Bharti Bhawan Library Allahabad

Prachin Lekha Mala

PDF Proofread

Front matter

प्राचीनलेखमाला। (६३) विजयनगरमहाराजवंशीयस्य कर्नाटक-दितीय-रङ्गस्य दानपत्रम् । श्रीवेङ्कटेशाय नमः । यस्य संपर्कपुण्येन नारीरत्नमभूच्छिला । यदुपास्यं सुमनसां तद्वस्तुद्वन्द्वमाश्रये ॥ यस्य द्विरदवक्राद्याः पारिषद्याः परश्शताः । विघ्नं निघ्नन्ति भजतां विष्वक्सेनं तमाश्रये ॥ जयति क्षीरजलधेर्जातं सव्येक्षणं हरेः । आलम्बनं चकोराणाममरायुष्करं महः ॥ पौत्रस्तस्य पुरूरवा बुधसुतस्तस्यायुरस्यात्मजः संजज्ञे नहुषो ययातिरभवत्तस्माच्च पूरुस्ततः । तद्वंशे भरतो बभूव नृपतिस्तत्संततौ शंतनु- स्तत्तुर्यो विजयोऽभिमन्युरुदभूत्तस्मात्परीक्षित्ततः ॥ नन्दस्तस्याष्टमोऽभूत्समजनि नवमस्तस्य राज्ञश्चलिक्क- क्ष्मापस्तत्सप्तमः श्रीपतिरुचिरभवद्वाजपूर्वो नरेन्द्रः । तस्यासीद्विजलेन्द्रो दशम इह नृपो वीरहेमालिराय- स्तार्तीयीको मुरारौ कृतनतिरुदभूत्तस्य मायापुरीशः ॥ तत्तुर्योऽजनि तातपिन्नममहीपालो निजालोकन- त्रस्तामित्रगणस्ततोऽजनि हरन्दुर्गाणि सप्ताहितात् । अद्वैकेन स सोमिदेवनृपतिस्तस्यैव जज्ञे सुतो वीरो राघवदेवराडिति ततः श्रीपिन्नमोऽभून्नृपः ।।

काव्यमाला।
आरवीटिनगरीविभोर भू]त्तस्य बुक्कधरणीपतिः सुतः ।
येन सालुवनृसिंहराज्यमप्येधमानमहसा स्थिरीकृतम् ।।
खःकामिनीः स्वतनुकान्तिभिराक्षिपन्ती
बुक्कावनीपतिलको बुधकल्पशाखी ।
कल्याणिनी कमलनाभ इवाधिकन्यां
बल्लाम्बिकामुदवहद्बहुमान्यशीलाम् ॥
सुतेव कलशाम्बुधेः सुरभिलाशुगं माधवा-
त्कुमारमिव शंकरात्कुलमहीभृतः कन्यका ।
जयन्तममरप्रभोरपि शचीव बुक्काधिपा-
च्छ्रुतं जगति वल्लभालभत रामराजं सुतम् ।।
श्रीरामराजक्षितिपस्य तस्य चिन्तामणीरर्थिकदम्बकानाम् ।
लक्ष्मीरिवाम्भोरुहलोचनस्य लक्काम्बिकामुष्य महिण्यलासीत् ॥
तस्याधिकैः समभवत्तनयस्तपोभिः
श्रीरङ्गराजनृपतिः शशिवंशदीपः ।
आसन्समुल्लसति धामनि यस्य चित्रं
नेत्राणि वैरिसुदृशां च निरञ्जनानि ॥
सती तिरुमलाम्बिकां चरितलीलयारुन्धती-
प्रथामपि तितिक्षया वसुमतीयशो रुन्धतीम् ।
हिमांशुरिव रोहिणी हृदयहारिणी सद्गुणै-
रमोदत सधर्मिणीमयमवाप्य वीराग्रणीः ॥
रचितनयविचारं रामराजं च धीरं
वरतिरुमलरायं वेङ्कटाद्रिक्षितीशम् ।
अजनयत स एतानानुपूर्व्यात्कुमारा-
निह तिरुमलदेव्यामेव राजा महौजाः ॥
रुलभुवनकण्टकानरातीन्समिति निहत्य स रामराजधीरः(वीरः)।
भरत अशीग्याटिराजप्रथितयशा: प्रशशास चक्रमाः ॥

६३ लेखः]
प्राचीनलेखमाला
व्यराजत श्रीवरवेङ्कटाद्रिराजः क्षितौ लक्ष्मणचारुमूर्तिः ।
ज्याघोषदूरीकृतमेघनादः कुर्वन्सुमित्राशयहर्षपोषम् ॥
त्रिषु श्रीरङ्गक्ष्मापरिवृढकुमारेष्वधरिणं
विजित्यारिक्ष्मापांस्तिरुमलमहाराजनृपतिः।
महौजाः साम्राज्ये सुमतिरभिषिक्तो निरुपमे
प्रशास्त्युर्वी सर्वामपि तिसृषु मूर्तिष्विव हरिः ॥
यशस्विनामग्रसरस्य यस्य पट्टाभिषेके सति पार्थिवेन्दोः।
दानाम्बुपूरैरभिषिच्यमाना देवीपदं भूमिरियं दधाति ।।
सामादयो विधिमुखादिव सत्यवाचः
सामाधुपायनिवहा इव सांयुगीनात् ।
रामादयो दशरथादिव राजमौले-
स्तस्मादमेययशसस्तनया बभूवुः ॥
राजा ततोऽभूद्रघुनाथनामा श्रीरङ्गराजः श्रितपारिजातः ।
श्रीरामराजः शिशिरांशुरुा विख्यातिमान्वेङ्कटदेवरायः ॥
श्रीरङ्गरायः सहजेषु तेषु पारंगतो नीतिपयःपयोधेः ।
अष्टासु दिक्षु प्रथितस्य लेमे पट्टाभिषेकं पे(पि)नुगोण्डराज्ये ॥
अथ श्रीवेङ्कटपतिदेवरायो नयोज्ज्वलः ।
अवनीमशिषत्कीर्त्या दिशो दश विशोभयन् ॥
तज्ज्यायसः सुरद्रुमलज्जावहचरितरामराजविभोः ।
जातस्तिरुमलराजः ख्यातः श्रीरङ्गराजोऽपि ॥
[ततः] श्रीरङ्गरायस्य तनया विनयाधिकाः ।
अजायन्त दयावन्तः श्रुतवन्तो यशस्विनः॥
श्रीरङ्गरायनृपतेस्तनयेषु तेषु
पारं गिरामधिगतः कविपुंगवानाम् ।
रत्नेषु कौस्तुभ इवाम्बुधिसंभवेषु
श्रीरामरायनृपतिः सुचिरं व्यलासीत् ।।

काव्यमाला।
पूर्व विश्रुतरामराजनृपतेः श्रीरामभद्राकृतेः
कल्याणोदयशालिनस्तनुभवाः पञ्च प्रपञ्चावने ।
दक्षा नीतिपथानुगाः समभवन्क्षीरापगाकामिनो
गीर्वाणालयभूरुहा इव बुधश्रेणीष्टदानोत्सुकाः ॥
विख्यातचर्येषु नृपेषु तेषु श्रीरङ्गराजः शिशिरांशुरुर्व्याः ।
विश्वत्रये विश्रुतकीर्तिरासीत्सौरेषु शालेष्विव पारिजातः ॥
श्रीरङ्गराजस्य तपोविशेषैः संतोषिणः शेषगिरीश्वरस्य ।
कारुण्यभूम्ना कमनीयशोभौ पुत्रावभूतां पुरुहूतभोगौ ॥
पे(पि)दवेङ्कटेन्द्रपिनवेङ्कटाधिराडिति नामको प्रकृतिपालनोत्सुकौ ।
खरदूषणप्रहतिदक्षिणावुभौ ददतः प्रमोदमिव रामलक्ष्मणौ ॥
श्रीशाली पे(पि)दवेङ्कटेन्द्रनृपतिज्येष्ठो वयोभिस्तयोः
शौयौदार्यगभीरताधृतिकलापूर्वैश्च सर्वैर्गुणैः ।
यस्यारातिनृपालभेदनकलायात्रासु सेनारजः-
पूरैर्भूर्जलधिर्भवेदिति हरि[श्चिन्तेति] धत्ते [स्थितौ ॥
श्रीरङ्गराजेन्द्रकुमारकेऽस्मिन्वीरोत्तमे वेङ्कटदेवराये ।
पट्टाभिषेके पे(पि)नुगोण्डराज्ये तदाभिषिक्ताः सुधियोऽपि हेम्ना ।।
ख्यातस्तस्य पितामहानुजतया श्रीवेङ्कटाद्रिक्षमा-
पालश्रीललनास्वयंवृतपते तानुकम्पास्पदम् ।
आसीदुद्धतशत्रुगन्धकरटिप्रध्वंसबद्धव्रतो(ते)
हर्यक्षः कविलोकरक्षणकलाप्रत्यग्रभोजाकृतिः ।।
तस्य श्रीरङ्गपति[:] क्षोणीपतिरात्मभूर्गुणाब्धिरभूत् ।
यस्यौदार्यमहिम्ना कल्पतरुः क्वापि नन्दने वसति ॥
राजस्तस्य गुणाद्भुतस्य सुकृतैः प्राचीनजन्मार्जितैः
पुत्रोऽभूत्पुरुहूतकल्पमहिमा गोपालराजाग्रणीः ।
१. 'कल्पद्रुमाणामिव पारिजातः' इति रघुः. २. "श्चित्तेश्च' "मुद्रितपाठः, ३. 'सि
तिमू मुद्रितपाठः.

६३ लेखः] प्राचीनलेखमाला। सर्वेषां विदुषां समीहितफलं दत्वा जगत्यां स्वयं यो विस्सारयति स्म दानचतुरान्भोजादिकान्पार्थिवान् । सोऽयं प्रियासहचरः सुकृती तपोभि- राराधयद्वेङ्कटशैलनाथम् । प्रीतस्तदानीमगदीदभीष्ट- दायी स देवः कृपया तमेनम् ॥ पुत्रः सन्धरणीमवाप मधुना श्रीरङ्गरायाभिधो विख्यातश्चि(:पि)न वेङ्कटेन्द्रनृपतेसप्रैस्तपोवैभवैः । पूर्व श्रीवसुदेवभूर्बलरिपोः कृष्णाभिधोऽयं यथा नन्दः प्रागिव तं सुतं कलयतां श्रीरङ्गरायाभिधम् ॥ श्रीरङ्गेश्वरदत्तराज्यमहिमा श्रीरङ्गरायाग्रणी- पादाम्भोजविनम्रभोजमगधक्ष्मापार्पितप्राभृतः । सर्वेषां पृथिवीभुजामधिशिरोविन्यस्तपादाम्बुजः पृथ्वी पालयते नयेन महता सप्तार्णवीमेखलाम् ॥ वाराशिगाम्भीर्यविशेषधुर्यचौराशिदुगैकविभालवर्यः । पराष्टदियायमनःप्रकामभयंकरः शार्ङ्गधरान्तरङ्गः ॥ सारवीर रमया समुल्लसन्नारवीटिपुरहारनायकः । कुण्डलीश्वरमहाभुजः] श्रयन्मण्डलीकधरणीवराहताम् ॥ आत्रेयगोत्रजानामग्रसरो भूभुजामुदारयशाः। ॥ सोऽयं नीतिजितादिभूपतिततिः सुत्रामशाखी सुधी- सार्थानां भुजतेजसा ववशयन्कर्णाटसिंहासनम् । आ सेतोरपि चाहिमाद्रि विमतान्संहृत्य शासन्मुदा । सर्वोवी प्रचकास्ति सिन्धुपरिघां श्रीरङ्गरायाग्रणीः ।। १. अस्मिन्वृत्ते प्रथमः पादो वसन्ततिलकात्मकः, अवशिष्टा इन्द्रावज्रात्मकाः, २. आदर्श त्रुटिचिरं नास्ति.

काव्यमाला।
रसर्तुबाणचन्द्राख्यगणिते शकवत्सरे ।
तारुण्याख्ये महावर्षे मासि फाल्गुणनामके ॥
पक्षे वलक्षे पुण्यé द्वादश्यां च महातिथौ ।
श्रीवेङ्कटेशपादाजसंनिधौ श्रेयसां निधौ ।
कौण्डिन्यगोत्रजाताय वरापस्तम्बसूत्रिणे ॥
यजुःशाखावतामय्ययायिनेऽभीष्टदायिने
मिष्टान्नदानसंतुष्टशिष्टाचारद्विजन्मने ॥
मागण्टिभमहाराजपौत्रायातियशस्विने ।
यल्लमराजपुत्राय कौण्डण्याख्याय धीमते ॥
कान्तं तिरुवदिराज्ये वलुदलंवडचावडौ (१) ।
ययल्वान रिसीमायां पादूरिप्पत्तुविश्रुतम् (१) ॥
श्रीआर्यानेत्तग्रामस्य प्राची दिशमुपाश्रितम् ।
कूटडिग्रामरत्नस्य दक्षिणस्यां दिशि स्थितम् ॥
प्रख्यातमट्टे ग्रामस्य पश्चिमाशामुपाश्रितम् ।
वालत्ताल्ले महाग्रामस्योत्तरस्यां दिशि स्थितम् ॥
प्रख्यातचिन्नमःशेट्टिसमुद्रप्रतिनामकम् ।
कल्लकुर्शिमहाग्रामं सर्वसस्योपशोभितम् ॥
सर्वमान्यं चतुःसीमासहितं च समन्ततः ।
निधिनिक्षेपपाषाणसिद्धसाध्यजलान्वितम् ॥
अक्षिण्यागामिसंयुक्तं गणभोज्यं सभूरुहम् ।
वापीकूपतटाकैश्च कच्छारामैश्च संयुतम् ॥
पुत्रपौत्रादिभिर्भोज्यं क्रमादाचन्द्रतारकम् ।
दानादमनविक्रीतियोग्यं विनिमयोचितम् ॥
परीतः प्रयतैः स्निग्धैः पुरोहितपुरोगमैः ।
विविधैर्विबुधैः श्रौतपथिकैरधिकैगिरा ॥
श्रीरङ्गरायभूपालो माननीयो मनखिनाम् ।
सहिरण्यपयोधारापूर्वगं दत्तवान्मुदा ।।

६४ लेखः] प्राचीनलेखमाला। ७ वीरश्रीरङ्गरायक्षितिपतिवर्यस्य कीर्तिधुर्यस्य । शासनमिदं सुधीजनकुवलयचन्द्रस्य भूमहेन्द्रस्य ॥ वीरश्रीरङ्गरायोक्त्या प्राह पौत्रः सभापतिः । कामकोटिसुतो रामकविशासनवाङ्मयम् ।। वीरश्रीरङ्गरायक्ष्मापतिदेशेन सोमनाथार्यः । शासनमलिखत्कामयतनयः श्रीगणपर्यायपौत्रमणिः ॥ दानपालनयोर्मध्ये दानाच्छ्योऽनुपालनम् । दानात्स्वर्गमवाप्नोति पालनादच्युतं पदम् ॥ स्वदत्ताद्विगुणं पुण्यं परदत्तानुपालनम् । परदत्तापहारेण वदत्तं निष्फलं भवेत् ॥ खदत्ता परदत्तां वा यो हरेत वसुंधराम् । षष्टिवर्षसहस्राणि विष्ठायां जायते क्रिमिः ॥ एकैव भगिनी लोके सर्वेषामेव भूभुजाम् । न भोज्या न करग्राह्या विप्रदत्ता वसुंधरा ॥ सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः । सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामचन्द्रः ॥ (इण्डियन् आण्टिक्केरी १३११५६-१६०) (६४) कोटप्रान्तोपलब्धमहाराजशिवगणकारित- शिवमन्दिरप्रशस्तिः। ॐ नमः शिवाय । नमः सकलसंसारसागरोत्तारहेतवे । तमोगर्ताभिसंपातहस्तालम्बाय शंभवे ॥ श्वेतद्वीपानुकाराः क्वचिदपरमितैरिन्दुपादैः पतद्भि- नित्यस्थैः सान्धकाराः क्वचिदपि निभृतैः फाणियैर्भोगभागैः FETTITHI ViaNPIANPATRA ८ काव्यमाला। m सोष्माणो नेत्रभाभिः क्वचिदतिशिशिरा जढुकन्याजलौघै- रित्थंभावैविरुद्धैरपि जनितमुदः पान्तु शंभोर्जटा वः ॥ भोगीन्द्रस्य फणामणिद्युतिमिलन्मौलीन्दुलोलांशवो नेत्राग्निच्छुरिभस्मधूमकपिशैवालाशिखायैः क्वचित् । मुक्ताकारमरुन्नदीजलकणैराकीर्णशोभाः क्वचि- चेत्थं शाश्वतभूषणव्यतिकराः शंभोर्जटाः पान्तु वः ॥ स्थाणोर्वः पातु मूर्धा सर इव सततव्योमगङ्गाम्बुलोल- स्फूर्जद्भोगीन्द्रपङ्कश्लथविकटजटाजूटकलारहारी । मन्दं यत्र स्फुरन्त्यो धवलनरशिरोवारिजन्मान्तराले स्पष्टः प्रोद्यन्मृणालाङ्कुरनिकर इवाभान्ति मौलीन्दुभासः । नेत्रक्रोडप्रसक्तोज्ज्वलदहनशिखा[पिङ्ग]भासां जटानां भारं संयम्य कृत्वा समममृतकरोद्भासि मौलीन्दुबिम्बम् । हस्ताभ्यामूर्ध्वमुद्यद्विषशिखिवदनग्रन्थिमातत्य नागं स्थाणुः प्रारब्धनृत्तो जगदवतु लयोत्कम्पिपादाङ्गुलीकः ॥ चूडाचारुमणीन्दुमण्डितर्भुवः सद्भोगिनामाश्रयः, पक्षच्छेदभयार्तिसंकटवतां रक्षाक्षमो भूभृताम् । दूराम्यागतवाहिनीपरिकरो रत्न[āकाशो]ज्ज्वल: श्रीमानित्थमुदारसागरसमो मौर्यान्वयो दृश्यते ।। दिङ्गागा इव जात्यसंभृतमुदो दानोज्ज्वलैराननै- विनम्भेण रमन्त्यभीतमनसो मानोद्भुराः सर्वतः । सद्वंशत्ववशप्रसिद्धयशसो यस्मिन्प्रसिद्धा गुणैः श्लाघ्या भद्रतया च सत्त्वबहुलाः पक्षैः समं भूभृतः ।। इत्थं भवत्सु भूपेषु भुञ्जत्सु सकलां महीम् । धवलात्मां नृपस्तत्र यशसा धवलोऽभवत् ॥ १. पादादौ चकारोऽनुचितः. २. 'प्रिय' इति मुद्रितः पाठः. ३. 'तरः' इति साधी- यान्पाठः. ४. -प्रकार-' इति मुद्रितः पाठः.

६४ लेखः] प्राचीनलेखमाला। २ कायादिप्रकटार्जितैरहरहः स्वैरेव दोषैः सदा निर्वस्त्राः सततक्षुधः] प्रतिदिनं स्पष्टीभवद्यातनाः । रात्रीसंचरणा भृशं परगृहेष्वित्थं विजित्यारयो येनाद्यापि विकीर्णतां सुविपदो नीताः पिशाचा इव ॥ कोपाळूनमहेभकुम्भविगलन्मुक्ताफलालंकृत. स्फीतास्रस्तुतिमण्डिता अपि मुहुर्येनोजितेन स्वयम् । उन्नालैरिव पङ्कजैः पुनरपि च्छिन्नैः शिरोभिर्द्विषां विक्रान्तेन विभूषिता रणभुवस्त्यक्ता नरैः कातरैः ।। इत्थं तस्य चिरंतनो द्विजवरः सद्वीर्यसत्तायुध- प्रीतिप्रोतनरेन्द्रसत्कृतिमुदः पात्रं प्रसिद्धो गुणैः । यस्याद्यापि रणाङ्गणे विलसितं संसूचयन्ति द्विष- च्छुष्यच्छोणितमर्मरा रणभुवः प्रेतप्रियाः प्रायशः ॥ शब्दस्यार्थ इव प्रह्लादनपटोर्मार्गस्त्रयीसंज्ञितो धर्मः सेव्यविशुद्धभावसरलो न्यायस्य मूलं सतः । प्रामाण्यं प्रगतस्य ........."यः साध्यस्य संसिद्धये तस्याभू[दति]संयतः पृथुसखः श्रीसं(श)ङ्कुकाख्यो नृपः ।। देङ्गिणी नाम तस्यासीद्धर्मपत्नी द्विजोद्भवा । तस्यां तस्याभवद्वीरः सूनुः कृतगुणाकरः ।। यशस्वी रूपवान्दाता श्रीमाशिवगणो नृपः । शिवस्य नूनं स गणो येन तद्भक्ततां गतः ।। खड्गाघातदलत्तनुत्रविचटद्वह्निस्फुलिङ्गोज्ज्वल- ज्वालादग्धकबन्धकण्ठकुहरप्रोन्मुक्तदानोल्बणे । नाराचैर्मथिताननाकुलखगप्रोद्वान्तरक्तोसव- प्रीतप्रेतजनो रणे रतधिया येनासकृच्चर्वितः ॥ ज्ञात्वा जन्मजरावियोगमरणक्लेशैरशेषैश्चितं स्वार्थस्याप्ययमेव योग उचितो लोके प्रसिद्धः सताम् । १. 'प्रेत' इति मुद्रितः पाठः. २. -आसवम्' इति मुद्रितः पाठः.

१० काव्यमाला। तेनेदं परमेश्वरस्य भवनं धर्मात्मना कारितं यदृष्ट्वैव समस्तलोकवपुषां नष्टं कलेः कल्मषम् ॥ पुष्पाशोकसमीरणेन सुरभावुत्फुल्लचूताङ्कुरे [काले] मत्तविलोलषट्पदकुलैक्रुद्धदिङमण्डलें । जातेऽपाङ्गनिरीक्षणैककथके नारीजनस्य स्मरे कृप्तं सद्भवनं भवस्य सुधिया तेनेह कण्वाश्रमे ।। काले दोलाकुलानां तनुवलनभरात्प्रस्फुटत्कञ्चुकानां कान्तानां दृश्यमानैः कुचकलश जा[व्यक्त]संभोगचिद्वैः । यस्मिन्प्रिया] (2) मुख्यस्थितिझटितिनमत्सस्मितार्धक्षणानां भ्रूभङ्गैरेव रम्यैहृदयविनिहितः सूच्यते प्रेमबन्धः ॥ मत्तद्विरेफझंकारिसहकारविराजिताः। संवीक्ष्य ककुभो बाष्पं मुञ्चन्ति पथिकाङ्गनाः ॥ धूपादिगन्धदीपाथै खण्डस्फुटितिहेतुना(तवे)। ग्रामौ दत्तौ क्षयो निमिः (१) सर्वाङ्काञ्चोणिपद्कौ ॥ पालयन्तु नृपाः सर्वे येषां भूमिरियं भवेत् । एवं कृते ते धर्मार्थ नूनं यान्ति शिवालयम् ॥ संसारसागरं घोरमनेन धर्मसेतुना । तारयिष्यत्यसौ नूनं जन्यौ चात्मानमेव च ॥ यावत्ससागरां पृथ्वी सनगां च सकाननाम् । यावदिन्दुस्तपेद्भानुस्तावत्कीर्तिर्भविष्यति ॥ संवत्सरशतैयातैः सपञ्चनवत्यर्गलैः । सप्तभिर्मालवेशानां मन्दिरं धूर्जटेः कृतम् ॥ अलुब्धः प्रियवादी च शिवभक्तिरतः सदा । कारापकः शब्दगुणो धार्मिकः शंसितव्रतः ॥ दृक्षः प्राज्ञो विनीतात्मा शूरभक्तः प्रियंवदः । तृप्तोऽत्र रौषुकश्चास्मि (?) कायस्थो गोमिकाङ्गजः ॥ १.-भुजां भोजि-' इति मुद्रितः पाठः. ।

६५ लेखः]
प्राचीनलेखमाला।
११
उत्कीर्ण शिवनागेन द्वार(रे) शिवस्य सूनुना।
सूनुना भट्टसुरभेर्देवटेन श्रुतोज्ज्वलाः ॥
श्लोका अमी कृता भक्त्या मौलिचन्द्रसुधाजुषः ।
कृष्णसुतो गुणाढ्यश्च सूत्रधारोऽत्र णण्णकः ॥
एतत्कण्वाश्रमं ज्ञात्वा सर्वपापहरं शुभम् ।
कृतं हि मन्दिरं शंभोधर्मकीर्तिविवर्धनम् ॥
यतिहीनं शब्दहीनं मात्राहीनं तु यद्भवेत् ।
तत्सर्व साधु चित्तेन मर्षणीयं बुधैः सदा ॥
(इण्डियन् आण्टिक्वेरी १३।१६३-१६५)
शिवमन्दिरप्रशस्तिः ।
ॐ नमः शिवाय।
सोमः सोमपवित्रिताधरदलैः संस्तूयते यो द्विजैः
सौम्यैः सामसमूहसङ्गविमलैः सोमार्चित[:] सामगैः।
कैलासे कलकोकिलालिबहुले देवैश्च दैत्यादिभिः
सोऽव्यात्सोमसुधावपुर्भुवि भवो भावान्वितान्भक्तिदः ॥
योगी योगिवरैरगे गणगणैर्यक्षैश्च यक्षालये
सिद्धैः सिद्धिबलैरलं सुखनिधिोके च लोकाधिपः ।
विद्यापादविलेपनादिविभवैविद्याधरैः सादरं
पूज्यो यः सततं समाधिकुसुमैर्भावोज्ज्वलैः सोऽवतात् ॥
त्यक्वामात्यनृपे कलावपि सुधीः सत्त्वोज्झितप्राणिनि
सत्योपेतगुणाकरो नययुतस्त्यागी क्षमी योगवित् ।
शूर[:] क्रूरजनं प्रति क्रमवशाच्छ्रीपुण्ययुक्तं कुलं
त्यक्त्वासौ धनसंपदोऽवकुलजः श्रीयोगचर्या गतः ॥

१२ काव्यमाला । । तेनेदं सुसमाहितेन मनसा संरक्षणायापदां शंभोश्चारुसु(शु)भैरकारि भवनं पाषाणकूटैरिदम् । आस्ते यत्र झरेश्वरः सह गणैः शंभुर्विभूर्भूतिद- स्तीर्थान्यत्र समाहितान्यवितथं श्रीपुष्करादीन्यपि ॥ 'यं दृष्ट्वापि कथाप्रपञ्चरचनान्नामादिसंकीर्तना- संपर्काद्यदि कौतुकाद्भुवि जनः कुर्यादथाराधनम् ॥ त्यक्त्वा पापमशेषमुग्रभयदं पापैः समापूर्यते ।। संवत् ७८३ चैत्रे सुदि ५ पञ्चम्यां निघनमिइ (इण्डियन् आण्टिक्वेरी १३।२५०-२५१) (६६) यादव-सेउणचन्द्रनृपतेर्दानपत्रम् । ॐ स्वस्ति जयोऽभ्युदयश्च । त्रैलोक्येशः सृजति भगवाँल्लब्धमाहात्म्यतेजा- श्चित्ताराध्यः परमतपसां योगिनां ध्यायतां यः । अप्रत्यक्ष भवति विवुधानामपि प्रायशोऽसौ देवः सोऽयं यदुपतिपतेः शंकरः शंकरो नु ॥ आदौ ख्यातदृढप्रहारनृपतिः श्रीविष्णुरूपः स हि त्वायातो निजवंशशेखरतनुज्रावतीपत्तनात् । संग्रामे रिपुहस्तिपत्तिशिरसां संच्छेदभेदे दृढ- श्चन्द्रादित्यपुरं प्रसिद्धमकरोत्याक्संभवं यो भुवि ॥ श्रीमत्सेउणचन्द्रनामनृवरस्तस्मादभूद्भूमिपो नित्यं देर्श......."पदातिविषये सन्नाम संपादयन् । येनाकारि पुरं च सेउणपुरं श्रीसिन्दिनेरे वरे तत्पुत्रः कुलदीपको गुणनिधिः श्रीद्वाडियप्यस्ततः ॥ १. पादत्रयमेव लब्धम्. २. त्रुटिचिह्नमादर्शपुस्तके नास्ति.

६६ लेखः] प्राचीनलेखमाला। : आसीत्सत्तदशेषभूतलशशी श्रीमान्बृहद्भिल्लिमः श्रीराजस्तदनन्तरं नरपतिर्जालो महीमण्डनः(म्)। अक्तिस्य बभूव भूतलहरिः श्रीवद्दिगाख्यो नृप- स्तस्माच्छ्रीवरभिल्लमक्षितिपतेः प्रत्यक्षधर्माभवत् ॥ भार्या यस्य च झज्झराजतनया श्रीलस्थियवाह्वया धर्मत्यागविवेकबुद्धिसुगुणा श्रीराष्ट्रकूटान्वया । याजातानवबालनाजसमये यदन्वया(यद्वंशजा) धारिता सप्ताङ्गोद्यतराज्यभारधरणाद्राज्यत्रयाध्यार्ततः॥ चालुक्यान्वयमण्डलीकतिलकाच्छ्रीगोगिराजाकरा- दुत्पन्ना दुहितात्रयाद्गुणवती धाम्ना कुलद्योतिता(का)। स्त्रीरत्नं बत वेधसा प्रकटितं सामन्तरत्नासया(?) श्रीनाइ(ई)यलदेविनामसुभगा श्रीपट्टराज्ञी सदा ॥ श्रीतेसूकमहीपतिः समभवद्यस्याङ्गश्लिष्टा(?) ततः श्री[मद्भिल्लमधराधरः(भूपतिः) समुदितः श्रीमण्डलीकाख्यया। त्रैलोक्यं निजवंशकीर्ति कैलया] संभूषयन्यादवो दक्षो दुष्कृतिमर्दनस्य चरणौ संयूजयन्भूतले ॥ दोर्दण्डप्रबलासिघातनिहतः संग्रामरामेण [भू-] शक्रः श्वाहवमल्लदेवनृपते प्रौढाङ्गकारेण हि । शश्वल्लब्धसुचक्रवर्तिपदकालंकारिणा राजसु संसारस्थिति कारकेण] गुणिना तेनोद्भवद्धर्मिणा ॥ यस्यार्धाङ्गनिषक्तसुन्दरतनुः प्रत्यक्षलक्ष्मीगुणा हाम्मा श्रीजयसिंहदेवदुहिता श्रीअव्वल(ल्)देवी सती । या चात्राहवभल्लदेवभगिनी चालुक्यवंशान्वया(शोद्भवा) श्रेष्ठा कायविशेषकारणपदे सद्धर्मपत्नी क्षितौ ।। १. 'लस्थि अब्बा' 'लच्छि अब्बा' इति शोधितः पाठः. २. निर्मलतया' इत्यादर्श- स्थपाठे छन्दोभङ्गः, बा 'कीर्ति'शब्दनिष्काशने 'निजवंश निर्मलतया' इति पाठः. ३. 'भातकेन' इति मुद्रितः पाठः, BHA काव्यमाला। तद्वंशोद्भवसे उणेन्दुनृपतिर्जातोऽत्र धर्माधिकः सर्वान्भूवलयाश्रितान्क्षितिपतीन्निर्जित्य शौर्यासिना । राज्यं येन समुद्धृतं सतिलकं स्वर्ग गते भिल्लमे यद्वत्सूकररूपसाम्यहरिणा लोकत्रयं चोद्धृतम् ॥ गोत्रान्वये यमनियमस्वाध्यायध्यानानुष्ठानरतपरमशैवश्रीसोमदेवाचार्याः, तस्य (तेषां) शिष्याः परमगुरुभक्तिसंपन्ना अनेकशिवागमतत्त्वज्ञाः शब्दशास्त्रविशारदा दीक्षापरीक्षादानसमर्थाः श्रीमत्सर्वदेवाचार्या राजगु- रवः तेभ्यः शकसंवत् एकनवत्यधिकनवशतेषु संवत् ९९१ सौम्यसंवत्स- रीयश्रावणसुदि चतुर्दश्यां गुरुदिने राजगुरोर्भर्णित्व(?) (गुरुनिमित्त) दक्षिणायां पादप्रक्षालनार्ष्यादिकं कृत्वा श्रीसेउणचन्द्रमहामण्डलेश्वरेण अतिभक्तितत्परेण महाप्रचण्डदण्डनायक[:] श्रीधर । महामात्यश्रीवासु- देवैय । महाप्रधाननायकश्रीभभियाक । संधिविग्रहिश्रीनायक । पातल- करणीश्रीभरवैयानायक । राजाध्यक्षश्रीआपैयाक । महत्तमश्री आमादित्यो मौलिकृतहस्तद्वयेन सह सद्भिर्धर्मार्थप्रेरकैः सततं सकलपरिग्रहविदितं सिं- हिग्रामद्वादस(श)के चिञ्चुलिग्रामः प्रदत्तः । तस्य च आघाटनानि पूर्व- दिग्भागे डोगरदन्त । आग्नेय्यां डोङ्गरसत्क उत्तरपानीयप्रवाहः । दक्षिणे चिञ्चालानामतडाग । नैर्ऋत्ये वडगम्भाग्राम पूर्वतो डोगरदन्त । पश्चिमे तलठेलीपर्यन्त । वायव्ये तलाडलीच । उत्तरतो(तः) सिसिग्रामीय डोगरद- न्ततथा वटवृक्षश्च । ईशान्यां महुयग्रामीयनीगुडीयालानाम तडागं तयसे वै। इत्यष्टसीमोपलक्षितः सवृक्षमालाकुलः स्वसीमापर्यन्तः सकाष्ठतृणोदकः समस्तद्रव्योपायसमन्वितः स्वचक्रपरचक्रोत्थितविदुलादिद्रव्योपक्षयायुपद्र- वादिविवर्जितः अकरवातोत्तरः सर्वभोगसमन्वितः परिपालनीयः । सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः । सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः ॥ मद्वंशजा वा परवंशजा वा ये पुण्यवन्तो मम धर्ममेवम् । प्रपालयिष्यन्ति नृपास्तु सर्वे कृताञ्जलिः सादरमाह सर्वान् । । १

६६ लेखः]
प्राचीनलेखमाला।
१५
यानीह दत्तानि पुरा नरेन्द्रनानि धर्मार्थयशस्कराणि ।
निर्माल्यतुल्यानि भवन्ति तानि को नाम साधुः पुनराददीत ॥
बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥
गयागोदावरीगङ्गाप्रयागादिषु दानतः ।
यत्फलं तत्फलं सर्वं भवेद्भूमिप्रपालनात् ॥
परत्र संवलं(मतं) दिव्यं भूमिदानात्परं नहि ।
तस्मात्सर्वादरेणापि भूमिदानं प्रपालयेत् ॥
रत्नानपानगोष्ठयाचं सर्व भूमौ प्रजायते ।
तस्माद्भूमिप्रदानेन नरो भवति सर्वदः ॥
देवस्वानि हरन्तीह नरा नरकनिर्भयाः ।
ब्रह्मवानि तु ये मोहात्पच्यन्ते नरकेषु ते ॥
खदत्तां परदत्तां वा यो हरेत वसुंधराम् ।
दिव्यं(षष्टिः) वर्षसहस्त्राणि विष्ठायां जायते क्रिमिः ॥
वापीकूपतडागैश्च वाजपेयशतैरपि ।
गवां कोटिप्रदानेन भूमिहर्ता न शुध्यति ॥
भूमि यः प्रतिगृह्णाति यश्च भूमि प्रयच्छति ।
द्वावेतौ पुण्यकर्माणौ नियतं स्वर्गगामिनौ ॥
चन्द्राकौं च तथा भूमिर्नभस्तापनवानिलः (१)।
तारकाश्चानलश्चैव धर्मराजस्तथैव च ।।
तित्रः संध्यास्त्रयोवेदास्त्रयोदेवास्त्रयोऽग्नयः ।
अहोरात्रं च(त्रश्च) दानस्य एते वै साक्षिणः स्मृताः ।।
हर्ता देवस्य यो भूमिं ब्राह्मण(स्या)पि यो हरेत् ।
खदत्तां परदत्तां वा स याति नरकं नरः ॥
सर्व वा भूमिहरणाद्धृतमेव न संशयः ।
भूमिहर्ता वसेत्तस्मान्नरके कालमक्षयम् ॥

६ काव्यमाला। यावत्सूर्यशशाङ्कौ च यावद्भूधरसागराः । तावत्पुत्रप्रपौत्रेभ्यो ग्रामः पाल्यो नृपोत्तमैः ।। पूर्वलोकः प्रदत्तं देवब्राह्मणसहितं पालनीयं राज्ञानुतुष्टेन निरन्तरमिति शासनं समाप्तम् । पातलकरणीभरथनायकप्रतिहस्तकप्रेकरयेण लिखितम् । स्तंबुसुतः(त)सेकारेयानैयकेन घटितम् । मङ्गलं महाश्री[:] ॥ (इण्डियन् आण्टिक्केरी १२।११९.१२१) (६७) यादव-सेउणदेवनृपतेदितीयं दानपत्रम् । ॐ पञ्चपरमेष्ठिभ्यो नमः। स्वस्ति श्रीशकसंवत् १०६३ दुन्दुभिसंवत्सरान्तर्गतज्येष्ठसुदि पञ्च- दश्यां सोमेऽनुराधानक्षत्रे सिद्धयोगेऽस्यां संवत्सरमासपक्षदिवसपूर्वायां तिथौ समधिगताशेषपञ्चमहाशब्दद्वारावतीपुरपरमेश्वरविष्णुवंशोद्भवयादव- कुलकमलकलिकाविकासभास्करयादवनारायणसामन्तपितामहसामन्तअमरा इत्यादिसमस्तनिजराजावलीविराजितमहासामन्तश्रीसेउणदेवविजयराज्ये त- त्पादप्रसादावाप्तमहामहत्तमप्रतापसंतापितवैरिवर्गः संग्रामशौण्डः शूरवै- रिघटाविमर्दनकण्ठीरवोऽनवरतदानार्दीकृतदक्षिणकरप्रकोष्ठो निशितनिस्त्रिं- शविदारितारातिकरिकुम्भस्थलगलितमुक्ताफलमण्डितरणाङ्गनो मनस्विनी- मानोन्मूलनकंदर्पो दर्माधर्मरहितशौर्यौदार्यदयादाक्षिण्यधर्मगुणसत्वोत्साहम- नशीलसंपन्नः प्रजापालनानन्दशत्रुपराजयानन्दतोषितः कीर्तिप्लावितदिग्वल- योऽनेकराजनीतिशास्त्रोक्तवर्धितबुद्धिकौशलसहस्रविज्ञानप्रभुत्वमन्त्रोत्साह- शक्तिसामर्थ्यरूपलावण्यविचित्रवक्तव्यताभोगोपभोगराष्ट्रकौशलाद्यनेकविषय- गुणगणालंकृतो व्यर्थीकृतपरिपन्थिमनोरथः संग्रामविजयलक्ष्यालानस्तमः रत्नाकर इवानन्तगाम्भीर्ययुक्तः हिमाद्रिरिवौंपरिमितमहिमान्वितः षाडण्य- १. "प्रपौत्रादिभ्यः' इति मुद्रितः पाठः.२. पक्षे अनन्तो विष्णुः, गाम्भीर्यमगाधता च. ३. वासवदत्ताश्लेषहरणेऽपि पक्षे क्लिष्टेऽर्थः, ६८ लेखः] प्राचीनलेखमाला। संपन्नाविपर्यतानिष्ठः देवद्विजगुरुवराचार्यसाधुपूजाभिरतः दीनानाथोद्धार- णक्षमः रविरिव प्रति दिवसोपचीयमानोदयः परिहासप्राकारः ईदृग्गुणवि- शिष्टश्रीपाणुमडउरीसर्वव्यापारे कुर्वति सतीत्येतस्मिन्काले प्रवर्तमाने श्री- सेउणाख्येन महानृपेण प्रधानयुक्तेन विचार्य भक्त्या देवाय चन्द्रद्युतये प्रदत्तं हट्टद्वयं भारविवर्जितं च । श्रीसाधुवत्सराजेन स्वकुलतिलकभूतेन देवद्विजगुरुवराचार्यपूजाभिरतेन श्रीलाथसाधुना स्वकीयं हट्टदानं कृतं तथा गृहदानं च कृतम् । चन्द्र[प्र]भाय देवाय कंदर्पदहनाय च । विशुद्धदेहरूपाय सर्वसत्त्वहिताय च ॥ तथा नगरे वर्ष प्रति द्रम्मपञ्चकं कृतम् । आयुः पुत्रा धनं सौख्यं सौभाग्यं राज्यमक्षयम् । आभिश्रेष्ठयं यशः स्वर्ग भूमिदो लभते फलम् ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् दाता चैवानुमन्ता च स्वर्गस्योपरि तिष्ठति । हर्ता हारयिता भूमेः पच्यते रौरवे ध्रुवम् । स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् । षष्टिवर्षसहस्राणि विष्ठायां जायते क्रिभिः ॥ श्रीकोल(ले)श्वरपण्डितसुतेन दुष्टगणकगजकण्ठीरवेण साधुगणकचर- णारविन्दमकरन्दलुब्धषट्देन श्रीदिवाकरपण्डितेन हट्टशासनमिदं शैल- (शिला)पट्टे लिखितमिति: 'मङ्गलं महाश्री[:] (इण्डियन आण्टिक्वेरी १२।१२७-१२८) (६८) श्रीविजयादित्यमहाराजानां दानपत्रम् । खस्ति श्रीमतां सकलभुवनसंस्तूयमानमानव्यसगोत्राणां हारीतिपुत्राणां १. कादम्बरीश्लेषोऽयम्. २. आदर्शे गद्यसंक्रान्तोऽयं श्लोकः.

१८ काव्यमाला । कौशिकीवरप्रसादलब्धराज्यानां मातृगन(ण)परिपालितानां स्वामिमहासेन- पादानुध्यातानां भगवन्नारायणप्रसादसमासादितवरवराहलाञ्छनक्षणक्षण- वशीकृतारातिमण्डलानामश्वमेधावभृथस्नानपवित्रीकृतवपुषां चालुक्यानां कु- लमलंकरिष्णोः सत्याश्रयवल्लभेन्द्रस्य भ्राता कुब्जविष्णुवर्धनोऽष्टादश- वर्षाणि वेङ्गीदेशमपालयत् । तदात्मनो जयसिंहस्त्रयस्त्रिंशतम् । तदनुजे- न्द्रराजनन्दनो विष्णुवर्धनो नव । तत्सूनुमाङ्गियुवराजः पञ्चविंशतिम् । तत्पुत्रो जयसिंहस्त्रयोदश । तदवरजः कक्किलिः षण्मासान् । तस्य ज्येष्ठो भ्राता विष्णुवर्धनस्तमुच्चाट्य सप्तत्रिंशतम् । तत्पुत्रो विजयादित्यभट्टा- रकोऽष्टादश । तत्सुतो विष्णुवर्धनः सप्तत्रिंशतम् । तत्सुतो विजयादित्य- नरेन्द्रमृगराजश्चाष्टचत्वारिंशतम् । तत्सुतः कलिविष्णुवर्धनोऽध्यर्धवर्षम् । तत्सुतो गुणगाङ्कविजयादित्यश्चतुश्चत्वारिंशतम् । तदनुनविक्रमादित्य- भूपतेः सूनुश्चालुक्यभीमभूपालस्त्रिंशतम् । तत्पुत्रः कोल्लभिगण्डविज- यादित्यः षण्मासान् । तत्सूनुरम्मराजः सप्त वर्षाणि । तत्सुतं विजया- दित्यं बालमुच्चाट्य तालपो मासमेकम् । तं जित्वा चालुक्यभीमतनयो विक्रमादित्य एकादश मासान् । ततस्तालपराजस्य सुतो युद्धमल्लः सप्त वर्षाणि । तत्पुत्रः कोल्लभिगण्ड विजयादित्यसुतो भीमराजो द्वादश- । । ल । वर्षाणि । तस्य महेश्वरमूर्तेरुमासमानाकृतेः कुमाराभः । लोकमहादेव्याः खलु यः समभवदम्भराजाख्यः ॥ जलजातपत्रचामरकलशाङ्कुशलक्षणाङ्ककरचरणतलः । लसदाजान्ववलम्बितभुजयुगपरिघो गिरीन्द्रसानूरस्कः ।। यो रूपेण मनोज विभवेन महेन्द्रमहिमकरमुरुमहसा । हरमरिपुरदहनेन न्यक्कुर्वन्भाति विदितदिगवनिकीर्तिः ॥ स सकलरिपुनृपतिमुकुटतटघटितमणिगणमधुकरनिकरपरिचुम्बितचरण- सरसीरुहयुगलो युगलोचनपदकमलविलसविरेफायमानो मानोन्नतानतोद्धत- समस्तलोकः समस्तभुवनाश्रयश्रीविजयादिसमहाराजाधिराजः परमेश्वरः

६८ लेखः]
प्राचीनलेखमाला।
परमभट्टारकः परमब्राह्मण्यः वेलनान्दुविषयनिवासनो राष्ट्रकूटप्रमुखान्कुटु-
म्बिनः समाहूयेत्थमाज्ञापयति-
विद्वत्कवीन्द्रप्रभवं प्रसिद्धं पूज्योदयं भूरिगुणाधिवासम् ।
धर्मिष्ठभूमिनियमखधाम पात्रं परं काश्यपगोत्रमासीत् ॥
तत्र भूसुरयथोचितविद्याकर्मशक्तविधिनिर्मलदेहः ।
वेदविद्विदितशास्त्रसमूहो विद्दमय्य इति विश्रुतकीर्तिः ।।
भूदेववंशाम्बुधिशीतरश्मिर्विद्वत्सरोजाकरभानुभानुः ।
तत्सूनुरम्भोजभवोपमानो विद्यामयो विहमयप्रसिद्धः ॥
अरुन्धत्या विशिष्टस्य वशिष्टस्योपमामयात् ।
पतिव्रतात्मया धर्मपत्न्या यश्चानमव्वया ॥
कुलक्रमायातमुदारभावमनन्यदृष्ट्याश्रुतपूर्वरूपम् ।
दव(ध)द्धराधारिधरोपमानस्तयोः सुतः कोरमियाभिधानः ॥
श्रीलोकमहादेव्या समवयंत योऽस्मदम्बया प्रीत्या ।
चातुर्यनागरकयोरावासस्थानमिति मनोहरयोः ॥
अपहसति वाग्मिता वाग्वनितां यत्र स्थिता महाचतुरे ।
असुजनधरानागरिकजलजभवबहुमुखप्रियं सततम् ॥
उत्पद्यते प्रसङ्गात्सुजनतया त्वात्मसहजया यस्य ।
विभवः पतिप्रशंस्यश्चित्रमिदं साधुवाद इति ॥
रसिकानामतिरसिकश्चतुराणामधिकचतुर एवायम् ।
कोरमियनामधेयो विदुषामत्यन्तविज्ञानी ।
सेवितसमस्तभूपतिहृदयस्थितिभाग्गुणोपपन्नोऽमूल्यः ।
मुक्ताफलसच्चरितः कोरमियो वस्तुपुरुष इत्युपपन्नम् ॥
अनागतज्ञानविवेकिनी धीरनिन्द्यचारित्रपरे हि चेष्टा ।
अशेषभोगोपगतं मनश्च अहो महत्कोरमियस्य पुण्यम् ॥
तस्मै कूरमियनाम्ने सुवर्णभाण्डागारश्रीकरणमुख्याय । एलवक्रनामग्रामः
सर्वकरपरिहारेणाग्रहारीकृत्योदकपूर्वमुत्तरायणनिमित्तेऽस्माभिर्दत्त इति वि-

२० काव्यमाला। - दितमस्तु वः । अस्यावधयः-पूर्वतः -गोमदूअनु सीमा, आग्नेयतः- डग्गूवर्टि सीमा, दक्षिणतः- इथूरी सीमा, नैर्ऋतिपश्चिमाभ्यां—प्रेम- परती सीमा, वायव्यतः-तूरीमिण्डी सीमा, उत्तरेशानाभ्यां-अ- मुटुनूरी सीमा ॥ अस्योपरि न केनचिबाधा कर्तव्या । यः करोति स प- ञ्चमहापातको भवति । तथोक्तं व्यासेन- बहुभिर्वसुधा दत्ता बहुभिश्चानुपालिता । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् । खदत्तां परदत्तां वा यो हरेत वसुंधराम् । पष्टिं वर्षसहस्राणि विष्ठायां जायते कृमिः ॥ आज्ञापतिः कटकराजः । पोटनभट्टः काव्यम् । जोन्ताचार्यलिखितम् ॥ (इण्डियन आण्टिक्केरी १२।९१-९३) (६९) वलभीवल्लभशासनपत्रम् । ॐ स्वस्ति वलभीतः प्रसभप्रणतामित्राणां मैत्रकाणामतुलबलसंपन्नम- ण्डलामोगसंसक्तप्रहारशतलब्धप्रतापोपनतदानमानार्जवोपार्जितानुरागादनुर- क्तमौलभृतश्रेणीबलावाप्तराज्यश्रियः परममाहेश्वरश्रीभटादिव्यवच्छिन्नरा- जवंशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति ख- गद्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितसत्त्वनिकषस्तत्प्रभावप्रण- तारातिचूडारत्नप्रभासंसक्तपादनख(र)श्मिसंहतिः सकलस्मृतिप्रणीतमा- गसम्यक्परिपालनप्रजाहृदयरञ्जनान्वर्थराजशब्दो रूपकान्तिस्थैर्यगा[म्भी]- र्यबुद्धिसंपद्भिः स्मरशशाङ्कादिराजोदधित्रिदशगुरुधनेशानतिशयानः शर- णागताभयप्रदानपरतया तृणवदपास्ताशेषस्वकार्यफलप्रत्यर्थनाधिकार्थप्रदा- नानन्दितवद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनः, तस्य सुतस्तत्पादनखमयूखसंतानविसृतजाह्नवी- जलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसंपद्रूपलोभादिवा- Sagar ६९ लेखः] प्राचीनलेखमाला । २१ श्रितः सरभसमाभिगामिकै र्गुणैः] सहजशक्तिशिक्षाविशेषविस्मापिताखिल- धनुर्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्मदायानाम्, अपाकर्ता प्रजोपघातकारिणामुपप्लवानाम्, दर्शयिता श्रीसरस्वत्योरधिवासस्य, संहता- रातिपक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममा- हेश्वरः श्रीधरसेन:, तस्य सुतस्तत्पादानुध्यातः सकलजगदानन्दनात्यद्भुत- गुणसमुदयस्थगितसमग्रदिङमण्डलः समरशतविजयशोभासनाथमण्डलाग्रद्यु- तिभासुरतरांसपीठोदूढगुरुमनोरथभारः सर्वविद्यापरावरविभागाधिगमविमल- मतिरपि सर्वतः सुभाषितलवेनापि सुखोपपादनीयपरितोषः समग्रलोका- गाधगाम्भीर्यहृदयोऽपि सुचरितातिशयसुव्यक्तपरमकल्याणस्वभावः खिलीकृ- तयुगनृपतिपथविशोधनाधिगतोदग्रकीर्तिधर्मानुपरोधोज्वलतरीकृतार्थसुखसं- पदुपसेवानिरूढधर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादित्या, त- स्यानुजस्तत्पदानुध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता समभिलषणी- यामपि राजलक्ष्मी स्कन्धासक्तां परमभद्र इव धुर्यस्तदाज्ञासंपादनैकरसत- यैवोद्वहन्खेदसुखरतिभ्यामनायासितसत्त्वसंपत्तिः प्रभावसंपदशीकृतनृपतिश- तशिरोरत्नच्छायोपगूढपादपीठोऽपि परावज्ञाभिमानरसानालिङ्गितमनोवृत्तिः प्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिक्रि- योपायः कृतनिखिलभुवनामोदविमलगुणसंहतिः प्रसभविघटितसकलकलि- विलसितगतिर्नीचजनाधिरोहिभिरशेषैरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषा- स्त्रकौशलातिशयगणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्रहप्रकाशितप्रवीरपुरुष- प्रथमसंख्याधिगमः परममाहेश्वरः श्रीखरग्रहः, तस्य तनयस्तत्पादानु- ध्यातः सकलविद्याधिगमविहितनिखिलविद्वज्जनमनःपरितोषातिशयः सत्त्वं- संपदा त्यागौदार्येण च विगतानुसंधानाशमाहितारातिपक्षमनोरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्रकलालोकचरितगह्वरविभागोऽपि परमभद्रप्रकृतिर- कृत्रिमप्रश्रयविनयशोभाविभूषणः समरशतजयपताकाहरण प्रत्य]लो(?)दन- बाहुदण्डविध्वंसितनिखिल- (अग्रे त्रुटितम्) (इण्डियन आण्टिक्केरी १२।१४८-४९) २२ काव्यमाला । (७०) श्रीजाइकदेवानां दानपत्त्रम् । ॐ स्वस्ति विक्रमसंवत्सरशतेषु सप्तसु चतुर्नवत्यधिकेष्वङ्कतः ७९४ कार्तिकमासापरपरपक्षेऽमावास्यायामादित्यवारे ज्येष्ठानक्षत्रे रविग्रहणप- र्वणि-अस्यां संवत्सरमासपक्षदिवसपूर्वायां तिथावधेह भूमिलिकायां सौराष्ट्रमण्डलाधिपतिः परमभट्टारकमहाराजाधिराजपरमेश्वरः श्रीजाइक- देवो महामात्यभट्टनारायणधर्मसहायानुमतेन संसारस्यानित्यतां ज्ञात्वात्म- धर्मयशोभिवृद्धये रवेरुपरागसमये धर्मकालमपेच्छ्य(क्ष्य) चतुर्वेदविदे..." संतानाय मुन्त(द)लगोत्राय त्रिप्रवरायेश्वरनाम्ने ब्राह्मणाय तद्धनिकाना- म ग्रामं सतृणकाष्ठजलं सवृक्षमालाकुलं देवदायवर्जमुदकपूर्व भूमिलिकाम- ण्डलमध्ये दत्तवान् । इदानीं कालान्तरमुक्तिनिश्चयकरणार्थमस्य ग्रामस्य चतुर्दिशमाघाटा लिख्यन्ते-उत्तरभागे सामापखे(क्षे)। समुद्रः, पूर्वभागे सवनगरुजा नालिका रोहरधारासमेता, दक्षिणभागे सयलाशतकान्तगरिचा नदी यावत् । पश्चिमभागे पर्वतस्य धारा समुद्रगामिनी । एवं चतुर्याटावि- शुद्धां तद्धनिकाग्रामभूमिमीश्वरनामा ब्राह्मणो भुञ्जन्भोज[य]न्वा न केनापि परिपन्थनीयः। बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ मयि राज्ञि व्यतिक्रान्ते योऽन्यो राजा भविष्यति । तस्याहं करलग्नोऽसि शासनं न व्यतिक्रमेत् ।। लिखितमिदं शासनं महाक्षपटलिकेन नरहरिनाम्ना मयेति ॥शिवमस्तु । (इण्डियन् आण्टिक्केरी १२ । १५५) (७१) मङ्गलपुर(मङ्गरोल)समुपलब्धा वापीप्रशस्तिः। ॐ नमः शिवाय । मुकुटः स हरस्य पातु वः शशिपङ्केरुहकन्दकालया। गमनादचिरेण यत्र सा सुरहंसीव पपात जाह्नवी ॥

७१ लेखः] प्राचीनलेखमाला । कृत्वा राज्यमुपारमन्नरपतिः श्रीसिद्धराजो यदा दैवादुत्तमकीर्तिमण्डितमहीपृष्ठो गरिष्ठो गुणैः । आचक्राम झटित्यचिन्त्यमहिमा तद्राज्यासिंहासनं श्रीमानेष कुमारपालनृपतिः पुण्यप्रख्ढोदयः ।। राज्येऽमुष्य महीभुजोऽभवदिह श्रीगूहिलाख्यान्वये श्रीसाहार इति प्रभूतगरिमाधारो धरामण्डनम् । चौलुक्याङ्गनिगृहकः सजहिगः ख्यातस्तनूनस्तत- स्तत्पुत्रा बलिनो बभूवुरवनौ सौराष्ट्ररक्षाक्षमान् ।। एषामेकतमो वीरः सोमराज इति क्षितौ । विख्यातो विदधे देवं पितुर्नाम्ना महेश्वरम् ॥ श्रीसोमनाथदेवस्य जगत्यां पुण्यवृद्धये । इन्दुकुन्दयशाश्चक्रे कीर्ति मेरुसमाश्रितम् ॥ पूजार्थमस्य देवस्य भ्राता ज्येष्ठोऽस्य मूलुकः । सुराष्ट्रानायकः प्रादाच्छासनं कुलशासनम् ॥ ठ[कुर]श्रीसहजिगपुत्रठ [कुर श्रीमूलुकेन श्रीसहजिगेश्वरदेवस्यानवर- तपञ्चोपचारपूजाहेतोः श्रीमन्मङ्गलपुरशुक्लमण्डपिकायां दिन प्रति का- [र्षापणम्] १, तथा तलाराभाव्यमध्याद्दिनं प्रति का[र्षाषणम्] १, तथा बलीवर्दछाटमाणकाभाव्येछाटां प्रति का०१, कणभृतगडकं प्रति का० १, तथा रासभछाटां प्रति का० ॥, तथा समस्तलोकेन निःशेषवल्लीकारैश्च पत्रभरावीडहरा केरी चाटुया प्रभृतीनां प्रत्येकं का० ॥, तथा पत्रभृत उंटभरकं प्रति का० २॥, पत्रभृतगत्री प्रति द्रम्मः १, क्षेत्र प्रति उच्च- ताभाव्ये का० १, तथा आगरमध्ये खंटितखरालिसाहा प्रति का० १, तथा- नयैव स्थित्या चोरुया वडे वलइजे च ग्राह्यम् । तथा लाठिवद्रापथके वह- न्तशुल्कमण्डपिकामध्याद्दिनं प्रति ठ०श्रीमूलुकेन रूपकैकः प्रदत्तः । तथा चोरूयावडेऽन्यसमस्तबृहत्पुरुषैरेकमतीभूय चतुराधाटनविशुद्धा प्रसिद्धपरिभोगा सवृक्षमालाकुला वीसणवेलीग्राममार्गसमासन्ना देगयावावी यथा- २४ काव्यमाला। नाम वापी राजानुमत्या श्रीसहजिगेश्वराय प्रदत्ता । तथा श्रीवामनस्थत्यां शुल्कमण्डपिकायां दिन प्रति का० १, तथा द्यूतमध्ये दिन प्रति का०१, तथा पत्रकुट्यां भरां प्रति पत्रशत?, तथा वीडहरा करी वाटुयाप्रभृतीनां प्रत्येकं पत्र ५०, तथा तलाराभाव्यमध्यात्ताम्बूलिकहढे प्रति प्रतिदिनं पत्र २, मडावा पू॥ १, देवदाय[:] समस्तोयं समस्तै विभूमिपैः । पालनीयोऽनुमान्यश्च दानाच्छ्रेयोनुपालनम् ॥ शिवः पात्रं जनो दाता पालकः पुण्यभाक्परम् । लोपकृच्च महापापी विचार्येवं प्रपालयेत् ॥ यत उक्तं च- बहुभिर्वसुधा वु(भु)क्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ श्रीमद्विक्रमसंवत् १२०२ तथा श्रीसिंहसंवत् ३२ आश्विनवदि १३ सोमे प्रशस्तिरियं नि[मिता] । कृतिरियं परमपाशुपताचार्यमहापण्डित- श्रीप्रसर्वज्ञस्य ॥ (भावनगरप्राचीनशोधसंग्रहे १।५-७) (७२) उदयपुरवायव्यकोणे सारणेश्वरमहादेवमन्दि- रोपलब्धलेखः। पान्तु पद्माङ्गसंसङ्गचञ्चद्रोमाञ्चवीचयः । श्यामाः कलिन्दतनयापूरा इव हरेर्भुजाः ॥ राज्ञी महालक्ष्म्यभिधानविश्रुता तदङ्गजोऽप्यल्लटमेदिनीपतिः । तदीयपुत्रो नरवाहनाभिधः सगुन्दलः सोढकसिद्धसीलुकाः ॥

२५
७२ लेखः ] प्राचीनलेखमाला।
सांधिविग्रहिकदुर्लभराजो मातृदेवसहितः सदुदेवः ।
अल्लटाच्छ(क्ष)पटलाभिनियुक्तौ विश्रुतावपि मयूरसमुद्रौ ॥
वसन्तराजद्विजनागरुद्रौ सभूवणौ मावषनारको च ।
रिपिः प्रमाता गुहिषोऽथ गर्गस्त्रिविक्रमोऽवन्दि(न्ति)पतिश्च नागः ॥
भिषगधिराजो रुद्रादित्यो वज्रटलिम्बादियच्छन्नाः।
अम्मुलसंगमवीरसजोज्जा वैश्रवणाविकभक्तिम्मोह[]ः ॥
संगमवेल्लकनागाः जन्जेल्लकवासुदेवदुम्बटकाः ।
यच्चक्काद्या देशी तथा वणिग्देवराजश्च ॥
प्रतीहारयशःपुष्पो रुद्रहासोऽथ राहटः ।
धर्मः काष्टिकसाहारः श्रीधरो वटिस्तथा ॥
हूणश्च कृषुराजोऽन्यः सर्वदेवोऽपि गौष्ठिकः ।
कृतमायतनं चेदममात्ये मम्मटे सति ॥
पुण्यप्रबन्धपरिपाकिमकीर्तयोऽमी
संसारसागरमसारमिमं गभीरम् ।
बुवाद्रिराजशिखरोत्थमचीकरन्त
पोतायमानमिदमायतनं मुरारेः ।।
कर्णाटमध्यविषयोद्भवलाटटक्का
अन्येऽपि केचिदिह ये वणिजो विशन्ति ।
तैः कल्पितं मधुरिपोः प्रतिपूजनाय
दानं न केनचिदपि व्यभिचारणीयम् ॥
द्रम्ममेकं करी दद्यात्तुरगो रूपकद्वयम् ।
द्रम्माविंशकं शृङ्गी लाटहट्टे तुलाढकौ ॥
एकादशीशुक्लदिनेऽखिलायः कन्दूद्धृतां स्याद्धटिका पणस्य ।
द्यूतंधराणामपि पे[टकं] स्यादेकैकशस्तैलपणं च घाणे ॥
रन्धनीनां गते मासे रूपकोऽथ चतुःसरम् ।
प्रत्यहं मालिकानां च दानमेतदिह स्फुटम् ॥

काव्यमाला। २६ कार्तिकसितपञ्चम्यामग्रटनाम्ना सुसूत्रधारेण । प्रारब्धं देवगृहं काले वसुशून्यदिक्संख्ये ॥ दशदिग्विक्रमकाले वैशाखे शुद्धसप्तमीदिवसे । हरिरिह निवेशितोऽयं घटितप्रतिमो वराहेण ॥ तथा निरूपिताशेषश्रीमदल्लट[भूपतिः । लेखितारौ च कायस्थौ पालवेल्लकसंज्ञकौ ॥ गोपप्रभासमहिधरनारायणभट्टसर्वदेवाद्याः । अम्मकसहिताः सर्वे निश्चितमिह गोष्टिका ह्येते ॥ (भावनगरप्राचीनशोधसंग्रहे १।१५-१५) (७३) भावनगरे महुवाबन्दरग्रामे लक्ष्मीनारायण- मन्दिरोपलब्धलेखः। ॐ नमः सर्वज्ञाय । स्वस्ति स्वस्तिमति प्रसिद्धनृपतिश्रीविक्रमातिक्रमा- त्संवद्विष्णुपदद्वयेषुजगतीसंख्ये प्रजानां पतौ । मित्रे चोत्तरगे प्रचण्डकिरणे धन्ये मधौ माधवे शुक्ले पूर्णतिथौ गुरौ च गुरुभे सद्योगभोगक्षणे ॥ बालाकान्तरगे पुरे मधुमतीसंज्ञे निवासोचिते श्रीमत्कामगवीखुरोद्भवभवे वंशे शिवे संभवः । श्रीरामार्पितचामरातपहरप्रौढिप्रतिष्ठान्वितः श्रेष्ठिश्रीनरपाल एष समभूच्छ्रीकृष्णसेवापरः ॥ तत्पुत्रोऽतः पवित्रो हरिपरिचरणः श्रेष्ठिमल्लोऽत्र पल्ह- स्तस्मादप्याविरासीदमितवितरणोऽन्नस्य सत्यप्रभावः । श्रेष्ठिश्रीरामनामा कृतसुकृतचयः संयुतो जानुसत्वा सन्मत्या विष्णुभक्त्या [नि]वसति सदने ब्रह्मणो वेदवेदः ॥

७३ लेखः] प्राचीनलेखमाला। २७ है तदनुजनितपूर्वादुग्रपुण्यप्रभावा- त्कलिबलदलनोऽयं मोकलो निर्जलायाम् । प्रणयति वरवापी तत्प्रतीचीनभूमौ मधुरसलिलपूर्णी श्रेयसे तत्र पित्रोः ॥ अनुतिष्ठेदधिष्ठानं मृष्टायां दृष्टनिर्जले । स तिष्ठेदिष्टमुद्दिष्टदिष्टं शिष्टैस्त्रिविष्टपे ॥ नीलोद्वाहं यो हरिमेधं सुनिपानं कुर्यात्पुत्रो गोत्रपवित्रोऽभिजनेन । दद्यादन्नं भूमिगजाश्वोभयवक्ता भूयाद्भावात्तीर्थसुपर्वद्विजभक्तः ॥ गोहिल्लोऽसौ रणे शूरः सारङ्गः शाङ्गिसेवकः । तदुयौं कुरुते वापी धर्मधीर्मोढमोकलः ॥ उक्तं च श्रीभारते- 'गोमासे गोगवाक्रान्ते गोरसे गगने गते । गोमात्रं गोरसं दद्याद्गोसहस्रफलं लभेत् ।।' श्रीकान्तं कृतदैत्यान्त देव सेवकवत्सल । त्वया विना प्रभुः कोऽत्र ज्ञातुं कर्म क्रियापदे ॥ पुराणपुरुषः पायादपायात्त्वां कृपादृशा। जलशायी प्रणीतोऽत्र यो लक्ष्म्या सह मोकलः । उक्तं च धर्मारण्यपुराणे- पुरा सृष्टिसमारम्भे स्वयंभूर्भगवान्स्वयम् । अस्थापयन्महास्थानमिदं मोहविमोहनम् । धर्मारण्यं कृते प्रोक्तं त्रेतायां सस्यमन्दिरम् । द्वापरे वेदभुवनं कलौ मोहेरकं मतम् ॥ खस्ति श्रीमन्नृपविक्रमार्कसमयातीतसंवत् १५०० वर्षे प्रजापतिनाम्नि संवत्सरे उत्तरायणे वसन्तऋतौ वैशाखशुक्लपञ्चम्यां गुरौ श्रीमधुमत्याः पश्चिमे प्रदेशे निर्जले माता सतीबाई जानु, पिता श्रेष्ठि श्रीरामा, भ्रातृ श्रे १. 'वृषसंक्रमणमासै सूर्यस्य किरणैराकान्ते पृथिव्या रसे आकाशं गते सति गोटप्ति- जनकं जलरसं दद्यात्तर्हि गोसहस्रफलं लभेत्' इत्यर्थः.

