्रत्यगात्मनः परिशुद्धस्यापि (२) न संभवति । जगद्यापारवर्ज प्रकरणात् " (३) इति वक्ष्यमाणत्वात् । अतः (४) परं ब्रह्मैव मान्त्रवार्णिकम् ॥ भेदव्यपदेशाच्च ॥ १८ ॥ " भीषाऽस्माद्रातः पवते" इत्यादिनाऽग्निवाथुमूर्यादिजी- वर्गस्यानन्दमयात्पशासितुः प्रशासितव्यत्वेन भेदो व्यप- दिश्यते । अतश्चानन्दमयः परमात्मति ॥ योजनान्तरं "त- स्मादा एतस्माद्विज्ञानमयात्, अन्योऽन्तर आत्माऽऽनन्दमयः" इति विज्ञानमयाजीवादानन्दमयस्य भेदो व्यपदिश्यते । विज्ञानमयो जीवं एव । न बुद्धिमात्रम् । मयदछूझतेः (५)। अतश्चानन्दमयः परमात्मति ॥ कामाच नानुमानापेक्षा ॥ १९ ॥ " सोऽकामयत " इत्यारभ्य “इदं सर्वममृजत" इति कामादेव जगत्सर्गश्रवणादस्यानन्दमयस्य जगत्सर्गे नानुमानगम्यप्र- कृत्यपेक्षा (६) प्रतीयते । प्रत्यगात्मनो हि यस्य कस्य चिदपि (१) ' संकल्परूपं' मु० (२) ' परिशुद्धस्वरूपस्यापि' मु० (३) मुद्रिते सूत्रं पूर्णमस्ति। (४) 'ततः (६)' मात्रं व्यपदिश्यते' ग. (६) ' अपेक्षाऽपि' मु० , प्रथमाध्यायस्य प्रथमः पादः । २१ सर्गे प्रकृत्यपेक्षाऽस्ति । अतश्चायं प्रत्यगात्मनोऽन्यः परमात्मा ॥ अस्मिन्नस्य च तद्योगं शास्ति ॥ २० ॥ 'रसो वै सः,रसं ह्येवायं लब्ध्वानऽऽन्दी भवति" इसस्मिन्नान- न्दमये रसशब्दनिर्दिष्टेऽस्यायशब्दनिर्दिष्टस्य (१) जीवस्य तल्ला- भादानन्दयोगं शास्ति शास्त्रम् । प्रत्यगात्मनो यल्लाभादान- न्दयोगः स तस्मादन्यः परमात्मैवेत्यानन्दमयः परं ब्रह्म ॥ ( अन्तरधिकरणम् ।) अन्तस्तद्धर्मोपदेशात् ॥ २१ ॥ छान्दोग्ये “ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्य- ते। य एपोऽन्तरक्षिणि पुरुपो दृश्यते" इत्यक्ष्यादित्याधारतया श्रूयमाणः पुरुषः किं जीवविशेष उत परमपुरुप इति संशयः॥ जीवविशेष इति पूर्वः पक्षः । कुतः । सशरीरत्वात् । शरीरसं- योगो हि कर्मवश्यस्य जीवस्य (२) स्वकर्मफलभोगाये- ति (३) ॥ राद्धान्तस्तु-"स एष सर्वेभ्यः पाप्मभ्य उदितः" इसादिनाऽपहतपाप्मत्व (४) पूर्वकसर्वलोककामेशत्वो (५)- पदेशात्तेषां जीवेष्वगंभवादयमक्ष्यादिसाधारः पुरुपोत्तम एव । स्वासाधारणविलक्षण रूपवत्त्वं च ज्ञानवलैश्वर्या- दिकल्याणगुणवत्तस्य संभवति । श्रूयते च तद्रूपस्यामाकृतत्वम् आदित्यवर्ण तमसस्तु पारे " इत्यादौ ॥ मूत्रार्थस्तु- प्रादिसाक्ष्यन्तः श्रूयमाण: पुरुपः परं ब्रह्म । (१)' अयंशब्दनिर्दिष्टस्य' इति नास्ति क० पुस्तके । (२) 'जीवस्य' इति क० पुस्तके नास्ति । (३)'फलोपभोगायोति' ग० (४)'पाप्मत्वादि' ग. (५) कामेशशब्दो' ग. (६) आदित्याद्यन्तः' मु० ' आदित्यादौ' ग० ૨૨ वेदान्तदीपे तद (1) साधारणापहतपाप्मत्वादि (२) धर्मोपदेशात् ॥ भेदव्यपदेशाच्चान्यः॥ २२ ॥ य आदित्ये तिष्ठन्नादित्यादन्तरः । य आत्मनि ति- ठन्नात्मनो ऽन्तरः" इत्यादिभिर्जीवा(३) देदव्यपदेशाच्चायं जीवादन्यः परमात्मैव ॥ (आकाशाधिकरणाम ।) आकाशस्तल्लिङ्गात् ॥ २३ ॥ छन्दोग्ये (४)"अस्य लोकस्य का गतिरित्याकाश (५) इति होवाच, सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति " इत्यत्राकाशशब्दनिर्दिष्टं जगत्कार- णं किं प्रसिद्धाकाश उत समस्तचिदचिद्वस्तुवि (६) लक्षणं ब्रह्मेति संशयः ।। प्रसिद्धाकाश इति पूर्वः पक्षः । कुतः । प्रा- काशशब्दस्य लोके तत्रैव व्युत्पत्तेः। “यतो वा इमानि भूता- नि" इत्यादिसामान्य लक्षणस्य सदादिशब्दानामपि साधारण- त्वेन “आकाशादेव समुत्पद्यन्ते " इति विशेषे पर्यवसानात् । ईक्षणादयोऽप्याकाश एव जगत्कारणमिति निश्चिते सति गौणा वर्णनीयाः ॥ राद्धान्तस्तु-“ सर्वाणि ह वा इमानि भूतानि " इति इति प्रसिद्धवनिर्देशात्प्रसिद्ध श्वेक्षापूर्वकत्वाच्चि- तदसाधा- (१) तस्या' ग० (२) तदसाधारणसर्वेश्वरत्वपाप्मोदयादि' कर रणसर्वेश्वरत्वापास्तोदयादि' पा० (३)' इत्यादिजी' ग० (४) छान्दोग्ये' इति ग० पुस्तके नास्ति । (५) 'गतिः" इत्युक्ते प्रतिवचनम् " आकाश' ग (६) 'चिदचिद्धि' का प्रथमाध्यायस्य प्रथमः पादः। दचिद्रस्तुवि (१)लक्षणं सर्वशं ब्रह्माकाशशब्दनिर्दिष्टमिति ॥ सूवार्थस्तु-आकाशशब्दनिर्दिष्टं परमेव ब्रह्म । प्रसिद्धवग्नि- दिश्यमानाज्जगत्कारणत्वादिलिङ्गात् ।। (प्राणाधिकरणम् ।) अत एव प्राणः ॥ २४ ॥ छान्दोग्ये “ प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता" इति प्र- स्तुत्य कतमा सा देवतेति पाण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्यु- ज्जिहते सेषा देवता प्रस्तावमन्वायत्ता" इत्यत्र निखिल- जगत्कारणतया प्राणशब्दनिर्दिष्टः किं प्रसिद्धः प्राण उ- तोक्तलक्षणं ब्रह्मेति संशयः ॥ प्रसिद्धप्राण इति पूर्वः पक्षः। कुतः । सर्वस्य जगतःप्राणायत्तस्थितिदर्शनात्स एव निखिलजग- देककारणतया निर्देशमहतीति ॥ राद्धान्तस्तु-शिलाकाष्टादि- वचेतनेषु चेतनस्वरूपेषु च (२) प्राणायत्तस्थित्यभावात् "सर्वा- णि ह वा इमानि भूतानि " इति प्रसिद्धवनिर्देशादेव हेतोः प्राणशब्दनिर्दिष्टं परमेव ब्रह्म ॥ सूत्रमपि व्याख्यातम् ॥ (ज्योतिराधिकरणम् ।) ज्योतिश्चरणाभिधानात् ॥ २५ ॥ छान्दोग्ये “अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्टेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वा व तद्यदि- दमस्मिन्नन्तः पुरुषे ज्योतिः" इत्यत्र जगत्कारणत्वव्याप्त- निरतिशयदीप्तियुक्ततया ज्योतिःशब्दनिर्दिष्टं कि प्रसिद्धादि- (१) चिदचिद्वि' ग० (२) चेतनस्वरूपेषु च' इति मुद्रित एवास्ति ।
वेदान्तदीपे “ त्यादिज्योतिरुत परमेव ब्रह्मेति संशयः ॥ प्रसिद्धज्योतिरिति पूर्वः पक्षः । कुतः । “इदं वाव तद्यदिदमस्मिन्नन्तः पु- रुषे ज्योतिः" इति कौशेयज्योतिषा प्रसिद्धेनैक्यावगमात् । स्ववाक्ये तदतिरिक्तपरब्रह्मासाधारणलिङ्गा(१)दर्शनाच ॥रा- द्धान्तस्तु-प्रसिद्धज्योतिषोऽन्यदेव परं ब्रह्मेह निरतिशयदीप्ति- युक्तं ज्योतिःशब्दनिर्दिष्टम् । कुतः । "पादोऽस्य विश्वा (२) भूतानि त्रिपादस्यामृतं दिवि" इति पूर्ववाक्ये घुसंबन्धित- या निर्दिष्टस्यैव चतुष्पदो ब्रह्मणः अथ यदतः परो दिवो ज्योतिः" इत्यत्र प्रत्यभिज्ञानात् । तच्च परमेव ब्रह्मेति वि- ज्ञातम् । सर्वेषां भूतानां तस्य पादत्वेन व्यपदेशात् । एवं पर- ब्रह्मत्वे निश्चिते कौक्षयज्योतिषस्तु तदात्मकत्वानुसंधानं फला- योपदिश्यत इति ज्ञायते (३)॥ सूत्रार्थस्तु-ज्योतिःशब्दनिर्दिष्टं परं ब्रह्म । अस्य ज्योतिषः पूर्ववाक्ये. सर्वभूतचरणत्वाभि- धानात् । सर्वभूतपादत्वं च परस्यैव ब्रह्मण उपपद्यते ॥ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनि- गमात्तथाहि दर्शनम् ॥ २६ ॥ गायत्री वा इदं सर्वम्" इति गायत्र्याख्यच्छन्दस: प्रकृतत्वात्सर्वभूतपादत्वेन गायच्या एवाभिधानान्न ब्रह्मेति चेत्, नैतत् । तथा चेतोऽर्पणनिगमात् गायत्री यथा भवति तथा ब्रह्मणि चेतोऽर्पणोपदेशात् । गायत्री सादृश्यं चतुष्पात्त्वं ब्रह्मण्यनुसंधेयमित्युपदिश्यते । गायत्र्याः सर्वात्मत्वानुपपत्तेरि- त्यर्थः । तथा हि दर्शनं तथा ह्यन्यत्रापि छन्दस एव सादृश्या- (१) लिङ्गप्रतिपादका' इत्यपि पाठः । (२) सर्वा' मु० (३) विज्ञायते' क० ' भ्रथमाध्यायस्य प्रथमः पादः। च्छन्दःशब्देनाभिधानं दृश्यते "ते वा एते पञ्चान्ये पञ्चान्ये दश संपद्यन्ते" इसारभ्य “सैषा विराडन्नादी" इति ॥ भूतादिपाव्यपदेशोपपत्तेश्चैवम् ॥ २७ ॥ भूतपृथिवीशरीरहृदयानि निर्दिश्य “सैपा चतुष्पदा" इति भूतादीनां पादत्वव्यपदेशो ब्रह्मण्येवोपपद्यत इति च ब्रह्मैव गायत्रीशब्दनिर्दिष्टमिति गम्यते ॥ उप(१)देशभेदान्नेति चेन्नोभयस्मिन्नप्यवि- रोधात् ॥ २८ ॥ “पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि" इति पूर्व- चाक्योदितं परं ब्रह्मैवास्तु; तथापि “अथ यदतः परो दिखो ज्योतिः" इति द्युसंवन्धमात्रेण नेह तत्पसभिज्ञायते; तत्र चाव चोप(२)देशप्रकारभेदात; तत्र हि "दिवि" इति द्यौः सप्तम्या निर्दिश्यते, इह च "दिवः परो ज्योतिः" इति पञ्चम्या, ततो न प्रतिसंधानीमति चेन्न । उभयस्मिन्नपि व्यपदेश उपरिस्थि- तिरूपाथै क्येन प्रतिसंधानाविरोधात् । यथा वृक्षाग्रे श्येनः, वृक्षापात्प(३)रतः श्येन इति ॥ (इन्द्रप्राणाधिकरणम् ।) प्राणस्तथाऽनुगमात् ॥ २९ ।। कौषीतकिब्राह्मणे प्रतर्दनविद्यायाम् "त्वमेव वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे " इति प्रतर्दनेनोक्त इन्द्रः " प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व" इत्याह । अत्र हिततमोपासनकर्मतया निर्दिष्ट इन्द्रः प्राण (४)शब्दाभिधे- (१) 'व्यप (२)' च व्यप (३)' वृक्षात्प (४)'इन्द्रप्राण' क० मु० , ग० ग. का घेदान्तदीपे यः किं जीव उत परत्मात्मेति संशयः ॥ जीव इति पूर्वपक्षः। इन्द्रशब्दस्य जीवविशेष प्रसिद्धः (१) प्राणशब्दस्यापि तत्स- मानाधिकरणस्य स एवार्थ इति " तं मामायुरमृतमित्युपा- स्व" इति तस्यैवोपास्यत्वोपदेशात ॥ राद्धान्तस्तु-इन्द्रमाणश- ब्दनिर्दिष्टं जीवादर्थान्तरभूतं परं ब्रह्म “स एष माण एव प्रज्ञा- स्माऽऽमन्दोऽजरोऽमृत" इतीन्द्रप्राणशब्दनिर्दिष्टस्यैव जीवेष्व- संभावितानन्दत्वाजरत्वामृतत्वश्रवणात् ॥ सूत्रार्थस्तु-उपास्य- तयोपदिष्टमिन्द्रमाणशब्दाभिधेयं परं ब्रह्म। तथेति प्रकारवंचनः। परब्रह्मप्रकारभूतेष्वानन्दादिष्वस्यानुगमात् ॥ न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्ध- भूमा ह्यस्मिन् ॥ ३० ॥ नायमुपास्यः परमात्मा, “मामेव विजानीहि । तं मामायुर- मृतमित्युपास्व" इति प्रज्ञातजीवभावस्यन्द्रस्य वक्तुः स्वात्पन उपास्यत्वो(२) पदेशात्, उपक्रमे जीवभावनिश्चये सत्युपसंहार- स्य तदनुगुणतया नेयत्वादिति चेन्न । अध्यात्मसंबन्धभूमा ह्यस्मिन् अात्मीन संबन्धोऽध्यात्मसंबन्धस्तस्यभूमा बहुत्वम्।जीवादर्थान्तर- भूतात्माऽसाधारणधर्मसंबन्धबहुत्वमस्मिन्प्रकरण उपक्रमप्रभृत्युप- संहारादुपलभ्यते । उपक्रमे तावत् (३) “यं त्वं मनुष्याय हि- ततमं मन्यसे" इत्यने(४) नोच्यमानमुपासनं परमात्मोपासनमेव । तस्यैव हिततमत्वात्। तथा “एष एव(५)साधु कर्म कारयति" इत्या- दिसाध्वसाधुकर्मणोः कारयितृत्वं परमात्मन एव धर्मः । “तद्य- (१) प्रसिद्धिः 'क० (३) 'तावदुक्तम् ग. (५)' एष ह्येव' का (२) उपास्यत्वेनो' क० (४) इति ह्यने मु० 'इत्युक्ते' पा० प्रथमाध्यायस्य प्रथमः पादः। था रथस्यारेषु नेमिरर्पिता नामावरा अर्पिता एवमेवता भूत- मात्राः प्रज्ञामात्रास्वपिताःप्रज्ञामात्राःप्राणेऽपिताः" इति सर्वा- धारत्वं च तस्यैव धर्मः । प्रानन्दादयश्च । एष लोकाधिप- तिरेषसर्वेशः" इति च । हीति हेतौ अतः परब्रह्मैवाय- मित्यर्थः॥ परमात्मैवोपास्यश्चत्कथमिन्द्रो “ मामुपास्व" इत्युपदिवे- शेत्यत आह- शास्त्रदृष्टया तपदेशो वामदेववत् ।। ३१ ।। इन्द्रस्य जीवस्यैव सतः स्वात्मत्वेनोपास्यभूतपरमात्मोपदेशोऽयं शास्त्रदृष्टया। “अन्तःमविष्टः शास्ता जनानां सर्वांत्मा। तत्त्वमसि । य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः। एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इसा- दीनि हि शास्त्राणि परमात्मानं (१) जीवात्मन आत्मतयोपदि- दिशुः । अतो जीवात्मवाचिनः शब्दाः जीवात्मशरीरकं परमा- स्मानमेव वदन्तीति विदितशास्त्रार्थस्य(२) “मामेव विजानी- हि । मामुपास्व"इति स्वात्मवाचि(३) शब्देनपरमात्मोपदेशोऽयं नविरुद्ध्यते।यथा वामदेवः शास्त्रदृष्टया स्वात्मशरीरकं परमात्मानं पश्यन्नहमिति परमात्मानमवोचन् “तद्धैतत्पश्यन्नृषिर्वाम- देवः प्रतिपेदे अहं मनुरभवं सूर्यश्चाहं कसीवानृषिरस्मि विमः" इति ॥ (१)' परमात्मनो' ग० (२)'शास्त्रहष्टार्थस्य तस्य' मु०। 'विदित' इति विना 'शा- स्त्रार्थस्य' इत्येव पाठान्तरे। (३) 'वाचि' इति मुद्रित क. पुस्तकयोर्नास्ति ।
૨૮ वेदान्तदीपे जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासातैविध्यादाश्रि- तत्वादिह तद्योगात् ॥ ३२ ॥ विशिणं त्वाष्ट्रमहनमरुन्मुखान्यतीन्सालाटकेभ्यः यछम् । यावदस्मिञ्छरीरे प्राणो वसति तावदायुः इति जीव- मुख्यप्राणलि(१)ङ्गानाध्यात्मसंवन्धभूम्ना परमात्मत्वनिश्चय इति चेन्न । परमात्मन एव स्वाकारेण जीवशरीरकत्वेन पाण- शरीरकत्वेन चोपासात्रैविध्याद्धेतोस्तत्त(२)च्छब्देनाभिधानमिति निश्चीयते । अन्यत्रापि ब्रह्मापासने नै (३)विध्यस्याश्रितत्वा- त् “ससं ज्ञानमनन्तं ब्रह्म। अनन्द्रा ब्रह्म" इति स्वाकारेणोपास्य- त्वं “सच्च सच्चाभवत्" इसादिना भोक्तृशरीरकत्वेन भोग्यश- रीरकत्वेन च । इह प्रतर्दनविद्यायामपि तस्य त्रैविध्यस्य संभवात । अत इन्द्रप्राणशब्दनिर्दिष्टः परमात्मा ॥ इति श्रीभगवद्गामानुजविरचिते वेदान्तदीपे प्रथमाध्यायस्य प्रथमः पादः ।। “ (सर्वचप्रसिद्ध्यधिकरणम् ।) सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥ छान्दोग्ये श्रूयते सर्व खल्विदं ब्रह्म तजलानिति शान्त उपासीत, अथ खलु क्रतुमयोऽयं पुरुपो यथा क्रतुस्मिल्लोके पुरुपो भवति तथेतः प्रेस भवति स क्रतुं कुर्वीत मनोमयः प्राणशरीरः"इति । अत्र “सर्वं खल्विदं ब्रह्म" इति मर्वात्मत्वेन नि- दिष्टं ब्रह्म कि प्रसगात्मोत परमात्मेति संशयः॥प्रसगात्मेति पूर्वः पक्षः । सर्व(४)तादात्म्योपदेशो हि तस्यैवोपपद्यते। परस्य तु (१)'प्राणयोर्लि' क० (३) 'पासना' मु. (२) तत्र त (४) सर्वत्र' मु० प्रथमाध्यायस्य द्वितीय. पादः । क ब्रह्मणः सकलहेयप्रसनीकल्याणैकतानस्य समस्तहेयाकर (१)- सर्वतादात्म्यं विरोधादेव न संभवति । प्रसगात्मनोहि कर्मनिमि- त(२)ब्रह्मादिस्तम्बपयन्तसर्वभाव उपपद्यते । सृष्ट्यादिहेतुकत्त्वं च तत्तत्कर्म (३) निमित्तत्वेन सृष्टयादेरुपपद्यते।ब्रह्मशब्दोऽपि बृहत्वगुणयोगेन "तस्मादेतब्रह्म नामरूपमन्नं च जायते" इति वत्तत्रैव वर्त्तते ॥ राद्धान्तस्तु-" तजलान्" इति “सर्वं खल्विदं ब्रह्म"इति तज्जन्मस्थितिलयहेतुकं तदात्मकत्वं प्रसिद्धवनिर्दिश्य- मानं परस्यैव ब्रह्मण उपपद्यते। परस्माद्ब्रह्मण एव हि जगजन्म- स्थितिलया प्रसिद्धाः “सोऽकामयत बहुस्यां प्रजायेयेति । इदं सर्वमसृजत" इसादिषातथा सर्वात्मकत्वं च जन्मादिहेतुकं परस्यैव ब्रह्मणः(४) प्रसिद्धं "सन्मूलाः सोम्येमाः सर्वाःप्रजाः सदायतनाः सत्पतिष्ठाः।ऐतदात्म्यमिदं सर्वम्" इतिाहेयप्रसनीककल्याणक- तानात्मनश्च परस्य हेयाकरसर्वभूतात्मत्वमविरुद्धम् । यः पृथिव्यां तिष्ठन्-यस्य पृथिवीशरीरम् । य आत्मनि तिष्ठन्-यस्यत्मा- शरीरं स त आत्मान्तर्याम्यमृतः" इसादिना शरीरात्मभावेन सर्वात्मत्वोपपादनात् ।शरीरात्मनोश्च स्वभावव्यवस्थापनात्। सर्व ब्रह्मेति सर्वत्र सर्वशब्द(५) सामानाधिकरण्यनिर्देशश्च सर्वशब्दस्य सर्वशरीरके ब्रह्मण्येव प्रत्तेरुपपद्यते । शरीरवाची हि शब्दः शरीरिण्यात्मन्येव पर्यवस्यति । देवमनुष्यादिशब्दवत् ॥ सूत्रा- र्थ:-सर्वत्र “सर्व खल्विदं ब्रह्म"इति निर्दिष्टे सर्वत्र सर्वशब्द (६)- (१) 'समस्तहेयाकार' ग० 'समस्तहेयाकारं 'मु. (२)' निमित्तो' मु. (३) तस्येव कर्म' पा० (४)'ब्रह्मणः' इति क० ग० पुस्तकयोर्न । (4) सर्वत्र सर्वशब्द' इति मुद्रित ग० पुस्तकयो स्ति । (६) निर्दिष्टे वस्तुनि सर्वशब्दवाच्ये' मु० निर्दिष्टे सर्वत्र जगति सर्वशब्दसामा 'पा० निर्दिष्टे वस्तुनि सर्वशब्दस्य' ग० वेदान्तदीपे सामानाधिकरण्येन तदात्मतया निर्दिष्टं परं ब्रह्मैव । कुतः । प्रसिद्धोपदेशात् तजलानिति सर्वमिदं ब्रह्म खल्विति प्रसिद्ध- वत्सर्वात्मकत्वस्योपदेशात् (१) । तदेव हि जगज्जन्मास्थितिलय- हेतुत्वेन वेदान्तेषु प्रसिद्धम् ॥ विवक्षितगुणोपपत्तेश्च ॥ २ ॥ मनोमयत्वादिकाः सससंकल्पत्वमिश्रा विवक्षिताः गुणा: परस्मिन्नेवोपपद्यन्ते ॥ अनुपपत्तेस्तु न शरीरः ॥ ३ ॥ एतेषां गुणानामनन्तदुःखमिश्रपरिमितमुखलवभागिन्यज्ञे कर्मपरवशे शारीरे प्रसगात्मन्यनुपपतेश्चायं न शारीरः । अपि तु परमेव ब्रह्म ॥ कर्मकर्तृव्यपदेशाच्च ॥ ४ ॥ एतामितः प्रेसाभिसंभवितास्मि" इति प्राप्यतयोपास्यो निर्दिश्यते, प्राप्तृतया च जीवः । अतश्च जीवादन्यदेवेदं (२) परं ब्रह्म॥ शब्दविशेषात् ॥ ५॥ एष म आत्माऽन्तहर्दये " इति शारीरः पष्टया निर्दिष्टः, उपास्यः प्रथमया । अतश्च जीवादन्यः ॥ स्मृतेश्च ॥ ६ ॥ “सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञान मपोहनं (१) प्रसिद्ध्वसस्योपदेशात् ' ग० प्रसिद्धवत्तस्योपदेशात् । स- त्मिकत्वस्योपदेशाच' मु० (२) 'इदम' इति ग० पुस्तके नास्ति ।
