Digamber Jain Atishay Kshetra, Jain Vidhya Sansthan Library, Shri Mahaveer Ji, (karauli )
Jayant Vijayam
Front matter
(Registered according to Act XXV of 1867.) [ All rights reserved by the publisher ] काव्यमाला. ७५. श्रीमदभयदेवविरचितं जयन्तविजयम्। जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारककेदारनाथ- कृपाङ्गीकृतशोधनकर्मणा महामहोपाध्यायपण्डितशिवदत्तशर्मतनूजपण्डितभवदत्तशास्त्रिणा, मुम्बापुरवासिपरवोपालपाण्डुरङ्गात्मजकाशीनाथशर्मणा च संशोधितम् । तच मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । १९०२ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते. रेवाधिकारः ।) मूल्यमेको रूप्यकः ।
No text on this page.
अभयदेवः। अय श्वेताम्बरजैनाचार्य श्रीमानभयदेवः कदा कतममिलामण्डल मण्डयामासेति जिज्ञासायामनेकग्रन्थपर्यालोचने प्रवृत्ते- 'आसीच्चन्द्रकुलाम्बराम्बरमणि श्रीवर्धमानप्रभोः पादाम्भोरुहचञ्चरीकचरितश्चारित्रिणामग्रणी । स श्रीसूरिजिनेश्वरस्त्रिपथगापाथ प्रवाहैरिव खैरं यस्य यशोभरैस्त्रिजगत पावित्र्यमासूनितम् ॥ १ ॥ अभवभयदेवः सूरिरस्मात्स यस्य प्रभुरभजत तोप स्तम्भने पार्श्वनाथ । १. अनेनैव समवायाङ्गटीका प्रण्यनायि । यथा- 'नि सवन्धविहारिहारिचरिताश्रीवर्धमानाभिधा- न्सूरीन्व्यातवतोऽतितीव्रतपसो ग्रन्थप्रणीतिप्रभो । श्रीमत्सूरिजिनेश्वरस्य जयिनो दपीयसा वारिग्मना तद्वन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि ॥ शिष्येणाभयदेवाख्यसूरिणा विवृति कृता । श्रीमत समवायाख्यतुर्याङ्गस्य समासत ॥ एकादशसु शतेष्वथ विशत्यविकेषु (११२०=A. D. 1164) विक्रमसमानाम् । अणहिल्लपाटनगरे रचिता समवायटीकेयम् ॥' इति । २ अय हि सूरिस्त्रिंशत्तमवृत्तेन स्तम्भनकपार्श्वनाथ सतुतोष- 'जय तिहुअणवरकप्परुक्ख जय जिण वण्णतरि जय तिहुअणकल्लाणकोस दुरिअकरिकेसरि । तिहुअणजण अविलवियाण भुवणत्तयसामिल कुणसु सुहाइ जिणेसपास थंभणयपुरहिअ ॥ १॥ तइ समरन्त लहति झत्तिवर पुत्तकलत्तहि धण्ण सुवण्ण हिरण्ण पुण्ण जण भुजहि रज्जहि । पिक्खहि मुक्ख असखसुक्ख तुह पासपसाइण इय तिहुअणवरकप्परुक्ख सुक्खहि कुण महिजिण ॥ २ ॥ जरजज्जर परिजुण्ण कण्णुण सुकुट्ठिण चक्युक्खीणखएण खुज्झुनिरसल्लिअ सूलिण । जय.
नुह जिण गरणरगावणण लहु इति पुणण्णव जय धण्णतरिपास महावि तुहु रोगहरो भव ॥2॥ विजा जोइममतततगिद्विउ अपत्तिण भुवणभुभ अढविह सिद्धि विना नुह नामिण । तुह नामिण अपविनओ नि जण होउ पमित्तउ त तिहुअणकाणकोग तुह पाग निस्तर ॥ ८ ॥ सुद्द पचित्तर मततंतजताः विमुनट चरबिरगरलगहुग्गलग्गरिउवग्गविगज। दुत्यिअसत्य अन्य घला नित्यारट दयरुरि दुरिअर हरर मुपासदेव दुरिगरिकेगरि ॥ ५॥ तुह आणाथभेट भीमदापुर मुरवर रक्सस जक्स फणिद विंद चोरानलजलहर । जलथलचारिरउद्दण्द्द पमुजोडगि जोइन इअ तिहुअण अविलसिआण जय पास मुसामि ॥ ६ ॥ पत्थिअ अस्थ अणत्यहिन्यभत्तिभरनिन्भर रोमच चिअ चारुकाय किण्णरनरसुरवर । जसु सेवहिं कमकमलजुअल परसालिअकलिमलु सो भुवणत्तयसामिपास महमद्दर रिउवलु ॥ ७ ॥ जय जोइअमणकमलभसलभय पजरकुजर तिहुअणजण आणदचद भुवणतयदिणयर । जय मइमेइणि वारिवाह जय जतु पिआमह थंभणयहिअ पासनाह नाहत्तणकुणमह ॥ ८ ॥ बहु विहवण्णु अवण्णु सुण्णु वण्णि छप्पण्णहि मुक्खधम्मु कामत्थकाम नर नियनियसत्थहि । ज ज्जायइ बहु दरिसणत्थ बहु नाम पसिद्धर सो जोइ अमण कमलभसलसुह पास पवद्धर ॥ ९ ॥ भयवित्भल रणझणिरदसण थरहरिअ सरीरय तरलिअ नयणविसण्णुसुण्णुगग्गिरगिरकरणय । तइ सहसत्ति सरति हुति नरनासिअ गुरुदर महविज्जविसज्जसइ पास भय पजरकुजर ॥ १० ॥ पइ पासविविअसतनित्तपत्ततपवित्तिय वाहपवाहपवूढरूढ दुहृदाहसुपुलइय ।
मण्णहिं मण्णुसउण्णपुण्णअप्पाण सुरनर इअ तिहुअण आणदचद जय पास जिणेसर ॥ ११ ॥ तुह कल्लाणमहेसुघटटकारवपिल्लिअ वल्लरमल्लमहल्लभत्तिसुरवरगजुल्लिअ । हल्लुप्फलिअ पवत्तयति भवणेहि महूसव इअ तिहुअण आणदचद जय पास मुहुन्भव ॥ १२ ॥ निम्मल केवल किरणनियरविहुरिअ तमपहयर दसिअ सयलपयत्यसत्यवित्थरिअ पहाभर । कलिकलुसिअ जण घूअलोयलोयणह अगोयर तिमिरइ निरुहर पासनाह भुवणत्तयदिणयर ॥ १३ ॥ तुह समरणजलवरिससित्त माणव मइ मेइणि अवरावरसुहुमत्थवोह कदलदल रेइणि । जायइ फलभरभरिय हरिय दुहदाह अणोवम इय मइ मेडणि वारिवाह दिसिपास मइ मम ॥ १४ ॥ कय अविकल कल्लाणवलिउटूरियदुहवणु दाविअ सग्गपवग्गमग्ग दुग्गइगम वारणु । जय जतुहजणएणतुल्लजजणि यहियावहु रम्म धम्म सो जयउ पास जय जतुपिआमहु ॥१५॥ भुवणारण्णनिवासदरिअपरदरिसणदेवय जोइणिपूअणखित्तवाल खुद्दासुर पसुवय । तुह उत्तट्ट सुनदृ सुट्ठ अविसठ्ठल चिट्ठहिं इय तिहुअणवणसिह पास पावाइ पणासहिं ॥ १६ ॥ फणिफणफारफुरतरयण कररजिअनयल फलिणी कदलदलतमाल निल्लुप्पलसामल । कमठासुर उवसग्गवग्ग ससग्ग अगजिअ जय पञ्चक्खजिणेस पासथंभणयपुरटिअ ॥ १७ ॥ महमणतरलपमाणनेय वायाविविसठुलु नियतणुरवि अविणयसहाव आलसविहिलघलु । तुह माहप्पपमाणदेव कारुण्णपवत्तर इयम इमाअवहीरपासपालहिविलवतनु ॥ १८ ॥ किकिकप्पिटणेयकलुणुकिकिवनज पिउ कि वनचिहिटकिट्ठदेवदीणयम विलविर ।
कासुनकियनिप्पल्ललाटुअमेहि दुहत्तइ
तह विनपत्तउताण किपि पइ पहु परिचत्तइ ॥ १९ ॥
तुहु सामिह तुहु माय बप्प तुहु मित्तपिय कुरु
तुहु गइ तुहु मइ तुहिज ताण तुहु गुरु खेम कुरु ।
हउ दुहमरभारिअवराउ रानुलनिन्भग्गनु
लीणउ तुह कमकमल सरणजिणपालहि चगउ ॥ २० ॥
पइ किवि कयनीरोयलोय किवि पावियसुहसय
किवि मइ मतमहत केवि किवि साहियसिवपय ।
किवि गजिअरिउवग्ग केवि जसधवलिअ भूअल
मइ अवहीरहि केणपाससरणागयवच्छल ॥ २१ ॥
पञ्चुवयारनिरीहनाहनिप्पण्ण पयोअण
तुहु जिण पासपरोवयार करुणिकपरायण ।
सत्तुमित्तसमचित्त वित्तिनयनिन्दअसममण
मा अवहीरिअ जुग्गओ वि मइ पास निरजण ॥ २२ ॥
हउ बहुविहदुहतत्तगत्त तहु द्रुहनासणपरु
हउ सुयणहकरुणिकठाण तुहु निरुकरुणा कुरु ।
अहु जिणपासअसामिसालु तुहु तिहुअणसामिअ
ज अवहीरहि मइ झखतइय पासनसोहिअ ॥ २३ ॥
जुग्गाजुग्गविभागनाहनहुजोअणतुहसम
भवणुवयारसुहावभाव करुणारससत्तम ।
समविसमह कि घणनएइ भुवि दाहुसमतउ
इय दुहवधवपासनाह मइ पालथुण तउ ॥ २४ ॥
नयदीणहदीणयमुएवि अण्णवि किवि जुग्गय
ज जोइय उवयार करइ उवयारसमुजय ।
दीणहदीणनिहीणजेणतुहनाहिणचत्तर
तो जुग्गड अहमेव पास पालहि मइ चगउ ॥ २५ ॥
अह अण्णवि जुग्गयविसेस किवि मण्णहि दीणह
ज पासवि उवया स्करड तुह नाह समग्गह ।
-
कि अण्णण त चेव देव मामइ अवहीरह ॥ २६ ॥
नुह पत्थण नहु होइ विहल जिणजाणउ कि पुण
हउ दुक्खिर निरुसत्तचत्तदुक्कटु उस्सुयमण ।
त मण्णट निमिसेण एण एउ विजइ लव्भइ
सच ज भुक्खियवसेण कि उवरु पच्चड ॥ २७ ॥
प्रकटितविकटार्थी सङ्घसाम्राज्यवृद्ध्यै व्यधित निविसमाना यश्च वृत्ति नवाझ्याः ॥ २ ॥ तिहुअणसामिह पासनाह मइ अप्पपयासिउ क्रिनउ ज नियरुवसरिसुनमुणुवहु ज पिउ । अण्णु ण जिणजगतुहसमोविदक्खिण्णदयासउ जइ अवगण्णसि तु हिज अहह किं होइ सह यासनु ॥ २८ ॥ जड तुह रूविण किणविपेअ पाइणवेलविउ तनु जाणु जिण पास तुम्ह होउ अगिकरिउ । इअमह इच्छिअ ज न होइ सातुहओहावण रक्खतह नियकित्तिणेय जुज्जड अवहीरण ॥ २९ ॥ एवमहारिहजत्तदेव इयन्हवणमहूसउ ज अणलिय गुणगहण तुम्ह मुणिजणअणिसिद्धिर । इय मइ पसिय सुपासनाह थंभणपुरसहिअ इय मुणिवर सिरिअभयदेव विण्णवइ अणिटिअ ॥ ३० ॥' इति । १ 'चान्द्रे कुले सदनकक्षकरपे महाद्रुमो वर्मफलप्रदानात् । छायान्वित शस्तविशालशाख श्रीवर्धमानो मुनिनायकोऽभूत् ॥ तत्पुष्पकल्पी विलसद्विहारसद्गन्धसपूर्णदिशौ समन्तात् । वभूवतु शिष्यवरावनी च वृत्ती श्रुतज्ञानपरागवन्तौ ॥ एकस्तयो सूरिवरो जिनेश्वरः ख्यातस्तथान्यो भुवि वुद्धिसागरः । तयोर्विनेयेन विबुद्धिनाप्यल वृत्ति कृतैषाभयदेवसूरिणा ॥ तयोरेव विनेयाना तत्पद चानुकुर्वताम् । श्रीमता जिनचन्द्राख्यसत्प्रभूणा नियोगत ॥ श्रीमजिनेश्वराचार्यशिष्याणा गुणशालिनाम् । जिनभद्रमुनीन्द्राणामस्माक चाभिसेविन ॥ यशश्चन्द्रगणेर्गाढसाहाय्यात्सिद्धिमागता । परित्यक्तान्यकृत्यस्य युक्तायुक्तविवेकिन ॥ शास्त्रार्थनिर्णयसुसौरभलम्पटस्य विद्वन्मधुव्रतगणस्य सदैव सेव्य । श्रीनिवृताख्यकुलसन्नदपद्मकल्प श्रीद्रोणसूरिरनवद्ययश पराग ॥ शोवितवान्वृत्तिमिमा युक्तो विदुषा समूहेन । शास्त्रार्थनिष्कनिकपणकषपट्टककरपवुद्धीनाम् ॥ विशोविता तावदिय सुवीभिस्तथापि दोषा किल संभवन्ति । मन्मोहतस्ताश्च विहाय सद्भिस्तद्राह्यमाप्ताभिमत यदस्याम् ॥
: तच्छिप्यो जिनवल्लभः प्रभुरभूद्विश्वभराभामिनी- भावद्भालललामकोमलयश स्तोमः शमारामभू । यस्य श्रीनरवर्मभूपतिशिरःकोटीररत्नागर- ज्योतिर्जालजलैरपुप्यत सदा पादारविन्दद्वयी ॥ ३ ॥ काश्मीरानपहाय संततहिमव्यासजवैराग्यतः प्रोन्मीलद्गुणसंपदा परिचिते यस्यास्यप रहे । सान्द्रामोदतरङ्गिता भगवती वाग्देवता तस्थुपी धारालामलभव्यकाव्यरचनाव्याजादनृत्यचिरम् ॥ ४ ॥ भृङ्गस्तदभिकमले जिनशेखराह. सूरिस्ततः प्रशमवर्मितकाययष्टि. । जिग्ये जगत्रयजयप्रयतोऽपि येन वीरव्रत कलयता रतिजीवितेश. ॥ ५॥ वैराग्य याति रागे भजति विधुरता क्रोधयोधे विमाने माने नष्टाभिमाने कपटपटुभटे क्षोभमाप्ते च लोभे । पञ्चेपौ कुञ्चितेषी समिति निजमिति प्रेक्ष्य सैन्य सदीन्य मुक्त्वा येपा जयाशा निभृतमपसृत मोहराजेन दूरम् ॥ ६ ॥ प्रगुणितकरुण क्षमया विराजितश्चारुविग्रहस्तदनु । अजनि वशीकृतविपयग्रामः पञन्दुमुनिराजः ॥ ७ ॥ उत्फुल्लमल्लीप्रतिमल्लकान्ति: कीर्तिधमन्ती भुवनेषु यस्य । श्रिया सम सौहृदकाट्यैव मुष्णाति विष्णोरपि कृष्णभावम् ॥ ८ ॥ विश्वत्रयप्रयितकीर्तिलतस्य तस्य शिष्यः प्रशस्यमहिमाभयदेवसूरि । काव्य जयन्तविजयं रचयाचकार सारखतप्रसृमरप्रतिभाविलास. ॥ ९ ॥ यदवाप्त मया पुण्य वृत्ताविह शुभाशयात् । मोहाद्वृत्तिजमन्यच्च तेनागो मे विशुद्ध्यताम् ॥ प्रथमादर्श लिखिता विमलगणिप्रभृतिभिर्निजविनेयैः । कुर्वद्भि श्रुतभक्ति दक्षैरधिकैविनीतैश्च ॥ अस्याः कारणव्याख्या श्रुतिलेखनपूजनादिषु यथार्हम् । दायिकसुतमाणिक्यः प्रेरितवानस्मदादिजनान् ॥ अष्टाविशतियुक्ते वर्षसहस्रे शतेन चाभ्यधिके (११२८%A. D. 1072)। अणहिल्लपाटनगरे कृतेयमच्छुप्तधनिवसतौ ॥' इति । अय नवाङ्गवृत्तिकृदभयदेवसूरिक्रमे ११३५ (A. D. 1079) वत्सरे कीर्तिशेषता गत इति प्रबन्धचिन्तामणिप्रस्तावनैकादशपृष्ठे दीनानाथात्मजरामच- न्द्रशास्त्री।
दिक्करिकुलगिरिदिनकर(१२७८)परिमितविक्रमनरेश्वरसमायाम् । द्वाविशतिशतमान शास्त्रमिद निर्मित जयतु ॥ १० ॥' इत्यभयदेवाचार्यप्रणीतजयन्तविजयीयकविप्रशस्तिपद्यदर्शनतो नवाझवृत्तिक- भयदेवाचार्यसूरिशिष्यसंताने चतुर्थपट्टधारी श्रीमानभयदेवसूरिव॑क्रमे १२७८ (A D. 1221) शरदि एन ग्रन्थ प्रकटयन् कतममिलामण्डल मण्डयामासेति न निश्चीयते। एतेनास्य कविवरस्य निस्तत्रयोदशशतिकापूर्वार्ध सत्तासमय इति वाढमवगन्तव्यम् । अस्य हि ग्रन्यस्यैकमेव पुस्तक श्रीयुत-श्रावक-हीरालाल-हंसराज-प्रवन्ध- द्वारोपलब्धम् , तस्यैकस्याधारेण शोधितमुद्रितेऽप्यस्मिन्ग्रन्थे यत्र कुहचनाशुद्धिः स्थिता जाता वा भवेत्तत्र सुहृदयहृदया सशोधयन्तु । यत गच्छत स्खलन वापि भवत्येव प्रमादत । हसन्ति दुर्जनास्तत्र समादधति सज्जना. ॥ इति प्रार्थयत पण्डित-शिवदत्त-काशीनाथौ ।
No text on this page.
काव्यमाला।
श्रीमदभयदेवविरचितं
जयन्तविजयम् ।
प्रथम सर्ग ।
श्रेयांसि विश्राणयतादजस्र नाभेयदेवस्य पदाम्बुजं वः ।
समस्तसपन्मधुबद्धरागा यत्र त्रिलोकी भ्रमरीव भाति ॥ १ ॥
शश्वञ्चतुर्वर्गफलैः फलन्ती कल्पद्रुमस्यापि यदशिभक्तिः ।
सौभाग्यभङ्गीमधरीकरोति शान्ति स वः शान्तजिनस्तनोतु ॥ २ ॥
खच्छायया छन्नजगत्रयायाः कीर्तलताया इव भाति कन्दः ।
यस्याङ्कशङ्खः स विशेपतोषतोषाय भूयाद्यदुपुंगवो वः ॥ ३ ॥
आशासहस्रं परिपूरयन्त्या मूर्त्या पराभूततरेव कीर्तिः ।
यस्य प्रभोदूंरतरं जगाम क्षेमाय वामेयजिन. स वोऽस्तु ॥ ४ ॥
नखावली यस्य पदोविनम्रवस्त्रैणनेत्रप्रतिविम्बभङ्गया।
पूजां व्यनक्तीव सरोजपत्रैः स त्रैशलेयस्त्रिजगत्पुनातु ॥ ५ ॥
यस्याशिसेवारसपारवश्यं कुलं विभूतेर्भुवनाद्भुतायाः ।
क्षीरार्णवस्येव पय. सुधायाः पुनातु सोऽन्योऽपि जिनेशवर्यः ॥ ६ ॥
निनि(णि)क्तमुक्तामणिमञ्जुकर्णताटङ्कयुग्म विरराज यस्याः ।
आस्यश्रियं लुभ्यदिवोडुचारुचन्द्रद्वयं पातु सरस्वती सा ॥ ७ ॥
प्रसृत्वरामोदगुणप्रबोधं दिशन्ति शिप्यप्रकराम्बुजानाम् ।
ये स्पर्धयेवाम्बुजिनीप्रियस्य जयन्तु ते मे गुरवो मुनीन्द्राः ॥ ८ ॥
महाकवीनामपि नव्यकाव्ये दोष कदाचित्किल संभविष्णुः ।
प्रमादनिद्रोदयमुद्रया हि क्रोडीक्रियन्ते सुधियां धियोऽपि ॥ ९ ॥
२
काव्यमाला ।
तद्दोषशङ्कापगमाय काव्ये निजे कृतीशः सुजनो नियोज्य ।
तदीयसंवादवशंवदं हि खकाव्यसौन्दर्यविशेषधैर्यम् ॥ १० ॥
आमोदितं यस्य जगद्वरेण्यसौजन्यपुप्पामितसौरभेण ।
वस्त्यस्तु तस्मै सुजनाय जाग्रत्सर्वान्यदोषाग्रहणाग्रहाय ॥ ११ ॥
अभ्यर्थितः सोऽपि यशोविलासलास्याय काव्यस्य धुनोति दोषम् ।
समुद्धरत्येव हि वैद्यराजः शल्यं तनोः सौख्यकृते कृतार्थः ॥ १२ ॥
उदासयत्यात्मविरूपशब्दों दुर्जनः काव्यगृहं निविश्य ।
उलूकपक्षीव स दूर एव दोषैकदृष्टिविबुधैविधेयः ॥ १३ ॥
न दुर्जनस्यानुनयो गुणाय स्वभावदौर्जन्यमलीमसस्य ।
सुगन्धिलक्षैरपि किं सुगन्धीकर्तु हि शक्यं लशुनं कदापि ॥ १४ ॥
भवेयमस्यापि कृताञ्जलिर्वा यत्काव्यदोषग्रहणोग्रशङ्का ।
सा कापि यस्यास्त्वरितप्रयत्नो यशखिकाव्याय कवेभविष्णुः ॥ १५ ॥
देव्या गिरां लास्यकलाविलासे रसानुगाः कान्तपदप्रबन्धाः ।
भवन्ति चक्रेषु महाकवीनां चित्रं तु सर्वत्र कृतप्रचाराः ॥ १६ ॥
जयन्ति ते सत्कवयो यदुत्त्या बाला अपि स्युः कविताप्रवीणाः ।
श्रीखण्डवासेन कृताधिवासाः श्रीखण्डतां यान्त्यपरेऽपि वृक्षाः ॥१७॥
जयन्तु सर्वेऽपि कवीश्वरास्ते यदीयसत्काव्यसुधाप्रवाहः ।
विकूणिताक्षेण सुहृजनेन निपीयमानोऽप्यतिपुष्यतीव ॥ १८ ॥
धर्मार्थकामाः प्रथिताः समोक्षाश्चत्वार एते खलु पूरुषार्थाः ।
चतुर्भुजस्येव भुजा न कस्य विशेषभद्रप्रसरत्प्रमोदाः ॥ १९ ॥
तत्रार्थकामद्वयमैहिकार्थ भवोद्भवत्वेन सतां मतं न ।
जैनस्तु धर्मो हृदि जागरूकः स्यादैहिकामुष्मिकसौख्यहेतुः ॥ २० ॥
कल्पद्रुमाणामिव नन्दनोवी वनस्पतीनामिव वारि दाम्भः ।
महाविभूतेरिव कामधेनुर्लावण्यनद्या इव यौवनाद्रिः ।। २१ ॥
भवोचितानामिव कर्मणा श्रीः कुन्दाभकीर्तेरिव भूरि दानम् ।
संतोषलीलेव मनःसुखानां सुधारसानामिव दुग्धसिन्धुः ॥ २२ ॥
१ सर्गः]
जयन्तविजयम् ।
अनन्यसाधारणराज्यमुख्यख्यातश्रिया पूर्णमनोरथानाम् ।
सिद्धाङ्गनासंगमशर्मणां च निवन्धनं श्रीजिनधर्मकर्म ॥ २३ ॥
(त्रिभिविशेषकम्)
एतत्प्रभावप्रथित त्रिलोकीहृयत्रिवर्गानुपमप्रकर्षम् ।
वीरव्रतालंकरणं चरित्रं श्रीमजयन्तस्य नृपस्य वक्ष्ये ॥ २४ ॥
मध्येऽखिलद्वीपसमुद्रसौधं चञ्चत्सुवर्णाद्रिशिखावतंसः ।
दीपप्रदीपप्रतिमोऽस्ति जम्बूद्वीपः सदालोकविलासलक्ष्मीः ॥ २५ ॥
तस्यावतंसे भरताभिधाने क्षेत्रेऽस्ति देशो मगधाभिधानः ।
कल्याणवृन्दै रुचिराङ्गहारैरिवानिश नृत्यति यत्र लक्ष्मीः ॥ २६ ॥
यत्रत्यकान्तानयनोत्पलश्रीनिरस्तशोभान्यसितोपलानि ।
इतीव तापात्सरसा जलेषु लुलन्ति मन्दानिलशीतलेषु ॥ २७ ॥
यत्राद्भुतैनूतनधान्यकूटैः परःसहस्रैर्नगराणि भान्ति ।
सुभिक्षराजस्य सदैव काले शैलैरिवोत्तुगतयाभिराभैः ॥ २८ ॥
सर्वत्र सौराज्यबलेन यत्र प्राज्याः प्रजाध्वस्तसमस्तशङ्का ।
शृङ्गारयन्त्युत्तमदानभोगैः स्वसंपदः पुण्ययशोनिनादैः ॥ २९ ॥
सरोवरैर्यत्र भुवो विभान्ति सरोवराणि स्मितपद्मखण्डैः ।
तैः पद्मखण्डानि च राजहंसैः स्वै राजहसाः सुगतिप्रचारैः ॥ ३० ॥
हस्तैरिवोच्चैस्तरवः पलाशैश्छाया दधानाः फलसंपदा च ।
पथ्यङ्गिना पथ्यदनाय यत्र स्ववन्धुवुद्ध्येव भवन्ति भूयः ॥ ३१ ॥
निजैर्गुणैः स्मारितकामधेनुव्रजा व्रजा यत्र गवा विभान्ति ।
स्वादिष्टदुग्धेन मुधा सुधापि यासा महिप्यश्च मनोहरास्ताः ॥ ३२ ॥
संसारचक्रस्य चकास्ति सारः पद्माकरः शर्मसरोरुहस्य ।
विश्रामभूमी रमणीयताया यः संपदामास्पदमद्भुतानाम् ॥ ३३ ॥
अनीतिशालीन्यपि संश्रयन्ते सस्यानि शश्वत्परमां समृद्धिम् ।
जडाधिवासान्यपि यत्र चित्रं पद्मानि मित्राभिमुखीभवन्ति ॥ ३४ ॥
यस्मिन्ननुग्रामपुरं वधूना विशुद्धशीलाभरणानिमाणाम् ।
सर्वाङ्गलावण्यमलंकरोति सुवर्णरत्नोत्तमभूषणानि |॥ ३५ ॥
काव्यमाला।
पदे पदे यत्र विचित्रवाप्यः प्रसन्नरूपाश्च विभान्ति कूपाः ।
ज्योत्लासपत्नेन जलेन पूर्णा माधुर्यदीक्षागुरुणा सुधायाः ॥ ३६ ॥
प्रीतिं परां यत्र नयन्ति लोकं सरांसि चेतांसि च सज्जनानाम् ।
अदृष्टपर्यन्ततया श्रितानि गम्भीरतान्यक्तवारिधीनि ॥ ३७ ।।
यत्राभिरामाणि विशालशालिक्षेत्राणि संरक्षितुमीयुषीणाम् ।
गोपाङ्गनानां मधुरोपगीतैः कृच्छ्राधुवानः पथि यान्ति पान्थाः ॥ ३८
विजिष्णुभिर्विष्णुपदीं नदीभिर्वनैः श्रिया हेपितनन्दनैश्च ।
शैलैः सुवर्णाचलदत्तहीलैर्यः स्वर्गभाजामपि सेवनीयः ॥ ३९ ॥
श्रियामनन्यत्र निवासिनीनामन्योन्यमत्यन्तदिदृक्षयेव ।
यः संगतै ति पुरैः समन्तादाश्चर्यचर्यानिलयैः परीतः ॥ ४० ॥
भोगावती भोगिपतिः सुरेन्द्रोऽमरावती प्रत्यधिकानुरागम् ।
मुमोच चारुत्वमवेक्ष्य यस्याः सा तत्र नाम्नास्ति पुरी जयन्ती ॥ ४१ ॥
रम्याणि हाणि सुवर्णरत्नमयानि यस्यां बहुभूमिभाजि ।
येषां पुरःवर्गविमानलक्ष्मीः सूर्यप्रभाचुम्बितचन्द्रिकेव ॥ ४२ ॥
पौरा महेशाः प्रचुराः कुमारा गौर्यः स्त्रियोऽप्यत्र विनायकाश्च ।
इतीव कैलाशनगोऽनुरागादावृत्य या शालमिषेण तस्थौ ॥ ४३ ॥
अौशुसंपर्कविनिर्यदग्निज्वालारुणःस्फाटिकरत्नसालः ।
स्वराजराजप्रबलानुरागैरालिङ्गितात्मेव विभाति यत्र ॥ ४४
रम्यावधित्वेन यदीयसालविद्याधरीषु स्थितिमीयुषीभिः ।
विद्याधरी मिनिशि धर्तुमीहांचक्रे करे कन्दुकलीलयेन्दुः ॥ ४५ ॥
समुन्नतं कान्तमिवाम्बुजाक्षीप्राकारमुच्चैः सरसीकरोति ।
विराजिलीलालहरीकटाक्षैर्मुक्तावलक्षैः परिखा यदीया ॥ ४६ ॥
लक्ष्म्याः खपुन्याः सततं वसन्त्याः क्षीरार्णवो यत्र दिवृक्षयेव ।
स्नेहातिरेकात्समुपेत्य तस्थौ सुधानिभाम्भःपरिखामिषेण ॥ ४७ ॥
रम्भेव क्लुप्तामितकान्तमूर्तिः पणाङ्गनाली सविलासलास्या ।
विभाति यस्यां सुरमन्दिरेषु विस्मारितवःपुरकौतुकेषु ॥ ४८ ॥
१ सर्गः]
६
जयन्तविजयम् ।
नेत्रैः सरोजैरिव राजमाना लावण
वण्यपूरैरमृतैरिवोच्चैः
कुचैश्च चक्रैरिव सद्विलासैर्यत्रत्यरामाः स्मरकेलियाप्यः ।। ४९ ।।
उद्यानवापीषु जलाशयत्वं द्विजाश्रयेषु प्रियविप्रयोगः ।
विलोक्यते राजकरोपमर्दः पद्माकरेण्वेव न यत्र लोके ॥ ५० ॥
जिनेन्द्रहम्योपरि शातकुम्भकुम्भावलीषु प्रतिविम्बितात्मा ।
अनेकमूर्तिः प्रतिभाति भानुर्यस्याः श्रियं द्रष्टुमिवावतीर्णः ॥ ११ ॥
कस्तूरिकास्थासकवर्णभाजां व्याजेन जैनेन्द्रगृहध्वजानाम् ।
या दत्तपत्रेव समस्त श्रियं पुरीणामुपरि खऋद्ध्या ॥ १२ ॥
भूयिष्ठमुक्तामणिहेमतारैः कर्पूरपूरैर्मगनाभिपुजैः ।
दिव्यांशुकाधैः कलिता पणाली तदाकराकारधरेव यत्र ॥ ५३ ॥
सुरेशवेषाभरणाङ्गरागवरेण लावण्यतरशिताङ्गः ।
निमेषमात्रेण परं सुरेभ्यो विभिद्यते यत्र जनः समस्तः ॥ १४ ॥
सचेतनाचेतनचारुभावैरेषैव रेषा(खा) लभते पुरीषु ।
इति स वृद्धा बहुदेशभाजो वदन्ति यस्यामसमा तायाम् ॥ ५५ ॥
कोटिध्वजाप्रैः प्रतिबिम्बितैश्च हावलीना मणिकुट्टिमानि ।
कृतास्पदानीव विभान्ति यस्यां निधानरक्षाभुजगैः स्फुरद्भिः ॥ ५६ ॥
उद्यानलक्ष्मीमधिकप्रकर्षामसंख्यभेदैः सुमनोद्रुमाणाम् ।
विलोक्य यत्र धुपतिर्बभूव मन्दादरः श्रीमति नन्दनेऽपि ॥ १७ ॥
तस्यां बभूवाद्भुतविक्रमश्रीः क्षोणीपतिर्विक्रमसिहसंज्ञः ।
विश्वंभराभारभरं बभार यो विश्रुताशेषगुणोऽपि चित्रम् ॥ ५८ ॥
राजन्वती येन जगत्यजस्र निजाः प्रजाः पालयता नयेन ।
खरिवेन्द्रेण गुरुप्रशस्यमन्त्रीशमन्त्रेण सुरोचितेन ॥ १९ ॥
यः कामिनीना प्रतिभाति कामः पितेव च प्रीतिपदं प्रजानाम् ।
कालः करालो रिपुभूपतीना कल्पद्रुमश्च प्रणयित्रजानाम् ॥ ६० ॥
यस्याहवे वैरिकरीन्द्रकुम्भस्थलीगलत्तारकरम्विताङ्गः ।
रेजे कृपाणोऽरिकुलं जिगीषोर्यमस्य जिहेव सदन्तपतिः ॥ ६१॥
६ काव्यमाला। यस्यासिलूना चिरराजजन्यक्षेत्रेषु वैरिद्विपदन्तपतिः । कीलालसिक्तेषु यशस्तरूणामुद्च्छतामङ्कुरमालिकेव ॥ ६२ ॥ खैराज्यसर्वस्वसुवर्णरत्नहस्त्यश्वदण्डै रिपुमण्डलीभिः । मूतः प्रतापैरिव ढौक्यमानैर्यः खैरविस्तारिगुरुप्रभावः ॥ ६ ॥ न मार्गणाः केचिदलब्धलक्ष्यां रणेषु दानेषु च यस्य जग्मुः । अपूरिताशा न यशोविलासा वरेण्यपुण्योदयकेलयश्च ॥ १४ ॥ जितेन्द्रियस्योन्नतयौवनेऽपि स्थैर्येण धैर्येण कृतास्पदस्य । भूवल्लरीदास्यमतिप्रशस्यं यस्य श्रियः शिश्रियुरश्रमेण ॥ ६५ ॥ शचीव शक्रस्य महेश्वरस्य गौरीव लक्ष्मीरिव माधवस्य । श्रीनन्दनस्येव रतिश्च रत्यै तस्य प्रिया प्रीतिमती बभूव ॥ ६६ ॥ पीयूषभानोर्दलसंचयेन चङ्गं यदीयाङ्गमसर्जि धात्रा । आनन्दकं लोचनकैरवाणां प्रकामसंतापहरं च येन ॥ ६७ ॥ उल्लासिलावण्यसुधातरङ्गैरङ्गैरनङ्गः सरसैयदीयैः । चित्रीयते स्त्रैणगुणैत्रिलोकीलोकश्च लोकोत्तरकीर्तिकारैः ॥ ६८ ॥ संजीविनी चौषधिरङ्गजस्य विश्रामधामेव हृदः खभर्तुः । या राज्यऋद्धरधिदेवतेव लावण्यवल्लेर्नवकन्दलीव ॥ ६९ ॥ रूपेण शीलेन धिया हिया च दाक्ष्येण दाक्षिण्यगुणेन नीत्या प्रीत्या गिरा कोमलया यया च ज्योत्स्नायितं पत्यनुरागसिन्धौ ॥७० मन्त्री हरेर्जीव इवास्य जज्ञे सौधर्मसाम्राज्यमलंकरिष्णुः । सुबुद्धिनामा विबुधप्रमोदक्षीरार्णवार्णः क्षणदाभुजङ्गः ॥ ७१ ॥ यस्य क्षोणिपतेः प्रतापदहनज्वालावलीकेलिभिः सप्ताप्यम्बुधयोऽम्बुविन्दव इवाशोप्यन्त तेऽपि द्रुतम् । पूर्यन्ते म हतारिराजकवधूनेत्राम्वुपूरैः पुनः स श्रीप्रीतिमती प्रियामिव मि(म)हाभोगामभुत क्षमाम् ॥ ७२ इति श्वेताम्बरधीमदभयदेवाचार्यविरचिते जयन्तविजयनाम्नि महाकाव्ये शब्दारे प्रस्तावनादिनिरूपणो नाम प्रथमः सर्ग. । १. शोभनमित्यर्थः,
२ सर्गः]
जयन्तविजयम् ।
द्वितीय. सर्गः ।
अथ खसौधोपरि सा नृपप्रिया ददर्श हान्तररत्नकुट्टिमें।
हृदीभ्यकान्तां दधती निजागजं सुधामिव स्पर्शमिषेण वर्षकम् ॥ १ ॥
नभस्थलीव द्युतिमद्विना कृता निशेव शीतद्युतिमण्डलोज्झिता ।
महौषधीवोन्मदवीर्यवर्जिता न सूनुहीना वनिता प्रशास्यते ॥ २ ॥
परप्रकर्षाञ्चितहर्षवर्षिणे सुताय वध्वः सकलाः समुत्सुकाः ।
यदस्य जन्मोत्सवऋद्धिदर्शनैर्भवन्ति सद्यः सुखनिर्मिता इव ॥ ३ ॥
परां जनन्या जनयत्यनारतं महाकुलीनस्तनयो नयाञ्चितः ।
महर्षतामेधयते गुणश्रियो न किं यशोराशिरदम्भसौरभः ॥ ४ ॥
'सुनिश्चितं भूमिपतेरपि प्रिया यदा भवेदकनिवेशिनन्दना ।
तटी सुमेरोरिव सर्वदा तदा भजेदहो सर्वसुपर्वसंगमम् ॥ ५ ॥
दुरन्तवन्ध्यात्वनिवृत्तिचिन्तया क सौख्यगन्धोऽपि धरेन्द्रसुभ्रुवाम् ।
कुमुदतीनां विभया विभा विभोर्विकाससौख्यं हि न जातु वल्गति ॥ ६ ॥
किमन्यदाप्नोत्यतिगौरवं वि(व)धूः प्रियस्य पुत्रैः खलु वृत्तशालिभिः ।
महार्य्यता रत्नखनी न कि भजेन्मणिप्रकाण्डैरिति सा व्यचिन्तयत् ॥ ७ ॥
समुत्सुका नन्दनजन्मने जगजनप्रमोदाकुरनव्यवृष्टये ।
तदर्थवाञ्छाज्वरवेगदुर्बला बि(व्य)लोक्यथ क्षोणिभृता भृतातिना ॥ ८ ॥
(पञ्चभिः कुलकम्)
स भूभुजङ्गः समपृच्छतादृतः कृशोदरीयं कृशता कुतस्तव ।
विशेषशोका(पा) सरसीव मीनकं करोति या मा खलु खेदभाजनम् ॥९॥
पयोदवाताहतदर्पणस्य कि दधाति सादृश्यमिदं मुखाम्बुजम् ।
किमिन्दुबिम्बधुति गोचरीभवत्सहस्रपत्राकृतिनी तवेक्षणे ॥ १० ॥
अमत्सरे मत्स्यवधूर्महातपस्थलस्थितेवासि किमाकुला प्रिये ।
कथं कुतोऽप्याहितदुःखशून्यता प्रयातविद्येव च खेचरप्रिया ॥ ११ ॥
अनेकधा व्याधिविबाधितेव किमाधिसंवन्धविधूतधीरसि ।
न पूर्यते कोऽपि मनोरथस्ते मयि स्थिते सुभ्रु निदेशवर्तिनि ॥ १२ ॥
८ काव्यमाला॥ मयाप्यखण्ड्यं तव देवि खण्डितं वचः किमाहूत(१) यमेन केनचित् । दुनोति कि स्वमकृतोऽपि मानसं प्रिये सपत्नीजनितः पराभवः ॥ १३ अकोपने किं मयि कोप एप ते तनोति यः प्राणितसंशयं मम । असौमनस्ये किमपीह कारणं द्रुतं प्रिये ब्रूहि यदाकुलोऽस्म्यहम् ॥ ११ दिवापि सा शारदचन्द्रचन्द्रिका भ्रमं दधाना दशनाशुभिस्ततः । इति स्वदुःखं नृपतेर्व्यजिज्ञपद्भिषग्वरस्येव रुजं रुजातुरः ॥ १५ ॥ न देवपूर्वोदितदुःखदुर्दशालवोऽपि लब्धावसरस्तनौ मम । तव प्रसादेन दिनेश्वरोदये नभस्तले वा व तमिस्रसंभवः ॥ १६ ॥ सुखैरशेषैः सुखिनीपु मुख्यता ममेश शच्या अपि चित्तहारिणी । प्रसादतस्ते किमपूर्णमस्ति मे सुतं विना त्वेतदरुंतुदं हृदः ॥ १७ ॥ कृती निराकर्तुमिदं तु लाञ्छनं त्वमेव मे दुःसहसाहसप्रिय । निमेषमुक्तां कुरुते हि पद्मिनी न पद्मबन्धोरपरः कदाचन ॥ १८ ॥ वसुंधरोद्धारधुरंधरेण मां विधेयुपायेन सुतेन भूपिताम् । खदोहदेनेव लतां फलाञ्चितामिदं हि सारं किल सर्वसंपदाम् ॥ १९ ॥ इति प्रियाया वचनेन भूपतेर्मनोन्तरे दाव इवानिलाइने । अपुत्रता दुःखमवर्धताधिकं चकार चिन्तां स ततस्तदिच्छया ॥ २० ॥ विना विनीतेन सुतेन गेहिनां कुलं गृहं शून्यमनूनदुःखदम् । क्रमेण नश्यन्ति च सर्वसंपदः स्थिरं निरालम्बमहो न किंचन ॥ २१ ॥ अनन्यसाधारणवैभवोद्भवैः सुखैः सदा दुर्ललितोऽपि मानवः । अपुत्रजन्मप्रभवाभिबाधितो न कोटराग्निविटपीव नन्दति '] २२ ॥ वरं दरिद्रोऽपि सनन्दनो जनस्तदीक्षणानन्दतरङ्गिलोचनः । न शक्तुतुल्योऽपि समृद्धिभिः परः पराङ्मुखत्वेन विधेरनात्मजः ॥ २३ । जनेऽप्यपुत्रस्य गतिर्न विद्यते क्षयं प्रयाति क्रमशश्च कीर्तनम् । इति प्रवादः खलु दुःसहः सतामपुत्रिणां भूप विलोप्य संपदाम् ॥ २४ इतोऽतिदुःखात्प्रगुणं भवान्तरस्थितौ प्रियायाः खलु भावि जीवितम् । ममासुभिः सार्धमतः सुतेच्छया कमप्यवन्ध्यं विदधेऽद्य साहसम् ॥२५ २ सर्गः] जयन्तविजयम् । समुद्रपर्यन्तमहीमहीपतिः कृतावहित्थक्षणमुल्वणोद्यमः(2)। गिरा समाश्वासयदात्मवल्लभां कुमुद्वती चन्द्रिकयेव चन्द्रमाः ॥ २६ ॥ भवन्ति पुण्योदयतः कदाचन स्ववाञ्छितानि द्रुतमेव देहिनः । उपायतो वा स्वकुलाधिदेवतामतः समाराधय भूरिभक्तिभिः ॥ २७ ॥ अनेकशोऽभीष्टफलप्रदायिनी विलोकिता निर्मलभक्तितस्तथा । कुलस्य नः कल्पलतेयमर्चिता मनोरथं ते सफलं करिष्यति ॥ २८ ॥ प्रियप्रियालापसुधारसोर्मिभिर्निरस्तसतापभरा बभूव सा । तथैव सर्व विदधे प्रिय वचः प्रियोपदिष्ट तनुते हि नात्र कः ॥ २९ ॥ दिवेन्दुविम्बधुति गण्डमण्डलं खवामहस्त(स्ते) दधती परे दिने । नृपेण पृष्टाकथयत्तदर्चना सुधास्य विद्यामिव बीजवर्जिताम् ॥ ३० ॥ निवेश्य संदेहपदेऽपि जीवित प्रिये प्रियं ते त्वरितं करोत्यदः । न चेजनोऽय ज्वलने प्रवेशतः पतङ्गता याति तदा विनिश्चितम् ॥३१॥ इति प्रतिज्ञावचनादमुष्य सा मुमूर्छ वज्राभिहतेव तत्क्षणम् । पपात च च्छिन्नलतेव भूतले किमद्भुतं प्रेमवतामिदं हि वा ॥ ३२ ॥ अथेतिकर्तव्यतयाकुलात्मना निजप्रियेणाङ्कगताभ्यषेचि सा । समूर्तिभिः प्रेमरसैरिवाश्रुभिस्तत' पर चन्दनशीतवारिभिः ॥ ३३ ॥ मुहुः प्रियायाः क्षितिपाञ्चलानिलैर्जगाम मूर्छा नृपतेः सहार्तिभिः । सचेतना जातवती सती ततो जगाद साश्रुनिजजीवितेश्वरम् ॥ ३४ ॥ नरेन्द्र जीया' कुलशैलजित्वरो निजायुषा नन्द सुरेश्वरश्रिया । अमङ्गलं तेऽपहरन्तु देवतास्तमासि लोकस्य रवेरिव प्रभाः ॥ ३५ ॥ विभो भवज्जीवितशंसयार्जित सुतस्य जन्मापि न मेऽवभासते । भवेच्छिदा येन सकर्णकर्णयोन तेन हेनापि खलु प्रयोजनम् ॥ ३६ ॥ उरस्थले स्थास्यति भर्तुराभवं() स्फुरत्प्रभाहारलतेव हारिणी । न्यवेवि(४)देहोद्भवलक्षणैरिद समस्तसारङ्गशा विलक्षणैः ॥ ३७ ॥ भविष्यतीयं क्रमशः सुतान्विता तातेन साम्राज्यवता त्वदङ्गजा । अभून्निमित्तज्ञवचः पुरः पितुस्तवेति धाच्या जगदे नृपप्रिया ॥ ३८ ॥ (युग्मम् २
१०
काव्यमाला ।
स्वभक्षुरिष्टा सुचिरं चिरायुषो भविप्यतीयं नृपनाथ नन्दना ।
सखी प्रियास्या जिनराजभाषिता पुरः सखेदस्य च भूभृतोऽवदत् ॥३९
नृपोऽप्यवादीत्त्यज दुःस्थतां प्रिये मनोरथं पूर्णमिमं विभावय ।
अथैष केनाप्युदितं मुदो भरादुपाशृणोत्सिद्धमिदं न संशयः ॥ ४० ॥
वराश्वहेषां गजराजगर्जितं सतूर्यनादं शुभशङ्खनिखनम् ।
अदक्षिणाक्षिस्फुरणं प्रियोदितं तदाशृणोच्छाकुनिकाग्रणीरसौ ॥ ४१ ॥
ममेष्टसिद्ध्यै शकुनावलिः शुभा दिवेव विद्युज्जलदस्य वृष्टये ।
निवेदवे(य)द्या इति हर्षनिर्भरं यशोनिधिः प्राप सभां स भासुराम् ॥४२
महाद्धिकैरिन्द्र इवेन्द्रसंनिभैः स सेवितः संसदि मण्डलेश्वरैः ।
ननन्द कुर्वन्ति न के प्रसृत्वराः सविस्मयस्मेरमुखाम्बुजं श्रियः ॥ ४३ ।
अथ स्वभर्तुर्युमणेः समागमेऽरुणाङ्गशोभा दिगवाप वारुणी।
समेत्य सख्येव च संध्ययाद्भुतं कृताङ्गरागेव नवीनकुड्डमैः ॥ ४४ ॥
दिनावसाने दिनरत्नमण्डलं निपातमाप द्रुतमस्तभूभृतः ।
दुरत्ययं कालविपाकमीयुषः स्थितिः स्थिरा नोच्चपदश्रियोऽपि हि ॥ ४५ ॥
अथाम्बुधेरम्भसि भानुमण्डले निलीयमानेऽरुणपङ्कजत्विषि ।
दिशां मुखेभ्यस्तदनु प्रधाविता मधुव्रतवातनिभा तमस्ततिः ॥ ४६॥
निजासु(जांशु)नाशेऽपि नितान्तनिर्मलः कृतज्ञतां मुञ्चति नैव कश्चन ।
समुन्नति भानुमताधिरोपितः सहैव तेनास्तमियाय वासरः ॥ ४७ ॥
खरांशुतीव्रातपपाततापतः सुरस्रवन्त्यां जलकेलिकारिभिः ।
धुतस्य दिग्दन्तिभिरम्भसो भृशं कणा इव व्योमनि भान्ति तारकाः॥४८॥
अवाप तारानिकरं परा श्रियं नभस्तलेऽवाप्य तमांजि(मोऽञ्ज)नप्रभम् ।
किमङ्ग लाटीकचसंचयेऽञ्चितं न जातिमाल्यं भजतेऽद्भुतां लिपिम् ॥४९॥
रम्भाविभ्रमपुण्यपण्यवनितारब्धैः स तूर्यत्रिकै-
मङ्गल्यैः कृतकौतुकाद्भुतरसैः श्रोत्रामृतस्यन्दिनी ।
रम्या नम्रनरेश्वरोदितजयारावेण सायंतनी
संध्या तस्य नरेश्वरस्य शुशुभे प्रोल्लासितारत्रिका ॥ ५० ॥
सगे:]
जयन्तांवजयम् ।
अथ पृथुयशाः सर्व लोकं विसृज्य स सत्वर
नरपतिमहासिद्धेः सिद्धाववन्ध्यधियां निधिम् ।
खहितविदुरः वं मन्त्रीशं सुवुद्धिमपूपुज-
गुरुरिव यतः पूज्यो मन्त्री नृपस्य विवेकवान् ॥ ११ ॥
सिद्धिः साहसकर्मकर्मठधियामेवेप्सितानामिति
क्ष्मापस्तत्र समुत्सहिष्णुहृदयस्तस्याग्रतः श्रीमतः ।
मन्त्रीशस्य जगाद गौरवपरस्तां स प्रतिज्ञा यतः
क्षोणीन्द्रस्य सदैव मन्त्रणविधौ धौरेयता मन्त्रिणाम् ॥ १२ ॥
इति वेताम्बरश्रीमदभयदेवाचार्यविरचिते जयन्तविजयनाम्नि महाकाव्ये
श्रीशब्दाढ़े पुत्रचिन्तादिनिरुपणो नाम द्वितीयः सर्ग ।
तृतीयः सर्गः।
ततः स राजशार्दूलं मूलमन्त्री व्यजिज्ञपत् ।
त्वप्रतिज्ञाम्बुधिदेव दुस्तरेभ्योऽपि दुस्तरः ॥ १ ॥
नमस्कारः परं तत्र श्रीपञ्चपरमेष्ठिनाम् ।
प्रयात्यनन्यसामान्ययानपात्रसगोत्रताम् ॥ २ ॥
किं चायं विधिवच्यातः सर्वकर्मसु कर्मठः ।
कल्याणकदलीकन्दस्यन्दमानः सुधारसः ॥ ३ ॥
पूरयत्याशु दुप्पूरमपि देव मनोरथम् ।
स्वदोहदः करोत्येव द्रुममाब्यं फलश्रिया ॥ ४ ॥
तदस्य शृणु माहात्म्य गृहाण विधिना च तम् ।
धनावह इव श्रेष्ठी येनासोष्ट फलोदयम् ॥ ५ ॥
कौतुकेनासृजद्वेधा भुवि वर्गमिवापरम् ।
यत्सर्वाद्भुतमादाय श्रीमत्पृथ्वीवरं पुरम् ॥ ६ ॥
शक्रेणापि कृताशङ्कबाहुदण्डवलो वलः ।
तत्र राजा प्रिया तस्य पद्मा पझेव देवता ॥ ७ ॥
तत्रैवासीद्धनश्रेष्ठी श्रीदश्रीपरमार्हतः।
श्रीमती श्रीमती कान्ता सुतस्तस्य धनावहः ॥ ८ ॥
१२
मागान मोइन्गे मागसपिटनं गुरम् ।
गायन प्रारमागमा:(') प्रोमित गन्द्रमाः ॥ २ ॥
पुग्योदमस्यामागमन पुगनगेगा।
गुवर्ण-कोटयो न ममानिनाम्गः ॥ १०}}
पायी प्रीगिर्नु पीतयाग्निमिनियरिन ।
नाराrisी नोडगोद वानरत् ॥ ११ ॥
गावान्नमा विभने विनाम ।
गनरन्त्य गन नारामारोवनामा ॥ १२ ॥
महेमंतापावन दिवाकरोगर।
प्रयय नामोति निग्निद्रवमाहवः ॥ १३ ॥
यमिकटासयन्तीय मगंमिशीग्मागरम् ।
नीलोत्पलदललीलगलबग्निम्बिन. ॥ १४ ॥
धर्मभ्यानसुनापानकायोगविनामिनाम ।
मापन्विनां यत्र पावित्र्यं पाटरेणुभिः ॥ १५ ॥
मगनवनगजीनां सामाव्यमिव यल्गनि ।
यलिन्यगोपभियानां न महायने ॥ १६ ॥
तत्सत्यासत्नयतिन्यां वर्तमाने प्रमाणके।
भनप्राणहराः पेतुः सायं सार्थेऽथ तस्कराः ॥ १७ ॥
(पडिः कुलकम्)
उपसिते धनमाणसंशये कार्यवेदिनः ।
रक्षन्ति जीवितं जीवन्नरो भद्राणि पश्यति ॥ १८ ॥
इत्यदृश्यपटेनेव नैगेन तमसावृतः ।
श्रेष्ठी सार्थजने नष्टे नंष्ट्वा तत्राविशदने । १९ ।।
कामं कामेन कामी च दिग्मोहेन कृतान्धधीः ।
स बभ्राम चिरं तत्र दरिद्रस्येव मानसम् ॥ २० ॥
खधर्माराममासेक्तुं संवेगामृतकूपतः ।
अरघट्टघटीमाला यस्याभाजपमालिका ॥ २१ ॥
३ सर्गः] जयन्तविजयम् । तं सिद्धिप्रेयसीलाभचिन्तयेव कृशं भृशम् । तपसा स मुनि तत्र मूर्त पुण्यमिवैक्षत ॥ २२ ॥ (युग्मम्) नमस्कृत्य मुनिस्तेन पपृच्छे किं तव प्रभो । ध्यानाधीनधियो ध्येयं ततः स प्रत्यपीपदत् ॥ २३ ॥ परमेष्ठिनमस्कारः शिवाय ध्यायते मया । मन्त्रोऽय विधिना ध्यातः सर्वदा सर्वकामदः ॥ २४ ॥ नरासुरसुरेन्द्राणामपि साम्राज्यसंपदः । नमस्कारमहामन्त्रद्रुमस्य कुसुमोद्गमः ॥ २६ ॥ काञ्चनाचलचूलेव स्थिरा यस्य नमस्कृतिः । रतिस्तस्य तु सान्निध्ये देवानामपि जायते ॥ २६ ॥ नमस्कारप्रभावेण प्रभवन्ति न जन्तुषु । क्रूरा गजेन्द्रसिहादिरक्षोदावानलादयः ॥ २७ ॥ श्रुत्वेति तत्र वर्धिष्णुश्रद्धासंबन्धबन्धुरः । तृषार्त इव पीयूष विधिना स तमाददे ॥ २८ ॥ प्रणम्य पादयुगलं गुरोराशीर्वचस्ततः । धर्मलाभं स लब्धाग्रे चचाल शकुनेरितः ॥ २९ ॥ ऐरावतं करोत्क्षेपैर्गनं तर्जयतीव यः । धावते दिक्षु साक्षेपं जिघासुरिव दिग्गजान् ॥ ३० ॥ भियेव यस्य नायाति भूतलेऽभ्रमुवल्लभः । कदापि कौतुकेनापि क्रीडितुं मानसाद्रिषु ॥ ३१ ॥ मदाहूतालितुमुलैः प्रध्वनज्जयदुन्दुभिः । साश्चर्यशौर्यसाम्राज्यं राजेवोचैर्बिभर्ति यः ॥ ३२ ॥ घनाघनो जलेनेव मदौघेनाथ वर्षकः । क्रुद्धः कुतोऽपि तं हन्तुं व्यालः काल इवाययौ ॥ ३३ ॥ (चतुर्भिः कलापकम्) परमेष्ठिनमस्कारमन्त्रस्मृत्या यथाविधि । तेनास्तम्भि स दुःस्तम्भिस्तम्भयुक्त्येव पारदः ॥ ३४ ॥ .