२८ काव्यमाला। राघवश्रेयसे श्रेष्ठिमोकलः भ्रातृसांगलीवासहितो मार्गे शृङ्गाटके मृष्टो दकपूर्णा वापी निर्मिमीते ॥ श्री ॥ (भावनगरप्राचीनशोधसंग्रहे ११६८-७०) (७४) मरु(मारवाड)देशीय-साडीग्रामपाचे राणकपुरजैनमन्दिरप्रशस्तिः । स्वस्तिश्रीचतुर्मुखजिनयुगादीश्वराय नमः । श्रीमद्विक्रमतः १४९६ संख्यवर्षे श्रीमेदपाट(मेवाड)राजाधिराज- श्रीवप्प (१) श्रीगुहिल (२) भोज (३) शील (४) कालभोज (५) भर्तृभट (६) सिंह (७) महायक (८) राज्ञीसुतयुतस्वसुवर्णतुलातोलक- श्रीखुम्भाण (९) श्रीमदल्लट (१०) नरवाहन (११) शक्तिकुमार (१२) शुचिवर्म (१३) कीर्तिवर्म (१४) योगराज (१५) वैरट (१६) वंशपाल (१७) वैरीसिंह (१८) वीरसिंह (१९) श्रीअरीसिंह (२०) चोडसिंह (२१) विक्रमसिंह (२२) रणसिंह (२३) खेमसिंह (२४) सामन्तसिंह (२५) कुमारसिंह (२६) मथनसिंह (२७) पद्मसिंह (२८) जैत्रसिंह (२९) तेजस्विसिंह (३०) समरसिंह (३१) चाहुमानश्री- कीतूकनृप-श्रीअल्लावदीन-सुरत्राणजैत्रबप्पवंश्यश्रीभुवनसिंह (३२) सुतश्रीजयसिंह (३३) मालवेशगोगादेवजैत्रलक्ष्मणसिंह (३४) पुत्र- श्रीअजयसिंह (३५) भ्रातृश्रीअरिसिंह (३६) श्रीहम्मीर (३७) श्री- खेतसिंह (३८) श्रीलक्षाह्वयनरेन्द्र (३९) नन्दनसुवर्णदानपुण्यपरोप- कारादिसारगुणसुरद्रुमविश्रामनन्दन श्रीमोकलमहीपति (४०) कुलका- ननपञ्चाननस्य विषमतमाभं सारङ्गपुरनागपुरगागरणनराणकाजयमेरुमण्डो- रमण्डलकरवूदीखाट्टचाटसूजानादिनानामहादुर्गलीलामात्रग्रहणप्रमाणितजि- तकाशित्वाभिमानस्य निजभुजोर्जितसमुपार्जितानेकभद्रगजेन्द्रस्य म्लेच्छमही- पालव्यालचक्रवालविदलनविहंगमेन्द्रस्य प्रचण्डदोर्दण्डखण्डिताभिनिवेशनाना- देशनरेशभालमालालालितपादारविन्दस्यास्खलितललितलक्ष्मीविलासगोविन्द- ७५ लेखः] प्राचीनलेखमाला। २९ स्य, कुनयगहनदहनदवानलायमानप्रतापतापपलायमानसकलबलूलप्रतिकूल- क्ष्मापश्वापदवृन्दस्य प्रबलपराक्रमाक्रान्तढिल्लीमण्डलगुर्जरत्रासुरत्राणदत्तातप- त्रप्रथितहिन्दुसुरत्राणविरुदस्य सुवर्णसत्रागारस्य षड्दर्शनधर्माधारस्य चतु- रङ्गवाहिनीवाहिनीपारावारस्य कीर्तिधर्मप्रजापालनसत्यादिगुणक्रियमाणश्री- रामयुधिष्ठिरादिनरेश्वरानुकारस्य राणाश्रीकुम्भकर्णसर्वोर्वीपतिसार्वभौमस्य विजयमानराज्ये तस्य प्रसादपात्रेण विनयविवेकधैौदार्यशुभकर्मनिर्मल- शीलाद्युद्भूतगुणमणिमयाभरणभासुरगात्रेण श्रीमहम्मदसुरत्राणदत्तफुरमाण- साधुश्रीगुणराजसंघपतिसाहचर्यकृताश्चर्यकारिदेवालयाद्याडम्बरपुरःसरः श्री- शजयादितीर्थयात्रेण अजाहरि पिण्डरवाटकसालेरादिबहुस्थाननवीनजैन- विहारजीर्णोद्धारपदस्थापनाविषमसमयसत्रागारनानाप्रकारपरोपकारश्रीसंघ- सत्काराद्यगण्यपुण्यमहार्थक्रयाणकपूर्यमाणभवार्णवतारणक्षममनुष्यजन्मयान- पात्रेण प्राग्वाटवंशावतंस सं० सागरसुत सं० कुरपालभा० [र्या] कामलदे- पुत्रपरमार्हत सं० धरणाकेन ज्येष्ठभ्रातृ सं० रत्ना भा० रत्नादेपुत्र सं० ला- षा-सजा-सोना सालिगख भा० सं धारलदेपुत्रजावडादिप्रवर्ध- मानसंतानयुतेन · राणपुरनगरे राणाश्रीकुम्भकर्णनरेन्द्रेण स्वनाम्ना निवे- शिततदीयसुप्रसादादेशतस्त्रैलोक्यदीपकाभिधानः श्रीचतुर्मुखयुगादीश्वरवि- हारः कारितः । प्रतिष्ठितः । श्रीबृहत्तपागच्छे श्रीजगच्चन्द्रसूरिश्रीदेवे- न्द्रसूरिसंताने श्रीमच्छ्रीदेसुन्दरसूरिपट्टप्रभाकरपरमगुरुसुविहितपुरंदरग- च्छाधिराजश्रीसोमसुन्दरसूरिभिः ॥ कृतमिदं च सूत्रधारदेपाकस्य । अयं च श्रीचतुर्मुखविहार आचन्द्रार्क नन्दतात् ॥ शुभं भवतात् ॥ (भावनगरप्राचीनशोधसंग्रह १, ५६-५८) (७५) बाणासुरवंशीयविक्रमादित्यानां शासनपत्रम् । स्वस्ति श्री यत्तत्वप्रकटीकृतावतितरां वेदोऽपि नालं यतः स्थित्युत्पत्तिलयाः समस्तजगतां यन्मन्वते योगिनः ।

३० काव्यमाला। साक्षान्नम्रसुरेन्द्रवृन्दमुकुटव्यालीनरत्नावली- शोणांशुननरञ्जिताङ्गियुगलो भूत्यै शिवः सोऽस्तु वः ॥ क्षीरोदं मथितुं मनोभिरतुलं देवासुरैर्मन्दरं हित्वाक्षिप्त इवाञ्जनाद्रिरिव यस्तत्राधिकं राजते । यो भोगीन्द्रनिविष्टमूर्तिरनिशं भूयोऽमृतस्याप्तये रक्षेद्वःसुरवृन्दवन्दितपत(द)द्वन्द्वः स नारायणः ॥ यः प्रादादसुराधिपो मुखवरे दत्त्वार्धमादाय गां सद्वीपां सचराचरामधिमुदा देवाय दैत्यद्विषे । सोऽभूद्वामनरूपिणे बलिरिति ख्यातः सुरोपद्रव- व्यापारैकरतः शिवाभिकमलद्वन्द्वार्चनैकवतः ॥ तस्मादभूद्गुणनिधिर्बलवांस्तनूनो यत्राध्यवर्तत महानमलः प्रसादः । शंभोः शशाङ्कशकलद्युतिरानिमौले- र्वाणः कृपाणनिहितारिबलः सुरारिः ॥ तस्यान्ववाये महति प्रसूतः क्षीरार्णवे शीतमरीचिवद्यः । बाणाधिराजो युधि शातखड्नखण्डीकृतारातिरखण्डतेनाः ॥ वाणाधिराजप्रमुखेष्वतीतेष्वनेकशो बाणनृपेष्वथान्त्यः । अनायतासिञ्जयनन्दवर्मा साक्षाज्जयश्रीवसतिः श्रियश्च ॥ स रक्षति स्म क्षितिमेकवीर आन्ध्रात्पथः पश्चिमतो बलीयान् । वधूमिवानन्यसमा कुलोत्यां राजन्यचूडामणिरञ्जिताभिः । तस्मादननिष्ट सुतो विजयादित्योऽन्तरस्त(स्थ)रिपुवर्गः । रणभुवि यस्य न तिष्ठन्त्यरयपयाग्रते(?) भियाक्रान्ताः ॥ तस्मात्समस्तरिपुतक्षणदक्षबाहो- रक्षीणपुण्ययशसां प्रभवस्तनूजः । आसीदनङ्ग इव यो वनिताजनानां श्रीमल्लदेव इति यो जगदेकमल्लः ।

७५ लेखः]] प्राचीनलेखमाला। १ तेनाशेषनिरस्तवैरिनिकरो देव्यां हरेणातुलः पार्वत्यामुदपादि षण्मुख इव श्रीमान्सुतो यः सुधीः । यत्कीर्तिर्विशदा दिगन्तकरिणां कर्णेषु सच्चामरी- भूता भूपतिवन्द्यपादयुगल[:] श्रीबाणविद्याधरः ॥ तस्यात्मजोऽभवदपास्तसमस्तशत्रु- विद्याचतुष्टयनिविष्टमतिविनीतः । दुरवीर्ययशसां प्रभवस्तरखी यः पापदुःखरहितः प्रभुमेरुदेवः ॥ अभवदनुपमश्रीरानतारातिवर्ग- प्रथितपृथुलकीर्तिः सूनुरस्माद्विनीतः । क्षितिपतिकुलमुख्यः पार्वतीशाङ्गिपद्म- द्वयनिहितमतिर्यो विक्रमादित्यनामा ॥ तस्यापि विजयादिसनामधेयोऽभवत्सुतः। यद्विक्रमेण वित्रस्ताः पलायन्तेऽरयो युधि ॥ पुलविप्पवगण्ड इति प्रथितं रिपुदुःसहमस्य च नाम परम् । अभवद्युधि यत्करवालतलं द्विपवारिमुचोऽस्रनलं ववृषुः ॥ अनुगतनयमार्गो बाणवंशैकदीपः प्रणतरिपुसमाजः कृष्णराजप्रियो यः । अजनि विजयबाहुः सूनुरस्याधिकश्री- रपगतदुरितेतिर्विक्रमादित्यनामा ॥ स ह्यशेषनृपतिमुकुटकोटिरत्नातिरञ्जितपदरेणुर्नानाविधभूरिपरनृपपक्ष- दोःखण्डविजयलब्धविपुलयशोभिपूर्णबाहुमण्डलो विविधविचित्ररत्नविलीनव- लयखकरतलगृहीतचारुहेमकुम्भनिस्रवद्वारिधारापूर्वकमखिलवेदवेदाङ्गतर्कत- त्वसंवित्स्वकर्मनिरतेभ्यः स्वमनोनिहितान्तःसंवित्प्रदानशीलेभ्यो द्विजवरेभ्य उदयेन्दुमङ्गलनिवासिभ्य एवंभूत- (अग्रे त्रुटितम्) (इण्डियन आण्टिक्केरी १३१७-८) ३२ काव्यमाला। (७६) श्रीमहाराजनन्दप्रभञ्जनवर्मणां दानपत्रम् । खस्ति विजयसारपल्लिवासकात्परमभागवतो मातापितृपादानुध्यातः स- कलकलिङ्गाधिपतिः श्रीमहाराजनन्दप्रभञ्जनवर्मा देयवाते कुटुम्बिनमाज्ञा- पयति-विदितमस्तु-'अक्षताग्रहरीयब्राह्मणहरिश्चन्द्रस्वामिने उदकपूर्वे- णाकरं भरवानव पुण्यायुर्यशसामभिवृद्धये आचन्द्रतारकार्कप्रतिष्ठितमग्रहारं कृत्वा सर्वकरपरिहारैश्च परिहृत्य देवरातगोत्रचरणेभ्यः परदत्तम् । एवं ज्ञात्वा युष्माभिः पूर्वोचितमर्यादया सर्वोपस्थानं कर्तव्यम् । मेयं हिरण्याचं चोपनेयम् ।' भविष्यतश्च राज्ञो विज्ञापयामि-'धर्म क्रमविक्रमाणामन्य- तमयोगादवाप्यमनुशासतां प्रवृत्तकमिदं दानं स्वधर्ममनुपश्यद्भिः खदत्ति- रिवायमग्रहारोऽनुपाल्यः ॥ अपि चात्र व्यासगीतश्लोकानुदाहरामि- बहुभिर्वसुधा दत्ता राजानो वसुधाधिपैः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ खदत्तां परदत्तां वा यत्नाद्रक्ष युधिष्ठिर । महीं महीमतां श्रेष्ठ दानाच्छ्रेयोऽनुपालनम् ॥ षष्टिवर्षसहस्राणि खर्गे मोदति(?) भूमिदः । आक्षेप्ता चानुमन्ता च तानेव नरके वसेत् ॥ (इण्डियन् आण्टिक्वेरी १३१४९-५०) 2 (७७) श्रीचालुक्यकुलालंकारश्रीविजयादित्यमहाराजानां शासनपत्रम् । स्वस्ति श्रीमतां सकलभुवनसंस्तूयमानमानव्यसगोत्राणां हारीतिपुत्राणां कौशिकीवरप्रसादलब्धराज्यानां भगवन्नारायणप्रसादसमासादितवरवराहला- ज्छनेक्षणक्षणवशीकृतारातिमण्डलानामश्वमेधावभृत(थ)स्नानपवित्रीकृतवपुषां ७६ लेखः] प्राचीनलेखमाला। चालुक्यानां कुलमलंकरिष्णुर्विविधयुद्धलब्धविजयसिद्ध वनमनोभिरामवि- क्रा(क)मरामस्य पौत्रः प्रतापावनतपरमण्डलनृपतिमण्डलस्य श्रीविष्णुव- धनमहाराजस्य प्रियतनयो निजभुजनिशितासिधाराप्रशमितपरचक्रविक्रमः शक्तित्रयालंकृतः क्षीरसागर इव लक्ष्मीप्रभवः, दिनकर इव सततरक्षित- पद्मः, शशधर इव कुमुदवनप्रियः, धर्मज इव निजधर्मनिर्मलः, धर्मजानुन इव दुःशासनक्षयकरः, मेरुरिव स्थिरस्थितिः, अतुलतुलाधतकडधौतधौत- दुर्बलमलिनः परमब्राह्मण्यो विष्णुरिव जिष्णुः, समस्तभुवनाश्रयः श्रीविज- यादित्यमहाराजाधिराजपरमेश्व[र]भट्टारकः कण्डेरुवातीविषये वन व""ग्रामस्य कु.........."कप्रमुखान्कुटुम्बिनः सर्वानित्थमाज्ञापयति- विदितमस्तु वः 'अस्माभिर्मिनमिनिवास्तव्याय काश्यपगोत्रायापस्तम्बसूत्राय तैत्तिरीयब्रह्मचारिणे तुर्कवर्मत्रे(त्रिवे)दिपौत्रा(य) वेदाङ्गविदे षट्कर्म- निरताय द्रोणशर्मद्विवेदिपुत्राय ब्राह्मणगुणगणालंकृताय प[अ]भट्टारकाय, सूर्यग्रहणनिमित्तेऽसिन्नेव ग्रामे द्वादशवेण्डिककोद्रवबीजसंस्थितं' ....... आवासनं सर्वकरपरि ..."""। पू. र्वतः-कोरुपुरसीमा, दक्षिणतः-तरुखः, पश्चिमतः-रूमाती, उत्त- रतः-रेण्वुवतीबौहरेण्वुवती....""चतुरवधि, आज्ञप्तिरस्य धर्मस्य निर्मलो धर्मसंग्रहः। बुधमानमले(१) कश्चित्पुण्यवित्तो नरोत्तमः ॥ बहुभिर्वसुधा दत्ता बहुभिश्चानुपालिता। यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ खदत्तां परदत्तां वा यो हरेत वसुंधराम् । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥ (इण्डियन् आण्टिक्केरी १३॥ ५५-५६) १. पद्मं कमलम्, पद्मा लक्ष्मी:. २. कुमुदानां कैरवाणां वनस्य, कोः पृथिव्या मुदा हर्षेण अवनेन पालनेन प्रियः. ३. युधिष्ठिरः. ४. भीमसेनः. ५. दुःशासनो धृतराष्ट्रात्मजः, दुष्टशिक्षा च दुःशासनम्.

काव्यमाला। कृ चो ११८८४ रित (७७) राष्ट्रकूटकुलालंकारश्रीमदकालवर्षश्रीकृष्णराजस्य शासनपत्रम्। ओं ओं स्वस्ति । 'सो(स) वोऽव्याद्वेधसा धाम यन्नाभिकमलं कृतम् । हरश्च यश्य(स्य) कान्तेन्दुकलया कमलंकृतम् ॥ आसीद्विशति(द्विषत्ति)मिरमुत्य(मुद्यत)मण्डलायो ध्वस्ति नयनभिमुखो रणसर्वरीशुः(शर्वरीषु)। भूपः सु(शुचिर्विधुरिव(वास्तदिगन्तकीर्ति- गोविन्दराज इति राजसु राजसिङ्घ(सिंह): ॥ तस्यात्मजो जगति विश्रुतसु(शु)भ्रकीर्ति- रातातिहारिहरिविक्रमनामधारी । भूपस्तृ(स्त्रि)विष्टपनृपानुकृतिः कृतज्ञः श्रीकर्कराज इ[ति] गोत्रमणिर्बभूव ॥ तस्य प्रभिन्नकरटचु(च्यु)तदानदन्ति- दन्तप्रहाररुचिरोल्लिखितांसपीठः । माप[:] क्षितौ क्षपितस(श)त्रुरभूतभू(त्तनू )ज सद्राष्ट्रकु(कू)टकनकाह(दि)रिवेन्द्रराजा[:] ॥ तस्योपार्जितमहसस्तनयश्चतुरुदधिवलयमालिन्या[:] । भोक्ता भुव[:] शतक्रतुश(स)दृश[:] श्रीदन्तिदुर्गराजोऽभूत् ॥ काची(ञ्ची)शकेरलनराधिपचोलपाड्य(ण्ड्य)- श्रीहर्षवज्रटविभेदविधानदक्षः । कर्णाटकं बलमचिन्त्यमजेयमन्यै- भृत्यैः कियद्भिरपि यः सहसा जिगाय ॥ १. अस्मिल्लेखे प्रायः श्लोकाश्चतुर्थपञ्चमलेखस्था एव, अतोऽत्रोपयुक्तं टिप्पणमपि त- त्रैव महामहोपाध्यायैः कृतमवलोकनीयम्. २ 'कीतिः प्रसादयशसोः' इति मेदिनी. श्रीर खरि कौशिकी ञ्छनेक्षण ७७ लेखः] प्राचीनलेखमाला । तस्मिन्दिवं प्रयाते वल्लभराजे कृतप्रजाबाधः । श्रीकर्कराजसूनुर्महीपतिः कृष्णराजोऽभूत् ।। राहप्यमात्मभुजजातबलावलेप- मानौ विजित्य निशितासिलताप्रहारैः । पालिधज(ध्वजा)वलिशुभामचिरेण यो हि राजाधिराजपरमेश्वरतामवाप ॥ येन श्वेतातपत्रप्रहतरविकरवाततापास्त(स)लीलं जग्मे नासीरधूलीधवलितशिरसा वल्लभाख्यः सदाजौ । श्रीमद्गोविन्दराजो जितनगदहि]तस्त्रैणवैधव्यदक्ष- स्तस्यासीत्सूनुरेक[:] क्षणरणदलितारातिमत्तेभकुम्भः ॥ तस्यानुजः श्रीध्रुवराजनामा महानुभावोऽप्रहतप्रतापः । प्रशा(सा)धिताशेषनरेन्द्रचक्रः क्रमेण बालार्कवपुर्बभूव ।। या(जा)ते ज(य)त्र च राष्ट्रकूटतिलके सद्भूपचूडामणौ गुर्वी तुष्टिरथाखिलस्य जगतः सुखामिनि प्रत्यहम् । सत्यं सत्यमिति प्रशासति सति क्ष्मामासमुद्रान्तिका- मासीद्धर्मपरे गुणामृतनिधौ सत्यव्रताधिष्ठिते ॥ रक्षि(क्ष)ता येन निःशेषं चतुरम्भोधिसंयुतम् । राज्यं धर्मेण लोकानां कृता हृष्टिः परा हृदि ॥ तस्यात्मजो जगति सत्प्रथितोरुकीर्ति- गोविन्दराज इति गोत्रललामभूतः । त्यागी पराकमधनः प्रकटप्रताप- संतापिताहितजनो जनवल्लभोऽभूत् ॥ तत्पुत्रोऽत्र गते नाकमाकम्पितरिपुत्रजे । श्रीमहाराजस(शाख्यः ख्यातो राजाभवद्गुणैः ॥ अर्थिशु(षु) यथार्थता यः समम्भ(भी)ष्टफला(ष्टावा)तिलब्धतोशेशु(षेषु)। वृद्धि निनाय परमाममोघवर्षाभिधानस्य ॥

काव्यमाला। । IPS TO IMPE राजाभूत्तत्पितृव्यो रिपुभवविभवोद्भूत्यभावैकहेतु- लक्ष्मीवानिन्द्रराजो गुणिनृपनिकरान्तश्चमत्कारकारी। रागादन्यान्व्युदस्य प्रकटितविषया यं नृपान्सेवमाना राज्यश्रीरेव चक्रे सकलकविजनोद्गीततथ्यस्वभावम् ॥] श्रीकर्कराज इति रक्षितराज्यभारः सारं कु[ल]स्य तनयो नयशालिशौर्यः। तस्याभवद्विभवनन्दितबन्धुसार्थः पार्थः] सदैव धनुशि(षि) प्रथमः शुची नाम् ॥ स्वेच्छानि(ग)हीतविषयो(यान्) दृढसंघभाज[:] प्रोद्भुत्तदृप्ततरशुल्किकराष्ट्रकूटान् । उत्खातखड्गनिजबाहुबलेन जित्वा योऽमोघवर्षमचिराश्व(ख)पदे व्यधत्त ॥ पुत्तु(त्री)यतस्तस्य महानुभाव[:] कृती कृतज्ञ[:] कृतधीर्यवीर्यः । वशीकृताशेषनरेन्द्रवृन्दो बभूव सूkिधुवराजनामा ॥] श्रीदन्तिवर्मणः .."तस्य" """सुतः प्रबलप्रतापः॥ यस्यानेकनरेन्द्रवृन्दविनुतस्यापू" "हिपद्मद्वयः। प्रोत्खातासिलताप्रहारदलितद्विड्दन्तिकुम्भस्थलः शूरः सज्जनवल्लभः ससरलः""............ || ....... ............. ........ ...... मा ....... ... । ........................................ .......... ................ पीतमथो यशश्च ॥ १. इदमुत्तरार्धमादर्शपुस्तकेऽनुपलब्धं चतुर्थलेखदृष्ट पूरितम्. २ 'वर्ष इति राज्यपदे' चतुर्थलेखपाठः. ३. चतुर्थलेखदृष्टः पूरितः.

७७ लेखः] प्राचीनलेखमाला। : येन खगद्वितीयेन वल्लभनृपस्य पश्यतः। उज्जयिन्यां रिपूञ्जित्वा दूरमुत्तम्भितं यशः ॥ तेनेदमनिलविद्युच्चञ्चलमालोक्य जीवितमसारम् । क्षितिदानपरमपुण्यः प्रवर्तितो धर्मदायोऽयम् ॥ स च समधिरा(ग)ताशेषस(म)हाशब्दम(हासामन्ता)धिपतिश्रीमदकाल- वर्षश्रीकृष्णराजः सर्वानेव समनुबोधयति-अस्तु वः संविदितम्- 'यथा मया श्रीअङ्कलेश्वरावस्थि[ते]न मातापित्रोरात्मनश्चैहिकामुष्मिकपु- ण्ययशोभिवृद्धये नर्मदायां भगवत्तीर्थे स्नात्वोदकातिव(स)र्गेण श्रीवरिअवि- व(वा)स्तव्यत्रैविद्यस्वामान्यकुण्डिनसगोत्राध्वर्युसब्रह्मचारिब्राह्मणश्रीअजवा- सावकसुताय श्रीतणुअवासावका[य]श्रीगुहेश्वरभ्रातरे(वे)द्वयो(द्वाभ्यां) प्रतिपादितः श्रीकोङ्कणविषयान्तर्गतवारिअविषोडशोत्त[रग्रामशत]मध्य- वर्ति कविडसाड्यभिधानग्रामः । यस्याघाटनानि-पूर्वतः-वलछग्राम- • सीमा, दक्षिणतः-उत्तरपढवणकग्रामसीमा, पश्चिमतः-वरिअविपट्टन- सीमा, उत्तरतः-वसुहारियकग्रामसीमा । एवं चतुराधाटनोपलक्षितः सो- द्रङ्गः सपरिकरः, ससीमापर्यन्तः, सवृक्षमालाकुलः, सदण्डदशापराधः, सधान्यहिरण्यादेयोऽचाटभटप्रवेश्यः सर्वराजकीयानामहस्तप्रक्षेपणीय आ- चन्द्रार्कार्णवक्षितिसरित्पर्वतसमकालीनः पूर्वदत्तदेवदायब्रह्मदायरहितोऽभ्य- न्तरसिच्या शकनृपकालातीतसंवत्सरशतेष्वष्टसु दशोत्तरेषु ८१० चैत्रेऽमा- वास्यायां सूर्यग्रहणपर्वणि स्नात्वोदकातिसर्गेण बलिचरुवैश्वदेवाग्निहोत्रानु- छानादिकृ(क्रि)योच्छ(त्स)र्पणार्थ प्रतिपादितः । तदसुतया (१) ब्रह्मदा- यस्थित्या भुञ्जतो भोजयतः कृश(ष)तः कर्षयतः प्रतिदिशतो वा न के- नापि परिपन्थना कार्या । तथागामिनृपतिभिरस्मद्वंशजैरन्यैर्वा सहस्रमेकेन पालनीयः, द्रम्माश्च त्रिभिः स्कन्धकैर्देयाः । प्रथमं भाद्रपदे । द्वितीयं कार्तिके । तृतीयं माघे । एभिः स्थित्या सर्वराजकीयैः पालनीयः । न के- नापि परिपन्थना कार्या । आगामिनृपतिभिरस्मद्वंशजैरन्यैर्वा 'सामान्यं भू- मिदानफलम्' इत्यवधार्य विद्युल्लोलान्यनित्यान्यैश्वर्याणि तृणाग्रलग्नजलबि- काव्यमाला। w FB VIPPEAL राजाभूत्तत्पितृव्यो रिपुभवविभवोद्भूत्यभावकहेतु- लक्ष्मीवानिन्द्रराजो गुणिनृपनिकरान्तश्चमत्कारकारी। रीगादन्यान्व्युदस्य प्रकटितविषया यं नृपान्सेवमाना राज्यश्रीरेव चक्रे सकलकविजनोद्गीततथ्यखभावम् ॥] श्रीकर्कराज इति रक्षितराज्यभारः सारं कु[ल]स्य तनयो नयशालिशौर्यः। तस्याभवद्विभवनन्दितबन्धुसार्थः पार्थ:] सदैव धनुशि(षि) प्रथमः शुचीनाम् ॥ स्वेच्छानि(ग्रोहीतविषयो(यान्) दृढसंघभाज[:] प्रोद्वृत्तहप्ततरशुल्किकराष्ट्रकूटान् । उत्खातखड्गनिजबाहुबलेन जित्वा योऽमोघवर्षमचिराश्व(ख)पदे व्यधत्त ॥ पुत्तु(त्री)यतस्तस्य महानुभाव[:] कृती कृतज्ञ[:] कृतधीर्यवीर्यः । वशीकृताशेषनरेन्द्रवृन्दो बभूव सूनिधुवराजनामा ॥] श्रीदन्तिवर्मण.........."तस्य: "सुतः प्रबलप्रतापः॥ यस्यानेकनरेन्द्रवृन्दविनुतस्यापू "हिपद्मद्वयः। प्रोत्खातासिलताप्रहारदलितद्विदन्तिकुम्भस्थलः शूरः सज्जनवल्लभः ससरलः' ............. ............................................ BOD baba....................................... 14..... .......... पीतमथो यशश्च ॥ को १. इदमुत्तरार्धमादर्शपुस्तकेऽनुपलब्धं चतुर्थलेखदृष्टं पूरितम्: २ 'वर्ष इति राज्यपदे' चतुर्थलेखपाठः. ३. चतुर्थलेखदृष्टः पूरितः.

७७ लेखः] प्राचीनलेखमाला। येन खङ्गद्वितीयेन वल्लभनृपस्य पश्यतः। उज्जयिन्यां रिपूञ्जित्वा दूरमुत्तम्भितं यशः ॥ तेनेदमनिलविद्युच्चञ्चलमालोक्य जीवितमसारम् । क्षितिदानपरमपुण्यः प्रवर्तितो धर्मदायोऽयम् ॥ स च समधिरा(ग)ताशेषस(म)हाशब्दम(हासामन्ता)धिपतिश्रीमदकाल- वर्षश्रीकृष्णराजः सर्वानेव समनुबोधयति-अस्तु वः संविदितम्- 'यथा मया श्रीअङ्कलेश्वरावस्थिते]न मातापित्रोरात्मनश्चैहिकामुष्मिकपु- ण्ययशोभिवृद्धये नर्मदायां भगवत्तीर्थे स्नात्वोदकातिव(स)र्गेण श्रीवरिअवि- व(वा)स्तव्यत्रैविद्यस्वामान्यकुण्डिनसगोत्राध्वर्युसब्रह्मचारिब्राह्मणश्रीअजवा- सावकसुताय श्रीतणुअवासावका[य] श्रीगुहेश्वरभ्रातरे(त्रे)द्वयो(द्वाभ्यां) प्रतिपादितः श्रीकोङ्कणविषयान्तर्गतवारिअविषोडशोत्त[रग्रामशत]मध्य- वर्ति कविडसाड्यभिधानग्रामः । यस्याघाटनानि-पूर्वतः-वलछग्राम- सीमा, दक्षिणतः-उत्तरपढवणकग्रामसीमा, पश्चिमतः-वरिअविपट्टन- सीमा, उत्तरतः-वसुहारियकग्रामसीमा । एवं चतुराधाटनोपलक्षितः सो- द्रङ्गः सपरिकरः, ससीमापर्यन्तः, सवृक्षमालाकुलः, सदण्डदशापराधः, सधान्यहिरण्यादेयोऽचाटभटप्रवेश्यः सर्वराजकीयानामहस्तप्रक्षेपणीय आ- चन्द्रार्कार्णवक्षितिसरित्पर्वतसमकालीनः पूर्वदत्तदेवदायब्रह्मदायरहितोऽभ्य- न्तरसिद्ध्या शकनृपकालातीतसंवत्सरशतेष्वष्टसु दशोत्तरेषु ८१० चैत्रेऽमा- वास्यायां सूर्यग्रहणपर्वणि स्नात्वोदकातिसर्गेण बलिचस्वैश्वदेवाग्निहोत्रानु- ष्ठानादिकृ(क्रि)योच्छ(त्स)र्पणार्थं प्रतिपादितः । तदसुतया (१) ब्रह्मदा- यस्थित्या भुञ्जतो भोजयतः कृश(ष)तः कर्षयतः प्रतिदिशतो वा न के- नापि परिपन्थना कार्या । तथागामिनृपतिभिरस्सद्वंशजैरन्यैर्वा सहस्रमेकेन पालनीयः, द्रम्माश्च त्रिभिः स्कन्धकैर्देयाः । प्रथमं भाद्रपदे । द्वितीयं कार्तिके । तृतीयं माघे । एभिः स्थित्या सर्वराजकीयैः पालनीयः । न के- नापि परिपन्थना कार्या । आगामिनृपतिभिरस्सद्वंशजैरन्यैर्वा 'सामान्यं भू- मिदानफलम्' इत्यवधार्य विद्युल्लोलान्यनित्यान्यैश्वर्याणि तृणाग्रलग्नजलबि- - । ।

काव्यमाला। made न्दुचञ्चलं च जीवितमाकलय्य स्वदायनिर्विशेषोऽसदायोऽनुमन्तव्यः पाल- नीयश्च । यश्चाज्ञानतिमिरपटलावृतमतिराच्छिन्द्यादाच्छिद्यमानं वानुमो- देत स पञ्चभिर्महापातकैरुपपातकैश्च संयुक्तः स्यात् । उक्तं च भगवता व्यासेन- षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ अग्नेरपत्यं प्रथमं सुवर्ण भूर्वैष्णवी सूर्यसुताश्च गावः । लोकत्रयं तेन भवेद्धि दत्तं यः काञ्चनं गां च महीं च दद्यात् ॥ विन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः । कृष्णाहयो हि जायन्ते भूमिदायं हरन्ति ये ॥ कन्यामेकां [गां तथै]कां भूम्यामप्येकमङ्गुलम् । हरन्नरकमायाति यावदाहू(भू)तसंप्लवम् ॥ यानीह दत्तानि पुरा नरेन्द्रर्दानानि धर्मार्थयशस्कराणि । निर्माल्यनिष्ठीवसमानि तानि को नाम साधुः पुनराददीत ॥ वदत्तां परदत्तां वा यत्नाद्रक्ष नराधिप । महीं महीभुजां श्रेष्ठ दानाच्छ्रेयोनुपालनम् ।। बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ इति कमलदलाम्बुबिन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च । अतिविमलमनोभिरात्मनीनैनहि पुरुषैः परकीर्तयो विलोप्याः ॥ दूतकोऽत्र महत्तमसर्वाधिकारी ब्राह्मण अल्लैयको नाम्ना । लिखितं चैतन्मया महासांधिविग्रहाधिकारिणा श्रीजज्जकेन श्रीकुलुकसूनुना । इति ॥ स्वहस्तोऽयं मम श्रीमदकालवर्षश्रीकृष्णराजस्य ॥ (इण्डियन् आण्टिक्वेरी १३६६-६०) ७८ लेखः]] प्राचीनलेखमाला। (७८) श्रीजयभटमहाराजानां दानपत्रम् । स्वस्तिश्रीकायावतारवासकात्सततलक्ष्मीनिवासभूते तृष्णासंतापहारिणि दीनानाथविस्तृतानुभावे द्विजकुलोपजीव्यमानविभवशालिनि महति महा- राजकर्णान्वये कमलाकर इव राजहंसः, प्रबलकलिकालविलसिताकुलित- विमलस्वभावो गम्भीरोदारचरितविसापितसकललोकपालमानसः परमेश्व- रश्रीदहः, तस्य सूनुरशङ्कितागतप्रणयिजनोपभुक्तविभवसंचयोपचीयमा- नमानो निवृति नेककण्टकवंशसंदोहदुर्ललितप्रतापानलो नि- शितनिस्त्रिंशधारादारितारातिकरिकुम्भमुक्ताफलच्छलोल्लसितसितयशोंशु- कावगुण्ठितदिग्वधूवदनसरसिजः श्रीजयभटः, तस्यात्मजो महामुनिमनुप्र- णीतप्रवचनाधिगमविवेकस्वधर्मानुष्ठानप्रवणिवर्णाश्रमव्यवस्थोन्मूलितसकलक- लिकालावलेपः प्रणयिजनमनोरथविलयव्यतीतविभवसंपादनापनीताशेषपार्थि- वदानाभिमानो मदविवशाङ्कुशातिवर्तिकुपितकरिनिवारणप्रथितगुरुगजाधि- रोहणप्रभावो विपत्प्रपातपतितनरपतिशताभ्युद्धरणनिखिललोकविश्रुतपरोप- कारकरणव्यसनः प्राच्यप्रतीच्याधिराजविजृम्भितमहासङ्ग्रामनरपतिसहस्रप- रिवारितानेकगजघटाविघटनप्रकटितभुजवीर्यविख्यातबाहुसहायापरनामा प- रममहेश्वरः समधिगतपञ्चमहाशब्दश्रीदहः, तस्य सूनुरनेकसमरसंघधन- घटितगजघटापाटनपटुरसहिष्णुवनदावानलो दीनानाथातुरसुहृत्स्वजनबन्धु- कुमुदाकरकौमुदीनिशाकरः, भागीरथीप्रवाह इव विपक्षक्षोभक्षमः, शान्त- नुरिव समुद्भूतकलकलारावमहावाहिनीपतिः, आदिवराह इव स्वभुजबल- प्रक्रमोद्धृतधरणिः, परममहेश्वरः समधिगतपञ्चमहाशब्दश्रीजयभटः कु- शली सर्वानेव राजसामन्तभोगिकविषयपतिराष्ट्रग्राममहत्तराधिकारिकादी- न्समनुदर्शयति-अस्तु वः संविदितम्---यथा मया मातापित्रोरात्मनश्चै- हिकामुष्मिकपुण्ययशोभिवृद्धये गिरिनगरविनिर्गतश्रद्धिकाग्रहारवास्तव्यत- चातुर्विधसामान्यप्रावायनसगोत्रवाजसनेयमाध्यंदिनसब्रह्मचारिब्राह्मणदत्तपु- १. अयं कायावतारनामको वासकोऽधुना 'कावी' इति नाम्ना प्रसिद्धो 'बूच'प्रान्ते 'गुजरात'देशे वर्तते. २. विपक्षाणां शत्रूणाम्, पक्षिपक्षाणां च. ३. वाहिन्यो नद्यः, सेनाश्च.

काव्यमाला। ब्राह्मणदेवस्वामिनेऽस्मत्कृतप्रकाशनाय कल्लुम्बराय बलिचरुवैश्वदेवाग्निहो- त्रातिथिपञ्चमहायज्ञादिक्रियोत्सर्पणाथै कोरिल्लापथकान्तर्गतशमीपद्रकग्रामे पूर्वतः सीनि चतुष्पष्टिभूनिवर्तनप्रमाणं क्षेत्रम्, यस्याघाटनानि-पूर्वतः- गोलिकाग्रामसंधिः, दक्षिणतः-यमलखल्लराभिधानतडाकम् , तथा महत्तरम- हेश्वरसत्कक्षेत्रम्, वापितदेवकसत्कवापकक्षेत्रं च, अपरतः शमीपद्रकग्रामादेव धाहद्धाग्रामयायी पन्थाः, उत्तरतो वरुटखल्लराभिधानतडाकं तथा कोरि- ल्लावासी ब्राह्मणनर्मसत्कब्रह्मदेयक्षेत्रं च । एवमिदं चतुराघाटनोपलक्षितं क्षेत्रं सोद्रङ्गं सपरिकरं सभूतवातप्रत्ययं सधान्यहिरण्यादेयं सदशापराधं सो- त्पद्यमानविष्टिकं गृहस्थावरच्छलकरथ्याप्रवेशनिर्गमसगरचतुष्पदप्रचारवा- पीकूपताकपद्रोपजीव्यसमेतं सर्वराजकीयानामहस्तप्रक्षेपणीयं पूर्वप्रत्तदेव- ब्रह्मदायरहितं भूमिच्छिन्द्रन्यायेनाचन्द्राणिवक्षितिसरित्पर्वतसमकालीनं पुत्रपौत्रान्वयक्रमोपभोग्यम् ---अद्य माघशुद्धपञ्चदश्यां चन्द्रोपरागे पुण्य- तिथावुदकातिसर्गेण ब्रह्मदायत्वेन प्रतिपादितम् । यस्योचितया ब्रह्मदाय- स्थित्या भुञ्जतः कृषतः कर्षयतः प्रतिदिशतो वा न कैश्चियासेधे वर्तित- व्यम् । आगामिभद्रनृपतिभिरमद्वंश्यैरन्यैर्वायमस्मदायोऽनुमन्तव्यः पालयि- तव्यश्च । यश्चाज्ञानतिमिरपटलावृतमतिराच्छिन्द्यादाच्छिद्यमानमनुमोदते, स पञ्चभिर्महापातकैः सोपपातकैः संयुक्तः स्यादिति । उक्तं च भगवता वेदव्यासेन- षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ विन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः । कृष्णाहयो हि जायन्ते भूमिदानं हरन्ति ये ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ अग्नेरपत्यं प्रथमं सुवर्ण भूवैष्णवी सूर्यसुताश्च गावः । लोकत्रयं तेन भवेत्तु दत्तं यः काञ्चनं गां च महीं च दद्यात् ॥

.................. ७९ लेखः] प्राचीनलेखमाला। यानीह दत्तानि पुरा नरेन्द्रर्दानानि धर्मार्थयशस्कराणि । निर्मुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ खदत्तां परदत्तां वा यत्नाद्रक्ष युधिष्ठिर । महीं मतिमतां श्रेष्ठ दानाच्छ्रेयोनुपालनम् ॥ संवत्सरशतचतुष्टये षट्पञ्चाशदुत्तरके माघशुद्धपञ्चदश्यां लिखितमिदं भोगिकपुत्रमहाबलाधिकृतकेशवेनेति । बलाधिकृतवायुल्लदूतकम् । सम्-४००+१०+६ ॥ [माघ सु. १०+१ सो]मवारे ॥ निबाद्धम् ॥ स्वहस्तो मम श्रीजयभटस्य ॥ (इण्डियन् आण्टिक्वेरी १३१७७.७९) (७९) प्रशान्तरागापरनामधेयश्रीद्दमहाराजानां :. दानपत्रम् । ॐ स्वस्ति नन्दीपुरतो विविधविमलगुणरत्नसंपदुद्भासितसकलदिङ्मुखे परित्राताशेषसपक्षमहामहीभृति सततमविलचितावधौ स्थैर्यगाम्भीर्यला- वण्यवति महासत्त्वतयातिदुरवगाहे गुर्जरनरपतिवंशमहोदधौ श्रीसहजन्मा कृष्णाहृदयाहितास्पदः कौस्तुभमणिरिव विमलयशोदीधितिनिकरविनिहत- कलितिमिरनिचयः, सत्पक्षो वैनतेय इवाकृष्टशत्रुनागकुलसंततिः उत्पतित एव दिनकरचरणकमलप्रणामापनीताशेषदुरितनिवहः सामन्तदहः। प्रति- दिनमपेतशत येन स्थितम् । अचलगुणनिकरकेसरिविराजितवपुषा विनी- तारिगजकुम्भविगलितमुक्ताफलच्छलप्रनिकीर्णविमलयशोवितानेन रूपानुरूपं सत्त्वमुद्वहता केसरिकिशोरकेणेव, उपरि क्षितिभृताम् । यं चातिमलिनक- लियुगतिमिरचन्द्रमसमनुदिवसमन्योन्यस्पर्धयेवाययुः कलासमूहादयो गुणाः, विक्रमानीतमदविलासालसगतयोऽरातिगजघटाः प्रमदाश्च । यस्य चाविरत- १. अस्क नन्दीपुरस्य 'भडोच' नगरतः ऐशान्यां चतुस्त्रिंशन्मैलदूरे 'नान्दोड' इति नाम्ना ख्यातिरिति पण्डित इन्द्रजीपुत्रो भगवान्लालोऽवदत्. बूहरपण्डितस्तु भडोचनग. इस्य पूर्वतो झडेश्वरद्वारे सत्तां ब्रवीति स्म, NRNAME काव्यमाला। दानप्रवाहप्रीतार्थिमधुकरकुलस्य रुचिरकीर्तिवशासहायस्य सततमस्खलितपदं प्रसरतः सद्वंशाप्तितशोभागौरवस्य भद्रमतङ्गजस्येव करघातविनिहतक्षिति- भृदुन्नततनूरुहस्य रेवानिर्झरसलिलप्रपातमधुरनिनदस्य, भगोद्भवाः(१) स- मुन्नतपयोधराहितश्रियो दयिता इव मुदे विन्ध्यनगोपत्यका । यश्चोपमीयते शशिनि सौम्यत्ववैमल्यशोभाकलाभिः, न कलङ्केन । श्रीनिकेतशोभासमुद- याधःकृतकुलकण्टकतया कमलाकरे, न पैङ्कजन्मतया; सत्त्वोत्साहविक्रमै- मृगाधिराजे, न ●राश्रयतया; लावण्यस्थैर्यगाम्भीर्यस्थित्यनुपालनतया महोदधौ, न व्यालाश्रयतया; सत्कटकसमुन्नतविद्याधरावासतया हिमाचले, न खशपरिवारतया । यस्य च सद्भोगः शेषोरगस्येव विमलकिरणमणिश- ताविष्कृतगौरवः सकलजगत्साधारणः । यस्य प्रकाश्यते सत्कुलं शीलेन, प्रभुत्वमाज्ञया, शस्त्रमरातिप्रणिपातेन, कोपो निग्रहेण, प्रसादः प्रदानैः, धर्मो देवद्विजातिगुरुजनसपर्ययेति । तस्य सूनुः प्रतप्तरुचिरकनकावदातः क- ल्पतरुरिवाविरतमभिरुचितफलप्रदः सततमृतुगणस्येव वसन्तसमयः, वसन्त- समयस्येव प्रविकाशितनिबिडचूततरुवनाभोगः, सरस इव कमलनिवहः, कमलनिवहस्येव प्रबोधः, महाविषधरस्येव मणिः, मणेरिव स्वच्छतारभावः, महोदधेरिवामृतकलशः; अमृतकलशस्येवामरनदायित्वप्रभावः, करिण इव मदः, प्रमदाजनस्येव विलासः, विभवस्येव सत्पात्रविनियोगः, धर्मस्येव क्रतुः, क्रतोरिव स्वदक्षिणाकालः, प्रेम्ण इव सद्भावः, शशिन इवामलकलासमूहो नियतमलंकारभूतः सकलनिशाकराभिरूपवदनः, शक्लो वदान्यः, प्रबलरि- पुबलानीकसमरसमवाप्तविजयश्रीः, श्रीवीतरागापरनामा श्रीजयभटः । कलि- प्रतिपक्षभयाच्छरणार्थिन इव यमाश्रिताः सविनया गुणाः स्फुरितविमलकी- तिसौदामनिना येन सकलजीवलोकानन्दकारिणा कालबलाहकेनेवावन्ध्यफलं गर्जता प्रणयिनामपनीतास्तृष्णासंतापदोषाः। यश्च शूरोऽपि सततमयशोभीरुः १. 'कलकोऽङ्केऽपवादे च' इति मेदिनी. २. कण्टकः क्षुद्रशत्रौ द्रुमाङ्गे च. ३. *पकोऽस्त्री कर्दमे पापे' इति मेदिनी. ४. 'क्रूरस्तु कठिने घोरे नृशंसे' इति मेदिनी. ५. व्यालाः सर्पाः खलश्च. ६. विद्याधराः पण्डिता देवविशेषाश्च, ७. खशा हीनजा- तीयविशेषाः.

७९ लेखः] प्राचीनलेखमाला। अपगततृष्णोऽपि गुणार्जनाविच्छिन्नतर्षः, सर्वप्रदानाशीलोऽपि परयुवतिहृ- दयदानपराङ्मुखः, पटुरपि परपरिवादाभिधानजडधीः । यस्य च न विरोधि रूपं शीलस्य, यौवनं सद्वृत्तस्य, विभवः प्रदानस्य, त्रिवर्गासेवा परस्परापी- डनस्य, प्रभुत्वं क्षान्तः, कलिकालो गुणानामिति ॥ तस्य सूनुः सजलधनप- टलनिर्गतरजनिकरकरावबोधित(कुमुदधवल)यशोप्रतानास्थगितनभोमण्डलो- ऽनेकसमरसंकटप्रमुखागतनिहतशत्रुसामन्तकुलवधू(प्रभातसमय)रुदितच्छ- लोद्गीयमानविमलनिस्त्रिंशप्रतापो देवद्विजातिगुरुचरणकमलप्रणामोद्धृष्टवज्र- मणिकोटिरुचिरदीधितिविराजितमुकुटोद्भासितश्रीः दीनानाथातुराभ्यागता- र्थिजनाक्लिष्टपरिपूरितविभवमनोरथोपचीयमानत्रिविष्टपैकसहायधर्मसंचयः प्रणयपरिकुपितमानिनीजनप्रणामपूर्वमधुरवचनोपपादितप्रसादप्रकाशीकृत- विदग्धनागरिकस्वभावो विमलगुणनिकरपञ्जराक्षिप्तबहलकलितिमिरनिचयः समधिगतपञ्चमहाशब्दः श्रीददः कुशली सर्वानेव राजसामन्तभोगिकविष- यपतिराष्ट्रग्राममहत्तराधिकारिकादीन्समनुबोधयति-अस्तु वो विदितम्- अस्माभिरक्रूरेश्वरविषयान्तर्गतशिरीषपद्रकं एष ग्रामः सोद्रङ्गः सो[प]प[रि]- करः सर्वादानसंग्राह्यः सर्वदित्यविष्टिप्रतिभेदिकापरिहीणो भूमिच्छिद्रन्याये- नाचाटभटप्रावेश्य आचन्द्रार्कार्णवक्षितिसमकालीनः पुत्रपौत्रान्वयभोग्यो ज- म्बूसरोविनिर्गताक्रूरेश्वरविषयान्तर्गतशिरीषपद्रवासिबढचवत्ससगोत्राश्वलाय- नसब्रह्मचारिब्राह्मणभट्टयध्यापक तथा गोपादित्य, तथा भट्टिगण-वि- शाख-अग्निशर्म-द्रोण-काश्यपसगोत्रभट्टिदाम, तथा पत्र-अध्वर्युवाज- सनेयडौण्डकीयसगोत्र-कण्वसब्रह्मचारिब्राह्मणतापिशर्म-द्वितापिशर्म-दत्त- स्वामि-भागिस्वामि-पितृशर्म-भट्टि-द्रोण-धूम्रायणसगोत्रकाध्यापक- आवुक-कौण्डिन्यसगोत्र-वातशर्म-शैल-घोष-महादेव-वाव–माठरसगो- त्रधर-विशाख-नन्दि-रामिल-हारीतसगोत्रधर्मधर-छान्दोग्यभरद्वाजस- गोत्रकौथुमसब्रह्मचारिब्राह्मणइन्द्रशर्म-आदित्यराव-तापिशूर-इन्द्रशूर-ई- श्वर-धर-दामधर-द्वि. ईश्वर-भरुकच्छविनिर्गतभेरजिकानिवासि-आथ- र्वणचौलिसगोत्रपिप्पलादसब्रह्मचारिब्राह्मणभद्र-वायुशर्म-द्रोणवामि-रु- द्रादित्य-पूर्णस्वामि: एभ्यश्चतुश्चरणब्राह्मणेभ्यश्चातुर्विद्यपरिकल्पनपूर्व बलि- काव्यमाला चरुवैश्वदेवाग्निहोत्रपञ्चमहायज्ञादिक्रियोत्सर्पणार्थं मातापित्रोरात्मनश्च पुथ्य- यशोभिवृद्धये कार्तिक्यामुदकातिसर्गेणातिसृष्टो यतोऽस्मद्वंश्यैरन्यैर्वागामिभो- गपतिभिः प्रबलपवनप्रेरितोदधिजलत्तरङ्गचञ्चलं जीवलोकम्, अभावानुगतान- सारान्विभवान्, दीर्घकालस्थेयसश्च गुणान् , आकलय्य सामान्यभोगभूप्रदा- नफलेप्सुभिः शशिकररुचिरं यशश्चिराय चिचीषुभिरयमस्मद्दायोऽनुमन्तव्यः पालनीयश्च ॥ यो वाज्ञानतिमिरपटलावृतमतिराच्छिन्द्यादाच्छिद्यमानमनुमो- दते स पञ्चभिर्महापातकैः सोपपातकैः संयुक्तः स्यात् ॥ उक्तं च भगवता वेदव्यासेन व्यासेन- 'षष्टिवर्षसहस्राणि खर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ।। विन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः । कृष्णाहयो हि जायन्ते भूमिदायं हरन्ति ये ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि । निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत ॥' इति ॥ संवत्सर-शतत्रयेशीत्यधिके कार्तिकशुद्धपञ्चदश्यां लिखितं सं- धिविग्रहाधिकरणाधिकृतरेवेण स्वमुखाज्ञेति ॥ सम्-३००+८० का- तिक सुदि १०+५॥ दिनकरचरणार्चनरतस्य श्रीवीतरागसूनोः स्वहस्तोऽयं प्रशान्तरागस्य ॥ (इण्डियन् आण्टिक्केरी १३।८२-८४) (८०) प्रशान्तरागापराभिधेयश्रीदद्दमहाराजानां द्वितीयं दानपत्रम्। ॐ स्वस्ति नन्दिपुरतो विविधविमलगुणरत्नसंपदुपहसितसकलदि- सुखे परित्राताशेषसपक्षमहामहीभृति सततमविलड़िता(त)बन्धौ स्थैर्यगा- ८० लेखः] प्राचीनलेखमाला। - म्भीर्यलावण्यवति महासत्त्वतयातिदुरवगाहे गुर्जरनृपतिवंशमहोदधौ श्रीसह- जन्मा कृष्णहृदयाहितास्पदः कौस्तुभमणिरिव विमलयशोदीधितिनिकरवि- निहतकलितिमिरनिचयः सत्पक्षो वैनतेय इवाकृष्टशत्रुनागकुलसंततिः, उ- त्पतित.एव दिनकरचरणकमलप्रणामापनीताशेषदुरितनिवहः सामन्तदद्दः प्रतिदिनमपेतशङ्कं येन स्थितमचलगुणनिकरकेसरिविराजितवपुषा विनिह- तारिंगजकुम्भविगलितमुक्ताफलच्छलप्रकीर्णविमलयशोवितानेन रूपानुरूपं सत्त्वमुद्वहता केसरिकिशोरकेणेवोपरिक्षितिभृताम् । येन चातिमलिनकलि- युगतिमिरचन्द्रमसमनुदिवसमन्योन्यस्पर्धयेवाययुः कलासमूहादयो गुणाः विक्रमानीतमदविलासगतयोऽरातिगजघटाः प्रमदाश्च । यस्य चाविरतदा- नादिप्रवहप्रीणितार्थिमधुकरकुलस्य रुचिरकीर्तिवशासहायस्य सततमस्खलि- तपदं प्रसरतः सद्वंशाहितशोभागौरवस्य · भद्रमतङ्गजस्येव करघातविनिहत- क्षितिभृदुन्नततनूरुहस्य रेवानिर्झरसलिलप्रपातमधुरनिनादस्य भगोद्भवाः(१) समुन्नतपयोधराहितश्रियो दयिता इव मुदे विन्ध्यनगोपत्यकाः। यश्वोपमीयते शशिनि सौम्यत्ववैमल्यशोभाकलाभिः, न कलङ्केन, श्रीनिकेतशोभासमुद्- याधःकृतकुलकण्टकतया कमलाकरे, न पङ्कजन्मतया; सत्त्वोत्साहविक्रमैर्मू- गाधिराजे क्रूराशयतया, लावण्यस्थैर्यगाम्भीर्यस्थित्यनुपालनतया महोदधौ, न व्यालाश्रयतया; सत्कटकसमुन्नतविद्याधरावासतया हिमाचलेन खशय(प)- रिवारतया । यस्य च सद्भोगः शेषोरगस्येव विमलकिरणमणिशताविष्कृत- गौरवः सकलजगत्साधारणः । यस्य प्रकाश्यते सत्कुलं शीलेन प्रभुत्वमा- ज्ञया, शस्त्रमरातिप्रणिपातेन, कोपो निग्रहेण, प्रसादः प्रदानैः, धर्मो दे- वद्विजातिगुरुजनसपर्ययेति ॥ तस्य सूनुः प्रतप्तरुचिरकनकावदातः कल्पतरुरिवाविरतमभिरुचितफल- प्रदः सततमृतुगणस्येव वसन्तसमयः, वसन्तसमयस्येव प्रविकसितनिबिड- चूततरुवनाभोगः, सरस इव कमलनिवहः, कमलनिवहस्येव प्रबोधः, महा- विषधरस्येव मणिः, मणेरिव स्वच्छतरभावः; महोदधेरिवामृतकलशः, अमृ- तकलशस्येवामरणदायित्वप्रभावः, करिण इव मदः, प्रमदाजनस्येव विलासः, विभवस्येव सत्पात्रविनियोगः, धर्मस्येव क्रतुः, क्रतोरिव स्वदक्षिणाकालः, ४ ४६ काव्यमाला। प्रेम्ण इव सद्भावः, शशिन इवामलकलासमूहः, नियतमलंकारभूतः सकल- निशाकराभिरूपवदनः शकलो वदान्यः प्रबलरिपुबलानीकसमरसमवाप्तवि- जयश्रीः श्रीवीतरागापरनामा श्रीजयभटः । कलिप्रतिपक्षभयाच्छर- णार्थिन इव यमाश्रिताः सविनया गुणाः । स्फूर्तिविमलकीर्तिसौधमानिना येन सकलजीवलोकानन्दकारिणा कालबलाहकेनेवावन्ध्यफलं गर्जता प्रण- यिनामपनीतास्तृष्णासंतापदोषाः । यश्च शूरोऽपि सततमयशोभीरुः, अपगत- तृष्णोऽपि गुणार्जनाविच्छिन्नतृष्णः, सर्वप्रदानशीलोऽपि परयुवतिहृदयदान- पराङ्मुखः, पटुरपि परपरिवादाभिधानजडधीः । यस्य च न विरोधि रूपं शीलस्य, यौवनं सद्वृत्तस्य, विभवः प्रदानस्य, त्रिवर्गसेवा परस्परापीडनस्य, प्रभुत्वं क्षान्तेः, कलिकालो गुणानामिति ॥ तस्य सूनुः सजलघनपटलनिर्गतरजनिकरकरावबोधितकुमुद्धवलयशः- प्रतानास्थगितनभोमण्डलोऽनेकसमरसंकटप्रमुखागतनिहतशत्रुसामन्तकुलव- धूप्रभातसमयरुदितच्छलोद्गीयमानविमलनिस्त्रिंशप्रतापो देवद्विजातिगुरुचर- णकमलप्रणामोद्धृष्टवज्रमणिकोटिरुचिरदीधितिविराजितमुकुटोद्भासितश्रीर्दी- नानाथातुराम्यागतार्थिजनाक्लिष्टपरिपूरितविभवमनोरथोपचीयमानत्रिविष्टपै. कसहायधर्मसंचयः प्रणयपरिकुपितमानिनीजनप्रणामपूर्वमधुरवचनोपपादित- प्रसादप्रकाशीकृतविदग्धनागरिकखभावो विमलगुणकिरणपञ्जराक्षिप्तबहल- कलितिमिरनिचयः समधिगतपञ्चमहाशब्दः श्रीदहः कुशली सर्वानेव राज- सामन्तभोगिकविषयपतिराष्ट्रग्राममहत्तराधिकारिकादीन्समनुबोधयति स्तु वो विदितम्-अस्माभिरक्रूरेश्वरविषयान्तर्गतशिरीषपद्रक एष ग्रामः सो- द्रङ्गः सो(स)परिकरः सर्वादानसंग्रहः सर्वदित्यविष्टिप्रातिभेदिकापरिहीणो भूमिच्छिद्रन्यायेनाचाटभटप्रविश्य आचन्द्रार्कार्णवक्षितिस्थितिसमकालीनः पुत्रपौत्रान्वयभोग्यो जम्बूसरोवास्तव्यभारद्वाजसगोत्रकण्वसब्रह्मचारिब्राह्मण- आदित्यरवि तथा-तापिशूर-इन्द्रशूर-ईश्वर तथा-वत्ससगोत्रभट्ट्यध्या- पक-गोपादित्य-वाड-विशाख-अग्निशर्म-भट्टिगण-द्रोण-माठरसगोत्र- विशाख-धर-नन्दि-राम-डौण्डकीयसगोत्र-तापिशर्म-द्वि. तापिशर्म- द्रोण-भट्टि-पितृशर्म-भागिस्वामि-दत्तस्वामि-लाक्ष्मण्यसगोत्र-धर-दाम- PM anMAIDREAMERIErammar ८० लेखः] प्राचीनलेखमाला । । धर-ईश्वर-कौण्डिण्यसगोत्र-बाव-घोष-शील-काश्यपसगोत्र-भट्टिदाम- वत्र-हारीतसगोत्रधर्मधर-धौम्रायणसगोत्रकर्याध्यापक-आवुक-इन्द्रशूरा- दिब्राह्मणेभ्यश्चतुस्त्रिंशभ्यो बलिचरुवैश्वदेवाग्निहोत्रपञ्चमहायज्ञादिक्रियोत्स- पणार्थ मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये कार्तिक्यामुदकातिसर्गेणाति- सृष्टो यतोऽसद्वंश्यैरन्यैर्वागामिभोगपतिभिः प्रबलपवनप्रेरितोदधिजलतरङ्ग- चञ्चलं जीवलोकम्, अभावानुगतानसारान्विभवान्दीर्घकालस्थेयसश्च गुणाना- कलय्य सामान्यभोगभूप्रदानफलेप्सुभिः शशिकररुचिरं यशश्चिराय चि- चीषुभिरयमस्मदायोऽनुमन्तव्यः पालनीयश्च । यो वाज्ञानतिमिरपटलावृत- मतिराच्छिन्द्यात्, आच्छिद्यमानं नानुमोदते स पञ्चभिर्महापातकैः संयुक्तः स्यादिति । उक्तं च भगवता वेदव्यासेन व्यासेन- 'पष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ।। विन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः । कृष्णाहयो हि जायन्ते भूमिदायं हरन्ति ये । बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि । निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत ॥' इति ॥ संवत्सरशतत्रये पञ्चाशीत्यधिके कार्तिकपूर्णिमायां लिखितं सं- धिविग्रहाधिकरणाधिकृतरेवेण स्वमुखाज्ञयेति ॥ सम्. ३००+८०+६, कार्तिक सु. १०.९, दिनकरचरणार्चनरतस्य श्रीवीतरागसूनोः स्वहस्तोऽयं BHARATI भारती धुबन में प्रशान्तरागस्य ॥ (इण्डियन आण्टिक्वेरी १३१८८-९०) Mirjar MARAT ४८ काव्यमाला । (८१) कर्णाटकश्रीवेङ्कटपतिरायस्य दानपत्रम् । श्रीवेङ्कटेशाय नमः । यस्य संपर्कपुण्येन नारीरत्नमभूत्सि (च्छि)ला । यदुपास्यं सुमनसां तद्वस्तुद्वन्द्वमाश्रये ॥ यस्य द्विरदवाद्याः परिषद्याः परश्शतम् । विघ्नं निघ्नन्ति भजतां विष्वक्सेनं तमाश्रये ॥ जयति क्षीरजलधेर्जातं सम्बे(व्ये)क्षणं हरेः । आलम्बनं चकोराणाममरायुष्करं महः ॥ पौत्रस्तस्य पुरूरवा भू(बु)धसुतस्तस्यायुरस्यात्मजः संजज्ञे नहुषो ययातिरभवत्तस्साच्छ(च) पूरुस्ततः । तद्वंसे(शे) भरतो बभूव नृपतिस्तत्संततौ शंतनु- स्तत्तुर्यों विजेयोऽभिमन्युरुदभूत्तस्मात्परीक्षिस्ततः ॥ नन्दस्तस्याष्टमोऽभूत्समजनि नवमस्तस्य राज्ञश्चलिङ्क- क्ष्मापस्तत्सप्तमः श्रीपतिरुचिरभवद्राजपूर्वो नरेन्द्रः । तश्याशि(स्यासी)द्विजलि(ले)न्द्रो दशम इह नृपो वीरहेमालिराय- स्तार्तीई (यी)को मुरारौ कृतनतिरुदभूस्त(त्त)स्य मायापुरीशः ॥ तत्तुर्योऽजनि तातपिन्नममहीपालो निजालोकन- स्तस्त्रा(त्रस्ता)मित्रगणस्ततोऽजनि हरन्दुर्गाणि सपा(ता)हितात्। अन्नै(है)केन स सोमिदेवनृपतिस्तस्यैव जज्ञे सुतो वीरो राघवदेवराडिति ततः श्रीपिन्नमोऽभून्नृपः ॥ आरवीटिनगरीविभोरभूद्य(द)स्य वुक्कधरणीपति[:] सुतः । येन साळु(व)नृसिंहराज्यमप्येधमानमहसा स्थिरीकृत[म्] ॥ १. सोमाख्यम्. २. अर्जुनः. ३. इकारान्तोऽपि परीक्षिशब्दोऽस्ति. 'जनमेजय इव परीक्षितनयः दमयन्तीश्लेषात्.

८१ लेखः]
प्राचीनलेखमाला।
४
श्वा(स्वः)कामिनी श्व(ख)तनुकान्तिभिराक्षिपन्ती
वुक्कावनीपतिलको भु(बु)धकल्पशाखी ।
कल्याणिनी कमलनाभ इवाब्धिकन्यां
वल्लाम्बिकामुदवहहहुमान्यशीलाम् ॥
सुतेव कलशाम्बुधे[:] सुरभिलाशुगं माधवा-
त्कुमारमिव शंकरात्कुलमहीभृतः कन्यका ।
जयन्तममरप्रभोरपि शचीव बुक्काधिपा-
च्छ्रुतं जगति वल्लभालभत रामराजं सुतम् ॥
सहश्रे(त्रैः) सप्तत्या सहितमपि यः सिन्धुजनुषां
सपातस्यानीकं समिति भुजशौर्येण महता।
विजित्यादत्तश्मा(स्मा)दवनिगिरिदुर्ग विभुतया
विधूतेन्द्र[:] कासप्पुडयमपि विद्राव्य सहसा ॥
कन्दनवोलिदुर्गमुरुकंदलदम्युदयो
बाहुवलेन यो बहुतरेण विजित्य हरेः ।
संनिहितस्य तत्र चरणाम्बुषु भक्ततया
ज्ञातिभिरर्पितं सुधयति स्म निषेव्य विषम् ॥
श्रीरामराजक्षितिपस्य तस्य चिन्तामणेरर्थिकदम्बकानाम् ।
लक्ष्मीरिवाम्भोरुहलोचनस्य लक्काम्बिकामुष्य महिष्यलासीत् ॥
तस्याधिक[:] समभवस्त(त्त)नयस्तपोभि[:]
श्रीरङ्गराजनृपति[:] शसि(शि)वंशदीपः ।
आसन्समुल्लसति धामनि यस्य चित्रं
नेत्राणि वैरिसुदृशां च निरञ्जनानि ॥
सती तिरुमलाम्बिका चरितलीलयारुन्धती-
प्रथामपि तितिक्षया वसुमतीयशो रुन्धतीम् ।
हिमांशुरिव रोहिणी हृदयहारिणी श(स)द्गुणै-
रमोदत सधर्मिणीमयमवाप्य वीराग्रणीः ॥
१. पुष्पाशुगं कामम.

काव्यमाला।
रचितनयविचारं रामराजं च धीरं
वरतिरुमलरायं वेंकटाद्रिक्षितीशम् ।
अजनयत स एतानानुपूर्व्या कुमारा-
निह तिरुमलदेव्यामेव राजा महौजाः ॥
सकलभुवनकण्टकानरातीन्समिति निहत्य स रामराजवीरः ।
भरतमनुभगीरथादिराजप्रथितयशाः प्रशशास चक्रमुाः ॥
वितरणपरिपाटी यस्य विद्याधरीणां
नखरमुखरवीणानादगीतां निशम्य ।
अनुकलमयमावालाम्बुविम्बापदेशा-
दमरनगरशाखी लज्जया मज्जतीव ||
व्यराजत श्रीवरवेंकटाद्विराजक्षितौ लक्ष्मणचारुमूर्तिः ।
ज्याघोषदूरीकृतमेधैनाद[:] कुर्वन्सुमित्राशयहर्षपोषम् ॥
त्रिषु श्रीरङ्गक्ष्मापरिवृढकुमारेष्वधिरणं
विजित्यारिक्ष्मापांस्तिरुमलमहारायनृपतिः ।
महौजाः साम्राज्ये सुमतिरभिषिक्तो निरुपमे
प्रशास्त्यूवौं सर्वामपि तिसृषु मूर्तिष्विव हरिः ॥
यशश्वि(खि)नामग्रसरस्य यस्य पट्टाभिषेके सति पार्थिवेन्दोः ।
दानाम्बुपूरैरभिषिच्च[च्य]माना देवीपदं भूमिरियं दधाति ।
सामादयो विधिमुखादिव सत्यवाचा(चः)
सामाद्युपायनिवहा इव सांयुगीनात् ।
रामादयो दशरथादिव राजमौले-
स्तस्मादमेय[य]शसस्तनया बु(ब)भूवुः ||
राजा ततोऽभूद्रधुनाथ नामा श्रीरङ्गराय[:] श्रितपारिजातः ।
श्रीरामराज[:] शिशिरांशुरुा विख्यातिमान्वेंकटदेवरायः ।।
१. लक्ष्मणः सौमित्रिः, लक्ष्मणं चिह्न च. २. मेघनादो रावणिः, गर्जितं च. ३. सु-
मित्रा दशरथपत्नी, शोभनानि मित्राणि च.

८१ लेखः]
प्राचीनलेखमाला।
श्रीरङ्गराय[:] सहजेषु तेषु पारं गतो नीतिपयःपयोधेः ।
अष्टासु दिक्षु प्रथितः स लेभे पट्टाभिषेकं पेनुगोण्डराज्ये ॥
अथ श्रीवेंकटपतिदेवरायो नयोज्ज्वलः ।
अवनीमसि(शि)पत्कीर्त्या दिशो दश विशोभयन् ॥
तज्ज्यायसः सुरिद्रुम[ल]ज्जावहचरितरामराजविभोः ।
जातस्तिरुम[ल]राजख्यातश्रीरङ्गरायोऽपि ॥
तयोः श्रीरङ्गराजस्य तनया विनयाधिकाः ।
अजायन्त दयावन्त[:] श्रुतवन्तो यशखिनः ।।
श्रीरङ्गरायनृपतेस्तनयेषु तेषु
पारं गिरामधिगतः कविपुंगवानाम् ।
रत्नेषु कौस्तुभ इवाम्बुधिसंभवेषु
श्रीरामरायनृपति[:] सुचिरं वि(व्य)लासीत् ॥
पूर्व विशृ(श्रु)तरामराजनृपतेः श्रीरामभद्राकृतेः
कल्याणोदयशालिनस्तनुभवा[:] पञ्च प्रपञ्चानने ।
दक्षा नीतिपथानुगाः समभवन्क्षीरापगाकामिनो
गीर्वाणालयभूरुहा इव बुधश्रेणीष्टदानोत्सुकाः ॥
प्रज्ञाविजितसुग्रीवाः प्राज्ञावनकृताग्रहाः।
सर्वे ते विबुधग्राह्या गुणै रुचिरविग्रहाः ॥
विख्यातचर्येषु नृपेषु तेषु श्रीरङ्गराज[:] शिशिरांशुरुयाः ।
विश्वत्रये विश्रुतकीर्तिरासीत्सौरेषु शालेष्विव पारिजातः ॥
यद्धेरीघनभांकृतिश्रवणतो भीत्या महत्या रणे
प्रत्यर्थिक्षितिपैः फ(प)लायनपरैर्मुक्ता लुठन्त[:] श्रमात् ।
कान्ताराभरणीभवन्ति कलशच्छत्रध्वजाङ्काञ्चिता-
न्युन्मा त्यधिभूपदानि तदनुव्रज्जा(ज्या)भिया किं हयाः ॥
श्रीरङ्गराजस्य तपोविशेषैः संतोषणः शेषगिरीश्वरस्य ।
कारुण्यभूम्ना कमनीयशोभौ पुत्रावहू(भू)तां पुरुहूतभोगौ ॥
१. सुरसंबन्धिवक्षेषु.

काव्यमाला ।
पे(पि)दवेंकटेन्द्रपिनवेंकटाधिराडिति नामको प्रकृतिपालनोत्सुकौ ।
खरदूषणप्रहृतिदक्षिणावुभौ ददतः(१) प्रमोदमिव रामलक्ष्मणौ ।।
श्रीशाली पिदवेंकटेन्द्रनृपतिर्ने(ज्ये)ष्ठो वयोभिस्तयोः
शौर्योदायर्गभीरताधृतिकलापूर्वैश्च सर्वैर्गुणैः ।
यस्यारातिनृपालभेदनकलायात्रालु सेनारजः-
पूरैर्भूजलधिर्भवेदिति हरिश्चित्तेश्व(?) धत्ते स्थितिम् ॥
श्रीरङ्गराजेन्द्रकुमारकेऽस्मिन्वीरोत्तमे वेंकटदेवराये ।
पट्टाभिषिक्ते पे(पि)नुगोण्डराज्ये तदाभिषिक्ताः सुधियोऽपि हेम्ना ॥
यथा रघुकुलोद्वह[:] स्वयमरुन्धतीजानिना
खगोत्रगुरुणा सुधीतिलकतातयार्येण यः ।
यथाविधि यशश्वि(खि)ना विरचिताभिषेक[३] क्षणा-
द्विभिद्ये यवनाशरान्विजयते प्रशासन्महीम् ॥
यथाविधि महीसुरोत्तमकृताभिषेकोत्सवे
यदीयकरवारिदे कनकवृष्टिदे सर्वतः ।
यशोमयतरङ्गिणी दशदिगन्तरे जृम्भते
सतां प्रशमितोऽभवत्कृपणतोऽरुदावानलः ॥
यसिन्वेंकटरायभूभृति वहत्युर्वी मुदा निर्भरां
कूर्मो वेंकटनाथतामुपगतस्तद्रक्षणे दीक्षितः ।
शेषोऽप्येत्यमषवेष(४)मचला दुर्गत्वमप्याश्रिताः
संतोषं दधते भजन्ति करिणां रूपेण चाशागजाः ॥
वाराशिगाम्भीर्यविशेषघुर्यश्चौराशिदुगैंकविभालवर्यः ।
पराष्टदिग्रायमनःप्रकामभयंकरः शार्ङ्गधरान्तराण्डा(ग)ः ॥
हतरिपुरनिमेषानोकहो याचकानां
होसविरुदर(१)गण्डो रायराहुत्तमिण्डः ।
महितचरितधन्यो मनियान्शामुलादि-
प्रकटितविरुदश्रीः पाटितारातिलोकः ॥
१. बरदूषणौ राक्षसौ, खरो दूषणश्च,

८१ लेखः] प्राचीनलेखमाला। सारवीररमया समुल्लसन्नारवीटिपुरहारनायकः । कुण्डलीश्वरमहाभुज[:]श्रयन्मण्डलीकधरणीवराहताम् ॥ आत्रेयगोत्रजानामग्रसरो भूभुजामुदारयशाः । अतिविरुदतुरगघट्टो मतिगुरुरारट्टमगधमान्यपदः ॥ शल्यारिनीतिशाली कल्याणपुराधिपः कलाचतुरः। चाकिलिक्क)चक्रवर्ती माणिक्क(क्य)महाकिरीटमहनीयः ॥ ऐबिरुदरायराहुतवेश्यैकभुजङ्गबिरुदभरितश्रीः । राजाधिराजबिरुदो राजराजसमाहितिः । मूरुरायरगण्डाको मेरुलवियशोभरः ॥ परदारेषु विमुखः पररायभयंकरः । शिष्टसंरक्षणपरो दुष्टशार्दूलमर्दनः ॥ अरीभगण्डभेरुण्डो हरिभक्तिसुधानिधिः । १ ................. ...... ॥ सोऽयं नीतिजितादिभूपतितति[:] सु[त्रा]मशाखी सुधी सार्थानां भुजतेजसा स्ववशयन्कर्णाटशि(सिं)हासनम् । आ सेतोरपि चाहिमाद्रि विमतान्संहृत्य शासन्मुदा सर्वोर्वी प्रचकास्ति वेंकटपति[:] श्रीदेवरायाग्रणीः ॥ वसुबाणकलम्बेन्दु[ग]णिति शकवत्सरे । धातृसंवत्सरे नाम्नि मासि चाषाढनामनि ॥ पक्षे वलक्षे पुण्यौं द्वादस्यां(श्यां) च महातिथौ । श्रीवेंकटेशपादाब्जसंनिधौ श्रेयसां निधौ ॥ श्रीमत्कौशिकगोत्राय वरापस्तम्बसूत्रिणे । यशश्वि(खि)ने यजुःशाखाध्यायिनेऽभीष्टदायिने ॥ यजनादिमषट्कर्मभजनात्पावनात्मने । श्रीरामचरणाम्भोजभ्रमरायितचेतसः(से) ॥ १. आदर्श त्रुटिचिहं नास्ति.

काव्यमाला ।
वीरवेंकटरायेन्द्रनृपचित्तानुवर्तिने ।
लक्कराजस्य पौत्राय सिंगराजस्य सूनवे ॥
राजन्यास्थानरत्नाय रङ्गनाथाय धीमते ।
जगत्ख्यातजयंकौण्डतोण्डमण्डलभूषणम् ॥
पडवीड्डमहाराज्ये परंद्रामिश्चपत्तुगम् ।
आमूरुकोट्टविख्यातमाञ्जनाडुविशोभितम् ॥
गुडियातस्य सीमायां विड्डग्राममिति श्रुतम् ।
गूडनगरग्रामस्य प्राचीभागमुपाश्रितम् ॥
कौण्डिन्यनामनद्याश्च दक्षिणस्यां दिशि स्थितम् ।
चित्तातूरुमहाग्रामपश्चिमस्यां दिशि स्थितम् ॥
वेड्डायिनेत्तरत्नस्य वु(चो)त्तराशामुपाश्रितम् ।
गोपालश्रीपुरमिति प्रतिनामसमन्वितम् ॥
ग्राम कोड्यातनामानं शोभितं शोभनैर्गुणैः ।
सर्वमान्यं चतुःसीमासहितं च समन्ततः ॥
निधिनिक्षेपपाषाणसिद्धसाध्यजलान्वितम् ।
अक्षिण्यागामिसंयुक्तं गणमोज्यसभूरुहम् ॥
वापीकूपतडागैश्च कच्छारामैश्च संयुतम् ।
पुत्रपौत्रादिवि(मि)र्भोज्यं क्रमादाचन्द्रतारकम् ॥
दानाद(ध)मनविक्रीतियोग्यं विनिमयोचितम् ।
परीतः प्रयतैः स्निग्धैः पुरोहितपुरोगमैः ।
विविधैर्विबुधैः] श्रौतपथिकैरथि(धि)कैगिरा ॥
श्रीवेंकटपतिरायक्षितिपतिवर्यस्य कीर्तिधुर्यस्य ।
शासनमिदं सुधीजनकुवलयचन्द्रस्य भूमहेन्द्रस्य ॥
श्रीवेंकटपतिरायोक्या(जोक्त्या)प्राह पौत्रः सभापतेः ।
कावकोटिसुतो रामकवि[:] शासनवाङ्मयम् ॥
श्रीवीरणाचार्यवरेण्यपौत्रो वराच्युतार्यो गणपार्यपुत्रः ।

८२ लेखः]
प्राचीनलेखमाला ।
सूक्त्यालिखवेंकटरायमौलेः पद्यानि हृद्यान्यथ शासनस्य ॥
दानपालनयोर्मध्ये दाना[च्] श्रेयोऽनुपालनम् ।
दाना[त्] स्वर्गमवाप्नोति पालनादच्युतं पदम् ॥
श्व(स्व)दत्ताद्विगुणं पुण्यं परदत्तानुपालनम् ।
परदत्तापहारेण स्वदत्तं [निष्फलं भवेत् ॥
स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् ।
षष्टिवर्षसहस्राणि विष्टायां जायते क्रिमिः ॥
ये(ए)कैव भगिनी लोके सर्वेषामेव भूभुजाम् ।
न भोज्या न करग्राह्या विप्रदत्ता वसुंधरा ॥
सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः ।
सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामचन्द्रः ॥
(इण्डिअन आण्टिक्वेरी १३,१८-१३२)
(८२)
कण्वाश्रमस्थमहादेवमन्दिरमशस्तिः।
ओं नमः शिवाय।
ओम् ।
नमः सकलसंसारसागरोत्तारहेतवे ।
तमोगर्ताभिसंपातहस्तालम्बाय शंभवे ॥
श्वेतद्वीपानुकाराः क्वचिदपरिमितैरिन्दुपादैः पतद्भि-
नित्यस्थैः सान्धकाराः क्वचिदपि निभृतैः फाणिपै(१) गभागैः ।
सोष्माणो नेत्रभाभिः क्वचिदतिशिशिरा ज[हुकन्याजलौघै-
रित्थं भावविरुद्धैरपि जनितमुदः पान्तु शंभोर्जटा वः ॥
भोगीन्द्रस्य फणामणी(णि)द्युतिमिलन्मौलीन्दुलोलांशवो
नेत्राग्नेश्छुरिभस्मधूमकपिशैज्वालाशिखाग्रैः क्वचित् ।
१. अस्य कण्वाश्रमस्याधुना 'कुन्नस्व' इति नाम्ना बूंदीनरेशराज्यतो विनि:मृतस्य
कोटानगरस्य चर्मण्वतीतीरवसतेः पूर्वस्यां गव्यतिमात्रान्तरले प्रसिद्धिः.