प्रथमाध्यायस्य द्वितीयः पादः । च" इति स्मृतेश्च जीवादन्य उपास्यः परमात्मा ॥ अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्य- त्वादेवं व्योमवच्च ॥ ७ ॥ एषम आत्माऽन्तहर्दये" इत्यल्पस्थानत्वात् “अणीयान्त्री- हेर्वा यवाद्वा" इसल्पत्वव्ययदेशाच न परं ब्रह्मेति चेन्न। निचा- य्यत्वादेवं एवमुपास्यत्वाद्धेतोरल्पायतनवाल्पत्वव्यपदेशः न स्वरूपाल्पत्वेन । “ज्यायान्पृथिव्याः" इसादिना सर्वस्माज्या- यस्त्वोपदेशात् । ज्यायसोऽप्यस्य हृदयायतनावच्छेदे (१)- नाल्पत्वानुसंधानमुपपद्यते।व्योमवत् यथा महतोऽपि व्योम्नः सूचिवाश्या (२)दिष्वल्पत्वानुसंधानम् । चशब्दोऽवधारणे तु- द्वदेवेसर्थः (३)। स्वाभाविकं चास्य महत्त्वमत्र व्यपदिश्यत इसर्थः। ज्यायान्पृथिव्या ज्यायानन्तारक्षाज्ज्यायान्दिवो ज्यायाने- भ्यो लोकेभ्यः" इति धनन्तरमेव व्यपदिश्यते (४)॥ संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥ यापासकशरीरे (५) हृदयेऽयमपि वर्त्तते ततस्तद्वदेवास्यापि श- रीरप्रयुक्तसुखदुःखसंभोगप्राप्तिरिति चेन्न। हेतुवैशेष्यात् । न हि शरीरान्तर्वर्तित्वमेव मुखदुःखोपभोगहेतुः। अपि तु कर्मपरवश- त्वम् । तत्त्वपहतपाप्मनः परमात्मनो न संभवति ॥ (१)'वच्छेद्यत्वे' ग० (२)'सूचीपथा' मु० सूचिपाशा' का (३) 'वेत्यर्थः । व्योमवश्वायं व्यपदिश्यते । स्वाभा (४) 'इतियुक्तं परमे व्यपदिश्यते' पा० (५) 'शरीरि'क० पा० OM वेदान्तदीपे (अत्तधिकरणम् ।) अत्ता चराचरग्रहणात् ॥ ९ ॥ कठवल्लीष्याम्नायते “यस्य ब्रह्म च क्षत्रं चोभे भवत प्रो- दनः, मृत्युर्यस्योपसेचनं क इत्था वेद यत्र मः" इति। अत्रौ- दनोपसेचनमूचितोऽत्ता किं जीव उत परमात्मति संशयः॥ जीव इति पूर्वः पक्षः भोक्तृत्वस्य कनिमित्तत्वात् जीवस्यै- व तत्संभवात् ॥ राद्धान्तस्तु-सर्वोपसंहारे मृत्यूपमेचनमदनीयं चराचरात्मकं कृत्स्नं जगदिति तस्यैत (2) स्यात्तापरमात्मैव न चेदं कनिमित्तं भोक्तृत्त्वम् । अपितु जगत्सृष्टि(२)स्थितिलय- लीलस्य परमात्मनो जगदुपसंहारित्वरूपं भाक्तृत्वम् ॥ मूत्रार्थ:- ब्रह्मक्षबौदनस्यात्ता परमात्मा। ब्रह्मक्षत्रशब्देन चराचरस्य (३) कृत्स्नस्य जगतो ग्रहणात् । मृत्यूपसेचनो ह्योदनो न(४) ब्रह्मक्षत्रमात्रम् । अपि तु तदुपलक्षितं चराचरात्मकं कृत्स्नं जगदेव ॥ प्रकरणाच्च ॥ १० ॥ महान्तं विभुमात्मानं मत्वा धीरो न शोचति, नाय- मात्मा प्रवचनेन लभ्यो न मेधया (५)" इति परस्यैव हीदं प्रकरणम् । अतश्चायं परमा अनन्तरं (६)" ऋतं पिवन्तौ सुकृतस्य लोके गुहां प्रविष्टौ , (१)'तस्यौदन' ग० (२)' अपि जगतः सृष्टि' ग० (३)'चराचरात्मकस्य "ग० (४) · न मृत्यूपसेचनस्यौदनं ' ग. (4)'नमेधया' इत्यंशः क० ग० पुस्तकयोन स्ति। (६)' नन्वनन्तरम्' मु० प्रथमाध्यायस्य द्वितीयः पादः । परमे पराद्धर्थे " इति द्वयोः (१) कर्मफलादनश्रवणात्पर- मात्मनश्च कर्मफलादनानन्वया(२)दन्तःकरणद्वितीयो जीव एव तत्रात्तति (३) प्रतीयते, अतोऽत्रापि स एव जीवोऽत्ता भवितुमर्हतीसाशङ्कयाह- गुहां प्रविष्टावात्मानौ हि तदर्शनात् ॥ ११ ॥ गुहां प्रविष्टौ हि जीवात्मपरमात्मानौ । जीवद्वितीयः प- रमात्मैव तत्र प्रतीयत इत्यर्थः । स्वयमनश्नतोऽपि पर- मात्मनः प्रयोजकतया पानेऽन्वयो विद्यते (४)। जीवद्वितीयः परमात्मेति कथमवगम्यते । तदर्शनात् । तयोरेव ह्यस्मिन्प्रक- रणे गुहाप्रवेशव्यपदेशो दृश्यते " तं दुर्दर्श गूढमनुप्रविष्टं गुहा- हितं गहरेष्टं पुराणम्, अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहाति " इति परमात्मनः “ या प्राणेन सं- भवसदितिर्देवतामयी, गुहां प्रविश्य तियन्ती सा भूतेभि- य॑जायत" इति जीवस्य । कर्मफलान्यत्तीसदिति वः ॥ विशेषणाच्च ॥ १२ ॥ अस्मिन्प्रकरणे ह्युपक्रमप्रभृत्योपसंहारा (५) जीवपरमा- स्मानावेवोपास्यत्वोपासकत्वप्राप्यत्वप्राप्तृत्वादिभिर्विशिष्यते " महान्तं विभुमात्मानं मत्वा धीरो न शोचति । (६) विज्ञानमा- रथिर्यस्तु मनःप्रग्रहवान्नरः, सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् " इत्यादिषु । अतश्चात्ता परमात्मा ॥ (१) 'द्वयोरपि' क० (२) 'कर्मफलानन्वया' क० 'कर्मफलादनासंभवा' ग. (३) ' अत्रात्मति' ग० (४)'दृश्यते' गर (६)'प्रभृत्युपसंहारा'मु० ग. (६)' शोचति" इति " विज्ञान' का , ३४ वेदान्तदीपे ( अन्तराधिकरणम् ।) अन्तर उपपत्तेः ॥ १३ ॥ छान्दोग्ये " य एषोऽक्षिणि पुरुषो दृश्यते एप प्रात्मेति होवाच एतदमृतमभयमेतद्ब्रह्म" इयत्राक्ष्याधारः पुरुपः किं प्रतिविम्बात्मजीवदेवताविशेषेष्वन्य(१)तम उत परमात्मेति सं- शयः॥ एष्वन्यतम इति पूर्वपक्षः। य एप-दृश्यते " इति प्रसिद्धवत्साक्षत्कारनिर्देशात् ॥राद्धान्तस्तु-परमात्मैवायमक्ष्या- धारः पुरुषः अक्षिपुरुषसंवन्धितया श्रूयमाणा निरूपाधिकात्म- (२)त्वामृतत्वाभयत्वब्रह्मत्वसंयद्वा(३)मत्वादयः परमात्मन्येवोप- पद्यन्ते । प्रसिद्धवनिर्देशश्च “यश्चक्षुपि तिष्ठन्" इत्यादि श्रुसन्तर- प्रसिद्धरुपपद्यते । साक्षात्कारश्च तदुपासननिष्ठानां योगिनामि- ति ॥ मूत्रार्थ:-अक्ष्यन्तरपुरुषः परमात्मा । संयद्वा(४)मत्वादीनां गुणानामत्र(५)वोपपत्तेः॥ स्थानादिव्यपदेशाच्च ॥ १४ ॥ स्थानं स्थितिः । परमात्मन एव यश्चक्षुपि तिष्ठन् । इत्यादौ चक्षुषि स्थिति(६)नियमनादीनां व्यपदेशाच्चायं प- रमात्मा ॥ सुखविशिष्टाभिधानादेव च ॥ १५ ॥ प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म "इति मुखविशिष्टतया प्रकृतस्यैन परस्य (७) ब्रह्मणोऽक्ष्याधारतयोपास्यत्वाभिधाना- (१) प्रत्यगात्मा जीवो । देवताविशेषेष्वन्य' ग. 'प्रतिविम्या- त्मजीवदेवताविशेषान्य' मु. (२) 'निरुपाधिका आत्म' ग. (३) बृहत्त्वसंपद्वा' ग० (४)' संपद्वा' ग० (६) गुणानां तत्रै' का (६)'चक्षुःस्थिति' क० (७)'प्रकृतस्य परस्यैव मु. “ प्रथमाध्यायस्य द्वितीयः पादः । चाय परमात्मा । एवकारोऽस्यैव हेतो रपेक्ष्यावगमाय ॥ "प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' इत्यत्र सुखविशिष्टं परमेव ब्रह्माभिहितमिति कथमिद(२)मवगम्यते यावता नामादिव- स्मतीकोपासनमेवेत्याशङ्कयाहman अत एव च स ब्रह्म ॥ १६ ॥ “ यतस्तत्र भवभयभीतायोपकोसलाय ब्रह्मस्वरूपजि (२)- ज्ञासवे "कं च तु खं च (३) न विजानामि"इति पृच्छते “य- द्वा व कं तदेव खं यदेव खं तदेव कम्" इसन्योन्यव्यवच्छे- दकतयाऽपरिछिन्नसुखस्वरूपं ब्रह्मेत्यभिधाय प्राणं च हास्मै तदाकाशं चोचुः" इत्युक्तम् । अत एव खशब्दा(४)- भिधेयः स आकाशोऽपरिछिन्नसुखविशिष्टं परं ब्रह्मैव ॥ श्रुतोपनिपत्कगत्यभिधानाच्च ॥ १७ ॥ श्रुतोपनिषत्कैरधिगतब्रह्म(५)याथात्म्यैब्रह्ममासये या ग- तिरचिरादिकाऽधिगन्तव्यतयाऽवगता श्रुत्यन्तरे तस्याश्चहा- क्षिपुरुषं श्रुतवतो(६)ऽधिगन्तव्यतया तेऽचिपमेवा(७)- ऽभिसंभवन्ति " इत्यादिनाऽभिधानादक्षिपुरुषः परमात्मा ॥ अनवस्थितेरसंभवाच्च नेतरः ॥ १८ ॥ परमात्मन इतरो जीवादिकः । तस्याक्षिणि नियमेना- (१) इदम्' इति ग० पुस्तके नास्ति । (२)'खरूपं जि' ग. (३)'कं च खं च तु' गर (४) सुखशब्दा' ग. (५)' परब्रह्म' मु. (६)'श्रुतवते' क. (७) ' तेऽर्चिषम' क० वेदान्तदीपे नवस्थितेरमृततत्वसंयद्वामत्वादीनां चासम्भवान्न सो(१)- ऽक्ष्याधारः॥ अन्तर्याम्यधिकरणम् ।) अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्म- व्यपदेशात् ॥ १९॥ बृहदारण्यके यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यम- यत्येष त आत्माऽन्तर्याम्यमृतः" इत्यादिषु सर्वेषु पर्या- येषु श्रूयमाणोऽन्तर्यामी कि प्रत्यगात्मोत परमात्मति संश- यः ॥ प्रत्यगात्मोत पूर्वः पक्षः । वाक्यशेपे “ द्रष्टा-श्रो- ता-मन्ता" इति द्रष्टत्वादिश्रुतेः। नान्योऽतोऽस्ति द्र- ष्टा "इति द्रष्टन्तरनिषेधाच्च । राद्धान्तस्तु-पृथिव्याद्यात्म- पर्यन्तसर्वतत्त्वानां सर्वैरेभिरदृष्टेनैकेन नियमनं निरु- पाधिकामृतत्वादिकं च परमात्मन एव धर्म इसन्ता- मी परमात्मा । द्रष्टत्वादिश्च रूपादिसाक्षात्कारः । स च "पश्य- सचक्षुः सशृणोत्य कर्णः" इत्यादिना च परमात्मनोऽप्यस्ति । "नान्योऽतोऽस्ति द्रष्टा" इति जीवेनादृष्टान्तर्यामिद्रष्टवत् अ- न्तर्यामिणाऽप्यदृष्टद्रष्टन्तरनिषेधपरः ॥ सूत्रार्थः-अधिदे- वाधिलोकादिपदचिह्नितेषु वाक्येपु श्रूयमाणोऽन्तर्यामी परमात्मा । सर्वान्तरत्वसर्वाविदितत्वसर्वशरीरकत्वसनियमनम- त्मित्वामृतत्वादिपरमात्मधर्माणां व्यपदेशात् ॥ न च स्मार्त्तमतहाभिलापाच्छारीरश्च ॥ २० ॥ स्मार्त प्रधानम् । शारीरः प्रसगात्मा । स्मार्त च (१)'नासाव ग.
प्रथमाध्यायस्य द्वितीयः पादः । ७ शारीरश्च नान्तर्यामी । तयोरसंभावितात्म(१)धर्माभिलापात् । यथा स्मार्तस्याचेतनस्यासंभावनया नान्तर्यामित्वप्रसक्ति- स्तथा प्रसगात्मनोऽपीत्यर्थः॥ उभयेऽपि हि भेदेनैनमधीयते ॥ २१ ॥ उभये काण्वा माध्यान्दिनाश्चापि “यो विज्ञाने तिष्ट- न् । य आत्मनि तिष्ठन्" इति यतः प्रत्यगात्मनो भे- देनैनमन्तर्यामिणमधीयते अतोऽयं तदतिरिक्तः परमात्मा ॥ ( अदृश्यत्वाधिकरणम् ।) अदृश्यत्वादिगुणको धर्मोक्तः ॥ २२ ॥ आथर्वणे " अथ परा यया तदक्षरमधिगम्यते यत्तद- द्रेश्यम् " इत्यारभ्य " यद्भूत योनि परिपश्यन्ति धीराः । अक्षरात्परतः परः" इसादौ कि प्रधानपुरुपौ प्रतिपाते उत परमात्मेति संशयः ॥ प्रधानपुरुषाविति पूर्वपक्षः । पृथिव्याधचेतनगतदृश्यत्वादीनां प्रतिषेधात्तज्जातीयमचेत- नं प्रधानमेव भूतयोन्यक्षरमिति प्रतीयते । तथा अक्षरा- त्परतः परः" इति च त(२)स्याधिष्टाता पुरुष एवेति ॥ राद्धान्तस्तु-उत्तरत्र यः सर्वज्ञः सर्ववित्"इति प्रधानपुरु- पयोरसंभावितं सार्वयमभिधाय " तस्मादेतह्म नाम- रूपमन्नं च जायते " इति सर्वज्ञात्सयसंकल्पाजगदुत्पत्ति श्रवणात्पूर्वोक्तमदृश्यत्वादिगुणकं भूतयोन्यक्षरम् । अक्षरा- त्परतः परः" इति च निर्दिष्टं तदक्षरं परं ब्रह्मैवेति विज्ञा- यते ॥ मूत्रार्थः-अदृश्यत्वादिगुणक: परमात्मा । सार्वया(३)- दितद्धर्मोक्तेः ॥ (१) 'संभवितोक्त' मु. (२)' इति चैत' मुक (३) 'सर्वचत्वादि' मु० " वेदान्तदीपे परः" विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २३ ॥ विशिनष्टि हि प्रकरणं प्रधानाद्भूतयोन्यक्षरमेकवि- ज्ञानेन सर्वविज्ञानादिना । तथा अक्षरात्परतः इत्यक्षरादव्याकृतात्परतोऽवस्थितात्पुरुपात्पर इति पुरुपाचास्य भूत योन्यक्षरस्य भेदो व्यपदिश्यते । अतश्च न प्रधानपुरुपौ। अपि तु परमात्मैवात्र निर्दिष्टः ॥ रूपोपन्यासाच्च ॥ २४ ॥ अग्निर्मू " इत्यादिना समस्तस्य चिदचिदात्मकप्रप- श्वस्य भूतयोन्यक्षररूपत्वेनोपन्यासाचायमदृश्यत्वादिगुणक: प- रमात्मा ॥ (वैश्वानराधिकरणम् ।) वैश्वानरः साधारणशब्दविशेषात् ॥ २५ ॥ छान्दोग्ये "आत्मानमेवेमं वैश्वानरं मप्रसध्यपि तमेव नो ब्रूहि " इसारभ्य “ यस्खेतमेव मादेशमात्रमभिविमान- मात्मानं वैश्वानरमुपास्ते " इसत्र किमयं वैश्वानर प्रात्मा पर(१)मात्मेति शक्यनिर्णय-उत नेति संशयः ॥ अशक्यनिर्णय इति पूर्वः पक्षः । वैश्वानरशब्दस्य जाठराग्नी महाभू- ततृतीये देवताविशेपे परमात्मनि च वैदिकप्रयोगदर्शना- तू । अस्मिन्प्रकरणे सर्वेषां लिङ्गोपलब्धेश्च ॥ राद्धान्तस्तु- "को न आत्मा किं ब्रह्म " इति सर्वेषां जीवानामात्मभूतं ब्रह्म किमिति प्रक्रमादुत्तरत्र च "आत्मानं वैश्वानरम्" इति ब्रह्म शब्दस्थाने सर्वत्र वैश्वानरशब्दप्रयोगाच्च वैश्वानर आत्मा , (२) 'वैश्वानरात्मा पर' क० 'वैश्वानरः पर' मु० प्रथमाध्यायस्य द्वितीयः पादः । सर्वेपां जीवानामात्मभूतं परं ब्रह्मेति विज्ञायते ॥ सूत्रा- र्थः-वैश्वानरशब्दनिर्दिष्टः परमात्मा । वैश्वानरशब्दस्या- नेकार्थसाधारणत्वेऽप्यस्मिन्प्रकरणे परब्रह्मासाधारणैर्विशे- षणैः सर्वात्मत्वादिभिविशेष्यमाणत्वात् विशेष्यत इति विशेषः ॥ स्मर्यमाणमनुमानं स्यादिति ॥ २६ ॥ स्मर्यमा प्रत्यभिज्ञायमानम् । अनुमीयतेऽनेनेत्य- नुमानम् इतिशब्दः प्रकारवचनः.। इत्थंरूपं स्मर्य- माणं वैश्वानरस्य परमात्मत्वेऽनुमानं स्यात् । थुप्रभृतिपृ- थिव्यन्तम(१)वयवविभागेन वैश्वानरस्य रूपमिहोपदिष्टम् “अ- ग्निर्मूर्दा चक्षुषी चन्द्रसूर्यो । द्यां मूर्धानमस्य विप्रा वद- न्ति"इति च श्रुतिस्मृति(२)प्रसिद्धं परमपुरुषरूपमिह प्रत्य- भिज्ञायमानं वैश्वानरस्य परमपुरुषत्वे (३) लिङ्गं स्यादित्यर्थः ।। अनिर्णयमाशङ्ख्य परिहरति- शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथा दृष्ट्यपदेशादसंभवात्पुरुषमपि चैनमधीयते ॥२७॥ शब्दादिभ्यः(४)-शब्दस्तावद्वाजिनां वैश्वानरविद्याप्रक- रणे स एषोऽग्निर्वैश्वानरः " इति वैश्वानर(५)- (१) 'पृथिव्यन्तरम' ग. पूथिवीपर्यन्तम' का (२) इत्यदिश्रुतिप्रसिद्धं ' क ' इति श्रुतिस्मृतिप्रसिद्धम् ' मुक (३) 'परमात्मत्वे' मु (४) शब्दादिभ्योऽन्तः प्रतिष्ठानाञ्चति' मु. (५) वैश्वानरशब्द' ग.
