Asr,melkote
Tattva Bindu
Front matter
No text on this page.
No text on this page.
No text on this page.
श्रीः तत्त्वबिन्दुः सर्वतन्त्रस्वतन्त्रश्रीवाचस्पतिमिनकृतः शाब्दबोधकारणावधारणपरः काशिकराजकीयसंस्कृतप्रधानपाठशालायाम् साहित्यशास्त्राध्यापकेन महामहोपाध्याय- श्रीगङ्गाधरशास्त्रिणा विषमस्थलटिप्पणीनिवेशनपुरःसरं संशोधितः काभ्याम् ई० जे० लाजरसकंपन्याख्येन मेडिकलहालनाधि मुद्रालये मुद्रयित्वा प्रकाशितः । सं. १६४६ वै.व. ७ भौमे புரா ॥ श्रोः॥ तत्त्वबिन्दोभूमिका। अथेष प्रकाश्यते तत्त्वबिन्दु म प्रबन्धः शास्वरसिकानां प्रमोदमाधातुम् । अस्य निर्माता किल सर्वतन्त्रस्वतन्त्रप्रतिभः श्रीवाचस्पतिमिनो यः प्राग्भवे शाङ्करब्रह्मसूचव्याख्यानप्रवृत्तोऽन्तरा- यतिरस्कृते तच महत्यनितरसंपादनीये निजावतारकार्य भगवता श्रीशङ्कराचार्यपूज्यपादेन वाचस्पतिनाम्ना ऽवतीर्य संपादयितास्य- भीप्सितमाकल्पं च सा टीका भुवमलकुर्यादिति वरेणान्वगृह्यतेति वर्णयन्ति स्म शङ्करदिग्विजये माधवाचार्याः । अविसंवादितया नु भगवदादेशस्थ षट्त्रिंशदुत्तरकोनविंश- तिशततमे १६३६ वैक्रमाब्दे काशिकराजकीयसंस्कृतपाठशालामलंकरि- ष्णुभिर्निखिलदर्शननदीष्णर्मदीयगुरुवरश्नीचबालशास्त्रिचरणेर्मुद्रयित्वा प्रचारिता भामतीनाम्नी शाङ्करब्रह्मसूत्रभाष्यटीका । अस्यामेव शेषे यन्यायकणिकातत्त्वसमीक्षातत्त्वबिन्दुभिरिति पद्यं ग्रथितवता ऽन्तरा च तवावधारितेषु सिद्धान्तेषु विस्तरेण व्यवस्थापनमते- ष्वेव निबन्धेषु प्रतिज्ञातवता ग्रन्यकारेण चिरादेतदालोचनात्कलि- काऽऽकुला प्रभाविषत परीक्षणविचक्षणाः । तेष्वयमेकस्यैव विषयस्य व्यवस्थापको निबन्धः । स्फोटे ऽथ वाक्यचरमाक्षरसर्ववर्णा- वल्याः पदेषु च निरस्य पथा नवेन । संस्मारितेष्विह हि वस्तुषु सुपनिडन्तः शाब्दप्रमाजनकता निरधारि मिः ॥ एतत्सिद्धान्तव्यवस्थापनं च मन्ये निगूढाभिसंधिना तट- स्थेनेव वस्तुस्वभावप्रतिपादनमुखेन वेदान्तपरमसिद्धान्तमुपपन्नं तत्त्वबिन्दामिका। कर्तुकामेन ग्रन्थका कृतम् । तथा हि । तत्त्वमसि अहं ब्रह्मा- स्मीति महावाक्यार्थधियोर्गुरूपदेशशिष्यानुभवरूपयोश्चिरमुपदिष्टप्र- कारणावर्त्यमानयोरविद्यावरणनिरसनद्वारेण साक्षात्कारहेतुत्वमिति ह्यद्वैतवादिनां मुख्यतमः सिद्धान्तः । तस्य च चरमज्ञानस्य प्रत्य- तत्वं शाब्दत्वं च दशमस्त्वमसीत्यादाविवेति न तिरोहितं चय्यन्त- चिन्तकानाम् । अत एव यत्साक्षादपरोक्षाद् ब्रह्म तं त्वोपनिषदं पुरुष पृच्छामीति श्रुतिभ्यां ब्रह्मणः साक्षात्काररूपत्वमुपनिषन्माचगम्यत्वं च निरणायि । वस्तुतन्त्रत्वे एव च ज्ञानस्य प्रमात्वमिति समन्व- यसूचे भाष्यकारः । योषा वाव गौतमाग्निः सिंहो माणवक इत्या. दिवैदिकलौकिकवाक्यः समानविभक्तिकपदद्वयसमभिव्याहारबलेन जायमाना ऽपि तदर्थयारभेदान्वयधीः कर्तुमकर्तुमन्यथा वा कतुं शत्यत्वेन वस्तुतो ऽभेदाभावेन पुरुषतन्त्रतया क्रियारूपैव न तु ज्ञानम् । शुक्ल पटे तदभेदधीस्तु वस्तुमात्रनिबन्धना न व्यत्यासं सहत इति क्रियालक्षणविरहाज ज्ञानम् । तथैव प्रकृते वस्तुमात्र- प्रभवत्वे सत्येव जीवब्रह्माभेदधियो ज्ञानत्वमारोपात्मकत्वे तु क्रियेव सेत । तथा च साक्षात्कारत्वेनेष्ठायाश्चरमवृत्तेर्वस्तुनिबन्धनत्वम- वश्यमाश्रयणीयम् । अङ्गीकृतं च परैरपि प्रत्यक्ष प्रति विषयस्य कार- णत्वम् । तेन प्रमामाचं प्रति विषयस्य कया चिदपि प्रणाड्योपस्थि- तस्य कारणत्वस्वीकारे बाधकाभावः न चैवमतीतानागतयोः प्रमाऽव्यवहितप्राककालिकस्थितिविधुरतया तद्विषयकानुमितिशाब्द- धियारप्रप्रात्वमापादनीयम् । प्रमा प्रति बौद्धपदार्थानामेव कारणत्वा- ङ्गीकारेण सत्कार्यवादाङ्गीकारेण वा वस्तुनः प्रमाप्राक्कालिकतायाः सूपपादत्वात् । प्रकृतसाक्षात्कारशाब्दकारणताया अपि बुद्धिपरिक- ल्पिते सविशेषण्वाभ्युपगमेन तस्यालीकत्वासक्तरिष्ठापत्तिग्रस्तत्वात् । अत एव निर्विशेषमुपक्रम्य श्रुतिः । न तस्य कार्य करणं च विद्यते इति । लौकिकामात्वं तु व्यवहारदशायामबाध्यविषयत्वरूपमुभयचा- -- ३ तत्त्वबिन्दाभूमिका ! पि तुल्यमित्यलमप्रस्तुतविचारप्रयासेन । एवं स्थिते उपनिषदेकगम्य- त्वाद् निर्विशेषस्य प्रकृतमहावाक्यघटकपदवृत्त्योपस्थितिरावश्यकी सा च समभिव्याहृतपदान्तरार्थेन सहान्वयानुपपत्तिप्रतिसंधानसापे- क्षेति भवति जघन्यवृत्त्याश्रयणसाहाय्यसमर्पणमुखेन वाक्यस्य निर्वि- शेषप्रतिपादकत्वं चरमधियो विशेषपरित्यागेन प्रागनधिगतविषय- कतया प्रमात्वं चेति चतुरस्रम् । निर्विशेषत्वादेव च परमपुरुषार्थस्य पदार्थान्तरेणान्वयानवकाशः । तत्प्रतिपादकत्वं च श्रुतिशिरसां संस- गासङ्गिसम्यग्धीहेतुता या गिरामियम् । उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थतेत्यभिदधत्याचार्या: । सम्यक्त्वं चाचारदिशा प्रागनधिगतनिर्विशेषप्रमात्वरूपम् । यदि पुनरन्वितएव पदानां शक्तिः स्यान्न स्यात्तदा प्रकृते कयापि विधया वेदान्तानां निर्विशे- षावगमसाधनत्वं प्रमाणान्तरगम्यत्वं तु निर्विशेषस्य सुदूरपराहत- मिति महदनिष्टमापद्येत । अतः प्राधान्येनात्र वृत्तिकारमतानुयायी प्रतिपक्ष एव शिक्षणीयो यः क्रियाशेषत्वं ब्रह्मणो विब्रुवन्नाकुलीकरोति चेतांसि ब्रह्मनिष्ठानाम् । जेमिनिसचे भाष्यकारो वार्तिककारश्च नाच प्रतिकूल इति तयोरेवाच प्रबन्धे प्राधान्येन प्रमाणभावावल- म्बनम् । अत एवोत्पत्तिकसूचे जे. सू. अ १ पा. १. सू. ५ भाष्य- कारो वेदान्तवाक्यानि आत्मज्योतिः सम्राडिति होवाच स एष नेति नेत्यात्मेति होवाचेति निर्विशेषप्रतिपादकान्येवात्मस्वरूपनिरूपणा- वसर उदाजहार । वार्तिककारश्च इत्याह नास्तिश्यनिराकरिष्णुरा. त्मास्तितां भाष्यकृदन युक्त्या । दृढत्त्वमेतद्विषयश्च बोधः प्रयाति वेदान्तनिषेवणेनेत्युपसंजहार । स्फोटवादिनश्चरमवणे वाक्यघटक- सकलवर्णसमुदाये च शाब्दधीहेतुत्ववादिनश्च निराकरणं तु ब्रह्म सूचे अ. १ पा. ३ सू. २८ देवादीनां शब्दप्रभवत्वप्रतिपादनावसरे पूर्वपक्ष स्फोटं निवेशितवता वा एव तु पदमिति भगवानुपवर्ष इति वर्णानां शाब्दहेतुत्वमन्यमतत्वेन वदता ऽथापि नाम प्रत्यु- ॥
तत्त्वबिन्दोभूमिका। च्चारणमन्येऽन्ये च वर्णाः स्युस्तथापि या वर्णेष्वर्थप्रतिपादनप्रक्रिया सा सामान्येषु संचारयितव्येत्यनास्थामाविष्कुर्वता भाष्यकारेण सूचि- तामरुचिं व्युत्पादयितुमिति तचैव भामत्यां दिङ्मारमिह दर्शितं विस्तरस्तु तत्त्वबिन्दाववगन्तव्य इत्यभिधानेदंपर्यपालोचनया पर्य- वस्यतीति विचारकुशला विदांकुर्वन्तु । तदेवमतिनिगूढाशयस्य प्राढेः परां काष्ठामारूढस्यास्य प्रबन्ध- रत्नस्य मुद्रणे काशीराजकीयसंस्कृतपाठशालाप्रधानाध्यक्षनानाविधद- निनिष्णातधिषणैः श्रीमदार्थरवेनिससाहिबमहादयेरादिष्टो ऽहं पाठ- शालापुस्तकालयस्थं देवाक्षरलिखितं पुस्तकद्वयं वङ्गाक्षरलिखितं च शुद्धतममेकं पुस्तकमिति चीणि पुस्तकानि समालम्ब्य प्रवृत्तः पर्या- लोच्य बहुच क्रिष्टतां विषमस्थलानि संक्षिप्रया टिप्पण्या विशदयन् निवेशयश्चाधः पाठभेदान् समापयं प्रस्तुतं कार्यम् । भृशमन्वगृह्ये च निखिलं सटिप्पणीकममुं मुद्रिताद्यपचं निाय महान्तं श्रममङ्गी- कृतवद्भिः पाठशालायां प्रधानपण्डितेः श्रीकैलासचन्द्रशिरोमणिभ- ट्टाचार्यमहाशयः । अथापीदृशे दुर्घटे कार्ये मादृशाल्पज्ञजनसुलभेन मतिदोषेण जनितानि स्खलितानि सुविमृश्य प्रबोधयन्तु विचक्षणवरा येन कृतज्ञताप्रकाशनपुरःसरं यतेय द्वितीयसंस्करणे निर्दोषतासंपा- दनाय । क्षन्तारश्च गुणेकपक्षपातिनो दूषणवाचंयमाः सुधियः सी- सकाक्षरयोजकदोषेण मदीयदृष्टिदोषण चोपनता अशुद्धीरिति निश्चि- न्वन् विरमामि निरर्थकाद्विस्तरादिति । शुभम् । फा. वं. २ रवा महामहोपाध्यायो मानवलल्युपाख्यो सं. १६४८ गङ्गाधरशास्त्री। १४।२।१२ तत्त्वबिन्दुः । अहये बुधन्याय नमो ब्रधनाय नमो नमो ऽस्तु गणपतये । आयर्यायै भारत्यै नमो नमश्चास्तु विष्टरश्रवसे * ॥ १ ॥ इह खलु पदकदम्बश्रवणसमनन्तरमविवादं विदितपदतदर्थसङ्ग- तीनामधिगतार्थगोदरा धीरुदयमासादर्यात पुंसाम् । तस्या निमित्त प्रति विवदन्ते वादिनः । के चिदाहुरनवयवमेव वाक्यमनायवियोपदर्शितालीकवर्णपद. विभागमस्या निमित्तमिति । पारमार्थिकपर्वपूर्ववर्णपदपदार्थानुभवनितसंस्कारसहितान्त्यवर्ण- विज्ञानमित्येके । * अहये बुध्न्याय शिवाय । अष्टमूर्तिरहिर्बुध्न्य इति कोशः । नामान्तराण्यनु. पादायैतस्यैवोपादानं तु अहे बुधिय मन्त्रं मे गोपाय । यमयस्त्रयोविदा विदुः । ऋचः सामानि यषि । साहि श्रीरमता सताम् । तैत्तिरीयब्राह्मणे अ. १ प्र. २ ख २६ मन्त्र र इति मन्त्रानुसंधापनेन शिवस्य वेदत्रयगोप्तृत्वोतनायास्य मन्त्रस्य शाबरभाष्ये अ.