१४ काव्यमाला । प्रया""वसरः किंचिन्न्यञ्चितान्यसरस्मयम्(१) । तमेव मत्तमातङ्गमारुह्यासह्यविक्रमम् ॥ ३५ ॥ पायं पायं पयरतस्य स्वायं सायं च तत्तटे । अमृतच्छायवृक्षाब्ये स विशश्राम सश्रमः ॥ ३६ ॥ कुर्वन्निव जगत्कम्पं क्ष्वेडया क्षिप्रमेव हि । गाढपुच्छच्छटाछोटै पीठं पाटयन्निव ॥ २७ ॥ नारङ्गकदलीमुख्यफलैरतिसुधारसैः । तं कृताहारमाहन्तुं तत्र सिंहः समाययौ ॥ ३८ ॥ (युग्मम्', स नमस्कारमाहात्म्यात्ततो दूरे पलायत । प्रज्वलज्वलनज्वालाजालेनैव करालितः ॥ ३९ ॥ वर्द्धयन्निव फूत्कारैर्विषज्वालां मुखेऽद्य ताम् । कालः क्रौर्येण कान्त्या च दुष्टं दुष्टोऽहिराययौ ॥ ४० ॥ सर्पोच्चाटनमन्त्रेण निर्जितोर्जिततेजसा। परमेष्ठिनमस्कारेणैष तं दूरमक्षिपत् ।। ४१ ॥ जज्वालाग्रेऽस्य दावाग्निः क्षयकालानलोद्भुरः । तत्र पञ्चनमस्कारस्मृत्या धनघटायितम् ॥ ४२ ॥ तदने राक्षसस्तस्य भक्षणाय समुद्यतः । सोऽपि मन्त्रादितोऽनश्यद्यदयं सर्वभीहरः ॥ ४३ ॥ परमेष्ठिनमस्कारभक्तिर्वल्लीव मानसे । उल्लसन्ती फलं दत्ते जन्तोश्चित्तं जगत्स्वपि ॥ ४४ ॥ श्रीनमस्कारमन्त्रोऽयं कण्ठे श्वास इवानिशम् । यस्यासीद्विवधूकण्ठे स कण्ठाभरणायते ॥ ४५ ॥ परमेष्टिनमस्कारमन्त्रमाहात्म्यमूर्जितम् । कः संख्यातुमलंभूष्णुरिति चित्ते व्यचिन्तयत् ॥ ४६॥ जवालः प्रचचालाथ स श्वशुरकुलं प्रति । प्रथमे यामिनीयामे ययौ मेरुनिभं नगम् ॥ ४७॥ (युग्मम्) ३ सर्गः] जयन्तविजयम् । १५ कौतुकेनारुरोहैनं शुश्राव च वचः पुरः । कस्यापीति सरस्मेरविकारविधुरं मुहुः ॥ ४८ ॥ मदगीकारतो विद्धि विधेयं मां मृगेक्षणे । त्रातारं वा स्मराभीष्ट न यावन्मार्यसे मया ॥ ४९ ॥ तदीयोग्रगिरा भीरुः कम्पमानवपुलता । श्रीजिनेन्द्रः परं त्राण जगादेति ममात्र सा ॥ ५० ॥ स स्त्री शस्त्रीप्रहारेण प्रहर्तु ता समुद्यतः । कामान्धास्त्यक्तमर्यादाः किं कि पापं न कुर्वते ॥ ५ ॥ तेन बद्धः खमन्त्रेण खबन्धैर्मृत्युबन्धुभिः । सतामार्तपरित्राणप्रगुणाश्चित्तवृत्तयः ॥ १२ ॥ तं तथा वीक्ष्य सान्यच्च श्रेष्ठिनं सनमस्कृतिम् । श्रावकत्वेन तस्याभूद्विश्वासवशमानसा ॥ ५३ ॥ आकुलप्राणयाप्युच्चैर्मृग्येव व्याधवद्धया । त्वया नष्ट' तेनार्क इवास्मर्यत यज्जिन (१) ॥ १४ ॥ तद्धन्यासि त्वमेवैका नृत्यतीव कराम्बुजे । तव स्वर्गापवर्गश्रीः सेत्थं तेनापबृंहिता ॥ ५५ ॥ (युग्मम् ) भद्रे त्वं कासि कि चायं जिघांसुस्त्वामुपस्थितः । पृष्टे तेनेति सा सारप्रेमोद्गारगिरावदत् ॥ १६ ॥ रत्नगर्भाशिरःशुभ्रपुष्पशेखरविभ्रमे । रौप्ये भूभृत चैताब्येऽस्तीह राजपुरी पुरी ॥ १७ ॥ तत्र विद्याधरेन्द्रोऽस्ति जयस्तस्य बृहस्पतिः । नाम्ना वुझ्या च मन्त्रीशः पत्नी तस्य' मणिप्रभा ॥ १८॥ तयो रत्नप्रभा पुत्री मामयं मन्दिरादथ । रागैकदृष्टिरानिन्ये वर्णमालामिव द्विकः ॥ १९ ॥ याचमानो वराहाय चाटुकारशतैरयम् । ममानुत्तरदानेन दुष्कर्मेति प्रचक्रमे ॥ ६ ॥ १. 'विहाराय' इति भवेत्.
काव्यमाला। गाढानुरोधादस्याः खां सार्थपालिकथामथ । जगाढ किं न वाच्यं हि सद्भावाश्चिततेजसाम् ।। ६१ ॥ इत्थं मिथः खवृत्तान्ते कृते कर्णरसायने । ताभ्यां विलोक्य दिद्धिस्तत्र विद्याधराधिपः ॥ १२ ॥ उत्थाय पादयोलझा स्वपितुस्तस्य कन्यका । उच्चैराक्रन्द शब्दं च खान्तर्दुःखमिवामुचत् ॥ १३ ॥ आलिङ्गय स्वाञ्चलेनास्याः प्रोन्ममा मुखाम्बुजम् । अके कृत्वाथ तां प्राह पुत्रि धीरा भवाधुना ॥ १४ ॥ व्यज्ञपीदं तया तात कोऽप्ययं मयि वत्सलः । ररक्षेऽरिकरायेन सिंहास्यादिव गौरहम् ॥१५॥ तत्तातैतद्गुणकीती विद्धि मामिति तद्राि । सर्वज्ञोक्तवरायास्मै स सन्मानं सता ददे ॥ ६६ ॥ सापराधमिव श्रेष्ठिवाक्यान्मन्त्री तमत्यजत् । सतां तुल्या मनोवृत्तिरुपकार्यपकारिपु ॥ ६७ ॥ प्रातरिन्दुरिवादृश्यपरिवारस्त्वमद्य किम् । मन्त्रिणः श्रुतपूर्वदं श्रेष्ठीश्रेष्ठः प्रतिष्ठया ॥ ६८ ॥ उवाच भिल्लघाटीतः खसार्थोल्लुण्ठनादिकम् । ततो मन्त्रिपतिः पल्लीमरुणसैन्यपेन सः ॥ ६९ ॥ कालरात्र्येव दृष्टा सा ग्रस्तेव समवर्तिना। ददृशे भिल्लनाथेन निर्नाथेव तदाकुला ॥ ७० ॥ अथ संधानमाधाय सह सेनाधिपेन सः । यदात्तं सार्थसंबन्धि तत्तस्य व्यतरद्भिया ॥ ७१ ॥ सर्वखेनापि संमान्य सेनानाथं निजेन सः । तेन सार्थेन चोपेतः श्रीमन्मन्त्रिपतिं ययौ ॥ ७२ ॥ महार्थोपायनैनत्वा मन्त्रिनाथमथार्चयत् । तेन संमानितः सोऽपि पल्ली पल्लीपतिर्ययौ ॥ ७३ ॥ १. 'वीयश्रेष्ठिश्रेष्ठः' इति भवेत् ३ सर्गः] जयन्तविजयम् । ययौ यानमथारुह्यासह्यवेगजितानिलम् । सह जामातृकन्याभ्याममात्यः स्वपुरं प्रति ॥७४-14 पर्यणैषीदपर्यन्तगर्जदुत्सववैभवाम् । तां श्रेष्ठी मन्त्रिणा दत्तसर्वखकरमोचनः ॥ ७५ ॥ ततः संप्रेषितस्तेन गौरवात्स्वसुतान्वितः । दूरेऽनुगम्य स क्षिप्रं ययौ राजपुरी प्रति ॥ ७६ ॥ मार्ग दुस्तरमुत्तार्य श्रेष्ठी पोत इवाम्बुधिम् । पृथ्वीपुरं ससार्थोऽगात्कि न श्रेयो नमस्कृतैः ॥ ७७ ॥ अथाभूत्स नमस्कारमग्ने भृङ्ग इवाम्बुजे । लीनः सिद्धिमधुश्रद्धावृद्धिवन्धुरमानसः ॥ ७८ ॥ जिनस्य भक्तिपूजाभ्या मन्त्रसिद्धिमवाप सः । साश्चर्यशौर्यपुण्याभ्या राजेवाशु जयश्रियम् ॥ ७९ ॥ सुदृष्टिरेकदा कश्चित्सुरः श्रेष्ठिनमब्रवीत् । वश्यो मन्त्रादितः श्राद्ध तवाभीष्टकरोऽस्म्यहम् ॥ ८० ॥ तत्रत्यपृथिवीपालस्तार्तीयीकदिनेन सः । व्यनश्यदसुतो रोगादामकुम्भ इवाम्बुतः ।। ८१ ॥ पञ्चदिव्यैर्गजेन्द्राद्यैः सत्कृतः स कृतो नृपः । नमस्कारमहामन्त्राकिं नोचैः प्राप्यते पदम् ।। ८२ ।। बभौ तस्यासनं व्योनि व्योमरत्ननिभं तदा । देव्यश्चामरधारिण्यो दिव्यच्छनकराः सुराः ।। ८३ ॥ नाकिनाथमिव क्षोणीक्षेमायेत्थमुपस्थितम् । श्रुत्वा नृपं भयाद्भपास्तमेवान्ये विभुं व्यधुः ।। ८४ ॥ गजाद्युपायनीकृत्य खकन्यास्तस्य ते ददुः । पर्यणैषीत्स रूपश्रीहेपिताप्सरसस्ततः ॥ ८५ ॥ एकच्छत्रं महाराज्यं न मुदेऽस्य तथाभवत् । यथा श्रीमजिनेन्द्रोक्तधर्मप्राप्तिः सुदुर्लभा ॥ ८६ ॥ १. हे श्रद्धासमन्वित.
काव्यमाला।
भोगैर्दुर्ललितस्यास्य देवानामपि दुर्लभैः ।
श्रीनन्दनवनस्येव संतानश्रीरवर्धत ॥ ८७ ॥
अथान्यदा नमस्कारमन्त्रदं स्वगुरुं मुनिम् ।
तत्रागतं ववन्देऽसौ शुश्रावास्य च देशनाम् ॥ ८८ ॥
राजस्त्वं राजसे शुद्ध सम्यक्त्वमणिभूषणः ।
अझैरिव गणाधीशस्तथा द्वादशभिवतैः ।। ८९ ॥
वर्णरत्नप्रियैर्भूप रत्नसानुविजित्त्वरैः ।
जिनेन्द्रमन्दिरैः पृथ्वीमण्डलं यदमण्डयः ॥१०॥
प्रावय॑न्त त्वया तत्र नानाश्चर्यमहोत्सवाः ।
वरेण्यपुण्यपीयूषसत्राणीव शिवाध्वनि ॥ ११ ॥
श्रुतस्य श्रोत्रिणी श्रोत्रे नेत्रे जैनास्यनर्तिनी ।
कृतार्थे सार्थसामर्थ्य कृतैरिष्टैः स धर्मिणाम् ॥ ९२ ॥
विश्वरङ्ग जिनाधीशशासनोन्नतिनर्तकीम् ।
नरीनर्तयितुं नृत्याचार्यकं तव निर्मलम् ॥ ९३ ॥
सर्वाणि धर्मकर्माणि भूप श्राद्धोचितानि ते ।
श्रद्धाधिक्येन वर्धन्ते दानेनेव यशःश्रियः ॥ ९४ ॥
अत्र मद्वरधर्मेऽस्मिन्नित्थं तदपि भण्यते ।
राजहंस सदा राजहंसः स्या संघमानसे(१) ।। ९५ ॥
इत्यं कर्णातिथीकृत्य तथ्यां पथ्यां गिरं गुरोः।
ववन्दे तं ततः सापि विजहार यथासुखम् ।। ९६ ॥
(सप्तभिः कुलकम्)
जिनेश्वराणां स्थतीर्थयात्रा कल्याण्यकाद्युत्सवपुण्यकृत्यैः ।
तद्राज्यलक्ष्मीः सुभगं भविष्णुरिष्टैः फलैः कल्पतरोलतेव ॥९७ ॥
काले काले नयमिव चतुर्धापि धर्म स चक्रे
दः शक्तित्रयमिव सुधी धाम रत्नत्रयं च ।
तेनैवायं परिमलभरेणापि मन्दारशाखी
लोकं लोकम्पृणगुणगुरुसियामास शश्वत् ॥ ९८ ॥
४ सर्गः]
जयन्तविजयम् ।
१९
स त्रिवर्गपरभागभूषणः प्राज्यसौख्यमनुभूय सूनवे ।
दत्तराज्यविभवो दिवं ययौ द्वीपमन्यमिव सायमर्यमा ॥ ९९ ॥
स तत्र रम्यवैभवं सुरेन्द्रराज्यमन्वभूत् ।
ततश्युतः क्षमापतिः कृतव्रतः शिवं ययौ ।। १०० ॥
नमस्कृतरित्थमसौ महीपोऽनुभूतपूर्वी च फलं निशम्य ।
स संप्रदायं जगृहे नृपस्तां सुधां पिवेद्वा नहि कः सतृष्णः ॥ १०१॥
मन्त्रस्य तस्य रुचिरप्रचुरप्रभावैः
सर्वत्र विश्ववलयैरपरैरगम्यः ।
श्रीमान्समस्तजनतापरिभूतिबद्ध-
कक्षैः करैरिव रविस्तिमिरैरथासीत् ॥ १०२॥
इति श्वेताम्बरश्रीमदभयदेवाचार्यविरचिते जयन्तविजयनाम्नि महाकाव्य
श्रीशब्दाङ्के नमस्कारप्रभाववर्णनो नाम तृतीय. सर्ग. ।
चतुर्थः सर्गः।
तदनु भास्करसोदरदीपिकाद्युतिकदम्बविडम्बितवासरम् ।
सुर इवोच्चविमानममानवं शयनमन्दिरमाप महीपतिः ॥ १ ॥
इह स हंसशुभच्छदतूलिकं सुरतरगवतीपुलिनोपमम् ।
विहितसांध्यविधिः सुधियां गुरुः सुरवरोचिततल्पमशिश्रियत् ॥ २ ॥
समुपगूढमनाः सुतचिन्तयेत्यलममर्पभयादिव निद्रया ।
क्षणमपीक्षणगोचरचारितानविदधेऽस्य निशेव दिवामणेः ॥ ३ ॥
ग्रहबलैः शुभशंसिनमाप्तवान्कथमपीह निशीथमसौ तदा ।
पृथुपचेलिमपुण्यवतां स्वयं किमनुकुलमुपैति च हेलया ॥ ४ ॥
अथ चलनचला रमणस्तदा चतुरबुद्धिरदृश्यत नापरैः ।
नयनराजददृश्यकराज्जनो जन इवाध्वनि भूरि नराकुले ॥५॥
असितपट्टमयांशुकवेषवानसिलताकलितककराम्बुजः ।
स्वपुरसालमलचचमलद्धयभृगुमिवाशु गिरेनवकेसरी ॥ ६ ॥
काव्यमाला। किमपि तत्र विनोदितलोचनः फलितपादपदेवकुलादिषु । पवनवेगगतिः स परिभ्रमन्समसृणोत्करुणं ध्वनिमग्रतः ॥७॥ गुरुकृपारसपूरितमानसस्तदनुसारमसावपरिश्रमः । नरपतिमरुतोऽप्यधिपडता व्रतमिवाशिजवेन ददद्ययौ ॥ ८ ॥ मृतककोटिकरालकलेवरप्रचुरदुःसहगन्धभरावहे । अभिमुखागतगन्धवहर्मुहुर्यदतिदूरविवर्त्यपि सूच्यते ॥ ९ ॥ मिलदसंख्यशिवाकृतफेत्कृतैर्यदसुकम्पकृदूद्वितमूर्द्धजम् । अधिकघूकघनार्तिदघूत्कृतैः स्खलितकातरजन्तुगतागति ॥ १० ॥ भृतदिगन्तरदुःश्रवहुंकृतैर्विकृतवेषवपुर्मुखनर्तनैः । प्रचुरराक्षसभूतपिशाचकैर्भयकुलैरिव दुर्गपथं नृणाम् ॥ ११ ॥ विपुलमांसवसामदिरोन्मदं विततमुत्कलकेशमवस्त्रभृत् । भ्रमति यत्र सताण्डवडाकिनीकुलमकालमृतेरिव सादरम् ॥ १२ ॥ निशि च यत्र निशाचरनिर्मितामतिभयंकरकेलिविलोकनम् । छलयति स्म विधैर्यधनं जनं यमगृहातिथितां नयते च ताम् ॥ १३ ॥ किमिह भूरिवचोभिरुदीरितैस्तदपरं भुवि कालनिकेतनम् । निजगृहं स्थिरधैर्यवतां पुनः पितृवनं स ददर्श नृपस्ततः ॥ १४ ॥ (षड्भिः कुलकम्) अथ स तत्र विवेश विशांपतिः प्रथितधैर्यधुरीणजनाग्रणीः । इदमभाष्यमभाषि च केनचिन्मनुजजातिनिसर्गभवद्रुषा ॥ १५ ॥ विततदारुण""कृतकर्मणा हृतवपुध्रुवमागतवानसि । इह हि याति नृपोऽपि पतङ्गतां निशि निशाचरकोपहुताशने ॥ १६ ॥ पितवने हतधीस्त्वमिहागतस्तदधिपश्य ममाप्यकृतार्चनः । क्षयमुपेहि तदद्य मया हतस्ततरुषा नकुलेन यथा फणी ॥ १७ ॥ सरसभक्ष्यमिव स्वयमागमश्चिरबुभुक्षुतरस्य ममाग्रतः। त्रिभुवनेऽपि न सोऽस्ति तवाद्य यो भवति रक्षणकर्मविचक्षणः ॥.१८॥ निजबलं मयि दर्शय माधुना मम पुरो मनुजाः किल कीटकाः । असुरनिग्रहमन्त्रचणोऽसि चेत्स्मर तमेव वशीकृतदैवतम् ॥ १९ ॥ १
४ सर्गः]
जयन्तविजयम् ।
असिरयं चतुरङ्गरणे रिपुक्षितिपकण्ठविलुण्ठनलम्पट
इह हि स त्रपते जनमात्रके खलु खलेऽधमवाचि नियोजितः ॥२०॥
इति वदन्नृपतिः स नमस्कृतेः स्मरणतो व्यधिताचलनिश्चलम् ।
तमसुरं भयवातसमाहतं हृदयपल्लवमस्य तु कम्पितम् ॥ २१ ॥
अहमहंयुरिहाभवमाभवं जगति वीरकथा खलु मे वृथा ।
यदमुनैव कृतो विमदज्वरः सहजधैर्यवशंवदचेतसा ॥ २२ ॥
अहमतीव मदान्धविलोचनं पशुरिवाविदितस्वपरान्तरः ।
अधिगुणेऽत्र जने महतागसा यदपतं विपदीत्थमनर्थकृत् ॥ २३ ॥
करुणयैव न मे हृतवानसून्प्रकटदुष्टगिरोऽपि महाशयः ।
यदि कथंचन मोक्ष्यति मामयं तदुपकारितयास्तु मम प्रभुः ॥ २४ ॥
इति निधाय निजे हृदि निश्चयं निभृतनेत्रयुगं नृपमैक्षत ।
विदितदैन्ययशः कृपयामुना स मुमुचेऽथ तथैव विधानतः ॥ २५ ॥
तदनु वैद्युतपुञ्जमिव स्थिरं मणिसुवर्णविभूषणभूषितम् ।
सपदि दिव्यवपुर्दधदेत्य तं प्रणयतः प्रणनाम स भूपतिम् ॥ २६ ॥
स्फुरितभक्तिभरादिव नम्रतां दधदधीशमसावसुरोऽवदत् ।
जय विभो शरणं श्रितवानहं बत भवन्तमनन्तयशःश्रियम् ॥ २७॥
प्रभुरयं प्रभविष्णुरपि क्षमां सततमेव बिभर्ति यथा क्षमाम् ।
इति गुणद्वितयी तव गीयते सुरपतेः पुरतोऽप्सरसां गणैः ॥ २८ ॥
यदपराद्धमिहापि मयाधमाधमधियाधिकदुःसहतेजसि ।
अहितहेतुरितीव तदज्ञता मम दुनोति मनो नितरामियम् ॥ २९ ॥
अनुचितं यदवोचि वचो मया तदधुना क्षमणीयमिन त्वया ।
निजकभृत्यमितः परिभाव्य मां नतजने प्रभवः खलु वत्सलाः ॥३०॥
मम तवोपरि रागतरङ्गिणी गुरुतरङ्गभरैरिव नृत्यति ।
नवरवाविव चक्रपतत्रिणः प्रियतमोत्तमसंगमकारिणि ॥ ३१ ॥
त्वदपरोऽस्ति न मोक्षकृते मम वचन जैनमतादिव देहिनः ।
भवदनन्तगुणौघवशंवदं तदुररीकुरु मां निजसेवकम् ॥ ३२ ॥
२२ काव्यमाला । भवतु दिव्यविचित्रमणिप्रभा प्रबलपल्लवलास्यवती मम । विमलमौक्तिकहारलता तव प्रथमदर्शनयोग्यमुपायनम् ॥ ३३ ॥ इयमुदात्तसुताय मृगीदृशां भवति कण्ठतले विनिवेशिता । इति निशम्य स तां द्रुतमाददे प्रणयिनां हि समाधिविधिस्तथा ॥३ प्रकटयत्युदितं परमोचितां तव कृतज्ञकृतश्रुतिसंमदाम् । विमलजात्यमणेरिव लक्षणं निजकमाकरजन्म शुभावहम् ॥ ३५ ॥ इदमुदीर्य निवर्त्य च तत्र तं श्रुतविलापमभिप्रचचाल सः । निजभुजैकसहायतया परं विदधतेऽधिकृतार्थमिहोर्जिताः ॥ ३६ ॥ विकचचम्पकचारुवपुःप्रभः प्रवरराजजनोचितलक्षणः । भुजजिनेन्द्रकरीन्द्रजकारय(द) विधृतनिर्दययोगिपतिव्रतः ॥ ३७॥ अशुभकारणकर्मणि कर्मठः शठतया प्रिययेव समाश्रितः । इह परत्र विरुद्धकराग्रणीनिखिलदोषदवज्वलनानिलः ॥ ३८ ॥ स्वगुरुदर्शितमन्त्रविधायिनः पृथुलभूतलवर्तितमण्डलः । डमरुकस्य डमडुमडम्बरारवभरेण भृताखिलदिङ्मुखः ॥ ३९ ॥ बलभूतबलिं बलवत्तरः सकलदिक्षु समं जलधारया । प्रथमतः पृथुशान्तिविधित्सया व्यधित यः स्फुटकल्पविकल्पवित् ॥ ४० ॥ अकृत वान्छितसिध्यधिदेवतां बललोहितचन्दनचचिंताम् । अरुणपुष्पचयै रचितार्चनां विहितयोग्यसमग्रबलिं च यः ॥ ४१ ॥ इह मया प्रतिकूललवोऽपि ते मुनिजनेन न कोऽपि करिप्यते । केमुत चिन्तितसिद्धिविधित्सया सुवदने भवती(?) समुपाहृता ॥ ४२ ॥ किमिह रोदिषि शोकवशंवदा सुतनु विश्वसिहि त्यज संभ्रमम् । नृपसुतेऽभ्युदयोऽपि करिष्यते तव मया विविधाद्भुतभूतिभूः ॥ ४३ ।। इति गिरास्तभया लघुतां व्यधाद्विगतरोदनताररवां च यः । त्रिभुवनाखिलमीलितमायया विहितसृष्टिरिवानृतजन्मभूः ॥ ४४ ।। उपकृपाणकृतच्छुरिकाकरं मधुरवाक्यसुधोक्षितकन्यकम् । अधिकृतार्थविधौ विहितोद्यम नृपतिरक्षत तं पुरतस्ततः ॥ ४५ ॥ (अष्टभिः कुलकम्) ४ सर्गः] जयन्तविजयम् । २३ - १ अजपदिष्टनिवन्धनमुद्रया प्रकृतमन्त्रमथाहुतिमक्षिपत् । विहितहोममतिज्वलितानले स्वमिव दुर्गतिशाख (श्व)तपावके ।। ४६ तदभिपश्यति..."धराधिपे बहुलतान्तरितेऽथ स कन्यकाम् । समवदरया(१)दकदेवतावलिकृते त्वमिहाद्य विनाश्यसे ॥ ४७ ॥ इयदितस्तव जीवितमात्मनः कमपि रक्षणदक्षमिह सर । तदनु विक्रमसिंहमहीपतिः शरणमेव ममेति जगाद सा ॥ ४८ ॥ क्षुरिकया न हि यावदपत्रपः प्रहरतीह स तावदपात्यत । क्षितिभुजा भुजतो द्रुतमस्य सा द्रुमलतादलवद्धन(?)वायुना ।। ४९ । समुपतस्थुषि या.""पतौ युधे गतकरेऽथ कृपाणकरे रुषा । निजकरेण सितासिमकम्पयच्चरणताडनतश्च धरां नृपः ॥ ५० ॥ भुवि ववल्ग स वल्गुबलो ददावसिनिपातशतान्यभिभूपतिम् । अभिभवन्ति न तानि किमप्यमुं तिमिरसंततयस्तरणि यथा ॥ ५१ । भुवि कृतैर्गुरुभिः पददर्दरैर्नमदशेषफणीन्द्रफणोन्नती(क)। वत्तमजीविव(?)रोषकषायतो रणमुखेऽभवतां नृपयोगिनौ ॥ १२ ॥ प्रहितयोनिधनाय कृपाणयोरपि कृपाजनि तत्रै योर्भुवम् । परमया सुकुमारतयान्यथा कथमिमां वहता गलताश्रयोः(१) ।। ५३ । अथ मिथोऽसिलतापरिचुम्बितौ वचन"..."निर्गतलोहितौ । वधिया भ्रमणेन विरेजतुर्बलदलातकचक्रयुगोपमौ ॥ ५४ ।। कपटकोटिपटुः स विशांपतेः करतलादसिपत्रमपातयत् । प्रहतवैरिवपुःक्षतजारुणं मरुदिवाशु तरोः श्लथपल्लवम् ॥ ५५ ॥ करगृहीतकृपाणलतं पुनः समरदक्षतयाद्भुतया नृपम् । यमभिवोद्धृतदण्डकरं रिपुस्तमवलोक्य मुमोच स धीरताम् ॥ १६ ॥ द्विषदसि विनिहत्य निजासिना क्षितिधवोऽपि सहेलमपीपतत् । इह भवन्ति जयर्द्धिकृते कृतप्रतिकृताय निरङ्कुशतेजसः ॥ १७ ॥ १. 'तन' इति स्यात्. २. सपादकार्थकः पादकशब्दो भवेत. ३. 'योगिपत इति स्यात, ४. 'त्र तयो' इति स्यात् काव्यमाला। अपहृतासि पराभवकोपितस्तद्नु योगिपतिः कृतसाहसः । चिरमयुध्यत मल्लयुधा क्रुधा नृपतिना सह दुःसहतेजसा ॥५८ विविधबन्धनिबद्धवपुः कृतः व इव तेन स योगगतोऽचलः । नृपतिरप्यरिसूत्रितबन्धन(?)मधुतवास्तिमिरं द्युतिमानिव ॥ १९ ॥ भुजगपाशदृढेन महीभुजा निजे....."द्वितयेन पराक्रमी। रिपुरबध्यत बन्धनपीडया मृतिपथस्थ इवाथ मुमूर्छ सः॥१०॥ तमवलोक्य तथा विवशं विशांपतिरुदीणकृपामृतवीचिभिः । समभिषिच्य मुमोच पुनर्नवीकृतमिवेति हि राजकुलोचितम् ॥ ६१ सिचयपल्लववीजनवायुना विगतमूर्छमुवाच नृपोऽथ तम् । कुरु करेऽसिलतां मम पूरय क्षम रणे रणकेलिकुतूहलम् ॥ १२ ॥ प्रतिजगाद स किं मम सांप्रतं रणचणेन रणेन सह त्वया । सपदि दैन्यदशां गमितोऽस्मि यत्तव करैस्तरणेरिव चन्द्रमाः ।। ६३ । क्षपयति स्म स तस्य विलोलताममृतपूरसहोदरया गिरा । स्वकुलदेवतया कथितं स्मरन्नथ तथा प्रणनाम स भूपतिम् ॥ ६४ ॥ त्वयि नरेन्द्र हठादपि भूभुजां प्रणतिरायति सुन्दर संपदे । किमु रसायनपायनमङ्गिनामनभिलाषवतामपि नो मुदे ॥ ६५ ॥ भवति कापि नरेन्द्रमहोचिती ध्रुवमनन्यसमाश्रयसंभवा । सुरतराविव वलिगतसौरभा स्फुरति नेतरभूरुहमञ्जरी ॥६६॥ देवस्त्रीवधपापपङ्कपतनव्यावर्तनेनामुना त्वं मेऽभूः परिणामसुन्दरतया तस्यां दयायां गुरुः । यन्माहात्म्यपुरस्कृतं खलु जनं खर्भूर्भुवः संपदः सोत्कण्ठं कुचमण्डलेषु रमयन्त्यासप्तसिद्धिश्रियम् ॥६७ ॥ युष्मत्प्रसादान्नृप मानसे मे हंसीयतां सा सुगतिं दधाना । वदन्निदं कन्दलयांबभूव प्रमोदकन्दं हृदये स तस्य ॥ ६८ ॥ (पञ्चभिः कुलकम्) १. 'स धु-' इति स्यात्. २. 'भुज' इति भवेत्. ३. अनुदात्तत्त्वप्रयुक्तात्मनेपदस्या- नित्यत्वादन परस्मैपदप्रयोगे 'सहख' इत्यर्थो भवेतू. ४, 'सन्नसि-' इति स्यात.