घेदान्तदीपे मपि “ समानाधिकरणोऽग्निशब्दः, अस्मिन्यकरणे च हृदयं गार्हपत्यः" इसारभ्य वैश्वानरस्य हृदयादिस्थानस्या(१)- ग्नित्रयपरिकल्पनं प्राणाहृत्याधारत्वमित्यादिप्रतीयते, वाजिना- स यो ह वै तमेवमग्नि वैश्वानरं पुरुपविधं पुरुपेऽन्तः प्रतिष्ठितं वेद " इति वैश्वानरस्य पुरुपशरीरान्तःप्रतिष्ठि- तत्वं प्रतीयते, अत एतैलिङ्गैर्वेश्वानरस्य जाठराग्नित्व- प्रतीते यं परमात्मति शक्यानर्णय इति चेत् तन्न(२) । तथा दृष्ट्यपदेशात् । दृष्टिरुपासनम् । तथोपासनोपदेशादियर्थः । जाठराग्निशरीरतया वैश्वानरस्य परमात्मन उपासनं ह्यत्रोपदि- श्यते " अयमग्निर्वैश्वानरः पुरुषेऽन्तः प्रतिष्ठितः" इसादौ । कथमवगम्यत इति चेदसंभवात् । केवलजाठराग्नेस्त्रैलोक्यशरी- रत्वाद्यसंभवात् । पुरुषमपि चैनमधीयते । च शब्द: प्रसिद्धौ । वाजिनस्तत्रैव " स एपोऽग्निर्वैश्वानरो यत्पुरुपः इत्येनं (३) वैश्वानरं पुरुषमपि ह्यधीयते । पुरुपश्च परमा- स्मैव । पुरुष एवेदं सर्वम् । पुरुपान्न परं किं चित्" इत्यादिपु प्रसिद्धः॥ अत एव न देवता भूतं च ॥ २८ ।। यतत्रैलोक्यशरीरोऽसौ वैश्वानरो यतश्च निरुपाधिकपुरुप- शब्दनिर्दिष्टोऽत एव नाग्न्याख्या देवता महाभूततृती- यश्च वैश्वानरः शङ्कनीयः ॥ नि साक्षादप्यविरोधं जैमितिः ॥ २९ ॥ अग्निशरीरतया वैश्वानरस्योपासनार्थमग्निशब्दसामानाधि- करण्यनिर्देश इत्युक्तम् । विश्वेषां नराणां नेतृत्वादिना संव- (१) 'हृदयादिस्थस्था' क 'हृदयादिस्यानस्थस्या' पा० (२)'चन्न' ग० (३) इत्यनेन' ग० “ प्रथमाध्यायस्य द्वितीयः पादः । . न्धेन(२) यथा वैश्वानरशब्दः परमात्मनि वर्तते तथैवाग्निशब्द- स्याप्यग्रनयनादिना योगेन साक्षात्परमात्मनि वृत्तौ न कश्चि- द्विरोध इति जैमिनिराचार्यों मन्यते ॥ "यस्त्वेतमेवं प्रादेशमानमभिविमान(२) वैश्वानरम् " इति झुप्रभृतिपृथिव्यन्तप्रदेश (३)संवन्धिन्या मात्रयाऽव(४)च्छि- नत्वमनवच्छिन्नस्य (५) परमात्मनो वैश्वानरस्य कथमुपपद्यत इयत्राह- अभिव्यक्तरित्याश्मरथ्यः ॥ ३० ॥ अनवच्छिन्नस्यैव परमात्मन उपासका(६)भिव्यत्यर्थ धु- प्रभृतिप्रदेश(७)परिछिन्नत्व मिसाश्मरथ्य आचार्यों मन्यते ॥ युप्रभृतिप्रदेशा(८)वछेदेनाभिव्यक्तस्य परमात्मनो बुभ्या- दित्यादीनां (8) मूर्द्धाद्यवयवकल्पनं किमर्थमिति चेचन्दाह- अनुस्मृतेर्बादरिः ॥ ३१॥ अनुस्मृतिरुपासनम् । ब्रह्मप्राप्तये तथोपासनार्थ मूर्द्ध- प्रभृतिपादान्तदेहपरिकल्मनमिति वादरिराचार्यों मन्यते ।। अयं (१०) वैश्वानरः परमात्मा त्रैलोक्यशरीर उपास्य उपदिश्यते चेत् "उर एव वेदिर्लोमानि वर्हिर्हृदयं गार्हपसा" (१) नेतृत्वादिसंबन्धेन' क. (२) 'विमानमात्मानं 'मु० (३) पृथिव्यन्त' प्रादेश' ग. (४) 'मानया परि' मु० (4)' मात्रयाऽवच्छिन्नस्यैव' ग० (६) उपासना' मु० (७)' युप्रभृतिप्रादेश' ग. “धुप्रभृतिपृथिव्यान्तप्रदेश' मु. (८)'प्रादेशा' ग. (९) वादीनां' क ' अग्निाश्वादित्यादीनां' गा (१०) कथं' पा० बेदान्तदीपे । इखादिना उपासकशरािवयवानां गार्हपत्यादिपरिकल्पनं कि- मर्थमित्यत्राह(२)- संपत्तरिति जैमिनिस्तथा हि दर्शयति ॥३२॥ वैश्वानरविद्याऽङ्गभूताया उपासकैरहरहः क्रियमाणायाः प्राणाहुतेरग्निहोत्रत्वसंपादनाय गार्हपत्यादिपरिकल्पनमिति जैमिनिराचार्यों मन्यते तथा ह्यग्निहोत्रसंपत्तिमेव दर्श- यतीयं श्रुतिः प्राणाहुतिं विधाय अथ य एवं विद्वान- ग्निहोत्रं जुहोति" इति ॥ उक्तानामर्थानां पूजितत्वख्यापनाया- चार्यग्रहणम् ॥ आमनन्ति चैनमस्मिन् ॥ ३३ ॥ एनं परम(२ पुरुषं वैश्वानरंधुभ्वादित्यादि(३)देहमस्मिन्नु- पासकदेहे प्राणाग्निहोत्रेणाराध्यत्वायामनन्ति हि "तस्य ह वा एतस्य वैश्वानरस्य मूर्दैव सुतेजाः" इत्यादिना । उपासकस्य मूद्धा(४)दिपादान्ता एव झुप्रभृतयः परमपुरुपस्य मूदिय इति प्राणाग्निहोत्रवेलायामनुसंधेया इत्यर्थः । इति श्रीभगवद्रामानुजविरचिते वेदान्तदीपे प्रथमाध्यायस्य द्वितीयः पादः ॥ धुभ्वाद्यायतनं स्वशब्दात् ॥ १ ॥ आथर्वणे “ यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह- (१) ' इत्यत आह 'ग० (२) 'परम' इति क० पुस्तकेनास्ति । (३) 'दुश्वादि' मु. 'वादि' का (४) उपासकमूर्दा' मु० प्रथमाध्यायस्य तृतीयः पादः । ३ बहुधा विजायते" पाणैश्च सर्वेः, तमेवैकं जानथात्मानम् " इयत्र धुपृथिव्यादीना- मायतनं किं जीव उत. परमात्मोत संशयः ॥ जीव इति पूर्वः पक्षः । मनःप्रभृतीन्द्रियाधारत्वश्रुतेः । उत्तरत्र नाडीसंबन्धाज्जायमानत्वश्रुतेश्च ॥ राद्धान्तस्तु-निरुपा- धिकात्मत्वामृतसेतुत्वयोः परमात्मधर्मयोः श्रवणात्परमात्मैवा- यम् । सर्वनियन्तृ(१)तयाऽऽप्नोतीति ह्यात्मा। अमृतस्य प्राप- कतया सेतुश्च स एव नाडी संबन्धो बहुधा जायमनत्वं च “ सन्ततं शिराभिस्तु लम्बसाकाशसन्निभम् । अजायमानो इत्यादिषु (२) सर्वसमाश्रयणीयत्वा- या(३)जहत्स्त्रमावस्यैव परमात्मनो दृश्यते ॥ सूत्रार्थस्तु-पृ- थिव्यादीनामायतनं परमात्मा । स्वशब्दात्स्वानाधारणात्मादि- शब्दात्.॥ मुक्तोपसृप्यव्यपदेशाच्च ॥ २ ॥ तदा विद्वान्पुण्यपापे विधूय. निरञ्जनः परमं साम्य- मुपैति । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमु- पैति दिव्यम्" पुण्यपापे विधूय नामरूपाद्विमुक्त इति च बन्धा- न्मुक्तस्य प्राप्यतया व्यपदेशाच्चायं परमात्मा ॥ नानुमानमतच्छब्दात्प्राणभृच्च ॥ ३ ॥ आनुमानम(४)नुमानगम्यं प्रधानं यथा सदाचिशब्दाभावा दिह(५) न गृह्यते तथा प्राणभृदपीत्यर्थः । अतश्चायं परमात्मा।। (१) सर्व नियन्तृ' मुक (२) इत्यादिकं' ग० (३) 'णीयत्वाद' ग० (४) ग० पुस्तके "आनुमानम्” इत्यशो नास्ति । (६) भावात्तादह' मु० वेदान्तदीप भेदव्यपदेशाच्च ॥ ४ ॥ " अनीशया शोचति मुद्यमानः । जुष्टं यदा पश्यत्यन्यमी- शम् " इसादिना जीवाद्भदेन व्यपदेशाच्चायं परमात्मा ॥ प्रकरणात् ॥ ५॥ अथ परा यया तदक्षरमधिगम्यते " इत्यादिना परमा- स्मन एव प्रकृतत्वात् ॥ स्थित्यदनाभ्यां च ॥ ६ ॥ "तयोरन्यः पिप्पलं स्वाद्वयनश्नन्नन्यो अभिचाकशीति" इति कर्मफलमनश्नतः परमात्मनोदीप्यमानतया स्थितेर्जीवस्य कर्मपरवशतया तत्फला(१)दनाच्च परमात्मनो जीवाद्भेदावगमाद- मृतसेतुध (२) भ्वाद्यायतनं न जीवः । अदृश्यत्वादिगुण- कः" इत्यनेन परमात्मले स्थापितेऽपि (३) नाडीसंबन्धजाय- मानललिङ्गाद्या प्रकरणत्रिछेदाशङ्का सा निराकृता "धु- भाद्यायतनम् ” इति । वैश्वानरस्य त्रैलोक्यशरीरत्वादि- ना परमात्मत्वनिर्णय इति मध्ये वैश्वानरविद्या निरूपिता ॥ (भूमाधिकरणम् ।) भृमा संप्रसादादध्युपदेशात् ॥ ७ ॥ यत्र नान्यत्पश्यात नान्यच्छ्णोनि ना. न्यद्विजानाति स भूमा " इयत्र भूमशब्दनिर्दिष्टो निरनिशय- वैपुल्यविशिष्टसुखस्वरूपः किं प्रसगात्मोत परमात्मनि सशयः॥ प्रत्यगात्मेति पूर्वः पक्षः "तरति शोकमात्मीयत्" इति छान्दोग्ये " . (१) वशतया फला' गल (३) 'स्थापिते' क० (२) "संतुडु' मु० प्रथमाध्यायस्य तृतीयः पादः । प्रक्रम्य (2) नामादिपरंपरयोत्तरभूयस्त्वेन प्रश्नपतिवचना- भ्यां प्रवृत्तस्यात्मोपदेशस्य प्राणशब्दनिर्दिष्टे प्रस(२)गात्मनि समाप्तिदर्शनात्प्रत्यगात्मन एव भूमसंशब्दनप्रिति निश्चीयते ॥ राद्धान्तस्तु-यद्यपि प्रश्नप्रतिवचनाभ्यामुत्तरोत्तरभूयस्त्व- वचनं प्राणे पर्यवसितं तथापि प्राणवेदिनोऽतिवादित्वमुक्त्वा एप तु वा अतिवदति यः सत्येनातिवदति" इति तुशब्दे- नोपासकभेदं प्रतिपाद्य तस्य सत्योपासकस्य पूर्वस्मादाधि- क्योपदेशात्सयशब्दाभिधेयं (३) परं ब्रह्मैव भूमविशिष्टमिति ॥ सूत्रार्थस्तु -भूमगुणविशिष्टं परं ब्रह्मैव । संप्रसादादध्युप- देशात् । संप्रसादः प्रयगात्मा स एप संप्रसादोऽस्माच्छ- रीरात्समुत्थाय परं ज्योतिरूपसंपद्य " इत्यु(४)पनिपत्प्रसिद्धः। "एष तु वा अति (५) वदाति" इति प्रत्यगात्मनोऽधिकतयोपदे शात् । अतिवादित्वं हि स्वोपास्याधिक्यवादित्वम् ।। धर्मोपपत्तेश्च ॥ ८ ॥ स्वाभाविकामृतत्वस्वमहिमप्रतिष्टितत्वसर्वात्मत्वसर्वोत्पत्ति- हेतुत्वादीनां भूम्नि श्रूयमाणानां धर्माणां परस्मिन्नेव ब्रह्मण्यु- पपत्तेश्च भूमा परं ब्रह्मैव (६)॥ (अक्षराधिकरणम् ।) अक्षरमम्बरान्ततधृतेः ॥ ९ ॥ धाजिनां गार्गिप्रश्ने (७) " सहो वाचैतद्वै तदक्षरं गार्गि ब्रा- (१) प्रकृत्य' ग० (३) 'शब्दाभिधेयं' ग० (५) वा वाति ग० (७) 'गार्गीप्रश्न' मु० (२) निर्दिष्टप्रत्य' कर (४)' इत्याधु मु० (६)'परं ब्रह्म' का ४६ चेदान्तदीपे “ ह्मणा अभिवदन्त्यस्थूलमनण्वस्वमदीर्घमलोहितमस्नेहमछायम्" इत्यत्राक्षरशब्दनिर्दिष्टं प्रधानं जीवो वोत परमात्मति सं- शयः॥ प्रधानं जीवों वा न परमात्मेति पूर्वः पक्षः ।“क- स्मिन्नु खल्वाकाश ओतश्च प्रोतश्च" इत्युक्त (१) आकाशाधारत- योच्यमानमक्षरं प्रधानं जीवोवा।प्रधानस्य विकाराधारत्वात(२)। जीवस्याचिद्वस्त्वाधारत्वात् । न परमात्मेति (३)॥राद्धान्तस्तु- यदूर्व गार्गि दिवः" इत्यारभ्य कालत्रयवर्तिनः कृत्स्न- स्याधारतया निर्दिष्ट आकाशोऽव्याकृतमेव । न वायुमानाकाशः। ततः प्रश्चात् कस्मिन्नु खल्वाकाश प्रोतश्च प्रोतश्च" इति पृष्टे तदा(४)धारतयाच्यमानमेतदक्षरं न प्रधानं भवितुमर्हति । नापि जीव: एतस्य वा अक्षरस्य प्रशासने गार्गि मू- याचन्द्रमसौ विधृतौ तिष्टतः " इसारभ्य प्रशासनात्सर्वाधा- रत्वश्रुतेः ॥ सूत्रार्थस्तु-" एतद्वै तदक्षरं गार्गि "इति निर्दिष्ट- मक्षरं परमात्मा । अम्बरान्तधृतेः । अम्बरं वायुमानाकाशः अम्बरान्तोऽम्बरपा(५)रभूतः । अम्बरकारणमिति यावताकार- णापत्तिरेव हि कार्यस्यान्तः। स चाम्बरान्तोऽव्याकृतं प्रधानम् । तस्य धृतेर्धारणात् । अव्याकृतस्यापि धृतरक्षरं परमात्मै- वेसर्थः॥ एवं तर्हि जीवो भवितुमर्हति तस्य प्रधानधृत्युपपत्तेरित्या- शङ्कयाह- सा च प्रशासनात् ॥ १० ॥ सा चाम्बरान्तधृतिः "एतस्य वाऽक्षरस्य प्रशासने गागि"- (१) इत्युक्तेः'ग० (२) 'स्पदत्वात् ' ग० (३) 'न परमात्मेति' इति क० ग० पुस्तकयो स्ति । (४)'आकाशा' ग० (६)'अम्बराधारभूतः' ग प्रथमाध्यायस्य तृतीयः पादः । ४७ इति प्रशासनाच्यते । प्रशासनं प्रकृष्टं शासनम् । अप्रति- हताज्ञा । न चाप्रतिहताज्ञया कृत्स्नस्य चिदचिदात्मकस्य ज- गतो धृतिर्जीव उप(१)पद्यते । अतो न जीवः ॥ अन्यभावव्यावृत्तेश्च ॥ ११ ॥ अन्यभावोऽन्यत्वमस्याक्षरस्य परमपुरुपादन्यत्वं व्यावर्त्त- यति वाक्यशेप: । अदृष्टं द्रष्ट्रि (२) सादिना सर्वैरेवादृष्टमे- तदक्षरं सर्वस्य द्रष्ट्रि(३)त्यादि प्रधानजीवयोरसंभावनीयार्थप्र- तिपादनात् ॥ (ईक्षतिकर्माधिकरणम् ।) ईक्षतिकर्म व्यपदेशात्सः ॥ १२॥ आथर्वणिकानां सत्यकामप्रश्ने " यः पुनरतं त्रिमात्रेणो- मित्यनेनैवाक्षरेण परमपुरुषमभिध्यायीत" इत्यारभ्य सामभिरुन्नीयते ब्रह्मलोकं एतस्माज्जीवघनात्परात्प- रं पुरिशय पुरुषमीक्षते" इत्यत्र ध्यायतीक्षतिक- मतया व्यपदिष्टः परमपुरुषः किं हिरण्यगर्भ उत (४) परब्रह्मभूतः पुरुषोत्तम इति संशयः ॥ हिरण्यगर्भ इति पूर्वः पक्षः । पूर्वत्रैकमात्रं प्रणवमुपासीनस्य मनुष्यलोकमा- प्ति फलं (५) द्विमात्रमुपासीनस्यान्तरिक्षलोकप्राप्ति च फलम- भिधायानन्तरम् यः पुनरेतं त्रिमात्रेण " इति त्रिमावं प्र- णवमुपासीनस्य फलत्वेनोच्यमानब्रह्मलोकस्थपुरुषेक्षण (६) क- मभृतश्चतुर्मुख एवेति विज्ञायते (७)। मनुष्यलोकान्तरिक्षलोकसा- (१)' जीवस्योप'क० (२)'अदृष्टो द्रष्टेत्या' ग. (३) द्रष्टे' ग० (४) किं' का प्राप्तिफलं' ग० (६) 'लोकस्य पुरुपेक्षण' ग० 'ब्रह्मलोकस्थपुरुष ईक्षण' पा० (७)' ज्ञायते' ग० . .
