Prakrit Bharati Academy, Jaipur
Yogasutra Vritti
Front matter
No text on this page.
SRI VANI VILAS
SASTRA SERIES.
+
No. 11
No text on this page.
Yogasutra
Vritti
NAMED
YOGA SUDHAKARA...
Sri Sadasivendra Sarasvati
Author of Brahmasutra Drittt, Atmavidyavrlasa etc.
BRIRANGAN:
SRI VANI VILAB PRESS.
1911.
*m
Copyright Registered.]
[All Rights Reserved.
No text on this page.
ओम् ॥ -- योगसुधाकरो नाम -- ॥ योगसूत्रवृत्तिः॥ ॥ श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीपरम- शिवेन्द्रसरस्वतीपादाजसेवापरायण श्रीसदाशिवेन्द्रसरखत्या विरचिता। 4 . श्रीरङ्गनगरे श्रीवाणीविलासमुद्रायत्रालये संमुद्रिता । - १९१२.
No text on this page.
PREFACE, T affords me peculiar pleasure to be able to bring one after another the works of the great Mabatma, Sri Sadasivendra Sarasvati. Till recently bis works were known to the public by name only and it was a proud moment for me when I, in obedience to the command of His Holiness Sri Jagadguru of Sringeri, published for the first time Sri Sadasivendra's beautiful commentary on the Brahma Sutras known as Brabmetattvaprakasika. Since then have come out in quick succession his Siddhanta Kalpavalli (a masterly epitome in verse of the famous work Siddhantalesasangraba of Appaya Dikshita) with his own commentary called Kesaravalli, Atmavidyavilasa containing not only the well known Sixty-two slokas in Arya metre but also forty-three slokas in various large metres and bis sweet and melodious songs or kirtanas full of Advaitic wisdom. All these masterpieces of this master* mind are very much appreciated by all scholars throught India and it is with feelings of gopnine pleasure that I now publish this rarest of all his works viz., the commentary on the Yogasutras of Patanjali named as Yogasudhakara. Through the exertions of Pandit S. Subramanya Sastriga) of Tanjore, I obtained
11
only one (yet neat and accurate) manuscript and my
eternal thanks are due to bim for thus enabling me to
publish this most valuable work. A commentary on
the Yogasutras by the greatest Raja Yogin Southern
India has ever produced is sure to be eagerly welcomed
and highly appreciated by the discerning Public and it
is a source of gratification that the Sri Vani Vilas Press
has the privilege of making it known to the world.
A life-sketch of the author in English was prefixed
to the Brahmasutravritti and this was specially rendered
into Sanskrit at my request to be prefixed to this work
by Mr. R. Krishnamacbariar M. A., Vidyanidhi, whom
I hereby heartily thank for his deep interest in all that
concerns the welfare of this Press.
J. K. Balasubrahmanyam.
विषयाः
॥
॥
पृष्ठम्
श्रीसदाशिवेन्द्रसरखतीजीवनचरितम्
योगसूत्रवृत्तिः
समाधिपादः
१-२४
१-१००
१
२२
....
साधनपादः
विभूतिपादः
कैवल्यपादः
सूत्रानुक्रमणिका
८२
No text on this page.
ETTEp11|NTATI
श्रीसदाशिवेन्द्रसरस्वती
जीवनचरितम् ॥
lilainu un
+
No text on this page.
No text on this page.
ப
||
-
+
--
-
.
+
+
1
1
|
-
1
P
*
ஸ்ரீ ஸதாசிவ பிரஹ்கம்.
பு
4
श्रीः॥ 11- ॥ श्रीसदाशिवेन्द्रसरस्वती ॥ M चराचरगुरोराज्ञया सर्वसहायामस्यामखिलजनमनस्तमो- निवारणायावतरन्ति मर्त्यरूपेण तदा तदा केचन पावनच. रित्राः परिशुद्धचर्याः पतिपावनाः परमेश्वरांशभूताः पराव- रतत्त्वज्ञा: परमगुरुवर्याः पुण्यजन्मानः पुरुषधौरेयाः । ता- दृशेषु प्रथमगणनीयो राजयोगनिष्णातः निखिलदिगन्तवि. श्रान्तयशाः कवेरकन्यातीरविहारकुतुकी 'सदाशिवेन्द्रसर- स्वती' इति सुप्रसिद्धनामा योगिवर्यः सार्धशतहायनेभ्यः पूर्व चोलमण्डलमात्मनो जन्मना अलमकार्षीदिति श्रूयते । तस्य चावासभूमिः करूर्नामको जनपद इति चावगम्यते । को वा न जानाति विशुद्धचरितस्यास्य योगीन्द्रस्यात्यद्भुतम- पदानमार्यजनैर्गीयमानमनुदिवसमनुसंधीयमानं स्तुतिरूपेण विशदमनुवर्णितं श्रीशिवाभिनवनृसिंहभारतीस्वामिभिः श्री- मच्छृङ्गगिरिपीठमलकुर्वद्भिरास्तिकजनानुग्रहनिरतः? योगीन्द्रा हीमे शैशव एव समधिगतनिखिलविद्यावि- . .
(४) लासा: गुरुभिरभिनन्दनीयविशदावभासविज्ञाना व्यराज- न्त । निरन्तरनिबिडनारिकेलकदलीपनसाम्रक्रमुकादिद्रुमनि- वहमण्डिते कवेरकन्यापरिसरोपान्तविराजमाने तिरुविश- नल्लूामे विद्यामहणाय गुरूपसदनमकापुरेते स्मृतिचोदितेन वर्त्मना । तदा ह्यसौ प्राम: विद्वद्वन्दैविख्यातवैभवैर्माणवकै- विद्याग्रहणपटुभिश्च आपूर्ण आसीदिति ज्ञायते ।। श्रीमतोऽस्य सदाशिवस्य प्रथमे वयसि वर्तमानस्य सहा- ध्यायिषु माणवकेष्वेकतमः सुप्रसिद्धनामा रामभद्रदीक्षितः- यो हि जानकीपरिणयं नाम रूपकमनितरसाधारणेन मति- वैशयेन निर्माय दाक्षिणात्यकवीनां नाटकसंविधानकरणनै- पुण्याभावरूपमयशः प्रमाणं शाश्वतं यशःकायमार्जितवान् । श्रीवेङ्कटेशनामा किलान्यो वाल: यो द्याशैशवात्प्रकटित. दिव्यानुभावः आख्याषष्टिदयाशतकादिग्रन्थान्विरचण्याध्या. स्मतत्त्वमनुपमया वाग्वैखर्या विवृण्वन् अतिपावनेनात्म- नः चरितेन धर्मतत्त्वमतिगहनमपि सम्यगुपदिशन् महती प्रसिद्धि लेभे; यश्चाद्यापि 'अय्यावाल' इत्यखिलरास्तिकैः सभक्तिगौरवं सालिवन्धं च परमाचार्येषु प्रधानतया परि- गण्यते । वैदुष्येण प्रज्ञापाटवेन चैतयोरन्यूनः गोपालकृष्ण- शास्त्रीत्यपरो वटुः-- यो हि महाभाघ्यं वा पठनीयम् । H (५) महाराज्यं वा पालनीयम्' इत्यभियुक्तोक्तिं हृदये कुर्वन् महाभाष्यपठनरसमनवरतमास्वदमान: भाष्यरत्नस्थास्य रम. णीयां शाब्दिकहृदयंगमा कामपि व्याख्यामारचयत् ; ब्रह्म- निष्ठस्यास्य वैदिकानुष्ठानेन ब्रह्मवर्चसेन शमेन दान्त्या चाव- र्जितस्वान्तः तोण्डमान्कुलतिलको नवसालजनपदाधीशः त. च्छिष्यकोटिष्वात्मन: प्रवेशं साम्राज्यलाभादप्यधिक मेने ।। चत्वारोऽपीमे माणवका ईश्वरांशभूता अध्यात्मतत्त्वोप- देशेन जगदुज्जीवनाय कृतावतारा: क्रमेण कृष्णेतरपक्षशश- लाञ्छना इवैधमाना व्यराजन्त । यदीयसूक्तिसुधारसनि- ममाः शिष्यपरंपरा: दुर्विज्ञेयमप्यध्यात्मतत्त्वरहस्यमनाया- सेनावगत्य दूरीकृतदेहाभिमाना: भस्मीकृतेषणावितया: परि- त्यक्तसांसारिकदुःखाः तृणीकृतपुरंदरा: विधूतपुण्यपाप्मान: लीयन्ते केवलानन्दे नादमये ब्रह्मणि ।। कथानायकोऽसौ सदाशिवः बाल एव न्यायशाने निरु- पमं पाण्डिल्यमावहन् वादाहवेष्वाचार्यानप्याकुलीचकार । प्रथमवयस्येव कृतदारपरिग्रहोऽसौ विद्याग्रहणव्यापृतः क्रमेण शैशवमतिचक्राम । शुश्राव च गुरुकुले वसन् कदाचिदा. त्मन: प्रेयस्या ऋतुप्रादुर्भावोदन्तं दूतमुखात् । आहूतश्च तैः जननीनियोगं मानयन् गुरुभिरनुज्ञात: अविलम्बेन प्रस्थाय -- (६) ऋतुस्नानदिवसे ब्राह्मणसंतर्पणादिषु व्यापृतया जनन्या सा- दरमभिनन्द्यमानागमनो गृहानयासीत् । उत्सवकोलाहलह- र्षनिर्भरेष्वभ्यन्तरजनेषु शृङ्गारगीतिमुखरष्वङ्गनासमाजेषु आशीर्वचनमेदुरेषु गृहाङ्गणेषु अभ्यवहारसमयमतिक्रान्त- माकलयतः क्षुधा तृषा च क्लिनतोऽस्य सदाशिवस्यैवमुदभू- न्मनसि 'पाणिग्रहणं नामेदमनन्तानां दु:खानां द्वारमित्या- मनन्ति किल ब्रह्मनिष्ठाः । किश्चिदपीदमनशनदुःखं मे भाविनी दुःखपरंपरां सूचयतीव' इति ।। एवंविधा चिन्ता तमहर्निशमुद्वेजयन्ती गार्हस्थ्ये द्वेष- बुद्धिं द्रढयन्ती विरक्तिमतिमहतीमजीजनत् । 'यदहरेव वि- रजेत्तदहरेव प्रव्रजेत्' इति न्यायेन सद्य एवं परित्यक्तगृहा- भिमान: उदवसथात्प्रस्थाय योगविद्यानिष्णातमाचार्यमन्वि- ध्यन् कवेरजातीरोपान्तेषु पुण्यक्षेत्रेषु विचचार । अनुदिव- समस्य पार्थिवेषु भोगेषु अरुचिमहती समजायत । संसारा. र्णवनिमनानां दुःखार्तानामसंख्येयानां जीवानां विषये समु- दियाय काचिदनुकम्पा तस्य चेतसि । आधिव्याधिजराम- रणादिदुःखविप्लवं जनानामुद्वीक्ष्य मुहुर्मुहुरश्रुधारापरिछिम- मुखोऽभूदसौ संयमी। औपाधिकान्ब्रह्मक्षयवैश्यशूद्ररूपा. न्भेदानविगणय्यातिवर्णाश्रमी भूत्वा अनाकलितस्वपरभेदः (७) . , सर्वत्र समष्टिमाश्रित्य येन केनापि दत्तं यत्किचिदपि भो. ज्यमनन् देहयात्रामकरोत् । शुष्कपर्णैः रथ्यासु विसृष्टै - तशेषैरपि मिष्टमभ्यवहारमारचयन् सुखेन बभ्राम । महा- त्मानं योगिधर्माणमेतं सदाशिवं तथात्वेनाविज्ञाय ' उन्म- तोऽयम् , जडोऽयम्' इत्युपाहसन्प्राकृता नराः ॥ एवं परिभ्रमन्नेष कदाचित्परमशिवेन्द्रयोगिवर्यमाचार्य- मुपससार | स ह्येनं तत्त्वतोऽवगत्य प्रेमाहृदयो योगविद्या- रहस्यमन्वशिक्षयत् । योगाभ्यासदशायामेव ब्रह्मज्ञानसुधार- सनिष्यन्दीनि गानान्यस्य वदनारविन्दानिरर्गलं प्रसुनुवुरि. ति ज्ञायते । यमनियमध्यानाभ्यासनिगृहीतेनान्त:करणेन योगिभिरनुशिष्टे वर्त्मनीतरदुरवापेन कौशलेन संचरमाणो योगकलया हृदयाजकोशमुद्घाट्य सिद्धो भूत्वा परं ज्योतिः साक्षात्कृत्यावाङ्मनसगोचरमानन्दमनुभवन् क्षणमिव नीता- न्सुबहूनपि हायनानाज्ञासीत् ।। एवं गुरूपदेशवैभवेन प्राक्तनेन संस्कारेण च योगविद्यां सभ्यगवगत्यामन्दानन्दनिर्भरः संयमिसार्वभौमोऽभूत् । पर- मात्मसाक्षात्कारेण परां निवृतिमधिगतवतां परकलितप्रशंसा- निन्दादिपराङ्मुखानां परे ब्रह्मणि वर्तमानानां परोरजसा परमहंसानां विभूतिमधिजिगमिषुरात्मनस्तादृशीं मानसी (८) वृत्तिमात्मविलासाख्ये शमप्रधाने द्विषष्टयार्यानिबद्धे काव्ये विशदमबूबुधत् । योगविद्यागुरोः परिसरवर्ती सदाशिवस्त. दर्शनायागतान् पण्डितान्प्रश्नशतैर्व्यामोहयन्नपत्रपया तानघो- मुखान्व्यधत्त । तदीयप्रश्नानां जोषंभावमेवोत्तरयद्भिरपि परिभवासहिष्णुभिर्विद्वद्भिः 'दुविनीतोऽयं सदाशिवोऽस्मा- प्रश्र्लज्जापयति' इति विज्ञप्तो गुरुः परमशिवेन्द्रयोगी कि- श्चिदिव विमनीभवन् 'सदाशिव, कदा वा ज्ञास्यसि दुनिरो- धाया वाचः संयमनम् !' इति व्याहार्षीत् । सद्य एव स्वीय- मपराधं सम्यगाकलयन् शिष्यः रसनानिरोधोद्यत: आमरणं मौनव्रतमाचरेयमिति कृतनिश्चय: आचार्य दण्डवत्प्रणम्या- पराधक्षमापणमयाचत । अथाचार्येणानुज्ञातो मौनयोगी भूत्वा अरिषदुर्गमुन्मूलयन करतलभिक्षस्तरुतलवासः सुखेन काल- - मनैषीत् ।। कदाचिदगणितदेहाभिमानमनाकलितशीतातपादिखेदं के. दारयोर्मध्ये स्थण्डिलशायिनमेनं संयमीन्द्रमवलोक्य केचन कर्षका: 'अहो! परित्यक्तसर्वसङ्गस्याप्यस्य किंचिदिवोन्नता केदारसीमापदी शिरस उपधानत्वेनाश्रयणीया वर्तते' इति परस्परं भाषमाणा जग्मुः । अन्येास्त एव तेनैव पथा प्रति- निवर्तमानाः उपधानं विनवाम्बरतले शिरोधरां प्रसार्य तत्रैव (९) , . - । केदारमध्ये शयानमेनं सदाशिवमवलोक्य 'सर्वसङ्गपरित्या- गिनोऽप्यस्य योगिवर्यस्यास्मादृशजनकलितप्रशंसानिन्दादिषु वैमुख्यं न दृश्यते' इति विस्मयमापनास्तं नमस्कृत्य यथा. यथमगच्छन् । उदन्तोऽयं कर्णाकर्णिकया श्रीवेङ्कटेशस्य श्रुति- पथमगात् । सोऽपि सम्यग्विचिन्त्य 'अहो! दुर्निवारः प्रकृ. तिसंबन्धः संयमिसार्वभौमानामपि' इत्याकलयन् , "तृणतुलिताखिलजगतां करतलकलिताखिलरहस्यानाम् । श्लाघावारवधूटीघटदासत्वं सुदुर्निरसम् ॥" इत्यन्वशोचदिति श्रूयते ॥ एतादृशीमात्मनो बुद्धिपरिपाकपरिपन्थिनी न्यूनतां क्रमेण परिहरन् योगविद्याया: परां काष्ठामधिरूढः सदाशिवः दि. व्यनद्योरमरावतीकावेर्यो: परिसरारण्यप्रदेशेषु कृतवसतिः न- चोरनयो: पुलिनेष्वास्थित: अवाङ्मनसगोचरं परं ब्रह्म ध्यायन् सुखेन दिवसानत्यवाहयत् । कदाचिदसौ शून्यहृदयो जड इव बधिर इवान्ध इवाविष्ट इतस्तत: संचरन् परमात्मनि निबद्धहृदय उन्मत्त इव जनैरालक्ष्यते स्म । एतादृशीमात्मनः शिष्यस्य दशामाकात्मनस्तादृशं हृदयपरिपाकाभावमन्व- शोचत्परशिवेन्द्रयोगीति ज्ञायते । तथा हि--- (१०) " उन्मत्तवत्संचरतीह शिष्य- स्तवेति लोकस्य वासि शृण्वन् । खिद्यन्नुवाचास्य गुरुः पुराहो ह्युन्मत्तता मे न हि तादृशीति ॥ सदाशिवो हि परित्यक्तदेहाभिमानः अगणितवर्षातपादि- खेदः केवलमात्मारामः समाधिनिष्ठः कदाचिदुपवनेषु प्रविश्य सुबहूनि दिनानि न कस्यापि दृष्टिगोचरोऽभूत् । कदाचि- कवेरकन्यापुलिनेषु स्थावर इव निश्चलो निष्पन्दसर्वावयवः समाधिमारचयत् । एकदासौ कोडिमुडिजनपदस्य नातिदूरे प्रवहन्त्याः कावेर्या मध्ये सैकतमधिष्ठाय स्थितः अतकिंतो- पनतेन द्रुमानुन्मूलयता पोतानधरोत्तरीकुर्वता कूलं कर्षता अतिभीषणं प्रवहता जलमयानिव जनपदान्कुर्वता नदीप्रवा- हेण सुदूरमाकृष्टः आवर्तान्तरेषु तूलवद्भमित: अन्तर्वालुकासु निक्षिप्तोऽभूत् । तथाविधमेनं परित्रातुमशक्ता: कूलस्था जनाः 'हन्त ! महतीयमापदापतिता योगिवर्यस्य । किं कुर्म: ?' इति, 'दुर्दान्तोऽयमनुचितकारी मरणमेताशमहत्येव' इति खिद्यन्तो व्याहरन्तश्च गृहानयासिपुः । मासत्रितयानन्तरं क्रमेण शममुपयाता वेणीभूतप्रतनुसलिला सैकतप्राया सम. दृश्यत सहजा । प्रामीणाश्च जनाः स्नानपानसौकर्थिनो - + नदीमध्ये निपानादिकं रचयितुं सैकतान्यखनन् । खनता कस्यचिदन्तभूमौ कठित्तमेकं वस्तु खनित्रसंसक्तमिवालक्ष्यत " सद्य एव बहिरुद्धृते खभित्रे रक्तधारासक्तिमभिवीक्ष्य नितरां कातरोऽभूत्कर्मकरः । आश्चर्यमिदमुद्रीय सर्वेऽपि मिलित्वा परितो मृदु मृदु, खनन्तः शर्कराः समुद्धृत्य समाधिस्थं परितः परिक्षिप्तगात्रं वालुकानिमग्नं सुखसुप्तमिव सैकतान्तः शयानं सदाशिवं योगिवर्यमालोक्य विस्मयस्तिमितलोचनाः आश्चर्यमाश्चर्यम् । अचिन्त्योऽयमस्य संयमीन्द्रस्यानुभावः' इति शंसन्तः तस्य शरीरं बहिरानाययन् । आनीतमात्र एव विघटितसमाधिः सुप्तोत्थित इव चक्षुषी निमील्य तस्मात्प्रदे- शादुत्थाय यथेच्छमगात् ।। एकदा करूनपदान्तर्गतेषु केचित् केदारेषु पाकक- पिशान्कलमान्संगृह्य ब्रीहिसंचयमेकत्र राशीकृत्य भस्मचि- हानि निक्षिप्य रात्री तत्संरक्षणार्थ भृत्यानाज्ञाप्य गेहं गत- वति केदारस्वामिनि, रक्षिणश्च निर्निमेषेण चक्षुषा जागरूकाः परितो ब्रीहिराशिं विचरन्तस्तस्थुः । ततः शर्वगलश्यामशा- रान्धकारे तमसि क्रमेण निममे वसुधातले निशीथिन्यां तेन पथा यदृच्छयागत: शून्यहृदयः सदाशिवः तस्मिन्नेव बीहिसंचये स्खलितगतिरपप्तत् । अन्यस्मिन्पार्श्वे विचरन्तो . - -- -- . - , " , TA (१२) । . रक्षिणस्तस्करोऽयमिति कृत्वोवृत्तदण्डास्तं निबन्धुमहमह- मिकयानुधावन्तो धान्यराशौ सुखं शयानमेतं संयमीन्द्रमु- द्वीक्ष्याज्ञानात्तं ताडयितुं प्रावर्तन्त । हन्त ! तथोद्धृतलगुड हस्तास्ते योगीन्द्रस्यानुभावेन स्तम्भितान्त:करणाः निश्चला- वयवाः चित्रीयमाणाश्चित्राप्तिप्रतिमा इव रजनीमखिलामव- तस्थुः । प्रातस्तत्रागतः केदारस्वमी भृत्यानां तादृशीमति- करणां दशामवलोक्याकुल हदयः संभ्रान्तः 'किमिदम् ?' इति तानप्राक्षीत् । 'स्वामिन् ! अमर्षेणैतं महात्मानमज्ञाना- साइयितुं प्रवृत्ता वयमेवमस्वतन्त्राः संवृत्ताः । किं कुर्म: ?' इति निवेदयामासुः । एवं भाषमाणानां तेषामारावेण विध- टितसमाधिरुन्मील्य चक्षुषी तस्मात्स्थलान्मन्दमन्दमुत्थाय यथागतमगात् । गते च तस्मिन् भृत्या अपि स्वस्थाः सम. भूवन्; तुष्टुवुश्च तम् 'अचिन्त्यमहिमा सोऽयमपारकरणा- म्बुधिः' इति ॥ अथैकदा परमात्मतत्त्वसौधानविलसदन्तःकरणोऽमौ यो. गिवर्यः काननेषु परिभ्रमन् कुत्रचिद्राजाधिकारिनिमित्ते पाकसाधनानीन्धनानि राशीकुर्वद्भिः सेवकर्यदृच्छयादर्शि । तैश्च इष्टपुष्टाङ्गोऽयं भारवहनायालमिति हठादाकृष्टः शिरसि निक्षिप्तकाष्ठभार: सहैव तैभरवाहिभिम नीतोऽभूत् । + (१३) यावच्चाधिकारिणो गृहाङ्गणेषु पूर्वमेवान्यैः सज्जीकृतेष्विन्ध- नसंचयेषु संयमीन्द्रः स्वीयमपि काष्ठभारं न्यक्षिपत्तावदेव क्रोधेनेव प्रस्फुरत्स्फुलिङ्गेन प्रवर्धमानज्वालालीढेन्धनराशिना कल्पान्तानलकठोरण जातवेदसा क्षणादेव भस्मीकृतमासी- दधिकारिण: सदनमखिलम् । तदद्भुतं निरीक्ष्य 'हन्त ! धिगस्मानज्ञानादस्मिन्महानुभावे महापराधमाचरितवतः' इति नितरामन्वशोचन्त सेवका राजाधिकारी च- तत्कालवेदिनो मन्त्रयन्ते ।। इति पामरा हि जना अणिमाधष्टैश्वर्यसंयुक्तं सिद्धेश्वरमेनं तथात्वेनाविज्ञाय उन्मत्तोऽयमित्याकलयन्ति स्म । निरपरा- धमधुरवयसि वर्तमाना बालकाश्च तं रथ्यासु शून्यहृदय- वत्परिभ्रमन्तमुत्साहेन परिवार्य केचन शिरोरुहाणि केचन हस्तामाणि केचन पादाङ्गुष्ठांश्चाकृष्यात्मानं विनोदयामासुः । योगीन्द्रोऽपि तेष्वर्भकेषु निरतिशयां प्रीतिमावहन् अन्यैर्द- त्तानि भक्ष्याणि तेभ्यो दत्वोपच्छन्दयन्स्नेहमदर्शयत् । एक- स्मिन् दिवसे बालकास्तं परिवार्य 'तात! मधुरापुर्यामद्य वृषभवाहनमहोत्सवो भवति सुन्दरनाथस्य' इति शृणुमः । तं महेश्वरं सेवितुमस्मांस्तत्र नेतुमर्हसि इत्यवदन् । अशक्य- मिदमिति जानतामपि तेषामिदं परिहासजल्पितमाकर्ण्य स- - (१४) दाशिव: तान् आत्मनः शिरसि अंसद्वये चारोप्य अक्षीणि क्षणं निमीलयतेति संज्ञामकरोत् । तेऽपि तथैवान्वतिष्ठन् । अनुक्षणमेव यावल्लोचनान्युन्मील्य पश्यन्ति, तावन्महता भक्तिपरवशेन जनौधेन परिवार्यमाणं महावृषभस्य पृष्ठे देदी- प्यमानं नृत्तगीतवाद्यादिभिः संगीतसुखमनुभवन्तं भगवन्तं सुन्दरेश्वरं साक्षादकार्षः । अवागच्छंश्च मधुरानगरचत्वरे सह सदाशिवेन स्वेषामवस्थितिम् । विस्मिताश्च : स्वप्नो वा किमियं माया किमु वा चित्तविभ्रमः' इत्यन्योन्यमुपांशु मन्त्रयामासुः । संयमीन्द्रोऽपि तेषां बालकानां यथाभिमतं मोदकादिभक्ष्यजातं दत्वा नितरामानन्दयामास । बालकाश्च किमिदमित्याश्चर्यमेदुरान्तरङ्गाः महोत्सवदर्शनानन्दनिर्भराः प्रभातप्रायामपि रजनी नाज्ञासिषुः । उत्सवान्ते च सदा- शिवेन यथापूर्व स्वीयं प्राममानीता: कुतूहलचञ्चललोचनाः अद्भुतमिदं जननीभ्यो निवेद्य भुक्तशेषं भक्ष्यजातमपि प्रदर्य वृषभोत्सवं यथानुभूतमनुवर्णयामासुः ।। महाशिवरात्र्यादिमहोत्सवदिवसेषु वाराणसीमधुरारामे- श्वरादिदिव्यक्षेत्रेषु एकस्यामेव रात्रावसौ संयमीन्द्रः साक्षा• स्कृतः तत्तद्देशवासिभिरिति च शृणुमः ।। . भनाघाताक्षरगन्धः कश्चिद्ब्रह्मचारी कदाचिदेतं संयमीन्द्र ।
