Sri Sringeri Sharada Peetham

Mimasadarshanam Of Maharsi Jaimini Part Ii

Dr. Mahaprabhulala Gosvami · 2004/10/20

PDF Proofread

Front matter

Prachyabharati Series--22 THE MĪMĀMSĀ DARSANA OF MAHARSI JAIMINI With śābarabhāsya of Śabaramuni with the commentaries Tantravārtika of Kumārila Bhatta and its commentary Nyāyasudhā of Someśvara Bhatta, Bhāșyavivaraņa of Govindāmſtamuni and Bhāvaprakāśikā, the Hindi translation by Mabāprabhulāla Gosvāmī. Foreworded by Prof. SRI BADARI NATH SUKLA Former Vice-Chancellor Sampurnanand Sapskrit University Varanasi. Edited with an Introduction by Prof. MAHAPRABHULĀLA GOSVĀMI M. A,, Ph.D., D. Litt Nyay-Vyakarna Sahitya- Vedantacharya, Mimamsa Shastri (Gold Medalist) PROF. & HEAD, Department of Philosophy Sampurnananda Sanskrit University, Varanasi Volume II TARA PRINTING WORKS VARANASI

Published by
Tara Printing Works
Kamacha, Varanasi-221010
Available at
Tara Book Agency
Kamacha
Varanasi
First Edition
Price Rs. 100.00
(Rupees Hundred only)
Printed at
Tara Printing Works
Kamacha
Varanasi-221010

प्राच्यभारतीग्रन्थमाला-२३
टीकापञ्चकसनाथीकृतं महर्षिजैमिनिप्रणोतं
मीमांसादर्शनम्
भट्टसोमेश्वरकृतया न्यायसुधाख्यटीकयोद्भासितया
श्रीकुमारिल भट्टनिर्मितया तन्त्रवातिकव्याख्ययालङ्कृतेन
श्रीगोविन्दामृतमुनिविरचित-भाष्यविवरणव्याख्यया भूषितेन
श्रीमहाप्रभुलालगोस्वामिकृतभाष्यभावप्रकाशिकाहिन्दीव्याख्यातेन
श्रीशबरमुनिविरचितभाष्येणानुगतम्
आचार्यश्रीबदरीनाथशुक्ल प्ररोचनया समेता
राष्ट्रपति सम्मानितेन एम० ए०, पीएच० डी०, डी० लिट् इत्यपाधिविभूषितेन्द्र
न्याय-व्याकरणसाहित्यवेदान्ताचार्यमीमांसाशास्त्रिणा विद्यावाचस्पतिना
श्रीमहाप्रभुलालगोस्वामिना विस्तृतभूमिकयालङ्कृत्य
सम्पादितम्
द्वितीयो भागः
तारा प्रिटिंग वक्स
वाराणसी
२०६४ तमो विमाब्दः

प्रकाशक:
तारा प्रिंटिंग वर्क्स
कमच्छा
वाराणसी २२१०१०
प्राप्तिस्थानम्
तारा बुक एजेंसी
कमच्छा
वाराणसी-२२१०१०
प्रथमसंस्करणम्
मूल्यम् : १००.००
मुद्रक :
तारा प्रिंटिंग वर्क्स
वाराणसी
कमच्छा,

पण्डितप्रवराचार्यश्रीबदरीनाथशुक्लमहोदयानाम् अभिमतिः दर्शनशास्त्रं भारतीयमनीषायाः महनीया उपलब्धिः। दृश्यते अधिगम्यते अनेनेति व्युत्पत्त्या दर्शनशब्दोऽधिगमसाधनमभिधत्ते, अधिगमगदश्च मविषया- र्थकतया स्वविषयभूतमर्थ स्मारयति, म नार्थः यो निखिलजनस्पृहणीयस्य नाश्रेयसस्य साधकभृतः, वैदिके, समग्रे वाङ्मये च धर्म ब्रह्मणोः याथान परि- मानमेव निःश्रेसाय कल्पते। अनयोरुभयो: प्रतिपादक: शब्दशः ब्रहाति- पादकतया दर्शनराब्देन धर्मप्रतिपादकतया नशार पशब्देन पर्वालयमाणतां प्राप्य दर्शनशास्त्रमिति संज्ञां लभते । " मीमांसाशब्दः पूज्यविचारबोधनातयाभियुक र भ्युपेनः, विनाम्य पूज्यता, विचार्यस्य पूज्यतायत्ता, मीमांमाया विषयमादले धर्मही निष्टिया दिशा निःश्रेयसनिष्पादकतया निःसंशयं पूज्ये, नदालम्बनेन प्रवृननये व मीमांमागा: पूज्यविचार त्वम् । विषयभेदेन मीमांमा द्विविधा, पूर्वमीमांमा उत्तरमीमामा न । नयाराद्या निरुपपदेन मीमांसाशब्देन, द्वितीया च बदामादेन दियत, नत्र मीमांसा परम्परया वा धर्मपराणि वेदवचामि विदयान, बदान्तश्च मानिमादक- पराणि उपनिषत्मज्ञकानि वेदवचनानि पानाटे । मीमांसादर्शनं महपिणा जैमिनिना प्रणीत वादनाध्यायेषु प्रगतम्, यदादित्य भाष्यवार्तिकप्रभृतयाऽने के व्याख्याग्रन्था विद्धिः व्यरचिषत, बदान्तदर्शन बादरायणेन रचितं चतुर्वध्यायेषु विततम्, यदाश्रयेण भाष्यभामतीप्रभृतयो महनीया ग्रन्था विपश्चिद्भिरग्रन्थिषत । प्रस्तुतं मीमांमादर्शनं धर्मप्रनिपादकनया नि:धेयमपरायोपयोगितां दधान लोकोपयोगितामपि विति, यतो तत्प्रतिपायो धर्मा 'धर्मा विश्वस्य जगतः प्रतिष्ठा', धारणाद्धर्मः, धो धारयते प्रजाः, इत्यादिवचनेः विश्रधारकतया प्रजा- धारकतया च समुदघोषि, धर्मो हि यथाशास्त्रमनुष्टीयमानो भोम दिव्यं च { ख ) पुरुषार्थ सम्पादयन्, अनुष्ठातारं निःश्रेयसेन योजयति, अतो मीमांसादर्शनस्यान्य. सर्वदर्शनापेक्षया निरतिशय महत्त्वम्, एतन्महत्त्वादेव तन्मूलकं वाङ्मयमति- विशालं सहस्राधिकश्रेष्ठव्याख्याविवरणादिग्रन्थबहुलम् । धर्मस्य तत्त्वं निहितं गुहायाम, कर्मणो गहना गतिः, इत्याधुक्तिः धर्मस्य दुर्बोधतायाः प्रसिद्धतया तत्प्रतिपादकस्य मीमांसाशास्त्रस्य दुरधिगमता निर्वि- वादा, दुरधिगमत्वादेव तत्र विद्वद्भिः विविधान् वृहतो लघुश्च व्याख्योपव्याख्या- ग्रन्थान् रचयितुं प्रयत्नो व्यधायि । वर्तमाने समये संस्कृत शिक्षायाः विरल प्रचारतया संस्कृतवाचोऽवबोधे जनानां दुर्बलतया आकलय्य पण्डितप्रवरेण श्रीमता महाप्रभुलालगोस्वामिना भाष्यभावप्रकाशिकाभिधया हिन्दीभाषया तदर्थस्पष्टीकरणमावश्यकमन्वभावि, स्वकीयप्रतिभावैभवबलेन च तत्र प्रशंसनीयं साफल्यध्यवापि, प्रकृतं प्रकाशनं केवलसंस्कृतभाषायामप्रगल्भाला हिन्दोवितामेव हिताय न भवेत्, किन्तु संस्कृते प्रौढ़प्रज्ञानां पण्डितपुरुषाणामपि मनोमोदाय भवितेति धिया अत्र शबरमुनेः भाष्यस्य कुमारिलभट्टस्य तन्त्रवार्तिकस्य भट्टसोमेश्वरस्थ न्यायसुधाया गोविन्दा- मृतमुने विवरणस्यापि समायोजनमकारि । अहमीदृशस्य महतो ग्रन्थस्य बहुजनवेद्यतासम्पादनप्रयासाय मेधाविनं श्रीगोस्वामिनं सानन्दमभिनन्दामि तारायन्त्रालयस्वामिनं पण्ड्या श्रीरमाशङ्कर- महोदयं चैतस्य प्रकाशने औदार्यालम्बकाय सम्भाजयामि । आचार्यबदरीनाथशुक्ला प्रस्ताविकम् अपौरुषेयस्य वेदस्य मीमांसापि अपौरुषेयैव । कदाचित् राज्यसञ्चालनार्थं समा- जस्य परिनिष्ठितस्वरूपस्याभिवृद्धयर्थमनुशासनक्रमेषु दर्शनस्य महान् समादर आसीत् । धर्मप्रधानमेतद्भारतवर्षम् । जन्म एव धर्मसाधनार्थमन्येषाञ्च धर्मे प्रवृत्त्यर्थञ्च, भोगस्य सर्वथाऽकिञ्चित्कारत्वात् । मृत्युपर्यन्तं धर्मानुगृहीतं कर्म लोकानां वर्तत इत्यत्र नास्ति काऽपि विप्रतिपत्तिरिति जानन्ति सारस्वत बान्धवाः । स्वाध्यायाध्ययन विधिना कृतेऽपि वेदाध्ययने वेदवाक्यमननार्थं मीमांसितधर्मतत्त्वावगत्यर्थं गुरुकुले वासपूर्वक मीमांसादिशास्त्राणामध्ययनमपि तथैवापरिहार्य ति विचारानन्तरमेव गुरुगृहादागत्य गृहस्थाश्रमे प्रवेशस्य नियम आसीत् । 'अथातो धर्मजिज्ञासेति सूत्र-व्याख्यानावसरे शबरस्वामी सुस्पष्टमभिदधाति 'गुरु- कुलान्मा समावतिष्ट कथं नु वेदवाक्यानि विचारयेदित्येवमर्थोऽयमुपदेशः । वेद- मधीत्य त्वरितेन न स्नातव्यम्, अनन्तरं धर्मो जिज्ञासितव्यः' (शाबरभाष्यम् १११ एतावता ज्ञायते यत् मीमांसादिदर्शनशास्त्राध्ययनमपि नित्यविधिविहितमेवासीदिति प्रस्थानमेदस्य रुचिवैचित्र्यमूलकत्वात् 'श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्वोपपत्तितः' इति कर्णाकणिकयोपलब्धवचनेन वैदमीमांसात्मकानां दर्शनानामपि गुरुगृहे वासपूर्वकमेव विचारो नियत आसीत् । 'रुचीनां वैचित्र्याइजुकुटिलनानापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव ।' इति पुष्पदन्तवचनेन केनापि पथा गच्छतां परिशेषे यथा सागरे एव जलानां गमनं भवति तथैव स्वात्मरूपावाप्तिरेवावशिष्यते । व्यवहारः धर्मानुरूपाचरणमेवोत्कृष्टं पुष्पं फलमित्यत्र नास्ति विवादावसरः। फलार्थमा म्रपोषणं परं छाया-गन्धादिकञ्चा- नुषङ्गिकरूपेणोपलभ्येते, विहितकर्माचरणजन्यधर्मेणार्थानामानुषङ्गिकी प्राप्तिरिति कथन्नामार्थाद्यवाप्तिः निर्यिमाणा भवेत, यदि धर्माचरणं न क्रियते तदाऽग्रजस्य धर्म- स्यावमानेन तदनुजानां व्याकोपस्य निराकरणकथैव वृथेति । विद्याध्ययनं न केवलं स्वात्मज्ञानार्थं परलोकमात्रप्राप्त्यर्थम्वाऽपि तु कृतविद्यो ब्रह्मचारी शास्त्रज्ञानेन धर्मानुष्ठानेन पोष्यवर्गाणां परिरक्षणं समाजानुरञ्जनात्मकञ्च परमं प्रयोजनमनुगृह्णाति । यथेदानीं विनैव मननमनवगतशास्त्रार्थोऽवश्यकर्तव्यत्वमननुसन्धाय आगमस्वाध्यायव्यवहारात्मकत्रिरत्न- शून्यः लोकानामुपदेशाय सर्वथा सन्नद्धस्तिष्ठति, अहो विचित्रैव कुटिलपथजुषां शास्त्र- भ्रष्टानां वराकाणां गतिः, नूनमेवान्धस्येवान्धलग्नस्य पदे पदे विनिपातः सुनिश्चितः दृश्यते च प्रतिक्षणमनधिकारिणां राजनीत्यादिज्ञानशून्यानां गतिस्तदनुयायिनाञ्च [ २ ] पथपारिभ्रष्टानामहमहमिकयाहोपुरुषिकामात्रसम्पन्नानां गुरुजनालोचकानां छात्राणां प्रमाणपत्रपरिमण्डितानामपि दुर्गतिरिति । शास्त्रे पोष्यवर्गपरिरक्षणमेव धर्मानुष्ठानस्य फलम्, पोष्यवर्गश्व मनु नैवोक्तः-- पिता माता गुरुभ्राता प्रजादीनाः समाश्रिताः । अभ्यागतोऽतिथिश्चैव पोष्यवर्गा उदाहृताः ॥ (मनु० ७।१३४) 'श्रुतवृत्ते विदित्वाऽस्य वृत्ति धा प्रकल्पयेत्' । (७।१३५) 'श्रुतवृत्ते' इत्यस्य व्याख्यानं 'शास्त्रज्ञानानुष्ठाने' इति तत्रैव कुल्लुकभट्टः । 'धा वृत्ति - यथा कुटुम्ब- स्वधर्मस्यावसादनं न भवति', (मेधातिथिः) अतः प्रजाधम न व्यवच्छिन्नेदित्येव मीमां- सायाः प्रयोजनमिति राज्ये तादृशी समितिरासीद् दार्शनिकानामूहापोहकुशलानां मनीषिणा- मित्यवश्यकर्तव्यानुशासने नासीद्विरोधो न वारोपितपरम्परावादिविरोधिनामरोपित- पाण्डित्यानां शास्त्रज्ञानशून्यानां जनानां समाजेषु गुरुकुलेषु राजाभात्यवर्गेषु च समादरः । उपदेशानधिकारिणश्च यतस्ते अधीतिबोधाचारणशून्या इति । शास्त्रज्ञानां मनीषिणां रक्षणचिन्ता च आसीत् समाजस्य राज्ञो वा यतस्ते धर्मसाधनायैव व्यापृतचित्ता आसन् 'संरक्षेत्सर्वतश्चैनं पिता पुत्रमिदौरसम्' (मनु ० ७।१२५) । भोजराजकृतेन 'कामधेनु' नामकेन स्मृतिसंग्रहाख्यग्रन्थेन एतदवगम्यते यत् एष एव स्मृतिशास्त्रस्य प्रथमः ग्रन्थ इति । एतद्ग्रन्थोपक्रमणिकायां ग्रन्थप्रणयनेतिवृत्तमेवा- दावुट्टङ्कितम् । भोजदेवस्य दौहित्रः प्रथितयशसो विक्रमादित्यस्य पुत्र उज्जयिनीश्वरो मतादित्य अकाल एव कालग्रस्तः समभवत् । श्मशानं प्रति संस्कारार्थं प्रस्थिते शरीरे कश्चिद्बौद्धो योगी अभिप्रेत-साधनस्योत्तमं योगमभिसन्धाय योगप्रभावेण तत्कायप्रवेशं कृतवान् । राजा श्मशाने जीवितः सजात इति महानानन्दोत्सवः समजनि। कदा- चिदसौ मतादित्यः यज्ञार्थं सन्नद्धः सन् प्रोवाच, भारतवर्षीयाः पण्डिता: स्वीयं धर्म- शास्त्रीयग्रन्थमादायोज्जयिन्यामागच्छन्तु । धर्मशास्त्रीयग्रन्थानामालोचनपूर्वकं तेषामि- हैकमत्योत्कृष्टयज्ञस्यानुष्ठानं भवितेति । अमात्यवर्गाणां प्रयत्नेन राजाज्ञापा: प्रतिपालनं सजातम् । पण्डितानां निर्देशेन शिप्रातटे विपुल-यज्ञस्य व्यवस्था सम्पन्ना, यज्ञदीक्षा- दिनमप्यध्यवसितम् । मध्ये कस्मिविदिवसे कौशलेन राजधान्याः दूरदेशे पण्डिताना प्रस्थानं निश्चितम् । प्रस्थिते तद्रदेशे मतादित्यस्याज्ञाक्रमेण यज्ञेषु प्रद्दीते वह्नौ धर्म- पुस्तकानां विनाशः सञ्जातः । अनन्तरं बौद्धमतप्रचारे सर्वथा सन्नद्धः अत्याचारे प्रावतिष्ट । भोजराजः एतवृत्तान्तं कर्णाकर्णिकयाकर्ण्य कथमेतादृशी दोहित्रस्य दुर्मतिः समभवदिति भृशं चिन्तयन् गणन या सोमादित्यस्य मृत्युं तत्काये बौद्धप्रवेशञ्चावगत्य परकायप्रवेशविघटकं यज्ञानुष्ठानं प्रावर्तयत् । आरब्धे यज्ञे शरीरं प्राणवियुक्तं समजायत । अनन्तरं भारतीय शेषग्रन्थनिवहं संग्राहय्य पण्डितः 'कामधेनुति' नामक ग्रन्थं व्यर- चयत् । तत्र कण्ठस्थविषयान्नपि समवेशयत् । कामधेनुप्रारम्भे एका विस्तृततालिकापि दृश्यते । अन्यापि ग्रन्थानां विनाशकथा नैव रोहिता ऐतिहासिकानाम् । एवमेव महा- [ ३ ] राष्ट्रेऽपि सह्याद्रिखण्डपुस्तकानां विनाशः समभवत् । अलेक्जेन्द्रियविख्यातपुस्तकाल- योऽपि भस्मतां गतः । मीमांसा हि धर्ममीमांसैवेति अस्य शास्त्रस्य पुनरुज्जीवनं भट्टकुमारिलकृतमेवेत्यत्र नास्ति विचिकित्यावसरः । यदि वेदस्यापौरुषेयत्वं प्रामाण्यञ्च न स्यात्तदा का कथा वैदिकदर्शनानां भवेदिति तु मनसाऽप्यचिन्त्यमेव । अस्मिन् भागे अपूर्वस्य विध्यर्थस्य च प्राधान्येन समीक्षा वर्तते तत्रापूर्वस्यादृष्टे- त्यादिभिः शब्दरभिधानं तत्तदाचार्यनिवहै: कृतम् । अदृष्टस्य कार्यमानं प्रति कारणत्व- ञ्चाङ्गीकृतम् । पूजितविचारवचनस्य मीमांसाशब्दस्य प्रेयःश्रेयसोधर्मविचारः एव- प्रवृत्तिनिमित्तम् । मीमांसाशब्दश्च बहुधा श्रुतिषु प्रयुक्तो वर्तते, तथा हि-'सैषा मीमां- साऽग्निहोत्र एव सम्पन्ना', 'सैषानन्दस्य मीमांसा भवति' । विना विचारञ्च सन्देह- निवृत्तिः प्रयोजनप्रातिश्च न सम्भाव्यते । मीमांसयेतिकर्तव्यता भागो नूनमेव ज्ञायतेऽत एवोक्तं भट्टपादेन 'इतिकर्तव्यताभागं मीमांसा पूरयिष्यति। आचार्यः शबरो द्वादशा- ध्यायीमबीभषत् । भर्तृमित्रभवदासादिप्रणीता वृत्तय आसन् यासां नामेदानी कर्णपथ- मपि नावतरति । शाबर भाष्यात्प्राचीनोपवर्षवृत्तिरासीदित्यभिप्रयन्ति, परं सापि नेदानीमुपलभ्यते । अधुना आचार्यकुमारिलपादैः रचिता द्वादशाध्याय्या: वृत्तय उपलभ्यन्ते, प्राभाकरं तु केषाञ्चिदेवो पलभ्यन्ते । प्रभाकरं गुरुरिति कथयन्ति जनाः । उभयोमत्यन्त्वनुपदेव स्फुटम् । प्रभाकरगुरुन्यपदेश एव फर्णाकणिकया श्रूयते, परं कौमारिलमतमेव सर्वत्राद्रियते, कौमारिलमतमवलम्ब्य रचितानां ग्रन्थानामपि वैपुल्यं वर्तते । कुमारिलपादस्य युक्तिश्च गूढतमा । अपूर्वः -तन्त्रवातिकेऽपूर्वस्वरूपनिरूपणप्रसङ्गे उक्तम् यत्-'प्रधानकर्मनामङ्ग- कर्मणां वा प्राक्करणात्स्वर्गादिप्राप्त्ययोग्याः पुरुषाः, क्रतवश्च स्वर्गकार्यायोग्याः । ताम- मयीमप्ययोग्यतां व्युदस्य प्रधानैरङ्गैश्च योग्यतोपजन्यत इति असंशयं सर्वेणाभ्युपगन्त- व्यम् । असत्यां तस्यामकृतसमत्वप्रसङ्गात् । सैव च पुरुषगता क्रतुगता वा योग्यता शास्त्रेऽस्मिन्नपूर्वमित्युपदिश्यते (तं० वा० पृ. )। वेदे स्वर्गादिसाधनभूतानि अनेकानि कर्माणि विहितानि श्रुतिप्रामाण्यादेव एतदव- गम्यते यत् तत्तत्फलस्य प्राप्तये इमानि कर्माप्यनुष्ठेयानि । तत्प्रामाण्यमवगत्य जनाः तत्तत्फल प्राप्तये विहितकर्मानुष्ठानाय तत्तरा: भवन्ति । असिद्धस्वरूपाणि तत्तत्कलानि काम्यत्वेनाभीप्सितानि भवन्ति, तत्र वेदे यथाप्रतिपादितं तथा तत्तत्कर्मानुष्ठानेन तत्त- रफलान्युपभुङ्क्ते जन इति; परं कर्मानुष्ठानं त्वधुना क्रियते फलावासिश्च आगतवति काले मृते वा सम्भव्यते। तथा तत्फल भोगेच्छु: तानि तत्तत्फलसाधनत्वेन निर्दिष्टानि यावन्नानुतिष्ठति तावदनुपलब्धकर्तृत्वः तत्फलभोगयोग्योऽपि न भवति । तामिमां कर्मनिष्ठां पुरुषनिष्ठाञ्चायोग्यतां दूरोकर्तुं तत्तत्कर्मणि स्वस्वाङ्गसहितान्यनुष्ठे यानि [ ४ ] भवन्ति । अनुष्ठितेष्वपि तत्तत्कर्मसु क्षणिकत्वात् तैः कर्मभिः कालान्तभावि फलं प्रति साधनत्वं तेषां न सम्भवति, यत: कारणेन यत्कार्य जायते तदव्यवहितपूर्ववतिना कारणेनावश्यमेव भवितव्यम् । अग्निहोत्रादिकर्मणामतुष्ठानमधुना क्रियते, तज्जन्य- फलावाप्तिश्च मृत्योरनन्तरं बहुकालव्यवधानानन्तरं जायते। सन्ति एवंविधान्यपि वेद- विहितानि कर्माणि येषां फलमस्मिन्नेव जन्मनि जायते, परं तत्रापि कालकलानां व्यवधानं सोढव्यमेव, पुत्रपश्वादिफलजननेन कर्मणा कालकलाव्यवहितैव फलप्रासिरिति अनुष्ठानाव्यवधानेन न फलं जन्यत इति कथमपि तत्कार्य प्रति तस्य कारणत्वं न संघटते । यदि कर्मानुष्ठासमनन्तरक्षण एव पुत्रपश्वादीनामुत्पत्तिर्भवेतदा कार्याव्यवहितपूर्ववतित्वं कारणस्य स्यान्नाम । तत्कार्यनिष्ठजन्यतानिरूपितजनकता तु वेदे श्रूयत एव तथा हि "स्वर्गकामो दर्शपूर्णमासाभ्यां यजेत", "चित्रया यजेत पशुकाम:" "पुढेष्टया यजेत पुत्रकामः इत्यादिवेदवचनैः तत्कार्य प्रति कारणत्वं तु सुस्पष्ट मुक्तं वेदे । अतोऽर्थापत्ति- प्रमाणेन यागादिभिरुत्पाद्यः क्वचिदाश्रितः यावत्फलोत्पत्तिस्थितिमान् वस्तुविशेषः स्वीकर्तव्यः । तदुत्पन्नो वस्तुविशेषः योग्यं फलमुत्पाद्य विनाशमेति । स च वस्तुविशेष एव अपूर्वपदेनादृष्टपदेन वाभिधीयते । प.लोत्पत्तये स्वीक्रियमाणोऽयमतिशयोऽपूर्वो वा फलमुत्पादयितुं स्थितस्सन् प्रभवति । किञ्च यागादिक्रियाव्यापारा न यज्ञेषु वर्तते, यतः स्वोत्पत्तितृतीयक्षणे एव तस्य विनष्टत्वात्, आश्रयनाशे च तदाश्रितस्यातिशयस्यापि नाशात् विफलं तत्कल्पनं स्थात्, तन्त्रवार्तिके उक्तम्-- शक्तिः कार्यानुमेयत्वात् यद्गतैवोपयुज्यते । तद्गतैवाभ्युपेतव्या स्वाश्रयान्याश्रयापि वा ॥ त० वा० पृ० ३४९ । स्वर्गयागयोः कार्यकारणभावस्यान्यथाऽनुपपत्त्या श्रुतार्थापत्तिप्रमाणगम्यत्वमपूर्वस्य । यद्यपि नैयायिकैरपि अदृष्टस्य कारणत्वमङ्गीकृतन्तथापि मीमांसाशास्त्रस्य प्रधानभूतोऽयं विषय इति । यतः “अथातो धर्मजिज्ञासा" इत्युपक्रमवाक्येन धर्मस्यैवादौ जिज्ञासा कृतेति । पुरुषो हि अन्येच्छानधीनेच्छाविषयत्वेन आत्मने सुखमभिलषन्नेव तत्साधन- मन्विष्यति, अनन्तरं निर्दिष्टफलप्राप्तये तत्साधनानुष्ठानाय प्रवर्तते कृतिमान् यथा- वत्साधनमनुतिष्ठति, अनुष्ठिते च सपरिकरे तत्साधने फलमुत्पद्यते । उत्पन्ने च फले यथायोग्यमुपभुङ्क्ते चानुष्ठाता। स्वर्गादिकं चेतिहासादितोऽवगत्य अधिकारिपुरुष- विशेषस्तमभिलषति इच्छंश्च तत्साधनं मृगयते, अनन्तरं श्रुत्याद्यध्यनेन यागादिकं तत्साधनत्वेन जानाति, अवगत्यापि क्षणिकस्य तस्य कारणस्य कालान्तर भाविफल- साधनत्वे विचिकित्सन् तज्जन्यं कालान्तरभावि फलपर्यन्तमवस्थायिनं कञ्चन वस्तु- विशेषं शास्त्रसिद्धं विज्ञायानुष्ठाने प्रवर्तते, नात्र सन्देहो यत्स्वर्गादिफलान्तरालत्वेन यदि कश्चित्पदार्थो न भवेत्तदा स्वर्गादेः यागादिसाधन वकथैव वृथेति, यदि फलं न स्यात्तदा बहुवित्तायाससाध्ये यागादिकर्मणि केषामपि सचेतसां प्रवृत्तिर्न भवेदित्यवितथं वचः । यदि लोको न प्रवर्तेत वेदविहिते कर्मणि तदा वेदस्य प्रवर्तकत्वं विहन्येत, वैययंञ्च - . [ ५ ] सम्पद्येत । “यतोऽभ्युदयनिःश्रेयससिद्धिः' (वै० द० १।१।२) इति सूत्रञ्च व्याकुप्ये- तातोऽपूर्व स्वीकरणीयमेव । इदञ्चापूर्व न केवलं विहितकर्मणः फलसिद्धये एवाङ्गी- क्रियतेऽपि तु निषिद्धकर्मणोऽप्याचरणे नरकादि फल जननार्थमङ्गीकरणीयमेव । पापपुण्ययो- रुभयोरपि अपूर्वशब्देन व्यवहारो भवति । धर्माधर्मशब्देन चैतयोरेव व्यवहारो जायते । प्रशस्तपादवचनमप्यनुसन्धेयमेव-'धर्मपुरुषगुणः कर्तुः प्रियहितमात्रहेतुः, अती- न्द्रियोऽन्त्यसुखसंविज्ञानविरोधी, पुरुषान्तःकरणसंयोगविशुद्धाभिसन्धिजः वर्णाश्रमिणां प्रतिनियतसाधननिमित्तः, तस्य तु साधनानि श्रुतिस्मृतिविहितानि वर्णाश्रमिणां सामान्यविशेषभावेनावस्थितानि द्रव्यगुणकर्माणि' (प्र० भा० पृ० १३८) अधर्मोऽप्यात्म- गुणः, तस्य तु साधनानि शास्त्रे प्रतिषिद्धानि धर्मसाधनविपरीतानि हिंसानृतस्तेयादीनि' (प्र० भा० पृ० १४२)। एतेन फलोदयपर्यन्तस्थायी फलोत्पत्तिविनाश्यः अतीन्द्रियो धर्मः निषिद्धक्रिया- जन्यश्चाधर्म इति तत्तत्फलोद्देशेन विधीयमानानां कर्मणां षाष्ठसर्वाङ्गोपसंहार-न्यायेन (पू० मी० ६।३।२) पूर्वोत्तराङ्गकलापसहितानामेवानुष्ठानं प्राप्तम् । तत्र श्रुत्यर्थपाठ- स्थानमुख्यप्रवृत्त्याख्यैः क्रमबोधकप्रमाणैः परिप्रापितक्रममनुसृत्यैवाङ्गान्यनुष्ठीयन्ते । येन क्रमेणानुष्ठानं तेनैव क्रमेणापूर्वोत्पत्तिः। तद्यत्र यदङ्ग मनुष्ठीयते तदव्यवहितपूर्वक्षण एव तत्कृतमपूर्वं यजमानात्मनि जायते, तच्च संस्काररूपेण सन्तिष्ठते एतेषाञ्चाङ्गजन्यत्वा- दङ्गापूर्वाणीति नाम । एवं प्रधानयागानुष्ठानन्तरं प्रधानकर्मणोऽपूर्वमुत्पद्यते, एतस्यो- त्पत्त्यपूर्व प्रधानापूर्वं वेति शास्त्रीयो व्यवहारो जायते । अङ्गापूर्वाणि प्रधानापूर्वाण्यपि जाआत्यमानानि मन्येव समवयन्ति । अन्तिमस्याङ्गस्यानुष्ठानानन्तरं सर्वाणीमानि मिलित्वा अपूर्वाणि किञ्चनापूर्वं परमापूर्वाभिधेयं तत्रैव संस्काररूपेण उत्पादयन्ति । परमापूर्वे तुत्पन्ने तेषामङ्गापूर्वाणां प्रधानापूर्वाणां नाशः । परमापूर्वमेव फलोत्पत्तिपर्यन्तमवस्थाय फलमुत्पाद्य विनाशमेति । तत्रापि विजातीयतत्तत्कलोद्देशेनानुष्ठीयमानेभ्यः कर्मभ्यो विजातीयतत्तत्फल जननशक्तिमन्त्येवापूर्वाणि यागकर्तुरात्मनि समवयन्ति । एतत्तु अनुसन्धेयम् यत् व्रीहियवतिलमाषबीजानामेकस्मिन् सुक्षेत्रे युगपत्परस्परमेलनेन एकत्वेऽपि सहकारिकारणसमवधाने सति स्वं स्वं कालं प्राप्य स्वस्त्रसामर्थ्य मनतिक्रम्य व्रीह्याद्य कुराणामेवोपजननम्, न साङ्कर्येण ब्रोहियो यवा कुराणाम्, यवेभ्योऽन्याकुरा- णाञ्चोत्पत्तिः, एवमेव स्वर्गपुत्रपशुवृष्टयादिविविधफल जनकापूर्वाणामेकत्र यजमानात्मनि समवधानेऽपि फलोत्पत्तिकाले तत्तदपूर्वेभ्यः तानि तान्येव फलान्युत्पद्यन्ते विनैव साङ्कर्यम् शक्तीनां तादृशस्वभावात् । उक्तञ्चाभियुक्तैः- 'शक्तयस्सर्वभावानां नानुयोज्या: कथञ्चन ।' अतः यागाद्यनुष्ठानजन्यं निर्दिष्टफलजननसमर्थं कर्तुरात्मसमवेतं फलैकनाश्यं मीमांसकसिद्धान्तसिद्धमपूर्वमस्ति । अयमाशयः- [ ६ ] शब्द एव धर्मे प्रमाणम्, शब्दश्च वाक्यात्मकः । वाक्यञ्च पदसमष्टयन्तम् । तथा च सर्व पदं स्वतन्त्ररूपेण धर्म प्रतिपादयति एकः पदविशेषो वेति संशयः । पूर्वपक्षिभिरुच्यते यद् एकं पदमेवापूर्व प्रतिपादयति, अपूर्वस्य फलत्वे तु फलेन सह यदा सर्वेषां पदानां सम्बन्धो वर्तते तदा पदसमष्टिरेव अपूर्वप्रतिपादिका। अस्मिन् संशये सिद्धान्तिनः कथयन्ति यत् अपूर्व प्रत्यक्षसिद्धः पदार्थो नास्ति, अपि तु अर्थापत्तिप्रमाणकल्पनीयं कल्पनीयवस्तु स्थले च फलाधिक्याभावे लाघवकल्प- नैव तत्रावलम्बनीया, विधिवाक्यस्थप्रत्येकं पदं यदि अपूर्वस्य प्रतिपादकं स्यात्तदा अनेकेन पदेनानेकस्यादृष्टस्य कल्पना करणीया, अनेकापूर्वकल्पनायाञ्च कस्याप्यधिकस्य प्रयोजनस्य सिद्धि : न सम्भाव्यते, अतोऽनेकस्य पदस्यादृष्टप्रतिपादकत्वे कल्पनागौरवन्दोषः स्यात्, अतः एकस्यैव पदस्यापूर्वप्रतिपादकत्वमर्थात् अपूर्वफलेन साक्षात्सम्बन्ध :, अन्यानि च पदानि तदपूर्वेण सह साक्षाद्भावेनान्वयी, एकस्यैव पदस्य सर्वाणि अङ्गभूतानि । एकस्य पदस्यापूर्वप्रतिपादकत्वे तु विनिगमनाविरहदोषः प्रसज्यते इत्यपि न सुसङ्गतम् । यतः, कल्पनालाघवमेव विनिगमकम्, तथा विधिवाक्यमेकं पदमेवापूर्वप्रतिपादकम् । यागादिकमपूर्वद्वारैव फलजनकं भवतीति यागादिधर्मस्य फलसाधनतासिद्धयर्थमपूर्व विचारपदवीमधिरोहति । यागादेः धर्मस्यापूर्वद्वारा फलसाधनतासिद्धौ धर्मस्य स्वरूप- भेदविचारस्य साफल्यम् । अत एव नु श्रीमन्माधवाचार्यः न्यायमालायां प्रतिपादयति 'अपूर्वस्यैव धर्मत्वात् ।' धर्मस्य विचारे अपूर्वस्यापि धर्मत्वस्वीकारात् अपूर्वविचार आवश्यकः । विधिवाक्यस्थैकस्यैव पदस्यापूर्वप्रतिपादकत्वे विधिवाक्यस्थेन द्रव्यवाचकेन, गुणवाचकेन, कर्मवाचकेन शब्देनैवापूर्वं प्रतीयतेऽथ वा भावनाप्रतिपादकशब्देन अपूर्वस्य बोधो जायते । यथा 'सोमेन यजेत', 'हिरण्यमात्रेयाम् ददाति, इत्यादिस्थले हिरण्यम्, सोमश्च द्रव्यवाचके 'तस्मात् सुवर्णं हिरण्यं धार्यम्' अत्र सुवर्णशब्दः गुणवाचक: ‘श्येने- नाभिचरन् यजेत', 'चित्रया यजेत', 'चित्रया यजेत' इत्यादिषु श्येनचित्रादिशब्दः कर्मवाचकः । पूर्वपक्षिदृष्टया द्रव्यादिवाचकशब्देनैवापूर्वप्रतीतिरुचिता, यतः, अपूर्व फलं साव्यं वा, सिद्धपदार्थेनैव साध्यं साधितं भवतीति सिद्धपदार्थस्यैव करणता सम्भव- तीति द्रव्यादिवाचकशब्द एवापूर्वप्रतिपादकः । पक्षान्तरे च 'यजति', 'ददाति' इत्या- दयः शब्दा: क्रियावाचकाः, क्रियाया: साध्यत्वात् स्वयं सिद्धत्वं नास्ति तस्याः, क्रियायाः सिद्धत्वाभावादेव अपरस्य साधनत्वं तत्र न सम्भाव्यते, यतः, स्वरूपसिद्धिरेव पराधीना यस्याः, सा कदापि अपरस्य साधनं न भवितुमर्हति, अतः द्रव्यादिरेवा- पूर्वस्य साधनं भवतिमर्हति इति द्रव्यादिवाचकशब्देनैवापूर्वं प्रतीयते । अस्मिन् प्रसङ्गे जैमिनिः कथयति 'भावार्थाः कर्मशब्देभ्यः क्रिया प्रतीयते' २।११। कर्मप्रतिपादक- शब्द : भावार्थ भावनामेव प्रतिपादयति, तेनैवापूर्व प्रतीयते । श्येनादयः शब्दाः कर्म- प्रतिपादकाः ते च न भावार्थाः, सन्तोऽपि न ते कर्मशब्दाः । अत एवास्मिन् सूत्रे कर्म- वाचकशब्दस्य निर्देशः क्रियते, यजत्याद्यः शब्दा एव भावार्थकर्मशब्दाः, यतः इमे .

७ ] शब्दा भावनां कर्म चाभिदधाति । 'यजेत' इति कथने तु यागेन फलोत्पादना भवेत् इति प्रतीयते । 'यजेत' इत्यत्रांशद्वयम् लिङ्त्वम्, आख्यातत्वञ्च । इत प्रत्ययः लिङ्लकारस्य विभक्तिमिति मध्ये लिङ वर्तते । सर्वेषा लकाणां क्रियावाचकत्वात् लिङ्लकारस्यापि क्रिया येन मत्प्रवृत्तिरुत्पद्येत । किन्तु वैदिकविधिस्थले एवं वक्तुं न शक्यते, वेदस्यापौरुषेय- स्वात् वेदविधिस्थले शब्दे एक करिचयापारः स्वीकरणीयः, लांकिक-नियोगस्थले 'किम्' इति कथनेन कार्ये प्रवृत्तिर्भवति, तथा चात्र शब्दमाहात्म्येनैव पुरुषस्य प्रवृत्तिर्भवतीति शाब्दी भावना उच्यते । इयमपि भावना यागादि-किमाया पुरुषस्य प्रवृतिमुत्पादयति, तथा चार्थभावनास्थले यथा कर्तुः व्यापारः भावना एवमेव शब्दव्यापार: शब्द भावनेति । अर्थभावनास्थले स्वर्गरूपं फलमुत्पद्यमानम् कर्ता च तस्य प्रयोजकः, शब्द- भावनास्थले च शब्दस्य व्यापार: पुरुषप्रवृत्तेरुत्पतिसाधनमिति शब्दः तत्प्रयोजक इति शब्दभावनापि प्रयोजकव्यापारः। शब्दभावनाया: अर्थभावनायाश्च 'भाव्यम्' 'करणम्' 'इतिकर्तव्यता' चेति अंशत्रयम् । यथा 'पचेत्' इत्युक्ते कस्य पाकं कुर्यात्, केन पाकं कुर्यात, कथं पाक कुर्यात्, अर्थात् किम्, केन, कथम, इति विविधा आकाझा जागति, यथाक्रमे तस्य समाधानमपि-'अन्नं पचेत्' 'अग्निना पचेत्', 'अग्नि प्रज्वालयेत्' 'अग्नी पाकपा स्थापयेत्', 'जलं संजोजयेत्', 'दर्पा संघट्टयेत्' एतद् इतिकर्तव्यतया पचेत्, तथैवेदापि भावयेत् :- उत्पादयेत् इति कथनानन्तरं किमुत्सादयेत्, केन उत्पादन, कथमुत्पादयेत् इति निविधा जिज्ञासा नवति, पतस्यैव भापम, कणम्, इतिकर्तव्यता चोच्यते, तत्र समग्रार्थभावना शब्दभावनामाव्या अर्थान् उत्पाया जायते, यतः शब्दभावनया अर्थ-भावना - यागादी प्रवृत्ति सम्पादिता भवति, लिडादिज्ञानं तस्य कारणम्, यतः लिडादिज्ञानेनैव पुरुषस्य प्रवृनिर्भवति, अर्थवादनाच्या प्रशस्तव तस्य इतिकर्नव्यता। एवमेव आ-भावनास्थले स्वर्गादिकं फलम् माध्यम, माध्यम् वा, यानादिक्रिया तस्य करणम्, प्रथा जानुपाजादिकं तस्य इतिकर्तव्य तारूपम् तथा चार्थवान का यातनापूर्वस्य प्रतीतिर्भवति धात्वर्थश्च तकरगम् । 'यजेन्' इवत्र यन्' धातुः, 'इ' प्र यथः उभयो- मलनेन एकं पदं भवति । इत्प्रत्ययस्यास्पातांशेन या भावना अभिधीयते तस्याः यम् धात्वर्थे याग एवान्वयः तत्प्रत्यासन्नत्वात्, अतः तं प्रत्येव तदाकांक्षते । प्रत्यासन्नोऽप्यसा यदि प्रयोजनसाधनाक्षमो भवेत्तदा तं परित्यज्य अन्य प्रति आकांक्षा स्यान्नाम । किन्तु धात्वयागः स्वर्गादिफलसाधानयोग्य इति आख्यातवाच्यभावनथा एकपदापात्तया एव अर्थात् यज् धातुः इत् प्रत्ययश्चोभयं मिलित्वा एकं पदं भवति यज् धाता: इत्प्रत्ययस्य चैकपदोपात्तत्वम् । क्रियात्मकत्वेन यागस्य साध्यत्वात् करणायोग्यत्वमिति कारणे द्रव्यस्यैव कारणत्वप्रतिपादनमुचितम्, तथापि द्रव्यादिक्रियाश्रयणं विना करणं न भवितु मर्हतीति क्रियापेक्षिनेव, द्रव्यादिना यागक्रियेवोपकृता भवति अर्थात् याग- क्रियेव नि:पद्यते इति प्रत्यक्षदृष्टम् । तया च द्रव्यादिनापूर्वोत्पतिर्न सम्भाव्यते, यागस्य - [ ८ ] . साध्यस्वरूपत्वेऽपि द्रव्यादिना निष्पादित्वात् फलसाधनता तस्य सम्भवति न समान- पदोपात्तो धात्वर्थो यागो यदि भावनायाः कारणं भवेच्चेत् तदा पदान्तरबोधित- द्रव्यादिकं प्रति भावनायाः कारणपेक्षा न भवितुमर्हति, यतः यागस्यान्तरङ्गत्वमिति तस्यैव प्रथममपेक्षितत्वम्, इति कारणे धात्वर्थ एवार्थभावनायाः करणम्, अत एव माधवाचार्यः कथयतिः- 'धात्वर्थः करणं तस्यां समानपदवर्णितः' 'चित्रया यजेत', 'दर्शपूर्णमासाभ्यां यजेत' इत्यादिषु तृतीया-श्रुत्या प्रकृत्यर्थ- धात्वर्थो यागादेरेव कारणत्वं प्रतीयते । तथा च आख्यातप्रत्यययुक्त-भावनावाचक- कर्मशब्देनैवापूर्वस्य प्रतीतिः स्यात्, स एव च विधेविषयोऽर्थात् फलसाधनरूपेण वेदविधिना विहितो भवेत् । अत एव सूत्रकारोऽभिधत्ते 'एष ह्यर्थो विधीयते' । अपि च 'यजेत' इति भावार्थ-कर्मवाचक-पदं साकाङ्क्षम्, अतः, 'यजेत' इति कथनेन किम्, केन, कथम् इति त्रिविधा आकांक्षा भवति तत्र च भाव्यस्य (साध्यस्य) करणस्य, इति कर्तव्यतायाश्च पूर्त्यर्थं प्रकरणपठितस्य सकलशब्दसन्दर्भस्य भावनया फले नापूर्वेण सह अन्वयो जायते, किन्तु द्रव्यादिशब्देनापूर्वप्रतीतिस्वीकारे प्रकरणपठित-सकल-शब्द- सन्दर्भस्यापूर्वेण सहान्वयो न संघटते, यतः, द्रव्य गुणादेः सिद्धशब्दत्वेन तच्छ्रवणे किम्, केन, कथमित्येतादृशी आकाङ्क्षा नोदेति । अतः, भावार्थकर्मशब्देनैवापूर्वस्य प्रतीति- भवति । सोऽपि अपूर्वस्य वाचको नास्ति, अपि तु बोधको ज्ञापको वा, अतः अपूर्वस्यार्था- पत्तिप्रमाण सिद्धत्वमेव न तु शब्दवाच्यत्वमपि । पूर्वपक्षिमताङ्गीकारे यज्ञीयद्रव्यादेर- पचारे = नाशे न प्रतिनिधित्वं भवितुमर्हति, किन्तु सिद्धान्तिनो मतानुसरणे प्रतिनिधि- द्वारकमपि कार्य निर्वहति । भावार्थककर्मशब्देनैवापूर्वस्य प्रतीतिर्भवतीति सिद्धान्तस्वीकारे भावनान्वित- धात्वर्थेन यथाऽपूर्वस्य प्रतीतिर्भवति तथैव 'स्वर्गकामः दर्शपूर्णमासाभ्यां यजेत' इत्यादि- वाक्ये 'स्वर्गकामः' 'दर्शपूर्णमासः' इत्यादिपदैरपि अपूर्वस्य प्रतीतिः स्यात्, यतः, धात्वर्थस्येव पदानामपि भावनया सहान्वयो भवति, भावनया सह अन्वये धात्वर्थस्येव अन्यपदैरपि अपूर्वस्य प्रतिपादनं भवेत् । सर्वस्य भावनया सहान्वयेनापूर्वप्रतिपादकत्वे विनिगमनाविरहो भवेदिति भावनासम्बन्धयुक्तो धातुरेवापूर्वस्य प्रतिपादकः, न तु द्रव्यादिशब्दोऽपूर्वस्य प्रतिपादक इति कथनमसङ्गतम् । नामपदस्य सिद्धरूपत्वात् तेषामुत्पत्तौ क्रियाया अपेक्षा न वर्तते, तथा च क्रिया- पदेन नामपदस्य कोऽप्युपकार : न सिद्धयतीति नामपदस्य कियापदेन सहान्वयपूर्वकम- दृष्टप्रतिपादकता भवेदेव, तथा च यावन्ति नामपदानि तावतामदृष्टानां कल्पना स्यात् सर्वेषां तुल्यबलत्वात् एकेनादृष्टस्योत्पत्ति परेणेति कथनं युक्तिविरुद्धमेव । अनेकविधा- इष्टकल्पनेऽपि फलाधिक्यं न जायते, तथा नामपदस्यापि अपूर्वप्रतिपादकत्वम् इति - - - । [ ९ ] - कल्पनायामापाततोऽनेकादृष्टकल्पना स्वीकरणीया । तथा चानेकादृष्टकल्पनास्वीकार- पक्षस्यासमीनत्वमेवेत्युक्तं तन्त्रवातिके- 'बहवदृष्ट प्रसंगाद्धि धर्मो नेष्टः पदे पदे' । त० वा० पृ० ३२९ । क्रियापदस्यापूर्वप्रतिपादकत्वे कल्पनालाघवं भवति । यतः, क्रिया साध्यरूपा, द्रव्येण च क्रियैव साध्यते इति न कल्पनामात्रमपि तु प्रत्यक्षसिद्धम्, उक्तं माधवाचार्यैः- 'द्रव्याद्युपकृतिर्दृष्टा धात्वर्थोत्पाद्नात्मिका' धात्वर्थयागादिनियोत्पादनेनैव द्रव्यादेरुपकारो भवति इति प्रत्यक्षसिद्धमेव । अतो नामपदेनापूर्वप्रतीतिः न स्वीक्रियते । अवशिष्टस्याख्यातस्यैवापूर्वप्रतिपादकत्वम् । तथा च नास्ति विनिगमनाविरहप्रसङ्गोऽपि। यतः, विवादास्पदीभूतकाधिकपक्षप्रसङ्गे यद्ये- कतरपक्षपातिनी युक्तिनं भवेत्तदैव विनिगमनाविरहो जायते । यदैकाधिकस्य पक्षस्य प्रसक्तिर्नास्ति तदा का कथा विनिगमनाविरहस्य । विवादास्पदीभूतस्यैकाधिकपक्षस्य सत्त्वेपि धात्वर्थस्य भावनाकरणत्वप्रतिपादने बलवत्तरैकश्रुतिप्राधान्यं संरक्षितमेव, पक्षान्तरे द्रव्यादेर्भावनाकरणत्वप्रतिपादने वाक्यार्थस्य विधायकत्वमेव स्वीकृतं भवति । किन्तु वाक्यापेक्षया श्रुतेः प्राबल्यमिति एकपदश्रुतिलभ्यस्य धात्वर्थस्य भावनाकरणत्व- मस्त्येवेति माधवाचार्यः कथयति-'धात्वर्थः करणं तस्यां समानपदवणितः' अतः कल्पनालाघवरूपयुक्तिबलात् एकपदश्रुतिरेव विनिगमिकेति । अत्रेयमाशङ्का यत् प्रमाणसिद्धः अपूर्वनामक: पदार्थो यदि भवेत्तदा कल्पनागौरव- भियाऽपूर्वस्य भावार्थकर्मशब्देनैव प्रतीतिरिति वक्तुं शक्यते । एतस्य समाधानार्थ- मेवाचार्यः कथयतिः-'दर्शपूर्णमासाभ्यामिति तृतीयया दर्शपूर्णमासमागस्य स्वर्ग- साधनत्वं प्रतीयते, इयं करणे तृतीया, साधकतममेव करण मर्थात् क्रियानिष्पत्तौ प्रधानं साधनम् । यागश्च क्रियाविशेषः, क्रिया च क्षणिका, उत्पत्तिपरक्षणे एव विनश्यति, यागक्रियाफलं स्वर्गश्च, क्रियया इहैव नोत्पद्यते । स्वर्गो हि देहान्ते प्राप्यते, तथा च यागेन कथं स्वर्ग प्राप्तिः सम्भाव्यते, फलोत्पादकस्य साधनस्य फलाव्यवहितपूर्वस्थितिः आवश्यिकी, श्रुतिपतिपादितस्य यागादेः स्वर्गादिफलसाधनत्वस्य च अस्वीकारो न भवितुमर्हति, यतः, तथा सति श्रुतेरप्रामाण्यं स्यात्, तस्मात्क्षणिकयागादिकर्मणः फलोत्पत्त्युपपत्त्यर्थं कापि कल्पनाऽङ्गीकरणीयैव, तद्वशादेवापूर्वस्य सिद्धिर्भवति । श्रुतार्था- पत्तिरेवापूर्वास्तित्वे प्रमाणम्, तथा चार्थापत्तिप्रमाणायत्तैवापूर्वपदार्थसिद्धिः । अपूर्वः न कश्चिदपूर्वः पदार्थोऽपि तु प्रधानकर्मणोऽङ्गकर्मणश्चानुष्ठानात् पूर्व अनुष्ठाता पुरुषः स्वर्गप्रासेरयोग्यस्तिष्ठति, क्रत्वादिकमपि स्वर्गरूपकास्योत्पादनायोग्य एव, अनुष्ठिते च प्रधानकर्मणि अङ्गकर्मणि अनुष्ठातृपुरुषगता अनुष्ठेयकर्मगता चायोग्यता दूरीकृता भवति योग्यता चापादिता भवति-इतिस्वीकर्तव्यमेव यतः, तथाऽस्वीकारे वेदविधिरेव व्यर्थः स्यात् । योग्यतोपादनं विना अयोग्यः पुरुषोऽयोग्यं च कर्मोभयमपि व्यर्थमेव.