घेदान्तदीपे हचाब्रह्मलोकोऽपि क्षेत्रलोक इति निश्चयात् ॥ रा. द्धान्तस्तु “ परात्परं पुरिशयं पुरुषमीक्षते " इतीक्षतिकर्म- तया निर्दिष्टपरमपुरुप()विपये श्लोके “ तमोंकारेणवायने- नान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं च"इति निरूपाधि- कशान्तत्वामृत्त्वादि(२)व्यपदेशात्परमात्मैवायमिति निश्चीयते। एवं परमात्मत्वे निश्चिते ब्रह्मलोकशब्दश्च तत्स्थानमेवाभि- दधातीत्यवगम्यते । तद्विपयोदाहृते च श्लोके " यत्तत्कवयो वेदयन्ति (३) । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः " इति (४) सूरिभिदृश्यत्ववचनं तदेव द्रढयति ॥ मू- वार्थस्तु-इक्षतिकर्म स परमात्मा । ध्यायतीक्षत्योरेकवि- षयत्वेन ध्यायतिकर्मापि स एवेत्यर्थः । व्यपदेशात् । तद्वि- षयतया शान्तमजरममृतमभयं परं च" इति परमात्म- धर्माणां व्यपदेशात् ॥ (दहराधिकरणम् ।) दहर उत्तरेभ्यः ॥ १३ ॥ छान्दोग्ये अथ यदिदमास्मन्ब्रह्मपुरे दहरं पुण्डरी- कं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वा- व विजिज्ञासितव्यम् " इत्यव हृदयपुण्डरीकमध्यवर्तिदहरा- काशः श्रूयमाणः किं भूताकाश उत जीवोऽथ परमा- त्मेति संशयः ॥ प्रथमं तावद्भूताकाश इति युक्तमाश्र- यितुमिति पूर्वः पक्षः । (५) भूताकाशे प्रसिद्धिप्राचुर्यात् । प्रा- (१) निर्दिष्ट पुरुष' मु० (२) 'शान्तत्वादि' ग० (३) वेदयन्ते' मु. (४)' इत्येवमादिमिः' मु० (५) 'भूताकाशे' इत्यतः प्राक् आकाशशब्दस्य धिकं मुद्रिते। , प्रथमाध्यायस्य तृतीयः पादः। काशान्तवर्तिनोऽन्यस्यान्वष्टव्यताप्रतीतेश्च ॥ राद्धान्तस्तु-"किं तदत्र विद्यते यदन्वेष्टव्यम्" इति चोदिते(१)“यावान्वाऽयमा- काशस्तावानेषोऽन्तहृदय आकाशः (२)" इसारभ्य "एतत्ससं ब्रह्मपुरम्" इसन्तन दहराकाशस्यातिमहत्त्वसवीश्रयत्वाजरत्व- सयत्वाभिधाय “अस्मिन्कामाः समाहिताः" इसाकाशान्त- वर्तिनोऽन्वेष्टव्याः कामा इति प्रतिपाद्य कोऽयं दहराकाशशब्द- निदिष्टः के तदाश्रयाः कामा इसपेक्षायां " एष प्रात्माऽपह- त(३)पाप्मा " इसारभ्य "सत्यसंकल्प" इसन्तेनाकाशशब्दनि- र्दिष्ट आत्मा कामाश्चापहतपाप्मत्वादयस्तद्विशेषणभूता इति प्रति- पादयद्वाक्यमपहतपाप्मत्वादिविशिष्टमा(४)त्मानमाह । अत(५) उपक्रमे चान्वेष्टव्यतया प्रतिज्ञात आकाश आत्मा, एतद्विशेषण- भूता अपहतपाप्मत्वादयः कामा इति ज्ञापयद्वाक्यमिदम् (६) अथ य इहात्मानमनुविद्य व्रजन्येतांश्च ससान्कामांस्तेषां स- र्वेषु लोकेषु कामचारो भवति इत्युपसंहरति । अतोऽ(७)यं दहराकाशोऽपहतपाप्मत्वादिविशिष्टः परमात्मेति निश्चीयते । न भूताकाशादिरिति (८)॥ एवं तहस्मिन्वाक्ये " अथ य एष संप्रसादोऽस्माच्छारीरात्समुत्थाय" इति प्रसगात्मनःप्रतीतेस्तस्य चोत्तरत्र प्रजापतिवाक्येऽपहतपाप्मत्वादिगुणकत्वावगमात्प्रस- " (१) 'चोदितो' ग. (२) मुद्रिते 'सावानेषोऽन्तर्हृदय आकाशः' इत्यशो नास्ति । (३) 'एषोऽपहत' क० (४) विशिष्टपरमा' मु. (५) 'अतः' इति मुद्रिते नास्ति । (६) 'अत उपक्रमे “दहरोऽस्मिन्नन्तर आकाशः इति निर्दिष्ट आत्मा तस्मिन्यदन्तः इति कामाः तदन्वेष्टव्यम् इति च तदुभयमन्वेष्टव्यमिति ज्ञापयद्वाक्यम्' इति कर (७)' अत्रा' ग. (८)'काश इति' का :
वेदान्तदीपे गात्मैव दहराकाश इति पूर्वपक्षी मन्यते ॥ राद्धान्ती तु-प्र- सगात्मा कर्मपरवशतया जागरितस्वप्नसुषुप्याद्यवस्थाभि- तिरोहितापहतपाप्मत्वादिकः परमात्मानमुपसंपन्नस्तत्मसादा- दाविर्भूतगुणक:(१) प्रजापतिवाक्ये प्रतिपादितः, दहराकाश- स्त्वतिरोहितनिरुपाधिकापहतपाप्मत्वादिकः प्रत्यगात्मन्य- संभावनीयजगद्विधरणसमस्तचिदचिद्वस्तुनियमनाद्यनन्तगुणक: प्रतिपन्न इति नायं प्रसगात्मा दहराकाशः, अपि तु परमात्मैवेति मन्यते ॥ सूवार्थस्तु-दहराकाशः परं ब्रह्म । उत्त- रेभ्यो वाक्यगतेभ्योऽपहतपाप्मत्वादिपरमात्मासाधारणधर्मेभ्यो हेतुभ्यः॥ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ १४ ॥ अस्मिन्दहराकाशे सर्वासां प्रजानां तम(२)जानतीनामहरह- र्या गतिः श्रूयते, यश्च दहराकाशपरा(३)मर्शरूपैतच्छब्दसमाना- धिकरणतया प्रयुक्तो ब्रह्मलोकशब्द(४)स्ताभ्यां दहराकाशः परं ब्रह्मेत्थवयम्यते तद्यथा हिरण्यनिधि निहितमक्षेवज्ञा उपयु- परि संचरन्तो न विन्देयुरेवेमेवेमाः सर्वाः प्रजा अहरहर्गछन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः" इति । तथाहि दृष्टं तथा ह्यन्यत्र परस्मिन्ब्रह्मण्येवं रूपं गमनं दृष्टं "एवमेव खलु सो- म्येमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संपत्स्यामहे इति स त आगम्य न विदुः सत आगच्छामहे” इति । तथा ब्रह्मलोकशब्दश्च परस्मिन्ब्रह्मणि (५) दृष्टः एष ब्रह्मलोकः " " (१) गुणः क० (३) 'दहराकाशाव मु० (५)' परस्मिन्ब्रह्मण्येव' मु. (२) 'प्रजानाम' मु० (४) ब्रह्मशब्दः' क० प्रथमाध्यायस्य तृतीयः पादः। . सम्राडिति होवाच” इति ।लिङ्गं च मा भूवन्यत्र दर्शनम् । अस्मिन्प्रकरणे सर्वासां प्रजानां श्रूयमाणमहरहर्गमनं ब्रह्म- लोकशब्दश्च दहराकाशस्य परमात्मत्वे पर्याप्तं लिङ्गम्। चशब्दोऽ- वधारणे । एतदेव पर्याप्तमित्यर्थः ॥ का धृतेश्च महिम्नोऽस्यास्मिन्नुलब्धेः ॥ १५ ॥ अस्य धृयाख्यस्य परमात्मनो महिम्नोऽस्मिन्दहराका- श उपलब्धेरयं परमात्मा । धृतिर्जगद्विधरणं परमात्मानो म- हिमेसन्यत्रावगम्यते। एष सर्वेश्वर एष भूताधिपतिरेष भू- तपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय " इति । स चास्मिन्द(१)हराकाश उपलभ्यते " अथ य आत्मा स सेतु- विधृतिरेषां लोकानामसंभेदाय " इति ॥ प्रसिद्धेश्च ॥ १६ ॥ को ह्येवान्याकः प्राण्याद्यदेष आकाश प्रान- न्दो न स्यात् सर्वाणि ह वा इमानि भूतान्याकाशादेव समु- त्पद्यन्ते " इसादिष्वाकाशशब्दस्य परस्मिन्ब्रह्माण प्र- सिद्धेराकाशशब्द एव परमात्मधर्मविशेपितो भूताकाशश- ङ्कां निवर्तयतीसर्थः॥ इतरपस्मात्स इति चेन्नासंभवात् ॥ १७ ॥ परमात्मन इतरो जीवः । अथ य एष संप्रसादोऽ- स्माच्छरीरात्समुत्थाय " इति जीवस्य परामर्शात्स एव द- हराकाश इति चेत्तन (२)। पूर्वोक्तानां गुणानां तस्मिन्न- संभवात् ॥ (१) स च द' क० (२)' चेन्न' ग.
वेदान्तदीपे . उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १८ ॥ उत्तरात्मजापतिवाक्यादपहतपाप्मत्वादिगुणको जीवोऽवगम्य- त इति चेत्तन्न (१)। जागरिताद्यवस्थाभिरनादिकालप्रवृत्ताभिः पुण्यपापरूपकर्म(२)मूलाभिस्तिरोहिगुणकः परब्रह्मोपासन- जनिततदुपसंपत्त्याविर्भूतस्वरूपोऽसौ जीवस्तत्र प्रजापतिवाक्ये- ऽपहतपाप्मत्वादिगुणकः कीर्तितः । दहराकाशस्त्वतिरोहि- तस्वरूपापहतपाप्मत्वादिगुणक इसतोऽस्मिन्दहराकाशे न जीवाशङ्का ॥ दहरवाक्ये जीवपरामर्शः किमर्थमिति चेत्तत्राह- अन्यार्थश्च परामर्शः ॥ १९ ॥ अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपध स्वेन रू- पेणाभिनिष्पद्यते " इति परज्योतिःस्वरूपदहराकाशोपसंपयाऽ- स्य जीवस्याऽनृततिरोहित(३)स्वरूपस्य स्वरूपाविर्भावो भव- तीति दहराकाशस्य जगद्विधरणादिवज्जीवस्वरूपाविर्भावा- पादनरूपसंपद्विशेषप्रतिपादनार्थों जीवपरामर्शः ॥ अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २० ॥ दहरोऽस्मिन् " इत्यल्यपरिमाणश्रुतिराराग्रोपमितस्य जीवस्यैवोपपद्यते न तु सर्वस्माज्ज्यायसो ब्रह्मण इति चे- तत्र यदुत्तरं वक्तव्यं तत्पूर्वमेवोक्तमिति(४) “निचाय्यत्वादेवं व्योमवत्" इत्यनेन ॥ अनुकृतेस्तस्य च ॥ २१ ॥ अनुकृतिरनुकारः। तस्य परमात्मनोऽनुकाराद्धि जीवस्या- (१)' चेन्न' ग० (२) 'पुण्यपापकर्म' ग. (३)'जीवस्यातिरोहित' ग० (४)'इति' कारो मुद्रिते नास्ति । , प्रथमाध्यायस्य तृतीयः पादः । विभूतस्वरूपस्यापहतपाप्मत्वादिगुणकत्वम् । अनुकर्तुर्जीवादनु- कार्यः परब्रह्मभूतो दहराकाशोऽर्थान्तरभूत एव । तदनुकारश्च तत्साम्यापत्तिः। श्रूयते च (१)" यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम्, तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति " इति ॥ अपि स्मर्यते ॥ २२ ॥ स्मर्यते च तदुपासनात्तत्साम्यापत्तिरूपानुकातजविस्य- इदं ज्ञानमुपाश्रिख मम साधर्म्यमागताः । सर्गेऽपि नोपजायते प्रलये न व्यथन्ति च " इति ।। (प्रमिताधिकरणम् ।) शब्दादेव प्रमितः ॥ २३ ॥ कठवल्लीष्वाम्नायते " अगष्ठमात्रः पुरुषो मध्य आत्म- नि तिष्ठति, ईशनो भूतभव्यस्य न ततो विजगुप्ते, एत- द्वै तत् " उत्तरत्र अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः" तथोपरिष्टात् "अगुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सनिविष्टः" इति । अत्राङ्गुष्ठप्रमितो जीवात्मोत (२) परमात्मेति संशयः॥जीवात्मेति पूर्वः पक्षः। अन्यत्र स्पष्टजीवभावे (३) पुरु- षेऽङ्गुष्ठ अमितत्वश्रुतेः (४)"प्राणाधिपः संचरति स्वकर्मभिर- गुष्ठमात्रो वितुल्यरूपः" इति ॥राद्धान्तस्तु-तत्र" स्वकर्म- भिः" इति जीवभावनिश्चयवदत्रापि इशानो भूतभव्यस्य" . क० (१) तत्साम्यापत्तिः श्रूयते'मु० (२)'जीवो बोत' (३) 'अन्यत्र स्वीकृतस्पष्टजीवभावे' मु० (४) 'त्वं श्रूयते' ग० वेदान्तदीपे इतीशितृत्वदर्शनात् परमात्मैवेति ॥ सूत्रार्थस्तु-शब्दादेव प्र- मितः । अङ्गुष्ठप्रमितः परमात्मैव । ईशानो भूतभव्यस्येति परमात्मवाचिशब्दात् ।। कथमनवछिन्नस्य परमात्मनोऽगष्ट्रपमितत्व(१)मित्या- शङ्कयाह- हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २४ ॥ उपासनार्थमुपासकहृदये वर्तमानत्वादुपासकहृदयस्या- ग़ष्ठमात्रत्वात् तदपेक्षयेदमङ्गष्ठप्रमितत्वम् । मनुष्याणामेवो- पासकत्वसंभावनया मनुष्यानधिकृस प्रवृत्तत्वाच्छास्त्रस्य मनुष्य- हृदया(२)पेक्षयेदमुक्तम् । स्थितं तावदुत्तरत्र समापयिष्यते ॥ (देवताऽधिकरणम् ।) तदुपर्यपि बादरायणः संभवात् ॥ २५ ॥ मनुष्याधिकारं ब्रह्मोपासनशास्त्रमित्युक्ते तत्प्रसङ्गेन दे- वादीनामपि ब्रह्मविद्यायामधिकारोऽस्ति नेति चिन्त्यते ॥ न देवादीनामधिकारोऽस्ति (३) पूर्वः पक्षः। परिनिष्पन्ने ब्रह्माण शब्दस्य प्रामाण्यसंभवेऽपि देवादीनां विग्रहादिमत्वे प्रमाणाभा- वात् मन्त्रार्थवादाना(४)मापि विधिशेषतया विग्रहादिस- द्भावपरत्वाभावाच विग्रहवनिर्वत्याहरहरनुष्ठीयमानविवेका- दिसाधनसप्तकसंस्कृतमनोनिष्पाद्योपासननिर्वृत्तौ तेषां सा- मर्थ्याभावात् ॥ राद्धान्तस्तु-जगत्सृष्टिप्रकरणेषु नामरूपव्या- (१) नोऽवच्छिन्नत्व' ग० (२) स्वस्थ हृद्य ' क० (३) 'देवादीनामधिकारो नास्तीति' क० (४) वादादीना' ग.
प्रथमाध्यायस्य तृतीयः पादः । ति । करणश्रूयैव देवादीनां विग्रहवत्वं (१) सिद्धयति । वादीनां देहेन्द्रियादिकरणमेव हि नामरूपव्याकरणम् । मन्त्रार्थवा- दयोश्च तदुलब्धेस्तयोरनुष्टेयप्रकाशनस्तुतिपरत्वेऽपि तदुपपत्त- ये तत्सद्भावे प्रामाण्याद्देवादीनां विग्रहादिमत्वसिद्धिः । न हि विग्रहादिमत्तया स्तुतिः प्रकाशनं च तदभावे संभ- वति अतः सामर्थ्यसंभवादस्सेवाधिकारः ॥ सूत्रार्थस्तु- तदुपर्यपि तेभ्यो मनुष्येभ्य उपरिवर्त्तमानानां देवादीनामप्यधि- कारोऽस्ति । यद्वा तद्ब्रह्मोपासनमुपरि देवादिष्वपि संभव- (२) तेषामाप ब्रह्मस्वरूपतदुपासनप्रकारज्ञानतद- थित्वतदुपासन(३)सामर्थ्यसंभवात् । पूर्वोपार्जितज्ञानाविस्म- रणात् ज्ञानसंभवः । तापत्रयाभिहतिपूर्वकब्रह्मगुणज्ञानाचा- र्थित्वसंभव: । सृष्टिवाक्यमन्त्रार्थवादेषु विग्रहादिमत्व(४)द- शनात्सामर्थ्यसंभवश्चेति भगवान्बादरायणो मन्यते ॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥२६॥ कर्मणि यागादौ विग्रहवत्वे सखेकस्य युगपदनेकयागेषु सन्निधानानुपपत्तेविरोधः प्रसज्यत इति चेत्तन्न शक्तिम- तां सौभरिप्रभृतीनां युगपदनेकशरीरप्रतिपत्तिदर्शनात् ॥ शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानु- मानाभ्याम् ॥ २७ ॥ विरोध इति वर्तते मा भूत्कर्माण विरोधः, शब्दे तु , (१) विग्रहादिमत्त्वं'मु० (२)' यद्वा' इत्यादिपद्भिः ग० पुस्तके नास्ति । क० पुस्तके तु सूत्रार्थस्तु इत्यनन्तरं 'तब्रह्मोपासन' मित्यादिन- न्थ पवास्ति। (३)'दान' मु० (४) “विग्रहवत्त्वादि' मु० वेदान्तदीपे वैदिके विरोधः प्रसज्यते, विग्रहवत्वे हि तेषां सावयवत्वेनोत्प- त्तिविनाशयोगादुत्पत्तेः माग्विनाशादूर्व वैदिका- नामिन्द्रादिशब्दानामर्थशून्यत्वमनिसत्वं वा स्यादिति चेत्त- अतः प्रभवात् । अतो वैदिकादेव शब्दादिन्द्रादेः प्रभवात् । पूर्वपूर्वेन्द्रादौ विनष्टे वैदिकादिन्द्राद्याकृतिविशपवाचि- नः शब्दादिन्द्राद्याकृतिविशेष स्मृत्वा तदाकारमपरमिन्द्रादिकं सृजति प्रजापतिरिति वैदिकशब्दस्य न कश्चिद्विरोधः । न हि देवदत्तादिवदिन्द्रादिशब्दा व्यक्तिविशेषसंकेतपूर्वकाः प्र- ताः। अपि तु गवादिशब्दवदाकृतिविशेषवाचिन इति तेषाम- पि निस एव वाच्यवाचकभावः । वैदिकादिन्द्रादिशब्दात्त- दर्थविशेष स्मृत्वा कुलालादिरिव घटादिकं प्रजापतिः सृजतीति कुतोऽवगम्यते । प्रसक्षानुमानाभ्यां श्रुतिस्मृतिभ्यामिसर्थः । श्रुतिस्तावत् वेदेन रूपे (१) व्याकरोत्सता सती प्रजाप- तिः" स भूरिति व्याहरत्स भूमिमस्टजत " इसादिका । स्मृतिरपि- "सर्वेषां च स नामानि कर्माणि च पृथक्पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥ नाम रूपं च भूतानां कृयानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः॥" इसादिका ॥ अत एव च नित्यत्वं ॥ २८ ॥ यतः प्रजापतिर्वेदिकाच्छब्दादर्थाकारं स्मृत्वा तदाकारं सर्व सृजत्यतश्च वसिष्टविश्वामिवादीनां मन्त्रमूक्तादिकृत्त्वेऽ- पि मन्त्रादिमयस्य वेदस्य निसत्वं तिष्ठयेव । प्रजापतिार्ह तथा (१)'नामरूपे' ग० प्रथमाध्यायस्य तृतीयः पादः । नैमितिकप्रलयानन्तरं " मन्त्रकृतो वृणीते । विश्वामित्रस्य सूक्तं भवति" इसादिवेदशब्दभ्योऽनधीतमन्त्रादिदर्शनशक्तवसि- छायाकृतिविशेषं स्मृत्वा वसिष्ठत्वादिपदप्राप्तयेऽनुष्टितकर्मविशे- षांश्चानुस्मृत्य तदाकारां(१)स्तावद्वसिष्ठादीन्सृजति । ते चानधी- त्यैव वेदैकदेशभूतमन्त्रादीन्स्वरतो वर्णतश्चास्खलितान्पठन्ति । तदेषां मन्त्रादिकृत्त्वेऽपि वेदस्य नित्यत्वमुपपद्यते ।। प्रजापतिप्रभृतिषु सर्वेषु तत्त्वेष्वव्याकृतपर्यन्तेष्वव्याकृतप- रिणामरूपेषु (२) शब्दमयेषु च वेदेषु विनष्टेष्वव्याकृतसृष्टयावृत्तौं कथं वेदस्य नित्यस्वामियत आह- समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्श- नात्स्मृतेश्च ॥ २९ ॥ पाकृत(३)स्पृष्टयावृत्तावपि सृज्यानां समाननामरूपत्वादेव म कश्चिद्विरोधः । आदिसर्गेऽपि हि परमपुरुषः पूर्वसंस्थानं जगत्स्मरंस्तथैव सृजात, वेदांश्च पूर्वानुपूर्वीविशिष्टानाविष्कृय हिरण्यगर्भाय वदाति । पूर्वसंस्थानमेव जगत्सृजतीति क- थमवगम्यते । दर्शनात्स्मृतेश्च । दर्शनं श्रुतिः अहोरात्राणि विदधद्विश्वस्य मिषतो वशी, सूर्याचन्द्रमसौ धाता यथापूर्व- अकल्पयत, दिवञ्च पृथिवीं चान्तरिक्षमथो सुवः" इति यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च पहिणोति त- स्मै" इति च । स्मृतिपि- यथर्तुष्वृतु(४)लिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानिं तान्येव तथा भावा युगादिषु॥" इति । - (१) तदाकाराविशेषां ' मु० (३)' अव्याकृत'मु० (२)'परिणामकप'ग (४) 'यथा तु ऋतु' ग वेदान्तदीपे इति । एतदेव वेदस्य निसत्वं यत्पूर्वपूर्वोच्चारणक्रम- विशेष स्मृत्वा तेनैव क्रमेणोच्चार्यत्वम् । परमपुरुषोऽ- पि स्वस्वरूपस्वाराधनतत्फलयाथात्म्याववाधि वेदं स्वस्वरूप- वन्निसमेव पूर्वानुपूर्वी विशिष्टं स्मृत्वाऽऽ(१)विष्करोति। अतो दे- वादीनां ब्रह्मविद्याधिकारे न कश्चिद्विरोधः ॥ (मध्वधिकरणम् ।) मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥ ३० ॥ छन्दोग्ये " असौ वा आदित्यो देव मधु " इत्युपक्रम्य "तद्यत्प्रथमममृतं तद्वसव उपजीवन्ति" इत्युक्त्वा “स य एतदे- वममृतं वेद वसूनामेवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति"इसादिना ऋग्यजु:सामादिवेदोदितकर्मसंपाद्य रसाधार- तया मधुमयस्यादिसस्य पूर्वदक्षिणपश्चिमोत्तरोवीशान्वसुरुद्रा- दित्यमरुत्साध्यनाम्नां देवगणानां भोग्यत्वेनाभिधाय तैर्भुज्यमा- नाकारेणादित्यंशानुपास्यानुपदिश्य तानेवादित्यांशांस्तथाभूता- न्प्राप्यानुपदिशति । एवमादिषूपासनेषु वस्वादियादीना(२)म- धिकारोऽस्ति नेति संशयः॥ नास्यधिकार इति पूर्वः पक्षः। व- स्वादीनामुपास्यान्तर्गतत्वेन कर्मकर्तृभावाविरोधात् । प्राप्यस्य घमुत्वादेः प्राप्तत्वाच॥ राद्धान्तस्तु-ब्रह्मण एव तदवस्थस्यो- पास्यत्वाद्वस्वादीनां सतां स्वावस्थब्रह्मानुसन्धानाविरोधात्क- ल्पान्तरे वसुत्वादेः प्राप्यत्वाविरोधाच्च वस्वादीनामप्याधिका- रः संभतीति ॥ सूवार्थस्तु-मधुविद्यादिपु वस्वादीनामनधि- कारं जैमनिर्मन्यते । असंभवात् वस्वादीनामेवोपास्यानामुपास- कत्वासंभवात् । वमुत्वादेः प्राप्तत्वादेव प्राप्यत्वासंभवाच्च । (१) 'विशिष्टमा' ग. (२) वस्वित्यादीना' ग० प्रथमाध्यायस्य तृतीयः पादः । ज्योतिषि भावाच्च ॥ ३१ ॥ "तं देवा ज्योतिषां ज्योतिरायु)पासतेऽमृतम्" इति ज्यो- तिषि परस्मिन्ब्रह्मणि देवमनुष्ययोरधिकारसाधारण्ये सत्यपि ज्योतिषां ज्योतिः , परं ब्रह्म देवा उपासत इति विशेषव- चनं वस्वादीनां कर्मकर्तृभावविरोधात्तेषु तेषामनधिकारं द्योत- यति । देवा इति सामान्यवचनं च वस्वादिविशेषविषयमिसवग- म्यते । अन्येषामविरोधात् ॥ भावं तु बादरायणोऽस्ति हि ॥ ३२ ॥ तुशब्दः पक्षं व्यावर्तयति वस्वादीनां मधुविद्यादि- ध्वधिकारसद्भावं भगवान्बादरायणो मन्यते । अस्ति हि व- स्वादीनामेवोपास्यत्वं प्राप्यत्वं च । इदानीं वसू(१)नामेव सतां कल्पान्तरे वसुत्वस्य प्राप्यत्वसंभवात् प्राप्यत्वं संभवति (२)। स्वात्मनां ब्रह्मभावानुसन्धानसंभवादुपास्यत्वं च संभवति । "य एतामेवं ब्रह्मोपनिषदं वेद " इति हि कृत्स्नाया मधुविद्याया ब्रह्मविद्यात्वमवगम्यन्ते ॥ (अपशूद्राधिकरणम् ।) शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥३३॥ ब्रह्मविद्यायां शूद्रस्याप्यधिकारोऽस्ति नोत मंशयः ॥ अ- स्तीति पूर्वः पक्षः अर्थित्वसामर्थ्यसंभवात् । शूद्रस्यान- ग्निविद्यत्वेऽपि मनोवृत्तिमात्र(३)त्वादुपासनस्य संभवति हि सामर्थ्यम् । ब्रह्मस्वरूपतदुपासनप्रकारज्ञानं चतिहासपुराणश्र- (१) 'वस्वादीना' ग० (२) 'प्राप्यत्वं संभवति' इत्यशः क० पुस्तके नास्ति । (३) 'मनोमात्रनिवर्त्य' गर वेदान्तदीपे “ वणादेव निष्पद्यते । अस्ति हि शूद्रस्यापीतिहासपुराणश्रव- णानुज्ञा " श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः" इति । तथा तत्रैव विदुरादीनां ब्रह्मानष्ठत्वं दृश्यते । उपनिपत्स्वपि आजहारेमाः शूद्राननैव मुखनालापयिष्यथाः" इति शूद्रश- देनामन्व्य (१) ब्रह्मविद्योपदेशदर्शनाच्छद्रस्याप्यधिकारः मूच्य- ते ॥ राद्धान्तस्तु-उपासनस्य मनोवृत्तिमात्रत्वेऽप्यनधीतवेदस्य शूद्रस्योपासनोपायभूतज्ञानासंभवान्न सामर्थ्यसंभवः । क- मविधिवदुपासनविधयोऽपि त्रैवर्णिकविपयाध्ययनगृहीतस्वा- ध्यायोत्पन्नज्ञानमेवोपासनोपायतया स्वीकुर्वते । इतिहासा- धपि स्वाध्यायसिद्धमेव ज्ञानमुपद्व्हयतीति ततोऽपि नास्य ज्ञा- नलाभः । श्रवणानुज्ञा तु पापक्षयादिफला । विदुरादीनां तु भवान्तरवासनया ज्ञानलाभाद्रह्मनिष्ठत्वम् । शूद्रेत्यामन्त्र- णमपि न चतुर्थवर्णत्वेन, अपि तु ब्रह्मविद्यावैकल्याच्छु- गस्य संजातेति। अतो न शूद्रस्याधिकारः॥ सूत्रार्थस्तु-ब्रह्मवि- द्यावैकल्येन हंसोक्तानादरवाक्यश्रवणात्तदैवाचार्य प्रत्याद्रव- साच्चाचार्येणास्य शुश्रूपोर्विद्याऽलाभकृता शुक्मुच्यते । हि- शब्दो हेतौ। यस्मादस्य शुक्मूच्यतेऽतः शोचनाच्छूद्र इति कृ. स्वाऽऽचार्यों रैकः जानश्रुति शुद्रेत्यामन्त्रयते, न जातियोगे- नेयर्थः ॥ क्षत्रियत्वगतेश्च ॥ ३४ ॥ अस्य शुश्रूषोः क्षत्रियत्वावगतेश्च न जातियोगेन शूद्रेसा- मन्त्रणम् । प्रकरणोपक्रमे (२) हि “ बहुदायी" इसादिना शनपतित्व(३)बहुतरपक्वान्नपदायित्वक्षत्तृपेपणबहुग्रामप्रदानैरस्य (१)' आमन्त्र्ये' ग (२)'प्रकरणप्रक्रमे 'मु० (३) ३) दानवत्व' कर , प्रथमाध्यायस्य तृतीयः पादः । + दौ । जानश्रुतेः शुश्रूषोः क्षत्रियत्वं प्रतीतम् ।। उत्तरत्र चैत्ररथेन लिङ्गात् ॥ ३५ ॥ उपरिष्टाचास्यां विद्यायां (१) ब्राह्मणक्षत्रिययोरेवान्वयो दृश्यते " अथ ह शौनकं च कापयमभिप्रतारिणं च " इत्या- अभिपतारी हि चत्ररथ:-क्षत्रियः । अभिप्रतारिण- श्चत्ररथत्वं क्षत्रियत्वं च कापेयसाहचयालिङ्गादवगम्यते । प्रकर- णान्तरे हि कापेयसहचारिणश्चैत्ररथत्वं क्षत्रियत्वं चावगतं "ए- तेन वै चैत्ररथं काया अयाजयन्" इति " तस्माञ्चैत्ररथो नामैकः क्षत्रपतिरजायत" इति च । अतोऽस्यां विद्यायामान्यतो ब्राह्मणादितरो जानश्रुतिरपि क्षत्रियो भवितुमर्हति ॥ संस्कारपरामर्शात्तदभावाभिलापाच ॥ ३६ ॥ विद्योपदेशे " नेष्ये " इत्युपनयनसंस्कारपरामर्शा च्छूद्रस्य तदभाववचनाच्च नाधिकारः । “न शूद्रे पातकं कि- चिन्न च संस्कारमहति " इति हि निषिध्यते ॥ तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७ ॥ नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहर " इति शुश्रूषोर्जाबालेः शूद्रत्वाभावनिश्चय एवोपदेशप्रहत्ते विकारः शूद्रस्य (२)॥ श्रवणाध्ययनार्थप्रतिषेधात् ॥ ३८ ॥ शूद्रस्य श्रवणाध्ययनादीनि हि प्रतिषिध्यन्ते " कछुद्रसमीपे नाध्येतव्यम् " इति । अनुपशृण्वतो नाध्ययनादि संभवति ॥ उपत्वा नेष्ये ॥ तस्मा- (१)' बह्मविद्यायाम् 'ग (२) 'शूद्रस्य' इति मुद्रिते नास्ति ।
वेदान्तदीपे स्मृतेश्च ॥ ३९॥ स्मयते च शूद्रस्य वेदश्रवणादौ दण्डः “अथ हास्य वेद- मुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाछेदो धारणे शरीरभेदः" इति ।। (प्रमिताधिकरणशेषः ।) प्रासङ्गिक समाप्य प्रकृतं परिसमापयति(१)--- कम्पनात् ॥ ४०॥ अङ्गुष्ठप्रमितप्रकरणमध्ये “ यदिदं किञ्च जगत्मवै प्राण एजति निःमृतम्, महद्भयं वज्रमुद्यतम्-भयादस्याग्निस्तपति " इसादौ प्राणशब्दनिर्दिष्टाङ्गुष्ठप्रमितजनितभयनिमित्ता(२)द- मिवायुसूर्यप्रभृतिकृत्स्त्रजगत्कम्पनाच्छ्यमाणादगुष्पमितः परमात्मैवति निश्चीयते ॥ ज्योतिर्दर्शनात् ॥ ११ ॥ अस्मिन्नेव प्रकरणे तत्संबन्धितया “न तत्र मूर्यो भाति" इत्यारभ्य तस्य भासा सर्वमिदं विभाति" इति सर्वेपां छाद- कस्यानवधिकातिशयस्य भाःशब्दाभिहितस्य ब्रह्मभूतस्य प- रस्य ज्योतिषो (३) दर्शनाच्चाङ्गुष्ठप्रमितः परमात्मा ॥ ( अर्थान्तरत्वाधिकरणम् ।) आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४२ ॥ छान्दोग्ये श्रूयते " आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा" इति। अत्राकाशशब्दनिर्दिष्टः (१) 'समापयति' ग. (२)'जनितभया' कर (३)'शब्दाभिहितस्य ज्योतिषो' का प्रथमाध्यायस्य तृतीयः पादः । कि मुक्तात्मा उत परमात्मति संशयः॥मुक्त इति पूर्वः पक्षः । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि "इति मुक्तस्यानन्तरप्रकृतत्वात् ॥ राद्धान्तस्तु--" नामरूपयानि- वंहिता ते यदन्तरा "इति स्वयमस्पृष्टनामरूपतया नामरूपयो- निवाढत्वेन श्रूयमाणोऽयमाकाशो वद्धमुक्तोभयावस्थात्प्रत्यगा- त्मनोऽर्थान्तरत्वात्परमात्मैव ॥ सूत्रार्थस्तु-आकाशः परमा- स्मा। अस्य नामरूपयोर्निादृत्वतदस्पर्शलक्षणार्थान्तरत्वव्यप- देशात् । प्रसगात्मनो ह्यान्तरभूत एव नामरूपयोर्निवोढा । बद्धावस्थ(१)स्तावन्नामरूपाभ्यां स्पृष्टस्तत्परवशश्चेति न निर्वोढा। मुक्तस्यापि जगद्व्यापाररहितत्वान्न निर्वोदृत्वम् । आदिशब्दे- न निरुपाधिकब्रह्मत्वामृतत्वात्मत्वादीनि (२) गृह्यन्ते । तानि निरुपाधिकानि मुक्तस्यापि न संभवन्ति । तत्त्वमस्यादिनैक्यव्यपदेशात् “नेह नानाऽस्ति" इति भेदप्र- तिषेधाच्च न प्रसगात्मनोऽर्थान्तरभूतः परमात्मेत्याशङ्कयाह- सुषुप्त्युकान्त्योर्भेदेन ॥ ४३ ॥ व्यपदेशादिति वर्तते । “प्राज्ञेनात्मना संपरिष्वक्तः । माज्ञेनात्मनाऽन्वारूढः" इति सुपुप्त्युत्क्रान्सोलुप्तसकलविशेष- ज्ञानात्प्रत्यगात्मनस्तदानीमेव सर्वज्ञतया भेदेन व्यपदेशात्मणी- स्मनोऽर्थान्तरभूत एव परमात्मा ॥ पत्यादिशब्देभ्यः ॥ ४४ ॥ परिष्वजके प्राज्ञ श्रूयमाणेभ्यः पत्यादिशब्देभ्यश्चायं प्र- त्यगात्मनोऽर्थान्तरभूतः (३)। सर्वस्याधिपतिः सर्वस्य वशी (१) बद्ध ग० (३)' अर्थान्तरभूतः परमात्मा' मु. (२)' त्मत्वानि' का वेदान्तदीपे सर्वस्येशानः" इसादावैक्योपदेशभेदप्रतिपेधौ तु ब्रह्मकार्यत्व- निबन्धनाविति" तज्जलानिति । सर्वं खल्विदं ब्रह्म" इसादि- थुतिभिरेव व्यक्तौ ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तदीपे प्रथमाध्यायस्य तृतीयः पादः । RAN (आनुमानिकाधिकरणम्) आनुमानिकमप्येकेषामिति चेन्नं शरीररूपकवि- न्यस्तगृहीतेर्दर्शयति च ॥ १ ॥ कठवल्लीषु " इन्द्रियेभ्यः परा ह्या अर्थेभ्यश्च परं मनः, मनसस्तु (१) परा बुद्धिर्बुद्धेरात्मा महान्परः, महतः परमव्यक्त- मव्यक्तात्पुरुषः परः, पुरुषान्न परं किं चित्सा काष्ठा सा परा गतिः" इसत्र किं सख्यिोक्तप्रधानामव्यक्तशब्दाभिधेय- मुत नेति संशयः ॥ प्रधानमिति पूर्वः पक्षः। महतः परम- व्यक्तम्"इयादिना तत्तन्त्रप्रक्रियाप्रसभिज्ञानात् “पुरुषान पर किं चित्" इति पञ्चविंशक पुरुषातिरिक्ततत्वनिषेधाच्च ॥ राद्धान्तस्तु-नाव्यक्तशब्देन प्रधानमिहं गृह्यते । पूर्वत्र "आत्मा- में रथिने विद्धि शरीरं रथमेव च " इंसादिनोपासननिर्वृत्तये पश्यन्द्रियत्वापादनाय य अत्म(२)शरीरबुद्धिमनइन्द्रियविषया रथिरथसारथिप्रग्रहहयगोचरत्वेन रूपितास्तेषु वशीकार्यत्वे परा: इन्द्रियेभ्यः परा" इसादिनोच्यते । तत्र चेन्द्रियादयः स्व- (१) 'मनसश्च' मु० (२)'ना आत्म' का नायास्म' ग. .
प्रथमाध्यायस्य चतुर्थः पादः । स्वशब्देनैव गृह्यन्ते। रथत्वेन रूपितं शरीरमिहाव्यक्तपरिणामत्वे. नाव्यक्तशब्देन गृह्यत इति नेह तत्तन्त्रप्रक्रियामसभिज्ञागन्धः । "अव्यक्तात्पुरुषः परः" इति च न पञ्चविंशकः अपि तु प्राप्यः परमात्मा सर्वान्तर्यामितयो(१)पासनस्याप्युपायभूत इति स इह वशीकार्यकाष्ठात्वेन " पुरुषान्न परं किं चित्" इत्यु- क्तः ॥ सूत्रार्थस्तु-एकेषां कठानां शाखायामानुमानिकं प्र- धानं जगत्कारणत्वेन " महतः परमव्यक्तम् इत्याम्नायत इति चेत्तन्न । अव्यक्तशब्दन शरािख्यरूपकावन्यस्तगृहीतेः । पूर्वत्रात्मादिषु रथिरथादिरूपकविन्यस्तेषु रथत्वेन रूपितस्य शरीरस्यात्राव्यक्तशब्देन गृहीतेरित्यर्थः अतो वशीका- यत्वे परा इहोच्यन्ते । दर्शयिति चैनमर्थमस्मिन्वाक्यविशेष इन्द्रियादीनां नियमनप्रकारं प्रतिपादयन् “ यच्छेद्वाङ्मनसी" इत्यादिः (२)॥ कथमव्यक्तशब्दस्य शरीरं वाच्यं भवतीयाशङ्कयाह- सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥ तुशब्दोऽवधारणे । सूक्ष्ममव्यक्तमेवावस्थान्तरापनं श- रीरं भवति तदवस्थस्यैव कार्याहत्वात् (३) ॥ यदि रूपकविन्यस्ता आत्मादय एव वशीकार्यत्वे परा: इन्द्रियेभ्यः पराः" इसादिना गृह्यन्ते तर्हि “ अव्यक्ता- त्पुरुपः परः, पुरुषान्न पर किं चित्" इति पुरुषग्रहणं किमर्थ- मिसत आह- M " इत्यादि- (१) अन्तर्यामितयो' मु० (२) 'दर्शयति च तदेव श्रुतिः “ यछेद्वाङ्मनसी ना' इति क० (३) 'कार्यताहत्वातू' ग० ३ वदान्तदीप पुरुषः प्राप्यश्चति तधीनत्वादर्थवत् ॥ ३ ॥ अन्तर्यामिरूपेणावस्थितपुरुषाधीनत्वादात्मादिकं सर्व र- थित्वादिना रूपितमर्थवत्प्रयोजनवद्भवतीत्यतः उपासननिर्वृत्ती वशीकार्यकाष्टा परमपुरुष इति तदर्थमिह रूपकविन्यस्तेपु गृह्य- माणेषु परस्य पुरुपस्य(१) ग्रहणम् । उपासननिर्दृत्युपायकाष्टा पुरुषान्न परं किं चित्मा काष्टा सा प- रा गतिः" इत्युक्तम् ॥ भाष्यक्रियया वा नेयमिदं सूत्रम् । प- रमपुरुषशरीरतया तदधीनत्वाद्भूतमूक्ष्ममव्याकृतमर्थवदिति तदिहाव्यक्तशब्देन गृह्यते । नाब्राह्मात्मकं स्वनिष्ठं तन्त्रसि- द्धमिति ॥ ज्ञेयत्वावचनाच्च ॥ ४ ॥ यदि तन्त्रप्रक्रियेहाभिप्रेता तदाव्यक्तस्यापि ज्ञेयत्वं वक्त- व्यम् । व्याक्ताव्यक्तज्ञविज्ञानात् " इति हि तत्प्रक्रि- था। न ह्यव्यक्तमिह ज्ञेयत्वेनोक्तम् । अतश्चात्र न तन्त्रप्रक्रि- यागन्धः। वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥ " अशब्दमस्पर्शम्" इत्युपक्रम्य महतः परं ध्रुवं नि- चाय्य ते मृत्युमुखात्प्रमुच्यते " इति प्रधानस्य 'ज्ञेयत्वमनन्तर- मेव वदतीयं चतिरिति चेत् तन्न । “अशब्दमस्पर्शम् " इत्यादिना प्राज्ञः परमपुरुष एव ह्यत्रोच्यते "सोऽश्वनः पारमाप्नो- ति तद्विष्णोः परमं पदम् । एष सर्वेषु भूतेषु गूढोत्मा न प्रका- शते " इति प्राज्ञस्यैव प्रकृतत्वात् ॥ (१) तदर्थमिह विन्यस्तेषु गृह्यमाणेषु पुरुषस्यापि' का प्रथमाध्यायस्य चतुर्थः पादः । त्रयाणामेवमुपन्यासः प्रश्नश्च ॥ ६ ॥ अस्मिन्प्रकरणे “येयं प्रेते विचिकित्सा मनुष्ये" इसा- रभ्यासमाप्तेरुपास्यो(१)पासनोपासकानां त्रयाणामेव ज्ञेय- त्वेनोपन्यासः प्रश्नश्च दृश्यते । न प्रधानादेस्तान्त्रिकस्यापि ।अ- तश्च न प्रधानमिह ज्ञेयत्वेनोक्तम् ॥ महद्दच्च ॥ ७॥ यथा “बुद्धेरात्मा महान्परः इसात्मशब्दसामानाधि- करण्यान्महच्छब्देन न तान्त्रिकं महत्तत्वं गृह्यते एवमव्यक्तश- ब्वेनापि न तान्त्रिकं प्रधानम् ॥ (चमसाधिकरणम् ।) चमसवदविशेषात् ॥ ८ ॥ श्वेताश्चतरे " अजामेकां लोहितशुक्लकृष्णां वह्वीः प्रजा: सृजमानां सरूपाः, अजो ह्येको जुपमाणोऽनुशेते जहायेनां भु- क्तभोगामजोऽन्यः " इत्यत्र किमजाशब्देन तन्त्रसिद्धा प्रकृ- तिराभेधीयत उत ब्रह्मत्मिकेति संशयः ॥ तन्त्रसिद्धेति पूर्व: पक्षः । अजामेकाम् " इत्यस्या अकार्यत्वप्रतीतेर्बह्वीनां मजाना स्वातन्त्र्येण कारणत्वश्रवणाच ॥ राद्धान्तस्तु-न तन्त्रसिद्धायाः प्रकृतेरत्र ग्रहणम् । जननविरहश्रवणमात्रेण त- न्त्रसिद्धायाः(२)प्रतीतिनियमाभावात् । न हि यौगिकानां शब्दा- नामर्थप्रकरणादिभिर्विशेषव्यवस्थापकैविना विशेपे वृत्तिनि- यमसंभवः (३) । न चास्याः स्वातन्त्र्येण सृष्टिहेतुत्वामह प्रती- (२)' सिद्धायाः प्रकृतेः 'मु. (१)'परमपुरुषो' मु० ग० (३) 'नियमसद्भावः' ग.