(१५) भक्तिप्रवणेन मनसा सर्वतोऽनुगच्छन्नुपासांचक्रे । तदीयेनो- पासनेन प्रसन्नः सदाशिवः करुणाईया हशा तमसकृदवलो- कयन्नन्वगृहात् । एकदासौ वर्णी श्रीरङ्गे यमिनां योगदृष्टे- रखनं देवं रङ्गनाथ सेवितुमात्मनोऽभिलाषं तस्मै सप्रश्रयं न्यवेदयत् । तहि क्षणं लोचने निमीलय' इति संज्ञामकरो- न्मौनी सदाशिवः । सोऽपि यथानिदेशमाचर्यानुक्षणमेव लोचने उन्मील्य कर्पूरनीराजनेन संभाव्यमानस्य श्रीरङ्ग- नाथस्य पुरतः साक्षादवस्थितमात्मानं पार्श्वे सदाशिवं चा- पश्यत् । अथ कतिपयनिमेषापगमे संयमीन्द्रः स्वयमन्तर्हि- तोऽभूत् । तददर्शनेन विषण्णहृदयः स वर्णी आसन्नवर्तिषु मण्टपेषु प्राकारेषु देवालयेषु चान्विष्य विफलप्रयत्नः पाद- चारेण महान्तमध्वानं विलङ्घय कतिपयैरहोभिः करूर जनपदमाससाद । तत्र च समाधिस्थं संयमीन्द्रं साक्षात्कृत्य भक्तिपरवश: तत्पादयोः पतित्वा सर्वमप्युदन्तं व्यजिज्ञपत् । सोऽपि दयाहृदय: सैकते अक्षराणि विलिख्य तस्मै मत्रा. नुपादिक्षत् । अनुपदमेव तस्य साङ्गा: सरहस्या आम्नायाः सकलाश्च विद्या हृदि प्रादुरासन् । पण्डितोत्तंस इति राजभिरा- हतो मानितश्च स वर्णी पौराणिको भूत्वातुलां संपदमार्जित- वान्- इति कथयन्ति वर्षीयांसः पुरावृत्तविचक्षणा:
(१६) । . - अगणितदेहाभिमानोऽयं संयमीन्द्रः अनवरतमानन्दमये ब्रह्मणि संसक्तमानसः अकुतोभयः अप्रतिहतगतिरवनितले परिभ्रमन् कदाचिन्नारीमणिभिरापूर्ण कस्यचिद्यवनमहीपते- रन्त:पुरं यदृच्छया प्राविक्षत् । अवधूतवेषेणासूर्यपश्यानां राजदाराणामन्तिके चरन्तमेनमवलोक्य सद्यः क्रोधेन ज्वल- न्यवनः कृपाणमाकृष्य तस्य योगिवर्यस्य बाहुमेकमच्छिनत् । सदाशिवस्तु निकृत्तो बाहुरित्यविज्ञायैव स्वस्थवदविकारद- र्शनो यथापूर्व तस्मात्प्रदेशादन्यत्र गतोऽभूत् । तादृशीमस्य मनोगतिमवगत्य विस्मयमापनो यवनाधिपः 'महात्मासौ संयमीन्द्रो मया जाल्मेन निकृत्तपाणिरपि किंचिदप्यविग- णय्य हृष्टान्तरङ्गो विचरति ; अस्य प्रसादनाहते सुखं प्राणितुं न शक्यते वित्तमदमत्तेन सदसद्विवेकशून्येन मया' इत्या- स्मानं विनिन्दन् शोकाविष्टचेतनः तमेव संयमीन्द्रं पृष्ठतो- ऽनुजगाम । अनुससार च छायेव तं सुबहूनि दिनानि । तथानुधावन्तमगणितशीतातपादिखेदं तं यवनमुवीक्ष्य दया- विष्टः सदाशिव: ‘किमर्थमेवं मामनुसरसि?' इति संझया अप्रामीत् । सोऽप्यात्मनानुष्ठितस्य महापराधस्य क्षमापण- मयाचत । कीदृशोऽयमपराधः? इति पुनरनुयुक्त: भगवन् ! अज्ञेन मया करवालेन भगवतो वाहुरेको निकृत्तः' इति . 1 (१७) सास्रं व्यजिज्ञपत् । तदनन्तरमेव छिन्नमात्मनो बाहुं विज्ञाय अन्येन पाणिना निकृत्तमंसदेशं ममार्ज । सद्य एव यथापू. र्वमन्यं बाहुं तत्स्थाने प्ररोहन्तं दृष्ट्वा भीतभीतो यवन: दण्ड- वत्प्रणम्य तदीयमनुग्रहं प्रार्थयामास । योगीन्द्रोऽपि तथेत्य. नुगृह्य यथागतमगात् । इदं चात्यद्भुतमपदानमेवमनुवर्ण- यन्ति सदाशिवेन्द्रस्तुतौ श्रीशिवाभिनवनृसिंहभारतीस्वामिनः श्रीमच्छृङ्गगिरिपीठमलंकुर्वन्तो यतिसार्वभौमा:- योऽनुत्पन्नविकारो बाहो म्लेच्छेन छिन्नपतितेऽपि । अविदितममतायास्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ पुरा यवनकर्तनस्रवदमन्दरक्तोऽपि यः पुनः पदसरोरुहप्रणतमेनमेनोनिधिम् । कृपापरवशः पदं पतनवर्जितं प्रापय- सदाशिव यतीट् स मय्यनवधिं कृपां सिञ्चतु ॥” इति ।। सदाशिवमहिमानुवर्णनपरे तस्मिन्नेव स्तोत्रे- 'न्यपतत्सुमानि मूर्धनि येनोच्चरितेषु नामसूग्रस्य । तस्मै सिद्धवराय प्रणतिं कुर्मः सदाशिवेन्द्राय ।। इति निगद्यते ॥ अद्भुतानीमान्यपदानानि सदाशिवस्याधुनिकैरविज्ञातयो- १ Y.00 (१८) . गाभ्यासरहस्यैर्वितथस्तुतिकोटौ परिगण्यन्ते इति न वयं न जानीमः । प्रकृतिरेवायमनाकलिताध्यात्मतत्त्वानाम् 'प्रकृति- रेव परं ब्रह्म' इत्यनवरतमनुध्यायतां लोकायतिकप्रायाणां नवीनवैज्ञानिकानाम् । परमियमेव परा काष्ठा अनिरूपक- ताया:, यच्छरीराद्विप्रकृष्टान्बाह्यान्भूतनिवहान् धूमशकटाक- पणसाधनत्वेन स्वायत्तीकर्तुमुयोगमनुतिष्ठन्पुरुषः आत्मनो नेदिष्ठान् भोगायतनत्वेन परिणतान् नाड्यादिरूपेणावस्थि- तांस्तानेव भूतगणानाकाशगमनसाधनत्वेन परिणमयितुमु- पायाः सन्तीति न विश्वसिति इति । अन्तर्मुखाः खलु सिद्धे. श्वराः । कथमिव तेषां महिमानं सर्वात्मना बहिर्मुखा वयं जानीमः । ते किलात्मारामा:; वयं त्विन्द्रियार्थप्रवणाः। ते सन्तहृदयकोणे भासमानं परं ज्योतिर्योगकलया साक्षात्कु- वन्तो निरन्तरं रमन्ते ; वयं तु रथ्यासु भासमानं वैद्युतं ज्योतिश्चर्मचक्षुषावलोकयन्त: परमानन्दनिर्भरा वर्तामहे । ते हि सात्त्विकैराहारैः यमनियमध्यानधारणादिभिश्व स्वीयश- रीरानुशासनपरा दृश्यन्ते ; वयं तु मदकरैराहारैः मदविघू- णिताहारैश्वान्यशरीरानुशासनपराश्चेष्टामहे । ते हि परिह- श्यमानं जगनश्वरमिति तृणवदाकलयन्ति ; वयं तु चराचरा. त्मकमिदमेव जगच्छाश्वतं भागधेयेनोपलब्धमिति मन्यामहे ।।
(१९) तादृशेष्वात्मारामेषु प्रधानभूतोऽयं सिद्धेश्वर आसीदि- त्यत्र नास्ति विशयलेशोऽपि निरूपकाणाम् ॥ उक्तं चाभियुक्तैः- 'निजगुरुपरमशिवेन्द्रश्नाघितविज्ञानकाष्ठाय । निजतत्त्वनिश्चलहदे प्रणति कुर्मः सदाशिवेन्द्राय ॥' इति । संयमीन्द्रोऽसौ इत: पश्चसप्तत्यधिकशतात् हायनेभ्यः पूर्व नवसालजनपदान्तर्गते तिरुवरङ्गुलप्रामासन्नविपिने सं- चरन् विजयरघुनाथतोण्डमान्नामकेन शिवज्ञानपूर्ण इति प्रसिद्धिमधिगतवता तद्देशाधिपतिना यदृच्छया साक्षात्कृत आसीदिति श्रूयते । भक्तिश्रद्धासमन्वितेन चेतसा वर्षाण्य- टावात्मानमनुसेवमानस्य तस्य विशुद्धेन चरितेन संतुष्टान्त- रङ्गो योगिवर्यः ‘राष्ट्रभरणाधिकृतेन त्वया एवं वर्तितव्यम्' इति सैकते काश्चन नियमान् विलिख्य, अन्यदखिलं गो. पालकृष्णशास्त्रिमुखाद्बुध्यस्वेति च संज्ञया समुपादिक्षत् । 'शास्त्री चायं कवेरकन्यापरिसरे भिक्षाण्डार् क्षेत्रे निव- सति' इति विज्ञाय नवसालजनपदाधीशस्तं सपरिवारं स्वराष्ट्रमानीय ग्राममेकं वितीर्य आत्मन: कुलगुरुत्वेनावृणो- त् । तद्वंशीयाश्चाद्यापि राजगुरुत्वेनाद्रियन्ते ।। , (२०) अनुसंवत्सरमस्मिन् राष्ट्र महता विभवेनानुष्ठीयमानः शारदानवरात्रमहोत्सवः विद्वत्संभावना दक्षिणामूर्तिपूजा- दिकं च सदाशिवोपदिष्टयैव सरण्या' अद्यापि निर्वर्त्यन्ते । सदाशिवेन यत्र योगाक्षराणि लिखितानि ता एव वालुका: तेन शिवज्ञानपूर्णेन पेटिकानिक्षिमा दक्षिणामूर्तिसंनिधाव- धापि पूजाहेषु द्रव्येषु मुख्यतया परिगण्यन्ते । योगिवर्य- स्यास्यानुग्रहमुपलभ्यैव वानवास्योऽयं जनपदाधीशः क्रमेण सुप्रसिद्धो विद्वद्भिर्जेगीयमानयशा ववृधे इतीदं पाण्ड्यदेशी- यानां चोलमण्डलवासिनां च विदितचरमेव ।। ऐरोपीयतुरुष्कदेशपर्यन्तमनेन संयमीन्द्रेण कदाचिदटित- मिति च विश्वसन्त्यदसीयमहिमानुवर्णनपराः ।। एवमसौ मौनयोगी सुबहून्हायनान् परमात्मध्याननिरतः पाश्चभौतिकमात्मनः शरीरं हातुमिच्छन् कदाचित् नेरूर ग्रामवासिनो विप्रानाहूय 'भो द्विजाग्रेसराः, मिथुनमासी- यज्येष्ठशुद्धदशम्यां योगसमाधिना ब्रह्मसायुज्यप्राप्तिः शरी- राभिर्याणं च मे भविता; तस्मिन्नेव दिवसे वाणलिङ्गमेकं गृहीत्वा कश्चन ब्राह्मणो वाराणस्या: समेष्यति । लिङ्गमिदं मदीयसमाधिस्थलस्यान्तिक एव कस्मिंश्चिदालये प्रतिष्ठाप्य- ताम्' इत्यात्मनोऽभिलाषमाविश्चकार ।। .
(२१) तेऽपि तमेव समयं प्रतीक्षमाणाः तस्यामेव दशम्यां का- श्याः समागतं विप्रवर्य पूर्वमेव खानितमवटं स्वयमेवावती- णेन सदाशिवेनात्मनः कलेबरत्यागं च सममेवावलोक्य आ- श्चर्यानन्दसागरमन्नास्तदुक्तं सर्वमपि यथानिदेशमन्वतिष्ठन् । जीवन्मुक्तोऽसौ विप्रकृष्टान्तरेषु त्रिषु स्थलेषु पश्यतामेव तत्तद्देशनिवासिनां पुरतस्तस्मिन्नेव समये सममेव योगसमा. धिना तनुत्यागमकरोदिति- 'त्रिविधस्यापि त्यागं वपुषः कतै स्थलत्रये य इह । अकरोत्समाधिमस्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥' इत्याद्यभियुक्तोक्तिभिरवगम्यते । परं त्वेतेषु नेरूर् जन- पदान्तर्गतमन्तिमसमाधिस्थलमेव दक्षिणदेशेषु प्रसिद्धम् । अत्रैव नवसालपुराधिपैर्महता वैभवेन द्रविणव्ययेन च नि. त्यनैमित्तिकपूजादिकं पक्षोत्सवमासोत्सववर्षोत्सवादयश्चानु- संवत्सरमद्यापि नियन्ते ।। एवंभूतापरिमेयाश्चर्यशक्तिविद्योतितदिव्यानुभावानां जी- वन्मुक्ताग्रेसराणां संयमीन्द्राणामेतेषां जन्मना भूषितः पवि- त्रीकृतश्चायं दक्षिणापथ इति महदिदं भागधेयमगस्त्यपरि- गृहीताया दिशः । दक्षिणापथवास्तव्या जना योगिवर्यस्या- (२२) स्यात्यद्भुतान्यपदानान्यद्यापि साभिनिवेशमुद्गायन्ति, अदसी- यमहिमानुचिन्तनमपि पावनमाकलयन्ति ।। विशुद्धेन चारित्रेण, निर्मळेनान्त:करणेन, अनितरसु- लभेनारिषडगोन्मूलनेन, असाधारणेन अध्यात्मविद्याको- शलेन च ईश्वरांशसंभूता इव विराजमाना: श्रीमच्छृङ्ग- गिरिपीठमलंकुर्वन्तो यतिसार्वभौमा अपि अहर्निशमस्य स- दाशिवेन्द्रस्यानुभावविशेषानुवर्णनेन प्रतिकृतिदर्शनेन चा- त्मानं पवित्रीकुर्वन्तीति इदमेवास्य महानुभावस्यावाङ्मन- सगोचरं वैभवमवगमयतीति नातः परं कथयितुं प्रभ- वामः ॥ प्रतिकृतिरियमेतैरेव श्रीशृङ्गगिरिपीठाधिपतिभिरादराति- शयेन शिष्यप्रीत्या च श्रीवाणीविलासमुद्रायन्त्रालयाध्याय अनुगृहीता ग्रन्थरत्नस्यास्य भूषायमाणा विलसति ।। सदाशिवेन्द्रेण विरचितेष्वध्यात्मविद्याग्रन्थेषु ब्रह्मसूत्र- वृत्तिः प्रधानतयोपकरोति प्रस्थानत्रयपठनाभिलाषिणाम् । सन्येवानेका ब्रह्मसूत्रवृत्तयः ; अथाप्येता: ललिततया भा. रत्या, मधुरया आशयाविष्करणसरण्या, आवर्जिकया इंतू- पन्यासवैवर्या च समुपेतस्यास्य वृत्तिप्रन्थस्य शततमी क- - १ (२३) , लामपि न स्पृशन्तीति विशदीभवेदेवाध्यात्मविद्याप्रवचन- चणानाम् । प्रतिसूत्रमस्यां फलभेदोपपादनपूर्वकं पूर्वपक्ष- सिद्धान्तयोः संक्षेपतो निरूपणम् , सूत्रसंगतिः, अधिकर- णसंगतिः, पादसंगतिरित्यादयो विषया निपुणं निरूपिताः श्रीमच्छंकरभगवत्पादभाष्यनिगूढनिक्षिप्तमर्थजातं विशदाव- भासं विरचयन्तीत्यध्यात्मविदो मन्यन्ते । सरससरसामना- विष्कृतामुपपादनरीतिमनुशीलयन्तो विद्यार्थिनः 'कोशवा- नाचार्यः' इत्यभियुक्तोक्रर्थमनुसंदधत इव ।। अन्धमेनमन्तरा अनेन संयमीन्द्रेण द्वादशसंख्यानामुप निषदामपि दीपिका विरचिता इत्यवगम्यते । तासामपि मुद्रणभागधेयमस्य मुद्राशालाध्यक्षस्य न चिरादेव भविष्यती- ति विश्वसिमः ॥ संयमीन्द्रोऽसौ योगाभ्यासनिरतानामत्यन्तोपकाराय प- तञ्जलिना 'अथ योगानुशासनम्' इत्यारभ्योपदिष्टां सूक्ष्म- दृष्टिभिरेवावगन्तव्यां गहनार्थी ब्रह्मसाक्षात्कारसरणं विश- दयितुं योगसूत्राणां योगसुधाकरनानीमिमामतिरमणीयां वृत्ति प्रणीय, ध्रुवकूर्मादिनाडीविज्ञानं समाधिस्वरूपं यमनि- यमादिभिरभ्यासैरन्तःकरणनिग्रहप्रकारादिकं चोपपाद्य, के- वल्यानन्दप्राप्तेर्मार्गदर्शी भूत्वा सत्यमेव अज्ञानान्धकारे नि- . 1 • (२४) मग्नस्यास्य जीवलोकस्य स्वयमपि सुधाकरायते ।। सर्वास्वप्यस्य सूक्तिषु परामृश्यमानासु अनुवाचकानां पार्थिवभोगेष्वरुचिः, परमात्मसाक्षात्कारः, परानन्दनिर्व- त्तिश्च स्वयमेवाविर्भविष्यतीति निश्चिनुमः । यथोक्तमनेनैव संयमीन्द्रेण- संत्यज्य शास्त्रजालं संव्यवहारं च सर्वतस्त्यक्त्वा । आश्रित्य पूर्णपदवीमास्ते निष्कम्पदीपवद्योगी ।। वैराग्यविपुलमार्ग विज्ञानोद्दामदीपिकोद्दीप्तम् । आरुह्य तत्त्वहये मुक्त्या सह मोदते यतिराट् ॥ आशावसनो मौनी नैराश्यालंकृत: शान्तः । करतलभिक्षापात्रस्तरुतलनिलयो मुनिर्जयति ।। इति सहृदयसमुदायदासः र. कृष्णमाचार्यः एम् . ए. विद्यानिधिः ।
योगसुधाकरो योगसूत्रवृत्तिः
No text on this page.
॥ श्रीः ॥ ॥ योगसूत्र योगसुधाकरो नाम प्रवृत्तिः॥ यद्भावनादवापीयं प्रत्यक्चितिरनामया । क्लेशकर्माद्यसंस्कृष्ट तमीशं कंचनाभजे ॥ १ ॥ श्रीमत्पतञ्जलेस्तस्य पदद्वन्द्वमनिन्दितम् । वन्दे येन मनःकायवाचां शुद्धिरकार्यसौ ॥२॥ विद्यारतं मया लब्धं यत्कृपापारवारिधेः । वन्दे तान्विबुधैर्वन्द्यान्वन्दकानन्ददान्गुरून् ॥ ३ ॥ श्रीमद्देशिकवनाब्जानिशम्याथ विलोडय ताम् । फणीन्द्रणितेः काचिद्वृत्तिरारभ्यते मया ॥ ४ ॥ इह खलु भगवान्पतञ्जलि: प्रेक्षावत्प्रवृत्त्यौपयिकं शास्त्र- प्रतिपाद्यं दर्शयति- अथ योगानुशासनम् ॥ १॥ Y.1 योगसुधाकरो नाम [पा. .. अत्र अथशब्दः आरम्भार्थः, अर्थान्मङ्गलार्थश्च । 'युज समाधौ' इति धातोर्योग: समाधिः; तस्यानुशासनं हैरण्य- गर्भ शास्त्रमनुसृत्य शिष्यते व्याख्यायते ससाधन: सफल: समाधिरनेनेत्यनुशासनं शास्त्रम् । तथा च कस्मैचित्कैवल्य- कामाय प्रतिपाद्ययोगप्रतिपादकं शास्त्रमारभ्यत इत्यक्ष- रार्थः । तत्र समाधिर्द्विविधः संप्रज्ञातोऽसंप्रज्ञातश्चेति । स च चित्तस्य धर्मः । चित्तं हि त्रिगुणात्मकत्वात्पञ्चभूम्युपे- तम् । भूमयश्च--- क्षिप्तं मूढ़ विक्षिप्तमेकाग्रं निरुद्धमिति । तत्र- रजसा विषयेषु क्षिप्यमाणं क्षिप्तम् । तमसा निद्रा- लस्यादिवृत्तिमन्मूढम् ; ईपद्रजस्तम:संस्पृष्टेन सत्वेन कादाचि- कध्यानयुक्ततया क्षिमाद्विशिष्टं विक्षिप्तम् ; विधूतरजस्तमो- मलेन शुद्धसत्त्वेनैकाग्रमेकतानम् ; प्रशान्तसकलवृत्तिकं सं- स्कारशेषं निरुद्धम् । एवं च आद्यभूमित्रयपरित्यागेनावशिष्ट- भूमिद्वयोपेतस्थ चित्तस्य समाधिद्वयं धर्म इति विवेकः ।। अधुना द्विविधस्य समाधेः साधारणं लक्षणं लक्ष्यति- । योगश्चित्तवृत्तिनिरोधः ॥ २ ॥ रजस्तमोवृत्त्योर्निरोधो योग इत्यर्थः । अत: सात्त्विक- वृत्तिसत्वेऽपि संप्रज्ञाते नाव्यानिः ॥ २ ॥ - . - H .
, . - १.] योगसूत्रवृत्तिः । : +- 1 ननु बुद्धिवृत्तिस्वभावायाश्चितिशक्तेर्वृत्तिनिरोधे कथं स्थि- तिरित्याशङ्कयाह-- तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥ यदा सर्वासां वृत्तीनां निरोधः, तदा द्रष्टुश्चितिशक्तेः स्वाभाविके स्वरूपे स्थिति: कुसुमापगमे स्फटिकमणेरिवे- त्यर्थः :। चितिशक्तेश्चैतन्यमानं स्वभावो न वृत्तय इति भावः ॥ ३ ॥ ननु तर्हि व्युत्थाने चितिशक्तेः स्वरूपात्प्रच्युतिः स्यादि- त्यत्राह- वृत्तिसारूप्यमितरत्र ॥४॥ यद्यपि निर्विकारा चितिशक्तिः सदा स्वरूप एवावति- ष्ठते, तथापि निरोधादन्यत्र वृत्तिषूत्पद्यमानासु तत्र चिति- च्छायायां प्रतिबिम्बितायां तदविवेकात्तत्तादात्म्यमापन्नेव चितिशक्तिर्भवति जपारक्त इव स्फटिकः । अतो न स्वरूपा.. प्रच्युतिः । न हि लौहित्यभ्रमसमये समस्ति स्फटिकमणे - रवदातस्वभावात्प्रच्युतिरिति भावः । एतेन सूत्रद्वयेना- र्थाद्यनिरोधे चितिशक्तिः स्वरूपप्रतिष्ठा यद्वयुत्थाने स्वरू- पाप्रतिष्ठेव भवति तञ्चित्तमिति द्वितीयसूत्रगतचित्तपदं व्या- ख्यातं भवति ॥ ४॥ - 1.
४ योगसुधाकरो नाम [पा. - अधुना निरोद्धव्यानां वृत्तीनामियत्तामाह- वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः ॥५॥ पञ्च तयवर्था अवयवा वक्ष्यमाणा: प्रमाणादयो यासां सामान्यवृत्तीनां ताः पञ्चतय्यो वृत्तयश्चित्तस्य परिणामाः । बहुवचनं तु मैत्रादिपुरुषबहुत्वाभिप्रायेण । ताः कीदृश्यः ! क्लिष्टा अक्लिष्टाः; वक्ष्यमाणैः क्लेशैः संश्लिष्टा: स्वरूपाप्रति- ष्ठाप्रत्यया: क्लिष्टाः, तेरसंश्लिष्टा: स्वरूपप्रतिष्ठाप्रत्यया अक्लि. श्राः । यद्यपि पञ्चस्वेव क्लिष्टानामक्लिष्टानां चान्तर्भावः, तथापि विष्टा एव निरोद्धव्या इति मन्दबुद्धिं वारयितुं ताभिः सहाक्लिष्टा अप्युदाहृताः ।। ५ ॥ अथ नामधेयलक्षणाभ्यां वृत्तीविशदयितुं सूत्रपटकमा- चष्टे- 'प्रमाणविपर्ययचिकल्पनिद्रास्मृतयः ॥ ६ ॥ अतोऽपरा वृत्तिर्न समस्तीत्युद्देशसूत्रम्य फलम ॥ ६ ॥ प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥ त्रीण्येव प्रमाणानीति भावः । वृत्तावज्ञातार्थावगाही चितिशक्त: प्रतिविम्वः प्रमा । तत्करणं वृत्ति: प्रमाण । ..