काव्यमाला। मुक्ताकारमरुन्नदीजलकणैराकीर्णशोभाः क्वचि- वेत्थं शाश्वतभूषणव्यतिकराः शंभोर्जटाः पान्तु वः ॥ स्थाणोर्वः पातु मू(िर्धा) सर इव सततव्योमगङ्गाम्बुलोल- स्फूर्जद्भोगीन्द्रपङ्क-श्लथविकटजटाजूटकहारहारी । मन्दं यत्र स्फुरन्त्यो धवलनरशिरोवारिजन्मान्तराले स्पष्टः प्रोद्यन्मृणालाङ्कुरनिकर इवाभान्ति मौलीन्दुभासः ॥ नेत्रक्रोडप्रसक्तोज्ज्वलदहनशिखा.....""भासां शिखानां हस्ताभ्यामूर्ध्वमुद्यद्विश(प)शिखिवदनग्रन्थिमातत्य नागम् । भारं संयम्य कृत्वा समममृतकरोद्भासि मौलीन्दुबिम्बं स्थाणुः प्रारब्धनृत्तो जगदवतु लयोत्कम्पिपादाङ्गुलीकः ॥ चूडाचारुमणीन्दुमण्डितभुवः(१) सद्भोगिनामाश्रयः पक्षच्छेदभयार्तिसंकटवतां रक्षाक्षमो भूभृताम् । दूराभ्यागतवाहिनीपरिकरो रत्नप्रकारोज्ज्वलः श्रीमानित्थमुदारसागरसमो मौर्यान्वयो दृश्यते ॥ दिङ्गागा इव जात्यसंभृतमुदो दानोज्ज्वलैराननै- विस्रम्भेण रमन्त्यभीतमनसो मानोद्धराः सर्वतः । सद्वंशत्ववशप्रसिद्धयशसो यस्मिन्प्रसिद्धा गुणैः श्लाघ्या भट्टै........ च सत्त्वबहुलाः पक्षैः समं भूभृतः ॥ इत्थं भवत्सु भूपेषु भुजत्सु सकलां महीम् । धवलात्मा नृपस्तत्र यशसा धवलोऽभवत् ॥ कायादिप्रकटार्जितैरहरहः खैरेव दोषैः सदा निर्वस्त्रा[:] सततक्षुधि प्रतिदिनं स्पष्टि(ष्टी)भवद्यातनाः । रात्रीसंचरणा भृशं परगृहेष्वित्थं विजित्यारयो येनाद्यापि ......."तां सुविपदो नीताः पिशाचा इव ।। १. 'शिखाप्रायभासां' इति भवेत. २. 'मौौर्हरण्यार्थिभिरर्चाः प्रकल्पिता:' व्याकरणमहाभाध्यम्. ३. 'भद्रतया' इति भवेत्'. ४. 'विकीर्णता' इति भवेत्, ८२ लेखः] प्राचीनलेखमाला। १७ S कोपाळूनमहेभकुम्भविगलन्मुक्ताफलालंकृत- स्फीतास्रस्तुतिमण्डिता अपि मुहुर्येनोजितेन स्वयम् । उन्नालैरिव पङ्कजैः पुनरपि च्छिन्नैः शिरोभिवि(दि)षां विक्रान्तेन विभूषिता रणभुवस्त्यक्ता नरैः कातरैः ।। इत्थं तस्य चिरंतनो द्विजवरः स......."त्तायुध- प्रीति(१)प्रेतनरेन्द्रसत्कृति'......"प्रसिद्धो गुणैः । यस्याद्यापि रणाङ्गणे विलसितं संसूचयन्ति द्विषः ...ष्यच्छोणितमर्मरा रणभुवः प्रेत(प्रि)याः प्रायशः ॥ शब्दस्यार्थ इव प्रह्लादनपटोर्मार्गस्त्रयीसंज्ञितो धर्मः सेव्यविशुद्धभावसरलो न्यायस्य मूलं सतः । प्रामाण्यं प्रगत..........."यः साध्यस्य संसिद्धये तस्य.............."तः पृ(प्रियसखः श्रीसंकुकाख्यो नृपः ।। देङ्गिणी नाम तस्यासीद्धर्मपत्नी द्विजोद्भवा । तस्यां समभवद्वीरः ""कृतगुणाकरः ॥ यशस्वी रूपवान्दाता श्रीमाशिवगणो नृपः । शिवस्य नूनं स गणो येन तद्भक्ततां गतः ।। खड्गाघातदलत्तनुत्रविचटद्वह्निस्फुलिङ्गोज्ज्वल- ज्वालादग्धकबन्धकण्ठकुहरप्रोन्मुक्तनादोल्बणे । नाराचैर्व्यथिताननाकुलखगप्रोद्वान्तरक्तासवं प्रीतप्रेतजनो रणे रतधिया येनासकृञ्चर्वितः(?) ॥ ज्ञात्वा जन्म जराविपत्तिमरणक्लेशैरशेषैश्चितं स्वार्थस्याप्ययमेव योग उचितो लोके प्रसिद्धः सताम् । तेनेदं परमेश्वरस्य भवनं धर्मात्मना कारितं यं दृष्ट्वैव समस्तलोकवपुषां नष्टं कलेः कल्मषम् ॥ १. 'सन्वीर्यवत्ता' इति भवेत्. २. 'मुदः पात्रं' इति भवेत्. ३. 'शुष्यत्' इति पूरितम्. ४. 'प्रगतस्य हेतुविषयः' इति भवेत. ५. 'तस्याभूदतिसंयतः' इति पूरितम्. ६. 'सुतः' इति भवेत.

५८
काव्यमाला।
१
पुष्पाशोकसमीरणेन सुरभावुत्फुल्लचूताङ्कुरे
काल्ये(ले) मत्तविलोलषट्पदकुलैारुद्धदिङ्मण्डले ।
जातेऽपाङ्गनिरीक्षणैककथके नारीजनस्य स्मरे
कृप्तं सद्भवनं भवस्य सुधिया तेनेह कण्वाश्रमे ॥
काल्पे(?)न्दोलाकुलानां तनुवलनभरात्प्रस्फुटत्कञ्चुकानां
कान्तानां दृश्यमानैः 'भोजि(गि)संभोगचिरैः।
यस्मि ....."भिमुख्यस्थितिझटितिनमच्छ(त्स)स्मितार्धक्षणानां
भ्रूभङ्गैरेव रम्यैहृदयविनिहितः सूच्यते प्रेमबन्धः ॥
मत्तद्विरेफझङ्कारि सहकारविराजिताः ।
संवीक्ष्य ककुभो बाष्पं मुञ्चन्ति पथिकाङ्गनाः ॥
धूपादिगन्धदीपार्थ खण्डस्फुटितहेतुना ।
ग्रामौ दत्तौ क्षयो निमिः(१) सर्वाङ्गां चोणिपद्रकौ ॥
पालयन्तु नृपाः सर्वे येषां भूमिरियं भवेत् ।
एवंकृते ते धर्मार्थ नूनं यान्ति शिवालयम् ॥
संसारसागरं घोरमनेन धर्मसेतुना ।
तारयिष्यत्ययं नूनं जन्यौ चात्मानमेव च ॥
तावत्ससागरां पृथ्वी सनगां च सकाननाम् ।
यावदिन्दुस्तैपे भानुस्तावत्कीर्तिर्भविष्यति ॥
संवत्सरशतैर्यातैः सपञ्चनवत्यर्गलैः ।
सप्तभिर्मालवेशानां मन्दिरं धूर्जटेः कृतम् ॥
अलुब्धः पृ(प्रि)यवादी च शिवभक्तिरतः सदा ।
कारापको शब्दगुणो धार्मिकः शंसितत्रतः ॥
दक्षः प्राज्ञो विशुद्धात्मा शूर(लि)भक्तः पृ(प्रि)यंवदः ।
............कश्चास्मिन्कायस्थो गोमिकाङ्गजः ॥
१. 'कुचकलशभुजां' इति पूरितम्. २. 'प्रीत्याभिमु' इति भवेतू. ३. 'स्तपेत्' इति
भवेत्. ४. 'आप्तो' इति भवेत्. ५. 'ऽत्र रौषुक' इति पूरितम्.

८३ लेखः] प्राचीनलेखमाला । उत्कीर्ण शिवनागेन द्वारशिवस्य सूनुना । ............ .......... %D सूनुना भट्टसुरभेर्देवटेन श्रुतोज्वलाः । श्लोका अमी कृता भक्त्या मौलिचन्द्रसुधाभुजः ॥ कृष्णसुतो गुणाढ्यश्च सूत्रधारोऽत्र णण्णकः ॥ एतत्कण्वाश्रमं ज्ञात्वा सर्वपापहरं शुभम् । कृतं हि मन्दिरं शंभोधर्मकीर्तिविवर्धनम् ।। यतिहीनं शब्दहीनं मात्राहीनं तु यद्भवेत् । तत्सर्व साधुचित्तेन मर्षणीयं बुधैः सदा ॥ (इण्डिअन् आण्टिक्वेरी १३।१६३-६५) (८३) उदयपुराधीशजयसिंहवल्लभानां शासनपनम् । खस्ति श्रीमद्विजयोदयपुराद्भगवत्स्वामिमहासेनपादानुध्यातानां सप्त- लोकमातृभिः सप्तमातृभिः परिवर्धितानां भगवन्नारायणप्रसादसमाना(सा)- दितवराहलाञ्छनेक्षणक्षणवशीकृताशेषमहीक्षितां मानव्यसगोत्राणां हारीती- पुत्राणामश्वमेधावभृथस्नानपवित्रीकृतगात्राणां च(चा)लुक्यानां कुलमलं- करिष्णोश्चतुरुदधिसलिलसमुल्लचितकीर्तेः श्रीकीर्तिवर्मणः पौत्रः समाश्रि- तानां कामधेनुचरितस्यानेकरिपुदुर्गप्रमथनावाप्तविषमसिद्धेयस्य च शस्त्रमा- पन्नत्राणाय, विग्रहः पराभिमानभङ्गाय, शिक्षितं विनयाय, विभवार्जनं प्रदा- नाय, प्रदानं धर्माय, धर्मः श्रेयोवाप्तये, तस्य तनयः शशधर इव सर्वलोक- हृदयानन्दकरः, सुरगज इवाविच्छिन्नदानकि (क्लिोन्ननिकेतः, चक्रधर इवा- प्रतिहतचक्रः, द्रोण इव कृपानुगतः, स्वबाहुबलोपार्जितसर्वसिद्धिः समर- १. अस्योदयपुरस्य सत्ता मद्राजराजधान्यां कृष्णापरिसरे नूजिविद्परगणेऽस्तीति बोध्यम्. २. 'दानं गजमदे त्यागे' इति मेदिनिः. ३. चक्रं सैन्यं राष्ट्रम्, अस्त्रं च. ४. कृपा दया, कृपो द्रोणाचार्यश्यालकः, काव्यमाला। शतसंकटोत्कण्ठविजयवीरधवजः श्रीजयसिंहवल्लभमहाराजः परमन्न- ह्मण्यो मातापितृपादानुध्यातः सर्वानेवमाज्ञापयति-अस्तु वो विदितम्- अस्माभिर्मुद्रहारविषये मर्दावल्लीपूर्वपार्श्वे पेणुकपडुनाम ग्रामग्रामो विष्णुनि- मित्तं विजयराज्यसंवत्सरेऽष्टादशे पोगुलूरवास्तव्याय भारद्वाजसगोत्राय भा- रद्वाजसूत्रस्याधीतवेदद्वयस्य शिवशर्मणः पौत्राय गृहीतसाहस्रस्याधिगत- वेदद्वयस्य देवशर्मणः पुत्राय षट्कर्मनिरतायाशीतितर्काय गुप्तशर्मणे सर्व- करपरिहारेणाग्रहारीकृत्य प्रतिग्रहो दत्तो न कैश्चिदप्यस्योपरि बाधा करणीया ॥ उक्तं च भगवता वेदव्यासेन व्यासेन- बहुभिर्वसुधा दत्ता बहुभिश्चानुपालिता । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ षष्टिं वर्षसहस्राणि खर्गे मोदति(१) भूमिदः । आक्षेप्ता(च्छेत्ता) चानुमन्ता च तान्येव नरके वसेत् ॥ मन्त्री पुरोहिताश्चा]स्य यथेन्द्रस्य बृहस्पतिः । आज्ञप्ति:(.) शिय(व)शर्मास्य वाजपेय' (इण्डिअन् आण्टिक्केरी १३.१३७-३८) MAHARMEROID ....... ॥ (८४) वाकाटकदेशमहाराजश्रीप्रवरसेनस्य शासनपत्रम् । ओं ओं स्वस्ति प्रवरपुरादग्निष्टोमाप्तोर्या(?)मोक्थ्यषोडश्यतिरात्रवाजपे- यबृहस्पतिसवसा(ना)दास्कचतुरश्वमेधयाजिनः वि[ष्णुवृद्धसगोत्रस्य साम्रा- [जो] वाकाटकानां महाराजश्रीप्रवरसेनस्य सूनोरत्यन्तस्वामिमहाभैरवभ- क्तस्यांसमारसंनिवेशितशिवलिङ्गोद्वहनशिवसुपरितुष्टसमुत्पादितराजवशानां पराक्रमाधिगतभागीरथ्यामलजलमूर्धाभिषिक्तानां दशाश्वमेधावभृथस्नातानां भारशिवानां महाराजभवनागदौहित्रस्य गौतमीपुत्रस्य पुत्रस्य(?) वाका- १. अयं च वाकाटकदेशो महादेवपर्वतगोदावरीनद्योर्महानद्यजण्टपर्वतयोश्वान्तराले वर्तते इति डॉक्टर्बल्हरव्याख्यानतोऽवगम्यते.

८४ लेखः]] प्राचीनलेखमाला। टकानां महाराजश्रीरुद्रसेनस्य सूनोरत्यन्तमाहेश्वरस्य सत्यार्जवकारुण्यशौ- यविक्रमनयविनयमाहात्म्याधि(दि)मत्त्वहात्रा(?)गतभक्तित्वधर्मविजयित्वम- नोनैर्मल्यादिगुणैः समुपेतस्य वर्षशतमभिवर्धमानकोशदण्डसाधनसंतानपुत्रपौ- त्रिणो युधिष्ठिरवृत्तेर्वाकाटकानां महाराजश्रीपृथिवि(वी)घेणस्य सूनोभ- गवतश्चक्रपाणेः प्रसादोपार्जितश्रीसमुदयस्य वाकाटकानां महाराजश्री- रुद्रसेन[स्य] सूनोर्महाराजाधिराजश्रीदेवगुप्तसुतायां प्रभावतीगुप्तायामुत्प- नस्य शंभोः प्रसादधृतिकार्तयुगस्य वाकाटकानां परममाहेश्वरमहाराजश्री- प्रवरसेनस्य वचना[त्] भोजकटराज्ये मधुनदीतटे चर्माङ्कनामग्रामो राजमानिकभूमिसहस्ररष्टाभिः ८००० शत्रुघ्नराजपुत्रकोण्डराजविज्ञप्त्या नानागोत्रचरणेभ्यो ब्राह्मणेभ्यः सहस्राय दत्तः । यतोऽसत्संतका(१)सर्वा- ध्यक्षाधियोगनियुक्ता आज्ञासंचारिकुलपुत्राधिकृता भटाश्च विश्रुतपूर्वयाज्ञया- ज्ञपयितव्याः-विदितमस्तु वो यथेहास्माकं मनोधर्मायुर्बलविजयैश्वर्यविवृद्धये इहामुत्र हितार्थमात्मानुग्रहाय वैजयिके धर्मस्थानेऽपूर्वदत्त्योदकपूर्वमतिस- ष्टः । अथास्योचितां पूर्वराजानुमतां चातुर्वैद्यग्राममर्यादान्वितरामः । त- द्यथा-अकरदायी, अभटच्छात्रप्रावेश्यः, अपारम्परगोबलीवर्दः, अपुष्प- क्षीरसंदोहः, अवरासनवर्माङ्गार[:], अलवणक्लिन्नक्रेणिवणकः(१), सर्ववेष्टि- परिहारपरिहृ(ह)तः, सनिधिः सोपनिधिः, सक्लि(क्ल)प्तोपक्लि(क)प्तः, आच- न्द्रादित्यकालीयः, पुत्रपौत्रानुगमकः, भुज(अ)तां न केनचियाघातः कर्तव्यः सर्वक्लि(क्रि)यामिः स रक्षितव्यः पर(रि)वर्धयितव्यश्च । यश्चाय(श्चेदं) शासनमगणयमानो(नः) स्वल्पामपि [प]रिबाधां कुर्यात् कारयिता वा तस्य ब्राह्मणैर्वेदितस्य सदण्डनिग्रहं कुर्याम । अस्मिंश्च धर्मावरकरणेऽती- तानेकराजदत्तसंचिन्तनपरिपालनं कृतपुण्यानुकीर्तनपरिहारार्थ न कीर्त- यामः- व्यासगीतौ चात्र श्लोको प्रमाणीकर्तव्यो- 'स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् । गवां शतसहस्र[स्य] हन्तुर्हरति दुष्कृतम् ॥

१२ काव्यमाला। पष्टिं वर्षसहस्राणि स्वर्गे मोदति(?) भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥' इति । शासनस्थितिश्चेयं ब्राह्मणैरीश्वरैश्चानुपालनीया ।तद्यथा-राजा सप्ताङ्गे राज्येऽद्रोहप्रवृत्तानां ब्रह्मघ्नचौरपारदारिकराजापथ्यकारिप्रभृतीनां संग्राम कुर्वतामन्यग्रामेष्वनपराद्धानामाचन्द्रादित्यकालीयः।अतोऽन्यथाकुर्वतामनुमो- दितव्यो(१) राज्ञो भूमिच्छेदं कुर्वतोऽस्तेपमिति(?) । प्रतिग्राहिणश्चात्र वार- नियुक्ताः शाट्यायनः गणार्यः वात्स्यदेवार्यः भारद्वाजकुमारशर्मायः पाराश- र्यगुहशर्मा काश्यपदेवार्यः महेश्वरमात्रायः कौण्डिन्यरुद्रायः सोमार्यो हरि- शर्मार्यो भारद्वाजकुमारशर्मायः कौण्डिन्यमातृशर्मा वरशर्मा गौण्डशर्मा नाग- शर्मा भारद्वाजशान्तिशर्मा रुद्रशर्मा वात्स्यो भोजकदेवार्यो भवशर्मा देवशर्मा भारद्वाजमोक्षशर्मा नागशर्मा रेवतीशशर्मा धर्मार्यो भारद्वाजशार्यो नन्द- नार्यों मूलशर्मेश्वरशर्मा वरशर्मा वात्स्यस्कन्दार्यो भारद्वाजवप्पार्यों धर्मार्य आ- त्रेयस्कन्दार्यों गोतमसोमशर्मार्यों भर्तृशर्मार्यो रुद्रशर्मार्यो मघार्यो मातृशौर्य ईश्वरशर्मार्यो गोतमसगोत्रमातृशर्मायः कौण्डिन्यदेवशर्माों वरशार्यो रो- हार्यो गोतमसगोत्रस्वामिदेवार्यो रेवतीशर्मार्यो ज्येष्ठशायः शा- ण्डिल्यकुमारशर्मायः स्वातिशौर्यः शाट्यायनकोण्डार्यप्रभृतयः सेनापतौ खत्रवर्मणि संवत्सरेऽष्टादशे १८ ज्येष्ठमासशुक्लपक्षे त्रयोदश्यां शासन लिखितमिति ॥ वाकाटकललामस्य क्रमप्राप्तनृपश्रियः। राज्ञः प्रवरसेनस्य शासनं रिपुशासनम् ॥ (इण्डिअन् आण्टिक्वेरी १२२२४३-४५) १. अयं चाष्टादशः संवत्सरः प्रवरसेनराज्यारम्भतो बोध्या. तद्राज्यमीशाब्दीयपञ्चम- शतके आसीदिति डॉक्टबूल्हरसिद्धान्तः.

८५ लेखः] प्राचीनलेखमाला । ३ (८५) कान्यकुब्जेश्वरश्रीगोविन्दचन्द्रमहाराजानां शासनपत्रम् । ओं ओं नमो भगवते वासुदेवाय । तमाद्यं सर्वदेवानां दामोदरमुपास्महे । त्रैलोक्यं यस्य वक्तीव क्रोडान्तःस्थं वलित्रयी ॥ वंशे गाहडवालाख्ये बभूव विजयी नृपः । महिअलसुतः श्रीमान्नलना भागसंनिमः ॥ याते श्रीमोनभूपे विबुधवरवधूनेत्रसीमातिथित्वं श्रीकणे कीर्तिशेष गतवति च नृपे क्ष्मात्यये जायमाने । भर्तारं यं धरित्री त्रिदिवविभुनिभं प्रीतियोगादुपेता त्राता विश्व(श्वासपूर्वं समभवदिह स क्ष्मापतिश्चन्द्रदेवः ॥ द्विषत्क्षितिभृतः सर्वान्विधाय विवशान्वशे । क(का)न्यकुब्जेऽकरोद्राजा राजधानीमनिन्दिताम् ॥ तेनाजनि द्विषदिलापतिदन्तिसिंहः क्षोणीपतिर्मदनपाल इति प्रसिद्धः । येनाक्रियन्त बहुशः समरप्रबन्धाः संनर्तितप्रहतशत्रुकुबन्धबन्धाः ॥ तस्मादजायत नरेश्वरवृन्दवन्ध- पादारविन्दयुगलो ज्वलितप्रतापः । क्षोणीपतीन्द्रतिलको रिपुरङ्गभङ्गी गोविन्दचन्द्र इति विश्रुतराजपुत्रः ॥ संवत्साहस्त्रिके एकषष्टयुत्तरशता(भ्य)धिके । पौषमासे शुक्लपक्षे पञ्चम्यां रविदिनेऽङ्के । १. द्वाविंशे लेखे कान्यकुब्जेश्वरचन्द्रदेवस्य महीचन्द्रात्मजत्ववर्णनेन 'महीचन्द्र' 'म• हीपाल' इति पाठो भवेत.

काव्यमाला। । संवत् ११६१ पौषसुदी ५ रवौ । अघेहासतिकायां सकलकलापक्ष- यकारिण्यां यमुनायां स्नात्वा यथाविधानं मन्त्रैर्देवर्षिमनुष्यभूतपितृस्तर्प- यित्वा सूर्य भट्टारकं सर्वकर्तारं भगवन्तं शिवं विश्वाधारं वासुदेवं समभ्यर्च्य हुतवहं हुत्वा जीआवतीपट्टलायां वसभीग्रामे समस्तमहत्तमजनपदान्संबो- धयति -~-यथा ग्रामोऽयं मया क्षेत्रवनमधूकाभ्रविशति अथू(2)प्रस्थाक्षपट- लप्रस्थाकारतुरुष्कदण्डवरवझा(?)हिरण्यसादायसंयुक्तः पूर्वस्याम्-वाधु- मउअग्रामः, पश्चिमायाम्-वाडथलाग्रामः, दक्षिणस्याम्-पुसौलीग्रामः, उत्तरस्याम्-सावधडग्रामः, एवं चतुराघाटविशुद्धो मातापित्रोरात्मनश्च यशोपुण्यविवृद्धये जलवुहृदाकारं जीवितं दानभोगफलां लक्ष्मी ज्ञात्वा बद्द- चशाखिने गौतमगोत्राय गौतमावितथाङ्गिरसत्रिप्रवराय मेनेपौत्राय कल्पेपु- त्राय ज्योतिर्विदे ब्राह्मणाल्हेकाय महाराजपुत्रश्रीमद्गोविन्दचन्द्रदेवेनोत्त- रायणसंक्रान्तौ कुशपूतेन हस्तोदकेन चन्द्राकै यावच्छासनत्वेन प्रदत्तः । यास्यन्ति महीभृतो मम कुले किं वा परस्मिन्पुर- स्तस्मिन्नेष मयाञ्जलिविरचितो नादेयमस्मात्कियत् । दूर्वामात्रमपि स्वधर्मनिरता दत्तं मया पाल्यतां वायुर्वास्यति तप्स्यति प्रतपनः श्रुत्वा मुनीनां वचः ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ खदत्तां परदत्तां वा यो हरेत वसुंधराम् । स विष्टायां कृमिर्भूत्वा पितृभिः सह मज्जति ॥ भूमिं यः प्रतिगृह्णाति यस्तु भूमि प्रयच्छति । तावुभौ पुण्यकर्माणौ नियतं स्वर्गवासिनौ ॥ तडागानां सहस्त्रेण वाजपयशतेन च । गवां कोटिप्रदानेन भूमिहर्ता न शुध्यति ॥ लिखितं. च पुरोहितश्रीजागूक-महत्तक-श्रीवाल्हण-प्रतिहारश्रीगौ- तम-एषां संमत्या पण्डितश्रीकूकेपुत्रविजयदासेनेति ॥ (इण्डिअन आण्टिक्केरी १४।१०-३४)

८६ लेखः]
प्राचीनलेखमाला ।
६५
(८६)
श्रीसिङ्घणदेवमहाराजानां ताम्रपत्रम् ।
स्वस्ति ।
दीर्घायुरुन्नततरप्रतापः पृथिवीमिमाम् ।
रक्षतादक्षताचारः प्रजानाथः प्रजाहितः ।।
निर्विघ्नं पातु विश्वस्य गोप्ता स धरणीधरः ।
धर्मद्रुहां दमयिता देवस्त्याग(?)चतुर्भुजः ॥
अस्ति क्षत्रियरत्नानामाकरः सागरायति ।
कुलं कलचुरीत्याख्यं विख्यातं भुवनत्रये ॥
तदन्ववाये राजाभूत्कृष्णः कृष्ण इवापरः ।
अपि बालस्य चरितमद्भुतं यस्य गीयते ॥
स जोगममहीपालं कालं वैरिमहीभुजाम् ।
वीरैकवन्द्यमहसां पात्रं पुत्रमजीजनत् ॥
दाक्षिण्यजलधेस्तस्मात्तीरोदादिव चन्द्रमाः ।
अजायत जगत्कान्तः परमर्दिमहीपतिः ।
तस्मान्मेरोरिवाशेषव्यापिनां तेजसां निधिः ।
उदितः सुभटादित्यो विजणः पृथिवीपतिः ।।
सच
आचक्राम न कां दिश न बुभुजे के देशमुन्मूलयां-
चक्रे कं न रिपुं बभार न रिपूनप्याश्रितान्कानिह ।
संचिक्ये न धनानि कानि न ददौ कि दातमीजे मखैः
कैर्नायं गुणरत्नरोहणगिरिः श्रीविज्जणक्ष्मापतिः ।।
चाण्ड्यं पाण्ड्यस्त्यजति भजते चोलभूपश्चलत्वं
भङ्गं वङ्गः सरति भरते मालवः कालशङ्काम् ।
भूप(पा)श्चान्ये जयति जगतीं विजणक्षोणिपाले
कि नो दुगै जहति जिहते कां दिशं कांदिशीकाः ॥

काव्यमाला । सर्वाशातिमिरं नुदन्मुकुलयन्सर्वद्विषद्भूभुजां हस्ताम्भोजततीर्जगद्धवलयन्सर्वं स्वकीर्योजसा । सर्वो:व(ध)रमूर्धपीठनिहितश्रीपादरम्योदयो राजा सोम उदैत्कलानिधिरितः पूर्णस्फुरन्मण्डलः ॥ वार्ता कैव रणोत्सवेषु निनदद्भेरीरवे भैरवे दृष्येषु द्रुघणाहतेरपि कृतैस्तैः कीलकोलाहलैः । यद्यात्रासु विदुद्रुवुर्न रिपवः के कोशदेशत्यजः केषां वा न विदीर्यते स्म हृदयं मूर्छानिमीलदृशाम् ।। यत्र पितरीव पातरि यम इव यन्तरि जनो हि दण्डधरे । लोकद्वयोचितानां सौख्यानां पारदृश्वाभूत् ॥ ततस्तस्यानुजः श्रीमाञ्जातः संकमभूपतिः । प्रसन्नपुण्यलक्ष्माङ्कः प्रकृत्यैव दयापरः ॥ तत आहवमल्लोऽभूद्राजा तत्सोदरः सुधीः । अशेषैरप्यशेषं च जगदाह्रादयन्गुणैः ।। तस्य श्रीकन्यसो भ्राता गुणै रत्नाकरोपमः । अभूसिघणदेवाख्यो जगदाह्लादकारकः । यस्य नामाक्षरैरेव शरैरिव भयंकरैः । प्रणम्य प्राणरक्षायै यतन्ते केवलं द्विषः ॥ किं नाम चित्रचरितः स्तूयते राजकुञ्जरः । नित्यप्रवृत्तदानोऽपि नैति यो मत्तवाच्यताम् ॥ स खलु निखिलप्रजानुरागैकप्रयोजनगुप्र(प्रगु)णीकृताजानिकागन्तुको भ(न)यगुणग्रामसमवायसाहाय्यकसमुपचीयमानसंततसमाराध्यमानदेवद्विज- प्रसादनिरन्तरनिरन्तरायपरिवर्धमानसाम्राज्यलक्ष्मीविलाससुखासिकासमास- नप्रसन्नगम्भीरनिरातङ्कनिष्कलङ्कचित्तवृत्तिर्महाराजाधिराजः श्रीमत्सिङ्घण- देवः (कुशली) वेलुवलत्रिशतान्तर्गतं श्रीमद्भगवत्या जगदम्बिकायाः प्रत्यक्ष- ज्येष्ठादेव्या निवासं महादिव्यक्षेत्रं श्रीमत्कुक्कनूरुनामधेयं ग्रामं प्रसिद्धसी- मासमन्वितं निधिनिक्षेपजलपाषाणारामादिसहितं त्रिभोगाभ्यन्तरमष्टभोगते- ८६ लेखः] प्राचीनलेखमाला । ६७ जास्वाम्ययुक्तं शुल्कदण्डसादकारुककरमौलिकाहणादिसकलद्रव्योपार्जनोपेतं स(श)कनृपकालातीते च पञ्चोत्तरशताधिकसहस्रगते (११०५) शके शोभ- कृत्संवत्सरे आश्वयुक्ता(ज्य)मावास्यायां सोमवारे व्यतीपातयोगे श्रुतशील- विद्याविनयसंपन्नेभ्यः सदाचारपरिपूतपुण्यमहिमभ्यो सहस्रसंख्यापरिमि- तेभ्यो नानागोत्रेभ्यो महा(हा)ब्राह्मणेभ्यो राज्ञा राजकीयैरप्यङ्गुलिप्रेक्षणीयं सर्वनमस्यं कृत्वा धारापूर्वकं परमया भक्त्या दत्तवान् । अस्य च धर्मस्य रक्षणे फलम्- बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ गण्यन्ते पांसवो भूमेर्गण्यन्ते वृष्टिबिन्दवः । न गण्यन्ते विधात्रापि धर्मसंरक्षणे फलम् ॥ अपहरतः समर्थस्य चाप्युदासीनस्य (स्याद)त एव विपरीतं फलम् । स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् । षष्टिं वर्षसहस्राणि विष्ठायां जायते क्रिमिः ।। कर्मणा मनसा वाचा यः समर्थोऽप्युपेक्षते । स स्यात्तदैव चण्डालः सर्वधर्मबहिष्कृतः ।। अत एवाह रामभद्रः- सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः । सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः ।। शक्तिव्युत्पत्तिसंपन्नविद्वच्छ्रीपादसेविना रचितादित्यदेवेन सेयं शासनपद्धतिः ॥ कृतिरियं त्रिभुवनविद्याचक्रवर्तिनः श्रीमदादित्यदेवस्य । लिखितमिदं पण्डितलक्ष्मीधरेण । उत्कीर्ण राजविज्ञानिना पंदयेन ॥ मङ्गलमहाश्रीः॥ (इण्डिअन् आण्टिक्वेरी ४।२७५-७६) काव्यमाला। (८७) कुरुकुलवंशावतंसश्रीजनमेजयभूपालानां शासनपन्नम्। श्रीगणाधिपतये नमः । पान्तु वो जलदश्यामाः शाग(शा)ज्याघातकर्कशाः । त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः ॥ स्वस्ति श्रीजयाभ्युदये युधिष्ठिरशके प्लवङ्गाख्ये(ख्य)येकोननवति- (८९)वत्सरे सहस्यमासि अमावास्यायां सोमवासरे श्रीमन्महाराजाधिराजरा- जपरमेश्वरो वैयेग्रणी(?)पादगोत्रजः श्रीजनमेजयभूपः किष्किन्धानगयों सिंहासनस्थः सकलवर्णाश्रमधर्मप्रतिपालकः पश्चिमदेशस्थसीतापुरवृकोदर- क्षेत्रे तत्रत्यमुनिवृन्दमठस्य गरुडवाहनतीर्थश्रीमच्छिष्यकैकयनाथैराराधित- सीतारामस्य पूजाथै कृतभूदानसाधनमस्मत्प्रपितामहयुधिष्ठिराधिष्ठितमुनिवृ- न्दक्षेत्रे(त्र)स्य चतुःसीमापरिमितिक्रमःपूर्वभागे-उत्तरवाहिन्यास्तुङ्गभद्रायाः पश्चिमे, दक्षिणभागे अगस्त्याश्रमसंगमादुत्तरे, पश्चिमे पाषाणनद्याः पूर्वे, उत्तरभागे-भिन्ननद्या दक्षिणे, ये(ए)तन्मध्यस्थितमुनिवृन्दक्षेत्रं भवच्छि- प्यपारम्परया चन्द्रार्कपर्यन्तं निधिनिक्षेपजलपाषाणाक्षिण्यागामिसिद्धसा- ध्यतेजःस्वाम्यसहितं स्वबुद्ध्यानुकूल्येनास्सन्मातापितॄणां विष्णुलोकप्राप्त्यर्थ हरिहरसंनिधावुपरागसमये सहिरण्येन तुङ्गभद्राजलधारापूर्वकं क्षेत्रं यतिहस्ते दत्तोऽ(त्तवान)स्म्यहम् ॥ एतद्धर्मसाधनस्य साक्षिणः- आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं मनश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ।। दानपालनयोर्मध्ये दानाच्छ्रेयोऽनुपालनम् दानात्स्वर्गमवाप्नोति पालनादच्युतं पदम् ॥ १. 'शतेषु षट्सु सार्धेषु त्यधिकेषु च भूतले । कलेगतेषु वर्षाणामभूवन्कुरुपाण्डवाः॥' इति राजतरङ्गिणीतो युधिष्ठिरादीनां त्रिपञ्चाशदधिके वर्षशतषट्के कलियुगस्य याते सत्ता प्रतीयते, ततश्च जनमेजयराज्य(८९)संवत्सरे प्रकटा. २. 'वैयाघ्रपद्यगोत्राय सांकृत्यप्र- वराय च । अपुत्राय ददाम्येतजलं भीष्माय वर्मिणे ॥' इति भीष्मार्यदानमन्त्रे भीष्मस्य वैयाघ्रपद्यगोत्रत्वोक्तेर्जनमेजयस्यापि तद्गोत्रत्वनिश्चयात् 'वैयाघ्रपद्यगोत्रजः' इति पाठो भवेत्, DHANDWADIDALA EMANTRAMPARAN SERIES EMARA लेखः प्राचीनलेखमाला। ६९ स्वदत्ताद्विगुणं पुण्यं परदत्तानुपालने । परदत्तापहारेण स्वदत्तं निष्फलं भवेत् ॥ मद्दत्ता पुत्रिका ज्ञेया पितृदत्ता सहोदरा। अन्यदत्ता तु जननी दत्तभूमी परित्यजेत् ॥ अन्यैस्तु छर्दितं भुद्रे(s)श्वभिश्च छर्दितं न तु । ततः कष्टो(१) ततो नीचः स्वयं दत्तापहारकः ।। स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत यः। पष्टिं वर्षसहस्राणि विष्ठायां जायते कृमिः ॥ (इण्डिअन् आण्टिक्केरी ४।३३३-३४) (८८) माढपुरशिवमन्दिरस्थः शिलालेखः । सर्गस्थितिलयहेतोर्विश्वस्य [ब्रह्म] विष्णुरुद्राणाम् । मूर्तित्रयं प्रदधते संसारभिदे नमो विभवे ॥ यदुवंशभुवां राज्ञां सैकपुरं राज्यमायुगादधताम् । श्रीसेनवर्मनामा राजर्षिः प्रक्रमेणासीत् ॥ तनयस्तस्य श्रीमान्नृपतिरभूदार्यवर्मनाम्नैव । आर्यव्रततां प्रथम स्थापितवांस्तदनु यश्वरितैः ॥ श्री दत्त]वर्मनामा दत्ताभयविभवविजयविध्व""सः । भीतार्थिकुलारिभ्यो बभूव तस्यात्मजो नृपतिः ॥ सूनुरभूत्तस्य महान्भूपालः श्रीप्रदीप्तवर्मेति । दन्धिशत्रुपृतनापतङ्गपटलीप्रदीप्ताग्निः ॥ श्रीश्वरवर्मेति सुतस्तस्याभूद्भूपतिः प्रदानेन । ऐश्वर्यं यः क्रि(कृ)तवान्भव इव निचये [भवा]र्थानाम् ॥ १. अयं च लेखः प्रागेकोनविंशलेखसमानश्लोकोऽपि दातभेदाद्भिन्न एव. अत एवा- अमपाठोऽपि भिन्न एव.

काव्यमाला ।
श्रीवृद्धिवर्मसंज्ञस्तस्य बभूवात्मजः प्रवृत्तश्रीः ।
चन्द्र इव तापहारी नयनानां नन्दनो राजा ॥
स्वभुजार्जितशौर्ययशा दानवतामुपरि दृष्टसामर्थ्यः ।
श्रीसिङ्घवर्मनामा तत्तनयो राजसिङ्घोऽभूत् ॥
तस्य सुतोऽभूदाशापूरणकर्मा जनस्य तापच्छित् ।
श्रीजलनामा नृपतिः कलियुगदावाग्निजलवर्षः ॥
श्रीयज्ञवर्मनामा तदङ्गजोऽभून्महीपतिर्येन ।
यज्ञाज्यधूमजलदैनित्योत्केकाः क्रि(कृ)ताः शिखिनः ॥
पुत्रस्तस्य बभूव श्रीमान्रापिरचलवर्मेति ।
कृतयुगचरितेष्वचलो यश्च स्थैर्यादिगुणसाम्यात् ॥
यः समरघचलाख्यामन्वर्थवतीं दधार रणरौद्रः ।
अपरामगणितसंगरकरिरदनाग्राङ्कितोरस्कः ॥
तस्य दिवाकरवर्मा श्रीमांस्तनयो बभूव नृपतीशः।
यस्य दिवाकरताभूत्परतेजोभिभवधर्मेण ॥
वारणविषाणसंकटसंगरचलवारिणः श्रुता यस्य ।
अकरोदरीनशस्त्रान्सपदि महीवङ्घलभटाख्या ।।
तस्य कनीयान्भ्राता श्रीभास्कर इत्यभून्नृपतिपालः ।
रिपुधवलाभिधानं योऽवहदाजौ विजयमन्त्रम् ॥
स्वभुजार्जितपरराज्यद्रविणसदादानकर्मणः पाणेः ।
यस्यासीद्विश्रामो नतरिपुपृष्ठक्षणस्थितिषु ॥
येनाभिरुह्य पञ्चां पतत्रिगम्यानि शैलदुर्गाणि ।
आक्रम्य युद्धशौण्डा हस्तिकरं दापिताः क्षितिपाः ।।
तस्य गुणार्जितदेवीशब्दा श्रीकपिलवर्धनसुताभूत् ।
राज्ञी प्राणेशा श्रीजयावलीत्येकपत्नी च ॥
तस्यास्तनया सावित्रीवेश्वरेति नाम्नासीत् ।
जालंधरनृपसूनो या श्रीचन्द्रगुप्तस्य ॥
१. 'धवल शब्दश्च कर्कशार्थको विजय्यर्थको वा देश्यां भवेत्.

८९ लेखः] प्राचीनलेखमाला । भर्तरि गतवति नाकं करिण[:] स्कन्धाद्भवास्पदमिदं सा । तत्पुण्यायाकारयदाचार्यानुगतसत्येन । यावन्महीमहीधरजलनिधयो यावदिन्दुरविताराः । तावदिदमस्तु कीर्तिस्थानं श्रीचन्द्रगुप्तस्य ।। भट्टक्षेमशिवात्मजभट्टस्कन्दादवाप्तशुभजन्मा । भट्टवसुदेव एतां प्रशस्तिमकरोदयो ध्ये]शः ॥ अश्मनीश्वरणा(ना)गेन नागदत्तस्य सूनुना। उत्कीर्णा सूत्रधारेण रोहीतकनिवासिना ॥ (आर्कियालॉजिकल सर्व्ह इण्डिया १११२-४) (८९) महासामन्तप्रचण्डनायकश्रीचन्द्रगुप्तस्य दोनपत्रम् । ओम् । स वोऽव्याद्वेधसा धाम यन्नाभिकमलं कृतम् । हरश्च यस्य कान्तेन्दुकलया कमलंकृतम् ॥ आसीन्मुरारि(तः)संकाशः कृष्णराजः क्षिते[:] पतिः । अप्रमेयवसोर्दाता साक्षाद्धर्म इवापरः ॥ शुंभतुङ्गतुङ्गतुरगप्रवृद्धरेणुर्ध्वरुद्धरविकिरणम् । ग्रीष्मेऽपि नभो निखिलं प्रावृट्कालायते स्पष्टम् ॥ तस्यात्मजः श्रीध्रुवराजनामा महानुभावः प्रथितप्रतापः । प्रसाधिताशेषनरेन्द्रचक्रः क्रमेण बालार्कवपुर्बभूव ।। १. इदं च शिवमन्दिरं यमुनोत्तरदेशे जौनसारवावरनगरप्रगणान्तर्गतमाढपुरे लक्खामण्डलनाम्ना प्रसिद्धमस्ति. २. अयं च श्रीचन्द्रगुप्तः पञ्चनदेशान्तर्गत- जलंधरनगरभूपालसूनुर्मौर्यवंश्यप्राचीनचन्द्रगुप्ततो भिन्न एव. २ इदं च दानपत्रं गुजरा- तदेशे कापडवणजग्रामे समधिगतम्. ३ अयं च कुष्णराजः प्राचीनलेखमालायां चतुर्थले- खवर्णितराष्ट्रकूटान्वय एव भवेत्. ४. शुभतुङ्ग इति कृष्णराजस्य नामान्तरम्' इति चतुर्थलेखटिप्पण्यां महामहोपाध्यायाः.

७२
काव्यमाला।
शशधरकरनिकरनिभं यस्य यशः सुरनगाग्रसानुस्थैः ।
परिगीयते समन्ताद्विद्याधरसुन्दरीनिवहैः ॥
तस्याप्यभूद्भुवनमारभृतेः समर्थः
पार्थोपमः पृथुसमानगुणागुणज्ञः ।
दुर्वारवैरिवनितातुलतापहेतु-
गोविन्दराज इति सुप्रथितप्रतापः ।।
यस्य प्रभोश्चतुरचारुरुदारकीर्तेः
रामापरो निरुपमस्य पितुः सकाशात् ।
सत्स्वप्यनेकतनयेषु गुणातिरेका-
न्मूर्धाभिषिक्तनृपसंमतमाशु राज्यम् ॥
रक्षितं येन निःशेषं चतुरम्भोधिसंयुतम् ।
राज्यधर्मेण लोकानां कृता तुष्टि[:] परहृदि ।
सूनुस्तस्यातिवीरः सकलगुणगणाकारभूतो बभूव
भूपालान्कण्टकाभान्सपदि विघटितान्वेष्टयित्वा ददाह ।
राज्यं यस्या(श्चा)भिमानी निजमपि चलितं बाहुवीर्यादवाप
पृथ्वीमेकातपत्रामकुरुत बलवा-श्रीमहाराजषण्डः॥
यस्य विभोः कारायां रिपुरमणीचारुचरणलग्नानाम् ।
परुषरवो निगडानामनवरतं श्रूयते लोके ॥
तस्माद्बभूव राजा प्रथितयशसः शुभतुङ्गनामायम् ।
योऽसावकालवर्षापरनामा गीयते लोकैः ॥
*कृष्णचरितः स एव हि हितकृतये यो बिभर्ति वर्णानाम् ।
राज्यं निहतारातिः स्वभुजेन भुवं च कृष्ण इव ॥
अस्य च रणप्रभावाद्ब्रह्मवकान्वयमगादृशं लक्ष्मीः ।
पश्चाद्भूतकवीन्द्ररनवरतं पठ्यते प्रकटम् ॥
तस्मादन्वयसागरात्समभवच्छीशुद्ध""कुंवडि-
स्तस्साच्चापि बभूव दर्पदलनः श्रीदेगडिविद्विषाम् ।

REARSHIRONIRUDHARICTaumawuneN ८९ लेखः]] प्राचीनलेखमाला। ७३ येनानेकनरेन्द्रदन्तिदलनात्याप्तं यशः शाश्वतं सिंहेनेव रेणाटवी विरचिता निर्भीकमेकाकिना ॥ तस्माज्जातः प्रचण्डः प्रच(चु)रखरकराक्रान्तनिःशेषभूभृ- न्नाचा श्रीराजहंसः प्रतिदिनमुदयी कश्यपाद्वा विवस्वान् । येनानीता निजं श्रीः पुनरपि भवनं चञ्चला क्वापि यान्ती पार्थेनेवारिचक्रप्रमथनपटुना शांभवं भव्यभावम् ॥ निर्जितसकलारिजनः श्रीधवलप्पः प्रसिद्धतरनामा । धवलितभुवनो यशसा संजातः पवनसूनुरिव ॥ सिंघी(ही)भूय विपक्षेण गृह्यमाणं यशेप्सुना(१)। दत्तं स्वस्वामिने येन तं निहत्याशु मण्डलम् ॥ तस्मात्प्रचण्डः संजातः समरे यशलम्पटः । अकुवश्चापि खङ्गेन विख्यातो निर्मलो भुवि ॥ सेल्लविद्याधरेणापि सेलुल्लालित(१)पाणिना । निहत्य शत्रून्समधे(रे) यशसा(:)कुलमलंकृतम् ॥ श्रीमद्वल्लभराज्ञः(?) श्रीहर्षपुरोप[ल]क्षितादामान् । भुञ्जत्यकालवर्षः(१) अर्धाष्टशतोपसंख्यातान् ॥ सर्वानागामिभद्रनृपतिमहासामन्तामात्यबलाधिकृतविषइ(यि)कमहत्तरा- न्समनुबोधयति-अस्तु वः संविदितम्-यथा श्रीखेटकहर्षपुरकासद्रह एतदर्धाष्टमय (ष्टशतमध्ये १) समधिगतपञ्चमहाशब्दमहासामन्तप्रचण्डदण्ड- नायकश्रीचन्द्रगुप्तेनि] मया श्रीहर्षपुरार्धाष्ट[म] शतान्तःपाति[क]पैट- वाणिज्यचतुराशीतिकाप्रतिबद्धरूरिद्वादशकान्तःपातिव्याघ्रासग्रामः सव- क्षमालाकुलः सदण्डदशापराधः ससीमापर्यन्तः सकाष्ठतृणकूपतडागोपेतः स- भोगभागः सहिरण्यश्चतुराघाटनोपलक्षितो घाण(स)कपलसमेतः [समभि- दिश्यते] | आघाटनानि अभिलिख्यन्ते । पूर्वतः-पङ्खोलाग्रामो वित्खावल्ली १. 'रणाटवीविचरितात्' इति पाठो भवेत. २. श्रीमद्वल्लभराजः' इति पाठो भवेत्. ३. 'भुनत्त्यकालवर्षः' इति च E. Hultzsch. Ph.D. पण्डितः शोधितवान्. तथा च 'अकालवर्ष' इति वल्लभराजस्यैव नामान्तरं भवेत्.

काव्यमाला। च । दक्षिणतः-केरडवल्लीग्रामो अरलुवकग्रामश्च । पश्चिमतः-नावा- लिका अपूवल्ली च । उत्तरतः-अम्बाउच्चग्रामः । एवं चतुराघाटनोपलक्षितो वरिकाग्रामो भट्टवास्तव्यवाजिमध्यंदिनभरद्वाजसगोत्रब्रह्मचारिब्राह्मण- ब्रह्मभट्टाय वव्वसुताय स्नात्वोदकातिसर्गेण वलिचरुवैश्वदेवाथै प्रतिग्रहेण प्रतिपादितः । तदर्थमस्मत्प्रदत्तधर्मदायः सर्वैरेवागामिभोक्तृभिरैस्मयु(दु)परो- धात्पालनीयोऽनुमन्तव्यश्च । उक्तं च रिषिव्यासेन- पष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ।। विन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः । महाहयो हि जायन्ते भूमिदानं हरन्ति ये ॥ खदत्तां परदत्तां वा यत्नाद्रक्ष नराधिप । महीं महीभृतां श्रेष्ठ दानाच्छ्रेयोनुपालनम् ॥ यानीह दत्तानि पुरा नरेन्द्रनानि धर्मार्थयशस्कराणि । निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ सर्वानेवं भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः । सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयो महद्भिः ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ इति । [चल]कमलदलाम्बुबिन्दुलोलां श्रियमवलोक्य मनुष्यजीवितं च । सकलमिदमशाश्वतं च बुवा नहि मनुजैः परकीर्तयो विलोप्याः ॥ १. Dr. Hultzsch पण्डितस्तु 'भवास्तव्यभरद्वाजसगोत्रवाजिमध्यंदिनसब्रह्म- चारि' इति शोधितवान्. २. 'अस्मदनुपरोधा' इति Dr. Hultzsch पण्डितः. ३. 'रिषिय॑अनादिश्च । 'विद्याविदाधमतयो रिषयः प्रवृद्धाः' इति बालपण्डितजातकात्' इति मुकुट:-एतदजानानेन Dr. Hultzsch पण्डितेन 'ऋषि इति पठितव्यम्' इत्युक्तमू.

९० लेखः]] प्राचीनलेखमाला। खदत्तां परदत्तां वा यो हरेत वसुंधराम् । स विष्ठायां कृमिभूत्वा पितृभिः सह पच्यते ॥ भूमिं यः प्रतिगृह्णाति यश्च भूमि प्रयच्छति । उभौ तौ पुण्यकर्माणौ नियतं स्वर्गगामिनौ ॥ अग्नरपत्यं प्रथितं] सुवर्ण भूवैष्णवीभूमिसुताश्च गावः । लोकत्रयं तेन भवेत्तु दत्तं यः काञ्चनं गां च महीं च दद्यात् ॥ वह्नि वह्निसुतं चाम्बु पञ्चपूतं(?) प्रजापते । दत्त्वा सर्वरसां चैव न मों जायते पुनः ॥ सर्वेषामेव दानानामेकजन्मानुगं फलम् । हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम् ॥ स्वहस्तोऽयं श्रीमदकुकस्य श्रीधवलप्पसूनोः । शकसंवत् ८३२ वैशाख शुद्ध पौर्णमास्यां महावैशाख्यां पूर्वदेवब्रह्मदायवों दत्तः । लिखितमिदं शासनं कुलपुत्रकेणाम्मैयकेन नेमादित्यसुतेनेति । यदनोनाक्षरमधिकाक्षरं वा तत्सर्वं प्रमाणमिति व्यासतुल्योऽपि मुह्यति । स्वहस्तोऽयं श्रीचन्द्रगुप्तस्य ।। (आर्कियालॉजिकल सर्व्हे ऑफ इण्डिया ११५३-६) (९०) बाणादिमहाकविवणितश्रीहर्षवर्धन]- महाराजानां दानपत्रम् । ओम् । स्वस्ति महानौहस्त्यश्वजयस्कन्धावारात् पिन्थिकायाः महाराजश्रीनर- वर्धनः तस्य पुत्रस्तत्पादानुध्यातः श्रीवज्रिणीदेव्यामुत्पन्नः परमादित्य- १. इदं च दानपत्रं ताम्रपट्टे उत्कीर्णमधुना लक्ष्मणपुरे (Lucknow Museum ) वर्तते. एतच्च १८८८ ख्रिस्तवर्षीयजान्यूवरीमासे नथूपुरपरिगणान्तर्गतमधुवनग्रामे हलेन कृषता कुटुम्बिना भूमौ खातं लब्धम्. तस्य प्रतिबिम्बं Dr. J. Burgess महाशयैः प्रेषितमुपलभ्य G. Buhler Ph. D., LL. D., C. I. E. महाशयैः Archeological Survey of India पुस्तके ७२-७३ पृष्ठे सव्याख्यं प्रका- शितम्.

SEAN काव्यमाला। भक्तो महाराजश्रीराज्यवर्धनः, तस्य पुत्रस्तत्पादानुध्यातः श्रीअप्सरोदे- व्यामुत्पन्नः परमादित्यभक्तो महाराजश्रीमद[दित्यवर्धनः, तस्य पुत्र- स्तत्पादानुध्यातः श्रीमहासेनगुप्तादेव्यामुत्पन्नश्चतुःसमुद्रातिक्रान्तकीर्तिः प्र- तापानुरागोपनतान्यराजो वर्णाश्रमव्यवस्थापनप्रवृत्तचक्र एकचक्ररथ इव प्रजानामातिहरः परमादित्यभक्तः परमभट्टारकमहाराजाधिराजश्रीप्रभाकर- वर्धनः, तस्य पुत्रस्तत्पादानुध्यातः सितयशःप्रतानविच्छुरितसकलभुवन- मण्डलः परिगृहीतधनदवरुणेन्द्रप्रभृतिलोकपालतेजाः सत्पथोपार्जितानेक- प्रवि(व)णभूमिप्रदानसंप्रीणितार्थिहृदयोऽतिशयितपूर्वराजचरितो देव्याम- मलयशोमत्यां श्रीयशोमत्यामुत्पन्नः परमसौगतः सुगत इव परहितैकरतः, परमभट्टारकमहाराजाधिराजश्रीराज्यवर्धनः, राजानो युधि दुष्टवाजिन इव श्रीगुप्तदेवादयः कृत्वा येन कशाप्रहारविमुखाः सर्वे समं संयताः । उत्खाय द्विषतो विजित्य वसुधां कृत्वा प्रजानां प्रियं प्राणानुज्झितवानरातिभवने सत्यानुरोधेन यः ॥ तस्यानुजस्तत्पादानुध्यातः परममाहेश्वरो महेश्वर इव सर्वसत्त्वानुकम्पी परमभट्टारकमहाराजाधिराजश्रीहर्षः श्रावस्तीभुक्तौ कुण्डधानीवैषयिकसोम- कुण्डिकाग्रामे समुपगतान्महासामन्तमहाराजदौःसाधसाधनिकप्रमातार(त)- राजस्थानीयकुमारामात्योपरिकविषयपतिभटचाटसेवकादीन्प्रतिवासिजनपदां- श्व समाज्ञापयति-अस्तु वः संविदितम्-अयं सोमकुण्डकाग्रामो ब्राह्मण- वामरथ्येन कूटशासनेन भुक्तक इति विचार्य यस्तच्छासनं भङ्क्त्वा तस्मादा- क्षिप्य च स्वसीमापर्यन्तः सोद्रङ्गः सर्वराजकुलाभाव्यप्रत्यायसमेतः सर्वपरिहृ- तपरिहारो विषयादुद्धृतपिण्डः पुत्रपौत्रानुगश्चन्द्रार्काक्षितिसमकालीनो भूमि- च्छिद्रन्यायेन मया पितुः परमभट्टारकमहाराजाधिराजश्रीप्रभाकरवर्धन- देवस्य, मातुः परमभट्टारिका महादेवीराज्ञीश्रीयशोमतीदेव्याः, ज्येष्ठभ्रा- तृपरमभट्टारकमहाराजाधिराजश्रीराज्यवर्धनदेवपादानां च, पुण्ययशोभि- वृद्धये सावर्णिसगोत्रच्छन्दोगसब्रह्मचारिभट्टवातस्वामि-विष्णुवृद्धसगोत्र- बढ्चसब्रह्मचारिशिवदेवस्वामिभ्यां प्रतिग्रहधर्मणाग्रहारत्वेन प्रतिपादितो ९१ लेखः] प्राचीनलेखमाला। '७७ विदित्वा भवद्भिः समनुमन्तव्यः । प्रतिवासिजनपदैरप्याज्ञाश्रवणविधेयैर्भूत्वा यथासमुचिततुल्यमेयभागभोगकरहिरण्यादिप्रत्याया अनयोरेवोपनेयाः।सेवो- पस्थानं च करणीयमिति । अपि च- अस्मत्कुलक्रममुदारमुदाहरद्भिरन्यैश्च दानमिदमभ्यनुमोदनीयम् । लक्ष्म्यास्तडित्सलिल......"चञ्चलाया दानं फलं परयशःप्रतिपालनं च ॥ कर्मणा मनसा वाचा कर्तव्यं प्राणिने हितम् । हर्षेणैतत्समाख्यातं धर्मार्जनमनुत्तमम् ॥ दूतकोऽत्र महाप्रमातार(तृ)महासामन्तयोः स्कन्दगुप्तः । महाक्षपट- लाधिकरणाधिकृतसामन्तमहाराजेश्वरगुप्तसमादेशाच्चोत्कीर्ण गुर्जरेण। संवत् २०५५ मार्गशीर्षवदि६॥ (आर्कियालॉजिकल सर्वे ऑफ इण्डिया ७२-७३) (९१) छिन्दवंशप्रभूतलल्लमहाराजानां प्रशस्तिपत्रम् । ओं नमः शिय। हेलाङ्गुष्ठाग्रपीडाभरनमदचलोत्सङ्गसंभारदूर- भ्रश्यद्भूभारतिर्यग्वलितमणिफणामण्डले भोगिराजे । तत्कालोद्धान्तलोकत्रितयकृतमहास्तोत्रमन्त्रावतारः पायाद्वः पार्वती]शः शमितदशशिरः शौर्यवीर्यावलेषः ।। १. अयं च २५ मितो वर्षः श्रीहर्षराज्यारम्भकालतो ज्ञेयः. श्रीहर्षराज्यारम्भस्तु मितः ख्रिस्ताब्दः. तथा च ६३१ मितः खिस्ताब्दो दानपत्रकालः. २. इयं च प्रशस्तिः शिलायामुत्कीर्णा पीलीभीताभिधनगरतो विंशतिमैलमिते गढगजान- ग्रामे उपलब्धा Mr. H. S. Boulderson महाशयैः १८२९ खिस्ताब्दे. ततश्च G. Buhler. Ph. D., L. L. D.C. I. E. महाशयैः Archeological Survey of Indian पुस्तके सव्याख्यं प्रकाशिता.

७ ७८ काव्यमाला। मा स्त ता प्रज वध मण प्रति पर शूलक्षतद्विरददानवकुम्भमुक्तमुक्ताकलापकलितामलकण्ठकान्तिः । विश्वं पुनातु गिरिजा वदनावधूतचन्द्रोपनीतपरिवेषमिवोद्वहन्ती ॥ लक्ष्मीविभ्रमकेलिसद्म सुभटव्यापारलीलास्पदं प्रख्यातक्षितिपालरत्नजलधिः श्रीराजहंसीसरः । सद्वीरव्रततीर्थमर्थिकुमुदप्रह्लादनेन्दुषि- द्वंशभ्रंशदवानलो विजयतां छिन्दक्षितीशान्वयः ॥ उत्पत्तिरस्य हि पुरा च्यवनान्महर्षेर्व्यक्तव्यलीककलिते त्रिदशाधिनाथे । तदर्पनिर्दलनदत्तकठोरदृष्टेरष्टासु दिक्षु यशसैव सह प्रसिद्धा ॥ वंशेऽस्सिन्सितकीर्तिकंदलवति श्रीवीरवर्माख्यया ख्यातोऽभूद्भुवि भूषितावनितलो राजन्यचूडामणिः । जन्मस्थानमिवाकलय्य कमला तुङ्गात्मनां भाविनां भर्तृणामवनेश्चकार चतुरा यस्यालयान्तस्थितिम् ॥ त्यागी धर्मपरः पराक्रमधनः सत्यप्रियः कीर्तिमा- न्सन्मार्गानुगतः शुचिर्दृढमतिर्मानी व्रती नीतिमान् । शौर्यौदार्यविवेकधैर्यनिलयो यः संगतः सज्जनै- युक्तः सर्वगुणोदयेन महतामाराधनीयोऽभवत् ॥ तस्मादत्युग्रतेजःप्रसरनियमितारातिपङ्कोपसङ्गः श्रीमांश्चण्डप्रतापः सकलवसुमतीभूषणं भूषणोऽभूत् । यस्योद्योगप्रसर्पहलभरदलितक्ष्मातलस्थस्थवीयः- शेषाहिश्वासशोषादगमदिरिणतां निर्जलं भोगिसद्म ॥ यत्सैन्यगन्धगजगण्डगलन्मदाम्भःसंजातचन्द्रकशतैरिव मुद्रितासु । दूरे विपक्षकरिणी वनदन्तिनोऽपि भूयो न वारि जगृहुः सरसीष्वरण्ये ॥ यः सेवागतराजचक्रमुकुटोदृष्टाभिपीठस्थलो भर्ता यश्चतुरम्बुराशिरशनालंकारवत्या भुवः । विक्षेपैरपि यस्य ते रघुपतेराशोषिताः सिन्धवो यस्तस्यापि महाकुलाचल इवावष्टभ्य तस्थौ भुवम् ॥ तस्य परम कुणि राजर श्वस वामर क्षिप्य तपरि च्छित देवस तृपरम वृद्धये बढ्चर ९१ लेखः] प्राचीनलेखमाला। ७९ यस्यैषा राजधानी रजनिकरकराकारकान्तैर्गुणौधैः पूर्णेवाद्यापि रम्या स्फुरति मरकतश्यामलैः काननान्तः । उद्यानैनन्दनाभैरतिविशदसुधासेकशुभैः सुराणां प्रासादैरुन्नताप्रैरमरपतिपुरीस्पर्धिनी वा विभाति ॥ तस्यानुनः समभवद्भवभक्तिनम्रः श्रीमल्हणः परिघपीवरबाहुदण्डः । भ्रातुः कृपाणतुलिताहितराजचक्रं यो लीलयैव धवलो धुरमाबमार ॥ लब्ध्वा ततः स विपुलामपि राजलक्ष्मी भक्ति परामकृत देवगुरुद्विजेषु। प्रीत्यै सुहृत्प्रणयिबन्धुजनेऽजनिष्ट दुष्टक्षयादतनुतातिमुदं प्रजासु ॥ तस्य प्रियापि चुलुकीश्वरराजवंशसंभूतिरुज्ज्वलगुणाभरणाभिरामा । गीता जगत्यणहिलेति समस्तकान्तशुद्धान्तवक्रकमलेन्दुकला बभूव ॥ तस्यां श्रीलल्लनामाजनि जनितमहामण्डलाधीशशङ्कः शूरः कुन्देन्दुदत्तद्युतितुलितगुणालंकृताशामुखश्रीः । योऽसौ सामन्तचक्राचलकनकगिरिविंद्रुतारातिलक्ष्मी- स्तियग्नेत्रान्तपाताहतभुजशिखरश्छिन्दवंशप्ररोहः ।। चित्रं यदस्य किल जन्मदिने समन्ताच्छ्रीमल्हणस्य भवने परमप्रमोदे । आवेदयन्त्युदयमम्बरतः पपात भृङ्गालिमङ्गलरवैरिव पुष्पवृष्टिः ॥ नोन्निद्रा नलिनी न चार्पितमनःस्निग्धा सतां संगति- !त्फुल्लस्तबका नता वनलता सीमा समस्या न च । नोद्दामा कविभारती न च तथा हृद्या शरत्कौमुदी लक्ष्मीर्यस्य यथा बभूव विदुषामानन्दनिष्यन्दिनी ।। किं जातैरपरैर्धराधिपतिभिर्मन्ये वृथा रक्षिता येषां तिष्ठति दुर्भगेव वनिता श्रीरप्यभोग्या गृहे । नाभूदस्ति न नापि कोऽपि भविता भूपालचूडामणि- यः श्रीलल्लनरेन्द्रचन्द्रसदृशस्त्यागेन भोगेन च ॥ १. एतच्छिन्दवंशीयभूपालवर्णनात्मकं काव्यं नैषधीयचरितकर्तश्रीहर्षेणापि कृतं भ- वेत. तथा च नैषधीयचरितसप्तदशसर्गसमाप्तौ 'यातः सप्तदशः स्वसुः सुसहशि च्छिन्द- प्रशस्तेमहाकाव्ये तद्भुवि नैषधीयचरिते' इत्युक्तं श्रीहर्षेण. नारायणेनापि 'छिन्दप्रशस्ति. रपि ग्रन्थो मया कृत इति सूचितम्' इति व्याख्यायि.

७ ८० काव्यमाला। भा स्त ता वक्ष मल आदौ संगरसंगताहितमहामातङ्गकुम्भस्थली- सिन्दूरारुणकान्तिरुज्ज्वलयशस्तेजोभिरिद्धस्ततः । उत्खातारितमःप्रतापविसरैराक्रान्तदिङमण्डल- स्तिग्मांशोस्तुलनां बिभर्ति भुवने यन्मण्डलायोऽधुना ।। अब्धौ मुक्तायमाना शिरसि हिमगिरेरभ्रगङ्गायमाना व्योम्नि ज्योत्स्नायमाना दिशि दिशि करिणां कुम्भमालायमाना । उच्चैर्देवालयानामुपरि सितपताकायमाना यदीया कीर्तिर्धान्ता समन्तादनुनदि पुलिने राजहंसीयमाना ॥ कष्टे काले कलावप्यभिभवति जगत्कूपवापीतडागै- रासन्नारामसत्रैः सुरसदनमठैर्मण्डितायाममुष्याम् । रम्यामृद्धिं वहन्त्यामतिसुजनजनानन्दितायां नगर्या यसिन्धर्मावतारे प्रकृतकृतयुगारम्भसंभावनाभूत् ॥ यः शासनान्यतिसमृद्धजनान्वितानि सीमान्तसस्यबहुलानि ददौ द्विजेभ्यः । पार्श्वप्रशस्ततरुषण्डमनोहराणि पुण्यानि निर्मलनदीतटवासभाजि ॥ गङ्गा भगीरथेनेव येन मार्गोपदेशिना । स्वपुरीसंनिधौ रम्या पुण्या कटनदी कृता । तस्याभवत्प्रणयिनी मधुसूदनस्य लक्ष्मीरिवामलकुलाम्बुनिधेः प्रसूता । सर्वावरोधनवधूमुखपद्मषण्डपालेयवृष्टिरपराभिधयापि लक्ष्मीः ॥ भक्त्या च या विनयनम्रतया च पत्युश्चेतो जहार गुणवत्यनुरागिणी च । रम्यं हराद्रिसुतयोरिव तत्तथा हि प्रेमापि रूढमनयोरितरेतरस्थम् ॥ आरामोद्यानवापीषु देवतायतनेषु च । कृतानि क्रियमाणानि यस्याः कर्माणि सर्वदा ॥ दीनानाथविपन्नेषु करुणान्वितचेतसः । सत्रेषु भुञ्जते यस्या विप्रसंघा दिने दिने । इत्थं विविक्तमनयोः परिवर्धमानधर्मप्रबन्धविगलत्कलिकालवृत्त्योः । एकस्तयोरमुमकारयदिन्दुमौलेः प्रासादमद्रितनयाभवनं तथान्या ।। तस पर कु व वाम क्षिा त च्छि देव तृपर वृद्ध AD PRIOR ९१ लेखः] प्राचीनलेखमाला। ८१ सुरगृहयुगमेतत्तुङ्गकैलासशृङ्ग- द्वितयतुलितकान्तिश्वेतमुच्चः सुधाभिः । वितरति हृदि नान्तर्विस्मयं कस्य वात- प्रहतधनपताकाकम्पिताम्भोदवृन्दम् ।। यावत्सकौस्तुभमुरो मुरमर्दनस्य शंभोः शशाङ्कशकलाभरणं शिरश्च । यावस्थितिं दधति तोयधयः समस्ताः स्तादेव तावदचला भुवि कीतिरेषा । स जयतु भुवि लल्लश्छिन्दवंशप्रवीरः सममतिगुणवत्या कान्तया चेह लक्ष्म्या । रिपुगजमदपङ्कप्लाविताण येन प्रतिरणमसिनैवालेखि दिक्षु प्रशस्तिः ॥ भूत्यै सदैव भवने कृतसंनिधाना नानाविधानि दुरितानि विनाशयन्ती । सापत्यदारपरिवर्गसुहृद्गणस्य श्रीलल्लमण्डलपतेरनघास्तु देवी ॥ भूषणस्य मयूतायां संबद्धा भूमिरुत्तमा । विधाय देवपल्लीति देवयोः प्रतिपादिता ॥ पूजासंस्कारहेतोश्च शिवयोः शासनीकृतः । दानादायस्य पादोऽपि श्रीलल्लेन सुकीर्तिना ॥ प्रख्यातवत्समुनिवंशसमुद्भवोऽभूद्भट्टोऽनुरूपचरितः शिवरुद्रनामा । तत्सूनुना विरचिताभिनवा प्रशस्तिरेषा प्रसन्नकविता किल नेहिलेन ॥ यस्य प्रसन्नसरला पदमालिकेयं प्रह्लादहेतुरधिकं सदलंकृतिश्च । श्रीलल्लनिर्मलगुणग्रथनाभिरामा मुक्तावलीव हृदये विदुषां चकास्ति ॥ विष्णुहरेस्तनयेन च लिखिता गौडेन करणिकेणैषा । कुटिलाक्षराणि विदुषा तक्षादित्याभिधानेन ।। कन्यकुब्जागतेनापि कामदेवसुतेन च । उत्कीर्णा सोमनाथेन टङ्कविज्ञानशालिना ॥ संवत्सरसहस्र १०४९ मार्गवदि ७ गुरुदिने । (आर्कियालॉजिकल सव्र्हे ऑफ इण्डिया-७७-८१ पृष्ठेषु) ८२ काव्यमाला भ वा प्रा मरु पर (९२) वलभीप्रभोस्तृतीयधुवसेनमहाराजस्य दानपत्रम् । ओं स्वस्ति विजयस्कन्धावारात्सिरिसिम्मिणिकावासकात्प्रसभप्रणता- मित्राणां मैत्रकाणामतुलबलसंपन्नमण्डलामोगसंसक्तप्रहारशतलब्धप्रतापात्प्र- तापोपनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणीबलावाप्तराज्य- श्रियः, परममाहेश्वरश्रीभट्टार्कादव्यवच्छिन्नराजवंशान्मातापितृचरणारवि- न्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खड्गद्वितीयबाहुरेव समदपर- गजघटास्फोटनप्रकाशितसत्त्वनिकषस्तत्प्रभावप्रणतारातिचूडारत्नप्रभासंसक्त- पादनखरश्मिसंहतिः सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरञ्ज- नान्वर्थराजशब्दो रूपकान्तिस्थैर्यगाम्भीर्यबुद्धिसंपद्भिः स्मरशशाङ्कादिरा- जोदधित्रिदशगुरुधनेशानतिशयानः शरणागताभयप्रदानपरतया तृणवदपा- स्ताशेषस्वकार्यफलप्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पाद- चारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनः, तस्य सुतस्तत्पादनखमयूखसंतानविसृतजाह्नवीजलौघप्रक्षालिताशेषकल्मषः प्रण- यिशतसहस्रोपजीव्यमानसंपद्रूपलोभादिवाश्रितः सरभसमाभिगामिकैर्गुणैः सहजशक्तिशिक्षाविशेषविस्तापिताखिलधनुर्धरः, प्रथमनरपतिसमतिसृ. ष्टानामनुपालयिता धर्मदायानाम्, अपाकर्ता प्रजोपघातकारिणामुपप्ल- वानाम्, दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य, संहतारातिपक्षल. क्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसेनः, तस्य सुतस्तत्पादानुध्यातः सकलजगदानन्दनात्यद्भुतगुण- मुदयस्थगितसमग्रदिङमण्डलः समरशतविजयशोभासनाथमण्डलाग्रातिभा- सुरतरांसपीठोदूढगुरुमनोरथमहाभारः सर्वविद्यापरापरविभागाधिगमविमल- मतिरपि सर्वतः सुभाषितलवेनापि सुखोपपादनीयपरितोषः, समग्रलोका- गाधगाम्भीर्यहृदयोऽपि सुचरितातिशयसुव्यक्तपरमकल्याणस्वभावः खली- भूतकृतयुगनृपतिपथविशोधनाधिगतोदग्रकीर्तिः धर्मानुपरोधोज्ज्वलतरी- कृतार्थसुखसंपदुपसेवानिरूढधर्मादित्यद्वितीयनामा परममाहेश्वरः श्री- पर वाम क्षिा ता छि देव तृपर वृद्ध बढ़ hov ९२ लेखः]] प्राचीनलेखमाला । (३ *शीलादित्यः, तस्यानुजस्तत्पादानुध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादर- वता समभिलषणीयामपि राजलक्ष्मी स्कन्धासक्तां परमभद्र इव धुर्यस्तदा- ज्ञासंपादनैकरसतयैवोद्वहन् खेदसुखे(ख)रतिभ्यामनायासितसत्त्वसंपत्तिः प्रभावसंपद्वशीकृतनृपतिशतशिरोरत्नच्छायोपगूढपादपीठोऽपि परावज्ञाभिमा- नरसानालिङ्गितमनोवृत्तिः प्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमानैर- प्यरातिभिरनासादितप्रतिक्रियोपायः कृतनिखिलभुवनामोदविमलगुणसंह- तिप्रसभविघटितसकलकलिविलसितगतिर्नीचजनारोहिभिरशेषैर्दोषैरनामृष्टा- त्युन्नतहृदयः प्रख्यातपौरुषास्त्रकौशलातिशयगणतिथविपक्षक्षितिपतिल- क्ष्मीस्वयंग्राहप्रकाशितप्रवीरपुरुषप्रथमसंख्याधिगमः परममाहेश्वरः श्रीखर- ग्रहः, तस्य तनयस्तत्पादानुध्यातः सकलविद्याधिगमविहितनिखिलविद्वज्ज- नमनःपरितोषातिशयः सत्त्वसंपदा त्यागौदार्येण च विगतानुसंधानाशमा- हितारातिपक्षमनोरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्रकलालोर(लीक)रि- चतगहरविभागोऽपि परमभद्रप्रकृतिरकृत्रिमप्रश्रयविनयशोभाविभूषणः सम- रशतजयपताकाहरणप्रत्यलो(?)दग्रवाहुदण्डविध्वंसितनिखिलप्रतिपक्षदर्पो- दयः स्वधनुःप्रभावपरिभूतास्त्रकौशलाभिमानसकलनृपतिमण्डलाभिनन्दित- शासनः परममाहेश्वरः श्रीधरसेनः, तस्यानुजस्तत्पादानुध्यातः सच्चरिता- तिशयितसकलपूर्वनरपतिरतिदुःसाधानामपि प्रसाधयिता विण(ष)याणाम्, मूर्तिमानिव पुरुषकारः परिवृद्धगुणानुरागनिर्भरचित्तवृत्तिभिः, मनुरिव स्व- यमभ्युपपन्नःप्रकृतिभिः, अधिगतकलाकलापः कान्तिमान्निवृतिहेतुरकलङ्कः कुसुदनाथः, प्राज्यप्रतापस्थगितदिगन्तरालप्रध्वंसितध्वान्तराशिः सततोदि- तः सविता, प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्रयोजनानुबन्धमागम- परिपूर्ण विदधानः, संधिविग्रहसमासनिश्चयनिपुणः स्थानेऽनुरूपमादेशं ददद्गुणवृद्धिविधानजनितसंस्कारः साधूनां राज्यशालातुरीयतन्त्रयोरुभयो- रपि निष्णातः, प्रकृष्टविक्रमोऽपि करुणामृदुहृदयः, श्रुतवानप्यगर्वितः, का- न्तोऽपिप्रशम(मी)स्थिरसौहृदयोऽपि निरसिता दोषवत्ताम्, उदयसमयसमुप- १. व्यतिरेकः. २, व्यतिरेकः. ३. 'निष्णातः' इत्येतदन्तेन राज्याङ्गव्याकरणप्रसि- द्धपदार्थानां श्लेषः, ४. शालातुरीयः पाणिनिः, काव्यमाला । स त प्र मा प्र मर जनितजनतानुरागपरिपिहितभुवनसमर्थितबालादित्यद्वितीयनामा परमना-- हेश्वरः श्रीध्रुवसेनः, तस्य सुतस्तत्पादकमलप्रणामधरणिकषणजनितकिण- लाञ्छनललाटचन्द्रशकलः शिशुभाव एव श्रवणनिहितमौक्तिकालंकारविभ्रमा- मलश्रुतविशेषः, प्रदानसलिलक्षालिताग्रहस्तारविन्दः, कन्याया इव मृदुकरण- हणादमन्दीकृतानन्दविधिर्वसुंधरायाः,कार्मुके धनुर्वेद इव संभाविताशेषलक्ष्य- कलापः प्रणतसामन्तमण्डलोत्तमाङ्गधृतचूडारत्नायमानशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधरसेनः, तत्पितामहभ्रातृ- श्रीशीलादित्यस्य शाङ्गपाणेरिवाङ्कजन्मनो भक्तिबन्धुरावयवकल्पितप्रण- तेरतिधवलया दूरं तत्पादारविन्दप्रवृत्तया नखमणिरुचा मन्दाकिन्येव नित्य- ममलितोत्तमाङ्गदेशस्यागस्त्यस्यैव राजर्ष(र्षि)दाक्षिण्यमातन्वानस्य, प्रबलधव- लिम्ना यशसा वलयेन मण्डितककुभा नभसि यामिनीपतेविडम्बिताखण्ड- परिवेषमण्डलस्य, पयोदश्यामशिखरचूचुकरुचिरसह्यविन्ध्यस्तनयुगायाः क्षि. तेः पत्युः, श्रीडेरभटस्याङ्गजः क्षितिपसंहतेरनुरागिण्याः शुचियशोशुक- भृतः स्वयंवरमालामिव राज्यश्रियमर्पि(प)यन्त्या कृतपरिग्रहः शौर्यमप्रति- हतव्यापारमानमितप्रचण्डरिपुमण्डलमण्डलाग्रमिवावलम्बमानः शरदि प्रस- भमाकृष्टशिलीमुखबाणासनापादितप्रसाधनानां परभुवां विधिवदाचरितक- रग्रहणः पूर्वमेव विविधवर्णोज्ज्वलेन श्रुतातिशयेनोद्भासितश्रवणः पुनः- पुनरुक्तेनेव रत्नालंकारेणालंकृतश्रोत्रः परिस्फुरत्कटकविकटकीटपक्षरत्नकि- रणमविच्छिन्नप्रदानसलिलनिवहावसेकविलसन्नवशैवलाङ्कुरमिवाप्रपाणिमु- धृतविशालरत्नवलयजलधिवेलात्तटायमानभुजपरिष्वक्तविश्वंभरः परममाहेश्वरः श्रीध्रुवसेनः कुशली सर्वानेव समाज्ञापयति-'अस्तु वः संवि- दितम्-यथा मया मातापित्रोः पुण्याप्यायनाय महिच्छ[क] विनिर्गत- महिच्छकवास्तव्यतचातुर्विध्यसामान्यकौशिकसगोत्रवाजसनेयसब्रह्मचारि- ब्राह्मणवप्पपुत्रभट्टिभटाय शिवभागपुरविषये दक्षिणपट्टे पट्टपद्रकग्रामः सोद्रङ्गः सोपरिकरः सभूतवातप्रत्यायः सधान्यहिरण्यादेयः सदसापराधः सोत्पद्यमानविष्टिकः सर्वराजकीयानामहस्तप्रेक्षणीयः पूर्वप्रत्तदेवब्रह्मदेयर- हितः भूमिच्छिद्वन्यायेनाचन्द्रार्कीर्णवक्षितिसरित्पर्वतसमकालीनः पुत्रपौत्रा- पर श्व द्वहन, वाम क्षिा ता छि देव तृपा वृद्ध ब ९३ लेखः] प्राचीनलेखमाला। न्वयभोग्य उदकातिसर्गेण धर्मदायो निसृष्टः,यतोऽस्योचितया ब्रह्मदेयाग्रहा- रस्थित्या भुञ्जतः कृषतः कर्षयतः प्रति दिशतो वा न कैश्चियासेधे वर्ति- तव्यम् । आगामिभद्रनृपतिभिरप्यस्मद्वंशजैरन्यैर्वा स्वनित्यान्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यं च भूमिदानफलमवगच्छद्भिरयमसदायोऽनुमन्तव्यः परि- पालयितव्यश्च' इति । उक्तं च- बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ यानीह दारिद्यभयान्नरेन्द्रर्धनानि धर्मायतनीकृतानि । निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ षष्टिं वर्षसहस्राणि खर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ दूतकोऽत्र प्रमातृश्रीनागः । लिखितमिदं संधिविग्रहाधिकृतदिविरप- तिश्रीस्कन्धभट्टपुत्रदिविरपतिश्रीमदनहिलेनेति । संवत् ३००+३०+४ माघ शु० ९ स्वहस्तो मम॥ (आर्कियालॉजिकल सर्हे ऑफ इण्डिया-८६-८८ पृष्ठेषु) (९३) दिल्लीप्रान्तस्थसारवलग्रामस्थकूपप्रशस्तिः। स्वस्ति । सर्वभीष्टफलं यस्य पदाराधनतत्पराः। लभन्ते मनुजास्तसै गणाधिपतये नमः ॥ सत्यलो नाम वः पातु साम्बवत्याम्बया सह । प्रसादाद्यस्य देवस्य भक्ताः स्युः सौख्यभाजनम् ॥ १. वलभीसंवत् ३३४= ख्रिस्तसंवत् ६५३-६५४. २. 'अयं कूपः सारवलाख्यग्रामे दिल्लीनगरतो दक्षिणस्यां दिशि पञ्चभिमैलैरन्तरिते देशे वर्तते' इति J. Eggeling Ph.D. महाशयेन व्याख्यायते.