वेदान्तदीप सम् । अपि तु सृष्टिहेतुत्वमात्रम् । तद्ब्रह्मात्मिकायाश्च न विरुद्धम् । अत्र तु ब्रह्मात्मिकाया एव शाखान्तरसिद्धाया एतत्स्वरूपम- नोदितायाः प्रसभिज्ञानात्सवेति निश्चीयते ॥ मूत्रार्थस्तु-नाय मजाशब्दस्तन्त्रसिद्धमधानविपयः । कुतः । चमसवदविशेपात् । " अथार्वागविलश्चमसः" इति मन्त्रे भक्षण(१)माधनत्वयोगेन प्रवृत्तस्य चमसशब्दस्य शिरसि वृत्तौ “यथैदं तच्छिर एप झर्वा- गविलश्चममः" इति वाक्यशेपे विशेपो दृश्यते तथा अजा- मेकाम् " इसजाशब्दस्य तन्त्रसिद्धप्रधाने प्रवृत्ती विशेषाभावा- न्न तद्रहण न्याय्यम् ॥ अस्ति तु ब्रह्मात्मिकाया एव ग्रहणे विशेष इत्याह- ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ ९ ॥ ज्योतिब्रह्म यस्या उपक्रमः कारणं सा ज्योतिरुपक्रमा । तुशब्दोऽवधारणे । ब्रह्मकारणिकैवैपाऽजा।तथा ह्यधीयत एके। यथा रूपोऽयमजायाः प्रतिपादको मन्त्रस्तथारूपमव मन्वं ब्र- मात्मिकायास्तस्याः प्रतिपादकमधीयत एके शाखिनः। अ- णोरणीयान्महतो महीयान् " इत्यादिना ब्रह्म प्रतिपाद्य प्स प्राणाः प्रभवन्ति तस्मात्सप्ताचिषः समिधः सप्तजिह्वाः, सप्त इमे लोका येषु चरन्ति माणा गुहाशया निहिताः सप्त सप्त, अंत: समुद्रा गिरयश्च सर्वे" इत्यादिना ब्रह्मण उत्पन्नत्वेन ब्रह्मा- त्मकतया सर्वानुसंधानविधानसमये अजामेकां लोहितशु- क्लकृष्णां वहीं प्रजां जनयन्ती सरूपाम्" इति प्रतिपाद्यमाना ब्रह्मात्मिकैवेति तत्मयभिज्ञानादिहायजा ब्रह्मात्मिकैवेति नि- श्चीयते ॥ स- , (१)'चमन' मु० प्रथमाध्यायस्य चतुर्थः पादः । प्रजात्वं ज्योतिरुपक्रमात्वं च कथमुपपद्यत इत्यत प्राह कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १० ॥ कल्पना मृष्टिः । “ मूर्याचन्द्रमसौ धाता यथा पूर्वमकल्प- यत्" इत्यादिदर्शनात् । “ अस्मान्मायी सृजते विश्वमेतत् " इति हि सृष्टिरिहोपदिश्यते। प्रलयवेलायामेषा प्रकृतिः परमपुरु- पाश्रया कारणावस्थाऽतिमूक्ष्मावयवा(१) शक्तिरूपेणावतिष्ठते । तदवस्थाऽभिप्रायेणास्या अजात्वम् । सृष्टिवेलायां पुनस्तच्छरी- राह्मणः स्थूलावस्था जायते । तदवस्था ज्योतिरूपक्रमेति न कश्चिद्विरोधः । मध्वादिवत् यथादियस्यैकस्यैव कार्यावस्थायाम् "असौ वा आदियो देवमधु " इति वस्वादिभोग्यरसाधारतया मधुत्वं तस्यैव “अथ तत ऊर्ध्वमुदेता नैवोदेता नास्तमेतैकल एव मध्ये स्थाता" इसादिना नामरूपप्रहाणेन कारणावस्थायां सूक्ष्मस्यैकस्यैवावस्थानं न विरुध्यते तद्वत् ।। ( संख्योपसंग्रहाधिकरणम् ।) न संख्योपसंग्रहादपि नानाभावादति- रेकाच्च ॥ ११ ॥ वाजसनेयके “यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः, तमेवं मन्य आत्मानं विद्वान्ब्राह्मामृतोऽमृतम् " इत्यत्र किं सां- ख्योक्तानि पञ्चविंशतितत्त्वानि प्रतिपाद्यन्त उत नेति संशयः॥ तान्येवेति पूर्वः पक्षः। “पञ्च पश्चजनाः" इति पञ्चसंख्याविशि- ष्टाः पञ्चजनाः पञ्चविंशतिः संपद्यन्ते । कथम् । पञ्चजना इति (१)' अतिसूक्ष्मा' ग० वेदान्तदीपे ॥ . समाहारविषयोऽयं समासः पञ्चपूल्य इतिवत् । पञ्चभिर्जनै- रारब्धः समूहः पञ्चजनः । पञ्चजनीत्यर्थः । लिङ्गव्यत्ययश्छा- पञ्चजना इति बहुवचनात्ममूह बहुत्वं चावगम्यते । ते च कतीसपेक्षायां पञ्च पञ्चजना इति पञ्चशब्दवशपिताः पञ्चजनसमूहा इति पञ्चविंशतिस्तत्त्वानि भवन्ति । मोक्षाधिका- रातान्त्रिकाण्येवेति निश्चीयन्ते । एवं निश्चित सति " तमवं मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् " इति पञ्चविंशकमा- स्मानं ब्रह्मभूतं विद्वानमृतो भवतीति राद्धान्तस्तु-"य- स्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः" इति यच्छब्दान- दिष्टब्रह्माधारत्वादाधेयानां (१) तत्त्वानां ब्रह्मात्मकत्वमवग-- म्यते यच्छब्दनिर्दिष्टं च " तमेवं मन्य आत्मानम् " इति तच्छब्देन परामृश्य "ब्रह्मामृतोऽमृतम्" इति निर्देशाद्र- ह्मति निश्चीयते । अतो न तान्त्रिकमसङ्गः॥ मूत्रार्थस्तु-" पञ्च पञ्चजनाः" इयत्र पञ्चविंशतिमंख्यापमंग्रहणादपि न तान्त्रि- काणीमानि तत्त्वानि। यस्मिन्निति यच्छन्दनिर्दिष्टब्रह्माधारतया तान्त्रिकेभ्यो नानाभावादेपा तत्त्वानां पृथग्भावादित्यर्थः । अतिरेकाच तान्त्रिकेभ्यस्तत्वातिरेकप्रतीतेश्च । यस्मिन्निति निर्दिष्टमतिारक्तमाकाशश्च । न संख्यापसंग्रहादपीत्यपिशब्देन संख्योपसंग्रहो न भवतीत्याह । आकाशस्य पृथङ्गानिर्देशात् । अतः पञ्चजना इति न समाहरावपयः समामः । ख्ये संज्ञायाम्" इति संज्ञाविषयः । पञ्चजनसंज्ञिताः के चित्त च पञ्चैव सप्त सप्तर्षयः" इतिवत् (२)॥ “ दिक्म- (१)'तदाधेयानाम् 'मु० (२) 'यथा मरीचिरपि सप्तर्षिात्रिश्च सप्तपिरिति प्रत्येक मप्त- र्षिसंशिताः सप्त, एवं पञ्चजनसज्ञिता अपि पञ्च सन्तीत्य- र्थः-इति संप्रदायविदः प्रथमाध्यायस्य चतुर्थः पादः। ७१ प्राणादयो वाक्यशेषात् ॥ १२ ॥ पञ्चजनसंज्ञिताः पञ्च पदार्थाः प्राणादय इति वाक्यशेषा- दवगम्यते माणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रम- नस्यान्नं मनसो ये मनो विदुः" इति ब्रह्मात्मकानीन्द्रियाण पञ्च पञ्चजनाः" इति निर्दिष्टानि। जननाच्च जनाः ॥ काण्वपाठेऽन्नवार्जितानां चतुर्णा निर्देश(१)पञ्चजनसंज्ञिता- नीन्द्रियाणीति कथं ज्ञायते इसत आह- ज्योतिषैकेषामसत्यन्ने ॥ १३ ॥ एकेपा काण्वानां वाक्यशेषे असत्यनशब्दे वाक्योपक्रमगतेन "त देवा ज्योतिषां ज्योतिः" इति ज्योतिःशब्देन पञ्चजना इन्द्रि- याणीति विज्ञायते । कथम् । (२) ज्योतिषां ज्योतिरिति ब्रह्मणि निर्दिष्टे प्रकाशकानां प्रकाशकं ब्रह्मति प्रतीयते । के ते प्रकाशका इत्यपेक्षायां पञ्च पञ्चजना इति अनिर्मातविशेषाः पञ्चसंख्याताः प्रकाशकाः(३)पञ्चेन्द्रियाणीसवगम्यते । अतो “यस्मिन्पश्च प- ञ्चजना आकाशश्च प्रतिष्टितः” इतीन्द्रियाणि भूतानि च ब्रह्माण प्रतिष्ठितानीति न तान्त्रिकत्वगन्धः ॥ (कारणत्वाधिकरणम् ।) कारणत्वेन चाकाशादिषु यथाव्यपदि- ष्टोक्तः ॥ १४ ॥ जगत्कारणवादीनि वेदान्तवाक्यानि कि प्रधानकारण- , (१) “निर्देशात् ' मु० ग० (२) 'कथम्' इति क० पुस्तके नास्ति । (३) प्रकाशकानि' मु० ग.
૭૨ वेदान्तदीपे व्या- वादैकान्तानि उत ब्रह्मकारणवादैकान्ननीति मंशयः धानकारणवादैकान्तानीति पूर्वः पक्षः । “ सदेव मोम्येदमग्र आसीत्" इति कचित्मत्पूर्विकासृष्टिराम्नायते, अन्यत्र “अस- देव सोम्येदमग्र आमीत् " तथा "अमदा इदमग्र प्रामीत् " तथा तद्धदं तहव्याकृतमासीत्तन्नामरूपाभ्यां क्रियते" इति । अव्याकृतं हि प्रधानम् । अतः प्रधानकारणवा- दनिश्चयात्तदैकान्तान्येव ॥ राद्धान्तस्तु-" ससं ज्ञानमनन्तं ब्रह्म इत्युपक्रम्य तस्माद्वा एनस्मादात्मन आकाशः संभू- तः । तदैक्षत बहुस्यां मजायेयेति तत्तेजोऽसृजत " इयादिषु सर्वज्ञस्य परस्य ब्रह्मणः कारणत्वप्रतिपादनात्तस्यैव ब्रह्मणः कारणावस्थायां नामरूपविभागासंबन्धितया सद्भावाभावादस- दव्याकृतादिशब्देन व्यपदेश इति ब्रह्मकारणवादैकान्तान्ये- च॥ सूत्रार्थस्तु-आकाशादिपदचिन्हितेषु “तस्माद्वा एतस्मादात्म- न आकाशः संभूतः" इखादिषु सर्वज्ञस्य परस्य ब्रह्मणः का- रणवपतिपादनात् (१) सर्वेषु सृष्टिवाक्येपु यथाव्यपदिष्टस्यै- व कारणत्वेनोक्तः ब्रह्मकारणवादैकान्तानि । यथाव्यप- दिष्टं सार्वयादियुक्ततयाऽस्माभिर्व्यपदिष्टम् ॥ तथा सति "असदा इदमग्र आसीत्" इति किं ब्रवीतीत्यत माह ॥ समाकर्षात् ॥ १५ ॥ सोऽकामयत बहुस्यां प्रजायेय" इति वहुभवनसंकल्पपू- वकं जगत्सृजतो ब्रह्मणः सर्वज्ञस्य "असता इदमग्र आसीत् " (१) 'सर्वज्ञस्ये' त्यादि 'प्रतिपादनातू' इत्यन्तो ग्रन्थो ग० पुस्तके नास्ति ।
प्रथमाध्यायस्य चतुर्थः पादः । ॥ इत्यत्रापि समाकर्षात्कारणावस्थायां नामरूपसंबन्धित्वाभावेना- सदिति ब्रवीति । एवं "तद्धदं तमुव्याकृतम्" इसादिषु“ स एष इहानुप्रविष्ट प्रानखाग्रेभ्यः।पश्यत्यचक्षुः" इत्यादिपूर्वापरपर्या- लोचनया तत्र तत्र सर्वज्ञस्य समाकर्षो द्रष्टव्यः । (जगद्वाचित्वाधिकरणम् ।) जगद्वाचित्वात् ॥ १६ ॥ कौषीतकीनां बालाक्यजातशत्रुसंवादे (२)"ब्रह्म तेब्रुवाणि" इत्युपक्रम्य " यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य चैतत्कर्म स वै वेदितव्यः" इत्यत्र वेदितव्यतयोपदिष्टः किं सांख्यतन्त्रप्रसिद्धः पुरुष उत परमात्मेति संशयः पुरुष एव प्रकृतिवियुक्त इति पूर्वः पक्षः । “ यस्य चैतत्कर्म " इति पुण्यपापरूपकर्मसंबन्धितयोपलक्षितत्वात् ॥ राद्धान्तस्तु- यस्य चैतत्कर्म" इति कर्मशब्दस्य क्रियत इति व्युत्पत्त्या जगद्वाचित्वात्कृस्नं जगद्यस्य कार्य स परमपुरुष एव वेदित- व्यतयोपदिष्टो भवतीति ॥ सूत्रमाप व्याख्यातम् ॥ जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ॥१७॥ " एवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते" इत्यादिभोक्तृत्वरूप- जीवलिङ्गात् अथास्मिन्माण एवैकधा भवति" इति मुख्य- प्राणलिङ्गाच नायं परमात्मेति चेत्तस्य परिहारः प्रतर्दनवि- द्यायामेव व्याख्यातः । प्रकरणपूर्वापरपर्यालोचनया पर- मात्मपरं (२) वाक्यमिति निश्चिते सत्यन्यलिङ्गानि तदनुगुणतया नेतव्यानीत्यर्थः ॥ (१) 'बालाक्यजातशत्रुसंवादे इत्ययमंशः :: क० मु० पुस्तक- यो स्ति । (२)' परमिदं 'मु० वेदान्तदीपे "तौ ह सुसं पुरुषमाजग्मतुः" इति प्राणादि(१)नामभिराम- न्त्रणाश्रवणयष्टिघातोत्थापनादिना शरीरेन्द्रियमाणा(२)ति- रिक्तजीवात्मसद्भावप्रतिपादनपरमिदं वाक्यमित्ववगम्यत इत्यत उत्तरं पठात- अन्यार्थं तु जैमिनिः प्रश्नप्रतिवचनाभ्याम- पि चैवमेके ॥ १८ ॥ तुशब्दः शङ्काव्यात्त्यर्थः। जीवसंकीर्तनमन्याथ जी- वातिरिक्तब्रह्मसद्भावप्रतिबोधनार्थमिति प्रश्नप्रतिवचनाभ्याम- वगम्यते । प्रश्नस्तावज्जीवप्रतिपादनानन्तरं (३) “कैष एतबा- लाके पुरुषोऽशयिष्ट" इत्यादिका सुप्तजीवाश्रयविषयतया परमा- त्मपर इति निश्चितः । प्रतिवचनमपि “अथास्मिन्माण एवै- कधा भवति" इसादिकं परमात्माविषयमेव । सुप्तपुरुषाश्रयतया माणशब्दनिर्दिष्टः परमात्मैव सता सोम्य तदा संपन्नो भ- वति " इत्यादिभ्यः । जैमिनिग्रहणमुक्तस्यार्थस्य पूज्यत्वा- प । अपि चैवमेके वाजसनोयन इदमेव वालाक्यजातशत्रुसंवाद- गतप्रश्नपतिवचनरूपं वाक्यं परमात्मविषयं स्पष्टमधीयते कैष एतत् " इसादि " य एषोऽन्तहृदय आकाशस्तस्मिन्शे- ते" इत्यन्तम् (४)॥ (वाक्यान्वयाधिकरणम् ।) वाक्यान्वयात् ॥ १९॥ बृहदारण्यके मैत्रेयीत्राह्मणे “ न वा अरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय " इत्यारभ्य आ- (१)'प्राण' मु० (३)'पादनादुपरिष्टात 'ग० (२) प्राणाय'मु० (४) इत्येतदन्तम्' मु० प्रथमाध्यायस्य चतुर्थः पादः । त्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः " इत्यादौ द्रष्टव्यतया निर्दिष्टः पुरुषस्तन्वसिद्ध उत परमात्मेति संशयः ॥ तन्त्रसिद्धः पञ्चविंशक एवेति पूर्वः पक्षः । पतिजा- यापुत्रवित्तमित्रपश्वादिप्रियसंबन्ध्यात्मा न परमात्मा भवितुम. हति । स एव " आत्मा वा अरे द्रष्टव्यः" इति प्रतिपाद्य- ते ॥राद्धान्तस्तु-न पत्यदीनां कामाय पत्यादयः प्रिया भवन्ति “आत्मनस्तु कामाय " इत्युक्त्वा आत्मा वा अरे द्रष्टव्यः इति निर्दिष्ट आत्मा जीवातिरिक्तः सत्य- संकल्पः सर्वज्ञः परमात्मैव । यत्संकल्पायत्तं पत्यादीनां स्व- संबन्धिनः पति प्रियत्वं हि सत्यसंकल्पः प- रमात्मा (१)। प्रात्मज्ञानेन सर्वज्ञानादयोऽपि वक्ष्यमाणाः प- रमात्मन्येव संभवन्ति ॥ सूत्रार्थस्तु-वाक्यस्य कृत्स्नस्य परमात्मन्येवान्वयाइष्टव्यतया निर्दिष्ट आत्मा परमात्मैव । अमृतत्वस्य तु नाशास्ति वित्तेन । प्रात्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्व विदितम् । इदं सर्वं यदयमात्मा । लस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः । पुरुष एवे- दम् (२) । येनेदं सर्व विजानाति तं केन विजानीयात् " इति हि कृत्स्नस्य वाक्यस्य परमात्मन्यन्वयो दृश्यते ॥ एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति" इति जीवलिङ्गस्य मतान्तरेण निर्वाहमाह- प्रतिज्ञासिद्धोर्लिङ्गमाश्मरथ्यः ॥ २० ॥ एकविज्ञानेन सर्वावज्ञानप्रतिज्ञासिद्धये जीवस्य परमात्म- (१)' यत्संकल्पायतम्' इत्यादिवाक्यं ग० पुस्तके नास्ति । (२)'पुरुष एवेदम्' इति ग० पुस्तक एवास्ति वेदान्तदीप कार्यत्वेन परमात्मनोऽनन्यो जीव इति जीवशब्देन परमात्मनोऽ. भिधानमिसाश्मरथ्यमतम् ॥ उत्क्रामष्यत एवं भावादित्यौडुलोमिः ॥ २१ ॥ परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते" इति शरीरादुत्क्रमिष्यतो जीवस्य (१) परब्रह्म(२)भावाज्जीवशब्देन परमात्माभिधानमित्यौडुलामिराचार्यो मेने ॥ अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥ य प्रात्मनि तिष्ठन्" इत्यादिभिर्जीवात्मन्यात्मतया(३) परमात्मनोऽवस्थितेर्जीवात्मशब्दस्य परमात्मान पर्यवसानाज्जी- वात्मशब्देन परमात्मनोऽभिधानमिति काशकृत्स्न आचार्यो मन्यते । इदमेव सूत्रकारमतामसवगम्यते । त्रयाणाम- न्योन्यविरोधात् । इतः परमवचनाच्च ।। (प्रकृत्यधिकरणम् ।) प्रकृतिश्च प्रतिज्ञादृष्टान्तानुरोधात् ॥ २३ ॥ परं ब्रह्म किं जगतो निमिचकारणमात्रमुतोपादानकारण- मपीति संशयः ॥ निमित्तमात्रमिति पूर्वः पक्षः। मृत्कुलालादौ निमित्तोपादानयोर्भेददर्शनात् । अस्मान्मायी सृजते " इ- सादिभिर्भेदप्रतिपादनात्। ब्रह्मणोऽविकारित्वश्रुतिविरोधाच्च॥ राद्धान्तस्तु—“ येनाश्रुतं श्रुतम् " इति ब्रह्मज्ञानेन सर्वज्ञान- प्रतिज्ञानाद (४) “यथा सोम्यैकेन मृत्पिण्डेन" इति मृत्तकार्य- (२) 'परमात्म' मु० (१) मुक्तजीवस्य 'क० (३) आत्मनः (४) 'प्रतिज्ञान्यथाऽनुपपत्त्यामु० ग.