२ पा. १सू. ३५ उदाहृतत्वेन ऋक्त्वादिज्ञानोपयुक्तक वाक्यत्वलक्षणे मू. ४६ बहुत्वात्पदा- थानामिति शाबरभाष्योक्तरन्विते पदानां न शक्तिरिति व्यवस्थापयिष्यमासिद्धान्तस्य भाष्यकाराभिमतत्वस्फोरणाय चेति बोध्यम् । तथैवोपसंहरिष्यति । बधः सूर्यः भास्क- राहस्करबधेति कोशः । आर्यायै भारत्यै सरस्वत्यभिन्नायै गायें । ग्रन्यारम्भे सरस्वती- नमनस्याचित्यात्पञ्चायतने गौर्या एव शास्त्रेषूपदेशात्तथोक्तिः । सरस्वतीगार्योरभेदश्च देवीमाहात्म्योत्तमचरिते स्पष्टः। आर्या दाक्षायणी चैवेति कोशः। विष्टरश्रवसे वि. ष्णवे । वैकुण्ठो विष्टरश्रवा इति कोशः। अनेनादित्यमम्बिकां विष्णुं गणनाथं महे- श्वरमिति स्मार्तेरवश्योपास्यदेवतापञ्चकनमस्काररूपं मङ्गलमनुष्ठितं भवति । + वैयाकरणाः। तथा च वाक्यपदीये कागडे १श्लो. ७३ पदेन वर्णा विटान्तेवणे- ध्ववयवा न च । वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चनेति । कागडे २ श्लो. २३४ शास्त्रेषु प्रक्रियाभेदैरविढीवोपवर्यत इति । उपपादयिष्यते चेदमने । एवं मतान्तरा- - गयपि। + नैयायिकाः । वात्स्यायनभाष्ये अ. ३ प्रा. २ सू• ६२ वाक्यस्थेषु खलु वर्ण- घूच्चरत्सु प्रतिवर्ण तावत् अवणं भवति श्रुतं वर्णमेकमनेकं वा पदभावेन म प्रतिसंधत्ते प्रतिसंधाय पदं व्यवस्यति पदव्यवसायेन स्मत्या पदार्थ प्रतिपट्यते पदसमूहप्रतिमं- तत्त्वबिन्दुः । प्रत्येकवर्णपदपदार्यानुभवभावितभावनानिचयजन्म* लब्धजन्मस्मृ- तदर्पणारूढा वर्णमालेत्यन्ये ।। पदान्येवाकाहितयोग्यसनिहितार्थान्तरान्वितस्वार्थाभिधायीनी- त्यपरे। पदैरेव समभिव्याहारविरभिहिताः स्वार्थी आकाढायोग्यतास- विधिप्तधीधीना वाक्यार्थधीहेतव इत्याचाः । । तज । मीयमानपरित्यागो बाधके नाति स्फुटे । दृष्टात्कार्यापपत्तौ च नादृष्टपरिकल्पना ॥ स खल्वयमेको वाक्यात्मा वाक्यार्थधीहेतुरनुभवाद्वा व्यवस्था- प्यते अर्थधीभेदादा ऽन्यथा ऽनुपपदामानात् । अनुभवो ऽपि च वाक्यात्मानमेकमवविनमनेकपदवर्णव्यासङ्गि- वमङ्गप्रत्यङ्गवर्तिनमिव देवदत्तमनुभक्त प्रत्यस्तमितवर्णपदधिभामं वा । वर्णाः पदानि चास्यावयवाः सत्तामात्रेणानुभयमानतया वा भवेयुः। न तावत्पूर्वकल्पः । अवविन्यनपरिमाणत्वादवयवानां परमम- हतां च वर्णानां तदनुपपत्तेः । गगनगुणत्वे वा द्रव्यतया समवाय- कारणत्वाभावेनावयवभावानवकल्पनात् । वायवीयावयवारब्धवर्णवादिनामप्याशुतरविनाशशीलतया वर्णा- धानाच्च वाक्यं व्यवस्यति संबद्धांश्च पदार्थान् गृहीत्वा वाक्यार्थ प्रतिपटात इति । सिद्धान्तमुक्तावल्यां शब्दखण्डे च प्रत्येकपदानुभवजन्यसंस्कारैश्चरमतावद्विषयकस्मर- णस्याव्यवधानेनात्यत्ते:-तावत्यदसंस्कारसहितचरमवर्णज्ञानस्वादोधकत्वात् इति । एवं पदवाक्यरत्नाकरादिष्वपि । • जन्मेति पदधिकमपि पुस्तकत्रये सत्त्वात्स्थापितम् । + उपवर्षप्रमतयो मीमांसकाः । ब्रह्मसूत्रशाङ्करभाष्ये अ. १ पासू२८ वर्णा एव तु शब्द इति भगवानुयवर्षः इति । शाबरभाष्यपि अ.पा. १ स. ५ अथ गारि- त्यत्र कः शब्दः गकारकारविसर्जनीया इति भगवानुपवर्ष इति । योगभाष्ये व्यासदे. वोपि पा. सू. १७ गकारीकारविसर्जनीयाः सानादिमन्तमर्थ द्योतयन्तीति । + अन्विताभिधानवादिनः प्राभाकराः । $ भावाः शबरस्वामिप्रमतयश्च । तन्ववार्तिके अ. २ पा. १ सू. ४६ पदार्थः पदविज्ञातवाक्यार्थः प्रतिपाटाते इति । शाबरभाष्ये अ. १ पा. १ सू. २५ पदार्था अवगताः सन्तो वाक्यार्थ गमयन्तीति । || वाक्यपढीये काण्डे १ लो. १०६ लब्धक्रियः प्रयत्नेन वक्तुरिच्छानुवर्तिना।
तत्त्वबिन्दुः। नां परस्परमसहभुवामसंबद्धानामवयव्यारम्भासम्भवात् । नो खल्वेते क्रम- भाविनो ऽवर्यावनं वा तदसमवायिकारणं वा व्यतिषडं * बिति । अबिभ्राणाश्च कथमवयवा व्यतिषता वा । एकद्रव्यस्य च कार्यद्रव्यस्या- नुपपत्तेविनाशकारणद्वयाभावेन तनित्यत्वप्रसङ्गात। । असहभा- वित्वादेवानुभूयमानतया ऽप्यवयवभावः परास्तो वेदितव्यः । आशुतर- विनाशित्वेनानुभवानां तत्कर्मत्या ऽपि तथात्वेन सहभावाभावात् । स्यादेतदनवयवमेव वाक्यं वाक्यार्थस्य च वाचक्रम् । न च वर्षा एवानभूयन्ते न तु ततिरिच्यमानशरीरमपि वस्त्विति वाच्यम् । पद. मिति वायमिति चानुसंहारबुद्दा वभित्रस्य वस्तुन उपारोहात् । नः खल्वियं बुद्धिरभित्रवस्तुनिभर्भासा परस्परतिरिच्यमानात्मनो वानेव गोचरयितुमर्हति । एकत्वनानात्वयोरेकत्रासमवायात् । न च वात्मन- स्तत्समवायिनो वाक्यस्य कुतस्तदुपरागवती प्रख्योत वाच्यम् । तदतिरि- च्यमानमूर्तीनां परमार्थप्ततां वर्णानामभावात् । तदेव || हि सर्वजनीन- मानसप्रत्यक्षप्रवेदनीयप्रयत्नभेदभिवनानानिप्रत्येकव्यञ्जनीयं तत्त्वं । ध्वनयस्तु तुल्यस्थानकरणलब्धजन्मतया परस्परविसदृशतत्तत्पदवाक्यव्य: स्थानेष्वभिहतो वायुः शब्दत्वं प्रतिपद्यते । तस्य कारणसामर्थ्याद्वेगप्रत्यर्मिणः । सैनिपाताद्विभज्यन्ते सारवत्योऽपि मूर्तय इति । व्यतिषङ्गो ऽसमवायिकारणीभूतः संयोगः । + अवयवल्यानारब्धस्य परमाणुगगनादे व्यस्य कार्यताया अनङ्गीकारात् । द्रव्य- नाशस्यासमवायिकारणनाशजन्यत्वनियमाद् द्रव्योत्पत्तावसमवायिकारणसंयोगस्यापेक्षि. तत्वेन चाटाहेतुना ऽलीकत्वरूपकतकत्वस्य द्वितीयहेतुना नित्यत्वस्य चेति विरुद्धयोई- योरायत्तेरित्यर्थः । + अनुभवकर्मत्वे ऽपि श्राशुतरविनाशित्वेनैककालिकत्वाभावोसमवायिकार- संयोगाश्रयत्वानुपपत्तेः। साहित्वावगाहिज्ञाने। || वाक्यमेव । वा मानसज्ञानविषयप्रयत्नभेदेन जनितर्भिन्नानानिभिः प्रत्येकमभिव्यङ्गय स्फोट- रूप परमार्थसदित्यर्थः। तथा च वाक्यपदीये काण्डे १ श्लो• ७८ शब्दस्योर्ध्वमभिव्य. तर्व्यक्तिभेदे तु वैकताः । ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिटयते । श्लो. ८६ प्रत्येक व्यजका भिना वर्णा वाक्यपदेषु ये। तेषामत्यन्तभेदे ऽपि संकीर्णा इक शक्तयः - इति ।
तत्त्वबिन्दुः । ज्जकानेकविधध्वनिसादृश्येनान्योन्यविसदृशतत्तत्पदवाक्यसादृश्यापादय- न्तः * सादृश्योपधानभेदा। देकमप्यनवयवपि नानावात्मेव साव- यवमिव चाभासन्ति मुखमिव मणिकृपाणदर्पणादयो नियतस्थानवर्ण- परिमाणसंस्थानमनुपनवमेकमनेमिवानेकस्थानवर्णपरिमाणसंस्थानभेदो- पप्लव मिवादर्शयन्ति । न च प्रत्येकमभिव्यजकत्वे ध्वनीनां प्रथमादेव ध्वनेर्वक्यस्य प्रतीतरुत्पत्तस्तन्मांत्रनिबन्धनत्वाच्चार्थप्रत्ययोत्पादस्य द्वि- तीयादीनामानर्थक्यं ध्वनीनामिति युक्तम् । व्यज्जयन्तो ऽपि हि प्रत्ये- कमिमे ध्वनयो न द्रागित्येव स्फुटतरं स्फोटात्मानमवभायितुमीशते ऽपि त्वारूपमवभासयन्ति पर्वपूर्वाभिव्यक्तिजनितसंस्कारसचिवोत्तरा- भिव्यक्तिक्रमेण त्वन्त्यो ध्वनिः स्फुटतरविनिविष्टस्फोटविम्बज्ञानमाधत्ते इति न वैययं द्वितीयादिध्वनीनाम् । नापि पूर्वषां तदभावे तदभि- व्यक्तिर्जानतसंस्काराभावेनान्त्यस्य ध्वनरसहायतया व्यक्तावभासवाक्य- धीहेतुभावाभावात् । तदाथा रत्नपरीक्षिणः पुनः पुना रत्नस्वरूपं वीक्ष- माणस्य रत्नदर्शनानि प्रत्येकं रत्नस्वरूपमवगाहमानान्यपि न सहसैव समानासमानजातीयव्यावृत्तं रवतत्त्वमवभासयन्ति किं तु पञ्चषदर्श- * परस्परं विसदृशानामपि तेषां तेषां पदानां वाक्यानां वा व्यञ्जका ये ऽने- कविधा ध्वनयस्तेषां तुल्यस्थानकरणजत्वेन सादृश्यात्तदभिव्यञ्जनीयपदवाक्ययोरभेदेन भिन्नयोरपि सादृश्यप्रयोजका इत्यर्थः । अर्थभेदाच्छब्दभेदस्य नित्यस्फोटवादिनः शब्दा. र्थतादात्म्यवादिनश्चेष्टतया हर्यादिपदेषु श्वेतो धावतीत्यादिकेषु च द्वार्थकेषु पदेषु वाक्येषु चाभिव्यञ्जकध्वनिसादृश्यमूल एव तथा व्यवहार इति भावः । + हकारात्यभिव्ययत्वेनैव सादृश्यस्य निरूपणीयतया हकारादिवैशिष्ट्य ज्ञाने नानाध्वनिविषयकतया तद्गतनानात्वस्यापि प्रतिभासात् स्फोटस्य नानात्वसावयव. त्वयोः प्रतिभास इति भावः । * अनेके स्थानं वर्णः परिमाणं संस्थानभेदः उपलवश्च यस्य तम् । मुख- स्यैकत्वेऽपि दर्पणाट्याधारभेदाद् यथा सामीप्यदूरस्थत्वादिस्थानस्य मालिन्यादेवर्णस्या- ल्पत्वमहत्त्वपरिमाणस्य वक्रत्ववर्तुलत्वादेः संस्थानभेदस्यावयवसंनिवेशविशेषरूपस्य दर्प- णादिनाशेन नाशस्य चारोपस्तथा स्फोटेपोति । ६ ईषद्पमस्फुटर्माित यावत् । तथा च शास्त्रदोपिकायाम् । न कश्चिदपि नादो ऽस्य स्फुटाभिव्यक्तिं करोति किं तु सर्वे ते प्रत्येकं व्यञ्जकाः स तु न द्रागेव स्फु- टमवभासते प्रथममस्फुटावभासितः सन् पुनः पुनः श्रूयमाणः स्फुटो भवतीति । अ. १ पा. १ सू. ५ प. ७१ ।
५ तत्वबिन्दुः। नजनितभावनासचिवचेतोलब्धजन्मनि चरमे चेतसि चकास्ति रवतत्त्वम् । न च वर्णावभासा मिथ्याप्रत्ययास्तत्संस्कारा वा कथं व्यक्ततया परि- च्छित्तिहेतव इति सांप्रतम् । आराद्वनस्पती हरितप्रवाहस्य * व्यक्ततरं वनस्पतितत्त्वप्रतीतिहेतुत्वदर्शनात् । वर्णाच्च समारोपितदीर्घत्वादिध- मंभाजः पारमार्थिकार्थधीभेदोपलम्भात । तथा हि लौकिका नग इति गिरिमपदिन्ति नाग इति हस्तिनम् । अजिनर्माित चर्म अजीनर्माित ज्यानिविहीनम् । शुन इति कर्मभूतानत्सारमेयान् शून इति तु वृद्धि- मापत्रम् । न चैते भ्रान्तयः व्यवहाराविसंवादात् । यस्तु स्वसिद्धान्ताभ्यासाहितव्यामोहापस्मारः। सर्वजनीनमपि प- दमिति वाक्यमिति चैकविषयमनुभवमपजानीते स इत्यं शियितव्यः वत्स वेत्सि तावच्छब्दादर्थधीरुदयत इति सेयं वर्णातिरिक्तैकपदवाक्यानुभव- मन्तरेण नोदेतुमर्हति नो खल्विमां विधातुमुत्सहन्ते वाः विकल्या- सहत्वात् । ते हीमा प्रत्येक वा विदधीरन नागदन्ताइव शिक्यावलम्बनं मिलिता वा यावाणइव पिठरधारणम् । न तावत्प्रत्येकमनुपलम्भविरो- धात् । वर्णान्तरोच्चारणानर्थक्यप्रसङ्गाच्च । नापि मिलिताः तथाभावा- भावात् । तथा हि । वास्तवो वा समूह एतेषामाश्रीयते अनुभवोपाधि- को वा । तत्र सर्वेषामेव वर्णानां नित्यतया विभुतया च वास्तवी सङ्ग- तिरतिप्रसङ्गिनी केषां चिदेव पदवाक्यभावं नापादयितुमर्हति । अनु- भूयमानानां त्वनुभवानुसारिणी तत्पर्यायेण पर्यायवती न समूहभाग्भ- वति । न खल्वेकदेशकालानवच्छिन्नाः समूहवन्ता भवन्ति भावाः अति- प्रसङ्गात् । पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितो ऽन्त्या वर्णः प्रत्यायको ऽर्थ- स्य तेन तथैव एकानुभवकल्पनेति चेद् न। विचारासहत्वात्। को नु ख- * दूरस्थवृक्षे हरिततृणसमूहज्ञानधाराया इत्यर्थः । + स्वसिद्धान्तामभ्यासाहितव्यामोहोपस्मार इति ३ पुस्तके पाठः। + उदीयत इति ३ पु• पा• । तथा च वाक्यपदीये काण्डे १ श्लो. ८५ नादैराहितबीजायामन्त्येन ध्वनि- ना सह । आवृत्तपरिपाकायां बुद्धी शब्दो ऽवधार्यत इति ।