काव्यमाला। त प्र व मा प्र मर प देशोऽस्ति हरियानाख्यः पृथिव्यां स्वर्गसंनिभः । ढिल्लिकाख्या पुरी तत्र तोमरैरस्ति निर्मिता ॥ तोमरानन्तरं यस्यां राज्यं निहतकण्टकम् । चाहमाना नृपाश्चक्रुः प्रजापालनतत्पराः॥ अथ प्रतापदहनदग्धारिकुलकाननः । म्लेच्छः सहाबदीनस्तां बलेन जगृहे पुरीम् ॥ ततः प्रभृति भुक्ता सा तुरुस्कैर्यावदद्य पूः । श्रीमहम्मदशाहिस्तां पाति संप्रति भूपतिः ॥ तस्यां पुर्यस्ति वणिजामग्रोतकनिवासिनाम् । वंशः श्रीसाचदेवाख्यः साधुस्तत्रोदपद्यत ॥ लक्ष्मीधरस्तत्तनयो बभूव लक्ष्मीधराभिद्वयपद्मभृङ्गः । देवद्विजाराधननिष्ठचित्तः समस्तभूता वनलब्धकीर्तिः ॥ लक्ष्मीधरस्य तनयौ कलिकालबाह्या- वास्तामुभौ महिमवारिनिधी सुरूपौ । माहाभिधो निपुणबुद्धिरभूत्तदायो घीकाख्य उत्तमयशा अनुजस्तु तस्य ॥ माहाख्यस्याभवत्पुत्रो मेल्हानामा मनोहरः । श्रीधरस्यात्मजां वीरोनाम्नी (वीरानाम्नी) भर्तृपरायणाम् । घीका विवाहयामास तस्यामास्तामुभौ सुतौ ।। ज्येष्ठस्तयोः खेतलनामधेयः साधुत्वपाथोधिरनन्तशीलः । पैतूकनामा च लघुः समस्तगुरुद्विजाराधनशीलचित्तः ॥ अर्थतयोः खेलतपैतलाख्यसाध्वोः सदा कीर्तनकर्मबुद्धयोः ।। इयं शुभा सारवलाभिधानग्रामान्तभूरध्यवसत्स्म चित्ते ॥ पितॄणामक्षयवर्गप्राप्त्यै संतानवृद्धये खेतलः पैतलश्चैनं कारयामासतुः प्रहिम् ॥ वेदवस्वग्निचन्द्राङ्कसंख्येऽब्दे विक्रमार्कतः । पञ्चम्यां फाल्गुनसिते लिखितं भौमवासरे ॥ पर रा श्व वा क्षि तप to ता वृक्ष ९४ लेखः] प्राचीनलेखमाला। इन्द्रप्रस्थप्रतिगणे ग्रामे सारवलेऽत्र तु । चिरं तिष्ठतु कूपोऽयं कारकश्च सबान्धवः ॥ संवत् १३८४ फाल्गुन शुदि ५ भौमदिने ॥ (आर्कियालॉजिकल सर्व्हे ऑफ इण्डिया-९३-९४ पृष्ठेषु) (९४) श्रीवैज(च)नाथप्रशस्तिव्यम् । ॐ स्वस्ति । ॐ नमो गणपतये । यद्यप्यहं पशुपते कुमति""एव पर्याप्तभक्तिविवशेन मया तथापि । अस्यां स्तुतौ श्रवणलेटरसांशभाजि गौर्या सहैव परमेश निमन्त्रितोऽसि ॥ पाशिच्छेद]न[कर्तिरि प्रण[म]तां मोहान्धकूपब्रुड- [ल्लोक]प्रोद्धरण[क्षमे] नि[रु]पमानन्दैक[सं]दायिनि । दुर्गे द्वार...."हारिणि हरिब्रह्मा]दिदेवस्तुते भक्तिः क्षेमविधायिनि त्रिनयने न[:. स्वामिनि ॥ व्यापद्वल्लि[समू]ल[पा]टन[ के]री त्वं गीयसे सर्विदा] [मा]ता [त्वं] जगतस्तवास्ति न मिति[ः स्वे]षां महिनामिह । उक्तिः केवलमेव शोभत इयं नो देवें[मा]तेति ते संसर्गः पित]काननैरु[पचि] ते[रा] श्रीयते च त्वया ।। १. इदं प्रशस्तिद्वयं कोटकांगरानगरतस्त्रिंशन्मैलात्मकान्तराले पूर्वस्यां दिशि वर्त- मानकीरग्रामवैजनाथग्रामतिवैद्यनाथमन्दिरे वर्तते. एतन्मन्दिरस्तम्भेष्वतीव प्राचीनतास्ति. परंतु १७७६-१८०८ खिस्तवत्सरवृत्तिद्वितीयसंसारचन्द्राधिप- १७८६खिस्ताब्दकारितसंस्कारतो नवीनकल्पता प्रतीयते. 'सप्तवारमस्य मन्दि- रस्य संस्कारो जातः' इति तत्रत्यजनश्रुत्या १००८ ख्रिस्ताब्दे नगरकोटमागच्छतो गजनीवासिमहम्मदस्य सैनिकैरस्यापि मन्दिरस्य भङ्गः कृतो भवेत्' इत्यपि नासंभवि- इति Archeological Survey of India पुस्तके Dr.G. Buhler, Ph, D.,L.L. D., C.I. E., महाशयः. २. ससंबुद्ध्यन्तत्वेन गौरी स्तूयते, सप्तम्यन्तत्वेन शिवः. ३. रूपकम्. ४. शिवपक्षे-'देव, माता'; गौरीपक्षे-'देवमाता'. danegaon काव्यमाला। स त प्र व मा प्र मर प यस्याहिमालयोत्कर्ष]पोषिणी [मूर्तिरुत्तमा । तस्यानमन्ति चरणौ धन्याः केचन जन्तवः ॥ धन्यैर्नरैरुग्रवधूः सदैव त्वमुद्यसे भक्तिभराभिरामैः । क्लेशापहारीतिमनोहराभिर्वा[ग्मि]: क[वीना]मुपगीय[से] च ।। आसन्नमृत्युत्वदशामुपेयुषां परेषु नास्थाममरेषु कुर्वताम् । सत्यं भवानी शरणाभिलाषिणां मनोरथं पूरयितुं प्रगल्भते ॥ मुहुः समुद्रासिन एव युद्ध]क्री[डा]निकृत्तासुरस." """" सत्यं हरेरप्युपरि त्वमेव संतिष्ठसे निष्ठुरवीर्यधाम्नः ।। म]लादिहृदयाह्लादिदार्श]नतो दिने दिने । बहुदेहान्तर स्था]णु स्त्वमेव किल कथ्यसे ॥ प्रसरन्मरीचिचयचन्द्रचारुणा वदनेन राजसितरामतिश्रिणा । बहुशोणिमादिगुणसंपदालयौ परिपूजयन्ति चरणौ तवामराः ॥ त्रैलोक्यजनन्यां त्वयि करुणावति युज्यते नृणां भक्तिः। त्रैलोक्यान्तनिलयं त्वं हि जनं नयसि परमपदम् ॥ गिरिजेशाधिखिन्नोऽस्मि त्वं गतिर्भव सांप्रतम् । संसारसागराच्चेतो भीरु मे नीयतां शमम् ॥ शिवायैकविनन्तव्यपुण्यपादाप्रपांसवे । तुभ्यं क्षुभ्यद्रिपुध्वंसमहाशक्तिमते नमः ॥ चञ्चच्चापलसदृष्टिर्विषमेषु प्रयोजकः । त्रैलोक्ये स्त्रीजनो योऽत्र तस्य त्वमधिदैवतम् ॥ कु रा वा क्षि तप दो तृ वृक्ष वर १. 'यस्य, अहिमालया, उत्क०'; 'यस्या हिमालयोत्क०'. २. 'तस्य, आनमन्ति; 'तस्याः, नमन्ति.' ३. शिवपक्षे-'उग्र, वधूरर्धनारीश्वरमौ; गौरीपक्षे-'उग्रवधः.' ४. 'क्लेशापहा, रीतिमनो०'; 'क्लेशापहारी, इति, मनो०. ५. 'भवान् , ईश, रणा०'; 'भवानी, शरणा०'. ६. 'मलादिहृत्, अयाह्लादि०.७. बहुशः, अणिमा०', 'बहुशोणिमा०'. ८. सप्तम्यन्तम्, संबुद्ध्यन्तं च, ९. 'गिरिजेश, अधिखिन्नः'; 'गिरिजे, शाधि, खिन्नः'. १०. शिवाय, एकविनन्तव्य०', 'शिवायै कविनन्तव्य०.११. चतुर्थ्यन्तम्, संबुद्ध्यन्तं वा. १२. "त्रैलोक्ये, अस्त्री, जनः', 'त्रैलोक्ये स्त्रीजन:'.

८९ ९४ लेखः] प्राचीनलेखमाला। ........ता.त्रिभित्रैमा निशरणैषिणाम् । वपुःश्रीमदविध्वंसं विधातुं प्रजगल्भिषे ॥ आपत्कलापमेलापपरितापप्रलापिनम् । गौरीशास्ति विमोहात्कं [कस्त्रा]तुमपरः क्षमः ॥ शर्वाणिमानं त्वद्भक्ता यान्ति सर्वातिशायिनम् । प्रसीद मातः संसाराच्छीघ्रमेव विमोचय ।। गाढा गजानने प्रीतिः सर्वमोहि वपुः सदा । उद्दीपितस्मरा दृष्टियस्यास्ते तत्पदं नुमः ॥ इति रामेण निरामय सममुमया यन्मया स्तुतोऽसि विभो । श्रुत्वा तममोघीकुरु परिश्रमं परमकारुणिक ॥ एकोत्या स्तोत्रमिदं गौरीश्वरयोः पठन्ति ये भक्क्या । तेषामप्यभिलाषः सिध्यतु शिवयोः प्रसादेन ॥ इति गौरीश्वरस्तोत्रम् । अस्ति शीतलगभस्तिशेखर त्वत्प्रशस्तिकरणे कुतोऽर्हता। किंतु पावकमपाक्ष तावकी भक्तिरेव जडतां भनक्ति नः ॥ अद्यापि विस्मापयितार एते विद्यन्त एवेश्वरभक्तिमन्तः । चित्रचारित्रनिधिर्यथैष राजानको लक्ष्मणचन्द्रनामा ॥ दारयात्रां विरचय्य येन विशोधनी प्राक्तनदुष्कृतस्य । इतः परं सर्वपरस्त्रियो मे स्वसार इत्येव कृता प्रतिज्ञा || किमेतदाश्चर्यमवार्यवीर्यैर्यदेष योधैर्युधि दुष्प्रधर्षः धनुर्धराणां धुरि यो मनोभूर्बभूव तस्याप्यविधेय एव ॥ अद्येश्वरा मन्दपराक्रमत्वं मत्वा विपक्षैरवधारिताज्ञाः । वास्तव्यनारीहठसंगमेन पुराधिपत्यं सफलं विदन्ति ॥ नवं वयो रूपमधिश्रि दातृता पुराधिपत्यं बहवः प्रियंकराः । तथापि चेतः परदारवर्जि चेत्किमस्ति दुःसाधमतः परं तपः ॥ १. मृड अनिशरणैषिणाम् ; मृडानि शरणैषिणाम्. २. गौरीश अस्ति; गौरी शास्ति. ३. शर्व अणिमानम्, शर्वाणि मानम्. ४. यस्य आस्ते; यस्याः ते. ॥

काव्यमाला। म म प राजानकस्य प्रविशुद्धबुद्धेः पाणिः कृपाणग्रहणप्रवीणः । विवर्जयामास विगर्हितानि तस्यान्यनारीस्तनमर्दनानि ॥ तस्यास्ति देसे(शे)ऽत्र वणिक्प्रसिद्धः सिद्धात्मजो मन्युकनामधेयः । छिन्नेत्यविच्छिन्नमहेशभक्तेर्मातावदातचरितस्य य[स्य ॥ यस्याहु[का]ख्योऽस्त्यविभक्तवित्तो भ्राता कनिष्ठः सुकृतैकनिष्ठः । व्यग्रा समग्रातिथिपूजनाय गुल्हेति गरिहिता च भार्या ॥ भक्तिद्रुवाटे भसलेन तेन [स]भ्रातृकेन त्रिपुरान्तकस्य । द्वारस्थगङ्गायमुनादिमूर्तिः कृता पुरीयं सह मण्डपेन ॥ भस्त्रागर्भगृहीतसर्वविभवा नेदिष्ठदेशे क्वचि- ये कुर्वन्ति गतागतानि वणिजो गण्या वराकाः क्व ते । धन्यो मन्युकनामधेय इह हि श्रीकण्ठरज्यन्मनः- पोतप्रोतविवेकवेतनधनो मोहार्णवं तीर्णवान् ।। देवद्विजगुरुभक्तः सौजन्यनिधिर्गुणिप्रियो दाता । आसुकसुतोऽस्ति विप्रो रल्हणनामा सुशर्मपुरे ॥ तेन दैवज्ञधुर्येण धान्यद्रोणद्वयं शिवे । वहमान""भूपृष्ठान्नवग्रामात्समषितम् ॥ इहत्येन नवग्रामादत्ता चात्र हलार्धभूः । गणेश्वरेण गोविन्द द्विजपुत्रेण धीमता ॥ देपिकाङ्गजनितेन मल्हिकासूनुना विततवित्तशालिना । जीवकेन वणिजा निजा च भूः प्राङ्गणाय पुरतः शिवेऽर्पिता ॥ [या]वदे[ष] भगवा[नहर्प]तिर्योम कोमलरु]चिश्च गाहते। मन्युकाहुकिकृतः] शिवालयस्तावदस्तु सममन्यसा[शा]सनः ॥ आसिकात्मज उदारधी[व]सन्सूत्रधारधुरि नायकाभिधः । श्रीसुशर्मनगरादिहाययौ सम्मनस्य तनयश्च ठोढुकः ।। तेन तेन च सहैव टङ्किता प्रोन्नता शिवपुरी समण्डपा । ..."मुदृष्टिमनुसृत्य निर्मिता यत्र भान्ति गणवर्गमूर्तयः ॥ पर रा श्च वा क्षि त वृक्ष बा

९४ लेखः]
प्राचीनलेखमाला।
"ना
शृङ्गाराभृङ्गको यस्य पितरौ पुण्यशालिनौ ।
स प्रशस्तिमिमां चक्रे रामनामा कवीश्वरः ।।
संवत्सरेऽशीतितमे प्रसन्ने"...."स्य शुक्लप्रतिपत्तिथौ च ।
[श्री]म[जयचन्द्रनरेन्द्रराज्ये रवेर्दिने रामकृता प्रशस्तिः ॥
(द्वितीया प्रशस्तिः ।)
ॐ स्वस्ति । ॐ नमः शर्वाय ।
[आशास्यं वो गजास्यो] वितरतु हरता[त्तार]कारिर्विकारं
नन्दी सानन्द[नोऽ]यं भवतु स [च] महाकालशूलस्य धर्ता ।
"यतु कु[रुता] वीरभद्रोऽपि भद्रं
सर्वे वोऽखर्वगर्वा विदधतु कुशलं किंकराः शंकरस्य ॥
स पातु वो महादेवो...."भक्तिचुम्बितः।
आत्मानं मुहुरीक्षन्ते यत्पादनखदर्पणे ॥
काष्ठोद्दीपनकर्मठा जगति या या निर्निमेषक्षणैः
सत्पक्षरुपजीव्यते द्विजनं या बिभ्रती शस्यते ।
देवस्याहुतिलम्पटस्य परमा पुष्टिर्यतो जायते
ताभिमूर्तिभिरष्टभिर्भवतु वो भूत्यै भवानीविभुः ॥
एतेनैव शरत्वमभ्युपगतं प्लोषाय पूर्व पुरां
संप्राप्ता धनुषः श्रियं तनुरियं संप्रत्यमुष्यैव च ।
व्यानने हसतीव यत्सुररिपावित्थं मुहुर्विस्मया
भस्मस्मेरमुपास्महे स्मरजितः पादद्वयं तद्वयम् ॥
यद्यप्यचेतनत्वाद्वक्तुमशक्तः सुरालयस्तदपि ।
अथ केन कृतोऽहमिति प्रशस्तिपृथुजिह्वया वजति ॥
जालंधराधिराजो जयति गुणानां निधिर्जयचन्द्रः।
ईहंशि यस्य राज्ये देवायतनानि जातानि ॥
वित्तं शिवे प्रयुक्तं येषां कालेन भवति कोटिगुणम् ।
ग[ण्यास्त ए]व वणिजः शेषैः किं स्तोकवार्धषिकैः ॥

९२ काव्यमाला । TV म अनेन वक्ष्यमाणेन सुकृतेन महानयौ । गण्यौ गणेषु भ्रातरौ भूयास्तां मन्युकाहुकौ ॥ तौ भ्रातरौ कृतज्ञौ याभ्यां शमदम[प]योधरयुतायाः । शिवभक्तिजनन्या अपि रसः समास्वादितः सार्धम् ॥ शैलस्याङ्काच्चलित्वा रुचिरनववयाः खेलतीयं सहेलं कुल्या कन्येव यत्र स्फुरदुर(रु)लहरी कन्दुकाविन्दुकाख्या । कीरग्रामोऽभिरामो गुणगणनिलयो वर्ततेऽधित्रिगत सोऽयं राजानकेन प्रबलभुजयु[जा रक्षि]तो लक्ष्मणेन ॥ अतुलकुलबकुलपादपकन्दः परिपन्थिभित्पुरास्कन्दः । राजानकोऽत्र कन्दः प्रथममभूदुर्यमस्कन्दः ॥ बुद्धो विशुद्धबुद्धिस्तस्य सुतोऽजनयदुद्धरं तनयम् । विग्रह इति कृतविरहः शत्रुवधूनां ततो जज्ञे ॥ विग्रहविग्रहजातो ब्रह्मेति बभूव भूवधूदयितः । विग्रहनिग्रहकरणे शक्तिर्यस्याभवद्रिपुषु ॥ हस्तालम्बकमुन्नताद्विलुठतामाराधितत्र्यम्बकं शत्रुश्रीपरिचुम्बकं परतिमिस्वीकारचित्तान्धकम् । क्रान्तग्रामकदम्बकं नृपतिभिः सद्वन्धुकौटुम्बकं वाकारप्रतिबिम्बकं स च कृती लेभे सुतं डोम्बकम् ॥ नारीमोहनयौवनं नवनवत्यागोर्मिभिः पावनं भूभर्तुः कृतसेवनं निजभुवः सम्यक्प्रकृप्तावनम् । उद्दामद्विषदालयीकृतवनं युद्धोग्रसिंहवनं पुत्रं सोऽपि समाससाद भुवनं शंभौ बृहत्सावनम् ॥ गुणमणिनिकुरम्बरोहणं प्रवहणमापदगाधवारिधौ । कृतसुभटशिरोधिरोहणं समजनयत्तनयं स कल्हणम् ॥ जालंधराधीश्वरपादपद्मनिश्छद्मभक्तिः प्रचुरात्मशक्तिः । बलोल्बणो विल्हणनामधेयस्तस्यात्मजोऽजायत सद्विधेयः ॥ कु वा नही तप चि त' वा

९४ लेखः]]
प्राचीनलेखमाला।
तनयायां सनयस्य त्रिगर्तभूभर्तृहृदयचन्द्रस्य ।
स च रामलक्ष्मणाख्यौ लक्षणिकायां सुतौ लेभे ॥
ज्येष्ठे गुणैगरिष्ठे बिम्बोष्ठीभिः समं युपुरि गोष्ठीम् ।
अधितिष्ठति निष्ठुरधी स्तस्य] कनिष्ठोऽत्र सुप्रतिष्ठोऽभूत् ॥
त्रिगर्तनृपतीनां या पादपद्मोपजीविभिः ।
कन्दादिभिरा]सन्दारिसंदारिभिरभुज्यत ॥
परिपालितवास्तव्यस्तव्यनिर्मलकर्मणा ।
साधुना साधुना भूमिलक्ष्मणेनोपभुज्यते ॥
यस्य प्रेयस्यभवन्मयतल्लेत्यि]तुलरूपभृद्रमणी ।
तस्मिन्कीरग्राम लक्ष्मणचन्द्रेऽनुपालयति ॥
सिद्धाख्यवणिक्पुत्रौ धर्मप्रवणाविह स्थितौ कृतिनौ ।
ज्येष्ठो मन्युकनामा कनिष्ठमप्याहुकं प्राहुः ॥
भवतरुकुठारधारा प्रविषमतमजन्मभरुमरुल्लहरी ।
प्ररुरोह मोहहन्त्री मनसि तयोः शांभवी शक्तिः ॥
ताभ्यां शिवलिङ्गमिदं निरालयं वीक्ष्य वैद्यनाथाख्यम् ।
पुयो सहितं विहितं पुरतोऽस्य च मण्डपो रचितः ॥
इति मन्युकाहुकाभ्यामुदरे स्थित्वा पुरा
किलैकत्र
पुनरुदरसंप्रवेशप्रतिषेधविधिः स सह विहितः ॥
यद्यपि पितेव कुरुते करुणां शंभुस्तथापि पितुरधिकः ।
जन्मनिमित्तं हि पिता शशिमौलिरजन्मनो हेतुः ॥
शाहिलपाहिलकाहिलसिद्धाः स्वर्लोकगामिनः सन्तु ।
पूर्वे पुरुषाः क्रमशश्चत्वारो मन्युकाहुकयोः ॥
किं बहुना".."""देषा पुरुषाणामेकविंशतिर्यातु ।
सुकृतेनानेन दिवं स्वयं च परमास्तु गतिरनयोः ॥
राजानकेन चासै लक्ष्मणचन्द्रेण वैद्यनाथाय ।
मण्डपिकोत्पत्तिधनादत्ताः षट् प्रत्यहं द्रम्माः ॥

काव्यमाला। ९२ म ग्रामात्प्रलम्बनाम्नो मात्रा राजानकस्य लक्ष्मणया । एकहलवाहनीया दत्ता भूमिमहेशाय ॥ लक्ष्मणस्य सुकृतं सुकतो यः पालयिष्यति तदन्वयधर्ता । तस्य पुण्यमुपयातु विवृद्धिं यो हरिष्यति स गच्छतु चाधः ॥ तैलोत्पीडनयन्त्रं कीरग्रामेऽस्ति मन्युकाहुकयोः । ताभ्यां तदपि शिवाय प्रदीपनिष्पत्तये दत्तम् ।। एका च पण्यशाला ताभ्यां स्वीया शिवस्य भोगार्थम् । भूमिश्च हलचतुष्टययोग्या दत्ता नवग्रामात् ॥ इति येन येन यद्यत्सुकृतं विहितं शिवं समुद्दिश्य । इह तस्य तस्य तत्तत्तिष्ठतु यावद्धरित्रीयम् ॥ यस्याविस्मृतजननीस्तन्यसमास्वादनस्य वदनाजे । परिशुद्धकवित्वफला सरस्वती भगवती न्यवसत् ॥ श्रीभृङ्गकस्य स सुतः [काश्मी]रनृपप्रमातुरनघस्य । प्रथमवयाः सर[लार्थी ] व्यधत्त रामः प्रशस्तिमिमाम् ॥ चवेढक्षेत्रात् हर....."क्षेत्रात् क्त्तण[दे]वाद[]भूमिच्छ] ॥ गुहकेन य(?) शसिभदो(?) ना (प्रशस्तिरुत्कीर्णा) । शककालगताब्दाः ७[२६] | (आर्कियालॉजिकल सर्वे-पृष्ठानि ११२-११५) प ता पा वा ता श्रीयशोवर्मराजतत्सुतश्रीधङ्गदेवयोः प्रशस्तिः । ॐ नमो भगवते वासुदेवाय । दधानानेकां यः किरिपुरुषसिं होभय]जुषं तदाकारोच्छेद्यां तनुमसुरमुख्यानजवरात् । १. इयं च प्रशस्तिः पश्चिमोत्तरदेशे बुन्देलखण्डे छटरपुरराज्ये खजुराहोप्रामे उपलब्धा डा० कीलहॉर्न (Professor F. Kielhorn, Ph. D. C. I. E.) महाशयैर्व्याख्याता. तृ वृ ब

PAM
९५
९५ लेखः]
प्राचीनलेखमाला ।
जघान त्रीनुग्राञ्जगति कपिलादीनवतु वः
स वैकुण्ठः कण्ठध्वनिचकितनिःशेषभुवनः ।।
पायासुलिवञ्चनव्यतिकरे देवस्य विक्रान्तयः
सद्योविस्मितदेवदानवनुतास्तिस्त्रस्त्रिलोकी हरेः ।
यासु ब्रह्मवितीर्णमर्यसलिलं पादारविन्दच्युतं
धत्तेऽद्यापि जगत्रयैकजनकः पुण्यं स मूर्ना हरः ॥
देवः पातु स वः पयःकणमृति व्योम्नीव ताराचिते
दैत्यासिव्रणलाञ्छने दिविस(ष)दः संत्यज्य सर्वानपि ।
तस्मिन्नञ्जनशैलभित्तिविपुले वक्षःस्थले यस्य ताः
पेतुर्मन्दरसङ्गसंभ्रमवललक्ष्मीकटाक्षच्छटाः ॥
गम्भीरोम्बुधयः शशाङ्करुचिमान्भावप्रतापोज्वलो
धीरो धात्रि महान्महीधरवराः कल्पद्रुमास्त्यागवान् ।
आकल्पादविकल्पनिर्मलगुणग्रामाभिरामः प्रभुः
सत्यं ब्रूत यदि क्वचित्पुनरभूत्तुल्यो यशोवर्मणः ॥
प्रधानादव्यक्तादभवदविकारादिह महा-
नहंकारस्तस्मादजनि जनितोपग्रहगणः ।
ततस्तन्मात्राणि प्रसवमलभन्त क्रमवशा-
दथैतेभ्यो भूतान्यनु भुवनमेभ्यः प्रववृते ॥
इहाद्यो विद्यानां कविरखिलकल्पव्युपरतौ
परः साक्षी देवस्त्रिभुवनविनिर्माणनिपुणः ।
स विश्वेषामीशः मितकमलकिंजल्कवसति-
महिम्ना खेनैव प्रथममथ वेधाः प्रभुरभूत् ॥
तस्माद्विश्वसृजः पुराणपुरुषादाम्नायधाम्नः कवे-
र्येऽभूवन्मुनयः पवित्रचरिताः पूर्वे मरीच्यादयः ।
तत्रात्रिः सुषुवे निरन्तरतपस्तीत्रप्रभावं सुतं
चन्द्रात्रेयमकृत्रिमोज्ज्वलतरज्ञानप्रदीपं मुनिम् ॥

काव्यमाला। म प अस्ति स्वस्तिविधायिनः स जगतां निःशेषविद्याविद- स्तस्यात्मोपनताखिल[श्रु]तिनिधेशः प्रशंसास्पदम् । यत्राभून्न पराक्रमेण लघुता नो चाटुकारोद्धति- ल्पाप्यन्तरसारता न च फलप्राप्तिः क्षपायात्मनः ॥ त्रस्तत्राणप्रगुणमनसां सर्वसंपत्पदाना- मुद्युक्तानां कृतकृतयुगाचारपुण्यस्थितीनाम् । तत्रत्यानाममलयशसां भूभुजां का प्रशंसा येषां शक्तिः सकलधरणीध्वंसने पालने वा ॥ तत्र क्षत्रसुवर्णसारनिकषग्रावा यशश्चन्दन- क्रीडालंकृतदिक्पुरन्ध्रिवदनः श्रीनन्नुकोऽभून्नृपः । यस्यापूर्वपराक्रमक्रमनमन्निःशेषविद्वेषिणः संभ्रान्ताः शिरसावन्नृपतयः शेषामिवाज्ञां भयात् ॥ यस्यानन्दितवन्दिवृन्दरचितस्तोत्रक्रियाप्रक्रमा- संक्रान्तं बहुवैरिवर्गजयिनः कन्दर्पकल्पाकृतेः । नाम क्षामतनूभृतां मृगदृशां सद्यो विधत्ते पदं खान्तेषु द्विषतां च राशिषु बलाद्वैक्लव्यमव्याहतम् ॥ तस्मादभूदाजिपराजितारेः श्रीवाक्पतिक्पितितुल्यवाचः । यस्यामला भ्राम्यति भानुभाभिः सहैव लोकत्रितयेऽपि कीर्तिः ॥ यस्यामलोत्पलनिषण्णकिरातयोषि- दुद्गीततद्गुणकलध्वनिरम्यसानुः । क्रीडागिरिः शिखरनिर्झरवारिपात- झात्कारताण्डवितकेकिगणः स विन्ध्यः ॥ तस्माद्विसयधाम्नः क्षीराब्धेश्चन्द्रकौस्तुभौ यद्वत् । द्वावात्मजावभूतां जयशक्तिर्विजयशक्तिश्च ॥ तयोर्द्वयोरप्यमितप्रतापदावाग्रिदग्धा हितकाननानि । कर्माणि रोमाञ्चजुषः समेताः समूर्धकम्पं क्षितिपाः स्तुवन्ति ॥ कु रा श्व वा तप त वृत ९५ लेखः] प्राचीनलेखमाला । तत्रानुजन्मा तनयं राहिलाख्यमजीजनत् । निद्रादरिद्रतां यान्ति यं विचिन्त्य निशि द्विषः ।। भीमभ्राम्यदसिस्रुचि लवदसूक्संपादिताज्यक्रिये ज्यानिर्घोषवषट्पदे क्रमचरत्संरब्धयोधविजि । अश्रान्तः समराध्वरे प्रतिहतक्रोधानि(न)लोद्दीपिते वैरोदचिषि यः पशूनिव कृती मन्त्रैर्जुहाव द्विषः ॥ श्रीहर्षभूपमथ भूमिभृतां वरिष्ठः सोऽसूत कल्पतरुकल्पमनल्पसत्त्वः । अद्यापि यस्य सुविकासियशःप्रसून- गन्धाधिवाससुरभीणि दिगन्तराणि ।। यत्र श्रीश्च सरस्वती च सहिते नीतिक्रमो विक्रम- स्तेजः सत्त्वगुणोज्ज्वलं परिणता शान्तिश्च नैसर्गिकी। संतोषो विजिगीषुता च विनयो मानश्च पुण्यात्मन- स्तस्यानन्तगुणस्य विस्मयनिधेः किं नाम वस्तु स्तुमः ॥ भीरुधर्मापराधे मधुरिपुचरणाराधने यः सतृष्णः पापालापेऽनभिज्ञो निजगुणगणनाप्रक्रमेष्वप्रगल्भः । शून्यः पैशून्यवादेऽनृतवचनसमुच्चारणे जातिमूकः सर्वत्रैवं स्वभावप्रथितगुणतया नाम [कः स्तू ] यतेऽसौ ॥ सोऽनुरूपां सुरूपाङ्गः कञ्छुकाख्यामकुण्ठधीः । सवी विधिनोवाह चाहमानकुलोद्भवाम् ॥ यस्याः पतिव्रततुलामधिरोढुमीशा- नारुन्धती गुरुतरामभिमानिनीति । पत्युः समीहितविधानपरापि साध्वी कार्य तथा परमगादतिलज्जितेव ।। गौडक्रीडालतासिस्तुलितखसबलः कोशलः कोशलानां नश्यत्कश्मीरवीरः शिथिलितमिथिलः कालवन्मालवानाम् ९८ काव्यमाला। म प सीद[त्सा]वद्यचेदिः कुरुतरुषु मरुत्संज्वरो गूर्जराणां तस्मात्तस्यां स जज्ञे नृपकुलतिलकः श्रीयशोवर्मराजः ॥ स दाता राधेयः स च शुचिवचाः पाण्डुतनयः स शूरः पार्थोऽपि प्रथितमहिमानः किमपि ते। व्यतीताः किं ब्रूमो यदि पुन[रि]ह स्युः स्वचरिते हिया नम्रीकुर्युवेदनमवलोक्यैनमधुना ॥ त्रस्तत्रातरि तत्र भूभृति नृणां क्लेशाय शस्त्रग्रहः कामं दातरि सिद्धकेलिसुमनस्तल्पाय कल्पद्रुमाः। वित्तेशः परमार्थवृद्धिविधुरस्वान्तो विलासी स चे- दास्ये तस्य सतीन्दुरुत्पलवनप्रीत्यै दृशामुत्सवे ॥ यस्योद्योगे बलानां प्रसरति रजसि व्याप्तरोदोन्तिराले] स्वःसिन्धुर्बद्धरोधाः पिहितरुचिरभूद्भानुरादर्शरम्यः । सम्यग्देवेन्द्रदन्ती मुदमधित वियत्साभ्रमालोच्य हंसाः सोत्कण्ठास्तस्थुरासीन्नयनदशशती कूणितावृत्तशत्रोः ।। अन्योन्याबद्धकोपद्विपकलहमिलद्दन्तदण्डाभिघात- प्रोद्यज्ज्वालाकलापप्रसृतहुतभुजि ज्याधनध्वानभीमे । पीतामुक्क्षीवरक्षाप्रमदकलकलहादरौद्रप्रहासे धीरं भीतेव लक्ष्मीः समरशिरसि यं संभ्रमादालिलिङ्ग ॥ उत्तुङ्गाञ्जनशैलसंनिभचलन्मत्तद्विपेन्द्रस्थित- क्रुध्यदुर्धरधन्विमार्गणगणप्रारब्धरक्षाक्रियम् । विख्यातक्षितिपालमौलिरचनाविन्यस्तपादाम्बुजं संख्येऽसंख्यबलं व्यजेष्ट गतभीर्यश्चेदिराजं हठात् ॥ लक्ष्मच्छायाकलुषवपुषः कान्तिमार]मिन्दिो]- र[न्या]यत्तस्फुरि]तविधुरा त्सुन्दरं चारविन्दिात् । त प कु रा वा दे त ........................ य"......... .....04 संभ्रान्ताभिः कथमपि मुखं वीक्ष्य वैरिप्रियाभिः ॥

९५ लेखः] प्राचीनलेखमाला। गङ्गानिर्झरघर्घरध्वनिभयभ्राम्यत्तुरङ्गबजाः सद्यःसुप्तविबुद्धकेसरिरवत्रस्यत्करीन्द्राकुलाः । यत्सैन्यैः प्रतिकल्पपादपमुमालूनप्रसूनोच्चयाः प्रालेयाचलमेखलाः कथमपि क्रान्ताः शनै[दिग्जये] ॥ उच्च प्रा]कारभित्तिस्थित[स]मद[शिखिक्रूर !]......."[निना ?]द- श्लथास्थ]तुरगप्राप्तवेगान्तरायः । यस्मिन्मध्यंदिने स्यात्तरणिरनुदिनं नीलकण्ठाधिवासं जग्राह क्रीडया यस्तिलकमिव भुवः 'कालराद्रिम् ॥ आ शस्त्रग्रहणादखण्डितमहावीरव्रतप्रक्रियै- रा बाल्यादविलुप्तसत्य[समयै]रा पाणिपीडाविधेः । अश्रान्तार्थिवि[तीर्ण] पूर्णविभवैस्त"प्सिताकाति[भि]- पुलकैर्यः साधुभिः स्तूयते ॥ [निन्दामुपैमि पुरुषान्तरसंगमेन [शान्ति] न जातु सततभ्रमणक्रमेण । यस्यातिपौरुषनिरस्तमनुष्यभावे लोके समुद्रगतकीर्तिरनिन्दितैव ।। एकैवोवाह लोकेऽस्मिन्पुत्रजन्मोन्नतं शिरः । कञ्छुका येन धीरेण देवकीव मधुद्विषा ॥ शौ[?]दार्यनयादिनिर्म लगु]णग्रामाभिरा[मं यशो?] यस्या?]शेष विशुद्ध]ना[थति]लकं [गा]यन्ति सिद्धस्त्रियः । [तस्य स्तोत्रम]मित्रमर्दन[र]वेः स्पष्टप्रकाशीकृत- त्रैलोक्यस्य सहस्त्रसंख्यमहसो दीपप्रदानोपमम् ॥ क्रोधोद्वृत्तान्तकभृकुटिलपटुरणचण्डकोदण्डयष्टि- ज्याघातस्फारघोरध्वनिचकितमनः[संभ्रमभ्रान्तदृक्षु । स्पष्टं नष्टेषु दूरं क्वचिदपि रिपुषु क्षत्रतेजोम्बुराशे- र्य......."न व्य[रंसी वनवि ]जयि[नश्चण्डदोर्दण्डकण्डूः ॥ यो] लक्षवमि]नृपतेः शरदिन्दुकान्त- माख्यातुमिच्छति यशःप्रसारं] वचोभिः ।

१०० काव्यमाला। दीपप्रभापरिचयेन विमुग्ध[बुद्धि- मध्यंदिने दिवसनाथमुदीक्षतेऽसौ ॥ यन्नाकामदवक्रमानसबलिव्याजप्रयोगापत- त्पृथ्वीलङ्घनलब्धलाघवमघच्छेदी पदं वामनः । लोकालोकशिरःशतप्रतिहतज्योतिर्विवस्वान्न म. त्तस्य कामति तन्निशाकरमहाश्रीस्पर्धि शुभ्रं यशः ॥ धीरो दिग्विजयेषु केलिसरसी तीव्रप्रता[पं द]ध- निःशेषद्विषदव्यथोभयतटीविन्यस्तसेनाभरः । मज्जन्मत्तकरीन्द्रपङ्किलजलां श्रीलक्षवर्माभिध- श्चक्रे शक्रसमः कलिन्दतनयां जह्नोः सुतां च क्रमात् ॥ आस्थानेषु महीभुजां मुनिजनस्थाने सतां संगमे ग्रामे पामरमण्डलीषु वणिजां वीथीपथे चत्वरे । अध्वन्यध्व[गसं] कथासु [निलये]sर[ण्यौ] कसां विस्मया- न्नित्यं तद्गुणकीर्तनकमुखराः सर्वत्र सर्वे जनाः ॥ यस्यानने शरदखण्डशशिप्रसन्ने कोपं व्यनक्ति हृदयस्थमरिप्रियाणाम् । सिन्दूरभूषणविवर्जितमास्यपद्म- मुत्सृष्टहारवलयं कुचमण्डनं च ॥ तेनैतच्चारुचामीकरकलसलसद्व्योम धाम व्यधायि भ्राजिष्णु प्रांशुवंशध्वजपट[पटना]न्दोलिता[म्भोन]वृन्दम् । दैत्यारातेस्तुषारक्षितिधरशिखरस्पर्धि वर्धिष्णुरागा दृष्टे यात्रासु यत्र त्रिदिववसतयो विस्मयन्ते समेताः ॥ कैलासाद्भोटनाथः सुहृदिति च ततः कीरराजः प्रपेदे साहिस्तस्मादवाप द्विपतुरगबलेनानु हेरम्बपालः । तत्सूनोर्देवपालात्तमथ हयपतेः प्राप्य निन्ये प्रतिष्ठां वैकुण्ठं कुण्ठितारिः क्षिति[धरति]लकः श्रीयशोवर्मराजः ॥ त प रा श्व वा ता नि ९५ लेख: प्राचीनलेखमाला। १०१ श्रीधङ्गः स्वभुनप्रसाधितमहोनिर्व्याजराज्यस्थिति- स्तस्मादास महोदधेरिव विधुः सूनुर्जनानन्दकृत् । युद्धे नश्यदरातिवर्गसुभटप्रस्तूयमानस्तुति- नित्यं नम्रमहीपमौलिगलितस्रक्पूजिताङ्गिद्वयः ॥ आकालंजरमा च मालवनदीतीरस्थिते स्वतः कालिन्दीसरितस्तटादित इतोऽप्या चेदिदेशावधेः । [आ तस्मादपि ?] विस्मयैकनिल यादोपाभिधानाद्रेि- यः शास्ति क्षितिमायतोऽर्जितभुजव्यापारलोलार्जि[ताम्] || यस्त्यागविभ्रमविवेककलाविलास- प्रज्ञाप्रतापविभवप्रभवश्चरित्रात् । चक्रे कृती सुमनसां मनसामकस्सा- दस्सादकालकलिकालविरामशङ्काम् ॥ शब्दानुशासनविदा पितृमान्व्यधत्त देद्देन माधवकविः स इमां प्रशस्तिम् । यस्यामलं [कवियशः कृतिनः कथासु रोमाञ्चकञ्चकजुषः परिकीर्तयन्ति ।। संस्कृतभाषाविदुषा जय[गु]णपुत्रेण कौतुकाल्लिखिता। रुचिराक्षरा प्रशस्तिः करणिकजद्धेन गौडेन । पाताभूमिपतिः पृथ्वी त्रयीधर्मः प्रवर्धताम् । नन्दन्तु गोद्विजन्मानः प्रजाः प्राप्नोतु निर्वृतिम् ॥ संवत्सरदशशतेषु एकादशाधिकेषु संवत् १०११ । उत्कीर्णा चेयं रू[पकार........" श्री[विनायक !]पालदेवे पालयति वसुर्धा वसुधार्ना घ]ग[ता]स्निग्ध- [वै]रि[भि ?] । नमो भगवते वासुदेवाय । नमः सवित्रे । (आर्कियालॉजिकल सर्वे-१२४-१२९ पृष्ठे) ॥

काव्यमाला । ९ ६ श्रीधङ्गमहाराजप्रतिष्ठापितमरकतेश्वर महादेवप्रशस्तिः। विष्टपविकटवटानामजायमानाय बीजभूताय । रुद्राय नमः पालनविलयनये निष्क्रियायापि ॥ तूर्णं घूर्णति यत्र गोत्रशिखरिव्यूहः समूहः पत- त्यत्यावर्जितमूर्तिसविरुतं कुर्वन्ककुप्कुम्मिनाम् । सप्ताम्भोध्यवधिप्रभूतवसुधाबन्धः कबन्धीकृत- वर्गाद्रिः क्षयकाण्डताण्डवविधिः शैवः शिवायास्तु वः ॥ कस्त्वं द्वारि दिगम्बरः क्षपणकः कस्मादकस्मादहो बाले शूलधरो धिगायुधविधि बाँस्त्वदर्हा ननु । मां जानीहि महेश्वरं स्फुटमिदं वस्त्रेऽप्यभावादिति प्रेयस्या परिहासतो विहसितं शंभोः शिवायास्तु वः ॥ पशुपतिवदनच्छद्मनि कृतवसतिः पद्मसमनि सदा या। जयति विलक्षणरूपा शुक्लामा भारती भ्रमरी ॥ गिरिशशिरसि यच्छन्हस्तमिन्दोः कलायां मुहुरमलमृणालीग्रासगृनुः शिशुत्वे । जयति विबुधमूनोंक्षाललीलाम्बुजेन स्मितकुपितमृडानीताडितो नागवक्रः ॥ निजोपज्ञप्रज्ञाप्रसरपरिविस्फारमुकुरे पदार्थानां सार्थः प्रतिफलति येषामवितथः । गिरां ग्रामो येषामधरमधिशेते स्वयमयं नमस्तेभ्यः सञ्चस्तिलकितजगङ्ग्यः किमपरम् ॥ कल्पादौ किल केवलं खमखिलं ध्वान्तावनद्धं ध्रुवं शून्यं वीक्ष्य सिसृक्षतो जगदभूद्भद्रादमुद्रोऽनिलः। १. इयमपि प्रशस्तिस्तस्मिन्नुक्तखजूराहोग्राम एवोपलब्धा. प कु रा श्च वा शि नि . ९६ लेखः] प्राचीनलेखमाला । तत्राभूदनलोनलाज्जलमभूबीजादमोघाजले ज्वालामालि हिरण्मयं महदभूदण्डं विभोब्रह्मणः ॥ तदण्डभाण्डखण्डाभ्यां द्यां भुवं विदधे धिया । ब्रह्मा ब्रह्मनिधीन्पुत्रान्मरीच्यत्रिमुखान्मुनीन् ॥ मध्ये तेषां प्रहततमसां मानसानां मुनीनां श्रीमानत्रिः प्रथितमहिमा नेत्रपात्रे प्रसूतम् । यस्य ज्योतिःपटलजटिलं मण्डलं वन्द्यमिन्दो. चन्द्रात्रेयः समजनि मुनिस्तस्य पुत्रः पवित्रः ।। दूरापास्तसमस्तसंशयविपर्यासप्रकामोज्ज्वल- ज्ञानालोकविलोकिताखिलजगत्सर्गापवर्गस्थितेः । सर्वज्ञप्रतिमस्य तस्य कृतिनः कारुण्यपुण्यात्मनः पारं गन्तुमनन्तदीपमहसः को वा महिम्नां क्षमः ॥ नीरन्ध्रो निरघो निसर्गसरलः सारोत्त]राभ्यन्तरो निर्ग्रन्थिः पृथुलाग्रभागसुभगः पर्वस्वखर्वस्थितिः । आम(मू)लं फलितोऽप्यसेवितविपत्क्रूरारिदावाग्निना न म्लानि गमितस्ततः समभवद्वंशोऽयमत्यद्भुतः ।। आ चन्द्रं चन्द्रात्रेयवंशजाः क्षितिभुजः क्षितिम् । भोक्ष्यन्त्यक्षतदोर्दण्डचण्डिमानोऽत्रितेजसा ।। ये पूर्वेऽत्र पवित्रितक्षितितलाः सत्कर्मसर्गप्रियाः प्राणप्रार्थनयाप्यखिन्नमनसः पर्याप्तसत्यव्रताः । निःसिन्दूरितदुर्विनीतबलवत्सामन्तसीमन्तिनी- सीमन्ताः पृथिवीभुजो विजयिनस्तेभ्योऽखिलेभ्यो नमः ।। कालेनेह महावंशे प्रशंसाप्रांशुरंशुमान् । मुक्तामणिरिव श्रीमानन्नुकोऽभून्महीपतिः ॥ तेन विक्रमधनेन धन्विना कामता युधि वधाय विद्विषाम् । धुन्वता धनुरधिज्यमर्जुनं सारिता दिवि विमानगामिनः ॥

T १०४ काव्यमाला। ९ तस्मादुदारकीर्तेरजनि जनानन्दसुन्दरः श्रीमान् । तनयो विनयनिधानं वाक्पतिरिव वाक्पतिः क्षितिपः ॥ विद्यावदातहृदयेन हृदि प्रजाना- मातङ्कशङ्कुमकलङ्कितविक्रमेण । तेनापनीय नयनिर्मललोचनेन संकोचिताः पृथुककुत्स्थकथार्थकन्थाः ॥ तस्य क्ष्मातिलकस्य लोकतिलकः पृथ्वीपतेर्भूपतिः स श्रीमान्विजयो जयाय जगतां जज्ञे कृतज्ञः सुतः । यस्योदात्तमते प्रसूतिसमये धाम्नां महिम्नां निधेः सानन्दं सुरसुन्दरीभिरवनौ क्षिप्ताः सलानाः अ(स्र)नः ॥ किन्नरीभिरधिकंधरं सखीराकलय्य भुजयास्य भूभुजः । काकलीकलमगीयत स्फुरत्प्रोथमुत्पुलकमुज्व(जव)लं यशः ॥ विनयनतंसुमित्रापत्यसंवाहितांहिः प्रवरहरिचमूभिः कान्तपर्यन्तभूमिः । सुहृदुपकृतिदक्षो दक्षिणाशां जिगीषुः पुनरधित पयोधर्व(ब)न्धवैधुर्यमर्यः ।। तस्मान्नृपतिसमुद्रादुदपादि नरेन्द्रचन्द्रमाः सूनुः । स श्रीराहिलनामा विहततमावन्दिता[भ्युदयः ॥ प्रसन्ने तत्र भूपाले प्रसरच्चित्रभानवः । ना[थ] वन्तोऽर्थिनां वा[सा]: सरोषे द्विषदालयाः ॥ कोशपानमसिधा(वा)रयोषितां नाभिभूतजनरत्नसंपदाम् । पक्षपातमिषुदुष्टभूभृतः प्रापुरस्य न सुहृत्सभासदः ॥ तस्मात्तीत्रप्रतापज्वलनकवलितोत्तालभूपालतूला- न्मूलाच्छीलद्रुमाणामनणुगुणगणालंकृतेः कीर्तिभर्तुः । १. शोभनैमित्रैः सुहृद्भिरपत्यैश्च; सुमित्रापत्येन लक्ष्मणेन च. २. वानरचमूभिः; अश्व- श्चमूभिश्च. त प रा श्व वा वि नि दे

प्राचीनलेखमाला ।
१०५
९६ लेखः]
स श्रीहर्षोऽरिहर्षज्वरहरणमणिः क्षीणनिःशेषदोषः
संतोषाय प्रजानामजनि निजभुजाश्रान्तविभ्रान्तकीर्तिः ॥
यं दृष्ट्वैव कृपाणपाणिमकृत व्यापारभारं] युधि
क्रोधानान्तविलोचनो(नौ)त्पलदलभ्रूभङ्गभीमाननम् ।
उत्साहो हृदयाद्धनुः करतला द्भावो मुखात्कीर्तयो
दिग्भ्यः साध्वसवेपमानवपुषां नष्टाः परेषां क्रमात् ॥
तेनाच्युतेन भीमेन व(बोलेन कृतवर्मणा ।
समुद्रपरिखा पृथ्वी पुरी सू(शू)रेण रक्षिता ॥
अपक्षधात्रीधररक्षणक्षमः सदैव दोषाकरसङ्गभङ्गुरः।
बहिष्कृतक्रूरभुजंगसङ्गमस्तिरस्करोति म स तूर्णमर्णवम् ।।
दूरा[पा]स्तप्रवरतुरगैर्दूरमुक्तातपत्रै-
दूरायातैः सपदि शिरसा [शा]सनं धारयद्भिः।
तस्य द्वारि द्विरदमदनिःस्यन्दपङ्काङ्कितायां
सेघा(वा)हेतोः पुणतिपरमैराशि(सि)तं भूमिपालैः ॥
वृत्तोज्व(ज्ज्व)ला गुणाधारा महार्घा हृदयंगमा ।
हारावलीव तस्यासीत्कंछुकेति प्रियोत्तमा ॥
वणा:] स्वर्णरुचिर्विलोचनयुगं नीलं सचन्द्रोपलं
पाणिः शोणि]मणिद्युतिः सचरणो दन्तच्छदो विद्रुमः ।
सद्यः सु(शु)क्तिविमुक्तमौक्तिकतलस्वच्छं [च चे]तो यतः
स्त्रीरत्नं भुवनैकभूषणमभूत्तेनेयमेका सती ॥
तस्यास्तस्य स्मरणविहिताघौघविध्वंसनायाः
सत्तीर्थायास्त्रिदशसरितः शान्तनोः पुण्यकीर्तेः ।
धर्माधारः पितरि सुतरां साधुरिद्धप्रभावो
भीष्मो प(य)द्वत्समजनि सुतः श्रीयशोवर्मदेवः ॥
तस्य विप्रचरणप्रणामजं शैशवे शिरसिजश्रितं रजः ।
अप्यकालपलिताकृतिं दधत्संदधावधिककामनीयकम् ॥
SE

T १०६ काव्यमाला। एकस्मै याचमानाय द्विजाय पलदः शिविः । यावदर्थिजनं प्रादात्कोटि कोटिमसौ नृपः ॥ नन्तुं भूमिलितालिकेन सदसि व्यस्तासवे(ने)नासितुं गन्तुं पत्रपुरःसरेण चरणैः स्थातुं च नीचैश्चिरम् । वक्तुं जीवजयादिशेति नियमं कर्तुं विनीतात्मना तस्मिन्राजति (नि) राजकेन जयिनि त्रासादिदं सि(शिक्षितम् ।। नित्पो(त्यो)दितेन्दुभुजगाधिपधाम नित्य- मानन्दि कुन्दकुसुमं गगनाङ्गणं च । तेनाद्भुतं द्वयमिदं यशशा(सा) व्यधायि धा[त्री]तलं शि(सि)तसुधाधवलत्वचित्रम् ॥ संभवति भुवि मनुष्यः सप्ताकूपारपारदृश्वापि । न पुनरिह तस्य नृपतेर्गुणसागरपारगः कश्चित् ।। गान्धारी भजता प्रहृष्टशंकुनिस्वानप्रियां प्रेयसी भीष्मद्रोणवचास्यकर्णसुखदान्याकर्ण्य संमूर्च्छता । नो धर्मप्रभवं विरोधितवता प्राप्यापि वंशक्षयं [स]प्राप्ता धृतराष्ट्रता [स]सुहृदा विद्वेषिणेत्यद्भुतम् ॥ कष्टात्पष्टिसहस्रसूनुभिरसूनुत्सृज्य खातः कृत- स्तत्पौत्रप्रमुखैः पुनस्त्रिभिरसावम्मोभिरापूरितः । वृत्तान्तं सगरस्य सागरविधावाकर्ण्य तूर्ण सुधीः स्पर्द्धावानधिकं व्यधत्त जलधे (३)ल्वं तडागार्णवम् ।। तस्येदं सा(शा)रदेन्दुद्युति [ख]रसि(शि)खरान्न(ण्ण)नक्षत्र]चक्रा- चक्रं रक्षन्नमुष्मादपथ(न)यति रथं सारथिः सप्तसप्तः । यत्कुम्भः शातकुम्भस्तुहिनगिरिशिरथुम्बिबिम्वा(म्बा)कतर्क कुर्वन्नास्ते समस्तस्तुतमसुररिपोर्वेस्म(श्म) वैकुण्ठमूर्तेः ॥ १. शकुनयः पक्षिणः; दुर्योधनपक्षीयो वा. २. भीष्मपितामहद्रोणाचार्ययोर्वचांसि;भ- यानकद्रोणकाकवचासि च. ३. कर्णस्य राधेयस्य; कर्णयोः श्रोत्रयोश्च न सुखं ददतीति. ४. धर्मोत्पत्तिम्; युधिष्ठिरं च. त प कु रा वा शिश दे

प्राचीनलेखमाला ।
९६ लेखः]
महावंस(श)समुत्पन्ना प्रसन्ना[धारि]तावनी ।
नर्मदेवाभवद्देवी पुण्या तस्य महीपतेः ॥
सदानसूया विहितागसेप्ससावरुन्धतीजीवितमप्युपासिता ।
व(ब)भौ मदान्धान्दमयन्त्यनिन्दिता यदालसाभून्न पुनः कथंचन ॥
सा देवी नरदेवाद्देवाधिपतेः स(श)चीव सच्चरित्रं तम् ।
तस्मादसूत पूतं जयन्तमिव [धंगमङ्गभुवम् ॥
यशोदानन्द[भाक् चक्रे पूतनामारणक्रियाम् ।
जातो वृष्णिकुले कंसरिपोछेत्ता नरोत्तमः ॥
तस्मात्सिमुत्थि]तक्रोधान्नृसिंहान्नैखलाविनः ।
हिरण्यकशिपुप्राणत्राणं चक्रे न केनचित् ।।
देवालोकय कोशलेश्वरमितस्तूर्ण समाकर्ण्यता-
मादेशःक्रथनाय सिंहलपते नत्वा व(ब)हिः स्थीयताम् ।
त्वं विज्ञा]पय कुन्तलेन्द्र वदने दत्त्वोत्तरीयाञ्चलं
तस्यास्थानगतस्य वेत्रिभिरिति व्यक्तं समुक्तं वचः ।।
का त्वं काञ्चीनृपतिवनिता का त्वमन्ध्राधिपस्त्री
का त्वं राढापरिवृढवधूः का त्वमङ्गेन्द्रपत्नी ।
इत्यालापाः समरजयिनो यस्य वैरिप्रियाणां
कारागारे सजलनयनेन्दीवराणां व(ब)भूवुः ॥
का त्वं कस्य किमर्थमत्र भवती प्राप्ता शशाङ्कोज्व(ज्व)ला
सिद्धाः कीर्तिरहं वु(बु)धैकसुहृदः श्रीधङ्गपृथ्वीपतेः ।
भ्रान्त्वा विस्व(श्व)मशेषमागतवती स्फारीभवत्कौतुका
लोकालोकमहामहीध्रसि(शि)खरश्रेणिश्रियं वीक्षितुम् ॥
मरकतमयं तुझं लिङ्गं यदर्चितमैश्वरं
त्रिदशपतिना तस्साल्लब्धं प्रसाद्य किरीटिना ।
१. यशोदाया आनन्दकर्ता पूतनाया मारणक्रियां चक्रे कंसाख्यरिपोश्छेत्ता. अयं तु-
यशोदमानन्दं भजतीति तादृशः पवित्रनामा संग्रामक्रियां चक्रे । कंससमरिपोश्छेत्ता.
२. नखै नातीत्येवंशीलात्, न दुष्टान्रक्षतीत्येवंशीलाच. ३. हिरण्यस्य कशिपोः
प्राणानां च त्राणम्.

१०८ काव्यमाला। ९ तदवनितलं तेनानीतं युधिष्टिरपूजितं जयति जगति श्रीधङ्गेन प्रणम्य निवेसि(शि)तम् ॥ वेस्स(श्म)न्यस्म(इम)मयस्तेन भूपालेन प्रतिष्ठितः । द्वितीयो द्योतते देवः क्लेशपास(श)हरो हरः ॥ तेनायं स(श)रदभ्रसु(शु)भ्रसि(शि)खरः श्रीधङ्गपृथ्वीभुजा प्राशा(सा)दस्त्रिदशप्रभोभगवतः सं(शं)भोः समुत्तम्भितः । यस्या_कषकालधौतकलसप्रान्तस्खलत्स्प(त्स्य)न्दनो मेरोः सृ(शृ)ङ्गमतुङ्गमेव मनुते चित्रीयमाणोऽरुणः ।। भत्त्या भवस्य नूनं शिल्पिस(श)रीरेषु कृतसमावेशः। खयमेव विश्वकर्मा तोरणरचनामिमां चक्रे ॥ जयति किरीटो (ध)टोऽयं हाटककोटीरनेन तुलयित्वा । अतुलेन तुलापुरुषाः स(श)तसो(शो) विश्राणितास्तेन ॥ षट्कर्माभिरता रताः परहिते संसु(शुद्धवंस(श)द्वयाः प्रारब्धाध्वरधूमधूम्रवपुषोऽप्येकान्ततो निर्मलाः । तेनैते धनधान्यधेनुवसुधादानेन संमानिताः सौधेषु स्फटिकाद्रिकूटविकटेष्वारोपिता बा(ब्रा)ह्मणाः ॥ व्र(ब्रह्मसु (ब्रह्मकल्पेषु येष्वेकत्र निवासिषु । दक्षिणेन तुषारादि कल्पग्रामोऽपरोऽभवत् ॥ रक्षित्वा क्षितिमं०(म्बु)रासि(शि)रस(श)नामेतामनन्यायति जीवित्वा स(श)रदां स(श)तं समधिकं श्रीधङ्गपृथ्वीपतिः । रुद्रं मुद्रितलोचनः स हृदये ध्यायन्ज(अ)पञ्जाह्नवी- कालिन्द्योः सलिले कलेवरपरित्यागादगान्निवृतिम् ॥ धर्माधिकारमनुसा(शा)सति सा(शा)स्वतोऽत्र मित्रे सतां स्फुरितधामनि धर्मवु(बु)द्धौ । श्रीमद्यशोधरपुरोधसि वेधसीव सिद्धि जगाम जगतीपतिकीतिरेषा ॥ वा क्षि त नि दे तृ वृ बा ९६ लेखः] प्राचीनलेखमाला । तार्कारिकः प्रवरसावरवंस(श)जन्मा श्रीनन्दनः कविरभूत्कविचक्रवर्ती । तस्यात्मजः समननि श्रुतपारदृश्वा श्रीमांस्तपोधिकव(बोलो व(ब)लभद्रनामा ।। सूनुः सूनृतगीगिरीन्द्रमहिमा भद्रस्य तस्याभव- द्भूपालै वि पूजिताहिरनघः साहित्यरत्नाकरः। श्रीरामो रमणीयशू(सूक्तिरचनाचातुर्यधुर्यः कृती तेनेयं विहिता प्रशस्तिरचना भत्त्यालये शूलिनः ॥ न संकीर्णा वर्णाः क्वचिदिह न सापत्यकलुषाः स्थिताः कायस्थेन प्रथितकुलशीलोज्व(ज्व)लधिया । यशःपालेनायं विदितपदविद्येन लिखितः प्रशस्तेविन्याश(स): कृतयुगसमाचारश(स)दृशः ॥ विज्ञानविश्वका धर्माधारण सूत्रधारेण । च्छि(छि)च्छा(भि)धेन विदधे प्राशा[सा]दः प्रमथनाथस्य ।। यावत्पृथ्वी सपृथ्वीधरनगरनगा दत्तमुद्रा समुद्रे- विभाजिष्णुरुष्णधुतिरयममृतस्यन्दनः शीतरस्मि(श्मिः)। यावद्भ()ह्माण्डभाण्डस्थितिरियमथवा स्थास्नुतां स्थाणवीयः प्राशा(सा)इस्तावदेष व्रजतु नरपतेर्दत्तकैलासहासः ॥ लिपि[ज्ञा]नवि[धि)ज्ञेन प्राज्ञेन गुणसा(शा)लिना । सिंहेनेयं समुत्कीर्णा सद्वर्णा रूपसा(शा)लिनी ॥ संवत(त्) १०५८ श्रीखर्जूरवा[ह] के राजश्रीधङ्गराज्ये देवश्रीमरकतेश्वरस्य प्रस(श)स्तिः सिद्धा॥ उत्खातोच्चमहीभृतो मसृणिता मत्तद्विपानां पदै- (ौं)ौताः सङ्गरसङ्गभङ्गुररिपुत्रस्यत्प्रियाश्रूत्करैः । दिग्भित्तीर्जयवर्मदेवनृपतिः कीर्त्यतर्योऽलिख- तेनालेखि पुनः प्रशस्तिरमलैरेषाक्षरैः क्ष्माभुजा ॥

काव्यमाला ।
J0
विद्वद्भिर्जयपालसी(शी)तकिरणोऽमून्यादराद्वन्दितो
गौडः प्रोल्लिखदक्षराणि कुमुदाकाराणि सर्पत्करः ।
कायस्थो जयवर्मदेवनृपतेरीशस्य विभ्रत्कलाः
साहित्याम्बुधिबन्धुरुद्धततमो रुन्धन्ननिन्द्यद्युतिः ॥
संवत् ११७३ वैशाख सुदि ३ शुक्ले ।।
(एपिग्राफिआ इण्डिक्-पृष्ठे १४०-४७)
(९७)
श्रीकोक्कलमहाराजनिर्मापितनगरपंशस्तिः ।
ओं नमः शिवाय ।
स्फूर्य(ज)त्स्फारफणाकलापविकसद्भीमस्फटाभासुरं
भास्वत्तारतरातिरेकविलसच्चन्द्रार्धचिह्नीकृतम् ।
प्रोघल्लोलविलोचनानलमिलज्ज्वालावलीपिङ्गलं
वन्दे सुन्दरवैद्यनाथविधृतं वन्द्यं जटामण्डलम् ॥
यस्य प्रेतवनं निवासभवनं भूतैः प्रभुत्वं भृशं
भूतिभूषणमङ्गरागरचना प्रीतियुगान्तं प्रति ।
कण्ठे तिष्ठति कालकूटमशिवोऽप्येवं शिवत्वस्थितम्(वो यः स्थितः)
सर्वव्याधिहरश्चराचरधरः पायात्स वः शंकरः ।।
यं वेदान्तविदो वदन्ति मनसः संकल्पभूतं शिवं
ब्रह्मैक परमक्षरं तमंजरं तं चामरं तद्विदः ।
अन्ये तं शिवमेव बुद्धममलं त्वन्ये जिन वामनं
तस्मै सर्वमयैक्यकारणपते सर्वाय नित्यं नमः ।।
माहेन्द्रोपेन्द्ररौद्रज्वरविषममहादुष्टकष्टाभिभूता
भूतैः प्रत्याभूतैः प्रतिदिनमुदितैर्यातुधानैर्गृहीताः ।
धृष्टाङ्गुष्ठप्रकोष्ठप्रकटितपटिमाटोपकुष्टप्रदुष्टा
दृष्ट्वा नश्यन्त्यनिष्टास्फुटविकटजटाजूटमेते त्वदीयम् ॥
१.' इयमपि प्रशस्तिः खजूराहोग्राम एवोपलब्धा' इति प्राग्दर्शितव्याख्यानत एवं
सर्वे व्याख्येयम्. २. दन्त्यादिरपि सर्वशब्दः शिववाची.
ivrm a o (CE (Envar

९७ लेखः प्राचीनलेखमाला । आसीदप्रतिमा विमानभवनैराभूषिता भूतले लोकानामधिपेन भूमिपतिना पद्मोत्थवंशेन या । केनापीह निवेशिता कृतयुग।तान्तरे श्रूयते सच्छास्त्रे पठिता पुराणपटुभिः पद्मावती प्रोच्यते ॥ सौधोत्तुङ्गपतङ्गलङ्घनपथप्रोत्तुङ्गमालाकुला शुभ्राभ्रंकषपाण्डुरोच्चशिखरप्राकारचित्राम्बरा । प्रालेयाचलशृङ्गसंनिभशुभप्रासादसद्मावती भव्यापूर्वमभूदपूर्वरचना या नाम पद्मावती ॥ त्वङ्गतुङ्गतुरंगमोद्गमखुरक्षोदाद्रजः प्रोद्धतं यस्यां जीर्णकठोरवस्त्रमकरोत्कूर्मोदराभं नमः । मत्तानेककरालकुम्भिकरटप्रोत्कृष्टाद्भुतं युक्तं कर्दममुद्रया सितितलं तां ब्रूत किं संस्तुमः ॥ कि बहुना .......... तस्यां ग्रहपतिवंशस्तम्बक 'प्यदूषितो जातः । कोटिगुणोन्नतनमितः प्रथितोऽतिबलः श्रीमान् ॥ यश्चाभवझिजभुजानितचित्रकीर्ति- रुत्तम्भिता[प्त] कुलमूलतरुप्रकाण्डः । भ्रूभङ्गकार्मुककटाक्षशराभिघात- मात्ति]प्रतापपरिपालितशत्रुदण्डः ।। यः शुभ्रविभ्रमशशाङ्ककरप्रतान- कान्त्युज्ज्वलोत्पलजलप्रबलांस्तडागान् । देवालयानपि हिमाचलशृङ्गतुङ्गां- श्चक्रे शतक्रतुकृती स यशोवलाख्यः ॥ तस्मादभूदभिमताखिलबन्धुवर्गो दुर्गत्रिवर्गफलनिर्मललब्धसौख्यः । सत्कीर्तिकीर्तनकथापरिगद्यमान- [माहात्म्य मोदितजनः किल माहटाख्यः ॥

११२ काव्यमाला । तस्यात्मजः स्वजनसर्वजनात्क... शङ्कापमानपरिमार्जनसज्जकार्यः । मर्यादमुद्भुतगभीरिमयाब्धितुल्यै- ....... ॥ ............ ""गुरु] गभीर......"राशिः श्रीमानभूत्सुकृतकृज्जयदेवनामा ॥ कान्त्या शीतकरात्समी हित]फलावाप्तौ च कल्पद्रुमा- दालोको दिवसाधिपादिव ततो जज्ञे सुतः सेकलः। विद्वानप्रतिमप्रतापतरणिः ख्यातः सतामग्रणीः सत्यत्यागपराक्रमैकवसतिर्मानी धनैरन्वितः ॥ सद्वीरत्वादलङ्घयः प्रथितपृथुककुप्प्रान्तविश्रान्तकीर्ति- स्त्यागे कर्णोपमानः कटुकपटवचोभाषणे चाप्रगल्भः । सद्यः सौजन्यजन्यप्रकटितमहिमारातिवर्गस्य दुर्गः श्रीमानु......... गर्गो......."हित.... “हित...........[से]कलोऽभूत्॥ उद्यद्वीरगभीरराज्यजलधेः पारे समुत्तारित- मीदृक्षेण महीभुजा निजतनुं यं प्राप्य पोतं परम् । श्रीसेकल्लमतुल्यकुल्य "रुचिरं किं तत्र वस्तु स्तुमः ।। तस्यानुजोऽपि सौन्दर्यमर्यादौदार्यकार्यवान् । यौवनेऽप्यार्यचरितः श्रीकोकल्लेति विश्रुतः ॥ यः सत्पात्रे ददा........ नमन्न""वरवसनशतान्यश्वशय्यासनानि । छत्रोपानद्विचित्रासनभवनमहाधान्यदानान्यजत्रं स श्रीमान्कोकलाख्योऽभवदिह कुमरः की......."मकर्मा ॥ प्रशस्तसम' ..........." महागुरुतोरणं शिखरिशृङ्गतुङ्गालयम् । ................ ....... वा वि ...... त ..... नि Flu तृ ... वृक्ष ब प्राचीनलेखमाला । ९८ लेखः] १ ..... .... विचित्रमतिभूषणोच्छ्रितलसन्महागोपुरं पुरंदरपुरप्रभं पुरमचीकरत्कोकलः ॥ तेनायं तुहिनाचलामलमहाकूटाग्र' ..."ब्धिगहनोत्तारार्थिना कारितः । यस्यात्युच्छ्रितकाञ्चनाण्डकलसं मार्तण्डचण्डप्रभा- संपर्कादभवद्वितानममलं श्रीवैद्यनाथप्रभोः ॥ यस्य द्वारेऽतिवस्तुप्रततमिव दिवो द्वारमुग्रा' ...."गगनमिव समुड्डीय गच्छद्विभाति । यन्मन्ये वैद्यनाथो यदभिनवभवद्रामसंस्थापितोऽत- स्तस्यार्थे पुष्पकं तत्प्रहितमिव ""स्तोरणीभूय भाति ॥ यत्र वेदविदुषां द्विजन्मनां सा" 'क्रमम् । षट्सु कर्मसु रतं बहुश्रुतं तेन वृन्दमनवं निवेशितम् ॥ उद्दामात्मविवेकसेकजनितश्रेयोलसत्पल्लवा शश्व..." पोषितद्विजगणा सद्वृत्तपुष्पोज्वला। यस्येलाविपुलालवालवलयात्सत्कीर्तिवल्ली मही- भृद्दण्डानधिरुह्य मण्डपमिव ब्रह्माण्डमारोहति ॥ संवत् १०५८ कार्तिक्यां श्रीकोकलेन ॥ (एपिग्राफिआ इण्डिका १४९.५० पृष्ठे) .... (९८) गोपगिरि(ग्वालिअरदुर्ग)मार्गस्थितविष्णुमन्दिर- प्रशस्तिः। ओम् । कालिन्द्याः किं जलौघो घनतिमिरनिभो जाह्नवीस्पर्धया नः प्रोद्यातः किं न भूयो गगनतलगतिं विन्ध्यसानुर्विहन्तुम् । १. इयं च प्रशस्तिः १८८५ ख्रिस्ताब्दे ग्वालिअरनगरं गतवता Dr. E. Hultzsch, Ph. D, महाशयेनोपलब्धा व्याख्याता च. १५ काव्यमाला॥ चिक्रसोर्यस्य दृष्ट्वा चरणमतिचिरं सप्तयो नैव पूष्णो जग्मुः क्षोभादिवोच्चैनभसि स मधुजिद्धन्तु वः कल्मषाणि ॥ अतिललितलाटमण्डलतिलकानन्दपुरनिर्गतो गुणवान् । वर्जारान्वयनागरभट्टकुमारोऽभवद्येन ॥ वाइल्लभट्टनामा तनयोऽजनि जनितजनचमत्कारः । न युधिष्ठिरोऽप्यकार्षीचः सह नकुलेन सत्प्रीतिम् ॥ परिभाषाविज्ञानं वैयाकरणस्य यस्य परमासीत् । कर्मोपधाविकारौ न कदाचिद्वाच(ध)को भूतौ ॥ सुशुभ्रतां व्याप्तदिगन्तरत्वमासाद्य दुग्धाब्धिरगाधतां च । जिगंसयोर्व च यशःपयोधिमाह्वास्त यस्यातितरां तरङ्गैः॥ धनदोऽपि न प्रमत्तो ध्वस्तसमस्तसविषोऽपि न विरूपः । रत्नाकरोऽपि न जडो यो नाशोकोऽपि रागिष्ठः ॥ श्रीरामदेवकार्ये मर्यादाधुर्यतामलङ्घयता । येन विशुद्धं युद्धे निजकुलवत्प्रकटितं नाम ॥ किं बहुना यस्य गुणाः कथयितुमपि नैव यान्ति माहौः । मानाधिकमम्बु यतो घटकोटावपि न गृह्णाति ॥ लक्ष्मी मुरारि गजां च शंभुः शची यथेन्द्रोऽथ तथा सुशीलाम् । कुलोद्गतां कासरकीयविष्णोः सुतां स कान्तां समवाप जज्जाम् ॥ व्यपगतमदमोहजालसङ्गः कृतचरितैकरतः प्रसन्नमूर्तिः । परिहृतखलसंगमः सुतोऽल्लः सकलकलाकुशलो बभूव ताभ्याम् ॥ न पितुर्धरोऽधिकारी पुत्रोऽभूत्कश्चिदप्यमूशब्दान् । श्रोतुमशक्तेनोहे धूस्तेन नविषयलुब्धेन ॥ - वा शि नि दे त १. 'वडनगर' इति नाना सांप्रतं प्रसिद्धम्. २. चतुर्थपाण्डवेन, अप्रशस्तकुलेन च. ३. कर्मसंज्ञाधिकरणादिसंज्ञाया वाधिका. उपधाया विकारश्च बाधकत्वेन दृष्टः. अस्य तु कर्मणः कार्यस्य विकारः, उपधायां धर्मादिपरीक्षायां विकारश्च बाधको न. ४. क्षीबः, हृष्टश्च. ५. सविषाः सर्पाः, जलाशयाश्व. ६. विरूपो गरुडः, रूपहीनश्च. ७. समुद्रः, रत्नखनिश्च ८. अशोकशोकरहितः, रक्ताशोकश्च. ९. स्नेहयुक्तः, रक्तवर्णश्व, वृा ब ९८ लेखः] प्राचीनलेखमाला। दुग्धाब्धेरिव मूर्तिर्यस्य सदा दानवारिपरिपूता । कमलालिङ्गितवपुषः प्रजापतेरिव तनुर्यस्य ॥ हर इव वृषविहितास्थो दोषासङ्गं न भानुरिव मेने । मधुरिपुरिव यः संततमाक्रान्तविपक्षसंघातः॥ यस्य परार्थासक्ता सततं परिदृश्यते मतिर्नूनम् । निर्लोभत्वं तस्य हि जातं खलु यत्तदाश्चर्यम् ॥ संत्यक्तपरकलत्रो धर्मैकरतोऽपि सर्वदावश्यम् । निजवनितापरितुष्टोऽप्यभिलषितसुहृज्जनप्रंमदः ॥ अवलोक्य वक्रकमलं यस्य शशी खोदयेन मलविकलम् । कर्तुमनीशः किंचित्प्रतिक्षणं क्षीयतेऽद्यापि ॥ अकरोद्यश्च विकल्पं व्याख्यानविधौ न दानविषयेषु । संग्रामस्य न योऽभूत्पराङ्मुखः परकलत्रस्य ॥ स्थैर्य वचसि न रोषे, स्पृष्टो विजयैर्न जातु कलिकलुषैः । यस्याभवदालस्यं पापेषु न राजकार्येषु ॥ धर्मार्जने च लोभो न कदाचित्परधनेषु विविधेषु । यस्य त्वविवेकित्वं मित्रेषु न बुद्धिविभवेषु ॥ दारिद्यं हरतार्थिनो रिपुजनालक्ष्मी मनो योषितः रूपं पञ्चशरादगाधपयसो गाम्भीर्यमम्भोनिधेः । चित्रं येन विचारचारुमनसामाचारमातन्वता सर्वत्रैव जनापवादरहितं चौर्य प्रकाशीकृतम् ॥ कुर्वीत यदि विधाता कर्णानामपि सहस्रमहिपस्य । श्रुत्वाथ तद्गुणौघान्वदनशतैः शक्नुयाद्वक्तुम् ॥ श्रीमदादिवराहेण त्रैलोक्यं विजिगीषुणा । तद्गुणान्यः परिज्ञाय कृतो गोपादिपालने ॥ १. दानवारि संकल्पजलम् , दानवारिविष्णुश्च. २. कमलेन, लक्ष्म्या च. ३ धर्मः, बलीवर्दश्च. ४. दूषणानाम् , रात्रेश्च. ५. गरुडपक्षः, शत्रुश्च. ६. पर वित्ते, उत्कृष्टेऽर्थे. ७. परं कुलीनम्, परस्येतरस्य. ८. प्रमदो हर्षः, प्रमदा अबलाश्व. ९. अहिपः, सर्पराजः.