-- [ १० ] अत एव तु जैमिनिः प्रतिपादमति-'चोदना पुनरारम्भः' (२।११५) पूर्वोक्तोभयगता योग्यतैवापूर्वशब्देनोच्यते । कुमारिलेनोक्तमेव- कर्मभ्यः प्रागयोग्यस्य कर्मणः पुरुषस्य वा । योग्यता शास्त्रगम्या या परा साऽपूर्वमिष्यते ॥ त० वा० पृ० ३४५ । अर्थात् अनुष्ठानात्पूर्वं फललाभायोग्य: अनुष्ठेयं च कर्म फलदानायोग्यम्, अनन्तरं योग्यताधानमेवापूर्वम् योग्यता च शास्त्रगम्या, यदि अपूर्वस्य साक्षात्फलसाधनत्वं स्वीक्रियते तदा यागस्य फलसाधन त्वं नायाति, तया चापूर्वं यागादेः व्यापारविशेष एव, तस्य व्यापारः तादृशस्य व्यापारिणः व्यवधायकं करणं न भवितुमर्हति, यतः, करणं सर्वत्र व्यापारविशिष्टमेव भवति, करणस्य क्रियाविशेष एव व्यापार: करणस्य नाशे च निराश्रितो व्यापारो न स्थातुमर्हति, तथा चापूर्वस्य स्वर्गादिफलसाधनभूतस्य यागादेापारत्वं नास्ति अपि तु शक्तिविशेषरूपत्वमेव । शक्तिरियमपत्तिप्रमाण- कल्प्येति अपूर्वमर्थापत्तिप्रमाणसिद्धम्, यया अग्नेनिर्वापनानन्तरमपि अग्निनोत्तापिते जले दाहिका शक्तिस्तिष्ठति बहुक्षणव्यापिनी, तथैव यागादिक्रियाया विनाशानन्तरमपि अपूर्व यागादिजन्यं शक्तिरूपं यागकर्तुरात्मनि फलाव्यवहितपूर्वक्षणं यावत् अवतिष्ठते । अतो नाप्रामाणिकोऽपूर्वपदार्थः । इदञ्चापूर्वम् अङ्गापूर्वम्, उत्पत्त्यपूर्वम्, समुदायापूर्वम्, परमापूर्वं फलापूर्वम्वेत्यादि- भेदेन बहुविधम् । दर्शपूर्णमासममावस्यायां पूर्णिमायाम्वाऽनुष्ठीयतेऽमायामनुष्ठितस्य भागत्रयम् पूर्णिमायाममुष्ठितस्यापि भा गत्रयम्, एतेषां भागानामपि बहुभिः अङ्गकर्मभि- निष्पत्तिर्भवति, सर्वा अपि क्रिया: परक्षणे एव विनश्यन्ति, अत: सर्वाभिरङ्गक्रिया- भिरेकमेकमपूर्वमुत्पद्यते, अङ्गक्रियाजन्यञ्चापूर्वमङ्गापूर्वम् तथा च षडपूर्वाणि उत्पद्यन्ते, एतत्सर्वमुत्पत्त्यपूर्वम्, दर्शस्य त्रिभिर्यागैः यत्त्रीणि अपूर्वाणि उत्पद्यन्ते ततोऽपि एकम- पूर्वमुत्पद्यते एवमेव पूर्णमासयागादपि एकमपरमपूर्वमुत्पद्यते । तदपूर्वमैव समुदायापूर्वम् । एतदतिरिक्तमेकमपूर्वं परमापूर्वं फलापूर्वं वा कल्प्यते, एतदेवापूर्व फलोत्पत्तिपूर्वक्षण- पर्यन्तं तिष्ठति फलोत्पत्तौ विनश्यति, फलापूर्वं परमापूर्वं विना वा यागस्य फल- जनकत्वं न सिद्धयति, अतः परमापूर्वं कल्पनीयम्, अवान्तरापूर्व विना परमापूर्व नोपपद्यते इति तदपि कल्पनीयमेव । तथा च परमापूर्वस्य, समुदायापूर्वस्य उत्पत्त्य- पूर्वस्याङ्गापूर्वस्य च पूर्वपूर्वापूर्वोपपादनार्थं परपरापूर्वमवश्यमङ्गीकरणीयम् । उक्तं भट्टमहाशयेनः- प्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपि । अदृष्टशतभागोऽपि न कल्प्यो निष्प्रमाणकः ॥ त० वा० पृ० ३५१ । आचार्योदयनेनापि अपूर्वस्यावश्यकत्वमङ्गीकृत्यैवमुक्तमिदानीं न्यायमतेनोच्यते :- पूर्वोक्तयुक्त्या यज्ञादिकर्मणः फलं स्वर्गादिरिति स्वीकारेऽपि यज्ञादिकर्मजन्या- लौकिकस्यादृष्टस्य धर्माधर्मयोर्वा स्वीकारस्य प्रयोजनं नास्ति । - [ ११ ] .. चिरध्वस्तं फलायालं न कर्मातिशयं विना । सम्भोगो निविशेषाणां न भूते: संस्कृतैरपि ।। (न्या० कु० ९) चिरध्वस्तं कर्म, अतिशयं शक्तिविशेषं विना वा फलोत्पादने समथों न भवति, (अर्थात बहुपूर्वं ध्वस्तं कर्म कामपि शक्ति कमपि व्यापारम्वाऽनुत्पाद्य कालान्तरभावि- फलोत्पादने समर्थो न भवति । संस्कृतभूतेन भोग्गवस्तुना वा निविशेषात्मसकलस्य संभोगो निष्पन्नं भवितुं, नार्हति, चिरविध्वस्तकर्मजन्यव्या गर, यदि भोग्यानपानादौ स्यात् तदा एतद्वयापारयुक्तभोग्यसकलवस्तुना अदृष्टशून्यात्मना एकस्मिन्नेव वस्तुनि नानाविधभोगस्य उपपत्तिर्न भवेत् । "स्वर्गकामोऽश्वमेधेन यजेत' इत्यादिवेदविधिना यज्ञादिकर्मसमूहः इष्टस्य स्वर्गस्य हेतुरेवं कर्तव्यकार्यमित्यवगतो भवति । यतः यजेत इत्यत्र लिङ विधिबोधकः अनेन यागेन इष्टहेतुना कर्तव्यत्वम् एवं गुरुतरदुःखाजनकत्वमिति सिध्यति, इति एत- कर्मणः फलमशुभं भवितुं नाहति । अतः-यद्धि अशुभफल जन आन्तत्र एतादृशी यथार्थबुद्धिर्न भवेत् । वेदः-आसवाक्यम्, तेन यथार्थबुद्धिरेव भवति । कर्ममात्रम- त्यल्पकालस्थायि इति चिरकालं न तिष्ठति । आशुविनाशियज्ञादिकर्मणा परकालवर्ति- स्वर्गादिफलोत्पत्तिकालपर्यन्तस्थाप्य दृष्ट कारणं कर्म कर्तुः धर्म विशेष: स्वीकरणीय एवान्यथा एतत्कालानुष्ठितं कर्म स्वर्गादिफलाम्यवहितपूर्वं नास्तीति परकाले स्वर्गादिफलस्य जनकः न भवेत् । अदृष्टकारणस्वीकारे एतत्कालेऽनुष्ठितकर्मसमूहोप्येतदद्दष्टेन परोक्षभावेन मध्यवर्तिब्यापारमदृष्टम्वा उत्पाद्य तेन परम्परया परकालीनस्वर्गादिफला कारणं भवति । अत्रायं संशयो भवितुमर्हति एतददृष्टादिकं कुन जायते ? यज्ञादिकर्मजनिता- दृष्टं कर्मकतुः जीवस्य, न भोग्यवस्तुनः इतः पूर्व मेतस्योत्तरमेकदा प्रदत्तं पुनरपि इदानी- मुच्यते । अदृष्टं कर्मकर्तुः जीवस्य, न भोग्यवस्तुनः । वसन्तपूर्णिमायाः पूर्णचन्द्रदर्शने भावुकभक्तस्य भगवद्विभूति मनसि कृत्य भगवत्प्रेम्णि तन्मयता भवति, दुर्जयकामनाया अतृप्तिवशतः विरहिणः मर्मव्यथा भवति, चक्रवाकयुगलं विरहदुःखं विस्मृत्य चन्द्रिका- पाने तत्परं भवति । एतत्कारणानुसन्धाने तु यस्य यादृशप्राक्तनकर्मजनितादृष्टम्, तस्य एकेनैव वस्तुना तदनुसारि-फलभोगो भवति । तस्मात् कर्मजनितादृष्टं गावस्यैव न तु भोग्य वस्तुन इति । यथा वह्नौ दाहजनिका शक्तिः स्वोक्रियते तथैव कर्मजनितादृष्टं भोग्य वस्तुनि इति स्त्रीकारेऽपि क्षतिर्नास्ति । आकाशसंयोगे इन्धनसंघांगे च उभयत्र संयोगत्ववर्मस्य समानत्वेऽपि यथा वह्नौ इन्धनसंयोगे सत्येब अग्निरुत्पद्यते, आकाशसंयोगे च नोत्पद्यते, तथैव भोग्यवस्तुनः समानत्वेऽपि नानाविव जीवस्य कर्मजनितनानाविधादृष्टयुक्तभोग्य वस्तुनः जीवानामनुष्ठितकर्म जनितनानादृष्टप्रभावेग जीवस्य नानाविध भोगशक्तिः सम्पाद्यते । १. रात्रौं चक्रवाकः चकवाकी च पृथगेव तिष्ठत इति प्रसिद्धिः ।

[ १२ ] - भोग्य वस्तुनि यस्य कर्म जनिता यादृशी शक्तिः अष्टम्बा जायते, भोग्यवस्तु स्वोयैतादृश- शक्तिवशेन शक्त्यनुसारं तज्जीवस्य भोगं सम्पादयति । अतः शक्तिरदृष्टम्बा भोग्यवस्तुनि स्वीकारेऽपि एकेनैव वस्तुना नानाजीवस्य अनेकविध भोगस्यानुपपत्तिर्नास्ति । भोग्य- वस्तुनि शक्तिस्वीकारपक्षेऽन्या अपि युक्तयः सन्ति । तथा हि-तृणादिदाह्यवस्तुनि अग्निसंयोगे भस्म भवति, अत: दाहानुकूला शक्तिः बहावेव स्वीक्रियते । अन्यथा शक्तिहीनवह्निना दाहस्वीकारे प्रतिबन्धकर्मणः सद्भावेऽपि दाहं प्रसज्येत । यद्युच्यते मणिसद्भावस्थले मणिसद्भाववशात् दाहो न जायते, मणिरेव दाहस्य प्रतिबन्धकः, इति मणौ दाहानुकूलशक्तिस्वीकारो नावश्यकः, तथा च मणेरभावः दाहं प्रति कारणमित्येव फलितं भवति, यतः प्रतिबन्धकाभावः भवति कारणम्, यः पदार्थः यस्य प्रतिबन्धक: यस्य वस्तुनः सद्भावे कार्य न जायते तस्य अभावः तत्कार्य प्रति कारणम, किन्तु अभावः कारणम्भवितुं नाहँति, यतः, किमपि वस्तु कस्यापि कार्यस्य कारणं भवति तदा सस्य कारणरूपेणाभिमतस्थ वस्तुनः क्रियासम्बन्धो नितान्तमपेक्षितो भवति । कुम्भकार: दण्डेन चकभ्रमणं न कुर्यात् तदा सत्यपि दण्डादिकारणसमवधाने तद्वस्तुसकलं घटस्य कारणमुत्पादकम्वा न भवति, अतः साक्षात् परम्परया वा क्रियया सह सम्बन्धप्रयुक्तमेव दण्डादिकं घटस्य कारणम्भवति । अभावश्च निषेधमात्रम्, तत्र विधिरूपता नास्तीति अकिञ्चित्करोऽसौ पदार्थः। अभावे साक्षात्परम्परया वा क्रियासम्बन्धो भवितुं नार्हति, अतः अभाव: कस्यापि कारणमपि भवितुं न शक्नोति इति मणि: वस्तुतः दाहस्य प्रतिबन्धको नास्ति । तथा सति मणिः वह्नौ या दाहानुकूला शक्तिस्तां नाशयति अत एव च मणौ दाहप्रतिबन्धकत्वम्, मणौ प्रतिबन्धकशब्द : गौणतयैव प्रयुज्यते, मणि: प्रतिबन्धकशब्दस्य मुख्यार्थो भवितु नार्हति । फलतः-वह्नौ दाहानुकूला शक्तिर वश्यमेव स्वीकरणीया । वस्तुनि शक्तिर्नास्तीति कथनं साहसमात्रमेव । "यजेत स्वर्गकाम' इत्यादौ यागस्वर्गयोः समभिव्यहारात्साध्यसाधनभावः प्रतीयते, परन्तु कालान्तरभाविस्वर्गोत्पादसमये आशुतरविनाशिनो यागस्य साक्षात्त- त्साधनत्वासंभवेन तत्र साधनत्वोपपत्तये अपूर्व द्वारभूतं कल्पते । चिरध्वस्तं यागादि अतिशयपूर्व विना स्वर्गादिफलसाधनं नेत्यर्थः। तथा च यागजन्यव्यापारस्य फलपर्यन्त- स्थायित्वस्वीकारेण तद्द्वारा यागादेः तत्साधनत्वोपपत्तिः। न चापूर्वेणैव फलोपपत्ती यागादेरन्यथासिद्धत्वमिति वाच्यम्, व्यापारेण व्यापारिणोऽन्यथासिद्धत्वाभावात् । अदृष्टसिद्धावपि तस्य भूतधर्मत्वमेव स्वीक्रियते, नात्मधर्मत्वमिति । समीचीनो नियतो भोगः तत्तददृष्टशून्यस्यात्मनो न संभवति, भूतानां सर्वसाधारण्यात् सर्वस्य समानभोगा- स्वकारणप्रभावोत्पन्नासाधारणस्वरूपविशेषवच्छरीरेन्द्रियादिनियतभोगसाधन- मस्ति । शरीरादीनां नियतफलभोगानुकूलस्वरूपं यदिष्यते तत्कि तेषामतीन्द्रियं स्वरूपं सहकारिविशेषो वेति निराकरणसौकर्याय विकल्पयति-आद्ये ऐन्द्रियकस्वरूपस्याती- न्द्रियत्वाभिधाने व्याघातः स्यात्, न हि ऐन्द्रियकस्वरूपोऽतीन्द्रियस्वरूपोऽभिधातुं शक्यते । द्वितीये अतोन्द्रियसहकारि अपूर्वमिति- पत्तेः।

[ १३ ] संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः । स्वगुणाः परमाणूनां विशेषाः पाकजादयः ।। (न्या० कु०-११) प्रोक्षणाभ्युक्षणादिना संस्कारः (शक्तिविशेषः ) पुरुषस्येष्टः, परमाणुसकलस्य स्वकीयपाकजविशेषगुणसकलमेव ( परमाणोः पाक जरूपरसादयः) विशेषाधायक भवति । अयमाशयः-पाकजविशिष्टविशिष्टरू परसविशिष्टविशिष्टभावापन्नपरमाणुसकलात् विशेषकार्य जायते । पूर्वपक्षतया विचारकवचनस्य रमणीयत्वेऽपि ब्रीह्यादौ शक्तिस्वीकारे कल्पनागौरव- म्भवति । यतः-प्रोक्षणादिजनितशक्ति: यदि ब्रीह्यादौ स्वीक्रियते तदा तत्र संख्यानु- यायिशक्तिः अर्थात् ब्रीहिसंख्य काः शक्त: स्वोकर्तव्या भवेयुः । यदेयं शक्तिः कर्तरि स्वीक्रियते : यदा व्रीहिसंख्यानुयायिनी न भवेदपि तु कर्तृसंख्यानुयायिनी भवेदिति अल्पसंख्यकशक्तिस्वीकारेणापि कार्य प्रचलेत् । अतः इयं शक्तिः कर्मफलभोक्तरि पुरुषे एव स्वीकरणीया, तथा सति प्रोक्षणमेतच्छक्तिद्वारा परम्परया पहुकालपरवतिनोऽववातस्य निमित्तम्भवेदित्यत्र किमपि बाधकं नास्ति । किञ्च-क्षेत्रस्थधान्यादीनां विनाशस्वीका- रेऽपि सकलभोक्तृजीवस्य अदृष्ट बलेनैव धान्यपरमाणुना धान्याकुरोत्पत्तिः स्वीक्रियते एवं प्रलयानन्तरं पुन: सृष्टयादौ भगवान् भोगार्थ भोगान्ते च मोक्षार्थं जीवस्यादृष्टानुसारमेव सृष्टिं करोति । महाप्रलयेऽपि जीवस्यादृष्टं सर्वथा विनष्टं न भवति, तथा सति पुन: सृष्टेः प्रयोजनमेव नास्ति । भगवान् जीवस्य कर्मानुसारिणः भोगस्य मोक्षस्य च कृते एव विश्वप्रपञ्चं सृजति । श्रवणमननादिरूपभगवदाराधनाबलेन भोगावसाने जीवस्य कर्मजनितसंस्कारस्य समूलक्षये जीवः कृतकृत्यो भवति, जन्मजरामरणादिसंघातेभ्यः परित्राणं प्राप्नोति । एवं माधकर्षितायां भूमौ विशेषशक्तिस्वीकारस्यापि प्रयोजनं नास्ति, यतः, दृष्टहेतुनैव कार्योत्पनि सम्भवे अदृष्टहेतुकल्पनाया अनुचितत्वात्, माघमास- कर्षितभूमौ माघस्य सूर्यताप: एवं शिशिर योगा भवतीति भूमौ दृष्टविशेषरूपरसादि- सञ्चारो भवति, दृष्टरूपरसादिसंचारेणैव क्षेत्रे उत्तमशस्यस्योत्पत्तिर्जायते, इति भूमौ शक्तिविशेषस्वीकारोऽनावश्यकः । उक्तरीत्या प्रतिबन्धकाभावस्य कारणत्वस्वीकारेणैव प्रतिबन्धकस्थले कार्यापत्ति- वारण संभवात्तदर्थं कारणे स्वाभाविककार्यानुकूला शक्तिस्तुि, आधेयशक्तिस्वीकारस्त्वा- वश्यक एवेतिमन्तव्यम् । श्रीहीन्प्रोक्षतीत्यादिवाक्यविहितप्रोक्षणादे: संस्कारानाधाय- कत्वे, बीहीनवहन्तीत्यादिवाक्य विहितवेलायां स्वरूपेणावर्तमानस्य प्रोक्षणस्याप्रोक्षित- व्रीह्यादिव्यावर्तकत्वानुपपत्याऽप्रोक्षितानामपि तेपामवधातापत्ति: स्यात्प्रोक्षणविधेश्च वैययं स्यात् । संस्काराधायकत्वस्वीकारे तु संस्कारस्य तत्समवेतस्य कालान्तरेऽपि सत्त्वेन व्यावर्तकत्वमुपपद्यते, तत एव संस्कार विधेरपि सार्थक्यम् । यदि ब्रीहीन्प्रोक्षतीति वाक्ये संस्काराश्रयणान्न तस्य विधिविषयतेति, चेत्रः ब्रोहीन्प्रोक्ष तीत्यत्र द्वितीयाश्रुत्या वीहीणां कर्मत्वं प्रतीयते । कर्मत्वं च क्रियाजन्यफलभागित्वं फलं च संस्कारः, तस्य - [ १४ ] स्थायितया कालान्तरेऽपि सत्त्वेन व्यावर्तकत्वोपपत्तिरिति प्रोक्षितानामेव तेषामव- घातादिद्वारा पुरोडाशकार्ये उपयोगः। यदि व्रीहीनवहन्तीत्यत्र व्रीहिमात्रश्रवणा- त्तस्यैवाघातेऽन्वयो न तु प्रोक्षितस्यैव विशेषाश्रवणादिति उच्यते । सामान्यस्यावघाता- संभवेन तद्विशेषापेक्षायां प्रकरणप्राप्तस्य प्रोक्षितव्रीहेरेव तथान्वयस्यौचित्यात्, उपस्थितं परित्यज्यानुपस्थितकल्पने मानाभावात्, दृष्टार्थत्वेन प्रोक्षणस्योपपत्तावदृष्टार्थत्वकल्पना- नौचित्याच्च । किञ्च तथापि 'ब्रीहीन्प्रोक्षति" "व्रीहीनवहन्ती"ति वाक्याभ्यां ब्रीहेरेव प्रोक्षणमवहननं च विधीयताम्, किं प्रोक्षणविशिष्टे अवघातविधानेन । तथा च नावघात- विषयव्यावर्तनाय प्रोक्षणजन्यातिशयकल्पनेति भावः । प्रोक्षितव्रीहयोऽवधाताय क:पन्ते इति वाक्यशेषानुसारेण प्रोक्षितानामेवावघातविधानौचित्येन तदर्थं संस्कारकल्पनाया आवश्यकत्वात् । प्रोक्षणध्वंसविशिष्टेऽवघातविधानन्तु वक्तुमशक्यम् ध्वंसस्यकारणत्वा- पत्तेः । मन्त्रादिसहकृताः प्रोक्षणादय एवाव तनियमापूर्वप्रयोजका इत्यपि न, आशु- विनाशिनां तेषां ध्वंसेनापि तत्कार्योत्पत्तिस्वीकारात्, तर्हि ध्वंसद्वारैव ते तदुत्पादका भविष्यन्तं ति। ध्वंसव्यापारद्वारा यागादय एव स्वर्गादिफलजनका इत्यपि वक्तुं शक्यतया तत्राप्यपूर्वाभावापत्तेः । न च ध्वंसस्यानादिकालस्थायितया तत्फलस्य स्वर्गादेरनन्तकालस्थायित्वापत्तेः, ततोऽवरोहाभावे ये रमणीयाचरणास्ते रमणीयां योनिमुत्पद्यन्ते, ये कपूया चरणास्ते कपूयां योनि मापद्यन्ते इत्यादिसूचितपूर्वक मफल- भोगानुपपत्तेः मोक्षानुपपत्तेश्चेति यागादिजन्यापूर्वमवश्यमेव स्वीकार्यम् । अपूर्वस्वीका रे- ऽपि नेयं शङ्का समाधातुमहीं, न हि फलमुत्पाद्यापूर्वः नश्यतीति. तत्स्वभावः कल्पयितं शक्यते, तन्नाशे तद्भोगानुपपत्तेः। नाप्यपूर्वमानं समानकालफलप्रदम्, साधन तारतम्येन न्यूनाधिककालस्थायिभोग जनकत्वस्वाभायात्तेषां विधिवाक्यत्वात्तेषां तन् स्वभाव कल्पने तत एव ध्वंसस्यापि तादृशस्वभावः कल्प्यामिति समः समाधिः । फलम्प्रदायापूर्व नश्यति, ध्वंसस्तु अग्रे प्रवहन्नपि न फलं यच्छति । अस्तु तर्हि प्रोक्षणादिजन्योऽतिशयः परन्त्वसौ आत्मधर्म एव न भूतधर्म इति । अनेकसंस्का. कल्पनापेक्षया एकातिशयकल्पने लाघवमिति तर्कसहकृतमिग्राहक- मानादतिशयः सिध्यन्नेकपुरुषनिष्ठश्च सिध्यति । यदि व्रीहिनिष्ठः संस्कारस्स्वीकियते तदा सकलव्रीहिषु व्यासज्य वृत्या एक एव संस्कार: किम्वा यावन्तो व्रीयस्तावन्तः संस्कारा इति अन्त्ये महागौरवप्रसङ्गात् । आये एकव्रीहिनाशे तन्नाशा पत्तेः यथा दशत्वादिसंख्या व्यासज्यवृत्त्याने कत्र वर्तते तत्र एकस्याप्यपायेऽपैति एवं संस्कारोऽपि नश्येत् । न च यावदाश्रयनाशेन तन्नाश : कल्पयितुं शक्यः लाधवादाश्रयनाशत्वे- नातिशयनाशं प्रति हेतुता न तु यावदाश्रयनाशत्वेन हेतुता गौरवादित्यास्ताम् । यदि स्वीक्रियते परमाणूना स्वगुणा: पाकजादयो विशेषाः, व्रीहियवादिनिष्ठः स्वगुणः पाकजरूपरसादिरेव विशेषोऽतिशयस्वरूप: स च वीजावयवेषु परमाणु- विद्यते इति तदभावादेव यवबीजाद्यवाङकुर इत्यादिनियम इति न तत्र संस्कारा- [ १५ ] भावेऽपि व्यभिचारगन्धः परमाणावतिशयाभावाच्च दृष्टान्तः साध्यविकल इत्यर्थः । यद्यपि परमाणुषु पाकजविशेष एवातिशय इति न दृष्टान्तः साध्यविकल इति तथापि शक्तिरूपातिशयो नास्तीति तत्तात्पर्येण तथाभिधानात् । न च शक्तिपाकज- रूपयोरतीन्द्रियत्वाविशेषात् शक्तिकल्पनं वा पाकजरूपादिकल्पनं वेत्यत्र विनिगमकत्वा- भावात् पाक नादिरेव विशेषो न शक्तिरेव कथं निर्णय इति उच्यते ? तदा अवयविगत- रूपादिसजातीयरूपादेरवयवेषु स्वीकारानुरोधेनैव तन्नियतकार्योपपत्तौ तदर्थं शक्त्या- धानकल्पनायां गौरवात् । यो यदुद्दशेन विधीयते स तत्रातिशयजनक इति व्याप्तेः व्यभिचार: स्यात् । शुष्यच्छस्योपजीवनौपाधिकवृष्टिकामनया यत्र कारोबाग : कियते तत्र देवतोद्देश्यकवैधाग्न्यधिकरणकहविस्त्यागेन यागेन पुरुष एव संस्क्रियते । न वा देवता न वाऽग्निस्तादृशादृष्टवदात्मसंयोगान्नभनि प्रार्दुभूतेभ्यो मेघेभ्यो वृष्टि- रूत्पद्यते, तथा बीयुद्देशेन प्रयुक्ताः प्रोक्षणाद ३: पुरुषमेव संस्कुर्वन्ति तादृशसंस्कृ .त्म- संबद्धा ब्रीह्याद गोऽवधातादिकार्योपयोगिनो भवन्ति एतेन व्रोही परम्परासम्बन्धेन तादृशातिशयसम्बन्धकल्पनायां गौरवात् साक्षात् सम्बन्ध कल्पनैव युक्ता प्रामाणिक- गौर रवस्वादूषणत्वात् । न च पुरुष निष्ठातिशयकल्पना । यदा पुरुषो नाधिकृतस्तदा तत्प्रयुक्तप्रोक्षणादेः संस्कारानाधाय कतथा वैपय॑म् व्रीहादिगतसंस्कारकल्पनायामपि एतद्दोषतादवस्थ्यात् अनधिकृतपुरुषकृतप्रोक्षणादेः संस्कारानाधायकत्वात् न कर्तृकर्म- साधनवैगु ग्यादितिन्या असूत्रे प्रतिपादितम् । साधनादिवैगुण्यवत्, कर्तृवैगुण्यस्यापि फलानु- त्पादकत्वमिष्टमेव, आगमप्रमाणस्योभयत्र तुल्यत्वात् । वहिषि इवेति वहिस्तृणानि वहिष हविरासादयेदित्यादिवाक्येन विहिते तरणासादनादौ कृतार्थानां वहिषां यथा कान्तिरेषु विनियोगो न भवति । तथा प्रोक्षणे कृतार्थानां ब्रीह णामवघातादिषु पुनर्विनियोगो न स्यात् । व्रीहिनिष्ठसंस्कारपक्षे तु संस्कृतस् । क्वचिद्विनियोगो आवश्यको- ऽन्यथासंस्कारस्य वैयपित्तेरिति विनियोगोऽवधाते आवश्कः। यदि तु वहिरादौ विनियोगवचनान्तराभावादविनियोगः, इह तु ब्रीहिभिर्यजेत इत्यादिविनियोगवचन- दर्शनात् पुनः कार्यान्तरे तत्सम्बन्धोऽभ्युपेयत इति तज्जातीयस्थाप्रोक्षित ब्रीह्यादेरुपादानं स्यात् ब्रीहीत्वस्योभयत्र विशेषात् । विशेषस्य संस्कारस्य चेष्टस्य तत्रानङ्गीकारादिति चेदवाहुः-संस्कारा हि विचित्रमहिमान: यथाऽभिचारादयः । यादृशशत्रुशरीरमुद्दिश्य अभिचारः क्रियते स अभिचारकर्तृपुरुषसमवेतोऽपि तादृशशरीरसहकारितया तदेकशरीरं नाशयति न शरीरान्तरम्, न वा तस्यैव शत्रोर्जन्मान्तरीयं शरीरम्, तस्यानुद्देश्यत्वेना- सहकारित्वात् । एवमभिमन्त्रणादिसंस्का: पुरुषसमवेतोऽपि तादृशोद्देश्यनीह्यादिः सहकारीभूत्वा तस्यैवावधातं नियच्छति । व्रीहीनवहन्तीतिविधेः प्रोक्षितान् ब्रीहीन- बहन्यादित्यत्रैव तात्पर्यमित्यर्थः । प्रोक्षिता वीहयोऽव याताय कल्पन्ते इति वाक्य शेष- सहितवीदीनवहन्यादिति विधेस्तत्रैव तात्पर्यात् । अत एव संस्कारा अवधाताय नोपयुज्यन्त इति न किन्तुक्तन्यायेनावघातायोपयुज्यन्ते । पुरुषस मवेतो वा ब्रीहि- - - [ १६ ] - समवेतो वा संस्कारः सर्वथा कार्योपयोगी न एवेति भावः । कथं तर्हि व्रीहीणां संस्कार्यकर्मत्वं यतः क्रियाजन्यफलभागिन एव कर्मत्वम् । व्रीहीगतातिशयकल्पने तु तादृशक्रियाजन्यसंस्काराश्रयत्वेन तेषां कर्मत्वमुपपद्यते । तस्य पुरुषसम वेतत्वमिति पक्षे तु तादृशफलाश्रयत्वाभावात् कर्मत्वन्न स्यादिति उच्यते, तदा प्रोक्षण क्रियाजन्यजल- संयोगाश्रयत्वेन तेषां कर्मत्वोपपत्तेः। न च ब्रीहीन् प्रोक्षतीति बहुवचनश्रुत्या सर्वेषाम- वघासायोपनीतानां व्रीहीणां कर्मत्वमेष्टव्यं प्रोक्षितजलसंयोगस्य सकलवीहीस्वभावादिति तत्त्वम् । कपिञ्जलानालमेत व्रीहित्रयगतजलसंयोगेनैव तदुपपत्तौ सकलव्रीहिगतत्वा- पेक्षाविरहात् । यो यदुद्देशेन क्रियते इति परोक्तानुमाने व्यभिचारं स्फुटमित्यत्र न संशयः। पुत्रेष्टि जातेष्टि "वैश्वानरं द्वादशकपालं चरुं निर्वपेत्" पुढे जाते । पुत्रो- त्पत्त्यनन्तरमिमं यागं पिता करोति तज्जन्यं फलञ्च पुत्रे तदुद्दे शेनैतद्विधानात् । अत एव यस्मिन् जाते शतामिष्टिं निर्वपति सपू त एव तेजस्वी अन्नादः पशुमान् भवतीति श्रुतिः पुत्रे एव तत्फलं बोधयति । एवममावास्यायामपराह्न पिण्डपितृयज्ञेन यजेत इत्यादिनिकृष्यादिसाध्य भोगजनकादृष्टस्य वैयर्थ्यं स्यात् । अपूर्वमीमांसकः विहितक्रियाजन्यं यावत्फलोत्पत्त्यस्थायि अपूर्वं नाम किञ्चिद्वस्तु स्वीकुर्वन्ति मीमांसका गौतमीयाः काणादाश्च । तत्र- फलाय विहितं कर्म क्षणिकं चिरभाविने । तसिद्धिनन्यिथेत्येवमपूर्व प्रतिगम्यते ॥ तस्मादस्त्यपूर्वमिति । प्रमाणाभावान्नापूर्वसिद्धिः तथा हि - न तावदत्र प्रत्यक्षादिकं प्रवर्तते, रूपाद्यनात्म- कत्वेन चक्षुरादिभिर सम्बन्धात् । नाप्यनुमानम्, केनचिल्लिङ्गेन सहादृष्टसङ्गतित्वात् । अपि च स्वतन्त्रस्य वापूर्वस्यानुमेयत्वम् ? अस्त्यपूर्वमिति, अन्य विशेषणस्य वा ? न तावत् स्वतन्त्रस्य वस्तुनः साध्यमानायां भावधर्मस्य हेतुत्वं स्यात् ? अभावधर्मस्य वा ? उभयधर्मस्य वा ? तत्र भावधर्मस्यासिद्धत्वम् अभावधर्मस्य विरुद्धत्वम्, उभयधर्मस्था- नैकान्तिकत्वम् । एतदभिप्रेत्यैव प्रत्यक्षसूत्रे वात्ति ककारा आहुः- सत्ता च नानुमानेन कस्यचित् प्रतिपद्यते। धर्मेणान्यद्विशेष्यं चेत् पक्षोऽसिद्धविशेषणः ॥ तस्माददृष्टपूर्वत्वात् केनचिद्वस्तुना सह। धर्मस्य नानुमेयत्वमसाधारणवस्तुवत् ।। इति । तस्माद् यागस्वर्गसाध्यसाधनभाव इवाऽपूर्वेऽपि न प्रत्यक्षानुमानयोः प्रवृत्तिः । नाऽपि शब्दः, तदनुपलम्भात् । यदाह वात्तिककारा:- पदवाक्ये न चैतस्य वाचके शृणुमः क्वचित् । शब्दगम्यत्वमप्यस्य तेन नैवोपपद्यते ॥ -- [ १७ ] तत्र पदं तावन्न किञ्चित्साक्षादेतस्य वाचकमस्ति यत्त्वपूर्वमिति पदं तत् -- प्रमाणपञ्चकाज्ञानादपूर्व षष्ठगोचरः। तस्मादन्वर्थनामेतन्न वस्तुत्वेन गम्यते ॥ इति रीत्या अन्वर्थत्वात् सुतरामस्तित्वं बाधते। वाक्यस्य त्ववाचकत्वादेवा- प्रामाण्यम् । येऽपि शब्दान्तरादयः श्रुतिलिङ्गादयश्च शब्दप्रकारास्तेऽपि च स्वभाव सिद्धे वस्तुनि भेदे विनियोगे वा कारणं न सद्भावे कस्यचिदित्यपूर्व प्रत्यप्रमाणम् । विधिप्रति- षेधविषयत्वाच्च समस्तस्य वेदस्य न क्वचिद्वस्तुस्वरूपप्रतिपादनार्थ-वं भवतीति नागम- गम्यमपूर्वम् । उपमानगम्यमपि काममनुपलभ्य मानशशविषाणादिसारूप्यादसद्रूपमेवोपमेयं भवेत् । न च श्रुतयागस्वर्गसाध्य साधन भावान्यथानु पपत्तिरेव तत्साधिका । न हि अन्यथा क्षणिकयागस्य कालान्तरभाविस्वर्गसाधनत्वमुपपद्यते । अतः प्रमाणान्तरा- भावेऽपि श्रुतार्थापत्ति रेवाऽपूर्वसद्भावे प्रमाणमिति वाच्यम्, साध्यसाधनभावस्या- न्यथानुपपत्तावप्यपूर्वस्य तदुपपादकत्वाभावात् कल्पनानुपपत्तेः। नापूर्वे कल्पिते तेनैव स्वर्गजननादपूर्वोत्पनि प्रत्यन्यथासिद्धस्य यागस्य स्वर्गजनकता सम्भवति । न चापूर्वस्य शक्तिरूपत्वादवान्तरव्यापारत्वाद्वा ज्वालादिभिरिव न तेन यागस्योन्यथासिद्धिः, शक्ति- व्यापारयोः शक्तिमद्वयापारवन्निष्ठत्वनियमेन शक्तिमति व्यापारवति च यागे नष्टे शक्ति- व्यापारयोरवस्थानानुपपत्तेः । यदि च छलबलकल्प्यस्यापूर्वस्यात्म निष्ठत्वं कल्प्यते तदा नोवतानुपपत्तिः । यथोक्तम् यदि स्वसमवेतैव शक्तिरिष्येत कर्मणाम् । तद्विनाशे ततो न स्यात्कर्तृस्था तु न नश्यति । शक्तिः कार्यानुमेयत्वाद्यद्गतैवोपयुज्यते । तद्गतैवाभ्युपेतव्या स्वाश्रयान्याश्रयाऽपि वा ।। इति । तदाऽपि- अर्थापत्त्यापि नैवैतदस्तीत्येवं प्रतीयते। अन्यथाप्युपपन्नत्वात् फलयागादिसंगते: ॥ यदि याग विनाशित्वादन्येन तत्सम्बन्धिना फलं साध्यमानं यागेन सावित भवति तदा यागध्वंस एव फलजनकत्वं कल्प्यताम् । ध्वंसे यागजन्य त्वं च बलसमेव केवलं फलजनकत्वं कल्पनीय मिति लाघवम् । अपूर्वकल्पनायां तत्सद्भावस्तस्य स्थायित्वं यागजन्यत्वं स्वर्गजनक त्वमिति बहतरं कल्पनीयमापतति । किञ्च, विनाशिनि हि कर्मणि चोदिते विनाशस्योपस्थितत्वात्तस्यैव व्यापारत्वं युक्तम् । यथाह - - यद्वा कर्मविनाशोऽयं फलं न साधयिष्यति । भङ्गियागविधानाद्धि तदयत्नेन कल्प्यते ॥ इति । २ एतेन तृप्त एवैनमिन्द्रः प्रजया पशुभिश्च तर्पयतीत्यर्थवादोपात्तदेवताप्रसादस्यैव रात्रिसत्रन्यायेन द्वारत्वोपपत्तेर्नानुपस्थितापूर्वकल्पनं युक्तमिति वेदान्तिमतमपि निरा- कृतम् । उपस्थितध्वंसद्वारकत्वेनैव नैराकाक्ष्ये रात्रिसत्रन्यायानवतारात् । देवता- प्रसादस्यापि इच्छाविशेषरूपस्य क्षणिकत्वेन यागतुल्ययोगक्षेमत्वाच्च । ध्वंसस्य कारणत्वे कारणीभूताभावप्रतियोगित्वेन यागस्थ प्रतिबन्धकत्वमपि न सम्भवति, यतः, यस्मिन्न- भावे संसर्गाभावत्वेन कारणता तत्प्रतियोगिकत्वस्यैव प्रतिबन्धकत्वात्, अत्र तु कारणत्वं ध्वंसत्वेन न तु संसर्गाभावत्वेनेति नास्ति दोषः । ध्वंसस्याभावरूपत्वादभावस्य केवलस्य कुत्रापि कारणत्वं न दृष्टम्, वार्तिकारस्तु आह:--'न च लोकेऽपि क्वचिदभावः कारण- त्वेन दृष्टः, यदि तु क्वचिदुदाह्रियेत, शक्यं तत्र भावान्तरं दर्शयितुं न त्वत्रापूर्वाहते ताहक किञ्चिदस्तीति' । भट्टसोमेश्वरोऽपि- 'अत एवाचा:' : 'स्वकाले यदकुवंस्तत्करोत्यन्यदचेतनः । प्रत्यवायोऽपि तेनैव नाभावेन स जन्यते' ॥ इति विहितमकुर्वन्यदन्यत्करोतीति भवद्भिविहिताकरणनिमित्तस्यान्यकरणस्प प्रत्यवायनिमित्तत्वाभिधानादवज्ञायामेव वा करणस्य निमित्तत्वोपपत्तेविहितावज्ञानमेव प्रत्यवायहेतुत्वेनोक्तम् । 'नाभावेनैव जन्यते' इत्येव शब्दोत्कर्षेण केवलस्य हेतुत्व निरस्तम् । एवं च विहितस्याननुष्ठानान्नरः पतनमृच्छतीति स्मृतिरनुगृहीता भवति । निमिषितादेस्तु हेतुत्वे विहिताकरणस्य किञ्चित् करणत्वभावात् स्मृतिबाधापत्तिः । एवं वाव स देवतामवरुणद्धि योऽलमग्निहोत्राय स नाग्निहोत्रं जुहोतीति वाऽपरोद्यशब्देन अवज्ञाभिधानात् सैव प्रत्यवायहेतुर्वेदादवसीयते । निमिषितादेस्तु हेतुत्वं निष्प्रमाणक- मेव । तस्मादवज्ञारूपाशयविशेषरूपस्य भावान्तरस्य तत्र संभवान्न शुद्धम्य क्वचिद् हेतुता दृष्टेति ग्रन्थार्थः' इति । तदतिशयमात्रम्, शुद्धस्याऽपावस्याऽपि कारणत्वाङ्गीकारे बाधकाभावात् । अत एवानुपलब्धेरभावरूपाया एव घटाद्यभावग्राहकत्वमङ्गोकृतम् । ननु ध्वंसस्यैय व्यापारत्वे तस्याविनाशित्वेन कीर्तनप्रायश्चित्तादिना नाशानुपपत्तेः 'धर्मः क्षरति कीर्तनात्' प्रायश्चित्तेन नश्यन्ति पापानि समुहान्त्यपि इत्यादिशास्त्रविरोधः । नह्यनयोः शुभाशुभकर्मनाशकत्वम्, तयोराशुतरविनाशित्वेन नाशकारणनपेक्षणत्, अतः कीर्तनप्रायश्चित्तादिनाश्यं यागादिजन्यमपूर्वमावश्यकमिति । चेत् ? न क्लृसध्वंसस्यैव व्यापारत्वेऽवधारिते कीर्तनादीनां फलोत्पतिप्रतिबन्धकत्वमात्रकल्पनात् । सर्वथा नास्त्य पूर्वमिति प्राप्तेः ब्रूमः-फलं तावत्प्रधानकालान्तरभावीति । निर्विवा दम् । नहि निरतिशयसुखदुःखरूपयोः साङ्गप्रधानजन्यस्य न प्रधानमात्रानुष्ठानादुत्पत्ति: । अतः कालान्तरभाविफलोत्पत्तिर्न क्षणिकात् कर्मणोः व्यापारमन्तरेण संभवतीति मध्ये कश्चन व्यापारः कल्पनीयो यः श्रुताविरोधी भवेत् । 'धर्मः क्षरति कीर्तनात्' प्रायश्चित्तेन [ १९ ] नश्यन्ति पापानि सुबहू न्यपि' इति कीर्तनप्रायश्चित्तादिनाश्यमपूर्वमेव व्यापारत्वेन कल्पयितुं युक्तम् । न ध्वंसः, तस्याऽविनाशित्वात् । नाशशब्दस्य फलोत्पत्तिप्रतिबन्ध इत्यर्थकरणे लक्षणैव दोषः । अतो ध्वंसं परित्याज्यापूर्वकल्पनायां गौः वेऽपि तस्य फलमुखत्वाददोषत्वम् । यथा एतया निषादस्थपति याजयेदित्यत्र निषादानां स्थपति- रिति षष्ठीतत्पुरुषाङ्गीकारेऽधीतविद्येन त्रैवणिकेनैव अनुष्ठानोपपत्तौ न विद्ये विद्या- क्षेपकत्वम्, कर्मधारयाङ्गीकारे तु भवति विद्ये विद्याक्षेपगौरवम् तथाऽपि श्रुतिलक्षण- विषये श्रुतेाय्यत्वात् कर्मधारयं स्वीकृत्य विद्याक्षेपगौरवस्य फलमुखत्वाददोषत्वं तद्वदत्रापि श्रौतनश्यतिपदानुरोधादपूर्वमेव व्यापारत्वेन कल्पनीयम् । कल्पनागौ वस्य फलमुखत्वाददोषत्वम् । किञ्च, ध्वंसस्य प्रधानन्यापारत्वे तुल्यन्यायत्वादनेष्वपि स एव व्यापारोऽङ्गीकर्तव्यः । ततश्च तस् पाविनाशित्वाद् विकृतिप्रयोगवेलागामपि सत्त्वात् पशुपुरोडाशवत् प्रासङ्गिकत्वोपपत्तेर्न पृथगङ्गानि कर्तव्यानि स्युः। तथा च प्रयाजे प्रयाजे कृष्णलानि जुहोतीति प्रयाजकरणदर्श नमनु पन्नं स्यात् । अस्मन्मते त्वङ्गापूर्वाणां प्रधानपूर्वोत्पत्त्यनन्तरं नाशाद्धि कृत्यपूर्वसिध्पर्थ पुनः प्रयाजकरणोपपत्ति रतः सर्वथा सिद्धमपूर्वम् । तत्राऽयं विवेकः सन्निपातितां श्रुत्याद्यवगतव्रीहाद्यङ्गभावानां प्रोक्षणादीनां तण्डुला दिपरम्परया प्रधानगामिनां प्रधानगतोत्पत्त्यपूर्वजननयोग्यतात्पादने व्यापारः तावत्पर्यन्तमेव सन्निपातिजन्यापूर्वस्यावस्थानम् । आगदुपकारकाणां तूत्पत्त्य पूर्वगत- परमापूर्वजननयोग्यताजनने व्यापारः । प्रयोगबहिर्भूतानान्तु परमापूर्वोपस्थिताविति । विधिस्वरूपविमर्शः :-- "स्वर्गकामोऽश्वमेधेन यजेत" इत्यादिवाक्यस्थं यजेत इति पदं लिङबोधकप्रत्यय- घटितम् । यज्धातोः लिङ्प्रत्यये सति यजेत इति । अत्र यज+इत यजते इत्यत्र इतइति लिङर्थबोधकः प्रत्ययः । लिङ्प्रत्ययः विविप्रत्ययः । विविप्रत्ययस्यार्थश्चात्र आताभि- प्रायः ! आप्ताभिप्रायो नाम वेदवक्तृपुरुषाभिप्रायः । आचार्यस्य मते आप्ताभिप्राय : एक विधिप्रत्ययस्यार्थः । प्रथमत: वेदः अल्पज्ञजीवोच्चरितो न भवितुमर्हतीत्यवधारितम् । आप्ताभिप्रायार्थकविधिप्रत्ययेन यस्यायमभिप्रायोऽनुमितो भवति स एव ईश्वर: । अनु- मानाकार:-(पक्षः ) वैदिकविधिप्रत्ययः ( साध्यम् । आप्ताभिप्रायबोधकः ( हेतुः । विधिप्रत्ययत्वात् । आचार्यः पाणिनिः विधिनिमन्त्रणामन्त्रणाधोष्ट संप्रार्थनेषु लिङः इति सूत्रेण विध्या- दिष्वर्थेपु लिङ: विधानं करोति । प्रवर्तनात्वस्य विध्यादिषु चतुर्व अनुस्श्रुतत्वात् तेन रूपेण प्रवर्तना एव लिङर्थः । प्रवृत्त्यनुकूल: व्यापारः प्रवर्तना। प्रवृत्तिः शिव्यादिनिष्ठा । तदनुकूलव्यापारस्तु प्रेरणात्मकः प्रवर्तयितृगुर्वादिनिष्ठ : । प्राभाकरमते विविप्रत्ययस्यार्थः नियोगः । नियोगशब्दः कर्तृवाच्ये घप्रत्यये निष्पन्नो भवति-नियुङ्क्ते इति नियोगः । नियोगः नियोज्यं पुरुषं नियोगस्य सिद्धये नियोग- [ २० ] विषये नियुक्तं करोति-"स्वसिद्धये नियोज्यं स्वविषये नियुञ्जानः नियोग" इति । कार्यम् अपूर्वम् इत्यादयः शब्दाः नियोगशब्दस्य समानार्थकाः । नियोगः स्वसिद्धये पुरुषं नियुञ्जानः नियोग इत्यभिधीयते । नियोगस्य अपरं नाम कार्यम्, काय्यं हि कर्तुः कृति- साध्यमर्थात् कर्तुः कृतेरुद्देश्यम् । कृतिसाध्यत्वादेव कार्यमित्युच्यते । कार्यमेव स्व- सिद्धये नियोज्यपुरुषस्य नियोगं करोतीति नियोगनाम्नाभिधीयते । अत एव "स्वसिद्धये स्वात्मनि नियुञ्जानं नियोग" इति । विधिवाक्यश्रवणानन्तरं यः पुरुषः इदं मत्कार्य- मित्यवगच्छति स एव नियोज्यः । स्वर्गकामो यजेत (आपस्तम्बगौतमसू० १०।२।८) इति वाक्ये साध्यस्वर्गकामनावान पुरुष एव स्वर्गकामः । स्वर्गकामनावान् पुरुषः ताह- शकर्मण्येव नियोज्यो भवति यद्धि कार्य स्वर्गकामनावतः पुरुषस्य काम्यस्वर्गस्य साधक भवितुमर्हति । काम्यस्वर्गफलाव्यवहितप्राक्काले विद्यमानं वस्तु एव स्वर्गफलस्य साधनं भवितु- महति । यागक्रिया च क्षणविनाशिनीति कालान्तरभाविनः स्वर्गफलस्प अव्यवहित- प्राक्क्षणे न विद्यते इति यागरूपक्रिया कार्यरूपे स्वर्गकामरूपनियोज्येन सह अन्विता न स्यात् । यत् काम्यफलस्य साधनं नास्ति तादृशकार्ये कदापि स्वर्गकामः पुरुषः नियोज्य- रूपेणान्वितो न भवितुकर्हति । अत एव "स्वर्गकामो यजेत'' इत्यत्र यागक्रियातिरिक्त प्रमाणान्तरावेद्यं कार्यमेव लिङादिप्रत्ययेन अभिधीयते । तादृशकार्यस्यैवाभिधायक: लिङा- दिविधिप्रत्ययो भवति यद्धि कार्यमेतद्वाक्यातिरिक्तेन केनापि प्रमाणेन विदितं न भवति । प्रमाणान्तरावेद्यत्वादेव अपूर्वमिदम् इति जेगीयते । विषय एव करणम् । कार्यस्य स्वरूपप्रतीतौ यत् विषयरूपेण भासते तदेव कार्यस्य स्वरूपनिवर्तकरूपे करणरूपेण भासते । कार्यप्रतीतौ यद्धि विषयरूपेणापेक्षितं तदेव कार्योत्पत्तौ करणं भवति । कार्य कृतिघटितशरीरम् । कृतिसाध्यमेवं कृति प्रति प्रधानी भूतमेव कार्यम् । ज्ञानं यथा नियतं सविषयकम्, तथैव कृतिरपि नियतसविषयिका । तथा च कार्यस्य प्रतीतो कृतेविषयस्या- पेक्षा वर्तते । विषयमन्तरा कृतेः प्रतीतिरेव न स्यात् । उत्पत्तिक्रिया सकरणिकैव । करणं विना क्रिया न भवितुसर्हति । धात्वर्थरूपकरणेन नियोज्यपुरुषरूपः कर्ता कार्यस्यो- त्पादको भवति । कार्यमुत्पद्यमानमर्थात् निर्वयम्, कार्यस्य निर्वर्तयिता नियोज्य एवं करणं धात्वर्थः । यस्य पूर्व कार्यस्य विषयरूपेण प्रतीतिस्तस्यैव कार्यस्य उत्पत्तौ करण- रूपेण प्रतीतिः । प्रथमतः नियोज्यपुरुषस्य समीपे विधिवाक्येन प्रतीतिरनन्तरं नियोज्य- रूपकर्तृपुरुषेण कार्य निर्वयं-निष्पाद्यं स्यात् । कृतिसाध्यं वस्त्वेव कार्य तस्मात् कृतेनिं विना कार्यस्य ज्ञानं न सम्भवति । यद्धि कृतिसाध्यं कृति प्रति प्रधानीभूतन्तदेव कार्यम् । यद्वस्तु उद्दिश्य कृतिर्जायते तदेव कृति प्रति प्रधानीभूतम्, नियोज्यरूपकर्तृपुरुषस्य कृतिः कार्यस्थ सिद्धय द्देश्येन प्रवर्तते । १. पुरुषं नियुञ्जानः नियोग इति व्यपदिश्यते । न्याय० क० पृ० ५३ - [ २१ ] कृतिहि चेतनस्य आत्मनः गुणः । चेतन एव नियोज्यो भवति । यत्र कायें चेतनः पुरुषः अप्रधान रूपेण प्रतीयते तदेव कार्यम् । कार्यस्य स्वरूपसिद्धयर्थमेव चेतनः प्रयत्नवान् भवति । कार्य हि कृतेरुद्देश्यमिति कार्य प्रधानम् अत्र कृतिरप्रधाना एवं कृत्याश्रयः पुरुषोऽपि अप्रधानभूतः । ज्ञानं यथा सविषयकं तथैव कृतरपि नित्यं सविषयिका । विषयमन्तरेण कृतेः स्वरूपनिरूपणं न भवितुमर्हति । कृतेः विषयः पुरुषव्यापार:-चेष्टा, यागः ज्ञानम्, होमादिकम् । क्रियाविषयिणी कृति: अपूर्वाख्य कार्यमुद्दिश्य प्रवर्तते । तथा च नियोज्यपुरुषस्य कृत्या अपूर्व सिध्यति । यागादिषयिणी या कृतिस्तया कृतिसाध्यं कृति प्रति प्रधानीभूतमपूर्व कार्य जायते । कार्यं कृति विना न सम्भवति, कृतिश्च क्रियां विना न सम्भवति इति कृतिः क्रियाविषयिणी। तथा अनया कृतिप्रणाल्या यजेत इति कथिते यागविषयक कार्यमित्यर्थोऽवगम्यते । विपूर्वकस्य बन्धनार्थक “षिञ्" धातोः अच्प्रत्यये विषयः । विषिण्वन्ति विषयिणं बध्नन्ति स्वेन रूपेण निरूपणीयं कुर्वन्तीति विषयाः । ज्ञानादीनां विषयः विषयिणं ज्ञानं वध्नाति । विषयनिरूपणाधीन- मेव ज्ञानं निरूपणीयं भवति । घटादिविषयः स्वविषयकं ज्ञानमितरविषयकज्ञानात् व्यावर्तयति अत एव घटादिः ज्ञानस्य विषयः जायते । एवमेव कार्यमपि इतरकार्याया- वर्तयति इति धात्वर्थरूपक्रिया कार्यस्य बन्धनकारिका। कृतिः क्रियाभिन्ननिरूपिता न भवति, धात्वर्थ एव क्रिया। धात्वर्थरूपक्रियाविष यककृत्या लिङर्थकार्यस्य निष्पत्ति- र्भवति । यागविषयक कार्यमित्यत्र धात्वर्थक्रिया यागलिडर्थकार्यस्य बन्धनं व्यवच्छेदक विशेषणं वा भवतीति कार्यस्य विषयो जायते। स्वर्गकामो यजेत एतादृशवाक्यस्य यथा नियोज्यः स्वर्गकामनावान् पुरुषः तथैव लिङर्थकार्ये एव पुरुषः नियोज्यरूपेणान्वित इति कार्यरूप : लिङर्थः नियोज्यपुरुषकाम्यस्य स्वर्गस्य साधनं भवतीति । कार्य लिडर्थ एव नियोज्यकाम्यस्य स्वर्गस्य साधनम् । तथा च लिडर्थकार्यविषयः धात्वर्थ क्रिया नियोज्यपुरुषकाम्यफलस्य साधनम् । अत्रेयमाशङ्का यत् लिङर्थः कार्य नियोज्यपुरुषस्य यत्काम्यं फलन्तस्य साधनमत एव नियोज्यः पुरुषः लिडर्थकार्यस्य सिद्धयर्थं प्रवृतो भवति । लिङर्थः कार्य यदि नियो- ज्यपुरुषस्तथा यत्काम्यं फलन्तस्य फलस्थ साधनं न स्यात् तदा नियोज्यः पुरुषः कदापि लिडर्थकार्यस्य सिद्धयर्थ प्रवृत्तो न स्यात् । तस्मात् गुरुमते कार्य नियोज्पुरुषस्य काम्य- फलस्य साधनम् । तथा च कार्य फलस्य जनकमिति कार्यभधानं फलञ्च प्रधानम् । विधिवाक्ये कार्यस्यैव मुख्यविशेष्यत्वमित्यपि न संबटते, यतः अप्रधानभूतं कार्य मुख्य विशेष्यं न भवितुमर्हतीति कार्यस्यैव समस्तवाक्यप्रधानीभूतत्वं न संगच्छते । अत्र गुरुमतानुयायिनः कथयन्ति-कार्य स्वसिद्धयर्थमेव नियोज्यं नियुनक्ति । तथा च कायं नियोगो वा स्वसिद्धयनुकूलनियोज्यप्राप्त्यर्थमेव फलसाधनतामात्मनि स्वीकरोति न तु फलसिद्धयर्य फलसाधनता स्वीकरोति । कार्य स्वसिद्धयर्थमेव नियोज्यं प्रेरयति नियोज्योऽपि काम्य फलस्य असाधने नैव प्रवृत्तो भवतीति नियोगः कार्य वा [ २२ ] नियोज्यपुरुषकाम्यफलसाधनता स्वीकरोति फलतः कार्य स्वसिद्धयनुकूलनियोज्यपुरुष- लाभार्थं नियोज्यपुरुषस्य यत्काम्यं फलन्तस्य साधनं भवतीति कार्यस्य नियोगस्य वा प्राधान्यस्य हानिन जायते । शब्देन विधेनिमनायासेनैव सर्वेषां यदि जायते तदा साधनत्वेन ज्ञाते कर्मणि प्रवृत्तौ सत्यां निष्पादितक्रिये कार्ये साधनस्य अनुपपत्तिरेव स्यात, शब्दात्प्रसिद्धस्य प्रतिपादनं वृथैव भवति इति शब्देन विज्ञातं वस्तु नैव जिज्ञासितं भवति । विधिश्च सर्वथाऽप्रसिद्धस्तदा अप्रसिद्धत्वादेव वेदार्थतया प्रतिपाद्यः न स्यात् । विधिः शब्देन अवगम्यते इति प्रसिद्ध एव तथापि विधौ वर्तन्ते दार्शनिकानां काश्चन विप्रतिपत्तय इति संशयापन्न: विधिः जिज्ञासितो भवति । तत्र सतीषु बह्वीषु विप्रतिपत्तिषु इयं हि विमतिर्जायते लिङादिः लडादिरूपादन्यशब्दात् भिद्यते इति शब्दभेद एव विधिः । यथा अयस्कान्तमणिस्वरूपे वस्तुनि अस्त्येव स्वस्वभावजन्यः तादृशः कश्चिदतिशय: यद्वशात् अचेतनं लौहं प्रवर्तयति तथैव लिङादावपि तादृशोऽतिशयः कश्चिद् वर्तते यद्वशात् चेतनं पुरषं कर्मणि प्रवर्त्तयति । लिङादेव्यापारातिशयो वा चेतनस्य प्रवृत्तिकारणं स्वीक्रियते किम्वा शब्दभेदवदर्थभेद एव विधिरभ्युपेयते । यद्यप्यत्रेवं शङ्कोदेति यत् अर्थभेदस्य विधित्वे शब्दे विधिव्यवहारः कथमिव स्यात्, दृश्यते च शब्देऽपि विधि- व्यवहारः । यथा-"चोदनेति क्रियायाः प्रवर्तकं वचनम्" इति, "विधिना त्वेक- वाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः" इति च उभयत्रापि शब्दे एव विधिशब्द- व्यवहारः दृश्यते नार्थे । चोदनेतिशब्दस्यैव क्रियायाः प्रवर्तकत्वं प्रतिपादितम् तथैव एकवाक्यता च वाक्यरूपेण शब्देन वाक्यान्तरस्य शब्दस्याभिहितम् । सत्यम्, परमियमाशङ्का नैव दुष्परिहरा यद् विध्यर्थाभिधायके शब्देऽपि विधिशब्दव्यवहारो भवति । मण्डन मिश्रस्य मते इष्टसाधनत्वमेव विव्यर्थः कृतिसाध्यत्वं हि लोकादेव अवगम्यत इति न तत्र विध्यपेक्षा। यागो मत्कृतिसाध्यः, मत्कृतिसाध्यविरोधिधर्मानधिकरणत्वात् इत्यनुमानेनैव कृतिसाध्यत्वस्य लाभात, तथा च कृतिसाध्यत्वज्ञानस्य प्रवर्तकत्वेऽपि 'अनन्यलभ्यो हि शब्दार्थः' इति न्यायेन प्रदर्शितरीत्या अनुमानेनैव कृतिसाध्यत्व- ज्ञानस्य प्रवर्तकत्वलाभात् न तत्र विधेः शक्ति स्ति। स्वर्गादीनामिष्टसाधनत्वन्तु प्रमाणान्तरेणावगन्तुं न शक्यतेऽपि तु आम्नायवाक्यादेव तदवगम्यते इत्यनन्यलभ्य- स्वात्तत्र विधेः शक्तिः स्वीक्रियते । केचित्तु "अनन्य लभ्यो हि शब्दार्थः' इति न्यायस्य तत्रैव प्रवृत्तिः यत्र पदान्तरलम्योऽर्थः भवति-पदान्तरलभ्ये हि अर्थे पदस्य शक्ति: न भवति, अन्यथा कुत्रापि शक्तिर्न सिद्धयेत् सर्वस्यैवार्थस्य शब्दातिरिक्तप्रमाणान्तर- वेद्यत्वात् । अनन्यलभ्यन्यायेन प्रदर्शितरीत्या कृतिसाव्यत्वे विध्यर्थविशेषास्वीकारेऽपि कृतिसाध्यत्वज्ञानं न प्रवर्तकम्, कृत्यसाध्यत्वेन निश्चिते प्रवृत्तिस्तु न जायते । कृतसाध्ये इटाभावेन वृथा श्रमजनकत्वेन द्वेषादेव प्रवृत्तेरभावात् । यद्यपि प्रदर्शितरीत्या कृति- साध्यत्वज्ञानं प्रवर्तकं न भवेत् तथापि कृतिसाध्यत्वज्ञानं विना कृतिसाध्यत्वप्रकारिके.