७७ प्रथमाध्यायस्य चतुर्थः पादः । ष्टान्तेन तदुपपादनाच जगदुपादानकारणपि ब्रह्मयोति विज्ञायते । प्रमाणान्तरावसितसकलवस्तुविलक्षणस्य शास्त्रै- कसमधिगम्यस्य परब्रह्मणः सर्वज्ञस्य सर्वशक्तेः कार्यकार- णोभयावस्थायामपि स्वशरीरभूतचिदचित्यकारतयाऽवस्थि- तस्यैकस्यैव निमित्तत्वमुपादानत्वं चाविरुद्धम् । शरीरभूत- चिद्रस्तुगतो विकार (१) इति कार्यावस्थस्यापि शीरणः पर- मात्मनोऽविकरित्वं स्थितमेव । चिदचिद्वस्तुशरीरस्य व्र- ह्मण एवोपादानत्वेऽपि ब्रह्मण्यपुरुषार्थविकाराऽस्पर्शमदर्शना- य हि " अस्मान्मायी सृजते विश्वमेतत्तस्मिश्चान्यो मायया संनिरुद्धः" इति व्यपदेशः ॥ प्रतिज्ञादृष्टान्तानुरोधादुपादानं च ब्रह्मैवेति सूत्रार्थः ॥ अभिध्योपदेशाच ॥ २४ ॥ "सोऽकामयत बहुस्याम् । तदैक्षत (२) बहुस्यां प्रजायेय" इति स्रष्टुब्रह्मणः स्वस्यैव जगदाकारेण बहुभवनचिन्तनोपदे- शाच्च जगदुपादानं निमित्तं च ब्रह्मैवेति निश्चीयते ॥ साक्षाच्चोभयाम्नानात् ॥ २५ ॥ कि स्विद्वनं क उ म वृक्ष आसीत्" इत्यादिना जगदु- पादानानिमित्तादौ पृष्टे ब्रह्म वनं (३) ब्रह्म स वृक्ष आसीत्- ब्रह्माध्यानेष्टत् " इत्युपादानं निमित्तं चोभयं ब्रह्मैवेति हि साक्षादाम्नायते । अतश्चोभयं ब्रह्म ॥ आत्मकृतेः ॥ २६॥ ७ (१) 'भूतचिदचिद्वस्तुगता विकाराः' ग० पा० (२) सोऽकामयत बहुस्यां प्रजायेय इति' ग० (३) 'ब्रह्म वनम् ' इति ग० पुस्तकं नास्ति ।
वेदान्तदीपे - तदात्मानं स्वयमकुरुत" इति स्रष्टुरात्मन एव जगदा- कारेण कृतिरुपदिश्यते । अतश्चोभयम् । नामरूपभावाभावाभ्या- मेकस्य कर्मकर्तृभावो न विरुद्धयते ॥ यद्यात्मानमेव ब्रह्म जगदाकारं करोति तर्हि ब्रह्मणोऽपह- तपाप्मत्वादिकमनवधिकातिशयानन्दस्वरूपत्वं सर्वज्ञत्वमित्या- दि सर्व विरुद्धयेत । अज्ञत्वामुखित्वकर्मवश्यत्वादिविपरीतरूप- वाज्जगत:-इसत उत्तरं पठति- परिणामात् ॥ २७ ॥ अज्ञब्रह्मविवर्तवादे हि तद्वत्येव । अज्ञानस्य तत्कार्यरू- पानन्तापुरुषार्थस्य च वेदान्तजन्यज्ञाननिवर्त्यस्य ब्रह्मण्य- वान्वयात् । तदा शास्त्रस्य भ्रान्तजल्पितत्वापाताच्च । अ- विभक्तनामरूपसूक्ष्मचिदाचद्वस्तुशरीरकस्य ब्रह्मणो विभक्त- नामरूपस्थूलचिदचिद्रस्तुशरीरत्वेन परिणामो हि वेदान्तेषू- पदिश्यते तद्धेदं तीव्याकृतमासीत्तन्नामरूपाभ्यां व्या- क्रियत इत्येवमादिभिः । अपुरुषार्थाश्च विकारा- श्च (१)शरीरभूतचिदाचंद्रस्तुगताः । कारणावस्थायां कार्याव- स्थायां चात्मभृतं ब्रह्मापहतपाप्मत्वादिगुणकमेव । स्थूलमू- क्ष्मावस्थस्य कृत्स्नस्य चिदचिद्रस्तुनो ब्रह्मशरीरत्वं ब्रह्मणश्च त- दात्मत्वं “यस्य (२) पृथिवी शरीरम्" इत्यारभ्य यस्याव्य- तं शरीरम्-यस्याक्षरं शरीरम्-यस्य मृत्युः शरीरम्-एष सर्वभूतान्तरात्माऽपहतपाप्मा " इसेवमादिश्रुतिशतसमधिगतम् । अतः सर्वमनवद्यम् ॥ (१) ' अपुरुषार्थविकाराश्च' ग० 'अपुरुषार्थाश्च विकाराः 'मु० (२)' यः पृथिव्यां तिष्ठन् । यस्य 'मु० प्रथमाध्यायस्य चतुर्थः पादः । योनिश्च हि गीयते ॥ २८ ॥ यद्भूतयोनि परिपश्यन्ति धीराः। कर्तारमीशं पुरुषं ब्र- ह्मयोनिम् " इसादिषु सर्वस्य भूतजातस्य परमपुरुषो योनित्वेन गीयते । हि हेतौ । यस्माद्योनिरिति गीयते तस्माच्चोपादानमपि ब्रह्म । योनिशब्दश्चोपादानकारणप- र्यायः ॥ एतेन सर्वे व्याख्याता व्याख्याताः ॥ २९ ॥ यतो वा इमानि " इसादिषूदाहृतेषु वाक्येषु “जन्मा- द्यस्य यतः" इसादिनोक्तेन न्यायकलापेन सर्वे वेदान्ता ब्रह्म- परा व्याख्याताः । पदाभ्यासोऽध्यायपरिसमाप्तिद्योतनार्थः ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तदीपे प्रथमस्याध्यायस्य चतुर्थः पादः । समाप्तश्चायं समन्वयाध्यायः ॥
वेदान्तदीपे द्वितीयोऽध्यायः । (स्मृत्यधिकरणम् ।) स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृ- त्यनवकाशदोषप्रसङ्गात् ॥ १ ॥ वेदान्तानां समस्तचिदचिद्विलक्षणास्पृष्टहेयगन्धसर्वज्ञता(१)ss- धनन्तकल्याणगुणाकरब्रह्मकपरत्वं प्रतिपादित,कापिलादि(२)- स्मृतिविरोधेन चालायतुं शक्यमुत नेति संशयः ॥ शक्यमिति पूर्वः पक्षः श्रुतिविरुद्धायाः स्मृतेरनादरणीयत्वे स्थितेऽपि वेदान्तवेद्यार्थस्य दुर्घहत्वेनाल्पश्रुतैर्मन्दमतिभिराप्तपणीतस्मृ- त्युपबृंहणेन विना निश्चयो नोपपद्यते । कपिल(३)स्मृतिः केवलतत्वपरेति तयैव झुपबृहणं न्याय्यम् । अन्यथाऽs- सप्रणीतायाः केवलतत्त्वपरायास्तस्या अनवकाशमसङ्ग -इति, वेदान्तवेद्यं जगत्कारणं प्रधानम् ॥ राद्धान्तस्तु-वेदा- न्तस्योपबृंहणापेक्षत्वेऽपि आप्ततममन्वादिस्पृतिभिर्वेदान्ताविरो- धिनीभिरैवोपबृंहणं न्याय्यम् । अन्यथा तासां वह्वीनामन- वकाशप्रसङ्गो महानयं दोषः स्यात् । न च तासां धर्मप्रति- पादनांशोपबृहणत्वेन सावकाशत्वम् । यतो धर्माणामपि (१) 'सार्वश्या' क० (३)' कपिलादि' ग० (२) 'कापिल' मु.
द्वितीयाध्यायस्य प्रथमः पादः । स्वरूपं परब्रह्म(१)भूतपरमपुरुषाराधनत्वं, “इष्टापूर्त बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः । तदेवाग्निस्तद्वायु- स्तत्सूर्यस्तदु चन्द्रमाः। यज्ञैस्त्वमिज्यसे नित्यं सर्वदेवमयाच्यु- त" इसादिभिः ॥ सूत्रमपि व्याख्यातम् ॥ अतीन्द्रियार्थसाक्षात्कारसमर्थस्य कपिलस्य वेदा- न्तानां परब्रह्मपरत्वानुपलब्धेः प्रधानपरत्वमाश्रयणीयमित्यत उत्तरम्(२)--- इतरेषां चानुपलब्धेः ॥ २ ॥ इतरेषां मन्वादीनां वेदविदग्रेसरणां सर्वार्थ(३)साक्षात्का- रममर्थानां प्रधानपरत्वानुपलब्धेब्रह्मपरत्वमेवाश्रयणीयम् । वेदा- न्तप्रीतपन्नार्थविरुद्धायास्तु कपिलोपलब्धेओन्तिमूलत्वं कल्प- यितव्यम् ॥ ( योगप्रत्युक्त्यधिकरणम् ।) एतेन योगः प्रत्युक्तः ॥ ३ ॥ किं वेदान्तानां योगस्मृत्योपबृंहणं न्यय्यमुत नेति संश- यः ॥ न्याय्यमिति पूर्वः पक्षः 1 कृत्स्नवेदप्रवर्तनाधिकृताह- रण्यगर्भप्रणीतत्वायोगस्य । ईश्वरसद्भावाभ्युपगमाच्च । अतो- योगस्मृत्युपबंहितत्वेन वेदान्तानां प्रधानो(४)पादानप्रतिपादन- परत्वम् ॥ राद्धान्तस्तु-कापलस्मृतिवद्वेदविरुद्धत्वाविशेषादना- दरः(५)। हिरण्यगर्भस्यापि क्षेवज्ञत्वेन भ्रमसंभवायोगस्मृतराप भ्रान्तिमूलत्वम् ॥ सूत्रमपि व्यख्यातम् ॥ (२) उत्तरं पठति'मु० (१)' स्वरूपब्रह्य'मु० (३) सर्वातीन्द्रियार्थ' मु० (४) 'अब्रह्मात्मकप्रधानो' मु० (५) 'दरणीयव योगस्मृतिः' मु० ૮૨ वेदान्तदीपे (विलक्षणत्वाधिकरणम् ।) न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥ किं वेदान्तानां जगत्कारणतया प्रधानपरत्वमुत ब्रह्म- परत्वमिति संशयः ।। प्रधानपरत्वमिति पूर्वः पक्षः । अज्ञत्वादि- ना जगतो ब्रह्मविलक्षणत्वेन ब्रह्मकार्यत्वप्रतिपादनासंभवात् । सालक्षण्येन प्रधान(१)प्रतिपादनपरत्वस्य च संभवात् ॥रा- द्धान्तस्तु-माक्षिकादिभ्यः क्रिम्यादीनां विलक्षणानामुत्पत्तिद- शनालविलक्षणस्य जगतसंतत्कार्यत्वं संभवत्येवेति ॥ सू- त्रार्थस्तु-अज्ञतेनासुखित्वेन चोपलब्धस्य चिदाचन्मिश्रस्य ज- गतः सर्वज्ञाद्धयप्रत्यनीकान्निरतिशयानन्दाद्ब्रह्मणो विलक्षण- त्वेन जगतो ब्रह्मकार्यत्वप्रतिपादनं वेदान्तानां न संभ- वति । तथात्वं विलक्षणत्वं च शब्दादेवगम्यते । न केवलं प्रत्यक्षायुपलब्ध्या “ विज्ञानं चाविज्ञानं च । अनीशया शो- चति मुह्यमानः । अनीशश्चात्मा बध्यते भोक्तभावात् ( इत्यादेः ॥ "आपो वा अकामयन्त । तिं पृथिव्यब्रवीत्" इत्यादौ पृ- थिव्यादेरपि ज्ञानकायत्वं व्यपदिश्यते । तस्मात् “अविज्ञानं च" इति तदन्यपरामत्यत उत्तरम्- अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ५ ॥ तुशब्दश्चाद्यं व्यावर्तयति पृथिव्यायभिमानिदे- वतानामयं व्यपदेशः । कुतोऽवगम्यते । विशेषानुगतिभ्यांम विशपर्ण-विशेपः हन्ताहमिमास्तिस्रो देवताः" इति पृथि- व्यादेवताशब्देन विशेषणं दृश्यते । सर्वा ह वै देवता (१) 'प्रधानकार्यत्व' मु० द्वितीयाध्यायस्य प्रथमः पादः । - अहंश्रेयसे विवदमानाः" इति वागादिप्राणपर्यन्तस्य च । अनु- गतिरनुप्रवेशः । अग्न्यादित्यादेर्वागादिष्वनुप्रवेशो दृश्यने । "अग्निर्वाग्भूत्वा मुग्वं प्राविशदादित्यश्चक्षुर्भूताऽक्षिणी प्राविशद्वायुः प्राणो भूत्वा नासिके पाविशत् " इसादौ ॥ दृश्यते तु ॥ ६॥ तुशब्दः पक्षव्यावृत्त्यर्थः । माक्षिकादिभ्यो विलक्षणानां क्रिम्यादीनामुत्पत्तिश्यते । अतो ब्रह्मविलक्षणस्यापि जगतस्त- स्कार्यत्वं संभवात ॥ असदिति चेन्न प्रतिषेधमानत्वात् ॥ ७ ॥ यदि कार्यस्य कारणाद्विलक्षणद्रव्यत्वमभ्युपगम्यते; त- हि कारणे कार्यमसद्भवतीसमत्कार्यवादोऽभ्युपगतः स्या- त्, तथा सति " सर्वं खल्विदं ब्रह्म " इयादि सामाना- धिकरण्यव्यपदेशो न घटत इति चेन्न । कार्यकारणयोः मा- लक्षण्यनियमप्रतिषेधमात्रत्वात् । अस्माभिः पूर्वमभिहितं(१) का- र्यकारणयोरे कद्रव्यत्वं स्वीकृतमेव । एकमेव (२) कारगावस्थं द्रव्यं, कार्यावस्थां भजमानं मलक्षणावस्थामपि भजते , पिल- क्षणावस्थामपीत्यर्थः॥ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ ८ ॥ यदि ब्रह्मैव सर्वज्ञ सससंकल्पं निरतिशयानन्दमपहतपा- प्मत्वादिस्वरूपं तद्विपरीतजगदक्स्थां भजते, तर्हि पिण्डत्व- घटत्वावस्थमृद्व्यवदसर्वज्ञत्वमनपहत(३)पाप्मत्वादिक कर्म- (१) मात्रत्वादस्माभिः पूर्वमभिहितम्य ।' मु. (२) 'एकमेव ' इति'ग० पुस्तके नास्ति । (३) 'वत्सर्वज्ञत्वमपहत' मु. ग.
वेदान्तदीपे नात्मनि सङ्गछन्ते, तथा- वश्यत्वं ब्रह्मणः प्रसज्यतेति বিভ্রাথমিখানাইবান- वाक्यमसमञ्जमं स्यात् । अपीताविति सृष्टयादेः (१) प्रदर्शना- र्थम् । जगतो ब्रह्मण्यपतिौ ब्रह्मण उत्पत्तावीयर्थः । अपीति- रप्ययः ॥ न तु दृष्टान्तभावात् ॥ ९ ॥ न ब्रह्मण्यज्ञत्वादयः प्रसज्येरन् । अत एव न वेदान्ता- नामसामञ्जस्यम् । तुशब्दः प्रसक्तस्यासंभावनीयतां द्योतय- ति । एकस्यैवावस्थाद्वयान्वयेऽपि गुणदोपव्यवस्थायां - ष्टान्तसद्भावात् । यथा मनुष्यो जातो बालो युवा स्थविरो भवतीत्यत्र मनुष्यशरीरकस्य चेतनस्यैव सर्वावस्थान्वयेऽपि ज- न्मबालत्वयुवत्वस्थ विस्त्वादीनि ज्ञानमुखादयश्च न शरीरे; एवं चिदचिद्वस्तुशरीरस्य परस्य ब्रह्मणः कार्यकारणोभयावस्थान्वयेऽपि कर्मवश्यत्वाज्ञत्वादयः शरीरभूतचिचिद्वस्तुगताः । अपहतपाप्मत्वसर्वज्ञत्वादयः पर- मात्मन्यात्मभूतेऽवतिष्ठन्ते । सर्वावस्थस्य चिदचिद्वस्तुनो ब्र- मशरीरत्वं ब्रह्मणश्च तदात्मत्वं यस्य पृथिवीशरीरं " इसा- धन्तर्यामिब्राह्मणादिषववगतमिति न कश्चिद्विरोधः ।। स्वपक्षदोषाच्च ॥ १० ॥ न केवलं ब्रह्मकारणवादस्य निर्दोपतया तत्समाश्रय- णम् । प्रधानकारणवादे दोषाच,तं पारिसज्य ,स एव ममाश्र- यणीयः । प्रधानकारणवादे हि निर्विकारस्य चिन्मात्र- स्य पुरुषस्य प्रकृतिसंनिधानकृततद्धर्माध्यासमूला जगत्य- त्तिरभ्युपगम्यते । तत्र प्रकृतिसद्भावमात्रे संनिधाने सति, (१) 'सृष्टयादेः।' इति मुद्रिते नास्ति ।
द्वितीयाध्यायस्य प्रथम पादः। मुक्तस्यापि तद्धर्माध्यासप्रमङ्गः । विकारविशेषे सति संनिधाने, कृत्स्नस्य विकारस्याध्यासपूर्वकत्वान्नाध्यामस्य (१) विकागे हेतुरिति विरुद्धार्थाभिधानादमामञ्जस्यादिदोप हाने न त- पक्षसंभवगन्धः॥ तर्काप्रतिष्टानादपि ॥ ११ ॥ कपिलतन्त्रस्य तर्कमूलत्वेन शाक्या(२)दिनप्रतिहततया- ऽस्य तर्कस्यामतिष्टितत्वाच्च न तत्पक्षसंभवः ॥ अन्यथाऽनुमेयमिति चेदेवमप्यनिर्मो- क्षप्रसङ्गः ॥ १२ ॥ इतः पूर्व विद्यमानस्तरमतिहतत्वं यथा संभवति तथा प्रधानकारणवादभनुमास्यामह (३) इति चेत्तथापि तर्का- प्रतिष्ठानदोषादमोक्षो दुर्वारस्त्वदधिकतर्ककुशल(४)सद्भावम- भवात् ॥ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १३ ॥ न परिगृह्यन्ते वैदिकैरित्यपरिग्रहाः(५)। एतेन-तर्काप्रति- टानलक्षणेन कपिलस्मृतिनिरसनहेतुना,परिशिष्टाः- कणभक्षा- दिस्मृतयोऽपि निरस्ता व्याख्याताः॥परमाणुकारणवादःम- . (१) पूर्वकत्वाभावान्नाध्यासस्य' इति 'पूर्वकन्वाभावान संनि- धानं विकारहेतुरिति कृत्स्नस्य विकारस्याध्यासपूर्वकत्वा- नाध्यासस्य' इति च पाठान्तरे । (२)'शाठ्या' क० (३)' अनुमन्यामहे 'मु. (४) 'दूष्यत्व' पा० (५) एतद्वाक्यानन्तरम् ' शिष्टाश्च ते अपरिमहाश्च शिष्टापरिग्र- हाः।' इत्यधिकं मुद्रिते । ' वेदान्तदीपे र्वसंमत इति न तेषां तर्कस्याप्रतिष्ठितत्वमित्यधिकाशङ्का । तर्क- मूलत्वाविशेषात्परमाणूनां शून्यत्वाद्रव्यत्वादिविवादाच्च त- कस्याप्रतिष्ठितत्वमेवेति परिहारः ॥ (भोक्त्रापत्त्यधिकरणम् ।) भोक्त्रापत्तेरविभागश्चेत्स्याल्लाकवत् ॥ १४ ॥ सर्वात्मभूतस्य परस्य ब्रह्मणः स्वशरीरभृताज्जीवान्निराते- शयानन्दैकस्वभावतया यो विभाग उक्तःस विभागः मभवति नेति- संशयः॥न संभवतीति पूर्वः पक्षः सर्वचिदचिद्वस्तुशरीरतया स- शरीरत्वाद्ब्रह्मणः 74 सशरीरस्य च मुखदुःखयो क्तृत्वाप- त्तेः। तदापत्तिश्च न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहति- रस्ति अशरीरं वा व सन्तं न प्रियापियो स्पृशतः" इति श्रुतेः ॥ राद्धान्तस्तु-स्यादेव विभागो जीवात्परस्याकर्मवश्यतया । न हि शरीरप्रयुक्तः सुखदुःगयोगः (१) । अपि तु शास्त्रवश्यतया त- दतिवृत्तिकृतः । स एकधा भवति त्रिधा भवति(२)" इत्या- दिनाऽवगतशरीरस्य मुक्तस्य सशरीरस्याप्यशास्त्रवश्यतया नि- रस्तनिखिलदुःखदर्शनात् । यथा लोक राजशासनवश्यानां मश- रीराणां तच्छासनातिवृत्तिनिमित्तदुःखान्वयेऽपि, राज्ञः सश- रीरस्यापि प्रकारान्तरेण साधर्थेऽपि,स्वशासनावश्यतया न तदतिवृत्तिकृतदुःखान्वयः ॥विभागो-वैलक्षण्यम् (३)। मूत्रमपि व्याख्यातम् ॥ (१) सुखदुःसभोगः ग० (२) त्रिधा भवति' इत्यंशः क० ग० पुस्तकयो स्ति । (३) 'विभागो वैलक्षण्यम्' इति क० ग० पुस्तकयो स्ति ।
द्वितीयाध्यायस्य प्रथमः पादः । तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १५ ॥ किं ब्रह्मकार्य जगह्मणोऽन्यदुतानन्यदिति संशयः ॥ अन्य दिति पूर्वः पक्षः 1 तोपलब्धेः । न हि बुद्धिशब्दान्त- रादयः कारणाकार्यस्यानन्यत्वे कथं चिदुपपद्यन्ते । कारक- व्यापारवयी चानन्यत्वे । अतो वस्तुविरोधादनन्यत्वश्रुत- यो लक्षणया नेयाः ॥राद्धान्तस्तु-वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकत्येव सत्यम् । सदेव मोम्येदमग्र आसीदेकमे- वाद्वितीयं , ,तदक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत । ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि श्वेतके- तोमर्व खल्विदं ब्रह्म तज्जलानिति । तिद्धेदं तीव्याकृतमासी- तन्नामरूपाभ्यां व्याक्रियत " इत्यादिश्रुतिशतसिद्धं कार्य- स्य जगतः कारणाह्मणानन्यत्वम् ।नि चात्र वस्तुविरोधग- न्धः। कारणीभूतमृदादिद्रव्यस्यैव पृथुबुन्नोदराद्यवस्थाऽन्तराप- त्या बुद्धिशब्दान्तरादयोऽयुपपद्यन्ते । तत एव कारकव्यापारा- घर्थवत्वं च । एवं कारणस्यैव कार्यावस्थायामपि प्रत्यभि- ज्ञायमानस्यावस्थान्तरापत्त्यैव सर्वेषूपपन्नेष्वनुपलब्धद्रव्या- न्तरकल्पना न संभवात । तस्माईमकार्यं जगह्मणोऽनन्य. देव ॥ सूत्रार्थस्तु-तस्माह्मणोऽनन्यत्वं कार्यस्य जगतः प्रारम्भणशब्दादिभ्यो वाक्येभ्यस्तदुपपादयद्य उपपद्यते (१)। "वाचाऽऽरम्भणम्" इति (२) शब्द आदिर्यपां पूर्वोक्तानां वा- क्यानां तान्यारम्भणराब्दादोनि । तानि बनन्यत्वमुपपा- दयन्ति ॥ (१)' अवगम्यते' मु (२२) आरम्भणमिति'मु० ८८ वेदान्तदीपे भावे चोपलब्धेः ॥ १६ ॥ घटादिकार्यभावे च तदवेद मृद्रव्यामत्थमवस्थितमिति कारणस्योपलब्धेश्च , कारणानन्यत्त्वं कार्यस्य । यथा देव- दत्तस्य वालवयुवत्वावस्थाविशिष्टस्यानन्यत्वम् ॥ सत्वाचापरस्य ॥ १७ ॥ अपरस्य कार्यस्य कारणे सत्वाच्च कारणादनन्यत्कार्यम् । सर्वमिदं घटशरावादि कार्य पूर्वाह्ने मृदेवासीदिति हि करणे कार्यमुपलभ्यते । घटशरावादिमंस्थानसंस्थितमेव मृद्रव्यं पूर्वकाले पिण्डाकारमुपलब्धमिसर्थः ॥ असद्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशे- पायुक्तेः शब्दान्तराच्च ॥ १८ ।। असदेवेदमन आसीत् । इदं वा अग्रे नैव किं चनासी- त् (१) इसादिपुकारणावस्थायां कार्यस्यासत्त्वव्यपदे- शाकारणे कार्य सदियेतन्नापपद्यत इति चेतन 1 स- दिति व्यपदेशहेतुभूतनामरूपावस्थाविरोधिमूक्ष्मावस्थाख्यध- मन्तिरेण योगासादिति व्यपदिश्यते । कथामदमवगम्य- ते ! वाक्यशेषायुक्तेः शब्दान्तराच्च । वाक्यशेषस्तावत्-त- दसदेव सन्मनोऽकुरुत स्याम् " : इससदिति व्यपदिष्ट- स्यैव मनस्कारप्रतिपादनेनासद्वयपदेशो धर्मान्तरयोगनि- मित्तामसवगमयति । युक्तिश्च-धर्मान्तरयोगमेवासद्व्यपदेश- हेतुर्मवगमयात । 'घटोऽस्ति , घटो नास्तीति सदसद्यपदे- शयोधटत्वकपालत्वयोः परस्परविरोधिधर्मयोरेव हेतुत्वे सिद्धे (१) इदं वा अग्रे' इत्यादिश्रुतिः ग० पुस्तके नास्ति । ..