BHARYANA काव्यमाला। कढुकदुहिता बब्बा येष्टतमामाप सोमटां तनयाम् । भट्टसुतान्या गोग्गापरा महादेवजा गौरी ॥ गोवर्धनजा सिल्ला नन्नकतनयेसटा च येनोढा । बब्बादीनां स्वस्य च पुण्यस्य विवृद्धये महता ॥ सिद्धेर्वम समं भवाब्धितरणे यद्यानपात्रं मह- बीजं धर्मतरोरनन्तफलदं स्थानं श्रियः शाश्वतम् । टकोत्कीर्णयशोनिधानमिव यन्नामाक्षरैरङ्कितं तेनाकारि विकारशून्यमनसा विष्णोरिदं मन्दिरम् ॥ दधति जलमगाधं सागरा यावदुच्चै- गिरिरयमपि वोढा यावदभ्रंकषस्य । शिरसि शिखरराशेः स्थेयसी श्लाघ्यरूपा स्थगयतु भुवि कीर्ती रोदसी तावदेषा ॥ नवसु शतेष्वब्दानां द्वात्रिंशत्संयुतेषु वैशाखे । रम्येऽस्मिन्नेकशिले विष्णुर्भक्त्या प्रकाशितो भवने ॥ (एपिग्राफिआ इण्डिका १५६-५७ पृष्टे) (९९) कुदारकोट (गवीधुमती)ग्रामस्थितमन्दिरप्रशस्तिः। संनिहितनीलकण्ठा नितम्बतटशोभिनी सैसिंहगुहा । जयति प्रालेयाचलभूरिव दुर्गा सदा सुमुखा ॥ आसीच्छ्रीहरिदत्ताख्यः ख्यातो हरिरिवापरः । श्रीहर्षेण समुत्कर्ष नीतोऽपि विकृतो न यः ॥ १. अयं च ग्रामोऽधुना पश्चिमोत्तरदेशत्वेन प्रसिद्ध भूभागे 'इटावा'परिगणे इटा- वाप्रामत ऐशान्यां दिशि चतुर्विंशतिमैलदूरे वर्तते. २. यस्मिन्पाषाणे प्रशस्तिरियं लिखिता स पाषाणोऽधुना लक्ष्मणपुरे वर्तते. प्रशस्तिश्चेयं Dr. F. Kielhorn, Ph. D., C. I. E., महाशयैर्व्याख्याता. ३. मयूरः, महादेवश्चः ४. सिंहेन गुहेन च सहिता, सिंहेन गह्वरेण च सहिता. ५. अयमेव श्रीहर्षः सप्तमनिस्तशतकोत्पन्नमहाक- विबाणेन हर्षचरिते वर्णितः. Ani २ वा दि नि दे तृ वृक्ष ।

९९ लेखः]
प्राचीनलेखमाला ।
अविचलितरत्नसंचयमक्षोभितभूभृदवधतभुजङ्गम् ।
पुरुषोत्तमस्य विसदृशमासीलक्ष्म्यर्जनं यस्य ॥
तस्याभवत्सुतनयो हरिवर्मनामा
श्रीमम्म इत्यपरनामकृतप्रतीतिः ।
यस्मित्रवाविव तपत्यखिलस्वबन्धु-
स्त्रीवक्रपङ्कजवनानि विकासमीयुः ।।
यस्याद्यापि हतारातिमन्दिरोद्यानपादपान् ।
दावव्याजेन दहति प्रकामं कोपपावकः ॥
विशालवक्षःफलकाभिलक्ष्यप्ररूढखड्गत्रणसंनिवेशाः ।
अनेकसंयद्विजयाङ्कसंख्या निखातरेखा इव यस्य रेजुः ॥
सरागयापि यस्यासीद्वयं द्रष्टुं न पारितम् ।
यत्पृष्ठमरिवाहिन्या यच्च वक्षः परस्त्रिया ॥
प्रजापति निर्मितसप्तसागरक्षमाधरं यो लघयन्सिसृक्षया ।
महाहदानम्बुनिधीनकल्पयत्सुराधिवासानचलांश्च कोटिशः ॥
महान्तः कर्कशात्मानो बद्धमूला अपि क्षितौ ।
सावज्ञमाज्ञया येन नतिं नीता महीभृतः ।।
स्वप्रासादमहाभारगुरुभूततनोरिव ।
यः कूपखननव्याजैः सिरा भूमेरमोचयत् ॥
मार्गणाभिमुखा लुब्धाः समेताः फलकाङ्क्षया ।
विमुखा येन रिपवः कृता न पुनरर्थिनः ॥
लोके प्रथयतापूर्व व्यवहारेषु कौशलम् ।
येनार्थित्वमगत्वैव जिताः प्रत्यर्थिनः सदा ॥
जनयामास यः पुत्रं त्रयीरक्षणदीक्षितम् ।
श्रीतक्षदत्तनामानं नमितारिशिरोधरम् ॥
१. सरागया मात्सर्वयुक्तया, अनुरागयुक्तया च. २. मार्गणा वाणाः, मार्गणं याच्या.
३. आकाडी, व्याधश्च.

११८ काव्यमाला। सर्वेषामभयप्रदेन सहजाः सन्तस्तथानेकशो युद्धेऽनेन यशोर्थिना तृणमिव त्यक्ता वयं केवलम् । इत्युच्चैः परिवृद्धमन्यव इव प्राप्यावसानान्तरं लब्धास्त्रव्रणरन्ध्रनिर्गमपथा यस्यासवो निर्ययुः ॥ रम्ये गवीधुमति संततवेदविद्या- व्याख्यानघोषबधिरीकृतदिग्मुखेऽस्मिन् । उच्चैरचीकरदुरुस्थिरचारुचित्रं त्रैविद्यमन्दिरमुदारमिदं स साधुः ॥ यावद्गुणाः शशिकरा इव तस्य लोक- माहादयन्ति हृतसान्द्रतमःसमूहाः। एतद्विजातिभवनं भुवनाभिराम- मव्याहतादिकृतसंविधि तावदास्ताम् ॥ भद्रेणैते रचिता वामनतनयेन सुचरितश्लोकाः । ऐशानिनापि लिखिता सूत्रधृता देवदेवेन ॥ बढ़चचरणे सांकृत्यसगोत्रः सूर्यदत्तपुत्रो महासेनदत्तः। अध्वर्यु- चरणे वत्ससगोत्रो गीवत्ससोमपुत्रो जातवेदसोमः । छन्दोगचरणे कुह- लसगोत्रः कुलदीपकीर्तिपुत्रो वैश्वानरकीर्तिः । बढचचरणे वासिष्ठस- गोत्रः उदैत(ध)रपुत्रः श्रीचन्द्रधरः । अध्वर्युचरणे औपमन्यवसगोत्रो बहुस्वामिपुत्रो बहुरूपशर्मा । छन्दोगचरणे गालवसगोत्रो धृविगुप्तखा- मिपुत्रः एतैर्महत्तमैः श्रीमत्रविद्याज्ञानुपालनैः । कारितं घाम धर्मस्थैः श्रीमम्मस्य समाज्ञया । (एपिग्राफिआ इण्डिका-१८०-८२पृष्ठ) २ वा (ह चि tu तृ वृ ब EAR १०० लेखः प्राचीनलेखमाला । ११९ (१००) कांगराज्वालामुखीस्तोत्रसंसारचन्द्रप्रशस्ती। ओं नमो ज्वालामुख्यै । पायाज्ज्वालामुखी वः प्रणतसुरवरस्फारकोटीरकोटी- कोटीव्याटीकमानामणिसममणिश्रेणिभावेणिभाता । कल्पान्तक्षोभजृम्भाभररभससमारम्भसंरम्भभीम- ज्वालामालाकरालाननलघुकवलीभूतभूतप्रपञ्चा ॥ अव्याज्ज्वालामुखी वः समरसमरसीभावसंभावनोद्य- द्गीर्वाणव्यस्रवाणप्रहसितदितिभूगर्वसर्वकषौजा । शौर्याहंभावसंभावितमहिषगलामग्नखड्गारधारो- द्गच्छद्रक्तप्रणाली""त""रयहृतिच्छिद्रितोwण्डखण्डा ॥ पञ्चास्योदञ्चनप्राञ्चितचरणसरोजा सरोजासनादि- .."त्यासु त्यागशूरासुरगमरमदत्योनदत्पाञ्चजन्या । जन्या जन्यप्रपञ्चा प्रभवभयरुजाहारिणी हारिणी सा वद्यावद्यानवद्यां धिय[मिय]मुदय[स्थे]नि वज्रेश्वरी वः ॥ साकं साकंसकंसाशमनशमनताशाविभाताविभाता दिव्यादिव्यापटूनाविषमविषमयक्लेशभीमाशभीमा । वामावामावताद्वो यतिनि यति......."निरीक्षासमक्षा. जालं जालंधरं श्रीचयनचयनयोगश्रितोमाश्रितोमा ॥ देवी ज्वालामुखी वश्चिरमशुभमलं खण्डिषीष्टैधिषीष्ट स्थामैतस्याः प्रसादात्किमपि तनु मह[श्चे]तसा संगसीष्ट । विद्या [विद्यो ति]षीष्ट प्रकृतिमनुविदे... यिषीष्ट प्रसर्ति- (ः संबोभूयिषीष्ट प्रचुरपरिमला""प्रकोकूयिषीष्ट ॥ १. इयं च प्रशस्तिः 'साहिमहम्मदे दिल्लीनगरं प्रशासति (A. D. 1433- 1446) निर्मितेति प्रशस्त्यन्तिमपद्येन व्यता. अत्रत्यस्तोत्रपद्यानि त्वस्फुटार्थान्येव. अत एव Dr. G. Buhler Ph. D., L. L. D., C. I. E., महाशयैरपि नवश्लोकभाषान्तरं न रचितम्.

१२० काव्यमाला | दुर्गादुर्गातिवोऽव्यादलिकुलतरलां वैजयन्ती जयन्ती- मालामालालयन्ती कलितकलिमलाविश्रुताशाश्रुताशा । दुर्गादुर्गातिवोऽव्यादलिकुलतरलां वैजयन्ती जयन्ती- मालामालालयन्ती कलितकलिमलाविश्रुताशाश्रुताशा ॥ साव्याङ्गां सर्वदा वः कलितहरिपदादेवविद्यारसोमा साव्याङ्गां सर्वदावः कलितहरिपदादेव विद्यारसोमा । साव्याङ्गां सर्वदा वः कलितहरिपदादेवविद्यारसोमा साव्याङ्गा सर्वदावः कलितहरिपदादेवविद्यारसोमा । एधन्ती(?) स्निह्यमानां वि.""नु......ति.""सर्व..."नी रुद्यन्ती वो विबाध..........."या यापयन्ती सुखानि । पुंसः सेव्या विनत्या विजयति सुदुता कल्मषं त[क्ष्णु वाना शर्मेशौ......."सुकर्मे(?) फलमुप[चिनुते ... लोकस्य सारम् ॥ ......"गासीष्ट........"ष्टं सकलकलिकलां कंसिषीष्टाशिशीष्ट(१) श्रेयस्त्रासीष्ट दासीष्ट च निरतिशयां...ति........षीष्ट । ......"सीष्टा..."र... का""सदन""रा गाहिषीष्टा........षीष्ट स्थासीष्टास्थां धृषीष्टाहितकृति निकृषीष्टाद्य कात्यायनी ते ॥ श्रीमद्राघवचैतन्यमुनिना ब्रह्मवादिना । [स्तव रत्नावली सेयं ज्वालामुख्यै समर्पिता ॥ विद्वानात्रेयगोत्रः कलिमलदलनो द्राविडः कृष्णभट्टः षड्दर्शि()न्याः प्रवक्ता नृपतिसुतनुतः सोमसंस्थाभिषिक्तः । तस्माद्वागीश्वराख्यः समजनि सुधियामग्रणीम्रन्थकर्ता मीमांसापारदृश्वा स्मृति" [निपुणो] यक्षविद्याप्रवीणः ।। तत्सूनुः कृष्णभट्टः परनरवनितासोदरः सर्वविद्या- पारीणः काव्यकर्ता हरिहरचरणाम्भोजभृङ्गोऽतिवेलम् । काशीवासी समेत्यालिखदिदमुरुभिर्लि' "स्तोत्ररत्नं ज्वालामुख्या महिम्नः कलयत तदिदं भुक्तिमुक्तिप्रधानम् ॥ २ वा क्षि त नि he त वृ १०१ लेखः] प्राचीनलेखमाला। १२१ वंशे जैवातृकस्याभवदवनिपतिर्मेधचन्द्रस्ततोऽभू- द्राजा श्रीकर्मचन्द्रो गुणगणनिलयः सत्कुमुद्वत्सुधांशुः । तस्मात्संसारचन्द्रः समजनि नृपतिः पञ्चमाब्दाभिषिक्तः शत्रून्सर्वान्विजित्वा(?) वितरति वसुधां वेदशास्त्रार्थविञ्चः ॥ कीर्तिर्यस्य तुषारहारविशदा लोकत्रयं गाहते प्रालेयाद्रिमिषेण पन्नगपतिव्याजेन चन्द्रच्छलात् । यन्मूर्तिश्च सतामभीष्टफलदश्चिन्तामणिः शोभते सोऽयं भूपतिशेखरो विजयते संसारचन्द्रो नृपः ॥ वीरप्रतीहारसुते वदान्ये महीपतेर्वोढरि राज्यभारम् । रणी प्रवी(ती)हारजितारिवगै भवत्प्रशस्तिः परिरक्षति क्षितिम् ॥ ब्रह्माण्डोक्तगुहान्तरे दृढतरं निर्माय कूर्मासनं क्षीराम्भोनिधियोगपट्टकलिताप्युप्त्वा तमःकुन्तलान् । कालं वस्तु विजित्य पश्यति परं ज्योतिः प्रतापाभिधं श्रीमत्साहिमहम्मदस्य जयतात्कीर्तिः परा योगिनी ॥ श्रीमद्गणपतिशुक्लप्रीत्या काम्बोजदेल्हस्य । भक्त्या लेखितमेतत्स्तोत्रं सूगीकसूत्रधाराच्च(रेण) ॥ श्रीमत्कर्मध्वजशिष्यमूर्यध्वजस्य ज्वालामुख्यै नमः । (एपिग्राफिआ इण्डिका-१९२.१९४ पृष्ठे) (१०१) परमर्दिदेवमहामात्यसल्लक्षणकारितमन्दिरप्रशस्तिः। ओं ओं नमो भगवते वासुदेवाय । जयन्ति बाहवः शौरेश्चतुर्वर्गफलद्रुमाः । निर्भरश्रीपरीरम्भपर्याप्तपुलका १. इयं च प्रशस्तिः शिलायामुत्कीर्णा वटेश्वरग्रामे यमुनातीरस्थे उपलब्धाधुना ल- क्ष्मणपुरप्रदर्शिन्यां वर्तत इति Dr. F. Kielhorn, Ph. D., C.I. E., महा- शयैर्वर्ण्यते.

१२२ काव्यमाला। .............................................. "टि। इति च्छलास्पृष्टपयोधिपुत्रीपयोधरः पातु रथाङ्गपाणिः ॥ अत्रेरजायत विलोचनपुण्डरीका- देवो गिरीन्द्रतनयादयितावतंसः । वंशस्ततोऽयमु मुक्ताफलैरिव यशोभिरशोभि शुभैः ॥ अस्मिन्नुद्दामदोर्दण्डखण्डितारातिमण्डलाः । जज्ञिरे चारुचारित्राश्चान्द्रात्रेयमहीभुजः ॥ तेष्वाविरास विलसत्करवालदण्ड- दम्भोलिनिर्दलितशात्रवगोत्रपक्षः । उद्दामदर्परिपुराजबलाभिघात- ख्यातोद्यमो मदनवर्ममहीमहेन्द्रः ॥ सौधे सोच्छसितं स्थितं सकरुणं लीलाशुको व्याहृतो दृष्टो बाष्पजलौघरुद्धनयनं क्रीडाकुरङ्गीशिशुः । त्रासाद्यस्य यियासुना वनभुवं कान्ताजनेन द्विषां प्रत्यावृत्तिनिराशमानसतया किं किं न वा चेष्टितम् ॥ सिन्दूरिताहितमतङ्गजकुम्भपृष्ठे येनाहितोऽलिमलिनः करवालदण्डः । युद्धेऽरिभिनिजविनाशविसर्पिशैध्य आलोकि केतुरिव नूतनसूर्यसङ्गी ॥ अजायत यशोवर्मा ततश्चन्द्र इवाम्बुधेः । योऽभवज्जगदानन्दो महेश्वरशिरोमणिः ॥ कुन्देन्दुकान्त्या त्रिजगद्विसारियदीयकीर्त्या धवलीकृतेषु । केशेषु जाता बत निर्जराणामभूतपूर्वा पलितस्य शङ्का ॥ आसीत्ततो नम्रनरेन्द्रमौलिरत्नप्रभापाटलपादपीठः । अखर्वगर्वप्रतिपक्षिसार्थदोर्दर्पमर्दी परमर्दिदेवः ॥ A व वि ता. नि दे त वृक्ष ब

Sawal
१०१ लेखः]
प्राचीनलेखमाला।
१२३
परस्परविरोधस्य तस्य राज्ये कथैव का ।
संगतं श्रीसरस्वत्योरपि येन प्रवर्तितम् ॥
प्रचलति ककुभां जयाय यस्मि-
न्हरिखुरधूतधरापरागपुञ्जः।
कवलितरविरश्मितीव्रतापा-
दिव पिबति स्म पयांसि तोयराशेः ॥
यत्प्रतापदहने निरङ्कुशं संचरत्यपि सपत्नसमसु ।
उद्बभूवुरधिकं हरिन्मणिश्यामकोमलतृणानि सर्वतः ॥
अथास्ति लोकत्रितयप्रतीतं वसिष्ठगोत्रं सुकृतैकपात्रम् ।
यस्मिन्नजायन्त विशुद्धवृत्ता विप्राः पयोधाविव मौक्तिकौघाः ॥
तेषु क्रमादखिलशास्त्रसरोविहारि-
हंसोऽवतंसितशिवापतिपादपद्मः ।
लक्ष्मीधरः स्फुरितभावदशीतरश्मि-
सब्रह्मचारिगुणमौक्तिकसिन्धुरासीत् ॥
यदध्वरोल्लासिहुताशधूमलेखाः स्फुटानेकविभङ्गिभाजः ।
दिगङ्गनापीनपयोधरेषु विलासवेणिश्रियमाश्रयन्त ॥
अलभत जनिमसात्सच्चरित्रैकपात्रं
विनयसदनमेकं वत्सराजो द्विजेन्द्रः ।
जलधिरिव गभीरः शैलवद्वेयसारो
मुररिपुरिव लक्ष्मीसंश्रयो यो बभूव ॥
निर्मलगुणगणवतश्च मित्रोदयमोदिनोऽम्बुजस्येव ।
शुक्लद्विजपरिभोग्या बभूव यस्यामला लक्ष्मीः ॥
आसीदशेषश्रुतिसिन्धुहंसस्तस्यात्मजो लाहडनामधेयः ।
पुपोष यो निर्मलवाग्विलासं रेमे च यः सज्जनमानसेषु ॥
मन्त्रिणां धुरि कलोज्ज्वलकायं यं चकार मदनक्षितिपालः ।
विष्टपत्रितयमेव जिगीषुः पञ्चबाण इव शीतमयूखम् ।।

MERAMAIR १२४ काव्यमाला। कुटुम्बकुमुदप्रौढप्रमोदने पटीयसी । तस्यासीद्विजराजस्य प्रभा हृदयवल्लभा । ततो बभूव द्विजराट्समक्षः सल्लक्षणश्चारुचरित्रपात्रम् । अभूत्रिनेत्रः परमर्दिदेवः क्षोणीश्वरो येन विनिर्मलेन ॥ राज्य""रमशेषमेव भुजयोविन्यस्य यस्य स्वयं वीरश्रीपरमर्दिभूपरिवृढः प्रौढप्रमोदोदयः । त्रस्यद्वालकुरङ्गशावकदृशामुद्दामकामस्पृशां पत्रन्यासकलाविलासरसिकवान्तोऽभवत्संततम् ॥ लक्ष्मीकेलिनिकेतनस्य भजतो मित्रोदयस्मेरतां दूराधःकृतकण्टकस्य गुणिनो लोकैकतापच्छिदः । अम्भोजस्य च तस्य च त्रिभुवने साधर्म्यमत्युज्वलं वैधर्म्य तु पराङ्मुखः स न कदाप्यासीवि जाधीश्वरे ॥ प्रासादो वैष्णवस्तेन निर्मितोऽन्तर्वहन्हरिम् । मूर्ती स्पृशति यो नित्यं पदमस्यैव मध्यमम् ॥ अकारयच्च स्फटिकावदातमसाविदं मन्दिरमिन्दुमौलेः । न जातु यस्मिन्निवसन्स देवः कैलासवासाय चकार चेतः ॥ पीताम्बरं यस्य यशो बभूव सुदर्शनं यस्य वपुर्विजज्ञे । गुणोत्करो यस्य च नन्दकोऽभूदासीत्स तस्मात्पुरुषोत्तमाख्यः ॥ त्रिभुवनमहनीयवृत्तवृद्धं शिशुमपि यं परमर्दिपार्थिवेन्द्रः । अनयत सचिवेषु मुख्यभावं जगति गुणा हि पुमांसमर्पयन्ति । अनेनाचारशुचिना ब्रह्मलोके विहारिणः । कीर्तनं जनकस्येदमसिद्धं सिद्धिमापितम् ॥ गौडान्वयैकतिलकस्य गदाधराख्यो लक्ष्मीधरस्य तनयः कविचक्रवर्ती । विद्यावतां स परमः परमर्दिदेव- संधानविग्रहमहासचिवो बभूव ॥ २ व शि नि दे त वृ १०२ लेखः] प्राचीनलेखमाला । १२५ तस्यात्मजो देवधरः कवीन्द्रः प्रशस्तिमेतामतुलां चकार । अस्यानुजो धर्मधरश्च धीरः कुतूहलाबालकविलिलेख ॥ उच्चकार चमत्कारकारकः सर्वशिल्पिनाम् । ..."धीरो महाराजः सोमराजाङ्गभूरिमाम् ॥ शंभुश्च विष्णुश्च विभर्ति यावज्जटाकलापं च भुजान्तरं च । पाथोधिनं धाम च कौस्तुभं च स्थिरास्तु कीर्तिश्च कृतिश्च तावत् ॥ पक्षत्र्यक्षमुखादित्य(१२५२)संख्ये विक्रमवत्सरे । आश्विनशुक्लपञ्चम्यां वासरे वासरेशितुः ॥ श्रीरस्तु। (एपिग्राफिआ इण्डिका-२०८.२११ पृष्ठे ARTHANE (१०२) कान्यकुब्जाधीशमहेन्द्रपालराज्यसमकालिक- मन्दिरत्रयप्रेशस्तिः। ओं नमो माधवाय। याते यामवतीपतौ शि[खरिषु क्षामे]षु सर्वात्मना ध्वस्ते ध्वान्तरिपौ जने विघटिते त्रस्ते च तारागणे । भ्रष्टे भूवलये गतेषु च तथा रत्नाकरेष्वेकता- मेको यः स्वपिति प्रधानपुरुषः पायात्स वः शार्ङ्गभृत् ॥ १. अस्यां प्रशस्तौ यदि समयोल्लेखो न कृतस्तथापि ‘स श्रीमाञ्जयति महेन्द्रपालदेवः' इत्युक्तेर्महेन्द्रपालराज्यनिर्माणकत्वं प्रतीयते. महेन्द्रपालसमयस्तु 'परमभट्टारकमहारा- जाधिराजपरमेश्वरश्रीभोजदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीमहेन्द्रपा- लदेवपादानां महीप्रवर्धमानकल्याणविजयराज्ये संवत्सरशतेषु नवसु षष्टयाधिकेषु चतुरन्वितेषु' इति (एपिग्राफिआ-इण्डिका-पुस्तके १७३ पृष्ठमुद्रितलेखे स्फुट एव. २. प्रशस्तिरियं पाषाणलिखिता लवपुर(लाहोर)नगरीयप्रदर्शिन्यां वर्तत इति व्या- ख्यानावसरे Dr. G. Bihler Ph. D., LL. D,C.I. E. महाशयाः.

१२६ ६ काव्यमाला। ९ दृष्टिः [पायात्रिजग]दखिलं शाङ्गिणः कान्तमूर्तेः कान्तासद्भूस्फुरितसुभगस्निग्धताराभिरामा । उद्यत्तीबस्सरजलनिधौ मज्जतः श्रीमुखेन्दु- स्फारज्योत्स्ना भव].... [रुच] स्मेरगण्डस्थलस्य ॥ क्षेत्रं कुरो[विविधपापम]लाभिघात- दक्षं क्रियादुदयमस्तसमस्ततापम् । अध्यासितं मुनिगणैरुदितात्मबोध- प्रध्वस्तगाढतिमिरप्रकटप्रमोदैः ।। पोतः [संसारसिन्धौ सुरपथगमने स्यन्दनः साधु[वर्ग]- ......"ातवः प्रलयजलधरः संपतत्सान्द्रधारः। नानाव्याधिप्रबन्धप्रचुरतरतमःपङ्कविध्वंसभानु- नीर चैतत्समन्ताद्दयतु दुरित[गणं चारु] सारस्वतं वः ॥ यः शक्तः खकुल[मनुग्रहीतुमृद्ध्या भिन्दानः परबलमानसं समन्तात् । स श्रीमाञ्जयति महेन्द्रपालदेवः शान्तारिः शशधरसुन्दरः शरण्यः ॥ आसीत्तोमरतुङ्गवंशति[लकश्चण्डप्र]तापोज्ज्वलो राजा रञ्जितसाधुवृत्त हृदयो दुवृत्तशैलाशनिः । नाम्ना जाउल इत्यपूर्वचरितख्यातो दयालंकृति- स्तत्त्वालोकि विलोकितक्षितिपतिव्यापारलब्धोदयः॥ येन ज्ञातिकुलं क"...... [नी]तं परां संपदं छिन्नारातिकरीन्द्रकुम्भशकलैः कृत्वोपहारं भुवः । कीर्त्या यस्य च नाकनागनिकरव्यासङ्गतः संगमा- व्योम्नश्च स्फुरदिन्दुसुन्दररुचा स्वःसिन्धुलीलायितम् ।। प्रतिदिश[ममरा]णां मन्दिराण्युच्छ्रिताग्र- स्थगितशशधराणि स्फारमारोपितानि । जगति विततभासा येन दूरं विभान्ति खयश इव निरोद्धं शङ्कवो दिनिखाताः ॥ व (- ता त वृक्ष ब

१०२ लेखः] प्राचीनलेखमाला ।
१२७
तत्संतानमहोदधेः प्रमुदितप्रोद्यद्भुजङ्गाश्रया-
दुर्लङ्काद्धनमौक्तिकांशुनिकरस्फारीभवत्संपदः ।
प्रख्यातादजनि खवंशतिलकः श्रीवज्रटाख्यः प्रभुः
प्राप्ताशेषमनोरथः शुभतरव्यापारतुङ्गोन्नतिः ।।
तस्य स्फुरदिन्दुरुचिः शौरेरिव जलधिकन्यका जाता ।
नाम्ना मङ्गलदेवी जाया गिरिजेव गिरिशस्य ॥
तस्मात्तस्यां जज्जुकः प्रादुरासीदुच्चैः शान्तः सत्सु निर्मत्सरेषु ।
क्रूरः केतुर्धरारातिचक्रे क्रुध्यत्सेनाकुञ्जरध्वानरौद्रे ॥
तस्य स्फुरनिशितखड्गनिकृत्तशत्रो-
स्त्रस्तान्धदीननिकरोद्धरणोरुकीर्तेः।
सद्वृत्तरक्तवनितातिलकाङ्ककल्पे
कान्ते बभूवतुरुदारशशाङ्ककान्ते ॥
एका चन्द्रेति विख्याता द्वितीया नायिकेति च।
विशिष्टगुणनिर्माणाद्वे(इ) एव सदनं श्रियः ॥
चन्द्रायाः समजनि गोग्गनामधेयो धीराणां धुरि विनिवेशितो विधात्रा ।
भूनाथो द्विषदिभकुम्भभेदनिर्यन्मुक्ताभि[महितमहीतल]: शितासिः ॥
आसूत [च विचक्षणं क्षतविपक्षपक्षप्रभं
प्रभाकरकरोत्करं स्वबलसैनिकाम्भोरुहाम् ।
अधर्मपरिपन्थिनं तदनु पूर्णराजं सुतं
स्ववंशगगनोदरे तुहिनदीधिति नायिका ॥
करत[ल]स्थगिताधरपल्लवाः प्रतनुकान्तिकपोलतलोदरम् ।
सिषिचुरश्रुजलैयदरिस्त्रियः सरलितप्रचुरालकजालकाः ॥
तस्य भ्राता गुणनिधिरभूत्सोदरो देवराजः
स्फूर्जत्तेजःप्रविहतपरस्फारसेनान्धकारः ।
स्थानं क्षान्तः क्षतकलिमलः क्षिप्तरागादिदोषः
स्निग्धच्छायस्तरुरिव ततः सत्फलानम्रमूर्तिः ॥

१२८ काव्यमाला। नामापि प्रकटतरं निशम्य यस्य क्रुद्धस्य भ्रुकुटितरङ्गिताननस्य । दृप्तानां युधि विकसद्विगाढभासां सांसे करतलतः कृपाणदण्डः ॥ यदास्यसरसीरुहं सरसमर्थिनां पश्यतां नितान्तमगमत्क्षणात्क्षयमुपद्रवो मानसः । व्यघूर्णत च संभ्रमात्प्रतिभटध्वनद्दन्तिनां घटा विघटनोन्मुखी समिति यस्य सद्यः पुरः ॥ इत्युद्दामप्रकटितगुणोद्गाररम्याः क्रमेण प्राप्तश्रीकाः शुभतरधियः साधुरक्तास्त्रयोऽपि । विष्णोः सौधान्यतुलमहसः कारयामासुरत्र त्रस्तास्ती[वाद्भवजल]निधेदुर्गमान्मन्दबोधैः ॥ गोग्गेन कारितं मध्ये पूर्णराजेन पृष्ठतः । पुरतो देवराजेन घनान्धतमसश्छिदे ।। चतुःसमुद्रसीमाकं यावदेतन्महीतलम् । इदमायतनं तावद्विभातु सदनं श्रियः ।। धन्वन्तरि[प्रतिनिधिः श्रुतसारमूर्तिः सहन्धुरच्युत इति प्रकटाभिधानः । काम्बोजजः प्रभुमनःकमलद्विरेको रामस्य सूनुरिह कारयिता बभूव ॥ यक्षपालकनामैको द्वितीयो गेज्जराभिधः । पाटला[ख्य]स्तृतीयोऽपि ग्रामो भोगाय कल्पितः॥ अत्रार्यैः क्ष्मानाथैः श्रेयोथै देहस्य । संसारं दृष्ट्वोच्चैः कर्तव्या सद्बुद्धिः ॥ स्वकुलगगनभानुः "ारप्रसक्तः श्रुतविनयविदग्धो भट्टरामः किलासीत् । प्रकृत मधुर[बन्धां मु]....""सास्य सूनुः सरसललितसारां लीलयेमां प्रशस्तिम् ॥ व Cou ता नि दे तृ 230HICTEEREMONSTROMAL १०३ लेखः प्राचीनलेखमाला। १२९ बभूव सूत्रधारोऽत्र दुर्लभादित्यसंज्ञितः । लादित्येन धीमता ॥ (एपिग्राफिआ इण्डिका-२४४-२४८ पृष्ठे.) ram (१०३) बिल्हारी-खेडी-शिलालेखः। ओं नमः शिवाय। पायाद्वः स समस्तमङ्गलनिधिः शंभोर्जटाजूटको यस्मिल्लोललसद्दयुमण्डलगलन्मन्दाकिनीवारिभिः । गाढग्रन्थिनिपीडितोरगपतिप्रस्फारफुल्लत्फणा- भीमव्यावृतवक्रमारुतधृतैः श्वेतातपत्रायितम् ॥ अपि च । अव्यावश्चन्द्रचूडस्य लोचनार्चिष्मतः शिखा । मित्रमेष सरस्येति दग्धुं विधुमिवोद्गता ॥ यं खेलाय षडाननः शिशुतया कृत्वाग्रहं मार्गति ग्रन्थो यश्च दुरोदरैः पुरभिदो देव्या समं दीव्यतः । केलीकोपकथासु येन तनुते हेतिक्रियां पार्वती पायाद्वः स जटावतैककुसुमं शार्वः सुधादीधितिः ॥ दिक्षु प्रेढाभियोगप्रवलितवलनाविभ्रमाकाण्डचण्डै- दोर्दण्डानां प्रकामप्रथिमभिरनिलैर्दूरमुत्सारितासु । किंच प्रस्फारचारीनमदवनिवशायोम्नि याते महत्ता- मव्यादव्याहतेच्छं त्रिपुरविजयिनस्ताण्डवाडम्बरं वः ॥ वंशेऽत्र सोमसंभूतौ वाचं विक्षिपता मया। हन्त हस्तैरुपक्रान्ता मोहेन वियतो मितिः ॥ १. 'अयं ग्रामो जबलपुरप्रान्त आसीत्' इति, 'अधुना चेयं शिला नागपुरप्रदर्शिन्या- मस्ति' इति, 'इयं प्रशस्तिश्च दशैकादशख्रिस्ताब्दशतके निर्मिता भवेत्' इति च Dr. F. Kielhorn, Ph. D., C. I. E., महाशयाः.

काव्यमाला। वाचामुज्ज्वलिमापि नास्ति यदि मे तत्कीर्णमानोन्नते- रस्मादेव महीयसः शशभृतो वंशात्स संपत्स्यते । यद्वा पश्य निसर्गकालिमभुवोऽप्याशेभदानच्छटाः क्षीरोदन्वति किं न संगतिभृतस्तच्छायतां बिभ्रति ।। नेत्रादत्रेधरित्रीधवलनसुहृदां धाम धाम्नामुदञ्च- ल्लोकालोकं यदाप प्रभवमतलिनध्वान्तविध्वंसहेतुः । सोऽयं सोमाभिधानस्तिलकयति कला मौलिमस्यैव शंभो- रस्सादेव प्रवृत्तः किमपरमयमप्यन्वयो हैहयानाम् ॥ अस्मिंश्च वन्द्यतमतां गमिते बुधायै- राद्यैर्नृपैर्नृपतिरर्जुन इत्युदारः। आसीविषद्विपिनकर्तनकीर्तनीय- कीर्तिच्छटाछुरितदीर्घ दिगन्तरालः ॥ यद्वक्षस्तटताडनातितरलत्रुट्यत्पविप्रोच्छल- ज्ज्वालामालिकरालितेन करिणा देवाधिपः क्वाप्यगात् । लीलोल्लालितशर्वपर्वतपतेस्तस्यापि लङ्कापते- यद्वैरव्यवसायिनो यदभवत्ख्यातिप्रमाणं हि तत् ॥ दत्तात्रेय इति प्रकामकमलालीलायितानां पदं यो देवः स सुतप्रतिश्रुतिवचःप्रीत्या यमन्वग्रहीत् । के वा तद्गुणवर्णने वयमहो किं फल्गुभिर्जल्पितै- मन्ये सापि च वाग्वपुर्भगवती तत्र स्फुटं मुह्यति ॥ अथ ततस्ततसत्पुरुषव्रतव्रततिपर्वततः कति नाभवन् । तरुणतारकराजपराजयव्यसनकीर्तिभुवः पतयो भुवः ॥ तेष्वेवं संभवत्सु क्रममनु मनुजाश्चर्यतामादधानो धन्यानामेकसीमा समुपनतमहीमण्डलाखण्डलामः । जातः कोकल्लदेवो दलदलितलतादाहदावायमानो मानोत्तंसस्य यस्य त्रिभुवनवलयव्यापनोऽभूत्प्रतापः ॥ व दि तृ वृ . १०३ लेखः] प्राचीनलेखमाला। भुवनविजयहेतोर्मुक्तमर्यादयादः- सदनलडितलोलैर्यद्वलैः संवलद्भिः । अतलिनतरभारभ्रश्यदुर्वीविषीद- त्फणफलककलापो भोगिभर्ता बभूव ।। श्य पाशङ्किभिराकुलैर्विजघटे चक्राह्वयानां द्वयै- म्भोदागमविभ्रमेण विधे लास्योत्सवः केकिभिः। भग्नालोकमकाण्ड एव च दृशामान्ध्येन लेभे पदं यत्सेनारजसि क्रमादवनितस्तारापथे लुप्यति ॥ वेलावनप्रणयिसैन्यभरे च यत्र मज्जद्भिराकुलकुलादिनिभैरिभेन्द्रैः । संभ्रान्तमन्दरगिरेः समयस्य तस्य कालाहहोः स्मरणमाप निधिर्जलानाम् ।। [यस्मि]श्च वैन्ध्यं तटमाददाने दानेद्धसेनागजमञ्जनेन । अम शिञानशकुन्तचक्रं चक्रन्द दुःखादिव वृक्षजालम् ॥ जित्वा कृत्स्नां येन पृथ्वीमपूर्व कीर्तिस्तम्भद्वन्द्वमारोप्यते स । कौम्भोद्भव्यां दिश्यसौ कृष्णराजः कौबेर्यां च श्रीनिधिर्भोजदेवः ॥ बभूव तस्मादथ मुग्धतुङ्गास्तुङ्गस्त्रिलोक्यामपरो न यस्मात् । दिशश्च यः किंच विजेतुकामः कामस्तशत्रुर्न भुवं विलेभे ॥ शय्या संग्रामलक्ष्म्याः परबलपरिधः पल्लवः कोपवल्लयाः प्रेयो दर्पस्य मित्रं सुचरितसलिलस्येन्द्रनीलप्रणालः । शाखा शौर्यद्रुमस्य प्रसरणसरणिः शाश्वती साहसाना- मासीद्यस्यासिरेव प्रधनपरिकरारम्भिणः प्रीतिपात्रम् ।। वल्गद्वेतालवर्ग त्रुटितनिजशिरोधारिधावत्कबन्धं डात्कुर्वड्डाकिडिम्बं मुखबिलविलसत्संमुखोल्कामुखोल्कम् । ।

काव्यमाला। मांसग्रासाभिलाषस्वनदशिवशिवाभैरवारावरौद्रं रौद्रं यो धाम विभ्रातिसमरमिति द्वेषिचक्र चकार ।। उपविपिनभुवो निधेर्जलानामपि वसता कटकेन यस्य यातुः । अवचयविचलद्वधूकराग्रद्विगुणितविद्रुमपल्लवा बभूवुः ॥ इह विहितविलासा वीचयो वारिराशे- रिह स वहति वायुः केरलीकेलिकारः । इह हरति भुजङ्गः सौरभं भूरुहाणा- मिति मलयसमीपे यद्विचाराः प्रचेरुः ॥ विजित्य पूर्वाम्बुधिकूलपालीः पालीः समादाय च कोसलेन्द्रात् । निरन्तरोद्वासितवैरिधामा धामाषिकः खड्गपतिर्य आसीत् ॥ गौडीगाडमनोमनोरथकरः कर्णाटकान्ताकुच- क्रीडाशैलतटीविहारहरिणो लाटीललाटाङ्गदः । काश्मीरीविहितस्मरव्यतिकरस्तस्सात्कलिङ्गाङ्गना- सद्दानव्यसनी स नीतिनयनः केयूरवर्षोऽभवत् ।। आशापालपराजयाय जनितत्रैलोक्यशङ्कापदं सैन्यैर्यस्य युगान्तकेलिकलनैर्दत्तप्रयाणैरपि । न प्रोद्भूतिमवाप पांशुपटलं भूयोगृहीतद्विष- द्वन्दीवृन्दवहद्विलोचनपयःपूरप्लुतायां भुवि ।। यः संयति प्रकटपाटितकुम्भिकुम्भ- मुक्ताफलप्रचयवाहमुवाह देवः । भूयोनिपीतहढपीडनवेगवान्त- विद्वेषिकीर्तिकणकीर्णमिवासिदण्डम् ॥ आ कैलासादनलसलसत्पार्वतीकेलिबन्धो- रा च प्राचः शिखरिवरतो भाखदुद्भासभूमेः । आरात्सेतोस्तदनु पयसामा प्रतीचोऽपि पत्यु- यत्सेनानामहितनिहितानन्ततापः प्रतापः ॥ WTO ( C G Is for प्राचीनलेखमाला। १३३ १०३ लेखः] प्रेडत्क्षिप्रखु(क्षु)[]प्रघातविगलत्कीलाललोलोल्लस- द्वेतालीकरयन्त्रपीडनवशभ्रश्यत्कपालास्थिभिः । यस्तस्तार सविस्तरं रणभुवः कोपोत्कटाभिद्रव- प्रद्वेषिशिरोभिरम्बरचरीनेत्रत्रिभागाचितैः ।। देवो रुद्रावतारस्त्रिभुवनभवनोत्तन्भनो देव एव त्यागी देवः प्रमाद्यन्नृपतिनियमने नैगडं दाम देवः । इत्थं मन्दिवृन्दैरविरलविलसच्चाटुवादं वदद्भि- यस्यास्थानस्थितानामसमसुहृदां विव्यथे चित्तवृत्तिः ॥ भरद्वाजो नाम च्युतकलुषदोषः समभव- य एकः सर्वेषामुपशमधनानामधिपतिः। तदीयात्तेजस्तः कृतकलशवासाबदभव- स वै भारद्वाजस्त्रिभुवनचमत्कारिचरितः ॥ त्रैलोक्यावधि यस्य कीर्तिलडितं लक्ष्मीश्च वाञ्छावधि- यत्कोपः प्रलयोपपन्नमहिमा शापेन चापेन च । वर्य वा नयविक्रमैकजलधेः किं तस्य यस्याभव- ल्लीलाखवितशर्वगर्वगरिमा शिष्यः सुभद्रापतिः ॥ कोदण्डताण्डवनपण्डितबाहुदण्ड- मुद्दण्डकाण्डभरखण्डितपाण्डुसैन्यम् । यं वीक्ष्य विक्षतविपक्षपराजयाशः सत्याहतः स तपसोऽपि सुतश्चचाल ॥ अथाक्षेपात्तेन द्रुपदविपदर्थोद्धतधिया यदात्तं शापाम्भस्तरलितकराबद्धचुलुकम् । पुमानासीत्तस्मिन्विजय इव साक्षादनु च तं कुलं चौलुक्यानामनणुगुणसीम प्रववृते ॥ विभवति च विसर्पच्छौर्यसौन्दर्यवर्य- क्षितिघरपरिपाटीसूत्रिते तत्र गोत्रे ।

काव्यमाला। रचितचटुलचापाकृष्टिकृष्टाहितश्री- रभवदवनिवर्मा विश्वविख्यातकर्मा । पितामहो यत्खलु सिंहवर्मा पिता च यद्वीरवरः सधन्वः । जगत्यतीवातिशयोऽमुनैव महानुभावत्वमतोऽपि यत्तु । यस्य त्यागः सकलजनतापास्तदारिद्यमुद्रो वेलाबन्धुक्षितिधरदरी चारितारिः प्रतापः । ईष्टे स्पष्टं स यदि गणनां तद्गुणानां विधातुं वाचां धेनुर्ननु भगवती भारती यस्य वश्या ॥ रुद्राणीमिव भूभृतां परिवृढो लक्ष्मीमिवाम्भोनिधिः कालिन्दीमिव भास्करः स भगवाज्योत्स्नामिवात्रेः सुतः । वैदेहीमिव जानकः क्रतुविधिः श्रीनोहलेत्यद्भुतं कन्यां नाम ललाम तां स सुषुवे सामन्तचिन्तामणिः ॥ भर्तुः पुलोमतनयेव मरुद्गणानां छायेव दुष्टतमसा महसां च पत्युः। देवस्य सा रतिरिवेक्षुशरासनस्य केयूरवर्षनृपतेर्दयिता बभूव ॥ देव्या तया मदजलच्छटयेव दन्ती बालप्रवाललतयेव तटः पयोधेः। पुष्पश्रियेव च तरुस्तडितेव मेघः शोभां स कामपि बभार नरेन्द्रचन्द्रः ॥ निर्मापितं सुकृतसंगतये तयेद- मभ्रंकषाप्रशिखरस्खलितोष्णरश्मि । देवस्य मन्दिरममाप्रणयैकबन्धोः स्त्यानाकृति स्वयशसामिव चक्रवालम् ॥ आकाशयानक्रमखेदितानामहोऽधिनाथस्य तुरंगमाणाम् । फेनाम्बुभिनित्यनिषिच्यमाना मन्ये समुद्रान्ति न यत्पताकाः ॥ व वि त AL १३५ १०३ लेखः] प्राचीनलेखमाला। विटङ्कभागेषु बृहत्सु यस्य वर्षासु तुङ्गामलसारकस्य । आश्लेषवत्यो नवमेघमालाः पारावतालीतुलनां वहन्ति । आसीन्माधुमतेयः पवनशिवस्तमनु जयति शब्दशिवः । ईश्वरशिवः पुनाति च तस्यान्तेवासितां सुकृती ॥ तस्मै तपोनिधानाय निपानीयाम्बिपाटको । दत्तौ विद्याधनत्वेन ग्रामवग्राम्यया तया ॥ धङ्गटपाटकपोण्डीनागबलाः खेटपाटको वीडा । सज्जाहली च दत्ताः स्मरारये गोष्ठपाली च ॥ ख्यातः श्रीयुवराजदेवनृपते(ति)स्तस्यामभूद्भूपतिः श्रीमल्लक्ष्मणराज ऊर्जितमहा भावानिवाभ्युन्नतः । भूभृत्तुङ्गशिरोभिरभिरुचयो यत्सेविताः श्री[चिताः] कामं यः कमनीयसुन्दरगुणैर्नव्यैर्जिगाय श्रियम् ॥ यस्याहवे दृढनिपीडितखड्गकोटि- निर्दारितारिकरिकुम्भसमुद्भवेन । वीरश्रियः क्षितितले विततं चतुष्कं मुक्तादलेन ननु कीर्तिवधूश्चकार ॥ किंच- सा कदम्बगुहा मान्या यत्रासीसिद्धसंततिः । तस्याः पुनरभूद्वन्द्यो रुद्रशंभुर्मुनीश्वरः ॥ तत्र प्रभावमहनीयतमस्य तस्य शिष्योऽभवज्जगति मत्तमयूरनाथः । निःशेषकल्मषमषीमपहृत्य येन संग्रामितं पुरमहो नृपतेरवन्तेः ॥' तस्मादभू वनमण्डनतामवाप्तो भूपालमौलिमणिकान्तिभिरचितांतिः । श्रीधर्मसिन्धुरुचितामलकान्तकीर्तिः शैवागमाम्बुनिधिपारमितस्तपोभिः॥

काव्यमाला । अस्मात्सदाशिवः शिष्यस्तपोराशिरभून्नृपैः । यत्पा(स्य पा)दद्वयं वन्द्यमर्चितं शेखराम्बुभिः ॥ अस्मादभून्माधुमतेयनामा शिष्यः सुधामा फलमूलवृत्तिः । तपांसि तेजांसि च यत्र वासमनन्यसंक्रान्तिगुणेन चक्रुः ॥ अस्साचूडाशिवः शिष्यो वन्दनीयतमोऽभवत् । कर्मजालमलं येन नीतमस्तं मुमुक्षुणा ॥ अथ सकलगुणानामाकरस्तस्य शिष्यो हृदयशिवसमाह्वो यद्यशोऽद्यापि वर्ण्यम् । नृपमुकुटनिविष्टैर्यस्य माणिक्यचक्र- रकृत चरणमूलं कान्तमेकान्तवन्धम् ॥ विद्यानां निलयेन येन सुधिया सत्यव्रतेनाधिक श्रीमन्माधुमतेयवंशवितता कीर्तिश्चिरं वर्धिता । किं च मा क्षमयाम्बुदः समतया मर्यादयाम्भोनिधि- वैराग्येण जितः स्मरः स भगवान्कस्यास्पदं न स्तुतेः॥ किं स्तूयतेऽसौ मुनिपुङ्गवोऽथवा श्रीचेदिचन्द्रो नृपतिः कृतादरः। सद्वृत्तदूतप्रहितैरुपायनैः प्रदर्श्व भक्ति विधिनानिनाय यम् ॥ श्रीमल्लक्ष्मणराजोऽपि तस्मै सुतपसे स्वयम् । मठं श्रीवैद्यनाथस्य भक्तियुक्तः समार्पयत् ॥ स्वीकृत्यापि मुनिर्भूयो मठं श्रीनौहलेश्वरम् । अघोरशिवशिष्यस्य साधुवृत्तस्य दत्तवान् ॥ अथ स विहितकृत्यश्चेदिनाथः समर्थः करितुरगसमग्रः शक्तसामन्तपत्तिः । दिशमतिशयरम्यां संप्रतस्थे प्रतीची- महितजनितभीतिदुनिवारप्रचारः ॥ समरकृतविकारान्विक्रमेण प्रहृत्य प्रणतनृपतिदत्तोपायनैद्धिताज्ञः ।। व वि - -- त

प्राचीनलेखमाला ।
१०३ लेखः]
हृदयनिहितवित्तैरर्थिनां पूरिताशो
जलनिधिजलखेलं सैन्यचक्रं चकार ॥
निमज्ज्य यो रत्ननिधौ श्रीमान्सोमेश्वरं शनैः ।
अभ्यर्च्य काञ्चनैः पद्मरथान्यत्तु न्यवेदयत् ॥
जित्वा कोसलनाथमोडूनृपतेराप्तस्तु यः कालियो
रत्नस्वर्णमयः स येन विहितः सोमेश्वराभ्यर्चनम् ।
दत्त्वा यः करिवाजिशुभ्रवसननकन्दनादीन्पुनः
संसारश्रमशान्तयेऽतिविनतस्तुष्टाव तुष्टः प्रभुः ॥
असारं संसारं य इह मनुते कोऽपि नृपति-
स्त्वदभिव्यानत्या विगलिततमास्तत्त्वनिरतः ।
न तस्य श्रीभूयो विकृतिकृतये जन्मविरहा-
दिति ध्यानाविष्टः शिवमहसि चित्तं विहितवान् ॥
श्रीशंकरगणस्तस्मादभूभूमीश्वरो महान् ।
यत्पादद्वन्द्वमद्वन्द्वं द्विषद्भिरपि सेवितम् ॥
संख्ये संख्यविपक्षपक्षदलनव्यासङ्गि खड्गव्रतं
यस्यासीदृढसाहसस्य सततं दानं जनानन्दकृत् ।
रूपेणाप्रतिमो मनोभवभवं दर्प नहारोद्धतं
यः सर्वत्र च सर्वकालमवनीनाथः स्तुतः कोविदः ॥
यत्पादद्वयपद्मसद्म विततं भूतेरभूद्भूषितं
भूपानां नमतां किरीटविकटप्रान्तस्थरत्नांशुभिः ।
वक्षोरत्ननिधि समाश्रितवती लक्ष्मीः क्रमेणागता
बीरश्रीरपरैव यस्य नृपतेः कौक्षेयधाराश्रया ॥
तस्य श्रीयुवराजदेवनृपतिभ्राता कनीयानभू-
द्भूपैर्यच्चरणारविन्दपतितै ऑरिवा"स्थितम् ।
यः सत्यव्रतसत्वसूक्तिवसतिः श्रीविक्रमैकाश्रयः
प्रायस्तस्य न सज्जनोऽपि सकलान्वक्तुं गुणाञ्शक्ष्यति ॥
सरकारी

काव्यमाला। दंष्ट्राकोटिविपाटनोग्रवदनः क्रूरस्वरो भाखरो नेत्रप्रान्तविकीर्णकोपरुधिरः पादप्रचारायुधः । येनाक्रम्य भुजेन भूमिपतिना लालबद्धक्रमो दैत्यो व्याघ्रवपुर्हतोऽतिभयदः शस्त्रीभृता पाणिना ॥ कन्दर्पोऽभिनवः पुरंध्रिनयनप्रीतिप्रदोऽप्यन्यथा यः कालः करवालकोटिविहितस्थूलेभकुम्भस्थलः । चित्रं यच्च सरस्वतीकृतरतिः श्रीकण्ठपूजापर- श्चातुर्वर्ण्यविचारचारुचतुरो यश्चार्थचिन्तामणिः ॥ यस्योत्तुङ्गगजेन्द्रमज्जनगलद्दानाम्बुभिमिश्रित रेवावारि विविक्ततिक्तमुचितस्नानेन तन्वीजनः । संप्राप्योरुनितम्बताडनवशव्यस्तास्तवीचीचयं सद्वन्द्वं स्मरसौरभेण महता निर्व्याजमायोजितः ॥ रामाणां कुचमण्डलेषु नियतं हारप्रकारक्रमा- त्संपूर्णे शशिमण्डले च विमले ज्योत्स्नाछलेनोज्ज्वलम् । मन्ये मानसवारि यस्य वितते हंसावलीविभ्रमा- भान्त्वाशेषमुमापतेस्तु वसतो विश्रान्तिमागायशः ॥ संपूज्य देवमीशानं विभवैः स्वैर्यथोचितैः । यथागमं यथाशास्त्रं स्तोत्रं विहितवान्नृपः ॥ अविचलितमनोमियस्त्वमीश क्षितीशै- विभवविहितकृत्यैरिज्यसे ते कृतार्थाः । य इह कृतविकारा मन्मथैकान्तचित्ता भवति वरद तेषां संपदुन्मादहेतुः समदकरिघटाभिः किं किमङ्गाङ्गनाभि- मदनशयनलीलां भावयन्तीभिराभिः । कनकतुरगवासोरत्नजातैर्न कृत्यं न हि भवति भवानीवल्लभस्यार्चनं चेत् ॥ १. इदं च पदं विरुद्धमतिकारित्वदोषदुष्टमिति ध्येयम्. व हि त ॥ "- । a १३९ १०३ लेखः] प्राचीनलेखमाला। भवति नृपतिवंशे जन्म पृथ्वी च भोग्या श्रुतमुचितविचारश्चारुरूपप्रभावः । समरविजयसंपत्तस्य यो निष्प्रपञ्च- श्वरणयुगलमूलं संश्रितः शंकरस्य ॥ किमिह बहुभिरुक्तैर्नाथ सर्वस्य हेतु- भवतु भवति नित्यं भक्तियोगी ममैकः । सकलसुखविशेषाद्यस्य पीयूषवर्षः खयमनुभवगम्यो जायते त्वत्प्रसादात् ॥ भूपत्रययशोराशिवर्णनं प्रथमं कृतम् । श्रीमता श्रीनिवासेन श्रीस्थिरानन्दसूनुना ।। भूपतीनां त्रयाणां तु कीर्तिकीर्तनमुज्ज्वलम् । विहितं सजनेनाथ सुधिया थीरसूनुना ॥ लवणखण्डिकायां (१) षोडशिका घाणके च षोडशिका । तैलस्य मासि मासे दिनमनु च युगायुगे च पौरस्तु ॥ पूगफलमरिचशुण्ठीप्रभृतिषु भाण्डेषु भरिकपौरस्तु । वीथीं प्रति च कपर्दी गृतकपर्दास्तु शाकवार्ताकम् ॥ रसवणिजामादायस्तृणपूलकधीर्मरादि यत्किचित् । दत्ते करी चतुष्टयभङ्ग तुरङ्गो द्वयं तु पौराणाम् ॥ यद्वहदन्यद्दानं किमपि च विद्याधनं तदुद्दिष्टम् । [की]र्तयः प्रवर्तन्ते ॥ यत्र च श्रीनोहलेश्वरमठे श्रीमदघोरशिवाचार्योऽभूत् । क्वचिद्भिक्षावृत्तिः क्वचिदपि च शाकाभ्यवहृतिः क्वचिन्मूलाहारः क्वचिदपि च कन्दांश्च बुभुजे । परं ज्योतिः शैवं विगलितरजस्कान्धतमसं विचिन्वन्नो यातो विषविषयवेगस्य कलनाम् ॥ तेनेयं प्रशस्तिः संगतिमानीता । १. पराक्षरेण सहाश्लीलार्थकम्, २. 'पत्तनमण्डपिकायां' इति भवेत्, य"....

काव्यमाला।
९६
श्रीत्रिपुरीसौभाग्यपुरलवणनगरदुर्लभपुरविमानपुर ...........
....."माष्ट""षः प्रत्यहमथ रक्षितः समानेयः।
......"दारुणि ॥
सुश्लिष्टबन्धघटना विस्मितकविराजशेखरस्तुत्या ।
आस्तामियमाकल्पं कृतिश्च कीर्तिश्च पूर्वा च ॥
कायस्थश्रीसीरुकस्य ।
करणिकधीरसुतेन तु नाईनाम्ना प्रशस्तिरालिखिता ।
सत्सूत्रधारसंगमतनूजनोनेन चोत्कीर्णा ॥
स्वकीयः
(एपिग्राफिआ इण्डिक् २५४-६२ पृष्ठे)
(१०४)
विजयसेनमहाराजकारितश्रीप्रद्युम्नेश्वरमन्दिरप्रशस्तिः।
ॐ नमः शिवाय ।
वक्षोंशुकाहरणसाध्वसकृष्टमौलि-
माल्यच्छटाहतरतालयदीपभासः ।
देव्यास्त्रपामुकुलितं मुखमिन्दुभाभि-
वीक्ष्याननानि हसितानि जयन्ति शंभोः ॥
लक्ष्मीवल्लभशैलजादयितयोरद्वैतलीलागृह
प्रद्युम्नेश्वरशब्दलाञ्छनमधिष्ठानं नमस्कुर्महे ।
त
१. 'इयं प्रशस्तिः शिलोत्कीर्णा Mr. C. S. Metcalfe महाशयेन वङ्गदेशवर्ति-
राजशाहीप्रदेशान्तर्गतदेवपाडग्रामस्यारण्यभूभागेषु प्रावनिकरेऽलम्भि. प्रशस्तिश्चैषा
महाराजविजयसेनस्य प्रद्युम्नैश्वराख्यशिवमन्दिरनिर्माणं बोधयति. विजयसेनराज्यसमयश्चै-
कादशशतकान्तिमभाग इति प्रतीयते' इति Dr. F. Kielhorn Ph.D., C. I.
E, Gottingen. महाशयानामाशयः.
T

१०४ लेखः] प्राचीनलेखमाला। १४१ १ यत्रालिङ्गनभङ्गकातरतया स्थित्वान्तरे कान्तयो- देवीभ्यां कथमप्यभिन्नतनुताशिल्पेऽन्तरायः कृतः ॥ यत्सिहासनमीश्वरस्य कनकप्रायं जटामण्डलं गङ्गाशीकरमञ्जरीपरिकरैर्यच्चामरप्रक्रिया। श्वेतोत्फुल्लफणाञ्चलः शिवशिरःसंदानदामोरग- श्छत्रं यस्य जयत्यसावचरमो राजा सुषादीधितिः ॥ वंशे तस्यामरस्त्रीविततरतकलासाक्षिणो दाक्षिणात्य- क्षोणीन्द्रवीरसेनप्रभृतिभिरभितः कीर्तिमद्भिर्बभूवे । यच्चारित्रानुचिन्तापरिचयशुचयः सूक्तिमाध्वीकधाराः पाराशर्येण विश्वश्रवणपरिसरप्रीणनाय प्रणीताः ॥ तस्मिन्सेनान्ववाये प्रतिसुभटशतोत्सादनब्रह्मवादी स ब्रह्मक्षत्रियाणामजनि कुलशिरोदाम सामन्तसेनः । उड्डीयन्ते यदीयाः स्खलदुदधिजलोल्लोलशीतेषु सेतोः कच्छान्तेष्वप्सरोभिर्दशरथतनयस्पर्धया युद्धगाथाः ॥ यस्मिन्संगरचत्वरे पटुरटत्तूर्योपहूतद्विष- द्वर्गे येन कृपाणकालभुजगः खेलायितः पाणिना । द्वैधीभूतविपक्षकुञ्जरघटाविश्लिष्टकुम्भस्थली- मुक्तास्थूलवराटिकापरिकरैर्व्याप्तं तदद्याप्यभूत् ॥ गृहागृहमुपागतं व्रजति पत्तनं पत्तना- द्वनाद्वनमनुद्रुतं भ्रमति पादपं पादपात् । गिरेगिरिमधिश्रितं तरति तोयधिं तोयधे- यदीयमरिसुन्दरीसरकपृष्ठलग्नं यशः ॥ दुर्वृत्तानामयमरिकुलाकीर्णकर्णाटलक्ष्मी- लुण्टाकानां कदनमतनोत्ताहगेकाङ्गवीरः । यस्मादद्याप्यविहतवसामांसमेदःसुभिक्षा- हृष्यत्पौरस्त्यजति न दिशं दक्षिणां प्रेतमः ॥

काव्यमाला। उद्गन्धीन्याज्यधूमैगशिशुरसिताखिन्नवैखानसस्त्री- स्तन्यक्षीराणि कीरप्रकरपरिचितब्रह्मपारायणानि । येनासेव्यन्त शेषे वयसि भवभयास्कन्दिभिर्मस्करीन्द्रैः पूर्णोत्सङ्गानि गङ्गापुलिनपरिसरारण्यपुण्याश्रमाणि ॥ अचरमपरमात्मज्ञानभीष्मादमुष्मा- निजभुजमदमत्तारातिमाराङ्गवीरः । अभवदनवसानोद्भिन्ननिर्णिक्ततत्त- द्गुणनिवहमहिम्नां वेश्म हेमन्तसेनः॥ मूर्धन्यर्धेन्दुचूडामणिचरणरजः सत्यवाकण्ठभित्तौ शास्त्रं श्रोत्रेऽरिकेशाः पदभुवि भुजयोः क्रूरमौर्वीकिणाङ्कः । नेपथ्यं यस्य जज्ञे सततमियमिदं रत्नपुष्पाणि हारा- स्ताडकं नूपुरस्त्रकनकवलयमप्यस्य भृत्याङ्गनानाम् ॥ यहोर्वल्लिविलासलब्धगतिभिः शल्यैर्विदीर्णोरसां वीराणां रणतीर्थवैभववशादिव्यं वपुर्बिभ्रताम् । संसक्तामरकामिनीस्तनतटीकाश्मीरपत्राङ्कितं वक्षः प्रागिव मुग्धसिद्धमिथुनैः सातङ्कमालोकितम् ॥ प्रत्यर्थिव्ययकेलिकर्मणि पुरः स्मेरं मुखं बिभ्रतो- रेतस्यैतदसेश्च कौशलमभूदाने द्वयोरद्भुतम् । शत्रोः कोऽपि दधेऽवसादमपरः सख्युः प्रसादं व्यधा- देको हारमुपाजहार सुहृदामन्यः प्रहारं द्विषाम् ॥ महाराज्ञी यस्य स्वपरनिखिलान्तःपुरवधू- शिरोरत्नश्रेणीकिरणसरणिस्मेरचरणा। निधिः कान्तः साध्वीव्रतविततनित्योज्ज्वलयशा यशोदेवी नाम त्रिभुवनमनोज्ञाकृतिरभूत् ॥ ततस्त्रिजगदीश्वरात्समजनिष्ट देव्यास्ततो- ऽप्यरातिबलशातनोज्ज्वलकुमारकेलिक्रमः । १. एतदीयखड्गस्य. व १०४ लेखः प्राचीनलेखमाला । १४३ चतुर्जलधिमेखलावलयसीमविश्वंभरा- विशिष्टजयसान्वयो विजयसेनपृथ्वीपतिः ॥ गणयतु गणशः को भूपतीस्ताननेन प्रतिदिनरणभाजा ये जिता वा हता वा । इह जगति विषेहे वस्य वंशस्य पूर्वः पुरुष इति सुधांशौ केवलं रानशब्दः ॥ संख्यातीतकपीन्द्रसैन्यविभुना तस्यारिजेतुस्तुलां किं रामेण वदाम पाण्डवचमूनाथेन पार्थेन वा । हेतोः खड्गलतावतंसितभुजामात्रस्य येनार्जितं सप्ताम्भोधितटीपिनद्धवसुधाचक्रैकराज्यं फलम् ॥ एकैकेन गुणेन थैः परिणतं तेषां विवेकाहते कश्चिद्धन्त्यपरश्च रक्षति सृजत्यन्यश्च कृत्स्नं जगत् । देवोऽयं तु गुणैः कृतो बहुति/माजघान द्विषो वृत्तस्थानपुषच्चकार च रिपूच्छेदेन दिव्याः प्रजाः ॥ दत्त्वा दिव्यभुवः प्रतिक्षितिभृतामुर्वीमुरीकुर्वता वीरामृग्लिपिलाञ्छितोऽसिरमुना प्रागेव पत्रीकृतः । नेत्थं चेत्कथमन्यथा वसुमती भोगे विवादोन्मुखी तत्राकृष्टकृपाणधारिणि गता भङ्गं द्विषां संततिः ॥ त्वं नान्यवीरविजयीति गिरः कवीनां श्रुत्वान्यथामननरूढनिगूढरोषः । गौडेन्द्रमद्रवदपाकृत कामरूप- भूपं कलिङ्गमपि यस्तरसा जिगाय ॥ शूरंमन्य इवासि नान्य किमिह स्वं राघव श्लाघसे स्पर्धा वर्धन मुञ्च वीर विरतो नाद्यापि दर्पस्तव । इत्यन्योन्यमहानशप्रणयिभिः कोलाहलैः क्षमाभुजां यत्कारागृहयामिकैनियमितो निद्रापनोदक्कमः ॥ १. जयेन सार्थकः.