६ तत्त्वबिन्दुः । ल्वयं संस्कारो* ऽभिमत आयुष्मतः किं स्मृतिबीजमन्यो वा प्रोक्षणादिभ्य व बीहादेः । न तावदन्त्यः । न हासावसहभुवां वर्णानां जन्य एकः संभवति उक्तादेव प्रकारात । वणैर्यथास्वं क्रमविशेषशालिभिरन्ये ऽन्ये जन्यन्ते संस्काराः तेषां च स्येम्बा संभवत्यन्त्यवर्णसचिव्यमभिधेयप्रत्ययजननायेति चेद् अहो बतास्य स्वपक्षदृष्टि पक्षपातः+ यद् बहुतरादृष्टसंभारकल्पनाले शमपि न चेतयते संस्कार एव तावदनुपलब्धपूर्वस्तस्य च नानात्वमिति । आग्नेयादिवत्कल्पनागौरवं न कल्पकहितता मावहतीति चेद् न इहान्य- थासिद्धः। आग्नेयादयो हि विशरारवो दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति चिरभाविने फलाय विहिताः समिदादयश्च प्रोक्षणादयश्च तद- ङ्गान्यसहभावीनि इति बहुपर्वकल्पनां विना नोपपद्यतइति नासौ प्रमा- णमार्गागतो दोषमावहति । इह पुनरकगोचरानुभवमात्रादभिधेयप्रत्य- योत्पत्त्युपपत्तेरप्रामाणिकानेककल्पना न दोषमावहतीत्यचतुरस्रम् । वासनापरनामा संस्कारः स्मृतिबीजमन्त्यवर्णसहकारी तस्य च स्मरणफलप्रसवोत्रीतसदावस्यार्थधीजन्मनि सहकारितामा कल्पनीयम् तब गौरवमिति चेद् न । स्वभावविपर्यासानुपपत्तेः अदृष्टान्तरकल्पनाप्रस- गाच्च । तथा हि । यो यद्गोचरानुभवयोनिः संस्कारः स तत्रैव धियमाध- त्तइति तस्य स्वभावः यदायस्मिन्नप्यादधीत किंचिदेवैकमनुभूय सर्वः सर्व मर्थ विजानीयात् ।। अपि च संस्कार इति च वासनेति च भावति च प्राचीनानुभवनितमात्मनः सामर्थ्यभेदमेव स्मृतिज्ञानप्रसवहेतुमाचक्षते न चास्यैवा | र्थप्रत्ययप्रसवशक्तिः शक्या कल्पयितुम् । सा खल्वभिधेयधीप्रस- वोत्रीतसदावा फलवत्यात्मन्येव युक्ता कल्पयितुं न पुनरतद्वत्यामस्य स्मृति- जननशक्ती । यथा चेयं मानान्तरसिदैवमसावपि । न चात्मनि शक्तिक- • अर्थसंस्कार इति ३ पुः पाठः। + स्वदृष्टिपक्षपात इति ३ पु. पा.। + लोकहिततामिति ३ पु. पा.। तथा च वर्णस्मरणमेव स्यान्न त्वर्थस्मरणमिति भावः। । संस्कारस्यैव शक्तिरूपत्वेन तत्र शक्त्यन्तरकल्पनानवकाशादिति भावः । पा मतिजननमिति २ पु. पा. । बोधरूपफलरहितायां शक्ती संस्कारस्य स्मति- जनकत्वमनुपयोगात्कल्पयितुं न युक्तमित्यर्थः ।
. तत्वबिन्दुः । ल्पनायां सत्यां तस्याश्चाशक्तायाः कार्यकरणाभावाच्छत्तयन्तरकल्पना न तु स्मृतिप्रसवशक्ताविति सांप्रतम् । न हि कल्प्यमाना शक्तिः शक्त्यन्तरयुक्ता कल्प्यते तन्मात्रादेव फलसम्भवे शक्तयन्तरकल्पनायामनवस्थापातात स्मृतिप्रसवशक्तावपि च साम्यात । यथा वा ऽदृष्टान्तरं मा नाम * कल्पनी- मिति तदेवा गौरवमापत्रम् । स्मृतिसमारोहिणो वर्ण वाचकास्तत्र गौरवमिति चेत्र । क्रमाक्र- मविपरीतक्रमाणां तत्राविशेषेणार्थधीसमुत्पादनप्रसङ्गात । अथापि स्यादन- थास्वं वर्णानुभवैराहिताः संस्काराः संभूय निखिलवर्णविषयमेकमेव स्मरणं प्रसुवते तदुपारोहिणो वर्णा अव्यवधाना इत्यभिधेर्याधयमादति । न चैकैकवायलब्धिप्रतिलब्धजन्मानः संस्काराः प्रतिवर्णगोचरास्तावतीरेव क्रमवतीः स्मृतीभावयितुमीशते तत्र तत्र निरपेक्षकारणभावोपलम्भात न पुनरखिलवर्णगोचरं स्मरणमेकमिति रमणीयं तत्र तत्रानपेक्षाणां कारणत्वेपि मिलितानामप्यनेकगोचरैक विज्ञानजननदर्शनात । तथा हि । यथा संस्कारश्चक्षुरादानपेक्षः स्मरणकारणं चक्षुरादयस्तनिरपेक्षा आलो- चनकारणम् । प्रत्यभिज्ञाने तु संस्कारसापेक्षाश्चक्षुरादयः । एवं तत्र तत्रोहनीयमिति न का चिददृष्टकल्पनेति तत्रास्ति । क्रमाभिव्य- तेभ्यडव योगपद्मविपरीतक्रमाभिव्यक्तभ्यो ऽपि अभिधेयप्रत्ययग्रसङ्गात् । न खल्वेकोपलब्धिर्तिनास्ति कश्चिद्विशेषो वर्णानां न हि वास्तवः क्रमो नित्यानां विभूनां च तेषाम् । उपलब्ििनमित्तस्त्वाश्रीयते सा चेदेका कुतस्तहि क्रम एतेषाम् । न च प्राचीनप्रत्येकवर्णानुभवनिचयमनुवर्तनीयं परापरताप्रतिभासत इति सांप्रतम् । वर्णस्वरूपमात्रगोचरतया स्मृति- • तथा चादृष्टान्तरं नाति ३ पु. पा.। + शक्तिरूपे संस्कार शक्त्यन्तरकल्पनारूपम् । + निरपेक्षणां कारणत्वेऽपि भावोपलम्भादिति २ पु. पा. । संस्कारान्तरनरपे. क्ष्येण प्रत्येकं संस्काराणां कारणत्वेन स्मतिरूपफलदर्शनादित्यर्थः $ तन्नास्तीति २ पु. पा. । तथा च सकलवर्णविषयकमेकं स्मरणं संभवतीति भावः । एतावत्पर्यन्तमाक्षेप उत्तरस्तु परिहारः। || पदज्ञाने वर्णपावापर्यप्रतिभासादनुभवगतक्रमविषयकत्वं स्मतावङ्गीकार्य- मिति भावः।
तत्त्वबिन्दुः । रियं न तत्तदनुभवानपि गोचरयितुमर्हति तत्परापरतां तु प्रागेवेति युगप- द्विपरीतक्रमाभिव्यक्तानां क्रमाभिव्यक्तभ्यो विशेषाभावादेकोपलब्धौ सर्वेषा- मर्थप्रत्यायनप्रसङ्गः । तस्मात्स्वसिद्धान्ताभ्यासव्यामोहमपहायाभ्युग्यता मनुसंहारबुद्धिरेकपदवाक्यगोचरा । न चास्या गोचरव प्रत्येकवनि व्य- ज्जनीयस्तदापि प्रतिवर्णव्यजनीय इति सांप्रतम् । प्रथमादेव वाद- भिधेयधीसमुत्पादादानर्थक्यं द्वितीयादीनामित्युक्तम् । न चैतत्पदेपि तुल्यं तस्यैव हि प्रत्यक्षस्य प्रतिवनिव्यज्जनीयस्याभिाक्ततारतम्यं नानाध्व- निष्वायततइति नानर्थक्यमुत्तरेषाम् । न चेयमप्रत्यक्षे ऽभिधेये विधा संभवति प्रत्यक्षगोचरो झभिव्यक्तितारतम्यभाग न मानान्तरगोचरः ।। स खलु ग्रह्मते वा न वा न पुनर्व्यक्तो ऽव्यक्तश्चेति । तदिदमममञ्जसम् । तथा हि चक्षुषी निमील्य डिण्डिकमतरागं परित्यज्य निरूपयत्वत्रभवान्पर्वबुद्दीरेकैकवर्णगाचरा उत्तरां च विशदपद- वाक्यावगाहिनी किमेता गादिबुद्धयो गकारादिमात्रनिभीसा हो स्विद् गकारायाकारं किंचिदेकमासु संप्लवते मुमिव मणिपाणणादर्पणादिषु भिववर्णपरिमाणसंस्थानमेकमितरथा तत्र मुखमिति बुद्धिव्यपदेशाभित्र- वस्तुयाहिणी न स्याताम् । न संप्लवते चेद्गादय एव परस्परानात्मानः प्रका- शन्ते न पुनस्तदाकारं पदतत्त्वमेकं न जातु गजगवयहयरासभरवः पर- स्परयतिभिदामानमर्तयो ऽवभासमाना रासभादिविवता भवन्ति । संप्ल- वते चेत्' अस्ति हि गकारादिषु भित्रेषु अभिनवस्तुनिभीसा शब्दःशब्द इति प्रख्या लौकिकपरीक्षकाणां त्किं शब्दत्वमेव वाचकमभिधेयभेदा- नां तथा च तस्य सर्वत्राविशेषात्सर्वाः सर्वशब्देभ्यः प्रतीयेरन् । न खलु • अभ्युयेयतामिति ३ पु. पाः । + ध्वनिशब्दो नास्ति ३ पु. पा. । * तस्य हीति ३ पु. पा.। $ भाग् मानान्तरगोचरः न खल्विति ३ पु. पा.। ॥ प्रत्यक्षगोचरो ह्यभिव्यक्तितारतम्यभाग न मानान्तरगोदरः स खल्विति ३ पुः पाठः श्लिष्टः । २ पु. भाग् मानान्तरगोचरः। न खल्विति पाठः। समानरुयाणेति ३ पु. पा.।
तत्त्वबिन्दुः । कारणानियमे कार्यानियमो भवितुमर्हति तस्याकस्मिकत्वप्रसङ्गात् । गकारायाकारविवर्तभेदं शब्दत्वमभिधेयभेदाभिधायकं तत्रातिप्रसङ्ग इति चेद् न । प्राप्ताप्राप्तविवेकेन गादीनामेवाभिधेयधीहेतुत्वात् । अन्यथा सत्त्वगुणत्वादीनामपि तत्प्रसङ्गात् । अत्यल्यमिदम् अखिलमेव कार्यसा- मान्यांजातं सत्त्वसामानिर्माण प्रसज्येत । अपि च शब्दत चरमविज्ञा- नइव पूर्वेष्वपि विज्ञानेषु प्रयतइति नास्ति तिरोहितमिव किं चिदिति तेभ्यो ऽपि अर्थप्रत्ययप्रसङ्गः । एतेन वर्णत्वमपि परास्तमभिधेयधीहेतुभा- वेन वेदितव्यम् । तदिह कृतं कृतधियामप्रामाणिकेन शब्दत्वसामान्यनिरा- करणप्रयासेन । न च शब्दत्वमेकं वस्तुसत्तद्वेदमकारादिनानात्वभाविक- त्वविरोधि येन तदाविकत्वाय । शब्दत्वमयाक्रियते । शाबलेयादिभेद- व्यवस्थापनाय गोत्वादिनापि सामान्यस्यापाकरणप्रसङ्गात् । शाबलेया- दिभेदेषु गौरित्येकाकारावभासादशक्यापहवं तदिति चेद् न । इहापि समानत्वात् । न खलवचि व्यञ्जनेषु च शब्दः शब्द इत्येनिभासः प्रकाशो नास्ति लौकिकपरीतकाणाम् । न चैष पात्रग्रहणोपाधिः विना ऽपि शब्द- त्वमेकमिति सांप्रतम् । तद्हणानामपि नानात्वेनैऋप्रत्ययाधानासामर्थात्। श्रीजग्राह्यत्वोपाधेश्चा|| त्यन्तपरोक्षतया तद्गृहीतिविरहे शब्दः शब्द इत्येकनिभासप्रकाशानुपपत्तेः । अगृहीतस्योपाधेरुपहितप्रत्ययाधानासाम- •त् । न च गकादिषु अनुस्यतमश्वादिपदव्यावृत्तमेकैकवर्णावगाहि- नीयु प्रख्यासु तिरोहितमिव प्रथते । कथं न प्रथते यदा विशदपदावगा- हिनि गौरित्येक पदमिति चरमे चेतसि पूर्वापलब्धभागप्रतिसंधानमस्ति । न चास्यते भागा इत्यायुष्मतैवोपपादितम् । अतस्तद्विवर्ताः । तथा च तदेव तेन तेनापरमार्थसता गकारायाकारण प्रतिभासतइति प्रमाणमा- गांगतम् । * भेदशटमिति २ पु. पा. । गकारट्याकारैरारोपितैर्भिटयमानः शब्दो यत्र तादृशं पदं वाक्यं वेति तस्यार्थः। + सामान्यति ३ पु. नास्ति । + गत्वादेर्वस्तुत्वसिद्धये। $ अविति ३ पु. पा.. || श्रोत्रस्य चेति ३ पु. पा..