[ २३ ] च्छात्मिका या चिकीर्षा सा नैव जायते । चिकीर्षाया अभावे च प्रवृत्तिरपि नैव स्यादिति कृतिसाध्यत्वज्ञानस्य प्रवर्तकत्वमावश्यकम् । लोकव्यवहारादेव तस्यानुगमात् चिकीर्षोपपत्तेः चिकीर्षानुरोधेन कृतिसाध्यत्वे शक्तिकल्पनमनावश्यकम् । अत्रेयमाशङ्का भवति-अनिष्टजनके उदासीने च कर्मणि वृथा श्रमजनकतया द्वेषादेव प्रवृत्तिर्न स्यात् तथा च इष्टसाधनत्वज्ञानस्य विध्यर्थत्वाभावेऽपि इष्टसाधने एव कर्मणि प्रवृत्ति : स्यान्नान्यत्र । इष्टसाधनताज्ञानस्य प्रवृत्तिहेतुत्वाभावे इष्टाजनके कर्मणि यत्र आन्तरालिकश्रनो वर्तते तत्र द्वेषाभावसत्त्वेऽपि प्रवृत्तिन भवतीति सकल जनसम्मतोऽयं विषयः, इदानीमिष्टसाधनत्वज्ञानस्य प्रवृ िहेतुत्वामभ्युपगमेऽत्र प्रवृत्तिर्दुनिवारा स्यात् इष्टसाधनत्वज्ञानस्य प्रवृत्ति हेतुत्वाभ्युपगमे तु प्रदर्शितस्थले इष्टसाधनत्वात्मकस्य प्रवृति:- हेतुत्वस्याभावादेव प्रवृतिर्न भवतीति सर्व सुसमञ्जसम् । इष्टसाधनत्वज्ञानस्य प्रवृत्ति- हेतुत्वञ्च न मदंशरहितस्यापि तु मदिष्टसाधनमितिज्ञानस्यैव प्रवृत्तिहेतुत्वमभ्युपगन्तव्यम् अन्यथा मदंशस्य विधिवाक्यादलाभेन मदिष्टसाधनेऽपि यागादौ प्रवृत्तेरनुदयात् । अयमाशयः-लिङादिप्रत्ययेभ्यः प्रवर्तना प्रतीयते। सर्वापि चेष्टा मानसिकी भवतु कायिकी वा प्रयत्नपूविकैव भवति । प्रयत्नो हि ग़गपूर्वक एव, विना रागं न कस्मिश्चिदपि कार्ये प्रेक्षावतां प्रवृत्तिर्भवति । रागो हि नैव दु:खे नाप्य सुखे अपि तु सुखानुशयी राग इति सुखे सुखसाधने वा रागो भवति 'दुःखे द्वेषादेव रागो न' असुखदुःखे च उपेक्षणाच्च न रागः । सुखस्य चान्येच्छानधीनेच्छा विषयत्वमिति सर्वानुभवसिद्धम् । क्रिया च दु खात्मिका इत्यत्र नास्ति केषामपि सचेतसां विमतिः लोकानुभवसिद्धत्वात् । क्रियायां लोकाः प्रवर्तन्ते इत्यवश्यमेव क्रियायां सुखसाधनत्वमवगन्तव्यम्, अन्यथा सुखार्थिनस्तत्र नैव प्रवर्तेरन् वैदिकक्रियाश्च नैव साक्षात् सुवसाधिका इति प्रेक्षावतां वैदिकव्यापारोपरमप्रसङ्गः समापतति इति दुःखरूपास्वपि क्रियासु सुखसाधनत्व- मवश्यमेवाभ्युपगन्तव्यम् । सुखसाधनतैवेच्छोपहारमुखेन सुखोपायत्वात् क्रियासु प्रवर्त- यितुमीशते । यदि शब्दः सुखसाधनतां न प्रतिपादयेत् तदा न कोऽपि क्रियायां पुरुषं प्रवर्तयेत् । लिङा शब्देन इष्टसाधनतामात्रमभ्युपगम्यत इति कथमिवास्मात् प्रवर्तनायाः प्रतीतिः स्यात् । प्रवृत्ति समर्थस्तावत्कश्चिद्भावातिशयो व्यापार एव प्रवर्तना' । एतन्मते केवलं परिस्पन्दनमेव व्यापारशब्देन नोच्यते येन परिस्पन्दनातिरिक्तत्वेन व्यापार- शब्दस्य प्रयोगो न भवेत् । तस्मादिष्टसावनत्वस्य परिस्पन्दनातिरिक्तत्वेन अप्रवर्त- नात्मत्वं स्यात्, भावधर्म एव कश्चित्समीहित साधनानुगुणो व्यापारपदार्थः । यथा कश्चित ज्ञानजनने प्रवृतो भवति तदा भावधर्मः तथैव स्पन्देतरः इष्टसाधनत्वाख्यः भावधर्म एव प्रवृत्तिजननेऽनुकूलतया व्यापारविशेष: प्रवर्तना। शब्दः तद्भावना वात्र न भवति प्रवर्तना यतः न अपेक्षितोपायत्वप्रतिपादनं विना कोऽपि क्रियासु प्रवर्तते । अत्रेय- १ प्रवृत्तिहेतुं धर्म च प्रवदन्ति प्रवर्तनाम् । वि० वि० पृ०-२४३ २. सा च क्रियाणामपेसितोपायतैव । वि० वि० पृ०-२४३ [ २२ ] - नियोज्यपुरुषकाम्यफलसाधनतां स्वीकरोति फलत : कायं स्वसिद्धयनुकूलनियोज्यपुरुष. लाभार्थं नियोज्यपुरुषस्य यत्काम्यं फलन्तस्य साधनं भवतीति कार्यस्य नियोगस्य वा प्राधान्यस्य हानिन जायते । शब्देन विधेनिमनायासेनैव सर्वेषां यदि जायते तदा साधनत्वेन ज्ञाते कर्मणि प्रवृत्तौ सत्यां निष्पादितक्रिये कार्ये साधनस्य अनुपपत्तिरेव स्यात, शब्दात्प्रसिद्धस्थ प्रतिपादनं वृथैव भवति इति शब्देन विज्ञातं वस्तु नैव जिज्ञासितं भवति । विधिश्च सर्वथाऽप्रसिद्धस्तदा अप्रसिद्धत्वादेव वेदार्थतया प्रतिपाद्यः न स्यात् । विधिः शब्देन अवगम्यते इति प्रसिद्ध एव तथापि विधौ वर्तन्ते दार्शनिकानां काश्चन विप्रतिपत्तय इति संशयापन्न: विधि: जिज्ञासितो भवति । तत्र सतीषु बह्वीषु विप्रतिपत्तिषु इयं हि विमतिर्जायते लिङादिः लडादिरूपादन्यशब्दात् भिद्यते इति शब्दभेद एव विधिः । यथा अयस्कान्तमणिस्वरूपे वस्तुनि अस्त्येव स्वस्वभावजन्यः तादृशः कश्चिदतिशयः यदशात् अचेतनं लौहं प्रवर्त्तयति तथैव लिङादावपि तादृशोऽतिशयः कश्चिद् वर्तते यदशात चेतनं पुरषं कर्मणि प्रवर्त्तयति । लिङादेापारातिशयो वा चेतनस्य प्रवृत्तिकारणं स्वीक्रियते किम्वा शब्दभेदवदर्थभेद एव विधिरभ्युपेयते । यद्यप्यो शङ्कोदेति यत् अर्थभेदस्य विधित्वे शब्दे विधिव्यवहारः कथमिव स्यात्, दृश्यते च शब्देऽपि विधि- व्यवहारः । यथा-"चोदनेति क्रियायाः प्रवर्तकं वचनम्" इति, "विधिना त्वेक- वाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः" इति च उभयत्रापि शन्दे एव विधिशब्द- व्यवहारः दृश्यते नार्थे । चोदनेतिशब्दस्यैव क्रियाया: प्रवर्तकत्वं प्रतिपादितम् तथैव एकवाक्यता च वाक्यरूपेण शब्देन वाक्यान्तरस्य शब्दस्याभिहितम् । सत्यम्, परमियमाशङ्का नैव दुष्परिहरा यद् विध्यर्थाभिधायके शब्देऽपि विधिशब्दव्यवहारो भवति । मण्डन मिश्रस्य मते इष्टसाधनत्वमेव विव्यर्थः कृतिसाध्यत्वं हि लोकादेव अवगम्यत इति न तत्र विव्यपेक्षा। यागो मत्कृतिसाध्यः, मत्कृतिसाध्यविरोधिधर्मानधिकरणत्वात इत्यनुमानेनैव कृतिसाध्यत्वस्य लाभात्, तथा च कृतिसाध्यत्वज्ञानस्य प्रवर्तकत्वेऽपि "अनन्यलभ्यो हि शब्दार्थः' इति न्यायेन प्रदर्शितरीत्या अनुमानेनैव कृतिसाध्यत्व- ज्ञानस्य प्रवर्तकत्वलाभात् न तत्र विधेः शक्ति स्ति। स्वर्गादीनामिष्टसाधनत्वन्तु प्रमाणान्तरेणावगन्तुं न शक्यतेऽपि तु आम्नायवाक्यादेव तदवगम्यते इत्यनन्यलभ्य- स्वात्तत्र विधेः शक्तिः स्वीकियते । केचित्तु "अनन्यलभ्यो हि शब्दार्थः' इति न्यायस्थ तत्रैव प्रवृत्तिः यत्र पदान्तरलम्योऽर्थः भवति-पदान्तरलभ्ये हि अर्थे पदस्य शक्ति: न भवति, अन्यथा कुत्रापि शक्तिर्न सिद्धयेत् सर्वस्यैवार्थस्य शब्दातिरिक्तप्रमाणान्तर- वेद्यत्वात् । अनन्यलभ्यन्यायेन प्रदर्शितरीत्या कृतिसाध्यत्वे विव्यर्थविशेषास्वीकारेऽपि कृतिसाध्यत्वज्ञानं न प्रवर्तकम्, कृत्यसाध्यत्वेन निश्चिते प्रवृत्तिस्तु न जायते । कृतसाध्ये इष्टाभावेन वृथा श्रमजनकत्वेन द्वेषादेव प्रवृत्तरभावात् । यद्यपि प्रदर्शितरीत्या कृति- साध्यत्वज्ञानं प्रवर्तकं न भवेत् तथापि कृतिसाध्यत्वज्ञानं विना कृतिसाध्यत्वप्रकारिके.

[ २३ ] खे च्छात्मिका या चिकीर्षा सा नैव जायते । विकीर्षाया अभावे च प्रवृत्तिरपि नैव स्यादिति कृतिसाध्यत्वज्ञानस्य प्रवर्तकत्वमावश्यकम् । लोकव्यवहारादेव तस्यानुगमात् चिकीर्षोपपत्तेः चिकीर्षानुरोधेन कृतिसाध्यत्वे शक्तिकल्पन मनावश्यकम् । अत्रेयमाशङ्का भवति-~~-अनिष्टजनके उदासीने च कर्मणि वृथा श्रमजनकतया द्वेषादेव प्रवृत्तिर्न स्यात् तथा च इष्टसाधनत्वज्ञानस्य विध्यर्थत्वाभावेऽपि इष्टसाधने एव कर्मणि प्रवृत्तिः स्यान्नान्यत्र । इष्टसाधनताज्ञानस्य प्रवृत्तिहेतुत्वाभावे इष्टाजनके कर्मणि यत्र आन्तरालिकथनो वर्तते तत्र द्वेषाभावसत्त्वेऽपि प्रवृत्तिर्न भवतीति सकल जनसम्मतोऽयं विषयः, इदानीमिष्टसाधनत्वज्ञानस्य प्रवृ िहेतुत्वामभ्युपगमेऽत्र प्रवृत्तिनिवारा स्यात् इष्टसाधनत्वज्ञानस्य प्रवृत्ति हेतुत्वाभ्युपगमे तु प्रदर्शितस्थले इष्टसाधनत्वात्मकस्य प्रवृःि:- हेतुत्वस्याभावादेव प्रवृत्तिर्न भवतीति सर्वं सुसमञ्जसम् । इष्टसाधनत्वज्ञानस्य प्रवृत्ति- हेतुत्वञ्च न मदंशरहितस्यापि तु मलिष्टसाधनमितिज्ञानस्यैव प्रवृत्तिहेतुत्वमभ्युपगन्तव्यम् अन्यथा मदंशस्य विधिवाक्यादलाभेन मदिष्ट साधनेऽपि यागादौ प्रवृत्तेरनुदयात् । अयमाशयः--लिङादिप्रत्ययेभ्य: प्रवर्तना प्रतीयते। सर्वापि चेष्टा मानसिकी भवतु कायिकी वा प्रयत्नपूविकैव भवति । प्रयत्नो हि रागपूर्वक एव, विना रागं न कस्मिश्चिदपि कार्ये प्रेक्षावतां प्रवृत्तिर्भवति। रागो हि नैव दु.खे नाप्यसुखे अपि तु सुखानुशयी राग इति सुखे सुखसाधने वा रागो भवति 'दुःखे द्वेषादेव रागो न' असुखदुः च उपेक्षणाच्च न रागः । सुखस्य चान्येच्छानधीनेच्छाविषयत्वमिति सर्वानुभवसिद्धम् । क्रिया च दु खात्मिका इत्यत्र नास्ति केषामपि सचेतसां विमतिः लोकानुभवसिद्धत्वात् । क्रियायां लोकाः प्रवर्तन्ते इत्यवश्यमेव क्रियायां सुनसाधनत्वमवगन्तव्यम्, अन्यथा सुखार्थिनस्तत्र नैव प्रवर्तेरन् वैदिकक्रियाश्च नैव साक्षात् सुखसाधिका इति प्रेक्षावता वैदिकव्यापारोपरमप्रसङ्गः समापतति इति दुःवरूपास्वपि क्रियासु सुखसाधनत्व- मवश्यमेवाभ्युपगन्तव्यम् । सुखसाधनतेवेच्छोपहारमुखेन सुखोपायत्वात् क्रियासु प्रवर्त- यितुमीशते। यदि शब्द: सुखसाधनतां न प्रतिपादयेत् तदा न कोऽपि क्रियायां पुरुषं प्रवर्तयेत् । लिङा शब्देन इष्टसाधनतामात्रमभ्युपगम्यत इति कथमिवास्मात् प्रवर्तनायाः प्रतीतिः स्यात् । प्रवृत्ति समर्थस्तावत्कश्चिद्भावातिशयो व्यापार एव प्रवर्तना' । एतन्मते केवलं परिस्पन्दनमेव व्यापारशब्देन नोच्यते येन परिस्पन्दनातिरिक्त वेन व्यापार- शब्दस्य प्रयोगो न भवेत् । तस्मादिष्टसाधनत्वस्य परिस्पन्दनातिरिक्तत्वेन अप्रवर्त- नात्मत्वं स्यात्, भावधर्म एव कश्चि समीहितसाधनानुगुणो व्यापारपदार्थः । यथा कश्चित ज्ञानजनने प्रवृतो भवति तदा भावधर्मः तथैव स्पन्देतरः इष्टसाधनत्वाख्य : भाव धर्म एव प्रवृत्तिजननेऽनुकूलतया व्यापारविशेष: प्रवर्तना। शब्द: तद्भावना वात्र न भवति प्रवर्तना यतः न अपेक्षितोपायत्वप्रतिपादनं विना कोऽपि क्रियासु प्रवर्तते । अत्रेय- १ प्रवृत्तिहेतुं धर्म च प्रवदन्ति प्रवर्तनाम् । वि० वि० पृ०-२४३ २. सा च क्रियाणामपेक्षितोपायतैव । वि० वि० पृ०-२४३ . [ २४ ] माशङ्का जाति यत् राज्ञः सेवकः यत्र यत्र कर्मणि प्रवर्तते तत्र सर्वत्रापेक्षितोपायत्व- निबन्धनैव प्रव िभवतीति वक्तुं न शक्यते, राजाज्ञया अनपेक्षितोपायेऽिप प्रेक्षावतां राजसेवकानां प्रवृत्तिदृश्यते इति अपेक्षितोपायतां प्रतिपाद्यैव कियासु प्रवृत्तिः क्रियायां तथापि केनापि रूपेणापेक्षितोपायनिबन्धनतामाश्रित्यैव सा प्रवृत्तिर्जायते । यद्यपि यत्र आज्ञादिना कस्यांश्चिक्रियायां प्रवृत्तिर्भवति तत्र नियोक्तुरेव अर्थकर्मणि इति नियोक्तुरेवा- पेक्षितोपायनिबन्धना आज्ञादयो वर्तन्ते तथापि नियोज्यस्य पुरुषस्य या तद्विषयसम्पादने प्रवृत्तिर्भवति सा नियोज्यापेक्षितनिबन्धनैव भवति । यतः नियोज्यः प्रेक्षावान् आज्ञा- धनन्तरं मनसि परिकल्पयति एतत्कार्यसम्पादनानन्तरं कार्यसम्पादनेन सम्यक्तोषितः ममाज्ञापयिता अभीष्टं मह्यं प्रयच्छेत् ममाहितं वा न विदध्यात् इति समीहितलाभरूप- महितविनिवृत्तिरूपं वा अपेक्षितमुपाश्रित्यैव भृत्यस्य नियोज्यस्य स्वनियोक्तुराज्ञाविषय- सम्पादने प्रवृत्तिर्भवति नान्यथात एव यः पुरुषः यस्य हितप्राप्तौ अहितपरिहारे वा नैव यत्नं विधत्ते तस्य आज्ञामपि नैवासौ नियोज्य : अनुरुणद्धि इति अकामेनापि एतत्स्वी- कर्तव्यं यत् नियोक्त्रर्थसमुद्देशेन नियोज्यस्य प्रवृतिरानुषङ्गिकी आज्ञाविषयस्य स्वापेक्षितत्वादेव प्रवृत्तिरिति लिङादिभ्यः प्रवर्तनावगतिर्नानुपपन्ना । केचन वेदं प्रति अतिशयश्रद्धावन्तः इदं मम कर्तव्यमिति ज्ञानानन्तरमेव प्रवृत्तिरित्य- वोचन् । कस्यचित्कर्मणः दर्शनोत्तरं कर्तव्यतामेव प्रवृत्तिहेतुत्वेनावगच्छन्ति । स्तनन्धयस्य बालस्य या तावदादौ प्रवृर्भिवति सापि न समीहितोपाय इत्येतावतैवेत्यस्यापि तु कर्तव्यमेतदिति । तस्मात् कर्तव्यतैव प्रवृत्तिहेतुरिति लिडादिश्रवणानन्तरं प्रवृत्तिः कर्तव्यताभिधानमेव लिङादीनां संसाधयति । लौकिकवचनं हि न निरपेक्षं प्रवृत्तिजनक भवत्यपि तु प्रमाणान्तरापेक्षम् अपेक्षितोपायप्रतीतिपुरस्सरमेव । क्रिया हि दुःखरूपा, तथा च दुःखरूपायां क्रियायां प्रवृत्तिर्न स्वाभाविकी नापि केवलं कर्तव्यत्वज्ञानसापेक्षा परमियं हि प्रमाण.न्तरापेक्षेव प्रवृति रिति दुःखरूपक्रियाकर्तव्यतावगतेरपेक्षितोपायतां तत्त्रमाणभूतामन्तर्भाव्य कर्तव्यतावगतिः । वेदो हि अपौरुषेय इति निरपेक्षत्वात् न स्वार्थे प्रमाणान्तरमपेक्षत इति अपेक्षितोपायतावगतेरपेक्षा तत्र न जायते तथा च अपेक्षितोपायतावगमनिरपेक्ष एव कर्तव्यतावगमहेतुः । कर्तव्यता हि वेदे लिङादिप्रयोगे- नाभिधीयते । यथा लोके लिङगदिश्रवणान्तरा प्रवृत्तिः कर्तव्यताभिधानमेव लिङादी- नामापादयति । अवगतसङ्गतितया लिङादयो वेदेऽपि कर्तव्यतामेवाभिदधते । वेदे लिङादिनाऽवगम्यमाना कर्तव्यता अनुष्ठान कर्तारमधिकारिणं नियोज्यं पुरुषमपेक्षते । तत्र कश्चिद्विधिः साध्यः यथा स्वर्गकामो यजेत । अत्र यदा नियोज्यः साध्यविशिष्टस्तदा साध्यविवृद्धिर्भवति । यत्र तु नियोज्यः निमित्तवान् यथा 'यावज्जीवमग्निहोत्रं जुहुयात्' तत्र भावविषयं कार्यं हितसाधनतावगमनिरपेक्षोमपि अवगमत्प्रवृत्ति जनयति । यत्र वा 'न कलज भक्षयेदिति' तत्र भगवानाम्नाय एव निरस्ताखिलदोषाशङ्कोऽहितसाधनताव- १. सा च क्रियाणामपेक्षितोपायतैव । वि० वि० पृ०-२४३ [ २५ । गमनिरपेक्ष एव नअर्थविषयं कार्यमवगमयन् निवृत्ति विधते इति अपेक्षितोपायतायाः प्रवृति प्रति साधनत्वस्वीकारे न किमपि फलम् । एतस्य पूर्वप्रदर्शितस्य शङ्काग्रन्थस्य समाधाने न्यायकणिकायामेतदभिहितं यत् अपेक्षितोपायताम्-इष्टसाधनत्वमन्तरेण कर्तव्यमिति शतशोऽभिधीयमानमपि न कार्यप्रवृत्तये समर्थो भवति । शब्दो हि कर्तव्यतायां विदितसंगतिरवश्यमेवापेक्षितोपाय- तामवगमयति, अपेक्षितोपायतावशादेवानुष्ठाने प्रवृत्तिर्भवति, अर्थात् इष्टसाधनत्वादेव प्रमाणान्तरानपेक्षादा नायादवगता कर्तव्यता अनुष्ठानमाक्षिपति । एवमेव नैमि कविधौ च प्रतीयमाना अपेक्षितोपायसाधनता न शक्या नेति वक्तुम् । कर्तव्यताज्ञानस्य हि अपेक्षितोपायनान्तरीयकत्वात् कर्तव्यताज्ञानस्य प्रवृतिजनकत्वेऽपेक्षितोपायत्वज्ञानस्यैव प्रवृत्तिजनकत्वं सेत्स्यति । अन्यथा कर्तव्यमिति प्रतिपद्यमानेऽपि कथं तत्र प्रवर्तते । तस्मादीप्सितस्योपायतैव कर्तृप्रवृत्ति हेतुः । अत्र पूर्वपक्षिणा एतदुच्यते यत् कर्तव्यताऽवगमादेव क f कर्मणि प्रवर्तते इति कर्तव्यतैव प्रवृत्तिहेतुरस्तु । इयं कर्तव्यता का ? न निरालम्बनं ज्ञानं भवति । किमपि विषयमवलम्व्यैव ज्ञानं भवति निरालम्बनं ज्ञानं च न भवति इति क रीप्सितोपायतैव प्रवृत्तिहेतुः कर्तव्यताज्ञानस्यालम्वनम् । कृतिव्याप्यतागोचरं कर्तव्यत्वज्ञानन्तद्विपरीतता- गोचरं हि अकर्तव्यत्वज्ञानमिति तत्कथं समीहितसाधनत्वमेवं तद्विपरीतसाधनत्वं गोचर- यितुमर्हति ? कर्तव्यत्वसमीहितसाधनत्वयोस्तादात्म्यं नास्ति यतः एकस्य सिद्धत्वादपरस्य च साध्यत्वात् दहनतुहिनवदुभयोः स्वभावविरुद्धत्वात् । यथा शुक्ल: प्रत्यय इत्यत्र शुक्ल एवार्थः प्रत्ययेऽन्वेति इति शुक्ल एव शुक्ल प्रत्ययस्य विषयो भवति समीहितोपायतां तद्विपरीततां चानुयातौ कर्तव्यमकर्तव्यमिति प्रत्ययो प्रवृत्तिनिवृत्तिहेतू लौकिकानाम् । तथा च अपेक्षितोपायतासत्त्वे कर्तब्यत्वप्रत्ययः अपेक्षितोपायतयात्रं नैव प्रवृत्तिकारणं समीहितस्यापि कर्तव्यतया समी हतस्यापि प्रवृत्तिहेतुत्वप्रसङ्गात् । फलं हि कर्तव्यस्य कृतिसाध्यस्य सुखं सुखसाधन प्रवृत्तिगोचरः स्यादेवेति कर्तव्यतायाः प्रवृत्तिगोचरत्वं स्यादेव । सत्यम्, साधनत्वं प्रवृत्तिहेतुः न तु कर्तव्यतामात्रमपि. तु कर्तुरिष्टसाधनं प्रवृत्तिकारणम् । तथा च कर्तव्यतैकार्थसमवायिनी समीहितसाधनता प्रवृत्तिहेतुः सैव च कर्तव्यताज्ञानस्यालम्बनमभिमता। यद्युच्यते कर्तव्यतामात्रोपयोगिनी या समीहित- साधनता वर्तते सा नैव प्रवृत्तिहेतुः । स्वीकियतेऽपि तु कर्तव्यतैव प्रवृत्तिहेतुर्भवति । सा च कर्तव्यता क्वचित्साधनतयाऽवगम्यते क्वच्चि सा कर्तव्यता शब्दतः कृतिसाध्यत्वेन रूपेण प्रवृत्तिहेतुर्भवति । तथा चासत्यामपि समीहितसाधनतायां कृतिसाध्यत्वरूपा कर्तव्यतैव प्रवृतिहेतुरिति कर्तव्यतामात्रमेव प्रवृत्तिहेतुरिति । समीहितोपायता हि १. ननु कर्तव्यमिति प्रतिपत्तेः प्रवृत्तिः । कथं हि तथा प्रतिपद्यमानो न प्रवर्तते । वि० वि० पृ० २४५, ४४६ ।