काव्यमाला। पाश्चात्यचक्रजयकेलिषु यस्य याव. द्गङ्गाप्रवाहमनुधावति नौविताने । भर्गस्य मौलिसरिदम्भसि भस्मपङ्क- लग्नोज्झितेव तरिरिन्दुकला चकास्ति ॥ मुक्ताः कापासबीजैर्मरकतशकलं शाकपत्रैरलाबू- पुष्पै रूप्याणि रत्नं परिणतिभिदुरैः कुक्षिभिर्दाडिमानाम् । कूष्माण्डीवल्लरीणां विकसितकुसुमैः काञ्चनं नागरीभिः शिक्ष्यन्ते यत्प्रसादाबहुविभवजुषां योषितः श्रोत्रियाणाम् ॥ अश्रान्तविश्राणितैयज्ञयूपस्तम्भावली द्रागवलम्बमानः । यस्यानुभावाद्भुवि संचचार कालक्रमादेकपदोऽपि धर्मः ॥ मेरोराहतवैरिसंकुलतटादाहूय यज्वामरा- न्व्यत्यासं पुरवासिनामकृत यः स्वर्गस्य मर्त्यस्य च । उत्तुङ्गैः सुरसद्मभिश्च विततैस्तल्लैश्च शेषीकृतं चक्रे येन परस्परस्य च समं द्यावापृथिव्योर्वपुः ॥ दिक्शाखामूलकाण्डं गननतलमहाम्भोधिमध्यान्तरीयं(पं) भानोः प्राक्प्रज्यगद्रिस्थितिमिलदुदयास्तस्य मध्याह्नशैलम् । आलम्व(म्ब)स्तम्भमेकं त्रिभुवनभवनस्यैकशेष गिरीणां स प्रद्युम्नेश्वरस्य व्यधित वसुमतीवासवः सौधमुच्चैः ॥ प्रासादेन तवामुनैव हरितामध्वा निरुद्धो सुधा भानोद्यापि कृतोऽस्ति दक्षिणदिशः कोणान्तवासी मुनिः । अन्यामुच्छपथोऽयमृच्छतु दिशं विन्ध्योऽप्यसौ वर्धतां यावच्छक्ति तथापि नास्य पदवीं सौधस्य गाहिष्यते ॥ स्रष्टा यदि स्रक्ष्यति भूमिचक्रे सुमेरुमृत्पिण्डविवर्तनाभिः । तदा घटः स्यादुपमानमस्मिन्सुवर्णकुम्भस्य तदर्पितस्य ॥ वि(बि)लेशयविलासिनीमुकुटकोटिरत्नाङ्कुर- स्फुरत्किरणमञ्जरीच्छुरितवारिपूरं पुरः। a त

१४५
१०४ लेखः]
प्राचीनलेखमाला।
चखान पुरवैरिणः स जलमग्नपौराङ्गना-
स्तनैणमदसौरभोच्चलितचञ्चरीकं सरः ॥
उच्चित्राणि दिगम्बरस्य वसनान्यर्धाङ्गनास्वामिनो
रत्नालंकृतिभिर्विशेषितवपुःशोभाः शतं सुभ्रवः ।
पौराढ्याश्च पुरीः श्मशानवसतेभिक्षाभुजोऽस्याक्षयां
लक्ष्मी स व्यतनोदरिद्रभरणे सुज्ञो हि सेनान्वयः ।।
चित्रक्षौमेभचर्मा हृदयविनिहितस्थ(स्थू)लहारोरगेन्द्रः
श्रीखण्डक्षोदमस्माकरमिलितमहानीलरत्नाक्षमालः ।
वेषस्तेनास्य तेने गरुडमणिलतागोनसः कान्तमुक्ता-
नेपथ्यन्तस्थिरिच्छासमुचितरचनः कल्पकापालिकस्य ।।
बाहोः केलिभिरद्वितीयकनकच्छत्रं धरित्रीतलं
कुर्वाणेन न पर्यशेषि किमपि खेनैव तेनेहितम् ।
किं तस्मै दिशतु प्रसन्नवरदोऽप्यर्धेन्दुमौलिः परं
खं सायुज्यमसावपश्चिमदशाशेषे पुनर्दास्यति ॥
प्रस्तोतुमस्य परितश्चरितं क्षमः स्या-
प्राचेतसो यदि पराशरनन्दनो वा
तत्कीर्तिपूरसुरसिन्धुविगाहनेन
वाचः पवित्रयितुमत्र तु न प्रयत्नः ॥
यावद्वास्तोष्पतिपुरधुनी भूर्भुवःखः पुनीते
यावच्चान्द्री कलयति कलोत्तंसतां भूतभर्तुः ।
यावच्चेतो गमयति सतां श्वेतिमानं त्रिवेदी
तावत्तासां रचयतु सखी तत्तदेवास्य कीर्तिः ॥
निर्णिक्तसेनकुलभूपतिमौक्तिकाना-
मग्रन्थिलग्रथनपक्ष्मलसूत्रवल्लिः ।
१. "चित्रक्षौमैरिभचर्म यत्र' इत्यादिरीत्या सकलविशेषणव्याख्यानं कृत्वा 'कल्पकापा-
लिकस्ये च्छासमुचितरचनो वेषस्तेन सेनान्वयेन तेने'-इत्यर्थः.

२ ४ काव्यमाला। एषा कवेः पदपदार्थविचारशुद्ध- बुद्धेरुमापतिधरस्य कृतिः प्रशस्तिः ॥ धर्मप्रणप्ता मनदासनप्ता वृ(ोहस्पतेः सूनुरिमां प्रशस्तिम् । चखान वारेन्द्रकशिल्पिगोष्ठीचूडामणी राणकशूलपाणिः ॥ (एपिग्राफिआ इण्डिक्-३०७-११ पृष्ठे) (१०५) श्रीवीरवर्ममहिषीश्रीकल्याणदेवीनिर्मापित- निर्जरकूपप्रशस्तिः। ओं ओं सिद्धिः । अर्धमीशतनोदृष्ट्वा शिलोच्चयसुताहृतम् । ईर्ण्य येव कृशा शीर्षे पातु वोऽमरवाहिनी ॥ स्मरैकमित्रं नयनप्रमोदो जीयाच्छिरोभूषणमिन्दुमौलेः । इन्दुर्यतः श्रीचपलत्वदोषनोदी धरायामुदियाय वंशः ॥ कुम्भोद्भवः कर्णपयोधिपाने प्रजेश्वरो नूतनराज्यसृष्टौ । तत्रास विद्याधरगीतकीर्तिः श्रीकीर्तिवर्मक्षितिपो जगत्याम् ॥ सल्लक्षणो मालवचेदिलक्ष्मीलं[टा]कखगः क्षितिपश्च तस्मात् । जयैकधामा जयवर्मदेव स्तस्मा]च्च राज्यं प्रशशाम [धीरः ॥ पृथ्वीवाभवत्तस्माद[थ] राजा पृथूपमः । ततोऽपि मदनः माइंद्राज्येऽभूद्रिपुमन्मथः ।। १. Sir A. Cunningham महाशयानुसारेण लेखोऽयं कालञ्जरनामग्रामतो नैर्ऋतदिग्वर्तमानाजयगढाख्यगिरिदुर्गेऽस्ति. कालञ्जरग्रामश्च Greenwitch नगरतः ८०-२० मिते पूर्वरेखांशे, २४-५४ मिते उत्तराक्षांशेऽस्ति. लेखश्चायं शिलायां देव- नागराक्षरैरसंस्कृतभाषायामेव वर्तते. लेखनिर्मितिसमयस्तु लेखान्ते संवत् १३१७ A. D. १२६१ इति स्फुट एव ।' इति Professor F. Kielhorn. Ph. D., C. I. E., Gottingen HETTAT:.

१०५ लेखः प्राचीनलेखमाला। १४७ अथाभव[च्छ्रीप]रमदिराजो बालोऽपि नेता रिपुवीरहन्ता । साम्राज्य लक्ष्मीर्यमिहानुरक्ता पतिवरेवाशु समाजगाम ॥ त्रैलोक्यवर्मक्षितिपोऽथ राज्यं शशास दुर्गप्रविधानवेधाः । तुरुष्ककुल्याम्बुधिममधा[त्री] समुद्धृति विष्णुरिव प्रतन्वन् ॥ रणाजिरे कृत्तरिपुप्रवीरप्रियाप्तिसंमोदितनाकक[न्यः] । तस्यात्मजो वीर[मही महेशो जयत्यसौ निर्मलवीरधर्मः ॥ तायेण वल्गन्विहरन्वृषेण दुष्टप्रहन्ता रिपुराशिभेत्ता । किं विष्णुरीशः किमु वेति दृष्टो जयत्यसौ विश्वजनैनमस्यः ॥ दधीचिवंशेऽद्भुतसत्य[धा]मा श्री[चा]द लोऽभूद्भुजजन्मवन्द्यः । अथास्य साक्षादिव वीरधर्मो [मः] श्रीपाल इत्यास शुसु]तो वरिष्ठः ।। मूर्द्धाभिषिक्तैरपि वन्दनीयो महेश्वरस्तत्तनयो बभूव । यं राजमानं वृषाली]लयैव यथार्थनामानमुदाहरन्ति ॥ गोविन्दराजक्षितिपालपुत्री तेनोपयेमे सुचरित्रशी[सी]मा । लोकोत्तरैर्या चरितैः प्रपूज्या शिवेव नित्यं पतिदेवतानाम् ॥ नाम्ना [वेस]लदेवीति सौन्दर्यगुणशालिनी । कल्याणदेवीति सुता तस्या-अथ यशखिनी ॥ सेयं सदा श्रीरिव कैटभारेः श्रीवीर राज्ञो महिषीत्वमाप्ता । मनोहरैः स्वैः] चरितैरुदारैर्वभूव पुण्यैः परिकीर्तनीया ॥ किं वर्ण्य ते चारुचरित्र[सी]मा विशुद्धकीर्तिप्रथिता जगत्याम् । या सत्यवाचा भुवनप्रसिद्धं धर्मप्रभुः] तं सहसा जिगाय ॥ तेषां वंद्यत]मावशिष्ठदयिता स्थाणो शरीरार्धकं भ्राजिष्णुं गिरिजां नमन्ति किल ते गङ्गापि तैः संस्तुता । ते काम]प्रमदास्तुतिव्यवसिता येषां न दृग्गोचरा [सत्याद्यैः] प्रथिता गुणैः शुचितनुः कल्याणदेवी [गि]रा । [आयुः] श्रीवयसां स्थिति कमलिनी[प]त्रोल्लसद्वारिण- स्तुल्यां पाण्यनत भ्रुवो] निपतिता] मोहान्धकारे घने । १. 'तायस्तु स्यन्दने वाहे गरुडे. ' २. 'वृषेण धर्मण सौरभे येण.'

काव्यमाला। [एकां] कीर्तिलतां विलोक्य सुचिरं स्थास्तुं तदुत्पत्तये सत्यौदार्यगुणा" "मचिरात्कल्याणदेवी [गिरा] ॥ [स्थली] मथेयं व(ब)लिश[स्त्र]गुप्तां] निश्चित्य चक्रे कृपया परीता। जीवातवे पूर्ण त]पयोभिः सुधोपमैर्निर्जरकूपमेनम् ॥ सा पा[त्रं प्रददावे कं] निर्जरस्य यशस्विनी। पुण्य मे]तत्प्रय(पा)याश्च मण्डपं रुचिरं व्यधात् ॥ सागरोपमकासारं महाशे] खर[म]न्दिरम् । [नांदीपुरे च]कारासौ यशोधवलितावनिः ॥ वत्सराजकवेः पौलो हरिपालकवेः [सु]तः । रत्नपाल इमां शुद्धां प्रशस्तिमकरोडधः ॥ सागरेन्द्वग्निसुधांसु(शु)मिते विक्रमवत्सरे । उच्चकार विसु(शु)द्धात्मा विदग्धो राम नाम]कः ॥ संवत् १३१७ रा श्रीजे(त)नव्यापारे । श्रीमद्वीरवर्मराज्ये ॥ वैशाष- (ख)शुदि १३ गुरौ ॥ ००००००००००० (एपिग्राफिआ इण्डिक्-३२७-२८ पृष्ठे) (१०६) भोजवर्मकोशाध्यक्षसुभटस्य पूर्वजानां देवालयस्य च प्रशस्तिः। ओं नमः केदाराय । गङ्गातरङ्गतरलीकृतसर्पराज- वेष्टिा]य चारुशशिखण्डविभूषणाय । १. अयं च द्वितीयो लेखः शिलोत्कीर्णतत्रैव (अजयगढे) F. Kielhorn. Ph. D. महाशयेन सव्याख्यः प्रकाशित:. लेखसमयश्च भोजवर्मराज्यकाल: विक्रमसंवत् १३४५ A. D. 1300. लेखश्चायं भोजवर्मकोशाध्यक्षस्य सुभटाख्यस्य देवालयनि- माणं सूचयन्सुभटपूर्वजानां वृत्तं प्रकाशयति.

१०६ लेखः] प्राचीनलेखमाला। कन्दर्पदर्पशमनाय सुरार्चिताय केदाररूपवि[]ताय नमः शिवाय ॥ षट्त्रिंशतिः करणकर्मनिवासपूतों आसन्पुरः परमसौख्यगुणातिरिक्ता, तन्मध्यगा विबुधलोकमता वरिष्ठा टक्कारिका समजनि पृहणीयकल्पा ॥ सर्वोपकारकरणैकनिधेः खकीय- वंशस्य पात्रसुभगस्य द्विजाश्रयस्य । कल्पावसानसमयस्थितये षु[रीं] यां वास्तुः वयं समधिगम्य समाससाद ॥ तस्यां श्रुतेनिनदसङ्घनिनादिताया वास्तव्यवंशभविनंकरणास्त आसन् । आगः समस्तभुवनानि यदीयकीर्त्या पूर्णानि हंसधवलानि विशेषयन्त्या ।। विद्याश्चतुर्दश कलाः सकलाः समीयुः पद्माभिराममिव वल्लभमायताक्ष्यः । यं गर्भसंस्थमविलम्बितमद्वितीयं दुःखं वियोगजमसंवृतमुद्वहन्त्यः । तद्वंशतः स उदपादि नरेश्वरेण गण्डाह्वयेन युधि दुर्जयतां गतेन । जाजूकसंज्ञ इति ठक्कुर[धर्मयुक्तः • सर्वाधिकारकरणेषु सदा नियुक्तः ॥ आराध्य तं नृपतिमण्डलमण्डनैकं देवं गदाधरमिवाच्युतवासमाद्यम् । कायस्थवंशनलिनीगणतादिनेशो ग्रामं दुगौडमपि ताम्रकमाशु लेभे ॥ ARTI काव्यमाला। [एका सत्यै [स्थली] जीवातवे सा पुण्ट सार [न वत सा संवत् (ख)शुदि तत्संततौ सकलवाङ्मयपारदृश्वा भूभूषणं निशिपतेरिव कान्तिभर्ता । मोहान्धकारकुहरेषु निपातहर्ता माहेश्वरः समभवत्सुकृताभिसर्ता । यः पीतशैलविषयेषु महीपतीनां चूडामणिं समनु[से]व्य समार्जयच्च । श्रीकीर्तिवर्मनृपतिं विशिषाभिधानं कालञ्जरस्य पिपलाहिकया समेतम् ॥ तस्मिन्कुले महति सज्जनलोकजुष्टे गङ्गाधरः समुदभूत्सचिवो]ऽभिरामः । नूनं विचार्य परमर्दिनरेश्वरेण युक्तः स [कञ्चुकितया परया तु धीरः ॥ जौणाधरस्तदनुजः सहकर्मचारी सदारतः समरकर्मणि मोक्षकारी। तौ वीरमार्गमनुसृत्य गिरौ गरिष्ठे काल अरे युयुधतुर्बिशिखा कुलेन ॥ तथैव मालाधरनामधेयस्तस्य द्वितीयोऽजनि वीरमुख्यः । सुरैः सदाकल्पतरुप्रसूनैरभ्यर्चितो यः समरेषु रेमे ॥ क्रमेण तस्मिन्प्रबभूव धीर आल्हू प्रतोलीरुचिराधिकारः । येनावरुद्धे कलुषे वृषेण सदैव रेमे रभसेन दुर्गे ॥ तस्यात्मजश्चापि बभूव रम्यः शुभान्वितः शोभननामधेयः । चित्रैश्चरित्रैः ककुभां मुखानि यश्चित्रयामास शुचिर्गुणौधैः ।। विद्यानिधानं तनयश्च तस्य विद्याधरैस्तुल्यतनुर्बभूव । यस्मिन्नृपो वीदननामधेयौ(ये) विन्यस्य राज्यं सुमनाः सदैव । वशं पुराम्येति जनस्य चित्तं त्रैलोक्यवर्मक्षितिपस्य [चा]त्र । इतीव वाशेरचिताभिधानो बभूव पुत्रोऽस्य गुणैरुदारः ॥ १. अर D. महाश १३४५ ॥ र्माणं सच

१०६ लेखः] प्राचीनलेखमाला ।
कार्यक्षमं तं विगणय्य राज्या(जा)दुर्गे जयाख्ये विशिषाधिकारे ।
नियोज्य तस्मै व्यतरत्प्रसिद्धं ग्रामं सदा वाम]वरीति नाम्ना ॥
तस्मिन्मनोरममयं सुरसम वापी
वास्तव्यवंशतिलकः सुजलां च रम्याम् ।
विज्ञाय देहमचिरं चिरतां सिसूक्षुः
प्राचीकरत्तदनुया(पा)धिकलेवरेण ॥
तत्रायं परिपन्थिपार्थिवचमूकुक्षेषु दावानलो
द्वैराज्यं जनयत्तमप्रतिहतं कृत्वा कृतान्तातिथिम् ।
भोजूकं युधि युद्धदुर्मदनिधि वाशेकनामा सुधी-
भूयो येन महीशवंशतिलकत्रैलोक्यवर्मा कृतः ॥
स्फीतं राज्यमकण्टकं गुणिगणाक्रान्तातिसर्वास्पदं
दानेनोज्ज्वलवद्विधाय विधिवत्सीमाः समस्ता अपि ।
तेनालम्भि महीधरे जयपुरे कैलासवासोपमे
वासो वासववासदर्पदलनो रम्यप्रतोलीकृते ।।
अस्यानुजः पुण्ययशा उदार आनन्दनामा प्रथितः पृथिव्याम् ।
सदैव लोकं मदयन्तमाराचं सत्यनामानमुदाहरन्ति ॥
भियामभूमिं विगणय्य चैनं दुर्गाधिकारे नृपतिः प्रचक्रे ।
आज्ञाकरान्पल्लिनिवासिनोऽयं चकार भिल्लान्सबरान्पुलिन्दान् ॥
तस्यात्मजोऽभवद[सौ रुचिराभिधानो
विद्यासु तासु सकलासु शुचिः कलासु ।
यो लीलयैव विहरन्समराङ्गणेषु
तीव्रानरातिनिवहान्कुणितामनैषीत् ॥
दुर्गे जयाख्ये प्रबलासुरौच्चविध्वंसनी स्तोत्रपरम्पराभिः ।
दुर्गा स्तुवन्नेष सदैव भत्त्या कृताञ्जलिः पुण्यतमामुपास्ते ॥
गुणैरुदारः सुकृतैकचारः पापापहारः सुजनैकसारः ।
[शस्त्रास्त्रविद्यानिपुणः प्रवीणः कलासु रेजे स सदा यशस्वी ॥
--
MAHAR

काव्यमाला १४८ [एकां] सतं स्थली जीवात सा पुर स व तस्यात्मजो गोपतिनामधेयो विद्यावदातो नृपतिप्रपूज्यः । श्रियां गिरां चाप्यविरोधवासो वन्द्यः सतां साधुजनैकसेव्यः ।। तस्यानुजन्मा महिपालनामा सौन्दर्यशौर्यप्रवरो रराज । यं वीक्ष्य लज्जावनतो मनोभूः सदैव चित्तेषु तिरोबभूव ॥ जयति तदनुजन्मा श्रीविलासैकसौधः सुकृतिजनवरिष्ठो वाग्ग्मिनामग्रणीश्च । नृपतिसमितिदक्षः श्लाघनीयखभावः सुभट इति च नाना कीर्तनीयस्वरूपः ॥ परोपकारप्रतिबद्ध[कांक्षः प्रारब्धकार्याधिगतार्थसिद्धिः । श्रीभोजवर्मक्षितिपस्य सोऽभूत्कोशाधिकाराधिपतिः सदैव ।। सर्वाभारधुरंधरोऽपि सुभटो विश्वासविद्यास्थितिः श्रीमद्भोजमहीमहेन्द्रसचिवः प्रख्यातकीर्तिर्गुणैः । निर्मर्यादपरोपकारनिरतः सौजन्यमुद्रानिधि- र्भाण्डागारपतिश्चिरं विजयते धर्मैकबुद्धिर्भृशम् ॥ लोकः शोक [दुःखत्रयी]मन्दिरं दोलान्दोलनचञ्चलं धनमिदं खल्पायुषो मानुषाः । धर्मः केवल एव देहविरहे देहान्तरं गच्छतो गन्ता [त्या]गविधेरसंभवतया देवालयः क्रीयताम् ॥ ततो जाता महाप्राज्ञा महिपालसुतास्त्रयः । कीर्तिपालो बृहत्कीर्तिः कुमारो मारसंनिभः ॥ संवत (ख)शुदि ...... (अपूर्णोऽयं लेखः) (एपिग्राफिआ इण्डिक्--३३३-३५ पृष्ठे) १. D.मा १३४५ माणं र १०७ लेखः] प्राचीनलेखमाला। १६३ (१०७) सिद्धान्तशिरोमण्याद्यनेकग्रन्थनिर्मातृश्रीमद्- भास्कराचार्यवंशप्रशस्तिः । ओं नमो गणाधिपतये । सिद्धं दिवा]करसुधाकरभूमिपुत्र- श्वेतांशुपुत्रगुरुशुक्रशनैश्चरा]-... | 'स्य" संरक्षणानि गगनेचरचारवो वः ॥ उद्भट[बुद्धिर्भाट्टे सांख्येऽसंख्यः स्वतंत्रि]धीस्तन्त्रे । वेदेऽनव[य] विद्योऽनल्पः शिल्पादिषु कलासु ॥ स्वच्छन्दो यश्छन्दसि शास्त्रे वैशेषिके विशेषज्ञः । यः श्रीप्रभाकरगुरुः प्राभाकरदर्शने कविः काव्ये ॥ बहुगुणगणितप्रभृतिस्कन्धत्रितये त्रिनेत्रसमः । विबुधाभिवन्दितपदो जयति श्रीभास्कराचार्यः ॥ श्रीमद्यदुवंशाय स्वस्त्यस्तु समस्तवस्तुसहिताय । विश्वं यत्र त्रातुं जातो विष्णुः स्वयं त्रस्तम् ॥ गर्जदूर्जरकुञ्जरोत्कटघटासंघट्टकण्ठीरबो लाटोरस्ककपाटपाटनपटुः कर्णाटहृत्कण्टकः । श्रीमान्भिल्लमभूपतिः समभवद्भूपालचूडामणि- स्तवार्तान्ध्रपुरंध्रिकान्तसुखहृच्छ्रीजैत्रपालोऽभवत् ।। १. प्रशस्तिलेखोऽयं पाषाणखण्डोत्कीर्ण: खानदेशान्तर्गतचालीसगांवतो दक्षिणपश्चि- मायां वर्तमाने निर्जने पटनाख्ये ग्रामे भन्ने भवानीमन्दिरे डॉक्टर-भाऊ-दाजी-महाशयै- रुपलब्धः प्रसिद्धज्योतिर्विच्छ्रीमद्भास्कराचार्यपौत्रो यदुवंशीयसिंहणाख्यस्य राज्ञः प्र- धानगणकश्चङ्गदेवेति नामा खपितामहविरचितसिद्धान्तशिरोमण्यादिग्रन्थप्रचाराय मठ- मेकमधिस्थापयामासेतिवृत्तं लेखेनानेन सुव्यक्तीक्रियते. समयश्च लेखान्ते व्यक्त एव.

काव्यमाला। [एका स [स्थली जीवा स लक्ष्मीकान्तलवः प्रतारित]भवः श्रीजैत्रपालोद्भवः सङ्ग्रामाङ्गण[संचितातिविभवः शास्ता भुवः सिङ्घणः । पृथ्वीशो मथुराधिपो रणमुखे काशीपतिः पाति तो येनासावपि यस्य भृत्यबटुना हामी]रवीरो जितः ॥ अवततार पुरा पुरुषोत्तमो यदुकुले जगतीहितहेतवे । जयति सोऽयमिमां सकलामिलामवति मा पतिसिंहमहीपतिः॥ । अथ भृत्यान्वयवर्णनम् । श्रीमद्भास्करवंशाय भव्यं भूयात्स भूपतिः । निकुम्भो यत्र संभूतो रामो] यस्यान्वयेऽभवत् ॥ तत्रासीन्नृपतिर्जितक्षितिपतिया॑तैकलक्ष्मीपति- देवब्राह्मणवन्दने त[त]मतिः श्रीकृष्णराजाह्वयः । शौ[?]दार्यविवेकविक्रमगुणैस्तुल्यो न येनापरः प्राप्तं पाण्डवपुंगवार्जितपदं तद्धर्मराजेति यत् ॥ आसङ्गप्रभवस्ततस्ततमतिः प्राप्तप्रतापोन्नति- वीरो वैरवधूविधूनितशिरा यः श्रीन्द्रराजाह्वयः । तस्यासीत्तनयः सतां सविनयः सामन्तसीमन्तिनी- वैधव्यव्रतसद्गुरुर्गुरुगणः सत्पुण्यपण्यापणः ॥ चतुरस्तुरगारूढो रवेन्त इव गोवनः । सौन्दर्यदर्पकन्दर्पो यं दृष्ट्वानङ्गतां गतः ॥ श्रीगोवनासं स्तुत रत्न] सिन्धोरुद्भूतमूर्तिस्ततपुण्यकीर्तिः । जितारिचक्रः क्षितिपालचक्रः श्रीसोइदेवः स्तुतवासुदेवः ।। शरणागतवज्रपञ्जरः परनारीषु सदा सहोदरः। व्रतसत्यपथे युधिष्ठिरः सततं वैरिवधूभयज्वरः ॥ स षोडश [श तग्रामदेशं दुर्गपुरान्वितम् । सोइदेवे दिवं याते शास्ति तस्यानुसंभवः ॥ त्यागे सूर्यसुनोपमोऽर्जुनसमः शौर्ये निकुम्भान्वये विख्यातः क्षितिपालभालतिलकः श्रीगोचनस्यात्मजः । संव (ख) १ D. १३४

१०७ लेखः]
प्राचीनलेखमाला।
श्रीमत्सिङ्घणदेववैरिकरटो कण्ठीरवो यत्करो
नन्द्यान्नन्दसुनन्दने तत]मतिहेमाडिदेवश्विरम् ॥
शाण्डिल्यवंशे कविचक्रवर्ती त्रिविक्रमोऽभूत्तनयोऽस्य जातः ।
यो भोजराजेन कृताभिधानो विद्यापतिर्भास्करभट्टनामा ॥
तस्माद्गोविन्दसर्वज्ञो जातो गोविन्दसंनिभः ।
प्रभाकरः सुतस्तस्मात्प्रभाकर इवापरः ॥
तस्मान्मनोरथो जातः सतां पूर्णमनोरथः ।
श्रीमन्महेश्वराचार्यस्ततोऽजनि कवीश्वरः ॥
तत्सूनुः कमिवृन्दवन्दितपदः सद्वेदविद्यालता-
कन्दः कंसरिपुप्रसादितपदः सर्वज्ञविद्यासदः ।
यच्छिष्यैः सह कोऽपि नो विवदितुं दक्षो विवादी क्वचि-
च्छ्रीमान्भास्करकोविदः समभवत्सत्कीर्तिपुण्यान्वितः ॥
लक्ष्मीधराख्योऽखिलसूरिमुख्यो वेदार्थवित्तार्किकचक्रवर्ती ।
क्रतुक्रियाकाण्डविचारसारविशारदो भास्करनन्दनोऽभूत् ।।
सर्वशास्त्रार्थदक्षोऽयमिति मत्वा पुरादतः ।
जैत्रपालेन यो नीतः कृतश्च विबुधाग्रणीः ॥
तस्मात्सुतः सिङ्घणचक्रवर्तिदैवज्ञवर्योऽजनि चङ्गदेवः ।
श्रीभास्कराचार्यनिबद्धशास्त्रविस्तारहेतोः कुरुते मठं यः ॥
भास्कररचितग्रन्थाः सिद्धान्तशिरोमणिप्रमुखाः ।
तद्वंश्यकृताश्चान्ये व्याख्येया मन्मठे नियमात् ।।
१. अनेनैव त्रिविक्रमभट्टेन विरचितेषु ग्रन्थेषु दमयन्तीकथापरपर्याया नलचम्पू.
रुपलब्धा. तत्र च शाण्डिल्यवंशीयानूचानान् श्लेषेण संवर्ण्य 'तेषां वंशे विशदयशसां
श्रीधरस्यात्मजोऽभूद्देवा नेमा]दित्यः स्वमतिविकसद्वेदविद्याविवेकः । उत्कल्लोलां दिशि
दिशि जनाः कीर्तिपीयूषसिन्धुं यस्याद्यापि श्रवणपुटकैः कूणिताक्षाः पिबन्ति ॥ तैस्तै-
रात्मगुणैर्येन त्रिलोक्यास्तिलकायितम् । तस्मादस्मि सुतो जातो जाज्यपात्रं त्रिविक्रमः॥'
इति पितामहं पितरमात्मानं च प्रस्तौति स्मायं त्रिविक्रमः. २. अनेनैव लक्ष्मीधरसू-
रिवरेण भास्कराचार्यविरचितग्रन्थानां व्याख्या निर्मिता.

काव्यमाला। [एक [स्था जीव श्रीसोइदेवेन मठाय दत्तं हेमाडिना किंचिदिहापरैश्च । भूम्यादि सर्व प्रतिपालनीयं भविष्यभूपैर्बहुपुण्यवृद्धयै ॥ खस्ति श्रीशाके ११२८ प्रभवसंवत्सरे श्रावणमासे पौर्णमास्यां चन्द्र- ग्रहणसमये श्रीसोइदेवेन सर्वजनसंनिधौ हस्तोदकपूर्वकं निजगुरुरचितम- ठायायस्थानं दत्तम् ॥ (इतोऽग्रे देशभाषा-) (एपिग्राफिआ इण्डिक् ३४१-४३ पृष्ठे) म. (ख) (१०८) नारोदग्रामीयवापीप्रशस्तिः। ओं नमः शिवाय । प्रावृषेण्यनवाम्भोदर्जितौर्जित्यजिन्ति वः । वैनायकानि निघ्नन्तु निर्विघ्नं वृंहितान्यघम् ॥ प्रसन्नौजस्विमधुरव्यक्ताव्यक्तखरूपभाक् । देवता वाक्सरिद्धेदैर्मुदे स्ताद्वः सरखती ।। संपूर्णाङ्गमशेषकल्मषमुषः संपन्नमप्यादरा- दूरं पादतलावघट्टननमत्कैलासनश्यस्थिति । सानन्दं युगपत्सुरासुरसभासंरम्भदत्तव्यथं शंभोव्स्यपरिग्रहस्य दिशतु श्रेयांसि वः स्थानकम् ॥ चरणभरावनतावनिविनमत्कमठोरुकपराभोगा। नाट्यस्य धूर्जटेधुरि वर्णपरिष्वष्कणी जयति ॥ १. अयं च नारोद (रानोद) ग्रामः पुरातनो विशीर्णश्च गोपगिरि(ग्वालीयर)राज्ये झाँसी गूना मध्यदेशस्थो नरवरग्रामात् दक्षिणस्यां दिशि ४५ मीलदूरे वर्तते. २. 'प्रशस्तिश्चेयं पाषाणोत्कीर्णा Dr. Führer साहिवेन तत्र गत्वा तत्प्रतिबिम्बद्वयं च समानीय मह्यमदायीति समयश्वास्या नैव व्यक्ततयाज्ञातोऽपि पूर्वेतिहासपर्यालोचनया ११ शतकस्यारम्भात्मक इति प्रतीयते' इति च Professor F. Keilhorn Ph. D. C. I. E. महाशया एतद्भूमिकायां प्रकाशितवन्तः. D.. माणं

१०८ लेखः]
प्राचीनलेखमाला ।
१५७
उत्क्षिप्तो दण्डपादो ग्रहगणमुडभिः सार्धमुत्तम्भ्य भूयः
प्रायाद्यावत्वसीमामपरपदभरभ्रष्टपृष्ठा व भूमिः ।
इत्थं दौस्थ्येऽपि रङ्गे गगनतलचलच्चारिकाचारवृत्ते-
स्त्रायन्तां वस्त्रिसंध्यं त्रिपुरविजयिनस्ताण्डवक्रीडितानि ॥
भक्त्योपसन्नं स्थिरभक्तिगम्यः पद्मासनं दारुवनेऽतिरम्ये ।
विधाय यज्ञं विधिना विधिज्ञः किलानुजग्राह पुरा. पुरारिः ॥
यच्छन्फलं विपुलनिर्वृतिबीजमुच्चैः
पूर्वोत्तरं विपुलवर्धितभूरिशाखः ।
तस्मादपूर्व उदभून्मुनिवंश एष
निर्ग्रन्थिरन्तरतिसारतरोऽस्तरन्ध्रः ॥
तस्मिन्मुनिः सकललोकनमस्यमूर्ति-
रिन्दूपमः प्रतिदिनं समुदीयमानः ।
श्रीमानभूद्भुवि कदम्बगुहाधिवासी
तस्माच्च शङ्खमठिकाधिपतिर्मुनीन्द्रः ॥
तेरम्बिपालः प्रमथाधिपस्य तुलां दधत्कामजयोदयेन ।
ततोऽभवद्भरितपास्ततोऽपि सत्ख्यातिरामर्दकतीर्थनाथः ॥
तस्मात्पुरंदरगुरुर्गुरुवद्गरिम्णः
प्रज्ञातिरेकजनितस्य बभूव भूमिः ।
यस्याधुनापि विबुधैरितिकृत्यशंसि
व्याहन्यते न वचनं नयमार्गविद्भिः ॥
वन्द्यः कोऽपि चकास्त्यचिन्त्यमहिमा तुल्यं मुनिर्भाखता
राजन्नुत्तमशब्दपूर्वशिखराभ्यर्ण प्रकीर्णद्युतिः ।
दीक्षार्थीति वचो निशम्य सुकृती चारोक्तमुर्वीपति-
यस्येहानयनाय यत्नमकरोच्छ्रीमानवन्तिः पुरा ।।
गत्वा तपस्यन्तमुपेन्द्रपूर्वे पुरे तदा श्रीमदवन्तिवर्मा ।
भृशं समाराध्य तमात्मभूमि कथंचिदानीय चकार पूताम् ॥

काव्यमाला। [एवं [स्था जीव सं अथोपसद्याप्य च सम्यगैशी दीक्षां स दक्षो गुरुदक्षिणार्थम् । निवेद्य यस्मै निजराज्यसारं स्वजन्मसाफल्यमवाप भूपः ॥ स कारयामास समृद्धिभाजं मुनिर्मठं सन्मुनिरत्नभूमिम् । प्रसिद्धमावारिधि मेरुकल्पं श्रीमत्पुरे मत्तमयूरनाम्नि ॥ पुनर्द्वितीयं स्वयमद्वितीयो गुणैर्मुनीन्द्रो रणिपद्रसंज्ञम् । तपोवनं श्रेष्ठमठं विधाय प्रष्ठः प्रतिष्ठां परमां निनाय ।। आसीदतः कवचपूर्वशिवाभिधानो लोकप्रियः कवचवदृढदुष्टशक्तिः । यः सर्वतो वहति संयति संयताङ्गो दाढ्य गुणाब्यमिति कामशरैरभेद्यः ॥ सदाशिवस्तस्य च शिष्य आसीत्सदा शिवः सर्वजनस्य शान्त्या तपोवनं यो रणिपद्रनाम प्रसाधयामास तपःसमृद्ध्या ॥ अस्मादनल्पादुदयाद्रिकल्पाल्लब्धोदयोऽभूदृदयेशसंज्ञः । आचार्यसूर्यस्तमसां विदार्य प्रकाममौदार्यमहार्यवीर्यः ॥ निरवधि वर्धते न च बिभर्ति पुरो लघुभावमात्मनः प्रसरति दिङ्मुखेषु न च चलति मनागपि मार्गसंस्थितेः । स्फुरति समस्तवर्णरुचितं न च मुञ्चति चारुशुभ्रता- मलमधुनापि यस्य कृतिनोऽद्भुतमित्थमहर्निशं यशः ॥ यस्यात्मेन्द्रियनिग्रहे निजगुरुस्थानान्यलंकुर्वतः प्रीतिः पात्रपरिग्रहे च दघतः साधूपभोग्याः श्रियः । खभ्यस्ताखिलशास्त्रनिर्मलमतेरासीत्स एकः परं कान्यैः खोदरपूर्तिमात्ररतिभिस्तृष्णाभिभूतैः कथा ॥ यदि गुणकीर्तनमधुना निःशेषं तस्य साधु विवृणोमि । तद्वक्तुं कीर्तिमिमां नावसरः प्रस्तुतां तदलम् ॥ औदार्याद्गुरुभारदुर्वहधुरानियूंढवीर्योदयः शिष्यः शिष्यवतां विशेषक इव प्रस्तावमुख्यः सताम् । (ख) | "A D. १३१ र्माण AIMERIYA १०८ लेखः] प्राचीनलेखमाला। श्रीमान्व्योमशिवायः समभवत्तस्यापि तादृक्पुन- र्यादृग्भूरिभिरुग्रमद्भुततमैस्तप्तैस्तपोभिर्भवेत् ॥ श्लाघ्यं जन्म जगत्रयेऽपि दधतः शेषस्य तस्य क्षमा- मस्य व्योमपदादिमन्त्ररचनाख्याताभिधानस्य च । उद्धर्तु विपदि प्रजां गुरुभरव्यापारदत्तात्मनो यस्योद्रिक्तपरोपकारकरुणामात्रं प्रवृत्तेः फलम् ॥ यस्योच्चैश्चरितं चिरात्पुलकभृगण्डस्थलश्रेणिभि- मञ्जुव्यञ्जित[म]न्द्रतारगमकैः संगीयते किन्नरैः । सूर्याचन्द्रमसोः समं प्रतापः प्रध्वंस्य दूरं तम- स्तस्यास्याद्भुतकर्मणः किमपरैः स्तोलैर्विचित्रैरपि । द्रढिष्ठसदनुष्ठानो मेदिष्ठमितभाषितः । योऽन्वतिष्ठत्प्रतिष्ठावत्प्रष्ठः सतिनां व्रतम् ।। यः संयमस्य विनयस्य नयस्य सम्य- क्पुण्यस्य चारुचरितस्य च कीर्तनस्य । एकत्र वस्तुमिति सद्गुण[सं] [स्य] त्वष्ट्रा प्रतिश्रयगृहं गृहिणेव जज्ञे ॥ सर्वत्र निर्वृतिक रे]ण निरन्तरेण लब्धोदयेन धवलेन दिगायतेन । वर्धिष्णुनाधिकमलंकृतमेतदिन्दो- द्योतेन यस्य च गुण प्रस] रेण विश्वम् । लोकालोकान्तरालभ्रमणपरिणतावर्तवेगप्रवृत्ति- तूलोत्ताललीलां द्रुतगति तुलयन्व्यासदिक्चक्रवालः । निर्धूयाशेषविश्वाक्रमणपटुरजःपावनैवर्तनै-- मारादाश्वभुवानस्तपस उदगमद्यस्य दूरं प्रतापः ॥ येनेदं पुरमापदन्धतमसे मनं नियोगाविधेः सत्की, रणिपद्रसं[ज्ञम]चिरादुद्धृत्य यत्याश्रमम् ।

काव्यमाला। । [एक स्था जीव M म. भूपृष्ठं शशिनेव निर्मलतरस्फारस्फुरत्तेजसा सर्वानन्द्युदयेन पौरसहितं नीतं पुनस्ताः श्रियः ॥ स्फारैर्धान्यहिरण्यरत्ननिवहैनिःशेषमन्तर्बहि- स्त्वङ्गतुङ्गतुरङ्गमैर्मदभरोद्वृत्तैश्च गर्जद्गुजैः । खस्थानस्य विशीर्णविद्रुममठस्योद्दामलक्ष्मीभृतो भूभागास्तपसा पुनर्नवरुचः संरेजिरे यस्य च ॥ सा श्लाघ्या वसतिः स एव विषयस्ते प्राणिनस्ता दिशः सा भूर्भूमिपतिः स एव किमतस्ते ते प्रदेशाः परम् । यत्रास्तेयमशेषसत्त्वहितकृत्कृत्यप्रवृत्तः स्वयं पुण्यानां प्रगुणीकृतोऽवनिसृजा पुञ्जो वपुष्मानिव ॥ यद्वाचां मनसां च गोचरमतिकान्तेन भूमान्वितं यद्गीतं गुणगर्वितैर्दिविषदां दारैरदभ्रादरम् । यत्सत्त्वज्वलितैः प्रचण्डतपसां तेजोभिरुन्मीलितं तन्नान्यत्र चरित्रमुन्नतमतावत्रैव तावत्स्थितम् ॥ पुरा योषित्सङ्गादनिभृतनिजाक्षं भगवता विजिग्ये यः कामस्त्रिपुररिपुणाविष्कृतरुषा । निरुद्धाक्षः क्षान्त्या तमयमजयत्सङ्गरहितः सुचीर्णानां स्याद्वा किमिह तपसां दुष्करमिति ॥ स्फारास्फालनघातनिर्दयदलद्गम्भीरभेरीरव- व्याजेनोज्जगुरा कुमारचरितात्सद्ब्रह्मचर्य तपः । यस्याराधयतस्त्रिसंध्यमधुतध्यानस्थितेधूर्जटिं चैतन्योज्झितवृत्तयोऽपि समये सद्भूपवेलोत्सवाः ॥ स्तुल्यं स्यात्किमिहास्य नाम चरितं न स्थास्तुपुण्यार्थिना मा बाल्यात्सहकीर्तिसंचिततपस्तेजः समुत्तेजितम् । यस्यौच्चैरलघून्नमद्गुणगुरुब्रह्माण्डमाडम्बर- व्यप्रैक्शितरुद्रबाहुपरिषैः संधार्यते यत्नतः ॥ (ख) D. १३ र्माण १०८ लेखः] प्राचीनलेखमाला। सिद्धान्तेषु महेष एष नियतो न्यायेऽक्षपादो मुनि- गम्भीरे च कणाशिनस्तु कणभुक्शास्त्रे श्रुतौ जैमिनिः । सांख्येऽनल्पमतिः खयं च कपिलो लोकायते सद्गुरु- बुद्धो बुद्धमते जिनोक्तिषु जिनः को वाथ नायं कृती ॥ यद्भूतं यदनागतं यदधुना किंचित्कचिद्वर्धते सम्यग्दर्शनसंपदा तदखिलं पश्यन्प्रमेयं महत् । सर्वज्ञः स्फुटमेष कोऽपि भगवानन्यः क्षितौ संकरो धत्ते किंतु न शान्तधीविषमग्रौद्रं वपुः केवलम् ॥ अस्मिन्नुद्दामधानि प्रचुरतरतपःसीन्नि विख्यातनाम्नि सर्वानन्द्युक्त[सा]नि क्षितिभृदुरुभरस्पर्धिपुष्यद्गरिम्णि । संपन्नप्रेम्णि सत्सु वयशसि निहितस्फारसारप्रथिन्नि विद्योत्सर्पन्महिम्नि त्रिभुवनतिलके के गुणा हन्त न स्युः ॥ संलीनं मुख एव शाक्यकरिणामत्यूजितं गर्जितं त्रासाद्यस्य च जैनजम्बुकशतैर्दुर्व्याहृतं संहृतम् । सोढं जातु न जैमनीयहरिणैर्लीलाकृतं हुंकृतं तस्यान्यद्गगनेशकाननपतेः किं स्यात्स्तुतं प्रस्तुतम् ।। यस्योच्चकैः स्फुरति संतमसं निरस्य तेजः परं प्रतिनिशं प्रतिवासरं च । अन्यः स एष ननु चन्द्रमसो रवेश्च चन्द्रावदातचरितः सुतरां चकास्ति ॥ यस्यामलं स्फुरति सद्गुणरत्नवृन्द- मानन्दकारि जगतां जलताविहीनम् । श्रीव्योमशंभुजलधिः स खलु व्युदस्त- तृष्णः सतां समभवद्भुवि कोऽप्यपूर्वः ॥ माधुर्य विनयो नयोऽनलसता त्यागः क्षमा प्रश्रयः स्थैर्य धैर्यमहार्यवीर्यकलितं सद्ब्रह्मचर्य तपः ।

काव्यमाला। [एवं जीव सं इत्यादि प्रचिनोमि चेतसि चिरं यद्यत्किमप्यादस- तत्तत्स[]मचिन्त्यमस्य महतः कस्यास्तु वाचां पथि ।। रेजुः सज्जनरक्तभावजननान्या सिन्धुवेलावधे- श्चित्रं तस्य यशांसि कुन्दकलिकाक्रोडप्रभाभाञ्ज्यपि । तस्यायं खलु देवतायतनवान्वापीनिवेशः शुभः सोद्यानः प्रथते स्वकीर्तिविभवः साक्षादिवानश्वरः ॥ शिवयुग्ममुमादेवीनाट्येश्वरविनायकौ । स मठं मन्दिरै रम्यैरयमेतान्यचीकरत् ॥ प्रतिक्षपं या प्रतिबिम्बतां गते सुर्निमले वारिणि तारकागणे । कुमुद्वतीसङ्गसमुज्झिताप्यलं विभाति विष्वकुमुदैरिवाचिता ॥ प्रासादमाधुर्यनिकामहृद्यं विराजते यत्र गभीरमम्भः । विडम्बयत्सत्कविकाव्यबन्धं विशुद्धवर्णाहितचारुशोभम् ।। शैलात्मजाभक्तिपरप्रयातपौराङ्गनानूपुरशिञ्जितेन । प्रतिक्षणं या कलहंसनादभ्रमं विधत्ते श्रुतिपेशलेन ॥ धृतोदपात्रावनताङ्गनानां मुखैर्विचित्राधरपत्ररम्यैः । तोयं गतैर्या प्रतिबिम्बनेन भृ[शा रविन्देव बिभर्ति शोभाम् ॥ अपूर्वविन्यासविशेषकेण विभूषिता या दयितेव दृष्टा । सोपानमालावलिचारुमध्या नानन्दयत्कस्य मनो मनोज्ञा ॥ प्रासादा यत्र भासन्ते कुन्देन्दुकुमुदोज्वलाः । श्रीव्योमेशमहीव्यापियशोबीजाङ्कुरा इव ॥ या नीलकण्ठेन तटोपकण्ठं कृतास्पदा धाम परं सुखस्य । प्रासादरम्या रमणीयभूमिः पुरा पुरारेः सदृशी चकास्ति । यत्सन्निधौ सान्द्रसुधासितिम्ना प्रासादमालानुदिनं विभाति । भयेन भानोः परिणाममेत्य ज्योत्स्ना स्थितेवामरसद्ममूर्त्या । अम्भोनिधिस्तुङ्गतुषारशैलैः सम्यग्विराजेद्यदि कूललीनैः । तेनोपमीयेत तदा स्फुटं या समुन्नतै किगृहैर्विमान्ती ॥ (ख) D. १३ १०८ लेखः] प्राचीनलेखमाला। अमुक्तमुक्ताफलचारुकान्ति तोयं सदैव प्रतिभाति यत्र । अमूर्ततावाच्यमसोढुकाममुच्चैरभून्मूर्तमिवान्तरिक्षम् ॥ शरन्निशेवामलचन्द्रकान्त्या सरोजलक्ष्म्येव सरोजलर्द्धिः । अलंकृता चारुतया व्यधत्त या निति कस्य न दृश्यमाना ॥ या सर्वदा नोज्झति यन्निकामं सत्सूपकारं च गभीरतां च । जलैरनल्पै शमास्थितापि फलं तदेतद्धि कुलीनतायाः ॥ मृगाङ्कबिम्बे प्रतिमागते या स्फुरत्तरङ्गाङ्गुलिभिविलोले। खचारुसौन्दर्यविलोकनाय धृतामलादर्शतयेव भाति ॥ स्थिराणि तुङ्गानि स्थिरोज्वलानि निरन्तराण्यार्जवसुन्दराणि । सतां मनांसीव सदानुकूलं विभान्ति यस्याः सुरमन्दिराणि ॥ इदं नभः किं द्रवता कुतोऽस्य किं वामृतं तत्कथमत्र चित्रम् । अह्राय यनेति वितर्कयुक्तिो] जलं न निश्चेतुमलं जनौघः ॥ सन्मीनभूमिर्भवतु प्रकामं मनोरमा द्यौर्बल्वारिदा च । तथापि सामान्यगुणादुदस्ता यया विचित्रां रचनां दधत्या । जित्वारिषड्र्गमनर्थमूलं धर्मे रताः सन्तु सदैव सन्तः । यस्यामितीवाह सुरालयाली निलीनपा[राप]तमन्द्रनादैः ॥ रङ्गात्तरङ्गातिमनोरमभू रथाङ्गनामोरुपयोधरा या । दिक्षु क्षिपन्ती शफरीकटाक्षानचूचुरत्पान्थदृशं प्रियेव ॥ यदस्ति किंचित्वचिदप्यनिन्धमानन्दहेतुर्जगतीह वस्तु । तदेकदेशे निखिलं विधाय या वेधसोचैर्घटितेव रम्या ॥ कुँवलयमतीव वापी विभूषयति यदतिसुप्रसिद्धमदः । चित्रमिदं तु विचित्रा या कुवलयमप्यलंकुरुते ॥ स्थिरा सैषा वापी गगनशशिमौलेभगवतो भवत्वाचन्द्रार्क प्रथिततपसो भूरियशसः । १. जलैजडै:. २. 'मीनो राश्यन्तरे झषे'. ३. प्रचुरमेघा प्रचुरजलदायिनी च. ४. 'स्यादुत्पलं कुवलयम्' इत्यमरः. ५. भूमिमण्डलम्, १६४ काव्यमाला। [एवं [स्थ जीव यदीये भातीयं शरदमलचन्द्रांशुधवला सुराणां सद्माली विकटतटपृष्ठे शिखरिणी ॥ वापीतो निकटं यः पादपमारोपयिष्यति [व्रात्य]ः । याता स पञ्चपातकयुक्तः खलु दुस्तरे निरये ॥ पञ्चैव तेषामिह पातकानि स्वप्स्यन्ति खटासु शठा मठे ये । येऽभ्यन्तरे मूढधियो रजन्यां दास्यन्त्यनार्या वसतिं च नार्याः ॥ प्रशस्ता देवसंलापपूर्वदत्ताह्वयेन या । विहिता मुख्यशब्दार्था सा [मुदेऽस्तु सतामियम् ।। देवदत्तसुतेनैषा हरदत्तन वर्णिता । वापीप्रशस्तिका रम्या जेज्जाकेनोदखोटि च ॥ रुद्रेण लिखिता ॥ (एपिग्राफिआ इण्डिक्-३५४-६१ पृष्ठे) सं (ख) (१०९) विजयनगराधीशमहाराजश्रीकृष्णराय- वितीर्णग्रामप्रशस्तिः। श्रीकृष्णदेवराय श्रीशुभमस्तु । नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरारम्भमूलस्तम्भाय शंभवे ॥ कल्याणायास्तु तद्धाम प्रत्यूहतिमिरापहम् । यद्गजोऽप्यगजोद्भूतं हरिणापि च पूज्यते ॥ १. प्रशस्तिलेखस्यास्य मुख्यादर्शः शून्यीभूतविजयनगरनगरतः पश्चिमोत्तरे प्रदेशे तुङ्गभद्रातरङ्गिणीतटनिकटवर्तिहैम्यनामकग्रामे शिवमन्दिरे मण्डपाभिमुखस्थशिलाखण्डे उत्कीर्णो लभ्यते। स चायं लेखो Dr. Pigson महाशयैः फोटूग्राफयन्त्रेणादर्शप्रतिकृती- कृतः Mr. Fleet महाशयैः प्रकाशितोऽपि पुनःE. Hultzschमहाशयैः स्फुटानु- वादपूर्व व्यक्तीकृतः. समयस्त्वस्याः प्रशस्तेरन्ते १४३० (1509 A.D.)शकाब्दात्मकः Himanima D. १३ र्माण

१०९ लेखः]
प्राचीनलेखमाला।
अस्ति क्षीरमयाद्देवैर्मथ्यमानान्महान्बुधेः ।
नवनीतमिवोद्भूतमपनीततमो महः ॥
तस्यासीत्तनयस्तपोभिरतुलैरन्वर्थनामा बुधः
पुण्यैरस्य पुरूरवा भुजबलैरायुर्द्विषां निम्नतः ।
यस्यायुर्नहुषोऽस्य तस्य पुरुषो युद्धे ययातिः क्षितौ
ख्यातस्तस्य तु धुर्वमुर्वसुनिभः श्रीदेवयानीपतेः ॥
तद्वशे देवकीजानिर्दिदीपे तिम्मभूपतिः ।
यशस्वीतुल्लवेन्द्रेषु यदोः कृष्ण इवान्वये ॥
ततोऽभूझुकमाजानिरीश्वरक्षितिपालकः ।
अत्रासमगुणभ्रंशं मौलिरत्नं महीभुजाम् ॥
पद्माक्षो बलिजिन्निजैस्त्रिभुवनाक्रान्तिक्षमैर्विक्रमै[:]
शङ्ख चक्रमपि श्रयन्निजकरे श्रीदेवकीनन्दनः ।
भूत्वाप्यद्भूतमीश्वरोऽयमिति या भूयस्तरां पप्रथे
भूति चाखिलपूज्यतामतिभृशं भूभृत्सुतामाश्रितः ॥
भूवासैकपरोऽपरो रविरिव प्राप्तोदयोऽहर्निशं
यो मन्देहरिपूनहन्कविबुधोपेतोऽनपेतो रणात् ।
आपूर्वापरवारिराशि नितरामासेतु हेमाचलं
विख्यातो विहसंश्च यो वितरणैर्व्यद्योतत द्योतरून् ।
सरसादुदभूत्तस्मान्नरसावनिपालकः ।
देवकीनन्दनात्कामो देवकीनन्दनादिव ॥
कावेरीमाशु बध्वा(झा) बहलजलरयां तां विलङ्घयैव शत्रु
जीवग्राहं गृहीत्वा समिति भुजबलात्तं च राज्यं तदीयम् ।
कृत्वा श्रीरङ्गपूर्व तदपि निजवशे पट्टणं यो बभासे
कीर्तिस्तम्भं निखाय त्रिभुवनभवनस्तूयमानापदानः ॥
चेरं चोलं च पाण्ड्यं तमपि च मधु]रावल्लभं मानभूषं
वीर्योदग्रं तुरुष्कं गजपतिनृपतिं चापि जित्वा तदन्यान् ।

काव्यमाला। १४८ [ए। जी आगङ्गातीरलङ्काप्रथमचरमभूभृत्तटान्तं नितान्तं ख्यातः क्षोणीपतीनां स्रजमिव शिरसां शासनं यो व्यतानीत् ॥ विविधसुकृतोदामे रामेश्वरप्रमुखे मुहु- मुदितहृदयः स्थाने स्थाने व्यधत्त यथाविधि । बुधपरिवृतो नानादानानि यो भुवि षोडश त्रिभुवनजनोद्गीतं स्फीतं यशः पुनरुक्त यन्] ॥ तिप्पाजीनागलादेव्योः कौसल्याश्रीसुमित्रयोः । देव्योरिव नृसिंह्ये हे)न्द्रात्तस्मा[त्यं]क्तिरथादिव ॥ वीरौ विनयिनौ रामलक्ष्मणाविव नन्दनौ । जातौ वीरनृसंघ (हे)न्द्रकृष्णरायमहीपती ॥ वीरश्रीनारसिंह्य (हः) स विजयनगरे रत्नसिंहासनस्थः कीर्त्या नीत्या निरस्यन्नृगिनलनहुषा]नप्यवन्या]मथान्यान् । आ सेतोरा सुमेरोरवनिसुरनुतः खैरमा चोदयाद्रे- रा पाश्चात्याच]लात्तादखिलहृदयमावर्त्य राज्यं शशास ॥ नानादानान्यका[र्षीत्कनकस]दसि [यः श्री]विरूपाक्षदेव- स्थाने श्रीकालहस्तीशिशुरपि नगरे वेङ्क[टा द्रौ च का[ञ्च्याम्] । श्रीशैले शोणशैले महति हरिहरेऽहोबले सङ्गमे च श्रीरङ्गे कुम्भघोणे [हत तम]सि महानन्दितीर्थे निवृत्तौ ।। गोकर्ने(णे) रामसेतौ जगति तदितरेष्वप्यशेषेषु पुण्य- स्थानेष्वार[ब्धना]नाविधबहलमहादानवारिप्रवाहैः । यस्योदञ्चत्तुरङ्गप्रकरखुररजःशुष्यद[म्भोधिमग्न- क्ष्माभृत्पक्षच्छिदोद्यत्तरकुलिशधरोत्कुण्ठिता कुण्ठिताभूत् ॥ ब्रह्माण्डं विश्वचक्रं [घट]मुदितमहाभूतकं रत्नधेनुं स[प्ता] भोधि च कल्पक्षितिरुहतिलके काञ्चनी कामधेनुम् । खन(ण)क्ष्मां यो हिरण्याश्वरथमपि तु[लापू]रुषं गोसहस्रं हेमाश्वं हेमगर्भ कनककरिरथं पञ्चलाङ्गल्यतानीत् ॥ (ख उत्की कृत

CCESS
१०९ लेखः]
प्राचीनलेखमाला।
प्राज्यं] प्रशा[स्य] निर्विघ्नं राज्यं द्यामिव शासितुम् ।
तस्मिन्गुणेन विख्याते क्षितेरिन्द्रे दिवं गाते ॥
[ततोऽ]प्य[वार्यवीर्यः श्रीकृष्णरायमहीपतिः ।
बिभर्ति मणिकेयूरनिर्वि शेषं] महीं [भुजे ॥
कीर्त्या यस्य समन्ततः प्रसृत]या विश्वं रुचैक्यं ब्रजे-
दित्याशङ्कय [पुरा पुरारिरभवद्भा लेक्षणः प्रायशः ।
पद्माक्षोऽपि चतुर्भुजोऽजनि चतुर्वक्रोऽभवत्पद्म[भूः]
काली [खड्गमधाद्रमा] च [कमलं] वीणां] स्ववेणीकरे ॥
शत्रूणां वासमेते ददत इति रुषा किंनु सप्ताम्बुरासी(शी)-
नानाशे(से)नातुरङ्गत्रुटितवसुमतीधूलिकापालिकाभिः ।
संशोष्य खैरमेतत्प्रतिनिधिजलधिश्रेणिका यो विधत्ते
ब्रह्माण्डखन(ण)मेरुप्रमुखनिजमहादानतोयैरमेयेः ॥
मद्दत्तामर्थिसार्था[:] श्रियमिह सुचिरं भुज्जतामित्यवेत्य
प्राय[:प्रत्यूहहेतोस्तपनरथगतेरालयं देवतानाम् ।
तत्तु दि(त्तद्दिग)जैत्रवृत्त्यापि च विरुदपदैरङ्कितस्तत्र तत्र
स्तम्भाजातप्रतिष्ठाव्यतनुत मुवि यो भूभृदभ्रंकषाग्रान् ॥
कां]चीश्रीशैलशोणाचलकनकसभावेङ्कटादिप्रमुख्ये-
वावावर्त्य सर्वे[व]तनुत विधिवद्भूयसे श्रेयसे यः ।
देवस्थानेषु तीर्थेष्वपि कनकतुलापूरुषादीनि नाना-
दानान्येवो[प]दानैरपि सममखिलैरागमोक्तानि तानि ॥
रोषकृतप्रतिपार्थिवदण्डः शेषभुजः क्षितिरक्षणशौण्डः ।
भाषेगे तप्युवरायरगण्डस्तोषकृदर्थि[७] यो रणचण्डः ॥
राजाधिराज इत्युक्तो यो राजपरमेश्वरः ।
मूळारायरगण्डश्च पररायभयंकरः ॥
हिन्दुरायसुरत्राणो दुष्टशार्दूलमर्दनः ।
गजौघगण्डभेरुण्ड []त्यादिबिरुदान्वितः ।।
ANTARREARTPHPANE

काव्यमाला। स्थ जी आलोकय महाराज जय जीवेति वादिभिः । अङ्गवङ्गकलिङ्गायै:] राजभिः सेव्यते च यः॥ स्तुत्यौदार्यसुधीभिः स विजयनगरे रत्नसिंहासनस्थ]: [क्ष्मा]पालान् कृष्ण रायक्षितिपतिरधरीकृत्य नीत्या नृगादीन् । आ पूर्वाद्रेर[थास्त [क्षि]तिधरकटकादा च हेमाचलान्ता- दा सेतोरर्थिसार्थिसार्थश्रियमिह बहलीकृत्य कीर्त्या समिन्धे ॥ इह किल जगति निखिलकविकुलाभिनन्द्यमानौदार्यधैर्यादिजनितयशः- पूरकर्पूरपूरितब्रह्माण्डकरण्डेन समरचण्डेन विहसितनृगनलनहुषनाभागदुन्धु- मारमान्धातृभरतभगीरथदशरथरामादिचरितेन कृतभूसुरत्राणेन परिभूतसु- रत्राणेन गजपतिगजकूटपाकलेन विदि(तनाना)कलेन वदनविजिताम्भोजेन भोजेनापरेण काव्यनाटकालंकारमर्मज्ञेन धर्मज्ञेन प्रतिवर्षप्रवर्ति त] कनक- वसन्तमहोत्सवे]न सवेन कृतार्थितविप्रसार्थे न] सार्थेन निखिलनृपतिमूर्ध- न्येन धन्येन नागाम्बिकानरसनृपनन्दनेन निखिलहृदयानन्देन समरमु- खविजयेन विजयेन दिशां विजयनगरे सिंहासनमारुह्य शासता सकलां भुवं भुजविजितसाम्परायेण कृष्णदेवमहारायेण भुवनमरणसावधानाय श्री- विरूपाक्षाभिधानाय वितीर्णविनतजनहेमकूटाय हेमकूटायतनशालिने शू- लिने मधुरफलपूपादिहृद्याय नैवेद्याय सिंगेनायकनहललीतिविख्यातनामा च- तुरसीमाभिरामो ग्रामो दत्तो वित्तोपकारिणा रवितनयानुकारिणा रङ्गमण्ड- पोऽपि विरचितस्तस्यैव देवस्य तेनैव प्रकटितनरजनुषा प्रसूनधनुषा । तदिदमवनीवनीपकविनुतधरायस्य कृष्णरायस्य । शासनमतिवलशासनतरुकरदानस्य [सापदनस्य ॥ खस्ति श्रीविजयाभ्युदयशालिवाहनशकवर्ष १४३० संदु मेले नडव शुक्लसंवत्सरद माघ शु० १४ लु श्रीमन्महाराजाधिराजराजपरमेश्वरश्री- वीरप्रतापश्रीवीरकृष्णरायमहाराजरुपट्टाभिषेकोत्सवपुण्यकालदलु श्रीविरूपा- क्षदेवर (इत्यादि देशभाषायामपि सर्व प्रागुक्तमनूदितम् ।) (एपिग्राफिआ इण्डिक्-३६३-६६ पृष्ठे) (ख १. घराया आयः प्राप्तिः ११० लेखः] प्राचीनलेखमाला। (११०) महाराजयशःकर्णदेवानां प्रशस्तिः। ओं नमो ब्रह्मणे । जयति जलजनाभस्तस्य नाभीसरोज जयति जयति तस्माजातवानब्जसूतिः । अथ जयति स तस्यापत्यमत्रिस्तदक्ष्ण- स्तदनु जयति जन्म प्राप्तवानब्धिबन्धुः ॥ अथ बोधनमादिराजपुत्रं गृहजामातरमब्जबान्धवस्य । तनयं जनयांबभूव राजा गगनाभोगतडागराजहंसः ॥ पुत्रं पुरूरवसमौरसमाप सूनु- देवस्य सप्तजलराशिरसायनस्य । आसीदनन्यसमभाग्यशतोपभोग्या यस्योर्वशी च सुकलत्रमिहोर्वरा च ॥ अत्रान्वये किल शताधिकसप्तिमेध- यूपोपरुद्धयमुनोक्तविविक्तकीर्तिः । सप्ताब्धिरत्नरसनाभरणाभिराम- विश्वंभराशुभरतो भरतो बभूव ॥ हेलागृहीतपुनरुक्तसमस्तशस्त्रो गोत्रे जयत्यधिकमस्य स कार्तवीर्यः । अत्रैव हैहयनृपान्वयपूर्वपुंसि राजेति नाम शशलक्ष्मणि चक्षमे यः ॥ १. इयं प्रशस्तिश्च Professor F. Kielhorn Ph. D., C. I.E. HERIT: Dr. Burgess, Mr. Fleet, and Colonel J. T. Temple महाशयसंमत्या व्याख्याता, एतत्प्रशस्त्याधारशिला नागपुरे वर्तते. अस्याः प्रशस्ते- रन्ते खण्डितत्वेन यद्यपि समयो न ज्ञायते, तथापि यश कर्णमहाराजसूनुगयकर्ण- धर्मपत्न्याः श्रीमत्या अल्हणदेव्याः प्रशस्तेः समाप्तौ चेदि(चंदेली)राज्यसंवत्सरस्यो- पलब्ध्या लेखस्यास्यापि समयः समासन्नतया A. D. 1122 वत्सरात्मकः प्रतीयते. ।

काव्यमाला। ए [ र ज स हिमाचल इव कलचुरिवंशमसूत क्षमाभृतां भर्ता । मुक्तामणिभिरिवामलवृत्तैः पूतं महीपतिभिः ॥ तत्रान्वये नयवतां प्रवरो नरेन्द्रः पौरंदरीमिक पुरीं त्रिपुरी पुनानः । आसीन्मदान्धनृपगन्धगजाधिराज- निर्माथकेसरियुवा युवराजदेवः ॥ सिंहासने नृपतिसिंहममुष्य सूनु- मारूरुपन्नवनिभर्तुरमात्यमुख्याः । कोकल्लमर्णवचतुष्टयवीचिसंघ- संघट्टरुद्धचतुरङ्गचमूप्रचारम् ॥ इन्दुप्रभां निन्दति हारगुच्छं जुगुप्सते चन्दनमाक्षिपन्ती। यत्र प्रभौ दूरतरं प्रयाते वियोगिनीव प्रतिभाति कीर्तिः ॥ मरकतमणिपट्टप्रौढवक्षाः स्मिताक्षो नगरपरिघदैये लङ्घयन्दोर्द्वयेन । शिरसि कुलिशपातो वैरिणां वीरलक्ष्मी- पतिरभवदपत्यं यस्य गाङ्गेयदेवः ।। स वीरसिंहासनमौलिरत्नं स विक्रमादित्य इति प्रसिद्धः । यस्मादकस्मादपवर्गमिच्छन्नकुच्छलः कुं खजितां बभार ॥ प्राप्ते प्रयागवटमूलनिवेशबन्धौ सार्ध शतेन गृहिणीभिरमुत्र मुक्तिम् । पुत्रोऽस्य खड्गदलितारिकरीन्द्रकुम्भ- मुक्ताफलैः स्म ककुभोऽर्जति कर्णदेवः ॥ कनकशिखरवेल्लद्वैजयन्तीसमीर- ग्लपितगगनखेलत्खेचरी चक्रखेदः । किमपरमिह काश्यां यस्य दुग्धाब्धिवीची- वलयबहलकीर्तिः कीर्तनं कर्णमेरुः ॥ (ख IITD का TF १७१ ११० लेखः] प्राचीनलेखमाला। अग्र्यं धाम श्रेयसो वेदविद्या वल्लीकन्दः खःसवन्त्याः किरीटम् । ब्रह्मस्तम्भो येन कर्णावतीति प्रत्यष्ठापि क्ष्मातलब्रह्मलोकः ।। अजनि कलचुरीणां खामिना तेन हूणा- न्वयजलनिधिलक्ष्म्यां श्रीमदावल्लदेव्याम् । शशभृदुदयस(श)ङ्काक्षुब्धदुग्धाब्धिवेला- सहचरितयसः(शः)श्रीः श्रीयस (शः)कर्णदेवः ।। [चन्द्रार्कदीप]वति पर्वतराजपूर्ण- कुम्भावभासिनि महाब्धिचतुष्कमध्ये । चक्के पुरोहितपुरष्कृतिपूतकर्मा धर्मात्मनोऽस्य हि पितैव महाभिषेकम् । न खलु समिदगोष्टी पक्षपातस्य पात्रं न खलु कलुषचर्याकजलोद्भावकश्च] । कलयति कलिनामन्युद्गमं यस्त्रिजा(या)मा तमसि जयति जम्बूद्वीपरत्नप्रदीपः ॥ चिन्तामणि कृष्ण](2) सु(शुक्तियुग्मकोडे स्याद्यदि कामधेनुदुग्धम् । दृश्येत दृशोस्तस्य दातुः सादृश्यं धवलारुणेक्षणस्य ॥ यः ककुप्कुञ्जरालानस्तम्भसब्रह्मचारिणः । [आसा(शा)न्तेषु जयस्तम्भानुदस्तम्भयदुच्चकैः ॥ यो ब्रह्मणां पाणिषु पञ्चषाणि दाता निधत्ते पयसः पृषन्ति । तैरेव तृष्णामवधूय ते च रत्नाकरेऽपि प्रथयन्त्यव[ज्ञाम् ] ॥ महीभर्ता महादानैस्तैस्तुलापुरुषादिभिः । गरिम्णा [मेरुरत्यथै कृतार्थयति योऽर्थिनः ॥. खर्गराजगजदन्तरुचीनि क्षीरनीरनिधिसं(शं)खसु(शु)चीनि । सा(शा)ङ्गि वेष फणिकञ्चकभांसि स्फीततां दधति यस्य यसां(शां)सि। अन्ध्राधीशमरन्ध्रदोविलसितं खच्छन्दमुच्छिन्दता येनाभ्यर्च्यत भूरिभिः स भगवान्भीमेख(श्व)रो [भूषणैः ।

1 १७२ काव्यमाला। [ए [ र यस्या[व]र्ण यदात्त]नृत्यलहरीद्रु(?)वल्लिगोदावरी [वीर्याण्यु]न्मदहंसनादमधुरैः स्रोतःखरैः सप्तभिः ॥ कुर्वन्महीं ब्राह्मणसादरिक्षत्रतिव (ब)हणः । शा(सा) परसु(शु)रामेण यः स्पर्धामधिरोहति ॥ स च परमभट्टारकमहाराजाधिराजपरमेख (श्व)रश्रीवामदेव" •(इतोऽग्रे त्रुटितम् ।) (एफिग्राफिआ इण्डिकू २ । ३-५) ज (ख A i (१११) श्रीमद्यशःकर्णमहाराजसुतगयकर्णमहाराजधर्मपत्न्याः श्रीमदल्हणदेव्या दानपत्रम् । ओं नमः शिवाय। कल्याणितामविकलां भवतां तनोतु भाले कलानिधिकला शशिशेखरस्य । एकैव या प्रथमसार्थगतां द्वितीया बुद्धिं प्रदोषविरहेऽपि करोति नित्यम् ॥ किं मालाः कुमुदस्य किं शशिकलाः किं धर्म्यकर्माकुराः किं वा कञ्चकिकञ्चकाः किमथवा भूत्युद्गमा भान्त्यमी । इत्थं नाकिवितर्किताः शिवशिरःसंचारिनाकापगा- रिङ्गद्वल्गुतरङ्गभङ्गिततयः पुण्यप्रपाः पान्तु वः ॥ भूतं सद्विभु यद्विभाति भुवनं यद्विभ्रमाद्यज्जग- नेत्रानन्दकरं धराश्रयरसाद्यन्यत्वहेतुश्च यत् । LAL श व क्ष १. दानपत्रमिदं Professor F. Kielhorn, Ph. D., C. I. E., Gottingen, महाशयैः पुनः प्रकाशितम् , अस्य समाप्तौ चेदि(चंदेरी)राजधानीसं- वत्सराणां ९०७ (A. D. 1156) लिखितत्वान्नात्र समये विवादः.