१.] योगसूत्रवृत्तिः । - . . तत्त्वं प्रमाणसामान्यलक्षणम् । तत्र चक्षुरादिद्वारा व्यक्ति- विशेषनिर्धारणी चित्तवृत्तिः प्रत्यक्षप्रमाणम् । तदाकारवृत्ती चितिशक्तेः प्रतिबिम्बः प्रत्यक्षप्रमा । एवं ध्यानसमाधि- द्वारा चितिशक्तिविशेषावधोतिका संप्रज्ञाताख्या चित्तवृत्तिः प्रत्यक्षप्रमाणम् । ज्ञाता चितिशक्तिः फलम् । लिङ्गज्ञानद्वारा लिङ्गिसामान्यनिर्धारणी वृत्तिरनुमानम् । तत्र प्रतिबिम्बो- ऽनुमितिः । पदार्थज्ञानद्वारा वाक्यार्थावगाहिनी वृत्तिरा- गमः । तत्र प्रतिबिम्ब: शाब्दः । अनुमानागमावुभयत्र समानाविति पृथङ् नोदाहृतौ ॥ ७ ॥ विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८॥ विपर्यय इति लक्ष्यनिर्देशः । मिथ्याज्ञानं बाधानन्तरं व्यवहाराजनकं यत् अतद्रूपप्रतिष्ठं तस्वार्थस्य यद्रूपं पार- मार्थिकं स्वरूपं तत्राप्रतिष्ठितं तदनवगाहि । तत्त्वं लक्षणम् । अतो न विकल्पेऽतिव्याप्तिः, तस्य बाधितत्वेऽपि केषांचि- त्पण्डितानां व्यवहारजनकत्वात् । नापि संशये, तस्यापि लक्ष्यत्वात् ॥ ८ ॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥९॥ राहोः शिरः' इति शब्दश्रवणानन्तरं जायमाना. वस्तु- - - - . - 1 योगसुधाकरो नाम w [पा. तस्य शून्या वृत्तिर्विकल्पः । अतो वाक्यार्थगोचरवृत्ती नातिव्या- मिः, तस्या वस्तुशून्यत्वाभावात् । नापि विपर्यये, शब्दज्ञानाननुपातित्वात् ।। ९ ।। अभावप्रत्ययालम्बना वृत्तिनिद्रा ॥ १० ॥ वन्त्वभावः प्रतीयते यस्मिन्नावारके तमसि सति, तत्त- मोऽभावप्रत्ययः । तं विषयीकुर्वती वृत्तिनिद्रा। तस्या: 'सुख- महमस्खाप्सं न किंचिदवेदिषम्' इति स्मरणस्यानुभवपूर्वक- वाढत्तित्वम् ।। अनुभूतविषयासंप्रमोषः स्मृतिः ॥ ११ ॥ अनुभूतस्य पित्रादेः असंप्रमोषः तदनुभवजन्यमनुसंधान स्मृतिरित्यर्थः । एतेन वृत्तय इत्याद्यनुभूतविषयेत्यन्तेन सूत्र- सप्तकन द्वितीयसूत्रगतवृत्तिपदं व्याख्यातं भवति । इतोऽव- शिन पादेन निरोधपदमर्थाब्याख्यायत इति द्रष्टव्यम ।। अधुना पञ्चविधवृत्तिनिरोधोपायमाह- अभ्यासवैराग्याभ्यां तन्निरोधः॥ १२ ॥ चित्तस्य निसर्गतोनिर्गतस्त्रगादिगोचरवृत्तिसरित्पूरं वैर।- ग्येण विनिवार्य समाध्यभ्चामेन प्रशान्तप्रवाह: संपाद्यते ।
१.] योगसूत्रवृत्तिः । ७ , - अतस्तदुभयनिबन्धनो निरोध इत्यर्थः ॥ १२ ॥ ननु जपादावावृत्तिलक्षणोऽभ्यासो विधातुं पार्यते; को नाम निरोधेऽभ्यास इत्यत आह- तत्र स्थितौ यत्नोऽभ्यासः॥ १३ ॥ तत्र तयोर्मध्ये । स्थितिनैश्चल्यं निरोधः, तत्र । 'चर्मणि दीपिनं हन्ति' इतिवन्निमित्तार्थेयं सप्तमी। एवं च स्थिति- निमित्तको यत्नो मानस उत्साहः स्वत एव बहिःप्रवाहशीलं चित्तं सर्वथा निरोत्स्यामीत्येवंविध उत्साह आवर्त्तमानो- sभ्यास इत्युच्यते ॥ १३ ॥ नन्वद्यतनाभ्यास: स्वयमदृढः सन्ननादिसंचितव्युत्थान- संस्कारान्कथमभिभवेदित्याशङ्कथाह- स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४ ॥ यदि दिवसैर्मासैर्वा समाधिसिद्धिं वान्छेत् , तदा ‘वि- द्यमानाश्चत्वार एव वेदाः; तानध्येतुं गतस्य माणवकस्य पञ्च दिवसा अतीता:; नाद्याप्यसो समागतः' इति मूढव- चनानुसार्येवायं योगी स्यात् । अत: संवत्सरैर्जन्मभिर्वा ८ योगसुधाकरो नाम [पा. दीर्घकालं योग आसेवितव्यः । तथा च स्मर्यते---- 'अने- कजन्मसंसिद्धस्ततो. याति परां गतिम्' इति । यदि चिर- मासेव्यमानोऽपि विच्छिद्य विच्छिद्यासेव्येत, तद्युत्पद्यमाना योगसंस्कारा: समनन्तरभाविविच्छेदकालीनैर्युत्थानसंस्का- रैरभिभूयेरन् । अतो निरन्तरमासेवितव्यः । सत्कार आ- दरः । अनादरे लयविक्षेपकषायादयः प्रसन्जेरन् । तस्मादा. दुरेणासेवितव्यः । दीर्घकालादित्रैविध्येनासेवितस्य समाधे- ईढभूमित्वं नाम प्रबलतरदुःखेनापि चालयितुमशक्यत्वम् । तञ्च स्मर्यते--- 'यस्मिस्थितो न दुःखेन गुरुणापि विचा- ल्यते इति ॥ १४ ॥ अथ वैराग्यं द्विविधमपरं परं चेति । अपरं च यतमा- नव्यतिरेकैकेन्द्रियवशीकारभेदेन चतुर्विधम् । तत्राद्यत्रयम- र्थात्सूचयन्साक्षाचतुर्थमाह- दृष्टानुअविकविषयवितृष्णख वशीकार- संज्ञा वैराग्यम् ।। १५॥ स्रक्चन्दनादयो विषया दृष्टाः । वेदोक्तस्वर्गादय आनु- अविकाः । तत्रोभयत्रापि सत्यामपि तृष्णायां विवेकतारत- म्येन यतमानादिवैराग्यत्रयं भवति । यतमानत्वं नाम अस्मिगति किं सारं किमसारमिति गुमशाखाभ्यां वि- , योगसूत्रवृत्तिः ।। ज्ञास्यामि' इत्युद्योगः । स्वचित्ते पूर्व विद्यमानानां दोषाणां मध्येऽभ्यस्यमानेन विवेकेनैतावन्तः पक्का एतावन्तोऽवशिष्टा इति विवेचनं व्यतिरेक: । दृष्टानुअविकविषयप्रवृत्तेवु:खात्म- कत्ववोधेन तां प्रवृत्तिं परित्यज्य मनस्यौत्सुक्यमात्रेण तृष्णा- स्थापनमेकेन्द्रियत्वम् । वितृष्णत्वं वशीकारः । तदिदमपरं वैराग्यमष्टाङ्गयोगप्रवर्तकत्वेन संप्रज्ञातस्यान्तरङ्गम् , असंप्र- ज्ञातस्य तु बहिरङ्गम् ॥ १५ ॥ अथ तस्यान्तरङ्ग परवैराग्यमाह- तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १६ ॥ संप्रज्ञातसमाध्यभ्यासपाटवेन गुणत्रयात्मकात्प्रधानाद्वि- विक्तस्य पुरुषस्य ख्याति: साक्षात्कारः; तस्मादशेषगुणत्र- यव्यवहारे वैतृष्ण्यं तत्परं वैराग्यमित्यर्थः ॥ १६ ॥ इत्थमभ्यासवैराग्ये निरूप्य तत्साध्यं समाधिमाह- वितर्कविचारानन्दास्मितारूपानुगमात्सं- प्रज्ञातः ॥ १७॥ सम्यक्प्रज्ञायते येन भाव्यं वस्तु स संप्रज्ञात: समा- धिर्भावनाविशेष. । स च वितर्कादिरूपैश्चतुर्भिरनुगमाश्चतु- विधः- सवितर्कः सविचार: सानन्दः सास्मित इति । यत्, - योगसुधाकरो नाम [पा. तत्र भावनया भाव्यभूतेन्द्रियगोचरसाक्षात्कारः सवितर्कः । पञ्चतन्मात्रान्तःकरणगोचरसाक्षात्कार: सविचारः । रज- स्तमोलेशानुविद्धसत्त्वप्रधानबुद्धिगोचरसाक्षात्कारः सान- न्दः । शुद्धसत्त्वप्रधानमहत्तत्त्वगोचरसाक्षात्कार: सास्मि- तः । तत्र वितर्कविचारद्वयं ग्राह्यम् । आनन्दो ग्रहणम् । अस्मिताख्यो ग्रहीता । तेषु ग्राह्यग्रहणग्रहीतृषु भावनोत्कर्ष: संप्रज्ञातो योग इत्यर्थः ॥ १७ ॥ इत्थमपरवैराग्यसाध्यं संप्रज्ञातं निरूप्य परवैराग्यसा- ध्यमसंप्रज्ञातमाह- विरामप्रत्ययाभ्यासपूर्वः संस्कार- शेषोऽन्यः॥१८॥ विरामी वृत्त्युपरमः, तस्य प्रत्ययः कारणं वृत्त्युपरमार्थः प्रयत्नः, तस्याभ्यास: पौन:पुन्येन संपादनम् , तत्पूर्वस्त- जन्यः संप्रज्ञातादन्यः संस्कारशेषः प्रशान्तसकलवृत्तिकस्य चित्तस्वरूपस्य दुर्लक्षत्वात्संस्काररूपेण योऽवशिष्यते सो- ऽसंप्रज्ञात.इत्यर्थः ।। १८ !! सोऽयमसंप्रजातो द्विविधो भवप्रन्यय उपायप्रत्ययश्चेति । तत्राद्यो मोक्ष्यमाणेय: । नमाह- १.] योगसूत्रवृत्तिः । ११ - भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १९ ॥ भवन्त्यस्मिअन्तव इति भव: संसारोऽविद्याख्यः, प्रत्ययो हेतुर्यस्य स संसारमूलोऽसंप्रज्ञातः । स च भूते- न्द्रियेष्वात्मत्वभावनया विधूतदेहानां विदेहानाम् अव्यक्त- महदहंकारपञ्चतन्मात्रेषु प्रकृतिष्वात्मत्वभावनया लीनानां प्रकृतिलयानां भवत्यन्तवत्फलः । तदीयं चित्तं विवेकख्या- त्यभावात्सुप्तचित्तवल्लीनमप्युत्थाय संसारे पततीति भावः ॥ अथ मुमुक्षुभिरुपादेयमुपायप्रत्ययमाह- श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥ ममायं योग एव परपुरुषार्थसाधनमिति प्रत्ययः श्रद्धा । सा चोत्कर्षश्रवणेनोपजायते । उत्कर्षश्च स्मयते- 'तपस्वि- भ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्य- श्वाधिको योगी तस्माद्योगी भवार्जुन' इति । तस्यां च श्रद्धायामवसितायां वीर्यमुत्साहो भवति 'सर्वथा योगं संपादयिष्यामि' इति । एतादृशोत्साहेन तदा तदानुष्ठे- यानि योगाङ्गानि स्मर्यन्ते । तया च स्मृत्या सम्यगनु- ष्ठितसमाधेरध्यात्मप्रसादे सति, ऋतंभरा प्रज्ञोदेति । तत्पू- १२ योगसुधाकरो नाम [पा. र्वकस्तत्प्रज्ञापूर्वकोऽसंप्रज्ञातसमाधिः इतरेषां विदेहप्रकृति- लयेभ्योऽर्वाचीनानां योगिनां सिध्यतीत्यर्थः ॥ २० ॥ इत्थं परवैराग्यसाध्यं समाधि विधाय तस्य तारतम्येन समाधेः शैव्रयतारतम्यमाह- तीव्रसंवेगानामासन्नः ॥ २१ ।। : संवेगो वैराग्यम् । तद्भेदाद्योगिनत्रिविधा मृदुसंवेगा मध्य- संवेगास्तीतसंवेगाश्चेति । तत्र तीव्रसंवेगानामासन्नः समा- धिलाभः । अल्पेनैव कालेन ममाधिलभ्यत इत्यर्थः ॥२१॥ तीव्रसंवेगेष्वेव तारतम्यमाह मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ।। २२॥ मृदुतीब्रो मध्यतीब्रोऽधिमात्रतीव्रश्च । तेष्वप्युत्तरोत्तरन्य स्वरया सिद्धिर्द्रष्टव्या । तदेवमधिमात्रतीत्रस्य दृढभूमावसं- प्रज्ञातसमाधौ लब्धे सति, पुनर्युत्थातुमशक्तं सन्मनो न- श्यति । ततः प्रत्यक्चितिः स्खे महिन्नि निर्विघ्नं निरन्तरम- वतिष्ठत इत्यर्थः ।। २२ ॥ अथासमतमसमाधिलोभ उपायान्तरमुपदर्शयति-- १ - 1 १३ योगसूत्रवृत्तिः । १.] ईश्वरप्रणिधानाद्वा ॥ २३ ॥ ईश्वरो वक्ष्यमाणलक्षणः । तस्मिन्परमगुरौ प्रणिधानं भावनाविशेषः । तस्मादासनतमः समाधिलाभः । ईश्वरो हि समाराधनादिना साधनेन आराधितः । इदमस्येष्टमस्तु' इति संसाराङ्गारे तप्यमानं पुरुषमनुगृह्णातीति भावः । ननु पुष्करपलाशवनिलेपस्य पुरुषस्य तप्यभावः कथमुपपद्यते येन परमेश्वरोऽनुग्राहकतया कक्षीक्रियेतेति चेत् , उच्यते-- तापकस्य रजसः सत्त्वमेव तप्यम् । बुद्धयात्मना परिणते सत्त्वे तप्यमाने तदारोहवशेन तदभेदावगाही पुरुषोऽपि तप्यत इत्युपचर्यते । तदुक्तम्- 'सत्त्वं तप्यं बुद्धिभावेन वृत्तं भावा ये वा राजसास्तापकास्ते । तस्याभेदग्राहिणी तामसी या वृत्तिस्तस्यां तप्य इत्युक्त आत्मा' इति । इत्थं तप्यमानं पुरुषं परमेश्वरः स्वेच्छया निर्माणकायमधिष्ठाय लौकिकवैदिकसंप्रदायप्रद्योतकोऽनुगृहातीत्यनवद्यम् ॥ २३ ।। कः पुन: स ईश्वर इत्यत्राह- क्लेशकर्मविपाकाशयरपरामृष्टः पुरुष- विशेष ईश्वरः ॥ २४ ॥ क्लिनन्तीति केशा वक्ष्यमाणलक्षणा अविद्यादयः । कर्म - - १४ योगसुधाकरो नाम पा. मिश्रामिश्ररूपं वक्ष्यमाणम् । विपच्यत इति विपाक: फलं जात्यायु गादिः । आशेरत इत्याशयाः संस्कारा: । तैर- परामृष्टोऽसंश्लिष्टः । मंश्लिष्टस्तु संसारी जीवः । मुक्तस्त्व- संश्लिष्टोऽपि पूर्वकाले तत्संश्लेषाद्ध इव । अत: पुरुषविशे- पो नित्यमुक्त ईश्वरः । तस्य सार्वज्यमैश्वर्यं च अनादिसिद्ध- प्राकृतशुद्धसत्त्वात्मकचित्तसंबन्धादिति द्रष्टव्यम ॥ २४ ॥ अथ तन्त्र प्रमाणमाह तन्त्र निरतिशयं सार्वझ्यबीजम् ।। २५ ॥ तत्रेश्वरे निरतिशयं सर्वज्ञत्वस्य बीजं मूलम् । एतदुक्तं भवति- अस्मदादिक्षानं निरतिशयेन ज्ञानेनाविनाभूतं सातिशयत्वात् । यत्सातिशयं तत्समानजातीयेन निरतिश- येन युक्तम् , यथा विभुपरिमाणेन कुम्भपरिमाणम । अतः परिशेषादनुमानसिद्धनिरतिशयज्ञानवानीश्वर इति ॥ २५ ॥ ~ नन्वयमेक एवेश्वर: किमन्ये ऽपि सन्ति ! नेत्याह-- पूर्वेषामपि गुरुः कालेनानवच्छेदात् ।। २६ ॥ ये सर्गादावुत्पन्ना: पूर्वे ब्रह्मादयः, ते मासर्वयनहायना- दिरूपेण कालेन परिच्छिद्यन्त । तदुक्तम्---- 'ये रम्या ये १.] योगसूत्रवृत्तिः । , 'शुभाचारा: सुमेरुगुरवोऽपि ये । कालेन विनिगीर्णास्ते गरु- देनेव.प्रनगा:' इति । अतस्तेषामपि भगवानेक एव गुरुरी- श्वरः; कालेनानवच्छेदात् , 'ज्ञः कालकालः' इति श्रुतेः । अनेनेश्वरस्य महाप्रभावत्वमुक्तं भवति ।। २६ ॥ अथ तस्य नामधेयमाह-- तस्य वाचकः प्रणवः ॥ २७ ॥ तस्य परमेश्वरस्य प्रणवः प्रकर्षेण नूयते स्तूयतेऽने- नेति प्रणव ओंकारः वाचकोऽभिधायक इत्यर्थः ।। २७ ।। इत्थं नामधेयमभिधाय पूर्वम् 'ईश्वरप्रणिधानात्' इत्युक्तं तत्प्रणिधानं सफलमुपदर्शयति द्वाभ्याम्---- तज्जपस्तदर्थभावनम् ॥ २८ ॥ ततः प्रत्यक्चेतनाधिगमोऽप्यन्तराया- भावश्च ॥ २९ ॥ एतदुक्तं भवति-- तस्य प्रणवस्य तस्य प्रणवस्य यो जपः, तस्मिन्दी- र्घकालनैरन्तर्यसत्कारैस्तदासनचिद्रूपेश्वरभावनापुरःसरं प्रा- धान्येन दृढमासेविते सति, पश्चात्स्वत एव वाग्व्यापाररूपे 1. 'शुभारम्भाः' इति पाठान्तरम् ।
+ १६ योगसुधाकरो नाम [पा. तस्मिन्प्रलीने, वाचकस्य न्यग्भावात्तदर्थासङ्गचिद्रूपगोचरव- त्तिसंतानरूपभावनायां दीर्घकालादिभिदृढमासेवितायाम् , ततस्तत्प्रसादेन चित्तं निरोधाभिमुखं प्रत्यासत्त्यभावेन ईश्वरं विश्रान्तिभूमितयालभमानं सत् तत्साश्यात्स्वस्वामिनमस- चिद्रूपमात्मानं स्मारयित्वा अविषयतया तमध्यलभमान निरिन्धनाग्निवत्स्वयं संस्कारावशेष भवति । तत: प्रत्यक्चे- तनाधिगमः । प्रत्यक्चासौ चेतना, तस्याः प्राप्तिरधिगमः । सर्वान्तरतया भासमाना चितिशक्तिः स्वे महिनि निरन्तरं निर्विघ्नमवतिष्ठते । अत: सर्वासा वृत्तीनां प्रविलयादन्तरा- याभावश्च भवति । अयमेक ईश्वरप्रणिधानस्य विशेष इति । के तेऽन्तराया इत्यपेक्षायामाह- व्याधिस्त्यानसंशयप्रमादालस्याविरति- भ्रान्तिदर्शनालन्धभूमिकत्वानव- स्थितत्वानि चित्तविक्षेपास्ते- ऽन्तरायाः ॥ ३०॥ ये चिसं योगाद्विक्षिपन्ति भ्रंशयन्ति ते नव विक्षेपा यो. गस्यान्तराया विनाः । तत्र दोपत्रयवैषम्यनिमित्तो स्वरादि. याधिः । चित्तस्याकर्मण्यत्वं स्त्यानम् । विरद्धकोटिद्वयाव.
१.] योगसूत्रवृत्तिः । १७ गाहि झानं संशयः । अहिंसासत्यादिसाधनानामभावनं प्रमा- दः । कायवाक्चित्तगुरुत्वादप्रवृत्तिरालस्यम् । विषयामिला. षोऽविरति: । अतस्मिंस्तगुद्धिर्धान्तिदर्शनम् । कुतश्चिभिमि- तात्समाधिभूमेरलामोऽलब्धभूमिकत्वम् । लब्धायामपि त. स्यां चित्तस्याप्रतिष्ठानवस्थितत्वमित्यर्थः ॥ ३० ॥ न केवलमेते विक्षेपा योगनाशकाः, अपि तु उपद्रवकरा इत्याह- दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१ ॥ यथोक्तव्याधिजं दुःखम् । तच्चाध्यात्मिकादिभेदात्रिवि- धम् । विषयाभिलाषविघातान्मनसि क्षोभो दौर्मनस्यम् । सर्वाङ्गचलनमामेजयत्वम् । तच्च योगाजासनविरोधि । अ- पान: श्वासः । स च रेचकविरोधी । प्राण: प्रश्वास: । स तु पूरकविरोधी । अथ वा श्वासो बाह्यकुम्भकविरोधी, प्रश्वासः आन्तरकुम्भकविरोधी, अनमेजयत्त्वं कुम्भकद्वयविरोधीत्यर्थः, 'नोच्छुसेन्नैव निश्वस्थान्नैव गात्राणि चालयेत्' इति कुम्भके तनिषेधश्रवणात् । अत एते दुःखादयो विक्षेपैः सह भवन्ति, विक्षिप्तचित्तस्य भवन्तीत्यर्थः ॥ ३१ ।। .. Y. * ।
१८ योगसुधाकरो नाम [पा. इत्थमन्तरायानुक्त्वा ते करमानाशनीया इत्यपेक्षायां पूर्वोक्तमीश्वरप्रणिधानमेवास्मिन्त्रंशे स्मारयति- - तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥ तेषां स्रोपद्रवाणां विक्षेपाणां विनाशार्थमेकतत्वस्येश्वर- स्याभ्यासः कर्तव्यः । एतदुक्तं भवति-एकतत्त्वगोचरमनो- वृत्तिप्रवाहानुकूलो यनोऽभ्यासः । स च दीर्घकालनरन्तर्य- सत्कारढमासेवितव्यः । आसेविते च तस्मिन्न्याध्यादयो वासना: क्षणेनैव विशरारुतां यान्ति । तदुक्तम्- संपरित्यागे यदि यत्रं करोष्यलम् । तत्ते शिथिलता यान्ति सर्वाधिव्याधयः क्षणात्' इति ।। ३२ ।। वासना- - अधुना संप्रज्ञातभूमिरूपैकाग्रतोपायान् मैत्री-' इ. त्यादि 'यथाभिमत-' इत्यन्तेन सूत्रसप्तकेनाह- मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्या- पुण्यविषयाणां भावनातश्चित्सप्रसा- दनम् ॥ ३३॥ चित्तं हि रागद्वेपपुण्यपापैः कलुषीक्रियते । तत्र स्वप्नादौ स्वेनानुभूयमानं सुखमनुशेते 'सर्व सुखजातं मे भूयान' १.] योगसूत्रवृत्तिः । १९ . . इति कश्चिद्धीवृत्तिविशेषो रागः । स च सुखजातस्य दृष्टा- दृष्टसामग्र्यभावेन संपादयितुमशक्यत्वाञ्चित्तं कलुषीकरोति । यदा तु सुखिप्राणिषु मैत्री भावयेत् ‘सर्वेऽप्येते सुखिनो मदीयाः' इति, तदा तत्सुखं स्वकीयमेव संपन्नमिति तत्र रागो निवर्तते । न केवलं रागः, किं तु परगुणासहन- दोषाविष्करणरूपासूयेादिकमपि निवर्तते । निवृत्ते च रागासूर्यादौ वर्षास्वतीतासु शरत्सरिदिव चित्तं प्रसीदति । तथा दुःखमनुशेते ‘सर्व दुःखं सर्वथा मे मा भूत्' इति कश्चित्प्रत्ययो द्वेषः । स च वैर्यादिषु सत्सु निवारयितुमशक्य- त्वात्सदा हृदयं दहति । यदा ‘स्वस्येव परेषां प्रतिकूलं दुःखं मा भूत्' इत्यनेन प्रकारेण करुणां दुःखिप्राणिषु भावयेत् , तदा वैर्यादिषु द्वेषो निवर्तते । न केवलं द्वेषः, किं तु दु:खित्वप्र- तियोगिकस्वसुखित्वप्रयुक्तो दर्पोऽपि निवर्तते । स च दर्पो भगवता दर्शित: 'ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवा- न्सुखी । आन्योऽभिजनवानस्मि कोऽन्योऽस्ति सहशो मया' इति । अत उभयनिवृत्तौ चित्तं प्रसीदति । तथा प्राणिनः स्वभावत एव पुण्यं नानुतिष्ठन्ति, पापं त्वनुति- ष्ठन्ति । अतस्ते पुण्यपापे पश्चात्तापं जनयतः । यदि पुण्य- पुरुषेषु मुदितां भावयेत् , तदा तद्वासनया स्वयमप्यप्रमत्तः , २० योगसुधाकरो नाम [पा. . पुण्ये प्रवर्तते । तथा पापिषूपेक्षां भावयन्स्वयमपि पापानि- वर्तते । अत: पश्चात्तापाभावेन चित्तं प्रसीदति । ननु पुण्या- त्मसु मुदितां भावयतः पुण्ये प्रवृत्तिः फलत्वेनोक्ता ; सा च योगिनो न युक्ता, तस्य पुनर्जन्मकरत्वात् । मैवम् ; काम्य- स्येष्टापूर्तादेर्जन्महेतुत्वादिह तु योगाभ्यासजन्यस्य जन्माना- पादकस्याशुक्लकृष्णस्य पुण्यस्य विवक्षितत्वात् । वक्ष्यति च भगवान्सूत्रकार:-- 'कर्माशुकृकृष्णं योगिनस्त्रिविधमितरे- पाम्' इति । अतो मैत्र्यादिभावनया रागादिवासनानिवृत्ती प्रसाद स्थैर्यमापन्नं सञ्चित्तमेकाग्रतापदं लभत इत्यर्थः । तदुक्तम्-- पौरुषेण प्रयत्नेन वलात्संत्यज्य वासनाम् स्थितिं बध्नासि चेत्तर्हि पदमासादयस्यलम्' इति ॥ ३३ ॥ प्रच्छर्दन विधारणाभ्यां वा प्राणस्य ॥ ३४ ॥ प्राणस्य शरीरान्तर्गतस्य वायोः प्रच्छर्दनं द्वात्रिंशन्मा- त्राप्रमाणेन शनैः शनैः पिङ्गलया बहिविरेचनम् । रेचितं पश्चादिडया पोडशमात्राप्रमाणेनान्तरापूर्य पूरितस्य पुनश्चतु:- षष्टिमात्राप्रमाणेन विधारणमान्तरकुम्भकः । रोचितस्य वोक्त- प्रमाणेन बहिरेव विधारणं बाह्यकुम्भकः । अनेन रेचकपूर- कबाह्याभ्यन्तरकुम्भकरूपप्राणायामत्रयं भवति । तेन प्राण- पन्दे निरुद्धे सति चित्तदोपाः प्रदान्ते । तथा च १.] योगसूत्रवृत्तिः । २१ . . श्रुति:- 'यथा पर्वतधातूनां दान्ते धमता मलाः । तथे- न्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात्' इति । तत्रोपप- त्तिर्वसिष्ठेन दर्शिता -'यः प्राणपवनस्पन्दश्चित्तस्पन्दः स एव हि । प्राणस्पन्दक्षये यत्नः कर्तव्यो धीमतोच्चकैः' इति । अत: प्राणमन:स्पन्दयोः सहभावित्वात्प्राणनिग्रहे मनो नि- गृह्यते । ननु सहस्पन्दो न युक्तः, सुषुप्तौ चेष्टमानेऽपि प्राणे मनसोऽचेष्टमानत्वात् । मैवम् ; विलीनत्वेन तदानी मनस एवाभावात् । ननु 'क्षीणे प्राणे नासिकयोच्छ्रसीत' इति श्रुतिव्याहतमिति चेत् , न; अनुल्बणत्वस्य क्षयत्वेनात्र विवक्षितत्वात् । यथा पर्वतमारोहत: श्वासवेगो यावान्भ- वति न तावानासीनस्य विद्यते; तथा प्राणायामपाटवोपेत- स्यैतस्मादल्पः श्वासो भवति । एतदेवाभिप्रेत्य श्रूयते-- भूत्वा तत्रायत: प्राणः शनैरेव समुत्सृजेत्' इति । अतः प्राणायामपाटवेन प्राणे निरुद्धे सति निर्मुष्टनिखिलदोषं स- श्चित्तमेकाप्रतापदं लभत इत्यर्थः ॥ ३४ ॥ विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ॥ ३५ ॥ नासाप्रजिह्वाग्रतालुजिह्वामध्यजिह्वामूलेषु प्रेदेशेषु चित्तस्य संयमादिव्यगन्धरसरूपस्पर्शशब्दविषयवत्यः संविदः प्रवृ- - - २२ योगसुधाकरो नाम [पा. त्तयः शीघ्रमुत्पन्ना: सत्यो विश्वासमुत्पाद्य अतिसूक्ष्मेश्वरादौ मनसः स्थिति बध्नन्ति । अतो मन एकाग्रतां प्राप्नोती. त्यर्थः ॥ ३५ ॥ विशोका वा ज्योतिष्मती ।। ३६ ।। अष्टदलहृदम्बुजं रेचकेनोर्ध्वमुखं नीत्वा तत्कर्णिकास्थायां सुषुम्नाख्यायां नाड्यां सौरचान्द्रमसवैद्युतादिप्रभानिभस्य चि- त्ततत्त्वस्य ध्यानात्तज्ज्योतिर्गोचरा संविज्योतिष्मती वि. शोका शोकशून्या प्रवृत्तिरुत्पन्ना सती मनसः स्थिति संपा- दयति । ततस्तन्मन एकाग्रतां लभत इत्यर्थः ।। ३६ ।। वीतरागविषयं वा चित्तम् ॥ ३७ ।। शुकादीनां यद्वीतरागं चित्तम् , तस्य ध्यानाधोगिनश्चित्तं नीरागं सदेकाग्रतां लभत इत्यर्थः ।। ३७ ॥ स्वनिद्राज्ञानालम्बनं वा ॥ ३८ ॥ स्वप्ने शास्त्रीयं यन्मनोहरं वस्तु दृष्टं सुषुप्तौ यत्सुखं ज्ञायते, तन्त्र ध्यानात्तज्ज्ञेयालम्वन चित्तं निश्चलं सदेकाग्रता लभत इत्यर्थः ॥ ३८॥ यथाभिमतध्यानाद्वा ।। ३१ ।।
१.] योगसूत्रवृत्तिः । २३ किं बहुना ? यथेष्टं यद्यच्छास्त्रार्थ दैवं रूपम् , तद्धथा- नाञ्चित्तमचञ्चलं सदेकाग्रतां लभत इत्यर्थः ।। ३९ ॥ नन्वतैरुपायैरेकाग्रतालामे किं ज्ञापकमित्यत्राह-- परमाणुपरममहत्वान्तोऽस्य वशी- कार:॥ ४०॥ : - अस्यैकाग्रतामापन्नस्य चित्तस्य सूक्ष्मे स्थूले वा वस्तुनि निविशमानस्य परमाण्वन्तः, परममहत्त्वान्तो वशीकारो- प्रतिघातो भवतीत्यर्थः ॥ ४० ॥ इत्यमेकाग्रतोपायान्सावान्तरफलानुक्त्वा तत्समुत्पन्नैका- प्रताभिवृद्धिलक्षणस्य सबीजसमाधेः सविषयं स्वरूपमाह: क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीत- ग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः॥४१॥ अभिजातस्यात्यवदातस्य स्फटिकमणेर्यथा जपाकुसुमोप. रागात्स्वरूपाभिभवेन रक्ताकारता भवति, एवं क्षीणवृत्तेर्वि- धूतरजस्तमोवृत्तिकस्य चित्तस्य भूतेन्द्रियतन्मात्रान्तःकरण- रजस्तमोलेशानुविद्धाहंकारविधूतरजस्तमोमलशुद्धसत्त्वात्मक- योगसुधाकरो नाम [पा. महत्तत्त्वेषु ग्राह्यग्रहणग्रहीतृषु तत्स्थस्य तदुपरक्तस्य तदख- नता स्वरूपपरित्यागेन तत्तद्रूपता तस्य सम्यगापत्तिः संप्र- ज्ञातसमापत्तिरित्यर्थः ॥ ४१ ।। इत्थं सामान्यत: संप्रज्ञातसमापत्तिमुक्त्वा अधुना वित- विचाररूपग्राह्यसमापत्तेः सवितर्कनिर्वितर्कसविचारनिर्वि- चारभेदेन चातुर्विध्यमाह त्रिभिः तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितो ॥४२॥ गौरिति शब्दः गौरित्यर्थः गौरिति ज्ञानम् , तेषां परस्प. रतादात्म्यगोचरा ये विकल्पास्तै: संकीर्णा तत्तुल्या सवि- तर्का समापत्तिः, तस्या विकल्पत्वाविशेषादित्यर्थः ॥ ४२ ॥ स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्र- निर्भासा निर्विती ॥ ४३ ।। शब्दज्ञानाभ्यां विकल्पित एवार्थे शब्दसंकेतो गृह्यते, तस्य स्मृत्या शाव्दवोधो विकल्प एव जायते । अतः संके- तस्मृतेः परिशुद्धौ प्रलये सति तत्कार्यस्य विकल्पस्य प्रलया- समाधिभावना स्वीयभावनात्वशून्येव भूत्वा अविकल्पिता- थैमात्रेणेव निर्भास्यमाना निर्वितर्का समापत्तिरित्यर्थः ॥
१.] योगसूत्रवृत्तिः । उक्तन्यायमन्यत्रातिदिशति एतयैव सविचारा निर्विचारा च सूक्ष्म- विषया व्याख्याता ॥४४॥ एतयैव विकल्पितस्थूलाकारया सवितर्कया अविकल्पि- तस्थूलाकारया निर्वितर्कया च सूक्ष्मविषया स्वशब्दज्ञाना- भ्यामभेदेन विकल्पितसूक्ष्मतन्मानेन्द्रियगोचरा सविचारा अविकल्पितसूक्ष्मतन्मात्रेन्द्रियगोचरा निर्विचारा च व्या- ख्याता भवतीत्यर्थः ॥ ४४ ॥ किं निर्विचारसमापत्तेस्तन्मात्रेष्वेवावसानम् ? नेत्याह- सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥ अस्याः समापत्ते: सूक्ष्मविषयत्वमलिङ्गे प्रधाने पर्यव- स्यति । तथा हि-तन्मात्रेभ्योऽहंकारः सूक्ष्मः, तस्मा- दपि महान् , ततोऽपि प्रधानम् । तद्धि न लीयत इत्यलि- अमुच्यते । ततः परं न सूक्ष्मा प्रकृति: समस्ति । पुरुषस्तु न प्रकृतिः सर्गे निमित्तमात्रमिति ध्येयम् ॥ ४५ ॥ संप्रज्ञातसमापत्तीरुपसंहरति- ता एव सबीजः समाधिः ॥ ४६॥ . - २६ योगसुधाकरो नाम (पा. ता एव पूर्वोक्ता एव विवेकख्यात्यभावेन बन्धवीजस- वात्सबीजः समाधिरित्यर्थः ।। ४६ ॥ इत्थं संप्रज्ञातमुपसंहृत्यासंप्रज्ञातमुपायप्रत्ययमुपसंहर्तु तस्य पूर्वरजं निर्विचारातिशयमाह- निर्विचारवैशारद्येऽध्यात्मप्रसादः॥४७ ।। निर्विचारस्य प्रधानपर्यन्तसूक्ष्मगोचरस्य यद्वैशारद्यम- भ्यासपाटवेन तस्य प्रधानान्तन्यग्भावाञ्चितिशक्तरुद्वेगः, त- स्मिन्सत्यध्यात्मनश्चितिशक्तेः प्रसादः ख्यातिर्जायते ॥४७॥ ततः किम् ? ऋतंभरा तत्र प्रज्ञा ॥४८॥ तत्र पुरुषख्यातौ सत्याम् ऋतं सत्यमात्मानं विभर्ति प्रकाशयतीति ऋतंभरा प्रज्ञा धर्ममेघः समाधिर्जायत इत्यर्थः ॥ ४८ ॥ ऋतंभरत्वोपपत्तिमाह- श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशे- पार्थत्वात् ।। ४९ ॥ न १.] योगसूत्रवृत्तिः। २७ सूक्ष्मव्यवहितविप्रकृष्टवस्तुषु योगिप्रत्यक्षं निर्वर्तते । आग- मानुमानाभ्यां तानि वस्तूनि ज्ञायन्ते । ते च श्रुतानुमा- नजन्ये प्रज्ञे सामान्यमेव गोचरयतः । इदं तु योगिप्रत्यक्षं विशेषगोचरत्वातंभरमित्यर्थः ।। ४९ ।। तस्याः प्रज्ञाया असंप्रज्ञातसमाधौ बहिरङ्गत्वसिद्धयर्थ- मुपकारित्वमाह- तज्जः संस्कारोऽन्यसंस्कारप्रति- बन्धी ।। ५०॥ तस्याः प्रज्ञाया अभ्यासजन्यो यः संस्कारः, स चान्या- न्व्युत्थानसंस्कारान्प्रतिबध्नाति बाधत इति तत्प्रतिबन्धी- - त्यर्थः ॥ ५० ॥ इत्थमसंप्रज्ञातसमाधेर्बहिरङ्गसाधनमभिधाय निरोधप्र- यत्नस्यान्तरङ्गसाधनतां सूचयन्निीजमुपसंहरति- तस्यापि निरोधे सर्वनिरोधान्नि/जः समाधिः ॥५१॥ परवैराग्यसहकृतविरामप्रत्ययेन प्रज्ञासंस्कारस्यापि निरोधे सत्युत्पत्स्यमानप्रज्ञासंस्कारस्य सर्वस्यापि निरोधादशेषबन्ध- २८ योगसुधाकरो नाम [पा. निवृत्तेर्निर्बीजः समाधिर्लभ्यते । तस्मिन्समाधौ लब्धे सति पुनयुत्थातुमशक्तं सञ्चित्तं नश्यति । तत: कूटस्थनित्यान- न्ता शुद्धा चितिशक्तिः स्वे महिनि निरन्तरं निर्विघ्नमवति- ष्ठत इत्यतिशोभनम् ॥ ५१ ॥ इति श्रीमत्पतञ्जलिप्रणीते योगशास्ने योगसुधाकराभिधायां वृत्तौ समाधिपादः समाप्तः॥
साधनपादः॥ परापश्यन्त्यादिभेदभिन्नामेकां निसर्गतः । चिदानन्दमयीं नित्यां वाचं कांचिदुपासहे ॥ पूर्व सावान्तरभेदं सान्तरङ्गसाधनं सफलं समाधिमभि- धायाधुना पूर्वाभिहितसाधनेऽप्रवर्तमानमानसमपक्ककषायक- रणं प्रति बहिरङ्गसाधनं क्रियायोगमाह- तपास्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥१॥ हितमितमेध्याशनं तपः । परमपवित्रप्रणवादिमन्त्रजपः स्वाध्यायः । ईश्वरे लीलया स्वीकृतातिमनोहराने परमगुरौ कायवाड्मनोभिनिर्वतितो भक्तिविशेषः प्रणिधानम् । तानि क्रियारूपत्वाद्योगसाधनत्वाञ्च क्रियायोग इति शुद्धसारूप्य- लक्षणाश्रयणेन निरूप्यन्ते 'आयुर्घतम्' इतिवदित्यर्थः । स किमर्थ इत्यत आह--- समाधिभावनार्थः क्लेशतनूकरणा- . र्थश्च ।। २॥
योगसुधाकरो नाम [पा. समाधे वनं निष्पादनमर्थः प्रयोजनं यस्य स तथोक्तः, केशानां तनूकरणं शिथिलीकरणमर्थः प्रयोजनं यस्य स तथोक्तः । एतदुक्तं भवति- दीर्घकालनैरन्तर्यसत्कारानु- बन्धितपआदिक्रियायोगाङ्गानुष्ठानेन लेशा विशरारुतामिता: सन्तः पुरुषान्यताख्यातावनुपप्लवायां जातायां समूलका कषिता भवन्तीति ॥ २ ॥ के ते केशा: कियन्त इत्यपेक्षायामाह-- अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः॥३॥ पुरुष केशयन्ति दुःखाकुर्वन्तीति केशाः । ते पञ्चे- + त्यर्थः ॥३॥ अथास्मितादीनामविद्यानिदानत्वमाह अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छि- नोदाराणाम् ॥ ४॥ प्रसुप्तास्तनवो विच्छिमा उदाराश्चास्मितादयश्चत्वारः । तेपामुत्तरेपामविद्या भावरूपो विपर्ययः, सा क्षेत्रं प्रसव- भूमिः । तत्र प्रसुप्तत्वं प्रयोधसहकारस्याभावेनानभिव्यक्तिः । .
२. योगसूत्रवृत्तिः । ३१ तद्यथा- तनुत्वं प्रतिपक्षभावनया शिथिलीकरणम् । विच्छिन्नत्वं बल- वता क्लेशेनाभिभवः । उदारत्वं सहकारिसंनिधिवशात्कार्य: कारित्वमित्यर्थः ॥ ४ ॥ अथाविद्यास्वरूपमाहं- अनित्याशुचिदुःखानात्मसु नित्यशुचिसु- खात्मख्यातिरविद्या ॥५॥ अतस्मिंस्तद्गुद्धिविपर्यय इत्युक्तं भवति । अनित्ये स्वर्गादौ नित्यत्वाभिमानः । अशुचौ मांसामुक्पूय- विण्मूत्रादिशालिनि काये शुचित्वप्रत्ययः । दुःखे स्रक्चन्द- नवनितादौ सुखत्वारोपः । अनात्मनि देहादावात्मबुद्धिः इत्यविद्या चतुष्पदेत्यर्थः ॥ ५ ॥ अविद्यामूलास्मितामाह- दृग्दर्शनशक्त्योरेकात्मतेवामिता ॥६॥ सत्त्वपुरुषयोरहमस्मीत्येकताभिमानोऽस्मितेत्यर्थः ॥ ६ ॥ रागं निरूपयति- सुखानुशयी रागः ॥७॥ सुखाभिज्ञस्य सुखानुस्मृतिपूर्वकं सुखसाधनेषु तृष्णा- रूपो राग इत्यर्थः ॥ ७ ॥ - ३२ योगसुधाकरो नाम [पा. दुःखानुशयी द्वेषः॥८॥ दु:खाभिज्ञस्य तदनुस्मृतिपुरःसरं तत्साधनेषु निन्दा द्वेष इत्यर्थः ॥ ८॥ स्वरसवाही विदुषोऽपि तथारूढो- ऽभिनिवेशः ॥९॥ स्वरसत: प्रवाहशीलो विदुपोऽपि तथा मूढवदारुढो भ- यत्रासोऽभिनिवेशः । पूर्वजन्मानुभूतमरणदुःखानुभववासना- बलात्सर्वस्य प्राणभृन्मात्रस्य आ क्रिमेरा च विदुषः संजाय- मान: शरीरविषयादेर्मम वियोगो मा भूदिति प्रत्यहं निमि- तमन्तरेण प्रवर्तमानो भयरूपोऽभिनिवेश इति ॥ ९ ॥ पूर्व कर्मयोगमभिधाय तेन विरला: केशास्तत्समनन्तर- भाविपुरुषख्यात्या दग्धा भवन्तीत्यर्थादभिहितम् । तत्र सूक्ष्माणां दग्धानामधुना समूलोन्मूलनोपायमाह--- ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ १० ॥ चित्तस्य निवृत्ताधिकारस्य प्रकृती प्रलयः प्रतिप्रसवः । तेन हेया: सूक्ष्मा: केशाः । स्वमूलभूतपित्तहानी तत्स- स्काररूपाः सूक्ष्माः समूलघातं इता भवन्तीत्यर्थः ॥ १० ॥ - २.] योगसूत्रवृत्तिः। अथ स्थूलानां समूलं कषणोपायमाह-- ध्यानहेयास्तवृत्तयः ॥ ११ ॥ क्रियायोगेण शिथिलाः स्थूलास्ता: केशवृत्तयः पुरु- धध्यानेनैव हातव्याः । हीनाश्च स्वमूलचित्तोन्मूलनेनोन्मू- लिता भवन्तीत्युक्तम् ॥ ११ ॥ इत्थं क्लेशांस्तद्धानोपायं च अभिधाय अधुना कर्माशयस्य केशनिदानत्वमुपदर्शयन्नाह-- क्लेशमूलः कर्माशयो दृष्टादृष्टज- न्मवेदनीयः ॥१२॥ रागद्वेषादिक्लेशनिदानः कर्मणां धर्माधर्मरूपः संस्कारः कर्माशयः । स च दृष्टजन्मवेदनीय इहैवानुभाव्यः, अदृष्ट- जन्मवेदनीयश्चामुत्रानुभाव्यः । तलायो यथा नन्दिकेश्वर- स्तीव्रतपश्चर्यादिसाधनेनेश्वरं समाराध्य सद्य एव देवत्वादि- कमलभत, नहुषो महग्रंपराधेन सद्यः सर्पत्वमगमत् । द्वितीयस्तु स्वर्गनरकादिहेतुरित्यर्थः ॥ १२ ॥ न केवलं क्लेशमूलत्वं कर्माशयस्यैव, किं तु तद्विपाकस्या- पीत्याह- , Y.3 ४ योगसुधाकरो नाम [पा. सति मूले तद्विपाको जात्यायु गाः॥१३ ।। क्लेशरूपे मूले सत्येव कर्मणां विपाकः फलम् । स च त्रि- विध:-- जातिर्जन्म देवत्वादि । आयुश्विरकालं देहप्रा. णयोर्योगः । इन्द्रियैर्विषयानुभवो भोग इति । तत्र भोगो मुख्यः, जात्यायुषी तच्छेषभूते इति विभागः । सूत्रद्वयस्या- यमभिसंध्यर्थ:-- सत्सु क्लेशेषु कर्मतत्फले भवतः, विवे- कख्यात्यमिदग्धेषु कर्मालब्धात्मकं सद्वितुषशाल्यादिवन्न फलं प्रसूत इति ॥ १३ ॥ अधुना जात्यादीनां हेयत्वार्थ फलमाह- ते लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ।। ते जात्यायु गाः पुण्यहेतुका: सुखफलाः, अपुण्यहेतुका दुःखफला भवन्ति विभागेनाविवकिनामित्यर्थः ॥ १४ ॥ विवेकिनां तु ते सर्वे दुःखफला एवेत्याह-- परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच दुःखमेव सर्व विवेकिनः ।। १५ ।। परिणामदुःखं तापदुःखं संस्कारदुःखम्, तैरित्यर्थः । तत्र सुखे सत्यागामिनस्तादृशस्य सुखस्य कारणं पुण्यम- योगसूत्रवृत्तिः । ३५ E ननुष्ठाय वृथैव तदपेक्षा तामसी वृत्तिर्जायमाना चित्तं दुः- खाकरोतीति परिणामदुःखम् । सुखभोगकाले रोगादिनि- मित्तेन रजोगुणविकाररूपा संतापात्मिका प्रतिकूला वृत्ति- र्जायते ; सा च 'अहं पापी, धिङमां दुरात्मानम्' इत्येवं चित्तं संतापयति; तदिदं तापदुःखम् । तथा सुखनाशे तत्संस्कारः सुखं स्मारयित्वा स्मारयित्वा हृदयं दहति; तदिदं संस्कारदुःखम् । एतैर्दुःखैर्योगात् , किं च गुणवृत्ति- विरोधाच्च गुणानां सत्त्वरजस्तमसां या वृत्तयः प्रकाशप्रवृ- त्तिमोहात्मिकास्तासामतिचपलकल्लोलवनिरन्तरं परिणतानां विरोधः परस्परं बाध्यबाधकत्वं तस्माच्च सर्वमेव भोगसा- धनं जगद्विवेकिनो दुःखमेव, विवेकिनमक्षिपात्रमूर्णातन्तु- रिवात्यन्तमुद्वेजयति । अतः सर्व दुःखं हेयमिति भावः ।। अधुनानागतदुःखस्य विशिष्य हेयत्वमाह- हेयं दुःखमनागतम् ॥ १६ ॥ अतीतस्य गतत्वाद्वर्तमानस्य भोगेनैव भयादनागतमेव दुःखं हेयमित्यर्थः ।। १६ ॥ अथ हेयहेतुमाह--- द्रष्टदृश्ययोः संयोगो हेयहेतुः ॥ १७ ॥ ,
३६
योगसुधाकरो नाम
[पा.
द्रष्टा ग्रूपः पुरुषः, दृश्यं बुद्धिसत्त्वम् , तयोः संयोगः
स्वस्वामिभावः; स चेन्द्रियप्रणाडिकया चित्ते विविधशब्दा-
द्याकारेण परिणते सति तत्र चितिच्छायायां प्रतिबिम्बि-
तायां तदविवेकरूपाविद्याकृतः । स च हेयस्य दुःखस्य हेतु-
रित्यर्थः ॥ १७ ॥
दृश्यं प्रपश्चयति-
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं
भोगापवर्गाथै दृश्यम् ॥ १८ ॥
प्रकाशः प्रख्यारूप:, क्रिया प्रवृत्तिरूपा, स्थितिनियम-
रूपा, ताः सत्त्वरजस्तमसा धर्माः शीलं स्वाभाविक रूप
यस्य तत्तथोक्तम; भूतेन्द्रियात्मकं भूतानि महाभूततन्मात्र-
भेदभिन्नानि इन्द्रियाणि बुद्धिकर्मेन्द्रियान्त:करणभेदभिन्नानि
एतद्राह्यग्रहणरूपमात्मा स्वाभिन्नः परिणामो यस्य तत्तयो.
क्तम ; भोगापवर्गार्थ भोगमोक्षप्रयोजकं तदृश्यमित्यर्थः ।।
एतस्य गुणत्रयात्मकस्य दृश्यस्य परिणाम विभज्य दर्श-
यति--
विशेषाविशेषलिङ्गमावालिङ्गानि
गुणपर्वाणि ॥ १९॥
२.]
योगसूत्रवृत्तिः ।
विशेषा महाभूतेन्द्रियमनोरूपाः षोडश विकाराः, अवि-
शेषास्तन्मात्राहकाराः षट् प्रकृतिविकृतयः, लयं गच्छतीति
लिङ्गमानं प्रकृतिविकाररूपं महत्तत्त्वम् , अलिङ्गं गुणानां
साम्यावस्थारूपं प्रधानम् । एतानि चत्वारि गुणानां पर्वाणि
अवस्थाविशेषा इत्यर्थः ।। १९ ।।
।
इत्थं हेयं दृश्यं प्रथमं निरूप्य उपादेयं द्रष्टारं निरूप-
यितुमाह-
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्यया-
तुपश्यः ॥ २०॥
द्रष्टा पुरुषो दृशिमात्रश्चिन्मात्रो न ज्ञानादिधर्मकः, त-
धर्मकत्वे तस्य वृत्तिरूपतया विनाशशीलत्वात् 'उपयन्नप-
यन्धों विकरोति हि धर्मिणम्' इति न्यायेनात्मन: कौ.
टस्थ्यं हीयते । अतः शुद्धः अपरिणाम्यपि प्रत्ययं बौद्ध-
मनुपश्यति । तमनुपश्यन्नतदात्मापि तदात्मभूत इव प्रति-
भासत इत्यर्थः ॥ २० ॥
इत्थं दृश्यद्रष्टारावभिधाय तयोः शेषशेषित्वमभिधातु-
माह
तदर्थ एव दृश्यस्यात्मा ॥ २१ ॥
३८ योगसुधाकरो नाम (पा. दृश्यस्य भोग्यस्यात्मा स्वरूपं द्रष्ट्रर्थमेव न स्वार्थम् , अचेतनत्वादित्यर्थः ॥ २१ ॥ , ननु द्रष्टुः प्रयोजने निष्पने सति कृतकृत्यतया प्रधाने निर्व्यापारेऽधुना संसारो नोपलभ्येतेति चेत् , नेत्याह--- कृतार्थ प्रति नष्टमप्यनष्टं तदन्य- साधारणत्वात् ॥ २२॥ प्रधानमेकं पुरुषा अनन्ता: । तथा च पुरुषख्यातिपर्यन्तं भोगापवर्गों दत्त्वा कंचन कृतार्थ प्रति नष्टं नियापारमपि पुरुषान्तरसाधारणत्वादनष्टमेवावतिष्ठते । तथा चैकमुक्ती सर्वमुक्तिप्रसङ्गानवकाश इति भावः ।। इत्थं दृश्यद्रष्टारौ व्याख्याय तत्संयोगं व्याख्यातुमाह- स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३ ॥ स्वशक्तिदृश्यस्वभावः, स्वामिशक्तिईस्वभावः । तयो- श्रेसचेतनत्वेन व्यवस्थितयो: स्वरूपोपलब्धिोगापवर्गरूपा। तया हेतुः प्रत्यय: संयोगो द्रश्यभावो विद्याकृत इति व्याख्यातम् । एवं च यस्यामाचे दहश्ययो: स्वरूपोपल.