[ २६ ] कृतियोनिः । अयमाशयः-समीहितोपायता हि प्रमाणान्तःपातिनी इत्यत्र नास्ति ममापि विमति, परमेतादृशमप्यस्ति किञ्चत्प्रमाणं यस्य प्रमाणस्य अभावात् प्रमेयं निवर्तते । यदि कोऽपि भावपदार्थः अनित्यो भवति तदाऽवश्यमेवासौ कृतकोऽपि भवति । तथा च कृतकत्वन्तत्र भावानामनित्यत्वे प्रमाणम् । कृतकत्वाभावादनित्यत्वं निवर्तते। कदाचिदपि कस्मिश्चिद् भावे एतन्नैव भवितुमर्हति यदसौ भावोऽकृतकः सन्नपि अनित्यो भवेत् । एवमेवात्रापि कार्यत्वं नाम कृतिव्याप्यत्वं तथा च सति कार्यत्वे कृतिरवश्यमेव स्यात्, कृतिः चेतनप्रयत्नः पुरुषप्रयत्नो वेति । सा च कृतिः इच्छाजन्या अर्थात् इच्छाद्वेषजीवनयोनिस्तथा च इच्छाद्वेषात्मकयोः कृतियोनिभूतयोः निवृत्तौ कृतिरपि नैव भवति । ज्ञानजन्या भवेदिच्छा इच्छाजन्या कृतिर्भवेदित्यंशे न कस्यापि विमतिः । तस्मात्समीहितसाधनतायाः निवृत्तौ प्रवृत्ति व भवितुमर्हति समीहितस्य कृतियोनित्वात् । तस्मात्कर्तुः समीहितसाधनतैव कर्तव्यता कर्तुरपेक्षितोपायताविपरीता घर्तव्यता:। यः पुरुषः यदिच्छति तदेवासौ करोति नान्यत् इति भावनायाः प्रारम्भः इच्छयैव भवति । प्रारब्धया इच्छया च भावनाप्रयत्न : जायते, इच्छापूर्वकत्वात्प्रयत्नस्येति पूर्वमेव प्रति- पादनात् । इच्छापूर्वकत्वात्प्रयत्नस्य इच्छा फर्म एव भावनासाध्यमिति सिद्धोऽपि स्वर्ग: इच्छाकर्मतया साध्यात्मनैव भावनायामन्वेति समीहितसाधनतैवैतन्मते लिङर्थ इति संक्षेपः। नव्यमते विधिविवेक वेदो हि आचारमूल:, आचारश्च प्रवृत्तिः। तथा च जनकतासम्बन्धेन प्रवर्तक- ज्ञानवत्त्वं वेदस्य, प्रवृत्तिप्रयोजकत्वादेव प्रवर्तकज्ञानं नितान्तमपेक्षितं भवति । भाट्टमते हि लिङादीनामर्थः अभिधा । विधेः व्यापारीभूतः विधिसमवेतः भावनाख्यः, अतिरिक्तपदार्थविशेषः अभिधा । अस्याश्चाभिधायाः ज्ञानं प्रवर्तकम् भावनायाञ्च भावनात्वरूपेण विधिशक्तिः। प्रयोजनज्ञानं प्रवृत्तिहेतुर्न भवितुमर्हति एवमेव प्रयोजन- ज्ञानस्याहेतुत्वे विश्वजिद्यागादौ फलकल्पनमुपपन्नं स्यात् । यागविषयकभावनाजन्यो भवति पुरुषव्यापारः । तत्र यागविषयकव्यापारेऽभिधाजन्यत्वस्य अन्वये व्यापारनिष्ठं यदिष्टसाधनत्वन्तद्धि अन्वय प्रयोजकं जायत इति योग्यताबलादेवात्र लिङर्थे इष्ट- साधनत्वज्ञानस्य भानं भवति इति अन्यथालभ्ये इष्टसाधनत्वे लिङादीनां न शक्तिग्रहो भवति । यागविषयकभावनाजन्यः पुरुषव्यापार: आख्यातसानान्यशक्तिबललभ्ये कृति- रूपव्यापारे जन्यत्वसम्बन्धेन भावनायाः अन्वयसिध्यर्थं व्यापारनिष्ठेष्टसाधनत्वस्यान्वय- प्रयोजकत्वम् इति योग्यतयैव तदिष्ट साधनत्वस्य भानं भवति । अथ वा विधिबलादेव स्वर्गादिसाधनत्वस्य ग्रहो जायते । इष्टसाधनत्वञ्च प्रवृत्तिरूपव्यापारे आख्यातार्थेऽन्वेति, प्रवृत्तौ च इष्टसाधनताज्ञानमेव हेतुः। न चात्रेदं चिन्तनीयं यत्-न्यायमतेऽपि १. तस्मात्कर्तव्यताऽपि नान्या कर्तुः समीहितोपायतायाः । वि० वि० पृ० ३०४ । इष्टसाधनत्वमेव विव्यर्थ इति कोऽनयोविशेषः ? न्यायमते क्रियागतेष्टसाधनत्वं विध्यर्थः, भाट्टमते तु प्रवृत्तिगतमेव तदिष्टसाधनत्वमिति विशेषः । भाट्टमते चाभिधाया अभ्युपगमः, न्यायमते अभिधाया अनभ्युपगमश्चेति वर्तते विशेषः । अत्रेयमाशङ्का जागति यत् अभिधानामकस्थ व्यापारस्याभ्युपगमः किमिति कियते ? व्यापारभिन्नस्य इतरनिष्ठ- व्यापारजनकत्वं स्वनिष्ठव्यापारद्वारा भवति । यथा दण्डः चक्रनिष्ठस्पन्दनाख्यव्यापार- जनकः, दण्डश्च स्वनिष्ठस्पन्दनाख्यव्यापारार्जनं विना न भवति चक्रनिष्ठस्पन्दजनकोऽपि तु दण्डस्य स्वनिष्ठस्पन्दार्जनद्वारा चक्रनिष्ठस्पन्द जनकत्वम् । व्यापारो हि परनिष्ठ- व्यापारजनको भवतीति तत्रापि स्वनिष्ठः कचियापारोऽवश्यमेवाभ्युपगन्तव्य इति ब्यापारभिन्नस्येत्युक्तम् । व्यापारिणः स्वनिष्ठव्यापारजनने व्यापारापेक्षायान्तु तस्यापि स्वनिष्ठव्यापारजनने व्यापारापेक्षेति तस्य तस्येति क्रमेण अनवस्थापत्तेर्दुरित्वादिति परनिष्ठेत्युक्तम् । तावतापि ज्ञानद्वारैव लिङादीनां प्रवृत्तिजनकत्वमिति शब्दाश्रिता सा अभिधा न सेत्स्यति इत्यत उक्तं स्वतिष्ठव्यापारद्वारेति । सा च अभिधाख्या भावना यदा शब्दाश्रिता तदा शब्दाश्रितत्वादियं भावना शाब्दी भावनेत्युच्यते । अयमाशयः- भाट्टमते लिङ्लोट्तव्यदादियुक्तवाक्ये द्विविधभावना प्रतीयते-एका शाब्दभावना अपरा च आर्थभावना। आख्यातमात्रमार्थभावनामवगमयति लिङ्लोडादयश्च शाब्दभावनां प्रत्याययति । इदमेव "अभिधाभावनामाहुः" इत्यादिवात्तिकानुसारिसुचरितमिश्रमतम् । मण्डनमिश्रादीनां मते तु "श्रेयःसाधनता ह्येषां नित्यं वेदात्प्रतीयते" इति वात्तिकानुरोधेन इष्टसाधनत्वमेव विध्यर्थः । लोके लिङादीनामाप्तेच्छायां शक्तिग्रहो वर्तत इति वेदेऽपि नियोगः प्रवर्तनीयत्वेन इच्छा, तादृशार्थवाचकोऽत्र लिङादिर्भवति । नियोगः१ प्रवर्तनम् प्रयोजनं वा, अत्रैव लिङादीनां शक्तिनहः। वेदे चास्मदादीनामिच्छा न सम्भवतीति इच्छाश्रयत्वेनात्र ईश्वरस्य सिद्धिर्जायते । इच्छा हि आत्मविशेषगुणः स च समवायसम्बन्धेनात्मनि वर्तते । यदाश्रिता च वेदार्था इच्छा स एव ईश्वरः । नियोगो हि आचार्यामते आसाभिप्राय एव । विधिवादे इच्छा यदि प्रवृत्तिशब्दस्यार्थः स्यातदा "स्वर्गकामोऽवमेधेन यजेत" इत्यादिविधिवाक्यश्रवणानन्तरमश्वमेध यज्ञादौ इच्छा स्यात्, इच्छामात्रेणैव पुरुषः चरितार्थो भवेत् यतः इच्छेत्र विध्यर्थः स्वीक्रियते । अयमभिप्रायः-कस्यापि शब्दस्य शक्तिप्रहे प्रदर्शितेषु बहुविधेषु कारणेषु व्यवहार- स्यैव प्राधान्यं वरीवति । व्यवहारो हि शब्दप्रयोगात्मकस्तेनापि घटादिपदानामर्थमजा- नानस्य जिज्ञासो लस्य शक्तिग्रहो भवति । यथा ज्येष्ठवृद्धेन गुदिना घटमानय इति शिष्याय उक्तम्, ज्येष्ठप्रयोजकवृद्धवाक्यं श्रुत्वा प्रयोज्यशिष्यादिना घट आनीतः । तत्र १. नियोगः प्रवर्तनम् प्रयोजनमर्थो येषां ते-आमोद पृ० ३१० । २८ । . समीपस्यः व्युत्पित्सु लः घटाद्यर्थेऽगृहीतशक्तिकोऽपि प्रयोजकवृद्धोच्चारितवाक्यं श्रुत्वा प्रयोज्यवृद्धस्य गमनं दृष्टवा घटानयनं च दृष्ट्वा प्रयोज्यवृद्धसमवेतप्रयत्नसाध्यघटा- नयनक्रिया प्रयोजकवृद्धोच्चरित "घटमानये"ति पदज्ञानजन्यशाब्दबोधजन्येति अनुमिनोति । घटानयनक्रियया प्रवृत्त्यनुमानञ्चेत्थम्भवति घटानयनक्रिया प्रयत्नपूर्विका, विलक्षणक्रियात्वात्, स्वीयक्रियावत् । प्रवृत्त्या च शाब्दबोधानुमानं जायते-घटानयन- विषयकप्रवृत्तिः घटानयनविषयकज्ञानजन्या, तद्गोचरप्रवृत्तित्वात; या यद्गोचरा प्रवृत्तिः सा तद्गोचरज्ञानजन्या, स्वीयस्तन्यपानप्रवृत्तिवदित्यनुमानेन घटानयनविषयकशाब्द- बोधमनुमायानन्तरं घटानयनगोचरज्ञानम् घटमानयेतिवाक्यजन्यम, तदन्वयव्यतिरेकानु- विधायित्वात्; यद् यदन्वयव्यतिरेकानुविधायि तत् तज्जन्यं यथा तन्त्वन्वयव्यतिरेकानु- विधायी पट: इत्येवमानयनक्रियान्विते घटपदार्थे शक्ति विनिश्चिनोति । इत्येवं क्रियान्वितघटादौ शक्तिनहानन्तरं घटं नय, गां बधान, गां विसृजेत्यादिप्रयोजकबृद्ध- वाक्यात् कस्यचित्पदस्य संग्रहेण, कस्यचित्पदस्य त्यागेन, क्रियान्वितगवाद्यर्थे शक्तिमनु- मिनोति-घटानयनकार्यम् घटमानयेति शब्दप्रयोज्यम्, तादृशब्दश्रवणशून्यकालीनप्रवृत्त्य- विषयत्वे सति प्रवृत्तिविषयत्वात्; एवं क्रमेग क्रियान्वितवटादौ शक्त्यवधारणानन्तरं क्रियान्वितघटत्वाद्यपेक्षया घटत्वादेरेव शक्यतावच्छेदकत्वे लाघवेन अनन्यलभ्यस्यैव शब्दार्थतया अन्वयस्य संसर्गमर्यादया भानेन च क्रियान्वितघटत्वे घटादिपदशक्यता- वच्छेदकत्वस्य परित्यागौचित्यात् लाघवज्ञानादिसहकृतमनसा घटादिपदं क्रियान्वित- घटादिशक्तमिति न कार्यान्वितघटत्वं शक्यतावच्छे दकम् किन्तु घटत्वमेव । लिङः शक्तिविचारेऽपि व्युत्पित्सु ल: यद्धि स्वप्रवृत्तिजनकत्वेनावधारयति तत्रैव तस्य शक्तिरिति निश्चिनोति । विना इच्छां न कस्मिन्नपि कर्मणी कोऽपि प्रयतत इति इच्छामेव लिङर्थमवधारयति; तथा च इच्छैव लिडर्थ इति केषाञ्चिन्मतम् । पूवोक्तेन प्रसङ्गेन एतत्त्रतिपादितं यत् प्रवृत्तिशब्दस्यार्थः प्राथमिकेच्छा प्रयत्नो वेति । किन्तु इच्छा यदि प्रवृत्तिशब्दस्यार्थो भवेत्तदा “स्वर्गकामोऽश्वमेधेन यजेत" इति वैदिकविधिवाक्यश्रवणानन्तरमश्वमेधयज्ञादौ इच्छामात्रेणैव पुरुष: चरितार्थः स्यात् इच्छामात्रेणैव विध्यर्थस्य निर्वाहेण इच्छामात्रादेव फलस्य स्वर्गादेरुत्पत्तौ कर्मणो यागादेरननुष्ठानप्रसङ्ग एव भवेत् । बहुवित्तव्ययायाससाध्ये यागादिकर्मणि न कोऽपि कृति कुर्यात् यागादीनामकरणेऽपि विध्यर्थस्य निर्वाहेण पुरुषस्य कृतकृत्यताप्रसङ्गात्; १. "अन्ये तु व्यवहारेण व्युत्पित्सुबर्बाल: स्वप्रवृत्तिजनकत्वेनावधारिते शक्ति कल्पयति, ताहशीच्छैवेति सैव लिर्थ इत्याहुः ।' तत्वचिन्तामणि टीका पृ० ७ आद्या प्रवृत्तिरिच्छेव इति प्रयोगात् यद्यपीच्छा अन्यत्र प्रवृत्तिशब्दार्थः कुसुमा० विवृति । पृ० १२० . [ २९ ] तथा च यागाद्यकरणप्रसङ्गः समापतति' । क्रियमाणयागस्य न कोऽप्युपयोगः स्यात्केवलं जलताडनादिवद् वृथायासः एतस्मिन् संभवति । दृश्यते च लोके "स्वर्गकामोऽश्वमेधेन यजेत" एतद्वाक्यश्रवणानन्तरं पुरुषः यज्ञादौ प्रवृतः सन् यत्नवान् भवति । तस्मात् कृतियलो वा विध्यर्थः न तु इच्छामात्रम् । कृतिहि फलपर्यवसाना भवति; तथा च फलपर्यवसानायाः कृतेविधिकार्यतया क्रियमाणस्य यागस्य उपयोगः सम्भवत्येव । विधिवादे हि न कायपरिस्पन्दनमात्रं कृतियथाऽन्यत्र चेतनपुरुष-स्पन्दनस्य (व्यापारस्य) कृतिशब्दवाच्यत्वेन व्यवहारो भवति । प्रवृत्तिहि विधिज्ञानकार्या । तथा च कृतेः विध्यर्थत्वे मोक्षकामस्य पुरुषस्य कृतेः ज्ञानविधौ' भूतेषु दयाविधाने च चेष्टारूपायाः कृतेः शरीरपरिस्पन्दस्याभावेऽपि विधेः दर्शनान्न कृतिः विध्यर्थः। आत्मज्ञानं हि न स्पन्दाद्यधीनं यतः ज्ञानस्य आत्ममनःसंयोगजन्यत्वात् न स्पन्दाद्यपेक्षा तत्र वर्तते । कर्तृधर्मस्य स्पन्दनस्य ज्ञानमेतादृशविधिस्थले न भवति । तथा च स्पन्दनं चेष्टा वा न विध्यर्थः। भवतु नाम स्पन्दाख्यायाः कृतेरात्मज्ञानादौ अभावात् विवित्वासम्भवेऽपि प्रयत्नः विध्यर्थः कस्मान्न भवति । श्रवगमनननिदिध्यासनादिकं हि प्रयत्नसाव्यमेव भवति भूतदयादीनामपि प्रयत्नविषयत्वसमस्त्येव । एतावता प्रयत्नो नैव विध्यर्थः' यत्नो यदि विध्यर्थः स्यात्तदा वैधकर्मणि अप्रवृत्तिप्रसङ्ग एव स्यादिति संक्षेपः । विधिविवेकग्रन्थे विधेः आलोचना वर्तते । प्रकरणस्थारम्भे एव विषय प्रयोजनादेः विशिष्टा निर्णयो विद्यते- साधने पुरुषार्थस्य सङ्गिरन्ते त्रयोविदः । बोधं विधौ समायत्तमतः स प्रविविच्यते ॥ - विधेर्बोध एव पुरुषार्थ-साधनम् । वेदवाक्यस्य तात्पर्यबलेनैव पुरुषार्थस्य सिद्धि- जर्जायते। ग्रन्थकारः कथयति विधिः शब्दः शब्दव्यापारो वा नास्ति । "तस्मान्न विधिः शब्दस्तद्व्यापारो वा ।" अभिधेय भावनापि विधिर्नास्ति "अभिधेयोऽपि विधिर्ना स्ति ।" टीकाकारमते प्रमाणान्तरागोचरः शब्दः आलम्बन नियोग एव विधिः, इत्येव प्रभाकरमतम् । एतस्य मतस्य विशेषरूपेण खण्डनं वर्तते । नियोग: केनापि रूपेण युक्तियुक्तो नास्ति । वाक्यार्थः शब्दप्रमाण को न भवितुमर्हति, यतः अपदार्थोऽपि तत्र वर्तते, अपदार्थः कदापि वाक्यार्थो न भवितुमर्हति, शब्दप्रमाणक: पदार्थोऽपि न भवितु- १. इच्छामात्रेण विध्यर्थनिर्वाहे बहुवित्तव्ययायाससाध्ये यागाद्यकरणप्रसङ्गात् । न्या० कु० प्रका० ५२५। २, आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासियव्यश्चेत्यत्र आत्मानं विजानीयात्।

[ ३२ ] . पादकत्वं न भवितुमर्हति । ब्रह्मप्रतिपत्तिविधायकवाक्यात् साक्षाद्रूपेण ब्रह्मप्रतिपत्ते कर्तव्यतया प्रतिपन्नत्वे विधेयभूतब्रह्मप्रतिपत्तेः विषयभूतं ब्रह्मापि प्रतिपन्नं भवतीति । अतः, मीमांसकाः नाद्वैतसिद्धान्तविरोधिनः किन्तु अद्वैतवेदान्तिनः येन रूपेण उपनिष- द्वाक्यानामद्वैतब्रह्मणि प्रामाण्यं प्रतिपादयन्ति, मीमांसकाः तेन रूपेण न कथयन्ति, अपि तु विधायकवाक्यस्यैव प्रामाण्यं स्वीकुर्वन्ति । नात्र सन्देहो यत् मण्डनमिश्रः पूर्वमीमांसायाः श्रेष्ठ : आचार्यः । वाचस्पतिमिश्रः यस्य ग्रन्थस्य टीकाकारः तस्य ग्रन्थस्य विषये किमु वक्तव्यम् । अस्मिन् विधिविवेके मण्डनमिश्रः आत्मज्ञाने विधिरस्ति न वेत्यस्मिन् विषये पूर्ववतिनां बहूनामाचार्याणां मतं प्रतिपादितवान् । उपसंहारे च आत्मज्ञाने विधिर्न भवितुमर्हतीति प्रतिपादितवान् । 'विधिनिरपेक्षवेदान्तवाक्यादेव आत्मतत्त्वस्य प्रतीतिर्भवतीति' मण्डनमिश्रवाक्यस्य टीकायां वाचस्पतिमिश्रः कथयति "तिस्रः खल्विमाः प्रतिपत्तयः सम्भवन्ति । श्रुतमयी, चिन्तामयी साक्षात्कारवती च ।" इमास्तिस्रोऽपि प्रतिपत्तयो विधानायोग्याः, अतः, वेदान्तवाक्यैः विधिनिरपेक्षात्मतत्त्वस्य प्रतिपादनं जायते । एतदेव प्रतिपादितम् । 'तत्तिसृणामपि प्रतिपत्तीनां विधानानत्वात् आत्मतत्त्वप्रतिपादनपरत्वं हि वेदान्ताना- मुपपादितम् । सर्वञ्चैतद ब्रह्मसिद्धौ कृतश्रमाणामनायासमधिगमनीयमिति नहास्माभिरुपपादितम्'२ २ । आचार्यमण्डनस्य विधिविवेकग्रन्थेन चैतत्सुस्पष्टं जायते यत् प्राचीनकर्ममीमांसकानां मध्येऽपि एवम्भूताः सम्प्रदायाः आसन्, ये जीवब्रह्मणैरैक्यं स्वीकुर्वन्ति स्म । “तत्तु समन्वयात्" ( ब्र० सू० १।११४ ) इति सूत्रभाष्ये आचार्यः शङ्करः पूर्वमीमांसकानां मतद्वयस्य पूर्वपक्षरूपेण निर्देशं कृतवान् । तस्य भामतीटीकायां वाचस्पतिमिशेणोक्तम्- भाष्यकारः आचार्यदेशीयानां मतमुत्थापयति-'अत्रापरे प्रत्यवतिष्ठन्ते इति' । एतन्मी- मांसकानां मते यद्यपि जीवेन सह ब्रह्मणः ऐक्यं वेदान्तवाक्येन सिद्धं भवति तथापि स्वरूपतः ब्रह्माभिन्न : जीवः इत्यत्र वेदान्तवाक्यानां तात्पर्य न भवितुमर्हति, कस्यापि वस्तुनः स्वरूपमात्रस्य प्रतिपादकं वाक्यं निरर्थकमेव स्यात् । अतः, वेदान्तवाक्यानां तादृशब्रह्मस्वरूपे तात्पर्य नास्ति अपि तु स्वरूपस्य ज्ञानविधावेव तात्पर्यम् । अर्थात वेदान्तवाक्येन तादृशब्रह्मणः ज्ञानमेव विहितम् । वेदान्तवाक्यानां विधावेव तात्पर्य न तु वस्तुस्वरूपे, यतः वेदानां विधावेव तात्पर्यम् । अस्मिन् विषये पूर्वपक्षिणः मीमांसकाः वेदान्तवाक्यानां वस्तुस्वरूपे तात्पर्य न भवितुमर्हति अपि तु कार्ये विधी वा वेदान्तवाक्यस्य तात्पर्यमित्येतत्साधनार्थं शबर- १. 'उपनिषदात्मतत्त्वं तु अनपेक्षविध्यन्तराद्वाक्यात्प्रतीयते' । वि० वि० पृ० २८१ २. वि० वि० न्या० क० पृ० २८१ ३ अत्रापरे प्रत्यवतिष्ठन्ते यद्यपि शब्दप्रमाणकं ब्रह्म तथापि प्रतिपत्तिविषयतयैव शास्त्रेण ब्रह्म समप्यते । ब्र० सू० ११११४ now - [ ३३ ] स्वामिनः भाष्यस्य महर्षेः जैमिने: मीमांसासूत्रस्थापि प्रमाणतया निर्देशं कृतवन्तः । आचार्यवाचस्पतिमिश्रोऽपि एतस्य पूर्वपक्षभाष्यस्य व्याख्यायां प्रभाकरमतरहस्यं प्रदर्शित- वान् । बृहदारण्यकोपनिषदि 'आत्मेत्येवोपासीत्' ( १४७ ) इत्यत्र शाङ्करभाष्ये प्रभाकरसम्प्रदायस्थ मतं प्रदर्य आचार्यशङ्करः खण्डितवान् । प्रभाकरः ( गुरुः) चोदना- लक्षणोऽर्थो धर्म : ( जै० सू० १।१।२) इत्यस्य सूत्रस्य भाष्यसम्मतार्थं प्रकाशितवान् । तेनैतदेवावगम्यते यत् वेदस्य अर्थः साध्यरूपः, न तु सिद्धरूप: । वेदस्य सिद्धवस्तुरूप: अर्थो न भवितुमर्हति । प्रभाकरः एतादृशसिद्धान्तस्य समर्थनं करोति, तेनावगम्यते यत् अयं सिद्धान्तः सुदूरपूर्वकालादेव प्रचलित । तथा हि-'चोदनालक्षण : कार्यरूप एव वेदार्थः, न सिद्धरूप इति प्रतिज्ञातम्' (पञ्जिका पृ. २०) चोदनेति क्रियायाः प्रवर्तक वचनमाहुः, इति कार्यरूप एवेति दर्शयति । यदि कार्य एव अर्थे वेदस्य प्रामाण्यं कथं हि भूताद्यर्थावगतिर्मन्वार्थवादेषु ? तेषामपि हि कार्यार्थता द्वितीये पादे वक्ष्यति । तदुक्तं शक्नोत्यवगमयितुम् । (बृहती पृ० २० २३ ) विधिविवेके आचार्य : मण्डन : गुरुप्रभाकरस्य एतन्मतखण्डनपूर्वकं स्वीयमतस्थापना) प्रथमतः पूर्वपक्षरूपे प्रभाकरमतप्रदर्शनप्रसङ्गे उक्तवान् यद्धि वाक्यं न प्रवर्तकं न च निवर्तकं तादृशवाक्यस्य व्यर्थत्वात् न तादृशं वाक्यं भवितुमर्हति । श्रोतुरवगत्यर्थमेव वक्ता वाक्यं प्रयुनति । सप्रयोजनमेव वाक्यं श्रोतुं श्रोता इच्छति । अतः सप्रयोजनमेव वाक्यं वक्ता प्रयुक्ते । सिद्धवस्तुनः प्रतिपादकं वाक्छ सप्रयोजनं न भवितुमर्हति यतः सिद्धवस्तुप्रतिपादकेन वाक्येन प्रवृत्तिनिवृत्तिर्वा किमपि न जायते । वाक्यं प्रवर्तकं वा भवति, यद्धि न प्रवर्तकं न निवर्त्त के तत् निष्प्रयोजनम् अर्थात व्यर्थमेव । एतस्था आशङ्कायाः उ; प्रसङ्गे आचार्यः मण्डनः कथयति-' कथं तहि भूता- ऽन्वाख्यायिनो वेदान्ता लौशिकवचांसि च" पृ० १९२) अर्थात् अप्रवर्तकस्य अनिवर्त- कस्य वा वाक्यस्य व्यर्थत्वे सिद्ध वस्तुन: प्रति मादकस्य वेदान्तवाक्यस्य एवं सिद्धवस्तुनः प्रतिपादकस्य लौकिकवाक्यस्य वा वैयर्थ्यं स्यात् । अत्र प्रभाकरः कथयति-वेदान्तेषु तावदात्मतत्वप्रतिपत्ति: कर्तव्या' (पृ. २९२) अर्थात् वेदान्तवाक्यस्य वैयथ्य नापतति, यत: आत्मा ज्ञातव्यः इत्यादिवेदान्तवाक्येनात्मविषयकप्रतिनि: उक्ते ति । विहितात्म- प्रतिपत्तिविषय : आत्मा कीदृशः ? एतादृशाकाङ्क्षायाः निवृत्त्यर्थमात्मस्वरूपप्रतिपादक सर्वमपि उपनिषद्वाक्यमात्मस्वरूपं प्रतिपादयति । प्रमाणवाक्यस्थ नैप स्वभावो यत् विविनिरपेक्षं सत् वस्तुन : स्वरूपं प्रतिपादयेत्, एवमेव 'अयं देशः धनसमृद्धः । इत्यादि- सिद्धवस्तुनः प्रतिपादकं लौकिकं वाक्यमपि विधिपर्यवसायि । 'लोके चेदमिह विध्यादि प्रतिपत्तव्यमिति वाक्यपर्यवसानम्' (वि० वि० पृ० १९२) अर्थात् 'त्वम् जानीहि' पता- दृशविधिवाक्ये एव पूर्वोक्तवाक्यस्य पर्यवसानं भवति । अत्रैव मण्डनाशयाभिव्यक्तिपसङ्गे १ ननु नाप्रवर्तकम् निवर्तकं वा वव : समस्ति, वैवात् कर्तव्यतापर्यवमायिनी हि वाक्यप्रवृत्तिः । वि. वि. पृ० १९२ . ३ [ ३४ ] वाचस्पतिमिश्रः कथयति-गुरुप्रभाकरः यद् ब्रह्मप्रतिपत्तौ विधि स्वीकरोति, सा प्रति- पत्तिः किमुपनिषद्वाक्यजन्यब्रह्मविषयकशाब्दबोधभूता ? अथ वा श ब्दबोधानन्तरं ब्रह्म- विषयकध्यानभूता चिन्तनभूता वा ? अथ वा ब्रह्मसाक्षात्कारात्मिका ? परन्तु प्रदर्शितासु तिसृषु प्रतिपत्तिषु कस्यामपि प्रतिपत्तौ विधिर्न भवितुमर्हति । एतासु प्रथमा श्रुतमयी, द्वितीया चिन्तामयी तृतीया च साक्षात्कारवती। श्रुतमय्यां प्रतिपत्तौ विधिर्न भवितु- मर्हति, यतः ब्रह्मप्रतिपादकवाक्याद्वाक्यार्थबोधे विधेरपेक्षा नास्ति । यदि वाक्यार्थ- बोधेऽपि विधेरपेक्षा स्यात्तदा कर्मविधिरेव स्वार्थबोधार्थमन्यविधेर पेक्षां कुर्यात् । एवमेव सोऽप्यपेक्षितविधिः स्वार्थबोधेऽन्य विधिमपेक्षेत सोऽपि चान्यमित्यनस्था स्यात् । विधि- वाक्येन विधेयवस्तुनोऽवगत्यनन्तरं प्रवृत्तिर्भवति, एतदेव विधेः प्रयोजनम् । ब्रह्मविषयक- शाब्दबोधान्तरं कुत्र प्रवृत्तिर्भवेत् ? अतः शाब्दबोधे विधिस्वीकारे विधेः प्रयोजनं नास्तीति श्रुतमय्यां प्रतिपत्तौ विधिर्न भवितुमर्हति । न्यायकणिकायामग्रेऽप्युक्तम्-वेदान्तवाक्यस्य ब्रह्मप्रति विधिः प्रतिपत्तिविषयस्य ब्रह्मस्वरूपस्य अपेक्षां करोतीति ब्रह्मस्वरूपे वेदान्तः प्रमाणं स्यादित्यपि न समीचीनम्, यतः प्रतिपतिः समारोपिते विषयेऽपि स्यात्, अतः वेदान्तवाक्यस्य ब्रह्मपरत्वं न सिद्धयतीति वेदान्तस्य ब्रह्मविद्यात्वमेव न सम्भवेत् । 'तिस्रः खल्विमाः प्रतिपत्तयः सम्भवन्ति-श्रुतमयो, चिन्तामयी, साक्षात्कार- वती च। तत्र श्रुतमयीमधिकृत्याह-शब्दात्प्रतिपत्तेरुत्पत्तेः पुनस्तत्राव्यापारात्, न श्रुतमयी विधेया । शब्दाद्विधेयमवगम्यते उत्तरकाला प्रवृत्तिविधिप्रयोजनं न पुनः शब्दाव- बोध एव आत्माश्रयदोषप्रसङ्गादिति भावः ।.... अपि च प्रतिपत्तिविधिपरत्वे वेदान्तानां ब्रह्मस्वरूपसत्तायामप्रामाण्यप्रसङ्गः ।......"प्रतिपत्तिविषयो हि विधिः प्रति- पत्तिविषयमात्म त्वमपेक्षते । तथा च तथात्मशब्दः प्रमाणमिति चेत् । न । आत्म- तत्त्वमन्तरेण समा पेणापि प्रतिपत्तेरुपपत्तेः । एवञ्च तत्परत्वाभावात् वेदान्तानां ब्रह्म- विद्यात्वं बाध्येत ।' (न्या० के ० पृ० १९३-५) आचार्यमण्डनेनाप्युक्तं यत् वेदान्तवाक्यं यदि ब्रह्मप्रतिपत्तौ विधिप्रतिपादकं स्यात्, तदा तादृशवाक्यात् ब्रह्मप्रतिपत्त्यर्थमनुष्ठानस्यैव अवगतिः स्यात्, तथा च तादृशवाक्यात् आत्मतत्त्वस्य सिद्धिर्न स्यात् । एतदर्थम् आत्मतत्त्वस्य ब्रह्मतत्त्वस्य वा प्रतिपादके वेदान्तवाक्ये विधिसत्त्वेऽपि अविवक्षित एव विधिः । "क्रियापरत्वञ्च विधेर्वस्तुरूपसत्ताया अविवक्षितत्वात् तत्प्रतिपत्त्यर्थम् अनुष्ठानं गम्यते नात्मतत्त्वावबोधः स्यात् ।..." · अतः श्रूयमाणो विधिरेवंजातीयकेषु विधानानहेष्वविवक्षितः । (न्या० क० पृ० १९४) याच्येत-ब्रह्मप्रतिपादकवाक्यश्रवणे ब्रह्मविषयकं शाब्दज्ञानमुत्पद्यते । शाब्दज्ञाने विधेरावश्यकताया अभावेऽपि ब्रह्मविषयक- शाब्दज्ञानाद्भिन्न ब्रह्मविषयकं साक्षात्कारात्मकं ज्ञानं ब्रह्मगोचरं प्रत्यक्षज्ञानं वा विहितं स्यात्, ब्रह्म शाब्दज्ञानविषयं न भवितुमर्हति, यतः वाक्यार्थज्ञानमेव शाब्दज्ञानं पदार्थ- संसर्गश्च वाक्यार्थः। उक्तसंसर्गज्ञानं संसृष्टानेकपदार्थविषयकं भवति । अतः निरस्त- [ ३५ ] समस्त-भेदप्रपञ्चं ब्रह्मतत्वमेतद्वाक्वार्थज्ञानस्य विषयः कथमिव स्यात् । अत एव एता- वदद्वैततत्त्वावभासज्ञानं वाक्यजन्यज्ञानाद्भिन्नं तस्मिन्नेव च विधिः । नन्वन्यदेवेदं शब्दप्रभवादात्मतत्त्वगोचरं ज्ञानं विधीयते । नहि शाब्दज्ञानपरिवेद्यं ब्रह्मस्वरूपम् । वाक्यलक्षणो हि शब्दः प्रमाणम्, पदार्थसंसर्गात्मा च तदर्थः, प्रत्यस्तमिताऽखिलभेद- प्रपञ्चं चात्मतत्त्वम्, तत्कयमस्य गोचरः। तस्मात् प्रलीनसकलावच्छेदोल्लेखमद्वैत- तत्त्वावभासात्मकं ज्ञानमन्यदेव शब्दाद्विधीयते ।' (वि० वि० पृ० १९७) प्रभाकराभिमतस्यैतस्य सिद्धान्तस्य खण्डनाथं मण्डनाचार्यः कथयति---प्रभाकरस्य एतत्कथनमसङ्गतम्, अद्वैततत्त्वावभासात्मकः साक्षात्कारः विधेयो न भवितुमर्हति । यतः एतस्य अद्वैततत्त्वस्य साक्षात्कार एवं फलम्, फलञ्च कदापि विधेयं न भवितुमर्हति । यद्धि अभिलषितं भवति, तत् फलातिरिक्तं किमपि नास्ति । अत: अभिलषितस्य अन्यस्य वस्तुनोऽभावे फले विधिः कथमिव स्यात् । विधेयार्थस्यानुष्ठानेन अभिलषित- फललाभो भवतीति विधेविधायकत्वम्, अद्वैततत्त्वलाभश्च स्वयमेव फलस्वरूपः, ततोऽन्य- किमपि अभिलषितं फलं नास्ति। यदि प्रभाकरः कथयति-~मोक्षस्य फलत्वमेवञ्च तत्प्राप्त्यर्थ मेव विधिर्भविष्यति । तत्र मण्डनः प्रतिपादयति-तदार न समीचीनम्, यतः मोक्षो हि निष्प्रपञ्चात्मतत्त्वावभासनात् नैव भिन्नः, सप्रपञ्चात्मतत्त्वावभास एव संसारः, निष्प्रपञ्चात्मतत्त्वावभास एव मोक्ष:, अर्थात् आत्मस्वरूपविश्रान्तिरेव च मोक्ष : मोक्षस्य चान्यस्वरूपत्वे तादृशमोक्षस्य कार्यत्वमापतति । अविद्यात्मककर्मादिप्रपञ्च एव बन्धहेतुः अविद्योच्छेदञ्च मोक्ष: विद्या वा। 'वात्तमेतत्, न खलु फलांशो विधिगोचरः। निष्प्रपञ्चात्मतत्त्वावभासश्च फलमेव, न ततोऽन्यदीप्सते । मोक्ष इति चेत् ? ततोऽव्यति- रेकात् । सप्रपञ्चात्मतत्त्वावभासो हि संसारः। निष्प्रपञ्चात्मतत्त्वावभासो हि मोक्षः स्वात्मनि स्थितिः । अन्यथा कार्तत्वादमोक्षात् । बन्धहेतुश्च कर्मादिप्रपञ्चोऽविद्या, तदु- च्छेदश्च विद्यैव । (वि० वि० पृ० १९७-९८) निष्प्रपञ्चात्मतत्त्वावभास एव मोक्षः न एतस्माद्वयतिरिक्तः कश्चिदन्यः मोक्षः। एतस्य टीकायां वाचस्पतिमिश्र:-मोक्ष: संसार- विरुद्धस्वभावः । मोक्षस्थ विरुद्धस्वभावताप्रदर्शनार्थमेव संसारप्रदर्शनम् । तस्मात् मोक्षः प्रवृत्तिविषयो न भवितुमर्हति, साध्यमेव प्रवृत्ति विषयभूतम् मोक्षो हि सिद्धस्वरूपः । मोक्षस्य सिद्धस्वरूपतायाः प्रदर्शनार्थमेव मोक्ष: स्वात्मनि स्थितिरित्युक्तम् । मोक्षस्य सिद्धस्वरूपत्वप्रतिपादनेन मोक्षस्य साध्यत्वं खण्डितम् । अस्माभिः पूर्वमेव विवेचितं यत् प्रभाकरमते निष्प्रपञ्चं ब्रह्म शब्दज्ञानस्य विषयो न भवितुमर्हति । अत्र माउ नाचार्यः कथयति-समस्तभेदप्रपञ्चरहितं ब्रह्म यदि शाब्दज्ञानस्य विषयो न भवति, तदा तादृशब्रह्मविषयकज्ञाने एव कथं विधिः स्यात् । यतः विषयेणैव ज्ञानं निरूपितं भवति । निविषयकस्य ज्ञानस्य निरूपणं न भवितुमर्हति, अपि तु सिद्धविषय एव ज्ञानस्य निरूपको भवति असिद्धविषयः ज्ञानस्य निरूपको न भवति । अत्र च ज्ञानस्य निरूपकं प्रपञ्च- रहितं ब्रह्म, एतस्य च ब्रह्मणः सिद्धिः शब्दप्रमाणभिन्नेनान्येन प्रमाणेन न भवितुमर्हति ।

[ ३६ ] , अतः एतादृशस्य ब्रह्मण: शाब्दज्ञानाविषयत्वे एतस्य ब्रह्मणः सिद्धिरेव न स्यात्, ब्रह्म णोऽसिद्धौ च ब्रह्मविषयकज्ञानस्यापि सिद्धिः न स्यात् । अतः ब्रह्मज्ञाने विधिर्न सम्भवति तादृशब्रह्मणः शाब्दज्ञानाविषयत्वे ब्रह्मप्रतिपत्तिविषयकविधिर्न सम्भवेत् । यदि न कथ. चिदपि शाब्दज्ञान विषयो ब्रह्म कथं तज्ज्ञान विधि: शक्यप्रतिपत्तिः । विषयतश्च ज्ञान निरूपणम् सिद्धश्च तन्निरूपयति, तत्सिद्धिश्च प्रमाणान्तराऽभावात् स्यात् । तस्यापि चेद विषयः, तदसिद्धर्ज्ञानविशेषाऽप्रतिपत्तेविष्यप्रतिपत्तिः ।' वि० वि० पृ० १९८) यद्यत्र प्रभाकरः कथयतिब्रह्मस्वरूपस्य शाब्दज्ञानाविषयत्वेऽपि भेदप्रपञ्चप्रविलयेन तत् शाब्दज्ञानविषयो भविष्यति । अत्र मण्डनः समाधत्ते-तथासति ब्रह्म शाब्दज्ञानस्! अविषयभूतं न स्यात् । आत्मा ज्ञातव्यः, आत्मानमुपासीत इत्याद्युपनिषद्वाक्यं यदि ब्रह्मप्रतिपत्तिकर्तव्यतातात्पर्यकं स्यात्तदा ईदृशं ब्रह्म प्रतिपत्तव्यम् ब्रह्मण: ईदृशत्वम् इति उपनिषद्वाक्यस्यार्थ एव न स्यात् । यतः, यत्र वाक्यस्य तात्पर्य तदेव तस्यार्थः वचनस्य प्रतिपत्तिकर्तव्यतायां वाक्यस्य तात्पर्यमस्तीति ब्रह्मणः ईदृशत्वे वाक्यर तात्पर्य नास्ति । अतः, वाक्यतात्पर्याविषयस्य ब्रह्मस्वरूपस्य वाक्येन सिद्धि व स्यात् प्रतिपत्तिविधेः कर्तव्यतापरत्वेऽपि प्रत्येतव्यविषयपरत्वं नास्ति । अत्र प्रभाकरो वक शक्नोति ब्रह्मण : ईदृशत्वस्य माभूत वाक्येन सिद्धिस्तथापि अर्थादेव तस्य सिद्धिः स्यात् यतः, प्रतिपत्तौ विधिसत्त्वेऽपि प्रतिपत्तिः प्रत्येतव्यविषयिणी स्यात्, तथा च प्रतिपत्ति- कर्तव्यतैव प्रतिपत्तिः, एवञ्च तद्विषयस्य ब्रह्मणः आक्षेप: स्यादिति प्रत्येतव्यब्रह्मतत्त्वस्य सिद्धि: स्यात् । अत्र मण्डनः समाधत्ते- अत्र मण्डन: समाधत्ते-एतन्न भवितुमर्हति, यतः आरोपेणापि प्रतिपत्तेः सम्भावना अस्ति, प्रतिपत्तेः कर्तव्यता प्रत्येतव्यस्य आक्षेपं कुर्यादिति तु सत्यम्, किन्तु प्रत्येतव्यस्य तथात्वस्य आक्षेपो नैव भवेत् समारोपेणापि प्रत्येत- व्यस्योपपत्तिर्भवेदिति, अतः विधिवाक्येन वस्तुस्वरूपस्य सिद्धि व भवेत् किमन्यत्, प्रतिपत्तिविधिः प्रत्येतव्यविषये प्रमाणमपि नास्ति, तथा च समस्तभेदप्रपञ्च- रहितस्य . ब्रह्मणः ब्रह्मणः सिद्धवस्तुस्वरूपत्वेऽपि शब्दव्यतिरिक्तान्यप्रमाणवेद्यत्वाभावात ब्रह्मणः तादृशब्रह्मप्रति दिकोपनिषद्वाक्यस्य विधिशून्यत्वेऽपि सिद्धब्रह्मस्वरूपप्रतिपाद- कत्वे न कश्चिद्दोषः। तस्माद विधिशून्योपनिषद्वाक्यं तादृशब्रह्मस्वरूप प्रमाणं स्मादिति । अत एव 'चोदना हि भूतं भवन्तम्' एतस्य शाबर भाष्यस्य प्रभाकर कृता व्याख्या नैव समीचीना । नाप्यर्थोऽर्थः, अध्यारोपेणापि प्रतिपत्तेः सम्भवात् । अतो न नियोगाऽनु. प्रवेशेन वस्तुतत्त्वं प्रकाश्यते । न हि तत्र शब्दस्य प्रामाण्यम् । एव मनपेक्षतया प्रामाण्य- सिद्धेः कार्यान्वयरहितभूतादिमप्यवगमयितुमाम्नाय इत्यसमञ्जसमेतत् । यदि कार्य- रूप एव वेदार्थः कथं तहि मन्त्रार्थवादाः सोपनिषत्काः ? यस्माद्भूतादिकमर्थं चोदनैव गमयति । कथम् ? कार्यमर्थमेवमवगमयन्ती भूतादिकमपि गमयति' । वि. वि. १९८- ९९, यदि कार्यरूप एव वेदार्थः तदा मन्त्रार्थवादोपनिषदादेः भूतार्थप्रतिपादकवेद- भागस्य प्रामाण्यं कथमिव स्यात् ? एतस्या आशङ्कायाः समाधानार्थं 'चोदना हि भूतं - [ ३७ ] . भवन्तम्' इत्यादिशाबरभाष्यस्य अवतारणां कृत्वा व्याख्याने कथयति-भूतादिरूप- मप्यर्थं चोदनैव प्रतिपादयति । यदि भूताद्यर्थमपि चोदना प्रतपादयेत्तदा वेदार्थमात्रस्य कार्यरूपता न सिध्यति । किञ्च भूतवस्तुनः प्रतिपादने भूतवस्तु प्रमाणान्तरविषय मिति अनपेक्षत्वलक्षणं प्रामाण्यमपि वेदस्य न स्यात् । अत्र समाधत्ते निबन्धकार:-'चोदना कार्यरूपस्य अर्थस्य अवगति कारयित्वा भूतादेरर्थस्याप्यवति कारयति । शब्दो द्विविधः कार्याभिधायी लिङादिः, भूताद्यभिधायी च लङादिः। लिङादिप्रत्ययः कार्याभिधायी इति कार्यपरः लिंङादिश्च प्रत्ययः यद्यपि भूतादेरभिधायी तथापि कार्यान्वितभूतादेः प्रतिपादनं करोतीति परम्परारूपेण कार्यपर एव । तथा च भूतादेरभिधायिनः लङादेरपि कार्ये अर्थे तात्पर्यात् कार्यार्थत्वं सिध्यति । अत एव भूतादेरभिधाविनः लङादेरपि अनपेक्षत्वमस्ति । यदि कार्यासम्बद्धस्य शुद्धभूतवस्तुमात्रस्य प्रतिपादनं लङादिः कुर्या- त्तदा प्रमाणान्तरसिद्धभूतवस्तुनः प्रतिपादकत्वात्सापेक्षः स्यात् । तथा सति तस्मिन् निरपेक्षत्वरूपं प्रामाण्यं न स्यादिति । कार्यान्तरशून्योऽपि वेदः भूतादिवस्तुनः प्रतिपादको भवितुमर्हतीति न्यायकणि- कायां वाचस्पतिमिश्रः कथयति-"चोदना हि भूतं भवन्तम्' इत्यादिशाबरभाष्यस्य निबन्धनकारप्रदर्शितव्याख्या नैव समीचीना, अत एव आचार्यः मण्डनः "असमञ्ज- समेतदि" त्युक्तवान् । एतदिति सर्वनाम्ना निबन्धनकारल्याख्या निर्दिष्टा । निबन्धन- कारेण शाबर भाष्यटीकायामेव मुक्तम् । यदि कार्यरूप एव वेदार्थस्तदा भूतार्थप्रतिपादक- मन्त्रार्थवादोपनिषद्वाक्यस्य कस्तावदों भवेत् । निबन्धनकारो ह्य तदाशङ्कया भाष्य- वाक्यस्यावतारणां कृतवान्, व्याख्यायाञ्च कथयति - चोदनैव भूताद्यर्थस्य प्रतिपादिका। यदि चोदनैव भूताद्यर्थस्य प्रतिपादिका स्यात्तदा कार्यरूप एव वेदार्थो न भवति तथैव भूतार्थप्रतिपादकस्य वाक्यस्य अनपेक्षत्वमपि न स्यादित्येतदभिप्रायेण जिज्ञासां करोति कथम् ? अर्थात् अर्थवादादिवाक्यं भूतार्थप्रतिपादकं कथं भवति ? निबन्धनकारः समाधत्ते -चोदना हि कार्थार्थावगमिका सती भूतादिसिद्धवस्तुनोऽपि अवति कारयति केवलं सिद्धवस्तुनः अवगमिका न भवितुमर्हति-एतत्पर्यन्तमेव निबन्धनकारस्य व्याख्या । आचार्यवाचस्पतिमिश्रः निबन्धनकारदृष्टया निबन्धनकारस्य व्याख्यां कृतवान् । 'चोदना हीति भाष्यग्रन्थस्य... " तदिदमसमञ्जसम् । भूतार्थपरत्वेऽत्यनपेक्षत्वेन प्रामाण्यो- पपत्तेः'। (न्या० क० पृ० १९९) आचार्यमण्डनः विधिविवेकग्रन्थे ब्रह्मसिद्धौ च निबन्धनकारस्य यद्धि वचनं उद्धृतवान् तद्वचनं प्रभाकरविरचितवृहतीटीकायां नोपलभ्यते, अतः प्रभाकरविरचित- निबन्धनग्रन्थः कश्चिदन्य एव किन्तु वृहतीग्रन्थे विवेचनसाम्य मस्ति । अत्र विधिविवेक- ग्रन्थस्य, ब्रह्मसिद्धिकारस्य मीमांसावृहतीग्रन्थस्य च वाक्यमुध्रियते-यदि कार्यरूप एव वेदार्थः कथं तर्हि मन्त्रार्थवादाः सोपनिषत्काः यस्मात् भूतादिकमर्थं चोदनैव गमयति । कथम् ? कार्यमर्थमवगमयन्ती भूतादिकमपि गमयति ।' (वि० वि०.पृ० १९९) [ ३८ ] कथं तहि मन्त्रार्थवादा: सोपनिषत्का इत्याशङ्कय 'चोदना हि भूतं भवन्तमि' त्याद्युक्तम् । एतदुक्तं भवति-कार्यमर्थमवगमयन्ती चोदनैव भूतादिकमप्यर्थमवगमय- तीति ये मन्यते तत्प्रतिबोधनाय प्रयत्यते। ब्र०सि० पृ० ७४) 'चौदनेति क्रियायाः प्रवर्तकं वचनमाहुः' इति कौर्येऽर्थे वेदस्य प्रामाण्यं दर्शयति- 'चोदना हि भूतमिति । यदि कार्य एवार्थे वेदस्य प्रामाण्यं कथं तर्हि भूताद्यर्थावगति- मन्त्रार्थवादेषु ? तेषामपि हि कार्यार्थतां द्वितीये पादे वक्ष्यति । तदुक्तं शक्नोत्यवगम- यितुमिति ।' (वृहती ११११२) केचन प्राभाकराः कथयन्ति - निष्प्रपञ्चात्मतत्त्वसाक्षात्कारस्य फलत्वात् तत्र विधिर्न भवितुमर्हति इति सत्यम्, किन्तुनिष्प्रपञ्चात्मतत्त्वविषयिका या चिन्तामयी प्रतिपत्तिः तत्र विधिस्वीकारे कापि बाधा नास्ति । निष्प्रपञ्चात्मतत्त्वविषयकशाब्दज्ञान- धारैव चिन्ता । इयं शाब्दज्ञानधारैव ध्याननाम्ना उच्यते । ध्यानमेवात्र चिन्ता । ध्यानं चिन्तापरपर्यायः स्मृत्यनुकूलो व्यापा:। ध्यानं वा नैव फलम् अपि तु आत्मतत्त्व- साक्षात्काररूपफलस्य साधनम्, फलसाधनत्वाच्च तत्र विधिस्वीकारे न काप्यापत्तिः । 'अन्ये तु शादज्ञानसन्तानविधानमिच्छन्ति । तस्य संहृतनिखिलभेदोल्लेखविशुद्धविशद- ज्ञानफलत्वात् । अत्रापि नात्मरूपावगतिः । ज्ञानप्रकर्षश्चाभ्यासनिबन्धनः प्रथित इति न चोदनार्थता । (वि. वि. पृ० २००) प्रभाकरसम्प्रदायस्य समाधान प्रसङ्गे आचार्यमण्डनः कथयति-ज्ञान विधितात्पर्य- कवायात ज्ञेयस्वरूपस्य सिद्धिर्न भवतीति पूर्वमेवोक्तम् । चिन्तारूपप्रतिपत्तौ विधि- स्वीकारे चिन्तनीयवस्तुनः प्रकृतस्वरूपस्य एतद्विधिप्रमाणेन सिद्धिनं स्यात्, यतः चिन्तनीयवस्तुनः आरोपेणापि चिन्ता सिद्धयतीति चिन्तनीयविषय: प्रमाणसिद्धो न भविष्यति । प्रभाकरस्य एतन्मते अयं तावत् विशिष्टदोषः-चिन्ता चिन्तनीय- वस्तुनः, ध्यानं ध्येयवस्तुनः प्रत्यक्षजनकं भवतीति अन्वयव्यतिरेकसिद्धत्वात् प्राप्त- विषयेऽप्राप्तस्य प्रापको विधिर्न भवितुमर्हति । निरस्तभेदप्रपञ्चात्मतत्त्वस्य विधिनिर- पेक्षोपनिषद्वाक्येनापि प्रतीतिर्जायते। अनेन प्रकारेण प्रतिपतिविधिप्रयुक्तप्रत्येतव्य- वस्तुनः सिद्धिर्न भवितुमर्हति, तथा च प्रतिपतिविधिप्रयुक्तोपनिषद्वाक्यं प्रत्येतव्यब्रह्मणः प्रतिपादनं न करोति, अपि तु विधिनिरपेक्षोपनिषद्वाक्यमेव निष्प्रपञ्चब्रह्मणः आत्मनो वा प्रतिपादनं करोति । प्रभाकरमतं स्वीकृत्यैवाचार्यमण्डनः कथयति-'अलं वा गुरु- भिविवादेन' (वि० वि० पृ० २००) प्रतिपत्तिविधिप्रयुक्तप्रत्येतव्यवस्तुविधिनैव सिध्यति चेत्सिध्यतु मम का आपत्तिः । ब्रह्मप्रतिपत्तिः यदि विधायकवेदान्तवाक्येन विहिता तदा विधायकवेदान्वाक्यं प्रतिपतव्यनिष्प्रपञ्चे ब्रह्मणि प्रमाणं भवितुं नाहति । निष्प्रपञ्च ब्रह्म वेदान्तवाक्य- रूपप्रमाणभिन्नान्यप्रमाणेन सिद्धं न भवितुमर्हति इति सर्वसम्मतम्, यदि वेदान्तवाक्ये.