५ सर्गः] जयन्तविजयम् । शौर्याकृष्टा तदनु विजयश्रीकटाक्षैवल:- रान.नं कुसुमसुभगैः सानुरागा नरेन्द्रम् । देवश्रेणीकृतजयरवा पुष्पवृष्ट्या च हृष्टा पूजापात्रं भवति हि मुहुः सद्गुणोत्कर्षवत्ता ॥१९॥ इति श्वेताम्बरश्रीमदभयदेवाचार्यविरचिते जयन्तविजयनाम्नि महाकाव्ये श्रीशब्दाढ़े सुरयोगीन्द्रविजयो नाम चतुर्थः सर्ग । पञ्चम सर्ग । संरक्षणाय रिपुतोऽहमभूवमस्याः संग्रामकेलिभिरियं स्सरतापतो मे । स्वैर्दर्शनामृतरसैस्तु समोपकार- कन्येति तामथ मुहुर्नृपतिर्ददर्श ॥ १ ॥ अस्याः स्मितोत्पलदलं नयनद्वयस्य कान्तेः सुवर्णममलं वदनस्य चन्द्रः। वाचः सुधा रतिरनुत्तररूपलक्ष्म्याः सौभाग्यभझिमनिशं स्पृहयांबभूव ॥ २॥ कि वागुरेयमपरा युवहृन्मृगाणा निःस्पन्दतां दधति येन विलोकितापि । एकं सरस्य च जगत्रयजैत्रमस्त्रं स्त्रैणोचिताद्भुतगुणोल्बणभूषणश्रीः ॥ ३ ॥ केयं व वाजनि कुले किमितीपदीद(९) संचिन्त्य तामभिललाप मुहुः स पश्यन् । दिट्यासि जीवितवती सुभगे स्मरारि स्मेरस्सरः परिभवत्यपि दृग्बलात्ते ॥ ४ ॥ व्यालोकनेन सहसापि घनश्रियोऽस्य हर्षप्रकर्षपरिनृत्तमनोमयूरा । १. 'लापदीय' इति स्यात्
२६
काव्यमाला।
अम्भःकणैरिव सुधामधुरैर्वचोभिः
सा प्राप निवृतिभरं क्षितिभृत्तटीव ॥५॥
अत्रान्तरे रुचिररत्नविमानमैक्षि
क्षोणीभृताद्युतितिरस्कृतभानुबिम्बम् ।
तस्मादुपेत्य सहसा सुरपुंगवेन
पूर्वोदितेन समनम्यत मानवेन्द्रः ॥ ६ ॥
प्रासादमुन्मुखमयूखशिखाब्यरत्नै-
र्दीपालिकोत्सवमिवादधतं निशायाम् ।
सिंहासनं च नवभङ्गिभराभिराम-
माराममद्भुततमं रचयांचकार ॥ ७ ॥
तद्भक्तिगौरववशाद्विहितासनस्य
तत्र क्षणं क्षितिपतेः पुरतः सदैव ।
प्रावर्तयद्रुचिरविभ्रमहावभाव-
लीलाविलाससरसं स्वपुरंभिलास्यम् ॥ ८ ॥
किं सानुरागहृदया मयि कन्यकेय-
मापद्ता किमिति मां शरणं प्रपेदे ।
योगीश्वरश्च किल कोऽयमिति क्षितीन्दु-
विस्मरविस्मयरसप्रसरः स दध्यौ ॥९॥
देवोऽवदत्तदनु देव निवेद्यमानं
जिज्ञासितुं निजमिदं शृणु रत्नपुर्याम् ।
जज्ञे जितारिनृपतेर्दुहितेन्दुमत्यां
श्रीः श्रीमतीयमनुजा तव पट्टराश्याः ॥ १० ॥
साश्चर्यसौर्यसुभगत्वकलाप्रभुत्व-
दानादिभिस्तव गुणैरियमत्युदारैः ।
संख्यातिगैः श्रुतिपथातिथिभिर्बभूव
श्रीः श्रीपताविव नृप त्वयि सानुरागा ॥ ११ ॥
२७ ५ सर्गः] जयन्तविजयम् । युप्मद्वियोगविधुरा मधुराजलक्ष्मीः सङ्गाशया धृतवती नृप जीवितव्यम् । त्वन्नाममन्त्रमनिशं जपति स कामं रूपं निरूपितवती च तदैव चित्रे ॥ १२ ॥ कुप्यत्कृतान्तदशनान्तरवर्तिनीव सस्मार देव तव नाम तदापदीयम् । गीतक्षुतस्खलनजागरणे भये च संसर्यते प्रियजनस्य हि नाम लोके ॥ १३ ॥ लोकंपृणोल्बणगुणा नृपराजलक्ष्मी- तेंव सर्वविषयप्रभविष्णुसौख्या । सर्वाङ्गसुन्दरतया सुभगंभविष्णुः प्राणप्रिया तव भविष्यति कन्यकेयम् ॥ १४ ॥ वृत्तान्तमस्य शृणु योगिपतेरिदानी रत्नावतीत्यभिधयास्ति पुरी प्रसिद्धा । तत्रोग्रसेनधरणीपतिरुग्रसेन- स्तस्याभवप्रियतमा मणिमञ्जरीति ॥ १५ ॥ पृथ्वीधरं पृथुनरेन्द्रनवावतारं गङ्गाधरं च भुवि केतुमिबोल्लसन्तम् । एतावसूत तनयौ क्रमतः सती सा वेलाम्बुधेरिव सुधारसकालकूटे ॥ १६ ॥ भ्रात्रोरनुक्रममहर्निशमुत्तरङ्ग- प्रेमोग्रमत्सरभरप्रभवप्रवृत्त्योः । जज्ञे तयोः कुशलता द्विजपुंगवानां हस्ताङ्गुलीप्विव कलासु तदाखिलासु ॥ १७ ॥ तत्रादिमः क्षितिप मन्त्रिपुरी जनाना- मुद्यत्सुदां समुदयैः सहवर्धमानः । १. 'न्मुदा' इति स्यात् काव्यमाला। संक्षोभणं त्रिभुवनसितलोचनानां स्मेरस्मरं तदनु यौवनमाससाद ॥ १८ ॥ लोकं दहन्मुखविषोल्बणनिर्यदग्नि- ज्वालावलीभिरिव दुर्वचनैस्तदन्यः । उत्रासयन्कुचरितैः कुटिलैर्गतैर्वा दुग्धं फणी च तरुणस्तरुणत्वमाप(१) ॥ १९ ॥ आदेशतः पितुरथ क्षितिपालकन्या रूपश्रिया जितरतीः परिणिन्यतुस्तौ । पृथ्वीधरे तदनु सर्वजनानुरागा- द्वाजा न्यधत्त जयशालिनि यौवराज्यम् ॥ २० ॥ क्षीणोऽन्यदा क्षयरुजा क्षितिप क्षतार्तिः पृथ्वीधरं धरणिनाथमथो विधाय । योगीव योगपरभागलयोपयोगे चेतः स्थिरं सपदि निर्वृतिमाससाद ॥ २१ ॥ अन्तःपुरे पुरजनेऽखिलराजलोके शोकाकुले कलयति स सकालधर्मा । कि कोऽपि दण्डधरदण्डनिपातचण्ड- दण्डस्य गोचरमुपैति न जीवलोके ॥ २२ ॥ गङ्गाधरस्य निजबन्धुकृतैः प्रसादै. रप्युग्रमत्सरभरः स तथैव तस्थौ । किं मुग्ध.... पटलप्लुतविग्रहोऽपि काकः कदापि च न मुञ्चति कालिमानम् ॥ २३ ॥ तेनालघोर्लधुधियाभिमराः प्रयुक्ताः स्नेहामृताब्धिमनसोऽपि वधाय बन्धोः । तेऽप्यन्धकारसचिवा ययुरीप्सिताय प्रायः कुकर्मविधयो हि तमःसहायाः ॥ २४ ॥ . T ५ सर्ग:] जयन्तविजयम् । २९ तत्र प्रविश्य च कथंचन ते निगूढाः पृथ्वीधरे रहसि न प्रहरन्ति यावत् । तावन्नृपेण रणदक्षतयास्तशस्त्राः सर्वेऽक्रियन्त महतां न मुधा हि तेजः ॥ २५ ॥ बद्धाः पुरा नरकपात........केन खाम्याज्ञया तदनु संनिहिताङ्गरक्षैः । पृष्ठाः कशाभिरभिताड्यभियाभ्यधुस्से दुष्कर्मकारितमिदं भवतोऽनुजेन ॥ २६ ॥ कि मारणेन निजदुष्कृतमारिताना- मेषां यतो मृतकमारणकर्म निन्द्यम् । प्रोद्भूतया करुणया प्रिययेति सम्य- ग्विज्ञप्यमान... ..'मुचन्नरेन्द्रः ॥ २७ ॥ ज्ञात्वाप्यपास्यमपराधविधानजन्य- मालिन्यकश्मलतमं तमपायभूतम् । खच्छाशयः स युवराजपदे चकार क स्नेहमोहितधियां स्वहितप्रवृत्तिः ॥ २८ ॥ राज्याभिलाषविवशः स नरेश्वरस्य खान्ते विवेश कृतकृत्रिमभूरि भत्तया । माया विना किमपि चेष्टितमद्भुतं त- न्मुह्यन्ति येन सुतरा सुवियां धियोऽपि ॥ २९ ।। उन्मीलता कपटनाटकपाटवेन गूढेन गाढमखिला नृप पर्षदं च । अन्यानपेक्ष्य बहुमानगुरुप्रसादै- लेकिंपृणैश्च स गुणैः स्ववशीचकार ॥ ३० ॥ १. 'नरकपातकपातकेन' इति पाठे 'नरकपातजनकपातकेन शपथ कारिताः' इति व्याख्या भवेत् ३० काव्यमाला। राज्ञोऽङ्गरक्षक इवातिसमीपवर्ति पश्चात्पुरस्तबविधौ धृतवन्दिमुद्रः । राज्ये प्रमाणमयमेव ततो व्यधायि खात्मेव तेन ददृशे च निगूढमायः ॥ ३१ ॥ तज्येष्ठवान्धवबधार्थमिदं चरित्र- मस्येति कश्चन न तत्र विदांचकार । ब्रह्मापि लक्षयितुमक्षम एव मायां मायाविनामतिशयेन हि सुप्रयुक्तात् ॥ ३२ ॥ निद्वादरिद्रनयनः क्षणदावसाने संस्तम्भितोद्भुतकृपाणकरं निरीक्ष्य । गङ्गाधरं स्फुरति दैन्यमथान्यदा तं भ्रातः किमेतदिति भूमिपतिर्जगाद ॥ ३३ ॥ चञ्चेव कांचन न यावदुवाच वाचं तावत्सखेव मनुजं स जगाद साश्रुः । आः पाप पातकमिदं पतितं त्वयीत्थं विश्वासघातकतया विदधे यदुग्रम् ॥ ३४ ॥ स्वखामिनः श्रुतगिरो द्रुतमारक्षा- स्तत्राययुर्बहुविधा युधपाणयश्च । ते वारिता नृपतिना नृपवंश यस्य दण्डो विदेशगमनं हि महागसोऽपि ॥ ३५ ॥ जातेऽथ कर्णकुहरप्रणयिन्यमुप्मि- न्गङ्गाधरस्य चरिते त्वरितं स दुःखः । तत्रैत्य पौरनिकरः परुषैर्वचोभि- स्तस्यावधूलमिव""प्रथयांबभूव ।। ३६ ॥ दोषागमेऽधिकरुचिः खलु राजपुत्र कार्यो मयेव भवता बहुतेजसायम् ।
५ सर्गः]
जयन्तविजयम् ।
दृष्टेन गोचरमुपैति यथातथेति
प्राप्तोदयस्तव रविनूप शंसतीव ।। ३७ ॥
आकर्ण्य तूर्णमिति मङ्गलपाठकस्य
प्रस्तावसुन्दरतया स तथा चिकीर्षुः ।
तत्कालमुच्छलदनुच्छकृपापरीत-
स्तन्मोचनो()पयिकचिन्तनतत्परोऽभूत् ॥ ३८ ॥
पावित्र्यभाजि पुरुषेऽथ कृतावतारा
देवी समीहितकृतेऽस्य कृतावनाधिः ।
कृष्णागुरुप्रवरधूपसुगन्धपुष्पैः
पृष्टावदत्तव कुले नृपदेवताहम् ॥ ३९ ॥
माहाकुलीनचरितान्यवगण्यपुण्य-
पण्यापणानिव कुकर्म विधाय शङ्कः ।
कुर्वन्प्रहारमसिना त्वयि वीक्ष्य रोषा-
दस्तम्भि गाढमपराधवशान्मयायम् ॥ ४० ।।
निस्तम्भदेहमथ देवतया विधाय
क्ष्माभृद्विदेशगमनाय तमादिदेश ।
तेजः श्रियाधिकतमस्तमसेव तेन
मुक्तः स्फुरत्कुवलयश्च रराज राजा ॥ ४१ ॥
देवी पुनर्विनयिनं तमुवाच पुत्र
प्रीत्या प्रमोदभरनिर्भरचित्तवृत्तिः ।
सायं दिवा मणिरुचामिव चक्रवालं
भाग्यं दिनानि कतिचित्तव भावि मन्दम् ॥ ४२ ॥
गङ्गाधरायदमुतस्तव राज्यलक्ष्म्या
भ्रशो भविष्यति तथा भवितव्यतायाः ।
तन्मा विषीद पुनराप्स्यसि तां खजेत्रि-
क्ष्मापाक्ष्ममेश समयेऽभ्युदयो हि भाना.(१) ॥ ४३ ॥
३२ काव्यमाला। धर्मेण सद्गतिफलेन जिनोदितेन खर्गापवर्गपुरगोपुरसोदरेण । त्वन्मौलिरत्नमुकुटस्फुटपौनरुत्त्य नूनं भविष्यति भविष्यदमुद्रभद्रम् ॥ ४४ ॥ आकल्पकोटि विजयख महीमहेन्द्र- राज्यश्रियेति जननीव तदाशिपं सा। दत्वास्य पूजननमस्कृतिभूरिभत्त्या हृष्टा ययौ निजविमानममानशोभम् ॥ ४५ ॥ गङ्गाधरः वचन तत्र चिरेण राज्यं लेभे कथंचन पुनः सगुणोज्झितोऽपि । उद्दामसंपदुदये खलु देहभाजां पुण्यं प्रमाणमुदितं न गुणो....""वा ॥ ४६ ॥ आबालकालकलिताधिकवैरवन्धः स्वभ्रातरं प्रतिचचाल स भूमिपालः । राज्यं जिघृक्षुरपनिद्रपदाम्बुलोपा(?) यूथं यथा द्विपपतिः प्रतियूथनाथम् ॥ ४७ ॥ दुर्भद्यशालवलयेन परैरंगम्यां शीलप्रभावविभवे न सतीमिवास्य । आवेष्टयन्निजबलैः स पुरी बलीया- न्मूर्ती रवेरिव महापरिवेषदोषः ॥ ४८ ॥ विद्याधरा इव ततो विषमास्त्रदक्षा विद्याधरीपरिचयं मुमुचुर्न केचित् । वीराः परे तु नितरामवमन्य तस्थुः शालस्य तस्य कपि......"शीर्षकाणि ॥ ४९ ॥ सा दानवैः सुरपुरीव "रैः सुखेन गम्या न जातु गुरुमन्त्रिमतिप्रकर्षा ।
९ सर्गः] जयन्तविजयम् । ३३ खखामिकार्यरसिकास्तदपि द्विषन्त- स्तद्वत्प्रभञ्जनकृते समुपाक्रमन्तः ॥ ५० ॥ लुण्टाककोटिपटुलुण्ठितबाह्यलोकः कुट्टाकलोहलगुडावलिकुट्टितारिः । संख्यावतीतखनकैः खनितुं खनित्रैः प्रारम्भि शालवलयो दहनेन दग्धुम् ॥ ११ ॥ उत्तप्ततैलदहनज्वलदिन्धनादि- प्राकारशृङ्गजनता क्षिपति स तत्र । उत्पातकाल इव घोर(१)मनःशिलाश्च वैरं ववर्ष रिपुदर्पमिवाशु भुक्तम् ॥ ५२ ॥ कुप्यत्कृतान्तभटनिष्ठुरमुष्टिपात- प्रायैरपायपरिवर्जितयन्त्रमुक्तैः । पाषाणगोलकशतैय॑पतन्विनेषु-(१) नेशुश्च केचन बहिः प्रियजीवितव्याः ॥ ५३ ।। सेनाविपक्षनृपतेरुपशालमूलं कूलंकपेव कुलशैलतलं समेत्य । तद्भञ्जने विफलितौपयिकातिखिन्ना क्षिप्रं पलायत ततः पुरसैन्यशस्त्रैः ॥ १४ ॥ कृत्वाथ भेदितसमस्तपरिच्छदन्तं राज्याच्युत स विदधे गुरुमात्मवन्धुम् । भूयिष्टभावविधिना सुखमेव चक्रा- सूत्रेण कुम्भमचिरादिव कुम्भकारः ॥ ५५॥ गङ्गाधरप्रभवभेदविधानवीज- संजातमत्सरतया विरराज पर्पत् । नाथं यथार्थमपि तं रिपुबद्ददर्श सर्व विधौ हि विमुखे विमुखं जनस्य ॥ ६६ ।।
काव्यमाला। आदाय राज्यकमलामधमः स्ववन्धोः सूत्रत्रकारमवमत्य महोपकारम् । गोत्रं निजे सुरतरजवती सगोत्र- गङ्गाधरः समजनि प्रथमः कलङ्कः ॥ १७ ॥ एकाक्ययं भवतु दूरविदेशगामी पूर्व यथास्य वचनादहमित्यवेत्य । मुक्तोऽथ तेन स चचाल ततः पदाभ्यां पोरैः पदातिरिव साश्रुभिरीक्ष्यमाणः ॥ १८ ॥ शश्वन्मनोरथपथं स्फुरदात्मराज्यो- पायस्तदा भ्रमदनःप्रमनाः क्षमायाम् । सेवां च न कचन कस्यचिदेष चके खातन्त्र्यराज्यमसमं खवशं हि तस्य ।। ५९ ॥ योगीश्वरं वचन भूभृदघोरघण्टं वीक्ष्याश्रयत्परिचयोपचयात्तु तस्य । सोऽभूद्दयालुहृदयोऽप्यतिरौद्रमुद्रः क्षारं न कि लवणसागरतोऽम्बुमुष्टिम् ॥ १०॥ निःशूकमानसतया जितदन्दशूक- स्तुल्यो ममेति मुदितात्स्वगुरो स दीक्षाम् । संप्राप पाणिमिव दुर्गतिकन्यकायाः कन्याबलं विविधसिद्धफलं च मन्त्रम् ॥ ६१ ॥ तस्यानुभाववशतो द्रुतमन्तरिक्ष भ्राम्यन्विलोक्य नृपसौधतलाथ बालाम् । एतामिवानयदयं निजमन्त्रसिधै प्रत्यक्षमेव तव देव पुरस्तु सर्वम् ॥ १२ ॥ पृथ्वीपुरंदर......"मेव ताव- दात्मीयवृत्तकथनं स्वयमुत्तमानाम् ।
५ सर्गः] जयन्तविजयम् । ३५ किं तु त्वदीयमहनीयमहोपकार- संसारवर्णधनिकैच करोति किचित् ॥ ६३ ॥ शुभ्रांशुशुभ्रजिनहर्म्यविभानिभेन कृत्योपहासमिव यत्रिदशेन्द्रपुर्याः । श्रीश्रीपुरेऽजनि नृपः किल तत्र शत्रु- चित्रासलालसमना शशिनामधेयः ॥ ६४ ॥ तस्मिन्शुभोदयदयादमदानमुख्यैः सर्वत्र विश्रुतगुणैर्गुणिनां धुरीणः । श्रेष्ठी बभूव धनदो जिनधर्मकर्म- निर्माणसंनिहितसिद्धिवधूविलासः ॥ १५ ॥ प्राणेशलोचनचकोरसुधाशुलेखा लावण्यधाम ललना ललितेति तस्य । सूनुस्तयोस्त्वमभवः फलिताम्रवृक्ष- खप्नेन सूचितधनो धनदत्तनामा ॥ ६६ ॥ कान्तैर्गुणैः कृतपदस्य तदायमेव दोष(?)सूवाजनि जगत्रितयप्रतीतः । कुक्षिभरियंदसि शारदचन्द्रसान्द्र- ज्योत्स्नासपत्नरुचिभिर्गुणिना यशोभिः ॥ ६७ ॥ त्यक्त्वा पुराणपुरुषं नववासलाभ- लोभादिवाश्रितमुखोऽजनि तत्र वेदैः । विष्णुर्द्विजः प्रणयिनी कमला च तस्य सूनुस्तयोः समुदपद्यत देवशर्मा ॥ १८ ॥ जन्मान्तरं तदनुयातवतोः स पित्रोः पक्षीव तत्क्षणदभूदपपक्षभावः । वाल्येऽप्यनिष्टघटनाप्रभविष्णुदौस्थ कालानपेक्ष्य पतनः खलु कालदण्डः ।। ६९ ॥
३६
काव्यमाला।
पाठीनबल्लभतमां द्विजराजविद्या-
निर्दम्भकेलिसदनं जलसङ्गमुक्तम् ।
बाल्येऽपि तस्य तदजायत धीरवत्त्वं
यन्मित्रमावहति कस्य न नाम चित्ते ॥ ७० ॥
दारिद्यविद्भुतमना न मनागपि स्वं
लेभे वदान्यजनतोऽपि गुणार्गलोऽपि ।
कृच्छादवाप्तकशिपुस्तु निजान्तराय-
दुष्कर्मतोऽयमभवत्कृतरङ्कशङ्कः ॥ ७१ ॥
मिक्षा भ्रमन्न तु गृहं कणमात्रवृत्तिः
क्षुत्क्षामकुक्षिरनिशं मललुप्तकान्तिः ।
नव्यः शशीव जलदान्तरितप्रकाशः
श्रेष्ठयगजेन ददृशेऽथ सता स तेन ॥ ७२ ॥
अत्यन्ताशुभकर्मसंचयवशान्निःश्रीकचूडामणिः
सद्योऽप्येष बभूव वैभववतां धुर्यो धनस्यैक्षणात् ।
किं नो फाल्गुनफल्गुवल्गनबलात्क्षीणोऽपि वृक्षः क्षणा-
लक्ष्मीर्याति विलोलपल्लवलतालास्यप्रशंस्यां मधोः ॥ ७३ ॥
इति श्वेताम्बरश्रीमदभयदेवाचार्यविरचिते जयन्तविजयनाम्नि महाकाव्ये
श्रीशब्दाळे योगीन्द्रवरूपनिरूपणो नाम पञ्चमः सर्गः ।
पष्ठः सर्ग.।
अथोपयेमे स गिरीन्द्रपुत्रीरूपा विलेपच्छिदुरखरूपाः ।
महर्द्धिविप्रान्वयसंप्रसूताः कन्याः प्रभूताः सरशस्त्रभूताः ॥१॥
रूपं मनोहारि बयो नवीनमसाधुसङ्गो धनमत्ततेति ।
मध्ये मनः सौधमनङ्गवहेघृताहुतिक्षेप इवास्य जज्ञे ॥ २ ॥
वश्यः खकान्तोऽपि स धावति स्म सापायसङ्गासु परागनासु ।
किं केतकीषु स्फुटकण्टकासु न याति जातीः परिहाय भृङ्गः ॥ ३॥
६ सर्गः]
जयन्तविजयम् ।
उदीर्णरागां स्मितनेत्रपत्रामम्भोजिनी सायमिव द्विरेफः ।
अथैकदासौ रतिविह्वलाङ्गः पराङ्गना प्राप च बन्धनं च ॥ ४ ॥
स नीयमानः स्फुटदङ्गयष्टिरारक्षवीरैदृढबन्धबद्धः ।
वध्या च नो वध्यविडम्बनाभिर्विडम्बितोऽदर्शि धनात्मजेन ॥ ५ ॥
निवर्त्य तान्भूमिपतेः प्रधानमुपायनं भूरि धनं विधाय ।
तदाज्ञयामोचि स तेन सद्योदान विसर्वव्यसनापहारि ॥ ६ ॥
नीत्वात्मसौधे कृतमजनादि सर्वोपचारं सकलाङ्गसुस्थम् ।
खदुष्कृतोत्पन्नधनानुतापं वच्छायवक्र तमुवाच मित्रम् ॥ ७ ॥
यदत्र जन्मन्यपि जन्मभाजां क्षेत्रं स्फुरत्तीव्रविडम्बनायाः ।
कराद्यभावव्यधबन्धबाधाविधौ च दुर्वारमिवारिचक्रम् ॥ ८ ॥
यन्निप्कलङ्कस्य कुलस्य कामं कलङ्कपङ्काय सनातनाय ।
स्फुरद्विषोर्मप्रतिमश्रुतीना हेतुश्च धिक्कारपरम्पराणाम् ॥ ९ ॥
असंख्यदुःखैः खलु दुःखितानां यन्तारकाणां नरकेषु भूयः ।
वज्रानलोल्लासिशिखासमूहलोहाइनालिइनलम्भनाय ॥ १० ॥
वैधव्यदुःखं कुलबालिकानां दौर्भाग्यभङ्गीमनपत्यतां च ।
वियोगदावानलदाहदौस्थ्यं तनोति दौर्जन्यमिवादधद्यत् ॥ ११ ॥
प्रत्यूहसंदोहलताप्ररोहनवाम्बुवाहप्रतिहस्तमेनम् ।
तन्मित्र दूरादपराङ्गनाङ्गसंघर्षसङ्गं त्यज तीव्रपापम् ॥ १२ ॥
(पञ्चभिः कुलकम्)
शीलवतस्याचरणादवश्यं पुण्यावधेः सिद्धिरसादिवातः ।
कल्याणकोटिः कलयांचकार कराम्बुजे कस्य न लास्यलीलाम् ॥१३॥
मूलं जगद्व्यापि यशोद्रुमस्य समस्तसपत्प्रतिभू सनाभिः ।
प्राभावभानूदयपूर्वशैलः शीलं सलीलं परिशीलितं हि ॥ १४ ॥
रूपं जितायुग्मजिरस्वरूपं सत्त्वं पराभूतसमस्तसत्त्वम् ।
संपद्यते देहभृता यदन पुष्पोद्गमः शीलतरोः स नूनम् ॥ १५ ॥
आदेयतायाः पदमद्वितीयं विश्वासभूविश्वसनीयतायाः ।
शीलं समस्ताभिमतार्थसिद्धेः प्रियैकसंकेतनिकेतनं च ॥ १६ ॥
काव्यमाला।
उदग्रसौभाग्यमसंख्यसौख्यं न व्यर्थता कापि मनोरथानाम् ।
एकातपत्रं च यदाधिपत्यं तच्छीललीलायितमङ्गभाजाम् ॥ १७ ॥
विवेककल्पद्रुममज्जरीव खर्लोकमार्गे शिविकेव दिव्या ।
पृथुप्रतोली च विमुक्तिपुर्याः प्रिया न कस्यामलशीललीला || १८
इमं गृहीत्वा धनदत्तदत्तं हितोपदेशं जलवत्तृषार्तः ।
पराङ्गनासानिवृत्तिरूपं चक्रे व्रतं तेन तु सातिचारम् ॥ १९ ॥
सोऽहं परस्त्रीपु रिरंसयाथ मालिन्यभाजा किमपि व्रतेन ।
सामानि कः पुण्यजनाधिपस्य देवोऽभवं कुण्डलनामधेयः ॥ २० ॥
एवंविधेनाप्यनुशीलितेन शीलेन संपत्तिरजायतासौ ।
किं पक्षसंपर्कजुपापि जात्यरत्नेन लभ्येत न भूरिलाभः ॥ २१ ॥
तदैहिकामुप्मिकदुःखशाखि कूलंकषा संनिभमाश्रयन्ते ।
विशुद्धिसौरभ्यभराभिरामं शीलं शुभोदर्कपराय सन्तः ॥ २२ ॥
रकोपमस्यापि ममाविरासीद्दशाविलासः परिपूरिताशः।
युष्मत्प्रसादादिति भूमिपाल सीमासि निष्कारणवल्लभानाम् ॥ २३ ॥
प्राप्तुं परं पारमपारपारावारस्य विश्वेश कदापि शक्यम् ।
न तु त्वदीयानुपमोपकारस्नेहप्रकारस्य मया कथंचित् ॥ २४ ॥
कुलकमायातजिनेन्द्रधर्मकर्मैककामो धनदः पिता ते ।
श्रीसुस्थिताहस्य युगप्रधानगुरोरुपास्त्याशिवशर्म लेभे ॥ २५ ॥
प्रोल्लासिता देव निजेव कीर्तिर्जिनस्य भक्तिर्भवतोऽतिमात्रम् ।
महोत्सवै रञ्जितलोकलस्तच्छासनस्योन्नतिरप्यनल्पा ॥ २६ ॥
दानादिभिः पुण्यविशेषकृत्यैर्नृत्यद्यशोभिः सुरभीकृताङ्गम् ।
कटाक्षलक्षैर्नृपतेर्वलक्षैस्तां मोक्षलक्ष्मीर्मुहुरीक्षते स्म ॥ २७ ॥
नरेषु बद्धायुरिति त्वमिन्द्रलक्ष्मीमुपेक्ष्येव नृलोकपुण्यैः ।
राज्ञस्तनूजो हरिविक्रमस्याभूर्भूपतेर्विक्रमसिंहनामा ॥ २८ ॥
श्रुत्वेति पूर्व निजजन्म पश्यञ्जातिस्मृते खं च तथा स्वमन्त्री ।
प्रीत्या नृपो देवमथालिलिङ्ग प्रवेशनाय वहृदीव सद्यः ॥ २९ ॥
६ सर्गः]
जयन्तविजयम् ।
देवः : पुनः सप्रणयं प्रणम्य विज्ञो नृपं विज्ञपयांबभूव ।
कन्येयमाधातुमनाकुलत्व पित्रोः पवित्रा भवतोपनेया ॥ ३० ॥
निशादिनी कुर्वदिव घुरत्नसपत्नरत्नद्युतिभिर्विमानाम् ।
आरुह्य देवस्य गिरा नरेशः श्रीयोगिराजेन निषेव्यमाणः ॥ ३१ ॥
उपात्तकन्यार्धकटाक्षवीक्षा प्रसृत्वरानङ्गतरहिताङ्गः ।
शृण्वन्स रामारमणीयगेयं पुरं जितारेस्त्वरितं जगाम ॥ ३२ ॥
(युग्मम्)
यक्षेन्द्रवाक्चैत्ररथैनरेन्द्रस्ततस्तदीयोपवनेऽवतीर्य ।
आमोद्यमानः सुमनःसमूहैः समं विशश्राम परिच्छदेन ॥ ३३ ॥
उद्यानपालः सहसोपलक्ष्यतां तां कन्यकां प्रीतिमती पतिं च ।
तत्रेयवांसं रभसाज्जितारेनिवेद्य जज्ञे परमोत्सवाय ॥ ३४ ॥
उत्कण्ठयोच्छृङ्खलया तदानी सप्रैर्यतः क्षोणिवधूविलासी ।
तत्राभिगन्तुं पवनः प्रवृत्त्यानुकूलया पीत इवाब्धिपारे ॥ ३९ ॥
ततः सुवर्णाभरणादिदानैर्दारियविद्रावणजागरूकैः ।
उद्यानपालं स महीमहेन्द्रः कृतप्रसादं विससर्ज सद्यः ॥ ३६ ॥
कस्तूरिकाकुङ्कुमवारिपूरैः सिक्तेषु मार्गेषु विकर्णपुष्पैः ।
प्रीत्या सहासेव नितान्तनृत्यद्भुजेव वायुप्रचलैर्ध्वजाग्रैः ॥ ३७॥
उत्तालकौतूहलनिर्निमेषैः सुरेशवेशैर्युवभिः सयोषैः ।
तदा सलीलं परितश्चलद्भिर्जितारिपूः स्वर्गपुरीव रेजे ॥ ३८ ॥
(युग्मम्)
अथाचलचञ्चलवाजिराजिखुरक्षतक्षोणिरजःप्रशान्तिम् ।
कुर्वजितारिः करिकुम्भमूलगलन्मदाम्भोभिरमिक्षितीशम् ॥ ३९ ॥
उपागतं स्वागतिकं स पौरं नरेश्वरं विक्रमभूमिपालः ।
चकार योग्यप्रतिपत्तिमात्रं निरन्तरस्मेरविवेकनेत्रम् ॥ ४० ॥
महेश्वरस्यैव नगाधिराजो राज्ञस्ततस्तस्य नृपो जितारिः ।
सिहासन..............."स्य स्वमेव संपत्त्युचितं चकार ॥ ४१ ॥
1
.
४०६५
काव्यमाला ।
सहेलमागत्य कृतप्रामामुदश्रुनेत्राम्बुरुहां स कन्याम् ।
उत्सङ्गमारोप्य शिरश्चुचुम्ब प्रमोदपीयूषपयोधिमग्नः ॥ ४२ ॥
संलापपीयूषविशेपवृष्टि संक्षेपतः क्षोणिपतिर्विधाय ।
तौ कल्पिताकल्पविभूषणाझौ पुरीप्रवेशे प्रगुणावभूताम् ॥ ४३ ॥
हिरण्यरत्नाभरणः करीन्द्रः श्रीविक्रमक्षोणिभृताधिरूढः ।
दः सुरेन्द्राध्युपितस्य शोभामभङ्गुराजगमरत्नसानोः ॥ ४४ ॥
उदारशृङ्गारतरङ्गिताङ्गी विधाय कन्यां पुरतो जितारिः ।
ऐरावणस्पर्धिनि वारणेन्द्रे पूर्वाद्रिशृङ्गेऽर्क इवारुरोह ॥ ४५ ॥
अनुज्ञया विक्रमभूमिभर्तुः शिश्राय देवोऽपि तदा विमानम् ।
क्षोणीतला संभविभूरिसावेः कौतूहलं कन्दलयञ्जनानाम् ।। ४६ ॥
अथ प्रथीयश्चतुरङ्गरगच्चमूभरन्यञ्चितभोगिराजः ।
समं समस्तैरचलज्जितारिः पुरं प्रति प्रीतिसमुत्तरङ्गैः ॥ ४७ ॥
निश्वासनादैः परितः स्फुरद्भिर्वाचालयन्भूधरकन्दराणि ।
तूर्यत्रिकैः पल्लवयन्नमन्दमानन्दमापूरितरोदसीकैः ॥ ४८ ॥
विचित्रयानैर्नगरप्रधानैः सामन्तमित्रैरनुगम्यमानः ।
सुखासनेषु स्थितिमीयुषीभिरन्तःपुरीभिश्च सुसंवृताभिः ॥ ४९ ॥
स राजहंसोचितपुण्डरीकैः प्रफुल्लकासोज्ज्वलचामरैश्च ।
तत्त्वन्नकालेऽपि शरत्समृद्धिं पुरीं विवेश प्रसरत्प्रतापः ॥ ५० ॥
(चतुर्भिः कलापकम् )
कैलाशशैलप्रतिमल्लमुच्चैः : प्रसादमासाद्य नरेश्वरौ तौ ।
स्फुरद्विभूतिप्रतिभासमानौ रनासने शिश्रियतुः सभायाम् ॥ ५१ ॥
तत्रोल्लसल्लास्यभरं तरनि गीतध्वनिस्फूर्जिततूर्यनादः ।
तयोस्तदा वारविलासिनीभिर्वितेनिरे कौतुकमङ्गलानि ॥५२॥
अभ्यर्थितस्तत्र स संभ्रमेण जितारिणा विक्रमभूमिपालः ।
भ्रूसंज्ञया तस्य जगाद देवः कन्यापहारानयनादि सर्वम् ॥ १३ ॥
उत्कर्णमाकर्ण्य वितीर्णतोषं स विक्रम विक्रमसिहवृत्तम् ।
चिरं चमत्कारमयीव सर्वा सभा समं भूपतिना बभूव ॥ १४ ॥
६ सर्गः]
जयन्तविजयम्
आदेशतः पत्युरथाजगाम तत्राल्पमात्रेण परिच्छदैन ।
"प्रमोदप्रसरेण सार्ध देवी द्रुतं प्रीतिमती प्रहृष्टा ॥ ५५ ॥
श्रीविक्रमः कुण्डलकान्तिलिप्तकपोलभित्तेरथ कुण्डलस्य ।
वृत्तं स्फुरत्प्रेमनिबन्धनं तत्पुरः सभायाः प्रकटीचकार ॥ १६ ॥
यशःपताकामिव मीनकेतोरास्येन दास्यं दिशती सुधांशोः ।
पित्रोपनीतां परमोत्सवेन कन्यां नृपस्तामथ पर्यणैषीत् ॥ १७ ॥
श्रियःपतिः कौस्तुभमुख्यरतरिवार्णवः प्रीतिसमुत्तरङ्गः ।
जामातरं भूपमपूजयत्तं धराधवः सिन्धुरवाजिदानैः ॥ १८ ॥
शचीकुचाभोगविलासयोग्यैश्चीनांशुकैौक्तिकहारिहारैः ।
तैस्तैर्महाधैं रुचिभिः पदार्थैः पुत्र्योर्मुदं मेदुरयांचकार ।। ५९ ॥
आभ्यां समं मूर्तजयप्रतापश्रीभ्यामिवान्येधुरसीमसैन्याम् ।
दूरेऽनुगम्य क्षितिभृजयन्त्यां श्रीविक्रमामुत्कलयांचकार ॥१०॥
पुरी जयन्ती वरवैजयन्ती श्रीविक्रमः क्षोणिपतिः क्रमेण ।
सुरेश्वरस्यापि विलोकनीयमहोत्सवां प्रीतमना विवेश ॥ ६१ ॥
उत्कण्ठितायाः स भृशं प्रियायाः सुताय कण्ठे सुतजन्महेतुम् ।
न्यधत्त त कुण्डलदत्तहारं पुण्योदयं मूर्तमिवात्मवंशे ॥ १२ ॥
मुखप्रशान्तप्रविशद्गजेन्द्रसिहेन्दुसुखमविलोकनेन ।
संसूचिताशेषविशेषसौख्यसाम्राज्यलक्ष्मीललिताधिपत्यम् ॥ ६३ ॥
तस्य प्रभावेण बभार गर्ने दिनेऽथ तत्रैव नृपप्रिया सा । JobjaS
सद्योऽप्यभीष्टार्थफलप्रसादाः सर्वत्र दिव्या हि भवन्ति भावाः ॥ ६४ ॥
(युग्मम्)
गर्भानुभावप्रभवद्विशिष्टसौभाग्यसंभारतरङ्गिताङ्गी ।
उदेष्यदुष्णद्युतिमण्डलायाः प्राच्यास्तुला सा बिभरांबभूव ॥ १५ ॥
आपन्नसत्त्वामभिवीक्ष्य देवी हर्षप्रकर्षः समभून्न कस्य ।
तदर्भवृद्धः पिशुनौ स्तनौ तु बभूवतुः श्याममुखौ तदानीम् ॥ १६ ॥
नह्यावयोरुद्धतिमेष जातः सहिण्यते हन्त विनीतवृत्तिः ।
इति स्फुरत्खेदभरादिवोचैस्तस्याः स्तनौ श्याममुखावभूताम् ॥ ६७ ॥
काव्यमाला।
कस्यापि गर्भे समुपागतस्य पुण्यात्मनः शुद्धयशोविलासैः ।
संस्पृश्यमानेव च पाण्डिमानं कपोलपाली कलयांचकार ॥ ६८
अलक्षितोचैनयने क्षिपन्ती साक्षेपमुष्णद्युतिमण्डलेऽपि
समस्ततेजस्विशिरोऽवतंसमसौ तनूज जनयिष्यतीति ॥१९॥
गाम्भीर्यवाधैरधिगर्भमस्य समागतस्यानुपमानरागात् ।
देव्याः शरीरे त्रिवलीतरङ्गा गङ्गेव लावण्यनिभादुपागात् ॥ ७० ॥
वसुंधराभारधुरंधरस्य सुतस्य गर्ने समुपागतस्य ।
तदानुभावान्मणिकुट्टिमेऽपि चचाल सामं वरपादपातम् ॥ ७१ ॥
मातुः प्रमोदप्रसरैरनन्यैः पितुः प्रतापैविहितारितापैः ।
सामन्तमन्त्रीशमनोरथैश्च साधैं सुखेनैप बभार वृद्धिम् ॥ ७२ ॥
गजेन्द्रमारूढवती प्रियेण धृतातपत्राचलचामरश्रीः ।
कादम्बिनी चात्र पुरि भ्रमन्ती दानाम्वुना कन्दलयामि वृष्टिम् ॥७२
इति प्रियाया बहुपुण्यगर्भमाहात्म्यजं दोहदमाकल""म् ।
अपूपुरत्पौरपरम्पराभिर्व्यावर्णगर्भाभ्युदयं महेन ॥ ७४ ॥
रेजे कृतैः पुंसवनादिकृत्यैः स गर्भसंप्रीणनभावगर्भे ।
प्रशस्यसस्याङ्करमध्यभागा धरेव धाराधरवारिचारैः ॥ ७५ ॥
तैस्तैर्नृपोऽस्याः सुतजन्मचित्तः सर्वात्मनोल्लासमगादवन्ध्यैः ।
रसालशाखीव च दक्षिणस्याः समीरणैः सूचितसद्वसन्तैः ॥ ७६ ॥
अतुल्यकल्याणकलापसंपत्कीर्तिप्रतापोन्नतिभिः परीतम् ।
असूत सा सूनुमनूनकान्ति साम्राज्यलक्ष्मीकुलधानि लग्ने ॥ ७७ ॥
रवच्छलाद्गीतगुणालिनीभिर्बद्धा बभूवामरपुष्पवृष्टिः ।
मुक्ता कुमारं प्रति पुण्यलक्ष्म्या कटाक्षविक्षेपपरस्परेव ॥ ७८ ॥
तस्येह माहात्म्यसुधापयोधेडिण्डीरपिण्डभ्रममादधानः ।
नैर्मल्यमुच्चैरथ यामिनीषु पुपोष पीयूषमयूखमाली ॥ ७९ ॥
(युग्मम्)
दिशः प्रसन्नाः शरदीव नद्यो वातास्तदामोदभृतो जनाश्च ।
बभूवुरभे सुरदुन्दुभीनां पयोदनादप्रतिमा निनादाः ॥ ८०॥
६ सर्गः]
जयन्तविजयम् ।
तत्र क्षणेऽभ्येत्य सुहृत्स देवः श्रीविक्रम विक्रमिग, प्रणम्य
प्रमोदयामास कथाप्रबन्धैर्विशेषतोऽशेषमनीषिहृयैः ॥ ना
नितम्बबिम्बस्तनभूरिभारान्नितान्तमन्दक्रमणक्रमाणाम् ।
प्रलम्बमुक्ताफलहारयष्ट्या स्खलद्गतानामतिवेगभावात् ॥ ८२ ॥
उच्छासपूर्णस्य सरोरुहाणामासेदुषीणां सविधे नृपस्य ।
वक्त्रं ततोऽभ्यङ्गजजन्मवार्ता वाचां विलासोऽजनि सुन्दरीणाम् ।।८३||
(युग्मम्)
दिष्ट्या नरेन्द्राधिप वर्धसे त्वं श्रीप्रीतिमत्याः सुतजन्मनाद्य ।
चन्द्रोदयेनेव सितद्वितीया तिथेर्जगत्त्रीतविलोकनेन ॥ ८४ ॥
पीत्वेति वाचं श्रुतिशुक्तिकाभ्यां सुधामिवासां विदधे प्रसादम् ।
स वर्णवस्त्रैर्मणिभूषणैश्च कन्दैरिवैश्वर्यमहाद्रुमस्य ॥ ५ ॥
राज्ञस्तथान्यस्य सभाजनस्य तत्रोत्तरीयाणि मनोहराणि ।
निरन्तरखामिपदप्रसादश्रीशासनानीव तदा ददुस्ताः ॥ ८६ ॥
समादिदेशाथ नियोगिवर्ग सर्वत्र पुर्या परमोत्सवाय ।
श्रियोऽनुरूपा सुतजन्मकाले न जायते कस्य महप्रवृत्तिः ॥ ८७ ॥
निरीक्षितुं नन्दनमुत्सुकोऽसौ कल्पद्रुमं जातमिवात्मगेहे ।
निवेद्यमानागमनः पुरोगैर्विशांपतिः सूतिगृहोन्मुखोऽभूत् ॥ ८८ ॥
द्वारेन्द्रनीलद्युतिमांसलाभिः समन्ततो वन्दनमालिकाभिः ।
रराज " दिव्यमहोत्सवश्रीः कपोलपत्राङ्करविभ्रमाभिः ॥ ८९ ॥
यूपैर्यदूर्मुशलैश्च भाति कौसुम्भरागारुणवस्त्रमध्यैः ।
सपद्मरागाइदबाहुयुग्मैरिवोन्नतैर्मङ्गलदेवतानाम् ॥ ९० ॥
श्रीकुण्डलाख्येन सुरेण "यत्प्रेषिताभिनिजसुन्दरीभिः ।
राजन्यकान्ताभिरपि प्रमोदात्प्रारब्धकर्णामृतवीचिगीतम् ॥ ९१ ॥
यस्सिन्कुमारस्तु पनेच्छुरभ्रगङ्गासितोल्लोचमिषादिवागात् ।
यच्चन्द्रकान्तामलमित्तिभागकस्तूरिकास्तबकैधितथि ॥ ९२ ।।
मधुव्रतवातनिपीयमानसौरभ्यपुष्पप्रकरं यदुच्चैः।
भृतान्तरिक्षर्गुरुधूपधूमैर्घनभ्रमान्नतिमयूरवृन्दम् ॥ ९३ ॥
काव्यमाला । प्रेसोलदुच्छृङ्गलकान्तिरत्नमालावचूलि"..."वर्धितनि । यदन्तरङ्गीकृतदीप्तदीपज्योतिः कुमाराङ्गमरीचि चक्रे ॥ ९४ ॥ सर्वेन्द्रियाणामपि यत्समन्तादानन्दसाम्राज्यमिवादधानम् । स सूतिकावेश्म तदा विवेश विशांपतिः कौतुकनिर्निमेषः ॥ ९५ । (सप्तभिः कुलक ससंभ्रमाथ प्रतिपत्तिपूर्वमुर्वीपतेरासनमाश्रितस्य । ततोऽनुजन्मानमिव स्मरस्य सादर्शयन्नन्दनमिन्दुकान्तम् ॥ १६ ॥ तमकमारोप्य निरूप्य सम्यक्सल्लक्षणैर्लक्षितकाययष्टिम् । अमन्यत क्षोणिपतिर्धरित्रीभारं समुत्तीर्णमिव वदोष्णः ॥ ९७ ॥ कुम्भस्तनीभिर्नवहेमकुम्भैः पण्याङ्गनाभिः खपितः सरागम् । स कल्पिताकल्पविभूषणश्रीः सद्यः सभामण्डपमाससाद ॥ ९८ ।। कुरजैरुत्तुङ्गै रणदनणुघण्टैः करटिभिः सुवर्णैः सद्वर्णैर्वसननिकरैः सुन्दरतरैः । त्वयि स्वैरं वर्षत्यधिप न शिरः केन दुधुवे विमुच्यैकं क्षोणीभरपरवशं पन्नगपतिम् ॥ ९९ ॥ एकच्छत्रं विलसति सुखस्याद्य साम्राज्यमुच्चैः सर्वस्यापि प्रभवति शुभोदर्कसूरिष्टसिद्धिः । तैस्तैर्भावैर्भुवनसुभगं भावुकैः केन चित्र- श्चित्रीयन्ते सुकृतसुलभे त्वत्कुमारोदयेऽत्र ॥ १०० ।। इत्थं स वैतालिकचक्रवालमुखाम्बुजप्रोल्लसितैर्वचोभिः । सुधातरङ्गैरिव पूर्णकर्णः खपुण्यलीलां परमाममंस्त ।। १०१ ।। विशेषविहितश्रियं विविधदानहृष्यज्जनं स्वबन्धुजनतोचितीकृतचमत्कृतिर्भूपतिः । परेऽहनि शुभे सुतं खकुलनन्दनं नन्दनं जयन्त इति संज्ञया द्रुतमलंचकारातः ॥ १०२ ॥ इति श्वेताम्बरश्रीमदभयदेवाचार्यविरचिते जयन्तविजयनाम्नि महाकाव्ये श्रीशब्दाङ्के पुत्रजन्मोत्सवो नाम पष्ट. सर्ग ।
9 सर्गः]
जयन्तविजयम् ।
सप्तमः सर्ग ।
पुष्पदन्तरुचि कुण्डलद्वयं रत्नराजिमुकुटं च भासुरम् ।
भक्तिभूषितमनास्ततः सुरः स व्यधान्नरपतेरुपायनम् ॥ १॥
तस्य भाखदवरोधसुभ्रुवा मौलिरत्नमिव जीवितेश्वरीम् ।
अर्चति म स विभूषणाम्बरैविस्फुरत्किरणचित्रिताम्बरैः ॥ २ ॥
उल्बणप्रणयसंचयाञ्चितस्तस्य राजतनयस्य चामरः ।
अगदं विपदपाकृतिक्षम स व्यधत्त भुजदण्डमण्डनम् ॥ ३ ॥
श्लाघ्यमङ्गलदशोज्वलं.."सर्वमप्यकृत सत्क्षमाभृतः ।
सप्रसादमनसो हि देवता सून्वते तनुमतां समीहितम् ॥ ४ ॥
पूजनीयमभिपूज्य पूजया प्राज्यया सुरमनश्च(श्व)रश्रियम् ।
प्रेमदुग्धजलधेरिवोर्मिभिस्तं वचोभिरवदन्नृपस्ततः ॥ ५ ॥
पुत्रजन्मविषयो मनोरथः क्षिप्रमेव सफलत्वमासदत् ।
त्वत्प्रसादवशतः सुरोत्तम स्यान्न वा किमिह कल्पपादपात् ॥ ६ ॥
मय्यभूस्त्वमुपकारकृत्तथा नो यथास्मि सुख(१)वक्तुमीश्वरः ।
भूपतेरिति निशम्य जल्पितं तं प्रणम्य स तिरोदधे ततः ॥ ७ ॥
कुण्डलामरनियुक्तदेवतापञ्चकेन परिपालितः सुखम् ।
शुक्लपक्ष इव चन्द्रमाः क्रमादृद्धिमाप सुदृशोः सुधाञ्जनम् ॥ ८ ॥
अङ्कतोऽङ्कमपरं स नन्दनः क्ष्माभृतः सदसि जीववत्प्रियः ।
राजहंस इव पङ्कजन्मनः पङ्कजान्तरमशिश्रियत्तदा ॥ ९ ॥
कान्तकूर्चकचकर्षणैरसौ स्पर्शतश्चपलकोमलाङ्गजैः ।
मन्मनैश्च वचनैर्ददे पितुर्वागगोचरसुखोदयां दशाम् ॥ १० ॥
तत्र तत्र गमनं स्खलद्गतिकीडनानि सुभगानि शैशवे ।
प्रक्षणे क्षणरसे(?)श्वनादरं चक्रिरेऽस्य वसुधाविलासिनः ॥ ११ ॥
आकलय्य सकलाः कलाः कलाचार्यतोऽपि सततोऽधिकोऽजनि ।
हन्त कौशलगुणेन धीमतां धीविलासविधवो ह्यनेकधा ॥ १२ ॥
तेन नीरधिरिवेन्दुना ततश्चन्द्रमौलिरिव शक्तिपाणिना ।
स्वर्गिणामिव पतिर्जयेन स श्रीजयन्ततनुजन्मना बभौ ॥ १३ ॥
20
काव्यमाला।
उद्यदङ्गगुरुरामणीयकं कामिनीनयनमोहनौषधम् ।
प्राप यौवनमथैष पुण्यधीर्यत्रिवर्गपरभागभूषितम् ॥ १४ ॥
अन्यदा तु युवराजमात्मजं श्रीजयन्तमकृताकृतिस्परम् ।
पर्यणाय यदथैष भूभुजां कन्यकाश्चतुररूपसंपदः ॥ १५ ॥
तत्र संततमुदारमानसे प्रार्थना सफलतां गतार्थिनाम् ।
नत्वनङ्गवशवत्तिचेतसामन्यदीयमृगशावचक्षुषाम् ।। १६ ॥
शस्त्रशास्त्रपरभागवेदिनां प्राप स प्रतिभया धुरीणताम् ।
निर्जितेन्द्रियतया च नान्तरैर्वाध्यते स्म सुतरामरातिभिः ॥ १७ ॥
कोऽपि विक्रमकथा तथा प्रथामाप तस्य भुजवीर्यशालिनः ।
कर्णकोटरगता यथा द्विषामादधे मनसि शल्यतुल्यताम् ॥ १८ ॥
तेन कीर्तिलतिका तथाधिकं भूरिदानसलिलैरसिच्यते ।
तारकाकुसुमशालिनी यथा विश्वमण्डपतलेऽपि नो ममौ ॥ १९ ॥
विक्रमक्षितिपतिनं केवलं पुत्रशालिषु वभार धुर्यताम् ।
तेन दर्पितरिपुप्रमाथिना पार्थिवेष्वपि धरातलेऽखिले ॥ २० ॥
यत्र यत्र सुकुमारपुंगवः संचचार सुभगाग्रणीः पथि।
तत्र तत्र तमनङ्गविभ्रमात्पूजयन्ति नयनोत्पलैः स्त्रियः ॥ २१ ॥
तस्य कापि परमौचितीगुणस्तोममुत्तमतमं व्यभूषयत् ।
यामिनीरमणरश्मिभासुरं तारहारमिव नायको मणिः ॥ २२ ॥
पूर्वजन्मशुभपासनामृतैर्वर्धितः सुकृतकल्पपादपः
प्राज्ययानुपमया फलश्रिया तं तरङ्गितमुदं तदाकृत ॥ २३ ॥
जाड्यतः सकलविश्वदुःसहं संनिगृह्य शिशिरं कुनायकम् ।
तज्जयोर्जित इवाथ सेवितुं श्रीजयन्तमिनमाश्रयन्मधुः ॥ २४ ॥
श्रीवसन्तनृपतेः समागमे कोकिलध्वनिरुदच्छल... ।
बन्दिवृन्दवदनाम्बुजान्तरं प्रोल्लसजयजयारवोपमः ॥ २५ ॥
दाक्षिणात्यपवनो यथा यथा प्रासरत्प्रसृमरमरानलः ।
प्रेर्यमाण इव तेन भानुमानुत्तरां दिशमगात्तथा तथा ॥ २६ ॥
७ सर्गः]
जयन्तविजयम् ।
४७
केरलीकुचतटीविलासिनः कुन्तली चलितकुन्तलाञ्चलाः ।
सिहलीवदनचुम्बनप्रियाः संचरन्ति मलयाचलानिलाः ॥ २७ ॥
तुल्यतां दयितचुम्बनोचितैः कामिनीविकचवक्रपङ्कजैः ।
भृङ्गपेयमधुभिर्यियासुभिर्वारिजैः समुदिताविवारिषु ॥ २८ ॥
कौन्दपुष्पमपहाय जर्जरं निर्गुणं धनुरजायताधिकम् ।
चम्पकप्रसवचापमण्डलीलाभलोलुभमना मनोभवः ॥ २९ ॥
चञ्चरीकनिकरम्बचुम्बिताश्चम्पकेषु कलिकाश्चकासिरे ।
मन्मथेन पथिकप्रमाथिना निर्मिता विषशिखा इवेषवः ॥ ३० ॥
माधवप्रणयिना मनोभुवा मानखण्डनविधौ मृगीदृशाम् ।
कोमलोऽपि कलकण्ठकामिनीपञ्चमध्वनिरमीयतास्त्रताम् ॥ ३१ ॥
यद्विलिह्य सहकारमञ्जरीः कृजितां किमपि बालकोकिलैः ।
तहभार विषमेपुकार्मुकज्यानिनादपदवी विलासिषु ॥ ३२ ॥
काननेषु कुरुविन्दपाटलाः पाटला सरवरूथिनीमुखे ।
सर्वतो बत विभान्ति लोहिता वैजयन्त्य इव साधवोद्धृताः ॥ ३३ ॥
चञ्चरीकनिकरः कृपापरः शाखिनां शिरसि संरुवन्मुहुः ।
व्याजहार विरहिप्रमाथितां मन्मथस्य पथिकबजेप्विव ॥ ३४ ॥
तत्र चित्रितसमस्तकाननेऽनेहसि क्षपितविप्रयोगिणि ।
प्राप तापकलितेषु मानिनीमानसेषु मदनोऽतिविस्तृतिम् ॥ ३५ ॥
दक्षिणानिलचलल्लताभुजां वीक्ष्य ताण्डववती मधुश्रियम् ।
मन्मथेन विभुनापवर्जितानीव नीपकुसुमानि रेजिरे ॥ ३६ ॥
क्षीरनीरनिधिचारिमञ्जुलं मुञ्चतापि करजालमुज्ज्वलम् ।
रोहिणीप्रणयिना विनिर्ममे स्वैरिणीजनमनो मलीमसम् ॥ ३७ ॥
विषययुक्तनवसुभ्रुवा सखीवृन्दमाकुलमनो तु मन्दिरम्(?) ।
पृच्छदुचकलकोकिलध्वनिः स्तम्भनौषधमिदं तदाभ्रमत् ॥ ३८ ॥
मारुतं शरमुपाददे स्मरः कौसुमं तमपहाय सायकम् ।
नूनमादधदनूनसौरभं यन्ममाथ मलयानिलोऽध्वगान् ॥ ३९ ॥
४८
काव्यमाला।
अध्वगप्रणयिनीषु दुर्दशां वीक्ष्यते करुणयेह मल्लिका ।
रोदतीव विपुलाश्रुभिर्भृशं स्पन्दमानमकरन्दबिन्दुभिः ॥ ४० ॥
यद्बभूव सहकारमञ्जरीशुद्धकण्ठकलकण्ठकूजितम् ।
मानिनीनिवहमानि संततेस्तत्वासपटहस्फुटक्रियम् ॥ ११ ॥
माधवेन कुसुमेषुभूपतेः क्रीडनाय कलधौतपर्वताः ।
निर्मिता इव विभान्ति चम्पका स्मेरगौरकुसुमावगुण्ठिताः ॥ ४२
कामविश्वविजयप्रशस्तयः पुष्पसंचयविनिर्मिताक्षराः ।
चैत्रमासि नवमालिकालता लोकलोचनकृतोत्सवा बभुः ॥ ४३ ॥
खर्णतोरणविलासदोलयान्दोलनैः कृतगतागतैर्मुहुः ।
वीक्षितुं त्रिदिववामचक्षुषोऽभ्यासभङ्गिमिव कुर्वतेऽङ्गनाः ॥ ४४ ॥
श्यामवृत्तमुपरिस्थषट्पदं(?) किंशुकस्य कुसुमं नवं वभौ ।
खं निधानमिव मुद्रित जतुन्यासतः सुरभिणाधरोर्ध्वयोः ॥ ४५ ॥
किंशुकस्य शुकचञ्चुचातुरीचारिमाणि कुसुमानि रेजिरे ।
विभ्रमं मधुवधूवनश्रियो वाससां दधति शोणरोचिषाम् ॥ १६ ॥
त्यतपात्रनिकरः समन्ततश्चया(?) विरहितोऽस्मदाश्रयः ।
इत्यमूनि मधुकानि दुःखितानीव पेतुरवनीतले ततः ॥ ४७ ।।
पाटला विकचपुष्पसंपदोऽन्यैव काचन लिपिविजम्भते ।
दिक्षु वल्गति यदीयसौरभेऽन्यत्र सौरभकथैव मुद्रिता ॥ ४८ ॥
माधवी विकचपुष्पलोचनैः पश्यतीव मधुभूपसंपदम् ।
यूथिकापथमुपानयदृशां क्षीरसागरमिव स्वकान्तिभिः ॥ ४९ ॥
प्रेयसां नवसमागमे मधौ तत्क्षणोद्यदनुरागसागरे ।
अर्पयन्ति बकुलश्रियः स्रजं स्निग्धमात्महृदयं च सुभ्रवः ॥ ५० ॥
वीक्ष्य पुष्पितमशोकशाखिनं व्यम्बकाम्बकहुताशशङ्कया ।
उद्विलासलहरीस्तरङ्गिणीरङ्गनाः शरणिमादधे मरः ॥ ५१.॥
चर्चरीष्वनुपदं विलासिनीवृन्दगीतकलपञ्चमध्वनिः ।
उल्ललास कुसुमेषुभूपतेः कोपहुंकृतिरिवावनीजये ॥ १२ ॥
No text on this page.