प्रत्यया - तत्वबिन्दुः । तत्किमिदानीमनुसंहारबुद्धिप्रतिसंधानापेक्षाः प्राञ्चः यथास्वं गकारादिष्वविदुमेकमबभासयन्ति । ओमिति चेत् हन्त तत्र सत्र चरमविज्ञानसमये प्राचां प्रत्ययानामतिवृत्तत्वात्तत्काले चरमस्य चेतसो ऽनागतत्वात उपकरोति असतामसनिति चैवमापतितम् । अपि च जन्ममात्रव्यापारत्वेन विज्ञानस्य जातस्या जन्माभावेन विरम्य व्यापारा- योगस्तद्विपरीतं चाभ्युपेतं स्यात् । अनपेताश्च प्राञ्चः प्रत्ययाः स्तम्भ- कुम्भाम्भोरुहावाहिनवाभिचानुव्याधविरहिणः स्वानुभवादासमाना न परस्परं स्वगोचरं भिन्दन्ति || नाप्यनानुभविकः प्रत्ययेण्वेकानुव्याधः शक्यानुमानः नविषाणवदनुपलब्धिविरोधात । तथा च परस्परव्यावृत्त- वर्णमात्रगोचरा अनुभतयो भावनोपजननद्वारा नाना वैकं वा स्मृतिप्रत्ययं स्वगोचर एवादधते नान्यगोचरे नाप्यगोचरइति । अनुसंहारर्बादुरपि प पर- स्परज्यावृत्तवर्णरूपावगाहिनी न तु वानुव्याधवदेकगोचरेत्यनुभवमार्गा- गतम् । कथं गौरित्येकं पदमित्येकपदावभासिनी धीरस्ति लौकिकपरीक्ष. काणाम् । न चेयमनालम्बना नापि वालम्बना तेषां नानात्वात् । नापि सेनावनादिवदीपाधिको । उपाधिः खल्वेकविज्ञानविषयता वा भवेद एकाभिधेयप्रत्ययहेतुता वा । न तावत्पर्वः पक्षः । अप्रतीतोपाधेरुपहित- प्रत्ययायोगात् । स्वसंवेदनं संवेदनमनिच्छतामनुसंहारबुद्धया स्वरूपायह * प्रायवर्णज्ञानकाले । चरमनादाभिव्यञ्जनीयस्य स्फोटस्यायवर्ण प्रत्यक्षकाले ऽसत्त्वादसत उपकार्यत्वं चरमवर्णकाले चाट्यानां नाशादसत उपकारकत्वं चापटात इत्यर्थः ज्ञातस्येति पु. पा. । * ज्ञानानामुत्पत्त्यैवार्थप्रकाशकत्वात्तृतीयक्षणे नाशाच्च प्रथमवर्णज्ञानस्यास्फुट- पदत्त्वाभिव्यजकत्वं चरमवर्णज्ञानसाचिव्येन तस्यैव स्फुटाभिव्यजकत्वमिति न युक्त मिति भावः। अनपेक्षाः अनुसंहारबुद्धि प्रतिसंधाननिरपेक्षाः । समुदायबुद्धासहकता इति यावत् । || न भिन्दन्ति न ब्यावर्तन्ति । तथा च गोगवयगीतादिप्रत्ययेष्वा प्रत्ययैर- स्फुटत्वेनेष्टा अपि परस्परध्यावृत्तरूपगवादिपदस्फोटाभिव्यक्तयो ऽनुपपना इति भावः। समुदायात्मकण्दस्वरूपज्ञानमपि।
तत्त्वबिन्दुः । णा * त्तदेकत्वाग्रहात्तदुपाध्येकपदप्रतिभासानुपपत्तेः। उत्तरस्मिपि पते परस्पराश्रयप्रप्ततिर्दुबारा । न खल्वविदितपदरूपावधिरर्थमवैति । अवध्य- न्तरपरिग्रहे तत्त्वेपि वर्णानां तदर्थभेदानध्यवसायात ।। तत्रार्थप्रतिपत्त्या पदरूपविशेषमुपकल्पयतो दुरु तरमितरेतराश्रयं प्रसज्येत । न चैकार्थसम्ब- न्धाख्यानमेकपदत्वमापादयति । वर्णानामनाश्रितपदरूपाणामप्रत्यायक- त्वेनासम्बद्धानां सम्बदाख्यानानुपपत्तेः । । सम्बन्धाख्यानात्तु पदभावे तदे- वेतरेतराश्रयत्वमापदयते । पदत्वाद्धि सम्बन्धित्वे सत्याख्यानमाख्यानाच्च पदत्वे सति सम्बन्धितेति । व्यवस्थितं हि वाचकत्वमाख्यायते । अपि च एकावभासस्य प्रत्ययस्योपाधिकत्वमिच्छतो न किं चिदेकं भवेत्सर्वत्रैव कथं चित्कस्य चिदुपाधेः सम्भवात् । तथा च नाना ऽपि न स्याद् एक- समाहारात्मकत्वानानात्वस्य । अत्र बमहे । न वयमेकावभासप्रत्ययमेकवस्तुव्यवस्यिता प्रमा- णयामः किं तु व्यपदेशमात्रं भवति हि करितुरगादिष्वश्वत्य च- म्पकाशोकदिरधवकिंशुकादिषु नानात्वे ऽपि कथं चिदेकमुपाधि- माश्रित्य सेना वनमिति व्यपदेशमात्र लौकिकानाम् । न चैनावता सेना वनं वा करिचम्पकादयवयवसमवाय्येक्रमववि प्रसिति । तथैव गकारादयो ऽपि पूर्वापलब्धिविपरिवर्तिनो रूपादन्यूनाधिका एकस्यां स्मृती प्रथमानाः साप पदमिति व्यपदेशभेदे नैकानुव्याधवन्तो भवितुमर्हन्ति उपाधिविरहात् । एकानुव्याधमुपकल्पयति व्यपदेश इति चेद् न इतरेतराश्रयापत्तेः । एकानुव्याधवती हि प्रख्या तादृशव्यपदेशो- त्पादिनी बुद्धिनिबन्धनत्वाद्वापदेशस्य । ततस्तु तामर्थयमानो व्यक्तमि- * ज्ञानेन स्वस्याविषयीकरणात्तस्यानुव्यवसायग्राह्यत्वाद् ज्ञाततालिङ्गानुमेय- स्वाद्वेति भावः। + पदत्वमनपेक्ष्य समुदायत्वादिधर्मान्तरपुरस्कारेण पदज्ञाने ऽपि अर्थानां व्या- वृत्तानामनुपस्थितेः । सामान्यतः पदत्वज्ञानेनार्थत्वेनार्थोपस्थितिः स्यादपीति भावः। * असंबन्धानां संबन्धाख्यानानुपपत्तेरिति ३ पु. पा.। 8 अश्वत्येति ३ पु. नास्ति । || बुद्धिनिमित्तत्वादिति ३ पु. पाः ।
૧૨ to तत्वजिन्दुः। तरेतराश्रयत्व * माविति । न चात्रोपाधिविरहो ऽपि । अस्ति खल्वेका- भिधेयधीहेतुभाव । स्त्रयाणामपि वर्णानामेकस्मरणप्तमारोहिणां ग्रावणा- मिवैकपिठरधारणे यस्मात्पदमिति व्यपदेशः प्रभवति । न चैवमन्योन्या- श्रयं न हि पदावधारणाधीनः सम्बन्धबोधः किं तु तदधीनं पदविज्ञानम् । कारकभेदावधायिक हि पदपदं पदयते ऽनेनेति व्युत्पत्त्या । तच्छब्दाश्च कार्यसम्बन्धबोधोपहितसीमानो नासति तस्मिन्प्रवर्तितुमीशते । न च स्वरूपभेदस्तावतां तादृशां वर्णानां वर्णान्तरेभ्यस्तेभ्य एव वा उताव- सस्तावयो वा ऽतादृशे यो || न्यविज्ञानोपारोहिणामर्थप्रत्ययात् प्राग न प्रथते येन सम्बन्धिभेदाग्रहे सम्बन्धो न निरूप्येत । प्रकारान्तरवास्तु तेभ्यस्तेषामेव चरमविज्ञाननिवेशिनां विशेषमय वक्ष्यामः । तथा सम्बन्धबोधनाख्यानमण्यमीधामीपत्करं समधिगतकाभिधेय- धीहेतुभावानां च तेषां पश्चात्पदमिति व्यपदेशो नानुपपत्रः । अपि चानं- शस्य पदस्य वैशावैशदो न युज्यते। सामान्यविशेषतत्त्वाभ्यामनुभयमान- ता हि वैशा सामान्यमात्रस्य तद्वन्मात्रस्य वा वेदनमवैशा न च निखिल- सामान्यविशेषविरहिणः स्फोटस्यास्फुटं दर्शनमुपपद्यते । स खलूपलभ्यते नोपलभ्यते । न झस्य दृश्यमानस्यास्ति किं चिददृश्यमानम् । न चास्ति सम्भवः स एव * तेनैव तदैव दृश्यते न चेति । अत एव न समारोपः सर्वथा ऽननुभते तदयोगात् । कथं चिदनुभवे निरंशत्वानुपपत्तेरपसिहा- न्तप्रसङ्गात् । तस्मादनवयवमेवानुभूयते पदतत्त्वमिति रिक्तं वचः । अत * इतरेतराश्रयमिति ३ पु. पा.। + हेत्वभाव इति ३ पु. प.। कारकभेदाभिधायोति ३ पु. पा. । कारकविशेषाभिधायकम् । $ कार्यो यः संबन्धबोधः तेन प्रापिता पदभेदरूण सीमा अवधिर्येषां ता- दृशा इत्यर्थः। ॥ भिन्नानुपूर्वीकेभ्यः । अर्थज्ञाननरपेक्ष्येणैव नदीदीनादिपदेषु स्वरूपभेदः प्रत्य- सिद्ध एवेति भावः। पा न खलपलभ्यते न वोपलभ्यतइति ३ पु. पा.। नोपलभ्यते वेति विकल्प्य वक्ष्यमाणं दूषणद्वयं योजनीयम् । * अत एवेति ३ पु. पा. । + एकदेशावच्छेदेन प्रत्यक्षत्वानीकारे ।
। तत्वबिन्दुः । १३ एव शब्दादर्थ * प्रतिपदयामहइति सपिशाचवटैतिझावदनुपपदयमानार्थवच- नमनुभवाभावात् । अनुभव एव हि प्रमाणमाागतो लोकस्वत्वावलोक- नात् । न पुनः पुरुषप्रवादमात्रं मृषावादो ऽपि हि सम्भवति वटयक्ष- वत । यदि त्ववश्योपपादनीयं ततो वरं शब्दशब्दोपलक्षितानां वर्णव्यक्ती- नामेकस्मृतिसम्मरूढानामेकाभिधेयप्रत्ययोपजननलब्धसहभावानामभित्र- कारकावस्यापादिताभेदानामेकत्वादेकवचनमुपपन्नाथ गोशब्दादिति । न च धवस्खदिरपलाशा वृक्ष इति लोके न दृश्यते इति दृश्यमानमेतद- पहवमहति || दर्शनादर्शनयोलाकसिद्धत्वेन तुल्यबलतया बाध्यबाधकभा- वाभावेनाविषयव्यवस्थोपपत्तेः** ॥ न चाप्रत्यक्षपि अर्थधीकार्यण शक्या- नुमानम् अन्योन्याश्रयात् । न खलु सत्तामात्रेण शब्दो ऽभिधेर्याधयमा- धातुमर्हति । सत्तया ऽभिधायकत्वे तस्याः शाश्वतिकतया नित्यमाधान- प्रसङ्गादिति । अतश्च स्वज्ञानं तहेतुरेपितव्यः । स्वज्ञानं चास्यार्थप्रत्यय- लक्षलङ्गप्रसमिति प्राप्तमन्योन्याश्रयम् । अपि च वर्णभ्यो नाभिधेय- (प्रत्ययो नोपपद्यते। तेहि गौरिति स्मृतिबुडावेशस्यां विपरिवर्तमाना अभि- धेय)' प्रत्ययस्ये शते । न चास्यां|||क्रमाक्रमविपरीतक्रमानुभूतानामविशेषो वर्णानाम् । तथा हि । प्राचीनानुभवभावितभावनानिचयलब्धजन्मा स्मृति- रनुभवानुसारिणी तद्गोचरानक्रमानपि तत्क्रमेण क्रमवदनुभवकर्मताप- * शब्दार्थमिति ३ पु. पा. । + लोकविसंवादेन तत्र प्रामाण्याङ्गीकारात् । + उपपमिति ३ पु. पाः । गोशब्दादित्येकवचनमुक्तक्रमेणैकत्वव्यवहारमात्रोपपत्तेरुपपन्नार्थकमित्यर्थः । || धवादिषु वनत्वं प्रत्येकं न पर्याप्नोति वृक्षत्वं तु पामोतीति विशेषाद् वनमित्येकवचनमेव वृक्षा इति बहुवचनमेव यथा तथा प्रकृते शब्दत्वस्य प्रत्येकपा- प्ततया शब्दा इति बहुवचनमेव युक्तं न त्वेकवचनमित्याक्षेपाशयः । अविषयव्यवस्थायपत्तेरिति ३ पु. पा. । ** यथा तैलत्वस्य प्रतिबिन्दुपर्याप्तत्वे ऽपि कदा चित् प्रस्थमात्रे ऽपि तैलमित्ये- कत्वव्यवहारः कदा चित्तु तैलानि हेमन्ते सुखानीत्यादिव्यवहारश्च लोकसिद्भत्वेन न विरुद्धस्तथेहापीति भावः । tt स्वज्ञानेनेति ३ पु. पा. । 1 एतन्मध्यस्थं २ नास्ति $$ २ युः पाठे वर्णमात्रेणार्थोपस्थिती न समर्था लाका इति शेषः । || अस्यां स्मता। ।
१४ । तत्त्वबिन्दुः । सृष्टानपर्यायमपि समाकलयन्ती अक्रमविपरीतक्रमानुभतेभ्यो भिनत्ति । दृश्यते हि नदीदीनेतिस्मृतिधियोरभेदे ऽपि वर्णरूपाणां विशदतरः पदभेदः । न चेदमनवयवपददर्शनमिति निवेदितम् । तदनुभवकर्मताक्रमः परमशिष्यते * सो ऽपि न्यनातिरेकादिवदेकपदभेदावधारणोपायः । यथा ऽऽहुरत्रभवन्तो वार्तिककाराः । पदावधारणापायान्बनिच्छन्ति सरयः । क्रमन्य नातिरिक्तत्वस्वरवर्ण : श्रुतिस्मृतीरिति ॥ न च निरन्तरमतिसदृशस्वरबहुवक्तृप्रयुक्तेष्वानुपळवत्सु समान- स्मृतिबुद्धिसमारोहिष्वर्थप्रत्ययादर्शनाभिचार इति सांप्रतम् । एक- वक्तृप्रयुक्तत्वेन विशेषणात् । यथा ऽऽहुः॥ । यावन्तो यादृशा ये च यदर्थप्रतिपादकाः । वर्णाः प्रज्ञातसामर्यास्ते तथैवावबोधका इति ॥ पान चैतत्कलकलश्रुतावशक्यज्ञानं किमिव हि दुष्करमभ्यासस्य यथा ऽऽहुर्बाह्या अपि । परेषामनुपाख्येयमभ्यासादेव जायते । मणिरूपादिषु ज्ञानं द्विदामानुमानिमिति ॥ न च संबन्धाख्यानसमयेवकेकताया अनाश्रया |दनङ्गत्वं हेत्व- सिद्धेः । स्फुटतरतया तदनाख्यानं न खलु नैरन्तयादयो ऽप्याख्यायन्ते तद्रावस्तु नैरन्तयादिष्विव ववेकत्वे ऽपि समानः । न च ज्ञापकहेतुर्वि- दितसमस्तज्ञापकाङ्गो ज्ञापयतीत्यप्यै कान्तिकम् । भवति हि मनो उनुमा- tor * परिशिष्यतइति ३ पु. पा. । + श्लोकवार्तिके वाक्याधिकरणे अ. १ पा. १ श्लो १८० । + स्वरवाक्येति ३ पु. पा. । मुद्रिते श्लोकवार्तिकपुस्तके ऽप्येवमेव । ६ एकवर्गप्रयुक्तत्वेनेति ३ पु. पाः । श्लोकवार्तिके संबन्धाक्षेपवार्तिके अ.१ पा. १ स. ५ श्लो. ६ । वा तथा च तेषां गुणभूतानामर्थप्रत्यायनं प्रति साहित्यमेकवक्रादिक्रमश्चापि विवक्षितइतीत्यधिकम् ३ पुः । ** वाक्यपदीये कागडे १ श्लो ३५ । मुद्रितपुस्तके परेषामसमाख्येयमिति मणि- रुपयादिविज्ञानमिति च पाठः। 11 न्यूनाश्रयादिति ३ पु. पाः ।
१५ तत्वबिन्दुः। नाङ्गम् । न चास्य वेदनमत्रोपयुज्यते । तदिह दृश्यमानेभ्य एव वर्णभ्यो दृश्यमानप्रकारभेदानुयायिभ्यो ऽभिधेयप्रत्यय उपपदामानो नैतानवज्ञा- या नवयवमत्यन्ताननुभूतं पदतत्त्वमुपकायतुमर्हति । अतिप्रसङ्गात् । नापि समभिव्याहतपदाभिहितपदार्थप्रत्ययाधीनोत्पत्तिवाक्यार्थधीरन्य- थोपपझमाना ऽनुभूयमानपरस्परव्यावृत्तमूर्तीनि पदानि अपहुत्यात्य- न्तापरिदृष्टं वायमेकमनवयवमवगमति । तत्सिमेतदर्थापत्तेरनुमा- नस्य वा निवृत्तिस्तदेकगोचरपदवाक्यस्फोटावभासिनीति । नानवयव- मेकं वाक्यार्थावबोधमिति । नापि द्वितीयः कल्पः । तथा हि । नान्त्यवर्णश्रुतिः स्मृत्यानीता वाक्यार्थबोधिनी । न स्मृतिस्तदपेक्षत्वाद्योगपदा न च.नयोः ॥ स खल्वन्त्यो वर्णः पूर्वपूर्ववर्णपदपदार्थविज्ञानजनितवासनानि- चयसचिवप्रवन्द्रियसमधिगतजन्मस्मरणग्रहणरूपावाप्तवैचित्र्यसदसटु- निभासप्रत्यर्यावरिवर्ती वाक्यार्थधीहेतुरुपेयते स च चरमपदतदर्थसं- बन्धस्मृतिमाधाय वाक्याधियमादधीतानाधाय वा । आधाय चेत्तद्वेतुभा- वनोदोधसमये स्वजन्यसंस्कारकारणविनाशघ्रातश्रुति रश्रयमाणः संब- धिस्मृतिसमये कथं तत्सहकारी || वाक्यार्थप्रत्ययमादधीत । न च तद- सहकारिणो वाक्यार्थधीहेतुभाव इति सांप्रतम् । अस्मरणे तदनुभववै- यर्यनारहीतसङ्गतेरपि प्रथमाश्राविणो भिन्धि प्रासेन भिदुरमिति वाक्या- र्थप्रत्ययप्रसङ्गात् । न चान्त्यवादोधितसंस्काराधीनजन्मा स्मृतिरनुभवेन * नैवानवज्ञायेति ३ पु. पा. । + स्फोटाभावसाधनीति २ पु. पा. । पूर्वपूर्ववर्णप्रत्यक्षजन्यानां संस्काराणां समूहः सहकारी यम्य तादृशेन श्रोत्रेण जनितः पूर्ववर्णाशे स्मरणरूपतया चरमवर्णविषये चानुभवरूपतया प्राप्तरूपढयः सतो- ऽन्त्यस्यासतां च पूर्ववर्णानां प्रकाशको यः प्रत्ययस्तद्विषय इत्यर्थः । $ संस्कारस्य स्मतिनाश्यत्वात् स्मता जातायां संस्कारनाशेन उत्तरज्ञानेन पूर्वज्ञाननाशात् वर्णप्रत्यक्षनाशेन चेति भावः । || तत्सहकारिणमिति २ पु. पाठः।