[ ३९ ] - उक्ता। नापि निष्प्रपञ्चस्य ब्रह्मणः सिद्धिर्न भवेत्तदा ब्रह्मणः सिद्धिर्न जातेत्येव वक्तव्यम् । अतः निष्प्रपञ्चे ब्रह्मणि वेदान्तवाक्यानि न प्रमाणानि । केचन ब्रह्मप्रतिपत्तिकर्तव्यता- प्रतिपादन व्याजेन ब्रह्मणि वेदान्तवाक्यस्य प्रामाण्यमेव नास्तीति प्रतिपादयन्ति । 'एवम्भूत आत्मा प्रतिपत्तव्यः' एतादृशप्रतिपत्तिविधिना आत्मा अपि एवम्भूत इत्यस्य सिद्धिर्न भवति, यतः यद्वस्तु यादृशं नास्ति तस्यं वस्तुनः तेन रूपेण ज्ञानं भवितु- महति । 'आत्मा विजरो विमृत्युः' अनेन विधिवाक्येन आत्मनः जरामहित्येन रूपेणापि ज्ञानं भवितुमर्हति एवमेव मृत्युयुक्तस्यापि वस्तुनः जरामृत्युरहितरूपत्वेनापि ज्ञाने का आपत्तिः । अतद्रूपवस्तुनि तद्रूपाध्यारोपेणापि ज्ञानस्य चर्चा श्रुतावपि बहुषु स्थानेषु यथा 'मनो ब्रह्मेत्युपासीत' 'योषा वाव गौतमाग्निः' इत्याद्यनेकश्रुतिवाक्येन यद्धि वस्तु यद्रूपं नास्ति तस्य वस्तुनः तेन रूपेण अवगतेश्चर्चा कृता । अतः, जरामृत्यु- रहितत्वेन रूपेण ब्राह्मणः ज्ञानं कर्तव्यमिति श्रुतौ कथनेऽपि आत्मा विजरो विमृत्युरिति सिद्धः स्यादिति वक्तुं नैव शक्यते अन्यवस्तुनि अन्यधर्मारोपेणापि ज्ञानं भवितुमर्हति । जैमिनिसिद्धान्तमवलम्ब्यैव प्रतिपत्तिविधिवादिनः आसीत् कदाचित्प्राबल्यम्, ते ब्रह्माद्वैत- वादस्य समर्थनं प्रबलयुक्त्या कृतवन्तः । अद्वैतवेदान्तिनः प्रदशितायाः आपत्तः समाधाने प्रतिपत्तिविधिवादिनः कथयन्ति- ब्रह्मप्रतिपत्तौ विधिस्वीकारे ब्रह्मणः सिद्धिर्नैव स्यात् इति तु महदाश्चर्यम् । अन्यवस्तुनो- ऽन्यरूपेण ज्ञानमिति तु कस्मिन्नपि मते न सम्भवति, अन्यधर्मसमारोपेणान्यवस्तुनः ज्ञानं भवितुमेव नार्हति । अन्यवस्तुनः अन्यरूपेण ग्रहणे सति तज्ज्ञानमेव न भविष्यति । ज्ञानं कदापि विपरीतार्थकं न भवति-सर्वमपि ज्ञानं यथार्थमेव । अत एव प्रतिपत्ति- विधिवादिनः अख्यातिवादिनाम्ना प्रसिद्धाः। अख्यातिवादस्य विस्तृतं विश्लेषणं वृहतीग्रन्थस्य ११११५ अधिकरणे कृतम् । तथा च 'आत्मा एवंरूमो ज्ञातव्यः' इति कथने सति आत्मनः एवंरूपता अवश्यमेव सिध्येत् अत्र नास्ति सन्देहः । ये अतथावस्तुनि तथाभावसमारोपं स्वीकुर्वन्ति तेषां मते ज्ञान विधिना ज्ञेयवस्तुन: सिद्धिः नापि भवितु- मर्हति, किन्तु ज्ञानं कदापि विषयव्यभिचारि न भवति । तथा च ज्ञानविधिवाक्यस्य ज्ञेयस्वरूपे तात्पर्याभावेऽपि ज्ञानमहिम्नैव ज्ञेयवस्तुनः स्वरूपस्य सिद्धिः स्यात् । यद्वस्तु यद्रूपं नास्ति तत् तद्रूपेण कदापि विषय : न भवति, विषयं विनापि यदि ज्ञानं स्यातदा लोकव्यवहार एव उच्छिद्येत । ज्ञाने वस्तुनः भासमानत्वेऽपि ज्ञानस्य अन्यदेवालम्बनम्, यथा ज्ञाने रजतं भासते ज्ञानस्य आलम्बनञ्च शुक्तिका ---एतच्च प्रतीतिविरुद्धम् । यद् वस्तुज्ञाने भासते तदेव तस्य ज्ञानस्य विषयः आलम्बनम्, ज्ञाने यत् न भासते ततस्य ज्ञानस्य आलम्बनं विषयो वा इति स्वीकारे स्वानुभवविरोध एव भवति । किञ्च विषयस्य व्यवहारार्थमेव विषयज्ञानस्यावश्यकता वर्तते । विषयाभावेऽपि यदि ज्ञानं स्यात्तदा ज्ञान प्रति विश्वासः एव न स्यात् । आचार्यमण्डन: अख्यातिवाद खण्डयित्वा अन्यथाख्याति स्वीकृतवान् । अनिर्वचनीयख्यातिमसौ नैव स्वीकृतवान्, [ ४० ] अतः किम् उभयोविरोधो नास्ति । यद्यपि मीमांसाकाचार्यैः ब्रह्मात्मैक्यं स्वीकृतम् तथापि अद्वैतवेदान्तिभिः सह ऐकमत्यं नास्ति । आचार्यदेशीयमतेन प्रभाकरमतस्यैव निर्देशं कृतवान् भामतीकारा। अमलानन्दः कल्पतरौ प्रतिपत्तिविधिवादिमते आपात- दृष्टया ब्रह्मात्मैक्यस्य सिद्धिर्भवतीति 'अत्रापरे प्रत्यवतिष्ठन्ते' एतस्य पूर्वपक्षस्य सार- सङ्कलनप्रसङ्गे उक्तवान्- अयन्तु सन्तु वेदान्ता मानं ब्रह्मात्म वस्तुनि । किन्तु ज्ञानविधिद्वारेत्येष भेदः प्रतीयताम् । (क० १०।४) पृ० १०८ पूर्वपक्षो भवतु सिद्धान्तपक्षो वा प्रभाकर दृष्टया ब्रह्मात्मैक्यवादोऽद्वैतवाद एव वर्तते इत्यत्र नास्ति सन्देहः । मण्डन मिश्रः उत्तरमीमांसादृष्टया अद्वैतवादस्य मण्डनं कृ वान् किन्तु प्रभाकरः पूर्वमीमांसादृष्ट्यैवाद्वैतवादमुक्तवान् । पूर्वमीमांसादृष्ट्या ब्रह्मात्मैक्य- प्रतिपादनं न सम्भवतीत्येव प्रदर्शनार्थमद्वैतवेदान्ती प्रभाकरमतस्य खण्डनं कृतवान् । श्लोकवार्तिकस्य टीकाकारः सुचरितमिश्रः स्वप्रणीतकाशिकाटीकायां प्रभाकरमतं निर्दिष्टवान्-चोद सूत्रस्य भाष्ये आचार्यः शबरस्वामी 'चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्म व्यवहितं विप्रकृष्ट मित्येवजातीयकमर्थं शक्नोत्यवगमयितुम्' (जै० सू० १।१।२ भा०)। भट्टपादः प्रभाकरश्च एतस्य भाष्यस्य व्याख्यानं कृतवान् । भट्टपाद- सम्मतं व्याख्यानमेव समीचीन मिति प्रतिपादनार्थं सुचरितमिश्रः प्रभाकरसम्मतं व्याख्यानं प्रदर्श्य खण्डितवान् । तथा हि-'चोदना हि भूतमित्येतस्य ये हि एवं कथयन्ति यत् वेदवाक्येन कार्यरूपार्थप्रतिपादनेऽपि भूतादेरर्थस्यापि अवगतिर्जायते वेदवाक्यं भूतार्थस्य प्रतिपादकं नास्ति अपि तु भूताद्यर्थस्यावगमकम्' कार्यरूपेऽर्थे एव वेदस्य तात्पर्यम्, भूतादिवस्तुनि वेदस्य तात्पर्य नास्ति । यस्य वाक्यस्य यस्मिन् अर्थे तात्पर्य नास्ति तद्वाक्यं तस्य अर्थस्य प्रतिपादकं न भवति, वाक्यं तात्पर्यविषयीभूतस्यैवार्थस्य प्रतिपादकं भवति, वेदस्य कार्यरूपे एवार्थे तात्पर्यम्, तथा च वेदावाक्यं कार्यरूपस्यैवार्थस्य प्रतिपादकम्, भूतादि वस्तुनि वेदस्य तात्पर्य नास्ति अतः वेदो भूताद्यर्थस्य प्रतिपादको नास्ति । वेदस्य भूतादिवस्तुनः प्रतिपादन स्वाभावेऽपि भूतादिवस्तुनः अवगमकत्वं भवितुमर्हति, तात्पर्याभावेऽपि अवगमकत्वे बाधा नास्ति । वाक्यस्य यत्र तात्पर्यन्तत्रैव तत्प्रमाणम् तात्पर्यविषयीभूते एवार्थे वाक्यं प्रमाणम्, तात्पर्याविषये वाक्यं प्रमाणं न भवति । वेदा:य भूतादिवस्तुनोऽवगमकत्वेपि वेदवाक्यं भूतादिवस्तुनि प्रमाणं नास्ति' वेदवाक्यं यदि भूतादिवस्तुनः प्रतिपादकं न भवेत् तदा उपनिषद्वाक्यैः अनाद्यनन्त- विज्ञानानन्दस्वरूपब्रह्मणः सिद्धिः कथमिव स्यात् । कस्मिन् च कार्यरूपेऽर्थे उपनिष- द्वाक्यानां प्रामाण्यं स्यात? १, काशिका पृ० ७०। २. काशिका पृ० ७०-७१ ।

[ ४१ ] अत्र कार्यार्थतावादी प्रभाकरः कथयति-उपनिषद्वाक्यानां तादृशब्रह्मप्रतिपति- कर्तव्यतायामेव तात्पर्यमवगन्तव्यम् । उपनिषदि तादृशब्रह्मज्ञानविषयकं 'आत्मा ज्ञातव्यः' इत्यादिविधिवाक्यं वर्तते । एतज्ज्ञानविषयकविधिवाक्यस्यायमर्थः-विज्ञाना- नन्दस्वरूपं ब्रह्म अवगन्तव्यम् । उपनिषद्वाक्यानां तादृशात्मस्वरूपे तात्पर्याभावे तादृशात्मस्वरूपस्य सिद्धिरुपनिषद्वाक्येन कथमिव स्यात् । अतात्पर्यविषये शब्दः प्रमाणं न भवति, भिन्नतात्पर्यविषयकं वाक्यं भिन्नेऽर्थे प्रमाणं न भवितुमर्हति, अपि तु वैपरी- त्यस्यैव सम्भावना वर्तते । लोकव्यवहारेऽपि यद्धि वस्तु यद्रूपं नास्ति तस्य तद्रूपेणाव- गत्यर्थमुपदेशो भवति । यथा य: पिता नास्ति तस्य पितृरूपेण ज्ञानस्योपदेशो लोके भवति । सुमित्रा लक्ष्मणं कथयति-'रामं दशरथं विद्धि' इति । केवलं लोकव्यवहारे एव न अपि तु वेदेऽपि एतादृशः उपदेशः वर्तते-'ओमित्येतदक्षरमुद्गीथमुपासीत' ओङ्कारः उद्गीथः नास्ति तथापि अनुद्गीथस्योद्गीथरूपेण उपासना उक्ता । अत्र प्राभाकराः वदन्ति यत् उपनिषद्वाक्यानां विधावेव तात्पर्यमिति ताशात्मस्वरूपस्य उपनिषद्वाक्येन सिद्धिर्माभूत् तथापि प्रमाणान्तरेण तादृशात्मतत्त्वस्य सिद्धिर्भविष्यति । अत्र एष सन्देहः-प्रमाणान्तरेण कस्य प्रमातुः तादृशात्मस्वरूपसिद्धिः स्यात् । प्रमाता बद्धपुरुषः मुक्तपुरुषो वा। बद्धपुरुषस्य कृते प्रमाणान्तरेण तादृशात्मनः सिद्धिर्न भवितु- मर्हति । यतः, संसारबद्धजीवः शरीरेन्द्रियादिसंघातव्यतिरिक्तस्य सच्चिदानन्दब्रह्म- स्वरूपस्य साक्षात्कारं कर्तुं न शक्नोति बद्धजीवः शरी मेव आत्मा इति जानाति, अतः तस्य कृते आत्मा दुःखी, अनित्यः, जड: इत्यादिरूपेणैवावगतो भवति । एवमेव यः किल मुक्तः पुरुषः सोऽपि प्रमाणान्तरेण तादृशात्मानं ज्ञातुं न शक्नोति । यतः मुक्तः पुरुषः स्वरूपप्रतिष्ठो भवति । तेषामनाद्यविद्याप्रयुक्तं शरीरेन्द्रियादिनिखिलप्रपञ्चजातं चिरनिवृत्तं जायते। अतः मुक्तः पुरुषः प्रमितिप्रमातृप्रमाणादिविभागरहितः सुनिश्चल: आनन्दरूपफलीभूतब्रह्मभावे स्थितो जायते । अस्यामवस्थायां द्वितीयस्य वस्तुनोऽभावात् मुक्तः पुरुषः प्रमाणान्तरेण तादृशं ब्रह्म ज्ञातुं न शक्नोति । अतः ज्ञाने विधिस्वीकारे तादृशज्ञानेन ज्ञेयस्थ तादृशात्मतत्वस्य सिद्धिर्न भवितुमर्हति । अत एव युक्त्या शास्त्र- स्वरूपालोचनया वेदस्य कार्यार्थत्वं न भवितुमईति । तस्मात् भट्टपादसम्मतः एवार्यः स्वीकरणीयः । उपनिषदा ब्रह्मात्मैक्यस्य सिद्धिर्न भवतीति प्रभाकरस्य व्याख्यानमुपा- देयम् । शाबरभाष्यस्य भट्टपादसम्मतव्याख्यया उपनिषदा ब्रह्मात्मैक्यस्य सिद्धिर्भवतीति सुरचरितमिश्रः एतस्याः एव व्याख्याया: समर्थनं करोति । मण्डनमिश्रः विधिविवेकेऽधिकारविधिनिरूपणप्रसङ्गे भर्तृमित्रस्य मतं प्रदर्य खण्ढ- यति-भर्तृमित्रः मीमांसकः सन्नपि आसीदद्वैताचार्यः । प्रभाकरापेक्षया भर्तृमित्र- सिद्धान्तः आसीदनुकूलतर: अद्वैतस्य । सम्पूर्णस्य कर्मकाण्डस्य अधिकारसिद्धावेव पर्यवसानम् । शङ्करः मण्डनः अन्ये चाद्वैतवेदान्तिनः चित्तशुद्धिसम्पादकतया विहितकर्म १. काशिका पृ० ७१ ।

[ ४२ ] एव आत्मज्ञानेऽधिकारं सम्पादयन्ति । विहितकर्मणः स्वर्गादेः फलस्य लाभो न भवति- इति ते न स्वीकुर्वन्ति अपि तु सर्वस्यापि विहितकर्मणः स्वर्गादिविशेषफलसत्त्वेऽपि विहितकर्मणा शुद्धचित्तः सन् पुरुषः आत्मज्ञाने अधिकारी भवति । आचार्यः शङ्करः नित्यस्य नैमित्तिकस्य वा कर्मणोऽनुष्ठानेन चित्तशुद्धिर्भवतीति कथयति, काम्यं कर्म स्वर्गादिफलस्यैव जनकं भवति, काम्यं च कर्मवित्तशोधकं न भवति । एतादृशमतभेद- सत्त्वेऽपि विहितकर्मणः फलं चितशुद्धिरेवेति स्वीकरोति । सिद्धित्रयप्रणेता सुप्रसिद्धः यामुनाचार्य: स्वग्रन्थे अद्वैतवेदान्तिनामाचार्याणां नामोल्लेखप्रसङ्गे भर्तृमित्रस्यापि नामोल्लेखं कृतवान् । आचार्यः भर्तृमित्रः स्वीकरोति कस्यापि विहितकर्मणः किमपि फलं नास्ति । सर्वमपि विहितं कर्म केवलं रागादिदोषस्यैव निवर्तकं भवति, कर्मानुष्ठा- नेऽनुष्ठाता शान्तः दान्तश्च भवति, शान्तदान्तपुरुषस्यैव आनन्दस्वरूपनिष्प्रपञ्चात्मनः साक्षात्कारो भवति, अयं साक्षात्कार एव वेदप्रतिपाद्यः पुरुषार्थः। दुःखलेश हिता- नन्दात्मकात्मसाक्षात्कार एव पुरुषार्थः । आत्मा निष्प्रपञ्च इति दुःखलेश रहितः एवम् आत्मा आनन्दस्वरूपः । बाह्यविषयैः सह रागद्वेषावेव आत्मसाक्षात्कारविरोधिनौ, विहितकर्मानुष्ठाने निरतपुरुषस्य बाह्यविषयैः सह रागद्वेषौ क्षीणौ भवतः, तथा च पुरुषः शान्तः दान्तश्च भवति । शान्तः दान्त एव पुरुष: आत्मज्ञाने अधिकारी। अशान्तः अदान्तः पुरुषः आत्मज्ञाने नैवाधिकारी जायते । विहितकर्मणा स्वर्गादिफलस्व प्राप्तिर्भवति इति तु असङ्गतम् । धनपुत्रस्वर्गादिबाह्यविषयेषु जीवस्य रागः स्वभावतः प्रबलः, रागिपुरुषस्य धनादिषु प्रबलरागस्य सद्भावेऽपि कदाचित् काम्यधना दिलाभो- पायाज्ञानात् प्रबलरागादि सोढुं बाध्यो भवति । शास्त्रं यदि काम्यवस्तुनः लाभोपायं निर्दिशति तदा शास्त्रं पुरुषस्य कृतेऽनर्थला भसाधकं भवति । यथा कश्चित्पुरुष : राग- वशात् दुष्टं वस्तु भक्षयितुमिच्छति, किन्तु तस्य वस्तुनः कुत्र उपलब्धिर्भवतीति न जानाति इति इच्छन्नपि असावनिष्टद्रव्यं न भुङ्क्ते, किन्तु कश्चित्पुरुषः तद्वस्तुनः प्राप्त्युपायं प्राप्तिस्थानं च निर्दिशति तदासौ रागी पुरुषः तदनिष्टं वस्तु अनायासेनैव प्राप्नोति, भुक्त्वा च तत् अनिष्टफलमपि प्राप्नोति । शास्त्रमपि यद्येवमेतादृशकामि- पुरुषस्य काम्यस्य वस्तुनः लाभोपायं वर्णयति तदा कथन्तच्छास्त्रं स्यात् । हितशासक- मेव शास्त्रम् यद्यहितशासकमपि शास्त्रं स्यात्तदा अशास्त्रं किं स्यात् ? कामिपुरुषस्य कृते कामोपहार प्रदानं रागिपुरुषस्य कृते रागेन्धनसम्पादनम् शास्त्रस्य कार्य न मवितुमर्हति । येन पुरुषः अराग : अद्वेषः निष्कामो भवेत्तदेव शास्त्रम् । एवमेव समस्तोऽपि कर्मकाण्ड- भागः आत्मज्ञानाधिकारसम्पादनार्थं पर्यवसानं लभते-अयं भर्तृमित्रस्याभिप्रायः । विहितकर्मणः पृथक् फलस्यास्वीकारे जीवस्य सुखं विहितकर्मफलमेवमेव निषिद्धकर्म- फलं दुःखमित्यस्यापि सिद्धिर्न भवति । अत: भर्तृमित्रमते जीवस्य सुखं दुःखं च स्वाभा- विकमेव इति स्वीकर्तव्यम् । एतस्य स्वभाववादस्य समर्थनं करोतीति लोकायतमतमेव भर्तृमित्रमतम् । एतदर्थमेव भट्टपादः मण्डनमिश्रः अन्ये च आचार्याः एतन्मतं लोकाय. .

[ ४३ ] तमिति खण्डयन्ति। अवसाने मण्डनः कथयति-ठोकायतमते यत् स्वीक्रियते वेदेऽपि स एवार्थः इत्येव स्वीकर्तव्यम् । 'स्वाभाविकत्वाच्च फलोपभोगस्य स्वभाववाद एवा- म्नायार्थश्छद्मना आश्रितः स्यात् । (वि० वि० पृ० ३३५ 'यागादीनामफलसाधनत्वे सेवादेश्च व्यभिचारादहेतु : (व्यभिचारादहेतुत्वे) सुखदुःखादिरेव स्वाभा विकलोकायति- काभ्युपगताम्नायार्थः इति वचनव्यक्त्यन्तरेणाभ्युपगतं भवतीत्याह स्वभाविकत्वाच्च फलभोगस्य ।' (न्या० क० ६० ३१५) भर्तृमित्रस्यापव्याख्यानमनेनैव वेदस्य कर्मकाण्डभागो लोकाय तीकृतः इति जैमिनि- सूत्रस्य षष्ठाध्याये अधिकारविधेः निरूपणं वर्तते । मण्डन मिश्रः षष्ठाध्यायप्रतिपाद्यस्या- धिकारविधेः आलोचनाप्रसङ्गे भर्तृमित्र मतं प्रदर्शितवान् । भाट्टाः हि भर्तृमित्रमतमेव पूर्वपक्षरूपेण स्वीकुर्वन्ति । विहितकर्मण: फलाभावे कर्मणि अधिकार एव न सिध्येत् तथा च कर्मणां दृष्टरूपेणैव आत्मज्ञानाधिकारात्मक प्रयोजनं स्यात् । बाह्य विषये राग- द्वेषादेः निवृत्त्या आत्मज्ञाने अधिकारसिद्धिरेव कर्म विधिसमूहस्य प्रयोजनम् । 'तथा च फलाभावादधिकाराभावः । न ह्यफलेषु कर्मसु कश्चिनियोज्य: स्वामी वा ।' (वि० वि० पृ० ३०९) दृष्टेनैव कर्म विधय आत्मज्ञानाधिकारप्रयोजनाः । (वि० वि० ३१५) निष्प्रपञ्चानन्दस्वरूपात्मनः ज्ञानेऽधिकारसम्प्रदानमेव कर्मविधीनां फलम्, स्वर्ग- पुत्रादिलाभाथं कर्मविधि स्ति, अपि तु तादृशात्मज्ञानेऽअधिकार सम्प्रदानार्थमेव कर्म- विधानां कथनं वेदे वर्तते । अनेनैव तात्पर्येण पूर्वपक्षिणा कर्मणोऽधिकारखण्डनार्थ वह व्यः युक्तयः प्रदर्शिताः। भर्तृभित्रप्रभृतयः युक्त्या कर्मणि अधिकारखण्डनार्थमेव प्रवृत्ताः आसन् । किन्तु एतत्खण्डनं नैव तदुद्भावितमपि तु जैमिनेः षष्ठाध्यायप्रारम्भे 'द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः' ६।१।१ एतत्सूत्रं पूर्वपक्षिणामेव प्राचीन- तमाचार्यसम्मतमासीत् । एतस्य सम्प्रदायस्यैव भर्तृमित्रप्रभृतयः आचार्याः तत्त्वशुद्धयादि- ग्रन्थं लिखित्वा प्राचीनतमाचार्याणामाशयं प्रदशिवन्तः। संभाव्यते एतेन पूर्वपक्षिणामेव कदाचित्प्राबल्यमासीत् । ते हि बहूनां ग्रन्थानां निर्माणं कृत्वा प्रचलितसिद्धान्तमेव पूर्वपक्षरूपेण गृहीतवन्तः । यद्यपि भर्तृमित्रविरचिततत्त्वशुद्धिव्यतिरिक्तानां ग्रन्थानामुप- लब्धिरिदानी नास्ति तथा पि आसन् केवत ग्रन्थाः प्राचीनाचार्य रचिताः इत्यनुमीयते । मण्डनमिश्रस्य भावनाविवेकग्रन्थादपि एतादृशपूर्वपक्षस्य रहस्यं मिलति । चलति, पचति इत्यादि क्रियाप्रतिपादकशब्दाः संयोगविभागाख्यगुणस्यैव प्रतिपादकाः, संयोग- विभागरूपगुणव्यतिरिक्ता काचन क्रिया नास्ति । प्रत्यक्षेणापि संयोगविभागयोरेव प्रतीतिः जायते, संयोग विभागभिन्ना क्रिया न प्रतीयने । धातोरर्थः संयोगविभागाख्यः गुणः धात्वाति रिक्ता अन्या क्रिया अपि नास्ति । अतः, प्रत्य यार्थ भावना प्रत्ययार्थ:- भावनैव च क्रिया इति न सुसङ्गता।' तस्मात् गुणविशेष एव धातूपादानः क्रिया, न तु तदतिरिच्यमानात्मा क्रियापदार्थः यः प्रत्ययस्य धातोर्वाऽभिधेयः स्यात् । (भा० वि० पृ० ३५) अत एव प्राचीनतमः मीमांसकः वादरिः द्रव्यगुणसंस्कारा- [ ४४ ] णामेवाङ्गत्वं प्रतिपादितवान् । तन्मते यागादिक्रिया नैवाङ्गभूता यतः यागादिक्रिया संयोगविभागव्यतिरिक्ता नास्ति । अत एव गुणतः पृथग्रूपेण क्रियायाः अङ्गत्णेन निर्देशो नास्ति, किन्तु जैमिनिः गुणव्यतिरिक्त क्रियां स्वीकारोति । अत एव 'द्रव्य गुणसंस्कारेषु वादरिः' एतस्य सूत्रस्य अनन्तरमेव 'कर्मण्यपि जैमिनिः फलार्थत्वात्' (जै० सू० ३।१।४) इत्युक्तवान् । तेन च गुणव्यतिरिक्तस्य कर्मणोऽपि फलाङ्गत्वकथनं सुसंगतं भवति । मीमांसादर्शनस्य षष्ठाध्यायस्य प्रारम्भे 'स्वर्गकामो यजेत' इत्याधिकारविधिवाक्मस्य कीदृशोऽर्थो भवेदिति निरूपणार्थ भाष्यकारेणोक्तम् ---उक्तविधिवाक्यात् स्वर्गादिकर्मणोऽ- प्राधान्येन एवं यागादिकर्मणश्च प्राधान्येन प्रतीतिरस्ति ? अथ वा यागादिकर्मणो- प्राधान्येन स्वर्गस्य च प्राधान्येन प्रतीतिः ? पूर्ववाक्ये स्वर्गकामः एवं यजेत इति पदद्वयं वर्तते । पदयोश्च सम्बन्धः वर्तते इत्यवश्यमेव स्वीकरणीयम् । वाक्यान्तर्गत- पदयोः परस्परं संसृष्टत्वाभावे एकवाक्यत्वमेव न स्यात्, यथा गौः अश्वः पुरुषः हस्ती- एतेषां नास्तिः । 'स्वर्गकामो यजेत' इति एक वाक्यं पदार्थद्वयं च परस्परं सम्बद्धं सदेकस्य विशिष्टस्य अर्थस्य बोधकम् । सम्बद्धयोरुभयोः पदयोः कस्तावत्सम्बन्धः ? 'यजेत' पदान्तर्गतयधातोरर्थः यागः साध्यं साधनम्बा ? साध्यरूपेण प्रतीतः अर्थः प्रधानं साधनरूपेण प्रतीतः अर्थ अप्रधानम् । द्वयोः पदार्थयोः सम्बन्धे सति प्रधानभावेन अप्रधान भावेन च सम्बन्धः स्यात् । द्वयोरपि पदार्थयोः प्रधानभावेन अथ वा उभयोरपि अप्रधानभावेन च सम्बन्धो न भवितुमर्हति । विशिष्टार्थे एकोऽर्थः प्रधानं विशेष्यम्वा स्यात् अन्योऽर्थोप्रधानं तस्य विशेषणम्वा स्यात् । वाक्यं क्रियाप्रधानमेकप्रयोजनकञ्च भवतीति वाक्यस्य स्वभावः । अर्थस्य चैवं स्वभावो यत् क्रिया स्वभावतः एव साध्य- रूपा एवं द्रव्यञ्च स्वभावतः एव सिद्धरूपम् । साध्यस्वरूपा क्रिया स्वसिद्धयर्थ साधनरूपसिद्धस्वभावं द्रव्यमपेक्षते । सिद्धं विना साधनं न सिद्धस्वभावं द्रव्यमेव साधनं भवितुमर्हति । असिद्धं साधनं भवितुं नार्हति । अत्र सिद्धस्वभावं स्वर्गद्रव्यं साध्यस्वभावायाः यागक्रियायाः साधनं स्यात्, किन्तु साध्ययागः सिद्धस्वर्गस्य साधनं न भवितुमर्हति, अतः स्वर्गेण यागः सिद्धयति किन्तु यागेन स्वर्गस्य सिद्धिर्न स्यात्, स्वर्गो यदि यागस्य साधनं स्यात्तदा स्वर्गस्य फलत्वमेव न स्यात्, साध्यमेव वस्तु फलं भवति । यागस्य साध्यत्वे याग एव फलं स्यात् फलस्यैव वाक्यार्थे प्रधानरूपेण प्रतीतिः भवति । स्वर्गः यदि यागसाधनं तदा स्वर्ग: अप्रधानं स्यात् अप्रधानमेव च गुणशब्देनोच्यते । अतः प्रदर्शितवाक्यस्य यो हि अर्थः तत्र स्वर्गस्य फलत्वेन प्रधानत्वं न स्यात्, यागस्यैव फलत्वात् अर्थात् साध्यत्वात् प्रधानत्वेन प्रतीति: स्यात् । तथा च स्वर्गफलस्य साधनं यागः इति एतस्य वाक्यस्य अर्थ एव नास्ति । स्वर्गः यागश्च उभयमपि फलमेवेति एकेन वाक्येन प्रत्येतुं न शक्यते । द्वयमपि साध्यं फलमेवेति स्वीकारे प्रदर्शितवाक्यस्य एकत्वं न स्यादपि तु द्वित्वं स्यादर्थाद्वाक्यद्वयत्वापत्तिस्तथा च वाक्य भेददोषः आपतति । स्वर्ग कुर्यात यागं कुर्यात् एतादृशकथने 'स्वर्गकामो यजेत' एतद्वाक्यस्य अनुभवसिद्धमेकत्वं न स्यात् । साध्यस्य फलस्य वा भेदप्रयुक्त [ ४५ ] . वाक्यमपि भिन्नं स्यात् । इह केचित् क्रियाप्रधानमेकार्थं वाक्यमिति । क्रियैव हि भाव्यते, स्वभावसिद्धं द्रव्यं गुणमिति वदन्तः फलस्यासमन्वयं वाक्ये मन्यन्ते । वि०वि० पृ० ३०८-३०९) । सर्वमेव हि क्रियाप्रधानमेकार्थमेकप्रयोजनं वाक्यं शब्दप्रवृत्त्यनुसारात् । वस्तुनोऽपि क्रियैव हि स्वभावतः साध्यरूपा भाव्यते, स्वभावसिद्धं तु द्रव्यं 'भूतं भव्यायेति' न्यायात तां प्रति गुणभूतं स्वर्गादीति वदन्तः फलस्यासमन्वयं मन्यन्ते। फलत्वेन तु सम्बन्धे स्वर्गादेस्तत्प्राधान्यात् क्रियाया न प्राधान्यम् । उभयप्राधान्ये च एकार्थत्वं लोकावगतमपहीयेतेति भावः ।' (न्या० क० पृ० ३०९) अनेन रूपेण स्वर्गः फलं न भविष्यतीति स्वर्गफलकामिनः यागे अधिकारोऽपि न सिध्येत् । निष्फले कर्मणि कोऽपि अधिकारी स्वामी वा न भवितुमर्हति । तथा च फलाभावादधिकाराभावः । न ह्य फलेषु कर्मसु कश्चिनियोज्यः स्वामी वा । (वि० वि० पृ० ३०१) मीमांसासूत्रेऽपि एतादृशी चर्चा वर्तते-'द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः' (मी० सू० ६.११) स्वर्गादिद्रव्यं यागादिकर्मणा सह गुणभावेन अर्थात् अप्रधानभावेन सम्बद्धं स्यात्, किन्तु रूपेण अर्थात् प्रधानरूपेण सम्बद्ध भवितुं नार्हति । भर्तृमित्रप्रभृतयः मीमांसायाः यस्य सूत्रस्योल्लेखं कृतवन्तः तत्सूत्रं यागादिकर्मणः स्वर्गादिफलसाधनता इति अधिकरणस्य पूर्वपक्षसूत्रम् । जैमिनेः पूर्वपक्षः एव भर्तृमित्रादीनां सिद्धान्तपक्षः । 'स्वर्गकामो यजेत' एतद्वाक्यस्वभावस्य एतद्वाक्यसामर्थ्यस्य वा आलोचनायां प्रदर्शित एवार्थोऽवगतो भवति । वस्तुनः सामर्थ्यस्य आलोचनायां स्वर्गादिद्रव्यं यागादिकर्मणः फलं भवितु नार्हति । 'यजेत' इति पदं यज्धातोः 'इत' एतद्विभक्तियोगेन निष्पन्नं भवति । विभक्तेः अर्थः भावना पुरुषस्य प्रयत्नो वा। यज्धातोरर्थः यागः । पुरुषस्य प्रयत्न: यागविषयक: एव स्यात् स्वर्गविषयको न भवितुमर्हति । पुरुषप्रयत्ननिष्पाद्यं यागाख्यमेव कर्म, स्वर्गः पुरुषप्रयत्ननिष्पाद्यो नास्ति । पुरुषः स्वप्रयत्नेन यागादिक्रियामेव सम्पादयति । न तु स्वर्ग निष्पादयति । यतः स्वर्गविषयकः पुरुषप्रयत्नोऽसम्भवः एव, अतः पुरुषप्रयत्नेन सह स्वर्गादिफलस्य सम्बन्धः असम्भव एव । पुरुषप्रयत्नस्य निष्पाद्यत्वेऽपि पुरुषप्रयत्न- निष्पन्नयागेन स्वर्गादेः सिद्धिः स्यात, प्रयत्नसिद्धः याग: स्वर्गादिफलस्य साधनं करणं वा स्यादेव, तथा च स्वर्गादिफलेन सह यागादिकरणस्य सम्बन्धोऽपि भवितुमहंतीति कथनमपि असङ्गतम् । यतः व्यापारवत्कारणमेव करणं भवति । यागः यदि स्वर्ग- फलस्य करणं स्यातदा यागेऽपि स्वर्गफल जनकव्यापारः स्वीकरणीयः, व्यापारशून्यं वस्तु करणं भवितुं नार्हति, स्वर्गफलजनकव्यापारश्च यागादिक्रियायां न दृश्यते, अतः, व्यापारशून्यो यागः स्वर्गफलस्य करणं न भवितुमर्हति । ‘एवं तावद् . द्रव्याणां कर्म- सम्बन्धे गुणत्वेनाभिसम्बन्धो न फलत्वेन इति युक्तम् । वस्तुतश्च न सम्बन्धः फलत्वेन, पुरुषप्रयत्नस्य यागादिविषयत्वात् स्वर्गाद्यसम्बन्धाद्यागादेश्च व्यापारान्तरादर्शनात करणत्वानुपपत्तेः ।' (वि० वि० पृ० ३१०) । .

'पुरुषप्रयत्नस्य भावनाया यागादिविषयत्वाद्धेतोः स्वर्गाद्यसम्बन्धात् । न जातु पुरुषः स्वर्गे व्याप्रियमाण उपलभ्यते अपि तु यागे । ततश्च याग एव तस्य साध्यो न स्वर्गः। अथ पुरुषप्रयत्नसाध्योऽपि यागः फलं प्रति करणं भविष्यति ततः सम्बन्धः उपपत्स्यते इत्यत आह-यागादेश्च व्यापारान्तरादर्शनात् करणत्वानुपपत्तेः । करणत्वं हि क्रियायोगेन व्याप्तं स चादर्शनात् यागादेनिवृत्तः करणत्वमपि निवर्तयतीत्यर्थः।' (न्या० क० पृ० ३११ याच्येत 'यजेत स्वर्गकामः' अनेन वाक्येन यागो विहितः, अनेन विहितेन यागेन यदि एतद्वाक्यनिदिष्टं फलं न स्यात्तदा यागे यागे विधिरस्तीति विश्वजिन्न्यायेन जन्यफलस्य कल्पना स्यात् । 'विश्वजिता यजेत' अस्मिन् वाक्ये कस्वापि फलस्य निर्देशाभावेऽपि यागे विधिरस्तीति विधिसामर्थ्यवशादेव स्वर्गफलकल्पना जायते, तथैव 'स्वर्गकामो यजेत' 'अस्मिन् वाक्ये नापि यागे विधिरस्तीति अन्यफल- कल्पना स्यात्, किन्तु एतदपि नैव सङ्गतम्, यतः 'यजेत स्वर्गकामः' अस्मिन् वाक्ये यथा श्रुतस्वर्गोऽपि विहितयागसाध्यत्वेन वा अन्वितो न भवति तथैव विश्वजिन्न्यायानुसारं कल्पितस्वर्गोऽपि फलत्वेन साध्यरूपत्वेन वा विहितयागेन सह अन्वितो न भवितुमर्हति । फलेन सह विहितयागस्य साध्यसाधनभाव एव सम्बन्धो भवितुमर्हति अर्थात स्वर्गादिफलं साध्यं विहितयागश्च साधनम् किन्तु, एतन्न भवितुमर्हति । यतः 'यजेत' इत्यनेन यागः साध्यरूपेण प्रतीयते, साध्ययागस्य फलसाधनत्वं कथमिव स्यात् ? साध्यत्वं साधनत्वञ्च विरुद्धधर्मः । असिद्धमेव साध्यमेवं सिद्धवस्तु एवं साधनं भवति, यागादिक्रिया साध्यस्वभावा, तस्मिन् साधनत्वं कथं स्यात्, अतः यागादिक्रियायाः साधनत्वमेव दुर्बोधम्, अर्थात् साधनत्वमेव सिद्धं न स्यात् । 'यजेत' इति यज्धातुः एकदैवोच्चारितः। एकदैवोच्चारितः एकदैव श्रुतः यज् धातुः परस्परविरुद्धेन साध्य- त्वेन साधनत्वेन च रूपेण यागस्य अवगति नैव कारयितुं शक्नोति । 'यजेत' इति कथनेन यागस्य साध्यत्वमेव प्रतीयते । साध्यरूपेण प्रतीतस्य यागस्य साधनत्वेन रूपेण प्रतीतिः कथमिव स्यात् ? 'न विधिसामर्थ्यादन्यदपि फलं तस्याप्यवमसमवायात वैरू"यात् साधनभावस्य दुरवबोधत्वात् । (वि० वि० पृ० ३१२) । 'यागश्च विधिसार्थ्यात्तु विश्वजिदादिवत् कल्पितेन फलान्तरेण संपत्स्यते इत्यत आह-न विधिसामर्थ्यादन्यदपि फलम् । कुतः ? तस्या येवं श्रुतफलप्रदासमवायात् । कुतः ? वैरूप्याद्धेतोः साधनभावस्य दुरवबोधत्वात् । न जातु सकृदेव श्रुतो यागः साध्यं साधनञ्चेत्युपपद्यते विरोधात् । तस्मात् साधनभावो दुरवबोधः साध्यत्वेन श्रुतस्य यागस्येति ।' (न्या० क० पृ० ३१२)। यद्युच्येत 'यजेत' इति शब्देन यागस्य साध्यरूपेण प्रतीतावपि अर्थापत्त्या फलं प्रति याग: साधनं भवितुमर्हति । शब्दप्रमाणेन यागः साध्यरूपेण अर्थापत्त्या च याग: साधनरूपेण प्रतीयेत । एकेन प्रमाणेन साध्यत्वस्य साधनत्वस्य च यागे प्रतीतिर्न भवितुमर्हति, वरूप्यापत्तेः, किन्तु भिन्नेन प्रमाणेन यागे फलसाधनत्वप्रतीतौ पूर्वोक्त- - [ ४७ ] दोषो न संघटते । पूर्वोक्तविश्लेषणेन यागे फलसाधनतायामापत्तिरेव प्रमाणम् किन्तु चोदना अर्थात् विधिः प्रमाणं नास्ति इत्येव मन्तव्यम्, तथा च धर्मे विधिवाक्यमेव प्रमाणमिति तव प्रतिज्ञायाः विरोवः स्यात् । यागादिकर्मणः फलसाधनत्वाभावेऽपि विधिवाक्येन यागादेः साध्यत्वप्रतीतौ न कोऽपि दोषः। तथा च अर्थापत्त्या यागादे: फलसाधनताया: सिद्धिः न स्यात्, अफलं च कर्म प्रवृत्तेः कारणं न भवतीत्यपि न सुसङ्गतम्, यतः, निष्फलेऽपि कर्मणि लोकानां प्रवृत्तिन भवतीति स्वीक्रियते तदा 'न कुर्वीत वृथा चेष्टाम्' इति धर्मशास्त्रिणा कथं निषिद्धम् ? निष्फले कर्मणि यदि केषा- मपि प्रवृत्तिर्न स्यात्तदा पूर्वोक्तः निषेधः व्यर्थ एव स्यात् । विहितनिष्फलकर्मातिरिक्त रागप्रयुक्त निष्फलं कर्म न कुर्यात्-- इत्येवोक्तनिषेधवाक्यस्याभिप्रायः । नार्थापत्तितः । चोदनालक्षणत्वहानेः तस्याः साध्यपर्यवसानात् । फलस्य कर्मणो लोके साध्यत्वादृष्टेः । साधनत्वस्य च साध्यपुरःसरत्वादर्थात्तदाक्षेपायोगात् । साव्यत्वस्य पुरोभाविनः साधनत्वाक्षेपासामर्थ्यात् ।' (वि० वि० पृ० ३१२) चोदनातः साध्यत्वेन प्रतीतस्य यागादेरर्थापत्तितः फलं प्रति साधनत्वं गम्यते माभू_रूप्यम्, इत्यत आह–नार्था- पत्तितः। कुतः ? चोदनालक्षणत्वहानेः । फलसाधनता चेदपित्तिगम्था चोदनालक्षणत्वं न स्यात् । ततश्च चोदनैवेति प्रतिज्ञाव्याघातः । न चार्थापत्तेश्चोदनामूलतया तद्विषय- श्चोदनालक्षण इति साम्प्रतम् । चोदनाया यागादिसाध्यमात्रपर्यवसिताया: फलसाधनता- मन्तरेणोपपत्तेप िमूलत्वाऽभावादित्याह-साध्यत्वपर्यवसानात् । अथाफलस्य साध्यत्वं चोदनाप्रतीतमनुपपन्नमिति चोदनैव साध्यत्वप्रतिपादिकाऽपर्यवस्यान्ती फल- कल्पनाबीजमिति तत्राह-अफलस्य कर्मणो लोकसाध्यत्वेनादृष्टेः । यत्किल धर्मशास्त्रकारो निषेधति 'न कुर्वीत वृथा चेष्टामिति' । (न्या० क० पृ० ३१२) । यदि 'यजेत स्वर्गकामः' इति विधिवाक्येन यागादिधात्वर्थस्य साध्यतामात्रेणैव प्रतीतिर्जायते न तु यागादिधात्वर्थे स्वर्गादिफलस्य साधनता प्रतीयते तदा विधि: कथमिव स्यात् ? अभिमतसाधनत्वमेव लिङादिविधिप्रत्ययस्य अर्थः इति यदुच्यते मीमांसकैः तन्न समीचीनम् । यतः प्रवर्तनैव विधिप्रत्ययस्यार्थः। विधिशब्दः पुरुषस्य अर्थमनर्थं वा न स्पृशति । यद्यपि प्रवृत्तिहेतुरेव प्रवर्तना, इष्टसाधनत्वमपि प्रवर्तनायाः बोधकः भवति, प्रार्थना, अनुज्ञा एवम् उपदेशः इत्येतेषु चतुर्षु अर्थेषु एव विधिशब्दः प्रयुक्तः भवति, आज्ञादिचतुर्पु अर्थेषु एव प्रवृत्तेहेतुता वर्तते । आज्ञया प्रवृत्तिर्भवति सा सकलानुभवसिद्धा । आज्ञापयिता प्रार्थयिता च स्वेष्टसाधनत्वस्य प्रतिसन्धानं कृत्वा आज्ञा प्रार्थनां वा करोति यं प्रति आज्ञां प्रार्थनां वा करोति तस्य आज्ञात्यस्य प्रार्थनीयस्य वा पुरुषस्य इष्टसाधनत्वस्य प्रतिसन्धानं कृत्वा आज्ञां प्रार्थनां वा न करोति । स्वामी भृत्य- माज्ञापयति-'गामानय' । अत्र स्वामी स्वकल्याणमनुसन्धायैव भृत्यमाज्ञापयति । सम्भवति आज्ञापालेन भृत्यस्यापि इष्टसाधनत्वम् तथापि आज्ञा भृत्यस्य इष्टसाधनतां नैव प्रतिपादयति । प्रमाणान्तरेणैव आज्ञापालकस्य भृत्यस्य इष्टस्य ज्ञानं जायते ।

[ ४८ ] एतादृशप्रार्थनायामपि प्रार्थयितुः इष्टसाधनत्वमेव प्रतीयते । प्रार्थनीयपुरुषस्य कल्याणं प्रति लक्ष्यं कृत्वा प्रार्थना नैव प्रयुज्यते । यथा-'माणवकमध्यापय' इत्यस्यां प्रार्थनायां प्रार्थनीयस्य गुरोः इष्टस्य प्रतिसन्धानं नास्ति । प्रार्थयिता स्वेष्टस्य सिद्धयर्थमेव प्रार्थनां करोति । आज्ञया प्रार्थनया च उपदेशः भिन्नः । उपदेष्टा स्वेष्टमभिसन्धाय नैवोपदिशति । अपि तु उपदेश्यपुरुषस्य इष्टसाधनतयाः एव प्रतिसन्धानं कृत्वा उपदेशं करोति, यथा- 'ज्वरितः पथ्य मश्नीयात्' ज्वररोगयुक्तस्य पुरुषस्यैव इष्टसाधनतायाः प्रतिपादनं करोति न तु उपदेष्टा आत्मनः इष्टमभिसन्धाय उपदेशं करोति । अनुज्ञायामनुज्ञाता आत्मनः इष्टसाधनतामनुसन्धाय अनुज्ञां नैव करोति अपि तु अनुज्ञेयपुरुषस्यैव इष्ट साधनत्वमवगत्य अनुज्ञां करोति । उपदेशे अनुज्ञायाञ्चैव एष भेदो वर्तते यत् अप्रवृत्तं पुरुषं प्रवर्तयति उपदेशेन उपदेष्टा, स्वेच्छया प्रवृतः पुरुषः अनुज्ञया प्रवर्तितो भवति । स्थलविशेषे च अनुज्ञायामपि अनुज्ञातुः पुरुषस्य इष्टसाधनत्वस्य प्रतिसन्धानं वर्तत एव । विधिविभक्ते : पूर्वोक्तविश्लेषणेन सन्ति चत्वारोऽस्तिथा प्रवर्तनारूपं चतुर्वपि अनुस्यूतं वर्तते । आज्ञा प्रार्थना नास्ति तथापि प्रवर्तना अस्त्येव । आज्ञा, प्रार्थना उपदेशश्च अप्रवृत्तप्रवर्तना, किन्तु अनुज्ञा प्रवृनप्रवर्तना इयान् एव भेदः, परं प्रवर्तना तु चतुर्वपि वर्तते । आज्ञादिक प्रवर्तनाया एव विशेषरूपम् । सामान्यरूपेण प्रवर्तना सर्वत्रैव विद्यतेऽतः प्रवर्तनैव विधि- शब्दार्थस्तथा चानेकार्थत्वरूपः दोषः शब्दे स्यात् एकार्थत्वे सम्भवति शब्दस्य अनेकार्थत्वं नैव स्वीकर्तव्यम् । एकस्य शब्दस्य अनेकार्थेषु शक्तिस्वीकारे शक्तिकल्पनायां गौरवं स्यात् । 'यजेत स्वर्गकामः' अनेन वाक्येन यागः स्वर्गसाधनमेषोऽर्थः कथमपि भवितुं नार्हति । तथा च यागादिकर्म निष्फलमेव स्यात् । अनेन प्रकारेण कर्मविधायकं किमपि वाक्यं फलसाधनकर्मणः प्रतिपादनं कर्तुं न शक्नोति । किमपि विहितं कर्म फलस्य जनक भवितुं नाहति । तथा च निष्प्रयोजनस्य कर्मण उपदेश एव न स्यात्, यतः निष्फलकर्मणः उपदेशे उपदेश एव अनर्थक: भवेत् । अत्रेदं वक्तव्यं यत् निष्फलकर्मण: उपदेशस्य यदि किमपि प्रयोजनं स्यात्तदा उपदेश: निरर्थकः कथं स्यात् ? यदि प्रयोजनं न स्यात् तदा निरर्थक एव स्यादत्र किमु वक्तव्यम् ? कर्मोपदेशस्य प्रयोजनं हि आत्मज्ञाने अधिकार- सिद्धिरेव। कथं सर्वस्यापि कर्मविधेः एकमात्र प्रयोजनम् आत्मज्ञाने पुरुषस्य अधिकार सिद्धिः ? एतस्य समाधानप्रसङ्गे विधिविवेके उक्तं मनुष्यः विविधविषय राग- सम्पन्नः सन् एव जन्मग्रहणं करोति । जीवस्य विषय रागः स्वाभाविकः, वीतरागपुरुषस्य जन्म न भवति । स्वभावसिद्ध विषयरागप्रयुक्तः पुरुषः स्वीयरागस्य धनपुत्रकलत्रादेः लाभार्थं कृषिवाणिज्यादौ एवमेव स्तेयद्यूतमृगयादौ दृष्टसाधने अनुरक्तः स्यात् । दृष्टे १. 'कथं तीदानी विधिः ? किमत्र कथम् ? प्रवर्तनामानं विविन्न पुरुषार्थानों स्पृशति । कुतः ? प्रतीतेर व्यभिचाराच्च । तथा च लिङ्गादिभ्यः प्रेरणावगमः । यद्यपि चेष्टसाधनता प्रवृत्तिहेतुः। शब्दस्त्वनामृष्टतद्रूपः प्रवर्तनामात्रस्य चाऽत्रभि- चारात् । अनेकार्थत्वदोषात् । वि० वि पृ० ३१३ -- । ४९ ] विषयेऽतिशयानुरागप्रयुक्त एव विषयप्रासिसाधनेषु नितान्तमनुरक्तः जायते । अतः शास्त्रे निष्प्रपञ्चानन्दस्वरूपात्मतत्त्वस्य उपदेशेऽपि ताशात्मतत्वस्य ज्ञानार्थं तत्प्रणिधानार्थ वा प्रवृत्ति व स्यात् । विषयरागयुक्तस्य पुरुषस्य तादृशात्मतत्त्वस्य साक्षात्कारस्तु सुदूरपराहत एव । कर्मणामुपदेशेन शास्त्रं मनुष्यस्य स्वाभाविकप्रवृत्तेः निवृत्तिं सम्पादयति । शास्त्रो- पदिष्टे कर्मणि सततं निरतः सन् पुरुषः अनुशिष्टो भवति । विषयरागश्च क्रमशः शान्तो भवति । स्वभावतः मनुष्यः पुत्रकलत्रपरिजनादिचिन्तायां नियुक्तः सन् अपि शास्त्रोपदिष्टे कर्मणि सततं निरतः परिजनचिन्तायां पूर्ववदभिनिविष्टः न भवति । शास्त्रीयकर्मपद्धतौ व्यवस्थित सन् दान्तो जायते । काम्यचिन्तया चित्तं व्याकुलं न भवति । एतस्यामेवा- वस्थायां शास्त्रोपदिष्टनिष्प्रपञ्चात्मतत्त्वज्ञानार्थं प्रणिधाने समर्थो भवति । अनेन रूपेण कर्मविधिः फलसाधनकर्मणि पुरुषस्य कृतेऽधिकारसिद्धिमकृत्वा एव रागनिवृत्तिपूर्वकं निष्प्रपञ्चात्मनः ज्ञाने पुरुषस्य अधिकारं साधयति । एतादृशार्थस्वीकारे एव शास्त्रस्य शास्त्रत्वं सिद्ध्यति । येन नियोज्यस्य पुरुषस्य अनुशासनमथ वा येन पुरुषस्य हितानुशासनं जायते तदेव शास्त्रम् शास्त्रीयप्रवृत्तेरुपदेशेन पुरुषस्य स्वाभाविकी प्रवृति निर्वर्तयति । स्वाभाविकप्रवृत्तिः परिणामदुःखेन, तापदुःखेन च विमिश्रिता वर्तते । एतन्त्रि विधदुःखा- त्मिकया प्रवृत्त्या निवृत्तं कृत्वा शास्त्रं नियोज्यपुरुषस्य अनुशासनमेव करोति, तेनैव च शास्त्रस्य शास्त्रत्वं रक्षितं भवति । निष्प्रपञ्चनित्यानन्दस्वरूपात्मनः ज्ञानेऽधिकारसिद्धौ सत्यां कर्मविधिः हितस्यापि उपदेशको भवति । हितानुशासकमेव शास्त्रम्, आत्मनः ज्ञानापेक्षया किमन्यद्धितं स्यात् । यन्मते विहितं कर्म पुत्रधन स्वर्गादेः साधनम्, स्वर्गादिफलसाधन तैव कर्मणो वर्तते इत्येव सिद्धान्तः तन्मते कर्मप्रतिपादकस्य वेदस्य शास्त्रत्वमेव नास्ति । प्रकारान्तरेण कर्मशास्त्रस्य अशास्त्रत्वमेव ते स्वीकृर्वन्ति । पुत्रधन- स्वर्गादेः विहितकर्मणः फलत्वे एतदवश्यमेव स्वीफर्तव्यम् यत् मनुष्याणामेतेषु सर्वेष्वपि फलेषु स्वाभाविकः रागः कामना वा वर्तते । तथा च स्वभावसिद्धरागविषये प्रवृत्तिरपि स्वाभाविकी। काम्यफलस्य साधनापरिज्ञाने साक्षात्फले प्रवृत्तिर्न भवितुमर्हति । शास्त्र- मेतेषां काम्यफलानां साधनं प्रतिपाद्य पुरुषस्य स्वाभाविकप्रवृत्तौ साहाय्यं कुर्यात् । तदा शास्त्रस्प शास्त्रत्वमेव निवर्तेत । स्वेच्छावशात् प्रवृत्ती साहट यस्य सम्पादक शास्त्र न भवति न तदनुशासकं जायते । एतादृशेन च शास्त्रेण नैव पुरुषः अनुशिष्टो भवति । कर्मविधिसमूहस्य आत्मज्ञानेऽधिकार सिद्धिः एव प्रयोजनम्, किन्तु एतत्कथनमसङ्गतमेव । यतः कर्मविधिना यदि विहितं कर्म एव साध्यम्, स्वर्गादिफलं न साध्यं तदा ज्ञानविधिना मोक्षफलस्य सिद्धिः कथं भवेत् ? यथा कर्मविधिना कर्मण एव साध्यत्वं प्रयीयते । तेन च मोक्षफलं न सिद्ध्यति, कर्मविधिः यथा कर्मणि प्रवर्तनामवगमयति तथैव ज्ञानविधिरपि ज्ञाने प्रवर्तनामवगमयेत् । कमविधेः ज्ञान विधेश्च एकैव नु स्यात् । एतदपि कथन न १. वि० वि० पृ० ३१३-१४ । २. वि० वि० पृ० ३१४, न्या० के० पृ. ३१४ ।