SRARTHANIRAINRIBulavundinantaMRINESEARATHON TARI
११ लेखः]
प्राचीनलेखमाला।
१७३
यद्गन्धोद्धुरधाम यच्च यजते शीतं यदेकान्ततः
सस्पर्श यदरूपमेभिरवतायुष्माशरीरैः शिवः ॥
शक्तिहेतिपरप्रीतिहेतुश्चन्द्रकचर्चितः ।
ताण्डवाडम्बरः कुर्यान्नीलकण्ठः प्रियाणि वः ॥
विघ्नौघसंतमससंहरणाय शक्तं
मुक्तं कलङ्ककलया शकलं सुधांशोः ।
कुन्दावदाततरदन्तमिषादधानः
श्रेयः परं दिशतु वः सदयं द्विपास्यः ॥
रूपैरनेकैर्व्यवहारजातमातन्वती पातु सरस्वती वः ।
यल्लेशलालित्यलवादपि स्यात्संसत्सु पुंसां गरिमा गरीयान् ॥
गोत्रे रात्रिकरस्य भूपतिरभूद्विभ्रत्सहस्रं करा-
प्रत्येकं त्रिजगन्मनोविनयने रात्रिंदिवं जागृविः ।
तेजोभिर्जगतीभृतां परिभवी नाम्नार्जुनः संस्मृते-
यस्याद्याप्यधिगम्यते वसु गतं नीतं च चौरैश्चिरम् ॥
तस्यान्वये समभवन्प्रथितः पृथिव्या
नाथः कथाद्भुततमापि वृथा न यस्य ।
कोकिल्लदेव इति बिभ्रदु[दार रूपं
नाम त्रिलोकसुखसंजननैकधाम ।।
निर्जित्योर्जितगर्वपर्वतभृतः प्रत्यर्थिपृथ्वीभुजः
प्राप्तानन्तयशा बभूव नृपतिर्गाङ्गेयदेवस्ततः ।
थ्वी येन विधाय मेरुमतुलं कल्पद्रुमेणार्थिनां
खर्गादूर्ध्वमधःस्थितापि विबुधाधारे समापादिता ॥
पुण्यामृतेन संसिक्ता शुद्धसत्त्वप्रवर्धिता ।
यत्कीर्तिव्रततिः सर्व व्याप ब्रह्माण्डमण्डपम् ॥
तेनाजनि महीपालः कर्णः वर्णेन कुर्वता ।
पूर्णतृष्णार्णवानथिस्वार्थानार्थतकीर्तिना ॥

काव्यमाला। S [ए [स ज पाण्ड्यश्चण्डिमतां मुमोच मुरलस्तत्याज गर्व ग्रह कु]ङ्गः सद्गतिमाजगाम चकपे वङ्गः कलिङ्गैः सह । कीरः कीरवदास पञ्जरगृहे इणः प्रहर्ष जहौ यस्मिन्राजनि शौर्यविभ्रमभरं बिभ्रत्यपूर्वप्रमे ॥ अस्मद्भर्तृपराभवेन सकलां भुते [भुवं] यामसौ तामेतां तनवामहै तनुतराकारामितीव स्त्रियः । यत्प्रत्यर्थिमहीभुजां नयनजैर्बाष्पैः पयोधीन्व्यधुः स्फाराननमहोर्मिभिः पुनरमी तं वर्ध[यांचक्रिरे । चम्पारण्यविदारणोद्गतयशःशुभ्रांशुना भासय- नाशाचक्रमवक्रभावहृदयः क्ष्मापालचूडामणिः । तस्माज्जन्म समाससाद विशदं श्रीमान्यशाकर्ण इ- त्यौदार्यानिकी]चकार विबुधान्यः प्रेक्ष्य सर्वानपि ॥ तस्मादशेषगुणरत्ननिधेरगाधा- द्भवल्लभः समभवद्गयकर्णदेवः। यस्य प्रतापतपनोऽप्यरिसुन्दरीणां शोकार्णवोदयनिदानपदं प्रपेदे ॥ द्युतिजितहरितालः श्रीलताकल्पशाल: पृथुतरगुणमाल: शत्रुवर्गककालः । विमलितरणभालः कान्तकीर्त्या श(स)टाल: शिततरकरवालः सोऽभवद्भूमिपालः ॥ अस्ति प्रसिद्धमिह गोभिलपुत्रगोत्रं तत्राजनिष्ट नृपतिः किल हंसपालः । शौर्यावसज्जितनिरर्गलसैन्यसंघ- नम्रीकृताखिलमिलद्रिपुचक्रवालः ।। तस्याभवत्तनुभवः प्रणमत्समस्त- सामन्तशेखरशिरोमणिरञ्जिताहेः । (ख AITAL m र्व क्ष MOHAN १११ लेखः] प्राचीनलेखमाला। श्रीवैरिसिंहवसुधाधिपतिर्विशुद्ध- बुद्धेनिधिर्न परमर्थिजनस्य चोच्चैः ॥ स वैरिसिंहोऽप्यनयद्रिपूणां कुलानि गम्भीरगुहागृहाणि । स्वयं च तेषामधिशय्य चक्रे पुराणि दूरावजितालकानि ॥ तस्मादजायत समस्तजनाभिवन्द्य- सौन्दर्यशौर्यभरभङ्गुरिताहितश्रीः । पृथ्वीपतिविजयसिंह इति प्रवर्ध- मानः सदा जगति यस्य यशःसुधांशुः ।। तस्याभवन्मालवमण्डलाधिनाथोदयादित्यसुता सुरूपा । शृङ्गारिणी श्यामलदेव्युदारचरित्रचिन्तामणिरर्चितश्रीः ।। मनायामिव शंकरप्रणयिनी क्षोणीभृतां नायका- द्वीरिण्यामिव शुभ्रभानुवनिता दक्षात्प्रजानां सृजः । तस्मादल्हणदेव्यजायत जगद्रक्षा क्षमाद्भूपते- रेतस्यां निजदीर्घवंशविशदप्रेङ्गत्पताकाकृतिः ।। विवाहविधिमाधाय गजकर्णनरेश्वरः चके प्रीतिं परामस्यां शिवायामिव शंकरः ॥ शृङ्गारशाला कलशी कलानां लावण्यमाला गुणपण्यभूमिः । असूत पुत्रं गयकर्णभूपादसौ नरेशं नरसिंहदेवम् ॥ अस्य श्रीनरसिंहदेवनृपतेः प्रोद्यन्यशश्चन्द्रमा दिग्भित्तीविदधातु बन्धुरसुधासंभारगर्भा इव । भूभर्तारमवाप्य चैनमुचितं प्रीति तथा प्राप्नुया- त्पूर्वेषां न यथा मनागपि महाक्षोणीभृतां ध्यायति ॥ अस्यानुजो विजयतां जयसिंहदेवः सौमित्रिवत्प्रथमजेद्भुतरूपसेवः । यो मेघनादबहुमायमहातिकाय- सैन्यं द्विषामभिभवन्नह-ह] प्रहस्तः ।।

[
ए
4.1
१७६
काव्यमाला।
अकारयन्मन्दिरमिन्दुमौलेरिदं मठेनाद्भुतभूमिकेन ।
सहामुना श्रीनरसिंहदेवप्रसूरसावल्हणदेव्युदारा ॥
व्याख्यानशालामुद्यानमालामविकलाममूम् ।
अकारयत्स्वयं शंभुप्रासादालीद्वयं निजैः ॥
देवायास्मै वैद्यनाथाभिधाय प्रादाद्देवी जाउलीपत्तलायाम् ।
ग्रामं नाम्ना नामनुण्डीति सर्वादायैः सार्द्ध चारुचर्चाप्रसिद्धयै ।।
नर्मदादक्षिणे कूले पर्वतोपत्यकाश्रये ।
तथा परमदानाम नाम्ना मकरपाटकम् ॥
लाटान्वयः पाशुपतस्तपखी श्रीरुद्रराशिविधिवद्वय(द्वि)धत्ताम् ।
स्थानस्य रक्षाविधिमस्य तावद्यावन्मिमीते भुवनानि शंभुः ॥
मौनान्वये भार्गववैतहव्यसावेतसेति प्रवरत्रयाब्वे ।
महेश्वराख्याधरणीधरोऽभून्नाम्ना गरिम्णा यशसा श्रिया च ॥
कोमलकान्तिसटालेनोच्चैः स्नेहातिभारभरितेन ।
दीर्घमनोज्ञदशेन त्रिभुवनदीपायितं येन ॥
पृथ्वीधरस्तस्य सुतः समस्तगम्भीरशास्त्रार्णवपारदृश्वा ।
प्रशस्तिमेतामलिखद्यदीयैर्दिङ्मण्डली शिष्यगणैर्विजिग्ये ॥
एत्तस्यावरजस्तर्कनिष्णातोद्भुतनैपुणः ।
प्रशस्तिमकरोदेतां सूरिः शशिधराभिधः ॥
असूत्रयदिदं सर्व विश्वकर्मविधानवित् ।
पीथेसमभिधः सूत्रधारः पृथ्वी पृथुर्यथा ॥
सूत्रधाराग्रणीबालसिंहसूनुर्महीधरः।
शिलां तथाकरोद्वर्णैर्नभस्तारकितं यथा ॥
संवत् ९०७ मार्गसुदि ११ रवौ
(एपिग्राफिआ इण्डिक् २०१०-१३.)
(ख

११२ लेखः] प्राचीनलेखमाला। (११२) शव॒जयाचलबिम्बससमोडारप्रशस्तिः । ॐ खस्ति श्रीगुर्जरधरित्र्यां पातसाहश्रीमहिमूदपट्टप्रभाकर-पातसाहश्री- मदाफरसाहपट्टोद्योतकारक-पातसाहश्रीश्रीश्रीश्रीश्रीबाहदरसाहविजयरा- ज्ये संवत् १५८७ वर्षे राज्यव्यापारधुरंधरपानश्रीमझादषानव्यापारे श्रीशत्रुजयगिरौ श्रीचित्रकूटवास्तव्य । दो० करमाकृतसप्तमोद्धारसक्ता प्रशस्तिलिख्यते- स्वस्ति श्रीसौख्यदो जीयाद्युगादिजिननायकः । केवलज्ञानविमलो विमलाचलमण्डनः॥ श्रीमेदेपाटे प्रगटप्रभावे भावेन भव्ये भुवनप्रसिद्धे । श्रीचित्रकूटो मुकुटोपमानो विराजमानोऽस्ति समस्तलक्ष्म्याः ॥ सन्नन्दनो दातृसुरद्रुमश्च तुङ्गः सुवर्णोऽपि विहारसारः । जिनेश्वरस्नानपवित्रभूमिः श्रीचित्रकूटः सुरशैलतुल्यः ॥ विशालसालक्षितिलोचनाभो रम्यो नृणां लोचनचित्रकारी। विचित्रकूटो गिरिचित्रकूटो लोकस्तु यत्राखिलकूटमुक्तः ॥ तत्र श्रीकुम्भराजोऽभूत्कुम्भोद्भवनिमो नृपः । वैरिवर्ग(?)समुद्रो हि येन पीतः क्षणात्क्षितौ ॥ [त]त्पुत्रो राजमल्लोऽभूद्राज्ञां मल्ल इवोत्कटः । सुतः संग्रामसिंहोऽस्य संग्रामविजयी नृपः ॥ तत्पट्टभूषणमणिः सिंहेन्द्रवत्पराक्रमी । रत्नसिंहोऽधुना राजा राजलक्ष्म्या विराजते ॥ इतश्च गोपाह्वगिरौ गरिष्ठः श्रीवप्पभट्टिप्रतिबोधितश्च । श्रीआमराजोऽजनि तस्य पत्नी काचिद्बभूव व्यवहारिपुत्री ॥ १. इयं प्रशस्तिश्च Mr. Cousens महाशयैरुपलब्धा G. Bihler, Ph. D., L. L. D., C. I. E., महाशयैर्व्याख्याता. २. 'मेवाड' इति नानाधुना प्रसिद्धे. ३. 'चितौड' इति नान्ना प्रसिद्धोऽयं पर्वतः. ४. सतां नन्दनः नन्दनाख्य. वनयुक्तश्च. ५. दातार एव सुरद्रुमा यत्र, दातारः सुरद्रुमा यत्रेत्यादिरीत्या व्याख्येयम्.

काव्यमाला। [ ए [स ज ॥ (ख तत्कुक्षिजाता किल राजकोष्ठागाराहगोत्रे सुकृतैकपात्रे । श्रीउश(श्श)वंशे विशदे विशाले तस्यान्वयेऽमी पुरुषाः प्रसिद्धाः॥ श्रीसरणदेवनामा तत्पुत्रो रामदेवनामाभूत् । लक्ष्मीसिंहः पुत्रोत(त्रस्त)त्पुत्रो भुवनपालाख्यः ।। श्रीभोजराजपुत्रो..."रसिंहाख्य एव तत्पुत्रः । षेताकस्तत्पुत्रो नरसिंहस्तत्सुतो तत्पुत्रस्तोलाख्यः पत्नी तस्या(स्य) प्रभूतकुलजाता । तारादे परनामी लीलू पुण्यप्रभापूर्णा । तत्कुक्षिसमुद्गताः ष(ट्)पुत्राः कल्पपादपाकाराः । [धर्मानुष्ठानपराः श्रीव(म)न्तः श्रीकृतोऽन्येषाम् ॥ प्रथमो रत्नाख्यसुतः सम्यक्त्वोद्योतकारकः कामम् । श्रीचित्रकूटनगरे प्रासादः [कारितो] येन ॥ तस्यास्ति कोमला पा(क)ल्पवल्लीव विशदा सदा । भार्या रजमलदेवी पुत्र[:] श्रीरङ्गनामासौ ॥ भ्रातान्यः पोमाह्वः पतिभक्ता दानशीलगुणयुक्ता । पद्मापाटमदेव्यौ पुत्रौ माणिक्यहीराद्वौ ॥ बन्धुर्गणस्तृतीयभार्या गुणरत्नराशिविख्याता । गडरागारतदेव्यौ पुत्रो देवाभिधो ज्ञेयः ॥ तुर्यो दशरथनामा भार्या तस्यास्ति देवगुरुभक्ता। देवल[]रमदेव्यौ पुत्रः केल्हाभिधो ज्ञेयः॥ भ्रातान्यो भोजाख्यो भार्या तस्यास्ति सकलगुणयुक्ता । भावलहर्षमदेव्यौ पुत्रः श्रीमण्डणो जीयात् ॥ सदा सदाचारविचारचारुचातुर्यधैर्यादिगुणैः प्रयुक्तः । श्रीकर्मराजो भगिनी च तेषां जीयात्सदा मूहविनामधे या] ॥ कर्माख्यभार्या प्रथमा कपूर[] देवी पुनः कामलदे द्वितीया । श्रीभीषजीकखकुलोदयाद्रिसूर्यप्रभः कामलदेविपुत्रः ॥ COLan क्ष ११२ लेखः] प्राचीनलेखमाला। १७९ श्रीतीर्थयात्राजिनबिम्बपूजा पदप्रतिष्ठादिकवर्मपुर्या । सुपात्रदानेन पवित्रमात्राः सर्वेदृशाः सत्पुरुषाः प्रसिद्धाः ॥ श्रीरत्नसिंहराज्ये राज्यव्यापारभारधौरेयः । श्रीकसिंहदक्षो मुख्यो व्यवहारिणां मध्ये ॥ श्रीशजयमाहात्म्यं श्रुत्विा] सद्गुरुसंनिधौ । तस्योद्धारकृते भावः कर्मराजस्य []द्यभूत् ।। आगत्य गौर्जरे देशे विवेकेन नरायणे । वसन्ति विबुधा लोकाः पुण्यश्लोका इवाद्भुताः ॥ तत्रास्ति श्रीधराधीशः श्रीमद्भाहदरो नृपः । तस्य प्राप्य स्फुरन्मानं पुण्डरीके समाययौ ॥ राज्यव्यापारधौरेयः पानः श्रीमान् मझादकः। तस्य गेहे महामन्त्री रवाख्यो नरसिंहकः ॥ तस्य सन्मानमुत्प्राप्य बहुवित्तव्ययेन च । उद्धरः सप्तमस्तेन चक्रे शत्रुजये गिरौ । श्रीपादलिप्तललनासरशुद्धदेशे सद्वाद्यमङ्गलमनोहरगीतना दैः । श्रीकर्मराजसुधिया जलयात्रि]कायां चक्रे महोत्सववरः सुगुरूपदेशात् ॥ चञ्चच्चङ्गमृदङ्गरङ्गरचनाभेरीनफेरीरवा- वीणा वंश]विशुद्धनालविभवासामि [वात्सल्य]कम् । वस्त्रालंकृति हेमातुङ्गतुरगादीनां च सद्वर्षण- मेवं विस्तरपूर्वकं गिरिवरे बिम्बप्रतिष्ठापनम् ।। विक्रमसमयातीते तिथिमितसंवत्सरेऽश्ववसु(१९८७)वर्षे । शाके जगत्रिवाणे (१४५३) वैशाखे कृष्णषष्ठयां च ।। मिलिताः सूरयः संघा मार्गणमुनिपुङ्गवाः । वहमाने धनुर्लग्ने प्रतिष्ठा कारिता वराः ॥

काव्यमाला। [ए . [स ज लावण्यसमयाख्येन पण्डितेन महात्मना । सप्ति]मोद्धारसक्ता च प्रशस्तिः प्रकटीकृता ॥ श्रीमद्वा हदर]क्षितीशवचनादागत्य शत्रुजये प्रासादं विदधाप्य(?) येन वृ"""द्विम्बमारोप्य च । उद्धारः किल सप्तमः कलियुगे चक्रेऽथ ना........ जीयादेष सदोशवंशमुकुटः श्रीकर्मराजश्चिरम् ।। यत्कर्मराजेन कृतं सुकार्यमन्येन केनापि कृतं हि तन्नो । यन्म्लेच्छराज्ये[ऽपि नृपाज्ञयैवोद्धारः कृतः सप्तम एष येन ॥ स"....."र्याणि बहूनि संघे कुर्वन्ति भव्याः परम[त्र] काले । कर्माभिधानव्यवहारिणैवोद्धारः कृतः श्रीविमलाद्रिशृङ्गे । श्रीचित्रकूटोदयशैलशृङ्गे कर्माख्यभानोरुदयान्वितस्य । शत्रुजये बिम्बविहारकृत्य कर्मावलीयं स्फुरतीति चित्रम् ॥ श्रीमदपाटे विषये निवासिनः श्रीकर्मराजस्य च कीर्तिरु[ज्वला] । देशेष्वनेकेष्वपि संचरत्य हो ज्योत्लेव चन्द्रस्य नभोविहारिणः ।। धनं बहु सुरत्राणाय तन्मानतो यात्रा येन नृणां च संघपतिना शत्रुजये कारिता । साधूनां सुगमैव सा च विहिता चक्रे प्रतिष्ठार्हता- मित्थं वर्णनमुच्यते कियदहो श्रीकर्मराजस्य तु ॥ येनोद्धारः शुभवति नगे कारितः पुण्डरीके खात्मोद्धारो विशदमतिना दुर्गतस्तेन चक्रे । येनाकारि प्रवरविधिना तीर्थनाथप्रतिष्ठा प्राप्तास्तेन त्रिभुवनतले सर्वदैव प्रतिष्ठा । सौम्यत्वेन निशामणिर्दिनमणिस्तीव्रप्रतापेन च वंशोद्दीपनकारणागृहमणिश्चिन्तामणिर्दानतः । धर्माच्छाद्धशिरोमणिर्मदविषध्वस्त (स्ता मणिभोगिनः एकानेकमयो गुणैर्नवनवैः श्रीकर्मराजः सुधीः ॥ दत्तं येन पुरा OILLAR HDSTIMONTHundra ११३ लेखः] प्राचीनलेखमाला। तोलासुतः सुतन[यो] विनयोज्ज्वलश्च लीलूसुकुक्षिनलिनीशुचिराजहंसः । संमानदानविदुरो मुनिपुंगवानां सद्वृद्धवान्धवयुतो"..."कर्मराजः ॥ कर्मी श्रीकर्मराजोऽयं कर्मणा केन निर्ममे । तेषां शुभानि कर्माणि पैदृष्टः पुण्यवानसौ ॥ यधीशः पुण्डरीकस्तु महादेवा(वः) कपर्दिराट् । श्राद्धश्रीकर्मराजस्य सुप्रसन्ना भवन्त्वमी ॥ श्रीशत्रुजयतीर्थोद्धारे । (इतः परं देशभाषा--) (एपिग्राफिआइण्डिका २१४२-४७) (११३) सौवर्णिकसाहश्रीतेजपालोदृतविमलाचल पट्टन- श्रीआदीशमूलपासादप्रशस्तिः । ॐ नमः श्रेयस्वी प्रथमः प्रभुः प्रथिमभाग्नैपुण्यपुण्यात्मना- मस्तु खस्तिकरः सुखाब्धिमकरः श्रीदेवः स वः । पद्मोल्लासकरः करैरिव रवियॊनि क्रमाम्भोरुह- न्यासैर्यस्तिलकीबभूव भगवाञ्जयोऽनेकशः ॥ श्रीसिद्धार्थनरेशवंशसरसीजन्माब्जिनीवल्लभः पायाद्वः परमप्रभावभवनं श्रीवर्धमानः प्रभुः । उत्पत्तिस्थितिसंहृतिप्रकृतिवाग्यद्गीर्जगत्पावनी खर्वापीव महाव्रतिप्रणयभूरासीद्रसोल्लासिनी ॥ आसीद्वासववृन्दवन्दितपदद्वन्द्वः पदं संपदा तत्पट्टाम्बुधिचन्द्रमा गणधरः श्रीमान्सुधर्माभिधः ।

काव्यमाला। व १८२ [ए [ स 4 (स यस्यौदार्ययुता प्रहृष्टसुमना अद्यापि विद्यावती धत्ते संततिरुन्नतिं भगवती वीरप्रभोर्गौरिव ॥ श्रीसुस्थितः सुप्रतिबुद्ध एतौ सूरी अभूतां तदनु क्रमेण । याभ्यां गणोऽभूदिह कोटिकाहश्चन्द्रार्यमभ्यामिव सुप्रकाशः ॥ तत्राभूद्वज्रिणां संघः श्रीवर्षिगणाभिधः । मूलं श्रीवज्रशाखाया गङ्गाया हिमवानिव ॥ तत्पट्टाम्बरदिनमणिरुदितः श्रीवज्रसेनगुरुरासीत् । नागेन्द्रचन्द्रनितिविद्याधरसंज्ञकाश्च तच्छिष्याः ॥ खस्वनामसमानानि येभ्यश्चत्वारि जज्ञिरे । कुलानि काममेतेषु कुलं चान्द्रं तु दिद्युते ॥ भास्करा इव तिमिरं हरन्तः ख्यातिभाजनम् । भूरयः सूरयस्तत्र जज्ञिरे जगतां मताः ॥ बभूवुः क्रमतस्तत्र श्रीजगचन्द्रसूरयः । यैस्तपाविरुदं लेभे बाणसिद्ध्यर्क(१२८५)वत्सरे ॥ क्रमेणास्मिन्गणे हेमविमलाः सूरयोऽभवन् । तत्पट्टे सूरयोऽभूवन्नानन्दविमलाभिधाः ॥ साध्वाचारविधिः पथः शिथिलितः सम्यक्श्रियां धाम यै- रुध्रे स्तनसिद्धिसायकसुधारोचि(१९८२)निभेऽनेहसि । जीमूतैरिव यैर्जगत्पुनरिदं तापं हरद्भिर्भृशं सश्रीकं विदधे गवां शुचितमैः स्तोमै रसोल्लासिभिः ॥ पद्माश्रयैरलमलंक्रियते स तेषां प्रीणन्मनांसि जगतां कमलोदयेन । पट्टः प्रवाह इव निर्जरनिर्झरिण्याः शुद्धात्मभिर्विजयदानमुनीशहंसैः ॥ सौभाग्यं हरिसर्वपर्वहरणं रूपं च रम्भापति- श्रीजैनं शैतपत्रमित्रमहसां चौरं प्रतापं पुनः । १. हरिः सूर्यः. २. रम्भापतिरिन्द्रः. ३. शतपत्रमित्रं सूर्यः.

WARNINGS ११३ लेखः] प्राचीनलेखमाला। येषां वीक्ष्य सनातनं मधुरिपुवःखामिधर्माशवो जाताः काममपत्रपाभरभृतो गोपत्वमाप्तास्त्रयः ॥ तत्पट्टः प्रकटः प्रकामकलितोड्योतस्तथा सौधव- सस्नेहैर्यतिराजहीरविजयस्नेहप्रियैर्निर्ममे । सौभाग्यं महसां भरेण महतामत्यर्थमुल्लासिनां बिभ्राणः स यथाजनिष्ट सुदृशां कामप्रमोदास्पदम् ॥ देशाद्गुर्जरतोऽथ सूरिवृषभा आकारिताः सादरं श्रीमत्साहिअकबरेण विषयं मेवातसंज्ञं शुभम् । शा"...""जपाणयोऽवतमसं सर्व हरन्तो गवां स्तोमैः सूत्रितविश्वविश्वकमलोल्लासैनभोऽर्का इव ॥ चक्रुः फतेपुरम............... ....... भौम- दृग्युग्मकोककुलमाप्तसुखं सृजन्तः । अब्देऽङ्कपावकनृप(१६३९)प्रमिते खगोभिः सोल्ला".. 'म्बुजकाननं ये॥ दामेवाखिलभूपमूर्धसु निजामाज्ञां सदा धारय- श्रीमान्साहिअकब्बरो नरवरो देशेष्वशेषेष्वपि । षण्मासाभयदानपुष्टपटहोद्घोषानघध्वंसिनः कामं कारयति स हृष्टहृदयो यद्वाकलारञ्जितः ॥ यदुपदेशवशेन मुदं दधन्निखिलमण्डलवासिजने निजे । मृतधनं च करं च मुजीजिआभिधमकब्बरभूपतिरत्यजत् ॥ यद्वाचा कतकाभया विमलितः स्वान्ताम्बुपूरः कृपा- पूर्णः शाहिरनिन्द्यनीतिवनिताकोडीकृतात्मात्यजत् । शुल्कं त्यक्तुमशक्यमन्यधरणीराजां जनप्रीतये तद्वान्नीडजपुञ्जपूरुषपशृंश्चामूमुचद्भरिशः ॥ यद्वाचां निचयैर्मुधाकृतसुधास्वादैरमन्दैः कृता- ह्लादः श्रीमदकब्बरः क्षितिपतिः संतुष्टिपुष्टाशयः । १. गावो धेनवः चक्षुषि किरणाश्च. ............

१८४ काव्यमाला। [ए [स ज त्यक्त्वा तत्करमर्थसार्थमतुलं येषां मनःप्रीतये जैनेभ्यः प्रददौ च तीर्थतिलकं शत्रुजयोर्वीधरम् ॥ यद्वाग्भिर्मुदितश्चकार करुणास्फूर्जन्मनाः पौस्तकं भाण्डागारमपारवाङ्मयमयं वेश्मेव वाग्दैवतम् । यत्संवेगभरेण भावितमतिः शाहिः पुनः प्रत्यहं पूतात्मा बहु मन्यते भगवतां सद्दर्शनो दर्शनम् ॥ यद्वाचा तरणित्विषेव कलितोल्लासं मनःपङ्कजं बिभ्रच्छाहिअकब्बरो व्यसनधीपाथोजिनीं चन्द्रमाः । जज्ञे श्राद्धजनोचितैश्च सुकृतैः सर्वेषु देशेष्वपि [विख्यातोऽर्हतभक्तिभावितमतिः श्रीश्रेणिकक्ष्मापवत् ॥ लुम्पाकाधिपमेघजीऋषिमुखा हित्वा कुमत्याग्रह भेजुर्यच्चरणद्वयीमनुदिनं भृङ्गा इवाम्भोजिनीम् । उल्लासं गमिता यदीयवचनैर्वैराग्यरगोन्मुखै- र्जाताः स्वस्वमतं विहाय बहवो लोकास्तपासंज्ञकाः ॥ आसीचैत्यविधापनादिसुकृतक्षेत्रेषु वित्तव्ययो भूयान्यद्वचनेन गुर्जरधरामुख्येषु देशेष्वलम् । यात्रां गुर्जरमालवादिकमहादेशोद्भवैर्भूरिभिः संधैः सार्धमृषीश्वरा विदधिरे शत्रुजये ये गिरौ ॥ तत्पट्टमब्धिमिव रम्यतमं सृजन्तः स्तोमैर्गवां सकलसंतमसं हरन्तः । कामोल्लसत्कुवलयप्रणया जयन्ति स्फूर्जत्कला विजयसेनमुनीन्द्रचन्द्राः ॥ यत्प्रतापस्य माहात्म्यं वर्ण्यते किमतः परम् । अखामाश्चक्रिरे येन जीवन्तोऽपि हि वादिनः॥ सौभाग्यं विषमायुधात्कमलिनीकान्ताच तेजस्विना(ता)- मैश्वर्य गिरिजापतेः कुमुदिनीकान्तात्कलामालिना(ताम् । (स FAIRAEMIER ११३ लेखः] प्राचीनलेखमाला। ९KA माहात्म्यं धरणीधरान्मखभुजां गाम्भीर्यमम्भोनिधे- रादायाम्बुजभूः प्रभुः प्रविदधे यन्मूर्तिमेतन्मयीम् ॥ ये च श्रीमदकब्बरेण विनयादाकारिताः सादरं श्रीमल्लाभपुरं पुरंदरपुरं व्यक्तं सुपर्वोत्करैः । भूयोभिव्रतिभिर्बुधैः परिवृता वेगादलंचक्रिरे सामोदं सरसं सरोरुहवनं लीलामराला इव ॥ अर्हन्तं परमेश्वरत्वकलितं संस्थाप्य विश्वोत्तम साक्षात्साहिअकब्बरस्य सदसि स्तोमैर्गवामुद्यतैः यैः संमीलितलोचना विदधिरे इत्यक्षशूरैः श्रिया वादोन्मादभृतो द्विजातिपतयो भट्टा निशाटा इव ॥ श्रीमत्साहिअकब्बरस्य सदसि प्रोत्सर्पिभिभूरिभि- वर्वादैर्वादिवरान्विजित्य समदान्सिहैविपेन्द्रानिव । सर्वज्ञाशयतुष्टिहेतुरनघो दिश्युत्तरस्यां स्फुर- न्यैः कैलास इवोज्ज्वलो निजयशःस्तम्भो निचल्ने महान् ॥ दत्तं साहसधीरहीरविजयश्रीसूरिराजां पुरा यच्छ्रीसाहिअकब्बरेण धरणीशक्रेण तत्प्रीतये। तच्चक्रेऽखिलमप्यबालमतिना यत्साजगत्साक्षिकं तत्पत्रं फुरमाणसंज्ञमनघं सर्वा दिशो व्यानशे ॥ किं च गोवृषभकासरकान्ता कासरा यमगृहं नहि नेयाः । मोच्यमेव मृतवित्तमशेषं वन्दिनोऽपि हि न च ग्रहणीयाः ॥ यत्कलासलिलवाहविलासप्रीतचित्ततरुणा जनतुष्टचै । खीकृतं खयमकब्बरधात्रीखामिना सकलमेतदपीह ॥ चोलीबेगमनन्दनेन वसुधाधीशेन संमानिता गुर्वी गुर्जरमेदिनीमनुदिनं खर्लोकबिब्बोकिनी । सद्वृत्ता महसां भरेण सुभगा गाढं गुणोल्लासिनी ये हारा इव कण्ठमम्बुजदृशां कुर्वन्ति शोभास्पदम् ॥ य काव्यमाला। [ 1 [स ज इतश्च आभूरान्वय[प]झपद्मसवया(?) ओकेशवंशेऽभव- च्छेष्ठी श्रीशिवराज इत्यभिधया सौवर्णिकः पुण्यधीः । तत्पुत्रोऽजनि सीधरश्च तनयस्तस्याभवत्पर्वतः का]लाहोऽजनि तत्सुतश्च तनुजस्तस्यापि वाघाभिधः ॥ तस्याभूछि आभिधश्च तनुजः ख्यातो रजाईभव- स्तस्याभूच्च सुहासिणीति गृहिणी पद्मेव पद्मापतेः । इन्द्राणीसुरराजयोरिव जयः पुत्रस्तयोश्चाभव- तेजःपाल इति प्रहृष्टसुमनाः पित्रोर्मनः प्रीतिकृत् ॥ कामस्येव रतिहरेरिव रमा गौरीव गौरीपते- रासीत्तेजलदे इति प्रियतमा तस्याकृति" भोगश्रीसुभगौ गुरौ प्रणयिनौ शश्वत्सुपर्वादरौ पौलोमीत्रिदशेश्वराविव सुखं तौ दंपती भेजतुः ॥ वैराग्यवारिनिधिपूर्णनिशाकराणां तेषां च हीरविजयव्रतिसिन्धुराणाम् । सौभाग्य[भाग्यपरभागविभासुराणां तेषां पुनर्विजयसेनमुनीश्वराणाम् ॥ वाग्भिः सुधाकृतसुधाभिरुदञ्चिचेताः श्राद्धः स शोभनमना भजति म भावम् । श्रीसंघभक्तिघनदानजिनेन्द्रचैत्यो- द्धारादिकर्मसु भृशं सुकृतिप्रियेषु ॥ (विशेषकम्) ग्रहैः प्रशस्तेऽह्नि सुपार्श्वभर्तुरनन्तभर्तुश्च शुभां प्रतिष्ठाम् । सोऽचीकरॉड्युगभूपवर्षे हर्षेण सौवर्णिकतेजपालः ॥ आदावार्षभिरत्र तीर्थतिलके शत्रुजयेऽचीकर- सै(चै)त्यं शैत्यकरं दृशोर्मणिगणवर्णादिभिर्भासुरम् । १. अङ्कानां वामतो गत्या १६४६ मिते वर्षे इत्यर्थः, (स ११३ लेखः] प्राचीनलेखमाला। १८७ अत्रान्येऽपि भुजार्जितां फलवतीमुच्चैः सृजन्तः श्रियं प्रासादं तदनुक्रमेण बहवश्चाकारयन्भूभुजः ॥ तीर्थेऽत्र साधुकरमाभिधो धनी सिद्धिसिद्धितिथि(१५८८)संख्ये । चैत्यमचीकरदुक्तेरानन्दविमलमुनिराजाम् ॥ तं वीक्ष्य जीर्ण भगवद्विहारं स तेजपालः सहृदीति दध्यौ । भावी कदा सोऽवसरो वरीयान्यत्रात्र चैत्यं भविता नवीनम् ॥ अन्येयुः स्वगुरूपदेशशरदा कामं वलक्षीकृत- खान्ताम्भाः स वणिग्वरः पुरवरे श्रीस्तम्भतीर्थे वसन् । तीर्थे श्रीमति तुङ्गतीर्थतिलके शत्रुजयेहगृहो(?)- द्धारं कर्तुमना अजायततमां साफल्यमिच्छश्रियः ॥ अत्र स्यात्सुकृतं कृतं तनुमतां श्रेयः श्रियां कारणं मत्वैवं निजपूर्वजव्रजमहानन्दप्रमोदाप्तये। तीर्थे श्रीविमलाचलेऽतिविमले मौलेऽहतो मन्दिरे जीर्णोद्धारमकारयत्स सुकृती कुन्तीतनूजन्मवत् ॥ शृङ्गेण भिन्नगगनाङ्गणमेतदुच्चै- श्चैत्यं चकास्ति शिखरास्थितहेमकुम्भम् । हस्तेषु हस्तमितमुच्चमुपैति नाक- लक्ष्मी विजेतुमिव काममखर्वगर्वाम् ॥ यत्राहदोकसि जिताग(म)रकुम्भिकुम्भाः कुम्भा विभान्ति शरवेदकरेन्दु(१२४५)संख्याः । किं सेवितुं प्रभुमयुः प्रचरुप्रताप- पूरैर्जिता दिनकराः कृतनैकरूपाः ॥ उन्मूलितप्रमदभूमिरुहानशेषा- न्विश्वेषु विघ्नकरिणो युगपन्निहन्तुम् । सज्जाः स्म इत्थमभिधातुमिवेन्दुनेत्राः(२१) सिंहा विभान्त्युपगता जिनधानि यत्र ।

काव्यमाला। १४२ S - ज योगिन्यो यत्र शोभन्ते चतस्रो जिनवेश्मनि । निषेवितुमिवाक्रान्ताः प्रतापैरागता दिशः ॥ राजन्ते च दिशां पाला....... यत्राहदालये । मूर्तिमन्तः किमायाता धर्माः संयमिनाममी ॥ द्वासप्ततिः श्रियमयन्ति जिनेन्द्रचन्द्र- बिम्बानि देवकुलिकासु च तावतीषु । द्वासप्ततेः श्रितजनालिकलालतानां किं कुट्मलाः परिमलैर्भुवनं भरन्तः ॥ राजन्ते यत्र चत्वारो गवाक्षा जिनवेश्मनि । विरञ्चेरिव वत्राणि विश्वाकारणहेतवे ॥ यत्र चैत्ये विराजन्ते चत्वारश्च तपोधनाः । अमी धर्माः किमायाताः प्रभूपास्त्यै वपुर्भूतः ॥ पञ्चालिकाः श्रियमयन्ति जिनेन्द्रधाम्नि द्वात्रिंशदिन्द्ररमणीभरजैत्ररूपाः । ज्ञात्वा पतीनिह जिने किमु लक्ष्मणक्ष्मा- राजां प्रिया निजनिजेशनिभालनोत्काः ॥ द्वात्रिंशदुत्तमतमानि च तोरणानि राजन्ति यत्र निजधानि मनोहराणि । किं तीर्थकृद्दशनलंक्ष्मि(क्ष्म)मृगेक्षणाना- मन्दोलनानि सरलानि सुखासनानि ॥ गजाश्चतुर्विंशतिरद्रितुङ्गा विभान्ति शस्ता जिनधाम्नि यत्र । देवाश्चतुर्विंशतिरीशभक्त्यै किमागताः कुञ्जररूपभाजः ॥ स्तम्भाश्चतुःसप्ततिरदिराजोत्तुङ्गा विभान्तीह जिनेन्द्र चैत्ये । दिशामधीशैः सह सर्व इन्द्राः किमाप्तभत्त्यै समुपेयिवांसः ॥ रम्यं नन्दपयोधिभूपति(१६४९)मिते वर्षे सुखोत्कर्षक- त्साहाय्याज्जमुठकुरस्य सुकृतारामैकपाथोमुचः । ( स ११३ लेखः] प्राचीनलेखमाला। .... प्रासादं वछिआसुतेन सुधिया शत्रुजये कारितं दृष्ट्वाष्टापदतीर्थचैत्यतुलितं केषां न चित्ते रतिः ॥ चैत्यं चतुर्णामिह धर्ममेदिनीभुजां गृहं प्रीणितविश्वविष्टपम् । शत्रुजयोर्वीभृति नन्दिवर्धनाभिधंसदा यच्छतु वाञ्छितानि वः ॥ यः प्रभाभरविनिर्मितनेत्रशैत्ये चैत्येऽत्र भूरिरभवद्विभवव्ययो यः । ज्ञात्वा वदन्ति मनुजा इति तेजपालं कल्पद्रुमत्ययमनेन धनव्ययेन ॥ शत्रुजये गगनबाणकला(१६५०)मितेऽब्दे यात्रां चकार सुकृताय स तेजपालः । चैत्यस्य तस्य सुदिने गुरुभिः प्रतिष्ठा चक्रे च हीरविजयाभिधसूरिसिंहैः ।। मार्तण्डमण्डलमिवाम्बुरुहां समूहः पीयूषरश्मिमिव नीरनिधेः प्रवाहः । किंकिव्रजः सलिलवाहमिवातितुङ्गं चैत्यं निरीक्ष्य मुदमेति जनः समस्तः ॥ चैत्यं चारु चतुर्मुखं कृतसुखं श्रीरामजीकारितं प्रोत्तुङ्गं जसुठक्कुरेण विहितं चैत्यं द्वितीयं शुभम् । रम्यं कुंअरजीविनिर्मितमभूच्चैत्यं तृतीयं पुन- मूलश्रेष्टिकृतं निकामसुभगं चैत्यं चतुर्थ तथा ॥ एभिर्विश्वविसारिभिर्युतिभरैरत्यर्थसंसूत्रितो- योतो दिक्ष्वखिलासु निर्जरपतिः वर्लोकपालैरिव । श्रीशत्रुजयशैलमौलिमुकुटं चैत्यैश्चतुभिर्युतः प्रासादोऽङ्गिमनोविनोदकमलाचैत्यं चिरं नन्दतु ॥ वस्ताभिधस्य वरसूत्रधरस्य शिल्पं चैत्यं चिरादिदमुदीक्ष्य निरीक्षणीयम् ।

काव्यमाला। 32 Spanine hippin 4. शिष्यत्वमिच्छति कलाकलितोऽपि विश्व- कर्मास्य शिल्पिपटले भवितुं प्रसिद्धः ॥ सदाचाराब्धीनां कमलविजयाह्वानसुधियां पदद्वन्द्वाम्भोजभ्रमरसदृशो हेमविजयः। अलंकारैराढ्यां स्त्रियमिव शुभां यां विहितवा- प्रशस्तिः शस्तैषा जगति चिरकालं विजयताम् ॥ इति सौवर्णिकसाहश्रीतेजपालोद्धृतविमलाचलपट्टनश्रीआदीशमूलप्रा- सादप्रशस्तिः श्रेय..... बुधसहजसागराणां विनेयजयसागरोऽलिखद्वर्णैः । शिल्पिभ्यामुत्कीर्णा माधवनानाभिधानाभ्याम् ।। (एपिग्राफिआ इण्डिक् २।५०-५९) (११४) साहश्रीपद्मसिंहकारितशत्रुजयतीर्थप्रासादप्रशस्तिः । ( स खस्ति श्रीवत्सभर्तापि न विष्णुश्चतुराननः । न ब्रह्मा यो वृषाङ्कोऽपि न रुद्रः स जिनः श्रियै ॥ संवत् १६७५ वर्षे शाके १९४१ प्रवर्तमाने समग्रदेशशृङ्गारहाल्लारतिलकोपमम् । अनेकेभ्यगृहाकीण नैवीनपुरमुत्तमम् ॥ अभ्रंलिहविहारामध्वजांशुकहतातपम् । रूप्यस्वर्णमणिव्याप्तचतुष्पथविराजितम् ॥ (युग्मम्) १. सर्वा अपि शत्रुजयतीर्थस्थप्रशस्तयो डॉक्टर बूलर (G. Buhler, Ph. D, C. I. E.) महाशयैरैव व्याख्याताः. शत्रुजयश्च 'पालीटाना'प्रान्ते वर्तते इत्यपि त एव निर्णीतवन्तः, २. नवनगरं हाल्लार देशान्तर्गतं 'काठिआवार'मध्ये वर्तते.

११४ लेखः]
प्राचीनलेखमाला ।
तत्र राजा प्रशास्ति श्रीजसवन्ताभिधो नृपः ।
यामश्रीशत्रुशल्याबकुलाम्बरनभोमणिः ॥
यत्प्रतापाग्निसंतापसंतप्त इव तापनः ।
निर्माति जलधौ नित्यमुन्मज्जननिमज्जने ॥
(युग्मम्)
बभूवुः श्रीमहावीरपट्टानुक्रमभूषणाः ।
श्रीअञ्चलगणाती(धी)शा आर्यरक्षितसूरयः ।।
तत्पट्टपङ्कजादित्याः सूरिश्रीजयसिंहकाः।
श्रीधर्मघोषसूरीन्द्रा महेन्द्रसिंहसूरयः ॥
श्रीसिंहप्रभसूरीशाः सूरयोऽजितसिंहकाः।
श्रीमद्देवेन्द्रसूरीशाः श्रीधर्मप्रभसूरयः ॥
श्रीसिंहतिलकाहाश्च श्रीमहेन्द्रप्रभाभिधाः ।
श्रीमन्तो मेरुतुङ्गाख्या बभूवुः सूरयस्ततः ।
समग्रगुणसंपूर्णाः सूरिश्रीजयकीर्तयः ।
तत्पट्टेऽथ सुसाधुश्रीजयकेशरिसूरयः ॥
श्रीसिद्धान्तसमुद्राख्यसूरयो भूरिकीर्तयः ।
भावसागरसूरीन्द्रास्ततोऽभूवन्गणाधिपाः॥
श्रीमद्गुणनिधानाख्यसूरयस्तत्पदेऽभवन् ।
युगप्रधानाः श्रीमन्तः सूरिश्रीधर्ममूर्तयः ॥
तत्पट्टोदयशैलाग्रप्रोद्यत्तरणिसंनिभाः ।
जयन्ति सूरिराजः श्रीयुजः कल्याणसागराः ॥
श्रीनव्यनगरे वास्युपकेशज्ञातिभूषणः ।
इभ्यः श्रीहरपालाह आसील्लालणगोत्रकः ॥
हरीयाख्योऽथ तत्पुत्रः सिंहनामा तदङ्गजः ।
उदेसीत्यथ तत्पुत्रः पर्वताबस्ततोऽभवत् ॥
वच्छनामाथ तत्पत्नी चाभूद्वाच्छलदेविका ।
तत्कुक्षिमानसे हंसतुल्योऽथामरसंज्ञकः ॥

१९२ काव्यमाला। पाल Pram mom लिङ्गदेवीति तत्पनी तदौरस्यास्त्रयो वराः । जयन्ति श्रीवर्धमान-चांपसी-पद्मसिंहकाः ॥ अतः परं विशेषतः साहिवर्धमान-साहिपद्मसिंहयोर्वर्णनम्- गाम्भीर्येण समुद्राभौ दानेन धनदोपमौ । श्रद्धालुगुणसंपूर्णौ बोधिना श्रेणिकोपमौ ॥ प्राप्तश्रीयामभूपालसमाजबहुलादरौ । मन्त्रिश्रीवर्धमानश्रीपद्मसिंहौ सहोदरौ ॥ महेला वर्धमानस्य वनादेवीति विश्रुता । तदङ्गजावुभौ ख्यातौ वीराख्यविजपालकौ ॥ वर्णिनी पद्मसिंहस्य रत्नगर्भा सुजाणदे । श्रीपाल-कुंरपालाह-रणमल्लास्तदङ्गजाः ॥ एवं स्वतन्त्रयुक्ताभ्यामनल्पोत्सवपूर्वकम् । साहिश्रीवर्धमानश्रीपद्मसीभ्यां यथादरात् ।। प्रागुक्तवत्सरे रम्ये माधवार्जुनपक्षके । रोहिणीभे तृतीयायां बुधवासरसंयुजि ॥ श्रीशालिनाथमुख्यानां जिनानां चतुरुत्तरा। द्विशती प्रतिमा हृद्या भारिताश्च प्रतिष्ठिताः ॥ (युग्मम्) पुनर्निजबहुद्रव्यसफलीकरणाकृतेः । श्रीनव्यनगरेऽकारि प्रासादः शैलसंनिभः ॥ द्वासप्ततिजिनौकोभिर्वेष्टितश्च चतुर्मुखैः । कैलासपर्वतोत्तुङ्गैरष्टाभिः शोभितोऽभितः ॥ (युग्मम्) साहिश्रीपद्मसिंहेनाकारि शत्रुजयोपरि । उत्तुङ्गतोरणः श्रीमान्प्रासादः शिखरोन्नतः ॥ यं दृष्ट्वा भविकाः सर्वे चिन्तयन्ति खचेतसि । उच्चैर्भूतः किमेषोऽद्रिदृश्यतेऽभ्रंलिहो यतः ॥ (स ११५ लेखः] प्राचीनलेखमाला। येन श्रीतीर्थराजोऽयं राजते सावतंसकः । प्रतिमाः स्थापितास्तत्र श्रीश्रेयांसमुखाहताम् ॥ तथा च संवत् १६७६ वर्षे फाल्गुनसितद्वितीयायां तिथौ दैत्यगुरुवा- सरे रेवतीनक्षत्रे श्रीमतो नव्यनगरात्साहिश्रीपद्मसीकेन श्रीभरतचक्रवर्तिनि- मितसंघसदृशं महासंघं कृत्वा श्रीअञ्चलगणाधीश्वरभट्टारकपुरंदरयुगप्रधान- पूज्यराजश्रीपकल्याणसागरसूरीश्वरैः सार्ध श्रीविमलगिरितीर्थवरे समेत्य स्वयंकारितश्रीशजयगिरिशिरःप्रासादे समहोत्सवं श्रीश्रेयांसप्रमुखजिनेश्व- राणां सन्ति बिम्बानि स्थापितानि । सद्भिः पूज्यमानानि 'चिरं नन्दन्तु । यावद्विभाकरदिवाकरभूधरार्य- रत्नाकरध्रुवधराः किल जाध्र(मोतीह । श्रेयांसनाथजिनमन्दिरमत्र ताव- नन्दत्वनेकमविकौघनिषेव्यमानम् ॥ वाचकश्रीविनयचन्द्रगणीनां शिष्यमु०देवसागरेण विहिता प्रशस्तिः । (एपिग्राफिआ इण्डिक्-२।६४-६६) (११५) पारीक्षश्रीसोमचन्द्रजननीश्रीहीरवाईकारित- जिनमन्दिर जीर्णोडारप्रशस्तिः । संवत् १६८३ वर्षे पातिसाहजिहांगीरश्रीसलेमसाहभूमण्डलाखण्डल- विजयराज्ये श्रीचक्रेव(श्व)रीर्यै नमः ॥ ओम् ॥ महोपाध्यायश्री५हेममू- र्तिगणिसद्गुरुभ्यो नमः । ओं नमः । स्वस्ति श्रीः शिवशंकरोऽपि गणमान्सर्वज्ञशत्रुजयः शर्वः शंभुरधीश्वरश्च भगवान्गौरो वृपाको मृडः । गङ्गोमापतिरस्तकामविकृतिः सिद्धैः कृतातिस्तुती रुद्रो यो न परं श्रियै स जिनपः श्रीनाभिभूरस्तु मे ॥

काव्यमाला। १८ । al. उद्यच्छ्रीरजडः कलङ्करहितः संतापदोषापहः सौम्यः प्राप्तस""""यामितकलः सुश्रीर्मुगाङ्कोऽव्ययः । गौरानोमृतसूरपास्तकलुषो जैवातृकः प्राणिनां चन्द्रः [कोऽपि] जयत्यहो जिनपतिः श्रीवैश्वसैनिर्महान् ॥ त्यक्त्वा राजीमतीं यः खनिहितहृदयानेकपत्नी: ..."पां सिद्धिस्त्री भूरिरक्तामपि बहु चकमेऽनेकपत्नीमपीशः । लोके ख्यातस्तथापि स्फुरदतिशयवान्ब्रह्मचारीति नामा स श्रीनेमिर्जिनेन्द्रो दिशतु शिवसुखं सात्वतां योगिनाथः ।। चञ्चच्छारदचन्द्रचारुवदनश्रेयोविनिर्यद्वचः पीयूषौघनिषेकतो विषधरेणापि प्रपेदे द्रुतम् । देवत्वं सुकृतकलभ्यमतुलं यस्यानुकम्पानिधेः स श्रीपार्श्वजिनेशितास्तु सततं विघ्नच्छिदे सात्वताम् ॥ यस्य श्रीवरशासनं क्षितितले मार्तण्डबिम्बायते यद्वाक्यं भवसिन्धुतारणविधौ पोतायते देहिनाम् । यद्धयानं भविपापपङ्कदलने गङ्गाम्बुधारायते श्रीसिद्धार्थनरेन्द्रनन्दनजिनः सोऽस्तु श्रिये सर्वदा ॥ अथ पट्टावली- श्रीवर्धमानजिनराजपदक्रमेण श्रीार्यरक्षितमुनीश्वरसूरिराजाः । विद्यापगाजलधयो विधिपक्षगच्छ- संस्थापका यतिवरा गुरवो बभूवुः ।। तच्चारुपट्टकमला.."लराजहंसा- श्चारित्रम कमलाश्रवणावतंसाः । गच्छाधिपा बुधवरा जयसिंहसूरि- नामान उद्यदमलोरुगुणावदाताः ॥ श्रीधर्मघोषगुरवो वरकीर्तिभाजः सूरीश्वरास्तदनु पूज्यमहेन्द्रसिंहाः । ( र wdeos ११५ लेखः] प्राचीनलेखमाला। आसंस्ततः सकलसूरिशिरोवतंसाः सिंहप्रभाभिधसुसाधुगुणप्रसिद्धाः ॥ तेभ्यः क्रमेण गुरवो जिनसिंहसूरि- गोत्रा बभूवुरथ पूज्यतमा गणेशाः । देवेन्द्रसिंहगुरवोऽखिललोकमान्या धर्मप्रभा मुनिवरा विधिपक्षनाथाः ॥ पूज्याश्च सिंहतिलकास्तदनु प्रभूत- भाग्या महेन्द्रविभवो गुरवो बभूवुः । चक्रेश्वरीभगवतीविहितप्रसादाः श्रीमेरुतुङ्गगुरवो नरदेववन्द्याः ॥ तेभ्योऽभवन्गणधरा जयकीर्तिसूरि- मुख्यास्ततश्च जयकेसरिसूरिराजः । सिद्धान्तसागरगणाधिभुवस्ततोऽनु श्रीभावसागरगुरूरुगुणा अभूवन् । तद्वंशपुष्करविभा(का)सनभानुरूपाः सूरीश्वराः सुगुणशेवधयो बभूवुः ॥ षट्पदी ॥ तत्पट्टोदयशैलशृङ्गकिरणाः शास्त्राम्बुधेः पारगा भव्यखान्तचकोरलासनलसत्पूर्णाभचन्द्राननाः । श्रीमन्तो विधिपक्षगच्छतिलका वादीन्द्रपञ्चानना आसञ्श्रीगुरुधर्ममूर्तिगुरवः सूरीन्द्रवन्याङ्ग्यः ॥ तत्पट्टेऽथ जयन्ति मन्मथभटाहंकारशर्वोपमाः श्रीकल्याणसमुद्रसूरिगुरवः कल्याणकन्दाम्बुदाः । भव्याम्भोजविबोधनैककिरणाः सज्ज्ञानपाथोधयः श्रीमन्तोऽत्र जयन्ति सूरिविभुभिः सेव्याः प्रभावोद्यताः ॥ श्रीमालज्ञातीयमन्त्रीश्वरश्रीभण्डारीतत्पुत्रमह० श्रीअमरसीसुतमह • श्रीकरणतत्पुत्रसाश्रीधन्नातत्पुत्रसाहश्रीसोपातत्पुत्रसा० श्रीवन्ततद्भार्या काव्यमाला। नि pan उभयकुलानन्ददायिनी वाईश्रीसौभाग्यदे तत्कुक्षिसरोराजहंससाहश्रीरूप- तद्भगिनी उभयकुलानन्ददायिनी परमश्राविका हीरवाई पुत्रपारीक्षश्रीसो- मचन्द्रप्रभृतिपरिकरयुतया संवत् १६८३ वर्षे माघसुदी १३ त्रयोदशी- तिथौ सोमवासरे श्रीचन्द्रप्रभखामिजिनमन्दिरजीर्णोद्धारः कारितः ।। (एपिग्राफिआ इण्डिक्-२॥६८-७१) .... (र (११६) विग्रहराजमहाराजसमकालिकाल्लटकारितहर्ष- नाथप्रासादप्रतिष्ठाशस्तिः। [ओं नमः शिवाय ॥ सर्वविघ्नशम[नं सुरार्चितं] पूर्वमेव शिवयोस्तनूभवम् । भुक्तिमुक्तिपरमार्थसिद्धिदं तं नमामि वर[दं गजाननम्] ॥ कुलितमानसैः । स्तूयमानस्तु सद्देवैः पातु वस्त्रिपुरान्तकः ।। पादन्यासावनुन्ना नमति वसुमती शेषभोगावलग्ना बा इत्क्षेपैः स....... कंचन्द्रैः। भिन्नावस्थं समस्तं भवति हि भुवनं यस्य नृत्ते प्रवृत्ते स श्रीहर्षाभिधानो जयति पशुपतिर्दत्तविश्वानुकम्पः ॥ सव्ये शूलं त्रिशिखमपरे दोष्णिं [भिक्षाकपालं भूषा' 'भुजगः कण्ठिका नीलकण्ठे। नेदृग्वेषस्त्रिनयन मया कापि दृष्टो विचित्र इत्थं गौर्या प्रहसितहरः सस्मितः पातु युष्मान् ॥ १. लेखोऽयं पाषाणमयशिलोत्कीर्णः जयपुरराष्ट्रान्तर्गतशेखावाटीविषये शीकर- राजधानीतो दक्षिणे जयपुरतश्च वायव्यकोणे हर्पनानो गिरेः शृङ्गे देवालये १५३४ ई- शाब्दे Dr. G. E. Rankin and Sergeant E. Dean महाशयाभ्या- मुपलभ्य Asiatic Society सभायै प्रेषितः । स च F. Keilliorn Ph. D. C.I, E. महाशयेन व्याख्यातः. NIRROR...

VaraKARMIRAL
११६ लेखः]
प्राचीनलेखमाला।
वेगोद्भूतार्यमादिग्रहगगनतलं व्यश्ववाना
जलौघै-
न्यक्कुर्वाणा समुद्रान्] क्षयवलितजलानूमिमालासहस्रः ।
देयादभ्यर्थितं वः शशधरधवला स्वर्धनी चन्द्रमौले-
मौलौ लीलां वहन्ती स्फुटविकटजटाबन्धने चीरिकायाः ॥
चञ्चच्चन्द्रार्कतारं भुवननगनदीद्वीपसिन्धुप्रपञ्चं
विश्वं देवासुराहिप्रमथमुनिवर्यक्षमत्र्यैः सनाथम् ।
यस्येच्छाशक्तिभावादसदपि सकलं जायते लीयते च
सोऽव्याद्वो हर्षदेवो भुवनविरचनासूत्रधारोऽप्रमेयः ॥
नूनं बाणाग्निदग्धत्रिपुरसुररिपुर्जातहर्षः सहर्षे-
रिन्द्राद्यैर्देववृन्दैः कृतनतिनुतिभिः पूज्यमानोऽत्र शैले ।
योऽभून्नाम्नापि हर्षो गिरिशिखरभुवोर्भारतानुग्रहाय
स स्ताद्वो लिङ्गरूपो द्विगुणितभवनश्चन्द्रमौलिः शिवाय ॥
निर्यन्नेत्राण्डभाण्डानणुदहनरुचिप्लोषसंभ्रान्तसत्त्वं
प्रान्तज्वालावलीढद्रुमवहलमहाधूमधूम्रायिताशम् ।
संरम्भारम्भभीमखनमसमशरोच्छेदि यस्याशशङ्के
दृष्ट्वा देवैः स्वरूपं किमियमसमये संहृतिर्बोभुवे[ति] ॥
देवः पुरधगध्यास्ते यम_कषमुच्चकैः ।
हर्षख्यातिः स हर्षाख्यो गिरिरेष पुनातु वः ॥
शूरस्येदं (स्यैष) श्लोकं(कः)।
गाङ्गं नो निर्झराम्भः प्रवहति न शुभा नन्दनोद्यानलक्ष्मीः
सदनखर्णशृङ्गामलविविधरुचो नैव [सौधास्त]थात्र ।
अन्यां धत्ते तथापि श्रियमतिशयिनीमेष शैलोऽद्वितीयां
साक्षाच्छंभुर्यदास्ते तदपि हि परमं कारणं रम्यतायाः ॥
अष्टमूर्तिर्यमध्यास्ते सिद्धयष्टकविभुः स्वयम् ।
महिमा भूधरस्यास्य परमः कोऽपि विद्यते ||
१. 'वोभुवे[a]' इति पूरणेऽर्थोऽस्फुटः । 'बोभुवा' इति यङ्लुगन्तम्.

काव्यमाला। OC एतत्वर्णाण्डकान्तिप्रवरतममहामण्डपाभोगभद्रं प्रान्तप्रासादमालाविरचितविकटापाण्डुपुत्राभिरामम् । मेरोः शृङ्गोपमानं सुघटितवृषसत्तोरणद्वाररम्यं नानासद्भोगयुक्तं जयति भगवतो हर्षदेवस्य हर्म्यम् ॥ आद्यः श्रीगूवकाख्याप्रथितनरपतिश्चाहमानान्वयोऽभू- च्छ्रीमन्नागा""लोकप्रवरनृपसभालब्धवीरप्रतिष्ठः । यस्य श्रीहर्षदेवे वरभवनमयी भौतली कीर्तिमूर्ति- लोकेऽद्यापि स्थिरैषा प्रतपति परमै.. पुत्रः श्रीचन्द्रराजोऽभवदमलयशास्तस्य तीव्रप्रतापः सूनुस्तस्याथ भूपः प्रथम इव पुनवकाख्यः प्रतापी । तस्माच्छ्रीचन्दनोऽभूत्क्षितिपतिभयदस्तोमरेशं सदर्प हत्वा रुद्रेनभूपं समरभुवि ब]लाये न लब्धा] जयश्रीः ॥ ततः परमतेजस्वी सदा समरजित्वरः । श्रीमान्वाक्पतिराजाख्यो महाराजोऽभवत्सुतः ॥ येनादैन्यं स्वसैन्यं कथमपि दधता वाजिवल्गा मुमुक्षु प्रागेव त्रासितेभ्यः सरसि करिरटड्डिण्डिमैडि वन्धमाभ राज्ञां समदमभिवहन्नागतोऽनन्तपार्श्व- क्ष्मापालस्तत्रपालो दिशि दिशि गमितो हीविषण्णः प्रसन्नः।। शूरस्येदम् । लोकैयों हि महीतले ननु हरिश्चन्द्रोपमो गीयते त्यागैश्चर्यजयेषु कीर्तिरमला धर्मश्च यस्योज्ज्वलः । येनादायि हराय मन्दिरकृते भत्त्या प्रभूतं वसु श्रीमद्वाक्पतिराजसूनुरसमः श्रीसिंहराजोऽभवत् ॥ हैममारोपितं येन शिवस्य भवनोपरि । पूर्णचन्द्रोपमं स्वीयं मूर्त यश"....."डकम् ॥ ..."तोमरनायकं सलवणं सैन्याधिपत्योद्धतं युद्धे येन नरेश्वराः प्रतिदिशं निर्नाशिता जिष्णुना । (र

११६ लेखः]
प्राचीनलेखमाला।
कारावेश्मनि भूरयश्च विधृतास्तावद्धि यावद्गृहे
तन्मुक्त्यर्थमुपागतो रघुकुले भूचक्रवर्ती स्वयम् ॥
श्रीमान्विग्रहराजोऽभूत्तत्सुतो वासवोपमः ।
वंशलक्ष्मीर्जयश्रीश्च येनैते विधुरोद्धृते ॥
श्रीसिंहराजरहिता किल चिन्तयन्ती
भीतेव संप्रति विभुननु को ममेति ।
येनात्मबाहुयुगले चिरसंनिवास
संधीरितेति ददता निजराज्यलक्ष्मीः ।।
येन दुष्टदमनेन सर्वतः साधिताखिलमही स्वबाहुभिः ।
लीलयैव वशवर्तिनी कृता किंकरीव निजपादयोस्तले ॥
यस्य चारु चरितं सता सदा शृण्वतां जगति कीर्तितं जनैः ।
हृष्टिजातघनरोमकं[टका] जायते तनुरलं मुहुर्मुहुः ॥
मुक्ताहारैः सुतारैः प्रतरलतुरगैश्चारुवस्त्रैश्च शस्त्रैः
कर्पूरैः पूगपूरैर्मलयतरुवरैर्हेमभारैरपारैः ।
उद्यद्दानैः समानैश्चलकुलगिरिभिर्दन्तिवारैः सदारै-
निर्व्याजैः प्रातिर"......भिरिति भृतैः प्राभृतैर्यः सिषेवे ।।
छत्रधारावरग्रामो द्वितीयः शंकराणकः ।
तेनेमौ हर्षनाथाय भक्त्या दत्तौ सशासनौ ॥
श्रीमहुर्लभराजेन योऽनुजेन विभूषितः ।
लक्ष्मणेनेव काकुत्स्थो विष्णुनेव हलायुधः ।।
महाराजावली चासौ शंभुभक्तिगुणोदया।
श्रीहर्षः कुलदेवोऽस्यास्तस्माद्दिव्यः कुलक्रमः ॥
अनन्तगोचरे श्रीमान् पण्डित औत्तरेस्व(श्वरः।
पञ्चार्थलकुलाम्नायी विश्वरूपोऽभवद्गुरुः ॥
दीक्षाजातमलध्वंसविस्फुरज्ञाननिर्मलः ।
प्रशस्ताख्योऽभवच्छिष्यस्तस्य पाशुपतः कृती ॥
।

२०० काव्यमाला। १८ ....."सुबन्धु भा"रक्तोऽभवत्तस्य शिष्यो द्वि(हि) नामतोऽल्लटः। वार्गटिकान्वयोद्भूतसद्विप्रकुलसंभवः ॥ हर्षस्यासन्नतो ग्रामः प्रसिद्धो राणपल्लिका । सांसारिककुलामायस्ततो यस्य विनिर्गमः] ॥ अल्लटच्छद्मना नन्दी शिवासन्नस्थितिक्रमः । श्रीहर्षाराधने नूनं स्वयं मर्त्यमवातरत् ॥ आजन्म ब्रह्मचारी दिगमलवसनः संयतात्मा तपस्वी श्रीहर्षाराधनैकव्यसनशुभमतिस्त्यक्तसंसारमोहः । आसीद्यो लब्धजन्मा भवतरणधियां" स्तेनेदं धर्मिवित्तैः सुघटितविकटं कारितं हर्षहर्म्यम् ॥ अस्मिश्चन्द्राङ्कशैले गगनपथलिहोत्तुङ्गशृङ्गेऽप्रमेयं हम्य श्रीहर्षनामप्रथितपशुपतेः सद्विमानोपमानम् । दृष्ट्वा सद्भोगयुक्तं बहुसुरभवनं कारितं येन........ नासाध्यं किंचिदस्ति स्फुटमिति तपसो निःस्पृहाणां यतीनाम्॥ आसीन्नैष्ठिकरूपो यो दीप्तपाशुपतव्रतः । तीव्र वेगतपोजातपुण्यापुण्यमलक्षयः ॥ सदा शिवसमाकारस्तस्येश्वरसमद्युतेः । भावद्योतोऽभवच्छिष्यः संदीपितगुरुक]मः ॥ गुरोराज्ञामयं प्राप्य प्रतिष्ठासोः शिवालयम् । यथाप्रारब्धकार्याणामङ्गीकृतभरोऽभवत् ॥ पुरस्तात्पर्वतस्याधस्त्रितयं येन कारितम् । सत्कूपो वापिका दिव्या गोप्रपा घटितोपलैः ॥ सदैव वहमानेन कूपेन खादुवारिणा । वाटिकासेच.... प्रपाभरणं तथा ॥ सत्पुष्पैरर्चनं शंभोः पयःपानं गवामपि । कार्यद्वयमिदं सारं दर्शितं पुण्यकाशिणाम् ॥ ( र ११६ लेखः] प्राचीनलेखमाला। २०१ ...... ॥ दिगम्बरं जटा भस्म तल्पं च विपुलं मही । भिक्षा वृत्तिः करः पात्रं यस्यैतानि परिग्रहः ।। शिवभवनपुः ....." तदखिलमुपलौघैः पूरयित्वा गभीरम् । समतलसुखगम्यं प्राङ्गणं तेन कान्तं मसृणतरशिलाभिः कारितं बन्धयित्वा ॥ वीरभद्रसुतः ख्यातः सूत्रधारोऽत्र चाण्डसिव (१)। विश्वकर्मेव सर्वज्ञो वास्तुविद्या... येन निर्मितमिदं मनोहरं शंकरस्य भवनं समण्डपम् । [सर्वदेवमयचारुतोरणं वर्गखण्डमिव वेधसा खयम् ॥ गङ्गाधरवरभवने करणिकथीरुकसुतेन भक्तेन । अक्रियतेयं सुगमा प्रशस्तिरिह धीरनागेन ॥ यावच्छंभो ..."नसुरनदीचन्द्रलेखापतित्वं यावल्लक्ष्मीर्मुराररुरसि विलसति द्योतते कौस्तुभं च । गायत्री यावदास्ते सततमुपनता प्रेयसी ब्रह्मणोऽन्ते कैलासाकारमेतत्प्रतपतु भवनं हर्षदेवस्य तावत् ॥ अ......"तः शंभुः कथं कालस्य गोचरः । हर्म्यनिर्माणकालस्तु यथादृष्टो निबध्यते ॥ संवत् १०१ [इ?] आषाढशुदि १३ शंभोः प्रासादसिद्धिः ॥ जा(या)तेऽब्दानां सहस्रे त्रिगुणनवयुते(१०२७) सिंहराशौ गतेऽर्के शुक्ला यासीत्तृतीया] शुभकरसहिता सोमवारेण तस्याम् । आदिष्टः शंभुनासौ ध्रुवममलपदं दित्सुना शुद्धसत्त्वं लब्धा(ब्ध्वा) वैदेहभावं शिवभवनमभिप्रस्थितो ह्यल्लटोऽद्य ॥ खस्ति संवत् १०३० आषाढशुदि १५ निरुद्धं यथालब्धशासना ....... त्रैव लिख्यते । महाराजाधिराजश्रीसिंहराजः खभोगे तूनकूपक- द्वादशके सिंहगोष्ठम् , तथा पट्टबद्धकविषये त्रैकलककेशानकूपौ, सरःकोट्ट- २०२ काव्यमाला। ............... विषये कण्हपल्लिकाम् , एवं ग्रामांश्चतुरश्चन्द्राङ्कशिखरोपरि [भ]गवते श्रीहर्षदेवाय पुण्येऽहनि श्रीमत्पुष्करतीर्थे स्नात्वा स्वपनार्चनविलेप- नोपहारधूपदीपपर्वयात्रोत्सवार्थमा शशाङ्कतपनार्णवस्थितेर्यावच्छासनत्वेन प्रददौ । ... संख्येन ख- ............ तथैतद्भाता श्रीवत्सराजः स्वभोगावाप्तजयपुरविषये कर्दमखातग्रा- ममदाच्छासनेन । तथा विग्रहराजेन शासनदत्तग्रामद्वयमुपरि लिखितमास्ते । तथा श्रीसिंहराजात्मजौ श्रीचन्द्रराजश्रीगोविन्दराजौ खभोगावाप्त- पट्टबद्धकविषये दर्भकक्षविषये" हस्ताङ्कितशासनौ ....... के पाटकद्वयं पल्लिकाग्रामौ भक्त्या वितरतुः ।। श्रीसिंहराजीयदुःसाध्यश्रीधंधुकः खट्टकूपविषये स्वभुज्यमानमयूरपद्रिं] ग्रामं खाम्यनुमतः प्रदत्तवान् ॥ 'हिलात्मजः श्रीजयनराजः स्वभुज्यमानकोलिकूपकग्रामं भक्त्या हर्षदेवाय शासनेन दत्तवान् ॥ तथा समस्तश्रीभम्मह दे]श्या शा- कंभों लवणकूटकं प्रति विंशोपकमेकं दत्तम् । तथोत्तरापथीयहेडावि- कानां..........[1]ोटकं प्रति द्रम्म एको दत्तः । पुण्यात्मभिर्दत्तानि देवभुज्यमानक्षेत्राणि यथा--मद्रापुरिकायां पि[प्प]लवारिकाक्षेत्रम् , नि- म्बडिकाग्रामे दर्भटिकाक्षेत्रम्, मरुपल्लिकायां [झा]टक्षेत्रम्, [ह]र्षे लाटक्षेत्रम् , "लावणपद्रे सेक्यकक्षेत्रम् , तथात्रैव द्विहलिकानन्दिसो- मके बृहद्धलमिति ॥ सर्वानेतान्भाविनो भूमिपालान्भूयो भूयो याचते रामभद्रः । सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः ॥ ........ (एपिग्राफि इण्डिका २।११९-१२५) ११७ लेखः] प्राचीनलेखमाला। २०३ (११७) श्रीपरमारान्वयभूषणश्रीनरवर्मदेवकारितमन्दिर प्रशस्तिः। ओं नमो भारत्यै ॥ प्रसादौदार्यमाधुर्यसमाधिसमतादयः । युवयोर्ये गुणाः सन्ति वाग्देव्यौ तेऽपि सन्तु नः ॥ एक एव भुवनत्रयेऽपि स श्रीपतिर्भवतु वो विभूतये । यस्य मध्यमपदश्रितोऽप्यमी भास्करप्रभृतयश्चकासति ॥ जाति वृत्तं च बिभ्राणा] गुणालंकारचारवः । सरसाश्च प्रसीदन्तु सूक्तयः सूरयश्च नः ॥ दुर्धरारिपुरभङ्गभीषणो भूरिभूतिसविशे षभूषणः] । [राजराजकृतसक्रियः क्रियाद्वह्निवंशसदृशः शिवः शिवम् ।। जाता महार्णवोत्पन्ने ब्रह्माण्डशुक्तिसंपुटे । महेश स्याचिंता मुक्ता जयन्त्यम्भोजयोनयः ॥ वैराग्यं च सरागतां च नृशिरोमालां च माल्यानि च व्याघ्रानेकपचमणी च वसने चाहींश्च हारादि च । यद्भतिं च विलेपनं च भजते भीमं च भव्यं च त- द्दिश्याद्रूपमुमारमारमणयोर्भुक्तिं च मुक्तिं च वः ॥ वैश्वरूप्यं सम[भ्य]स्य मीनाद्याकृतिकैतवात् । खाभिन्ननिर्मिताशेषविश्वो विष्णुः पुनातु वः ॥ अस्ति ग्रस्तगिरीन्द्रगर्वगरिमा नीलाश्मसानूल्लस- कान्तिवातविडम्बिताम्बरतलः श्रीमान्नगेन्द्रोऽर्बुदः । यस्य व्योमतलोद्विलञ्चिशिखरप्राग्भारपद्माकर- प्रेसत्पद्मपरागचक्रमितरब्रह्माण्डखण्डायते ॥ १. 'प्रशस्तिरियं पाषाणशिलोल्लिखिता नागपुरप्रदर्शन्यां वर्तते' इति Dr. F. Kielhorn, Ph. D., C. I, E. महाशया वदन्ति.