२.] योगसूत्रवृत्तिः । ३९ - । - - ब्धिनं भवति, यद्भावे सा भवति, स संयोगः कार्यैकोनेय इत्युपदिष्टं भवति ॥ २३ ॥ संचोगस्याप्युपायमाह- तस्य हेतुरविद्या ॥ २४ ॥ तस्य संयोगस्य पूर्वोक्ताविधा हेतु: कारणमित्यर्थः ।। इत्थं हेयं तद्धेतुं च अभिधाय अधुना हानं तद्धेतुं च निरूपयितुमाह द्वाभ्याम्- तभावात्संयोगाभावो हानं तदृशेः कैवल्यम् ॥ २५ ॥ तस्या अविद्याया अभावाद्विद्यया विनाशात्तत्कृतसंयोग- विनाशो हानं यत् , तदेव दृशेर्नित्यमुक्तायाश्चितिशक्तेः कैव- ल्यमित्यर्थः ॥ २५ ॥ विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥ अविप्लवा अविद्याविरोधिनी सत्त्वपुरुषयोरन्यताख्याति हानस्य कैवल्यस्य हेतुरित्यर्थः- अयं सूत्रद्वयस्याभिसं. ध्यर्थ:- आदरनैरन्तर्यदीर्घकालानुबन्धियमनियमाद्यष्टाङ्गा- नुष्ठानेन सत्त्वपुरुषान्यताख्यातावविप्लवायां जातायामवि. न t योगसुधाकरो नाम [पा. द्यादयः पञ्च शास्तत्कृतसंयोगश्च समूलकार्ष कषिता भव- न्ति । कुशलाकुशलकर्माशयास्तद्विपाकाश्च समूलघातं हता भवन्ति । ततश्च परवैराग्येणान्यताख्यातिनिवृत्तौ निरोधसमा- ध्यभ्यासेन चित्ते निवर्तिते सति पुरुषस्य निर्लेपस्य स्वरूप- प्रतिष्ठारूप कैवल्यं भवतीति ॥ २६ ॥ : अथ जीवन्मुक्तस्य पुरुषस्य ज्ञानवैभवमाह- तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ।। २७ ।। तस्य संजातविवेकख्याते: पुरुषस्य सप्तधा सप्तप्रकारा प्रान्तभूमिः प्रकर्षेणान्तो निवृत्तिः फलत्वेन यासां ता भूमयोऽवस्था यस्याः सा प्रज्ञा प्रान्तभूमिः सप्तप्रकारा । अयमर्थः----- संजातविवेकख्यातेः पुरुषस्य सप्त प्रज्ञाभू- मयः । तत्र चतस्रः कार्यविमुक्तिसंज्ञाः, तिनश्चित्तविमुक्ति- संज्ञाः । तद्यथा- ज्ञातव्यमखिलं ज्ञातं मम न किंचिजमा- तव्यमस्तीति जिज्ञासानिवृत्तिरेका । हातव्यं सर्व बन्धजातं हीनं मम न किंचिद्धेयमस्तीति जिहासानिवृत्तिद्धितीया । कैवल्यप्राप्त्या प्राप्तव्यमखिलं प्राप्तं ततो न किंचित्प्राप्तव्य- मस्तीति प्रेप्सानिवृत्तिस्तृतीया। विवेकख्यातिलाभेन कर्त- व्यमखिलं कृतं न किंचिन्मम कार्यमस्तीति चिकीपानि- वृत्तिश्चतुर्थी । कृतार्थ मे बुद्धिसत्त्वमिति शोकनिवृत्तिरेका । H 1 २.] योगसूत्रवृत्तिः । ४१ - मम बुद्धथादयो गुणा: प्रलीनाः प्रयोजनाभावात्पुनर्न प्ररो- हन्तीति भयनिवृत्तिद्धितीया । तदाहं गुणातीतस्वरूपमात्रे- णावस्थितश्चिदेकरस इति सकलविकल्पनिवृत्तिस्तृतीया । इति सप्तधा प्रान्तभूमिर्द्रष्टव्येति ॥ २७ ॥ पूर्वस्मिन्पादे समाहितचित्तस्यान्तरसाधने अभ्यास- वैराग्ये अभिधाय आदावस्मिन्पादे व्युत्थितचित्तस्य क्रियायो- गोऽभिहितः । अधुना ततोऽपि व्युस्थितचित्तस्य संप्रज्ञात- साधनान्यष्टाङ्गान्यभिधातुमाह- योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्सिरा विवेकख्यातेः ॥ २८॥ वक्ष्यमाणयोगाङ्गानामनुष्ठानादशुद्धेः केशरूपायाः क्रमेण क्षये जायमाने, ज्ञानम्य दीप्तिवृद्धिरा विवेकख्यातेर्भवती- त्यर्थः । योगाङ्गानुष्ठानं शुद्धिद्वारा प्रज्ञासाधनमिति भावः ।। कानि पुनस्तानि योगाङ्गानीत्यपेक्षायामाह-- यमनियमासनप्राणायामप्रत्याहारधारणा- ध्यानसमाधयोऽष्टावङ्गानि ॥ २९ ॥ तत्र के यमा इत्यपेक्षायामाहoc योगसुधाकरो नाम [पा. द्यादयः पञ्च क्लेशास्तत्कृतसंयोगश्च समूलकाषं कषिता भव- न्ति । कुशलाकुशलकर्माशयास्तद्विपाकाश्च समूलघातं इता भवन्ति । ततश्च परवैराग्येणान्यताख्यातिनिवृत्तौ निरोधसमा. ध्यभ्यासेन चित्ते निवर्तिते सति पुरुषस्य निर्लेपस्य स्वरूप- प्रतिष्ठारूपं कैवल्यं भवतीति ॥ २६ ॥ अथ जीवन्मुक्तस्य पुरुषस्य ज्ञानवैभवमाह- तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७ ।। तस्य संजातविवेकख्याते: पुरुषस्य सप्तधा सप्तप्रकारा प्रान्तभूमिः . प्रकर्षणान्तो निवृत्तिः फलत्वेन यासां ता भूमयोऽवस्था यस्याः सा प्रज्ञा प्रान्तभूमिः सप्तप्रकारा । अयमर्थः संजातविवेकख्याते: पुरुषस्य सप्त प्रज्ञाभू- मयः । तत्र चतस्रः कार्यविमुक्तिसंज्ञाः, तिम्रश्चित्तविमुक्ति- संज्ञा: । तद्यथा- ज्ञातव्यमखिलं ज्ञातं मम न किंचिजमा- तव्यमस्तीति जिज्ञासानिवृत्तिरेका । हातव्यं सर्व बन्धजातं हीनं मम न किंचिद्धेयमस्तीति जिहासानिवृत्तिद्धितीया । कैवल्यप्राप्या प्राप्तव्यमखिलं प्राप्तं ततो न किंचित्प्राप्तव्य. मस्तीति प्रेप्सानिवृत्तिस्तृतीया । विवेकख्यातिलाभेन कर्त- व्यमखिलं कृतं न किंचिन्मम कार्यमस्तीति चिकीर्षानि- वृत्तिश्चतुर्थी 1 कृतार्थ मे धुद्धिसत्त्वमिति शोकनिवृत्तिरका । -- २.] योगसूत्रवृत्तिः । ४१ मम बुद्धधादयो गुणाः प्रलीनाः प्रयोजनाभावात्पुनर्न प्ररो- हन्तीति भयनिवृत्तिद्धितीया। तदाहं गुणातीतस्वरूपमात्रे- णावस्थितश्चिदेकरस इति सकलविकल्पनिवृत्तिस्तृतीया । इति सप्तधा प्रान्तभूमिर्द्रष्टव्येति ।। २७ ।। पूर्वस्मिन्पादे समाहितचित्तस्यान्तरसाधने अभ्यास. वैराग्ये अभिधाय आदावस्मिन्पादे व्युत्थितचित्तस्य क्रियायो- गोऽभिहितः । अधुना ततोऽपि व्युत्थितचित्तस्य संप्रज्ञात- साधनान्यष्टाङ्गान्यभिधातुमाह- योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्सिरा विवेकख्यातेः ॥ २८ ॥ वक्ष्यमाणयोगालगनामनुष्ठानादशुद्धेः केशरूपायाः क्रमेण क्षये जायमाने, ज्ञानम्य दीप्तिवृद्धिरा विवेकख्यातेर्भवती. त्यर्थः । योगाङ्गानुष्ठानं शुद्धिद्वारा प्रज्ञासाधनमिति भावः ।। कानि पुनस्तानि योगाङ्गानीत्यपेक्षायामाह- ‘यमनियमासनप्राणायामप्रत्याहारधारणा ध्यानसमाधयोऽष्टावङ्गानि ॥ २९ ।। तत्र के यमा इत्यपेक्षायामाह- । -- Ram ४२ योगसुधाकरो नाम [पा. अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ।। अहिंसादिभ्यो निषिद्धकर्मभ्यो योगिनं यमयन्ति निव- तयन्तीति यमाः । तत्राहिंसा कायवाड्मनोभिः सर्वदा सर्व भूतानामहिंसनम् । सत्यं सर्वदानृतानभिभाषणम् । अस्तेयं परस्वत्वानपहारः । ब्रह्मचर्यमष्टविधमैथुनत्यागः । अपरिग्रहः शरीरस्थितिमातव्यतिरिक्तभोगसाधनास्वीकारः। एते पश्च ग्रमा इत्यर्थः ॥ ३०॥ एतेषां योगिभिरुपादेयं विशेषमाह-- जातिदेशकालसमयानवच्छिन्नाः सार्व- भौमा महाव्रतम् ॥ ३१ ॥ जाति ह्मणत्वादिकम् , तत्सदाहं न हनिष्यामीत्यहिंसा जात्या परिच्छिमा । देशे तीर्थादौ काले नियतचतुर्द- श्यादौ वा कमपि न हनिष्यामीति देशकालाभ्यामवन्छिना । देवब्राह्मणाद्यर्थातिरेकेण न हनिष्यामीति समयावच्छिन्ना । समयो नियतोऽवसर इत्यर्थः । प्राणिमात्र क्वचिदपि कदा- चिदपि कस्यापि कृतेऽहं न हनिष्यामीति जात्यादिभिश्चतु- भिरनवच्छिन्ना भवत्यहिंसा पुष्कला । एवं मत्यादयोऽप्यन- वच्छिन्ना ऊहनीयाः । इत्यमेते सर्वासु जात्यादिषु भूमि .
२.] योगसूत्रवृत्तिः । ४ विदिताः सार्वभौमा महाव्रतमित्युच्यन्त इत्यर्थः ॥ ३१ ॥ अथ नियमानाह-- -- . है . शौचसंतोषतपास्वाध्यायेश्वरप्रणिधा- नानि नियमाः ॥ ३२॥ जन्महेतून्काम्यधर्मानिवर्त्य मोक्षहेतौ निष्कामे धर्मे नि- यमयन्ति प्रेरयन्तीति नियमाः । शौचं मृजलाभ्यां बाह्यम. लनिवृत्तिः, मैच्यादिभावनयान्तरसूयादिमलनिवृत्तिः । संतोषो यथालाभपरितुष्टिः । तपः कायशोषणम् , तदुक्तं योगयाज्ञ- वल्क्ये-'विधिनोक्तेन मार्गेण कृच्छ्चान्द्रायणादिभिः । शरीरशोषणं प्राहुस्तापसास्तप उत्तमम्' इति । स्वाध्यायो गायत्रीप्रभृतीनां मन्त्राणामध्ययनम् । ते च मन्त्रा द्विविधा वैदिकास्तान्त्रिकाश्च । वैदिका: प्रगीताप्रगीतभेदेन द्विविधाः । तान्त्रिका: स्त्रीपुंनपुंसकभेदेन त्रिविधाः । तदलं मन्त्ररहस्यो- दोषेण । ईश्वरप्रणिधानं नाम अभिहितानामनभिहितानां च सर्वासां क्रियाणां परमेश्वरे फलानपेक्षतया समर्पणम् । तदु- क्तम्- कामतोऽकामतो वापि यत्करोमि शुभाशुभम् । तत्सर्व त्वयि विन्यस्य ... त्वत्प्रयुक्तः करोम्यहम्' इति । फलाभिसंधेपघातकत्वमभिहितं महद्भिः-- 'अपि प्रयत्न- - ४४ योगसुधाकरो नाम [पा. । संपन्नं कामेनोपहतं तप: न तुष्टये महेशस्य श्वलीढमिव पायसम्' इति । एतानि शौचादीनि पश्च नियमा इत्यर्थः ।। ननु सति परिपन्थिनि जाप्रति, कथं यमादिसिद्धिरित्यत आह वितर्कबाधने प्रतिपक्षभावनम् ।। ३३ ।। एतेषां यमनियमादीनां वितहिंसादिसंकल्पैः 'हनि- प्याम्येनम्' 'अनृतं वदिष्यामि' परस्वमादास्ये' इत्यादि- भिर्बाधने प्राप्ते सति, यमादिपरो योगी 'संसाराङ्गारेष्वह तप्यमानो यमादिकं शरणमुपगतो हिंसादिकमत्यजम् । पुन- स्तदाददान: कौलेयकेन वान्ताशिना समः' इत्यनेन प्रकारेण वितर्कप्रतिपक्षान्भावयदित्यर्थः ॥ ३३ ॥ अधुना वितर्काणां स्वरूपप्रकारकारणावान्तरभेदफलानि पञ्चभिः पदैः क्रमेण कथयन् प्रतिपक्षभावनं स्फुटयति---- विती हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमभ्याधिमाला दुःखाज्ञानानन्तफला इति प्रतिपक्षनावनम् ॥ ३४ ॥ 1- २.] योगसूत्रवृत्तिः । प्रकारा-- , : वितर्का हिंसादय इति स्वरूपनिर्देशः । तत्र हिंसा त्रि- त्यं कृता, कुर्विति कारिता, साधु साध्वियनु: मोदिता चेति । तत्रैकैका कारणभेदात्पुनत्रिविधा भवति धनादिलोभेन, अपकृतमनेनेति क्रोधेन, धर्मो भ- विष्यतीति मोहेन । एवं नवविधा जाता हिंसा । लो- भक्रोधमोहा: प्रत्येकं त्रिविधा भवन्ति मृदुमध्याधिमात्र- त्वेन । तत्पूर्वका हिंसादयोऽपि मृदुत्वादिना त्रिविधा भव- न्ति । तथा कृता कारितानुमोदिता च प्रत्येकं नवधा भवतीति हिंसायाः सप्तविंशति दा. भवन्ति । मृदुमध्याधि- मात्रा अपि प्रत्येकं त्रिविधा भवन्ति-- मृदुमृदुमध्यमृदु- स्तीव्रमृदुः, मृदुमध्यो मध्यमध्यस्तीबमध्यः, मृदुतीवो मध्य- तीवस्तीव्रतीत इति । एवं लोभो नवविधस्तथा क्रोधमोहा. विति तत्पूर्वा कृता हिंसा सप्तविंशतिभेदा भवति । तथा कारितानुमोदिता चेत्येकाशीतिभेदा हिंसा भवति । एवमनृ- तादिष्वपि योज्यम् । इत्थंभूता वितर्का दुःखं नरकादिकम् , अज्ञानं स्थावरादिभावम् , भ्रान्तिसंशयरूपं च अनन्तं फलं प्रयच्छन्तीति प्रतिपक्षाणां वितर्कशत्रूणां भावनमित्यर्थः । अनेन भावनेन तद्धाने सति निर्विघ्ना यमादयः सिध्यन्ति । तत्सिद्धौ चित्तपरिकर्मद्वारा कैवल्यं सिध्यतीत्यभिसंधिः ॥
- योगसुधाकरो नाम [पा. अधुना थमादीनां सिद्धिसूचकमवान्तरफलं क्रमेण दर्श यति--- अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः ॥ ३५॥ सत्यहिंसास्थैर्ये, तस्याहिंसकस्य योगिधौरेयस्य संनिधौ स्वभावविरुद्धानां गोव्याघ्रादीनामपि वैरत्यागो भवतीत्यर्थः । एतदेवाभिप्रेत्योक्तं वासिष्टे-मातरीव परं यान्ति विष- माणि मृदूनि च । विश्वासमिह भूतानि सर्वाणि शमशा- लिनि' इति ॥ ३५ ॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६॥ क्रिया धर्माधर्मरूपा, तस्याः फलं स्वर्गादिकम् । तयो- राश्रयो वायात्रेण दाता, तस्य भावस्तत्त्वम् । योगिनः स्वर्गादिफलदातृत्वं वामात्रेण सिध्यतीत्यर्थः ।। ३६ ।। अस्तेयप्रतिष्टायां रत्नोपस्थानम् ।। ३७ ।। दिव्यानि रनानि योगिनः पुरत उपस्थितानि भव- न्तीत्यर्थः ।। ३७ ॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ।। ३८ ॥ .
२.] योगसूत्रवृत्तिः । वीर्यनिरोधो हि ब्रह्मचर्यम् । तत्सिद्धौ निरतिशयं साम- यं भवति । निरतिशयसामर्थ्यशालिना योगिना कृतः शिष्येषूपदेशः सद्यः फलतीति भावः ।। ३८ ॥ 7 अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः ॥ ३९ ।। कथमित्यस्य भावः कथंता, जन्मनि कथंता तस्याः संबोधः साक्षात्कारः, पूर्वजन्मनि कोऽहं कीदृशोऽतिष्ठं किं कार्यम- करवमिति जिज्ञासायां सर्वमनेन योगिना सम्यग्ज्ञायत इत्यर्थः ॥ ३९॥ इत्थं यमसिद्धीरभिधाय अधुना नियमसिद्धीः क्रमेणा- भिदधाति-- शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥४०॥ शौचमाचरतो योगिनः स्वाङ्गे शुद्धिमपश्यतो जुगुप्सा भवति । अशुचिखभावोऽयं कायः । अतस्तस्मिन्नवभिश्छि- निरन्तरं स्रवत्सु मलेषु रोमकूपैरसंख्यातैः स्विझे गाने को नामाखेदेन प्रक्षालयितुं शक्नुयात् । तदुक्तम्-- 'नवच्छि- द्रकृता देहाः सवन्ति. घटिका इव ।, बाह्यशौचैर्न शुध्यन्ति नान्त: शौचं तु विद्यते' इति । एवं खकाये जुगुप्सावत: परकाया एतादृशा इति दोषदर्शिनस्तैः संसर्गों न कदाचि- .
[पा. योगसुधाकरो नाम ४८ . दपि भवति । यदि स्वकायदुर्गन्धेन जुगुप्सा न स्याकि नामैतस्य निर्वेदकारणं भवेत् ! तदुक्तम्- 'स्वदेहाशुचि- गन्धेन न विरज्येत यः पुमान् । विरागकारणं तस्य किम- न्यदुपदिश्यते' इति ॥ ४० ॥ संप्रत्यन्तःशौचसिद्धिमाह- सत्त्वशुद्धिसौमनस्यैकारयेन्द्रियजयात्म दर्शनयोग्यत्वानि च ॥४१ ।। सत्त्वस्य बुद्धरसूर्यादिमलनिवृत्तिः शुद्धिः, तत: सौ- मनस्यं सत्त्वोत्कर्षः, तत ऐकायं नैश्चल्यम्, ततो बाह्ये- न्द्रियजयः, तत आत्मदर्शनयोग्यत्वं पुरुषसाक्षात्काराईत्वम् , तान्येतानि परस्परहेतुहेतुमद्भावेन शौचाद्भवन्तीत्यर्थः ।। संतोषादनुत्तममुखलाभः ॥ ४२ ॥ संतुष्टस्य योगिनः सत्त्वोत्कर्षादन्तर्निरतिशयं सुखमावि. र्भवति । न केवलमेवम् ; प्रत्युत वैपयिकं सुखं विपमिव प्रतिकूलं भवतीत्यर्थः । तदुक्तम् --- 'संतोषामृतपानेन ये शान्तास्तृप्तिमागताः । भोगश्रीरतुला तेषामेषा प्रतिविषायते' इति ॥ ४२ ॥ कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥ ४३ ।।
२.] योगसूत्रवृत्तिः । स्वधर्मकृच्छादिना केशपापक्षयात्कायस्याणिमादिसिद्धिः, इन्द्रियाणां च सूक्ष्मव्यवहितप्रकृष्टार्थग्राहित्वसिद्धिर्भवती- त्यर्थः ॥ ४३ ।। खाध्यायादिष्टदेवतासंप्रयोगः ॥ ४४ ॥ अभिमतमन्त्रजपादभिमतदेवतायाः संभाषणादिकं सि- ध्यतीत्यर्थः ।। ४४ ॥ समाधिसिद्धिरीश्वरप्रणिधानात् ॥ ४५ ॥ ईश्वरे अकामनया सकलकर्मसमर्पणात्समाधिसिद्धिः । समाधिश्चित्तस्य समाधानं प्रसाद इति यावत् ।। १५ ।। इत्थं सावान्तरफलान्यमनियमानिरूप्य क्रमप्राप्तमासनं तत्साधनं तत्फलं च तावदाह- स्थिरमुखमासनम् ॥ ४६॥ पद्मवस्तिकादिना यादृशेन देहस्थापनेन यस्य पुरुषस्या- वयवव्यथानुत्पत्तिलक्षणं सुखं देहचलनराहित्यलक्षणं स्थैर्य च संपद्यते, तदेव मुख्यमासनम् । पद्मासनादिस्वरूपं तु याज्ञवल्क्येन निरूपितम्- 'ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतले शुभे । अङ्गुष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण Y.4 योगसुधाकरो नाम [पा. तु । पद्मासनं भवेदेतत्सर्वेषामभिपूजितम्' इत्यादिना ।। प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ।। ४७ ।। तस्य च प्रयत्नशैथिल्यं लौकिक उपायः । गमनगृहक- यतीर्थस्नानादिविषयो यः प्रयत्रो मानस उत्साहस्तस्य शैथिल्यम् । अन्यथा उत्साहो बलादेहमुत्थाप्य यत्र कापि प्रेरयति । फणसहस्रेण धरणी धारयित्वा स्थैर्येणावस्थितो योऽयमनन्तः स एवाहमस्मीति ध्यानं चित्तस्यानन्ते समा- पत्तिः । तया यथोक्तासनसंपादकमष्टं निष्पद्यते । अत- स्ताभ्यामासनं सिध्यतीत्यर्थः ।। ४७ ॥ ततो द्वन्द्वानभिघातः ॥४८॥ सिद्धे चासने शीतोष्णसुखदुःखमानावमानादिद्वन्द्वैर्य- थापूर्व नाभिहन्यत इत्यर्थः ।। ४८ ।। अथासनानन्तरभाविनं प्राणायाममाह- तस्मिन्सति श्वासप्रश्वासयोगतिविच्छेदः प्राणायामः ॥४९॥ तस्मिमासनस्थैर्ये सति प्राणायामः प्रतिष्ठितो भवति । स च श्वासप्रश्वासयोर्गतिविच्छेदरूपः । तत्र श्वासो नाम २.] योगसूत्रवृत्तिः । -. बाह्यस्य वायोरन्तरानयनम् । प्रश्वासः पुनः कोष्ठयस्य वा- योनिःसरणम् । तयोरुभयोरपि संचरणाभावः प्राणायामः । ननु नेदं प्राणायामसामान्यलक्षणम् , तद्विशेषेषु रेचकपूरक- कुम्भकप्रकारेषु तदनुगतेरयोगादिति चेत् , नैष दोषः; सर्वत्रापि श्वासप्रश्वासयोर्गतिविच्छेदसंभवात् । तथा हि--- कौष्ठ्यस्य वायोर्निर्गमनं रेचकः, यः प्रश्वासरूपः । बाह्यस्थ पूरकः, यः श्वासरूपः । अन्तः स्तम्भवृत्तिः कुम्भकः, यस्मिञ्जलमिव कुम्भे निश्चलतया प्राणाख्यो वायु- रवस्थाप्यते । तत्र सर्वत्र श्वासप्रश्वासयोर्गतिविच्छेदोऽस्त्येवेति नास्ति शङ्कावकाशः । ननु कुम्भके गत्यभावेऽपि रेचकपू- रकयोरुच्छासनिश्वासगती विद्यते इति चेत्, नैष दोषः; अधिकमात्राभ्यासेन स्वभावसिद्धायाः समप्राणगतेविच्छेद- संभवात् ॥ ४९॥ वायोरन्तर्धारणं पूरकः, यः तमेवाभ्यासमाह- बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ।।५।। रेचको बाह्यवृत्तिः, पूरक आभ्यन्तरवृत्तिः, कुम्भकः स्तम्भवृत्तिः । तत्रैकैको देशादिभिः परीक्षणीयः । तद्य- था--- स्वभावसिद्धे रेचके हृदयान्निर्गत्य नासाग्रसंमुखे ५२ योगसुधाकरो नाम [पा. द्वादशाङ्गुलपर्यन्तं श्वासः समाप्यते । अभ्यासेन तु क्रमेण नाभेराधाराद्वा निर्गत्य चतुर्विशत्यकुलपर्यन्ते षट्त्रिंशदा- लपर्यन्ते वा समाप्यते । तत्र च रेचकप्रयत्नातिशये सति नाभ्यादिप्रदेशक्षोभेण तन्निश्चेतुं शक्यम् । बहिस्तु सूक्ष्म तूलं धृत्वा तचालनेन निश्चेतव्यम् । सेयं देशपरीक्षा । रेचककाले प्राणयावृत्तयो दश विंशतिविंशदित्यादिभिः कालपरीक्षा । अस्मिन्मासे प्रतिदिनं दश रेचका आगा- मिमासे विंशतिरुत्तरमासे त्रिंशदित्यादिभिः संख्यापरीक्षा । एवं पूरकेऽपि योजनीयम् । यद्यपि कुम्भके देशव्याप्तिवि- शेपो नावगम्यते, तथापि कालसंख्याव्याप्तिरवगम्यत एव । यथा घनीभूतस्तूलपिण्डः प्रसार्यमाणो दी| विरलतया सूक्ष्मश्च भवति, तथा प्राणोऽपि देशकालसंख्याभिरभ्यस्य- मानो दीर्घो दुर्लभतया सूक्ष्मश्च संपद्यत इत्यर्थः ।। ५० ।। अथ रेचकादिभ्यखिभ्योऽन्यं प्रकारमाह- माह्याभ्यन्तरविषयानपेक्षी चतुर्थः ॥५१॥ यथाशक्ति वायु विरेच्यानन्तरं क्रियमाणो बहिःकुम्भ- कः । यथाशक्ति वायुमापूर्यानन्तरं क्रियमाणोऽन्तःकुम्भकः । रेचकपूरकाबनात्य केवलकुम्भकोऽभ्यस्यमानः पूर्वनयापेक्ष- , १ . ।
२.] योगसूत्रवृत्तिः । या चतुर्थों भवति । निद्रातन्द्रादिदोषयुक्तानां रेचकादि- त्रयम् , तद्रहितानां चतुर्थ इति विवेकः ॥ ५१ ॥ , अथ प्राणायामफलमाह- ततः क्षीयते प्रकाशावरणम् ॥ ५२ ॥ प्रकाशस्य सत्त्वस्यावरणं तमो निद्रालस्यादिहेतुः, तस्य क्षयो भवतीत्यर्थः ।। ५२ ।। फलान्तरमाह-- धारणायोग्यता मनसः ॥ ५३ ।। आधारनाभिचक्रहृदयभ्रूमध्यब्रह्मरन्ध्रादिदेशविशेषे चित्त- स्यावस्थानं धारणा । तत्र प्राणायामेन रजोगुणकार्याचाच- ल्यात् तमोगुणकार्यादालस्यादेश्व निवारितं मनो योग्य भवतीत्यर्थः ।। ५३ ॥ अथ क्रमप्राप्तं प्रत्याहारमाह- स्वस्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ ५४॥ शब्दस्पर्शरूपरसगन्धादिविषयेभ्यो निवर्तिताः श्रोत्रादय- श्चित्तस्वरूपमनुकुर्वन्तीवावतिष्ठन्त इत्यर्थः ॥ ५४ ॥ -- ܐܝ
योगसुधाकरो नाम
[पा.
प्रत्याहारफलमाह
ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५ ।।
इन्द्रियाणामतिचञ्चलानां परमा वश्यता निश्चलता,
विषयेऽवत्यन्तमप्रसर इति यावत् ।। ५५ ॥
इति श्रीमत्पतञ्जलिप्रणीते योगशास्त्रे
योगसुधाकराभिधायां वृत्ती
साधनपादा
समाप्तः॥
.