[ ५० ] सुसङ्गतम् । यतः ज्ञानं दृष्टार्थम् अर्थात् यद्यपि विधिशब्देन ज्ञानस्य सम्बन्धो नास्ति, ज्ञानविधिः ज्ञानस्यैव साध्यत्वं प्रतिपादयति तथापि ज्ञानं ज्ञेयतन्त्रम् । ज्ञेयवस्तु यादृश स्यात् तज्ज्ञानमपि तथैव भवेत् । ज्ञेयनिरपेक्षः ज्ञानाकारो नैव भवितुमर्हति । 'नन्वेवं ज्ञानविधिरप्यनुशासनमात्रमेव स्यात् ? न । ज्ञानस्य दृष्टार्थत्वात् स्वभावतश्च गुणभूत- त्वात् ।' वि० वि० पृ० ३१५) भ्रमज्ञानमस्माभिः न स्वीक्रियते, तथा च विषयस्य अन्यरूपत्वेऽपि तस्य ज्ञानमन्याकारकं स्यादिति तु प्रतीतिविरुद्धम् । तस्मात्, आत्मज्ञाने विधेः सत्त्वेऽपि एतज्ज्ञानं ज्ञेयतन्त्रमिति आत्मनः निष्प्रपञ्चरूपताया: आनन्दरूपतायाश्च सिद्धिः स्यात् । आत्मस्वरूपः एव मोक्षः । अतः ज्ञाने विधिसत्त्वेऽपि फलस्य असिद्धिर्न स्यात् । ज्ञातं तादृशमात्मस्वरूपमेव फलम् । ज्ञानं स्वभावत एव ज्ञेयतन्त्रम् सर्वत्रैव ज्ञेयं प्रधानम् ज्ञानञ्चाप्रधानम् । आत्मज्ञानस्य विधिसाध्यत्वेऽपि ज्ञानापेक्षया ज्ञेयस्य प्रधानत्वेन तादृशात्मनः सिद्धौ कापि बाधा नास्ति । भ्रमज्ञानं ज्ञेयनिरपेक्षमिति भ्रमज्ञानेन ज्ञेयवस्तुनः सिद्धिर्न स्यात् । अस्माभिस्तु भ्रमज्ञानं न स्वीक्रियते, अख्यातिवादसमर्थकाः वयम् । भर्तृमित्रस्यैतन्मतं प्रभाकरानुरूपतां भजेत । आत्मज्ञाने विधिस्वीकारे वेदस्य कार्यार्थतैव स्यात् तथा च भ्रमज्ञानास्वीकारे च अख्यातिवादस्य समर्थनं भवेत् । शबरप्रदर्शिताभिप्रायेणैव उक्तवान् 'कर्त्तव्यश्च सुखवान् अकर्तव्यो दुग्ववान् । (जै० सू० ६।१।१) अत्रस्थभाष्यस्यायमेवाभिप्रायो यत् स्वर्गादिफलस्य साधनं यदि विहितं यागादिकर्म स्यात् तदा यागादिकर्म कर्तव्यमेव न स्यात्, यतः स्वर्गादिफलस्य क्षणिकत्वान्नादुःख- मिश्रितत्वाच्च दुःखरूपत्वमेव । एतस्य दुःखस्य साधनभूतयागादिरपि दुःखरूप एवेत्यस्य कर्तव्यत्वं न स्यात् । 'कर्तव्यः सुखवान्' इति भाष्यवचनेन आत्मज्ञानस्यैव कर्तब्धता सिद्ध्यति । प्रपञ्चस्य दुःखरूपत्वम् आत्मा च सुखस्वरूप इति एतादृशात्मज्ञानरम सुखफलकत्वात् तस्यैव च कर्तव्यत्वम् । 'यजेत स्वर्गकामः' अनेन वाक्येन येपो मते स्वर्गकामिनः स्वर्गसाधनयागेऽधिकारः न सिद्धयति, अधिकार एव असिद्धः अन्ि कश्चिन्नपि स्थले विधिवाक्येन अधिकारसिद्धिः न स्मात् इत्येव वदेत्, किन्तु इदानी- मवलोक्यते तेषामपि मते विधिना अधिकारः सिद्ध्यतीति। अत्रेदं समाधानम्; शाब्द- न्यायेनोच्यते विधिवाक्येनाधिकारो न सिद्ध्यति न्यायानुसारेण च सिद्धः सर्वैरे व स्वीकार्यः अभ्युपगमसिद्धान्तेन नैतदुच्यते२ । न्यायानुसारेण यदि ज्ञानविधिना अधिकार: सिद्धयति तदा किमु वक्तव्यम् ? वस्तुत: ज्ञान विधिना अधिकार: न सिद्धयति, ज्ञानस्य दृष्टार्थताप्रयुक्त एवासौ सिद्ध्यति । लोकातयमतानुसारिणां मीमांसकानामेतन्मतं विधिविवेके मण्डनेनोक्तम् । - - १. इममेवार्थममिप्रेत्य कर्तव्यश्च सुखवान् अकर्तव्यश्च दुःखवान् इत्यायु कमत्र भवता (न्या० क० पृ० ३१६) वि. वि. पृ० ३१६ २. वि०वि० ३१५ ३. वि० वि० पृ० ३१६ [ ५१ ] एतस्य मतस्य खण्डनावसरे श्रीमता मण्डनेनोक्तम्-ये हि विहितस्य निषिद्धस्य वा कर्मण : फलं न स्वीकुर्वन्ति, ते जीवस्य सुखभोग: दुःख भोगो वा स्वभावत एव भवतीति स्वीकुर्वन्ति, तथा च स्वभाववाद एव वेदस्य अर्थः इत्येव वदन्ति । आत्म- ज्ञानस्याधिकारसिद्धिच्छलेन वेदस्य लोकायतशास्त्रत्वमेव साधयन्ति । तथा च ये दृष्टद्वारेणैव आत्मज्ञानविध्यधिकारी एवं कर्मविव्यधिकरीति स्वीकुर्वन्ति, कर्मविधेरन्यः कश्चिदधिकारीति न स्वीकुर्वति । एतेन कर्मविधेरिव ज्ञानविधेरपि अनुज्ञाने एव पर्यवसानं भवति । विधिना तादृशस्यात्मनः प्रतिपत्तिः सिद्धिर्न स्यात् । यद्युच्येत-ज्ञानस्वभाव- प्रयुक्त एव तादृशात्मनः प्रतिपत्तिः सिद्धधति । अतादृशः आत्मा तादृशप्रतिपत्तेविषयो न भवितुमर्हति तथा च ज्ञाने विधेययं स्यात् । एतादृशात्मनि तादृशरूपसमारोपेणापि आत्मनः ज्ञानं भवितुमर्हतीति आत्मनः निष्प्रपञ्चरूपता न सिद्धयति । 'स्वाभाविकत्वाच्च फलोपभोगस्य स्वभाववाद एवाम्नायार्थ श्छमना आश्रितः स्यात् ।...""सम्भवान्न तत्त्वपरिच्छेदः ।' (वि० वि० पृ० ३३५-३६) अयमाशयः, विहितस्य निषिद्धस्य च कर्मणः फलमिति न स्वीकुर्वन्ति, सर्गादिफलास्वीकारेऽपि चित्तशुद्धिः निहितकर्मणः फलमिति स्वीकुर्वन्ति, किन्तु, विधिवशात् नैव स्वीकुर्वन्ति, स्वाभाविकप्रवृत्तेः निरोधरूप- दृष्टेनैव चित्तशुद्धिर्जायते, कर्मी कर्मानुष्ठाने दान्तो भवति । वेदान्तिनः कर्मफलं नैव स्वीकुर्वन्ति यतः अनात्मवस्तु परमार्थरूपतां न प्राप्नोति, अनात्मवस्तुनि तेषां नास्ति आश्वासः । अत एव एकजीववादः दृष्टि सृष्टिवादश्चोत्तमाधिकारिणां कृते इति ते निरूपयन्ति । अपारमार्थिक कापि पारमार्थिकं न भवितुमर्हति । कर्म तत्फलं कर्मणि अधिकारः अनात्मपदार्थः निष्प्रपञ्चे आत्मनि आश्वासः अनात्मनि चानाश्वासः । अत एव भर्तृमित्रेण एतादृशी प्रक्रिया प्रदर्शिता । अनेकव्याख्यानसहितस्यास्य मीमांसादर्शनस्य द्वितीयं भागं मनीषिणां पुरतः समुपस्थापयन् मोदातिशय ननुभवामि । नूनं सत्यमिदं यत् श्रीमतां पद्मश्रीमीमांसकशिरोमणिपट्टाभिरामशास्त्रिणाम्, पण्डितप्रवराचार्यगुरुवरश्रीबदरीनाथशुक्लमहोदयानाम्, पण्डितप्रवरगुरुवरविद्यावाचस्पति- श्रीब्रह्मदत्तद्विवेदिगामाशी शीभिरेव एतस्य द्वितीयस्य भागस्य सम्पादने सामर्थ्यमासा- दितम् । श्रीमतां शुक्लमहोदयानां सम्मत्या एतस्मिन् ग्रन्थे मणिकाञ्चनसंयोगः समभवत्, अग्निमभागसम्पादने उत्साहवर्द्धनं च समजनि ।

[ ५२ । वस्तुतः एतस्य ग्रन्थस्य प्रकाशनं श्रीमतां ताराप्रिटिङ्गयन्त्रालयाध्याक्षाणां श्रीरमाशङ्करपाण्ड्यामहाशयानां शुभोदयश्रीरविशङ्करपाण्ड्यामहाभागानां सततं संस्कृतग्रन्थोद्धारे सन्नद्धानामपूर्वोत्साहस्य प्रेरणाया एव फलमिति, अन्यथा मादृशानामा- ल्यस्यैकधनानामेतकार्य मनसाऽप्यचिन्तनीयमेव, अतः इमौ सर्वथा प्रशंसाह्रविति । अस्य ग्रन्थस्य अशुद्धय दिपरिमार्जने ग्रन्थसम्पादने च पं० श्रीकृपासिन्धुशर्मणा महत्साहाय्गमाचरितंमिति ते धन्यवदार्हाः । आशासेऽविलम्बमेव तृतीयो भागोऽपि मरीषिणां पुरतः समुपाहरिष्यामीति- विदुषामाश्रवः महाप्रभुलालगोस्वामी . . मीमांसादर्शन-विषय-सूची प्रथमाध्याये चतुर्थपादः विषया पृष्ठ-संख्या उद्भिदधिकरणम् (पूर्वपक्षः) १-५ शा० भा० १, भा० वि० १, त० वा० ५ केषाञ्चित्समाधानं तन्निरासश्च ५ एकाधिकरणवादिमतनिरासेन अधिकरणद्वयमिति वातिकमतम् ५ प्रथमाधिकरणवर्णनम् ५ प्रकृतिज्योतिष्टोमेत्यादेाख्यानचतुष्टयम् ७-३५ न्या० सु०७, भा० प्र० १६, शा० भा० २०, भा०वि० २१, त० वा० २४, न्या० सु० २७, भा० प्र० ३५ द्वितीयं चित्राधिकरणम् ३७.६४ शा० भा० ३७, भा०वि० ३८, त० वा. ४३ उत्पत्तिवाक्यस्य नोदाहरणत्वम् त० वा० ४३ अतितु गुणवाक्यस्यैवेति प्रतिपादनम् पवमानशब्दस्योदाहरणविषये मतभेदस्य प्रदर्शनम् त० वा० ४४ चित्राशब्देन गुणविधिरिति पूर्वपक्षोपपादनम् त० वा० ४४ मतान्तरस्य निर्देशः, तत्रास्वारस्यवर्णनम् त० वा. ४५ अत्र विषये वार्तिकमतम् त० वा० ४५ आज्यशब्दः न गुणविधिः त० वा० ४५, न्या० सु० ४८, भा० प्र०६४ तृतीयं तत्वख्याधिकरणम् ६६-७० शा० भा०६६, भा० वि० ६७, त० वा० ७० पूर्वपक्ष त० वा. ७० सिद्धान्तवर्णनम् ७१-८१ त० वा० ७१ शङ्का त० वा० ७१ तन्निरासः त० वा० ७१ तत्प्रख्याधिकरणम् न्या० सु. ७२, भा० प्र०८१ ७० [ ५४ ] ८३-८९ चतुर्थं तद्वयपदेशाधिकरणम् शा० भा० ८३, भा०वि० ८३, त० वा० ८५ लक्षणायाः गोण्या वृत्तेर्बलीयस्त्वादितिपूर्वपक्षे हेत्वन्तराकथनम् त० वा० ८५, न्या० सु० ८६, भा० प्र० ८९ पञ्चमं वाजपेयाधिकरणम् पूर्वपक्षः शा० भा० ९१, भा० वि० ९१, त० वा० ९१, न्या० सु० ९२, ९१-९४ भा०प्र० ९४ - पञ्चमं वाजपेयाधिकरणम् सिद्धान्तपक्ष: ९५-१०१ शा० भा० ९५, भा० वि ९५. त० वा० ९६, न्या. सु० ९६, भा० प्र० ९६, शा० भा० ९७, भा० वि० ९८, त० वा० ९९ न्या० सु० १००, भा० प्र० १०५ षष्ठम् आग्नेयाधिकरणम् १०८-१२० शा० भा० १०८, भा० वि० १०८, त० वा० ११०, न्या. सु० ११२, भा० प्र० १२० सप्तमं बहिराज्याधिकरणम् १२२-१२८ शा० भा० १२२, भा० वि० १२३, त० वा० १२५, न्या० सु० १२६, भा० प्र० १२८ अष्टमं प्रोक्षण्यधिकरणम् १३०-१३५ शा० भा० १३०, भा० वि० १३०, त• वा० १३१, न्या० सु० १३२, भा० प्र० १३५ नवमं निर्मन्थ्याधिकरणम् १३६-१३९ शा० भा० १३६, भा० वि० १३७, त० वा० १३७, न्या० सु० १३८, भा० प्र० १३९ वैश्वदेवाधिकरणम् पूर्वपक्षः १४०-१४४ शा० भा० १४०, भा० वि० १४०, त० वा० १४१, न्या० सु० १४२, भा०प्र० १४४ सिद्धान्तपक्षः १४६-१६३ शा० भा० १४६, भा० वि० १४६, त० वा० १४७, न्या० सु० १४८, भा० प्र० १५०, शा० भा० १५१, भा० वि० १५१, त० वा० १५२, न्या. सु० १५२, भा० प्र० १५२, शा० भा०.१५३, भा० वि० १५३, - [ ५५ ] त० वा० १५४, न्या० सु. १५४, भा० प्र० १५५. वैश्वानराधिकरणम् पूर्वपक्षः शा० भा० १५७; भा० वि० १५७, त० वा० १५८ केषाञ्चिन्मतस्योपन्यासनिरासौ त वा० १५८ वैश्वरेष्टयधिकरणम् न्या० सु० १५९, भा० प्र० १६३ सिद्धान्तः १६५.१६९ शा० भा० १६५, भा० वि० १६५, त० वा० १६५, न्या० सु० १६७, भा० प्र० १६९ पूर्वसिद्धान्त स्योत्तराभासः १७०-१७१ शा० भा० १७०, भा० वि० १७०, त० वा० १७, न्या० सु० १७०, भा० प्र० १७१ पूर्वस्य उत्तरम् १७१.१७४ शा० भा० १७१, भा० वि० १७२, त० वा० १७२, न्या० सु० १७३, भा० प्र० १७४ पूर्वपक्षिण आशङ्का १७४-१७७ शा० भा० १७४, भा० वि० १७४, त० वा० १७४, न्या. सु० १७५, भा० प्र० १७७ वैश्वानरेष्ट्यधिक रणम् १७८-१८४ शा भा० १७८, भा० वि० १७८, त० वा० १७८, न्या० सु० १७९ तत्सिद्धिपेटिका शा० भा० १८०, भा० वि० १८१ त्रयोदशतासिद्धयधिकरणम् त० वा० १८४ शङ्का केषाञ्चिन्मतेन समाधानम् १८४ पूर्वपक्षः १८४ सिद्धान्तः १८५-१९६ गुणसमुदायवाचीति वदतां मतम् तन्निरासश्च १८५ कस्यचिन्मतस्योपन्यासः १८६ तस्य निरासः १८६ केषाश्चिन्मतेन समाधानम् १८९ जातिः इति सूत्रव्याख्यानम् शा० भा० १९०, भा० वि० १९० दुरुक्तत्वमभिधातु भाष्योक्तोदाहरणदूषणम् त० वा० १९१ [ ५६ ] . वातिकमतेनोदाहरणम् १९१ सारूप्यमित्यस्य व्याख्यानम् शा० भा० १९२, भा० वि० १९२, त० वा० १९२ प्रशंसा इत्यस्य व्याख्यानम् शा० भा० १९२, भा० वि० १९३, त० वा० १९३ भूमा इत्यस्य व्याख्यानम् शा० भा० १९४, भा० वि० १९४, त० वा. १९४ केषाञ्चिन्मतेन शङ्का परिहारश्च त० वा० १९५ भाष्योक्तार्थस्य दूषणम् त० वा० १९६ लिङ्गसमवायः इत्यस्य व्याख्यानम् शा० भा० १९६, भा० वि० १९६, त० वा० १९७ यजमानस्य प्रस्तरादिस्तुत्यर्थताधिकरणम् १९७ न्या० सु० १९७ वैश्वानरेत्यधिकरणम् २१५ भा० प्र० २१५ आग्नेयादिशब्दानां ब्राह्मणस्तुत्यर्थत्वाधिकरणम् २१५-२१८ न्या० सु० २१५, भा० प्र० २१८ अपश्वादिशब्दानां गवादिस्तुत्यर्थत्वाधिकरणम् २२०-२२१ न्या० सु० २२०, भा० प्र०२२१ सृष्टिव्यपदेशाधिकरणम् २२६.२२९ न्या० सु० २२६, भा०प्र० २२९ प्राणमृदादिशब्दानां स्तुत्यर्थताधिकरणम् २२९.२३१ न्या. सु. २२९, भा. प्र० २३१ वाक्यशेषाधिकरणम् २३२-२४० न्या० सु० २३२, भा० प्र० २३७, शा० भा० २३८, भा० वि० २३८, त० वा० २३९ अर्थवादाधिकरणेनागतार्थत्वोपपादनम् त. वा० २४० छागन्यायेनागमार्थत्वप्रतिपादनम् त० वा० २४० सिद्धान्त : २४१ त० वा० २४१ [ ५७ ] सामर्थ्याधिकरणम् २४१-२४२ न्या० सु० २४२, भा० प्र० २४४, शा० भा० २४६, भा० वि० २४७, त० वा० २४७, न्या० सु० २४८, भा० प्र० २४९ प्रथमाध्यायस्य चतुर्थः पादः समाप्तः ॥ द्वितीयाध्याये प्रथमः पादः - भावार्थाधिकरणम् २५१-३२१ शा० भा० २५१, भा० वि० २५२, त० वा० २५२ धात्वर्थातिरिक्तभावनासाधनम् त. वा० २७० भावनाया अंशत्रयेण साध्यांशनिरूपणम् २७१ साधनांशनिरूपणम् २७२ भावनायास्सकर्मकत्वनिरूपण मुखेन सूत्रार्थवर्णनम् २७२ भावनायास्सकर्मकत्वाकर्मकत्वनिरूपणम् त० वा० २७३ इतिकर्तव्यतांशस्य प्रतिपादनम् २७३ न्या० सु० २७४, भा० प्र० ३२१ भावार्थनिरूपणम् ३२६-३३६ शा० भा० ३२६, भा०वि० ३२६, त० वा० ३२७, न्या० सु० ३२७ भा० प्र० ३२७, शा० भा० ३२८-३३३, भा० वि० ३२८-३३३ त० वा० ३२९-३३४, न्या० सु. ३२९-३३५, भा० प्र० ३३१-३३६ अपूर्वाधिकरणम् ३३७.३८३ शा० भा० ३३७, भा०वि० ३३८, त० वा० ३३८, वृत्तिकारमतेन शङ्का ३४१, अपूर्वे प्रत्यक्षादीनां प्रामाण्यनिरास: ३४१, शब्दप्रामाण्यनि-स: ३४१, अर्थापत्तिनिरास: ३४२, केषाञ्चिन्मतेन समाधानम् ३५०, स्वमतेन समाधानम् ३५१, आत्मनो मूर्तत्वेऽन्योऽन्याश्रयः ३५३, अणुवादनिरासः ३५४, अहिंसाभिमतशरीरपरिमाणवादनिरासः ३५४ [ ५८ ] . - उपषित्सु अणुत्ववादो दुर्ज्ञानात्वाभिप्रायेण ३५५ एकात्मवादे दूषणानि ३५५ न्या० सु० ३५७, भा० प्र० ३८३ तानि द्वैधाधिकरणम् ३८४.३९३ शा० भा० ३८४, भा० वि० ३८५, त० वा० ३८६, न्या० सु० ३८६, भा० प्र० ३८७, शा० भा० ३८७-३८९, भा०वि० ३८८-३८९, त० वा० ३८८-३९०, न्या० सु० ३८८-३९१, भा० प्र० ३८८-३९३ सम्माधिकरणम् ३९५.४२० शा० भा० ३९५, ३९८, ४००, ४०१, भा० वि० ३९५, ३९८, ४००, ४०३, त० वा० ३९५, ३९९, ४००, ४०६, न्या० सु० ३९६, ३९९, ४०१, ४११, भा० प्र० ३९७, ४००, ४०१, ४२० स्तुतशास्त्राधिकरणम् ४२२.४७५ शा० भा० ४२३, ४२५, ४२८, ४३१ ४३७, ४५०, ४५१, ४५२, ४५४, ४५६, भा० वि० ४२३, ४२५, ४२८, ४३१, ४३७, ४५०, ४५२, ४५३, ४५४ ४५६, त० वा० ४२४, ४२६, ४२९, ४३३, ४३७, ४५०, ४५२, ४५३, ४५५, ४५६, न्या० सु० ४२४, ४२६, ४२९, ४३४, ४४२, ४५१, ४५२. ४५३, ४५५, ४५६, भा० प्र० ४२०, ४२९, ४३०, ४३६, ४४९, ४५१, ४५२, ४५३, ४५५, ४५७ शा भा० ४५७, ४६०, ४६९, ४७१, ४७२, ४७३, ४७४, भा० वि० ४५७, ४६१, ४६९, ४७१, ४७२, त. वा० ४५८, ४६२, ४६९, ४७१, ४७२, ०७२, ०७१, न्या० सु० ४५९, ४६४, ४७०, ४७१, ४७२, ४७३, ४७५, भा० प्र० ४६०, ४६७, ४७१, ४७२, ४७४, ४७५ मन्त्राविधायकत्वाधिकरणम् ४७६-४९० शा० भा० ४७६, ४८०, ४८५, भा० वि० ४७६, ४८०, ४८६, त० वा० ४७७, ४८१, ४८७, न्या० सु० ४७८, ४८२, ४८८, भा० प्र० ४७९, ४८४, ४९० ब्राह्मणलक्षणाधिकरणम् ४९२.४९५ शा० भा० ४९२, भा० वि० ४९३, त० वा० ४९३, न्या० सु० ४९३ भा० प्र०४९५ [ ५९ ] , ऊहादीनाममन्त्राधिकरणम् ४९६-५०२ शा० भा० ४९६, भा० वि० ४९६, त० वा० ४९७, ऊहविषये शङ्कासमाधाने ४९७, प्रवरनामधेययोराक्षेपपरिहारे ४९९ न्या० सु० ४९९, भा० प्र० ५०२ ऋग्लक्षणाधिकरणम् ५०३-५०५ शा० भा० ५०३, भा० वि० ५०४, त वा० ५०४ न्या० सु० ५०४ भा० प्र० ५०५ सामलक्षणाधिकरणम् ५०८-५०९ शा० भा० ५०८, भा० वि० ५०८, त० वा० ५०८, न्या० सु० ५०९ भा० प्र० ५०९ यजुर्लक्षणाधिकरणम् ५१० शा० भा० ५१०, भा० वि० ५१०, त० वा० ५१०, न्या० सु० ५१०, भा०प्र० ५१० निगदाधिकरणम् ५१२-५१४ शा० भा० ५१२, भा० वि० ५१३-५१४, त० वा० ५१३, न्या० सु० ५१३-५१४, भा० प्र० ५१३-५१४ (पूर्वपक्षः) सिद्धान्तपक्षः ५१५-५२१ शा० भा० ५१५, ५१६, ५१७, ५१९, ५२०, भा० वि० ५१५, ५१६, ५१७, ५१९, ५२० त० वा० ५१५, ५१६, ५१७,५१९, ५२०, ५२१ न्या० सु० ५१५, ५१६, ५१८, ५१९, ५२०, ५२१ भा० प्र० ५१६, ५१८, ५१९, ५२०, ५२१ एकवाक्यत्वलक्षणाधिकरणम् ५२१-५३५ शा० भा० ५२१, भा० वि० ५२२, त० वा० ५२५ न्या० सु० ५३०, भा०प्र० ५३५ वाक्यभेदाधिकरणम् ५४०-५४८ शा. भा० ५४०, भा० वि० ५४१, त० वा० ५४२ न्या० सु० ५४५, भा० प्र० ५४८

५५१-५६६
[ ६० ]
अनुषङ्गाधिकरणम्
शा० भा० ५५१, भा० वि० ५५३
त० वा० ५५५, न्या० सु० ५६०, भा० प्र० ५६६
व्यवेतानुषङ्गाधिकरणम्
शा० भा० ५७०, भा० वि० ५७१, त० वा० ५७१
न्या० सु० ५७२, भा० प्र० ५७३
शब्दानुक्रमणिका
श्लोकानुक्रमणिका
५७०-५७३
....
५७४-५७६
५७७-५८२

. मीमांसादर्शनम् अथ प्रथमाध्याये चतुर्थः पादः प्रथममुद्भिदधिकरणम् [१] उक्तं समाम्नायैदमयं तस्मात् सर्वं तदर्थ स्यात् ॥१॥ पू० शा० भा०-उद्भिदा यजेत, बलभिदा यजेत, अभिजिता यजेत, विश्व- जिता यजेत इति समामन न्ति। तत्र सन्देहः-किमुद्धिदादयो गुणविधयः आहोस्वित्कर्मनामधेयानीति । कुतः संशयः ? उभयथाऽपि प्रतिभातो वाक्यात् । उद्भिवेत्येष शब्दो यजेतेत्यनेन संबध्यते । स कि वैयाधिकरण्येन सम्बन्ध- मुपैति, उद्भिवा द्रव्येण यागमभिनिर्वतयेदिति, उत सामानाधिकरण्येन उद्भिदा यागेन यजेतेति । द्वेधाऽप्येतस्मिन् प्रतिभाति वाक्ये । सम्भवति' संशयः। कि तावत् प्राप्तम् ? उक्तमस्माभिः समाम्नाय स्यैदमर्थ्यम् । कश्चि- दस्य भागो विधिः, योऽविदितमर्थ वेदयति । यथा 'सोमेन यजेत' इति । कश्चिदर्थवादो यः प्ररोचयन् विधि स्तौति । यथा 'वायुर्वै क्षेपिष्ठा देवता' इति । कश्चिन्मन्त्रो यो विहितमर्थ प्रयोगकाले प्रकाशयति । यथा, 'बहिर्देवसदनं -दामि' इत्येवमादिः। तस्मादुद्धिदादयोऽमीषां प्रयोजनानामन्यतमाय" प्रयो- जनाय भवेयुः। तत्र तावन्नार्थवादः। वाक्यशेषो हि स भवति विधातव्यस्य । न च मन्त्रः,-एवंजातीयकस्य प्रकाशयितव्यस्याभावात् । पारिशेष्याद् गुणविधिः । उद्भिद्गुणता यागस्य विधीयते । कुतः ? प्रसिद्धरनुग्रहाद, गुण- विधेरर्थवत्त्वात्, प्रवृत्तिविशेषकरत्वाच्च । न चैषां यागार्थता लोकेऽवगम्यते। न च वेदेन परिभाष्यते । अतो गुणविधयः। यदि गुणविधिः न हि कर्म विधी- यते। अविहिते च कर्मणि तत्र गुणविधानमनर्थकम् । नेति ब्रूमः। प्रकृती ज्योतिष्टोमे गुणविधानमर्थवद्भविष्यति । यदि६ नामधेयं स्याद, यावदेव यजेतेति, तावदेव उद्भिदा यजेतेति न प्रवृत्तौ कश्चिद् गुणविशेषः स्यात् । १. ब, समाम्नातं । २. ब. संबधुमर्हति । ३. · भवति संशयः । ४. ब. समाम्नायस्येदमर्थत्वं । ५. ब. मन्यतमस्मै । क. मन्यस्मै । ६. ब. यदि च नामधेयं यावदेव ।

२ मीमांसादर्शनम् [ सू० गुणविधो च गुणसंयोगावभ्यधिकमर्थं विदधत उद्भिदादयः शब्दा अर्थवन्तो भविष्यन्ति । तस्माद् गुणविधय इत्येवं प्राप्तम् ॥१॥ पूर्वपक्षः ॥ एवं प्राप्ते ब्रूमः- - भा० वि०-एवं तावदर्थवादाधिकरणसिद्धान्तन्यायेन विध्युद्देशान्तर्गतत्वेन सिद्धस्य नामधेयप्रामाण्यस्य गुणविधिनामधेयत्वप्रकारः प्रसङ्गादिह चिन्त्यत इति सङ्गतिः । यद्वा को धर्मः ? कथं लक्षणः ? इति सप्रकारस्य प्रामाण्यस्य वक्तव्यत्वेन प्रतिज्ञातत्वात् प्रामाण्यप्रकारविचारोऽपि अध्यायार्थ इति स्तुति-स्मृतिप्रकारवत्, द्वितीये स्मृत्याचारोपस्थापितत्वरूपप्रकारविचारवच, तृतीये गुणविधिनामधेयत्व- प्रकारविचारोऽप्यध्यायसङ्गत एव । अथ वा विध्यर्थवादमन्त्राणां 'विधिना त्वेकवाक्यत्वात्' इति सामान्यतः प्रसिद्धोपयोगानामप्युपयोगदिशेषासंभवोत्थमप्रामाण्यं तद्विशेषप्रतिपादनेन निरा- कृतम् । स्मृत्याचारमूलानां च विध्यादीनां सद्भाव-प्रतिपादनमुखेनैवोपयोगविशेष: प्रामाण्यं च निरूपितम् । अथेदानी नामधेयानां विध्येकवाक्यतया सिद्धप्रामाण्या- नामपि विध्येकवाक्यत्वप्रकारानिरूपणादप्रतिष्ठितस्यैव प्रामाण्यस्य प्रतिष्ठापयिषया विध्यनुप्रवेशप्रकारोऽत्र विचार्यत इति सङ्गतिः । तत्र प्रथमाधिकरणस्य यौगिकनामधेयविषयत्वं दर्शयन् विषयमाह उद्धिदित्यादि । यद्यप्युत्पत्तिवाक्यदशायां साध्यभूतधात्वर्थसाधनत्वेन गुणविधा- वपि न मत्वर्थलक्षणा, नापि नामधेयता हेतुस्सामानाधिकरण्यम् । तथापि अधि- कारवाक्यदशायां उद्भिदा यागेन पशुमित्याद्यन्वयस्यासंभवेनावश्यम् उद्भिद्वता यागेनेत्यादिसम्बन्धे मत्वर्थलक्षणादोष इति, सकलोत्पत्तिवाक्यगतिप्रदर्शनार्थं विद्यमानमपि फलपदं नोपन्यस्तम् । विचारबीजं सशयमाह-तत्रेति । ननु सोमेन यजेतेत्यादाविव गुणविधित्वनिश्चयादयुक्तस्सन्देह इत्याह - कुत इति । सोमवीद्यादिशब्दानामर्थान्तरे निरूढानां कर्मनामत्वासंभवेन गुण- विधित्वेऽपि, उद्भिदादिपदानां यौगिकानां यजतिसामानाधिकरण्यस्याप्युपपत्ते- भवति सन्देह इत्याह-उभयथेति। प्रतिभातः प्रतिभासमानात् । उभयथा प्रतिभासमानतां वाक्यस्य दर्शयितुं फलपदसम्बन्धस्य निरसिष्यमाणत्वाद्यजि- पदसंबन्धेन वाक्यनिष्पत्ति दर्शयति-उद्भिदेति। तत्रोभयथा संभवमाह- स किमित्यादिना। यागेन यजेतेति । यागेन कुर्यादित्यर्थः । उभयथा प्रतिभान- फलमाह-द्विधेति। यदोद्भिद्यागपदयोस्सामानाधिकरण्येन वाक्यं निष्पद्यते, तदा नामधेयम् । यदा वैयधिकरण्येन, तदा गुणविधिरित्येवं वाक्यस्वरूपनिर्धा- m १ ] प्रथमाध्याये चतुर्थपादः ३ - - रणात् संशय इत्यर्थः। विचारप्रयोजनं तु-अनादृत्य खनित्रादि द्रव्यम् 'अव्यक्तासु तु सोमस्य' इत्यनेन न्यायेन सोमद्रव्येण यागः तत्र सकलविध्यनु- प्रवेशप्रकारासंभवेनाप्रामाण्यमाशङ्कमानं प्रीतीतरप्रकाशसंभवेऽपि गुणविधित्व- संभवप्रतिपादनेन प्रामाण्यं सूत्रव्याख्यानेन समर्थयमानः पूर्वपक्षमाह- किमित्यादिना। ऐदमर्थ्यम्-इदमर्थत्वम् अज्ञातज्ञप्तिस्तुतिस्मृतिप्रयोजनत्त्वमिति यावत् । कथमेकस्यैव समाम्नायस्यानेकार्थत्वमित्याशङ्कय विभागेन योजयति- कश्चिदित्यादिना । य इति । यो भागः पुरुष प्ररोचयितुं विधीयमानं कर्म स्तोतीत्यर्थः । विहितमथं प्रकाशयतीति ज्ञातज्ञापकतया विधिवैलक्षण्यं दर्शितम् । विहितप्रकाशनानर्थक्यं प्रयोगाङ्गत्वेन परिहतुं प्रयोगकाल इत्युक्तम् । अस्त्वन्यतमार्थत्वं समाम्नायस्य ततः किं जातमित्याशङ्कय तस्मादित्यादि- सूत्रावयवं व्याचष्टे-तस्मादिति। नन्वन्यतमार्थत्वेऽपि उद्भिदादिपदानां कथं गुणविधित्वसिद्धिरित्याशङ्कय पारिशेष्यादिति तस्मान्नार्थवाद इत्यर्थः। अस्तु तहि मन्त्रः तत्राह-न चेति। उद्भिच्छब्दवाच्यस्य वाक्यान्तरविहितस्या- भावान्न विहितार्थप्रकाशकत्वलक्षणं मन्त्रत्वमपीत्यर्थः । प्रसक्तप्रतिषेधफलमाह- पारिशेष्याविति । ननु मन्त्रार्थवादत्वनिराकरणेन विध्युद्देशान्तर्गतिसिद्धावपि नामधेयविधित्व- संभवे कथं पारिशेष्याद् गुणविधितेत्यत आह-उद्भिद्गुणतेति । प्रश्नपूर्वक हेतुमाह-कुत इति। उत्छब्दस्योर्ध्वाचित्वात् भिदेश्च विदारणार्थत्वात् विष्प्रत्ययस्य च कर्तृवाचित्वात् उद्भिच्छब्दादूर्ध्वविदारणकर्तृप्रतीतेः खनित्रादेश्व तथा भावादुद्भिच्छब्दस्य यागे रूढत्वाभावाच्चावयवप्रसिद्धयनुग्रहाय खनित्रादि- गुणविधानार्थतैवाश्रयणीयेत्यर्थः । गुणविधित्वे हेत्वन्तरमाह-'अर्थवत्त्वात प्रवृत्तिविशेषकरत्वमिति'। अर्थवत्त्वमभिधेयवत्त्वम् । गुणविधिपक्षे ह्युद्भिच्छब्दाद्यभिधेयखनित्रादिद्रव्य- विशिष्टक्रियाविषयत्वाद्विधायकपुरुषप्रवृत्त्योः तद्विशेषकरत्वात् प्रयोजनवत्त्वमुद्भि- त्पदस्य स्यात् । नामधेयत्वे धात्वर्थातिरिक्ताभिधेयाभावान्न प्रवृत्तिविशेष- करत्वमिति गुणविधितव युक्तेत्यर्थः । यद्वा पलोद्भेदनसमर्थधात्वर्थवाचितयोद्भित्पदस्याभिधेयवत्त्वेऽपि धातु- नैवोक्तार्थवत्त्वेन नामधेयत्वपक्षे प्रयोजनाभावात्, गुणविधित्वे तु पूर्वोक्तनीत्या प्रयोजनवत्त्वात् गुणविधितैव युक्तेति प्रयोजनवत्त्वाभिधायितया अर्थवत्त्वहेतुं पृथक्कृत्य गुणविधित्वे व्याख्येयम् । प्रसिद्धरनुग्रहादित्याद्यं हेतुं विवृणोति- न चेति। न तावदुद्भित्पदस्य कर्मणि समुदायप्रसिद्धिरस्ति, लोकप्रयोगा- भावात् । नाप्यवयवप्रसिद्धिः, विदारणार्थत्व इव प्रकाशनार्थत्वे स्मृत्यभावात् तु मीमांसादर्शनम् [ सू० विदारणार्थस्यापि भिदेरुपचारात् प्रकाशनार्थत्वे ज्योतिष्टोमादेरपि फलप्रकाश- त्वेनोद्भित्पदवाच्यतापत्तेरित्याशयः । ननूद्भिदादिपदानां लोके यागार्थत्वाभावेऽपि यजिसामानाधिकरण्याद् भेद एव तदर्थता कल्प्यताम्, अत आह-न च वेद इति । वैयाधिकरण्येनापि यजिसम्बन्धोपपत्तौ सामानाधिकरण्यस्य निश्चेतुमशक्यत्वादलौकिकार्थकल्पना पारिभाषिक्येव । सा च 'संबन्धस्याशास्त्रहेतुत्वादि'. मो-द-३-२-५ त्यनेनैव निरस्तेत्यर्थः। अकर्मार्थत्वफलमाह-अत इति । गुणविधावप्यनुपपत्ति- मुद्भावयति-यदीति। यदि गुणो विधीयते, न तहि कर्म, उभयविधाने वाक्यभेदापत्तेरित्यर्थः। ननु माभूत्कर्मविधानम्, गुण एव तु विधीयतामत आह-अविहित इति निराधारगुणस्यानुष्ठानानुपत्तैरिति भावः । वाक्यान्तरप्राप्ते कर्मणि गुणविधानान वाक्यभेदः नाप्यानर्थक्यमिति परिहरति-नेतीति। न च गुणविधिपक्षे ज्योतिष्टो- मेने त्यस्यापि तत्परत्वादविहितमेव तत्रापि कर्मेति वाच्यम्, अगत्या तस्य गुणविशिष्टकर्मविधिपरत्वाभ्युपगमात् । न चैवं ज्योतिष्टोमादिगुणावरुद्धे कर्मणि गुणान्तरविधानासंभवः, यजेतेति कर्मस्वरूपमा निष्कृष्य तत्र गुणविधानो- पपत्तेरिति भावः । न चानेकर्मव्यवहितत्वादनुवादासंभव इत्याह --प्रकृताविति । प्रक्रियत इति प्रकृतिः। कर्मणि क्विन् प्रत्ययः। प्रकृते ज्योतिष्टोम इत्यर्थः मध्यगतानामपि वाक्यानां ज्योतिष्टोमानुवादगुणविधित्वेन . कर्मान्तरव्यवधाना. भावादनूद्यमानस्य प्रकृतत्वादित्यर्थः । इदानीमर्थवत्त्वादित्यादिद्वितीयहेतुं व्यतिरेकमुखेन तावद्विवृणोति-- यदि चेति । उद्भिच्छब्दस्य नामधेयत्वे यज्यर्थ एव तेनाप्युक्तः स्यात् । अत्र न विधाय- कादिप्रवृत्तावुद्भिच्छब्देन कश्चिद्विशेषः स्थादित्यर्थः। संप्रत्यन्वयमुखेन विवृणोति-गुणविधौ त्विति। अर्थवन्तः-प्रयोजनवन्तः। प्रवृत्तिविशेषकरत्वे- नार्थवन्तो भविष्यन्तीति यावत् । तत्राभिधेयत्वं हेतुमाह-धात्वर्थातिरिक्तमर्थ प्रतिपादयन्त इति यावत् । तदेव कुतस्तत्राह-गुणसंयोगादिति । गुणेन खनित्रा- दिना सह वाचकत्वेन संबन्धादित्यर्थः। तदत्र प्रथमहेतुना वाक्यान्तरविहित- कर्मस्वरूपमात्रानुवादेनावयवप्रसिद्धिसिद्धिखनित्रादिद्रव्यगुण विधानमिति पक्षो दर्शितः। द्वितीयेन तु विशिष्टविहितकर्मस्वरूपमात्रानुवादात् परितोषादत्रैव गुणविशिष्टकर्म विधानमिति इत्येवं विवेकव्यम् । यस्मान्नामधेयत्वेन विध्यतु प्रवेशासंभवः तस्माद् गुणविधय इत्युपसंहरति-तस्मादिति । एवं च प्रकारान्तरा- संभवेऽपि गुणविधित्वेन विध्युद्देशान्तर्गतिसंभवात् न नामधेयाप्रामाण्यशङ्का युक्तेति भावः । पूर्वः ५ तु १] प्रथमाध्याये चतुर्थपादः यदि प्रकारान्तराभावः, तदा गुणविधित्वेनैव प्रामाण्यं समर्खेत । संभवति नामधेयत्वं प्रकारान्तरमिति सिद्धान्तयति एवं प्राप्त इति । पक्ष इति पारिशेष्यात् गुणविधिपक्ष इत्यर्थः ॥ १ ॥ त० वा०-एवं स्मृतिसहितस्य वेदस्य प्रामाण्ये सिद्धे, अधुना वाक्यार्थ- व्याख्यानावसरसत्यपरिसमाप्त्यैव' प्रमाणलक्षणं केन संबन्धेन नामधेयचिन्तायाः प्रस्तावः क्रियते ? अत्र केषाञ्चित्समाधानं तन्निरासश्च केचित्तावदाहुः । किमुद्भिदादयो गुणस्य प्रमाणम्, उत क्रियाणामेव नामधे यत्वेनेति; तदयुक्तम् । एवं सति हि समस्तमेव शास्त्रं प्रमाणलक्षणादभिन्न स्यात् । सर्वत्र ह्येतद्विचार्यते, किमिदं वाक्यमस्यार्थस्य प्रमाणम् । उतान्यस्येति । एकाधिकरणवादिमतनिरासेन अधिकरणद्वयमिति वार्तिकमतम् येऽपि चैते द्वे अपि सूत्रे पूर्वोत्तरपक्षौ परिकल्प्यैकाधिकरणत्वेन व्याचक्षते, तैरप्युक्तं समाम्नायैदमर्थ्यमित्यनेन सूत्रेण कः सिद्धान्तानभिप्रेतः ? पूर्वपक्षानु- गुणोऽर्थो विधीयत इति वक्तव्यम् । न युक्तैदमन्तिर्भाववचनमुद्भिदादीनाम- निष्टम् । तस्माद् द्वयोरप्यधिकरणयोरतुमितपूर्वपक्षयोरुत्तरपक्षसूत्रद्वयमेतदिति व्याख्येयम् । प्रथमाधिकरणवर्णनम् तत्र प्रथमं तावद्भिदादीनुदाहृत्य संदेहः क्रियते--किमेते कञ्चिद्धर्म प्रत्युपयोगं गच्छन्ति उत नेति । किं तावत्प्राप्तम् ? 'आम्नायस्य क्रियार्थत्वात्' इत्यानर्थक्यम् । आह च। त्र्यंशवेदप्रमाणत्वादुद्भिदादि ततोऽधिकम् । धर्मायानुपयुक्तं सदानर्थक्यं प्रपद्यते ।। नह्येते विध्यादिष्वन्तर्भवन्ति, साध्यसाधनेतिकर्तव्यानभिधायित्वात् ता- वच्चोदनाबाह्यत्वम् । स्तुतिबुद्धयभावादर्थवादातिरेकः । कर्माङ्गभूतैवं संज्ञकप्रका- शयितव्यार्थाभावान्मन्त्रकार्यनिर्वृत्तिः । न चान्यद्वेदप्रयोजनमस्तीत्यप्रमाणमेवं. जातीयका इति । अत्राभिधीयते- सर्वस्य त्रिविभागत्वाद्वेदस्योक्तेन हेतुना। उद्भिदाद्यप्रमाणत्वमतिरेकान्न सिध्यति ॥ १ क. परिसमाप्यव।

६ मीमांसादर्शनम् [ सू० यदा तदर्थत्रयान्यतमार्थमिति स्थितम्, तदा विचारः किमर्थमिति ? न ताव- दर्थवादत्वम्, वाक्यशेषत्वाभावात् । कथं पुनरयं न वाक्यशेषः यावता 'वायुर्वे क्षेपिष्ठा' इत्यादिवदेकवाक्यताऽवगम्यते। नैतदस्ति । विधातव्यस्य हि यः शेषः, सोऽर्थवादः। अयं तु विध्युद्देशादेव नातिरिच्यत इत्यवाक्यशेषः । तत्संभविनश्च स्तुत्युपयोगित्वं न युज्यत इत्युक्तमौदुम्बराधिकरणे। न चैकपदेन स्तुतिर्दृष्टा । न चेह तां प्रतिपद्यामहे । यदप्युभेदनं पशूनामनेन क्रियत इत्येवं प्राशस्त्यं कल्प्येत, तदपि तृतीयान्तसमुदायाश्रयबलवत्तरकरणत्वप्रसिद्धया बाध्यते । अन्यथा हि प्रातिपदिकप्राधान्याद्वा 'वायुर्वै क्षेपिष्ठा' इतिवत्प्रथमैव प्रायोक्ष्यत । न चास्य मन्त्रत्वम्, ताद्रूप्येणाऽप्रतीतेः, अध्येतस्मरणाभावाच्च । न चैकपद- त्वात्साकाङ्क्षत्वम्, करणप्रतीत्या वा स्मारकत्वम् । न चैतदभिधेयः कश्चित्प्रयोग- समवाय्यर्थो दृश्यते । न चासमवेतप्रकाशने कर्माङ्गत्वम् । मान्त्रवर्णिकद्रव्यकल्प- नायामपि गौरवम् । न चास्य सूक्तवाकवद्विनियोजिका श्रुतिरस्ति, येन मान्त्र- वणिकद्रव्यकल्पना स्यात् । न चास्य रूपं प्रयोगार्हम् । अतश्चाविनियुक्तत्वात् । 'इषे त्वा'दिवदपि नाध्याहारेण निराकाङ्क्षीकृत्य प्रयोगः। स्फुटं च ब्राह्मणेनैक- वाक्यत्वमित्यमन्त्रत्वम् । तस्माद्विध्युद्देशान्तर्गतस्यैवोत्तराधिकरणेन विचार्यते गुणविधिर्नामधेयं वेति । तत्र तावत्- प्रसिद्धर्बलवत्त्वेन प्रयोजनवशेन च । अधिकत्वात्प्रवृत्तेश्च गुणरूपं विधीयते ॥ प्रातिपदिकं तावदुद्भेदनसमर्थे द्रव्ये खनित्रादाववयवप्रसिद्धया प्रवर्तते । न च समुदायोऽर्थान्तरवाची लोके प्रसिद्धः । न च लोकादनवगतोऽर्थो' वेदादव- गम्यते संबन्धस्याऽशास्त्राहेतुत्वात् । तृतीयाऽपि च करणवाचिनी, क्रियायाश्च शक्तिमद् द्रव्यम्, तदाधारा वा शक्तिः करणम् । तेनोद्भित्साधनको यागोऽव- गम्यते । न च यागस्योद्भित्त्वम्, करणत्वं वा क्वचित्प्रसिद्धम् । अर्थवत्त्वात्प्रवृत्ति- विशेषकरत्वम् । विधायकोद्भित्पदपुरुषाणां प्रवृत्तौ विशेषः। अन्यथा ह्यनुच्च- रितसमैव प्रवृत्तिरेषां स्यात् । अथ वा प्रसिद्धत्वाद् गुणविधिः, अर्थवत्त्वम्-अभिधेयवत्त्वं नामधेयत्वे त्वर्थो न विज्ञायत इति योज्यते। अथ वा भेदेनार्थवत्त्वं हेतुः, उद्भित्पदस्य यजितः फलान्तरत्वात् । ततश्च विधिपुरुषयोः प्रवृत्तिविशेष इति वाच्यम् । ननु नामधेयमपि क्रतुं विशिषदर्थवत्प्रवृत्तिविशेषकरं च स्यात् । नैतदस्ति । - कुतः? १. क. (टिप्पण्या) दनधिगतो।

१] ७ ૨ प्रथमाध्याये चतुर्थपादः आकृतेरविधेयत्वाद्धातुना व्यक्तिराश्रिता। सा च नाम्नाऽभिधीयेत जातिश्चेन्नैव नामता ॥ यदा तावद्धातुनैव लक्षणया विधिविषयत्वयोग्यत्वाद्यागविशेषः प्रतिपाद्यते, तदा किमपरं तत्र नाम करिष्यति । अथ सामान्यमात्रमभिधीयते, ततस्तस्यानि- ष्टमेवैतन्नामेत्यसंबद्धं सिद्धत्वादेव च विशेषस्य' न नामधेयं विधायिष्यत इति वक्ष्यति । यदा च केनापि प्रकारेणोद्भिदादीनां विशेषवचनत्वम्, तदा तदत्यन्ता- विनाभूतसामान्यवचनत्वेन यजेरनर्थकत्वम् । लाघवं विधेर्गुणविधौ भविष्यति । यागानुवादात्। प्रकृति ज्योतिष्टोमेत्यादेाख्यानचतुष्टयम् । यद्येवं गुणाक्षिप्तत्वाद्विधिशक्तेर्न तर्हि कर्म विधीयते, तथा चाविहिते कर्मणि, कस्य गुणो विधीयत इत्यानर्थक्यमत आह -प्रकृतौ ज्योतिष्टोम इति । ननु गुणविधिपक्षे ज्योतिष्टोमेनेत्यस्यापि तत्परत्वादविहितमेव कर्म। गत्यभावा- दिदमेकं कर्मविधानं भविष्यति । तद्व्यावृत्ते च विधायके च गुणस्य विधातुम- शक्यत्वाज् ज्योतिष्टोमपदमेवैकं नामधेयम् । अथ वा तदेकं गुणविशिष्टं कर्मविधानम् । इतराणि कर्मानुवादेन गुणविधा- नानि । नन्वेवं सति सर्वा एकाहाहीनसत्रचोदना ज्योतिष्टोमस्यैव गुणविधिद्वारेण प्रकरणादनतिरिक्ता इति कर्मान्तराभावान्न ज्योतिष्टोमः कस्यचित्प्रकृतिरिति, तच्छब्देन नाभिधातव्यः । सिद्धान्ताभिप्रायेणाऽऽहेति केचित् । अथ वा प्रक्रियत इति प्रकृतिः, प्रकृतज्योतिष्टोम' इत्यर्थः। अथ वा 'अथैष ज्योतिः' इत्येवमादीनां करणविभक्त्याख्यातसंस्पर्शाभावाद् गुणविधित्वानुपपत्ते. रेकान्तेन भेदकतया कर्मनामत्वं तदपेक्षया च ज्योतिष्टोमः प्रकृतिः । नूनत्पत्ति- वाक्यशिन सोमेन ज्योतिष्टोमेन वाऽवरोधाज्ज्योतिष्टोमे गुणान्तरविधानमयुक्तम् । काम्यत्वादुद्भिदादयो बाधका भविष्यन्ति । नित्ये प्रयोगे च पूर्वगुणस्यार्थवत्ता । अथ वा विशिष्टविहितमपि कर्म स्वरूपमात्रं निष्कृष्य गुणान्तरे विहितं नौत्पत्तिकाद्विशिष्यते । अन्यथा गत्यसंभवाद्विकल्प इति मन्यते ॥१॥ न्या० सु-- अत्र भाष्यकृतोद्भिदादिशब्दा गुणविधयो नामधेयानि वेति चिन्ता कृता। सा किमुद्भिदादिशब्दानां धर्मप्रमोपयोगसिद्धयर्थं वा वाक्यार्थव्याख्यानाय वा तत्राध्ययनविधिसामर्थ्यात् सकलवेदप्रामाण्यस्य विधिना त्वेकवाक्यत्वादिति तुशब्देन तुल्यं च साम्प्रदायिकमित्यनेन वा सूत्रेण प्रागेवोक्तत्वात् न तावदाद्यः पक्षः । नाप्युत्तर सन्दिग्धार्थनिर्णये वाक्यशेष-सामर्थ्ययोः प्रामाण्यस्य वक्ष्यमाणत्वात् । द्वितीयाध्यायोप- १. क. विशेष्यस्य । २. क. च विहिते। ३. क. प्रकृते । .