२०४ काव्यमाला। १८ देवैरावृतमभ्रमण्डलमिदं मत्यैश्च भूमण्डलं कृत्वा धर्मतुलायमानवपुषो यस्यान्तयोय॑स्य च । जाने यावदवैतुमिच्छति विधिः किं शुद्धमित्येतयो- रूचं तावदगादमर्त्यशिखरिस्तम्भान्नभोमण्डलम् ॥ लेभे विभिद्य जलधिप्रधिभूमिचक्र- माकाशचक्रमपि येन दिगन्तनेमि । संसारवर्त्मनि महाविषमे निषण्ण- भग्नोन्नतैकतटविश्वरथाक्षलक्ष्मीः ॥ तस्मिन्वेदविदां वरः स भगवानाकाशगङ्गापयः- पूरप्लावितकान्तकोमलतटेऽतिष्ठद्वसिष्ठो मुनिः । यखेतानलधूमबतियमुना प्रीत्यै पितुब्रह्मणो गङ्गासंगमसिद्धये समनयद्ब्रह्माण्डखण्डं प्रति ॥ विद्यामहासरिदुपान्तविवर्तिघोर- संसारसैकतविषक्तमसक्तमते । यस्य त्रिलोकरथमुत्पथसंप्रवृत्त- मुत्तारयन्ति शतशोऽप्युपदेशधुर्याः ॥ आयातस्य कदाचन क्षितिपतेराच्छिन्दतः कौशिक- स्यातिथ्योचितवस्तुजातजननादानन्दिनीं नन्दिनीम् । निर्जेता कुपितेन तेन हविषा संहर्षितावर्हिषो वीरः श्रीपरमार इत्यनुपमः सत्याभिधानोऽभवत् ॥ राज्यवर्धनविशालधर्मभृत्सत्यकेतुपृथुकीर्तिपार्थिवः । वर्धतेऽयमहिमांशुचन्द्रमःसंततिप्रतिकृतिर्यदन्वयः ॥ वराजरामराजितोऽनलोद्भवः स भारतः । ग्रहेन्द्रचन्द्रयोरिव व्यजायतायमन्वयः ॥ ( र न RA SAMRATE ११७ लेखः] प्राचीनलेखमाला। २०६ वंशेऽस्मिन्वैरिसिंहः क्षितिपतिरभवद्भरिभूतिप्रभाव- प्रागल्भ्यौदार्यशौर्यप्रचयपरिचयप्राज्यसौराज्यसिद्धिः । नम्रक्ष्मापालभालस्थलदलितलुलत्कान्तकोटीरकोटि- त्रुट्यन्माणिक्यचक्रस्थपुटितमणिमत्पादपीठोपकण्ठः ।। सर्वाशाविजयप्रयाणसमये यस्येन्द्रनीलप्रभै- यूरातपवारणैः शुशुभिरे नष्टावकाशा दिशः । सर्पन्मत्तकरीन्द्रचक्रचरणप्राग्भारदीर्णस्थिरा रन्ध्रोद्भूतविषण्णशेषसविषश्चासावरुद्धा इव ॥ पाताले वडवामुखानलमिषात्पृथ्वीतले च स्फुर- सौवर्णाचलकैतवाद्वियति च ब्रह्माण्डखण्डच्छलात् । [च]ञ्चत्काञ्चनचक्रवालवलयव्याजाच्च दिङ्मण्डले यस्याद्यापि समुल्लसत्यविचलीभूतः प्रतापानलः ॥ स्वलॊकेषु च विद्विषत्क्षितिषु च व्यालेन्द्रगेहेषु च खाराजं च रिपुव्रजं च मुरजिन्नागाधिराजं च यः । ऐश्वर्येण च विक्रमेण च धराभारक्षमत्वेन च न्यक्कुर्वैश्च पराभवंश्च समतिकामंश्च पृथ्वीमपात् ।। तस्माद्वैरिनृपावरोधनवधूवैधव्यदुःखोद्भव- द्वाष्पाम्भःकणशान्तकोपदहनः श्रीसीयकोऽभून्नृपः । आविर्भावितनूतनस्थितिरयं ब्रह्माण्डखण्डच्छला- द्यस्याद्यापि विलोक्यते वियदधो धूमः प्रतापानलः ॥ अनुगगनमुदस्थुः स्थूलमुक्तोच्चया ये यदसिदलितकुप्यत्कुम्भिकुम्भस्थलेभ्यः । सततमपि पतन्तस्तेऽद्य यावन्न पृथ्वी पृथुलतरलताराव्याजभाजो भजन्ते ॥ अत्याश्चर्यमदृष्टमश्रुतमिदं कस्मै समाचक्ष्महे को न्वेतत्प्रतिपद्यते च तदपि प्रस्तूयते कौतुकात् ।

२०६ काव्यमाला। १६ १८ उद्धृत्यापि वसुंधरामसदृशीं लब्ध्वापि लक्ष्मी च यः कुर्वन्कार्यमनेकशः सुमनसामागान्न वैकुंण्ठताम् ॥ तस्माद्वैरिवरूथिनीबहुविधप्रारब्धयुद्धाध्वर- प्रध्वंसैकपिनाकपाणिरजनि श्रीमुञ्जराजो नृपः । प्रायः प्रावृतवान्पिपालयिषया यस्य प्रतापानलो लोकालोकमहामहीध्रवलयव्याजान्महीमण्डलम् ॥ यस्मिन्सर्पति लीलयापि ललितैः सैन्यैः समुज्जृम्भितं वाहव्यूहविसारिधूलिपटलव्यालुप्तदिग्मण्डलैः । अत्यद्रीन्द्र]करीन्द्र[संचयपदग्रेजोलनोच्छंङ्खल- प्रेकच्छृङ्खलनादनिर्भरभृतब्रह्माण्डमाण्डोदरैः ॥ यन्निस्त्रिंशनिरस्तमस्तकतया लब्ध्वान्यथा दुर्लभं देवत्वं स्वकबन्धमुद्धि]तमधो दृष्ट्वा भटैर्वेष्टितम् । संहर्षात्यततो विमानशिखरादाश्लिष्य कण्ठे हठा- द्वीरान्सिंग]ररागिणो रुरुधिरे संभूय सिद्धाङ्गनाः ॥ तस्यासीदथ पार्थिवः पृथुयशाः श्रीसिन्धुराजोऽनुजः स्फूर्जद्वाडवपावकस्फुट[महः सौन्दर्यशौर्यानलः । यः संग्रामयुगान्तवल्गितभुजादुर्वातदूरोल्लस- कल्लोलायितमण्डलारप[ट]लेनामज्जयद्भूभृतः ॥ व्रजति जयिनि यत्रामित्रजातेन जज्ञे तरलतुरगवेगोद्भूतभूरेणुराजिः । विकटकरटिभारभ्रष्टभूपृष्ठरन्ध्रा- दुदित इव समन्तादन्तकालाग्निधूमः ॥ गाम्भीर्य प्रलयार्णवस्य च बलं कल्पान्तवातस्य च स्थेमानं. कमठेशितुश्च [गुरु]तां ब्रह्माण्ड]भाण्डस्य च । तेजः कालहुताशनस्य च महीयस्त्वं धुचक्रस्य च स्वीकृत्येव विनिर्मितं यमविदुः प्रत्याजि पृथ्वीभुजः ।। १. देवानाम्, धीमतां च. २. विष्णुताम् , निश्चयेन कुण्ठतां च. ( र ११७ लेखः] प्राचीनलेखमाला। तत्सूनुर्भुवनैकभूषणमभूद्भूपालचूडामणि- श्छायाडम्बरचुम्बितांहिकमल: श्रीभोजदेवो नृपः । यस्याद्या पि] स[माश्रयन्ति चरणौ शक्रासनाध्या]सिनः स्पर्धाबन्धविनम्रनिर्जरनटत्कोटीरकोटित्विषः ॥ रटत्यटहपाटवप्रकटझर्झरस्फूर्जित- स्फुरड्डमरुडम्बरोड्डमरडिण्डिमोड्डामरा । स्फुटत्करटकुञ्जरप्रपदसंपतत्संभ्रम- भ्रमद्भवन[म]भ्रमज्जग[ति] यच्चमूरुच्चकैः ॥ वैकुण्ठः कमलासनाय चतुरास्याय स्वयंभूः पुनः पञ्चास्याय हराय शंभुरपि षड्डक्राय पुत्राय च । सेनानीरपि दन्दशूकपतयेऽजलं सहस्रानना- याद्यापि स्पृहयत्यमर्त्यसमितौ यत्कीर्तिमुत्कीर्तयन् ॥ तस्मिन्वासवबन्धुतामुपगते राज्ये च कुल्याकुले मनस्वामिनि तस्य बन्धुरुदयादित्योऽभवद्भूपतिः । येनोद्धृत्य महार्णवोपममिलत्कर्णाटकर्णप्रभु- मुर्वीपालकदर्थितां भुवमिमां श्रीमद्वराहायितम् ॥ यस्मादुअतरप्रताप पवनो पारूढदुर्दर्शता- सादृश्योत्थरविभ्रमादभिमुखैः प्रापञ्चि यैः पञ्चता । मन्ये सोऽयमिति प्रतीतिविततामर्षप्रकर्षेण ते भित्त्वा] भास्करमण्डलं रिपुभटाः प्रापुः परां निवृतिम् ।। एकस्यां समितौ विलोक्य विजयं यस्यापरस्यां स्तुव- ..."तां समर्थयति दृग्जिह्वासहस्रद्वये । किंत्वानन्दनिमीलितेक्षणतया श्रौतैः सुखैर्वञ्चित- श्चक्षुःकर्णमकर्णमप्यहिपतिः स्वीयं वपुर्निन्दति ॥ पुत्रस्तस्य जगत्रयैकतरणेः सम्यक्प्रजापालन- व्यापारप्रवणः प्रजापतिरिव श्रीलक्ष्मिदेवोऽभवत् । ।

२०८ काव्यमाला। xo नीत्या येन मनुस्तथानुविदधे नासौ न वैवस्वतः सर्वत्रापि सदाप्यवर्धत यथा कीर्तिर्न वैवस्वतः ॥ संभूय ध्रियतां गुरुर्बलभराद्भः कूर्मराजादयः सद्यो नश्यत वा द्रु]तं नमत वा प्रत्यार्थपृथ्वीभुजः । चक्षुर्मछु पिधीयतामनिमिषाः पांसुः पुरा पूरय- त्येवं व्याहरति प्रयाणपटहो यस्य स्वनच्छद्मना ॥ यस्मिन्सर्पति बान्धवोऽपि विधुरैः पूर्वैः परित्यज्यते कल्याणस्य कथापि कातरतया नापेक्ष्यते दक्षिणैः । आशावल्लिरसत्फलेति विकलैनिश्चीयते पश्चिमै- मर्तु केवलमुत्तमैर्नृपतिभिर्द्वधाप्ययोध्यास्यते ॥ प्रयाति यस्मिन्प्रथमं दिशं हरेर्जिहीर्षयानन्यसमानदन्तिनाम् । यथाविशदौडपतेः पुरंदर स्तिथा] शशङ्के सहसा पुरंदरः ॥ उत्साहोन्नतिसन्निमित्तजनिताज़स्रप्रयाणाक्रमे- णाक्रम्य त्रिपुरीं रणैकरसिकां विध्वं]स्य विद्वेषिणः । येनावास्यत विन्ध्यनिर्झरमरुत्संचारचारूल्लस- लोलोद्यानलतावितानवसतौ रेवोपकण्ठस्थले ॥ जातानि जन्यश्रममार्जितानि बीजानि यत्कुञ्जरमञ्जनानि । तटाचलोच्चाटनतत्पराया रेवाप्रवाहोर्मिपरम्परायाः ॥ ये व्यालोलकरालनिर्झरकराः कुम्भायमानोन्नम- स्कूटान्ताः कटकान्तमागविगलद्दानायमानाम्भसः । प्रायस्तेऽपि विरोधिसिन्धुरधिया यद्वाहिनीवारणै- रुन्मीलन्मदमेदुरैर्विमिदिरे विन्ध्यस्य पादाचलाः ॥ स्फार त्वक्सा]रवारस्थगितगुरुतटीकूटकुट्टाकटङ्क- प्रायप्रेसत्खुराप्रत्वरित[हरिचमूचक्रचाङ्गम्यमाणा । येनालङ्घञ्चन्त सेनाकरिकरटतटोद्दामदानाम्बुगन्ध- व्याविद्धागण्यवन्यद्विपकुलपटलध्यामला विन्ध्यपादाः ॥ (र

११७ लेखः]
प्राचीनलेखमाला।
२०९
ये
ये दिक्सिन्धुरबन्धवः क्षयमरुल्लोलाद्रिस[त्ता भृतः
क्रीडाक्रोडकुटुम्बकान्ति]जलमुक्सब्रह्मचर्याजुषः ।
यत्सेनानृपगन्धसिन्धुरमरुन्मैत्रीविहस्तीकृतै-
स्तैरप्यङ्गकलिङ्गकुञ्जरकुलैयुद्धा[य] बद्धोऽञ्जलिः ॥
देवा(वोs)सौ पुरुषोत्तमः स भगवानाशिश्रिये यः श्रिया
येनेदं बलिवैरिबन्धविधिना विश्वं समाश्वासितम् ।
येनाधारि वसुंधरेति दधतः सानन्दमन्दाक्षतां
यस्य प्राच्यपयोनिधौ बुधजनैर्व्याजस्तुतिः प्रस्तुता ॥
कल्पानलधूममण्डलनिभाः कादम्बिनीविद्विषः
संवर्तोल्लसितान्धकारसुहृदस्त्रुट्यद्वियद्वान्धवाः ।
[आहव श्रमनुदे पा[थो]वगाहोद्यतै-
र्यत्सामन्तमतङ्गजैरधरितास्तेऽप्य[म्बु]धेरूमयः ॥
कुम्भसंभवसोदर्ये यत्रापाचीमुपार्च्छति ।
चोलाद्यैर्नी[च कैर्भूत्वा] विन्ध्यबान्धवता दधे ॥
लीलाम्भःप्लवने यदीयपृतनासामन्तसीमन्तिनी-
श्रोणि श्रेणि विशीर्यमाणर[श]नामुक्ताः पतन्ति स्म याः ।
ताभिः संप्रति पप्रथे नु पृथिवीं यत्ताम्रपर्णीपयः
पश्याद्यापि तदेव पाण्ड्यनृपतेर्जीवातवे [जायते ॥
खामिन्नेष स सेतुरत्रभवतो रामस्य यो मारुति-
प्रायोपाहृतशैलशृङ्गरचितो वर्धिष्णुविन्ध्या]यते ।
इत्यादृत्य कुतूहलेन कथितं तज्ज्ञैरवज्ञाय यः
सेनाहास्तिकसेतुनैव विदधे द्वीपान्तरोपक्रमम् ॥
अथावभज्योभयथा यमाशां यस्या नघे] सर्पति सैन्यसङ्के ।
अभूत्स्वकीयां ककुभं व्यपायाद्गोपायितुं पाशभृदप्यपाशः ॥
मैनाकप्रमुखा वसन्ति कुहचित्कालाग्निरास्ते क्वचि-
सन्ति क्वापि तिमिगिलप्रभृतयः कुत्रापि शेते हरिः।

काव्यमाला। १६ Amandu १५ एतद्वेत्ति न कोऽपि यत्र जलधौ तस्याप्यशेषं पयः [पीत्वा] यत्करिभिः कृतैकचुलकैस्तैस्तैरगस्त्यायितम् ॥ यैः संभूय तिमिगिलप्रभृतिभिः संसर्पिणस्तन्वते पोताधानसबन्धुतां शिखरिणो मैनाकमुख्या अपि । भ्राम्यन्मन्दरडम्बराणि दधिरे तैरप्यशेषेऽम्बुधौ यत्सेनागजराज[पीवरकरा नोच्छृङ्खलैः ॥ अथातितिक्षोरिव राजराजमन्यं तदाशां प्रति यस्य धातुः । द्विधापि भीत्युज्झितवित्तपाशैर्भूपैः प्रतीपैर्विभवैबभूवे ॥ आरामा समरा मरावपि तदा पुन्नागपूगादिम- द्गुल्मान्तर्वनदेवतायितजयश्रीमद्यशःपादपाः । यस्यासन्भुजदण्डचण्डि]मलसल्लोलासिलक्षीकृत- क्षोणीपालकपालमण्डलगलत्कीलालकुल्याकुलाः ॥ खेलोत्खाततुरुष्कदत्तविलसद्वाहावलीवेल्लन- क्लाम्यत्कुङ्कुमकेसराधिकमृदौ वलपकण्ठस्थले । येनावास्य सरखतीसविधतासाधिक्यवाक्पाटव- श्वाटूनुत्कट[प]त्रिपञ्जरगतः कीराधिपोऽध्याप्यत ॥ तेन व्यापुरमण्डले सुकृतिना यस्मै ग्रहेन्द्रग्रहे यामद्वयमग्रिमेण विधिना विश्राणितं श्रद्धया । तदाता नरवर्मदेवनृपतिः पश्चात्परी(रा)वर्त्य त- द्रामं मोखलपाटकाख्यमदिशद्देशत्रयस्येच्छया । तेन खयंकृतानेकप्रशस्तिस्तुतिचित्रितम् । श्रीमल्लक्ष्मीधरेणैतद्देवागारमकार्यत ॥ सं ११६१ ओं हंही बुधाः साधु समुत्सहध्वं कुशाग्रकल्पां च धियं विदद्धम् । मध्यस्थभावं च समाश्रयध्वं सुखं च नः सूक्तिसुधामुपाध्वम् । ( र CHAIRPORATEETISATTRAISHTANT ११८ लेखः] प्राचीनलेखमाला। वन्दनीयावुभौ सूक्तिश्रोतारौ तौ विपश्चितौ । यावश्रु मुञ्चतः सान्द्रमानन्दालस्यनिर्भरौ ॥ (एपिग्राफिआ इण्डिका २।१८२-८८) (११८) अरितरुद्वयाद्वश्रीभिल्लममहाराजशासनपत्रम् । ओं नमः] शिवाय । खस्ति शकनृपका[ला]तीतसंवत्सरशतेषु नवसु द्वाविंशत्यधिकेष्वङ्क- तोऽपि संवत्सराः ९२२ ॥ त्रयमपि भुवनानामीषदुन्मेषमात्रा- प्रभवति लयशेषं यन्निमेषादुपैति । अतिशयितचरित्रो योगिनामप्यगम्यः स इह जयतु देवश्चारुचन्द्रिाङ्क]मौलिः ॥ भुवन]भवनहेतुर्दुष्कृताम्भोधिसेतु- विहितमदनमाथः पार्वतीप्राणनाथः । निहतमरुदरीशः पातु भिल्लममीशः करतलकृतशूलः सर्वदा चन्द्रचूलः ॥ युगस्यादौ शंभुर्भुवनमसृज.. द्भवन्मूर्तिस्त्रेधा मुररिपुविरिञ्चप्रभवतः । विरिञ्चेः संभूतः सकलमरुतां योनिरमलो मरीचिर्या (य)त्कीर्तिभ्रंमति भुवने कुन्दविशदा ॥ अतृ(त्रि)नामाभवत्तस्मात्सूनुः सत्यपरायणः । तत्सूनुरिन्दुराख्यातो जगदानन्दमन्दिरम् ॥ १. इदं शासनं ताम्रपत्रत्रये समुल्लिखितं मुम्बईप्रान्तस्थअहमदनगरप्रान्तस्थसं गमनगराख्ये ग्रामे Mr. H. Cousens महाशयैः समुपलभ्य Archeological Survey of Western India नामकसभाप्रकाशनीयग्रन्थे प्रकाशितमासीत्,

२१२
काव्यमाला।
......
१
BA
ततोऽभवन्निर्मलसोमवंशजो विशालभूपालगुणालयं हि यः ।
पुरूरवा भूपतिरर्धमासनं सदा सुरेन्द्रस्य बभाज लीलया ॥
अभूदायुस्तस्मान्नृपतिरमरैर्वन्द्यचरितो
हठाक्रान्तारातिप्रणतचरणाम्भोजयुगलः ।
ततो जातो यस्मान्नघुषनृपतिर्लाञ्छनमिषा-
ल्लिलेख खस्या ख्यां] खभुजविजयी चन्द्रफलके ॥
अजनि नघुषभूपाद्भूमिपालो ययाति-
स्त्रिदशमहितकीर्तिर्वीरलक्ष्मीविलासः ।
किमिव गुणगणोऽसौ वर्ण्य]ते तस्य सान्द्या(यस्मा)-
ज्जगदवननिमित्तं यादवानां प्रसूतिः ॥
अभवदिह ययातः सज्जनानन्दकारो
यदुनृपतिरशेषाक्रान्तदायादचक्रः ।
सकलविबुधवृन्दैर्वन्दितोऽसौ मुरारि-
जगदवननिमित्तं यस्य वंशे प्रसूतः ॥
एतस्माद्यदुवंशतः समभवद्भूपालचूडामणि-
भूपालः कलिकालकल्मषलवैर्नालोकितो भूतले ।
ख्यातः सेउणचन्द्र एव सहसा नाना निजेनाह्वयं
यो लोकं निजमण्डलं च समदारातीभकण्ठीरवः ।।
प्रख्यातोऽसौ सद्गुणैयों विशालसंग्रामोद्यदुर्दमारातिकालः ।
जातस्तस्मादष्टमीचन्द्रभालः सूनुः श्रीमान्धाडिख्यो(यप्पो) नृपालः ॥
तदनु विबुधवृन्दानन्दसंदोहसीमा
समदमदन""[मानि नीमानचौरः ।
असमस योरिकालानलोऽभू-
तत इह""रेन्द्रो भूतले भिल्लवाख्यः ॥

११८ लेखः] प्राचीनलेखमाला । २१३ [ननु किमिह कवीनां तस्य वय हि न स्या- कुमुदविशदकीर्तेर्भूतले]ऽद्यापि यस्य । रुचिरकनकभासोद्भासिनीमाबबन्ध प्रतिदिनमिह देवः पट्टिका सोमनाथः ।। तस्माज्जातः सुतो राजा राजा राजीवलोचनः । राजेव राजते योऽत्र प्रजानन्दकरः सदा ॥ तस्माद्वन्दिगभूपतिः समभवद्भूपालचूडामणि- यः सौभाग्यमहोदधिर्मगदृशां कन्दर्पदर्पोद्धतः । राजा दीर्घभुजद्वयः पृथुलंसद्वक्षस्थलः संगरे क्रूरारिप्रमदेभदर्पदलनः श्रीकृष्णराजानुगः ॥ श्रीधो र प्यमहानृपस्य दुहिता श्रीवोदिय व्याभिधा शंभोः शैलसुतेव कैटभरिपोर्लक्ष्मीरिव प्रेयसी । यस्यासीत्कुमुदावदातयशसः स्तूपायमा नं] यया [ना]मावेश्वरमीशवेश्म विहितं कैलासलीलाहरम् ॥ [खे]नारातिकरालकालरचनाचण्डासिदण्डेन यो हत्वा मुज्ज[ञ्ज महानृपप्रणयिनी संग्रामरङ्गाङ्गणे । लक्ष्मीमम्बुधिमेखलावलयित[क्ष्मा वर्तिनीं प्रापय- द्भूपश्रीरणरङ्गभीमभवने साक्षात्कुलस्त्रीव्रतम् ॥ अधिष्ठानं सिन्दीन[ग]रममरवर्गवदिदं सदा मूर्ता लक्ष्मीर्वसति भवने यस्य मुदिता । मनः शंभोः पादाम्बुरुहयुगले ध्याननियतं यदोवैशे भूपाचरितमभवं चा[रु]महसः ॥ हिमगिरिशिखरसदृशमिह राजति सुरपुरवर्त्मसंनिभं हतपुर मथननियतकैलासगिरिस्पृहमंशुमसत्प्रभम् । पुञ्जितयश इवेन्दुकुन्द[]ति भूतलतिलकसुन्दरं विजयाभरणनाथाभिधमभिनवगिरीशमन्दिरम् ॥

२१४ काव्यमाला । १. समधिगतपञ्चमहाशब्दमहासामन्तद्वारवतीपुरपरमेश्वरैकशङ्खध्वनिवधि- रितदिगन्तरालविजयतूर्यारवसंत्रासितजितरिपुसमूहविष्णुवंशोद्भवभवचर- णाराधनैकतत्परमनस्विनीमानोन्मूलनकन्दर्पदर्पोद्धतारातिनिष(पू)दनसंग्राम- रामकन्दुकाचार्यसेल्लविडेगविजयाभरणेत्यादिसमस्तराजावलीविराजितश्रीम- भिल्लमराजा 'अन्तःशून्यः कदलीगर्भवदसारः संसारः, व्याधिजरामर- णसाधारणं शरीरम् , प्रबलपवनकम्पितनलिनीदलगततुषारतले च धना- युषी यौवनं च, तथा च कृतत्रेताद्वापरयुगेभ्योऽत्यर्थ दानफलं कलौ युगे पुनः शंसन्ति । न तथा सफला विद्या न तथा सफलं धनम् । यथा तु मुनयः प्राहुर्दानमेकं कलौ युगे ॥ अनेरपत्यं प्रथमं सुवर्ण भूर्वैष्णवी सूर्यसुताश्च गावः । लोकत्रयं तेन भवेत्प्रदत्तं यः काञ्चनं गां च महीं च दद्यात् ॥ आस्फोटयन्ति पितरः प्रवल्गन्ति पितामहाः । भूमिदोऽस्मत्कुले जातः स नः संतारयिष्यति ॥ भूमिदानं सुपात्रेषु सुतीर्थेषु सुपर्वणि । अगाधापारसंसारसागरोत्तारणं भवेत् ॥ धवलान्यातपत्राणि दन्तिनश्च मदोद्धताः । भूमिदानस्य पुष्पाणि फलं स्वर्गः पुरंदरः ।। इति पराशरवत्सकुत्साङ्गिरसगौतममनुयाज्ञवल्क्यमुनिवचनान्यवधार्य मया दृढतरविरक्तबुध्या(या) मातापित्रोरात्मनश्च श्रेयोर्थिना हि मया ब्राह्मणानां ग्रामो दत्तः । श्रीसिन्दीनगरान्तःपातिवाजिकाण्वशाखिने गौ- तमगोत्राय ........ होपाध्या या य.."तारणै उपाध्यायसुताय, तथा वा. जिकाण्वशाखाय कौण्डिन्यगोत्राय [विद्याधारैआय श्रीधरै उपाध्याय- सुताय, तथा व(ब)दृचशाखाय भरद्वाजगोत्राय म[हलपै]आय विद्विः] पैयसुताय, तथा वाजिमाध्यंदिनशाखाय कौण्डिन्यगोता(त्रा)य [महल]- पैआय इन्दपैयसुताय, तथा व(ब)हृचशाखाय देवपैयाय अल्लपैसुताय, ११८ लेखः] प्राचीनलेखमाला। तथा छन्दोगप्रभाकरदीक्षिताय, तथा मित्रायणीवच्छपैयः, तथा अ. न्ध्रपम्यणैयः, तथा माध्यंदिन गु]हिसपैयः, तथा छन्दोगग्गलः सोम्मै- यसुतः, तथा माध्यंदिनमहलपैयः, तथा व(ब)चराजदौवारिकमहलपैयः, तथा व(ब)ढचसंगलः, तथा करहाटवप्पलः, तथा वाजिकाण्वनिम्वैयः, तथा ब(ब) चनेवपैयः, तथा व(व)ढचशाखाय कौशिकगोत्राय विक्कपैयाय श्रीधरैसुताय, तथा घोप्पलाय कौशिकगोत्राय व(ब ढचशाखिने, तथा व(ब)चशाखाय अण्णलैआय, तथा व(ब)चशाखाय दन्दपैआय का- लपैसुताय, तथा पौग्वदेवः अल्लपैसुताय एवममीषां द्विजानां पितृपैताम- होपार्जितं मातुलिङ्गीतटसमावासितं अर्जुनोण्टिकाग्रामं तथा लघु अर्जु- नोण्डीग्राम-लघुवब्वुलवेद्रग्राम द्व]याभ्यन्तरं सवृक्षमालाकुलं चा(च)तुः- सीमापर्यन्तं साष्टादशप्रकृत्योपेतं वापीकूपतडागारामसहितं सतृणकाष्ठपा- षाणोपेतं श(स)कलसमस्तोपेतम् । ग्रामस्याघाटाः लिख्यन्ते-पूर्वतः संग्ग- मनगरम्, दक्षिणतश्चिखलीग्रामः, पश्चिमतः जम्बलेनिम्वग्रामः, उत्तरतः वब्बुलवेद्रतृ(त्रि)ग्रामी, एवं चाचतुराघाटविशुद्धं सर्वाभ्यन्तरसिद्धया पु. त्रपौत्रादिसंतत्योपेतानां चन्द्रार्क यावत्प्रतिपालनीयम् । एवमन्वयजां(जा- नां) बन्धूनामपि [भुञ्जानानां भोजयतां कृषतां कर्षापयतां वा यथेष्टं प्र- तिदिशतां प्रतिदेशयतां केनापि खश्रे(?) बाधा न करणीया । उक्तं च मुनिभिः यानीह दत्तानि पुरा नरेन्द्रैर्धनानि धर्मार्थयशस्कराणि । निर्माल्यमालाप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ व(ब)हुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ सद्यो दानं निरायासं सायासं तस्य पालनम् । एवं हि ऋषयः प्राहुर्दानाच्छ्रेयोनुपालनम् ॥ दत्त्वा भूमि भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः । सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः ॥

काव्यमाला। १. इत्यर्थितोऽपि यः कलिकालवस(शा)ल्लोभाभिभूतो यः पूर्वदानमपहरि- ध्यति स पञ्चमहापातकैरुपपातकैर्युतो रौरवादिषु नरकेषु पच्यमानो दुष्कृ. तमनुभविष्यति । तथा च व्यासभट्टारकः प्राह- 'खदत्तां परदत्तां वा यो हरेत वसुंधराम् । स विष्टायां कृमिभूत्वा कृमिभिः सह पच्यते ॥ विन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः । महायो हि जायन्ते भूमिदानापहारकाः ।। तडागानां सहस्रेण वाजिमेधशतेन च । गवां कोटिप्रदानेन भूमिहर्ता न शुद्धयति ॥' इति महर्षिवचनान्यवधार्य आगन्तुकराजभिः धर्मलोपभयेन प्रतिपाल- नीयम् । मद्वंशजा परमहीपतिवंशजा वा पापादपेतमनसो भुवि भाविभूपाः । ये पालयन्ति मम धर्ममिमं समग्रं तेषां मया विरचितोऽञ्जलिरेष मूर्ध्नि । सा(शा)वरीसंवत्सरीयभाद्रपदामावास्यायाम् । श्रीनासिकीय अरुणा. सवै(वे)द्यमहातीर्थे परमव्रती(तो)पवासनियमयुक्तेन स्त्री(श्री)भिल्लमरा- जेन सूर्यग्रहणे ग्रामोऽयं प्रदत्तः ॥ लिख(खि)तमिदं शासनपढें स्थाननिय- मेन राजनियमेन च मया केशवै उपाध्यायेनेति यदक्षरं परिभ्रष्टं मात्राहीनं च यद्भवेत् । क्षा(क्ष)न्तुमर्हथ विद्वांसः कस्य न स्खलते मनः ॥ यदत्रोनाक्षरमधिकं वा तत्सर्वं प्रमाणमिति ॥ (एप्रिग्राफिआ इण्डिका २।२१७-२२१)

११९ लेखः]
प्राचीनलेखमाला।
२१७
(११९)
खेलरीग्रामस्थहरिब्रह्मदेवमन्दिरमशस्तिपत्रम् ।
ॐ श्रीगणपतये नमः ॥
सकलदुरितहर्ताभीष्टसिद्धिप्रकर्ता
निगमसमुपगीतः शेषयज्ञोपवीतः ।
ललितमधुकरालीसेविता गण्डपाली-
तटभुवि गणराजः पातु वो विघ्नराजः ॥
वेदानाराध्य वेधाः पठति भगवतीं यामनायस्तचित्तः
श्रीकण्ठस्यापि नादैरपहरति मनः पार्वती किंनरीभिः ।
हारा नारायणस्योरसि रहसि रणत्कङ्कणा यद्भुजाः स्युः
सद्यः सत्काव्यसिद्धयै स्फुरतु कविमुखाम्भोरुहे भारती सा ॥
ब्रह्मादयो द(दि)विषदः श्रुतिवाक्यदृष्टया
ध्यायन्ति यं पुरुषमात्मविदोऽप्यमूर्तम् ।
पापानि यत्स्मरणतो विलयं प्रयान्ति
नारायणः स्फुरतु चेतसि सर्वदा वः ॥
अहिहयनृपवंशे शंभुभक्तोऽवतीर्णः
कलचुतिरिति शाखां प्राप्य तीव्रप्रतापः ।
निजभुजगुरुदर्पाद्योऽरिदुर्गाण्यजैषी-
द्रणभुवि दश चाष्टौ सिंहणक्षोणिपालः ॥
अभवदवनिपालस्तत्सुतो रामदेवः
समरशिरसि धीरो येन भोणिङ्गदेवः ।
मणिरिव फणिवंशस्याहतः कोपदृष्टया
तरुणतरणितजःपुञ्जराजत्प्रतापः ॥
१. 'अयं च खेलरीग्रामो रायपुरग्रामतः पञ्चचत्वारिंशन्मैलात्मके पूर्वस्यामन्तराले
वर्तते' इति Dr. F. Kielhorn, Ph. D, C. I. E., महाशयाः,

काव्यमाला। १ १ . तत्पुत्रः शत्रुहन्ता जगति विजयते चन्द्रचूडस्य भक्तः श्यामः कामाभिरामो मनसि मृगशामुद्भटानां कृतान्तः । सर्वेषां याचकानां स्फुरदमरतरुक्पितिः पण्डितानां गीतज्ञानां द्वितीयो भरत इव नृपः श्रीहरिब्रह्मदेवः ॥ तद्वाजधानी नगरीगरिष्ठा खल्वाटिका राजति वाटिकाभिः । खुरालया यत्र हिमालयामा विभान्ति शृङ्गैरतिशुभ्रतुङ्गैः ॥ भूदेवा यत्र वेदाध्ययनमनुरताः स्वस्तिमन्तो वसन्ति श्रीमन्तः श्रीविलासैरमरपरिवृढं राजराजं हसन्तः । कामिन्यः कामदेवं त्रिपुरहरदृशा दग्धमुज्जीवयन्त्यः प्रोद्यहोर्मूलकान्त्या स्मितमधुरगिरा भ्रूलताडम्बरेण ॥ मोची तन्दुरोचीरुचिरतरयशाः कर्मनिर्माणदक्षः सौजन्यादग्रजन्मानुचर इव जसीनामधेयस्य पौत्रः । नानाधर्माभिलाषी गुणनिधिशिवदासाभिधानस्य पुत्रः श्रीमन्नारायणस्य स्मरणविमलधी राजते देवपालः ॥ नारायणस्यायतनं स्वशत्या भक्त्या महत्या सह मण्डपेन । निर्मापितं तेन परत्र चात्र तस्मै हरियच्छतु वाञ्छितार्थम् ॥ हरिचरणसरोजध्यानपीयूषसिन्धु- प्रसरदलघुवेलास्फालकेलीरसेन । सरसकविजनानां निर्मितेयं प्रशस्ति- मनसि रसविधात्री मिश्रदामोदरेण ॥ वहति जगति गङ्गा यावदादित्यपुच्या स्फुरति वियति तारामण्डलाखण्डलेन । तरणिरमरसमच्छद्मना तावदेषा जयतु जयतु मोचीदेवपालस्य कीर्तिः ॥ श्रीवास्तव्यान्वयेनैषा प्रशस्तिरमलाक्षरा । लिखिता रामदासेन पण्डिताधीश्वरेण च ॥ १ 'खेलरी' इति नामास्या एव भवेतू.

१२० लेखः] प्राचीनलेखमाला। ५ २१९ खस्ति श्रीसंवत् १४७० वर्षे शाके १३३४ षष्टचाब्दयोर्मध्ये प्लवना- मसंवत्सरे माघसुदि ९ शनिवासरे रोहिणीनक्षत्रे शुभमस्तु सर्वजगतः । सूत्रधाररत्नदेवेन ॥ (एपिग्राफिआ इण्डिका-२२२३०-२३१) (१२०) दुधकुण्डग्रामस्थजिनमन्दिरशासनपत्रम् । ओं नमो वीतरागाय ॥ आ........""".........."टना[चत्पादपीठं लुठ- न्मन्दारनगमन्दि]गुञ्ज[द]लि मनिष्ठयूतसांराविणम् । [त]त्पा ..........."वद्ध च]."""रसु"""" " [तां] सं......"द्वेगमिवाकरोत्स ऋषभस्वामी श्रिये स्तात्सताम् ॥ वि[बि] भ्राणिो] गुण[संह[ति] हततमस्तापो निजज्योतिषा [युक्तात्मापि जगन्ति संगतजयश्चक्रे सरागाणि यः । उन्माद्यन्मकरध्व]जोर्जितगजग्रासोल्लसत्केसरी संसारोग्रगदच्छिदेऽस्तु स मम श्रीसा(शा)न्तिनाथो जिनः ।। जाड्यं सख(शश्व)दखण्डितक्षयमपि क्षीणाखिलोपक्षायं] साक्षादीक्षितमक्षिभिर्दधदपि प्रौढं कलङ्क तथा । चिह्नत्वाद्यदुपान्तमाप्य सततं [जातस्तथा]नन्दकृ- चन्द्रः सर्वजनस्य पातु विपदश्चन्द्रप्रभोऽर्हन् स नः ॥ सो(शो)कानोकहसंकुलं रतितृणश्रेणिप्रणश्यक्रिम]- [त्मा ध्वगपूगमुद्गतमहामिथ्यात्ववातध्वनिः । १. अयं दुबकुण्डग्रामो ग्वालियरनगरतः षट्सप्ततिमैलात्मके नैर्ऋतभागेऽन्तराले कुनुनद्या वामभागेऽरण्यान्यां वर्तत इति Dr. F. Kielhorn, Ph. D., C. I. E, महाशयाः. ......

T २२० काव्यमाला । यो रागादिमृगोपघातकृतधीया॑नाग्निना भस्मसा- द्भावं कर्मवनं निनाय जयतात्सोऽयं जिनः सन्मतिः ॥ प्रसाधितार्थगुर्भव्यपङ्कजाकरभास्करः । अन्तस्तमोपहो वोऽस्तु गोतमो मुनिसत्तमः ॥ श्रीमजिनाधिपतिसद्वदनारविन्द- मुद्गच्छदच्छतरवो(बो)धसमृद्धगन्धम् । अध्यास्य या जगति पङ्कजवासिनीति ख्याति जगाम जयतु सु(श्रु)तदेवता सा ॥ आसीत्कच्छपघातवंशतिलकस्त्रैलोक्यनिर्यद्यशः- पाण्डुश्रीयुवराजसूनुरसमद्युद्भीमसेनानुगः । श्रीमान र्जुनभूपतिः पतिरपामप्याप यत्तुल्यतां नो गाम्भीर्यगुणेन निर्जितजग[द्ध]न्वी धनुर्विद्यया ॥ श्रीविद्याधरदेवकार्यनिरतः श्रीराज्यपालं हठा- कण्ठास्थिच्छिदनेकबाणनिवहैर्हत्वा महत्याहवे । [डिण्डीरा]वलिचन्द्रमण्डल मिलन्मुक्ताकलापोज्वलै- त्रैलोक्यं सकलं यशोभिरचलैर्योऽजनमापूरयत् ॥ यस्य प्रस्थानकालोत्थितजलधिरवाकारवादित्रशब्दा वेगान्निर्गच्छदद्रिप्रतिमगजघटाकोटिघण्टारवाश्च । संसर्पन्तः समन्तादहमहमिकया पूरयन्तो विरेमु- नों रोदोरन्ध्रभागं गिरिविवरगुरूद्यत्प्रतिध्वानमिश्राः ॥ दिक्चक्राक्रमयोग्य]मार्गणगणाधाराननेकान्गुणा- नच्छिन्नाननिशं दधद्विधुकलासंस्पर्धमानद्युतीन् । [सूनुच्छिन्नधनुर्गुणं विजयिनोऽप्याजौ विजित्यो जि]तं जातोऽस्मादभिमन्युरन्यनृपतीनामान्यमानस्तृणम् ॥ १. त्रैलोक्यनिर्यवशाश्चासौ पाण्डुरेव श्रिया राज्यलक्ष्म्या युतत्वाद्युवराजः तस्य सूनुः, त्रैलोक्यनियंद्यशसा पाण्डुश्रीयुक्तस्य युवराजनानोऽपत्यम् . २. असमद्युतो भी- मसेनस्य, भीमायाः सेनाया वानुगः.

१२० लेखः] प्राचीनलेखमाला। २२१ यस्यास्त्य[द्भुत वाहवाहनमहाशस्त्रप्रयोगादिषु प्रावीण्यं प्रविकत्थितं पृथुमतिश्रीभोजपृथ्वीभुजा । च्छत्रालोकनमात्रजातभयतो दृप्तारिभङ्गप्रद- स्यास्य स्याद्गुणवर्णने त्रिभुव ने] को लब्धवर्णः प्रभुः ॥ तुरगखरखुरानोत्खात[धात्री]समुत्थं स्थगयदहिमरश्मेर्मण्डलं यत्प्रयाणे। प्रचुरतररजोन्याशेषतेजस्वितेजो हतिमचिरत एवा शं सतीवानिवारम् ॥ १२ ॥ शरदमृतमयूखप्रेवदंशुप्रकाश- प्रसरदमितकीर्तिव्याप्तदिक्चक्रवालः । अजनि विजयपालः श्रीमतोऽस्मान्महीशः शमितसकलधात्रीमण्डलक्लेशलेशः ॥ भयं यच्छत्रूणां त्रिदशतरुणीवीक्षितरणे क्रमेणाशेषाणां व्यतरदसदप्यात्मनि सदा । सतोऽप्यंश(?)न्नादादव नि]वलयस्याधिकमतो बुधानामाश्चर्य व्यतनुत नरेन्द्रो हृदि च यः ॥ तस्माद्विक्रम]कारिविक्रमभरप्रारम्भनिर्भेदित- प्रोत्तुङ्गाखिलवैरिवारणघटोद्यन्मां[स]कुम्भस्थलः । श्रीमान्विक्रमसिंहभूपतिरभूदुन्वर्थनामा समं सर्वाशाप्रसरद्विभासुरयशःस्फारत्स्फुरत्केसरः ।। बालस्यापि विलोक्य यस्य परिघाकारं भुजं दक्षिणं क्षीणाशेषपराश्रयस्थितिधिया वीरश्रिया संश्रितम् । सर्वाङ्गेष्ववगृहनाग्रहमहंकारादहपूर्विका- राज्यश्रीरकृताधिगस्य विमुखी सर्वान्यपुंवर्गतः ॥ अत्यन्तो दृप्तविद्वितिमिरभरभिदि च्छादितानी ति] तारा- चक्रे विष्वक्प्रकाशं सकलजगदमन्दावकाशं दधाने ।

२२२ काव्यमाला। निष्पर्यायं दिगास्यप्रसरदुरुक[राक्रान्तधात्रीधरेन्द्रे यस्मिन्राजांशुमालिन्यहह सति वृथैवैष कोऽन्योऽशुमाली ॥ यदिग्जये वरतुरङ्गखुराग्रसङ्ग- क्षुण्णावनीवलयजन्यरजोभिसर्पत् । विद्वेषिणां पुरवरेषु तिरोहितान्य- वस्तूत्करं प्रलयकालमिवादिदेश ॥ तस्य क्षितीश्वरवरस्य पुरं समस्ति विस्तीर्णशोभमभितोऽपि चडोभसंज्ञम् । प्राप्तेप्सितक्रयसमग्रदिगागताङ्गि- व्यावर्ण्यमानविपणिव्यवहारसारम् ॥ आसीज्जायसपूर्विनिर्गतवणिग्वंशाम्बरामीशुमान् जासूकः प्रकटाक्षतार्थनिकरः श्रेष्ठी प्रभाधिष्ठितः । सम्यग्दृष्टिरभीष्टजैन[चरणद्वंद्वार्चने यो ददौ पात्रौघाय चतुर्विधं] त्रिविबुधो दानं युतः श्रद्धया । श्रीमजिनेश्वर]पदाम्बुरुहद्विरेफो विस्फारकीर्ति ध]वलीकृतदिग्विभागः । पुत्रोऽस्य वैभवपदं जयदेवनामा सीमायमानचरितोऽजनि सज्जनानाम् ॥ रूपेण शीलेन कुलेन सर्वस्त्रीणां गुणैरप्यपरैः शिरःसु । पदं दधानास्य बभूव भार्या यशोमतीति प्रथिता पृथिव्याम् ॥ तस्यामजीजनदसावृषिदाहडाख्यौ पुत्रौ पवित्रवसुराजितचारुमूर्ती । प्राच्यामिवार्कशशिनौ समयः समस्त- संपत्प्रसाधकजनव्यवहारहेतू ॥ प्रोन्माद्यत्सकलारिकुञ्जरशिरोनि रणोद्यद्यशो- मूक्ताभूषितभूरभूरपिभिया(:)न्नोन्मार्गगामी च यः । ( १२० लेखः] प्राचीनलेखमाला। २२१ ३५ सोऽदाद्विक्रमसिंहभूपतिरतिप्रीतो यकाभ्यां युग- श्रेष्ठः श्रेष्ठिपदं पुरेऽत्र परमे प्राकारसौधापणे ॥ आसीद्विशुद्धतरबोधचरित्रदृष्टि- निःशेषसूरिनतमस्तकधारिता]ज्ञः । श्रीलाटवागटगणोन्नतरोहणाद्रि- माणिक्यभूतचरितो गुरुदेवसेनः ॥ सिद्धान्तो द्विविधोऽप्यबाधितधिया येन प्रमाणध्वनि- ग्रन्थेषु प्रभवः श्रियामवगतो हस्तस्थमुक्तोपमः । जातः श्रीकुलभूषणोऽखिलविपद्वासोगणग्रामणीः सम्यग्दर्शनशुद्धबोधचरणालंकारधारी ततः ॥ रत्नत्रयाभरणधारणजातशोभ- स्तस्मादजायत स दुर्लभसेनसूरिः । सर्व श्रुतं समधिगम्य सहैव सम्य- गात्मस्वरूपनिरतोऽभवदिद्धधीर्यः । आस्थानाधिपतौ वु(बु)धा दवि]गुणे श्रीभोजदेचे नृपे सभ्येष्वम्बरसेनपण्डितशिरोरत्नादिषूद्यन्मदान् । योऽनेकाशतशो व्यजेष्ट पटुताभीष्टोद्यमो वादिनः शास्त्राम्भोनिधियारगोऽभवदतः श्रीशान्तिषेणो गुरुः ॥ गुरुचरणसरोजाराधनावाप्तपुण्य- प्रभवदमलवु(बु)द्धिः शुद्धरत्नत्रयोऽस्मात् । अजनि विजयकीतिः सूक्तरत्नावकीर्णी जलधिभुवमिवैतां यः प्रशस्ति व्यधत्त । तस्मादवाप्य परमागमसारभूतं धर्मोपदेशमधिकाधिगतप्रबोधाः । लक्ष्म्याश्च बन्धुसुहृदां च समागमस्य मत्वायुषश्च वपुषश्च विनश्वरत्वम् ॥ १. निखिलदिगम्बरगणे ग्रामणी:. A २२१ काव्यमाला। ON प्रारब्धाधर्मकान्तारविदाहः साधुदाहडः । सद्विवेकश्च कूकेका सूपटः सुकृते पटुः ॥ तथा देवधरः शुद्धः धर्मकर्मधुरंधरः । चन्द्रा लिखितनाकश्च महीचन्द्रः शुभार्जनात् ॥ गुणिनः क्षणनाशिश्रीकलादानविचक्षणाः । अन्येऽपि श्रावकाः केचिदकृते धनपावकाः ॥ किंच लक्ष्मणसंज्ञोऽभूहदेवस्य मातुलः । गोष्ठिको जिनभक्तश्च सर्वशास्त्रविचक्षणः ॥ शृङ्गाग्रोल्लिखिताम्बरं वरसुधासान्द्रद्रवापाण्डुरं सार्थ श्रीजिनमन्दिरं त्रिजगदानन्दप्रदं सुन्दरम् । संभूयेदमकारयन्गुरुशिरःसंचारिकेत्वंव(म्ब)र- प्रान्तेनोच्छलतेव वायुविहतेामादिश[त्पश्यताम् ॥ अथैतस्य जिनेश्वरमन्दिरस्य निष्पादनपूजनसंस्काराय कालान्तरस्फुटि- तत्रुटितप्रतीकारार्थ च महाराजाधिराजश्रीविक्रमसिंहः स्वपुण्यरासे(शे)रप्र- तिहतप्रसरं परमोपचयं चेतसि [निधाय गोणी प्रति विंशोपकं गोधूमगो- णीचतुष्टयवापयोग्यक्षेत्रं च महा[चक्र ग्रामभूमौ रजकद्रहपूर्वदिग्भागवाटि- कां वापीसमन्वितां प्रदीपमुनिजनशरीराभ्यञ्जनार्थ करघटिकाद्वयं च दत्तवान् । तच्चाचन्द्रार्क महाराजाधिराजश्रीविक्रमसिंहोपरोधेन 'व(ब)हुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥' स्मृतिवचनान्निजमपि श्रेयः प्रयोजनं मन्यमानैः सकलैरपि भावि- प्रतिपालनीयमिति लिला यां प्रशस्ति शुद्धधीरिमाम् । उत्कीर्णवाशिलाकूटस्तील्हणस्तां सदक्षराम् ॥ संवत् ११४५ भाद्रपदसुदि ३ सोमदिने मङ्गलं महाश्रीः ॥ (एपिग्राफिआ इण्डिका-२।२३७-२४०) F १२१ लेखः] प्राचीनलेखमाला । (१२१) सुप्रसिद्धमथुरान्तर्गतकेशववप्रोपलब्धविष्णुमन्दिर- प्रशस्तिः । ॐ गणपतये नमः ॥ दिश्यात्स वः कैरवकु[मलाभः श्रेयांसि दन्तो द्विरदाननस्य । विजित्य विघ्नानिव......"शङ्के मुखे समाधातुमुपाहितो यः ॥ शौरेः कज्जलकान्तिरस्त्वसिलता भूत्यै चिरं वः करा- कालिंदीव समुद्गता सरभसं या खर्धनीस्पर्धया । यत्रान्तर्जलमानुषीव कमला डिण्डीरपिण्डोपमः कम्बुर्विम्बितमम्बरं कमलिनीकिंजल्कपुञ्जायते ॥ स वोऽवतु जनार्दन]: सकलदैत्यदर्दनो महानरकमर्दनः प्रचुरचौरसंतर्दनः । समस्तभुवनाकरः सकलचक्रभूषाकरो धृतामरमहाभरस्तृणवदुद्धृतक्ष्माधरः ॥ इति प्रथममेव । शाखासंततिसंनिरुद्धसकलप्रोद्दामदिग्मण्डलः श्लाघ्यः पान्थसमाश्रयो द्विजकुलैः संसेव्यमानोऽधिकम् । क्षोणीमण्डलमण्डनं बहुतरप्रख्यातपर्वक्रमः श्रीमानस्ति समुन्नतः क्षितितले राजन्यवंशो महान् ॥ सौजन्यामृतवारिधिर्गुरुगुणग्रामप्रकामावधिः श्रीमान्धर्मनिधिर्नयैकनिपुणक्षुण्णाध्वचक्रप्रधिः । तत्राभूत्कलिकालकल्मषमषीप्रक्षालनैकश्रमो मान्यः क्षत्रियवर्गमौलितिलकः श्रीसिंहराजाह्वयः ॥ १. इयं प्रशस्तिः 1150 A. D. समयोत्कीर्णा Dr. A. Führer महाशयेन केशवसंज्ञकमथुरास्थमृत्कूटत उपलभ्य प्रेषिता Dr. G. Buhler, Ph. D., LL. D., C. I.E. महाशयेन शोधयित्वा प्रकाशिता.

काव्यमाला।
............
दानेन लक्ष्मीविनयेन विद्या भावेन भक्तिः क्षमया च शक्तिः ।
सत्येन सूक्तिः सुकृतेन मूर्तिरलंकृतालंकृतिना च येन ॥
तस्याभूत्तनयो नयोन्नतमतिः श्रीतेजराजाह्वयः
सद्धमैकरुचिः शुचिर्गुरुगुणग्राही विवेकाकरः ।
यश्चित्रं पुरुषोत्तमोऽपि विदितो धत्ते न वैकुण्ठता-
मैश्वर्येऽप्यभुजंगमो न तरलो यो नायकोऽपि स्फुटम् ॥
तस्मात्सूनुरजायतोज्ज्वलतरप्रख्यातकीर्युच्चयः
श्रीमानासिक इत्युदारमहिमा देवद्विजार्चारतः ।
विद्वद्वाञ्छितपूर्तिकल्पविटपी न्यायैकनिष्ठः परं
रोमणिविमलधी/रः सतां संमतः ॥
शंभुः शैलसुतामिव श्रियमिव श्रीशार्ङ्गपाणिः प्रभुः
पालो मीमिव] वृत्रहाम्बुधिरिव स्रोतस्विनी जाह्नवीम् ।
शीतांशुः किल रोहिणीमिव मुनिर्मान्यामिवारुन्धतीं
स श्रीमान्हरिकण्ठजामुदवहत्सद्भक्तिभारान]ताम् ।।
तस्यां तेन सुतो जज्ञे जज्जः सज्जनभूषणम् ।
रामो दशरथेनेव कौ[स]ल्यायामुदारधीः ॥
कुम्भैरम्भः कलयितुमलं वारि धेः कस्य शक्तिः
को वा गङ्गापुलिनसिकतास्ताः परिच्छेतुमीशः ।
नक्षत्राली दिवि गणयितुं कोऽङ्गुलीभिः समर्थः
तस्य स्तोतुं सकलमथवा कः प्रगल्भो गुणौघम् ॥
चन्द्रः कथंचित्समवाप्य वृद्धि पक्षं किलैकं विमलं करोति ।
जज्जः पुनर्भूतलपार्व णेन्दुः] द्वावेव पक्षौ विमलौ विधत्ते ॥
सङ्गः साधुभिरेव कोपशमने शक्तिश्च धर्मे मति-
नेऽभ्यासविधिः परोपकृतये कार्य गुरूणां नतिः ।
[भक्तिः] श्रीपुरुषोत्तमाझियुगले गोष्ठी समं पण्डितै-
जजस्यासिकसंभवस्य सुमतेः किं किं न लोकोत्तरम् ॥

१२१ लेखः] प्राचीनलेखमाला। revie कायः परोपकृतिभिः सुकृतोचियेन बुद्धिर्मुरारिचरणस्मरणेन चेतः । लक्ष्मीरपि प्रणयिवाञ्छितपूरणेन सत्येन वागपि च येन कृता कृतार्था । श्रीमात्रिस्सिकनामधेयविदितो राजन्यवंशोद्गत- स्तस्यासावुपयेमिवान्दुहितरं धर्माभिधानां सतीम् । शीलाचारविभूषणां शुभगुणां भर्तृव्रतां संमतां तस्यां पुत्रचतुष्टयं समभवद्धर्मोपपन्नं ततः ॥ तस्यानुजो गुणनिधिर्गुणिनां वरिष्ठः ख्यातः सुरद्विजगुरूचितभक्तियुक्तः गाम्भीर्यसत्यनयदानविवेकबुद्धिः श्रीआसिकात्मजसुनिर्मलपज्जनामा ॥ अवन्तराजतनयां भार्यामुदवहत्सतीम् । तस्यां स जनयामास सारं हरिभक्तिसारमखिलं विज्ञाय गोष्ठीजनैः साधै धर्मधुरां चिराय वहता जज्जेन निर्मापितम् । विष्णहर्म्यमनल्पशिल्परचनावैचित्र्यपात्रं वह- स्वर्गङ्गानिललोलितध्वजपटं शुभ्राभमभ्रंलिहम् ॥ सौवःसैन्धवमन्धकान्तकजटाजूटाटवीनाटक- क्रीडादुर्ललितस्थितिस्थिरतरं यावत्पवित्रं पयः । सध्रीची सुचिरं फणीश्वरफणारत्नाङ्कुराणां क्षिति- र्यावत्त]विदिहास्तु मन्दिरमिदं लक्ष्मीपतेः शाश्वतम् ।। अत्र गोष्ठीकृतां नामानि- मुत्तिकात्मजधम्मीह रामस्तिल्हस्य नन्दनः । पेइचित्तक...... ....... णो वस्सिकात्मजः ॥ मङ्गपुत्रो नारदश्च जासिको माहवाङ्गजः । ढोलसूनुर्वसन्तश्च कलस्यात्मजधन्तुकः ॥ 0.00 %3D २२८ काव्यमाला। सोभरात्मा महीपाल: """"नः। फुल्लोरी सडसंभूतो देवरो माधवात्मजः ॥ सोढलो रामपालस्य सेल्हणो राजिकोद्भवः । एते गोष्ठी समागम्य पुत्रपौत्रादि." ""काः ॥ अथातो लिख्यते वृत्तिर्देवदेवस्य चक्रिणः । संप्रदत्ता नरेन्द्रेण पुरवासिजनेन च ॥ द्वे गृहे वीथयः षट् च वाटिका देवहेतवे । गोणीप्रमृतिरन्नस्य मानोन्मानरसादिका ॥ यन्त्रे यन्त्र पली" "चा....."पुष्पमालिकात् । मापकाच्च चतुर्थोऽशो यः कश्चिन्मापको भवेत् ॥ यः कश्चिद्धरते वृत्ति न ददाति च मानवः । स गच्छेन्नरकं घोरं यावदाभूतसंप्लवम् ॥ अस्याः प्रशस्तेः कर्तारौ बुधौ पालकुलद्धरौ । क्षन्तव्यं सर्वविबुधैन्यूँनान्यूनं विचारतः ॥ संवत् १२०७ कार्तिकपौर्णमास्यां महाराजाधिराज' यपालदेवविजयराज्ये उत्कीर्णा सोमलसूत्र धारे]ण ॥ (एपिग्राफिआ इण्डिका-२।२७६-२७९) (१२२) श्रीमहाराजाधिराजश्रीकर्णदेवानां शासनपत्रम् । ॐ नमः शिवाय ॥ निर्गुणं व्यापकं नित्यं शिवं परमकारणम् । भावग्राह्यं परं ज्योतिस्तस्मै सद्ब्रह्मणे नमः ॥ १. इदं शासनपत्रंश्रीकर्णमहाराजेन वेणीनदीतीरे स्वपितृश्राद्धकरणसमये दत्तग्रामस्य लिखितं श्रीवाराणस्यां प्राचीनदुर्गान्तर्गतप्राचीनकूपतो निःसृतम्. सा नदी चाधुना जबलपुरतो दक्षिणस्यां दिशि ४० मीलप्रमिते नागपुरतः पूर्वस्यां दिशि ३० मील. प्रमिते देशे वहति. शासनान्त लिखितसमयश्चेदिराजधान्या वर्तते इति हेतोः २४९ योगेन ईश संवत् १०४२ भवति-इति Professor F. Kielhorn, Ph. D. C. I. E. महाशयाः. ""ज- १२२ लेखः] प्राचीनलेखमाला। २२९ २३५ यद्वेधा स्थितमव्ययं परमपि जो(ज्यो)तिश्चिदंशुप्रभं सूर्याख्यस्य च भाखरप्रभृतयो यस्य स्फुरन्त्यूर्मयः । सर्वज्ञान[म]यो बभूव भगवांस्तस्मान्मनुर्मानसो यस्मात्सृष्टिरभूदियं गुणवती स्त्रीपुंनिमित्ता ततः ।। देवः श्रीकार्तवीर्यः क्षितिपतिरभवद्भूषणं भूतधाच्या हेलोत्क्षिप्ताद्रिबिभ्यत्तुहिनगिरिसुताश्लेषसंतोषितेशम् । दोर्दण्डाकाण्डसेतुप्रतिगमितमहापूररेवाप्रवाह- व्याधौतत्र्यक्षपूजागुरुजनितरुषं रावणं यो बबन्ध ।। यस्य भ्रूभङ्गभीता दद(ध)ति नृपतयः क्लिष्टमावे(रे) प्रतिप(ष्ठां) आ कैलासात्सहेलं हरवृषभसमुत्खातशृङ्गाग्रभित्तेः । आ च प्राचः समुद्रात्सुरसरिदतुलस्थूलमुक्तावलीका- दाम्भोधेर्दक्षिणाच्च स्फुरदतुलमणेः सेतुसीमन्तभाजः ।। तद्वंशप्रभवा नरेन्द्रपतयः ख्याताः क्षितौ हैहया- स्तेषामन्वयभूषणं रिपुमनोविन्यस्ततापानलः । धर्मध्यानधनानुसंधितमुखः शश्वत्सतां सौक्ष(ख्य)क- प्रेयान्सर्वगुणाङ्कितप्रभुतया श्रीमानभूत्कोकलः ॥ सम्यक्शास्त्रविचारणा प्रतिदिनं धर्माय योगाय च इष्टापूर्तपरोपकारकृतये यस्यार्थसक्ता मतिः । आनृण्याधिगमाय दाननिरतिः सद्वंशपुष्टस्तथा ज्ञानाभ्यासवशान्मुमुक्षुपदवीमन्ते च यः प्राप्तवान् ॥ भोजे वल्लभराजे श्रीहर्षे चित्रकूटभूपाले । शंकरगणे च राजनि यस्यासीदभयदः पाणिः ॥ शचि(ची)मिवेन्द्रः कमलामुपेन्द्रो नगेन्द्रकन्यामिव चन्द्रमौलिः । चन्देलवंशप्रभवां सुशीलां नहाख्यदेवीं स तु पर्यणैषीत् ॥ उद्दामदर्पद्विषतो जयन्तं कंदर्पमापीनघनस्तनीनाम् । अजीजनत्स स्थितये जनस्य तस्यां महाशक्तिधरं कुमारम् ॥

काव्यमाला। नामा प्रसिद्धो भुवनत्रयेऽपि प्रसिद्धपूर्वो धवलः स राजा । वोढुं धुरं यो गुरुहारहा. योऽन्यान्नृपेन्द्रान्करदीचकार ॥ एकैकं ददता भुजंगमनिशं खं जीवितं रक्षता भक्ष्यार्थ गरुडाय नागपतिना न्यकार उन्मीलितः । चारित्राय ददौ जलं सुरपतिर्गच्छन्नहल्यामृतौ वन्द्याया भुवनत्रयेऽप्ययमभूदौचित्यवृत्तेः पदम् ।। किं वापरेण- होहिन्ति एत्थ वंसे पुरिसा एहइयगारवमहग्या । इअ हाविऊण जेणं पालीण परिग्गहो गहिओ ॥ [भविष्यन्ति अत्र वंशे पुरुषा अत्यधिकगौरवमहार्घाः । इति ज्ञात्वा येन दिशां परिग्रहो गृहीतः ॥] तत्सूनुः ख्यातकर्मा दिगिभकरनिभाजानुबाहुमहात्मा भूमेर्भर्ता बभूव क्षतरिपुनृपतिर्बालहर्षः सुजन्मा । यं सद्वृत्तानुरागानुकृतकृतयुगाचारमाश्रित्य जात- स्त्यक्तान्योन्योपमर्दस्थिरवसतिरपास्तारिवर्गस्त्रिवर्गः ॥ धन्योऽत्र दाशरथिरेव रिपुर्दशास्यो यस्याभवत्किमपरं समरोत्सवाय । घूभङ्गभग्नसकलद्विषतो धिगस्मा- नात्मानमाहवरसादिति यो मुमोच ॥ सत्यव्रतैकनिरतस्य युधिष्ठिरस्य तस्यानुजः प्रथितबाहुबलो बभूव । दुर्योधनारिबलवीरवधैकधन्वी पार्थोऽपरः कलियुगे युवराजदेवः ।। भूभारक्षमदृक्श्रुतिप्रणयिनीमालम्बमानस्तनुं कुर्वाणः समरेऽपि नाकपथगानागच्छतो विद्विषः । विख्यातां भुवि भूरिमार्गगमनामुच्चैर्दधद्वाहिनी यः साक्षात्परमेश्वरः समभवत्सम्यक्शिवाराधनात् ॥

१२२ लेखः]
प्राचीनलेखमाला।
तस्मादभूलक्ष्मणराजदेवः पुण्यैर्जनानां जनितव्यवस्थः ।
अवाप्य यं धर्ममिव क्षितीशं चिराय लेभे जनता सुखानि ।।
यः सत्यस्य निधिः श्रियां च सरणिः साम्ना च धामा च यो
यो दाता च दयालुरेव च पदं कीर्तेश्च नीतेश्च यः ।
तस्यासीत्परमेष दूषणकणः कारुण्यपुण्यात्मनः
पात्रापात्रविवेचनं न यदभूत्सर्वखदानेष्वपि ॥
श्रीशंकरगणदेवस्ततोऽभवत्सकलभुवनतलतिलकः ।
शासति वसुधां यस्मिन्पलायितं क्वापि कलिनापि ॥
असौ निस्त्रिंशता यत्र वक्रत्वं पलितागमे ।
रथचक्रेषु चारित्वं वायौ खच्छन्दचारिता ॥
तस्यानुजोऽभूधुवराजदेवः पतिः क्षितेः क्षत्रकूलप्रसूतिः ।
यस्यासिधाराजलधौतमतॆश्चिरं स्थिरासीचपलापि लक्ष्मीः ॥

काव्यमाला। ख्यातः सत्यतया स धर्मतनयस्त्यागेन वैरोचनिः शौर्येणेन्द्रसुतो न चैतदभवत्सत्यिं] गता(मतं) [चेतसि । एकमिस्त्रितयं कलौ समधिकं गाङ्गेयदेवे नृपे दृष्ट्वा निश्चितमेव तैरवितथं पूर्वे यथोक्ता नृपाः ॥ तस्यात्मजः कर्ण इवावतीर्णः कर्णः पृथिव्यां प्रथितप्रभावः । यस्याभिषेकश्रवणाविषद्भिर्नष्टं प्रहृष्टं द्विजमित्रवर्गः ॥ यत्कीर्तिलतया दूरं प्रसरन्त्या दिने दिने । ब्रह्माण्डमण्डपाभोगः स्वल्पतामुपनीयते ॥ खयं समुत्सृजन्नर्थानथिसार्थेष्वचिन्तितान् । कोऽप्येष भूषणं भूमेर्जङ्गमः कल्पपादपः ॥ शक्तित्रयैकनिलयस्य गुणाकरस्य धर्मात्मनः स्तुतिपदं किमिहास्ति किंचित् । आशास्यते परमिदं कृतिभिः सदैव राजन्वती वसुमती भवतैव भूयात् ॥ तदेवं गुणगणालंकृतशरीरः ""गसमावासितश्रीमद्विजयकटकात्परम- भट्टारकमहाराजाधिराजपरमेश्वरश्रीवामदेवपादानुध्यात(तू)परमभट्टारकम- हाराजाधिराजपरमेश्वरपरममाहेश्वरत्रिकलिङ्गाधिपतिश्रीमत्कर्णदेवः कुशली महादेवीं महाराजपुत्रं महामन्त्रिणो महामात्या महासंधिविग्रहिका महाध- र्माधिकरणिका महाक्षपटलिका महाकरणिका महाप्रतीहारो महासामन्तो महाप्रमातारो महाश्वसाधनिको महाभाण्डागारिको महाध्यक्ष एतानन्यांश्च कीर्तिताकीर्तितांश्च यथार्ह मानयति बोधयति समाज्ञापयति-विदितमस्तु भवताम् -- यथा [हपाथा कासि[भूम्यन्तर्ग]त[सु]सिग्रामः साम्रमधूकः सगर्तस्थलजलोषरः सर्वाकरखनिप्रभृतिसमुत्पत्तिसमेतश्चतुराघाटसीमापर्यन्तः वेसालग्रामविनिर्गताय कोसि(कौशि)कगोत्राय ओदलदेवरातविश्वामित्रत्रि- प्रवराय वाजसनेयशाखाय महप्रनप्ने वा मननप्ले नारायणपुत्राय पण्डि- तश्रीविश्वरूपाय इहैव पितुः श्रीमद्गाङ्गेयदेवस्य संवत्सरे(र)श्राद्धे फाल्गुनबहु- १२२ लेखः] प्राचीनलेखमाला। २३३ लपक्षद्वितीयायां शनैश्चरवासरे वेण्यां स्नात्वा भगवन्तं देवदेवं त्रिलोचन- मशनसंभारप्रकल्पितपञ्चोपचारप्रपञ्चेन परया भक्त्या समभ्यासमश्रद्धया श्राद्धं विधायोभयभोगेन(दकसर्गेण) शासन त्वेन संप्रदत्तः । अतः श्रीमत्कर्णदेवपादा[:] सुसीग्रामनिवासिनः समस्तजनपदान्समादिशन्ति- विदितमस्तु भवताम्-यथा ग्रामोऽयमस्माभिः शासनत्वेन प्रदत्त इति मत्वा भागभोगकरहिरण्यदण्डादायकरोत्पत्तिप्रभृतिसमस्तराजप्रत्यादाया अस्योपने- तव्या इति तदपचिकीर्षया मध्ये वातेनापि न गन्तव्यमिति अभ्यर्थना- सर्वानेतान्भाविनो राजपुत्रान्भूयो भूयो याचते रामभद्रः । सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ अस्मिन्वंशे द्वितीयोऽपि यश्चान्यो नृपतिर्भवेत् । तस्यापि हस्तलग्नोऽहं शासनं न व्यतिक्रमेत् ॥ यानीह दत्तानि पुरा नरेन्द्रर्दानानि धर्मार्थयशस्कराणि । निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ अश्वमेधसहस्रेण राजसूयशतेन च । गवां कोटिप्रदानेन भूमिहर्ता न शुध्यति ॥ सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलम् । हरन्नरकमामोति यावदाहूतसंप्लवम् ॥ संवत् ७९३ फाल्गुनवदि ९ सोमे ॥ (एपिग्राफिआ इण्डिका–२।३०५-३१०) २३४ काव्यमाला। (१२३) श्रीगङ्गाधरकारितकासारप्रशस्तिः । ओं नमः सरस्वत्यै ॥ एकत्रोन्नतगात्रगौरवभराप्राप्ते तथा नम्रता- मन्यत्र श्रियमुबहत्यतिलघु तुङ्गे भुजङ्गेश्वरे । वक्षःसंमुखसंभृतस्तनतटीसङ्गोपसर्पत्सुखं निद्रा"""""द"दधातु दयितामाश्लिष्य विश्वंभरः ॥ देवो जीयात्रिलोकीमणिरयमरुणो यन्निवासेन पुण्यः शाकद्वीपः स दुग्धाम्बुनिधिवलयितो यत्र विप्रे मगाख्या । वंशस्तत्र द्विजानां भ्रमिलिखिततनो स्वतः खाङ्ग शाम्बो यानानिनाय स्वयमिह महितास्ते जगत्यां जयन्ति ॥ तेषां यः प्रथमः समस्तनिगमज्ञानात्मविद्यापदं बुद्ध्या व्याप्त एव नित्ययजनव्यापारपारीणया । भारद्वाजमुनिर्बभूव भवनोद्धाराभिपाती तपः ......"यस्य मुखे मगद्विजमहावंशावतंसोपमः ।। गोत्रं च तस्य शतशाखमभूदभूत- पूर्वैस्तपोभिरथ सुप्रसरैर्यशोभिः । यत्रापरे परमतत्त्वविदोऽनवद्य- विद्यावदातमतयः पतयो द्विजानाम् ॥ कालेना "विलुप्तविलसद्विद्याधने धन्विनां वीराणां धुरि चक्रपाणिरभवद्दामोदरस्यात्मजः । यो वाल्मीकिरिवावतारितगिराधारः स विश्वस्थिते- वैशस्या चतुर्मुख इव व्याप्तो गुणिग्रामणीः ॥ १. इयं च प्रशस्तिर्गयापरिगणान्तर्गतगोविन्दपुरे नरसिंहमालिनो गृहत आनीय Sir A. Cunningham महाशयेन प्रेषिता Dr. Fleet महाशयेन मम पार्थे प्रेषिता इति Professor F.Kielhorn, Ph. D.,C. I, E.,महाशया वदन्ति A A

१२३ लेखः]
प्राचीनलेखमाला।
२३५
अतिस्थिरा पृथु तरा य]त्कीर्तिगरिमास्पदम् ।
दिक्चक्रं यदि नारूढा तहमत्यन्यथा कथम् ॥
जातौ वासवकेशवाविव सुतौ तस्मात्प्रसन्नामरौ
मारीचादिव कश्यपादुपचितां धर्तुं कुले सक्रियाम् ।
ज्यायांस्तत्र मनोरथो दशरथस्तस्यानुजन्मा [ययो]-
विद्याचारशुचित्वशीलविलसत्कीर्त्या पवित्रं जगत् ॥
मुख्यत्वेन सतां यशोभिरखिलोद्गीतैः स्वकर्णश्रुतैः
सन्मित्रोपगमेन तैरतिभृतैभोंगैरयत्नोपगैः ।
भ्रात्रोरत्र ययोर्नरेन्द्रनिहितैः सप्रेमभिः प्रश्रयैः
श्यामानि द्विषदाननानि विदधे शुभ्रोऽप्यदभ्रो गुणः ॥
तौ भ्रातरावतितरां सहजोदितेन
प्रेम्णा परस्परमनोहरणाभिरामौ ।
सौहार्दहृद्यचरितेषु ययोरधीरः
कालोऽपि न स्खलितमाप कलिः कदाचित् ॥
आनीतौ निजराज्यमुज्ज्वलयितुं यत्नात्प्रतीतात्मना
संवासाय नरेश्वरेण शिबिरं श्रीवर्णमानेन तौ ।
तस्याज्ञामवलम्ब्य तत्कुलमिदं ताभ्यामपि प्रापितं
कांचित्कोटिमनुत्तरां गुणभुवः कीर्तेर्विभूतेरपि ॥
आ सिन्धोर्गणनीयगौरवगुणेनैकेन सेव्येऽनयो-
स्तस्मिन्मानपतेर्महीयसि गृहे प्रापि प्रतीहारता ।
अन्येनापि पुनर्मह""कधुरा व्यस्तेति विस्तारिणा-
वेतौ सत्त्वनयैर्बभूवतुरिह प्रज्ञैकविज्ञानिकौ ॥
गत्वा श्रीपुरुषोत्तमं ""वयोहृद्यः प्रतिष्ठास्पदं
पारावारतटे पटीयसि लसच्चन्द्रग्रहानेहसि ।
सर्वखं विततार तर्पितपितृस्तोमः करोल्लासितै-
स्तोयैर्यः पिहितस्य पर्वणि विधोः साहाय्यमाप क्षणम् ॥

काव्यमाला। ( सातत्यान्नित्यकृत्याहुतिभिरपचितौ चन्द्रमौलेस्त्रिकालं न्यस्ताभिर्यस्य शैवागममहितमहामन्त्रपूतान्तरस्य । एनः खेनोजगार त्रिजगति विदितादाश्रया श]त्वदोषा- दिद्धं धूमच्छलेनोज्ज्वलरुचिरचिरान्निद्भुतं होमवह्निः ॥ श्वेतार्धे तं श्रयति [पितृभी]त्यात्मनो [निष्प्रभाधै धत्तेऽनन्तप्रमि तिरमि]तां शक्तिमुन्मुक्ततर्कम् । यस्यैश्वर्य प्रथयति विभोः कर्तुरित्यद्भुतश्री- ओन्ति लोकस्थितिषु भजते भूयसी धर्मकीर्तिः ॥ यस्य श्रीमगधेश्वरो नयवशान्नीतिप्रयोगाखिल- प्राग्भारानुभवैरचुम्बितमतिर्व्यासाभिधानं व्यधात् । राजास्थानसरःसरोरुहमिति खैरं पुरः क्ष्माभृतां गीतो नूतनकालिदास इति यः कालेषु वैतालिकैः ॥ यः सन्मत्रिषु चातुरीपरिचयैर्वाचस्पतिः प्रस्तुत- प्रज्ञासर्गविरिञ्चिरुच्चचरितैरौचित्यचिन्तामणिः । सद्भावप्रभवो गभीरिमगृहं रत्नत्रयीतात्त्विको भाषासु प्रतिभाप्रभुः कविकलासंदर्भगर्भेश्वरः ॥ स्मेरापारपरोपकारपरमः प्रेमोपचारोत्तर- व्याहारैर्जनतानुरागरचनाचातुर्यचर्यागुरुः । धौरेयः सुधियां सुधानिधिकलामौलेः सदाराधन- ध्याने जन्म निजं निनाय सुजनः स्वान्तेन शान्तेन यः ॥ पत्नी तस्य मनोरथस्य कृतिनश्चारित्र्यमुद्रापदं घौडीदेशनरेशशुद्धसचिवश्रीदेवशर्मात्मजा । मूर्ताि] सत्य]मरुन्धतीव जगतां वन्द्या सतीनां धुरि । श्रीमच्छंकर [आ] विरिं]कुर[यितुं सत्पुण्यबीजान्यभूत् ॥ नापत्यं चिरमापतुर्यदुचितं तेनैव तौ दम्पती संपत्तावपि नूनमन्वभवतां संतापमन्तस्ततः ।

१२३ लेखः] प्राचीनलेखमाला। २३९ भाव्यः सूरिभिरेव चित्रकवितायासस्तुतो दुष्करे भारत्याः कुरुतेऽपरान्निजगुणप्रस्तावनां केन सः ॥ धा'"वर्तवशाद्विसृत्वरतरुप्रासादसद्मादिक- व्यक्ताकारकदम्बमम्बरमनु स्वेनोद्भवत्यभ्रियम् । स्थित्वा तत्क्षणतो विपन्नमपुनर्भावाद्यथेदं तथा मत्वैव त्रिजगन्ति येन जनितः सत्कर्मधर्मादरः ॥ पुण्योत्पत्तिनिमित्तमत्र निजयोः पित्रोः पवित्रात्मना कीर्त्या तेन तयोश्चिरं रचयता शुभ्रातपत्रं जगत् । कासारोऽयमकारि पारदरसच्छायाभृतामम्भसां यस्मिन्नूमिमिषाद्यशस्तदमलं मूर्त नरीनृत्यते ।। स्वकीर्त्या सरसस्तस्य प्रतिष्ठासमयोत्सवे । शुभ्राम्बरपरीधानं जगत्तेनात्र कारितम् ॥ आकाशः पवनः कृशानुरुदकं धात्रीति लोकत्रयो मूर्त्या ब्रह्म विवर्तमानमयते यावद्विचित्रां गतिम् । नेत्रश्रोत्रमनःप्रसादसदने तावत्सतामादरा- दुन्निद्रां मुदमान्तरेषु कुरुतां कीर्तिप्रशस्ती इमे ॥ क शक्तिव्युत्पत्तिव्यतिकरविरोधेन सुलभाः कवीनां पन्थानस्तदिह ननु केषामनुगमः । स्वपूर्ते त्वेतस्मिन्सुजनजनितोऽनुग्रहगुणः प्रशस्तौ प्राशस्त्यं वितरति स गङ्गाधरगिराम् ॥ नन्देषुव्योमेन्दु(१०५९)समे शकाब्दे रुद्रात्मजश्चोद्धरणस्य नप्ता । इमां शिलाशिल्पिवरः प्रशस्ति स शूलपाणिः स्वयमुच्चखान ॥ शाक १०५९॥ (एपिग्राफिआ इण्डिन BNARA" MANAM भारती

Prachin Lekha Mala

Title
Prachin Lekha Mala
File name
Prachin Lekha Mala
Text
OCR done
Language
Sanskrit
Pages
239
Library
Bharti Bhawan Library Allahabad
DLI number
272945
Barcode
5990010894273.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
GObTsy4wUvl
Download PDF

Prachin Lekha Mala