काव्यगाला। अस्य विद्धिः सखि किंचनाद्भुतं लोचनत्रयमुमापतरिव ! एकमुल्बणविवेकलक्षणं विश्वयौवतविमोहने परे ॥ ६६ ॥ भाति हारलतिकास्य वक्षसि प्रार्थितास्पद निवासतोपतः । उत्तरीयकमिवेन्दुविभ्रमं नृत्यवेगवगतच्युतं श्रियः ॥ १७ ॥ अस्य वीक्ष्य ललितं तथागना जल्पितं हसितमिहितं गतम् । सानुरागमति ताः परस्परं वर्णनं श्रवणगोचरं व्यधुः ॥ ६८ ॥ (चतुर्भिः कला हावभावसविलासविभ्रमैस्तत्र तत्र विहिताप्सरोधमैः । विश्वविस्मयरसं स यौवतैीतनृत्यकलयान्वभाव्यत ॥ १९ ॥ तुजविंशगिखरामनर्तनैश्चकचोरविजयिमिक्रमैः । लोसिकातिगयदुष्करैर्नृणामाचकर्ष हृदयं समं धनैः ॥ ७० ॥ नाटकाभिनय निरन्तरेस्तन्नदीप्णशुभपात्रसूत्रितैः । भूरिभशिरसपाकपेशलैस्तत्र सोऽभजदपूर्वकौतुकम् ।। ७१ ॥ विश्वविश्ववलयादुपागतैः कौतुकादिव समस्तकौतुकैः । स व्यधत्त जननेत्रपारणां श्रीजयन्तयुवराजशेखरः ॥ ७२ ॥ रूपयौवनविलासऋद्धिभिर्दानवर्युकतया तैर्गुणैः । तत्र तस्य सुभगं भविष्णुता कस्य कस्य न ननर्त चेतसि ॥ ७३ ॥ काञ्चीकाञ्चनकिंकिणीरणरणत्कारापनिद्रस्मरं दोलान्दोलनकौतुकं मृगशामालोक्य लोकोत्तरम् । तत्रासक्तमनाः प्रयाति नलिनीकान्तः प्रशान्तैर्हयै- मन्दमन्दमतीव वृद्धिमधिकां पुष्णन्त्यमी वासराः ॥ ७४ ॥ एते श्रीखण्डखण्डैः प्रियसुहृद इव प्रापितामोदमुद्रा दोलाखेलत्तिलशीघनजघनतटस्फारफारैः स्खलन्तः । कावेरीवीचिचाटुव्यतिकरसुभगंमन्यसीमा रमन्ते वाताः स्पर्शच्छलेन श्रवदमृतरसाश्चैत्रमैत्रीपवित्राः ॥ ७५ ॥ ज्योत्सा पञ्चमकोकिलध्वनिवनश्रीमण्डलाधीश्वरं स्त्रैणप्रेमविलास...'ललितैः पुष्टं महामन्निभिः ।
८ सर्गः]
जयन्तविजयम् ।
५१
साम्राज्यं मधुरं मधोमधुसखस्वाधीनसंपद्धरं
वैराग्याञ्चितचेतसामपि चिरं केषां न रागास्पदम् ॥ ७६ ॥
बैणैः पादपहारैः कुचकलशतटीताडनैरीक्षणायै-
निश्चिन्तन्ये(?)प्यशोकप्रमुखविटपिनां पुष्पराजिच्छलेन ।
व्यक्तः कामानुरागः प्रसरति पुलकैः कामुकानामिवास्य
प्राज्ये राज्ये विलासातिशय इह मधौ कस्य धत्ते न चित्रम् ।। ७७ ॥
इति बहुविधविस्मयाभिरामा नृपतिनयेन विलोकिता वनश्रीः ।
इयमतिसुमनाः प्रियेण सुबेर्निजमिव रूपफलं समाससाद ॥ ७८ ।।
इति श्वेताम्वरश्रीमदभयदेवाचार्यविरचिते जयन्तविजयनाम्नि महाकाव्ये
श्रीशब्दाङ्के वसन्तवर्णनो नाम सप्तम. सर्ग ।
अष्टम सर्ग ।
अथ सरसमपश्यत्तत्र ता श्रीजयन्तो
युवतिनिवहदोलान्दोलनानन्दकेलिम् ।
त्रिभुवनजनहृयां यत्र सौभाग्यभनी
भजति रतिविलासी पूर्णिमायामिवेन्दुः ॥ १ ॥
सरभसमिह दोलान्दोलनैः कापि भाति
श्रवणयुगलखेलत्कुण्डलैः पक्ष्मलाक्षी ।
उभयतटविटङ्कमोल्लसचन्द्रसूर्या
प्रसृमरगुरुशोभा व्योमलक्ष्मीरिवोच्चैः ॥ २ ॥
कुचकलशनिपातप्रोच्छलत्तारहार-
प्रचुररुचिवितानैव्योग्नि दोलाधिरूढा ।
प्रबलपवनरङ्गयोमगडातरङ्ग-
श्रियमिव विदधाना भाति काचिन्नतभूः ॥ ३ ॥
वियति चलितदोलान्दोलिताया मृगाक्ष्याः
पटुपवनतर.रुत्तरीयेऽपनीते।
दिशि दिशि विसरद्भिर्लोललावण्यपूरै-
नूहृतहृदयनेत्राश्चक्रिरे के युवानः ॥ ४ ॥
५२ काव्यमाला। इयमिह हि सलीलान्दोलिता व्योनि दोला सुभगगुणविलासा चापयष्टिः स्मरस्य । यदि भवति सवाणा वाणिनीभिः सदासी त्रिभुवनमपि जेतुं हेलयालभविष्णुः ॥ ५ ॥ ब्रजति वियति काचिल्लोलदोलाधिरूढा सह युवजननेत्रैः पद्मपन्नायताक्षी । चलति तदनु धन्यमन्यदीर्घग्रसर्प- टुजगभुजधृतासौ किं चितैरेव सार्द्धम् ॥ ६ ॥ नवनवरसभनयाः श्रीजयन्ताभिधान- व्यतिकरकलगीतध्वानतानच्छलेन । चकितहरिणनेत्राः प्रहमाहा नयन्ति स्मरमिव निजदोलान्दोलनालोकनायाः ॥७॥ अधरितरतिरूपं कामिनीचक्रवालं दिशि दिशि गुरुदोलाकेलिकौतूहलैस्तैः । विदधदिव वभासे श्रीजयन्तस्य नेत्रा- मृतलहरिसपलरातिथेयं प्रथीयः ॥ ८ ॥ त्वरितमथ जयन्तीनाथसूनुः प्रसूना- वचनविरचनाय प्रेयसीचक्रवालैः । मधुरवचनवीचिप्रेरितः संचचार प्रिययुवतिवशे वा कि न यूनां मनांसि ॥९॥ करतलपरिसपत्ताम्रकान्तिच्छलेन प्रबलघुसृणपद्धैरर्चनं संविधाय । अभिनवतरुलक्ष्म्याः प्राज्यसौरभ्यपुप्पा- वचयविरचनायां चातुरी चक्रिरे ताः ॥ १० ॥ रभसतरलिताभिस्ताभिरुच्चीयते स्म स्मितकुसुमसमूहस्तत्र बालकुमाणाम् ।
८ सर्गः]
जयन्तविजयम् ।
तदनु करजनिर्यकान्तिपीयूषवषैः
क्षतकृत इव तापः शान्तिमानीयते स्म ॥ ११ ॥
कुसुमशरनरेन्द्रस्यादुधोपायनानि
प्रगुणयितुमिवैका(१)कामिनी पुष्पजातम् ।
त्वरितमवचिकायाक्रम्य रम्यस्तनान्तैः
शिखरिशिखरशाखाशेखरेभ्यः सुखेन ॥ १२ ॥
भ्रमररवमिषणालापपीयूषवर्षाः
स्मितरुचिरतरस्याः सौरभेणाभिरामाः ।
इह हि सुमनसोऽपि स्त्रैणजात्या समाना-
स्तदपि समुदमूल्यं ताभिरुद्यन्मदाभिः ॥ १३ ॥
प्रसृमरमकरन्दोदामलक्ष्मीनिवासे-
ऽनुपमकुसुमकोशे लुप्यमाने समन्तात् ।
नरपतिरमणीभिः कोऽप्यलीलां विरावः
समजनि हृतचित्तः को न वा पूत्करोति ॥ १४ ॥
गगनतलतरङ्गत्तुङ्गगौराइनाभिः
क्षितिधवयुवतीनां द्रागलक्ष्मीकृतेषु ।
अवचयविधिरासीच्चम्पकेषु स्मितेपु
भ्रमरमिथुनलीलालीनतालोकनेन ॥ १५ ॥
चरणकमलमेकं पादमूले सहेलं
मृदुभुजयुगलं च स्कन्धदेशे निवेश्य ।
सरससुरतकेलिप्रोक्तमार्गेण काचि-
प्रियमिव तरुमुच्चैरारुरोहायताक्षी ॥ १६ ॥
अलिकुलरमणीयैर्मासलः पुष्पजातैः
सरभसमधिरूढः केसरः सुन्दरीभिः ।
त्रिभुवनसुभगाभिः पुष्पचापस्य पुण्यैः
फलित इह नवीनः कल्पशाखीव रेजे ॥ १७ ॥
५४ काव्यमाला। मधुकलसमनाभि स्फारसौरभ्यसारं कुसुमनिवहमेतां यं गृहीतुं प्रयान्ति । तदभिरुचितवासैस्ता अदृश्यन्त भृझैः परपरिभवकारी कः किल प्रीतिमेति ॥ १८ ॥ तरुशिखरगतायास्तत्र करयाश्चिदुच्चै- मरकतमणिरोचिर्मेचका काययष्टिः । विकसितसितपुष्पैर्विम्बितोतते सम स्फुरितरुचिरतारा व्योमवीवीव रात्रौ ॥ १९ ॥ कुसुममधिरसान्द्ररावृतं तत्र पत्रैः परमपरिमलाढ्यं सखनं संचरद्धिः । मधुकरनिकुरम्वैः कः पिवेत्यावचिक्ये भवति हि मलिनानां संगमो भङ्गहेतुः ॥ २० ॥ कुवलयदलनेत्रां पकनारगनव्य- त्वगुदितरसधाराक्षेपतो व्याकुलाक्षीम् । विदधदथ जयन्तोऽन्यां चुचुम्बे तदने गुरुरिह चतुरत्वे कामदेवोऽस्य नूनम् ॥ २१ ॥ अतिचतुरतयकाः शाखिशाखाशिखासु स्मितबहुविधपुप्पाकाङ्या चञ्चलाक्ष्यः । द्रुतपदमनिरोहन्ति स्म तत्पादशङ्का- परिकलनभुवस्तां श्रीजयन्तं भियस्तु ॥ २२ ॥ कुचकलशनितम्बस्तम्वभारेण नम्रा स्खलितगतिपदाजा बालवृक्षात्पतन्ती। त्वरितमथ भुजाये कापि कान्तेन दधे धुरि तु सुभगकान्ताचक्रवालस्य बाला ॥ २३ ॥ तरुणतरतरूणामात्तपुष्पास्तरुण्यः करनखशिखराणां शोणकान्तिच्छटाभिः ।
८ सर्गः] जयन्तविजयम् । ५ विदधुरिव कृतज्ञास्तत्प्रवालद्रुमत्वं फलति सहृदयेषु क्षिप्रमेवोपकारः ॥ २४ ॥ उदतरदवचीयस्त्रैणमाशु दुमेभ्यः कुसुमपटलिमाढ्यं भावुकं सौरभेण । व्रजति किमु न नाशं वैभवं कुस्थितीना- मिति बददिव नादैर्म मजीरकाणाम् ॥ २५ ॥ तपनकिरणजन्यप्रौढसंतापशान्त्यै मृदुशिशिरसुगन्धेर्मारुतस्यार्पिताङ्गयः । हिमसमकुसुमानां भूषणैर्भूपितास्ताः क्षणमतुलविलासा व्यश्रमन्नश्रमायाम् ॥ २६ ॥ बहुविहगनिनादैर्बन्दिवृन्दैरिवोक्ते विकटविटपवीथीच्छायया शीतमार्गे । पृथुसरसि स हंसीमण्डलेनेव हंसः समचरदथ तस्मिन्सार्द्धमन्तःपुरेण ॥ २७ ॥ चुलुकमनुकरोति खच्छमच्छोदमने भजति न महिमानं यस्य पम्पासरोऽपि । परिभवपदमर्ते(?)मानसं श्रीविवादैः स्पृहयति च विभूतेस्ताण्डवं दुग्धसिन्धुः ॥ २८ ॥ दिनकरपरितप्ता दिग्गजा वारिकेलौ दधति खलु (न]यन्तः पूतरीपोतशङ्काम् । कुलिशमयविमुक्ता बालशैवालवल्ली किशलतटकुटीरे यस्य चास्थुर्नरेन्द्राः ॥ २९ ॥ (१) लसति गुरुतरङ्गालिशितव्योमरते प्रतिफलनमिषेणाम्भोदमाला च यत्र । अमृतरसमिवोच्चैः पातुकामा निकामं परिहृतदहनाभक्षारनीरार्णवाम्बु ॥ ३० ॥ .
काव्यमाला। • मधुकरानकुरम्बर्वम्भ्रमद्भिः समन्ता- दुपरि परिमलायैः सोरपद्मासनस्था । अभिनवशिखिपिच्छच्छत्रगोभाभिरामाः प्रवरपयसि यसिन्राजहंसा ललन्ति ॥ ३१ ॥ विकसितसितपर्वमितं वारि यस्मि- न्धरितनव'""मुक्ताचूर्णतुल्यं विभाति फणिपतितनुभासां चक्रवालं धरित्री- वलयकुतुकवीक्ष्योत्कण्ठयेवावतीर्णम् ॥ ३२ ।। भयभरशिथिलाझाहाद्गुणा अस्यमाना- कथमपि पतिताधश्चन्द्रतश्चन्द्रिकेयम् । गगनपतनदुःखात्कन्दमानेच यस्मि- न्गुरुलहरिविरावैर्लक्ष्यतेऽम्भोमिपेण ॥ ३३ ॥ रमण इव सहेलं श्रीजयन्ते पुरस्थे कुवलयनयनैः श्रीयंत्र तं पश्यतीव । पवनचलितवीचीबाहुभिर्नृत्यतीव भ्रमरविरसनादेस्तद्गुणान्गायतीव ॥ ३४ ॥ मधुरसविभवेन स्पर्द्धते नो धरात्रै- ररुणिमसुकुमारत्वेन पाणिप्रवालैः । कमलवनमितीवासूययोत्पाटयन्ती- रविशदथ जयन्तस्ताः पुरस्कृत्य तत्र ॥ ३५ ॥ मधुभिरिव विवृद्धैः पुण्यलावण्यपूरै- रलिभिरिव विलोललोचनैश्चाप्तशोभैः । पयसि विदधुरास्यैः कण्ठदने तदानी- मपरकमलखण्डाडम्बरं तास्तरुण्यः ॥ ३६ ॥ अथ करजलयन्त्रैर्वारिपूरं किरद्भिः स्फुरति वियति वर्षाडम्बरेऽन्योन्यमुच्चैः ।
८ सर्गः] जयन्तविजयम् जलललितिषु तासां प्रीतिवल्लीविलासी कलयति स च शोषं मानमुद्राजवासः ।। ३७ ॥ शुचिरुचिरुचिमुक्ताहारसौभाग्यभङ्गी विदधति जलधाराः कण्ठपीठे लुठन्त्यः । विकटकुचतटान्तःस्फारकर्पूरपूर- प्रभवमकरिकाणां विभ्रमं चाइनानाम् ॥ ३८ ॥ मुखकमलविसर्पद्भरिसौरभ्यलुभ्य- अमरनिकरकल्पे कुन्तलानां कलापे । विकचविचकिलश्रीस्फूर्जितं तर्जयन्ति स्मितनलिनमुखीनां कान्तमुक्ताम्बुभाराः ॥ ३९ ॥ तरति हृदि वहन्ती विश्वविश्वंभराया भरमपि भुजदण्डैर्बिभ्रतं प्राणनाथम् । सरसि जलमगाधं कापि कान्ता न चित्रं पृथुतरकुचतुण्डीडम्बरालम्बना हि ॥ ४० ॥ पयसि लघु निलीनः कौतुकेनापकर्ष- परिहितसि[च]यान्तं दक्षयालक्षि कान्तः तदनु च स तयोक्तः कोऽपि चौरोऽयमेवं सरसविधि ववन्धे वाहुपाशेन सद्यः ॥ ४१ ॥ कचन जघनविम्बे कापि तुजस्तनान्ते कचिदपि मुखपद्मे क्वापि कण्ठेऽम्बुपूरम् । प्रगुणितकरयन्त्रैरक्षिपत्प्रेयसीनां करकमलमिवायं कामकेलौ विलासी ॥ ४२ ॥ बहुविधजललीलाकौतुकैः प्रीतिचित्ताः पथमनुसृतवत्यः श्रीजयन्तस्य सर्वाः । जलनिविडदुकूलव्यक्तनिरोन्नताझ्यः सरसमुदरसंस्ताः श्रीविलासात्सरस्तः ॥ ४३ ॥ (१) ५८ काव्यमाला। प्रसरदगुरुधूमाध्यासितैः केशपाशै- मुखशशधरदूरोत्सारितध्वान्तकल्पैः । शुचिरुचिरदुकूलैर्मण्डनैश्चानुकूलै- रघितटमभिरामास्तस्थुरस्यैव रामाः ॥ ४४ ॥ पितुरथ ललितैस्तैस्तोपपीयूषवर्ष विदधति युवराजे तत्र संध्याविरासीत् । प्रगुणयितुमिवोचैः स्फारशृङ्गारभनया कुवलयदलनेत्राः संगमाय प्रियाणाम् ॥ १५ ॥ प्रथममुदयशीले मौलिमाणिक्यकान्ति- स्तदनु गगननद्यां स्वर्णपद्मोपमोऽभूत् । रविरपरगिरिश्रीभालकालेयविन्दु- द्युतिरथ वमुरन्तः स्फु क नो(?)मण्डनाय ।। ४६ ॥ दधति दश दिशोऽथ लिग्धसंध्याप्रशोणा विविधविहगराजीकूजितो जागरूकाः । मसूणघुसृणभासां भूपतेः सुन्दरीणां प्रतिकृतिमिह सिजन्मनुमञ्जीरकाणाम् ॥ ४७ ॥ अथ दिवसमशेष रत्नगी विलोक्य प्रविशति दिननाथः सूत्ररत्नाकरान्तः। समधिकतररागालिशितः श्रीजयन्तः प्रतिमपुरुषरत्नालोकते कौतुकीव ॥ ४८ ॥ सुरकरिधुतगङ्गाशीकराकारजैत्रै- रथ कतिपयमात्रैस्तारकैोम कीर्णम् । श्रयति भुवनलक्ष्मीः सूत्रितोदाममल्ली- मुकुलशबलितान्तः खेलधम्मिल्ललीलाम् ॥ ४९ ॥ विशविशदभविष्यच्चन्द्रिकावल्लिबीजै- रिव गगनमशेष तारकैस्तारकान्ति ।
५९
सर्गः]
जयन्तविजयम् ।
स्मितकुसुमसमाजोत्तसितैरिन्द्रनीलो
पलशकलशसुत्थैः कुट्टिमैः साम्यमाप ॥ ५० ॥
कलितमिव तमालैः कुन्तलीकुन्तलाली-
रुचिभिरिव तताभिश्चुम्बितं विश्वविश्वम् ।
स्थगितमिव समन्तादजनै राजपट्टै-
टितमिव चकासे व्याप्तमिद्धस्तमोभिः ॥ ११ ॥
अभिनवमृगनाभीपङ्ककृप्ताङ्गरागा
भ्रमररुचिदुकूलैर्वेषमुद्रां दधानाः ।
मरकतकृतभूषाः पक्ष्मलाक्ष्यः सलीलं
रमणमभिसरन्ति स्वैरमिद्धेऽन्धकारे ॥ १२ ॥
सपदि दधति जातैकातपत्रं प्रभुत्वं
जगति तिमिरराजे लुप्तभूभृत्समाजे ।
तरणितरुणवीरैस्तैरवस्कन्दहतो-
रिव बहुविशिखायैर्भूरिदीपैरदीपि ॥ ५३ ।।
तिमिरपटलंयोग हतुकामो जगत्या-
स्तदनु च नयनानामौषधीशः क्रमेण ।
अमृतमयशलाकासंनिभा मन्दमन्दं
रुचिमुचितकलाभृत्तत्र चिक्षेप दक्षः ॥ १४ ॥
क्षितिपरिभवहेतुध्वान्तसंतानकोपा
दिवसमधिकरागं मण्डलं तत्र राज्ञः।
निचितमिव चकोरीचक्षुपा वा मयूखै-
रुदयशिखरिचूडा चुम्बमानं चकासे ॥ ५५ ॥
क्षणमदधत पूर्वाशावधूवक्रपझे
घुसृणतिलकलक्षीडम्बरं चन्द्रविम्बम् ।
तदनु किरणमुक्ताजालकस्फीतशोभं
मदनधरणिभर्तुः पुण्डरीकश्रिय च ॥ ५६ ॥
१० काव्यमाला। अभिदुरतिमिरौघम्लेच्छसद्भाशुचित्वं प्रशमयितुमिव ....."वामलक्ष्याः । विनिहितमिव रेजे पावनं गाङ्गमम्भः शशिकलशविसर्पचन्द्रिकाचक्रवालम् ॥ १७ ॥ तिमिररिपुजयाय प्रस्थितस्याथ राज्ञो रुचिरकिरणवीरैः प्रोल्लसद्भिः समन्तात् । जगदखिलमकारि क्षिप्रमेवाविपक्ष किमिव वसुमतां न क्ष्मातले साध्यमस्ति |॥ १८ ॥ सह तिमिरभरेण खैरिणीनां प्रमोदः प्रशममगमदुच्चैश्चन्द्रिकायां लसन्त्याम् । चतुरतरचकोरप्रेयसीभिः सहाभू- त्रिभुवननयनानां किं च पीयूपपानम् ॥ १९ ॥ दधति मुदमुदारां कापि चञ्चचकोरी- ध्वनिविघटिततन्द्राश्चन्द्रिकायां चकोराः । कचिदरतिमयं ते चक्रवाकाः सगोकाः सुखममुखमिह स्यादात्मकर्मानुरूपम् ॥ ६ ॥ मदकलकलकण्ठीकोमलः कालिमासौ रजनिरमणविम्बे लक्ष्यतेऽन्तनिलीनः । प्रसभमभिरहस्यध्वान्तभूभर्तुरेत्य श्रित इव युवराजः प्राणितत्राणहेतोः ॥ ११ ॥ भुवनमपतमिश्र(सं) सर्वतोऽपि प्रपेदे- ऽभ्युदयमुदितराज्ये कौमुदीजीवितेगे। तदनु च कुसुमेपोर्गिणेः पञ्चसंख्यै- रपि भुवनविजित्रैर्लक्ष्यतां को न नीतः ॥ १२ ॥ तिमिररिपुमयस्य प्रौदिमुल्लाम्य दूर कुबलयरमणीयां लन्द्रिकासंपदं च ।
- सर्गः]
जयन्तविजयम् ।
१
अपरदिशि चचाल क्षोणिपालायमानः
कृतसकलविधेयो यामिनीकामनीशः ॥ ६३ ॥
विगलितवसुशोभावैभवं खं विदित्वा
तदनु शिशिररश्मिर्जातविच्छायकायः ।
अपरगिरिशिरोभिः काममन्तर्हितोऽभू-
द्विघटितविभवानां स्फूर्जितं ह्रीपदं हि ॥ १४ ॥
अनवरतमखण्डं मण्डलं निकलङ्कः
प्रथयति कमलानां काममुन्निद्रतां च ।
अयमिति परिभाव्य मापतेर्विक्रमस्य
प्रविशति हिमरश्मिर्लजयेवाम्बुराशिम् ॥ १५ ॥
अथ सरसविनोदैः प्रीतिमुद्भाव्य देव्या
निधुवनरसमुद्रानिद्रया मुद्रिताक्षः ।
रतिपतिरिव रत्या गाढमालिङ्गिताङ्गः
क्षणमिव रजनीं स क्षोणिपालो निनाय ॥ ६६ ॥
नागानां क्रमशृङ्खलाखणखणध्वानैः प्रबोधक्षणे
संपत्सुन्दरमन्दुरोदरचरहृप्ताश्च हेपारवैः ।
माद्यन्मङ्गलतूर्यवर्यनिनदप्रोद्दामलीलायितै-
स्तस्य क्षोणिपतेः प्रियेव चतुरा निद्रामुचल्लोचने ॥ १७ ॥
मानोत्तानतया सखीषु कलुषाः प्रेसोलरोपाश्चिरं
दूतीषु स्वयमानतेऽपि दयिते याश्चक्रिरे वक्रताम् ।
ताः प्रातश्चरणायुधध्वनिमिभादाज्ञामिवाप्य स्मर-
क्षोणीशस्य समुत्सुकाः प्रियपरीरम्भं स्त्रियस्तन्वते ॥ ६८ ॥
विसराम्भोजराजीमधुरमधुरसप्रातराशाभिलाषा-
द्यावद्धृङ्गानुयाताः सुरभिसुमनसः पादपान्नर्तयन्तः ।
प्रातः शास्त्रेषु मान्या मदननरपतेर्वान्ति वातास्त एते
रत्यन्तक्लान्तवातास्तनतटघटितवेदमाखादयन्तः ॥ ६९ ॥
काव्यमाला।
माद्यन्मण्डलचक्रवालकलितं स्थेयः सुखश्रीकर
संख्यातीतरथाश्च वैभवपदं नक्षत्रलोपावहम् ।
शङ्के सूरमपूर्वमीक्षितुमयं त्वं कौतुकीवाधुना
पूर्वक्ष्माधरमारुरोह नृपते पाथोजिनीवल्लभः ॥ ७० ॥
मद्वल्लभां कैरविणीमुपेत्य चुम्बन्त्यमी रागवतेति राज्ञा ।
आमोचयत्यङ्कजगुप्तिनद्वान्मित्रः प्रभाते वसुभिद्विरेफान् ॥ ७१ ॥
द्वारे तिष्ठति ते नरेन्द्र सुभग श्रीराजितं राजकं
सेवां कल्पतरोरिवेप्सितफलां हर्षाच्चिकीर्षचिरम् ।
सद्यो भूषयितुं तदर्हसि मणिभ्राजत्सभामण्डपं
जज्ञे मङ्गलपाठकोदितगिरामित्थं विलासस्ततः ॥ ७२ ॥
(पञ्चभिः कुलकम्
सरविलसितवया तां परित्यज्य शय्यां
करतलमवलम्ब्य स्वप्रतीहारिकायाः।
जयजयजयशब्दैः सार्धमुत्थाय भेजे
प्रचररुचि सभायां रत्नसिंहासनं सः॥ ७३ ॥
अथैत्य विनमच्छिरोमुकुटकोटिरत्नाङ्कुर-
स्फुरत्किरणकोरकोत्करकरम्बिताभिद्वयम् ।
क्षमायुवतिवल्लभैः सकलराजलोकैः समं
स विश्रुतपराक्रमः प्रणयतः प्रणेमे प्रभुः ॥ ७४ ॥
दृशा प्रसादाञ्चितमिक्षितास्ते प्रभोः पुरस्तादुचितासनस्थाः।
चक्रुः श्रियां धामि तदास्यचन्द्रे लीनं चकोरोपमयात्मचक्षुः ॥ ७५ ॥
इति श्वेताम्बरश्रीमदभयदेवाचार्यविरचिते जयन्तविजयनाम्नि महाकाव्ये श्रीशब्दाङ्के
दोलाविलासपुष्पावचयजलकेलिसूर्यास्तचन्द्रोदयोऽष्टमः सर्गः ।
नवमः सर्गः।
अथ क्षमा विक्रमसिंहभूपतेः प्रशासतः स्वर्गमिवापरेशितुः ।
दधौ जयन्तः खपितुश्चमत्कृति सदा नवश्रीपरिवर्द्धनक्रमैः ॥ १ ॥
९ सर्गः]
जयन्तविजयम् ।
सदोदयैस्तस्य विभूतिसंचयैः पचेलिमैः पुण्यतरोः फलैरिव ।
उपायनीभावमुपागतः वयं न कश्चमत्कारमपारमभ्यगात् ॥ २॥
परेधु विद्योतितसर्वदिङ्मुखे कृतासनो रत्नमयासने नृपः ।
जयन्तमुख्यैः परिवारितो जनैर्ददर्श कंचिद्गजराजमग्रतः ॥ ३ ॥
समाययौ यस्य मिषेण जङ्गमः क्षमाभृतस्तस्य हिमाचलः किल ।
समुन्नति द्रष्टुमिवातिकौतुकादनन्यसाधारणतामुपेयुषीम् ॥ ४ ॥
यदीयकुम्भस्थलतल्पशायिनीस्रवन्मदाम्भस्तटिनीतटाश्रितैः ।
मधुव्रतैः सान्द्ररुतैः कदाचिदप्यवापत स्वापसुखं समुद्रजा ॥५॥
उदारजाम्बूनदभूरिभूषणैर्बलन्मणिश्रेणिशिखाविभूषितैः ।
क्षपा क्षणोल्लासि महौषधीरुचिं हिमाचलं गौरवपुर्जिगाय सः ॥ ६ ॥
स्मरातकान्तानयनाञ्चलावली चलाचलेन श्रवणद्वयेन यः ।
बभौ नभोलङ्घनलोलपक्षवानिवेन्द्रहस्तीन्द्रयुधे कृतोद्यमः ॥ ७ ॥
विसारिसिन्दूरपरागपिञ्जरं समुन्नतं कुम्भतटं च धारयन् ।
पिशङ्गशृङ्गस्य नवार्ककान्तिभिर्बिभर्ति यः पूर्वमहीभृतः श्रियम् ॥ ८॥
(कुलकम्)
तदन्तरे श्रोत्रसुखैकपारणामिवादधद्भूमिपतेर्जनस्य च ।
वचो वरादित्युदियाय दैवतं तवैष भावी खचरेश्वरः सुतः ॥ ९ ॥
शुभोदयादस्य वशंवदात्मना मयार्पितोऽत्रैष चकास्तु कुञ्जरः ।
उदन्वता श्रीकुचकुम्भलालित हरेर्यथा वक्षसि कौस्तुभो मणिः ॥१०॥
अयं गजः सिंहलपेशभूपतेरभङ्गुरैस्तैः सुकृतैः समाहृतः ।
गृहाङ्गणं प्राप मम प्रभावतो गृहाण तं भो निगृहाण विद्विषः ॥११॥
शशाम यावत्तदमानवं वचो महीपतिस्तावदिभेन्द्रमात्मना ।
सुगन्धधूपप्रसवैरपूजयजयास्पदं चक्रमिवाशु चक्रभृत् ॥ १२ ॥
वचोहरः सिंहलमेदिनीपतेरथागमद्विक्रमसिहभूभुजः ।
समां प्रतीहारगिरा सुरेशितुः सभापि यस्याः समुपैति नोपमाम्।।१३॥
नृपं प्रणम्यैष कृतासनोऽवदत्पयोदगम्भीरगिरा वचोहरः ।
त्वदन्तिकं प्राप मम प्रभोः करी सरोवराद्धंस इवापरं सरः ॥ १४ ॥
काव्यमाला।
समञ्जसं यजयकुञ्जरः स नस्तनोति नेत्राम्बुजकौतुकं तव ।
अवैमि तस्मिन्न च लोभसंभवं पयः प्रवेशे कतमा स्पृहाम्बुधेः ॥१
सुहृत्त्वमाविष्कुरु सिंहलेश्वरे त्वमत्र तत्प्रेषणतो विशेषतः ।
विजृम्भितानिःस्पृहणीयतोद्भवं यशस्तवात्यद्भुतपुण्यजं हि ते ॥ १६
गजेन्द्ररत्ने गृहमागते स्वयं महीभुजः कस्य मनो न लुभ्यति ।
तथापि हेयः स बलीयसस्त्वया न सुन्दरः क्वाप्यसमानविग्रहः ॥१
विपत्तये वल्गति लोभसंभवः क्षमाभुजां दाव इव क्षमारुहाम् ।
प्रमादतस्तत्र कृतोऽपि स त्वया समुच्यता नीतिवधूविलासिना ॥१
रदप्रभाणां मिषतः प्रकाशयन्नपोऽपि नैर्मल्यमिवात्मचेतसः ।
वचोभिरुन्निद्रमना ययानुगैर्वचोहरस्योत्तरयांबभूव सः ॥ १९ ॥
इमां यदस्मासु स सिंहलेश्वरः प्रभुस्तव स्नेहविशेषवर्मिताम् ।
उवाच वाचं तददर्शतामुना छटाखसौजन्यमहोदधेरियम् ॥ २० ॥
ममाङ्गणालंकरणं करीश्वरः सहेलमागत्य बभूव यः खयम् ।
तथापितो देवतया प्रसन्नया स दीयते चेल्लघुता तदा न किम् ॥२१
सुहृद्धृतः प्रेषयितुं न युज्यते ममेभराजस्तव मेदिनीपतेः ।
न चेदिदं प्रेषयतां स संप्रति स्वकीयराज्यं सममृद्धिभिः सुहृत् ॥२२
नयागते वस्तुनि राज्यभूषणे समर्पिते दूतमुखेन कस्यचित् ।
रणाक्षमत्वप्रभवा हि भूभुजा भवेदकीर्तिन कथं प्रथीयसी ॥ २३ ॥
मुमोच यं दिव्यगजेश्वरं वयं भविष्णुसाम्राज्यवियोगसूचकम् ।
प्रभोऽस्तु वा पुण्यबलस्य तस्य का बलिष्ठतैवं कतमश्च विग्रहः ॥२४
प्रसेदुषी यस्य बभूव देवतार्पितद्विपेन्द्रा स बलीयसां धुरि ।
मदोद्धतः सूत्रजिघृक्षयान्धधीरयुक्तलोभः पतिरेव तावकः ॥ २५ ॥
जगाद दूतः पुनरात्मनायकप्रभुत्वशंसीति यथा धराधव ।
असंख्यहस्तीन्द्रवतोऽपि हस्तिनः परे ग्रहे ते कतमो ममाग्रहः ॥२६॥
मृगेक्षणानां सरसं समागमे स कण्ठकत्वं न तु राज्यसंपदः ।
भविष्यतीतस्तु वदन्त्युपायनात्प्रसेदुषः सिहलभूभुजं गतः ॥ २७ ॥
९ सर्गः] जयन्तविजयम् । ६५ न किचिदूनं करिणामुना विना प्रभोर्मदीयस्य तथापि स द्रुतम् । गृहिष्यते तं हठ...(१) सुवाधियः श्रिया सहासह्यरुषां धुरंधरः ॥२८॥ नरेन्द्र बुध्यस्व धियात्मनोऽथवा महेन्द्रमन्त्रिप्रतिमस्य मन्त्रिणः । मम प्रभो प्रेषय कुञ्जराधिपं व्रजास्य कोपार्जिषि मा पतङ्गताम् ॥२९॥ तरनितान्तःपृथुकोपपावकारुणेक्षणेन क्षितिपेन नोदितः । भ्रुवा जयन्तोऽथ वचस्विनां गुरुर्जगाद तं दूतमभूतसंभ्रमः ॥ ३० ॥ महानिधीनामधिपोऽपि चक्रभृन्नयागतं वस्तु न जातु मुञ्चति । मतङ्गजस्यास्य मिषात्स्वमन्दिरे रमा प्रविष्टा क्रियते कथं बहिः ॥३१॥ विभोर्ममाजौ विषमायुधाधिकप्रहारपात्रीकृतविग्रहस्तव । भविष्यतीशो नवसंगमे वधूजनो यथोत्कण्टककम्पसाध्वसः ॥ ३२ ॥ द्विषो न पोष्याः प्रणिपातमन्तरा निजैः पदार्थैरिति भूभृतां नयः । न जातु तेषां तमपश्यता भवेजनाद्विशेषः फणिदुग्धपायिनः ॥ ३३ ॥ मदेन मत्तस्तव मेदिनीपतिर्दृढं ततोऽस्याजनि मन्दता धियः । गिरोऽप्यसभ्याः प्रचरन्ति ताः परं यतः कृतोत्साहपरंपराः परे ॥३४॥ मयि द्विपानर्पणसंभवाः क्रुधस्तवैव नाथस्य विनाशहेतवः । खतः प्रसूता निधनं धनंजयज्वलच्छिखाः कि न नयन्ति शाखिनम्॥३६॥ न लभ्यते सद्मसमाश्रितः स्वयं महात्मना नीतिरियं गरीयसी। पुरापि मैनाकमवाप वीक्षितुं न गोत्रभिद्वारिधिमध्यमाश्रितम् ॥ ३६ ।। सुमेरुमाखोः खनितः खनित्रता खरागदष्ट्राशिखरैरुपागतैः । न दन्तभङ्गादपरं फलं यथा तथा द्विषामप्युपसर्पितामिह ॥ ३७ निशम्य निन्दामथ भर्तुरात्मनः परिस्फुरत्कोपभरारुणेक्षणः । जगाद दूतः क्षितिनाथनन्दनं प्रकम्पसंपक्कलितोत्तराधरः ॥ ३८ ॥ निपीड्य दोर्दण्डबलेन तत्प्रभुद्विपाधिराज सह राज्यसंपदा । न यावदादास्यति तावदस्य ते प्रभोः प्रतीतिर्न भविष्यति ध्रुवम् ॥३९॥ द्विधापि बालोऽसि कुमार निश्चितस्त्वमज्ञतोद्गारगिरां प्रपञ्चतः । अगण्यदोषो विदुषां ततोऽधुना स्वमाननं मुद्रय मौनमुद्रया ॥ ४० ॥ ९
६६
काव्यमाला ।
गताग्रहस्त्वं जय कुञ्जरां पुरो विधाय सर्वखमुपायनीकुरु ।
प्रसादनायास्य जिजीविषुर्यदि प्रसेदुषो राज्यमितो लभस्व ॥ ४१
गिरा तदारुंतुदया तदार्दितः सूतः स दूतस्य जगाद भूपभूः ।
हरिः स कूपस्य परं यदीयया कुशिक्षया ते सजलातिशायवाक् ॥४
मुधात्र किं ताण्डवडम्बरैगिरां मदीयभूभृहलवल्गु बल्गितम् ।
सितासिधाराम्बुनिमज्जितारयो निवेदयिष्यन्ति महाजिभूमयः ॥ ४
हरेर्मदीशप्रहितास्त्रदुःसहे रणक्षणे दर्शनिशीव चन्द्रमाः ।
अवस्थितिं नो कलयापि लास्यतीत्यवेत्य तस्मै विनिवेदयद्रुतम् ॥ ४
सदात्यया वह्निरिव क्रुधा ज्वलन्समेत्य नत्वा च हरि नरेश्वरम् ।
मुखस्य विच्छायतयैव सूचयन्व्यजिज्ञपत्कार्यमसिद्धमात्मनः ॥ ४५
नृपाधिराज द्विपराजमञ्जसा न मुञ्चते हन्त कथंचनापि सः ।
फणीश्वरः स्फारफणामणिं क्वचिजहाति जीवन्न हि दर्पदुद्धरः॥ ४६
रिपोः स्वरूपं विनिवेदयिष्यति स्फुटार्थमेतन्मयि मा रुषं कृथाः ।
महीभृतां सत्यगिरो हि सेवकाः प्रसादपात्रं पुरतो हितैषिणम् ॥ ४७
परत्र वीरे नरवीर का कथा न शकते जातु पुरंदरादपि
प्रचण्डदोर्दण्डबलावलेपतस्तृणाय न त्वामपि मन्यते प्रभोः ॥ ४८
न पुण्यलक्ष्मीजरसेव जर्जरा तवेश रक्षासु विचक्षणा ततः ।
गजेन्द्रवद्राज्यमिदं हरिष्यते तदीयपुण्यैः सुभटैरिवोद्भटैः ॥ ४९ ॥
निशम्य दूतादिति दुःश्रवं वचः प्रणष्टतत्त्वार्थविचारणः क्रुधा ।
समूलकाषं कषितुं स विद्विषं समुद्ययौ तार्क्ष्य इव क्षणात्खगः ॥ ५०
विधेर्विबुध्य प्रतिकूलकारितां गजेन्द्रनाशप्रकटीकृतां ततः ।
स मन्त्रिभिर्नीतिपथैकजान्धिकैय॑चारि तेन द्विषतारिणं नृपः ॥ ५१ ।
तथाप्यवज्ञाय तदीयमन्त्रितं प्रयाणमाधत्त मदोद्धतस्ततः ।
अरिष्टसंसूचितमृत्युरप्यसौ विलवयते कैर्भवितव्यताथवा ॥ ५२ ॥
(अग्रे कुलकम्,
विलोलकर्णानिलवीचिशीतलैः सदाभिषिञ्चन्ति कराग्रशीकरैः ।
विमूच्छितान्यस्य भयेन दिग्गजान्खजातिवात्सल्यधियेव हस्तिनः ॥१३॥
९ सर्गः]
जयन्तविजयम् ।
नृपोऽसहिष्णुः परशूरमण्डलं जगत्सु शूरोऽयमितीव सर्वतः ।
यदीयतुगत्तुरगाः खुरोद्धतैर्धरापरागैः स्थगयन्ति तत्पथि ॥ १४ ॥
जलाशयान्निर्जलतामिवानयन्नगाधनीरैरतिनीरधीरपि ।
मुहुर्मुहुर्मजनपानगाहनैरनीकभूयिष्ठतया तदा पथि ॥ ५५ ॥
धराभुजङ्गश्चतुरङ्ग तरङ्गभगयेव तरङ्गिणीपतिः ।
असीमसामन्तमहर्चिडम्बरः प्रयाणभेरीरवपूरिताम्बरः ॥ ५६ ॥
खदेशसीमानममानमानभूः समाससाद क्रमशः स विक्रमः ।
हरिनरेशः सरभाङ्कितामिव क्षितिं द्विषद्दन्तिघटाविघट्टनः ॥ १७ ॥
अथो जयन्तीश्वरचारपूरुषः समेत्य भूपं विधिना व्यजिज्ञपत् ।
विभो रिपुस्ते हरिराययौ स्वयं वदेशसीमानमसीमसेनया ॥ १८ ॥
रमाकुचस्पर्शसुखेन शायिनं मुकुन्दमप्यम्बुनिधौ विविप्रयन् ।
निदेशतो विक्रमसिंहभूपतेः प्रयाणभेरीध्वनितं ततोऽभवत् ॥ ५९ ॥
मयि स्थिते हन्त निदेशवर्तिनि वयं प्रयासः कतमः प्रभोरिति ।
समुत्सहिष्णुः समराय राजसूय॑जिज्ञपन्मन्त्रिमुखेन भूभुजम् ॥१०॥
द्विषन्नरेन्द्रस्य हरेः पराजयो रणाङ्गणे यधुवराजतोऽमुतः ।
तवैव तद्देव यशःप्रशस्तये त्वदीयमूर्त्यन्तरमूर्जितं हि सः ॥ ६१ ॥
प्रयातु तज्जेतुमनेकशक्तिभृजयी कुमारोऽभिनवस्त्वदाज्ञया ।
प्रभाकरस्यापि विभो भवेदिदं विभाकरः कि न तमस्ततिच्छिदे॥१२॥
विमृश्य विज्ञप्तिमिति क्षितीश्वरः समञ्जसां चेतसि मन्त्रिसंविताम् ।
हरेर्विधातुं परितः पराजयं जयन्तमाज्ञापयति स्म सस्मयः ॥ ६३ ॥
उदात्तवीरव्रतनीतिभूषणं रणाय नम्रक्षितिपालमण्डलीम् ।
कृतप्रसादां सह गन्तुमादिशत्ततः कुमारेण जिगीषता द्विषः ॥ ६४ ॥
समूलमुन्मूलितवैरिपादपे हरीयितुं सिंहलराजकुजरे ।
ततः कुमारः क्षितिभृन्निदेशतः समीहितार्थाय तदोपचक्रमे ॥ १५ ॥
विशिष्टवेषाभरणैर्जगत्रयी स कौतुकानन्दमयीमिवादधत् ।
पितुः प्रणम्यैष पदौ तदाशिषं जयश्रियः सिद्धिमिवाददे ततः ॥६६॥
८
काव्यमाला ॥
शुभ मुहूर्ते जयकुञ्जराधिपं रणे जयं मूर्तमिवाधिरूढवान् ।
स चामरग्राहिकुरङ्गचक्षुषां बभौ कटाक्षैरिव चामरैः सितैः ॥ ६७ ॥
स विक्रमक्षोणिधवान्वयाम्बरप्रभाकरः प्रीणितवन्धुपङ्कजः ।
असीमतेजःशमितारिकौशिकस्ततः प्रतस्थे चतुरनसेनया ॥१८॥
चमूचराणां तुमुलेन भूयसा चलंश्चकाशे क्षितिपालनन्दनः ।
युगान्तकालोच्छलितोरुयादसो गभीरधीरध्वनिनेव वारिधिः ॥ १९ ॥
सुरनिकरकराजप्रेरिता पुष्पवृष्टिः
समजनि वसुधाया हर्षहास्यप्रभेव ।
तदनु मनुजवृन्दैः
श्रूयमाणः
सितास्यै-
दिवि निरवधिरुच्चैर्दुन्दुभीनां ध्वनिश्च ॥ ७० ॥
पृष्टे स्पर्शमिषात्क्षरन्निव सुधावायुर्ववौ पक्षिणां
श्रेणीप्वाख्यदिव प्रदक्षिणगतिः कल्याणमालारवैः ।
जज्ञे तत्र निमित्तमन्यदपि तत्साम्राज्यलक्ष्म्याः परी-
रम्भारम्भमिवास्य गोत्रतरणे विज्ञापयामास यत् ॥ ७१॥
तव स्फूर्जच्छौर्यप्रभवयशसा चन्द्रमहसा
भृशं शुभ्रीभूतं खकचनिचयं वीक्षितवती ।
पलिक्नीत्वभ्रान्त्या कुलितहृदयात्रौषधविधेः
शची पृच्छाक्लेशे निपतति मुहुः स्वर्गिभिषजोः ॥ ७२ ॥
...
उपकृति()महिभर्तुर्भूमिभारं दधानो
गदमिव भुजदण्डे यः श्रीयुव(?)राजलक्ष्म्याः ॥ ७३ ॥
इति श्वेताम्वरश्रीमदभयदेवाचार्यविरचिते जयन्तविजयनाम्नि महाकाव्ये
श्रीशब्दाङ्के दूतोक्तिवर्णनो नाम नवमः सर्गः ।
दशम सर्ग ।
प्रयाणके तस्य ततः सहस्रैः संमर्दचारिध्वजिनीध्वजानाम् ।
उल्लोचलीला कलयांबभूवे दुरापनीतार्कमरीचितापैः ॥ १ ॥
१० सर्गः]
जयन्तविजयम् ।
६९
तत्रैककालं परिवाद्यमानानिश्चान(?)वृन्दादुरितिनिनादैः ।
क्षुभ्यत्समुद्रोभिजलेन सूर्यश्च.......मत्कारमकारि शीतः ॥ २ ॥
इलां ततः पङ्किलतां नयद्भिर्मदप्रवाहैरिदैश्चलद्भिः।
स निर्झरैर्जगमतां प्रपन्नै रराज शैलैरिव सैन्यमस्य ॥ ३ ॥
हस्तीन्द्रहस्तोत्करसीकराणां गणैरदयस्त(१)नभस्तलेऽस्य ।
प्रयाणरेणुः स्थगिते खरांशी समुद्गतानीव शुभान्यदु(मूनि ॥ ४ ॥
एकोऽप्ययं वैरिनरेन्द्रपक्षक्षोदक्षमस्तन्मदवैभवं वचः।
भूषैव भृङ्गाः करिणामितीव कपोलमूले कथयांबभूवुः ॥ ५ ॥
प्रोथावलग्गैः पृथुफेनपिण्डैर्वनायुदेश्यास्तुरगास्तदीयाः ।
हेषारवैः पूरितभूरिसंख्यप्रयाणशङ्खा इव रेक्षु(णु)रुचैः ॥ ६ ॥
तुरङ्गमास्तस्य चतुःसमुद्री रजःसमाजैः स्थलतां नयन्ति ।
खुरोद्धतैर्दातुमिवावकाशमपारनासीरपरंपराणाम् ॥ ७ ॥
तदास्य तद्भत्तुरगाधिपातप्रेहोलितोच्छृङ्खलधूलिपुजैः ।
मुखानि वैरिक्षितिपाङ्गनानां दिशां च बाढं मलिनीबभूवुः ॥ ८ ॥
तत्सैन्यधूलीपटली व्यधत्त व्योमान्तरे मामवनीमितीव ।
शेषः सितच्छत्रमिषादकाषींन्मूर्त्यन्तराणीव विवोढुमेनाम् ॥ ९ ॥
मत्तोऽधिकं तच्छिबिरं हियेति विस्तार्यपि व्योम तदा विलम्बम् ।
लीनं तदीयाश्वखुरोत्यधूलीपटीकुटीकोटरकोणकोटौ ॥ १० ॥
यदश्वधारालखुरक्षतायां..."निम्नतायामवनौ स्खलन्तः।
कृच्छ्राननेच्छात्पथि रथ्यवाहा भरेण भुना इव संचरन्ति ॥ ११ ॥
रथैः पराभूतनिकेतपतिर्मतगजन्यकृतकेलिशैला ।
प्रयाणके तस्य बभूव साक्षात्सेनैव सा जङ्गमराजधानी ॥ १२ ॥
विश्वंभराभारभराय भूयस्तथा स्वसैन्यैरभवत्कुमारः।
फणैरशेषैरपि शेषराजो यथावननैः कथमप्यधत्ताम् ॥ १३ ॥
तदीयसैन्यैः प्रविलोकिनीना विद्याधरेन्द्रामरसुन्दरीणाम् ।
कुतूहलैः पिप्रियुरीक्षणानि रणः कणैर्योमनि चिक्लिशुश्च ॥ १४ ॥
७० काव्यमाला। स प्रावृडम्भोदमयी विमोरुमायूरपिच्छातपचारणोत्थैः । ब्रज-शरन्मेघमयीमिव द्यां चक्रे च विस्तारितपुण्डरीकैः ॥ १५ ॥ दुग्धाम्बुधेरप्यधिकद्धिभाजां पकाकुलत्वेन जलाशयानाम् । विलुप्तया भूमिरुहां श्रिया च यस्य प्रयाणोज्झितभूरलक्षि ॥ १६ ॥ हरेरथारेः प्रविवेश देशं सिंहो द्विपस्येव वनप्रवेशम् । गजेन्द्रसैन्यैः स परःसहविन्ध्याटवीविभ्रममादधानः ॥ १७ ॥ ररक्ष देशं स्वमिवाप्यशत्रोः क्षयं स तस्यैव यतश्चिकीर्षुः । खंभाववैरान्नकुलो हि सर्प निहन्ति नो तत्सदनं प्रविष्टः ॥ १८ ॥ दूतः कुमारप्रहितोऽथ गत्वा श्रीसिहलेशं सहसा प्रणम्य । समुद्रनिर्घोषविशेषसख्या वाचा ख्युभ""त्ससभं वभाषे ॥ १९ ॥ गजार्थिना दूतमुखेन रोपं निन्ये त्वया यः परुषैर्वचोभिः । तेनारि का"""कुचपत्रवल्ली विलोपसाटोपभुजप्रतापः ॥ २० ॥ दोर्दण्डकण्डूर्भवतोऽपनेतुमसौ कुमारः प्रहितो जयन्तः । कल्पान्तवातोद्धतनीरराशिनीरिवाशु स्वबलैरुपेतः ॥२१॥ (युग्मम्) प्रसाध्य देशान्सकलांस्तवोच्चैनिजाज्ञयासौ निकषागमत्त्वाम् । द्वित्रैदिनरेत्य रणाङ्गणे यत्करिष्यते द्रक्षसि तत्त्वमेव ॥ २२ ॥ अनिष्टवाक्यप्रथमावतारे जातेऽथ वर्णध्वनि भूभृदूचे । वध्योऽसि नौ दूत इति प्रयाहि त्वामाश्रयत्वीशमिवार्धचन्द्रः ॥२३॥ अथापमानादुपयातकोपः सद्यः स मत्वा स्फुरदोष्ठपृष्ठः । अजातपूर्व तदरातिकृप्तं खस्वामिने विज्ञपयाबभूव ॥ २४ ॥ प्रयाणकं तत्क्षणमेव चक्रे श्रीराजसूनुः प्रतिशत्रुराजम् । सोऽप्याययौ संमुखमस्य को हि प्रारब्धवरावलिरप्युदास्ते ॥ २५ ॥ आसन्नतां जग्मुषि सैन्ययुग्मे तत्रातिमात्र प्रतिशब्दतीर्थम् । प्रातः समापूरितरोदसीकं सन्नाहभेरीध्वनितं बभूव ॥ २६ ॥ आसन्नसंग्रामसमुत्सहिष्णोवीरबजस्थानशिरे मनांसि । हर्षप्रकर्षेः समुदञ्चदुच्चरोमाञ्चचक्रैश्च चिरं वपूंषि ॥ २७ ॥ १. क्रियाविशेपणमेतत्.