८ मीमांसादर्शनम् [ सू० क्रमे च प्रथमेऽध्याये प्रमाणलक्षणं वृत्तमिति भाष्येण सक तस्यैवाध्यायस्य प्रमाणलक्षण- त्वाभिधानात् असमाप्ते प्रमाणलक्षणे मध्ये वाक्यार्थव्याख्यानस्यासम्बद्धत्वापत्तेरि- ल्याक्षिपति- एवं स्मृतिसहितस्येति । सकलवेदप्रामाण्यासिद्धौ स्मृतिविचारायोगात्स च न सम्भवति । ततश्च तत्सिद्धयुपोबलनाय स्मृतिसाहित्योक्तिः । 'तेजो वै घृतं सुवेणावद्यतीत्यादेः सन्दिग्धार्थनिर्णये व्यापाराभावेऽपि श्रुतिविध्यर्थत्वेन प्रामाण्य- सिद्धेस्तद्विचारात्प्रागपि सकलवेदप्रामाण्यसिद्धिरविरुद्धति सूचनार्थम् - वाक्यार्थ इत्युक्तम् । वाक्यार्थव्याख्यानावसरत्वादेव च गुणविधिरयं प्रतीयते, स च न सम्भवति ततश्चा- प्रमाणमित्यप्रामाण्याशङ्कयैवात्र गुणविधित्वशत्यप्ययुक्तम् । सिद्धेऽपि प्रामाण्ये कस्यार्थस्य प्रमाणमिति विषयविशेषविचारात् प्रमाणलक्षणसङ्गतिरित्यन्येषां समाधान- मुपन्यासपूर्वकं दूषयति- केचिदिति । पूर्वपक्षाभिधानार्थत्वेन चाद्यसूत्रव्याख्या न युक्ते- त्याह-येऽपि चेति । विधिना त्वेकवाक्यत्वादिति हि तुशब्दोक्तेन तुल्यं च साम्प्र- दायिकमित्यनेन वा क्रियार्थत्वेन हेतुना यदुद्भिच्चित्रादिशब्दानां विध्यादित्रयान्तर्भाव- वचनमनेन सूत्रेण क्रियते । तत् सिद्धान्तिनो नानिष्टमित्यर्थः । स्वमतेन समाधत्ते- तस्मादिति । आये अधिकरणे विचारस्वरूमाह तत्रेति । यद्यप्यध्ययनविधिसामर्थ्यादेवोद्भिञ्चित्रादिशब्दानामप्यानर्थक्यं निराकृतं । द्वधापि च प्रामाण्योपपत्तेर्न द्वाराभावेन प्रत्यवस्थानं युक्तम्. मत्वर्थलक्षाणादेश्वानर्थक्याज्ज्याय- स्त्वान्न तद्भयेनानर्थक्याङ्गीकरणं युक्तम् । आनर्थक्यासम्भवांच्चाप्रसिद्धस्याप्युद्भिच्चित्रादि- शब्दस्य तृतीयागतकरणत्वबलात् करणत्वयोग्यद्रव्यविशेषवाचित्वस्य नामधेयत्वाभावेऽ- वश्यङ्कल्प्यत्वाच्च । न पोष्णं पेषणं विकृतौ प्रतीयतास्याचोदनात् प्रकृतौ इत्यादिवदुत्तर- विवक्षायाः प्राप्त्यर्थ सामान्यन्यायसिद्धस्यैव क्रियार्थत्वस्यानेकविचारान्तरितस्य स्मरणं क्रियत ति वाच्यम्, तत्र ह्यग्निष्टोमप्रकरणादुत्कृष्टं सन्तर्दनम्, प्रथमप्रयोगाच्चोत्कृष्ट प्रवर्ग्यः सर्वत्रान्यत्र भवतीत्युक्ते तद्वत्पेषणमपि दर्शपूर्णमासप्रकरणादुत्कृष्टं किमविशे- षाच , पशो, तुरोडाशे च भवत्युत चरावेवेत्युपस्थितस्य विचारस्यान्यत्र सङ्गत्यभावा- दिहैव वाक्यप्रकरणविरोधाविरोधचिन्ताप्रस्तावेन अवश्यकर्त्तव्यत्वात् तत्प्राप्त्यर्थं पेषण- स्योत्कर्षाभिधानं युक्तम् । द्रव्यसंस्कारस्यापि च बहिर्लवनादेरङ्गप्रधानेषु समानविध्ये विचारिते, स्वयं कर्तृकताप्यङ्गप्रधानेषु समाना न वेति विचारेण प्राप्तानामृत्विजां विनियोजिकायाः समाख्यायाः लिङ्गप्रकरणाभ्यो विरोधोऽस्ति न वेति विचारिते' अन्यत्रापि समाख्यायाः पूर्वैः सह विरोधाविरोधविचारे समाप्ते, यत्प्रसक्त्या यो विचारस्तत्समाप्तौ स एव बुद्धिस्थो भवतीति वहिर्लवनादिविचारप्रसक्तानुप्रसक्तिसमाप्त्या बुद्धिस्थस्य वहिर्लवनादिविचारस्य यूपावटस्तरणहिषि लवनमस्त्युत नेति शेषललक्षण- सङ्गतोत्तरविवक्षया स्मरणं युक्तम् । गुणविधिनामधेयचिन्तायास्तु लक्षणाऽसङ्गतत्वेनेह कर्तव्यत्वाभावात्। भावार्थाधिकरणे चोद्भिच्चित्रादिशब्दानां फलपदान्वयनिरासेन यज्यन्वयेऽभिहिते कि गुणविधित्वेनैषान्तदन्वयो, नामधेयत्वेन वेति प्रसङ्गादुभयथापि 4.

१11 प्रथमाध्याये चतुर्थपादः ९ यज्यन्वयासम्भवे बलात्फलपदान्वयापत्तेस्तन्निरासार्थ भावार्थाधिकरणशेषत्वेनैव विचारो- पपत्तेस्तत्समाप्तौ चैवमप्यपूर्वाभावाद्भावशब्देभ्योऽपूर्व नामपदेभ्यो वेति चिन्ता न युक्तेति प्रकृतचिन्ताक्षेपेणापूर्वविचारस्यापि सङ्गत्युपपत्तेस्तद्विवक्षयोद्भिदादिप्रामाण्यस्मरणम- युक्तम्, प्रामाण्यस्मारणेनैव प्रसक्तत्वाल्लक्षणासङ्गतस्यापि विचारस्य कर्त्तव्यत्वोक्तौ स्मारणाकर्तव्यत्वम्, कर्तव्यत्वे च सति तत्सङ्गतिसिद्धयर्थं स्मारणमितीतरेतराश्रया- पति।। अत एव च टुप्टिकायां केचिदानर्थक्येनोत्पूत्रं पूर्वपक्षं कुर्वन्ति, सूत्रेण तत्परि- हारमित्येतन्मतमुपन्यस्य, तत्रानर्थक्यस्य पूर्वमेव सर्ववेदविषयस्य निराकृतत्वादिति स्वयमेव दूषितम् । तथापि नामधेयत्वे सति उद्भिच्चित्रादिशब्दानां धर्मप्रमोपयोगोऽस्त्युत नेतीति चिन्ता क्रियमाणा न विरुध्यते। को धर्मः, कथं लक्षण इति हि प्रकारवाचिना थमुप्रत्ययेन प्रामाण्यप्रकारोऽपि लक्षणार्थत्वेनाभिहितः । यथोक्तम् - बृहट्टीकायाम् । 'चोदनासूत्रनिर्दिष्टो यः प्रमाणपरिग्रहः । सप्रकारः स आधेन लक्षणेन प्रपञ्चितः ॥' इति । कि प्रत्यक्षश्रवणमेव वेदस्य प्रामाण्यप्रकारः, अथ मन्वादिस्मरणेनोपस्थापनमपीति सामग्रोगतप्रकारे तृतीयपादेन चिन्तिते किमप्रवृत्तप्रवर्तन-स्तुति-विहितार्थप्रकाशनान्येव प्रामाण्यद्वाराण्युत नामधेयतापीति, अवान्तरव्यापाररूपप्रकारान्तरचिन्तार्थोऽयमारम्भो लक्षणपूर्वपादाभ्यां सङ्गच्छते । प्रामाण्यस्वरूपविषयत्वे त्वस्याश्चिन्तायाः प्रत्यक्षवेदविषय- त्वात्स्मृतिविचारात्प्रागेव कार्यतापत्तनं स्मृतिपादानन्तरमारम्मो युक्तः तस्मान्नामधेयानां धर्मप्रमोपयोगोऽस्ति न वेति इह विचारार्थः । तत्सिद्धयर्थं चैषां विध्यादित्रयान्यतमान्तः पातोऽस्ति, उत नेति चिन्तनीयम् । त्र्यंशवेदातिरिक्तत्वे नामधेयानामनुष्ठानानौपयिकत्वेन धर्मप्रमायोगानुपपत्तेरिति नामधेयानर्थक्येऽप्याम्नायस्येति सूत्रं योजयन् पूर्वपक्षमाह-कि सावविति । ननु सर्ववेदविषयस्यानर्थक्यस्याध्ययनविधिबलेन तत्रैव सिद्धान्ते निराकृतत्वान्नाम- धेयानर्थक्येऽप्युद्भिच्चित्रादिशब्दानां गुणविधित्वेनापि प्रामाण्योपपत्तेमन्त्रार्थवादवत् पुनः प्रत्यवस्थानायोगात् नानर्थक्याशङ्का युक्तेत्याशङ्कय नोद्भिच्चित्रादिशब्दानां स्वरूपेणा- नार्थक्यं विवक्षितम्, किं तु नामधेयत्वे सतीत्येतमर्थं दर्शयितुं वृद्धवाक्यमुदाहरति- आह चेति । यद्युद्भिच्चित्रादिपदं नामधेयत्वेन व्यंशावदादधिकमतिरिक्तमिष्यते ततो धर्मानुपयुक्तार्थाभिधायित्वादानर्थक्यं प्रपद्यत इत्यर्थः । अनुपयुक्तं सदितिपाठे नामधेयत्वेन त्र्यंशावेदादधिकं सदानर्थक्यं प्रपद्यत इत्यर्थः । ननु त्र्यंशवेदातिरेकेऽपि नामधेयत्वेनैव धर्मप्रमोपयोगो भविष्यतीत्याशङ्कय - व्यशेत्युक्तम् । ननु नामधेयत्वेऽप्युद्भित्संज्ञको याग कार्य इति विध्युद्देशान्तर्गतिसम्भवात् फलोभेदनिमित्तोद्भित्संज्ञकत्वात् प्रशस्तोऽयं याग इति चार्थवादान्तर्गत्युपपत्तेः संज्ञात्वेन वानुष्ठेयसंज्ञियागप्रकाशनसामर्थ्यान्मन्त्रकार्योपपत्त कथमतिरेकापत्तिरित्याशङ्कयाह-न होति । यागानुष्ठेयताया यजेतेत्येतावता सिद्धेरेतद्विधेयत्वेनैव च यागविधेयत्वेनैव च यागविशेषावधारणसिद्धः साध्यां.. शाद्यभिधानेनैव विध्युदेशान्तर्भावो वाच्यः । न च नामधेयत्वेऽज्यतमांशाभिधानं [ सू० मीमांसादर्शनम् सम्भवतीत्याह-साध्येति । संज्ञायाः संज्ञिस्वरूपनिर्देशार्थत्वेन प्राशस्त्यपरत्वाभावास्तुति- बुद्धयनुत्पादकत्वेनार्थवादातिरेकमुपपादयति- स्तुतीति । स्वरूपनिर्देशार्थत्वेनैव च कृतार्थत्वात् प्रयोगार्हरूपाभावेन कर्मकालप्रयोज्यत्वाभावात्, विभुत्वेन च कर्मणः क्वांशे प्रयोग "इत्यज्ञानात् कर्मस्वरूपप्रकाशनार्थत्वायोगात् कर्माङ्गभूतस्य चोद्भिदादिसंज्ञकस्य प्रकाशनार्हस्याभावान्न मन्त्रान्तर्गतिरित्याह कर्मेति । उद्भिच्चित्रादिपदेषु अध्येतृभि- मन्त्रशब्दाप्रयोगात् मुख्यमन्त्रत्वशङ्कानुपपत्तेः तत्कार्यकारित्वमात्रेण मन्त्रान्तर्गतिर्वाच्येति सूचयितुं कार्यशब्दः । ननु विध्यादित्रयातिरेकेऽपि नामधेयस्य गुणफलोपबन्धोपयो. गित्वेनार्थवत्त्वं भविष्यतीत्याशङ्कयाह -- न चेति । विधित एव यागविशेषावधारणसिद्धे- गुणफलोपबन्धोऽपि सेत्स्यतीत्याशयः । उपसंहरति-इतीति । सूत्रोक्तं सिद्धान्तमाह- अत्रेति । उक्तेनाध्ययनविधिसामर्थ्यलक्षणेन हेतुना सर्वस्य वेदस्व त्र्यंशत्वावधारणात् यदुद्भिच्चित्रादिशब्दस्य नामधेयत्वे सत्यंशत्रयातिरेकापप्तर- प्रमाण्यं पूर्वपक्षिणोक्तम्, तन्न सिध्यति, नामधेयस्यापि वेदत्वेनांशत्रयान्तःपातावसायात् इत्यर्थः । एतेन श्लोकेनोक्तमस्माभिरित्याद्यन्यतमस्मै प्रयोजनाय भवेयुरित्यन्तं भाष्यमाद्य- सूत्रव्याख्यानार्थमिति सूचितम् । नामधेयप्रामाण्यविचारसिद्धान्ताभिधानार्थमप्येतत्सूत्र गुणविधिनामधेयविचारपूर्वपक्षेऽप्यध्याहारेण शक्यं योजयितुमिति प्रदर्शनायादौ भाष्यकृता द्वितीयविचारोपक्रमः कृतः। वातिककृता त्वध्याहाररहितस्य सूत्रस्य पूर्वपक्षाभिधाना- सामर्थ्यमुक्तम् । उभयाभिधानशक्तस्यापि सूत्रस्य वाक्यभेदापत्तेरुभयत्र . तात्पर्यासम्भव- मभिप्रेत्य द्वितीयाधिकरणपूर्वपक्षस्यानुमितत्वोक्तिरिति भाष्यवात्तिकयोरविरोधः। तन्न तावदित्यादिभाष्यं नामधेयस्य मन्त्रार्थवादान्तर्भावशङ्का निराकरणार्थं तदन्तर्गतावप्यन्यत- मांशान्तर्गतिसिद्धरतदर्थकमित्याह-यदेति । निर्धारितरूपांशविशेषान्तर्गति विनान्यत- मांशान्तर्गत्यनिर्वाहात् । यदा यस्मात्कारणात् तन्नामधेयं विध्यांद्यर्थत्रयान्यतमार्थमित्युक्त- मपि विशेषानिरूपणात् निर्वाहमगत्वैव स्थितम्, तदा तस्मात्कारणात् किमर्थमिति विशेषविचार: कर्तव्य इत्यर्थः । न त्येकस्मिन्विचारे पर्यवसिते, विचारान्तरारम्भोक्तिरेषा तथा सत्यधिकरणत्रयापत्तद्वयोरधिकरणयोरित्यनुपपत्तिप्रसङ्गात् । तन्न तावदिति भाष्यं व्याचष्टे-न तावदिति । एतदेवाक्षेपपूर्वकमुपपादयति-काथं पुनरिति। नावयववाच्ययं शेषशब्दः। कि तूपयुक्तेतरवाची। वायव्यं श्वेतमित्यादेहि ‘स एवैनं भूति गमयतीत्य- न्तस्यैकस्य वाक्यस्य मध्ये भूतिकामान्तेभ्यः साध्यादिप्रतिपादनेन विधेयार्थाभिधानोप- युक्तेभ्यः पदेभ्यः परिशिष्टानां 'वायुर्वै क्षेपिष्ठे'त्यादीनामर्थवादतेष्यते । ननु विधिवाक्या- वयवत्वरूपैकवाक्यत्वमात्रेण भूतिकामादिपदानामप्यर्थवादत्वापत्तो, नामधेयानां च विधिविषयविशेषावधारणार्थत्वेन विधेयार्थाभिधानोपयुक्तत्वात् न परिशिष्टताऽस्तीत्यर्थः । ननु विधिविशेषादेव विधेयविशेषावधारणसिद्धर्नामधेयानां तादर्थ्यासम्भवात् परिशिष्टता १. अस्येति अधिकं पाठः २ पु० पा० । २. कर्माङ्गभूतेति २ पु० पा० । ३. आधिक्येऽपीति २ पु० पा० ।

- १] प्रथमाध्याये चतुर्थपादः ११ भविष्यतीत्याशङ्कयाह-तदिति । उत्पतिवाक्ये विधेयविशेषावधारणस्यान्यतः सिद्धावपि, समे यजेतेत्यादौ दर्श पूर्णमासादिनामधेयं विना विशेषावधारणासिद्धर्वक्ष्यमाणत्वात् विध्युद्देशान्तर्गतिस्तावत्सम्भवत्येव । न च तत्सम्भवे स्तुत्यर्थत्वाङ्गीकरणं युक्तमिति, प्रधानं विधिः अङ्गं स्तुतिः, तत्र प्रधानविशेषणसम्भविनस्तद्गामित्वमेव न्याय्यमित्यत्रोक्त- मित्यर्थः । गुणगुणिसम्बन्धकीर्तनात्मकत्वाच्च स्तुतेर्न गुणमात्रकवाचिनैकेन पदेनोपपत्ति- रित्याह-न चेति । ननु संज्ञया गुणिभूतस्य संज्ञिनो धातूपात्तस्योपस्थापनोपपत्तेः स्तुतिः सेत्स्यतीत्याशङ्कयाह-न चेहेति । संज्ञायाः संज्ञिव्यवहारार्थत्वेन स्तुतिपरत्वायोगान्नेह नामधेये स्तुतिप्रतिपत्तिः सम्भवतीत्यर्थः । ननु नामधेयस्यापि फलोद्भेदनादिगुणयोग- निमित्तत्वात् सहस्राक्षादिवत्स्तावकत्वोपपत्तिरित्याशङ्कयाह-यदपीति । संज्ञायाः संज्ञि- व्यवहारार्थत्वेन कृतार्थायाः संज्ञायाः स्तुत्यर्थत्वमेव तावत्स्वमनीषिकामात्रेण कल्प्यम्, न तु युक्तियुक्तं कथंचित्कल्पितमध्येतत्फलोद्भेदनस्य कति धातूपपदप्रत्ययार्थसमुदायस्य तृतीययाऽन्यार्थत्वप्रतीतेः प्रादिपदिकार्थप्राधान्यविधाताद् बाध्येतेत्यर्थः । न मन्त्र इति । मन्त्रान्तर्गतिशङ्कानिराकरणार्थं भाष्यं व्याख्यातुं मन्त्रस्वरूपनिराकरणे तावत्प्रायिकस्या- स्यन्तत्वादिलक्षणस्य, अभिधानचोदकरवस्य चाध्येतृप्रयोगस्य च ब्यापकस्याभावं सूचयितुं हेतुमाह -न चास्येति । ननु स्वरूपतो मन्त्रत्वाभावेऽप्यूहप्रवरनामधेयवत् प्रयोजना- काङ्क्षायां प्रयोजनान्तरायोगेनानुष्ठेयस्मारकत्वःवगमात् मन्त्रकार्यकरत्वेनौपचारिक मन्त्रत्वं भविष्यतीत्याशङ्कय स्वयं तावनिराकरोति-न चेति । पदार्थवावस्यानुष्ठेयत्वात् प्रयोजनत्वानुपपत्तेर्वाक्यार्थस्यैवानुष्ठेयत्वेन प्रयोजनत्वादेकस्य च पदस्य वाक्यार्थप्रति- पादनासामर्थ्यात् प्रयोजनाकाङ्क्षव तावन्नास्ति । सत्यामपि वा प्रयोजनाकाङ्क्षायां स्मारकत्वं न युक्तम्, करणत्वप्रतीत्या स्मरणार्हत्वापादकप्रातिपदिकार्थप्राधान्यबाधादित्यर्थः । एतच्च ब्राह्मणेनैकवाक्यीभूतस्य कर्मकाले स्वतन्त्रप्रयोज्यत्वाभावान्मन्त्रकार्यकारित्वानुप- पत्तमन्त्रकार्यकरत्ववादिनोद्भिदादिनामधेयानां स्वातन्त्र्यमवश्याभ्युपगन्तव्यम् इत्या- पाचैकपदत्वमुक्तम् । वस्तुतस्तु धातुसामानाधिकरण्यं विना नामधेयत्वायोगात् भिन्नवाक्यत्वे प्रकारान्त- रेणोपयोगानुपपत्तेरानर्थक्यस्यापरिहार्यत्वादिष्टमेवैकवाक्यत्वम् । अत एव सिद्धवद्वायुक्षे- पिष्ठादिवदेकवाक्यतावगम्यत इत्युक्तम् । अनङ्गीकृतनामधेयत्वस्य तूद्भिदादिपदस्वरूपस्या- र्थवादत्वनिकराकरणे सत्यसावेकवाक्यत्वशङ्का, तदङ्गीकारेण च विध्युद्देशान्तर्गत्या परिहारो न कथंचिद्युज्यते । यदा च मन्त्रकायंकरणक्वाङ्गीकरणे ब्राह्मणकवाक्यत्वानु- पपत्तेः स्वतन्त्रकादता पद्यते, तदा सामानाधिकरण्याभावेन नामधेयत्वायोगात्, तदभिधेयस्य चार्थस्य वाक्यान्तरेण कर्मण्यविधानात् प्रयोगसमवेतार्थाभावात्स्मारकत्वं न युक्तमित्याह-न चैतविति । अनेन चैवंजातीयकस्येति भाष्यमुद्भिच्चित्रादिशब्दाना नामधेयत्वे तद्वाच्यस्य - प्रधानकर्मण एव प्रकाशनीयस्य सद्भावादयुक्तमाशङ्कया- पायोक्त्या व्याख्यातम ।

१२ मीमांसादर्शनम् [ सू० . समवायः श्रुताध्याहारेण यद्वा कर्मणो विभुत्वेनास्य क्वांशे प्रयोग इत्यज्ञानात् कर्मस्वरूपप्रकाशनार्थत्वानु- पपत्तः । कर्माङ्गप्रकाशनार्थत्वं वाच्यम् । न चैतदभिधेयः कर्माङ्गभूतोऽर्थोऽस्तीत्याशयः । नन्वसमवेतार्थत्वेऽपि स्तोत्रशस्त्रमन्त्रवदङ्गत्वं भविष्यतीत्याशङ्कयाहन चेति । स्तोत्रादिसाधनत्वेन विधानाभावात् प्रकरणपाठेनैषां कर्माङ्गप्रकाशनेनैव वाच्यः । न. चासो सम्भवतीत्याशयः। ननूद्भिदादिशब्दवाच्यस्य खनित्रादेमन्त्रवर्णात् कर्मणि कल्पयिष्यते, अत आह-मान्त्रणिकेति। चित्राग्निहोत्रादिशब्दानां द्रव्यवाचित्वानाशनादुपलक्षणार्थो द्रव्यशब्दो द्रष्टव्यः । श्रुत्यविनियुक्तत्वाच्चास्य स्वार्थसमवायकल्पकत्वं नास्तीत्याह-न चेति । सम्भवत्यपि नामधेयत्वे कर्मस्वरूपप्रकाशनार्थत्वे च ब्राह्मणाद्विच्छिन्नस्यैकपदमात्रस्य मन्त्रत्वानाशङ्कनात् तादृशस्य चाख्यातान्वयं विना नैराकाझ्याभावान्न कर्मकाल- प्रयोज्यत्वं सम्भवतीत्याह-न चेति । नन्वध्याहारेण निराकाङ्क्षीकृत्य कर्मकालप्रयो- ज्यत्वं भविष्यतीत्याशङ्का निराकुर्वन् कर्मकालाप्रयोज्यत्वमेवोपसंहरति - अतश्चेति । अतः साकाङ्क्षत्वेनाप्रयोगार्हत्वान्न कर्मकाले प्रयोगः सम्भवति । न चाध्याहारेण निराकाङ्क्षीकृत्य प्रयोगोऽविनियुक्तत्वेन प्रत्यक्षविनियोगान्यथानुपपत्तिकल्प्याध्याहार- योगादित्यर्थः। नामधेयत्वेन च प्रत्यक्षब्राह्मणकवाक्यत्वप्रतीतेन निराकोङ्क्षीकरणं युक्तमित्याह- स्फुटञ्चेति। मन्त्रानन्तर्गतिमुपसंहरति-इतीति । पारिशेष्यादिति भाष्यं मन्त्रार्थवादान्तर्गत्यसम्भवेऽपि नामधेयत्वोपपत्तेः पारिशेष्याद् गुणविध्यसिद्धरयुक्तमाशङ्कय समाधातुमाह-तस्मादिति । नामधेयस्य विध्युद्देशान्तर्गति- मात्रं पारिशेष्येणाभिमतम् । गुणग्रहणं तूत्तराधिकरणपातनिकार्थमित्याशयः । विध्युद्दे- शान्तर्गतस्यैव नामधेयस्य गुणविधिर्नामधेयं वेत्येवं विचारः क्रियत इति भावे लकार: विधेयाङ्गसमर्पकत्वाभिप्रायो गुणविधिशब्दः । नामधेयस्य च विध्युद्देशान्तर्गतेन नामधेयं विधायिष्यत इत्येतद्भाष्यव्याख्याने विस्तरेणोपपादयिष्यमाणत्वात् तदवष्टम्भेनेह सिद्धवदभिधानम् । उद्भिदादिशब्दानां च नामधेयत्वं याज्ञिकप्रसिद्धयैव सिद्धम् । स एष यज्ञः पञ्चवि- धोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि, पशुर, सोम इत्यादिलिङ्गदर्शनैश्वावधारित- मिति, अविचारितसिद्धम ङ्गीकृत्य नामधेयत्वस्य धर्मप्रामाण्यप्रकारताऽस्त्युत नेत्यायेना- धिकरणेन विचारिते, क्वास्ति नामधेयम्, क्व वा नेति कोष्ठशोधनिकार्थमुत्त। प्रपञ्चः । सोऽपि वाक्यार्थव्याख्यानत्वेन प्रमाणलक्षणासङ्गतिप्रसङ्गानोद्भिदादिशब्दो गुणविधिर्ना मधेयं वेत्येवं रूपः । कि तु यथा सर्ववाक्यशेषाणाम् आनर्थक्यनिराकरणेनार्थवादत्वेऽर्थ- वादाधिकरणेनैव सिद्ध तदृढीकत्तु विधित्वाशङ्कानिराकरणायोतराधिकरणद्वयं तथोद्भि- दादिशब्दानां याज्ञिकप्रसिद्धयवधारितेन नामधेयत्वेन धर्मप्रमोपयोगे साधिते प्रसिद्धयादिहेतु- केन गुणविधित्वेनैव धर्मप्रमोपयोगसिद्धेः किं क्लिष्टेन नामधेयत्वेनेत्याशक्य नामधेयत्व- मेव दृढीकत्तु गुणविधित्वाशङ्कानिरासायोत्तराधिकरणचतुष्टयम् । ततो वाजपेयाधिकरणे १ ] प्रथमाध्याये चतुर्थपादः १३ तन्त्रसम्बन्धेन विशिष्टविधिसम्भवाद् गुणविधिपक्षोक्तमत्वर्थलक्षणादिदोषपरिहारेण प्रत्यव- स्थानमाशङ्कय वैरूप्यात्तन्त्रसम्बन्धानुपपत्तर्दोषपरिहारासम्भवेन गुणविधित्वनिराकरणे दृढीकृते विशिष्टविधावाख्यातोपपदार्थयोयोविधानात्सन्निकृष्टविष्यसम्भवनिबन्धनत्वाच्च विप्रकृष्टविधेयुगपत्सम्भवासम्भवविरोधान्न क्वापि विशिष्टविधिः सम्भवतीत्याशङ्कय, आग्नेयाधिकरणे विशिष्टविधौ व्युत्पादिते, बहिरादिशब्दाः संस्कारनिमित्ताः जातिनिमित्ता यौगिका वेत्यधिकरणत्रयेण प्रसङ्गाद्विचारिते प्रासङ्गिकसमाप्त्या बुद्धिस्थस्थ विशिष्टविधि- व्युत्पादकस्य प्रयोजनमुत्पत्तिशिष्टबलीयस्त्वं वैश्वदेवशब्दस्य गुणविधित्वशङ्कानिराकरणार्थ व्युत्पाद्य, अष्टा रुपालादिशब्दानामेकवाक्यगतत्वेनोत्पत्त्युत्पन्नशिष्टत्यविभागाभावाद् गुणविधि- त्वमाशङ्कयाष्टत्वादीनां परस्परविरोधितत्वेनैकवाक्यविधानायोगाद् बलाद्वाक्यभेदप्रसक्ते- रुत्पतिशिष्टद्वादशत्वावरुद्धे. यागेऽष्टत्वादिविध्ययोगादष्टाकालादिशब्दैर्गुणवृत्त्या द्वादश- कपालस्तुतिरिति वैश्वानराधिकरणेऽभिहिते, प्रसङ्गाद् गुणवृत्तित्वलक्षणं तत्सिद्धिसूत्रेणोक्त्वा, यथा विध्युद्देशान्तर्गतस्यापि उद्भिदादिपदस्य नामधेयरूपेण प्रकारान्तरेण धर्मप्रमोप- योगित्वम्, तथा वाक्यशेषस्यापि स्तावकत्वातिरेकेण सन्दिग्धनिर्णायकत्वेनेत्यक्ताधि- करणेनोक्ते नुवाधिकरणे वाक्यशेषवत् सामर्थ्यस्यापि सन्दिग्धनिर्णायकत्वेन धर्मप्रमो- पयोगव्युत्पादनात् सकलस्य पादस्य प्रमाणलक्षणसङ्गत्यविधातः । भाष्यानुसारेणोद्भि- दादिशब्दानां गुणविधित्वेन धर्मप्रमोपयोगित्वं नामधेयत्वेन वेत्युभयथा प्रामाण्यमङ्गो- कृत्य प्रकारविशेषव्युत्पादनार्थापि गुणविधिनामधेयचिन्ता, प्रकारस्यापि लक्षणार्थत्वात् न लक्षणसङ्गति विहन्ति । प्रामाण्यविषयविशेषनिरूपणार्थेयं गुणविधिनामधेयचिन्ता न प्रकारविशेषनिरूपणार्थति परव्याख्या दूषणार्थस्तु वात्तिककारीयो इति सर्वमनवद्यम् । यत्न उद्भिद्गुणवतेत्यादिद्वितीयाधिकरणपूर्वपक्षभाष्यं तात्पर्यतो व्याचष्टे-तत्र तादिति । ननूद्भिदादिशब्दानां लोके खनित्रादावप्यप्रसिद्धत्वादवयवव्युत्पत्त्या तु कर्मण्यपि प्रवृत्तिसम्भवात् कथं प्रसिद्ध या गुणविधित्वनिश्चय इत्याशङ्कय-बलवत्वेने- त्युक्तम् । उच्छब्दस्योर्द्धत्वे, भिदेश्च विदारणे लोकव्याकरणयोः प्रसिद्धत्वादुद्भिच्छब्दस्य खनित्रेऽवयवप्रसिद्धिर्बलीयसी, प्रकाशनार्थतायास्त्वप्रसिद्धत्पाद्यागस्य चाबोधकत्वेन प्रकाशकत्वाभावात् उत्पादकत्वेनापि प्रकाशकत्वोपचारे सर्वकर्मणां स्वफलोत्पाद- कत्वेनोद्भिःच्छन्दवाच्यतापत्तेर्यागे प्रसिद्धिर्दबलेति भावः । गुणविधौ त्विति भावः । भाष्यमभ्यधिकमर्थं विदधत इत्यवयवत्वेन प्रवृत्तिविशेष करत्वमुक्तम्, अर्थवन्तो भविष्यन्ती- त्यनेन च प्रयोजनवत्त्वमित्येवं व्याख्यातुं 'प्रयोजनवशेन चाधिक तात्'-प्रवृत्तेश्चेत्युक्तम् । विध्युद्देशान्तर्गतस्योद्भिदादिशब्दस्य गुणरूपमङ्गरूपं वाच्यमित्यनुषङ्गाध्याहाराभ्यां योज्यम् । किमर्थं तदुच्यत इत्यपेक्षायामाख्यातेन विधातुमिति- विधीयत । इत्यनेनोक्तं भाष्यमप्युद्भिद्गुणतां यागस्याख्यान विधातु मुद्भिदादिशब्दो विधेयगुणसमर्पक इत्येवं योज्यम् । धातूपसर्गरूपावयवशक्त्यनुसारेण तावदुद्भिच्छब्दस्योर्द्धविदारणसाधनद्रव्य- मीमांसादर्शनम् [ सू० ननु यागस्यापि वाचित्वमुपादयति-प्रातिपदिकमिति । द्रव्यविषयायाः प्रसिद्धबलीयस्त्वोपपादनार्थ न चैषामिति भाष्यावयवं व्याचष्टे-न चेति । भिदिविदारण इतिवत् प्रकाशने स्मृत्य- भावाद्यागस्याप्रकाशर त्वादौपचारिकप्रकाशकल्वे सल्यप्यतिप्रसङ्गापत्तेरवयवप्रसिद्धयोद्भि- च्छब्दस्य यागार्थत्वायोगात्समुदायप्रसिद्धया तदर्थता वाच्या न चासावस्तीति सूचनार्थः समुदायशब्दा ननु लोकप्रसिद्धयभावेऽपि यजिसामानाधिकरण्याद्यागार्थतावगम्यत इत्याशङ्का निरा- करणार्थ 'न चेति भाष्यावयवं समानाधिकरण्यावगतस्यार्थस्य पारिभाषिकत्वाभावात् अयुक्तमाशङ्कय व्याचष्टेन वेति । वैय्यधिकरण्येनापि यजिसम्बन्धोपपत्तः सामाना- धिकरण्येन यागार्थत्वस्यावगन्तुमशक्यत्वादलौकिकार्थकल्पना पारिभाषिकी आपद्येत । सा च सम्बन्धस्याशास्त्रहेतुत्वादित्येन्द्रघधिकरणसूत्रावयवेन निरस्तत्वादयुक्तत्याशया। तृतीयया चोद्भिच्छब्दार्थस्य करणत्वावगते व्यस्यैव च करणत्वोपपत्तेस्तदनुसारेणापि उद्भिच्छब्दस्य द्रव्यवाचिताऽवसीयत इत्याह-तृतीयापि चेति । फलोद्भेदनहेतुत्वात्फलभावनाकरणत्वाच तद्वाचित्वेऽप्यवयवप्रसिद्धिः, तृतीया च न विरोत्स्यत इत्याशङ्कयाह-न चेति । यागस्यो विदारकत्वम्, प्रकाशकत्वं वा तावन्ना- स्त्येव । कर णत्वं तु विधिसामर्थ्यगम्यमपि कर्तृव्यापारव्याप्यत्वरूप कर्मत्वापेक्षत्वेन ततो दौर्बल्यात्तेनाभिभूतं सन्न तृतीयोत्पादनक्षममिति, प्रसिद्धशब्देन प्रकृष्टत्वेन कर्मत्वात् बलीयस्त्वेन न सिद्धं यतस्तेनाभिभवितुं न शक्यत इत्यभिधानात्सूचितम् । कुठारादीनां तु छेदनादौ करणत्वात् उद्यमनादौ च कर्मत्वाद्भिन्नविषयत्वेनादि रोधादन भिभूतं कारणत्वं तृतीयोत्पादनक्षममित्याशयः। नन्वर्थवन्तो भविष्यन्ति इतिभाष्या वयवेनार्थ- वत्त्वस्य तृतीयोपपत्तित्वेनोक्तत्वात् । प्रयोजनवशेन चेति द्वितीयोत्पत्तित्वेन व्याख्या न युक्तत्याशङ्कयाह--अर्थवत्त्वादिति । प्रवृत्तिविशेषकर त्वोपपत्तित्वद्योतनार्थं तृतीयया युक्त्या प्रागस्य व्याख्येत्याशयः । प्रवृत्तिविशेषकरत्वं व्याचष्टे - विधायकेति । द्रव्य- विशिष्टक्रियाविषयप्रवृत्तिहे भिवानेऽपि विधेयसमर्पणे द्रव्यविशिष्ट क्रियानुष्ठाने च यथाक्रम प्रवृत्तौ विशेष इत्यर्थः । ननु नामधेयत्वेऽपि संज्ञाविशिष्टे कर्मणि प्रवृत्तेराधिक्यरूपो विशेषोऽस्तीत्या- शङ्कयाह- अन्यथा होति। विधिविशेषादेव यागविशेषसिद्धर्नामधेयस्यानतिरिक्तार्थ- त्वात् । अनुच्चारिते तस्मिन्यावती विधायकादीनां प्रवृत्तिः तावत्येवोच्चारितेऽपि स्यादित्यर्थः । उद्भित्पदस्यानुच्चरितस्य प्रवृत्त्ययोगेऽप्याधिक्याभावं त्रयाणां तुल्यं वक्तुमेषामिति बहुवचनम् । प्रसिद्धर्वार्थवत्त्वोपपत्तित्वसूचनार्थ प्रागर्थवत्त्वव्याख्येत्याह- अथ वेति प्रसिद्धस्यापि लोष्ठानिःप्रयोजनत्वात् प्रसिद्धः प्रयोजनवत्त्वोपपत्तित्वासम्भवमा- शङ्कयाभिधेयवाचित्वेनार्थशब्दव्याख्यानमुद्भित्पदस्य गुणे प्रसिद्धत्वात् विधेयगुणसमर्प- कस्य सतोऽर्थवत्त्वमित्यर्थः ।

१] प्रथमाध्याये चतुर्थ पादः १५ - अस्मिस्तु व्याख्याद्वये गुणविधौ हेतुद्वयापत्तः प्रसिद्धयादिभिः पूर्वपक्षे इति श्येनाधि- करणभाष्ये बहुवचनानुपपत्तिप्रसङ्गेनापरितोषाद्धेतुभेदेऽपि प्रवृत्तिविशेषकरत्वेऽपि प्रयोज- नातिरेकस्यवोपपत्तित्वं सूचियितुं प्राक् व्याख्येति पारमार्थिकम् । व्युत्क्रमव्याख्याभिप्राय दर्शयितुमाह-अथ वेति । नन्वेवं पृथगस्य हेतुत्वे अर्थवत्त्वेनैवोद्भित्पदस्य प्रवृत्तिविशेषो दर्शितः । किमपरमस्य प्रवृत्तिविशेषोपन्यासेनेति-आह ततश्चेति । स्वात्मनि क्रिया- विरोधादौपचारिकभेदाश्रयणेनोद्भित्सदमात्मनः प्रवृत्ति विशेषकरम्प्रागुक्तमित्यपरितोषादिह विधिपुरुषयोरित्युक्तम् । नामधेयानर्थक्यप्रतिपादकं यदि चेति भाष्यमाक्षिपति- नन्विति । सामधत्ते---नैतविति। श्लोकं व्याचष्टे-यदेति । किमपरमित्यनेन धातुक्तैव याग व्यक्तिर्नाम्नाभिधेया, ततश्चानर्थक्यमित्येवं सा चेति व्याख्यातम् । अथेत्यनेन जातिश्चेद्धातुनाश्रिता ततः समानाधिकरण्यात्तन्नामतैव प्रसज्येत । सा चानिष्टे- त्युत्तराऽवयवो व्याख्यातः । विशेषस्यान्यतः सिद्धि विद्धान्तिनोऽप्यभिमतां दर्शयति-- सिद्धत्वादेव चेति । विशेषस्यान्यतोऽसिद्धौ तत्प्रतिपत्त्यर्थं नामधेयस्यावश्यविधेयत्वापत्तेस्त- निरासो न युज्येत इत्याशयः। ननु विशेष सिद्धर्नामधेयाधीनत्वेऽप्यवयवशक्त्यनुसारेणव कर्मण्यपि प्रवृत्तिसिद्धः, संज्ञासंज्ञिसम्बन्धविधिनिरासाथ तद्भाष्यमित्याशङ्कयाह- यवा चेति । संज्ञासंज्ञिसम्बन्धविधिशून्येन लौकिकेनावय वशक्त्यनुसाररूपेणापि प्रकारेणोद्भिदादिपदानां विशेषवाचित्वाभ्युपगमे, तत एव विशेषसिद्धर्धात्वानर्थक्यं प्रसज्येत । न च सामान्योक्त्या तस्यार्थवत्त्वम्, विशेषान्तर्भावनैव सामान्यसिद्धेरित्यर्थः । ननु यागविधिवाक्ये गुणस्यापि विधौ गौरवं स्थादित्याशङ्कयाह- लाघवं चेति । हेतुत्रयसङ्कलनार्थं तत्प्रतिपादकान् भाष्यावयवान् यदि गुणविधिरित्यादिभाष्योपेक्षणेन व्याख्यायोपेक्षितं यदीत्यादिभाष्येण तद्वयाचष्टे- यद्येवमिति । नेति ब्रूम इति परिहार- भाष्यमाक्षेप्तुमवतारयति-अत आहेति । आक्षिपति-नन्विति। कर्मविध्यभावे गुणविध्ययोगादवश्यं कस्मिंश्चित् कर्मविधानेऽभ्युपगन्तव्ये ज्योतिष्टोमवाक्यसन्निधा- वितिकर्तव्यताम्नानात् तस्याश्च कर्तव्य त्वलिङ्गत्वात् 'भूयस्त्ववेनोभयश्रुतत्त्यिनेन न्याये- नास्य कर्मविधिल्वं भविष्यतीति समाधत्ते-- गत्यभावादिति । नन्वेवं सति ज्योतिष्टोमपदस्य का गतिरित्याशङ्कय द्वेधा गतिमाह-तनुयावृत्ते चेति । m- नन्वेवमपि तद्विकारभूतकान्त भावात् प्रकृतिशब्दो न युक्त इत्यन्यथाक्षिपति- नन्वेवमिति । समाधत्ते-सिद्धान्तेति । प्रस्तुताधिकरण सिद्धान्ते प्रकृतित्वानभिधाना- 'दव्यक्तासु तु सोमस्ये'त्यत्र वक्ष्यमाणस्य चोद्भिदादियागप्रकृति पस्योद्भिदादिशब्दानां गुणविधित्वाभिधानविरोधित्वेनानुद्भाव्यत्वादपरितोषेणान्यथा समाधत्ते अथ वेति । व.थं दूरस्थे ज्योतिष्टोमे गुणविधिरित्याशङ्कय -ताण्डके । ज्योतिष्टोमानन्तरमुद्भि- दाद्याम्नानाद् गुणविधित्वेन चासम्बद्धपदाव्यवायामावात् सर्वत्र ज्योतिष्टोमस्य प्रकृतत्वोप- पत्तेस्तत्र गुणविधित्वसम्भव प्रकृतित्वाभिधानेनोक्त इति भावः ।