द्वितीयाध्यायस्य प्रथमः पादः। तदतिरिक्तानुपलब्धतुच्छत्वस्य हेतुत्वकल्पनानुपपत्तेः। तथा शब्दान्तरं च “सदेव सोम्येदमग्र आसीत् " इति समान- मकरणस्थमसच्छन्द(१) धर्मान्तरयोगनिमित्तमवगमयति । पटवच्च ॥ १९ ॥ यथा तन्तव एव व्यतिपङ्गविशेषभाजः पट' इति नामरूप- कार्यान्तरानिक(२) भजन्ते तद्वमापि ॥ यथा च प्राणादिः ॥२०॥ यथा च वायुरेक एव शरीरवृत्तिविशेषं भजमानः प्रा. पापानादिनामरूपकार्यान्तराणि भजते, तद्बह्मापीते तदन- न्यत्वं च जगत: सिद्धम् ।। (इतरव्यपदेशाधिकरणम् ।) इतरव्यपदेशाद्धिताकरणादिदोष- प्रसक्तिः ॥ २१ ॥ ब्रह्मणो जगत्कारणत्वं संभवस्थत नति संशयः ॥ संभवतीति पूर्वः पक्षः । कुतः । “अयमात्मा ब्रह्म । तत्त्वम- सि” इति तत्सामानाधिकरण्येन जीवो ब्रह्मैवेसवगमालगत्सर्गस्य च जीवपुण्य(३)हेतुत्वादात्महिताकरणाहितकरणादि(४)दोषम- सक्तः,सर्वज्ञस्य सत्यसंकल्पस्य ब्रह्मणों जगत्कारणत्वानुपपत्तेः । जीवपरयो ववादिन्यः अतयों जगह्मणोरनन्यत्वं व. , (१) 'स्थ सच्छब्दं 'पा० (२) 'नामरूपाभ्यां कार्यान्तरादिकं 'मु. 'नामरूपकार्यान्तर'क. (३)' जीवदुःख' मु. क. (४)' आत्महिताकरणादि'मु० वेदान्तदीपे दता त्वयैव परिसक्ताः । भेदे सबनन्यत्वासिद्धेः । औ- पाधिकभेदविषयाः भेदश्रुतयः स्वाभाविकाभेदविषया: अमे- दश्रुतय. इति चेसत्रेदं वक्तव्यम् । स्वभावतः स्वस्मादभिन्न जीव किमनुपहितं जगत्कारणं ब्रह्म,जानातिन वा न जाना- ति (१)चेत्सर्वज्ञत्वहानिः जानाति (१) चेत्स्वस्मादभिन्नजीवस्य दुःखं स्वदुःखमिति जानतों ब्रह्मणो हिताकरणाहितकरणा- दि(२)दोषप्रसक्तिरनिवार्या । जीवब्रह्मणोरज्ञानकृतो भेदस्त- द्विषया:भेदश्रुतय इति चेत्तवापि, जीवाज्ञानपक्षे-पूर्वोक्तविक- ल्प(३)स्तत्फलं च तदवस्थमेव । ब्रह्माज्ञानपक्षे-स्वप्रकाशस्वरूपस्य ब्रह्मणोऽज्ञानसाक्षित्वं तत्कृता जगत्सृष्टिश्च न संभवतीति । अ- ज्ञानेन प्रकाशस्तिरोहितश्चेतिरोधानस्य प्रकाशनिवृत्तिकरत्वेन भकाशस्यैव स्वरूपत्वात्स्वरूपनित्तिरेवेति स्वरूपनाशादयो दोषा भाष्ये प्रपञ्चिताः ॥राद्धान्तस्तु-“अस्मान्मायी मृ- जते विश्वमेतत्तस्मिश्चान्यो मायया संनिरुद्धः । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति । प्रधानक्षेत्रज्ञपात- गुणेशः । पृथगात्मानं प्रेरितारं च मत्वा" इत्यादिभिः प्रत्यगात्मनोऽर्थान्तरभूतं ब्रह्मेत्यवगमाजीवकर्मानुगुण(४)जग- त्सर्गस्य च ब्रह्मणो लीलाप्रयोजनत्वाजत्कारणत्वं संभव- सेव । तत्त्वमस्यादिसामानाधिकरण्यानिर्देशो “ यस्यात्मा शरीरम् " इत्यादिश्रुतेजीवस्य ब्रह्मशरीरत्वाच्छरीरतया जी- वप्रकारक(५)ब्रह्मप्रतिपादनपरः। सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्म कारणावस्थं स्थूलचिदचिवस्तुशरीरं ब्रह्मैव कार्यावस्थमिति (१) 'जानातीति' क. (३) 'पूर्वोक्तो दोष' मु. (६)'प्रकारत्वेन' क० (२) 'हिताकरणादि' ग० (४)'गुणतया'मु० द्वितीयाध्यायस्य प्रथमः पादः । कार्यकारणयोरनन्यत्वम् । एवमपि शरीरभूतयोश्चिदचिद्व- स्तुनोः, शरीरिणो ब्रह्मणश्च दुःखित्वपरिणामित्वहेयप्रसनीक- त्वकल्याणगुणाकरत्वस्वभावाः स्वरूपविवेकविषयश्रुति(१)सि- द्धास्तथैव व्यवस्थिता इाते , ब्रह्मणो जगत्कारणत्वं संभ- वत्येव ॥ सूत्रार्थस्तु इतरौ -जीवः । ब्रह्मणो जीवतया व्यपदेशाज्जीवस्य च दुःखित्वाद्धितरूपजगदकरणमाहित- रूपजगत्करणमित्यादिदोषप्रसक्तिब्रह्मणः । अतो जगत्कारणत्वं न संभवति ॥ अत उत्तरं पठति (२)- आधिकं तु भेदनिर्देशात् ॥ २२ ॥ तुशब्दः पक्षव्यावृत्त्यर्थः । प्रत्यगात्मनोऽधिकमर्थान्तरभूतं ब्रह्म । कुतः। भेदनिर्देशात् । “स कारणं करणात्रिपाधिपः । प्रधानक्षेत्रज्ञपतिर्गुणेशः । पृथगात्मानं प्रेरितारं च मत्वा " इसादिभिः प्रत्यगात्मनो जीवाद्ब्रह्मणो हि भेदो निर्दिश्यते ।। अश्मादिवच्च तदनुपपत्तिः ॥ २३ ॥ अश्मकाष्ठलोष्टतृणादेरचेतनस्येवानन्त(३)दुःखाकरजीवस्य निरतिशयानन्दसत्यसंकल्पब्रह्मभावानुपपत्तिश्च । न केवलं भेद- श्रुत्याऽर्थान्तरत्वमेवगम्यते। वस्त्वनुपपत्त्या चेत्यर्थः (४)॥जीव- सामानाधिकरण्यनिर्देशो यस्यात्मा शरीरम् " इत्यादि- श्रुतिसिद्धजीवमकारब्रह्मप्रतिपादनपर इति, " अवस्थितरित काशकृत्स्नः" इत्यत्रैव प्रतिपादितः ॥ (१) विषयाः श्रुति' ग० (२) इयमवतारिका मुद्रित एव वर्तते । (३) तृणादोरवानन्त' ग० (४) 'वस्तुतोऽभेदानुपपत्त्या चेति चकारार्थः।' पा वेदान्तदीपे (उपसंहारदर्शमाधिकरयाम् ।) उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ २४ ॥ ब्रह्मणो जगत्कारणत्वं संभवति नेति (१) संशयः ॥ न संभवतीति पूर्वः पक्षः कुतः । लोके कार्यजननसमर्थस्या- पि वस्तुनरंतत्कार्यजननेऽनेककारकोपसंहारदर्शनाद्विचित्रजग- जननसमर्थस्यापि ब्रह्मणो सहायस्य जनयितृत्वानुपपत्तेः ।। सदान्तस्तु-क्षीरस्य दधिभावप्रन्यानपेक्षत्व(२)दर्शनार्दनेकका- रकोपसंहार(३)नियमो न दृश्यत इति ब्रह्मणोऽन्यानपेक्षस्यैव कारणत्वं संभवत्येव ॥ सूत्रं तु निगद(४)व्याख्यातम । क्षी- रवीति प्रसिद्धवन्निर्देशश्चीद्यमान्यपरः ।। देवादिवदपि लोके ॥ २५ ॥ यथा देवादयः स्वे स्वे लोके स्वापेक्षितानि स्वसंकल्पा- देव वस्तूनि मृजन्ति तथा ब्रह्मापि । देवादेः शास्त्राव- सेयशक्तितया ब्रह्मतुल्यत्वेऽपि, तस्य सुखग्रहणायति (५) म्- स्तव्यम् ॥ ( कृत्स्नप्रसक्त्यधिकरणम् ।) कृत्स्नप्रसक्तिर्निरवयवत्वशब्दको- पो वा ॥ २६॥ ब्रह्मणो जगत्कारणत्वं संभवति नेति संशयः ॥ न सं- भवतीति पूर्वः पक्षः । निरवयवस्य ब्रह्मणो जगदुपादान- (१) 'नवेति' मुक (२)'नन्यापेक्षत्व'मुक (३) 'दर्शनादुपसंहार' ग. (४) सूत्रमपि' मु० (६)' तुल्यत्वेऽपि देवादिग्रहणं ब्रह्मणो विचित्रशक्तित्वस्य सुग्र- हणायोति'मु० द्वितीयाध्यायस्य प्रथमः पादः । वे कृत्स्नस्य ब्रह्मणो जगदाकारेणोपयोगप्रसंगात्तत्परिजिहीर्षया सावयवत्वाभ्युपगमे । सदेव सोम्येदमग्र आसीदेकमेवाद्वितीय- मू" इत्यादिकारणावस्थायां निरवयत्ववाचिशब्दो(१) बाध्येत । यद्यपि मूक्ष्माचिदचिद्वस्तुशरीरं ब्रह्म कारणं, स्थूलचिदचिद्वस्तुश- रीरं ब्रह्म कार्यमित्यभ्युपगम्यते; तथापि शरीर्यशस्यापि का- येत्वाभ्युपगमारंकृत्स्नस्य प्रसक्तिनिरवयवत्वशब्दबाधो बारा- द्धान्तस्तु-सकलेतरविसजातीयं श्रुत्यैकसमधिगम्यं सर्वशक्ति- युक्तं ब्रह्म निरवयवमपि,कार्यं च (२) भवसन्यच्च भवतीत परिमितशक्तिवस्तुचोद्यं तत्र न प्रसज्यते । यथा जातिवा- दिनों जातिरेकैवामूर्ता' खण्डमुण्डादिष्वत्यन्तविलक्षणे पवनन्ते- प्वपि परिसमाप्यैव वर्तते । न तत्रेतरवस्तुचोद्यम् । इति जग- कारणत्वं संभवत्येव ॥ सूत्रार्थस्तु-ब्रह्मकारणत्वे कृत्स्नस्य ब्रह्मणः कार्यत्वेनोपयोगप्रसङ्गः । निरवयवत्वानिरवयवत्वश- ब्दकोपो वा । सावयवत्वे निरवयवत्ववादिशब्दवाधप्रसङ्ग इत्यर्थः॥ श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥ तुशब्दः पक्षव्यावृत्त्यर्थः । श्रुतेः-श्रुतिप्रामाण्यानैवं प्र- सज्यते । शब्दमूलत्वात् शब्दकमूलत्वेन सकलेतरविसजातीय- वादित्यर्थः॥ आत्मनि चैवं विचित्राश्व हि ॥ २८ ॥ मात्मनि चैवं जीवात्मन्यचेतनधर्माप्रसक्तिश्चैवं, अचे- तनावसजातीयत्वादयर्थः । विचित्राश्च हि अचेतनेषु च (१) 'वाची सच्छब्दो' ग० (२) कार्य कारणं च १ पाक वेदान्तदीपे विस(१)जातीयेवग्निजलादिपु विचित्रा, हि शक्तयोऽपि दृश्यन्ते । एवं परमात्मनचेतनाचेतनविसजातीयस्य विचित्राः शक्तय उपपद्यन्ते (२) ॥ स्वपक्षदोषाच्च ॥ २९ ॥ प्रधानादिकारणपक्षे दोपाच्च ब्रह्मव कारणम् । तत्र हि लौकिकवस्तुसजातीयत्वेन प्रधानादेरुक्तदोपोऽन्ये च प्र- सज्येरन् ॥ सर्वोपेता च तदर्शनात् ॥ ३० ॥ न केवलं सकलेतरविसजातीयत्वेन सर्वशक्त्युपेता परा दे- वतोच्यते । तदर्शनाच्च सर्वशक्तियोगश्रुतेरित्यर्थः । दर्शय- तीति दर्शन-श्रुतिः (३) " (पराऽस्य शक्तिर्विविधैव श्रूयते " इत्यादिका ॥ विकरणत्वान्नेति चेन्न तदुक्तम् ॥ ३१ ॥ उक्तस्यार्थस्य द्रढिम्ने चोद्यपूर्वकं पूर्वोक्तं स्मारयति । विकरणत्वात्करणविरहितत्वाब्रह्म न कारणमिति चेत् । "न तस्य कार्य करणं च विद्यते " इति श्रूयते (४) । तदुक्तं तत्र यद्रक्तव्यं तत्पूर्वमेवोक्तं "शब्दमूलत्वात्-विचित्राश्च हि " इसयमेव परिहारः । शब्दैकमूलत्वेन सकलेतरविमजाती- यत्वाद्ब्रह्मणः। विसजातीयानां च शक्तिवचित्र्यस्य लोक दृष्टत्वा- सर्वमुपपन्नमित्यर्थः ॥ (१) 'तनेषु चिद्विस' का (२) एवमित्यादि वाक्यं मुद्रित एवास्ति । (३) 'दर्शयति च श्रुतिः सर्वशक्तियोगम् ' पा० (8) इदं शङ्काकारोक्तविकरणत्वाभ्युपगमसूचकम् ।
द्वितीयाध्यायस्य प्रथमः पादः । (प्रयोजनघत्त्वाधिकरणम् ।) न प्रयोजनवत्त्वात् ॥ ३२ ॥ ब्रह्मणो जगत्कारणत्वं संभवति? नवेति संशयः ॥न- मंभवाति पूर्वः पक्षः । बुद्धिपूर्वारम्भाणां सप्रयोजनत्वात् । इश्वरम्य स्वत एवाप्तममस्तकामस्य जगत्ष्टयारम्भ- प्रयोजनाभावात् । गर्भवासादिदुःखरूपत्वात्सृष्टेः परानुग्रहे- णापि न मप्रयोजनत्वम् ॥राद्धान्तस्तु-परिपूर्णस्यापीश्वर- स्य केवललीलाप्रयोजनाय जगत्सृष्ट्याद्यारम्भः संभवति । यथा लोके सप्तद्वीपवती मेदिनीमधितिष्ठतो महाराजस्य , पारे- पूर्णस्यापि केवललीलायै (१) कन्दुकाद्यारम्भा दृश्यन्ते । तद्- दीश्वरस्यापि लीलाप्रयोजनाय (२) जगत्सृष्टयारम्भः संभवति ।। मुत्रार्थस्तु-प्रयोजनवत्त्वात्सृष्टेरीश्वरस्य स्वतः परिपूर्णस्य प्रयोजनाभावान स्रष्टत्वम् ॥ लोकवत्तु लीलाकैवल्यम् ॥ ३३ ॥ लीलाकैवल्यं लीलायाः प्रयोजनत्वे कैवल्यं संभवति । केवलाया लीलायाः मृष्ट्यारम्भप्रयोजनत्वं संभवतीत्यर्थः । लोकवत्-यथा लोके राज्ञः कन्दुकाधारम्भे ॥ देव(३)मनुष्यादिविषमसृष्टया पक्षपातपसङ्गाहार्वेषहदुःख- गर्भत्वेन नैपुण्यप्रसङ्गाच्च ,परमकारुणिकस्य परमपुरुषस्य ली- लार्थमपि जगत्सर्गों न संभवतीसाशङ्ख्याह- (१) कवललीलैकफलाः' पा० (२) ' लीलाप्रयोजनाय' इति ग० पुस्तक एवास्ति । (३) नन्धीश्वरस्य लीलैकफला जगत्सृष्टिन संभवति, देव' पा० वेदान्तदीये श्रुतिः वैषम्यनैपुण्ये न सापेक्षत्वात्तथा हि दर्शयति ॥ ३४ ॥ ईश्वरस्य विचित्रजगत्सृष्टौ देवादिवैषम्यपक्षपातो, दुःखग- भजगत्सर्ग(२) घृण्यं च न संभवतः। वैषम्यादात्रीश्वरस्य क्षेत्र- ज्ञकर्मसापेक्षत्वात् । क्षेत्रज्ञानां पूर्वपूर्वकर्म पर्यालोच्य त- तत्कर्मानुगुणं विषमं जगत्सृजतीति तत्तत्कर्मैव वैषम्याविहे- तुरियर्थः । तथा देवादियोगं देवादियोगं क्षेत्रज्ञानां तत्तत्कर्मसापे- क्ष दर्शयात हि साधुकारी साधुर्भव ति पापकारी पापो भवति" इति ॥ न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च ॥ ३५ ॥ सृष्टेः प्राक्कम न विद्यते क्षेत्रज्ञाभावात् । तदभावश्च सदेव सोम्येवमग्र आसीत्" इसवधारणावगतादविभागादिति चेन्न । अनादित्वात् क्षेत्रज्ञानां तत्कर्मप्रवाहाणां च । धते, च - क्षेत्रज्ञ(२)स्वरूपानादित्वेऽपि नामरूपविभागाभा- वादविभागश्रुतिः अन्यथाऽकृताभ्यागमकृतविमणाशम- सङ्गात् । उपलभ्यते च श्रुतिस्मृत्योः क्षेत्रज्ञानावित्वम्- तिद्धेदं तमुव्याकृतमासीत्तन्नामरूपाभ्यां न्याक्रियते" (इति नामरूपव्याकरणमात्रश्रवणाक्षेत्रज्ञानां स्वरूपानादित्वं सि- द्धम् । ज्ञाज्ञौ द्वावजावीशनीशौ । नियो निसानां चेतनश्च- तनानाम् । प्रकृति पुरुषं चैव विधनादी उभावाप" इ. उपप- (१) 'दुःखप्रदजगत्सर्गे' मु० (२)' पद्यते चानादित्वम् । क्षेत्रा' ग०'पद्यते चानादिकर्मस. हकृतक्षेत्रक'क०
No text on this page.