१० सर्गः] जयन्तविजयम् । ७१ सामन्त प्रमोदसोच्छ्वासतया तदानीं स्फुटं स्फुटत्पूर्वरणव्रणौघैः । अखण्डवीरव्रतबाहुदण्डैः संनद्भुमारभ्यत वैरिवृन्दैः ॥ २८ ॥ रणोत्सवोत्साहसमुद्भविष्णुरोमाञ्चचञ्चत्कवचान्तरस्य । एकस्य कस्यापि महाभटस्य भाति म कृच्छ्रेण तनौ तनुत्रम् ॥ २९ ॥ वीरोऽपरं शौर्यधुरैकधुर्यस्तत्रापि सन्नाहकृताङ्गरक्षः । ..... रितश्च सोऽभूद्ययौ न कस्यापि रिपोः कदापि ॥३०॥ स्ववल्लभायाः कमलायताक्ष्या व्यालोकनेच्छैः पुलकै तायाः । कस्यापि संमान्ति तनौ तनुत्रे भणं तिरोधाच्चतुरावधे सा ॥ ३१ ॥ सापल्यमप्यस्तु जयश्रिया मे नवीनया वल्लभया तवाद्य । प्रियाशिष गद्दया गिरेति श्रुत्वा ययौ कोऽपि रणेऽतिहर्षितः ॥३२॥ 'मुद्विषतामसह्याः संनह्य संग्रामकलाखवाह्याः । बलीयसा स्वखवलेन सार्ध कुमारपादान्तिकमीयिवान्सः ॥ ३३ ॥ संमानदानादिभिरेष तेषा हर्पप्रकर्ष प्रथयांबभूव । मन्थाव्यस्ते परिसैन्यसिन्धुमन्थेन भर्तुर्विजयश्रिये स्युः ॥ ३४ ॥ कृताङ्गरक्षोऽपि स देवताभिरङ्गे कुमारः कवचं चकार । संग्राममुद्रेति ततः प्रपेदे प्रियामिवोचै रणकेलिदीक्षाम् ॥ ३५ ॥ सज्जीकृतं हस्तिपकाधिपेन पुरोधसा रोपितदिव्यशत्रम् । युधैकधीविक्रमसूर्गजेन्द्रमैरावणं शक्रमिवारुरोह ॥ ३६ ॥ सामन्तसेनापतिमन्त्रिमित्रसगोत्रराजन्यगणैरुपेतः । महद्धिचञ्चच्चतुरइसैन्यसकौतुकाक्षिप्तजगच्चचाल || ३७ ॥ अलंकृतायामथ युद्वभूमावन्यूनसैन्येन नृपाङ्गजेन । सोऽप्याययौ सिहलभूमिपालः कालेन कोपादिव कृष्यमाणः ॥ ३८॥ तदाग्रसैन्ये रणतूर्यनादैः सहाच्छलद्भिन्तुमलोल्वणायैः । शितासशस्त्रैर्ववृपेऽतिमात्रं वर्षाम्वुवाहैरिव वारिवारैः ॥ ३९ ॥ योधे प्रसिद्धैर्युयुधेरिसौ(रो धैः सहाश्ववारैः सममश्ववार. । रथिप्रवीरै रथिकैश्च सार्ध समानकक्षैर्जयवद्धलझे ॥ ४० ॥ १ 'शक इवा' स्यात्
७२
काव्यमाला।
विनश्वरैरप्यसुभिः खकीयैरनश्वरं जन्ययशोऽर्थयद्भिः ।
राजन्यकैस्तत्र चिरं""चक्रेऽहंपूर्विकापूर्वकमाजिकेलिः ॥ ४१ ॥
भटस्य कस्यापि बभौ शितासिभिन्नेभकुम्भोच्छलिता पतन्ती ।
मुक्तावली मूर्द्धनि पुष्पवृष्टिर्मुक्तेव देवैरवदानतोषात् ॥ ४२ ॥
नाराचबाणासिभुसण्डिभल्लीचक्रार्धचक्रप्रमुखास्त्रशस्त्रैः ।
भूमण्डली खण्डितवीरमुण्डमालाकुलालोहितपड्किलाभूत् ॥ ४३ ॥
तुरङ्गमातङ्गघटाभटाङ्गव्यासङ्गिशस्त्रौघविदारणोत्थैः ।
रक्तस्रवन्ती निवहैर्वहद्भिःसंचरा क्वापि धरा बभूव ॥ ४४ ॥
कृते कथंचिन्नपतेः सुतस्य पराङ्मुखे शत्रुभिरग्रसैन्ये ।
कल्लोलिनीजीवितवल्लभस्य तटाम्बुनीव प्रतिकूलवातैः ॥ ४५ ॥
मा कांदिशीकत्वमिहाश्रयध्वं यशश्चिनुध्वं निजपूर्वजानाम् ।
अदृष्टपूर्व भवतां हि पृष्टं संख्येष्वपि......"वैरिवीरैः ॥ ४६॥
इत्थं गिरोत्साह्य पुरः प्रवर्त्य रणाय राजन्यकमुद्धतास्त्रम् ।
सेनापतिः सिंहलसैनिकेषु श्येनः शकुन्तेष्विव निःपपात ॥ ४७ ॥
(विशेषकम्)
अश्वा न ते तत्र न चाश्ववारा न ते जगा(गजा) नापि गजाधिरूढाः ।
पदातयो नो रथिनो न रथ्या ये जर्जरा नास्य शरैर्बभूवुः ॥ ४८ ॥
छत्राणि चिच्छेद रणाग्रिमाणां तेजांसि साक्षादिव तीव्रबाणैः ।
ध्वजान्स कीर्तीरिव नर्तिकीर्तिः शिरांसि वंशानिव मूलतोऽपि ॥४९॥
कूलंकषाया इव वारिपूरैः कूलद्रुमाः क्षालितमूलजालाः ।
शरैस्तदीयैरदयैर्विपक्षी बभूवुरापातपदं च केचित् ॥ ५० ॥
द्रूणां फलानीव शिरांस्यरीणा शाखाः प्रशाखा इव बाहुदण्डान् ।
अङ्गान्युपाङ्गानि दलोपमानि चिच्छेद निस्त्रिंशतया शिरस्य(रांसि)॥५१
कथावशेषे द्विषतामशेषे श्रीभीमसेनेन कृऽतेथ सैन्ये ।
श्रीसिंहलस्यापि सुषेणनामा सेनाधिनाथः प्रससार योद्धुम् ॥ १२ ॥
परस्परं तौ परुषैर्वचोभिराक्षेपयन्तौ निकटावभूताम् ।
ततः क्रुधान्धौ वनसैरभेन्द्राविवोन्मदौ चक्रतुराहवं च ॥ १३ ॥
१० सर्गः] जयन्तविजयम् । कथंचनानन्यमनाः सुखे(षे)ण प्रसद्वरं(१) तत्र स भीमसेनः । गाढप्रहारैविधुरीकृताङ्ग मूर्छामतुच्छा सुचिरं निनाय ॥ १४ ॥ कोलाहल: सिंहलराजसैन्ये जितं जितं नः प्रभुणेत्युदस्थात् । मूर्छावसाने च स भीमसेनोऽप्यथात्मसैन्यप्रमदेन सार्धम् ॥ ५५ ॥ रणे तदोत्साहमुवाह चेतः शौर्य जयाकर्षि च बाहुदण्डः । श्रीभीमसेनस्य तथा यथासौ खःसुन्दरीगेयगणो बभूव ॥ १६ ॥ नीरन्ध्रबाणान्तरितान्तरिक्षं न्यक्कारनादैर्वधिरीकृताशम् । रणे तयोः स्फूर्जितमूर्जितं तद्बभूव वा गोचरमेति यत्र ॥ १७ ॥ एतावुभावप्यनिवार्यवीयौँ कृतश्रमौ द्वावपि चास्त्रशस्त्रौ । युद्धे सहक्षावथ वीक्ष्य वीर जेतानयोः कः समशेरतेत्थम् ॥ १८॥ रणश्रमेणातनुना सुख(षे)णं महाज्वरेणेव विसंस्थुलाङ्गम् । बुद्धा स चिक्षेप विभोः पुरस्तात्ततो हरेर्मूर्तमिव प्रतापम् ॥ ५९ ॥ ततो गृहीते निजसैन्यनाथे नाथः पृथिव्याः पृथुपार्थिवश्रीः । क्रोधादुदस्थात्क्षयकालकेलिं कर्तुं जयन्ते विशिखानलेन ॥ ६ ॥ कुर्वन्नसौ शोणितसान्द्रपकं निःशङ्कमेवारिवलं बलेन । व्यालोडयामास तदातपेनोपतापितः पल्वलवल्लुलायाः ॥ ६१ ।। असीमसंग्राममहार्णवेषु पारीणतां येऽपि ययुः प्रवीराः । कल्पान्तवातैरिव तस्य शस्त्रैविनिन्यिरे तेऽपि दिशां मुखेषु ॥ १२ ॥ रणे प्रमोदामृतवीचिसेकादिव प्रसर्पत्पुलके प्ररोहः । अथो तदिष्ट() स्वयमुग्रशौर्यः श्रीमज्जयन्तो जयकुञ्जरेण ॥ ६३ ॥ रराज तत्र क्षतकुम्भिकुम्भस्थलीगलन्मौक्तिकचक्रवालम् । कुमारशौर्याद्भुतरञ्जिताया रणक्षमाया इव हास्यलास्यम् ॥ ६४ ॥ बाणैः कृपाणेन च तोमरैश्च क्षिप्रं गजेन्द्रस्य च वेगगत्या । अलक्षि लक्षैरिव बाहुदण्डैः स मण्डितः खण्डितवैरिमुण्डैः ।। ६५ ।। तं वीक्ष्य भूयिष्ठबलाश्वसेनं सहेलनिलोंठनकौतुकोत्कम् । स्वस्यातिदूरत्वममस्तगाढं गुणाय सप्ताश्वरथाश्वराजः(?) ॥ १६ ॥ १० ७४ काव्यमाला । । - प्रकामसंग्रामरसः स वैरिकुम्भीनकुम्भेषु कृतोपमर्दः । अरिश्रियामुच्चकुचस्थलानि श्रीमज्जयन्तः खवशान्यमंस्त ॥ ६७ ॥ सेनाजने नच्छ(श्व)रधोरणीभिः समन्ततो दृष्टिपथादतीते । ; एकाक्यभूत्सिहलभूमिपालस्तारागणे चन्द्र इवार्कभाभिः ॥१८॥ दृष्टेर्गोचरचारिणि प्रहरति श्रीमज्जयन्ते हठा- त्तत्रोच्चैर्जयकुञ्जरे च विजयव्यापारपारंगमे । उ....""द्गुरुमत्सरो हरिरपि क्षिप्रं विपक्षक्षय- कायाशनिनिभां चिक्षेप बाणावलीम् ॥ १९ ॥ छत्रं चिच्छेद तस्य प्रवररिपुजयश्रीविलासाशयासो(2) कीर्त्या साध चकत ध्वजमपि च सतां राजवंशावतंसम् । निर्जीवं चापमस्त्रैर्हरिवि"तपदं कुञ्जरेन्द्रं च चक्रे तत्राश्चर्ये कबर्य किमिव न विदधे वैक्रमिर्विक्रमेण ॥ ७० ॥ खजाखशिशराशरप्रभृतिभिर्युद्धप्रकायुधं कारंकारमपारकौतुकरसं विस्तारयन्तौ दृशाम् । प्रत्येकं विजयश्रिया रणगुणोत्कर्षापकर्षक्षणे कं यामीति विमुग्धया प्रतिकलं तौ" "खिन्नया ॥ ७१ ॥ अथ क्लेशावेशप्रसरविरसं सिंहलपति- जंगादेवं वध्यस्त्वमसि मम नासेः शिशुरिति । सतां निस्त्रिंशोऽपि प्रभवति न हि भ्रूणहतये प्रपद्याज्ञां तन्मे व्रज निजगृहं रन्तुमधुना ॥ ७२ ॥ एतैस्त्वं मदविह्वलोऽसि वचनैरुच्छ्वलैर्लक्षितः स्फारैः शारदवारिदैरिव निरासारैरसारैभृशम् । निग्राह्योऽसि रणे मम प्रतिभटंमन्यः क्रुधेति ब्रुवं- श्चिच्छेदास्य शिरःसरोजमसिना श्रीमज्जयन्तस्ततः ॥ ७३ ॥ स्थिरीकर्तुमिवाजेऽस्य हठात्कृष्टां जयश्रियम् । मन्त्रैर्जय जयेत्युच्चैः सुराः पुष्पाणि चिक्षिपुः ॥ ७४ ॥ . -- -- t.-
१ सर्गः]
जयन्तविजयम् ।
७५
स तस्य सप्ताङ्गसुसंगतां श्रियं जग्राह साधं यशसा यशोनिधिः ।
प्रभुः प्रपेदे च तदीयनन्दनैरुदेति यः कोऽपि स एव वन्द्यते ॥ ७५॥
इति श्वेताम्बरश्रीमदभयदेवाचार्यविरचिते महाकाव्ये श्रीशब्दाङ्के
हरिराजपराजयो नाम दशम. सर्ग ।
एकादश सर्ग.।
अथ विक्रमभूभर्तुः पुत्रः प्राज्यपराक्रमः ।
प्रताप इव पिण्डस्थः प्रतस्थे दिग्जिगीषया ॥ १ ॥
श्रीजयन्तस्ततः पूर्व पूर्वस्यामचलदिशि ।
चतुरङ्गचमूश्चक्रे चलयन्नचलामपि ॥ २ ॥
वल्गद्भिस्तुरगैस्तस्य द्विरदैर्मदवर्षिभिः ।
प्रापत्समन्ततः कम्पं तं च व्यस्तक्रमं मही ॥ ३ ॥
ततश्चीरखुरक्षुण्णक्ष्मापीठप्रभवैर्भृशम् ।
रजोभिरभवन्वन्ध्यावापारास्तरणेस्त्विषः ॥ ४ ॥
तस्मिंश्चलति भूपालमौलिलालितशासने ।
अहितानामवर्धन्त त्रासश्वासमहोर्मयः ॥ ५ ॥
तत्सैन्यपदसंमर्दनिर्दयोद्भूतरेणुभिः ।
भूभृता मलिनान्यासंश्चक्राणि च शिरांसि च ॥ ६ ॥
सर्वस्वादानतः केचिन्मानभङ्गाच केचन ।
शरण्यं शरणीकृत्य मार्गभूपास्तमन्वयुः ॥ ७ ॥
स पूर्वपर्वतोत्सङ्गतरङ्गितमहोत्सवान् ।
विजिज्ञे तरसा भूरि मिल्लानुल्लवितक्रमः ॥ ८ ॥
ततः समुत्तरन्सुलानजिमितपराक्रमः ।
चकार चरणन्यस्तमस्तकानस्ततेजसः ॥ ९ ॥
नागानुपायनीकृत्य तमेवोर्जितविक्रमम् ।
सिषेवे खवितं जानन्गौडः शौण्डीर्यमात्मनः ॥ १० ॥
स वैरिकैरवरविदृप्यहोर्दण्डमण्डलः ।
प्रापत्तमालहिन्तालश्यामलं कूलमम्बुधेः ॥ ११ ॥
काव्यमाला।
..
मुक्तासूत्रोर्मिभिर्मुक्ता हठेनार्त्तस्य शूलिना ।
स शोकस्येव लक्ष्यन्ते बालेन्दोरश्रुबिन्दवः ॥ १२ ॥
मम राज्ञः कुलस्यापि वनश्रीरुपकण्ठजा
भग्नामुनावलेनाब्धिरितीव कलुषोऽजनि ॥ १३ ॥
उपस्थितोऽपि मशोषे पानाह्येरस्य सैन्यतः(1)।
रक्षिका क्षारतैवेति तुष्टुतां तुष्टुवेऽम्बुधिः(?) ॥ १४ ॥
निवेश्य शिबिरं तत्र तीरे नीरेशतुस्ततः ।
यशस्तोमैरिवात्मीयैर्डिण्डीरैरतिपाण्डुरे ॥ १५ ॥
उत्तुङ्गान्वङ्गभूपालकीलकानुच्चखान सः ।
चखान च जयस्तम्भान्निदम्भभुजविक्रमः ॥ १६ ॥ (युग्मम्)
प्रतापतपनेनोचैः शोषयन्कपिशां नदीम् ।
सममुत्कलकान्तानां कस्तूरीपत्रवल्लिभिः ॥ १७ ॥
सैन्यकोलाहलैर्दूरं पूरयत्रोदसीमथ ।
चचाल नरशार्दूलः कलिङ्गाधिपतिं प्रति ॥ १८॥ (युग्मम्)
अखण्डैः खण्डितारातिभुजदर्पः प्रयाणकैः ।
महेन्द्रविक्रमः प्राप महेन्द्रागुरुपत्यकाम् ॥ १९ ॥
तत्र निस्त्रिशनिर्घातत्रुटत्कङ्कटसंकटम् ।
निरन्तरशरासारसूत्रितोद्दामदुर्दिनम् ॥ २० ॥
परस्परास्त्रसंघट्टस्फुरदमिस्फुलिङ्गकम् ।
कलिङ्गपतिना सार्धमभवद्युद्धमद्भुतम् ॥ २१ ॥ (युग्मम्)
विलोड्याथ क्षणेनैव विपक्षबलसागरम् ।
कुमारः कैटभारातिरिवोधे जयश्रियम् ॥ २२ ॥
तस्यावरोधनैः पुत्रभिक्षामभ्यर्थितस्ततः ।
निवेश्य तत्सुतं राज्ये प्रतस्थे दक्षिणां दिशम् ॥ २३ ॥
निशम्य भूभुजङ्गं तमुपायान्तं रसादथ ।
साध्वसध्यासिता प्राप दक्षिणा कम्पसंपदम् ॥ २४ ॥
७७
११ सर्गः]
जयन्तविजयम् ।
संमुखापतितस्तस्या दिशश्चाटुकरैरिव ।
लवङ्गवायुभिः शीतैः सिषेवे नृपनन्दनः ॥ २५ ॥
सहास्यामिव निर्मोकनिर्मलैः फेनिलै लैः ।
शकुन्तकूजितैः पूर्वाभिभाषणपरामिव ॥ २६ ॥
शफरोद्वर्तनैर्मुक्तकटाक्षामिव सर्वतः ।
तरङ्गैरङ्गहारांश्च रभसा कुर्वतीमिव ॥ २७ ॥
शीकरैः पवनोद्धतैः प्ररूढपुलकामिव ।
अथ रेवां स हेवाकमवलोकयति स्म सः ॥ २८ ॥
(त्रिभिविशेषकम्)
स तत्तीरतरुपान्तविश्रान्तैः किंनरीगणैः ।
कर्पूरगौरमाश्रौषीद्गीयमानं निजं यशः ॥ २९ ॥
तस्यास्तमालहिन्तालश्यामलास्तीरभूमयः ।
असेव्यन्त रतान्तेषु तत्सैन्यललनाजनैः ॥ ३० ॥
सा सिन्धुर्गाहनायातैस्तन्मत्तेभैररुच्यते ।
जग्मुः पयोनिधिः कितु तेषां दानाम्बुनिमगाः ।। ३१ ॥
विश्रम्य विविधैस्तत्र विनोदैर्भूरिवासरान् ।
प्रतापाग्रेसरः सोऽथ प्रतस्थे केरलान्प्रति ॥ ३२ ॥
बभौ बलभरस्तस्य तिरयन्दक्षिणा दिशम् ।
सरन्वैरिमिवागस्त्यं ग्रसितुं वार्धिरुद्यतः ॥ ३३ ॥
शरासने भजत्यस्य वक्रता शक्रतेजसः ।
केरलानां ललाटेभ्यः प्रोषिता भ्रुकुटिच्छटाः ॥ ३४ ॥
अहो तच्चापदण्डस्य नवीनः कोऽपि विक्रमः ।
दर्शयन्युधि यः पृष्टं निष्ठान्नयति विद्विषः ॥ ३५ ॥
प्रतापतपनेनास्य केरलैराकुलीकृतैः ।
आत्मा निर्वापितः पादनखचन्द्रमरीचिभिः ॥ ३६ ॥
अथ स्मरशिशुक्रीडासाक्षिभिर्दक्षिणानिलैः ।
सूचितोऽनाध्वना भूपः प्रतस्थे मलयं प्रति ॥ ३७ ॥
७८.
काव्यमाला ।
निवेश्य भूभृतो भूभृत्कटके कटकं ततः ।
अध्यास्ताध्यासितान्भोगी भोगिभिश्चन्दनदुमान् ॥ ३८ ॥
एलापरिमलाब्येपु श्रीखण्डद्रुमशालिषु ।
मलयाद्रिनिकुञ्जेषु सरोमरमणीसखः ॥ ३९ ॥
वातः संतापयेदस्मान्मापुने()विरहेष्विति ।
ददुर्दरीगृहद्वारि शिलाः सेनानतभ्रुवः ॥ ४० ॥
तद्दन्तिदन्तसंघट्टस्यन्दिभिश्चन्दनद्रुमैः ।
अजायंत भटस्त्रीणामयत्नेनैव मण्डनम् ॥ ४१ ।।
वैक्रमिर्विक्रमेणाथ पार्वतीयान्विजित्य सः।
तेभ्यः सारमिवास्यादेरुपायनमुपाददे ॥ ४२ ॥
अथ प्रस्थानभेरीणां प्रतिशब्दैदरीगतैः ।
शुभं शिलोचये तस्मिन्मुहूर्तमिव शंसति ॥ ४३ ॥
चमूचक्ररजःपुजैः शोषयन्दक्षिणोदधिम् ।
जयन्तः पर्वतात्तस्माज्जेतुं पाण्ड्यांश्चचाल सः॥४४॥ (युग्मम्)
यथा यथा करोत्येष पदं तद्देशसीमनि ।
तथा तथा विपक्षाणां श्यामिका मुखपङ्कजे ॥ ४५ ॥
तस्मिन्पाण्ड्यमहीभर्तुः समूलोन्मूलनोद्यते ।
भाभीतेश्च तल्लक्ष्मीभैजेऽस्य भुजपञ्जरम् ॥ ४६ ॥
तरसा नरशार्दूलः पाण्ड्यानालोड्य दुर्मदान् ।
सांयुगीनत्वमनयदात्मनश्चरितार्थताम् ॥ ४७ ॥
लब्धैकच्छत्रसाम्राज्यपरच्छत्रेऽर्थयेव सः ।
भूभृतां तुङ्गवंशानां सर्वान्दण्डानखण्डयत् ॥ ४८ ॥
ततः सरोजवदनां चक्रवाकपृथुस्तनीम् ।
पृथुरोधोनितम्बां स ताम्रपर्णीमसेवत ॥ ४९ ॥
पयोदपरिरम्भोत्थस्वेदबिन्दुसहोदरैः ।
मौक्तिकैः सरितस्तस्याः स जग्राहोपदामिव ॥ ५० ॥
।' ११ सर्गः] जयन्तविजयम् । ७९ सहसा संमुखे तस्मिन्रागिणि क्षितिपाङ्गजे । तस्तकाञ्चीदिवैशाथ(e) चकम्पे द्राविडक्षितिः ॥५१॥ विजित्याटविकान्पाप काञ्चीमञ्चितपौरुषः । निरुद्धविषयग्रामो वशीव परमं पदम् ॥ १२ ॥ बभौ बलभरेणास्य परितः परिवेष्टितम् । काञ्ची..."रवगाहेण लङ्केव जलराशिना ॥ १३ ॥ अपश्यन्नथ काञ्चीशः शरणं कांचिदात्मनः । सर्वखमुपदीचक्रे स्वीचक्रे चास्य शासनम् ॥ १४ ॥ अथ कर्णाटकान्तानां मदविभ्रमघस्मरैः । अपूर्यत प्रयाणेऽस्य रोदसीपटहस्वनैः ॥ ५५ ॥ पश्चादुड्डीनमतस्य रजोभिः सैन्यसंभवैः । प्रत्यर्थिभूभृतां प्राणैः पूर्वमिथ्यावशादिव ॥ ५६ ॥ विपद्भिर्भूभृतस्तस्य न सेहे वाहिनीरयः । महोन्नतैरतिस्तब्धैरपि तालद्रुमैरिव ॥ १७ ॥ विजित्य जगति प्राप्तवर्णः कर्णाटभूपतीन् । चकार चरणोपान्तविश्रान्तशिरसः कृणोत् ॥ ५८ ॥ निवेशितबलस्तत्र तीरे दक्षिणनीरधेः । अमन्यत गताशङ्कः स लकामङ्कगामिव ॥ १९ ॥ नभोनिर्झरिणीनीरनतिभिर्दुन्दुभिस्वनः । कुर्वन्नुर्वीधरापातप्रतिभामम्भसानिधेः ॥ १० ॥ अहिताना हिताना च समं संतापसंमदः । तेजोभिश्च यशोभिश्च परितः परिवर्धयेत् ॥ ६१ ॥ सैन्धवीनां कपोलेषु लुम्पन्पत्रलताङ्कुरान् । रजोभिः सैन्यसंभूतैः प्रतस्थे पश्चिमामथ ॥ ६२ (त्रिभिर्विशेषकम् ) तस्य प्रस्थाननिस्वानध्वनिभिर्बधिरा इव । अशृण्वन्तः शुभोदर्कमपि वाक्यं विपश्चिताम् ॥ ६३ ॥ 1
८०
काव्यमाला ।
तत्सैन्यपांशुभिश्चान्धीभूता इव निरङ्कुशैः ।
अपश्यन्तः पुरस्तात्तं मृत्योारमिवात्मनः ॥ ६४ ॥
बान्धवैरिव निर्बन्धादनिमित्तैधृता अपि ।
निपेतुस्तमभिक्षायाश्चा...(2)त्पारणरागिणः ॥ १५ ॥
(त्रिभिर्विशेषकम्)
बलपाथोधिना सोऽथ निजेन नृपनन्दनः ।
आपतन्तीमरातीनां प्रतिजग्राह वाहिनीम् ॥ ६६ ॥
आततज्यधनुर्वाननिस्वानानां च निस्वनैः ।
अभूद्भीरुभटणीस्ततः शस्त्रो(?)रणक्षमः ॥ १७ ॥
सोमग्रहणशङ्काभूदातपत्रैः समस्तकैः ।
दिवापि दिवि दीव्यद्भिः शितशस्त्रसमुद्धृतैः ॥१८॥
गजेन्द्राक्षेपितैारैः स्वरैमाधोरणा बभुः ।
प्रीतये प्रेतनाथस्य प्रस्तुतोपायना इव ॥ १९ ॥
परस्परास्त्रसंघट्टाद्रेक्षुरग्निस्फुलिङ्गकाः ।
वीरैर्विलोकनायेव कृता दीपा जयश्रियः ॥ ७० ॥
मत्तमातङ्गसंघातनिघातनसमुद्भवम् ।
बभूव क्षीबताहेतु क्षतजं जाङ्गलाशिनाम् ॥ ७१ ॥
अथ व्यथितमालोक्य सैन्यं धनुषि राजसूः ।
कृतान्तभृकुटीभङ्गभीषणो दत्तवान्दृशम् ॥ ७२ ॥
तस्मिन्पर्जन्यवत्तत्र शरासारं विमुञ्चति ।
राजहंसैः समुड्डीनमुद्भूतं कीर्तिकन्दलैः ॥ ७३ ॥
भयंकरं भयस्यापि कृतान्तस्यापि कम्पकृत् ।
चकार वैक्रमिरिकुलान्तःकरणं रणम् ।। ७४ ॥
अथारातिसमुद्दीप्ते तेजोऽनौ राजसूर्निजे ।
पुरोवर्तिना निःशङ्कमुपयेमे जयश्रियम् ॥ ७५ ॥
तस्मिन्सुरकरोन्मुक्ता प्रस्तनेप्रकरो(?) बभुः ।
कटाक्ष इव शौण्डीर्यसंतुष्टाया जयश्रियः ॥ ७६ ॥
१ सर्गः] जयन्तविजयम् । इति निर्जित्य पाश्चात्यभूपतीनवनीपतिः । स्वविक्रमकथोद्धोषे चक्रे वैतालिकं न कम् ॥ ७७ ॥ अथ मानवतां मूर्ध्नि पदमुद्दामविक्रमा । कुर्वन्नुर्वीपति जे धनदाधिष्ठितां दिशम् ॥ ७८ ॥ तस्मिन्नपूर्वमार्तण्डे कौबेरी दिशमीयुषि । विद्विषां समवर्धन्त निशीथिन्यो दिनानि च ॥ ७९ ॥ दुर्निवारप्रतापोऽस्य प्रससार धरापतेः । हृदि विद्विषतां कितु संतापः समवर्धत ॥८॥ तप्तं तत्तेजसात्यन्तं यशसा शीतलीकृतम् । स्नानपानक्रियायोग्यमभूद्वख्नदीपयः ॥ ८१ ॥ संजाते संमुखे तस्मिन्दैवे च विपराङ्मुखे । मनो हूणनरेन्द्राणां दधे देशश्च शून्यताम् ॥ ८२ ॥ हूणाः सोढुमपर्याप्ताः सत्प्रतापं रणागणे । इतीव व्योमवाहिन्याः पयःपूरमशिश्रयन् ॥ ८३ ॥ दिशन्पराजयक्षोभमुत्तराशापतेरपि । हिमाद्रिमारुरोहाथ पृथ्वीनाथो जयोद्यतः ॥ ८४ ॥ तत्सैन्यभरमुद्वोढुमक्षमः क्ष्माभृता पतिः । ररास कन्दरावक्रप्रतिशब्दैरितीव सः ॥ ८५ ॥ पुण्डरीकप्रभास्तस्य क्रीडन्तः सानुसीमनि । अलक्ष्यन्त गिरेरस्य गण्डशैला इव द्विपाः ॥ ८६ ॥ तदापातभयान्नक्तं निलीनाः कन्दरोदरे । असूयन्ति महौषध्ये ज्वलन्त्यस्तस्य वैरिणः ॥ ८७ ॥ विजिज्ञे फलकव्यग्रपाणिभिः पादचारिभिः । गिरिशृङ्गगतानश्मवर्षिणः सक्षणा द्विपः ॥ ८॥ प्रणतिलुलितमौलयः पुरस्ताद्रुततरमेत्य वनेचराः कुमारम् । विविधमणिसुवर्णरत्नदानैः शिरसि कृताञ्जलयोऽथ भेजिरे ते ॥ ८९ ॥ .. ११
काव्यमाला।
ततः समुत्तीर्य गिरेरनुद्रुतो वनेचरैर्विश्ववशंवदः पदम् ।
बबन्ध कालागुरुगन्धबन्धुरे स कामरूपामधिदेशसीमनि ॥ ९० ।
विश्वंभराविजयजाग्रदुदयवीय
तं कामरूपनृपतिः खपुरं प्रवेश्य ।
तैस्तैरुपायनशतैरभिनन्ध पूर्व-
मुर्वीपतिं तदनु शासनमाददेऽस्य ॥ ९१ ॥
इत्थं पृथ्वीवलयमखिलं पादमूले स कृत्वा
कीर्तिस्तम्भस्तबकितपयोराशिवेलावनान्तः ।
कुर्वन्नुर्वीपरिवृढशिरःशेखरम्लानिमुद्य-
तेजःपुजैः स्वनगरमथ श्रीजयन्तः प्रतस्थे ॥ ९२ ॥
इति श्वेताम्बरश्रीमदभयदेवाचार्यविरचिते जयन्तविजयनाम्नि महाकाव्ये श्रीशब्दाङ्के
दिग्विजयो नामैकादश सर्गः।
द्वादशः सर्गः।
अथ धरणिधवः पतिर्जयन्त्या निजतनयस्य समस्तदिग्जयेन ।
श्रवणपथगतेन सप्रमोदस्तबकभराञ्चितमानसो बभूव ॥ १ ॥
बहुविधरसभङ्गिसनि लास्यं निजपुरि वर्धनकं व्यधापयत्सः ।
रिपुविजयमनु क्षितीश्वराणां भवति पुरीषु न का महोत्सवश्रीः ॥२॥
कतिपयदिवसव्यतिक्रमेऽस्य श्रवसि विवेश वचो यथात्मसैन्यात् ।
नृप तव तु जयं जहार कश्चिन्निधिमिव भूमितलाददृष्टरूपः ॥ ३ ॥
समजनि पितुराकुलं त्वमन्तस्तदशुभसंभवशङ्कया सुतस्य ।
प्रथयति हि तनुत्वमम्बुराशेरविरवियोगदिशापि शीतरश्मेः ॥ ४ ॥
उदितसुतवियोगदुःखभारप्य(?)वनितौ शुभशंसिभिनिमित्तैः ।
किमपि मनसि निवृतिं विधाय स्थितवति धैर्यमहानिधावितश्च(2)॥५॥
शिखरकखितशीतराशिबिम्बस्रवदमृतस्नपनैरिवातिशुभ्रे ।
क्षितियुवतिशिरोवतंसकाल्यरजतगिरौ स्वचराधिवासधानि ॥ ६ ॥
तदुपरि धरणीविचित्ररोचिर्मणिमुकुटोत्कटडम्बरं समृद्धया ।
सुरपुरविजयाय जागरूकं गगनविलासपुरं पुरं समस्ति ॥ ७ ॥
१२ सर्गः] जयन्तविजयम् । ८३ रिपुधरणिभुजां भुजावलेपप्रसरतमिस्रसरोजिनीभुजङ्गः । प्रसमरजिनशासनोन्नतिर्यः पवनगतिर्नृपतिः स तत्प्रशास्ति ॥ ८ ॥ त्रिभुवनविजयाय मीनकेतोनिरुपममेकमिवास्त्रमस्य राज्ञी । समजनि जगदर्थ्यरूपलक्ष्मीर्जिनमतपुण्यमयीव चित्रलेखा ॥ ९ ॥ रतिरमणनृपान्तरङ्गसेना निरवधिरूपवतीपु लब्धरेखा । समजनि तनया क्रमेण तस्याः कनकवती कनकाभिगम्यकान्तिः॥१० सरसमथ सुपुत्रजन्मनीव क्षितिभृदकारयतोत्सवं तथास्याः । असुभगमिह जन्म कन्यकानामजनि यथैप वृथा प्रवादपङ्कः ॥ ११ ॥ क्षितिपतिकुलकन्यकोचिताभिः सकलकलाभिरलंकृता क्रमेण । अवनिपतिसमा सुवर्ण्यरूपप्रमुखगुणा सुखमेधते स्म तन्वी ॥ १२ ॥ इयमतिशयसौरभाभिरामे कमल इवालिवधूजिनेन्द्रधर्मे । निरवधिमधुनेव सिद्धिलक्ष्मीः सततसुखेन मनोहरेऽभिरामे ॥ १३ ॥ कुसुमशरसुधारसायनं सा युवजननेत्रचकोरचन्द्रिकाभः । प्रसमरगुणचित्रचित्रसौधं सकलविलासमयं वयः प्रपेदे ॥ १४ ॥ शुभकुल..."रूपशौर्यराज्यैर्नृपतिशतैः सविता सुतामयाचि । नलिनगुणतया स तानमुञ्चत्सदृशगुणहिँ समागमो गुणाय ॥ १५ ॥ निजतनयकृत नभश्चरेन्द्रः पवनगति प्रणयादयाचतैनाम् । अभिलपति बरं न देव कंचिन्मम तनयेत्यथ तेन स न्यषेधि ॥ १६ ॥ तदसुखभरसंक्रमातचित्तः क्षितिपतिरौपयिकं विचिन्त्य तत्र । अभिमतफलकल्पशाखिशाखा जिनविभुशासनदेवता जयाा ॥१७॥ अवददिति निजाशयं सुतायास्तदनु च योजितपाणिपल्लवा सा । खजनकवचनं प्रपद्य शेषामिव समुपाक्रमत ""क्रमेण ॥१८॥ (युग्मम्) द्युतिमति सदने कृतासनेयं शुचिवपुरात्तपवित्रशुभ्रवस्त्रा । अकृत जिनपदार्चनं प्रमोदाद्यदिदमशेषशुभान्तरायहारि ॥ १९ ॥ मृगमदघनसारकुङ्कुमाद्यै प्रसमरसौरभवासितान्तरिक्षैः । सुरतरुसुमनःसजा समाजैर्मधुपवधूमधुपानकेलिपात्रः ।। २० ।।
काव्यमालो। प्रसूरदगुरुधूपधूम्रधूमैनभसि घनभ्रमतः स केकिकेकैः । अकृत सुकृतिनीष्टदेवतार्चामधिकलभक्तिभरादिवावनम्रा ॥ २१ ॥ (युग्मम्) तदनु कृशतनुस्तपोविशेषादधिगतदेवतयैक्यमावहन्ती । क्षणमिव दिवसान्निनाय यत्नादभिमतयोगसुखाय योगिनीव ॥ २२ ॥ सुरभिपवनमिश्रपुष्पवृष्टिः समजनि सप्तमवासरेऽथ तत्र । रुचिविजिततडिल्लता पुरस्तान्यगददिदं समुपेत्य देवता सा ॥ २३ ॥ अयि नृपतनये तवेतिभक्तेरिह जिनशासनदेवताहमागाम् । फलतु वरमनोरथस्तवायं तरुरिव दोहदतः प्रसादतो मे ॥ २४ ॥ चतुरुदधिपयःपवित्रसीमक्षितिवलयैकविलासिना वरेण । भव रजतगिरिप्रसिद्धविद्याधरनृपवन्द्यपदा जयन्तनामा ॥ २५ ॥ मम वचनमिदं निवेध सद्यो जनयितुरिष्टवरस्य संगमाय । व्रज निजपरिवारवर्धितश्रीजिनसदनोपबनेऽपनीतखेदे ॥ २६ ॥ इदमुदितवती तयार्चितासौ सपदि तिरोभवदाहता तदुक्तम् । उपसि शशिमुखी तथैव चक्रे हितवचने हि रताः शुभं लभन्ते ॥२७॥ सकलनृपतिचक्रमेकहेलं स्फुरदनुभाववशंवदं विधाय । निजनगरमभिप्रयान्तमेषा झटिति जयाथ जयन्तमाजहार ॥ २८ ॥ प्रकटितहृदयानुकूलभावं मुखमवलोक्य विकखरं स तस्याः । पदकमलयुगं त(न)नाम देव्या विनयगुणाञ्चितमानसा हि सन्तः २९ अथ निजजननीव सा बभाषे नृपतनयाहमिहानयं नगे त्वाम् । तव गगनचरेषु चक्रिलक्ष्मीप्रभवगुणा नृपकन्यका प्रदित्सुः ॥ ३० ॥ ध्वजपटमिषतो वरेण्यपुण्यप्रभवगुणा तयेव(!) जगत्सु दक्षपात्रे । इह सुरसदने जिनेन्द्रबिम्बं ..."नयनामृतसारणि स्वनेत्रे ॥ ३१ ॥ वियदिव परिमातुमुच्छ्रिताना विकसितपुष्पमिषेण पादपानाम् । घनमुपहसतीव नन्दनाहं वनमपि यन्निजवैभवोदयेन ॥ ३२ ॥ सरसफलभरावनम्रशाखद्रुमशिखरैः पवनेन यन्नमद्भिः । प्रणमदिव जिनं शिरोभिरस्यालयमतुलं परिवृत्य तिष्ठति, स्म ॥ ३३ ॥ " १२ सर्गः] जयन्तविजयम् । सुरगगनचरेन्द्रसुन्दरीभिः स्मितनयनाञ्जलिभिः प्रपीयमानः । तदिदमुपवनं स्वलीलयालंकुरु भविता च तयेह संगमस्ते ॥ ३४ ॥ समयसमुचिते कृतेऽथ कृत्ये मितपरिवारविभूषितस्तयासौ । हितजनवचनं बुधैविधेयं ध्रुवमिति जैनगृहे जगाम हृष्टः ॥ ३५ ॥ अहमहमिकया जिनेन्द्रबिम्ब खचरनृपैर्विहितोत्सवं स तत्र । सरभसमवलोकयांबभूव ध्रुवशिवसौख्यतरोरवन्ध्यबीजम् ॥ ३९ ॥ निरवधिमकरन्दबिन्दुवृन्दैः सततवशंवदषट्पदैः प्रसूनैः । मुखकमलनिलीनलोचनोऽसौ सरभसमर्चयति स्म""कुमारः ॥ ३७ ॥ विपुलपुलकमासलः सदेवं प्रणयवशीकृतमानसः प्रणम्य । शुचिरुचिपटलीजटालमुच्चैर्मणिमयमण्डपमासदत्तदने ॥ ३८ ॥ जनकुमुदततेः कुमुद्वतीनां पतिरिव यः परितश्चकास्ति तत्र । धनसमय इवोपशान्तिवल्लेः कुमतकरीन्द्रघटासु केसरीव ॥ ३९ ॥ फलमिव परिपाकि दाडिमीनां चिरपरिचुम्बितनिष्कषायभावम् । सततमपि मनो यदीयमास्ते..."नमिव सत्करुणोदयैश्च हृद्याम् ॥ ४०॥ विषयविषविषङ्गवैशसस्य(?) स्फुरति लवोऽपि न यस्य मानसान्तः । प्रतिकलमिह खेलति स यस्मात्प्रसृमरशान्तरसामृतप्रवाहः ॥ ४१ ॥ समतृणमणिलोष्ठकाञ्चनस्य त्रिकरणशुद्धिवधूधवस्य यस्य । क्रमकमलनमस्ययापि जन्तोस्त्यजति सुदुस्तरतामदं भवाब्धिः ॥ ४२ ॥ सुरगिरिवयसस्तटैः स रलैस्तरुरिव सौरभशालिभिः प्रसूनैः । शिवपथपथिकैकसार्थवाहः प्रथितयशाः स्खलितस्मरप्रतापः ॥ ४३ ॥ दशविधमदधद्यतीन्द्रकृत्यं गुणमिव यः सुकर्महाप्रबन्धः । अवितुमिव जगन्ति मोहशत्रोरधिगुणधर्मधरः समन्ततोऽपि ॥ ४४ ॥ भविकशिवपुरीप्रवेशतूर्यध्वनिमधुरैर्वचनैजिनेन्द्रधर्मम् । खचरसुरजनस्य कीर्तयन्तं स तमवलोक्य ननाम धर्मसूरिम् ॥ ४५ ॥ (अष्टभिः कुलकम्) गुरुरपि नृपजं स धर्मलाभप्रवितरणेन मुदास्पदं चकार । सुरभयति न कं शिरोवतंसीकृतमभितः सितपारिजातपुष्पम् ॥ ४६ ।।
८६
काव्यमाला।
शृणु सगुण जयन्त जैनधर्म सकलसुखोपयिक भवद्वयेऽपि ।
इति गुरुवचने स बद्धतृष्णः समजनि चातकवत्पयोदनीरैः ॥ ४७ ॥
सपदि शिवपदाय वीतरागं परममवेहि जिनेन्द्रमेव देवम् ।
किमपि मृगदृशां कटाक्षपातैः शिरसि कृतस्मरशासनैः किमन्यैः ।।४८
घनसमयपयोदगर्जिनादैः स्फुटसुमनस्त्वमुपैति केतकीव ।
द्रुतमपि जनता यदीयवाक्यैर्भज सुगुरुं तमपास्तसर्वसङ्गम् ॥ ४९ ॥
परिहर परिहार्यमार्य वीर्यैः कुपथमपथ्यमिवातुरः सकर्णः ।
इतरजनसमानतैव यस्मिन्विषयजुषां खलु देवता गुरूणाम् ॥ ५० ॥
विषयसुखमशेषदेहभाजां मुखमधुरं परिणामदारुणं च ।
इति विदुरधियामपीह शक्तिर्विलसति मोहमहीन्द्रशासनं हि ॥ ५१ ॥
तरुणतनुमता वराङ्गनेव क्षितिपतनूज दया यदि प्रिया ये(ते)।
द्रुतमनुभविता तदा यनङ्गव्यतिकररम्यतमा दशां सदैव ॥ ५९ ।।
मुखकमलमलंकरोति सत्य"
॥५३॥
जनितयुवपतङ्गदेहदाहं ज्वलितगुणं च शिखायमानरूपम् ।
परयुवतिवपुः प्रदीपकल्पं भवति सदा यतधीन जातु जन्तुः ।। ५४ ।।
विविधविभवभोगभूरितृष्णा ज्वरलहरीव भवावधिप्ररूढा ।
जनयति हृदि तापमित्यमन्दं प्रशमय निस्पृहतासुधारसैस्ताम् ॥१५॥
बलमिव परितश्चतुःप्रकारं जिनगदितं कुरु दानमुख्यधर्मम् ।
नरसुरशिवसंपदां पदं खं सपदि चिकीर्षसि चित्प्रियं प्रियाणाम् ॥१६॥
सकलसुकृतकल्पपादपानां दवदहनप्रसरोपमं समन्तात् ।
नय चतुरशमं कषायवर्षे प्रशमरसेन सुधासधर्मणा त्वम् ॥ १७ ॥
संवेगामृतपूरसुन्दरसुरस्रोतस्विनीस्रोतसि
खातुं हन्त नदीप्लु(?)तां वज रजःसंभारसर्वकषे ।
अर्हन्निर्मलधर्म..."विधिनाशृङ्गारसारेण च
खं शृङ्गारय यत्प्रभावसुभगं त्वामेति सिद्धिः खयम् ॥ १८ ॥
१३ सर्गः]
जयन्तविजयम् ।
संजातायां तदनु सुगुरोर्देशनायां जयन्तः
शुद्धः श्रद्धाकवचितमनाः स्वाञ्चितं धर्मकर्मा ।
प्राप्याक्षीणं निधिमिव मुदा मेदुरः सादरोऽयं
जज्ञेऽनन्याभ्युदयसुभगं भावुकश्रीविलासः ॥ १९ ॥
इति श्वेताम्वरश्रीमदभयदेवाचार्यविरचिते जयन्तविजयनान्नि महाकाव्ये श्रीशब्दाढ़े
कुमारधर्मप्रतिपत्तिवर्णनो नाम द्वादश. सर्गः ।
त्रयोदशः सर्ग.1
अञ्जलिं शिरसि बिभ्रददभ्रव्यक्तभक्तिरसकुम्भमिवोच्चैः ।
श्रीमुनीन्द्रमथ पार्थिवसू नुस्तं प्रणम्य च चचाल यथेष्टम् ॥ १ ॥
तस्य जैनसदनस्य विनिर्यचन्द्रकान्तमणिकान्तिपयोभिः ।
नित्यमुक्षितमिवालिकुलाभं कौतुकादुपवनं स विवेश ॥ २ ॥
यत्र यत्र स चचार वधूभिस्तत्र तत्र सुभगः परिवत्रे ।
श्रीयते हि मधुसौरभसारं पारिजातकुसुमं भ्रमरीभिः ॥ ३ ॥
तद्वपुर्लवणिमामृतपूरैः सूत्रलोलनयनाभिरपाङ्गैः।
पीयते स कुसुमायुधजन्यस्मेरतापमपहर्तुमिवाशु ॥ ४ ॥
लोचनैरिव विकखरपुष्पैः पल्लवैः करतलैरिव शौणैः ।
उत्कुचैरिव फलैर्वनलक्ष्म्यास्तत्र विस्सयमतीव सा भजे ॥ ५ ॥
यामिनीचरमयामचिरामे चक्रवाक इव संभृतरागः ।
स प्रियां नृपतिवंशपताकां तां तदेक्षितुमभूदनिमेषः ॥ ६ ॥
देवतावचनतो नृपपुत्री मीनकेतननिकेतनमेकम् ।
साप्यथोपवनमुत्सुकचित्ता सचचार सुकुमारशरीरा ॥ ७ ॥
मार्गसत्वरगमश्रमजातवेदबिन्दुभरदन्तुरिताझी ।
अन्तरुल्लसितरागपयोधर्मौक्तिकैरिव बभौ निचिता सा ॥८॥
यूथविच्युतमृगीव विलोलक्षिप्तचक्षुरखिलाखपि चक्षुः ।
तस्य दर्शनकृतेऽत्र वने सा क्वापि केलिनिलये....."सा ॥ ९ ॥
काव्यमाला।
आस्यसौरभमिलन्मधुपालिध्वानमांसलितनूपुरनादैः ।
तत्र कांचन विभाव्य मृगाक्षीं सोऽपि कौतुकवशेन विवेश ॥ १० ॥