रई मीमांसादर्शनम् [ सू० यदा त्वथैष ज्योतिरित्यादिवर्जमुदाहरणमिति श्येनाधिकरणवक्ष्यमाणन्यायेन ज्यो- तिरादिशब्दानां गुणविधित्वाशङ्काविषयत्वं नेष्यते, तदा तेष्वपि गुणविध्युपपत्तेज्योतिष्टो- ममात्र गुणविधानाभिधानमयुक्तमित्याशङ्कय 'प्रकृती वा द्विरुक्तत्वा दिति न्यायं सूचयितुं तदपेक्षया प्रकृतित्वाभिधानमित्याह-अथ वेति । अव्यापारस्य व्यापारावच्छेदं विना विधेयत्वायोगात्तस्य च व्यापारवाच्याख्यातान्वयाधीनत्वात् कारकविभक्ति च विनाख्या- तान्त्रयायोगात् लोकसिद्धस्यैव च गुणस्यैव च कारकविभक्तिविनियोज्यत्वात् न स्वरूप- ज्ञापनार्थप्रातिपदिकार्थप्रधानप्रथमानिर्दिष्टस्य विधेयत्वं सम्भवतीत्याशयः । नन्वेवमपि ज्योतिष्टोमपदस्य नामधेयत्वं तद्वाक्येन फलसम्बन्धे व्यापृतनापेक्षिताया: कर्मोत्पत्तेः सोमेन यजेतेत्यनेन करणादुत्पत्तिशिष्टेन सोमेन गुणविधित्वे वा, तस्य प्राप्ते कर्मणि गुणफल सम्बन्धरूपानेकार्थविधाने वाक्यभेदापत्तेोतिष्टोमवाक्यस्यैव कर्मोत्पादकत्वात् उत्पत्तिशिष्टेन ज्योतिषां द्युतिमतामग्न्यादिद्रव्याणां स्तोमेन समुदायेन ज्योतिष्टोमशब्दा- वयवशक्त्यनुसारावगतेनावरोधाज्योतिष्टोमे गुणविधानं न युक्तमित्यन्यथाक्षिपति- नन्विति । फलपदानुरोधात् फले गुणविधिप्रतीतेोतिष्टोमाश्रितस्य गुणस्य फले विधान भाष्यकृतोक्तमिति मत्वा तावत्समाधत्त-काम्यत्वाविति । एवं तावदुद्भिदादिद्रव्येण यागमभिनिवर्तयेदिति सन्देहहेतुभाष्यस्योद्भिद्गुणता यागस्येति च पूर्वपक्षभाष्यस्याविहिते च कर्माणि तत्र गुणाविधानमनर्थकमित्याशङ्काभाष्यस्य चानुपपत्तिप्रसङ्गात्सर्वकाम्य- प्राप्तपश्वादिफलानुवादकत्वेन च फलपदोपपत्तरपरितोषादत्यथा समाधत्ते-अथ वेति । यद्यपि गुणविशिष्टं विहितं कमौत्पत्तिकेन गुणेन नैराकाङ्क्षयान्न तद्विरुद्धं वाक्यान्तरो- पात्तं गुणान्तरं ग्रहीतुं शक्नोति, तथापि यजिना गुणरहितं स्वरूपमात्र निष्कृष्या- काङ्क्षोत्थापनेन गुणान्तरं विहितं सन्नोत्पत्तिकाद्विशिष्यत इत्यध्याहृत्य यदि तथा- शब्दकावपि शब्दावृत्त्या योज्यम् ॥ १॥ सूत्र के भा० प्र०-मीमांसा के प्रथम अध्याय के प्रथम पाद के पचीसवें अनुसार अर्थात् “तद्भूतानां क्रियार्थेन समाम्नायः" (१:११२५) से सभी वेद क्रिया का प्रति- पादन करते हुए पुरुषार्थपरक होते हैं—यह कहा गया -यह कहा गया है। इसके अनुसार मन्त्र और अर्थवाद वाक्य का भी प्रामाण्य प्रतिष्ठापित हुआ है। इसमें अर्थवाद वाक्य विधेय कर्म के प्राशस्त्य का निर्देश करते हुए विधिवाक्य के साथ अन्वित होकर अङ्ग के रूप में सम्बद्ध होकर विधिवाक्यों के फल से ही फलवान होते हैं। मन्त्र विधि वाक्य के द्वारा सूचित अनुष्ठान योग्य पदार्थों का अनुष्ठाने के समय अर्थ का प्रकाश कर नियमविधि के अनुसार अपूर्व' का उत्पादन कर प्रयोजनवान होता है । १. प्रधान कर्म या अङ्ग कर्मों के सम्पादन से स्वर्ग आदि प्राप्ति के योग्य पुरुष या स्वर्ग आदि प्राप्ति के योग्य क्रतु नहीं है । इन दोनों की अर्थात् पुरुष और कर्म को फल के प्रति जो अयोग्यता है उसका निवारण कर योग्यता का सम्पादक पुरुषगत १] प्रथमाध्याये चतुर्थपादा १७ प्रकृत में यह विचारणीय है कि उद्भिद् से याग करे, उद्भिदा यजेत' (ताण्ड्य ब्राह्मण १९।६।३) बलभिद् से याग कर 'बलभिदा यजेत' (ता० ब्रा० १९।६।१) विश्व- जित् से यजन करे 'विश्वजिदा यजेत' (ता० प्रा० १९।८।४) अभिजित् से याग करे 'अभिजिता यजेत' (ता० ब्रा० १९।८।४) अर्थात् 'अभिजिता वै देवा इमान लोकान् या क्रतुगत अपूर्व मीमांसा शास्त्र में कहा जाता है। अन्यथा यज्ञ का सम्पादन असम्पादन के समान ही रहेगा। कर्मभ्यः प्रागयोग्यस्य कर्मणः पुरुषस्य वा । योग्यता शास्त्रगम्या या परा साऽपूर्वमुच्यते ।। "प्रधानकर्मणामङ्गकर्मणां वा प्राकरणात् स्वर्गादिप्राप्त्ययोग्याः पुरुषाः, कतवश्च स्वर्गकार्यायोग्याः। तदुभयीमप्ययोग्यतां व्युदस्य प्रधानैरङ्गश्च योग्यतोपजन्यत इति अवश्यं सर्वेणाभ्युपगन्तव्यम् । असत्यां तस्यामकृतसमत्वप्रसङ्गात् । सैव च पुरुषगता ऋतुगता वा योग्यता शास्त्रेऽस्मिन्नपूर्वमित्युपदिश्यते" इति । (तं. वा. पृ० ३९४)। वेद में स्वर्ग, पुत्र, पशु आदि फल साधन अनेक कर्म हैं। उन फलों की साध- नता श्रुति वाक्यों के द्वारा ही अवगत होती हैं। उन फलों के भोग के इच्छुक उन कर्मों का जब तक अनुष्ठान नहीं करते हैं, तब तक वह कतृत्व की उपलब्धि न करता है और उन फलों के भोग के योग्य ही होता है। इस कर्मनिष्ठ और पुरुष निष्ठ अयोग्यता को दूर करने के लिए उन कर्मों का अपने अङ्गों के साथ अनुष्ठान करना चाहिए । इन कर्मों के अनुष्ठान करने पर भी क्षणिक होने के कारण बाद में होने वाले फल के प्रति वे साधन नहीं हो सकते हैं। क्योंकि, कार्य से अव्यवहित पूर्ववर्ती ही कारण होता है। स्वर्ण आदि जो कम के फल कहे गये हैं, वे अन्य जन्म में भोग्य हैं, अत: इसमें अनेक काल का व्यवधान अवश्यंभावी है । कर्म के अनुष्ठान के बाद ही पुत्र, पशु आदि उनके कार्य= फल की उत्पत्ति नहीं होती है। “चित्रया यजेत पशुकामः" "पुत्रकामः पुत्रष्टया यजेत'' आदि वचन- समूह सुने जाते हैं, अतः इनकी साधन ना हो सके इसके लिए यत्न करना चाहिए । इसलिए फल की उत्पत्ति तक स्थिर रहने वाले जिस वस्तु विशेष की कल्पना की जाती है-वही अपूर्व है । अदृष्ट, शक्ति, अतिशय आदि इसी के अपर पर्याय हैं। यागादि क्रिया से उत्पन्न यह अपूर्व याग में आश्रित नहीं माना जा सकता है, क्योंकि आश्रयी के नाश के साथ ही इसका भी नाश हो जायेगा, अतः पुरुष में इसको आश्रित माना जाता है। मीमांसा में इसका विश्लेषण करते हुए लिखा गया है, सुख की इच्छा करता हुआ मनुष्य सुख के साधन का अन्वेषण करता है, अन्वेषण कर उसके सम्पादन के लिए प्रयत्नशील होकर उसके सभी व्यापारों का अनुष्ठान . - २ १८ मीमासांदर्शनम् [ सू० अभ्य जयन्' । विश्वजिता विश्वमजयन् । इत्यादि विधिवाक्यों में उद्भिद्, बलभिद्, विश्वजित्, अभिजित् आदि पद क्रियायों के साथ अन्वित होकर ही फलवान हो सकते हैं । इसमें यहाँ सन्देह होता है कि ये किस रूप में अर्थात् गुण के रूप में नामधेय करता है। स्वर्गादि की कामना से अधिकारी पुरुष विशेष उसकी कामना करता है । यागादि की साधनता समझकर भी क्षणिक इस व्यापार से कालान्तर में होने वाले फल में विसंवाद की कल्पना कर उससे उत्पन्न व्यवहित काल में होने वाले फल पर्यन्त ठहरने वाले किसी पदार्थ की कल्पना कर उससे फल की प्राप्ति से विगत संशय हो जाता है। अतः, मीमांसा का मुख्यतम अवलम्बन अपूर्व है । इस अपूर्व को विहित कर्म के फल साधन के समान ही निषिद्ध कर्म के फल के साधन के रूप में नरकादि के जनक के रूप में कल्पना की जाती है । दोनों को ही अपूर्व शब्द से कहा जाता है । तन्त्रवात्तिक में कुमारिल ने कहा है- शक्तिः कार्यानुमेयत्वात् यद् गतेवोपयुज्यते । तद्गतैवाभ्युपेतव्या स्वाश्रयाऽन्याश्रयापि वा ॥ (त० वा० पृ० ३९८) आशय यह है कि जिस कम से अनुष्ठान होता है उसी क्रम से अपूर्व की उत्पत्ति होती है। अङ्गकर्मों के अनुष्ठान के अव्यवहित क्षण में ही उसके द्वारा यजमान की आत्मा में अपूर्व निष्पन्न होता है। इस प्रार प्रधान याग से पूर्व में जितने अङ्गों का अनुष्ठान किया जाता है या जितने प्रधान कर्म के बाद अनुष्ठान किये जाते हैं, उतने अपूर्व उत्पन्न होते हैं। ये अंङ्ग से उत्पन्न है, अतः अङ्गापूर्व कहे जाते हैं। इसी प्रकार प्रधान याग के अनुष्ठान से प्रधान से जो अपूर्व उत्पन्न होता है, उसको प्रधानापूर्व कहा जाता है इसे ही शास्त्र में उत्पत्त्यपूर्व भी कहा जाता है । ये सभी अपूर्व यजमान की आत्मा में समवेत होते हैं । अन्तिम अङ्ग के अनुष्ठान के बाद ये सभी अपूर्व मिलक' परमापूर्व स्वरूप अपूर्व का उत्पादन करते हैं। परम अपूर्व की उत्पत्ति के बाद अन्य सभी अपूर्व विनष्ट हो जाते हैं और यही परमापूर्व फल की उत्पत्ति तक रहता है और फल का उत्पादन कर विनष्ट हो जाता है । विजातीय फलों के उद्देश्य से अनुष्ठित कर्मों के द्वारा विजातीय फलों के उत्पादन की शक्ति से सम्पन्न अपूर्व उत्पन्न होते है, किन्तु इनके फल मे सार्य नहीं होता है। जैसे एक ही खेत में अनेक प्रकार के बीजों का साकर्य नहीं होता है। ''शक्तयः सर्वभावानां नानुयोज्याः कथञ्चन" अर्थात् भिन्न-भिन्न कर्मों से जन्य भिन्न-भिन्न फलों के उत्पादन से यजमान की आत्मा में समवेत फल मात्र से नाश्य अपूर्व है यह मीमांसकों ने स्वीकार किया है। + १] प्रथमाध्याये चतुर्थपादः के रूप में सम्बद्ध हैं, यजेत के साथ प्रयोग है। यागकरे यहाँ अर्थ भी ब्यक्त है। उद्भिद् द्रव्य से याग करे इस रूप में अन्वय है, या उद्भिद् नाम के याग से यजन क्रिया करे। क्योंकि, सम्प्रदाय-परम्परा से प्रत्यक्ष वेदवाक्य के द्वारा लब्ध होने से ये निरर्थक नहीं हो सकते हैं, निरर्थक मानने पर अप्रामाण्य का प्रसङ्ग आयेगा । सम्पूर्ण वेदवाक्य का प्रामाण्य माना गया है। अतः ये भी प्रामाणिक है, अत: किस रूप में अन्वय है--यहाँ सन्देह उचित है। जहाँ विधि विहित कर्म में द्रव्य, देवना आदि का विधान होता है उसका नाम गुण है । जिस वाक्य में वैसे द्रव्य देवता आदि जो विहित होते हैं-उसको गुणविधि कहा जाता है । अग्निहोत्र हवन करे 'अग्निहोत्रं' जुहोति' इस स्थल में दधि से हवन करे, 'दध्ना जुहोति' यहाँ गुणविधि का निर्देश है। अग्निहोत्र हवन के उद्देश्य से दही का द्रव्य रूप में गुण का विधान है। सामान्य रूप से इसका अनुष्ठान सम्भव न होने से याग-विशेष रूप विधि का विषय होता है । नाम के विना विशेष निरूपित नहीं हो सकता है, अतर, याग का नाम भी आव- श्यक होता है। याग के नाम को नामधेय कहा जाता है। प्रकृत में पूर्वोक्त वेदवाक्य गुणविधि हैं या नामधेय है-यही सन्देह है। पूर्व में ही निर्दिष्ट किया गया है कि उद्भिद् आदि का 'यजेत' क्रिया के साथ दो प्रकार से अन्वय हो सकता है । उद्भिद् नामक द्रव्य के द्वारा याग निष्पन्न करे, 'उद्भिदा द्रव्येण यागमभिनिर्वत्तयेत्' इस रूप में अन्वय हो सकता है और नामविधि मानने पर उद्भिद नाम के याग से अभिलषित फल की प्राप्ति करे, “उद्भिदा यागेन इष्टं भावयेत्'--इस प्रकार अन्वय हो सकता है । ऐसी स्थिति में इसे गुणविधि की आशङ्का पूर्वपक्षी ने की है। क्योंकि, किसी विधि वाक्य की प्रशंसा की सूचना इससे न होने के कारण इसे अथवाद नहीं कहा जा सकता है। किसी अनुष्ठान योग्य कर्म के स्वरूप का प्रकाशन इससे नहीं हो रहा है, अता, मन्त्र भी नहीं कहा जा सकता है। मन्त्र और अर्थवाद न होने पर इसको विधि ही मानना पड़ेगा। क्योंकि विवि न मानने पर विफल होने से इसका अप्रामाण्य प्रसक्त होगा। मन्त्र, अर्थवाद और विधि को ही प्रयोजन समन्वित कहा गया है। विधि वाक्य होने पर भी उत्पत्ति विधि न होने से गुण विधि ही इसको मानना पड़ेगा। उत्पत्ति विधि उसे कहा जाता है जो वेद या शास्त्रवाक्य सर्वथा अज्ञान कर्म के विषय को कर्तव्य के रूप में बोधित करता है और जो अन्य वेदवाक्य से विहित कर्म में द्रव्य, देवता आदि के रूप में गुण का विधान करता है, वह उसकी गुण विधि है। प्रकृत में 'उद्भिदा यजेत' इस वाक्य में उद्भिद् आदि शब्द अन्य वेदवचन से विहित याग में उद्भिद् रूप गुण का विधान करता है-यह मानने पर शास्त्र की प्रसिद्धि के अनुसार दही से हवन करे 'दध्ना जुहेति' इसमें जैसे अन्य वचन से प्राप्त होम में दही रूप गुण का विधान होता है, उसी तरह यहाँ भी उद्भिद् रूप गुण का विधान होगा। जिसके द्वारा भूमि का उद्भेदन किया जाय वही उद्भिद है इस व्युत्पत्ति के अनुसार मीमांसादर्शनम् [ सू० उद्भिद शब्द का यौगिक अर्थ खनित्र होता है। इस स्थल में अन्य वचन से प्राप्त सभी फलों को देने वाले ज्योतिष्ठोम नामक यज्ञ में पशु रूप फल के लिए खनित्र रूप गुण का विधान होता है, अतः, 'उद्भिदा यजेत पशुकामः' इत्यादि स्थल में उद्भिद् आदि शब्दों के द्वारा गुण का ही विधान करना उचित है, क्योकि इसी तरह इसका उपयोग हो सकता है, अन्यथा नहीं। इसका प्रयोजन प्रदर्शन न किया जाय तो समग्र वेद को पुरुषार्थ साधक नहीं कहा जा सकता है, क्योंकि, ये निरर्थक है । यह पूर्व पक्ष है। वातिककार ने कहा है कि यह सूत्र स्वतन्त्र एक अधिकरण है, सम्पूर्ण प्रथम अध्याय में प्रामाण्य का ही विचार किया गया हैं, इसलिए यदि गुण विधि या नामधेय का विचार करने पर इस अधिकरण की अध्याय के साथ सङ्गति नहीं हो सकती है। इसलिए इस सूत्र में उद्भिद् आदि यह धर्म में प्रमाण है या अप्रमाण----इसी का विचार है । इनमें सिद्धान्त रूप में "उद्भिदा यजेत" आदि वाक्यों को विधि के अन्तर्गत मानकर उद्भिदा आदि पद विधि वाक्य में फल साधन करण है। याग के साथ सामानाधिकरण्य अर्थात् नामधेय रूप में ही यह अन्वित होता है, अत एव उद्भिदा, बलभिदा, विश्वाजिता आदि पद धर्म में प्रमाण है। इस पक्ष में सूत्र का अर्थ यह होगा--- उक्तं समाम्नायैदमर्थ्यम् = समाम्नाय का वेद का ऐदमयं = धर्मप्रतिपादन ही प्रयोजन है, क्योंकि ऐसा न होने पर स्वाध्यायविधि उपपन्न नहीं होगी। तस्मात् : इस कारण से सर्वम् = उद्भिदा आदि सभी पद समूह, तदर्थ स्यात् धर्मप्रतिपादन रूप प्रयोजन के लिए हैं। सामानाधिकरण्य से तात्पर्य उद्भिद् का साक्षात् यजन में सम्बन्ध सूत्रार्थ:- उक्तम् = कहा गया है। समाम्नायैदमर्थम् = समाम्नाय का = वेद का ऐदमर्थ्यम् = प्रयोजन । इदम् = यह अर्थ = प्रयोइन जिसका है, वह इदमर्थ हुआ, उसका भाव ऐदमर्थ्य = यह प्रयोजन । तस्मात् = इस कारण से, सर्वम् = सभी वैदिक पदों को प्रयोजनवान कहने के कारण, विधिवाक्य में स्थित सभी पद न सभी प्रयोजनों के द्वारा सार्थक होंगे, अन्यथा वेदवचन की अनर्थकता होने लगेगी ॥ १ ॥ अपि वा नामधेयं स्याद् यदुत्पत्तावपूर्व- मविधायकत्वात् ।।२॥ सि०॥ शा० भा०-अपि वेति' पक्षो विपरिवर्तते । नामधेयं स्यादिति प्रति जानीमहे। एवमविहितमथं विधास्यति ज्योतिष्टोमाद् यागान्तरम् । श्रुतिश्चै यागमभिधास्यति । इतरथा श्रुतिरुद्भिदादीन्वक्ष्यन्ती उद्भिदादिभतो लक्षयेत्-उद्भिवता यागेन कुर्यादिति। यागेन कुर्यादिति यजतेत्यस्यार्थः । करणं हि यागः, उद्धि १. ब.तु। २. ब. व्यावतते । ब. यजेतेत्यस्य शब्दस्यार्थः ।

२] प्रथमाध्याये चतुर्थपादः २१ दाद्यपि तृतीयानिर्देशात् करणम् । तत्रोद्भिदा यागेनेति कर्मनामधेयत्वेन' सामानाधिकरण्यसामञ्जस्यम्। द्रव्यवचनत्वे मत्वर्थलक्षणया सामानाधि- करण्यं स्यात् । श्रुतिलक्षणाविषये च श्रुतिायसी । तस्मात् कर्मनामधेयम् । ननु प्रसिद्धं द्रव्यवचनत्वमपह्नयेत, अप्रसिद्ध कर्मवचनत्वं प्रतिज्ञायेत । उच्यते । तृतीयानिर्देशात्कर्मवचनता। कुतः ? करणवाचिनो हि प्रातिपदिकात् तृतीया भवति । करणं च यागः । तेन यागवचननिममनुमास्यामहे । नैतद्युक्तम् । यदि तृतीयानिर्देशे सत्युद्भिदादिभ्य. शब्देभ्यो यागे बुद्धि- रुत्पद्येत, स्तादेतदेवम् । न हि नो बुद्धिरुत्पद्यते । तस्मादयुक्तम् । तृतीयावचन- मन्यथा नोपपद्यत इति चेत् ? मोपपादि । न जातुचिदनवगम्यमानेऽपि याग- वचनो भविष्यति । तस्माद् गुणविधयः। लक्षणेति चेत् ? वरं लक्षणा कल्पिता, न यागाभिधानम् । लोकिकी हि लक्षणा । हठोऽप्रसिद्धकल्पनेति । अपि च यदि नामधेयं विधीयते, न यागः। अथ यागो न नामधेयम् । उभयविधाने ह्यद्धिदादयः। कुतः प्राप्तिरिति चेत् ? ततोऽभिधीयते उच्छब्द- सामर्थ्याद् भिच्छब्दसामर्थ्याच्चोद्भिच्छब्दः क्रियावचनः। उद्भेदनं प्रकाशनं पशूनामनेन क्रियत इत्युद्भिद यागः । एवमाभिमुख्येन जयादभिजित्, विश्व- जयाद् विश्वजित् । एवं सर्वत्र । अतः कर्मनानधेयम् । यत्त्वप्रवृत्तिविशेषकरोऽनर्थक इति नामधेयमपि गुणफलोपबन्धेनार्थवत् । तस्मात् कर्मनामधेयान्येवंजातीयकानीति सिद्धम् ॥२॥ सिद्धम् ।। इति प्रथममधिकरणम् । भा० वि०-ननु नामधेयत्वपक्षसंभवेऽपि कथं स एवेति नियम इत्याशंक्य- यदपूर्वमिति। पदद्वयं व्याचष्टे एवमिति । नामधेयत्वे हि सत्युद्भित्पदं ज्योतिष्टोमयागाद्यागान्तरमविहितं विधास्यति, इतरथा विहिते कर्मणि गुणमात्रविधिः स्यात्, स च विशिष्टविहितकर्मस्वरूपमात्रानुवादानुपपत्तेरयुक्त इति भावः । अत्रैवमित्यनेन यच्छब्दो यस्मादर्थे व्याख्यातः अविहित मित्यनेनना- पूर्वपदं वाक्यान्तरानधिनते व्याख्यातम् । इदानीमस्तु तर्हि गुणविशिष्टकर्मान्तर- विधानार्थमितिशङ्कानिरासार्थमुत्पत्ताविति पदं यच्छब्दावृत्त्या यस्मादुत्पत्ती विधास्यतीति व्याकुर्वन् नामधेयत्वे हेत्वन्तरमाह-श्रतिश्चेति । उद्भित्पदश्रुतिः नामधेयत्वे यागमभिधास्यति-मुख्यवृत्त्यैव प्रतिपादयिष्यतीत्यर्थः । उत्पत्तिशब्दोऽपि च प्रथमभावविकारवचनः प्राथम्यगुणयोगेन शब्दवृत्तिषु प्रथमभूतश्रुतिवचन इति भावः । गुणविधित्वे तद्वयतिरेकमाह-इतरथेति। विधानाय खनित्रादीन् । १. ब. कर्मनामधेयत्वे सामा । २. ब. करण्येन।

• २२ मीमांसादर्शनम् [ सू० - वक्ष्यति-यजिसामानाधिकरण्याथं च तद्वतो यागानुद्भिद्वता यागेनेति लक्षयेत्, इत्युद्भित्पदस्य मुख्यलक्षणावृत्तिद्वयप्रसङ्गः, यागस्य च लक्ष्यत्वप्रसङ्ग इत्यर्थः । एवं प्रातिपदिकसामर्थ्यान्नामधेयत्वमभिधाय विभक्तिसामर्थ्यादप्येवमिति वक्तु- माख्यातपदार्थ तावदाह-यागेनेति । ननु पूर्वपक्षे यागमुभित्पदेति संबन्धः, न तु यागेन कुर्यात् इति, तत्राह- करणं होति। अपूर्वसाधनत्वेनान्यतः प्राप्तमनूद्य गुणविधाने प्राप्त्यनुसारेण यागेन कुर्यादित्येवानुवादः स्यादित्याशयः । अस्तु करणत्वेन प्राप्तस्यानुवादा- दिहापि करणत्वं यागस्य । उद्भिदर्थस्य तु किमायातम् । अत आह-उद्भिद- पीति । ततः किमत आह-तत्रेति। भिन्नार्थयोरुद्भिद्यागपदयोरेकार्थवृत्तित्व लक्षणसामानाधिकरण्यानुपपत्तेः यागनामत्वमेवोद्भित्पदस्य सामानाधिकरण्य- सामञ्जस्यायाप्युपेतव्यमित्यर्थः। ननु द्रव्यवाचित्वेऽप्युद्भिद्वता यागेनेति स्यादेव सामानाधिकरण्यमित्याशङ्कय लक्षणापत्तेः मैवमित्याहू-द्रव्यवचनत्व इति । ननु लक्षणापि शब्दवृत्तिरेव, तत्राह-श्रुतीति । यस्मात्कर्मनामधेयत्व एव तृतीयावगतकरणत्वोपपत्तिः, तस्मादित्युपसंहरति-तस्मादिति । ननु नामधेयत्वेऽपि नैव प्रमाणमवयवप्रसिद्धमूर्ध्वविदारणसमर्थद्रव्यवचनव- मपनुत्या प्रसिद्ध कर्मार्थत्वमभ्युपगम्येतेति चोदयति-नन्विति। सामानाधि- करण्यं तु 'व्रीहिभिर्यजेत' 'सोमेन यजेत' इत्यादाविवाकर्मनामत्वेऽपि सम्भवतीति न प्रमाण मितिभावः। पिकः कोकिल इत्यादौ प्रसिद्धार्थपदसामानाधिकरण्येना- प्रसिद्धार्थनिर्णयदर्शनाद् ब्रीह्यादिवच्च बलवद्वाधकविपरीतप्रत्ययाभावात् तृतीया- निर्देशोऽत्र कर्मनामत्वे प्रमाणमेवेति परिहरति-उच्यत इति। कथमुद्भित्ताति- पदिकस्य तृतीयान्तत्वमात्रेण कर्मनामत्वमिति चोदयति-कुत इति । उत्तरमाह- करणवाचिन इति । करणत्वं नाम क्रियोत्पादनसामर्थ्यम्, तदाश्रयोऽत्र लक्षणया करणमभिप्रेतम् । प्रातिपदिकस्य करणवाचित्वानभ्युपगमात्, ततः किमित्यत आह-करणं चेति । यागस्य हि भावार्थाधिकरणन्यायेनास्मिन् वाक्ये करणत्व मवगतम्, तत्र यद्युद्भित्पदमपि तृतीयान्तं यागवाचकं तदा सामानाधिकरण्ये नैकवाक्यतां यास्यति नेतरथेति, तस्यापि यागार्थत्वमनुमास्याम इत्यर्थः प्रत्यक्षबाधितत्वान्नेदमनुमानं युक्तमिति चोदयति-नेतद्युक्तमिति । तृतीया निर्देशेऽपि द्रव्यवाचित्वानुभवात् कर्मवाचित्वानुभवाच्चायुक्तं तृतीयया कर्मा भिधायित्ववचनमित्यर्थः, यागवा चित्वाभावे करणभूतयागपदैकवाक्यत्वविशिष्ट तृतीयान्तता नोपपद्यत इति चोदयति-अन्यथेति । अन्यथानुपपत्तिमात्रेणा- नवगम्यमानं यागवचनत्वं न शक्यं कल्पयितुमिति परिहरति-काममिति।

- - २] प्रथमाध्याय चतुर्थपादः ૨૨ उपपत्तिश्च सोमेनेत्यादाविव कल्पनीयेति भावः, यागवचनत्वाभावफलमाह तस्मादिति। गुणविधित्वेऽपि मत्वर्थलक्षणादोषोऽस्त्येवेति सिद्धान्त्याह- लक्षणेति चेदिति । पूर्वपक्षी दूषयति-वरमिति । कथं लक्षणाया एव वरत्वं नाभिधानकल्पनायास्तत्राह-लौकिकी हीति । लोकप्रसिद्धेति यावत् । हठः- स्वच्छन्दव्यवहारः। स्वबुद्धिमात्रप्रभवाभिधानकल्पनेति यावत् । ननूद्भिच्छब्दस्य यागनामत्वं लोकाप्रसिद्धमप्यनेनैव विधीयतामत आह- अपि चेति याग न इति । विधीयतेत्यनुषङ्गः, अतश्च नामिनोऽप्रसिद्धत्वान्नाम- धेयत्वविधानासम्भव इति भावः । यागेन पशून् भावयेत् तस्य च यागस्य चोद्भिदिति संज्ञेत्यु भय विधानेऽर्थभेदाद्वाक्यभेदः स्यादित्याह-उभयविधान इति। अत्र नैतद्युक्तमित्यादिनाऽप्रसिद्धकल्पनेत्यन्तेन यत्प्रत्यक्षविरुद्धाप्रसिद्धार्थकल्पनं दूषणमुक्तम् तदविधायकत्वादिति सूत्रावयवं व्याकुर्वन् परिहरति-न नामधेय- मिति। नोद्भिच्छब्दस्याप्रसिद्धमेव 'यागनामत्वं करणभूतयागैकवाक्यत्वविशिष्ट- तृतीयान्तत्वेन ज्ञाप्यते, येन प्रत्यक्षविरोधः स्यादित्यर्थः । किं तहि क्रियत इत्यत आह-~-अनुवादा होति । अनूद्यन्त इत्यनुवादाः। अन्यतः प्राप्तुमुद्भिदा- दीनां कर्मनामत्वमनुवाद्यम्, अतस्त दनूद्य द्रव्यकर्मवाचित्वसन्देहनिरासमात्र सामानाधिकरण्येन क्रियत इत्यर्थः । ननूद्भिदादिशब्दस्य लोके कर्मण्यप्रयोगात् कुतः प्राप्तिरित्याह -कुत इति । समुदायप्रसिद्धयभावेऽपि अवयव प्रसिद्धिमुपपादयन् परिहरति-लत इति । चकारः क्विष्प्रत्ययसामर्थ्य समुच्चयार्थः । ननु यागक्रियायाः खनित्रादिवद्विदारणकर्तृत्वाभावात् कथमुद्भित्पदाभि- धेयत्वमत आह-उद्भेदनमिति । विदारणस्य क्वचिदवस्थितवस्तुप्रकाशनार्थत्व- दर्शनेनोपचारादुद्भिच्छब्दः पशुप्रकाशककर्मणि प्रयुक्त इत्यर्थः । न चैवं ज्योति- ष्टोमादीनामपि फलप्रकाशकत्वात् उभिच्छब्दता, यत्रायमुद्भिच्छब्दो वेदे प्रयुक्तस्तत्रैवास्य क्विप्प्रत्ययान्तस्य साधुत्वाभ्युपगमात् यथा डो प्रत्ययान्तस्य गमनकर्तृवाचिनो गोशब्दस्य सास्नादिमति प्रयुक्तस्य तत्रैव साधुत्वमितिभावः । अवशिष्टयोरप्यवयवप्रसिद्ध्या नामवप्राप्तिमाह-एवमिति । बलभिदादिष्वपि प्रसिद्धिप्रकारमतिदिति-एवं सर्वत्रेति । यस्मादवयवसिद्धिः कर्मण्यपि संभवति तस्मात्सामानाधिकरण्येन कर्मनामधेयत्वं निश्चीयत इति उपसंहरति- तस्मादिति । एवं तावदप्रसिद्धिकल्पना निराकृता । अथ यदुक्तोऽपि चेत्यादिनोभय- विधाने वाक्यं भिद्यतेत्यन्तेन तदुत्तरत्वेनापि न नामधेयमित्यादि भाष्यमावृत्या योजयितव्यम् । तत्र हि यदि यागेन पशून् भावयेत्, स च याग उद्भित्संज्ञक इति साध्यसाधनसंबन्धसंज्ञासंज्ञिसंबन्धरूपो द्वावौँ विधीयेयातां, ततो वाक्यभेदः - २४ [सू० T मीमांसादर्शनम् स्यात्, न त्वेतदस्तिसंज्ञासंज्ञिसंबन्धस्यान्यतः प्राप्तत्वेनानूद्यमानत्वादित्युक्त मुद्- भिदादय इत्यन्तेन । अनुवाद्यस्य सामानाधिकरण्यानुगृहीतावयवप्रसिद्ध्या प्राप्तिः कुतः इत्यादिना प्रतिपाद्यते। वाक्यभेदाभावफलं तस्मादित्यादिनेति विवेक्तव्यम् । एवं कर्मण्यप्रसिद्धिनिरासेन नामधेयत्वं व्युत्पाद्य, नामधेयत्वे परोक्तमप्रवृत्ति- विशेषकरत्वेनानर्थक्यमनुवदति-यत्त्विति । विधायकादिप्रवृत्तिविशेषकरत्वं दर्शयन् दूषयति-नामधेयमिति । 'समे दर्शपूर्णमासाभ्यां यजेते'ति गुणोपबन्धः, दर्शपूर्णमासाभ्यां स्वर्गकाम इति फलोपबन्धः। कर्मणि गुणफलोपबन्धविधानाय कर्मस्वरूपाभिधानार्थमर्थवदित्यर्थः । यद्यप्युद्भित्पदं न गुणफलोपबन्धविधानार्थम्, किन्तु प्रकृतज्योतिष्टोमादस्य यागान्तरत्वं तत्रैव फल विधिशङ्का निरासाय दर्शयितुं तथाप्येवमविहितमिति भाष्येणास्यार्थस्य दर्शितत्वात् नामधेयान्तर प्रयोजनमत्रोक्तमिति वेदितव्यम् । अधिकरणार्थमुपसंहरति-तस्मादिति । एवंजातीयकानि यौगिकत्वे सति धातुसामानाधिकरण्येन निर्दिष्टानीत्यर्थः ॥२॥ इत्युद्भिदधिकरणम् । - त० वाoयत् उत्पत्ती-प्रथमज्ञानेऽर्थान्तरपूर्वकत्वेनैकान्ततो न प्रसिद्धमुद्भिः दादि तत् वैदिकव्यवहारे प्रथमोपनिपातासामानाधिकरण्येन नामधेयं स्यात् । अथवैवमपूर्व कर्म विदधदर्थवद्भविष्यति । अथ वा कस्य नामधेयमिति सन्देहे अभिधीयते । यस्योत्पत्तावपूर्व निष्पद्यते। यागस्येत्यर्थः। कि कारणम- गुणो विधीयमानो हि फले कर्मणि वा भवेत् । विशिष्टविधिबुद्धया वा सर्वथा च न युज्यते ।। फलं प्रति तावद्विधीयमाने परपदसम्बन्धविधानम्, व्यवहितकल्पना, धातो: पारार्थ्यम्, औत्पत्तिकसोमबाधः, अनदनीयेन खनित्रादिनाऽत्यन्ताप्रसिद्धन याग इति दोषः। तथा यागं प्रति गुणविधौ फलपदानर्थक्यम्, सार्वकाम्यप्राप्तज्योतिष्टोम. विशेषणत्वे वाक्यभेदः, प्रत्ययव्यापारविप्रकृष्टता, धातुपारार्थ्यानदनीययाग- सोमबाध-विकल्पाश्चात्यन्तायुक्ताः। तथा विशिष्टविधौ सर्वणारार्थ्यम्, अनेकविधिशक्तिकल्पना, मत्वर्थलक्षणा, गम्यमानसामानाधिकरण्यत्यागः, अनदनीययागश्चेति दोषाः। तस्मान्न गुण- विधिः। तद्दर्शयति-इतरथा श्रुतिरुद्भिवादीन् वक्ष्यति, तद्वतो लक्षयेत् ।

२५ २ 1 प्रथमाध्याये चतुर्थंपादः वक्ष्यन्तो लक्षयेत् इति वा ग्रन्थः। प्रातिपदिकसामर्थ्यमुक्त्वा विभक्तिसम्बन्धा- दप्येतदेवावगम्यत इति दर्शयति-यागेन कुर्याद इत्यादिना । कि च- विधाने चानुवादे च यागः करणमिष्यते । तत्समीपे तृतीयान्तस्तद्वाचित्वं न मुञ्चति ।। यत्करणाभिधायिन्या तृतीयया इत्येवमादिषु कारकाणां विभक्त्यर्थत्वाभ्युप- गमात्कथं करणवाचिनो हि प्रातिपदिकादित्युच्यते। नैष दोषः। करणाश्रय- वाचिनो हीत्यभिप्रायः। अथ वा करण शब्दो यादृशमर्थं ब्रवीति, तादृशस्य प्रातिपदिकं वाचकमेव । कृदन्तेन हि कारकविशिष्टं द्रव्यमेवोच्यते, न विभक्तिवन्निष्कृष्टा शक्तिः । तथा च कारकं करणेन करणायेति च कारकान्तरयोगो दृश्यते। अन्यथा हि विभक्त्यभिहितेनैवैकेन कारकेन वशीकारान्न द्रव्यं कारकान्तरयोगं प्रतिपद्येत । शक्तेस्तु शक्त्यन्तरं नास्त्येव । तस्माच्छक्त्युपसर्जनद्रव्यवचनत्वात्कृदन्तानामुपपन्नं करणशब्दार्थवाचित्वं प्रातिपदिकस्य । तेनैतदुक्तं भवति । यदस्मिन् वाक्ये करणम्; तद्वाचिनः प्रातिपदिकात्तृतीययोत्पत्तव्यम्, यागश्चात्र फलभावनायाः करणम्, द्रव्यमिति वक्ष्यति । ततश्च यद्युद्भित्पदं यागवंचनमेवं तृतीयान्तं सदेकवाक्यतां यास्यति, अर्थान्तरवचनत्वे' त्वसम्बद्धं स्यात् । - - ननु च- प्रत्यक्षं द्रव्यवाचित्वमुपन्यस्तं कथं पुनः। करणत्वानुमानेन बाध्यते व्रीहिसोमवत् ।। यथैव 'द्रोहिभिर्यजेत, सोमेन यजेत' इत्यादीनां करणभूतयागैकवाक्यत्वे सति तृतीयान्तत्वं वैयधिकरण्येऽप्य विरुद्धमेवमिहापीति । हठ इति । चिरन्तन- तडागोदकाच्छादितहारितद्रव्यमुच्यते । यथा तदुत्सार्यमाणमपि स्वच्छन्दतः पुनः- पुनरुदकं छादयति, एवं योऽन्योऽपि स्वच्छन्दव्यवहारः स हठ इति प्रसिद्धः । दृष्टान्त- दान्तिकयोर्वेषम्यमुखेनोभिच्छब्दस्य नामत्वम् तदुच्यते- पदमज्ञातसंदिग्ध प्रसिद्धैरपृथक्श्रुति । निर्णीयते निरूढं तु न स्वार्थादपनीयते ।। ब्रीह्यादयो झत्यन्तरूढा ते स्वार्थमपरित्यजन्तः सामानधिकरण्यमप्रतिपद्य- माना गत्यन्तराभावद् गुणविधयो विज्ञायन्ते। ये पुनरुद्भिदादयो यौगिकाः तेषां १ क. (टिप्पण्यां) विषयत्वे । २ क. संबम्धं । - २६ मीमांसादर्शनम् [ सू० येनैव प्रकारेण यत्नेन द्रव्यवचनत्वम्, तेनैव कर्मवचनत्वमप्युपपद्यत इति प्रत्यक्षप्र- सिद्धावनुदासीनायामनुमानेनाप्यज्ञानसंशयव्युदासकरणं न दुष्यति। सर्वशब्दार्था- वधारणे ह्ययमभ्युपायो-यत्प्रसिद्धपदसामानाधिकरण्यं नाम । प्रधानं च करणत्वं यागे लब्धात्मकं शक्नोति प्रातिपदिकमात्मविषयमापादयितुम् । किच- विक्त्यर्थानुवादाच्च विधेः स्यान्नाम्नि लाघवम् । गुणपक्षे विधेयत्वं संख्याकारकयोरपि ॥ गुणविधौ गौरवं, लाघवं नामत्वे इति कथनम् त्वत्पक्षे झवश्यं काचिद्विभक्त्यर्थेऽपि प्रत्ययस्य विधिशक्तिः कल्प्या स्यात् । तस्मादवयवद्वारे ऽस्ति कर्मण्यपि प्रसिद्धिः ज्योतिष्टोमादेरपि स्वफलोद्भेदन- कारित्वादेतन्नामप्रसङ्ग इति चेत् ? न । सामानाधिकरण्यावधारितविषयविशेष- स्यावयवान्वाख्यानात् । न चास्य ज्योतिष्टोमादिभिः समभिव्याहारोऽस्ति । अथवाऽर्थापत्तिवशेनैतद्विशेषविषयमेवोद्भेदनं निमित्तम् । न चान्यत्र तदस्तीति व्यवस्था । यथा सास्नादिमद्गतगमनविशेषनिमित्तत्वं' गोशब्दस्य । अविधायक- त्वादित्यस्य व्याख्या न नामधेयं विधायिष्यत इति संज्ञासंज्ञिसंबन्धरूपेण 'वृद्धिरादेच्' (पा० सू० १।१।१) इत्यादिवदविधानम्, सामानाधिकरण्यावयव- प्रसिद्धिभ्यां तत्सिद्धेः । न तु नामधेयार्थो न विधीयते, तदधीनत्वाद्यागविशेषसिद्धः । इह हि यद्यपि संज्ञासंज्ञिसामानाधिकरण्यं नास्ति, तथाऽप्यात्मरूपव्यवच्छिन्न- मेवाथं गमयतीति विशेषणविशेष्यभावान्न भिद्यते । नन्वेवं शब्दस्वरूपाभिधानं प्रसज्येत । प्रत्यक्षावगतस्वरूपविशिष्टार्था- भिधानादप्रसङ्गः । सर्वत्र ह्यगृहीत विशेषणा विशिष्टबुद्धिर्न दृष्टा, न त्वनभिहित- विशेषणा । न चैतावता शब्दस्वरूपारोपप्रसङ्गः। तदनुरोधेन विद्यमानर्थांश- विशेषोद्धरणादित्युक्तं प्राक् । नाम्नैव चैवमादोनां प्रकृतितो भेदः अन्यथा हि तदनवच्छिन्नो यजिर्गुणफलाद्यर्थं पुनः श्रुतिः प्रकृतिगामित्वान्नैव कर्म भिन्द्यात् । अथ वा सर्वनामधेयेषु किचिदर्थगतमपि विशेषणमस्तीत्यरुणैकहायन्यादिव- देव विशेषणविशेष्यता । न च यज्युच्चारणमन्तेरेणाऽस्य यागविशेषनामत्वमिति, न सामान्यस्यानर्थकत्वम् । परस्परसंनिधानेन हि नामापि यागविषयम्, यागोऽप्ये- तदवच्छिन्नः, न सामान्यमानं प्रकृतो वेति लभ्यते । तस्मादुभयोरर्थवत्ता, विशिष्टभावनाविधानाच्चोभयोरपि विधानमिति, नानुवादत्वम् । . १. निमित्तत्वात् । २ क. विधिना (टिप्पण्यां)। ३. क. (टिप्पण्यां) विशिष्टविधिना चोभयो ।

४४४ मीमांसादर्शनम् | सू० व्याकरणशास्त्रेऽपि द्विदेवत्यत्वव्यवहारोऽस्तीत्याह-तथेति । देवता चेत्(६-२-१४१)अधिकृत्येदग्नेः सोमवरुणयोरि(६-३-२७)ति सोमशब्दे वरुणशब्दे च परभूतेऽग्निशब्दस्य देवताद्वन्द्वनिमित्तमीत्वं स्मृतम् । मूर्द्धन्याधिकारे चाग्नेः स्तुत्स्तोम- सोमा(८-३-८३) इत्यत्राग्निशब्दात्परस्थ सोमशब्दस्य भूद्धंन्यादेशेन पत्वस्मृतेः । सोमशब्दस्याग्निशब्दाभेदावगमादर्थाद्देवताद्वन्द्वावगतिः, आदिगब्दात् पूर्वपदप्रकृति- स्वराधिकारे उभे वनस्पत्यादिषु युगपदित्यनुवर्तमाने देवता द्वन्द्वे चैत्यनेनेन्द्रासोमा- विन्द्रावरूणावित्यादिषुभयपदप्रकृतिस्वरत्वं वृद्धयधिकारे च हद्गसिन्ध्यन्ते पूर्वपदस्य चेत्यनुवर्तमाने देवता द्वन्द्वे चेत्याग्नावैष्ण्वादिशब्दे उभयपदवृद्धिः आनऋतो द्वन्द्व इति वानुवर्तमाने देवताद्वन्द्वे चेत्यानकादेश : । ननु व्याकरणस्यार्थे तात्पर्याभावान्न ततो द्विदेवत्यत्वावधारणं भवतीत्याशङ्कयाह-यदि चेति । तद्धितीच्चारणे देवतावप्रतीतेस्त- दभ्युपगमे द्वित्वमपि प्रतीत्यविशेषादभ्युपगन्तव्यमित्याह----अथेति । ननु वाक्य भेदादिदोषापत्तेः समासस्यार्थरहितस्यान्वान्यानान्समासकार्यस्वरलक्षण- शब्दसंस्कारमात्रसिद्धयर्थं तद्धितान्तेषु शब्देषु द्वन्द्वस्मृतेः प्रामाण्य कल्यते । न द्विदेवत्य- वसिद्धयर्थमित्याशङ्कयाह-एतेनेति । एतेन-~-अर्थव गावगमेन हेतुना स्वर संस्कारमात्र- सद्धथर्थत्वकल्पना न युक्तेत्यर्थः । अश्वकर्णादिवैषम्य मुपपादयति-तपा होति। नवि- देऽपि महत्वगुणगोगस्य प्रमाणान्तरेणासंवादान्महेन्द्रशदऽपि समासान्वाख्यानं स्वर- संस्कारमात्राथ" स्यादित्याशङ्कचाह- महदिति । महावाह्मण इत्यादी मह मन्दस्य पूज्यत्वाख्यगुणवाचित्वावगमादिन्द्रशब्दस्य च स्तवनीयमूनादिना देवताविशे याचित्वाव- गमादवयवयोरर्थवत्वं विशेषणविशेष्यरूपार्थवाचिन्वं च तावन्मिाद मेवेत्यर्थः । नन्वेवमपीन्द्रे महत्वगुणगोंगे प्रमाणाभावादिमिष्टवाचिता महेन्द्र शब्दस्य न युक्त- त्याशङ्कयाह-तत्रेति । निर्दोषवानृप्तावयवार्थशब्दप्रयोगान्यथानुगपत्ति रेवेन्द्र महत्वगुणयांगे प्रमाणमित्याशयः । न चाश्वकर्णादिवद्योग्यानुपलब्धिविशिष्टार्थबुदेर्वाधिकानास्तीत्याह न चेति । ननु समुदायप्रसिद्धिरेवावयवप्रसिद्ध बांधिका भविगती यायचा.----न चेति । समुदायशक्तिकल्पनाहेतोरवयवार्थाभावस्यानिश्चयात्समुदायप्रसिद्धेगमलाभानुपपत्ते पधि कत्वं न सम्भवतीत्यर्थः । नन्ववयवार्थाभावानिश्चय:गि सद्रावस्याप्यनिश्चयात् समुदाय- प्रसिद्धयात्मलाभो भविष्यतीत्याशङ्कयाहन चेति । अन्यथानुपपनिकायबाच्छन्व- यवार्थाभावानिश्चयेऽन्यथानुपपत्ते रनिश्चयान्न शक्तिकल्पना शक्ये याशयः । अतिक्लेशापत्तेरपि शक्त्यन्तरकल्पना न युक्तस्याह----कि चेति । श्लोक व्या षष्टे----- प्रत्यक्षेपोति । परव्याख्यादूषणमुपसंहरति----तस्मादिति । ननु क्रमेण युगपद्वा वृत्तिद्वययोगादवयवव्युत्पत्तिर्न सम्भवतीत्युक्तमत आह- न चेति । क्रमवृत्तावसामर्थ्य परेणानुक्तमपि तद्धितपूर्वत्वे वस्तुतोऽसामरिसमासपूर्वत्वे- प्यसामर्थ्यशङ्कापत्तेः, तन्निरासाथ निरस्तं समासवेलायामिन्द्रशब्दस्य तद्धितापेक्षत्वेऽपि Miratiane

Mimasadarshanam Of Maharsi Jaimini Part Ii

Author
Dr. Mahaprabhulala Gosvami
Title
Mimasadarshanam Of Maharsi Jaimini Part Ii
File name
Mimasadarshanam Of Maharsi Jaimini Part Ii
Text
OCR done
Citation
1984
Published
2004/10/20
Publisher
Tara Printing Works
Language
Sanskrit
Pages
93
Library
Sri Sringeri Sharada Peetham
Classification
Religion. Theology
Keywords
Somesvara Bhatta, Bhasyavivarana of Govindamrtamuni and Bhavaprakasika by Dr Mahaprabhulala Gosvami
DLI number
383658
Barcode
1990030051922.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Available
VMLT id
GQtoJPOwF2c
Download PDF

Mimasadarshanam Of Maharsi Jaimini Part Ii