तत्त्वबिन्दुः। सह युगपदुत्पत्तुमर्हति । न च न्याय्यो युगपदुत्पादः प्रत्ययानां करणस्य * प्रत्ययपर्याये सामात् । अन्यथा समाविषयबुद्धिधाराऽनुपपत्तेः । सहसैव यावत्कर्तव्यकरणात्समर्थस्य क्षेपायोगात् । न च तावन्तं काल- मस्ति प्रथमोत्पन्नवनिनितसंस्कारभेदो यतः पुनरपि वर्णविषयं विज्ञानं जनयेत् । यथा ऽऽहुः । क्षणिक साधनं चास्य बुद्धिरप्यनुवर्तते । मेघान्धकारशर्वयां विद्युजनितदृष्टिवत् ॥ न चाननुभयमानस्य सत्तामात्रेण बोधकत्वमित्यसकृदादितम् ॥ अस्तु तर्हि स्मृतिदर्पणारूढा वर्णमालैब वाक्यार्यधीहेतुः । वृद्धप्रयोगा- धीनावधारणा हि शब्दार्थसंबन्धः । न च पदमा व्यवहाराङ्गं प्रयुज्जते वृद्धाः । किंतु वाक्यं त्तच्चानवयवं न्यषेधीति स्मृतिसमारूढा वर्णमाला ऽवशिष्यते सा च नैमित्तिकं वाक्यार्थबोधमाधत्ते पारमार्थिकस्तु पदत दर्थबोधो निमित्तमात्रेणावतिष्ठते वर्णमालैव वाक्यार्थधीहेतुरिति । तद- प्यसांप्रतम् । कुतः। गौरवाद्विषयाभावात्तबुद्धेरेव भावतः । वाक्याधियमाधत्ते स्मृतिस्या नाक्षरावली ॥ यदि हि वर्णमालैव स्मृतिसमारूढा वाक्यार्थमवबोधयेत्ततो ऽर्भक गामानयार्भक गां बधान शिशोगामानय शिशो गां बधान बालक गामानय बालक गां बधान डिम्भ गामानय डिम्भ गांबधानेत्यष्टानां || वाक्यानामष्टौ शक्तयः कल्पनीयास्तवेति कल्पनागौरवम् । पदवादिनस्तु सप्तैव सप्तानां मनसः । अत एव न्यायसूत्रं युगपज् ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति । गोतम- सू• अ. १ आ• १ सू. १६ । + प्रथमानुभवेन संस्कारोत्पादाद द्वितीयादिज्ञानानां स्मतित्वेन धारावाहिक- प्रत्यक्षानुपपत्तेरित्यर्थः । + न्यषेधीदिति ३ पु. पा. । वाक्यघटकस्मर्यमाणसकलवर्णमालाया एवान्यथाऽनुपत्त्या वाक्यार्थबोधे हेतुत्वं पदज्ञानपटार्थोपस्थित्योस्तु तत्र सहकारितामात्रमित्यर्थः । || अन्तानामिति ५ पु. पा. ।
तत्त्वबिन्दुः । पदानां शक्तयः कल्पनीया इति लाघवम् * । एवं शुस्लामिति पदप्रक्षेपे पद- वादिनो ऽष्टानां पदानामष्टौ शक्तयः कल्पनीया इति लाघवं तब तु षोडशानां वाक्यानां षोडशापराः शक्तयः कल्प्या इति महगौरवमाप- बम् । अपि चेयमक्षरमाला पदार्थावगमपूर्वकं वाक्यार्थविज्ञानं जनयेदत- त्या वा । न तावदतत्पी । संसृज्यमानपदाविषयविज्ञानाधीनो हि संसर्गः संसृज्यमानपदार्थानरूपण मन्तरेण न शक्यनिरूपणः । तत्पर्व चेत्तथा हि यथा यथा श्रयन्ते पदानि तथा तथा पदार्था अपि प्रती- यन्ते । तदेताः पदतदर्थप्रतीतयो भावनानिचयद्वारेण स्वगोचरचारिणी- मेकामेव स्मृतिधियमादति तदारूढानि पदानि सपदार्थान्य || दूरब- नि वाक्यार्थबुद्धेरीशत इति तदप्यचतुरसम् । एवं च सत्यवश्याश्रयणी- येभ्यः पदार्थज्ञानेभ्य एव सिद्धेः कृतमनया वर्णमालया। तेषां च सामर्थ्य निवेदयिष्यामः । अपि च । त्रिचतुरपञ्चषपदवाक्यवर्तिनी नानापदा- र्थप्रत्ययव्यवहिता क्लेशेन वर्णमाला स्मर्यतापि तदभ्यधिकपदति तु वाक्ये ऽसावतिदुःस्मरा । तस्मादिदमपि मत * मविमृश्यमानसुन्दरमिति नाद्रियन्ते वडाः। अस्तु हि । यदान्याकाहितासयोग्यार्थान्तरसङ्गतान् । अनिभिदधन्तीह वाक्यं वाक्यार्थगोचरम् ॥ * लाघवमिति ३ पु. नास्ति । । अतत्यूर्व वा । न तावदतत्यूमिति ३ पु. पा. । * पदार्शवगममिति ३ पु. पा। ६ यथा हीति २ पु. पा. । || अपदार्थानीति ३ पु. पा. । १ वर्तिनीनां पढाति २ घु. पाः । तदा पदव्यक्तीनामिति विशेष्यमध्याहा- र्यम् । ** दर्शनमिति ३ पुः पाः । + अभिदधन्ति पदानि वाक्यम् । वाक्यपदेन पदसमूह एव व्यवहियतइति यावत्। वाक्यवाक्यार्थगोचरमिति २ पु. पाः । ग । तत्त्वबिन्दुः । पदार्थमेव हि प्रधानमेकं गुणभूतार्थान्तरेण व्यतिषक्तं वाक्यार्थ- माचक्षते वृद्धाः । तं च पदान्येवाकाङ्घायुपधानलब्धसुकरव्युत्पत्तीनि प्रत्यायितुमीशतइति कृतमप्रामाणिकानुषपदयमानानवयववाक्यादिक- ल्पनाभिः । ननु । पदान्तरस्य वैयर्थ्यमश्रुतान्वयबोधने * । श्रुतान्विताभिधाने तु व्यक्तमन्योन्यसंश्रयम् ॥ अथापि स्यादनभिहितेनैवार्थान्तरेणान्वितमर्थमभिदधीत पदम- हितेन वा । तत्रानभिहितस्वार्थान्तरान्वितस्वार्थाभिधाने पदादेक- स्मादेवोच्चारिताद्विवक्षितार्थप्रतीतर्वैयर्थमितरेषाम् । अभिहितान्विताभि- धाने तु यावत्पदित्यनेनान्वितस्वार्थी नाभिधानीयस्तावत्तखायामित्य- नेनाधिकरणमुखा नाभिधीयते । एवमुखायामित्यनेनापि यावत्स्वार्या नाभिधानीयस्तावत्पचेदित्यनेन स्वार्थी नाभिधीयतइति परस्पराश्रय- प्रसङ्गः । पदार्थस्वरूपाभिधानपूर्वके तु तद्वदन्वितार्थाभिधाने द्विरभिधा- नमप्रामाणिकमनुपपदामानमापदोत । न च पदजातं प्रथममर्थजातमनभि- दधदेव यथास्वं स्वाभिधेयानि साहचर्यमात्रा दर्थरूपाणि स्मारयति अथैतान्यान्तरान्वितान्यभिधत्तइति सांप्रतम् । यतः । पूर्वानुभवयोनित्वात्स्मृतिस्तदनुसारिणी । सा चान्वितस्वरूपेण ततो ऽपेक्षानपेक्षणा || ॥ न खलु पदं पदार्थमात्रे क्वचिदपि दृष्टचरं ग येन तत्साहचर्यण तन्मात्रं स्मारयेत्तन्मात्रेण व्यवहारायोगात्तत्प्रयुक्तत्वाच्च तदुच्चारणस्य । * कल्पने इति ३ पु. पा.। + अनभिहितार्थान्तरेति ३ पु. पाः । + अनभिहितं स्वेनानुपस्थापितं यत् स्वार्थान्तरं स्वबोध्यत्वाभिमतमर्थान्तरं तदन्वितस्वार्थस्याभिधाने इत्यर्थः । $ साहचर्यादिति ३ पु. पाः । सा चान्वितेन रूपेण ततोऽपेक्षाऽनपेक्षणमिति ३ पु. पा. । अपेक्ष्यमाणस्य आकाक्ष्यमाणस्यार्थान्तरस्यानपेक्षणा जिज्ञासाऽभाव इत्यर्थः । तथैवोपपादयिष्यति । का दृष्टचरप्रयोगसित ३ पु. पा.।
तत्त्वबिन्दुः । अपि त्वन्वितस्वार्थ तथा च गामानयेत्यत्रानयनान्वितस्वार्थी गौशब्द- स्तेन सहोचरितो गां पश्येत्यत्रापि तदन्वितामेव गां स्मारयेव तन्मानं तथा च तत्रिराकाङ्को गोशब्दः पश्येत्यनेन नान्वियात् । एवं प्रासादं पश्येत्यत्र प्रासादान्वितं पश्यति पदं विराकावं न गवा सम्बध्यतेति सर्बत्र वाक्यार्थी * दत्तजलालिः प्रसज्येत । न चाव्यभिचाराद्गामिति पदं स्वार्थमेव स्मारयति न तु पदार्थान्तरं व्यभिचारादिति सांप्रतम् । पट्वभ्यासादरप्रत्ययाहिता भावना प्रबोधवती स्मृतिहेतुः सङ्गीयते । तस्याश्च प्रबोधः प्रणिधानादिजन्मा ऽव्यभिचार एव नायतते साहचर्य- मात्रमस्याप्यस्तीति पदार्थान्तरसहितमेव स्वार्थमनाकाक्षं स्मारर्योदति हता बत वाक्यार्थधीस्तपस्विनीति पदानामर्थरूपमात्राभिधानमेषित- व्यम् । तथा च ते ते पदार्थाः क्रियादयः स्वसामर्थ्यन स्वरूपमात्रेण पदैरभिहिता विना कारणादिभिरपर्यवस्यन्तस्तदाकाहायोग्यतासविधि- सहकारिणो वाक्यार्थधियमादधतीति युक्तम् । अनोच्यते । विधान्तरानुपगमात्स्मृतिलक्षणयोगतः । अभ्यासातिशयापस्मृतेनान्योन्यसंश्रयम् ॥ इदं तावनिरूपयतु भवान् प्रमाणसंशविपर्ययस्मृतिषु कतमेयं पदात्पदार्थप्रतिपत्तिरिति । तत्र न तावत्पमाणमनधिगतार्थबोधनं तदुपे- यते । यथा ऽऽहुः । सर्वस्थानुपलब्धेऽर्थ प्रामाण्यं स्मृतिरन्यति । न च पदात्पदार्थधीरनधिगतार्थगोचरा । न खलु सम्बन्धसंवेदनसमये सम- धिगतोऽर्थः पदैरभिधीयमानो देशकालावस्थाविशेषेणाप्यतिरिच्यते। अन- तिरिच्यमानश्च न स्वरूप विज्ञानं प्रमाणति । अत एवाहुः । । * वाक्यार्थप्रत्यय इति ३ पु. पा.। । अव्यभिचारे सत्येव स्मतिजनक इति नियमो नास्तीत्यर्थः। + साहचर्यमात्रस्यापि च संबन्धतया प्रणिधानादिगणे पाठाटापपत्तेश्च तदु- वाधहेतुभावो न विरुध्यते । तच्च स्वार्थस्यैव पदार्थान्तरस्याप्यस्तीति ३ पु. अधिक: पाठः। 8 श्लोकवार्तिके वृत्तिकारणग्रन्थे श्लो. ११ ।
२० तत्वबिन्दुः । परोतश्चानुभतश्च यस्तत्र स्मृतिरिष्यते । प्रमिते ऽनुप्रयुक्तत्वा * त्स्मृतेनास्ति प्रमाणता ॥ पदमभ्यधिकाभावात्स्मारकाव विशिष्यते इति च । न हि पदस्य प्रणिधानादिभ्यः संस्कारोबोधहेतुभ्यः कश्चिद्विशेषः । संशविपर्ययहेतु- भावस्तु पदस्येति स्थवीयः। न च पञ्चमी विधा समस्तीति स्मृतिः परिशिष्यते । सा चान्वितगोचरा न स्वरूपगोचति तुल्यो दोषः । अभिधानतः स्मारितं वाक्यार्थान्वयि न साहचर्यादिति चेत्कुतस्तर्हि गङ्गायां घोषः प्रतिवसतीत्यादी तीरादीनामभिधेयानां प्रतिवासान्व- यः । अपि चाभिधानतः स्मारितस्वरूपमात्रस्य साहचर्यस्मारितेनैवार्था- न्तरेणाकालेपरतरनाकाङ्क्षस्य च चरमप्रतीतेनाभिधानतोऽर्थान्तरण संगमायोगात्समुत्पत्रसंकटो वाक्यार्थः प्रसज्यतेति कुतस्तद्भावना कुत- स्तरां तदुबोधः पदैः कुतस्तमां च तदन्वयस्मरणमित्यकामेनापि अन्वयि- स्मरण || मभ्युपेयम् । इतश्चैतदेवं यदभ्यासातिशयः संस्कारातिशयमाधत्ते स च द्रागित्येव प्रबुद्ध एकपदे स्फुटतरं स्मरणमुपजनर्यात । दर्शनमात्र- जन्मा पा पुनर्मन्दो विप्रलम्बितप्रबोधो मन्दमेव कार्यमाधातुमुत्सहते । अभ्यासवती च पदस्य स्वार्थेन साहचर्यानुतिर्यथा न तथा ऽर्थान्तरेण । अन्वये ऽभ्यासवत्यप्यान्तरेष्वनभ्यासात्तद्रूपणा* *च्चान्वयस्यानभ्यास एव । तथा च स्मृतिचिहितस्वरूपमात्रेणार्या अर्थान्तराकाङ्काः पदैरन्विता अभिधीयन्तइति न परस्पराश्रयम् । नाप्यनाकाइता । आकाङ्क्षा च प्रति- पतुर्जिज्ञासा । सा च क्वचिदभिधानापर्यवसानाङ्गवति यथा दारा इति । न झत्र प्रकृत्यादतिरिक्त प्रत्ययार्थ प्रतीतिरस्ति येनान्वितः प्रकृत्या । * तु प्रयुक्तत्वादिति ३ पु. पा. । + प्रलोकवार्तिके शब्दवादे श्लो. १०२। श्लोकवार्तिकशब्दवादश्लो १० ५। पदान्तरसमभिव्याहारोत्तरमुदबुद्धया ऽभिधया पश्चादुपस्थितेनेत्यर्थः । अन्वितस्मरणमिति ३ पु. पा. । पा तहितार्थान्तरसाहचर्यदर्शनजन्य इत्यर्थः । स्वार्थन संगतिग्रहो भूयान- थान्तरेण तु प्रयोगभेदेनानियतत्त्वान तथेति भावः । तपनिरूपणत्वादिति ३ पु. पण ।