तां तडिद्दयुतिविजित्वरकान्ति रूपतर्पितजगत्रयनेत्राम् ।
वीक्ष्य विस्मयतरङ्गितचेताः स व्यचिन्तयदिदं युवराजः ॥ ११ ॥
पर्वते किमिह पर्वतपुत्री पर्वतश्रियमवेक्षितुमागात् ।
किं रतिः किमु रमा खलु नैव मर्त्यलोकललनैव निमेषात् ॥ १२ ॥
पादपङ्कजतले खलु रागः पद्मरागरुचिरः प्रथितेऽस्याः ।
निर्ममे मम मनोद्रुमरागं सांप्रतं कृतपदेयमतीव ॥ १३ ॥
लाक्षया विहितरागतरज्ञैः साङ्कुरैः स्मरतरोरिव बीजैः ।
पादपङ्कजनखैः समयूखैः शोभते रजनिजानिमुखीयम् ॥ १४ ॥
विद्रुमद्रुममरीचिसगोत्रैः पादयोर्नखमयूखशिखाग्रैः ।
एतदगलतिका स्मरभूभृद्दोःप्रतापपटलीव विभाति ॥ १५ ॥
एतदविसुभगाकृतिलक्ष्मीलाभलम्पटतयेव सदापि ।
क्षोणिभारवहनवतचर्यासेवनैव रसिकोऽजनि कूर्मः ॥ १६ ॥
सुभ्रवः क्रमपरिक्रमणेऽस्या जात्यहेममणिनूपुरनादैः ।
बोभवीति मकरध्वजभूभृन्निद्रया सततमेव दरिद्रः ॥ १७ ॥
हारिणी क्रमगति हरिणाक्ष्याः शिक्षितुं सुचिरमभ्यसनेऽपि ।
केलिहंसललना न शशाक खल्पधीः खलु जलाशययोगात् ॥ १८ ॥
रामणीयकमनकुशमस्या जङ्घयोरनघयोरवलोक्य ।
नूनमुद्गतपराभवदुःखा ससुरेणललना वनवासम् ॥ १९ ॥
एतदूरुमिषतः पृथुरम्भास्तम्भयुग्ममिव यौवनलक्ष्म्याः ।
उद्धृतः प्रविशतः पुरमध्ये मन्मथक्षितिपतेः प्रतिभाति ॥ २० ॥
दीपदीप्तमणिकाञ्चनकाञ्ची किङ्किणीक्वणमिषान्नृपपुत्र्याः
यौवनोन्मदकरीन्द्रपुरस्ताडिण्डिमारव इव प्रतिभाति ॥ २१ ॥
उल्लमल्लवणिमामृतवीच्या नाभिमण्डलगभीरसरस्याः ।
रोमराजिरुपकण्ठजदूर्वा प्रातिभं वहति चारुशोऽस्याः ॥ २२ ॥
१३ सर्गः] जयन्तविजयम् । ८९ उन्नतिः कठिनयोः कुचयोर्यत्स्थानमप्युपरि मे मृदुनोऽस्याः । तत्सुदुःसहमतीव बभूव क्लेशवश्यमुदरं कृशमस्याः ॥ २३ ॥ भारितं गुरुभरेण कुचाभ्यां विस्तृतेन जघनेन च रुद्धम् । इत्यसयतमवेदनयेव प्राप्तमेतदुदर ननु कार्यम् ॥ २४ ॥ एतदुच्चकुचसद्मनि निश्रेणीव भाति ललिता त्रिवलीयम् । गच्छतो रतिपतेरवलम्बस्तारहारलतिकोभयतोऽत्र ॥ २५ ॥ कण्ठसौष्ठवगुणैर्गमितोऽयं कम्बुरम्बुजशा परिभूतिम् । नूनमन्तरधुनापि दधात्यावर्तरूपमतिदुःखमितीव ॥ २६ ॥ सुनुवो मदनकेलिगुरुत्वं प्राप्तवत्यतितरां कुचयुग्मे । निर्भराम्बुभरविभ्रममेति स्फारहारलतिकोभयतोऽस्याः ॥ २७ ॥ केतकीदलदृशः स्तनपीठे सूत्रयत्यधरपल्लवकान्तिः । अप्रयत्नभवकुङ्कमरागश्रीविलासमनुवेलममुष्याः ॥ २८ ॥ एतदीयसरलोन्नतनासा वंशपार्श्वगतलोचनयुग्मम् । एकनालकमलद्वयशोभा वैभवं दधदिव प्रतिभाति ॥ २९ ॥ लवितुं श्रवणयोश्चिरसीमां लोचने मृगहशो विवदाते । निर्विवादविषयेऽपि विवादः शश्वदश्रुतिमता किमु चित्रम् ॥ ३० ॥ नित्यभूषणजुषः श्रुतियुग्मस्योपमास्तु किमु मौक्तिकशुत्त्या । या विदार्य परिमुञ्चति मुक्तामण्डनं निजमखण्डमरीचि ॥ ३१ ॥ अग्नितापघटनैर्घटदुःखं यच्च रत्नखचनाद्युपसोहम् । तत्कपोलतलचुम्बनतोऽस्याः कुण्डलद्वयममन्यत सौख्यम् ॥ ३२ ॥ अष्टमीशशिनिभेऽधिकनीलं भ्रूयुगं लसति भालतलेऽस्याः । वल्लरीद्वयमिवास्यसरस्याः संभृतं लवणिमामृतपूरैः ॥ ३३ ॥ तारकावलयवैभवभाजा व्योमपार्वणहिमातिनेव । कान्तिमौक्तिकवृतेन नताशयाः शोभतेऽलिकतलं तिलकेन ॥ ३४ ॥ कुन्तलैरलिकुलैरिव नीलैः केसरैरिव रदद्युतिपूरैः । कण्ठनालपरिवर्धितशोभं शोभते वदनवारिजमस्याः ॥ ३५ ॥ १२
९०
काव्यमाला।
आहतेन जगतामपि लावण्यामृतेन ससृजे वपुरस्याः ।
वेधसा युवतिसृष्टिकलायां खस्य कौशलधरामिव मातुम् ॥ ३१ ॥
स्त्रैणसृष्टिनिपुणेन विधात्रासर्जि नूनमियमेव मृगाक्षी ।
श्रोत्रनेत्रपथमेति यदन्या नेहशी वचन काचन तन्वी ॥ ३७ ॥
रूपगर्वमयतां स्मरकान्ता पार्वती सुभगतामदमेतु ।
स्त्रैणसर्वगुणगौरवपात्रं किं त्वियं परमिति प्रतिभा मे ॥ ३८ ॥
खेचरेन्द्रदुहितापि कुमारं रूपसंपदपहस्तितमारम् ।
वीक्ष्य तत्क्षणमभूदनुरागक्षीरसागरतरगनिमग्नाः ॥ ३९ ॥
प्रेरितैः प्रथमतः प्रणयेन बीडया विचलितैरथ किचित् ।
तिर्यगञ्चितपुरैर्नयनैः सा तं ददर्श मुहुरम्बुरुहाक्षी ॥ ४० ॥
श्रीजयन्तजगदद्भुतरूपस्तम्भिताङ्गलतिकां नृपपुत्रीम् ।
तां विभाव्य सरसोक्तिसनाथं तत्सु(त्स)खी शशिमुखीति बभाषे॥४१
संपदास्य पुरतस्तृणमिन्द्रस्तेजसा कमलिनीहृदयेशः ।
मीनकेतुरपि भासुररूपश्रीविशेषललितैः प्रतिभाति ॥ ४२ ॥
खगराज्यहरणोल्बणशङ्काशङ्कुसंकुलमना इव शक्रः ।
अस्य विश्वजयिनः श्रुतशौर्यः कौतुकादपि न भूतलमेति ॥ ४३ ॥
दानशौर्यगुणगौरयशोभिर्भूषितं सुभगमस्य चरित्रम् ।
गीयते स्मरतरङ्गितगात्रं खर्वधूभिरखिलाखपि दिक्षु ॥ ४४ ॥
भाति भोगिषु तथा न फणीन्द्रस्तारकेषु न च तारकराजः ।
भासुरेषु न सुरेषु सुरेन्द्रः माविलासिषु यथैष कुमारः ॥ ४५ ॥
विक्रमप्रथितविक्रमसिंहक्षोणिवल्लभकुलाम्बरचन्द्रम् ।
आत्मतुल्यगुणमाशु भजैनं दुर्लभो हि सदृशैः खलु सङ्गः ॥ ४६ ॥
धारयेव नववारिदपतेः कान्तवर्णनगिराथ तथास्याः ।
केसरैरिव बभौ पुलकौधैः सा कदम्बसुमनःपटलीव ॥ ४७ ॥
साचि संचरणदक्षिणचक्षुः क्षिप्तमौक्तिकसदृक्षकटाक्षैः ।
वीक्षितो मृगशाथ जयन्तस्तत्करग्रहणसौख्यमिवाप ॥ ४८ ॥
१३ सर्गः] जयन्तविजयम् । ९१ सा विकासिवदनापि कुलीना लज्जया निगदितुं न शशाक । किं तु कम्पपुलकाञ्चितगात्रैरेव तं वरतया प्रतिपेदे ॥ ४९ ॥ प्रेर्यमाणमिव हर्षतरज्ञैरालिचक्रमचिरेण कुमार्याः । एत्य भूपमभिनम्य च सम्यक्तां व्यजिज्ञपयदीप्सितसिद्धिम् ॥ ५० ।। तां विलोक्य जिनशासनदेवी तत्र राजतनयापि तुतोष । श्रीकुमारवरदाननिदानव्यक्तभक्तिरथ पूजयति स्म ॥ ११ ॥ निःसमानबहुमानविधानात्सप्रमोदहृदया सविशेषम् । देवता तदनु साजनि तस्याः कामधेनुरिव कासितदानैः ।। ५२ ।। अभ्यगादथ नृपः स महा तं नरेन्द्रतनयं सह देव्या । सोऽपि तस्य विदधे प्रतिपतिं नौचितीं त्यजति जातु कुलीनः ॥५३॥ तौ कथां प्रथयतः स्म मिथस्तां प्रेमवारिनिधिवीचिमिवोच्चैः । या श्रुता सुरगुरोरपि चेतः स्मेरविस्मयरसं विदधाति ॥ १४ ॥ कन्यका कनकवत्यभिधाना पादपङ्कजयुगे निजपित्रोः । सा सहेलमलिनीव महीयः नेहसौरभवशेन सिषेवे ॥१५॥ स व्यचिन्तयदिदं मम यू(नू)नं सांप्रतं विधिरभूदनुकूलः । मामकीनतनयावरयोर्यच्चन्द्रिकाशशभृतोरिव योगः ॥ ५६ ॥ रूपवैभवकलाद्भुतभाग्येनामुना जगति कोऽपि सदृक्षः । अस्य ते न तनया मम योग्या पाणिपीडनकृते कृतवा ॥ १७ ॥ इत्युदीर्य निजबन्धुसमक्ष विक्रमक्षितिपतेस्तनयाय । तं महेन महता स महीन्द्रः शौरये श्रियमिवाब्धिरदत्त ॥ १८ ॥ सिक्तमार्गमथ कुकमनीरैर्यद्विचित्रकुसुमप्रकरं च । आम्रकप्रदलवन्दनमालं गोपुराग्रमणितोरणराजि ॥ १९ ॥ वीज्यमानहरिदश्वरथाश्वैः केतुभिर्बहु चित सितसौधम् । यद्विचित्रमणिभूषणरेखारामणीयकतरहितपौरम् ॥ १० ॥ श्रीमदम्बरविलासपुरे खः(स्बे) स्वःसमानगुणसंपदि तत्र । देवतार्पितविमाननिषण्णः पावनं पवनगत्यभिधानः ।। ६१ ।।
९२
काव्यमाला ।
संविधाय पुरतः खचरेन्द्रः श्रीजयन्तयुवराजविमानम् ।
आतपत्रचलचामरलक्ष्मा दत्तविस्मयरसं प्रविवेश ।। ६२ ।।
(चतुर्भिः कलापकम्,
वैक्रमेस्तदनु कुण्डलसंज्ञरतत्र सत्वरमुपेत्य हान्तिः ।
उक्ततातकुशलोऽथ समीपे काञ्चनासनमलंकुरुते स्म ॥ ६३ ॥
निश्चितेऽप्रतिमलग्नदिनेऽथ ६मापतेर्मुदि मनो निममद्य(ज)।
कृत्यजातमपि बन्धुवभिभूपसपनुचितं विदधेऽत्र ॥ ६४ ।।
प्रत्यहं करयुगा लिप-श्रेणिभिस्त्वरितमेणदृशोऽस्याः ।
लमपूर्वदिवसान्गणयन्त्याः कान्तसंस्मृतिरभूत्खलनाय ॥ ६५ ॥
तां तदाभ्युदयभाजि मुहूर्ते विष्टरे मणिमये विनिवेश्य ।
सर्वमप्यविधवाः कुलवध्वस्तेनिरेऽथ विधिना विधिजातम् ॥ ६६ ॥
उद्यदम्बुरुहिणीप्रियरोचिः संगमारुणसरोरुहलक्ष्मीम् ।
सान्द्रयावकरसेन तदीयं रञ्जितं पदतलं जयति स्म ॥ १७॥
निर्मिते च रुरुचेऽरुणरोचिः पादपकजनखव्यपदेशात् ।
तत्तनोः कृतपदस्य सपर्या वन्धुजीवकुसुमैः कुसुमेषोः ॥ ६८ ॥
निःसपत्नविनिवेशितरलैः पञ्चवर्णकिरणाङ्कुरितैः सा ।
भूषणैरुपचिताङ्गविभूषा कल्पशाखिलतिकेव रराज ॥ ६९ ॥
यत्प्रसाधनमसूत्रि(त्र)त तस्याः सर्वतो लवणिमातिशयाय ।
तत्सुधाधवलनं तुहिनाशोः स्वादुताथ सितया च सुधायाः ॥ ७० ॥
निर्मितानि किरणैरिव चान्द्रैः पारिणेत्रसिचयान्यथ कन्या ।
पर्यधायि कृतककणबन्धा सूत्रितोचितविवाहविधेया ॥ ७१ ॥
सा विवाहसदनं नृपयुच्या देवता व्यरचयद्रुतमेव ।
भूरिभङ्गिरचनाञ्चितशोभावैभवादनिमिषैर्नृभिरीक्ष्यम् ॥ ७२ ॥
कामधेनुनवगोमयपूतं कल्पशाखिदलवन्दनमालम् ।
इन्द्रचापचतुरद्युतिदण्डैस्तोरणैर्मणिमयैरधिकश्रि ॥ ७३ ॥ (युग्मम्)
तत्र साङ्कमधिरोप्य कयाचिन्मातृदेव्यभिमुखं लघु नीत्वा ।
पादयोनतिमकार्यत तासामासिता च रुचिरासनमग्रे ॥ ७४ ॥
१३ सर्गः]
जयन्तविजयम् ।
९३
सप्रमोदपुलकं कलकण्ठध्वानगानजनितप्रमदाभिः ।
तत्क्षणोचितविधिप्रवणाभिः कृत्यवस्तुनि कृते प्रमदाभिः ॥ ७९ ॥
भूषितः सुरवितीर्णमयूखप्रेङ्खदुल्वणविभूषणमुख्यैः ।
आवृतः परिकरेण समन्ताचारुवेषरचनारुचिरेण ॥ ७६ ॥
विक्रमक्षितिपतेरथ सूनुः पाणिपीडनसमुत्सुकचेताः ।
प्राचलत्समधिरुह्य विमानं कामिनीनयनकैरवचन्द्रः ॥ ७७ ॥
(त्रिभिर्विशेषकम्)
वैत्रिणेव सुहृदा दिदशेन(2) लेहतः सपदि दर्शितमार्गः ।
द्वारि खेचरपतेः सदनस्य प्राप शंभुरिव सोऽथ हिमाद्रेः ॥ ७८ ॥
आगताभिरभिराजवधूभिः सूत्रनेत्रकमलैः परितोऽपि ।
पूज्यमानतनुरुत्तरति स्म स्मेरपङ्कजमुखः स विमानात् ।। ७९ ।।
तस्थिवानथ मरुद्भुजदण्डं .........."बमवव्यकरण ।
कल्पपादपलताश्रितहस्तै(१)रावतश्रियमुवाह कुमारः ।। ८० ॥
मङ्गलानि धवलानि च गायन्तीभिरद्भुतरसं वरवध्वोः ।
अर्थदानमथ कङ्कणबन्धसूत्रितस्य विदधे सधवाभिः ॥ ८१ ॥
ताः कुसुम्भरसरञ्जितवस्त्रं कण्ठकन्दललते विनिवेश्य ।
सौधमध्यमनयन्मृगनेत्राः श्रोत्रपेयकलगीतविलासम्
श्रीजयन्त इति नामनि मन्ने योगिनीव मतकारिणिनीला ।
सास्ति यत्र कुसुमास्त्रपताका मातृपूजनमसौ विदधेऽत्र ॥ ८३ ॥
(युग्मम्)
वाससा शशिरुचाथ स तन्वी तामशष्य(पश्य)दवगुण्ठितदेहम् ।
क्षीरसागरविसारितर रावृताङ्गलतिकामिव लक्ष्मीम् ॥ ८४ ॥
कारिते हृदयहारिणि तारामलके लघु यथाविधि तत्र ।
हृष्टयो मिथुनकस्य विरेजुः कामशाखिकुसुमोद्गमकल्पाः ॥ ८५ ॥
वेदिकाम्बरमितः सह वध्वा खैणमुल्लसितगीतमनैपीत् ।
तत्क्षणं च मकरध्वजराज प्रोढमानमिह विश्वजयाय ॥ ८ ॥
काव्यमाला।
आसने कनकरत्नमयेऽसौ मोदमेदुरमना निषसाद ।
तस्य पार्श्वमभजन्नुपपुत्री वल्लरीव वनकल्पतरोः सा ॥ ८७ ॥
देवताभिरवरोधवधूभिर्बन्धुभिश्च विविधैरथ पौरैः ।
मन्दिरं नृपजनैरपरैस्तदाडिमीफलमिवाजनि बीजैः ॥ ८८ ॥
निःस्वने निभृतचक्षुषि लोके सावधानहृदये च नरेन्द्रे ।
झल्लरीध्वनिमुखेन विदित्वा लग्नमुच्चसकलग्रहरम्यम् ॥ ८९ ॥
हस्तलेपमतिपावनशम्यश्वच्छ(त्थ)चूर्णमति तूर्णमथाम् ।
श्रोत्रियः करतले नृपपुच्या न्यदिप(ध)त्सरतोरिव बीजम्() ।। ९० ॥
(युग्मम्)
सेक्तुकाम इव तत्क्षणजातवेदबिन्दुनखरक्षरणेन ।
तच पाणिकमलेन कुमारः सोत्सवं स पिदधे सुमुहूर्ते ॥ ११ ॥
तत्क्षणं धवलमङ्गलमिश्ररुच्छलहहुलतूर्यनिनादैः ।
मण्डलानि स......"परितोऽनिवृतिं च खचरक्षितिभर्तुः ॥ ९२ ॥
तत्र मण्डलचतुष्कसमाप्तौ खेचराधिपतिरात्मसुतायाः ।
पाणिमोचनमचीकरदुच्चैराज्यसारविभवेन कुमारम् ॥ ९३ ॥
तत्र दानसमये खचरेन्द्रः प्राज्यवाजिकरटीन्द्रघटाभिः ।
स्वर्णरत्ननिकरैश्च स चक्के श्रीपति हरिमिवार्थिसमाजम् ॥ ९४ ॥
याप्ययानरथवाजिगजस्थै राजलोकनिवहैः मितचक्रैः ।
आवृतैः खशरभूमिभृतायं प्राज्यऋद्धिपरिवारवृतेन ॥९५ ॥
दम्पती समधिरुह्य विमानं छत्रचामरतरङ्गितकान्ती ।
पौरवर्ण्यगुणरूपविभूती प्रापतुस्तदनु तौ सदनं खम् ॥ ९६ ॥
(युग्मम्)
वैजयन्तमिव भूमितलेऽन्यं वासमन्दिरमगात्सह वध्वा ।
कामकेलिखुरलक्षितकल्पं यत्र कल्पितमदृश्यत तल्पम् ॥ ९७ ॥
यत्परस्परसमर्पितचि""साचि संचरितनेत्रयुगं तत् ।
यन्मनोभवमनोरथपात्रं तत्तयोरजनि दर्शनमत्र ॥ १८ ॥
१३ सर्गः]
जयन्तविजयम् ।
'रूपकौतुकविलोकनलोल लोचनाम्बुजयुगं च मिथस्तौ ।
हर्षविन्दुभिरिवार्थयतः स खाभिवाञ्छितकरः खलु पूज्यः ॥ ९९ ॥
तौ मिथोऽप्रतिमकौतुकरूपं श्रीविलोकनविमोहितनेत्रौ ।
तत्क्षणादमृतसिन्धुतरङ्गस्तापिताविव तदा समभूताम् ॥ १० ॥
मुद्रितेक्षणयुगः सुखनिद्रामुद्रयानववधूपरिरम्भात् ।
उत्तरङ्गरतिसागरमग्नस्तत्क्षणं क्षणमिवैष निनाय ॥ १०१ ॥
देव स्वल्लीलयोञ्चधरणिधरशिरःश्रेणिषु न्यस्तपादः
पद्मोल्लासं समन्ताद्विदधयदुदयैः पद्मिनीप्राणनाथः ।
निद्रामुद्रादरिद्रे विरचय नयनाम्भोरुहे तत्कुमार
प्रातःकृत्यप्रवृत्ति प्रकटय निकटस्पष्टकल्याणमालाम् ॥ १०२॥
इत्थं वैतालिकानां मुखकमलकलोत्तालकोलाहलेन
स्फूर्जन्मङ्गल्यतूर्यप्रसमरमधुरध्वानसंवर्गितेन ।
कान्ताविस्तारितुझस्तनकलशतटाश्लेषसौख्ये निमातः
क्षिप्रं निद्राममुञ्चत्सकलसमयविद्विश्वविश्वैकवीरः ॥ १०३ ॥
प्रणतिपरनरेन्द्र श्रेणिरोचिष्णुरोचि-
मणिमुकुटविटङ्काङ्केषु संक्रान्तमूर्तिः ।
स विभुरथ बभाषे भक्तितस्तैरुदूढ-
प्रतिम इव समासे संनिभाया सभायाम् ॥ १०४ ॥
पवनगतिमथैत्य स्वामिदूतो बभाषे
तव कनकवतीति ख्यातिमत्यस्ति कन्या ।
निजतनयकृते तां याचते स्नेहगर्भ
गुरुविनयमय त्वा चक्रवर्ती महेन्द्रः ।। १०५ ॥
तस्येति दूतस्य निशम्य वाचं तं प्रत्यवादीत्स मुदावनम्रः ।
राज्यं कुटुम्ब विभवश्व सर्वाः प्राणश्च मेऽस्येव विभो. किमन्यत् ॥१०६॥
दत्ता मया किंतु जयन्तनाम्ना भूगोचरेण क्षितिपाङ्गजेन ।
सा पर्यणायीति विभोनिवेद्यं मदीयभक्त्या प्रथमं प्रसाद्य ॥ १०७ ॥
काव्यमाला।
उवाच दूतोऽथ नरेन्द्रपूर्व यत्प्रार्थितोऽपि प्रभुणा तथेयम् ।
ददे परस्मै तनया त्वया तन्नूनं कृतान्तः प्रगुणीकृतोऽयम् ॥ १०८ ॥
महापराधेन तव श्रुतेन क्रुद्धे विभौ कः शरणं जगत्सु ।
उत्कोपिते यष्टिमुखेन सिंहे क्षेमो हि कौतस्कुतमङ्गभाजः ॥ १०९ ॥
विराजमानं युवराजलक्ष्म्या श्रीचक्रिणोऽप्यस्य सुतं विहाय ।
भूगोचरस्यापि कथं त्वया सा द्विकस्य हंसीव ददे परस्य ॥ ११० ॥
एनं प्रत्यवदज्जयन्तसचिवो नीतिप्रियैः क्षत्रिय-
दूतोऽसीति न वध्यसे स्फुटतरं वध्योऽपि दुर्भाषणात् ।
यस्त्वं किंतु कुधीरवादयदिदं तं दुर्मदान्मेदुरं
युद्धे जीवितसंशयं मम विभोर्नेष्यत्यपास्य श्रियम् ॥ १११ ॥
हेलादिग्विजयार्जितोऽर्जितयशःशस्तप्रशस्ताक्षरै
रम्यां स्तम्भपरम्परां निहितवान्सर्वाब्धितीरेषु यः ।
हीलां कारयितुस्त्वदीयनृपतेश्छित्वा शिरःपङ्कजं
संग्रामाङ्गणदेवताभिकमले प्रक्षेप्तुमभ्येति सः ॥ ११२ ॥
श्रीस्वामिदर्पण पुनर्विवक्षुः कण्ठप्रदत्ताप्रतिमार्धचन्द्रः ।
शश्वत्प्रहारैर्विहितः कठोरैक्यैिः सभाया निरकाशि..... ॥ ११३॥
इति श्वेताम्बरश्रीमदभयदेवाचार्यविरचिते श्रीजयन्तविजयनाम्नि महाकाव्ये श्रीशब्दाझे
विवाहोत्सववर्णनत्रयोदश. सर्गः ।
चतुर्दशः सर्गः ।
अथेति दूतादवगम्य सम्यग्विद्याधराणामधिपः प्रवृत्तिम् ।
करालकोपस्फुरदोष्ठपृष्टः क्षणादभूकुटिभीषणास्यः ॥ १ ॥
जयश्रियं संयति लब्धुमिच्छोस्तस्यावभुः खेदलवाः शरीरे ।
सापल्यसंभावनया विमुक्ता वाप्पाम्बुलेशा इव राजलक्ष्म्याः ॥ २ ॥
तस्याट्टहासः प्रससार दन्तप्रभाप्ररोहैरुपचीयमानः ।
परं समुल्लासमुपेयुपोऽन्तः शौर्याम्बुधेः फेनिलबानुकारः ॥ ३ ॥
१४ सर्गः] जयन्तविजयम् । ९७ दोष्णः कृपाणे च रुषामिताम्रा तस्याघदृष्टिः शुशुभे पतन्ती । संग्रामकालस्य जयाय पूजानिमित्तमम्भोरुहमालिकेव ॥ ४ ॥ रराज गुञ्जारुणनेत्रकान्तिकरम्बिता तस्य कृपाणलेखा । समस्तवैरक्षितिपालशौर्यसूर्यास्तसंध्येव परिस्फुरन्ती ॥ ५ ॥ करीन्द्रकुम्भाहतिकर्कशेन स ताडयन्नसतटं करेण । चिराय वैरिव्ययतः प्रसुप्तं प्रबोधयशौर्यमिव व्यराजत् ॥ ६ ॥ इत्युलसत्तीव्रतराभिषड्गः संग्रामसाध्यं रिपुमाकलय्य । अमात्यवृद्धानवधीर्य दत्तिं प्रत्यचालीद्रधुनू पुरेशः ॥ ७ ॥ तस्य प्रयाणक्षणवाद्यमाना समाननिस्तानमहानिनादः। स संभ्रमैनिश्चलकर्णतालमाकर्णितो दिकरिभिर्विवग्नैः ॥ ८॥ भेरीरवस्तत्र समुल्ललास तथा यथा ध्यानजुषां मुनीनाम् । स संभ्रमाणां करपङ्कजेभ्यो द्रुतं निपेतुः स्फटिकाक्षमालाः ॥९॥ तत्रोल्लसद्भिः पटहप्रणादैर्दिशां मुखानि प्रतिशब्दवन्ति । कुर्वन्ति सामन्तमहीपतीनामकारणं कारणतः स्वभर्तुः ॥ १० ॥ तत्रैककालं परिवाद्यमाननिश्वा(स्वा)नभेरीपटहप्रणादैः । संस्थापिता सारथिना त्रसन्तः कथं कथंचित्तरणेस्तुरगाः ॥ ११ ॥ समारुरोहाथ समुलसद्भिर्ध्वजैः समन्तादुषढौकितथि । स चित्ररत्लद्युतिचित्रिताशं विमानमुन्निद्रतराभिमानः ॥ १२ ॥ जाते नभःप्राङ्गणसगतेऽथ विद्याधरेन्द्रस्य तदा विमाने । क्रमेण सामन्तमहीपतीनां विमानपतिः पिदधेऽन्तरिक्षम् ॥ १३ ॥ विद्याधराणां रुचिरैर्विमा निरन्तराले पवमानमार्गे । श्री'कतैवांशुमतः समन्तादभूदभिज्ञानकृते तदानीम् ॥ १४ ॥ तस्याथ दैवे प्रतिकूलभावमुपेयुषि प्रोषितपुण्यराशेः । समुल्ललासाभिमुखो नभखान्कुर्वन्निवोच्चैर्गलहस्तितानि ॥ १५ ॥ तेन प्रचण्डेन समीरणेन समूलमुन्मूलयता पताकाः । विनिर्मिता खेचरभूपतीनां विलूनवेणीव विमानमाला ॥ १६ ॥ १३
काव्यमाला।
समन्ततः शोणितपङ्कपिण्डविडम्बनाड़म्बरमादधानः ।
बभूव दुप्प्रेक्ष्यतरः खरांशुरवस्थितोऽन्तःपरिवेषमुच्चैः ॥ १७ ॥
दिवाकराधिष्ठितदिग्विभागमाश्रित्य फेत्कारपरम्पराभिः ।
भृशं शिवाः कातरजन्तुजातमुत्रासयन्त्यः प्रकटीबभूवुः ॥ १८ ॥
गच्छन्ति मार्गे सममेव गृध्रश्येनादयः क्रूरपतत्रिणस्तैः ।
व्यापारयन्तो नयनान्यभीक्ष्णं तेषां शरीरेष्वतिमांसलेषु ॥ १९ ॥
पतिप्रयाणां स्खलतोऽप्यभीक्ष्णं स दुनिमित्तैरिति खेचरेन्द्रः ।
आकृष्यमाणाः किल कालपाशैः खदेशसीमानमलंचकार ॥ २० ॥
अत्रान्तरे चारमुखात्तदीयं प्रस्थानमाकर्ण्य स कर्ण्यवर्ण्यः
महीपतिर्वायुगतिर्जयन्तममात्यवृद्धांश्च तदेत्यवोचत् ॥ २१ ॥
असौ समागच्छति खेचरेन्द्रः सान्द्राभिषाः किल संयुगाय ।
प्रचण्डदोर्दण्डबलावलेपादपि त्रिलोकी कलयस्तृणाय ॥ १२ ॥
जानामि तावद्भुजवीर्यमस्य. जानामि राज्याजसमग्रतां च ।
एतच्च जानामि यदस्य दैवमन्यायवृत्तेः प्रतिकूलमेव ॥ २३ ॥
अतः समायान्तममुं निशम्य संग्रामकामं न मदीयमेतत् ।
दोर्दण्डयुग्मं सहते विलम्बमतः परं यूयमिह प्रमाणम् ॥ २४ ॥
इत्थं समाकर्ण्य वचस्तदीयं न्यायानुविद्धं च समुद्धतं च ।
कालोचितं नीतिपथप्रवीणैः पुरस्कृतं मन्त्रिवरैस्तदेव ॥ २५ ॥
यातव्य एवायमयं न साध्यो विद्याधरेन्द्रस्तव देव सद्यः ।
उपेक्ष्यते कोऽभ्युदयी समीपं समीयिवांसं रिपुमस्तशस्तम् ॥ २६ ॥
समस्त्यसाध्यं भुवनत्रयेऽपि किं नाम देवस्य सदैव यस्य ।
हठोद्धृतारातिवलावलेपः सहायतामेव जयन्तदेवः ॥ २७ ॥
इत्थं च नैमित्तिकभापितं तत्कृतार्थतामेतु जयन्तदेव ।
अतः प्रचण्डेऽपि नभश्चरेन्द्रजयाय नूनं विजयोद्यमो वाम् ॥ २८ ॥
इतीरित नीतिपथानुकूलममात्यवृद्धैर्वचनं निशम्य ।
महीपती तौ रभसादभूतां निपीतपीयूपरसाविवोच्चैः ॥ २९ ॥
१४ सर्गः]
जयन्तविजयम् ।
९९
महीपतिर्वायुगतिस्तदानी विद्या समग्रा अपि सानुबन्धाः ।
प्रीत्या कुमाराय ददौ स तस्मै किमस्त्यदेयं हृदयंगमानाम् ॥ ३० ॥
अनन्तरं विक्रमसिंहसूनोः प्रत्यग्रपुण्योपचयाञ्चितस्य ।
असाधिता अप्यनुकूलभावं प्रपेदिरे ताः किल पाठसिद्धाः ॥ ३१ ॥
ततः प्रतस्थे स्थिरचित्तवृत्तिः शुभ मुहूर्ते पुरुहूतकान्तः ।
सामन्तसेनापतिमत्रिमुख्या नानन्द सद्यः स पुरस्क्रियाभिः ।। ३२ ।।
प्रयाणतूर्यध्वनिभिः समन्तान्नभोगण नादमय वितन्वन् ।
विमानमालाभिरपि प्रकामं समुद्गतार्क दु(१)सहस्रशोभि ॥ ३३ ॥
(युग्मम्)
तसिन्क्षणे दुन्दुभिमेघनादमाकर्ण्य तद्वीर विदूरभूमिः ।
मुमोच रोमाञ्चचयापदेशाद्रलाङ्कुरश्रेणिमिव प्रकामम् ॥ ३४ ॥
गभीरमेरीरणितैरमर्त्यमत्र्येषु दूरं बधिरीकृतेषु ।
तदात्मनः सर्पकुलं श्रुतीनामभावमुच्चैर्बहु मन्यते स्म ॥ ३५ ॥
तस्य प्रयाणक्षण एव देवैः प्रसूनवृष्टिर्मुमुचे नभस्तः ।
छन्दानुवर्तीव समीरणोऽपि मार्गानुगामी समजायतास्य ॥ ३६ ॥
वामेतरेणाक्षिसरोरुहेण प्रस्यन्दमानेन तथा भुजेन ।
तदात्मनः संयति सांयुगीनः स निश्चिकायाभ्युदयं जयन्तः ॥ ३७ ॥
तस्य प्रतापेन पुरस्कृतो वा बभूव भानुर्द्विगुणप्रतापः ।
सु(ख)श्रीकृतानीव तदीयकीर्त्यः प्रसादमापुः ककुभां मुखानि ॥ ३८॥
उपक्रमोऽयं विजयाय भावी तस्येति नूनं शकुनाः शशसुः ।
प्रदक्षिणावर्तमिषेण येन ददुर्निजं दक्षिणहस्तमस्मै ॥ ३९ ॥
इत्युल्लसद्भिः शकुनरनिन्द्यैरानन्दसंदोहतरजिताङ्गः।
अलंचकार क्षितिपालचन्द्रः खदेशसीमानममानमानः ॥ ४० ॥
समीपभावं समुपागतेऽथ विद्याधराणां शिबिरद्वयेऽपि ।
परस्परं यामिकसैनिकानां भवत्सु कोलाहलडम्बरेषु ॥ ४१ ॥
अन्योन्यशौण्डीर्यगुणप्रकर्षप्रकाशनोत्तालकुतूहलेषु ।
मिथः प्रयुक्तेषु च संचरत्सु तदन्तरे बन्दिपुरंदरेषु ॥ ४२ ॥
१०० काव्यमाला। निरूपिते निर्भरसङ्गराय दिनेऽथ दैवज्ञगुणैर्गुणाढ्यैः । भेरीरवापूरितरोदसीकं सैन्यद्वयं तत्प्रगुणीबभूव ॥ ४३ ॥ (त्रिमिर्विशेषकम्) पूर्वाचलं चुम्बि(म्ब)ति चण्डरश्मौ विस्मेरवक्राम्बुरुहो जयन्तः । प्रत्यूषकृत्यं विधिवद्विधाय संस्मृत्य चान्तःस्मरणीयमिष्टम् ॥ ४४ ॥ प्रदक्षिणीकृत्य पतिं प्रभूणामुदङ्मुखः संगरबद्धलक्ष्यः । आनन्ददानैरनुजीविवर्ग संग्रामभूमि समलंचकार ॥ ४५ ॥ (युग्मम्) अनन्तरं वायुगतिर्नरेन्द्रः समस्तसामन्तसनाथपार्श्वः । लब्धाद्यरेखः समराजिरेषु तस्याग्रतोऽभूदसमाभिमानः ॥ ४६ ॥ विद्याधरेन्द्रोऽपि सहस्रसंख्यैः सामन्तसेनापतिभिः परीतः । सुते पुरोवर्तिनि सांयुगीने रत्नाङ्गदे संगररङ्गमागात् ॥ ४७ ॥ अवन्ध्यविद्याबलतस्तदानीं पक्षद्वयेऽपि प्रसरत्प्रतापम् । आविर्बभूव प्रतिपन्थिका(सा)र्थविक्षोभदक्षं चतुरङ्गसैन्यम् ॥ ४८ ॥ ततः कृतान्तभ्रकुटीकरालकोदण्डचण्डध्वनिपूरिताशम् । समं समानैः परिपन्थिसाथैः प्रारब्धमायोधनमग्रसैन्यैः ॥ ४९॥ समुल्लसद्भरितरान्धकारे निरन्तराभिः शरधोरणीभिः । दिवापि निर्सितभानुबिम्ब नभस्यभूत्तारकचक्रवालम् ॥ ५० ॥ धनुर्धरः कश्चिदवार्यवीर्यः शौर्यातिरेकायुगपत्क्षुरप्रैः । प्रत्यर्थिवीरस्य पतत्रिपजिमौर्वीजयाशां चललाव ॥ ५१ ।। निशातनिस्त्रिंशविशीर्णजीर्णशरीरबन्धैर्युधि वीरवगैः । संप्राप्य दिव्यं वपुराशु मेने परापकारोऽप्युपकार एव ॥ १२ ॥ परस्परप्रेरितशस्त्रसंघसंघट्टजन्मा जगतः पतीनाम् । जयश्रियः पाणिसमागमेऽभूप्रदक्षिणा योग्यदशः कृशानुः ॥ १३ ॥ प्रमादिनं वीक्ष्य विपक्षवीरमरातिसूतः प्रयतः प्रहर्तुम् । तदीयनिस्विंशहतोरुयुग्मः सद्यः प्रपेदेऽरुणसारथित्वम् ॥ ५४ ॥ १. 'जवा' इति स्यात् १४ सर्गः] जयन्तविजयम् । १०१ प्रचण्डदण्डाहतिचूर्णितानां रथस्थितानां रथिनामुपेत्य । परस्परास्त्रोन्मथनप्रसूतः पर्यन्तकृत्यं दहनश्चकार ॥ ५५ ॥ (युग्मम्) प्राणांस्तृणीकृत्य विपक्षकुम्भिकुम्भस्थलीपाटनलम्पटोऽन्यः । तदीयमुक्ताफलबीजवापमसूत्रयत्कीर्तिलतोद्माय ॥ १६ ॥ आधोरणानामभितः पतद्भिर्विपक्षविक्षोभकरैश्च कुन्तैः । तुरङ्गिणः कीलितकायकाण्डाः समं तुरङ्गैरगमन्रसायाम् ॥ १७ ॥ , तुरङ्गमातङ्गनरोत्तमा.निरन्तराले रणरहपीठे। परस्परं लोचनगोचरस्थैरपि प्रहर्तु चकमे न वीरैः ॥ १८ ॥ परिच्युतं संयति गाढघाताच्छिरः शिरस्त्रप्रतिबद्धमेव । परामृशन्पक्षगणस्तदापत्रोटत्रुटेरन्यदहो न किंचित् ॥ ५९॥ निशातशस्त्रप्रविदीर्णदेह गर्नगेन्द्रप्रतिमैर्निपत्य । शिरःसरोजाभरणाः कियन्त्यः कीलालकुल्या परिकल्पिता न ॥१०॥ इति प्रवृद्धे समरोपरागेऽप्यरागवत्तीव्रजवैर्मरुद्भिः । श्रीमज्जयन्तस्य विपक्षसैन्यैर्बलं बलिष्ठैः परितोऽवधूतम् ॥ ६१ ॥ ततः प्ररूढप्रमदो मदान्धैर्भूपालवृन्दैरनुगम्यमानः । जयन्तमुद्दिश्य विवृद्धकोपो विद्याधराधीशसुतः प्रतस्थे ॥ ६ ॥ तं वीक्ष्य विक्षोभकरं परेषां परापतन्तं रभसादसह्यम् । तदन्तरे वायुगतिर्नरेन्द्रः प्रत्यग्रहीदग्रसरो रणेषु ॥ १३ ॥ तयोरथोल्लम्भितभीमनादमुदारनाराचतिरोहिताशम् । त्रुटत्तनुत्रं भरभग्नपत्रं त्रस्यज्जनं जन्यमजायतोचैः ॥ ६४ ॥ समुच्छलद्भिर्गजगजिनादैहें पारवैरश्वमतल्लिका । प्रवीरकण्ठध्वनिभिश्च विश्वं विश्वं तदा नादमयं वभूव ।। ६५ ॥ कश्चित्प्रवीरः परिपन्थिशस्त्रप्रहारमूर्छाविधुरोऽतिमात्रम् । प्रयातु कामानपि नातु मेने प्रतिप्रहारप्रविधित्सयासून् ॥ ६ ॥ दृप्तप्रतिद्वन्द्विकृपाणलूने शिरस्यथो सायककीलितेऽन्यः । निहत्य सामर्पतया विपक्ष विलक्षकीर्तिर्दिवमारुरोह ॥ ६७ ॥ १. 'जा' इति स्यात्
काव्यमाला ।
प्रहारमूर्छाप्रविलुप्तसंज्ञं वरार्थिनी कंचिदुपेत्य वीरम् ।
पुनः प्रवृत्तं प्रधनाय दृष्ट्वा जगाम लजां विधुरा सुरस्त्री ॥ १८ ॥
आधोरणैस्तीवरुषः प्रयुक्ताः करैः प्रवीरान्करिणोऽभिगृह्य ।
चक्रुः समाक्रम्य वपुः पदाभ्यां शिरःसरोजैर्बलिमन्तकाय ॥ १९ ॥
रथाङ्गधीरध्वनिनादमुद्याहारकूजत्करिकण्ठनादम् ।
नृत्यत्कबन्धं समराङ्गणं तत्कृतान्तसंगीततुलां प्रपेदे ॥ ७० ॥
गतेऽथ दैवे प्रतिकूलभावं विद्याधराधीश्वरसूनुसैन्यम् ।
कुलं द्विपानामिव सिंहनादादरातिशस्त्रोन्मथनाद्विशीर्णम् ॥ ७१ ॥
ततः प्रहस्य प्रहतप्रवीरकपालमालाकुलितं रणाग्रम् ।
रत्नाङ्गदं वायुगतिविधृत्य जयन्तपादान्तिकमानिनाय ॥ ७२ ॥
निशम्य सूनोरपमानमुच्चैनभश्चरेन्द्रोऽप्यथ सान्द्रकोपः ।
अनन्यसाध्यं रिपुमाकलय्य प्रचक्रमे स खयमाहवाय ॥ ७३ ॥
तस्मिन्समाक्रामति च प्रदोषे तमःसमूहैरिव भूरिसैन्यैः ।
रणाङ्गणं पूर्वमहीधरं वा जयन्तशीतांशुरलंचकार ॥ ७४ ।।
ततस्तयोः संप्रयुजे प्रकोपप्रकम्पमानाधरयोः क्षणेन ।
शाथ दृष्टिर्वचसा च वाक्यं शस्त्रेण शस्त्रं युगपत्नहोंः ॥ ७९ ॥
वितेनतुनिर्विवरं प्रवीराववन्ध्यपातैरिषुभिस्तु तस्थौ ।
नभोऽङ्गणं संगरदर्शिनीनां शूराङ्गनानां जनिताभ्यसूयौ ॥ ७६ ॥
शस्वैर्धनुःखड्गभुशण्डिभल्लनाराचचक्रप्रमुखैः सरोषम् ।
कुर्वाणयोः संगरकर्म तीनं तयोर्न कश्चित्परभागमाप ॥ ७७ ॥
स दुर्गतस्येव मनोरथेषु समस्तशस्त्रेषु फलीभवत्सु ।
विद्याधरेन्द्रोऽरिवधाय हप्तं मुमोच दिव्यं द्विरदास्त्रमुच्चैः ॥ ७८ ।।
रणाङ्गणे वैरिवरान्करात्रैरुल्लासयन्तः कलभास्ततोऽसात् ।
निश्चक्रमुः संगरसंमुखानां स्वर्ग स्वदेहैरिव दर्शयन्तः ॥ ७९ ॥
प्रचण्डदन्तावलदन्तदण्डविखण्डितं वीक्ष्य जयन्तदेवः।
सैन्यं विपक्षक्षयबद्धलक्ष्यः पञ्चाननास्त्रं विससर्ज सद्यः ॥ ८० ॥
१४ सर्गः]
जयन्तविजयम्
बिम्बादिव व्योममणेर्मयूखाः सहस्रशः केशरिणः प्रसत्रुः ।
तस्मादकस्मादिभकुम्भपीठं विपाटयन्तः कुटिलैनखात्रैः ॥ ८१ ॥
विद्याधरेन्द्रोऽप्यथ वारणेन्द्रापारीन्द्रवृन्दैनिहितानवेत्य ।
समाददे तद्वधबद्धकक्षमक्षीणशक्तिः शरभास्त्रमुच्चैः ॥ ८२ ॥
उदस्तहस्ताः शरभास्ततोऽस्मात्पञ्चाननान्कन्दुकलीलयैव ।
समुत्क्षिपन्तो नवनीरवाहगभीरधीरध्वनयो निरीयुः ।। ८३ ॥
तिरस्कृतान्वीक्ष्य विपक्षमुक्तैः सिहानथासौ शरभैर्नृसिंहः ।
आग्नेयमस्त्रं त्रिपुराय पूर्व पुरान्तकारीव मुमोच दृप्तम् ॥ ८४ ॥
धूमावलिश्यामलिताम्बरान्तैर्वभौ भटित्रीकृतवीरवारम् ।
जाज्वल्यमानैवलनैः कृतान्तमहानसं वा समराजिरं तत् ।। ८५ ॥
भस्मीकृतान्खेचरचक्रवर्ती शिखिप्रपञ्चैः शरभानवेत्य ।
ततस्तदाटोपहरं तपस्वी पाथोधरास्त्रं तरसा मुमोच ॥ ८६ ॥
ततोऽन्धकारीकृतदिग्विभागैः स्तनद्भिरुल्लासिसुरेन्द्रचापैः ।
तडिल्लतादन्तुरितैः प्रदृष्टमुच्चैस्तरां तत्र घनाघनौधैः ।। ८७ ॥
अथानले चञ्चलदीप्तिदम्भादम्भोधराणां शरणं प्रपन्ने ।
पयोदसंमर्दविधाववन्ध्यं वायव्यमस्त्रं नृपतिर्मुमोच ॥ ८८ ||
दिशो दिशं तूलमिव क्षिपन्तः पयोदवृन्दं मरुतस्ततोऽस्मात् ।
निरीयुरायोधनकर्मवन्ध्यं प्रत्यर्थिसैन्यं च महाजवेन ॥ ८९ ॥
ततः प्रकोपप्रसरत्कदुष्णश्वासानिलान्दोलितहारयष्टिः ।
विद्याधरेन्द्रः पवनाशनास्त्रं मुमोच तच्चापलदोषहारि ॥ ९० ॥
प्राणान्पिबन्तस्त्रिजगज्जनानां कौटिल्यमुच्चैरुपदर्शयन्तः ।
क्षतं विनैवाङ्गभृता लगन्तस्ततः प्रसस्रुः प्रसभं द्विजिह्वाः ॥ ९१ ॥
भुजङ्गपूगग्रसनादजसं प्रभञ्जने भङ्गुरतां प्रयाते ।
प्रत्यस्त्रमुच्चैरमुचन्महीपो महीपतिः पत्ररथेन्द्रसंज्ञम् ॥ ९२ ॥
उत्पातवातो..."तपक्षपातप्रकम्पिताशेषनगाः खगेन्द्राः ।
तस्मान्निरीयुनिजकायकान्त्या पतिं प्रभाणामपि भयिन्तः ॥ ९३ ॥
१०४
काव्यमाला।
..