विभूतिपादः ॥ - । यदाराधनतः सिद्धाः सिद्धीरष्टाववाप्नुवन् । तमपायतमोभानुमुमापतिमुपास्महे ॥ इत्थं पूर्वस्मिन्पादे समाधिपरिपन्थिक्लेशतनूकरणार्थ समा. धिभावनार्थ च पृथक्रियायोगं क्लेशतन्मूलकर्मतद्विपाकतत्फ- लजात्यादीनां दुःखत्वेन हेयत्वं हेयहेतुं तद्धानं कैवल्यं तदु- पायभूतां पुरुषख्याति तत्साधनं यमादिपञ्चकं बहिरङ्गं च अभिधाय, अथाधुना धारणादित्रयमन्तरङ्गं संयमपदवाच्यं तदवान्तरफलविभूतिजातं च आचक्षाणः प्रथमं धारणां लक्षयति- देशबन्धश्चित्तस्य धारणा ॥ १॥ आधारादिदेशा अधस्तादभिहिताः । ततात्मनि वा चि- तस्य बन्धः स्थापनं धारणेत्युच्यते । तदुक्तं योगयाज्ञवल्क्ये यमादिगुणयुक्तस्य मनस: स्थितिरात्मनि । धारणेत्यु- च्यते सद्भिर्योगशास्त्रविशारदैः' इति ।। १ ।। + ५६ यांगसुधाकरो नाम पा. तत्साध्यं ध्यानं लक्षयति- तत्र प्रत्ययकतानता ध्यानम् ॥ २॥ तत्र यथोक्तदेशे प्रत्ययस्यैकतानता एकविषयप्रवाहः, स च विच्छिद्य विच्छिद्य जायमानो ध्यानं भवति । तदुक्तम्- 'विलाप्य विकृतिं कृत्नां संभवव्यत्ययक्रमात् । परिशिष्टं च सन्मानं चिदानन्दं विचिन्तयेत्' इति ॥ २ ॥ ध्यानप्रकर्षात्संतत एकविषयप्रवाहः समाधिः; तं लक्ष- यति-- तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३ ॥ तदेव ध्यानमेव ध्येयकगोचरतया निर्भासमानं ध्यान- स्वरूपशून्यमिव स्थितं समाधिर्भवति । तदुक्तम्- 'ब्रह्मा- कारमनोवृत्तिप्रवाहोऽहंकृति विना । संप्रज्ञातसमाधिः स्याद्धया- नाभ्यासप्रकर्षतः' इति । नात्राङ्गाङ्गिनोरत्यन्ताभेदः शङ्क. नीयः, ईषद्भेदस्य विद्यमानत्वात् । तथा हि-कर्तृकरणा- नुसंधानपुरःसरं जायमानः प्रत्ययो ध्यानम् । तदुत्कर्षात्क- र्तृकरणानुसंधानमन्तरेणैव ध्येयमात्रगोचरतया निर्भासमानः समाधिः । स एवापरवैराग्यपुरःसरमादरनरन्तर्यदीर्घकालासे. ,
३.]
योगसूत्रवृत्तिः ।
वितो निरस्तरजस्तमोलेशसुखप्रकाशमयसत्त्वोद्रेकादनवद्यवै-
शारद्यप्रद्योतनरूपश्चिरतरमनुवर्तमानः संप्रज्ञातसमाधिर्भवति ।
परवैराग्यपूर्वकनिरोधप्रयत्नेन तस्यापि निरोधे सर्ववृत्तिनि-
रोधाभिर्बीज: समाधिर्भवति । तदुक्तम्--- ‘मनसो वृत्ति-
शून्यस्य ब्रह्माकारतया स्थितिः । यासंप्रज्ञातनामासौ समा-
धिरभिधीयते' इत्येष विभागो द्रष्टव्यः ॥ ३ ॥
इत्थं पूर्वपादोद्दिष्टं धारणादित्रयं व्याख्याय तस्य व्यव-
हारलाघवाय संयमसंज्ञामाह--
त्रयमेकत्र संयमः ॥ ४॥
एकविषयं धारणादित्रयं संयमसंज्ञं भवतीत्यर्थः ॥ ४॥
ततः किम् ? अत आह-
तज्जयात्प्रज्ञालोकः ॥ ५॥
तस्य संयमस्य जयात्स्थैर्यात्समाधिप्रज्ञाया आलोक:
ऋतंभरत्वं भवतीत्यर्थः ।। ५ ॥
ननु क विनियुक्तः प्रज्ञालोक: फलं प्रसूत इत्यपेक्षाया-
माह-
तस्य भूमिषु विनियोगः ॥६॥
५८ योगसुधाकरो नाम [पा. पूर्वोक्तसवितर्कनिर्वितर्कसविचारनिर्विचारादिभूमिषु संय- मस्य विनियोगः कर्तव्यः । तत्र विनियुक्तः संयमः पूर्वपूर्व- भूमिजयेनोत्तरभूमेनिर्विचाराभिधाया वैशारोऽनवद्याध्यात्म- ख्यातिमुत्पाद्य सद्भूतार्थप्रद्योतनरूपां समाधिप्रज्ञामुत्पादय- तीति तात्पर्यार्थः ॥ ६॥ अत एव संप्रज्ञातसमाधिप्रज्ञाया धारणादित्रयमन्तरत- मित्याह--- अयमन्तरङ्गं पूर्वेभ्यः ॥ ७॥ पूर्वोक्ताः पञ्च यमादयः संप्रज्ञातस्य प्रतिवन्धकप्रत्यक्ष- गानप्राणादिमलप्रक्षयप्रणाडिकया बहिरङ्गाणि ; तेभ्यश्चित्त. विषयतया सजातीयत्वाद्धारणादिनयमन्तरङ्गमित्यर्थः ।। तदप्यसंप्रज्ञातस्यावृत्तिकस्य विजातीयत्वादहिरङ्गमित्या- तदपि बहिरङ्ग निव-जस्थ ॥ ८ ॥ विजातीयत्वेऽपि संप्रज्ञातप्रज्ञोत्पादनद्वारोपकारितया ब. हिरङ्गत्वमविरुद्धम् । तदेवोपकारित्वमधस्तादसूत्रयत्सूत्रकार: ---- 'श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेयाम्' इति ॥ ननु तदपि वहिरङ्ग निर्वीजय' इत्युक्तम । कोऽसौ - ३.] योगसूत्रवृत्तिः। ५९ निर्बीजः समाधिरित्यपेक्षायामाह- व्युत्थाननिरोधसंस्कारयोरभिभवप्रादु- आँचौ निरोधलक्षणचित्तान्वयो निरोधपरिणामः॥९॥ व्युत्थानसंस्काराः समाधिविरोधिनः । ते च निरोधहे- तुना योगिप्रयत्नेन प्रतिदिनं प्रतिक्षणं च अभिभूयन्ते, तद्वि- रोधिनश्च निरोधसंस्काराः प्रादुर्भवन्ति । तथा सति निरोध एकैकस्मिन्क्षणे चित्तमनुगच्छति । सोऽयमीहशश्चित्तस्य नि- रोधपरिणामो निर्बीजः समाधिर्भवति ॥ ९ ॥ ननु 'प्रतिक्षणं परिणामिनो हि भावा ऋते चितिशक्तेः इति न्यायेन चित्तस्य सर्वदा परिणामप्रवाहो वक्तव्यः; तत्र व्युत्थितचित्तस्य वृत्तिप्रवाहः स्फुटः, निरुद्धचित्तस्य तु कथमित्याशङ्कयोत्तरमाह- तस्य प्रशान्तवाहिता संस्कारात् ॥१०॥ यथा समिदाज्याहुतिप्रक्षेपे वह्निरुत्तरोत्तरवृद्धथा प्रज्व- लति, समिदादिप्रक्षये प्रथमक्षणे किंचिच्छाम्यति, उत्तरो. त्तरक्षणे शान्तिर्वर्धते; तथा निरुद्धचित्तस्योत्तरोत्तराधिक ६० योगसुधाकरो नाम [पा. प्रशमः प्रवहति । तत्र पूर्वपूर्वप्रशमजनितसंस्कार एवोत्तरो- त्तरप्रशमस्य कारणमित्यतः प्रशमप्रवाहसंभवान कोऽपि दोष इति भावः ॥ १० ॥ इत्थं निरोधपरिणामरूपं निर्बीजसमाधिमभिधाय संप्र- ज्ञातसमाधिपरिणाममभिधातुमाह- सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥११॥ रजोगुणेन चाल्यमानं चितं क्रमेण सर्वान्पदार्थान्गृहा- ति । तस्य रजोगुणस्य निरोधाय क्रियमाणेन योगिनः प्रयत्नविशेषेण दिने दिने सर्वार्थता क्षीयते, एकाग्रता चो- देति । ताशचित्तस्य परिणामः समाधिरित्युच्यते ॥११॥ ननु केयमेकापतेत्यपेक्षायामाह-- शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैका- ग्रतापरिणामः ॥ १२ ॥ शान्तोऽतीतः, उदितो वर्तमानः, प्रत्ययश्चित्तवृत्तिः । अतीत: प्रत्ययो यं पदार्थ गृहाति तमेव चदुदितोऽपि गृही- यात् , तदा तो तुल्यौ भवतः । तादृशचित्तपरिणाम एका- - पा ३.] योगसूत्रवृत्तिः । ग्रतेत्युच्यते । इत्थं निरोधपरिणामः समाधिपरिणाम एका- प्रतापरिणामश्चेत्ययं त्रिविधः परिणामश्चित्तस्य धर्मपरिणाम इत्युच्यते । एवं लक्षणपरिणामोऽपि 'निरोधलक्षणचित्ता- न्वयः' इत्यनेन सूच्यते । स यथा--- निरोधस्य धर्मस्य लक्षणमध्वत्रयम् । तत्रानागताध्वपरित्यागेन वर्तमानाध्वस्वी- कारः तत्परित्यागेनातीताध्वस्वीकारः । एवं कालावच्छिन्नस्य तस्यैव निरोधस्यावस्थापरिणामोऽपि । व्युत्थाननिरोधसंस्का- रयोरभिभवप्रादुर्भावौ' इत्यनेन संगीयते । एवं समाध्येका- प्रतापरिणामयोर्लक्षणावस्थापरिणामौ सूत्रद्वयेन प्रेक्षावद्भिरू- हनीयौ ॥ १२ ॥ इत्थमभिहितं परिणामत्रयं संयमाद्विभूतीर्वक्तुकामः सं- यमलक्ष्यत्वेनान्यत्रातिदिशति- एतेन भूतेन्द्रियेषु धर्मलक्षणावस्था- परिणामा व्याख्याताः॥ १३ ॥ एतेन त्रिधाभिहितेन चित्तधर्मादिपरिणामेन भूतेषु पृ- थिव्यादिषु चक्षुरादीन्द्रियेषु च धर्मिषु धर्मलक्षणावस्थापरि- णामा व्याख्याता द्रष्टव्याः । तत्र मृद्रूपस्य धर्मिणो घटाका- रपरिणामो धर्मपरिणायः। तस्यैव घटस्य धर्मस्यानागता. 3.
६२ योगसुधाकरो नाम [पा. ध्वपरित्यागेन वर्तमानाध्वस्वीकारः तत्परित्यागेनातीताध्वप- रिग्रहो लक्षणपरिणामः । तस्यैव घटस्य क्षणे क्षणे परिणा- मोऽवस्थापरिणामः । अत: प्रतिक्षणं परिणामिनो हि भावा ऋते चितिशतेरिति संक्षेपः ॥ १३ ॥ धर्मस्यायं त्रिविधः परिणामः ; तद्धर्मिणं दर्शयति-- शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥१४॥ शान्ताः कृतव्यापारा अतीताः, उदिता जलाहरणादि- व्यापाराविष्टा वर्तमाना:, अव्यपदेश्या: शक्तिरूपेण मृदा- दिषु धर्मिषु स्थिता अनागता: । तानेतान्घटीयन्त्रवदनिश- मावर्तमानान्योऽनुपतत्यन्वेति, सोऽयमनुपाती धर्मी, यथा चूर्णपिण्डाद्यन्वितमृदादिरित्यर्थः ॥ १४ ॥ नन्वेकस्य धर्मिणः परिणामबहुत्वे को हेतुरित्यत पाह- क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५ ॥ मृदि चूर्णपिण्डयोः पिण्डघटयोर्घटकपालयोः पौर्वापर्य- रूपक्रमस्यात्यत्वं दृश्यमानमेकस्या एवं मृदः परिणामानां चूर्णादीनां धर्माणामन्यत्वे हेतुापकः । एवमनागतवर्षमा- - ३.] योगसूत्रवृत्तिः । नातीताध्वनां क्रमाल्लक्षणपरिणामान्यत्वं धर्माणां ज्ञेयम् । तथा क्षणपरम्परया घटादीनां दुर्लक्षसूक्ष्मपरिणामक्रमेणा- वस्थापरिणामान्यत्वं बोध्यम् ॥ १५ ॥ इत्थं संयमलक्ष्यमभिधाय अधुना आ पादसमाप्तेः संय- मस्य तत्तद्विषये वशीकारज्ञापनाय विभूतीरभिधातुमाह- परिणामत्रयसंयमादतीताना- गतज्ञानम् ॥ १६॥ धर्मिण्येते धर्माः, तेष्वनागतादय एतेऽध्वानः, एता इति धर्मलक्षणावस्थारूपपरिणामत्रये संयमाद्यो- गिनोऽतीतानागतवस्तुसाक्षात्कारो भवति । चित्तसत्त्वं हि निसर्गतः सर्वार्थप्रद्योतनस्वभावं रजस्तमोमलप्रतिबन्धस्य संयमेन प्रक्षये सति प्रमाणमनपेक्ष्य सर्व जानातीति अवस्थाः, भावः ॥ १६ ॥ शब्दार्थप्रत्ययानामितरेतराध्यासात्सं- करस्तत्प्रविभागसंयमात्स- भूतरुतज्ञानम् ॥ १७॥ गौरिति शब्दो गौरित्यर्थों गौरिति प्रत्यय इत्याबालप- - योगसुधाकरो नाम [पा. ण्डितं शब्दार्थप्रत्ययानामितरेतराभेदाध्यासात्संकरः प्रसि- द्धः। तेषां वर्णव्यङ्गयं पदं पदव्यङ्गयं वाक्यं शक्त्यादिवृत्त्या बोधकमिति शब्दतत्त्वम् ; अर्थों द्रव्यादिर्वाच्यो लक्ष्यश्चे- त्यर्थतत्त्वम् ; शब्दजन्योऽर्थविषयः प्रत्यय इति ज्ञानतत्त्वम् ; इति यः प्रविभाग: शाखयुक्तिभ्यां सिद्धस्तस्मिन्संयमात्सर्व- शब्दादिवशीकारसूचकं सर्वभूतानां पक्ष्यादीनां रुतज्ञानं भवति, इममर्थमेते संगिरन्त इति संयमी जानाती- त्यर्थः ॥ १७ ॥ संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ अनुभवशजाः स्मृतिलेशहेतवः, :खहे- तवः, इति द्वये संस्काराश्चित्तधर्माः पूर्वजन्मपरम्परासंचिताः सन्ति । तेषु श्रुतेष्वनुमितेषु च संयमेन साक्षात्कृतेषु तद्धे- तुत्वेन स्वीयपरकीयपूर्वजन्मपरम्परायाः साक्षात्कारो भवति। न च संस्कारसंचमात्कथं पूर्वजन्मसाक्षात्कार इति शनी- यम् ; सानुबन्धसंस्कारसंयमादनुवन्धत्वेन पूर्वजन्ममामा- कारोत्पत्तेः संभवादिति समशसम् ॥ १८ ॥ मिद्यन्तरमाह- प्रत्ययस्य परचित्तज्ञानम् ॥ १० ॥ कर्मजा: सुखदुः ३.] योगसूत्रवृत्तिः । ६५ 4- 4 प्रत्ययस्य परचित्तस्य संयमात्तत्साक्षात्कारो भवतीत्यर्थः।। -- ॥ ननु, संस्कारसाक्षात्कारात्तदनुबन्धसाक्षात्कारवत्किं पर- चित्तसाक्षात्कारादालम्बनज्ञानं भवति ? नेत्याह-- न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ परचित्तमानं साक्षात्क्रियते ; सालम्बनं सविषयं तु न साक्षात्क्रयते, तस्यालम्बनस्याज्ञातत्वात् । न हि लिङ्गादि- नाज्ञाते संयमप्रवृत्तिः समस्ति । यदि परचित्तं ज्ञात्वा संय- मेन साक्षात्कृत्यास्येदानी किमालम्बनमिति स्वचित्तं प्रणि- धत्ते, तदा तत्कालीनमालम्बनं जानाति । रागादिवृत्तयस्तु चित्ताभेदात्सदा साक्षाक्रियन्त इति विशेषः ॥ २० ॥ सिध्यन्तरमाह- कायरूपसंयमात्तबाह्यशक्तिस्तम्भे चक्षुः- प्रकाशसंप्रयोगेऽन्तर्धानम् ॥ २१ ॥ कायस्य चाक्षुषताप्रयोजकं यद्रूपमस्ति तस्मिन्संयमात्तस्य रूपस्य परचक्षुर्ग्राह्यतानुकूलाया: शक्तेः स्तम्भे प्रतिबन्धे सति परचाक्षुषज्ञानाविषयत्वे जाते, अन्तर्धानं योगिदेह- स्याचाक्षुषत्वं यथाकामं सिध्यतीत्यर्थः ।। २१ ॥ Y.5 .
1 ६६ योगसुधाकरो नाम [पा. रक्तमन्यत्रातिदिशति-- एतेन शब्दाद्यन्तर्धानमुक्तम् ॥ २२ ॥ एतेन स्वीयशब्दस्पर्शरूपरसगन्धानां संयमाच्छोत्राथमा. ह्यत्वसिद्विरुक्ता भवतीति वेदितव्यम् ।। २२ ।। सोपक्रम निरुपक्रमं च कर्म तत्सं. यमादपरान्तज्ञानम् ॥ २३ ।। सोपक्रमं शीघ्रविपाकं कर्म, निरुपकर्म च चिरविपाक कर्म यत् , तत्रोभयत्र संयमेन साक्षात्कारात्तद्विपाकस्यायुपो- ऽपरान्तोऽवसानम् , तस्य ज्ञानममुख्मिन्देशेऽमुककाले मम कायवियोग इति साक्षात्कारो भवति ।। २३ ।। प्रसङ्गात्साधारणं मरणसूचकमाह- अरिष्टेभ्यो वा ।। २४ ॥ अश्विासयन्तीत्यरिष्टानि त्रिविधान्याध्यात्मिकादीनि म- रणलिङ्गानि, तेभ्यो वा मरणज्ञानं भवत्ययोगिनोऽपीत्यर्थः ।। मैत्र्यादिषु यलानि ॥ २५ ॥ मैन्यादिषु संचमेन तेषां चलानि वीर्याणि भवन्ति, वै.
३.] योगसूत्रवृत्तिः। ६७ योगी प्राणिमात्रस्य सुखकरः सुहृद्भवति, दुःखादुद्धर्ता भवति । उपेक्षा त्वौदासीन्यमात्रम् । न तस्य बलं किंचि. समस्ति, संयमाभावादित्यर्थः ॥ २५ ॥ बलेषु हस्तिबलादीनि ।। २६ ॥ हस्तिहनुमदादीनां बलेषु तद्भावेन संयमात्तानि बलानि योगिनः प्रादुर्भवन्ति, चित्तस्य स्वतः सर्वसामादित्यर्थः ।। प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहित- विप्रकृष्टज्ञानम् ॥ २७ ॥ ज्योतिष्मती प्रवृत्तिरधस्तादभिहिता । तस्या योऽयमा- लोको ज्योतिरालम्बनं निर्मलबुद्धिसत्त्वं तस्य सूक्ष्मे परमा- ण्वादौ भूमिव्यवहिते निध्यादौ विप्रकृष्टे मेर्वन्तर्वतिरसाय- नादौ च न्यासात्प्रक्षेपातेषां ज्ञानं साक्षात्कारो भवति सौ- रालोकसंप्रयोगात्कूटादिसाक्षात्कारवदित्यर्थः ॥ २७ ॥ • भुवनज्ञानं सूर्ये संयमात् ॥ २८ ॥ सुषुम्नादिसहस्रमयूखमालिनि दिवि द्योतमाने मार्तण्ड- मण्डले संयमादृश्याभिन्नं चित्तं चतुर्दश भुवनानि साक्षा- करोतीत्यर्थः । अयमेव सकलभुवनसाक्षात्कारोऽस्मिन्शाने ।
६८ योगसुधाकरो नाम [पा. मधुमती सिद्धिरित्युच्यते ।। २८ ॥ चन्द्रे तारकाव्यूहज्ञानम् ॥ २९ ।। नक्षत्रपती तुपारकरविम्बे संयमानक्षत्राणां संनिवेश- विशेष साक्षात्करोति । सूर्यस्य नक्षत्राभिभावकत्वात्तत्संय- मात्तत्साक्षात्कारो न भवतीति भावः ॥ २९ ॥ ध्रुवे तद्गतिज्ञानम् ॥ ३० ॥ ध्रुवे संयमात्तासां तारकाणां गतिं जानाति- असो तारकामुना ग्रहेण साकमनया मृत्यैतावन्तमनेहसं गच्छ- तीति ॥ ३० ॥ इत्थं वाह्यसिद्धीरभिधाय अधुनाध्यात्मिकसिद्धीरभिधातु- साह- नाभिचक्के कायव्यूहज्ञानम् ।। ३१ ।। कायस्य मध्यभागे यन्नाभिचकं मणिपूरकारल्यं दशद- लम् , तस्मिन्संयमादेवस्य बातपित्तादिमंनिवेशविशेष जाना- तीत्यर्थ: ।। ३१ ॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ।। ३२ ।। जिहातन्तोरस्तात्कण्ठम्य कूपाकार: प्रदेशोऽस्ति, यब ३.] योगसूत्रवृत्तिः । ६९ प्राणादेः संघर्षणाक्षुत्पिपासे भवतः । तत्र संयमात्तन्निवृत्ति- भवतीत्यर्थः ।। ३२ ॥ कूर्मनाड्यां स्थैर्यम् ॥ ३३ ॥ कण्ठकूपादधस्ताद्वक्षसि कूर्माकारा काचिन्नाड्यस्ति । तत्र संयमात्तत्प्रविष्टस्य चित्तस्य स्थैर्य सिध्यतीत्यर्थः ॥ ३३ ॥ मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३४ ॥ शिरःकपालयोश्छिद्रं ब्रह्मरन्ध्राख्यं सुषुम्नायोगाद्भास्वरं मूर्धज्योतिः । तत्र संयमात्तेन निःसृता देहस्था चित्तमणि- प्रभा सिद्धानहश्यानपि पश्यतीत्यर्थः ॥ ३४ ॥ प्रातिभादा सर्वम् ।। ३५ ॥ विवेकख्यातिर्हि प्रसंख्यानं संसारतारकम् । तदर्थ सं- यमे क्रियमाणे प्रसंख्यानोदयसूचकं प्रतिभया ऊहमात्रेण जातं प्रातिभं ज्ञानं भवति । तस्माद्वा योगी सर्व जानाति । यथा सूर्योदयसूचकारुणप्रभया सर्व लोकः पश्यति, तद्व- दित्यर्थः ॥ ३५ ॥ हृदये चित्तसंवित् ॥ ३६ ॥ अधोमुखे हृत्पद्मे चित्तस्थाने संयमात्सवासनचित्तस्म संविद्भवतीत्यर्थः ।। ३६ ।। ..
। (७० योगसुधाकरो नाम [पा. सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्यया- ॥ विशेषो भोगः परार्थात्स्वार्थसंय- मात्पुरुषज्ञानम् ॥ ३७॥ बुद्धयात्मनो ग्यभोक्तृत्वेनात्यन्तभिन्नयोर्यः प्रत्ययावि- शेषो बुद्धिपरिणामैः सुखदुःखमोहप्रत्ययः पुरुषस्य प्रतिबि- म्वग्राहिभिरविशेष: सारूप्यं प्रतिविम्बद्वारा यः सुखाद्या- रोप;. स भोगो बुद्धिस्थो दृश्यत्वात्परार्थः पुरुषस्य भोक्तुः शेपभूतः । तस्मात्परार्थाद्धोगाजडादन्यश्चित्स्वभावः स्वार्थों- ऽनन्यशेषः पुरुषः । तत्र संयमात्पुरुषस्य साक्षात्कारो भ. वति । तं साक्षात्कारमपि पुरुषो जानाति । न पुनर्माता नेयः, ज्ञातृज्ञेयत्वयोरत्यन्तविरोधादिति भावः ।। ३७ ।। अधुनास्यैव संयमस्य पुरुषसाक्षात्कारात्माग्भवाः सिद्धी- रुपदर्शयति- नतः प्रातिभश्रावणवेदनाद स्वाद- वाी जायन्ते ॥ ३८ ॥ . दिव्यशब्दग्राहकं श्रीवं यदास्य योगिनो भवति नदा तत्य प्रोन्य श्रावणमिति तान्त्रिक संसा भवति। एवं ब्राणस्य वाति संज्ञेत्यागृहाम ॥ ३८ ॥ t - - -- . -- ३.] योगसूत्रवृत्तिः ।। ७१ तयं योगी कृतकृत्यः; किं तस्य कार्यमस्तीत्याशङ्क- मानं प्रत्याह- ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ ३९ ॥ ते प्रातिभादयः समाधावपवर्गफले उपसर्गा विना भवन्ति । अतो मोक्षमाकाङ्क्षता ते तावदुपेक्षणीयाः । यदि तत्रापेक्षा स्यात्तदा मोक्षादृष्टः कथं कृतकृत्यतामियात् ! न ह्यात्मप्रत्ययमन्तरेण कृतकृत्यता समस्ति । न चैते स्वात्म- ज्ञान उपकुर्वन्ति । अपि तु व्युत्थाने सिद्धयो भवन्ति । एतदेवाभिप्रेत्योक्तम्- 'द्रव्यमन्त्रक्रियाकालशक्तयः साधु सिद्धिदाः । परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ॥ सर्वे- च्छालाभसंशान्तावात्मलाभोदयो हि यः। स कथं सिद्धि- वान्छायां मनचित्तेन लभ्यते' इति ।। : तदेवं संयमस्य साक्षात्काररूपात्मदर्शनान्तां विभूतिम- भिधाय अथ क्रियारूपमाह- बन्धकारणशैथिल्यात्प्रचारसंवेदनाच चित्तस्य परशरीरावेशः ॥ ४० ॥ सर्वत्रव्याप्तिशीलस्य चित्तस्य स्वशरीरमात्रे संकोचन ७२ योगसुधाकरो नाम (91. - स्थितिवन्धः । तस्य कारणं धर्माधर्मों । तयोः संयमेन यच्छैथिल्यं भवति : प्रचरत्यनेन चित्तमिति प्रचारो नाडी- संघ:, तस्यापि संयमेन यद्वदनं साक्षात्कारो भवति; ता- भ्यां चित्तस्य परकाये मृते जीवति वा प्रवेशो भवति चित्तमन्विन्द्रियाण्यपि विशन्ति मक्षिका मधुकरराजमि- वेत्यर्थः ॥ ४० ॥ "उदानजयाजलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥४१॥ समस्तेन्द्रियाणां युगपत्तूलज्वालावदुत्पन्ना या पृत्ति - वशब्दवाच्या, सा क्रियाभेदेन प्राणापानादिसंहाभिर्व्यपदि- श्यते । ततोदानस्य आ नासाप्रादा शिरोवृत्तेः संयमेन जयाज्जलादिप्वसक्तो योगी लघुत्वादुपरि गच्छति, स्वेच्छया मरणं च लभत इत्यर्थः ।। ४१ ॥ समानजयाज्ज्वलनम् ॥ ४२ ॥ आ हृदयादानाभि स्थितः समान: । तस्य वशीकारा- नाभिनिकटस्थाग्नेचलनं भवति । येनामी योगी ज्वलनिव दृश्यत इत्यर्थः ॥ ४२ ॥ । .
३.]