२१ तत्वबिन्दुः । स्वार्थी ऽभिधीयेत प्रातिपदिकार्थमात्रे प्रथमोत्पतेः । तदत्रान्विताभिधा- नपर्यवसानाय प्रतिपत्ता पदार्थान्तरं स्मारितान्वययोग्यं जिज्ञासते । क चिच्चाभिहितार्थापर्यवसानाद् यथा विश्वजिता यजेतेति । इह हि कार्यस्य । विषयकरणान्वितस्याभिधानं पर्यवसितं न पर्यवस्यभिहितं कार्य नियोज्यभेदमन्तरेण । न खलु कार्यमनुष्ठानं विना व्यवतिष्ठते । न चाकर्तृकं तत् । न चानधिकृतः कता। न चानियोज्यो ऽधिकृत इत्या- नुपा सिद्धं तेनात्रापि तत्पर्यवसानायास्ति तदन्वययोग्य नियोज्ये जिज्ञासा । न चान्वितस्वार्थस्मरणमात्रावसितव्यापारेषु पदेषु तदर्था एवाकाङ्क्षादिसहकारिणः करिष्यन्ति वाक्याधिर्यामति कृतमत्र पदानां सामर्थ्यनेति सांप्रतम्। पदाभिहितानां || तेषां मानान्तरगोचराणां वाक्या- र्थधीहेतुभावादर्शनात् ।। श्वेतमध्यक्षं पश्यतो हेपारवं च शृण्वतः खुर्रान- ज्येषशब्दं च श्वेतो ऽश्वो धावतीत्यन्वर्याधयः पदवणमन्तरणोत्पादो दृष्ट इति चेत् नानुमानादापत्तेवा तदवगमात् । अनवगमाद्वा एवं वादी हि तावत्प्रष्टव्यो व्याचष्टां किं स्विच्छेतसमानाधिकरणा येन हेषावनिखुरनिष्येयशब्दावसितो तस्य ज्ञानं निरूप्यते आहो स्विो- न सितिमा च पनिष्पेषशब्दो हेपाध्वनिश्च स्वरूपमात्रेणावसितः । तत्र पूर्वस्मिन् कल्पे लिङ्गसामर्थ्यजमेतत्र पदार्थसामीजम् । उत्तरस्मिन्नपि द्रव्यान्तराभावनिश्चये सत्यापत्तिस्तदभावे च नावसाय एव । अपि च * प्रत्ययोत्यत्तेरिति ३ पु. पा. । + कार्यस्येति ३ पु. नास्ति । + क्रियायाः सकर्नुकत्वनियमादिष्टसाधनताज्ञानं विना कर्तृत्वानुपपत्तेरनुष्ठा- नमन्तरेण फलासंभवात्स्वर्गकामः कर्तृत्वेनान्वेतीति भावः। $ विश्वजिता यजेतेति वाक्ये ऽश्रुतमपि स्वर्गकाममन्वितमालाच्य सर्वत्र तथैवास्त्वित्याक्षिपति । || यदनभिहितानामिति ३ पु. पा. । । तथा च तत्र पदाध्याहार ति भावः । अन्यत्रापि क्व चित्पविश पिण्डी- मित्यादावध्याहारस्थले इण्टापत्तिः । ** व्याप्तिज्ञानादाभावे इति शेषः । तत्सत्त्वे ऽपि तस्याः शाब्दत्वाभावाच्चे. त्यपि वक्ष्यति । | पृष्ट इति ३ पु. पा. ।
२२ । तत्त्वबिन्दुः। पदार्थसामर्थ्यजत्वाभ्युपगमे शब्दमूलत्वाभावेनाशाब्दत्वान्मनसश्च बा- झानपेतस्याप्रवृत्तः पटप्रमाणीव्यतिरिच्यमानसहकारिसापेक्षत्वे सप्तम- प्रमाणाभ्युपगमप्रसङ्गः * । तत्सिद्धमेतवानभिहिता अर्था वाक्यार्थधीहेतव दति पदैरभिहितानामयं महिमा ऽभ्युपेतव्यस्तेषाम् । तथा च पदार्थानां वाक्यार्थप्रत्ययाधानसामर्थ्य पदानां च तत्सामाधानसामर्थ्यमिति शक्ति- द्वयं कल्पनीयम् । अन्विताभिधानवादिनस्तु प्रथमावगतानां पदाना. मभिधायकानां वाक्यार्थप्रत्ययोपजनपर्यवसिततात्पर्यवृत्तीनामेकमेवाका- हायोग्यतासत्तिरूपोपाध्युपायगृहीतार्थान्तरान्वितस्वार्थाभिधानसामर्थ्य- मिति लाघवादतो ऽर्थाभिधायिनां पदानामेव वाक्यार्थधीहेतुभाव दति चतुरस्रम् । अत्राभिधीयते । एष तावदौर्गिको न्यायो यदसति बलवबा- धकोपनिपाते। सहकारिणि कार्य च प्रत्यासवं हि कारणम् । सति तद्वावभावित्वे तथा चार्थस्मृतिः पदात् ॥ भवति हि कुतश्चिन्मानसापराधाद्विदितपदार्थो विदितपदरूप- मात्रश्चेतनो न मनागपि वाक्यार्थमवगच्छति अवगच्छति तु समभि- व्याहृतपदकदम्बकोपजनितस्वार्थस्मृत्यनन्तरम् । तद् अमषामेव स्वार्थ- स्मृतीनामाकाङ्क्षायोग्यतात्तिसहकारिणीनां कारणत्वं वाक्यार्थप्रत्ययं प्रत्यध्यवस्यामः। यदपि मतं स्वार्थस्वरूपस्मृतयोऽपि हि वस्तुतदर्थान्तर :- सङ्गतार्थगोचरा न स्वगोचरमर्थान्तरेण घटयन्ति विभ्रमप्रसङ्गात् । न खलु प्रासादमात्रस्य स्मरतो ऽस्मरतश्च तादृशपाटलिपुत्रं स्वरूपमात्र- स्मृतयो माहिष्मत्यैनं घटयितुमीशते ईशाना वा भवन्त्यभ्रान्ताः । तद- • अर्थसहकारिकारणकमनसो ऽर्थस्य वा केवलस्य प्रमितिजनकताया अकृप्त- त्वादिति भावः। + वस्तुतस्तदर्थान्तरेति ३ पु. पा. । + वस्तुभूतेन ततो ऽर्थान्तरेण संगतो ऽर्थो गोचरो यासां तादृश्यः स्मतय इत्यर्थः।
तत्त्वबिन्दुः । प्यसांप्रतम् । मा नाम भूदीदृशं स्मरणफलसंस्कारस्य सामयं यदनुभूतान- नुभतस्वरूपतदर्थान्तरसम्बद्वर्यावषयमाधत्ते स्मरणं समीचीन * मिति । सम्भवति तु समभिव्याहृतपदावलीलब्धजन्मनामर्थस्वरूपस्मृतीनामाका- हादिरूपसहकारिभेदोपधानाहितदशान्तरोपपादितप्रमाणभावाना मन- न्तरपरिदृश्यमानमानान्तरानधिगतस्वार्थपरस्परसम्बन्धनिर्भासप्रकाशफ- लानाम् । अन्यथा प्रत्यभिज्ञानमपि न जायत । तत्रापि देशकालाहित - स्वरूपसंवेदनजन्मा संस्कारस्तदाहिता वा स्मृतिः कथं स्वार्थ देशान्त- रेण वा कालान्तरेण वा घटयेत् । तत्र हीन्द्रियादिसहकारिसमवधान- प्राप्तदशान्तरयोरेतयोः पूर्वापरदेशकालानुगतेकवस्तुगोचरप्रत्यभिज्ञानस्य प्रसवसहः' को ऽपि महिमा तादृगभ्यु पगन्तव्यः। स चेहापि समानो ऽन्य- त्राभिनिवेशात् । न च देशकालावस्थानानात्वे वस्तुनो रूपं नानेत्युपपा- दितं न्यायकणिकायाम् । ननक्तं न मानान्तरतो ऽनुभूतस्मृतानामर्थरूपाणां|| वाक्यार्थधीप्रसवसामर्थ्यमुपलब्धमुपलम्भे वा सप्तमप्रमाणाभ्युपगमप्रसङ्गः।। आगमस्य चात्रैवान्तवे प्रत्यक्षादिभिस्तुल्यकत्यतया तदेवोपन्यसनीयं न त्वागमस्तट्वेदः** । न हि लोका ब्राह्मणयुधिष्ठिराविति प्रयुञ्जते प्रयु- ज्जते तु ब्राह्मणराजन्यार्वाित वसिष्ठयुधिष्ठिराविति वा । न च भेदान्त- रोपन्यासेन भेदान्तरमुपन्यस्तं भवति । तदयं समस्तमानलक्षणप्रवृत्ती * संस्कारस्य स्वगोचरागोचरविषयकस्मतिजनकत्वाभावे ऽपि स्मतेर्वक्ष्यमाणा. नुपपत्त्या तादृशप्रमितिजनकत्वमङ्गीक्रियतइति यावत् । सामर्थ्य कर्तृ समीचीनमबा- धितं स्मरणं कर्म । आधत्ते जनयतीत्यर्थः । + दशान्तरापादित प्रमाणाभावानामिति ३ पु. पा.। + देशकालभेदोपहितेति ३ पु. पाः । ६ प्रत्यभिज्ञानप्रसवसह इति ३ पु- समस्तः पाठः। || ननूक्तं च मानान्तरते ऽनुभूतस्मतमर्थरूपाणामिति २ पु. पा. । । प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्धिव्यतिरिक्तस्यार्थ स्वरूपस्यापि प्र- माणताऽऽपत्तिरित्यर्थः। ** अर्थस्वरूपस्मारकत्वादागमस्यार्थस्यैव प्रमितिजनकत्वात् पूर्वोदाहृते श्वेति. मचाक्षुषप्रत्यक्षखुनियेषश्रावण प्रत्यक्षदशायामश्वो धावतीति धियाऽर्थमात्रप्रभवत्व- स्वीकारे श्रागमस्य क्वचिदर्थस्मतावुपयोगे ऽपि तस्याव्यापकत्वादिति भावः ।
तत्त्वबिन्दुः । मानतुषस्यापि परित्यागे तेनैव सह स्वकौशलमपि परित्यजेदिति पदाहि- तानुभवानां वा* पदाहितस्मृतिरूपाणां वा ऽयमीदृशः सामर्थ्यातिशयो यतो ऽन्वधिय उदय इत्यकामेनाप्यभ्यु पेयम् । तथा च तिस्रः शक्तयः कल्प्येरन्द्वे वा पदानां हि तावदर्थरूपानुभवजननशक्तिः अर्थरूपाणा- मन्यान्यान्वयनत्यायनशक्तिः तदाधानक्तिश्वापरा पदानामेवेति । स्मार- कत्वपक्षे तूक्तं शक्तिद्वयम् । अन्विताभिधाने तु पदानामेकैव शक्तिः तत्कल्पनालाघवादेतदेव न्यामिति । अत्रोच्यते । सत्यम् । कल्पनालाघवं यत्र तं पतं रोचयामहे । तदेव कतरत्रेति निपुणं संप्रधार्यताम् ॥ एकैव किल तिन्विताभिधानवादिभिरन्वितस्वार्थगोचरा ऽभि- प्रेयते पदानां न तु विशेषे तदप्यभिधीयते । सेयं न तावदन्वयमात्र- विषया । तन्मात्रविषयत्वे तस्याविशेषात्सर्वशब्दानां पर्यायताप्रसङ्गः । नापि व्यतिपक्ताभिधायि पदं न तिषङ्गस्य वाचकं जायभिधा- यमिव व्यक्तः व्यतिषक्ततो ऽवगते-तिषङ्गस्य व्यतिषक्तानां च स्वरू- पता भेदान्नैकार्थ्य पदानामिति सांप्रतम् । व्यतिषक्त इति स्वरूपमात्रं वोपलक्ष्येत व्यतिषङ्गवट्ठोध्येत । तत्र रूपाभिधानजन्मा ख्यातिः|| जा- त्यभिधानजनमेव व्यक्तिं न व्यतिषङ्गमपि गोचरयितुमर्हति । न हि यथा- ऽऽकारिणमन्तरेणाकारो ऽशक्यनिरूपण इति शब्दसामर्थ्यगोचरत्वमना- पत्रो ऽस्याकार्याकाराभिधायिशब्दनिविज्ञानविषयभावं नातिपतति। तथा ऽर्थस्वरूपमन्वयमन्तरेण दुरधिगमं येन स्वगोचरशब्दसामर्थ्यजन्मनि ॥ * बौद्धपदार्थानामेव शाब्दधीविषपतापक्षे । + पदाभिहितानुभवानामिति यददीदृश इति च २ पु. पा. । + अन्विते न तु विशिष्टइति ३ पु. पाः । $ स्ववाच्य प्रतियोगिताऽनुयोगिताकत्वविशिष्ट तत्त्वेन तात्पर्यविषये वा न तु सम्बन्धत्वव्याप्यतत्तद्पावच्छिन्ने नानार्थत्व प्रसङ्गात् । || स्वरूपमात्रनिरूपितशक्तिज्ञानमित्यर्थः । | शुक्लादिशब्दगतशयविषयो ऽप्याकारी गणाश्रयो गुणमात्रवाचकपदजन्य बोधविषयतां न मुञ्चतीत्यर्थः । श्राकारीति पृथक् पदम् ।
तत्त्वबिन्दुः । विज्ञाने ऽन्वयमपि समर्पयेत् । तपस्यान्वयमन्तरेणापि शक्यनिरूप- णत्वात् । नान्वयं विना तद्रूपं क्वचिदपीति चेत । तत्किं लिङ्गमपि न लिङ्गिनं विनेति तदपि तविरूपणाधीननिरूपणमस्तु तथा न लिङ्ग- त्वमपीति अनुमानमुत्पत्रसङ्कटमापोत* । तस्मादन्वितं शब्दसामर्थ्य- गोचर इत्यभ्युपगच्छता ऽर्थस्वरूपं च तदन्वयश्च तद्विषयतया ऽभ्युप- गते भवतः । तदिह यदि पदसामर्थ्यस्य स्वरूपमात्रगोचरतया ऽन्वय- धिय उदयमुपपादयितुं शयामः ततस्तावतैव परितोयामः । तदन्वय- विषयत्वकल्पनाच्च विरंस्यामो लाघवाय । अथ तु सहस्रेणाप्यनुसरण- प्रकारेण प्रयत्नानामर्थस्वरूपमात्रोपतीणवृत्तिनि पदसामर्थ्य वाक्यार्थ- बुझुदयासंभवः ततः परावृत्त्य शब्दसामर्थ्यस्यैवोभयविषयत्वं कल्पाय- ष्यामः । किं तावत्प्राप्तम् । वाच्यरूपाविनाभूतव्यतिषक्तदशापराः । समभिव्याहृतः शब्दा भवन्त्यनुपपत्तितः ॥ सामर्थ्याधिगमो हि भावानां न मानान्तरराधीनजन्मा किंतु कार्यात्पत्त्यन्यथाऽनुपपत्तावायतते । तदियपि व्यतिषङ्गप्रतीतिः कथ- मपि दृष्टादृष्टप्रकारभेदसहायादुपपद्यमानोत्पत्तिर्न पदसामर्थ्यमात्मनि प्रमाणयितुमर्हति । अनन्यलभ्यः शब्दार्थ इति हि विद्धवृद्धाः । अत एवाख्यातादौ काट्यभिधायितां नाद्रियन्ते । लभ्यते च समभिव्याहारान्य- थानुपपत्त्या पदानान्वितार्थपराणां स्वाभिधेयार्थरूपसमवेतान्विताव- स्थाप्रत्यायनं लक्षणया । न हि पदान्यसभिव्याहृतानि स्वाभिधेयप्रत्यय- मात्रेण पर्यवसातुमीशते । न हि लौकिकाः पदार्थमात्र प्रत्यायनाय प्रव. तन्ते । प्रतिपित्सितं खल्वेदिति प्रतिपादयिष्यन्तः पदान्युच्चारयन्ति । अबुभुत्सितावबोधने त्वनवधेयवचनतया नामी लौकिका नापि परीक्षका इत्युन्मत्तवटुपेत्येरन् । न च भूयो भूयः समधिगतं परं पदार्थमात्रं बुभु- सन्ते । तदनधिगतमर्थमवगर्मायतुमनसः समभिव्याहन्ति वृद्धाः पदा- लिङ्गस्य लिङ्गत्वस्य वा व्यापकाधीननिरूपणत्येन तज्जानकालएव व्यापक ज्ञानाभ्युपगमे पक्षधर्मताज्ञानोत्तरजायमानप्रमितिविषयताऽनुपपत्तेरिति भावः ।
तत्त्वबिन्दुः । नि । तदयं समभिव्याहारः पदानामधिगतार्थप्रत्यायनप्रयुक्तस्तदन्तरे- णानुपपद्यमानः स्वाभिधेयसमवेतामनधिगतचरीमन्वितावस्यां लक्षति । तदुक्तम् । विशिष्टार्थप्रयुक्ता हि समभिव्याहृतिर्जनइति। तदेवमनुपपलमा- वसमभिव्याहारपदजातजातस्मरणस्वार्थप्रत्यासत्त्या दृश्यमानया दृश्यमा- नार्थगताकाङ्कायोग्यतासविधिसध्रीचीनया लक्ष्यमाणा ऽन्वितावस्था ना- मनि पदसामर्थ्य प्रमाणात अन्यलभ्यत्वात । स्यादेतत् । अस्तु लौकिकानां पदसंघातानां प्रेतावत्पुरुषसं- दृश्यानां संदर्भितुरभिप्रायमनुरुध्यमानानामनुपपत्त्याऽनधिगतार्थलक्षणाप- रत्वं वैदिकानां तु पुरुषासंदृब्धानामबुद्धिपर्वाणां नानुपपत्तिययाऽन्वि- मावस्यां लक्षयेयुः । यएव लौकिकाः शब्दास्तएव वैदिका अपीति चेतत्किं गङ्गायां घोष इति गङ्गाशब्दो लाक्षणिक इति गङ्गायां पयासि यादांसि गङ्गायामित्यापि स एव लाक्षणिको ऽस्तु । अनुपपत्ति- विरहाचैवमिति चेत्समानमेतदबुद्धिपर्व केषु वैदिकेष्वपि । अथ परस्यापि वैदिकेषु पदसंदर्भषु कुतो ऽनधिगतार्थबोधनम् । अर्थान्तरान्वितस्वार्थ पदसामर्थ्यावगमाल्लोके वैदिकानां च लौकिकेभ्यो ऽनन्यत्वादिति चेत्तत्र । लौकिकपदानि हि पुरुषाधीनरचनया तदभिप्रायानुरोधेनान्वि- तार्थपरतया तमवगर्मायतुमीशते इति किमान्तन्वितस्वार्थाभिधान. कल्यनया|| । तथा सति वैदिकार्थप्रतीतिरनुपपत्रेति चेद् मोपपादि किं नश्छिन्नं नैयायिकानाम् । मानानुसारि हि प्रयोजनं न तु तदनुसारि मानम् । तस्मात्स्वदृष्टिपक्षपातं परित्यज्यास्यायास्तिकपथमृजुमनुसरावो निमित्तमप्रत्यहमस्या वैदिकार्थप्रतीतः । तत्रानादिवृद्धव्यवहारपरंपरायां अनुपपढयमानः संसष्टतात्पर्यकत्वाभावे ऽनुपपन्नः पदान्तरसमभिव्याहारो यस्य तादृशेन पदजातेन पटसमूहेन जातं स्मरणं यस्य तादृशस्यार्थस्य प्रत्यासत्या संब- न्धेनेत्यर्थः। + अनन्यलभ्यत्वादिति २ पुः पाठः । + सात्यानुपपत्त्येत्यर्थः। ६ अन्विताभिधानवाद दूषयति । अथेति । लोके ऽर्थान्तरान्वितस्वार्थ पदानां सामर्थ्यग्रहादग्रहीतसङ्गतिकस्य स्वर्गापूर्वादेर्वेदिकबोधविषयत्वासंभवादिति भावः । ॥ पदरर्धस्वरूपमात्रोपस्थिता वक्तृतात्पर्यज्ञानवशात्तत्संसर्गबोध इति भावः । ..