मृणालनालोपमया निमेषाद्भुजङ्गपूगे कवलीकृते तैः ।
मुमोच गुजामुखमेव काम नभश्चरेन्द्रस्तिमिरास्त्रमुच्चैः ॥ ९४ ॥
तमालतालीगवलालिनीलैनीलीरसेन स्नपितामिवोर्वीम् ।
कुर्वद्भिरुद्भूतमथान्धकारैः कारानिकतप्रतिमैः परेषाम् ॥ ९५ ॥
निमीलिता लोचनचक्रवाले विहङ्गमानामनुजीविनां च ।
ध्वान्तस्ततस्तत्परिपन्थिभूतं प्रद्योतनास्त्रं नृपतिर्मुमोच ॥ ९६ ॥
ततः किरन्तः करजालमुच्चैविस्मेरयन्तो नयनाम्बुजानि ।
विशोषयन्तः परवाहिनीं च प्रादुर्बभूवुस्तपनाः समन्तात् ॥ ९७ ॥
निराकृते संतमसः प्रचारे खरांशुभिः खेचरचक्रवर्ती ।
दिशद्दशां दीनतरामरीणां विधुतुदास्त्रं तरसा मुमोच ॥ ९८ ॥
देहं विनाप्याश्रितविग्रहोग्रास्तमःस्वरूपा अपि तज्जितार्काः ।
निकृत्तकण्ठा अपि चित्समग्राः प्रसस्रुरुच्चैरथ सैहिकेयाः ॥ ९९ ॥
खर्भाणुभिर्भास्करचक्रवाले बलावलेपाकवलीकृतेऽथ ।
श्रेणीद्वयस्यापि भविष्णुचक्री चक्रायुधास्त्रं तरसा मुमोच ॥ १० ॥
देहप्रभापीवरिताम्बरान्तास्तस्मादकस्मान्मुरविद्विषोऽथ ।
निश्चक्रमुश्चक्रगदाकृपाणकोदण्डदण्डाञ्चितबाहुदण्डाः ॥ १०१ ॥
तेषां च तीव्रांशुसितांशुरूपे विजृम्भिते लोचनचक्रवाले ।
कृतापराधैरिव यत्तमोभिः पलायितं हन्त किमत्र चित्रम् ॥ १०२ ॥
गतेषु दूर विधवाइनानां लावण्यरूपेष्विव निष्फलत्वम् ।
अस्त्रेषु शस्त्रेषु च खेचरेन्द्रस्त्रपावनम्रो जगदे नृपेण ॥ १०३ ॥
हंहो महावीर विमुञ्च लज्जा रणान्निवर्तख भव खराज्यम् ।
किं नाम तारुण्यबलावलेपो भवन्तमद्याप्युपरीकरोति ॥ १०४ ॥
श्रुत्वेति कोपान्धितधीनरेन्द्रः सोऽप्याह योग्योऽस्मि न तेऽधुनापि ।
गम्योऽस्ति गोमायुशिशोः कदाचिद्धोऽपि किं रे हरिणाधिराज१०५
अस्मादिदं दुर्वचनं प्रवृत्तमितीव रोषात्रिपुरान्तकास्त्रम् ।
अमोघमस्मै नृपचक्रवर्ती मुमोच चिच्छेद च कण्ठपीठम् ॥ १०६ ॥
१५ सर्गः] जयन्तविजयम् । १०६ अथ सुरपथवल्गदिव्यभेरीनिनाद- द्विगुणितकलभृङ्गारावगर्भ नभस्तः । शिरसि सुरकराजप्रेरितं पुष्पवर्ष न्यपतदवनिभर्तुर्मङ्गलोद्वारसारम् ॥ १०७ ॥ पुरमथ रथनूपुराभिधानं गगनचरैः परिवारितः प्रविश्य । अभजत निजपौरुषोपनीतामवनिपतिः खचराधिराजलक्ष्मीम् ॥ १०८॥ तदनु विनयवामना नरेन्द्राः खचरपतेरनुजीविन. प्रणम्य । अवनिपरिवृढं किरीटकोटीघटितकराः शिरसा दधुस्तदाज्ञाम् ॥१०९॥ विलेभे विपयान्सद्यस्तेषामपि महीपतिः । न नाम महता सेवा भजते जातु वन्ध्यताम् ॥ ११० ॥ राज्याभिषेकमनुभूय नभश्चरेन्द्र- सूनुं निदेशगतमत्र निवेश्य यानम् । श्रीमान्स वायुगतिसंनिहितोऽधिरुह्य ख राज्यमवरचराधिपतिः प्रतस्थे ॥ १११ ।। इति श्वेताम्बरश्रीमदभयदेवाचार्यविरचिते श्रीजयन्तविजयनाम्नि महाकाव्ये श्रीशब्दाके आयुववर्णनो नाम चतुर्दश सर्ग । पञ्चदश सगे । इतश्च सुस्थितः सूरि. श्रीजयन्त्यां समाययौ । निजै रराज यः शिष्य. कल्पशाखीव पल्लवैः ॥ १ ॥ मूर्तिमानिव यो धर्मः कुलशान्तेरिवामलम् । कृपावरेण्यपण्यस्त्रीलास्यलीलैकरङ्गभूः ॥ २ ॥ उद्यत्तीनं तपस्तेजः सोमत्वं च परं दधत् । यो वभौ मिश्रितैः सृष्टः पुष्पदन्तदलैरिव ॥ ३ ॥ यः केवलावलोकेन विरेजे संशयच्छिदा। व्योमेव व्योमरतेन ध्वान्तध्वंसपटीयसा ॥ ४ ॥ यद्गुणैर्हतचित्तोऽपि तत्त्वार्थविदुराग्रणीः । जायते जनता चित्रं कस्य नेद विवखतः ॥५॥ १४ काव्यमाला । श्रुतपूर्वी समायातं निजोद्याने महीपतिः । गत्वा विक्रमसिंहस्तं ववन्दे सपरिच्छदः ॥ ६ ॥ ततश्च दशनज्योतिज्योतिताधरपल्लवः । आनन्ध धर्मलाभेन तमारेभे स देशनाम् ॥ ७ ॥ सार्वसर्वोपमातीतः समस्ताद्भुतवैभवः । श्रीसर्वज्ञपरं देवः सतां निःश्रेयसः श्रिये ॥ ८ ॥ तदाज्ञामौलिमाणिक्यः सुसाधुश्च गुरुमंतः । यतः पारीणतां याति जन्तुः संसारवारिधेः ॥ ९ ॥ लोकंपृणः पृणीतस्तैर्धर्मो जीवदयाग्रणीः । यो मनोरथवल्लीनां स्पर्द्धते निजदोहदैः ॥ १० ॥ जैनं जनस्य दानानि धर्मकर्म चतुर्विधम् । राजसैन्यमिवानन्यदन्तरारि जयश्रिये ॥ ११ ॥ सुगतिप्रेयसी पुंसां बोभवीति वशंवदा । जम्भमाणे जिनेन्द्रोक्तधर्मकार्मणकर्मणि ॥ १२ ॥ इति देशनया सूरेमिथ्यात्वममुचन्नृपः । निःशङ्कं पङ्कसंपर्क शरदेव सरिजलम् ॥ १३ ॥ श्रद्धासमृद्धिसंबन्धबन्धुरो धरणीधवः । श्राद्धधर्मधुराधीरधौरेयत्वमधात्ततः ॥ १४ ॥ अत्रान्तरे द्विजः कश्चित्पाण्डित्यमदमेदुरम् । वाचमुल्लासयामास सर्वज्ञाभावसिद्धये ॥ १५ ॥ मत्सरो नात्र मे राज्ञा सर्वज्ञो मन्यतेऽद्य यत् । अप्रमाणेन तेनायं कि त्वेतैर्विप्रतारितः ॥ १६ ॥ सर्वज्ञो नास्ति याह्यः प्रमाणैः पञ्चभिर्न सः । यदेवं तद्भवेदेवं यथा व्योमसरोरुहम् ॥ १७ ॥ रम्यानहारिण्यो यथा रूपं मृगीदृशः । विलोकते तथा चक्षुः सर्वज्ञस्य न जातुचित् ॥ १८ ॥ १. 'मनो' इति स्यात् १....... --
१५ सर्गः]
जयन्तविजयम् ।।
१०७
वधूनामधरस्येव मधुरा मधुसंपदम् ।
नैव सर्वज्ञतां जातु गृह्णीते रसनेन्द्रियम् ॥ १९ ॥
ग्रामरागादिसंदर्भगर्भसौभाग्यभूषणम् ।
गीतिभङ्गीमिवादत्ते श्रोत्रं सर्वज्ञतां नहि ॥ २० ॥
कर्परागरुकस्तूरीविचित्रकुसुमोद्भवम् ।
सौरभ्यमिव नादत्ते सर्वज्ञ प्रांणमिन्द्रियम् ॥ २१ ॥
सर्वज्ञोऽस्तीति न ज्ञानं स्पृशति स्पर्शनेन्द्रियम् ।
कुष्टिन्यङ्गमिवानगसमाङ्गो जातु धीधनः ॥ २२ ॥
प्रत्यक्षं पञ्चधाप्येव सुधासर्वज्ञसाधने ।
तत्प्रतिष्ठाविधौ मान जातु मान च वल्गति ॥ २३ ॥
लिङ्गेन लिङ्गचते लिङ्गी साध्यधर्मविभूषितः ।
अविनाभावसंबन्धं संबन्धेन च नात्र तत् ॥ २४ ॥
सर्ववित्तोपमानेन प्रमाणेनैष गृह्यते ।
प्रवर्तते हि सादृश्यात्तद्दोगवययोरिव ॥ २५ ॥
परेषां नागमेनापि सर्ववित्साध्यते वुधैः ।
अन्योन्याश्रयदोषो हि निर्विवादोऽत्र वादिनाम् ॥ २६ ॥
नार्थापत्तिप्रमाणं च सर्वज्ञास्तत्त्वसिद्धये ।
तत्र साध्या विनाभावभावो यत्रास्ति कश्चन ॥ २७ ॥
प्रमाणपञ्चकस्यैवं सर्वज्ञो नास्ति गोचरः ।
तदभावप्रमाणेनाभावस्तस्येति मन्यताम् ॥ २८ ॥
अनुज्ञया गुरोस्तस्य क्षुल्लको वादिसत्तमः ।
प्रतिवादिवचोऽनूय दूषयामास वादिनः ॥ २९ ॥
न सर्वज्ञः प्रसिद्धस्ते साध्यधर्मीह साधने ।
अप्रसिद्धविशेष्यत्वं पक्षदोषः स्फुटरततः ॥ ३० ॥
हेतुमप्याश्रयासिद्धहेतु......"दूषितम् ।
अन्धुमन दवा पेऽपि कुदृष्टे त्व न पश्यसि ॥ ३१ ॥
१०८
काव्यमाला।
प्रमाणपञ्चकं तस्याग्राहकं तव चेन्मतम् ।
आत्मीयं परकीय वा तार्किकंमन्य तद्वद ॥ ३२ ॥
प्रत्यक्षायैस्तवाज्ञात यदि वस्तु न विद्यते ।
तदा पितामहाद्याः स्युरसंभवपदं तव ॥ ३३ ॥
ततस्तवापि नो जन्म संभवीति प्रसज्यते ।
पण्डितैस्तदहो श्लाघ्यं पाण्डित्यं खण्डितान्वयम् ॥ ३४ ॥
द्वितीयके तु पक्षे स्यान्नूनं सर्वज्ञता तव ।
यो वेत्ति तत्र सर्वेषां प्रत्यक्षाद्यपवर्तनम् ॥ ३५ ॥
ब्रूषेऽथ साध्यधर्मीह सर्वज्ञः परसंमतः ।
ततश्च पक्षहेमू(तू)क्तदोषो श्लेषोऽपि कोऽपि न ॥ ३६ ॥
तेन निर्मूलमेवेदं साधनं यत्त्वयोदितम् ।
प्रामाण्यकोटिसंटकं कथमाटीकते ततः ॥ ३७ ॥
प्रमाणमप्रमाणं वा पराभ्युपगमस्ततः ।
प्रमाणं चेत्त्वयैवेदं साधितं नः समीहितम् ॥ ३८ ॥
अप्रमाणे तु तत्र स्युः सर्वे दोषास्तथैव ते ।
पाण्डित्यमुखयोर्मूर्खमालिन्याय मखीसखा ॥ ३९ ॥
अथ ब्रूषे प्रमेयोऽयं कल्पनयन(?) कल्पितः ।
विद्यमानस्य सा तस्या विद्यमानस्य वामता ॥ ४० ॥
पक्षे सा प्रथमे व्यर्था तस्य सत्वाद्विनापि ताम् ।
तद्विधानेऽपि वेदादौ भवेत्सातिप्रसङ्गतः ॥ ४१ ।।
स तु कल्पनया हन्ति निरासो नोचितस्ततः ।
विरुद्धसाधकत्वेन विरुद्धो हेतुरत्र ते ॥ ४२ ॥
अथास्याविद्यमानस्य कल्पनाभिमता तव ।
एवं न कोऽपि हेतुः स्यादाश्रयासिद्धिभोजनम् ॥ ४३ ॥
बौद्धं प्रत्यात्मनित्यत्वे साध्येऽनुत्पत्तिराहता।
सुकल्पसाध्यमित्वात्सद्धेतुः स्यात्प्रसङ्गतः ॥ ४४ ॥
१५ सर्गः]
जयन्तविजयम् ।
१०९
प्रमाणपञ्चकाभावः सर्वज्ञाभावसिद्धये ।
ज्ञातोऽनवस्थयाक्रान्तो ज्ञातोऽज्ञस्यापि किं न सः ॥ ४५ ॥
संबन्धग्रहणं तत्र न मानाग्राह्ययोस्तयोः ।
इत्यज्ञाते स्वरूपेऽखखरूपासिद्धता भवेत् ॥ १६ ॥
पुरुषत्वान्न सर्वज्ञः सोऽस्मदादिवदित्यपि ।
न युक्तमत्र संदिग्धविपक्षावृत्तिसाधनात् ।। ४७ ॥
कि च पश्यत्ययं सर्वमिन्द्रियापेक्षया न वा ।
सर्वज्ञो नादिमे पक्षे यन्नातीन्द्रियभाववित् ॥ ४८ ॥
पक्षान्तरेऽपि सर्वज्ञाः स्युरन्धवधिरादयः ।
इति चेत्तदसघनाभ्युपागमपराहतम् ॥ १९ ॥
कि च ज्ञानं न सर्वज्ञविज्ञानत्वाद्यथा तव ।
नेदं सम्यगिहोपाधिर्यज्ज्ञानाचरणोदयः ।। ५० ॥
प्रागभावं यदि ब्रूषे प्रध्वंसाभावमस्य वा ।
पश्चात्पूर्वं तदस्ति त्वं सर्वज्ञस्य न वेत्सि किम् ॥ ११ ॥
अस्येतरेतराभावे सत्त्वं कुम्भेभयोरिव ।
स्थान्नात्यन्तमभावोऽपि सतोऽनुमानतोऽमुतः ।। ५२ ।।
अस्त्यतीन्द्रियविज्ञेयः साक्षात्कारीह कश्चन ।
चन्द्रार्कग्रहणादीनामालिङ्गाद्युपदेशतः ॥ १३ ॥
तथोपदेशको यत्र यः साक्षात्कुरुते स तम् ।
अस्मदादिर्यथा खानुभूते भावे तथा च सः ॥ १४ ॥
प्रमाणपञ्चकेत्यादिहेतुर्मी(लांशतस्ततः ।
स्वरूपासिद्धिमध्यास्ते शलभोऽग्निशिखामिव ।। ६५ ॥
सर्वज्ञ संशयः प्राप्तः साधकं बाधकं विना।
मानं त्वयेति नाशङ्कयं मदुक्तव्यक्तयुक्तितः ॥ ५६ ॥
अथ ब्रूषे निराकारं ज्ञानं सर्वविदो यदि ।
तत्तदाकारशून्यत्वान्नाप्यर्थग्रहणे प्रभुः ॥ १७ ॥
११०
काव्यमाला ।
निजाकारेण साकारे तत्र नार्थावभासनम् ।
प्रसज्येत पराकारदरिद्रं तद्यतो मतम् ॥ १८ ॥
अथार्थैरपिताकारे तत्र विश्वस्य शून्यता ।
प्रसज्यते ततो ज्ञानं तत्र गोचरयत्वदः ॥ ५९॥
अर्थः समर्पिताकारैरनन्तैस्तत्समाकुलम् ।
सजातीयविजातीयभेदनि (D)यकं कथम् ॥ ६ ॥
अत्रोच्यते त्वयोद्दिष्टा दोषा ज्ञाने हि कोऽपि न ।
अर्थग्रहणरूपेण परिणामि हितं मतम् ॥ ११ ॥
ततोऽनन्तस्वभावत्वादनन्तार्थोपलम्भकम् ।
ज्ञानं सिद्धमितः सिद्धिः सर्वज्ञस्येति मन्यताम् ॥ १२ ॥
निर्जिते मुनिना वादे निग्रहस्थानमागतः ।
निर्भय॑ मत्सरी राज्ञा स ततो निरकास्यत ॥ ६३ ॥
प्रशशंस विशामीशस्ततस्तं वादिनं मुनिम् ।
इत्थं प्रभावना जज्ञे त्वत्तोऽद्य जिनशासने ॥ ६४ ॥
विकल्पजालकल्लोलैर्जल्पकल्लोलिनीपतौ।
पातालप्रणयिन्यत्र धीरभूत्तस्य वादिनः ॥ ६५ ॥
मुनेऽद्य मौनमुद्रास्ये वैलक्ष्यं वास्य वादिनः ।
ददे त्वयाददे वाशु जल्पकौशलजं यशः ॥ ६६ ॥
अथ विद्याधरः कश्चिदवतीय विमानतः ।
मुनिं नत्वा नृपं चास्य व्यजिज्ञपदतिप्रियम् ॥ ६७ ।।
योऽपजहे सुतस्तेऽसौ वैताव्यं सानुकूलया ।
चक्रे देवतया राजकन्येशश्चक्रवर्त्यपि ॥ ६८ ॥
सोऽयमायाति भूमीन्द्र प्रसाध्य जगतीमिह ।
जयन्तः खभुजप्राप्यशौर्यनिर्जितशात्रवः ॥ १९ ॥
सुरस्रोतखिनीस्रोतः सुतं वारीव शीतलम् ।
राज्ञोऽथ तद्वचोऽपास्य तापं पुत्रवियोगजम् ॥ ७० ॥
१६ सर्गः]
जयन्तविजयम् ।
अभूदवीचिभिः स्नातः सस्नेहं सुतवार्तया ।
दिदृक्षुरक्षिपच्चक्षुस्तं ततः स नभस्तले ॥ ७१ ।।
आययौ खेचरश्रेणिचक्रवर्तिश्रियः प्रियः ।
विमानैः
पूरयन्नाशा मुदा च नयने पितुः ॥ ७२ ॥
जिनेन्द्रमिव देवेन्द्रः समुत्तीर्य विमानतः ।
नमश्चक्रे नमस्याह श्रीजयन्तो गुरुं ततः ।। ७३ ।।
आश्चर्यैकपदैर्गुणैस्त्रिभुवने भ्राम्यद्यशःसौरभै-
स्तैस्तैरभ्युदयैरसी""सुकृतप्रागल्भ्यलभ्यर्भृशम् ।
दिग्यात्रासु जयैश्च तस्य जनको नारञ्जि राजा तथा
श्लाध्यैः श्रीजिनधर्मकर्मभिरपि प्रीत्या गृहीतैर्यथा ॥ ७४ ॥
पितुः स विद्याधरचक्रवर्ती सुश्रावकत्वेन गुणी गुणेन ।
तदा कुमारोऽपि मुदम्बुपूरैः समुद्रमुद्रा बिभरांबभूव ॥ ७५ ॥
मुखालोकैः प्रौढप्रणयसुभगैस्तस्य सुगुरोः
कृतार्थीकुर्वाणो नयननलिने भूपतिरथ ।
पदोरर्चा कृत्वा मणिमुकुटिदीप्तांशुकुसुमै-
रलंचक्रे शक्रानुज इव विभूत्या स सदनम् ॥ ७६ ॥
सर्वत्र क्षितिमण्डले क्षितिधवैः श्रीविक्रमक्ष्मापते-
रादेशेन विनिर्मिताद्भुततमा जैनेन्द्रावलिः ।
उन्मीलन्मणिकिंकिणीक्वणमिषादाख्यातुमभ्युद्यते
वाभादद्भुतपुण्यकीर्तिपटला कान्ता प्रभुत्वाश्रया ॥ ७७ ॥
इति श्वेताम्बरश्रीमदभयटेवाचार्यविरचिते जयन्तविजयनाम्नि महाकाव्ये श्रीशब्दाङ्के
नरेन्द्रसम्यक्त्वप्रतिपत्तिवर्णनो नाम पञ्चदश. सर्ग ।
षोडश. सर्ग ।
अन्यदा सदसि राजशासनाद्वेत्रिणा सपदि संप्रवेशितः ।
विक्रमक्षितिपते पुरः पुमान्कश्चिदेवमवदत्कृताञ्जलिः ॥ १ ॥
काव्यमाला। अस्ति हास्तिनपुरं भवसुरामातिदूरभुवि देव विश्रुतम् । येन दक्षिण दि]गगनामुखाम्भोरुहे तिलकचारुता दधे ॥ २ ॥ चन्द्रकान्तमणिसान्द्रकान्तिभिर्यजिनेन्द्रसदनैर्मनोरमैः । खं पुरीमिव हसत्यनुक्षणं गोत्रभिद्विहितनीतिसंपदम् ॥ ३ ॥ यत्र वेदमुखरा द्विजातयः सप्तमी भवनभूमिमाश्रिताः । संवदन्ति निजवासनोद्धतं कुम्भजन्ममुनिना सहान्वहम् ॥ ४ ॥ पालयत्यवनिपालमण्डलीमौलिलालितपदस्तदद्भुतम् । वैरिसिंह इति वैरिसुन्दरीलोचनाञ्जनतमिस्रभास्करः ॥ ५ ॥ स्फारपुष्करकदम्बचुम्बिता यस्य खगलतिका कराम्बुजे । युद्धनाशितहतावनीभृतानामवर्णवहिकाश्रियं दधे ॥ ६ ॥ भाग्यसंपदिव पुष्पधन्वनः सृष्टिसारमिव पद्मजन्मनः । तस्य देव कमलेव वारिधेरद्भुतास्ति रतिसुन्दरी सुता ॥ ७ ॥ तत्स्वयंवरविधानकौतुकोत्साहदर्शनसमीया नृपः । रूपयौवनमदाभिमानिनः सर्वतः क्षितिपतीनजूहवत् ॥ ८ ॥ किंतु सन्तु शतशः परे नृपा रूपसंपदधिकाभिमानिनः । श्रीजयन्तमपहाय नापरस्तन्मनोन्तरधिकं विजृम्भते ॥९॥ वाचमेवमवनीपुरंदरः सुन्दरामथ निपीय सादनम् । तत्क्षणं कृतयथोचितक्रिय राजदूतमवदत्प्रमोदतः ॥ १० ॥ इत्थमस्ति यदि दूत नूतनस्नेहमोहितमना महीपतिः । श्रीजयन्तमवलम्बितक्रमं प्रेषयामि सममेव तत्त्वया ॥ ११ ॥ संमतेन निजगोत्रमन्त्रिणां वासरेऽभ्युदयशंसिनि द्रुतम् । श्रीजयन्तमथ स व्यसयभूरिसैन्यभरभङ्गुरावनिम् ॥ १२ ॥ दुन्दुभिध्वनिभरेण रोदसी. पूरयन्नपरिमेयविस्तरः । सोऽचलहलविमर्दरेणुभिर्दर्शयन्नहनि दर्शयामिनी ॥ १३ ॥ अध्वनि प्रतिदिन स नूतनैः कौतुकैस्तरललोचनाञ्चलः । वासरैः परिमितैरपि द्रुतं प्राप हास्तिनपुरं नरेश्वरः ॥ १४ ॥ १. 'भवे मुराण्ना' इति पाठे सुराट् सवोधनम् . :
१६ सर्गः] जयन्तविजयम् । ११३ तं समागतमवेत्य पूरुषैवैरिसिंहनृपतिः प्रमोदतः । संमुखं निखिलसैन्यसंचयन्यञ्चितावनितलस्तदाचलत् ॥ १५ ॥ उत्सहिष्णुहृदयौ समन्ततस्तत्र तो क्षितिपती वितेनतुः । ."वितीमथ मिथः प्रथीयसा गौरवेण गुणरत्नरोहणौ ॥ १६ ॥ भूपतिस्तदनु भूरिसत्कृति प्रीतिमप्रतिमरूपसंपदस् । श्रीजयन्तयुवराजमादरा दा]निनाय निजमुद्धर्ज पुरम् ।। १७ ।। भूरि पौरजरतीकरक्षरल्लाजलाञ्छितशिरः शिरोरुहः । तत्र सत्वरनरेन्द्रदर्शिते वेश्मनि स्मितमुखः स तस्थिवान् ॥१८॥ हर्षनिर्भरमहीभृदाहृतातिथ्यसुस्थितवपुः परि......। ......"दः ॥ १९॥ बन्दिवृन्दननिदेन बोधितः प्रातरेव कृतदेवतार्चनः । तत्स्वयंवरविधानमीक्षितुं तत्क्षणादकृत स प्रसाधनम् ॥ २० ॥ दिव्यभूषणगणैः स भूषितः कान्तिचक्रकृतशककार्मुकैः । [कां]चन श्रियमवापदद्भुतां दाहतः प्रथममगजो यथा ॥ २१ ॥ रूपसंपदनुरूपमण्डनाडम्बराहितमहाकुतूहलः । तत्वयंवरसमाहृताखिलक्षोणिपालमगमत्सभाङ्गणम् ॥ २२ ॥ तत्र चित्ररचनामनोहरं काञ्चनोपचितमञ्चमुच्चकैः । आरुरोह स नरेन्द्रदर्शितं तुगभूधरमिवाशु केसरी ॥ २३ ॥ विस्फुरत्यथ स दक्षिणेक्षणे पाणिपीडनविधानशंसिनि । पूर्वभूधरतटीमिवार्यमा हेमविष्टरमलंचकार च ।। २४ ।। भूभृतः सदसि तस्य भूषणोद्भाषिरत्नमुकुरेषु विस्वितः । रूपसंपदपहस्तिता क्षणादाश्रितास्तमिव सेवनेच्छया ॥ २५ ॥ यैः पुरा स्फुरदुरुप्रभाभराद्राजभिः सदसि भास्करायितम् । श्रीजयन्तयुवराज्यसंनिधौ ते दधुदिनविधूपमेयताम् ॥ २६ ॥ तत्र पौरनिकरेषु कौतुकोत्तानलोचनपुटेष्वनुक्षणम् । मागधेषु निजबुद्धिवर्धितोद्दामकाव्यरचनाभिधायिषु ॥ २७ ॥ १.'निन' इति स्यात्.
११४ काव्यमाला। उल्लसत्यगुरुसौरभे जनघ्राणतर्पणविधौ पटीयसि । मूर्छति प्रतिपदं च दुन्दुभिध्वानमांसलितशङ्खनिस्वने ॥ २८ ॥ गीतमगलकुतूहलोन्मुखे भूरिपोरयुवतीकदम्बके । खाचितासननिवेशदर्शितप्रीतिषु क्षितिवधूविलासिषु ॥ २९ ॥ सान्द्रचन्द्रकरसोदराम्बरा चारुचन्दनतरङ्गसंगता । मूर्तिमत्युदितवक्रवारिजा स्वर्धनीव कुचचक्रशालिनी ॥ ३० ॥ अङ्गसंगतिविचित्रभूषणोद्गीर्णकान्तिकृतशककार्मुका । उत्तमद्गुरुपयोधरोद्भुरा मेघकालकमलेव जङ्गमा ॥ ३१ ॥ श्रोणिबिम्बकुचकुम्भगौरवान्माशु गच्छतु रसा रसातलम् । दानमेदुरमतङ्गसालसं मन्थरां गतिमितीव तन्वती ॥ ३२ ॥ चक्रभृत्करधृतस्वयंवरोद्दामदामनि निविष्टलोचनाम् । गन्धलुब्धमधुपाङ्गनाथ" ध्वानमत्सरभरादिवानिशम् ॥ ३३ ॥ कामिनीजननिसर्गसज्जया लज्जया विनतचक्रवारिजा। वान्छिताभिनवभर्तृदायिनः कुर्वतीव नतिमङ्गजन्मनः ॥ ३४ ॥ आविरास रसनागुणक्कणकिङ्किणीनिकरबोधितस्मरा । वैरिसिंहनरनाथनन्दिनी नन्दिनी निखिलभूपचक्षुषाम् ॥ ३५ ॥ (कुलकम्) भासयत्युरु सभा नभोऽङ्गणं तां जयन्तयुवराजभास्करे । चेतसापि विजहुः क्षितीश्वरा वासरश्रियमिवांशुतारकाः ॥ ३६ ॥ व्यालिलेख मुहुरकिष्णा महीं सा चकर्ष भृशमंशुकाञ्चलम् । श्रीजयन्तयुवराजदर्शने कारिता किमु न पुष्पधन्वनः ॥ १७ ॥ एतदीयवदनेन्दुदर्शनादुत्तरङ्गगुरुरागसागराः । चेष्टितानि विदधुर्वसुंधराधीश्वराः सदसि ते स्मरोद्धतम् ॥ ३८ ॥ प्राप्तरेखमखिलेषु भूभुजां भूषणेषु निजहारमुज्वलम् । उन्नतेन हृदयेन सर्वतः कोऽप्यदर्शयदखर्वगर्वतः ॥ ३९ ॥ १. 'न' इति स्यात्. .
१६ सर्गः]
जयन्तविजयम् ।
११५
हन्ति पञ्चभिरपीषुभिः सरो मां तदेनमभिहन्मि हेलया।
कोऽप्यभाषत नृपः कृपाणिकावल्गुवल्गनमितीव सूचयन् ॥४०॥
नागवल्लिदलवीटिकामिषादङ्गुलीरिव मुखे विनिक्षिपन् ।
कोऽप्यलक्ष्यत पतिवरेच्छया मन्मथस्य पुरतः क्षितीश्वरः॥ ४१ ॥
अङ्गुलीयमणिदर्पणे महत्येणनाभितिलकं न्यभालयत् ।
कोऽपि भूपदुहितुः समीहयेवाक्षरावलिमलीकसंगताम् ॥ ४२ ॥
पाटवं वचसि नाटयन्मुधा मीनलाञ्छनगुरोनिदेशतः ।
नव्यकाव्यरचनासु चातुरी कोऽप्यदर्शयदुदारदर्शनः ॥ १३ ॥
संभ्रमाद्विवृतमीक्षणाम्बुजं कोऽप्यधत्त वसुधापुरंदरः ।
पातुमेकसमयं नृपाङ्गजारूपसंपदमृतच्छटा इव ॥ ४४ ॥
कीर्तनं विशतु मा म कन्यका काङ्खिणामपरभूभृतामिव ।
अङ्गुलीकिसलयेन कश्चन श्रोत्रसंपुटमिति व्यघण्टयत् ॥ ४५ ॥
व्यालिलेख सदसि क्रमाङ्गुलीपल्लवेन तपनीयविष्टरम् ।
तत्र सुप्तमधिकं परिश्रमाद्बोधयन्निव झषध्वजं पुरः ॥ ४ ॥
बन्दिवृन्दनिनदं स संमदां संनिरुध्य मधुरोद्धतध्वनिः ।
भूपतीन्विदितवंशविक्रमान्वेत्रभृत्क्रमवशादकीर्तयत् ॥ ४७ ॥
शंभुशैलमभिमानलीलया वामपाणिकमले निधाय यः ।
विकास किल दक्षिणे करे कर्तुमुच्चम""राचलं बली ॥ ४८ ॥
पुष्पलावमवलूय मस्तकानयत्यसमविक्रमे क्रमान् ।
यत्र तद्गुणवरं विलोकयन्नाकुलः समभवत्रिलोचनः ॥ १९ ॥
तं सुरासुरसमाजरावणं रावणं रणधुरीणविक्रमम् ।
प्रेतभर्तुरतिथिं वितन्वता येन शान्तिकमतन्यत क्षितेः ॥ ५० ॥
तस्य मैथिलसुता सिनो राम इत्यनधनामशालिनः ।
अन्वये शशिमुख क्षणं पुरः पश्य भूपमनुरूपवैभवम् ।। ५१ ॥
एतदकशयनीयशायिनी नेत्रनीलनलिनावलोकनैः ।
राघवान्वयपुरी निरन्तरं त्वं कृतार्थय कुरङ्गलोचने ॥ १२ ॥
११६
काव्यमाला ।
तं निरूप्य नृपतिः पतिंवरा किंचिदश्चितपुटेन चक्षुषा ।
अत्र रागविमुखादिति......"व्युत्ससर्ज फणिवल्लिपल्लवान् ॥ ५३॥
क्षोणिवल्लभमथापरं पुरः स्मेरकैरवसमानलोचनम् ।
वेत्रभृन्मृगहशो वशीकृतास्तोकराजकमदर्शयद्रुतम् ॥ १४ ॥
यत्प्रतापतपनोपतापितैः कौशिकैरिव जवादरातिभिः ।
नामसाम्यमधिगम्य भूभृतां कन्दरासु परिकल्पिता स्थितिः॥५५॥
सैष चन्द्रमुखि वेदनायकः सायकाम्बुशमितारिपावकः ।
अस्ति तेऽत्र यदि नेत्रकौतुकं तद्वृणीष्व विषयाभिलाषिणि ॥ १६ ॥
रूपवत्यपि गुणैकभाजने तत्र सा समभवत्पराङ्मुखी ।
प्रेमपूर्वजनुरर्जितं क्वचिज्जायते हि किमिवात्र कौतुकम् ॥ ५७ ॥
संमुखं सपदि वेत्रधारिणा तामथान्यनृपतेनिनाय सा।
हंसिकामिव तरङ्गपद्धतिः पङ्कजादपरपङ्कजं क्षणात् ॥ १८ ॥
सिन्धुरोधसि यदीयसिन्धुराः संचरन्ति मदवारिदुर्धराः ।
सांयुगीननिजशौर्यचर्यया दिग्गजानिव विजेतुमूर्जितान् ॥ १९ ॥
उज्जयन्यधिपतेस्तनूद्भवः सोऽयमद्भुतविलासमन्दिरम् ।
पाणिपीडनविधाविहाधुना मन्त्रिकर्मणि तवाशु मन्मथः ॥ ६० ॥
विस्फुरत्तरलमीननेत्रया चक्रयुग्मकुचकुम्भशोभया ।
राजहंसगतयाजहस्तया सख्यमस्तु तव देवि सिप्रया ॥ ११ ॥
एवमाहितुरसापि सा दधे नाभिलाषमपि तत्र भूपतौ ।
सौकुमार्यरसिका कुमुदती भास्वतीव महसां समाश्रयौ ॥ १२ ॥
तामथापरमहीमहेश्वरस्याभिमुख्यमनयन्मृगेक्षणाम् ।
नीतियुक्तिरिव भाग्यशालिनः संपदं सपदि वेत्रधारिणी ॥ ६३ ॥
यत्तुरङ्गखुरपातदारितक्षोणिरेणुनिकरेऽम्बरस्पृशि ।
धातुरिष्टपरिमाणसंग्रहव्यग्रहाजनि चिरात्परिग्रहे ॥ ६४ ॥
सोऽयमङ्गनृपतिः सुराङ्गनागीयमानभुजदण्डविक्रमः ।
दृष्टिरस्तु तव देवि साक्षिणी समिरे येऽत्र चेतसः ॥ ६ ॥
१६ सर्गः]
जयन्तविजयम् ।
११७
भारती वसति चक्र
...."वारिधेः सुता।
अस्य चाङ्कमधिगम्य निर्मलं त्वं तयोर्भव शुभे तृतीयका ॥६६॥
तामनादरवतीमिहाधिकं सावितर्का सुकुमारया गिरा।
अन्यमुन्नतभुजं महीभुजं ख्यातकीर्ति
"द्रुतम् ॥ ६७ ॥
शिश्रिये निशितशस्त्रघट्टनप्रोच्छलच्छिखिशिखामिषेण यः ।
संभ्रमाद्युधि जयश्रिया हरे व्यत्ययादिव वसानयांशुकम् ॥ ६८ ॥
भस्मसात्कृतमवेत्य मन्मथं मन्मथारिनयनोत्थतेजसा ।
भूप एव तमिवाधिकद्युति यं व्यधत्त विधिर तावधिम् ॥ ६९ ॥
सोऽयमजनयने ककुब्जये कुजतामहिपते करोति यः ।
कन्यकुब्जनृपतिश्चमूझरनेत्रपकरुहगोचरोऽस्तु ते ॥ ७० ॥
क्षेप्तमस्य शिरसीव तत्क्षणं पादपद्ममुदपातयत्
गन्तुमन्तिकमसौ समुत्सुका श्रीजयन्तनृपतः समीहितम् ॥७१॥
यानपास्य नृपतीन्पतिवरा सा जगाम गुरुकामविह्वलान् ।
ते तयाञ्जनघनैर्विलोचनैः श्यामता दधुरिवाक्षमेक्षिताः ॥ ७२ ॥
सा विहाय नृपतीनथाजनि श्रीजयन्तमभि भूपतेः सुता ।
नाकिनोऽनुपमरूपसंपदः श्रीर्मुकुन्दमिव मन्थनेऽम्बुधेः ॥ ७३ ॥
तत्र चित्रितजगत्रयाधिकं सानुरागमनसं विशङ्कय ताम् ।
वेत्रभृत्तदनु तापमुच्चकैरभ्यधत्त मधुराक्षरामिति ॥ ७४ ॥
यत्करेऽरिकरिकुम्भमेदनोन्मुक्तमौक्तिकभरेण दन्तः ।
भात्यसिः समिति वीक्ष्य नश्यतः सत्त्वरानुपहसा द्विषः ॥७॥
विष्टपत्रयजयैकधुर्यया निर्जितः स्वभुजशौर्यचर्यया
कुण्डलाख्यविबुधो मदोद्धतोऽप्याशु दास्यमभजधदग्रतः ॥ ७६ ॥
जैनजैत्रभुजशालिना प्रजा पालिताभ्यधिकऋद्धिवृद्धिभिः ।
निन्दति स्म मरुतामपि श्रियं सोऽस्ति विक्रम इति क्षितीश्वरः॥७७॥
संमुखः सखि स एष शोथितद्वेषि पकनिकरः स्वतेजसा ।
उल्लसन्निजकुलैकभास्करः श्रीजयन्त इति तत्तनूद्भवः ॥ ७८ ॥
११८
काव्यमाला।
उच्छलत्प्रबलपक्षशालिनाप्याधिमुख्यमुपगम्य चापलात् ।
यत्प्रतापदहनेऽतिदुःसहे सिंहलेन शलभायितं युधि ।। ७९ ॥
सिहलीवदनचन्द्रचन्द्रिका सिहिकासुत इवासि भीषणः ।
यस्य बाहुरसहिष्ट विष्टपानिष्टलुण्ठनपटुर्न संगरे ॥ ८ ॥
खेचरेशमतिदुःसहैः शरैः कुर्वतापि नृपतेः कुटुम्बिनम् ।
चक्रवर्तिपदसंपदात्मसाधेन राजतगिरो व्यधीयत ॥ ८१ ।।
यश्चकार शरधोरणिक्षतान्खेचरान्समिति भूमिगोचरान् ।
तद्वधूनयनबाष्पबिन्दुभिः सार्धमुद्र""ति पुरः पुरः सरान(?) ।।८२॥
आदिकोलकुलशैलकच्छपाम्भोधिभोगिपतिदिग्मतङ्गजाः ।
सन्ति संप्रति चिरात्सुखोन्मुखा भारमुद्धरति यद्भुजे भुवः ॥८॥
चन्द्रमाः शशमलीनसच्छविस्तापकृत्तरणिरुग्रतेजसा ।
तन्न किचिदसृजद्विधिश्चिरादस्य येन मुखमेति तुल्यताम् ॥ ८४ ॥
कस्य तस्य सखि भूपसंपदं स्तोतुमेति रसना समर्थताम् ।
यस्य विश्वजनतातिशायिनो मन्मथेन तुलनापि लाञ्छनम् ॥८॥
कौशलेन कलया कुलेन च त्वं तमेनमनुरूपमात्मनः ।
एहि मुग्धहृदये वृणु द्रुतं रोहिणीव हरिणाङ्कमुत्सुका ॥ ८६ ॥
आकर्ण्य कर्णमधुरामिति वाचमुच्चैः
किंचित्रपामरमपास्य नरेन्द्रपुत्री।
मालां खयंवरमहोत्सवसाक्षिणी तां
श्रीमजयन्तनृपतेः क्षिपति स्म कण्ठे ॥ ८७ ॥
अंसदेशनिहितामथ मालां तां दधन्नरपतिविरराज ।
शेषभूमिपतिकीर्तिपताकामाहितामिव मनोभवभ; ॥ ८ ॥
उद्गच्छद्गुरुमत्सरोद्धरधियोऽप्यन्येऽथ पृथ्वीभुज-
स्तत्राशङ्कय जयन्तखेचरपतिं दुर्जेयमाजिक्रमे ।
मन्दं मन्दमपत्रपाभरभवन्नीचैदृशः प्राभृता-
न्यादायाधृत वैरिसिंहविहितान्यासत्प्रतीपंगमा ॥ ८९ ॥
१७ सर्गः]
जयन्तविजयम् ।
११९
समं तया भूमिपतेस्तनूजया जयन्तभू(?)तत्सपरिच्छदः सदः ।
कुतूहलोत्तालपुरंध्रिमङ्गलमहोत्सवं मांसलयन्नथाचलत् ॥ ९० ॥
अद्य श्रिया हरिरभाजि विराजतेऽद्य
पाथोपतिः सुरतरङ्गवतीसनाथम् ।
देवी शिवा प्रणयिनं हरमद्य लेभे
पुष्पायुधं रतिरवाप किलाधुनैव ॥ ९१ ।।
सफलतामधुनैव हि वेधसः श्रमभरोऽपि जगाम विदारयम्()।
यदनुरूपवरेण समागमः समजनि मितपङ्कजचक्षुषः ॥ ९२ ॥
पौराणामित्थमभ्यर्णे कर्णे कुर्वन्गिरः पथि ।
मन्दिरं मगलोद्भासि सोऽथ प्राप महीपतेः ।। ९३ ॥
(त्रिभिर्विशेषकम्)
हषोत्कर्षाद्रुतमुभयतः संगताभिर्वधूभिः
स्पर्धवन्धादधिकरुचिरे कृत्यजाते कृतेऽथ ।
लग्ने सौम्यग्रहबलयुजि खानुभावानुरूपं
तस्मिन्नुर्वीपतिदुहितर पर्यणैषीजयन्तः ॥ ९४ ॥
प्रमोदनटनत्रुटत्पणपुरंध्रिहारावली-
गलत्तरलमौक्तिकैः पथि चतुष्कमापूरयन् ।
ततोऽभिनववल्लभामवनिवल्लभः सादरं
हरिः श्रियमिवानयन्निजनिकेतमुत्तोरणम् ॥ ९५ ॥
अनुभवन्ननया सह भूपतिस्तदनु वैषयिकी श्रियमद्भुताम् ।
कतिपयान्दिवसान्पितृदर्शनोत्सुकमना अपि तत्र निनाय सः॥१६॥
इति श्वेताम्बरश्रीमदभयदेवाचार्यविरचिते जयन्तविजयनाम्नि महाकाव्ये
श्रीशब्दाङ्के खयवरवर्णनो नाम षोडश सर्ग ।
सप्तदश सर्ग ।
अथ श्रिया निर्जितवैजयन्तं श्रीमज्जयन्तो जगदेकवीरः ।
अध्यारुरोह प्रियया तयेन्द्रः शच्येव साध सविलाससौधम् ॥ १ ॥
१२० काव्यमाला। ...... सगै......"त ॥ २॥ "केन प्रमदाकुलानां कर्णामृतैर्वाग्मिगिरां विलासैः । श्रीवैरिसिंहेन विधीयमानयथोचिंतार्चस्य दिनानि यान्ति ॥ ३ ॥ परेद्यवि श्रीरतिसुन्दरीदे प्राणप्रियं विज्ञपयांबभूव । उल्लासयन्ती दशनांशुजालैः सा मीनकेतोरिव वैजयन्ती ॥ ४ ॥ कस्माद्विमुच्यान्यनरेन्द्रवृन्दं त्वां तूर्णभेवावृणवं सहेलम् । आद्यावलोकेऽपि च तेऽवनीश दिवामणेरम्बुजिनीव जाता ॥५॥ विद्याधराणामधिपः स विद्यादेव्या मुखेनोत्तरयांबभूव । प्रियप्रियालापसुधावसेका....."दिवाङ्गत्पुलकावरश्रीः॥ ६ ॥ उवाच सा पूर्वभवे भवस्य स्निग्धा भवानीव सधर्मिणीयम् । बभूव तेऽत्रापि ततोऽनुरागात्स्वभ्यस्तमभ्येति भवान्तरेऽपि ॥ ७ ॥ तथाहि यस्यां कुचकुम्भचक्षुर्नीलोत्पलास्येन्दुनितम्बबिम्बैः । स्त्रैणं चकाशे चतुरङ्गसैन्यैरिवोल्बणैः पञ्चशरस्य राज्ञः ॥ ८ ॥ श्रीस्वस्तिमत्यां पुरि तत्र भूभृद्दभूव वज्रायुधनामधेयः । हेलाहतानम्रनरेन्द्रकान्तानेत्राम्बुसंवर्धितवारिराशिः ॥९॥ आसीच तत्रैव समुद्रदत्तः केलानदीष्णोऽपि सदा दरिद्रः । स्वपूर्वकर्मस्फुरितानुसारं शुभाशुभं देहभृतां फलं हि ॥ १० ॥ स कुन्तली कुन्तलभासि पक्षे दिने दिने चन्द्रिकया च चन्द्रः । संपूर्णभिक्षाविरहे तदोचैः क्षीणः सपत्न्या सह कान्तिमत्या॥ ११ ॥ एकातपत्रेऽपि सुभिक्षराज्ये वदान्यताभाज्यपि तत्र लोके । सुदुर्लभा तस्य बभूव भिक्षा व मन्दभाग्यस्य समीहितं वा ॥ १२ ॥ गृहे गृहे तत्र समं सपत्न्या बभ्राम भिक्षामपि मुक्तमानः । दुप्पूरसीमोदरपूरणाय प्राज्ञोऽपि दुष्कर्म करोति किं न ॥ १३ ॥ निरन्तरासह्यदुरन्तदुःखदारिद्र्यमुद्राज्वरजर्जिताङ्गौ। तौ दम्पती जीवितनिळपेक्षौ शैलं समारोढुमथ प्रवृत्तौ ॥ १४ ॥ १. 'द' इति भवेत्. २. सर्वासु कलासु चतुरोऽपि दरिद्र. .