योगसूत्रवृत्तिः ।
ओत्राकाशयोः संबन्धसंयमादिव्यं
श्रोत्रम् ॥ ४३॥
आहंकारिकस्यापि श्रोत्रस्याकाशेनाधाराधेयभावः संब-
न्धोऽस्ति । तत्र संयमादिव्यं श्रोत्रेन्द्रियं भवति । तेन दि-
व्यशब्दान्युगपज्जानातीत्यर्थः ॥ ४३ ।।
कायाकाशयोः संवन्धसंयमाल्लघुतूल-
: समापत्तेश्चाकाशगमनम् ॥ ४४ ॥
तयोः संयोगं जित्वा लघुतूलादौ वा तद्भावेन समाधिना
लघुकायो भूत्वा आकाशे विहरति, तत ऊर्णातन्तुषु, पश्चा-
न्मार्तण्डमयूखेषु, ततो यथेच्छं गगने गच्छतीत्यर्थः ।।
बहिरकल्पिता वृत्तिमहाविदेहा ततः
प्रकाशावरणक्षयः ॥ ४५ ॥
शरीरेऽहंभावे सति मनसो या बहिर्वृत्तिः सा कल्पिता
विदेहाख्या । यदा देहेऽहंभावपरित्यागे सति स्वतं एव
या मनसो बहिवृत्तिः सेयमकल्पिता महाविदेहाख्या। तत्र
संयमात्प्रकाशशीलस्य चित्तस्य केशादिमलाः सर्वे श्रीयन्त
इत्यर्थः ॥ ४५ ॥
-- योगसुधाकरो नाम [पा. स्थूलखरूपसूक्ष्मान्वयार्थवत्त्वसंयमा- तजयः॥४६॥ स्थूलं च स्वरूपं च सूक्ष्मं चान्वयश्चार्थवत्त्वं च पञ्चै- तानि पञ्चभूतानां रूपाणि । तत्र क्रमेणैकैकन्यूनैः शब्दा- दिगुणैर्युक्तं परिदृश्यमानं स्थूलम् । क्रमेण काठिन्यस्नेही- पुण्यप्रेरणासर्वगतत्वलक्षण स्वरूपम् । पञ्च तन्मावाणि सूक्ष्मम् । स्वकार्य कारणत्वेनान्वेतीत्यन्वयो गुणत्रयम् । भोगापवर्गज्ञानसामर्थ्य गुणनिष्ठमर्थवत्त्वम् । तेषु पञ्चरू- पेषु स्थूलादिक्रमेण संयमाद्भूतानि योगिसंकल्पानुसारीणि भवन्ति धेनवो वत्सानुसारिण्य इवेत्यर्थः ॥ ४६ ।। नन्वस्तु भूतजयः; किं तत इत्यत्राह-- ततोऽणिमादिप्रादुर्भावः कायसंप- त्तद्धानभिघातश्च ॥ ४७ ॥ ततो भूतजयाद्योगिनोऽणिमाद्यष्टमहासिद्धयः प्रादुर्भव- न्ति । परमाणुतुल्यत्वमणिमा । विभुत्वं महिमा । तूलपि- ण्डवल्लघुत्वं लघिमा । मेरुवद्गुरुत्वं गरिमा । अङ्गुल्या चन्द्र- स्पर्शनं प्राप्तिः । सत्यसंकल्पत्वं प्राकाम्यम् । भूतनियन्तृत्वं वशित्वम् । भूतस्रष्ट्रत्वमीशितृत्वम् । इत्यष्टैश्वर्याणि । अन ३.] योगसूत्रवृत्तिः । . प्राप्त्यन्तानि स्थूलसंयमासिध्यन्ति । स्वरूपसंयमात्माका- म्यम् । अवशिष्टमवशिष्टत्रयसंयमादिति विभागः । कायसं- पद्वक्ष्यमाणलक्षणा, तद्धमैस्तस्य काठिन्यादिभूतधमैरनभि- घातश्च योगिनो भूतजयात्सिध्यतीत्यर्थः ॥ ४७ ॥ कायसंपदं व्याख्यातुमाह--- रूपलावण्यबलवज्रसंहननत्वानि का- यसंपत् ॥ ४८॥ चक्षुःप्रियं रूपम् । सर्वाङ्गसौन्दर्य लावण्यम् । वीर्य बलम् । वास्येव संहननमवयवव्यूहो यस्य तद्भावो वन- संहननत्वम् ; तञ्च हनुमति प्रसिद्धम् ॥ ४८ ॥ इत्थं ससाधनफलं भूतजयमभिधाय सोपायफलमिन्द्रि- यजयमभिधातुमाह- ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादि- न्द्रियजयः ॥ ४९॥ ग्रहणं स्वरूपमस्मितान्वयोऽर्थवत्त्वं च पञ्चैतानि श्रोत्रा- दिपञ्चेन्द्रियाणां रूपाणि । तत्र शब्दादिगोचरा वृत्तयो ग्रहणम् । स्वरूप प्रकाशकत्वम् । अस्मिता सात्त्विकाहंकारः। अन्वयार्थवत्त्वे व्याख्याते । तेषु पञ्चस्विन्द्रियरूपेषु संयमा- योगसुधाकरो नाम [पा. दिन्द्रियजयो भवतीत्यर्थः ॥ ४९ ॥ तत: किम् ? अत आह- ततो मनोजवित्वं विकरणभाव: प्रधानजयश्च ॥ ५० ॥ मनोजवित्वं कायस्य मनोवदनुत्तमो गतिलाभः । विक- रणभाव: कायनिरपेक्षाणामिन्द्रियाणामभिमतदेशकालविशे- पापेक्षो वृत्तिलाभ: । प्रधानजयः प्रकृतिविकारेषु वशित्वम् । एताः सिद्धयः करणपञ्चकस्वरूपजयाद्योगिनः प्रादुर्भवन्ती- त्यर्थः । एता अणिमाद्याः प्रधानजयान्ताः सिद्धयोऽस्मि- शास्त्रे मधुप्रतीका: संगीयन्ते । यथा मधुन एकदेशोऽपि स्वदते तथा प्रत्येकमेताः सिद्धयः स्वदन्त इति मधुप्रतीकाः, मधुतुल्या इत्यर्थः ॥ ५० ॥ इत्थं संयमाच्छ्रद्धाद्वारा विवेकख्यात्यर्था ज्ञानक्रियासि- धीरभिधाय अधुना विवेकख्यातेरवान्तरसिद्धीरभिधातु- माह- सत्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्व- ज्ञातृत्वं च ॥५१॥ - ३.] योगसूत्रवृत्तिः । र पूर्वोदीरितस्वार्थसंयमेन निरस्तरजस्तमोमलस्य चित्तस्य जये वशीकारसंज्ञारूपा परवैराग्ये स्थितस्य सत्त्वपुरुपयो- विवेकख्यातिः समुत्पद्यते । तन्मात्रस्य तनिष्ठस्य योगिन: सर्वभावाधिष्ठातृत्वं सर्वेषां व्यवसायव्यवसेयात्मकानां गुण. परिणामरूपाणां स्वामिवदाक्रमणम् । सर्वज्ञातृत्वं तेपामेव शान्तोदिताव्यपदेश्यधर्मित्वेन स्थितानां विवेकज्ञानं च सि- ध्यति । एषा विशोका नाम सिद्धिः ।। ५१ ।। अधुना विवेकख्यातेर्मुख्यां सिद्धिमभिधातुमाह- तबैराग्यादपि दोषवीजक्षये कैवल्यम् ।। ५२॥ तस्यां विशोकायां सिद्धी वैराग्यात्तद्धेतुभूतविवेकख्या- तावपि परं वैराग्यं भवति । ततः सर्वप्रतिपत्त्यस्तमये परं वैराग्यमाश्रितस्य पुरुपौरेयस्य केशबीजानि दग्धशालिक- ल्पानि मनसा साध प्रत्यस्तं गच्छन्ति । प्रक्षीणेपु तेषु दृढ- भूमावसंप्रज्ञातपदवेदनीये संस्कारशेषताव्यपदेश्ये निर्वीज- समाधौ लब्धे, शुद्धायाचितिशक्तेः स्वरूपप्रतिष्ठारूपं कैवल्यं सिध्यतीत्यर्थः । इयं संस्कारशेषाख्या सिद्धिः ।। ५२ ।। अधुनानान्तरायोत्पत्तौ तनिराकरणकारणमाह- न योगसुधाकरो नाम [पा. .. स्थान्युपमन्त्रणे सगस्मयाकरणं पुन- रनिष्टप्रसङ्गात् ॥ ५३॥ चत्वारः खल्वमी योगिन: प्रथमकल्पिको मधुभूमिक: प्रज्ञाज्योतिरतिक्रान्तभावनीयश्चेति । तत्राद्यः संयमे प्रवृत्ति- मात्रो न किंचिज्जानाति । संयमेन भूतेन्द्रियाणि साक्षात्कृत्य तजिगीषुर्द्वितीयः । भूतेन्द्रियजयी पुरुषमाचिख्यासुस्तृतीयः । संप्राप्तपुरुषख्याती परवैराग्यसंपन्नश्चतुर्थः । सोऽसौ भगवा- न्महानुभावो जीवन्मुक्तो विघ्नशङ्काकलङ्कशून्यः । तृतीयो जितभूतेन्द्रियत्वान्महेन्द्रादिभिरक्षोभ्यः । आद्यस्तु देवनिम- ब्रणायोग्यः । अतः परिशेषाद्वितीयः स्थानिभिः शक्रादिभिः शक्यते प्रार्थयितुम्-'भो योगिन् , इहास्यताम् । स्वर्गादि- स्थाने रम्यताम् । कमनीयेयं कन्या। दिव्योऽयं भोगः । रसायनमिदं जरामृत्युनिवारणम् । इदं कामगं यानम्' इति । एवं प्रार्थने सङ्ग आसक्तिः, 'अहो मम यो- गप्रभावः इति स्मयश्च न कर्तव्यः किं त्वित्थं तत्र दोषं भावयेत्-- 'घोरेषु संसाराङ्गारेष्वहं पापच्यमानः कथंचित्क्लेशादिध्वान्तध्वंसकं योगप्रदीपमलभे । तस्यैते तृष्णायोनयो विषयवायवः प्रतिपक्षाः । स खल्वहं ल- ब्धालोकः कथमेतैर्वञ्चित: पुनः पुनः प्रदीप्तस्य संसार- , , :; - ३.] योगसूत्रवृत्तिः । ७९ हुतभुजः स्वात्मानमिन्धनीकुर्याम् ? अतः स्वस्ति वः स्वप्न- समेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्यः' इति । एवं निश्चितमति: पुरुषधौरेयः - समाधि भावयेत् । यदि तत्र सङ्गस्मयौ भवेताम् , तदाय योगभ्रष्टस्य पुनरनिष्टं प्रसज्जेत । तस्मात्सङ्गस्मययोरकरणं कैवल्यान्तरायनिवारणकारणमि- त्यर्थः ।। ५३ ।। अधस्तात्स्वार्थसंयमात्पुरुषज्ञानं भवतीत्यभिहितम् । अ- धुना तदेवान्यसंयमात्तावद्भवतीत्याह- क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ५४॥ अभेद्यः कालविभागः सत्यः क्षणः । अन्ये तु मुहूर्ता- दयः कालविभागा: क्षणसमूहरूपा असत्या: । न हि क्षणानां समूहो वस्तुसन् । तत्रायमस्मात्पूर्वः क्षण: अयमुत्त- रः क्षण इति क्षणानां तेषां क्रमस्य पौर्वापर्यस्य च संयमा- दतिसूक्ष्माणां भेदसाक्षात्कारो विवेको भवति । तेन युग- पद्वियदादिपुरुषान्तसाक्षात्कारो जायत इत्यर्थः ॥ ५४ ॥ अधुनास्य साक्षात्कारस्य सूक्ष्म विषयविशेषमभिधातु- माह-- 4 योगसुधाकरो नाम [पा. , । जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययो- स्ततः प्रतिपत्तिः ॥ ५५ ॥ लोके हि भावानां त्रयो भेदनिश्चयहेतवः । तत्र देशेन लक्षणेन च तुल्ययोर्गोगवययोर्जात्या भेदधीः । देशजाति- भ्यां तुल्ययोर्गवोः कृष्णश्वेतादिलक्षणेन भेदधीः । जाति- लक्षणाभ्यां तुल्ययोरामलकयोः पूर्वोत्तरादिदेशभेदाढ़ेदनि- श्चयः । यदा पुनर्योगिनो ज्ञानपरीक्षार्थ केनचित्पूर्वदेशस्थ- मामलकमुत्तरामलकदेशे विन्यस्योत्तरामलकमन्यव्यासक्ते योगिन्यपहृतम् , तयोरामलकयोरामलकत्वजात्या रूपपरिमा- णादिलक्षणेन देशेन च तुल्ययोर्जात्यादिभिरन्यताया अनव- च्छेदादनिश्चयात्ततस्तस्मात्क्षणसंयमजविवेकज्ञानादेवान्यत्वप्र- तीतिर्योगिनो भवतीत्यर्थः ॥ ५५ ॥ इत्थं विवेकज्ञानस्य विषयविशेषमभिधाय अधुना तस्य सप्रकारं विषयसामान्यमभिधातुमाह- तारकं सर्वविषयं सर्वथाविषयमक्रम चेति विवेकजं ज्ञानम् ।। ५६ ॥ क्षणसंयमजं ज्ञानं सर्ववस्तुस्वरूपविषयं सर्वथा सर्वप्र- कारविषयं पुरुषतत्त्वावगाहित्वात्संसारसागरं तारयतीति ३.] योगसूत्रवृत्तिः । - तारकसंज्ञम् अक्रमं युगपदेव करतलामलकवत्सर्वसमूहाल- म्बनमित्यर्थः ॥ ५६ ॥ अधुना तस्य विवेकज्ञानस्य फलं दर्शयितुमाह- सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥ ५७ ॥ निरस्तसमस्तरजस्तमोमलस्य बुद्धिसत्त्वस्य विवेकख्या- त्या संस्कारशेषस्य सर्ववृत्तिशून्यत्वं शुद्धिः । पुरुषस्यापि नित्यशुद्धस्य तदा कल्पितभोगशून्यत्वं शुद्धिः । एवं च तयोः शुद्धिसाम्ये सति कैवल्यं पुरुषख्यात्युत्पन्नपरवैराग्येण सक- लवृत्तिनिवृत्तौ तत्कृतभोगनिवृत्तेः कूटस्थनित्यशुद्धानन्ताया- श्चितिशक्तेः स्वरूपप्रतिष्ठालक्षणं कैवल्यं सिध्यतीत्यर्थः । येन केन प्रकारेणोत्पन्नया पुरुषख्यात्या परवैराग्यद्वारा पर. मपदं कैवल्यं लभ्यत इति परमतात्पर्यम् ॥ ५७ ॥ इति श्रीमत्पतजलिप्रणीते योगशास्त्रे योगसुधाकराभिधायां वृत्तौ विभूतिपादः समाप्तः ॥ Y.6 । कैवल्यपादः॥ वीरासने समासीनं संविन्मुद्रालसत्करम् । कैवल्यानन्ददं कंचिज्ज्योतिर्धातुमुपास्महे ॥ । इत्थं पूर्वस्मिन्पादे समाधेरन्तरङ्गं संयमसंज्ञं धारणादि. वयं संयमस्य लक्ष्यभूतान्परिणामभेदारुश्रद्धाद्वारा कैवल्यफ- लकपुरुषख्यात्यर्था ज्ञानक्रियारूपा: सिद्धीश्चाभिधाय अधुना कैवल्यस्वरूपं प्राधान्येन प्रतिपादयितुकाम: प्रथमं तावत्सि- द्धिपञ्चकं प्रपञ्चयति-- जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ १॥ जन्मना पक्ष्यादीनामाकाशगमनादिसिद्धिः । ओषधी रसायनादिः, तत्सेवया माण्डव्यादीनां कायादिसिद्धिः । मन्त्रस्त्रपुरादिः ; तज्जपेन केषांचिदणिमादिसिद्धिः । शरी- रशोषणादिकं तपः; तेन विश्वामित्रादीनां सिद्धिः । समा- धिजास्त्वधस्तादभिहिताः ॥ १ ॥ ननु परमेश्वरसमाराधनादितपःप्रभावेणैव नन्दीश्वरो म- ४.] योगसूत्रवृत्तिः । , नुष्यदेहेन देवत्वमगमदित्युपाख्यायते ; तत्कथम् , मनुष्यदे- इस्य देवशरीराकारेण परिणामायोगादित्याशङ्कथाह- जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥२॥ प्रधानादयः पृथिव्यन्ताः प्रकृतयः । तासां सर्वत्र विद्य- मानतया नरादिदेहावयवेष्वापूराद्धर्मादिनिमित्तानुरोधेनाव- यवानुप्रवेशाज्जात्यन्तरपरिणामो युज्यत इत्यर्थः ॥ २ ॥ ननु प्रकृत्यापूरो धर्मादिनिमित्तमपेक्षते चेत्तस्यैवास्तु प्रव- तकत्वम् ; किं तेन ? न चेष्टापत्तिः, अपसिद्धान्तापातादित्या- शधाह- निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥ ३॥ निरीश्वरसांख्येऽपि पुरुषार्थ एवानागतः प्रकृतीनां प्रव- तकः । सेश्वराणां नस्तु तदुद्देशेनेश्वरः प्रवर्तक इत्युद्देश्य- तया पुरुषार्थः प्रवर्तक इति राद्धान्तः । अतः प्रकृतीनां धर्मा- दिकं निमित्तं न प्रवर्तकम् , तत्कार्यत्वात् । अपि तु ततो निमित्ताद्वरणस्य प्रतिबन्धस्य भेदो नाशो भवति । धर्मेणा- धर्मनिरासे प्रकृतयः स्वयमेव देवादिपरिणामे प्रवर्तन्ते ।
८४ योगसुधाकरो नाम [पा. यथा क्षेत्रिकः कृषीवलो जलस्योन्नतदेशादिवरणभेदमात्रं करोति, तत: पाथः स्वत एव केदारात्केदारान्तरे प्रवर्तते, तदित्यर्थः ॥ ३ ॥ यदा योगी युगपद्भोगार्थ बहून्कायानिमिमीते तदा तेषु कस्माषितानि भवन्तीत्यत आह- निर्माणचित्तान्यस्मितामात्रात् ॥४॥ योगप्रभावाग्निीयन्त इति निर्माणानि चित्तानि योगि- संकल्पाधीनप्रकृत्यापूरात्कायवदहंकारात्स्वप्रकृतेर्जायन्त इ. त्यर्थः ॥ ४ ॥ तर्हि चित्तानां भिन्नाभिप्रायत्वाद्योगिनो भोगासिद्धि- रित्यत आह- प्रवृत्तिभेदप्रयोजकं चित्तमेकमनेकेषाम् ॥५॥ निर्मितचित्तानां नायकं चित्तमेकं योगी स्वभोगानुकूल- प्रवृत्तिविशेषनियामकं निर्मिमीते ; तेन भोगस्तदनुसंधानं च युज्यते इत्यर्थः ।। ५ ।। इत्थं जन्मादिभिः सिद्धिपञ्चकप्रपञ्चनपुरःसरं सिद्धा- न्तानां पञ्चविधानि चित्तान्यभिहितानि । अधुना तेष्वप-
१.]
योगसूत्रवृत्तिः ।
वर्गभागीयं चित्तं निर्धारयितुमाह-
तत्र ध्यानजमनाशयम् ॥ ६॥
,
तत्र तेषु जन्मादिसिद्धचित्तेषु यत्समाधिसिद्धचित्तम् ,
तदनाशयं केशकर्मविपाकाशयशून्यमपवर्गयोग्यं भवती-
त्यर्थः ॥६॥
इत्थमस्तु योगिनश्चित्तम्, तत्कर्म कीशमित्यपेक्षाया-
माह
कर्माशुक्लकृष्णं योगिनस्त्रिविधमि-
तरेषाम् ॥ ७॥
काम्यकर्म विहितत्वाच्छुक्लम् । निषिद्धं कृष्णम् । मिश्र
शुक्लकृष्णम् । तदेतत्त्रयमितरेषामयोगिनां संपद्यते । तब
त्रिविधं जन्म प्रयच्छति । तदुक्तम्-- 'शुभैराप्नोति
देवत्वं निषिद्धारकी गतिम् । उभाभ्यां पुण्यपापाभ्यां
मानुष्यं लभतेऽवशः' इति । अथ योगस्यानिषिद्धत्वादक-
ध्णत्वेऽपि विहितत्वाच्छुकृत्वमेवेति चेत्, मैवम् ; अकाम्यत्वा-
भिप्रायेणाशुक्लकृष्णत्वाभिधानात् । अतश्चित्तशुद्धिविवेकख्या-
तिद्वारा मोक्षकफलकमशुक्लकृष्णं योगिन: कर्मेत्यर्थः ॥ ७॥
८ योगसुधाकरो नाम [पा. अधुना प्रसङ्गाद्विपाकाशयाभिव्यक्तेः कर्माभिव्यक्तिनि- दानत्वमभिधातुमाह- ततस्तद्विपाकानुगुणानामेवाभिव्यक्ति- वासनानाम् ॥ ८॥ ततो यथोदीरितत्रिविधात्मककर्मणोरनन्तरं विपाकदा- नायाभिव्यक्ती सत्यां तद्विपाकानुगुणानामेव वासनानाम- भिव्यक्तिर्भवति, न विरुद्धानामित्यर्थः । देवत्वप्राप्तौ च चित्ते प्रसुप्ता एव नरभोगवासना भवन्ति, तासामभिव्यक्ती दिव्यभोगायोगादिति भावः ॥ ८ ॥ - नन्वेता नरभोगवासना देवत्वादिजन्मसहस्रव्यवधाना- नन्तरं कथं तर्हि पुनर्नरजन्मन्यभिव्यज्यन्त इत्याशङ्कयाह- जातिदेशकालव्यवहितानामप्यानन्तर्य स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ९ ॥ अनादौ संसारे येन कर्मणा यस्मिसन्मनि भोगैः संचि. ता या वासनास्तासां जन्मकोट्या स्वर्गादिदेशेन कल्पशतेन च व्यवहितानामपि तज्जातीयेन कर्मणा तस्मिजन्मनि पुन: प्राप्ते सति तेनैव कर्मणा जन्मनामभिव्यक्तानामानन्तर्य स्मृ.
४.] योगसूत्रवृत्तिः । ? तिद्वारा भोगादिहेतुत्वं भवति । कुतः ? स्मृतिसंस्कारयोरेक- रूपत्वात् । क्रिया ज्ञानमन्यद्वा रागादिकं यच्छक्त्यात्मना स्थितं स संस्कारः । तत्र क्रियासंस्कारः क्रियात्मना परिणतः, ज्ञानसंस्कारः स्मृत्यात्मना, अन्यसंस्कारोऽन्यात्मना परिणत इत्येवं स्मृतिसंस्कारयोरभेदेनकविषयत्वेन चैकरूपत्वादानन्त- यशब्दित: कार्यकारणभावः सजातीययोः संभवति, न वि- जातीययोः । न हि व्यवधानं संस्कारस्य विरूपकार्यकारि- त्वमापादयति; तथात्वे घटानुभवजसंस्कारादनन्तरमननु- भूतस्मृत्यापत्तेरित्यर्थः ।। ९ ।। ननु जन्मान्तरितवासना न सन्तीति वदन्तं चार्वाकं प्रत्याह- तासामनादित्वं चाशिषो नित्य त्वात् ।। १०॥ न केवलं तासां वासनानामानन्तर्यम् , किं त्वनादित्व- मपीति चार्थः । 'सदाहं भूयासम्' इत्याशिषो मरणत्रा- सस्य नित्यत्वात्सर्वजनेष्वव्यभिचारादित्यर्थः ॥ १० ॥ ननु वासनानामनादितया कथं तदुच्छेदः ? तताह- ८८ योगसुधाकरो नाम पा. A हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषा- मभावे तदभावः ॥ ११ ॥ नैता: पुरुषवदनादय:, किं तु कार्या एव प्रवाहाना- दयः । अत: कारणोच्छेदादुच्छेदः संभवति । तथा हि-- पूर्वपूर्वसंस्कारलक्षणाविद्या झस्मिताहेतुः । सा च मनुष्योऽहं ममेदमिष्टमनिष्टमिति भ्रमहेतुः । सोऽपि रागद्वेषयोः । तौ च परनिग्रहानुप्रहादिद्वारा धर्माधर्मयोः । तौ च भोगे । सोऽपि वासनासु । ताः पुनर्धमादिषु । इत्यनादि संसार- चक्रमनिशमावर्तते । तत्र वासनानां केशकर्माणि हेतवः, जात्यायु गाः फलम् , चित्तमाश्रयः, शब्दादिकमालम्ब- नम् ; तैः संगृहीतत्वात् आदरनैरन्तर्यसत्कारानुबन्ध्यष्टाङ्ग- योगजाविप्नवविवेकख्यात्या उच्छेदे सति कारणानामभा- वादुच्छेदो भवतीत्यर्थः ॥ ११ ॥ नन्वास्तां तावदासां वासनानामुच्छेदः, किमुत्पत्तिरस- तीनां सतीनां वा! न तावदाद्यः, असंभवात्; शशविषाणस्य सास्ति ; नापि द्वितीयः, असंभवादेव; न हि सद्रूपायाश्चितिशक्तरुत्पत्ति: संभवति येन तथा स्थादि- त्याशङ्कय शक्तिरूपेण स्वप्रकृती विद्यमानानामेवाभिव्यक्तिर- त्पत्तिरित्याशयेनाह- न बसतः - १.] योगसूत्रवृत्तिः । ८९ अतीतानागतं स्वरूपतोऽस्त्यध्वभे- दाद्धर्माणाम् ।। १२ ॥ अतीतानागतं धर्मजातं धर्मिणि शक्तिरूपेणास्त्येव । अत- स्तस्याभिव्यक्तिपदवेदनीयोत्पत्तिरुपपद्यते । ननु तर्हि वास- नादिबन्धस्य विद्यमानत्वात्तत्त्वज्ञानवैयर्थ्यमिति चेत् , न; धर्माणामनागताधध्वनां भेदात् । वर्तमानाध्वनि दुःखादि- वासनाचित्रं साधिकारमसंख्येयपरिणामशीलं चित्तं भोग्य- तामापन्नं बन्ध इत्युच्यते । तत्त्वज्ञाने सति निरधिकारम- तीताध्वनि प्रवेशितं प्रवृत्त्यात्मना सदपि पुनर्युत्थानबी- जस्य कर्तव्यपुरुषार्थस्य कृतत्वान पुनरावर्तत इत्यर्थः ॥१२॥ ननु स्वरूपतोऽस्तीत्युक्तम् । किं तत्स्वरूपमित्यत्राह- ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ।। व्यक्ता वर्तमानाध्वानः, सूक्ष्मा अतीतानागताध्वानः ते महदादयो घटादिविशेषान्ता गुणात्मानः सत्त्वरजस्तम:- स्वरूपास्तत्प्रकृतिकवादित्यर्थः ॥ १३ ॥ ननु महदादीनां गुणत्रयपरिणामत्वेन प्रत्येकमेकत्वं न स्यादित्याशङ्कयाह- ९० योगसुधाकरो नाम [पा. परिणामैकत्वाद्वस्तुतत्त्वम् ।। १४ ।। दृश्यते हि बहूनामेकः परिणामः, यथा तैलवर्तिवह्नी- नामेकः प्रदीपपरिणामः । न च तर्हि मृत्सुवर्णक्षीराणामेकः परिणाम: स्यादिति वाच्यम् ; तेषामङ्गाङ्गिभावाभावात् । गुणानां त्वङ्गाङ्गिभावेन तत्परिणामस्यैकत्वाद्वस्तुनो महदादे- स्तत्त्वमेकत्वं युज्यत इत्यर्थः ॥ १४ ॥ ननु क्षणिकविज्ञानात्मकचित्तातिरिक्तं वस्तु नास्त्येवेति वदन्तं बौद्धं प्रत्याह-- वस्तुसाम्येऽपि चित्तभेदात्तयोविभक्तः पन्थाः॥ १५॥ तयोर्विज्ञानात्मकचित्तवस्तुनोविभक्तः पन्था भिन्नो मा- र्ग: । कुतः? वस्तुत: स्त्रीपिण्डादेः साम्येऽपि चित्तानां भेदात् । यथैकस्यां नायर्यो पत्युः सुखविज्ञानं सपल्या दुःखविज्ञानं कामुकस्य तदलाभान्मोहे विषादविज्ञानं नि- कामस्योपेक्षाविज्ञानम् ; सर्वेषाम् ' या त्वया दृष्टा सा मया. पि दृष्टा' इत्यबाधितविषयप्रत्यभिज्ञानादेकं वस्त्वनेक वि- ज्ञानमिति तयोर्भेदः । अतो न विज्ञानात्मकं सर्व वस्तु; किं तु तस्माद्भिन्नं गुणत्रयपरिणाम इति दिक् ।। १५ ॥ ?