तत्वबिन्दुः । २७ पदतदर्थसंबन्धबोधोपाये सत्यसयपि संबन्धरि शब्दादर्थप्रततिरुपपत्तेर- र्थभेदनिरूपणस्य च ज्ञानभेदनिबन्धनत्वाज्ज्ञानभेदस्यार्थाभेदात्तदनभि- धाने ऽभिधानाभावादर्थभेदाभिधाने वा तत एव सिद्धेस्तदभिधानानुप. पत्तेस्तद्वेतुतया तु तत्कल्पने ताल्वादिव्यापारस्यापि वाच्यत्वप्रसङ्गात्स्वा- भाविकः शब्दार्थयोः संबन्ध इति स्थितिः । स तु किमर्थान्तरान्वितस्या- र्थस्यार्थरूपमात्रस्य वा । यदापि रूपमात्रमुच्यते पदैस्तदा ऽपि किं तन्मा- परैराहो स्विदन्वितावस्थाप्रत्यायनपरैः । तत्र रूपमात्रप्रत्यायनपरत्वे ! पदानां वाक्यार्थप्रत्ययानुपपत्तेरप्रयोजनस्य प्रयोजनासंभवा दत्यन्तान्धमूकं जगत्मसज्येत । तदुभयं|| परिशिष्यते लौकिक्रपदसंदर्भस्य विशिष्टार्थप्रत्या- यनप्रयोजनपरस्य । तत्रार्थान्तरान्वयपरस्य स्वार्थमात्राभिधाने ऽन्वित- प्रतिपत्तेरुपपत्तेरापत्तिपरीक्षया ऽत्रान्वयं यावत्पदस्य सामर्थ्य मनुवर्तनी- यमा। तथा हि । वृद्धप्रयुक्तवाक्यश्रवणप्तमनन्तरं प्रवृत्तिनिवृत्तिहर्षशोकभय- * वृद्धव्यवहारपरंपरारूपे शब्दार्थसंबन्धज्ञानकारणे सति अनेन शब्देनायं बोध्य इत्युपदेष्टर्यसत्यपि बोधदर्शनात्तत्तदर्थगतभेटप्रतिपादनस्य. तत्तद्विषयकज्ञानाक्रारभेटप्रयु. क्तत्वाज ज्ञानगतवैलक्षण्यस्य विषयतासम्बन्धेन तत्तदर्थरूपतयाऽर्थाभेदाद ज्ञानगतवैलक्ष- गयस्य वस्तुतः सत्त्वेऽपि तस्य बोधविषयत्वाभावेन पदेषु तत्तज्ज्ञानगतवैलक्षण्यनिरूपि- तशक्तेर्वक्तुमशक्यतया अर्थानामिव तत्तदर्थगतवैलक्षण्यस्यापि वाच्यत्वाङ्गीकारे तावन्मा- त्रेण शक्त्यैवेतरव्यावृत्ततत्तदर्थविषयकशाब्दधिय उपपादयितुं शक्यतया ऽन्वयांशे पदवा- च्यताभ्युपगमवैयादर्थगतवैलक्षणयबोधस्य त्वन्वय प्रयोज्यत्वमात्रेण स्वरूपता ऽर्थाभेदा- तद्वैलक्षणयनिर्वाहकान्वयांशस्यापि वाच्यत्वाभ्युपगमे भिन्नभिन्नार्थबोधकारणीभूतपद- प्रत्यक्षकारणपदोच्चारणकुक्षिप्रविष्टताल्वादिव्यापारस्यापि परंपरयेतरव्याक्तार्थबोधं प्रत्युपयोगित्वेनानिष्टस्य वाच्यत्वस्यापत्तेः शब्दार्थसंबन्धः स्वाभाविक एवेति सिद्धान्त इत्यर्थः। + सम्बन्धः 1 किमिति २ पु. नास्ति । ६ स्वरूपमात्रतात्पर्य के पदेस्तात्पर्यविषयस्य संसर्गस्य बोधनीयत्वासंभवादि- त्यर्थः ॥ उभयम् । अर्थान्तरान्वितस्वार्थाभिधायकत्वमन्वितावस्था प्रत्यायनतात्पर्य- कत्वं च। का स्वार्थमात्रनिरूपितक्तिस्वीकारे ऽपि पदसमूहस्य विशिष्टार्थबोधतात्पर्यक- त्वेऽन्वयप्रतोतेः पविशेष्यकतात्पर्यज्ञानेनैवोपपत्तेः यजेत स्वर्गकाम इत्यादावपूर्वेऽर्था- पत्तिलभ्ये पदानामशक्यार्थान्तर इवान्वयांशेपि सामर्थ्यमङ्गीकार्यमित्यर्थः ।
तत्त्वबिन्दुः । संप्रतिपत्तेर्युत्पत्रस्य युत्पित्सुस्तद्वेतुप्रत्ययमनुमिमीते तस्य सत्स्वप्यन्येष्व- नुपजातस्य पदजातश्रवणसमनन्तरं संभवतस्तद्वैतुभाव*मवधारयति। न चैष प्रत्ययः पदार्थमात्रगोचरः प्रवृत्त्यादिभ्यः कल्प्यत इति विशिष्टार्थगोचरो ऽभ्युपेयते तट्टिशिष्टार्थपरता ऽवसिता वृद्धव्यवहारे पदानाम् । न चेयम- विशिष्टार्थस्मरणमन्तरेणेयविशिष्टार्थस्मारकत्वं तदुत्पत्त्यैव प्रत्युप्तम्।। न चैतदेषां विशिष्टार्थतामुपहन्तुमर्हति । न जातु भावाः स्वनिमित्तमुप- घन्ति मोपघानिषत स्वमपीति । न चैतावता विशिष्टाभिधानविशि- ष्टविषयेभ्यो ऽपि तत्परेभ्यस्तदुपपद्यते|| । तस्माल्लोकानुसारेण वैदिक- स्थापि पदसंदर्भस्य विशिष्टार्थप्रत्ययप्रयुक्तस्याविशिष्टार्थाभिधानमात्रेण लक्षणयात विशिष्टार्थगमकत्वम् । स्वार्थमात्रपरत्वे तु प्रयोजनाभावेन तस्याप्यनुपपतेः** । यथाहुरजभवन्तो वार्तिककारमिश्राः । * तत्कारणकत्वं वाक्यकारणकत्वमिति यावत् । + प्रवन्यादीनां पदार्थमात्रप्रतीत्या ऽनुपपत्तेः प्रवृल्यादय एव विशिष्टार्थप्रतीत्य- नुमापका इति भावः। + विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य विशिष्टवैशिष्ट्यावगाहबुद्धिं प्रति विशेषणतावच्छेदकविशेष्यतावच्छेदकधर्मप्रकारकनिश्चयस्य च हेतुत्वात् । विशिष्टविषयकबोधोत्पत्त्येव पदानामविशिष्टार्थस्मारकत्वमाक्षिमित्यर्थः । || असंसष्टस्वार्थमात्रनिरूपिताभिधाख्यतिविशिष्टेभ्यः पदेभ्यो विशिष्टार्थ- तात्पर्य केभ्यस्तात्पर्येणेव संसष्टार्थप्रतीत्युपपत्तेः संसष्टनिरूपिता ऽभिधा न स्वीक्रियत- इत्यर्थः। T लोके वकभिप्रायरूपतात्पर्यसंभवे ऽप्यपौरुषेयेषु वैदिकवाक्येषु तदसंभवाच्छ- तया पदार्थमात्रापस्थितापि लक्षणया संसष्टार्थबोधजनकत्वमित्यर्थः । ** तदन्य प्रतीतीच्छया ऽनुचरितत्वे सति तत्प्रतीतिजननयोग्यत्वरूपेण तात्य. येण युक्तस्य वैदिकपदजातस्य स्वार्थमात्रे प्रदर्शिततात्पर्य स्वीकारे प्रयोजनभूतस्य प्रव. ज्यादेःस्वरूपमात्रज्ञानेनासम्भवात् प्राक् प्रदर्शितरीत्या ऽनुमितिकारणीभूतप्रवृत्त्याटाभा- वेन स्वार्थमात्रबोधस्याप्यनुपपत्तरिति भावः । एवं च स्वरूपमात्राभिधानेन प्रयोजनशू- न्येषु वैटिकपदेषु लक्षणायणेन ससष्टबाधाङ्गीकारे ऽपि निर्विशेषात्मतत्त्वबोधनेन निखिलमायबापपरमायोजनसंपादकेषु महावाक्येषु तत्वमस्यादिषु नान्वयांशे लक्षणेति भावः । अत्र भूमिका अनुसंधेया। th लोकार्तिवाक्याधिकरणे प्रलो. ३8 ।
तत्त्वबिन्दुः । सातादपि कुर्वन्ति पदार्थप्रतिपादनम् । वास्तथापि नैतस्मिन्पर्यवस्यन्ति निष्फले । वाक्यार्थमितये तेषां प्रवृत्ती नान्तरीयकम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥ तथा च वाक्यार्थी लक्ष्यमाणो हि सर्वत्रैवेति नः स्थितिरिति । अन्विते ऽर्थे तात्पर्याभ्युपगमात्तभिधायित्वं पदानामिति चेत्तत्कि गङ्गायां घोष इत्यत्र गङ्गापदं तीराभिधायि भवेत् तत्र तात्पर्यावास्मारि- तस्वार्थप्रत्यासत्त्या ऽपि तदवगर्न तत्परस्यापि तदभिधानमिति ययु. च्येत तदितरजापि समानमुक्तेन क्रमेण तस्मादनेकान्तं तात्पर्य न बीजं सामर्थ्यसाधने|| । न जातु ज्वलन्ति काष्ठानि पाकपराण्यापिणा पाके साक्षात्समर्थानि कि तु ज्वलनएव तया द्वारा तत्सिद्वैः । तेषामतुल्यक- याणां प्राथम्यं न विशेषायोपयुज्यते येन पदानां तदर्थभ्यः प्राथम्येना. न्वितार्थधियं प्रति सामयं कल्प्येत** । दर्शिता त्वतुल्यकत्यता रूपमात्रा- भिधानादन्विताभिधाने गौरवात् । न च पदार्थानामुपलभ्यमानाकाडा- दिसहकारिणां विशिष्टार्थधीजन्मनि सामर्थ्यमपरं कल्पनीयं तेभ्य एवं तादृग्भ्यस्तदुत्पत्तरूपपत्तेः। न चैते मानान्तरदृष्टा अर्थान विशिष्टार्थबुद्धे- * प्रवृत्ताविति फले निमित्ते सप्तमी । प्रवृत्यर्थमाश्रितवाक्यार्थबोधार्थम् । नान्तरीयकं प्रदर्शितदिशा ऽवश्यकम् । + शक्तयविषयस्यापि तात्पर्यविषयत्वमात्रेण बोधाभ्युपगमे ऽतिप्रसङ्गं मन्यमानः शङ्कते। न । अभिधायकत्वं तस्येष्टमिति शेषः । लक्षणयापि विशिष्टधोसंभवादिति भावः। ॥ शक्तिसाधने। का पाकसंपादकान्यपि । पाकेच्छयोपात्तान्यपीति यावत् । अन्यथा ऽप्युपपटामानानां विशिष्टज्ञानानां प्रकृयादिहेतुकानुमितिम्राथमि- कविषयत्वं शक्तयनुमापने न पर्याप्तमित्यर्थः । # प्रत्यक्षादिना ऽवगतानां श्वेत्यखुरनिष्येषशब्दश्रवणादीनां विशिष्टार्थबोधजन कत्वस्य प्रागुपपादितत्वात्तथैव पदैरुपस्थितानामप्यर्थानां विशिष्टानुभवजनकत्वाभ्युप- गमे कारणत्वकल्पनाऽऽधिक्यं नेति भावः। येभ्य एवेति २ पुः पाठः । SS मानान्तरदृष्टानर्थानविशिष्टार्थबुद्धेरिति २ पु. पा. ।
३० तत्त्वबिन्दुः । रीशते । तथा हि यत एवानुमानभावमात्तिभावं वा समापना दृष्टा विशिष्टार्थधियमादधाना यथा तथा प्राधास्यन्ति तामेव तत्परैः* स्मारिताः सन्तः शब्दत्वामापनाः । अनुपपत्तिसंबन्धमात्रप्रभावितं च तात्पर्यमुपपादके न शक्तिमपेततो गङ्गादिपदानां च काष्ठादीनां च तीरादौ पाकादौ च कल्पनाप्रसङ्गादित्युक्तम् । न च सर्वत्र स्वार्थपरित्यागे- नैव लक्षणेत्यैकान्तिकम् । लक्षणीयानुरोधेनैव हि सर्वत्र परिग्रहपरि- त्यागौ । तथा गङ्गायां घोष इत्यत्र गङ्गापदेन घोषप्रतिवासार्हतीर- लक्षणया स्वार्थस्य गङ्गायास्त्यागः । दण्डिनो गच्छन्तीत्यत्र तु दण्झद- ण्डिषु समूहिषु लक्ष्यमाणेषु तदन्तर्गतस्याविशेषाण्डिशब्दार्थस्य परि- यहः । तथा वेदे सृष्टीरुपदधातीत्यत्र गणिकानां| लक्ष्यमाणत्वे तदन्तर्ग. तस्यापि सृष्टार्थस्य परियहः । एवमिहापि व्यतिषतावस्थायां लत्यमा- णायां तदन्तर्गतस्यार्थरूपस्यापि परियहः तदग्रहे लत्यमाणपरित्यागप्रस- गाता।लक्षणालक्षणायोगादलक्षणेति चेद न** । अलक्षणत्वात । तत्रैत- स्यात् । नेयं लक्षणा सा किलाभिधेयस्यार्थस्यायोग्यतया ऽनुपपद्यमाने वाक्यार्थसंबन्धे सति तत्संबन्धलब्धबुद्धिविधी वाक़्यार्थसंबन्धार्ह भवत्यः थान्तरे । तथा ऽऽह कश्चित् । वाच्यस्यार्थस्य वाक्याथै संबन्धानुपपत्तितः । तत्संबन्धवशप्राप्तस्यान्वयाल्लतणेष्यते ।। । * तत्पदैरिति २ पुः पाठः। + शब्दोपस्थितत्वप्रकारकानुसंधानविषयत्वम् । + पदार्थस्वरूपमात्रे ऽनुपपत्त्या सम्बन्धेन प्रतियोगित्वादिना च केवलमुपपा- दितं वाक्यार्थसंसर्गनिरूपितं तात्ययं पदे शक्तेर्गमकं न तामन्तराप्युपपत्तेरित्यर्थः ६ अन्वयांशे लक्षणामसहमानः सङ्कते। || तद्गणपठितानां सष्टिशब्दरहितानापि । शाबरभाष्ये अ० १ पा• ४ सू २७ । पा संसर्गिणः पदार्थस्य परित्यागे संसर्गमात्रप्रतीनियोजनत्वेन संसर्गस्यापि परित्यागप्रसङ्गादित्यर्थः। ** वक्ष्यमाणस्वार्थान्यपदार्थबोधकत्वघटितलक्षणालक्षणस्य स्वार्थसम्बन्धे भा- वादित्यर्थः। +t च्यमाणस्य लक्षणालक्षणस्य प्रदर्शयिष्यमाणदूषणेनाव्यापकत्वादिति भावः।