५
१७ सर्गः]
जयन्तविजयम् ।
१२१
तमालतालीवनराजिनीलः कालानिधूमः किल कौतुकीव ।
यव्याजतः पूरितरोदसीको निर्गत्य भूभागमलंचकार ।। १५ ॥
तङ्गत्तरङ्गैः सरितां प्रवाहैर्मही यदीया सततं चकास्ति ।
वामझुवामुच्चकुचस्थलीव स्फुरत्प्रभैौक्तिकहारिहारैः ॥ १६ ॥
तस्मिन्तपस्यन्नथ साधुरैक्षि न्यस्तार्कदृष्टिविहितोर्ध्ववाहुः ।
हस्तावलम्बाय शिवोन्मुखानां भवाम्बुधौ पातभियेव ताभ्याम् ॥ १७ ॥
महात्मनो दुष्करकारिणोऽस्य पादप्रणामः खलु शम्बलं नौ ।
प्रेत्य प्रयाणेऽस्त्विति दध्यतुस्तौ हृद्यं हृदम्भोरुहि भावि भद्रम् ॥ १८ ॥
श्रीमन्मुनि तन्मिथुनं ववन्दे हर्षप्रकर्षोद्भुषिताङ्गयष्टिः ।
सधर्मलाभेन ततः कृताशीरादत्तदा तत्र कृतोपयोगः ॥ १९ ॥
मुक्ताफलं न्यस्तमिव वहस्ते ज्ञानेन निर्णीय तयोः खरूपम् ।
आलापयद्भद्र न भद्रमेतत्प्राणं प्रहाणं युवयोरिहैवम् ॥ २० ॥
निन्धं बुधैरात्मवधं विधत्ते कथं सुधीरप्यधमत्वधाम ।
न चामुतः किंचिदपैति दुःखं व्याधिः कुपथ्यादिव वर्द्धते तु ॥२१॥
जलाञ्जलि दित्ससि चेन्निजानां दुष्कर्मणां दुःखशतप्रदानाम् ।
समीहितार्थापयिकं तदेकं सुपात्रदानं कुरु भिक्षयापि ॥ २२ ॥
अङ्गीचकारेति गुरूपदेश कल्पद्रुमस्येव फलं बुभुक्षुः ।
ततः प्रमाणं कृतपूर्व्यपूर्वभक्त्या पुरस्तन्मिथुनं प्रतस्थे ॥ २३ ॥
प्रायेण विद्वजनमण्डलीव समन्ततो निर्जलता तनोति ।
या ब्रह्मशापप्रहतेरिचोचैविनाकृता खादुफलैर्दुमौधैः ॥ २४ ॥
यादोभिरुरिव वारिराशिर्या श्वापदैहिसतरैः कृतातिः ।
दुर्लक्ष्यमार्गा गहनैस्ततस्तां भीमाटवी तन्मिथुनं विवेश ॥ २५ ॥
तौ प्राणसंदेहदशामसह्यां तत्रानुभूयाथ तृपाक्षुधातौं ।
सत्त्वादलवयामपि ता विलङ्घय श्लाध्यं पुरं प्रापतुरिभ्यलोकैः ॥ २६ ॥
बम्भ्रम्यमाण मिथुनं श्वथाङ्गं तत्राथ भैक्षाय तदा तदाप ।
संपूर्णमिष्टं च कुतोऽपि दातुः स्थले तृपा” जसदादिवाम्भः ॥ २७ ॥
१२२
काव्यमाला।
दुःस्थामवस्थामपि जग्मिवांसौ कृच्छ्राप्तभिक्षामभिभोक्तुकामौ ।
तौ दम्पती तत्र जलाशयान्ते स्थानं ततः शीतलमाश्रयेताम् ॥२८॥
मासोपवासादितपोविशेषैस्त्वगस्थिशेषाङ्गमनकरूपम् ।
तस्मिन्पुरे पारणकाय यान्तं तौ दृष्टवन्तौ सुकृती मुनीन्द्रम् ॥ २९ ॥
सुदुर्लभं सर्वरसप्रशस्यं त्रिलचनान्ते ददतस्तदन्नम् ।
मुनेस्तदा सर्वमखर्वभावो किं दुष्करं धर्मधनस्पृहां हि ॥ ३० ॥
तहानतस्तौ परमप्रकर्षप्रमोदपीयूषविशेपपानैः ।
अवेदनाज्ञौ स तृषः क्षुधोऽपि सुखं शिवस्येव तदान्वभूताम् ॥ ३१ ।।
राजन्समागत्य सुरः सुदृष्टिर्मुनीन्द्रभक्त्याथ तयोरुपान्ते ।
विद्युत्प्रभाभासुरकायकान्तिविद्युत्प्रभाख्योऽभिदधे स्मितास्या ।। ३२ ॥
अहो महादानमिदं तवाभूच्छ्रीमन्मुनेस्तीव्रतपोऽवसाने ।
महाद्रुमस्येव धनाधनाम्भः संभारवृष्टिः शुचितापशेषे ॥ ३३ ॥
यदुष्करं दुष्करकारिणेऽमै विश्राणनं त्वत्करपङ्कजेन ।
सुपात्रदानानुगुणेन तेन त्वयि प्रसन्नोऽस्मि समुद्रदत्त ॥ ३४ ॥
विधेहि वाग्गोचरसंवरिष्णुः स्ववाञ्छितं तद्विदधामि येन ।
एवं हि मे नृत्यतु दानधर्मानुमोदनालक्षणपुण्यलक्ष्मीः ॥ ३५ ॥
कृताञ्जलिर्वीक्ष्य ससंभ्रमस्तं व्यजिज्ञपत्सोऽपि विनम्रमौलिः ।
सुदुर्लभं श्रीजिनशासनं यल्लेभे मया तत्किमितोऽर्थनीयम् ॥ ३६ ।।
तथापि सा धार्मिकवत्सलानां प्रभावसौभाग्यतरङ्गितानाम् ।
प्रसादवाक्यं भवतां सुरेश मन्मस्तके यातु किरीटसख्यम् ॥ ३७ ॥
जिनेन्द्रधर्मस्य समुन्नतीनां सार्वत्रिकीणां परभागभाजाम् ।
सदेहलोकेऽपि भवत्प्रसादान्निबन्धनं स्यामिति मेऽभिलाषः ॥ ३८ ॥
ततः सुरो चिन्तयदस्य पुण्यैः प्राज्यैरुदेति स्म शुभाशयोऽयम् ।
जागति यः सिद्धिसुखोत्तरायै नरामराधीश्वरसंपदेऽपि ॥ ३९ ॥
संपत्स्यते ते स्वयमेव पुण्यस्त्रिविष्टपाभीष्टकरैस्तदिष्टम् ।
साहाय्यमात्रं त्विह मत्प्रभावस्त प्रत्यवादीत्रिदशः प्रहृष्टः ॥ ४० ॥
१७ सर्गः] जयन्तविजयम् ।
१२३
बिभ्रत्यदना सुरपद्मलक्ष्मीं सौधे समस्ताद्भुतवस्तुभाजि ।
रूपश्रिया प्रीणितनेत्रया च चक्रे स तौ स्वमिथुनायमानौ ॥ ४१ ॥
ततो विमाने किरणैर्मणीनां दिवामणेचिभ्रममादधाने ।
निवेश्य दिव्यर्द्धिविशेषरम्ये स श्रीपुरोधानमवापयत्तौ ।। ४२ ॥
तदास्य भूभर्तरि कालधर्मः क्रोडीकृते दैववशादपुत्रे ।
समाकुले राजकुले समन्तादस्तंगते भानुमतीव चक्रे ॥ ४३ ।।
लुण्टाकलोकेन विलुण्यमाने गृहे गृहे पौरजनस्य चित्ते ।
नीराजराज्यग्रहणाग्रहेण डोढौक्यमानेऽपरराजलोके ॥ ४४ ॥
निधीयमाने च धने धरायां सर्वत्र विस्फूर्जति वैयसे च ।
राजानमैच्छज्जनता तदानीमुपप्लवानामुपशान्तिहेतुम्॥४५॥(विशेषकम्)
उपद्रवं सर्वमपास्य देवः पयोधरस्येव पयो दवाग्निम् ।
प्रदर्शयामास ततः कुमारं राज्योचितं राजसभासदां सः ॥ ४६ ॥
अनेन नाथेन सनाथतां नः श्रीमत्कुमारेण विभो विधेहि ।
सुरेश्वरेणेव विधिः सुराणां तैर्व्यज्ञपीदं स नमच्छिरोभिः ॥ ४७ ॥
मुदाभिषिक्तोऽथ स तेन तत्र रराज राजा शरदीव शूरः ।
यस्य प्रतापः प्रतिपन्थिकान्ताकपोलपत्राङ्कुरशोषणोऽभूत् ।। ४८ ॥
सुपर्वणा पर्वणि तत्र दत्तश्रीराजसिंहापरनामधेयः ।
सामन्तमुख्यैरथ स प्रणेमे पृथुप्रभावो जयशब्दपूर्वम् ॥ ४९ ।।
तूर्यत्रयं तत्र सुराङ्गनानामपूर्वरूपं रसभावरम्यम् ।
राज्योत्सवेऽभूत्तदशेषविश्वं प्रमोदमुद्राङ्कितमेव यत्र ॥ ५० ॥
एकातपत्रं विदधे खराज्य स धर्मधुर्यों जिनशासनं च ।
दिव्यप्रभावात्प्रभविष्णु किं न त्रिवर्गसर्वस्वमितीन्दुकीर्ति ॥ ११ ॥
यदद्भुतं किंचन देहभाजा यद्वर्णनाव्यग्रमुखा नरेन्द्राः ।
यदैहिकामुप्मिकसौख्यमूलं विश्राणित तत्रिदशेन तस्य ॥ १२ ॥
अयं घनस्येव समुन्नति यजिनेन्द्रधर्मस्य शुचिः करोति ।
तदुक्तनिर्वाहधुरंधरेऽत्र स्थाने ममासौ सफलः प्रसाद. ॥ १३ ॥
२४
काव्यमाला।
इति प्रमोदामृतवीचिमजन्मनाः सुरेन्द्रप्रतिमः स देवः ।
विद्युत्मभः मापभृतमुवाच वाचस्पतेरपि प्रीतिकरैर्वचोभिः(१) ॥१४॥
धम्यैर्गुणैस्ते हृदयं मदीयं वशीकृतं गौरयशोवतंसैः ।
नरेन्द्र शार्दूलसमूलचूलसंसारवृक्षक्षयबद्धकक्षैः ॥ ५५ ॥
सद्भावभाजा विनयेन भक्त्या संदानितात्मेव न गन्तुमीशः ।
तवाद्य यद्यप्यमरेन्द्रपुर्या तथापि मामुत्कलयोचितज्ञः ॥ १६ ॥
सम्यग्दृशां देव शिरोमणिस्त्वं स्वयं सुरेन्द्रेण निबद्धसख्यः ।
अन्वग्रहीर्मामपि तादृशं यल्लोकोत्तरं ते चरितं यदीश ॥१७॥
स्तुत्वेति तं भक्तिभरावनम्रः संपूज्य पूज्यं विहितोपकारम् ।
स प्रार्थयामास दृशोः सदास्तु त्वदर्शनानन्दमयोत्सवो मे ॥ १८ ॥
तदनु तदनु रागेणान्तरङ्गीकृतात्मा
शुचि यशसि चरित्रै राजसिंहस्य देव ।
सुरपरिवृढबन्धुर्विस्मयस्मेरनेत्रं
जगदपि विदधानः स्वश्रिया वर्जगाम ॥ १९ ॥
अथ सकलधराया मण्डनाशं सराज्यं
'सुकृतज्ञः कार्मणं सिद्धिवध्वाः ।
त्रिभुवनमपि कीर्तेलास्थलीलैकरङ्ग
गुणिषु निपुणदानं श्रीनिदानं चकार ॥१०॥
राज्ये निवेश्य तनयं समये जितारिं
राजा तया मृगशा सह कान्तिमत्या ।
कोटि... समधिरुह्य च भावनाया
दिव्यं विमानमिव स त्रिदिवं जगाम ॥ ६१ ।।
वृन्दैरप्सरसां विलस्य विनमत्स्वःसझचूडामणि-
श्रेणीषु प्रतिबिम्बचुम्बिचरणां भुक्त्वेन्द्रराज्यं चिरम् ।
क्षोणीमण्डलपालनाय करुणोद्रेकादिवावातरः
स त्वं विक्रमसिंहभूपतिकुले श्रीमज्जयन्तो नृपः ॥ १२ ॥
१८ सर्गः]
जयन्तविजयम् ।
१२६
प्रथितलटभरूपान्तःपुरीचक्रवाले
तुलित"लिकलक्ष्म्याः कान्तिमत्याश्च जीवः ।
अजनि स मुनिदानादिन्द्रसामानिकश्री-
स्तदनु नृपतिपुत्री प्रेयसी ते च भूप ॥ १३ ॥
विद्यादेवीनिजगतिभुवा तत्र जातिसरेण
व्यक्ते हस्तामलकतुलया पूर्वजन्मखरूपे ।
शुद्धे पक्षे शशिसमुदयेनाम्बुराशेरिवाम्भ:-
स्तस्य प्रेमानवधि मिथुनस्याथ विस्तारमाप ॥ ६४ ॥
इतः प्रत्यक्षं ते चरितमुदितश्रीपरिकरं
परं कि किं ब्रूमोऽपरनृपयशःकैरवरवे ।
इदं विद्यादेवी निगदितवती तेन महिता
विसृष्टा हृष्टा सा द्रुतमथ तिरोऽभूत्तडिदिव ॥ १५ ॥
इति श्वेताम्वरश्रीमदभयदेवाचार्यविरचिते जयन्तविजयनाम्नि महाकाव्ये
श्रीशब्दाढ़े नरेन्द्रपूर्वभववर्णनो नाम सप्तदश सर्ग. ।
अष्टादश सर्गः।
अथ निरन्तरया रतिसुन्दरीमुखसुधाकरचन्द्रिकयाञ्चितः ।
अपि समागतमुष्णशतं नृपः शशिरकालमिवाकलयत्तदा ॥ १ ॥
यदभिसंगमतः खलु मित्रतोऽप्युदयते परितापभरो भुवि ।
उपदवादिव वीरुधिदारुणः किमु निदाघऋतुः स न दुर्जनः ॥ २ ॥
अकृत सृष्टिममुष्य सरखती सुचिरशोषकृतोऽपि ऋतोविधिः ।
भुवि पुराणपुमानिति मन्दधीरति कलङ्कपदं स ततोऽजनि ॥ ३ ॥
दिनकरः करदण्डनिपातनैस्त्रिजगता परितः परितापदः ।
तदपि पङ्कजिनीष्वमृतायते प्रियतमासु न को हि मृदुर्यतः ॥ ४ ॥
पथिषु पान्थजनस्य चरेणवस्तपनतापवनं.""नखपचाः । (१)
स्फुरितवह्निकणैरिव वर्षिणः सततगाश्वनितान्तमरंतुदाः ॥ ५ ॥
बहुनृपेव रसारसपानतस्तरणिरेष महाभरदुर्वहः ।
अभवदस्य रथाश्वगतिः शनैर्बुवमतो दिनवृद्धिरजायत ॥ ६ ॥
काव्यमाला। : सरसचन्दनपङ्कविलेपन सुपनसारपरागतरङ्गितैः । शिशिरतादिगुणैः विभि(?)रञ्चितैः सततगैः सुरतक्रमहारिभिः ॥ ७ ॥ धननिभैः कदलीदलमण्डपैः स्मरविवोधनबन्धुरपण्डितैः । विमलमौक्तिकभूषणभूषया तुहिनरश्मिरुबाच जलाया ॥८॥ हिमरुचे रुचिरैः करकोरकैरुपवनैमधुधौतधरातलैः । मितसरोजरजःसुरभीभवन्न "पयस्सु रयस्सु वमज्जनैः ॥ ९ ॥ अभिमतैः शिशिरैरपरैरपि स्मरनरेन्द्ररसाढ्यरसायनैः । जगति भोगिजनेन पुरस्कृतैर्लघुनिदाघऋतुः परिभूयते ॥ १० ॥ (चतुर्भिः कलापकम्) सरसकेलिमिथाङ्गनिपीडनैदृढमनङ्गसुखैः खलु वञ्च्यते । यदिह भोगिजने घनधर्मतस्तदिहमुग्रक्रतोः खलु वल्गितम् ॥ ११ ॥ व्यरचि यो मृगलोचनया प्रपा सुरभिकुम्भजलेन युवा तृषः । लवणिमामृतनिर्भरपानतोऽजनि स तत्कुचयोस्तृषितोऽद्धतम् ॥ १२ ॥ गिरिदवानलदग्धवनोद्भवं भ्रमति भस्मसितं विततीकृतम् । जगति बन्दिजनैरिव वायुभिर्यश इबोष्ण ऋतोरवनीपतेः ॥ १३ ॥ खररुचे रुचिभिः परितापितैः प्रकुपितैरिव मण्डलमादधे । अनिलतो विततैर्दिवरेणुभिः कलितपाकपलाशदलोपमम् ॥ १४ ॥ न परमुग्रमयं रतिसुन्दरी प्रियतमः सहते निजशासनात् । इति भयादिव कम्पितमानसस्त्वरितमुग्रऋतुः प्रपलायत ॥ १५ ॥ जय जयोन्मुखमङ्गलपाठकैरिव कलापिकुलैः कलनादिभिः । घनघनाघनघोषमिषेण च प्रसृमरैर्जयदुन्दुभिनिःखनैः ।। १६ ॥ जलदमध्यचलद्विशकण्टिकावनिमिषाचमरैश्च चलाचले । स्फुटशिलन्ध्रिततातपवारणैर्भुवि तपात्ययभूभृदवातरत् ॥ १७ ॥ वितनुते भुवनाद्भुतवैभवं त्वमिव किंतु मुखे मलिनत्वमभूत(?)। अयमिति प्रियमुक्तवती सती समभवद्रतये रतिसुन्दरी ॥ १८ ॥ मिथुनकैनववारिदवायुना पुलकितैरमृतोमिविवर्षिणा । अथ मिथः परिरम्भसुखैस्तदा नवमिवाक्रियते स्मरशासनम् ॥ १९ ॥ ।
१८ सर्गः]
जयन्तविजयम्
१२७
जलदकालनृपस्य घनो भटः परिलसत्तरवारिसमुद्भर्ट
तडितमुग्रऋतो स दिदृक्षया क्षिपति दृष्टिमिवातिरुषां नृणाम् ॥२०॥
भृतनभस्तलवारिदवृष्टिभिर्नयनयोर्दुतमर्पितकौतुकः ।
विलसतां सह वल्लभया भृशं भवति वारिमुचां समयः प्रियः ॥२१॥
भुवनमप्यमृतेन पयोधरः सुखयति प्रहतातपवैशसः ।
विरहिणीर्दहति सरवह्निना पुनरहो चरितं विविधं विधेः ॥ २२ ॥
कवलितं सकलं किल तेजसं पटलमुल्बणमुग्रऋतोरिव ।
पवनवल्गितदीप्तदवानलप्रशमनच्छलतो घनवारिभिः ॥ २३ ॥
जलवारिकणैः परिचुम्वितं नवकदम्बमुदञ्चितकेसरम् ।
अनुकरोति विलासिनमुच्चकैः पुलकितं दयितापरिरम्भणैः ॥ २४ ।।
गिरिशिरःपरिपातितरङ्गिणीतरलतुगतरङ्गपयःप्लवः ।
त्रिजगतामुपकारितया भ्रमद्यश इव प्रतिभाति पयोमुचः ॥ २५ ॥
जगविलासमयेऽपि मनस्विनी स्फुरितमानविखण्डनपण्डिते ।
नवघने बहुमानपरम्परा निशमभूदुपकारिणि कामिनाम् ॥ २६ ॥
स्मितवती कुटजैः स्फुटकेतकीयुतिभिरिद्धकटाक्षपरम्परा ।
धनविभूतिरियं जगतीतले ललति रञ्जितकामनरेश्वर ॥ २७ ॥
रुचिरतां चिनुते स्म परां घनः किशलपुष्पफलैश्च वनश्रियाम् ।
मृगदृशामिव यौवनमुन्नतं स्मरविलासकुलैरिव विभ्रमैः ।। २८ ॥
रविमवेत्य निदाघमिवापरं जगदरंतुदमम्वुधरः क्रुधा ।
वसुविलासमपास्य विनिर्ममे कवलिताखिलमण्डलमुच्चकैः ।। २९ ।।
जगदुपद्रवणेषु सहायतां विदधतोग्रऋतोरहिमांशुना ।
मिलति दशदिनेप्वरिणा ततः""रुचि गिलितस्तनयित्नुना(१) ॥३०॥
रुचिरकाञ्चनचित्रमणिप्रभा वलयपल्लवभृन्मुकुटश्रियम् ।
दधदिवेन्द्रशरासनमण्डलं घनऋतो नृपतेः प्रविराजते ॥ ३१ ॥
सम""वर्षणतः सफलीभवकृषिवलो" ..."दृशां दृशाम् ।
परिचयादिव वारिमुचा चयः शुचिमरीचिमरीचिनिभो बभौ ॥ ३२ ॥
काव्यमाला। प्रतितसर्वजनीनसमुन्नतौ विगलितायुषि वारिदभूभुजि । अथ जयन्तनरेन्द्रमुपाययौ सरशरैर्विधुरेव शरद्वधूः ॥ ३३ ॥ कुसुमसायकनायकपत्तनप्रतिनिधि स च सौधमधिश्रितः । प्रणयिनीमथ कर्णरसायनं वचनमेवमुवाच महीपतिः ॥ ३४ ॥ प्रियतमे रतिसुन्दरि निश्चितं शरदियं तव याति सदृक्षताम् । अपकलङ्कशशाङ्कमुखी भवेद्यदि सदा मितकैरवलोचना ॥ ३५ ॥ इह मरालकुलं कमलाकरे सरभस रमते कलकूजितम् । विशदपक्षवतां गुणिसंगमः कलयतीष्टतरेषु धुरीणताम् ।। ३६ ।। जलदबन्धनमुक्तिमहे विधोः स्लपयितुर्जलधेरिव वीचितः । पतितमुज्ज्वलमौक्तिकमण्डलं स्फुरति तारकचक्रमिषादिव ॥ ३७ ॥ जगति पङ्कमकारि मम द्विषा जलभृता सरितश्च विवर्धिता । इति रुषेव रविस्तदशोषयत्प्रविदधेति तनूरबला हिताः ॥ ३८ ॥ अहनि तापमधत्त परं रविर्घनघनां च शशी निशि चन्द्रिकाम् । शरद इष्टतरावधिकारिणाविव निदेशवशात्कुरुतस्तथा ॥ ३९ ॥ दिनकरस्य करैः परिपाकतो जलमशेषजलाशयसंगतम् । सरसतां शरदि प्रतिपद्यते निशि शशिद्युतिभिः शशिकान्तिभिः।।४०। मदभरोच्छलनेन निरङ्कुशाः प्रबलदर्पभरादिह कुञ्जराः । ततकरोन्नमनैर्गलगर्जिभिर्विदधतीव सुरद्विपतर्जनम् ॥ ४१ ॥ कविजुषामपि कान्तरसात्मनां विदधते सरितां तटपाटनम् । इह वृषाः शितशृङ्गशिखायुधैः क खलु दुर्मदिनामुचितज्ञता ।। ४२ ।। कलमशालिवनं नवगोपिका मृगदृशः परिपान्ति मृगादितः । एलरवैस्तरुणान्नवसंगमे कुसुमसायकसायकपाततः ॥ ४३ ॥ वितनुते अयमिति पदकुरसत्पुलकाञ्चिताः शरदि हृद्यरसश्रुतिविश्रुताः । मिथुनकैनववामदलावलिकुन्तलाः प्रियतमा इव भान्ति भुवीक्षवः ॥ ४४ ॥ अथ मिथः परिरम्भातरसे निशि प्रसरतीह जगन्मुदमाययौ । मृगलाञ्छनः पुनरभूदतिपाण्डवपुर्बुवम् ॥ ४५ ॥ .
१८ सर्गः] जयन्तविजयम् । जगति राजसि रक्षय मण्डलैर्धनसमृद्धिबलैश्च विभूषितः । इति जयन्तनृपः सुभगैर्गुणैर्हतहृदा शरदा समुपासत ॥ ४६ ।। नृपसुताक्षितिपाधिपयोस्तयोरतिरतिप्रिययोर्नवयोरिव । सरसकान्तकुतूहलकेलयेऽजनि शरत्समयः समयोः श्रिया ॥ ४७ ॥ कतिपयेषु दिनेषु गतेष्वथ स्वपितरोहितधीः परमाहती। जिनमते प्रतिबोधयति स्म सा स्मितसरोजमुखी नृपनन्दिनी ॥४८॥ स परिपाकविवेकभराङ्कुरप्रतिमरोमसितं नरपुंगवम् । समवलोक्य जराज्वरजर्जरं नृपतिरेवमचिन्तयदेकदा ॥ ४९ ॥ वपुरिदं प्रथम सुखसाधनं तदपि रोगजरादिभिरस्थिरम् । किमिह मिष्टफलं प्रभवं वनं वनजवह्निशिखाभिरभङ्गुरम् ॥ १० ॥ स्मरसमाकुलपङ्कजलोचना ललितलोचनचञ्चलमङ्गिनाम् । प्रथितमायुरुपैति च यौवनं तरणितापितपुष्पदलश्रियम् ॥ ११ ॥ लवणिमा सुरकार्मुकसोदरः सुभगता तु सखा वफला रुचाम् । अतुलरूपबलाद्यपि देहिनां समदसिन्धुरकर्णचलाचलम् ॥ १२ ॥ नववधूप्रियसंगमसंभ्रमस्तनतटीतलहारलतातुलम् । जगति राज्यमशेषधराधराधिपशिरोमणिलालितशासनम् ॥ १३ ॥ स्फुरितकोपफणीन्द्रफणावलीतलनिवासरति भजतामिव । विषयसेवनमुक्तिमुपेयुषां मुखविषादिव दुर्गतितो भयम् ॥ १४ ॥ भवति शारदनीरदसोदरं सकलमेव भवप्रभवं सुखम् । परिणतौ विरसं मधुरं मुखे विषतरोरिव पक्कफलं नृणाम् ॥ ५५ ॥ त्रिभुवनेष्वपि नित्यमनित्यताकवलितं निखिलं खलु खेलति । तदविलम्बमनन्तसनातनानुपमशर्म करं व्रतमादधे ॥ १६ ॥ क्षितीवधूधव विक्रमसिंहभूस्त्रिभुवनाक्रमणैव पराक्रमः । मम सुतापतिरेष विशेषतः प्रणयभूरसतस्य सुतोऽध ।। ।। ६७ ॥ निजकुलागतराज्यसमर्पणं ध्रुवममुष्य ममाप्यतिरम् । इति विचिन्त्य चिरं मणिमञ्जरीपतिरमात्यमर, जगृहेऽत्र सः ॥ १८ ॥ १७ काव्यमाला। अभिषिषेक जयन्तनरेश्वरं तमधिराज्यमुदारमहेन सः । कनककुम्भमुखोच्छलिताम्बुभिः पुरजनोऽप्यनुरागसुधारसैः ॥ १९ ॥ स जिनसङ्घपदाम्बुजपूजनं प्रमुदिताथि च दानमनेकधा । क्षितिभृतां व्रतराज्यपरिग्रहे यदुचितं तदशेषमचीकरत् ॥ १० ॥ सह जयन्तनृपेण स हास्तिनापुरपतिर्मुरुमेत्य विनत्य च । शिरसि मौलिमिवाञ्जलिना परं विरचयन्नतिधर्ममयाचत ॥ ११ ॥ सानन्दं गुरुणा ततः करनखज्योतिःप्रवाहाम्बुना राज्ञस्तस्य विनिर्मिते व्रतमहाराज्याभिषेकक्रमे । तत्रासौ मुमुदे शुचौ च सुचिरं श्रीमजयन्तः पुन- स्तत्त्वज्ञोऽपि विमुह्यतीष्टविरहे धिड्मोहलीलायितम् ॥ १२ ॥ चक्रेऽथ बन्धुरवचः किरणैस्तदीयं स्वान्ताम्बुजं विगतशो"विकोचमुद्रम् । सुरिर्दिवाकर इति प्रथितो गुणेन नाना च चित्रमभृतं क्षरतीक्षणेषु ॥ ६३ ॥ मेरास्यः श्रीविलासः सुचिरमथ गुरोः पादपङ्केरुहाणां प्रीत्योपास्ति विधाय प्रणतिमपि मुनेस्तस्य भूवल्लभस्य । पीयूषस्यैव वृष्टिं निजसुकृतयशःशाखिनस्तन्मिषेण क्षोणीनाथ प्रकाण्डः क्षितिपगृह्मगात्स श्रियां डम्बरेण ॥ ६४ ॥ चूडारनायमानः समजनि महतां यः क्षमापालकानां विश्वश्लाघ्याद्यरेष(ख)श्चरणगुणगणैर्धमलीलाबलेन । जित्वा मोहं ससैन्यं त्रिभुवनजयिनं केवलज्ञानलक्ष्मी लब्ध्वा श्रीमन्मुनीन्द्रो रमयति हृदये वैरिसिंहाभिधानः ॥१५॥ साध करैः शूर इवाथ सूरिः स केवली केवलिमुख्यशिक्षैः । कदाचिदन्यत्र पुरे प्रतस्थे भव्यारविन्दप्रतिबोधनाय ॥ ११ ॥ तद्नु तमनुगम्य श्रीमुनीन्द्रं नरेन्द्रो मुदकलयदसन्द(१) साश्रुनेत्रोऽभिवन्ध ।
१९ सर्गः]
जयन्तविजयम् ।
तमपि गुरुरथाशीर्वाददानेन कामं
व्यदधदमृतपूरेणेव निष्पापतापम् ॥ १७ ॥
निर्व्याजस्मरकेलिनिर्भररसे प्रोज़म्भमाणेऽनिशं
सोत्कम्पा रतिसुन्दरी प्रणयिनी जज्ञे स्फुरत्साध्वसा ।
उन्मीलद्धनकण्टका च परितः क्षोणी तु नो जातुचि.
त्तस्मिशासति राज्यमूर्जितनये श्रीमजयन्ते नृपे ॥ १८ ॥
इति श्वेताम्बरश्रीमदभयदेवाचार्यविरचिते जयन्तविजयनाम्नि महाकाव्ये
श्रीशब्दाङ्के ऋतुत्रयवर्णनो नामाष्टादश सर्ग ।
एकोनविश. सर्ग ।
अथान्यदाध्यासु सभा स भूपः सुधर्मयापि स्पृहणीयशोभाम् ।
अत्यन्तविस्मारितवैरिसिंहक्षमाधिराजः खगुणैः प्रजानाम् ॥ १ ॥
अमात्यमात्मीयपितुर्नृपस्य द्वितीयमात्मानमिवेयिवांसम् ।
निवेदितं वेत्रधरेण वीक्ष्य चक्रे स विद्याधरचक्रवर्ती ॥ २ ॥
कृतप्रणामं सविधासनस्थ संमान्य मान्यं समपृच्छदेनम् ।
नरेन्द्रनम्या मम तातपादाः कल्याणिनः संप्रति मन्त्रिराजः ॥ ३ ॥
स क्षेम लक्ष्म्या ललितैर्विलासैनिरन्तरं दुर्ललितः क्षमेन्द्रः ।
त्वां दृष्टुमुचैरुदकण्ठतेति व्यजिज्ञपन्मत्रिपतिर्जयन्तम् ॥ ४ ॥
ततः प्रतापेन विवद्यमाने साम्राज्यसौस्थे सकलेऽपि तत्र ।
राजा स राज्यस्थितयान्वयुत खमन्त्रिणं तातविलोकनोत्कः ॥ ६ ॥
दिव्यैर्विमानैः खचरेश्वराणां मणिप्रभाकृप्तसुरेन्द्र चापैः ।
सैन्यैर्वरेण्यैश्च धराधराणां स रोदसी संकटयंश्चचाल ॥ ६ ॥
श्रीमज्जयन्तः खपुरी जयन्तीमालोक्य लोकोत्तरकान्तलक्ष्मीम् ।
आवासयामास विशामधीशे समन्तदुद्यानभुव विदूष्य ॥ ७ ॥
कुमारसैन्यादथ मन्त्रिराजं स प्रेषितात्मीयनरान्निशम्य ।
समागतं नन्दजयन्तनामा
"नमितो जयन्त्याः॥८॥
ततः स वैरिक्षितिपालमौलिमालासु खेलाद्गुरुशासनश्रीः ।
अचीकरत्ता नगरी प्रवेशमहोत्सवाशेषविशेषभूषाम् ॥ ९ ॥
काव्यमाला।
सामेति राजन्यकमन्त्रिराजमुख्यैरशेषैरपि राजलोकैः ।
पुरः प्रधानश्च समेत्य तत्र स खामिसुनुर्मुदितैरनामि ॥ १० ॥
राज्ञो निदेशात्समुपेत्य तत्र प्रणम्य मन्त्रा विबुधः कुमारम् ।
उत्कण्ठितस्ते मुखदर्शनाय पितेत्युदीर्याचलयन्नगर्याम् ॥ ११ ॥
मौहूर्तिकेनाथ शुभ मुहूर्ते निवेदिते स क्षितिपालसूनुः ।
तत्र प्रवेष्टुं प्रगुणीबभूव विधाय सर्व समयानुरूपम् ॥ १२ ॥
अन्तःपुरालंकृतयाप्यमाने विद्याधराधीश विमानवृन्दैः ।
पदातिहस्त्यश्वरथप्रतानैः सकौतुकं खःपतिनापि दृश्यैः ॥ १३ ॥
सुधांशुबिम्बेन भियेव राहोः श्रितेन शुभ्रातपवारणेन ।
लक्ष्मीजयश्रीप्रहितैः कटाक्षरिवोच्छलद्भिश्चमरैविलक्षैः ॥ १४ ॥
माङ्गल्यमन्त्रैरिव शजनादैः समुल्लसद्भिः सह पञ्चशब्दैः ।
बन्दीन्द्रकोलाहलमांसलैश्च जयारवैईर्षयशोधिचन्द्रे ॥ १५ ॥
करीन्द्रघण्टारवडम्बरेण निश्वासनादेन भृताम्बरेण ।
साम्राज्यलक्ष्म्या च विराजमानस्ततश्चचाल क्षितिलोकपालः ॥ १६ ॥
(चतुर्भिः कलापकम्)
अत्रान्तरे राजसुतप्रवेशमहोत्सवालोकसमुत्सुकानाम् ।
उपेयुषीणां पुरसुन्दरीणां विलासलीलायितमेवमासीत् ॥ १७ ॥
कुमारलावण्यरसं निपीय काचित्सतृष्णान्तरुदीर्णकम्पा ।
कन्दर्पवैद्यं
खपुरस्थमास्य
सौरभ्यलोलालिरवैरिवाह्वत् ॥ १८ ॥
कन्दर्पशिष्योपनिषत्वरूपैर्लीलाविलासैः स्फुटमाक्षिपन्ति ।
उपेक्षिता काचन तेन तन्वी मुमोच सौभाग्यमदातिरेकम् ॥ १९ ॥
ययौ न या गोचरमीक्षणानां मनोरथैरप्यकलङ्कशीला ।
तस्याः सुखेन स्तनसङ्गभङ्गी यूनस्तदा कस्य न कस्य जज्ञे ॥ २० ॥
यद्वीक्षणासक्तमना जनौघसंमर्दतः त्रस्तनितम्बवस्वा ।
विलोकिता कापि न कं चकार सहास्यतेऽलं समकालमेव ॥ २१ ॥
त्वं मन्थरायां हि गतौ गुरुर्नस्त्रपामहे तेऽद्य तया न धातुः ।
इतीव कष्टाजगदे स्वनादाच्छलेन काचित्किल केलिहंसैः ॥ २२ ॥
१९ सर्गः] जयन्तविजयम् । एकेन कर्णोत्पलरेणपातादुदश्रुणान्येन टिकाशिनोऽक्ष्णो । सशोकहास्याभिनयैककालं काचित्सारीभूत्स्मरनर्तकीव ॥ २३ ॥ नृपात्मजालोकनकौतुकाय समुत्सुका काचन कैरवाक्षी । नितम्बबिम्बं स्तनमण्डलं च निनिन्द मन्द गतिमादधानम् ॥ २४ ॥ तं राजहंस'""भुजस्थ......"केलिकौतूहलतश्चिकीर्षुः । प्रसारयन्ती निजबाहुयुग्मं दूरेऽपि लोकैः समहस्यतान्या ॥ २५ ॥ कि चावदत्कापि विलाससारा सारङ्गकान्ताकमनीयनेत्रा। स्मरोऽङ्गालक्ष्म्यायमपूर्वरूपस्तत्पूजयैनं सखि नेत्रपुष्पैः ॥ २६ ॥ चन्द्रानने नित्यमखण्डवृत्तः स्मराम्बुराशेर्जनकः प्रतीतः । कलङ्कमुक्तोऽयमपूर्वराजः पुरः समभ्येति विलोकयैनम् ॥ २७ ॥ दृशां सहस्तैर्निचितं यदङ्गं रूपेण संमर्दभियेव मुक्तम् । मुग्धा शची तत्र रता सुरेन्द्रे सखीह रूपेऽपि सतीहरूपे ॥ २८ ॥ कन्दर्पराजेन निवेशितानां स्वराज्यमन्त्रीशपदेऽङ्गनानाम् । वैदग्ध्यदग्धानि तथा वांसि शृण्वन्स भूपः स्वपुरी विवेश ॥ २९ ।। आत्मैव यस्योपमितिः समृध्या जगत्यसाधारणतां गतस्य । तस्य स्वसौधस्य समीपमाप श्रीविक्रमक्षोणिपतेस्तनूजः ॥ ३० ॥ विलोचनैरात्मजवक्रचन्द्रज्योत्लां निपीयाथ चिरं नरेन्द्रः । उत्तीर्यसौधोपरिभूमिकायाः सद्यः समाभूमिमलंचकार ॥ ३१ ॥ प्रातः सहस्रांशुरिवाशुजालैर्बद्धानुरागैर्नभसि प्रदीपैः । राजस्तदा तत्र स राजकाद्यैर्विवेश विद्याधरचक्रवर्ती ॥ ३२ ॥ भा(ता)भिः प्रणामाञ्जलिपाणिपाणिरुहां स्फुरद्दीपशिखासखीभिः । ताडकनीलोत्पलरश्मिदूर्वाकुरैः स्फुरदृष्टिभिरक्षतैश्च ॥ ३३ ॥ हारप्रभाशुद्धसुधाभिरामैस्तुरैः स्तनैरुच्छूितपूर्णकुम्भैः । माङ्गल्यमादौ सुदृशां तदासीत्पश्चात्प्रदीपप्रमुखैश्च तस्य ॥ ३४ ॥ पुरदरस्यैव पितुर्जयन्तस्ततः प्रणामं प्रणयेन चक्रे । मातुस्तथा श्रीरतिसुन्दरी च कुल्याः कुलाचारविधिप्रिया हि ॥३५॥ ..
काव्यमाला।
सालिजय सर्वाजमथावतमख्यैरोपैरपि राजलं चुचुम्ब ।
---- "निसर्गतः प्रेमपदं हि पुत्रः पिलामिमनुर्मुदितैदयं तु || ३६ ॥
निपेपि श्री."नृपो जयन्तं यथोचितं सर्वसमाजने च ।
अचीकरत्तन महीगहेन्द्रो महोत्सवं विश्वनरशितोषम् ॥ ३७ ॥
स तस्य सूनोरजनिष्ट भन्या निरन्तरं पल्लवितप्रमोदः ।
राज्ञोऽपि मुख्मं गृहवास सारं लाव्यं हि बन्योः प्रतिपत्तिरेव ॥ ३८ ॥
परेयुब(यवि)शोणिधवग्नरमसंवेगसर्वख सुधासमुद्रः ।
राज्यादिसंपत्परिरम्भसौख्ये परामुखश्चिन्तितवानथैवम् ॥ ३९ ॥
वंशेऽवतंसध्वजतुल्यमन्मिजयन्नमेनं विनिवेश्य राज्ये ।
त्वरे महानन्दपदाय धीमान्विलम्बते कः परलोककार्ये ॥ ४० ॥
सदस्यभिप्रायमिमं निवेद्य सुतस्य सर्व विदधे तथैव ।
अन्ते च योगेन तनुत्यजां स शिवाय मार्ग सुधियां नृपाणाम् ॥४१॥
श्रुताभिपेकं जनकस्य राज्ये तमेत्य भूगोचरखेचरेन्द्राः ।
नत्वोपढौक्योऽद्भुतढोकनानि सिपेविरे नम्रशिरःकिरीटाः ॥ ४२ ॥
प्रमोदितास्तेन महाप्रसादैनिजं निजं राज्यमयुविसृष्टाः ।
महीपतेस्तस्य गुणैरनन्यैः संदानितान्तःकरणस्ततस्ते ॥ ४३ ॥
कुमद्वतीनामिव स प्रजानां लक्ष्मीविलासाय बभूव राजा ।
समूलकापं कपितोरुदोपश्चित्रीयते तेन न कस्य चेतः ॥ ४४ ॥
हठो भवेच्छौर्यशठस्य जन्तोः क्षिप्रं विपक्षे बलिनि क्षयाय ।
कुण्ठत्वमायाति हि वज्ररले निशातधारापि कृपाणयष्टिः ॥ ४५ ॥
शुभाशुभाय प्रभविष्णुपूर्व कर्मैव कि तत्र समुद्यमेन ।
यदेव भाव्यं भविता तदेव कर्म द्वितीयं व्यभिचारि चेदम् ॥ ४६॥
बीजं यथा वारि विनाङ्कुराय तथोद्यमं कर्म फलाय नैव ।
भवेदतो दूरितदोपमासीच्छ्रेयस्करं कर्म नयश्च तस्य ॥ ४७ ॥
अझैस्ततः सप्तभिरप्यवन्ध्यं प्रवृद्धशक्तित्रयकीतिरेषः ।
राज्यं शशासापरवैरिनाशाज्पडन्तरङ्गानविजित्य शत्रून् ॥ ४८ ॥
जयन्तविजयम् ।
१३५
मुख्या गुणा न वैफल्यमयुः कदाचित् ।
कासु सुवृष्टियोगादिव सस्यसङ्घा ।। ४९ ॥
मपि प्रकामममात्यवृद्धैः सह मन्त्रमेषः ।
रतरारिवारनिवारणेऽसौ यदमोघमस्त्रम् ॥ १० ॥
तस्य नयेन भूमि क्रमादभूदङ्कगतं जिगीषोः ।
अयं निर्ममतान्वितस्य यदेह दण्डत्रितयं मुमुक्षोः ॥ ११ ॥
धमोर्थकामत्रयमण्डनेन स मण्डयामास नृपप्रकाण्डः ।
जन्म खवीर्य जिनरम्यहर्यश्रीताण्डवेन क्षितिमण्डलं च ॥ १२ ॥
देवी क्रमाद्वा""युगेस्तनूजा(1) तनुप्रभापूरनिरस्तशूरम् ।
असूत सूनुं रतिसुन्दरी च संचारिणं क्षात्रमिवाथ धर्मम् ॥ ५३ ॥
आद्यस्तयोर्वज्रधराधिवीर्यो बभूव वज्रायुधनामधेयः ।
चक्रायुधोऽन्योऽरिवधूकपोलपत्रादुरग्रासरसासिधेनुः ॥ १४ ॥
यौ दानभोगाविव वैभवस्य व्योमागणस्येव च पुष्पदन्तौ ।
सौभाग्यरूपे इव यौवनस्य शोभाभरं बिभ्रतुरस्य राज्ञः ॥ ५५ ।।
सदा यति धारयता समन्तात्तथा सुवृत्तेन सदार्जवेन ।
भुजद्वयेनेव निजेन तेन रराज राजा तनयद्वयेन ॥ ५६ ॥
श्रुतेन शीलेन गुणोदयेन स्थाना च धाम्मा च वपु.श्रिया च ।
अभूतपूर्वामपि तैरभूतां तावेव तस्योपमिती नृपस्य ॥ ५७ ॥
प्रज्ञातिरेकेण बला बभूवुस्तयोः समालिङ्गनतः कृतार्थाः ।
उदग्रसौभाग्यगुणोदयेन वशंवदा राजसुताश्च का ताः ॥ १८ ॥
अथाघमात्मानमिवात्मजं स शुभे निवेश्याहनि यौवराज्ये ।
निनाय कालं ललितैर्विलासैस्तत्संनिधानात्ततुराज्यचिन्तः ।। १९ ।।
स्फुटप्रसूनप्रकरप्रसर्पत्सौरभ्यलुभ्यन्मधुपाङ्गनासु ।
कदाचिदासन्नवनावलीषु चिरं स रेमे रमणीसहायः ।। ६० ॥
समीरणान्दोलितवारिपूरतरारइत्कमलोपहारैः ।
कृप्तातिथेयेषु सरःसु कान्ता वृतः कदाचिद्विदधेऽम्बुकेलिम् ॥११॥
काव्यमाला।
हुदापि से प्रेम वशाद्वधूनां कपोलपालीकुचमण्डलीषु ।
वकार पत्राङ्कुरचक्रवालं परायरोमाञ्चचयेन सार्धम् ॥ १२ ॥
प्रेयः प्रियालापविलासलास्सैराश्चर्यकृद्धिः स्मरकेलिभिश्च ।
कदाचिदन्तःपुरचक्रवालैश्चिरं स रम्यै(त्यै) रमयांबभूवे ॥ १३ ॥
व्यलीकमालोक्य समाकुलाभिरीयाभराकुञ्चितलोचनाभिः ।
तत्राश्रुबिन्दुच्छलतः प्रियाभिः कदाप्युपालम्भि विनाक्षरं सः॥६४
कदाचिदासीत्स विलासिनीनां विलाससर्वस्वरसे निमग्नः ।
स नर्तयामास कदाचिदेताः सौन्दर्यचर्यापरिभूतरम्भाः ॥ ६५ ॥
गजेन्द्रशिक्षाचतुरो गजेन्द्रानदाम्यदुद्दाममदान्कदाचित् ।
कदाचिदुद्वेल......"प्रवाहसंवाहसंदोहमवाहयच्च ॥ ६६ ॥
विचित्रशास्त्रार्थविचारसारैर्वाचस्पतेर्विभ्रममादधानः ।
कदापि गोष्ठीषु विशारदानां स धूनयामास मुदा शिरांसि ॥ १७ ॥
कदाचन श्रीजिनशासनस्य प्रभावनादद्भुतपुण्यकृत्यैः ।
सुधाप्रवाहैरिव विस्फुरद्भिः श्रेयः फलां वल्लिमिवैधयत्सः ॥ ६८ ॥
अन्तः प्रसर्पत्परमप्रमोदप्रपञ्चचञ्चत्पुलका कुचश्रीः ।
कदाचिदुच्चैर्जिनमन्दिरेषु चकार पूजोत्सवमुत्सहिष्णुः ॥ ६९ ॥
क्वापि क्षणोऽसौ क्षणदेन्दुकीर्तिः श्रीमद्गुरूणां वदनारविन्दे ।
वाचं दधानां मकरन्दमुद्रां भृङ्गी भुजङ्गोपमया पपौ च ॥ ७० ॥
तस्मिन्महीं पालयति क्रमाप्तां नयाञ्चिते पञ्चमलोकपाले ।
ववर्ष काले जलदः समस्तप्रशस्यसस्योद्गममूलबीजम् ॥ ७१ ॥
तत्र प्रजानां पितरीव काम्ये प्रतापनिर्दग्धविपक्षकक्षे ।
खचक्रतो नोऽपरचक्रतो वा बभूव भीतिः परिशासति क्षमाम् ॥ ७२
कदाचिदानन्दितपौरवृन्दः पुरंदरस्पर्धिपरार्ध्यऋद्धिः ।
ययौ जगल्लोचनकैरवेन्दुनंदीश्वरं द्वीपमदृष्टपूर्वम् ॥ ७३ ॥
स तत्र विश्वत्रितयाङ्गिनेत्रचकोरचन्द्रातपनिर्विशेषाम् ।
विधाय पूजां जिनमन्दिरेषु प्रेक्षाक्षणं क्षोणिपतिर्ददर्श ॥ ७४ ॥
१९ सर्गः] जयन्तविजयम् । १३७ इतश्च सौधर्मपतिः स्वकल्पस्वर्वासिभिभूरिभिरभ्युपेतः । कर्तु जिनेन्द्रायतनेषु पूजामहोत्सवं तत्र समाजगाम ॥ ७९ ॥ प्रेक्षाक्षणं चाद्भुतभूरिभङ्गीसंगीतकव्यग्रसमग्रलोकम् । विभाव्य पूजामतिशायिनी च शचीपतिर्भूमिपति बभाषे ॥ ७६ ॥ धन्योऽसि राजन्सफलं तवैव राज्यं धनं जन्म च जीवितं च । दुःखादितेऽपीह मनुष्यभावे यस्यातिभक्तिर्जिनपुंगवेषु ॥ ७७ ॥ अतः प्रसन्नोऽस्मि करोमि किं ते मनः प्रियं ब्रूहि पुरंदरोऽहम् । अथ क्षितीशोऽपि सहस्रनेत्रं विनम्रमौलिविनयाद्वभाषे ॥ ७८ ॥ देव प्रसूतोऽस्मि कुले प्रशस्ये सर्वोत्तमं चास्ति ममाधिराज्यम् । सुदुर्लभ जन्मशतैरपीह प्राप्तं मया श्रीजिनशासनं च ॥ ७९ ॥ प्रिय प्रभो स्यात्किमतः परं मे येनार्थिता यामि तवेत्युदीर्य । स्थिते नृपेऽनिस्पृहतातिरेकाद्विशेषहृष्टस्तमुवाच शक्रः ॥ ८० ॥ यद्यप्यलुब्धस्य तवास्ति कार्य न नाम केनापि तथापि राजन् । भविष्णुतीर्थेश्वरवैभवेन तवास्तु सख्यं मम नियंपेक्षम् ॥ ८१ ॥ उक्त्वैवमालिङ्गय निजासनार्धे निवेश्य कृत्वा क्षणमिष्टगोष्टी । पुरंदरः क्षोणिपुरंदरश्च निजं निजं स्थानमथेयतुस्तौ ॥ ८२ ॥ देवाः सत्पात्रदानात्प्रसृमरपरमश्रद्धया तद्विधातुः प्रत्यक्षीभूय जन्तोर्विदधति सुदृशः प्राज्यराज्यप्रसादम् । क्षुत्कामस्यापि पुण्यापचयपरिचयादासमुद्रान्तपृथ्वी- पृथ्वीपालैविनम्रस्फुटमणिमुकुटैश्चुम्ब्यपादारविन्दम् ॥ ८३ ॥ लक्ष्मीर्वेश्मनि दानभोगसुभगा वाणी प्रसन्नानने दोर्दण्डद्वयमण्डपे च विजयश्रीमुक्तभूपान्तरा। कीर्तिर्नृत्यति दुग्धसिन्धुलहरीलीलाचरित्रे चिरं श्रद्धापूर्वकसाधुदानजनिते पुण्येऽगिना जाग्रति ॥ ८४ ॥ त्रैलोक्यं ललितैर्यशोभिः . ..."यत्पूर्यते देहिनां कायः कान्तगुणानुबन्धमधुरैः श्वेतांशुशुप्रैर्गुणैः । १८ काव्यमाला। अच्च श्रीजिनशासनोन्नतिनटीनाट्यप्रमोदैर्मन- स्तन्मन्ये शुभपात्रदानसुकृतप्राग्भावविस्फूजितम् ।। ८५ । इत्थं नन्दोपनिषदुदयात्स्वानुभूतप्रभावं स्तावं स्तावं मुनिवितरणं भक्तिसंदर्भगर्भम् । सार्वः सर्व गुरुरिव जनं तत्र सोत्कण्ठमुच्चैः कुर्वन्नुर्वीमवनितिलकः श्रीजयन्तः प्रशास्ति ॥ ८६ ॥ इति श्वेताम्बरश्रीमदभयदेवाचार्यविरचिते जयन्तविजयनाम्नि महाकाव्ये श्रीशब्दा नरेन्द्रराज्यस्थितिवर्णनो नामैकोनविश. सर्गः । ग्रन्थकर्तु प्रशस्तिः । आसीचन्द्रकुलाम्बराम्बरमणिः श्रीवर्धमानप्रभोः पादाम्भोरुहचञ्चरीकचरितश्चारित्रिणामग्रणीः । स श्रीसूरिजिनेश्वरस्त्रिपथगापाथःप्रवाहैरिव खैरं यस्य यशोभरैस्त्रिजगतः पावित्र्यमासूत्रितम् ॥ १ ॥ अभवदर्भयदेवः सूरिरस्मात्स यस्य प्रभुरभजत तोषं स्तम्भने पार्श्वनाथः। प्रकटितविकटार्थी सङ्घसाम्राज्यवृद्ध्यै व्यधित निधिसमानां यश्च वृत्ति नवाङ्गयाः ॥ २ ॥ तच्छिष्यो जिनवल्लभः प्रभुरभूद्विश्वंभराभामिनी- भास्वद्धालललामकोमलयशःस्तोमः शमारामभूः । यस्य श्रीनरवर्मभूपतिशिरःकोटीररत्नाकर- ज्योतिर्जालजलैरपुष्यत सदा पादारविन्दद्वयी ॥३॥ कश्मीरानपहाय संततहिमव्यासङ्गवैराग्यतः प्रोन्मीलद्गुणसंपदा परिचिते यस्यास्यपकेरुहे। सान्द्रामोदतरङ्गिता भगवती वाग्देवता तस्थुषी धारालामलभव्यकाव्यरचनाव्याजादनृत्यचिरम् ॥ ४ ॥ भृङ्गस्तदडिकमले जिनशेखराहः सरिस्ततः प्रशमवर्मितकाययष्टिः ।