४.] योगसूत्रवृत्तिः। नन्वस्तु विज्ञानादन्यद्वस्तु; तच्चैकविज्ञानाधीनमिति वद- न्तं प्रत्याह- न चैकचित्ततन्त्रं वस्तु तदप्रमाण- कं तदा कि खात् ॥१६॥ - यद्येकचित्तस्य ग्राह्यं घटवस्तु, तदा तस्मिंश्चित्ते पटा. दिषु व्यग्रे तद्वस्तु अप्रमाणकं किं स्यात् ? न स्यादित्यर्थः । न चेष्टापत्तिः, पुनस्तद्दर्शने सोऽयमित्यवाधितप्रत्यभिज्ञानात् एकस्य व्यग्रत्वेऽप्यन्येन दृश्यमानत्वाच्च । तस्माकचित्त. तन्त्रं वस्तु, किं तु चित्तातिरिक्त स्वतन्त्रमिति सिद्धम् ।। ननु चित्तस्याहंकारिकत्वेन सर्वगतत्वात्सर्वदा सर्व बा- येतेत्यत आह-- तदुपरागापेक्षत्वाचित्तस्य वस्तु ज्ञाता ज्ञातम् ॥ १७ ॥ सर्वगतत्वेऽपि चित्तं यत्र शरीरे वृत्तिमत्तेन शरीरेण सह संबन्धो यस्य वस्तुनस्तत्रैव ज्ञानं नेतरत्र । एवं चेन्द्रि- यप्रणाडिकया चित्तं येन वस्तुनोपरक्तं तद्वस्तु ज्ञातम् , यदुपरक्तं न भवति तदज्ञातमित्यर्थः । अनेन चित्तं परि- ९२ योगसुधाकरो नाम [पा. 'णामि ज्ञाताज्ञातविषयत्वाच्छोत्रादिवदिति चित्तस्य परिणा- मित्वेऽनुमानमुक्तं भवतीत्यभिसंधिः ॥ १७ ॥ नन्वित्थमात्मनोऽपि परिणामित्वं किं न स्यादित्यत आह- सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुष- स्यापरिणामात् ॥ १८ ॥ पुरुषोऽपरिणामी सदा ज्ञातृत्वात् न यदेवं न तदेवं यथा चित्तम् । तथा यद्यसो पुरुषः परिणामी स्यात्तदा परि- णामस्य कादाचित्कत्वात्तासां चित्तवृत्तीनां सदा ज्ञातत्वं न स्यात् । अतः सदा ज्ञातृत्वादपरिणामी पुरुष इत्यर्थः ।। ननु क्षणिक चित्तमेव स्वपरावभासकमस्तु, किं पुरुषेणे- त्यत आह- - , न तत्स्वभासं दृश्यत्वात् ॥ १९ ॥ 'घटोऽयं रूपवान्' इतिवत् सुख्यहम्' 'क्रुद्धोऽहम्' शान्तं मे मनः' इति दृश्यत्वाञ्चित्तं स्वभासं स्वप्रकाशं न भवति; किं तु स्वातिरिक्तद्रष्टकं न क्षणिकम् , 'सोऽहम्' इति प्रत्यभिज्ञानादित्युक्तम् ॥ १९ ॥ , ४.] योगसूत्रवृत्तिः । किं च- 4 एकसमये चोभयानवधारणम् ॥ २० ॥ यदि चित्तं स्वपरावभासकं स्यात्तदा तयोश्चित्तार्थयोर्ज- न्यजनकभावेन चित्तक्षणेऽर्थस्य अर्थक्षणे चित्तस्य चास- त्वादेकस्मिन्नेव क्षणे तयोरुभयोरवधारणमनुभवो न स्यात् । तस्मात्पुरुष एव चित्तार्थयोरवभासको न चित्तमित्यर्थः ।। ननु मा नाम भूञ्चित्तं स्वप्रकाशम् ; चित्तान्तरेण प्र. काश्यताम् ; किं पुरुषेणेत्याशङ्कयाह- चित्तान्तरदृश्यत्वे बुद्धिबुद्धरतिप्रसङ्गः स्मृतिसंकरश्च ॥ २१ ॥ यदि नीलादिगोचरं चित्तं चित्तान्तरेण दृश्येत, तदा तदपि बुद्धयात्मकं चित्तमन्यया बुद्धथा, साप्यन्ययेत्यतिप्र- सङ्गः स्यात् । किं चानन्तचित्तानामनुभवे सत्यनन्तचित्त- स्मृतीनां संकरः प्राप्नोति । अतश्चितिशक्तिभास्यं चित्तमिति सिद्धम् ।। ननु कूटस्थनित्यायाश्चितिशक्तश्चित्तेन क्रियापूर्वकसंप्रयो- गासंभवात्कथं तत्तया भास्यमित्यत आह.
योगसुधाकरो नाम
[पा.
चितेरप्रतिसंक्रमायास्तदाकारतापत्ती
खबुद्धिसंवेदनम् ॥ २२ ॥
यथा परिणामित्वाद्बुद्धितत्त्वस्य क्रियया घटादौ संप्रयोगः
समस्ति, न तथा चितिशक्तेर्बुद्धितत्त्वे प्रतिसंक्रमः संप्रयोगः
अपरिणामित्वात् । अपि तु सवितुः सलिले प्रतिबिम्बवञ्चि-
तिशक्तेर्बुद्धौ प्रतिबिम्बे सति तस्या बुद्धेश्चिदाकारतापत्ती
सत्यां स्वभोग्यबुद्धिसंवेदनं भवति । चिच्छायाग्राहित्वसंब-
न्धेन चिदुपरक्तं चित्तं चिद्भास्यमित्यनवद्यम् ॥ २२ ॥
ननु तर्हि केषांचिच्चित्तमेव चिदात्मेति भ्रमः कथमि-
त्याशङ्कप तेषां भ्रमबीजमाह-
द्रष्ट्रदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३ ।।
सर्वो द्रष्टदृश्यरूपोऽर्थो विषयो यस्य तत्सर्वार्थम् । तत्र
चित्सांनिध्याश्चिद्रूपतामिव प्राप्नं द्रष्टुपरक्तं द्रष्टविषयं भवति ।
इन्द्रियादिद्वारा दृश्योपरक्तं तदाकारं भवति । तथा च
भोग्यशब्दाद्याकारं
सुखदुःखादिपरिणामलक्षणभोगात्मक
चित्तं दृश्यमपि चित्प्रतिबिम्बाभेदादात्मेति सौगतानां
नमः । तत्र विवेकिना चित्तस्य भोग्यतया तस्मादन्यो
भोक्ता स्वीकर्तव्य इति भावः ॥ २३ ॥
४.] योगसूत्रवृत्तिः । अतश्चान्यो भोक्ता चित्तादस्तीत्याह- , तदसंख्येयवासनाभिश्चित्रमपि परार्थ संहत्यकारित्वात् ॥ २४ ॥ यद्यपि क्लेशकर्मविपाकवासनाभिरनन्ताभिश्चित्रं सुखा- द्याश्रयतया भोक्तृकल्पं चित्तम् , तथापि परस्य निरुपच- रितचित्स्वभावस्याौँ भोगापवर्गों साधयतीति परार्थ भो- ग्यमेव न भोक्ता । कस्मात् ? संहत्य देहेन्द्रियादिसहकारि- भिमिलित्वा भोगादिकार्यकारित्वात् । यन्मिलित्वा कार्य- कारि तत्पराथै यथा गृहादि देवदत्तार्थम् । तस्माञ्चित्तादन्य- श्चिदात्मा भोक्तास्तीति सिद्धम् ॥ २४ ॥ इत्थं प्रासङ्गिक परिसमाप्य अधुना कैवल्यं निरूपयितुं तद्योग्यमधिकारिणं दर्शयति-- विशेषदर्शिन आत्मभावभावनाविनि- वृत्तिः ।। २५॥ पूर्वोक्तविवेकेन बुद्धेरन्यश्चिन्मात्र: पुरुषोऽहमिति विशे- षदर्शिन आत्मभावे तत्त्वे भावना जिज्ञासा विनिवर्तते, ज्ञाते जिज्ञासायोगात् । यस्य पूर्वजन्मसुकृतपरिपाकेण तत्त्व- , ९६ योगसुधाकरो नाम [पा. जिज्ञासा जायते, सोऽधिकारीति भावः ।। २५ ॥ ननु तत्त्वजिज्ञासोविशेषदर्शनानन्तरं चित्तं कीदृशं भव- तीत्यपेक्षायामाह- तदा विवेकनिम्नं कैवल्यप्रारभार चित्तम् ।। २६ ॥ पूर्व बुद्धपादावात्मत्वभ्रमदशायां यश्चित्तं विषयनिम्नं संसारप्राम्भारमासीत् , तदिदानी निवृत्तभ्रमस्य योगिन- श्चित्तं विवेकनिम्नं द्रष्टदृश्ययोर्विवेको निम्नमालम्बनभूमिर्यस्य तत्, विवेकनिष्ठमिति यावत् । अत एव कैवल्यं प्रा. ग्भारोऽवधिर्यस्य तत्कैवल्यप्रारभारं कैवल्यफलावसानं भ- बतीत्यर्थः ।। २६ ॥ यद्येवं तदास्य व्युत्थानप्रत्ययाः कुतो भवन्तीत्यत आह- तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७ ॥ विवेकख्यातिपरस्यानुक्षणं क्षीयमाणेभ्यो व्युत्थानसं- स्कारेभ्यो विवेकख्यातिच्छिद्रेष्वभिव्यक्तेभ्यः प्रत्ययान्तराणि भवन्तीत्यर्थः ।। २७ ॥ - 1 ४.] योगसूत्रवृत्तिः। ९७ ननु कोऽयमेतेषां संस्काराणां हानोपाय इत्यत्राह- हानमेषां क्लेशवदुक्तम् ।। २८ ।। यथाविद्यादिक्लेशा विवेकख्यात्या दग्धाः पुनः संस्कार न प्रसुवते, तथा व्युत्थानसंस्कारा अपि पुरुषख्यातिदग्धा अप्रसवधर्माणो भवन्तीत्यर्थः ॥ २८ ॥ अथ विवेकख्यातेरपि व्युत्थानरूपतया तनिरोधोपायमु- पदर्शयितुमाह-- प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेक- ख्यातेधर्ममेघः समाधिः ॥ २९ ।। विवेकख्यातिरेव विशोकरूपावान्तरफलोन्मुखी सती प्र- संख्यानमित्युच्यते । तत्रापि अकुसीदव, कुत्सितेषु विषयेषु सीदतीति कुसीदो रागः, तद्रहितस्य विरक्तस्य, अत एव सर्वथा सर्वात्मना विवेकख्यातेः योगिन: अशुक्लकृष्णं धर्म कैवल्यफलं मेहति सिञ्चतीति धर्ममेघाख्यः समाधिर्भवती- त्यर्थः ।। २९ ॥ ततः किमित्यत आह- ततः क्लेशकर्मनिवृत्तिः॥ ३० ॥ Y.7
९८
योगसुधाकरो नाम
[पा.
1
ततो धर्ममेघात्सवासनक्लेशतन्मूलकर्मणां निवृत्तिर्भवती-
त्यर्थः ॥ ३० ॥
तदा किं भवतीत्यत्राह-
तदा सर्वावरणमलापेतस्य ज्ञानस्या-
नन्त्याज्ज्ञेयमल्पम् ।। ३१ ॥
आवृण्वन्ति चित्तमित्यावरणा रजस्तमोमयाः केशकर्म-
रूपा मलाः । सर्वे च ते आवरणमला:, तेधर्ममेघेणापेतस्य
ज्ञानस्य विशुद्धबुद्धयालोकस्यानन्त्याज्ज्ञेयं सर्व गगने खद्यो-
तवदल्पमेव भवतीत्यर्थः ।। ३१ ।।
ततः किमित्यत्राह-
ततः कृतार्थानां परिणामक्रमसमाप्ति-
गुणानाम् ।। ३२ ॥
ततो धर्ममेघफलीभूतपरवैराग्यात्मकानन्तज्ञानानन्तरं वि.
वेकख्याती निरुद्धायाम् , कृतार्थानां कृतो निष्पादितोऽर्थों
भोगापवर्गरूपः पुरुषार्थों यैस्ते तथोक्तास्तेषां सत्त्वादिगुणानां
महदाद्यहंकारक्रमेण यः परिणामक्रमः तस्य समाप्तिर्भवती-
त्यर्थः ॥ ३२ ॥
४.] योगसूत्रवृत्तिः । ९९ कोऽसौ क्रम इत्यपेक्षायामाह- क्षणप्रतियोगी परिणामापरान्तनिधिः क्रमः ॥ ३३ ॥ क्षणप्रतियोगी क्रम इति स्वरूपनिर्देशः । क्षणी प्रतियो- गिनौ निरूपको यस्य स क्षणप्रतियोगी। एवं क्षणिकपरि- णामक्रमो मन्तव्यः । तत्र प्रमाणं परिणामापरान्तनिर्माह्य इति । मृदि पिण्डघटकपालचूर्णकणानां प्रत्यक्षपरिणामानां पूर्वान्तः पिण्ड: अपरान्तः कण इति पूर्वोत्तरावधिग्रहणेन क्रमो निष्कृष्य ग्राह्यो भवतीत्यर्थः ॥ ३३ ॥ गुणानां परिणामक्रमसमाप्तौ किं फलिष्यतीत्यत्राह पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः के- वल्यं खरूपप्रतिष्ठा वा चितिशक्ति- रिति ॥ ३४॥ कृतभोगापवर्गाणां कार्यकारणात्मनां गुणानां प्रधाने प्रतिप्रसवः प्रलयः कैवल्यम् , चितिशक्तिः कूटस्थनित्या शु- द्धासङ्गचित्स्वभावा शक्तिः स्वरूपप्रतिष्ठा पुनर्बुद्धयादिसंब- न्धविधुरा वा कैवल्यं भवतीत्यतिशोभनम् । इतिशब्दः शास्त्रपरिसमाप्तिद्योतनार्थः ।। ३४ ।। - । , १०० योगसुधाकरो नाम [पा. यत्कृपापोतमासाद्य समुत्तीर्णो भवार्णवात् । नमोऽस्तु तस्मै गुरवे स्वाविद्याध्वान्तभानवे ॥१॥ काहं क्व योगसरणिर्गहनार्थी तथाप्यहम् । श्रीगुरोः कृपयाकार्ष वृत्तिं योगसुधाकरम् ॥ २॥ फणीन्द्रसूत्रग्रथिता मद्वामौक्तिकमालिका । समर्प्यते मया श्रीमद्गुरोश्चरणपङ्कजे ॥ ३ ॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीपरमशिवेन्द्र- सरस्वतीपादाब्जसेवापरायणेन श्रीसदा- शिवेन्द्रसरस्वत्या विरचितायां श्रीमत्पतञ्जलिप्रणीते योगशास्त्रे सांख्यप्रवचनापरनामधेये योगसुधाकराभिधायां वृत्ती कैवल्यपादः समाप्तः॥ ८ सूत्रानुक्रमणिका ~
No text on this page.
॥ श्रीः॥ ॥ सूत्रानुक्रमणिका । पृष्ठम् पृष्ठम् ईश्वरप्रणिधानाद्वा १३ ८९ १ उदानजयाजल. ७२ २६ ४७ ६ ९३ अतीतानागतं अथ योगानुशासनम् अनित्याशुचिदुःखाना अनुभूतविषया. अपरिग्रहस्थैर्ये अभावप्रत्ययालम्बन अभ्यासवैराग्याभ्यां अरिष्टेभ्यो वा अविद्या क्षेत्रमुत्तरेषां अविद्यास्मिताराग० अस्तेयप्रतिष्ठायां अहिंसाप्रतिष्ठायां अहिंसासत्यास्तेय २५ ६१ ३१ ऋ ६ ऋतंभरा तत्र ए एकसमये चोभया० ६ एतयैव सविचारा ६६ एतेन भूतेन्द्रियेषु एतेन शब्दाद्यन्तर्घा ३० ४६ कण्ठकूपे क्षुत्पिपा० ४६ कर्माशुक्लकृष्णं ૪૨ कायरूपसंयमा० कायाकाशयोः सबन्ध० ६६ ० ६८ ८५ . ६५ chuy ७३ १०२ सूत्रानुक्रमणिका । पृष्ठम् पृष्ठम् त ५७ कायेन्द्रियसिद्धिरशु. कूर्मनाड्यां स्थैर्यम् कृतार्थ प्रति नष्ट. क्रमान्यत्वं परिणामा० क्लेशकर्मविपाकाशयैः क्लेशमूलः कर्माशयो क्षणतत्कमयोः क्षणप्रतियोगी क्षीणवृत्तेरभिजातस्येव ग ग्रहणस्वरूपास्मिता० ४८ ६९ तच्छिद्रेषु प्रत्यया० ९६ ३८ तजः संस्कारो २७ ६२ तजपस्तदर्थभावनम् १५ १३ तजयात्प्रज्ञालोकः ३३ ततः कृतार्थानां ९७ ७९ ततः क्लेशकर्मनिवृत्तिः ९८ ९९ ततः क्षीयते प्रकाशा ५३ २३ ततः परमा वश्य. ५४ ततः प्रत्यक्चेतनाधिगमो १५ ७५ ततः प्रातिभश्रावण ततस्तद्विपाका० ८६ ६८ ततोऽणिमादिप्रा० ७४ ९३ ततो द्वन्द्वानभिघातः ९४ ततो मनोजवित्वं ७६ तत्परं पुरुषख्याते. ८२ तत्प्रतिषेधार्थमेक. १८ ८६ तत्र ध्यानजमनाशयम् ८५ ४२ तत्र निरतिशयम् १४ तत्र प्रत्ययैकतानता ८३ तत्र शब्दार्थज्ञान० २४ चन्द्रे तारकान्यूहज्ञानम् चित्तान्तरदृश्यत्वे चितेरप्रतिसंक्रमा० on जन्मौषधिमन्त्रतपः जातिदेशकालव्य० जातिदेशकालसमया. जातिलक्षणदेशै० जात्यन्तरपरिणामः सूत्रानुक्रमणिका। १०३ पृष्ठम् तत्र स्थिती ८७ १२ ३२ ७१ ३४ ५७ - १७ पृष्ठम् तासामनादित्वं तदपि बहिरङ्गं निर्बीजस्य ५८ तीव्रसंवेगाना० तदभावात्संयोगा० ३९ ते प्रतिप्रसवहेयाः तदर्थ एव दृश्यस्यात्मा ३७ ते व्यक्तसूक्ष्मा तदसंख्येयवासना० ९५ ते समाधावुपसर्गा तदा द्रष्टुः स्वरूपे ३ ते हादपरितापफलाः तदा विवेकिनिम्नं ९६ त्रयमन्तरङ्गं पूर्वेभ्यः तदा सर्वावरण ९८ त्रयमेकत्र संयमः तदुपरागापेक्षत्वा० ९१ द तदेवार्थमात्रनिर्भासं ५६ दुःखदौर्मनस्याङ्ग तद्वैराग्यादपि दोष० दुःखानुशयी द्वेषः तप:स्वाध्यायेश्वर० २९ दृग्दर्शनशक्त्योरेका तस्य प्रशान्तवाहिता ५९ दृष्टानुश्रविकविषय तस्य भूमिषु विनियोगः ५७ देशबन्धश्चित्तस्य तस्य वाचक: प्रणवः १५ द्रष्टा हशिमात्रः तस्य सप्तधा प्रान्त ४० द्रष्टदृश्ययोः सयोगो तस्य हेतुरविद्या ३९ द्रष्टदृश्योपरक्तं तस्यापि निरोधे २७ तस्मिन्सति श्वास. धारणायोग्यता ता एव सबीजः २५ ध्यानहेयास्तत्तयः तारकं सर्वविषयं ध्रुवे तद्गतिज्ञानम् ७७ ३२ . ३१ . ८ ५५ ३७ ९४ ध ३३ ६८ १०४ सूत्रानुक्रमणिका। पृष्ठम् पृष्ठम् ८४ ६७ न न च तत्सालम्बनं न चैकचित्ततन्त्रं न तत्स्वभासं ६९ नाभिचक्रे कायव्यूह निमित्तमप्रयोजक निर्माणचित्तान्यस्मिता० निर्विचारवैशारखे ६७ ७३ प ५२ प्रवृत्तिभेदप्रयोजक ६५ प्रवृत्त्यालोकन्यासा० ९१ प्रसंख्यानेऽप्यकुदी० ९२ प्रातिभाद्वा सर्वम् ६८ ८३ बन्धकारणशैथिल्या० ८४ बलेषु हस्तिबलादीनि २६ बहिरकल्पिता वृत्ति बाह्याभ्यन्तरविषयाः २३ बाह्याभ्यन्तरस्तम्भ० ३४ ब्रह्मचर्यप्रतिष्ठायां भ ९० भवप्रत्ययो विदेह ९९ भुवनज्ञानं सूर्य १४ म ३६ मूर्धज्योतिषि २० मृदुमध्याधिमात्र ४ मैत्रीकरुणामुदितो. ६४ मैत्र्यादिषु बलानि ५१ ४६ परमाणुपरममहत्त्वा० परिणामतापसंस्कार परिणामत्रयसंयमा परिणामैकत्वाद्व० पुरुषार्थशून्यानाम् पूर्वेषामपि गुरुः प्रकाशक्रियास्थितिशीलं प्रच्छर्दनविधारणाभ्यां प्रत्यक्षानुमानागमाः प्रत्ययस्य परचित्तज्ञानम् प्रमाणविपर्ययः प्रयत्नशैथिल्या० ११ ६९ १२ १८ ६६ य ५० यथाभिमतध्यानाद्वा २२ सूत्रानुक्रमणिका । १०५ ४१ २ . ५ ६२ ४४ ४७ ११ ४४ पृष्ठम् पृष्ठम् यमनियमासनप्राणा० व्युत्थाननिरोधसंस्कार ५९ योगश्चित्तवृत्तिनिरोधः श योगाङ्गानुष्ठानादशुद्धि ४१ शब्दज्ञानानुपाती र शब्दार्थप्रत्ययाना ६३ रूपलावण्यबल. ७५ शान्तोदिताव्यपदेश्य शान्तोदितौ तुल्य. वस्तुसाम्येऽपि चित्त ९० शौचसंतोषतपःस्वा ४३ वितकबाधने प्रति शौचात्स्वाङ्गजुगुप्सा वितर्कविचारानन्दा० ९ श्रद्धावीर्यस्मृति वितको हिंसादयः श्रुतानुमानप्रज्ञाभ्या० विपर्ययो मिथ्याज्ञान ५ श्रोत्राकाशयोः सबन्ध० विरामप्रत्ययाभ्यास. विवेकल्यातिरविप्लवा ३९ सतोषादनुत्तम. ४८ विशेषदर्शिन ९५ संस्कारसाक्षात्क० ६४ विशेषाविशेषलिन ३६ सति मूले तद्विपाको विशोका वा ज्योतिष्मती २२ विषयवती वा प्रवृत्ति २१ सत्त्वपुरुषयोः शुद्धिसाम्ये ८१ वीतरागविषय वा २२ सत्त्वपुरुषयोरत्यन्ता० वृत्तयः पञ्चतय्यः सत्त्वपुरुषान्यताख्या वृत्तिसारूप्यमितरत्र ३ सत्त्वशुद्धिसौमन० व्याधिस्त्यानसंशय. १६ सत्यप्रतिष्ठायां ४६ : स ३४ . स तु दीर्घकाल. ४८ सूत्रानुक्रमणिका। १०६ पृष्ठम् २४ २२ ३२ ४९ ५३ ३८ ६० ४९ सदा ज्ञाताश्चित्तवृत्तय समाधिभावनार्थ: समाधिसिद्धिरीश्वर० समानजयाज्ज्वलनम् सर्वार्थतैकाग्रतयोः सुखानुशयी रागः सूक्ष्मविषयत्वं चालि. सोपक्रमं निरुपक्रम स्थान्युपमन्त्रणे स्थिरसुखमासनम् स्थूलस्वरूपसूक्ष्मा पृष्ठम् ९२ स्मृतिपरिशुद्धौ २९ स्वप्ननिद्राज्ञाना० स्वरसवाही विदुषोऽपि ७२ स्वस्वविषयासंप्रयोगे स्वस्वामिशक्त्योः ३१ स्वाध्यायादिष्ट २५ ६६ हानमेषां ७८ हृदये चित्तसंवित् ४९ हेतुफलाश्रयालम्बनैः हेयं दुःखमनागतम् hic ९७ ६९ ८८ ३५ ७४ - Works by the Same Author. Brahmasutra yritti named Brahma Tattva Prakasika with a balf-tone portrait and a life sketch of the author in English Cr. 8vo. Pp. 322. Cloth gilt. 2 0 0 Siddhantakalpavalli with the commentary called Kesaravalli by the author himself. This is a poetical version of the famous Siddhantalesa Sangraba of Appayya Dikshita. Or. 8vo. pp. 120. 0 8 0 + - - - Atmavidyavilasa. This book contains not only the 62 well known slokas in Arya metre but also 45 further slokas in different metres 0 2 0 Songs of Sri Sadasiva Brahmendra containing nineteen of his famous, sweet and melodious Kirtapas. Printed in 2 colours. 030 SRI VANI VILAS PRESS, SRIRANGAM. + LUWA
-
श्रीसदाशिवेन्द्रविरचिता
अन्ये ग्रन्थाः ॥
ब्रह्मतत्वप्रकाशिका नाम
ब्रह्मसूत्रवृत्तिः
सिद्धान्तकल्पवल्ली,
केसरवल्ल्याख्यया स्वकृतव्याख्यया
सहिता
... ०-८-०
आत्मविद्याविलासः
कीर्तनानि
....
.
No text on this page.