तत्त्वविन्दुः । ३१ न चौदनं पचति चैत्रः पिठरइत्यादौ चैत्रपिठरादीनामानां वाक्यार्थ संबन्शनहत्वम् । न च तल्लक्षितया ऽन्वितावस्थाया अन्वया- तरशालिता न चैवं लतणा तल्लतणविरहादिति । तत्किमिदानों न लक्षणेयमित्यन्यलभ्यस्यापि शब्दार्थत्वमस्तु । न हि मासग्निहोत्रं जुहो तीत्यत्राग्निहोत्रपदमलाक्षणिकमिति मुख्यं भवति । कर्मान्तरसादृश्येन गोण्या वृत्त्या तत्र प्रवृत्त्युपपत्तेर्न तदभिधानशक्तिकल्पनेति चेद् इहाप्यु- नीतया नीत्या ऽन्तरेणाप्यभिधानसामर्थ्यमन्वितावस्थाप्रतीत्युपपत्तेः कृत- मभिधानशक्तितः । एवं च न चेदियं पदप्रवृत्तिलक्षणालक्षणमन्वेति भवतु तर्हि चतुर्थी दृष्टत्वाद् अस्तु वा लक्षणैव । नो खल्वेतल्लक्षणम- प्रसिद्धवृत्त्यन्तरावतारप्रसङ्गात् । तस्मादेतद्वक्तव्यम् । तदिदमुच्यते मृष्यामहे वाच्यानुपपत्तित इति संबन्धवशप्राप्तस्येति च न पुनर्वाक्यार्थ संबन्धेति चान्वयादिति च । अस्ति चेहापि लोकानुसारतो विशिष्टार्थप्रत्या- यनप्रयुक्तसमभिव्याहृतीनामर्थरूपमानपरत्वे पदानामनुपपत्तिः अर्थरूपसं. बन्धवशप्राप्तता चान्वितावस्थायाः । व्यापकं चैतल्लक्षणं लक्षणानामन- वयवेन वैदिकीनां च लौकिकीनां चेति चतुरस्रम् । अभिधातित्वं च पदानां रूपमात्रप्रज्ञापने ऽपि न तेनोपपदाते|| । अपि नाम पदानि साक्षावापारेण बोधयन्त्यान्वाक्यामितये तद्बोधमिति वास्यार्थ लयिन्ति । तदवस्थाभेदस्य तैः सहादृष्टचरत्वेन बुद्धावसनिधाना- दलक्षणेति चेत् न । सामान्यतोष दर्शनात्यदार्थानां च द्विशेषकत्वात् । नो खन्वितेभ्यः पदार्थभ्यो ऽन्यो ऽन्वितावस्थाविशेषः** । तथा चार्थस्वरूप- * लक्षणयोपस्थिततीरादेः पश्चाट् बोधविषयत्वमिव प्रकृते लक्षितेन संसष्ट- स्वार्थरूपेण प्रयोजनसिद्धेः पुनरन्वयान्तरस्यानुपयोगादनवस्थाप्रसङ्गाच्चेति भावः । । इति शब्दः २ पु. नास्ति । + अर्थसम्बन्धवत् प्राप्ततेति २ पु. पा. । $ साकल्येन । | स्वरूपमात्रोपस्थापनेन न परिसमाप्यते प्रयोजनकल्यादिति भावः । अलक्षणनिवेशनसामान्यत इति २ यु. पा. । तथा चेतरपदार्थान्वयेन विशेषरूपतामायनः संसष्टार्थः सामान्यविशेषभा- वसम्बन्धेन स्वरूपसम्बन्धीति तत्र लक्षणा युज्यतइति भावः। नो खल्वन्वितेभ्यः पदा- भ्योन्यान्वितावस्थाविशेषेभ्यः इति २ पु. पा.। ** तत्त्वबिन्दुः । बोधनसामर्थ्यानाधिकं सामर्थ्यद्वयं* कल्पयिष्यते नाप्यभिधानशक्तरेवान्व- यविषयत्वम् अर्थस्वरूपमात्रगोचरत्वे ऽपि तत्पतीत्युपपत्तेः । यदि पुनः प्रमाणसंशविपर्ययेभ्यो विधान्तरानुपगमाव पदार्थबोध: शब्दव्यापार- जन्मोपेयते हि स्मृतिरस्तु । न त्वेषा संस्कारोन्मेषमात्रप्रभवेति चतमभि. धातृभावेन पदानाम् । तदुन्मे तदुपयोग इति चेद्वन्तार्थी ऽप्यालोचितः स्वपदगोचरसंस्कारोबोधहेतुरिति सो ऽपि पदस्याभिधाता स्यात् । दिदमनभिधातृत्वमधिगतान्वयबोधनएव कल्प्यते पदानां नान्यथा | अथैवंधादी पृष्टो व्याचष्टां को नु खल्वयमभिधाव्यापारः शब्दानां येनामी तद्वन्तो ऽन्वयस्याभिधातारः । न तावत्परिस्पन्दस्तस्य मूर्तानुवि- धायिनो द्रव्ये विभुनि विभुगुणे वा शब्दे मर्त्यभावेनासंभवात् । अप्सर्व. गतद्रव्यपरिमाणं मूर्तिरिति हि पदार्थविदः । नाप्यस्पन्दोत्मा प्रयवादि- रिवादृश्यमानः प्रमाणाभावात् । अन्वयधियश्च कार्यस्य सति संगति संवेदने शब्दनिश्चयज्ञानादेवोत्पत्तेः** । तस्मात्स्वगोचरं विज्ञानमेव शब्दा- नां व्यापारः स्वार्थबोधे । यथा ऽऽह भगवान्भाष्यकार: । शास्त्रं शब्द- विज्ञानादसचिकृष्टे ऽर्थ विज्ञानमिति । स एव स्वाभाविकक्तिशालिनः शब्दस्य स्वशक्त्या अर्थधीहेतुतया अभिति गीयते । शब्दाभासस्यन्द्रिय- कत्वे ऽपि रूपतः सामोपधानेनाभिधात्वात्तस्य चातीन्द्रियत्वादतीन्द्रि- * प्रागुक्तं पदानामन्वयानुभवसामर्थ्यमर्थस्वरूपाणामन्ययानुभवसामर्थ्य च । पाटास्यान्यथा : प्युपपद्यमानत्वादन्त्यस्य स्कृप्तत्वाच्चेति भावः । + विधानान्तर्राति २ पु. पा. । + पदार्यानुभवः। ६ पदानामभिधातृत्वेन पर्याप्तं तावन्मात्रेण प्रयोजनसिद्धेरिति भावः । युग पर्याप्तयोः कृतमित्यमरः। || अर्थवादादिवाक्येषु प्राशस्त्यादेरशक्यत्वे ऽणि संसर्गस्य प्राथमिकक्तिग्रहकाले- ऽवगतत्वात्संसर्गत्वेन संसर्गस्य शक्यतेति भावः। का वैशेषिकदर्शनप्रशस्तपादभाष्यटीकायामुदयनाचार्यकृतायां किरणावल्यांसाध- मर्यप्रकरणे। शब्दजन्यस्वार्थनिश्चयेनैवान्वयधिय उपपनत्वाद् व्यापारान्तरकल्पना ऽनुचि- तेति भावः। th शाबरभाष्ये श्र. १ पा. १ सू. ५। 2 स्वविषयकज्ञानरूपव्यापार एव ।
३३ - - तत्वबिन्दुः । यत्त्वपास्थिषताभिधायाः । न चे साक्षादधियमात येन न तत्साधि. का स्यात अपि तु संस्कारोद्धोधनक्रमेण । तथा च नाविषयविज्ञानं स्वप- दगोचरसंस्कारोवोधनसमेण पदस्मरणर्मापा विदधदभिधाशब्दगोचरः अपि तु शब्दविषय विज्ञानं तस्य च तदानियमातां । लौकिकपरी. नकाणां प्रयोगसंप्रतिपत्तेः । प्रणिधानादिष्वपाठाच्छब्दस्य न स्मारकत्व. मितिचेन्न । तत्संबन्धात् । अथापित स्यारिगणिता हि स्मृतिहेतवः || प्रणिधाननिबन्धनाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्त- र्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थित्वक्रि- यारागधर्माधर्माः प्रामाणिकै चैतेषु किं चित्पदं तत्रार्थस्य स्मारकर्माित चेत्तवार्थसंबन्धेन तदुपपत्तेः । संबन्धा हि स्मृतिहेतुयु पठितः । यतो ऽन्ते- वासिनो गुरुत्विजो याज्यं स्मरन्तिा। (स चास्ति शब्दार्थयारोत्पत्तिको) वा- च्यवाचकभाव इति तदनुभवाहितभावनासहितं शब्दविज्ञानमन्वितार्थप्र- त्यायनप्रयुक्तं स्वार्थ स्मारयिष्यति । वा यवाचकत्वं च प्रत्याय्यप्रत्यायकत्वं तच्च विचार्यमाणं स्मार्यस्मारकत्वमेव । ननु संबन्धान्तरेणाध्यापका- ध्यापनीयभावादिना ऽन्तेवासी स्मरति गुरुं न स्मारकत्वेनैव** तथैवे- हापि संबन्धान्तरमनुसर्तव्यं न च तदस्ति तत्कथमस्य स्मारकत्वम् । अन्विताभिधाने त्वभिधेयसाहचर्यमेवास्यास्ति संबन्धान्तमिति युज्यते am * शब्दगताभिधाया अर्थबोधानुकूलसामर्थ्यरूपायाः कुक्षी प्रविष्टस्वार्थस्याती- न्द्रियत्वेन तद्विशेषितसामर्थ्यस्याप्यतीन्द्रियत्वमाश्रीयतइत्यर्थः । + पथस्मरणमपीति २ पु. पा. । + शब्दविषयकज्ञानेन नियमतो ऽर्थप्रत्ययस्येवार्थज्ञानेन पदस्मरणनियमाभावा- दर्थगतक्वाचित्कपदोपस्थापकव्यापारस्य नाभिधात्वं नियमेनोपस्थापकव्यापारस्वा. भिधात्वादिति भावः । शब्दस्य तत्स्मारकत्वमिति चेच तत्संघादिति २ पु. पा. । प्रथापीत्यंत्र तथा- पीति च। || गोतमसूत्रे अ. ३ श्रा. ६ . ४४ । का स्मारयिष्यन्तीति ३ पु. पा. ( ) रतंदभ्यन्तरस्य॑श् पाठः पु. नास्ति । ** स्मार्यस्मारकत्वेनैवेति ३ पु पा।
तत्त्वबिन्दुः । स्मारकत्वं पदानाम् । अथान्विताभिधाने व्यन्वितप्रत्यायनाय* किमस्ति संबन्धान्तरं पदानां दृष्टा हि चक्षुरादयो धूमादयश्चार्थस- विकर्षलक्षणनियतसाहित्यादिलक्षणेन संबन्धान्तरेण प्रत्याययन्ता यथा- यथमान् । ययुच्येत विना ऽपि संबन्धान्तरमात्पत्तिकार्यप्रत्याय. नशक्त्या वृद्धव्यवहारोबीतया प्रत्यायमिति तदत्रापि समानम् । इहापि तादृशस्यैव स्मृतिजननशक्त्या वृद्धव्यवहारोचीतया स्मारकत्वमस्तु पदा. नामर्थरूपे तच्च स्वज्ञानमेव तस्य चाभिधात्वमुपपादितमधस्तात् । तस्मादभिधातृत्वर्माप नान्विताभिधानति कल्पनालाघवादाकाहादि- लक्षणसहकारिप्रत्यासनैश्च समभिव्याहतपदस्मारितैः पदार्थैः प्रत्या- सत्त्या गम्यमानो वाक्यार्थी लाक्षणिकः शाब्दश्चेति रमणीयम् । तस्मा. सुष्टतं पदानि स्वं स्वमर्थमभिधाय निवृत्तव्यापारराणि अदानी पदार्थो अवगताः सन्तो वाक्यार्थमवगमयन्तीति ॥ तत्त्वबिन्दुपरामर्षपुष्टानां बुद्धिवीरुधः । वाक्यार्थधीसुमनसः पुरुषार्थफलप्रदाः ॥ धाक्यामितये पुंसां भ्रमसंतमच्छिदा। इन्दुनेवामुना माा दर्शितस्तत्वबिन्दुना ॥ रति श्रीवाचस्पतिमिविरचितस्तत्त्वबिन्दुः समाप्तः ॥ अन्वितानुभवनिष्यत्तये । सामान्यतो ऽन्वितस्योपस्थितत्वेनानुभवाविषयताया असम्भवाहिशेषस्य च सामान्या भन्नत्वेन सम्बन्धान्तरानुपपत्तेरिति भावः । + अन्त्रिताभिधानवादे प्रदर्शितदिशा पटानान्विताभिधावृत्त्वं न सिध्यती. त्यर्थः। * संसगा लक्षणागम्यः स्वज्ञानादिपरंपरया पदनित न शाब्दश्चेत्यर्थः 8 शाबरभाष्ये अ. १ पा. १ सू• २५ । --
No text on this page.
No text on this page.
No text on this page.